विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.25
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
कृष्णः
0
5074
470158
439364
2022-08-21T07:57:55Z
NehalDaveND
9230
added [[Category:विष्णोः अवताराः]] using [[Help:Gadget-HotCat|HotCat]]
wikitext
text/x-wiki
{{Hdeity infobox
| Image =Krishna holding flute.jpg
| Caption = वंशीधरः कृष्णः
| Name = कृष्णः
| Sanskrit_Transliteration = Kṛṣṇa
| Devanagari = कृष्णः
|Born =[[मथुरा]], [[उत्तरप्रदेश:]], [[भारतम्]].
| Affiliation = [[स्वयं भगवान्]]
| Mantra = ॐ नमो भगवते वासुदेवाय
| Weapon = [[सुदर्शनचक्रम्]]
| Consort = [[राधा]], [[रुक्मिणी]], [[सत्यभामा]], [[जाम्बवती]], सत्या, लक्ष्मणा, कालिन्दी, भद्रा, मित्रविन्दा.
| Abode = [[वृन्दावनम्]], [[गोकुलम्]], [[द्वारका]]
| Mount = [[गरुडः]]
| Texts =''[[भागवतपुराणम्]]'', ''[[भगवद्गीता]]'', ''[[महाभारतम्]]
}}
'''कृष्णः''' भारतीयसम्प्रदाये सनातनधर्मे च वासुदेवः श्रीकृष्णः स्वयं भगवान् परमतत्त्वं च ।। कृष्णो श्रीभगवतो लीलावताररूपः।। कृष्णस्तु स्वयं भगवान् इति कथ्यते। कर्षति आकर्षति इति कृष्णः, मेघश्यामवर्णीयः इति तस्य नामस्य अर्थः। मृत्युलोके इह श्रीकृष्णः द्वापरयुगे पाश्चैमिकवर्षे ३१०२ ईसापूर्वे मथुरानगरस्य कारागृहे ऽवतृतः। तस्य माता देवकी पिता वसुदेवश्च ।।
तदा कंसः देवक्या: भ्राता मथुरानरेश: आसीत् । कंसपितोग्रसेनः कृष्णस्य मातामहः। दुष्टेन कंसेन भगिनी देवकी आवुत्त: वसुदेव: च स्वकारागृहे बद्धौ।। कंसमतिबलवन्तं कश्चित् ऋषिः देवकीवसुदेवविवाहावसरे तयोरष्टमपुत्रः कंसमर्दनकारणं भविष्यतीति कथितवान्। तस्मात्तौ कंसेनातिचिन्तितेन कारागृहे बद्धौ आस्ताम्। वसुदेवदेवक्योः सप्तपुत्रान् क्रूर:कंसः हतवान्।अष्टमपुत्रः कृष्णः जनितः इति विदित्वा आगच्छति |किन्तु तदन्तरॆ कृष्णस्य स्थाने नन्दगोपतनया आगत्य तस्याः स्थाने गोकुले कृष्णः रक्षितवान्। एतद्विषयं तत्स्त्रीकन्यया विदितः कंसः श्रीकृष्णस्य अन्वेषणे सर्वत्र स्वसैन्यं प्रेषितवान्। तद्व्याजया आगतान् शकटासुर तृणावर्तादीन् संहरति। अर्जुनवृक्षछेदव्याजया धुनि,चमु इति असुरौ संहरति। एवं लोकपालः कृष्णः गोकुलं त्यक्त्वा वृंदावनं प्रति आगत्य तत्र बक-उग्र-वत्सासुरादीन् संहरति। तत्रैव कालीयमर्धनं कृत्वा लोकरक्षणार्थं कालीयं मारयति। तत्सप्तवयसि एव कालनेमिपुत्रान् वेषभस्वरूपान् सप्तदैत्यान् मारितस्य कृष्णस्य नीला इति कन्यया साकं विवाहं भवति। एकदा एषः वृन्दावने इन्द्रयज्ञं न्यवारयति। तदा कृद्धः इन्द्रः बृहद्वर्षधारां निरंतरं वर्षति। तदा कृष्णः गोवर्धनगिरिं धृत्वा वृन्दावनजनान् रक्षति।तद्दृष्ट्वा इन्द्रोपि कृष्णस्य समीपे शरणागतिं प्राप्नोति। एतद्गोवर्धनगिरिप्रसंगेन सर्वे जनाः श्रीकृष्णं स्वयं भगवान् इति जानन्ति। एवं शंखचूड-अरिष्टासुर-रजक- पूतनी-कुवलयापीड-चाणूर-मुष्टिकासीन् हत्वा स्वमातुलं कंसं च मारितः श्रीकृष्णः देवकी वसुदेवयोः बन्धनं निस्सारितवान्।
१६१०८ पत्नीन् प्राप्तः कृष्णः नरकासुरसंहारानंतरं स्त्रीसंरक्षणार्थं १६००० कन्यान् उद्वहति। यतः नरकासुरः तान् कन्यान् स्वबंधने वनिहितव्वन्। यदा कृष्णः नरकासुरं हत्वा तान् कन्यान् विमोचति। तदा ते प्रार्थयंति। नरकासुरात् बन्धितान् अस्मान् कोपि नेछति। अतः अस्माकं तावत् त्वमेव गतिः पतिः इति। तेषां प्रार्थनानुसारेण कृष्णः तान् उद्वहति।अन्ये लक्ष्मीस्वरूपाःअष्टमहिष्स्तावत् सन्दर्भानुसारेण कृष्णं प्राप्नुवन्ति।
कृष्ण: यादवकुलस्य राजा आसीत्। तेन [[भगवद्गीता]] संवाद: प्रदत्तः।
[[चित्रम्:Flickr - dalbera - Danseuse de Kuchipudi jouant Krishna (musée Guimet).jpg|thumb|150px|'''कृष्णवेशः''']]
गीतायाम् अष्टादश अध्यायाः सन्ति। दशमे अध्याये श्रीकृष्णः स्वदिव्यस्वरूपं वर्णयति। एकादशे अध्याये सः अर्जुनाय स्वस्य विश्वरूपं दर्शयति। द्वादशे अध्याये भक्तस्य दिव्यगुणाः वर्णिताः।
कृष्णः इति नामं तावत् भगवद्मूलरूपेषु चतुर्विंशतिरूपेषु अंतिमः। महाभारतस्य विष्णुसहस्रनामे ५७ & ५५० तमे नामे प्रसिद्धः। कृष्णस्य इतिहासस्तु महाभारतॆ,भागवतमहापुराणे, विष्णुपुराणे, हरिवंशे गीयते। एषः कृष्णः एव ओडिशा मध्ये जगन्नाथ, महाराष्ट्रे विठोबा,विठ्ठ्ल, राजस्थानमध्ये श्रीनाथ इति प्रसिद्धः।
उत्तरप्रदेश, बिहार्, हरियाण, गुजरात्, डेल्ली मध्येषु कृष्णस्य संचलनमासीत् इति प्रथा।
[[चित्रम्:Raja Ravi Varma, Yasoda Adorning Krishna.jpg|thumb|left|150px|'''यशोदानन्दनः बालकृष्णः'''-राजा रविवर्मणः कला]]
[[File:M.V. Dhurandhar, On the banks of the Jamuna.jpg|300px|centre|thumb|'''यमुनातीरे गोपिकाभिः सह कृष्णः''']]
==बाह्यानुबन्धाः==
श्री [http://www.radhavallabh.com राधाकृष्ण] परमात्मने ।
* [[प्राचीनवंशावली]]
{{महाभारतम्}}
{{यादवकुलम्}}
[[वर्गः:महाभारतस्य पात्राणि]]
[[वर्गः:हिन्दुदेवताः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विष्णोः अवताराः]]
0ky98ac6nwhuudplvdghg820j02lioz
विष्णुपुराणम्
0
12388
470163
403820
2022-08-21T08:00:23Z
NehalDaveND
9230
added [[Category:विष्णुः]] using [[Help:Gadget-HotCat|HotCat]]
wikitext
text/x-wiki
{{ ज्ञानसन्दुक पुस्तकम्
| name = विष्णुपुराणम्
| title_orig =
| translator =
| image =
| image_caption =गीताप्रेस गोरखपुरस्य आवरण पृष्ठ
| author = वेदव्यास
| illustrator =
| cover_artist =
| country = [[भारत]], [[नेपाल]]
| language = [[संस्कृत]]
| series = [[पुराण]]
| subject = [[विष्णुः]]
| genre = वैष्णव ग्रन्थः
| publisher =
| pub_date =
| english_pub_date =
| media_type =
| pages = २३,००० श्लोकाः
| isbn =
| oclc =
| preceded_by =
| followed_by =
}}
[[File:Vishnu21.JPG|thumb| परमात्मा [[विष्णुः]], भारतम् ]]
अष्टादशसु पुराणेषु अन्यतमं वर्तते '''विष्णुपुराणम्''' (VishnuPurana) । इदं किञ्चन प्राचीनं पुराणम् । [[पुराणम्|पुराण]]स्य पञ्च अपि [[पुराणलक्षणम्|पुराणलक्षणानि]] अत्र दृश्यन्ते ।'पुराणरत्नं' इत्येव प्रसिद्धे २३००० श्लोकात्मके अस्मिन् पुराणे क्षीरसागरमथनकथा, [[ध्रुवः|ध्रुव]]-[[प्रह्लादः|प्रह्लाद]]कथा, [[जडभरतः|जडभरत]]स्य कथा च अत्र विद्यन्ते । [[मनुः|मनु]]-[[मन्वन्तरम्|मन्वन्तरा]]णां निरूपणं, [[वर्णाश्रमाः|वर्णाश्रमधर्मा]]णां, [[संस्काराः|संस्कारा]]णां, [[श्राद्धम्|श्राद्ध]]कल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र [[ऊर्वशी]], [[ययातिः]], [[रामः]] इत्यादीनां चरित्रं, [[कौरवपाण्डवाः|कौरवपाण्डवा]]नां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । [[कृष्णः|कृष्ण]]कथा विवृता अस्ति । एतत् पाञ्चरात्रधर्मप्रतिपादकम् अस्ति ।अतः विष्णोः माहात्म्यनिरूपणे निबद्धमिदं पुराणं विष्णोः चरित्रवर्णने गमयति।किन्तु विष्णौ भक्त्युत्कृष्टिस्तु भागवतपुराणेनैव।अतः विष्णुपुराणं दृष्ट्वा भागवतपुराणं यदि दृश्यते तदा भागवतं विष्णुपुराणस्य व्याख्यानमिव दृश्यते।
==भाषाशैली==
अत्रत्य भाषा ललिता सरला च विद्यते । तत्र तत्र दृश्यमानानि गद्यवाक्यानि रमणीयानि सन्ति । [[आर्षप्रयोगाः]] अत्यल्पाः इत्येतत् अस्य पुराणस्य अपरं वैशिष्ट्यम् । [[ध्रुवः|ध्रुवचरित्रं]], [[प्रह्लादः|प्रह्लाद]]चरित्रं च उत्तमकाव्यम् इव रमणीयतां भजते । अत्र सर्वाणि धार्मिकप्रक्रियविशेषाः नातिविस्तृततया निरूपितमस्ति। किन्तु श्राद्धप्रक्रियायाः विस्तृतनिरूपणेन तस्य आवश्यकता ज्ञायते। [[श्रीकृष्णः|श्रीकृष्ण]]चरित्रम् अपि मनोरमं विद्यते ।
==विषयविभागः==
[[पराशरः|पराशर]]मुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० श्लोकाः विद्यन्ते ।
===प्रथामांशः===
अस्मिन् जगतः उत्पत्तिः, [[प्रजापतयः]], [[देवताः]], पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, [[विष्णुः|विष्णोः]] महिमा च विवृता अस्ति ।
===द्वितीयांशः===
भूगोलस्य विवरणं, नवखण्डानां विभागः, अधोलोक-ऊर्ध्वलोकयोः विवरणं, ज्योतिश्चक्रस्य नवग्रहाणां च वर्णनं, जडभरत-ऋभु-निदाघानाम् आख्यानं च अत्र विद्यते ।
===तृतीयांशः===
मनुपुत्राणां वर्णनं, [[चतुर्युगाः|चतुर्युगा]]नुसारं विभिन्नव्यासाः, [[चतुर्वेदाः|चतुर्वेदा]]नां विभागः, चातुर्वर्ण्यधर्मः, ब्रह्मचर्य-गार्हस्त्यश्रमयोः आचाराः, विस्तृतश्राद्धविधिः च अत्र प्रदत्ता वर्तते ।
===चतुर्थांशः===
वैवस्वत-इक्ष्वाकुवंशयोः विवरणं, [[श्रीरामः|श्रीराम]]स्य संक्षिप्तकथा, सोमवंश-यदुवंश-कुरुवंशयोः कथा, भावीराजानां विवरणं (भविष्यत्काले ये शासनं कुर्युः तेषां), मगधवंशविवरणं, कलियुगस्य राज्ञां, कलिधर्मस्य च विवरणम् अत्र उपलभ्यते ।
===पञ्चमांशः===
श्रीकृष्णस्य विस्तृतचरित्रं, यादवानाम् अन्त्यं, परीक्षितराजस्य पट्टाभिषेकः, पाण्डवानां स्वर्गारोहणं च अत्र विवृतम् अस्ति ।
[[Image:FourArmedVishnuPandyaDynasty8-9thCentury.jpg|thumb|left| चतुर्भुजः विष्णुः, पाण्ड्यवंशः,८-९ शतमानम्]]
===षष्ठांशः===
कलिधर्मः, शूद्राणां स्त्रीणां च महत्त्वं, कालविचारः, नैमित्तिकप्रलयः, प्राकृतप्रलयः, भगवतः पारमार्थिकस्वरूपं, ब्रह्मयोगः, शिष्यपरम्परा च अत्र प्रस्तुता अस्ति । अन्ते उपसंहारः कृतः अस्ति ।
==व्याख्यानानि==
अस्य पुराणस्य कृते श्रीधरस्वामिनः ‘आत्मप्रकाश’नामकं व्याख्यानं रचितवान् अस्ति । ‘विष्णुचित्तीय’नामकम् अपरं व्याख्यानम् अपि उपलभ्यते । रत्नगर्भः ‘वैष्णवाकूतचन्द्रिका’नामिकां टीकां रचितवान् अस्ति ।
==प्रसिद्धश्लोकाः==
===वेदविषयसम्बद्धाः===
::‘एतत्ते यन्मयाख्यातं पुराणं वेदसम्मतम्’ ६।८।१२
::‘नाहो न रात्रिर्ननभो न भूमिः नासीत्तमो ज्योतिरभूच्च नान्यत्’१।२।२३
===राष्ट्रभक्तिप्रचोदकाः===
::अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
::कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥
::गायन्ति देवाः किल गीतकानि
::धन्यास्तु ते भारतभूमिभागे ।
::स्वर्गापवर्गास्पदमार्गभूते
::भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २।३।२३,२४
[[Image:Relief sculpture of the Hindu god Narayana with his consort Lakshmi (Lakshminarayana) in the Hoysaleshwara temple at Halebidu.jpg|right|thumb| [[लक्ष्मीनारायणः]], [[हलेबीडु, कर्णाटकम्]].]]
