विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.22
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
क्षत्रियः
0
8115
469786
463803
2022-07-29T21:00:55Z
2405:204:22A3:7118:0:0:250D:B0A0
wikitext
text/x-wiki
{{हिन्दूधर्मः}}
'''क्षत्रिय:''' क्षतात्त्रायते इति क्षत्रिय:। प्राचीनायाम्भारतीयसमाजव्यवस्थायाम्महत्त्वपूर्ण: अयं वर्ण: वर्णसोपाने द्वितीय: वर्तते ।
क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥
[[File:General Bhimasen.jpg|thumb|upright|कुरुवंशी क्षत्रिय राजकुमार [[भीमसेन]] गदा शस्त्र सहित]]
== क्षत्रियस्य कर्तव्यानि ==
: क्षत्रियस्य कर्तव्यानि मनुः एवं वर्णयति-
: प्रजानां रक्षणं दानमिज्याध्ययनमेव च ।
: विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥१-८९ ॥
''श्रीमद्भगवद्गीतायां श्रीकृष्णः आह ''–
: शौर्यं तेजो धृतिर्दाक्ष्यं युध्दे चाप्यपलायनम् ।
: दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८-४३ ॥
अत्रापि कानिचित् कर्तव्यानि केचन च आचरणीयाः गुणाः क्षत्रियम् उद्दिश्य निर्दिष्टाः ।
''रक्षणं सर्वभूतानामिह क्षात्रं परं मतम्'' इति महाभारतकथनानुगुणं क्षत्रियवर्णः सर्वभूतानां परित्राणधर्मपालोभवति । क्षत्रियवर्णः ब्रह्मणोर्भुजाभ्यामुत्पन्न इति मन्यते । क्षत्रियः एव राष्ट्ररक्षणं कर्तुमधिकृतः आसीत् । वर्णाश्रमधर्मरक्षणमेव क्षत्रियस्य प्रमुखं कर्म । रजोगुणसम्पन्नः कामभोगप्रियः, पराक्रमवान् प्रजारक्षकः, वेदाध्ययनशीलः, दाता, दीनजनोद्धारकः धीरः, वीरः, त्यागी, ब्राह्मणपूजकश्च क्षत्रिय इति कीर्तितः । क्षत्रियवर्णस्य प्रमुखेषु कर्त्तव्येषु अध्ययनं-यजनं-दानं चेति त्रयो धर्माः ब्राह्मणवत्समाना एव ।
परं विशिष्टं कर्मास्ति 'प्रजापालनम्’ । सर्वाण्यपि शास्त्राणि सर्वापि स्मृतयो मुक्तकण्ठेनेदमेवावोचन्-क्षत्रियस्य परमो धर्मः प्रजानां पालनम् इति । तथा हि—
:'''प्रजानां पालने युक्ता धर्ममुत्तममास्थिताः'''
:'''गोब्राह्मणार्थे युध्यन्तः प्राप्ता गतिमनुत्तमाम् ॥ इति [महाभारतम्-शान्तिपर्व २१/१९]'''
:'''क्षतान्नस्त्रायते सर्वानित्येवं क्षत्रियोऽभवत् '''
:'''क्षतत्राता क्षताज्जीवन् क्षन्ता स्त्रीष्वपि साधुषु ।'''
:'''क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशःश्रियः ॥ ६९/२ [महाश्रेणपर्व-१९७/४]'''
इति महाभारतश्लोकवाक्यानां, सर्वशास्त्राणां च सारोऽस्ति भूतसंरक्षणमेव क्षत्रियाणां महान्धर्म इति । क्षत्रियाभावे जगदिदमरक्षितं सद रसातलं गतं स्यादिति च तन्महत्त्वं
महाभारते वर्णितम् । तथा हि—
:'''यदि न क्षत्रियो लोके जगत् स्यादधरोत्तमम् ।'''
:'''रक्षणात् क्षत्रियैरेव जगद् भवति शाश्वतम् ॥ [महाभारते अनुशासनपर्व १४१/४८] इति ॥'''
चतुर्णामपि वर्णानां कर्तव्यनिर्वाहस्य भारो राज्ञःभवति स्म । राजा क्षत्रियोऽत्मनोधर्मरक्षणंम्-इतरवर्णानां धर्मरक्षणं च कर्तुं 'वर्णाश्रमव्यवस्थां’ नियन्त्रयति स्म । तद्व्यवस्थोल्लङ्घनपरान् दण्डयते स्म । एवं क्षत्रियः धर्मज्ञः, प्रजारक्षकः, वर्णाश्रमाणां गुरुश्चेति जनैः कीर्त्यते स्म ।
== बाह्यसम्पर्कतन्तुः ==
* History and Culture of Indian People, The Vedic Age, p 313-314
[[वर्गः:वर्णाश्रमव्यवस्था]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:संचित्रसारमञ्जूषे योजनीये]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
84b5d3v5c5b1b91v52t6h9lf63ceohn
भारतस्य राष्ट्रपतिः
0
22909
469792
429632
2022-07-30T08:36:11Z
ThaneFreedomScholar
15113
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox official post
|post = राष्ट्रपतिः
|body = भारतगणराज्यम्<br/>
|native_name =
|flag = Flag of India.svg <!--please do not put presidential standard here, as the standard was replaced by the flag of india in 1971-->
|flagsize = 110px
|flagcaption = [[भारतस्य राष्ट्रध्वजः]]
|insignia = Emblem of India.svg
|insigniasize = 50px
|insigniacaption = [[भारतस्य राष्ट्रियचिह्नम्|राजचिह्नम्]]
|termlength = पञ्चवर्षाणि। कार्यालये न कोऽपि अवधः निश्चितः।
|residence = [[राष्ट्रपतिभवनम्]]
|appointer = [[निर्वाचकमण्डलम् (भारतम्)|भारतस्य निर्वाचकमण्डलम्]]
|style = [[माननीयः राष्ट्रपतिमहोदयः]]<br/>{{small|(within India)}}<br/>Honourable President of India<br/>{{small|(outside India)}}
|image = Droupadi Murmu official portrait.jpg
|caption = भारतगणतन्त्रस्य राष्ट्रपतिः
|incumbent = [[]]
|incumbentsince = २५ जुलै २०१७
|formation = [[भारतस्य संविधानम्|भारतीयसंविधानम्]]<br/>{{start date and age|1950|1|26}}
|inaugural = [[राजेन्द्रपसादः]]<br/>२६ जनवरी १९५०
|deputy = [[उपराष्ट्रपतिः]]
|preceded by = [[प्रणबमुखर्जि]]
