विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.25
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
निरुक्तम्
0
9286
470186
437141
2022-08-22T09:57:16Z
NehalDaveND
9230
added [[Category:वेदाङ्गानि]] using [[Help:Gadget-HotCat|HotCat]]
wikitext
text/x-wiki
{{हिन्दूधर्मः}}
'''निरुक्तं''' षड् [[वेदाङ्गम्|वेदाङ्गेषु]] अन्यतमम् । निरुक्तं [[निघण्टुः|निघण्टो]]<nowiki/>र्महत्त्वपूर्णा टीकाऽस्ति । निरुच्यते निश्शेषेण उपदिश्यते तत् तदर्थावबोधनाय पदजातं यत्र तत् निरुक्तमिति कथ्यते । निरुक्तं यस्मिन्नाधारे प्रवृत्तं भवति — अर्थात् प्रत्येकं संज्ञापदं धातुना व्युत्पन्नोऽभवत् इत्याधारस्तु नितान्तं वैज्ञानिकमस्ति । अस्यैव सम्प्रति नामास्ति ‘[[भाषाविज्ञानम्]]' । अस्योन्नतिः पाश्चात्यजगति शतवर्षाभ्यन्तरे अभवत् । त्रिसहस्रवर्षं प्राग् वैदिकाः ऋषयः अस्य शास्त्रस्य सिद्धान्तानां वैज्ञानिकरीत्या निरूपणं कृतवन्तः । भाषाशास्त्रस्य इतिहासे भारतवर्षमेव अस्य मूलोद्गमस्थानमस्ति । निरुक्तस्य आरम्भेऽस्य विषयस्य येषां नियमानां प्रतिपादनं समुपलब्धं भवति, तत्तु विशेषरूपेण महनीयमस्ति।
निघण्टुग्रन्थस्य भाष्यमेव निरुक्तमित्युक्तं हि । उभयोः ग्रन्थयोः गणना वेदाङ्गे़षु क्रियते निरुक्तनाम्ना । यतो हि - '''अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्''' - इत्युक्तत्वात् । अपि च '''एकैकस्य पदस्य सम्भाविता अवयवार्थाः यत्र निःशेषेण उच्यन्ते तदपि निरुक्तम्''' । एवंविध लक्षणेन निघण्टुनिरुक्तयोः गणना भवति निरुक्तनाम्ना ।
== अर्थः ==
निरुक्तशब्दस्य व्याख्या सायणाचार्यानुसारेण -
'''<nowiki/>'अर्थावबोधे निरपेक्षतया पदजातं यत्र तद् निरुक्तम्॥'''' इति।
अस्मिन् प्रसङ्गे दुर्गाचार्यस्य कथनमिदमस्ति -
'''<nowiki/>'प्रधानं चेदमितरेभ्यः अङ्गेभ्यश्च अर्थपरिज्ञानाभिनिवेशात्। अर्थो हि प्रधानः तद्गुणः शब्दः, स च इतरेषु व्याकरणादिषु चिन्त्यते। यथा शब्दलक्षणपरिज्ञानं सर्वशास्त्रेषु व्याकरणाद् एवं शब्दार्थनिबन्धनपरिज्ञानं निरुक्तात्।''''<ref>(दुर्गाचार्यवृत्तिः, पृ० ३)</ref>
निरुक्ते वैदिकशब्दानां निरुक्तिरस्ति। निरुक्तिशब्दस्यार्थों भवति व्युत्पतिः। निरुक्तस्य सर्वमान्यमतमिदमस्ति यत्, प्रत्येकः शब्दः केनाऽपि धातुना सहावश्यमेव सम्बद्धो भवति । अतो निरुक्तकारः शब्दानां व्युत्पत्तिं प्रदर्शयन् धातुना सह विभिन्नप्रत्ययानां निर्देशमपि दर्शयति। निरुक्तानुसारेण सर्वे शब्दाः व्युत्पन्नाः भवन्ति। वैयाकरण-[[शाकटायनः|शाकटायन]]<nowiki/>स्य अपीदमेव मतमासीत्। अस्योल्लेखो [[यास्कः|यास्केन]] [[पतञ्जलि|पतञ्जलिना]] च स्व-स्वग्रन्थे कृतोऽस्ति ।
'''<nowiki/>'तत्र नाना आख्यातजानीति शाकटायनो निरुतसमयश्च।'<ref>(निरु० तः १॥१॥२॥२ ॥)</ref>'''
'''<nowiki/>'नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम्'।'''<ref>[[s:महाभाष्यम्/तृतीयोऽध्यायः/तृतीयः_पादः|(महाभाष्यम्/तृतीयोऽध्यायः/तृतीयः पादः, 3091 वार्तिकम्।। 6 ।।)]]</ref>
शब्दानां व्युत्पतिः बहुविधाऽस्ति । दुहिता-शब्दस्य व्युत्पत्या विषये यास्को वदति - दुहिता दुहिता । दूरे हिता दोग्धेर्वा इति। अर्थाद् दूरे विवाहिता दुहिता एव हितकरा भवति अथवा यत्र प्रदत्ता तत्र एव अहितकरा भवति, अथवा सा हि नित्यमेव पितुः उत दोग्धेः सकाशाद् द्रव्यं दोग्धि।
== स्वरूपम् ==
[[निघण्टु|निघण्ट्वा]]<nowiki/>ख्यस्य वैदिककोषस्य भाष्यरूपमस्ति निरुक्ताख्यं वेदाङ्गम् । निघण्टौ तु केवलं वैदिकाः शब्दाः परिगणिताः सन्ति, परन्तु निरुक्तकारो यास्कः तेषां वैदिकानां शब्दानां सविस्तरं विवेचनं करोति । अर्थात् निरुक्तनामके ग्रन्थे वैदिकशब्दानाम् अर्थज्ञानस्य प्रक्रिया वर्णिता अस्ति । निघण्टोः पञ्चाध्यायानां विवेचनं स्वकीये निरुक्तग्रन्थे यास्केन द्वादशाध्यायेषु सम्पादितमस्ति । निरुक्तं निरूपयन् सायणाचार्यः ऋग्वेदभाष्यभूमिकायामाह, '''अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्''' यदि अन्यानि वेदाङ्गानि वेदस्य बहिर्भूतानि तत्त्वानि व्याकुर्वन्ति, तर्हि निरुक्तं वेदस्य अन्तर्भूतानि तत्त्वानि व्याकुर्वति । अन्यच्च निरुक्तं गद्यशैल्यां निबद्धमस्ति, किन्तु अन्ये वेदाङ्गग्रन्थाः सूत्रशैल्यां निबद्धाः सन्ति । इत्थं निरुक्तेन वेदार्थानामवगमे सौविध्यं भवति ।
== कालः ==
निघण्टुकालानन्तरं निरुक्तानां समयः प्रारम्भो भवति । दुर्गाचार्यानुसारेण निरुक्तं चतुर्दशसङ्ख्यकमासीत् ।<ref>(‘निरुक्तं चतुर्दशप्रभेदम्' - दुर्गवृ० १॥१३)</ref> यास्कस्य उपलब्ध-निरुक्ते द्वादशनिरुक्त-कत्तॄणां नामानि मतानि च निर्दिष्टानि सन्ति।
एतेषु ग्रन्थकारेषु शाकपूणेः मतम् आधिक्येन उद्धृतमस्ति । बृहद्देवतायामपि अस्य मतस्योल्लेखो लभ्यते । बृहद्देवतायां तथा पुराणेषु च शाकपूणिः 'रथीतरशाकपूणि' नाम्ना स्मृतोऽस्ति ।
==निरुक्तकाराः==
आसन् बहूनि निरुक्तानि इति ज्ञायते । [[बृहस्पति:|बृहस्पतिः]], [[काश्यप:|काश्यपः]], [[औपमन्यव:|औपमन्यवः]], [[औदुम्बरायण:|औदुम्बरायणः]], [[वार्ष्यायणि:|वार्ष्यायणिः]], [[गार्ग्य:|गार्ग्यः]], [[आग्रायण:|आग्रायणः]], [[शाकपूणि:|शाकपूणिः]], [[और्णवाभ:|और्णवाभः]], [[तैटीकि:|तैटीकिः]], [[गालव:|गालवः]], [[स्थौलाष्ठीवि:|स्थौलाष्ठीविः]], [[क्रौष्ठुकि:|क्रौष्ठुकिः]], [[कात्थक्य:|कात्थक्यः]], [[कौत्सव्य:|कौत्सव्यः]], [[यास्क:|यास्कः]] इत्यादयः सन्ति निरुक्तकाराः । इदानीमुपलभ्यते केवलं यास्कीयनिरुक्तम् ।महर्षियास्केन केषाञ्चन निरुक्तकाराणां नामानि उद्धृतानि स्वग्रन्थे ।
==प्रयोजनम्==
व्याकरणज्ञानस्य परिपूरणं निरुक्तस्य अध्ययनेनैव भवति । अतः व्याकरणस्य कार्त्स्न्यं निरुक्तस्य एकं प्रयोजनम् । अस्य निरुक्तस्य किं प्रयोजनमिति उच्यते यास्केनैव । अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते । - अस्य शास्त्रस्याध्ययनं विना वेदमन्त्राणाम् अर्थज्ञानं न सम्भवति । यतो हि अस्मिन् शास्त्रे वैदिकशब्दानां विवरणं, शब्दार्थविज्ञानं (Etymology) चोपदिष्टम् । अपि च वेदार्थेनैव सफला वयं भवेमेति उच्यते निरुक्ते । मन्त्रार्थज्ञानस्य प्रयोजनञ्चोक्तम् - '''योऽर्थज्ञ इत् सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा''' । - यो अर्थज्ञः स एव मङ्गलकरं प्राप्नोति नान्ये इति।
== प्रतिपादनशैली ==
निरुक्तं भाषाशास्त्रदृष्ट्या एकमनुपमं रत्नमस्ति । निरुक्तस्य मान्यः सिद्धान्तोऽस्ति यन्निरुक्ते नाम धातुजमस्ति । वैयाकरणेषु शाकटायनस्य एव इदं मतमासीत् - '''<nowiki/>'सर्वधातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्'''' इति। अस्य मतस्य समीक्षा युक्तिपूर्वकेण केनाऽपि गार्ग्याचार्येण कृताऽऽसीत, यस्य खण्डनं प्रबलतराभिर्युक्तिभिः कृतं यास्केन। भाषायाः मूलं धातुरेव भवति, अस्य तथ्यस्य उद्घाटनं यास्केन सहस्रत्रयवर्षं पूर्वमेव कृतम् । तथ्यमिदमाधुनिकभाषाविज्ञानस्य मेरुदण्ड एवास्ति । यास्कः स्वस्य वैज्ञानिकमतस्य प्रस्थापनं युक्तिपूर्वकं कुतवानस्ति ।
गार्ग्यस्य प्रथमा आपत्तिः असङ्गताऽस्ति - कस्याऽपि वस्तुनः क्रियानुसारेण नामकरणेन अनेकेषां वस्तुनाम् एकक्रियात्वेन अनेकानाम् एकनाम भवितुं शक्यते। तुल्यकर्मकर्तृषु जनेष्वपि तेनैव कर्मणा व्यक्तिविशेषस्य श्रेणीविशेषस्य वा नाम भवति न तु सर्वेषाम् । लोकव्यवहारस्य इयमेव शैली अस्ति । तक्ष्णः = कर्मकस्य, परिव्रजनम्=परितः भ्रमणम्, इत्यादि क्रिया बहुभिर्जनैः सम्पादिता भवति, तथापि ‘तक्षा'-पदेन कर्मकारस्यैव बोधो भवति। एवञ्च परिव्राजकपदेन संन्यासिनां बोधो भवति । कस्यापि शब्दस्य स्वभाव एक एवास्ति यत्, कयाऽपि क्रियया कस्यापि एकस्यैव वस्तुनः बोधो भवति नान्यस्य। एकेन वस्तुना सह बहूनां क्रियाणां योगे सत्यपि एकैव क्रियानुसारेण तस्य नाम भवति। शब्दस्य अयं स्वभावः, लोकप्रियव्यवहारः च अपि अस्ति। 'तक्षा' एवं परिव्राजकः अन्यायाः अपि क्रियायाः सम्पादनं करोति। किञ्च क्रियायाः वैशिष्ट्येन तक्षण-परिव्रजनक्रियाऽनुसारेण तयोः नामकरणमभूत् । निष्पन्नेन नाम्ना एव कस्यापि वस्तुनः क्रियायाः परीक्षणं नासङ्गतं भवति । यतो नाम्नः निष्पन्ने सति तस्य योगार्थस्य परीक्षणं भवितुं शक्यते।<ref>('भवति हि निष्पन्नेऽभिव्यवहारे योगपरीष्टिः' निरु०॥११)</ref> नाम्नो निष्पन्नत्वाभावे कस्य परीक्षणं भविष्यति? '<nowiki/>'''प्रथनात् पृथिवी'''' विस्तृतत्वेनेदं नाम पृथिव्या भवति। शाकटायनस्य अस्यां व्याख्यायां गार्ग्यस्य इदं कथनं नितान्तम् अयुक्तिकरमस्ति यदियं केन विस्तारिता ? इति। तर्कहीनमिदं कथनमस्ति, यतः पृथिव्याः पृथुत्वं प्रत्यक्षदृष्टमस्ति । अस्याः कथनस्य विषये प्रश्न एव निरर्थकोऽस्ति । अतो गार्ग्यस्य इयमप्यापत्तिरसङ्गतैवास्ति ।
शाकटायनेन पदानां निरुक्त्यै एकस्य अभिन्नपदस्य व्याख्या अनेकेषां धातूनां योगेन निष्पादिता । सत्य-शब्दः शाकटायनेन भागद्वये विभाजितः, यथा सत -- य = सत्यम्, यस्मिन् प्रथमांशः ‘अस्ति'-शब्दान्निष्पन्नो भवति तथा द्वितीयांशः ‘इण्'-धातोः ‘अायाति'-शब्दात् निष्पन्नोऽस्ति । '''<nowiki/>'सन्तमेव अर्थम् अायाति गमयतीति सत्यम् ॥'<nowiki/>''' अर्थाद् यत् विद्यमानार्थस्य (यथार्थस्य) ज्ञानं कारयति, तत् सत्यम् । अस्योपरि गार्ग्यस्य आपत्तिरस्ति महती । यास्कस्य प्रतिवचनमस्ति - शब्दान् स्वपक्षप्रतिपादनं विद्यासम्पादयन्नपि शाकटायनस्य निरुक्तिः अनुगतार्थाऽस्ति, अतो नाम अन्यमस्ति। अनन्वितार्थे शब्दस्य संस्कर्त्ता पुरुषो निन्दनीयो भवति, शास्त्रगर्हा तु नास्त्येव — '''<nowiki/>'सैषा पुरुषगर्हा'''' निरुक्त्याः पदस्य चान्वयो न्याय्योऽस्ति । तदर्थं पदविभाजनं नानुचितमस्ति । ब्राह्मणग्रन्थेषु निरुक्तिक्रमोऽयं ग्राह्योऽस्ति, न गर्हणीयः । [[शतपथब्राह्मण|शतपथब्राह्मणं]]<ref>( १४८।।४।१ )</ref> हृदयशब्दं भागत्रयेषु विभज्य तस्य निरुक्तिः हृ, दा, इण् (अाययति रूपात्) धातोः निष्पन्नमकरोत् । फलतः शाकटायनस्य मतं यथार्थमस्ति ।
परभाविन्यया क्रियया पूर्वजातस्य वस्तुनो नामकरणं नोचितमित्यपि गार्ग्यस्य आपत्तिरकिञ्चित्करैवास्ति । लोके परभाविन्यया क्रियया पूर्वजातस्य वस्तुनः संज्ञा वा व्यपदेशो बहुषु स्थलेषु परिलक्षितो भवति । भविष्यद्योगेन, सम्बन्धसाहाय्येन च कस्यापि जनस्य विल्वादः अथवा लम्बचूडको नामकरणं लोके भवति । [[मीमांसादर्शनम्|मीमांसादर्शन]]<nowiki/>स्य अप्ययमेव सिद्धान्तोऽस्ति । रूढशब्दानामपि व्युत्पतिः अनावश्यका एवास्ति। इदं कथनमपि नोचितमस्ति। वेदे रूढशब्दानां व्युत्पत्तिरनेकत्र दृग्गोचरा भवति - '<nowiki/>'''यदसर्पत तत् सर्पिः''''॥ सर्पिषो व्युत्पत्तिर्गमनार्थकस्य सृप्धातोः निष्पन्नो भवति । अनेन प्रकारेण यास्केन युक्तिव्यूहैः स्पष्टतः प्रतिपादितस्य समस्तं नाम धातुजं भवति तथा वर्त्तमानभाषाशास्त्रस्य अयमेव मान्यः सिद्धान्तः अस्ति।<ref>( निरु० १।१४)</ref>
== वेदाङ्गत्वेन ==
यास्ककृतं निरुक्तन्तु निघण्टुग्रन्थस्य व्याख्याऽस्ति । अतोऽस्य वेदाङ्गत्वमनुपपन्नमित्याशङ्क्य समाधत्ते- '''<nowiki/>'अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्॥''''
अन्यच्च -
