विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.21 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता ऋग्वेदः सूक्तं १०.२ 0 292 340854 293525 2022-07-21T04:39:53Z Puranastudy 1572 wikitext text/x-wiki {{header | title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]] | author = त्रित आप्त्यः | translator = | section = सूक्तं १०.२ | previous = [[ऋग्वेद: सूक्तं १०.१|सूक्तं १०.१]] | next = [[ऋग्वेद: सूक्तं १०.३|सूक्तं १०.३]] | notes = दे. अग्निः। त्रिष्टुप् }} <poem><span style="font-size: 14pt; line-height: 200%">पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँरृतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥१॥ वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा । स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥२॥ आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् । अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति ॥३॥ यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति ॥४॥ यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥५॥ विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥६॥ यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥७॥ </span></poem> {{सायणभाष्यम्| ‘पिप्रीहि' इति सप्तर्चं द्वितीयं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘पिप्रीहि' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तः सूक्तविनियोगः । दर्शपूर्णमासयोराद्या स्विष्टकृतोऽनुवाक्या । सूत्रित च- ‘ अथ स्विष्टकृतः पिप्रीहि देवाँ उशतो यविष्ठेत्यनुवाक्या' ( आश्व, श्रौ. १. ६) इति ॥ पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँरृ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥१ पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह । ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥१ पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतुऽपते । यज । इह । ये । देव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आऽयजिष्ठः ॥ १ ॥ हे "यविष्ठ युवतमाग्ने "उशतः स्तुतीः श्रोतुं कामयमानान् “देवान् “पिप्रीहि हविर्भिः प्रीणय । हे "ऋतुपते ऋतूनां देवयागकालानां स्वामिन्नग्ने “ऋतून् यागकालान् “विद्वान् जानानस्त्वम् “इह अस्मिन् यज्ञे तान् “यज पूजय । किंच हे अग्ने “दैव्याः देवेषु भवाः “ अग्निर्होताश्विनावध्वर्यू त्वष्टाग्नीन्मिन्न उपवक्ता' (तै. आ. ३. ३) इत्यत्रोक्ताः “ये “ऋत्विजः सन्ति "तेभिः तैः सह देवान् यज । यद्वा । दैव्या देवेषु भवा ऋत्विज आश्वलायनेनोक्ताः चन्द्रमा ब्रह्मादित्योऽध्वर्युः पर्जन्य उद्गाता (आश्व. गृ. १. २३. ८-९) इति । तैः सह यज । यस्मात् “त्वं होतॄणां मध्ये “आयजिष्ठः अभिमुख्येन देवानां यष्टृतमः “असि भवसि ॥ वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मन्धा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ । स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥२ वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । जना॑नाम् । म॒न्धा॒ता । अ॒सि॒ । द्र॒वि॒णः॒ऽदाः । ऋ॒तऽवा॑ । स्वाहा॑ । व॒यम् । कृ॒णवा॑म । ह॒वींषि॑ । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥२ वेषि । होत्रम् । उत। पोत्रम् । जनानाम् । मन्धाता । असि । द्रविणःऽदाः । ऋतऽवा। स्वाहा । वयम् । कृणवाम । हवींषि । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥ २ ॥ हे अग्ने “जनानां यजमानार्थं “होत्रं होतुः कर्म तेन क्रियमाणं स्तोत्रं "वेषि कामयसे। “उत अपि च “पोत्रं पोतुः कर्म तेन क्रियमाणां स्तुतिं कामयसे। किंच “मन्धाता मेधावी “ऋतावा सत्यवांस्त्वं द्रविणोदाः “असि धनस्य प्रदाता भवसि । अथ परोक्षकृतः । वयं देवेभ्यः “हवींषि “स्वाहा “कृणवाम स्वाहा करवाम। प्रयच्छाम । ततः “देवः दीप्यमानः “अर्हन् प्रशंस्यो यजमानयोग्यो वा “अग्निः देवान “यजतु । तैर्हविर्भिः पूजयतु । दर्शपूर्णमासातिपत्त्यादौ निमित्ते पाथिकृतीष्टिः कर्तव्या। तत्र ‘ आ देवानाम्' इत्येषा याज्या । सूत्रितं च- 'वेत्था हि वेधो अध्वन आ देवानामपि पन्थामगन्म' (आश्व. श्रौ. ३. १०) इति । प्रायणीयायामाग्नेयस्यैषैव याज्योदयनीयायां सैवानुवाक्या। सूत्रितं च--- अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म' (आश्व, श्रौ. ४. ३) इति । विपरीताश्च याज्यानुवाक्या इति ॥ आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुम् । अ॒ग्निर्वि॒द्वान्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्स ऋ॒तून्क॑ल्पयाति ॥३ आ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्नवा॑म । तत् । अनु॑ । प्रऽवो॑ळ्हुम् । अ॒ग्निः । वि॒द्वान् । सः । य॒जा॒त् । सः । इत् । ऊं॒ इति॑ । होता॑ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒या॒ति॒ ॥३ आ। देवानाम् । अपि । पन्थाम् । अगन्म । यत् । शक्नवाम । तत् । अनु । प्रऽवोळ्हुम् । अग्निः । विद्वान् । सः । यजात् । सः । इत् । ॐ इति । होता । सः । अध्वरान् । सः । ऋतून् । कल्पयाति ॥ ३ ॥ “देवानां देवलोकादिगमनसाधनं देवानां स्वभूतं “पन्थां पन्थानं तम् “अपि वैदिकमार्गं वयम् “आ “अगन्म आगतवन्तो भवेम येन देवान् प्राप्नुमः । तथा वयं “यत् कर्म अनुष्ठातुं “शक्नवाम शक्नुमः समर्था भवामः “तत् कर्म अनुक्रमेण “प्रवोळ्हुं प्रकर्षेण वोढुं समाप्तिं प्रापयितुं समर्था भवेम । अनन्तरं “विद्वान् तं पन्थानं जानानः “सः “अग्निः “यजात् देवान् यजतु । “सेदु स एव खलु “होता मनुष्याणां होमनिप्पादकः । ततः सः एवाग्निः अध्वरान् यज्ञान् किंच “ऋतून् कालान् कल्पयाति कल्पयतु करोतु ॥ व्रतातिपत्तौ व्रातपतीष्टिः कर्तव्या । तत्र ' यद्वो वयम्' इत्येषा याज्या । सूत्रितं च -- त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानि' (आश्व. श्रौ. ३. १३) इति ॥ यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥४ तत् । वः॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । वि॒दुषा॑म् । दे॒वाः॒ । अवि॑दुःऽतरासः । अ॒ग्निः । तत् । विश्व॑म् । आ । पृ॒णा॒ति॒ । वि॒द्वान् । येभिः॑ । दे॒वान् । ऋ॒तुऽभिः॑ । क॒ल्पया॑ति ॥४ यत् । वः । वयम् । प्रऽमिनाम । व्रतानि । विदुषाम् । देवाः । अविदुःऽतरासः । अग्निः । तत् । विश्वम् । आ । पृणाति । विद्वान् । येभिः । देवान् । ऋतुऽभिः । कल्पयाति ॥४॥ हे देवाः “अविदुष्टरासः अविद्वत्तरा अत्यन्तमजानन्तः “वयं “वः युष्माकं “यत् यत्किंचित् “व्रतानि कर्माणि “विदुषां भवतां जानतामेव “प्रमिनाम प्रहिंसितवन्तः। भवत्सु जानत्सु नित्यनैमित्तिककर्माणि विलोपितवन्त इत्यर्थः । “विद्वान् एतत् सर्वं “जानानः अग्निः स्विष्टकृत् “तत् एतत् विश्वं सर्वं कर्मजातम् “आ “पृणाति आपूरयतु। फलसहितं करोत्वित्यर्थः । केनापूरयतु तत्राह। “येभिः “ऋतुभिः यागयोग्यैः कालैः “देवान् “कल्पयाति कल्पयति कर्माङ्गभावाय समर्थयति तैरापूरयतु । यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः । अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥५ यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः । अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥५ यत् । पाकऽत्रा । मनसा । दीनऽदक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः । अग्निः । तत् । होता । क्रतुऽवित् । विऽजानन् । यजिष्ठः । देवान् । ऋतुऽशः । यजाति ॥५॥ “दीनदक्षाः सततयाजनेन दीनबला दीनोत्साहा वा “मर्त्यासः मर्त्या मनुष्या ऋत्विजः “पाकत्रा पाकेन । बहुलग्रहणादस्मादपि तृतीयार्थे त्राप्रत्यर्थः । पाकेन पक्तव्येन विशिष्टज्ञानरहितेनाल्पेन वा मनसा युक्ताः सन्तो यज्ञसंबन्धि “यत् कर्म “न “मन्वते न जानन्ति तत् कर्म “विजानन् "होता देवानामाह्वाता होमनिष्पादको वा “क्रतुवित् कर्मवित् "यजिष्ठः देवानामतिशयेन यष्टा सः “अग्निः स्विष्टकृत् “ऋतुशः ऋतावृतौ स्वे स्वे यागयोग्ये काले “देवान् “यजाति यजतु हविर्भिः पूजयतु ।। विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ । स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती॑र्वि॒श्वज॑न्याः ॥६ विश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ । सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒श्वऽज॑न्याः ॥६ विश्वेषाम् । हि। अध्वराणाम् । अनीकम् । चित्रम्। केतुम् । जनिता। त्वा। जजान ।। सः । आ । यजस्व । नृऽवतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षुऽमतीः । विश्वऽजन्याः॥६॥ हे अग्ने “विश्वेषां सर्वेषाम् “अध्वराणां यज्ञानाम् “अनीकं मुखं प्रधानं “चित्रं चायनीयं नानारूपं वा “केतुं प्रज्ञापकं “त्वा त्वां “जनिता जनयिता प्रजापतिर्यजमानो वा “जजान जनयामास । उत्पादितः “सः त्वं “नृवतीः दासादियुक्ताः “क्षाः । पृथिवीनामैतत् । क्षयन्त्यत्रेति क्षा भूमिः। “अनु “आ यजस्व अनुप्रयच्छ । यद्वा । नृवतीनृभिः संस्कृतानि क्षा अनु पृथिवीं वेदिलक्षणामनुगतानि वेद्यामासादितानि “स्पार्हाः स्पृहणीयानि “क्षुमतीः स्तुतिमन्त्रलक्षणशब्दवन्ति “विश्वजन्याः सर्वजनहितानि वृष्ट्यन्नहेतुत्वात् तानि "इषः अन्नानि हविर्लक्षणानि यजस्व देवेभ्यः प्रयच्छ॥ यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ । पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥७ यम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजनि॑मा । ज॒जान॑ । पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥७ यम् । त्वा । द्यावापृथिवी इति । यम्। त्वा । आपः । त्वष्टा। यम् । त्वा। सुऽजनिमा । जजान। पन्थाम् । अनु । प्रऽविद्वान् । पितृऽयानम् । द्युऽमत् । अग्ने । सम्ऽइधानः । वि। भाहि ॥७॥ हे अग्ने ये “त्वा त्वां “द्यावापृथिवी जनितवत्यौ आदित्यात्मनाग्न्यात्मना वा । तथा “यं त्वाम् "आपः मेघोदरगता विद्युदात्मना स्थितं जनितवत्यः । यद्वा । आप इत्यन्तरिक्षनाम । द्यावापृथिवी अन्तरिक्षं चेमे त्रयो लोका यं त्वामजीजनन् । किंच "सुजनिमा शोभनजननः त्वष्टा प्रजापतिः “यं "त्वां “जजान जनयामास हे अग्ने “पितृयाणं पितरो येन मार्गेण गच्छन्ति ते “पन्थां हविर्वहनमार्गम् "अनु “प्रविद्वान् प्रजानंस्त्वं “समिधानः समिध्यमानः सन् “द्युमत् दीप्तियुक्तं यथा भवति तथा “वि “भाहि विशेषेण दीप्यसे ॥ ॥ ३० ॥ }} == == {{टिप्पणी| [http://puranastudy.freevar.com/Antariksha_Paryaya/pva20.htm त्रितस्य विवेचनम्] }} {{ऋग्वेदः मण्डल १०}} gpzun3b920tyugfs7m2ls994fajm4bk ऋग्वेदः सूक्तं १०.१९० 0 479 340861 203912 2022-07-21T05:08:05Z Puranastudy 1572 wikitext text/x-wiki {{header | title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]] | author = माधुच्छन्दसोऽघमर्षणः। | translator = | section = सूक्तं १०.१९० | previous = [[ऋग्वेद: सूक्तं १०.१८९|सूक्तं १०.१८९]] | next = [[ऋग्वेद: सूक्तं १०.१९१|सूक्तं १०.१९१]] | notes = दे. भाववृत्तम् । अनुष्टुप् । }} <poem><span style="font-size: 14pt; line-height:200%"> ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥१॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥२॥ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥३॥ </span></poem> {{सायणभाष्यम्| ‘ऋतम्' इति तृचमेकोनचत्वारिंशं सूक्तं मधुच्छन्दसः पुत्रस्याघमर्षणस्यार्षमानुष्टुभम् । रात्र्यादीनां भावानां सृष्ट्यादिप्रतिपादकत्वात्तादृग्रूप एवार्थो देवता । तथा चानुक्रान्तम्----ऋतं माधुच्छन्दसोऽघमर्षणो भाववृत्तमानुष्टुभं तु' इति । लिङ्गाद्विनियोगोऽवगन्तव्यः ॥ ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ १ ऋ॒तम् । च॒ । स॒त्यम् । च॒ । अ॒भी॑द्धात् । तप॑सः । अधि॑ । अ॒जा॒य॒त॒ । ततः॑ । रात्री॑ । अ॒जा॒य॒त॒ । ततः॑ । स॒मु॒द्रः । अ॒र्ण॒वः ॥१ ऋतम् । च । सत्यम् । च । अभीद्धात् । तपसः । अधि । अजायत । ततः । रात्री । अजायत । ततः । समुद्रः । अर्णवः ॥१ ऋतमिति सत्यनाम । ऋतं मानसं यथार्थसंकल्पनं सत्यं वाचिकं यथार्थभाषणम् । चकाराभ्यामन्यदपि शास्त्रीयं धर्मजातं समुच्चीयते । तत्सर्वमभीद्धादभितप्ताद्ब्रह्मणा पुरा सृष्ट्यर्थं कृतात्तपसोऽधि । अध्युपर्यर्थे । उपर्यजायत । उदपद्यत । ‘ तपस्तप्त्वेदं सर्वमसृजत ' (तै. आ. ८. ६ ) इति श्रुतेः । तपश्चात्र स्रष्टव्यपर्यालोचनलक्षणम् ।' यस्य ज्ञानमयं तपः' ( मु. उ. १, १. ९) इति श्रुत्यन्तरात् ॥ अभिपूर्वदिन्धेः कर्मणि निष्ठा । ‘ श्वीदितो निष्ठायाम् ' ( पा. सू. ७. २. १४ ) इतीट्प्रतिषेधः। ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ‘स्वरितो वानुदात्ते पदादौ ' इत्येकादेशः स्वर्यते ॥ यद्वा । अभीद्धादभितः प्रकाशमानात् परमात्मनो मायाधिष्ठानरूपादुपादानभूतादृतं सत्यं चाजायत । ‘जनिकर्तुः प्रकृतिः' ( पा. सू. १. ४. ३०) इति प्रकृतेरपादानसंज्ञा ॥ ततस्तस्मादेवेश्वराद्रात्री । उपलक्षणमेतदह्रोऽपि । अहश्च रात्रिश्चाजायत ॥ ‘ रात्रेश्चाजसौ ' (पा. सू. ४. १. ३१) इति ङीप् । ततस्तस्मादेवेश्वरादर्णवोऽर्णसोदकेन युक्तः समुद्रश्चाजायत । समुद्रशब्दोऽन्तरिक्षोदध्योः साधारण इत्यभिमतार्थस्य प्रकाशनायार्णवशब्देन विशेष्यते । ‘ अर्णसः सलोपश्च'( का. ५. २. १०९. ३ ) इति मत्वर्थीयो वप्रत्ययः सलोपश्च ॥ स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥ २ स॒मु॒द्रात् । अ॒र्ण॒वात् । अधि॑ । सं॒व॒त्स॒रः । अ॒जा॒य॒त॒ । अ॒हो॒रा॒त्राणि॑ । वि॒ऽदध॑त् । विश्व॑स्य । मि॒ष॒तः । व॒शी ॥२ समुद्रात् । अर्णवात् । अधि । संवत्सरः । अजायत । अहोरात्राणि । विऽदधत् । विश्वस्य । मिषतः । वशी ॥२ अर्णवात्समुद्रात्सृष्टादध्यूर्ध्वं संवत्सरः संवत्सरोपलक्षितः सर्वः कालोऽजायत । श्रूयते हि -- ‘ सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि कला मुहूर्ताः काष्ठाश्च ' (तै. आ. १०. १. २) इति । स चेश्वरोऽहोरात्राण्येतदुपलक्षितानि सर्वाणि भूतजातानि विदधत् कुर्वन् सृजन् ॥ ‘ अभ्यस्तानामादिः । इत्याद्युदात्तत्वम् । ततः समासे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ मिषतो निमिषादियुक्तस्य विश्वस्य सर्वस्य प्राणिजातस्य वशी स्वामी भूत्वा वर्तते ॥ सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ॥ ३ सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् । दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥३ सूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् । दिवम् । च । पृथिवीम् । च । अन्तरिक्षम् । अथो इति । स्वः ॥३ सूर्याचन्द्रमसौ कालस्य ध्वजभूतौ दिवं च पृथिवीं चान्तरिक्षं च इत्थं त्रिभुवनं स्वः । स्वःशब्दः सुखवाची । दिवो विशेषणम् । सुखरूपां दिवम् । तदेतत्सर्वं धाता विधाता यथापूर्वं पूर्वस्मिन् कल्पे अकल्पयत् सृष्टवान् तथैवागामिन्यपि कल्पे कल्पयिष्यतीत्यर्थः ॥ ॥ ४८ । }} == == {{टिप्पणी| अघमर्षण-सूक्त में प्रथम पक्ष को सत्यं की, तो द्वितीय पक्ष को ऋतम् की प्रवृत्ति कहा गया है। - [http://puranastudy.freevar.com/Antariksha_Paryaya/pva16.htm अघमर्षणसूक्तस्य विवेचनम्] }} {{ऋग्वेदः मण्डल १०}} a0zchik6yxj1o3m6lzcjj2x2xiky1cb ऋग्वेदः सूक्तं ४.५८ 0 942 340868 279390 2022-07-21T05:27:57Z Puranastudy 1572 /* */ wikitext text/x-wiki {{header | title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]] | author = वामदेवो गौतमः | translator = | section = सूक्तं ४.५८ | previous = [[ऋग्वेद: सूक्तं ४.५७|सूक्तं ४.५७]] | next = | notes = दे. अग्निः, सूर्यो वाऽऽपो वा गावो वा घृतस्तुतिर्वा। त्रिष्टुप्, ११ जगती }} <poem><span style="font-size: 14pt; line-height:200%"> समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥१॥ वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् ॥२॥ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश ॥३॥ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥४॥ एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे । घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥५॥ सम्यक्स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः । एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः ॥६॥ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥७॥ अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥८॥ कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि । यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते ॥९॥ अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त । इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥१०॥ धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि । अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥११॥ </span></poem> {{सायणभाष्यम्| ‘ समुद्रादूर्मिः ' इत्येकादशर्चं त्रयोदशं सूक्तम् । अन्त्या जगती शिष्टास्त्रिष्टुभः । अग्निसूर्याब्गोघृतानामन्यतमो देवता । वामदेव ऋषिः । अत्रानुक्रमणिका -- समुद्रादूर्मिरेकादशाग्नेयं जगत्यन्तं सौर्यं वापं वा गव्यं वा घृतस्तुतिर्वा ' इति । विषुवतीदं सूक्तमाज्यम् । तथा च सूत्रं -- ‘ समुद्रादूर्मिरित्याज्यं त्यं सुमेषम् ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1auk ८. ६] ) इति । व्यूढे दशरात्रे सप्तमेऽहनीदमेव सूक्तमाज्यम् । सूत्रितं च -' अथ छन्दोमाः समुद्रादूर्मिरित्याज्यम् ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1aun ८. ९]) इति ॥ स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑र॒दुपां॒शुना॒ सम॑मृत॒त्वमा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑ः ॥१ स॒मु॒द्रात् । ऊ॒र्मिः । मधु॑ऽमान् । उत् । आ॒र॒त् । उप॑ । अं॒शुना॑ । सम् । अ॒मृ॒त॒ऽत्वम् । आ॒न॒ट् । घृ॒तस्य॑ । नाम॑ । गुह्य॑म् । यत् । अस्ति॑ । जि॒ह्वा । दे॒वाना॑म् । अ॒मृत॑स्य । नाभिः॑ ॥१ समुद्रात् । ऊर्मिः । मधुऽमान् । उत् । आरत् । उप । अंशुना । सम् । अमृतऽत्वम् । आनट् । घृतस्य । नाम । गुह्यम् । यत् । अस्ति । जिह्वा । देवानाम् । अमृतस्य । नाभिः ॥१ संमोदन्तेऽस्मिन्यजमाना इति वा समुद्रोऽग्निः पार्थिवः अथवा समुद्द्रवन्त्यापोऽस्मादिति व्युत्पत्त्या वैद्युतोऽग्निः । तस्मात् “ऊर्मिः ऊर्मिवदुपर्युपरि उद्भूतः “मधुमान् माधुर्योपेतफलसमूहः "उदारत् उद्गच्छति । अथवा वैद्युतात् ऊर्म्यूत्पादकः रस उदारत् उद्भूतः । अथवा समुद्रात् समुद्द्रवणसाधनात् आदित्यादूर्मी रस उदकलक्षण उदारत् । ‘ आदित्याज्जायते वृष्टिः' इति श्रुतेः । यद्वा । समुद्रादुक्तव्युत्पत्तेः अन्तरिक्षादूर्मिरुदकमुदारत् । अथवा समुद्रादुक्तलक्षणात् गवामूधसः सकाशात् ऊर्मिरुज्वलः क्षीररसः । एतत् घृतपक्षेऽपि समानम् । यद्यपि घृतं क्षीराज्जायते तथापि तस्योधस उत्पत्तेरेवमुपचर्यते । शिष्टं वाक्यमग्न्यादिपञ्चसु पक्षेष्वपि समानम् । “अंशुना दीप्त्यांशेन वा “अमृतत्वं मोक्षम् “उप “सम् “आनट् । उपेति पूरणः । प्राप्नोति नरः । “घृतस्य दीप्तस्य क्षीरद्रव्यरूपस्य वा "गुह्यं “नाम गोपनीयं नमनसाधनं “यदस्ति तद्ब्रवीमि । तत् "देवानां “जिह्वा आस्वादकजिह्वास्थानीयं भवति । तदेव “अमृतस्य “नाभिः बन्धकं भवति । तदुभयं घृतस्य नामेत्यर्थः । एवं सर्वमन्त्रेषु तत्तत्पक्षानुसारेण योज्यम् ॥ व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑ःशृङ्गोऽवमीद्गौ॒र ए॒तत् ॥२ व॒यम् । नाम॑ । प्र । ब्र॒वा॒म॒ । घृ॒तस्य॑ । अ॒स्मिन् । य॒ज्ञे । धा॒र॒या॒म॒ । नमः॑ऽभिः । उप॑ । ब्र॒ह्मा । शृ॒ण॒व॒त् । श॒स्यमा॑नम् । चतुः॑ऽशृङ्गः । अ॒व॒मी॒त् । गौ॒रः । ए॒तत् ॥२ वयम् । नाम । प्र । ब्रवाम । घृतस्य । अस्मिन् । यज्ञे । धारयाम । नमःऽभिः । उप । ब्रह्मा । शृणवत् । शस्यमानम् । चतुःऽशृङ्गः । अवमीत् । गौरः । एतत् ॥२ "वयं यजमानाः “घृतस्य “नाम “प्र “ब्रवाम स्तुमः । अस्मिन्यज्ञे “नमोभिः नमस्कारैः हविर्भिर्वा “धारयाम च । “ब्रह्मा परिवृढो देवः “शस्यमानं स्तूयमानमिदम् “उप “शृणवत् शृणुयात् । “चतुःशृङ्गः । चत्वारि शृङ्गाणि वेदचतुष्टयरूपाणि यस्य सः । आदित्याग्निपक्षे एवम् । इतरेष्वपि यास्कोक्तव्युत्पत्त्या शृङ्गशब्दो व्याख्येयः । “गौरः अरुणवर्णः तादृशो देवः “एतत् कर्म जगद्वा “अवमीत् उद्गिरति निर्वहतीत्यर्थः ।। च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥३ च॒त्वारि॑ । शृङ्गा॑ । त्रयः॑ । अ॒स्य॒ । पादाः॑ । द्वे इति॑ । शी॒र्षे इति॑ । स॒प्त । हस्ता॑सः । अ॒स्य॒ । त्रिधा॑ । ब॒द्धः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ । म॒हः । दे॒वः । मर्त्या॑न् । आ । वि॒वे॒श॒ ॥३ चत्वारि । शृङ्गा । त्रयः । अस्य । पादाः । द्वे इति । शीर्षे इति । सप्त । हस्तासः । अस्य । त्रिधा । बद्धः । वृषभः । रोरवीति । महः । देवः । मर्त्यान् । आ । विवेश ॥३ यद्यपि सूक्तस्याग्निसूर्यादिपञ्चदेवताकत्वात् पञ्चधायं मन्त्रो व्याख्येयस्तथापि निरुक्ताद्युक्तनीत्या यज्ञात्मकाग्नेः सूर्यस्य च प्रकाशकत्वेन तत्परतया व्याख्यायते । अस्य यज्ञात्मकस्याग्नेः “चत्वारि “शृङ्गा चत्वारो वेदाः शृङ्गस्थानीयाः । यद्यप्यापस्तम्बेन यज्ञं व्याख्यास्यामः स त्रिभिर्वेदैर्विधीयते (परिभा. १. ३ ) इत्युक्तं तथाप्याथर्वणस्य इतरानपेक्षयैव एकाग्निसाध्यानां कृत्स्नकर्मणामभिधायक त्वात्तदपेक्षया चत्वारि शृङ्गेत्युक्तम् । “त्रयो “अस्य “पादाः सवनानि त्रीण्यस्य पादाः । प्रवृत्तिसाधनत्वात् पादा इत्युच्यन्ते । “द्वे “शीर्षे ब्रह्मौदनं प्रवर्ग्यश्च । इष्टिसोमप्राधान्येनेदमुक्तम् । “सप्त “हस्तासः सप्त छन्दांसि । हस्ता: अनुष्ठानस्य मुख्यसाधनम् । छन्दांस्यपि देवताप्रीणनस्य मुख्यसाधनमिति हस्तव्यवहारः। “त्रिधा “बद्धः मन्त्रब्राह्मणकल्पैः त्रिप्रकारं बद्धः । बन्धनमस्य तन्निष्पाद्यत्वम् । “वृषभः फलानां वर्षिता “रोरवीति । भृशं शब्दायते । ऋग्यजुःसामोक्थैः शस्त्रयागस्तुतिरूपैर्होत्राद्युत्पादितैर्ध्वनिभिरसौ रौति । एवं “महो “देवः “मर्त्यान् “आ “विवेश । मर्त्यैर्यजमानैर्निष्पाद्यत्वात् प्रवेश उपचर्यते । अत्र यास्कः -- ‘ चत्वारिशृङ्गेति वेदा वा एत उक्ताः । ( निरु. १३.