|salary = {{INRConvert|150000}} (प्रतिमासम्)<ref name= ":Salary Act">{{Cite web|url=http://mha.nic.in/sites/upload_files/mha/files/pdf/President_emoluments_act1951_UPDATED_.pdf|title=The President's (Emoluments and) Pension Act, 1951 (Act 30 of 1951)|last=|first=|date=May 13, 1951|website=[[Ministry of Home Affairs (India)|Ministry of Home Affairs]], [[Government of India]]|archive-url=|archive-date=|dead-url=No|access-date=September 3, 2017}}</ref><ref name="salary hike for president">{{cite news|url=http://www.indianexpress.com/news/president-okays-her-own-salary-hike-by-300-p/406240/|title=President okays her own salary hike by 300 per cent|newspaper=[[The Indian Express]]|date=3 January 2009|accessdate=6 May 2012}}</ref>
|website = [http://presidentofindia.nic.in/index.htm भारतस्य राष्ट्रपतिः]
}}
'''भारतस्य राष्ट्रपतिः''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|b|h|aː|r|ə|t|ə|s|j|ə|_|r|aː|S|h|t|r|ə|p|ə|t|ɪ|h|ɪ}}) ({{lang-en|The President of India}}, {{lang-hi|भारतीय राष्ट्रपति}}) [[भारतम्|भारतस्य]] प्रप्रथमः नागरिकः । राष्ट्रपतिपदं [[भारतम्|भारतगणराज्यस्य]] सर्वोत्कृष्टं, सम्मानितं च पदमस्ति । भारतीयशस्त्रसेनानां ([[भूसेना]]-[[भारतीयनौकादलम्|नौसेना]]-[[भारतीयवायुसेना|वायुसेनानां]]) प्रमुखः सेनापतिरपि राष्ट्रपतिः एव । [[देहली|देहल्यां]] स्थिते [[राष्ट्रपतिभवन|राष्ट्रपतिभवने]] राष्ट्रपतिपदारूढस्य निवासः भवति । तस्य [[राष्ट्रपतिभवन]]स्य अपरे नामनी 'वायस् रीगल हाऊस्', 'रायसीना हिल' इति । एकस्याः व्यक्तेः राष्ट्रपतित्वेन अधिकाधिकं द्विवारमेव चयनं भवितुम् अर्हति । एतावत् पर्यन्तं प्रप्रथमः राष्ट्रपतिः डा. [[राजेन्द्र प्रसाद]] एव वारद्वयं राष्ट्रपतित्वेन कार्यम् अकरोत् ।
[[भारत]]गणराज्यं बहु दीर्घकालात् ब्रिटिश-जनानाम् आधिपत्यान्तर्गतमासीत् । अतः स्वस्य शासनकाले ते [[ब्रिटेन]]-देशस्य सभ्यता-न्यायौ भारतीयजनानामुपरि बलेन आरोपितवन्तः । प्रारम्भे तु बहवः तेषां विरोधमकुर्वन् । परन्तु काले व्यतीते (अद्यापि) तेषां सभ्यता-न्याययोः [[भारतम्|भारते]] अनुकरणं प्रबलं जातम् । एवम् अस्माकं [[भारतीयसंविधान|संविधानस्य]] अपि अभवत् । [[भारतम्|भारतस्य]] न्यायव्यवस्थायां [[ब्रिटेन]]-देशस्य संविधानात् बहवः नियमाः अङ्गीकृताः दरीदृश्यन्ते । [[भारत]]स्वतन्त्रतायाः यदा घोषणा अभवत्, तदा [[भारतीयसंविधान|भारतीयसंविधाननिर्माणस्य]] आवश्यकता उद्भूता । [[भारतम्|भारतस्य]] [[भारतीयसंविधान|संविधानं]] निर्मातुं संविधानसमितेः रचना अभूत् । [[भारतम्|भारतस्य]] [[भारतीयसंविधान|संविधाने]] [[प्रधानमन्त्रि]]पदेन सह राष्ट्रपतिपदस्यापि प्रावधानं संविधानसमित्या निश्चितम् । राष्ट्रपतिः [[भारतम्|भारतस्य]] प्रप्रथमः नागरिकः, शस्त्रसेनानां प्रमुखसेनापतिः च इति [[भारतीयसंविधान|संविधाने]] उल्लिखितम् । सैद्धान्तिकदृष्ट्या राष्ट्रपतेः बहवः अधिकाराः सन्ति ।
== पृष्ठभूमिः ==
१९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५) दिनाङ्के [[भारत]]गणराज्यं स्वतन्त्रम् अभूत् । [[भारतम्|भारतस्य]] अन्तिम 'वायसराय' लोर्ड माउण्टबेटन [[चक्रवर्ती राजगोपालाचारी|सी राजगोपालाचारी]] इत्यस्मै महानुभावाय [[भारतम्|भारतस्य]] दायित्वं प्रत्यर्पयत् । [[भारत]]स्वतन्त्रतायाः घोषणा तु १९४७ तमस्य वर्षस्य 'फरवरी'-मासस्य विंशतितमे (२०) दिनाङ्के एव कृता आसीत् । परन्तु [[भारतम्|भारताय]] सत्तायाः कार्यभारदानस्य दिनाङ्कः १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशः (१५) निश्चितः । सत्ताहस्तान्तरस्य प्रक्रिया यावान् कालः अचलत्, तावति काले तु डा. [[राजेन्द्र प्रसाद]] महाभागस्य अध्यक्षतायां संविधानसमित्याः रचना जाता आसीत् । १९५० तमस्य वर्षस्य 'जनवरी'-मासस्य पञ्चविंशतितमे (२५) दिनाङ्के [[संविधान]]निर्माणस्य कार्यं सम्पन्नम् । अतः षड्विंशतितमात् (२६) दिनाङ्कात् समग्रे [[भारतम्|भारते]] [[भारतीयसंविधान|संविधानानुगुणं]] न्यायव्यवस्थायाः आरम्भः करणीयः आसीत् । संयोगवशात् १९३० तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे (२६) दिनाङ्के एव भारतीयक्रान्तिकारिभिः [[भारत]]स्वतन्त्रतायै योगदानाय देशजनानाम् आह्वानं कृतमासीत् । अतः क्रान्तिकारिभ्यः एतस्य दिनस्य माहात्म्यम् अवर्धत । तेषाम् इच्छासीत् यत्, “एतत् प्रजायै सत्ताहस्तान्तरस्य दिवसः अस्ति । अतः अस्य दिनस्य राष्ट्रियपर्वत्वेन घोषणा भूयात्” इति । क्रान्तिकारिणां भावनायाः सम्मानं कुर्वता [[भारत]]स्य प्रप्रथमराष्ट्रपतिना डा. [[राजेन्द्र प्रसाद]]-महानुभावेन १९५० तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे (२६) दिनाङ्के एकविंशतिः (२१) शतघ्न्याः (of cannon) आवन्दनेन (by salute) [[भारतस्य राष्ट्रध्वजः|भारतीयराष्ट्रध्वजस्य]] आरोहणं कृतम् । ततः [[भारत|भारतं]] गणतन्त्रराज्यमिति ऐतिहासिकी घोषणा कृता । प्रतिवर्षम् एतत् दिनं [[गणतन्त्रदिनम्]] इति राष्ट्रियपर्वत्वेन आचरिष्यामः इत्यपि घोषणा कृता ।