'''<nowiki/>'एकैकस्य पदस्य सम्भाविता अवयवार्या यत्र निःशेषेण उच्यन्ते तदपि निरुक्तम्॥'''' अतोऽस्य वेदाङ्गत्वम् अङ्गीक्रियते।
== यास्कस्य निरुक्तम् ==
वेदानां षडङ्गेषु अन्यतमस्य निरुक्तस्य प्रतिधिनित्वं सम्प्रति यास्करचितनिरुक्तमेव करोति। यास्कः स्वस्य निरुक्ते अपि अन्येषां निरुक्ताचार्याणाम् उल्लेखं कृतवान्।
=== विषयवस्तु ===
अस्मिन् निरुक्ते द्वादशाध्यायाः सन्ति । अन्ते द्वावध्यायौ परिशिष्टरूपेण स्तः । अनेन प्रकारेण समग्रग्रन्थोऽयं चतुर्दशाऽध्यायेषु विभक्तोऽस्ति । परिशिष्टभागम् अपि अर्वाचीनमिति वक्तुं न शक्यते । यतो यास्क इव उव्वटोऽपि परिशिष्टभागात्परिचितः आसीत् । [[उव्वटः]] स्वकीये यजुर्वेदभाष्ये<ref>(१८॥७७ )</ref>, निरुक्ते<ref>( १३॥१३ )</ref> समुपलब्धं वाक्यं निर्दिष्टवान्। अतो अस्यांशस्य भोजराजात्प्राचीनत्वं मन्यते।
ग्रन्थस्यारम्भे यास्को [[निरुक्त]]<nowiki/>स्य सिद्धान्तस्य वैज्ञानिकं प्रदर्शनमकरोत् । वेदार्थानुशीलनाय तदाऽनेकपक्षाः आसन् । येषां नामानि अनेन प्रकारेण प्रदत्तानि सन्ति -
(१) अधिदैवतः, (२) अध्यात्मः, (३) आख्यातसमयः (४) ऐतिहासिकाः, (५) नैदानाः, (६) नैरुक्ताः, (७) परिव्राजकाः, (८) याज्ञिकाश्च ।
अनेन मतनिर्देशेन वेदार्थानुशीलनस्य इतिहासोपरि विशिष्टरूपेण प्रकाशः प्रसरति । यास्कस्य प्रभावः अवान्तरकालिकभाष्योपरि अस्ति । [[सायणः|सायण]]<nowiki/>स्तु अस्याः पद्धत्याः अनुसरणं कृत्वा [[वेदभाष्यकाराः|वेदभाष्य]]<nowiki/>रचनायां कृतकार्योऽभवत् । यास्कस्य प्रक्रिया आधुनिकभाषावेत्तॄणां प्रधानतया मान्याऽस्ति । निरुक्तस्य एकमात्रप्रतिनिधित्वेन निरुक्तग्रन्थस्य सर्वातिशायि महत्त्वमस्ति ।
निरुक्तं तु स्वयं भाष्यरूपमेवास्ति। तथाऽपि यत्र तत्रैतादृशं दुरूहमस्ति, यत्तस्य अर्थावबोधने विद्वान् टीकाकारः अपि काठिन्यम् अनुभवति। निरुक्तं व्याख्यातुं विक्रमाब्दात् पूर्वमेव विदुषां ध्यानाकृष्टोऽभवत्। [[पतञ्जलिः|पतञ्जलेः]] [[महाभाष्यम्]] अस्ति प्रमाणं यत् -
'''<nowiki/>'शब्दग्रन्थेषु चैषा प्रभूततरागतिः भवति। निरुक्तं व्याख्यायते। न कश्चिदाह पाटलिपुत्र! व्याख्यायत इति।''''
अत्र पतञ्जलेः सङ्केतः कस्यां दिशि वर्त्तते? इति तु ज्ञातुं न कोऽपि शक्नोति। परन्तु निरुक्तस्य उल्लेखो लभते।
==अधिकारी कः==
अस्य ग्रन्थस्य अधिकारी भवति सः यः ज्ञानमपेक्षन् गुरोः समीपमागच्छति, तपस्वी, मेधावी च भवति । यः ज्ञानं नेच्छति तस्य ज्ञाने सर्वदा असूया भवति । यदि सः मन्त्रार्थविषये कार्यं करोति तर्हि अनर्थमेव भवति । उक्तं हि - '''बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति''' । पश्यामः च यास्कोक्तिम् -
'''न अवैयाकरणाय, नानुपसन्नाय, अनिदंविदे वा, नित्यं हि अविज्ञातुः विज्ञाने असूया, उपसन्नाय तु निर्ब्रूयात्, यो वा अलं विज्ञातुं स्यात् मेधाविने, तपस्विने वा ।''' <br />
निरुक्तस्य प्रथमभागे यास्ककृतभूमिका वर्तते । तदनन्तरं नैघण्टुककाण्डम् । अनन्तरञ्च नैगमकाण्डम्, दैवतकाण्डम्, परिशिष्ठञ्चेति निरुक्तस्य विभागाः । अन्तिम अध्यायद्वयं परिशिष्टकाण्डं यास्ककृतं वा न वेति विवादः वर्तते । किन्तु सायणदुर्गाचार्यादयः चतुर्दशाध्यायाः अपि यास्ककृताः एव इति मन्यन्ते ।<br />
यास्ककृतभूमिकायां ग्रन्थस्य प्रयोजनम्, अधिकारी, निरुक्तस्य विभागाः इत्यादिविषयाः प्रस्तुताः ।<br />
नैघण्टुककाण्डे एकार्थकानामनेकशब्दानां निर्वचनं कृतम् । ते सर्वे पर्यायशब्दाः ।<br />
तदुत्तरं नैगमकाण्डे अनेकार्थकशब्दानां सङ्ग्रहः वर्तते । एते शब्दाः अनवगतसंस्काराः । अर्थात् एतेषां शब्दानां प्रकृतिप्रत्ययभावः अस्पष्टः । तेषां नाम ऐकपदिकाः अथवा नैगमाः । अतैव अस्य काण्डस्य नाम नैगम इति । अत्र २७९ शब्दाः सङ्गृहीताः।<br />
दैवतकाण्डे वेदमन्त्राणां देवतानां (मन्त्रप्रतिपाद्यविषयो देवता) विवरणं वर्तते । देवताविज्ञानं मन्त्रार्थसहायकं कथमित्यस्मिन् काण्डे उच्यते । अस्मिन् १५१ शब्दाः सन्ति ।
==व्याख्याकाराः==
निरुक्तस्य बहवः व्याख्याकाराः सन्ति । तेषु प्रमुखाः [[क्षीरस्वामी]], [[देवराज यज्वा]], [[बर्बरस्वामी]], [[दुर्गाचार्य:|दुर्गाचार्यः]], [[स्वामी ब्रह्ममुनि परिव्राजक:|स्वामी ब्रह्ममुनि परिव्राजकः]] इत्यादयः ।
ब्राह्मणग्रन्थानामनन्तरं प्रथमवेदभाष्यं निरुक्तमेव । अस्मिन् ग्रन्थे नतु सर्वे वैदिकशब्दाः निर्वचिताः। न च सर्वे [[मन्त्रा:|मन्त्राः]] व्याख्याताः । परन्तु निर्वचनप्रकारः, मन्त्रार्थपरिज्ञानविज्ञानमत्र प्रदर्शितः । अस्य मार्गदर्शनेन वेदार्थपरिज्ञानेच्छुकाः वेदाध्ययनं कुर्युः।
=== दुर्गाचार्यः ===
निरुक्तस्य प्राचीनोपलब्धः टीकाकारो दुर्गाचार्य एवास्ति । किञ्चायं न आद्यः टीकाकारोऽस्ति। स्वकीयां दुर्गवृत्त्यामयं प्राचीनटीकाकतॄणामुल्लेखं कृतवान्। अस्यामेव वृत्त्यां चतुर्षु स्थलेषु अनेन कस्यापि वार्तिककर्तुः उल्लेखः कृतः।<ref>(निरुक्तवृत्तिः ११, ६॥११, ८॥४१, ११॥१३ )</ref> [[स्कन्दस्वामी]] अप्यस्य पूर्वटीकाकारस्य उल्लेखं कृतवान् । 'तस्य पूर्वटीकाकारैर्वर्वरस्वामिभगवद्दुर्गप्रभृतिभिर्विस्तरेण व्याख्यातस्य।' अस्यां वृत्त्यां निरुक्तस्य, तस्मिन्नूल्लिखितमन्त्राणां च सविस्तरेण व्याख्यामकरोत् । अत्र निरुक्तस्य प्रतिशब्दः समुद्धृतोऽस्ति । निरुक्तप्रतिपादिताः विषयाः अधःस्थितेन श्लोकेनोपस्थाप्यन्ते —
'''<nowiki/>'वर्णागमो वर्णविपर्यस्य द्वौ चापरौ वर्णविकारनाशौ।'''
'''घातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्॥''''
दुर्गाचार्येण निरुक्तस्य विषये कथितम् -
'''<nowiki/>'ईदृशेषु शब्दार्थन्यायसङ्कटेषु मन्त्रार्थघटनेषु दुरवबोधेषु मतिमतां मतयो न प्रतिहन्यन्ते, वयं त्वेतावदत्रावबुद्ध्यामह इति'।'''<ref>(७॥३१)</ref>
==== परिचयः ====
क्वचित् क्वचिदनेन स्वयम् अभिनवपाठस्य योजनाऽपि कृतेति । यदि इयं वृत्तिः समुपलब्धा न भवेत्, तर्हि अस्य अवबोधनं दुरूहो व्यापारो भवेत्। दुर्गाचार्यस्य विषये ऐतिहासिकं ज्ञानम् अतिस्वल्पमस्ति। निरुक्तव्याख्यायाम् अयं स्वं कापिष्ठलशाखाध्यायी वसिष्ठगोत्रीयो ब्राह्मणमलिखत्।<ref>४॥१४</ref> प्रत्येकस्य अध्यायस्य अन्तिमायां पुष्पिकायामनेन प्रकारेण लिखितमस्ति - '''‘इति जम्बूमार्गाश्रमवासिन अाचार्यभगवद्दुर्गस्य कृतौ ऋज्वर्थायां निरुक्तवृत्तौ ___ अध्यायः समाप्तः॥''''
अनेन जम्बूमार्गाश्रमस्य निवासी अासीत् इति मन्यते। किञ्च स्थानमिदं कुत्रास्तीति तु अज्ञातम्। डा० लक्ष्मणस्वरूपमहोदयस्त्वेनं [[काश्मीर]]<nowiki/>-राज्यस्य प्रसिद्धनगरं ‘जम्बू' मन्यते । किञ्च भगवद्दत्तमहोदयस्य इदमनुमानमस्ति यदयं दुर्गाचार्यो गुर्जरप्रान्तस्य निवासी अासीत्। यतोऽनेन [[मैत्रायणीसंहिता]]<nowiki/>याः स्वव्याख्यायामुद्धरणानि प्रदत्तानि। प्राचीनकाले संहितेयं गुर्जरप्रान्ते एव विशेषरूपेण प्रसिद्धा आसीत् । ईदृशमनुमानेऽयमेवाधारोऽस्ति इति।
यथार्थरीत्या दुर्गाचार्यस्य समयनिरूपणं नाभूत् । अस्याः वृत्त्याः प्राचीना हस्तलिखिता वृत्तिः १४४४ विक्रमाब्दस्यास्ति । अतो दुर्गाचार्यः अस्मात् कालात्प्राचीनतरः मन्यते । [[ऋग्वेद]]<nowiki/>स्य भाष्यकारः [[उद्गीथः|उद्गीथो]] दुर्गाचार्यस्य वृत्त्या परिचितः आसीत् । आचार्यस्य द्गीथस्य समयः विक्रमाब्दस्य सप्तमशतकमस्ति । अतो दुर्गाचार्यमपि सप्तमशतकाद् अर्वाचीनत्वेन स्वीक्रियते।
=== स्कन्दमहेश्वरः ===
निरुक्तस्य अपरासु टीकासु महेश्वरस्य टीका [[लाहोर|लाहौर]]<nowiki/>-नगरीतः प्रकाशिताऽभवत् । टीकेयं प्राचीना पाण्डित्यपूर्णा चाऽस्ति । अयं स एव स्कन्दस्वामी वर्तते यो हि [[ऋग्वेद]]<nowiki/>स्य भाष्यं लिलेख । अयं गुर्जरस्य प्रख्यातस्य '[[वलभीपुरम्|वलभी]]'-नगरस्य निवासी आसीत् । अस्य पितुर्नाम भर्तृध्रुव आसीत् । अस्य समयस्तु विक्रमाब्दस्य सप्तमशतकस्योत्तराद्धमस्ति । अस्य ऋग्वेदस्य भाष्यम् अल्पाक्षरत्वेनापि सारगर्भितमासीत् ।
=== वररुचिः ===
{{मुख्यलेखः|स्कन्दस्वामी}}वररुचि-नाम्नः कश्चन विद्वान् निरुक्तनिचय-नामिकायाः वृत्त्याः रचयिता अासीत् । इयं नास्ति निरुक्तस्य साक्षाद् व्याख्या, अपि तु निरुक्तसिद्धान्तस्य प्रतिपादकानां शताधिकानां श्लोकानां स्वतन्त्रा व्याख्याऽस्ति । निरुक्तस्य आसां टीकानाम् अनुशीलनेन भाषाशास्त्रीयज्ञातव्यस्य विषयस्य ज्ञानं प्राप्यते। निरुक्ते, तस्य वृत्त्यां च प्रदत्तसङ्केतं गृहीत्वैव मध्यकालिकाः विद्वांसः वेदभाष्यरचनायां साफल्यमाप्नुवन् । मध्यकालिकभाष्यकर्त्तारो विद्वांसः स्वसिद्धान्तनिर्माणे एभिर्ग्रन्थैरेव प्रेरणामलभन्त । एतेषां ग्रन्थानामैतिहासिकं महत्वं वेदस्यार्थानुचिन्तनस्य विषये विशिष्टमस्ति । अस्य ग्रन्थस्योद्धरणं प्रतिष्ठितैः आचार्यैः कृतमतम्।
==अधिकज्ञानाय पठ्यताम्==
# [[यास्कभूमिका]]
# [[नैघण्टुककाण्डम्]]
# [[नैगमकाण्डम्]]
# [[दैवतकाण्डम्]]
# [[परिशिष्टम्]]
# [[निर्वचनप्रक्रिया]]
{{वैदिकविज्ञानम्}}
== सम्बद्धाः विषयाः ==
* [[व्याकरणम्]]
* [[छन्दः]]
* [[यास्कः]]
* [[शाकटायनः]]
== उद्धरणम् ==
{{Reflist|2}}
[[वर्गः:निरुक्तम्]]
[[वर्गः:संचित्रसारमञ्जूषे योजनीये]]
[[वर्गः:वेदाङ्गानि]]
bx9gxaosrym97wlrxfdx69p8ky2fv41
फलकम्:No article text
10
12565
470180
119146
2022-08-22T02:56:24Z
Minorax
26516
vva
wikitext
text/x-wiki
{{#switch: {{FULLPAGENAME}}
| Enter your new article name here =
{{Editnotices/Page/Enter your new article name here}}
| Wikipedia talk:Articles for creation/Enter your new article name here =
{{Editnotices/Page/Wikipedia talk:Articles for creation/Enter your new article name here}}
| #default =
{{#switch: {{lc: {{SUBJECTSPACE}}#{{SUBPAGENAME}} }}
| user#skin.js
| user#skin.css = {{skin-file disambig}}
| #default =
{{fmbox
| type = system
| id = noarticletext
| image = none
| textstyle = padding: 0.6em 0.9em; <!--Large box needs more padding-->
| text =
{{#ifexist: {{FULLPAGENAME}})
| <div class="searchdidyoumean">Did you mean: [[{{FULLPAGENAME}})|{{FULLPAGENAME}}<em>)</em>]]</div>
}}{{#ifeq: {{NAMESPACE}} | {{ns:0}}
| <div class="infobox" id="sisterproject" style="width:20em; font-size:90%; float:right; padding:0.5em;">'''{{PAGENAME}}''' हि विकिपीडियस्य [[Special:SiteMatrix|भगिनीकर्ययोजना]] दृशतु:
<table style="background:none; margin:auto;" cellpadding="1" cellspacing="0">
<tr>
<td align="center" >[[File:Wiktionary-logo-en.svg|30x30px| ]]</td>
<td>{{sec link auto|wiktionary|Special:Search/{{PAGENAME}}|विकिशब्दकोशः}} (शब्दकोश पर्यायशब्दकोशश्च)</td></tr>
<tr>
<td align="center" >[[File:Wikibooks-logo.svg|30x30px| ]]</td>
<td>{{sec link auto|wikibooks|Special:Search/{{PAGENAME}}|विकिपुस्तकानि}} (सौजन्य पाठपुस्तकानि)</td></tr>
<tr>
<td align="center" >[[File:Wikiquote-logo.svg|30x30px| ]]</td>
<td>{{sec link auto|wikiquote|Special:Search/{{PAGENAME}}|विकिसूक्तयः}} (एकः स्वतन्त्र-नैगमसङ्ग्रह)</td></tr>
<tr>
<td align="center" >[[File:Wikisource-logo.svg|30x30px| ]]</td>