७ ) इत्यादिना निरवोचत् । तदत्रानुसंधेयम् ॥ अथ ‘ सूर्यपक्षे व्याख्यायते-- अस्यादित्यस्य चत्वारि शृङ्गाणि चतस्रो दिशः । एताः श्रयणार्थत्वात् शृङ्गाणीत्युपचर्यन्ते । त्रयो अस्य पादाः । त्रयो वेदाः पादस्थानीया भवन्ति गमनसाधनत्वात् । तथा हि - ऋग्भिः पूर्वाह्णे दिवि देव ईयते ' इत्युपक्रम्य • वेदैरशून्यस्त्रिभिरेति सूर्यः ' (तै. ब्रा. ३. १२. ९. १ ) इति हि वेदत्रयेण गतिराम्नाता । द्वे शीर्षे । अहश्च रात्रिश्चेति द्वे शिरसी । सप्त हस्तासो अस्य । सप्त रश्मयः षड्विलक्षणा ऋतव एकः साधारण इति वा सप्त हस्ता भवन्ति । त्रिधा बद्धस्त्रिषु स्थानेषु क्षित्यादिषु अग्न्याद्यात्मकत्वेन संबद्धः । ग्रीष्मवर्षांहेमन्ताख्यैस्त्रिभिस्त्रेधा बद्धो वा । वृषभो वर्षिता रोरवीति । शब्दं करोति वृष्ट्यादिद्वारा । स महो महान् देवो मर्त्यानां विवेश तन्नियन्तृतया। सूर्य आत्मा जगतस्तस्थुषश्च' ( ऋ. सं. १. ११५. १ ) इति हि श्रुतम् ॥ एवं त्वबादिपक्षेऽपि योज्यम् । शाब्दिकास्तु शब्दब्रह्मपरतया चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च इत्यादिना व्याचक्षते । अपरे त्वपरथा । तत्सर्वमत्र द्रष्टव्यम् ॥ त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् । इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥४ त्रिधा॑ । हि॒तम् । प॒णिऽभिः॑ । गु॒ह्यमा॑नम् । गवि॑ । दे॒वासः॑ । घृ॒तम् । अनु॑ । अ॒वि॒न्द॒न् । इन्द्रः॑ । एक॑म् । सूर्यः॑ । एक॑म् । ज॒जा॒न॒ । वे॒नात् । एक॑म् । स्व॒धया॑ । निः । त॒त॒क्षुः॒ ॥४ त्रिधा । हितम् । पणिऽभिः । गुह्यमानम् । गवि । देवासः । घृतम् । अनु । अविन्दन् । इन्द्रः । एकम् । सूर्यः । एकम् । जजान । वेनात् । एकम् । स्वधया । निः । ततक्षुः ॥४ “पणिभिः असुरैः “गवि गोषु “त्रिधा क्षीरदध्याज्यभेदेन त्रिप्रकारं “हितं निहितं “गुह्यमानं गोपितं “घृतं दीप्तं रसरूपं वा द्रव्यं “देवासः देवाः “अन्वविन्दन् अलभन्त । तत्र “इन्द्र “एकं क्षीरं “जजान उदपादयत् । “सूर्य “एकं जजान । "वेनात् कान्तिमतः अग्नेर्गमनवतो वायोर्वा “एकं घृतं “स्वधया अन्नेन निमित्तेन द्रव्येण वा साधनेन “निष्टतक्षुः निरपादयन् देवाः ।। ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥५ ए॒ताः । अ॒र्ष॒न्ति॒ । हृद्या॑त् । स॒मु॒द्रात् । श॒तऽव्र॑जाः । रि॒पुणा॑ । न । अ॒व॒ऽचक्षे॑ । घृ॒तस्य॑ । धाराः॑ । अ॒भि । चा॒क॒शी॒मि॒ । हि॒र॒ण्ययः॑ । वे॒त॒सः । मध्ये॑ । आ॒सा॒म् ॥५ एताः । अर्षन्ति । हृद्यात् । समुद्रात् । शतऽव्रजाः । रिपुणा । न । अवऽचक्षे । घृतस्य । धाराः । अभि । चाकशीमि । हिरण्ययः । वेतसः । मध्ये । आसाम् ॥५ “एताः आपो घृतधारा वा “अर्षन्ति अधः पतन्ति। “शतव्रजाः अपरिमितगतयः सत्यः “हृद्यात् हृदयङ्गमात् “समुद्रात् अन्तरिक्षात् रिपुणा जलमोकप्रतिबन्धकारिणा शत्रुणा वृत्रेण “नावचक्षे न अवदर्शनाय यथादृष्टं भवति तथा अर्षन्ति । ताः “घृतस्य “धारा “अभि “चाकशीमि अभिपश्यामि । कुत्रेति तदुच्यते “हिरण्ययः हिरण्मयः "वेतसः अप्संभवोऽग्निर्वैद्युतः “आसाम् अपां “मध्ये वर्तत इति शेषः । अत्र घृतस्य धारा अभि चाकशीमीत्यनेन चरमपादेन होमाधारोऽग्निर्वैद्युतोऽग्निरादित्यो वोक्तः ॥ ॥१०॥ स॒म्यक्स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । ए॒ते अ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ॥६ स॒म्यक् । स्र॒व॒न्ति॒ । स॒रितः॑ । न । धेनाः॑ । अ॒न्तः । हृ॒दा । मन॑सा । पू॒यमा॑नाः । ए॒ते । अ॒र्ष॒न्ति॒ । ऊ॒र्मयः॑ । घृ॒तस्य॑ । मृ॒गाःऽइ॑व । क्षि॒प॒णोः । ईष॑माणाः ॥६ सम्यक् । स्रवन्ति । सरितः । न । धेनाः । अन्तः । हृदा । मनसा । पूयमानाः । एते । अर्षन्ति । ऊर्मयः । घृतस्य । मृगाःऽइव । क्षिपणोः । ईषमाणाः ॥६ अस्याग्नेरुपरि “सम्यक् “स्रवन्ति क्षरन्ति । घृतस्य धाराः। किमिव । “सरितो "न “धेनाः प्रीणयित्र्यो नद्य इव । “अन्तर्हृदा “मनसा हृदयमध्यगतेन चित्तेन । भावनासचिवेनेति यावत् । तेन “पूयमानाः शुद्धीकृताः । तदेवोच्यते । “एते “घृतस्य “ऊर्मयः रसाः “अर्षन्ति गच्छन्ति । जुह्वाः सकाशादग्नेरुपरि पतन्ति । किमिव । “क्षिपणोः क्षेपकात् व्याधात् । “ईषमाणाः पलायमानाः “मृगाइव । ते यथा कक्षं प्रविशन्ति तद्वत् । अनेन शैघ्र्यमुक्तं भवति ॥ सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः । घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभि॒ः पिन्व॑मानः ॥७ सिन्धोः॑ऽइव । प्र॒ऽअ॒ध्व॒ने । शू॒घ॒नासः॑ । वात॑ऽप्रमियः । प॒त॒य॒न्ति॒ । य॒ह्वाः । घृ॒तस्य॑ । धाराः॑ । अ॒रु॒षः । न । वा॒जी । काष्ठाः॑ । भि॒न्दन् । ऊ॒र्मिभिः॑ । पिन्व॑मानः ॥७ सिन्धोःऽइव । प्रऽअध्वने । शूघनासः । वातऽप्रमियः । पतयन्ति । यह्वाः । घृतस्य । धाराः । अरुषः । न । वाजी । काष्ठाः । भिन्दन् । ऊर्मिभिः । पिन्वमानः ॥७ “सिन्धोः स्यन्दमानाया नद्याः सकाशात् “इव उदकानीव “प्राध्वने प्रवणवति देशे “शूघनासः आशुगन्त्र्यः । ‘ आशु इति च शु इति च क्षिप्रनामनी भवतः ' ( निरु. ६. १ ) इति निरुक्तम् । “वातप्रमियः वायुवत् प्रकृष्टवेगाः "यह्वाः महत्यः “घृतस्य “धाराः “पतयन्ति गच्छन्त्यग्नेरुपरि । घृतमुदकमिति पक्षे सिन्धोरिवेत्यत्र इवशब्दोऽनर्थकः । स्यन्दनसाधनादन्तरिक्षादुक्तलक्षणा घृतधारा उदकधाराः पतयन्ति गच्छन्ति भूमौ । किंच घृतसंस्त्यायः "काष्ठाः मर्यादाभूतान् परिधीन् “भिन्दन् “ऊर्मिभिः रसैः “पिन्वमानः वर्धमानो भवति । उदकमिति पक्षे काष्ठाः क्रान्त्वा स्थिता दिशो भिन्दन्नूर्मिभिः तरङ्गैः पिन्वमानो भवति । तत्र दृष्टान्तः । “अरुषो “न “वाजी आरोचमानो गर्वेण गमनशीलोऽश्व इव । स यथा भिन्दन् पिन्वमानश्च भवति तद्वत् ॥ अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषा॑ः कल्या॒ण्य१॒॑ः स्मय॑मानासो अ॒ग्निम् । घृ॒तस्य॒ धारा॑ः स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥८ अ॒भि । प्र॒व॒न्त॒ । सम॑नाऽइव । योषाः॑ । क॒ल्या॒ण्यः॑ । स्मय॑मानासः । अ॒ग्निम् । घृ॒तस्य॑ । धाराः॑ । स॒म्ऽइधः॑ । न॒स॒न्त॒ । ताः । जु॒षा॒णः । ह॒र्य॒ति॒ । जा॒तऽवे॑दाः ॥८ अभि । प्रवन्त । समनाऽइव । योषाः । कल्याण्यः । स्मयमानासः । अग्निम् । घृतस्य । धाराः । सम्ऽइधः । नसन्त । ताः । जुषाणः । हर्यति । जातऽवेदाः ॥८ “घृतस्य धाराः अमुम् "अग्निं "समनेव समानमनस्काः “योषाः योषितः पतिमिव “अभि ”प्रवन्त अभिनमयन्ति । निमग्नं कुर्वन्ति । कीदृश्यस्ताः । "कल्याण्यः भद्ररूपाः 'स्मयमानासः हसन्त्यः । किंच ताः “समिधः सम्यग्दीपयित्र्यः सत्यः "नसन्त व्याप्नुवन्ति । “ताः एव धाराः "जुषाणः प्रीयमाणः सेवमानो वा अयं “जातवेदाः "हर्यति कामयते । घृतशब्दस्योदकमिति पक्षेऽग्निजातवेदःशब्दाभ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभि प्रवन्त नसन्त च । स ताश्च हर्यति ॥ क॒न्या॑ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य॑ञ्जा॒ना अ॒भि चा॑कशीमि । यत्र॒ सोम॑ः सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते ॥९ क॒न्याः॑ऽइव । व॒ह॒तुम् । एत॒वै । ऊं॒ इति॑ । अ॒ञ्जि । अ॒ञ्जा॒नाः । अ॒भि । चा॒क॒शी॒मि॒ । यत्र॑ । सोमः॑ । सू॒यते॑ । यत्र॑ । य॒ज्ञः । घृ॒तस्य॑ । धाराः॑ । अ॒भि । तत् । प॒व॒न्ते॒ ॥९ कन्याःऽइव । वहतुम् । एतवै । ऊं इति । अञ्जि । अञ्जानाः । अभि । चाकशीमि । यत्र । सोमः । सूयते । यत्र । यज्ञः । घृतस्य । धाराः । अभि । तत् । पवन्ते ॥९ "कन्याइव अनूढा बालिका इव । ता यथा “वहतुम् उद्वाहं प्राप्तुम् “एतवा “उ एतुं पतिं गन्तुम् “अञ्जि अञ्जकमाभरणं तेजो वा “अञ्जानाः व्यञ्जयन्त्यः । एवं कुर्वत्यः कन्याइव स्वभर्तृभूतमाध्वरं वैद्यतं वाग्निमादित्यं वा वहतुम् एतुम् अञ्जि व्यञ्जकं तदीयं रूपमञ्जाना व्यञ्जयन्तीः “घृतस्य “धाराः "अभि “चाकशीमि अभिपश्यामि । घृतेनोदकेन च भौमस्य वैद्युतस्य चाग्नेः प्रज्वलनं प्रसिद्धम् । किंच ता धाराः “सोमः “सूयते “यत्र “यत्र चेतर: “यज्ञः तायते “तत् तं यज्ञमभिलक्ष्य “पवन्ते गच्छन्ति खलु ॥ अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त । इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ॥१० अ॒भि । अ॒र्ष॒त॒ । सु॒ऽस्तु॒तिम् । गव्य॑म् । आ॒जिम् । अ॒स्मासु॑ । भ॒द्रा । द्रवि॑णानि । ध॒त्त॒ । इ॒मम् । य॒ज्ञम् । न॒य॒त॒ । दे॒वता॑ । नः॒ । घृ॒तस्य॑ । धाराः॑ । मधु॑ऽमत् । प॒व॒न्ते॒ ॥१० अभि । अर्षत । सुऽस्तुतिम् । गव्यम् । आजिम् । अस्मासु । भद्रा । द्रविणानि । धत्त । इमम् । यज्ञम् । नयत । देवता । नः । घृतस्य । धाराः । मधुऽमत् । पवन्ते ॥१० हे मदीया ऋत्विजः “गव्यं गोसमूहरूपं गोसंबन्धिनं वा “आजिं संघातम् “अभ्यर्षत अभिगच्छत अभिगमयत वा “सुष्टुतिं शोभनां स्तुतिम् । अत्र गोशब्देनोदकानि गावो वोच्यन्ते । तत्संघातोऽभिप्रेतः । “अस्मासु यजमानेषु "भद्रा स्तुत्यानि 'द्रविणानि “धत्त धारयत । स्तुत्या खलु फलं लप्स्यते । किंच “नः अस्मदीयम् "इमं “यज्ञं “देवता अत्र यष्टव्यान् देवान् “नयत प्रापयत । “घृतस्य “धारा “मधुमत् यथा तथा “पवन्ते गच्छन्ति ॥ ‘धामन्ते ' इत्येषोत्तरसूक्तस्याद्या चाध्यायोत्सर्जनोपाकरणयोर्विनियुक्ते । ‘धामन्ते विश्वम्' इति प्रतीकमुक्त्वा तदन्ते ' द्वृचाः ' ( आश्व. गृ. [https://sa.wikisource.org/s/2a66 ३. ५. ७] ) इति सूत्रितत्वात् ॥ धाम॑न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१॒॑न्तरायु॑षि । अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ॥११ धाम॑न् । ते॒ । विश्व॑म् । भुव॑नम् । अधि॑ । श्रि॒तम् । अ॒न्तरिति॑ । स॒मु॒द्रे । हृ॒दि । अ॒न्तः । आयु॑षि । अ॒पाम् । अनी॑के । स॒म्ऽइ॒थे । यः । आऽभृ॑तः । तम् । अ॒श्या॒म॒ । मधु॑ऽमन्तम् । ते॒ । ऊ॒र्मिम् ॥११ धामन् । ते । विश्वम् । भुवनम् । अधि । श्रितम् । अन्तरिति । समुद्रे । हृदि । अन्तः । आयुषि । अपाम् । अनीके । सम्ऽइथे । यः । आऽभृतः । तम् । अश्याम । मधुऽमन्तम् । ते । ऊर्मिम् ॥११ “ते त्वदीये “धामन् धामनि तेजःस्थाने "विश्वं “भुवनम् “अधि “श्रितम् । “अन्तः “समुद्रे वडवाग्नित्वेन “हृद्यन्तः सर्वप्राणिनां हृदये वैश्वानरत्वेन “आयुषि अन्ने सर्व प्राण्याहारत्वेन । यद्वा । आयुषीत्येतत् हृद्विशेषणम् । जठराग्निना खल्वायुः धार्यते । “अपामनीके उदकसंस्त्याये वैद्युताग्नित्वेन “समिथे संग्रामे च शौर्याग्निरूपेण । एवं सर्वेषु स्थानेषु वर्तमानं धाम । तस्मिन् धामनि “यः ऊर्मिर्घृतरूप उदकरूपो वा रसः “आभृतः स्थापितः “ते त्वदीयं “तं रसं “मधुमन्तं माधुर्योपेतम् “अश्याम व्याप्नुयाम ॥ ॥ ११ ॥ ॥ ५ ॥ इत्थं श्रीबुक्कभूपालसाम्राज्यैकधुरंधरः ।। विद्यातीर्थगुरोदृष्टया प्राप्तसार्वज्ञ्यवैभवः॥ श्रीमत्सायणमन्त्रीशः 'सकलागमतत्ववित् । दाशतय्यां माधवीये वेदार्थस्य प्रकाशने ॥ चतुर्थं मण्डलं सम्यक् वामदेवेन वीक्षितम् । अष्टोत्तरैस्तु पञ्चाशत्सूक्तैः पञ्च शतैरपि ॥ एकोनया नवत्या च युक्तैर्मन्त्रैश्च संमितम् । व्याकार्षीत्सुखबोधार्थं पश्यतैतद्विमत्सराः ॥ ॥ इति चतुर्थं मण्डलं समाप्तम् ॥ }} == == {{टिप्पणी| [http://puranastudy.000space.com/pur_index10/ghrita.htm घृतोपरि संक्षिप्त टिप्पणी एवं संदर्भाः] [http://puranastudy.angelfire.com/pur_index2/aajya.htm आज्योपरि संक्षिप्त टिप्पणी एवं संदर्भाः] ४.५८.३ चत्वारि शृङ्गा इति चत्वारि शृङ्गेति वेदा वा एत उक्तास् त्रयो अस्य पादा इति सवनान्य् एव द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्याव् एव सप्त हस्तासो अस्येति छन्दांस्य् एव त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम् वृषभो रोरवीत्य् एष ह वै वृषभ एष तद् रोरवीति यद् यज्ञेषु शस्त्राणि शंसत्य् ऋग्भिर् यजुर्भिः सामभिर् ब्रह्मभिर् इति महो देवो मर्त्यां आविवेशेत्य् एष ह वै महान् देवो यद् यज्ञः .....एतद् वै यज्ञस्य शिरो यन् मन्त्रवान् ब्रह्मौदनः यो ह वा एतम् अमन्त्रवन्तं ब्रह्मौदनम् उपेयाद् अपशिरसा ह वा अस्य यज्ञम् उपेतो भवति - गोब्रा. [https://sa.wikisource.org/s/14nw १.२.१६] रोरवीति - पुराणेषु रुरुः द्विजः सर्पदंशेन मृतायै पत्न्यै स्वआयुं दत्त्वा तां पुनर्जीवयति। अतएव, रुरुस्थितिः करुणातः रोदनस्य अथवा अन्या कोपि अवस्था भवितुं शक्यते। द्र. [http://puranastudy.angelfire.com/pur_index2/araru.htm अररु उपरि टिप्पणी] रुरु उपरि [http://vedastudy.tripod.com/pur_index25/pva14.htm पौराणिकसंदर्भाः] इस प्रकार सोम-यज्ञ के अन्तर्गत जिन पांच यज्ञों का समावेश माना गया है उन्हीं की दृष्टि से ऋ ४ . ५८ के देवता विकल्प से अग्नि, सूर्य, आपः, गो तथा घृत-रूप में स्वीकार किया गया है। - [http://puranastudy.freevar.com/Antariksha_Paryaya/pva17.htm ४.५८ सूक्तस्य विवेचनम्] }} {{ऋग्वेदः मण्डल ४}} 3gsv10th6t2d67hke4y8hgs07h27e4g ऋग्वेदः सूक्तं ८.७२ 0 1281 340872 270510 2022-07-21T08:03:50Z Puranastudy 1572 /* */ wikitext text/x-wiki {{header | title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ८|मण्डल ८]] | author = हर्यतः प्रागाथः | translator = | section = सूक्तं ८.७२ | previous = [[ऋग्वेद: सूक्तं ८.७१|सूक्तं ८.७१]] | next = [[ऋग्वेद: सूक्तं ८.७३|सूक्तं ८.७३]] | notes = दे. अग्निः, हवींषि वा। गायत्री। }} <poem><span style="font-size: 14pt; line-height:200%"> हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः । विद्वाँ अस्य प्रशासनम् ॥१॥ नि तिग्ममभ्यंशुं सीदद्धोता मनावधि । जुषाणो अस्य सख्यम् ॥२॥ अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया । गृभ्णन्ति जिह्वया ससम् ॥३॥ जाम्यतीतपे धनुर्वयोधा अरुहद्वनम् । दृषदं जिह्वयावधीत् ॥४॥ चरन्वत्सो रुशन्निह निदातारं न विन्दते । वेति स्तोतव अम्ब्यम् ॥५॥ उतो न्वस्य यन्महदश्वावद्योजनं बृहद् । दामा रथस्य ददृशे ॥६॥ दुहन्ति सप्तैकामुप द्वा पञ्च सृजतः । तीर्थे सिन्धोरधि स्वरे ॥७॥ आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् । खेदया त्रिवृता दिवः ॥८॥ परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी । मध्वा होतारो अञ्जते ॥९॥ सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम् । नीचीनबारमक्षितम् ॥१०॥ अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु । अवतस्य विसर्जने ॥११॥ गाव उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥१२॥ आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् । रसा दधीत वृषभम् ॥१३॥ ते जानत स्वमोक्यं सं वत्सासो न मातृभिः । मिथो नसन्त जामिभिः ॥१४॥ उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । इन्द्रे अग्ना नमः स्वः ॥१५॥ अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः । सूर्यस्य सप्त रश्मिभिः ॥१६॥ सोमस्य मित्रावरुणोदिता सूर आ ददे । तदातुरस्य भेषजम् ॥१७॥ उतो न्वस्य यत्पदं हर्यतस्य निधान्यम् । परि द्यां जिह्वयातनत् ॥१८॥ </span></poem> {{सायणभाष्यम्| ‘ हविष्कृणुध्वम् ' इत्यष्टादशर्चं तृतीयं सूक्तम् । अत्रानुक्रमणिका – हविर्द्व्यूना हर्यतः प्रागाथो हविषां स्तुतिर्वा ' इति । प्रगाथपुत्रो हर्यत ऋषिः । परं गायत्रं प्राग्वत्सप्रेः ' इति परिभाषया गायत्री छन्दः । ‘ आग्नेयं तु ' इत्युक्तत्वादग्निर्देवता यद्वा हविषां स्तूयमानत्वात्तद्देवताकं वा । सूक्तविनियोगो लैङ्गिकः ॥ ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुन॑ः । वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥१ ह॒विः । कृ॒णु॒ध्व॒म् । आ । ग॒म॒त् । अ॒ध्व॒र्युः । व॒न॒ते॒ । पुन॒रिति॑ । वि॒द्वान् । अ॒स्य॒ । प्र॒ऽशास॑नम् ॥१ हविः । कृणुध्वम् । आ । गमत् । अध्वर्युः । वनते । पुनरिति । विद्वान् । अस्य । प्रऽशासनम् ॥१ हे अध्वर्युसंबन्धिनो हविष्कर्तारः यूयं “हविः “कृणुध्वं कुरुध्वं शीघ्रम् । यतः “आ “गमत् आजगामायमग्निः अतः कृणुध्वम् । “अध्वर्युः “पुनः “वनते संभजते । किम् । सामर्थ्यादध्वरमिति गम्यते । कीदृशोऽध्वर्युः । “अस्य हविषः “प्रशासनं प्रदानं “विद्वान् ॥ नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ । जु॒षा॒णो अ॑स्य स॒ख्यम् ॥२ नि । ति॒ग्मम् । अ॒भि । अं॒शुम् । सीद॑त् । होता॑ । म॒नौ । अधि॑ । जु॒षा॒णः । अ॒स्य॒ । स॒ख्यम् ॥२ नि । तिग्मम् । अभि । अंशुम् । सीदत् । होता । मनौ । अधि । जुषाणः । अस्य । सख्यम् ॥२ “होता ऋत्विक् “तिग्मं तीक्ष्णम् “अंशुं तमग्निं “नि “षीदत् निषीदति । कीदृशो होता । “अस्य अग्नेः “सख्यं “मनावधि यजमाने "जुषाणः । अधीति सप्तम्यर्थानुवादी ॥ अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ । गृ॒भ्णन्ति॑ जि॒ह्वया॑ स॒सम् ॥३ अ॒न्तः । इ॒च्छ॒न्ति॒ । तम् । जने॑ । रु॒द्रम् । प॒रः । म॒नी॒षया॑ । गृ॒भ्णन्ति॑ । जि॒ह्वया॑ । स॒सम् ॥३ अन्तः । इच्छन्ति । तम् । जने । रुद्रम् । परः । मनीषया । गृभ्णन्ति । जिह्वया । ससम् ॥३ “तं "रुद्रम् । रुत् दुःखम् । तस्य द्रावयितारम् । अथवा रुत् स्तुतिः । तया गन्तव्यम् । स्तुत्यमित्यर्थः । तादृशमग्निं “जने यजमानार्थं “मनीषया स्वप्रज्ञानेन “परः परस्तात् पुरोदेशे “इच्छन्ति स्थापयितुम् । त एव पश्चात् “ससं स्वपन्तमग्निं "जिह्वया । जन्ये जनकशब्दः । जिह्वाप्रभवया स्तुत्या “गृभ्णन्ति गृह्णन्त्यङ्गुलिभिः । अत्र यास्कः - स्वप्नमेतन्मध्यमं ज्योतिरनित्यदर्शनम्।....द्वैधं सत्ता मध्यमे च स्थाने उत्तमे च । ' ( निरु. [https://sa.wikisource.org/s/6zk ५. ३]) इति ॥ जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वन॑म् । दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥४ जा॒मि । अ॒ती॒त॒पे॒ । धनुः॑ । व॒यः॒ऽधाः । अ॒रु॒ह॒त् । वन॑म् । दृ॒षद॑म् । जि॒ह्वया॑ । आ । अ॒व॒धी॒त् ॥४ जामि । अतीतपे । धनुः । वयःऽधाः । अरुहत् । वनम् । दृषदम् । जिह्वया । आ । अवधीत् ॥४ “वयोधाः अन्नस्य दाताग्निर्मध्यमस्थानः "जामि प्रवृद्धं सर्वमतिरिच्य वर्तमानम् । ‘ जाम्यतिरेकनाम ' (निरु. ४. २०) इति यास्कः । “धनुः धन्वान्तरिक्षम् “अतीतपे अतितपति । अथवाग्नेर्जामि गमनशीलं धनुरतितपते स्वविरोधिनम् । स च वयोधा अन्नस्य दाताग्निः “वनम् उदकम् “अरुहत् आरोहति विमोकाय । तदर्थं “जिह्वया ज्वालया “दृषदं मेघम् “अवधीत् हन्ति । दावाग्निपक्षे वनं तरुसमूहं हन्ति । जिह्वया दृषदं कठिनमपि पाषाणं भिनत्तीति ॥ चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न वि॑न्दते । वेति॒ स्तोत॑व अ॒म्ब्य॑म् ॥५ चर॑न् । व॒त्सः । रुश॑न् । इ॒ह । नि॒ऽदा॒तार॑म् । न । वि॒न्द॒ते॒ । वेति॑ । स्तोत॑वे । अ॒म्ब्य॑म् ॥५ चरन् । वत्सः । रुशन् । इह । निऽदातारम् । न । विन्दते । वेति । स्तोतवे । अम्ब्यम् ॥५ “वत्सः । वत्सवच्चापलेन धावनाद्वत्स इत्युपचर्यते । अथवा वत्स इव संचरन् । इवशब्दो लुप्यते । “रुशन श्वेतो भवन् “इह अस्मिँल्लोके “निदातारं निरोधकं “न “विन्दते न लभते । किंतु “स्तोतवे स्तोतुम् “अम्ब्यं स्तोतारं स्वयं “वेति कामयते । अथवात्र वैद्युतोऽग्निरुच्यते । वैद्युतोऽयं रुशंश्चरंश्चेहान्तरिक्षे वत्सः सर्वदा वसन् वत्सस्थानीयो वा सन्निदातारं निरोधकं न विन्दते । किंतु स्तोतुमम्ब्यं माध्यमिकां वाचं वेति ॥ ॥ १४ ॥ उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हद् । दा॒मा रथ॑स्य॒ ददृ॑शे ॥६ उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । म॒हत् । अश्व॑ऽवत् । योज॑नम् । बृ॒हत् । दा॒मा । रथ॑स्य । ददृ॑शे ॥६ उतो इति । नु । अस्य । यत् । महत् । अश्वऽवत् । योजनम् । बृहत् । दामा । रथस्य । ददृशे ॥६ “उतो अपि च "नु क्षिप्रमद्य “अस्य आदित्यस्य “यन्महत् माहात्म्ययुक्तम् “अश्वावत् संवृद्धाश्ववत् “बृहत् महत् स्थूलं “योजनं दृश्यते । तदेवाह। “रथस्य “दामा ददृशे दृश्यते। अन्तरिक्षे रथेऽश्वान्नियोजयतीत्यर्थः। तदा दुहन्तीत्युत्तरत्र संबन्धः ॥ "अभिष्टवे घर्मदाहे ‘ दुहन्ति सप्त ' इत्येषा । सूत्रितं च -- दुहन्ति सप्तैकां समिद्धो अग्निरश्विना' (आश्व. श्रौ. ४. ७) इति । ग्रावस्तोत्रेऽप्येषा । सूत्रितं च - ‘ दुहन्ति सप्तैकामधुक्षत्पिप्युषीमिषम् ' (आश्व. श्रौ. ५. १२) इति ॥ दु॒हन्ति॑ स॒प्तैका॒मुप॒ द्वा पञ्च॑ सृजतः । ती॒र्थे सिन्धो॒रधि॑ स्व॒रे ॥७ दु॒हन्ति॑ । स॒प्त । एका॑म् । उप॑ । द्वा । पञ्च॑ । सृ॒ज॒तः॒ । ती॒र्थे । सिन्धोः॑ । अधि॑ । स्व॒रे ॥७ दुहन्ति । सप्त । एकाम् । उप । द्वा । पञ्च । सृजतः । तीर्थे । सिन्धोः । अधि । स्वरे ॥७ “सप्त ऋत्विजः “एकां घर्मं “दुहन्ति । तेषां मध्ये "द्वा द्वौ प्रतिप्रस्थातारावध्वर्यू “पञ्च अन्यान् “उप "सृजतः प्रयोजयतः । के ते पञ्च त उच्यन्ते । यजमानं ब्रह्माणं होतारमाग्नीध्रं प्रस्तोतारमिति । कुत्रेति उच्यते। “सिन्धोः कस्याश्चित् सरस्वत्यादिप्रख्याताया नद्याः “तीर्थे । यत्रायमृषिर्यजति तत्र । “स्वरे “अधि। स्वरतिः शब्दकर्मा । अधीति सप्तम्यर्थानुवादी । स्वरोपेते शब्दवति । यत्तीर्थमृत्विजाम् ओ श्रावय इत्यादिशब्दैः शब्दवद्भवति तस्मिन्नित्यर्थः ॥ प्रवर्ग्येऽभिष्टवे ग्राव्णोऽभिष्टवे च “ आ दशभिः' इत्येषा । सूत्रितं च - ‘ आ दशभिर्विवस्वतो दुहन्ति सप्तैकाम्' (आश्व. श्रौ. [https://sa.wikisource.org/s/1auy ४. ७] ; ५. १२) इति ॥ आ द॒शभि॑र्वि॒वस्व॑त॒ इन्द्र॒ः कोश॑मचुच्यवीत् । खेद॑या त्रि॒वृता॑ दि॒वः ॥