== राष्ट्रपतिप्रत्याशीनां योग्यता ==
[[भारत]]सङ्गस्य राष्ट्रपतिः कस्यापि धर्मस्य, जातेः च भवितुमर्हति । परन्तु –
• सः भारतीयनागरिकः स्यात् ।
• तस्य वयः पञ्चत्रिंशत् (३५) वर्षं, तस्मात् अधिकं वा आवश्यकम् ।
• सः लोकसभायाः सदस्यः भवेत् ।
• सः भारतसर्वकारस्य, राज्यस्वर्वकारस्य वा सर्वकारसम्बद्धिपदे आरूढः न स्यात् ।
कार्यरताय राष्ट्रपतये, उपराष्ट्रपतये, केन्द्रियमन्त्रिणे, राज्यमन्त्रिणे च एतत् प्रावधानं नास्ति । एतेषु कश्चन राष्ट्रपतित्वेन निर्वाचितः भवेत् चेत्, राष्ट्रपतिपदारूढो भवेत् तस्मात् पूर्वं पूर्वस्तनपदस्य सः त्यागं कुर्यात् ।
== राष्ट्रपतिनिर्वाचनप्रक्रिया ==
[[भारतीयसंविधान]]स्य पञ्चमाध्यायस्य प्रथमप्रकरणस्य नाम कार्यपालिका इति । तस्मिन् प्रकरणे राष्ट्रपतिनिर्वाचन(election)विषये चतुःपञ्चाशत्तमः (५४) अनुच्छेदः अस्ति । तस्यानुगुणं जनेभ्यः निर्वाचिताः जनाः एव राष्ट्रपतेः निर्वाचनं कुर्युः इति लिखितमस्ति । के ते निर्वाचिताः जनाः इति प्रश्ने उद्भूते सति –
<poem>
क) संसदः सभयोः ([[राज्यसभा]], [[लोकसभा]] च) सदस्याः ।
ख) राज्यानां विधानसभायाः सदस्याः ।
</poem>
[[भारत]]सङ्घस्य राष्ट्रपतेः निर्वाचनप्रक्रिया काचित् जटिला अस्ति । राष्ट्रपतिनिर्वाचनप्रक्रियायां मतदातारः (उक्तसदस्याः) राष्ट्रपतये मतदानं तु कुर्वन्ति । परन्तु साक्षात् राष्ट्रपतये मतदानं न कुर्वन्ति । मतदातॄणां मतैः सह [[भारतीयसंविधान]]स्य पञ्चपञ्चाशत्तमम् (५५) अनुच्छेदमनुसृत्य राष्ट्रपतेः चयनं भवति । पञ्चपञ्चाशत्तमे (५५) अनुच्छेदे एव राष्ट्रपतिचयनस्य जटिलप्रक्रियायाः विस्तारेण विवरणमस्ति ।
१. राष्ट्रपतिनिर्वाचने सर्वेष्वपि राज्येषु निर्वाचनप्रक्रिया समाना भवेदेव ।
२. राष्ट्रपतिचयनाधिकारः येषु जनप्रतिनिधिषु अस्ति, ते स्वमतदानं कथं दद्युः, एकैकः जनप्रतिनिधिः कति मतानि दातुं प्रभवति इति च अधः उल्लिखितम् ।
क) प्रत्येकोऽपि जनप्रतिनिधिः स्वमतदानं दद्यादेव । किन्तु राज्यानुसारं जनप्रतिनिधीनां मतसङ्ख्या तु भिन्ना भवति । सा च मतसङ्ख्या एवं गण्यते...
ख) यस्य राज्यस्य जनप्रतिनिधिः अस्ति, तस्य राज्यस्य या जनसङ्ख्या (population) (भवति), सा जनसङ्ख्या तद्राज्यस्य विधानसभायां (legislature) यावन्तः जनप्रतिनिधयः (number of MLAs) सन्ति, तया सङ्ख्यया विभाजनीया (divided) । अनेन विभाजनेन यत् फलं प्राप्तं, तच्च फलं पुनः एकसहस्रेण (१०००) विभाजनीयम् । एकसहस्रेण विभाजनेन यत् फलं प्राप्तं, तस्मिन् फले दशाङ्क(decimal)पश्चात् यदि पञ्चाधिका (उदा. १२५.'''<u>६</u>''') सङ्ख्या अस्ति, तर्हि प्राप्तसङ्ख्यायाम् एकं (१२५ + १ = १२६) योजनीयम् । एवम् अन्ततो गत्वा यत् फलं प्राप्तं, तदेव फलं तद्राज्यस्य विधानसभायाः एकैकस्य जनप्रतिनिधेः मतसङ्ख्या । अर्थात् सः जनप्रतिनिधिः राष्ट्रपतिनिर्वाचने एतावन्ति मतदानानि कर्तुं प्रभवति ।
३. राष्ट्रपतिचयनाधिकारः येषु [[लोकसभा]]-[[राज्यसभा]]सदस्येषु अस्ति, ते स्वमतदानं कथं दद्युः, एकैकः सदस्यः कति मतानि दातुं प्रभवति इति च अधः उल्लिखितम् ।
क) केवलं निर्वाचितसदस्यानामेव मतदाने अधिकारः, न तु नियोजित(Nominated)सदस्यानाम् ।
ख) सर्वेषामपि राज्यानां विधानसभायाः एकैकस्य जनप्रतिनिधेः मतसङ्ख्या (number of votes) योजनेन (sum) यत् फलं प्राप्तं, तच्च फलं [[लोकसभा]]-[[राज्यसभा|राज्यसभयोः]] निर्वाचितसदस्यानां सङ्ख्यया विभानीयम् । एवं विभाजनेन यत् फलं प्राप्तं, तद् फलमेव सभयोः एकैकस्य निर्वाचितसदस्यस्य मतसङ्ख्या । अर्थात् सभयोः प्रत्येकोऽपि निर्वाचितः सदस्यः एतावन्ति मतदानानि कर्तुं प्रभवति ।
=== किमर्थं जटिला राष्ट्रपतिनिर्वाचनप्रक्रिया ? ===
एतादृश्याः जटिलप्रक्रियायाः प्रस्तावः यदा भारतीयसंविधानसमित्या संसदि प्रस्थापितः, तदा बहवः संसद्सभ्याः तस्याः प्रक्रियायाः विरोधमकुर्वन् । तेषां तर्कः आसीत् यत्, "राज्येषु [[विधानसभा]]याः जनप्रतिनिधयः, केन्द्रसर्वकारस्य जनाः च जनसामान्यानां जनप्रतिनिधयः इति शतप्रतिशतं वक्तुं न शक्यते । कारणं केन्द्रे ये जनाः सन्ति, ते जनैः चिताः न । संविधाने राष्ट्रपतिः तु भारतस्य प्रप्रथमनागरिकः लोकनायकः वा । अतः यथा अन्यनेतॄणां चयनं साक्षात् जनसामान्यानां मतेन भवति, तथैव राष्ट्रपतेः चयनस्य अधिकारः [[भारत]]स्य जनसामान्यानामेव" इति ।
एतादृशस्य तर्कस्य उत्तरं दातुं भारतीयसंविधानसमित्याः सदस्याः सज्जाः एव आसन् । ते उदतरन् (answered), "भवताम् एते तर्काः स्वस्थाने योग्याः । परन्तु व्यावहारिकसिद्धान्ते तेषां क्रियान्वयः असम्भवः एव" । भारतीयसंविधानसमित्याः सभ्याः स्वतर्कान् अयच्छन्....