<td>{{sec link auto|wikisource|Special:Search/{{PAGENAME}}|विकिस्रोतः}} (स्वतंत्र-सामग्री पुस्तकालयः)</td></tr>
<tr>
<td align="center" >[[File:Wikiversity-logo.svg|30x30px| ]]</td>
<td>{{sec link auto|wikiversity|Special:Search/{{PAGENAME}}|विकिभर्सिटी}} (मुक्त श्रोत व कार्य)</td></tr>
<tr>
<td align="center" >[[File:Commons-logo.svg|30x30px| ]]</td>
<td>{{sec link auto|commons|Special:Search/{{PAGENAME}}|समान}} (समान मिडिया स्थल)</td></tr>
<tr>
<td align="center" >[[File:Wikinews-logo.svg|30x30px| ]]</td>
<td>{{sec link auto|wikinews|Special:Search/{{PAGENAME}}|विकिवार्ताः}} (मुक्त समाचार)</td></tr>
</table></div>
}}{{#ifeq: {{NAMESPACE}} | User talk
| एतद योजकाय '''न सन्देशा''' तत्थापि अप्रेषतः।
| '''विकिपीडिय {{#switch: {{NAMESPACE}}
| {{ns:0}} = एकः लेख
| {{TALKSPACE}} = एकः [[{{ns:Help}}:Talk page|सम्भाषणम्]]
| {{ns:Category}} = एकः [[{{ns:Project}}:Category|वर्ग]]
| {{ns:Help}} = एकः [[{{ns:Help}}:Contents|साहाय्य]] पृष्ठ
| {{ns:Portal}} = एकः [[{{ns:Project}}:Portal|महाद्वार]]
| {{ns:Template}} = एकः [[{{ns:Project}}:Template messages|फलकम्]]
| {{ns:User}} = a [[{{ns:Project}}:User page|योजकपृष्ठ]]
| {{ns:Project}} = a [[{{ns:Project}}:Project namespace|कर्ययोजनपृष्ठ]]
| #default = एकः {{NAMESPACE}} पृष्ठ
}} आप्तनामनेन न अस्ति.''' {{#ifeq: {{PAGENAME}} | {{SUBPAGENAME}}
| {{#switch: {{NAMESPACE}}
| {{ns:0}} = ।
पर्यायशीर्षकाय अक्षराणि च कृपया [[{{ns:Special}}:Search/{{PAGENAME}}|विकीपीडीये ''{{PAGENAME}}'' हि]] अन्वेषणं करोतु।
| {{ns:Category}} = प्रति आयीका यदि वर्ग अपरनामने अधः छादित अस्ति, कृपया [[Portal:Contents|वर्तमानवर्ग]] अन्वेषणं करोतु।
| {{ns:Help}} = प्रति आयीका यदि साहाय्यविषय अपरनामने अधः छादित अस्ति, कृपया [[{{ns:Help}}:Contents|वर्तमानसाहाय्यपृष्ठा]] अन्वेषणं करोतु।
| {{ns:Portal}} = प्रति आयीका सामान्यविषय, कृपया [[{{ns:Portal}}:Browse|वर्तमानद्वारवर्त्मना]] अन्वेषणं करोतु।
| {{ns:Template}} = प्रति आयीका यदि स्तरसंदेश अपरनामने उपलभ्य अस्ति, कृपया [[{{ns:Project}}:Template messages|वर्तमानफलकमा]] अन्वेषणं करोतु।
| {{ns:User}} = अन्तः समान, एतद पृष्ठ [[{{ns:User}}:{{PAGENAME}}]] द्वारा रचयतु एवः संपादयतु . यदि अन्तः शङ्का, कृपया साक्ष्यं ददातु "{{PAGENAME}}" [{{fullurl:Special:ListUsers|username={{urlencode:{{PAGENAME}}}}&limit=1}} '''सत्''']।
}}
| एतद पृष्ठ रच पूर्वम्, कृपया [[{{ns:Project}}:Subpages]] पशयतु।
}}
}}
{{#ifeq:{{{nopermission}}}|yes||* '''[{{fullurl:{{FULLPAGENAME}}|action=edit}} {{
#switch: {{NAMESPACE}}
| User talk = ''{{PAGENAME}}'' प्रति संदेश प्रेषतु
| #default = ''{{FULLPAGENAME}}'' {{#if:{{NAMESPACE}}|पृष्ठ|लेख}} आरम्भं करोतु
}}]'''{{
#switch: {{NAMESPACE}}
| {{ns:0}} = अथवा [[{{ns:Project}}:अभियाचितलेखा|पुनरावेदन समाचिनोति]]।
}}
}}{{#switch: {{NAMESPACE}}
| User talk =
| #default =
* वर्तमान{{#if:{{NAMESPACE}}|पृष्ठा|लेखा}}{{#ifeq:{{NAMESPACE}}|{{ns:0}}|| नामन्अवकाश {{NAMESPACE}}}} [[{{ns:Special}}:Search/{{#ifeq:{{NAMESPACE}}|{{ns:0}}||{{NAMESPACE}}:}}{{PAGENAME}} | "''{{#ifeq:{{NAMESPACE}}|{{ns:0}}||{{NAMESPACE}}:}}{{PAGENAME}}''" हि अन्वेषणं करोतु]]।
* [[{{ns:Special}}:WhatLinksHere/{{FULLPAGENAME}}|विकीपीडीये मध्ये एतद शीर्षकस्य संबन्ध कुर्वा पृष्ठा हि दृशतु]]।
}}
<div id="noarticletext_technical">
----
'''अपरहेतु:'''
* If {{#switch: {{NAMESPACE}}
| {{ns:File}} = एकः चित्र
| एकः पृष्ठ
}} सद्य अत्र अरचतः, एतद अपि नाम तथापि न अक्षिभु यतः सूछनाधार अद्यतन अन्तः विलम्बन; विरलसूक्ष्म प्रतिपालयतु एवः [{{fullurl:{{FULLPAGENAME}}|action=purge}} रेचक] कार्यकलाप परीक्षते।
* विकीपीडीये शीर्षका विना प्रथमवर्ण '''[[:en:Case sensitivity|विषयसंवेदनशील]]''' अस्ति; कृपया पर्यायविषया परीक्षण करोतु एवः अत्र उचितशीर्षक प्रति एकः [[:en:Wikipedia:Redirect|विचालयति]] संयोजयतु।
* यदि पृष्ठ अअपमर्जतः, '''[{{fullurl:Special:Log/delete|page={{FULLPAGENAMEE}}}} परित्यागलोग]'''स्य परीक्षण करोतु, एवः [[:en:Wikipedia:Why was my page deleted?|Why was my page deleted?]] पशयतु।
</div>
}}<!--End fmbox-->
}}
}}<!--End switch: {{FULLPAGENAME}}--><noinclude>
{{documentation}}
</noinclude>
najgom75yc773xpp5z4y1idtwkp77su
अथ योगानुशासनम् (योगसूत्रम्)
0
14546
470178
470170
2022-08-21T14:20:39Z
NehalDaveND
9230
/* विशेषम् */
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox settlement
|name= अथ योगानुसाशनम्
|native_name = <br>'''[[समाधिपादः|समाधिपादस्य]] प्रप्रथमं सूत्रम्'''
|image = [[चित्रम्:अथ योगानुसाशनम्.jpg|350px]]
| subdivision_type = सूत्रसङ्ख्या
| subdivision_name = १/१
| subdivision_type1 = सूत्रप्रकारः
| subdivision_name1 = अधिकारसूत्रम्
| subdivision_type2 = पूर्वसूत्रम्
| subdivision_name2 = ----
| subdivision_type3 = अग्रिमं सूत्रम्
| subdivision_name3 = [[योगश्चित्तवृत्ति निरोधः (योगसूत्रम्)|योगश्चित्तवृत्ति निरोधः]]
}}
'''अथ योगानुसाशनम्''' ({{IPA audio link|अथ योगानुशासनं.wav}} {{IPAc-en|ˈ|ə|θ|_|j|oː|g|aː|n|ʊ|S|aː|s|ə|n|ə|m}}) इत्येतत् [[पातञ्जलयोगसूत्र]]<nowiki/>स्य प्रथमस्य [[समाधिपाद]]स्य प्रप्रथमं सूत्रं विद्यते ।
== सूत्रान्वयः ==
अथ = अत्र आरभ्यते । योग + अनुशासनम् = (अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य) योग इत्याख्यस्य शास्त्रस्य आरम्भः भवति ।
== सूत्रार्थः ==
अत्र अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य योगशास्त्रस्य आरम्भः भवति ।
== व्यासभाष्यम् ==
अथेत्ययमधिकारार्थः । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् । योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्तं, मूढं, विक्षिप्तम्, एकाग्रं, निरुद्धमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते । यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमभिमुखं करोति, स सम्प्रज्ञातो योग इत्याख्यायते । स च वितर्कानुगतः, विचारानुगतः, आनन्दानुगतोऽस्मितानुगत इत्युपरिष्ठात्प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥१॥
=== भाष्यार्थः ===
"अथ" इत्यस्य शब्दस्य प्रयोगः अधिकारार्थे, आरम्भार्थे च कृतः । [[अष्टाङ्गयोगः|योगाङ्गानाम्]] उदपदेशकस्य शास्त्रस्य आरम्भः भवति इति भावः । योग इत्युक्ते [[समाधिः]] । चित्तस्य सर्वासु भूमिषु विद्यमानः चित्तस्य धर्म एव योगः । अर्थात् चित्ते सर्वत्र व्याप्तः धर्म एव योग इत्यर्थः । चित्तस्य पञ्चभूमयः सन्ति । यथा – क्षिप्तचित्तं (व्यग्रता), मूढचित्तं (स्मृतिशून्यता), विक्षिप्तचित्तं (प्रसङ्गेषु स्थिरता), एकाग्रचित्तं, निरुद्धचित्तं च । विक्षेपानन्तरं विक्षिप्ते चित्ते गौणरीत्या अनुभूयमाना स्थिरता योगपक्षत्वेन न परिगण्यते । परन्तु एकाग्रे चित्ते यस्याः उपस्थितिः विद्यते, या सत्पदार्थान् प्रकाशयति, या क्लेशान् क्षिणोति (क्षीणं करोति), या कर्मबन्धनान् शिथिलीकरोति (शिथिलं करोति), या निरोधस्थितिं जनयति, सा सम्प्रज्ञातस्य समाधेः अवस्था एव योग इत्युच्यते । अग्रे सः (योगः) वितर्केण, विचारेण, आनन्देन, अस्मितया च युक्तोस्ति इति कथयिष्यामः । सर्वासां वृत्तीनां निरोध एव असम्प्रज्ञातः (विशुद्धा अपगतचेतनावस्था, unconscious) समाधिः उच्यते <ref>{{Cite book|author= रामकृष्ण तुलजाराम व्यास|title=પતંજલિનાં યોગસૂત્રો|publisher=સંસ્કૃત સાહિત્ય અકાદમી, ગાંધીનગર| isbn=978-93-83317-06-6|page=१|year=२०१३}}</ref>।
== तत्त्ववैशारदीभाष्यम् ==
इह हि भगवान्पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य संक्षेपतस्तात्पर्यार्थं प्रेक्षावत्पवृत्त्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादाविदं सूत्रं रचयाञ्चकार - अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं न्याचष्टे – अथेत्ययमधिकारार्थः । 'अथैष ज्योति'रितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति ह शास्त्रमाह 0 अनुशिष्यतेऽनेनेति व्युत्पत्त्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाम्नायते - तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवत्मानं पश्येत् (बृ. ४/४/२३) इति । शिश्यप्रश्नतपश्चरणरसायनाद्युपयोगानन्तर्यस्य च सम्भवेऽपि नाभिनाधनम् । शिष्यप्रतीतिप्रवृत्त्योरनुपयोगात्प्रमाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वादप्रामाणिकत्वे च तद्भावेऽपि हेयत्वात् ।। एतेन तत्त्वज्ञानचिख्यापयिषयोरानन्तर्याभिधानं परास्तात् ।। अधिकारार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रवर्तितश्च भवतीति । निःश्रेयस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् । ननु किं सर्वसन्दर्भगतोऽथशब्दोऽधिकारार्थः, तथा स'त्यथातो ब्रह्मजिज्ञासा' (ब्र.सू. १/१/१) इत्यादावपि प्रसङ्ग इत्यत आह अयमिति । ननु - "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्रकर्तृत्वमित्याशङ्क्य सूत्रकारेणानुशासनमित्युक्तम् । शिष्टस्यानुशासनं न तु शासनमित्यर्थः । यदायमथशब्दोऽधिकारार्थस्तदैष वाक्यार्थः सम्पद्यत इत्याह – योगानुशासनं शास्त्रमधइकृतमिति । ननु व्यत्पाद्यमानत्या योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह – वेदितव्यमिति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः । स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्यत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्रव्यापारगोचरतया तु योग एवाधिकृत इति भावः । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानोदकुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् । शब्दसन्देहनिमित्तमर्थसन्देहमपनयति – योगः समाधिरिति । युज् समाधौ (धा.पा. ४-६७) इत्युस्माद्व्युत्पन्नः समाध्यर्थो न तु युजिर् योगे (धा.पा. ७/७) इत्यस्मात्संयोगार्थ इत्यर्थः । ननु समाधिरपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम् । न चाङ्गमेवाङ्गीत्यत आह – स च सार्वभौमः । चस्त्वर्थोऽङ्गादङ्गिनं भिनत्ति । भूमयोऽवस्था वक्ष्यमाणा मधुमती-मधुप्रतीका-विशोका-संस्कारशेषास्ताश्चित्तस्य । तासु सर्वासु विदितः सार्वभौमश्चित्तवृत्तिनिरोधलक्षणो योगः । तदङ्गं तु समाधिर्नैवम्भूतः । व्युत्पत्तिनिमित्तमाज्ञाभिधानं चैतद्योगः समाधिरिति । अङ्गाङ्गिनोरभेदविवक्षामात्रेण प्रवृत्तिनिमित्तं योगशब्दस्य चित्तवृत्तिनिरोध एवेति परमार्थः । वृत्तयो ज्ञानन्यात्माश्रयाण्यतस्तन्निरोधोऽप्यात्माश्रय एवेति ये पश्यन्ति तन्नरासायाह – चित्तस्य धर्म इति । चित्तशब्देनान्तःकरणं बुद्धिमुपलक्षयति । न हि कूचस्थनित्या चितिशक्तिरपरिणामिनी ज्ञानधर्मा भवितुमर्हति बुद्धिस्तु भवेदिति भावः । स्यादेतत् – सार्वभौमश्चेद्योगो हन्त भोः क्षिप्तमूढविक्षिप्ता अपि चित्तभूमयः । अस्ति चपरस्परापेक्षया वृत्तिनिरोधोऽप्यास्विति तत्रापि योगत्वप्रसङ्ग इत्याशङ्क्य हेयोपादेयभूमीरूपयन्यस्यति – क्षिप्तमित्यादि । क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्यमस्थिरम् । मूढं तु तमःसमुद्रेकान्नद्रावृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषो स्थेमबहुलस्य कादाचित्कः स्थेमा । सा चास्यास्थमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यनन्तरायजनिता वा । एकाग्रमेकतानम् । निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम् । तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्तिनरोधे पारम्पर्येणापि निःश्रेयसतेहुभावाभावत्तद्रूघोतकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति न तयोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्कस्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वमिति निषेधति । तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कः सम्भूतविषयश्चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात्, यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं, प्रागेव कार्यकरणम् । न खलु दहनानन्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यङ्कुराय कल्पय इति भावः ।