===रमणीयश्लोकाः===
शरद्वर्णनम्
::मयूरा मौनमातस्थुः परित्यक्तमदा वने ।
::असारतां परिज्ञाय संसारस्येव योगिनः ॥
::उत्सृज्य जलसर्वस्वं विमलाः सितमूर्तयः ।
::तत्यजुश्चाम्बरं मेघा गृहं विज्ञानिनो यथा ॥
::तारका विमले व्योम्नि रराजाखण्डमण्डलः ।
::चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥
::तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा ।
::तदप्राप्तिमहादुःखविलीनाशेषपातका ॥
::चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
::निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥ ५।१३।२१,२२
===नीतिश्लोकाः===
::या दुस्त्यजा दुर्मतिभिः या न जीर्यतिजीर्यतः ।
::तां तृष्णां सन्त्य्जेत् प्राज्ञः सुखेनैवाभिपुर्यते ॥
::जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ते जीर्यतः ।
::धनाशा जीविताशा च जीर्यतोपि न जीर्यतः ॥ ४.१०.२६,२७
==बाह्यसम्पर्कतन्तु==
{{पुराणानि}}
{{वैदिकविज्ञानम्}}
[[वर्गः:पुराणानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विष्णुः]]
a7z9zh4jcosots77hfnrptozd5ewmio
अथ योगानुशासनम् (योगसूत्रम्)
0
14546
470166
470153
2022-08-21T08:02:31Z
NehalDaveND
9230
1
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox settlement
|name= अथ योगानुसाशनम्
|native_name = <br>'''[[समाधिपादः|समाधिपादस्य]] प्रप्रथमं सूत्रम्'''
|image = [[चित्रम्:अथ योगानुसाशनम्.jpg|350px]]
| subdivision_type = सूत्रसङ्ख्या
| subdivision_name = १/१
| subdivision_type1 = सूत्रप्रकारः
| subdivision_name1 = अधिकारसूत्रम्
| subdivision_type2 = पूर्वसूत्रम्
| subdivision_name2 = ----
| subdivision_type3 = अग्रिमं सूत्रम्
| subdivision_name3 = [[योगश्चित्तवृत्ति निरोधः (योगसूत्रम्)|योगश्चित्तवृत्ति निरोधः]]
}}
'''अथ योगानुसाशनम्''' ({{IPA audio link|अथ योगानुशासनं.wav}} {{IPAc-en|ˈ|ə|θ|_|j|oː|g|aː|n|ʊ|S|aː|s|ə|n|ə|m}}) इत्येतत् [[पातञ्जलयोगसूत्र]]<nowiki/>स्य प्रथमस्य [[समाधिपाद]]स्य प्रप्रथमं सूत्रं विद्यते ।
== सूत्रान्वयः ==
अथ = अत्र आरभ्यते । योग + अनुशासनम् = (अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य) योग इत्याख्यस्य शास्त्रस्य आरम्भः भवति ।
== सूत्रार्थः ==
अत्र अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य योगशास्त्रस्य आरम्भः भवति ।
== व्यासभाष्यम् ==
अथेत्ययमधिकारार्थः । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् । योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्तं, मूढं, विक्षिप्तम्, एकाग्रं, निरुद्धमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते । यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमभिमुखं करोति, स सम्प्रज्ञातो योग इत्याख्यायते । स च वितर्कानुगतः, विचारानुगतः, आनन्दानुगतोऽस्मितानुगत इत्युपरिष्ठात्प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥१॥
=== भाष्यार्थः ===
"अथ" इत्यस्य शब्दस्य प्रयोगः अधिकारार्थे, आरम्भार्थे च कृतः । [[अष्टाङ्गयोगः|योगाङ्गानाम्]] उदपदेशकस्य शास्त्रस्य आरम्भः भवति इति भावः । योग इत्युक्ते [[समाधिः]] । चित्तस्य सर्वासु भूमिषु विद्यमानः चित्तस्य धर्म एव योगः । अर्थात् चित्ते सर्वत्र व्याप्तः धर्म एव योग इत्यर्थः । चित्तस्य पञ्चभूमयः सन्ति । यथा – क्षिप्तचित्तं (व्यग्रता), मूढचित्तं (स्मृतिशून्यता), विक्षिप्तचित्तं (प्रसङ्गेषु स्थिरता), एकाग्रचित्तं, निरुद्धचित्तं च । विक्षेपानन्तरं विक्षिप्ते चित्ते गौणरीत्या अनुभूयमाना स्थिरता योगपक्षत्वेन न परिगण्यते । परन्तु एकाग्रे चित्ते यस्याः उपस्थितिः विद्यते, या सत्पदार्थान् प्रकाशयति, या क्लेशान् क्षिणोति (क्षीणं करोति), या कर्मबन्धनान् शिथिलीकरोति (शिथिलं करोति), या निरोधस्थितिं जनयति, सा सम्प्रज्ञातस्य समाधेः अवस्था एव योग इत्युच्यते । अग्रे सः (योगः) वितर्केण, विचारेण, आनन्देन, अस्मितया च युक्तोस्ति इति कथयिष्यामः । सर्वासां वृत्तीनां निरोध एव असम्प्रज्ञातः (विशुद्धा अपगतचेतनावस्था, unconscious) समाधिः उच्यते <ref>{{Cite book|author= रामकृष्ण तुलजाराम व्यास|title=પતંજલિનાં યોગસૂત્રો|publisher=સંસ્કૃત સાહિત્ય અકાદમી, ગાંધીનગર| isbn=978-93-83317-06-6|page=१|year=२०१३}}</ref>।
== तत्त्ववैशारदीभाष्यम् ==
इह हि भगवान्पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य संक्षेपतस्तात्पर्यार्थं प्रेक्षावत्पवृत्त्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादाविदं सूत्रं रचयाञ्चकार - अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं न्याचष्टे – अथेत्ययमधिकारार्थः । 'अथैष ज्योति'रितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति ह शास्त्रमाह 0 अनुशिष्यतेऽनेनेति व्युत्पत्त्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाम्नायते - तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवत्मानं पश्येत् (बृ. ४/४/२३) इति । शिश्यप्रश्नतपश्चरणरसायनाद्युपयोगानन्तर्यस्य च सम्भवेऽपि नाभिनाधनम् । शिष्यप्रतीतिप्रवृत्त्योरनुपयोगात्प्रमाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वादप्रामाणिकत्वे च तद्भावेऽपि हेयत्वात् ।। एतेन तत्त्वज्ञानचिख्यापयिषयोरानन्तर्याभिधानं परास्तात् ।। अधिकारार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रवर्तितश्च भवतीति । निःश्रेयस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् । ननु किं सर्वसन्दर्भगतोऽथशब्दोऽधिकारार्थः, तथा स'त्यथातो ब्रह्मजिज्ञासा' (ब्र.सू. १/१/१) इत्यादावपि प्रसङ्ग इत्यत आह अयमिति । ननु - "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्रकर्तृत्वमित्याशङ्क्य सूत्रकारेणानुशासनमित्युक्तम् । शिष्टस्यानुशासनं न तु शासनमित्यर्थः । यदायमथशब्दोऽधिकारार्थस्तदैष वाक्यार्थः सम्पद्यत इत्याह – योगानुशासनं शास्त्रमधइकृतमिति । ननु व्यत्पाद्यमानत्या योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह – वेदितव्यमिति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः । स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्यत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्रव्यापारगोचरतया तु योग एवाधिकृत इति भावः । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानोदकुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् । शब्दसन्देहनिमित्तमर्थसन्देहमपनयति – योगः समाधिरिति । युज् समाधौ (धा.पा. ४-६७) इत्युस्माद्व्युत्पन्नः समाध्यर्थो न तु युजिर् योगे (धा.पा. ७/७) इत्यस्मात्संयोगार्थ इत्यर्थः । ननु समाधिरपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम् । न चाङ्गमेवाङ्गीत्यत आह – स च सार्वभौमः । चस्त्वर्थोऽङ्गादङ्गिनं भिनत्ति । भूमयोऽवस्था वक्ष्यमाणा मधुमती-मधुप्रतीका-विशोका-संस्कारशेषास्ताश्चित्तस्य । तासु सर्वासु विदितः सार्वभौमश्चित्तवृत्तिनिरोधलक्षणो योगः । तदङ्गं तु समाधिर्नैवम्भूतः । व्युत्पत्तिनिमित्तमाज्ञाभिधानं चैतद्योगः समाधिरिति । अङ्गाङ्गिनोरभेदविवक्षामात्रेण प्रवृत्तिनिमित्तं योगशब्दस्य चित्तवृत्तिनिरोध एवेति परमार्थः । वृत्तयो ज्ञानन्यात्माश्रयाण्यतस्तन्निरोधोऽप्यात्माश्रय एवेति ये पश्यन्ति तन्नरासायाह – चित्तस्य धर्म इति । चित्तशब्देनान्तःकरणं बुद्धिमुपलक्षयति । न हि कूचस्थनित्या चितिशक्तिरपरिणामिनी ज्ञानधर्मा भवितुमर्हति बुद्धिस्तु भवेदिति भावः । स्यादेतत् – सार्वभौमश्चेद्योगो हन्त भोः क्षिप्तमूढविक्षिप्ता अपि चित्तभूमयः । अस्ति चपरस्परापेक्षया वृत्तिनिरोधोऽप्यास्विति तत्रापि योगत्वप्रसङ्ग इत्याशङ्क्य हेयोपादेयभूमीरूपयन्यस्यति – क्षिप्तमित्यादि । क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्यमस्थिरम् । मूढं तु तमःसमुद्रेकान्नद्रावृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषो स्थेमबहुलस्य कादाचित्कः स्थेमा । सा चास्यास्थमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यनन्तरायजनिता वा । एकाग्रमेकतानम् । निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम् । तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्तिनरोधे पारम्पर्येणापि निःश्रेयसतेहुभावाभावत्तद्रूघोतकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति न तयोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्कस्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वमिति निषेधति । तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कः सम्भूतविषयश्चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात्, यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं, प्रागेव कार्यकरणम् । न खलु दहनानन्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यङ्कुराय कल्पय इति भावः ।
यदि विक्षेपोपसर्जनीभूतः समाधिर्न योगः कस्तर्हीत्यत आह – यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाग्रेत्यत उक्तम् – सदिति । शोभनं नितान्ताविर्भूतं सत्त्वम् । तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि तत्त्वज्ञानमागमाद्वानुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यानुच्छिनत्ति द्विचन्द्रदिङ्मोहादिष्वनुच्छेदकत्वादत आह – प्रेति । प्रशब्दो हि प्रकर्षं द्योतयन्साक्षात्कारं सूचयति । अविद्यामूलत्वादस्मितादीनां क्लेशानां, विद्यायाश्चाविद्योच्छेदपूत्वाद्विद्योदये चाविद्यादिक्लेशसमुच्छेदो विरोधित्वात्कारणविनाशाच्चेत्याह – क्षिणोति चेति । अत एव कर्मरूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वमभिमतं कार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसादयति । वक्ष्यति हि 'सति मूले तद्विपाकः' (२/१३) इति । किं च निरोधमभिमुखं करोत्यभिमुखीकरोति । स च सम्प्रज्ञातश्चतुष्प्रकार इत्याह – स चेति । असम्प्रज्ञातमाह – सर्ववृत्तीति । रजस्तमोमयी किल प्रमाणादिवृत्तिः सात्त्विकीं वृत्तिमुपादाय सम्प्रज्ञाते निरुद्धा । असम्प्रज्ञाते तु सर्वासामेव निरोधः इत्यर्थः । तदिह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्वभौम इति सिद्धम् ।। १ ।।
=== भाष्यार्थः ===
आरभ्यमाणस्य विषयस्य संक्षेपेण उपस्थापनार्थं, बुद्धिमतां प्रवृत्त्यै, श्रोतॄणां सरलतया अवबोधनार्थं च भगवान् [[पतञ्जलिः]] प्रप्रथमसूत्रत्वेन 'अथ योगानुशासनम्' इति सूत्रं व्यरचयत् । यथा "अथ एष ज्योतिः" इत्यत्र इतः परम् अत्र प्रकाशः अभवत् इत्यर्थे प्रयुक्तः, तथा इतः परम् इति भावं न द्योतयति । सूत्रे प्रयुक्तेन "अथ" इत्यनेन शब्देन सः कथयति यत्, अत्र अथ इति शब्दः आरम्भार्थे प्रयुक्तोऽस्ति । अनुशासनम् अर्थात् उपदेशात्मकं शास्त्रम् । येन अनुशासनं क्रियते तत् शास्त्रम् । एतस्य शास्त्रस्य प्रवृत्तिः शमदमादीनामनन्तरं न भवति, अपि तु तत्त्वज्ञानस्य व्याख्यानस्य इच्छायै उत गुरोः तत्त्वविषयकं ज्ञानप्राप्तेः इच्छायै भवति । तत्त्वज्ञानस्य विषये वक्तुं, ज्ञातुं च या इच्छा भवति, तस्याः समनन्तरं तत्त्वं ज्ञातुम् इच्छा, तत्त्वज्ञानं च उत्पद्यते । यथा वेदे उक्तं - "अतः शान्तः, दान्तः, उपरतः, तितिक्षुः, समाहितः च भूत्वा आत्मनि एव आत्मानं पश्यति" इति (बृ. उ. ४/४/२३) । यद्यपि शिष्येभ्यः प्रश्नः, तपः, रसायणम् इत्यादीनाम् उपयुक्तं ज्ञानं दत्त्वा शास्त्रनिर्माणं सम्भवः आसीत्, तथापि अत्र तानि शास्त्राणि न उक्तानि । यतो हि योगशास्त्रस्य प्रामाण्ये शिष्यस्य प्रतीतिः (अवगमनं), प्रवृत्तिः च अनुपयुक्ते स्तः । तयोः अभावे सत्यपि योगशास्त्रम् उपादेयम् अस्ति (to be allowed) । शिष्येषु प्रतीतिः, प्रवृत्तिः च सत्यायाम् अपि यदि शास्त्रम् अप्रामाणिकं स्यात्, तर्हि शास्त्रस्य निर्माणं न करणीयम् । एवं तत्त्वज्ञाने, तस्य व्याख्यायाः इच्छायां च आनन्तर्यम् अस्ति इति कथनस्य निराकणम् अभवत् । अत्र प्रयुक्तेन "अथ" शब्देन प्रारम्भः इत्यर्थं स्वीकुर्मः चेत्, शास्त्रैः यस्य प्रारम्भः, उपस्थापनं च भवति, सः योगः इति अर्थबोधः भवति । तेन योगेन सर्वेषां शास्त्राणां तात्पर्यार्थस्य व्याख्यानेन (बोधयित्वा, to teach) शिष्याः सरलताय बोधयितुं शक्यन्ते । यतो हि [[वेदः|श्रुतिषु]], [[स्मृतयः|स्मृतिषु]] [[इतिहासः|इतिहासेषु]], [[पुराणानि|पुराणेषु]] च समाधिः मोक्षस्य हेतुत्वेन प्रसिद्धः अस्ति ।