१ अस्माकं भारतीयगणराज्यं यत् केबिनेट्-प्रणाल्याः अनुसरणं करोति, तस्मिन् प्रधानकार्यनिर्वाहकस्य पदं तु लाक्षणिकपदम् एव । तस्य कार्यनिर्वाहकस्य दायित्वस्य, कार्यसीमायाः निर्धारणं तु सामान्यतया विधानसभया (या विधि-विधायिनीसभात्वेन परिगण्यते ।) क्रियते । तस्मिन् पदे तादृशः व्यक्तिः आरूढो भवेत्, यः स्वस्य दायित्वस्य निर्वाहणेन सह विधानसभायाः कार्याणामपि निर्वाहणे समर्थः भवेत् । कः एतस्मै पदाय योग्यः इति तु विरलाः जनसामान्याः एव ज्ञातुं, निर्धारितुं च प्रभवन्ति । अतः राष्ट्रपतेः निर्वाचनस्याधिकारः जनसामान्येभ्यः न प्रदत्तः ।
२ भारतीयराष्ट्रपतेः निर्वाचनं यदि जनसामान्यानां मतेन भवति, तर्हि [[भारत]]स्य विभिन्नेषु स्थलेषु राष्ट्रपतिपदप्रत्याशिना प्रचारः करणीयः भविष्यति । राष्ट्रपतिपदप्रत्याशी यदि केनचित् पक्षेण प्रस्तावितः सदस्यः भवति, तर्हि लोकसभानिर्वाचनकाले यादृशं राजनैतिकवातावरणं देशे भवति, राष्ट्रपतिनिर्वाचनकाले अपि तादृशमेव वातावरणं भवति, येन राष्ट्रपतिपदस्य सम्मानं नश्यति ।
३ भारतदेशः तु बहूनां राज्यानां समूहः । कोटिशः मताधिकारिणः सन्ति भारतदेशे । सर्वेभ्यः मतादानाय आवश्यकानां साधनानां प्रबन्धनम् असम्भवमेव ।
४ अन्तिमकारणमस्ति यत्, भारतगणराज्यस्य प्रधानकार्यनिर्वाहकं यदि जनसामान्याः चिन्वन्ति, तर्हि संविधानदत्ताधिकारेण, संविधाननिर्दिष्टकर्तव्यैः, संविधानोल्लिखितदायित्वेन च असन्तुष्टस्सन् सः जननायकः राष्ट्रपतिपदप्रत्याशी स्वं सर्वाधिकारी उद्घोषेत । तेन संविधानस्य विरोधः, संविधानोल्लङ्घनं च भवति । अपि च स्वदायित्वस्य विषये तस्य प्रधानकार्यनिर्वाकस्य भ्रमः उद्भवति ।
== राष्ट्रपतेः अधिकारः, शक्तिः वा ==
[[भारतीयसंविधान]]स्य द्विपञ्चाशत्तमे (५२), त्रिपञ्चाशत्तमे (५३) अनुच्छेदे च [[भारतम्|भारतस्य]] राष्ट्रपतिपदस्य प्रावधानमुल्लिखतम् । तस्मिन् उल्लिखतं यत्, [[भारत]]सङ्घस्य कार्यपालिकाशक्तेः दायित्वं राष्ट्रपतेः भवति । सः स्वयं [[भारतीयसंविधान]]स्य पालनं कुर्यात्, स्वाधीनकार्यकर्तृभिः पालनं कारयेत् च । राष्ट्रपतिः [[भारतम्|भारतस्य]] प्रप्रथमः नागरिकः, शस्त्रसेनानां प्रमुखसेनापतिः च ।
[[भारत]]सङ्घस्य राष्ट्रपतेः मुख्यानाम् अधिकाराणां सूचिः अधः दत्ता अस्ति ।
१. प्रशासनिकाधिकाराः
२. सांविधानिकाधिकाराः
३. आपत्कालीनाधिकाराः
=== प्रशासनिकाधिकाराः (Executive Powers) ===
औपचारिकदृष्ट्या केन्द्रियसर्वकारस्य सर्वे प्रशासनसम्बद्धाः अधिकाराः राष्ट्रपतेः अधिकारेषु अन्तर्भवन्ति ।
- निर्वाचनानन्तरम्, अन्यपरिस्थित्यां वा लोकसभायां यः पक्षः स्वस्य बहुमतं सिद्धयति (अन्यानां पक्षाणां समर्थनेन बहुमतं सद्धयति चेदपि), तस्य पक्षस्य नेतारं सर्वकाररचनायै राष्ट्रपतिः आह्वयति । ततः तस्य पक्षस्य नेतारं [[प्रधानमन्त्रि]]त्वेन नियोजयति ।
- [[प्रधानमन्त्री|प्रधानमन्त्रिणः]] निवेदनेन राष्ट्रपतिः मन्त्रिपरिषदः रचनां कृत्वा सर्वेभ्यः मन्त्रिभ्यः विभिन्नानां प्रशासनिकविभागानां दायित्वं यच्छति ।
राष्ट्रपतिः अन्यपदेभ्यः नियुक्तिकार्यमपि करोति –
- राज्यानां राज्यपालस्य नियुक्तिः
- [[सर्वोच्चन्यायालय]]स्य न्यायाधीशानां, भारतीयप्रमुखन्यायालयानां च मुख्यन्यायाधीशानां नियुक्तिः
- महाभिकर्तुः नियुक्तिः (Attorney General)
- नियन्त्रक-महालेखपरीक्षकयोः नियुक्तिः (Comptroller and Auditor General)
- सङ्घीयलोकसेवाऽऽयोगस्य (Public Service Commission) अध्यक्षस्य, सदस्यानां च नियुक्तिः
- विभिन्नेभ्यः देशेभ्यः राजदूतानां नियुक्तिः
एताः नियुक्तयः राष्ट्रपतेः दायित्वमस्ति । इतोऽपि चर्चितं, विवादितं वा दायित्वं राष्ट्रपतेः अवशिष्टम् । न्यायालये यः दोषित्वेन सिद्धः, तस्य दोषिणः दण्डादेशं स्थगयितुं, विलम्बयितुं, क्षमां दातुं वा शक्नोति राष्ट्रपतिः । राष्ट्रपतेः एतस्मिन् निर्णये [[प्रधानमन्त्री]] अपि परामर्शं दातुं न शक्नोति । न्यायालयस्य मृत्युदण्डस्य आदेशम् आजीवनकारावासे परिवर्तयितुं दोषी विशेषतः राष्ट्रपतये याचिकां यच्छति ।
=== सांविधानिकाधिकाराः (Legislative Powers) ===
[[संसद्|संसदः]] सत्रद्वयस्य आह्वान-सत्रावसानयोः दायित्वं राष्ट्रपतिः वहति । सः [[लोकसभा|लोकसभां]] भङ्गयितुमपि समर्थः । परन्तु [[लोकसभा]]भङ्गस्य निर्णयार्थं [[प्रधानमन्त्रिणः]] नेतृत्वे सम्मिलितायाः मन्त्रिपरिषदः परामर्शः आवश्यकः ।
सामान्यनिर्वाचनानन्तरं [[संसद्|संसदः]] सभयोः ([[राज्यसभा]], [[लोकसभा]] च) प्रारम्भः राष्ट्रपतेः भाषणेनैव भवति । तस्मिन् भाषणे सर्वकारस्य नवीनानां योजनानाम् उपस्थापनं सदस्यानां सम्मुखं करोति सः । प्रतिवर्षं वर्षारम्भे [[संसद्|संसदः]] सभयोः ([[राज्यसभा]], [[लोकसभा]] च) सत्राह्वानभाषणं कृत्वा सभाह्वाहनस्य कारणं सदस्यानां सम्मुखम् उपस्थापयति राष्ट्रपतिः । तत एव संसदः सभयोः ([[राज्यसभा]], [[लोकसभा]] च) चर्चा आरभ्यते ।
