विकिपीडिया sawiki https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.25 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिपीडिया विकिपीडियासम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता हरीश चन्द्र 0 5593 470150 406543 2022-08-20T05:25:44Z Muralikrishna m 32625 wikitext text/x-wiki [[सञ्चिका:Harish-chandra.jpg|लघुचित्रम्|हरीश चन्द्र]] भारतीय वैज्ञानिकः। *[[भारतीय-सूची]] "" [[वर्गः:भारतीयविज्ञानिनः]] [[वर्गः:चित्रं योजनीयम्‎]] [[वर्गः:बाह्यानुबन्धः योजनीयः]] [[वर्गः:सारमञ्जूषा योजनीया‎]] [[वर्गः:भारतीयविज्ञानिसम्बद्धाः स्टब्स्]] [[वर्गः:सर्वे अपूर्णलेखाः]] quajeaa0ba6t2sib0cchvhipq1hzw4c अथ योगानुशासनम् (योगसूत्रम्) 0 14546 470153 470104 2022-08-20T09:50:12Z NehalDaveND 9230 /* भाष्यार्थः */ wikitext text/x-wiki {{तलं गच्छतु}} {{Infobox settlement |name= अथ योगानुसाशनम् |native_name = <br>'''[[समाधिपादः|समाधिपादस्य]] प्रप्रथमं सूत्रम्''' |image = [[चित्रम्:अथ योगानुसाशनम्.jpg|350px]] | subdivision_type = सूत्रसङ्ख्या | subdivision_name = १/१ | subdivision_type1 = सूत्रप्रकारः | subdivision_name1 = अधिकारसूत्रम् | subdivision_type2 = पूर्वसूत्रम् | subdivision_name2 = ---- | subdivision_type3 = अग्रिमं सूत्रम् | subdivision_name3 = [[योगश्चित्तवृत्ति निरोधः (योगसूत्रम्)|योगश्चित्तवृत्ति निरोधः]] }} '''अथ योगानुसाशनम्''' ({{IPA audio link|अथ योगानुशासनं.wav}} {{IPAc-en|ˈ|ə|θ|_|j|oː|g|aː|n|ʊ|S|aː|s|ə|n|ə|m}}) इत्येतत् पातञ्जलयोगसूत्रस्य प्रथमस्य [[समाधिपाद]]स्य प्रप्रथमं सूत्रं विद्यते । == सूत्रान्वयः == अथ = अत्र आरभ्यते । योग + अनुशासनम् = (अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य) योग इत्याख्यस्य शास्त्रस्य आरम्भः भवति । == सूत्रार्थः == अत्र अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य योगशास्त्रस्य आरम्भः भवति । == व्यासभाष्यम् == अथेत्ययमधिकारार्थः । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् । योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्तं, मूढं, विक्षिप्तम्, एकाग्रं, निरुद्धमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते । यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमभिमुखं करोति, स सम्प्रज्ञातो योग इत्याख्यायते । स च वितर्कानुगतः, विचारानुगतः, आनन्दानुगतोऽस्मितानुगत इत्युपरिष्ठात्प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥१॥ === भाष्यार्थः === "अथ" इत्यस्य शब्दस्य प्रयोगः अधिकारार्थे, आरम्भार्थे च कृतः । [[अष्टाङ्गयोगः|योगाङ्गानाम्]] उदपदेशकस्य शास्त्रस्य आरम्भः भवति इति भावः । योग इत्युक्ते [[समाधिः]] । चित्तस्य सर्वासु भूमिषु विद्यमानः चित्तस्य धर्म एव योगः । अर्थात् चित्ते सर्वत्र व्याप्तः धर्म एव योग इत्यर्थः । चित्तस्य पञ्चभूमयः सन्ति । यथा – क्षिप्तचित्तं (व्यग्रता), मूढचित्तं (स्मृतिशून्यता), विक्षिप्तचित्तं (प्रसङ्गेषु स्थिरता), एकाग्रचित्तं, निरुद्धचित्तं च । विक्षेपानन्तरं विक्षिप्ते चित्ते गौणरीत्या अनुभूयमाना स्थिरता योगपक्षत्वेन न परिगण्यते । परन्तु एकाग्रे चित्ते यस्याः उपस्थितिः विद्यते, या सत्पदार्थान् प्रकाशयति, या क्लेशान् क्षिणोति (क्षीणं करोति), या कर्मबन्धनान् शिथिलीकरोति (शिथिलं करोति), या निरोधस्थितिं जनयति, सा सम्प्रज्ञातस्य समाधेः अवस्था एव योग इत्युच्यते । अग्रे सः (योगः) वितर्केण, विचारेण, आनन्देन, अस्मितया च युक्तोस्ति इति कथयिष्यामः । सर्वासां वृत्तीनां निरोध एव असम्प्रज्ञातः (विशुद्धा अपगतचेतनावस्था, unconscious) समाधिः उच्यते <ref>{{Cite book|author= रामकृष्ण तुलजाराम व्यास|title=પતંજલિનાં યોગસૂત્રો|publisher=સંસ્કૃત સાહિત્ય અકાદમી, ગાંધીનગર| isbn=978-93-83317-06-6|page=१|year=२०१३}}</ref>। == तत्त्ववैशारदीभाष्यम् == इह हि भगवान्पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य संक्षेपतस्तात्पर्यार्थं प्रेक्षावत्पवृत्त्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादाविदं सूत्रं रचयाञ्चकार - अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं न्याचष्टे – अथेत्ययमधिकारार्थः । 