प्रथमः प्रश्नः समुत्पद्यते यत्, किं सर्वेषु सन्दर्भेषु "अथ" शब्दः आरम्भार्थे एव स्वीक्रियते ? यदि एवं भवति, तर्हि "[[अथातो ब्रह्म जिज्ञासा]]" इत्यादिषु अपि आरम्भार्थकः "अथ" शब्दः स्वीकरणीयः भवति । अतः "अत्र" (योगशास्त्रं यावत्) इत्युक्तम् । तथा च [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]] उक्तम् अस्ति यत्, "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति । एवं पतञ्जलिः योगशास्त्रस्य कर्ता कथं भवितुम् अर्हति ? इति शङ्कायाः समाधानाय सूत्रकारेण "अनुशासनम्" इत्यस्य शब्दस्य प्रयोगः कृतः । अग्रे उपदिष्टस्य पुनरुपदेशः अस्ति, न तु शासनत्वेन अर्थः ग्रहणीयः । "अथ" शब्दः आरम्भार्थकः गृह्यते चेदेव, "पुरा उक्तस्य योगशास्त्रस्य अनु-(पश्चात्)-उपदेशकं शास्त्रम् आरभ्यते इत्यर्थः भवति ।
[[योगदर्शनम्|योगशास्त्रस्य]] उपदेशात्मकः ग्रन्थः आरम्भ्यते एवं किमर्थम् उक्तम् ? अत्र तु स्वयं योगस्य एव चर्चा भविष्यति । अतः "वेदितव्यम्" इत्यस्य ज्ञानम् आवश्यकम् इत्युक्तम् । योगस्य चर्चायै एव ग्रन्थस्यास्य आरम्भः भवति, परन्तु योगस्य प्रतिपादनं तस्य योगस्य विषये चर्चात्मकस्य ग्रन्थस्य निर्माणेनैव भवितुम् अर्हति । उपदेशकस्य कार्यं साधनेनैव सिद्ध्यति, साक्षात् साध्यस्योपरि प्रवृत्तिना न सिद्ध्यति । उपदेशकस्य कार्यसम्बद्धाय विषयाय चर्चां कर्तुं योगविषयकग्रन्थस्य आरम्भः भवति इत्यर्थः । ग्रन्थस्य विषयः योगः इति ।
आरम्भार्थे प्रयुक्तस्य "अथ" शब्दस्य श्रवणं नीयमानस्य पूर्णकुम्भस्य दर्शनवत् मङ्गलकारकम् अस्ति इति बोध्यम् । योगशब्दस्य प्राथमिकार्थस्य कारणेन उत्पद्यमानानां सन्देहानां निवारणाय "योगः समाधिः" इत्युक्तम् । "युज्" समाधौ इत्यस्मात् धातोः निष्पन्नः योगशब्दः चित्तसमाधानस्य अर्थं बोधयति । अपरत्र "युजिर्" योगे इत्यस्मात् धातोः निष्पन्नः योगशब्दः संयोगं द्योतयति ।
द्वितीयः प्रश्नः समुद्भवति यत्, अग्रे उच्यते, योगरूपिणः अङ्गिनः समाधिः केवलम् अङ्गमात्रम् अस्ति इति । अङ्गाङ्गिनोः एकरूपता कथम् ? । अतः "स च सार्वभौमः चित्तधर्मः" इत्युक्तम् । अर्थात् चित्तस्य सर्वासु भूमिषु उपलब्धः सः तस्य धर्मः अस्ति इति । अत्र प्रयुक्तः "च" (and, और) शब्दः अङ्गाङ्गिनोः भेदं द्योतयति । भूमयः अग्रे उच्यते । सः योगः मधुमती, मधुप्रतीका, विशोका इत्यादिषु चितावस्थायां यत्र केवलं संस्करः अवशिष्टो भवति, तत्र विद्यमानत्वात् सः योगः "सार्वभौमः" चित्तवृत्तिनिरोधकः उच्यते । सः योगाङ्गमात्रात् समाधेः भिन्नः अस्ति ।
अत्र "योग" शब्दः ध्यानार्थे प्रयुक्तः । योगशास्त्रस्य अभ्यासाय, अध्ययनाय च प्रोत्साहनं दातुं तस्य प्रतिपादनं कृतम् अस्ति । अतः अङ्गाङ्गिनोः भेदस्योपरि भारः न प्रदत्तः । योगशब्दस्य उचितार्थः चित्तवृत्तिनिरोधः अस्ति । केषाञ्चन चिन्तनम् अस्ति यत्, वृत्तयः ज्ञानरूपित्वात् आत्मनः आश्रयेण तिष्ठन्ति । अतः वृत्तिनिरोधोऽपि आत्माश्रयेण एव सिद्ध्यतीति । तेषां खण्डनं कर्तुं "चित्तस्य धर्म" इत्युक्तम् । चित्तशब्देन अन्तःकरणरूपिणः बुद्धेः बोधः भवति । ज्ञानं कूटस्थस्य (the supreme soul), नित्यस्य (constantly), अपरिणामिनः (unchangeable) चित्तशक्तेः धर्मः नास्ति, अपि तु बुद्धेः धर्मः भवेत् इति भावः ।
एवं भवेत्, परन्तु चित्तस्य सर्वासु भूमिकासु योगः यदि व्यापकः अस्ति, तर्हि क्षिप्तं, विक्षिप्तं, मूढम् इत्येताः अवस्थाः अपि योगत्वेन परिगण्यन्ते । यतो हि तासु अपि अन्यवृत्तीनाम् अपेक्षया अपरवृत्तीनां निरोधो भवति । अतः योगाय उपयोगिनः, अनुपयोगिनः च भूमेः बोधं कारयितुं "क्षिप्तम्" इत्यादीनां भेदं वर्णयति ।
१. क्षिप्तम् अर्थात् [[रजोगुणः|रजोगुण]]<nowiki/>प्रभावेण तत्सम्बद्धेषु विषयेषु रमणं (निरन्तरं व्यग्रं) । क्षिप्तं स्वाभाविकान्तरयेभ्यः उत व्याधि-स्त्यानादिभ्यः अन्तरायेभ्यः समुत्पद्यते इति बोध्यम् । व्याधि-स्त्यानादयः अन्तरायाः अग्रे वक्ष्यते ।
२. मूढम् अर्थात् [[तमोगुणः|तमोगुण]]<nowiki/>प्रभावेण निद्रावृत्तियुक्तम् ।
३. विक्षिप्तम् अर्थात् क्षिप्तात् विशिष्टम् । विशेष-शब्दः अस्थिरतायां कदाचित् जायमानां स्थिरतां द्योतयति ।
४. निरुद्धम् अर्थाच् सर्वाः वृत्तयः स्थगिताः भवन्ति, केवलं तासु संस्काराः शेषाः भवन्ति तादृशं चित्तम् ।
५. एकाग्रम् अर्थात् एकस्मिन् विषये स्थिरता ।
क्षिप्तं, मूढं च परस्परविरोधिनौ सत्यौ अपि परम्पानुगुणं मोक्षस्य अकारणत्वात्, मोक्षस्य विघातकत्वात्, योगपक्षात् बहु दूरे स्थितत्वात् च तयोः योगभानस्य निषेधः न कृतः । परन्तु विक्षिप्तं चित्तं बहुधा सद्वस्तुषु स्थिरत्वे प्राप्ते सति समाधेः अवस्थाम् अनुभवति, सः योगपक्षे न परिगण्यते । यतो हि तादृशी स्थिरता विपक्षरूपिचञ्चलतायाः गौणपरिणामत्वेन उत्पद्यते । विरोधिपक्षेन सह विद्यमानस्य स्वरूपम् अनिश्चितत्वात् सः स्वयं कारणं भूत्वा कार्यं कथं कर्तुं प्रभवति ? उदा. – त्रिचतुर्क्षणेक्ष्यः [[अग्निः|अग्नौ]] स्थापितं बीजं रोप्यते चेदपि तस्मात् अङ्कुरस्फुटनम् अशक्यम् इति भावः ।
यदि विक्षेपाङ्गुभूतः समाधिः योगः न, तर्हि कः सः योगः ? इत्यस्य प्रश्नस्य उत्तरत्वेन "यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति..." इत्युक्तम् । तेन कथयति यत्, यः समाधिः सद्भूतार्थं द्योतयति, क्लेशान् क्षीणीकरोति, कर्मबन्धनं शिथिलीकरोति, चित्ते निरोधत्वं जनयति च सः योगः उच्यते । "भूत" – उपस्थितशब्देन आरोपितस्य निवृत्तिं करोति । "सत्" इत्यस्मात् उद्भूतं योग्यं, नितान्तं च सत्त्वम् उच्यते । यतो हि निद्रावृत्तौ स्वाववम्बनरूपी "भूत" – उपस्थिते तमोगुणे एकाग्रो भवति । सः तमसः प्रकर्षः क्लेशस्य हेतुत्वात् न शोभनीयः । "प्र-द्योतयति" इत्यत्र "प्र" इत्येषः प्रकर्षस्य सूचनायाः बोधं कारयति । सः प्रकर्षस्य साक्षात्करं दर्शयति । यद्यपि तत्त्वज्ञानस्य द्योतनम् उत प्रकटिकरणं तु आगमैः उत [[अनुमानम्|अनुमानेनापि]] शक्म् अस्ति, तथापि तत् परोक्षरूपित्वात् साक्षात् अनुभूतायाः अविद्यायाः उच्छेदं (विनाशं) कर्तुं न प्रभवति । उभयोः [[चन्द्रः|चन्द्रसोः]] दर्शने सति यदा दिशाभ्रमः भवति, तदा सः भ्रमः केवलं शब्दैः उत अनुमानेन न दूरीभवति । अस्मितादयः क्लेशाः अविद्यामूलत्वात् तथा च विद्या अविद्यायाः नाशकत्वात् च विद्यायाः उदयेन अविद्यादयः क्लेशाः तस्याः विरोधित्वात् कारणनाशे सति नश्यन्ति । अतः "क्षिणोति च क्लेशान्" इत्युक्तम् । अतः कर्मरूपिणः बन्धनानि शिथिलीकरोति । कर्मणा अपूर्वसूचना भवति । कार्ये कारणस्य उपचारः (व्यवहारः) शक्यः भवति । शिथिलीकरोति अर्थात् स्वकार्यात् समुद्भूतानि फलानि स्थगयति । "सति मूले तद्विपाकः (२/१३)" अर्थात् मूले सत्येव कर्मविपाकः भवति इति अग्रे उच्यते । निरोधस्य स्थितिं प्रकटयति । "स च..." इत्यादिभिः सः सम्प्रज्ञातः योगः चतुर्धा इति कथयति ।
"सर्ववृत्ति..." इत्यादिभिः असम्प्रज्ञात-विषये कथयति । रजस्तमस्युक्ताः प्रमाणादिवृत्तयः सत्त्वगुणिवृत्तीनाम् आश्रयं स्वीकृत्य सम्प्रज्ञातसमाधौ निरोधः भवति । असम्प्रज्ञातौ सर्वासां वृत्तीनां निरोधः भवति इत्युक्तम् । मधुमती इत्यादयः भूमयः सम्प्रज्ञातासम्प्रज्ञातयोः समाविष्टाः भवन्ति । तासु भूमिषु व्याप्तत्वात् समाधिः सार्वभौमः चित्तधर्मः उक्तः <ref>{{Cite book|author= रामकृष्ण तुलजाराम व्यास|title=પતંજલિનાં યોગસૂત્રો|publisher=સંસ્કૃત સાહિત્ય અકાદમી, ગાંધીનગર| isbn=978-93-83317-06-6|page=२-७|year=२०१३}}</ref> ।
== राजमार्त्तण्डवृत्तिः ==
अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । युज् समाधौ (धा० पा० ४।६७)। अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम् । तदाऽऽशास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः ।
तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तद्व्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः । अभिधेयस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति - व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते । तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥ १॥
=== वृत्त्यार्थः ===
इत्यनेन सूत्रेण योगशास्त्रस्य सम्बन्धः, अभिधेयः (वर्णयविषयः), उद्देश्यं, अधिकारी इत्येतत् साधनचतुष्टयं कथयति । प्रस्तुतसूत्रे प्रयुक्तः "अथ" शब्दः प्रारम्भार्थकः, मङ्गलार्थकश्च वर्तते । "युज् समाधौ" ([[अष्टाध्यायी|धा. पा.]] [[s:पाणिनीय धातुपाठः|४/६७]]) इति समाध्यर्थकः युज् धातोः "योग" शब्दः निष्पन्नः । अतः "योग" शब्दस्य अर्थः समाधिः भवति (युज् + घञ् = योगः) । एतस्य "योग" शब्दस्य निष्पत्तिः "युजिर् योगे" (धा. पा. ७/७) इत्यस्मात् सूत्रात् नाभवत् । येन लक्षण-प्रकार-साधन-प्रयोजनादिनः सहितस्य शास्त्रस्य अनुशासनं क्रियते, तस्य शास्त्रस्य पुनः व्याख्यानम् उत उपदिष्टसिद्धान्तानां पुनः कथनमेव अनुशानसम् इत्युच्यते । योगानुशासनम् इत्युक्ते, पूर्वोपदिष्टस्य, अनादियोगसिद्धानानां वा पुनः कथनम् । प्रस्तुतशास्त्रस्य समाप्तिपर्यन्तं तस्य योगस्य एव वर्णनम् अस्ति इत्यर्थः ।
तत्र योगशास्त्रस्य व्याखानत्वात्, अत्र साधनेन, फलेन च सह योग एव मुख्यप्रतिपाद्यः विषयः अस्ति । तथा च योगशास्त्रस्य वर्णनम् एव ग्रन्थस्य उद्देशः अस्ति । वर्णितस्य योगशास्त्रस्य कैवल्यम् अर्थात् मोक्ष एव प्रयोजनम् अस्ति । योगशास्त्रस्य वर्ण्यविषयेन सह प्रतिपादकप्रतिपाद्यसम्बन्धः अस्ति । अर्थात् योगशास्त्रं प्रतिपादकम् (वर्णनकर्ता) अस्ति, वर्ण्यविषयः (कृतवर्णनः विषयः) प्रतिपाद्यम् च । वर्ण्यविषयस्य योगेन सह साध्यसाधनसम्बन्धः अस्ति । अर्थात्, वर्ण्यविषयः योगः साधनम् अस्ति, कैवल्यं साध्यञ्च । एतस्य अभिप्रायः भवति यत्, अनेन शास्त्रेण वर्णनीयस्य योगस्य साधनानाम् (उपायानाम्) उपस्थापनं भवति इति । तैः साधनैः सिद्धः योग एव कैवल्यरूपिफलं प्रयच्छति <ref>भोजदेवकृतराजमार्तण्डवृत्तिसमेतम् – पातञ्जलयोगसूत्रम्, भारतीय विद्या प्रकाशन, वाराणसी, पृ. ३-५</ref> ।। १ ।।
== विशेषम् ==
# अथ - एषः शब्दः विविधान् अर्थान् प्रदर्शयति।
#* मङ्गलार्थः (Invocation) - भारतीयवाङ्मये बहुधा आरम्भे, मध्ये, अन्ते च मङ्गलाचरणस्य परम्परा दरीदृश्यते। अतः विविधैः प्रकारैः ग्रन्थकर्ता मङ्गलाचरणं करोति। तत्र मङ्गालर्थकस्य अथ-शब्दस्य अपि बहुधा उपयोगः भवति। अनेन अल्पेन मङ्गलाचरणेन सह विविधाः अन्ये अर्थाः अपि युक्ताः भवन्ति।
#* आरम्भार्थः (The begi'''nn'''ing) - अथ-शब्देन आरम्भः अपि सूच्यते। अत एव अध्यायस्य आरम्भे अपि एतस्य शब्दस्य उपयोगः दरीदृश्यते। एषः शब्दः कस्याऽपि कार्यक्रमस्य, ग्रन्थस्य, विषयस्य, चर्चायाः च आरम्भम् अपि सूचयति। अनेन एतस्य परिवर्तिनः शब्दस्य आरम्भः भवति इति सरलतया, लघुतया च वक्तुं शक्यते।