[[संसदः]] सभयोः ([[राज्यसभा]], [[लोकसभा]] च) ये विधेयकाः (Bills) सिद्धाः भवन्ति, ते विधेयकाः राष्ट्रपतेः हस्ताक्षरेण विना [[भारतीयसंविधान]]स्य भागाः भवितुं नार्हन्ति अर्थात् तेषां विधेयकानां [[संविधान]]नियमत्वेन परिवर्तनं न भवति । कस्मिंश्चित् विधेयकविषये राष्ट्रपतिः सम्मतः न भवति चेत्, सः तद्विधेयकं सभाभ्यां प्रतिप्रेषयति । राष्ट्रपतिना प्रतिप्रेषितस्य विधेयकस्य पुनर्चर्चा [[संसदः]] सभयोः ([[राज्यसभा]], [[लोकसभा]] च) भवति । ततः परं राष्ट्रपतिना प्रतिप्रेषितं विधेयकम् उभयसभयोः ([[राज्यसभा]], [[लोकसभा]] च) सदस्याः संशोधनं कृत्वा, अकृत्वा वा द्वितीयवारं राष्ट्रपतये प्रेषयन्ति चेत्, राष्ट्रपतिना सः विधेयकः अङ्गीकार्यः एव, तस्योपरि हस्ताक्षरः करणीयः एव ।
संविधाने नवीनविधेयकस्य योजनं राष्ट्रपतिः कर्तुं समर्थः । १२३ अनुच्छेदानुसारं संसदः द्वयोः सत्रयोः विधेयकसम्बद्धनिर्णयः न भवति चेत्, समाधानं कर्तुं परिस्थित्यनुगुणं राष्ट्रपतिः आदेशं दातुं शक्नोति । राष्ट्रपतिना सम्मतः विधेयकः संसदि सिद्धविधेयकत्वेन प्रबलः भवति । परन्तु नियमः अस्ति यत्, एकमासमध्ये एव सभयोः सभ्यानां सम्मुखं राष्ट्रपतिना समर्थितः विधेयकः प्रस्थापनीयः । तेषामनुमोदनानन्तरमेव विधेयकः नियमत्वेन सिद्ध्यते ।
=== आपत्कालीनाधिकाराः (Emergency Powers) ===
[[भारतीयसंविधान]]स्य ३५२ अनुच्छेदानुसारं राष्ट्रपतिः आपत्कालनिर्णयार्थं समर्थः । [[भारत]]स्य मन्त्रिमण्डलस्य सदस्याः लिखितरूपेण आपत्कालस्य कारणं राष्ट्रपतये यच्छन्ति । तत एव राष्ट्रपतिः आपत्कालस्य घोषणां करोति । मन्त्रिमण्डलद्वारा उल्लिखितानि कारणानि यदि अङ्गीकारार्हानि, तर्हि राष्ट्रपतिना आपत्कालस्य घोषणा क्रियते । आपत्कालस्य प्रकारत्रयम् अस्ति – १. राष्ट्रियापत्कालः, २. प्रादेशिकापत्कालः ३. आर्थिकापत्कालः
१. राष्ट्रियापत्कालः
सम्पूर्ण[[भारत]]स्योपरि युद्ध-सैन्यविद्रोह-सुरक्षासङ्कटाः आपतन्ति चेत्, राष्ट्रियापत्कालस्य घोषणां कर्तुं शक्नोति राष्ट्रपतिः ।
[[भारतम्|भारते]] वारत्रयं राष्ट्रियापत्कालस्य घोषणा कृता अस्ति । प्रप्रथमा आपत्कालघोषणा १९६५ तमे वर्षे [[भारत]]-[[पाकिस्थानयोः]] युद्धकाले अभूत् । द्वितीया आपत्कालघोषणा १९७२ तमे वर्षे [[प्रधानमन्त्रिणः]] [[जवाहरलाल नेहरू]] इत्यस्य प्रशासनकाले अभूत् । तस्मिन् वर्षे [[चीन]]-देशेन [[भारत]]स्योपरि आक्रमणं कृतमासीत् । अतः डा. [[सर्वपल्लि राधाकृष्णन्]] आपत्कालम् अघोषयत् । १९७५ तमे वर्षे [[प्रधानमन्त्रि]]पदारूढा [[इन्दिरा गान्धी]] आन्तरिकसुरक्षायाः कारणं दत्त्वा आपत्कालस्य याचनाम् अकरोत् । [[फखरुद्दीन अली अहमद]] तदा राष्ट्रपतिः आसीत् । सः राष्ट्रियापत्कालस्य घोषणामकरोत् । इयं तृतीयापत्कालघोषणा ।
आपत्काले व्यक्तेः स्वतन्त्रतायाः अधिकारास्तु समाप्ताः न भवन्ति । परन्तु [[भारतीयसंविधान]]स्य एकोनविंशततमे (१९) अनुच्छेदे लिखिताः नागरिकस्य षडधिकाराः निरस्ताः भवन्ति । ते षण्णियमाः यथा –
• अभिव्यक्तेः स्वतन्त्रता
• शान्तिपूर्वकं, निःशस्त्रं सम्मेलनम्
• परिषदः, सङ्घस्य वा रचनायाः स्वतन्त्रता
• [[भारतम्|भारते]], [[भारतम्|भारतस्य]] राज्येषु च स्वातन्त्र्येण परिभ्रमणस्य स्वतन्त्रता
• [[भारतम्|भारतस्य]] राज्येषु स्थानान्तरं कृत्वा आवासस्य स्वतन्त्रता
• वृति-उपजीविका-व्यापारादीनां स्वतन्त्रता
राष्ट्रियापत्काले [[संसदः]] सत्रम् एकवर्षं यावत् स्थगयितुं शक्यते । परन्तु आपत्कालसमाप्त्यन्तरं [[संसदं]] षण्मासादधिकं स्थगयितुं न शक्यते ।
२. [[प्रादेशिकापत्कालः]]
कस्मिंश्चित् राज्ये [[संविधान]]विरोधीनि कार्याणि चलन्ति सन्ति, कस्यचित् राज्यस्य शासकः कैश्चित् कारणैः संविधानानुसारं राज्ये शासनं कर्तुं न शक्नुवन् अस्ति इति वा राष्ट्रपतिः [[राज्यपाल]]स्य सूचनया, अन्यरीत्या वा यदि जानाति, तर्हि तस्मिन् राज्ये राष्ट्रपतिः आपत्कालस्य घोषणां करोति । एषः प्रादेशिकापत्काल एव राष्ट्रपतिशासनम् इति प्रसिद्धः । भारतीयसंविधानस्य षड्पञ्चाशदधिकत्रिशतस्य (३५६) अनुच्छेदस्य अनुसारं संसदः सभ्यानां सम्मतिस्वीकरणानन्तरं षण्मासावधेः राष्ट्रपतिशासनं भवितुमर्हति । राष्ट्रपतिशासनस्य षण्मासानाम् अवधिः अधिकाधिकं वर्षत्रयं यावत् भवितुमर्हति । राष्ट्रपतिशासनकाले राज्यस्य [[राज्यपाल]] एव राष्ट्रपतेः आदेशानुगुणं तद्राज्यस्य शासनं करोति । [[भारतम्|भारते]] बहुषु राज्येषु प्रादेशिकापत्कालस्य घोषणाः अभवन् ।
अस्य षड्पञ्चाशदधिकत्रिशतस्य (३५६) अनुच्छेदस्य बहुवारं दुरुपयोगः कृतः अस्ति । यस्य पक्षस्य सर्वकारः केन्द्रे शासनं करोति, सः पक्षः यदि कस्मिंश्चित् राज्ये सत्तारूढः नास्ति, तर्हि तस्मिन् राज्ये सत्तारूढात् पक्षात् सत्ताम् अपाकर्ष्य राष्ट्रपतिशासनस्य घोषणां कारयति ।
३. आर्थिकाप्तकालः
[[भारतम्|भारते]], [[भारतम्|भारतस्य]] कस्मिंश्चित् राज्ये वा आर्थिकस्थायित्वस्य, आर्थिकप्रत्ययस्य (Financial Credit) च सङ्कटः प्रत्यक्षः भवेत् चेत्, राष्ट्रपतिः आर्थिकाप्तकालस्य घोषणां करोति । [[भारतीयसंविधान]]स्य षष्ठ्यधिकत्रिशतस्य (३६०) अनुच्छेदस्य अनुसारम् आपत्कालघोषणायाः मासद्वये एव आपत्कालप्रस्तावाय संसदः समर्थनम् आवश्यकम् । एतस्मिन् आर्थिकाप्तकाले राष्ट्रपतिः [[सर्वोच्चन्यायालय]]स्य, उच्चन्यायलयस्य च न्यायाधीशानां वेतनं न्यूनं कर्तुं शक्नोति । सर्वकाराऽऽधीनानां कार्यकतॄणां वेतनमपि न्यूनं कर्तुं समर्थः राष्ट्रपतिः । निश्चितसिद्धान्तस्य अनुकरणार्थम् अपि राष्ट्रपतिः आदेशं दातुम् अर्हति ।
