विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.21 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता ऋग्वेदः सूक्तं ७.३५ 0 1139 341094 200748 2022-07-22T23:54:52Z Puranastudy 1572 wikitext text/x-wiki {{header | title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ७|मण्डल ७]] | author = मैत्रावरुणिर्वसिष्ठः। | translator = | section = सूक्तं ७.३५ | previous = [[ऋग्वेद: सूक्तं ७.३४|सूक्तं ७.३४]] | next = [[ऋग्वेद: सूक्तं ७.३६|सूक्तं ७.३६]] | notes = दे. विश्वे देवाः। त्रिष्टुप्। }} <poem><span style="font-size: 14pt; line-height:200%"> शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥ शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥ शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥ शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् । शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥ शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु । शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥ शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥ शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः । शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम्वस्तु वेदिः ॥७॥ शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु । शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥ शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः ॥९॥ शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ॥१०॥ शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥११॥ शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः । शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥१२॥ शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः । शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा ॥१३॥ आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः । शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥१४॥ ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः । ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥१५॥ </span></poem> {{सायणभाष्यम्| ‘शं न इन्द्राग्नी' इति पञ्चदशर्चं द्वितीयं सूक्तम् । अत्रेयमनुक्रमणिका- शं नः पञ्चोना शान्तिः ' इति । वसिष्ठ ऋषिः । त्रिष्टुप् छन्दः । वैश्वदेवं ह ' इत्युक्तत्वादिदमपि वैश्वदेवम् । महानाम्नीव्रत एतत् सूक्तं जप्यम् । तथा च सूत्रितं - भद्रं कर्णेभिः शृणुयाम देवाः शं न इन्द्राग्नी भवतामवोभिः' (आश्व. श्रौ. [https://sa.wikisource.org/s/1auo ८. १४]) इति । एव....सु ॥ शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒ः शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या । शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥१ शम् । नः॒ । इ॒न्द्रा॒ग्नी इति॑ । भ॒व॒ता॒म् । अवः॑ऽभिः । शम् । नः॒ । इन्द्रा॒वरु॑णा । रा॒तऽह॑व्या । शम् । इन्द्रा॒सोमा॑ । सु॒वि॒ताय॑ । शम् । योः । शम् । नः॒ । इन्द्रा॑पू॒षणा॑ । वाज॑ऽसातौ ॥१ शम् । नः । इन्द्राग्नी इति । भवताम् । अवःऽभिः । शम् । नः । इन्द्रावरुणा । रातऽहव्या । शम् । इन्द्रासोमा । सुविताय । शम् । योः । शम् । नः । इन्द्रापूषणा । वाजऽसातौ ॥१ "नः अस्माकमस्मभ्यं वा “इन्द्राग्नी "अवोभिः रक्षणैः “शं शान्त्यै “भवताम्। “रातहव्या रातहव्यौ यजमानैर्दत्तहविष्कौ “इन्द्रावरुणा इन्द्रावरुणावपि “नः अस्मभ्यं “शं शान्त्यै भवताम् । “इन्द्रासोमा इन्द्रासोमावपि नः “शं शान्त्यै “सुविताय कल्याणाय च भवताम् । “शं शान्त्यै सुखाय च। पुनरुक्तिरादरार्था। अथवा शं शमनहेतुकं सुखं “योः विषययोगनिमित्तं सुखमित्यपुनरुक्तिः । इन्द्रापूषणा इन्द्रापूषणावपि “वाजसातौ युद्धे अन्नलाभे निमित्ते वा "नः “शं शान्त्यै भवतामित्यर्थः ॥ शं नो॒ भग॒ः शमु॑ न॒ः शंसो॑ अस्तु॒ शं न॒ः पुरं॑धि॒ः शमु॑ सन्तु॒ राय॑ः । शं न॑ः स॒त्यस्य॑ सु॒यम॑स्य॒ शंस॒ः शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥२ शम् । नः॒ । भगः॑ । शम् । ऊं॒ इति॑ । नः॒ । शंसः॑ । अ॒स्तु॒ । शम् । नः॒ । पुर॑म्ऽधिः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । रायः॑ । शम् । नः॒ । स॒त्यस्य॑ । सु॒ऽयम॑स्य । शंसः॑ । शम् । नः॒ । अ॒र्य॒मा । पु॒रु॒ऽजा॒तः । अ॒स्तु॒ ॥२ शम् । नः । भगः । शम् । ऊं इति । नः । शंसः । अस्तु । शम् । नः । पुरम्ऽधिः । शम् । ऊं इति । सन्तु । रायः । शम् । नः । सत्यस्य । सुऽयमस्य । शंसः । शम् । नः । अर्यमा । पुरुऽजातः । अस्तु ॥२ “नः अस्माकं “शं शान्त्यै “भगः देवः “अस्तु भवतु । "नः अस्माकं “शमु शान्त्या एव "शंसः नराशंसोऽस्तु भवतु । “नः अस्माकं “शं शान्त्यै “पुरंधिः बहुधीरप्यस्तु । “रायः धनान्यपि “शमु शान्त्या एव “सन्तु। “नः अस्माकं “सुयमस्य शोभनयमयुक्तस्य “सत्यस्य “शंसः वचनमपि “शम् अस्तु । “नः अस्माकं “शं शान्त्यै “पुरुजातः बहुप्रादुर्भावः “अर्यमा देवोऽपि “अस्तु ॥ शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभि॑ः । शं रोद॑सी बृह॒ती शं नो॒ अद्रि॒ः शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥३ शम् । नः॒ । धा॒ता । शम् । ऊं॒ इति॑ । ध॒र्ता । नः॒ । अ॒स्तु॒ । शम् । नः॒ । उ॒रू॒ची । भ॒व॒तु॒ । स्व॒धाभिः॑ । शम् । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । शम् । नः॒ । अद्रिः॑ । शम् । नः॒ । दे॒वाना॑म् । सु॒ऽहवा॑नि । स॒न्तु॒ ॥३ शम् । नः । धाता । शम् । ऊं इति । धर्ता । नः । अस्तु । शम् । नः । उरूची । भवतु । स्वधाभिः । शम् । रोदसी इति । बृहती इति । शम् । नः । अद्रिः । शम् । नः । देवानाम् । सुऽहवानि । सन्तु ॥३ “नः अस्माकं “शं शान्त्यै “धाता देवः “अस्तु । "नः अस्माकं “शमु शान्त्या एव “धर्ता पुण्यपापानां विधारयिता वरुणो देवोऽप्यस्तु । “नः अस्माकं “शं शान्त्यै “उरूची विवर्तगमना पृथिव्यपि “स्वधाभिः अन्नैः सहास्तु । “बृहती महत्यौ “रोदसी द्यावापृथिव्यावपि “शं भवताम् । “अद्रिः पर्वतोऽपि “नः अस्माकं “शं शान्त्यै भवतु । शं शान्त्यै “नः अस्माकं “देवानां "सुहवानि सुष्टुतयः “सन्तु भवन्तु ॥ शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम् । शं न॑ः सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वात॑ः ॥४ शम् । नः॒ । अ॒ग्निः । ज्योतिः॑ऽअनीकः । अ॒स्तु॒ । शम् । नः॒ । मि॒त्रावरु॑णौ । अ॒श्विना॑ । शम् । शम् । नः॒ । सु॒ऽकृता॑म् । सु॒ऽकृ॒तानि॑ । स॒न्तु॒ । शम् । नः॒ । इ॒षि॒रः । अ॒भि । वा॒तु॒ । वातः॑ ॥४ शम् । नः । अग्निः । ज्योतिःऽअनीकः । अस्तु । शम् । नः । मित्रावरुणौ । अश्विना । शम् । शम् । नः । सुऽकृताम् । सुऽकृतानि । सन्तु । शम् । नः । इषिरः । अभि । वातु । वातः ॥४ "ज्योतिरनीकः ज्योतिर्मुखः “अग्निः “नः अस्माकं “शं शान्त्यै अस्तु भवतु । मित्रावरुणा मित्रावरुणावपि “नः अस्माकं “शं शान्त्यै भवताम् । “अश्विना अश्विनावपि “शं भवताम् । “सुकृतां पुण्यकर्मणां पुरुषाणां “सुकृतानि पुण्यकर्माण्यपि “नः अस्माकं “शं शान्त्यै “सन्तु भवन्तु । “इषिरः गमनशीलोऽपि “वातः वायुरपि “नः अस्माकं “शं शान्त्यै "अभि “वातु ॥ शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु । शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥५ शम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽहू॑तौ । शम् । अ॒न्तरि॑क्षम् । दृ॒शये॑ । नः॒ । अ॒स्तु॒ । शम् । नः॒ । ओष॑धीः । व॒निनः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । रज॑सः । पतिः॑ । अ॒स्तु॒ । जि॒ष्णुः ॥५ शम् । नः । द्यावापृथिवी इति । पूर्वऽहूतौ । शम् । अन्तरिक्षम् । दृशये । नः । अस्तु । शम् । नः । ओषधीः । वनिनः । भवन्तु । शम् । नः । रजसः । पतिः । अस्तु । जिष्णुः ॥५ “नः अस्माकं “शं शान्त्यै “द्यावापृथिवी द्यावापृथिव्यौ “पूर्वहूतौ प्रथमाह्वाने भवताम् । “अन्तरिक्षम् अपि “नः अस्माकं “दृशये दर्शनाय “शम् “अस्तु । "नः अस्माकं “शं शान्त्यै “ओषधीः ओषधयोऽपि “भवन्तु। “वनिनः वृक्षाश्च शं भवन्तु । “जिष्णुः जयशीलः "रजसः लोकस्य "पतिः इन्द्रोऽपि “नः अस्माकं “शं शान्त्यै “अस्तु ॥ ॥ २८ ॥ शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंस॑ः । शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑ष॒ः शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥६ शम् । नः॒ । इन्द्रः॑ । वसु॑ऽभिः । दे॒वः । अ॒स्तु॒ । शम् । आ॒दि॒त्येभिः॑ । वरु॑णः । सु॒ऽशंसः॑ । शम् । नः॒ । रु॒द्रः । रु॒द्रेभिः॑ । जला॑षः । शम् । नः॒ । त्वष्टा॑ । ग्नाभिः॑ । इ॒ह । शृ॒णो॒तु॒ ॥६ शम् । नः । इन्द्रः । वसुऽभिः । देवः । अस्तु । शम् । आदित्येभिः । वरुणः । सुऽशंसः । शम् । नः । रुद्रः । रुद्रेभिः । जलाषः । शम् । नः । त्वष्टा । ग्नाभिः । इह । शृणोतु ॥६ “देवः द्योतनादिगुणयुक्तः “इन्द्रः "वसुभिः देवैः सार्धं “नः अस्माकं “शं शान्त्यै भवतु । "सुशंसः शोभनस्तुतिः “वरुणः देवः “आदित्येभिः आदित्यैर्देवैः सार्धं “शं शान्त्यै “अस्तु भवतु । “जलाषः “रुद्रः दुःखद्रावको देवः “रुद्रेभिः रुद्रैः सार्धं “शं शान्त्यै “नः अस्माकं भवतु । “इह यज्ञे “त्वष्टा देवः "ग्नाभिः देवपत्नीभिः सार्धं “नः “शं शान्त्यै भवतु । इह यज्ञे नः स्तोत्रं “शृणोतु च ॥ शं न॒ः सोमो॑ भवतु॒ ब्रह्म॒ शं न॒ः शं नो॒ ग्रावा॑ण॒ः शमु॑ सन्तु य॒ज्ञाः । शं न॒ः स्वरू॑णां मि॒तयो॑ भवन्तु॒ शं न॑ः प्र॒स्व१॒॑ः शम्व॑स्तु॒ वेदि॑ः ॥७ शम् । नः॒ । सोमः॑ । भ॒व॒तु॒ । ब्रह्म॑ । शम् । नः॒ । शम् । नः॒ । ग्रावा॑णः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । य॒ज्ञाः । शम् । नः॒ । स्वरू॑णाम् । मि॒तयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । प्र॒ऽस्वः॑ । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वेदिः॑ ॥७ शम् । नः । सोमः । भवतु । ब्रह्म । शम् । नः । शम् । नः । ग्रावाणः । शम् । ऊं इति । सन्तु । यज्ञाः । शम् । नः । स्वरूणाम् । मितयः । भवन्तु । शम् । नः । प्रऽस्वः । शम् । ऊं इति । अस्तु । वेदिः ॥७ “नः अस्माकं “शं शान्त्यै “सोमः “भवतु । “ब्रह्म स्तोत्रमपि “नः अस्माकं “शं शान्त्यै भवतु । “ग्रावाणः अभिषवसाधनभूताः पाषाणा अपि “नः अस्माकं “शं शान्त्यै भवन्तु । “यज्ञाः च नः “शमु शान्त्या एव “सन्तु। "स्वरूणां यूपानां “मितयः उन्मानान्यपि “नः अस्माकं “शं शान्त्यै “भवन्तु । "प्रस्वः ओषधयोऽपि “नः अस्माकं “शं शान्त्यै भवन्तु । "वेदिः अपि नः “शमु शान्त्या एव "अस्तु । शं न॒ः सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवन्तु । शं न॒ः पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं न॒ः सिन्ध॑व॒ः शमु॑ स॒न्त्वाप॑ः ॥८ शम् । नः॒ । सूर्यः॑ । उ॒रु॒ऽचक्षाः॑ । उत् । ए॒तु॒ । शम् । नः॒ । चत॑स्रः । प्र॒ऽदिशः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । पर्व॑ताः । ध्रु॒वयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । सिन्ध॑वः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । आपः॑ ॥८ शम् । नः । सूर्यः । उरुऽचक्षाः । उत् । एतु । शम् । नः । चतस्रः । प्रऽदिशः । भवन्तु । शम् । नः । पर्वताः । ध्रुवयः । भवन्तु । शम् । नः । सिन्धवः । शम् । ऊं इति । सन्तु । आपः ॥८ “नः अस्माकं “शं शान्त्यै “सूर्यः “उरुचक्षाः विस्तीर्णतेजाः सन् “उदेतु उदयं प्राप्नोतु । “चतस्रः “प्रदिशः महादिशोऽपि “नः अस्माकं “शं शान्त्यै “भवन्तु । “नः अस्माकं “शं शान्त्यै “पर्वताः “ध्रुवयः ध्रुवाः “भवन्तु। “नः अस्माकं “शं शान्त्यै “सिन्धवः नद्योऽपि भवन्तु । “आपः च नः “शमु शान्त्या एव “सन्तु ॥ शं नो॒ अदि॑तिर्भवतु व्र॒तेभि॒ः शं नो॑ भवन्तु म॒रुत॑ः स्व॒र्काः । शं नो॒ विष्णु॒ः शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥९ शम् । नः॒ । अदि॑तिः । भ॒व॒तु॒ । व्र॒तेभिः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । म॒रुतः॑ । सु॒ऽअ॒र्काः । शम् । नः॒ । विष्णुः॑ । शम् । ऊं॒ इति॑ । पू॒षा । नः॒ । अ॒स्तु॒ । शम् । नः॒ । भ॒वित्र॑म् । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वा॒युः ॥९ शम् । नः । अदितिः । भवतु । व्रतेभिः । शम् । नः । भवन्तु । मरुतः । सुऽअर्काः । शम् । नः । विष्णुः । शम् । ऊं इति । पूषा । नः । अस्तु । शम् । नः । भवित्रम् । शम् । ऊं इति । अस्तु । वायुः ॥९ “अदितिः देवी “व्रतेभिः व्रतैः कर्मभिः सार्धं “नः अस्माकं “शं शान्त्यै “भवतु । “स्वर्काः शोभनस्तुतयः “मरुतः अपि “नः अस्माकं “शं शान्त्यै सन्तु। “विष्णुः व्यापकः “नः अस्माकं “शं शान्त्या अस्तु । “पूषा देवोऽपि “नः अस्माकं “शमु शान्त्या एव “अस्तु । “भवित्रं भुवनमन्तरिक्षमुदकं वा “नः अस्माकं “शं शान्त्या अस्तु । "वायुः अपि नः “शमु शान्त्या एव “अस्तु । शं नो॑ दे॒वः स॑वि॒ता त्राय॑माण॒ः शं नो॑ भवन्तू॒षसो॑ विभा॒तीः । शं न॑ः प॒र्जन्यो॑ भवतु प्र॒जाभ्य॒ः शं न॒ः क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ॥१० शम् । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । शम् । नः॒ । भ॒व॒न्तु॒ । उ॒षसः॑ । वि॒ऽभा॒तीः । शम् । नः॒ । प॒र्जन्यः॑ । भ॒व॒तु॒ । प्र॒ऽजाभ्यः॑ । शम् । नः॒ । क्षेत्र॑स्य । पतिः॑ । अ॒स्तु॒ । श॒म्ऽभुः ॥१० शम् । नः । देवः । सविता । त्रायमाणः । शम् । नः । भवन्तु । उषसः । विऽभातीः । शम् । नः । पर्जन्यः । भवतु । प्रऽजाभ्यः । शम् । नः । क्षेत्रस्य । पतिः । अस्तु । शम्ऽभुः ॥१० “देवः क्रीडनादिगुणयुक्तः “सविता “त्रायमाणः रक्षन् “नः अस्माकं “शं शान्त्यै भवतु । “विभातीः व्युच्छन्त्यः “उषसः अपि “नः अस्माकं “शं शान्त्यै “भवन्तु। “नः अस्माकं “प्रजाभ्यः “पर्जन्यः अपि “शं “भवतु । “शंभुः सुखस्य भावयिता “क्षेत्रस्य “पतिः “नः अस्माकं “शं शान्त्यै “अस्तु ॥ ॥ २९ ॥ शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु । शम॑भि॒षाच॒ः शमु॑ राति॒षाच॒ः शं नो॑ दि॒व्याः पार्थि॑वा॒ः शं नो॒ अप्या॑ः ॥११ शम् । नः॒ । दे॒वाः । वि॒श्वऽदे॑वाः । भ॒व॒न्तु॒ । शम् । सर॑स्वती । स॒ह । धी॒भिः । अ॒स्तु॒ । शम् । अ॒भि॒ऽसाचः॑ । शम् । ऊं॒ इति॑ । रा॒ति॒ऽसाचः॑ । शम् । नः॒ । दि॒व्याः । पार्थि॑वाः । शम् । नः॒ । अप्याः॑ ॥११ शम् । नः । देवाः । विश्वऽदेवाः । भवन्तु । शम् । सरस्वती । सह । धीभिः । अस्तु । शम् । अभिऽसाचः । शम् । ऊं इति । रातिऽसाचः । शम् । नः । दिव्याः । पार्थिवाः । शम् । नः । अप्याः ॥११ “विश्वदेवाः बहुस्तोत्रकाः "देवाः “नः अस्माकं “शं शान्त्यै “भवन्तु । “सरस्वती च “धीभिः स्तुतिभिः कर्मभिर्वा “सह नोऽस्माकं “शं शान्त्यै “अस्तु । “अभिषाचः यज्ञमभितः सेवमानाश्च नः “शं शान्त्यै भवन्तु । “रातिषाचः दानं सेवमाना अपि “शमु शान्त्या एव भवन्तु । “दिव्याः दिवि भवाश्च “नः अस्माकं “शं शान्त्यै भवन्तु । “पार्थिवाः पृथिव्यां संभूताश्च नः शं भवन्तु । “अप्याः अप्स्वन्तरिक्षे भवाश्च । आकाशमापः' इत्यन्तरिक्षनामसु पाठात् । “नः अस्माकं “शं शान्त्यै भवन्तु ।। शं न॑ः स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्त॒ः शमु॑ सन्तु॒ गाव॑ः । शं न॑ ऋ॒भव॑ः सु॒कृत॑ः सु॒हस्ता॒ः शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु ॥१२ शम् । नः॒ । स॒त्यस्य॑ । पत॑यः । भ॒व॒न्तु॒ । शम् । नः॒ । अर्व॑न्तः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । गावः॑ । शम् । नः॒ । ऋ॒भवः॑ । सु॒ऽकृतः॑ । सु॒ऽहस्ताः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥१२ शम् । नः । सत्यस्य । पतयः । भवन्तु । शम् । नः । अर्वन्तः । शम् । ऊं इति । सन्तु । गावः । शम् । नः । ऋभवः । सुऽकृतः । सुऽहस्ताः । शम् । नः । भवन्तु । पितरः । हवेषु ॥१२ “सत्यस्य “पतयः पालकाः सत्यशीला देवाः “नः अस्माकं “शं शान्त्यै “भवन्तु। “अर्वन्तः अश्वाश्च “नः अस्माकं “शं शान्त्यै भवन्तु । “गावः अपि नः “शं शान्त्यै भवन्तु । “सुकृतः सुकर्माणः "सुहस्ताः शोभनहस्ताः “ऋभवः अपि “नः अस्माकं “शं शान्त्यै सन्तु। "हवेषु स्तोत्रेषु सत्सु “पितरः अपि “नः अस्माकं “शं शान्त्यै “भवन्तु ॥ शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॒॑ः शं स॑मु॒द्रः । शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं न॒ः पृश्नि॑र्भवतु दे॒वगो॑पा ॥१३ शम् । नः॒ । अ॒जः । एक॑ऽपात् । दे॒वः । अ॒स्तु॒ । शम् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शम् । स॒मु॒द्रः । शम् । नः॒ । अ॒पाम् । नपा॑त् । पे॒रुः । अ॒स्तु॒ । शम् । नः॒ । पृश्निः॑ । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥१३ शम् । नः । अजः । एकऽपात् । देवः । अस्तु । शम् । नः । अहिः । बुध्न्यः । शम् । समुद्रः । शम् । नः । अपाम् । नपात् । पेरुः । अस्तु । शम् । नः । पृश्निः । भवतु । देवऽगोपा ॥१३ “अज “एकपात् अज एकपान्नामधेयः "देवः “नः अस्माकं “शं शान्त्यै “अस्तु । “अहि र्बुध्न्यः च “नः अस्माकं “शं शान्त्या अस्तु । “समुद्रः अपि नः “शं शान्त्या अस्तु । “पेरुः उपद्रवेभ्यः पारथिता “अपां “नपात् अपांनपान्नामधेयोऽपि देवः “नः अस्माकं “शं शान्त्यै “अस्तु । "देवगोपा देवा गोपायितारो यस्यां सा “पृश्निः मरुतां माता “नः अस्माकं “शं शान्त्यै “भवतु ।। आ॒दि॒त्या रु॒द्रा वस॑वो जुषन्ते॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः । शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥१४ आ॒दि॒त्याः । रु॒द्राः । वस॑वः । जु॒ष॒न्त॒ । इ॒दम् । ब्रह्म॑ । क्रि॒यमा॑णम् । नवी॑यः । शृ॒ण्वन्तु॑ । नः॒ । दि॒व्याः । पार्थि॑वासः । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः ॥१४ आदित्याः । रुद्राः । वसवः । जुषन्त । इदम् । ब्रह्म । क्रियमाणम् । नवीयः । शृण्वन्तु । नः । दिव्याः । पार्थिवासः । गोऽजाताः । उत । ये । यज्ञियासः ॥१४ “नवीयः नवतरमस्माभिः “क्रियमाणम् “इदं “ब्रह्म स्तोत्रम् “आदित्याः दिव्याः। ‘अदितिर्द्यौः ' (ऋ. सं. १. ८९. १०) इति श्रुतेः । रुद्राः आन्तरिक्षाः “वसवः पार्थिवाश्च “जुषन्त जुषन्तां सेवन्ताम् । अन्ये "दिव्याः दिवि भवाः “पार्थिवासः पार्थिवाः “गोजाताः गोः पृश्नेर्जाताः । ‘नाको गौः' इति साधारणनामसु पाठात् । "उत अपि च "ये “यज्ञियासः यज्ञार्हास्ते सर्वेऽपि “नः अस्माकं हवं “शृण्वन्तु ॥ ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः । ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥१५ ये । दे॒वाना॑म् । य॒ज्ञियाः॑ । य॒ज्ञिया॑नाम् । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः । ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१५ ये । देवानाम् । यज्ञियाः । यज्ञियानाम् । मनोः । यजत्राः । अमृताः । ऋतऽज्ञाः । ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१५ “यज्ञियानां यजनीयानां “देवानाम् अपि “यज्ञियाः यजनीयाः “मनोः प्रजापतेश्च “यजत्राः यजनीयाः "अमृताः मरणरहिताः “ऋतज्ञाः सत्यज्ञाः "ये देवाः सन्ति “ते सर्वे “उरुगायं बहुकीर्तिं पुत्रम् “अद्य “नः अस्मभ्यं “रासन्तां प्रयच्छन्तु । सिद्ध एवोत्तमः पादः ॥ ॥ ३० ॥ वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके तृतीयोऽध्यायः समाप्तः ॥ }} {{ऋग्वेदः मण्डल ७}} jyjt0qaprc0d1o47zctm4wijhj6bhmy गीतगोविन्दम् 0 2838 341127 301573 2022-07-23T06:48:35Z Soorya Hebbar 3821 wikitext text/x-wiki {{header | title = [[गीतगोविन्दम्]] | author = जयदेवः | translator = | section = | previous = | next = [[/सामोददामोदरः|प्रथमः सर्गः - सामोददामोदरः]] | notes = श्री जयदेवकृतं गीतगोविन्दं अष्टपदी नाम प्रसिद्धम्। }} <center>'''अनुक्रमणिका'''</center> *[[/सामोददामोदरः|प्रथमः सर्गः - सामोददामोदरः]] *[[/अक्लेशकेशवः|द्वितीयः सर्गः - अक्लेशकेशवः]] *[[/मुग्धमधुसूदनः|तृतीयः सर्गः - मुग्धमधुसूदनः]] *[[/स्निग्धमधुसूदनः|चतुर्थः सर्गः - स्निग्धमाधवः]] *[[/साकांक्षपुण्डरीकाक्षः|पञ्चमः सर्गः - साकांक्षपुण्डरीकाक्षः]] *[[/कुण्ठवैकुण्ठः|षष्ठः सर्गः - कुण्ठवैकुण्ठः]] *[[/नागरनारायणः|सप्तमः सर्गः - नागरनारायणः]] *[[/विलक्ष्यलक्ष्मीपतिः|अष्टमः सर्गः - विलक्ष्यलक्ष्मीपतिः]] *[[/मन्दमुकुन्दः|नवमः सर्गः - मन्दमुकुन्दः]] *[[/चतुरचतुर्भुजः|दशमः सर्गः - चतुरचतुर्भुजः]] *[[/सानन्ददामोदरः|एकादशः सर्गः - सानन्ददामोदरः]] *[[/सुप्रीतपीताम्बरः|द्वादशः सर्गः - सुप्रीतपीताम्बरः]] == == {{टिप्पणी| [https://www.angelfire.com/in4/vedastudy/pur_index23/maagha.htm जयदेवोपरि टिप्पणी] }} [[वर्गः:गीतिकाव्यानि]] [[ml:ഗീതഗോവിന്ദം]] nrwxe4rm0hncdsdoaq4lok96199lieb गीतगोविन्दम्/मुग्धमधुसूदनः 0 3139 341126 195297 2022-07-23T06:48:04Z Soorya Hebbar 3821 wikitext text/x-wiki {{header | title = [[गीतगोविन्दम्]] | author = जयदेवः | translator = | section = ''तृतीयः सर्गः''<br>'''मुग्धमधुसूदनः''' | previous = [[../अक्लेशकेशवः|द्वितीयः सर्गः - अक्लेशकेशवः]] | next = [[../स्निग्धमधुसूदनः|चतुर्थः सर्गः - स्निग्धमाधवः]] | notes = }} <poem> ॥ तृतीयः सर्गः ॥ ॥ मुग्धमधुसूदनः ॥ कंसारिरपि संसारवासनाबन्धशृङ्खलाम् । राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ १८ ॥ इतस्ततस्तामनुसृत्य राधिका-मनङ्गबाणव्रणखिन्नमानसः । कृतानुतापः स कलिन्दनन्दिनी-तटान्तकुञ्जे विषसाद माधवः ॥ १९ ॥ ॥ गीतम् ७ ॥ मामियं चलिता विलोक्य वृतं वधूनिचयेन । सापराधतया मयापि न वारितातिभयेन ॥ हरि हरि हतादरतया गता सा कुपितेव ॥ १ ॥ किं करिष्यति किं वदिष्यति सा चिरं विरहेण । किं धनेन जनेन किं मम जीवनेन गृहेण ॥ २ ॥ चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण । शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ ३ ॥ तामहं हृदि संगतामनिशं भृशं रमयामि । किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ ४ ॥ तन्वि खिन्नमसूयया हृदयं तवाकलयामि । तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ ५ ॥ दृश्यते पुरतो गतागतमेव मे विदधासि । किं पुरेव ससंभ्रमं परिरम्भणं न ददासि ॥ ६ ॥ क्षम्यतामपरं कदापि तवेदृशं न करोमि । देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ ७ ॥ वर्णितं जयदेवकेन हरेरिदं प्रवणेन । किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ ८ ॥ हृदि बिसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः । मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ २० ॥ पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् । तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग-श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ २१ ॥ भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् । मोहं तावदयं च तन्वि तनुतां बिम्बादरो रागवान् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ २२ ॥ तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा । सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ २३ ॥ भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणाः गुणः श्रवणपालिरिति स्मरेण । तस्यामनङ्गजयजङ्गमदेवतायाम् अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २४ ॥ [एषः श्लोकः केषुचन संस्करणेषु विद्यते] तिर्यक्कण्ठ विलोल मौलि तरलोत्तं सस्य वंशोच्चरद्- दीप्तिस्थान कृतावधान ललना लक्षैर्न संलक्षिताः । संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा- सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्म्मय ॥ (२५) ॥ ॥ इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ </poem> dpmip4yn0m31epopsgbrvvwly7cbjrt गीतगोविन्दम्/स्निग्धमधुसूदनः 0 3140 341124 14128 2022-07-23T06:47:01Z 49.206.8.81 wikitext text/x-wiki {{header | title = [[गीतगोविन्दम्]] | author = जयदेवः | translator = | section = ''चतुर्थः सर्गः''<br>'''स्निग्धमाधवः''' | previous = [[../मुग्धमधुसूदनः|तृतीयः सर्गः- मुग्धमधुसूदनः]] | next = [[../साकांक्षपुण्डरीकाक्षः|पञ्चमः सर्गः - साकांक्षपुण्डरीकाक्षः]] | notes = }} <poem> ॥ चतुर्थः सर्गः ॥ ॥ स्निग्धमधुसूदनः ॥ यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् । प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ २५ ॥ ॥ गीतम् ८ ॥ निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् । व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥ सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ १ ॥ अविरलनिपतितमदनशरादिव भवदवनाय विशालम् । स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २ ॥ कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् । व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३ ॥ वहति च गलितविलोचनजलभरमाननकमलमुदारम् । विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४ ॥ विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् । प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५ ॥ प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् । त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६ ॥ ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् । विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७ ॥ श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् । हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८ ॥ आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २६ ॥ ॥ गीतम् ९ ॥ स्तनविनिहितमपि हारमुदारम् । सा मनुते कृशतनुरतिभारम् ॥ राधिका विरहे तव केशव ॥ १ ॥ सरसमसृणमपि मलयजपङ्कम् । पश्यति विषमिव वपुषि सशङ्कम् ॥ २ ॥ श्वसितपवनमनुपमपरिणाहम् । मदनदहनमिव वहति सदाहम् ॥ ३ ॥ दिशि दिशि किरति सजलकणजालम् । नयननलिनमिव विगलितनालम् ॥ ४ ॥ नयनविषयमपि किसलयतल्पम् । कलयति विहितहुताशविकल्पम् ॥ ५ ॥ त्यजति न पाणितलेन कपोलम् । बालशशिनमिव सायमलोलम् ॥ ६ ॥ हरिरिति हरिरिति जपति सकामम् । विरहविहितमरणेन निकामम् ॥ ७ ॥ श्रीजयदेवभणितमिति गीतम् । सुखयतु केशवपदमुपुनीतम् ॥ ८ ॥ सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि । एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ २७ ॥ स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् । विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ २८ ॥ कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति । किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २९ ॥ क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३० ॥ ॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥ </poem> 5cpw8hknrzo2rlmhe6g6knbf2lafl60 341129 341124 2022-07-23T06:49:10Z Soorya Hebbar 3821 wikitext text/x-wiki {{header | title = [[गीतगोविन्दम्]] | author = जयदेवः | translator = | section = ''चतुर्थः सर्गः''<br>'''स्निग्धमाधवः''' | previous = [[../मुग्धमधुसूदनः|तृतीयः सर्गः- मुग्धमधुसूदनः]] | next = [[../साकांक्षपुण्डरीकाक्षः|पञ्चमः सर्गः - साकांक्षपुण्डरीकाक्षः]] | notes = }} <poem> ॥ चतुर्थः सर्गः ॥ ॥ स्निग्धमाधवः ॥ यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् । प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ २५ ॥ ॥ गीतम् ८ ॥ निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् । व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥ सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ १ ॥ अविरलनिपतितमदनशरादिव भवदवनाय विशालम् । स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २ ॥ कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् । व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३ ॥ वहति च गलितविलोचनजलभरमाननकमलमुदारम् । विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४ ॥ विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् । प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५ ॥ प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् । त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६ ॥ ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् । विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७ ॥ श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् । हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८ ॥ आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २६ ॥ ॥ गीतम् ९ ॥ स्तनविनिहितमपि हारमुदारम् । सा मनुते कृशतनुरतिभारम् ॥ राधिका विरहे तव केशव ॥ १ ॥ सरसमसृणमपि मलयजपङ्कम् । पश्यति विषमिव वपुषि सशङ्कम् ॥ २ ॥ श्वसितपवनमनुपमपरिणाहम् । मदनदहनमिव वहति सदाहम् ॥ ३ ॥ दिशि दिशि किरति सजलकणजालम् । नयननलिनमिव विगलितनालम् ॥ ४ ॥ नयनविषयमपि किसलयतल्पम् । कलयति विहितहुताशविकल्पम् ॥ ५ ॥ त्यजति न पाणितलेन कपोलम् । बालशशिनमिव सायमलोलम् ॥ ६ ॥ हरिरिति हरिरिति जपति सकामम् । विरहविहितमरणेन निकामम् ॥ ७ ॥ श्रीजयदेवभणितमिति गीतम् । सुखयतु केशवपदमुपुनीतम् ॥ ८ ॥ सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि । एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ २७ ॥ स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् । विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ २८ ॥ कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति । किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २९ ॥ क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३० ॥ ॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥ </poem> eqiz9x1lc0l9uat13bth1f6pgcswnt7 गीतगोविन्दम्/साकांक्षपुण्डरीकाक्षः 0 3141 341125 103320 2022-07-23T06:47:23Z 49.206.8.81 wikitext text/x-wiki {{header | title = [[गीतगोविन्दम्]] | author = जयदेवः | translator = | section = ''पञ्चमः सर्गः''<br>'''साकांक्षपुण्डरीकाक्षः''' | previous = [[../स्निग्धमधुसूदनः|चतुर्थः सर्गः- स्निग्धमाधवः]] | next = [[../कुण्ठवैकुण्ठः|षष्ठः सर्गः - कुण्ठवैकुण्ठः]] | notes = }} <poem> ॥ पञ्चमः सर्गः ॥ ॥ साकांक्षपुण्डरीकाक्षः ॥ अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः । इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ ३१ ॥ ॥ गीतम् १० ॥ वहति मलयसमीरे मदनमुपनिधाय । स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ तव विरहे वनमाली सखि सीदति ॥ १ ॥ दहति शिशिरमयूखे मरणमनुकरोति । पतति मदनविशिखे विलपति विकलतरोऽति ॥ २ ॥ ध्वनति मधुपसमूहे श्रवणमपिदधाति । मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ ३ ॥ वसति विपिनविताने त्यजति ललितधाम । लुठति धरणिशयने बहु विलपति तव नाम ॥ ४ ॥ रणति पिकसमवाये प्रतिदिशमनुयाति । हसति मनुजनिचये विरहमपलपति नेति ॥ ५ ॥ स्फुरति कलरवरावे स्मरति मणितमेव। तवरतिसुखविभवे गणयति सुगुणमतीव ॥ ६ ॥ त्वदभिधशुभदमासं वदति नरि शृणोति । तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ ७ ॥ भणति कविजयदेवे विरहविलसितेन । मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ ८ ॥ पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः । ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ३२ ॥ ॥ गीतम् ११ ॥ रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् । न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ १ ॥ नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् । बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २ ॥ पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् । रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ ३ ॥ मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषुलोलम् । चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४ ॥ उरसि मुरारेरुपहितहारे घन इव तरलबलाके । तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५ ॥ विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् । किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६ ॥ हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् । कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७ ॥ श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् । प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८ ॥ विकिरति मुहुः श्वासान्दिशः पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति । रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३३ ॥ त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् । कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ३४ ॥ आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः । अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ३५ ॥ सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् । कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ ३६ ॥ राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः। स्वच्छन्दं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वाम् देवकीनन्दनः॥ ३६ + १ ॥ ॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥ </poem> 56oxebxjp9g8278hf7dq7b3q9j39tbe वर्गः:उपनिषदः 14 12758 341103 338896 2022-07-23T03:48:16Z Puranastudy 1572 wikitext text/x-wiki [[वर्गः:ग्रन्थाः]] [https://sa.wikisource.org/s/2mms वनदुर्गोपनिषत्] (अपूर्ण) [https://sa.wikisource.org/s/2nog नारायणपूर्वतापिनीयोपनिषत्] [https://sa.wikisource.org/s/2nou नारायणोत्तरतापिनीयोपनिषत्] [https://sa.wikisource.org/s/2o1z चाक्षुषोपनिषत्] p6b3jywt9k20hxa2dcmd5gulnxqf1pf ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका) 0 15879 341101 331692 2022-07-23T03:12:08Z Puranastudy 1572 wikitext text/x-wiki [[ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)|प्रथमा पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका २ (द्वितीय पञ्चिका)|द्वितीया पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)|तृतीया पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)|चतुर्थी पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ५ (पञ्चम पञ्चिका)|पञ्चमी पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ६ (षष्ठम् पञ्चिका)|षष्ठी पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ७ (सप्तम पञ्चिका)|सप्तमी पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ८ (अष्टम पञ्चिका)|अष्टमी पञ्चिका]] <poem><span style="font-size: 14pt; line-height: 200%"> ग्रहोक्थं वा एतद्यत्प्रउगं नव प्रातर्ग्रहा गृह्यन्ते नवभिर्बहिष्पवमाने स्तुवते स्तुते स्तोमे दशमं गृह्णाति हिंकार इतरासां दशमः सो सा सम्मा वायव्यं शंसति तेन वायव्य उक्थवानैन्द्रवायवं शंसति तेनैन्द्रवायव उक्थवान्मैत्रावरुणं शंसति तेन मैत्रावरुण उक्थवानाश्विनं शंसति तेनाश्विन उक्थवानैन्द्रं शंसति तेन शुक्रामन्थिना उक्थवन्तौ वैश्वदेवं शंसति तेनाऽऽग्रयण उक्थवान्सारस्वतं शंसति न सारस्वतो ग्रहोऽस्ति वाक्तु सरस्वती ये तु केच वाचा ग्रहा गृह्यन्ते ते ऽस्य सर्वे शस्तोक्थाः उक्थिनो भवन्ति य एवं वेद॥3.1॥</span></poem> [[File:ऐन्द्रवायवग्रह Aindravaya ritual.jpg|thumb|ऐन्द्रवायवग्रह ]] [[File:द्विदेवत्यग्रह२ Dual Divinity vessel2.jpg|thumb|ऐन्द्रवायव + मैत्रावरुणग्रहौ]] [[File:द्विदेवत्यग्रह३ Dual-Divinity vessels3.jpg|thumb|ऐन्द्रवायव + मैत्रावरुण + आश्विन्ग्रहाः]] <poem><span style="font-size: 14pt; line-height: 200%">अन्नाद्यं वा एतेनावरुन्द्धे यत्प्रउगमन्याऽन्या देवता प्रउगे शस्यतेऽन्यदन्यदुक्थं प्रउगे क्रियतेऽन्यदन्यदस्यान्नाद्यं ग्रहेषु ध्रियते य एवं वेदैतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं तस्मादेनैनैतदुपेक्ष्यतममिवेत्याहुरेतेन ह्येनं होता संस्करोतीति वायव्यं शंसति तस्मादाहुर्वायुः प्राणः प्राणो रेतो रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यद्वायव्यं शंसति प्राणमेवास्य तत्संस्करोत्यैन्द्रवायवं शंसति यत्र वाव प्राणस्तदपानो यदैन्द्रवायवं शंसति प्राणापानावेवास्य तत्संस्करोति मैत्रावरुणं शंसति तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यन्मैत्रावरुणं शंसति चक्षुरेवास्य तत्संस्करोत्याश्विनं शंसति तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति यदाश्विनं शंसति श्रोत्रमेवास्य तत्संस्करोत्यैन्द्रं शंसति तस्मात्कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति वैश्वदेवं शंसति तस्मात्कुमारो जातः पश्चेव प्रचरति वैश्वदेवानि ह्यङ्गानि यद्वैश्वदेवं शंसत्यङ्गान्येवास्य तत्संस्करोति सारस्वतं शंसति तस्मात्कुमारं जातं जघन्या वागाविशति वाग्घि सरस्वती यत्सारस्वतं शंसति वाचमेवास्य तत्संस्करोत्येष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः सर्वेभ्य उक्थेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः प्रउगेभ्यः सर्वेभ्यः सवनेभ्यो य एवं वेद यस्य चैवं विदुष एतच्छंसन्ति॥3.2॥ प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधाति किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माऽऽह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत प्राणेनैनं व्यर्धयानीति वायव्यमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धम् प्राणेनैवैनं तद्व्यर्धयति यं कामयेत प्राणापानाभ्यामेनं व्यर्धयानीत्यैन्द्रवायवमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं प्राणापानाभ्यामेवैनं तद्व्यर्धयति यं कामयेत चक्षुषैनं व्यर्धायनीति मैत्रावरुणमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं चक्षुषैवैनं तद्व्यर्धयति यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विनमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं श्रोत्रेणैवैनं तद्व्यर्धयति यं कामयेत वीर्येणैनं व्यर्धयानीत्यैन्द्रमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं वीर्येणैवैनां तद्व्यर्धयति यं कामयेताङ्गैरेनं व्यर्धयानीति वैश्वदेवमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धमङ्गैरेवैनं तद्व्यर्धयति यं कामयेत वाचैनं व्यर्धयानीति सारस्वतमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं वाचैवैनं तद्व्यर्धयति यमु कामयेत सर्वैरेनमङ्गैः सर्वेणात्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजुक्लृप्तं शंसेत्सर्वैरेवैनं तदङ्गैः सर्वेणात्मना समर्धयति सर्वैरङ्गैः सर्वेणात्मना समृध्यते य एवं वेद॥3.3॥ तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रमाग्नेयीषु सामगा स्तुवते वायव्यया होता प्रतिपद्यते कथमस्याऽऽग्नेय्योऽनुशस्ता भवन्तीति। अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः। स यदग्निः प्रवानिव दहति तदस्य वायव्यं रूपं तदस्य तेनानुशंसति। अथ यद्द्वैधमिव कृत्वा दहति द्वौ वा इन्द्रवायू तदस्यैन्द्रवायवं रूपं तदस्य तेनानुशंसति। अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं तदस्य तेनानुशंसति। स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपं तं यद्घोरसंस्पर्शं सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसति। अथ यदेनं द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्याऽऽश्विनं रूपं तदस्य तेनानुशंसति। अथ यदुच्चैर्घोष स्तनयन्बबबा कुर्वन्निव दहति यस्माद्भूतानि विजन्ते तदस्यैन्द्रं रूपं तदस्य तेनानुशंसति। अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपं तदस्य तेनानुशंसति। अथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य सारस्वतं रूपं तदस्य तेनानुशंसति। एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचेनैवैताभिर्देवताभिः स्तोत्रियोऽनुशस्तो भवति। विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। पिबा मित्रस्य धामभिरिति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.4॥ (11.4) (75) देवपात्रं वा एतद्यद्वषट्कारो वषट्करोति देवपात्रेणैव तद्देवतास्तर्पयति। अनुवषट्करोति तद्यथा ऽदो ऽश्वान्वा गा वा पुनरभ्याकारं तर्पयन्त्येवमेवैतद्देवताः पुनरभ्याकारं तर्पयन्ति यदनुवषट्करोति। इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यानथ कस्मात्पूर्वस्मिन्नेव जुह्वति पूर्वस्मिन्वषट्कुर्वन्तीति। यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेन धिष्ण्यान्प्रीणाति। असंस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानुवषट्करोति को नु सोमस्य स्विष्टकृद्भाग इति। यद्वा सोमस्याग्ने वीहीत्यनुवषटकरोति तेनैव संस्थितान्सोमान्भक्षयन्ति स उ एव सोमस्य स्विष्टकृद्भागो वषट्करोति॥3.5॥ (11.5) (76) वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति षळ् इति वषट्करोति षड्वा ऋतव ऋतूनेव तत्कल्पयत्यृतून्प्रतिष्ठापयत्यृतून्वै प्रतितिष्ठत इदं सर्वमनुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद तदु ह स्माह हिरण्यदन्बैद एतानि वा एतेन षट्प्रतिष्ठापयति द्यौरन्तरिक्षे प्रतिष्ठितान्तरिक्षं पृथिव्यां पृथिव्यप्स्वापः सत्ये सत्यं ब्रह्मणि ब्रह्म तपसीत्येता एव तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वम-नुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद वौषळ् इति वषट्करोत्यसौ वाव वावृतवः षळ् एतमेव तदृतुष्वादधात्यृतुषु प्रतिष्ठापयति यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति॥3.6॥ त्रयो वै वषट्कारा वज्रो धामच्छद्रिक्तः स यमेवोच्चैर्बलि वषट्करोति स वज्रस्तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै तस्मात्स भ्रातृव्यवता वषट्कृत्योऽथ यः समः संततोऽनिर्हाणर्चः स धामच्छत्तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्योऽथ येनैव षळ् अवराध्नोति स रिक्तो रिणक्त्यात्मानं रिणक्ति यजमानं पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति तस्मात्तस्याशां नेयात्किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्य ऋचं ब्रूयात्तथैवास्य वषट्कुर्यात्सदृशमेवैनं तत्करोति यं कामयेत पापीयान्स्यादित्युच्चैस्तरामस्य ऋचमुक्त्वा शनैस्तरां वषट्कुर्यात्पापीयांसमेवैनं तत्करोति यं कामयेत श्रेयान्स्यादिति शनैस्तरामस्य ऋचमुक्त्वोच्चैस्तरां वषट्कुर्याच् छ्रिय एवैनं तच्छ्रियामादधाति संततमृचा वषट्कृत्यं संतत्यै। संधीयते प्रजया पशुभिर्य एवं वेद॥3.7॥ यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्साक्षादेव तद्देवतां प्रीणाति प्रत्यक्षाद्देवतां यजति। वज्रो वै वषट्कारः स एष प्रहृतोऽशान्तो दीदाय तस्य हैतस्य न सर्व इव शान्तिं वेद न प्रतिष्ठां तस्माद्धाप्येतर्हि भूयानिव मृत्युस्तस्य हैषैव शान्तिरेषा प्रतिष्ठा वागित्येव तस्माद्वषट्कृत्य वषट्कृत्य वागित्यनुमन्त्रयेत स एनं शान्तो न हिनस्ति। वषट्कार मा मां प्रमृक्षो माऽहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठाऽसि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेति वषट्कारमनुमन्त्रयेत। तदु ह स्माऽऽह दीर्घमेतत्सदप्रभ्वोजः सह ओजः। इत्येव वषट्कारमनुमन्त्रयेत। ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ। प्रियेणैवैनं तद्धाम्ना समर्धयति। प्रियेण धाम्ना समृध्यते य एवं वेद। वाक्च वै प्राणापानौ च वषट्कारस्य एते वषट्कृते वषट्कृते व्युत्क्रामन्ति ताननुमन्त्रयेत वागोजः सह ओजो मयि प्राणापानावित्यात्मन्येव तद्धोता वाचं च प्राणापानौ च प्रतिष्ठापयति सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.8॥ (11.8) (79) यज्ञो वै देवेभ्य उदक्रामत्तं प्रैषैः प्रैषमैच्छन्यत्प्रैषैः प्रैषमैच्छंस्तत्प्रैषाणां प्रैषत्वम्। तं पुरोरुग्भिः प्रारोचयन्यत्पुरोरुग्भिः प्रारोचयंस्तत्पुरोरुचां पुरोरुक्त्वम्। तं वेद्यामन्वविन्दन्यद्वेद्यामन्वविन्दंस्तद्वेदेर्वेदित्वम्। तं वित्तं ग्रहैर्व्यगृह्णत यद्वित्तं ग्रहैर्व्यगृह्णत तद् ग्रहाणां ग्रहत्वम्। तं वित्त्वा निविद्भिर्न्यवेदयन्यद्वित्त्वा निविद्भिर्न्यवेदयंस्तन्निविदां निवित्त्वम्। महद्वावनष्टैष्यभ्यल्पं वेच्छति यतरो वाव तयोर्ज्याय इवाभीच्छति स एव तयोः साधीय इच्छति। य उ एव प्रैषान्वर्षीयसो वर्षीयसो वेद स उ एव तान्साधीयो वेद नष्टैष्यंह्येतद्यत्प्रैषाः। तस्मात्प्रह्वस्तिष्ठन्प्रेष्यति॥3.9॥ (11.9) (80) गर्भा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते तस्मात्पराञ्चो गर्भा धीयन्ते पराञ्चः संभवन्ति। यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये गर्भा धृताः। यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतोऽर्वाञ्चो गर्भाः प्रजायन्ते प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद। पेशा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते यथैव प्रवयणतः पेशः कुर्यातादृक्ततद्यन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात्तादृक्तद्यदन्ततस्तृतीयसवने धीयन्ते यथैवाव प्रज्जनतः पेशः कुर्यात्तादृक्तत्। सर्वतो यज्ञस्य पेशसा शोभते य एवं वेद॥3.10॥ (11.10) (81) सौर्या वा एता देवता यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते मध्यतो मध्यंदिनेंततस्तृतीयसवन आदित्यस्यैव तद्व्रतमनु पर्यावर्तन्ते। पच्छो वै देवा यज्ञं समभरंस्तस्मात्पच्छो निविदः शस्यन्ते। यद्वै तद्देवाय यज्ञं समभरंस्तस्मादश्वः समभवत्तस्मादाहुरश्वं निविदां शंस्त्रे दद्यादिति तदु खलु वरमेव ददति। न निविदः पदमयतीयात्। यन्निविदः पदमतीयाद्यस्य तच्छिद्रं कुर्याद्यज्ञस्य वै छिद्रं स्रवद्यजमानोऽनु पापीयान्भवति तस्मान्न निविदः पदमतीयात्। न निविदः पदे विपरिहरेद्यन्निविदः पदे विपरिहरेन्मोहयेद्यज्ञं मुग्धो यजमानः स्यात्तस्मान्न निविदः पदे विपरिहरेत्। न निविदः पदे समस्येद्यन्निविदः पदेसमस्येद्यज्ञस्य तदायुः संहरेत्प्रमायुको यजमानः स्यात्तस्मान्न निविदः पदे समस्येत्। प्रेदं ब्रह्म प्रेदं क्षत्त्रमित्येते एव समस्येद् ब्रह्मक्षत्त्रयोः संश्रित्यै तस्माद्ब्रह्म च क्षत्त्रं च संश्रिते। न तृचं न चतुर्ऋचमतिमन्येत निविद्धानमेकैकं निविदः पदमृचं सूक्तं प्रति तस्मान्न तृचं न चतुर्ऋचमतिमन्येत निविद्धानं निविदा ह्येव स्तोत्रमतिशस्तं भवति। एकां परिशिष्य तृतीयसवने निविदं दध्यात्। यदहे परिशिष्य दध्यात्प्रजननंतदुपहन्याद्गर्भैस्तत्प्रजा व्यर्धयेत्तस्मादेकामेव परिशिष्य तृतीयसवने निविदं दध्यात्। न सूक्तेन निविदमतिपद्येत। येन सूक्तेन निविदमतिपद्येत न तत्पुनरुपनिवर्तेत वास्तुहमेव तत्। अन्यत्तद्दैवतं तच्छन्दसं सूक्तमाहृत्य तस्मिन्निविदं दध्यात्। मा प्रगाम पथो वयमिति पुरस्तात्सूक्तस्य शंसति। पथो वा एष प्रैति यो यज्ञे मुह्यति मा यज्ञादिन्द्र सोमिन इति यज्ञादेव तन्न प्रच्यवते। माऽन्तः स्थुर्नो अरातय इत्यरातीयत एव तदपहन्ति। यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः। तमाहुतं नशीमहीति। प्रजा वैतन्तुः प्रजामेवास्मा एतत्संतनोति। मनो न्वाहुवामहे नाराशंसेन सोमेनेति। मनसा वै यज्ञस्तायते मनसा क्रियते। सैव तत्र प्रायश्चित्तिः प्रायश्चित्तिः॥3.11॥ (11.11) (82) देवविशः कल्पयितव्या इत्याहुश्छन्दश्छन्दसि प्रतिष्ठाप्यमिति शोंसा-वोमित्याह्वयते प्रातःसवने त्र्?यक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदष्टाक्षरं सम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तत्पुर-स्तात्प्रातःसवनेऽचीक्लृपतामुक्थं वाचीत्याह शस्त्वा चतुरक्षरमोमुक्थशा इ-त्यध्वर्युश्चतुरक्षरं तदष्ठाक्षरंसम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तदुभयतः प्रातःसवनेऽचीक्लृपतामध्वर्यो शोंसावोमित्याह्वयते मध्यंदिने षळक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदेकादशाक्षरं सम्पद्यत एका-दशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तत्पुरस्तान्मध्यंदिनेऽचीक्लृपतामुक्थं वाची-न्द्रायेत्याह शस्त्वा सप्ताक्षरमोमुक्थशा इत्यध्वर्युश्चतुरक्षरं तदेकादशाक्षरं सम्पद्यत एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तदुभयतो मध्यं-दिनेऽचीक्लृपतामध्वर्यो शोशोंसावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तद्द्वादशाक्षरं सम्पद्यते द्वादशाक्षार वै जगती जगतिमेव तत्पुरस्तात्तृतीयसवनेऽचीक्लृपतामुक्थं वाचीन्द्राय देवेभ्य इत्याह शस्त्वैकादशाक्षरमोमित्यध्वर्युरेकाक्षरं तद्द्वा-दशाक्षरं सम्पद्यते द्वादशाक्षर वै जगती जगतीमेव तदुभयतस्तृतीयसव-नेऽचीक्लृपतां तदेतदृषिः पश्यन्नभ्यनूवाच यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत यद्वा जगज्जगत्याहितम्पदं य इत्तद्विदुस्ते अमृतत्वमानशुरित्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति। कल्पयति देवविशो य एवं वेद॥3.12॥ प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो भागधेयानि व्यभजत्स गायत्रीमेवाग्नये वसुभ्यः प्रातःसवनेऽभजत्त्रिष्टुभमिन्द्राय रुद्रेभ्यो मध्यंदिने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यस्तृतीयसवनेऽथास्य यत्स्वं छन्द आसीदनुष्टुप् तामुदन्तमभ्युदौहदच्छावाकीयामभि सैनमब्रवीदनुष्टुप्त्वं न्वेव देवानाम्पापिष्ठोऽसि यस्य तेऽहं स्वं छन्दोऽस्मि याम्मोदन्तमभ्युदौहीरच्छावाकीयामभीति तदजानात्स स्वं सोममाहरत्स स्वे सोमेऽग्रम्मुखमभि पर्याहरदनुष्टुभं तस्माद्वनुष्टुबग्रिया मुख्या युज्यते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेद स्वे वै स तत्सोमेऽकल्पयत्तस्माद्यत्र क्व च यजमानवशो भवति कल्पत एव यज्ञोऽपि। तस्यै जनतायै कल्पते यत्रैवं विद्वान्यजमानो वशी यजते॥3.13॥</span></poem> {{सायणभाष्यम्| अथानुष्टुभो मुख्यत्वेन प्रशंसां कर्तुमाख्यायिकामाह- पुरा पजापतिः सर्वं जगत्सृष्ट्वा सवनत्रयात्मकं यज्ञं गायत्र्यादीनि च्छन्दांसि च देवतार्थं भागधेयानि भागविशेषरूपाणि कृत्वा व्यभजद्विभक्तवान् । केन प्रकारेणेति स उच्यते । यज्ञे यत्प्रातःसवनमस्ति तस्मिन्गायत्रीमेवाग्न्यर्थमष्टवसुदेवार्थं च विभक्तवान् । माध्यंदिनसवने त्रिष्टुभमिन्द्रार्थमेकादशरुद्रार्थं च विभक्तवान् । तृतीयसवने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यश्च विभक्तवान् । । एवं सत्यनुष्टुबेका परिशिष्टा तस्या वृत्तान्तमाह - अथाग्न्यादीनां वस्वादीनां च च्छन्दोविभागानन्तरमस्य प्रजापतेः स्वभूतमनुष्टुबाख्यं यच्छन्द आसीत्तामनुष्टुभमुदन्तमभि यज्ञस्य कंचित्प्रान्तदेशमभिलक्ष्योदौहदपसारितवान् । कुत्र देश इति तदुच्यते--अच्छावाकीयामभीति । अच्छावाक वदस्वेत्येवमध्वर्युणोक्तोऽच्छावाको यां ब्रूते सेयमृगच्छावाकीया तामभिलक्ष्योदूढवाननुष्टुभमच्छावाकीयां कृतवानित्यर्थः । तेन कुपिता साऽनु . ष्टुबेवैनं प्रजापतिमब्रवीन्नु हे प्रजापते देवानां मध्ये त्वमेव पापिष्ठोऽसि । यस्य पापिष्ठस्य प्रजापतेस्तवाहं छन्दोऽस्मि । अग्निवस्वादयः पूर्वं छन्दोरहितास्तादृशेभ्योऽपि च्छन्दांसि दत्तवानसि । अहं तु पूर्वमेव त्वदीया तादृशीं मां त्वत्तोऽपसार्याच्छावाकीयामभिलक्ष्योदूढवानसि । अतो मदुपेक्षया भवतः पापिष्ठत्वमित्यनुष्टुभोऽभिप्रायः । तत्सर्वमनुष्टुभा प्रोक्तमुपालम्भरूपं प्रजापतिर्जातवान् । ज्ञात्वा च तदुपालम्भपरिहारार्थं स्वकीयं सोमयागमाहरत् । स तु तस्मिन्सोमयागेऽयं श्रेष्ठं प्रारम्भरूपं यन्मुखमस्ति तदभिलक्ष्यानुष्टुभं पर्याहरत्तत्र नीतवानित्यर्थः । तस्मादु तस्मादेव कारणादियमनुष्टुबग्न्या श्रेष्ठा सती सर्वेषां सवनानां मुख्या मुखे भवा प्रारम्भाकालीना प्रयुज्यते । एतद्वेदनं प्रशंसति-- वेदिता स्वकीयज्ञातीनां मध्येऽग्रे भवोऽग्न्यो ज्येष्ठो मुख्यो व्यवहारनिर्वाहकः । स श्रेष्ठतां विद्यावृत्तादिगुणैः श्रेष्ठत्वं प्राप्नोति । प्रजापतिन्यायेन यजमानस्यापि सवनीययागादावनुष्टुप्प्रयोगं दर्शयति-- यस्मात्स प्रजापतिः स्वकर्तृकं एव सोमयागे तत्सवनेष्वनुष्टुभो मुख्यता मकल्पयत्तस्मादिदानीमपि यत्र क्वापि यागे यज्ञो यजमानवशो भवति । स कल्पत एव । अवैकल्येनानुष्ठास्यामीत्यभिप्रेत्वानुष्टुभः सवनानामादौ प्रयोगे सति यज्ञस्य यजमानवशत्वं तत्र यज्ञो वैकल्यरहितो भवतीत्यर्थः। उक्तवाक्यार्थमेव वाक्यान्तरेण स्पष्टी करोति-- यत्र यस्यां जनसभायामेवमनुष्टुभो महिमानं विद्वान्यजमानो वशी स्ववशो भूत्वा तस्मिन्ननुष्टुभः प्रयोगे सावधानो भूत्वा यजते तस्यै जनतायै तस्यां जनसभायां कल्पते यज्ञः प्रयोजनसमर्थो भवति ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्ये द्वादशाध्याये द्वितीयः खण्डः ॥ २॥ ( १३ ) [८४] }} <poem><span style="font-size: 14pt; line-height:200%">455 अग्निर्वै देवानां होतासीत्तम्मृत्युर्बहिष्पवमानेऽसीदत्सोऽनुष्टुभाज्यम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तमाज्येऽसीदत्स प्रउगेण प्रत्यपद्यत मृत्युमेव तत्प-र्यक्रामत्तम्माध्यंदिने पवमानेऽसीदत्सोऽनुष्टुभा मरुत्वतीयम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तम्माध्यंदिने बृहतीषु नाशक्नोत्सत्तुम्प्राणा वै बृहत्यः प्राणानेव तन्नाशक्नोद्व्यवैतुं तस्मान्माध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते प्राणा वै बृहत्यः प्राणानेव तदभि प्रतिपद्यते तं तृतीयपवमानेऽसीदत्सोऽनुष्टुभा वैश्वदेवम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तं यज्ञायज्ञीयेऽसीदत्स वैश्वानरीये-णाग्निमारुतम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामद्वज्रो वै वैश्वानरीयम्प्रतिष्ठा यज्ञायज्ञीयं वज्रेणैव तत्प्रतिष्ठाया मृत्युं नुदते स सर्वान्पाशान्सर्वान्स्था-णून्मृत्योरतिमुच्य स्वस्त्येवोदमुच्यत स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.14॥ इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत्स परमामेव परावतमगच्छदनुष्टुब्वै परमा परावद्वाग्वा अनुष्टुप् स वाचं प्रविश्याशयत्तं सर्वाणि भूतानि विभज्यान्वैछंस्तं पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मात्पूर्वेद्युः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्ते तेऽब्रुवन्नभिषुणवामैव तथा वाव न आशिष्ठमागमिष्यतीति तथेति तेऽभ्यषुण्वंस्त आ त्वा रथां यथोतय इत्येवैनमावर्तयन्निदं वसो सुतमन्ध इत्येवैभ्यः सुतकीर्त्यामाविरभवदिन्द्र नेदीय एदिहीत्येवैनं मध्यं प्रापादयन्तागतेन्द्रेण यज्ञेन यजते सेन्द्रेण यज्ञेन राध्नोति य एवं वेद॥3.15॥ इन्द्रं वै वृत्रं जघ्निवांसं नास्तृतेति मन्यमानाः सर्वा देवता अजहुस्तं मरुत एव स्वापयो नाजहुः प्राणा वै मरुतः स्वापयः प्राणा हैवैनं तं नाजहुस्तस्मादेषोऽच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति। अपि ह यद्यैन्द्रमेवात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वं मरुत्वतीयं भवत्येष चेदच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति॥3.16॥ (12.5) (87) ब्राह्मणस्पत्यम्प्रगाथं शंसति बृहस्पतिपुरोहिता वै देवा अजयन्स्वर्गं लोकं व्यस्मिँ ल्लोकेऽजयन्त तथैवैतद्यजमानो बृहस्पतिपुरोहित एव जयति स्वर्गं लोकं व्यस्मिँ ल्लोके जयते तौ वा एतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तदाहुर्यन्न किं चनास्तुतं सत्पुनरादायं शस्यतेऽथ कस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते इति पवमानोक्थं वा एतद्यन्मरुत्वतीयं षट्सु वा अत्र गायत्रीषु स्तुवते षट्सु बृबतीषु तिसृषु त्रिष्टुप्सु स वा एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानस्तदाहुः कथं त एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानोऽनुशास्तो भवतीति ये एव गाय त्र्?या उत्तरे प्रतिपदो यो गाय-त्रोऽनुचरस्ताभिरेवास्य गायत्र्योऽनुशस्ता भवन्त्येताभ्यामेवास्य प्रगाथाभ्या-म्बृहत्योऽनुशस्ता भवन्ति तासु वा एतासु बृहतीषु सामगा रौरवयौ-धाजयाभ्याम्पुनरादायं स्तुवते तस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तच्छस्त्रेण स्तोत्रमन्वैति ये एव त्रिष्टुभौ धाय्ये यत्त्रैष्टुभं निवि-द्धानम्ताभिरेवास्य त्रिष्टुभोऽनुशस्ता भवन्त्येवमु हास्यैष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानो नुशस्तो भवति य एवं वेद॥3.17॥ धाय्याः शंसति धाय्याभिर्वै प्रजापतिरिमाँ ल्लोकानधयद्यं-यं काममकामयत तथैवैतद्यजमानो धाय्याभिरेवेमाँ ल्लोकान्धयति यं-यं कामां कामयते य एवं वेद यदेव धाय्याः यत्रयत्र वै देवा यज्ञस्य छिद्रं निरजानंस्तद्धाय्याभिर-पिदधुस्तद्धाय्यानां धाय्यात्वमछिद्रे ण हास्य यज्ञेनेष्टम्भवति य एवं वेद यद्वेव धाय्याः स्यूम हैतद्यज्ञस्य यद्धाय्यास्तद्यथा सूच्या वासः संदधदियादे-वमेवैताभिर्यज्ञस्य छिद्रं संदधदेति य एवं वेद यद्वेव धाय्याः तान्यु वा एतान्युपसदामेवोक्थानि यद्धाय्या <ref>ऋ.[[ऋग्वेदः सूक्तं ३.२०|३.२०.४]]</ref>अग्निर्नेतेत्याग्नेयी प्रथमोपसत्तस्या एतदुक्थं त्वं सोम क्रतुभिरिति<ref>ऋ. [[ऋग्वेदः सूक्तं १.९१|१.९१.२]]</ref> सौम्या द्वितीयोपसत्तस्या एतदुक्थम्पिन्वन्त्यप इति<ref>ऋ. [[ऋग्वेदः सूक्तं १.६४|१.६४.६]]</ref> वैष्णवी तृतीयोपसत्तस्या एतदुक्थं यावन्तं ह वै सौम्येनाध्वरेणेष्ट्वा लोकं जयति तमत एकैकयोपसदा जयति य एवं वेद यश्चैवं विद्वान्धाय्याः शंसति तद्धैक आहुस्तान्वो मह इति<ref>ऋ. [[ऋग्वेदः सूक्तं २.३४|२.३४.११]]</ref> शंसेदेतां वाव वयम्भरतेषु शस्यमानामभिव्यजानीम इति वदन्तस्तत्तन्नादृत्यं यदेतां शंसेदीश्वरः पर्जन्योऽवर्ष्टोः पिन्वन्त्यप इत्येव<ref>ऋ. [[ऋग्वेदः सूक्तं १.६४|१.६४.६]]</ref> शंसेद्वृष्टिवनि पदम्मरुत इति मारुतमत्यं न मिहे वि नयन्तीति विनीतवद्यद्विनीतवत्तद्विक्रान्तवद्यद्विक्रान्तवत्तद्वैष्णवं वाजिनमितीन्द्रो वै वाजी तस्यां वा एतस्यां चत्वारि पदानि वृष्टिवनि मारुतं वैष्णवमैन्द्रं सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यते तस्माद्धेदम्भरतानाम्पशवः सायंगोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति सो जगती जागता हि पशव आत्मा यजमानस्य मध्यंदिनस्तद्यजमाने पशून्दधाति॥3.18॥ मरुत्वतीयं प्रगाथं शंसति पशवो वै मरुतः पशवः प्रगाथः पशूनामवरुद्ध्यै। जनिष्ठा उग्रः सहसे तुरायेति ([[ऋग्वेदः सूक्तं १०.७३|१०.७३]]) सूक्तं शंसति तद्वा एतद्यजमानजननमेव सूक्तं यजमानं ह वा एतेन यज्ञाद्देवयोन्यै प्रजनयति। तत्संजयं भवति सं च जयति वि च जयते। एतद्गौरिवीतं गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठं स्वर्गस्य लोकस्यागच्छत्स एतत्सूक्तमपश्यत्तेन स्वर्गं लोकमजयत्तथैवैतद्यजमान एतेन सूक्तेन स्वर्गं लोकं जयति। तस्यार्धाः शस्त्वाऽर्धाः परिशिष्य मध्ये निविदं दधाति। स्वर्गस्य हैष लोकस्य रोहो यन्निवित्। स्वर्गस्य हैतल्लोकस्याऽऽक्रमणं यन्निवित्तामाक्रममाण इव शंसेदुपैव यजमानं निगृह्णीत योऽस्य प्रियः स्यादिति नु स्वर्गकामस्य। अथाभिचरतो यः कामयेत क्षत्त्रेण विशं हन्यामिति त्रिस्तर्हि निविदा सूक्तं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं क्षत्त्रेणैव तद्विशं हन्ति। यः कामयेत विशा क्षत्त्रं हन्यामिति त्रिस्तर्हि सूक्तेन निविदं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं विशैव तत्क्षत्त्रं हन्ति। य उ कामयेतोभयत एनं विशः पर्यवच्छिनदानीत्युभयतस्तर्हि निविदं व्याह्वयीतोभयत एवैनं तद्विशः पर्यवच्छिनत्ति। इति न्वभिचरत इतरथा त्वेव स्वर्गकामस्य। वयः सुपर्णा उपसेदुरिन्द्रमिति([[ऋग्वेदः सूक्तं १०.७३|१०.७३.११]]) उत्तमया परिदधाति। प्रियमेधा ऋषयो नाधमानाः। अप ध्वान्तमू्र्णुहीति येन तमसा प्रावृतो मन्येत तन्मनसा गच्छेदप हैवास्मात्तल्लुप्यते। पूर्धि चक्षुरिति चक्षुषी मरीमृज्येत। आजरसं ह चक्षुष्मान्भवति य एवं वेद। मुमुग्ध्यस्मान्निधयेव बद्धानिति पाशा वै निधा मुमुग्ध्यस्मान्पाशादिव बद्धानित्येव तदाह॥3.19॥ (12.8) (90) इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीदनु मोपतिष्ठध्वमुप मा ह्वयध्वमिति तथेति तं हनिष्यन्त आद्र वन्सोऽवेन्मां वै हनिष्यन्त आद्रवन्ति हन्तेमान्भीषया इति तानभिप्राश्वसीत्तस्य श्वसथादीषमाणा विश्वे देवा अद्र वन्मरुतो हैनं नाजहुः प्रहर भगवो जहि वीरयस्वेत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त तदेतदृषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा आजहुर्ये सखायः मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासीति(ऋ.[[ऋग्वेदः सूक्तं ८.९६|८.९६.७]]) सोऽवेदिमे वै किल मे सचिवा इमे माऽकामयन्त हन्तेमानस्मिन्नुक्थ आभजा इति तानेतस्मिन्नुक्थ आभजदथ हैते तर्ह्युभे एव निष्केवल्ये उक्थे आसतुर्मरुत्वतीयं ग्रहं गृह्णाति मरुत्वतीयं प्रगाथं शंसति मरुत्वतीयं सूक्तं शंसति मरुत्वतीयां निविदं दधाति मरुतां सा भक्तिर्मरुत्वतीयमुक्थं शस्त्वा मरुत्वतीयया यजति यथाभागं तद्देवताः प्रीणाति ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिरिति(ऋ.[[ऋग्वेद: सूक्तं ३.४७|३.४७.४]]) यत्रयत्रैवैभिर्व्यजयत यत्र वीर्यमकरोत्तदेवैतत्समनुवेद्येन्द्रेणैनान्ससोमपीथान्करोति॥3.20॥ इन्द्रो वै वृत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीत्प्रजापतिमहमेतदसानि यत्त्व-महम्महानसानीति स प्रजापतिरब्रवीदथ कोऽहमिति यदेवैतदवोच इत्य-ब्रवीत्ततो वै को नाम प्रजापतिरभवत्को वै नाम प्रजापतिर्यन्महा-निन्द्रोऽभवत्तन्महेन्द्र स्य महेन्द्र त्वं स महान्भूत्वा देवता अब्रवीदुद्धारम्म उद्धरतेति यथाप्येतर्हीछति यो वै भवति यः श्रेष्ठतामश्नुते स महान्भवति तं देवा अब्रुवन् स्वयमेव ब्रूष्व यत्ते भविष्यतीति स एतम्माहेन्द्रं ग्रहमब्रूत माध्यंदिनं सवनानां निष्केवल्यमुक्थानां त्रिष्टुभं छन्दसाम्पृष्ठं साम्नां तमस्मा उद्धारमुदहरनु उदस्मा उद्धारं हरन्ति य एवं वेद तां देवा अब्रुवन्सर्वं वा अवोचथा अपि नोऽत्रास्त्विति स नेत्यब्रवीत्कथं वोऽपिस्यादिति तमब्रुवन्नप्येव नो स्तु मघवन्निति तानीक्षतैव॥3..21॥ ते देवा अब्रुवन्नियं वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नामास्यामेवेच्छामहा इति तथेति तस्यामैच्छन्त सैनानब्रवीत्प्रातर्वः प्रतिवक्तास्मीति तस्मात्स्त्रियः पत्याविच्छन्ते तस्मादु स्त्र्यिनुरात्रम्पत्याविच्छते तां प्रातरुपायन्सैतदेव प्रत्यपद्यत यद्वावान पुरुतमं पुराषाळ् ([https://sa.wikisource.org/s/139e १०.७४.