यदि विक्षेपोपसर्जनीभूतः समाधिर्न योगः कस्तर्हीत्यत आह – यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाग्रेत्यत उक्तम् – सदिति । शोभनं नितान्ताविर्भूतं सत्त्वम् । तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि तत्त्वज्ञानमागमाद्वानुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यानुच्छिनत्ति द्विचन्द्रदिङ्मोहादिष्वनुच्छेदकत्वादत आह – प्रेति । प्रशब्दो हि प्रकर्षं द्योतयन्साक्षात्कारं सूचयति । अविद्यामूलत्वादस्मितादीनां क्लेशानां, विद्यायाश्चाविद्योच्छेदपूत्वाद्विद्योदये चाविद्यादिक्लेशसमुच्छेदो विरोधित्वात्कारणविनाशाच्चेत्याह – क्षिणोति चेति । अत एव कर्मरूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वमभिमतं कार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसादयति । वक्ष्यति हि 'सति मूले तद्विपाकः' (२/१३) इति । किं च निरोधमभिमुखं करोत्यभिमुखीकरोति । स च सम्प्रज्ञातश्चतुष्प्रकार इत्याह – स चेति । असम्प्रज्ञातमाह – सर्ववृत्तीति । रजस्तमोमयी किल प्रमाणादिवृत्तिः सात्त्विकीं वृत्तिमुपादाय सम्प्रज्ञाते निरुद्धा । असम्प्रज्ञाते तु सर्वासामेव निरोधः इत्यर्थः । तदिह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्वभौम इति सिद्धम् ।। १ ।।
=== भाष्यार्थः ===
आरभ्यमाणस्य विषयस्य संक्षेपेण उपस्थापनार्थं, बुद्धिमतां प्रवृत्त्यै, श्रोतॄणां सरलतया अवबोधनार्थं च भगवान् [[पतञ्जलिः]] प्रप्रथमसूत्रत्वेन 'अथ योगानुशासनम्' इति सूत्रं व्यरचयत् । यथा "अथ एष ज्योतिः" इत्यत्र इतः परम् अत्र प्रकाशः अभवत् इत्यर्थे प्रयुक्तः, तथा इतः परम् इति भावं न द्योतयति । सूत्रे प्रयुक्तेन "अथ" इत्यनेन शब्देन सः कथयति यत्, अत्र अथ इति शब्दः आरम्भार्थे प्रयुक्तोऽस्ति । अनुशासनम् अर्थात् उपदेशात्मकं शास्त्रम् । येन अनुशासनं क्रियते तत् शास्त्रम् । एतस्य शास्त्रस्य प्रवृत्तिः शमदमादीनामनन्तरं न भवति, अपि तु तत्त्वज्ञानस्य व्याख्यानस्य इच्छायै उत गुरोः तत्त्वविषयकं ज्ञानप्राप्तेः इच्छायै भवति । तत्त्वज्ञानस्य विषये वक्तुं, ज्ञातुं च या इच्छा भवति, तस्याः समनन्तरं तत्त्वं ज्ञातुम् इच्छा, तत्त्वज्ञानं च उत्पद्यते । यथा वेदे उक्तं - "अतः शान्तः, दान्तः, उपरतः, तितिक्षुः, समाहितः च भूत्वा आत्मनि एव आत्मानं पश्यति" इति (बृ. उ. ४/४/२३) । यद्यपि शिष्येभ्यः प्रश्नः, तपः, रसायणम् इत्यादीनाम् उपयुक्तं ज्ञानं दत्त्वा शास्त्रनिर्माणं सम्भवः आसीत्, तथापि अत्र तानि शास्त्राणि न उक्तानि । यतो हि योगशास्त्रस्य प्रामाण्ये शिष्यस्य प्रतीतिः (अवगमनं), प्रवृत्तिः च अनुपयुक्ते स्तः । तयोः अभावे सत्यपि योगशास्त्रम् उपादेयम् अस्ति (to be allowed) । शिष्येषु प्रतीतिः, प्रवृत्तिः च सत्यायाम् अपि यदि शास्त्रम् अप्रामाणिकं स्यात्, तर्हि शास्त्रस्य निर्माणं न करणीयम् । एवं तत्त्वज्ञाने, तस्य व्याख्यायाः इच्छायां च आनन्तर्यम् अस्ति इति कथनस्य निराकणम् अभवत् । अत्र प्रयुक्तेन "अथ" शब्देन प्रारम्भः इत्यर्थं स्वीकुर्मः चेत्, शास्त्रैः यस्य प्रारम्भः, उपस्थापनं च भवति, सः योगः इति अर्थबोधः भवति । तेन योगेन सर्वेषां शास्त्राणां तात्पर्यार्थस्य व्याख्यानेन (बोधयित्वा, to teach) शिष्याः सरलताय बोधयितुं शक्यन्ते । यतो हि [[वेदः|श्रुतिषु]], [[स्मृतयः|स्मृतिषु]] [[इतिहासः|इतिहासेषु]], [[पुराणानि|पुराणेषु]] च समाधिः मोक्षस्य हेतुत्वेन प्रसिद्धः अस्ति ।
प्रथमः प्रश्नः समुत्पद्यते यत्, किं सर्वेषु सन्दर्भेषु "अथ" शब्दः आरम्भार्थे एव स्वीक्रियते ? यदि एवं भवति, तर्हि "[[अथातो ब्रह्म जिज्ञासा]]" इत्यादिषु अपि आरम्भार्थकः "अथ" शब्दः स्वीकरणीयः भवति । अतः "अत्र" (योगशास्त्रं यावत्) इत्युक्तम् । तथा च [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]] उक्तम् अस्ति यत्, "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति । एवं पतञ्जलिः योगशास्त्रस्य कर्ता कथं भवितुम् अर्हति ? इति शङ्कायाः समाधानाय सूत्रकारेण "अनुशासनम्" इत्यस्य शब्दस्य प्रयोगः कृतः । अग्रे उपदिष्टस्य पुनरुपदेशः अस्ति, न तु शासनत्वेन अर्थः ग्रहणीयः । "अथ" शब्दः आरम्भार्थकः गृह्यते चेदेव, "पुरा उक्तस्य योगशास्त्रस्य अनु-(पश्चात्)-उपदेशकं शास्त्रम् आरभ्यते इत्यर्थः भवति ।
[[योगदर्शनम्|योगशास्त्रस्य]] उपदेशात्मकः ग्रन्थः आरम्भ्यते एवं किमर्थम् उक्तम् ? अत्र तु स्वयं योगस्य एव चर्चा भविष्यति । अतः "वेदितव्यम्" इत्यस्य ज्ञानम् आवश्यकम् इत्युक्तम् । योगस्य चर्चायै एव ग्रन्थस्यास्य आरम्भः भवति, परन्तु योगस्य प्रतिपादनं तस्य योगस्य विषये चर्चात्मकस्य ग्रन्थस्य निर्माणेनैव भवितुम् अर्हति । उपदेशकस्य कार्यं साधनेनैव सिद्ध्यति, साक्षात् साध्यस्योपरि प्रवृत्तिना न सिद्ध्यति । उपदेशकस्य कार्यसम्बद्धाय विषयाय चर्चां कर्तुं योगविषयकग्रन्थस्य आरम्भः भवति इत्यर्थः । ग्रन्थस्य विषयः योगः इति ।
आरम्भार्थे प्रयुक्तस्य "अथ" शब्दस्य श्रवणं नीयमानस्य पूर्णकुम्भस्य दर्शनवत् मङ्गलकारकम् अस्ति इति बोध्यम् । योगशब्दस्य प्राथमिकार्थस्य कारणेन उत्पद्यमानानां सन्देहानां निवारणाय "योगः समाधिः" इत्युक्तम् । "युज्" समाधौ इत्यस्मात् धातोः निष्पन्नः योगशब्दः चित्तसमाधानस्य अर्थं बोधयति । अपरत्र "युजिर्" योगे इत्यस्मात् धातोः निष्पन्नः योगशब्दः संयोगं द्योतयति ।
द्वितीयः प्रश्नः समुद्भवति यत्, अग्रे उच्यते, योगरूपिणः अङ्गिनः समाधिः केवलम् अङ्गमात्रम् अस्ति इति । अङ्गाङ्गिनोः एकरूपता कथम् ? । अतः "स च सार्वभौमः चित्तधर्मः" इत्युक्तम् । अर्थात् चित्तस्य सर्वासु भूमिषु उपलब्धः सः तस्य धर्मः अस्ति इति । अत्र प्रयुक्तः "च" (and, और) शब्दः अङ्गाङ्गिनोः भेदं द्योतयति । भूमयः अग्रे उच्यते । सः योगः मधुमती, मधुप्रतीका, विशोका इत्यादिषु चितावस्थायां यत्र केवलं संस्करः अवशिष्टो भवति, तत्र विद्यमानत्वात् सः योगः "सार्वभौमः" चित्तवृत्तिनिरोधकः उच्यते । सः योगाङ्गमात्रात् समाधेः भिन्नः अस्ति ।
अत्र "योग" शब्दः ध्यानार्थे प्रयुक्तः । योगशास्त्रस्य अभ्यासाय, अध्ययनाय च प्रोत्साहनं दातुं तस्य प्रतिपादनं कृतम् अस्ति । अतः अङ्गाङ्गिनोः भेदस्योपरि भारः न प्रदत्तः । योगशब्दस्य उचितार्थः चित्तवृत्तिनिरोधः अस्ति । केषाञ्चन चिन्तनम् अस्ति यत्, वृत्तयः ज्ञानरूपित्वात् आत्मनः आश्रयेण तिष्ठन्ति । अतः वृत्तिनिरोधोऽपि आत्माश्रयेण एव सिद्ध्यतीति । तेषां खण्डनं कर्तुं "चित्तस्य धर्म" इत्युक्तम् । चित्तशब्देन अन्तःकरणरूपिणः बुद्धेः बोधः भवति । ज्ञानं कूटस्थस्य (the supreme soul), नित्यस्य (constantly), अपरिणामिनः (unchangeable) चित्तशक्तेः धर्मः नास्ति, अपि तु बुद्धेः धर्मः भवेत् इति भावः ।
एवं भवेत्, परन्तु चित्तस्य सर्वासु भूमिकासु योगः यदि व्यापकः अस्ति, तर्हि क्षिप्तं, विक्षिप्तं, मूढम् इत्येताः अवस्थाः अपि योगत्वेन परिगण्यन्ते । यतो हि तासु अपि अन्यवृत्तीनाम् अपेक्षया अपरवृत्तीनां निरोधो भवति । अतः योगाय उपयोगिनः, अनुपयोगिनः च भूमेः बोधं कारयितुं "क्षिप्तम्" इत्यादीनां भेदं वर्णयति ।
१. क्षिप्तम् अर्थात् [[रजोगुणः|रजोगुण]]<nowiki/>प्रभावेण तत्सम्बद्धेषु विषयेषु रमणं (निरन्तरं व्यग्रं) । क्षिप्तं स्वाभाविकान्तरयेभ्यः उत व्याधि-स्त्यानादिभ्यः अन्तरायेभ्यः समुत्पद्यते इति बोध्यम् । व्याधि-स्त्यानादयः अन्तरायाः अग्रे वक्ष्यते ।
२. मूढम् अर्थात् [[तमोगुणः|तमोगुण]]<nowiki/>प्रभावेण निद्रावृत्तियुक्तम् ।
३. विक्षिप्तम् अर्थात् क्षिप्तात् विशिष्टम् । विशेष-शब्दः अस्थिरतायां कदाचित् जायमानां स्थिरतां द्योतयति ।
४. निरुद्धम् अर्थाच् सर्वाः वृत्तयः स्थगिताः भवन्ति, केवलं तासु संस्काराः शेषाः भवन्ति तादृशं चित्तम् ।
५. एकाग्रम् अर्थात् एकस्मिन् विषये स्थिरता ।
क्षिप्तं, मूढं च परस्परविरोधिनौ सत्यौ अपि परम्पानुगुणं मोक्षस्य अकारणत्वात्, मोक्षस्य विघातकत्वात्, योगपक्षात् बहु दूरे स्थितत्वात् च तयोः योगभानस्य निषेधः न कृतः । परन्तु विक्षिप्तं चित्तं बहुधा सद्वस्तुषु स्थिरत्वे प्राप्ते सति समाधेः अवस्थाम् अनुभवति, सः योगपक्षे न परिगण्यते । यतो हि तादृशी स्थिरता विपक्षरूपिचञ्चलतायाः गौणपरिणामत्वेन उत्पद्यते । विरोधिपक्षेन सह विद्यमानस्य स्वरूपम् अनिश्चितत्वात् सः स्वयं कारणं भूत्वा कार्यं कथं कर्तुं प्रभवति ? उदा. – त्रिचतुर्क्षणेक्ष्यः [[अग्निः|अग्नौ]] स्थापितं बीजं रोप्यते चेदपि तस्मात् अङ्कुरस्फुटनम् अशक्यम् इति भावः ।
यदि विक्षेपाङ्गुभूतः समाधिः योगः न, तर्हि कः सः योगः ? इत्यस्य प्रश्नस्य उत्तरत्वेन "यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति..." इत्युक्तम् । तेन कथयति यत्, यः समाधिः सद्भूतार्थं द्योतयति, क्लेशान् क्षीणीकरोति, कर्मबन्धनं शिथिलीकरोति, चित्ते निरोधत्वं जनयति च सः योगः उच्यते । "भूत" – उपस्थितशब्देन आरोपितस्य निवृत्तिं करोति । "सत्" इत्यस्मात् उद्भूतं योग्यं, नितान्तं च सत्त्वम् उच्यते । यतो हि निद्रावृत्तौ स्वाववम्बनरूपी "भूत" – उपस्थिते तमोगुणे एकाग्रो भवति । सः तमसः प्रकर्षः क्लेशस्य हेतुत्वात् न शोभनीयः । "प्र-द्योतयति" इत्यत्र "प्र" इत्येषः प्रकर्षस्य सूचनायाः बोधं कारयति । सः प्रकर्षस्य साक्षात्करं दर्शयति । यद्यपि तत्त्वज्ञानस्य द्योतनम् उत प्रकटिकरणं तु आगमैः उत [[अनुमानम्|अनुमानेनापि]] शक्म् अस्ति, तथापि तत् परोक्षरूपित्वात् साक्षात् अनुभूतायाः अविद्यायाः उच्छेदं (विनाशं) कर्तुं न प्रभवति । उभयोः [[चन्द्रः|चन्द्रसोः]] दर्शने सति यदा दिशाभ्रमः भवति, तदा सः भ्रमः केवलं शब्दैः उत अनुमानेन न दूरीभवति । अस्मितादयः क्लेशाः अविद्यामूलत्वात् तथा च विद्या अविद्यायाः नाशकत्वात् च विद्यायाः उदयेन अविद्यादयः क्लेशाः तस्याः विरोधित्वात् कारणनाशे सति नश्यन्ति । अतः "क्षिणोति च क्लेशान्" इत्युक्तम् । अतः कर्मरूपिणः बन्धनानि शिथिलीकरोति । कर्मणा अपूर्वसूचना भवति । कार्ये कारणस्य उपचारः (व्यवहारः) शक्यः भवति । शिथिलीकरोति अर्थात् स्वकार्यात् समुद्भूतानि फलानि स्थगयति । "सति मूले तद्विपाकः (२/१३)" अर्थात् मूले सत्येव कर्मविपाकः भवति इति अग्रे उच्यते । निरोधस्य स्थितिं प्रकटयति । "स च..." इत्यादिभिः सः सम्प्रज्ञातः योगः चतुर्धा इति कथयति ।