#* परम्परार्थः (History) - अथ-शब्दः पूर्वस्थितिम् इतिहासम् अपि द्योतयति। यथा - अत्र यस्मिन् विषये उच्यते, तस्मिन् विषये पूर्वाचार्याः अनेकान् विचारान् उपास्थापयन्। तेषां सर्वेषाम् आचार्याणां कथनस्य सङ्कलनम् उत नवीनपद्धत्या उपस्थापनम् अत्र क्रियते इत्यर्थः अपि भवति। एतस्यां स्थित्यां [[हिरण्यगर्भः]] योगशास्त्रस्य आदिप्रवर्तकः उक्तः अस्ति, अतः हिरण्यगर्भात्
#* अधिकारार्थः/पश्चात् (Eligibility/then) -
=== अनुबन्धचतुष्टयम् <ref>{{Cite book|author= श्रीस्वामी ओमानन्द तीर्थ|title=पातञ्जलयोगप्रदीप|publisher=गीताप्रेस, गोरखपुर| isbn=81-293-0011-7|page=१३९-१४०}}</ref> ===
• विषयः – एतस्य शास्त्रस्य कः विषयः अस्ति ? : एतस्य योगशास्त्रस्य प्रयोजनं योगस्य विभिन्नानां भेदानां, साधनानां, फलानां च प्रतिपादनम् अस्ति ।
• प्रयोजनम् - एतस्य शास्त्रस्य किं प्रयोजनम् ? : योगद्वारा स्वरूपस्थितिः एव शास्त्रस्य प्रयोजनम् अस्ति । स्वरूपस्थितिः अर्थात्, अपवर्गः=निःश्रेयः=मोक्षः=कैवल्यम्=आत्मस्थितिः=परमात्मप्राप्तिः ।
• अधिकारी - एतस्य शास्त्रस्य कः अधिकारी ? : कैवल्यस्य मुमुक्षुः साधकः एतस्य अधिकारी भवति ।
• सम्बन्धः – अनेन सः शास्त्रस्य कः सम्बन्धः ? : एतत् दर्शनं योगस्य प्रतिपादनं करोति । अतः एतस्य योगेन सह प्रतिपाद्य-प्रतिपादक-भाव-सम्बन्धः अस्ति । योगः साधनम् अस्ति, कैवल्यं साध्यम् । अतः कैवल्ययोगयोः साध्य-साधन-भाव-सम्बन्धः अस्ति । कैवल्यमुमुक्षुः योगस्य अधिकारी अस्ति । अतः कैवल्यमुमुक्ष्वोः प्राप्य-प्रापक-भाव-सम्बन्धः अस्ति । मुमुक्षु-योगयोः कर्तृ-कर्त्तव्य-भाव-सम्बन्धः अस्ति ।
=== योगस्य प्राचीनपरम्परा ===
"शासनम्" अर्थात् शिक्षा उत उपदेशः । "अनु + शासनम्" अर्थात् येषां विषयाणाम् उपदेशः (शासनं) पूर्वस्मादेव विद्यमानः वर्तते । अतः "अनुशासनम्" इत्यनेन शब्देन भगवता [[पतञ्जलि]]<nowiki/>ना प्राचीनकालात् योगपरम्परायाः अनुवर्तनस्य बोधः कारितः । तस्याः प्राचीनयोगपरम्परायाः वर्णनं श्रुतिस्मृतिषु अपि प्राप्यते । [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[महाभारतम्|महाभारते]], [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतमहापुराणे]], [[ऋग्वेदः|ऋग्वेदे]], [[यजुर्वेदः|यजुर्वेदे]], [[छान्दोग्योपनिषत्|छान्दोग्योपनिषदि]], अद्भुतरामाणे च योगशास्त्रस्य इतिहाससम्बद्धं वर्णनं प्राप्यते ।
<poem>{{cquote|हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः । याज्ञवल्क्यस्मृतिः}}</poem>
<poem>{{cquote| हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः । [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-359 १२/३४९/६५] [[महाभारतम्]]}}</poem>
<poem>{{cquote|हिरण्यगर्भो द्युतिमान् य एषच्छन्दसि स्तुतः ।
योगैः सम्पूज्यते नित्यं स च लोके विभुः स्मृतः ।। १२/३४२/९६ [[महाभारतम्]]}}</poem>
<poem>{{cquote|हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः ।
महानिति च योगेषु विरञ्चीति तथाप्यजः ।। [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-308 १२/३०८/१८] [[महाभारतम्]], [https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४१ २४१/१६] [[ब्रह्मपुराणम्]]}}</poem>
<poem>{{cquote|इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । ५/१९/१३ [[श्रीमद्भागवतमहापुराणम् ]]}}</poem>
<poem>{{cquote|हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।। [https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१०.१२१ १०/१२१/१] [[ऋग्वेदः]], १३/४ [[यजुर्वेदः]]}}</poem>
<poem>{{cquote|अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरणअयश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः । [https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्_१ १/६/६] [[छान्दोग्योपनिषत्]]}}</poem>
उपर्युक्ते सर्वेषु ग्रन्थेषु हिरण्यगर्भः योगदर्शनस्य आदिवक्ता आसीत् अत्युक्तम्, अतः सः हिरण्यगर्भः योगगुरुः अस्ति इति स्वीक्रियते । [[श्वेताश्वतरोपनिषत्|श्वेताश्वतरोपनिषदः]] द्वितीये अध्याये ८-१५ श्लोकेषु योगस्य उपयोगः, महत्त्वं च प्राप्यते । तत्र योगः कथं करणीयः, तेन के लाभाः भवन्ति इत्यपि प्रतिपादितम् । [[कठोपनिषत्|कठोपनिषदः]] द्वितीयाध्याययस्य तृतीयवल्ल्याः १०-१५ श्लोकाः योगपद्धतिं, योगाक्रियां च उपस्थापयन्ति । श्रीम[[भगवद्गीता|द्भगवद्गीता]]<nowiki/>याः अष्टमे अध्याये १०,१२,१३ श्लोकेषु भगवान् [[श्रीकृष्णः]] योगशक्तिं, योगस्वरूपं च [[अर्जुनः|अर्जुनं]] कथयति ।
{{योगसूत्रक्रमः|शीर्षकम्='''पातञ्जलयोगसूत्राणि'''|पूर्वतनम्= ----|अग्रिमम्=[[योगश्चित्तवृत्तिनिरोधः]]}}
== सम्बद्धाः लेखाः ==
[[योगदर्शनम्]]
[[पतञ्जलिः]]
[[अष्टाङ्गयोगः]]
[[हिरण्यगर्भः]]
== बाह्यसम्पर्कतन्तुः ==
{{Wikisourcelang|अथ योगानुशासनम्}}
* http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
* http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
* https://www.youtube.com/watch?v=uUmg-2Y6KcM
== उद्धरणम् ==
{{reflist}}
== अधिकवाचनाय ==
[http://sanskritdocuments.org/doc_yoga/yogasuutra.html?lang=sa पतञ्जलियोगसूत्रम्]
[http://yogasutrastudy.info/ योगसूत्राणि शृण्वन्तु]
[http://sanskritforchanting.com/pdfs/yogasutram.pdf आङ्ग्लानुवादेन सह योगसूत्रम्]
[http://hinduonline.co/DigitalLibrary/SmallBooks/PatanjaliYogaSutraSwamiVivekanandaSanEng.pdf स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः]
{{शिखरं गच्छतु}}
[[वर्गः:समाधिपादः]]
[[वर्गः:न प्राप्तः योगसम्बद्धभाषानुबन्धः]]
[[वर्गः:योगसूत्राणि]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
l6x664efzpb103ablt54sfkn07c78pp
470167
470166
2022-08-21T11:02:39Z
NehalDaveND
9230
/* विशेषम् */
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox settlement
|name= अथ योगानुसाशनम्
|native_name = <br>'''[[समाधिपादः|समाधिपादस्य]] प्रप्रथमं सूत्रम्'''
|image = [[चित्रम्:अथ योगानुसाशनम्.jpg|350px]]
| subdivision_type = सूत्रसङ्ख्या
| subdivision_name = १/१
| subdivision_type1 = सूत्रप्रकारः
| subdivision_name1 = अधिकारसूत्रम्
| subdivision_type2 = पूर्वसूत्रम्
| subdivision_name2 = ----
| subdivision_type3 = अग्रिमं सूत्रम्
| subdivision_name3 = [[योगश्चित्तवृत्ति निरोधः (योगसूत्रम्)|योगश्चित्तवृत्ति निरोधः]]
}}
'''अथ योगानुसाशनम्''' ({{IPA audio link|अथ योगानुशासनं.wav}} {{IPAc-en|ˈ|ə|θ|_|j|oː|g|aː|n|ʊ|S|aː|s|ə|n|ə|m}}) इत्येतत् [[पातञ्जलयोगसूत्र]]<nowiki/>स्य प्रथमस्य [[समाधिपाद]]स्य प्रप्रथमं सूत्रं विद्यते ।
== सूत्रान्वयः ==
अथ = अत्र आरभ्यते । योग + अनुशासनम् = (अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य) योग इत्याख्यस्य शास्त्रस्य आरम्भः भवति ।
== सूत्रार्थः ==
अत्र अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य योगशास्त्रस्य आरम्भः भवति ।
== व्यासभाष्यम् ==
अथेत्ययमधिकारार्थः । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् । योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्तं, मूढं, विक्षिप्तम्, एकाग्रं, निरुद्धमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते । यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमभिमुखं करोति, स सम्प्रज्ञातो योग इत्याख्यायते । स च वितर्कानुगतः, विचारानुगतः, आनन्दानुगतोऽस्मितानुगत इत्युपरिष्ठात्प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥१॥
=== भाष्यार्थः ===
"अथ" इत्यस्य शब्दस्य प्रयोगः अधिकारार्थे, आरम्भार्थे च कृतः । [[अष्टाङ्गयोगः|योगाङ्गानाम्]] उदपदेशकस्य शास्त्रस्य आरम्भः भवति इति भावः । योग इत्युक्ते [[समाधिः]] । चित्तस्य सर्वासु भूमिषु विद्यमानः चित्तस्य धर्म एव योगः । अर्थात् चित्ते सर्वत्र व्याप्तः धर्म एव योग इत्यर्थः । चित्तस्य पञ्चभूमयः सन्ति । यथा – क्षिप्तचित्तं (व्यग्रता), मूढचित्तं (स्मृतिशून्यता), विक्षिप्तचित्तं (प्रसङ्गेषु स्थिरता), एकाग्रचित्तं, निरुद्धचित्तं च । विक्षेपानन्तरं विक्षिप्ते चित्ते गौणरीत्या अनुभूयमाना स्थिरता योगपक्षत्वेन न परिगण्यते । परन्तु एकाग्रे चित्ते यस्याः उपस्थितिः विद्यते, या सत्पदार्थान् प्रकाशयति, या क्लेशान् क्षिणोति (क्षीणं करोति), या कर्मबन्धनान् शिथिलीकरोति (शिथिलं करोति), या निरोधस्थितिं जनयति, सा सम्प्रज्ञातस्य समाधेः अवस्था एव योग इत्युच्यते । अग्रे सः (योगः) वितर्केण, विचारेण, आनन्देन, अस्मितया च युक्तोस्ति इति कथयिष्यामः । सर्वासां वृत्तीनां निरोध एव असम्प्रज्ञातः (विशुद्धा अपगतचेतनावस्था, unconscious) समाधिः उच्यते <ref>{{Cite book|author= रामकृष्ण तुलजाराम व्यास|title=પતંજલિનાં યોગસૂત્રો|publisher=સંસ્કૃત સાહિત્ય અકાદમી, ગાંધીનગર| isbn=978-93-83317-06-6|page=१|year=२०१३}}</ref>।
== तत्त्ववैशारदीभाष्यम् ==
इह हि भगवान्पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य संक्षेपतस्तात्पर्यार्थं प्रेक्षावत्पवृत्त्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादाविदं सूत्रं रचयाञ्चकार - अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं न्याचष्टे – अथेत्ययमधिकारार्थः । 'अथैष ज्योति'रितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति ह शास्त्रमाह 0 अनुशिष्यतेऽनेनेति व्युत्पत्त्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाम्नायते - तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवत्मानं पश्येत् (बृ. ४/४/२३) इति । शिश्यप्रश्नतपश्चरणरसायनाद्युपयोगानन्तर्यस्य च सम्भवेऽपि नाभिनाधनम् । शिष्यप्रतीतिप्रवृत्त्योरनुपयोगात्प्रमाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वादप्रामाणिकत्वे च तद्भावेऽपि हेयत्वात् ।। एतेन तत्त्वज्ञानचिख्यापयिषयोरानन्तर्याभिधानं परास्तात् ।। अधिकारार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रवर्तितश्च भवतीति । निःश्रेयस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् । ननु किं सर्वसन्दर्भगतोऽथशब्दोऽधिकारार्थः, तथा स'त्यथातो ब्रह्मजिज्ञासा' (ब्र.सू. १/१/१) इत्यादावपि प्रसङ्ग इत्यत आह अयमिति । ननु - "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्रकर्तृत्वमित्याशङ्क्य सूत्रकारेणानुशासनमित्युक्तम् । शिष्टस्यानुशासनं न तु शासनमित्यर्थः । यदायमथशब्दोऽधिकारार्थस्तदैष वाक्यार्थः सम्पद्यत इत्याह – योगानुशासनं शास्त्रमधइकृतमिति । ननु व्यत्पाद्यमानत्या योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह – वेदितव्यमिति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः । स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्यत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्रव्यापारगोचरतया तु योग एवाधिकृत इति भावः । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानोदकुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् । शब्दसन्देहनिमित्तमर्थसन्देहमपनयति – योगः समाधिरिति । युज् समाधौ (धा.पा. ४-६७) इत्युस्माद्व्युत्पन्नः समाध्यर्थो न तु युजिर् योगे (धा.