'अथैष ज्योति'रितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति ह शास्त्रमाह 0 अनुशिष्यतेऽनेनेति व्युत्पत्त्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाम्नायते - तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवत्मानं पश्येत् (बृ. ४/४/२३) इति । शिश्यप्रश्नतपश्चरणरसायनाद्युपयोगानन्तर्यस्य च सम्भवेऽपि नाभिनाधनम् । शिष्यप्रतीतिप्रवृत्त्योरनुपयोगात्प्रमाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वादप्रामाणिकत्वे च तद्भावेऽपि हेयत्वात् ।। एतेन तत्त्वज्ञानचिख्यापयिषयोरानन्तर्याभिधानं परास्तात् ।। अधिकारार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रवर्तितश्च भवतीति । निःश्रेयस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् । ननु किं सर्वसन्दर्भगतोऽथशब्दोऽधिकारार्थः, तथा स'त्यथातो ब्रह्मजिज्ञासा' (ब्र.सू. १/१/१) इत्यादावपि प्रसङ्ग इत्यत आह अयमिति । ननु - "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्रकर्तृत्वमित्याशङ्क्य सूत्रकारेणानुशासनमित्युक्तम् । शिष्टस्यानुशासनं न तु शासनमित्यर्थः । यदायमथशब्दोऽधिकारार्थस्तदैष वाक्यार्थः सम्पद्यत इत्याह – योगानुशासनं शास्त्रमधइकृतमिति । ननु व्यत्पाद्यमानत्या योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह – वेदितव्यमिति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः । स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्यत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्रव्यापारगोचरतया तु योग एवाधिकृत इति भावः । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानोदकुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् । शब्दसन्देहनिमित्तमर्थसन्देहमपनयति – योगः समाधिरिति । युज् समाधौ (धा.पा. ४-६७) इत्युस्माद्व्युत्पन्नः समाध्यर्थो न तु युजिर् योगे (धा.पा. ७/७) इत्यस्मात्संयोगार्थ इत्यर्थः । ननु समाधिरपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम् । न चाङ्गमेवाङ्गीत्यत आह – स च सार्वभौमः । चस्त्वर्थोऽङ्गादङ्गिनं भिनत्ति । भूमयोऽवस्था वक्ष्यमाणा मधुमती-मधुप्रतीका-विशोका-संस्कारशेषास्ताश्चित्तस्य । तासु सर्वासु विदितः सार्वभौमश्चित्तवृत्तिनिरोधलक्षणो योगः । तदङ्गं तु समाधिर्नैवम्भूतः । व्युत्पत्तिनिमित्तमाज्ञाभिधानं चैतद्योगः समाधिरिति । अङ्गाङ्गिनोरभेदविवक्षामात्रेण प्रवृत्तिनिमित्तं योगशब्दस्य चित्तवृत्तिनिरोध एवेति परमार्थः । वृत्तयो ज्ञानन्यात्माश्रयाण्यतस्तन्निरोधोऽप्यात्माश्रय एवेति ये पश्यन्ति तन्नरासायाह – चित्तस्य धर्म इति । चित्तशब्देनान्तःकरणं बुद्धिमुपलक्षयति । न हि कूचस्थनित्या चितिशक्तिरपरिणामिनी ज्ञानधर्मा भवितुमर्हति बुद्धिस्तु भवेदिति भावः । स्यादेतत् – सार्वभौमश्चेद्योगो हन्त भोः क्षिप्तमूढविक्षिप्ता अपि चित्तभूमयः । अस्ति चपरस्परापेक्षया वृत्तिनिरोधोऽप्यास्विति तत्रापि योगत्वप्रसङ्ग इत्याशङ्क्य हेयोपादेयभूमीरूपयन्यस्यति – क्षिप्तमित्यादि । क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्यमस्थिरम् । मूढं तु तमःसमुद्रेकान्नद्रावृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषो स्थेमबहुलस्य कादाचित्कः स्थेमा । सा चास्यास्थमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यनन्तरायजनिता वा । एकाग्रमेकतानम् । निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम् । तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्तिनरोधे पारम्पर्येणापि निःश्रेयसतेहुभावाभावत्तद्रूघोतकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति न तयोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्कस्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वमिति निषेधति । तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कः सम्भूतविषयश्चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात्, यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं, प्रागेव कार्यकरणम् । न खलु दहनानन्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यङ्कुराय कल्पय इति भावः । यदि विक्षेपोपसर्जनीभूतः समाधिर्न योगः कस्तर्हीत्यत आह – यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाग्रेत्यत उक्तम् – सदिति । शोभनं नितान्ताविर्भूतं सत्त्वम् । तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि तत्त्वज्ञानमागमाद्वानुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यानुच्छिनत्ति द्विचन्द्रदिङ्मोहादिष्वनुच्छेदकत्वादत आह – प्रेति । प्रशब्दो हि प्रकर्षं द्योतयन्साक्षात्कारं सूचयति । अविद्यामूलत्वादस्मितादीनां क्लेशानां, विद्यायाश्चाविद्योच्छेदपूत्वाद्विद्योदये चाविद्यादिक्लेशसमुच्छेदो विरोधित्वात्कारणविनाशाच्चेत्याह – क्षिणोति चेति । अत एव कर्मरूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वमभिमतं कार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसादयति । वक्ष्यति हि 'सति मूले तद्विपाकः' (२/१३) इति । किं च निरोधमभिमुखं करोत्यभिमुखीकरोति । स च सम्प्रज्ञातश्चतुष्प्रकार इत्याह – स चेति । असम्प्रज्ञातमाह – सर्ववृत्तीति । रजस्तमोमयी किल प्रमाणादिवृत्तिः सात्त्विकीं वृत्तिमुपादाय सम्प्रज्ञाते निरुद्धा । असम्प्रज्ञाते तु सर्वासामेव निरोधः इत्यर्थः । तदिह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्वभौम इति सिद्धम् ।। १ ।। === भाष्यार्थः === आरभ्यमाणस्य विषयस्य संक्षेपेण उपस्थापनार्थं, बुद्धिमतां प्रवृत्त्यै, श्रोतॄणां सरलतया अवबोधनार्थं च भगवान् [[पतञ्जलिः]] प्रप्रथमसूत्रत्वेन 'अथ योगानुशासनम्' इति सूत्रं व्यरचयत् । यथा "अथ एष ज्योतिः" इत्यत्र इतः परम् अत्र प्रकाशः अभवत् इत्यर्थे प्रयुक्तः, तथा इतः परम् इति भावं न द्योतयति । सूत्रे प्रयुक्तेन "अथ" इत्यनेन शब्देन सः कथयति यत्, अत्र अथ इति शब्दः आरम्भार्थे प्रयुक्तोऽस्ति । अनुशासनम् अर्थात् उपदेशात्मकं शास्त्रम् । येन अनुशासनं क्रियते तत् शास्त्रम् । एतस्य शास्त्रस्य प्रवृत्तिः शमदमादीनामनन्तरं न भवति, अपि तु तत्त्वज्ञानस्य व्याख्यानस्य इच्छायै उत गुरोः तत्त्वविषयकं ज्ञानप्राप्तेः इच्छायै भवति । तत्त्वज्ञानस्य विषये वक्तुं, ज्ञातुं च या इच्छा भवति, तस्याः समनन्तरं तत्त्वं ज्ञातुम् इच्छा, तत्त्वज्ञानं च उत्पद्यते । यथा वेदे उक्तं - "अतः शान्तः, दान्तः, उपरतः, तितिक्षुः, समाहितः च भूत्वा आत्मनि एव आत्मानं पश्यति" इति (बृ. उ. ४/४/२३) । यद्यपि शिष्येभ्यः प्रश्नः, तपः, रसायणम् इत्यादीनाम् उपयुक्तं ज्ञानं दत्त्वा शास्त्रनिर्माणं सम्भवः आसीत्, तथापि अत्र तानि शास्त्राणि न उक्तानि । यतो हि योगशास्त्रस्य प्रामाण्ये शिष्यस्य प्रतीतिः (अवगमनं), प्रवृत्तिः च अनुपयुक्ते स्तः । तयोः अभावे सत्यपि योगशास्त्रम् उपादेयम् अस्ति (to be allowed) । शिष्येषु प्रतीतिः, प्रवृत्तिः च सत्यायाम् अपि यदि शास्त्रम् अप्रामाणिकं स्यात्, तर्हि शास्त्रस्य निर्माणं न करणीयम् । एवं तत्त्वज्ञाने, तस्य व्याख्यायाः इच्छायां च आनन्तर्यम् अस्ति इति कथनस्य निराकणम् अभवत् । अत्र प्रयुक्तेन "अथ" शब्देन प्रारम्भः इत्यर्थं स्वीकुर्मः चेत्, शास्त्रैः यस्य प्रारम्भः, उपस्थापनं च भवति, सः योगः इति अर्थबोधः भवति । तेन योगेन सर्वेषां शास्त्राणां तात्पर्यार्थस्य व्याख्यानेन (बोधयित्वा, to teach) शिष्याः सरलताय बोधयितुं शक्यन्ते । यतो हि [[वेदः|श्रुतिषु]], [[स्मृतयः|स्मृतिषु]] [[इतिहासः|इतिहासेषु]], [[पुराणानि|पुराणेषु]] च समाधिः मोक्षस्य हेतुत्वेन प्रसिद्धः अस्ति । प्रथमः प्रश्नः समुत्पद्यते यत्, किं सर्वेषु सन्दर्भेषु "अथ" शब्दः आरम्भार्थे एव स्वीक्रियते ? यदि एवं भवति, तर्हि "[[अथातो ब्रह्म जिज्ञासा]]" इत्यादिषु अपि आरम्भार्थकः "अथ" शब्दः स्वीकरणीयः भवति । अतः "अत्र" (योगशास्त्रं यावत्) इत्युक्तम् । तथा च [[याज्ञवल्‍क्‍यस्मृतिः|याज्ञवल्क्यस्मृतौ]] उक्तम् अस्ति यत्, "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति । एवं पतञ्जलिः योगशास्त्रस्य कर्ता कथं भवितुम् अर्हति ? इति शङ्कायाः समाधानाय सूत्रकारेण "अनुशासनम्" इत्यस्य शब्दस्य प्रयोगः कृतः । अग्रे उपदिष्टस्य पुनरुपदेशः अस्ति, न तु शासनत्वेन अर्थः ग्रहणीयः । "अथ" शब्दः आरम्भार्थकः गृह्यते चेदेव, "पुरा उक्तस्य योगशास्त्रस्य अनु-(पश्चात्)-उपदेशकं शास्त्रम् आरभ्यते इत्यर्थः भवति । [[योगदर्शनम्|योगशास्त्रस्य]] उपदेशात्मकः ग्रन्थः आरम्भ्यते एवं किमर्थम् उक्तम् ? अत्र तु स्वयं योगस्य एव चर्चा भविष्यति । अतः "वेदितव्यम्" इत्यस्य ज्ञानम् आवश्यकम् इत्युक्तम् । योगस्य चर्चायै एव ग्रन्थस्यास्य आरम्भः भवति, परन्तु योगस्य प्रतिपादनं तस्य योगस्य विषये चर्चात्मकस्य ग्रन्थस्य निर्माणेनैव भवितुम् अर्हति । उपदेशकस्य कार्यं साधनेनैव सिद्ध्यति, साक्षात् साध्यस्योपरि प्रवृत्तिना न सिद्ध्यति । उपदेशकस्य कार्यसम्बद्धाय विषयाय चर्चां कर्तुं योगविषयकग्रन्थस्य आरम्भः भवति इत्यर्थः । ग्रन्थस्य विषयः योगः इति । आरम्भार्थे प्रयुक्तस्य "अथ" शब्दस्य श्रवणं नीयमानस्य पूर्णकुम्भस्य दर्शनवत् मङ्गलकारकम् अस्ति इति बोध्यम् । योगशब्दस्य प्राथमिकार्थस्य कारणेन उत्पद्यमानानां सन्देहानां निवारणाय "योगः समाधिः" इत्युक्तम् । "युज्" समाधौ इत्यस्मात् धातोः निष्पन्नः योगशब्दः चित्तसमाधानस्य अर्थं बोधयति । अपरत्र "युजिर्" योगे इत्यस्मात् धातोः निष्पन्नः योगशब्दः संयोगं द्योतयति । द्वितीयः प्रश्नः समुद्भवति यत्, अग्रे उच्यते, योगरूपिणः अङ्गिनः समाधिः केवलम् अङ्गमात्रम् अस्ति इति । अङ्गाङ्गिनोः एकरूपता कथम् ? । अतः "स च सार्वभौमः चित्तधर्मः" इत्युक्तम् । अर्थात् चित्तस्य सर्वासु भूमिषु उपलब्धः सः तस्य धर्मः अस्ति इति । अत्र प्रयुक्तः "च" (and, और) शब्दः अङ्गाङ्गिनोः भेदं द्योतयति । भूमयः अग्रे उच्यते । सः योगः मधुमती, मधुप्रतीका, विशोका इत्यादिषु चितावस्थायां यत्र केवलं संस्करः अवशिष्टो भवति, तत्र विद्यमानत्वात् सः योगः "सार्वभौमः" चित्तवृत्तिनिरोधकः उच्यते । सः योगाङ्गमात्रात् समाधेः भिन्नः अस्ति । अत्र "योग" शब्दः ध्यानार्थे प्रयुक्तः । योगशास्त्रस्य अभ्यासाय, अध्ययनाय च प्रोत्साहनं दातुं तस्य प्रतिपादनं कृतम् अस्ति । अतः अङ्गाङ्गिनोः भेदस्योपरि भारः न प्रदत्तः । योगशब्दस्य उचितार्थः चित्तवृत्तिनिरोधः अस्ति । केषाञ्चन चिन्तनम् अस्ति यत्, वृत्तयः ज्ञानरूपित्वात् आत्मनः आश्रयेण तिष्ठन्ति । अतः वृत्तिनिरोधोऽपि आत्माश्रयेण एव सिद्ध्यतीति । तेषां खण्डनं कर्तुं "चित्तस्य धर्म" इत्युक्तम् । चित्तशब्देन अन्तःकरणरूपिणः बुद्धेः बोधः भवति । ज्ञानं कूटस्थस्य (the supreme soul), नित्यस्य (constantly), अपरिणामिनः (unchangeable) चित्तशक्तेः धर्मः नास्ति, अपि तु बुद्धेः धर्मः भवेत् इति भावः । एवं भवेत्, परन्तु चित्तस्य सर्वासु भूमिकासु योगः यदि व्यापकः अस्ति, तर्हि क्षिप्तं, विक्षिप्तं, मूढम् इत्येताः अवस्थाः अपि योगत्वेन परिगण्यन्ते । यतो हि तासु अपि अन्यवृत्तीनाम् अपेक्षया अपरवृत्तीनां निरोधो भवति । अतः योगाय उपयोगिनः, अनुपयोगिनः च भूमेः बोधं कारयितुं "क्षिप्तम्" इत्यादीनां भेदं वर्णयति । १. क्षिप्तम् अर्थात् [[रजोगुणः|रजोगुण]]<nowiki/>प्रभावेण तत्सम्बद्धेषु विषयेषु रमणं (निरन्तरं व्यग्रं) । क्षिप्तं स्वाभाविकान्तरयेभ्यः उत व्याधि-स्त्यानादिभ्यः अन्तरायेभ्यः समुत्पद्यते इति बोध्यम् । व्याधि-स्त्यानादयः अन्तरायाः अग्रे वक्ष्यते । २. मूढम् अर्थात् [[तमोगुणः|तमोगुण]]<nowiki/>प्रभावेण निद्रावृत्तियुक्तम् । ३. विक्षिप्तम् अर्थात् क्षिप्तात् विशिष्टम् । विशेष-शब्दः अस्थिरतायां कदाचित् जायमानां