८ आ । द॒शऽभिः॑ । वि॒वस्व॑तः । इन्द्रः॑ । कोश॑म् । अ॒चु॒च्य॒वी॒त् । खेद॑या । त्रि॒ऽवृता॑ । दि॒वः ॥८ आ । दशऽभिः । विवस्वतः । इन्द्रः । कोशम् । अचुच्यवीत् । खेदया । त्रिऽवृता । दिवः ॥८ “विवस्वतः परिचरतो यजमानस्य “दशभिः अङ्गुलीभिर्याचितः सन् “इन्द्रः “कोशम् । मेघनामैतत् । उदकसेचकं मेघं “दिवः अन्तरिक्षसंबन्धिनं तत्सकाशाद्वा “आ “अचुच्यवीत् । व्यदारयदित्यर्थः। केन साधनेनेति तदुच्यते । “त्रिवृता त्रिप्रकारवर्तनवता “खेदया रश्मिना । यद्वा । अत्रेन्द्रशब्देनाग्निरादित्यो वा गृह्यते । खेदया त्रिवृतेति लिङ्गात् ।। परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी । मध्वा॒ होता॑रो अञ्जते ॥९ परि॑ । त्रि॒ऽधातुः॑ । अ॒ध्व॒रम् । जू॒र्णिः । ए॒ति॒ । नवी॑यसी । मध्वा॑ । होता॑रः । अ॒ञ्ज॒ते॒ ॥९ परि । त्रिऽधातुः । अध्वरम् । जूर्णिः । एति । नवीयसी । मध्वा । होतारः । अञ्जते ॥९ अयमग्निः “त्रिधातुः लोहितशुक्लकृष्णभेदेन त्रिवर्णः "जूर्णिः जवो वेगवान् "नवीयसी नवीयस्या ज्वालया “अध्वरं प्रवर्ग्यम् “एति गच्छति । “होतारः होमनिष्पादका अध्वर्य्वादयः “मध्वा आज्यादिना “परि “अञ्जते । अथवाग्नेस्त्रिस्त्रिप्रकारा क्षिप्रा जवतरा ज्वाला पर्येति महावीरम् । तं मध्वाञ्जत इति ॥ सि॒ञ्चन्ति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानम् । नी॒चीन॑बार॒मक्षि॑तम् ॥१० सि॒ञ्चन्ति॑ । नम॑सा । अ॒व॒तम् । उ॒च्चाऽच॑क्रम् । परि॑ऽज्मानम् । नी॒चीन॑ऽबारम् । अक्षि॑तम् ॥१० सिञ्चन्ति । नमसा । अवतम् । उच्चाऽचक्रम् । परिऽज्मानम् । नीचीनऽबारम् । अक्षितम् ॥१० "नमसा नमनेन “अवतं महावीरम् “उच्चाचक्रम् उपरिस्थितचक्रं “परिज्मानं परितो व्याप्तं “नीचीनबारं नीचीनद्वारम् “अक्षितम् अक्षीणमीदृशं क्षीराद्यवशेषयुक्तमाहवनीयस्योपरि नमनेन "सिञ्चन्ति जुह्वति । महावीरेण ह्याहवनीये हूयते ॥ ॥ १५ ॥ अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ । अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥११ अ॒भि॒ऽआर॑म् । इत् । अद्र॑यः । निऽसि॑क्तम् । पुष्क॑रे । मधु॑ । अ॒व॒तस्य॑ । वि॒ऽसर्ज॑ने ॥११ अभिऽआरम् । इत् । अद्रयः । निऽसिक्तम् । पुष्करे । मधु । अवतस्य । विऽसर्जने ॥११ “अद्रयः आद्रियमाणा अध्वर्य्वादयः “अभ्यारमित् अभिगम्यैव “निषिक्तम् अतिरिक्तं “मधु “पुष्करे वपुष्करे प्रवृद्ध उपयमनीपात्रे सिञ्चन्ति अग्निहोत्रार्थम् “अवतस्य महावीरस्य “विसर्जने विसर्जनसमये । होमानन्तरं खलु महावीरमासन्द्यामासादयन्ति ।। गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥१२ गावः॑ । उप॑ । अ॒व॒त॒ । अ॒व॒तम् । म॒ही इति॑ । य॒ज्ञस्य॑ । र॒प्सुदा॑ । उ॒भा । कर्णा॑ । हि॒र॒ण्यया॑ ॥१२ गावः । उप । अवत । अवतम् । मही इति । यज्ञस्य । रप्सुदा । उभा । कर्णा । हिरण्यया ॥१२ हे “गावः घर्मदुघा यूयम् “अवतं महावीरं प्रति “उपावत उपागच्छत । यस्मात् "यज्ञस्य घर्मयागस्य साधनभूते “रप्सुदा। रप्सुदारप्सुदे आरिप्सोः फलप्रदे । लिप्स्वोरश्विनोर्दातव्ये वा। यद्वा रपणं शब्दनम् । रप् मन्त्रः । तेन सुष्ठु दातव्ये । अथवा ‘ षूद क्षरणे '। रपा मन्त्रेण क्षारणीये दोहनीये। ईदृशे गवाजयोः पयसी “मही महती बहुले अपेक्षिते अत उपावतम् । गौरजाया अप्युपलक्षकः अजापयसोऽपि महावीरे सेचनीयत्वात्। अपि चास्य महावीरस्य “उभा उभौ "कर्णा कर्णस्थानीयौ द्वौ रुक्मौ “हिरण्यया हिरण्मयौ सुवर्णरजतमयावित्यर्थः ।। प्रवर्ग्येऽजापयसि महावीर आनीयमाने ‘ आ सुते ' इत्येषा । सूत्रितं च - ‘ आ सुते सिञ्चत श्रियमित्याज आसिक्तयोः ' (आश्व. श्रौ. [https://sa.wikisource.org/s/1auy ४. ७]) इति ॥ आ सु॒ते सि॑ञ्चत॒ श्रियं॒ रोद॑स्योरभि॒श्रिय॑म् । र॒सा द॑धीत वृष॒भम् ॥१३ आ । सु॒ते । सि॒ञ्च॒त॒ । श्रिय॑म् । रोद॑स्योः । अ॒भि॒ऽश्रिय॑म् । र॒सा । द॒धी॒त॒ । वृ॒ष॒भम् ॥१३ आ । सुते । सिञ्चत । श्रियम् । रोदस्योः । अभिऽश्रियम् । रसा । दधीत । वृषभम् ॥१३ “सुते दुग्धे गोपयसि “श्रियं श्रयणमाजं पयः “आ “सिञ्चत । सिञ्चत हे अध्वर्यवः । कीदृशमाजम् । “रोदस्योः । कर्मणि षष्ठ्येषा । द्यावापृथिव्यौ "अभिश्रियम् अभिश्रयन्तम् । अग्निसंयोगात्तावत्पर्यन्तं प्रवृद्धमित्यर्थः । अथवा ‘ तत्कावश्विनौ द्यावापृथिव्यावित्येके' (निरु. १२. १) इति निरुक्तत्वादश्विनोरभिश्रियमित्यर्थः । सेचनानन्तरं “रसा रस आजे पयसि “वृषभं वर्षकमग्निं “दधीत स्थापयत । अजाया आग्नेयीत्वात् क्षीरस्याप्यग्निसंयोजनमुचितम् । ‘ आग्नेयी वा एषा यदजा ' (तै. ब्रा. ३. ७. ३. १) इति ब्राह्मणम् ॥ ते जा॑नत॒ स्वमो॒क्यं१॒॑ सं व॒त्सासो॒ न मा॒तृभि॑ः । मि॒थो न॑सन्त जा॒मिभि॑ः ॥१४ ते । जा॒न॒त॒ । स्वम् । ओ॒क्य॑म् । सम् । व॒त्सासः॑ । न । मा॒तृऽभिः॑ । मि॒थः । न॒स॒न्त॒ । जा॒मिऽभिः॑ ॥१४ ते । जानत । स्वम् । ओक्यम् । सम् । वत्सासः । न । मातृऽभिः । मिथः । नसन्त । जामिऽभिः ॥१४ “ते ता गावः “जानत ज्ञातवत्यः । अथवा सामान्याकारेण त इति पुंनिर्देशः । किम् । “स्वं स्वकीयम् “ओक्यं निवासं महावीरम् । तत्र दोग्धुमगमन्नित्यर्थः । तदेवाह । “वत्सासः वत्साः "मातृभिः “न जननीभिः सह यथा संगच्छन्ति तद्वत् “जामिभिः बन्धुभिः सहिता गावः “मिथः प्रत्येकं “सं “नसन्त संगच्छन्ते महावीरम् ॥ उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि । इन्द्रे॑ अ॒ग्ना नम॒ः स्व॑ः ॥१५ उप॑ । स्रक्वे॑षु । बप्स॑तः । कृ॒ण्व॒ते । ध॒रुण॑म् । दि॒वि । इन्द्रे॑ । अ॒ग्ना । नमः॑ । स्वः॑ ॥१५ उप । स्रक्वेषु । बप्सतः । कृण्वते । धरुणम् । दिवि । इन्द्रे । अग्ना । नमः । स्वः ॥१५ महावीरस्य “स्रक्केषु “बप्सतः ज्वालया भक्षयतोऽग्नेरन्नं “धरुणम् इन्द्रे अग्ना इति वक्ष्यमाणत्वादिन्द्राग्न्योर्धारकं “दिवि अन्तरिक्षे “उप “कृण्वते उपकुर्वते । यदाग्निर्महावीरं दहति तदा तस्योपर्युभयविधं क्षीरमासेचयन्तीत्यर्थः । एवं महावीर आसिच्य “इन्द्रे “अग्ना अग्नौ च “स्वः सर्वं गव्यमाजं च “नमः अन्नम् । अथवा स्वरन्तरिक्षे । योजयन्तीति शेषः ॥ ॥ १६ ॥ प्रवर्ग्ये घर्मदुहि दुग्धायाम् अधुक्षत् ' इत्येषा। सूत्रितं च – दुग्धायामधुक्षत्पिप्युषीम् ' (आश्व. श्रौ. [https://sa.wikisource.org/s/1auy ४. ७]) इति आह्रियमाण । ग्रावस्तोत्रेऽप्येषा ‘ अधुक्षत्पिप्युषीमिषमा कलशेषु धावति ' (आश्व. श्रौ. [https://sa.wikisource.org/s/1av9 ५. १२]) इति सूत्रितत्वात् ।। अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः । सूर्य॑स्य स॒प्त र॒श्मिभि॑ः ॥१६ अधु॑क्षत् । पि॒प्युषी॑म् । इष॑म् । ऊर्ज॑म् । स॒प्तऽप॑दीम् । अ॒रिः । सूर्य॑स्य । स॒प्त । र॒श्मिऽभिः॑ ॥१६ अधुक्षत् । पिप्युषीम् । इषम् । ऊर्जम् । सप्तऽपदीम् । अरिः । सूर्यस्य । सप्त । रश्मिऽभिः ॥१६ “अरिः अरणशीलो वायुः “सूर्यस्य “सप्त “रश्मिभिः साधनैः “पिप्युषीम् आप्याययत् “इषम् अन्नम् “ऊर्जं रसं च “सप्तपदीं सर्पणस्वभावपादां माध्यमिकां वाचं घर्मधुग्रूपेणावस्थिताम् “अधुक्षत् दुग्धवान् । यद्यप्यध्वर्युः पात्रेण गां दुग्धे तथाप्येवंभावनया साङ्गं भवति । माध्यमिकाया वाचो मधुधुक्त्वं ' हिङ्कृण्वती, गौरमीमेत्' (ऋ. सं. १. १६४. २७, २८) इत्यादिषु प्रसिद्धम् ।। सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे । तदातु॑रस्य भेष॒जम् ॥१७ सोम॑स्य । मि॒त्रा॒व॒रु॒णा॒ । उत्ऽइ॑ता । सूरे॑ । आ । द॒दे॒ । तत् । आतु॑रस्य । भे॒ष॒जम् ॥१७ सोमस्य । मित्रावरुणा । उत्ऽइता । सूरे । आ । ददे । तत् । आतुरस्य । भेषजम् ॥१७ हे मित्रावरुणौ "सूरे सूर्ये "उदिता उदिते “सोमस्य सोमम् “आ “ददे स्वीकरोति । तत्र हेतुमाह। “तत् स्वीकाररूपं कर्म “आतुरस्य अस्मदादेः “भेषजम् औषधम् । हितकरमित्यर्थः ॥ उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्य॑म् । परि॒ द्यां जि॒ह्वया॑तनत् ॥१८ उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । प॒दम् । ह॒र्य॒तस्य॑ । नि॒ऽधा॒न्य॑म् । परि॑ । द्याम् । जि॒ह्वया॑ । अ॒त॒न॒त् ॥१८ उतो इति । नु । अस्य । यत् । पदम् । हर्यतस्य । निऽधान्यम् । परि । द्याम् । जिह्वया । अतनत् ॥१८ पवमाने सोमे “उतो अपि च “अस्य सोमदातुः "हर्यतस्य प्रदानं कामयमानस्य मम “यत्पदं “निधान्यं हविषां निधानार्हमुत्तरवेदिलक्षणं तत्र स्थित्वाग्निः “द्यां “परि परितः “जिह्वया ज्वालया “अतनत् व्याप्नोत् ॥ ॥ १७ ॥ }} == == {{टिप्पणी| ८.७२.४ दृ॒षदं॑ जि॒ह्वयाव॑धीत् दर्शपूर्णमासयागे दृषद-उपल मिथुनं हनुस्थानीयः भवति, जिह्वा शम्यास्थानीया। शम्यायाः मिथुनं कृष्णाजिनेनसह भवति। हठयोगे, यदा जिह्वा स्वमूलबन्धनतः मुक्ता भूत्वा कपालकुहरे प्रविष्टुं समर्था भवति, तदा दिव्यरसानां आस्वादयितुं समर्था भवति ([https://hi.wikipedia.org/wiki/%E0%A4%96%E0%A5%87%E0%A4%9A%E0%A4%B0%E0%A5%80 खेचरीमुद्रा] ) ( [https://en.wikipedia.org/wiki/Khecar%C4%AB_mudr%C4%81 खेचरीमुद्रा] ) [http://puranastudy.freevar.com/pur_index14/drishat.htm दृषदोपरि टिप्पणी] [https://vedastudy.wixsite.com/puranastudy/%E0%A4%9C-%E0%A4%B9-%E0%A4%B5-jihvaa जिह्वा उपरि टिप्पणी] ८.७२.११ अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु इति अन्तरिक्ष के पुष्कर पक्ष की आर्द्रता का आधार वह मधु है जिसे 'अद्रयः’ ने पुष्कर में "निषिक्त” कर दिया - [http://puranastudy.freevar.com/Antariksha_Paryaya/pva19.htm पुष्करस्य विवेचनम्] }} {{ऋग्वेदः मण्डल ८}} g4d5xfgop3jbjfdvsjglorkg18qymsw सदस्यः:V(g) 2 25211 340848 340665 2022-07-21T00:14:30Z EmausBot 3495 बॉट: स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना। wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]] 9vhg30k1e6nvvz0wv8aqv2lym7zg53g पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/83 104 27916 340845 335643 2022-07-20T12:22:52Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=५६|center=अनुबन्धः ४|right=}}</noinclude>{{Block center|<poem>परहितमध्यानयनं द्वितीयहारानपेक्षमतिसूक्ष्मम्। एतद्दिवससहस्रे गते सखण्डध्रुवाः पृथक् कार्याः ॥ ६ ॥ 2,46,66,13{{gap}}{{gap}}{{gap}} 52{{gap}}{{gap}}{{gap}} Moon ‘लयतोषचत्वर'ध्नात् ‘प्राण'हृताश्चन्द्रमध्यविकलाः स्युः । {{gap}}{{gap}}{{gap}}6487{{gap}}{{gap}}{{gap}} 34{{gap}}{{gap}}{{gap}} Node द्युगणात् 'सुजीवत'ध्नाद् ‘भोग'हृताः स्युर्विलिप्तिका राहोः ॥७॥ 1,86,61{{gap}}{{gap}}{{gap}} 76{{gap}}{{gap}}{{gap}} Mercury ‘पतितो दुष्ट'विनिघ्नात् ‘तीर्थे'हृताश्चन्द्रपुत्रलिप्ताः स्युः । नास्त्येषामिह भेदो दृक्पक्षे चापि मध्यमानयने ॥ ८ ॥ स्फुटनिर्णयतुल्यमिदं सूक्ष्मं सुगमं च मध्यमानयनम् । अस्यापि दिनसहस्रे गते सखण्डा ध्रुवाः पृथक् कार्याः ॥ ९ ॥</poem>}} {{rule|5em}}<noinclude></noinclude> b3bzmblcu6smmeo2yql8mh5j0s8rb1t 340846 340845 2022-07-20T12:23:22Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=५६|center=अनुबन्धः ४|right=}}</noinclude>{{Block center|<poem>परहितमध्यानयनं द्वितीयहारानपेक्षमतिसूक्ष्मम्। एतद्दिवससहस्रे गते सखण्डध्रुवाः पृथक् कार्याः ॥ ६ ॥ 2,46,66,13{{gap}}{{gap}}{{gap}} 52{{gap}}{{gap}}{{gap}} Moon ‘लयतोषचत्वर'ध्नात् ‘प्राण'हृताश्चन्द्रमध्यविकलाः स्युः । {{gap}}{{gap}}{{gap}}6487{{gap}}{{gap}}{{gap}} 34{{gap}}{{gap}}{{gap}} Node द्युगणात् 'सुजीवत'ध्नाद् ‘भोग'हृताः स्युर्विलिप्तिका राहोः ॥७॥ 1,86,61{{gap}}{{gap}}{{gap}} 76{{gap}}{{gap}}{{gap}} Mercury ‘पतितो दुष्ट'विनिघ्नात् ‘तीर्थे'हृताश्चन्द्रपुत्रलिप्ताः स्युः । नास्त्येषामिह भेदो दृक्पक्षे चापि मध्यमानयने ॥ ८ ॥ स्फुटनिर्णयतुल्यमिदं सूक्ष्मं सुगमं च मध्यमानयनम् । अस्यापि दिनसहस्रे गते सखण्डा ध्रुवाः पृथक् कार्याः ॥ ९ ॥</poem>}} {{rule|5em}}<noinclude></noinclude> irlfzrvs44wgkxsq3w518wozeg1vfa6 पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/84 104 27918 340873 335644 2022-07-21T09:20:35Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=अनुबन्धः ५ |right=}} {{rh|left=|center=स्फुटनिर्णयतुल्यग्रहमध्यमानयनम्|right=}}</noinclude> अथ दृक्रक्रिया उच्यन्ते-- {{center|( ग्रहमध्यमम् )}} {{Block center|<poem>कल्पोदितैः खेचरपर्ययौधै- रिष्टानि हत्वाऽथ कलेर्दिनानि । कल्पोदितैर्भूदिवसैर्विभज्य लब्धाः कलौ ते गतपर्ययाः स्युः ॥ १ ॥ 12 शिष्टात्'प्रिया'धैर्गुणिताच हृत्वा तेनैव खेटा भगणादयः स्युः । तेषु स्वकल्याद्युदयध्रुवं च क्षिपेद्, अहिः स्वध्रुवतो विशोध्यः॥ २॥ ते दृक्क्रयायां ग्रहमध्यमाः स्यु- स्त एव खण्डध्रुवनामधेयाः । प्राक्स्थापितोऽभीष्टकलिस्तु खण्ड- स्तुल्या क्रियेयं स्फुटनिर्णयोक्तैः ॥ ३ ॥</poem>}} {{rule}} {{gap}}Ms. Trip. Jy. 568 (O), ff. 26b-27a. {{gap}}1. On vv. 1-3, vide Sphuța. 2. 4. {{bold| स्फुढनिर्णथतप्त्रम्}}<noinclude></noinclude> tdceonr3mwzp7covnrtk9dfl6i6yckm पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/85 104 27920 340874 335646 2022-07-21T09:23:11Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=५८|center=अनुबन्धः ५|right=}} {{rh|left=|center=(महकल्पमगणाः)|right=}}</noinclude> {{Block center|<poem>Sun 4,32,00,00,000 'अनूननूत्नाननरागभिन्नं Moon 57,75,33,21,009 'धनं नृपेन्द्राङ्गगुणं सुसूक्ष्मम् ।' Mars 2,29,68,62,959 'धर्माधिरन्तोदितधीररत्न' Mer. 17,93,70,72,112 'प्रियापरिच्छिन्नसुगन्धसेव्यः' ॥ ४ ॥ Jup. 36,41,72,296 'चोळेन्द्ररासा कविताङ्गनानां Ven. 7,02,22,70,775 'मांसार्थिनां सूत्रखरो नृसंज्ञः'। Sat, 14,66,26,695 'शुद्धान्तचित्रोचितभाग्यनुन्नो Apsis 48,81,23,229 'धात्रीफलं प्राश्य दहेद् वनानि ॥५॥ . Node 23,22,97,832 'रोगादसाधुः खरगीरनूनं सूर्यादिकानां भगणा हि कल्पे । क्रमेण सूर्येन्दुकुजेन्दुजेड्य- सितासितेन्दूच्चविधुन्तुदानाम् ॥ ६ ॥</poem>}} {{rule}} {{gap}}1.On vv. 4-6, vide Sphuta. 1, 4-7.<noinclude></noinclude> 9s591hafrd6713xpqq3umctespgw4ex पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/86 104 27922 340875 335647 2022-07-21T09:30:10Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=स्फुटनिर्णयतुल्य-ग्रहमध्यमानयनम्|right=५६}} {{rh|left=|center=( कल्पभूदिनानि )|right=}}</noinclude>{{Block center|<poem>{{gap}}Kalpa days 15,77,91,75, 17,019 'धन्या नु सा कामसुकेळिसार्था मान्या' नु कल्पे धरणीदिनानि । </poem>}} {{center|( ग्रहाणां कल्यादिध्रुवाः )}} {{Block center|<poem>{{gap}}{{gap}}Sun 0-0-1'-7'-4" ‘भानुः सुनम्यो ननु नूनम्' अर्कः Moon 0-49-36-18"-7' 'सेनाजयं तालवनेन' चन्द्रः ॥ ७ ॥ Mars 11 - 18 -9-"57-15” 'शुकार्थमुग्धानुजपापिका'ऽरो Mer. 11-20°- 17"-7"- 14" ‘विद्यार्थिनो सेव्यनरः पटु'र्वित् । Jup. 0°-15°- 15’-56"-3" 'लग्नेषु माणिक्यमयो नु' जीवः Ven. 1-5-7".-49"-1”'' ‘पत्नी धवस्थानमिनस्य' शुक्रः ॥ ८ ॥ Sat. 11-10-22'-50'-17' 'सम्पन्न शारीरनयाकृपा"र्कि: Apsis 3-28o-50'-17"-11" 'पापार्थयत्ना मुहुरङ्गनो'च्चः Node 6"-24-18'-39'-36' 'चण्डाळगेहे कविरस्ति' राहु- रिमे हि कल्याद्युदयधुवाख्याः ॥ ९ ॥</poem>}} {{rule}} 1. On v, 7a-b, vide ''Sphuța.'' 1. 9<noinclude></noinclude> f91ct8hxwti9ibvz0j7wt2ei32cuqd5 पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/87 104 27924 340878 335648 2022-07-21T09:51:48Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६०|center=अनुबन्धः ५|right=}} {{rh|left=|center=(खण्ड-ध्रुवाणि)|right=}}</noinclude> {{Block center|<poem>Kali 17,90,000 Sun 76-199-7-5" 'अज्ञानेनाघिसम्पन्', 'मनसि नळकथा' {{gap}}Moon 9-5°-28-25 {{gap}}मारजं रागनाळं' Apsis or-21°-42'-34.{{gap}} Node 0-14°-2-37" 'भोगीन्द्रो वायुरत्नं', {{gap}}'सगर इव पुनः' {{gap}}{{gap}}{{gap}}सूर्यमन्दोच्चपाताः। {{gap}}Mars 6--15°-41 {{gap}}{{gap}}Mer. 10-25°-58' 'को विष्णुः पातु' भौमो, {{gap}}{{gap}}'दशमुखनृप' वित् {{gap}}{{gap}}{{gap}}Jup. 1-28°-16' {{gap}}{{gap}}'तापहारोऽद्य जीवः {{gap}}Ven. 2-14°-16' Sat. 3-10°-43' 'तापाद्वैद्योऽत्र' शुक्रो, 'लघुनकुल' शनि- र्दृकध्रुवाः सूर्यवारात् ॥ १० ॥</poem>}} {{gap}}1 ''khanda-dhruvanna! Sphuţapirņayam koņķu sakşmamayitju untakkiyatu. Drkkinulla khanda-dhruvannal i khanda-dhruvannalotu okkattatu onmum suksmannalalla. 'Ahijnanaikasadhyah' (17,10,080) ennoru khandayum dhruyannalum DỊkkinu Accuta-Pşaroti unțakkiffuntu. Atinu Parahitadhruvattēkkal adityanţe dhruvattinu rantili erum. A khanda-dhruvannal Kriyakramam kontu grahanam ganippan pratyekam unțakki-yatakunnatu. Atukontu a khandadhruvannalum atinotottukanunna khandadhruvannlum Kriyakramam kontu grahanam ganippane okku. Sesam ulla Dļk-kriyakalokkeyum ippol ivite ezhutiya khanda-dhruvannalum itinotokkunna khandadhruvannaļum venam. Enne sukşmamakayum ulļu ennarika.'' {{rule}} 1. The above note in Malayalam might be rendered thus : {{gap}}"The above khanda and ''dhruvas'' have been derived by accurate computation according to the ''Sphutanirņaya.'' ''Khandas'' and ''Dhruvas'' for the ''Drk'' (system of calculation), which do<noinclude></noinclude> jhixd7mzhw308j5m817mv62ic7rly6v पृष्ठम्:मालविकाग्निमित्रम्.djvu/७० 104 54777 340847 266474 2022-07-20T13:17:57Z Shreevatsa 1049 fixed typo in a verse I was looking for proofread-page text/x-wiki <noinclude><pagequality level="4" user="Shardashah" />{{RunningHeader|right='''२३'''|center='''॥ मालविकाग्निमित्रम् ॥'''}}</noinclude>:'''विदूषकः ।''' ''जनान्तिकम्-''। 1पेख्खदु भवं। ण हु से डिछ्छन्दादो ::परिहीअदिं मंडुरंदा । :'''राजा ।''' जनान्तिकम् । वयस्य :::::चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् । :::::संप्रति शिथिलसमाधिं मन्ये येनेयमालिखिता। ॥ २ ॥ :'''गण° ।''' वत्से मुक्तसाध्वसा सत्त्वस्था भव । :'''राजा ।''' ''आत्मगतम्'' । अहो सर्वास्ववस्थास्वनवद्यता रूपस्य । :::दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः :::संक्षिप्तं निबिडोन्नतस्तनमुरः पाश्र्वे प्रमृष्टे इव । :::मध्यः पाणिमितो नितम्बि जघनं मदावरालाङ्गुली 10 :::छन्दो नर्तयितुर्यथैव मनसः श्लिष्टं तथास्या वपुः ॥ ३ ॥ :'''मालविका ।''' उपवहनं कृत्वा चतुष्पदं वस्तु गायति । :::1दुल्लहो पिओ तस्सिं भव हिअअ णिरासं । :::अम्हो अपङ्गओ मे पफ़्फ़ुरइ किंपि वामो ॥ ४ ॥ {{rule}} :१. पश्यतु भवान् । न खल्वस्याः प्रातिच्छन्दात्परिहीयते मधुरता । :२. दुर्लभः प्रियस्तस्मिन्भव हदय निराशम्। अम्ब हे अपाङ्गको मे प्रस्फुरति किमपि वामः । {{rule}} {{multicol}} :2. A B C DE पडिहीअदि.<br> :6. B C D E मुग्धसाध्वसा.<br> :7. A B C D E सर्वावस्थासु.<br> :11. A C D मनसश्चष्टें (मनसैः शिष्टं?);<br> ::B मनसः शिष्ट, corrected from<br> ::मनसद्धि ; B मनसां शिष्टं also<br> {{multicol-break}} ::corrected from मनसश्लिष्टं<br> :12. F कपोतकं कृत्वा<br> :18. D E पियो.-B D E हियय<br> :14. B DE अपङ्गयो.-क्विविं.<br> ::वामओ.<br> {{multicol-end}}<noinclude><references/></noinclude> tmivf507k843foiexihsvw5plgcahqa अथर्ववेदः/काण्डं ९/सूक्तम् ०१ 0 58224 340853 125323 2022-07-21T04:34:42Z Puranastudy 1572 wikitext text/x-wiki {{header | title = [[अथर्ववेदः]] - [[अथर्ववेदः/काण्डं ९|काण्डं ९]] | author = अथर्वा | translator = | section = सूक्तं ९.०१ | previous = | next = [[अथर्ववेदः/काण्डं ९/सूक्तम् ०२|सूक्तं ९.०२]] | notes = मधुविद्या दे. मधु, अश्विनौ। }} <poem><span style="font-size: 14pt; line-height: 200%"> दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे । तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥१॥ महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः । यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥२॥ पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः । अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥३॥ मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः । हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु ॥४॥ मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः । तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥५॥ कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः । ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥६॥ स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ । ऊर्जं दुहाते अनपस्फुरन्तौ ॥७॥ हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् । त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥८॥ यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः । ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमापः ॥९॥ स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि । अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥१०॥ {१} यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः । एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥११॥ यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः । एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥१२॥ यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः । एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥१३॥ मधु जनिषीय मधु वंसिषीय । पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१४॥ सं माग्ने वर्चसा सृज सं प्रजया समायुषा । विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१५॥ यथा मधु मधुकृतः संभरन्ति मधावधि । एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥१६॥ यथा मक्षाः इदं मधु न्यञ्जन्ति मधावधि । एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥१७॥ यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु । सुरायां सिच्यमानायां यत्तत्र मधु तन् मयि ॥१८॥ अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती । यथा वर्चस्वतीं वाचमावदानि जनामनु ॥१९॥ स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि । तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति ॥२०॥ पृथिवी दण्डोऽन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः ॥२१॥ यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति । ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥२२॥ मधुमान् भवति मधुमदस्याहार्यं भवति । मधुमतो लोकान् जयति य एवं वेद ॥२३॥ यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति । तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति । अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद ॥२४॥ {२} </span></poem> == == {{टिप्पणी| [http://puranastudy.freevar.com/Antariksha_Paryaya/pva20.htm मधुकशायाः विवेचनम्] }} kbuddmacmire1c4v4s4sgi5f9cgapr9 पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७२ 104 82447 340870 196583 2022-07-21T06:17:19Z Swaminathan sitapathi 4227 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=६०}}</noinclude>{{gap}}'''देवी'''–(क) बहूणि सम्बन्धप्पओअणागदाणि राअउळाणि सुदाणि । एदिणा ण पेसिदपुरुवो पुरुसो । {{gap}}'''राजा'''–देवि ! महासेनशब्दमपि न गणयति , किं सम्बन्धमभिलषति । {{gap}}'''देवी'''–(ख) ण गणेदि । किं बालो अपण्डिदो वा । {{gap}}'''राजा'''--बाळः, न त्वपण्डितः । {{gap}}'''देवी'''- (ग) किण्णुङ्ग एणं उस्सेअअदि । {{gap}}'''राजा'''–उत्सेकयत्येनं प्रकाशराजर्षिनामधेयो वेदाक्षरसमवायप्रविष्टो {{rule}} {{gap}}(क) बहूनि संम्बन्धप्रयोजनागतानि राजकुलानि श्रुतानि । एतेन न प्रेषितपूर्वः पुरुषः । {{gap}}(ख) न गणयति । किं बालः अपण्डितो वा । {{gap}}(ग) किन्नुखल्वेनमुत्से कयति । {{rule}} {{gap}}बहूणीत्यादि । राजकुळानि राजपुत्रा इत्यथंः । तदुत्पन्नेषु तत्त्वव्यपद्रेशः । एतेन वत्सराजेन । पुरुषः अस्मत्संबन्धघटनार्थो दूतः ॥ {{gap}}देवीत्यादि । संबन्धं मत्कन्याप्रतिग्रहद्वारकं मदसंबन्धम् । {{gap}}ति । न गणयतीति प्रश्नकाकुः । गणनीयस्यागणनं कश्चिद् बाळभावात् कुर्याद् , अबाल्येऽप्यवैदुष्याद्वा। अतः पृच्छति-किमित्यादि । {{gap}}बाल इत्यादि । {{gap}}किण्णुडु इत्यादि । उत्सेकयति उत्सेको गर्वः तद्वन्तं करोति । {{gap}}उत्सेकयतीत्यादि । प्रकाशराजर्षिनामधेयः प्रकाशानि प्रसिद्धानि राजषीणां नामधेयानि यस्मिन् स: । वेदाक्षरसमवायप्रविष्टः क्रमवान् वर्णसन्निवेशोऽक्षरसमवायः, तच्च वाक्यं , वेदस्य वेदरूपे वा अक्षरसमवये प्रविष्टः प्रतिपाद्यतया प्रवेशं गतः। पञ्चमवेदभूतमहाभारतप्रतिपाद्य इत्यर्थः । यद्वा भरतवंशकूटस्थस्य पुरूरवस उपाख्यानम् ऋग्वेदे (अष्ट०८.अ०५) गीयत इति कृत्वा वेदप्रतिपाद्य इत्यर्थः । प्रविष्ट इस्यस्य स्थाने प्रतिष्ठित इति क्कचित् पाठः । भारतः भरतस्य चक्रवर्तिनः संबन्धी । दायाद्यागतः दायः कुलधनं दायरूपम् आघं भोग्यंवस्तु दायाद्यं दायद्यत्वेन आगतः प्राप्त इति तथा । गान्धर्वो वेदः सङ्गीतविद्या । वथस्सहजं तारुण्यसचिवम् । विस्रम्भयति विश्वस्यति ॥<noinclude></noinclude> cb9z9vr8dfw7zck7p862gscsd7gamcg पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७३ 104 82448 340871 196585 2022-07-21T07:43:23Z Swaminathan sitapathi 4227 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center= द्वितीयोऽङ्कः ।|right=६़१}}</noinclude>भरतो वंशः॥ दर्पयत्येनं दायाद्यागतो गान्धर्वो वेदः । विभ्रमयत्येनं वयस्सहजं रूपम् । विस्रम्भयेत्येनं कथमप्युत्पन्नोऽस्य पैौरानुरागः । {{gap}}'''देवी''' – (कं) अभिळसणीआ वरगुणा । कस्स वामदाए दोसो संवुत्ते । {{gap}}'''राजा'''–देवि ! किमिदानीमस्थाने विस्मितासि । पश्य {{block center|<poem>अग्निः कक्ष इवोत्सृष्टो दहत् कार्त्स्न्येन मेदिनीम् । अस्य मे शासनं दप्तं विषयान्तेऽवसीदति ॥ ११ ॥</poem>}} {{center|( प्रविश्य )}} '''काञ्चुकीयः''' -जयतु महासेनः । यथाज्ञाप्रयुक्तसत्कारं प्रविष्टः शालङ्कायनः । स तु विज्ञापयति--इदं भरतकुलोपभुक्तं वत्सराजकुले द्रष्टयं धोषवती नाम वीणारनम् । महासेनः प्रतिग्राहयितव्य इति । (वीणां दर्शयति ।) {{rule}} {{gap}}(क) अभिलषणीया वरगुणाः । कस्य वामतया दोषः संवृतः । {{rule}} {{gap}}अभीति । अभिलषणीयाः स्पृहणीया। वरगुणाः कन्यावगयितनयपुरुषार्हाः गुणाः । भवन्ति , अर्थात् कुळकळावयोरूपप्रजानुरागास्त्वदुक्ताः । कस्य वाभतया कस्य गुणस्य अनभिलषणीयतया । दोषः संवृत्तः , अस्मान् प्रति द्वेष्यस्वरूपो दोषस्तस्य सञ्जातः । अहो अभिलषणीयवरगुणसम्पन्नस्य द्वेष्यत्वमित्यभिप्रायः। 'तस्य वामदाएइति न हृद्यः पाठः ॥ {{gap}}देवीप्यादि । अस्थाने अविषये । {{gap}}अग्निरिति । कक्षे तृणगुल्मे । उत्सृष्टः क्षिप्तः । अग्निर्व, मेदिनी कर्स्स्न्येन दहत्, भूमण्डले निखिले निरङ्कुशं प्रसरदित्यर्थः । दीप्नं ज्वलितम् ऊर्जितं । भे शासनम् आज्ञा । अस्य विषयान्ते वत्सराजस्य जनपदसीमायाम् । अवसीदति न प्रसरति । सर्वेषु राजसु मम शासनमनुसरत्सु अयमेको लङ्घयतीति मां प्रत्यप्रह्वत्वमेवास्य दूषणमिति भावः ॥ ११ ॥ {{gap}}जयत्वित्यादि । यदाज्ञाप्रयुक्तसत्कारम् आञाप्रकारप्रयुक्तबहुमानं यथा भवति तथा । द्रष्टव्यं दृष्टिप्रियमित्यर्थः । वीणरत्नं प्रशस्ता वीणा । प्रतिग्रहयेतव्थः प्रतिगृह्णन् प्रयोजयितव्यः । अर्थाद् वीणाम् ॥<noinclude></noinclude> cb47aiy7tkfajllbgl6mc40ilm0mnzn अथर्ववेदः/काण्डं १५/सूक्तम् १७ 0 84934 340881 204541 2022-07-21T09:59:14Z Puranastudy 1572 wikitext text/x-wiki {{header | title = [[अथर्ववेदः]] - [[अथर्ववेदः/काण्डं १५|काण्डं १५]] | author = अथर्वा | translator = | section = सूक्तं १५.१७ | previous = [[अथर्ववेदः/काण्डं १५/सूक्तम् १६|सूक्तं १५.१६]] | next = [[अथर्ववेदः/काण्डं १५/सूक्तम् १८|सूक्तं १५.१८]] | notes = दे. अध्यात्मम्, व्रात्यः। १, ५ प्राजापत्या उष्णिक्, २, ४-५ प्राजापत्या उष्णिक्, २, ७ आसुरी अनुष्टुप्.......... }} <poem><span style="font-size: 14pt; line-height: 200%">योऽस्य प्रथमो व्यानः सेयं भूमिः ॥१॥ योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥२॥ योऽस्य तृतीयो व्यानः सा द्यौः ॥३॥ योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥४॥ योऽस्य पञ्चमो व्यानस्त ऋतवः ॥५॥ योऽस्य षष्ठो व्यानस्त आर्तवाः ॥६॥ योऽस्य सप्तमो व्यानः स संवत्सरः ॥७॥ समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च ॥८॥ यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च ॥९॥ एकं तदेषाममृतत्वमित्याहुतिरेव ॥१०॥ </span></poem> == == {{टिप्पणी| व्यान प्राण के प्रथम तीन स्तरों पर आश्रित पृथिवी,अन्तरिक्ष और द्यौ के त्रितय को क्रमशः अन्नमय कोश, प्राणमय कोश और मनोमय कोश का समावेश करने वाली मानुषी-त्रिलोकी कहा जा सकता है। [http://puranastudy.freevar.com/Antariksha_Paryaya/pva16.htm व्यानस्य विवेचनम्] }} kzfmqzjjrfmynf0r9xiawttwnq4p68m सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/गौरीवितम्(सुतासो) 0 93081 340852 288538 2022-07-21T02:09:47Z Puranastudy 1572 /* */ wikitext text/x-wiki [[File:गौरीवितम्(सुतासो) Gaurivitim.ogg|thumb|गौरीवितम्]] [[File:गौरीवितम्(सुतासो) Gaurivitam.jpg|thumb|600px|गौरीवितम्]] <poem><span style="font-size: 14pt; line-height: 200%">१५ सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः | पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः || [https://sa.wikisource.org/s/3kg ८७२] || ऋ. [[ऋग्वेदः सूक्तं ९.१०१|९.१०१.४]] इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् | वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः || ८७३ || सहस्रधारः पवते समुद्रो वाचमीङ्खयः | सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे || ८७४ || ३. गौरीवितम् । गौरीवितिः । अनुष्टुप्। पवमानः सोमः । सुता । सोमाऽ३ । धुमत्तमाः ।। सोमाइन्द्रायमन्दिनाऽ२३ः । पावित्रवाऽ३१२३ । तोआऽ५क्षरान् ।। दाइवान्गच्छाऽ३१२३ ।। तुवोवा । माऽ५दोऽ६”हाइ ।। श्रीः ।। इन्दुः । इन्द्राऽ३ । यपवताइ ।। इतिदेवासो- अब्रुवाऽ२३न् । वाचस्पताऽ३१२३इः । मखाऽ५स्यताइ ।। वाइश्वस्येशा- ऽ३१२३ ।। नओवा । जाऽ५सोऽ६”हाइ ।। श्रीः ।। सह । स्रधाऽ३ । रᳲपवताइ ।। समुद्रोवाचमीङ्खयाऽ२३ः । सोमस्पताऽ३१२३इः । रयाऽ५इणाम् ।। साखेन्द्रस्याऽ३१२३ ।। दिवोवा । दाऽ५इवोऽ६”हाइ ।। दी. १५. उत्. न. मा. २५. वु. ।।६३।। </span></poem> == == {{टिप्पणी| [http://puranastudy.000space.com/pur_index10/pva23.htm गौरी उपरि पौराणिकसंदर्भाः] [http://puranastudy.000space.com/pur_index10/gauri.htm गौरिवीति/गौरी उपरि टिप्पणी] गौरिवीत् का देवों की दृष्टि से एक रूप ऐसा भी है जो "श्वः” (कल) के साथ अद्य से भी सम्बन्ध रखता है जिसके कारण उसे "अद्यश्वं' कहा जाता है।२ 'गौरिवीतम् साम' के इस वर्णन से ऐसा प्रतीत होता है कि समाधि की अवस्था में योगी की सभी दिव्य-शक्तियां जिस तेज अथवा रस का अनुभव करती हैं उसको तो 'अद्यतन गौरिवीतम् कहा जाएगा परन्तु व्युत्थान की अवस्था में उस तेजस् या रस का जो अनुभव नीचे के स्तरों पर होगा उसे यज्ञ का 'श्वस्तनं' माना गया है। योगी के प्राण-रूप देव समाधि और व्युत्धान दोनों से सम्बन्ध रखते हैं, इसलिए देवों की दृष्टि से उस तेजस् या रस को 'अद्यश्वं” नाम दिया गया है। - वेदों में अन्तरिक्ष के पर्यायों का प्रतीकवाद([http://puranastudy.freevar.com/Antariksha_Paryaya/pva17.htm अध्याय ४]) }} 4qn9269igjk3k4fuzkn8b3pnitb9s0e सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/सोमसाम 0 93274 340849 229753 2022-07-21T01:27:36Z Puranastudy 1572 wikitext text/x-wiki [[File:सोमसाम(सुताइ.) Somasama.ogg|thumb|सोमसाम]] [[File:सोमसाम(सुताइ) Somasama.jpg|thumb|600px|सोमसाम]] <poem><span style="font-size: 14pt; line-height: 200%">सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः | सोमा अर्षन्तु विष्णवे || [https://sa.wikisource.org/s/3f0 ७६६] || १२ सोमसाम।। सोमः । गायत्री । पवमानः सोमः । सुताइन्द्रा ।। यवायवाइ । वारूणायाऽ३माऽ३ । रुद्भियाः ।। सोमाआर्षाऽ३४ । हाउ ।। तुवाऽ५इष्णवाइ । होऽ५इ ।। डा ।। दी. न. उत्. न. मा. ८ . ऐ ।।३२।। </span></poem> == == {{टिप्पणी| }} 9n7egzedndlz4vf2066tul0488p0nvt 340850 340849 2022-07-21T01:30:23Z Puranastudy 1572 /* */ wikitext text/x-wiki [[File:सोमसाम(सुताइ.) Somasama.ogg|thumb|सोमसाम]] [[File:सोमसाम(सुताइ) Somasama.jpg|thumb|600px|सोमसाम]] <poem><span style="font-size: 14pt; line-height: 200%">सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः | सोमा अर्षन्तु विष्णवे || [https://sa.wikisource.org/s/3f0 ७६६] || १२ सोमसाम।। सोमः । गायत्री । पवमानः सोमः । सुताइन्द्रा ।। यवायवाइ । वारूणायाऽ३माऽ३ । रुद्भियाः ।। सोमाआर्षाऽ३४ । हाउ ।। तुवाऽ५इष्णवाइ । होऽ५इ ।। डा ।। दी. न. उत्. न. मा. ८ . ऐ ।।३२।। </span></poem> == == {{टिप्पणी| सोमसाम भवति यथा वा इमा अन्या ओषधयः एवं सोम आसीत् स तपोऽतप्यत स एतत् सोमसामापश्यत् तेन राज्यमाधिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो भवति सोमसाम्ना तुष्टुवानः - पञ्चविंशब्रा. [https://sa.wikisource.org/s/tvz ११.३] }} lcmzbrzjyu97xjbnkhwnnertc7wzqsg 340851 340850 2022-07-21T01:49:08Z Puranastudy 1572 /* */ wikitext text/x-wiki [[File:सोमसाम(सुताइ.) Somasama.ogg|thumb|सोमसाम]] [[File:सोमसाम(सुताइ) Somasama.jpg|thumb|600px|सोमसाम]] <poem><span style="font-size: 14pt; line-height: 200%">सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः | सोमा अर्षन्तु विष्णवे || [https://sa.wikisource.org/s/3f0 ७६६] || १२ सोमसाम।। सोमः । गायत्री । पवमानः सोमः । सुताइन्द्रा ।। यवायवाइ । वारूणायाऽ३माऽ३ । रुद्भियाः ।। सोमाआर्षाऽ३४ । हाउ ।। तुवाऽ५इष्णवाइ । होऽ५इ ।। डा ।। दी. न. उत्. न. मा. ८ . ऐ ।।३२।। </span></poem> == == {{टिप्पणी| सोमसाम भवति यथा वा इमा अन्या ओषधयः एवं सोम आसीत् स तपोऽतप्यत स एतत् सोमसामापश्यत् तेन राज्यमाधिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो भवति सोमसाम्ना तुष्टुवानः - पञ्चविंशब्रा. [https://sa.wikisource.org/s/tvz ११.३] ताण्ड्यब्राह्मणे [https://sa.wikisource.org/s/tvz ११.३] सोमसाम भवति इति उल्लेखः अस्ति। काठकसंहितायां [https://sa.wikisource.org/s/1tu7 २९.२] उल्लेखः अस्ति - सोमदेवत्यं वै साम। अरुणाशुक्लायाः [http://puranastudy.freevar.com/Antariksha_Paryaya/pva17.htm शोधप्रबन्धे] सोम और साम शीर्षके अस्य विवेचनमस्ति। }} newyfve3tvu0sfjyt26xgam1fi4e9m9 पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७० 104 123270 340879 339807 2022-07-21T09:54:56Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६६|center= गोपीगीता-}}</noinclude> त्वया धरा उहृता अतस्तवैव भू : तस्मिन्नेवावतारे कृष्णावतारे तु कथमित्याशयः। अस्मिन्पक्षे भूः अभूः न भूः अभूरिति सभङ्गश्लेषः। नञोर्थो निषेधः। यद्वा नूः अभूः इत्यत्र,अभूः पदस्य क्रियापरत्वेऽपि न हानिः। त्वं भूस्वामी अभूरित्यर्थस्यापि प्रतीतेः ॥१४॥ यद्वा हे भूस्त्वमभूः, कृष्णस्य धरा अभूः। भुवि त्वद्विषये ते प्रसिद्धा जनाः ॥ १५ ॥ यद्वा तत्स्वामिनो राजानः इत्थं गृणन्ति जानन्ति, एतत्पक्षे अभूरिति क्रियापदमस्तु ॥ १६ ॥ यद्वा अवरणमिति पृथक् मङ्गलमिति च पृथक्। तव कथा अस्माकं श्रवणम्। श्रुतिरेव एतेन कथायाः श्रवणत्वप्रतिपादकेनाभेदरूपकेणास्माकं श्रुतिरेव कथेति कथाश्रुत्योरभेदः।अङ्गं लाति गृह्णातित्यङ्गलस्तम्। अङ्गवतिप्रयुज्यमानेनाङ्गलशब्देनातीव सुन्दराङ्गत्वम् ॥ १७॥ यद्वा श्रवणपदं सम्बोधनम् । कृष्णस्य स्वश्रवणस्य च रूपकत्वोक्त्या त्वन्नामकथादिश्रवणमेवास्माकं श्रुतिरिति सादरातिशयः। भगवतो मङ्गलस्वरूपत्वञ्च 'मङ्गलम्भगवान् विष्णु रिति पुराणे'। 'अशुभानि निराचष्टे तनोति शुभसन्ततिम् स्मृतिमात्रेण यत्पुंसांब्रह्म तन्मङ्गलम्परमिति श्रुतौ प्रसिद्धमेव।१८॥ प्रहसितं प्रिय प्रेमवीक्षणं। {{gap}}{{gap}}विहरणञ्च ते ध्यानमङ्गलम्॥ रहसि सम्विदो या हृदि स्पृशः। {{gap}}{{gap}}कुहक नो मनः क्षोभयन्ति हि ॥१०॥ प्रहसितमिति। यदा हसो हासः, प्रकर्षण हसः प्रहसः, स<noinclude></noinclude> l75m5jvehjb6ersh4cecgzv9h30lug0 पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७१ 104 123272 340882 339808 2022-07-21T09:59:38Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता-|right=६७}}</noinclude> सञ्जातोयस्मिस्तत्प्रहसितम्। एतच्चविहरणविशेषणम्। हसपदेन 'हसोहास्य' मित्यमरोक्तहास्यरसः। हसे हसने अवन्तः। 'स्वन- हसोर्वेति पाणिनि प्रियप्रेमवीक्षणमित्येकम्पदम्। प्रियेषु सखिषु प्रेमवीक्षणं यस्मिन् एतदपि तद्विशेषणम् ॥१॥ यद्वा प्रियेत्येकं सम्बोधनम्,प्रेम्णावीनापक्षिणांमीक्षणंयस्मिन्वा विषु वा एतादृशं वीनाम्पक्षिणां हरणं मृगया, अयम्भावः। मृगयायां हि प्रकर्षेण हास्यरसो भवति। स्वसखेषु प्रेमपूर्वकं वीक्षणं च भवति। निरपराधिनो वयःपक्षिणो मया वृथा लीलया हन्यन्ते इति पक्षिषु प्रेमपूर्वकमीक्षणं च भवति। पुनराहारलुब्धाः पक्षिणोऽपि आहारा- र्थमाहारदातारं प्रेम्णा पश्यन्ति। भवानपि तवधार्थ व्याजेनाहारं दत्ते। इत्थं भवत आखेट इति भावः॥२॥ यद्वा विना करणेन गरु- डेन हरणममृतपारिजातादिहरणम् ॥३॥ यद्वारहसि एकान्ते अङ्ग- लमष्टांगयोगं लाति गृहणातीत्यङ्गुलं, ध्यानंमेकान्ते एव भवति। 'एकाकी यतचित्तात्मा' इति 'विविक्तासीन' इति स्मृतेः। तव ध्यानमप्येतादृक्। अष्टांगयोगपूर्वकं ध्यानमित्यर्थःnायद्वा मनः क्षोभेतिसम्बोधनम्। नः अस्माकं मनःक्षोभ।क्षुभ सचलने। णि- जन्तादच्। या हृदिस्पृशः सम्विदस्ता यन्ति जानन्ति गोप्यः। गत्यर्थकेण्धातोर्ज्ञानार्थत्वात्। हि हेतौ। एता गोप्यस्त्वया साकं रहसि अपि तिष्ठन्ति, अतस्त्वत्कृतं सर्वं कार्यं जानन्तीत्यभि- प्रायः॥५॥ यद्वा त्वया सह रहसि स्थिता या गोप्यस्ता सर्वं तव चरित्रं जानन्तीत्यर्थः ॥६॥ यद्वा रहसि एकान्ते संविदश्चे- तनाः 'तत्त्वमस्या' दिवाक्यजन्यशानानीति यावत्॥७॥'सम्वित्-<noinclude></noinclude> f22cebo2dt2v1jt0y3u66c9mc2243pf पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७२ 104 123274 340884 339809 2022-07-21T10:05:18Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६८|center= गोपीगीता-}}</noinclude> प्रतिपादि' त्यमरःत्वया सह रहसि स्थितायागप्यस्ताः संविदा पूर्वोक्तज्ञानानि यन्तिजानन्ति।हेकुहक! हे ना! मनः क्षोभ इति सम्बोधनम्, अयम्भावः। रहसि अपि युवतिभ्यः सुरतं नैव ददासि किन्तु ब्रह्मतत्त्वमेवोपदिशति भवान्। नहि युवतीना. मस्माकं मनो ब्रह्मतत्वज्ञाने प्रविशति अपितु सुरतावेव त्वन्तु- रहस्यपि तत्त्वमेवोपदिशसि अतो भवान् कुहकः कपटी मन: क्षोभकश्चेति प्रघट्टकार्थः॥ ८॥ यद्वा रहसि याः सम्विदः अङ्गी- काराः सम्बिदागूः प्रतिज्ञान' मित्यमरः। पुनश्च ताः ह्रदिस्पृशः चितानन्ददायिनस्ते सर्वे मनः क्षोभयन्तिहि, अयम्भावः। मया सह यदि रमेध्वं तर्हि अमूल्यरत्नादिकमल ङ्कारम्चदास्यामीत्यङ्गोकारो भवताकृतस्तत्प्राप्तिस्तुदूरापस्ता भवानपिकुत्रगतोनेवास्माभिदृश्यते।अतोभवान् कुहको नो मन क्षोभक एवेति भावः ॥ ६॥ यद्वा अङ्गलमिति ध्यानविशेषणम् अयम्भावः। भवतो ध्यानन्तु अस्माकमङ्गं लाति गृह्णातीत्येव- म्भूतमेव अस्मदङ्गविषयकध्यानमेव बकवत्करोषि न परमार्थ- ध्यानमतएव बकवद्भूत्वा ध्यानं करोषि अतः कुहकोऽसि। कस्यायुवतेः कीदृगङ्गमित्येव ध्यायसि।मनःक्षोभस्तुप्रकारद्वयेन। तथाहि कामपीडात एकः अपरस्तु बकवद्धयानं करोषि न परमस्य पुंसः, अतस्तवपरलोकोऽपि भ्रष्टः, अतो नो मन क्षोभयन्ति। चरित्राणीति शेषः ॥ १०॥ यद्वा चते इत्येकम्यदम्। चतते याचते इति चतस्तस्मिन् पचाद्यजन्तः चते याचने, ततः {{rule}} {{gap}}*यदायकोरुपसङ्ख्यानमितिभविष्यतिलिङ्।<noinclude></noinclude> qbwspzgccvb4uwurdh3d4yqywrw17kl पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७३ 104 123276 340888 339810 2022-07-21T10:10:12Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center=गोपीगीतांर्थकौमुदोसहिता-|right=६९}}</noinclude>सप्तम्येकवचनम्। रहसि सुरतं याचमाने त्वयि अस्माकं ध्यान मङ्ग मवयवमस्माकमेव लातिगृह्णाति एतादृशं ध्यानम्। एवञ्च रतिसमये उभयोः सारूप्यं वर्णितम् ॥ ११ ॥ यद्वा विजन्ताच्चतेश्चतुर्थ्येकवचनमस्तु। तथाच रहसि भगवद्ध्यान मेवोचितन्तदपि त्यक्त्वा सुरतमेवेच्छसि, अतोऽध्यानं चेत्यर्थः। तस्यैव विशेषणमङ्गलमिति, अयम्भावः। एकान्ते सर्वदैव सुरततत्परस्य ध्वजभङ्गो भवति, अतोऽङ्गं प्रतीकं शिश्न लाति आदत्ते ॥ १२ ॥ यद्वा अध्यान मिति पृथक्, लविशेषणम्। अङ्गेति पृथक् सम्बोधने कोमलालापे वा अयम्भावः। लमिति दानार्थकम्। 'लो दाने च प्रकीर्तितः, इति कोशः। चिन्ता- शून्यदानं करोषि। यानि दानार्हाणि वस्तूनि पश्यसि तानि ददासि। श्वः किम्भक्षिष्यामिति विचारं नैव करोषि। एतदपिनो मनः क्षोभहेतुरिति गूढाशयः ॥ १३॥ यद्वा नो इत्योदन्तम् व्य यम्। निषेधार्धकम्। मनांसि अस्माकमितिशेष:,नो क्षोभयन्ति। यतो भवान् कुहकः कपटिषु मनःक्षोभणमनुचितमेव। कपटिषु कपटमेवोचितमिति गूढाभिप्रायः ॥१४॥ यद्वा कुहकन इत्येक सम्बोधनम्। कुहकश्चासौ ना इति कर्मधारयः। स्त्रीषु सर्वस्य पुरुषस्य दया दृश्यते त्वन्तु कपटी पुमान् इति निन्दा तथापि मनःक्षोभयन्ति हि इति योजना ॥१५॥ यद्वा हृदि इत्येकम्पदम्। स्पृश इत्येकम्पृथक्षष्ठ्यन्तम्। अस्मत्कुचादिस्प्रष्टस्तव हृदि या सस्विदः इत्थंकरिष्यामि, अलङ्कारादिकं दास्यामि कुचार् दनं देहि इत्यादीनिप्रतिज्ञानानि, ताः अपि मनः क्षोभयन्ति ॥१६॥<noinclude></noinclude> lcj9d7230rrseehpd93ab3j1yvfi7o8 पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७४ 104 123278 340889 339811 2022-07-21T10:14:11Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=७०|center= गोपीगीता-}}</noinclude> यद्वा हृदि इत्येकम्पदम्। स्पृश इत्येकं षष्ठयन्तम्। हृदयाख्य- निम्नदेशे अस्माकमिति शेषः। स्पृशतस्तव याः सम्विदः ता इति योजना। अस्मदुरसा सह त्वदुरोमेलनसमये किं कृत्वा अलोभयत्, ताः सर्वाः क्षोभयन्ति प्रतिज्ञातं नैवदत्तमतः कुहक इत्यभिप्रायः ॥ १७ ॥ यद्वा कुत्सितो हो कोपो यस्य कुहः। ततोऽज्ञातादौ ® कः कुत्सितेवा। कुत्सितकोपवत्वाद्धृदिस्पृश उक्त्वापि पलायितः। कुपदेनकेनाचातीवकुत्सितत्वम् ॥ १८ ॥ यद्वा कौ पृथिव्यां हो वारणःश्रेष्ठः। (सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः,। ततोऽज्ञातादौकः अनुकम्पायांवा ॥१६॥ यद्वा पृथिव्यां शूली एव ईश्वरएव 'हः कोपेवारणेहश्चतथाशूली प्रकीर्ति तः, इति कोशः॥२०॥ यद्वा नो इति निषेधार्थकमव्ययम्,। 'नह्यनो, इत्यमरः।म इति सम्बोधनमर्श आद्यजन्तम्। हे समुद्रपुत्रीपते! हेनि त्यसम्पत्सम्पन्न ! वा हेनः! इत्यपिसम्बोधनम्। हेअस्मत्पुरुष! ताः सम्विदन्ताः नःमनः अस्माकं मनः नो क्षोभयन्ति। हि हेतौ प्रसि- धौवा, अयम्भावः। ऐन्द्रजालिकेन कुह केन निर्मितां मायां दृष्ट्वा न कस्यापि मनः क्षोभते। एतदलोकमिति मन्यते तद्वत्त्वत्कृतम पिवयमलीकत्वेन निश्चिनुमः। अलीकदर्शने न मनः सञ्चल ति। एतदर्थाभिप्रायेण कुहकपदेन सम्बोधयामासुः ॥२१॥ यद्वा नोमेत्येकम्पदम्। न विद्यते उमा पार्वतीयस्य तत्सम्बोधनम्। {{rule}} {{gap}}*कुत्सितकोपवत्वेन त्वमज्ञातः यदिज्ञातो भवेत्तर्हितव दूर मेव भवेम, तथाचेत्थं दुःखं नानुभवेमेति भावः<noinclude></noinclude> egxiszpoxhqsq3ye34yaqj14r5bo8tj पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७५ 104 123280 340890 339813 2022-07-21T10:16:23Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसंहिता-|right=७१}}</noinclude> कृष्णावतारोऽपि शिवाशून्यशिवावतार इत्यभिप्रायः, नशब्दसमासः ॥२२॥ यद्वा हेउम !नः मनः न क्षोभयन्ति हि । अस्मिन्पक्षेअर्शआद्यजन्त उमशब्दः । नटस्येवानेशावतारग्रहीतु : कुहकत्वमित्यभिप्रायः । उमपदेन परपुरुषत्वम्बोधयता प्रहसितादीनां मनःक्षोभणहेतुत्वं निराकृतम् । नहि पतिव्रतानामस्माकम्परपुरुषप्रहसितादयो मनःक्षोभणहेतव इत्यर्थप्रतीत्या पदार्थहेतुकं काव्यलिङ्गम्। ननुनोमेत्येकपदपक्षे शिवस्यैव कथम्बोधः । उमाशून्यघटादिबोध एव कथंनेति चंच्छृणु । नहितवाक्याद्यज्जातीयम्प्रतीयते । नञ्घटिनवाक्यादपि तज्जातीयस्यैव प्रतीतेः । यथा सवत्सामानयेति वाक्याद्गोत्वजातीयस्यैव प्रतीतिस्तद्वद वत्सामानयेति वाक्यादपि गोत्वजातीयस्यैव प्रतीतिर्न तुमहि ध्यादेरिति तत्त्यमवेहि ॥ २३॥ । {{gap}}अहो गोपीनां कृष्णसम्मुखीकरणचातुर्यम् । निन्दाप्रेमभयप्रदर्शनपुरस्कारेण सम्मुखीकरणयराः सत्यो नानार्थकशब्देन भगवन्तमपिमोहयन्ति । कुहकपदप्रयोगेणपूर्वं निन्दा तन्मुखेन प्रेमा प्रहसितादिस्मरणस्य सनः क्षोभणहेतुत्वात् प्रेमाणमन्तरेण तथात्वानुपपत्तेः। तथाच व्याजस्तुतिःनिन्दयास्तुतेःपर्यवसानात्। पदार्थहेतुककाव्यलिङ्गपक्षे नहि पतिव्रतानामित्यादि प्रतीतेर्माम्परित्यज्य स्वपतीन्प्रति गमिष्यन्ति, कथमहमरण्य एकाकीस्थास्यामीति भयेनास्मत्सन्निधिर्भविष्यतीत्यर्थप्रतीतेर्गोपीभ्यो भयम् । एवञ्च भगवन्तमपि मोहयन्त्यो गोप्यः प्रकृतय एवेति पूर्व मुक्त मित्यलं प्रपञ्चेन ।<noinclude></noinclude> 7bm5ehpvw3zv55s12jpp7s7e6yfm600 340891 340890 2022-07-21T10:18:08Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसंहिता-|right=७१}}</noinclude> कृष्णावतारोऽपि शिवाशून्यशिवावतार इत्यभिप्रायः, नशब्दसमासः ॥२२॥ यद्वा हेउम!नः मनः न क्षोभयन्ति हि। अस्मिन्पक्षेअर्शआद्यजन्त उमशब्दः। नटस्येवानेशावतारग्रहीत: कुहकत्वमित्यभिप्रायः। उमपदेन परपुरुषत्वम्बोधयता प्रहसितादीनां मनःक्षोभणहेतुत्वं निराकृतम्। नहि पतिव्रतानामस्माकम्परपुरुषप्रहसितादयो मनःक्षोभणहेतव इत्यर्थप्रतीत्या पदार्थहेतुकं काव्यलिङ्गम्। ननुनोमेत्येकपदपक्षे शिवस्यैव कथम्बोधः। उमाशून्यघटादिबोध एव कथंनेति चंच्छृणु। नहितवाक्याद्यज्जातीयम्प्रतीयते । नञ्घटिनवाक्यादपि तज्जातीयस्यैव प्रतीतेः। यथा सवत्सामानयेति वाक्याद्गोत्वजातीयस्यैव प्रतीतिस्तद्वद वत्सामानयेति वाक्यादपि गोत्वजातीयस्यैव प्रतीतिर्न तुमहि ध्यादेरिति तत्त्यमवेहि ॥ २३॥ । {{gap}}अहो गोपीनां कृष्णसम्मुखीकरणचातुर्यम्। निन्दाप्रेमभयप्रदर्शनपुरस्कारेण सम्मुखीकरणयराः सत्यो नानार्थकशब्देन भगवन्तमपिमोहयन्ति। कुहकपदप्रयोगेणपूर्वं निन्दा तन्मुखेन प्रेमा प्रहसितादिस्मरणस्य सनः क्षोभणहेतुत्वात् प्रेमाणमन्तरेण तथात्वानुपपत्तेः। तथाच व्याजस्तुतिःनिन्दयास्तुतेःपर्यवसानात्। पदार्थहेतुककाव्यलिङ्गपक्षे नहि पतिव्रतानामित्यादि प्रतीतेर्माम्परित्यज्य स्वपतीन्प्रति गमिष्यन्ति, कथमहमरण्य एकाकीस्थास्यामीति भयेनास्मत्सन्निधिर्भविष्यतीत्यर्थप्रतीतेर्गोपीभ्यो भयम्। एवञ्च भगवन्तमपि मोहयन्त्यो गोप्यः प्रकृतय एवेति पूर्व मुक्त मित्यलं प्रपञ्चेन।<noinclude></noinclude> m9amk9ex3own2vdao6a2o93vrh0ax7i पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७६ 104 123282 340892 336976 2022-07-21T10:23:44Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=७२|center= गोपीगीता-}}</noinclude> चलसि यद्जाच्चारयन्पशू- {{gap}}{{gap}}न्नलिनसुन्दरं नाथ ते पदम्।। शिलतृणाङ् कुरैः सीदतीति नः। {{gap}}{{gap}}कलिलतां मनः कान्त गच्छति ॥११॥ {{gap}}चलसीति यद्वा यदा पशूश्चारयंस्त्वं व्रजाच्चलसि तदा नलिनैः सुन्दरम्पदं स्थानम्। 'पदं व्यवसितस्थाने' त्यादि- कोशः। नाथ ते याचते तुभ्यम् शिलतृणाकुरैः सीदति पीडयति। त्वया याचितं नलिनसुन्दरं स्थानं नास्ति, तृणादिभिस्त्वां सीद- तीत्यस्माकं मनः कलिलतामस्वास्थ्यं गच्छति। नाथते इति शत्रन्ताच्चतुर्थ्येकवचनम्। आशिष्येवात्मनेपदात् ॥१॥ यद्वा कलिलस्य गहनस्य भावस्तामित्यर्थः। दुरवगाहत्वं गच्छति जानाति 'कलिलं गहनं समे' इत्यमरः। नो मनो निर्णेतुं नैव शक्नोति भवान्नन्दनन्दनः। नन्दस्याप्येक एव पुत्रः। भवत्पदञ्च नलिनमिव सुन्दरं नलिनादपिसुन्दर वा। नलिनात्कोमलत्वां च व्यज्यते, यतो नलिनसुन्दरं स्थानं भवान्नाथति, किं च नलि- नानि सरसि शिलादिभिः सहैवैधन्ते न तु भवत्पदमिति व्यति. रेको गम्यः। एतादृशो भवान् किमर्थं पशूश्चारयति तृणादिभि- रगम्यमरण्यमटसि। अत्र हेतुं न पश्यामः। यथा गहनं निर्यातुं मनो नैव शक्नोति तद्वत्त्वल्लीलामपि निर्णेतुं नो मनो नैव शक्नोतीति भावः ॥२॥ यद्वा कलिः संयुगस्तंलाति आदत्ते इति<noinclude></noinclude> layx01ukurobk8sn1ey0phpz7icieuv पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७७ 104 123284 340893 339837 2022-07-21T10:26:54Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center=गोपीगीतार्थकौमुदीसहिता-|right=७३}}</noinclude>कलिलस्तस्यभावस्तराताम्। 'कलिसंस्फोटसंयुगा' इत्यमरः, अयम्भावः। अस्मिन्विषये युवतीनां मनांसि मिथः संयुगं कुर्वन्ति काचिदेकं हेतुं वदति, अन्या तु तं खण्डयित्वा अपरं हेतुं दर्शयति। एवमन्यापीति परस्परं युवतिमनसा संयुगः॥३॥ यद्वा कलो मधुरास्फुटशब्दः। 'ध्वनौ तु मधुरास्फुटे। कल" इत्यमरः। सोऽस्ति यस्मिन् स कली। वीणादिस्तं लाति आदत्ते इति कलिलो गायनो नटस्तस्य भावस्तत्तां गच्छति स्मरति इत्यर्थः। मधुरास्फुटशब्देनातीव मनोरञ्जनं गानं नटवद्भवता सम्पादितं स्मरामीत्यभिप्रायः ॥ ४॥यद्वा हे कलिल! अस्वस्थ तां भवतानीतां सखी प्रति नो मनो गच्छति स्मरति। सा सखी अतीव कोमलाङ्गी तृणादिभिः पीडिता स्यात्। कथङ्कार भवता साकं विहरेदिति अस्माकंमनस्तां स्मरति। कलिलपदस्यास्वा- स्थ्यपरतया श्रीस्वामिभिः प्रतिपादनात् ॥ ५॥ अविचार्यान्तर्. हितोऽभवम्। गोप्यस्तु कदाचित्सात्वतां कुले हेवासुदेवेत्यादिना सम्बोधयन्ति, कदाचिन्नन्दः शृणुयातर्हि किं किं भवेत्। किंच पातिव्रत्यपुरःसरं माम्परित्यज्य स्वपतिम्प्रति निवर्तितुमनस इमा अहमेकाकी विपिने कथं स्थास्यामीत्यादिभयाक्रान्तमनस- स्तवाप्यस्माकमिव मनसोऽस्वास्थ्यमेवेति तत्सम्बोधनार्थाः॥६॥ यद्वा कलिः कलहस्तं लाति गृह्णातीति कलिलस्तस्य भाव- स्तत्ता तां कलहकारित्वं गच्छति, पूर्ववत्कलहं कुर्वन्ति ॥७॥ यद्वा कलिः कलिका तां गृणातीति पूर्ववत्कलिकापदस्था- रस्येन कोमत्वं स्मरतीत्यर्थः ॥ ८॥ यद्वा कलियुगादातुर्भावं<noinclude></noinclude> 2x6pkvr7oxol177c6sevuyen5hlrl3s पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७८ 104 123286 340894 339838 2022-07-21T10:33:34Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=७४|center= गोपीगीता-}}</noinclude>स्मरतीत्यर्थः । कलियुगं पापी गृह्णाति तद्धर्मं गच्छति प्राप्नोति, अनेक कुतर्कादि करोति, अतः 'चञ्चलं हि मनः कृष्ण' इत्यादि मनोनिन्दा श्रूयते। मनो हि भवद्विषये अनेककुत कवितर्कादि कुरुते इति गूढाशयः ॥ ६ ॥ 'कलिः स्त्री कलिकायां ना सुराजिकलहे युगे' इति मेदिनी ॥१०॥ यद्वा मनः कान्तेतिएकम्पदं सम्बोधनम्, मुखमात्रेण केवलं कान्तेति न सम्बोधयामः। अपि तु मनसापीति भवान् अरण्यं गच्छति, तृणादिभिः कृत्वा नो मनः सीदति। 'इति हेतुप्रकरणप्रकर्षा- दिसमाप्तिषु' इत्यमरः। सादनम्प्रति तृणादयो हेतव इति भावः ॥११॥ यद्वा हे मनः! इति सम्बोधनम्। कान्तस्याभेदविशेषणम्। एतेन कान्तस्य दुर्जेयत्वं लक्ष्यते ॥१५॥ यद्वा हे अन्त! अन्तयति. नाशयतीत्यन्तस्तत्सम्बोधनम्,तत्करोतीति ण्यन्तात्पचाद्यच्॥१३॥ यद्वा का स्त्री त्वया साकं गच्छेत्। यतो भवानन्तपदेनसम्बोध्यः। अतो भवता साकम्वयं न गच्छाम इत्यभिप्रायः ॥ १४ ॥ यद्वा कस्यापि ब्रह्मणो भवानन्तो नाशकः ॥ १५॥ यद्वा हे कहे ब्रह्मन् हे अन्त! हे अन्तक! हे काल! इति सम्बोधनम् ॥ १६ ॥ यद्वा क्वचित्यदादेः सम्बोधनस्यापि दर्शनात् हे क! इत्यपि सम्बो. धनम्। अनन्त्ययोः किम्। हे स! इति मनोरमा तद्भाष्यं च मानम्। सर्वादिकिंशब्दोऽनिर्धारित प्रयुज्यते। भवन्तं निर्धार- यितुं नैव शक्नुम इति सम्बोधनगम्यः ॥ १७॥ यद्वा तशब्द- श्चोरपरः। हे चोर! कां स्त्रियम्प्रति भवान् गच्छति चौर्यार्थ- मिति भावः। 'तकारः कीर्शिते चौरे' इति कोशः॥ १८॥ यद्वा<noinclude></noinclude> nrnb7dfxwlnrby693kjzulamwhj02ql पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७९ 104 123288 340895 339839 2022-07-21T10:37:14Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता-|right=७५}}</noinclude> भवन्मनः काम्प्रति गच्छति ॥ १६॥ यद्वा कलिलशब्दो नवीन पुष्पादिषु प्रयुज्यमानो लोके दृश्यते, तदभिप्रेत्यैव श्रीस्वामि पादा अपि अस्वस्थपरतया व्याचख्युः। भवान् कोमलत्वं गच्छति इति हेतोस्तृणादयः कर्कशा भवन्तं पीडयन्ति, अतो नो मनः सीदतीति योजना ॥२०॥ यद्वा नलिनसुन्दरमपि स्थान- मपदमस्थानमेवेति भङ्गश्लेषः। यतः एतत्पदं स्थानं ते तव पदमडघ्रिं तृणादिभिः सीदतीति हेतोरपदमस्थान मतो मनः सोदतीति योजना। 'पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इति कोशः। पदमपदमिति विरोधाभासस्तु अर्थान्तरपरत- यासमाधेयः॥ २१॥ दिन परिक्षये नीलकुन्तलै। {{gap}}{{gap}}र्वनरुहाननं विभूदाबृतम्॥ घनरजस्वलं दर्शयन्मुहुर्मनसि नः। {{gap}}{{gap}}स्मरं वीर यच्छसि ॥१२॥ {{gap}}यद्वा स्मर मित्यत्र स्मेति पृथक् मिति पृथक्। वीः अ इति च्छेदः अशब्दोऽभावपरः। तथा च वीरिति प्रथमैकवचनान्तम् सम्बोधनम्वा। वीगत्यादौ क्विवन्तः। गतिव्याप्तिमत्त्वादित- दर्थः। रं कामाग्निं नो मनसि यच्छसि तच्छमकं सम्भोगन्तु अ नैव यच्छसि स्म निश्चितम्। एतत्पदच्छेदाभिप्रायेणैव श्रीस्वामिपादव्याख्याभिप्राय इति मन्ये अन्यथा क्लिष्टक-<noinclude></noinclude> g32pchq87ggwon7ogc37vzc45c0hpu5 पृष्ठम्:शिवलीलार्णवः.djvu/८७ 104 125306 340855 340843 2022-07-21T04:57:28Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>एकादशः सर्गः । शचीमुखैर्निर्जरकामिनीजनैः समावृते मातृगणैश्च सर्वतः । महार्हकर्णीरथमध्यगे रमावचोऽघिदेव्यौ तमनु प्रचेलतुः ॥ ३९ ॥ श्रियं नृपाणामवरोधसुभ्रुवो द्विजातिपत्न्यो दयितां हविर्भुजः । गिरं गृहिण्यो विदुषां च सादरं विशिष्य भक्त्यावनता ववन्दिरे ॥ ४० ॥ समुद्घृतं मूर्धनि तस्य पाण्डरं प्रकाशते स्मातपवारणं महत् । शिरस्स्थितं स्वं शिशुमस्य वीक्षितुं समागतः पूर्ण इव क्षपाकरः ॥ ४१ ॥ सितातपत्रान्तरसम्मितं विभोः शिरस्पदं वीक्षितुमुन्मना मनाक् । विधातृहंसः परितः पतन्निव व्यलोकि धूतं दिवि चामरद्वयम् ॥ ४२ ॥ अयं स राज्ञीपतिरेति पश्यतेत्यनुद्रवज्जानपदोक्तिभङ्गिभिः । कृताभ्यसूयेषु गणेषु सस्मितौ हरिर्विरिञ्चश्च तमन्वपश्यताम् ॥ ४३ ॥ पराक्रमं स्वं प्रकटीचिकीर्षता समाह्रतं शंबरवैरिणा शिवे । बलं निजं मौलमिवाङ्गनाजनस्तमीक्षितुं सन्निपपात सर्वतः ॥ ४४ ॥ तमेकवक्रं द्विभुजं द्विनेत्रमप्यमानुषं भावमिवास्थितं त्विषा । निरीक्षमाणा निभृतैर्विलोचनैः परस्परामित्थमवादिषुः स्त्रियः ।। ४५ ।। अहो मुखाम्भोजमहो युगं दृशोरहो भुजद्वन्द्वमहो भुजान्तरम् । अहो महत्कौशलमस्य वीक्षितेष्वहो विचित्रा मदवारणे स्थितिः ।। ४६ ॥ जिता त्वया यत् पृथिवी न तज्जितं जिताश्च यद्देवि ! सुरा न तज्जितम् । अनेन यूना यदनन्यनिर्जितं जितं वधूजन्म तदूर्जितं जितम् ॥ ४७ ॥ अमुं समालोक्य युगेन सा दृशोरमुं समाश्लिष्य भुजद्वयेन वा । कथं पुनर्निर्वृणुयात् तटातकाप्यपूर्णकामाः सकला वयं ततः ।। ४८ ।। हृतं मनोऽनेन हृते विलोचने सहैव नीताः सखि ! पञ्च नासवः । इदं वपुर्नः परमत्र पातितं गतत्रपो विध्यति नच्च मन्मथः ॥ ४९ ॥ त्वदीक्षणायोपगतास्त्वदाश्रिता हिनस्ति नस्त्वयपि पश्यति स्मरः । इतीरयामो वयमस्य सन्निधौ प्रभुः किलायं नगरस्य चास्य नः ॥ ५० ॥ मयाम्बुजाक्षः सविशेषमीक्षितो मयाद्य दृष्टः सविधे चतुर्मुखः । अमुं युवानं प्रथमं विलोकयन्त्यहं तु मुग्धा न कमप्यवेदिषम् ॥ ५१ ॥ ७९<noinclude></noinclude> 9shfsvarvhw8jfkwubbxil8yknoc4ek पृष्ठम्:शिवलीलार्णवः.djvu/८८ 104 125307 340856 2022-07-21T04:58:20Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे मयास्य दृष्टे विपुलायते दृशौ मयास्य मन्दस्मितमीक्षितं शुचि । अहं द्वयं प्रैक्षिषि साधु साध्वियं पशुर्हि नः पुच्छविषाणवर्जितः ॥ ५२ ॥ अनङ्गसर्वस्वमनन्यवीक्षितं न्यधायि यत् पाण्ड्यकुमारिकावशे । तदप्यवस्कन्तुमुपागतः स्वयं युवा किलायं चतुरो जितस्मरः ॥ ५३ ॥ इति प्रवृत्ताः प्रतिवीथि सङ्कथा मृगीदृशामाकलयन् कृतस्मितः । विकीर्यमाणः पथि लाजमौक्तिकैः पुराङ्गनाभिः पुरशासनो ययौ ॥ ५४ ॥ O स राजगेहं समया मतङ्गजं नियन्त्रयन्नादिशति स्म नन्दिनम् । श्रियं च वाणीमपि राजमन्दिरं प्रवेशय प्रागमरीगणैरिति ॥ ५५ ततः शिलादात्मजवेत्रताडितद्रवन्नभोभूचरसंसदा पथा । समं समस्तामरसुन्दरीजनैर्जगज्जनन्यौ ययतुर्नृपालयम् ।। ५६ ॥ पुरस्कृते स्वोचितया सपर्यया पुरोधसा कुम्भभवेन ते उभे । अभिद्रुता काञ्चनमालिका जवाद् विकीर्णपुष्पा पदयोरवन्दत ॥ ५७ ॥ पृथक् पृथक् सा परिरभ्य लालिता शचीरमावाग्जननीभिरादरात् । श्रिये सरोजं शुकमुज्ज्वलं गिरे मणि च शच्यै विनयादुपाहरत् ॥ १८ ॥ उपेहि मातामहि ! कुत्र सा वधूः प्रदर्शयास्मज्जननीमितीरिता । निनाय ताः काञ्चनमालिका शनैस्तमा लयं यत्र तटातकास्थितिः ॥ ५९ ॥ विसृज्य भद्रासनमात्तपादुकां समायतीं प्रश्रयगन्धिभिः पदैः । वधूं विवाहोचितवेषकोमळां निरीक्ष्य तस्थुर्निभृताः सुरस्त्रियः ॥ ६० ॥ अलक्ष्यतास्या मणिपादुकाञ्चले समन्ततो मौक्तिकपङ्किरुज्ज्वला । अदूरलमा चरणारविन्दयोरनुश्रवाणामिव वर्णपद्धतिः ॥ ६१ ॥ अतीत्य लाक्षारसमाहितं नवं माणिप्रभां पादुकयोश्च तावतीम् । अकृत्रिमः पाटालमा पदाब्जयोरलक्ष्यतास्या विसरन् बहिः स्फुटम् ॥ ६२ ॥ प्रबोधयन्ती श्रियमक्षिसंज्ञया सरस्वती तच्चरणाम्बुजद्वयम् । क्षणं निदध्यौ विकचेक्षणा ततश्चिरं तु दध्यौ मुकुळीकृतेक्षणा ॥ ६३ ॥ समापतन्त्याः सविलासमाबभौ मनोहरोऽस्या मणिमेखलारवः । विजित्य शम्भुं मदनेन गर्जता प्रवर्त्तितोच्चैरिव वीरघोषणा ॥ ६४ ।।<noinclude></noinclude> 4zzm2spobbvm4y1p0grpfctykmhwa9e 340857 340856 2022-07-21T05:02:21Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे मयास्य दृष्टे विपुलायते दृशौ मयास्य मन्दस्मितमीक्षितं शुचि । अहं द्वयं प्रैक्षिषि साधु साध्वियं पशुर्हि नः पुच्छविषाणवर्जितः ॥ ५२ ॥ अनङ्गसर्वस्वमनन्यवीक्षितं न्यधायि यत् पाण्ड्यकुमारिकावशे । तदप्यवस्कन्तुमुपागतः स्वयं युवा किलायं चतुरो जितस्मरः ॥ ५३ ॥ इति प्रवृत्ताः प्रतिवीथि सङ्कथा मृगीदृशामाकलयन् कृतस्मितः । विकीर्यमाणः पथि लाजमौक्तिकैः पुराङ्गनाभिः पुरशासनो ययौ ॥ ५४ ॥ O स राजगेहं समया मतङ्गजं नियन्त्रयन्नादिशति स्म नन्दिनम् । श्रियं च वाणीमपि राजमन्दिरं प्रवेशय प्रागमरीगणैरिति ॥ ५५ ततः शिलादात्मजवेत्रताडितद्रवन्नभोभूचरसंसदा पथा । समं समस्तामरसुन्दरीजनैर्जगज्जनन्यौ ययतुर्नृपालयम् ।। ५६ ॥ पुरस्कृते स्वोचितया सपर्यया पुरोधसा कुम्भभवेन ते उभे । अभिद्रुता काञ्चनमालिका जवाद् विकीर्णपुष्पा पदयोरवन्दत ॥ ५७ ॥ पृथक् पृथक् सा परिरभ्य लालिता शचीरमावाग्जननीभिरादरात् । श्रिये सरोजं शुकमुज्ज्वलं गिरे मणि च शच्यै विनयादुपाहरत् ॥ १८ ॥ उपेहि मातामहि ! कुत्र सा वधूः प्रदर्शयास्मज्जननीमितीरिता । निनाय ताः काञ्चनमालिका शनैस्तमा लयं यत्र तटातकास्थितिः ॥ ५९ ॥ विसृज्य भद्रासनमात्तपादुकां समायतीं प्रश्रयगन्धिभिः पदैः । वधूं विवाहोचितवेषकोमळां निरीक्ष्य तस्थुर्निभृताः सुरस्त्रियः ॥ ६० ॥ अलक्ष्यतास्या मणिपादुकाञ्चले समन्ततो मौक्तिकपङ्किरुज्ज्वला । अदूरलग्ना चरणारविन्दयोरनुश्रवाणामिव वर्णपद्धतिः ॥ ६१ ॥ अतीत्य लाक्षारसमाहितं नवं मणिप्रभां पादुकयोश्च तावतीम् । अकृत्रिमः पाटलिमा पदाब्जयोरलक्ष्यतास्या विसरन् बहिः स्फुटम् ॥ ६२ ॥ प्रबोधयन्ती श्रियमक्षिसंज्ञया सरस्वती तच्चरणाम्बुजद्वयम् । क्षणं निदध्यौ विकचेक्षणा ततश्चिरं तु दध्यौ मुकुळीकृतेक्षणा ॥ ६३ ॥ समापतन्त्याः सविलासमाबभौ मनोहरोऽस्या मणिमेखलारवः । विजित्य शम्भुं मदनेन गर्जता प्रवर्त्तितोच्चैरिव वीरघोषणा ॥ ६४ ।।<noinclude></noinclude> eu2ivj8o9rmatfk01pipbggvcqkf67v पृष्ठम्:शिवलीलार्णवः.djvu/८९ 104 125308 340858 2022-07-21T05:02:44Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>एकादशः सर्गः । प्रतिक्षणोन्मेषिपयोधरोन्नतिप्रतिस्फुटत्कञ्चुकसन्धिपूरणः । उरोजनिश्शेषसमावृते बभावुरस्यमुप्या मणिहारकोरकः || ६५ ॥ परस्परस्पर्ध्यपि तत् कुचद्वयं विजेतुकामं किल मेरुमन्दरौ । तथा समेतं समये मिथः स्वयं यथोपलभ्येत न किञ्चिदन्तरम् ।। ६६ ।। कृपाणचापग्रहकन्दुकाहतिप्रपन्नकोटीरतटार्पणादिभिः । करो न काठिन्यमवाप हेतुभिर्वदान्यतावासनयेव सुभ्रुवः ॥ ६७ ॥ त्रिलोकजेतुर्जयलाञ्छनेन सा त्रिभङ्गितिमौक्तिकात्मना । करारविन्दं कटकेन बालिका विभूषयामास मनोभवाज्ञया ॥ ६८ ॥ उपासितुं सा पतिमुत्पलप्रियं करे च कर्णे च निवेशितोत्पला । बभार भूयो नयनोत्पले ततः स्वयं बभूवोत्पलदामकोमला ॥ ६९ ॥ अलक्षि ताटङ्कयुगान्तरार्पितो विनिर्मितो मौक्तिकरलमण्डलः । स्वयंवरायोपगतस्त्यजन् विधुं तदाननेन्दोरिव तारकागणः ॥ ७० ॥ अलक्ष्यतासन्नकरग्रहोत्सवप्रमोदजोऽस्या विशदः न्मिताङ्कुरः । विसृत्य नासामणिचन्द्रिका वहिर्विभूपयन्तीव रदच्छदान्तरम् ॥ ७९ ॥ J प्रचीयमानं मुखरामणीयकप्रवाहमित्थं वयसा नवं नवम् । अवेक्ष्य मीनाविव जातवल्गनावशोभिषातां चपले तदीक्षणे ॥ ७२ ॥ विधुं चतुर्धा प्रविभज्य तन्मुखे त्रिभिः कपोलौ निटिलं च कल्पयन् । तुरीयमंशं विनियोगवर्जितं न्यवेदयत् स्वामिनि शङ्करे विधिः ॥ ७३ ॥ विशेषयामास यदर्धचन्द्रतो ललाटमस्या मृगनाभिरेखिका । विशेषकत्वं वहति स्म तेन सा ततोऽन्यतस्तत्पदमौपचारिकम् ॥ ७४ ॥ रराज तद्वेणिलतावलम्बिनी प्रसूनपङ्किश्चरमाङ्कसीमनि । प्रहर्त्तुमीशं समये मनोभुवा निवेशिता गूढमिवेषुसंहति ॥ १५ ॥ हरस्य शृङ्गाररसाधिदेवतामवेक्ष्य तां मन्थरमायतीं पुरः । अलज्जत श्रीर्जगदादिसुन्दरी ललज्जिरे लज्जितुमप्सरोगणाः ॥ ७६ ॥ पदैरिमां प्राकृतवस्तुसंहतिप्रसक्तसङ्केतमलीमसीकृतैः । अवर्णयन्ती विववार भारती स्ववैदुष मौनत एव केवलम् ॥ ७७ ॥ ८१<noinclude></noinclude> 2bh2njlyec1gmepi7yoprs8vqivrn3n 340859 340858 2022-07-21T05:06:37Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>एकादशः सर्गः । प्रतिक्षणोन्मेषिपयोधरोन्नतिप्रतिस्फुटत्कञ्चुकसन्धिपूरणः । उरोजनिश्शेषसमावृते बभावुरस्यमुष्या मणिहारकोरकः || ६५ ॥ परस्परस्पर्ध्यपि तत् कुचद्वयं विजेतुकामं किल मेरुमन्दरौ । तथा समेतं समये मिथः स्वयं यथोपलभ्येत न किञ्चिदन्तरम् ।। ६६ ।। कृपाणचापग्रहकन्दुकाहतिप्रपन्नकोटीरतटार्पणादिभिः । करो न काठिन्यमवाप हेतुभिर्वदान्यतावासनयेव सुभ्रुवः ॥ ६७ ॥ त्रिलोकजेतुर्जयलाञ्छनेन सा त्रिभङ्गितिमौक्तिकात्मना । करारविन्दं कटकेन बालिका विभूषयामास मनोभवाज्ञया ॥ ६८ ॥ उपासितुं सा पतिमुत्पलप्रियं करे च कर्णे च निवेशितोत्पला । बभार भूयो नयनोत्पले ततः स्वयं बभूवोत्पलदामकोमला ॥ ६९ ॥ अलक्षि ताटङ्कयुगान्तरार्पितो विनिर्मितो मौक्तिकरलमण्डलः । स्वयंवरायोपगतस्त्यजन् विधुं तदाननेन्दोरिव तारकागणः ॥ ७० ॥ अलक्ष्यतासन्नकरग्रहोत्सवप्रमोदजोऽस्या विशदः न्मिताङ्कुरः । विसृत्य नासामणिचन्द्रिका वहिर्विभूपयन्तीव रदच्छदान्तरम् ॥ ७९ ॥ J प्रचीयमानं मुखरामणीयकप्रवाहमित्थं वयसा नवं नवम् । अवेक्ष्य मीनाविव जातवल्गनावशोभिषातां चपले तदीक्षणे ॥ ७२ ॥ विधुं चतुर्धा प्रविभज्य तन्मुखे त्रिभिः कपोलौ निटिलं च कल्पयन् । तुरीयमंशं विनियोगवर्जितं न्यवेदयत् स्वामिनि शङ्करे विधिः ॥ ७३ ॥ विशेषयामास यदर्धचन्द्रतो ललाटमस्या मृगनाभिरेखिका । विशेषकत्वं वहति स्म तेन सा ततोऽन्यतस्तत्पदमौपचारिकम् ॥ ७४ ॥ रराज तद्वेणिलतावलम्बिनी प्रसूनपङ्किश्चरमाङ्कसीमनि । प्रहर्त्तुमीशं समये मनोभुवा निवेशिता गूढमिवेषुसंहति ॥ १५ ॥ हरस्य शृङ्गाररसाधिदेवतामवेक्ष्य तां मन्थरमायतीं पुरः । अलज्जत श्रीर्जगदादिसुन्दरी ललज्जिरे लज्जितुमप्सरोगणाः ॥ ७६ ॥ पदैरिमां प्राकृतवस्तुसंहतिप्रसक्तसङ्केतमलीमसीकृतैः । अवर्णयन्ती विववार भारती स्ववैदुषीं मौनत एव केवलम् ॥ ७७ ॥ ८१<noinclude></noinclude> pam1ztgapmxu9rm0faiwqbv07eyqran पृष्ठम्:शिवलीलार्णवः.djvu/९० 104 125309 340860 2022-07-21T05:07:15Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>* शिवलीलार्णवे शची तदीयाद्भुतरूपदर्शने सहस्रमक्ष्णां स्वयमिच्छती सती । सकृत्प्रवृत्त्यापि चकाङ्क्ष गौतमे बलादहल्याकृतशापमात्मनः ॥ ७८ ॥ . ततः शनैर्भूषणगौरवेण सा सखीजनालम्बितहारमण्डला | ननाम वाणीकमले नता स्वयं सुराङ्गनाभिः परिषम्बजे शचीम् ॥ ७९ ॥ अयं प्रणामो ननु लाभ एव नो विवाहदीक्षावभृथे तु देवि! ते । न हि प्रणामावसरं लभेवहीत्यवोचतां तां परिरभ्य ते दृढम् ॥ ८० ॥ अथावतीर्य द्विरदादलङ्कृतादनुद्रुतः पारिषदैः सुरैरपि । विरिञ्चवैकुण्ठकरावलम्बनो विवेश राज्ञो भवनं महेश्वरः || ८१ ॥ तमर्थ्यपाद्याचमनीयपूर्वया सपर्यया कुम्भभवः सभाजयन् । प्रवेशयामास वरं महर्षिभिः प्रसन्नया तस्य दृशा कृतार्थितः ॥ ८२ ॥ स पाण्ड्यशुद्धान्त विलासिनीजनैर्विकीर्यमाणः शुभलाजमुष्टिभिः । जटाभिघातोत्पतदभ्रवाहिनीपयः कणाकीर्ण इवाबभौ वरः ॥ ८३ ॥ प्रविष्टमन्तः प्रतिहारसीमनि प्रतीक्ष्य जामातरमिन्दुशेखरम् । प्रचोदिता काञ्चनमालया रमा चकार पाद्यं पयसाम्य पादयोः ॥ ८४ ॥ प्रदीपहस्ता वचसामधीश्वरा प्रदक्षिणीकृत्य शचीसमन्विता । प्रवेशयामास शशाङ्कशेखरं पुरस्सरन्ती दिविषत्पुरन्त्रिभिः ।। ८५ ।। स विद्रुमस्तम्भ चतुष्कशोभितां विचित्रवैदूर्यविटङ्कलाञ्छिताम् । विलम्बिमुक्तामणिदामकोमलां विवेश देवोऽथ विवाहवेदिकाम् ॥ ८६ ॥ भेरीभाङ्कारसान्द्रं बहिरबहिरपि प्रौढशुद्धान्तकान्ता- पाणिव्याविद्धतूर्यध्वनिजनित चमत्कारसङ्गीतरम्यम् । जामातृश्लाघनोक्तिव्यतिकरितवधूबान्धवोल्लासहासं जज्ञे राज्ञो गृहं तन्मुनिजनरचितोत्तुङ्गमङ्गल्यपाठम् ॥ ८७ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे एकादशः सर्गः ।<noinclude></noinclude> 2wj5ymqlstrptz76mnfwn1i3k8tc4j3 340862 340860 2022-07-21T05:11:01Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>* शिवलीलार्णवे शची तदीयाद्भुतरूपदर्शने सहस्रमक्ष्णां स्वयमिच्छती सती । सकृत्प्रवृत्त्यापि चकाङ्क्ष गौतमे बलादहल्याकृतशापमात्मनः ॥ ७८ ॥ . ततः शनैर्भूषणगौरवेण सा सखीजनालम्बितहारमण्डला | ननाम वाणीकमले नता स्वयं सुराङ्गनाभिः परिषस्बजे शचीम् ॥ ७९ ॥ अयं प्रणामो ननु लाभ एव नो विवाहदीक्षावभृथे तु देवि! ते । न हि प्रणामावसरं लभेवहीत्यवोचतां तां परिरभ्य ते दृढम् ॥ ८० ॥ अथावतीर्य द्विरदादलङ्कृतादनुद्रुतः पारिषदैः सुरैरपि । विरिञ्चवैकुण्ठकरावलम्बनो विवेश राज्ञो भवनं महेश्वरः || ८१ ॥ तमर्थ्यपाद्याचमनीयपूर्वया सपर्यया कुम्भभवः सभाजयन् । प्रवेशयामास वरं महर्षिभिः प्रसन्नया तस्य दृशा कृतार्थितः ॥ ८२ ॥ स पाण्ड्यशुद्धान्त विलासिनीजनैर्विकीर्यमाणः शुभलाजमुष्टिभिः । जटाभिघातोत्पतदभ्रवाहिनीपयः कणाकीर्ण इवाबभौ वरः ॥ ८३ ॥ प्रविष्टमन्तः प्रतिहारसीमनि प्रतीक्ष्य जामातरमिन्दुशेखरम् । प्रचोदिता काञ्चनमालया रमा चकार पाद्यं पयसास्य पादयोः ॥ ८४ ॥ प्रदीपहस्ता वचसामधीश्वरा प्रदक्षिणीकृत्य शचीसमन्विता । प्रवेशयामास शशाङ्कशेखरं पुरस्सरन्ती दिविषत्पुरन्त्रिभिः ।। ८५ ।। स विद्रुमस्तम्भ चतुष्कशोभितां विचित्रवैदूर्यविटङ्कलाञ्छिताम् । विलम्बिमुक्तामणिदामकोमलां विवेश देवोऽथ विवाहवेदिकाम् ॥ ८६ ॥ भेरीभाङ्कारसान्द्रं बहिरबहिरपि प्रौढशुद्धान्तकान्ता- पाणिव्याविद्धतूर्यध्वनिजनित चमत्कारसङ्गीतरम्यम् । जामातृश्लाघनोक्तिव्यतिकरितवधूबान्धवोल्लासहासं जज्ञे राज्ञो गृहं तन्मुनिजनरचितोत्तुङ्गमङ्गल्यपाठम् ॥ ८७ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे एकादशः सर्गः ।<noinclude></noinclude> 4j4el7wa9qxleju9qznf5ee551pxtac पृष्ठम्:शिवलीलार्णवः.djvu/९१ 104 125310 340863 2022-07-21T05:11:32Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>अथ द्वादशः सर्गः । अथासने रत्नमये निषण्णमाद्यं युवानं मुनयः पुराणाः । आशीर्वचोभिर्विविधैरपुष्णन्ननाहतातोद्य निनादमिश्रैः ॥ १ ॥ 12/0 प्रकीर्य पुष्पाणि मणीमयानि पत्नीं नमन्तीं मलयध्वजस्य | श्रिया च वाण्या च निवेद्यमानां श्वश्रूं हरः प्रैक्षत गौरवेण ॥ २ ॥ अगस्त्यमामन्त्र्य ततो विधातुरादेशतः श्रीश्च सरस्वती च । निवेशयामासतुरासनार्धे वधूं हिया नम्रमुखीं वरस्य || ३ ॥ दाने स्वसुर्दानवमर्दनोऽपि नियुज्यमानः कमलासनेन । श्रिया समं काञ्चनमालिकायाः समक्षमारान्निषसाद वध्वाः ॥ ४ ॥ प्रस्थापितः प्राग् गिरिजाविवाहे यन् कुम्भजन्मा तहणं विनेतुम् । ब्रह्माणमीशस्तु विवाहहोमे वत्रे तमध्वर्युमथाब्जयोनिम् ॥ ५॥ यत्वादषि प्रागनवेक्षितं यत् तच्छाम्भवं पादतलं मुकुन्दः । पद्माकरावर्जितपाद्यधौतमानर्च पश्यन्निभृतं प्रसूनैः ॥ ६ ॥ आरोपयन्नङ्कतलं हरिस्तामाचक्षते स्वं परमं पदं याम् । राज्यश्रिया दक्षिणया सहैव ददौ त्रिवेदीकवये वराय ॥ ७ ॥ दातुर्ग्रहीतुश्च किमस्ति गोत्रं को वा पिता कश्च पितामहो वा । अतोऽद्भुतस्तुभ्यमिमां ददामीत्यासीदियानेव तु दानमन्त्रः ॥ ८ ॥ तत्पूर्वमुत्तानदशागृहीतसङ्केतके पाणितले पुरारेः । न्यस्तः करः पाण्ड्यकुमारिकायाः सर्वोत्तरत्वं प्रकटीचकार ॥ ९ ॥ करो गृहीतः पृथिवीपतिभ्यो दिक्पालकेभ्यश्च यया जयन्त्या । तस्यास्त्वयाग्राहि करोऽधुनेति देवी गिरां सस्मितमाह देवम् ॥ १० ॥ परस्परस्योपरि मन्मथेन प्रयुक्तमस्त्रं समयं प्रतीक्ष्य । सन्दर्शयन्ताविव चक्रतुस्तौ माल्यार्पणव्यत्ययमङ्गलानि ॥ ११ । गृह्णन् वरः स्वाञ्जलिना मृगाक्ष्या लाजा में होगा वध | नकाशे माल्यापवेधग्लपनापराधनिर्मार्जनायानुनयन्निवेभाम् ॥ १२ ॥ अश्मानमारोपयितुं पदाब्जमालम्बमाने दयिते मृगाक्ष्याः । पादग्रहः प्राथमिकोऽयमस्याः प्रचीयतामित्यवदन्मुकुन्दः ॥ १३ १. तत्पूर्वमित्यादि । इदम्प्रथममुत्तानिते इति विशेषणार्थः, ८३<noinclude></noinclude> h25c0hdaz4svjzjkf4la9djbjct3d57 340864 340863 2022-07-21T05:16:04Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>अथ द्वादशः सर्गः । अथासने रत्नमये निषण्णमाद्यं युवानं मुनयः पुराणाः । आशीर्वचोभिर्विविधैरपुष्णन्ननाहतातोद्य निनादमिश्रैः ॥ १ ॥ 12/0 प्रकीर्य पुष्पाणि मणीमयानि पत्नीं नमन्तीं मलयध्वजस्य | श्रिया च वाण्या च निवेद्यमानां श्वश्रूं हरः प्रैक्षत गौरवेण ॥ २ ॥ अगस्त्यमामन्त्र्य ततो विधातुरादेशतः श्रीश्च सरस्वती च । निवेशयामासतुरासनार्धे वधूं हिया नम्रमुखीं वरस्य || ३ ॥ दाने स्वसुर्दानवमर्दनोऽपि नियुज्यमानः कमलासनेन । श्रिया समं काञ्चनमालिकायाः समक्षमारान्निषसाद वध्वाः ॥ ४ ॥ प्रस्थापितः प्राग् गिरिजाविवाहे यन् कुम्भजन्मा तदृणं विनेतुम् । ब्रह्माणमीशस्तु विवाहहोमे वत्रे तमध्वर्युमथाब्जयोनिम् ॥ ५॥ यत्वादषि प्रागनवेक्षितं यत् तच्छाम्भवं पादतलं मुकुन्दः । पद्माकरावर्जितपाद्यधौतमानर्च पश्यन्निभृतं प्रसूनैः ॥ ६ ॥ आरोपयन्नङ्कतलं हरिस्तामाचक्षते स्वं परमं पदं याम् । राज्यश्रिया दक्षिणया सहैव ददौ त्रिवेदीकवये वराय ॥ ७ ॥ दातुर्ग्रहीतुश्च किमस्ति गोत्रं को वा पिता कश्च पितामहो वा । अतोऽद्भुतस्तुभ्यमिमां ददामीत्यासीदियानेव तु दानमन्त्रः ॥ ८ ॥ तत्पूर्वमुत्तानदशागृहीतसङ्केतके पाणितले पुरारेः । न्यस्तः करः पाण्ड्यकुमारिकायाः सर्वोत्तरत्वं प्रकटीचकार ॥ ९ ॥ करो गृहीतः पृथिवीपतिभ्यो दिक्पालकेभ्यश्च यया जयन्त्या । तस्यास्त्वयाग्राहि करोऽधुनेति देवी गिरां सस्मितमाह देवम् ॥ १० ॥ परस्परस्योपरि मन्मथेन प्रयुक्तमस्त्रं समयं प्रतीक्ष्य । सन्दर्शयन्ताविव चक्रतुस्तौ माल्यार्पणव्यत्ययमङ्गलानि ॥ ११ । गृह्णन् वरः स्वाञ्जलिना मृगाक्ष्या लाजाङ्जलि होमावधा चकाशे माल्यापवेधग्लपनापराधनिर्मार्जनायानुनयन्निवेभाम् ॥ १२ ॥ अश्मानमारोपयितुं पदाब्जमालम्बमाने दयिते मृगाक्ष्याः । पादग्रहः प्राथमिकोऽयमस्याः प्रचीयतामित्यवदन्मुकुन्दः ॥ १३ १. तत्पूर्वमित्यादि । इदम्प्रथममुत्तानिते इति विशेषणार्थः, ८३<noinclude></noinclude> f59s5rxolofwezouryi7ppf2ohf4vv5 पृष्ठम्:शिवलीलार्णवः.djvu/९२ 104 125311 340865 2022-07-21T05:16:25Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>८४ 18/10 शिवलीलार्णवे कान्तः शरण्यो जगतां त्रयाणां तस्याः, करस्थे चरणारविन्दे । ऐश्वर्यमुर्व्यादि सदाशिवान्तमव्याहतं तद् बुबुधे करस्थम् ॥ १४ ॥ आमुक्तमञ्जीरम लक्तकाङ्कमाकुञ्चितं किञ्चिदिव हियान्तः । स्विन्नं करे स्विद्यति लग्नमैशे धन्याः पदं तद् ददृशुर्जनन्याः ॥ १५ ॥ आसीत् तदाविष्कृतहर्षबाप्पमक्षिद्वयं काञ्चनमालिकायाः । आ मानुषादा च महेश्वरीयादानन्द | साम्राज्य इवाभिषिक्तम् ॥ १६ ॥ आधीयमानेऽश्मनि तत्पदाब्जे मञ्जीरघोषो मधुरो जज़म्भे । सद्यः समास्फालितदोर्द्वयेन मुक्तः स्मरेणेव जयाट्टहासः ॥ १७ ॥ प्रदक्षिणीकुर्वति* हव्यवाहं द्वन्द्वे जगन्मङ्गलधाम्नि तस्मिन् । प्रदक्षिणीचक्रुरिव प्रजानां दृशस्तदीयोत्पलदामदम्भात् ॥ १८ ॥ निर्वर्त्य वैवाहिकहोमशेषमम्भोजभूः कुम्भभुवोपदिष्टः । न्यवेशयद्रत्नमयेऽथ पीठे वामे वधूं दक्षिणतो वरञ्च ॥ १९ ॥ आसन्नमप्यन्तरलेशशून्यं मिथो न तृप्ति मिथुनं तद्हे । अतृप्तयोरेकशरीरभावेऽप्यासत्तिरेषा कतमा तयोः स्यात् ॥ २० ॥ आशीर्भिरानुश्रविकीभिराद्यामाचारपद्यामनुपालयन्तः । संवर्धयामासुरिमौ समेता ब्रह्मर्षयो ब्रह्ममुखा हसन्तः ॥ २१ ॥ स दक्षिणाभिः परितोप्य विप्रान् सम्मान्य देवानुचितोपचारैः । विश्रान्तिहेतोरवरोधगेहं विवेश देवोऽथ तटातकायाः ॥ २२ ॥ धैर्योपदेशादसकृत् सखीभ्यां वाणीरमाभ्यां प्रतिबोधितायाः । आलम्बमानः करमम्बिकाया मञ्चे परायें निषसाद देवः ॥ २३ ॥ ताम्राधरोष्ठं तरलायताक्षमास्विन्नमषित्रपयावनम्रम् । वक्रं शनैरुन्नमयाम्बभूव मार्जन्निव स्वेदलवान् स तस्याः ॥ २४ ॥ ताम्बूलमासन्नसखीवितीर्णमादाय पर्याकुलितां ह्रिया ताम् । आलक्षयन्ती कमला सलीलमाह म्म पत्ये प्रतिपादयेति ॥ २५ ॥ कुतो गृहीता वलयास्त्वयमं केनोपहारीकृत एष हारः । इत्यङ्गमङ्गं पतिराममर्श जिज्ञासयेवाभरणेषु तस्याः ॥ २६ ॥ + साम्राज्येत्यादिमधुर इत्यन्तोऽशः खपुस्तके न लिखितः. * ति हव्येत्यादिर्दृशइत्यन्तोंऽशः खपुस्तके न लिखितः<noinclude></noinclude> aoejo9wooxid3eikdchqe9wjq83h3vw 340869 340865 2022-07-21T05:30:32Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>८४ 18/10 शिवलीलार्णवे कान्तः शरण्यो जगतां त्रयाणां तस्याः, करस्थे चरणारविन्दे । ऐश्वर्यमुर्व्यादि सदाशिवान्तमव्याहतं तद् बुबुधे करस्थम् ॥ १४ ॥ आमुक्तमञ्जीरम लक्तकाङ्कमाकुञ्चितं किञ्चिदिव हियान्तः । स्विन्नं करे स्विद्यति लग्नमैशे धन्याः पदं तद् ददृशुर्जनन्याः ॥ १५ ॥ आसीत् तदाविष्कृतहर्षबाप्पमक्षिद्वयं काञ्चनमालिकायाः । आ मानुषादा च महेश्वरीयादानन्द | साम्राज्य इवाभिषिक्तम् ॥ १६ ॥ आधीयमानेऽश्मनि तत्पदाब्जे मञ्जीरघोषो मधुरो जज़म्भे । सद्यः समास्फालितदोर्द्वयेन मुक्तः स्मरेणेव जयाट्टहासः ॥ १७ ॥ प्रदक्षिणीकुर्वति* हव्यवाहं द्वन्द्वे जगन्मङ्गलधाम्नि तस्मिन् । प्रदक्षिणीचक्रुरिव प्रजानां दृशस्तदीयोत्पलदामदम्भात् ॥ १८ ॥ निर्वर्त्य वैवाहिकहोमशेषमम्भोजभूः कुम्भभुवोपदिष्टः । न्यवेशयद्रत्नमयेऽथ पीठे वामे वधूं दक्षिणतो वरञ्च ॥ १९ ॥ आसन्नमप्यन्तरलेशशून्यं मिथो न तृप्ति मिथुनं तद्हे । अतृप्तयोरेकशरीरभावेऽप्यासत्तिरेषा कतमा तयोः स्यात् ॥ २० ॥ आशीर्भिरानुश्रविकीभिराद्यामाचारपद्यामनुपालयन्तः । संवर्धयामासुरिमौ समेता ब्रह्मर्षयो ब्रह्ममुखा हसन्तः ॥ २१ ॥ स दक्षिणाभिः परितोष्य विप्रान् सम्मान्य देवानुचितोपचारैः । विश्रान्तिहेतोरवरोधगेहं विवेश देवोऽथ तटातकायाः ॥ २२ ॥ धैर्योपदेशादसकृत् सखीभ्यां वाणीरमाभ्यां प्रतिबोधितायाः । आलम्बमानः करमम्बिकाया मञ्चे परायें निषसाद देवः ॥ २३ ॥ ताम्राधरोष्ठं तरलायताक्षमास्विन्नमषित्रपयावनम्रम् । वक्रं शनैरुन्नमयाम्बभूव मार्जन्निव स्वेदलवान् स तस्याः ॥ २४ ॥ ताम्बूलमासन्नसखीवितीर्णमादाय पर्याकुलितां ह्रिया ताम् । आलक्षयन्ती कमला सलीलमाह स्म पत्ये प्रतिपादयेति ॥ २५ ॥ कुतो गृहीता वलयास्त्वयमं केनोपहारीकृत एष हारः । इत्यङ्गमङ्गं पतिराममर्श जिज्ञासयेवाभरणेषु तस्याः ॥ २६ ॥ + साम्राज्येत्यादिमधुर इत्यन्तोऽशः खपुस्तके न लिखितः. * ति हव्येत्यादिर्दृशइत्यन्तोंऽशः खपुस्तके न लिखितः<noinclude></noinclude> 19wqekxpkb2vth2vjkrhflxay1sutgu पृष्ठम्:शिवलीलार्णवः.djvu/९३ 104 125312 340866 2022-07-21T05:16:44Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वादशः सर्गः । आपृच्छ्यमाना दयितेन तत् तदवाङ्मुखी नोत्तरमाचचक्षे । निर्बन्धपृष्टा तु कथञ्चिदेषा मन्दस्मितेनोत्तरयाम्बभूव ॥ २७ ॥ माता तवेयं मलयध्वजस्य किं भोगिनी किं गृहिणीषु काचित् । इत्युक्तिभिः कोपयतापि पत्या प्रत्युत्तरं भ्रूकुटिरेव लेभे ॥ २८ ॥ तदिङ्गितानामयथावबोधात् समाचरन्तीभिरिवान्यदन्यत् । सल्लाँपयामास रुषा सखीभिः सङ्केतिताभिः स हसन् नवोढाम् ॥ २९ ॥ यदाह यत् प्रैक्षत यजहास यदास्त जोषं यदपि न्यषेधत् । तेन तेनैव शरीरलाभसाफल्यमापादयति स्म यूनः ॥ ३० ॥ स यावदित्थं समयाचकार नवोढया नर्मपरो महेशः । तावज्जना भैक्तकराः समेत्य निर्वर्तितं पाकविधिं शशंसुः ॥ ३१ ॥ सा ते शासनात् तत्र महेश्वरम्य प्राक् ब्राह्मणान् भोजयितु समेतान् । सम्मेलयन्ति स्म समन्ततोऽपि स्वयं तु भक्त्या सुमतिर्महर्षीन् ॥ ३२ ॥ असेवमानौ नटनं पुरारेरपोऽपि यो जात्वपि नाददाते । तौ व्याघ्रपादश्च पतञ्जलिश्च सन्नेह तुमसभां प्रयातुम् ॥ ३३ ॥ आकर्ण्य तन्निश्चयमानिनाय तो योगिनौ सुन्दरपाण्ड्यदेवः । आचष्ट चैनावभिगम्य भक्त्या पादे स्पृशन् प्रश्रयपूर्वमित्थम् ॥ ३४ ॥ ८५ सभानटः काञ्चनसंसदीव संसेव्यमानः सुरसिद्धसङ्घैः । हालास्यनाथोऽपि करोति नृत्तमस्मिन् सदा रूप्यसभान्तराले ॥ ३५ ॥ अत्रैव नृत्तं तरुणेन्दुमैौलेरासेव्य माध्याह्निकमद्भुतं तत् । आगच्छतं क्षिप्रमनुग्रहीतुं प्राणामिहोत्राचरणादिहास्मान् ॥ ३६ ॥ इतीरितौ पाशुपतौ मुनी तौ तथेति गत्वा कनकाम्बुजिन्याम् । निर्वर्त्तयन्तौ नियमाभिषेकमासेदतुर्नृत्तसभां पुरारेः ॥ ३७ ॥ अन्तर्हितब्रह्मकपालजालमाबद्ध्य दृश्येन्दुकलं कपर्दी : आमुक्तवैयाकरणाङ्गदाङ्घ्रिरवातरत् तत्र नटेशः || ३८ ॥ मुरं पुरा यः स्वयमाजघान स एव देवो मुरजं तदानीम् । ससर्ज यस्तलमसेवनीयं स एव तालं जगृहे तु वेधाः ॥ ३९ ॥ १. आपृच्छयमाना ईषत् पृच्छ्यमाना. २. समयाचकार समय यापितवान्. ३. भक- करा अन्नकाराः. ४. ताल वृक्षविशेषम् .<noinclude></noinclude> 0pfnc3kd3fdvraqien1syzmymm76g8y 340867 340866 2022-07-21T05:20:42Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वादशः सर्गः । आपृच्छ्यमाना दयितेन तत् तदवाङ्मुखी नोत्तरमाचचक्षे । निर्बन्धपृष्टा तु कथञ्चिदेषा मन्दस्मितेनोत्तरयाम्बभूव ॥ २७ ॥ माता तवेयं मलयध्वजस्य किं भोगिनी किं गृहिणीषु काचित् । इत्युक्तिभिः कोपयतापि पत्या प्रत्युत्तरं भ्रूकुटिरेव लेभे ॥ २८ ॥ तदिङ्गितानामयथावबोधात् समाचरन्तीभिरिवान्यदन्यत् । सल्लाँपयामास रुषा सखीभिः सङ्केतिताभिः स हसन् नवोढाम् ॥ २९ ॥ यदाह यत् प्रैक्षत यजहास यदास्त जोषं यदपि न्यषेधत् । तेन तेनैव शरीरलाभसाफल्यमापादयति स्म यूनः ॥ ३० ॥ स यावदित्थं समयाचकार नवोढया नर्मपरो महेशः । तावज्जना भैक्तकराः समेत्य निर्वर्तितं पाकविधिं शशंसुः ॥ ३१ ॥ सा ते शासनात् तत्र महेश्वरस्य प्राक् ब्राह्मणान् भोजयितु समेतान् । सम्मेलयन्ति स्म समन्ततोऽपि स्वयं तु भक्त्या सुमतिर्महर्षीन् ॥ ३२ ॥ असेवमानौ नटनं पुरारेरपोऽपि यो जात्वपि नाददाते । तौ व्याघ्रपादश्च पतञ्जलिश्च सन्नेहतुर्हेमसभां प्रयातुम् ॥ ३३ ॥ आकर्ण्य तन्निश्चयमानिनाय तो योगिनौ सुन्दरपाण्ड्यदेवः । आचष्ट चैनावभिगम्य भक्त्या पादे स्पृशन् प्रश्रयपूर्वमित्थम् ॥ ३४ ॥ ८५ सभानटः काञ्चनसंसदीव संसेव्यमानः सुरसिद्धसङ्घैः । हालास्यनाथोऽपि करोति नृत्तमस्मिन् सदा रूप्यसभान्तराले ॥ ३५ ॥ अत्रैव नृत्तं तरुणेन्दुमैौलेरासेव्य माध्याह्निकमद्भुतं तत् । आगच्छतं क्षिप्रमनुग्रहीतुं प्राणामिहोत्राचरणादिहास्मान् ॥ ३६ ॥ इतीरितौ पाशुपतौ मुनी तौ तथेति गत्वा कनकाम्बुजिन्याम् । निर्वर्त्तयन्तौ नियमाभिषेकमासेदतुर्नृत्तसभां पुरारेः ॥ ३७ ॥ अन्तर्हितब्रह्मकपालजालमाबद्ध्य दृश्येन्दुकलं कपर्दी : आमुक्तवैयाकरणाङ्गदाङ्घ्रिरवातरत् तत्र तदा नटेशः || ३८ ॥ मुरं पुरा यः स्वयमाजघान स एव देवो मुरजं तदानीम् । ससर्ज यस्तालमसेवनीयं स एव तालं जगृहे तु वेधाः ॥ ३९ ॥ १. आपृच्छयमाना ईषत् पृच्छ्यमाना. २. समयाचकार समय यापितवान्. ३. भक- करा अन्नकाराः. ४. ताल वृक्षविशेषम् .<noinclude></noinclude> 8a9k4plxxdwhurxv6dszruz07b9tg4g पृष्ठम्:शिवलीलार्णवः.djvu/९४ 104 125313 340876 2022-07-21T09:49:54Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे प्रागेव यः पाण्ड्यसुतोपलम्भान्नाथः स्थितो नर्त्तितुकाम एव । भक्तानुकम्पामपदिश्य तस्य नृत्तं तदावर्त्तत निर्विशङ्कम् ॥ ४० ॥ आतोद्यगीतानुगपादतालमाविर्भवद्भावरसोत्तरङ्गम् । आवर्त्तवेगत्रुटितानहारमनृत्यदीशो ललिताङ्गहारम् ॥ ४१ ॥ उदाञ्चितोऽङ्घ्रिश्चिरमुल्ललास नृत्ते स्थितावर्त्तकनाम्नि शम्भोः । चित्ते विलीने जतुवन्मुनीनां न्यासादिव स्पन्दयितुं न शक्यः ॥ ४२ ॥ वृत्तौ चकारेव विलम्बितायां मञ्जीरनादैः प्रणवोपदेशम् । तस्यां द्रुतायां स तदूर्ध्वलनां तुर्यामुपादिशदिवार्धमात्राम् ॥ ४३ ॥ स्वभावरम्याणि यथा यथासन् स्वाच्छन्द्यतस्तस्य विचेष्टितानि । तथा तथा पप्रथिरे जगत्यां शैलूषतन्त्रोपनिषद्प्रभेदाः ।। ४४ ।। तालान्तनृत्तारभटीषु तस्य निर्गच्छतां निश्चसितागमानाम् । आदौ महाव्याहृाततामवापुर्भूषाभुजङ्गेश्वरफूत्कृतानि ॥ ४१ ।। उद्भिन्नरोमाञ्चमुदश्रुपूरमाश्चर्यसम्मूढमनन्यवृत्ति । आलेख्यविन्यस्तमिवान्त विश्वमानन्दनृत्तावसरे पुरारे: ॥ ४६ ॥ संव्यानसम्मृष्टमुखं भवान्या विस्रस्तचन्द्रार्धविलोभनीयम् । नृत्तान्तरम्यं वपुरिन्दुमौलेर्निध्याय तौ तुष्टुवुतुर्मुनीन्द्रौ ॥ ४७ ॥ नम्रेषु चित्तान्नवनीतवृत्तेर्नाथ ! त्वदीयादपि कोमलौ यौ । अस्मत्कृते तौ चरणौ यदित्थमायासितौ तत् प्रथमं क्षमेथाः ॥ ४८ ॥ त्वयीश ! नृत्ताद्विरेतेऽपि चित्तं त्वदास्पदं नौ परमाद्भुतेन । नाद्यापि नृत्ताद्विरतिं प्रयाति ततो न किञ्चित् प्रतिभां भजावः ॥ ४९ ॥ आवां प्रसादेन कृतार्थितौ ते याचावहे लोकहिताय किञ्चित् । नृत्तोत्सवः काञ्चनसंसदीव नित्योऽम्त्वमुप्यामपि संसदीति ॥ ५० ॥ तथेति दत्वाभिमतं तयोस्तत् प्रसेदिवान् लोकहितार्थनेन । देवोऽनुजग्राह पुनः स्वयं तौ दत्वा शिवज्ञानमनन्यलभ्यम् ।। ५१ ।। सेवावसाने पुरशासनस्य समागतान् भूमिसुरान् सुरांश्च । हैमेषु पीठेषु वितर्णपाद्यानस्थापयत् कुम्भभवोऽथ भोक्तुम् ॥ १२ ॥<noinclude></noinclude> eew3szjmxncbicgsxc9inz7x2jqg90s 340880 340876 2022-07-21T09:55:01Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे प्रागेव यः पाण्ड्यसुतोपलम्भान्नाथः स्थितो नर्त्तितुकाम एव । भक्तानुकम्पामपदिश्य तस्य नृत्तं तदावर्त्तत निर्विशङ्कम् ॥ ४० ॥ आतोद्यगीतानुगपादतालमाविर्भवद्भावरसोत्तरङ्गम् । आवर्त्तवेगत्रुटिताङ्गहारमनृत्यदीशो ललिताङ्गहारम् ॥ ४१ ॥ उदाञ्चितोऽङ्घ्रिश्चिरमुल्ललास नृत्ते स्थितावर्त्तकनाम्नि शम्भोः । चित्ते विलीने जतुवन्मुनीनां न्यासादिव स्पन्दयितुं न शक्यः ॥ ४२ ॥ वृत्तौ चकारेव विलम्बितायां मञ्जीरनादैः प्रणवोपदेशम् । तस्यां द्रुतायां स तदूर्ध्वलग्नां तुर्यामुपादिशदिवार्धमात्राम् ॥ ४३ ॥ स्वभावरम्याणि यथा यथासन् स्वाच्छन्द्यतस्तस्य विचेष्टितानि । तथा तथा पप्रथिरे जगत्यां शैलूषतन्त्रोपनिषद्प्रभेदाः ।। ४४ ।। तालान्तनृत्तारभटीषु तस्य निर्गच्छतां निश्चसितागमानाम् । आदौ महाव्याहृतितामवापुर्भूषाभुजङ्गेश्वरफूत्कृतानि ॥ ४१ ।। उद्भिन्नरोमाञ्चमुदश्रुपूरमाश्चर्यसम्मूढमनन्यवृत्ति । आलेख्यविन्यस्तमिवान्त विश्वमानन्दनृत्तावसरे पुरारे: ॥ ४६ ॥ संव्यानसम्मृष्टमुखं भवान्या विस्रस्तचन्द्रार्धविलोभनीयम् । नृत्तान्तरस्यं वपुरिन्दुमौलेर्निध्याय तौ तुष्टुवुतुर्मुनीन्द्रौ ॥ ४७ ॥ नम्रेषु चित्तान्नवनीतवृत्तेर्नाथ ! त्वदीयादपि कोमलौ यौ । अस्मत्कृते तौ चरणौ यदित्थमायासितौ तत् प्रथमं क्षमेथाः ॥ ४८ ॥ त्वयीश ! नृत्ताद्विरेतेऽपि चित्तं त्वदास्पदं नौ परमाद्भुतेन । नाद्यापि नृत्ताद्विरतिं प्रयाति ततो न किञ्चित् प्रतिभां भजावः ॥ ४९ ॥ आवां प्रसादेन कृतार्थितौ ते याचावहे लोकहिताय किञ्चित् । नृत्तोत्सवः काञ्चनसंसदीव नित्योऽम्त्वमुप्यामपि संसदीति ॥ ५० ॥ तथेति दत्वाभिमतं तयोस्तत् प्रसेदिवान् लोकहितार्थनेन । देवोऽनुजग्राह पुनः स्वयं तौ दत्वा शिवज्ञानमनन्यलभ्यम् ।। ५१ ।। सेवावसाने पुरशासनस्य समागतान् भूमिसुरान् सुरांश्च । हैमेषु पीठेषु वितर्णपाद्यानस्थापयत् कुम्भभवोऽथ भोक्तुम् ॥ १२ ॥<noinclude></noinclude> 8mvewh4ccd5mduovfffbgiaffo8xt3b पृष्ठम्:शिवलीलार्णवः.djvu/९५ 104 125314 340877 2022-07-21T09:50:14Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वादशः सर्गः । ते भाविताश्चन्दनचर्चिकाभिः कर्पूरकाश्मीरकरम्विताभिः । अभ्यर्चिता दक्षिणया च माल्यैरभुञ्जतान्नानि रसोत्तराणि ॥ ५३॥ शाकौद नव्यञ्जनसूपयू परसायनकाथरसप्रभेदैः । भक्ष्यैरसङ्ख्यैघृतशर्कराक्यैः फलैर्विचित्रैरपि तृप्तिमापुः ॥ १४ ॥ || ते भक्ष्यभोज्यैः खैलचूर्णलेह्यानर्यूपानीयगणेश्च चित्रैः । विस्मापिताः स्वां विधिवञ्चितेति जातिं निनिन्दुः शतशः सुधाशाः || आपृच्छमाना विबुधा मनुष्यानाम्वादभङ्गीमभिधां रसं च । अत्यादरादभ्यवजहुरित्थमाश्चर्यममा इव तान् पदार्थान् ॥ १६ ॥ आकर्ण्य गहाममृताशनत्वे तपःफले तत्र सुरैः प्रयुक्ताम् । वाताम्बुपर्णाशनवृत्तयोऽपि वाचंयमाः म्वानि जहुव्रतानि || ५७ ॥ अनेकवक्रोदरपाणिचिह्नानालक्ष्य भृतेशगणानसङ्ख्यान् | तद्विक्रियायें स्पृहयाम्बभृवुन्तत्र प्रजाः प्रत्यवसानसक्ताः ॥ ५८ ॥ इत्थं जगत् तर्पितभिन्दुमलिनिशम्य निर्वत्र्त्तितनित्यकर्मा | वध्वा समं भोजनदेदिकायामुपाविशन्मङ्गलतूर्यघोषैः ॥ ५२ ॥ वाणीविरिञ्चों कमलामुकुन्दौ शचीमहेन्द्रौ च निषेदुरग्रे । हेरम्बषाण्मातुरनन्दिनस्तु पार्श्वे निदेशेन शशाङ्कमौलेः ॥ ६० ॥ अथान्नपूर्णापरिविष्यमाणमन्नं शुचि स्वादु बहुप्रकारम् । आमोदयन् नर्मभिरन्तिकस्थानभुङ्क्त वध्वा सह चन्द्रचूडः ॥ ६१ ॥ स भुक्तशेषं कवलं प्रियायै समन्त्रमेकं प्रथमं ददौ यत् । हेतुस्तदासीदिव भाविनीनां तद्भुक्तशेषग्रहसन्ततीनाम् ॥ ६२ ॥ पक्कं फलं मान्मथमेतदद्य जामातुरेवाहमिति ब्रुवाणम् । सत्यं प्रसादेन तु भाधवस्य तल्लब्धमियाह हसन् स शौरिम् ॥ ६३ ॥ / पत्युः प्रियं बिम्बफलं विनैव फलान्यसंख्यानि मुनि । अतः पिपासा विरतास्य नेति वाणी वधूनाक्षिपतिस्म जीम् ॥ ६४ ॥ " भोज्यानि यानि त्रिदिवेऽद्भुतानि तान्याददानः स्वयमीषदीषत् । सासूययोरात्मजयोर्महेशः शैलादये तत्र दयाम्बभूव || ६५ ॥ १. यूषो रसः. ३. खलं दधिघनः. ४. निर्यूहः कषायः ५. मा- न्मथं दाधित्थं अथ च पाञ्चशरम् ६. माधवस्य वसन्तमासस्याथ च विष्णोः ७. दय दाने. २. काथः कषायः.<noinclude></noinclude> 74renno3pmxirerrn1pt3wcscn6r9j0 340883 340877 2022-07-21T10:05:08Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वादशः सर्गः । ते भाविताश्चन्दनचर्चिकाभिः कर्पूरकाश्मीरकरम्बिताभिः । अभ्यर्चिता दक्षिणया च माल्यैरभुञ्जतान्नानि रसोत्तराणि ॥ ५३॥ शाकौद नव्यञ्जनसूपयूषरसायनक्वाथरसप्रभेदैः । भक्ष्यैरसङ्ख्यैर्घृतशर्कराढ्यैः फलैर्विचित्रैरपि तृप्तिमापुः ॥ १४ ॥ || ते भक्ष्यभोज्यैः खलचूर्णलेह्यानर्यूर्हपानीयगणैश्च चित्रैः । विस्मापिताः स्वां विधिवञ्चितेति जातिं निनिन्दुः शतशः सुधाशाः || आपृच्छमाना विबुधा मनुष्यानास्वादभङ्गीमभिधां रसं च । अत्यादरादभ्यवजहुरित्थमाश्चर्यमग्ना इव तान् पदार्थान् ॥ १६ ॥ आकर्ण्य गहाममृताशनत्वे तपःफले तत्र सुरैः प्रयुक्ताम् । वाताम्बुपर्णाशनवृत्तयोऽपि वाचंयमाः स्वानि जहुर्व्रतानि || ५७ ॥ अनेकवक्रोदरपाणिचिह्नानालक्ष्य भृतेशगणानसङ्ख्यान् | तद्विक्रियायै स्पृहयाम्बभूवुन्तत्र प्रजाः प्रत्यवसानसक्ताः ॥ ५८ ॥ इत्थं जगत् तर्पितभिन्दुमौलिर्निशम्य निर्वत्त्तितनित्यकर्मा | वध्वा समं भोजनदेदिकायामुपाविशन्मङ्गलतूर्यघोषैः ॥ ५२ ॥ वाणीविरिञ्चौ कमलामुकुन्दौ शचीमहेन्द्रौ च निषेदुरग्रे । हेरम्बषाण्मातुरनन्दिनस्तु पार्श्वे निदेशेन शशाङ्कमौलेः ॥ ६० ॥ अथान्नपूर्णापरिविष्यमाणमन्नं शुचि स्वादु बहुप्रकारम् । आमोदयन् नर्मभिरन्तिकस्थानभुङ्क्त वध्वा सह चन्द्रचूडः ॥ ६१ ॥ स भुक्तशेषं कवलं प्रियायै समन्त्रमेकं प्रथमं ददौ यत् । हेतुस्तदासीदिव भाविनीनां तद्भुक्तशेषग्रहसन्ततीनाम् ॥ ६२ ॥ पक्कं फलं मान्मथमेतदद्य जामातुरेवाहमिति ब्रुवाणम् । सत्यं प्रसादेन तु भाधवस्य तल्लब्धमित्याह हसन् स शौरिम् ॥ ६३ ॥ / पत्युः प्रियं बिम्बफलं विनैव फलान्यसंख्यानि मुनि । अतः पिपासा विरतास्य नेति वाणी वधूनाक्षिपतिस्म राज्ञीम् ॥ ६४ ॥ " भोज्यानि यानि त्रिदिवेऽद्भुतानि तान्याददानः स्वयमीषदीषत् । सासूययोरात्मजयोर्महेशः शैलादये तत्र दयाम्बभूव || ६५ ॥ १. यूषो रसः. ३. खलं दधिघनः. ४. निर्यूहः कषायः ५. मा- न्मथं दाधित्थं अथ च पाञ्चशरम् ६. माधवस्य वसन्तमासस्याथ च विष्णोः ७. दय दाने. २. काथः कषायः.<noinclude></noinclude> a2x420y0lhx6cr4e8evqanbgcmgnzva पृष्ठम्:शिवलीलार्णवः.djvu/९६ 104 125315 340885 2022-07-21T10:05:33Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे भुक्तोत्थितो नर्मकथाभिरित्थं विसृज्य विश्रान्तिकृते वयस्यान् । सज्जीकृतं प्राप तटातकायाः शय्यागृहं सुन्दरपाण्ड्यदेवः ॥ ६६॥ · ततो जनाः पाकगृहे नियुक्तास्तत्रान्नराशीन् शतशोऽवशिष्टान् । आवेदयामासुरनुक्रमेण देव्याः पुरः काञ्चनमालिकायाः ॥ ६७ ॥ कोट्यस्त्रयस्त्रिंशदिति प्रतीता सङ्ख्या त्वियं काचन देवतानाम् । सङ्ख्या गणानामपि मानवानां सङ्ख्यायते भुक्तवतां न कैश्चित् ॥ ६८ ॥ शाकेषु सूपेषु फलेप्वपूपेष्वन्नेषु माध्वीगुडशर्करासु । शिष्टानि शक्ता न वयं प्रवक्तुं शाधि त्वमेषामुपयोगयोगम् ॥ ६९ ॥ इतीरितं काञ्चनमालिका तच्चेटीभिरासूचयदात्मजायाः । 11 सा च प्रियं किं क्रियतामिहेति मन्दाक्षमन्दाक्षरमन्वयुङ्क्त ॥ ७० ॥ तामाह देवस्त्वमसीह राज्ञी देवी त्रयाणामपि विष्टपानाम् । तत्तावकीमन्नसमृद्धिमेतां भोक्तुं जनाः के मम सम्भवेयुः ॥ ७१ ॥ कुण्डोदरो नाम गणोऽयमेकस्तथापि शिष्टः परिचर्यया मे । भोक्तुं न यस्थावसरः पुराभूत् तं भोजय स्वोदरपूरमेनम् || ७२ ॥ इत्यादिशन्नन्नसमृद्धिगर्वमपाचिकीर्षुः स नृपालपत्न्याः । देवो गणस्य त्रिजगच्छरीरवैश्वानरात्मा जठरं विवेश ॥ ७३ ॥ पौरोगवास्तत्र तया नियुक्ताः प्रवेश्य तं भोजनमण्डपान्तः । विस्तार्य पत्राणि विशङ्कटानि भक्ष्याणि भोज्यानि ततोऽभ्यवर्षन् ॥ ७४ ॥ प्राणाहुतेः पर्युपयुक्तमन्नमप्यन्त्र दृष्ट्योपलभे न यावत् । तावत् कथं भोक्तुमुपक्रमेयेत्यूचे स भुङ्क्ष्वेति वढत्सु रोषात् ।। ७५ ॥ सा पाण्ड्यदेवी सुमतिश्च तत्र समेत्य विस्मेरविलोचनान्तौ । आपूपिकैरान्धसिकैश्च भूयोऽप्यढापयेतां मुहुरन्नराशीन् || ७६ ॥ पात्राधिकं प्रेक्ष्य स भक्तराशिं व्यामिश्रितं व्यञ्जनशाकभेदैः । प्राणाहुतिं प्राथमिकीं कथञ्चिन्निर्वर्त्य तस्थौ निभृतं क्षुधार्त्तः ॥ ७७ ॥ सम्भ्रम्य दास्योऽथ नृपालपत्न्याः सम्भूय सम्भूय यथोपलब्धम् । भक्ष्याणि भोज्यान्यदुरक्रमेण पक्कान्यपक्कान्यपि धावमानाः ॥ ७८ ॥ १, 'चर्मोदरयोः पूरेः' (३-४-२१) इति णमुल्. ८८<noinclude></noinclude> tadevehq9r38pttdggknsqeee532iw1 340886 340885 2022-07-21T10:08:57Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे भुक्तोत्थितो नर्मकथाभिरित्थं विसृज्य विश्रान्तिकृते वयस्यान् । सज्जीकृतं प्राप तटातकायाः शय्यागृहं सुन्दरपाण्ड्यदेवः ॥ ६६॥ · ततो जनाः पाकगृहे नियुक्तास्तत्रान्नराशीन् शतशोऽवशिष्टान् । आवेदयामासुरनुक्रमेण देव्याः पुरः काञ्चनमालिकायाः ॥ ६७ ॥ कोट्यस्त्रयस्त्रिंशदिति प्रतीता सङ्ख्या त्वियं काचन देवतानाम् । सङ्ख्या गणानामपि मानवानां सङ्ख्यायते भुक्तवतां न कैश्चित् ॥ ६८ ॥ शाकेषु सूपेषु फलेप्वपूपेष्वन्नेषु माध्वीगुडशर्करासु । शिष्टानि शक्ता न वयं प्रवक्तुं शाधि त्वमेषामुपयोगयोगम् ॥ ६९ ॥ इतीरितं काञ्चनमालिका तच्चेटीभिरासूचयदात्मजायाः । 11 सा च प्रियं किं क्रियतामिहेति मन्दाक्षमन्दाक्षरमन्वयुङ्क्त ॥ ७० ॥ तामाह देवस्त्वमसीह राज्ञी देवी त्रयाणामपि विष्टपानाम् । तत्तावकीमन्नसमृद्धिमेतां भोक्तुं जनाः के मम सम्भवेयुः ॥ ७१ ॥ कुण्डोदरो नाम गणोऽयमेकस्तथापि शिष्टः परिचर्यया मे । भोक्तुं न यस्यावसरः पुराभूत् तं भोजय स्वोदरपूरमेनम् || ७२ ॥ इत्यादिशन्नन्नसमृद्धिगर्वमपाचिकीर्षुः स नृपालपत्न्याः । देवो गणस्य त्रिजगच्छरीरवैश्वानरात्मा जठरं विवेश ॥ ७३ ॥ पौरोगवास्तत्र तया नियुक्ताः प्रवेश्य तं भोजनमण्डपान्तः । विस्तार्य पत्राणि विशङ्कटानि भक्ष्याणि भोज्यानि ततोऽभ्यवर्षन् ॥ ७४ ॥ प्राणाहुतेः पर्युपयुक्तमन्नमप्यन्त्र दृष्ट्योपलभे न यावत् । तावत् कथं भोक्तुमुपक्रमेयेत्यूचे स भुङ्क्ष्वेति वदत्सु रोषात् ।। ७५ ॥ सा पाण्ड्यदेवी सुमतिश्च तत्र समेत्य विस्मेरविलोचनान्तौ । आपूपिकैरान्धसिकैश्च भूयोऽप्यदापयेतां मुहुरन्नराशीन् || ७६ ॥ पात्राधिकं प्रेक्ष्य स भक्तराशिं व्यामिश्रितं व्यञ्जनशाकभेदैः । प्राणाहुतिं प्राथमिकीं कथञ्चिन्निर्वर्त्य तस्थौ निभृतं क्षुधार्त्तः ॥ ७७ ॥ सम्भ्रम्य दास्योऽथ नृपालपत्न्याः सम्भूय सम्भूय यथोपलब्धम् । भक्ष्याणि भोज्यान्यदुरक्रमेण पक्कान्यपक्कान्यपि धावमानाः ॥ ७८ ॥ १, 'चर्मोदरयोः पूरेः' (३-४-२१) इति णमुल्. ८८<noinclude></noinclude> ckqc76z4qedrk1wapcce8wsoq7esg8x पृष्ठम्:शिवलीलार्णवः.djvu/९७ 104 125316 340887 2022-07-21T10:09:16Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वादशः सर्गः प्राणाहुतीः पञ्च ततः कथञ्चित् प्रसाध्य खिन्नः क्षुधया महत्या । स तावतीनां परिवेषिणीनां न चक्षमे तत्र गणो विलम्बम् ॥ ७९ ॥ अथान्नकूटैरभितोऽप्यसंत्र्यैरपूपशैलैश्च निरन्तरालम् | महानसं स स्वयमाविवेश महादं मत्त इव द्विपेन्द्रः ॥ ८० ॥ तत्रान्नकूटान् सह भक्ष्यवर्गैरालोडयन् दृष्टिपथं प्रविष्टान् । षष्ट्या नवत्या च शतेन चैषां स एकमेकं कबलं चकार ८१ ॥ अन्नोच्चयानास्तरणैः सहैव दुग्धानि भाण्डेरृतिभिर्घृतानि । स्वीकुर्वतोऽस्माच्चकिताः समन्तात् प्रदुद्रुवुः पाकगृहे नियुक्ताः ॥ ८२ ॥ सुरद्रुमाः स्वर्गगवी च तत्र सम्प्रार्थ्यमाना नरपालपन्या । यान् यानसंख्यानसृजन् पदार्थोस्ते तेऽभवन्नस्य किलोपदंशाः ॥ ८३ || ✓ गोधूममाषाढकमुद्गशालिश्यामाकनीवारतिलादिमानि | धान्यानि चान्यानि स चर्वति स्म कुड्यैः कुसुलैर्मणिकैश्च कुम्भैः ॥ ८४ ॥ सम्भ्रान्तचेटीशतघुप्यमाणतच्चेष्टिताकर्णनजातलज्जाम् । अभिद्रवन्तीं स्वयमेव देवीमपाङ्गयन् सस्मितमास्त देवः ।। ८५ ॥ अथ क्षणादक्षयमन्नगर्ते ससर्ज तस्मै शफरेक्षणा यम् | तमप्यसौ स्थण्डिलमात्रशेषं चक्रे महद्भिः कवलैश्चतुर्मिः ॥ ८६ ॥ अपूर्णमन्त्रैरुदरं ममेदमापूरयिप्ये सलिलेन बेति । कुण्डोदरे याचति पाण्ड्यकन्या सस्मार गङ्गां तरलोर्मिसङ्घाम् ॥ ८७ ॥ अथाअसिन्धुर्मलयाद्विशृङ्गादाविर्भवन्ती विपुलैस्तरङ्गैः । आप्लावयन्तीव भुवं समस्तामभ्यर्णमागान्मधुरानगर्याः ॥ ८८ ॥ स पाणिना वक्रनिवेशितेन तथा पप तामपि दिव्यसिन्धुम् । कौतूहलात् प्रेरयतस्तमासीद् गङ्गाधरस्यापि यथान्न्पः ॥ ८९ ।। स्वीकुर्वतस्तां सिकतावशेषां सृक्कद्वयीमालि तहतश्च भूयः . सा तस्य तां ग्लानिमवेक्षमाणा गौरी सलज्जा गिरिशं वभाषे ॥ ९० ॥ अजानती यद् भवतः प्रभावमन्नोञ्चयोच्छेषमवादिषं प्राक् । तन्मर्षयन् मानद! तर्षमेनं कुण्डोदरस्यास्य निवारयेति ॥ ९१ ॥ १. मणिकैद्भाण्डः<noinclude></noinclude> a18o587o1scrdzkzp53b80r3ggl3sqm 340896 340887 2022-07-21T11:05:31Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वादशः सर्गः प्राणाहुतीः पञ्च ततः कथञ्चित् प्रसाध्य खिन्नः क्षुधया महत्या । स तावतीनां परिवेषिणीनां न चक्षमे तत्र गणो विलम्बम् ॥ ७९ ॥ अथान्नकूटैरभितोऽप्यसंत्र्यैरपूपशैलैश्च निरन्तरालम् | महानसं स स्वयमाविवेश महाह्रदं मत्त इव द्विपेन्द्रः ॥ ८० ॥ तत्रान्नकूटान् सह भक्ष्यवर्गैरालोडयन् दृष्टिपथं प्रविष्टान् । षष्ट्या नवत्या च शतेन चैषां स एकमेकं कबलं चकार ८१ ॥ अन्नोच्चयानास्तरणैः सहैव दुग्धानि भाण्डेर्दृतिभिर्घृतानि । स्वीकुर्वतोऽस्माच्चकिताः समन्तात् प्रदुद्रुवुः पाकगृहे नियुक्ताः ॥ ८२ ॥ सुरद्रुमाः स्वर्गगवी च तत्र सम्प्रार्थ्यमाना नरपालपत्न्या । यान् यानसंख्यानसृजन् पदार्थोस्ते तेऽभवन्नस्य किलोपदंशाः ॥ ८३ || ✓ गोधूममाषाढकमुद्गशालिश्यामाकनीवारतिलादिमानि | धान्यानि चान्यानि स चर्वति स्म कुड्यैः कुसुलैर्मणिकैश्च कुम्भैः ॥ ८४ ॥ सम्भ्रान्तचेटीशतघुप्यमाणतच्चेष्टिताकर्णनजातलज्जाम् । अभिद्रवन्तीं स्वयमेव देवीमपाङ्गयन् सस्मितमास्त देवः ।। ८५ ॥ अथ क्षणादक्षयमन्नगर्ते ससर्ज तस्मै शफरेक्षणा यम् | तमप्यसौ स्थण्डिलमात्रशेषं चक्रे महद्भिः कवलैश्चतुर्मिः ॥ ८६ ॥ अपूर्णमन्त्रैरुदरं ममेदमापूरयिप्ये सलिलेन बेति । कुण्डोदरे याचति पाण्ड्यकन्या सस्मार गङ्गां तरलोर्मिसङ्घाम् ॥ ८७ ॥ अथाभ्रसिन्धुर्मलयाद्रिशृङ्गादाविर्भवन्ती विपुलैस्तरङ्गैः । आप्लावयन्तीव भुवं समस्तामभ्यर्णमागान्मधुरानगर्याः ॥ ८८ ॥ स पाणिना वक्रनिवेशितेन तथा पपौ तामपि दिव्यसिन्धुम् । कौतूहलात् प्रेरयतस्तमासीद् गङ्गाधरस्यापि यथान्न्पः ॥ ८९ ।। स्वीकुर्वतस्तां सिकतावशेषां सृक्कद्वयीमालिहतश्च भूयः . सा तस्य तां ग्लानिमवेक्षमाणा गौरी सलज्जा गिरिशं वभाषे ॥ ९० ॥ अजानती यद् भवतः प्रभावमन्नोञ्चयोच्छेषमवादिषं प्राक् । तन्मर्षयन् मानद! तर्षमेनं कुण्डोदरस्यास्य निवारयेति ॥ ९१ ॥ १. मणिकैद्भाण्डः<noinclude></noinclude> k8rg22wijnu2gf0djqobym5im5cfnj3 पृष्ठम्:शिवलीलार्णवः.djvu/९८ 104 125317 340897 2022-07-21T11:05:56Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे ब्याजेन केनापि गिरं त्वदीयां शुश्रूषमाणो यदकार्षमित्थम् । तत् संहृतं देवि! तव प्रभावादश्रान्तपूरास्तु वियन्नदीयम् ॥ ९२ ॥ वेगागता वेगवतीति नाम्ना ख्याता नदीयं भविता भुवीति । प्रसादयन् पाण्ड्यसुतां मृदूक्त्या रेमे तया सुन्दरपाण्ड्यदेवः ॥ ९३ ॥ अथापरेछुस्त्रिदशैः समस्तैरगस्त्यमुख्यैः परमर्षिभिश्च । पाण्ड्याधिराज्ये कलिताभिषेकः शशास पृथ्वी स तथा महिष्या ॥ ९४ ॥ इत्थं स पाण्ड्यतनयाचरणावलम्बसौभाग्यसम्पदुपपन्नसमस्तराज्यः । देवान् विसृज्य निखिलानुचितोपचारैर्देवः ससागरवनां बुभुजे धरित्रीम् ॥ ९५ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे द्वादशः सर्गः । अथ त्रयोदशः सर्गः । || सम्प्राप्येत्थं पाण्ड्यराज्याभिषेकं सार्धं देव्या सुन्दरः पाण्ड्यदेवः । आसीमाद्वेर्निर्हतारातिशल्यां पृथ्वीं रेमे बिभ्रदेकातपत्राम् ॥ १ ॥ साब्धिद्वीपा साटवीदुर्गशैला सर्वाप्युर्वी यत्तुलाकोटिमूर्ध्नि । लग्ना दृष्टा रत्नवद् बाहुना तां तस्येदानीं बिभ्रतः कः प्रयासः ॥ २ ॥ या भूयोभिः पाण्डरैरातपत्रैः सञ्छन्ना भूराप सन्तापमन्तः । सैवाहृष्यच्छाद्यमाना तदानीमेकच्छत्रच्छायया तस्य राज्ञः ॥ ३ ॥ नायष्टारो नाकृतब्रह्मविद्या नादातारो नाप्यधर्मे प्रसक्ताः । विप्राः किन्तु त्यक्तपाण्डित्ययोगाः स्थातुं बाल्ये तस्य राष्ट्रे चकाङ्क्षुः ॥ ४ ॥ चातुर्वर्ण्य चातुराश्रम्यरम्यं चातुर्वैयं तचतुर्वर्गयोगम् । दृष्ट्वा तेन स्थापितं निर्विशङ्कं तस्थौ धर्मस्तत्र पौदश्चतुर्भिः ॥ ५ ॥ गावो धान्यं भूषणान्यम्बराणि स्वर्ण रूप्यं यानि चैवंविधानि । स्वामिन्यादौ विप्रैलब्धे तदीयं सर्व जज्ञे विप्रलब्धं तदानीम् ॥ ६॥ 1. वञ्चिते अथ च विप्रैः लब्धे.<noinclude></noinclude> 8ftq1sn1jywuptbux1a38ztp7ahz7gf 340898 340897 2022-07-21T11:09:01Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे ब्याजेन केनापि गिरं त्वदीयां शुश्रूषमाणो यदकार्षमित्थम् । तत् संहृतं देवि! तव प्रभावादश्रान्तपूरास्तु वियन्नदीयम् ॥ ९२ ॥ वेगागता वेगवतीति नाम्ना ख्याता नदीयं भविता भुवीति । प्रसादयन् पाण्ड्यसुतां मृदूक्त्या रेमे तया सुन्दरपाण्ड्यदेवः ॥ ९३ ॥ अथापरेद्युस्त्रिदशैः समस्तैरगस्त्यमुख्यैः परमर्षिभिश्च । पाण्ड्याधिराज्ये कलिताभिषेकः शशास पृथ्वी स तथा महिष्या ॥ ९४ ॥ इत्थं स पाण्ड्यतनयाचरणावलम्बसौभाग्यसम्पदुपपन्नसमस्तराज्यः । देवान् विसृज्य निखिलानुचितोपचारैर्देवः ससागरवनां बुभुजे धरित्रीम् ॥ ९५ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे द्वादशः सर्गः । अथ त्रयोदशः सर्गः । || सम्प्राप्येत्थं पाण्ड्यराज्याभिषेकं सार्धं देव्या सुन्दरः पाण्ड्यदेवः । आसीमाद्वेर्निर्हतारातिशल्यां पृथ्वीं रेमे बिभ्रदेकातपत्राम् ॥ १ ॥ साब्धिद्वीपा साटवीदुर्गशैला सर्वाप्युर्वी यत्तुलाकोटिमूर्ध्नि । लग्ना दृष्टा रत्नवद् बाहुना तां तस्येदानीं बिभ्रतः कः प्रयासः ॥ २ ॥ या भूयोभिः पाण्डरैरातपत्रैः सञ्छन्ना भूराप सन्तापमन्तः । सैवाहृष्यच्छाद्यमाना तदानीमेकच्छत्रच्छायया तस्य राज्ञः ॥ ३ ॥ नायष्टारो नाकृतब्रह्मविद्या नादातारो नाप्यधर्मे प्रसक्ताः । विप्राः किन्तु त्यक्तपाण्डित्ययोगाः स्थातुं बाल्ये तस्य राष्ट्रे चकाङ्क्षुः ॥ ४ ॥ चातुर्वर्ण्य चातुराश्रम्यरम्यं चातुर्वैद्यं तच्चतुर्वर्गयोगम् । दृष्ट्वा तेन स्थापितं निर्विशङ्कं तस्थौ धर्मस्तत्र पौदश्चतुर्भिः ॥ ५ ॥ गावो धान्यं भूषणान्यम्बराणि स्वर्ण रूप्यं यानि चैवंविधानि । स्वामिन्यादौ विप्रैलब्धे तदीयं सर्वं जज्ञे विप्रलब्धं तदानीम् ॥ ६॥ 1. वञ्चिते अथ च विप्रैः लब्धे.<noinclude></noinclude> t7sp6floi7vywvw4cjkp6kjz0qnnvok पृष्ठम्:शिवलीलार्णवः.djvu/९९ 104 125318 340899 2022-07-21T11:12:32Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>त्रयोदशः सर्गः कैलासाद्रिं शासतः कल्पकोटी: पूर्ण: कोशो यस्य भिक्षाकपालैः । प्राप्तेनेत्थं पाण्ड्यराज्याधिपत्यं लब्धा सद्यस्तेन लक्ष्मीरपारा ॥ ७ ॥ शैवाः ाः शाक्ता वैष्णवाः सांख्यनिष्ठा योगाचार्या ब्रह्मविद्याविदोऽपि । गत्वा गत्वा तं यथैकं प्रपन्नास्तद्वत् तास्ताः कीर्त्तयोऽपि त्रिलोक्याम् ॥ ८ ॥ येऽस्मिन्नम्रास्तेजसा तं प्रपन्ना ये तु द्विष्टास्ते हताः सङ्गरेषु । भित्त्वा भानोर्बिम्बमूर्ध्वं पतन्तः पर्यावृत्य प्रापुरन्ते तमेव ॥ ९ ॥ वक्राम्भोजान्निस्सृतं वाक्यमात्रं पश्यन् देवो वेदवादायमानम् । सङ्ख्याधिक्याद्वेदशाखासु भीतः स्तोकस्तोकं व्याजहाराप्रमत्तः ॥ १० ॥ सीमन्यम्भोविप्लवे सेतुबन्धे गोसञ्चारे सार्थसम्मेलने वा । या मीनाक्ष्या स्थापिता प्राक् प्रजानां तां मर्यादां स प्रमाणीचकार ॥ ११ ॥ कोशान् पश्चैवाहुरन्नादिरूपान् यस्याशेषं शासतोऽमुं प्रपञ्चम् । संख्यातीता हेमरत्नादिरूपास्तस्येदानीं तेऽभवन् पाण्ड्यभर्तुः ।। १२ ।। पाण्ड्याध्यक्षः पाण्ड्यजामातृदेवः प्रेयान् राज्ञ्याः पालको द्रामिडानाम् । इत्याख्याभिः प्रीतिरस्याधिकासीदात्मब्रह्मज्योतिरादिश्रुतिभ्यः ॥ १३ ॥ या मीनाक्ष्यास्तावती राज्यशक्तिः सा सङ्क्रान्ता तत्र भूयश्चकाशे । प्राप्तोत्कर्षा सानुनि स्फाटिकाद्वेः पत्युर्भासां भास्वरेवांशुरेखा ॥ १४ ॥ स्वे स्वे धर्मे स्थापिताः सर्व क्ष्मापालत्वं बिभ्रता तेन लोकाः । कालस्त्वेकश्च्यावितः स्वाधिकाराद् धर्मैकान्त्यं तन्वता मानवेषु ॥ १५ ॥ इत्थं राज्यं बिभ्रता तेन राज्ञा देवी जातु स्फारचिन्ता निमग्ना । भूयो भूयो हेतुमत्रानुयुक्ता प्राह स्मेदं प्राणनाथं मृगाक्षी ॥ १६ ॥ सञ्चिन्वाना तावकीनात् प्रसादाद् धर्म तं तं नाथ ! माता मदीया । जातौत्सुक्या तीर्थयात्राविधाने स्नातुं सिन्धौ श्वः प्रतिष्ठासते सा ॥ १७ ॥ इत्याकर्ण्य प्रेयसीखेदमूलं तत्रानेष्यन् सागरान् सप्त देवः । सस्माराग्रे सद्य एवास्य तेऽपि प्रादुर्भूता मूर्तिमन्तः प्रणेमुः ॥ १८ ॥ + प्राचि स्थाने सोमसौन्दर्यनेतुः प्रागेवास्ते कश्चिदेकस्तटाकः । सर्वे तस्मिन् सन्निधत्तेति देवो नामादेशं सागरानादिदेश ॥ १९ ॥ १. श्रुतयो व्यपदेशाः ताभ्यः. २. कालो वैवस्वतः. ३. नामादेशं नामग्राहं । 'नम्म्य दिशिग्रहोः' (३-४-५८) इति णमुल् . + 'रामादेशम्' इति खपुस्तके पाठः.<noinclude></noinclude> 26ktoxc1y2ocg9vwmtbrxs5pu7x9sef पृष्ठम्:शिवलीलार्णवः.djvu/१०० 104 125319 340900 2022-07-21T11:12:54Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे पश्यन्तीनामग्रतस्ते प्रजानां त्यक्त्वा रूपं पौरुषं सिन्धुराजाः । दृश्यन्ते स्म व्योम्नि दूरे तरङ्गैराजिघ्रन्तो दिक्तटानुत्तरङ्गैः ॥ २० ॥ स्वं स्वं रूपं संक्षिपन्तोऽपि ते ते कासारान्तस्सम्भवाह समुद्राः । आलक्ष्यन्त स्पष्टमत्यद्भुताभिर्बलगन्तीभिः पङ्क्तिभिर्वाचिकानाम् ॥ २१ ॥ आक्रामद्भिर्व्योमकक्ष्यामकाण्डे स्रोतोभिस्तैः स्वीकृताः सागराणाम् । जग्मुर्मेधास्तत्र शैवालभावं विद्युल्लेखा विद्रुमत्वं च तेषाम् ॥ २२ ॥ आसप्तर्षिस्थानमाक्रान्तिहेतोः संवर्त्तेषु द्यामिव द्रष्टुकामैः । आरूढे व्योम्न्यर्णवैरभ्रसिन्धोः सव्यं चक्षुः शश्वदस्पन्दतोच्चैः ॥ २३ भागीरथ्या जातु लेभेऽभिषेकं पर्याप्तं यः प्राग्युगे व्योमकेशः । द्रव्यैस्तैस्तैर्दुग्धदध्याज्यमुख्यैर्वैतीयीकः सोऽस्य जज्ञेऽभिषेकः ॥ २४ ॥ पश्यत्यग्रे पाण्ड्यदेवे ततस्ते पारावारा: पल्वले तत्र पेतुः । पार्श्वस्थास्नोर्ऋत्विजः कुम्भयोनेः प्रायस्तालुन्यार्द्रतामावहन्तः ॥ २५ ॥ क्षीरं सर्पिर्वारुणीमिक्षुसारं दध्यप्यो दुर्लभं पातुकामाः । विष्वग् देवाः सम्पतन्तो विमानैः स्रोतम्येषां कीटमजं ममज्जुः ।। २६ ।। क्षारं वारि क्षीरमुख्यानि वस्तून्येकं सर्वाण्येकदैवाजधान । मौढ्यं ह्येकं हन्ति राशिं गुणानां शौर्यौदार्यस्थैर्यगाम्भीर्यमुख्यम् ॥ २७ ॥ शब्दस्पर्शी रूपगन्धौ रसश्च प्राप्तास्तीर्थे चित्रतां तत्र सद्यः । आतामेतन्मज्जतामत्र नॄणां स्वर्गेऽप्यासीच्चित्रता यद्विचित्रा ॥ २८ ॥ सर्वे गन्धा यत्र सर्वे रसाश्च प्रादुर्भूतास्तीर्थराजे हि तस्मिन् । स्नानाल्लभ्ये तादृाश ब्रह्मभावे न्यायज्ञानां नागमाः पर्युपास्याः ॥ २९ ॥ ९२ नीरक्षीरे द्वे विवेक्तुं प्रगल्भा हंसास्तस्मिन् सर्वसङ्घातरूपे । भनोत्साहा मत्स्यमण्डूककूर्मैः प्राप्ताः साम्यं न प्रचेलुर्विलज्जाः ॥ ३० ॥ पत्या सार्धे योपितोऽधिक्रियन्ते तीर्थे स्नातुं पुत्रवत्योऽथवेति । श्रुत्वा शास्त्रं चिन्तया दूयमानां श्वश्रूमन्तस्तत्र शुश्राव देवः ॥ ३१ ॥ आवर्त्तीहै स्थानमुल्लङ्घय सर्वे सम्प्राप्तस्तच्छाश्वतं धाम शम्भोः । प्रत्यानेयो वल्लभोऽस्याः कथं वेत्यन्तश्चिन्तामाप देवस्ततोऽपि ॥ ३२ ॥ १. कीटमज्ज ममञ्जुः कीटा इव मग्ना:. 'उपमाने कर्मणि च' (३-४-४५) इति णमुल् .<noinclude></noinclude> 85naiukza3gzktkylfhfxydq1uqt6lt 340901 340900 2022-07-21T11:16:53Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे पश्यन्तीनामग्रतस्ते प्रजानां त्यक्त्वा रूपं पौरुषं सिन्धुराजाः । दृश्यन्ते स्म व्योम्नि दूरे तरङ्गैराजिघ्रन्तो दिक्तटानुत्तरङ्गैः ॥ २० ॥ स्वं स्वं रूपं संक्षिपन्तोऽपि ते ते कासारान्तस्सम्भवाह समुद्राः । आलक्ष्यन्त स्पष्टमत्यद्भुताभिर्बलगन्तीभिः पङ्क्तिभिर्वाचिकानाम् ॥ २१ ॥ आक्रामद्भिर्व्योमकक्ष्यामकाण्डे स्रोतोभिस्तैः स्वीकृताः सागराणाम् । जग्मुर्मेधास्तत्र शैवालभावं विद्युल्लेखा विद्रुमत्वं च तेषाम् ॥ २२ ॥ आसप्तर्षिस्थानमाक्रान्तिहेतोः संवर्त्तेषु द्यामिव द्रष्टुकामैः । आरूढे व्योम्न्यर्णवैरभ्रसिन्धोः सव्यं चक्षुः शश्वदस्पन्दतोच्चैः ॥ २३ भागीरथ्या जातु लेभेऽभिषेकं पर्याप्तं यः प्राग्युगे व्योमकेशः । द्रव्यैस्तैस्तैर्दुग्धदध्याज्यमुख्यैर्द्वैतीयीकः सोऽस्य जज्ञेऽभिषेकः ॥ २४ ॥ पश्यत्यग्रे पाण्ड्यदेवे ततस्ते पारावारा: पल्वले तत्र पेतुः । पार्श्वस्थास्नोर्ऋत्विजः कुम्भयोनेः प्रायस्तालुन्यार्द्रतामावहन्तः ॥ २५ ॥ क्षीरं सर्पिर्वारुणीमिक्षुसारं दध्यप्यो दुर्लभं पातुकामाः । विष्वग् देवाः सम्पतन्तो विमानैः स्रोतम्येषां कीटमज्जं ममज्जुः ।। २६ ।। क्षारं वारि क्षीरमुख्यानि वस्तून्येकं सर्वाण्येकदैवाजधान । मौढ्यं ह्येकं हन्ति राशिं गुणानां शौर्यौदार्यस्थैर्यगाम्भीर्यमुख्यम् ॥ २७ ॥ शब्दस्पर्शौ रूपगन्धौ रसश्च प्राप्तास्तीर्थे चित्रतां तत्र सद्यः । आस्तामेतन्मज्जतामत्र नॄणां स्वर्गेऽप्यासीच्चित्रता यद्विचित्रा ॥ २८ ॥ सर्वे गन्धा यत्र सर्वे रसाश्च प्रादुर्भूतास्तीर्थराजे हि तस्मिन् । स्नानाल्लभ्ये तादृशि ब्रह्मभावे न्यायज्ञानां नागमाः पर्युपास्याः ॥ २९ ॥ ९२ नीरक्षीरे द्वे विवेक्तुं प्रगल्भा हंसास्तस्मिन् सर्वसङ्घातरूपे । भग्नोत्साहा मत्स्यमण्डूककूर्मैः प्राप्ताः साम्यं न प्रचेलुर्विलज्जाः ॥ ३० ॥ पत्या सार्धे योपितोऽधिक्रियन्ते तीर्थे स्नातुं पुत्रवत्योऽथवेति । श्रुत्वा शास्त्रं चिन्तया दूयमानां श्वश्रूमन्तस्तत्र शुश्राव देवः ॥ ३१ ॥ आवर्त्तार्ह स्थानमुल्लङ्घय सर्वे सम्प्राप्तस्तच्छाश्वतं धाम शम्भोः । प्रत्यानेयो वल्लभोऽस्याः कथं वेत्यन्तश्चिन्तामाप देवस्ततोऽपि ॥ ३२ ॥ १. कीटमज्ज ममञ्जुः कीटा इव मग्ना:. 'उपमाने कर्मणि च' (३-४-४५) इति णमुल् .<noinclude></noinclude> 8h5c21hvj57usy86qqdhl31zp200chq पृष्ठम्:शिवलीलार्णवः.djvu/१०१ 104 125320 340902 2022-07-21T11:17:15Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>त्रयोदशः सर्गः । पत्युश्छायां पाण्ड्यदेव्याः तद्वृत्तान्तस्मेरदृष्ट्यानया स कामप्यानीयाग्रे दर्शयन् प्रेयसीं स्वाम् । तां वृत्तान्तं तं वेदयामास देवः ॥ ३३ ॥ सा संहृष्टा तां निशम्य प्रवृत्तिं पश्यन्ती च प्राणनाथं विमाने । आलिङ्गन्ती निर्भरं मीननेत्रां भूयो भूयो मूर्ध्नि चैनामजिघ्रत् ॥ ३४ ॥ त्वन्मातृत्वात् सिद्धमेवापवर्गै मन्वानाहं तेन हृष्टा न तावत् । यावत् तातं वीक्षमाणा तवेति स्तावंस्तावं सा बभाषे कुमारीम् ॥ ३५ ॥ लब्ध्वा योगं लज्जमाना विमानादाप्लुत्यारादागतेन प्रियेण । दत्तानुज्ञा देवपाण्ड्येन देवी सस्त्रौ तीर्थे संप्तरत्नाकरे सा ॥ ३६ ॥ दीनं रूपं प्रेयसा विप्रयोगाद् देव्याः प्लान्त्यास्तत्र दृष्टं जनैर्यत् । उन्मज्जन्त्यास्तत् ततः पर्यणसीच्चन्द्रापीडं चारुहासं त्रिणेत्रम् || ३७ ॥ सा गच्छन्ती शाश्वतं धाम शम्भोः सार्धं पत्या सर्वसौभाग्यधाम । क्लेशं कन्याविप्रयोगप्रसक्तं किञ्चिञ्चिते धारयन्तीदमूचे ॥ ३८ ॥ अद्य ज्ञातं ब्रह्म पूर्ण युवामित्यद्योत्सन्नः पाशवर्गोऽखिलो मे । दयेऽथापि त्वर्धविच्छिन्नमासीत् त्वत्सौभाग्यालोकभाग्यं किलेति ॥ ३९ ॥ शुश्रूषस्व प्रेयसः पादपद्मं क्षान्त्या धृत्या प्रेमवत्या च भक्त्या । लब्ध्वा पुत्रं राज्यभारेऽभिषिच्य द्रष्टास्मि त्वां स्वं पद प्रत्युपेताम् ॥ ४० ॥ इत्यादिश्य प्रस्थितायां जनन्यां सर्वोत्तीर्ण शाङ्करं धाम दिव्यम् । आनन्दोत्थैः शोकजैश्चाश्रुपूरैर्वत्रं देव्या दूषितं भूषितं च ॥ ४१ ॥ ताभिस्ताभिस्तत्प्रसङ्गोचिताभिर्मार्जन् वाग्भिर्मानसं क्लेशमस्याः । वारिकांडां वारिजाक्ष्यानयासावानन्दाब्धावाचचार प्रवीरः ॥ ४२ ॥ दीनान् दानैर्देवता यज्ञभागैरार्त्तानार्तिच्छेदनैस्तत्तदः । जिज्ञासूनप्यात्मविज्ञानदानैर्देवो रक्षन् पालयामास पृथ्वीम् || ४३ ॥ 'अन्तर्वनी जातु कालेन पत्नीं दर्श दर्श पिप्रिये देवपाण्ड- केकीवाम्भस्सम्भृतां मेघमालां माध्वीगर्भी पद्मिनीगयळोव ॥ ४४ ॥ यत् कातर्यं यौवनेनाक्षिण दत्तं यच्चानीतं दौहृदेनाथ तस्याः । प्रागल्भ्याय प्राभवत् सर्वमेतत् तत्सम्भूतेरद्भुतं मीनकेतोः ॥ ४५ ॥ I १. सप्तानां रत्नाकराणां समाहारः सप्तरत्नाकरं तस्मिन् बहुव्रीहिर्वा. ९३ ●<noinclude></noinclude> l6vs0ckdb90ufckga9n9pek2z4efh2t 340903 340902 2022-07-21T11:22:06Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>त्रयोदशः सर्गः । पत्युश्छायां पाण्ड्यदेव्याः तद्वृत्तान्तस्मेरदृष्ट्यानया स कामप्यानीयाग्रे दर्शयन् प्रेयसीं स्वाम् । तद्वृत्तान्तस्मेरदृष्ट्यानया तां वृत्तान्तं तं वेदयामास देवः ॥ ३३ ॥ सा संहृष्टा तां निशम्य प्रवृत्तिं पश्यन्ती च प्राणनाथं विमाने । आलिङ्गन्ती निर्भरं मीननेत्रां भूयो भूयो मूर्ध्नि चैनामजिघ्रत् ॥ ३४ ॥ त्वन्मातृत्वात् सिद्धमेवापवर्गै मन्वानाहं तेन हृष्टा न तावत् । यावत् तातं वीक्षमाणा तवेति स्तावंस्तावं सा बभाषे कुमारीम् ॥ ३५ ॥ लब्ध्वा योगं लज्जमाना विमानादाप्लुत्यारादागतेन प्रियेण । दत्तानुज्ञा देवपाण्ड्येन देवी सस्नौ तीर्थे संप्तरत्नाकरे सा ॥ ३६ ॥ दीनं रूपं प्रेयसा विप्रयोगाद् देव्याः प्लान्त्यास्तत्र दृष्टं जनैर्यत् । उन्मज्जन्त्यास्तत् ततः पर्यणसीच्चन्द्रापीडं चारुहासं त्रिणेत्रम् || ३७ ॥ सा गच्छन्ती शाश्वतं धाम शम्भोः सार्धं पत्या सर्वसौभाग्यधाम । क्लेशं कन्याविप्रयोगप्रसक्तं किञ्चिञ्चिते धारयन्तीदमूचे ॥ ३८ ॥ अद्य ज्ञातं ब्रह्म पूर्ण युवामित्यद्योत्सन्नः पाशवर्गोऽखिलो मे । दयेऽथापि त्वर्धविच्छिन्नमासीत् त्वत्सौभाग्यालोकभाग्यं किलेति ॥ ३९ ॥ शुश्रूषस्व प्रेयसः पादपद्मं क्षान्त्या धृत्या प्रेमवत्या च भक्त्या । लब्ध्वा पुत्रं राज्यभारेऽभिषिच्य द्रष्टास्मि त्वां स्वं पद प्रत्युपेताम् ॥ ४० ॥ इत्यादिश्य प्रस्थितायां जनन्यां सर्वोत्तीर्ण शाङ्करं धाम दिव्यम् । आनन्दोत्थैः शोकजैश्चाश्रुपूरैर्वक्रं देव्या दूषितं भूषितं च ॥ ४१ ॥ ताभिस्ताभिस्तत्प्रसङ्गोचिताभिर्मार्जन् वाग्भिर्मानसं क्लेशमस्याः । वारिकांडां वारिजाक्ष्यानयासावानन्दाब्धावाचचार प्रवीरः ॥ ४२ ॥ दीनान् दानैर्देवता यज्ञभागैरार्त्तानार्तिच्छेदनैस्तत्तदर्हैः । जिज्ञासूनप्यात्मविज्ञानदानैर्देवो रक्षन् पालयामास पृथ्वीम् || ४३ ॥ 'अन्तर्वत्रीं जातु कालेन पत्नीं दर्शं दर्शं पिप्रिये देवपाण्ड- केकीवाम्भस्सम्भृतां मेघमालां माध्वीगर्भी पद्मिनीगप्यळोव ॥ ४४ ॥ यत् कातर्यं यौवनेनाक्षिण दत्तं यच्चानीतं दौहृदेनाथ तस्याः । प्रागल्भ्याय प्राभवत् सर्वमेतत् तत्सम्भूतेरद्भुतं मीनकेतोः ॥ ४५ ॥ I १. सप्तानां रत्नाकराणां समाहारः सप्तरत्नाकरं तस्मिन् बहुव्रीहिर्वा. ९३ ●<noinclude></noinclude> k0scfcm7yy8bt6hlocgolu9gqo2i5kf पृष्ठम्:शिवलीलार्णवः.djvu/१०२ 104 125321 340904 2022-07-21T11:22:24Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे पुष्टान्यङ्गान्यापुरस्याः कृशत्वं नित्यं कार्य मिर्जहौ मध्यदेशः । पर्यायेण ह्रासवृद्ध्योः प्रवृत्तिस्तत्राप्यासीदीदृशः कालभेदः ॥ ४६ ॥ अन्योन्येन स्पर्धमानावुरोजावास्तामस्या यौवनोपक्रमं यौ । स्पर्धी मुख्यामद्य तावन्वभूतां सङ्घर्षेणान्योन्यमासादितेन || ४७ ॥ शक्तिः ख्याता यावती या च तस्याः सर्वाप्येषालम्भि गर्भेण नूनम् । नो चेदित्थं स्यात् कथङ्कारमस्याः स्नातुं पातुं स्पन्दितुं चाप्यशक्तिः ॥ ४८ ॥ केन्द्रे चन्द्रे देशिके चामराणामृक्षे रौद्रे रौद्रवृत्तिः परेषु । प्रादुर्भूतः पाण्ड्यवंशस्य भूत्यै तस्या गर्भात् तारकारिः कुमारः ॥ ४९ ॥ आनेष्यन्ते यानि तेनात्मजेन स्वर्णान्यग्रे मेरुमूलादमीषाम् । चक्रे देवः कोशगेहेऽवकाशं भूदेवानां भूरिदानच्छलेन ॥ ५० ॥ राज्ञां पश्यन् राज्यतन्त्रास्थताना बालो दोषान् बाहुमुख्यप्रयुक्तान् । साब्धिद्वीपां पालयिप्यन् धरित्रीं चक्रे देवः षण्मुखोऽप्यैकमुख्यम् ॥ ५१ ॥ उग्रस्यर्क्षे जातमुग्रं प्रकृत्याप्युद्गन्तारं तेजसा च श्रिया च । जानन् बालं शासनात् कुम्भयोनेश्चके नाम्नाप्युग्र इत्येव देवः ॥ ५२ ॥ मीमांसाङ्गन्यायधर्मेतिहासैः सार्धं वेदाः म्वम्वशाखासमेताः । प्राप्ते काले प्रत्यभुः पाण्ड्यसूनोर्द्वारं कृत्वा देशिकम्योपदेशम् ।। ५३ ।। दैतेयारिर्येन खड्गे विनीतश्चापे शिप्यो जामदग्न्यो यदीयः । साक्षादासीन्मेरुधन्वा स देवः शस्त्रास्त्राणां शासिता तस्य यूनः ॥ ५४ ॥ कन्या ख्याता कान्तिमत्याख्ययासीद् भाम्वद्वेश्या सोमचूडम्य राज्ञः । पित्रा दत्तां तामुपानीय देवः पाणौ तेन ग्राहयामास यूना ॥ ५५ ॥ शक्तिर्दण्डश्चक्रमित्यायुधानि त्रीणि प्रौढज्वालमालाकुलानि । दत्वा तस्मै देवदेवोऽभ्यषिञ्चत् महीभृतं पाण्ड्यराज्ये कुमारम् ॥ ५६ ॥ प्रागासीद्यो देवसेनापतिः स प्रापेठानी पाण्ड्यसेनापतित्वम् । दैतेयः प्राक् तारको निर्जितोऽद्य त्वज्ञानातकस्तात एव || ५७ ।। १- ‘उपज्ञोपक्रमं तदाद्याचिख्यामायाम् (२ ४-२१) इति नपुंसकता । यौवनोपक्रम्यमाणमिति स्पर्धन क्रियाविशेषणम् . २ केन्द्रे लग्नस्थे सतीत्यर्थः ३. वाहुमुख्यप्रयुक्तान् बाहुभिर्मुख्यं यथा भवति तथा प्रयुक्तान् अथ च बहुमुखत्वेन प्रयुक्तान् ४. ऐकमुख्य एकमुखत्वम् .<noinclude></noinclude> 4ba4bmguvzpl1cmqdu8r92x1ywywyyc 340905 340904 2022-07-21T11:27:01Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे पुष्टान्यङ्गान्यापुरस्याः कृशत्वं नित्यं कार्श्यं मिर्जहौ मध्यदेशः । पर्यायेण ह्रासवृद्ध्योः प्रवृत्तिस्तत्राप्यासीदीदृशः कालभेदः ॥ ४६ ॥ अन्योन्येन स्पर्धमानावुरोजावास्तामस्या यौवनोपक्रमं यौ । स्पर्धां मुख्यामद्य तावन्वभूतां सङ्घर्षेणान्योन्यमासादितेन || ४७ ॥ शक्तिः ख्याता यावती या च तस्याः सर्वाप्येषालम्भि गर्भेण नूनम् । नो चेदित्थं स्यात् कथङ्कारमस्याः स्नातुं पातुं स्पन्दितुं चाप्यशक्तिः ॥ ४८ ॥ केन्द्रे चन्द्रे देशिके चामराणामृक्षे रौद्रे रौद्रवृत्तिः परेषु । प्रादुर्भूतः पाण्ड्यवंशस्य भूत्यै तस्या गर्भात् तारकारिः कुमारः ॥ ४९ ॥ आनेष्यन्ते यानि तेनात्मजेन स्वर्णान्यग्रे मेरुमूलादमीषाम् । चक्रे देवः कोशगेहेऽवकाशं भूदेवानां भूरिदानच्छलेन ॥ ५० ॥ राज्ञां पश्यन् राज्यतन्त्रस्थिताना बालो दोषान् बाहुमुख्यप्रयुक्तान् । साब्धिद्वीपां पालयिप्यन् धरित्रीं चक्रे देवः षण्मुखोऽप्यैकमुख्यम् ॥ ५१ ॥ उग्रस्यर्क्षे जातमुग्रं प्रकृत्याप्युद्गन्तारं तेजसा च श्रिया च । जानन् बालं शासनात् कुम्भयोनेश्चके नाम्नाप्युग्र इत्येव देवः ॥ ५२ ॥ मीमांसाङ्गन्यायधर्मेतिहासैः सार्धं वेदाः स्वस्वशाखासमेताः । प्राप्ते काले प्रत्यभुः पाण्ड्यसूनोर्द्वारं कृत्वा देशिकस्योपदेशम् ।। ५३ ।। दैतेयारिर्येन खड्गे विनीतश्चापे शिष्यो जामदग्न्यो यदीयः । साक्षादासीन्मेरुधन्वा स देवः शस्त्रास्त्राणां शासिता तस्य यूनः ॥ ५४ ॥ कन्या ख्याता कान्तिमत्याख्ययासीद् भास्वद्वंश्या सोमचूडस्य राज्ञः । पित्रा दत्तां तामुपानीय देवः पाणौ तेन ग्राहयामास यूना ॥ ५५ ॥ शक्तिर्दण्डश्चक्रमित्यायुधानि त्रीणि प्रौढज्वालमालाकुलानि । दत्वा तस्मै देवदेवोऽभ्यषिञ्चत् महीभृतं पाण्ड्यराज्ये कुमारम् ॥ ५६ ॥ प्रागासीद्यो देवसेनापतिः स प्रापेदानी पाण्ड्यसेनापतित्वम् । दैतेयः प्राक् तारको निर्जितोऽद्य त्वज्ञानातकस्तात एव || ५७ ।। १- ‘उपज्ञोपक्रमं तदाद्याचिख्यामायाम् (२ ४-२१) इति नपुंसकता । यौवनोपक्रम्यमाणमिति स्पर्धन क्रियाविशेषणम् . २ केन्द्रे लग्नस्थे सतीत्यर्थः ३. वाहुमुख्यप्रयुक्तान् बाहुभिर्मुख्यं यथा भवति तथा प्रयुक्तान् अथ च बहुमुखत्वेन प्रयुक्तान् ४. ऐकमुख्य एकमुखत्वम् .<noinclude></noinclude> tik6hg0xutfhduovjx30vr2p8qa065h पृष्ठम्:शिवलीलार्णवः.djvu/१०३ 104 125322 340906 2022-07-21T11:28:28Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>10/11/57 377 त्रयोदशः सर्गः । पृथ्वीं सर्वामर्पयित्वा कुमारे पृथ्वीं कीर्त्तिं केवलं गृह्णतः स्वाम् । सार्धं देव्या वत्सराणां सहस्राण्येवं षष्टिः षट् च तस्य व्यतीयुः ।। ५८ ॥ इत्थं पाल्या भूमिरित्थं विजेया दृप्ता इत्थं वर्त्तितव्यं त्वयेति । आदिश्योग्रं दम्पती मूललिङ्गे मीनाक्ष्यां च प्रापतुस्तौ प्रवेशम् ।। ५९ ।। तौ मीनाक्षी सुन्दरेशात्मनाथच्छन्न किञ्चित् प्रत्यहं सेवमानः । चक्रे राज्यं नामयन् राजवंश्यानुग्रपश्यैः शासनैरुग्रपाण्ड्यः ॥ ६० ॥ ईजे शम्भुं यच्छतेनाश्वमेधैर्यच्चाभुङ्क्त स्वर्गभोगान्स भूमौ । तेनासूयां तत्र शक्रो बबन्ध प्रायेणाय पामराणां स्वभावः ॥ ६१ ॥ आक्रम्याम्भस्सम्प्लवै राजधानीमुन्मर्यादैरुग्रपाण्ड्यस्य राज्ञः । राष्ट्रं चास्य स्वीकुरुष्वेति शक्रो नेदीयांसं दक्षिणाब्धि न्ययुङ्क्त ॥ ६२ ॥ अर्धे रात्रेरप्रसक्ते कथञ्चिद् वर्षे वाते दुर्दिने वा क्षणेन । सन्नह्यद्भिः सर्वतो वीचिसङ्घैः पारावार: स्वात् पदादुच्चचाल ।। ६३ ॥ एकैकोर्मिस्पन्दमात्रादपि क्ष्मां क्रोशं क्रोशद्वन्द्वमप्यावृणानः । भीमैर्घोषैिभषयन्नम्वुराशिग्रीमं ग्रामं मज्जयन् निर्जगाम || ६४ ॥ उच्चैरुच्चैरुत्पतन्तः पतन्तो घ्नन्तो जन्तून् गण्डशैलान् क्षिपन्तः । आवृण्वानाः सैकतैरद्रिकूटानभ्यक्रामन्नूर्मयो वारिराशेः ॥ ६५ ॥ बल्गन्तोऽग्रे दुर्ग्रहा वीचिकानां जातोत्साहा जन्तवः सागरीयाः । व्यादायास्यं व्याघ्रसिंहद्विपादीन् वन्यान् सत्त्वान् लीलयैवाग्रहीषुः ॥ ६६ ॥ इत्थं पुर्या योजने योजनार्धे यावत् सिन्धुर्नाजिहते निशीथे । तावत् स्वप्ने बोधितस्तां प्रवृति सूक्त्या शम्भोर्जागरामास देवः ॥ ६७ ॥ आरुह्य द्वागभ्रमातङ्गकल्पं क्रुद्धो देवः कुञ्जरं किञ्चिदुच्चः । पाणौ कुर्वन् शक्तिमीशेन दत्तां पाण्ड्यः पारावारमभ्युज्जगाम ॥ ६८ ॥ शैलेनेवोत्सर्पता कज्जलानां व्योम्नेवाघो धावता सन्निप" । सोऽभूत् तेन स्रोतसा वारिराशेर्हृष्टो देवः स एवाथ रुष्ट ।। ६९ ॥ नायं कालः कौतुकं कर्तुमस्मिन् नश्यत्स्वेवं प्राणिषूच्चावचेषु । इत्यालोच्य प्रज्वलन् प्रज्वलन्ती पाण्ड्यः शक्ति पातयामास सिन्धौ ॥ ७० ॥ शीत्कुर्वाणा सा विशन्ती समुद्रे सर्वे पाथः सम्भ्रमत्कूर्मनक्रम् | उच्छ्छ्रासेनैकेन यान्ती पिबन्ती जह्रे भूमेः प्राक्तनं चार्द्रभावम् ॥ ७१ ॥<noinclude></noinclude> 11ee7qc2uje63vtaipqosru551v8e2o 340907 340906 2022-07-21T11:33:00Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>10/11/57 377 त्रयोदशः सर्गः । पृथ्वीं सर्वामर्पयित्वा कुमारे पृथ्वीं कीर्त्तिं केवलं गृह्णतः स्वाम् । सार्धं देव्या वत्सराणां सहस्राण्येवं षष्टिः षट् च तस्य व्यतीयुः ।। ५८ ॥ इत्थं पाल्या भूमिरित्थं विजेया दृप्ता इत्थं वर्त्तितव्यं त्वयेति । आदिश्योग्रं दम्पती मूललिङ्गे मीनाक्ष्यां च प्रापतुस्तौ प्रवेशम् ।। ५९ ।। तौ मीनाक्षी सुन्दरेशात्मनाथच्छन्नौ किञ्चित् प्रत्यहं सेवमानः । चक्रे राज्यं नामयन् राजवंश्यानुग्रपश्यैः शासनैरुग्रपाण्ड्यः ॥ ६० ॥ ईजे शम्भुं यच्छतेनाश्वमेधैर्यच्चाभुङ्क्त स्वर्गभोगान्स भूमौ । तेनासूयां तत्र शक्रो बबन्ध प्रायेणाय पामराणां स्वभावः ॥ ६१ ॥ आक्रम्याम्भस्सम्प्लवै राजधानीमुन्मर्यादैरुग्रपाण्ड्यस्य राज्ञः । राष्ट्रं चास्य स्वीकुरुष्वेति शक्रो नेदीयांसं दक्षिणाब्धि न्ययुङ्क्त ॥ ६२ ॥ अर्धे रात्रेरप्रसक्ते कथञ्चिद् वर्षे वाते दुर्दिने वा क्षणेन । सन्नह्यद्भिः सर्वतो वीचिसङ्घैः पारावार: स्वात् पदादुच्चचाल ।। ६३ ॥ एकैकोर्मिस्पन्दमात्रादपि क्ष्मां क्रोशं क्रोशद्वन्द्वमप्यावृणानः । भीमैर्घोषैिर्भीषयन्नम्बुराशिग्रीमं ग्रामं मज्जयन् निर्जगाम || ६४ ॥ उच्चैरुच्चैरुत्पतन्तः पतन्तो घ्नन्तो जन्तून् गण्डशैलान् क्षिपन्तः । आवृण्वानाः सैकतैरद्रिकूटानभ्यक्रामन्नूर्मयो वारिराशेः ॥ ६५ ॥ वल्गन्तोऽग्रे दुर्ग्रहा वीचिकानां जातोत्साहा जन्तवः सागरीयाः । व्यादायास्यं व्याघ्रसिंहद्विपादीन् वन्यान् सत्त्वान् लीलयैवाग्रहीषुः ॥ ६६ ॥ इत्थं पुर्या योजने योजनार्धे यावत् सिन्धुर्नाजिहते निशीथे । तावत् स्वप्ने बोधितस्तां प्रवृति सूक्त्या शम्भोर्जागरामास देवः ॥ ६७ ॥ आरुह्य द्वागभ्रमातङ्गकल्पं क्रुद्धो देवः कुञ्जरं किञ्चिदुच्चैः । पाणौ कुर्वन् शक्तिमीशेन दत्तां पाण्ड्यः पारावारमभ्युज्जगाम ॥ ६८ ॥ शैलेनेवोत्सर्पता कज्जलानां व्योम्नेवाघो धावता सन्निप" । सोऽभूत् तेन स्रोतसा वारिराशेर्हृष्टो देवः स एवाथ रुष्ट ।। ६९ ॥ नायं कालः कौतुकं कर्तुमस्मिन् नश्यत्स्वेवं प्राणिषूच्चावचेषु । इत्यालोच्य प्रज्वलन् प्रज्वलन्ती पाण्ड्यः शक्ति पातयामास सिन्धौ ॥ ७० ॥ शीत्कुर्वाणा सा विशन्ती समुद्रे सर्वे पाथः सम्भ्रमत्कूर्मनक्रम् | उच्छ्छ्रासेनैकेन यान्ती पिबन्ती जह्रे भूमेः प्राक्तनं चार्द्रभावम् ॥ ७१ ॥<noinclude></noinclude> s3x9jbbxa1wwh868d6u0i5q720ow9ng पृष्ठम्:शिवलीलार्णवः.djvu/१०४ 104 125323 340908 2022-07-21T11:37:52Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>aut 11/11 शिवलीलार्णवे मर्यादाब्धेर्मा विलोपीति शक्तिं प्रत्याहृत्य प्रज्वलन्तीं स भूयः । तत्संसिद्धां तावतीमप्यदत्त क्षोणीं देवः सुन्दरेशाय सद्यः ॥ ७२ ॥ आकैलासादा च लङ्कोपकण्ठाज्जाते दैवाज्जात्वनावृष्टियोगे । राज्ञः सर्वान् मेलयन् पर्यपृच्छद् राजा पाण्ड्यः कुम्भयोनिं विधेयम् ।। ७३ ॥ तस्यादेशादर्चनाभिः प्रणामैस्ते ते वृष्टिं देवराजं ययाचुः । दैन्यं त्वेतन्मीननेत्रात्मजस्य स्वान्ते जातु स्वादुतां नाबभार ॥ ७४ ॥ अभ्यर्णेऽसौ जातुचिच्चन्दनाद्रेराखेटार्थं पर्यटन् पाण्ड्यदेवः । स्वेच्छासीनान् पुष्कलावर्तकादीन् शृङ्गोत्सङ्गे तस्य मेघानपश्यत् ॥ ७५ ॥ कः सुत्रामा कात्र याच्ज्ञा वराके वृष्टिर्लभ्या विक्रमेणेति देवः । मत्वा भृत्यैर्ग्राहयन्नम्बुवाहान् कारागारे वासयामास बद्धान् ॥ ७६ ॥ केचिन्मेघास्तत्र चोद्यानपालैः केचिच्छेकान् पालयद्भिर्मयूरान् । आकृष्यन्त स्वैरमौरक्षकाणां सौहार्देन द्विस्सकृद् गूढमहाम् ।। ७७ ॥ नश्यद्गर्जा लुप्तबिद्युद्विलासाः संशुप्यन्तः साध्वसेनाम्बुवाहाः । धूलीजालैर्धूसरा धूमशेषाम्तत्रावात्सुः शासनात् तस्य राज्ञः ॥ ७८ ॥ आपातालादा च सप्तर्षिलोकादम्भोभिर्ये विश्वमाप्लावयन्ते । तानम्भोदांस्तत्र रुद्धान् निशम्य क्रुध्यन्निन्द्रस्तेन योद्धुं प्रतम्थे ॥ ७९ ॥ ज्यानिर्घोषच्छादिताशावकाशं बाणासारध्वस्तहस्त्यश्वयोधम् । रक्तस्रोतःपातरक्तं समन्ताज्जज्ञे युद्धं तस्य चाखण्डलस्य || ८० ॥ चापोन्मुक्तैः सायकौघैरमोघैर्वैधं वेधं व्योमयानादमर्त्त्यान् । यूथंयूथं पातयन् कौतुकेन श्येनम्पातामाचचारेव वीरः ॥ ८१ ॥ येऽवागृह्णन् खेचरा वृष्टिमुर्व्यां तेषामेवोज्जासयन्नङ्गमङ्गम् । मर्माविद्भिर्मार्गणैरुग्रपाण्ड्यश्चक्रे वृष्टिं मज्जमांसाविस्रम् || ८२ ॥ उन्मर्यादैरुत्पतद्भिस्तदस्त्रैः कीर्णे विष्वक् कण्टकैघैरिवाभ्रे। स्थातुं यातुं स्पन्दितुं चाप्यशक्ता तस्तम्भेऽसौ वाहिनी जम्भहन्तुः ॥ ८३ ॥ १. अयं श्लोकः खपुस्तके नास्ति. २. छेकान् गृहाश्रितान् . ३. नगररक्षिणाम् . ४. श्येनपातोऽस्त्यस्यां क्रीडायामिति इयैनम्पाता ताम्. 'घञः सास्यां क्रियेति जः' (४-२-५२) इति ञः. ५. जासिनिप्रहणेति (२-३-५६) षष्टी.<noinclude></noinclude> l22ziz1k9ytxjwu452t2bcu3sm9bopz पृष्ठम्:शिवलीलार्णवः.djvu/१०५ 104 125324 340909 2022-07-21T11:38:20Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>* चतुर्दशः सर्गः । तत्कोदण्डोन्मुक्तनाराचधारासद्यःकृत्तभ्रश्यदश्वेभयोधम् । हाहाकुर्वत्सिद्धगन्धर्ववर्गं शौनासीरं तत्र नासीरमासीत् ॥ ८४ ॥ मर्त्त्या युद्धे पातिता देवभावं लब्ध्वा देवीर्घावमाना वरीतुम् । धावद्देवस्त्रैणमुद्भ्रान्तपालं* चक्रुः स्वर्ग सम्प्रवृत्तापवर्गम् ॥ ८५ ॥ ? अस्त्रैरस्त्रं वारयन्नुग्रपाण्ड्यः शस्त्रैः शस्त्रं शस्त्रिणश्चावभिन्दन् । जातस्तातस्याक्षिकोणात् तृतीयाज्जज्वालोच्चैर्जातवेदा इवान्ते ॥ ८६ ॥ पश्यन् पाण्ड्यो वज्रमिन्द्रेण दत्तं प्रायुङ्क्तो ग्रं चक्रमीशा दवाप्तम् । तद् दम्भोलिं स्तम्भयत् तस्य मौलिं भित्त्वा भूयः पाणिमस्याजगाम ||८७ ॥ भग्ने शक्रे भग्नकोटीरकोटौ धावत्यग्रे मुक्तकेशं सुधाशाः । चेलुर्विष्वक् चण्डवातावधूता दूरे दूरे तूलपिण्डा इवाभ्रे ॥ ८८ ॥ ऋन्दद्गन्धद्विपमपसरत्सैन्धवोधूतयोध- प्रत्युद्धारव्यसनविमुखापेतपादातजातम् । धावद्देवप्रवरसमरोदन्तयाथार्थ्यबोध- भ्राम्यत्पौरं नगरमभवजर्जरं निर्जराणाम् ॥ ८९ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे त्रयोदशः सर्गः । अथ चतुर्दशः सर्गः । तस्मिन् कुमारे मीनाक्ष्यास्तथा शासति मेदिनीम् । ताराग्रहाणां पञ्चानां जाता जात्वपि वक्रता ॥ १ ॥ अवागृहत ते बृष्टिमासेतोराहिमाचलात् । जलदुर्भिक्षतश्चात्र जग्ले जानपदैर्जनैः ॥ २ ॥ सोमवारव्रतेनाथ सोमसुन्दरमीश्वरम् : स समाराधयाञ्चक्रे शासनात् कुम्भजन्गनः ॥ ३ ॥ तस्य चिन्तयतः स्वप्ने तरुणेन्दुशिखामणिः । आविर्भूय दयासिन्धुरनुजग्राह पार्थिवम् ।। ४ ।। 'बालम्' ' इति खपुस्तके पाठः ७<noinclude></noinclude> m1gqk8du6ktextk5vtd7gbjv5t8urj4 340910 340909 2022-07-21T11:41:35Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>* चतुर्दशः सर्गः । तत्कोदण्डोन्मुक्तनाराचधारासद्यःकृत्तभ्रश्यदश्वेभयोधम् । हाहाकुर्वत्सिद्धगन्धर्ववर्गं शौनासीरं तत्र नासीरमासीत् ॥ ८४ ॥ मर्त्त्या युद्धे पातिता देवभावं लब्ध्वा देवीर्घावमाना वरीतुम् । धावद्देवस्त्रैणमुद्भ्रान्तपालं* चक्रुः स्वर्गे सम्प्रवृत्तापवर्गम् ॥ ८५ ॥ ? अस्त्रैरस्त्रं वारयन्नुग्रपाण्ड्यः शस्त्रैः शस्त्रं शस्त्रिणश्चावभिन्दन् । जातस्तातस्याक्षिकोणात् तृतीयाज्जज्वालोच्चैर्जातवेदा इवान्ते ॥ ८६ ॥ पश्यन् पाण्ड्यो वज्रमिन्द्रेण दत्तं प्रायुङ्क्तो ग्रं चक्रमीशा दवाप्तम् । तद् दम्भोलिं स्तम्भयत् तस्य मौलिं भित्त्वा भूयः पाणिमस्याजगाम ||८७ ॥ भग्ने शक्रे भग्नकोटीरकोटौ धावत्यग्रे मुक्तकेशं सुधाशाः । चेलुर्विष्वक् चण्डवातावधूता दूरे दूरे तूलपिण्डा इवाभ्रे ॥ ८८ ॥ ऋन्दद्गन्धद्विषमपसरत्सैन्धवोधूतयोध- प्रत्युद्धारव्यसनविमुखापेतपादातजातम् । धावद्देवप्रवरसमरोदन्तयाथार्थ्यबोध- भ्राम्यत्पौरं नगरमभवज्जर्जरं निर्जराणाम् ॥ ८९ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे त्रयोदशः सर्गः । अथ चतुर्दशः सर्गः । तस्मिन् कुमारे मीनाक्ष्यास्तथा शासति मेदिनीम् । ताराग्रहाणां पञ्चानां जाता जात्वपि वक्रता ॥ १ ॥ अवागृहत ते वृष्टिमासेतोराहिमाचलात् । जलदुर्भिक्षतश्चात्र जग्ले जानपदैर्जनैः ॥ २ ॥ सोमवारव्रतेनाथ सोमसुन्दरमीश्वरम् : स समाराधयाञ्चक्रे शासनात् कुम्भजन्गनः ॥ ३ ॥ तस्य चिन्तयतः स्वप्ने तरुणेन्दुशिखामणिः । आविर्भूय दयासिन्धुरनुजग्राह पार्थिवम् ।। ४ ।। 'बालम्' ' इति खपुस्तके पाठः ७<noinclude></noinclude> j9631rjetqqqvqwu8k5vofjdihe2q6e