पा. ७/७) इत्यस्मात्संयोगार्थ इत्यर्थः । ननु समाधिरपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम् । न चाङ्गमेवाङ्गीत्यत आह – स च सार्वभौमः । चस्त्वर्थोऽङ्गादङ्गिनं भिनत्ति । भूमयोऽवस्था वक्ष्यमाणा मधुमती-मधुप्रतीका-विशोका-संस्कारशेषास्ताश्चित्तस्य । तासु सर्वासु विदितः सार्वभौमश्चित्तवृत्तिनिरोधलक्षणो योगः । तदङ्गं तु समाधिर्नैवम्भूतः । व्युत्पत्तिनिमित्तमाज्ञाभिधानं चैतद्योगः समाधिरिति । अङ्गाङ्गिनोरभेदविवक्षामात्रेण प्रवृत्तिनिमित्तं योगशब्दस्य चित्तवृत्तिनिरोध एवेति परमार्थः । वृत्तयो ज्ञानन्यात्माश्रयाण्यतस्तन्निरोधोऽप्यात्माश्रय एवेति ये पश्यन्ति तन्नरासायाह – चित्तस्य धर्म इति । चित्तशब्देनान्तःकरणं बुद्धिमुपलक्षयति । न हि कूचस्थनित्या चितिशक्तिरपरिणामिनी ज्ञानधर्मा भवितुमर्हति बुद्धिस्तु भवेदिति भावः । स्यादेतत् – सार्वभौमश्चेद्योगो हन्त भोः क्षिप्तमूढविक्षिप्ता अपि चित्तभूमयः । अस्ति चपरस्परापेक्षया वृत्तिनिरोधोऽप्यास्विति तत्रापि योगत्वप्रसङ्ग इत्याशङ्क्य हेयोपादेयभूमीरूपयन्यस्यति – क्षिप्तमित्यादि । क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्यमस्थिरम् । मूढं तु तमःसमुद्रेकान्नद्रावृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषो स्थेमबहुलस्य कादाचित्कः स्थेमा । सा चास्यास्थमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यनन्तरायजनिता वा । एकाग्रमेकतानम् । निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम् । तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्तिनरोधे पारम्पर्येणापि निःश्रेयसतेहुभावाभावत्तद्रूघोतकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति न तयोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्कस्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वमिति निषेधति । तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कः सम्भूतविषयश्चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात्, यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं, प्रागेव कार्यकरणम् । न खलु दहनानन्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यङ्कुराय कल्पय इति भावः ।
यदि विक्षेपोपसर्जनीभूतः समाधिर्न योगः कस्तर्हीत्यत आह – यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाग्रेत्यत उक्तम् – सदिति । शोभनं नितान्ताविर्भूतं सत्त्वम् । तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि तत्त्वज्ञानमागमाद्वानुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यानुच्छिनत्ति द्विचन्द्रदिङ्मोहादिष्वनुच्छेदकत्वादत आह – प्रेति । प्रशब्दो हि प्रकर्षं द्योतयन्साक्षात्कारं सूचयति । अविद्यामूलत्वादस्मितादीनां क्लेशानां, विद्यायाश्चाविद्योच्छेदपूत्वाद्विद्योदये चाविद्यादिक्लेशसमुच्छेदो विरोधित्वात्कारणविनाशाच्चेत्याह – क्षिणोति चेति । अत एव कर्मरूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वमभिमतं कार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसादयति । वक्ष्यति हि 'सति मूले तद्विपाकः' (२/१३) इति । किं च निरोधमभिमुखं करोत्यभिमुखीकरोति । स च सम्प्रज्ञातश्चतुष्प्रकार इत्याह – स चेति । असम्प्रज्ञातमाह – सर्ववृत्तीति । रजस्तमोमयी किल प्रमाणादिवृत्तिः सात्त्विकीं वृत्तिमुपादाय सम्प्रज्ञाते निरुद्धा । असम्प्रज्ञाते तु सर्वासामेव निरोधः इत्यर्थः । तदिह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्वभौम इति सिद्धम् ।। १ ।।
=== भाष्यार्थः ===
आरभ्यमाणस्य विषयस्य संक्षेपेण उपस्थापनार्थं, बुद्धिमतां प्रवृत्त्यै, श्रोतॄणां सरलतया अवबोधनार्थं च भगवान् [[पतञ्जलिः]] प्रप्रथमसूत्रत्वेन 'अथ योगानुशासनम्' इति सूत्रं व्यरचयत् । यथा "अथ एष ज्योतिः" इत्यत्र इतः परम् अत्र प्रकाशः अभवत् इत्यर्थे प्रयुक्तः, तथा इतः परम् इति भावं न द्योतयति । सूत्रे प्रयुक्तेन "अथ" इत्यनेन शब्देन सः कथयति यत्, अत्र अथ इति शब्दः आरम्भार्थे प्रयुक्तोऽस्ति । अनुशासनम् अर्थात् उपदेशात्मकं शास्त्रम् । येन अनुशासनं क्रियते तत् शास्त्रम् । एतस्य शास्त्रस्य प्रवृत्तिः शमदमादीनामनन्तरं न भवति, अपि तु तत्त्वज्ञानस्य व्याख्यानस्य इच्छायै उत गुरोः तत्त्वविषयकं ज्ञानप्राप्तेः इच्छायै भवति । तत्त्वज्ञानस्य विषये वक्तुं, ज्ञातुं च या इच्छा भवति, तस्याः समनन्तरं तत्त्वं ज्ञातुम् इच्छा, तत्त्वज्ञानं च उत्पद्यते । यथा वेदे उक्तं - "अतः शान्तः, दान्तः, उपरतः, तितिक्षुः, समाहितः च भूत्वा आत्मनि एव आत्मानं पश्यति" इति (बृ. उ. ४/४/२३) । यद्यपि शिष्येभ्यः प्रश्नः, तपः, रसायणम् इत्यादीनाम् उपयुक्तं ज्ञानं दत्त्वा शास्त्रनिर्माणं सम्भवः आसीत्, तथापि अत्र तानि शास्त्राणि न उक्तानि । यतो हि योगशास्त्रस्य प्रामाण्ये शिष्यस्य प्रतीतिः (अवगमनं), प्रवृत्तिः च अनुपयुक्ते स्तः । तयोः अभावे सत्यपि योगशास्त्रम् उपादेयम् अस्ति (to be allowed) । शिष्येषु प्रतीतिः, प्रवृत्तिः च सत्यायाम् अपि यदि शास्त्रम् अप्रामाणिकं स्यात्, तर्हि शास्त्रस्य निर्माणं न करणीयम् । एवं तत्त्वज्ञाने, तस्य व्याख्यायाः इच्छायां च आनन्तर्यम् अस्ति इति कथनस्य निराकणम् अभवत् । अत्र प्रयुक्तेन "अथ" शब्देन प्रारम्भः इत्यर्थं स्वीकुर्मः चेत्, शास्त्रैः यस्य प्रारम्भः, उपस्थापनं च भवति, सः योगः इति अर्थबोधः भवति । तेन योगेन सर्वेषां शास्त्राणां तात्पर्यार्थस्य व्याख्यानेन (बोधयित्वा, to teach) शिष्याः सरलताय बोधयितुं शक्यन्ते । यतो हि [[वेदः|श्रुतिषु]], [[स्मृतयः|स्मृतिषु]] [[इतिहासः|इतिहासेषु]], [[पुराणानि|पुराणेषु]] च समाधिः मोक्षस्य हेतुत्वेन प्रसिद्धः अस्ति ।
प्रथमः प्रश्नः समुत्पद्यते यत्, किं सर्वेषु सन्दर्भेषु "अथ" शब्दः आरम्भार्थे एव स्वीक्रियते ? यदि एवं भवति, तर्हि "[[अथातो ब्रह्म जिज्ञासा]]" इत्यादिषु अपि आरम्भार्थकः "अथ" शब्दः स्वीकरणीयः भवति । अतः "अत्र" (योगशास्त्रं यावत्) इत्युक्तम् । तथा च [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]] उक्तम् अस्ति यत्, "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति । एवं पतञ्जलिः योगशास्त्रस्य कर्ता कथं भवितुम् अर्हति ? इति शङ्कायाः समाधानाय सूत्रकारेण "अनुशासनम्" इत्यस्य शब्दस्य प्रयोगः कृतः । अग्रे उपदिष्टस्य पुनरुपदेशः अस्ति, न तु शासनत्वेन अर्थः ग्रहणीयः । "अथ" शब्दः आरम्भार्थकः गृह्यते चेदेव, "पुरा उक्तस्य योगशास्त्रस्य अनु-(पश्चात्)-उपदेशकं शास्त्रम् आरभ्यते इत्यर्थः भवति ।
[[योगदर्शनम्|योगशास्त्रस्य]] उपदेशात्मकः ग्रन्थः आरम्भ्यते एवं किमर्थम् उक्तम् ? अत्र तु स्वयं योगस्य एव चर्चा भविष्यति । अतः "वेदितव्यम्" इत्यस्य ज्ञानम् आवश्यकम् इत्युक्तम् । योगस्य चर्चायै एव ग्रन्थस्यास्य आरम्भः भवति, परन्तु योगस्य प्रतिपादनं तस्य योगस्य विषये चर्चात्मकस्य ग्रन्थस्य निर्माणेनैव भवितुम् अर्हति । उपदेशकस्य कार्यं साधनेनैव सिद्ध्यति, साक्षात् साध्यस्योपरि प्रवृत्तिना न सिद्ध्यति । उपदेशकस्य कार्यसम्बद्धाय विषयाय चर्चां कर्तुं योगविषयकग्रन्थस्य आरम्भः भवति इत्यर्थः । ग्रन्थस्य विषयः योगः इति ।
आरम्भार्थे प्रयुक्तस्य "अथ" शब्दस्य श्रवणं नीयमानस्य पूर्णकुम्भस्य दर्शनवत् मङ्गलकारकम् अस्ति इति बोध्यम् । योगशब्दस्य प्राथमिकार्थस्य कारणेन उत्पद्यमानानां सन्देहानां निवारणाय "योगः समाधिः" इत्युक्तम् । "युज्" समाधौ इत्यस्मात् धातोः निष्पन्नः योगशब्दः चित्तसमाधानस्य अर्थं बोधयति । अपरत्र "युजिर्" योगे इत्यस्मात् धातोः निष्पन्नः योगशब्दः संयोगं द्योतयति ।
द्वितीयः प्रश्नः समुद्भवति यत्, अग्रे उच्यते, योगरूपिणः अङ्गिनः समाधिः केवलम् अङ्गमात्रम् अस्ति इति । अङ्गाङ्गिनोः एकरूपता कथम् ? । अतः "स च सार्वभौमः चित्तधर्मः" इत्युक्तम् । अर्थात् चित्तस्य सर्वासु भूमिषु उपलब्धः सः तस्य धर्मः अस्ति इति । अत्र प्रयुक्तः "च" (and, और) शब्दः अङ्गाङ्गिनोः भेदं द्योतयति । भूमयः अग्रे उच्यते । सः योगः मधुमती, मधुप्रतीका, विशोका इत्यादिषु चितावस्थायां यत्र केवलं संस्करः अवशिष्टो भवति, तत्र विद्यमानत्वात् सः योगः "सार्वभौमः" चित्तवृत्तिनिरोधकः उच्यते । सः योगाङ्गमात्रात् समाधेः भिन्नः अस्ति ।
अत्र "योग" शब्दः ध्यानार्थे प्रयुक्तः । योगशास्त्रस्य अभ्यासाय, अध्ययनाय च प्रोत्साहनं दातुं तस्य प्रतिपादनं कृतम् अस्ति । अतः अङ्गाङ्गिनोः भेदस्योपरि भारः न प्रदत्तः । योगशब्दस्य उचितार्थः चित्तवृत्तिनिरोधः अस्ति । केषाञ्चन चिन्तनम् अस्ति यत्, वृत्तयः ज्ञानरूपित्वात् आत्मनः आश्रयेण तिष्ठन्ति । अतः वृत्तिनिरोधोऽपि आत्माश्रयेण एव सिद्ध्यतीति । तेषां खण्डनं कर्तुं "चित्तस्य धर्म" इत्युक्तम् । चित्तशब्देन अन्तःकरणरूपिणः बुद्धेः बोधः भवति । ज्ञानं कूटस्थस्य (the supreme soul), नित्यस्य (constantly), अपरिणामिनः (unchangeable) चित्तशक्तेः धर्मः नास्ति, अपि तु बुद्धेः धर्मः भवेत् इति भावः ।
एवं भवेत्, परन्तु चित्तस्य सर्वासु भूमिकासु योगः यदि व्यापकः अस्ति, तर्हि क्षिप्तं, विक्षिप्तं, मूढम् इत्येताः अवस्थाः अपि योगत्वेन परिगण्यन्ते । यतो हि तासु अपि अन्यवृत्तीनाम् अपेक्षया अपरवृत्तीनां निरोधो भवति । अतः योगाय उपयोगिनः, अनुपयोगिनः च भूमेः बोधं कारयितुं "क्षिप्तम्" इत्यादीनां भेदं वर्णयति ।
१. क्षिप्तम् अर्थात् [[रजोगुणः|रजोगुण]]<nowiki/>प्रभावेण तत्सम्बद्धेषु विषयेषु रमणं (निरन्तरं व्यग्रं) । क्षिप्तं स्वाभाविकान्तरयेभ्यः उत व्याधि-स्त्यानादिभ्यः अन्तरायेभ्यः समुत्पद्यते इति बोध्यम् । व्याधि-स्त्यानादयः अन्तरायाः अग्रे वक्ष्यते ।
२. मूढम् अर्थात् [[तमोगुणः|तमोगुण]]<nowiki/>प्रभावेण निद्रावृत्तियुक्तम् ।
३. विक्षिप्तम् अर्थात् क्षिप्तात् विशिष्टम् । विशेष-शब्दः अस्थिरतायां कदाचित् जायमानां स्थिरतां द्योतयति ।
४. निरुद्धम् अर्थाच् सर्वाः वृत्तयः स्थगिताः भवन्ति, केवलं तासु संस्काराः शेषाः भवन्ति तादृशं चित्तम् ।
५. एकाग्रम् अर्थात् एकस्मिन् विषये स्थिरता ।
क्षिप्तं, मूढं च परस्परविरोधिनौ सत्यौ अपि परम्पानुगुणं मोक्षस्य अकारणत्वात्, मोक्षस्य विघातकत्वात्, योगपक्षात् बहु दूरे स्थितत्वात् च तयोः योगभानस्य निषेधः न कृतः । परन्तु विक्षिप्तं चित्तं बहुधा सद्वस्तुषु स्थिरत्वे प्राप्ते सति समाधेः अवस्थाम् अनुभवति, सः योगपक्षे न परिगण्यते । यतो हि तादृशी स्थिरता विपक्षरूपिचञ्चलतायाः गौणपरिणामत्वेन उत्पद्यते । विरोधिपक्षेन सह विद्यमानस्य स्वरूपम् अनिश्चितत्वात् सः स्वयं कारणं भूत्वा कार्यं कथं कर्तुं प्रभवति ? उदा. – त्रिचतुर्क्षणेक्ष्यः [[अग्निः|अग्नौ]] स्थापितं बीजं रोप्यते चेदपि तस्मात् अङ्कुरस्फुटनम् अशक्यम् इति भावः ।
यदि विक्षेपाङ्गुभूतः समाधिः योगः न, तर्हि कः सः योगः ? इत्यस्य प्रश्नस्य उत्तरत्वेन "यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति..." इत्युक्तम् । तेन कथयति यत्, यः समाधिः सद्भूतार्थं द्योतयति, क्लेशान् क्षीणीकरोति, कर्मबन्धनं शिथिलीकरोति, चित्ते निरोधत्वं जनयति च सः योगः उच्यते । "भूत" – उपस्थितशब्देन आरोपितस्य निवृत्तिं करोति । "सत्" इत्यस्मात् उद्भूतं योग्यं, नितान्तं च सत्त्वम् उच्यते । यतो हि निद्रावृत्तौ स्वाववम्बनरूपी "भूत" – उपस्थिते तमोगुणे एकाग्रो भवति । सः तमसः प्रकर्षः क्लेशस्य हेतुत्वात् न शोभनीयः । "प्र-द्योतयति" इत्यत्र "प्र" इत्येषः प्रकर्षस्य सूचनायाः बोधं कारयति । सः प्रकर्षस्य साक्षात्करं दर्शयति । यद्यपि तत्त्वज्ञानस्य द्योतनम् उत प्रकटिकरणं तु आगमैः उत [[अनुमानम्|अनुमानेनापि]] शक्म् अस्ति, तथापि तत् परोक्षरूपित्वात् साक्षात् अनुभूतायाः अविद्यायाः उच्छेदं (विनाशं) कर्तुं न प्रभवति । उभयोः [[चन्द्रः|चन्द्रसोः]] दर्शने सति यदा दिशाभ्रमः भवति, तदा सः भ्रमः केवलं शब्दैः उत अनुमानेन न दूरीभवति । अस्मितादयः क्लेशाः अविद्यामूलत्वात् तथा च विद्या अविद्यायाः नाशकत्वात् च विद्यायाः उदयेन अविद्यादयः क्लेशाः तस्याः विरोधित्वात् कारणनाशे सति नश्यन्ति । अतः "क्षिणोति च क्लेशान्" इत्युक्तम् । अतः कर्मरूपिणः बन्धनानि शिथिलीकरोति । कर्मणा अपूर्वसूचना भवति । कार्ये कारणस्य उपचारः (व्यवहारः) शक्यः भवति । शिथिलीकरोति अर्थात् स्वकार्यात् समुद्भूतानि फलानि स्थगयति । "सति मूले तद्विपाकः (२/१३)" अर्थात् मूले सत्येव कर्मविपाकः भवति इति अग्रे उच्यते । निरोधस्य स्थितिं प्रकटयति । "स च..." इत्यादिभिः सः सम्प्रज्ञातः योगः चतुर्धा इति कथयति ।