६]) आ वृत्रहेन्द्रो नामान्यप्राः अचेति प्रासहस्पतिस्तुविष्मानितीन्द्रो वै प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तदिति यदेवैतदवोचामाकरत्तदित्येवैनांस्तदब्रवीत्ते देवा अब्रुवन्नप्यस्या इहास्तु या नोऽस्मिन्न वै कमविददिति तथेति तस्या अप्यत्राकुर्वंस्तस्मादेषात्रापि शस्यते यद्वावान पुरुतमं पुराषाळ् इति सेना वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नाम को नाम प्रजापतिः श्वशुरस्तद्यास्य कामे सेना जयेत्तस्या अर्धात्तिष्ठंस्तृणमुभयतः परिछिद्येतरां सेनामभ्यस्येत्प्रासहे कस्त्वा पश्यतीति तद्यथैवादः स्नुषा श्वशुराळ् लज्जमाना निलीयमानैत्येवमेव सा सेना भज्यमाना निलीयमानैति यत्रैवं विद्वांस्तृणमुभयतः परिछिद्येतरां सेनां अभ्यस्यति प्रासहे कस्त्वा पश्यतीति तानिन्द्र उवाचापि वोऽत्रास्त्विति ते देवा अब्रुवन्विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च देवता अक्षरभाजः करोत्यक्षरमक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेतानायतनवान्स्यादित्यविराजास्य यजेद्गायत्र्या वा त्रिष्टुभा वान्येन वा छन्दसा वषट्कुर्यादनायतनवन्तमेवैनं तत्करोति यं कामयेतायतनवान्स्यादिति विराजाऽस्य यजेत्पिबा सोममिन्द्र मन्दतु त्वेत्येतयायतनवन्तमेवैनं तत्करोति॥3.22॥ ऋक्च वा इदमग्रे साम चाऽऽस्तां सैव नाम ऋगासीदमो नाम साम सा वा ऋक्सामोपावदन्मिथुनं संभवाव प्रजात्या इति नेत्यब्रवीत्साम ज्यायान्वा अतो मम महिमेति ते द्वे भूत्वोपावदतां तेन प्रतिचन समवदत तास्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवद्यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम संमितं तस्मादेकस्य बह्व्यो जाया भवन्ति नैकस्यै बहवः सह पतयो यद्वै तत्सा चामश्च समभवतां तस्सामाभवत्तत्साम्नः सामत्वम्। सामन्भवति य एवं वेद। यो वै भवति यः श्रेष्ठतामश्नुते स सामन्भवत्यसामन्य् इति हि निन्दन्ति। ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतामाहावश्च हिंकारश्च प्रस्तावश्च प्रथमा च ऋगुद्गीथश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनं च वषट्कारश्च। ते यत्पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः पाङ्क्ताः पशव इति। यदु विराजं दशिनीमभिसमपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति। आत्मा वै स्तोत्रियः प्रजाऽनुरूपः पत्नी धाय्या पशवः प्रगाथो गृहाः सूक्तम्। स वा अस्मिंश्च लोकेऽमुष्मिंश्च प्रजया पशुभिश्च गृहेषु वसति य एवं वेद॥3.23॥ (12.12) (94) स्तोत्रियं शंसत्यात्मा वै स्तोत्रियः। तं मध्यमया वाचा शंसत्यात्मानमेव तत्संस्कुरुते। अनुरूपं शंसति प्रजा वा अनुरूपः। स उच्चैस्तरामिवानुरूपः शंस्त्व्यः प्रजामेव तच्छ्रेयसीमात्मनः कुरुते। धाय्यां शंसति पत्नी वै धाय्या। सा नीचैस्तरामिव धाय्या शंस्तव्या। अप्रतिवादिनी हास्य गृहेषु पत्नी भवति यत्रैवं विद्वान्नीचैस्तरां धाय्यां शंसति। प्रगाथं शंसति। स स्वरवत्या वाचा शंस्तव्यः पशवो वै स्वरः पशवः प्रगाथः पशूनामवरुद्ध्यै। इन्द्रस्य नु वीर्याणि प्रवोचमिति सूक्तं शंसति। तद्वा एतत्प्रियमिन्द्रस्य सूक्तं निष्केवल्यं हैरण्यस्तूपमेतेन वै सूक्तेन हिरण्यस्तूप आङ्गिरस इन्द्रस्य प्रियं धामोपागच्छत्स परमं लोकमजयत्। उपेन्द्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद। गृहा वै प्रतिष्ठा सूक्तं तत्प्रतिष्ठिततमया वाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूँल्लभते गृहानेवैनानाजिगमिषति गृहा हि पशूनां प्रतिष्ठा प्रतिष्ठा॥3.24॥ (12.13) (95) सोमो वै राजामुष्मिँल्लोक आसीत्तं देवाश्च ऋषयश्चाभ्याध्यायन्कथमयमस्मान्सोमो राजागच्छेदिति तेऽब्रुवंश्छन्दांसि यूयं न इमं सोमं राजानमाहरतेति तथेति ते सुपर्णा भूत्वोदपतंस्ते यत्सुपर्णा भूत्वोदपतंस्तदेतत्सौपर्णमित्याख्यानविद आचक्षते छन्दांसि वै तत्सोमं राजानमच्छाचरंस्तानि ह तर्हि चतुरक्षराणिचतुरक्षराण्येव छन्दांस्यासन्सा जगती चतुरक्षरा प्रथमोदपतत्सा पतित्वार्धमध्वनो गत्वाश्राम्यत्सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत्तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति जागता हि पशवो जगती हि तानाहरदथ त्रिष्टुबुदपतत्सा पतित्वा भूयोऽर्धादध्वनो गत्वाश्राम्यत्सा परास्यैकमक्षरं त्र्यक्षरा भूत्वा दक्षिणा हरन्ती पुनरभ्यवापतत्तस्मान्मध्यंदिने दक्षिणा नीयन्ते त्रिष्टुभो लोके त्रिष्टुब्भि ता आहरत्॥3.25॥ ते देवा अब्रुवन्गायत्रीं त्वं न इमं सोमं राजानमाहरेति सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति तथेति सोदपतत्तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेत्येतद्वै सर्वं स्वस्त्ययनं यत्प्रेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति। सा पतित्वा सोमपालान्भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात्। तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत्तच्छल्यकोऽभवत्तस्मात्स नखमिव यद्वशमस्रवत्सा वशाऽभवत्तस्मात्सा हविरिवाथ यः शल्यो यदनीकमासीत्स सर्पो निर्दंश्यभवत्सहसः स्वजो यानि पर्णानि ते मन्थावला यानि स्नावानि ते गण्डूपदा यत्तेजनं सोऽन्धाहिः सो सा तथेषुरभवत्॥3.26॥ (13.2) (97) सा यद्दक्षिणेन पदा समगृभ्णात्तत्प्रातःसवनमभवत्तद्गायत्री स्वमायतनमकुरुत तस्मात्तत्समृद्धतमं मन्यन्ते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेदाथ यत्सव्येन पदा समगृ्भ्णात्तन्माध्यंदिनं सवनमभवत्तद्विस्रंसत तद्विस्रस्तं नान्वाप्नोत्पूर्वं सवनं ते देवाः प्राजिज्ञासन्त तस्मिंस्त्रिष्टुभं छन्दसामदधुरिन्द्रं देवतानां तेन तत्समावद्वीर्यमभवत्पूर्वेण सवनेनोभाभ्यां सवनाभ्यां समावद्वीर्याभ्यां समावज्जामीभ्यां राध्नोति य एवं वेदाथ यन्मुखेन समगृभ्णात्तत्तृतीयसवनमभवत्। तस्य पतन्ती रसमधयत्तद्धीतरसं नान्वाप्नोत्पूर्वे सवने ते देवाः प्राजिज्ञासन्त तत्पशुष्वपश्यंस्तद्यदाशिरममवनयन्त्याज्येन पशुना चरन्ति तेन तत्समावद्वीर्यमभवत्पूर्वाभ्यां सवनाभ्याम्। सर्वैः सवनैः समावद्वीर्यैः समावज्जामिभीराध्नोति य एवं वेद॥3.27॥ (13.3) (98) ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेतां वित्तं नावक्षराण्यनुपर्यागुरिति नेत्यब्रवीद्गायत्री यथावित्तमेव न इति ते देवेषु प्रश्नमैतां ते देवा अब्रुवन् यथावित्तमेव व इति तस्माद्धाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति ततो वा अष्टाक्षरा गाय त्र्?यभव त्त्र्?यक्षरा त्रिष्टुबेकाक्षरा जगती साष्टाक्षरा गायत्री प्रातःसवनमुदयछन्नाशक्नोत्त्रिष्टुप्त्र्यक्षरा माध्यंदिनं सवनमुद्यन्तुं तां गाय- त्र्?यह्रवीदायान्यपि मेऽत्रास्त्विति सा तथेत्यब्रवीत्त्रिष्टुप् तां वै मैतैरष्टाभि-रक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै मध्यंदिने यन्मरुत्वती-यस्योत्तरे प्रतिपदो यश्चानुचरः सैकादशाक्षरा भूत्वा माध्यंदिनं सवनमुदय-छन्नाशक्नोज्जगत्येकाक्षरा तृतियसवनमुद्यन्तुं तां गाय त्र्?यब्रवीदायान्यपि मेऽत्रा-स्त्विति सा तथेत्यब्रवीज्जगति तां वै मैतैरेकादशभिरक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै तृतीयसवने यद्वैश्वदेवस्योत्तरे प्रतिपदो यश्चानुचरः सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयछत्ततो वा अष्टाक्षरा गाय त्र्?य-भवदेकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती सर्वैश्छन्दोभिः समावद्वीर्यैः समावज्जामिभी राध्नोति य एवं वेदैकं वै सत्तत्त्रेधाभवत्तस्मादाहुर्दातव्यमेवं विदुष इत्येकं हि सत्तत्त्रेधा भवत्॥3.28॥ ते देवा अब्रुवन्नादित्यान्युष्माभिरिदं सवनमुद्यछामेति तथेति तस्मादा-दित्यारम्भणं तृतीयसवनमादित्यग्रहः पुरस्तात्तस्य यजत्य् आदित्यासो अदितिर्मादयन्तामिति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानु-वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणा आदित्या नेत्प्राणान्संस्थापयानीति त आदित्या अब्रुवन्सवितारं त्वयेदं सह सवनमुद्यछामेति तथेति तस्मात्सावित्री प्रतिपद्भवति वैश्वदेवस्य सावित्रग्रहः पुरस्तात्तस्य यजति दमूना देवः सविता वरेण्य इति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानुन्वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणः सविता नेत्प्राणं संस्थापयानीत्युभे वा एष एते सवने विपिबति यत्सविता प्रातःसवनं च तृतीयसवनं च तद्य-त्पिबवत्सावि त्र्?यै निविदः पदम्पुरस्ताद्भवति मद्वदुपरिष्टादुभयोरेवैनं तत्सव-नयोराभजति प्रातःसवने च तृतीयसवने च बह्व्यः प्रातर्वायव्याः शस्यन्त एका तृतीयसवने तस्मादूर्ध्वाः पुरुषस्य भूयांसः प्राणा यच्चावाञ्चो द्यावापृथिवीयं शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीयं शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति॥3.29॥ आर्भवं शंसत्यृभवो वै देवेषु तपसा सोमपीथमभ्यजयंस्तेभ्यः प्रातःसवने-ऽवाचिकल्पयिषंस्तानग्निर्वसुभिः प्रातःसवनादनुदत तेभ्यो माध्यंदिने सवने-ऽवाचिकल्पयिषंस्तानिन्द्रो रुद्रै र्माध्यंदिनात्सवनादनुदत तेभ्यस्तृतीयसवने-ऽवाचिकल्पयिषंस्तान्विश्वे देवा अनोनुद्यन्त नेह पास्यन्ति नेहेति स प्रजा-पतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवैभिः सम्पिबस्वेति स तथेत्य-ब्रवीत्सविता तान्वै त्वमुभयतः परिपिबेति तान्प्रजापतिरुभयतः पर्यपिबत्ते एते धाय्ये अनिरुक्ते प्राजापत्ये शस्येते अभित आर्भवं सुरुपकृत्नुमूतयेऽयं वेन-श्चोदयत्पृश्निगर्भा इति प्रजापतिरेवैनांस्तदुभयतः परिपिबति तस्मादु श्रेष्ठी पात्रे रोचयत्येव यं कामयते तं तेभ्यो वै देवा अपैवाबीभत्सन्त मनुष्यगन्धात्त एते धाय्ये अन्तरदधत येभ्यो मातैवा पित्र इति॥3.30॥ वैश्वदेवं शंसति यथा वै प्रजा एवं वैश्वदेवं तद्यथाऽन्तरं जनता एवं सूक्तानि यथारण्यान्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्तान्यरण्यानि सन्त्यनरण्यानि मृगैश्च वयोभिश्चेति ह स्माह यथा वै पुरुष एवं वैश्वदेवं तस्य यथावन्तरमङ्गान्येवं सूक्तानि यथा पर्वाण्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्पुरुषस्य पर्वाणि शिथिराणि सन्ति दृळ्हानि ब्रह्मणाऽऽहितानि धृतानि मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च तद्यदन्यान्या धाय्याश्च याज्याश्च कुर्युरुन्मूलमेव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः पाञ्चजन्यं वा एतदुक्थं यद्वैश्वदेवं सर्वेषां वा एतत्पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां चैतेषां वा एतत्पञ्चजनानामुक्थं सर्व एनं पञ्चजना विदुरैनं पञ्चिन्यै जनतायै हविनो गच्छन्ति य एवं वेद सर्वदेवत्यो वा एष होता यो वैश्वदेवं शंसति सर्वा दिशो ध्यायेच्छंसिष्यन्सर्वास्वेव तद्दिक्षु रसं दधाति यस्यामस्य दिशि द्वेष्यः स्यान्न तां ध्यायेदनुहायैवास्य तद्वीर्यमादत्तेऽदितिर्द्यौरदितिरन्तरिक्षमित्युत्तमया परिदधातीयं वा अदितिरियं द्यौरियं अन्तरिक्षमदितिर्माता स पिता स पुत्र इतीयं वै मातेयं पितेयं पुत्रो विश्वे देवा अदितिः पञ्च जना इत्यस्यां वै विश्वे देवा अस्यां पञ्चजनाः अदितिर्जातमदितिर्जनित्वमितीयं वै जातमियं जनित्वं द्विः पच्छः परिदधाति चतुष्पादा वै पशवः पशूनामवरुद्ध्यै सकृदर्धर्चशः प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति सदैव पञ्चजनीयया परिदध्यात्तदुपस्पृशन्भूमिं परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयति विश्वे देवाः शृणुतेमं हवं म इति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.31॥ आग्नेयी प्रथमा घृतयाज्या सौमी सौम्ययाज्या वैष्णवी घृतयाज्या त्वं सोम पितृभिः संविदान इति सौम्यस्य पितृमत्या यजति। घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यः पितृभ्यो वा अनुस्तरणी तस्मात्सौम्यस्य पितृमत्या यजति। अवधिषुर्वा एतत्सोमं यदभ्यसुषवुस्तदेनं पुनः संभावयन्ति। पुनराप्याययन्त्युपसदां रूपेणोपसदां किल वै तद्रूपं यदेता देवता अग्निः सोमो विष्णुरिति। प्रतिगृह्य सौम्यं होता पूर्वश्छन्दोगेभ्योऽवेक्षेत। तं हैके पूर्वं छन्दोगेभ्यो हरन्ति तत्तथा न कुर्याद् वषट्कर्ता प्रथमः सर्वभक्षान्भक्षयतीति ह स्माऽऽह तेनैव रूपेण तस्माद् वषट्कर्तैव पूर्वोऽवेक्षेताथैनं छन्दोगेभ्यो हरन्ति॥3.32॥ (13.8) (103) प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये तामृश्यो भूत्वा रोहितं भूतामभ्यैत्तं देवा अपश्यन्नकृतं वै प्रजापतिः करोतिति ते तमैच्छन्य एनमारिष्यत्येतमन्योन्यस्मिन्नाविन्दंस्तेषां या एव घोरतमास्तन्व आसंस्ता एकधा समभरंस्ताः संभूता एष देवोऽभवत्तदस्यैतद्भूतवन्नाम। भवति वै स योऽस्यैतदेवं नाम वेद। तं देवा अब्रुवन्नयं वै प्रजापतिरकृतमकरिमं विध्येति स तथेत्यब्रवीत्स वै वो वरं वृणा इति वृणीष्वेति स एतमेव वरमवृणीत पशूनामाधिपत्यं तदस्यैतत्पशुमन्नाम। पशुमान्भवति योऽस्यैतदेवं नाम वेद। तमभ्यायत्याविध्यत्स विद्ध ऊर्ध्व उदप्रपतत्तमेतं मृग इत्याचक्षते य उ एव मृगव्याधः स उ एव स या रोहित्सा रोहिणी यो एवेषुस्त्रिकाण्डा सो एवेषुस्त्रिकाण्डा। तद्वा इदं प्रजापते रेतः सिक्तमधावत्तत्सरोऽभवत्ते देवा अब्रुवन्मेदं प्रजापते रेतो दुषदिति यदब्रुवन्मेदं प्रजापते रेतोदुषदिति तन्मादुषमभवत्तन्मादुषस्य मादुषत्वं मादुषं ह वै नामैतद्यन्मानुषं सन्मानुषमित्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः॥3.33॥ (13.9) (104) तदग्निना पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्न प्राच्यावयत्तदग्निना वैश्वानरेण पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्वैश्वानरः प्राच्यावयत्तस्य यद्रेतसः प्रथममुददीप्यत तदसावादित्योऽभवद्यद् द्वितीयमासीत्तद्भृगुरभवत्तं वरुणो न्यगृह्णीत तस्मात्स भृगुर्वारुणिरथ यत्तृतीयमदीदेदिव त आदित्या अभवन्येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद्बृहस्पतिरभवद्यानि परिक्षाणान्यासंस्ते कृष्णा पशवोऽभवन्या लोहिनी मृत्तिका ते रोहिता अथ यद्भस्मासीत्तत्परुष्यं व्यसर्पद्गौरो गवय ऋश्य उष्ट्रो गर्दभ इति ये चैतेऽरुणाः पशवस्ते च तान्वा एष देवोऽभ्यवदत मम वा इदम्मम वै वास्तुहमिति तमेतयर्चा निरवादयन्त यैषा रौद्री शस्यत आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इत्यनभिमानुको हैष देवः प्रजा भवति प्र जायेमहि रुद्रिय प्रजाभिरिति ब्रूयान्न रुद्रेत्येतस्यैव नाम्नः परिहृत्यै तदु खलु शं नः करतीत्येव शंसेच् छमिति प्रतिपद्यते सर्वस्मा एव शान्त्यै नृभ्यो नारिभ्यो गव इति पुमांसो वै नरः स्त्रियो नार्यः सर्वस्मा एव शान्त्यै सोऽनिरुक्ता रौद्री शान्ता सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद। सो गायत्री ब्रह्म वै गायत्री ब्रह्मणैवैनं तं नमस्यति॥3.34॥ वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते वैश्वानरो वा एतद्रेतः सिक्तं प्राच्यावयत्तस्माद्वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते। अनवानं प्रथम ऋक्शंस्तव्याऽग्नीन्वा एषोऽर्चींष्यशान्तान्प्रसीदन्नेति य आग्निमारुतं शंसति प्राणेनैव तदग्नींस्तरति। अधीयन्नुपहन्यादन्यं विवक्तारमिच्छेत्तमेव तत्सेतुं कृत्वा तरति। तस्मादाग्निमारुते न व्युच्यमेष्टव्यो विवक्ता। मारुतं शंसति मरुतो ह वा एतद्रेतः सिक्तं धून्वन्तः प्राच्यावयंस्तस्मान्मारुतं शंसति। यज्ञा यज्ञा वो अग्नये देवो वो द्रविणोदा इति मध्ये योनिं चानुरूपं च शंसति तद्यन्मध्ये योनिं चानुरूपं च शंसति तस्मान्मध्ये योनिर्धृता। यदु द्वे सूक्ते शस्त्वा शंसति प्रतिष्ठयोरेव तदुपरिष्टात्प्रजननं दधाति प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद॥3.35॥ (13.11) (106) जातवेदस्यं<ref>ऋ. [https://sa.wikisource.org/s/1344 १.१४३.१]</ref> शंसति प्रजापतिः प्रजा आसृजत ताः सृष्टाः पराच्य एवायन्न व्यावर्तन्त त अग्निना पर्यगच्छत्ता अग्निमुपावर्तन्त तमेवाद्याप्युपावृत्ताः सोऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वं ता अग्निना परिगता निरुद्धाः शोचन्त्यः दीध्यत्योऽतिष्ठंस्ता अद्भिरभ्यषिञ्चत्तस्मादुपरिष्टाज्जातवेदस्यस्य आापोहिष्ठीयं<ref>ऋ. [https://sa.wikisource.org/s/13lv १०.९.१]</ref> शंसति तस्मात्तच्छमयतेव शंस्तव्यं ता अद्भिरभिषिच्य निजास्यैवामन्यत तासु वा अहिना बुध्न्येन परोक्षात्तेजोऽदधादेष ह वा [https://puranastudy.angelfire.com/pur_index2/ahirbudhnya.htm अहिर्बुध्न्यो] यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन परोक्षात्तेजो दधाति तस्मादाहुर्जुह्वदेवाजुह्वतो वसीयानिति॥3.36॥ देवानाम्पत्नीः शंसत्यनूचीरग्निं गृहपतिं तस्मादनूची पत्नी गार्हपत्यमास्ते तदाहू राकाम्पूर्वां शंसेज्जाम्यै वै पूर्वपेयमिति तत्तन्नादृत्यं देवानामेव पत्नीः पूर्वाः शंसेदेष ह वा एतत्पत्नीषु रेतो दधाति यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन पत्नीषु प्रत्यक्षाद्रे तो दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद तस्मात्समानोदर्या स्वसान्योदार्ययै जायाया अनुजीविनी जीवति राकां शंसति राका ह वा एताम्पुरुषस्य सेवनीं सीव्यति यैषा शिश्नेऽधि पुमांसोऽस्य पुत्रा जायन्ते य एवं वेद पावीरवीं शंसति वाग्वै सरस्वती पावीरवी वाच्येव तद्वाचम्दधाति तदाहुर्यामीम्पूर्वां शंसेत् पि त्र्?यामिति यामीमेव पूर्वां शंसेदिमं यम प्रस्तरमा हि सीदेति राज्ञो वै पूर्वपेयं तस्माद्यामीमेव पूर्वां शंसेन्मातली कव्यैर्यमो अङ्गिरोभिरिति काव्यानामनूचीं शंसत्यवरेणैव वै देवान्काव्याः परेणैव पितॄंस्तस्मात्काव्यानामनूचीं शंसत्युदीरतामवर उत्परास इति पि त्र्?याः शंसत्युन्मध्यमाः पितरः सोम्यास इति ये चैवावमा ये च परमा ये च मध्यमास्तान्सर्वाननन्तरायम्पॄणात्याहम्पितॄन्सुविदत्राँ अवित्सीति द्वितीयां शंसति बर्हिषदो ये स्वधया सुतस्येत्येतद्ध वा एषाम्प्रियं धाम यद्बर्हिषद इति प्रियेणैवैनांस्तद्धाम्ना समर्धयति प्रियेण धाम्ना समृध्यते य एवं वेदेदम्पितृभ्यो नमो अस्त्वद्येति नमस्कारवतीमन्ततः शंसति तस्मादन्ततः पितृभ्यो नमस्क्रियते तदाहुर्व्याहावम्पि त्र्?याः शंसेदव्याहावामिति व्याहावमेव शंसेदसंस्थितं वै पितृयज्ञस्य साध्वसंस्थितं वा एष पितृयज्ञं संस्थापयति योऽव्याहावं शंसति तस्माद्व्याहावमेव शंस्तव्यम्॥3.37॥ स्वादुष्किलायम्मधुमाँ उतायमितीन्द्रस्यैन्द्रीरनुपानीयाः शंसत्येताभिर्वा इन्द्रस्तृतीयसवनमन्वपिबत्तदनुपानीयानामनुपानीयात्वम् माद्यन्तीव वै तर्हि देवता यदेता होता शंसति तस्मादेतासु मद्वत्प्रतिगीर्यं ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणीमृचं शंसति विष्णुर्वै यज्ञस्य दुरिष्टम्पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै विष्णोर्नु कं वीर्याणि प्र वोचमिति वैष्णवीं शंसति यथा वै मत्यमेवं यज्ञस्य विष्णुस्तद्यथा दुष्कृष्टं दुर्मतीकृतं सुकृष्टं सुमतीकृतं कुर्वन्नियादेवमेवैतद्यज्ञस्य दुष्टुतं दुःशस्तं सुष्टुतं सुशस्तं कुर्वन्नेति यदेतां होता शंसति तन्तुं तन्वन्रजसो भानुमन्विहीति प्राजापत्यां शंसति प्रजा वै तन्तुः प्रजामेवास्मा एतत्संतनोति ज्योतिष्मतः पथो रक्ष धिया कृतानिति देवयाना वै ज्योतिष्मन्तः पन्थानस्तानेवास्मा एतद्वितनोत्यनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनमित्येवैनं तन्मनोः प्रजया संतनोति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवम्वेदैवा न इन्द्रो मघवा विरप्शीत्युत्तमया परिदधातीयं वा इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वेतीयं वै सत्या चर्षणीधृदनर्वा त्वं राजा जनुषां धेह्यस्मे इतीयं वै राजा जनुषामधि श्रवो माहिनं यज्जरित्र इतीयं वै माहिनं यज्ञः श्रवो यजमानो जरिता यजमानायैवैतामाशिषमाशास्ते तदुपस्पृशन्भूमिम्परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयत्यग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिरित्याग्निमारुतमुक्थं शस्त्वाग्निमारुत्या यजति यथाभागं तद्देवताः प्रीणाति प्रीणाति॥3.38॥ देवा वा असुरैर्युद्धमुपप्रायन्विजयाय तानग्निर्नान्वकामयतैतुं तं देवा अब्रुवन्न् अपि त्वमेह्यस्माकं वै त्वमेकोऽसीति स नास्तुतोऽन्वेष्यामीत्यब्रवीत्स्तुत नु मेति तं ते समुत्क्रम्योपनिवृत्यास्तुवंस्तान्स्तुतोऽनुप्रैत्स त्रिःश्रेणिर्भूत्वा त्र्यनीकोऽसुरान्युद्धमुपप्रायद्विजयाय त्रिःश्रेणिरिति छन्दांस्येव श्रेणीरकुरुत त्र्यनीक इति सवनान्येवानीकानि तानसम्भाव्यम्पराभावयत्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद सा वा एषा गायत्र्येव यदग्निष्टोमश्चतुर्विंशत्यक्षरा वै गायत्री चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तद्वै यदिदमाहुः सुधायां ह वै वाजि सुहितो दधातीति गायत्री वै तन्न ह वै गायत्री क्षमा रमत ऊर्ध्वा ह वा एषा यजमानमादाय स्वारेतित्यग्निष्टोमो वै तन्न ह वा अग्निष्टोमः क्षमा रमत ऊर्ध्वो ह वा एष यजमानमादाय स्वरेति स वा एष संवत्सर एव यदग्निष्टोमश्चतुर्विंशत्यर्धमासो वै संवत्सरश्चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तं यथा समुद्रं श्रोत्या एवं सर्वे यज्ञक्रतवोऽपियन्ति॥3.39॥</span></poem> [[File:सोमक्रयणम् Soma purchase.jpg|thumb|सोमक्रयणम्]] [[File:आतिथ्येष्टिः Guest Soma.jpg|thumb|आतिथ्येष्टिः.]] <poem><span style="font-size: 14pt; line-height: 200%">दीक्षणीयेष्टिस्तायते तामेवानु याः काश्चेष्टयस्ताः सर्वा अग्निष्टोममपियन्तीळामुपह्वयत इळाविधा वै पाकयज्ञा इळामेवानु ये केच पाकयज्ञास्ते सर्वेऽग्निष्टोममपियन्ति सायं प्रातरग्निहोत्रं जुह्वति सायंप्रातर्व्रतं प्रयच्छन्ति स्वाहाकारेणाग्निहोत्रं जुह्वति स्वाहाकारेण व्रतं प्रयच्छन्ति स्वाहाकारमेवान्वग्निहोत्रमग्निष्टोममप्येति पञ्चदश प्रायणीये [https://sa.wikisource.org/s/en2 सामिधेनी]रन्वाह पञ्चदश दर्शपूर्णमासयोः प्रायणीयमेवानु दर्शपूर्णमासावग्निष्टोममपीतः सोमं राजानं क्रीणन्त्यौषधो वै सोमो राजौषधिभिस्तं भिषज्यन्ति यं भिषज्यन्ति सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियन्त्यग्नि[https://sa.wikisource.org/s/erp मातिथ्ये] मन्थन्त्यग्निं [http://vipin48.tripod.com/pur_index11/chaturmasa.htm चातुर्मास्ये]ष्वातिथ्यमेवानु चातुर्मास्यान्यग्निष्टोममपियन्ति पयसा प्रवर्ग्ये चरन्ति पयसा दाक्षायणयज्ञे प्रवर्ग्यमेवानु दाक्षायणयज्ञोऽग्निष्टोममप्येति पशुरुपवसथे भवति तमेवानु ये के च पशुबन्धास्ते सर्वेऽग्निष्टोममपियन्तीळादधो नाम यज्ञक्रतुस्तं दध्ना चरन्ति दध्ना दधिघर्मे दधिघर्ममेवान्विळादधोऽग्निष्टोममप्येति॥3.40॥</span></poem> <poem><span style="font-size: 14pt; line-height: 200%">इति नु पुरस्तादथोपरिष्टात्पञ्चदशोक्थ्यस्य स्तोत्राणि पञ्चदश शस्त्राणि स मासो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सर-मेवानूक्थ्योऽग्निष्टोममप्येत्युक्थ्यमपियन्तमनु वाजपेयोऽप्येत्युक्थ्यो हि स भवति द्वादश रात्रेः पर्यायाः सर्वे पञ्चदशास्ते द्वौ-द्वौ सम्पद्य त्रिंशदेकविंशं षोळशि साम त्रिवृत्संधिः सा त्रिंशत्स मासस्त्रिंशन्मासस्य रात्रयो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सरमेवान्वतिरात्रोऽग्निष्टोममप्येत्यतिरात्रमपियन्तमन्वप्तोर्यामोऽप्येत्यतिरात्रो हि स भवत्येतद्वै ये च पुरस्ताद्ये चोपरिष्टाद्यज्ञक्रतवस्ते सर्वेऽग्निष्टोममपियन्ति तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः सा या नवतिस्ते दश त्रिवृतोऽथ या नवतिस्ते दशाथ या दश तासामेका स्तोत्रियोदेति त्रिवृत्परिशिष्यते सोऽसावेकविंसोऽध्या-हितस्तपति विषुवान्वा एष स्तोमानां दश वा एतस्मादर्वाञ्चास्त्रिवृतो दश पराञ्चो मध्य एष एकविंश उभयतोऽध्याहितस्तपति तद्याऽसौ स्तोत्रियोदेति सैतस्मिन्नध्यूळ्हा स यजमानस्तद्दैवं क्षत्रं सहो बलमश्नुते ह वै दैवं क्षत्रं सहो बलमेतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद॥3.41॥ देवा वा असुरैर्विजिग्याना ऊर्ध्वाः स्वर्गं लोकमायन्सोऽग्निर्दिविस्पृगूर्ध्व उदश्रयत स स्वर्गस्य लोकस्य द्वारमवृणोदग्निर्वै स्वर्गस्य लोकस्याधिपतिस्तं वसवः प्रथमा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते त्रिवृता स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तं रुद्रा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते पञ्चदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तमादित्या आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते सप्तदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तं विश्वे देवा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं त एकविंशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छन्नेकैकेन वै तं देवाः स्तोमेनास्तुन्वंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छन्नथ हैनमेष एतैः सर्वैः स्तोमैः स्तौति यो यजते यश्चैनमेवं वेदाती तू तमर्जाता अति ह वा एनमर्जते स्वर्गं लोकमभि य एवं वेद॥3.42॥ स वा एषोऽग्निरेव यदग्निष्टोमस्तं यदस्तुवंस्तस्मादग्निस्तोमस्तमग्निस्तोमं सन्तमग्निष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। तं यच्चचतुष्टया देवाश्चतुर्भिः स्तोमैरस्तुवंस्तस्माच्चतुस्तोमस्तं चतुस्तोमं सन्तं चतुष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। अथ यदेनमूर्ध्वं सन्तं ज्योतिर्भूतमस्तुवंस्तस्माज्ज्योतिस्तोमस्तं ज्योतिस्तोमं सन्तं ज्योतिष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। स वा एषोऽपूर्वोऽनपरो यज्ञक्रतुर्यथा रथचक्रमनन्तमेवं यदग्निष्टोमस्तस्य यथैव प्रायणं तथोदयनम्। तदेषाऽभि यज्ञगाथा गीयते यदस्य पूर्वमपरं तदस्य यद्वस्यापरं तद्वस्य पूर्वम्। अहेरिव सर्पणं शाकलस्य न विजानन्ति यतरत्परस्तादिति। यथा ह्येवास्य प्रायणमेवमुदयनमसदिति। तदाहुर्यत्त्रिवृत्प्रायणमेकविंशमुदयनं केन ते समे इति। यो वा एकविंशस्त्रिवृद्वै सोऽथो यदुभौ तृचौ तृचिनाविति ब्रूयात्तेनेति॥3.43॥ (14.5) (114) यो वा एष तपत्येषोऽग्निष्टोम एष साह्नस्तं सहैवाह्ना संस्थापयेयुः साह्नो वै नाम। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टा अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेतं प्रत्यञ्चि दीर्घारण्यानि भवन्ति तथा ह यजमानः प्रमायुको भवति। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। स एतमेव शस्त्रेणानु पर्यावर्तेत यदा वा एष प्रातरुदेत्यथ मन्द्रं तपति तस्मान्मन्द्रया वाचा प्रातःसवने शंसेदथ यदाऽभ्येत्यथ बलीयस्तपति तस्माद्बलीयस्या वाचा मध्यंदिने शंसेदथ यदाऽभितरामेत्यथ बलिष्ठतमं तपति तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेदेवं शंसेद्यदि वाच ईशीत वाग्घि शस्त्रं यया तु वाचोत्तरोत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येतैतत्सुशस्ततममिव भवति। स वा एष न कदाचनास्तमेति नोदेति। तं यदस्तमेतीति मन्यन्तेऽह्न एव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यते रात्रीमेवावस्तात्कुरुतेऽहः परस्तात्। अथ यदेनं प्रातरुदेतीति मन्यन्ते रात्रेरेव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यतेऽहरेवावस्तात्कुरुते रात्रिं परस्तात्। स वा एष न कदाचन निम्रोचति। न ह वै कदाचन निम्रोचत्येतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद य एवं वेद॥3.44॥ (14.6) (115) यज्ञो वै देवेभ्योऽन्नाद्यमुदक्रामत्ते देवा अब्रुवन्यज्ञो वै नोऽन्नाद्यमुदक्रमीदन्विमं यज्ञमन्नं अन्विच्छामेति तेऽब्रुवन्कथमन्विच्छामेति ब्राह्मणेन च छन्दोभिश्चेत्यब्रुवंस्ते ब्राह्मणं छन्दोभिरदीक्षयंस्तस्यान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्हि दीक्षणीयायामिष्टावान्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तमनु न्यायमन्ववायंस्ते प्रायणीयमतन्वत तम्प्रायणीयेन नेदीयोऽन्वा-गच्छंस्ते कर्मभिः समत्वरन्त तच्छंय्वन्तमकुर्वंस्तस्माद्धाप्येतर्हि प्रायणीयं शंय्वन्तमेव भवति तमनु न्यायमन्ववायंस्त आतिथ्यमतन्वत तमातिथ्येन नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त तदिळान्तमकुर्वंस्तस्माद्धाप्येतर्ह्यातिथ्यमिळान्तमेव भवति तमनु न्यायमन्ववायंस्त उपसदोऽतन्वत तमुपसद्भिर्नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त ते तिस्रः सामिधेनीरनूच्य तिस्रो देवता अयजंस्तस्माद्धाप्येतर्ह्युपसत्सु तिस्र एव सामिधेनीरनूच्य तिस्रो देवता यजन्ति तमनु न्यायमन्ववायंस्त उपवसथमतन्वत तमुपवसथ्येऽहन्याप्नुवंस्त-माप्त्वान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्ह्युपवसथ आन्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तस्मादेतेषु पूर्वेषु कर्मसु शनैस्तरां-शनैस्तरामिवानुब्रूयादनूत्सरमिव हि ते तमायांस्तस्मादुपवसथे यावत्या वाचा कामयीत तावत्यानुब्रूयादाप्तो हि स तर्हि भवतीती तमाप्त्वाब्रुवंस्तिष्ठस्व नोऽन्नाद्यायेति स नेत्यब्रवीत्कथं वस्तिष्ठेयेति तानीक्षतैव तमब्रुवन्ब्राह्मणेन च नश्छन्दोभिश्च सयुग्भूत्वान्नाद्याय तिष्ठस्वेति तथेति तस्माद्धाप्येतर्हि यज्ञः सयुग्भूत्वा देवेभ्यो हव्यं वहति ब्राह्मणेन च च्छन्दोभिश्च॥3.45॥ त्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्णं वान्तं तद्धैतदेव जग्धं यदाशंसमानमार्त्विज्यं कारयत उत वा मे दद्यादुत वा मा वृणीतेति तद्ध तत्पराङेव यथा जग्धं न हैव तद्यजमानं भुनक्त्यथ हैतदेव गीर्णं यद्बिभ्यदार्त्विज्यं कारयत उत वा मा न बाधेतोत वा मे न यज्ञवेशसं कुर्यादिति तद्ध तत्पराङेव यथा गीर्णं न हैव तद्यजमानं भुनक्त्यथ हैतदेव वान्तं यदभिशस्यमानमार्त्विज्यं कारयते यथा ह वा इदं वान्तान्मनुष्या बीभत्सन्त एवं तस्माद्देवास्तद्ध तत्पराङेव यथा वान्तं न हैव तद्यजमानं भुनक्ति स एतेषां त्रयाणामाशां नेयात्तं यद्येतेषां त्रयाणामेकंचिदकाममभ्याभवेत्तस्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिरिदं वा वामदेव्यं यजमानलोकोऽमृतलोकः स्वर्गो लोकस्तत्त्रिभिरक्षरैर्न्यूनं तस्य स्तोत्र उपसृप्य त्रेधाऽऽत्मानं विगृह्णीयात् पुरुष इति स एतेषु लोकेष्वात्मानं दधात्यस्मिन्यजमानलोकेऽस्मिन्नमृतलोकेऽस्मिन्स्वर्गे लोके स सर्वां दुरिष्टिमत्येति। अपि यदि समृद्धा इव ऋत्विजः स्युरिति ह स्मा हाथ हैतज्जपेदेवेति॥3.46॥ छन्दांसि वै देवेभ्यो हव्यमूढ्वा श्रान्तानि जघनार्धे यज्ञस्य तिष्ठन्ति यथाश्वो वाश्वतरो वोहिवांस्तिष्ठेदेवं तेभ्य एतम्मैत्रावरुणम्पशुपुरोळाशमनु देविका-हवींषि निर्वपेद्धात्रे पुरोळाशं द्वादशकपालं यो धाता स वषट्कारोऽनुमत्यै चरुं यानुमतिः सा गायत्री राकायै चरुं या राका सा त्रिष्टुप् सिनीवाल्यै चरुं या सिनीवाली सा जगती कुह्वै चरुं या कुहूः सानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवाति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुर्धातारमेव सर्वासाम्पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यं समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां धातारम्पुरस्ताद्यजति तदासु सर्वासु मिथुनं दधाति। इति नु देविकानाम्॥3.47॥</span></poem> {{टिप्पणी| जिस प्रकार अमावस्या के दो प्रकार हैं-- सिनीवाली और कुहू, इसी प्रकार पूर्णमासी दो प्रकार की है अनुमति अर्थात चतुर्दशी से मिली हुई और राका दूसरे पक्ष की प्रतिपदा से जुड़ी हुई । }} <poem><span style="font-size: 14pt; line-height: 200%">631 अथ देवीनां सूर्याय पुरोळाशमेककपालं यः सूर्यः स धाता स उ एव वषट्कारो दिवे चरुं या द्यौः सानुमतिः सो एव गायत्र्युषसे चरुं योषाः सा राका सो एव त्रिष्टुब्गवे चरुं या गौः सा सिनीवाली सो एव जगती पृथिव्यै चरुं या पृथिवी सा कुहूः सो एवानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुः सूर्यमेव सर्वासां पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यां समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां सूर्यम्पुर-स्ताद्यजति तदासु सर्वासु मिथुनं दधाति ता या इमास्ता अमूर्या अमूस्ता इमा अन्यतराभिर्वाव तं काममाप्नोति य एतासूभयीषु ता उभयीर्गतश्रियः प्रजातिकामस्य संनिर्वपेन्न त्वेषिष्यमाणस्य यदेना एषिष्यमाणस्य संनिर्वपेदीश्वरो हास्य वित्ते देवा अरन्तोर्यद्वा अयमात्मनेऽलममंस्तेति ता ह शुचिवृक्षो गौपलायनो वृद्धद्युम्नस्याभिप्रतारिणस्योभयीर्यज्ञे संनिरुवाप तस्य ह रथगृत्सं गाहमानं दृष्ट्वोवाचेत्थमहमस्य राजन्यस्य देविकाश्च देवीश्चोभयीर्यज्ञे सममादयं यदस्येत्थं रथगृत्सो गाहत इति चतुःषष्टिः कवचिनः शश्वद्धास्य ते पुत्रनप्तार आसुः॥3.48॥ अग्निष्टोमं वै देवा अश्रयन्तोक्थान्यसुरास्ते समावद्वीर्या एवाऽऽसन्न व्यवर्तन्त तान्भरद्वाज ऋषीणामपश्यदिमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन पश्यतीति सोऽग्निमुदह्वयत्। एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिर इति। असुर्या ह वा इतरा गिरः। सोऽग्निरुपोत्तिष्ठन्नब्रवीत्किंस्विदेव मह्यं कृशो दीर्घः पलितो वक्ष्यतीति। भरद्वाजो ह वै कृशो दीर्घः पलित आस। सोऽब्रवीदिमे वा असुरा उक्थेषु श्रितास्तान्वो न कश्चन पश्यतीति। तानग्निरश्वो भूत्वाऽभ्यत्यद्रवद्यदग्निरश्वो भूत्वाऽभ्यत्यद्रवत्तत्साकमश्वं सामाभवत्तत्साकमश्वस्य साकमश्वत्वम्। तदाहुः साकमश्वेनोक्थानि प्रणयेदप्रणीतानि वाव तान्युक्थानि यान्यन्यत्र साकमश्वादिति। प्रमंहिष्ठीयेन प्रणयेदित्याहुः प्रमंहिष्ठीयेन वै देवा असुरानुक्थेभ्यः प्राणुदन्त। तत्प्राहैव प्रमंहिष्ठीयेन नयेत्प्र साकमश्वेन॥3.49॥ (15.5) (120) ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्वरुणस्तस्मादैन्द्रावरुणं मैत्रावरुणस्तृतीयसवने शंसतीन्द्रश्च हि तान्वरुणश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा ब्राह्मणाच्छंसिन उक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्बृहस्पतिस्तस्मादैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसवने शंसतीन्द्रश्च हि तान्बृहस्पतिश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा अच्छावाकस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्विष्णुस्तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने शंसतीन्द्रश्च हि तान्विष्णुश्च ततोऽनुदेतां द्वन्द्वमिन्द्रेण देवताः शस्यन्ते द्वन्द्वं वै मिथुनं तस्माद्द्वन्द्वान्मिथुनं प्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः षळृचः सा विराड्दशिनी तद्विराजि यज्ञं दशिन्यां प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति॥3.50॥ </span></poem> 43pczvn1tki4ungsnyg9imf78ddij21 आपस्तम्ब-श्रौतसूत्रम्/प्रश्नः ०४ 0 22966 341104 340027 2022-07-23T03:53:58Z Puranastudy 1572 wikitext text/x-wiki दर्शपूर्णमासौ याजमान <poem><span style="font-size: 14pt; line-height: 200%">4.1 याजमानं व्याख्यास्यामः १ यज्ञमानस्य ब्रह्मचर्यं दक्षिणादानं द्रव्यप्रकल्पनं कामानां कामनम् २ प्रत्यगाशिषो मन्त्राञ्जपत्यकरणानुपतिष्ठतेऽनुमन्त्रयते ३ पर्वणि च केशश्मश्रु वापयते ४ अप्यल्पशो लोमानि वापयत इति वाजसनेयकम् ५ विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमीति यक्ष्यमाणोऽप उपस्पृशति ६ तदिदं सर्वयज्ञेषूपस्पर्शनं भवति ७ अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमं श्वोयज्ञाय रमतां देवताभ्यः । वसून् रूद्रानादित्यानिन्द्रेण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु पौर्णमासं हविरिदमेषां मय्यामावास्यं हविरिदमेषां मयीति यथालिङ्गमाहवनीयेऽन्वाधीयमाने जपति ८ अन्तराग्नी पशवो देवसंसदमागमन् । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषयेत्यन्तराग्नी तिष्ठञ्जपति ९ इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषयेति गार्हपत्यम् १० इति प्रथमा कण्डिका</span></poem> [[File:दर्शपूर्णमासः Darshapurnamasa.jpg|thumb|500px|दर्शपूर्णमासः ]] <poem><span style="font-size: 14pt; line-height: 200%">4.2 अयं पितॄणामग्निरवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णाम्यविषं नः पितुं करदिति दक्षिणाग्निम् । अजस्रं त्वा सभापाला विजयभागं समिन्धताम् । अग्ने दीदाय मे सभ्य विजित्यै शरदः शतमिति सभ्यम् । अन्नमावसथीयमभिहराणि शरदः शतम् । आवसथे श्रियं मन्त्रमहिर्बुध्नियो नियच्छत्वित्यावसथ्यम् १ इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रव्रवीमि । इदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमि । इदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यन्वाहितेषु जपति २ पयस्वतीरोषधय इति पुरा बर्हिष आहर्तोर्जायापती अश्नीतः । पुरा वत्सानामपाकर्तोरमावास्यायाम् ३ पौर्णमासायोपवत्स्यन्तौ नातिसुहितौ भवतः ४ अमाषममांसमाज्येनाश्नीयातां तदभावे दध्ना पयसा वा ५ बर्हिषा पूर्णमासे व्रतमुपैति । वत्सेष्ट्यपाकृतेष्ठ्यमावास्यायाम् ६ प्रणीतासु प्रणीयमानास्वासन्नेषु वा हविःषु व्रतमुपै तीत्युभयत्र साधारणम् ७ अशनमग्न्यन्वाधानं व्रतोपायनमित्येके । व्रतोपायनमशनमग्न्यन्वाधानमित्येके । अग्न्यन्वाधानं व्रतोपायनमशनमित्येके ८ पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा ९ अपरेणाहवनीयं दक्षिणातिक्रामति १० एष एवात ऊर्ध्वं यजमानस्य संचरो भवति ११ इति द्वितीया कण्डिका 4.3 दक्षिणेनाहवनीयमवस्थाय व्रतमुपैष्यन्समुद्रं मनसा ध्यायति १ अथ जपत्यग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतं चरिष्यामीति राजन्यवैश्यौ २ सर्वान्वा ब्राह्मणः ३ अथादित्यमुपतिष्ठते सम्राडसि व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासमिति ४ यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिष्ठन्नेतद्यजुर्जपेत् ५ उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि मह्यं गोपतये पशूनिति सायं परिस्तीर्यमाणेषु जपति ६ आरण्यं सायमाशेऽश्नात्यमाषममांसम् ७ अपि वा काममा मार्गादा मधुन आ प्राशातिकात् ८ अपो वा । न वा किंचित् ९ न तस्य सायमश्नीयाद्येन प्रातर्यक्ष्यमाणः स्यात् १० आरण्यायोपवत्स्यन्नपोऽश्नाति न वा ११ जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू इति १२ अमावास्यां रात्रिं जागर्ति १३ अपि वा सुप्यादुपरि त्वेव न शयीत १४ अपि वोपरि शयीत ब्रह्मचारी त्वेव स्यात् १५ उभयत्र जागरणमेके समामनन्ति १६ आहवनीयागारे गार्हपत्यागारे वा शेते १७ इति तृतीया कण्डिका 4.4 देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा इह मावत इदं शकेयं यदिदं करोम्यात्मा करोत्वात्मने । इदं करिष्ये भेषजमिदं मे विश्वभेषजा अश्विना प्रावतं युवमिति जपित्वा श्वोभूते ब्रह्माणं वृणीते १ भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इत्युक्त्वापरेणाहवनीयं दक्षिणातिक्रम्योपविशति २ पूर्वो ब्रह्मापरो यजमानः ३ भूश्च कश्च वाक् चर्क् च गौश्च वट् च खं च धूंश्च नूंश्च पूंश्चैकाक्षराः पूंर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीर्ब्रह्मपूता स्थ । को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्यायै । याः पुरस्तात्प्रस्रवन्त्युपरिष्टात्सर्वतश्च याः । ताभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभ इति प्रणीताः प्रणीयमाना अनुमन्त्रयते । यजमान हविर्निर्वप्स्यामीत्युच्यमान ॐ निर्वपेत्युच्चैरनुजानाति ४ अग्निं होतारमिह तं हुव इति हविर्निरुप्यमाणमभिमन्त्रयते ५ हविर्निर्वपणं वा पात्रमभिमृशत्यभि वा मन्त्रयते ६ तदुदित्वा वाचं यच्छति ७ अथ यज्ञं युनक्ति ८ कस्त्वा युनक्ति स त्वा युनक्त्विति सर्वं विहारमनुवीक्षते ९ इति चतुर्थी कण्डिका इति प्रथमः पटलः 4.5 चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामानिति वेदिं संमृज्यमानाम् १ यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मीति स्तम्बयजुर्ह्रियमाणम् २ इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीष्वित्युत्करमभिगृह्यमाणम् ३ यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामीति वेदिं परिगृह्यमाणाम् ४ यदुद्घ्नन्तो जिहिंसिम पृथिवीमोषधीरपः । अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पातु तस्मात् । यदुद्घ्नन्तो जिहिंसिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः शिवो नो विश्वैर्भुवनेभिरस्त्वित्युद्धन्यमानाम् । भूमिर्भूत्वा महिमानं पुपोष ततो देवो वर्धयते पयांसि । यज्ञिया यज्ञं विचयन्ति शं चौषधीराप इह शक्वरीश्चेति क्रियमाणाम् । इडेन्यक्रतूरहमपो देवीरुपब्रुवे । दिवा नक्तं च सस्रुषीरपस्वरीरिति प्रोक्षणीरासाद्यमानाः । ऊर्णामृदु प्रथमानं स्योनं देवेभ्यो जुष्टं सदनाय बर्हिः । सुवर्गे लोके यजमानं हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिरासाद्यमानम् ५ अद्भिराज्यमाज्येनापः सम्यक् पुनीत सवितुः पवित्रैः । ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यं प्रोक्षणीश्चोत्पूयमानाः ६ उभावाज्यग्रहाञ्जपतः ७ इति पञ्चमी कण्डिका 4.6 अशिश्रेम बर्हिरन्तः पृथिव्यां संरोहयन्त ओषधीर्विवृक्णाः । यासां मूलमुदवधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु । सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इत्यन्तर्वेदि बर्हिरासन्नम् १ चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् । शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैधि । इषमूर्जं मे पिन्वस्व ब्रह्म तेजो मे पिन्वस्व क्षत्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वायुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीर्यमाणाम् २ ध्रुवोऽसीत्येतैः प्रतिमन्त्रं परिधीन्परिधीयमानान् । अस्मिन्यज्ञ उप भूय इन्नु मेऽविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषांसि निरितो नु दाता इति च ३ युनज्मि त्वा ब्रह्मणा दैव्येनेत्याहवनीयम् । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तज्वो यास्ते अग्ने । ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्यज्ञहनः पिशाचा इति च ४ विच्छिनद्मि विधृतीभ्यां सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहं स्वानामुत्तमो ऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती आसाद्यमाने ५ इति षष्ठी कण्डिका 4.7 [[File:Yajna implements.jpg|thumb|यज्ञपात्राणि]] [[File:Juhu - sruvaa जुहू - स्रुवा.jpg|thumb|जुहू - स्रुवा]] [[File:Sruvaa.jpg|thumb|स्रुवा]] [[File:Dhruvaa.jpg|thumb|ध्रुवा]] अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्स्रुचो अध्यासादयामीति प्रस्तरमासाद्यमानम् १ आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा संभृताङ्गा वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येनेति जुहूम् । अवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहै यज्ञं सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्द्वृताची त्रैष्टुभेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रेण शर्मणा दैव्येनेत्युपभृतम् । यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः । ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवान्वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाम् । स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । अयं स्रुवो अभिजिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन । सर्वा यञ्जस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्रुवम् । इयं स्थाली घृतस्य पूर्णाच्छिन्नपयाः शतधार उत्सः । मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् २ इति सप्तमी कण्डिका 4.8 तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मौजसा वीर्येण तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरिति पुरोडाशानज्यमानान् १ यज्ञो ऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयतां शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयतां शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्याग्नेयं पुरोडाशमासन्नमभिमृशति सर्वाणि वा हवींषि २ इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोप मामिहेषमूर्जं यशः सह ओजः सनेयं शृतं मयि श्रयतामिति प्रातर्दोहम् । यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं दधि मां धिनोत्विति दधि ३ अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सखममृतत्वमश्यामिति सर्वाणि हवींषि ४ यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् ५ ममाग्ने वर्चो विहवेष्ट्यस्त्वित्यनुवाकेन सर्वाणि हवींष्यासन्नान्यभिमृशेदष्टाभिर्वा ६ चतुर्होत्रा पौर्णमास्यां हवींष्यासन्नान्यभिमृशेत्प्रजाकामः पञ्चहोत्रामावास्यायां स्वर्गकामो नित्यवदेके समामनन्ति ७ इत्यष्टमी कण्डिका इति द्वितीयः पटलः 4.9 दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् १ अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्त्विति प्तामिधेनीनां प्रतिपदि जपति २ अनूच्यमानासु दशहोतारं व्याख्यायोच्छुष्मो अग्न इति समिध्यमानम् । समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नम इति समिद्धम् ३ मनोऽसि प्राजापत्यमिति स्रौवमाघार्यमाणम् ४ स्रुच्यमन्वारभ्य वागस्यैन्द्रीत्यनुमन्त्रयते ५ देवाः पितरः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टं स्वं दत्तं स्वं पूर्तं स्वं श्रान्तं स्वं हुतम् । तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोतादित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन्यज इति होतृप्रवरेऽध्वर्युप्रवरे च प्रव्रियमाणे ६ चतुर्होतारं व्याख्याय वसन्तमृतूनां प्रीणामीत्येतैः प्रतिमन्त्रं प्रयाजान्हुतंहुतम् ७ एको ममैका तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्मो द्वौ मम द्वे तस्य त्रयो मम तिस्रस्तस्य चत्वारो मम चतस्रस्तस्य पञ्च मम न तस्य किंचन यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्येतैश्च प्रतिमन्त्रम् ८ अग्नीषोमयोरहं देवयज्यया चक्षुष्मान्भूयासमित्याज्यभागौ ९ विहृतानुमन्त्रणौ वा १० अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुष्मान्मूयासम् । सोमेन यज्ञश्चक्षुष्माँ सोमस्याहं देवयज्यया चक्षुष्मान्भूयासमिति विहृतौ ११ पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य १२ अग्नेरहं देवयज्ययान्नादो भूयासमित्याग्नेयं हुतमनुमन्त्रयते दब्धिरसीत्युपांशुयाजमग्नीषोमयोरित्यग्नीषोमीयमिन्द्राग्नियोरित्यैन्द्राग्नमिन्द्रस्येत्यैन्द्रं सांनाय्यं महेन्द्रस्येति माहेन्द्रमग्नेः स्विष्टकृत इति सौविष्टकृतम् १३ पुरस्तात्स्विष्टकृतोऽन्यदेवतान्येके समामनन्ति १४ ।।4.10।। इन्द्रस्य वैमृधस्याहं देवयज्ययासपत्नो वीर्यवान्भूयासमिन्द्रस्य त्रातुरहं देवयज्यया त्रातो भूयासं द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोरृध्यासं । भूमानं प्रतिष्ठां गमेयमित्येके । पूष्णोऽहं देवयज्यया प्रजनिषीय प्रजया पशुभिः सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयमर्यम्णोऽहं देवयज्यया स्वर्गं लोकं गमेयमदित्या अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीयेन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रियाव्यन्नादो भूयासमिति यथालिङ्गं वैकृतीः १ अग्निर्मा दुरिष्टात्पात्विति प्राशित्रमवदीयमानम् २ सुरूपवर्षवर्ण एहीतीडाम् ३ भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहीतीडाया उपांश्रूपहवे सप्त देवगवीर्जपति । चिदसि मनासि धीरसि रन्ती रमतिः सूनुः सूनरीत्युच्चैरुपहवे सप्त मनुष्यगवीः । देवीर्देवैरभि मा निवर्तध्वं स्योनाः स्योनेन घृतेन मा समुक्षत नम इदमुदं भिषगृषिर्ब्रह्मा यद्ददे समुद्रादुदचन्निव स्रुचा वागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन्निति च ४ उपहूयमानायां वायविडा ते मातेति होतारमीक्षमाणो वायुं मनसा ध्यायेत् ५ सा मे सत्याशीरित्याशिःषु । आशीर्म ऊर्जमिति च ६ इडाया अहं देवयज्यया पशुमान्भूयासमित्युपहूताम् । इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माँ आगादिति भक्षायाह्रियमाणाम् ७ उक्त इडाभक्षो मार्जनी च ८ ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां कॢप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्तां संवत्सरो मे कल्पतां कॢप्तिरसि कल्पतां म इति बर्हिषि पुरोडाशमासन्नमभिमृशति ९ इति दशमी कण्डिका 4.11 अथैनं प्रतिदिशं व्यूहत्याशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् । ब्रह्मपा हि भजतां भागी भागं माभागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिदं हविः सोम्यानां सोमपीथिनाम् । निर्भक्तोऽब्राह्मणो नेहाब्राह्मणस्यास्तीति १ उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायोपहूता पृथिवी मातोप मां माता पृथिवी ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेत्याग्नीध्रभागस्य वैशेषिकम् २ ब्रध्न पिन्वस्वेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति । इयं स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमिति च ३ उक्तः संप्रैषोऽन्वाहार्यस्य च दानम् ४ एषा ते अग्ने समिदित्यानूयाजिकीं समिधमाधीयमानाम् । यं ते अग्न आवृश्चाम्यहं वा क्षिपितश्चरन् । प्रजां च तस्य मूलं च नीचैर्देवा निवृश्चत । अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वांस्तानग्ने संदह यांश्चाहं द्वेष्मि ये च मामित्याहितायामग्निम् ५ वेदिर्बर्हिः शृतं हविरिध्मः ह्परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः । सं मे संनतयो नमन्तामिध्मसंनहने हुत इति संमार्गान्हुतान् ६ सप्तहोतारं वदेत्पुरस्तादनूयाजानामुपरिष्टाद्वा ७ इत्येकादशी कण्डिका 4.12 बर्हिषोऽहं देवयज्यया प्रजावान्भूयासमित्येतैः प्रतिमन्त्रमनूयाजान्हुतंहुतम् १ उभौ वाजवत्यौ जपतः २ वसून्देवान्यज्ञेनापिप्त्रें रुद्रान्देवान्यज्ञेनापिप्रेमादित्यान्देवान्यज्ञेनापिप्रेमिति प्रतिमन्त्रं परिधीनज्यमानान् । समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्कां दिव्यं नभो गच्छतु यत्स्वाहेति प्रस्तरमज्यमानम् ३ अग्नेरहमुज्जितिमनूज्जेषमिति यथालिङ्गं सूक्तवाक् देवताः ४ यदा चास्य होता नाम गृह्णीयादथ ब्रूयादेमा अग्मन्नाशिषो दोहकामा इति ५ सा मे सत्याशीर्देवान्गम्याज्जुष्टाज्जुष्टतरा पण्यात्पण्यतरारेडता मनसा देवान्गम्याद्यज्ञो देवान्गच्छत्वदो म आगच्छत्विति सूक्तवाकस्याशिषु यत्कामयते तस्य नाम गृह्णाति ६ रोहितेन त्वाग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रमग्नीधा प्रस्तरं प्रह्रियमाणम् ७ दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन द्विषन्तं शोचयामसि । द्विषन्मे बहु शोचत्वोषधे मो अहं शुचमिति प्रस्तरतृणे प्रह्रियमाणे ८ वि ते मुञ्चामीति परिधिषु विमुच्यमानेषु ९ विष्णोः शंयोरिति शंयुवाके । यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्द्धिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नम इति च । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वान् । अथर्वभिस्तस्य मेष्टस्य वीतस्य द्रविणेहागमेरिति संस्रावं हुतम् १० इति द्वादशी कण्डिका इति तृतीयः पटलः 4.13 सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति यथालिङ्गं पत्नीसंयाजान्हुतंहुतम् १ राकाया अहं देवयज्यया प्रजावान्भूयासं सिनीवाल्या अहं देवयज्यया पशुमान्भूयासं कुह्वा अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिति काम्याः २ राकाया अहं देवयज्यया प्रजावती भूयासं सिनीवाल्या अहं देवयज्यया पशुमती भूयासं कुह्वा अहं देवयज्यया पुष्टिमती पशुमती भूयासमिति पत्न्यनुमन्त्रयते ३ इडास्माननु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवीत्याज्येडाम् ४ अन्तर्वेदि वेदं निधायाभिमृशति वेदोऽसीति ५ पुरा विदेयेति यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात् । तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ६ या सरस्वती विशोभगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्मेति फलीकरणहोमे हुते मुखं विमृष्टे ७ वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छत्वदो म आगच्छत्विति समिष्टयजुर्हुतमनुमन्त्रयते । यत्कामयते तस्य नाम गृह्णाति ८ सं यज्ञपतिराशिषेति यजमानभागं प्राश्नाति ९ इति त्रयोदशी कण्डिका 4.14 दर्शपूर्णमासौ याजमान दधिक्राव्णो अकारिषमिति सायंदोहम् । इदं हविरिति प्रातर्दोहम् १ नाब्राह्मणः सांनाय्यं प्राश्नीयात् २ अन्तर्वेदि प्रणीतास्वध्वर्युः संततामुदकधारां स्रावयति । सदसि सन्मे भूया इत्यानीयमानायां जपति ३ प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामित्येतैर्यथालिङ्गं व्युत्सि च्य समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि शेषं निनीय यदप्सुते सरस्वति गोष्ठश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्ध सरस्वति । या सरस्वती वैशम्बल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे ४ उभौ कपालविमोचनं जपतः ५ विष्णोः क्रमोऽसीति दक्षिने वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान्प्राचः क्रामत्युत्तरमुत्तरं ज्यायांसमनतिहरन्सव्यम् ६ नाहवनीयमतिक्रामति ७ अवस्थाय चतुर्थं जपति ८ विष्णुक्रमान्विष्ण्वतिक्रमानतीमोक्षानिति व्यतिषक्तानेके समामनन्ति । विनिरूढानेके ९ अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमाः । ये देवा यज्ञहन इत्यतीमोक्षाः १० अगन्म सुवः सुवरगन्मेत्यादित्यमुपतिष्ठते ११ इति चतुर्दशी कण्डिका 4.15 उद्यन्नद्य मित्रमहः सपत्नान्मे अनीनशः । दिवैनान्विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं निदध्मसि । उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापं समूहतामिति च १ ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते २ यद्यभिचरेदिदमहमुष्यामुष्यायणस्य प्राणं निवेष्टयामीति दक्षिणस्य पदः पार्ष्ण्या निमृद्नीयात् ३ पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीरित्युक्त्वा समहं प्रजया सं मया प्रजेति पुनरुपावर्तते ४ समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासमित्याहवनीयमुपसमिन्द्धे । वसुमान्यज्ञो वसीयान्भूयासुमित्युपतिष्ठते ५ इति पञ्चदशी कण्डिका 4.16 यो नः सपत्नो योऽरणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचनेति च १ अग्न आयूंषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते । अग्ने गृहपत इति च २ पुत्रस्य नाम गृह्णाति तामाशिषमाशासे तन्तव इत्यजातस्य । अमुष्मा इति जातस्य ३ ज्योतिषे तन्तवे त्वासावनु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा च्छित्सि मा मानुषादिति प्रियस्य पुत्रस्य नाम गृह्णाति ४ अग्ने वह्ने स्वदितं नस्तनये पितुं पच । शं तोकाय तनुवे स्योन इति दक्षिणाग्निम् ५ ज्योतिषे तन्तवे त्वेत्यन्तर्वेद्युपविशति । पूर्ववन्नामग्रहणम् ६ ज्योतिरसि तन्तव इत्युपविश्य जपति ७ वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतीमोक्षाञ्जपति ८ अत्र वेदस्तरणं यजमानभागस्य च प्राशनमेके समामनन्ति ९ कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति १० अग्ने व्रतपते व्रतमचारिषमिति व्रतं विसृजते ११ यज्ञा बभूवेति यज्ञस्य पुनरालम्भं जपति १२ गोमानिति प्राङुदेत्य गोमतीं जपति १३ अत्र वा यजमानभागं प्राश्नीयात् १४ यज्ञ शं च म उप च म आयुश्च मे बलं च मे यज्ञ शिवो मे संतिष्ठस्व यज्ञ स्विष्टो मे संतिष्ठस्व यज्ञारिष्टो मे संतिष्ठस्वेति दर्शपूर्णमासाभ्यां सोमेन पशुना वेष्ट्वा जपति १५ वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामितीष्ट्वाप उपस्पृशति । तदिदं सर्वयज्ञेषूपस्पर्शनं भवति १६ ब्राह्मणांस्तर्पयितवा इति संप्रेष्यति १७ प्रवसन्काले विहारमभिमुखो याजमानं जपति १८ प्राचो विष्णुक्रमान्क्रामति १९ प्राङुदेत्य गोमतीं जपति जपति २० इति षोडशी कण्डिका इति चतुर्थः पटलः इति चतुर्थः प्रश्नः </span></poem> pgx1tz59li24b08wjun2y7evpnyoh9t 341105 341104 2022-07-23T03:57:25Z Puranastudy 1572 wikitext text/x-wiki दर्शपूर्णमासौ याजमान <poem><span style="font-size: 14pt; line-height: 200%">4.1 याजमानं व्याख्यास्यामः १ यज्ञमानस्य ब्रह्मचर्यं दक्षिणादानं द्रव्यप्रकल्पनं कामानां कामनम् २ प्रत्यगाशिषो मन्त्राञ्जपत्यकरणानुपतिष्ठतेऽनुमन्त्रयते ३ पर्वणि च केशश्मश्रु वापयते ४ अप्यल्पशो लोमानि वापयत इति वाजसनेयकम् ५ विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमीति यक्ष्यमाणोऽप उपस्पृशति ६ तदिदं सर्वयज्ञेषूपस्पर्शनं भवति ७ अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमं श्वोयज्ञाय रमतां देवताभ्यः । वसून् रूद्रानादित्यानिन्द्रेण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु पौर्णमासं हविरिदमेषां मय्यामावास्यं हविरिदमेषां मयीति यथालिङ्गमाहवनीयेऽन्वाधीयमाने जपति ८ अन्तराग्नी पशवो देवसंसदमागमन् । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषयेत्यन्तराग्नी तिष्ठञ्जपति ९ इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषयेति गार्हपत्यम् १० इति प्रथमा कण्डिका</span></poem> [[File:दर्शपूर्णमासः Darshapurnamasa.jpg|thumb|500px|दर्शपूर्णमासः ]] <poem><span style="font-size: 14pt; line-height: 200%">4.2 अयं पितॄणामग्निरवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णाम्यविषं नः पितुं करदिति दक्षिणाग्निम् । अजस्रं त्वा सभापाला विजयभागं समिन्धताम् । अग्ने दीदाय मे सभ्य विजित्यै शरदः शतमिति सभ्यम् । अन्नमावसथीयमभिहराणि शरदः शतम् । आवसथे श्रियं मन्त्रमहिर्बुध्नियो नियच्छत्वित्यावसथ्यम् १ इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रव्रवीमि । इदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमि । इदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यन्वाहितेषु जपति २ पयस्वतीरोषधय इति पुरा बर्हिष आहर्तोर्जायापती अश्नीतः । पुरा वत्सानामपाकर्तोरमावास्यायाम् ३ पौर्णमासायोपवत्स्यन्तौ नातिसुहितौ भवतः ४ अमाषममांसमाज्येनाश्नीयातां तदभावे दध्ना पयसा वा ५ बर्हिषा पूर्णमासे व्रतमुपैति । वत्सेष्ट्यपाकृतेष्ठ्यमावास्यायाम् ६ प्रणीतासु प्रणीयमानास्वासन्नेषु वा हविःषु व्रतमुपै तीत्युभयत्र साधारणम् ७ अशनमग्न्यन्वाधानं व्रतोपायनमित्येके । व्रतोपायनमशनमग्न्यन्वाधानमित्येके । अग्न्यन्वाधानं व्रतोपायनमशनमित्येके ८ पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा ९ अपरेणाहवनीयं दक्षिणातिक्रामति १० एष एवात ऊर्ध्वं यजमानस्य संचरो भवति ११ इति द्वितीया कण्डिका 4.3 दक्षिणेनाहवनीयमवस्थाय व्रतमुपैष्यन्समुद्रं मनसा ध्यायति १ अथ जपत्यग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतं चरिष्यामीति राजन्यवैश्यौ २ सर्वान्वा ब्राह्मणः ३ अथादित्यमुपतिष्ठते सम्राडसि व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासमिति ४ यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिष्ठन्नेतद्यजुर्जपेत् ५ उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि मह्यं गोपतये पशूनिति सायं परिस्तीर्यमाणेषु जपति ६ आरण्यं सायमाशेऽश्नात्यमाषममांसम् ७ अपि वा काममा मार्गादा मधुन आ प्राशातिकात् ८ अपो वा । न वा किंचित् ९ न तस्य सायमश्नीयाद्येन प्रातर्यक्ष्यमाणः स्यात् १० आरण्यायोपवत्स्यन्नपोऽश्नाति न वा ११ जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू इति १२ अमावास्यां रात्रिं जागर्ति १३ अपि वा सुप्यादुपरि त्वेव न शयीत १४ अपि वोपरि शयीत ब्रह्मचारी त्वेव स्यात् १५ उभयत्र जागरणमेके समामनन्ति १६ आहवनीयागारे गार्हपत्यागारे वा शेते १७ इति तृतीया कण्डिका 4.4 देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा इह मावत इदं शकेयं यदिदं करोम्यात्मा करोत्वात्मने । इदं करिष्ये भेषजमिदं मे विश्वभेषजा अश्विना प्रावतं युवमिति जपित्वा श्वोभूते ब्रह्माणं वृणीते १ भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इत्युक्त्वापरेणाहवनीयं दक्षिणातिक्रम्योपविशति २ पूर्वो ब्रह्मापरो यजमानः ३ भूश्च कश्च वाक् चर्क् च गौश्च वट् च खं च धूंश्च नूंश्च पूंश्चैकाक्षराः पूंर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीर्ब्रह्मपूता स्थ । को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्यायै । याः पुरस्तात्प्रस्रवन्त्युपरिष्टात्सर्वतश्च याः । ताभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभ इति प्रणीताः प्रणीयमाना अनुमन्त्रयते । यजमान हविर्निर्वप्स्यामीत्युच्यमान ॐ निर्वपेत्युच्चैरनुजानाति ४ अग्निं होतारमिह तं हुव इति हविर्निरुप्यमाणमभिमन्त्रयते ५ हविर्निर्वपणं वा पात्रमभिमृशत्यभि वा मन्त्रयते ६ तदुदित्वा वाचं यच्छति ७ अथ यज्ञं युनक्ति ८ कस्त्वा युनक्ति स त्वा युनक्त्विति सर्वं विहारमनुवीक्षते ९ इति चतुर्थी कण्डिका इति प्रथमः पटलः 4.5 चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामानिति वेदिं संमृज्यमानाम् १ यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मीति स्तम्बयजुर्ह्रियमाणम् २ इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीष्वित्युत्करमभिगृह्यमाणम् ३ यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामीति वेदिं परिगृह्यमाणाम् ४ यदुद्घ्नन्तो जिहिंसिम पृथिवीमोषधीरपः । अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पातु तस्मात् । यदुद्घ्नन्तो जिहिंसिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः शिवो नो विश्वैर्भुवनेभिरस्त्वित्युद्धन्यमानाम् । भूमिर्भूत्वा महिमानं पुपोष ततो देवो वर्धयते पयांसि । यज्ञिया यज्ञं विचयन्ति शं चौषधीराप इह शक्वरीश्चेति क्रियमाणाम् । इडेन्यक्रतूरहमपो देवीरुपब्रुवे । दिवा नक्तं च सस्रुषीरपस्वरीरिति प्रोक्षणीरासाद्यमानाः । ऊर्णामृदु प्रथमानं स्योनं देवेभ्यो जुष्टं सदनाय बर्हिः । सुवर्गे लोके यजमानं हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिरासाद्यमानम् ५ अद्भिराज्यमाज्येनापः सम्यक् पुनीत सवितुः पवित्रैः । ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यं प्रोक्षणीश्चोत्पूयमानाः ६ उभावाज्यग्रहाञ्जपतः ७ इति पञ्चमी कण्डिका 4.6 अशिश्रेम बर्हिरन्तः पृथिव्यां संरोहयन्त ओषधीर्विवृक्णाः । यासां मूलमुदवधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु । सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इत्यन्तर्वेदि बर्हिरासन्नम् १ चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् । शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैधि । इषमूर्जं मे पिन्वस्व ब्रह्म तेजो मे पिन्वस्व क्षत्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वायुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीर्यमाणाम् २ ध्रुवोऽसीत्येतैः प्रतिमन्त्रं परिधीन्परिधीयमानान् । अस्मिन्यज्ञ उप भूय इन्नु मेऽविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषांसि निरितो नु दाता इति च ३ युनज्मि त्वा ब्रह्मणा दैव्येनेत्याहवनीयम् । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तज्वो यास्ते अग्ने । ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्यज्ञहनः पिशाचा इति च ४ विच्छिनद्मि विधृतीभ्यां सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहं स्वानामुत्तमो ऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती आसाद्यमाने ५ इति षष्ठी कण्डिका</span></poem> 4.7 [[File:Yajna implements.jpg|thumb|यज्ञपात्राणि]] [[File:Juhu - sruvaa जुहू - स्रुवा.jpg|thumb|जुहू - स्रुवा]] [[File:Sruvaa.jpg|thumb|स्रुवा]] [[File:Dhruvaa.jpg|thumb|ध्रुवा]] <poem><span style="font-size: 14pt; line-height: 200%">अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्स्रुचो अध्यासादयामीति प्रस्तरमासाद्यमानम् १ आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा संभृताङ्गा वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येनेति जुहूम् । अवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहै यज्ञं सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्द्वृताची त्रैष्टुभेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रेण शर्मणा दैव्येनेत्युपभृतम् । यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः । ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवान्वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाम् । स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । अयं स्रुवो अभिजिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन । सर्वा यञ्जस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्रुवम् । इयं स्थाली घृतस्य पूर्णाच्छिन्नपयाः शतधार उत्सः । मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् २ इति सप्तमी कण्डिका 4.8 तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मौजसा वीर्येण तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरिति पुरोडाशानज्यमानान् १ यज्ञो ऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयतां शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयतां शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्याग्नेयं पुरोडाशमासन्नमभिमृशति सर्वाणि वा हवींषि २ इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोप मामिहेषमूर्जं यशः सह ओजः सनेयं शृतं मयि श्रयतामिति प्रातर्दोहम् । यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं दधि मां धिनोत्विति दधि ३ अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सखममृतत्वमश्यामिति सर्वाणि हवींषि ४ यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् ५ ममाग्ने वर्चो विहवेष्ट्यस्त्वित्यनुवाकेन सर्वाणि हवींष्यासन्नान्यभिमृशेदष्टाभिर्वा ६ चतुर्होत्रा पौर्णमास्यां हवींष्यासन्नान्यभिमृशेत्प्रजाकामः पञ्चहोत्रामावास्यायां स्वर्गकामो नित्यवदेके समामनन्ति ७ इत्यष्टमी कण्डिका इति द्वितीयः पटलः 4.9 दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् १ अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्त्विति प्तामिधेनीनां प्रतिपदि जपति २ अनूच्यमानासु दशहोतारं व्याख्यायोच्छुष्मो अग्न इति समिध्यमानम् । समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नम इति समिद्धम् ३ मनोऽसि प्राजापत्यमिति स्रौवमाघार्यमाणम् ४ स्रुच्यमन्वारभ्य वागस्यैन्द्रीत्यनुमन्त्रयते ५ देवाः पितरः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टं स्वं दत्तं स्वं पूर्तं स्वं श्रान्तं स्वं हुतम् । तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोतादित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन्यज इति होतृप्रवरेऽध्वर्युप्रवरे च प्रव्रियमाणे ६ चतुर्होतारं व्याख्याय वसन्तमृतूनां प्रीणामीत्येतैः प्रतिमन्त्रं प्रयाजान्हुतंहुतम् ७ एको ममैका तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्मो द्वौ मम द्वे तस्य त्रयो मम तिस्रस्तस्य चत्वारो मम चतस्रस्तस्य पञ्च मम न तस्य किंचन यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्येतैश्च प्रतिमन्त्रम् ८ अग्नीषोमयोरहं देवयज्यया चक्षुष्मान्भूयासमित्याज्यभागौ ९ विहृतानुमन्त्रणौ वा १० अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुष्मान्मूयासम् । सोमेन यज्ञश्चक्षुष्माँ सोमस्याहं देवयज्यया चक्षुष्मान्भूयासमिति विहृतौ ११ पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य १२ अग्नेरहं देवयज्ययान्नादो भूयासमित्याग्नेयं हुतमनुमन्त्रयते दब्धिरसीत्युपांशुयाजमग्नीषोमयोरित्यग्नीषोमीयमिन्द्राग्नियोरित्यैन्द्राग्नमिन्द्रस्येत्यैन्द्रं सांनाय्यं महेन्द्रस्येति माहेन्द्रमग्नेः स्विष्टकृत इति सौविष्टकृतम् १३ पुरस्तात्स्विष्टकृतोऽन्यदेवतान्येके समामनन्ति १४ ।।4.10।। इन्द्रस्य वैमृधस्याहं देवयज्ययासपत्नो वीर्यवान्भूयासमिन्द्रस्य त्रातुरहं देवयज्यया त्रातो भूयासं द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोरृध्यासं । भूमानं प्रतिष्ठां गमेयमित्येके । पूष्णोऽहं देवयज्यया प्रजनिषीय प्रजया पशुभिः सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयमर्यम्णोऽहं देवयज्यया स्वर्गं लोकं गमेयमदित्या अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीयेन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रियाव्यन्नादो भूयासमिति यथालिङ्गं वैकृतीः १ अग्निर्मा दुरिष्टात्पात्विति प्राशित्रमवदीयमानम् २ सुरूपवर्षवर्ण एहीतीडाम् ३ भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहीतीडाया उपांश्रूपहवे सप्त देवगवीर्जपति । चिदसि मनासि धीरसि रन्ती रमतिः सूनुः सूनरीत्युच्चैरुपहवे सप्त मनुष्यगवीः । देवीर्देवैरभि मा निवर्तध्वं स्योनाः स्योनेन घृतेन मा समुक्षत नम इदमुदं भिषगृषिर्ब्रह्मा यद्ददे समुद्रादुदचन्निव स्रुचा वागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन्निति च ४ उपहूयमानायां वायविडा ते मातेति होतारमीक्षमाणो वायुं मनसा ध्यायेत् ५ सा मे सत्याशीरित्याशिःषु । आशीर्म ऊर्जमिति च ६ इडाया अहं देवयज्यया पशुमान्भूयासमित्युपहूताम् । इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माँ आगादिति भक्षायाह्रियमाणाम् ७ उक्त इडाभक्षो मार्जनी च ८ ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां कॢप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्तां संवत्सरो मे कल्पतां कॢप्तिरसि कल्पतां म इति बर्हिषि पुरोडाशमासन्नमभिमृशति ९ इति दशमी कण्डिका 4.11 अथैनं प्रतिदिशं व्यूहत्याशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् । ब्रह्मपा हि भजतां भागी भागं माभागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिदं हविः सोम्यानां सोमपीथिनाम् । निर्भक्तोऽब्राह्मणो नेहाब्राह्मणस्यास्तीति १ उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायोपहूता पृथिवी मातोप मां माता पृथिवी ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेत्याग्नीध्रभागस्य वैशेषिकम् २ ब्रध्न पिन्वस्वेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति । इयं स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमिति च ३ उक्तः संप्रैषोऽन्वाहार्यस्य च दानम् ४ एषा ते अग्ने समिदित्यानूयाजिकीं समिधमाधीयमानाम् । यं ते अग्न आवृश्चाम्यहं वा क्षिपितश्चरन् । प्रजां च तस्य मूलं च नीचैर्देवा निवृश्चत । अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वांस्तानग्ने संदह यांश्चाहं द्वेष्मि ये च मामित्याहितायामग्निम् ५ वेदिर्बर्हिः शृतं हविरिध्मः ह्परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः । सं मे संनतयो नमन्तामिध्मसंनहने हुत इति संमार्गान्हुतान् ६ सप्तहोतारं वदेत्पुरस्तादनूयाजानामुपरिष्टाद्वा ७ इत्येकादशी कण्डिका 4.12 बर्हिषोऽहं देवयज्यया प्रजावान्भूयासमित्येतैः प्रतिमन्त्रमनूयाजान्हुतंहुतम् १ उभौ वाजवत्यौ जपतः २ वसून्देवान्यज्ञेनापिप्त्रें रुद्रान्देवान्यज्ञेनापिप्रेमादित्यान्देवान्यज्ञेनापिप्रेमिति प्रतिमन्त्रं परिधीनज्यमानान् । समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्कां दिव्यं नभो गच्छतु यत्स्वाहेति प्रस्तरमज्यमानम् ३ अग्नेरहमुज्जितिमनूज्जेषमिति यथालिङ्गं सूक्तवाक् देवताः ४ यदा चास्य होता नाम गृह्णीयादथ ब्रूयादेमा अग्मन्नाशिषो दोहकामा इति ५ सा मे सत्याशीर्देवान्गम्याज्जुष्टाज्जुष्टतरा पण्यात्पण्यतरारेडता मनसा देवान्गम्याद्यज्ञो देवान्गच्छत्वदो म आगच्छत्विति सूक्तवाकस्याशिषु यत्कामयते तस्य नाम गृह्णाति ६ रोहितेन त्वाग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रमग्नीधा प्रस्तरं प्रह्रियमाणम् ७ दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन द्विषन्तं शोचयामसि । द्विषन्मे बहु शोचत्वोषधे मो अहं शुचमिति प्रस्तरतृणे प्रह्रियमाणे ८ वि ते मुञ्चामीति परिधिषु विमुच्यमानेषु ९ विष्णोः शंयोरिति शंयुवाके । यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्द्धिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नम इति च । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वान् । अथर्वभिस्तस्य मेष्टस्य वीतस्य द्रविणेहागमेरिति संस्रावं हुतम् १० इति द्वादशी कण्डिका इति तृतीयः पटलः 4.13 सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति यथालिङ्गं पत्नीसंयाजान्हुतंहुतम् १ राकाया अहं देवयज्यया प्रजावान्भूयासं सिनीवाल्या अहं देवयज्यया पशुमान्भूयासं कुह्वा अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिति काम्याः २ राकाया अहं देवयज्यया प्रजावती भूयासं सिनीवाल्या अहं देवयज्यया पशुमती भूयासं कुह्वा अहं देवयज्यया पुष्टिमती पशुमती भूयासमिति पत्न्यनुमन्त्रयते ३ इडास्माननु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवीत्याज्येडाम् ४ अन्तर्वेदि वेदं निधायाभिमृशति वेदोऽसीति ५ पुरा विदेयेति यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात् । तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ६ या सरस्वती विशोभगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्मेति फलीकरणहोमे हुते मुखं विमृष्टे ७ वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छत्वदो म आगच्छत्विति समिष्टयजुर्हुतमनुमन्त्रयते । यत्कामयते तस्य नाम गृह्णाति ८ सं यज्ञपतिराशिषेति यजमानभागं प्राश्नाति ९ इति त्रयोदशी कण्डिका 4.14 दर्शपूर्णमासौ याजमान दधिक्राव्णो अकारिषमिति सायंदोहम् । इदं हविरिति प्रातर्दोहम् १ नाब्राह्मणः सांनाय्यं प्राश्नीयात् २ अन्तर्वेदि प्रणीतास्वध्वर्युः संततामुदकधारां स्रावयति । सदसि सन्मे भूया इत्यानीयमानायां जपति ३ प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामित्येतैर्यथालिङ्गं व्युत्सि च्य समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि शेषं निनीय यदप्सुते सरस्वति गोष्ठश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्ध सरस्वति । या सरस्वती वैशम्बल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे ४ उभौ कपालविमोचनं जपतः ५ विष्णोः क्रमोऽसीति दक्षिने वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान्प्राचः क्रामत्युत्तरमुत्तरं ज्यायांसमनतिहरन्सव्यम् ६ नाहवनीयमतिक्रामति ७ अवस्थाय चतुर्थं जपति ८ विष्णुक्रमान्विष्ण्वतिक्रमानतीमोक्षानिति व्यतिषक्तानेके समामनन्ति । विनिरूढानेके ९ अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमाः । ये देवा यज्ञहन इत्यतीमोक्षाः १० अगन्म सुवः सुवरगन्मेत्यादित्यमुपतिष्ठते ११ इति चतुर्दशी कण्डिका 4.15 उद्यन्नद्य मित्रमहः सपत्नान्मे अनीनशः । दिवैनान्विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं निदध्मसि । उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापं समूहतामिति च १ ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते २ यद्यभिचरेदिदमहमुष्यामुष्यायणस्य प्राणं निवेष्टयामीति दक्षिणस्य पदः पार्ष्ण्या निमृद्नीयात् ३ पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीरित्युक्त्वा समहं प्रजया सं मया प्रजेति पुनरुपावर्तते ४ समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासमित्याहवनीयमुपसमिन्द्धे । वसुमान्यज्ञो वसीयान्भूयासुमित्युपतिष्ठते ५ इति पञ्चदशी कण्डिका 4.16 यो नः सपत्नो योऽरणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचनेति च १ अग्न आयूंषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते । अग्ने गृहपत इति च २ पुत्रस्य नाम गृह्णाति तामाशिषमाशासे तन्तव इत्यजातस्य । अमुष्मा इति जातस्य ३ ज्योतिषे तन्तवे त्वासावनु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा च्छित्सि मा मानुषादिति प्रियस्य पुत्रस्य नाम गृह्णाति ४ अग्ने वह्ने स्वदितं नस्तनये पितुं पच । शं तोकाय तनुवे स्योन इति दक्षिणाग्निम् ५ ज्योतिषे तन्तवे त्वेत्यन्तर्वेद्युपविशति । पूर्ववन्नामग्रहणम् ६ ज्योतिरसि तन्तव इत्युपविश्य जपति ७ वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतीमोक्षाञ्जपति ८ अत्र वेदस्तरणं यजमानभागस्य च प्राशनमेके समामनन्ति ९ कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति १० अग्ने व्रतपते व्रतमचारिषमिति व्रतं विसृजते ११ यज्ञा बभूवेति यज्ञस्य पुनरालम्भं जपति १२ गोमानिति प्राङुदेत्य गोमतीं जपति १३ अत्र वा यजमानभागं प्राश्नीयात् १४ यज्ञ शं च म उप च म आयुश्च मे बलं च मे यज्ञ शिवो मे संतिष्ठस्व यज्ञ स्विष्टो मे संतिष्ठस्व यज्ञारिष्टो मे संतिष्ठस्वेति दर्शपूर्णमासाभ्यां सोमेन पशुना वेष्ट्वा जपति १५ वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामितीष्ट्वाप उपस्पृशति । तदिदं सर्वयज्ञेषूपस्पर्शनं भवति १६ ब्राह्मणांस्तर्पयितवा इति संप्रेष्यति १७ प्रवसन्काले विहारमभिमुखो याजमानं जपति १८ प्राचो विष्णुक्रमान्क्रामति १९ प्राङुदेत्य गोमतीं जपति जपति २० इति षोडशी कण्डिका इति चतुर्थः पटलः इति चतुर्थः प्रश्नः </span></poem> b26nofnen5vw6pa3jmiwponpywel0wn 341106 341105 2022-07-23T04:01:03Z Puranastudy 1572 wikitext text/x-wiki दर्शपूर्णमासौ याजमान <poem><span style="font-size: 14pt; line-height: 200%">4.1 याजमानं व्याख्यास्यामः १ यज्ञमानस्य ब्रह्मचर्यं दक्षिणादानं द्रव्यप्रकल्पनं कामानां कामनम् २ प्रत्यगाशिषो मन्त्राञ्जपत्यकरणानुपतिष्ठतेऽनुमन्त्रयते ३ पर्वणि च केशश्मश्रु वापयते ४ अप्यल्पशो लोमानि वापयत इति वाजसनेयकम् ५ विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमीति यक्ष्यमाणोऽप उपस्पृशति ६ तदिदं सर्वयज्ञेषूपस्पर्शनं भवति ७ अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमं श्वोयज्ञाय रमतां देवताभ्यः । वसून् रूद्रानादित्यानिन्द्रेण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु पौर्णमासं हविरिदमेषां मय्यामावास्यं हविरिदमेषां मयीति यथालिङ्गमाहवनीयेऽन्वाधीयमाने जपति ८ अन्तराग्नी पशवो देवसंसदमागमन् । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषयेत्यन्तराग्नी तिष्ठञ्जपति ९ इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषयेति गार्हपत्यम् १० इति प्रथमा कण्डिका</span></poem> [[File:दर्शपूर्णमासः Darshapurnamasa.jpg|thumb|500px|दर्शपूर्णमासः ]] <poem><span style="font-size: 14pt; line-height: 200%">4.2 अयं पितॄणामग्निरवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णाम्यविषं नः पितुं करदिति दक्षिणाग्निम् । अजस्रं त्वा सभापाला विजयभागं समिन्धताम् । अग्ने दीदाय मे सभ्य विजित्यै शरदः शतमिति सभ्यम् । अन्नमावसथीयमभिहराणि शरदः शतम् । [https://puranastudy.angelfire.com/pur_index2/aavasath.htm आवसथे] श्रियं मन्त्र[https://puranastudy.angelfire.com/pur_index2/ahirbudhnya.htm महिर्बुध्नियो] नियच्छत्वित्यावसथ्यम् १ इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रव्रवीमि । इदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमि । इदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यन्वाहितेषु जपति २ पयस्वतीरोषधय इति पुरा बर्हिष आहर्तोर्जायापती अश्नीतः । पुरा वत्सानामपाकर्तोरमावास्यायाम् ३ पौर्णमासायोपवत्स्यन्तौ नातिसुहितौ भवतः ४ अमाषममांसमाज्येनाश्नीयातां तदभावे दध्ना पयसा वा ५ बर्हिषा पूर्णमासे व्रतमुपैति । वत्सेष्ट्यपाकृतेष्ठ्यमावास्यायाम् ६ प्रणीतासु प्रणीयमानास्वासन्नेषु वा हविःषु व्रतमुपै तीत्युभयत्र साधारणम् ७ अशनमग्न्यन्वाधानं व्रतोपायनमित्येके । व्रतोपायनमशनमग्न्यन्वाधानमित्येके । अग्न्यन्वाधानं व्रतोपायनमशनमित्येके ८ पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा ९ अपरेणाहवनीयं दक्षिणातिक्रामति १० एष एवात ऊर्ध्वं यजमानस्य संचरो भवति ११ इति द्वितीया कण्डिका 4.3 दक्षिणेनाहवनीयमवस्थाय व्रतमुपैष्यन्समुद्रं मनसा ध्यायति १ अथ जपत्यग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतं चरिष्यामीति राजन्यवैश्यौ २ सर्वान्वा ब्राह्मणः ३ अथादित्यमुपतिष्ठते सम्राडसि व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासमिति ४ यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिष्ठन्नेतद्यजुर्जपेत् ५ उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि मह्यं गोपतये पशूनिति सायं परिस्तीर्यमाणेषु जपति ६ आरण्यं सायमाशेऽश्नात्यमाषममांसम् ७ अपि वा काममा मार्गादा मधुन आ प्राशातिकात् ८ अपो वा । न वा किंचित् ९ न तस्य सायमश्नीयाद्येन प्रातर्यक्ष्यमाणः स्यात् १० आरण्यायोपवत्स्यन्नपोऽश्नाति न वा ११ जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू इति १२ अमावास्यां रात्रिं जागर्ति १३ अपि वा सुप्यादुपरि त्वेव न शयीत १४ अपि वोपरि शयीत ब्रह्मचारी त्वेव स्यात् १५ उभयत्र जागरणमेके समामनन्ति १६ आहवनीयागारे गार्हपत्यागारे वा शेते १७ इति तृतीया कण्डिका 4.4 देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा इह मावत इदं शकेयं यदिदं करोम्यात्मा करोत्वात्मने । इदं करिष्ये भेषजमिदं मे विश्वभेषजा अश्विना प्रावतं युवमिति जपित्वा श्वोभूते ब्रह्माणं वृणीते १ भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इत्युक्त्वापरेणाहवनीयं दक्षिणातिक्रम्योपविशति २ पूर्वो ब्रह्मापरो यजमानः ३ भूश्च कश्च वाक् चर्क् च गौश्च वट् च खं च धूंश्च नूंश्च पूंश्चैकाक्षराः पूंर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीर्ब्रह्मपूता स्थ । को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्यायै । याः पुरस्तात्प्रस्रवन्त्युपरिष्टात्सर्वतश्च याः । ताभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभ इति प्रणीताः प्रणीयमाना अनुमन्त्रयते । यजमान हविर्निर्वप्स्यामीत्युच्यमान ॐ निर्वपेत्युच्चैरनुजानाति ४ अग्निं होतारमिह तं हुव इति हविर्निरुप्यमाणमभिमन्त्रयते ५ हविर्निर्वपणं वा पात्रमभिमृशत्यभि वा मन्त्रयते ६ तदुदित्वा वाचं यच्छति ७ अथ यज्ञं युनक्ति ८ कस्त्वा युनक्ति स त्वा युनक्त्विति सर्वं विहारमनुवीक्षते ९ इति चतुर्थी कण्डिका इति प्रथमः पटलः 4.5 चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामानिति वेदिं संमृज्यमानाम् १ यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मीति स्तम्बयजुर्ह्रियमाणम् २ इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीष्वित्युत्करमभिगृह्यमाणम् ३ यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामीति वेदिं परिगृह्यमाणाम् ४ यदुद्घ्नन्तो जिहिंसिम पृथिवीमोषधीरपः । अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पातु तस्मात् । यदुद्घ्नन्तो जिहिंसिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः शिवो नो विश्वैर्भुवनेभिरस्त्वित्युद्धन्यमानाम् । भूमिर्भूत्वा महिमानं पुपोष ततो देवो वर्धयते पयांसि । यज्ञिया यज्ञं विचयन्ति शं चौषधीराप इह शक्वरीश्चेति क्रियमाणाम् । इडेन्यक्रतूरहमपो देवीरुपब्रुवे । दिवा नक्तं च सस्रुषीरपस्वरीरिति प्रोक्षणीरासाद्यमानाः । ऊर्णामृदु प्रथमानं स्योनं देवेभ्यो जुष्टं सदनाय बर्हिः । सुवर्गे लोके यजमानं हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिरासाद्यमानम् ५ अद्भिराज्यमाज्येनापः सम्यक् पुनीत सवितुः पवित्रैः । ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यं प्रोक्षणीश्चोत्पूयमानाः ६ उभावाज्यग्रहाञ्जपतः ७ इति पञ्चमी कण्डिका 4.6 अशिश्रेम बर्हिरन्तः पृथिव्यां संरोहयन्त ओषधीर्विवृक्णाः । यासां मूलमुदवधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु । सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इत्यन्तर्वेदि बर्हिरासन्नम् १ चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् । शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैधि । इषमूर्जं मे पिन्वस्व ब्रह्म तेजो मे पिन्वस्व क्षत्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वायुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीर्यमाणाम् २ ध्रुवोऽसीत्येतैः प्रतिमन्त्रं परिधीन्परिधीयमानान् । अस्मिन्यज्ञ उप भूय इन्नु मेऽविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषांसि निरितो नु दाता इति च ३ युनज्मि त्वा ब्रह्मणा दैव्येनेत्याहवनीयम् । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तज्वो यास्ते अग्ने । ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्यज्ञहनः पिशाचा इति च ४ विच्छिनद्मि विधृतीभ्यां सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहं स्वानामुत्तमो ऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती आसाद्यमाने ५ इति षष्ठी कण्डिका</span></poem> 4.7 [[File:Yajna implements.jpg|thumb|यज्ञपात्राणि]] [[File:Juhu - sruvaa जुहू - स्रुवा.jpg|thumb|जुहू - स्रुवा]] [[File:Sruvaa.jpg|thumb|स्रुवा]] [[File:Dhruvaa.jpg|thumb|ध्रुवा]] <poem><span style="font-size: 14pt; line-height: 200%">अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्स्रुचो अध्यासादयामीति प्रस्तरमासाद्यमानम् १ आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा संभृताङ्गा वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येनेति जुहूम् । अवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहै यज्ञं सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्द्वृताची त्रैष्टुभेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रेण शर्मणा दैव्येनेत्युपभृतम् । यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः । ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवान्वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाम् । स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । अयं स्रुवो अभिजिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन । सर्वा यञ्जस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्रुवम् । इयं स्थाली घृतस्य पूर्णाच्छिन्नपयाः शतधार उत्सः । मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् २ इति सप्तमी कण्डिका 4.8 तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मौजसा वीर्येण तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरिति पुरोडाशानज्यमानान् १ यज्ञो ऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयतां शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयतां शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्याग्नेयं पुरोडाशमासन्नमभिमृशति सर्वाणि वा हवींषि २ इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोप मामिहेषमूर्जं यशः सह ओजः सनेयं शृतं मयि श्रयतामिति प्रातर्दोहम् । यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं दधि मां धिनोत्विति दधि ३ अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सखममृतत्वमश्यामिति सर्वाणि हवींषि ४ यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् ५ ममाग्ने वर्चो विहवेष्ट्यस्त्वित्यनुवाकेन सर्वाणि हवींष्यासन्नान्यभिमृशेदष्टाभिर्वा ६ चतुर्होत्रा पौर्णमास्यां हवींष्यासन्नान्यभिमृशेत्प्रजाकामः पञ्चहोत्रामावास्यायां स्वर्गकामो नित्यवदेके समामनन्ति ७ इत्यष्टमी कण्डिका इति द्वितीयः पटलः 4.9 दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् १ अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्त्विति प्तामिधेनीनां प्रतिपदि जपति २ अनूच्यमानासु दशहोतारं व्याख्यायोच्छुष्मो अग्न इति समिध्यमानम् । समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नम इति समिद्धम् ३ मनोऽसि प्राजापत्यमिति स्रौवमाघार्यमाणम् ४ स्रुच्यमन्वारभ्य वागस्यैन्द्रीत्यनुमन्त्रयते ५ देवाः पितरः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टं स्वं दत्तं स्वं पूर्तं स्वं श्रान्तं स्वं हुतम् । तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोतादित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन्यज इति होतृप्रवरेऽध्वर्युप्रवरे च प्रव्रियमाणे ६ चतुर्होतारं व्याख्याय वसन्तमृतूनां प्रीणामीत्येतैः प्रतिमन्त्रं प्रयाजान्हुतंहुतम् ७ एको ममैका तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्मो द्वौ मम द्वे तस्य त्रयो मम तिस्रस्तस्य चत्वारो मम चतस्रस्तस्य पञ्च मम न तस्य किंचन यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्येतैश्च प्रतिमन्त्रम् ८ अग्नीषोमयोरहं देवयज्यया चक्षुष्मान्भूयासमित्याज्यभागौ ९ विहृतानुमन्त्रणौ वा १० अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुष्मान्मूयासम् । सोमेन यज्ञश्चक्षुष्माँ सोमस्याहं देवयज्यया चक्षुष्मान्भूयासमिति विहृतौ ११ पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य १२ अग्नेरहं देवयज्ययान्नादो भूयासमित्याग्नेयं हुतमनुमन्त्रयते दब्धिरसीत्युपांशुयाजमग्नीषोमयोरित्यग्नीषोमीयमिन्द्राग्नियोरित्यैन्द्राग्नमिन्द्रस्येत्यैन्द्रं सांनाय्यं महेन्द्रस्येति माहेन्द्रमग्नेः स्विष्टकृत इति सौविष्टकृतम् १३ पुरस्तात्स्विष्टकृतोऽन्यदेवतान्येके समामनन्ति १४ ।।4.10।। इन्द्रस्य वैमृधस्याहं देवयज्ययासपत्नो वीर्यवान्भूयासमिन्द्रस्य त्रातुरहं देवयज्यया त्रातो भूयासं द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोरृध्यासं । भूमानं प्रतिष्ठां गमेयमित्येके । पूष्णोऽहं देवयज्यया प्रजनिषीय प्रजया पशुभिः सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयमर्यम्णोऽहं देवयज्यया स्वर्गं लोकं गमेयमदित्या अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीयेन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रियाव्यन्नादो भूयासमिति यथालिङ्गं वैकृतीः १ अग्निर्मा दुरिष्टात्पात्विति प्राशित्रमवदीयमानम् २ सुरूपवर्षवर्ण एहीतीडाम् ३ भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहीतीडाया उपांश्रूपहवे सप्त देवगवीर्जपति । चिदसि मनासि धीरसि रन्ती रमतिः सूनुः सूनरीत्युच्चैरुपहवे सप्त मनुष्यगवीः । देवीर्देवैरभि मा निवर्तध्वं स्योनाः स्योनेन घृतेन मा समुक्षत नम इदमुदं भिषगृषिर्ब्रह्मा यद्ददे समुद्रादुदचन्निव स्रुचा वागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन्निति च ४ उपहूयमानायां वायविडा ते मातेति होतारमीक्षमाणो वायुं मनसा ध्यायेत् ५ सा मे सत्याशीरित्याशिःषु । आशीर्म ऊर्जमिति च ६ इडाया अहं देवयज्यया पशुमान्भूयासमित्युपहूताम् । इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माँ आगादिति भक्षायाह्रियमाणाम् ७ उक्त इडाभक्षो मार्जनी च ८ ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां कॢप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्तां संवत्सरो मे कल्पतां कॢप्तिरसि कल्पतां म इति बर्हिषि पुरोडाशमासन्नमभिमृशति ९ इति दशमी कण्डिका 4.11 अथैनं प्रतिदिशं व्यूहत्याशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् । ब्रह्मपा हि भजतां भागी भागं माभागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिदं हविः सोम्यानां सोमपीथिनाम् । निर्भक्तोऽब्राह्मणो नेहाब्राह्मणस्यास्तीति १ उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायोपहूता पृथिवी मातोप मां माता पृथिवी ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेत्याग्नीध्रभागस्य वैशेषिकम् २ ब्रध्न पिन्वस्वेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति । इयं स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमिति च ३ उक्तः संप्रैषोऽन्वाहार्यस्य च दानम् ४ एषा ते अग्ने समिदित्यानूयाजिकीं समिधमाधीयमानाम् । यं ते अग्न आवृश्चाम्यहं वा क्षिपितश्चरन् । प्रजां च तस्य मूलं च नीचैर्देवा निवृश्चत । अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वांस्तानग्ने संदह यांश्चाहं द्वेष्मि ये च मामित्याहितायामग्निम् ५ वेदिर्बर्हिः शृतं हविरिध्मः ह्परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः । सं मे संनतयो नमन्तामिध्मसंनहने हुत इति संमार्गान्हुतान् ६ सप्तहोतारं वदेत्पुरस्तादनूयाजानामुपरिष्टाद्वा ७ इत्येकादशी कण्डिका 4.12 बर्हिषोऽहं देवयज्यया प्रजावान्भूयासमित्येतैः प्रतिमन्त्रमनूयाजान्हुतंहुतम् १ उभौ वाजवत्यौ जपतः २ वसून्देवान्यज्ञेनापिप्त्रें रुद्रान्देवान्यज्ञेनापिप्रेमादित्यान्देवान्यज्ञेनापिप्रेमिति प्रतिमन्त्रं परिधीनज्यमानान् । समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्कां दिव्यं नभो गच्छतु यत्स्वाहेति प्रस्तरमज्यमानम् ३ अग्नेरहमुज्जितिमनूज्जेषमिति यथालिङ्गं सूक्तवाक् देवताः ४ यदा चास्य होता नाम गृह्णीयादथ ब्रूयादेमा अग्मन्नाशिषो दोहकामा इति ५ सा मे सत्याशीर्देवान्गम्याज्जुष्टाज्जुष्टतरा पण्यात्पण्यतरारेडता मनसा देवान्गम्याद्यज्ञो देवान्गच्छत्वदो म आगच्छत्विति सूक्तवाकस्याशिषु यत्कामयते तस्य नाम गृह्णाति ६ रोहितेन त्वाग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रमग्नीधा प्रस्तरं प्रह्रियमाणम् ७ दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन द्विषन्तं शोचयामसि । द्विषन्मे बहु शोचत्वोषधे मो अहं शुचमिति प्रस्तरतृणे प्रह्रियमाणे ८ वि ते मुञ्चामीति परिधिषु विमुच्यमानेषु ९ विष्णोः शंयोरिति शंयुवाके । यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्द्धिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नम इति च । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वान् । अथर्वभिस्तस्य मेष्टस्य वीतस्य द्रविणेहागमेरिति संस्रावं हुतम् १० इति द्वादशी कण्डिका इति तृतीयः पटलः 4.13 सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति यथालिङ्गं पत्नीसंयाजान्हुतंहुतम् १ राकाया अहं देवयज्यया प्रजावान्भूयासं सिनीवाल्या अहं देवयज्यया पशुमान्भूयासं कुह्वा अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिति काम्याः २ राकाया अहं देवयज्यया प्रजावती भूयासं सिनीवाल्या अहं देवयज्यया पशुमती भूयासं कुह्वा अहं देवयज्यया पुष्टिमती पशुमती भूयासमिति पत्न्यनुमन्त्रयते ३ इडास्माननु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवीत्याज्येडाम् ४ अन्तर्वेदि वेदं निधायाभिमृशति वेदोऽसीति ५ पुरा विदेयेति यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात् । तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ६ या सरस्वती विशोभगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्मेति फलीकरणहोमे हुते मुखं विमृष्टे ७ वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छत्वदो म आगच्छत्विति समिष्टयजुर्हुतमनुमन्त्रयते । यत्कामयते तस्य नाम गृह्णाति ८ सं यज्ञपतिराशिषेति यजमानभागं प्राश्नाति ९ इति त्रयोदशी कण्डिका 4.14 दर्शपूर्णमासौ याजमान दधिक्राव्णो अकारिषमिति सायंदोहम् । इदं हविरिति प्रातर्दोहम् १ नाब्राह्मणः सांनाय्यं प्राश्नीयात् २ अन्तर्वेदि प्रणीतास्वध्वर्युः संततामुदकधारां स्रावयति । सदसि सन्मे भूया इत्यानीयमानायां जपति ३ प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामित्येतैर्यथालिङ्गं व्युत्सि च्य समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि शेषं निनीय यदप्सुते सरस्वति गोष्ठश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्ध सरस्वति । या सरस्वती वैशम्बल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे ४ उभौ कपालविमोचनं जपतः ५ विष्णोः क्रमोऽसीति दक्षिने वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान्प्राचः क्रामत्युत्तरमुत्तरं ज्यायांसमनतिहरन्सव्यम् ६ नाहवनीयमतिक्रामति ७ अवस्थाय चतुर्थं जपति ८ विष्णुक्रमान्विष्ण्वतिक्रमानतीमोक्षानिति व्यतिषक्तानेके समामनन्ति । विनिरूढानेके ९ अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमाः । ये देवा यज्ञहन इत्यतीमोक्षाः १० अगन्म सुवः सुवरगन्मेत्यादित्यमुपतिष्ठते ११ इति चतुर्दशी कण्डिका 4.15 उद्यन्नद्य मित्रमहः सपत्नान्मे अनीनशः । दिवैनान्विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं निदध्मसि । उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापं समूहतामिति च १ ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते २ यद्यभिचरेदिदमहमुष्यामुष्यायणस्य प्राणं निवेष्टयामीति दक्षिणस्य पदः पार्ष्ण्या निमृद्नीयात् ३ पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीरित्युक्त्वा समहं प्रजया सं मया प्रजेति पुनरुपावर्तते ४ समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासमित्याहवनीयमुपसमिन्द्धे । वसुमान्यज्ञो वसीयान्भूयासुमित्युपतिष्ठते ५ इति पञ्चदशी कण्डिका 4.16 यो नः सपत्नो योऽरणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचनेति च १ अग्न आयूंषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते । अग्ने गृहपत इति च २ पुत्रस्य नाम गृह्णाति तामाशिषमाशासे तन्तव इत्यजातस्य । अमुष्मा इति जातस्य ३ ज्योतिषे तन्तवे त्वासावनु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा च्छित्सि मा मानुषादिति प्रियस्य पुत्रस्य नाम गृह्णाति ४ अग्ने वह्ने स्वदितं नस्तनये पितुं पच । शं तोकाय तनुवे स्योन इति दक्षिणाग्निम् ५ ज्योतिषे तन्तवे त्वेत्यन्तर्वेद्युपविशति । पूर्ववन्नामग्रहणम् ६ ज्योतिरसि तन्तव इत्युपविश्य जपति ७ वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतीमोक्षाञ्जपति ८ अत्र वेदस्तरणं यजमानभागस्य च प्राशनमेके समामनन्ति ९ कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति १० अग्ने व्रतपते व्रतमचारिषमिति व्रतं विसृजते ११ यज्ञा बभूवेति यज्ञस्य पुनरालम्भं जपति १२ गोमानिति प्राङुदेत्य गोमतीं जपति १३ अत्र वा यजमानभागं प्राश्नीयात् १४ यज्ञ शं च म उप च म आयुश्च मे बलं च मे यज्ञ शिवो मे संतिष्ठस्व यज्ञ स्विष्टो मे संतिष्ठस्व यज्ञारिष्टो मे संतिष्ठस्वेति दर्शपूर्णमासाभ्यां सोमेन पशुना वेष्ट्वा जपति १५ वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामितीष्ट्वाप उपस्पृशति । तदिदं सर्वयज्ञेषूपस्पर्शनं भवति १६ ब्राह्मणांस्तर्पयितवा इति संप्रेष्यति १७ प्रवसन्काले विहारमभिमुखो याजमानं जपति १८ प्राचो विष्णुक्रमान्क्रामति १९ प्राङुदेत्य गोमतीं जपति जपति २० इति षोडशी कण्डिका इति चतुर्थः पटलः इति चतुर्थः प्रश्नः </span></poem> s3fyt1c4bc8qzvdqlv6wle31yf6txa0 पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/93 104 27936 341187 335657 2022-07-23T09:30:17Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=अनुबन्धः ६|right=}} {{rh|left=|center=ग्रहस्फुटपरिलेखः|right=}}</noinclude>{{Block center|<poem>द्रष्टा केन्द्रस्थितश्चेद् ग्रहगमनवृते {{gap}}{{gap}}{{gap}}र्द्रष्टुरन्यग्रहाणां भुक्तिस्तुल्या प्रतीयात्, नियतमवनिम- {{gap}}{{gap}}{{gap}}ध्यादुपर्येव केन्द्रम् । द्रष्टा भूमौ च कल्प्यस् , तत इह तु वृति- {{gap}}{{gap}}{{gap}}र्द्रष्ट्रकेन्द्रात् ग्रहान्तात् तस्यां मेषादिराश्यादिकविहगगति र्द्रष्टुरेति स्फुटत्वम् ॥ १ ॥ स्वोच्चव्यासार्धवृत्तं प्रथममभिलिखेत् {{gap}}{{gap}}{{gap}}तच्च भूमध्यकेन्द्रम् यत्रोच्चस्तत्र नेम्यां भवति खलु तदा {{gap}}{{gap}}{{gap}}तत्र केन्द्रं विधाय । त्रिज्यासूत्रेण वृत्तं विलिखतु विहगे {{gap}}{{gap}}{{gap}}यस्य नेम्यां तु मध्यो यत्र स्यादुच्चकेन्द्रात्प्रभृति तदवधिः {{gap}}{{gap}}{{gap}}कर्णारेखा च कार्या ॥ २ ॥</poem>}} {{rule}} {{gap}}Ms. Ker. Univ. C. 809-C, written in continuation of Sphuta• nirnaya (Text Ms. B) and Tantrasangrahaparyayaih Sphutanirnaya samprokta-Bhagananayanam (App. III, above).<noinclude></noinclude> ak5xg48d0p8qu1vs048lrjcbmx8ye22 341188 341187 2022-07-23T09:30:54Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=अनुबन्धः ६|right=}} {{rh|left=|center=ग्रहस्फुटपरिलेखः|right=}}</noinclude>{{Block center|<poem>द्रष्टा केन्द्रस्थितश्चेद् ग्रहगमनवृते {{gap}}{{gap}}{{gap}}र्द्रष्टुरन्यग्रहाणां भुक्तिस्तुल्या प्रतीयात्, नियतमवनिम- {{gap}}{{gap}}{{gap}}ध्यादुपर्येव केन्द्रम् । द्रष्टा भूमौ च कल्प्यस् , तत इह तु वृति- {{gap}}{{gap}}{{gap}}र्द्रष्ट्रकेन्द्रात् ग्रहान्तात् तस्यां मेषादिराश्यादिकविहगगति {{gap}}{{gap}}{{gap}}र्द्रष्टुरेति स्फुटत्वम् ॥ १ ॥ स्वोच्चव्यासार्धवृत्तं प्रथममभिलिखेत् {{gap}}{{gap}}{{gap}}तच्च भूमध्यकेन्द्रम् यत्रोच्चस्तत्र नेम्यां भवति खलु तदा {{gap}}{{gap}}{{gap}}तत्र केन्द्रं विधाय । त्रिज्यासूत्रेण वृत्तं विलिखतु विहगे {{gap}}{{gap}}{{gap}}यस्य नेम्यां तु मध्यो यत्र स्यादुच्चकेन्द्रात्प्रभृति तदवधिः {{gap}}{{gap}}{{gap}}कर्णारेखा च कार्या ॥ २ ॥</poem>}} {{rule}} {{gap}}Ms. Ker. Univ. C. 809-C, written in continuation of Sphuta• nirnaya (Text Ms. B) and Tantrasangrahaparyayaih Sphutanirnaya samprokta-Bhagananayanam (App. III, above).<noinclude></noinclude> lpje1hg55yfkj16cpwyik0igtrxu71f 341189 341188 2022-07-23T09:31:56Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=अनुबन्धः ६|right=}} {{rh|left=|center=ग्रहस्फुटपरिलेखः|right=}}</noinclude>{{Block center|<poem>द्रष्टा केन्द्रस्थितश्चेद् ग्रहगमनवृते {{gap}}{{gap}}{{gap}}र्द्रष्टुरन्यग्रहाणां भुक्तिस्तुल्या प्रतीयात्, नियतमवनिम- {{gap}}{{gap}}{{gap}}ध्यादुपर्येव केन्द्रम् । द्रष्टा भूमौ च कल्प्यस् , तत इह तु वृति- {{gap}}{{gap}}{{gap}}र्द्रष्ट्रकेन्द्रात् ग्रहान्तात् तस्यां मेषादिराश्यादिकविहगगति {{gap}}{{gap}}{{gap}}र्द्रष्टुरेति स्फुटत्वम् ॥ १ ॥ स्वोच्चव्यासार्धवृत्तं प्रथममभिलिखेत् {{gap}}{{gap}}{{gap}}तच्च भूमध्यकेन्द्रम् यत्रोच्चस्तत्र नेम्यां भवति खलु तदा {{gap}}{{gap}}{{gap}}तत्र केन्द्रं विधाय । त्रिज्यासूत्रेण वृत्तं विलिखतु विहगे {{gap}}{{gap}}{{gap}}यस्य नेम्यां तु मध्यो यत्र स्यादुच्चकेन्द्रात्प्रभृति तदवधिः {{gap}}{{gap}}{{gap}}कर्णारेखा च कार्या ॥ २ ॥</poem>}} {{rule}} {{gap}}Ms. Ker. Univ. C. 809-C, written in continuation of ''Sphutanirnaya'' (Text Ms. B) and ''Tantrasangrahaparyayaih Sphutanirnaya samprokta-Bhagananayanam ''(App. III, above).<noinclude></noinclude> ktuom56siuulhxh95w1lw6ai2oqp9c1 पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/94 104 27938 341191 335658 2022-07-23T11:51:08Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=अहस्फुटपरिलेखः |right=६७}}</noinclude>{{Block center|<poem>कर्णव्यासार्धवृत्तं पुनरथ विलिखेत् {{gap}}{{gap}}{{gap}}तच्च भूमध्यकेन्द्र- त्रिज्यावृत्तस्थमध्यग्रह इह तु वृत्तौ {{gap}}{{gap}}{{gap}}यत्र लग्नस्तदानीम् । विद्यात् तद्राशिभागे स्फुटविहगमयं {{gap}}{{gap}}{{gap}}भूमिमध्यस्थितस्य स्पष्टः कर्णो विशिष्टो भवति पुनरतस् तस्य नीर्तिं च वक्ष्ये ॥ ३ ॥ 'ग्रादावुच्चारख्यवृत्ते विलिखितु, पुनर- {{gap}}{{gap}}{{gap}}स्यैव मध्यं तु केन्द्रं कृत्वा त्रिज्या(दिकं) चाप्यभिलिखतु, पुनर- {{gap}}{{gap}}{{gap}}स्योच्चवृत्तस्य नेम्या[म्] । उच्चं केन्द्रं विधाय त्रिभगुणवृतिर- {{gap}}{{gap}}{{gap}}न्याऽपि काचिद्विलेख्या तत्केन्द्रादेव तन्नेमिगविहगगता {{gap}}{{gap}}{{gap}}कापि रेखाऽथ कार्या ॥ ४ ॥</poem>}} {{rule}} 1. A little more than a third of the right end of the folio has broken away. However, a transcript (No. T. 584) of this ms. prepared about fifty years ago, on M.E. 16... 098 (A.D. 1923), preserves the entire portion, except for a letter or two at the end of each line; obviously, only a small bit of the ms. had broken away then. The lacunae in the ms. have been restored here from the said transcript. 2. Ms. broken; gap tentatively filled,<noinclude></noinclude> bttj1jgxtqvvobxy607bxe8bx7jlj3p आपस्तम्ब-श्रौतसूत्रम्/प्रश्नः ११ 0 36914 341095 340022 2022-07-23T00:54:23Z Puranastudy 1572 wikitext text/x-wiki अग्निष्टोम प्रातःसवनम् <poem><span style="font-size: 14pt; line-height: 200%">आतिथ्याया ध्रौवात्स्रुचि चमसे वा तानूनप्त्रं समवद्यति । चतुरवत्तं पञ्चावत्तं वा । आपतये त्वा गृह्णामीत्येतैः प्रतिमन्त्रम् १ 11.1.1 अनाधृष्टमसीति यजमानसप्तदशा ऋत्विजस्तानूनप्त्रं समवमृशन्ति २ अनु मे दीक्षामिति यजमानः ३ यं कामयेत यज्ञयशसमृच्छेदिति तं प्रथमम् । यदि कामयेत सर्वानिति सर्वान्सहावमर्शयेत् ४ तस्माद्यः सतानूनप्त्रिणामित्युक्तम् ५ प्रजापतौ त्वा मनसि जुहोमीति यजमानस्तानूनप्त्रं त्रिरवजिघ्रति ६ अन्वहं वा व्रतेष्वपिनयति ७ अग्नीन्मदन्त्यापा इति पृच्छति ८ मदन्ति देवीरमृता ऋतावृध इत्याग्नीध्रः प्रत्याह ९ ताभिरेहीति संप्रेष्यति १० मदन्तीरुपस्पृश्य तानूनप्त्रिणो विस्रस्य राजानं सहिरण्यैः पाणिभिराप्याययन्त्यंशुरंशुस्ते देव सोमाप्यायतामिति ११ अथ निह्नुवते । दक्षिणे वेद्यन्ते प्रस्तरं निधाय दक्षिणान्पाणीनुत्तानान्कृत्वा सव्यान्नीच एष्टा रायः प्रेषे भगायेति १२ अथ यजमानोऽवान्तरदीक्षामुपैति १३ अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसीत्याहवनीयमुपतिष्ठते १४ एतेनैवास्मिन्समिधमादधातीति वाजसनेयकम् १५ इति प्रथमा कण्डिका संतरां मेखलां समायच्छते । संतरां मुष्टी कर्षते १ 11.2.1 तप्तव्रतो भवति २ मदन्तीभिर्मार्जयते ३ या ते अग्ने रुद्रिया तनूरित्येतेनैवात ऊर्ध्वं व्रतयति ४ प्रवर्ग्येण प्रचर्योपसदा चरन्ति । एतद्वा विपरीतम् ५ न प्रथमयज्ञे प्रवृञ्ज्यात् ६ प्रवृञ्ज्याद्वा ७ प्रवृञ्ज्याद्दुर्ब्राह्मणस्य ८ ब्रह्मवर्चसकामस्येत्येके ९ योऽनूचानः श्रोत्रियस्तस्य प्रवृञ्ज्यादिति बह्वृचब्राह्मणम् १० आतिथ्याबर्हिरुपसदामग्नीषोमीयस्य च । तदेव प्रस्तरपरिधि ११ तत्स्तीर्णं बर्हिस्तत्परिधिताः परिधय इत्येके १२ उपसदस्तन्त्रं प्रक्रमयति १३ प्राकृत इध्मो दशदारुर्वा १४ वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रति पद्यते । यथार्थं पात्राणि प्रयुनक्ति १५ स्फ्यमग्निहोत्रहवणीं स्रुवं जुहूमुपभृतं ध्रुवां वेदमाज्यस्थालीमिति द्वन्द्वं प्रयुज्य पवित्रे कृत्वा यजमान वाचं यच्छेति संप्रेष्यति १६ वाग्यतः पात्राणि संमृश्य प्रोक्षणीः संस्कृत्य ब्रह्मा णमामन्त्र्य पात्राणि प्रोक्षति १७ अत्र वाचं विसृजते १८ स्फ्यमादाय १९ इति द्वितीया कण्डिका लोमभ्योऽधि स्तम्बयजुर्हृत्वोत्तरं परिग्राहं परिगृह्य संप्रेष्यति प्रोक्षणीरासादयेध्ममुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहीति १ 11.3.1 आज्यग्रहणकाले ध्रुवायामेव गृह्णाति । प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षणीशेषं निनीय पवित्रे अपिसृज्यैकामाघारसमिधमाधायान्तर्वेदि विधृती निधाय ध्रुवां स्रुवं च सादयति । एतावसदतामिति मन्त्रं संनमति २ वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते ३ नव सामिधेनीरन्वाह ४ तिस्र ऋचस्त्रिरनूक्ता भवन्ति । नव वा पराचीः ५ नान्यामाहुतिं पुरस्ताज्जुहुयात् । स्रौवमेवाघारयेत् ६ समानमा प्रवरात् ७ नार्षेयं वृणीते न होतारम् । आश्राव्याह सीद होतरिति । एतावान्प्रवरः ८ ध्रौवादष्टौ जुह्वां गृह्णाति । चतुरुपभृति ९ घृतवति शब्दे जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्त उपांशुयाजवत्प्रचरति १० अर्धेन जौहवस्याग्निं यजति । अर्धेन सोमम् ११ औपभृतं जुह्वामानीय विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरिति स्रुवेणोपसदं जुहोति १२ अग्नीन्मदन्त्यापा३ इत्येतदाद्या निह्नवात्कृत्वाग्नी द्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १३ अपरेण गार्हपत्यमाग्नीध्र उपविश्य देवपत्नीर्व्याचष्टे सेनेन्द्रस्य धेनेति । उत्करे सुब्रह्मण्यामाह्वयति । पूर्ववदेनां यजमानोऽनुमन्त्रयते १४ इति तृतीया कण्डिका इति प्रथमः पटलः सुपूर्वाह्ने पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां चरन्ति । स्वपराह्ण आपराह्णिकीभ्याम् १ 11.4.1 सव्योत्तानैस्तु सायं निह्नवः २ एषा प्रथमा ३ एवमुत्तराभ्यां चर्या ४ रजाशयां द्वितीयायां जुहोति । हराशयां तृतीयायाम् ५ याः प्रातर्याज्या इत्युक्तम् ६ तिस्र एव साह्नस्योपसदः । द्वादशाहीनस्य ७ यदि संग्रामं पुरो वा युध्येयुरयः प्रथमायामवधाय जुहुयात् । रजतं द्वितीयायाम् । हरितमुत्तमायाम् ८ आराग्रामिति स्तनकल्पः ९ यदहः सोमं क्रीणीयुश्चतुरः सायं दुह्युस्त्रीन्प्रातर्द्वौ सायमेकमुत्तमे । सर्वान्सायमाशिरे १० अन्तरा मध्यमे प्रवर्ग्योपसदौ वेदि कुर्वन्ति ११ प्राग्वंशस्य मध्यमाल्ललाटिकात्त्रीन्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति १२ तस्मात्पञ्चदशसु दक्षिणतः । एवमुत्तरतः । ते श्रोणी । प्रथमनिहताच्छङ्कोः षट्त्रिंशतिः पुरस्तात् । तस्माद्द्वादशसु दक्षिणतः । एवमुत्तरतः । तावंसौ १३ विमिमे त्वा पयस्वतीं देवानां धेनुं सुदुघामनपस्फुरन्तीम् । इन्द्रः सोमं पिबतु क्षेमो अस्तु न इति विमानः १४ सर्वतः स्यन्द्यया पर्यातनोति १५ मध्ये पृष्ट्याम् १६ इति चतुर्थी कण्डिका इमां नरः कृणुत वेदिमेत्य वसुमतीं रुद्रवतीमादित्यवतीं वर्ष्मन्दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येद्देवस्य सवितुः सव इति संप्रेष्यति १ 11.5.1 स्फ्येन विघनेन पर्श्वा परशुना च वेदिं कुर्वन्ति २ दर्शपूर्णमासवत्संनमनवर्जं प्रागुत्तरात्परिग्राहात्कृत्वा चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । तस्यां सुपर्णावधि यौ निविष्टौ तयोर्देवानामधि भागधेयमित्यभिमन्त्र्य ३ चात्वालाद्द्वादशसु प्रक्रमेषु प्रत्यगुत्करः । तावत्ये वाध्वन्युदग्यथा चात्वालः ४ व्याख्यातश्चात्वाल उत्तरवेदिश्च ५ उदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छन्ना वसति ६ श्वोभूत उत्तमे प्रवर्ग्योपसदौ प्रतिसमस्यति ७ पौर्वाह्णिकीभ्यां प्रचर्य तदानीमेवापराह्णिकीभ्याम् ८ अत्र प्रवर्ग्यमुद्वास्य पशुबन्धवदग्निं प्रणयति ९ एष सोमस्याहवनीयः । यतः प्रणयति स गार्हपत्यः १० अग्निवत्युत्तरं परिग्राहं परिगृह्णाति ११ अत्र प्रतिप्रस्थाता शाखामाहृत्य मैत्रावरुण्याः पयस्याया वत्सानपाकरोति १२ इति पञ्चमी कण्डिका इति द्वितीयः पटलः प्रोक्ष्य बर्हिस्त्रिर्वेदिं प्रोक्षति १ 11.6.1 नाप्रोक्षितामभिचरन्ति २ अथैनां बर्हिषा बहुलं प्राचीनं स्तीर्त्वा प्रयुक्तपूर्वे शकटे नद्धयुगे प्रतिहतशम्ये प्रक्षाल्य तयोः प्रथमग्रथितान्ग्रन्थीन्विस्रस्य नवान्प्रज्ञातान्कृत्वाग्रेण प्राग्वंशमभितः पृष्ठ्यामव्यवनयन्परिश्रिते सच्छदिषी अवस्थापयति ३ अथैने पत्नी पदतृतीयेनाज्यमिश्रेणोपानक्ति ४ आ नो वीरो जायतामिति द्विर्दक्षिणामक्षधुरं दक्षिणेन हस्तेनोत्तानेन प्राचीनम् ५ न च हस्तमावर्तयति ६ एवमितराम् ७ सकृद्वा ८ तथोत्तरस्य हविर्धानस्योपानक्ति ९ युञ्जते मन इति सावित्रियर्चौत्तरवेदिके हुत्वा हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति संप्रेष्यति । प्रवर्त्यमानाभ्यामनुब्रूहीति वा १० प्रथमायां त्रिरनूक्तायां प्राची प्रेतमध्वरमित्युद्गृह्णन्तः प्रवर्तयन्ति ११ स्याच्चेदक्षशब्दः सुवागित्यनुमन्त्रयेत १२ दक्षिणस्य हविर्धानस्य वर्त्मनि वर्त्मनोर्वा हिरण्यं निधायेदं विष्णुर्विचक्रम इत्यध्वर्युर्हिरण्ये जुहोति १३ एवमुत्तरस्य प्रतिप्रस्थाता १४ इति षष्ठी कण्डिका इरावती धेनुमती इति जुहोति १ 11.7.1 अप जन्यं भयं नुदाप चक्राणि वर्तय । गृहं सोमस्य गच्छतमिति वितृतीयदेशे वेद्या अध्वर्युर्होता ब्रह्मा मैत्रावरुणो वा पदापनुदति । लोष्टं वा बहिर्वेदि निरस्यति २ आहवनीयात्त्रीन्प्रतीचः प्रक्रमानुच्छिष्यात्र रमेथामिति नभ्यस्थे स्थापयित्वा वैष्णवमसि विष्णुस्त्वोत्तभ्नात्वित्युपस्तभ्य दिवो वा विष्णवित्यध्वर्युर्दक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दमनु मेथीं निहन्ति । तस्यामीषां निनह्यति ३ एवमुत्तरस्य प्रतिप्रस्थाता विष्णोर्नु कमित्युत्तरम् कर्णातर्दमनु ४ ऊर्ध्वाः शम्या उद्वृह्योपरिष्टात्परिवेष्टयन्ति ५ उत्ताना हि देवगवा वहन्तीति विज्ञायते ६ महो वा विष्णविति सर्वतः स्थूणाः परिमिनोति ७ पुरस्ताच्चान्तः खरायावकाशं शिष्ट्वा ८ उदञ्चौ वंशावत्यादधाति पश्चात्पुरस्ताच्च ९ समानं सांकाशिनं शालामुखीयहोत्रीयौत्तरवेदिकानाम् १० इति सप्तमी कण्डिका विष्णो रराटमसीति पुरस्ताद्रराट्यां तिर्यञ्चं वंशं धारयन्विष्णोः स्यूरसीति स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं कृत्वा प्राचो वंशानत्याधाय विष्णोः पृष्ठमसीति तेषु मध्यमं छदिरध्यूहति त्र्यरत्निविस्तारं नवायामम् १ 11.8.1 तूष्णीमितरे छदिषी अध्यूह्य कटांस्तेजनीरिति छद्यन्तरालेषु प्रवर्तमुपास्यति २ तेऽन्तर्वर्ता भवन्ति ३ परि त्वा गिर्वणो गिर इति सर्वतः परिश्रित्य विष्णोः श्नप्त्रे स्थ इति रराट्या अंतौ व्यस्यति । संमृशतीत्येके ४ विष्णोः स्यूरसीत्यध्वर्युर्दक्षिणां द्वार्बाहुं स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं करोति ५ ग्रन्थिकरणमेके पूर्वं समामनन्ति ६ यं प्रथमं ग्रन्थिं ग्रथ्नीयादित्युक्तम् ७ एवमुत्तरां म्प्रतिप्रस्थाता ८ एवमपरे सीव्यतः ९ पुरस्तादुन्नतं पश्चान्निनतं हविर्धानम् १० वैष्णवमसि विष्णवे त्वेति संमितमभिमृशति ११ इत्यष्टमी कण्डिका इति तृतीयः पटलः प्र तद्विष्णु स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेति संमितात्प्राङ् यजमानो निष्क्रम्याहवनीयात्त्रीन्प्राचः प्रक्रमान्प्रक्रामति यस्योरुष्विति १ 11.9.1 नाध्वर्युः प्राङ् हविर्धाने अतीयात् २ अतीयाच्चेद्वैष्णव्यर्चा संचरेत् ३ षट्सु प्रक्रमेषूत्करात्प्रत्यगाग्नीध्रं मिनोति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि । प्राचीनवंशं चतुःस्थूणं सर्वतः परिश्रितं दक्षिणतऽउपचारम् ४ अपरस्माद्वेद्यन्तात्त्रिषु पुरस्तात्प्रक्रमेषु तिर्यक् सदो मिनोति ५ अक्ष्णया द्वेष्यस्य ६ नवारत्निविस्तारं सप्तविंशतिरुदगायतम् । अपरिमितं वा ७ यावदृत्विग्भ्यो धिष्णियेभ्यः प्रसर्पकेभ्य आप्तं मन्येतेत्यपरम् ८ दक्षिणतः प्रक्रमे पृष्ठ्याया औदुम्बरीं मध्ये सदसो मिनोति ९ दक्षिणा सदः प्रति कर्षेद्यथा सांकाशिनस्याविरोधं स्यात् १० यूपवदौदुम्बर्या अवटसंस्कारः शकलवर्जम् ११ अग्रेणावटं प्राचीं निधाय तूष्णीं प्रक्षाल्याथैनां यवमतीभिः प्रोक्षति । दिवे त्वेत्यग्रम् । अन्तरिक्षाय त्वेति मध्यम् । पृथिव्यै त्वेति मूलम् १२ उद्दिवं स्तभानान्तरिक्षं पृणेति प्राचीनकर्णां सहोद्गात्रोच्छ्रयति । उच्छ्रयस्व वनस्पते सजूर्देवेन बर्हिषेति वा १३ इति नवमी कण्डिका द्युतानस्त्वा मारुतो मिनोत्विति प्राचीनकर्णां सहोद्गात्रा मिनोति १ 11.10.1 ऊर्ध्वं निखाताद्यजमानसंमिता २ पर्यूहणपरिदृंहणपरिषेचनानि यूपवत् ३ तस्या विशाखे हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेथामिति स्रुवेण हिरण्ये जुह्वदान्तमौदुम्बरीमन्ववस्रावयति ४ एषा सदसः स्थूणानां वर्षिष्ठा ५ नाभिदघ्न्यः पर्यन्तीयाः ६ नीचैः सदो मिनुयाद्वृष्टिकामस्य । उच्चैरवृष्टिकामस्येत्येके ७ उदञ्चः प्राचश्च वंशानत्याधायैन्द्रमसीति तेषु मध्यमानि त्रीणि छदींष्यध्यूहति ८ विश्वजनस्य छायेति त्रीणि दक्षिणानि । इन्द्रस्य सदोऽसीति त्रीण्युत्तराणि ९ दक्षिणान्युत्तराणि चौदुम्बरीमभ्यग्राणि भवन्ति १० दक्षिणान्युत्तराणि करोतीति विज्ञायते ११ नवच्छदीति काम्यानि १२ नवाग्निष्टोमे । पञ्चदशोक्थ्ये । षोडश षोडशिनि । सप्तदश वाजपेये ऽतिरात्रे च । एकविंशतिः सत्त्राहीनानाम् १३ अन्तर्वर्ताः परिश्रयणं सांकाशिनं द्वाराविति हविर्धानवत् १४ इन्द्रस्य स्यूरसीति सीव्यति । इन्द्रस्य ध्रुवमसीति प्रज्ञातं ग्रन्थिं कृत्वैन्द्रमसीन्द्राय त्वेति संमितमभिमृशति १५ नाध्वर्युः प्रत्यङ् सदोऽतीयात् । धिष्णियान्होतारं वा १६ यद्यतीयादैन्द्रियर्चा संचरेत् । आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखेति स्तरणीमेतामेके समामनन्ति १७ क्षैत्रपत्या वा संचरेत् १८ उपरवकर्मैके पुर्वं समामनन्ति । सदःकर्मैके १९ इति दशमी कण्डिका इति चतुर्थः पटलः दक्षिणस्य हविर्धानस्याधस्तात्पुरोऽक्षं चतुर उपरवानवान्तरदेशेषु प्रादेशमुखान्प्रादेशान्तरालान्करोति १ 11.11.1 देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादाय परिलिखितं रक्षः परिलिखिता अरातय इति त्रिर्दक्षिणपूर्वं परिलिखति २ एवमितरान्प्रदक्षिणमुत्तरापवर्गम् ३ एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ४ अधस्तात्संतृणा भवन्ति । उपरिष्टादसंभिन्नाः ५ तूष्णीं बाहुमात्रान्खात्वा रक्षोहणो वलगहनो वैष्णवान्खनामीति खनति ६ एकवदुपरवमन्त्रानेके समामनन्ति ७ विराडसीति बाहुमुपावहृत्येदमहं तं वलगमुद्वपामीत्युदुप्योपरवन्यन्तेऽवबाधते गायत्रेण छन्दसावबाढो वलग इति ८ हरामि वैष्णवानिति हरति । अवबाढो दुरस्युरित्यग्रेणोपस्तम्भनं निवपति ९ एवं सर्वान्करोति १० एतावन्नाना । पूर्वेणपूर्वेण मन्त्रेण बाहुमुपावहृत्योत्तरेणोत्तरेण छन्दसावबाधते ११ गायत्रं त्रैष्टुभं जागतमानुष्टुभं पाङ्क्तमित्याम्नातानि भवन्ति १२ इत्येकादशी कण्डिका प्रथमं वा सर्वेषु १ 11.12.1 विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासां नाष्ट्राणां हन्तेति बाहू उपावहरतोऽध्वर्युर्यजमानश्च २ संमृश इमानायुषे वर्चसे च देवानां निधिरसि द्वेषोयवनः । युयोध्यस्मद्द्वेषांसि यानि कानि च यकृम । देवानामिदं निहितं यदस्तथाभाहि प्रदिशश्चतस्रः । कृण्वानो अन्याँ अधरान्सपत्नानित्युपरवान्संमृश्य दक्षिणपूर्वं यजमानोऽवमृशति । उत्तरापरमध्वर्युः ३ अथ यजमानः पृच्छत्यध्वर्यो किमत्रेति । भद्रमितीतरः प्रत्याह । तन्नौ सहेत्युक्त्वोत्तरपूर्वं यजमानोऽवमृशति । दक्षिणापरमध्वर्युः । तथैव प्रश्नः प्रतिवचनं च । तन्म इत्याह यजमानः ४ रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति यव मतीभिरुपरवान्प्रोक्ष्योत्तरैर्मन्त्रैरवनयामीति प्रोक्षणीशेषमवटेऽवनीय यवोऽ सीति यवमवास्यावस्तृणामीति बर्हिषावस्तीर्याभिजुहोमीत्याज्येनाभिजुहोति ५ एवं सर्वान्करोति ६ रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवी इत्यधिषवणफलके प्रोक्षति ७ इति द्वादशी कण्डिका औदुम्बरे कार्ष्मर्यमये पालाशे वा शुष्के तष्टे प्रधिमुखे पुरस्तात्समाविकर्ते पश्चात् १ 11.13.1 न संतृणत्त्येकाहे । तत ऊर्ध्वं संतृद्ये २ उक्थ्यादिषु वा संतृणत्ति ३ अथैने उपरवेषूपदधाति रक्षोहणौ वलगहनावुपदधामि वैष्णवी इति ४ द्वौ दक्षिणेनापिदधाति । द्वावुत्तरेण ५ संहिते पुरस्ताद्द्व्यङ्गुलेन पश्चादसंहिते भवतः ६ अथैने उत्तरैर्मन्त्रैः पर्यूहामीति प्रदक्षिणमुपरवपांसुभिः पर्युह्य परिस्तृणामीति बर्हिषा परिस्तीर्योत्तमेनाभिमन्त्रयते ७ एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमुपरवपांसुभिश्चतुरश्रं खरं करोति सोमपात्रेभ्य आप्तम् ८ पुरस्तात्संचरं शिनष्टि ९ अन्तरा चात्वालोत्करावाग्नीध्रचात्वालौ वाध्वर्युर्दृशीकवश्च संचरेयुः १० सर्वतः ह्प्रसुते दृशीकवः संचरेयुरित्येके ११ इति त्रयोदशी कण्डिका इति पञ्चमः पटलः चात्वालाद्धिष्णियानुपवपति १ 11.14.1 अन्तराग्नीध्र आग्नीध्रीयमुत्तरे वेद्यन्त उत्तरतः संचरं शिष्ट्वा २ सदसीतरान्पूर्वार्धे पुरस्तात्संचरं शिष्ट्वा ३ पृष्ठ्यायां होत्रीयम् । तं दक्षिणेन प्रशास्त्रीयम् ४ उत्तरेण होत्रीयमितरानुदीच आयातयति । ब्राह्मणाच्छंसिनः पोतुर्नेष्टुरच्छावाकस्येति ५ बहिः सदसो मार्जालीयं दक्षिणे वेद्यन्ते दक्षिणतः संचरं शिष्ट्वा सममाग्नीध्रीयेण ६ विभूरसीत्यष्टाभिः प्रतिमन्त्रम् ७ एतानेवोपस्थानान्व्याघारणांश्चैके समामनन्ति ८ अनुदिशतीतरानध्वनामध्वपते नमस्ते अस्तु मा मा हिंसीरिति तंतमभिक्रामम् ९ सम्राडसि कृशानुरित्याहवनीयम् । परिषद्योऽसि पवमान इति बहिष्पवमानास्तावम् । प्रतक्वासि नभस्वानिति चात्वालम् । असंमृष्टो ऽसि हव्यसूद इति शामित्रम् । समूह्योऽसि विश्वभरा इत्युत्करम् । ऋत धामासि सुवर्ज्योतिरित्यौदुम्बरीम् १० इति चतुर्दशी कण्डिका ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्माणम् । सदस्योऽसि मलिम्लुच इति सदस्यम् । समुद्रोऽसि विश्वभरा इति सदः । अजोऽस्येकपादिति शालामुखीयम्<ref>प्राचीनवंशे यः पूर्वमाहवनीयः स एव अग्निप्रणयनोत्तरं गार्हपत्यः संपद्यते। स एव शालायाः मुखे भव शालामुखीयो नाम शालामुखीयः अग्निः प्राचीनवंशशालायाः पूर्वभागे वर्तमानः आहवनीय एव। अयं च महावेदिनिष्पत्यनन्तरं गार्हपत्यः सञ्जायते - श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोशः </ref> । अहिरसि बुध्निय इति प्राजहितम्<ref>प्राजहितः प्राचीनवंशस्थः पश्चिमवह्निरूपो मुख्यो गार्हपत्य एव। इयं च पूर्वाचार्यसंज्ञा। (२) प्राजहितः पुरातनो गार्हपत्य उच्यते(तु. का.श्रौ ८.६.२१(विद्याधरः) - श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोशः</ref> । कव्योऽसि कव्यवाहन इति दक्षिणाग्निम् । आयुर्बृहत्तदशीय तन्मावतु तस्य नाम्ना वृश्चामि यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मः । विश्वायुर्वामदेव्यं तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । आयुःपति रथंतरं तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्येतैश्च प्रतिमन्त्रं हविर्धानाग्नीध्रसदांसीति 11.15.१ रौद्रेणानीकेनेति सर्वत्रानुषजति २ स्तृणीत बर्हिः प्र व्रतं यच्छतेति संप्रेष्यति ३ पूर्वस्मिन्वा स्तरण एतं संप्रैषं ब्रूयात् ४ अत्र स्तृणन्नुत्तरवेदिखरोपरवधिष्णियान्नाभिस्तृणीयात् ५ अत्रैकस्तनं व्रतं यजमानाय प्रयच्छति ६ अर्धव्रतमत्र वाजसनेयिनः समामनन्ति । अर्धमन्तरेणोत्तमे प्रवर्ग्योपसदौ ७ इति पञ्चदशी कण्डिका इति षष्ठः पटलः अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति १ 11.16.1 तस्य निरूढपशुबन्धवत्कल्पः २ षड्ढोता पश्विष्टिश्चाङ्गभूतेषु न विद्यते ३ आतिथ्याबर्हिस्तूष्णीमुपसंनह्यति ४ तांश्च परिधीन्पाशुक इध्मे ५ पात्रसंसादनकाले प्रचरणीं स्रुचं सप्तमीं प्रयुनक्ति ६ तस्या जुहूवत्कल्पः ७ आज्यग्रहणकाले प्रचरण्यामादितस्तूष्णीं चतुर्गृहीतं गृहीत्वा पाशुकान्याज्यानि गृह्णाति ८ प्रैतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता पत्नीमुदानयति ९ अथाहमनुकामिनीति पत्नी शालामुखीयमुपोपविश्य सुप्रजसस्त्वा वयमिति जपति १० उपस्थे ब्रह्मा राजानं कुरुते ११ समपिव्रतान्ह्वयध्वमिति संप्रेष्यति १२ यजमानस्यामात्यान्संह्वयन्ति १३ अध्वर्युं यजमानोऽन्वारभते । यजमानं पत्नी । पत्नीमितरे पुत्रभ्रातरः १४ अहतेन वाससामात्यान्संप्रच्छाद्य वाससोऽन्ते स्रुग्दण्डमुपनियम्य प्रचरण्या वैसर्जनानि जुहोति १५ त्वं सोम तनूकृद्भ्यो जुषाण इत्येताभ्यामर्धं गार्हपत्ये १६ आ सोमं ददते १७ इति षोडशी कण्डिका आ ग्राव्ण आ वायव्यान्या द्रोणकलशम् । उत्पत्नीमानयन्ति । अन्वनांसि प्रवर्तयन्ति यायावरस्य यान्यपरस्मिन्गार्हपत्ये भवन्ति । अजमनुनयन्ति । इध्माबर्हिराज्यानि प्रोक्षणीरित्यनुहरन्ति १ 11.17.1 शालामुखीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्याग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति संप्रेष्यति । प्रणीयमानाभ्यामनुब्रूहीति वा २ प्रथमायां त्रिरनूक्तायामयं नो अग्निर्वरिवः कृणोत्वित्यग्निप्रथमाः सोमप्रथमा वा प्राञ्चोऽभिप्रव्रजन्ति ३ आग्नीध्रीयेऽग्निं प्रतिष्ठाप्याग्ने नयेत्यर्धमाज्यशेषस्य जुहोति ४ ग्राव्णो वायव्यानि द्रोणकलशमाग्नीध्र उपवासयति ५ उत्तरेणाग्नीध्रीयमाहवनीयं गत्वोरु विष्णो विक्रमस्वेति सर्वमाज्यशेषं जुहोति ६ हुतेऽमात्याः प्रदक्षिणमावृत्य यथेतमुपावर्तन्ते ७ सोमा जिगाति गातुविदित्यपरया द्वारा हविर्धानं राजानं प्रपादयति । पूर्वया गतश्रियः ८ पूर्वया यजमानः प्रपद्यते ९ दक्षिणस्य हविर्धानस्य नीडे पूर्ववत्कृष्णाजिनास्तरणं राज्ञश्चासादनम् १० इति सप्तदशी कण्डिका अथैनं यजमानो देवताभ्यः संप्रयच्छत्येष वो देव सवितः सोम इति १ एतत्त्वं सोम देवो देवानुपागा इत्यभिमन्त्र्येदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य नमो देवेभ्य इति प्राचीनमञ्जलिं कृत्वा स्वधा पितृभ्य इति दक्षिणेदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य स्वरभिव्यख्यमिति प्राङ् प्रेक्षते । सुवरभिविख्येषमिति सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योतिरित्याहवनीयम् २ अत्र यजमानोऽवान्तरदीक्षां विसृजते ३ अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसीत्याहवनीयमुपतिष्ठते । एतेनैवास्मिन्समिधमादधातीति वाज सनेयकम् ४ वितरां मेखलां विस्रंसते । वितरां मुष्टी कर्षते ५ अत्र दण्डप्रदानमेके समामनन्ति ६ स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्यां स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इति मुष्टी विसृजते ७ स्वाहा वा विवाते विसृज इति वाचम् ८ निवर्तते व्रतम् ९ सोमान्हविःशेषानिति सुत्येऽहनि भक्षयति १० उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति । दक्षिणमिध्ममुत्तरं बर्हिः ११ इत्यष्टादशी कण्डिका प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते १ 11.19.1 स्तरणकालेऽपरेणोत्तरवेदिं बर्हिः स्तृणाति २ स्तरणमन्त्रोऽभ्यावर्तते ३ आज्यानां सादनादि पाशुकं कर्म प्रतिपद्यते समानमा प्रवरात् ४ दैवं च मानुषं च होतारौ वृत्वाश्रावमाश्रावमृतुप्रैषादिभिः सौमिकानृत्विजो वृणीते ५ अपिसृज्य तृणमस्फ्य उत्तरान् ७ अग्निमाग्नीध्रादित्याग्नीध्रम् । अश्विनाध्वर्यू आध्वर्यवादित्यध्वर्यू । मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति मैत्रावरुणम् । इन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छंसिनम् । मरुतः पोत्रादिति पोतारम् । ग्नावो नेष्ट्रादिति नेष्टारम् । अग्निर्दैवीनां विशां पुरएतायं यजमानो मनुष्याणां तयोर्नावस्थूरि गार्हपत्यं दीदयच्छतं हिमा द्वा यू राधांसीत्संपृञ्चानावसंपृञ्चानौ तन्व इति यजमानम् ८ अयं सुन्वन्यजमानो मनुष्याणामिति वा ९ सवनीये वरणमेके समामनन्ति । तत्र सुन्वन्निति ब्रूयात् १० सर्वत्रोपांशु नामग्रहणम् । मानुष इत्युच्चैः ११ इत्येकोनविंशी कण्डिका इति सप्तमः पटलः प्रवृतःप्रवृतः प्रवृतहोमौ जुहोति जुष्टो वाचो भूयासमृचा स्तोमं समर्धयेत्येताभ्याम् १ 11.20.1 दिवा प्रयाजैः प्रचर्यास्तंयन्तमनूयाजैरुपासते २ हुतायां वपायां मार्जयित्वा सुब्रह्मण्य पितापुत्रीयां सुब्रह्मण्यामाह्वयेति संप्रेष्यति ३ पितापुत्रीयैवात ऊर्ध्वं सुब्रह्मण्या भवति ४ आहूतायां वसतीवरीः कुम्भेन गिरिभिदां वहन्तीनां प्रत्यङ्तिष्ठन्गृह्णाति ५ नान्तमा वहन्तीरतीयात् ६ छायायै चातपतश्च संधौ गृह्णाति ७ यद्यभिच्छायां न विन्देदात्मनो वृक्षस्य कूलस्य वा छायायाम् ८ प्रतीपमुपमारयन्हविष्मतीरिमा आप इति गृह्णाति ९ यस्यागृहीता अभिनिम्रोचेत्सुवर्न घर्मः स्वाहेति पञ्चार्काहुतीर्हुत्वा वरे दत्त उल्कामुपरिष्टाद्धारयमाणो गृह्णीयात् । हिरण्यं वावधाय १० यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात् ११ सोमयाजी बहुयाजी भवतीति विज्ञायते १२ अग्नेर्वोऽपन्नगृहस्य सदसि सादयामीत्यपरेण शालामुखीयमुपसादयति । सुम्नाय सुम्निनीः सुम्ने मा धत्तेति सर्वेषु वसतीवरीणां सादनेषु यजमानो जपति । अग्नीषोमीयस्य पशुपुरोडाशस्य पात्रसंसादनादि कर्म प्रतिपद्यते १३ न यजमानोऽग्नीषोमीयस्याश्नाति । अश्नीयाद्वा १४ न स्वरुं जुहोति । न हृदयशूलमुद्वासयति । एवं सवनीये १५ पत्नीसंयाजान्तोऽग्नीषोमीयः संतिष्ठते १६ इति विंशी कण्डिका निशायां वसतीवरीः परिहरत्यन्तर्वेद्यासीने यजमाने पत्न्यां च १ 11.21.1 नादीक्षितमभिपरिहरेत् २ सव्येऽसें!