स्थिरतां द्योतयति । ४. निरुद्धम् अर्थाच् सर्वाः वृत्तयः स्थगिताः भवन्ति, केवलं तासु संस्काराः शेषाः भवन्ति तादृशं चित्तम् । ५. एकाग्रम् अर्थात् एकस्मिन् विषये स्थिरता । क्षिप्तं, मूढं च परस्परविरोधिनौ सत्यौ अपि परम्पानुगुणं मोक्षस्य अकारणत्वात्, मोक्षस्य विघातकत्वात्, योगपक्षात् बहु दूरे स्थितत्वात् च तयोः योगभानस्य निषेधः न कृतः । परन्तु विक्षिप्तं चित्तं बहुधा सद्वस्तुषु स्थिरत्वे प्राप्ते सति समाधेः अवस्थाम् अनुभवति, सः योगपक्षे न परिगण्यते । यतो हि तादृशी स्थिरता विपक्षरूपिचञ्चलतायाः गौणपरिणामत्वेन उत्पद्यते । विरोधिपक्षेन सह विद्यमानस्य स्वरूपम् अनिश्चितत्वात् सः स्वयं कारणं भूत्वा कार्यं कथं कर्तुं प्रभवति ? उदा. – त्रिचतुर्क्षणेक्ष्यः [[अग्निः|अग्नौ]] स्थापितं बीजं रोप्यते चेदपि तस्मात् अङ्कुरस्फुटनम् अशक्यम् इति भावः । यदि विक्षेपाङ्गुभूतः समाधिः योगः न, तर्हि कः सः योगः ? इत्यस्य प्रश्नस्य उत्तरत्वेन "यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति..." इत्युक्तम् । तेन कथयति यत्, यः समाधिः सद्भूतार्थं द्योतयति, क्लेशान् क्षीणीकरोति, कर्मबन्धनं शिथिलीकरोति, चित्ते निरोधत्वं जनयति च सः योगः उच्यते । "भूत" – उपस्थितशब्देन आरोपितस्य निवृत्तिं करोति । "सत्" इत्यस्मात् उद्भूतं योग्यं, नितान्तं च सत्त्वम् उच्यते । यतो हि निद्रावृत्तौ स्वाववम्बनरूपी "भूत" – उपस्थिते तमोगुणे एकाग्रो भवति । सः तमसः प्रकर्षः क्लेशस्य हेतुत्वात् न शोभनीयः । "प्र-द्योतयति" इत्यत्र "प्र" इत्येषः प्रकर्षस्य सूचनायाः बोधं कारयति । सः प्रकर्षस्य साक्षात्करं दर्शयति । यद्यपि तत्त्वज्ञानस्य द्योतनम् उत प्रकटिकरणं तु आगमैः उत [[अनुमानम्|अनुमानेनापि]] शक्म् अस्ति, तथापि तत् परोक्षरूपित्वात् साक्षात् अनुभूतायाः अविद्यायाः उच्छेदं (विनाशं) कर्तुं न प्रभवति । उभयोः [[चन्द्रः|चन्द्रसोः]] दर्शने सति यदा दिशाभ्रमः भवति, तदा सः भ्रमः केवलं शब्दैः उत अनुमानेन न दूरीभवति । अस्मितादयः क्लेशाः अविद्यामूलत्वात् तथा च विद्या अविद्यायाः नाशकत्वात् च विद्यायाः उदयेन अविद्यादयः क्लेशाः तस्याः विरोधित्वात् कारणनाशे सति नश्यन्ति । अतः "क्षिणोति च क्लेशान्" इत्युक्तम् । अतः कर्मरूपिणः बन्धनानि शिथिलीकरोति । कर्मणा अपूर्वसूचना भवति । कार्ये कारणस्य उपचारः (व्यवहारः) शक्यः भवति । शिथिलीकरोति अर्थात् स्वकार्यात् समुद्भूतानि फलानि स्थगयति । "सति मूले तद्विपाकः (२/१३)" अर्थात् मूले सत्येव कर्मविपाकः भवति इति अग्रे उच्यते । निरोधस्य स्थितिं प्रकटयति । "स च..." इत्यादिभिः सः सम्प्रज्ञातः योगः चतुर्धा इति कथयति । "सर्ववृत्ति..." इत्यादिभिः असम्प्रज्ञात-विषये कथयति । रजस्तमस्युक्ताः प्रमाणादिवृत्तयः सत्त्वगुणिवृत्तीनाम् आश्रयं स्वीकृत्य सम्प्रज्ञातसमाधौ निरोधः भवति । असम्प्रज्ञातौ सर्वासां वृत्तीनां निरोधः भवति इत्युक्तम् । मधुमती इत्यादयः भूमयः सम्प्रज्ञातासम्प्रज्ञातयोः समाविष्टाः भवन्ति । तासु भूमिषु व्याप्तत्वात् समाधिः सार्वभौमः चित्तधर्मः उक्तः <ref>{{Cite book|author= रामकृष्ण तुलजाराम व्यास|title=પતંજલિનાં યોગસૂત્રો|publisher=સંસ્કૃત સાહિત્ય અકાદમી, ગાંધીનગર| isbn=978-93-83317-06-6|page=२-७|year=२०१३}}</ref> । == राजमार्त्तण्डवृत्तिः == अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । युज् समाधौ (धा० पा० ४।६७)। अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम् । तदाऽऽशास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः । तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तद्व्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः । अभिधेयस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति - व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते । तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥ १॥ === वृत्त्यार्थः === इत्यनेन सूत्रेण योगशास्त्रस्य सम्बन्धः, अभिधेयः (वर्णयविषयः), उद्देश्यं, अधिकारी इत्येतत् साधनचतुष्टयं कथयति । प्रस्तुतसूत्रे प्रयुक्तः "अथ" शब्दः प्रारम्भार्थकः, मङ्गलार्थकश्च वर्तते । "युज् समाधौ" ([[अष्टाध्यायी|धा. पा.]] [[s:पाणिनीय धातुपाठः|४/६७]]) इति समाध्यर्थकः युज् धातोः "योग" शब्दः निष्पन्नः । अतः "योग" शब्दस्य अर्थः समाधिः भवति (युज् + घञ् = योगः) । एतस्य "योग" शब्दस्य निष्पत्तिः "युजिर् योगे" (धा. पा. ७/७) इत्यस्मात् सूत्रात् नाभवत् । येन लक्षण-प्रकार-साधन-प्रयोजनादिनः सहितस्य शास्त्रस्य अनुशासनं क्रियते, तस्य शास्त्रस्य पुनः व्याख्यानम् उत उपदिष्टसिद्धान्तानां पुनः कथनमेव अनुशानसम् इत्युच्यते । योगानुशासनम् इत्युक्ते, पूर्वोपदिष्टस्य, अनादियोगसिद्धानानां वा पुनः कथनम् । प्रस्तुतशास्त्रस्य समाप्तिपर्यन्तं तस्य योगस्य एव वर्णनम् अस्ति इत्यर्थः । तत्र योगशास्त्रस्य व्याखानत्वात्, अत्र साधनेन, फलेन च सह योग एव मुख्यप्रतिपाद्यः विषयः अस्ति । तथा च योगशास्त्रस्य वर्णनम् एव ग्रन्थस्य उद्देशः अस्ति । वर्णितस्य योगशास्त्रस्य कैवल्यम् अर्थात् मोक्ष एव प्रयोजनम् अस्ति । योगशास्त्रस्य वर्ण्यविषयेन सह प्रतिपादकप्रतिपाद्यसम्बन्धः अस्ति । अर्थात् योगशास्त्रं प्रतिपादकम् (वर्णनकर्ता) अस्ति, वर्ण्यविषयः (कृतवर्णनः विषयः) प्रतिपाद्यम् च । वर्ण्यविषयस्य योगेन सह साध्यसाधनसम्बन्धः अस्ति । अर्थात्, वर्ण्यविषयः योगः साधनम् अस्ति, कैवल्यं साध्यञ्च । एतस्य अभिप्रायः भवति यत्, अनेन शास्त्रेण वर्णनीयस्य योगस्य साधनानाम् (उपायानाम्) उपस्थापनं भवति इति । तैः साधनैः सिद्धः योग एव कैवल्यरूपिफलं प्रयच्छति <ref>भोजदेवकृतराजमार्तण्डवृत्तिसमेतम् – पातञ्जलयोगसूत्रम्, भारतीय विद्या प्रकाशन, वाराणसी, पृ. ३-५</ref> ।। १ ।। == विशेषम् == === अनुबन्धचतुष्टयम् <ref>{{Cite book|author= श्रीस्वामी ओमानन्द तीर्थ|title=पातञ्जलयोगप्रदीप|publisher=गीताप्रेस, गोरखपुर| isbn=81-293-0011-7|page=१३९-१४०}}</ref> === • विषयः – एतस्य शास्त्रस्य कः विषयः अस्ति ? : एतस्य योगशास्त्रस्य प्रयोजनं योगस्य विभिन्नानां भेदानां, साधनानां, फलानां च प्रतिपादनम् अस्ति । • प्रयोजनम् - एतस्य शास्त्रस्य किं प्रयोजनम् ? : योगद्वारा स्वरूपस्थितिः एव शास्त्रस्य प्रयोजनम् अस्ति । स्वरूपस्थितिः अर्थात्, अपवर्गः=निःश्रेयः=मोक्षः=कैवल्यम्=आत्मस्थितिः=परमात्मप्राप्तिः । • अधिकारी - एतस्य शास्त्रस्य कः अधिकारी ? : कैवल्यस्य मुमुक्षुः साधकः एतस्य अधिकारी भवति । • सम्बन्धः – अनेन सः शास्त्रस्य कः सम्बन्धः ? : एतत् दर्शनं योगस्य प्रतिपादनं करोति । अतः एतस्य योगेन सह प्रतिपाद्य-प्रतिपादक-भाव-सम्बन्धः अस्ति । योगः साधनम् अस्ति, कैवल्यं साध्यम् । अतः कैवल्ययोगयोः साध्य-साधन-भाव-सम्बन्धः अस्ति । कैवल्यमुमुक्षुः योगस्य अधिकारी अस्ति । अतः कैवल्यमुमुक्ष्वोः प्राप्य-प्रापक-भाव-सम्बन्धः अस्ति । मुमुक्षु-योगयोः कर्तृ-कर्त्तव्य-भाव-सम्बन्धः अस्ति । === योगस्य प्राचीनपरम्परा === "शासनम्" अर्थात् शिक्षा उत उपदेशः । "अनु + शासनम्" अर्थात् येषां विषयाणाम् उपदेशः (शासनं) पूर्वस्मादेव विद्यमानः वर्तते । अतः "अनुशासनम्" इत्यनेन शब्देन भगवता [[पतञ्जलि]]<nowiki/>ना प्राचीनकालात् योगपरम्परायाः अनुवर्तनस्य बोधः कारितः । तस्याः प्राचीनयोगपरम्परायाः वर्णनं श्रुतिस्मृतिषु अपि प्राप्यते । [[याज्ञवल्‍क्‍यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[महाभारतम्|महाभारते]], [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतमहापुराणे]], [[ऋग्वेदः|ऋग्वेदे]], [[यजुर्वेदः|यजुर्वेदे]], [[छान्दोग्योपनिषत्|छान्दोग्योपनिषदि]], अद्भुतरामाणे च योगशास्त्रस्य इतिहाससम्बद्धं वर्णनं प्राप्यते । <poem>{{cquote|हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः । याज्ञवल्क्यस्मृतिः}}</poem> <poem>{{cquote| हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः । [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-359 १२/३४९/६५] [[महाभारतम्]]}}</poem> <poem>{{cquote|हिरण्यगर्भो द्युतिमान् य एषच्छन्दसि स्तुतः । योगैः सम्पूज्यते नित्यं स च लोके विभुः स्मृतः ।। १२/३४२/९६ [[महाभारतम्]]}}</poem> <poem>{{cquote|हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः । महानिति च योगेषु विरञ्चीति तथाप्यजः ।। [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-308 १२/३०८/१८] [[महाभारतम्]], [https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४१ २४१/१६] [[ब्रह्मपुराणम्]]}}</poem> <poem>{{cquote|इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । ५/१९/१३ [[श्रीमद्भागवतमहापुराणम् ]]}}</poem> <poem>{{cquote|हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।। [https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१०.१२१ १०/१२१/१] [[ऋग्वेदः]], १३/४ [[यजुर्वेदः]]}}</poem> <poem>{{cquote|अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरणअयश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः । [https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्_१ १/६/६] [[छान्दोग्योपनिषत्]]}}</poem> उपर्युक्ते सर्वेषु ग्रन्थेषु हिरण्यगर्भः योगदर्शनस्य आदिवक्ता आसीत् अत्युक्तम्, अतः सः हिरण्यगर्भः योगगुरुः अस्ति इति स्वीक्रियते । [[श्वेताश्वतरोपनिषत्|श्वेताश्वतरोपनिषदः]] द्वितीये अध्याये ८-१५ श्लोकेषु योगस्य उपयोगः, महत्त्वं च प्राप्यते । तत्र योगः कथं करणीयः, तेन के लाभाः भवन्ति इत्यपि प्रतिपादितम् । [[कठोपनिषत्|कठोपनिषदः]] द्वितीयाध्याययस्य तृतीयवल्ल्याः १०-१५ श्लोकाः योगपद्धतिं, योगाक्रियां च उपस्थापयन्ति । श्रीम[[भगवद्गीता|द्भगवद्गीता]]<nowiki/>याः अष्टमे अध्याये १०,१२,१३ श्लोकेषु भगवान् [[श्रीकृष्णः]] योगशक्तिं, योगस्वरूपं च [[अर्जुनः|अर्जुनं]] कथयति । {{योगसूत्रक्रमः|शीर्षकम्='''पातञ्जलयोगसूत्राणि'''|पूर्वतनम्= ----|अग्रिमम्=[[योगश्चित्तवृत्तिनिरोधः]]}} == सम्बद्धाः लेखाः == [[योगदर्शनम्]] [[पतञ्जलिः]] [[अष्टाङ्गयोगः]] [[हिरण्यगर्भः]] == बाह्यसम्पर्कतन्तुः == {{Wikisourcelang|अथ योगानुशासनम्}} * http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi * http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1 * https://www.youtube.com/watch?v=uUmg-2Y6KcM == उद्धरणम् == {{reflist}} == अधिकवाचनाय == [http://sanskritdocuments.org/doc_yoga/yogasuutra.html?lang=sa पतञ्जलियोगसूत्रम्] [http://yogasutrastudy.info/ योगसूत्राणि शृण्वन्तु] [http://sanskritforchanting.com/pdfs/yogasutram.pdf आङ्ग्लानुवादेन सह योगसूत्रम्] [http://hinduonline.co/DigitalLibrary/SmallBooks/PatanjaliYogaSutraSwamiVivekanandaSanEng.pdf स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः] {{शिखरं गच्छतु}} [[वर्गः:समाधिपादः]] [[वर्गः:न प्राप्तः योगसम्बद्धभाषानुबन्धः]] [[वर्गः:योगसूत्राणि]] [[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]] btpitzaxmej7xkseizi8zx1crma14fy सदस्यः:2140475aditishreevastava/प्रयोगपृष्ठम् 2 77047 470144 469937 2022-08-19T14:21:40Z 2140475aditishreevastava 32989 wikitext text/x-wiki [[File:Aditi Shreevastava 2140475.jpg|thumb|]] मम नाम अदिति श्रीवास्तव अस्ति। मम मातुः नाम मधुबाला श्रीवास्तव अस्ति। मम पितुः नाम विजय कुमार श्रीवास्तव अस्ति। मम भ्रातरः नाम अमन श्रीवास्तव अस्ति। अहं पुर्नियानगरे वसामि। अहं क्रिस्त् विश्विद्यालय छात्रा अस्मि। अहं विज्ञाने त्रयः मुख्य विषये( भौतिकी, रसायन, गणितं च ) स्नातक करिष्यामि। अहं संस्कृत विषये एवं पठामि। अहं मम विश्वविद्यालयस्य प्रति इमान्दारः अस्ति। अहम् मम मातापितरौ बहु सेवा करोमि। मम स्वप्नः अस्ति यत् अहं एकः भौतिक वैज्ञानिकः इच्छामि गता। मम रुचि संगीत विषये अस्ति। अहं एकः कथक नर्तकी एवं हिन्दुस्तानि संगीत गायिका अपि