"सर्ववृत्ति..." इत्यादिभिः असम्प्रज्ञात-विषये कथयति । रजस्तमस्युक्ताः प्रमाणादिवृत्तयः सत्त्वगुणिवृत्तीनाम् आश्रयं स्वीकृत्य सम्प्रज्ञातसमाधौ निरोधः भवति । असम्प्रज्ञातौ सर्वासां वृत्तीनां निरोधः भवति इत्युक्तम् । मधुमती इत्यादयः भूमयः सम्प्रज्ञातासम्प्रज्ञातयोः समाविष्टाः भवन्ति । तासु भूमिषु व्याप्तत्वात् समाधिः सार्वभौमः चित्तधर्मः उक्तः <ref>{{Cite book|author= रामकृष्ण तुलजाराम व्यास|title=પતંજલિનાં યોગસૂત્રો|publisher=સંસ્કૃત સાહિત્ય અકાદમી, ગાંધીનગર| isbn=978-93-83317-06-6|page=२-७|year=२०१३}}</ref> ।
== राजमार्त्तण्डवृत्तिः ==
अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । युज् समाधौ (धा० पा० ४।६७)। अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम् । तदाऽऽशास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः ।
तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तद्व्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः । अभिधेयस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति - व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते । तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥ १॥
=== वृत्त्यार्थः ===
इत्यनेन सूत्रेण योगशास्त्रस्य सम्बन्धः, अभिधेयः (वर्णयविषयः), उद्देश्यं, अधिकारी इत्येतत् साधनचतुष्टयं कथयति । प्रस्तुतसूत्रे प्रयुक्तः "अथ" शब्दः प्रारम्भार्थकः, मङ्गलार्थकश्च वर्तते । "युज् समाधौ" ([[अष्टाध्यायी|धा. पा.]] [[s:पाणिनीय धातुपाठः|४/६७]]) इति समाध्यर्थकः युज् धातोः "योग" शब्दः निष्पन्नः । अतः "योग" शब्दस्य अर्थः समाधिः भवति (युज् + घञ् = योगः) । एतस्य "योग" शब्दस्य निष्पत्तिः "युजिर् योगे" (धा. पा. ७/७) इत्यस्मात् सूत्रात् नाभवत् । येन लक्षण-प्रकार-साधन-प्रयोजनादिनः सहितस्य शास्त्रस्य अनुशासनं क्रियते, तस्य शास्त्रस्य पुनः व्याख्यानम् उत उपदिष्टसिद्धान्तानां पुनः कथनमेव अनुशानसम् इत्युच्यते । योगानुशासनम् इत्युक्ते, पूर्वोपदिष्टस्य, अनादियोगसिद्धानानां वा पुनः कथनम् । प्रस्तुतशास्त्रस्य समाप्तिपर्यन्तं तस्य योगस्य एव वर्णनम् अस्ति इत्यर्थः ।
तत्र योगशास्त्रस्य व्याखानत्वात्, अत्र साधनेन, फलेन च सह योग एव मुख्यप्रतिपाद्यः विषयः अस्ति । तथा च योगशास्त्रस्य वर्णनम् एव ग्रन्थस्य उद्देशः अस्ति । वर्णितस्य योगशास्त्रस्य कैवल्यम् अर्थात् मोक्ष एव प्रयोजनम् अस्ति । योगशास्त्रस्य वर्ण्यविषयेन सह प्रतिपादकप्रतिपाद्यसम्बन्धः अस्ति । अर्थात् योगशास्त्रं प्रतिपादकम् (वर्णनकर्ता) अस्ति, वर्ण्यविषयः (कृतवर्णनः विषयः) प्रतिपाद्यम् च । वर्ण्यविषयस्य योगेन सह साध्यसाधनसम्बन्धः अस्ति । अर्थात्, वर्ण्यविषयः योगः साधनम् अस्ति, कैवल्यं साध्यञ्च । एतस्य अभिप्रायः भवति यत्, अनेन शास्त्रेण वर्णनीयस्य योगस्य साधनानाम् (उपायानाम्) उपस्थापनं भवति इति । तैः साधनैः सिद्धः योग एव कैवल्यरूपिफलं प्रयच्छति <ref>भोजदेवकृतराजमार्तण्डवृत्तिसमेतम् – पातञ्जलयोगसूत्रम्, भारतीय विद्या प्रकाशन, वाराणसी, पृ. ३-५</ref> ।। १ ।।
== विशेषम् ==
# अथ - एषः शब्दः विविधान् अर्थान् प्रदर्शयति।
## मङ्गलार्थः (Invocation) - भारतीयवाङ्मये बहुधा आरम्भे, मध्ये, अन्ते च मङ्गलाचरणस्य परम्परा दरीदृश्यते। अतः विविधैः प्रकारैः ग्रन्थकर्ता मङ्गलाचरणं करोति। तत्र मङ्गालर्थकस्य अथ-शब्दस्य अपि बहुधा उपयोगः भवति। अनेन अल्पेन मङ्गलाचरणेन सह विविधाः अन्ये अर्थाः अपि युक्ताः भवन्ति। उक्तञ्च -
ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ।।
## आरम्भार्थः (The begi'''nn'''ing) - अथ-शब्देन आरम्भः अपि सूच्यते। अत एव अध्यायस्य आरम्भे अपि एतस्य शब्दस्य उपयोगः दरीदृश्यते। एषः शब्दः कस्याऽपि कार्यक्रमस्य, ग्रन्थस्य, विषयस्य, चर्चायाः च आरम्भम् अपि सूचयति। अनेन एतस्य परिवर्तिनः शब्दस्य आरम्भः भवति इति सरलतया, लघुतया च वक्तुं शक्यते।
## इतः/आनन्तर्यम् (From Here/After this) - बहुधा एकस्य शास्त्रस्य उत विषयस्य अध्यययनोत्तरम् एव अपरस्य शास्त्रस्य अध्ययनं भवति। एकस्य विषयस्य समाप्तौ अपरस्य विषयस्य आरम्भदर्शनाय अपि अथ-शब्दस्य उपयोगः दरीदृश्यते। यथा - [[अथातो ब्रह्मजिज्ञासा]], अथ प्रजानामधिपः प्रभाते... (रघुवंशश्लोकः)।
## अधिकारार्थः/पश्चात् (Eligibility/then) - योगशास्त्रस्य अध्ययनात् प्राक् तदर्थम् अधिकारी भवनीयं भवति। अर्थात्, मुमुक्षुत्वं, योगपरम्परायाः आरम्भिकाध्ययनं, मीमांसायाः अध्ययनं च। ततः अधिकारः प्राप्यते। एतस्य अथ-शब्दस्य एव पश्चात् इत्यर्थे अपि स्वीकारः भवति, यत्र कस्य पश्चात् इति जिज्ञासायां सत्यां मुमुक्षुत्वादिकस्य सर्वविधविषयस्य अन्तर्भावः भवति। अधिकारस्य ज्ञानाय अनुबन्धचतुष्टयस्य अपि आवश्यकता भवति। तेन अपि अधिकारस्य ज्ञानं भवति।
##* अनुबन्धचतुष्टयम् <ref>{{Cite book|author= श्रीस्वामी ओमानन्द तीर्थ|title=पातञ्जलयोगप्रदीप|publisher=गीताप्रेस, गोरखपुर| isbn=81-293-0011-7|page=१३९-१४०}}</ref> - विषयः, प्रयोजनम्, अधिकारी, सम्बन्धः च इत्येते चत्वारः अनुबन्धाः स्पष्टयन्ति यत्, पाठकः उपस्थापिताय विषयाय अधिकारी अस्ति उत न। योगशास्त्रस्य सन्दर्भे अनुबन्धचतुष्टयं निम्नानुसारम् अस्ति।
• '''<u>विषयः (Subject) –</u>''' एतस्य शास्त्रस्य कः विषयः अस्ति ? : एतस्य योगशास्त्रस्य प्रयोजनं योगस्य विभिन्नानां भेदानां, साधनानां, फलानां च प्रतिपादनम् अस्ति ।
• '''<u>प्रयोजनम् (Goal) -</u>''' एतस्य शास्त्रस्य किं प्रयोजनम् ? : योगद्वारा स्वरूपस्थितिः एव शास्त्रस्य प्रयोजनम् अस्ति । स्वरूपस्थितिः अर्थात्, अपवर्गः=निःश्रेयः=मोक्षः=कैवल्यम्=आत्मस्थितिः=परमात्मप्राप्तिः ।
• '''<u>अधिकारी (Eligible) -</u>''' एतस्य शास्त्रस्य कः अधिकारी ? : कैवल्यस्य मुमुक्षुः साधकः एतस्य अधिकारी भवति ।
• '''<u>सम्बन्धः (Relation) –</u>''' अनेन सह शास्त्रस्य कः सम्बन्धः ? : एतत् दर्शनं योगस्य प्रतिपादनं करोति । अतः एतस्य योगेन सह प्रतिपाद्य-प्रतिपादक-भाव-सम्बन्धः अस्ति । योगः साधनम् अस्ति, कैवल्यं (Final '''emancipation''') साध्यम् । अतः कैवल्ययोगयोः साध्य(Goal)-साधन(Instrument)-भाव-सम्बन्धः(Relationship) अस्ति । कैवल्यमुमुक्षुः योगस्य अधिकारी अस्ति । अतः कैवल्यमुमुक्ष्वोः प्राप्य(achievable)-प्रापक(recipient)-भाव-सम्बन्धः अस्ति । मुमुक्षु-योगयोः कर्तृ-कर्त्तव्य-भाव-सम्बन्धः अस्ति
'''योगस्य प्राचीनपरम्परा -'''
अथ-शब्दः पूर्वस्थितिम् इतिहासम् अपि द्योतयति। यथा - अत्र यस्मिन् विषये उच्यते, तस्मिन् विषये पूर्वाचार्याः अनेकान् विचारान् उपास्थापयन्। तेषां सर्वेषाम् आचार्याणां कथनस्य सङ्कलनम् उत नवीनपद्धत्या उपस्थापनम् अत्र क्रियते इत्यर्थः अपि भवति। एतस्यां स्थित्यां [[हिरण्यगर्भः]] योगशास्त्रस्य आदिप्रवर्तकः उक्तः अस्ति, अतः हिरण्यगर्भात् पतञ्जलिं यावत् येऽपि योगवैज्ञानिकाः जाताः, तेषां सर्वेषाम्, तेषां ग्रन्थानां च अपि अथ-शब्देन सङ्केतः भवति।
"शासनम्" अर्थात् शिक्षा उत उपदेशः । "अनु + शासनम्" अर्थात् येषां विषयाणाम् उपदेशः (शासनं) पूर्वस्मादेव विद्यमानः वर्तते । अतः "अनुशासनम्" इत्यनेन शब्देन भगवता [[पतञ्जलि]]<nowiki/>ना प्राचीनकालात् योगपरम्परायाः अनुवर्तनस्य बोधः कारितः । तस्याः प्राचीनयोगपरम्परायाः वर्णनं श्रुतिस्मृतिषु अपि प्राप्यते । [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[महाभारतम्|महाभारते]], [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतमहापुराणे]], [[ऋग्वेदः|ऋग्वेदे]], [[यजुर्वेदः|यजुर्वेदे]], [[छान्दोग्योपनिषत्|छान्दोग्योपनिषदि]], अद्भुतरामाणे च योगशास्त्रस्य इतिहाससम्बद्धं वर्णनं प्राप्यते ।
<poem>{{cquote|हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः । याज्ञवल्क्यस्मृतिः}}</poem>
<poem>{{cquote| हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः । [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-359 १२/३४९/६५] [[महाभारतम्]]}}</poem>
<poem>{{cquote|हिरण्यगर्भो द्युतिमान् य एषच्छन्दसि स्तुतः ।
योगैः सम्पूज्यते नित्यं स च लोके विभुः स्मृतः ।। १२/३४२/९६ [[महाभारतम्]]}}</poem>
<poem>{{cquote|हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः ।
महानिति च योगेषु विरञ्चीति तथाप्यजः ।। [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-308 १२/३०८/१८] [[महाभारतम्]], [https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४१ २४१/१६] [[ब्रह्मपुराणम्]]}}</poem>
<poem>{{cquote|इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । ५/१९/१३ [[श्रीमद्भागवतमहापुराणम् ]]}}</poem>
<poem>{{cquote|हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।। [https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१०.१२१ १०/१२१/१] [[ऋग्वेदः]], १३/४ [[यजुर्वेदः]]}}</poem>
<poem>{{cquote|अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरणअयश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः । [https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्_१ १/६/६] [[छान्दोग्योपनिषत्]]}}</poem>
उपर्युक्ते सर्वेषु ग्रन्थेषु हिरण्यगर्भः योगदर्शनस्य आदिवक्ता आसीत् अत्युक्तम्, अतः सः हिरण्यगर्भः योगगुरुः अस्ति इति स्वीक्रियते । [[श्वेताश्वतरोपनिषत्|श्वेताश्वतरोपनिषदः]] द्वितीये अध्याये ८-१५ श्लोकेषु योगस्य उपयोगः, महत्त्वं च प्राप्यते । तत्र योगः कथं करणीयः, तेन के लाभाः भवन्ति इत्यपि प्रतिपादितम् । [[कठोपनिषत्|कठोपनिषदः]] द्वितीयाध्याययस्य तृतीयवल्ल्याः १०-१५ श्लोकाः योगपद्धतिं, योगाक्रियां च उपस्थापयन्ति । श्रीम[[भगवद्गीता|द्भगवद्गीता]]<nowiki/>याः अष्टमे अध्याये १०,१२,१३ श्लोकेषु भगवान् [[श्रीकृष्णः]] योगशक्तिं, योगस्वरूपं च [[अर्जुनः|अर्जुनं]] कथयति ।
{{योगसूत्रक्रमः|शीर्षकम्='''पातञ्जलयोगसूत्राणि'''|पूर्वतनम्= ----|अग्रिमम्=[[योगश्चित्तवृत्तिनिरोधः]]}}
== सम्बद्धाः लेखाः ==
[[योगदर्शनम्]]
[[पतञ्जलिः]]
[[अष्टाङ्गयोगः]]
[[हिरण्यगर्भः]]
== बाह्यसम्पर्कतन्तुः ==
{{Wikisourcelang|अथ योगानुशासनम्}}
* http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
* http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
* https://www.youtube.com/watch?v=uUmg-2Y6KcM
== उद्धरणम् ==
{{reflist}}
== अधिकवाचनाय ==
[http://sanskritdocuments.org/doc_yoga/yogasuutra.html?lang=sa पतञ्जलियोगसूत्रम्]
[http://yogasutrastudy.info/ योगसूत्राणि शृण्वन्तु]
[http://sanskritforchanting.com/pdfs/yogasutram.pdf आङ्ग्लानुवादेन सह योगसूत्रम्]