"सर्ववृत्ति..." इत्यादिभिः असम्प्रज्ञात-विषये कथयति । रजस्तमस्युक्ताः प्रमाणादिवृत्तयः सत्त्वगुणिवृत्तीनाम् आश्रयं स्वीकृत्य सम्प्रज्ञातसमाधौ निरोधः भवति । असम्प्रज्ञातौ सर्वासां वृत्तीनां निरोधः भवति इत्युक्तम् । मधुमती इत्यादयः भूमयः सम्प्रज्ञातासम्प्रज्ञातयोः समाविष्टाः भवन्ति । तासु भूमिषु व्याप्तत्वात् समाधिः सार्वभौमः चित्तधर्मः उक्तः <ref>{{Cite book|author= रामकृष्ण तुलजाराम व्यास|title=પતંજલિનાં યોગસૂત્રો|publisher=સંસ્કૃત સાહિત્ય અકાદમી, ગાંધીનગર| isbn=978-93-83317-06-6|page=२-७|year=२०१३}}</ref> ।
== राजमार्त्तण्डवृत्तिः ==
अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । युज् समाधौ (धा० पा० ४।६७)। अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम् । तदाऽऽशास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः ।
तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तद्व्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः । अभिधेयस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति - व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते । तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥ १॥
=== वृत्त्यार्थः ===
इत्यनेन सूत्रेण योगशास्त्रस्य सम्बन्धः, अभिधेयः (वर्णयविषयः), उद्देश्यं, अधिकारी इत्येतत् साधनचतुष्टयं कथयति । प्रस्तुतसूत्रे प्रयुक्तः "अथ" शब्दः प्रारम्भार्थकः, मङ्गलार्थकश्च वर्तते । "युज् समाधौ" ([[अष्टाध्यायी|धा. पा.]] [[s:पाणिनीय धातुपाठः|४/६७]]) इति समाध्यर्थकः युज् धातोः "योग" शब्दः निष्पन्नः । अतः "योग" शब्दस्य अर्थः समाधिः भवति (युज् + घञ् = योगः) । एतस्य "योग" शब्दस्य निष्पत्तिः "युजिर् योगे" (धा. पा. ७/७) इत्यस्मात् सूत्रात् नाभवत् । येन लक्षण-प्रकार-साधन-प्रयोजनादिनः सहितस्य शास्त्रस्य अनुशासनं क्रियते, तस्य शास्त्रस्य पुनः व्याख्यानम् उत उपदिष्टसिद्धान्तानां पुनः कथनमेव अनुशानसम् इत्युच्यते । योगानुशासनम् इत्युक्ते, पूर्वोपदिष्टस्य, अनादियोगसिद्धानानां वा पुनः कथनम् । प्रस्तुतशास्त्रस्य समाप्तिपर्यन्तं तस्य योगस्य एव वर्णनम् अस्ति इत्यर्थः ।
तत्र योगशास्त्रस्य व्याखानत्वात्, अत्र साधनेन, फलेन च सह योग एव मुख्यप्रतिपाद्यः विषयः अस्ति । तथा च योगशास्त्रस्य वर्णनम् एव ग्रन्थस्य उद्देशः अस्ति । वर्णितस्य योगशास्त्रस्य कैवल्यम् अर्थात् मोक्ष एव प्रयोजनम् अस्ति । योगशास्त्रस्य वर्ण्यविषयेन सह प्रतिपादकप्रतिपाद्यसम्बन्धः अस्ति । अर्थात् योगशास्त्रं प्रतिपादकम् (वर्णनकर्ता) अस्ति, वर्ण्यविषयः (कृतवर्णनः विषयः) प्रतिपाद्यम् च । वर्ण्यविषयस्य योगेन सह साध्यसाधनसम्बन्धः अस्ति । अर्थात्, वर्ण्यविषयः योगः साधनम् अस्ति, कैवल्यं साध्यञ्च । एतस्य अभिप्रायः भवति यत्, अनेन शास्त्रेण वर्णनीयस्य योगस्य साधनानाम् (उपायानाम्) उपस्थापनं भवति इति । तैः साधनैः सिद्धः योग एव कैवल्यरूपिफलं प्रयच्छति <ref>भोजदेवकृतराजमार्तण्डवृत्तिसमेतम् – पातञ्जलयोगसूत्रम्, भारतीय विद्या प्रकाशन, वाराणसी, पृ. ३-५</ref> ।। १ ।।
== विशेषम् ==
'''1) अथ -''' एषः शब्दः विविधान् अर्थान् प्रदर्शयति।
'''1. मङ्गलार्थः (Invocation) -''' भारतीयवाङ्मये बहुधा आरम्भे, मध्ये, अन्ते च मङ्गलाचरणस्य परम्परा दरीदृश्यते। अतः विविधैः प्रकारैः ग्रन्थकर्ता मङ्गलाचरणं करोति। तत्र मङ्गालर्थकस्य अथ-शब्दस्य अपि बहुधा उपयोगः भवति। अनेन अल्पेन मङ्गलाचरणेन सह विविधाः अन्ये अर्थाः अपि युक्ताः भवन्ति। उक्तञ्च -
'''ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।'''
'''कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ।।'''
'''2. आरम्भार्थः (The beginning) -''' अथ-शब्देन आरम्भः अपि सूच्यते। अत एव अध्यायस्य आरम्भे अपि एतस्य शब्दस्य उपयोगः दरीदृश्यते। एषः शब्दः कस्याऽपि कार्यक्रमस्य, ग्रन्थस्य, विषयस्य, चर्चायाः च आरम्भम् अपि सूचयति। अनेन एतस्य परिवर्तिनः शब्दस्य आरम्भः भवति इति सरलतया, लघुतया च वक्तुं शक्यते।
'''3. इतः/आनन्तर्यम् (From Here/After this) -''' बहुधा एकस्य शास्त्रस्य उत विषयस्य अध्यययनोत्तरम् एव अपरस्य शास्त्रस्य अध्ययनं भवति। एकस्य विषयस्य समाप्तौ अपरस्य विषयस्य आरम्भदर्शनाय अपि अथ-शब्दस्य उपयोगः दरीदृश्यते। यथा - [[अथातो ब्रह्मजिज्ञासा]], अथ प्रजानामधिपः प्रभाते... (रघुवंशश्लोकः)।
'''4. अधिकारार्थः/पश्चात् (Eligibility/then) -''' योगशास्त्रस्य अध्ययनात् प्राक् तदर्थम् अधिकारी भवनीयं भवति। अर्थात्, मुमुक्षुत्वं, योगपरम्परायाः आरम्भिकाध्ययनं, मीमांसायाः अध्ययनं च। ततः अधिकारः प्राप्यते। एतस्य अथ-शब्दस्य एव पश्चात् इत्यर्थे अपि स्वीकारः भवति, यत्र कस्य पश्चात् इति जिज्ञासायां सत्यां मुमुक्षुत्वादिकस्य सर्वविधविषयस्य अन्तर्भावः भवति। अधिकारस्य ज्ञानाय अनुबन्धचतुष्टयस्य अपि आवश्यकता भवति। तेन अपि अधिकारस्य ज्ञानं भवति।
* '''अनुबन्धचतुष्टयम् <ref>{{Cite book|author= श्रीस्वामी ओमानन्द तीर्थ|title=पातञ्जलयोगप्रदीप|publisher=गीताप्रेस, गोरखपुर| isbn=81-293-0011-7|page=१३९-१४०}}</ref> -''' विषयः, प्रयोजनम्, अधिकारी, सम्बन्धः च इत्येते चत्वारः अनुबन्धाः स्पष्टयन्ति यत्, पाठकः उपस्थापिताय विषयाय अधिकारी अस्ति उत न। योगशास्त्रस्य सन्दर्भे अनुबन्धचतुष्टयं निम्नानुसारम् अस्ति।
• '''<u>विषयः (Subject) –</u>''' एतस्य शास्त्रस्य कः विषयः अस्ति ? : एतस्य योगशास्त्रस्य प्रयोजनं योगस्य विभिन्नानां भेदानां, साधनानां, फलानां च प्रतिपादनम् अस्ति ।
• '''<u>प्रयोजनम् (Goal) -</u>''' एतस्य शास्त्रस्य किं प्रयोजनम् ? : योगद्वारा स्वरूपस्थितिः एव शास्त्रस्य प्रयोजनम् अस्ति । स्वरूपस्थितिः अर्थात्, अपवर्गः=निःश्रेयः=मोक्षः=कैवल्यम्=आत्मस्थितिः=परमात्मप्राप्तिः ।
• '''<u>अधिकारी (Eligible) -</u>''' एतस्य शास्त्रस्य कः अधिकारी ? : कैवल्यस्य मुमुक्षुः साधकः एतस्य अधिकारी भवति ।
• '''<u>सम्बन्धः (Relation) –</u>''' अनेन सह शास्त्रस्य कः सम्बन्धः ? : एतत् दर्शनं योगस्य प्रतिपादनं करोति । अतः एतस्य योगेन सह प्रतिपाद्य-प्रतिपादक-भाव-सम्बन्धः अस्ति । योगः साधनम् अस्ति, कैवल्यं (Final '''emancipation''') साध्यम् । अतः कैवल्ययोगयोः साध्य(Goal)-साधन(Instrument)-भाव-सम्बन्धः(Relationship) अस्ति । कैवल्यमुमुक्षुः योगस्य अधिकारी अस्ति । अतः कैवल्यमुमुक्ष्वोः प्राप्य(achievable)-प्रापक(recipient)-भाव-सम्बन्धः अस्ति। मुमुक्षु-योगयोः कर्तृ-कर्त्तव्य-भाव-सम्बन्धः अस्ति।
'''2) योगस्य -''' बहुधा '''युजिर् योगे (to bind)''' इतिधातुना योगशब्दस्य निष्पत्तिः कथ्यते, परन्तु अत्र योगस्य धातुः '''युज् समाधौ''' अस्ति इति व्यासमतम्। अत एव '''अथ समाधि-अनुशासनम्''', '''पातञ्जल-समाधि-सूत्राणि''' इत्यादिकम् अपि योग्यं स्वीकरणीयं भवति। यतः एतत् केवलं योगशब्दस्य स्थाने समाधिशब्दस्य उपयोगं प्रदर्शयति। परन्तु '''यम-नियम-आसन-प्राणायाम-प्रत्याह-धारण-ध्यान-समाधयोऽष्टावङ्गानि''' इति सूत्रे समाधि-शब्दस्य, योगशब्दस्य च उपयोगः अङ्गाङ्गि-भावं प्रदर्शयितुं कृतः वर्तते। समाधेः द्वौ भेदौ स्तः। यथा - सम्प्रज्ञात-समाधिः, असम्प्रज्ञात-समाधिश्च। अतः समाधिशब्दः योगस्य मुख्याङ्गस्य, साधनस्य च अर्थे एतस्मिन् योगदर्शने प्रयुक्तः।
'''3) अनुशासनम् -''' शासन-शब्दः पूर्वस्थितिम् इतिहासम् अपि द्योतयति। यथा - अत्र यस्मिन् विषये उच्यते, तस्मिन् विषये पूर्वाचार्याः अनेकान् विचारान् उपास्थापयन्। तेषां सर्वेषाम् आचार्याणां कथनस्य सङ्कलनम् उत नवीनपद्धत्या उपस्थापनम् अत्र क्रियते इत्यर्थः अपि भवति। एतस्यां स्थित्यां [[हिरण्यगर्भः]] योगशास्त्रस्य आदिप्रवर्तकः उक्तः अस्ति, अतः हिरण्यगर्भात् पतञ्जलिं यावत् येऽपि योगवैज्ञानिकाः जाताः, तेषां सर्वेषाम्, तेषां ग्रन्थानां च अपि अनुशानसन-शब्देन सङ्केतः भवति।
"शासनम्" अर्थात् शिक्षा उत उपदेशः । "अनु + शासनम्" अर्थात् येषां विषयाणाम् उपदेशः (शासनं) पूर्वस्मादेव विद्यमानः वर्तते । अतः "अनुशासनम्" इत्यनेन शब्देन भगवता [[पतञ्जलि]]<nowiki/>ना प्राचीनकालात् योगपरम्परायाः अनुवर्तनस्य बोधः कारितः । तस्याः प्राचीनयोगपरम्परायाः वर्णनं श्रुतिस्मृतिषु अपि प्राप्यते । [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[महाभारतम्|महाभारते]], [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतमहापुराणे]], [[ऋग्वेदः|ऋग्वेदे]], [[यजुर्वेदः|यजुर्वेदे]], [[छान्दोग्योपनिषत्|छान्दोग्योपनिषदि]], अद्भुतरामाणे च योगशास्त्रस्य इतिहाससम्बद्धं वर्णनं प्राप्यते ।
<poem>{{cquote|हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः । याज्ञवल्क्यस्मृतिः}}</poem>
<poem>{{cquote| हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः । [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-359 १२/३४९/६५] [[महाभारतम्]]}}</poem>
<poem>{{cquote|हिरण्यगर्भो द्युतिमान् य एषच्छन्दसि स्तुतः ।
योगैः सम्पूज्यते नित्यं स च लोके विभुः स्मृतः ।। १२/३४२/९६ [[महाभारतम्]]}}</poem>
<poem>{{cquote|हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः ।
महानिति च योगेषु विरञ्चीति तथाप्यजः ।। [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-308 १२/३०८/१८] [[महाभारतम्]], [https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४१ २४१/१६] [[ब्रह्मपुराणम्]]}}</poem>
<poem>{{cquote|इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । ५/१९/१३ [[श्रीमद्भागवतमहापुराणम् ]]}}</poem>
<poem>{{cquote|हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।। [https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१०.१२१ १०/१२१/१] [[ऋग्वेदः]], १३/४ [[यजुर्वेदः]]}}</poem>
<poem>{{cquote|अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः । [https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्_१ १/६/६] [[छान्दोग्योपनिषत्]]}}</poem>
उपर्युक्ते सर्वेषु ग्रन्थेषु हिरण्यगर्भः योगदर्शनस्य आदिवक्ता आसीत् अत्युक्तम्, अतः सः हिरण्यगर्भः योगगुरुः अस्ति इति स्वीक्रियते । [[श्वेताश्वतरोपनिषत्|श्वेताश्वतरोपनिषदः]] द्वितीये अध्याये ८-१५ श्लोकेषु योगस्य उपयोगः, महत्त्वं च प्राप्यते । तत्र योगः कथं करणीयः, तेन के लाभाः भवन्ति इत्यपि प्रतिपादितम् । [[कठोपनिषत्|कठोपनिषदः]] द्वितीयाध्याययस्य तृतीयवल्ल्याः १०-१५ श्लोकाः योगपद्धतिं, योगाक्रियां च उपस्थापयन्ति । श्रीम[[भगवद्गीता|द्भगवद्गीता]]<nowiki/>याः अष्टमे अध्याये १०,१२,१३ श्लोकेषु भगवान् [[श्रीकृष्णः]] योगशक्तिं, योगस्वरूपं च [[अर्जुनः|अर्जुनं]] कथयति ।