अस्ति। अहं संगीत विषये स्नातकः अपि कुर्मः। मह्यं पाकविद्यायाः अपि बहु रुचि: अस्ति। मम जन्मतिथि 24 अक्तूबर 2002 अस्ति। मम औन्नत्य (5′4″) अस्ति। अहम् प्रातः ब्रह्म्: मुह्र्ते उत्तिष्ठामि। मह्यं संस्कृतम् विषयम् बहु रोचते। अहम् एक: आदर्श छात्रा अस्ति। मम प्रियः मित्रः मम माता अस्ति। मम बिग् बैङ्ग् प्रयोगः अति रुचि : अस्ति। अहं अस्मि भारत देशात। मम पिता एकः पत्रकारः,व्यवसयिकः एवं समजिकार्यकर्ता माता च गृहिणी स्तः। मम एकः भ्रातरः अस्ति यः अध्यापनकार्यं करोति। मम गृहे सर्वाः जनाः अति शीलः सन्ति। मह्यं भौतिकी एवं संस्कृत विषयौ युगलं बहु इच्छामि। मम प्रिय राष्ट्रपति ए.पी.जे अब्दुल कलाम् अस्ति। तस्य वार्ता मह्यं बहवः शोभते। तस्य नासा वार्ता अपि मह्यं बहु शोभते। अहं सत्यं एव वदामि। मम गृहस्य समीपं एकः सुन्दरः नदीः अस्ति। मम गृहे सर्वाः जनाः अति शीलः सन्ति। मह्यं भौतिकी एवं संस्कृत विषयौ युगलं बहु इच्छामि। मम इच्छास्ति यत अहं मम मातृभूमयेे एवं भौतिकी विषये केचन योगदानं कुरु। अहं राष्ट्रीय कैडेट कोर संघे केडेट् अस्ति। अहं एकं प्रयोगस्य संस्थान(रिसर्च एजुकेशन् एड्वान्स्मेन्अट प्रोग्राम) अपि प्रतिसन्गिन अस्मि। अहं बहवः पारिश्रमि अस्मि। अहं एकः द्वौ मासौ रिसर्च प्रोग्राम अद्यः पुर्ण्यन्तं। मम शरीररस्य रङ्गस्य गोधूम रङ्गस्य। मम प्रिय भौतिकि वैज्ञानिकः डा.रिचर्ड फ़ेय्न्मन्, इन्स्तेइन् च स्थः। अहं वैज्ञानिकः डा.रिचर्ड फ़ेय्न्मनस्य एकः पुस्तिकापि अपठम्। तस्य नाम स्युरेली यू आर जोकिन्ग मीस्टर फ़ेय्न्मन अस्ति। अहं स्वामि विकेकानान्दस्य अपि एकः पुस्तकः( वेदान्त )अपठाम्। एवं अनेकाः पुस्तकाः इव राजयोगः, भक्तियोगः, ज्ञानयोगः, कर्मयोगः च अपठाम। अहं रमचरित्मानसे सुन्दरकाण्डं अपि अपठाम। अहं स्पिक्मके कथक नृत्ये अराधना कार्यक्रमे चयनित अपि भविष्यामि। References https://hi.wikipedia.org/wiki/%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4_%E0%A4%A6%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%A8 https://en.wikipedia.org/wiki/Theoretical_physics#:~:text=Theoretical%20physics%20is%20a%20branch,tools%20to%20probe%20these%20phenomena. https://christuniversity.in/ https://en.wikipedia.org/wiki/Richard_Feynman http://www.vivekananda.net/PDFBooks/The_Vedanta_Philosophy.pdf https://en.wikipedia.org/wiki/Yoga --------------------------------------------------------------------------------------------------------------------------------------------------------- jssp37eeshvljengtpu8iihuxxv8pza सदस्यः:2130952BhavyaMathur 2 79549 470148 470044 2022-08-19T23:09:27Z 2130952BhavyaMathur 34124 wikitext text/x-wiki राजस्थान राज्यस्य व्यंजनाः ommik4nzam844f9boggmsfj0jlg8eza सदस्यसम्भाषणम्:Hàlian 3 79597 470146 2022-08-19T20:30:44Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Hàlian}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> २०:३०, १९ आगस्ट् २०२२ (UTC) jqc05bi202kwc1t6fau8ku90981f8d5 सदस्यसम्भाषणम्:Meghdhanu 3 79598 470149 2022-08-20T03:52:20Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Meghdhanu}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०३:५२, २० आगस्ट् २०२२ (UTC) c81589yxtmlmd1x0dp8cs7zux8vf9tb सदस्यसम्भाषणम्:Nishānt Omm 3 79599 470151 2022-08-20T06:57:02Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Nishānt Omm}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०६:५७, २० आगस्ट् २०२२ (UTC) myw9mr9fpufoxh0fs7jayq9c5avo9ih सदस्यसम्भाषणम्:Prajna gopal 3 79600 470152 2022-08-20T07:27:07Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Prajna gopal}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०७:२७, २० आगस्ट् २०२२ (UTC) 1lyaja4wnvmtm7pcwsifqi11f8m4q61