[[भारतम्|भारते]] एतादृशस्य आपत्कालस्य घोषणा कदापि नाभवत् । परन्तु एकवारं यदा आर्थिकसङ्कटस्य स्थितिः आपतिता, तदा सर्वकारेण देशस्य सुवर्णं विक्रीय आपत्कालस्थितिः अपाकृता ।
== राष्ट्रपतेः वेतनम् ==
आरम्भे [[भारतीयसंवधान|भारतीयसंवधानानुसारं]] राष्ट्रपतेः वेतनं प्रतिमासं दशसहस्र(१०,०००)रूप्यकाणि इति निश्चितमासीत् । आदिपञ्च राष्ट्रपतयस्तु द्विसहस्रं, सार्धद्विसहस्रं वा (२,००० - २,५००) रूप्यकाणि एव मासिकवेतनत्वेन स्वीकृतवन्ति स्म । परन्तु १९९८ तमे वर्षे राष्ट्रपतेः वेतनं पञ्चाशत्सहस्र(५०,०००)रूप्यकाणि इति निश्चितमभवत् । १९९८ तमे वर्षे जाता एषा वेतनवृद्धिः १९९६ तमात् वर्षात् प्रभाविता इत्यपि घोषणा अभूत् । २००८ तमे वर्षे राष्ट्रपतेः वेतने पुनर्वृद्धौ सति राष्ट्रपतेः वेतनं सार्धकोटि(१,५०,०००)रूप्यकाणि अभवत् । २००८ तमे वर्षे जाता एषा वेतनवृद्धिः २००७ तमात् वर्षात् प्रभाविता इत्यपि घोषणा अभूत् । राष्ट्रपतेः पार्श्वे वेतनातिरक्ता विशालधनराशिः सुरक्षिता भवति, यस्याः उपयोगं राष्ट्रपतिः कुत्रचिदपि कर्तुं शक्नोति ।
== राष्ट्रपतेः पदभ्रष्टविचारः ==
राष्ट्रपतेः कार्यकालः पञ्चवर्षीय इति [[भारतीयसंविधान|भारतीयसंविधाने]] उद्घोषितमस्ति । परन्तु राष्ट्रपतिना [[भारतीयसंविधान|भारतीयसंविधानस्य]] अतिक्रमणे कृते तस्योपरि महाभियोगः (Impeachment) भवति । राष्ट्रपतौ महाभियोगप्रक्रिया निम्नरीत्या चलति –
राष्ट्रपतेः महाभियोगस्य प्रक्रिया [[संसदः]] द्वयोः सभयोः चलति, किन्तु अस्याः प्रक्रियायाः आरम्भः उभयोः कस्यांश्चिदपि एकस्यां सभायां भवितुमर्हति । महाभियोगप्रक्रिया यस्यां सभायां प्रारभ्यते, तस्यां सभायां राष्ट्रपतेः उपरि आरोपकर्तॄणां सदस्यानां सङ्ख्या तस्याः सभायाः पूर्णसङ्ख्यायां सपादा भवितव्या एव । राष्ट्रपतिविरुद्धं ये आरोपाः सन्ति, तान् आरोपान् एकस्मिन् व्यपदेशे (Notice) लिखित्वा ते सदस्याः राष्ट्रपतये प्रेषयन्ति । व्यपदेशप्रेषणात् चतुर्दशे (१४) दिने संसदि तस्य व्यपदेशस्योपरि चर्चा प्रारभते । यस्याः सभायाः सदस्याः व्यपदेशं राष्ट्रपतेः कृते प्रेषितवन्तः, तस्याः सभायाः पादोनप्रतिशतं जनाः महाभियोगस्य समर्थनं कुर्युः इति नियमः । तं व्यपदेशं द्वितीयसभायां चर्चार्थं प्रेषयति तत्सभाध्यक्षः । प्रक्रियाकाले अधिकृतवाक्कीलस्य साहाय्येन राष्ट्रपतिः स्वस्य पक्षम् उपस्थापयितुं शक्नोति । द्वितीयसभायां महाभियोगस्य प्रस्तावस्योपरि यदा चर्चा प्रारभते, तदा चर्चया सह प्रमाणस्य एकत्रीकरणप्रक्रिया, प्रमाणस्य प्रामाणिकत्वस्य प्रक्रिया च प्रारभते । राष्ट्रपतिः दोषी इति प्रमाणानुसारं सिद्धं चेत्, राष्ट्रपतेः उपरि महाभियोगः अपि सिद्धः इत्येव । महाभियोगे सिद्धे सति महाभियोगस्य प्रप्रथमव्यपदेशस्य दिनाङ्कात् राष्ट्रपतिः स्वपदात् निष्कासितः इति परिगण्यते (मन्यते) । यदि राष्ट्रपतिः संविधानम् अतिक्रमते, तर्हि सः दण्डनीय एव । अन्यथा तु राष्ट्रपतिः अदण्डनीय एव ।
[[भारतम्|भारतस्य]] सौभाग्यमस्ति यत्, वर्तमानकालपर्यन्तं न कस्यापि राष्ट्रपतेः उपरि संविधानोल्लङ्घनारोपः नाभवत् । एतदेवास्माकं राष्ट्रपतेः उच्चनैतिकतां सद्धयति ।
== राष्ट्रपतेः अनुपस्थितिः ==
केनचित् कारणेन यदि राष्ट्रपतिः अनुपस्थितः चेत्, किं कर्तव्यम् इत्यस्य मार्गदर्शनं [[भारतीयसंविधान]]स्य पञ्चषष्ठितमे (६५) अनुच्छेदे उल्लिखितमस्ति । पञ्चषष्ठितमस्य (६५) अनुच्छेदस्य अनुसारं राष्ट्रपतेः आकस्मिकमृत्युः, पदत्यागः, पदात् निष्कासनं वा भवेत् चेत्, उपराष्ट्रपतिः राष्ट्रपतित्वेन दायित्वं वहेत् । नवीनराष्ट्रपतेः नियुक्त्यनन्तरं उपराष्ट्रपतिः पुनः स्वदायित्वानुसारं कार्यं कुर्यात् । राष्ट्रपतेः विदेशयात्रा-अस्वस्थतादिकारणानि अपि उपराष्ट्रपतये राष्ट्रपतित्वेन कार्यं कर्तुं प्रत्यक्षः, परोक्षः वा आदेशः ।
कदाचित् राष्ट्रपतेः, उपराष्ट्रपतेः उभयोः अनुपस्थितिः एकस्मिन् काले एव भवेत् चेत्, [[सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः]] राष्ट्रपतित्वेन कार्यं कुर्यात् । [[सर्वोच्चन्यायालय]]स्य मुख्यन्यायाधीशोऽपि यदि अनुपस्थितः, तर्हि [[सर्वोच्चन्यायालय]]स्य वरिष्ठन्यायधीशः राष्ट्रपतित्वेन कार्यं कुर्यात् ।
== राष्ट्रपतेः निवासस्थानं [[राष्ट्रपतिभवनम्]] ==
[[चित्रम्:Presidenthouse.jpg|right|400px]]
[[राष्ट्रपतिभवनं]] [[भारत]]स्य सर्वोत्कृष्टेषु भवनेषु अन्यतमम् । [[भारतम्|भारतस्य]] सर्वोत्कृष्टेषु भवनेषु [[ताजमहल्|तेजोप्रासादात्]] (ताजमहल, The Taj Mahal) अनन्तरम् अस्य भवनस्य गणना भवति । [[राष्ट्रपतिभवनं]] राष्ट्रपतेः आधिकारिकावासस्थलमस्ति । अस्य भवनस्य अपरे नामनी 'वायस् रीगल् हाऊस्', 'रायसीना हिल्' इति । भवनस्यास्य वास्तुकलायाः परिकल्पनां (design) 'एड्विन् लैण्ट्सियर् ल्यूटिन्स्' इति नामकः ब्रिटिश-वास्तुकारः अकरोत् । १९५० वर्षात् पूर्वम् एतत् भवनम् आङ्ग्लगवर्नर् इत्यस्य निवासस्थानम् आसीत् । परन्तु १९५० तमे वर्षे एतत् भवनं भारतीयराष्ट्रपतेः निवासत्वेन निश्चितम् । एतत् भवनं प्राचीनार्वाचीनकलयोः प्रत्यक्षोदाहरणमस्ति । एतत् विशालभवनं चत्वारिंशदधिकत्रिशतं (३४०) प्रकोष्ठानां धातृ अस्ति । [[राष्ट्रपतिभवन]]स्य इतिहासः बहु रसप्रदः, मनोरञ्चकश्च ।
== भारतस्य राष्ट्रपतीनां चित्रवीथिका ==
(*) चिह्नेन येषां नामानि उल्लेखितानि सन्ति, ते भारतगणराज्यस्य कार्यवाहकराष्ट्रपतयः आसन् ।
<gallery>
चित्रम्:Rajendra-prasad-GA50 l.jpg|<center>डॉ. [[राजेन्द्र प्रसाद]]<br/>(१८८४-१९६३)</center>
चित्रम्:Sarvvapalliji.jpg|<center>डॉ. [[सर्वपल्ली राधाकृष्णन्|सर्वपल्ले राधाकृष्णन्]]<br/>(१८८८-१९७५)</center>
चित्रम्:Jakir nehal.jpg|<center>श्री[[जाकिर हुसैन]]<br/>(१८९७-१९६९)</center>
चित्रम्:Muhmmadhidayat.jpg|<center>(*) श्री[[मुहम्मद हिदायतुल्लाह]]<br/>(१९०५-१९९२)</center>
चित्रम्:Varahagiri Venkata Giri.jpg|<center>श्री[[वराहगिरि वेङ्कट गिरि]]<br/>(१८९४-१९८०)</center>
चित्रम्:Fakhru.jpg|<center>श्री[[फखरुद्दीन अली अहमद]]<br/>(१९०५-१९७७)</center>
चित्रम्:Basappa Danappa Jatti.jpg|<center>(*) श्री[[बसप्प दानप्प जत्ति]]<br/>(१९१२-२००२)</center>
चित्रम्:Neelam-Sanjiv-Reddy.png|<center>श्री[[नीलं सञ्जीव रेड्डि]]<br/>(१९१३-१९९६)</center>
चित्रम्:GainiZailSingh1.jpg|<center>श्री[[ज्ञानी जैलसिंह]]<br/>(१९१६-१९९४)</center>
चित्रम्:RM.jpg|<center>श्री[[रामस्वामी वेङ्कटरामन्]]<br/>(१९१०-२००९)</center>
चित्रम्:Shankar Dayal Sharma 36.jpg|<center>डॉ. [[शङ्कर दयाल शर्मा]]<br/>(१९१८-१९९९)</center>
चित्रम्:KR Narayanan.jpg|<center>श्री[[कोचेरिल् रामन् नारायणन्]]<br/>(१९२०-२००५)</center>
चित्रम्:A P J Abdul Kalam.jpg|<center>डॉ. [[अब्दुल कलाम]]<br/>(१९३१-२०१५)</center>
चित्रम्:PratibhaIndia.jpg|<center>श्रीमती[[प्रतिभा पाटील]]<br/>(जन्म १९३४)</center>
चित्रम्:Secretary Tim Geithner and Finance Minister Pranab Mukherjee 2010 crop.jpg|<center>श्री[[प्रणब मुखर्जि]]<br/>(जन्म १९३५)
चित्रम्:RamNathKovind (cropped).jpg|<center>श्री[[रामनाथः कोविन्दः]]<br/>(जन्म १९४५)
</center>
</gallery>
{{भारतस्य राष्ट्रपतयः}}
== सम्बद्धाः लेखाः ==
[[भारतीयसंविधानम्]]
[[भारतस्य सर्वोच्चन्यायालयः]]
[[राज्यपालः]]
[[आपत्कालः]]
[[राष्ट्रपतिभवनम्]]
== बाह्यानुसन्धानम् ==
* [http://presidentofindia.nic.in/ भारतीयराष्ट्रपतेः अधिकृतजालस्थानम्]
* [http://presidentofindia.nic.in/formerpresidents.html Former Presidents of India (Official site)]
* [http://www.india.gov.in// भारतगणराज्यस्य अधिकृतजालस्थानम्]
== बाह्यानुबन्धः ==
{{commons|Category:Presidents of India|{{PAGENAME}}}}
http://www.youtube.com/watch?v=2l0ZeTKEh5I&context=C3fcb3e6ADOEgsToPDskJC7uVv3b63aHFauaWukHbQ
http://www.preservearticles.com/201104265928/procedure-for-election-of-the-president-of-india.html
http://pib.nic.in/archieve/others/pr.html
http://in.answers.yahoo.com/question/index?qid=20061003003145AA2nmhl
http://eci.nic.in/eci_main1/parliament.aspx
http://www.upscguide.com/content/president-india-powers-election-eligibility
== सन्दर्भः ==
{{reflist}}
{{शिखरं गच्छतु}}
[[वर्गः:भारतस्य राष्ट्रपतयः]]
[[वर्गः:संसद्]]
7j6dq540fpvc6q0cvii6qn4b406rii9
469793
469792
2022-07-30T08:36:38Z

|incumbent = [[द्रौपदी मुर्मू]]

ioit89vva05z2j27f2dmn2lst5flfhz
469794
469793
2022-07-30T08:41:44Z

|preceded by = [[रामनाथ कोविन्द]]

1h0qklif7kzorgdyehm0nkze008tyf2
सदस्यसम्भाषणम्:User Unavailable 104875
3
71023
469783
452692
2022-07-29T15:56:32Z
NahidSultan
10213
NahidSultan इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Ar Abhigya Ishan]] पृष्ठं [[सदस्यसम्भाषणम्:User Unavailable 104875]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Ar Abhigya Ishan|Ar Abhigya Ishan]]" का नाम "[[Special:CentralAuth/User Unavailable 104875|User Unavailable 104875]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ।
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Ar Abhigya Ishan}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०७:३७, २७ मे २०२० (UTC)
qkuhidkm0gx17oc4w7bnej097ycvddd
सदस्यसम्भाषणम्:REVENGER IHM AA S
3
72932
469790
456752
2022-07-30T01:25:21Z
Xqbot
1298
बॉट: [[सदस्यसम्भाषणम्:Pratyutpannamati]] को दोहरे पुननिर्देशित ठीक किया।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:Pratyutpannamati]]
cqbq688ni3e3prvzav9aoxlmwxcjcnr
सदस्यः:REVENGER IHM AA S
2
72933
469789
456753
2022-07-30T01:25:16Z
Xqbot
1298
बॉट: [[सदस्यः:Pratyutpannamati]] को दोहरे पुननिर्देशित ठीक किया।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:Pratyutpannamati]]