{{योगसूत्रक्रमः|शीर्षकम्='''पातञ्जलयोगसूत्राणि'''|पूर्वतनम्= ----|अग्रिमम्=[[योगश्चित्तवृत्तिनिरोधः]]}}
== सम्बद्धाः लेखाः ==
[[योगदर्शनम्]]
[[पतञ्जलिः]]
[[अष्टाङ्गयोगः]]
[[हिरण्यगर्भः]]
== बाह्यसम्पर्कतन्तुः ==
{{Wikisourcelang|अथ योगानुशासनम्}}
* http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
* http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
* https://www.youtube.com/watch?v=uUmg-2Y6KcM
== उद्धरणम् ==
{{reflist}}
== अधिकवाचनाय ==
[http://sanskritdocuments.org/doc_yoga/yogasuutra.html?lang=sa पतञ्जलियोगसूत्रम्]
[http://yogasutrastudy.info/ योगसूत्राणि शृण्वन्तु]
[http://sanskritforchanting.com/pdfs/yogasutram.pdf आङ्ग्लानुवादेन सह योगसूत्रम्]
[http://hinduonline.co/DigitalLibrary/SmallBooks/PatanjaliYogaSutraSwamiVivekanandaSanEng.pdf स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः]
{{शिखरं गच्छतु}}
[[वर्गः:समाधिपादः]]
[[वर्गः:न प्राप्तः योगसम्बद्धभाषानुबन्धः]]
[[वर्गः:योगसूत्राणि]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
4dw5fa527vgpp68y3jj3grgrfdk1qrq
योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)
0
14548
470176
470171
2022-08-21T12:12:48Z
NehalDaveND
9230
1
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox settlement
|name= योगश्चित्तवृत्तिनिरोधः
|native_name = <br>'''[[समाधिपादः|समाधिपादस्य]] प्रप्रथमं सूत्रम्'''
|image = [[चित्रम्:अथ योगानुसाशनम्.jpg|350px]]
| subdivision_type = सूत्रसङ्ख्या
| subdivision_name = १/१
| subdivision_type1 = सूत्रप्रकारः
| subdivision_name1 = अधिकारसूत्रम्
| subdivision_type2 = पूर्वसूत्रम्
| subdivision_name2 = [[अथ योगानुसाशनम्]]
| subdivision_type3 = अग्रिमं सूत्रम्
| subdivision_name3 = [[तदा द्रष्टुः स्वरूपेऽवस्थानम् (योगसूत्रम्)|तदा द्रष्टुः स्वरूपेऽवस्थानम्]]
}}
==सूत्रसारः==
==व्यासभाष्यम्==
सर्वशब्दाग्रहणात्सम्प्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम् । प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति । तदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति । तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव रजोलेशमालेपनं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेधध्यानोपगं भवति । तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यपरतिसङ्क्रमा दर्शितविषया शुद्धा चानन्ता च । सत्त्वगुणात्मिका चेयम्, अतो विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं चित्तं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किञ्चित्सम्प्रज्ञायत इत्यसम्प्रज्ञातः । द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥
{{योगसूत्रक्रमः|शीर्षकम्='''पातञ्जलयोगसूत्राणि'''|पूर्वतनम्=[[अथ योगानुशासनम्]]|अग्रिमम्=[[तदा द्रष्टुः स्वरूपेऽवस्थानम्]]}}
== सम्बद्धाः लेखाः ==
[[योगदर्शनम्]]
[[पतञ्जलिः]]
[[अष्टाङ्गयोगः]]
[[अन्ताराष्ट्रिययोगदिवसः]]
== बाह्यसम्पर्कतन्तुः ==
{{Wikisourcelang|अथ योगानुशासनम्}}
* http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
* http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
* https://www.youtube.com/watch?v=uUmg-2Y6KcM
== उद्धरणम् ==
{{reflist}}
== अधिकवाचनाय ==
[http://sanskritdocuments.org/doc_yoga/yogasuutra.html?lang=sa पतञ्जलियोगसूत्रम्]
[http://yogasutrastudy.info/ योगसूत्राणि शृण्वन्तु]
[http://sanskritforchanting.com/pdfs/yogasutram.pdf आङ्ग्लानुवादेन सह योगसूत्रम्]
[http://hinduonline.co/DigitalLibrary/SmallBooks/PatanjaliYogaSutraSwamiVivekanandaSanEng.pdf स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः]
{{शिखरं गच्छतु}}
[[वर्गः:समाधिपादः]]
[[वर्गः:योगसूत्राणि]]
[[वर्गः:योगशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:न प्राप्तः योगसम्बद्धभाषानुबन्धः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:योगसूत्राणां चित्रसारमञ्जूषाकार्यम्]]
2n4tjslmo5ltw9myzxphhfjhavn287d
470177
470176
2022-08-21T12:13:12Z
NehalDaveND
9230
2
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox settlement
|name= योगश्चित्तवृत्तिनिरोधः
|native_name = <br>'''[[समाधिपादः|समाधिपादस्य]] प्रप्रथमं सूत्रम्'''
|image = [[चित्रम्:अथ योगानुसाशनम्.jpg|350px]]
| subdivision_type = सूत्रसङ्ख्या
| subdivision_name = १/२
| subdivision_type1 = सूत्रप्रकारः
| subdivision_name1 = अधिकारसूत्रम्
| subdivision_type2 = पूर्वसूत्रम्
| subdivision_name2 = [[अथ योगानुसाशनम्]]
| subdivision_type3 = अग्रिमं सूत्रम्
| subdivision_name3 = [[तदा द्रष्टुः स्वरूपेऽवस्थानम् (योगसूत्रम्)|तदा द्रष्टुः स्वरूपेऽवस्थानम्]]
}}
==सूत्रसारः==
==व्यासभाष्यम्==
सर्वशब्दाग्रहणात्सम्प्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम् । प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति । तदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति । तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव रजोलेशमालेपनं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेधध्यानोपगं भवति । तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यपरतिसङ्क्रमा दर्शितविषया शुद्धा चानन्ता च । सत्त्वगुणात्मिका चेयम्, अतो विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं चित्तं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किञ्चित्सम्प्रज्ञायत इत्यसम्प्रज्ञातः । द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥
{{योगसूत्रक्रमः|शीर्षकम्='''पातञ्जलयोगसूत्राणि'''|पूर्वतनम्=[[अथ योगानुशासनम्]]|अग्रिमम्=[[तदा द्रष्टुः स्वरूपेऽवस्थानम्]]}}
== सम्बद्धाः लेखाः ==
[[योगदर्शनम्]]
[[पतञ्जलिः]]
[[अष्टाङ्गयोगः]]
[[अन्ताराष्ट्रिययोगदिवसः]]
== बाह्यसम्पर्कतन्तुः ==
{{Wikisourcelang|अथ योगानुशासनम्}}
* http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
* http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
* https://www.youtube.com/watch?v=uUmg-2Y6KcM
== उद्धरणम् ==
{{reflist}}
== अधिकवाचनाय ==
[http://sanskritdocuments.org/doc_yoga/yogasuutra.html?lang=sa पतञ्जलियोगसूत्रम्]
[http://yogasutrastudy.info/ योगसूत्राणि शृण्वन्तु]
[http://sanskritforchanting.com/pdfs/yogasutram.pdf आङ्ग्लानुवादेन सह योगसूत्रम्]
[http://hinduonline.co/DigitalLibrary/SmallBooks/PatanjaliYogaSutraSwamiVivekanandaSanEng.pdf स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः]
{{शिखरं गच्छतु}}
[[वर्गः:समाधिपादः]]
[[वर्गः:योगसूत्राणि]]
[[वर्गः:योगशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:न प्राप्तः योगसम्बद्धभाषानुबन्धः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:योगसूत्राणां चित्रसारमञ्जूषाकार्यम्]]
cxx0v7wziy63k3z320piux2pqs3yq51
योगः
0
19941
470175
460443
2022-08-21T12:10:01Z
NehalDaveND
9230
/* योगभेदाः */ 1
wikitext
text/x-wiki
योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन्
श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । तदुक्तम्
:'''लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।'''
:'''ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ।''' (गीता-३/३)
परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् । एकस्यैव प्रकारभेदमात्रम् । अधिकारिभेदात् योगद्वयमुक्तम् । शुध्दान्तः करणानां ज्ञानभूमिकामारुढानां ज्ञानपरिपाकार्थं ज्ञानयोग उपदिष्टः । सांख्यभूमिकामनारुढानां तु अन्तः करणशुध्दिद्वारा तदारोहणार्थं कर्मयोगः उक्तः । त्रिशिखाब्राह्मणोपनिषदि कर्मयोगस्य ज्ञानयोगस्य च लक्षण्मुक्तम् । यथा –
:'''कर्म कर्त्तव्यमित्येव विहितेष्वेव कर्मसु ।'''
:'''बन्धनं मनसो नित्यं कर्मयोगः स उच्यते ॥'''
:'''यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम् ।'''
:'''ज्ञानयोगः स विज्ञेयः सर्वसिध्दिकरः शिवः ॥'''
वस्तुतः ज्ञाननिष्ठैः सन्न्यासिभिः यत् मौक्षाख्यं स्थानं साक्षादवाप्यते, कर्मयोगिभिरपि तदेव स्थानमवाप्यते । तदुक्तं गीतायाम् –
:'''यत् सांख्यैः प्राप्यते स्थानं, तद् योगैरपि गम्यते ।''' (गीता- ५/५) ज्ञानकर्मयोगौ एकफलौ सन्तौ पृथक् स्वतन्त्राविति अज्ञा एव प्रवदन्ति । कर्मयोगं सम्यगनुतिष्ठन् शुध्दचित्तः सन् ज्ञानद्वारा यदुभयोः फलं कैवल्यं तत् प्राप्नोति । अतः अनयोः भेदत्वं ज्ञानिनः न स्वीकुवर्न्ति ।
:'''सांख्यायोगौ पृथग्वालाः प्रवदन्ति न पण्डिताः । (गी. -५/४)'''
अग्रे गत्वा द्वादशाध्याये भक्तियोगोऽपि वर्णितः भगवद्गीतायां श्रीकृष्णेन ।
श्रीमद्भागवतेऽपि ज्ञानकर्मभक्तिभेदेन त्रिविधो योग उपदिष्टः । तदुक्तं
भागत्रते
:'''योगस्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया ।'''
:'''ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥''' (११/२०/६)
==योगस्याङ्गानि==
योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि –(२/२) इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः (३/४) । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।
# [[यमः]]
# [[नियमः]]
# [[आसनम्]]
# [[प्राणायामः]]
# [[प्रत्याहारः]]
# [[धारणा]]
# [[ध्यानम्]]
# [[समाधिः]]
==योगस्याधिकारी==
कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति । तदुक्तं भगवद्गीतायाम् –
:'''युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।'''
:'''युक्तस्वप्नावबोधस्य योगो भवति दुः खहा ॥''' (गीता – ६/१७)
==योगफलम्==
योगात् परं वलं नास्ति । योगात् परो बन्धुः नास्ति । भगवतः शिवस्य योगमार्गादुत्तममार्गो न विद्यते । तदुक्तं सिद्धसिद्धान्तपद्धतौ –
:'''योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ।'''
:'''शास्त्रेष्वेन्येषु सर्वेषु शिवेन कथितः पुरा ॥''' (५/२१)
श्रीमद्भगवद्गीतायामपि श्रीकृष्णेन उक्तं यत् –
:'''तपश्विभ्योऽधिको योगी ज्ञानिभ्योऽपि ततोऽधिकः ।'''
:'''कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥''' (६/४६)
तपस्वि –ज्ञानि –कर्मिभ्यो योगी श्रेष्ठः । मोक्षप्राप्तिर्भवति योगस्य प्रधानं लक्ष्यम् । योगसाधनद्वारा शतजन्मार्जितं पापं विनश्यति । तदुक्तमुत्तरगीतायाम्
:'''मुहूर्त्तमपि योगश्चेन्नासाग्रे मनसा सह ।'''
:'''सर्वं तरति पाप्मानं तस्य जन्मशतार्जितम् ॥'''(२/१०)