[http://hinduonline.co/DigitalLibrary/SmallBooks/PatanjaliYogaSutraSwamiVivekanandaSanEng.pdf स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः]
{{शिखरं गच्छतु}}
[[वर्गः:समाधिपादः]]
[[वर्गः:न प्राप्तः योगसम्बद्धभाषानुबन्धः]]
[[वर्गः:योगसूत्राणि]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
4eqyir7zhekc9s1iq3dy9pgk7btsvqo
470168
470167
2022-08-21T11:04:14Z

1) अथ - एषः शब्दः विविधान् अर्थान् प्रदर्शयति।
1. मङ्गलार्थः (Invocation) - भारतीयवाङ्मये बहुधा आरम्भे, मध्ये, अन्ते च मङ्गलाचरणस्य परम्परा दरीदृश्यते। अतः विविधैः प्रकारैः ग्रन्थकर्ता मङ्गलाचरणं करोति। तत्र मङ्गालर्थकस्य अथ-शब्दस्य अपि बहुधा उपयोगः भवति। अनेन अल्पेन मङ्गलाचरणेन सह विविधाः अन्ये अर्थाः अपि युक्ताः भवन्ति। उक्तञ्च -
ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ।।
2 आरम्भार्थः (The begi'''nn'''ing) - अथ-शब्देन आरम्भः अपि सूच्यते। अत एव अध्यायस्य आरम्भे अपि एतस्य शब्दस्य उपयोगः दरीदृश्यते। एषः शब्दः कस्याऽपि कार्यक्रमस्य, ग्रन्थस्य, विषयस्य, चर्चायाः च आरम्भम् अपि सूचयति। अनेन एतस्य परिवर्तिनः शब्दस्य आरम्भः भवति इति सरलतया, लघुतया च वक्तुं शक्यते।
3. इतः/आनन्तर्यम् (From Here/After this) - बहुधा एकस्य शास्त्रस्य उत विषयस्य अध्यययनोत्तरम् एव अपरस्य शास्त्रस्य अध्ययनं भवति। एकस्य विषयस्य समाप्तौ अपरस्य विषयस्य आरम्भदर्शनाय अपि अथ-शब्दस्य उपयोगः दरीदृश्यते। यथा - [[अथातो ब्रह्मजिज्ञासा]], अथ प्रजानामधिपः प्रभाते... (रघुवंशश्लोकः)।
4. अधिकारार्थः/पश्चात् (Eligibility/then) - योगशास्त्रस्य अध्ययनात् प्राक् तदर्थम् अधिकारी भवनीयं भवति। अर्थात्, मुमुक्षुत्वं, योगपरम्परायाः आरम्भिकाध्ययनं, मीमांसायाः अध्ययनं च। ततः अधिकारः प्राप्यते। एतस्य अथ-शब्दस्य एव पश्चात् इत्यर्थे अपि स्वीकारः भवति, यत्र कस्य पश्चात् इति जिज्ञासायां सत्यां मुमुक्षुत्वादिकस्य सर्वविधविषयस्य अन्तर्भावः भवति। अधिकारस्य ज्ञानाय अनुबन्धचतुष्टयस्य अपि आवश्यकता भवति। तेन अपि अधिकारस्य ज्ञानं भवति।
** अनुबन्धचतुष्टयम् <ref>{{Cite book|author= श्रीस्वामी ओमानन्द तीर्थ|title=पातञ्जलयोगप्रदीप|publisher=गीताप्रेस, गोरखपुर| isbn=81-293-0011-7|page=१३९-१४०}}</ref> - विषयः, प्रयोजनम्, अधिकारी, सम्बन्धः च इत्येते चत्वारः अनुबन्धाः स्पष्टयन्ति यत्, पाठकः उपस्थापिताय विषयाय अधिकारी अस्ति उत न। योगशास्त्रस्य सन्दर्भे अनुबन्धचतुष्टयं निम्नानुसारम् अस्ति।

a6tq5hqqg5bh9fdwjvog8dbzs0swu32
470169
470168
2022-08-21T11:04:43Z

fxro3hfkdvvwdx2uw8e0vdt7hetiei2
470170
470169
2022-08-21T11:19:14Z

'''1) अथ -''' एषः शब्दः विविधान् अर्थान् प्रदर्शयति।
'''1. मङ्गलार्थः (Invocation) -''' भारतीयवाङ्मये बहुधा आरम्भे, मध्ये, अन्ते च मङ्गलाचरणस्य परम्परा दरीदृश्यते। अतः विविधैः प्रकारैः ग्रन्थकर्ता मङ्गलाचरणं करोति। तत्र मङ्गालर्थकस्य अथ-शब्दस्य अपि बहुधा उपयोगः भवति। अनेन अल्पेन मङ्गलाचरणेन सह विविधाः अन्ये अर्थाः अपि युक्ताः भवन्ति। उक्तञ्च -
'''ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।'''
'''कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ।।'''
'''2. आरम्भार्थः (The beginning) -''' अथ-शब्देन आरम्भः अपि सूच्यते। अत एव अध्यायस्य आरम्भे अपि एतस्य शब्दस्य उपयोगः दरीदृश्यते। एषः शब्दः कस्याऽपि कार्यक्रमस्य, ग्रन्थस्य, विषयस्य, चर्चायाः च आरम्भम् अपि सूचयति। अनेन एतस्य परिवर्तिनः शब्दस्य आरम्भः भवति इति सरलतया, लघुतया च वक्तुं शक्यते।
'''3. इतः/आनन्तर्यम् (From Here/After this) -''' बहुधा एकस्य शास्त्रस्य उत विषयस्य अध्यययनोत्तरम् एव अपरस्य शास्त्रस्य अध्ययनं भवति। एकस्य विषयस्य समाप्तौ अपरस्य विषयस्य आरम्भदर्शनाय अपि अथ-शब्दस्य उपयोगः दरीदृश्यते। यथा - [[अथातो ब्रह्मजिज्ञासा]], अथ प्रजानामधिपः प्रभाते... (रघुवंशश्लोकः)।
'''4. अधिकारार्थः/पश्चात् (Eligibility/then) -''' योगशास्त्रस्य अध्ययनात् प्राक् तदर्थम् अधिकारी भवनीयं भवति। अर्थात्, मुमुक्षुत्वं, योगपरम्परायाः आरम्भिकाध्ययनं, मीमांसायाः अध्ययनं च। ततः अधिकारः प्राप्यते। एतस्य अथ-शब्दस्य एव पश्चात् इत्यर्थे अपि स्वीकारः भवति, यत्र कस्य पश्चात् इति जिज्ञासायां सत्यां मुमुक्षुत्वादिकस्य सर्वविधविषयस्य अन्तर्भावः भवति। अधिकारस्य ज्ञानाय अनुबन्धचतुष्टयस्य अपि आवश्यकता भवति। तेन अपि अधिकारस्य ज्ञानं भवति।
* '''अनुबन्धचतुष्टयम् <ref>{{Cite book|author= श्रीस्वामी ओमानन्द तीर्थ|title=पातञ्जलयोगप्रदीप|publisher=गीताप्रेस, गोरखपुर| isbn=81-293-0011-7|page=१३९-१४०}}</ref> -''' विषयः, प्रयोजनम्, अधिकारी, सम्बन्धः च इत्येते चत्वारः अनुबन्धाः स्पष्टयन्ति यत्, पाठकः उपस्थापिताय विषयाय अधिकारी अस्ति उत न। योगशास्त्रस्य सन्दर्भे अनुबन्धचतुष्टयं निम्नानुसारम् अस्ति।
• '''<u>विषयः (Subject) –</u>''' एतस्य शास्त्रस्य कः विषयः अस्ति ? : एतस्य योगशास्त्रस्य प्रयोजनं योगस्य विभिन्नानां भेदानां, साधनानां, फलानां च प्रतिपादनम् अस्ति ।
• '''<u>प्रयोजनम् (Goal) -</u>''' एतस्य शास्त्रस्य किं प्रयोजनम् ? : योगद्वारा स्वरूपस्थितिः एव शास्त्रस्य प्रयोजनम् अस्ति । स्वरूपस्थितिः अर्थात्, अपवर्गः=निःश्रेयः=मोक्षः=कैवल्यम्=आत्मस्थितिः=परमात्मप्राप्तिः ।
• '''<u>अधिकारी (Eligible) -</u>''' एतस्य शास्त्रस्य कः अधिकारी ? : कैवल्यस्य मुमुक्षुः साधकः एतस्य अधिकारी भवति ।
• '''<u>सम्बन्धः (Relation) –</u>''' अनेन सह शास्त्रस्य कः सम्बन्धः ? : एतत् दर्शनं योगस्य प्रतिपादनं करोति । अतः एतस्य योगेन सह प्रतिपाद्य-प्रतिपादक-भाव-सम्बन्धः अस्ति । योगः साधनम् अस्ति, कैवल्यं (Final '''emancipation''') साध्यम् । अतः कैवल्ययोगयोः साध्य(Goal)-साधन(Instrument)-भाव-सम्बन्धः(Relationship) अस्ति । कैवल्यमुमुक्षुः योगस्य अधिकारी अस्ति । अतः कैवल्यमुमुक्ष्वोः प्राप्य(achievable)-प्रापक(recipient)-भाव-सम्बन्धः अस्ति। मुमुक्षु-योगयोः कर्तृ-कर्त्तव्य-भाव-सम्बन्धः अस्ति।
'''2) योग -''' बहुधा '''युजिर् योगे (to bind)''' इतिधातुना योगशब्दस्य निष्पत्तिः कथ्यते, परन्तु अत्र योगस्य धातुः '''युज् समाधौ''' अस्ति इति व्यासमतम्। अत एव '''अथ समाधि-अनुशासनम्''', '''पातञ्जल-समाधि-सूत्राणि''' इत्यादिकम् अपि योग्यं स्वीकरणीयं भवति। यतः एतत् केवलं योगशब्दस्य स्थाने समाधिशब्दस्य उपयोगं प्रदर्शयति।
'''3) अनुशासनम् -''' शासन-शब्दः पूर्वस्थितिम् इतिहासम् अपि द्योतयति। यथा - अत्र यस्मिन् विषये उच्यते, तस्मिन् विषये पूर्वाचार्याः अनेकान् विचारान् उपास्थापयन्। तेषां सर्वेषाम् आचार्याणां कथनस्य सङ्कलनम् उत नवीनपद्धत्या उपस्थापनम् अत्र क्रियते इत्यर्थः अपि भवति। एतस्यां स्थित्यां [[हिरण्यगर्भः]] योगशास्त्रस्य आदिप्रवर्तकः उक्तः अस्ति, अतः हिरण्यगर्भात् पतञ्जलिं यावत् येऽपि योगवैज्ञानिकाः जाताः, तेषां सर्वेषाम्, तेषां ग्रन्थानां च अपि अनुशानसन-शब्देन सङ्केतः भवति।
"शासनम्" अर्थात् शिक्षा उत उपदेशः । "अनु + शासनम्" अर्थात् येषां विषयाणाम् उपदेशः (शासनं) पूर्वस्मादेव विद्यमानः वर्तते । अतः "अनुशासनम्" इत्यनेन शब्देन भगवता [[पतञ्जलि]]<nowiki/>ना प्राचीनकालात् योगपरम्परायाः अनुवर्तनस्य बोधः कारितः । तस्याः प्राचीनयोगपरम्परायाः वर्णनं श्रुतिस्मृतिषु अपि प्राप्यते । [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[महाभारतम्|महाभारते]], [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतमहापुराणे]], [[ऋग्वेदः|ऋग्वेदे]], [[यजुर्वेदः|यजुर्वेदे]], [[छान्दोग्योपनिषत्|छान्दोग्योपनिषदि]], अद्भुतरामाणे च योगशास्त्रस्य इतिहाससम्बद्धं वर्णनं प्राप्यते ।
<poem>{{cquote|हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः । याज्ञवल्क्यस्मृतिः}}</poem>
<poem>{{cquote| हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः । [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-359 १२/३४९/६५] [[महाभारतम्]]}}</poem>
<poem>{{cquote|हिरण्यगर्भो द्युतिमान् य एषच्छन्दसि स्तुतः ।
योगैः सम्पूज्यते नित्यं स च लोके विभुः स्मृतः ।। १२/३४२/९६ [[महाभारतम्]]}}</poem>
<poem>{{cquote|हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः ।
महानिति च योगेषु विरञ्चीति तथाप्यजः ।। [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-308 १२/३०८/१८] [[महाभारतम्]], [https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४१ २४१/१६] [[ब्रह्मपुराणम्]]}}</poem>
<poem>{{cquote|इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । ५/१९/१३ [[श्रीमद्भागवतमहापुराणम् ]]}}</poem>
<poem>{{cquote|हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।। [https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१०.१२१ १०/१२१/१] [[ऋग्वेदः]], १३/४ [[यजुर्वेदः]]}}</poem>
<poem>{{cquote|अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः । [https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्_१ १/६/६] [[छान्दोग्योपनिषत्]]}}</poem>
उपर्युक्ते सर्वेषु ग्रन्थेषु हिरण्यगर्भः योगदर्शनस्य आदिवक्ता आसीत् अत्युक्तम्, अतः सः हिरण्यगर्भः योगगुरुः अस्ति इति स्वीक्रियते । [[श्वेताश्वतरोपनिषत्|श्वेताश्वतरोपनिषदः]] द्वितीये अध्याये ८-१५ श्लोकेषु योगस्य उपयोगः, महत्त्वं च प्राप्यते । तत्र योगः कथं करणीयः, तेन के लाभाः भवन्ति इत्यपि प्रतिपादितम् । [[कठोपनिषत्|कठोपनिषदः]] द्वितीयाध्याययस्य तृतीयवल्ल्याः १०-१५ श्लोकाः योगपद्धतिं, योगाक्रियां च उपस्थापयन्ति । श्रीम[[भगवद्गीता|द्भगवद्गीता]]<nowiki/>याः अष्टमे अध्याये १०,१२,१३ श्लोकेषु भगवान् [[श्रीकृष्णः]] योगशक्तिं, योगस्वरूपं च [[अर्जुनः|अर्जुनं]] कथयति ।
{{योगसूत्रक्रमः|शीर्षकम्='''पातञ्जलयोगसूत्राणि'''|पूर्वतनम्= ----|अग्रिमम्=[[योगश्चित्तवृत्तिनिरोधः]]}}
== सम्बद्धाः लेखाः ==
[[योगदर्शनम्]]
[[पतञ्जलिः]]
[[अष्टाङ्गयोगः]]
[[हिरण्यगर्भः]]
== बाह्यसम्पर्कतन्तुः ==
{{Wikisourcelang|अथ योगानुशासनम्}}
* http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
* http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
* https://www.youtube.com/watch?v=uUmg-2Y6KcM
== उद्धरणम् ==
{{reflist}}
== अधिकवाचनाय ==
[http://sanskritdocuments.org/doc_yoga/yogasuutra.html?lang=sa पतञ्जलियोगसूत्रम्]
[http://yogasutrastudy.info/ योगसूत्राणि शृण्वन्तु]
[http://sanskritforchanting.com/pdfs/yogasutram.pdf आङ्ग्लानुवादेन सह योगसूत्रम्]
[http://hinduonline.co/DigitalLibrary/SmallBooks/PatanjaliYogaSutraSwamiVivekanandaSanEng.pdf स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः]
{{शिखरं गच्छतु}}
[[वर्गः:समाधिपादः]]
[[वर्गः:न प्राप्तः योगसम्बद्धभाषानुबन्धः]]
[[वर्गः:योगसूत्राणि]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
02bfp9469gq87gpvt1joz9oyunwui1v
योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)
0
14548
470171
408505
2022-08-21T11:38:05Z
NehalDaveND
9230
1
wikitext
text/x-wiki
==सूत्रसारः==
==व्यासभाष्यम्==