3ua5rob53h3frqrfxwrdvx2k7nvtbpi
सदस्यसम्भाषणम्:Ar Abhigya Ishan
3
79412
469784
2022-07-29T15:56:32Z
NahidSultan
10213
NahidSultan इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Ar Abhigya Ishan]] पृष्ठं [[सदस्यसम्भाषणम्:User Unavailable 104875]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Ar Abhigya Ishan|Ar Abhigya Ishan]]" का नाम "[[Special:CentralAuth/User Unavailable 104875|User Unavailable 104875]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:User Unavailable 104875]]
o7sdw5whs7kxl991lnfbpsrpvcp8lsd
सदस्यसम्भाषणम्:Bilol Murodullayev
3
79413
469785
2022-07-29T17:37:52Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Bilol Murodullayev}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १७:३७, २९ जुलै २०२२ (UTC)
bgni7573zyc1y10f7tgcn8b2xa5c9s6
सदस्यसम्भाषणम्:Eihmanisk
3
79414
469787
2022-07-30T00:40:55Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Eihmanisk}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ००:४०, ३० जुलै २०२२ (UTC)
9bsjh0rx91gkm60rec3nrmkmax1fzd3
सदस्यसम्भाषणम्:Curbon7
3
79415
469788
2022-07-30T01:23:03Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Curbon7}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०१:२३, ३० जुलै २०२२ (UTC)
0ekqwibvvqzcfe36x79f6qmsqs5u3z9
४४तमी ओलिम्पियाड्-चतुरङ्गप्रतियोगिता
0
79416
469791
2022-07-30T02:37:48Z
ऐक्टिवेटेड्
34367
{| class="infobox vevent" style="width:20em; font-size:90%;" cellspacing="2" |- !colspan="2" style="font-size:larger; text-align:center" class="summary" |४४तमी चतुरङ्ग-ओलिम्पियाड् |- | style="text-align:center;" colspan="2"| [[File:Chess Olympiad 2022 official logo.jpeg|220px]]<br />४४तमी चतुरङ्ग-ओलिम्पियाड्-इत्यस्य... नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
{| class="infobox vevent" style="width:20em; font-size:90%;" cellspacing="2"
|-
!colspan="2" style="font-size:larger; text-align:center" class="summary" |४४तमी चतुरङ्ग-ओलिम्पियाड्
|-
| style="text-align:center;" colspan="2"| [[File:Chess Olympiad 2022 official logo.jpeg|220px]]<br />४४तमी चतुरङ्ग-ओलिम्पियाड्-इत्यस्य चिह्नम्
|-
!अवचारणतिथिः
|२०२२ वर्षे २८ जुलाई – १० अगस्त
|-
!प्रतियोगिनः
|१,७३६ (स्वतन्त्रे च ९३७ महिलावृत्ते च ७९९)
|-
!दलाः
|१८८ (स्वतन्त्रम्)<br />१६२ (महिला)
|-
!राष्ट्राणि
|१८६ (स्वतन्त्रम्)<br />१६० (महिला)
|-
!स्थानम्
|फोर् प्वाइण्ट् बाय् शेरटोन्, [[महाबलिपुरम्]]<br />जवाहरलालनेहरूक्रीडाङ्गनम् <small>(उद्घाटनसमापनानुष्ठाने)</small>
|-
!नगरम्
|[[चेन्नै]], [[तमिळनाडुराज्यम्|तमिळ्नाडुराज्यं]] [[भारतम्]]
|-
!पूर्वतना
|←बातुमी २०१८
|-
!अग्रिमा
|बुद्धप्रस्थम् २०२४→
|}
'''चतुश्चत्वारिंशतमी चतुरङ्ग-ओलिम्पियाड्''' ({{lang-en|44th Chess Olympiad}}; {{lang-ta|௪௰௪ ஆவது சதுரங்க ஒலிம்பியாடு}}), '''चेन्नै चतुरङ्ग-ओलिम्पियाड्''' इत्यपि ज्ञायते, इति चतुरङ्गप्रतियोगिता अस्ति या [[भारतम्|भारतस्य]] [[तमिळनाडुराज्यम्|तमिळ्नाडुराज्यस्य]] [[चेन्नै]]नगरे २०२२ वर्षे २८ जुलाई-तः १० अगस्त पर्यन्तम् आयोजितमस्ति । अस्य आयोजनम् अन्तराष्ट्रियचतुरङ्गमहासङ्घः (FIDE) इत्यनेन कृतम् अस्ति । अत्र स्वतन्त्रानां महिलानां च प्रतियोगिताः सन्ति, तथैव [[चतुरङ्गक्रीडा]]याः प्रचारार्थं निर्मिताः अनेकाः कार्यक्रमाः च सन्ति । इयं भारतदेशस्य प्रथमा [[ओलिम्पियाड्-चतुरङ्गप्रतियोगिता|चतुरङ्ग-ओलिम्पियाड्-प्रतियोगिता]] अस्ति । प्रारम्भे इदम् आयोजनं चतुरङ्गविश्वजयपात्र २०१९ इत्यनेन सह खाण्टी-मानसिय्स्क्-नगरे भवितव्यम् आसीत्, परन्तु [[मास्कोनगरम्|मास्कोनगरे]] स्थानान्तरितम्, २०२० तमस्य वर्षस्य अगस्तमासस्य ५ तः १७ दिनाङ्कपर्यन्तं कालः निर्धारितः । तथापि [[कोविड्-१९ सर्व्वव्यापकरोगः|कोविड्-१९ सर्व्वव्यापकरोगस्य]] विषये वर्धमानचिन्तानां फलस्वरूपं स्थगितम् अन्ततः [[२०२२ वर्षे युक्रेनदेशे रूसदेशस्य आक्रमणम्|युक्रेनदेशे रूसदेशस्य आक्रमणानन्तरं]] चेन्नैनगरं स्थानान्तरितम् ।
भागिनः योगसङ्ख्या १,७३६ अस्ति, स्वतन्त्रखण्डे ९३७, महिलाखण्डे ७९९ च । पञ्जीकृतदलानां सङ्ख्या स्वतन्त्रखण्डे १८६ राष्ट्रेभ्यः १८८ महिलाखण्डे १६० राष्ट्रेभ्यः १६२ च अस्ति । उभयखण्डे दलसहभागितायाः अभिलेखाः निर्धारिताः । चतुरङ्ग-ओलिम्पियाड्-प्रतियोगितायाः मुख्यस्थलं फोर् प्वाइण्ट् बाय् शेरटोन्-इत्यत्र सम्मेलनकेन्द्रम् अस्ति, उद्घाटनसमापनानुष्ठाने च जवाहरलालनेहरूक्रीडाङ्गणे आसीत् । अस्य आयोजनस्य मुख्यः मध्यस्थः [[फ्रान्सदेशः|फ्रान्सदेशस्य]] अन्तराष्ट्रियमध्यस्थः लॉरेण्ट् फ्रेड् महोदयः अस्ति ।
== सम्बद्धाः लेखाः ==
* [[ओलिम्पियाड्-चतुरङ्गप्रतियोगिता]]
* [[चतुरङ्गक्रीडा]]
== सन्दर्भाः ==
{{उल्लेखाः}}
orrp2f94u7v9bimfibidc2v5xk4omhe