योगो भवति मोक्षप्राप्तेः सरलो राजमार्गः । योगस्य ध्यानादिद्वारा परमात्मनः प्राप्तिः भवति । आसनमुद्राद्वारा शरीरं रोगविहीनं भवति । मनः शुध्द निर्मलं च भवति । योगमार्गे नानाविधानां विभूतीनां लाभो भवति । अणिमा- लघिमा –महिमा –गरिमा –प्राप्ति-प्राकाम्य –वशित्वं –ईशित्वादीनामष्टसिद्धिनां प्राप्तिर्भवति ।
==योगभेदाः==
योगचतुष्टयस्य वर्णनं योगशास्त्रे विद्यते । यथा –(क) मन्त्रयोगः,(ख) हठयोगः, (ग) लययोगः, (घ) राजयोगश्च । योगशिक्षोपनिषदि उक्तम् –
:'''मन्त्रो लयो हठो राजयोगान्ता भूमिकाः क्रमात् ।'''
:'''एक एव चतुर्धायं महायोगोऽभिधीयते ॥'''
# [[मन्त्रयोगः]]
# [[हठयोगः]]
# [[लययोगः]]
# [[राजयोगः]]
परन्तु अन्ये अपि योगभेदाः प्राप्यन्ते। यथा -
# [[साङ्ख्ययोगः]]
# [[भक्तियोगः]]
# [[कर्मयोगः]]
==उपसंहारः – समीक्षा==
इदन्न दर्शनम् । अणिमाद्यष्टसिद्धयः न हि विज्ञानेन प्रमाणीकृताः । तास्तु इन्द्रजालादिप्राचीनपद्धतीनामवशेषा इति नवीनाः विचारवादिनः आक्षिपन्ति । परन्तु चित्तस्यान्तरालमभ्यस्य तं रहस्यं ज्ञापयितुं कृतः प्रयत्नः वैज्ञानिकः सन्, प्रज्ञायाः गभीरतायाः अपारं शक्तिसामर्थ्यं राजयोगः दर्शयति । आत्मशोधाय मुक्तिसाधनाय च सरलान् पथः मनोवैज्ञानिकरीत्या अनेन निरूपितम् । अमुमनुसृत्य यैर्यशः अवाप्तः तेऽस्य नैजतायाः प्रमाणम् । अष्टाङ्गयोगः अद्यापि महत्त्वमावहन् बहूनां समस्यानां निवारणे यशस्वी अस्ति । जैनबौद्धादिसर्वदर्शनानि अमुम् औपयुञ्जन्त इत्यतः राजयोग इत्याख्यामलभत । अद्यापि स्वास्थ्यक्षेत्रेष्वस्य प्रयोगः दृश्यते ।
==इतरसम्प्रदायेषु योगाचरणम्==
बौद्धमतम् – प्राचीनेन बौद्धदर्शनेन ध्यानस्थितयः मूर्तिरूपेण शिल्पिताः । योगस्य प्राचीनतमं चिन्तनं बुद्धस्य धर्मप्रवचनेषु सन्दृश्यते । बुद्धेन कृतः नवीनं बोधः ध्यानस्य तादात्म्यताम् अवधानपूर्वकम् आचरणेन सह संयुक्तिः । बुद्धस्य बोधनासु प्राचीनब्राह्मणग्रन्थेषु च दृष्टे योगे तत्सम्बन्धि चिन्तने महान् भेदः लक्षितः । ध्यानस्थितिर्नान्तिमा, बुद्धस्तु ध्यानस्य अन्तिमावस्थापि न् मुञ्चति । सम्पूर्णप्रमाणेन संवेदनाराहित्यस्य स्थाने न्यूनस्तरस्य मनसः क्रियाशीलता अपेक्षते । मुक्तेः संवेदनया सह अवधानपूर्विका जागृतिः भवेत् । बुद्धः प्राचीनयोगाङ्गीकृतमृत्योरानन्तरीं मुक्तिं नाङ्गीकरोति । ब्राह्मणयोगिनः मते मोक्षस्तु जीवने अद्वैतध्यानावस्थितौ प्राप्ते मृत्युनि जायमानः साक्षात्कार एव । वस्तुतः प्राचीनब्राह्मणरूपकेषु योगमभिलक्ष्य मृत्यौ लभ्यमाना मुक्तिः बुद्धेन नवीकृता अन्यव्याख्याद्वारा । तेनोल्लिखिता आकरा जीवन्मुक्तसाधूद्दिष्टाः ।
===योगाचारो बौद्धधर्मः ===
योगाचाराभिधा सृतिः चतुर्थशतकात् पञ्चमशतकावधौ भारते विकसितयोः तत्त्वज्ञानमनश्शास्त्रयोः अङ्गभूता शाखा । बोधिसत्त्वेन क्रान्तमार्गप्राप्युन्मुखाचरणरूपयोगेन युतः इत्यतः योगाचार इत्याख्यां प्रापत् । योगाचारपन्थाः ज्ञानोदयप्राप्तिवर्त्मा भूत्वा योगं बोधयति ।
====छान् (सियोन्\झेन्) बौद्धपन्थाः ====
झेन् (इयमाख्या चीनीभाषास्थितछान् शब्दमूला, संस्कृतभाषायाः ध्यान इति शब्दस्यापभ्रंशः) इत्ययं महायानबौद्धपथः अङ्गः । महायानशाखा च योगसामीप्येन प्रसिद्धा । पश्चिमे, झेन् इत्यस्याः परिकल्पनायाः बहुधा योगेन सह समन्वयः कृतः । ध्यानस्य इमे द्वे अपि शाखे सहजतया साम्यं भजतः । इयं सङ्गतिः, ध्यानसम्बद्धा झेन् इति बौद्धशाखायाः मूलं योगस्याचरणेषु वर्तत इत्यतः अवधानहारी । योगस्य केचन परिगणिता अंशाः बौद्धपथे तत्रापि झेन् शाखायै महत्त्वभूता भवन्ति ।
====भारतीय-टिबेट्देशीयश्च बौद्धपन्थाः ====
टैबेटिकबौद्धमताय योगः प्रधानोंऽशः । निङ्ग्मा इत्याख्यसम्प्रदाये ध्यानस्य आचरणं वर्धमानगहनतया युत-नवयानैः अथवा वाहनैः विभज्यते । चरमषट्कं योगयानाभिधया प्रथितम् । यथा- क्रियायोगः, उपयोगः, योगयानं, महायोगः, अनुयोगः, अत्त्युच्चस्तरस्याचरणम् अतियोगश्च । सर्मा इत्याख्यसम्प्रदाये महायोगातियोगयोः विकल्पेन अनुत्तरयोगवर्गेण सह क्रियायोग-उपयोगाख्ययोगाश्च विद्यन्ते । अन्येषु तन्त्रयोगस्य आचरणेषु श्वासहृदययोः लयेन सह क्रियमाणा १०८ शारीरिकभङ्गयोऽपि अन्तर्गताः । निङ्ग्मा इत्याख्यसम्प्रदायेन आचर्यमाणा यन्त्रयोगाख्या पद्धतिः श्वासस्य प्रक्रियया ध्यानगततादात्म्यतया, पालके केन्द्रीक्रियमाणनिर्दिष्टक्रियासहितकलापैश्च संयुता वर्तते । टैबेटिकार्वाचीनयोगिनां शारीरिकभङ्गयः लुखाङ्गनगरस्थ दलायिलामाख्यजनस्य निदाघसमयदेवालयस्य भित्तिषु चित्रिताः । चाङ्ग् महोदयेन रचितः टिबेटियन् योगसम्बन्धी ग्रन्थः व्यक्तेः शरीरे उत्पद्यमाना उष्णता चान्दलिः “साकल्येन टिबेट्देशीययोगस्य मूलाधार” इति प्रमाणीकरोति । तन्त्रशास्त्रस्य सैद्धान्तिकपरिणामान् सम्बद्ध्य प्राणमनोरूपसुव्यक्तध्रुवयोः समन्वयेन टिबेट्योगः संयुत इति चाङ्ग् ब्रवीति ।
===जैनदर्शनम् ===
द्वितीयशतकस्य सम्बद्धजैनग्रन्थस्य तत्त्वार्थसूत्रस्यानुसारं योगः मनसः श्वासस्य दैहिकानां सर्वासां क्रियाणां सङ्ग्रहः । उमास्वतीत्याख्या योगम् अस्रव अथवा कर्मफलेन सह मुक्तिप्राप्तिमार्गसहकारिषु अन्यतमसम्यक्चरित्रस्यापि निमित्तमिति मनुते । स्वनियमसारग्रन्थे आचार्यकुन्द्कुन्दः योगभक्तिं मुक्तिपथि विद्यमाना श्रद्धा इति, सैव भक्तेः उन्नतावस्था इति प्रतिजानीते । आचार्यहरिभद्रहेमचन्द्रौ तपश्चर्यायाः पञ्चप्रमुखसङ्कल्पान् गृहस्थाश्रमस्य् द्वादशलघुसङ्कल्पान् च योगाङ्ग इत्यामनन्ति । एतस्मात् प्रो. राबर्ट् जे झैडेन्बास् सदृशाः भारतमधिजिगीषवः जैनमतं पूर्णरूपेण धर्मवत् वर्धितं योगस्य चिन्तनायाः व्यवस्थेति परिकल्पनापत्तिरस्ति । डा. हेन्रिच् झिम्मर् नाम्नस्तु योगव्यवस्थायाः मूलम् आर्याणामपेक्षया प्राचीनं सत् तया वेदां प्रमाणरूपेण नाङ्गीकृता इत्यतः तस्याः जैनमतवत् असाम्प्रदायिकसिद्धान्तेषु परिगणना दृश्यत इति विवदिषति । जैनशिल्पशास्त्रं जैनतीर्थङ्करान् पद्मासने कार्योत्सर्गयोगभङ्गिषु ध्यायतः चित्रयति । महावीरश्च मूलबन्धासनावस्थितौ आसन्न एव कैवल्यज्ञानं ज्ञानोदयञ्चालभत इति श्रूयते । इदञ्च आदौ आचाराङ्गसूत्रे तदुत्तरं कल्पसूत्रे च लिखितं दृश्यते ।
पतञ्जलेः योगसूत्रस्थपञ्चयमाः अथवा निर्बन्धा जैनमतस्थपञ्चप्रधानसङ्कल्पैस्सह गूढसम्बन्धयुताः सन्तः जैनमतेन प्रभाविता इव लक्ष्यन्ते । योगसिद्धान्तजैनमतयोः मिथः प्रभावानुमोदकः लेखकः विवियन् वर्तिङ्ग्टन् “योगः जैनमताय स्वार्ण्यमङ्गीकरोति, जैनमतोऽपि योगस्याचरणं जीवनस्याङ्गं कृत्वा तं प्रत्यर्पयतीति उल्लिखति । सिन्धूपत्यकायाः चिह्नानि शिल्पशास्त्राणि च जैनमतसम्बद्धयोगसम्प्रदायादपि पूर्वसम्प्रदायस्य स्थितौ अङ्गीकार्यसाक्षीः प्रयच्छन्ति । इतोऽपि निर्दिष्टतया, तत्त्वज्ञाः पुरातत्त्वशास्त्रज्ञाश्च मुद्रिकायां चित्रितानां ध्यानस्थितीनाम् अनेकतीर्थङ्कराणाञ्च अर्थात् वृषभनाथस्य ‘कार्योत्सर्ग’स्थितिः महावीरस्य ‘मूलबन्धासन’स्थितिः, तैः सह पार्श्वनाथप्रतिमासदृशं, स्थितैः सर्पैः आवृतं ध्यानावस्थितविग्रहं चित्रयन्ति याः मुद्रिकाः, तासां मध्ये विद्यमानविपरीतसमानतां दृष्टवन्तः । एते न केवलं सिन्धूनागरिकताजैनमतयोः आन्तरीं सम्पर्कमुपवर्णयन्ति, तेन सह योगस्यानेकाचरणेभ्यः जैनमतस्य उपायनमपि संसूचयन्ति ।
====जैननियमाः ग्रन्थस्थानाम् आकराश्च ====
जैनानां प्राचीनशास्त्रीयग्रन्थे आचाराङ्गसूत्रे, नियमसारतत्त्वार्थसूत्रसदृशेषु ग्रन्थेषु योगः अनभिज्ञानां तपस्विनाञ्च अन्वययोग्या जीवनशैलिरिति सूचना अभिलक्ष्यते । योगविषये जैनानां परिकल्पनम् इतोऽपि विस्तरेण कैश्चित् ग्रन्थैर्विवृतः । ते च –
*'''पूज्यपादः'''(५ शतकं CE)
*'''इष्टोपदेशः'''
*'''आचार्यहरिभद्रसूरिः''' (८ शतकं CE)
*'''योगबिन्दुः'''
*'''योगदृष्टिसमुच्चयः'''
*'''योगसाधकः'''
*'''योगविमिशिका'''
*'''आचार्यजोयिन्दुः''' (८ शतकं CE)
*'''योगसारः'''
*'''आचार्यहेमचन्द्रः''' (११ शतकं CE)
*'''योगशास्त्रम्'''
*'''आचार्यः अमितागतिः''' (११ शतकं CE)
*'''योगसारप्रभृत''' ।
== बाह्यसम्पर्कतन्तुः==
* {{cite book |author= Baba, Meher|title= ''[http://www.ambppct.org/meherbaba/Book_Files/POL.pdf The Path of Love]''|publisher=Sheriar Press |location=Myrtle Beach, S.C. |year=2000 |pages= |isbn=1880619237 |oclc= |doi= |authorlink= Meher Baba}}
*{{cite book |series= |last=Chatterjee |first=Satischandra |authorlink= |coauthors=Datta, Dhirendramohan |title=An Introduction to Indian Philosophy |year=1984 |publisher=University of Calcutta |location=Calcutta |edition=Eighth Reprint |isbn= 8129111950 }}
* Donatelle, Rebecca J. ''Health: The Basics''. 6th ed. San Francisco: Pearson Education, Inc. 2005.
*{{cite book | last = Harinanda | first = Swami | coauthors= | year = | title = Yoga and The Portal | publisher = Jai Dee Marketing| location = | isbn=0978142950 | url = http://books.google.com/books?id=rpamu1q0vxEC}}
*{{cite book |last=Keay |first=John|authorlink= |coauthors= |title=India: A History |year=2000 |publisher=Grove Press |location=New York |isbn=0-8021-3797-0 |url = http://books.google.com/books?id=ibLUu6RlvqwC }}
*Marshall, John (1931). ''[http://books.google.com/books?id=Tpc7FjVk0BMC Mohenjodaro and the Indus Civilization: Being an Official Account of Archaeological Excavations at Mohenjodaro Carried Out by the Government of India Between the Years 1922–27]''. Delhi: Indological Book House.
*{{cite book |last=Michaels |first=Axel|authorlink= |coauthors= |title=Hinduism: Past and Present |year=2004 |publisher=Princeton University Press |location=Princeton, New Jersey|isbn=0-691-08953-1 | url=http://books.google.com/books?id=PD-flQMc1ocC}}
* [[Dharma Mittra|Mittra, Dharma Sri.]] (2003). ''Asanas: 608 Yoga Poses.'' California: New World Library.
* {{Cite book |last=Mohan |first=A. G. |authorlink=A. G. Mohan |year=2010 |title=[[Krishnamacharya: His Life and Teachings]] |location=Boston |publisher=Shambhala |isbn=978-1-59030-800-4}}
* Saraswati, Swami Satyananda (2002). ''Asana Pranayama Mudra Bandha''. ISBN 81-86336-14-1
*{{cite book |series= Bewegungskultur, Vol. 7| last=Schnäbele| first=Verena| authorlink=| coauthors=| title=Yoga in Modern Society| year=2010| publisher=Verlag Dr. Kovac| location=Hamburg| isbn=978-3-8300-5096-4 }}
* Usharabudh, Arya Pandit. ''Philosophy of Hatha Yoga.'' 2nd ed. Pennsylvania: Himalayan Institute Press 1977, 1985.
*{{cite book |series= |last=Vivekananda |first=Swami |authorlink=Swami Vivekananda |coauthors=|title=Raja Yoga |year=1994 |publisher=[[Advaita Ashrama]] Publication Department |location=Calcutta |isbn=81-85301-16-6 | url=http://books.google.com/books?id=vWipfV9zHJgC }} 21st reprint edition.