सर्वशब्दाग्रहणात्सम्प्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम् । प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति । तदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति । तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव रजोलेशमालेपनं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेधध्यानोपगं भवति । तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यपरतिसङ्क्रमा दर्शितविषया शुद्धा चानन्ता च । सत्त्वगुणात्मिका चेयम्, अतो विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं चित्तं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किञ्चित्सम्प्रज्ञायत इत्यसम्प्रज्ञातः । द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥
{{योगसूत्रक्रमः|शीर्षकम्='''पातञ्जलयोगसूत्राणि'''|पूर्वतनम्=[[अथ योगानुशासनम्]]|अग्रिमम्=[[तदा द्रष्टुः स्वरूपेऽवस्थानम्]]}}
== सम्बद्धाः लेखाः ==
[[योगदर्शनम्]]
[[पतञ्जलिः]]
[[अष्टाङ्गयोगः]]
[[अन्ताराष्ट्रिययोगदिवसः]]
== बाह्यसम्पर्कतन्तुः ==
{{Wikisourcelang|अथ योगानुशासनम्}}
* http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
* http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
* https://www.youtube.com/watch?v=uUmg-2Y6KcM
== उद्धरणम् ==
{{reflist}}
== अधिकवाचनाय ==
[http://sanskritdocuments.org/doc_yoga/yogasuutra.html?lang=sa पतञ्जलियोगसूत्रम्]
[http://yogasutrastudy.info/ योगसूत्राणि शृण्वन्तु]
[http://sanskritforchanting.com/pdfs/yogasutram.pdf आङ्ग्लानुवादेन सह योगसूत्रम्]
[http://hinduonline.co/DigitalLibrary/SmallBooks/PatanjaliYogaSutraSwamiVivekanandaSanEng.pdf स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः]
{{शिखरं गच्छतु}}
[[वर्गः:समाधिपादः]]
[[वर्गः:योगसूत्राणि]]
[[वर्गः:योगशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:न प्राप्तः योगसम्बद्धभाषानुबन्धः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:योगसूत्राणां चित्रसारमञ्जूषाकार्यम्]]
4vweo2sagtjufivbidbbxfv2giein8c
परशुरामः
0
19767
470164
456358
2022-08-21T08:00:52Z
NehalDaveND
9230
added [[Category:विष्णोः अवताराः]] using [[Help:Gadget-HotCat|HotCat]]
wikitext
text/x-wiki
{{Infobox deity
| image = 2 iconographic representations of Parasurama.jpg
| alt = परशुधारि परशुरामः
| caption = परशुधारि परशुरामः
| Kannada_script = ಪರಶುರಾಮ
| father = [[जमदग्निः]]
| mother = रेणुका
| affiliation = वैष्णवः
| weapon = परशुः (''{{IAST|paraśu}}'')
}}
'''परशुरामः''' विष्णोऽवतारोऽस्ति। भृगुवंशस्य जमदग्निमहर्षिः एतस्य पिता। राजाप्रसेनजितस्य पुत्री रेणुका एतस्य माता। महाविष्णोः दशसु अवतारेषु परशुरामस्य षष्ठोऽवतारः। महापराक्रमशालियोद्धाऽस्ति। उन्मत्तानां क्षत्रियाणां नाशनार्थं विष्णुः इदानीन्तनस्य वैवस्वतमन्वन्तरस्य नवदशे त्रेतायुगे परशुरामस्य रूपेण अवतारं कृतवान्। रुमण्वन्तः, सुषेणः, वसुः, विश्वावसुः च अस्य चत्वारः सहोदराः।
==पराक्रमः==
पितुः जमदग्नेः आज्ञानुसारं मातुः रेणुकायाः कण्ठमेव कर्तयित्वा पुनः पितुः वरदानेन ताम् उज्जीवितवान्। कार्तवीर्यार्जुनस्य सहस्रबाहून् कर्तितवान्। एकविंशतिवारं क्षत्रियान् मारयित्वा तेषां रक्तेन पितृभ्यः तर्पणं दत्तवान्। श्रीरामेण पराजयं प्राप्तवतः तस्य वैष्णवतेजः नष्टमभवत्। परशुरामः पाण्डवैः सह सन्धिं कर्तुं दुर्योधनं हितवचनम् उक्तवान्। भीष्माचार्येण सह युद्धं कृतवान्।
==बोधनम्==
कर्णः ब्राह्मणवेषेण गत्वा परशुरामे अस्त्रविद्याभ्यासं कृतवान्। किन्तु यदा परशुरामेण कर्णः अब्राह्मणः इति ज्ञातं तदा 'भवता अधीता विद्या युद्धावसरे विस्मृता भवतु' इति कर्णं शप्तवान्। एषः सुवर्णमाहात्म्यस्य विषये वसिष्ठेन सह संवादं कृतवान्। वसिष्ठस्य पूर्वजानां वृत्तान्तं श्रृत्वा ज्ञातवान्। परशुरामः द्रोणाय अस्त्रविद्याभ्यासं कारितवान्। अश्वमेधयागं कृत्वा पूर्णभूमण्डलं कश्यपाय दानं कृतवान्। परशुरामः विद्यमानस्य सप्तमस्य वैवस्वतमन्वन्तरस्य अनन्तरस्य अष्टमसावर्णिमन्वन्तरे सप्तर्षिषु अन्यतमः भवति।
==शिवभक्तिः==
पितुः मरणानन्तरं दुःखितः एषः शिवं शरणं गतवान्। सन्तुष्टः शिवः परशुम् अनुगृहीतवान्। देवी दिव्यास्त्राणि दत्तवती। शिवेण एषः पापरहितः, अजेयः, जरामरणरहितः च अभवत्। शिवस्य अनुग्रहेण एतेन सर्वं प्राप्तम्। भृगुवंशोद्भवः, जमदग्नेः पुत्रः परशुरामः लोकहितार्थं पुनःपुनः तीव्रनिष्ठया तपः कुर्वन् महेन्द्रपर्वते इदानीमपि अस्ति इति विश्वस्यते।
== [[रघुवंशम्|रघुवंशे]] वर्णनम् ==
महाकविः कालिदासः रघुवंशस्य एकादशे सर्गे शिवधनोः भङ्गोत्तरस्य अवसरे परशुरामस्य वर्णनं करोति। भास्करः यस्यां दिशि उषितः तां दिशं श्रिताः शृगालाः क्षत्ररुधिरपितृतर्पणोचितं परशुरामं आवह्यति तद्वत् रोदनम् अकुर्वन्। ततः सेनायाः अग्रे सपदि उत्थितः तेजसो राशिः प्रादुरभवत्। ततः सर्वेषां सम्मुखे काचित् पुरुषाकृतिः समुत्पन्ना। यज्ञोपवितलक्षणं पित्र्यमंशं धनुषोर्जितं मातृकमंशं धारकः भार्गवश्चन्द्रयुक्तो सूर्य इव सभुजगश्चन्दनद्रुम इव स्थितः। क्रोधात् पुरुषबुद्धेः तस्य मर्यादालङ्घिनः अपि पितुः शासने स्थितेन कम्पमानजननीशिरश्छिदा प्राक् करुणाजीयत तदनन्तरं महीम् अजीवयत। यः दक्षिणकर्णे धृतया अक्षमालया क्षत्रियवधानाम् एकविंशतिसङ्ख्यया व्याजपूर्वगणनान्दधदिव निर्बभाव। पितुः जमदग्नेः वधभवेन कोपेन नृपवंशनाशार्थं प्रवृत्तं तं भार्गवं स्वां दशां चावलोक्य बालपुत्रः पार्थिवः (दशरथः) दुःखितः अभवत्।<ref>रघुवंशमहाकाव्यम्, सर्गः ११, श्लो. ६१-६७</ref>
==बाह्यसम्पर्कातन्तुः==
* [http://www.shaivam.org/siddhanta/spke_108.htm 108 Parashurama Kshetras] published by Shaivam and [[Google Maps]]
[[वर्गः:पौराणिकधार्मिकव्यक्तयः]]
[[वर्गः:महाभारतस्य पात्राणि]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:ऋषयः]]
[[वर्गः:विष्णोः अवताराः]]
kgoso44eqgwej8oqzhwufo94gladwi8
वामनपुराणम्
0
25250
470165
371261
2022-08-21T08:01:46Z
NehalDaveND
9230
added [[Category:विष्णुः]] using [[Help:Gadget-HotCat|HotCat]]
wikitext
text/x-wiki
{{ ज्ञानसन्दुक पुस्तकम्
| name = वामनपुराणम्
| title_orig =
| translator =
| image =
| image_caption =गीताप्रेस गोरखपुरस्य आवरण पृष्ठ
| author = वेदव्यास
| illustrator =
| cover_artist =
| country = [[भारत]]
| language = [[संस्कृत]]
| series = [[पुराण]]
| subject = [[विष्णुः]]
| genre = वैष्णव ग्रन्थः
| publisher =
| pub_date =
| english_pub_date =
| media_type =
| pages = १०,००० श्लोकाः
| isbn =
| oclc =
| preceded_by =
| followed_by =
}}
[[चित्रम्:Deshaavathaaram5 vamanan.jpg|thumb|250px]]
अष्टादशसु पुराणेषु अन्यतमं वर्तते '''वामनपुराणम्'''। इदं किञ्चन प्राचीनं [[पुराणानि|पुराणम्]]। [[पुराणम्|पुराण]]स्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते।[[नारदेयपुराणम्|नारदपुराणे]] १०५ अध्याये १०,००० श्लोकात्मकस्य वामनपुराणस्य लक्षणम् उक्तमस्ति। तद्यथा,
'''शृणु वत्स ! प्रवक्ष्यामि पुराणां वामनाभिधम्।'''<br>
'''त्रिविक्रमचरित्राढ्यं दशसाहस्रसंख्यकम्॥'''
'''कूर्मकल्पसमाख्यानं वर्गत्रयकथानकम्।'''<br>
'''भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम्॥'''<br>
[[मत्स्यपुराणम्|मत्स्यपुराणे]] ब्रह्म त्रिविक्रमस्य माहात्म्यमधिकृत्य त्रिवर्गस्य कीर्तनं कृतमस्ति। तदेव वामनपुराणं भवति। प्रमाणं दर्शयति एकेन श्लोकेन,
'''त्रिविक्रमस्य महात्म्यमधिकृत्य चतुर्मुखः।'''<br>
'''त्रिवर्गमभ्यधात्तच्च वामनं परिकीर्तितम्॥'''
'''पुराणं दशसाहस्रं कूर्मकल्पानुगं शिवम्।''' इति।
==अन्तर्विषयाः==
वामनपुराणे विभिन्नावताराणां कथाः सन्ति। विशिष्य वामनावतारस्य कथाः विद्यन्ते। [[शिवः|शिवमाहात्म्यम्]], शिवतीर्थम्, शिवशिवाविवाहः, [[गणेशः|गणेशस्य]] उत्पत्तिः, [[कार्तिकेयः|कार्तिकेयादीनाम्]]विशेषतः विष्णोः नैके कथाः विद्यन्ते। अस्मिन् पुराणे १०,००० सहस्रश्लोकाः सन्ति। अस्मिन् पुराणे ९२ अध्यायाः सन्ति। वामनपुराणं द्विदाविभक्तम् अस्ति। उत्तरार्दम्, पूर्वार्दम् इति। उत्तरभागस्य बृहद्वामन इति नामान्तरं भवति। अस्मिन् चतस्रः संहिताः सन्ति।
*माहेश्वरी संहिता – अस्यां कृष्णस्य तथा तस्य भक्तानाञ्च कथाः सन्ति।
*भागवती संहिता – अस्यां जगदम्बायाः अवतारकथाः सन्ति।
*सौरी संहिता – अस्यां पापनाशकस्य सूर्यदेवस्य कथाः विद्यन्ते।
*गाणेश्वरी संहिता- अस्यां गणेशस्य चरित्रं विद्यते।
==बाह्यसम्पर्कतन्तुः==
*[http://www.bharatadesam.com/spiritual/vamana_purana.php Synopsis of Vamana Purana]
{{पुराणानि}}
[[वर्गः:पुराणानि]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विष्णुः]]
3rkd1vx1ak8kj88agvn94wlths279q0
योगसूत्रम्
0
26292
470174
460486
2022-08-21T11:45:16Z
NehalDaveND
9230
अष्टाङ्गयोगः
wikitext
text/x-wiki
#REDIRECT [[अष्टाङ्गयोगः]]
qz18vxgh7oa9sjp3o96owxax56h9fim
सदस्यसम्भाषणम्:MikyM
3
79601
470154
2022-08-20T13:19:06Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=MikyM}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १३:१९, २० आगस्ट् २०२२ (UTC)
a07n3bf3ngghuqqvyecf5nbyeadiolq
सदस्यसम्भाषणम्:Ramija
3
79602
470155
2022-08-20T15:44:58Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Ramija}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १५:४४, २० आगस्ट् २०२२ (UTC)
g09lobayo4rkzgbp20g08bwoips4tln
सदस्यसम्भाषणम्:Makinoah
3
79603
470156
2022-08-20T18:23:22Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Makinoah}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १८:२३, २० आगस्ट् २०२२ (UTC)
67cdxal40w37b8936teodxsbnen7pnc
सदस्यसम्भाषणम्:UtraAbanua
3
79604
470157
2022-08-21T00:40:40Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=UtraAbanua}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ००:४०, २१ आगस्ट् २०२२ (UTC)
q3ftrkgngaiq0cfrft7k1m4fwvmp2y4
वर्गः:विष्णोः अवताराः
14
79605
470159
2022-08-21T07:58:28Z
NehalDaveND
9230
विष्णोः सर्वेऽपि अवताराः अत्र अन्तर्भवन्ति।
wikitext
text/x-wiki
विष्णोः सर्वेऽपि अवताराः अत्र अन्तर्भवन्ति।
6ycluu9rpkxqj57mse7fhbxm3loel1e
470160
470159
2022-08-21T07:58:40Z
NehalDaveND
9230
added [[Category:विष्णुः]] using [[Help:Gadget-HotCat|HotCat]]
wikitext
text/x-wiki
विष्णोः सर्वेऽपि अवताराः अत्र अन्तर्भवन्ति।
[[वर्गः:विष्णुः]]
89tloqq1kics4f5uxh5rg2pax9iw9v3
वर्गः:विष्णुः
14
79606
470161
2022-08-21T07:59:07Z
NehalDaveND
9230
विष्णुसम्बद्धाः सर्वेऽपि विषयाः अत्र अन्तर्भवन्ति।
wikitext
text/x-wiki
विष्णुसम्बद्धाः सर्वेऽपि विषयाः अत्र अन्तर्भवन्ति।
ehbab4e66emmj4uxv6wnzoltp3sp0sr
470162
470161
2022-08-21T07:59:28Z
NehalDaveND
9230
added [[Category:हिन्दुदेवताः]] using [[Help:Gadget-HotCat|HotCat]]
wikitext
text/x-wiki
विष्णुसम्बद्धाः सर्वेऽपि विषयाः अत्र अन्तर्भवन्ति।
[[वर्गः:हिन्दुदेवताः]]
19ztactn1avbubbnoqwx4fhyrcrqq9h
योगश्चित्तवृत्तिनिरोधः
0
79607
470172
2022-08-21T11:38:58Z
NehalDaveND
9230
योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)]]
3wvkps8rftlh7cq8ikp78bfxunmvow8
पातञ्जलयोगसूत्र
0
79608
470173
2022-08-21T11:44:44Z
NehalDaveND
9230
अष्टाङ्गयोगः
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[अष्टाङ्गयोगः]]
54cnsrrs9mq7pnzsf38ov2l6p3avadd