*{{cite book |series= |last=Weber|first=Hans-Jörg L. |authorlink= |coauthors=|title=Yogalehrende in Deutschland: eine humangeographische Studie unter besonderer Berücksichtigung von netzwerktheoretischen, bildungs- und religionsgeographischen Aspekten |year=2007 |publisher=University of Heidelberg |location=Heidelberg}} http://archiv.ub.uni-heidelberg.de/savifadok/volltexte/2008/121/
* [[Ernest Wood|Wood, Ernest]] (1959). ''Yoga.'' London, UK: Penguin Books
[[वर्गः:योगः]]
[[वर्गः:संचित्रसारमञ्जूषे योजनीये]]
tgy6hlanbd0cq178ylamw4ytee0hel3
सदस्यसम्भाषणम्:Retired User 21082022
3
67544
470179
445404
2022-08-21T14:36:07Z
Rachmat04
16015
पुनर्निर्देशनम् अत्यक्त्वा Rachmat04 इत्यनेन [[सदस्यसम्भाषणम्:Nicholas Michael Halim]] तः [[सदस्यसम्भाषणम्:Retired User 21082022]] पृष्ठं स्थानान्तरितं: "[[Special:CentralAuth/Nicholas Michael Halim|Nicholas Michael Halim]]" का नाम "[[Special:CentralAuth/Retired User 21082022|Retired User 21082022]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ।
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Nicholas Michael Halim}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०९:१५, २७ जुलाई २०१९ (UTC)
ekamwytms3xtlldgq85y7okl257juxj
हठप्रदीपिकायाः मङ्गलाचरणम्
0
78996
470181
468985
2022-08-22T03:53:06Z
NehalDaveND
9230
/* ईश्वरस्मरणात्कम् */क
wikitext
text/x-wiki
'''हठप्रदीपिकायाः''' '''मङ्गलाचरणं''' त्रिषु भागेषु विभक्तं वर्तते। प्रथमे श्लोके ईश्वरवन्दनात्मकं मङ्गलाचरणं वर्तते। २ तः ९ पर्यन्तं गुरुवन्दनात्मकं मङ्गलाचरणं वर्तते। ततः १०, ११ उभौ श्लोकौ हठयोगस्य कृत्याकृत्यं प्रदर्श्य ग्रन्थोद्देश्यम्, उपयोगितां च वर्णयतः।
== ईश्वरस्मरणात्कम् ==
'''श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या।'''
'''विभ्राजते प्रोन्नतराजयोगमारोदुमिच्छोरधिरोहिणीव ।।१।।'''
अर्थात्, तस्मै श्री आदिनाथाय नमः अस्तु, येन हठयोगविद्या उपदिष्टा । (इयं हठविद्या) प्रोन्नतराजयोगम् आरोढुम् इच्छोः अधिरोहिणी इव विभ्राजते।
एवं मन्यते यत्, भगवान् [[शिवः]], यः अत्र आदिनाथः इत्युक्तः, सः सर्वप्रथमं स्वार्धाङ्गिनीं [[पार्वती|पार्वत्यै]] [[हठयोग]]<nowiki/>स्य शिक्षां प्रायच्छत्। ततः अनेके हठयोगस्य, तन्त्रस्य च सम्बद्धाः ग्रन्थाः शिव-पार्वत्योः संवादरूपेण प्रचलिताः जाताः। हठ इतिशब्दः 'ह' एवं 'ठ' इत्येतयोः वर्णयोः योगात् निर्मितः वर्तते। तत्र हकारः सूर्यं, ठकारश्च चन्द्रस्य अर्थं बोधयति। एतस्मै शब्दाय संस्कृते अनेके विग्रहाः सन्ति। हठयोगस्य सर्वेषु ग्रन्थेषु एतेषां सर्वेषां शब्दानां प्रयोगः अनेकवारं जातः अस्ति। बहुधा विषयवस्तोः अभिधानाय एतस्य प्रयोगः दृश्यते। परन्तु योगस्य वर्णनम् एतयोः वर्णयोः ऐक्यत्वादेव मन्यते। स्वात्मारामः हठयोगस्य, राजयोगस्य च मध्ये भेदरेखां न प्रदर्शितवान्। यतः उभौ योगौ सहसंयोगात् प्रचलतः, अतः हठप्रदीपिकायां [[राजयोग]]<nowiki/>स्य अपि विवरणं प्राप्यते। अत्र केवलम् एकः मुख्यभेदः प्रदर्शितः यत्, एकस्यैव अनुशासनस्य राजयोगः मानसिकपक्षः, हठयोगश्च शारीरिकपक्षः वर्तते इति।
उक्ते मङ्गलाचरणश्लोके राजयोगः किञ्चन उन्नतस्थानत्वेन प्रदर्शितः, यस्य प्राप्तौ काचित् अधिरोहिणी आवश्यकी भवति, सा अधिरोहिणी एव हठयोगः वर्तते। अत्र स्वात्मारामः अत्र स्पष्टतया उभयोः योगयोः भेदं करोति। अतः अग्रे राजयोगरूपं लक्ष्यं प्राप्तुम् एव साधनरूपां हठविद्यां वर्णयति इति लेखकः वदति। यथा –
== '''अथ गुरुवन्दना''' ==
'''प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना ।'''
'''केवलं राजयोगाय हठविद्योपदिश्यते ।।२।।'''
श्रीगुरुं नाथं प्रणम्य, योगिना-स्वात्मारामेण केवलं राजयोगाय हठविद्या उपदिश्यते।
अत्र स्पष्टतया [[स्वात्मारामः]] गुरुवन्दनासहितं तेषां यौगिक-अनुभवानां महत्त्वं बोधयति, येषु मानसिकपक्षः, आध्यात्मिकपक्षः च प्रमुखभूमिकायां भवति। तस्य पक्षस्य अवगमनाय काश्चित् पूर्वक्रियाः आवश्यक्यः भवन्ति, अतः प्रथमोपदेशात् तृतीयं यावत् सः मानसिकपक्ष-सहोयगीः प्रक्रियाः वर्णयति, ततश्च चतुर्थोपदेशे यौगिकानुभवानां मानसिकपक्षम्, आध्यात्मिकपक्षं च उपस्थापयति।
'''भ्रान्त्या बहुमतध्वान्ते राजयोगमजानताम् ।'''
'''हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ।।३।।'''
बहुमतध्वान्ते भ्रान्त्या (तथा च) राजयोगम् अजानतां (जनानां कृते) कृपाकरः स्वात्मारामः हठप्रदीपिकां धत्ते ।
'''हठविद्या हि मत्स्येन्द्रगोरक्षाद्या विजानते ।'''
'''स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः ॥४॥'''
मत्स्येन्द्र-गोरक्षाद्याः हि हठविद्यां विजानते । अथवा तत्प्रसादतः योगी स्वात्मारामः जानीते।
स्वात्मारामः हठयोगस्य सुप्रसिद्धस्य योगिनः [[मत्स्येन्द्रः|मत्स्येन्द्र]]<nowiki/>स्य, [[गोरक्षः|गोरक्ष]]<nowiki/>स्य च परम्परायाः अनुवर्ती आसीत्। अतः गुरुणा सह सः तेषां सर्वेषां पराम्परानुवर्तिनः योगिनः अपि स्मरणं करोति। अर्थात् सः सम्पूर्णगुरुपरम्परायाः स्मरणं करोति। यथा -
=== '''अथ गुरुपम्परावन्दना''' ===
'''श्रीआदिनाथमत्स्येन्द्र शाबरानन्द भैरवाः ।'''
'''चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ।।५।।'''
'''मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडि: ।'''
'''कोरण्टकः सुरानन्दः सिद्धिपादश्च चर्पटि:।।६।।'''
'''कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः ।'''
'''कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः।।७।।'''
'''अल्लामः प्रभुदेवश्च घोडाचोली च टिण्टिणिः।'''
'''भानुकी नारदेवश्च खण्डः कापालिकस्तथा ।।८।।'''
'''इत्यादयो महासिद्धा हठयोगप्रभावतः ।'''
'''खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥९॥'''
श्रीआदिनाथः, मत्स्येन्द्रः, शाबरः, आनन्दभैरवः, चौरङ्गी, मीनः, गोरक्षः, विरूपाक्षः, बिलेशयः, मन्थानः, भैरवयोगी, सिद्धिः, बुद्धः, कन्थडिः, कोरण्टकः, सुरानन्दः, सिद्धिपादः, चर्पटी, कानेरी, पूज्यपादः, नित्यनाथः, निरञ्जनः, कपाली, बिन्दुनाथः, काकचण्डीश्वरः, अल्लामः, प्रभुदेवः, घोडाचोली, टिण्टिणिः, भानुकी, नारदेवः, खण्डः, कापालिकः इत्यादीनां येषां योगिनां नामानि उक्तानि, ते सर्वेऽपि महासिद्धाः हठयोगप्रभावतः कालदण्डं खण्डयित्वा ब्रह्माण्डे विचरन्ति ।
मत्स्येन्द्रं, गोरक्षं च विहाय अन्ये सर्वे पारम्परिकरूपेण स्वीकृतानां योगिनां विषये सूचना तुलनात्मकरूपेण अतीव स्वल्पा अथवा अप्राप्या वर्तते।
== '''अथ हठयोगस्य कृत्याकृत्यानि''' ==
'''अशेषतापतप्तानां समाश्रयमठो हठः ।'''
'''अशेषयोगयुक्तानामाधारकमठो हठः ।।१०॥'''
अशेषतापतप्तानां (कृते) हठः समाश्रयमठः (विद्यते) । (तथा च) अशेषयोगयुक्तानां (कृते) हठः आधारकमठः (विद्यते) ।
अर्थात्, सर्वप्रकारकेभ्यः दुःखेभ्यः पीडितजनेभ्यः हठयोगः आश्रयरूपः मठः वर्तते। सर्वप्रकारस्य योगाभ्यासिभ्यः हठयोगः आधारभूतः कच्छपः वर्तते। पौराणिक-आख्यानम् अस्ति यत्, मेरुपर्वतः, यस्योपयोगः देवताभिः, असुरैः च समुद्रमन्थनस्य मथनीत्वेन स्वीकृतः, कश्चन कच्छपः आधारः आसीत्, यः साक्षात् विष्णोः अवतारत्वेन परिगण्यते। एवं हठयोगः सर्वेषां योगक्रियाकलापानाम् आधारः अस्ति, सर्वेषां योगिनां च आधारभूतः वर्तते।
'''हठविद्या परं गोप्या योगिनां सिद्धिमिच्छताम् ।'''
'''भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ।।११।।'''
सिद्धिम् इच्छतां योगिनां (कृते) हठविद्या परं गोप्या। गुप्ता (सति) वीर्यवती भवेत् । प्रकाशिता तु निर्वीर्या (भवेत्) । अर्थात्, योगे सिद्धीच्छुकाः साधकाः एनां हठविद्यां नितान्त-गुप्तां स्थापयेयुः। गुप्ता एषा विद्या शक्तिशालिनी भवति। प्रकटिता सा शक्तिहीना भवति। यौगिकग्रन्थकाराः साधकाः पौनःपुन्येन सावधानेन भवितुं कथयति यत्, योगे सफलताप्राप्त्यै एतत् आवश्यकं वर्तते यत्, स्वस्य अभ्यासाः, प्राप्तयः च सर्वथा गुप्ततया रक्षणीयाः इति। एतस्मिन् सन्दर्भे स्पष्टं सङ्केतं यच्छन्ति यत्, योगसिद्धयः उत तत्सम्बद्धाः विषयाः प्रसिद्धेः साधनरूपाः न सन्ति, अपि तु आत्मविकासस्य साधनानि सन्ति। आत्मविकासाय अन्यपक्षस्य रहस्योद्घाटनस्य आवश्यकता न भवति। प्रसिद्धेः कृतः योगाभ्यासः असफलतां प्रति नयति।
== हठविद्या गुप्तविद्या ==
यदि हठविद्या गुप्तविद्या अस्ति, तर्हि कथं तस्याः [[योगी|योगिभिः]] उपस्थापनं कृतं, ग्रन्थनिर्माणं कृतं, ग्रन्थप्रकाशनं कृतञ्च इति प्रश्नः समुद्भवति। एतस्य प्रश्नस्य अतीव सामान्यः उत्तरः भवितुम् अर्हति यत्, हठविद्या तेभ्यः सर्वेभ्यः रक्षणीया, ये एतस्याः विद्यायाः दुरुपयोगं कृत्वा स्वस्य उत अन्यस्य ज्ञात्वा उत अज्ञात्वा हानिं कर्तुं प्रभवन्ति। हठयोगे तादृश्यः अनेकाः क्रियाः, प्रक्रियाः च सन्ति, याः यदि उचिततया न क्रियन्ते, तर्हि साधकस्य मृत्युः, विकारोद्भवः च भवितुम् अर्हति। स्वामी स्वात्मारामः पञ्चमे उपदेशे प्राणायामकाले अयोग्यभ्यासे सति उत्पद्यमानानां विकाराणाम् उपस्थापनम् अकरोत्, तेषां विकाराणां समाधानम् अपि प्रायच्छत्। यदि नियमानां पालनम् अकृत्वा, योग्यमार्गदर्शनम् अप्राप्य च कश्चन हठयोगाभ्यासं करोति, अन्येषां मार्गदर्शनं च करोति, तर्हि सः निश्चयेन स्वस्य, अन्यस्य च हानिं करोति, अतः एषा विद्या गुप्ता भवेत् इति उक्तम्। एतस्य विषयस्य सम्बद्धाः जनाः एव एतस्य ज्ञानं प्राप्नुयुः इति अर्थः।
== सम्बद्धाः लेखाः ==
* [[हठप्रदीपिका]]
* [[हठप्रदीपिकायाः आसनानि]]
* [[हठप्रदीपिकायाः प्राणायामाः]]
* [[हठप्रदीपिकायाः मुद्राः]]
* [[हठप्रदीपिकायाः नादयोगः]]
== सन्दर्भाः ==
{{reflist}}
[[वर्गः:हठप्रदीपिका]]
anbaktpd64zn7hqbb00a2vflgqr0442
470182
470181
2022-08-22T03:54:57Z
NehalDaveND
9230
/* ईश्वरस्मरणात्कम् */1
wikitext
text/x-wiki
'''हठप्रदीपिकायाः''' '''मङ्गलाचरणं''' त्रिषु भागेषु विभक्तं वर्तते। प्रथमे श्लोके ईश्वरवन्दनात्मकं मङ्गलाचरणं वर्तते। २ तः ९ पर्यन्तं गुरुवन्दनात्मकं मङ्गलाचरणं वर्तते। ततः १०, ११ उभौ श्लोकौ हठयोगस्य कृत्याकृत्यं प्रदर्श्य ग्रन्थोद्देश्यम्, उपयोगितां च वर्णयतः।
== ईश्वरस्मरणात्कम् ==
'''श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या।'''
'''विभ्राजते प्रोन्नतराजयोगमारोदुमिच्छोरधिरोहिणीव ।।१।।'''
अर्थात्, तस्मै श्री आदिनाथाय नमः अस्तु, येन हठयोगविद्या उपदिष्टा । (इयं हठविद्या) प्रोन्नतराजयोगम् आरोढुम् इच्छोः अधिरोहिणी इव विभ्राजते।
एवं मन्यते यत्, भगवान् [[शिवः]], यः अत्र आदिनाथः इत्युक्तः, सः सर्वप्रथमं स्वार्धाङ्गिनीं [[पार्वती|पार्वत्यै]] [[हठयोग]]<nowiki/>स्य शिक्षां प्रायच्छत्। ततः अनेके हठयोगस्य, तन्त्रस्य च सम्बद्धाः ग्रन्थाः शिव-पार्वत्योः संवादरूपेण प्रचलिताः जाताः। हठ इतिशब्दः 'ह' एवं 'ठ' इत्येतयोः वर्णयोः योगात् निर्मितः वर्तते। तत्र हकारः सूर्यं, ठकारश्च चन्द्रस्य अर्थं बोधयति। एतस्मै शब्दाय संस्कृते अनेके विग्रहाः सन्ति। हठयोगस्य सर्वेषु ग्रन्थेषु एतेषां सर्वेषां शब्दानां प्रयोगः अनेकवारं जातः अस्ति। बहुधा विषयवस्तोः अभिधानाय एतस्य प्रयोगः दृश्यते। परन्तु योगस्य वर्णनम् एतयोः वर्णयोः ऐक्यत्वादेव मन्यते। स्वात्मारामः हठयोगस्य, राजयोगस्य च मध्ये भेदरेखां न प्रदर्शितवान्। यतः उभौ योगौ सहसंयोगात् प्रचलतः, अतः हठप्रदीपिकायां [[राजयोग]]<nowiki/>स्य अपि विवरणं प्राप्यते। अत्र केवलम् एकः मुख्यभेदः प्रदर्शितः यत्, एकस्यैव अनुशासनस्य राजयोगः मानसिकपक्षः, हठयोगश्च शारीरिकपक्षः वर्तते इति।
उक्ते मङ्गलाचरणश्लोके राजयोगः किञ्चन उन्नतस्थानत्वेन प्रदर्शितः, यस्य प्राप्तौ काचित् अधिरोहिणी आवश्यकी भवति, सा अधिरोहिणी एव हठयोगः वर्तते। अत्र स्वात्मारामः स्पष्टतया उभयोः योगयोः भेदं करोति। अतः अग्रे राजयोगरूपं लक्ष्यं प्राप्तुम् एव साधनरूपां हठविद्यां वर्णयति इति लेखकः वदति। यथा –

98bxhuisy0hpoi01nhqqqs7o17vrs1z
470183
470182
2022-08-22T03:57:48Z
NehalDaveND
9230
/* अथ गुरुवन्दना */क

अत्र स्पष्टतया [[स्वात्मारामः]] गुरुवन्दनासहितं तेषां यौगिक-अनुभवानां महत्त्वं बोधयति, येषु मानसिकपक्षः, आध्यात्मिकपक्षः च प्रमुखभूमिकायां भवति। तस्य पक्षस्य अवगमनाय काश्चित् पूर्वक्रियाः आवश्यक्यः भवन्ति, अतः प्रथमोपदेशात् तृतीयं यावत् सः मानसिकपक्ष-सहयोगीः प्रक्रियाः वर्णयति, ततश्च चतुर्थोपदेशे यौगिकानुभवानां मानसिकपक्षम्, आध्यात्मिकपक्षं च उपस्थापयति।

9c9qegbnyj56rly2hd49iwcwf77qfo3
470184
470183
2022-08-22T04:06:27Z

स्वात्मारामः हठयोगस्य सुप्रसिद्धस्य योगिनः [[मत्स्येन्द्रः|मत्स्येन्द्र]]<nowiki/>स्य, [[गोरक्षः|गोरक्ष]]<nowiki/>स्य च परम्परायाः अनुवर्ती आसीत्। अतः गुरुणा सह सः तेषां सर्वेषां पराम्परानुवर्तिनः योगिनः अपि स्मरति। अर्थात् सः सम्पूर्णगुरुपरम्परायाः स्मरणं करोति। यथा -

f824302pochmko1sk7shs8v581l6fok
सदस्यसम्भाषणम्:KeshariHarsh
3
79609
470185
2022-08-22T08:10:31Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=KeshariHarsh}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०८:१०, २२ आगस्ट् २०२२ (UTC)
g63txafpwv4w8nbr3wn1vkltseb87nj
सदस्यसम्भाषणम्:223076gauripriyacnair
3
79610
470187
2022-08-22T09:58:49Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=223076gauripriyacnair}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०९:५८, २२ आगस्ट् २०२२ (UTC)
fik3kar609ruk3cdu4v9whevhowijak
सदस्यः:223076gauripriyacnair
2
79611
470188
2022-08-22T10:03:25Z
223076gauripriyacnair
35738
2230776
wikitext
text/x-wiki
2230776gauripriyacnair
t8mtrdlgobz9a1gf3hj3gj5jbeto3fa
सदस्यसम्भाषणम्:2240562hasumitha
3
79612
470189
2022-08-22T10:07:08Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=2240562hasumitha}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १०:०७, २२ आगस्ट् २०२२ (UTC)
30t2nn4xxsgkj1fpxh94qr5dymed2y5
सदस्यसम्भाषणम्:Hadanish
3
79613
470190
2022-08-22T10:32:14Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Hadanish}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १०:३२, २२ आगस्ट् २०२२ (UTC)
71wgyp4uh6irs4ts16y1a3tffc9md1g
सदस्यसम्भाषणम्:Tengu Tengu
3
79614
470191
2022-08-22T11:31:59Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Tengu Tengu}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ११:३१, २२ आगस्ट् २०२२ (UTC)
cjunvqzqocwa7ldj5do4r7yjm81vcy3