ऽत्याधायापरेण प्राजहितं परिक्रम्य पूर्वया द्वारोपनिर्हृत्य दक्षिणेन वेदिं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य दक्षिणस्यामुत्तरवेदिश्रोण्यां सादयतीन्द्राग्नियोर्भागधेयी स्थेति ३ दक्षिणेऽसें! ऽत्याधाय यथेतं गत्वा पूर्वया द्वारोपनिर्हृत्योत्तरेण वेदिं गत्वोत्तरेणाग्नीध्रीयं धिष्णियं परीत्योत्तरस्यामुत्तरवेदिश्रोण्यां सादयति मित्रावरुणयोर्भागधेयी स्थेति ४ सव्ये ऽसें! त्याधाय यथेतं गत्वापरेणाग्नीध्रीयं धिष्णियमुपसादयति विश्वेषां देवानां भागधेयी स्थेति ५ यज्ञे जागृतेति सन्ना अभिमन्त्रयते ६ अत्र प्रतिप्रस्थाता पयस्यार्थं सायंदोहं दोहयति ७ अध्वर्युः संप्र्रेष्यति या यजमानस्य व्रतधुक्तस्या आशिरं कुरुत या पत्नियै तस्यै दधिग्रहाय या घर्मधुक्तस्यै दधिघर्माय तप्तमनातक्तं मैत्रावरुणाय शृतातङ्क्यं दधि कुरुतादित्यग्रहाय सुब्रह्मण्य सुब्रह्मण्यामाह्वय न सदस्युपवस्तवा इति ८ संप्रैषवत्कुर्वन्ति ९ अत्र सवनीयस्य सवनीयानामितीध्माबर्हिः संनह्यति १० न वा बर्हिः । प्रस्तरमेव ११ आग्नीध्रे हविर्धाने वा यजमानं जागरयन्ति । प्राग्वंशे पत्नीम् १२ आग्नीध्र एतां रात्रिमृत्विजो वसन्ति १३ यजमानो राजानं गोपयति गोपयति १४ इत्येकविंशी कण्डिका इत्यष्टमः पटलः इत्येकादशः प्रश्नः </span></poem> 8ercc7f7h4pfxbcn6cb5x0y7q0m95t9 बौधायनश्रौतसूत्रम्/प्रश्नः ०२ 0 53101 341098 118012 2022-07-23T01:23:14Z Puranastudy 1572 wikitext text/x-wiki <poem><span style="font-size: 14pt; line-height: 200%">2.1 अथोपव्याहरणम्विज्ञायते क्रत्वादौ क्रतुकामं कामयीत यज्ञाङ्गादौ यज्ञाङ्गकाममिति प्राक्तूलान्दर्भान्सँ स्तीर्य तेषु प्राङ्मुखो यजमान उपविश्य जपति याः पुरस्तात्प्रस्रवन्त्युपरिष्टात्सर्वतश्च याः । आभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभे ॥ देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यतामिति श्रद्ध एहि सत्येन त्वा ह्वयामीत्याकूत्या वेदनं करोत्याकूत्यै त्वा कामाय त्वा समृधे त्वा पुरो दधे । अमृतत्वाय जीवसे ॥ आकूतिमस्यावसे काममस्य समृध्यै । इन्द्र स्य युञ्जते धियः ॥ आकूतिं देवीं मनसः पुरो दधे यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा सकामो विदेयमेनद्धृदये निविष्टमिति मनसा त्रिः संकल्पयते त्रिरुच्चैः सर्वकामोऽग्नीनाधास्य इत्यग्न्याधेये स्वर्गकामो दर्शपूर्णमासाभ्यां यक्ष्य इति दर्शपूर्णमासयोः स्वर्गकामश्चातुर्मास्यैर्यक्ष्य इति चातुर्मास्येषु स्वर्गकामः पशुना यक्ष्य इति पशुबन्धे स्वर्गकामः सोमेन यक्ष्य इति सोमे स्वर्गकामोऽग्निं चेष्य इत्यग्निचयेऽहीनेऽहर्गणे वा यथाकामो यत्कामो वा यजते तन्म ऋध्यतां तन्मे समृध्यतां तन्मे संपद्यतां काम इत्यथर्त्विजां प्रतिवचनं तत्त ऋध्यतां तत्ते समृध्यतां तत्ते संपद्यतां काम इत्यॐ तथेति प्रतिवचनम् १ 2.2 अथर्त्विजो देवयजनं याचतेऽध्वर्यो देवयजनं मे देहीत्यध्वर्युम् आदित्यो देवो दैवोऽध्वर्युः स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनम्ब्रह्मन्देवयजनं मे देहीति ब्रह्माणं चन्द्र मा देवो दैवो ब्रह्मा स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनं होतर्देवयजनं मे देहीति होतारम् अग्निर्देवो दैवो होता स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनम् उद्गातर्देवयजनं मे देहीत्युद्गातारम्पर्जन्यो देवो दैव उद्गाता स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनं सदस्य देवयजनं मे देहीति सदस्यम् आकाशो देवो दैवः सदस्यः स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनं होत्रका देवयजनं मे दत्तेति होत्रकान् आपो देव्यो दैव्या होत्राशँ सिन्यस्तास्ते देवयजनं ददत्वित्यॐ तथेति प्रतिवचनं चमसाध्वर्यवो देवयजनं मे दत्तेति चमसाध्वर्यून् रश्मयो देवा दैवाश्चमसाध्वर्यवस्ते ते देवयजनं ददत्वित्यॐ तथेति प्रतिवचनम् अपि वा न देवयजनं याचत आदित एव तीर्थे स्नात्वोदेत्याहतं वासः परिधाय शुद्धो हैव शुचिः पूतो मेध्यो विपाप्मा ब्रह्मचारी सहकारिप्रत्यय आ चतुर्थात्कर्मणोऽभिसमीक्षमाणो वेदकर्माणि प्रयोजयेत् प्रागपवर्गाण्युदगपवर्गाणि वा प्राङ्मुखः प्रदक्षिणं यज्ञोपवीती दैवानि कर्माणि करोति दक्षिणामुखः प्रसव्यं प्राचीनावीती पित्र्! याणि तिष्ठन्नासीनः प्रह्वो वा यथान्यायं छन्दोगब्राह्मणं यथा वै दक्षिणः पाणिरेवं देवयजनं यथा सव्यस्तथा पितृयजनं यथा पितृयजनं तथा श्मशानकरणं यथा श्मशानकरणं तथाभिचरणीयेष्विष्टिपशुसोमेष्वादित एव पुरोदकं देवयजनं यस्मादन्यत्पुरस्तात्समन्तिकं देवयजनं न विन्देयुरुत्तरतो देवयजनमात्रमतिशिनष्टि २ 2.3 अथर्त्विजां वरणम्विज्ञायते ब्राह्मणा ऋत्विजो योनिगोत्रश्रुतवृत्तसंपन्ना अविगुणाङ्गा अत्रिकिणिनो न परिखातिक्रान्ता नान्तगा नान्त्यजा नाननूचाना हालेयवालेयपुत्रिकापुत्रपरक्षेत्रसहोढकानीनानुजावरद्विप्रवरान्परिहाप्याङ्गिरसोऽध्वर्युर्वासिष्ठो ब्रह्मा वैश्वामित्रो होतायास्य उद्गाता कौषीतकः सदस्योऽवशिष्टा भृगवोऽङ्गिरसो वा योनिवृत्तं विद्या च प्रमाणमित्येके ताँ श्चेद्वृणीताव्यापन्नाङ्गानेव वृणीताकुनखिनमध्वर्युमकिलासिनं ब्रह्माणमखण्डँ होतारमकरालमुद्गातारमशिपिविष्टँ सदस्यम् अथ प्रतिप्रस्थाता नेष्टोन्नेतेत्यध्वर्युपुरुषा ब्राह्मणाच्छँ स्याग्नीध्रः पोतेति ब्रह्मणो मैत्रावरुणोऽच्छावाको ग्रावस्तुदिति होतुः प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इत्युद्गातुरभिगरो ध्रुवगोपः सँ श्राव इति सदस्यस्य स्वप्रधाना अस्वप्रधाना इत्येके दश वैकादश वा चमसाध्वर्यवोऽन्यदक्षिणाभिः परिक्रीता भवन्तीति विज्ञायते तस्मादग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विग् दर्शपूर्णमासयोश्चत्वार ऋत्विजोऽध्वर्युर्ब्रह्मा होताग्नीध्र इति चातुर्मास्येषु प्रतिप्रस्थाता पञ्चमः पशुबन्धे मैत्रावरुणः षष्ठः सर्वे सौम्येऽध्वरे तान्कर्मणःकर्मणो वृणीतैकैकमुपसंगृह्य चोदयेदसावहमाध्वर्यवेण त्वा गच्छामि याजयतु मां भवानिति ब्रह्मत्वेन हौत्रेणौद्गात्रेण सादस्येनेति न सदस्यो विद्यत इत्येके स्वेनस्वेन कर्मणा होत्रकान् न होत्रकानित्येके तत्पुरुषा होत्रकाश्चमसाध्वर्यवश्चाध्वर्युर्वा ऋत्विजां प्रथमो युज्यते तेन स्तोमो योक्तव्य इति ३ 2.4 आदित्यो देवो दैवोऽध्वर्युः स मेऽध्वर्युरध्वर्योऽध्वर्युं त्वा वृन इत्यध्वर्युम् आदित्यो देवो दैवोऽध्वर्युः स तेऽध्वर्युस्तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनं चन्द्र मा देवो दैवो ब्रह्मा स मे ब्रह्मा ब्रह्मन्ब्रह्माणं त्वा वृण इति ब्रह्माणं चन्द्र मा देवो दैवो ब्रह्मा स ते ब्रह्मा तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम् अग्निर्देवो दैवो होता स मे होता होतर्होतारं त्वा वृण इति होतारम् अग्निर्देवो दैवो होता स ते होता तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम्पर्जन्यो देवो दैव उद्गाता स म उद्गातोद्गातरुद्गातारं त्वा वृण इत्युद्गातारम्पर्जन्यो देवो दैव उद्गाता स त उद्गाता तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम् आकाशो देवो दैवो सदस्यः स मे सदस्यः सदस्य सदस्यं त्वा वृण इति सदस्यम् आकाशो दैवो देवः सदस्यः स ते सदस्यस्तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम् आपो देव्यो दैव्या होत्राशँ सिन्यस्ता मे होत्राशँ सिन्यो होत्रका होत्रकान्वो वृण इति होत्रकान् आपो देव्यो दैव्या होत्राशँ सिन्यस्तास्ते होत्राशँ सिन्यस्ताभिरनुमताः कर्मैव वयं करिष्याम इत्यॐ तथेति प्रतिवचनं रश्मयो देवा दैवाश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवश्चमसाध्वर्यवश्चमसाध्वर्यून्वो वृण इति चमसाध्वर्यून् रश्मयो देवा दैवाश्चमसाध्वर्यवस्ते ते चमसाध्वर्यवस्तैरनुमताः कर्मैव वयं करिष्याम इत्यॐ तथेति प्रतिवचनम्वृतोवृतो जपति महन्मेऽवोचो यशो मेऽवोचो भगो मेऽवोचो भर्गो मेऽवोचस्तपो मेऽवोच स्तोमं मेऽवोचः कॢप्तिं मेऽवोचो भुक्तिं मेऽवोचो विश्वं मेऽवोचः सर्वं मेऽवोचः सर्वं मे कल्याणमवोचस्तन्मावतु तन्माविशतु तन्मा जिन्वतु तेन भुक्षिषीय देवो देवमेतु सोमः सोममेत्वित्यॐ तथेति प्रतिवचनम् ४ 2.5 सिँ हे मे मन्युर्व्याघ्रे मेऽन्तरामयो वृके मे क्षुदश्वे मे घसिर्धन्वनि मे पिपासा राजगृहे मेऽशनायाश्मनि मे तन्द्रि र्गर्दभे मेऽर्शः शल्यके मे ह्रीरश्वत्थे मे वेपथुः कूर्मे मेऽङ्गरोगो बस्ते मेऽपसर्याप्रिये मे मृत्युर्भ्रातृव्ये मे पाप्मा सपत्ने मे निरृतिर्दुष्कीर्तौ मे व्यृद्धिः परस्वति मेऽसमृद्धिः खड्गे म आर्तिर्गवये म आन्ध्यं गौरे मे बाधिर्यम् ऋक्षे मे शोको गोधायां मे खेदो जरायां मे हिमः कृष्णशकुनौ मे भीरुता कशे मे पापो गन्ध उलूके मे श्वभ्यशः क्लोके म ईर्ष्या मर्कटे मे दुरृद्धिः कुलले मे मँ स्योलले मे प्रध्योष्ट्रे मे तृष्णर्श्ये मे श्रमोऽव्यां म आव्यं कोशे मे गन्धः कुमार्यां मेऽलङ्कारः सूकरे मे क्लदथुः पृदाखुनि मे स्वप्न अजगरे मे दुस्वप्नो विद्युति मे स्मयशो लोभायां मे क्लेदः शलभे मे पाप्मालक्ष्मी स्त्रीषु मेऽनृतम् अजासु मे कर्कशो व्रात्ये म ईत्या शूद्रे मे स्तेयम्वैश्ये मेऽकार्मकृत्यं राजन्यबन्धुनि मेऽज्ञानं नैषादे मे ब्रह्महत्या कुलिङ्गे मे क्षवथुरुलले मे विलास उद्रि णि मे वमतिः किंपुरुषे मे रोदो द्वीपिनि मे निष्टपधस्तिनि मे किलासः शुनि मे दुरिप्रं स्नावन्येषु मे म्लेच्छो विदेहेषु मे शीपथो महावर्षेषु मे ग्लौर्मूजवत्सु मे तप्ना दुन्दुभौ मे कासिकेक्ष्वाकुषु मे पित्तं कलिङ्गेषु मेऽमेध्यम् अश्वतर्यां मेऽप्रजस्ता पुँ श्चल्यां मे दुश्चरितम् आखुनि मे दन्तरोगो मक्षिकायां मे श्वल्कशः शुके मे हरिमा मयूरे मे जल्प्या वृषे मे जरा चाषे मे पापवादोऽप्सु मे श्रमो ब्रह्मोज्झे मे किल्बिषम् अपेहि पाप्मन्पुनरपनाशितो भवा नः पाप्मन्सुकृतस्य लोके पाप्मन्धेह्यविहृतो यो नः पाप्मन्न जहाति तमु त्वा जहिमो वयमन्यत्रास्मन्निविशतां सहस्राक्षो अमर्त्यो यो नो द्वेष्टि स रिष्यतु यमु द्विष्मस्तमु जहीत्य् अथाञ्जलिनाप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति तां दिशमेता अप उत्सिञ्चति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपस्पृश्य यथेतं प्रविशन्ति ५ 2.6 अथेदमग्न्याधेयं तस्य कः कर्मण उपक्रमो भवतीत्युक्तान्यृतुनक्षत्राण्युक्तमात्मनः पुरश्चरणं कथमत्रानुपूर्व्यं भवति स्नानपवनमन्त्रप्रोक्षणपुण्याहवाचनानि श्रद्धामाहूयाकूत्या वेदनं कृत्वोपव्याहृत्यर्त्विजो वृत्वार्हयित्वा देवयजनं याचित्वा देवयजनमादाय स्फ्यमादायान्तरेण वेद्युत्करावुद्देशेन प्रपद्य जघनेन गार्हपत्यं तिष्ठन्प्राचीनँ स्फ्येन गार्हपत्यस्यायतनमुद्धन्त्युद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेत्यथैनदद्भिरवोक्षति शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु न इत्येवमेवान्वाहार्यपचनस्यायतनमुद्धन्त्येवमेवाहवनीयस्यैवमितरयोर्यदि करिष्यन्भवत्यथान्तरेण वेद्युत्करावुद्देशेनोदङ्ङुपनिष्क्रम्य तां दिशं यन्ति यत्रास्य संभारा उपकॢप्ता भवन्त्य् अपि वोत्तरेण शालायाः सर्वे संभारा उपकॢप्ता भवन्त्यपि वान्तर्वेदि प्राचीनं तान्मन्त्रानुपूर्व्यमेकैकँ संभारमेकैकेन यजुषा संभरति वैश्वानरस्य रूपं पृथिव्यां परिस्रसा । स्योनमाविशन्तु न इति सिकताः संभृत्य निदधात्येवमेवोत्तरमुत्तरँ संभारमुत्तरेणोत्तरेण यजुषा संभृत्यसंभृत्यैव निदधात्यूषाश्च सिकताश्चाखूत्करं च वल्मीकवपां च सूदं च वराहविहतं च पुष्करपर्णं च शर्कराश्चेत्यष्टौ पार्थिवा अथोत्तरेण यजुषा षड्ढिरण्यशल्कानाहरत्यथ वानस्पत्याभिर्वानस्पत्याः शाखा आद्रा रः! सपलाशाः सप्रारोहाः प्रादेशमात्रीरप्रतिशुष्काग्रा आहरत्यपि वा यथालाभम्पर्णं द्वाभ्यां चित्रियस्याश्वत्थस्य तिस्रः सभिध आद्रा रः! सपालाशाः सप्रारोहाः प्रादेशमात्रीरप्रतिशुष्काग्रा आहरति चित्रियादश्वत्थात्संभृता बृहत्यः शरीरमभिसँ स्कृता स्थ । प्रजापतिना यज्ञमुखेन संमितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्या इत्यथ मुञ्जकुलायमाहरति या ते अग्न ओजस्विनी तनूरोषधीषु प्रविष्टा । तां त इह संभरामीत्यथास्मा अरणी आहरत्याश्वत्थीँ शमीगर्भीमप्यशमीगर्भीं वा चतुरङ्गुलमुत्सेधां द्वादशाङ्गुलं विस्तीणाँ र्! षोडशाङ्गुलमायतामपि वा प्रादेशमात्रीँ सर्वतः समां चतुरङ्गुलमेवोत्सेधां तस्या उत्तानाया अनुलोममधस्तात्प्रतीचीनप्रवणं प्रजननं कुर्वन्ति तावतीमेवोत्तरारणिम् अथैने आहरत्यश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियाँ संभरामि । शान्तयोनिँ शमीगर्भमग्नये प्रजनयितवे ॥ यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यथैतान्सुसंभृतान्संभारान्पुनरेव संभरति यं त्वा समभरं जातवेदो यथा शरीरं भूतेषु न्यक्तम्। स संभृतः सीद शिवः प्रजाभ्य उरुं नो लोकमनुनेषि विद्वानिति ६ 2.7 अथ वै भवतीन्द्रो वृत्रँ हत्वासुरान्पराभाव्य सोऽमावास्यां प्रत्यागच्छत् ते पितरः पूर्वेद्युरागच्छन् पितॄन्यज्ञोऽगच्छत् तं देवाः पुनरयाचन्त तमेभ्यो न पुनरददुस्तेऽब्रुवन्वरं वृणामहा अथ वः पुनर्दास्यामोऽस्मभ्यमेव पूर्वेद्युः क्रियाता इति तमेभ्यः पुनरददुस् तस्मात्पितृभ्यः पूर्वेद्युः क्रियते यत्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानःप्रतनुत इति ब्राह्मणम् अथ यदि गां न लभते मेषमजं वा लभतेऽपि वा द्यूतमोदनं पक्त्वा तस्योपरिष्टात्प्रभूतमाज्यं पयो वानीय तस्मादेतत्सर्वं करोति यद्गवा कार्यम्विज्ञायते च धेन्वै वा एतद्रे तो यदाज्यं पयो वानडुहस्तण्डुला इति गौरेवाङ्गसामान्यात् संप्रच्छन्ना अम्बरीषं वोत्तपनीयं वाभिप्रव्रजन्त्यपि वौपासनमेवाभिप्रव्रजन्त्यर्धमौपासनं कुर्वन्ति सर्वं वा ब्राह्मौदनिकमौपासनं कुर्वन्ति सोऽत्र वैव हि हूयत इति समानं कर्मा संभारनिवपनादथ तृतीयँ संभाराणां त्रेधा विभज्य सभ्यावसथ्ययोराहवनीये वा सभ्यावसथ्ययोः संकल्पः समानं कर्मा समिदाधानात् पञ्चपञ्च नानावृक्ष्याः समिधोऽभ्यज्यादधाति कथमत्रानुपूर्व्यं भवत्यश्वत्थश्चोदुम्बरश्च पर्णश्च शमी च विकङ्कतश्चेत्येतदत्रानुपूर्व्यम्भवति कथमु खल्वैन्द्रा ग्नादित्ययोरन्त इत्यैन्द्रा ग्नादित्ययोरन्त उदश्वपदिकँ सृजेत् ततोऽन्यं दशहोत्रर्थमुद्धरेदिति तन्त्रसमास एवैतदुपपद्यते नान्यत्र प्रणीतस्याग्नेर्लौकिकत्वाद्यस्मिन्होत्रा हुतँ स्यात्सोऽग्निः कर्मान्तं तस्य धारणमित्यपवृत्ते कर्मणि लौकिकः संपद्यते प्रसिद्धानि तनूहवीँ षि प्रसिद्धा अग्न्याधेयदक्षिणा ददाति ताश्चेन्नाधिगच्छेद्वासाँ स्येतावन्ति मन्थान्वौदनान्वैतावतो दद्यात् तेनो हैवैतं काममवाप्नोतीत्य् अप्येकां गां दक्षिणां दद्यादिति पैङ्गलायनिब्राह्मणं भवति न त्वेवानाहिताग्निः स्याद्विज्ञायते च देवानां वा एषोऽन्यतमो य आहिताग्निरित्यथ यदस्याग्निमुद्धरति सहस्रं तेन कामदुघा अवरुन्द्धेऽथ यदग्निहोत्रं जुहोति सहस्रं तेनेत्यपरिमितमेवेदमुक्तं भवति ७ 2.8 अथाग्न्याधेयस्योपवसथ इत्युपकल्पयते गां माँ सलामहतं वासश्चतुर उदकुम्भाँ स्त्रीनौदुम्बराञ्छूलानौदुम्बरीं दर्वीमेकां वपाश्रपणीमविशाखामौदुम्बरीमेव सर्वानेवान्यान्स्थालीपाकात्पैतृयज्ञिकान्संभारानेरकोपबर्हणे आञ्जनाभ्यञ्जने आज्यं तृणमुष्टिँ स्फ्यँ सूत्रमिति दक्षिणत एतत्परिश्रितं भवति तस्यैतस्मिन्परिश्रिते प्राङावृत्तस्य केशान्तं करोति तूष्णीं त्रीणि दर्भपुञ्जीलान्युपनियत्य वपति वपे प्रवपे देवेन सवित्रा प्रसूतो ब्रह्मणा सँ शितोऽहं यानि म इत ऊर्ध्वं लोमानि तानि मे स्वस्तये सन्त्वित्यथैनमुप्तकेशश्मश्रुं निकृत्तनखमुदकुम्भेनाभ्यवनयन्वाचयतीमा म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे । शुद्धाः प्रयुञ्जीमहि क्रतूनिति स्नातः प्राङुत्सृप्याहतं वासः परिधायालङ्कृत्याङ्क्तेऽथैनमेकविँ शत्या दर्भपुञ्जीलैस्त्रेधा विभक्तैः सप्तभिःसप्तभिस्तूष्णीं पवयित्वोदपात्रमादायेमां दिशं नीत्वा चतुष्पथ एतस्मिन्नेवोदपात्रेऽवेक्षमाणं पाप्मनो विनिधीन्वाचयति सिँ हे मे मन्युर्व्याघ्रे मेऽन्तरामय इत्यान्तमेतमनुवाकं निगद्य निनीयापः परास्य पात्रमनवेक्षमाणा आयन्ति हस्तपादान्प्रक्षाल्यैतेनैव यथेतमेत्य पवमानः सुवर्जन इत्येतमनुवाकं यजमानं वाचयन्नद्भिर्मार्जयत्यामात्यादिध्ममादीप्यान्वाहार्यपचनवेलायाँ सादयित्वा शोधयित्वा बर्हिषा परिस्तीर्याज्यं विलाप्योत्पूयोत्तरत एतानुपसादयति चतुर उदकुम्भाँ स्त्रीनौदुम्बराञ्छूलानौदुम्बरीं दर्वीमेकां वपाश्रपणीमविशाखामौदुम्बरीमेव दक्षिणतः सर्वानेवान्यान्स्थालीपाकात्पैतृयज्ञिकान्संभारानेरकोपबर्हणे आञ्जनाभ्यञ्जने आज्यं तृणमुष्टिँ स्फ्यँ सूत्रमिति दक्षिणतोऽधिदेवनं करोति तदेकान्नपञ्चाशतोऽक्षान्निवपत्यथ स्फ्यमादाय सकृदेव दक्षिणोद्धन्त्यपहता असुरा रक्षाँ सि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मन इत्य् अथैनदद्भिरवोक्षत्युदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेष्विति ८ 2.9 अथोल्मुकमादत्ते य आददानाः स्वधया नवानि पित्र्! याणि रूपाण्यसुराश्चरति । परापुरो निपुरो ये भरन्त्यग्निष्टानस्मात्प्रणुनोत्तु यज्ञादिति तेनोद्धतमभितपत्यग्निः पावकः सुदिनानि कृण्वन्नितोऽसुरान्नुदताद्दूरमोकसः । पितॄणां ये वर्णं कृत्वेह भागमिच्छन्त इति तदत्रैव व्यन्तं करोति तस्मिन्नुल्मुक आज्यस्तोकं प्रश्चोतयति तद्दक्षिणाग्रं बर्हि स्तृणाति सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम्। अस्मिन्त्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेत्यथ पितॄनावाहयत्युदीराणा इह सन्तु नः सोम्याः पितरः पितामहाः प्रपितामहाश्चानुगैः सह । असुंगमाः सत्ययुजोऽवृकास आ नो हवं पितरोऽद्यागमन्तु ॥ एह गच्छन्तु पितरो हविषे अत्तवे । अस्मिन्यज्ञे बर्हिष्या निषद्य मा वीरः प्र मा युनगित्यथैभ्य एरकोपबर्हणे निवेदयत आसनँ शयनं चेमे तयोः सोम्यास आगताः । प्रिया जनाय नो भूत्वा शिवा भवत शंकरा इत्यथैभ्यः पानान्याहरति मधुपानं क्षीरपानँ सक्तुपानं यद्वा भवत्य् अन्यद्ब्राह्मणेभ्यो ददात्यन्यदुपनिनयति एतद्वः पितरः पितामहाः प्रपितामहाः पानमित्यत्रैकेनोदकुम्भेन मार्जयति तूष्णीं तदक्षान्पर्युपविशन्ति चत्वारः पितापुत्राः पिता पुरस्ताज्ज्येष्ठो दक्षिणतोऽनुजः पश्चात्कनिष्ठ उत्तरतो द्वादशाक्षान्पिता प्रच्छिनत्ति तद्विजयते द्वादश ज्येष्ठस् तद्विजयते द्वादशानुजस् तद्विजयतेऽथ येऽतिशिष्यन्ते तान्कनीयाँ समुपसमूहन्त्यथ यदि द्वौ भवतो द्विरायामः पिताथ यद्येको जाया तृतीयाथ यदि नैव भवन्त्युभौ द्विरायामौ जायापती एष एव त्रिषु न्याय एष एव द्वयोः कृतंकृतमित्येव व्यपगच्छन्ति द्यूता गौरित्युक्त्वोत्तिष्ठन्त्यथैभ्यो बर्हिरादाय गामुपाकरोति पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टामुपाकरोमीति तूष्णीमित्येकेऽथैनामद्भिः प्रोक्षति पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टां प्रोक्षामीति तूष्णीमित्येके तामत्रैव प्रतीचीनशिरसीं दक्षिणापदीँ संज्ञपयन्ति तस्यै संज्ञप्ताया अद्भिरभिषेकं प्राणानाप्याययति तूष्णीं तूष्णीं वपामुत्खिद्य हृदयमुद्धरति प्रज्ञातानि चावदानानि प्रज्ञातौ च मतस्नू तान्येतेष्वेव शूलेषूपनिक्ष्यैतस्मिन्नेवाग्नौ श्रपयन्ति शृतायां वपायां पञ्च स्रुवाहुतीर्जुहोति ९ 2.10 आः प्राचीः संभवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमः स्वाहा ॥ अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमः स्वाहा ॥ अन्तर्दध ऋतुभिः सर्वैरहोरात्रैः सुसन्धिकैः । अर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमः स्वाहा ॥ यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्तामाभुरन्योपपद्यताम्स्वधा नमः स्वाहा ॥ यद्वः क्रव्यादङ्गमदहल्लोकान्नयन्प्रणयञ्जातवेदाः । तद्वोऽहं पुनरावेशयाम्यरिष्टाः सर्वैरङ्गैः संभवत पितरः स्वधा नमः स्वाहेति त्रेधा वपां विच्छिद्यौदुम्बर्या दर्व्या जुहोति सोमाय पितृमते शुष्मिणे जुहुमो हविः । वाजिन्निदं जुषस्व नः स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा ॥ अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे । वैवस्वतेदमद्धि नः स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा ॥ यदग्ने कव्यवाहन पितॄन्यक्ष्यृतावृधः । प्र देवेभ्यो वहा हव्यं पितृभ्यश्च स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहेति तूष्णीं दर्वीमभ्याधाय पिण्डानामावृतैतान्यवदानानि ददाति हृदयमेवाग्रेऽथ सव्यं मतस्नुमथ दक्षिणम् एतत्ते ततासौ ये च त्वामनु याँ श्च त्वमत्रान्वस्येषा ते तत स्वधाक्षितिर्यावती पृथिवी तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददामि पृथिव्या मितमसि तताय मा क्षेष्ठा इति द्वितीयं ददात्येतत्ते पितामहासौ ये च त्वामनु याँ श्च त्वमत्रान्वस्येषा ते पितामह स्वधाक्षितिर्यावदन्तरिक्षं तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददाम्यन्तरिक्षेण मितमसि पितामहाय मा क्षेष्ठा इति तृतीयं ददात्येतत्ते प्रपितामहासौ ये च त्वामनु याँ श्च त्वमत्रान्वस्येषा ते प्रपितामह स्वधाक्षितिर्यावती द्यौस्तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददामि दिवा मितमसि प्रपितामहाय मा क्षेष्ठा इत्यत्र पितरो यथाभागं मन्दध्वमित्युक्त्वात्रैकेनोदकुम्भेन मार्जयति तूष्णीम् अथैभ्यो गामुपपरेत्य लोहितमुपप्रवर्तयति यानि रक्षाँ स्यसृग्भागानि ये चापि पितरो हरन्तां विहरन्तां तृप्यन्तु रुधिरस्य ते ॥ ये नः पतिता गर्भा असृग्भाज उपासते । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु मदन्तु च ॥ य आमा ये च पक्वा ये च दुष्टाः पतन्ति नः । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु अदन्तु च ॥ ये कुमारा या स्त्रियो येऽविज्ञाताः पतन्ति नः । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु मदन्तु चेत्य् आगत्याञ्जनं ददात्यथाभ्यञ्जनं ददात्यथ वासाँ सि ददात्यथ षड्भिर्नमस्कारैर्विपर्यासमुपतिष्ठतेऽथ वीरं याचतेऽथैनानुत्थाप्य प्रवाह्य तिषृभिर्मन आह्वयते मनो न्वाहुवामह आ न एतु मनः पुनः पुनर्नः पितरो मन इत्यत्रैतदहतं वास एवंविदे ब्राह्मणाय दत्त्वान्यदसनीयं वासः परिधाय दक्षिणोपपरेत्याद्भिर्मार्जयते १० 2.11 यासु गन्धा रसा वर्णा बलं च निहिते उभे । ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ या ऊर्जमभिषिञ्चन्ति देवप्रेषिता महीम्। ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ यासां निष्क्रमणे सर्वमिदं जायते जगत्। ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ यासामिमे त्रयो लोकास्तेजसा यशसावृताः । ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ याः प्राचीर्या दक्षिणा याः प्रतीचीर्या उदीचीर्या ऊर्ध्वा रेवतीर्मधुमतीरापः स्रवन्ति शुक्राः । ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु म इत्यत्रैतदसनीयं वासो विमुच्यान्यत्परिधाय प्राजापत्ययर्चाग्नेरुदेति प्रजापते न त्वदेतान्यन्य इत्यथोल्मुकमपिसृजत्यभूद्दतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजानन्नग्ने पुनरप्येहि देवानित्य् अत्रैतान्यवदानानि ब्राह्मणेभ्यो ददाति हृदयमेवाग्रेऽथ सव्यं मतस्नुमथ दक्षिणं यथाश्रद्धमन्नं कुरुते गामेतामँ शशः कृत्वा ब्राह्मणेभ्यो वरं ददाति स ये ह के चैतस्यै माँ सं लभन्ते सर्वे ह वा अस्यै ते गोभाजशो भवन्त्यामात्ये जयानभ्यातानान्राष्ट्रभृत इति हुत्वामात्यहोमाञ्जुहोत्येष ह वा उपवसथ उप ह्यस्मिन्देवा वसन्ति प्रातर्जेष्यामो वामं वस्वित्येतद्ध वै देवानां वामं वसु यदाग्नेयोऽष्टाकपाल उप हैनं वामं वसु गच्छति यस्य ह वा एतामेवं विद्वान्गां कल्पयते सर्वं पाप्मानं तरति तरति ब्रह्महत्याम् अप पुनर्मृत्युं जयतीति होवाच प्रजापतिस् तानि ह वा एतानि कूश्माण्डानीत्याचक्षते काजवानीति वामात्यहोमा इति वातीमोक्षा इति वा स यत्किं चास्मिन्लोके पापं कर्म करोति सर्वस्मात्तस्मान्निर्मुच्यानृणः स्वर्गं लोकमेतीति होवाच प्रजापतिः ११ 2.12 अग्नीनाधास्यमानो भवति स उपकल्पयत ऊषाश्च सिकताश्चाखूत्करं च वल्मीकवपां च सूदं च वराहविहतं च पुष्करपर्णं च शर्कराश्चेत्यष्टौ पार्थिवा अथ वानस्पत्या अश्वत्थश्चोदुम्बरश्च पर्णश्च शमी च विकङ्कतश्चाशनिहतश्च शमीगर्भावरणी मुञ्जकुलायं चित्रियस्याश्वत्थस्य तिस्रः समिध आद्रा रः! सपलाशाः सप्रारोहाः प्रादेशमात्रीरप्रतिशुष्काग्राः षड्ढिरण्यशल्काँ स्त्रीन्सौवणाँ र्! स्त्रीन्राजतानश्वं पूर्ववाहँ रथचक्रं ब्राह्मौदनिकान्व्रीहीन्सर्वौषधँ रोहितं चर्मानडुहं नवानि यज्ञपात्राणीत्यथास्मा अरणी आहरति यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यथातो नक्षत्राणामेव मीमाँ सा कृत्तिकास्वग्निमादधीत रोहिण्यामग्निमादधीत पुनर्वस्वोरग्निमादधीत पूर्वयोः फल्गुण्योरुत्तरयोः फल्गुण्योश्चित्रायामित्यथात ऋतूनामेव मीमाँ सा वसन्ते ब्राह्मणोऽग्निमादधीत ग्रीष्मे राजन्यः शरदि वैश्यः वर्षासु रथकार इत्यथो खलु यदैवैनँ श्रद्धोपनमेदथादधीत सैवास्यर्द्धिरिति तदेतदार्तस्यातिवेलं वा श्रद्धायुक्तस्याथ वै ब्राह्मणं भवति यो रोहिण्यामग्निमाधत्त ऋध्नोत्येव सर्वान्रोहान्रोहतीति सा या वैशाख्याः पौर्णमास्या उपरिष्टादमावास्या भवति सा सकृत्संवत्सरस्य रोहिण्या संपद्यते तस्यामादधीतेत्यथास्यैतत्पुरस्ताएव जुष्टे देवयजनेऽगारं वा विमितं वा कारितं भवति तस्य द्वे द्वारौ कुर्वन्ति प्राचीं च दक्षिणां च मध्ये गार्हपत्यस्यायतनं कुर्वन्ति पुरस्ताद्द्वादशसु विक्रामेष्वाहवनीयस्यापि वा चक्षुर्निमिते दक्षिणतो विषुवत्यन्वाहार्यपचनस्यापि वा यथा द्वौ भागौ प्राक्स्यातामेकः पश्चादित्येवं त्रेधोद्धत्यावोक्ष्य केशश्मश्रु वपते नखानि निकृन्तत एवं पत्नी केशवर्जम् उभौ मानुषेणालङ्कारेणालङ्कृतौ भवतोऽहतवाससवथाभ्यां व्रतोपायनीयं पाचयति तस्याशितौ भवतः सर्पिर्मिश्रस्य पयोमिश्रस्य १२ 2.13 अथाधिवृक्षसूर्ये याचति सर्वौषधमाज्यस्थालीँ सस्रुवाँ स्रुचं बर्हिर्वासो दीप्याञ्छकलानित्येतत्समादाय संप्रच्छन्ना अम्बरीषं वोत्तपनीयं वाभिप्रव्रजन्ति तस्मिन्दीप्याञ्छकलान्संप्रकीर्य बर्हिषा परिस्तीर्याज्यं विलाप्योत्पूयाञ्जलिनोपस्तीर्णाभिघारितँ सर्वौषधं जुहोत्यग्नये सर्वौषधाय पुष्ट्यै प्रजननाय स्वाहेत्य् अथ जयानभ्यातानान्राष्ट्रभृत इति हुत्वामात्यहोमाञ्जुहोत्यथ स्रुचि चतुर्गृहीतं गृहीत्वा प्राजापत्यां जुहोति प्रजापते न त्वदेतान्यन्य इत्यपरं चतुर्गृहीतं गृहीत्वानुख्यां जुहोत्यन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततान स्वाहेत्यथैतानङ्गारान्सते वा शरावे वा यजमानो गृह्णाति आयुषे वो गृह्णामि तेजसे वो गृह्णामि तपसे वो गृह्णामि वीर्याय वो गृह्णामि ब्रह्मवर्चसाय वो गृह्णामीत्यथैनानादायोपोत्तिष्ठत्यायुर्मामाविशतु भूतिर्मामाविशतु ब्रह्मवर्चसं मामाविशत्विति तानध्वर्यवे संप्रदायोदायन्त्यन्वारब्धे यजमान एतेनैव यथेतमेत्योत्तरेणागारं परीत्य पूर्वया द्वारा प्रपाद्य गार्हपत्यस्यायतने न्युप्योपसमादधाति परिस्तृणन्ति दक्षिणत उपविशतो ब्रह्मा च यजमानश्चाथैतद्रो हितं चर्मानडुहं जघनेनाग्निं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति तस्य वहसः काले चतुरः पात्रान्व्रीहीन्निर्वपति ब्रह्मणे जुष्टं निर्वपामीति वा तूष्णीं वाथ निरुप्तानभिमृशत्याकूत्यै त्वा कामाय त्वा समृधे त्वेति अथैतान्व्रीहीञ्छूर्पे समुप्याद्भिरभ्युक्ष्य चर्मोदूहत्यथैतस्मिन्नेव चर्मण्युलूखलमुसले निधायावहन्त्य् अथैतेनैव पात्रेण चतुर उदपात्रानानयति यदि वीडिता स्थाली भवति यद्यु वा अवीडिता पञ्च वा भूयसो वा स समोदकः संपद्यते १३ 2.14 तं य एव कश्च कुशलः परीन्धेन श्रपयित्वाभिघार्योदञ्चमुद्वासयत्यथैनमायतिगव ऋत्विग्भ्यः प्राहुरुपसंगच्छन्त एनमेत ऋत्विजोऽथैतां पात्रीं निर्णिज्योपस्तीर्य तस्यामेनमसंघ्नन्निवोद्धरति सर्पिरासेचनं कृत्वा प्रभूतमाज्यमानीयाथैतस्यैवौदनस्योपघातं जुहोत्युपतिष्ठते वा प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवान्यजे हेड्यान्स्वाहेत्यथैताँ श्चतुर आर्षेयानुत्तरतोऽनुदिशमुपवेश्य ताननुपूर्वमाचमय्य तेभ्य एनं भूमिँ स्पृशन्ननुच्छिन्दन्निवोपोहति त्रिः प्राश्य प्रशँ सन्ति राद्धस्ते ब्रह्मौदन इति तेभ्यः साण्डं वत्सतरं ददात्यथैष उत्तरत आसीनो ब्राह्मणः क्षामकाषं प्राश्नाति तस्मै यदस्योपकल्पते तद्ददात्यथ यदाज्यमुच्छिष्यते तेन समिधोऽभ्यज्यादधाति समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्। आस्मिन्हव्या जुहोतन स्वाहा ॥ उप त्वाग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम स्वाहा ॥ तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य स्वाहेति गायत्रीभिर्ब्राह्मणस्य त्रिष्टुग्भी राजन्यस्य जिघर्म्यग्निमा त्वा जिघर्म्यायुर्दा अग्ने हविषो जुषाण इति जगतीभिर्वैश्यस्य जनस्य गोपा अजनिष्ट जागृविस्त्वामग्ने मानुषीरीडते विशः सप्त ते अग्ने समिधः सप्त जिह्वा इति समित्सु वत्सतरीं ददाति १४ 2.15 अथास्मा अरणी प्रयच्छन्नाह वाचंयमो भविष्यसि सँ शाधि यत्ते सँ शिष्यमिति स आह ब्राह्मणानाशयताश्वं गोपायत संभारान्निधत्तेति तस्य सुभिक्षमग्न्याधेयं भवति साग्न्याधेयस्य समृद्धिस् तदाहुर्नाग्न्याधेये गां कुर्वीत घोररूपमिति कुर्वीतैवापि त्वेव न कुर्वीतापि बह्वीरपि कुर्वीतानु चैतस्य भवेत्पुण्या प्रशँ सेति कात्योऽथास्मा अरणी प्रयच्छति ते प्रतिगृह्णाति मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम्। अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगाम्॥ आरोहतं दशतँ शक्वरीर्ममर्त्वेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराँ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इत्यथैने उपनिगृह्णात्यृत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे । तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनिष्येथे ते मा प्रजाते प्रजनयिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इत्य् अथैनमनृतात्सत्यमुपनयति मानुषाद्दैव्यमुपनयतीदमहमनृतात्सत्यमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति तं वाचंयमँ रात्रिं जागरयन्त आसते शल्कैस्ताँ रात्रिमग्निमिन्धते शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम्। उभयोर्लोकयोरृध्वाति मृत्युं तराम्यहमित्युत्तरेण गार्हपत्यस्यायतनं कल्माषमजं बध्नाति तेनैनमाधास्यमानँ संख्यापयति प्रजा अग्ने संवासयाशाश्च पशुभिः सह । राष्ट्राण्यस्मा आधेहि यान्यासन्त्सवितुः सव इति १५ 2.16 अथाध्वर्युरपररात्र आद्रुत्यारणी निष्टपति जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूः ॥ अयं ते योनिरृत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथा नो वर्धया रयिमित्यथैतमग्निँ सते समुप्य दक्षिणतो ज्वलयन्त आसत अथैतान्यग्न्यायतनानि शकृत्पिण्डेन परिलेपयत्यथ तृतीयँ संभाराणामादाय गार्हपत्यस्यायतने निवपति यत्पृथिव्या अनामृतँ संबभूव त्वे सचा । तदग्निरग्नयेऽददात्तस्मिन्नाधीयतामयमिति स यत्रोषानुपाधिगच्छति तज्जपति यददश्चन्द्र मसि कृष्णं तदपीहेत्यथैनानादधाति दिवस्त्वा वीर्येण पृथिव्यै महिम्ना । अन्तरिक्षस्य पोषेण सर्वपशुमादध इत्यथैनान्संप्रयौति सं वः सृजामि हृदयानि सँ सृष्टं मनो अस्तु वः । सँ सृष्ठः प्राणो अस्तु वः ॥ सं या वः प्रियास्तनुवः संप्रिया हृदयानि वः । आत्मा वो अस्तु संप्रियः संप्रियास्तनुवो ममेत्यथैनान्कल्पयति कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रताः ॥ येऽग्नयः समनसोऽन्तरा द्यावापृथिवी । वासन्तिकावृतू अभि कल्पमाना इन्द्र मिव देवा अभिसंविशन्त्वित्यथातिशिष्टानाँ संभाराणामर्धानादाय दक्षिणया द्वारोपनिर्हृत्यान्वाहार्यपचनस्यायतने निवपति यदन्तरिक्षस्यानामृतँ संबभूव त्वे सचा । तद्वायुरग्नयेऽदादात्तस्मिन्नाधीयतामयमिति स यत्रोषानुपाधिगच्छति तज्जपति यददश्चन्द्र मसि कृष्णं तदपीहेति तथादधाति तथा संप्रयौति तथा कल्पयत्यथैतेनैव यथेतमेत्यातिशिष्टान्संभारानादाय पूर्वया द्वारोपनिर्हृत्याहवनीयस्यायतने निवपति यद्दिवोऽनामृतँ संबभूव त्वे सचा तदादित्योऽग्नयेऽददात्तस्मिन्नाधीयतामयमिति स यत्रोषानुपाधिगच्छति तज्जपति यददश्चन्द्र मसि कृष्णं तदपीहेति तथादधाति तथा संप्रयौति तथा कल्पयत्यथ गोप्तारँ समादिशति स आह विहृता अग्नयो मा कश्चनान्तरेण संचारीदित्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य गार्हपत्यस्यायतन उपरि संभारेषु मुञ्जकुलायं निदधाति तस्मिन्प्रतीचीनप्रजननामरणिं निधाय दशहोत्रोत्तरारणिमवदधाति स आह मन्थतेति यजमानः प्रथमो मन्थति यजमान उत्तमो मन्थति जनयति जाते वरं ददामीति वाचं विसृजतेऽथैनमुपतिष्ठतेऽजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम्। दश स्वसारो अग्रुवः समीचीः पुमाँ सं जातमभिसँ रभन्तामित्यथैनमभिप्राणिति प्रजापतेस्त्वा प्राणेनाभिप्राणिमि पूष्णः पोषेण मह्यम्। दीर्घायुत्वाय शतशारदाय शतँ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्याय ॥ प्राणे त्वामृतमादधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्या इत्यथोद्गातारमाह रथन्तरं ब्रूहीत्यथैनमादधाति भूर्भुवो घर्मः शिरस्तदयमग्निः संप्रियः पशुभिर्भुवत्। छर्दिस्तोकाय तनयाय यच्छ ॥ भृगूणां त्वाङ्गिरसां व्रतपते व्रतेनादधामीति भृग्वङ्गिरसामादध्यादादित्यानां त्वा देवानां व्रतपते व्रतेनादधामीत्यन्यासां ब्राह्मणीनां प्रजानाम्वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामीति राज्ञ इन्द्र स्य त्वेन्द्रि येण व्रतपते व्रतेनादधामीति राजन्यस्य मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामीति वैश्यस्य ऋभूणां त्वा देवानां व्रतपते व्रतेनादधामीति रथकारस्येति यथर्षि यथागोत्रं गायत्रेण छन्दसेत्युत्तरतो हिरण्यशल्कमुपास्यति स्वया तनुवा संभवेत्यथैतँ राजतं वृषलाय वाज्ञाताय वातिप्रयच्छत्यार्तिमेवातिप्रयच्छतीति ब्राह्मणम् अथैनमुपतिष्ठते अहं त्वदस्मि मदसि त्वमेतद्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः ॥ सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीःश्रेयसीर्दधत्। अग्ने सपत्नाँ पबाधमानो रायस्पोषमिषमूर्जमस्मासु धेहीति १६ 2.17 अथैतमग्निमाददते य एष सते समुप्तो भवति तं दक्षिणया द्वारोपनिर्हृत्यान्वाहार्यपचनमादधाति भूर्भुवो वातः प्राणस्तदयमग्निः संप्रियः पशुभिर्भुवत्। स्वदितं तोकाय तनयाय पितुं पच ॥ अमीषां त्वा देवानां व्रतपते व्रतेनादधामीति यथर्षि यथागोत्रं गायत्रेण छन्दसेत्युत्तरतो हिरण्यशल्कमुपास्यति स्वया तनुवा संभवेत्यथैतँ राजतं वृषलाय वाज्ञाताय वातिप्रयच्छत्यार्तिमेवातिप्रयच्छतीति ब्राह्मणम् अपि वा गार्हपत्यादेवान्वाहार्यपचनमादधाति प्रजापतिरग्निमसृजत सोऽबिभेत्प्र मा धक्ष्यतीति तस्य त्रेधा महिमानं व्यौहच्छान्त्या अप्रदाहायेत्येतस्माद्ब्राह्मणादथैनमुपतिष्ठत इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इत्यथैतेनैव यथेतमेत्याभ्यादधातीध्मं प्रणयनीयं तं तथाभ्यादधाति यथा मन्यतेऽर्धोदिते सूर्य आहवनीय आधीयमानः संपत्स्यत इति तस्य तथा संपद्यत उपोपयमनीः कल्पयन्त्यश्व एष पूर्ववाट पल्पूलितः पुरस्तात्तिष्ठत्यथोद्गातारमाह वामदेव्यं ब्रूहीत्यथैनमुद्यच्छत ओजसे बलाय त्वोद्यच्छे वृषणे शुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः ॥ यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः । पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि ॥ दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्यो अध्योषधीभ्यः । यत्रयत्र जातवेदः संबभूथ ततो नो अग्ने जुषमाण एहीतीयत्यग्रे हरत्यथेयत्यथेयत्यधोऽधः शिरो हरतीति ब्राह्मणम् आददान एवैता मात्रा अभिसंपादयेदित्येतदपरम् अश्वं पूर्वं नयन्ति तमनुमन्त्रयते प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्निर्भवेह । विश्वा आशा दीद्यानो विभाह्यूर्जं नो धेहि द्विपदे चतुष्पद इति विषुवत्युपरमन्ति विक्रमस्व महाँ असि वेदिषन्मानुषेभ्यस्त्रिषु लोकेषु जागृहीत्यथोपातियन्त्यन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततानेत्यथैतेनाश्वेन प्राचोत्तरतः पार्श्वतः संभाराणामाक्रमयति यथाहितस्याग्नेरङ्गारा अभ्यववर्तेरन्नित्यथैनं प्रदक्षिणमावर्त्याद्भिरभ्युक्ष्योदञ्चमुत्सृजति स एषोऽध्वर्योर्भवत्यन्यं ब्रह्मणे ददात्यथ प्रदक्षिणमावृत्येध्मं प्रतिष्ठापयति यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाः शम्भूः प्रजाभ्यस्तनुवे स्योनः ॥ प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्या इत्य् अथोद्गातारमाह बृहद्वारवन्तीयँ श्यैतमिति गायेति सर्वाणि संप्रेष्यति बृहति गीयमान आहवनीयमादधाति भूर्भुवः सुवरर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः संप्रियः पशुभिर्भुवत्। यत्ते शुक्र शुक्रं वर्चः शुक्रा तनूः शुक्रं ज्योतिरजस्रं तेन मे दीदिहि तेन त्वादधेऽग्निनाग्ने ब्रह्मणा अमीषां त्वा देवानां व्रतपते व्रतेनादधामीति यथर्षि यथागोत्रं गायत्रेण छन्दसेत्युत्तरतो हिरण्यशल्कमुपास्यति स्वया तनुवा संभवेत्यथैतँ राजतं वृषलाय वाज्ञाताय वातिप्रयच्छत्यार्तिमेवातिप्रयच्छतीति ब्राह्मणम् अथैनमुपतिष्ठत आनशे व्यानशे सर्वमायुर्व्यानश इत्यत्रैतावग्नी आदधाति सभ्यं चावसथीयं च रथचक्रं प्रवर्तयति संततं गार्हपत्यादाहवनीयात् १७</span></poem> [[File:दर्शपूर्णमासः Darshapurnamasa.jpg|thumb|500px|दर्शपूर्णमासः]] <poem><span style="font-size: 14pt; line-height: 200%">2.18 सर्वौषधेन व्याहृतीभिरग्नीञ्छमयित्वा पञ्चपञ्च नानावृक्ष्याः समिधोऽभ्यज्याभिदधाति समिध्यमानः प्रथमो नु धर्म इत्येताभिः पञ्चभिरायुर्दा अग्ने हविषो जुषाण इत्येतामपोद्धृत्याथ प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यं तिष्ठँ स्तनूभिरुपतिष्ठते ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ प्रभ्वी च प्रभूतिश्च ते मा विशतां ते मा जिन्वताम्। यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वादध इति सर्वाभिर्गार्हपत्यं सर्वाभिरन्वाहार्यपचनं सर्वाभिराहवनीयम् अथ घोरास्तनूरनुदिशति यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायत्यथाप उपस्पृश्य विराजक्रमैरुपतिष्ठते नर्य प्रजां मे गोपाय । अमृतत्वाय जीवसे । जातां जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठितामिति गार्हपत्यम् अथर्व पितुं मे गोपाय । रसमन्नमिहायुषे । अदब्धायोऽशीततनो । अविषन्नः पितुं कृण्वित्यन्वाहार्यपचनं शँ स्य पशून्मे गोपाय । द्विपादो ये चतुष्पदः । अष्टाशफाश्च य इहाग्ने । ये चैकशफा आशुगा इत्याहवनीयं सप्रथ सभां मे गोपाय । ये च सभ्याः सभासदः । तानिन्द्रि यावतः कुरु । सर्वमायुरुपासतामिति सभ्यम् अहे बुध्निय मन्त्रं मे गोपाय । यमृषयस्त्रयिविदा विदुः । ऋचः सामानि यजूँ षि । सा हि श्रीरमृता सतामित्यावसथीयम् अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्याहवनीये पूर्णाहुतिं जुहोति सप्त ते अग्ने समिधः सप्त जिह्वा इति पूर्णाहुतौ वरं ददात्यथैतान्यग्निहोत्रपात्राणि प्रक्षालितान्युत्तरेण गार्हपत्यमुपसादयति कूर्चे वा सूनायां वा स्थालीँ सस्रुवाँ स्रुचमभिद्योतनँ समिधमित्यथैतामग्निहोत्रीं दक्षिणत उदीचीँ स्थापयित्वा ब्राह्मणो दोग्धि पूर्वौ दुह्यादपरौ दुह्याद्न संमृशेद्द्वयोर्दुह्यात्पशुकामस्येत्यधिश्रित्योत्तरमानयत्यथैतदग्निहोत्रमग्रेणाहवनीयं पर्याहृत्य पूर्वया द्वारा प्रपाद्य जघनेन गार्हपत्यमुपसाद्य तस्मिन्नग्निहोत्रविधिं चेष्टित्वा समिधमुपयत्य प्राङ्हरति जघनेनाहवनीयमुपसादयति कूर्चेऽत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधाति तूष्णीं तस्यामादीप्तायां प्रतिमुखं द्विर्जुहोत्युच्च मार्ष्ट्यव च मार्ष्ट्युभयमवाप्नोतीति ब्राह्मणं द्विरङ्गुल्या प्राश्योदङ्पर्यावृत्य प्राचीनदण्डया स्रुचा भक्षयति निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वोदगुद्दिशति सप्तर्षीनेव प्रीणातीति ब्राह्मणं हुत्वोपसमिन्द्धे ब्रह्मवर्चसस्य समिद्ध्ययपो निनयत्यवभृथस्यैव रूपमकरिति ब्राह्मणम् १८ 2.19 अथ परिकर्मिणं बर्हिर्लावं प्रहिणोत्याहृतं वा यजुषा करोत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नेयमष्टाकपालं निर्वप्स्यन्दशहोतारं व्याचक्षीत सामिधेनीरनुवक्ष्यन्दशहोतारं व्याचक्षीत श्रपयित्वासादयति तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोऽग्निर्मूर्धा भुव इति त्रिष्टुभौ संयाज्ये अन्वाहार्यमासाद्याग्न्याधेयदक्षिणा ददात्या द्वादशभ्यो ददाति कामं भूयसीर्ददाति संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् अथ तदानीमेव पृष्ठ्याँ स्तीर्त्वापः प्रणीयैन्द्रा ग्नमेकादशकपालं निर्वपत्यादित्यं चरुं घृत एष चरुर्भवति शृते नेदीयसि वाज्यमानयति श्रपयित्वासादयति तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोरिन्द्रा ग्नी रोचना दिवः श्नथद्वृत्रमित्यैन्द्रा ग्नस्यादितिर्न उरुष्यतु महीमू षु मातरमित्यादित्यस्य त्रिष्टुभौ संयाज्ये अन्वाहार्यमासाद्याथैतं चरुं व्युद्धृत्य चत्वार आर्षेयाः प्राश्नन्ति दिशामेव ज्योतिषि जुहोतीति ब्राह्मणं संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् १९ 2.20 अत्रैतद्द्वादशाहं व्रतं चरति तस्यैतद्व्रतं नानृतं वदति न माँ समश्नाति न स्त्रियमुपैति नास्य पल्पूलनेन वासः पल्पूलयन्त्यमृन्मयपाय्यशूद्रो च्छिष्टी स्वयं पादौ प्रक्षालयते न लवणमश्नाति न कौशीधान्यमन्यत्र तिलेभ्यः प्राङुच्चारः स्वयँ समिध आहरमाणोऽग्नीनामन्ते संविशत्यजस्रा अस्यैते द्वादशाहमग्नयो भवन्ति नास्य ब्राह्मणोऽनाश्वान्गृहे वसत्यग्निहोत्रोच्छेषणव्रतो वा यजमानो भवति भक्तमु पत्न्या आहरन्त्यथ द्वादशसु व्युष्टासु पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपति श्रपयित्वासादयति तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोऽग्न आयूँ षि पवसेऽग्ने पवस्वेति त्रिष्टुभौ संयाज्ये अन्वाहार्यमासाद्य त्रिँ शन्मानँ हिरण्यं ददाति संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् अथ तदानीमेव पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नये पावकाय पुरोडाशमष्टाकपालं निर्वपत्यग्नये शुचये श्रपयित्वासादयति तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोरग्ने पावक स नः पावकाग्निः शुचिव्रततम उदग्ने शुचयस्तवेति त्रिष्टुभौ संयाज्ये अन्वाहार्यमासाद्य त्रिँ शन्मानचत्वारिँ शन्माने हिरण्ये ददाति संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् २० 2.21 अथातोऽन्वारम्भस्यैव मीमाँ सान्वारम्भं पौर्णमास्याः समानोपवसथं करोत्यथ प्रातर्हुतेऽग्निहोत्रे पुरापां प्रणयनाद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा चतुर्होतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्य् अपरं चतुर्गृहीतं गृहीत्वा सारस्वतौ होमौ जुहोति पूर्णा पश्चादित्यनुद्रुत्याग्नीषोमविति जुहोत्यपरं चतुर्गृहीतं गृहीत्वा निवेशनी संगमनी वसूनामित्यनुद्रुत्य यत्ते देवा अदधुर्भागधेयमिति जुहोत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नावैश्णवमेकादशकपालं निर्वपति सरस्वत्यै चरुँ सरस्वते द्वादशकपालमिति श्रपयित्वासादयति तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषामग्नाविष्णू अग्नाविष्णू प्र णो देव्या नो दिवः पीपिवाँ सँ सरस्वत स्तनं ये ते सरस्व ऊर्मय इति त्रिष्टुभौ संयाज्ये अन्वाहार्यमासाद्य मिथुनौ गावौ ददाति संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् अथ पौर्णमासवैमृधाभ्यां यजते संतिष्ठतेऽग्न्याधेयँ संतिष्ठतेऽग्न्याधेयम् 2.२१ </span></poem> c404a3febcwp8zqls1kro21rn0upjxm 341099 341098 2022-07-23T01:29:03Z Puranastudy 1572 wikitext text/x-wiki <poem><span style="font-size: 14pt; line-height: 200%">2.1 अथोपव्याहरणम्विज्ञायते क्रत्वादौ क्रतुकामं कामयीत यज्ञाङ्गादौ यज्ञाङ्गकाममिति प्राक्तूलान्दर्भान्सँ स्तीर्य तेषु प्राङ्मुखो यजमान उपविश्य जपति याः पुरस्तात्प्रस्रवन्त्युपरिष्टात्सर्वतश्च याः । आभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभे ॥ देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यतामिति श्रद्ध एहि सत्येन त्वा ह्वयामीत्याकूत्या वेदनं करोत्याकूत्यै त्वा कामाय त्वा समृधे त्वा पुरो दधे । अमृतत्वाय जीवसे ॥ आकूतिमस्यावसे काममस्य समृध्यै । इन्द्र स्य युञ्जते धियः ॥ आकूतिं देवीं मनसः पुरो दधे यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा सकामो विदेयमेनद्धृदये निविष्टमिति मनसा त्रिः संकल्पयते त्रिरुच्चैः सर्वकामोऽग्नीनाधास्य इत्यग्न्याधेये स्वर्गकामो दर्शपूर्णमासाभ्यां यक्ष्य इति दर्शपूर्णमासयोः स्वर्गकामश्चातुर्मास्यैर्यक्ष्य इति चातुर्मास्येषु स्वर्गकामः पशुना यक्ष्य इति पशुबन्धे स्वर्गकामः सोमेन यक्ष्य इति सोमे स्वर्गकामोऽग्निं चेष्य इत्यग्निचयेऽहीनेऽहर्गणे वा यथाकामो यत्कामो वा यजते तन्म ऋध्यतां तन्मे समृध्यतां तन्मे संपद्यतां काम इत्यथर्त्विजां प्रतिवचनं तत्त ऋध्यतां तत्ते समृध्यतां तत्ते संपद्यतां काम इत्यॐ तथेति प्रतिवचनम् १ 2.2 अथर्त्विजो देवयजनं याचतेऽध्वर्यो देवयजनं मे देहीत्यध्वर्युम् आदित्यो देवो दैवोऽध्वर्युः स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनम्ब्रह्मन्देवयजनं मे देहीति ब्रह्माणं चन्द्र मा देवो दैवो ब्रह्मा स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनं होतर्देवयजनं मे देहीति होतारम् अग्निर्देवो दैवो होता स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनम् उद्गातर्देवयजनं मे देहीत्युद्गातारम्पर्जन्यो देवो दैव उद्गाता स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनं सदस्य देवयजनं मे देहीति सदस्यम् आकाशो देवो दैवः सदस्यः स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनं होत्रका देवयजनं मे दत्तेति होत्रकान् आपो देव्यो दैव्या होत्राशँ सिन्यस्तास्ते देवयजनं ददत्वित्यॐ तथेति प्रतिवचनं चमसाध्वर्यवो देवयजनं मे दत्तेति चमसाध्वर्यून् रश्मयो देवा दैवाश्चमसाध्वर्यवस्ते ते देवयजनं ददत्वित्यॐ तथेति प्रतिवचनम् अपि वा न देवयजनं याचत आदित एव तीर्थे स्नात्वोदेत्याहतं वासः परिधाय शुद्धो हैव शुचिः पूतो मेध्यो विपाप्मा ब्रह्मचारी सहकारिप्रत्यय आ चतुर्थात्कर्मणोऽभिसमीक्षमाणो वेदकर्माणि प्रयोजयेत् प्रागपवर्गाण्युदगपवर्गाणि वा प्राङ्मुखः प्रदक्षिणं यज्ञोपवीती दैवानि कर्माणि करोति दक्षिणामुखः प्रसव्यं प्राचीनावीती पित्र्! याणि तिष्ठन्नासीनः प्रह्वो वा यथान्यायं छन्दोगब्राह्मणं यथा वै दक्षिणः पाणिरेवं देवयजनं यथा सव्यस्तथा पितृयजनं यथा पितृयजनं तथा श्मशानकरणं यथा श्मशानकरणं तथाभिचरणीयेष्विष्टिपशुसोमेष्वादित एव पुरोदकं देवयजनं यस्मादन्यत्पुरस्तात्समन्तिकं देवयजनं न विन्देयुरुत्तरतो देवयजनमात्रमतिशिनष्टि २ 2.3 अथर्त्विजां वरणम्विज्ञायते ब्राह्मणा ऋत्विजो योनिगोत्रश्रुतवृत्तसंपन्ना अविगुणाङ्गा अत्रिकिणिनो न परिखातिक्रान्ता नान्तगा नान्त्यजा नाननूचाना हालेयवालेयपुत्रिकापुत्रपरक्षेत्रसहोढकानीनानुजावरद्विप्रवरान्परिहाप्याङ्गिरसोऽध्वर्युर्वासिष्ठो ब्रह्मा वैश्वामित्रो होतायास्य उद्गाता कौषीतकः सदस्योऽवशिष्टा भृगवोऽङ्गिरसो वा योनिवृत्तं विद्या च प्रमाणमित्येके ताँ श्चेद्वृणीताव्यापन्नाङ्गानेव वृणीताकुनखिनमध्वर्युमकिलासिनं ब्रह्माणमखण्डँ होतारमकरालमुद्गातारमशिपिविष्टँ सदस्यम् अथ प्रतिप्रस्थाता नेष्टोन्नेतेत्यध्वर्युपुरुषा ब्राह्मणाच्छँ स्याग्नीध्रः पोतेति ब्रह्मणो मैत्रावरुणोऽच्छावाको ग्रावस्तुदिति होतुः प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इत्युद्गातुरभिगरो ध्रुवगोपः सँ श्राव इति सदस्यस्य स्वप्रधाना अस्वप्रधाना इत्येके दश वैकादश वा चमसाध्वर्यवोऽन्यदक्षिणाभिः परिक्रीता भवन्तीति विज्ञायते तस्मादग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विग् दर्शपूर्णमासयोश्चत्वार ऋत्विजोऽध्वर्युर्ब्रह्मा होताग्नीध्र इति चातुर्मास्येषु प्रतिप्रस्थाता पञ्चमः पशुबन्धे मैत्रावरुणः षष्ठः सर्वे सौम्येऽध्वरे तान्कर्मणःकर्मणो वृणीतैकैकमुपसंगृह्य चोदयेदसावहमाध्वर्यवेण त्वा गच्छामि याजयतु मां भवानिति ब्रह्मत्वेन हौत्रेणौद्गात्रेण सादस्येनेति न सदस्यो विद्यत इत्येके स्वेनस्वेन कर्मणा होत्रकान् न होत्रकानित्येके तत्पुरुषा होत्रकाश्चमसाध्वर्यवश्चाध्वर्युर्वा ऋत्विजां प्रथमो युज्यते तेन स्तोमो योक्तव्य इति ३ 2.4 आदित्यो देवो दैवोऽध्वर्युः स मेऽध्वर्युरध्वर्योऽध्वर्युं त्वा वृन इत्यध्वर्युम् आदित्यो देवो दैवोऽध्वर्युः स तेऽध्वर्युस्तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनं चन्द्र मा देवो दैवो ब्रह्मा स मे ब्रह्मा ब्रह्मन्ब्रह्माणं त्वा वृण इति ब्रह्माणं चन्द्र मा देवो दैवो ब्रह्मा स ते ब्रह्मा तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम् अग्निर्देवो दैवो होता स मे होता होतर्होतारं त्वा वृण इति होतारम् अग्निर्देवो दैवो होता स ते होता तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम्पर्जन्यो देवो दैव उद्गाता स म उद्गातोद्गातरुद्गातारं त्वा वृण इत्युद्गातारम्पर्जन्यो देवो दैव उद्गाता स त उद्गाता तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम् आकाशो देवो दैवो सदस्यः स मे सदस्यः सदस्य सदस्यं त्वा वृण इति सदस्यम् आकाशो दैवो देवः सदस्यः स ते सदस्यस्तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम् आपो देव्यो दैव्या होत्राशँ सिन्यस्ता मे होत्राशँ सिन्यो होत्रका होत्रकान्वो वृण इति होत्रकान् आपो देव्यो दैव्या होत्राशँ सिन्यस्तास्ते होत्राशँ सिन्यस्ताभिरनुमताः कर्मैव वयं करिष्याम इत्यॐ तथेति प्रतिवचनं रश्मयो देवा दैवाश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवश्चमसाध्वर्यवश्चमसाध्वर्यून्वो वृण इति चमसाध्वर्यून् रश्मयो देवा दैवाश्चमसाध्वर्यवस्ते ते चमसाध्वर्यवस्तैरनुमताः कर्मैव वयं करिष्याम इत्यॐ तथेति प्रतिवचनम्वृतोवृतो जपति महन्मेऽवोचो यशो मेऽवोचो भगो मेऽवोचो भर्गो मेऽवोचस्तपो मेऽवोच स्तोमं मेऽवोचः कॢप्तिं मेऽवोचो भुक्तिं मेऽवोचो विश्वं मेऽवोचः सर्वं मेऽवोचः सर्वं मे कल्याणमवोचस्तन्मावतु तन्माविशतु तन्मा जिन्वतु तेन भुक्षिषीय देवो देवमेतु सोमः सोममेत्वित्यॐ तथेति प्रतिवचनम् ४ 2.5 सिँ हे मे मन्युर्व्याघ्रे मेऽन्तरामयो वृके मे क्षुदश्वे मे घसिर्धन्वनि मे पिपासा राजगृहे मेऽशनायाश्मनि मे तन्द्रि र्गर्दभे मेऽर्शः शल्यके मे ह्रीरश्वत्थे मे वेपथुः कूर्मे मेऽङ्गरोगो बस्ते मेऽपसर्याप्रिये मे मृत्युर्भ्रातृव्ये मे पाप्मा सपत्ने मे निरृतिर्दुष्कीर्तौ मे व्यृद्धिः परस्वति मेऽसमृद्धिः खड्गे म आर्तिर्गवये म आन्ध्यं गौरे मे बाधिर्यम् ऋक्षे मे शोको गोधायां मे खेदो जरायां मे हिमः कृष्णशकुनौ मे भीरुता कशे मे पापो गन्ध उलूके मे श्वभ्यशः क्लोके म ईर्ष्या मर्कटे मे दुरृद्धिः कुलले मे मँ स्योलले मे प्रध्योष्ट्रे मे तृष्णर्श्ये मे श्रमोऽव्यां म आव्यं कोशे मे गन्धः कुमार्यां मेऽलङ्कारः सूकरे मे क्लदथुः पृदाखुनि मे स्वप्न अजगरे मे दुस्वप्नो विद्युति मे स्मयशो लोभायां मे क्लेदः शलभे मे पाप्मालक्ष्मी स्त्रीषु मेऽनृतम् अजासु मे कर्कशो व्रात्ये म ईत्या शूद्रे मे स्तेयम्वैश्ये मेऽकार्मकृत्यं राजन्यबन्धुनि मेऽज्ञानं नैषादे मे ब्रह्महत्या कुलिङ्गे मे क्षवथुरुलले मे विलास उद्रि णि मे वमतिः किंपुरुषे मे रोदो द्वीपिनि मे निष्टपधस्तिनि मे किलासः शुनि मे दुरिप्रं स्नावन्येषु मे म्लेच्छो विदेहेषु मे शीपथो महावर्षेषु मे ग्लौर्मूजवत्सु मे तप्ना दुन्दुभौ मे कासिकेक्ष्वाकुषु मे पित्तं कलिङ्गेषु मेऽमेध्यम् अश्वतर्यां मेऽप्रजस्ता पुँ श्चल्यां मे दुश्चरितम् आखुनि मे दन्तरोगो मक्षिकायां मे श्वल्कशः शुके मे हरिमा मयूरे मे जल्प्या वृषे मे जरा चाषे मे पापवादोऽप्सु मे श्रमो ब्रह्मोज्झे मे किल्बिषम् अपेहि पाप्मन्पुनरपनाशितो भवा नः पाप्मन्सुकृतस्य लोके पाप्मन्धेह्यविहृतो यो नः पाप्मन्न जहाति तमु त्वा जहिमो वयमन्यत्रास्मन्निविशतां सहस्राक्षो अमर्त्यो यो नो द्वेष्टि स रिष्यतु यमु द्विष्मस्तमु जहीत्य् अथाञ्जलिनाप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति तां दिशमेता अप उत्सिञ्चति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपस्पृश्य यथेतं प्रविशन्ति ५ 2.6 अथेदमग्न्याधेयं तस्य कः कर्मण उपक्रमो भवतीत्युक्तान्यृतुनक्षत्राण्युक्तमात्मनः पुरश्चरणं कथमत्रानुपूर्व्यं भवति स्नानपवनमन्त्रप्रोक्षणपुण्याहवाचनानि श्रद्धामाहूयाकूत्या वेदनं कृत्वोपव्याहृत्यर्त्विजो वृत्वार्हयित्वा देवयजनं याचित्वा देवयजनमादाय स्फ्यमादायान्तरेण वेद्युत्करावुद्देशेन प्रपद्य जघनेन गार्हपत्यं तिष्ठन्प्राचीनँ स्फ्येन गार्हपत्यस्यायतनमुद्धन्त्युद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेत्यथैनदद्भिरवोक्षति शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु न इत्येवमेवान्वाहार्यपचनस्यायतनमुद्धन्त्येवमेवाहवनीयस्यैवमितरयोर्यदि करिष्यन्भवत्यथान्तरेण वेद्युत्करावुद्देशेनोदङ्ङुपनिष्क्रम्य तां दिशं यन्ति यत्रास्य संभारा उपकॢप्ता भवन्त्य् अपि वोत्तरेण शालायाः सर्वे संभारा उपकॢप्ता भवन्त्यपि वान्तर्वेदि प्राचीनं तान्मन्त्रानुपूर्व्यमेकैकँ संभारमेकैकेन यजुषा संभरति वैश्वानरस्य रूपं पृथिव्यां परिस्रसा । स्योनमाविशन्तु न इति सिकताः संभृत्य निदधात्येवमेवोत्तरमुत्तरँ संभारमुत्तरेणोत्तरेण यजुषा संभृत्यसंभृत्यैव निदधात्यूषाश्च सिकताश्चाखूत्करं च वल्मीकवपां च सूदं च वराहविहतं च पुष्करपर्णं च शर्कराश्चेत्यष्टौ पार्थिवा अथोत्तरेण यजुषा षड्ढिरण्यशल्कानाहरत्यथ वानस्पत्याभिर्वानस्पत्याः शाखा आद्रा रः! सपलाशाः सप्रारोहाः प्रादेशमात्रीरप्रतिशुष्काग्रा आहरत्यपि वा यथालाभम्पर्णं द्वाभ्यां चित्रियस्याश्वत्थस्य तिस्रः सभिध आद्रा रः! सपालाशाः सप्रारोहाः प्रादेशमात्रीरप्रतिशुष्काग्रा आहरति चित्रियादश्वत्थात्संभृता बृहत्यः शरीरमभिसँ स्कृता स्थ । प्रजापतिना यज्ञमुखेन संमितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्या इत्यथ मुञ्जकुलायमाहरति या ते अग्न ओजस्विनी तनूरोषधीषु प्रविष्टा । तां त इह संभरामीत्यथास्मा अरणी आहरत्याश्वत्थीँ शमीगर्भीमप्यशमीगर्भीं वा चतुरङ्गुलमुत्सेधां द्वादशाङ्गुलं विस्तीणाँ र्! षोडशाङ्गुलमायतामपि वा प्रादेशमात्रीँ सर्वतः समां चतुरङ्गुलमेवोत्सेधां तस्या उत्तानाया अनुलोममधस्तात्प्रतीचीनप्रवणं प्रजननं कुर्वन्ति तावतीमेवोत्तरारणिम् अथैने आहरत्यश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियाँ संभरामि । शान्तयोनिँ शमीगर्भमग्नये प्रजनयितवे ॥ यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यथैतान्सुसंभृतान्संभारान्पुनरेव संभरति यं त्वा समभरं जातवेदो यथा शरीरं भूतेषु न्यक्तम्। स संभृतः सीद शिवः प्रजाभ्य उरुं नो लोकमनुनेषि विद्वानिति ६ 2.7 अथ वै भवतीन्द्रो वृत्रँ हत्वासुरान्पराभाव्य सोऽमावास्यां प्रत्यागच्छत् ते पितरः पूर्वेद्युरागच्छन् पितॄन्यज्ञोऽगच्छत् तं देवाः पुनरयाचन्त तमेभ्यो न पुनरददुस्तेऽब्रुवन्वरं वृणामहा अथ वः पुनर्दास्यामोऽस्मभ्यमेव पूर्वेद्युः क्रियाता इति तमेभ्यः पुनरददुस् तस्मात्पितृभ्यः पूर्वेद्युः क्रियते यत्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानःप्रतनुत इति ब्राह्मणम् अथ यदि गां न लभते मेषमजं वा लभतेऽपि वा द्यूतमोदनं पक्त्वा तस्योपरिष्टात्प्रभूतमाज्यं पयो वानीय तस्मादेतत्सर्वं करोति यद्गवा कार्यम्विज्ञायते च धेन्वै वा एतद्रे तो यदाज्यं पयो वानडुहस्तण्डुला इति गौरेवाङ्गसामान्यात् संप्रच्छन्ना अम्बरीषं वोत्तपनीयं वाभिप्रव्रजन्त्यपि वौपासनमेवाभिप्रव्रजन्त्यर्धमौपासनं कुर्वन्ति सर्वं वा ब्राह्मौदनिकमौपासनं कुर्वन्ति सोऽत्र वैव हि हूयत इति समानं कर्मा संभारनिवपनादथ तृतीयँ संभाराणां त्रेधा विभज्य सभ्यावसथ्ययोराहवनीये वा सभ्यावसथ्ययोः संकल्पः समानं कर्मा समिदाधानात् पञ्चपञ्च नानावृक्ष्याः समिधोऽभ्यज्यादधाति कथमत्रानुपूर्व्यं भवत्यश्वत्थश्चोदुम्बरश्च पर्णश्च शमी च विकङ्कतश्चेत्येतदत्रानुपूर्व्यम्भवति कथमु खल्वैन्द्रा ग्नादित्ययोरन्त इत्यैन्द्रा ग्नादित्ययोरन्त उदश्वपदिकँ सृजेत् ततोऽन्यं दशहोत्रर्थमुद्धरेदिति तन्त्रसमास एवैतदुपपद्यते नान्यत्र प्रणीतस्याग्नेर्लौकिकत्वाद्यस्मिन्होत्रा हुतँ स्यात्सोऽग्निः कर्मान्तं तस्य धारणमित्यपवृत्ते कर्मणि लौकिकः संपद्यते प्रसिद्धानि तनूहवीँ षि प्रसिद्धा अग्न्याधेयदक्षिणा ददाति ताश्चेन्नाधिगच्छेद्वासाँ स्येतावन्ति मन्थान्वौदनान्वैतावतो दद्यात् तेनो हैवैतं काममवाप्नोतीत्य् अप्येकां गां दक्षिणां दद्यादिति पैङ्गलायनिब्राह्मणं भवति न त्वेवानाहिताग्निः स्याद्विज्ञायते च देवानां वा एषोऽन्यतमो य आहिताग्निरित्यथ यदस्याग्निमुद्धरति सहस्रं तेन कामदुघा अवरुन्द्धेऽथ यदग्निहोत्रं जुहोति सहस्रं तेनेत्यपरिमितमेवेदमुक्तं भवति ७ 2.8 अथाग्न्याधेयस्योपवसथ इत्युपकल्पयते गां माँ सलामहतं वासश्चतुर उदकुम्भाँ स्त्रीनौदुम्बराञ्छूलानौदुम्बरीं दर्वीमेकां वपाश्रपणीमविशाखामौदुम्बरीमेव सर्वानेवान्यान्स्थालीपाकात्पैतृयज्ञिकान्संभारानेरकोपबर्हणे आञ्जनाभ्यञ्जने आज्यं तृणमुष्टिँ स्फ्यँ सूत्रमिति दक्षिणत एतत्परिश्रितं भवति तस्यैतस्मिन्परिश्रिते प्राङावृत्तस्य केशान्तं करोति तूष्णीं त्रीणि दर्भपुञ्जीलान्युपनियत्य वपति वपे प्रवपे देवेन सवित्रा प्रसूतो ब्रह्मणा सँ शितोऽहं यानि म इत ऊर्ध्वं लोमानि तानि मे स्वस्तये सन्त्वित्यथैनमुप्तकेशश्मश्रुं निकृत्तनखमुदकुम्भेनाभ्यवनयन्वाचयतीमा म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे । शुद्धाः प्रयुञ्जीमहि क्रतूनिति स्नातः प्राङुत्सृप्याहतं वासः परिधायालङ्कृत्याङ्क्तेऽथैनमेकविँ शत्या दर्भपुञ्जीलैस्त्रेधा विभक्तैः सप्तभिःसप्तभिस्तूष्णीं पवयित्वोदपात्रमादायेमां दिशं नीत्वा चतुष्पथ एतस्मिन्नेवोदपात्रेऽवेक्षमाणं पाप्मनो विनिधीन्वाचयति सिँ हे मे मन्युर्व्याघ्रे मेऽन्तरामय इत्यान्तमेतमनुवाकं निगद्य निनीयापः परास्य पात्रमनवेक्षमाणा आयन्ति हस्तपादान्प्रक्षाल्यैतेनैव यथेतमेत्य पवमानः सुवर्जन इत्येतमनुवाकं यजमानं वाचयन्नद्भिर्मार्जयत्यामात्यादिध्ममादीप्यान्वाहार्यपचनवेलायाँ सादयित्वा शोधयित्वा बर्हिषा परिस्तीर्याज्यं विलाप्योत्पूयोत्तरत एतानुपसादयति चतुर उदकुम्भाँ स्त्रीनौदुम्बराञ्छूलानौदुम्बरीं दर्वीमेकां वपाश्रपणीमविशाखामौदुम्बरीमेव दक्षिणतः सर्वानेवान्यान्स्थालीपाकात्पैतृयज्ञिकान्संभारानेरकोपबर्हणे आञ्जनाभ्यञ्जने आज्यं तृणमुष्टिँ स्फ्यँ सूत्रमिति दक्षिणतोऽधिदेवनं करोति तदेकान्नपञ्चाशतोऽक्षान्निवपत्यथ स्फ्यमादाय सकृदेव दक्षिणोद्धन्त्यपहता असुरा रक्षाँ सि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मन इत्य् अथैनदद्भिरवोक्षत्युदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेष्विति ८ 2.9 अथोल्मुकमादत्ते य आददानाः स्वधया नवानि पित्र्! याणि रूपाण्यसुराश्चरति । परापुरो निपुरो ये भरन्त्यग्निष्टानस्मात्प्रणुनोत्तु यज्ञादिति तेनोद्धतमभितपत्यग्निः पावकः सुदिनानि कृण्वन्नितोऽसुरान्नुदताद्दूरमोकसः । पितॄणां ये वर्णं कृत्वेह भागमिच्छन्त इति तदत्रैव व्यन्तं करोति तस्मिन्नुल्मुक आज्यस्तोकं प्रश्चोतयति तद्दक्षिणाग्रं बर्हि स्तृणाति सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम्। अस्मिन्त्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेत्यथ पितॄनावाहयत्युदीराणा इह सन्तु नः सोम्याः पितरः पितामहाः प्रपितामहाश्चानुगैः सह । असुंगमाः सत्ययुजोऽवृकास आ नो हवं पितरोऽद्यागमन्तु ॥ एह गच्छन्तु पितरो हविषे अत्तवे । अस्मिन्यज्ञे बर्हिष्या निषद्य मा वीरः प्र मा युनगित्यथैभ्य एरकोपबर्हणे निवेदयत आसनँ शयनं चेमे तयोः सोम्यास आगताः । प्रिया जनाय नो भूत्वा शिवा भवत शंकरा इत्यथैभ्यः पानान्याहरति मधुपानं क्षीरपानँ सक्तुपानं यद्वा भवत्य् अन्यद्ब्राह्मणेभ्यो ददात्यन्यदुपनिनयति एतद्वः पितरः पितामहाः प्रपितामहाः पानमित्यत्रैकेनोदकुम्भेन मार्जयति तूष्णीं तदक्षान्पर्युपविशन्ति चत्वारः पितापुत्राः पिता पुरस्ताज्ज्येष्ठो दक्षिणतोऽनुजः पश्चात्कनिष्ठ उत्तरतो द्वादशाक्षान्पिता प्रच्छिनत्ति तद्विजयते द्वादश ज्येष्ठस् तद्विजयते द्वादशानुजस् तद्विजयतेऽथ येऽतिशिष्यन्ते तान्कनीयाँ समुपसमूहन्त्यथ यदि द्वौ भवतो द्विरायामः पिताथ यद्येको जाया तृतीयाथ यदि नैव भवन्त्युभौ द्विरायामौ जायापती एष एव त्रिषु न्याय एष एव द्वयोः कृतंकृतमित्येव व्यपगच्छन्ति द्यूता गौरित्युक्त्वोत्तिष्ठन्त्यथैभ्यो बर्हिरादाय गामुपाकरोति पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टामुपाकरोमीति तूष्णीमित्येकेऽथैनामद्भिः प्रोक्षति पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टां प्रोक्षामीति तूष्णीमित्येके तामत्रैव प्रतीचीनशिरसीं दक्षिणापदीँ संज्ञपयन्ति तस्यै संज्ञप्ताया अद्भिरभिषेकं प्राणानाप्याययति तूष्णीं तूष्णीं वपामुत्खिद्य हृदयमुद्धरति प्रज्ञातानि चावदानानि प्रज्ञातौ च मतस्नू तान्येतेष्वेव शूलेषूपनिक्ष्यैतस्मिन्नेवाग्नौ श्रपयन्ति शृतायां वपायां पञ्च स्रुवाहुतीर्जुहोति ९ 2.10 आः प्राचीः संभवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमः स्वाहा ॥ अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमः स्वाहा ॥ अन्तर्दध ऋतुभिः सर्वैरहोरात्रैः सुसन्धिकैः । अर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमः स्वाहा ॥ यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्तामाभुरन्योपपद्यताम्स्वधा नमः स्वाहा ॥ यद्वः क्रव्यादङ्गमदहल्लोकान्नयन्प्रणयञ्जातवेदाः । तद्वोऽहं पुनरावेशयाम्यरिष्टाः सर्वैरङ्गैः संभवत पितरः स्वधा नमः स्वाहेति त्रेधा वपां विच्छिद्यौदुम्बर्या दर्व्या जुहोति सोमाय पितृमते शुष्मिणे जुहुमो हविः । वाजिन्निदं जुषस्व नः स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा ॥ अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे । वैवस्वतेदमद्धि नः स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा ॥ यदग्ने कव्यवाहन पितॄन्यक्ष्यृतावृधः । प्र देवेभ्यो वहा हव्यं पितृभ्यश्च स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहेति तूष्णीं दर्वीमभ्याधाय पिण्डानामावृतैतान्यवदानानि ददाति हृदयमेवाग्रेऽथ सव्यं मतस्नुमथ दक्षिणम् एतत्ते ततासौ ये च त्वामनु याँ श्च त्वमत्रान्वस्येषा ते तत स्वधाक्षितिर्यावती पृथिवी तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददामि पृथिव्या मितमसि तताय मा क्षेष्ठा इति द्वितीयं ददात्येतत्ते पितामहासौ ये च त्वामनु याँ श्च त्वमत्रान्वस्येषा ते पितामह स्वधाक्षितिर्यावदन्तरिक्षं तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददाम्यन्तरिक्षेण मितमसि पितामहाय मा क्षेष्ठा इति तृतीयं ददात्येतत्ते प्रपितामहासौ ये च त्वामनु याँ श्च त्वमत्रान्वस्येषा ते प्रपितामह स्वधाक्षितिर्यावती द्यौस्तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददामि दिवा मितमसि प्रपितामहाय मा क्षेष्ठा इत्यत्र पितरो यथाभागं मन्दध्वमित्युक्त्वात्रैकेनोदकुम्भेन मार्जयति तूष्णीम् अथैभ्यो गामुपपरेत्य लोहितमुपप्रवर्तयति यानि रक्षाँ स्यसृग्भागानि ये चापि पितरो हरन्तां विहरन्तां तृप्यन्तु रुधिरस्य ते ॥ ये नः पतिता गर्भा असृग्भाज उपासते । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु मदन्तु च ॥ य आमा ये च पक्वा ये च दुष्टाः पतन्ति नः । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु अदन्तु च ॥ ये कुमारा या स्त्रियो येऽविज्ञाताः पतन्ति नः । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु मदन्तु चेत्य् आगत्याञ्जनं ददात्यथाभ्यञ्जनं ददात्यथ वासाँ सि ददात्यथ षड्भिर्नमस्कारैर्विपर्यासमुपतिष्ठतेऽथ वीरं याचतेऽथैनानुत्थाप्य प्रवाह्य तिषृभिर्मन आह्वयते मनो न्वाहुवामह आ न एतु मनः पुनः पुनर्नः पितरो मन इत्यत्रैतदहतं वास एवंविदे ब्राह्मणाय दत्त्वान्यदसनीयं वासः परिधाय दक्षिणोपपरेत्याद्भिर्मार्जयते १० 2.11 यासु गन्धा रसा वर्णा बलं च निहिते उभे । ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ या ऊर्जमभिषिञ्चन्ति देवप्रेषिता महीम्। ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ यासां निष्क्रमणे सर्वमिदं जायते जगत्। ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ यासामिमे त्रयो लोकास्तेजसा यशसावृताः । ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ याः प्राचीर्या दक्षिणा याः प्रतीचीर्या उदीचीर्या ऊर्ध्वा रेवतीर्मधुमतीरापः स्रवन्ति शुक्राः । ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु म इत्यत्रैतदसनीयं वासो विमुच्यान्यत्परिधाय प्राजापत्ययर्चाग्नेरुदेति प्रजापते न त्वदेतान्यन्य इत्यथोल्मुकमपिसृजत्यभूद्दतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजानन्नग्ने पुनरप्येहि देवानित्य् अत्रैतान्यवदानानि ब्राह्मणेभ्यो ददाति हृदयमेवाग्रेऽथ सव्यं मतस्नुमथ दक्षिणं यथाश्रद्धमन्नं कुरुते गामेतामँ शशः कृत्वा ब्राह्मणेभ्यो वरं ददाति स ये ह के चैतस्यै माँ सं लभन्ते सर्वे ह वा अस्यै ते गोभाजशो भवन्त्यामात्ये जयानभ्यातानान्राष्ट्रभृत इति हुत्वामात्यहोमाञ्जुहोत्येष ह वा उपवसथ उप ह्यस्मिन्देवा वसन्ति प्रातर्जेष्यामो वामं वस्वित्येतद्ध वै देवानां वामं वसु यदाग्नेयोऽष्टाकपाल उप हैनं वामं वसु गच्छति यस्य ह वा एतामेवं विद्वान्गां कल्पयते सर्वं पाप्मानं तरति तरति ब्रह्महत्याम् अप पुनर्मृत्युं जयतीति होवाच प्रजापतिस् तानि ह वा एतानि कूश्माण्डानीत्याचक्षते काजवानीति वामात्यहोमा इति वातीमोक्षा इति वा स यत्किं चास्मिन्लोके पापं कर्म करोति सर्वस्मात्तस्मान्निर्मुच्यानृणः स्वर्गं लोकमेतीति होवाच प्रजापतिः ११ 2.12 अग्नीनाधास्यमानो भवति स उपकल्पयत ऊषाश्च सिकताश्चाखूत्करं च वल्मीकवपां च सूदं च वराहविहतं च पुष्करपर्णं च शर्कराश्चेत्यष्टौ पार्थिवा अथ वानस्पत्या अश्वत्थश्चोदुम्बरश्च पर्णश्च शमी च विकङ्कतश्चाशनिहतश्च शमीगर्भावरणी मुञ्जकुलायं चित्रियस्याश्वत्थस्य तिस्रः समिध आद्रा रः! सपलाशाः सप्रारोहाः प्रादेशमात्रीरप्रतिशुष्काग्राः षड्ढिरण्यशल्काँ स्त्रीन्सौवणाँ र्! स्त्रीन्राजतानश्वं पूर्ववाहँ रथचक्रं ब्राह्मौदनिकान्व्रीहीन्सर्वौषधँ रोहितं चर्मानडुहं नवानि यज्ञपात्राणीत्यथास्मा अरणी आहरति यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यथातो नक्षत्राणामेव मीमाँ सा कृत्तिकास्वग्निमादधीत रोहिण्यामग्निमादधीत पुनर्वस्वोरग्निमादधीत पूर्वयोः फल्गुण्योरुत्तरयोः फल्गुण्योश्चित्रायामित्यथात ऋतूनामेव मीमाँ सा वसन्ते ब्राह्मणोऽग्निमादधीत ग्रीष्मे राजन्यः शरदि वैश्यः वर्षासु रथकार इत्यथो खलु यदैवैनँ श्रद्धोपनमेदथादधीत सैवास्यर्द्धिरिति तदेतदार्तस्यातिवेलं वा श्रद्धायुक्तस्याथ वै ब्राह्मणं भवति यो रोहिण्यामग्निमाधत्त ऋध्नोत्येव सर्वान्रोहान्रोहतीति सा या वैशाख्याः पौर्णमास्या उपरिष्टादमावास्या भवति सा सकृत्संवत्सरस्य रोहिण्या संपद्यते तस्यामादधीतेत्यथास्यैतत्पुरस्ताएव जुष्टे देवयजनेऽगारं वा विमितं वा कारितं भवति तस्य द्वे द्वारौ कुर्वन्ति प्राचीं च दक्षिणां च मध्ये गार्हपत्यस्यायतनं कुर्वन्ति पुरस्ताद्द्वादशसु विक्रामेष्वाहवनीयस्यापि वा चक्षुर्निमिते दक्षिणतो विषुवत्यन्वाहार्यपचनस्यापि वा यथा द्वौ भागौ प्राक्स्यातामेकः पश्चादित्येवं त्रेधोद्धत्यावोक्ष्य केशश्मश्रु वपते नखानि निकृन्तत एवं पत्नी केशवर्जम् उभौ मानुषेणालङ्कारेणालङ्कृतौ भवतोऽहतवाससवथाभ्यां व्रतोपायनीयं पाचयति तस्याशितौ भवतः सर्पिर्मिश्रस्य पयोमिश्रस्य १२ 2.13 अथाधिवृक्षसूर्ये याचति सर्वौषधमाज्यस्थालीँ सस्रुवाँ स्रुचं बर्हिर्वासो दीप्याञ्छकलानित्येतत्समादाय संप्रच्छन्ना अम्बरीषं वोत्तपनीयं वाभिप्रव्रजन्ति तस्मिन्दीप्याञ्छकलान्संप्रकीर्य बर्हिषा परिस्तीर्याज्यं विलाप्योत्पूयाञ्जलिनोपस्तीर्णाभिघारितँ सर्वौषधं जुहोत्यग्नये सर्वौषधाय पुष्ट्यै प्रजननाय स्वाहेत्य् अथ जयानभ्यातानान्राष्ट्रभृत इति हुत्वामात्यहोमाञ्जुहोत्यथ स्रुचि चतुर्गृहीतं गृहीत्वा प्राजापत्यां जुहोति प्रजापते न त्वदेतान्यन्य इत्यपरं चतुर्गृहीतं गृहीत्वानुख्यां जुहोत्यन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततान स्वाहेत्यथैतानङ्गारान्सते वा शरावे वा यजमानो गृह्णाति आयुषे वो गृह्णामि तेजसे वो गृह्णामि तपसे वो गृह्णामि वीर्याय वो गृह्णामि ब्रह्मवर्चसाय वो गृह्णामीत्यथैनानादायोपोत्तिष्ठत्यायुर्मामाविशतु भूतिर्मामाविशतु ब्रह्मवर्चसं मामाविशत्विति तानध्वर्यवे संप्रदायोदायन्त्यन्वारब्धे यजमान एतेनैव यथेतमेत्योत्तरेणागारं परीत्य पूर्वया द्वारा प्रपाद्य गार्हपत्यस्यायतने न्युप्योपसमादधाति परिस्तृणन्ति दक्षिणत उपविशतो ब्रह्मा च यजमानश्चाथैतद्रो हितं चर्मानडुहं जघनेनाग्निं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति तस्य वहसः काले चतुरः पात्रान्व्रीहीन्निर्वपति ब्रह्मणे जुष्टं निर्वपामीति वा तूष्णीं वाथ निरुप्तानभिमृशत्याकूत्यै त्वा कामाय त्वा समृधे त्वेति अथैतान्व्रीहीञ्छूर्पे समुप्याद्भिरभ्युक्ष्य चर्मोदूहत्यथैतस्मिन्नेव चर्मण्युलूखलमुसले निधायावहन्त्य् अथैतेनैव पात्रेण चतुर उदपात्रानानयति यदि वीडिता स्थाली भवति यद्यु वा अवीडिता पञ्च वा भूयसो वा स समोदकः संपद्यते १३ 2.14 तं य एव कश्च कुशलः परीन्धेन श्रपयित्वाभिघार्योदञ्चमुद्वासयत्यथैनमायतिगव ऋत्विग्भ्यः प्राहुरुपसंगच्छन्त एनमेत ऋत्विजोऽथैतां पात्रीं निर्णिज्योपस्तीर्य तस्यामेनमसंघ्नन्निवोद्धरति सर्पिरासेचनं कृत्वा प्रभूतमाज्यमानीयाथैतस्यैवौदनस्योपघातं जुहोत्युपतिष्ठते वा प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवान्यजे हेड्यान्स्वाहेत्यथैताँ श्चतुर आर्षेयानुत्तरतोऽनुदिशमुपवेश्य ताननुपूर्वमाचमय्य तेभ्य एनं भूमिँ स्पृशन्ननुच्छिन्दन्निवोपोहति त्रिः प्राश्य प्रशँ सन्ति राद्धस्ते ब्रह्मौदन इति तेभ्यः साण्डं वत्सतरं ददात्यथैष उत्तरत आसीनो ब्राह्मणः क्षामकाषं प्राश्नाति तस्मै यदस्योपकल्पते तद्ददात्यथ यदाज्यमुच्छिष्यते तेन समिधोऽभ्यज्यादधाति समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्। आस्मिन्हव्या जुहोतन स्वाहा ॥ उप त्वाग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम स्वाहा ॥ तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य स्वाहेति गायत्रीभिर्ब्राह्मणस्य त्रिष्टुग्भी राजन्यस्य जिघर्म्यग्निमा त्वा जिघर्म्यायुर्दा अग्ने हविषो जुषाण इति जगतीभिर्वैश्यस्य जनस्य गोपा अजनिष्ट जागृविस्त्वामग्ने मानुषीरीडते विशः सप्त ते अग्ने समिधः सप्त जिह्वा इति समित्सु वत्सतरीं ददाति १४ 2.15 अथास्मा अरणी प्रयच्छन्नाह वाचंयमो भविष्यसि सँ शाधि यत्ते सँ शिष्यमिति स आह ब्राह्मणानाशयताश्वं गोपायत संभारान्निधत्तेति तस्य सुभिक्षमग्न्याधेयं भवति साग्न्याधेयस्य समृद्धिस् तदाहुर्नाग्न्याधेये गां कुर्वीत घोररूपमिति कुर्वीतैवापि त्वेव न कुर्वीतापि बह्वीरपि कुर्वीतानु चैतस्य भवेत्पुण्या प्रशँ सेति कात्योऽथास्मा अरणी प्रयच्छति ते प्रतिगृह्णाति मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम्। अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगाम्॥ आरोहतं दशतँ शक्वरीर्ममर्त्वेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराँ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इत्यथैने उपनिगृह्णात्यृत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे । तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनिष्येथे ते मा प्रजाते प्रजनयिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इत्य् अथैनमनृतात्सत्यमुपनयति मानुषाद्दैव्यमुपनयतीदमहमनृतात्सत्यमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति तं वाचंयमँ रात्रिं जागरयन्त आसते शल्कैस्ताँ रात्रिमग्निमिन्धते शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम्। उभयोर्लोकयोरृध्वाति मृत्युं तराम्यहमित्युत्तरेण गार्हपत्यस्यायतनं कल्माषमजं बध्नाति तेनैनमाधास्यमानँ संख्यापयति प्रजा अग्ने संवासयाशाश्च पशुभिः सह । राष्ट्राण्यस्मा आधेहि यान्यासन्त्सवितुः सव इति १५ 2.16 अथाध्वर्युरपररात्र आद्रुत्यारणी निष्टपति जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूः ॥ अयं ते योनिरृत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथा नो वर्धया रयिमित्यथैतमग्निँ सते समुप्य दक्षिणतो ज्वलयन्त आसत अथैतान्यग्न्यायतनानि शकृत्पिण्डेन परिलेपयत्यथ तृतीयँ संभाराणामादाय गार्हपत्यस्यायतने निवपति यत्पृथिव्या अनामृतँ संबभूव त्वे सचा । तदग्निरग्नयेऽददात्तस्मिन्नाधीयतामयमिति स यत्रोषानुपाधिगच्छति तज्जपति यददश्चन्द्र मसि कृष्णं तदपीहेत्यथैनानादधाति दिवस्त्वा वीर्येण पृथिव्यै महिम्ना । अन्तरिक्षस्य पोषेण सर्वपशुमादध इत्यथैनान्संप्रयौति सं वः सृजामि हृदयानि सँ सृष्टं मनो अस्तु वः । सँ सृष्ठः प्राणो अस्तु वः ॥ सं या वः प्रियास्तनुवः संप्रिया हृदयानि वः । आत्मा वो अस्तु संप्रियः संप्रियास्तनुवो ममेत्यथैनान्कल्पयति कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रताः ॥ येऽग्नयः समनसोऽन्तरा द्यावापृथिवी । वासन्तिकावृतू अभि कल्पमाना इन्द्र मिव देवा अभिसंविशन्त्वित्यथातिशिष्टानाँ संभाराणामर्धानादाय दक्षिणया द्वारोपनिर्हृत्यान्वाहार्यपचनस्यायतने निवपति यदन्तरिक्षस्यानामृतँ संबभूव त्वे सचा । तद्वायुरग्नयेऽदादात्तस्मिन्नाधीयतामयमिति स यत्रोषानुपाधिगच्छति तज्जपति यददश्चन्द्र मसि कृष्णं तदपीहेति तथादधाति तथा संप्रयौति तथा कल्पयत्यथैतेनैव यथेतमेत्यातिशिष्टान्संभारानादाय पूर्वया द्वारोपनिर्हृत्याहवनीयस्यायतने निवपति यद्दिवोऽनामृतँ संबभूव त्वे सचा तदादित्योऽग्नयेऽददात्तस्मिन्नाधीयतामयमिति स यत्रोषानुपाधिगच्छति तज्जपति यददश्चन्द्र मसि कृष्णं तदपीहेति तथादधाति तथा संप्रयौति तथा कल्पयत्यथ गोप्तारँ समादिशति स आह विहृता अग्नयो मा कश्चनान्तरेण संचारीदित्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य गार्हपत्यस्यायतन उपरि संभारेषु मुञ्जकुलायं निदधाति तस्मिन्प्रतीचीनप्रजननामरणिं निधाय दशहोत्रोत्तरारणिमवदधाति स आह मन्थतेति यजमानः प्रथमो मन्थति यजमान उत्तमो मन्थति जनयति जाते वरं ददामीति वाचं विसृजतेऽथैनमुपतिष्ठतेऽजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम्। दश स्वसारो अग्रुवः समीचीः पुमाँ सं जातमभिसँ रभन्तामित्यथैनमभिप्राणिति प्रजापतेस्त्वा प्राणेनाभिप्राणिमि पूष्णः पोषेण मह्यम्। दीर्घायुत्वाय शतशारदाय शतँ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्याय ॥ प्राणे त्वामृतमादधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्या इत्यथोद्गातारमाह रथन्तरं ब्रूहीत्यथैनमादधाति भूर्भुवो घर्मः शिरस्तदयमग्निः संप्रियः पशुभिर्भुवत्। छर्दिस्तोकाय तनयाय यच्छ ॥ भृगूणां त्वाङ्गिरसां व्रतपते व्रतेनादधामीति भृग्वङ्गिरसामादध्यादादित्यानां त्वा देवानां व्रतपते व्रतेनादधामीत्यन्यासां ब्राह्मणीनां प्रजानाम्वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामीति राज्ञ इन्द्र स्य त्वेन्द्रि येण व्रतपते व्रतेनादधामीति राजन्यस्य मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामीति वैश्यस्य ऋभूणां त्वा देवानां व्रतपते व्रतेनादधामीति रथकारस्येति यथर्षि यथागोत्रं गायत्रेण छन्दसेत्युत्तरतो हिरण्यशल्कमुपास्यति स्वया तनुवा संभवेत्यथैतँ राजतं वृषलाय वाज्ञाताय वातिप्रयच्छत्यार्तिमेवातिप्रयच्छतीति ब्राह्मणम् अथैनमुपतिष्ठते अहं त्वदस्मि मदसि त्वमेतद्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः ॥ सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीःश्रेयसीर्दधत्। अग्ने सपत्नाँ पबाधमानो रायस्पोषमिषमूर्जमस्मासु धेहीति १६ 2.17 अथैतमग्निमाददते य एष सते समुप्तो भवति तं दक्षिणया द्वारोपनिर्हृत्यान्वाहार्यपचनमादधाति भूर्भुवो वातः प्राणस्तदयमग्निः संप्रियः पशुभिर्भुवत्। स्वदितं तोकाय तनयाय पितुं पच ॥ अमीषां त्वा देवानां व्रतपते व्रतेनादधामीति यथर्षि यथागोत्रं गायत्रेण छन्दसेत्युत्तरतो हिरण्यशल्कमुपास्यति स्वया तनुवा संभवेत्यथैतँ राजतं वृषलाय वाज्ञाताय वातिप्रयच्छत्यार्तिमेवातिप्रयच्छतीति ब्राह्मणम् अपि वा गार्हपत्यादेवान्वाहार्यपचनमादधाति प्रजापतिरग्निमसृजत सोऽबिभेत्प्र मा धक्ष्यतीति तस्य त्रेधा महिमानं व्यौहच्छान्त्या अप्रदाहायेत्येतस्माद्ब्राह्मणादथैनमुपतिष्ठत इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इत्यथैतेनैव यथेतमेत्याभ्यादधातीध्मं प्रणयनीयं तं तथाभ्यादधाति यथा मन्यतेऽर्धोदिते सूर्य आहवनीय आधीयमानः संपत्स्यत इति तस्य तथा संपद्यत उपोपयमनीः कल्पयन्त्यश्व एष पूर्ववाट पल्पूलितः पुरस्तात्तिष्ठत्यथोद्गातारमाह वामदेव्यं ब्रूहीत्यथैनमुद्यच्छत ओजसे बलाय त्वोद्यच्छे वृषणे शुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः ॥ यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः । पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि ॥ दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्यो अध्योषधीभ्यः । यत्रयत्र जातवेदः संबभूथ ततो नो अग्ने जुषमाण एहीतीयत्यग्रे हरत्यथेयत्यथेयत्यधोऽधः शिरो हरतीति ब्राह्मणम् आददान एवैता मात्रा अभिसंपादयेदित्येतदपरम् अश्वं पूर्वं नयन्ति तमनुमन्त्रयते प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्निर्भवेह । विश्वा आशा दीद्यानो विभाह्यूर्जं नो धेहि द्विपदे चतुष्पद इति विषुवत्युपरमन्ति विक्रमस्व महाँ असि वेदिषन्मानुषेभ्यस्त्रिषु लोकेषु जागृहीत्यथोपातियन्त्यन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततानेत्यथैतेनाश्वेन प्राचोत्तरतः पार्श्वतः संभाराणामाक्रमयति यथाहितस्याग्नेरङ्गारा अभ्यववर्तेरन्नित्यथैनं प्रदक्षिणमावर्त्याद्भिरभ्युक्ष्योदञ्चमुत्सृजति स एषोऽध्वर्योर्भवत्यन्यं ब्रह्मणे ददात्यथ प्रदक्षिणमावृत्येध्मं प्रतिष्ठापयति यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाः शम्भूः प्रजाभ्यस्तनुवे स्योनः ॥ प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्या इत्य् अथोद्गातारमाह बृहद्वारवन्तीयँ श्यैतमिति गायेति सर्वाणि संप्रेष्यति बृहति गीयमान आहवनीयमादधाति भूर्भुवः सुवरर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः संप्रियः पशुभिर्भुवत्। यत्ते शुक्र शुक्रं वर्चः शुक्रा तनूः शुक्रं ज्योतिरजस्रं तेन मे दीदिहि तेन त्वादधेऽग्निनाग्ने ब्रह्मणा अमीषां त्वा देवानां व्रतपते व्रतेनादधामीति यथर्षि यथागोत्रं गायत्रेण छन्दसेत्युत्तरतो हिरण्यशल्कमुपास्यति स्वया तनुवा संभवेत्यथैतँ राजतं वृषलाय वाज्ञाताय वातिप्रयच्छत्यार्तिमेवातिप्रयच्छतीति ब्राह्मणम् अथैनमुपतिष्ठत आनशे व्यानशे सर्वमायुर्व्यानश इत्यत्रैतावग्नी आदधाति सभ्यं चावसथीयं च रथचक्रं प्रवर्तयति संततं गार्हपत्यादाहवनीयात् १७</span></poem> [[File:दर्शपूर्णमासः Darshapurnamasa.jpg|thumb|500px|दर्शपूर्णमासः]] <poem><span style="font-size: 14pt; line-height: 200%">2.18 सर्वौषधेन व्याहृतीभिरग्नीञ्छमयित्वा पञ्चपञ्च नानावृक्ष्याः समिधोऽभ्यज्याभिदधाति समिध्यमानः प्रथमो नु धर्म इत्येताभिः पञ्चभिरायुर्दा अग्ने हविषो जुषाण इत्येतामपोद्धृत्याथ प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यं तिष्ठँ स्तनूभिरुपतिष्ठते ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ प्रभ्वी च प्रभूतिश्च ते मा विशतां ते मा जिन्वताम्। यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वादध इति सर्वाभिर्गार्हपत्यं सर्वाभिरन्वाहार्यपचनं सर्वाभिराहवनीयम् अथ घोरास्तनूरनुदिशति यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायत्यथाप उपस्पृश्य विराजक्रमैरुपतिष्ठते नर्य प्रजां मे गोपाय । अमृतत्वाय जीवसे । जातां जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठितामिति गार्हपत्यम् अथर्व पितुं मे गोपाय । रसमन्नमिहायुषे । अदब्धायोऽशीततनो । अविषन्नः पितुं कृण्वित्यन्वाहार्यपचनं शँ स्य पशून्मे गोपाय । द्विपादो ये चतुष्पदः । अष्टाशफाश्च य इहाग्ने । ये चैकशफा आशुगा इत्याहवनीयं सप्रथ सभां मे गोपाय । ये च सभ्याः सभासदः । तानिन्द्रि यावतः कुरु । सर्वमायुरुपासतामिति सभ्यम् अहे बुध्निय मन्त्रं मे गोपाय । यमृषयस्त्रयिविदा विदुः । ऋचः सामानि यजूँ षि । सा हि श्रीरमृता सतामित्[https://puranastudy.angelfire.com/pur_index2/aavasath.htm यावसथीयम्] अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्याहवनीये पूर्णाहुतिं जुहोति सप्त ते अग्ने समिधः सप्त जिह्वा इति पूर्णाहुतौ वरं ददात्यथैतान्यग्निहोत्रपात्राणि प्रक्षालितान्युत्तरेण गार्हपत्यमुपसादयति कूर्चे वा सूनायां वा स्थालीँ सस्रुवाँ स्रुचमभिद्योतनँ समिधमित्यथैतामग्निहोत्रीं दक्षिणत उदीचीँ स्थापयित्वा ब्राह्मणो दोग्धि पूर्वौ दुह्यादपरौ दुह्याद्न संमृशेद्द्वयोर्दुह्यात्पशुकामस्येत्यधिश्रित्योत्तरमानयत्यथैतदग्निहोत्रमग्रेणाहवनीयं पर्याहृत्य पूर्वया द्वारा प्रपाद्य जघनेन गार्हपत्यमुपसाद्य तस्मिन्नग्निहोत्रविधिं चेष्टित्वा समिधमुपयत्य प्राङ्हरति जघनेनाहवनीयमुपसादयति कूर्चेऽत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधाति तूष्णीं तस्यामादीप्तायां प्रतिमुखं द्विर्जुहोत्युच्च मार्ष्ट्यव च मार्ष्ट्युभयमवाप्नोतीति ब्राह्मणं द्विरङ्गुल्या प्राश्योदङ्पर्यावृत्य प्राचीनदण्डया स्रुचा भक्षयति निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वोदगुद्दिशति सप्तर्षीनेव प्रीणातीति ब्राह्मणं हुत्वोपसमिन्द्धे ब्रह्मवर्चसस्य समिद्ध्ययपो निनयत्यवभृथस्यैव रूपमकरिति ब्राह्मणम् १८ 2.19 अथ परिकर्मिणं बर्हिर्लावं प्रहिणोत्याहृतं वा यजुषा करोत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नेयमष्टाकपालं निर्वप्स्यन्दशहोतारं व्याचक्षीत सामिधेनीरनुवक्ष्यन्दशहोतारं व्याचक्षीत श्रपयित्वासादयति तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोऽग्निर्मूर्धा भुव इति त्रिष्टुभौ संयाज्ये अन्वाहार्यमासाद्याग्न्याधेयदक्षिणा ददात्या द्वादशभ्यो ददाति कामं भूयसीर्ददाति संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् अथ तदानीमेव पृष्ठ्याँ स्तीर्त्वापः प्रणीयैन्द्रा ग्नमेकादशकपालं निर्वपत्यादित्यं चरुं घृत एष चरुर्भवति शृते नेदीयसि वाज्यमानयति श्रपयित्वासादयति तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोरिन्द्रा ग्नी रोचना दिवः श्नथद्वृत्रमित्यैन्द्रा ग्नस्यादितिर्न उरुष्यतु महीमू षु मातरमित्यादित्यस्य त्रिष्टुभौ संयाज्ये अन्वाहार्यमासाद्याथैतं चरुं व्युद्धृत्य चत्वार आर्षेयाः प्राश्नन्ति दिशामेव ज्योतिषि जुहोतीति ब्राह्मणं संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् १९ 2.20 अत्रैतद्द्वादशाहं व्रतं चरति तस्यैतद्व्रतं नानृतं वदति न माँ समश्नाति न स्त्रियमुपैति नास्य पल्पूलनेन वासः पल्पूलयन्त्यमृन्मयपाय्यशूद्रो च्छिष्टी स्वयं पादौ प्रक्षालयते न लवणमश्नाति न कौशीधान्यमन्यत्र तिलेभ्यः प्राङुच्चारः स्वयँ समिध आहरमाणोऽग्नीनामन्ते संविशत्यजस्रा अस्यैते द्वादशाहमग्नयो भवन्ति नास्य ब्राह्मणोऽनाश्वान्गृहे वसत्यग्निहोत्रोच्छेषणव्रतो वा यजमानो भवति भक्तमु पत्न्या आहरन्त्यथ द्वादशसु व्युष्टासु पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपति श्रपयित्वासादयति तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोऽग्न आयूँ षि पवसेऽग्ने पवस्वेति त्रिष्टुभौ संयाज्ये अन्वाहार्यमासाद्य त्रिँ शन्मानँ हिरण्यं ददाति संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् अथ तदानीमेव पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नये पावकाय पुरोडाशमष्टाकपालं निर्वपत्यग्नये शुचये श्रपयित्वासादयति तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोरग्ने पावक स नः पावकाग्निः शुचिव्रततम उदग्ने शुचयस्तवेति त्रिष्टुभौ संयाज्ये अन्वाहार्यमासाद्य त्रिँ शन्मानचत्वारिँ शन्माने हिरण्ये ददाति संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् २० 2.21 अथातोऽन्वारम्भस्यैव मीमाँ सान्वारम्भं पौर्णमास्याः समानोपवसथं करोत्यथ प्रातर्हुतेऽग्निहोत्रे पुरापां प्रणयनाद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा चतुर्होतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्य् अपरं चतुर्गृहीतं गृहीत्वा सारस्वतौ होमौ जुहोति पूर्णा पश्चादित्यनुद्रुत्याग्नीषोमविति जुहोत्यपरं चतुर्गृहीतं गृहीत्वा निवेशनी संगमनी वसूनामित्यनुद्रुत्य यत्ते देवा अदधुर्भागधेयमिति जुहोत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नावैश्णवमेकादशकपालं निर्वपति सरस्वत्यै चरुँ सरस्वते द्वादशकपालमिति श्रपयित्वासादयति तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषामग्नाविष्णू अग्नाविष्णू प्र णो देव्या नो दिवः पीपिवाँ सँ सरस्वत स्तनं ये ते सरस्व ऊर्मय इति त्रिष्टुभौ संयाज्ये अन्वाहार्यमासाद्य मिथुनौ गावौ ददाति संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् अथ पौर्णमासवैमृधाभ्यां यजते संतिष्ठतेऽग्न्याधेयँ संतिष्ठतेऽग्न्याधेयम् 2.२१ </span></poem> osri7cjsd0v1jr2mpcuay3r0pvs3grb पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७६ 104 82451 341190 196595 2022-07-23T11:29:57Z Swaminathan sitapathi 4227 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=६४}}</noinclude>{{gap}}'''काञ्चुकीयः'''--यदाज्ञापयति महासेनः । {{gap}}'''राजा'''--अथवा एहि तावत् । {{gap}}'''काञ्चुकीयः'''-अयमस्मि । {{gap}}'''राजा'''–अस्य सर्वदर्शनमविमुक्तसत्कारमवगन्तव्यम् । आकारसूचिता अस्य प्रीतयो विज्ञेयाः। अतिक्रान्तविग्रहाक्ष्रिताः कथा न कथयितव्याः । श्रुतादिप्रयोगेष्वाशिषोऽभिधेयाः। काछर्सवादिना स्तवेनार्च्यः। {{gap}}'''काञ्चुकीयः''' -यदाज्ञापयति महासेनः। ( निष्क्रम्य प्रविश्य ) जयतु महासेनः पथ्येव कृतव्रणप्रतिकर्मा वत्सराजः । अकालस्तावदिदानीं द्वितीयस्य प्रतिकर्मण इति । मध्याह्नमारोहति दिवाकरः। {{gap}}'''राजा'''--अथ कस्मिन् प्रदेशे वीरमानी । {{gap}}'''काञ्चुकीयः'''-मयूरयष्टिमुखे । {{gap}}'''राजा'''–हा धिग् , अनाश्रयणीयः खल्वयं देशः। , आतपप्रातिकूल्यार्थं मणिभूमिकायां प्रवेशयेत्याज्ञापय । {{rule}} {{gap}}यदित्यादयस्त्रयः संवादः । {{gap}}वत्सराजविषयवात्संख्यानुगुणम्सदिशति – अस्येत्यादि । अस्य, सर्वदर्शनम् अन्तर्गताभिलाषसूचनी सर्वविधा दृष्टिः । अविमुक्तसत्कारं सबहुमानम् । अवगन्तव्यम् अवगम्य सफलयितव्यमिल्यर्थः । आकारसूचिताः इङ्गिताभिव्यक्ताः । प्रीतयः प्रीतिविषयाः । क्षुतादिप्रयोगेषु क्षुतादीनां क्षव-कास जृम्भितानां प्रयोगेषु करणेषु । आशिषः ’चिरं जीवे’ त्यादयो मङ्गलवाचः । कालसंवादिना स्तवेन अच्यैः प्रबोधस्नानभोजनादिकाळानुरूपेण स्तुतिपाठेन पूजनीयः । {{gap}}यदित्यादि । अकालः समयो न प्राप्त इत्यर्थः । मध्याह्नम् अह्नो मध्यम्। अहोऽहं एतेभ्यःइत्यह्रदेशः । इह सूर्यस्य दिनमध्यप्राप्तिकथनं तस्कालकरणीयस्य प्राप्तवसरत्वस्मरणार्थम् ॥ {{gap}}अथस्यदि । वीरमानी वीरमात्मानं मन्यते धीरमानी वत्सराजः । आत्ममाने खश्च’ इति खश् ॥ {{gap}}मयूरयष्टिमुख इति । मयूरस्थित्यर्थं यष्टयो यत्र स्थापिताः , स सौघविशुषो मयूरयष्टिः, तस्य मुखे अग्रिमकक्ष्यायाम् ॥ {{gap}}हा धिगित्यादि । अनाश्रयणीयः आश्रयितुमधिवस्तुसनईः । आतपसान्नि-<noinclude></noinclude> nwro7j2c4uodyxep058e7v68vh2hj86 पृष्ठम्:मृच्छकटिकम्.pdf/९ 104 84607 341152 240449 2022-07-23T07:23:56Z Shubha 190 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Suryanarayana jois" /></noinclude>{{c|'''<big>श्रीः</big>'''}} {{c|'''<big><big>मृ च्छ क टि क म्</big></big>'''}} {{c|'''प्रथमोऽङ्कः'''}} {{block center|{{bold|<poem>पर्यङ्कग्रन्थिबन्धद्विगुणितभुजगाश्लेषसंवीतजानो- ::रन्तःप्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य । आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्वदृष्ट्या ::शंभोर्वः पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ १ ॥</poem>}}}} {{rule}} {{c|'''मृच्छकटिकविवृतिः'''।}} <small>{{block center|{{bold|<poem>शेमुषीप्रौढजीवातुर्विवृतिर्मृच्छकटिके । पृथ्वीधरैश्चिकीर्षद्भिर्गणेशो गण्यते गुरुः ॥</poem>}}}} तथा,--- {{block center|{{bold|<poem>बालानां सुखबोधाय गुरूणां वचनं शुभम् ।। लिख्यते गहनेऽप्यत्र हेरम्बावनतिस्थिरैः ॥</poem>}}}} {{gap}}प्रकरणं चेदम् । तस्य च लक्षणम्-'यत्र कविरात्मबुद्ध्या वस्तु शरीरं च नायकं चैव । विरचयति समुत्पाद्य तज्ज्ञेयं प्रकरणं नाम ॥ चतस्रो वृत्तयः, पञ्च संधयः, अष्टरसादयः । प्रकरणतो नाटकं विहाय नृपनायकम् (१)' ‘आदि'शब्दात् षड्रसादिग्रहणम् । नाटकादौ बहुप्रकारप्राकृतप्रपञ्चेषु चतस्र एव भाषाः प्रयुज्यन्ते--शौरसेन्यवन्तिकाप्राच्यामागध्यः । अपभ्रंशप्रपञ्चेषु चतस्र एव भाषाः प्रयुज्यन्ते--शकारीचाण्डालीशाबरीढक्कदेशीयाः। मृच्छकटिके तु शबरपात्राभावाच्छाबरी नास्ति । प्राकृते---‘मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । बाह्लीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥' महाराष्ट्र्यादयः काव्य एव प्रयुज्यन्ते । अपभ्रंशे-‘शकारामीरचाण्डालशबरद्राविडोड्रजाः । हीना वनेचराणां च विभाषाः सप्त कीर्तिताः ॥ विविधा भाषा विभाषाः । हीनपात्रप्रयोज्यवाद्धीनाः । वनेचराणां चेति ठक्कभाषासंग्रहः । तत्रास्मिन्प्रकरणे प्राकृतपाठकेषु सूत्रधारो नटी रदनिका मदनिका वसन्तसेना तन्माता चेटी कर्णपूरकश्चारुदत्तब्राह्मणी शोधनकः</small><noinclude></noinclude> sqvqodzrhadh8sq09sby5nwnbd5rie1 पृष्ठम्:मृच्छकटिकम्.pdf/७ 104 86785 341113 339134 2022-07-23T06:08:36Z Shubha 190 /* प्रमाणितम् */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Shubha" /></noinclude>{{center|<big>{{bold|मृच्छकटिकस्थपात्राणां परिचयः}}</big> </br> -पुमांसः-}} {{bold|<poem>सूत्रधार:-प्रधाननटः चारुदत्तः-ब्राह्मणसार्थवाहोदारचारित्रो नितान्तदानक्षीणार्थोऽत्र वसन्तसेनाप्रियतमः प्रधाननायकः । रोहसेनः-आर्यचारुदत्तस्य पुत्रः मैत्रेयः-आर्यचारुदत्तस्य सहायो वयस्यः, विदूषकश्चात्र प्रकरणे । सुनिपुणोऽयं प्रतिवस्तुसमीक्षायां तत्त्वान्वेषणे च नितरां चतुरः वर्धमानः-आर्यचारुदत्तस्य परिचारकः संस्थानकः पालकस्य राजश्यालकः शकारापराभिधेयो दयादाक्षिण्य- शकारः हीनश्चार्यचारुदत्तं प्रति नितान्तबद्धवैरोऽत्र प्रतिनायकः विट:-शकारस्य परिचरः स्थावरकः-धर्मभीरुर्यथार्थवक्ता शकारस्य दासोऽयं परिवाहकः आर्यकः--गोष्ठाध्यक्षः, यः पालकं व्यापाद्य उज्जयिन्याश्च सिंहासनमलञ्चकार शर्विलकः-चतुर्वेदविदः प्रतिग्राहकस्य पुत्रः कुलीनोऽयं ब्राह्मणः सुतरां चौर्यचतुरः, स्तैन्यशास्त्रेऽत्यभिमानी धैर्य-दाक्षिण्य-सौहार्दयुक्तो मदनिकायामनुरक्तः संवाहकः आर्यचारुदत्तस्य पूर्वपरिचारकः धनशून्यत्वे च द्यूतोपजीवी भिक्षुः संवृत्तः, तत्रापि निर्वेदेन शाक्यश्रमणकत्वमुपगतः चन्दनकः वीरकः अवन्तीनगर्याः प्रधानरक्षकौ 'हेड कॉन्स्टेबल'संज्ञौ विटः-वसन्तसेनायाः परिचारकः बन्धुलाः-गणिकादारकाः कुम्भीलकः-बसन्तसेनाया अपरो भृत्यः चाण्डालौ---अवन्तीनगरीस्थौ वधकर्मनियुक्तौ गोहा-आहीन्तासंज्ञौ चाण्डालो </poem>}}<noinclude></noinclude> mpltokiktu6cpzco6pzksr861l30mw6 पृष्ठम्:मृच्छकटिकम्.pdf/८ 104 86787 341130 254753 2022-07-23T06:51:20Z Shubha 190 /* प्रमाणितम् */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Shubha" />{{center|८}}</noinclude><poem>मथुरः-समिको दुरोदरशालाध्यक्षः द्यूतकरः दर्दूरकः द्यूतचतुरौ कर्णपुरकः-वसन्तसेनायाः सेवकः अधिकरणिकः-उज्जयिन्या न्यायाधीशः श्रेष्ठिन्-न्यायालयस्थो व्यवहारनिपुणो राजपूरुषः कायस्थः-न्यायालयस्थो व्यवहारलेखक: शोधनकः-न्यायालयस्थो राजपुरुषः बेलिफ्' संज्ञकः {{center|-स्त्रियः-}} धूतावधूः - आर्यचारुदत्तस्य पाणिगृहीती वसन्तसेना--सुखविलाससंजुष्टा आर्यचारुदत्तस्य गुणैरनुरक्ता चारुदत्तस्याप्यतिप्रेयसी सद्गुणालंकृता गणिकाऽत्र नायिका माता वृद्धा - वसन्तसेनायाः स्थविरा माता मदनिका---वसन्तसेनायाः परिचारिका, शर्विलकस्यातिवल्लभा स्त्री, यसन्तसेनाज्ञया या शर्विलकेन सममन्ते परिणीता रदनिका-आर्यचारुदत्तस्य गृहपरिचारिका चेटी-वसन्तसेनाया अन्या परिचारिका रङ्गेऽनुपस्थितानामत्र नामनिर्दिष्टपात्राणां परिचयः पालकः--अवन्तीनृपः, य आर्यकेण व्यापादितः रेभिलः-सङ्गीतवाद्यनिपुणः सिद्धः-आर्यकस्य राज्यारोहणादिभविष्यादेष्टा {{center|स्थलपरिचयः}} अवन्तीनगरी तदुपनगराणि च </poem><noinclude></noinclude> rv43c7aoqy5lma51xl0t0t8nehjetgy 341131 341130 2022-07-23T06:51:52Z Shubha 190 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Shubha" />{{center|८}}</noinclude>{{bold|<poem>मथुरः-समिको दुरोदरशालाध्यक्षः द्यूतकरः दर्दूरकः द्यूतचतुरौ कर्णपुरकः-वसन्तसेनायाः सेवकः अधिकरणिकः-उज्जयिन्या न्यायाधीशः श्रेष्ठिन्-न्यायालयस्थो व्यवहारनिपुणो राजपूरुषः कायस्थः-न्यायालयस्थो व्यवहारलेखक: शोधनकः-न्यायालयस्थो राजपुरुषः बेलिफ्' संज्ञकः {{center|-स्त्रियः-}} धूतावधूः - आर्यचारुदत्तस्य पाणिगृहीती वसन्तसेना--सुखविलाससंजुष्टा आर्यचारुदत्तस्य गुणैरनुरक्ता चारुदत्तस्याप्यतिप्रेयसी सद्गुणालंकृता गणिकाऽत्र नायिका माता वृद्धा - वसन्तसेनायाः स्थविरा माता मदनिका---वसन्तसेनायाः परिचारिका, शर्विलकस्यातिवल्लभा स्त्री, यसन्तसेनाज्ञया या शर्विलकेन सममन्ते परिणीता रदनिका-आर्यचारुदत्तस्य गृहपरिचारिका चेटी-वसन्तसेनाया अन्या परिचारिका रङ्गेऽनुपस्थितानामत्र नामनिर्दिष्टपात्राणां परिचयः पालकः--अवन्तीनृपः, य आर्यकेण व्यापादितः रेभिलः-सङ्गीतवाद्यनिपुणः सिद्धः-आर्यकस्य राज्यारोहणादिभविष्यादेष्टा {{center|स्थलपरिचयः}} अवन्तीनगरी तदुपनगराणि च </poem> }}<noinclude></noinclude> onknlrmpus3j703uoe2uzp7jaf8b9b8 कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०६ 0 105386 341096 324061 2022-07-23T01:13:06Z Puranastudy 1572 wikitext text/x-wiki {{header | title = [[कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्]] | author = हिरण्यकेशिः/सत्याषाढः | translator = | section = प्रश्नः ०६ | previous = [[../प्रश्नः ०५|प्रश्नः ०५]] | next = [[../प्रश्नः ०७|प्रश्नः ०७]] | notes = }}<poem><span style="font-size: 14pt; line-height: 200%">6.1 अथ षष्ठः प्रश्नः । (तत्र प्रथमः पटलः ।) याजमानं व्याख्यास्यामः । समस्ते क्रतावर्थं श्रूयमाणं यजमानः कामयते । तथा नित्येषु यज्ञाङ्गेषु यानि तु कामयतिः श्रावयति । यथाऽऽघारस्योर्ध्वतायां नीचैस्तायां च । अर्थवादा इतरे । तथान्येषु यज्ञाङ्गेषु पुरीषवतीं करोति प्रजयैवैनं पशुभिः पुरीषवन्तं करोति यद्यूपं मिनोति मुवर्गस्य लोकस्य प्रज्ञात्या इषे त्वोर्जे त्वेति शाखामाच्छिनत्तीषमेवोर्जं यजमाने दधातीति । द्रव्यप्रकल्पनं यजमानस्य दक्षिणादानं ब्रह्मचर्यं जपाश्च । प्रत्यगाशिषो मन्त्रानकर्मकरणाञ्जपति । तथोपदिश्यमानानुपतिष्ठतेऽनुमन्त्रयतेऽभिमन्त्रयतेऽभिमृशति जपतीति च । यावदुक्तं कर्माणि करोति । यावदुक्तं पत्न्याः कर्माणि ब्रह्मचर्यं जपाश्च । दर्शपूर्णमासयोर्याजमानं व्याख्यास्यामः । पर्वणि यजमानः केशश्मश्रूणि वापयते । पौर्णमास्यां प्रातराशे जायापती सर्पिर्मिश्रमश्नीतः । यदन्यन्मांसान्माषेभ्यश्च । न सुहितौ स्याताम् । प्राग्वत्सापाकरणादमावास्यायां कामं सुहितौ स्याताम् । अग्निं गृह्णामि सुरथमित्यन्वाधीयमानेषु जपति । इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमीदमह- मिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमीदिमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यन्वाहितेषु । बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायाम् । अशनमग्न्यन्वाधानं व्रतोपायनमित्येवमनुपूर्वाण्येके समामनन्ति । अग्न्यन्वाधानमशनं व्रतोपायनमित्येके । प्रणीतासु प्रणीयमानास्वासन्नेषु हविःषु चैतौ साधारणौ कालौ । विद्युदसीत्यप उपस्पृश्य । अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य पयस्वतीरोषधय इत्यप आचामति । देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा इह माऽवत । इदꣳ शकेयं यदिदं करोम्यात्मा करोत्यात्मन इदं करिष्ये भेषजमिदं मे विश्वभेषजा । अश्विना प्रावतं युवमिति देवता उपतिष्ठते । समुद्रं मनसा ध्यायन्सम्राडसि व्रतपा असि, व्रतानां व्रतपतिरसि व्रतमारभे तत्ते प्रब्रवीमि तच्छ केयं तेन शकेयं तेन राध्यासमित्यादित्यमुपतिष्ठते । अग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणोऽग्निमुपतिष्ठते । वायो व्रतपत इति वायुमादित्य व्रतपत इत्यादित्यं व्रतानां व्रतपत इति व्रतपतिम् । एते साधारणा ऋतेऽग्नेः । पर्वणि यजमानः स्वयमग्निहोत्रं जुहोति ।.। १ ।। यवाग्वाऽमावास्यायाꣳ संनयन् । तस्या उच्छेणमातञ्चनार्थं निदधाति । नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नैताꣳ रात्रिमश्नाति । आरण्यस्य सायमश्नाति । आमार्गादा मधुन आप्राशातिकादित्येकेषाम् । आरण्यायोपवसन्नपोऽश्नीयान्न वा किंचन । उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसापि मह्यं गोपतये पशूनिति परिस्तीर्यमाणेषु जपति । आहवनीयागारे गार्हपत्यागारे वा संविशति । अमावास्यायां रात्रिं जागर्ति । अपि वा यथा शक्नुयात्तथा कुर्यात् । उपरि त्वेव न शयीत । कामं वोपरि शयीत । व्रतचारी त्वेव स्यात् । श्वोभूते । भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इति ब्रह्मिष्ठं व्रह्माणं वृत्वा । अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्यापरेण ब्रह्मसदनमुपविशति । आसꣳस्थानादन्वास्ते । यजमान वाचं यच्छेत्युच्यमाने बाचं यच्छत्या हविष्कृतः । भूश्च कश्च वाक्चर्क्च गौश्च बट्च खं च धूश्च नूश्च पूश्चैकाक्षराः पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीरिति प्रणीताः प्रणीयमाना अनुमन्त्रयते ब्रह्मपूताः स्थ को वो युनक्ति स वो युनक्त्वति साद्यमानाः । कस्त्वा युनक्ति स त्वा युनक्त्विति यज्ञं युनक्ति । सर्वमनुवीक्षते । यजमान इरिर्निर्वप्स्यामीत्युच्यमान ॐ निर्वपेति प्रत्याहाग्निꣳ होतारमिह तꣳ हुव इति हविर्निरुप्यमाणमनुमन्त्रयते निरुप्तं निर्वपणार्थं वा पात्रम् ।। २ ।। इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे प्रश्ने प्रथमः पटलः ।। १ ।। 6.2 अथ षष्ठे प्रश्ने द्वितीयः पटलः । इदं तस्मै हर्म्यं करो्मि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीष्विति वेदिदेशमभिमृशति । चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय का मान्। वेदेन वेदिं बृहतीमविन्दन्सा पृथिव्यां प्रयतां पार्थि- वानि ।तस्यां बर्हिः प्रथताꣳ साध्वन्तरहिꣳस्रा णः पृथिवी देव्यस्तु । वेदेन वेदिमिति वेदेन वेदिꣳ संमृज्यमानाम् । अभिमन्त्रयते । वेदेनेति पठितो मन्त्र आध्वर्यवे । यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्रवज्रेण शिरच्छिनद्मीति स्तम्बयजुर्ह्रियमाणम् । यदुद्धन्तो जिहिꣳसिम पृथिवीमोधधीरपः । अध्वर्यवस्फ्यकृतस्फ्येनान्तरिक्षं मोरुपाव तस्मात् । यदुद्धन्तो जिहिꣳसिम जीवमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः शिवा नो विश्वैर्भुवनेभिरस्त्विति स्फ्येनोत्तमां त्वचमुद्धन्यमानाम् । बृहस्पते परिगृहाण वेदिमिति परिग्राहयोः । भूमिर्भ्रूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्चेति कृताम् । ईडेऽन्यक्रतूरहमपो देवीरुपब्रुवे दिवा नक्तं च सस्रुषीरपस्वरीरिति प्रोक्षणीरासाद्यमानाः । आज्यमसीत्याज्यमवेक्षते यथाऽध्वर्युरद्भिराज्यमाज्येनापः सम्यक्पुनीत सवितुः पवित्रैः । ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यमपश्चोत्पूयमानाः । पञ्चानां त्वा वातानामित्येतैराज्यानि गृह्यमाणान्यशिश्रेम बर्हिरन्तः पृथिव्याꣳ सꣳरोहयन्त ओषधीर्विवृक्णा: । यासां मूलमुदवधी: स्फ्येन शिवा नस्ताः सुहवा भवन्त्वित्यन्तर्वेदि बर्हिरासाद्यमानम् ॥ ३॥ सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावापर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इति बर्हिः प्रोक्ष्यमाणमूर्णा मृदु प्रथमानꣳ स्योनं देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिः स्तीर्यमाणम् । चतुःशिखण्डा युवति: सुपेशा घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामानिति बर्हिषा वेदिꣳ स्तीर्यमाणाम् । शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैघि सूपचरणा च मे स्वधिचरणा चैधीषमूर्जं मे पिन्वस्व ब्रह्मतेजो मे पिन्वस्व क्षत्त्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वाऽऽयुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीर्णाम् । अस्मिन्यज्ञ उपभूय इन्नु मे विक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषाꣳसि निरितो नु दाता इति परिधीन्परिधीयमानात् । ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमिति च । युनज्मि त्वां यन्मे अग्न इति द्वाभ्यामग्निं परिधीयमानम् । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तनुवो यास्ते अग्ने ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्यातुधानाः पिशाचा इति परिधितम् । विच्छिनद्मि विधृतीभ्याꣳ सपत्नान्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहꣳ स्वानामुत्तमोऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती साद्यमाने ॥ ४ ॥ अयं प्रस्तर उभयस्य धर्त्ता धर्त्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्स्रुचो अध्यासादयामीति विधृत्योः प्रस्तरꣳ साद्यमानम् । आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरासंभृताङ्गो वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रियाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवानाग्नेयेन शर्मणा दैव्येनेति जुहूमवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्घृताची त्रैष्टुभेन छन्दसा विश्ववेदः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवा नैन्द्रेण शर्मणा दैव्येनेत्युपभृतं यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः । ध्रुवाऽसि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदः। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवान्वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाꣳ स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । अयꣳ स्रुवो अभिजिहर्ति होमान्छतक्षरं छन्दसाऽऽनुष्टुभेन । सर्वा यज्ञस्य समनक्तु विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्रुवमियꣳ स्थाली घृतस्य पूर्णा छिन्नपयाः शतधार उत्सः। मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् ॥५॥ यज्ञोऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्याग्नेयं प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्यग्नीषोमीयं यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनां नुदे तामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् । यस्त आत्मा पशुषु प्रविष्ट इति सांनाय्य आसाद्यमाने । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवोऽचिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशः सह ओजः सनेयꣳ शृतं मयि श्रयतामिति शृतं यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधि नोन्महेन्द्रं दधि मां धिनोत्विति दधि । अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्यामिति सꣳसन्नान्यभिमृशति ॥ ६ ॥ इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्ने द्वितीयः पटलः ॥२॥ 6.3 अथ षष्ठप्रश्ने तृतीयः पटलः । विहव्यस्याष्टाभिः पौर्णमास्याꣳ हवीꣳष्यासन्नान्यभिमृशति चतुर्होत्रा च । (+ पञ्चहोत्रैवामावास्यायामङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरवन्त्वित्यनूच्यमानासु सामिधेनीषु जपति दशहोतारं पुरस्तात्सामिधेनीनामुपरिष्टाद्वा व्याचक्षीत समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । स्वगादेवेभ्य इदं नम इति समिद्धमग्निमुच्छुष्मो अग्न इति च मनोऽसि प्राजापत्यमिति स्रुवाधारमनुमन्त्रयते वागसीति स्रुच्यं देवाः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टꣳ स्वं दत्तꣳ स्वं पूर्तꣳ स्वꣳ श्रान्तꣳ स्वꣳ हुतं तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोताऽऽदित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन्यजे यस्यास्मि न तमन्तरेमीति होतृप्रवरेऽध्वर्युप्रवरे च जपति मां देवेष्वाश्रावयाऽऽयुषे वर्चस इत्यध्वर्युप्रवरे वैशेषिकं चतुर्होतारं पुरस्तात्प्रयाजानामुपरिष्टाद्वा व्याचक्षीत वसन्तमृतूनां प्रीणामीत्येतैः प्रयाजानाꣳ हुतꣳ हुतमनुमन्त्रयतेऽग्निश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमित्याग्नेयस्याऽऽज्यभागस्य सोमश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमिति सौम्यस्याग्नीषोमयोरहमिति समस्तानुमन्त्रणमेके समामनन्ति पञ्चहोतारं पुरस्ताद्धविषामवदानानामुपरिष्टाद्वा व्याचक्षीताग्नेरहं देवयज्ययाऽन्नादो भूयासमित्याग्नेयस्य दब्धिरसीत्युपाꣳशुयाजस्याग्नीषोमयोरहमित्यग्नीषोमीयस्येन्द्राग्नियोरहमित्यैन्द्राग्नस्येन्द्रस्याहमित्यैन्द्रस्य महेन्द्रस्याहमिति माहेन्द्रस्याग्नेः स्विष्टकृतोऽहमिति स्विष्टकृतोऽग्निर्मा दुरिष्टात्पात्विति च सुरूपवर्षवर्ण एहीतीडामाह्रियमाणां प्रतीक्षते ॥ ७ ॥ इड एह्यदित एहि भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीत्युपाꣳशूपहवे सप्त देवगवीर्जपति चिदसि मनासि वस्वी रन्ती रमतिः सूनरी सूनृतेत्युच्चैरुपहवे सप्त मनुष्यगवीर्जपति विश्वा त्वं भूताऽनुप्राणिहि विश्वा त्वा भूताऽनुप्राणन्तु भूरस्यायुरसीष्टिरसि सुरूपवर्षवर्ण एहीमान्भद्रान्दुर्याꣳ अभ्येहि मामनुव्रतान्यु शीर्षाणि मृड्ढ्वꣳ सा नः प्रियासु प्रतूर्त्तिः प्रिया नः सुहृन्नः प्रियवती मघोनी जुष्ट एहि रन्त एहि रमत एहि सूनृत एहि सुहवाम एहि सह रायस्पोषेण देवीर्देवैरभि मा निवर्तध्वꣳ स्योना स्योनेन घृतेन मा समुक्षत नम एतदुपदं भिषगृषिर्ब्रह्मा यद्ददौ समुद्रादुदञ्चन्निव स्रुचावागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन्नित्युच्चैरुपहवे वायविडा ते मातेति होतारमीक्षमाणो वायुं मनसा ध्यायेदुपहूतोऽयं यजमान इत्युच्यमान उपहूतः पशुमानसानीति जपत्यस्मास्विन्द्र इन्द्रियं दधात्विति चेडाया अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिडे भागं जुषस्व नो जिन्व गा जिन्वार्वतस्तस्यास्ते भक्षिवाण: स्याम सर्वात्मानः सर्वगणाः । इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडा जिन्वतां पयसाऽभ्यस्मानित्युपहूतामिडां व्याख्याता मार्जनी । ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां क्लृप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्ताꣳ संवत्सरो मे कल्पतां क्लृप्तिरसि कल्पतां म आशानां त्वाऽशापालेभ्यश्चतुर्भ्यो अमृतेभ्य इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयमिति प्रतिदिशं व्यूहति भजतां भागी भागं मा भागोभक्तनिरभागं भजामोऽपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय ब्राह्मणानामिदꣳ हविः सोम्यानाꣳ सोमपीथिनां निर्भक्तो ब्राह्मणो नेहाब्राह्मणस्यास्तीति च ॥ ८ ॥ इदं ब्रह्मण इदꣳ होतुरिदमध्वर्योरिदमग्नीध इति चतुर्धा व्यादिशति । आग्नीध्रप्रथमान्व्यादेशानेके समामनन्ति । इयꣳ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमित्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति प्रजापतेर्भागोऽसीति च । दक्षिणसद्भ्य उपहर्तवा इत्युच्यमाने दक्षिणत एतेत्यृत्विजः संप्रेष्यति । ब्राह्मणा अयं व ओदन इति दक्षिणतः परिक्रान्तेभ्यस्तं चतुर्धा व्युद्धृत्यै ददाति । एषा ते अग्ने समित्तया वर्धस्व चाऽऽच प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहि । यं ते अग्न आवृश्चाम्यहं वाक्षिपितश्चरन् । प्रजां च तस्य मूलं च । नीचैर्देवा निवृश्चत । अग्ने यो नो भिदा सति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाꣳस्तानग्ने संदह याꣳश्चाहं द्वेष्मि ये च मामित्यनूयाजसमिधमाधीयमानाम् । वेदिर्बर्हिः शृतꣳ हविरिध्मः परिधयः स्रुचः । आज्यं यज्ञ रुचो यजुर्याज्याश्च वषट्काराः सं मे सन्नतयो नमन्तामिध्मसंनहने हुत इतीध्मसंनहने हुते । अङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरहौषुरित्यनूयाजेषु जपति सप्तहोतारं पुरस्तादनूयाजानामुपरिष्टाद्वा व्याचक्षीत बर्हिषोऽहं देवयज्यया प्रजावान्भूयासमित्येतैरनूयाजानाꣳ हुतꣳ हुतमनुमन्त्रयते वाजस्य मा प्रसवेनेति द्वाभ्याꣳ स्रुचौ व्यूह्यमाने ॥९॥ वसून्देवान्यज्ञेनापिप्रेयꣳ रुद्रान्देवान्यज्ञेनापिप्रेयमादित्यान्देवान्यज्ञेनापिप्रेयमिति परिधीनज्यमानान्समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत्स्वाहेति स्रुक्षु प्रस्तरमज्यमानमपिप्रेड्यज्ञो यज्ञमयाङ्देवाꣳ अरंकृतः सोमः । तं मित्रो वरुणो अर्यमा रायस्योषा यजमानं विशन्त्विति प्रस्तरस्य तृणमपात्तम् । अग्नेरहमुज्जितिमनुज्जेषमितिसूक्तवाकेन होता यां यां देवतामभिव्याहरति तां तां यजमानोऽनुमन्त्रयते । यर्हि होता यजमानस्य नाम गृह्णीयात्तर्हि ब्रूयादेमा अग्मन्नाशिषो दोहकामा इति । सा मे सत्याऽऽशीर्देवेषु भूयान्मन्यान्मन्यतमाज्जुष्टाज्जुष्टतमादरैडता मनसा तच्छ केयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वित्याशीष्षु जपति । अदो म आगम्यादिति यत्कामयते तस्य नाम गृह्णाति । रोहितेन त्वाऽग्निर्देवतां गमयत्त्वित्येतैः प्रस्तरमवसृष्टम् । दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेनासहस्रकाण्डेन द्विषन्तं तापयामसि द्विषन्नस्ताप्यतां बहुमानागास्तप्यौषधय इति प्रस्तरस्य तृणमनुप्रहृतम् । विष्णोः शंयोरहमिति शंयुवाके । वि ते मुञ्चामि रशना इति द्वाभ्यामग्निं परिधिषु प्रह्रियमाणेषु । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वाꣳ अथर्वभिः । तस्य मेष्टस्य वीतस्य द्रविणमागम्याद्वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्विहाऽऽगच्छत्वदो म आगच्छत्विति सꣳस्रावभागान्यत्कामयते तस्य नाम गृह्णाति । वेदोऽसि वित्तिरसीतिवेदमन्तर्वेद्यासन्नमभिमृशति । विदेयेत्यस्य पुरस्तादुपरिष्टाद्वा यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात्तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ॥१०॥ इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने तृतीयः पटलः॥३॥ 6.4 अथ षष्ठप्रश्ने चतुर्थः पटलः । पत्नीसंयाजेषु सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति सोमस्य त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयमिति त्वष्टुर्देवानां पत्नीनामहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्चेति देवपत्नी राकाया अहं देवयज्यया प्रजावान्भूयासमिति राकां सिनीवाल्या अहं देवयज्यया पशुमान्भूयासमिति सिनीवालीं कुह्वा अहं देवयज्यया पुष्टिमान्भूयासमिति कुहूमग्निर्गृहपतिर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया प्रतिष्ठावान्भूयासमित्यग्निं गृहपतिं देवानां पत्नीरग्निर्गृहपतिरिति समस्तानुमन्त्रणमेके समामनन्ति । इडाऽस्माननुवस्तान्घृतेन यस्याः पदे पुनते देवयन्तः। वैश्वानरी शक्वरी वावृधानोपयज्ञमस्थित वैश्वदेवीत्याज्येडाम् । या सरस्वती यशोभगीना तस्यै ते स्वाहेति फलीकरणहोमे हूयमाने मुखं विमृष्टे । या सरस्वती वेशभगीना तस्यै ते स्वाहेति हुते मुखं विमृष्टे । वेदोऽसि वित्तिरसीति वेदꣳ होत्रा पत्न्यै प्रदीयमानम् । वेदोऽसि वेदसे त्वा वेदो मे विन्देति वा । घृतवन्तं कुलायिनमिति वेदमुपस्थेऽस्यमानम् । वेदोऽसि वेदो म आहर तृप्तस्त्वं तृप्तोऽहं प्रजया पशुभिर्भूयासमिति वा । त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान्त्वया होता संतनोत्यर्धमासानिति वेदꣳ स्तीर्यमाणम् । अग्नेऽदब्धायो इति समिष्टयजुः । दिवः खीलोऽवततः पृथिव्या अध्युत्थितः तेनासहस्रकाण्डेन द्विषन्तꣳ शोचयामसि द्विषन्मे बहु शोचत्वोषधे मो अहꣳ शुचमिति बर्हिरनुप्रहृतम् । सं यज्ञपतिराशिषेति ॥ ११॥ यजमानभागं प्राश्नाति शृतस्य दध्नश्च ब्राह्मणोऽश्नाति न वैश्यराजन्याविदꣳ हविः प्रजननं मे अस्त्विति शृतस्य दधिक्राव्णो अकारिषमिति दध्नः । अन्तर्वेदि प्रणीतासु मार्जयते । अध्वर्युश्चास्मै संततां धारा स्रावयति सदसि सन्मे भूया इत्यानीयमानासु जपति । प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामिति प्रतिदिशं व्युत्सिञ्चति समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचिमत्पय इति शेषं निनयति। यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वतीति मुखं विमृष्टे। अत्र यजमानभागप्राशनमेके समामनन्ति । अत एवोपोत्थाय विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान्क्रामति दक्षिणेन प्रक्रम्य सव्येनानुप्रक्रामति न सव्येन दक्षिणमतिक्रामति नाऽऽहवनीयमतिक्रामत्युत्तरमुत्तरं ज्यायाꣳसं तिष्ठꣳश्चतुर्थं जपति । उद्यन्नद्य मित्रमहः सपत्नान्मे अनीनशः। दिवैनान्विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाणꣳ रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं निदध्मसि । उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वपापꣳ समूहताम् । यो नः सपत्नो यो रणो मर्तो भिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचनेति ॥१२॥ आदित्यमुपतिष्ठतेऽगन्म सुवः सुवरगन्मेति च । इदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिव इति यं द्वेष्टि तस्य वधं मनसा ध्यायति । यद्यभिचरेदिदमहममुष्याऽऽमुष्यायणस्य प्राणं नि ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीरिति दक्षिणमꣳसमभिपर्यावर्तते । तेजोऽसीत्याहवनीयमुपपर्यावर्तते । समहं प्रजयेत्युपतिष्ठते । समिद्धो अग्न इत्युपसमिन्धे । वसुमान्यज्ञ इत्युपतिष्ठते। अग्ने वह्ने स्वदितुं नस्तनये पितुं पच । विभुꣳ शं तोकाय तनुवे स्योन इति दक्षिणाग्निमुपतिष्ठतेऽग्न आयूꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गाईपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात् । तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रः । बहुपुत्रः सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति । ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी निषीदति । वेदतृणान्युपस्थ आधाय ये देवा यज्ञहन इत्यन्तर्वेद्यासीनोऽतीमोक्षाजपति । कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति सर्वमनुवीक्षतेऽग्ने व्रतपते व्रतमचारिषमित्येतैर्व्रतं विसृजते यज्ञो बभूव स आबभूवेति यज्ञस्य पुनरालम्भं जपति गोमाꣳ अग्नेऽविमाꣳअश्वी यज्ञ इति प्राङुत्क्रम्य जपति ॥ १३ ॥ यज्ञ शं च ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्वं स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्धिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नम इति जपति । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामप्सु श्रद्धेत्यप उपस्पृश्य यथेतं प्रतिनिष्क्रामति । ब्राह्मणाꣳस्तर्पयितवा इति संप्रेष्यति । एवं विहितं प्रवसतोऽपि याजमानम् । यस्यामस्य दिश्यग्नयो भवन्ति तां दिशमभिमुखो मन्त्राञ्जपति । अध्वर्युः कर्माणि करोति । अन्यान्यभिमर्शनात् ।। यजमानो मन्त्राञ्जपत्यन्यान्व्यादेशनात् । एवं विहितमिष्टिपशुबन्धानां याजमानम् । यथाविकारमनुमन्त्रणाः । इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो भूयासꣳ सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासमदित्या अहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्च द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर्ऋध्यासं भूमानं प्रतिष्ठां गमेयमर्यम्णोऽहं देवयज्यया स्वर्गं लोकं पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयमिन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रियावी पशुमान्भूयासमिन्द्रस्य त्रातुरहं देवयज्यया त्रातो भूयासमिति प्रत्यक्षाम्नाता अनुमन्त्रणाः ॥ १४ ॥ इति हिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने चतुर्थः पटलः ॥४॥ . 6.5 अथ षष्ठप्रश्ने पञ्चमः पटलः । अग्न्याधेयस्य याजमानं व्याख्यास्यामः । पुरस्ताद्ब्राह्मौदनिकात्केशश्मश्रूणि वापयते नखानि निकृन्तते दतो धावते स्नात्यहतं वासः परिधत्ते । ब्रह्मौदनं प्राशितवद्भ्यो वरं ददाति । आहितासु समित्सु मिथुनावसिक्तरेतसौ ददाति । न प्रयाति न प्रवसति। नास्याग्निं गृहाद्धरन्ति । अन्यतश्च नाऽऽहरन्ति । शिल्पैरेताꣳ रात्रिं जागर्ति । शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम्। उभयोर्लोकयोर्ऋद्ध्वाऽतिमृत्युं तराम्यहमिति शल्कैस्ताꣳ रात्रिमग्निमिन्धे । मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगामीत्यरणी प्रदीयमाने प्रतीक्षत आरोहतं दशतꣳ शक्वरीर्ममर्तेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्णात्यृत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे तत्सत्यं यद्वीर बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनयिष्येथे ते मा प्रजाते प्रजनयिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते । आत्मन्नाग्निं गृह्णीते यथाऽध्वर्युरिदमहमनृतात्सत्यमुपैमि सत्यान्मानुषमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति वाचं यच्छति मजापतेस्त्वा प्राणेनाभि प्राणिमि पूष्णः पोषेण मह्यम् । दीर्घायुत्वाय शतशारदाय शतꣳ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्यायेति जातमभिप्राणित्यहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इति जातमभिमन्त्र्य वरं ददाति । वाचं विसृजतेऽत्र क्षौमे वाससी परिदधाते यजमानः पत्नी च । ते अपवृत्तेऽग्न्याधेयेऽध्वर्यवे दत्तो याभ्यां याभ्यां व्याहृतीभ्यां येन येन यथर्ष्याधानेन याभ्यां याभ्याꣳ सार्पराज्ञीभ्यां येन येन च घर्मशिरसा दधाति सर्वत्र तेन तेनोपतिष्ठते ॥ १५ ॥ </span></poem> [[File:दर्शपूर्णमासः Darshapurnamasa.jpg|thumb|दर्शपूर्णमासः]] <poem><span style="font-size: 14pt; line-height: 200%">सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीः श्रेयसीर्दधत् । अग्ने सपत्नाꣳ अपबाधमानो रायस्पोषमिषमूर्जमस्मामु धेहीत्याहितं गार्हपत्यमुपतिष्ठत इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति मध्यदेशे ह्रियमाणमभिमन्त्रयते समयार्धे वरं ददात्यानशे व्यानशे सर्वमायुर्व्यानश इत्याहितमाहवनीयमुपतिष्ठते। ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ प्रभ्वी च मभूतिश्च ते मा विशतां ते मा जिन्वतां यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वा दध इति शिवाभिस्तनूभिराहितमाहवनीयमुपतिष्ठते स्निक्च स्नीहितिश्च स्निहितिश्च सदाम्नी चामतिश्चानाहुतिश्च निर्ऋतिरेतास्ते अग्ने घोरास्तनुवोऽमर्त्यो मर्त्यस्तान्गच्छन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्पूर्णाहुतेर्घोराभिरुपतिष्ठते पूर्णाहुतौ वरं ददात्युपरिष्टात्पूर्णाहुतेः शिवाभिरुपस्थाय । विराजक्रमैरुपतिष्ठतेऽथर्वपितुं मे गोपायान्नं प्राणेन संमितम् । त्वया गुप्ता इषमूर्जं मदन्तः शतं जीवेम शरदः सवीरा इति दक्षिणाग्निं नर्य प्रजां मे गोपाय मूलं लोकस्य संततिम् । आत्मनो हृदयान्निर्मितां ता ते परिददाम्यहमिति गार्हपत्यꣳ शꣳस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं ताꣳस्ते परिददाम्यहमित्याहवनीयꣳ सप्रथसभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति स प्रथ सभां मे गोपाय ये च सभ्याः सभासदः। तानिन्द्रियावतः कुरु सर्वमायुरुपासतामिति सभ्यमहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियै यशः परिददाम्यहमित्यावसथ्यं पञ्चधाऽग्नीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः । ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् । यत्रास्मै ॥ १६ ।। शतमक्षान्प्रयच्छति तेषु कृतं विजित्य सभासद्भ्यः प्रयच्छति ते यज्जयन्ति तदुभयमन्नꣳ सꣳस्कृत्य ब्राह्मणान्भोजयति । आग्नेयस्य दक्षिणाकालेऽजं पूर्णपात्रमुपबर्हणꣳ सार्वसूत्रमश्वꣳ रथं वासः षङ्गा द्वादश चतुर्विꣳशतिरपरिमिता वर्धमाना ददाति तासां धेनुरनड्वान्मिथुनौ चाऽऽदिष्टरूपाण्यजं पूर्णपात्रमुपबर्हणं चाग्नीधे ददात्यश्वं ब्रह्मणे धेनुꣳ होत्रे गार्हपत्यदेशेऽनड्वाहमाहवनीयदेशेऽध्वर्यवे शेषः साधारणस्त्रिंꣳशन्माने पूर्वयोः पवमान हविषोर्हिरण्ये दक्षिणां ददाति चत्वारिꣳशन्मानमुत्तमे धेनुमादित्ये। आधानप्रभृति यावज्जीवं नानृतं वदेत् । नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् । सूर्योढमतिथिं वसत्यै नापरुन्ध्यात् । न नक्तमन्यत्रान्नाद्दद्यात् । अन्नं ददन्नक्तमदयीत । नर्बीषपक्वस्याश्नीयात् ।। या अन्तर्नाव्या आपस्तासां नाश्नीयात् । रजतꣳ हिरण्यं बर्हिषि न दद्यात् । क्लिन्नं दारु नाभ्यादध्यादभ्यादध्याद्वा । स्वकृत इरिणे प्रदरे वा नावस्येत् । हिंकृत्य वाग्यतः स्त्रियं संभवेत् । व्याहरेद्वा। नैतस्मिन्संवत्सरे पशुनाऽनिष्ट्वाऽनादिष्टो माꣳसं भक्षयेत् । यदि भक्षयेन्मनसाऽग्निभ्यः प्रहिणोमि भक्षं मम वाचा तं सह भक्षयन्तु । अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयतेत्युक्त्वाऽऽदिष्टो भक्षयति । द्वादशरात्रमजस्रेष्वग्निष्वाज्येन स्वयमग्निहोत्रं जुहोति। अहतं वासो वस्ते । काममन्यो जुहुयात् । व्रतचारी त्वेव स्यात् । स्वयं त्रयोदशीं जुहोति । यां प्रथमामग्निहोत्राय दुहन्ति साऽग्निहोत्रस्य दक्षिणा। मिथुनौ गावावन्वारम्भणीयायां ददात्युभयीः पुनराधेय अग्न्याधेयिकीर्दत्त्वा पौनराधेयिकीर्ददाति पुनर्निष्कृतो रथः पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनवाञ्शतमानं च हिरण्यं पुनराधेयस्य दक्षिणाऽपि वा पौनराधेयिकीरेव दद्यादिति पैङ्ग्यब्राह्मणम् ॥ १७ ॥ इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने पञ्चमः पटलः ॥५॥ 6.6 अथ षष्ठप्रश्ने षष्ठः पटलः । विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येति । यदग्ने यानि कानि चेति प्रतिमन्त्रमाहवनीये वर्षिष्ठमिध्ममादधाति । उद्धरेत्युद्ध्रियमाणमभिमन्त्रयते । उद्धरणप्रभृति नाश्नीयादाहोमाद्विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य दक्षिणत उपविशति पत्नी पत्न्या लोक इडाऽसि व्रतभृदहं नावुभयोर्व्रतं चरिष्याम्यादित्य व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि सुरूपेऽहं नावुभयोर्व्रतं चरिष्यामीड एहि मयि श्रयस्वेति यदग्निहोत्र्यां व्रतं तदात्मन्कुरुते । श्रद्ध एहि सत्येन त्वाऽऽह्वयामीत्याहूयमानामियमसि तस्यास्तेऽग्निर्वत्सः सा मे स्वर्गं च लोकमुभयं च धुक्ष्वेति दुह्यमानामोमुन्नेष्याम्युन्नयामीति वोच्यमाने हविर्देवानामसि मृत्योर्मेsभयꣳ स्वस्ति मेऽस्त्वभयं मे अस्त्वित्युपाꣳशूक्त्वोमुन्नयेत्युच्चैः प्रत्याहोन्नीयमाने तिष्ठति न चंक्रम्यते वाचं यच्छत्याहोमादुन्नीत उपविशति । उत्तरामाहुतिमुपोत्थाय कवातिर्यङ्ङिव। आहवनीयमुपतिष्ठते सर्वैरुपस्थानैः । उपप्रयन्तो अध्वरमिति षड्भिस्तासामग्नीषोमीयया पूर्वपक्ष उपतिष्ठेतैन्द्राग्न्याऽपरपक्षे । अग्नीषोमाविमꣳ सुम इत्यग्नीषोमीयोभा वामिन्द्राग्नी इत्यैन्द्राग्नी तयोः । परस्ताद्विहव्यस्याऽऽदितश्चतसृभिरुपतिष्ठते । तासामुपरिष्टादग्न आयूꣳषि पवस इति षड्भिराग्निपावमानीभिः। संवत्सरे गार्हपत्यमुपतिष्ठत आयुर्दा अग्नेऽस्यायुर्मे देहीति चतुर्भिराहवनीयं चित्रावसो स्वस्ति ते पारमशीयेति द्विरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति द्विर्द्विरैकैकस्य । अंग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्या म एहि यमस्य समिदसि मृत्योर्मा पाहीत्येतैस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थीम् । वयꣳ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहीति मुखं विमृष्टे सं त्वमग्ने सूर्यस्य वर्चसागथा इति च । संपश्यामि प्रजा अहमिति ॥ १८ ॥ मनुष्यानुपतिष्ठतेऽम्भस्याम्भो वो भक्षीयेति पशून्रेवती रमध्वमित्यन्तराऽग्नी तिष्ठञ्जपति सꣳहिताऽसि विश्वरूपीरिति गामालभते वत्सं वोप त्वाऽग्ने दिवे दिव इति षड्भिर्गायत्रीभिर्द्विपदाभिर्गार्हपत्यमुपतिष्ठत ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गोष्ठं भुवनमसि सहस्रपोषं पुषिसहस्रपोषस्येशिषे तस्यास्ते भूयिष्ठभाजो भूयास्मेति पुनरेव गामालभते वत्सं वा महित्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य । नहि तेषाममाचन नाध्वसु वारणेषु। ईशे रिपुरघशꣳसः। ते ह पुत्रासो अदितेः शर्म यच्छन्त्वजस्रम् । प्रदाशुषे वार्याणीति माहित्रेण तृचेनोपतिष्ठते तत्सवितुर्वरेण्यमिति सावित्र्या सोमानꣳ स्वरणमित्येषा सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः। योरेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः। मा नः शꣳसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । रक्षा णो ब्रह्मणस्पत इति ब्राह्मणस्पत्याभिरुपतिष्ठते कदाचन स्तरीरसि कदाचन प्रयुच्छसीति द्वे परि त्वाऽग्ने पुरं वयमित्येषा परि ते दूढभो रथोऽस्माꣳ अश्नोतु विश्वतः । येन रक्षसि दाशुष इति पर्यावर्त्यान्तत उपतिष्ठते । दूढभवतीमुत्तमामेके समामनन्ति निमृदोऽसि न्यहं तं मृधासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्प्रपदेनावगृह्णीयाद्यदि श्रेयसा स्पर्धेत प्रभूरसि प्राहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदोऽवगृह्णीयाद्यदि सदृशेन स्पर्धेताभिभूरस्यभ्यहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पश्चात्पार्ष्ण्यावगृह्णीयाद्यदि पापीयसा स्पर्धेत ॥ १ꣳ ॥ पूषा मा पशुपाः पातु पूषा मा पथिपाः पातु पूषा माऽधिपाः पातु पूषा माऽधिपतिः पात्विति जपित्वा प्राची दिगग्निर्देवता यो मैतस्यै दिशोभिदासादग्निꣳ स ऋच्छत्वग्निर्मे तस्यै दिशो गोपायतु दक्षिणा दिगिन्द्रो देवता यो मैतस्यै दिशोभिदासादिन्द्रꣳ स ऋच्छत्विन्द्रो मे तस्यै दिशो गोपायतु प्रतीची दिङ्मरुतो देवता यो मैतस्यै दिशो भिदासान्मरुतः स ऋच्छतु मरुतो मे तस्यै दिशो गोपायन्तु उदीची दिङ्मित्रावरुणौ देवता यो मैतस्यै दिशो भिदासान्मित्रावरुणौ स ऋच्छतु मित्रावरुणौ मे तस्यै दिशो गोपायेताम् । ऊर्ध्वा दिग्बृहस्पतिर्देवता यो मैतस्यै दिशो भिदासाद्बृहस्पतिꣳ स ऋच्छतु बृहस्पतिर्मे तस्यै दिशो गोपायतु । इयं दिगदितिर्देवता यो मैतस्यै दिशो भिदासाददितिꣳ स ऋच्छत्वदितिर्मे तस्यै दिशो गोपाय त्विति दिश उपस्थाय धर्मो मा धर्मिणः पातु विधर्मो मा विधर्मिणः पात्वायुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राणश्चापानश्च प्राञ्चावाञ्चोरुग उरुगोऽर्कस्य ते वयं वाचा संभक्तेन गमेम ह्यच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा छित्सि मामायुषा ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी तिष्ठञ्जपत्यग्न आयुꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात्तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रो बहुपुत्रा सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति सायꣳ सायमुपतिष्ठते॥२०॥ अपि वा दिवैतत् । भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैरिति वा काममैन्द्रो वित्तादिति वा श्रद्धा मे मा व्यगादिति वा भर्तुं वः शकेयमिति वा । तत्सर्वं कृताकृतम् । प्रातरवनेकेन प्रातरुपस्थेयः। तत्राधिश्रित उन्नीयमाने वा। विहव्यस्याऽऽदितश्चतसृभिरुपस्थाय । अपां पत इति त्रीनुदकाञ्जलीन्निनयति प्रतिषिक्ता अरातय इति त्रिः परिषिञ्चति कालाय वां जैत्रियाय वामिति पाणी प्रक्षालयत इदमहं दुरद्मन्यां नि:प्लावयामीत्यप आचम्य निष्ठीवति भ्रातृव्याणाꣳ सपत्नानामिति पुनरेव पाणी प्रक्षालयत इन्द्रियवतीमद्याहं वाचमुद्यासमिति यथारूपं प्राणायतनानि संमृज्योत्तरेणानुवाकेनोपतिष्ठते तत्रार्वाग्वसोः स्वस्ति ते पारमशीयेति त्रिरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति त्रिरेकैकस्य पुरस्तादग्नीषोमीया- द्विहव्यस्योत्तराभिश्चतसृभिरुपस्थायानुवाकशेषेणोपतिष्ठते । तस्मात्पुरा प्रातरग्निहोत्रे नोपावरोहेदित्येकेषाम् । अग्नेस्तृणान्यपचिनोति तेजस्वी ब्रह्मवर्चसी भवतीति विज्ञायते ॥ २१ ॥ इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने षष्ठः पटलः॥६॥ . 6.7 अथ षष्ठप्रश्ने सप्तमः पटलः । ऋते गृहस्य प्रवासं व्याख्यास्यामः। अग्नीन्समाधेहीति संप्रेष्यति प्रवत्स्यन्भास्वत उपतिष्ठते मम नाम प्रथमं जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयमुपस्थायाभिप्राण्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यमुपस्थायाभिप्राण्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादिति दक्षिणाग्निमुपस्थायाभिप्राण्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहान्गोपायतं युवम् । अविनष्टानविहृतान्पुषैनानभिरक्षत्वस्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्माꣳ उत्तरान्नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण सꣳसृज प्रजया च बहून्कृधीति प्रक्रामति सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते व्रतकालेषु व्रतं चरति । ऋतुं प्रत्युपतिष्ठते । यद्यनुपस्थिताग्निरापद्यते प्रवासः । इहैव सं तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इत्युपतिष्ठते । प्रोष्य । समिधो धारयन्विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येत्य सकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजतेऽग्नीन्समाधेहीति संप्रेष्यति ॥ २२ ॥ ज्वलत उपतिष्ठते नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वा सं मा रय्या सꣳसृजेत्युपसमिन्धेऽग्नेः समिदस्यभिशस्त्या मा पाहीत्येतैस्त्रिभिस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थी मनो ज्योतिर्जुषतामित्यध्वर्युराहुतिं जुहोति यदि दशमीमतिप्रवसति मम नाम तव च जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्याजुगुपस्तान्मे पुनर्देहीत्याहवनीयमुपस्थायाभ्यपान्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्याजुगुपस्तां मे पुनर्देहीति गार्हपत्यमुपस्थायाभ्यपान्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्याजुगुपस्तन्मे पुनर्देहीति दक्षिणाग्निमुपस्थायाभ्यपान्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहानजुगुपतं युवम् । अविनष्टानविहृतान्पूषैनानभ्यपराक्षीदास्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति गोपायाजुगुप इति सर्वत्रानुषजति गोपायेति वा । अथैकेषां विज्ञायते कः श्रेयाꣳसं विषुप्तं बोधयिष्यतीत्यप्रादुष्कृतानामेवोपस्थानꣳ स्यादभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति प्रवत्स्यन्नभयंकराभयं मेऽकार्षीः स्वस्ति मेऽस्तु प्रावात्स्यमिति प्रोष्य ॥ २३ ॥ गृहा मा विभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः । येषामभ्येति प्रवसन्येषु सौमनसो बभुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । उपहूता भूरिसखाः सखायः स्वादु संमुदः। अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा । ऊर्जस्वन्तः पयस्वन्त इरावन्तो ह सामुदः । अनश्या अतृष्या गृहा मास्मद्बिभीतनेति गृहानभ्येति क्षेमाय वः शान्त्यै प्रपद्ये शिवꣳ शग्मꣳ शंयोः शंयोरिति प्रविशति न तदहरागतः कलहं करोति गृहानहꣳ सुमनसः प्रपद्ये वीरघ्नो वीरतमः सुशेवान् । इरां वहन्तः सुमनस्यमानास्तेष्वहꣳ सुमनाः संविशामीति संविशति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इति भार्याꣳ समीक्षते ॥ २४ ॥ इति सत्याषाढहिरण्यकोशिसूत्रे षष्ठप्रश्ने सप्तमः पटलः ॥७॥ 6.8 अथ षष्ठप्रश्नेऽष्टमः पटलः । आग्रयणेष्टौ वत्सं प्रथमजं ददाति नानातन्त्रे श्यामाके बभ्रुं पिङ्गलं मधुपर्कं मधुमन्थं दधिमन्थं क्षीरौदनस्य वा पात्रं क्षौमं वासो वर्षाधृतं भद्रान्नः श्रेयः समनैष्ट देवा इति व्रीहीणां प्राश्नात्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामाकानामेतमु त्यं मधुना संयुतं यवꣳ सरस्वत्या अधिमनाऽवचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतु: कीनाशा आसन्मरुतः सुदानव इति यवानाम् । यथाविकारं पशावेकादश प्रयाजाननुमन्त्रयते । चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनेतरान् । स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मह्यं स्वः पशुभ्यो लोकविदसि लोकं वित्त्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यो गातुविदसि गातुं वित्त्वा गातुमिहि गातुं मह्यं गातुं पशुभ्यो नाथविदसि नाथं वित्त्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यो न वा उवेतन्म्रियस आशानां त्वा विश्वा आशा इति पशौ संज्ञप्यमाने जपति हुतायां वपायां परं ददाति तिस्रो वा दक्षिणा नयेत् । यथाविकारं पशावेकादशानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन प्रथमेन दशममुत्तमेनोत्तमम् । शृङ्गाणीवेच्छृङ्गिणाꣳ संददृश्रिरे चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवाꣳसो नमः सखिभ्यः सन्नान्माऽवगातेति ॥ २५ ॥ हुतꣳ स्वरुमुपतिष्ठत आशासानः सुवीर्यमिति संꣳस्थिते यूपम् । चातुर्मास्येष्वनड्वाहमनडुहो वा हिरण्यं वैश्वानरे ददाति धेनुं पार्जन्ये यथाविकारं नव प्रयाजाननुमन्त्रयते चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनोत्तमं वत्सं प्रथमजं वैश्वदेवे ददाति यथाविकारं नवानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन । तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति सर्वत्र केशेषूप्यमानेषु जपति चतुरो मासान्नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात्प्राङ्शेते न मध्वश्नाति नाञ्जीत नाभ्यञ्जीतर्तौ जायामुपेयात्सर्वेषां चातुर्मास्यानामेतान्यन्तरालव्रतानि भवन्ति धेनुं वरुणप्रघासेषु ददात्यृषभं प्रवयसꣳ साकमेधेषु यस्य रवते जुहोति तमेव पौर्णादर्व्येऽश्वꣳ श्वेतमादित्ये गां वा श्वेतꣳ षड्गवं द्वादशगवं वा सीरमुष्टारौ वोष्टारं वाऽन्यतरꣳ शुनासीरीयेऽश्वꣳ श्वेतꣳ सौर्ये गां वा श्वेतं तदभावेऽगौः श्वेतः स्याच्छ्वेतः स्यात् ॥ २६ ॥ इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्नेऽष्टमः पटलः ॥८॥ इति हिरण्यकेशिसूत्रे षष्ठः प्रश्नः॥६॥ </span></poem> <pages index="सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf" from="106" to="160" /> osb81x7srs10xqngtj65kn3gnj78kie 341097 341096 2022-07-23T01:16:53Z Puranastudy 1572 wikitext text/x-wiki {{header | title = [[कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्]] | author = हिरण्यकेशिः/सत्याषाढः | translator = | section = प्रश्नः ०६ | previous = [[../प्रश्नः ०५|प्रश्नः ०५]] | next = [[../प्रश्नः ०७|प्रश्नः ०७]] | notes = }}<poem><span style="font-size: 14pt; line-height: 200%">6.1 अथ षष्ठः प्रश्नः । (तत्र प्रथमः पटलः ।) याजमानं व्याख्यास्यामः । समस्ते क्रतावर्थं श्रूयमाणं यजमानः कामयते । तथा नित्येषु यज्ञाङ्गेषु यानि तु कामयतिः श्रावयति । यथाऽऽघारस्योर्ध्वतायां नीचैस्तायां च । अर्थवादा इतरे । तथान्येषु यज्ञाङ्गेषु पुरीषवतीं करोति प्रजयैवैनं पशुभिः पुरीषवन्तं करोति यद्यूपं मिनोति मुवर्गस्य लोकस्य प्रज्ञात्या इषे त्वोर्जे त्वेति शाखामाच्छिनत्तीषमेवोर्जं यजमाने दधातीति । द्रव्यप्रकल्पनं यजमानस्य दक्षिणादानं ब्रह्मचर्यं जपाश्च । प्रत्यगाशिषो मन्त्रानकर्मकरणाञ्जपति । तथोपदिश्यमानानुपतिष्ठतेऽनुमन्त्रयतेऽभिमन्त्रयतेऽभिमृशति जपतीति च । यावदुक्तं कर्माणि करोति । यावदुक्तं पत्न्याः कर्माणि ब्रह्मचर्यं जपाश्च । दर्शपूर्णमासयोर्याजमानं व्याख्यास्यामः । पर्वणि यजमानः केशश्मश्रूणि वापयते । पौर्णमास्यां प्रातराशे जायापती सर्पिर्मिश्रमश्नीतः । यदन्यन्मांसान्माषेभ्यश्च । न सुहितौ स्याताम् । प्राग्वत्सापाकरणादमावास्यायां कामं सुहितौ स्याताम् । अग्निं गृह्णामि सुरथमित्यन्वाधीयमानेषु जपति । इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमीदमह- मिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमीदिमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यन्वाहितेषु । बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायाम् । अशनमग्न्यन्वाधानं व्रतोपायनमित्येवमनुपूर्वाण्येके समामनन्ति । अग्न्यन्वाधानमशनं व्रतोपायनमित्येके । प्रणीतासु प्रणीयमानास्वासन्नेषु हविःषु चैतौ साधारणौ कालौ । विद्युदसीत्यप उपस्पृश्य । अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य पयस्वतीरोषधय इत्यप आचामति । देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा इह माऽवत । इदꣳ शकेयं यदिदं करोम्यात्मा करोत्यात्मन इदं करिष्ये भेषजमिदं मे विश्वभेषजा । अश्विना प्रावतं युवमिति देवता उपतिष्ठते । समुद्रं मनसा ध्यायन्सम्राडसि व्रतपा असि, व्रतानां व्रतपतिरसि व्रतमारभे तत्ते प्रब्रवीमि तच्छ केयं तेन शकेयं तेन राध्यासमित्यादित्यमुपतिष्ठते । अग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणोऽग्निमुपतिष्ठते । वायो व्रतपत इति वायुमादित्य व्रतपत इत्यादित्यं व्रतानां व्रतपत इति व्रतपतिम् । एते साधारणा ऋतेऽग्नेः । पर्वणि यजमानः स्वयमग्निहोत्रं जुहोति ।.। १ ।। यवाग्वाऽमावास्यायाꣳ संनयन् । तस्या उच्छेणमातञ्चनार्थं निदधाति । नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नैताꣳ रात्रिमश्नाति । आरण्यस्य सायमश्नाति । आमार्गादा मधुन आप्राशातिकादित्येकेषाम् । आरण्यायोपवसन्नपोऽश्नीयान्न वा किंचन । उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसापि मह्यं गोपतये पशूनिति परिस्तीर्यमाणेषु जपति । आहवनीयागारे गार्हपत्यागारे वा संविशति । अमावास्यायां रात्रिं जागर्ति । अपि वा यथा शक्नुयात्तथा कुर्यात् । उपरि त्वेव न शयीत । कामं वोपरि शयीत । व्रतचारी त्वेव स्यात् । श्वोभूते । भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इति ब्रह्मिष्ठं व्रह्माणं वृत्वा । अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्यापरेण ब्रह्मसदनमुपविशति । आसꣳस्थानादन्वास्ते । यजमान वाचं यच्छेत्युच्यमाने बाचं यच्छत्या हविष्कृतः । भूश्च कश्च वाक्चर्क्च गौश्च बट्च खं च धूश्च नूश्च पूश्चैकाक्षराः पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीरिति प्रणीताः प्रणीयमाना अनुमन्त्रयते ब्रह्मपूताः स्थ को वो युनक्ति स वो युनक्त्वति साद्यमानाः । कस्त्वा युनक्ति स त्वा युनक्त्विति यज्ञं युनक्ति । सर्वमनुवीक्षते । यजमान इरिर्निर्वप्स्यामीत्युच्यमान ॐ निर्वपेति प्रत्याहाग्निꣳ होतारमिह तꣳ हुव इति हविर्निरुप्यमाणमनुमन्त्रयते निरुप्तं निर्वपणार्थं वा पात्रम् ।। २ ।। इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे प्रश्ने प्रथमः पटलः ।। १ ।। 6.2 अथ षष्ठे प्रश्ने द्वितीयः पटलः । इदं तस्मै हर्म्यं करो्मि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीष्विति वेदिदेशमभिमृशति । चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय का मान्। वेदेन वेदिं बृहतीमविन्दन्सा पृथिव्यां प्रयतां पार्थि- वानि ।तस्यां बर्हिः प्रथताꣳ साध्वन्तरहिꣳस्रा णः पृथिवी देव्यस्तु । वेदेन वेदिमिति वेदेन वेदिꣳ संमृज्यमानाम् । अभिमन्त्रयते । वेदेनेति पठितो मन्त्र आध्वर्यवे । यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्रवज्रेण शिरच्छिनद्मीति स्तम्बयजुर्ह्रियमाणम् । यदुद्धन्तो जिहिꣳसिम पृथिवीमोधधीरपः । अध्वर्यवस्फ्यकृतस्फ्येनान्तरिक्षं मोरुपाव तस्मात् । यदुद्धन्तो जिहिꣳसिम जीवमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः शिवा नो विश्वैर्भुवनेभिरस्त्विति स्फ्येनोत्तमां त्वचमुद्धन्यमानाम् । बृहस्पते परिगृहाण वेदिमिति परिग्राहयोः । भूमिर्भ्रूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्चेति कृताम् । ईडेऽन्यक्रतूरहमपो देवीरुपब्रुवे दिवा नक्तं च सस्रुषीरपस्वरीरिति प्रोक्षणीरासाद्यमानाः । आज्यमसीत्याज्यमवेक्षते यथाऽध्वर्युरद्भिराज्यमाज्येनापः सम्यक्पुनीत सवितुः पवित्रैः । ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यमपश्चोत्पूयमानाः । पञ्चानां त्वा वातानामित्येतैराज्यानि गृह्यमाणान्यशिश्रेम बर्हिरन्तः पृथिव्याꣳ सꣳरोहयन्त ओषधीर्विवृक्णा: । यासां मूलमुदवधी: स्फ्येन शिवा नस्ताः सुहवा भवन्त्वित्यन्तर्वेदि बर्हिरासाद्यमानम् ॥ ३॥ सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावापर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इति बर्हिः प्रोक्ष्यमाणमूर्णा मृदु प्रथमानꣳ स्योनं देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिः स्तीर्यमाणम् । चतुःशिखण्डा युवति: सुपेशा घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामानिति बर्हिषा वेदिꣳ स्तीर्यमाणाम् । शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैघि सूपचरणा च मे स्वधिचरणा चैधीषमूर्जं मे पिन्वस्व ब्रह्मतेजो मे पिन्वस्व क्षत्त्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वाऽऽयुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीर्णाम् । अस्मिन्यज्ञ उपभूय इन्नु मे विक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषाꣳसि निरितो नु दाता इति परिधीन्परिधीयमानात् । ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमिति च । युनज्मि त्वां यन्मे अग्न इति द्वाभ्यामग्निं परिधीयमानम् । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तनुवो यास्ते अग्ने ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्यातुधानाः पिशाचा इति परिधितम् । विच्छिनद्मि विधृतीभ्याꣳ सपत्नान्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहꣳ स्वानामुत्तमोऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती साद्यमाने ॥ ४ ॥ अयं प्रस्तर उभयस्य धर्त्ता धर्त्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्स्रुचो अध्यासादयामीति विधृत्योः प्रस्तरꣳ साद्यमानम् । आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरासंभृताङ्गो वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रियाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवानाग्नेयेन शर्मणा दैव्येनेति जुहूमवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्घृताची त्रैष्टुभेन छन्दसा विश्ववेदः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवा नैन्द्रेण शर्मणा दैव्येनेत्युपभृतं यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः । ध्रुवाऽसि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदः। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवान्वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाꣳ स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । अयꣳ स्रुवो अभिजिहर्ति होमान्छतक्षरं छन्दसाऽऽनुष्टुभेन । सर्वा यज्ञस्य समनक्तु विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्रुवमियꣳ स्थाली घृतस्य पूर्णा छिन्नपयाः शतधार उत्सः। मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् ॥५॥ यज्ञोऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्याग्नेयं प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्यग्नीषोमीयं यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनां नुदे तामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् । यस्त आत्मा पशुषु प्रविष्ट इति सांनाय्य आसाद्यमाने । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवोऽचिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशः सह ओजः सनेयꣳ शृतं मयि श्रयतामिति शृतं यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधि नोन्महेन्द्रं दधि मां धिनोत्विति दधि । अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्यामिति सꣳसन्नान्यभिमृशति ॥ ६ ॥ इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्ने द्वितीयः पटलः ॥२॥ 6.3 अथ षष्ठप्रश्ने तृतीयः पटलः । विहव्यस्याष्टाभिः पौर्णमास्याꣳ हवीꣳष्यासन्नान्यभिमृशति चतुर्होत्रा च । (+ पञ्चहोत्रैवामावास्यायामङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरवन्त्वित्यनूच्यमानासु सामिधेनीषु जपति दशहोतारं पुरस्तात्सामिधेनीनामुपरिष्टाद्वा व्याचक्षीत समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । स्वगादेवेभ्य इदं नम इति समिद्धमग्निमुच्छुष्मो अग्न इति च मनोऽसि प्राजापत्यमिति स्रुवाधारमनुमन्त्रयते वागसीति स्रुच्यं देवाः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टꣳ स्वं दत्तꣳ स्वं पूर्तꣳ स्वꣳ श्रान्तꣳ स्वꣳ हुतं तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोताऽऽदित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन्यजे यस्यास्मि न तमन्तरेमीति होतृप्रवरेऽध्वर्युप्रवरे च जपति मां देवेष्वाश्रावयाऽऽयुषे वर्चस इत्यध्वर्युप्रवरे वैशेषिकं चतुर्होतारं पुरस्तात्प्रयाजानामुपरिष्टाद्वा व्याचक्षीत वसन्तमृतूनां प्रीणामीत्येतैः प्रयाजानाꣳ हुतꣳ हुतमनुमन्त्रयतेऽग्निश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमित्याग्नेयस्याऽऽज्यभागस्य सोमश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमिति सौम्यस्याग्नीषोमयोरहमिति समस्तानुमन्त्रणमेके समामनन्ति पञ्चहोतारं पुरस्ताद्धविषामवदानानामुपरिष्टाद्वा व्याचक्षीताग्नेरहं देवयज्ययाऽन्नादो भूयासमित्याग्नेयस्य दब्धिरसीत्युपाꣳशुयाजस्याग्नीषोमयोरहमित्यग्नीषोमीयस्येन्द्राग्नियोरहमित्यैन्द्राग्नस्येन्द्रस्याहमित्यैन्द्रस्य महेन्द्रस्याहमिति माहेन्द्रस्याग्नेः स्विष्टकृतोऽहमिति स्विष्टकृतोऽग्निर्मा दुरिष्टात्पात्विति च सुरूपवर्षवर्ण एहीतीडामाह्रियमाणां प्रतीक्षते ॥ ७ ॥ इड एह्यदित एहि भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीत्युपाꣳशूपहवे सप्त देवगवीर्जपति चिदसि मनासि वस्वी रन्ती रमतिः सूनरी सूनृतेत्युच्चैरुपहवे सप्त मनुष्यगवीर्जपति विश्वा त्वं भूताऽनुप्राणिहि विश्वा त्वा भूताऽनुप्राणन्तु भूरस्यायुरसीष्टिरसि सुरूपवर्षवर्ण एहीमान्भद्रान्दुर्याꣳ अभ्येहि मामनुव्रतान्यु शीर्षाणि मृड्ढ्वꣳ सा नः प्रियासु प्रतूर्त्तिः प्रिया नः सुहृन्नः प्रियवती मघोनी जुष्ट एहि रन्त एहि रमत एहि सूनृत एहि सुहवाम एहि सह रायस्पोषेण देवीर्देवैरभि मा निवर्तध्वꣳ स्योना स्योनेन घृतेन मा समुक्षत नम एतदुपदं भिषगृषिर्ब्रह्मा यद्ददौ समुद्रादुदञ्चन्निव स्रुचावागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन्नित्युच्चैरुपहवे वायविडा ते मातेति होतारमीक्षमाणो वायुं मनसा ध्यायेदुपहूतोऽयं यजमान इत्युच्यमान उपहूतः पशुमानसानीति जपत्यस्मास्विन्द्र इन्द्रियं दधात्विति चेडाया अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिडे भागं जुषस्व नो जिन्व गा जिन्वार्वतस्तस्यास्ते भक्षिवाण: स्याम सर्वात्मानः सर्वगणाः । इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडा जिन्वतां पयसाऽभ्यस्मानित्युपहूतामिडां व्याख्याता मार्जनी । ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां क्लृप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्ताꣳ संवत्सरो मे कल्पतां क्लृप्तिरसि कल्पतां म आशानां त्वाऽशापालेभ्यश्चतुर्भ्यो अमृतेभ्य इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयमिति प्रतिदिशं व्यूहति भजतां भागी भागं मा भागोभक्तनिरभागं भजामोऽपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय ब्राह्मणानामिदꣳ हविः सोम्यानाꣳ सोमपीथिनां निर्भक्तो ब्राह्मणो नेहाब्राह्मणस्यास्तीति च ॥ ८ ॥ इदं ब्रह्मण इदꣳ होतुरिदमध्वर्योरिदमग्नीध इति चतुर्धा व्यादिशति । आग्नीध्रप्रथमान्व्यादेशानेके समामनन्ति । इयꣳ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमित्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति प्रजापतेर्भागोऽसीति च । दक्षिणसद्भ्य उपहर्तवा इत्युच्यमाने दक्षिणत एतेत्यृत्विजः संप्रेष्यति । ब्राह्मणा अयं व ओदन इति दक्षिणतः परिक्रान्तेभ्यस्तं चतुर्धा व्युद्धृत्यै ददाति । एषा ते अग्ने समित्तया वर्धस्व चाऽऽच प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहि । यं ते अग्न आवृश्चाम्यहं वाक्षिपितश्चरन् । प्रजां च तस्य मूलं च । नीचैर्देवा निवृश्चत । अग्ने यो नो भिदा सति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाꣳस्तानग्ने संदह याꣳश्चाहं द्वेष्मि ये च मामित्यनूयाजसमिधमाधीयमानाम् । वेदिर्बर्हिः शृतꣳ हविरिध्मः परिधयः स्रुचः । आज्यं यज्ञ रुचो यजुर्याज्याश्च वषट्काराः सं मे सन्नतयो नमन्तामिध्मसंनहने हुत इतीध्मसंनहने हुते । अङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरहौषुरित्यनूयाजेषु जपति सप्तहोतारं पुरस्तादनूयाजानामुपरिष्टाद्वा व्याचक्षीत बर्हिषोऽहं देवयज्यया प्रजावान्भूयासमित्येतैरनूयाजानाꣳ हुतꣳ हुतमनुमन्त्रयते वाजस्य मा प्रसवेनेति द्वाभ्याꣳ स्रुचौ व्यूह्यमाने ॥९॥ वसून्देवान्यज्ञेनापिप्रेयꣳ रुद्रान्देवान्यज्ञेनापिप्रेयमादित्यान्देवान्यज्ञेनापिप्रेयमिति परिधीनज्यमानान्समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत्स्वाहेति स्रुक्षु प्रस्तरमज्यमानमपिप्रेड्यज्ञो यज्ञमयाङ्देवाꣳ अरंकृतः सोमः । तं मित्रो वरुणो अर्यमा रायस्योषा यजमानं विशन्त्विति प्रस्तरस्य तृणमपात्तम् । अग्नेरहमुज्जितिमनुज्जेषमितिसूक्तवाकेन होता यां यां देवतामभिव्याहरति तां तां यजमानोऽनुमन्त्रयते । यर्हि होता यजमानस्य नाम गृह्णीयात्तर्हि ब्रूयादेमा अग्मन्नाशिषो दोहकामा इति । सा मे सत्याऽऽशीर्देवेषु भूयान्मन्यान्मन्यतमाज्जुष्टाज्जुष्टतमादरैडता मनसा तच्छ केयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वित्याशीष्षु जपति । अदो म आगम्यादिति यत्कामयते तस्य नाम गृह्णाति । रोहितेन त्वाऽग्निर्देवतां गमयत्त्वित्येतैः प्रस्तरमवसृष्टम् । दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेनासहस्रकाण्डेन द्विषन्तं तापयामसि द्विषन्नस्ताप्यतां बहुमानागास्तप्यौषधय इति प्रस्तरस्य तृणमनुप्रहृतम् । विष्णोः शंयोरहमिति शंयुवाके । वि ते मुञ्चामि रशना इति द्वाभ्यामग्निं परिधिषु प्रह्रियमाणेषु । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वाꣳ अथर्वभिः । तस्य मेष्टस्य वीतस्य द्रविणमागम्याद्वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्विहाऽऽगच्छत्वदो म आगच्छत्विति सꣳस्रावभागान्यत्कामयते तस्य नाम गृह्णाति । वेदोऽसि वित्तिरसीतिवेदमन्तर्वेद्यासन्नमभिमृशति । विदेयेत्यस्य पुरस्तादुपरिष्टाद्वा यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात्तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ॥१०॥ इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने तृतीयः पटलः॥३॥ 6.4 अथ षष्ठप्रश्ने चतुर्थः पटलः । पत्नीसंयाजेषु सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति सोमस्य त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयमिति त्वष्टुर्देवानां पत्नीनामहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्चेति देवपत्नी राकाया अहं देवयज्यया प्रजावान्भूयासमिति राकां सिनीवाल्या अहं देवयज्यया पशुमान्भूयासमिति सिनीवालीं कुह्वा अहं देवयज्यया पुष्टिमान्भूयासमिति कुहूमग्निर्गृहपतिर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया प्रतिष्ठावान्भूयासमित्यग्निं गृहपतिं देवानां पत्नीरग्निर्गृहपतिरिति समस्तानुमन्त्रणमेके समामनन्ति । इडाऽस्माननुवस्तान्घृतेन यस्याः पदे पुनते देवयन्तः। वैश्वानरी शक्वरी वावृधानोपयज्ञमस्थित वैश्वदेवीत्याज्येडाम् । या सरस्वती यशोभगीना तस्यै ते स्वाहेति फलीकरणहोमे हूयमाने मुखं विमृष्टे । या सरस्वती वेशभगीना तस्यै ते स्वाहेति हुते मुखं विमृष्टे । वेदोऽसि वित्तिरसीति वेदꣳ होत्रा पत्न्यै प्रदीयमानम् । वेदोऽसि वेदसे त्वा वेदो मे विन्देति वा । घृतवन्तं कुलायिनमिति वेदमुपस्थेऽस्यमानम् । वेदोऽसि वेदो म आहर तृप्तस्त्वं तृप्तोऽहं प्रजया पशुभिर्भूयासमिति वा । त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान्त्वया होता संतनोत्यर्धमासानिति वेदꣳ स्तीर्यमाणम् । अग्नेऽदब्धायो इति समिष्टयजुः । दिवः खीलोऽवततः पृथिव्या अध्युत्थितः तेनासहस्रकाण्डेन द्विषन्तꣳ शोचयामसि द्विषन्मे बहु शोचत्वोषधे मो अहꣳ शुचमिति बर्हिरनुप्रहृतम् । सं यज्ञपतिराशिषेति ॥ ११॥ यजमानभागं प्राश्नाति शृतस्य दध्नश्च ब्राह्मणोऽश्नाति न वैश्यराजन्याविदꣳ हविः प्रजननं मे अस्त्विति शृतस्य दधिक्राव्णो अकारिषमिति दध्नः । अन्तर्वेदि प्रणीतासु मार्जयते । अध्वर्युश्चास्मै संततां धारा स्रावयति सदसि सन्मे भूया इत्यानीयमानासु जपति । प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामिति प्रतिदिशं व्युत्सिञ्चति समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचिमत्पय इति शेषं निनयति। यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वतीति मुखं विमृष्टे। अत्र यजमानभागप्राशनमेके समामनन्ति । अत एवोपोत्थाय विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान्क्रामति दक्षिणेन प्रक्रम्य सव्येनानुप्रक्रामति न सव्येन दक्षिणमतिक्रामति नाऽऽहवनीयमतिक्रामत्युत्तरमुत्तरं ज्यायाꣳसं तिष्ठꣳश्चतुर्थं जपति । उद्यन्नद्य मित्रमहः सपत्नान्मे अनीनशः। दिवैनान्विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाणꣳ रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं निदध्मसि । उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वपापꣳ समूहताम् । यो नः सपत्नो यो रणो मर्तो भिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचनेति ॥१२॥ आदित्यमुपतिष्ठतेऽगन्म सुवः सुवरगन्मेति च । इदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिव इति यं द्वेष्टि तस्य वधं मनसा ध्यायति । यद्यभिचरेदिदमहममुष्याऽऽमुष्यायणस्य प्राणं नि ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीरिति दक्षिणमꣳसमभिपर्यावर्तते । तेजोऽसीत्याहवनीयमुपपर्यावर्तते । समहं प्रजयेत्युपतिष्ठते । समिद्धो अग्न इत्युपसमिन्धे । वसुमान्यज्ञ इत्युपतिष्ठते। अग्ने वह्ने स्वदितुं नस्तनये पितुं पच । विभुꣳ शं तोकाय तनुवे स्योन इति दक्षिणाग्निमुपतिष्ठतेऽग्न आयूꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गाईपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात् । तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रः । बहुपुत्रः सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति । ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी निषीदति । वेदतृणान्युपस्थ आधाय ये देवा यज्ञहन इत्यन्तर्वेद्यासीनोऽतीमोक्षाजपति । कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति सर्वमनुवीक्षतेऽग्ने व्रतपते व्रतमचारिषमित्येतैर्व्रतं विसृजते यज्ञो बभूव स आबभूवेति यज्ञस्य पुनरालम्भं जपति गोमाꣳ अग्नेऽविमाꣳअश्वी यज्ञ इति प्राङुत्क्रम्य जपति ॥ १३ ॥ यज्ञ शं च ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्वं स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्धिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नम इति जपति । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामप्सु श्रद्धेत्यप उपस्पृश्य यथेतं प्रतिनिष्क्रामति । ब्राह्मणाꣳस्तर्पयितवा इति संप्रेष्यति । एवं विहितं प्रवसतोऽपि याजमानम् । यस्यामस्य दिश्यग्नयो भवन्ति तां दिशमभिमुखो मन्त्राञ्जपति । अध्वर्युः कर्माणि करोति । अन्यान्यभिमर्शनात् ।। यजमानो मन्त्राञ्जपत्यन्यान्व्यादेशनात् । एवं विहितमिष्टिपशुबन्धानां याजमानम् । यथाविकारमनुमन्त्रणाः । इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो भूयासꣳ सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासमदित्या अहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्च द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर्ऋध्यासं भूमानं प्रतिष्ठां गमेयमर्यम्णोऽहं देवयज्यया स्वर्गं लोकं पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयमिन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रियावी पशुमान्भूयासमिन्द्रस्य त्रातुरहं देवयज्यया त्रातो भूयासमिति प्रत्यक्षाम्नाता अनुमन्त्रणाः ॥ १४ ॥ इति हिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने चतुर्थः पटलः ॥४॥ . 6.5 अथ षष्ठप्रश्ने पञ्चमः पटलः । अग्न्याधेयस्य याजमानं व्याख्यास्यामः । पुरस्ताद्ब्राह्मौदनिकात्केशश्मश्रूणि वापयते नखानि निकृन्तते दतो धावते स्नात्यहतं वासः परिधत्ते । ब्रह्मौदनं प्राशितवद्भ्यो वरं ददाति । आहितासु समित्सु मिथुनावसिक्तरेतसौ ददाति । न प्रयाति न प्रवसति। नास्याग्निं गृहाद्धरन्ति । अन्यतश्च नाऽऽहरन्ति । शिल्पैरेताꣳ रात्रिं जागर्ति । शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम्। उभयोर्लोकयोर्ऋद्ध्वाऽतिमृत्युं तराम्यहमिति शल्कैस्ताꣳ रात्रिमग्निमिन्धे । मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगामीत्यरणी प्रदीयमाने प्रतीक्षत आरोहतं दशतꣳ शक्वरीर्ममर्तेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्णात्यृत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे तत्सत्यं यद्वीर बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनयिष्येथे ते मा प्रजाते प्रजनयिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते । आत्मन्नाग्निं गृह्णीते यथाऽध्वर्युरिदमहमनृतात्सत्यमुपैमि सत्यान्मानुषमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति वाचं यच्छति मजापतेस्त्वा प्राणेनाभि प्राणिमि पूष्णः पोषेण मह्यम् । दीर्घायुत्वाय शतशारदाय शतꣳ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्यायेति जातमभिप्राणित्यहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इति जातमभिमन्त्र्य वरं ददाति । वाचं विसृजतेऽत्र क्षौमे वाससी परिदधाते यजमानः पत्नी च । ते अपवृत्तेऽग्न्याधेयेऽध्वर्यवे दत्तो याभ्यां याभ्यां व्याहृतीभ्यां येन येन यथर्ष्याधानेन याभ्यां याभ्याꣳ सार्पराज्ञीभ्यां येन येन च घर्मशिरसा दधाति सर्वत्र तेन तेनोपतिष्ठते ॥ १५ ॥ </span></poem> [[File:दर्शपूर्णमासः Darshapurnamasa.jpg|thumb|500px|दर्शपूर्णमासः]] <poem><span style="font-size: 14pt; line-height: 200%">सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीः श्रेयसीर्दधत् । अग्ने सपत्नाꣳ अपबाधमानो रायस्पोषमिषमूर्जमस्मामु धेहीत्याहितं गार्हपत्यमुपतिष्ठत इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति मध्यदेशे ह्रियमाणमभिमन्त्रयते समयार्धे वरं ददात्यानशे व्यानशे सर्वमायुर्व्यानश इत्याहितमाहवनीयमुपतिष्ठते। ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ प्रभ्वी च मभूतिश्च ते मा विशतां ते मा जिन्वतां यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वा दध इति शिवाभिस्तनूभिराहितमाहवनीयमुपतिष्ठते स्निक्च स्नीहितिश्च स्निहितिश्च सदाम्नी चामतिश्चानाहुतिश्च निर्ऋतिरेतास्ते अग्ने घोरास्तनुवोऽमर्त्यो मर्त्यस्तान्गच्छन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्पूर्णाहुतेर्घोराभिरुपतिष्ठते पूर्णाहुतौ वरं ददात्युपरिष्टात्पूर्णाहुतेः शिवाभिरुपस्थाय । विराजक्रमैरुपतिष्ठतेऽथर्वपितुं मे गोपायान्नं प्राणेन संमितम् । त्वया गुप्ता इषमूर्जं मदन्तः शतं जीवेम शरदः सवीरा इति दक्षिणाग्निं नर्य प्रजां मे गोपाय मूलं लोकस्य संततिम् । आत्मनो हृदयान्निर्मितां ता ते परिददाम्यहमिति गार्हपत्यꣳ शꣳस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं ताꣳस्ते परिददाम्यहमित्याहवनीयꣳ सप्रथसभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति स प्रथ सभां मे गोपाय ये च सभ्याः सभासदः। तानिन्द्रियावतः कुरु सर्वमायुरुपासतामिति सभ्यमहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियै यशः परिददाम्यहमित्यावसथ्यं पञ्चधाऽग्नीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः । ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् । यत्रास्मै ॥ १६ ।। शतमक्षान्प्रयच्छति तेषु कृतं विजित्य सभासद्भ्यः प्रयच्छति ते यज्जयन्ति तदुभयमन्नꣳ सꣳस्कृत्य ब्राह्मणान्भोजयति । आग्नेयस्य दक्षिणाकालेऽजं पूर्णपात्रमुपबर्हणꣳ सार्वसूत्रमश्वꣳ रथं वासः षङ्गा द्वादश चतुर्विꣳशतिरपरिमिता वर्धमाना ददाति तासां धेनुरनड्वान्मिथुनौ चाऽऽदिष्टरूपाण्यजं पूर्णपात्रमुपबर्हणं चाग्नीधे ददात्यश्वं ब्रह्मणे धेनुꣳ होत्रे गार्हपत्यदेशेऽनड्वाहमाहवनीयदेशेऽध्वर्यवे शेषः साधारणस्त्रिंꣳशन्माने पूर्वयोः पवमान हविषोर्हिरण्ये दक्षिणां ददाति चत्वारिꣳशन्मानमुत्तमे धेनुमादित्ये। आधानप्रभृति यावज्जीवं नानृतं वदेत् । नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् । सूर्योढमतिथिं वसत्यै नापरुन्ध्यात् । न नक्तमन्यत्रान्नाद्दद्यात् । अन्नं ददन्नक्तमदयीत । नर्बीषपक्वस्याश्नीयात् ।। या अन्तर्नाव्या आपस्तासां नाश्नीयात् । रजतꣳ हिरण्यं बर्हिषि न दद्यात् । क्लिन्नं दारु नाभ्यादध्यादभ्यादध्याद्वा । स्वकृत इरिणे प्रदरे वा नावस्येत् । हिंकृत्य वाग्यतः स्त्रियं संभवेत् । व्याहरेद्वा। नैतस्मिन्संवत्सरे पशुनाऽनिष्ट्वाऽनादिष्टो माꣳसं भक्षयेत् । यदि भक्षयेन्मनसाऽग्निभ्यः प्रहिणोमि भक्षं मम वाचा तं सह भक्षयन्तु । अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयतेत्युक्त्वाऽऽदिष्टो भक्षयति । द्वादशरात्रमजस्रेष्वग्निष्वाज्येन स्वयमग्निहोत्रं जुहोति। अहतं वासो वस्ते । काममन्यो जुहुयात् । व्रतचारी त्वेव स्यात् । स्वयं त्रयोदशीं जुहोति । यां प्रथमामग्निहोत्राय दुहन्ति साऽग्निहोत्रस्य दक्षिणा। मिथुनौ गावावन्वारम्भणीयायां ददात्युभयीः पुनराधेय अग्न्याधेयिकीर्दत्त्वा पौनराधेयिकीर्ददाति पुनर्निष्कृतो रथः पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनवाञ्शतमानं च हिरण्यं पुनराधेयस्य दक्षिणाऽपि वा पौनराधेयिकीरेव दद्यादिति पैङ्ग्यब्राह्मणम् ॥ १७ ॥ इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने पञ्चमः पटलः ॥५॥ 6.6 अथ षष्ठप्रश्ने षष्ठः पटलः । विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येति । यदग्ने यानि कानि चेति प्रतिमन्त्रमाहवनीये वर्षिष्ठमिध्ममादधाति । उद्धरेत्युद्ध्रियमाणमभिमन्त्रयते । उद्धरणप्रभृति नाश्नीयादाहोमाद्विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य दक्षिणत उपविशति पत्नी पत्न्या लोक इडाऽसि व्रतभृदहं नावुभयोर्व्रतं चरिष्याम्यादित्य व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि सुरूपेऽहं नावुभयोर्व्रतं चरिष्यामीड एहि मयि श्रयस्वेति यदग्निहोत्र्यां व्रतं तदात्मन्कुरुते । श्रद्ध एहि सत्येन त्वाऽऽह्वयामीत्याहूयमानामियमसि तस्यास्तेऽग्निर्वत्सः सा मे स्वर्गं च लोकमुभयं च धुक्ष्वेति दुह्यमानामोमुन्नेष्याम्युन्नयामीति वोच्यमाने हविर्देवानामसि मृत्योर्मेsभयꣳ स्वस्ति मेऽस्त्वभयं मे अस्त्वित्युपाꣳशूक्त्वोमुन्नयेत्युच्चैः प्रत्याहोन्नीयमाने तिष्ठति न चंक्रम्यते वाचं यच्छत्याहोमादुन्नीत उपविशति । उत्तरामाहुतिमुपोत्थाय कवातिर्यङ्ङिव। आहवनीयमुपतिष्ठते सर्वैरुपस्थानैः । उपप्रयन्तो अध्वरमिति षड्भिस्तासामग्नीषोमीयया पूर्वपक्ष उपतिष्ठेतैन्द्राग्न्याऽपरपक्षे । अग्नीषोमाविमꣳ सुम इत्यग्नीषोमीयोभा वामिन्द्राग्नी इत्यैन्द्राग्नी तयोः । परस्ताद्विहव्यस्याऽऽदितश्चतसृभिरुपतिष्ठते । तासामुपरिष्टादग्न आयूꣳषि पवस इति षड्भिराग्निपावमानीभिः। संवत्सरे गार्हपत्यमुपतिष्ठत आयुर्दा अग्नेऽस्यायुर्मे देहीति चतुर्भिराहवनीयं चित्रावसो स्वस्ति ते पारमशीयेति द्विरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति द्विर्द्विरैकैकस्य । अंग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्या म एहि यमस्य समिदसि मृत्योर्मा पाहीत्येतैस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थीम् । वयꣳ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहीति मुखं विमृष्टे सं त्वमग्ने सूर्यस्य वर्चसागथा इति च । संपश्यामि प्रजा अहमिति ॥ १८ ॥ मनुष्यानुपतिष्ठतेऽम्भस्याम्भो वो भक्षीयेति पशून्रेवती रमध्वमित्यन्तराऽग्नी तिष्ठञ्जपति सꣳहिताऽसि विश्वरूपीरिति गामालभते वत्सं वोप त्वाऽग्ने दिवे दिव इति षड्भिर्गायत्रीभिर्द्विपदाभिर्गार्हपत्यमुपतिष्ठत ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गोष्ठं भुवनमसि सहस्रपोषं पुषिसहस्रपोषस्येशिषे तस्यास्ते भूयिष्ठभाजो भूयास्मेति पुनरेव गामालभते वत्सं वा महित्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य । नहि तेषाममाचन नाध्वसु वारणेषु। ईशे रिपुरघशꣳसः। ते ह पुत्रासो अदितेः शर्म यच्छन्त्वजस्रम् । प्रदाशुषे वार्याणीति माहित्रेण तृचेनोपतिष्ठते तत्सवितुर्वरेण्यमिति सावित्र्या सोमानꣳ स्वरणमित्येषा सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः। योरेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः। मा नः शꣳसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । रक्षा णो ब्रह्मणस्पत इति ब्राह्मणस्पत्याभिरुपतिष्ठते कदाचन स्तरीरसि कदाचन प्रयुच्छसीति द्वे परि त्वाऽग्ने पुरं वयमित्येषा परि ते दूढभो रथोऽस्माꣳ अश्नोतु विश्वतः । येन रक्षसि दाशुष इति पर्यावर्त्यान्तत उपतिष्ठते । दूढभवतीमुत्तमामेके समामनन्ति निमृदोऽसि न्यहं तं मृधासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्प्रपदेनावगृह्णीयाद्यदि श्रेयसा स्पर्धेत प्रभूरसि प्राहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदोऽवगृह्णीयाद्यदि सदृशेन स्पर्धेताभिभूरस्यभ्यहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पश्चात्पार्ष्ण्यावगृह्णीयाद्यदि पापीयसा स्पर्धेत ॥ १ꣳ ॥ पूषा मा पशुपाः पातु पूषा मा पथिपाः पातु पूषा माऽधिपाः पातु पूषा माऽधिपतिः पात्विति जपित्वा प्राची दिगग्निर्देवता यो मैतस्यै दिशोभिदासादग्निꣳ स ऋच्छत्वग्निर्मे तस्यै दिशो गोपायतु दक्षिणा दिगिन्द्रो देवता यो मैतस्यै दिशोभिदासादिन्द्रꣳ स ऋच्छत्विन्द्रो मे तस्यै दिशो गोपायतु प्रतीची दिङ्मरुतो देवता यो मैतस्यै दिशो भिदासान्मरुतः स ऋच्छतु मरुतो मे तस्यै दिशो गोपायन्तु उदीची दिङ्मित्रावरुणौ देवता यो मैतस्यै दिशो भिदासान्मित्रावरुणौ स ऋच्छतु मित्रावरुणौ मे तस्यै दिशो गोपायेताम् । ऊर्ध्वा दिग्बृहस्पतिर्देवता यो मैतस्यै दिशो भिदासाद्बृहस्पतिꣳ स ऋच्छतु बृहस्पतिर्मे तस्यै दिशो गोपायतु । इयं दिगदितिर्देवता यो मैतस्यै दिशो भिदासाददितिꣳ स ऋच्छत्वदितिर्मे तस्यै दिशो गोपाय त्विति दिश उपस्थाय धर्मो मा धर्मिणः पातु विधर्मो मा विधर्मिणः पात्वायुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राणश्चापानश्च प्राञ्चावाञ्चोरुग उरुगोऽर्कस्य ते वयं वाचा संभक्तेन गमेम ह्यच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा छित्सि मामायुषा ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी तिष्ठञ्जपत्यग्न आयुꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात्तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रो बहुपुत्रा सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति सायꣳ सायमुपतिष्ठते॥२०॥ अपि वा दिवैतत् । भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैरिति वा काममैन्द्रो वित्तादिति वा श्रद्धा मे मा व्यगादिति वा भर्तुं वः शकेयमिति वा । तत्सर्वं कृताकृतम् । प्रातरवनेकेन प्रातरुपस्थेयः। तत्राधिश्रित उन्नीयमाने वा। विहव्यस्याऽऽदितश्चतसृभिरुपस्थाय । अपां पत इति त्रीनुदकाञ्जलीन्निनयति प्रतिषिक्ता अरातय इति त्रिः परिषिञ्चति कालाय वां जैत्रियाय वामिति पाणी प्रक्षालयत इदमहं दुरद्मन्यां नि:प्लावयामीत्यप आचम्य निष्ठीवति भ्रातृव्याणाꣳ सपत्नानामिति पुनरेव पाणी प्रक्षालयत इन्द्रियवतीमद्याहं वाचमुद्यासमिति यथारूपं प्राणायतनानि संमृज्योत्तरेणानुवाकेनोपतिष्ठते तत्रार्वाग्वसोः स्वस्ति ते पारमशीयेति त्रिरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति त्रिरेकैकस्य पुरस्तादग्नीषोमीया- द्विहव्यस्योत्तराभिश्चतसृभिरुपस्थायानुवाकशेषेणोपतिष्ठते । तस्मात्पुरा प्रातरग्निहोत्रे नोपावरोहेदित्येकेषाम् । अग्नेस्तृणान्यपचिनोति तेजस्वी ब्रह्मवर्चसी भवतीति विज्ञायते ॥ २१ ॥ इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने षष्ठः पटलः॥६॥ . 6.7 अथ षष्ठप्रश्ने सप्तमः पटलः । ऋते गृहस्य प्रवासं व्याख्यास्यामः। अग्नीन्समाधेहीति संप्रेष्यति प्रवत्स्यन्भास्वत उपतिष्ठते मम नाम प्रथमं जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयमुपस्थायाभिप्राण्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यमुपस्थायाभिप्राण्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादिति दक्षिणाग्निमुपस्थायाभिप्राण्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहान्गोपायतं युवम् । अविनष्टानविहृतान्पुषैनानभिरक्षत्वस्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्माꣳ उत्तरान्नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण सꣳसृज प्रजया च बहून्कृधीति प्रक्रामति सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते व्रतकालेषु व्रतं चरति । ऋतुं प्रत्युपतिष्ठते । यद्यनुपस्थिताग्निरापद्यते प्रवासः । इहैव सं तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इत्युपतिष्ठते । प्रोष्य । समिधो धारयन्विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येत्य सकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजतेऽग्नीन्समाधेहीति संप्रेष्यति ॥ २२ ॥ ज्वलत उपतिष्ठते नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वा सं मा रय्या सꣳसृजेत्युपसमिन्धेऽग्नेः समिदस्यभिशस्त्या मा पाहीत्येतैस्त्रिभिस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थी मनो ज्योतिर्जुषतामित्यध्वर्युराहुतिं जुहोति यदि दशमीमतिप्रवसति मम नाम तव च जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्याजुगुपस्तान्मे पुनर्देहीत्याहवनीयमुपस्थायाभ्यपान्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्याजुगुपस्तां मे पुनर्देहीति गार्हपत्यमुपस्थायाभ्यपान्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्याजुगुपस्तन्मे पुनर्देहीति दक्षिणाग्निमुपस्थायाभ्यपान्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहानजुगुपतं युवम् । अविनष्टानविहृतान्पूषैनानभ्यपराक्षीदास्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति गोपायाजुगुप इति सर्वत्रानुषजति गोपायेति वा । अथैकेषां विज्ञायते कः श्रेयाꣳसं विषुप्तं बोधयिष्यतीत्यप्रादुष्कृतानामेवोपस्थानꣳ स्यादभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति प्रवत्स्यन्नभयंकराभयं मेऽकार्षीः स्वस्ति मेऽस्तु प्रावात्स्यमिति प्रोष्य ॥ २३ ॥ गृहा मा विभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः । येषामभ्येति प्रवसन्येषु सौमनसो बभुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । उपहूता भूरिसखाः सखायः स्वादु संमुदः। अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा । ऊर्जस्वन्तः पयस्वन्त इरावन्तो ह सामुदः । अनश्या अतृष्या गृहा मास्मद्बिभीतनेति गृहानभ्येति क्षेमाय वः शान्त्यै प्रपद्ये शिवꣳ शग्मꣳ शंयोः शंयोरिति प्रविशति न तदहरागतः कलहं करोति गृहानहꣳ सुमनसः प्रपद्ये वीरघ्नो वीरतमः सुशेवान् । इरां वहन्तः सुमनस्यमानास्तेष्वहꣳ सुमनाः संविशामीति संविशति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इति भार्याꣳ समीक्षते ॥ २४ ॥ इति सत्याषाढहिरण्यकोशिसूत्रे षष्ठप्रश्ने सप्तमः पटलः ॥७॥ 6.8 अथ षष्ठप्रश्नेऽष्टमः पटलः । आग्रयणेष्टौ वत्सं प्रथमजं ददाति नानातन्त्रे श्यामाके बभ्रुं पिङ्गलं मधुपर्कं मधुमन्थं दधिमन्थं क्षीरौदनस्य वा पात्रं क्षौमं वासो वर्षाधृतं भद्रान्नः श्रेयः समनैष्ट देवा इति व्रीहीणां प्राश्नात्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामाकानामेतमु त्यं मधुना संयुतं यवꣳ सरस्वत्या अधिमनाऽवचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतु: कीनाशा आसन्मरुतः सुदानव इति यवानाम् । यथाविकारं पशावेकादश प्रयाजाननुमन्त्रयते । चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनेतरान् । स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मह्यं स्वः पशुभ्यो लोकविदसि लोकं वित्त्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यो गातुविदसि गातुं वित्त्वा गातुमिहि गातुं मह्यं गातुं पशुभ्यो नाथविदसि नाथं वित्त्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यो न वा उवेतन्म्रियस आशानां त्वा विश्वा आशा इति पशौ संज्ञप्यमाने जपति हुतायां वपायां परं ददाति तिस्रो वा दक्षिणा नयेत् । यथाविकारं पशावेकादशानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन प्रथमेन दशममुत्तमेनोत्तमम् । शृङ्गाणीवेच्छृङ्गिणाꣳ संददृश्रिरे चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवाꣳसो नमः सखिभ्यः सन्नान्माऽवगातेति ॥ २५ ॥ हुतꣳ स्वरुमुपतिष्ठत आशासानः सुवीर्यमिति संꣳस्थिते यूपम् । चातुर्मास्येष्वनड्वाहमनडुहो वा हिरण्यं वैश्वानरे ददाति धेनुं पार्जन्ये यथाविकारं नव प्रयाजाननुमन्त्रयते चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनोत्तमं वत्सं प्रथमजं वैश्वदेवे ददाति यथाविकारं नवानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन । तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति सर्वत्र केशेषूप्यमानेषु जपति चतुरो मासान्नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात्प्राङ्शेते न मध्वश्नाति नाञ्जीत नाभ्यञ्जीतर्तौ जायामुपेयात्सर्वेषां चातुर्मास्यानामेतान्यन्तरालव्रतानि भवन्ति धेनुं वरुणप्रघासेषु ददात्यृषभं प्रवयसꣳ साकमेधेषु यस्य रवते जुहोति तमेव पौर्णादर्व्येऽश्वꣳ श्वेतमादित्ये गां वा श्वेतꣳ षड्गवं द्वादशगवं वा सीरमुष्टारौ वोष्टारं वाऽन्यतरꣳ शुनासीरीयेऽश्वꣳ श्वेतꣳ सौर्ये गां वा श्वेतं तदभावेऽगौः श्वेतः स्याच्छ्वेतः स्यात् ॥ २६ ॥ इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्नेऽष्टमः पटलः ॥८॥ इति हिरण्यकेशिसूत्रे षष्ठः प्रश्नः॥६॥ </span></poem> <pages index="सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf" from="106" to="160" /> dgxvj9vbmtiuoet77an66c87a4i4nr3 341100 341097 2022-07-23T01:32:01Z Puranastudy 1572 wikitext text/x-wiki {{header | title = [[कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्]] | author = हिरण्यकेशिः/सत्याषाढः | translator = | section = प्रश्नः ०६ | previous = [[../प्रश्नः ०५|प्रश्नः ०५]] | next = [[../प्रश्नः ०७|प्रश्नः ०७]] | notes = }}<poem><span style="font-size: 14pt; line-height: 200%">6.1 अथ षष्ठः प्रश्नः । (तत्र प्रथमः पटलः ।) याजमानं व्याख्यास्यामः । समस्ते क्रतावर्थं श्रूयमाणं यजमानः कामयते । तथा नित्येषु यज्ञाङ्गेषु यानि तु कामयतिः श्रावयति । यथाऽऽघारस्योर्ध्वतायां नीचैस्तायां च । अर्थवादा इतरे । तथान्येषु यज्ञाङ्गेषु पुरीषवतीं करोति प्रजयैवैनं पशुभिः पुरीषवन्तं करोति यद्यूपं मिनोति मुवर्गस्य लोकस्य प्रज्ञात्या इषे त्वोर्जे त्वेति शाखामाच्छिनत्तीषमेवोर्जं यजमाने दधातीति । द्रव्यप्रकल्पनं यजमानस्य दक्षिणादानं ब्रह्मचर्यं जपाश्च । प्रत्यगाशिषो मन्त्रानकर्मकरणाञ्जपति । तथोपदिश्यमानानुपतिष्ठतेऽनुमन्त्रयतेऽभिमन्त्रयतेऽभिमृशति जपतीति च । यावदुक्तं कर्माणि करोति । यावदुक्तं पत्न्याः कर्माणि ब्रह्मचर्यं जपाश्च । दर्शपूर्णमासयोर्याजमानं व्याख्यास्यामः । पर्वणि यजमानः केशश्मश्रूणि वापयते । पौर्णमास्यां प्रातराशे जायापती सर्पिर्मिश्रमश्नीतः । यदन्यन्मांसान्माषेभ्यश्च । न सुहितौ स्याताम् । प्राग्वत्सापाकरणादमावास्यायां कामं सुहितौ स्याताम् । अग्निं गृह्णामि सुरथमित्यन्वाधीयमानेषु जपति । इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमीदमह- मिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमीदिमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यन्वाहितेषु । बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायाम् । अशनमग्न्यन्वाधानं व्रतोपायनमित्येवमनुपूर्वाण्येके समामनन्ति । अग्न्यन्वाधानमशनं व्रतोपायनमित्येके । प्रणीतासु प्रणीयमानास्वासन्नेषु हविःषु चैतौ साधारणौ कालौ । विद्युदसीत्यप उपस्पृश्य । अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य पयस्वतीरोषधय इत्यप आचामति । देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा इह माऽवत । इदꣳ शकेयं यदिदं करोम्यात्मा करोत्यात्मन इदं करिष्ये भेषजमिदं मे विश्वभेषजा । अश्विना प्रावतं युवमिति देवता उपतिष्ठते । समुद्रं मनसा ध्यायन्सम्राडसि व्रतपा असि, व्रतानां व्रतपतिरसि व्रतमारभे तत्ते प्रब्रवीमि तच्छ केयं तेन शकेयं तेन राध्यासमित्यादित्यमुपतिष्ठते । अग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणोऽग्निमुपतिष्ठते । वायो व्रतपत इति वायुमादित्य व्रतपत इत्यादित्यं व्रतानां व्रतपत इति व्रतपतिम् । एते साधारणा ऋतेऽग्नेः । पर्वणि यजमानः स्वयमग्निहोत्रं जुहोति ।.। १ ।। यवाग्वाऽमावास्यायाꣳ संनयन् । तस्या उच्छेणमातञ्चनार्थं निदधाति । नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नैताꣳ रात्रिमश्नाति । आरण्यस्य सायमश्नाति । आमार्गादा मधुन आप्राशातिकादित्येकेषाम् । आरण्यायोपवसन्नपोऽश्नीयान्न वा किंचन । उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसापि मह्यं गोपतये पशूनिति परिस्तीर्यमाणेषु जपति । आहवनीयागारे गार्हपत्यागारे वा संविशति । अमावास्यायां रात्रिं जागर्ति । अपि वा यथा शक्नुयात्तथा कुर्यात् । उपरि त्वेव न शयीत । कामं वोपरि शयीत । व्रतचारी त्वेव स्यात् । श्वोभूते । भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इति ब्रह्मिष्ठं व्रह्माणं वृत्वा । अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्यापरेण ब्रह्मसदनमुपविशति । आसꣳस्थानादन्वास्ते । यजमान वाचं यच्छेत्युच्यमाने बाचं यच्छत्या हविष्कृतः । भूश्च कश्च वाक्चर्क्च गौश्च बट्च खं च धूश्च नूश्च पूश्चैकाक्षराः पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीरिति प्रणीताः प्रणीयमाना अनुमन्त्रयते ब्रह्मपूताः स्थ को वो युनक्ति स वो युनक्त्वति साद्यमानाः । कस्त्वा युनक्ति स त्वा युनक्त्विति यज्ञं युनक्ति । सर्वमनुवीक्षते । यजमान इरिर्निर्वप्स्यामीत्युच्यमान ॐ निर्वपेति प्रत्याहाग्निꣳ होतारमिह तꣳ हुव इति हविर्निरुप्यमाणमनुमन्त्रयते निरुप्तं निर्वपणार्थं वा पात्रम् ।। २ ।। इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे प्रश्ने प्रथमः पटलः ।। १ ।। 6.2 अथ षष्ठे प्रश्ने द्वितीयः पटलः । इदं तस्मै हर्म्यं करो्मि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीष्विति वेदिदेशमभिमृशति । चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय का मान्। वेदेन वेदिं बृहतीमविन्दन्सा पृथिव्यां प्रयतां पार्थि- वानि ।तस्यां बर्हिः प्रथताꣳ साध्वन्तरहिꣳस्रा णः पृथिवी देव्यस्तु । वेदेन वेदिमिति वेदेन वेदिꣳ संमृज्यमानाम् । अभिमन्त्रयते । वेदेनेति पठितो मन्त्र आध्वर्यवे । यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्रवज्रेण शिरच्छिनद्मीति स्तम्बयजुर्ह्रियमाणम् । यदुद्धन्तो जिहिꣳसिम पृथिवीमोधधीरपः । अध्वर्यवस्फ्यकृतस्फ्येनान्तरिक्षं मोरुपाव तस्मात् । यदुद्धन्तो जिहिꣳसिम जीवमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः शिवा नो विश्वैर्भुवनेभिरस्त्विति स्फ्येनोत्तमां त्वचमुद्धन्यमानाम् । बृहस्पते परिगृहाण वेदिमिति परिग्राहयोः । भूमिर्भ्रूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्चेति कृताम् । ईडेऽन्यक्रतूरहमपो देवीरुपब्रुवे दिवा नक्तं च सस्रुषीरपस्वरीरिति प्रोक्षणीरासाद्यमानाः । आज्यमसीत्याज्यमवेक्षते यथाऽध्वर्युरद्भिराज्यमाज्येनापः सम्यक्पुनीत सवितुः पवित्रैः । ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यमपश्चोत्पूयमानाः । पञ्चानां त्वा वातानामित्येतैराज्यानि गृह्यमाणान्यशिश्रेम बर्हिरन्तः पृथिव्याꣳ सꣳरोहयन्त ओषधीर्विवृक्णा: । यासां मूलमुदवधी: स्फ्येन शिवा नस्ताः सुहवा भवन्त्वित्यन्तर्वेदि बर्हिरासाद्यमानम् ॥ ३॥ सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावापर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इति बर्हिः प्रोक्ष्यमाणमूर्णा मृदु प्रथमानꣳ स्योनं देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिः स्तीर्यमाणम् । चतुःशिखण्डा युवति: सुपेशा घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामानिति बर्हिषा वेदिꣳ स्तीर्यमाणाम् । शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैघि सूपचरणा च मे स्वधिचरणा चैधीषमूर्जं मे पिन्वस्व ब्रह्मतेजो मे पिन्वस्व क्षत्त्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वाऽऽयुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीर्णाम् । अस्मिन्यज्ञ उपभूय इन्नु मे विक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषाꣳसि निरितो नु दाता इति परिधीन्परिधीयमानात् । ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमिति च । युनज्मि त्वां यन्मे अग्न इति द्वाभ्यामग्निं परिधीयमानम् । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तनुवो यास्ते अग्ने ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्यातुधानाः पिशाचा इति परिधितम् । विच्छिनद्मि विधृतीभ्याꣳ सपत्नान्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहꣳ स्वानामुत्तमोऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती साद्यमाने ॥ ४ ॥ अयं प्रस्तर उभयस्य धर्त्ता धर्त्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्स्रुचो अध्यासादयामीति विधृत्योः प्रस्तरꣳ साद्यमानम् । आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरासंभृताङ्गो वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रियाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवानाग्नेयेन शर्मणा दैव्येनेति जुहूमवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्घृताची त्रैष्टुभेन छन्दसा विश्ववेदः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवा नैन्द्रेण शर्मणा दैव्येनेत्युपभृतं यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः । ध्रुवाऽसि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदः। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवान्वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाꣳ स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । अयꣳ स्रुवो अभिजिहर्ति होमान्छतक्षरं छन्दसाऽऽनुष्टुभेन । सर्वा यज्ञस्य समनक्तु विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्रुवमियꣳ स्थाली घृतस्य पूर्णा छिन्नपयाः शतधार उत्सः। मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् ॥५॥ यज्ञोऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्याग्नेयं प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्यग्नीषोमीयं यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनां नुदे तामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् । यस्त आत्मा पशुषु प्रविष्ट इति सांनाय्य आसाद्यमाने । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवोऽचिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशः सह ओजः सनेयꣳ शृतं मयि श्रयतामिति शृतं यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधि नोन्महेन्द्रं दधि मां धिनोत्विति दधि । अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्यामिति सꣳसन्नान्यभिमृशति ॥ ६ ॥ इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्ने द्वितीयः पटलः ॥२॥ 6.3 अथ षष्ठप्रश्ने तृतीयः पटलः । विहव्यस्याष्टाभिः पौर्णमास्याꣳ हवीꣳष्यासन्नान्यभिमृशति चतुर्होत्रा च । (+ पञ्चहोत्रैवामावास्यायामङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरवन्त्वित्यनूच्यमानासु सामिधेनीषु जपति दशहोतारं पुरस्तात्सामिधेनीनामुपरिष्टाद्वा व्याचक्षीत समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । स्वगादेवेभ्य इदं नम इति समिद्धमग्निमुच्छुष्मो अग्न इति च मनोऽसि प्राजापत्यमिति स्रुवाधारमनुमन्त्रयते वागसीति स्रुच्यं देवाः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टꣳ स्वं दत्तꣳ स्वं पूर्तꣳ स्वꣳ श्रान्तꣳ स्वꣳ हुतं तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोताऽऽदित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन्यजे यस्यास्मि न तमन्तरेमीति होतृप्रवरेऽध्वर्युप्रवरे च जपति मां देवेष्वाश्रावयाऽऽयुषे वर्चस इत्यध्वर्युप्रवरे वैशेषिकं चतुर्होतारं पुरस्तात्प्रयाजानामुपरिष्टाद्वा व्याचक्षीत वसन्तमृतूनां प्रीणामीत्येतैः प्रयाजानाꣳ हुतꣳ हुतमनुमन्त्रयतेऽग्निश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमित्याग्नेयस्याऽऽज्यभागस्य सोमश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमिति सौम्यस्याग्नीषोमयोरहमिति समस्तानुमन्त्रणमेके समामनन्ति पञ्चहोतारं पुरस्ताद्धविषामवदानानामुपरिष्टाद्वा व्याचक्षीताग्नेरहं देवयज्ययाऽन्नादो भूयासमित्याग्नेयस्य दब्धिरसीत्युपाꣳशुयाजस्याग्नीषोमयोरहमित्यग्नीषोमीयस्येन्द्राग्नियोरहमित्यैन्द्राग्नस्येन्द्रस्याहमित्यैन्द्रस्य महेन्द्रस्याहमिति माहेन्द्रस्याग्नेः स्विष्टकृतोऽहमिति स्विष्टकृतोऽग्निर्मा दुरिष्टात्पात्विति च सुरूपवर्षवर्ण एहीतीडामाह्रियमाणां प्रतीक्षते ॥ ७ ॥ इड एह्यदित एहि भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीत्युपाꣳशूपहवे सप्त देवगवीर्जपति चिदसि मनासि वस्वी रन्ती रमतिः सूनरी सूनृतेत्युच्चैरुपहवे सप्त मनुष्यगवीर्जपति विश्वा त्वं भूताऽनुप्राणिहि विश्वा त्वा भूताऽनुप्राणन्तु भूरस्यायुरसीष्टिरसि सुरूपवर्षवर्ण एहीमान्भद्रान्दुर्याꣳ अभ्येहि मामनुव्रतान्यु शीर्षाणि मृड्ढ्वꣳ सा नः प्रियासु प्रतूर्त्तिः प्रिया नः सुहृन्नः प्रियवती मघोनी जुष्ट एहि रन्त एहि रमत एहि सूनृत एहि सुहवाम एहि सह रायस्पोषेण देवीर्देवैरभि मा निवर्तध्वꣳ स्योना स्योनेन घृतेन मा समुक्षत नम एतदुपदं भिषगृषिर्ब्रह्मा यद्ददौ समुद्रादुदञ्चन्निव स्रुचावागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन्नित्युच्चैरुपहवे वायविडा ते मातेति होतारमीक्षमाणो वायुं मनसा ध्यायेदुपहूतोऽयं यजमान इत्युच्यमान उपहूतः पशुमानसानीति जपत्यस्मास्विन्द्र इन्द्रियं दधात्विति चेडाया अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिडे भागं जुषस्व नो जिन्व गा जिन्वार्वतस्तस्यास्ते भक्षिवाण: स्याम सर्वात्मानः सर्वगणाः । इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडा जिन्वतां पयसाऽभ्यस्मानित्युपहूतामिडां व्याख्याता मार्जनी । ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां क्लृप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्ताꣳ संवत्सरो मे कल्पतां क्लृप्तिरसि कल्पतां म आशानां त्वाऽशापालेभ्यश्चतुर्भ्यो अमृतेभ्य इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयमिति प्रतिदिशं व्यूहति भजतां भागी भागं मा भागोभक्तनिरभागं भजामोऽपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय ब्राह्मणानामिदꣳ हविः सोम्यानाꣳ सोमपीथिनां निर्भक्तो ब्राह्मणो नेहाब्राह्मणस्यास्तीति च ॥ ८ ॥ इदं ब्रह्मण इदꣳ होतुरिदमध्वर्योरिदमग्नीध इति चतुर्धा व्यादिशति । आग्नीध्रप्रथमान्व्यादेशानेके समामनन्ति । इयꣳ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमित्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति प्रजापतेर्भागोऽसीति च । दक्षिणसद्भ्य उपहर्तवा इत्युच्यमाने दक्षिणत एतेत्यृत्विजः संप्रेष्यति । ब्राह्मणा अयं व ओदन इति दक्षिणतः परिक्रान्तेभ्यस्तं चतुर्धा व्युद्धृत्यै ददाति । एषा ते अग्ने समित्तया वर्धस्व चाऽऽच प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहि । यं ते अग्न आवृश्चाम्यहं वाक्षिपितश्चरन् । प्रजां च तस्य मूलं च । नीचैर्देवा निवृश्चत । अग्ने यो नो भिदा सति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाꣳस्तानग्ने संदह याꣳश्चाहं द्वेष्मि ये च मामित्यनूयाजसमिधमाधीयमानाम् । वेदिर्बर्हिः शृतꣳ हविरिध्मः परिधयः स्रुचः । आज्यं यज्ञ रुचो यजुर्याज्याश्च वषट्काराः सं मे सन्नतयो नमन्तामिध्मसंनहने हुत इतीध्मसंनहने हुते । अङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरहौषुरित्यनूयाजेषु जपति सप्तहोतारं पुरस्तादनूयाजानामुपरिष्टाद्वा व्याचक्षीत बर्हिषोऽहं देवयज्यया प्रजावान्भूयासमित्येतैरनूयाजानाꣳ हुतꣳ हुतमनुमन्त्रयते वाजस्य मा प्रसवेनेति द्वाभ्याꣳ स्रुचौ व्यूह्यमाने ॥९॥ वसून्देवान्यज्ञेनापिप्रेयꣳ रुद्रान्देवान्यज्ञेनापिप्रेयमादित्यान्देवान्यज्ञेनापिप्रेयमिति परिधीनज्यमानान्समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत्स्वाहेति स्रुक्षु प्रस्तरमज्यमानमपिप्रेड्यज्ञो यज्ञमयाङ्देवाꣳ अरंकृतः सोमः । तं मित्रो वरुणो अर्यमा रायस्योषा यजमानं विशन्त्विति प्रस्तरस्य तृणमपात्तम् । अग्नेरहमुज्जितिमनुज्जेषमितिसूक्तवाकेन होता यां यां देवतामभिव्याहरति तां तां यजमानोऽनुमन्त्रयते । यर्हि होता यजमानस्य नाम गृह्णीयात्तर्हि ब्रूयादेमा अग्मन्नाशिषो दोहकामा इति । सा मे सत्याऽऽशीर्देवेषु भूयान्मन्यान्मन्यतमाज्जुष्टाज्जुष्टतमादरैडता मनसा तच्छ केयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वित्याशीष्षु जपति । अदो म आगम्यादिति यत्कामयते तस्य नाम गृह्णाति । रोहितेन त्वाऽग्निर्देवतां गमयत्त्वित्येतैः प्रस्तरमवसृष्टम् । दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेनासहस्रकाण्डेन द्विषन्तं तापयामसि द्विषन्नस्ताप्यतां बहुमानागास्तप्यौषधय इति प्रस्तरस्य तृणमनुप्रहृतम् । विष्णोः शंयोरहमिति शंयुवाके । वि ते मुञ्चामि रशना इति द्वाभ्यामग्निं परिधिषु प्रह्रियमाणेषु । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वाꣳ अथर्वभिः । तस्य मेष्टस्य वीतस्य द्रविणमागम्याद्वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्विहाऽऽगच्छत्वदो म आगच्छत्विति सꣳस्रावभागान्यत्कामयते तस्य नाम गृह्णाति । वेदोऽसि वित्तिरसीतिवेदमन्तर्वेद्यासन्नमभिमृशति । विदेयेत्यस्य पुरस्तादुपरिष्टाद्वा यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात्तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ॥१०॥ इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने तृतीयः पटलः॥३॥ 6.4 अथ षष्ठप्रश्ने चतुर्थः पटलः । पत्नीसंयाजेषु सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति सोमस्य त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयमिति त्वष्टुर्देवानां पत्नीनामहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्चेति देवपत्नी राकाया अहं देवयज्यया प्रजावान्भूयासमिति राकां सिनीवाल्या अहं देवयज्यया पशुमान्भूयासमिति सिनीवालीं कुह्वा अहं देवयज्यया पुष्टिमान्भूयासमिति कुहूमग्निर्गृहपतिर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया प्रतिष्ठावान्भूयासमित्यग्निं गृहपतिं देवानां पत्नीरग्निर्गृहपतिरिति समस्तानुमन्त्रणमेके समामनन्ति । इडाऽस्माननुवस्तान्घृतेन यस्याः पदे पुनते देवयन्तः। वैश्वानरी शक्वरी वावृधानोपयज्ञमस्थित वैश्वदेवीत्याज्येडाम् । या सरस्वती यशोभगीना तस्यै ते स्वाहेति फलीकरणहोमे हूयमाने मुखं विमृष्टे । या सरस्वती वेशभगीना तस्यै ते स्वाहेति हुते मुखं विमृष्टे । वेदोऽसि वित्तिरसीति वेदꣳ होत्रा पत्न्यै प्रदीयमानम् । वेदोऽसि वेदसे त्वा वेदो मे विन्देति वा । घृतवन्तं कुलायिनमिति वेदमुपस्थेऽस्यमानम् । वेदोऽसि वेदो म आहर तृप्तस्त्वं तृप्तोऽहं प्रजया पशुभिर्भूयासमिति वा । त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान्त्वया होता संतनोत्यर्धमासानिति वेदꣳ स्तीर्यमाणम् । अग्नेऽदब्धायो इति समिष्टयजुः । दिवः खीलोऽवततः पृथिव्या अध्युत्थितः तेनासहस्रकाण्डेन द्विषन्तꣳ शोचयामसि द्विषन्मे बहु शोचत्वोषधे मो अहꣳ शुचमिति बर्हिरनुप्रहृतम् । सं यज्ञपतिराशिषेति ॥ ११॥ यजमानभागं प्राश्नाति शृतस्य दध्नश्च ब्राह्मणोऽश्नाति न वैश्यराजन्याविदꣳ हविः प्रजननं मे अस्त्विति शृतस्य दधिक्राव्णो अकारिषमिति दध्नः । अन्तर्वेदि प्रणीतासु मार्जयते । अध्वर्युश्चास्मै संततां धारा स्रावयति सदसि सन्मे भूया इत्यानीयमानासु जपति । प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामिति प्रतिदिशं व्युत्सिञ्चति समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचिमत्पय इति शेषं निनयति। यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वतीति मुखं विमृष्टे। अत्र यजमानभागप्राशनमेके समामनन्ति । अत एवोपोत्थाय विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान्क्रामति दक्षिणेन प्रक्रम्य सव्येनानुप्रक्रामति न सव्येन दक्षिणमतिक्रामति नाऽऽहवनीयमतिक्रामत्युत्तरमुत्तरं ज्यायाꣳसं तिष्ठꣳश्चतुर्थं जपति । उद्यन्नद्य मित्रमहः सपत्नान्मे अनीनशः। दिवैनान्विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाणꣳ रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं निदध्मसि । उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वपापꣳ समूहताम् । यो नः सपत्नो यो रणो मर्तो भिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचनेति ॥१२॥ आदित्यमुपतिष्ठतेऽगन्म सुवः सुवरगन्मेति च । इदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिव इति यं द्वेष्टि तस्य वधं मनसा ध्यायति । यद्यभिचरेदिदमहममुष्याऽऽमुष्यायणस्य प्राणं नि ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीरिति दक्षिणमꣳसमभिपर्यावर्तते । तेजोऽसीत्याहवनीयमुपपर्यावर्तते । समहं प्रजयेत्युपतिष्ठते । समिद्धो अग्न इत्युपसमिन्धे । वसुमान्यज्ञ इत्युपतिष्ठते। अग्ने वह्ने स्वदितुं नस्तनये पितुं पच । विभुꣳ शं तोकाय तनुवे स्योन इति दक्षिणाग्निमुपतिष्ठतेऽग्न आयूꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गाईपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात् । तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रः । बहुपुत्रः सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति । ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी निषीदति । वेदतृणान्युपस्थ आधाय ये देवा यज्ञहन इत्यन्तर्वेद्यासीनोऽतीमोक्षाजपति । कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति सर्वमनुवीक्षतेऽग्ने व्रतपते व्रतमचारिषमित्येतैर्व्रतं विसृजते यज्ञो बभूव स आबभूवेति यज्ञस्य पुनरालम्भं जपति गोमाꣳ अग्नेऽविमाꣳअश्वी यज्ञ इति प्राङुत्क्रम्य जपति ॥ १३ ॥ यज्ञ शं च ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्वं स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्धिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नम इति जपति । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामप्सु श्रद्धेत्यप उपस्पृश्य यथेतं प्रतिनिष्क्रामति । ब्राह्मणाꣳस्तर्पयितवा इति संप्रेष्यति । एवं विहितं प्रवसतोऽपि याजमानम् । यस्यामस्य दिश्यग्नयो भवन्ति तां दिशमभिमुखो मन्त्राञ्जपति । अध्वर्युः कर्माणि करोति । अन्यान्यभिमर्शनात् ।। यजमानो मन्त्राञ्जपत्यन्यान्व्यादेशनात् । एवं विहितमिष्टिपशुबन्धानां याजमानम् । यथाविकारमनुमन्त्रणाः । इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो भूयासꣳ सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासमदित्या अहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्च द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर्ऋध्यासं भूमानं प्रतिष्ठां गमेयमर्यम्णोऽहं देवयज्यया स्वर्गं लोकं पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयमिन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रियावी पशुमान्भूयासमिन्द्रस्य त्रातुरहं देवयज्यया त्रातो भूयासमिति प्रत्यक्षाम्नाता अनुमन्त्रणाः ॥ १४ ॥ इति हिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने चतुर्थः पटलः ॥४॥ . 6.5 अथ षष्ठप्रश्ने पञ्चमः पटलः । अग्न्याधेयस्य याजमानं व्याख्यास्यामः । पुरस्ताद्ब्राह्मौदनिकात्केशश्मश्रूणि वापयते नखानि निकृन्तते दतो धावते स्नात्यहतं वासः परिधत्ते । ब्रह्मौदनं प्राशितवद्भ्यो वरं ददाति । आहितासु समित्सु मिथुनावसिक्तरेतसौ ददाति । न प्रयाति न प्रवसति। नास्याग्निं गृहाद्धरन्ति । अन्यतश्च नाऽऽहरन्ति । शिल्पैरेताꣳ रात्रिं जागर्ति । शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम्। उभयोर्लोकयोर्ऋद्ध्वाऽतिमृत्युं तराम्यहमिति शल्कैस्ताꣳ रात्रिमग्निमिन्धे । मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगामीत्यरणी प्रदीयमाने प्रतीक्षत आरोहतं दशतꣳ शक्वरीर्ममर्तेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्णात्यृत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे तत्सत्यं यद्वीर बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनयिष्येथे ते मा प्रजाते प्रजनयिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते । आत्मन्नाग्निं गृह्णीते यथाऽध्वर्युरिदमहमनृतात्सत्यमुपैमि सत्यान्मानुषमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति वाचं यच्छति मजापतेस्त्वा प्राणेनाभि प्राणिमि पूष्णः पोषेण मह्यम् । दीर्घायुत्वाय शतशारदाय शतꣳ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्यायेति जातमभिप्राणित्यहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इति जातमभिमन्त्र्य वरं ददाति । वाचं विसृजतेऽत्र क्षौमे वाससी परिदधाते यजमानः पत्नी च । ते अपवृत्तेऽग्न्याधेयेऽध्वर्यवे दत्तो याभ्यां याभ्यां व्याहृतीभ्यां येन येन यथर्ष्याधानेन याभ्यां याभ्याꣳ सार्पराज्ञीभ्यां येन येन च घर्मशिरसा दधाति सर्वत्र तेन तेनोपतिष्ठते ॥ १५ ॥ </span></poem> [[File:दर्शपूर्णमासः Darshapurnamasa.jpg|thumb|500px|दर्शपूर्णमासः]] <poem><span style="font-size: 14pt; line-height: 200%">सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीः श्रेयसीर्दधत् । अग्ने सपत्नाꣳ अपबाधमानो रायस्पोषमिषमूर्जमस्मामु धेहीत्याहितं गार्हपत्यमुपतिष्ठत इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति मध्यदेशे ह्रियमाणमभिमन्त्रयते समयार्धे वरं ददात्यानशे व्यानशे सर्वमायुर्व्यानश इत्याहितमाहवनीयमुपतिष्ठते। ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ प्रभ्वी च मभूतिश्च ते मा विशतां ते मा जिन्वतां यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वा दध इति शिवाभिस्तनूभिराहितमाहवनीयमुपतिष्ठते स्निक्च स्नीहितिश्च स्निहितिश्च सदाम्नी चामतिश्चानाहुतिश्च निर्ऋतिरेतास्ते अग्ने घोरास्तनुवोऽमर्त्यो मर्त्यस्तान्गच्छन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्पूर्णाहुतेर्घोराभिरुपतिष्ठते पूर्णाहुतौ वरं ददात्युपरिष्टात्पूर्णाहुतेः शिवाभिरुपस्थाय । विराजक्रमैरुपतिष्ठतेऽथर्वपितुं मे गोपायान्नं प्राणेन संमितम् । त्वया गुप्ता इषमूर्जं मदन्तः शतं जीवेम शरदः सवीरा इति दक्षिणाग्निं नर्य प्रजां मे गोपाय मूलं लोकस्य संततिम् । आत्मनो हृदयान्निर्मितां ता ते परिददाम्यहमिति गार्हपत्यꣳ शꣳस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं ताꣳस्ते परिददाम्यहमित्याहवनीयꣳ सप्रथसभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति स प्रथ सभां मे गोपाय ये च सभ्याः सभासदः। तानिन्द्रियावतः कुरु सर्वमायुरुपासतामिति सभ्यमहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियै यशः परिददाम्यहमि[https://puranastudy.angelfire.com/pur_index2/aavasath.htm त्यावसथ्यं] पञ्चधाऽग्नीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः । ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् । यत्रास्मै ॥ १६ ।। शतमक्षान्प्रयच्छति तेषु कृतं विजित्य सभासद्भ्यः प्रयच्छति ते यज्जयन्ति तदुभयमन्नꣳ सꣳस्कृत्य ब्राह्मणान्भोजयति । आग्नेयस्य दक्षिणाकालेऽजं पूर्णपात्रमुपबर्हणꣳ सार्वसूत्रमश्वꣳ रथं वासः षङ्गा द्वादश चतुर्विꣳशतिरपरिमिता वर्धमाना ददाति तासां धेनुरनड्वान्मिथुनौ चाऽऽदिष्टरूपाण्यजं पूर्णपात्रमुपबर्हणं चाग्नीधे ददात्यश्वं ब्रह्मणे धेनुꣳ होत्रे गार्हपत्यदेशेऽनड्वाहमाहवनीयदेशेऽध्वर्यवे शेषः साधारणस्त्रिंꣳशन्माने पूर्वयोः पवमान हविषोर्हिरण्ये दक्षिणां ददाति चत्वारिꣳशन्मानमुत्तमे धेनुमादित्ये। आधानप्रभृति यावज्जीवं नानृतं वदेत् । नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् । सूर्योढमतिथिं वसत्यै नापरुन्ध्यात् । न नक्तमन्यत्रान्नाद्दद्यात् । अन्नं ददन्नक्तमदयीत । नर्बीषपक्वस्याश्नीयात् ।। या अन्तर्नाव्या आपस्तासां नाश्नीयात् । रजतꣳ हिरण्यं बर्हिषि न दद्यात् । क्लिन्नं दारु नाभ्यादध्यादभ्यादध्याद्वा । स्वकृत इरिणे प्रदरे वा नावस्येत् । हिंकृत्य वाग्यतः स्त्रियं संभवेत् । व्याहरेद्वा। नैतस्मिन्संवत्सरे पशुनाऽनिष्ट्वाऽनादिष्टो माꣳसं भक्षयेत् । यदि भक्षयेन्मनसाऽग्निभ्यः प्रहिणोमि भक्षं मम वाचा तं सह भक्षयन्तु । अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयतेत्युक्त्वाऽऽदिष्टो भक्षयति । द्वादशरात्रमजस्रेष्वग्निष्वाज्येन स्वयमग्निहोत्रं जुहोति। अहतं वासो वस्ते । काममन्यो जुहुयात् । व्रतचारी त्वेव स्यात् । स्वयं त्रयोदशीं जुहोति । यां प्रथमामग्निहोत्राय दुहन्ति साऽग्निहोत्रस्य दक्षिणा। मिथुनौ गावावन्वारम्भणीयायां ददात्युभयीः पुनराधेय अग्न्याधेयिकीर्दत्त्वा पौनराधेयिकीर्ददाति पुनर्निष्कृतो रथः पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनवाञ्शतमानं च हिरण्यं पुनराधेयस्य दक्षिणाऽपि वा पौनराधेयिकीरेव दद्यादिति पैङ्ग्यब्राह्मणम् ॥ १७ ॥ इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने पञ्चमः पटलः ॥५॥ 6.6 अथ षष्ठप्रश्ने षष्ठः पटलः । विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येति । यदग्ने यानि कानि चेति प्रतिमन्त्रमाहवनीये वर्षिष्ठमिध्ममादधाति । उद्धरेत्युद्ध्रियमाणमभिमन्त्रयते । उद्धरणप्रभृति नाश्नीयादाहोमाद्विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य दक्षिणत उपविशति पत्नी पत्न्या लोक इडाऽसि व्रतभृदहं नावुभयोर्व्रतं चरिष्याम्यादित्य व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि सुरूपेऽहं नावुभयोर्व्रतं चरिष्यामीड एहि मयि श्रयस्वेति यदग्निहोत्र्यां व्रतं तदात्मन्कुरुते । श्रद्ध एहि सत्येन त्वाऽऽह्वयामीत्याहूयमानामियमसि तस्यास्तेऽग्निर्वत्सः सा मे स्वर्गं च लोकमुभयं च धुक्ष्वेति दुह्यमानामोमुन्नेष्याम्युन्नयामीति वोच्यमाने हविर्देवानामसि मृत्योर्मेsभयꣳ स्वस्ति मेऽस्त्वभयं मे अस्त्वित्युपाꣳशूक्त्वोमुन्नयेत्युच्चैः प्रत्याहोन्नीयमाने तिष्ठति न चंक्रम्यते वाचं यच्छत्याहोमादुन्नीत उपविशति । उत्तरामाहुतिमुपोत्थाय कवातिर्यङ्ङिव। आहवनीयमुपतिष्ठते सर्वैरुपस्थानैः । उपप्रयन्तो अध्वरमिति षड्भिस्तासामग्नीषोमीयया पूर्वपक्ष उपतिष्ठेतैन्द्राग्न्याऽपरपक्षे । अग्नीषोमाविमꣳ सुम इत्यग्नीषोमीयोभा वामिन्द्राग्नी इत्यैन्द्राग्नी तयोः । परस्ताद्विहव्यस्याऽऽदितश्चतसृभिरुपतिष्ठते । तासामुपरिष्टादग्न आयूꣳषि पवस इति षड्भिराग्निपावमानीभिः। संवत्सरे गार्हपत्यमुपतिष्ठत आयुर्दा अग्नेऽस्यायुर्मे देहीति चतुर्भिराहवनीयं चित्रावसो स्वस्ति ते पारमशीयेति द्विरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति द्विर्द्विरैकैकस्य । अंग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्या म एहि यमस्य समिदसि मृत्योर्मा पाहीत्येतैस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थीम् । वयꣳ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहीति मुखं विमृष्टे सं त्वमग्ने सूर्यस्य वर्चसागथा इति च । संपश्यामि प्रजा अहमिति ॥ १८ ॥ मनुष्यानुपतिष्ठतेऽम्भस्याम्भो वो भक्षीयेति पशून्रेवती रमध्वमित्यन्तराऽग्नी तिष्ठञ्जपति सꣳहिताऽसि विश्वरूपीरिति गामालभते वत्सं वोप त्वाऽग्ने दिवे दिव इति षड्भिर्गायत्रीभिर्द्विपदाभिर्गार्हपत्यमुपतिष्ठत ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गोष्ठं भुवनमसि सहस्रपोषं पुषिसहस्रपोषस्येशिषे तस्यास्ते भूयिष्ठभाजो भूयास्मेति पुनरेव गामालभते वत्सं वा महित्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य । नहि तेषाममाचन नाध्वसु वारणेषु। ईशे रिपुरघशꣳसः। ते ह पुत्रासो अदितेः शर्म यच्छन्त्वजस्रम् । प्रदाशुषे वार्याणीति माहित्रेण तृचेनोपतिष्ठते तत्सवितुर्वरेण्यमिति सावित्र्या सोमानꣳ स्वरणमित्येषा सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः। योरेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः। मा नः शꣳसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । रक्षा णो ब्रह्मणस्पत इति ब्राह्मणस्पत्याभिरुपतिष्ठते कदाचन स्तरीरसि कदाचन प्रयुच्छसीति द्वे परि त्वाऽग्ने पुरं वयमित्येषा परि ते दूढभो रथोऽस्माꣳ अश्नोतु विश्वतः । येन रक्षसि दाशुष इति पर्यावर्त्यान्तत उपतिष्ठते । दूढभवतीमुत्तमामेके समामनन्ति निमृदोऽसि न्यहं तं मृधासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्प्रपदेनावगृह्णीयाद्यदि श्रेयसा स्पर्धेत प्रभूरसि प्राहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदोऽवगृह्णीयाद्यदि सदृशेन स्पर्धेताभिभूरस्यभ्यहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पश्चात्पार्ष्ण्यावगृह्णीयाद्यदि पापीयसा स्पर्धेत ॥ १ꣳ ॥ पूषा मा पशुपाः पातु पूषा मा पथिपाः पातु पूषा माऽधिपाः पातु पूषा माऽधिपतिः पात्विति जपित्वा प्राची दिगग्निर्देवता यो मैतस्यै दिशोभिदासादग्निꣳ स ऋच्छत्वग्निर्मे तस्यै दिशो गोपायतु दक्षिणा दिगिन्द्रो देवता यो मैतस्यै दिशोभिदासादिन्द्रꣳ स ऋच्छत्विन्द्रो मे तस्यै दिशो गोपायतु प्रतीची दिङ्मरुतो देवता यो मैतस्यै दिशो भिदासान्मरुतः स ऋच्छतु मरुतो मे तस्यै दिशो गोपायन्तु उदीची दिङ्मित्रावरुणौ देवता यो मैतस्यै दिशो भिदासान्मित्रावरुणौ स ऋच्छतु मित्रावरुणौ मे तस्यै दिशो गोपायेताम् । ऊर्ध्वा दिग्बृहस्पतिर्देवता यो मैतस्यै दिशो भिदासाद्बृहस्पतिꣳ स ऋच्छतु बृहस्पतिर्मे तस्यै दिशो गोपायतु । इयं दिगदितिर्देवता यो मैतस्यै दिशो भिदासाददितिꣳ स ऋच्छत्वदितिर्मे तस्यै दिशो गोपाय त्विति दिश उपस्थाय धर्मो मा धर्मिणः पातु विधर्मो मा विधर्मिणः पात्वायुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राणश्चापानश्च प्राञ्चावाञ्चोरुग उरुगोऽर्कस्य ते वयं वाचा संभक्तेन गमेम ह्यच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा छित्सि मामायुषा ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी तिष्ठञ्जपत्यग्न आयुꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात्तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रो बहुपुत्रा सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति सायꣳ सायमुपतिष्ठते॥२०॥ अपि वा दिवैतत् । भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैरिति वा काममैन्द्रो वित्तादिति वा श्रद्धा मे मा व्यगादिति वा भर्तुं वः शकेयमिति वा । तत्सर्वं कृताकृतम् । प्रातरवनेकेन प्रातरुपस्थेयः। तत्राधिश्रित उन्नीयमाने वा। विहव्यस्याऽऽदितश्चतसृभिरुपस्थाय । अपां पत इति त्रीनुदकाञ्जलीन्निनयति प्रतिषिक्ता अरातय इति त्रिः परिषिञ्चति कालाय वां जैत्रियाय वामिति पाणी प्रक्षालयत इदमहं दुरद्मन्यां नि:प्लावयामीत्यप आचम्य निष्ठीवति भ्रातृव्याणाꣳ सपत्नानामिति पुनरेव पाणी प्रक्षालयत इन्द्रियवतीमद्याहं वाचमुद्यासमिति यथारूपं प्राणायतनानि संमृज्योत्तरेणानुवाकेनोपतिष्ठते तत्रार्वाग्वसोः स्वस्ति ते पारमशीयेति त्रिरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति त्रिरेकैकस्य पुरस्तादग्नीषोमीया- द्विहव्यस्योत्तराभिश्चतसृभिरुपस्थायानुवाकशेषेणोपतिष्ठते । तस्मात्पुरा प्रातरग्निहोत्रे नोपावरोहेदित्येकेषाम् । अग्नेस्तृणान्यपचिनोति तेजस्वी ब्रह्मवर्चसी भवतीति विज्ञायते ॥ २१ ॥ इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने षष्ठः पटलः॥६॥ . 6.7 अथ षष्ठप्रश्ने सप्तमः पटलः । ऋते गृहस्य प्रवासं व्याख्यास्यामः। अग्नीन्समाधेहीति संप्रेष्यति प्रवत्स्यन्भास्वत उपतिष्ठते मम नाम प्रथमं जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयमुपस्थायाभिप्राण्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यमुपस्थायाभिप्राण्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादिति दक्षिणाग्निमुपस्थायाभिप्राण्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहान्गोपायतं युवम् । अविनष्टानविहृतान्पुषैनानभिरक्षत्वस्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्माꣳ उत्तरान्नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण सꣳसृज प्रजया च बहून्कृधीति प्रक्रामति सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते व्रतकालेषु व्रतं चरति । ऋतुं प्रत्युपतिष्ठते । यद्यनुपस्थिताग्निरापद्यते प्रवासः । इहैव सं तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इत्युपतिष्ठते । प्रोष्य । समिधो धारयन्विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येत्य सकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजतेऽग्नीन्समाधेहीति संप्रेष्यति ॥ २२ ॥ ज्वलत उपतिष्ठते नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वा सं मा रय्या सꣳसृजेत्युपसमिन्धेऽग्नेः समिदस्यभिशस्त्या मा पाहीत्येतैस्त्रिभिस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थी मनो ज्योतिर्जुषतामित्यध्वर्युराहुतिं जुहोति यदि दशमीमतिप्रवसति मम नाम तव च जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्याजुगुपस्तान्मे पुनर्देहीत्याहवनीयमुपस्थायाभ्यपान्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्याजुगुपस्तां मे पुनर्देहीति गार्हपत्यमुपस्थायाभ्यपान्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्याजुगुपस्तन्मे पुनर्देहीति दक्षिणाग्निमुपस्थायाभ्यपान्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहानजुगुपतं युवम् । अविनष्टानविहृतान्पूषैनानभ्यपराक्षीदास्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति गोपायाजुगुप इति सर्वत्रानुषजति गोपायेति वा । अथैकेषां विज्ञायते कः श्रेयाꣳसं विषुप्तं बोधयिष्यतीत्यप्रादुष्कृतानामेवोपस्थानꣳ स्यादभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति प्रवत्स्यन्नभयंकराभयं मेऽकार्षीः स्वस्ति मेऽस्तु प्रावात्स्यमिति प्रोष्य ॥ २३ ॥ गृहा मा विभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः । येषामभ्येति प्रवसन्येषु सौमनसो बभुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । उपहूता भूरिसखाः सखायः स्वादु संमुदः। अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा । ऊर्जस्वन्तः पयस्वन्त इरावन्तो ह सामुदः । अनश्या अतृष्या गृहा मास्मद्बिभीतनेति गृहानभ्येति क्षेमाय वः शान्त्यै प्रपद्ये शिवꣳ शग्मꣳ शंयोः शंयोरिति प्रविशति न तदहरागतः कलहं करोति गृहानहꣳ सुमनसः प्रपद्ये वीरघ्नो वीरतमः सुशेवान् । इरां वहन्तः सुमनस्यमानास्तेष्वहꣳ सुमनाः संविशामीति संविशति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इति भार्याꣳ समीक्षते ॥ २४ ॥ इति सत्याषाढहिरण्यकोशिसूत्रे षष्ठप्रश्ने सप्तमः पटलः ॥७॥ 6.8 अथ षष्ठप्रश्नेऽष्टमः पटलः । आग्रयणेष्टौ वत्सं प्रथमजं ददाति नानातन्त्रे श्यामाके बभ्रुं पिङ्गलं मधुपर्कं मधुमन्थं दधिमन्थं क्षीरौदनस्य वा पात्रं क्षौमं वासो वर्षाधृतं भद्रान्नः श्रेयः समनैष्ट देवा इति व्रीहीणां प्राश्नात्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामाकानामेतमु त्यं मधुना संयुतं यवꣳ सरस्वत्या अधिमनाऽवचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतु: कीनाशा आसन्मरुतः सुदानव इति यवानाम् । यथाविकारं पशावेकादश प्रयाजाननुमन्त्रयते । चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनेतरान् । स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मह्यं स्वः पशुभ्यो लोकविदसि लोकं वित्त्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यो गातुविदसि गातुं वित्त्वा गातुमिहि गातुं मह्यं गातुं पशुभ्यो नाथविदसि नाथं वित्त्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यो न वा उवेतन्म्रियस आशानां त्वा विश्वा आशा इति पशौ संज्ञप्यमाने जपति हुतायां वपायां परं ददाति तिस्रो वा दक्षिणा नयेत् । यथाविकारं पशावेकादशानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन प्रथमेन दशममुत्तमेनोत्तमम् । शृङ्गाणीवेच्छृङ्गिणाꣳ संददृश्रिरे चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवाꣳसो नमः सखिभ्यः सन्नान्माऽवगातेति ॥ २५ ॥ हुतꣳ स्वरुमुपतिष्ठत आशासानः सुवीर्यमिति संꣳस्थिते यूपम् । चातुर्मास्येष्वनड्वाहमनडुहो वा हिरण्यं वैश्वानरे ददाति धेनुं पार्जन्ये यथाविकारं नव प्रयाजाननुमन्त्रयते चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनोत्तमं वत्सं प्रथमजं वैश्वदेवे ददाति यथाविकारं नवानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन । तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति सर्वत्र केशेषूप्यमानेषु जपति चतुरो मासान्नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात्प्राङ्शेते न मध्वश्नाति नाञ्जीत नाभ्यञ्जीतर्तौ जायामुपेयात्सर्वेषां चातुर्मास्यानामेतान्यन्तरालव्रतानि भवन्ति धेनुं वरुणप्रघासेषु ददात्यृषभं प्रवयसꣳ साकमेधेषु यस्य रवते जुहोति तमेव पौर्णादर्व्येऽश्वꣳ श्वेतमादित्ये गां वा श्वेतꣳ षड्गवं द्वादशगवं वा सीरमुष्टारौ वोष्टारं वाऽन्यतरꣳ शुनासीरीयेऽश्वꣳ श्वेतꣳ सौर्ये गां वा श्वेतं तदभावेऽगौः श्वेतः स्याच्छ्वेतः स्यात् ॥ २६ ॥ इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्नेऽष्टमः पटलः ॥८॥ इति हिरण्यकेशिसूत्रे षष्ठः प्रश्नः॥६॥ </span></poem> <pages index="सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf" from="106" to="160" /> r9t96s0cavdx4crnfecl5dv9ug5a2vr पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५०९ 104 116852 341091 324109 2022-07-22T14:26:38Z Geeta g hegde 6704 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४३०|center=सटीकलोचनोपेतध्वन्यालोके}} {{rule}}</noinclude> नास्तीति यदुच्यते तद्युक्तम् । यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्था. न्तरप्रतिपत्तिस्तन्त्र कथं गुणवृत्तिव्यवहारः, न हि गुणवृत्तौ यदा निमित्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा-'अग्नि- र्माणवकः' इत्यादौ, यदा वा स्वार्थमंशेनापरित्यजस्तत्सम्बन्धद्वारेण विष. {{center|{{bold|लोचनम्}}}} ङ्कानिवारणार्थोऽयमुपक्रमः। अत एवाद्यभेदस्याङ्गीकरणपूर्वकमयं द्वितीयभेदाक्षेपः । विवक्षितान्यपरवाच्य इत्यादिना पराभ्युपगमस्य स्वाङ्गीकारी दश्यते । गुणवृत्ति व्यवहाराभावे हेतुं दर्शयितुं तस्या एव गुणवृत्तेस्ताववृत्तान्तं दर्शयति-न होति । गुणतया वृत्तिव्यापारो गुणवृत्तिः । गुणेन निमित्तेन सादृश्यादिना च वृत्तिः अर्थान्तर- विषयेऽपि शब्दस्य सामानाधिकरण्यमिति गौणं दर्शयति । यदा वा स्वार्थमिति {{center|{{bold|बालप्रिया}}}} क्षण्यदुर्निरूपत्वाशङ्केत्यर्थः । अयमुपक्रमः वृत्तिकारोपक्रमः । अत्रोपष्टम्भकमाह-अत- एवेत्यादि । आद्यभेदस्य विवक्षितान्यपरवाच्यस्य । द्वितीयभेदेति । अविवक्षित- वाच्येत्यर्थः । अत्र हेतुं दर्शयति-विवक्षितेत्यादि । न हीत्यादिग्रन्थस्य फलं दर्शय- न्नवतारयति-गुणवृत्तीत्यादि । हेतुं दर्शयितुमिति । विवक्षितान्यपरवाच्य इति शेषः । गौगलाक्षणिकोभयसाधारणं गुणवृत्तिशब्दार्थमाह-गुणतयेत्यादि । गुणतया अप्रधानतया । अभिधावृत्तिर्हि प्रधानभूता। व्यापार इति । शब्दस्येति शेषः। अनेन गौणस्य लाक्षणिकस्य च संग्रहः । गौणे गुणवृत्तिशब्दस्यार्थान्तरच्चाह-गुणेनेत्यादि । गुणेनेत्यस्य विवरणम्-सादृश्यादिनेति । निमित्तेनेति तृतीयार्थकथनम् । उक्तस्यैव विवरणम्-अर्थान्तरविषयेऽपीत्यादि । अर्थान्तरमेव विषयस्तस्मिन् । इति गौणं {{rule}} {{gap}}१. स्वार्थमंशेनापरित्यजन्निति । अग्निर्माणवक इत्यत्र अग्नेः अग्निसदृशे लाक्ष- णिकतया सादृश्यस्य भेदघटितत्वेन लक्ष्यकुक्षौ वाच्यार्थाप्रवेशाद् भवतीयं जहत्स्वार्था, गङ्गायां घोष इत्यत्र तु गङ्गापदस्य गङ्गातीरे लक्षणया लक्ष्यघटकतया शक्यस्यापि गङ्गापदार्थस्य प्रतीत्यासावजहत्स्वार्थेत्याह-स्वार्थमंशेनापरित्यजन्निति । यदा च गङ्गा शब्दस्य तीरमाने लक्षणा तदैषापि जहत्स्वार्थेव समाकलनीया । {{gap}}वयन्त्वत्र विभावयामः-यत्र शक्यार्थस्य स्वरूपेण रूपान्तरेण वा पदार्थान्तरेणा- न्वयः शाब्दमतौ भासते तत्राजहत्स्वार्था, यथा यष्टयः प्रविशन्ति इत्यादी काकेभ्यो दधि रक्ष्यतामित्येवं प्रभृतिनि च । अत्र हि यष्टीनामपि यष्टित्वेन प्रवेशनक्रियायाम- न्वयः, काकानां च दध्युपघातकत्वेन रक्षणान्वयः । पूर्वत्र उभयत्र च नाग्नेर्माणवका- न्वयः, न च गङ्गाया घोषे । तथा चात्र द्वयोर्जहरत्स्वाथैव सर्वथा । एवं च 'स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणमिति प्रकाशीयतल्लक्षणे 'स्वसिद्धये स्वार्थस्य अन्वयप्रवेश- सिद्धये' इति प्रदीपव्याख्यानं साधु संगच्छते ।<noinclude></noinclude> ovt73f8v3rxglamj3gf58qmtw835k3n 341092 341091 2022-07-22T14:27:39Z Geeta g hegde 6704 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४३०|center=सटीकलोचनोपेतध्वन्यालोके}} {{rule}}</noinclude> नास्तीति यदुच्यते तद्युक्तम् । यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्था. न्तरप्रतिपत्तिस्तन्त्र कथं गुणवृत्तिव्यवहारः, न हि गुणवृत्तौ यदा निमित्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा-'अग्नि- र्माणवकः' इत्यादौ, यदा वा स्वार्थमंशेनापरित्यजस्तत्सम्बन्धद्वारेण विष. {{rule}} {{center|{{bold|लोचनम्}}}} ङ्कानिवारणार्थोऽयमुपक्रमः। अत एवाद्यभेदस्याङ्गीकरणपूर्वकमयं द्वितीयभेदाक्षेपः । विवक्षितान्यपरवाच्य इत्यादिना पराभ्युपगमस्य स्वाङ्गीकारी दश्यते । गुणवृत्ति व्यवहाराभावे हेतुं दर्शयितुं तस्या एव गुणवृत्तेस्ताववृत्तान्तं दर्शयति-न होति । गुणतया वृत्तिव्यापारो गुणवृत्तिः । गुणेन निमित्तेन सादृश्यादिना च वृत्तिः अर्थान्तर- विषयेऽपि शब्दस्य सामानाधिकरण्यमिति गौणं दर्शयति । यदा वा स्वार्थमिति {{center|{{bold|बालप्रिया}}}} क्षण्यदुर्निरूपत्वाशङ्केत्यर्थः । अयमुपक्रमः वृत्तिकारोपक्रमः । अत्रोपष्टम्भकमाह-अत- एवेत्यादि । आद्यभेदस्य विवक्षितान्यपरवाच्यस्य । द्वितीयभेदेति । अविवक्षित- वाच्येत्यर्थः । अत्र हेतुं दर्शयति-विवक्षितेत्यादि । न हीत्यादिग्रन्थस्य फलं दर्शय- न्नवतारयति-गुणवृत्तीत्यादि । हेतुं दर्शयितुमिति । विवक्षितान्यपरवाच्य इति शेषः । गौगलाक्षणिकोभयसाधारणं गुणवृत्तिशब्दार्थमाह-गुणतयेत्यादि । गुणतया अप्रधानतया । अभिधावृत्तिर्हि प्रधानभूता। व्यापार इति । शब्दस्येति शेषः। अनेन गौणस्य लाक्षणिकस्य च संग्रहः । गौणे गुणवृत्तिशब्दस्यार्थान्तरच्चाह-गुणेनेत्यादि । गुणेनेत्यस्य विवरणम्-सादृश्यादिनेति । निमित्तेनेति तृतीयार्थकथनम् । उक्तस्यैव विवरणम्-अर्थान्तरविषयेऽपीत्यादि । अर्थान्तरमेव विषयस्तस्मिन् । इति गौणं {{rule}} {{gap}}१. स्वार्थमंशेनापरित्यजन्निति । अग्निर्माणवक इत्यत्र अग्नेः अग्निसदृशे लाक्ष- णिकतया सादृश्यस्य भेदघटितत्वेन लक्ष्यकुक्षौ वाच्यार्थाप्रवेशाद् भवतीयं जहत्स्वार्था, गङ्गायां घोष इत्यत्र तु गङ्गापदस्य गङ्गातीरे लक्षणया लक्ष्यघटकतया शक्यस्यापि गङ्गापदार्थस्य प्रतीत्यासावजहत्स्वार्थेत्याह-स्वार्थमंशेनापरित्यजन्निति । यदा च गङ्गा शब्दस्य तीरमाने लक्षणा तदैषापि जहत्स्वार्थेव समाकलनीया । {{gap}}वयन्त्वत्र विभावयामः-यत्र शक्यार्थस्य स्वरूपेण रूपान्तरेण वा पदार्थान्तरेणा- न्वयः शाब्दमतौ भासते तत्राजहत्स्वार्था, यथा यष्टयः प्रविशन्ति इत्यादी काकेभ्यो दधि रक्ष्यतामित्येवं प्रभृतिनि च । अत्र हि यष्टीनामपि यष्टित्वेन प्रवेशनक्रियायाम- न्वयः, काकानां च दध्युपघातकत्वेन रक्षणान्वयः । पूर्वत्र उभयत्र च नाग्नेर्माणवका- न्वयः, न च गङ्गाया घोषे । तथा चात्र द्वयोर्जहरत्स्वाथैव सर्वथा । एवं च 'स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणमिति प्रकाशीयतल्लक्षणे 'स्वसिद्धये स्वार्थस्य अन्वयप्रवेश- सिद्धये' इति प्रदीपव्याख्यानं साधु संगच्छते ।<noinclude></noinclude> 7ia4cqybdwirrvulh9dwiqk281jrq45 पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१३ 104 123156 341177 340474 2022-07-23T08:33:46Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center=उपोद्घातः-|right=९}}</noinclude> श्लेषः स इति यावदिति पूज्यपादमतम्। तस्माद्गोपीगीतार्थ- प्रतिपादकपदमनन्तार्थपरं न कमपि दोषमावहति। कदाचित्सत्य- प्येकदेशाद्यन्वयदोषे स दोषो न दोषायालम्। सकृन्नामोच्चारण- मात्रेणानन्तजन्मदुष्कृतिर्नश्यति। "हरिस्मृतिः सर्वविपद्विमो- क्षणम्” इति दर्शनात्। एकार्थज्ञानेनानेकजन्मकलुषं नश्यत्येव, अने- कार्थप्रतिपादनन्तु मुहुर्मुहुः स्वकौतुकायैव तस्मादधिकमित्य- त्राधिकमित्येकम्पदन्तदन्तर्गतमधीत्यपि पदं कमित्यपि पदं, एतेषामर्थसौन्दर्यबलादुक्तन्यायेन श्लेषः संकीर्णश्लेषः, अलमधिकेन। {{gap}}अत्रविचारो विराजते।"तथा हि जन्यं निसृजन" इति भीष्म- वर्णने स्वामिभिर्जन्यपदार्थप्रदर्शनं कर्त्तव्यमपि नैव प्रादर्शि। कथङ्कारं स्वल्पधीभिरस्माभिस्तदर्थो ज्ञातव्यः। कोषावलोकनेऽपि 'युद्धमायोधनं जन्यम्' इत्येव दृश्यते, कौमुदीपर्यालोचनेऽपि जन्यं युद्धमित्येव दृश्यते। एवं सति युद्धं त्यजनित्यर्थःप्रतीयेत। युद्धन्तु पूर्वमेव तत्याज। नहि विरुद्धमर्थङ्कर्तुङ्कोऽपीष्टे। तस्माट्टीकां कुर्वाणा अपि स्वयं जानन्तोऽप्युल्लङ्ध्य गच्छन्ति । 'परोपकाराय सतां विभूतयः इति न्यायं न स्मरन्ति जनेरौणादिकयकि ये विभाषा इत्य त्वविकल्पेजन्यम्। जायते प्रादुर्भवतीति जन्यं शरीरम्।यौगि- कोऽयमिति नैव लिलिखुः।अस्मच्छिरसिधुरंस्थापयामासुः,तस्माट्टी. काकारसहायमात्रेणार्थो नैव सर्वत्र सम्पद्यते। किन्तु योग्यताका- ङ्क्षादिभिरेव शक्तिग्राहकैः पदार्थो विवेचनीयः। टीकयते पदार्था-<noinclude></noinclude> j6b00yje4ya196yat6qum5fmd8jpfj8 पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९० 104 123309 341178 341055 2022-07-23T08:47:52Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८६|center= गोपीगीता-}}</noinclude> परमात्मन्नित्यर्थस्तु प्राक् प्रपञ्चितः। धरामृत यत्तत्तु तेऽधरा- मृतमेव वितर देहि,अयम्भावः।देवभोज्यममृतन्तु नैवभूमौ तेऽध. रामृतमेव धरामृतं तदेव देहि।।यद्वा अधरामृतन्देहि॥३॥ यद्वा धराया भूमेरमृतं धरामृतं न धरामृतमधरामृतम्,पूर्ववन्नञ्घटित . वाक्यादपि धरामृतसजातीयस्यैव प्रतीतेस्तवाधरामृतममृतमिति प्रतीयते॥४ायद्वाअइतिसम्बोधनम्धराम्पृथिवीमृतं सत्य त्वां च- देहि। त्वमेव सत्यमन्यद्वस्तुजातमसत् 'ब्रह्म सत्यं जगन्मिथ्या योऽवशिष्येत सोऽस्म्यह'-मित्यादिश्रुतिःप्रमाणम्।धराम्विनापति त्यक्ता वयं कुत्र स्थास्यामः। पतिम्बिनाऽपि युवत्यः कर्थान्तष्ठे. मा अतस्त्वमेव पतिर्भवेत्याशयः॥५॥ यद्वा अधरं न्यूनं कुत्सितं चामृतं यस्मादेतादृशमधरामृतं देहि। भवदोष्ठापेक्षयाऽमृतं न्यूनं कुत्सित चेत्यर्थः।। 'अधरौ न्यूनकुत्सिता'-वित्यमरः।धरामृत- मधरामृतमितिविरोधाभासस्तुशब्दपरतयैवनत्वार्थिकानतुधरा- मृते धरामृतत्वं निषिध्यते, येन विरोध: स्यात्। अधरोष्ठामृतमेव धरामृतमित्यस्यैव गम्यत्वेन विराध्यास्पर्शनात् ॥ ६॥ यद्वा अध- रेति सम्बोधनम् हेन्यून!हे कुत्सितेति तदर्थः। अमृतंसुधान्देहि। नास्तीतिचेत्स्तेनाधरपदमहिम्ना चौर्यं कृत्वा स्वर्गलोकादानीत ममृतन्देहीत्यर्थः ॥७॥ यद्वा अधरं न्यूनं कुत्सितंचामृतं मोक्षं य- स्मादेतादृशमधरामृतन्देहि 'अमृतम् मोक्ष'-इत्यमरः॥८॥ यद्वासुर तस्य विषयानुरागस्य वर्धनं छेदकम् , वर्ध छेदनपुरणयोः कर्त्तरि ल्युट्। स्वरा उदात्तादयस्ते संजाता यस्य स स्वरितःस चासो वेणुर्वेदात्मकस्तेन, यथा वेणुः शब्दायते तथा वेदा अपि तव .<noinclude></noinclude> 6j7rp4uku1tpzuy86qdj2c0cq8e05mt पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९५ 104 123318 341179 340062 2022-07-23T08:52:10Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदोसहिता-|right=९१}}</noinclude> स्यात्साप्यह्नि सुरते लज्जते, यदर्थम्भवानहि काननमटति तत्तु नैव सम्भाव्यते। वक्टबोद्धव्यवैशेष्याद्योग्यताबलाच्च पश्यति। चुम्बतीति शेषत्वेनान्वेति। किञ्च वने योषिन्मेलनमपि दुर्ल. भम्। नहि वने योषितां कर्त्तव्याभावात्ता आगच्छन्ति, यदर्थ- म्भवान् काननमटति। एतत्तवाटनं व्यर्थमिति गूढाशयः ॥५॥ यद्वा यदर्थ सूक्ष्मैलाप्राप्तये भवानहि काननमति त्रुटिः सूक्ष्मैला। 'सूक्ष्मैलायां त्रुटि: स्त्री स्यात्कालेऽल्ये संशयेऽपि चे'-त्यमरः। केति काकुः। वृन्दावने सूक्ष्मौला बह्वयःसन्ति। अतस्ता सुलभा इति किंशब्दार्थः। मया तु न प्राप्यत इति नैव त्वया वक्तव्यम्। आननम्पश्यताम्। आननसुगन्धादेव सूक्ष्मैला भक्षि- तेति निर्णीयते। द्विवचनन्तु कृष्णप्रिययोरभिप्रायेण पुनश्च नेति नाच्यताम्। त्वामपश्यनामित्यत्र त्वामिति पृथक् अइति पृथ- क्सम्बोधनम्।। पश्येतिक्रियापदम्। तामिति द्वितीयैकवचनान्तम् हे अ! वासुदेव त्वाम् आननम् तवेति शेषः। ताम् तव प्रियाम् तस्या आननम्पश्य। त्वया तयाच सूक्ष्मैला भुक्ता एव भुक्त्वाड- पि नेति निषेधति। अतएव कुटिलेति तव सम्बोधनम्। युगाय ते तुभ्यं त्रुटिः सूक्ष्मैला उभौ सक्ष्मैलां भुञ्जाते, तथापि नेति निषेधति, अतः कुटिलो भवान्। अस्माकं मध्ये एकाऽपि सूक्ष्मै- लां न प्राप्नोति त्वन्तु मिथुनोभूय भुङक्षे 'युग्मन्तु युगलं युग मित्यमरः। अतस्तव श्रीमुखं श्रीमन्मुखमपि कुन्तलमेव न तु चूर्णकुन्तलम्, अयम्भावः। 'प्रासस्तु कुन्त' इत्यमरात्प्रा- सानेव गृह्णाति। अस्माकं मारणाय कामप्रासमेव कुन्तलव्या:<noinclude></noinclude> l7oi1xshzbfr31miv3v1uqpwqukixz2 पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९६ 104 123320 341180 340066 2022-07-23T09:01:45Z 2409:4071:4E99:2E04:5057:FCDE:34AE:368A proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=९२|center= गोपीगीता-}}</noinclude> जेन गृह्णाति ॥६॥ यद्वा तव लक्षम्या मुखमपि तथैव, चशब्दउ- भयोः समुच्चयार्थः, भवान् जडो मूर्खः। सूक्ष्मैलां भुक्त्वापि नेत्यपन्हवं करोति, अतः कुटिलः। मया भुक्ता इति स्फुटोक्तौ का हानिः, तां स्वप्रियामुदीक्ष , अयम्भावः। अन्यासु युवतिषु कौटिल्यकारी अयं मामपि कदाचित्कुर्यादिति भयेन पलायिता स्यात्. तस्मात्तामपि उदीक्ष पश्य। ईश दर्शने,अनुदात्तत्वलक्ष- णमात्मनेपदमनित्यम्। अन्यथा उदीक्षतामिति पद्यन्तपक्षेऽपि उदीक्षमाणानामिति स्यात्। दृशा xम्पश्मकृत् स्वदृशाम्पक्ष्मच्छे- दकोभवेति शेषः; अयम्भावः। पक्ष्मच्छेदे निमेषकृतविच्छेदाभावे स्वप्रियाम्प्रति निमेषशून्यदृष्टिपातेन दर्शने नैव पलायिता भवेत्। कृञ् हिंसायाम्। क्विवन्तः कृतीच्छेदने वा। एतत्सर्व भवाजा- नाति,अस्मान्प्रत्येव कौटिल्यं करोति अतो भवान् अजडः सर्वज्ञ इति स्तुतिः ॥७॥ यद्वा 'संशयेऽपि चे' त्यमरात्रुटिः संशयः, अयम्भावः । मिथुनीभूयाह्निवनमटामि, माम्प्रति कीदृशी {{rule}} {{gap}}*यद्यस्मिन्नर्थे तात्पर्य न स्यात्तहि चूर्णपदमप्युपात्तस्यात्तदनुपादाना- देव कुन्तपदमात्रेण कामप्रासबोधः। चूणीः सूक्ष्माः कुन्तला यस्मिन्निति मुखविशेषणम्। अर्शश्राद्यजन्तो वा। अस्मिन्नर्थे कुटिलशब्दोऽप्यनुकूलः कामप्रासाअपि कुटिलाः कुन्तला अपि तथैव अस्मिन्पक्षेऽप्येकपदमस्तु। {{gap}}+नन्वेतत्पक्षे दृशामिति बहुत्वमनुपपन्नम्। न हि कृष्णस्य बहुदृश इति तु न शक्यम्। महस्वाक्ष इति श्रुतेः।<noinclude></noinclude> jnbbrncn04qll0l972zy6phynkhmpap पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९७ 104 123322 341181 340067 2022-07-23T09:05:42Z 2409:4071:4E99:2E04:5057:FCDE:34AE:368A proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता|right=९३}}</noinclude> किम्वदन्ती स्यादित्यादि संशयः। अस्मिन्नपि पक्षे युगाय मिथुनाय ते तुभ्यं त्रु टिः संशय इति योजना। एतेन तव प्रियाऽपि संशयं करोतीति गम्यते। अयं कपटी प्रियसखीं- यथा तत्याज मामपि तथैव त्यजेत्तथा सति सख्यो जनाश्च किं किं वदिष्यन्तीति संशयनिमग्नासीदिति गूढाशयः॥ ८॥ यद्वा युगाय मिथुनाय ने तुभ्यं का त्रुटिः को विच्छेदः का हानिरिति यावत्। त्रुटिस्त्वस्माकमेव सम्पन्ना आननम् आत्मनोमुखं पश्य त्वमेवेति शेषः। तव मुखं प्रियामुखं च श्रीमदेव दृश्यते। अस्मा- कमाननन्तु काननं मलिनं कुत्सितं त्वमेव पश्य।अहो तव दौरा- त्ममिति गूढाभिप्रायः। त्रुटिशब्दो विच्छेदे प्रयुज्यमानो दृश्यते। यथा अक्षरत्रुटिः सूत्रत्रुटिरित्यादौ 'त्रुट च्छेदने' चुरादिः आत्म- नेपदी सेट् 'इगुपधाकिदिति इः। यद्वात्रुट च्छेदे इति तुदादिः परस्मैपदी सेट् 'इगुपधात्किदिति इः त्रुटिः ॥ ६ ॥ यद्वा युगान् चतुर्युगानयते एतिवा गच्छतीति युगायस्तत्सम्बोधनम्। हे युगाय! चतयुगेऽपि त्वं गच्छसि नित्यत्वाच्चिरजीवित्वाच्च। अतस्ते तव त्रुटिः का अल्पकालः कः तस्य गणनैव नास्ति। त्वा- मपश्यतामस्माकमेव त्रुटिर्युगायते युगवदाचरति। आननम- स्माकमुखं काननं कुत्सिताननमेव पश्यताम्। स्वप्रियांच पश्यति सङ्कीर्णभङ्गश्लेषः। अय गतौ पचाद्यजन्तः इण्वा ॥ १०॥ यद्वा जडे जले डलयोरभेदात्। अयम्भावः। कानने मुखदर्शनसाधन {{rule}} {{gap}}त्वद्वियोगादस्माक मुखं कुत्सिताननमेव सम्पन्नम्। त्वत्प्रिया तु वियोगाभावाच्चारमुखी एव त्वमेव पश्य किं कथनेनेति भावः।<noinclude></noinclude> hj3zjyg3flcip7k1wkkqacfa7fzre25 पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९८ 104 123324 341182 340068 2022-07-23T09:08:18Z 2409:4071:4E99:2E04:5057:FCDE:34AE:368A proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=९४|center= गोपीगीता-}}</noinclude> दर्पणं नैव प्राप्यते। अतः कुटिलकुन्तलं श्रीमुखं ते तव चेन समुच्चयार्थकेन प्रिया मुखसङ्ग्रहः। जले उहीक्षपश्य। जलेऽपि पश्यतां मुखं दृश्यते। स्वच्छत्वात् तां स्वप्रियां च जले उदीक्ष। सा जले निमग्ना, अयमभिसन्धिः। कपटं कपटेनैवेति न्याया- न्मुखं जले यदि पश्येत् तर्हि मुखे छायारोगोत्पत्तिः स्यात्तेन मालिन्यं स्यात्। जले मुख दर्शने मुखश्रीर्नश्यतीति प्रसिद्धिः। अत एव 'आननं च जले दृष्ट्वा शक्रस्यापि श्रियं हरे' दित्युक्तम्। अस्मिन्कुटिले नन्दनन्दने एवं कृत्वैव कौटिल्यं स्यात्। श्रीमुखं काननं कुत्सिताननं स्यात्, अतः कपटिषु कपटं भवेत्। प्रिया- या जले निमग्नोक्त्या च तदुद्धरणाय जले पतितः स्यादेवं सति अस्मिन्कपटिनि पूर्णतरः कपटः स्यात् ॥१२॥यद्वा त्रुटिविच्छेदः। तार्किकाभिमताणुलक्षणा वा निमेषपरिमितकालो वा। अत्रैव श्लोके त्रुटिपदे गुरुपाठाच्छन्दोभङ्गलक्षणा त्रुटिर्वा युगाय मिथु. नाय सखीसहिताय तुभ्यं भवतु, नहि विच्छेदादिकमनिष्टं वस्तु वयमिच्छामः। अस्माकं काहानिः। अस्माकं मुखं कुटिलकुन्तलं श्रीमुखं श्रियामुखमेव अभेदानुभयोक्तिरूपकालकृतिः। शेषं पूर्ववद्योज्यम् ॥ १३॥ यद्वा काचित्सखी सखीः प्रति ब्रूते। अशब्दः सखीसम्बोधने अ! पश्यत आमितिच्छेदः। ते तवोदीक्षतामस्माकं च पक्ष्मद्वह्मा जड़ः आक्षेपालङ्कृति- {{rule}} {{gap}}*यदि हानिः स्यात्तहीत्थं कथं स्पादिति भावः<noinclude></noinclude> g3inxzjuyktydmzge9uzq4984419yz9 पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९९ 104 123326 341183 340069 2022-07-23T09:10:49Z 2409:4071:4E99:2E04:5057:FCDE:34AE:368A proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता-|right=९५}}</noinclude> आमित्यङ्गीकारे। यद्वा अपश्यतेतिलङ्मध्यमपुरुषवहुबच नान्तमस्तु। अ! हे सख्यः! जडे मूर्खे नन्दनन्दने कुटिलकुन्तलं श्रीमुखं च पश्यत, तत्सर्वन्दृष्टा आमित्य- ङ्गोकुर्वन्ति पश्चात्सखयो ब्रुवन्ति अटति। यद्भवानह्वि- काननं तदा त्वाम्प्रति त्रुटिर्युगायते। अहो तव मूर्खता, जडे एता- दृशानुरागोऽनुचित एवेति सखीनामभिप्रायः। पुनर्विचार्यंत- त्सत्यमेव। अस्मिन्ननुराग उचित एवेत्याशयेन सख्यः पुनर्ब्रुवन्ति। ते तवोदीक्षतामस्माकं च पश्मदब्रह्माजडः आक्षेपालङ्कृति र्व्यङ्गया पूर्व जड़ेऽनुरागोऽनुचित इत्युक्तम् पश्चाद्विचार्य तस्यैव निषेधः कृतः। निषेधश्च ते जड़ उदीक्षतामित्याद्यन्त्यपादेन स्प- धीकृतः॥१३॥ यद्वा अनह्नि रात्रौ कुटिलकुन्तलं श्रीमुखं च ते आननं का स्त्री न पश्येदितिशेषः। यद्यस्मात्कारणात्, 'यद्यत्त- तस्ततो हेतौ' इत्यमरः, भवानटति। अस्मिन्पक्षे भवेति देववा- चकं सम्बोधनम्। यद्वाभूधातोर्लोण मध्यमपुरुषैकवचनान्तम्। तथा च युवतय आशिषं ददते। यद्वा हे! भव !संसाररूपत्वद्वि. वर्तः संसारो नत्वदन्य इति सम्बोधनार्थः ॥१५॥ यद्वा अह्नि यदर्थ स्वसुन्दरमुखदर्शनार्थ भवानटति, पण्यवीथिकायामिति- शेषः। तादृशं सुन्दरन्ते मुखं का न पश्यतीति शेषः ॥१६॥ यद्वा अनह्नि रात्रौ अद्य भवान् काननमटति यदर्थमस्मत्प्राप्तयेऽतो भव सत्तावान् आत्मधारणवान्दीर्घायुभवेत्याशिषम्प्रयुज्जते। अ. न्हयपि व्याघ्रादयो जन्तून्भवन्ति। रात्रौतु का कथा, अतोभवन्तं व्याघ्रादयो मा घसन्निति युवतय आशिषं ददति। येष्वर्थेषु मुखा<noinclude></noinclude> ofaxg4usj9hfb978ew2unf0g5p72tto पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०० 104 123328 341184 340070 2022-07-23T09:13:40Z 2409:4071:4E99:2E04:5057:FCDE:34AE:368A proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=९६|center= गोपीगीता-}}</noinclude> ननयो रुभयोरुपादानं पुनरुक्तिर्दोषइति नैव शङ्कयम्। श्रीर्मुखं प्रधानं यस्मिन्नानने इत्यर्थप्रतीतेस्तदुपादानं सफलम् । श्रीमदानन मेवाननमितरत्त्वाननमपि कुत्सिताननमेवेति भावः॥ १७ ॥ अ- ह्नि भवान् काननमटति, यत्तेनास्माकं का क्षतिः, कापि नास्ति। अस्माकमाननम्पश्य। त्वाम्विनापिकुटिलकुन्तलं श्रीमुखमेवास्ति। तां तव प्रियां त्वामात्मानमपि, हे अ! वासुदेव, त्वमेव पश्य। एतेन न युवयोर्वयं किङ्कर्यः। न युवयोः पश्चाद्वयं गच्छामः। स्व- रक्षां स्वयंकुरुः, इत्याशयः। त्वामपश्यतामस्माकं त्रुटिरेव केवलं युगायते। अन्या कापि क्षतिर्न परन्तु न केवलमस्माकमेव त्रुटियुर् गायते किन्तु ते तुभ्यमपि त्रुटिर्युगायते।एतत्तु तवास्माकं!समान- मेव। भवान् जडोऽसि मूर्खोऽसि नैव विचारयसीति भावः! उत्तरार्द्धस्थतेशब्दान्वयं विहाय युगायेत्येकं चतुर्थ्यन्तमाश्रित्य त्रुटिर्युगाय कल्पते इत्यर्थोऽस्तु वा। गम्यमानक्रियाया अपि कारकविभक्तिप्रयोजकत्वोक्तेः क्लृपि सम्पद्यमाने चेति चतुर्थी- प्रशक्तेः। उदीक्षतास्माकं पक्ष्मकृत्त्वं जड एव 'यतो वेत्या'-दि- श्रु त्या सर्वकारणत्वस्य त्वय्येव प्रतिपत्तेरिति परमार्थः। यदि तु अस्माकं दृशां पक्ष्मकृत् पक्षमच्छेदकः स्यात्तर्हि अजडः स्या- द्विद्वान् स्यादिति भावः। कृञ् हिंसायम् ॥ १८ ॥ यद्वा युगाय मिथुनाय ते तुभ्यं त्रुटिरपि युगायते।अहो युवयोः परस्परं प्रेमे- त्यर्थः ॥ १६ ॥ यद्वा उदीक्षतां दशामित्यनेन परस्परमीक्षतामि- त्यर्थपरत्वस्यापि प्रतीतेस्तवदृशोः पक्ष्मकर्ता ब्रह्मदेवो जड इत्यपि प्रतीयते ॥२०॥ यद्वा नामैकदेशन्यायेन तिशब्देन युवति<noinclude></noinclude> nhjwycsgqqai0uspey4u3g8jb1vo95w 341185 341184 2022-07-23T09:14:24Z 2409:4071:4E99:2E04:5057:FCDE:34AE:368A proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=९६|center= गोपीगीता-}}</noinclude> ननयो रुभयोरुपादानं पुनरुक्तिर्दोषइति नैव शङ्कयम्। श्रीर्मुखं प्रधानं यस्मिन्नानने इत्यर्थप्रतीतेस्तदुपादानं सफलम्। श्रीमदानन मेवाननमितरत्त्वाननमपि कुत्सिताननमेवेति भावः॥ १७ ॥ अ- ह्नि भवान् काननमटति, यत्तेनास्माकं का क्षतिः, कापि नास्ति। अस्माकमाननम्पश्य। त्वाम्विनापिकुटिलकुन्तलं श्रीमुखमेवास्ति। तां तव प्रियां त्वामात्मानमपि, हे अ! वासुदेव, त्वमेव पश्य। एतेन न युवयोर्वयं किङ्कर्यः। न युवयोः पश्चाद्वयं गच्छामः। स्व- रक्षां स्वयंकुरुः, इत्याशयः। त्वामपश्यतामस्माकं त्रुटिरेव केवलं युगायते। अन्या कापि क्षतिर्न परन्तु न केवलमस्माकमेव त्रुटियुर् गायते किन्तु ते तुभ्यमपि त्रुटिर्युगायते।एतत्तु तवास्माकं!समान- मेव। भवान् जडोऽसि मूर्खोऽसि नैव विचारयसीति भावः! उत्तरार्द्धस्थतेशब्दान्वयं विहाय युगायेत्येकं चतुर्थ्यन्तमाश्रित्य त्रुटिर्युगाय कल्पते इत्यर्थोऽस्तु वा। गम्यमानक्रियाया अपि कारकविभक्तिप्रयोजकत्वोक्तेः क्लृपि सम्पद्यमाने चेति चतुर्थी- प्रशक्तेः। उदीक्षतास्माकं पक्ष्मकृत्त्वं जड एव 'यतो वेत्या'-दि- श्रु त्या सर्वकारणत्वस्य त्वय्येव प्रतिपत्तेरिति परमार्थः। यदि तु अस्माकं दृशां पक्ष्मकृत् पक्षमच्छेदकः स्यात्तर्हि अजडः स्या- द्विद्वान् स्यादिति भावः। कृञ् हिंसायम् ॥ १८ ॥ यद्वा युगाय मिथुनाय ते तुभ्यं त्रुटिरपि युगायते।अहो युवयोः परस्परं प्रेमे- त्यर्थः ॥ १६ ॥ यद्वा उदीक्षतां दशामित्यनेन परस्परमीक्षतामि- त्यर्थपरत्वस्यापि प्रतीतेस्तवदृशोः पक्ष्मकर्ता ब्रह्मदेवो जड इत्यपि प्रतीयते ॥२०॥ यद्वा नामैकदेशन्यायेन तिशब्देन युवति<noinclude></noinclude> lkjp64bc76zn18eeys3sbr7s7qz9k0l पृष्ठम्:अद्भुतसागरः.djvu/८३ 104 125030 341109 339952 2022-07-23T05:56:37Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=६२|center=अद्भुतसागरे|right}}</noinclude><small>पराशरः ।</small> {{bold|कार्त्तिके सुभिक्षक्षेमारोग्याय काशिकोशलशूरसेनाभावाय च।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}कार्त्तिक्यामनलोपजीविमगधान् प्राच्याधिपान् कोशलान् {{gap}}कल्माषानथ शूरसेनसहितान् काशीं न संतापयेत् । {{gap}}हन्यादाशु कलिङ्गदेशनृपतिं सामात्यभृत्यं तमो {{gap}}दृष्टं क्षत्रियतापनं जनयति क्षेमं सुभिक्षान्वितम् ॥</poem>}} <small>वृद्धगर्गः ।</small> {{bold|<poem>{{gap}}पौर्णमास्यां यदा चन्द्रः कार्त्तिक्यामुपरज्यते । {{gap}}पौण्ड्रान् कलिङ्गान् मत्स्याँश्च शूरसेनाँश्च पीडयेत् ॥</poem>}} <small>काश्यपः ।</small> {{bold|<poem>{{gap}}कार्त्तिके कोशला गावः प्रधानाश्चाहिताग्नयः । {{gap}}वाधन्ते गणमुख्याश्च क्षत्रिया गोमिनस्तथा ॥ {{gap}}सुवृष्टिर्जायते चापि शस्यसम्पत् तथोत्तमा । {{gap}}प्राच्यां दिशि भयं ब्रूयात् क्षेममन्यत्र निर्दिशेत् ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|मार्गशीर्ष मृगपौण्ड्रसोमपभयाय वृष्टये च ।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>काश्मीरकान् कोशलकान् सपौण्ड्रान् मृगाँश्च हन्यादपरान्तकाँश्च । ये सोमपास्ताँश्च निहन्ति सौम्ये सुदृष्टिकृत् क्षेमसुभिक्षकृच्च ॥</poem>}} <small>सौम्ये मार्गशीर्ष ।</small> <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}मार्गशीर्षे गृहीते तु क्षेमं शस्यं च नश्यति । {{gap}}पौराश्च भयमृच्छन्ति मृगाश्च सह सोमपैः ॥ {{gap}}औशीनरान् काश्यपाँश्च ब्राह्मणाँश्च तपः स्पृशेत् | {{gap}}ग्रीष्मे शस्यं च भवति शारदं चोपहन्यते ॥</poem>}}<noinclude></noinclude> 4rs4juwhoo6onwzru5d8gja79jwa5oh 341110 341109 2022-07-23T05:57:03Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=६२|center=अद्भुतसागरे}}}}</noinclude><small>पराशरः ।</small> {{bold|कार्त्तिके सुभिक्षक्षेमारोग्याय काशिकोशलशूरसेनाभावाय च।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}कार्त्तिक्यामनलोपजीविमगधान् प्राच्याधिपान् कोशलान् {{gap}}कल्माषानथ शूरसेनसहितान् काशीं न संतापयेत् । {{gap}}हन्यादाशु कलिङ्गदेशनृपतिं सामात्यभृत्यं तमो {{gap}}दृष्टं क्षत्रियतापनं जनयति क्षेमं सुभिक्षान्वितम् ॥</poem>}} <small>वृद्धगर्गः ।</small> {{bold|<poem>{{gap}}पौर्णमास्यां यदा चन्द्रः कार्त्तिक्यामुपरज्यते । {{gap}}पौण्ड्रान् कलिङ्गान् मत्स्याँश्च शूरसेनाँश्च पीडयेत् ॥</poem>}} <small>काश्यपः ।</small> {{bold|<poem>{{gap}}कार्त्तिके कोशला गावः प्रधानाश्चाहिताग्नयः । {{gap}}वाधन्ते गणमुख्याश्च क्षत्रिया गोमिनस्तथा ॥ {{gap}}सुवृष्टिर्जायते चापि शस्यसम्पत् तथोत्तमा । {{gap}}प्राच्यां दिशि भयं ब्रूयात् क्षेममन्यत्र निर्दिशेत् ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|मार्गशीर्ष मृगपौण्ड्रसोमपभयाय वृष्टये च ।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>काश्मीरकान् कोशलकान् सपौण्ड्रान् मृगाँश्च हन्यादपरान्तकाँश्च । ये सोमपास्ताँश्च निहन्ति सौम्ये सुदृष्टिकृत् क्षेमसुभिक्षकृच्च ॥</poem>}} <small>सौम्ये मार्गशीर्ष ।</small> <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}मार्गशीर्षे गृहीते तु क्षेमं शस्यं च नश्यति । {{gap}}पौराश्च भयमृच्छन्ति मृगाश्च सह सोमपैः ॥ {{gap}}औशीनरान् काश्यपाँश्च ब्राह्मणाँश्च तपः स्पृशेत् | {{gap}}ग्रीष्मे शस्यं च भवति शारदं चोपहन्यते ॥</poem>}}<noinclude></noinclude> obarbiqebggwnn33rp35sibq06p53sz पृष्ठम्:अद्भुतसागरः.djvu/८४ 104 125031 341111 339955 2022-07-23T05:58:29Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=राहोरद्भुतावर्त्तः ।|right=६३}}</noinclude><small>पराशरः ।</small> {{bold|{{gap}}पौषे भयदुर्भिक्षब्रह्मक्षत्रोपरोधाय ।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>पौषे द्विजक्षत्रजनोपरोधः ससैन्धवाख्याः कुकुरा विदेहाः । ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिर्भयं च विन्द्यादसुभिक्षयुक्तम् ॥</poem>}} <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}पौर्णमास्यां यदा पौष्यामुपरज्येत चन्द्रमाः । {{gap}}कुरवश्च विदेहाश्च फलमश्नन्ति दारुणम् ॥ {{gap}}मन्दा वृष्टिर्भवत्यत्र श्रेष्ठो वर्णो विनश्यति । {{gap}}अनयान्मत्रिणश्चैव पोड्यन्ते नात्र संशयः ॥ {{gap}}पित्तज्वरोऽपि भवति श्रेष्ठः पञ्चत्वमृच्छति । {{gap}}महावला महाविद्याः पीडयन्ते पशुपवाहनाः॥ {{gap}}कुक्षिरोगोऽतिसारश्च ज्वररोगश्च वर्धते ।</poem>}} <small>पराशरः ।</small> {{bold|{{gap}}माघं शस्त्रप्रकोपप्रावृड्वृद्धये बङ्गाङ्गानर्त्तवनकाशिदेशोत्सादनकृत्।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}माघं तु मातृपितृभक्तवशिष्टगोत्रात् {{gap}}{{gap}}स्वाध्यायधर्मनिरतान् करिणस्तुरङ्गात् । {{gap}}बङ्गान् सकाशिमनुजाँश्च दुनोति राहु- {{gap}}{{gap}}र्दृष्टिं च कर्षकजनानुमतान् करोति ॥</poem>}} <small>पराशरः ।</small> {{bold|फाल्गुनेऽन्नसम्पच्च ।}} <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}फाल्गुन्यां कुरवश्चैव स्त्रियश्च सुभगास्तथा । {{gap}}दाक्षिणात्याश्च राजानः पीडयन्ते नात्र संशयः ॥ </poem>}}<noinclude></noinclude> b64jej773q0vo80ybjzn80bipvd2wzc 341112 341111 2022-07-23T05:58:40Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=६३}}}}</noinclude><small>पराशरः ।</small> {{bold|{{gap}}पौषे भयदुर्भिक्षब्रह्मक्षत्रोपरोधाय ।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>पौषे द्विजक्षत्रजनोपरोधः ससैन्धवाख्याः कुकुरा विदेहाः । ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिर्भयं च विन्द्यादसुभिक्षयुक्तम् ॥</poem>}} <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}पौर्णमास्यां यदा पौष्यामुपरज्येत चन्द्रमाः । {{gap}}कुरवश्च विदेहाश्च फलमश्नन्ति दारुणम् ॥ {{gap}}मन्दा वृष्टिर्भवत्यत्र श्रेष्ठो वर्णो विनश्यति । {{gap}}अनयान्मत्रिणश्चैव पोड्यन्ते नात्र संशयः ॥ {{gap}}पित्तज्वरोऽपि भवति श्रेष्ठः पञ्चत्वमृच्छति । {{gap}}महावला महाविद्याः पीडयन्ते पशुपवाहनाः॥ {{gap}}कुक्षिरोगोऽतिसारश्च ज्वररोगश्च वर्धते ।</poem>}} <small>पराशरः ।</small> {{bold|{{gap}}माघं शस्त्रप्रकोपप्रावृड्वृद्धये बङ्गाङ्गानर्त्तवनकाशिदेशोत्सादनकृत्।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}माघं तु मातृपितृभक्तवशिष्टगोत्रात् {{gap}}{{gap}}स्वाध्यायधर्मनिरतान् करिणस्तुरङ्गात् । {{gap}}बङ्गान् सकाशिमनुजाँश्च दुनोति राहु- {{gap}}{{gap}}र्दृष्टिं च कर्षकजनानुमतान् करोति ॥</poem>}} <small>पराशरः ।</small> {{bold|फाल्गुनेऽन्नसम्पच्च ।}} <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}फाल्गुन्यां कुरवश्चैव स्त्रियश्च सुभगास्तथा । {{gap}}दाक्षिणात्याश्च राजानः पीडयन्ते नात्र संशयः ॥ </poem>}}<noinclude></noinclude> 9ft9prd6rwnzseqg4xnokha0hcrral6 पृष्ठम्:अद्भुतसागरः.djvu/८६ 104 125033 341114 339960 2022-07-23T06:10:28Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left|center=राहोरद्भुतावर्त्तः ।|right=६५}}</noinclude>{{bold|<poem>पाञ्चालान् विकलाँश्च पीडयेदन्नं चापि निहन्ति कर्कटे ॥</poem>}} {{bold|<poem>{{gap}}सिंहे पुलिन्दगणमेकलसिन्धुयुक्तान्<ref>सत्ते युक्तान् इति अ. ।</ref> {{gap}}{{gap}}राजपोमान् नरपतीलन् वनगोचराँश्च । {{gap}}षष्ठे तु शस्यकविलेखकगेयसक्तान् {{gap}}{{gap}}हन्त्यश्मक त्रिपुरशालियुताँश्च देशान् ॥ तुलाधरेऽवन्त्यपरान्त्यसाधून वणिग्दशार्णान् मरुकच्छपाँश्च । अलिन्यथोदुम्बरमद्रचोलान् द्रुमान् सयौधेयविषायुधीयान् ॥ {{gap}}धन्विन्यमात्यवसुधाजि<ref>वरत्राजि - इति अ. । वरराजि - इति ख. ।</ref> विदेहमल्लान् {{gap}}{{gap}}पाञ्चालवैद्यवणिजो विषमायुधज्ञान् । {{gap}}हन्यान्मृगे तु झषमन्त्रिकुलानि नीचान् {{gap}}{{gap}}मन्त्रौषधीषु कुशलान् स्थविरायुधीयान् ॥ {{gap}}कुम्भेऽन्तर्गिरिजात्यपश्चिमजनान्<ref>अन्तर्गिरिजान् सपश्चि- इति अ. ।</ref> भारोद्वहाँस्तस्करान् {{gap}}{{gap}}आभीरान् दरदार्यसिंहलजनान्<ref>सिंहपुरकान् इति अ.</ref> हन्यात् तथा वर्वरान् । {{gap}}मीने सागरकूलसागरभवद्रव्याणि <ref>वन्यान् इति अ. । मान्यान् इति ख. ।</ref>माल्यान् जनान् {{gap}}{{gap}}प्रज्ञान् वार्युपजीविनः शुभकलं कूर्मोपदेशाद्वदेत् ॥</poem>}} <small>अथ नक्षत्रफलं वटकणिकायाम् ।</small> {{bold|{{gap}}कूर्मविभागेन वदेत् पीडां देशस्य वीक्ष्य नक्षत्रम् ।}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अश्विन्यामश्चानश्वजीविनश्च । याम्ये कलिङ्गात् दक्षिणाँश्चोपतापयति । कृत्तिकासु कलिङ्गमत्स्याधिपतीन् । रोहिण्यां क्षुच्छस्त्रकोपैः प्रजाः। मृगशिरसि शात्वनिषादकैकेयान् । रौद्रैशकान् कुकुरान् पल्व-}} {{rule}}<noinclude></noinclude> fd01hmzcx8tuzocy76vmkwaxyhpg7lh 341115 341114 2022-07-23T06:10:49Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=६५}}}}</noinclude>{{bold|<poem>पाञ्चालान् विकलाँश्च पीडयेदन्नं चापि निहन्ति कर्कटे ॥</poem>}} {{bold|<poem>{{gap}}सिंहे पुलिन्दगणमेकलसिन्धुयुक्तान्<ref>सत्ते युक्तान् इति अ. ।</ref> {{gap}}{{gap}}राजपोमान् नरपतीलन् वनगोचराँश्च । {{gap}}षष्ठे तु शस्यकविलेखकगेयसक्तान् {{gap}}{{gap}}हन्त्यश्मक त्रिपुरशालियुताँश्च देशान् ॥ तुलाधरेऽवन्त्यपरान्त्यसाधून वणिग्दशार्णान् मरुकच्छपाँश्च । अलिन्यथोदुम्बरमद्रचोलान् द्रुमान् सयौधेयविषायुधीयान् ॥ {{gap}}धन्विन्यमात्यवसुधाजि<ref>वरत्राजि - इति अ. । वरराजि - इति ख. ।</ref> विदेहमल्लान् {{gap}}{{gap}}पाञ्चालवैद्यवणिजो विषमायुधज्ञान् । {{gap}}हन्यान्मृगे तु झषमन्त्रिकुलानि नीचान् {{gap}}{{gap}}मन्त्रौषधीषु कुशलान् स्थविरायुधीयान् ॥ {{gap}}कुम्भेऽन्तर्गिरिजात्यपश्चिमजनान्<ref>अन्तर्गिरिजान् सपश्चि- इति अ. ।</ref> भारोद्वहाँस्तस्करान् {{gap}}{{gap}}आभीरान् दरदार्यसिंहलजनान्<ref>सिंहपुरकान् इति अ.</ref> हन्यात् तथा वर्वरान् । {{gap}}मीने सागरकूलसागरभवद्रव्याणि <ref>वन्यान् इति अ. । मान्यान् इति ख. ।</ref>माल्यान् जनान् {{gap}}{{gap}}प्रज्ञान् वार्युपजीविनः शुभकलं कूर्मोपदेशाद्वदेत् ॥</poem>}} <small>अथ नक्षत्रफलं वटकणिकायाम् ।</small> {{bold|{{gap}}कूर्मविभागेन वदेत् पीडां देशस्य वीक्ष्य नक्षत्रम् ।}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अश्विन्यामश्चानश्वजीविनश्च । याम्ये कलिङ्गात् दक्षिणाँश्चोपतापयति । कृत्तिकासु कलिङ्गमत्स्याधिपतीन् । रोहिण्यां क्षुच्छस्त्रकोपैः प्रजाः। मृगशिरसि शात्वनिषादकैकेयान् । रौद्रैशकान् कुकुरान् पल्व-}} {{rule}}<noinclude></noinclude> nkktp7hsn2wecvipp1867r8q4bxztf5 पृष्ठम्:अद्भुतसागरः.djvu/८७ 104 125034 341116 339963 2022-07-23T06:20:42Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=६६|center=अद्भुतसागरे।}}}}</noinclude>{{bold|{{gap}}लोपजीविनश्च । पुनर्वसौ पाण्ड्यभरुकच्छकार्पासाँश्च । पुष्ये गोमन्तसिधुसौवीरकुरुपाञ्चालान् । सार्पेकाशिकलिङ्गसिंहलराजन्यान्। पित्र्ये दण्डकारण्यवासिनः पितृधान्यं च । भाग्येषु भगान् काम्बोजान् सुराष्ट्राधिपतिं च । आर्यम्णे मगधाङ्गयवनान् । हस्ते दशार्णान् । त्वाष्ट्र मद्रान् कुरुक्षेत्रं च । वायव्ये काश्मीरोशीनरान् वाजिनश्च । विशाखयोर्वृक्षाश्मकान् । मैत्रे काशिकोशलान् । ज्येष्ठायां ज्येष्ठजातीयान् दरदाँश्च । मूले क्षुद्रकमालवयौधेयान् । आप्ये पञ्चनदान् सुवीराधिपतिं च । वैश्वदेवे आर्जुनायनपौण्ड्रशिविमालवान् । श्रवणे शाल्वानानर्त्तकाँश्च । वासवे धनिनः शकारण्यजाँ<ref>शकानन्त्यजाँच इति ख ।</ref>श्च । वारुणे कैकेयात् जलचराँश्च । आजे अङ्गबङ्गमगधकुकुरान् । आहिर्बुध्ने अश्मकेक्षुक्षुद्रकत्रिगर्त्तान् । पौष्णे वैदेहानर्त्तकसिन्धुसौवीरान् ।}} <small>ज्यौतिषपराशरविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>{{gap}}ग्रहोपश्लिष्टे नक्षत्रं ग्रहणं तु यदा भवेत् । {{gap}}तदा पीडा विनिर्देश्या सैनिकानां नृपैः सह ॥</poem>}} <small>अथ दिक्फलं तत्र पराशरः ।</small> {{bold|उदग्दक्षिणप्रत्यक ब्राह्मणक्षत्रिय विट्शूद्रोत्सादनायानुपूर्व्या ।}} <small>काश्यपः ।</small> {{bold|<poem>सौम्यपार्श्वगते विप्रान् पूर्वस्यां क्षत्रजातयः । वैश्यान् दक्षिणतो राहुर्हन्ति पश्चिमतोऽपरान् ॥</poem>}} <small>वटकणिकायां तु ।</small> {{bold|उदगादिषु दिक्षु शुभो विप्रादीनां सितादिवर्णघ्नः ।}} <small>काश्यपः ।</small> {{bold|<poem>{{gap}}पूर्वे सलिलजान्<ref>पूर्वे सलिलघाती स्यादिति क्वचित् पाठः ।</ref> हन्यात् पश्चाद्धन्यात् कृषीवलान् । {{gap}}याम्ये वरगजान् हन्ति सौम्ये गोनाशकृन्मतः ॥</poem>}} {{rule}}<noinclude></noinclude> 6dtutvhwzt4ed0cj1blkns040q5eeoq पृष्ठम्:अद्भुतसागरः.djvu/८८ 104 125035 341117 339967 2022-07-23T06:35:39Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=राहोरद्भुतावर्त्तः।|right=६७}}</noinclude>तथा च वराहसंहितायाम् । {{bold|<poem>{{gap}}पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः । {{gap}}पश्चात् कर्षकसेवकबीजविनाशाय निर्दिष्टः ॥ {{gap}}सलिलवरदन्तिघाती याम्येनोदग्गवामशुभः ।</poem>}} <small>वटकणिकायाम् ।</small> {{bold|{{gap}}विदिगादिगतो हन्याद्राहुम्लेंच्छान् सविजिगीषून् ।}} <small>वराहसंहितायाम् ।</small> {{bold|{{gap}}म्लेच्छान् विदिक्स्थितो यायिनश्च हन्याद्भुताशसक्ताँश्च ।}} <small>अथ ग्रासविशेषो वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}सव्यापसव्यलेहग्रहननिरोधात्रमर्दनारोहाः । {{gap}}आद्यन्तं मध्यतमस्तमोऽन्त्य इति ते दश ग्रासाः ॥</poem>}} <small>पराशरेणान्यथा दश ग्रासा दर्शितास्तद्यथा</small> । {{bold|{{gap}}देशोपद्रवा ग्रसनारोहणोपघ्राणोन्मर्दननिरोधपरिलेहनापसव्यसव्यान्तमध्यतमउपप्लवाश्च}} - इति । <small>अत्रान्तमध्य इत्येकः । तमउप्लव इत्यपरः ।</small> <small>अथैतेषां लक्षणानि फलं च । तत्र पराशरः ।</small> {{bold|{{gap}}प्रदक्षिणं सव्यं प्रजाहिताय ।}} <small>भार्गवीये तु ।</small> {{bold|प्रदक्षिणे तु सौमनस्यम्}} । <small>वराहसंहितायां तु ।</small> {{bold|{{gap}}सव्यं गते तमसि जगजलप्लुतं भवति मुदितमभयं च ।}} <small>पराशरः ।</small> {{bold|अप्रदक्षिणमपसव्यं प्रजाभावाय ।}} <small>वराहसंहितायां तु ।</small> {{bold|{{gap}}अपसव्ये नरपतितस्करावमर्दैः प्रजानाशः ।}} <small>पराशरः ।</small> {{bold|समन्ताजिह्वयाऽभिलेहनं समानफलं पूंवर्णे इति ।}}<noinclude></noinclude> 44xbzl8wj995li300r8n8vh1v33rw6f 341118 341117 2022-07-23T06:36:04Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः।|right=६७}}}}</noinclude>तथा च वराहसंहितायाम् । {{bold|<poem>{{gap}}पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः । {{gap}}पश्चात् कर्षकसेवकबीजविनाशाय निर्दिष्टः ॥ {{gap}}सलिलवरदन्तिघाती याम्येनोदग्गवामशुभः ।</poem>}} <small>वटकणिकायाम् ।</small> {{bold|{{gap}}विदिगादिगतो हन्याद्राहुम्लेंच्छान् सविजिगीषून् ।}} <small>वराहसंहितायाम् ।</small> {{bold|{{gap}}म्लेच्छान् विदिक्स्थितो यायिनश्च हन्याद्भुताशसक्ताँश्च ।}} <small>अथ ग्रासविशेषो वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}सव्यापसव्यलेहग्रहननिरोधात्रमर्दनारोहाः । {{gap}}आद्यन्तं मध्यतमस्तमोऽन्त्य इति ते दश ग्रासाः ॥</poem>}} <small>पराशरेणान्यथा दश ग्रासा दर्शितास्तद्यथा</small> । {{bold|{{gap}}देशोपद्रवा ग्रसनारोहणोपघ्राणोन्मर्दननिरोधपरिलेहनापसव्यसव्यान्तमध्यतमउपप्लवाश्च}} - इति । <small>अत्रान्तमध्य इत्येकः । तमउप्लव इत्यपरः ।</small> <small>अथैतेषां लक्षणानि फलं च । तत्र पराशरः ।</small> {{bold|{{gap}}प्रदक्षिणं सव्यं प्रजाहिताय ।}} <small>भार्गवीये तु ।</small> {{bold|प्रदक्षिणे तु सौमनस्यम्}} । <small>वराहसंहितायां तु ।</small> {{bold|{{gap}}सव्यं गते तमसि जगजलप्लुतं भवति मुदितमभयं च ।}} <small>पराशरः ।</small> {{bold|अप्रदक्षिणमपसव्यं प्रजाभावाय ।}} <small>वराहसंहितायां तु ।</small> {{bold|{{gap}}अपसव्ये नरपतितस्करावमर्दैः प्रजानाशः ।}} <small>पराशरः ।</small> {{bold|समन्ताजिह्वयाऽभिलेहनं समानफलं पूंवर्णे इति ।}}<noinclude></noinclude> 1x33cqbyilt9hf6du156bnsos2w86s2 पृष्ठम्:अद्भुतसागरः.djvu/८९ 104 125036 341119 339970 2022-07-23T06:38:48Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=६८|center=अद्भुतसागरे।}}}}</noinclude><small>पूर्वेण निरोधेनेत्यर्थः । निरोधनान्तरस्याभिधानात् ।</small> <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}जिह्वावलेढि परितस्तिमिरनुदो मण्डलं स यदि लेहः । {{gap}}प्रमुदितसमस्तभूप<ref>प्रमुदितसमस्तभूता इति अ. ।</ref>प्रभूततोया च तत्र मही ॥</poem>}} <small>पराशरः ।</small> {{bold|{{gap}}अर्धत्रिभागपादग्रहणं ग्रसनप्रख्यातं नृपतिप्रच्युतये ।}} <small>वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यतेऽथ वाऽप्यर्धम् । {{gap}}स्फीतनृपतिवित्तहानिः पीडा च स्फीतदेशानाम् ॥</poem>}} <small>तत्रैव।</small> {{bold|<poem>{{gap}}पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस्तिष्ठेत् । {{gap}}स निरोधो विज्ञेयः प्रमोदकृत् सर्वभूतानाम् ॥</poem>}} <small>पराशरेण त्वन्यथा निरोधोऽभिहितः ।</small> {{bold|{{gap}}सर्वमण्डलधूमावरणं निरोधस्तदारोग्यक्षेमसुभिक्षलक्षणम्।}} <small>पराशरः ।</small> {{bold|उन्मर्दनं चिरमर्केन्दुसकलमण्डलाक्रमणं प्रजाविद्रवकरम् ।}} <small>काश्यपस्तु ।</small> {{bold|अवमर्दे पापमर्दात् स्वयं संक्षुभ्यते नृपः ।}} <small>वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}अवमर्दनमिति निःशेषमेव संछाद्य यदि चिरं तिष्ठेत् । {{gap}}हन्यात् प्रधानभूपान् प्रधानदेशाँश्च तिमिरमयः ॥</poem>}} <small>भार्गवीये ।</small> {{bold|<poem>{{gap}}सर्वं संग्रह्य च ज्योतिश्चिरमन्तर्दधाति च । {{gap}}हन्ति स्फीतानि राष्ट्राणि प्रधानं च नराधिपम् ||</poem>}} <small>पराशरः ।</small> {{bold|<small>मण्डलमध्ये ग्रहणावर्त्तनमारोहणं नरपतिविक्षोभः प्रजानाशकरः ।</small>}} {{rule}}<noinclude></noinclude> feb9mgembwyvw25nzq5q7vm778yjrbt पृष्ठम्:अद्भुतसागरः.djvu/९० 104 125037 341120 339993 2022-07-23T06:40:26Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=७१}}}}</noinclude>{{bold|<poem>{{gap}}दाहज्वरः कुक्षिरोगो मरकश्चात्र जायते ॥ {{gap}}तदा न वर्षेत् पर्जन्योऽन्त्यजाञ्छूद्राँश्च पीडयेत् । {{gap}}श्वेतो वा पाण्डुवर्णो वा द्विजघ्नः पार्श्वरोगकृत् ॥</poem>}} <small>विष्णुधर्मोत्तरेऽप्युपरागमात्रवर्णफलमुक्तम् । तद्यथा ।</small> {{bold|उपरागे श्वेतरक्तः पोतकृष्णो राहुर्ब्राह्मणक्षत्रिय विट्शूद्रपीडाकरो भवति ।।}} <small>ज्योतिषपराशरेऽपि ।</small> {{bold|{{gap}}पांशुर्ब्रह्मघ्नः । लोहितक्षत्रियविनाशाय . कृष्णः कापोतकश्च। शूद्रघ्नः क्षयकुक्षिरोगाय ।}} <small>वराहेणापि सामान्येनैव वर्णफलमुक्तम् ।</small> {{bold|<poem>{{gap}}श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद्राहौ । {{gap}}पांशुविलोहितरूपे क्षत्रध्वसाय भवति वृष्टेश्च ॥ {{gap}}विमलकमणिपीताभो वैश्यध्वंसी भवेत् सुभिक्षाय । {{gap}}कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च ॥ {{gap}}अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम् इति ।</poem>}} <small>भार्गवीये ।</small> {{bold|<poem>{{gap}}धूमवर्णोऽग्निवर्णा वा ग्रामेषु नगरेषु च । {{gap}}अग्न्युत्पातं गृहस्थानां सदा स कुरुते ग्रहः ॥</poem>}} <small>वृद्धगर्गस्तु ।</small> {{bold|{{gap}}धूम्रवर्णोऽग्निवर्णो वा मारीमग् निं च कोपयेत् ।}} वराहसंहितायां तु । {{bold|{{gap}}सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि ।}} अर्चिष्मान् अग्निस्तद्वति सार्चिष्मति । पराशरः । {{bold|{{gap}}पाटलकुसुमसंकाशोऽशनिभयदो भवति।}}<noinclude></noinclude> msee4wqzq6cihtxd60u7pdk9kkr4eaz पृष्ठम्:अद्भुतसागरः.djvu/९१ 104 125038 341121 339984 2022-07-23T06:41:56Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=|center=अद्भुतसागरे}}}}</noinclude><small>वराहसंहितायां तु ।</small> {{bold|{{gap}}अशनिभयसंप्रदायी पाटलकुसुमोपमो राहुः ।}} <small>भार्गवीये ।</small> {{bold|<poem>{{gap}}ताम्रो भवति शस्त्राय रूक्षो भवति मृत्यवे । {{gap}}नीलो लोहितपर्यन्तो राहुश्चरति भास्करे ॥ {{gap}}पीडयेदाहिताग्नीँश्च ये चान्येऽग्न्युपजीविनः । {{gap}}यदा विन्द्रधनुर्वर्णो राहुश्चरति भास्करे ॥ {{gap}}अमात्यो हन्ति राजानं राजा वाऽमात्यमात्मनः ।</poem>}} <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}राहुरिन्द्रधनुष्प्रख्यो भयादिव्याधिवर्धनः । {{gap}}भयं घोरं विजानीयाद्रूक्षो यदि च दृश्यते ॥</poem>}} <small>पराशरः ।</small> {{bold|{{gap}}बालार्कांशुकपिलो दुर्भिक्षाय ।}} <small>वराहसंहितायाम् ।</small> {{bold|{{gap}}बालर विकमलसुरचापरूपभृच्छस्त्रकोपाय ।}} <small>पराशरः ।</small> {{bold|{{gap}}नीलः स्तेयवृद्धये चैत्यविनाशाय। दूर्वाङ्गुरहरितो जनमरणाय । हरिद्रो व्याधये ।}} <small>वराहसंहितायां तु</small> {{bold|<poem>{{gap}}हरिते रोगोल्वणता शस्यानामीतिभिश्च विध्वंसः । {{gap}}दूर्वाकाण्डश्यामे हारिद्राभे च निर्दिशेत्मरकम् ॥</poem>}} <small>भार्गवीये तु ।</small> {{bold|<poem>{{gap}}श्यामो भवति वाताय धूम्रो भवति वृष्टये । {{gap}}हारिद्रः सर्वरोगाणां कोपं सृजति दारुणम् ॥</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|{{gap}}कापोतारुणकंपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् ।}}<noinclude></noinclude> j9easgkt0pxde0i354c0w6x2k5q3mrl 341122 341121 2022-07-23T06:42:18Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७२|center=अद्भुतसागरे}}}}</noinclude><small>वराहसंहितायां तु ।</small> {{bold|{{gap}}अशनिभयसंप्रदायी पाटलकुसुमोपमो राहुः ।}} <small>भार्गवीये ।</small> {{bold|<poem>{{gap}}ताम्रो भवति शस्त्राय रूक्षो भवति मृत्यवे । {{gap}}नीलो लोहितपर्यन्तो राहुश्चरति भास्करे ॥ {{gap}}पीडयेदाहिताग्नीँश्च ये चान्येऽग्न्युपजीविनः । {{gap}}यदा विन्द्रधनुर्वर्णो राहुश्चरति भास्करे ॥ {{gap}}अमात्यो हन्ति राजानं राजा वाऽमात्यमात्मनः ।</poem>}} <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}राहुरिन्द्रधनुष्प्रख्यो भयादिव्याधिवर्धनः । {{gap}}भयं घोरं विजानीयाद्रूक्षो यदि च दृश्यते ॥</poem>}} <small>पराशरः ।</small> {{bold|{{gap}}बालार्कांशुकपिलो दुर्भिक्षाय ।}} <small>वराहसंहितायाम् ।</small> {{bold|{{gap}}बालर विकमलसुरचापरूपभृच्छस्त्रकोपाय ।}} <small>पराशरः ।</small> {{bold|{{gap}}नीलः स्तेयवृद्धये चैत्यविनाशाय। दूर्वाङ्गुरहरितो जनमरणाय । हरिद्रो व्याधये ।}} <small>वराहसंहितायां तु</small> {{bold|<poem>{{gap}}हरिते रोगोल्वणता शस्यानामीतिभिश्च विध्वंसः । {{gap}}दूर्वाकाण्डश्यामे हारिद्राभे च निर्दिशेत्मरकम् ॥</poem>}} <small>भार्गवीये तु ।</small> {{bold|<poem>{{gap}}श्यामो भवति वाताय धूम्रो भवति वृष्टये । {{gap}}हारिद्रः सर्वरोगाणां कोपं सृजति दारुणम् ॥</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|{{gap}}कापोतारुणकंपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् ।}}<noinclude></noinclude> 24eq6l99mwrx74kn8vo8iyhd8r0n6v8 पृष्ठम्:अद्भुतसागरः.djvu/९२ 104 125040 341123 339989 2022-07-23T06:45:22Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=राहोरद्बभुतावर्त्तः।|right=७३}}</noinclude>{{bold|{{gap}}आधूम्रै क्षेमसुभिक्षमादिशेन्मन्दवृष्टिश्च ॥}} <small>भार्गवीये ।</small> {{bold|{{gap}}चक्राकारस्तु लोकानां घोरं जनयति ज्वरम् ।}} <small>स्वाभाविकवर्णानाह ब्रह्मगुप्ताचार्यः ।</small> <poem>{{bold|"{{gap}}आन्तद्यन्तयोः स धूम्रः कृष्णः खण्डग्रहेऽर्धतोऽत्यधिके । {{gap}}ग्रासः कृष्णाताम्रः सर्वग्रहणे कपिलवर्णः”* ॥}} </poem> <small>अथाङ्गारकादीनां ग्रहराशिस्थितफलं च वराहसंहितायाम् ।</small> <poem>{{bold|{{gap}}आवन्तिका जनपदाः कावेरीनर्मदातटाश्रयिणः । {{gap}}दृष्टाश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते ॥}}</poem> <small>{{gap}}ग्रस्ते ग्रहणराशिस्थिते । न तु चन्द्रादित्यवद्ग्रस्ते । चन्द्रग्रहणे छारिकाया भूछा- याया भौमकक्षापर्यन्तमनुत्थानात् ।</small> <small>भूछायापरिमाणम् ।</small> {{bold|<poem>{{gap}}खतिथिनगानललोचन- २३७१५० {{gap}}{{gap}}योजनदीर्घा च भवति भूच्छाया। {{gap}}स्पृशति च बुधकक्षोपरि {{gap}}{{gap}}गजरसनृपयमशैल-७२१६६८ योजनान्येव॥</poem>}} <small>{{gap}}रविग्रहे च सूर्यासन्नस्थानां ग्रहाणामस्तमितत्वाद्ग्रहणादर्शनात् । न च गणितानुमानमात्रेण ग्रहणफलं भवति ।</small> <small>अत एव ग्रहसहितत्वमात्रमुक्तं वटकणिकायाम् ।</small> {{bold|सहितो ग्रहेण येन च तद्देशश्चाप्नुयात् पीडाम् ।}} <small>वराहसंहितायाम्।</small> {{bold|<poem>{{gap}}अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम् । {{gap}}स्त्रीनृपयोधकुमारान् सह विद्वद्भिर्बुधो हन्ति ॥ {{gap}}ग्रहणोपगते जीवे विद्धं नृपमन्त्रिगजयध्वंसः ।</poem>}} {{rule}} <small>{{bold|* ब्रह्मसिद्धान्ते चन्द्रग्रहणाधिकारस्य १२ श्लो. । तत्र ग्रासे स कृष्णातात्र' इति । व्यावर्त्तका इति ख. ।}}</small><noinclude></noinclude> t1xkalum9l3l6aq1ucomxicptv095hh 341128 341123 2022-07-23T06:48:50Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्बभुतावर्त्तः।|right=७३}}}}</noinclude>{{bold|{{gap}}आधूम्रै क्षेमसुभिक्षमादिशेन्मन्दवृष्टिश्च ॥}} <small>भार्गवीये ।</small> {{bold|{{gap}}चक्राकारस्तु लोकानां घोरं जनयति ज्वरम् ।}} <small>स्वाभाविकवर्णानाह ब्रह्मगुप्ताचार्यः ।</small> <poem>{{bold|{{gap}}"आन्तद्यन्तयोः स धूम्रः कृष्णः खण्डग्रहेऽर्धतोऽत्यधिके । {{gap}}ग्रासः कृष्णाताम्रः सर्वग्रहणे कपिलवर्णः” <ref>ब्रह्मसिद्धान्ते चन्द्रग्रहणाधिकारस्य १२ श्लो. । तत्र ग्रासे स कृष्णातात्र' इति ।</ref>॥}} </poem> <small>अथाङ्गारकादीनां ग्रहराशिस्थितफलं च वराहसंहितायाम् ।</small> <poem>{{bold|{{gap}}आवन्तिका<ref>व्यावर्त्तका इति ख. ।</ref> जनपदाः कावेरीनर्मदातटाश्रयिणः । {{gap}}दृष्टाश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते ॥}}</poem> <small>{{gap}}ग्रस्ते ग्रहणराशिस्थिते । न तु चन्द्रादित्यवद्ग्रस्ते । चन्द्रग्रहणे छारिकाया भूछा- याया भौमकक्षापर्यन्तमनुत्थानात् ।</small> <small>भूछायापरिमाणम् ।</small> {{bold|<poem>{{gap}}खतिथिनगानललोचन- २३७१५० {{gap}}{{gap}}योजनदीर्घा च भवति भूच्छाया। {{gap}}स्पृशति च बुधकक्षोपरि {{gap}}{{gap}}गजरसनृपयमशैल-७२१६६८ योजनान्येव॥</poem>}} <small>{{gap}}रविग्रहे च सूर्यासन्नस्थानां ग्रहाणामस्तमितत्वाद्ग्रहणादर्शनात् । न च गणितानुमानमात्रेण ग्रहणफलं भवति ।</small> <small>अत एव ग्रहसहितत्वमात्रमुक्तं वटकणिकायाम् ।</small> {{bold|सहितो ग्रहेण येन च तद्देशश्चाप्नुयात् पीडाम् ।}} <small>वराहसंहितायाम्।</small> {{bold|<poem>{{gap}}अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम् । {{gap}}स्त्रीनृपयोधकुमारान् सह विद्वद्भिर्बुधो हन्ति ॥ {{gap}}ग्रहणोपगते जीवे विद्धं नृपमन्त्रिगजयध्वंसः ।</poem>}} {{rule}}<noinclude></noinclude> a9v1ycubd9zfiw00kcze2ygqnqvz0er पृष्ठम्:अद्भुतसागरः.djvu/९३ 104 125041 341132 340030 2022-07-23T06:53:21Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}सिन्धुनटवासिनामप्युदग्दिशं संश्रितानां च ॥ {{gap}}भृगुतनये राहुगते दशार्णकाः कैकयाः सयौधेयाः । {{gap}}आर्यावर्ताः शिवयः स्त्रीसचिवगणाश्च पोड्यन्ते ॥</poem>}} <small>वुधभार्गययोगफलं बोद्धव्यम् । चन्द्रग्रहणे तद्योगासम्भवात् ।</small> {{bold|<poem>{{gap}}सौरे मरुभवपुष्करासौराष्ट्रिकधतवोऽर्वुदान्त्यजनाः । {{gap}}गोमन्त पारियात्राश्रिताश्च नाशं व्रजन्त्याशु ॥</poem>}} <small>अथ ग्रहदृप्टिफलम्। वराहसंहितायाम् ।</small> {{bold|{{gap}}पश्यन् ग्रस्तौ<ref>ग्रस्तम् इति अ । न तत्र सूर्यचन्द्रयोः कश्चिद्विशेषोऽर्थोऽभिहितः ।</ref> सोम्यो घृतमधुतैलक्ष्याय राज्ञां च ।}} <small>{{gap}}यदा रविचन्द्रौ ग्रस्तै भवतस्तदा है ग्रहौर्दर्शनादेतानि फलानि ईर्शनादेतानि फलानि भवन्तोति व्याख्येयन् । पश्यन्तीति यथासम्भवं सम्बन्धनीयम् । तत्र सं. म्यञ्चन्द्रं पश्यन्निति सम्बन्धः बुधस्यादित्यदर्शनासम्वन्धत्वादिति ।</small> {{bold|<poem>{{gap}}भौमः समरविमर्दं शिविकोपं तस्करभयं च । {{gap}}शुक्रः शस्यविमर्द नानक्लेशं च जनयति धरित्र्याम् ॥ {{gap}}रविजः करोत्यवृष्टिं दर्भिक्षं तस्करभयं च । यदशभमवलोकनाभिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा । सुरपतिगरुणाऽवलोकितं तच्छममुपयाति जलैरिवाग्निरिद्धः ॥</poem>}} <small>अथ हीनातिरिक्तवेलफलम् । तत्र गर्गः ।</small> {{bold|<poem>{{gap}}वेलाहोने शस्त्रभयं गर्भाणां श्रवणं तथा । {{gap}}अतिवले फलानां त शस्यानां क्षयमादिशेत् ||</poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च । {{gap}}अतिवले कुसुमफलक्षयो भयं शस्यनाशश्च ॥</poem>}} <small>काश्यपस्तु |</small> {{bold|<poem>{{gap}}अनागतमतीतं वा वेलाहीनाधिकं च यत् । {{gap}}गर्भस्रावस्त्वनावृष्टिः फलं पुष्पं विनश्यति ॥ </poem>}} {{rule}}<noinclude></noinclude> aehs28jc6m51pg6nv373konjryrq7lr पृष्ठम्:अद्भुतसागरः.djvu/९४ 104 125042 341133 340032 2022-07-23T06:56:55Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" /> {{rh|center=राहोरद्भग्वावर्त्तः ।|right=७५}}</noinclude><small>अथ खांशफलम् । तत्र दृश्यनभोभागं त्रिधा विभज्य फलमुक्तं भार्गवीये ।</small> {{bold|<poem>{{gap}}यौवनस्थाँश्च पूर्वाह्ने हन्ति यज्ञविदाञ्जनान् । {{gap}}औदकानि च सत्त्वानि नागेन्द्रश्चात्र दुःखितः ॥ {{gap}}अथ मध्यपथं प्राप्तः शूद्रान् हन्ति सतस्करान् । {{gap}}उपरक्तो नृपं हन्ति चन्द्रश्च वरवारणात् ॥ {{gap}}प्रलम्बः प्रमदां हन्ति क्षत्रं राष्ट्रं च सर्वशः । {{gap}}त्रिगर्त्ताश्चात्र पीड्यन्ते मत्स्याश्च कुरवो जनाः<ref>ये च दण्डभृता जनाः इति छ ।</ref> ॥</poem>}} <small>वटकणिकायाम् ।</small> {{bold|<poem>{{gap}}पीडयति विप्रराजन्यसत्रिनृपवैश्यशूद्रदस्युगणान् । {{gap}}खांशेष्वसुरः सप्तसु दृष्टो नष्टः शिवायोक्तः ॥</poem>}} <small>बृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}गवां तु प्रथमं क्षेत्रं द्वितीयं ब्रह्मवादिनाम् | {{gap}}क्षत्रियाणां तृतीयं स्यान्मध्यमं सार्वलौकिकम् ॥ {{gap}}पञ्चमं पुरवैश्यानां पष्ठं स्याच्छूद्रयोषिताम् । {{gap}}सर्वासामन्त्यजातीनां सप्तमं क्षेत्रमुच्यते ॥ {{gap}}येषां सोमो युगे ग्रस्तो विमर्दो यत्र वा भवेत् । {{gap}}तेषां पीडां विजानीयान्मोक्षे क्षेममथादिशेत् ॥</poem>}} <small>काश्यपस्तु ।</small> {{bold|<poem>{{gap}}प्रथमांशे विप्रप्रीडा क्षत्रियाणां द्वितीयके । {{gap}}तृतीये चान्त्यजानां तु चतुर्थे मध्यदेशजान् ॥ {{gap}}वैश्यानां पञ्चमे खांशे षाष्ठांशे प्रमदाभयम् । {{gap}}दस्युप्रत्यन्तिकान् म्लेच्छान् नाशयेत्<ref>प्रत्यन्तम्लेच्छविनात् प्रत्यन्तम्लेच्छ विनाश: इति अ ।</ref> सप्तमांशके ॥ {{gap}}येषामंशे भवेन्मोक्षस्तजातीनां शुभं वदेत् ।</poem>}} {{rule}}<noinclude></noinclude> tecwq3rz21zwjfa8uv2c0niv31v11e2 341134 341133 2022-07-23T06:57:09Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" /> {{bold|{{rh|center=राहोरद्भग्वावर्त्तः ।|right=७५}}}}</noinclude><small>अथ खांशफलम् । तत्र दृश्यनभोभागं त्रिधा विभज्य फलमुक्तं भार्गवीये ।</small> {{bold|<poem>{{gap}}यौवनस्थाँश्च पूर्वाह्ने हन्ति यज्ञविदाञ्जनान् । {{gap}}औदकानि च सत्त्वानि नागेन्द्रश्चात्र दुःखितः ॥ {{gap}}अथ मध्यपथं प्राप्तः शूद्रान् हन्ति सतस्करान् । {{gap}}उपरक्तो नृपं हन्ति चन्द्रश्च वरवारणात् ॥ {{gap}}प्रलम्बः प्रमदां हन्ति क्षत्रं राष्ट्रं च सर्वशः । {{gap}}त्रिगर्त्ताश्चात्र पीड्यन्ते मत्स्याश्च कुरवो जनाः<ref>ये च दण्डभृता जनाः इति छ ।</ref> ॥</poem>}} <small>वटकणिकायाम् ।</small> {{bold|<poem>{{gap}}पीडयति विप्रराजन्यसत्रिनृपवैश्यशूद्रदस्युगणान् । {{gap}}खांशेष्वसुरः सप्तसु दृष्टो नष्टः शिवायोक्तः ॥</poem>}} <small>बृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}गवां तु प्रथमं क्षेत्रं द्वितीयं ब्रह्मवादिनाम् | {{gap}}क्षत्रियाणां तृतीयं स्यान्मध्यमं सार्वलौकिकम् ॥ {{gap}}पञ्चमं पुरवैश्यानां पष्ठं स्याच्छूद्रयोषिताम् । {{gap}}सर्वासामन्त्यजातीनां सप्तमं क्षेत्रमुच्यते ॥ {{gap}}येषां सोमो युगे ग्रस्तो विमर्दो यत्र वा भवेत् । {{gap}}तेषां पीडां विजानीयान्मोक्षे क्षेममथादिशेत् ॥</poem>}} <small>काश्यपस्तु ।</small> {{bold|<poem>{{gap}}प्रथमांशे विप्रप्रीडा क्षत्रियाणां द्वितीयके । {{gap}}तृतीये चान्त्यजानां तु चतुर्थे मध्यदेशजान् ॥ {{gap}}वैश्यानां पञ्चमे खांशे षाष्ठांशे प्रमदाभयम् । {{gap}}दस्युप्रत्यन्तिकान् म्लेच्छान् नाशयेत्<ref>प्रत्यन्तम्लेच्छविनात् प्रत्यन्तम्लेच्छ विनाश: इति अ ।</ref> सप्तमांशके ॥ {{gap}}येषामंशे भवेन्मोक्षस्तजातीनां शुभं वदेत् ।</poem>}} {{rule}}<noinclude></noinclude> 1bezdok3c9wxocdn8auievx46lrirp8 पृष्ठम्:अद्भुतसागरः.djvu/९५ 104 125043 341135 340037 2022-07-23T06:58:38Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७६|center=अद्भुतसागरे}}}}</noinclude>हत्तीत्यवृत्तो वराहसंहितायां तु । {{bold|<poem>{{gap}}अग्नुपजीविगुणाधिकविप्राश्रमिणोऽयुगाभ्युदितः । {{gap}}कर्षक पाखण्डवणिक्क्षत्रियबलनायकान् द्वितीयांशे ॥</poem>}} <small>अयुगायुदितः प्रथमंशोदितः ।</small> <small>विनाशाय ग्रहणमित्यनुवृत्तौ पराशरः ।</small> {{bold|{{gap}}क्षत्रियबलाव्यक्षयोर्मध्याभिलाषिणः}}- इति । <small>मध्याभिलाषी तृतीयसांशस्थः ।</small> <small>वराहसंहितायां तु ।</small> {{bold|{{gap}}कारुकशूद्रान् म्लेच्छाँस्तृतीयखांशे च मद्विजनान् ।}} <small>पराशरः ।</small> {{bold|{{gap}}श्वेतभवानां मध्यप्राप्तस्य ।}} <small>वराहसंहितायां तु ।</small> {{bold|{{gap}}मध्यांशे नरपतिमध्यदेशहा शोभनश्च धान्यार्घः ।}} <small>मध्या रेखानी विशेषमाह वृद्धगर्गः ।</small> {{bold|<poem>{{gap}}नभोमध्यगतो राहुः सोमे सूर्येऽथ वा स्थितः । {{gap}}प्रजानामथ राज्ञां न भयं कुर्याद्विसर्पतः ॥</poem>}} <small>पञ्चमषष्ठसप्तमवंशफलमाह पराशरः ।</small> {{bold|{{gap}}चतुर्थान् किञ्चिदावृत्तस्य क्षत्रियस्त्रीणां व्यालम्बितस्य शूद्रतस्कराणामस्तमये ।}} <small>वराहसंहितामाम् ।</small> {{bold|<poem>{{gap}}तृणभुगमात्यान्तःपुरवैश्यघ्नः पञ्चमे खांशे । {{gap}}स्त्रीशूद्रान् षष्ठेऽंशे दस्युप्रत्यन्तहाऽस्तमयकाले ॥ {{gap}}यस्मिन् खांशे मोक्षस्तत्रोक्तानां फलं भवति ।</poem>}} <small>अथ ग्रस्तोदयास्तफलम् । तत्र काश्यपः ।</small> {{bold|{{gap}}उदितास्तमितौ ग्रस्तौ सर्वशस्यक्षयङ्करौ ।}} <small>वराहसंहितायाम् ।</small> <poem>{{gap}}{{bold|ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ ।}} </poem><noinclude></noinclude> h4hrp33q9zn6x12s8jtknhgzpzzx0om पृष्ठम्:अद्भुतसागरः.djvu/९६ 104 125044 341136 340040 2022-07-23T07:08:33Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=७७}}}}</noinclude><small>हरिवंशे च कंसवधनिमित्तम् ।</small> {{bold|{{gap}}"ग्रस्तः स्वर्भानुना सूर्यो दिवा नक्तमजायत"<ref>२३ अ. ३१ श्लो. ।</ref> ।}} <small>पराशरस्तु ।</small> {{bold|<poem>{{gap}}गृहीतों यद्युदागच्छेदस्तं वा यदि गच्छति । {{gap}}अयोगक्षेममाचष्टे त्रीणि वर्षाण्यसंशयम् ॥</poem>}} <small>बार्हस्पत्ये तु ।</small> {{bold|<poem>{{gap}}गृहीतो राहुणा सार्धमुत्तिष्ठति यदा शशी । {{gap}}तदा धर्मपरिक्षीणा कलिमाविशति प्रजा ॥ {{gap}}अमुक्तो राहुणा सार्धमस्तं गच्छति चन्द्रमाः । {{gap}}तदा तमोमयस्तस्मान्मृत्युमाविशति प्रजा ॥</poem>}} <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}गृहीतो यद्युदागच्छेदस्तं वा यदि गच्छति । {{gap}}शारदं तु तदा शस्यं जातमात्रं विपद्यते ॥ {{gap}}ग्रैष्मेण तत्र जीवन्ति नरा मूलफलेन वा । {{gap}}भयदुर्भिक्षरोगैश्च तदा संक्षिप्यते जगत् ॥</poem>}} <small>भार्गवीये ।</small> {{bold|<poem>{{gap}}गृहीतो यद्युदागच्छे द्यदि वा प्रतितिष्ठति । {{gap}}अयोगक्षेम आदेश्यस्त्रिषु लोकेषु दारुणः ॥</poem>}} <small>प्रतितिष्ठत्यस्तमेति ।</small> {{bold|<poem>{{gap}}शारदं त्रीणि वर्षाणि शस्यजातं न पच्यते । {{gap}}निदाघेन्मत्र जीवन्ति प्रजा मूलफलेन वा ॥</poem>}} <small>आदित्यस्य प्रस्तोदयास्तमये विशेषो बार्हस्पत्ये ।</small> {{bold|<poem>पराजितो राहुनिपीतमण्डलो विवर्णभावाधिगतोऽपि <ref>विवर्णसन्ध्याधिगतोऽपि इति च।</ref>निष्प्रभः । यदाऽस्तमायाति हिवै दिवाकरस्तदाऽऽशु विद्यात तु महज्जनक्षयम् ॥</poem>}} {{rule}} तमोग्रस्तो यदोदेति इति च ।<noinclude></noinclude> 5821bo2n5y6xzc22nqm0mawap5g9595 पृष्ठम्:अद्भुतसागरः.djvu/९७ 104 125045 341137 340048 2022-07-23T07:09:48Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७८|center=अद्भुतसागरे}}}}</noinclude><small>पराजितो ग्रस्यमानः । निष्प्रभमण्डलः सर्वग्रस्तः ।</small> <small>अथार्धोदयास्तग्रहणफलम् । तत्र पराशरः ।</small> {{bold|यज्ञनैकृतिक विनाशायार्धोदितग्रहणम् ।}} <small>वराहसंहितायां च ।</small> {{bold|अर्धोदितोपरक्तो नैकृतिकान् हन्ति सर्वयज्ञाँश्च ।}} <small>भार्गवीये तु ।</small> {{bold|<poem>{{gap}}उदितो गृह्यमाणश्च हन्ति वेदविदो जनान् । {{gap}}बालाँश्च जटिलान् हन्ति ये च काषायवाससः ॥</poem>}} <small>ऋषिपुत्रस्तु ।</small> {{bold|<poem>{{gap}}उदयेऽस्तमये वाऽपि सूर्यस्य ग्रहणं भवेत् । तदा नृपभयं विद्यात् परचक्रस्य चागमम् ॥</poem>}} <small>अथोदितग्रहणफलम् । तत्र वृद्धगर्गः ।</small> {{bold|{{gap}}उदितो गणमुख्याँश्च ब्राह्मणाँश्चापि पीडयेत् ।}} <small>उदितो नीललोहितः ।</small> <small>विनाशाय ग्रहणमित्यनुवृत्तः पराशरस्तु ।</small> {{bold|{{gap}}गुणाधिकगणमुख्यानामुदितस्य ।}} <small>सन्ध्याग्रहणफलम् । तत्र वृद्धगर्गः ।</small> {{bold|<poem>{{gap}}संध्याकाले तु गर्भस्था गृहीतः पीडयेत् प्रजाः । {{gap}}गावो गर्भं विमुञ्चन्ति न च वर्षेत् पुरन्दरः ॥</poem>}} <small>सन्ध्यापरिमाणं सन्ध्यालक्षणं च वक्ष्यामः ।</small> <small>अथ मोक्षलक्षणम् । तत्र पराशरः ।</small> {{bold|{{gap}}षड्डिधो मोक्षो वामदक्षिणच्छर्दनाभिनिर्वहणान्तमध्यो नृपृक्षयाभिवर्षणसुभिक्षशस्त्रकोपमध्यृ-जनाक्षेमशरच्छस्यनाशकरः।}} <small>इति मोक्षषट्कस्य क्रमेणैतानि फलानि ।</small> <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}हनुकुक्षिपायुभेदाद्विर्द्विः संछर्दनं च मरणं च । {{gap}}मध्यान्तयोर्विदरणमिति दश शशिसर्ययोर्मोक्षाः ॥</poem>}}<noinclude></noinclude> bxqdl9msgzrm5j9rq9mbbb2jpezejg0 पृष्ठम्:अद्भुतसागरः.djvu/९८ 104 125046 341140 340052 2022-07-23T07:12:15Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=७९}}}}</noinclude><small>अस्यार्थ: । हनुभेदादयस्त्रयो द्विर्द्विर्द्विविधाकारा भवन्ति । दक्षिणो वामश्च मध्यान्तयोश्च विदारणमिति मध्यविदारणमन्तविदारणं च ।</small> <small>काश्यपः ।</small> {{bold|<poem>{{gap}}दक्षिणे हनुभेदः स्यादाग्नेय्यां यदि गच्छति । {{gap}}शस्यनाशं च कुरुते नृपभङ्गं सुदारुणम् राहोरगुतावः ॥</poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}आग्नेय्यामपगमनं दक्षिणहतुसंज्ञितं शशिनः । {{gap}}शस्यविमदों मुखरुग्नपपीडा स्यादवृष्टिश्च ॥</poem>}} <small>काश्यपः ।</small> {{bold|{{gap}}पूर्वोत्तरहनुभेदो<ref>पूर्वोत्तरेपरो भेदः इति अ.।</ref> नृपपुत्रवधप्रदः ।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}पूर्वोत्तरे णवामो हनुभेदो नृपकुमारभयदायो । मुखरोगः शस्त्रभयं तस्मिन् विन्यात् सुभिक्षं च ॥</poem>}} <small>काश्यपः ।</small> {{bold|<poem>{{gap}}दक्षिणः कुक्षिविभेदः स्याद्याम्ये मोक्षो भवेद्यदि । {{gap}}राजपुत्रभयं तत्र दक्षिणाशापतेर्वधः ॥</poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}दक्षिणकुक्षिविभेदो दक्षिणपार्श्वे यदि भवेन्मोक्षः । {{gap}}पीडा नृपपुत्राणामभियोज्या दाक्षिणा रिपवः ॥</poem>}} <small>काश्यपः ।</small> {{bold|<poem>{{gap}}सौम्यायां तु यदा मोक्ष वामक्क्षिविभेदनम् । {{gap}}स्त्रीणां गर्भविनाशाय सौम्याशाधिपतेर्भयम् ॥ </poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}वामस्तु कुक्षिभेदो यद्युत्तरमार्गसं स्थितौ राहुः । {{gap}}स्त्रीणां गर्भविपत्तिः शस्यानि च तत्र मध्यानि ॥</poem>}}<noinclude></noinclude> a9zu3suplyl3ed0vpgykv8w0xojcxc8 341141 341140 2022-07-23T07:12:41Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=७९}}}}</noinclude><small>अस्यार्थ: । हनुभेदादयस्त्रयो द्विर्द्विर्द्विविधाकारा भवन्ति । दक्षिणो वामश्च मध्यान्तयोश्च विदारणमिति मध्यविदारणमन्तविदारणं च ।</small> <small>काश्यपः ।</small> {{bold|<poem>{{gap}}दक्षिणे हनुभेदः स्यादाग्नेय्यां यदि गच्छति । {{gap}}शस्यनाशं च कुरुते नृपभङ्गं सुदारुणम् राहोरगुतावः ॥</poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}आग्नेय्यामपगमनं दक्षिणहतुसंज्ञितं शशिनः । {{gap}}शस्यविमदों मुखरुग्नपपीडा स्यादवृष्टिश्च ॥</poem>}} <small>काश्यपः ।</small> {{bold|{{gap}}पूर्वोत्तरहनुभेदो<ref>पूर्वोत्तरेपरो भेदः इति अ.।</ref> नृपपुत्रवधप्रदः ।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}पूर्वोत्तरे णवामो हनुभेदो नृपकुमारभयदायो । मुखरोगः शस्त्रभयं तस्मिन् विन्यात् सुभिक्षं च ॥</poem>}} <small>काश्यपः ।</small> {{bold|<poem>{{gap}}दक्षिणः कुक्षिविभेदः स्याद्याम्ये मोक्षो भवेद्यदि । {{gap}}राजपुत्रभयं तत्र दक्षिणाशापतेर्वधः ॥</poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}दक्षिणकुक्षिविभेदो दक्षिणपार्श्वे यदि भवेन्मोक्षः । {{gap}}पीडा नृपपुत्राणामभियोज्या दाक्षिणा रिपवः ॥</poem>}} <small>काश्यपः ।</small> {{bold|<poem>{{gap}}सौम्यायां तु यदा मोक्ष वामक्क्षिविभेदनम् । {{gap}}स्त्रीणां गर्भविनाशाय सौम्याशाधिपतेर्भयम् ॥ </poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}वामस्तु कुक्षिभेदो यद्युत्तरमार्गसं स्थितौ राहुः । {{gap}}स्त्रीणां गर्भविपत्तिः शस्यानि च तत्र मध्यानि ॥</poem>}} {{rule}}<noinclude></noinclude> 2gertgc5w5z4pq5f68o8p9maqwyw5xo पृष्ठम्:अद्भुतसागरः.djvu/९९ 104 125048 341143 340055 2022-07-23T07:15:17Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=८०|center=अद्भुतसागरे}}}}</noinclude><small>काश्यपः ।</small> {{bold|<poem>पायुभेदगतो राहुर्वायव्यो निर्ऋताश्रयः । गुदरोगभयं विन्द्याद्वामे राज्ञीभयं भवेत् ॥</poem>}} <small>{{gap}}वायव्यो मोक्षो पायुभेदो नैर्ऋत्यो दक्षिणः । उभयोरेव गुदारोगफलं पायुभेदत्वात् । वामे तु राज्ञीभयमधिकम् ।</small> <small>तथा च वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}नैर्ऋतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ । {{gap}}गुह्यरुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयो वामे ॥</poem>}} <small>काश्यपः ।</small> {{bold|<poem>{{gap}}ग्रासो मोक्षो यदा पूर्वे छर्दनं तु तदा भवेत् । {{gap}}क्षेमहार्दिप्रदो जेयः शस्यनिष्पत्तिकारकः ॥</poem>}} <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}पूर्वेण प्रग्रहणं कृत्वा प्रागेव चापसर्पेत । {{gap}}संछर्दनमिति तत् क्षेमशस्य हार्दिप्रदं जगतः ॥</poem>}} <small>काश्यपः ।</small> {{bold|<poem>{{gap}}पूर्वेण ग्रसते राहुरपरस्यां विमुञ्चति । {{gap}}क्षुत्तस्करभयं<ref>क्षुधाशस्त्रभयम् इति वराहसम्मतः पाठः ।</ref> तत्र मोक्षस्तु जरणं स्मृतम् ॥</poem>}} <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}प्राक् प्रग्रहणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम् । {{gap}}क्षुच्छस्त्रभयो द्विग्ना न शरणमुपयान्ति तत्र जनाः ॥</poem>}} {{bold|<poem>{{gap}}मध्ये यदि प्रकाशस्तन्मध्यविदारणं नाम । {{gap}}अन्तःकोपकरं स्यात् सुभिक्षदं नातिवृष्टिकरम् ॥</poem>}} <small>तदिति वृष्टिकरं सुभिक्षदं न भवति । दुर्भिक्षमेव करोतीत्यर्थः</small> । <small>तथा च काश्यपः ।</small> {{bold|{{gap}}यदा प्रकाशते मध्ये दुर्भिक्षमरकौ तदा ।}} <small>पराशरेण चाऽस्य शरच्छत्यनाशकत्वमात्रमुक्तम् । तद्वचनं प्रागेव लिखितम् ।</small> {{rule}}<noinclude></noinclude> rmamukb6sx1k2yrm00be3vta7tkg1yj पृष्ठम्:अद्भुतसागरः.djvu/१०० 104 125052 341146 340119 2022-07-23T07:17:37Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=८१}}}}</noinclude><small>काश्यपः ।</small> {{bold|<poem>{{gap}}पर्यन्ते विमलत्वं स्यात् तमो मध्ये यदा भवेत् । {{gap}}मध्याख्यदेशनाशः स्याच्छरच्छस्यं विनाशयेत् ॥</poem>}} <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}पर्यन्तेषु विमलता बहुलं मध्ये तच्छमोऽन्त्यदरणाख्यम् । {{gap}}मध्याख्यदेशनाशः शारदशस्यक्षयश्चास्मिन् ॥ {{gap}}एते सर्वे मोक्षा वक्तव्या भास्करे किन्तु । {{gap}}पर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या ॥</poem>}} <small>पराशरः ।</small> {{bold|{{gap}}मोक्षागमो दिग्भ्यो राज्ञां जयपराजयो वेदितव्यौ । गृहीत्वा ततः पूर्वनिवर्त्तनमभियोक्तृवधाय विपर्ययेणाभियुक्तस्य ।}} <small>अथ ग्रहणसमयाग्रहणफलम् । तत्र गर्ग: ।</small> {{bold|<poem>{{gap}}दिग्दाहोल्कामहीकम्पास्तमोधूमरजांसि च । {{gap}}सूचयन्त्यागमं राहोः पुनः पर्वण्युपस्थिते ॥</poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}ग्रस्ते क्रमान्निमित्तैः पुनर्ग्रहो मासषङ्गपरिवृद्ध्या । पवनोल्कापातरजःक्षितिकम्पतमोऽशनिनिपातैः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|<poem>{{gap}}उपरक्ते यदा चन्द्रे बलवान् वाति मारुतः । {{gap}}मासे षष्ठे तदा विन्द्याद्राहोरामनं ध्रुवम् ॥ {{gap}}उल्कायां हादशे मासि रजस्यष्टादशे तथा । {{gap}}भूमिकम्पे चतुर्विंशे त्रिंशे तमसि निर्दिशेत् ॥ {{gap}}षड्विंशेऽशनिपातेऽस्मात् सर्वेषां स्यात् षडन्तरेः- इति ।</poem>}} <small>{{gap}}एवं सर्वेषामुक्तनिमित्तनां सम्भवे क्रमेण षडन्तरे भवतीत्युक्तस्यै संक्षेपः । अथ वा सर्वेषामुक्तनिमित्तानामेकस्मिन् ग्रहणे सम्भवे षडुत्तरे पड्विंशे ग्रासे द्वाचत्वारिंश- न्मासे पुनर्ग्रहणं भवतीत्यर्थः । </small><noinclude></noinclude> jnz96ts7dijhwezy39wxrmljxg7tu82 पृष्ठम्:अद्भुतसागरः.djvu/१०१ 104 125053 341147 340121 2022-07-23T07:18:51Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=८२|center=अद्भुतसागरे}}}}</noinclude><small>पराशरः ।</small> {{bold|<poem>{{gap}}षण्मास्या चन्द्रमसस्ततोऽर्धषष्ठे चादित्यस्याभिपूजितमाहुराचार्या: ।</poem>}} <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}स्वर्भानुरिन्दुं षष्ठे तु मासे यद्युपतिष्ठति । {{gap}}तदा क्षेमं सुभिक्षं च योगक्षेमं च निर्दिशेत् ॥ {{gap}}यदा त्वष्टादशे मासि राहुः सोममुपक्रमेत् । {{gap}}रसक्षयो व्याधिभयं विनाशः फलपुष्पयोः || {{gap}}चतुर्विंशे यदा सोमो दैत्येन ग्रस्यते यदि । {{gap}}अनावृष्टिभयं घोरं दुर्भिक्षं च विनिर्दिशेत् ॥ {{gap}}यदा त त्रिंशतितमे मासि संगृह्यते शशी । {{gap}}तदा क्षयः समुत्पद्येत् प्रचलेद्वाऽपि मेदिनी ॥ {{gap}}चन्द्रे पञ्चममा तु मासे त्वेकादशे तथा । {{gap}}सप्तदशे तु सूर्यस्य ग्रहणं क्षुद्भयाय तु ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|<poem>{{gap}}सप्तदशत्रयोदशपञ्चत्रिशन्मासिकानि चेन्दोस्त्रीणि विसन्धिग्रहणानि क्षुद्व्याधिमरकदुर्भिक्षोपद्रवाय वेदितव्यानि ।</poem>}} <small>एवमेवैतानि प्राकृतग्रहणानि वटकणिकायाम् ।</small> {{bold|<poem>{{gap}}वर्षस्य व्यतीतान्यतिकष्टानि पर्वाणि</poem>}} <small>विष्णुधर्मोत्तरे ।</small> {{bold|<poem>{{gap}}अत्यन्तादर्शने राहोस्तथा चात्यन्तदर्शने । {{gap}}प्रजापीडा विनिर्देश्या व्याधिदुर्भिक्षतस्करैः ॥</poem>}} <small>अथ ग्रहणनिर्मुक्तावद्भुतफलम् । तत्र वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}“परुषवपनाव्दगर्जितविद्युत्परिवेषभूमिकम्पाद्याः ।</poem>}}<noinclude></noinclude> fvnz9apoi2rj5atc8pmuzzi7h6iw4uy पृष्ठम्:अद्भुतसागरः.djvu/१०२ 104 125054 341150 340124 2022-07-23T07:21:38Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=८३}}}}</noinclude>{{bold|<poem>{{gap}}"सप्ताहन्तर्न शुभा ग्रहणनिवृत्तौ शुभा वृष्टिः"<ref>अयं लोको वराहसंहितायां नोपलभ्यते । 'मुक्त सप्ताहान्तः' इत्यादिश्लोकटीकायां भट्टोत्पलेन स च समाससंहितायाः प्रमाणत्वेनाभिरक्षितः । एतदर्थं द्रष्टव्या अ. ६२ पृ. ९ पं. ।</ref>॥</poem>}} <small>वृद्धगर्गपराशरौ तु।</small> {{bold|<poem>{{gap}}अथेन्द्रग्रहनिर्मुक्ते सप्ताहन्तर्भवेद्यदि । {{gap}}पांशुवर्षोऽन्ननाशः स्यान्नीहारो रोगवृद्धये ॥ {{gap}}नृपनाशाय भूकम्प उल्का मन्त्रिविपत्तये । {{gap}}रोगाय परिवेषः स्याद्भयायैवाभ्रासंप्लवः ॥ {{gap}}विद्युद्गर्भविनाशाय दिग्दाहश्चाग्निवृद्धये । {{gap}}निर्घातेन्द्रधनुर्दण्डो दुर्भिक्षाय भयाय च ॥ {{gap}}पवनः परुषो रूक्षचौरोपद्रवसूचकः ।</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}मुक्ते सप्ताहान्तः पांशुनिपातोऽन्नशस्यसंक्षयं कुरुते । {{gap}}नीहारो रोगभयं भूकम्पः प्रबलनृपमृत्युं च ॥ {{gap}}उल्का मन्त्रिविनाशं नानावर्णाश्च भयमतुलम् । {{gap}}स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरिपीडाम् ॥ {{gap}}परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयम् । {{gap}}रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ॥ {{gap}}निर्घातः सुरचापो दण्डश्च क्षुद्भयं सपरचक्रम् । {{gap}}ग्रहयुद्धै नृपयुद्धं केतुश्च तदैव संदृष्टः ॥</poem>}} <small>वृद्धगर्गपराशरौ ।</small> {{bold|{{gap}}सर्वोपद्रवनाशः स्यात् सम्यग्वृष्टिर्भवेद्यदि ।}} <small>वराहसंहितायां तु ।</small> {{bold|{{gap}}अविकृतसलिलनिपातैः सप्ताहान्तः सुभिक्षमादेश्यम् ।}} {{rule}}<noinclude></noinclude> 1ufkh30p4gmje67mgnzclc5mcdqxq0o पृष्ठम्:अद्भुतसागरः.djvu/१०३ 104 125055 341151 340127 2022-07-23T07:22:58Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=८४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यच्चाशुभं ग्रहणजं तत्सर्वं नाशमायाति ॥}} <small>अथोभयपक्षीयग्रहणफलं वटकणिकायाम् ।</small> {{bold|{{gap}}समरागमाय राहुर्यदि पक्षान्ते पुनर्दृश्यः ।}} <small>भार्गवीये ।</small> <poem>{{bold|यदि च राहुरुभौ शशिभास्करौ ग्रसति पक्षमनन्तरगं ततः । पुरुषशोणितकर्दमवाहिनी भवति भूर्न च वर्षति वासवः ॥}} </poem> <small>एकस्मिन् मासे उभयपक्षीयग्रहणफलमेतत् ।</small> <small>तथा च काश्यपः ।</small> {{bold|<poem>{{gap}}एकमासेऽर्कचन्द्राभ्यां ग्रहणं न प्रशस्यते । {{gap}}परस्परवधं कुर्युः स्वयलक्षोभिता नपाः ॥</poem>}} <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}यद्येकस्मिन् मासे ग्रहणं रविसोमयोस्तदा क्षितिपाः । {{gap}}स्ववलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपं च ॥</poem>}} <small>मासभेदे तु फलमुक्तं भार्गवीये ।</small> {{bold|<poem>{{gap}}गृहीत्वा भास्करं पुर्वं गृह्णाति शशिनं यदि । {{gap}}तत्र मासोत्तरं नाम आराध्यन्ते हि देवताः ॥</poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}अर्कग्रहात् तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः । {{gap}}नैकऋतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव ॥ {{gap}}सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद्ग्रहोऽर्कस्य । {{gap}}तत्रामयः प्रजानां दम्पत्योर्वैरमन्योन्यम् ॥</poem>}} <small>वृद्धगर्गपराशरौ ।</small> {{bold|<poem>{{gap}}यद्राहुचरितं प्रोक्तं चन्द्रग्रहणहेतुकम् । {{gap}}तदेव सकलं सूर्ये वेदितव्यं शुभाशुभम् ॥</poem>}} {{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु राहूत्पातेषु रविग्रहणे रविराहुपूजापूर्विका चन्द्रग्रहणे चन्द्रराहुपूजापर्विका प्रभूतकनकान्नगो महीदा-}}<noinclude></noinclude> phnf5g8mf0933l6s1o5dykghnx5k5rr पृष्ठम्:अद्भुतसागरः.djvu/१०४ 104 125056 341155 340132 2022-07-23T07:28:08Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=८५}}}}</noinclude>{{bold|नादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या-}}इति । <small>{{gap}}अथ विहितविशेषशान्तयो राहूत्पाताः । तत्रा पर्वग्रहणे वृद्धगर्गः ।</small> {{bold|{{gap}}अपर्वणि भयं यस्माद्ग्रहणं शशिसूर्ययोः ।}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अपर्वण्युपरक्तः प्रजानाशाय ।}} <small>मयूरचित्रे ।</small> <poem>{{bold|{{gap}}अपर्वग्रहणे दस्युशस्त्रकोपा भवन्ति च । {{gap}}वधो मुख्यस्य भूपस्य तथा राष्ट्रस्य जायते ॥}} </poem> <small>आरण्यककांण्डे खरादिवधनिमित्तम् ।</small> {{bold|<poem>{{gap}}“सकबन्धः सपरिघः स्वर्भानुश्च दिवाकरः । {{gap}}जग्राह कालपर्यन्तमपर्वणि महाग्रहः"<ref>वाल्मीकीये २३ सर्गे ११-१२ श्लो. । "कबन्धः परिधाभासो दृश्यते भास्करान्तिके । जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः” ॥ इत्युपलभ्यते ।</ref> ॥</poem>}} त्<small>रयोदशीग्रहणे तु विशेषः । तथा च मुशलपर्वणि यदुकुलोत्सादननिमित्तम् ।</small> {{bold|<poem>{{gap}}“चतुर्दशीपञ्चदशीकृतेयं राहुणा पुनः । {{gap}}प्राप्ते वै भारते युद्धे दृष्टा चाद्यक्षयाय नः"<ref>२ अ. १९ श्लो. ।</ref>॥</poem>}} <small>भीष्मपर्वणि कुरुपाण्डवसैन्यवर्धनिमित्तम् ।</small> {{bold|<poem>{{gap}}“चतुर्दशो पञ्चदशो भूतपूर्वी च षोडशीम् । {{gap}}चन्द्रसूर्यावुभौ ग्रस्तावेकपक्षे त्रयोदशीम्<ref>ग्रस्तावेकमासो त्रयोदशीम् इति महाभारते उपलभ्यते ।</ref> ॥ {{gap}}अपर्वणि ग्रहणोभौ प्रजासंक्षपयिष्यतः”।</poem>}} <small>बृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}दृश्येते च त्रयोदश्यां चन्द्रार्कौ ग्रहणं गतौ । {{gap}}छत्राण्यनैकानि तदा मृज्यन्ते भूमिपक्षये ॥</poem>}} {{rule}}<noinclude> ३ अ. ३२ श्लो. । }}</noinclude> 4i07gt7ebp0a7c3nfvt657pl2bsqwv4 341157 341155 2022-07-23T07:29:04Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=८५}}}}</noinclude>{{bold|नादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या-}}इति । <small>{{gap}}अथ विहितविशेषशान्तयो राहूत्पाताः । तत्रा पर्वग्रहणे वृद्धगर्गः ।</small> {{bold|{{gap}}अपर्वणि भयं यस्माद्ग्रहणं शशिसूर्ययोः ।}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अपर्वण्युपरक्तः प्रजानाशाय ।}} <small>मयूरचित्रे ।</small> <poem>{{bold|{{gap}}अपर्वग्रहणे दस्युशस्त्रकोपा भवन्ति च । {{gap}}वधो मुख्यस्य भूपस्य तथा राष्ट्रस्य जायते ॥}} </poem> <small>आरण्यककांण्डे खरादिवधनिमित्तम् ।</small> {{bold|<poem>{{gap}}“सकबन्धः सपरिघः स्वर्भानुश्च दिवाकरः । {{gap}}जग्राह कालपर्यन्तमपर्वणि महाग्रहः"<ref>वाल्मीकीये २३ सर्गे ११-१२ श्लो. । "कबन्धः परिधाभासो दृश्यते भास्करान्तिके । जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः” ॥ इत्युपलभ्यते ।</ref> ॥</poem>}} त्<small>रयोदशीग्रहणे तु विशेषः । तथा च मुशलपर्वणि यदुकुलोत्सादननिमित्तम् ।</small> {{bold|<poem>{{gap}}“चतुर्दशीपञ्चदशीकृतेयं राहुणा पुनः । {{gap}}प्राप्ते वै भारते युद्धे दृष्टा चाद्यक्षयाय नः"<ref>२ अ. १९ श्लो. ।</ref>॥</poem>}} <small>भीष्मपर्वणि कुरुपाण्डवसैन्यवर्धनिमित्तम् ।</small> {{bold|<poem>{{gap}}“चतुर्दशो पञ्चदशो भूतपूर्वी च षोडशीम् । {{gap}}चन्द्रसूर्यावुभौ ग्रस्तावेकपक्षे त्रयोदशीम्<ref>ग्रस्तावेकमासो त्रयोदशीम् इति महाभारते उपलभ्यते ।</ref> ॥ {{gap}}अपर्वणि ग्रहणोभौ प्रजासंक्षपयिष्यतः”<ref>३ अ. ३२ श्लो. ।</ref>।</poem>}} <small>बृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}दृश्येते च त्रयोदश्यां चन्द्रार्कौ ग्रहणं गतौ । {{gap}}छत्राण्यनैकानि तदा मृज्यन्ते भूमिपक्षये ॥</poem>}} {{rule}}<noinclude> }}</noinclude> o2eyzt2iea5tozk2fw31h6czjyauo6v पृष्ठम्:अद्भुतसागरः.djvu/१०५ 104 125057 341159 340137 2022-07-23T07:31:53Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=८६|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}संपुत्रदारा नश्यन्ति संग्रामे लोमहर्षणे । {{gap}}अनेन वनितायाः स वैधव्यान्तकरोऽधिकम् ॥</poem>}} <small>{{gap}}त्रयोदश्यां चन्द्रार्कौ ग्रहणं गताविति एकस्यामे च त्रयोदश्यां युगपद्ग्रस्ताविस्यर्थः ।</small> <small>{{gap}}तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small> {{bold|<poem>{{gap}}“चन्द्रादित्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम् । {{gap}}अपर्वणि ग्रहौ जातौ प्रजासंक्षयमिच्छतः”<ref>३ अ. २८ श्लो. ।</ref> ॥</poem>}} <small>ग्रहौ जातौ मुखपुच्छाभ्यां प्राप्तौ जातावित्यर्थः ।</small><small></small> <small>एतच्चापर्वग्रहणं द्विविधं राहुकृतं त्वष्टृकतं च तथा च कठश्रुतिः ।</small> {{bold|{{gap}}यच्चापर्वणि राहुदर्शनं तत्र नरपतेर्वधमादिशेत् ।}} <small>सभापर्वणि तु पाण्डवानां वनप्रवेशे कुरुक्षयनिमित्तम् ।</small> {{bold|{{gap}}“राहुरग्रसदादित्यमपर्वणि विशां पते”<ref>८० अ. २९ श्लो.।</ref> ।}} <small>ज्योतिषपराशरविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>{{gap}}अपर्वणि शशाङ्कार्को त्वष्टा नाम महाग्रहः । {{gap}}आवृणोति तमः श्यामः सर्वलोकविपत्तये ॥</poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते । {{gap}}स निहन्ति सप्तभूषाञ्जनाँश्च शस्त्राग्निदुर्भिक्षैः ॥</poem>}} <small>{{gap}}राहुक्तराशिस्थितयोस्तत्सप्तमराशिस्थितयोश्च रविचन्द्रमसोरपर्वग्रहणं राहुकृतमिति राहुकृतपर्वग्रहणशान्तिमाह नारदः।</small> {{bold|<poem>{{gap}}अकस्माल्लक्ष्यते चन्द्रेऽपर्वणि राहुदर्शनम् । {{gap}}अद्भुतं तत्र विज्ञेयं शान्तिं चेमां प्रयोजयेत् ॥ {{gap}}औदुम्बर्याः सहस्राणि अष्टौ च जुहुयाद्विजः । {{gap}}मध्वक्तानि घृतान्यत्र जातवेदसि मन्त्रवित् ॥ {{gap}}विप्राय दक्षिणां दद्याद्वेनुं च वृषभं तथा ।</poem>}} {{rule}}<noinclude></noinclude> 4z5av63d41gk5te311u2fp2heh3pvu2 पृष्ठम्:अद्भुतसागरः.djvu/१०६ 104 125058 341161 340140 2022-07-23T07:33:02Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=८७}}}}</noinclude>{{bold|{{gap}}एकरात्रोषितो भूत्वा ततः संपद्यते शुभम् ॥}} <small>{{gap}}इति कोटिहोमशक्तावियं शान्तिः । राहुकृतापर्वग्रहे कठश्रुतिविहिता सूर्यदैवाऽपि शान्तिः कर्त्तव्या सा च कठश्रुत्युक्ताऽद्भुतमिश्रके लिखितव्या ।</small> <small>{{gap}}त्वप्ट्टकृतापर्वग्रहणे तु ।</small> {{bold|{{gap}}प्रभूतफलकनकान्नगोमहीदानादिका सामान्यशान्तिः कर्त्तव्या-इति ।}} <small>अथाग्नेयमण्डलग्रहणफलं मयूरचित्रे ।</small> {{bold|<poem>{{gap}}आग्नेयमण्डलं सूर्यचन्द्रयोर्ग्रहणे सति । {{gap}}पित्तदाहोऽतिसारश्च शिरोरोगस्तथैव च ॥ {{gap}}ज्वरस्तापस्तथा कष्टं कासश्वासस्तथैव च । {{gap}}कुक्षिरोगादयो रोगाः प्रभवन्तीह देहिनाम् ॥ {{gap}}भूमिदोहोऽत्र कर्त्तव्यो नगरे भ्रमणे तथा । {{gap}}कार्या दुर्वासमिद्धोमो जपश्चैव विशेषतः ॥ {{gap}}नटप्रेक्षणकं कुर्यान्नोपघातः कथंचन ।</poem>}} <small>इति चतुर्थीशान्तिः ।</small> <small>अथ वायव्यमण्डलग्रहणफलं मयूरचित्रे ।</small> {{bold|<poem>{{gap}}वायव्यमण्डले वायोः क्षोभो वृष्टिर्न जायते । {{gap}}प्रासादामरवेश्मानि शैला वृक्षाः पतन्ति च ॥ {{gap}}दुर्भिक्षमशुभं रोगो गूढगर्भाः स्त्रियस्तथा । {{gap}}भूमिदोहो गवां दानं हेमदानं जपस्तथा ॥ {{gap}}होमाश्च नगरस्थाने ततः सम्पद्यते सुखम् ।</poem>}} <small>होमा: कोटिहोमाः । आहुतिबहुत्वाद्बहुवचनम् ।</small> <small>इति पञ्चदशी शान्तिः ।</small> <small>आग्नेयांदिमण्डलानि भूमिकम्पे लिखिण्यामः । अथ जन्मराशिस्थचन्द्रादित्यग्रहणशान्तिः । मत्स्यपुराणे</small> {{bold|{{gap}}यस्य राशिं समासाद्य भवेद्ग्रहणसम्भवः ।}}<noinclude></noinclude> 088538qb0aywpr81et0xxjgq2fb1p1b पृष्ठम्:अद्भुतसागरः.djvu/१०७ 104 125059 341162 340141 2022-07-23T07:35:56Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=८८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधिविधानवत् ॥ {{gap}}चन्द्रोपरागं संप्राप्य कृत्वा ब्राह्मणवाचनम् । {{gap}}संगृह्य चतुरो विप्रान् शुक्लमाल्यानुलेपनैः ॥ {{gap}}पूर्वमेवोपरागस्य समासाद्यौषधादिकम् । {{gap}}स्नापयेच्चतुरः कुम्भान् ब्रह्मणान् सागरानिति<ref>मागधानपि इति च।</ref>॥ {{gap}}गजाश्वरथ्यावाल्मीकसङ्गमाद्ध्रगोकुलात् । {{gap}}राजद्वारप्रवेशाच्च मृदमानीय निःक्षिपेत् ॥ {{gap}}पञ्चगव्येन कुम्भेषु शुद्धमुक्ताफलानि च । {{gap}}रोचनापद्मशङ्कौ च पञ्चभङ्गसमन्वितौ ।</poem>}} <small>पञ्चगव्येनेति पञ्चगव्येन सह निःक्षिपेदित्यर्थः ।</small> <small>अथ पञ्चभङ्गः ।</small> {{bold|<poem>{{gap}}पालाशाश्वत्थकपित्थविल्वोदुम्बरपल्लवैः । {{gap}}पञ्चभङ्ग इति ख्यातो बालानां शान्तिकारकः - इति ॥ {{gap}}स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम् । {{gap}}गजदन्तं सकुमुदं तथैवोशीरगुग्गुलम् ॥ {{gap}}एतत्सर्वं विनिःक्षिप्य कुम्भेष्वावाहयेत् सुरान् । {{gap}}सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ॥ {{gap}}आयान्तु यजमानस्य दुरितक्षयकारकाः । {{gap}}योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ॥ {{gap}}सहस्रनयनश्चन्द्रग्रहपीडां व्यपोहतु । {{gap}}मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ॥ {{gap}}चन्द्रोपरागसम्भूतामग्निपीडां व्यपोहतु ।</poem>}} {{rule}}<noinclude></noinclude> i3e53pi1akfuzn4vbpsw4dqgygqjv3o पृष्ठम्:अद्भुतसागरः.djvu/१०८ 104 125066 341165 340143 2022-07-23T07:38:22Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=८९}}}}</noinclude>{{bold|<poem>{{gap}}यः कर्मसाक्षी लोकानां धर्मो महिषवाहनः ॥ {{gap}}यमश्चन्द्रोपरागोत्थां पीडामत्र व्यपोहतु । {{gap}}रक्षोगणाधिपः साक्षात् प्रभयाऽनलसप्रभः ॥ {{gap}}खड्गव्यग्रोऽतिभीमश्च रक्षःपीडां व्यपोहतु । {{gap}}नागपाशधरो देवः सदा मकरवाहनः ॥ {{gap}}स जलाधिपतिश्चन्द्रग्रहपीडां व्यपोहतु । {{gap}}प्राणरूपेण यो लोकान् पाति कृष्णमृगाश्रयः ॥ {{gap}}वायुश्चन्द्रोपरागोत्थां ग्रहपीडां व्यपोहतु । {{gap}}योऽसौ निधिपतिर्देवः खड्गशूलगदाधरः ॥ {{gap}}चन्द्रोपरागकलुषं धनदोऽत्र व्यपोहतु । {{gap}}योऽसाविन्दुप्रभो रुद्रः पोनाकी वृषवाहनः ॥ {{gap}}चन्द्रोपरागपापानि स नाशयतु शङ्करः । {{gap}}त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ॥ {{gap}}ब्रह्मविष्णवर्कयुक्तानि तानि पापं दहन्तु च । {{gap}}एवमामन्त्रितैः कुम्भैरभिषिक्तो गुणान्वितैः ॥ {{gap}}ऋग्यजुःसाममन्त्रैश्च शुक्लमाल्यानुलेपनैः । {{gap}}पूजयेद्वस्त्रगोदातैर्ब्राह्मणानिष्टदेवताम् ॥ {{gap}}एतानेव ततो मत्रान् विलिख्य कनकान्वितान् । {{gap}}वस्त्रे पट्टेऽथ वा<ref>वर्णपट्टेऽथ वा पट्टे इति च. ।</ref> भूर्जे पञ्चरत्नसमन्विते । {{gap}}यजमानस्य शिरसि निदध्युस्ते नरोत्तमाः । {{gap}}ततोऽतिवाहयेद्वेलामुपरागानुगामिनीम् ॥ {{gap}}प्राङ्मुखः पूजयित्वा तु संपश्यन्निष्टदेवताम् ।</poem>}} {{rule}}<noinclude></noinclude> hfrmied4tegw39r9yawkf01rb6m10cv पृष्ठम्:अद्भुतसागरः.djvu/१०९ 104 125067 341166 340152 2022-07-23T07:41:36Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=९०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}चंन्द्रग्रहे निवृत्ते तु कृतगोदोहमङ्गलः ॥ {{gap}}कृतस्नानस्तु तत् पट्टं ब्राह्मणाय<ref>गणकाय इति च. ।</ref> निवेदयेत् । {{gap}}अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् ॥ {{gap}}न तस्य ग्रहपीडा स्यान्न च बन्धुधनक्षयः । {{gap}}परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥ {{gap}}सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्त्तयेत् । {{gap}}अधिकाः पद्मरागाः स्युः कपिला च सुशोभना ॥ {{gap}}य इदं शृणुयान्नित्यं श्रावयेद्दाऽपि मानवः । {{gap}}सर्वपापविनिर्मुक्तः शक्तलोके महीयते ॥</poem>}} <small>अथ जन्मनक्षत्रग्रहणफलं ज्योतिषपराशरविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>{{gap}}यन्नक्षत्रगतो राहुर्ग्रसते चन्द्रभास्करौ । {{gap}}तज्जातीनां भवेत् पीडा यदि ते शान्तिवर्जिताः ॥</poem>}} <small>{{gap}}अत्र जन्मनाडीनक्षत्रोपतापविहिता शान्तिः कर्त्तव्या । ताश्च नाडीर्नक्षत्रोपशातौ वक्ष्यामः ।</small> <small>भार्गवीये ।</small> {{bold|<poem>{{gap}}यस्य राज्यस्य नक्षत्रे स्वर्भानुरुपरज्यते । {{gap}}राज्यभ्रंशं सुहृन्नाशं मरणं चात्र निर्दिशेत् ॥</poem>}} <small>{{gap}}राज्यस्य नक्षत्रेऽभिषेक: । तदभिषेकनक्षत्रं यदि जन्मनक्षत्रमपि नृपतेः स्यात् तदा मरणं फलम् । अथाभिषेकनक्षत्रोपतापशान्तिश्च कर्त्तव्या फलपाकसमये ।</small> <small>वराहसंहितायां तु ।</small> {{bold|{{gap}}सुरद्विषोऽब्दार्धाद्वर्षात् सूर्यग्रहणे- इति ।}} <small>{{gap}}एतान्याहुतानि राहुकृतग्रहणे गर्गादिभिरभिहितानि । वराहादिभिस्तु ग्रहणमेव राहुकृतं न भवतीत्युक्तम् ।</small> <small>{{gap}}तथा च वराहसंहितायाम् ।</small> {{bold|{{gap}}अमृतास्वाद विशेषाच्छिन्नमपि शिरः किलासुरस्येदम् ।}} {{rule}}<noinclude></noinclude> bqcvqnlmy808r0mojgg71gnfqapdcgy पृष्ठम्:अद्भुतसागरः.djvu/११० 104 125068 341169 340153 2022-07-23T07:43:58Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=राहोद्भुतः ।|right=९१}}</noinclude>{{bold|<poem>प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥ इन्द्वर्ककमण्डलाकृतिरसितत्वात् किल न दृश्यते गगने । अन्यत्र पर्वकालाद्वरप्रसादात् कमलयोनेः ॥ मुखपुच्छविभक्ताङ्गं भुजङ्गप्राकारमुपदिशन्त्येके । कथयन्ति मूर्त्तमपरे तमोमयं सैहिकेयाख्यम् ॥ यदि मूर्तो भविचारी शिरोऽथ वा भवति मण्डली राहुः । भगणार्धेनान्तरितो गृह्णाति कथं नियतचारः ॥ अनियतचारो यदि चेदुपलब्धिः संख्यया कथं तस्य । पुच्छाननाभिधानोऽन्तरेण कस्मान्न गृह्णाति ॥ अथ तु भुजगेन्द्ररूपः पुच्छेन मुखेन वा स गृह्णाति । मुखपुच्छान्तरसंस्थं स्थगयति कस्मान्न भगणार्धम् ॥ राहुद्वयं यदि स्याद्ग्रस्तेऽस्तमितेऽथ वोदिते चन्द्रे । तत्समगतिनाऽन्येन ग्रस्तः सूर्योऽपि दृश्येत ॥ भूछायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः । प्रग्रहणमतः पश्चान्नेन्दोर्भानोश्च पूर्वार्धात् ॥ वृक्षस्य स्वच्छाया यथैकपार्श्वे न भवति दीर्घचया । निशि निशि तद्वद्भूमेरावरणवशाद्दिनेशस्य ॥ सूर्यात् सप्तमराशौ यदि चोदग्दक्षिणेन नातिगतः । चन्द्रः पूर्वाभिमुखश्छायामौर्वी तदा विशति । चन्द्रोऽधःस्थः स्थगयति रविमम्बुदवत् समागतः पश्चात् । प्रतिदेशमतश्चित्रं दृष्टिवशाद्भास्करग्रहणम् ॥</poem>}} <small>तथा च भहबलभद्रः ।</small> {{bold|<poem>भूछाया शशिकक्षास्था विधौ भार्धेऽर्कतः स्थिते ।</poem>}}<noinclude></noinclude> ozl54q8d9kvlw0vmisdmgvzoizrnc09 341170 341169 2022-07-23T07:44:11Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोद्भुतः ।|right=९१}}}}</noinclude>{{bold|<poem>प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥ इन्द्वर्ककमण्डलाकृतिरसितत्वात् किल न दृश्यते गगने । अन्यत्र पर्वकालाद्वरप्रसादात् कमलयोनेः ॥ मुखपुच्छविभक्ताङ्गं भुजङ्गप्राकारमुपदिशन्त्येके । कथयन्ति मूर्त्तमपरे तमोमयं सैहिकेयाख्यम् ॥ यदि मूर्तो भविचारी शिरोऽथ वा भवति मण्डली राहुः । भगणार्धेनान्तरितो गृह्णाति कथं नियतचारः ॥ अनियतचारो यदि चेदुपलब्धिः संख्यया कथं तस्य । पुच्छाननाभिधानोऽन्तरेण कस्मान्न गृह्णाति ॥ अथ तु भुजगेन्द्ररूपः पुच्छेन मुखेन वा स गृह्णाति । मुखपुच्छान्तरसंस्थं स्थगयति कस्मान्न भगणार्धम् ॥ राहुद्वयं यदि स्याद्ग्रस्तेऽस्तमितेऽथ वोदिते चन्द्रे । तत्समगतिनाऽन्येन ग्रस्तः सूर्योऽपि दृश्येत ॥ भूछायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः । प्रग्रहणमतः पश्चान्नेन्दोर्भानोश्च पूर्वार्धात् ॥ वृक्षस्य स्वच्छाया यथैकपार्श्वे न भवति दीर्घचया । निशि निशि तद्वद्भूमेरावरणवशाद्दिनेशस्य ॥ सूर्यात् सप्तमराशौ यदि चोदग्दक्षिणेन नातिगतः । चन्द्रः पूर्वाभिमुखश्छायामौर्वी तदा विशति । चन्द्रोऽधःस्थः स्थगयति रविमम्बुदवत् समागतः पश्चात् । प्रतिदेशमतश्चित्रं दृष्टिवशाद्भास्करग्रहणम् ॥</poem>}} <small>तथा च भहबलभद्रः ।</small> {{bold|<poem>भूछाया शशिकक्षास्था विधौ भार्धेऽर्कतः स्थिते ।</poem>}}<noinclude></noinclude> kn39n0fecse9423y8s6d5tt617nvpia पृष्ठम्:अद्भुतसागरः.djvu/१११ 104 125069 341186 340156 2022-07-23T09:22:38Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=९२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}यदा विशत्यविक्षिप्ता चन्द्रस्य स्यात् तदा ग्रहः ॥ {{gap}}"इन्दुना छादितं सूर्यमधोविक्षिप्तगामिना । {{gap}}न पश्यन्ति यदा लोकास्तदा स्याद्भास्करग्रहः"<ref>अयं श्लोको भट्टोत्पलेन वराहसंहिताटोकायां सूर्यसिद्धान्तस्य प्रमाणत्वेनाभिहितः । द्रष्टव्या अ, १२१ पृ. १७ पं ।</ref>॥</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}आवरणं महदिन्दोः कुण्ठ विषाणस्ततोऽर्धसंछन्नः । {{gap}}स्वल्पं रवेर्यतोऽतस्तीक्षनविषाणो रविर्भवति ॥ {{gap}}एवमुपरागकारणमुपदिष्टं दिव्यदृग्भिराचार्यैः । {{gap}}राहुरकारणमस्मिन्नित्युक्तः शास्त्रसद्भावः ॥ {{gap}}योऽसावसुरो राहुस्तस्य वरो ब्रह्मणा समाज्ञप्तः । {{gap}}आप्यायनमुपरागे दत्तहुताशेन ते भविता ॥ {{gap}}तस्मिन् काले सान्निध्यमस्य तनोपचर्यते राहुः । {{gap}}याम्योत्तरा शशिगतिर्गणितंऽप्युपचर्यते तेन ॥</poem>}} <small>ब्रह्मसिद्धान्ते तु ।</small> {{bold|<poem>{{gap}}"एवं वराहमिहिरश्रीषेणार्यभटविष्णुचन्द्राद्यैः । {{gap}}लोकविरुद्धमभिहितं वेदस्मृतिसंहिताबाह्यम् || {{gap}}यद्येवं ग्रहणफलं गर्गाद्यैः संहितासु यदभिहितम् । {{gap}}तत्काले होमजपस्नानादिफलस्य चाभावः ॥ {{gap}}राहुकृतं ग्रहणद्वयमागोपालाङ्गनाप्रसिद्धमिदम् । {{gap}}बहुफलमिदमपि सिद्धं जपहोमस्नानफलमत्र ॥ {{gap}}स्मृतिषूक्तं न स्नानं राहोरन्यत्र दर्शनाद्रात्रौ । {{gap}}राहुग्रस्ते सूर्ये सर्वं गङ्गासमं तोयम् ॥ {{gap}}स्वर्भानुरासुरिरिनं तमसा विव्याध वेदबाह्यमिदम् ।</poem>}} {{rule}}<noinclude></noinclude> jntfss6qk1o6xhnadqwmdu5idpsg20d पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३०५ 104 125339 341093 340943 2022-07-22T14:38:06Z Shubha 190 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" />{{rh|left=३]|center=तृतीयं काण्डम्.|right=२८७}}</noinclude> <poem>भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ १ ॥ आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ॥ पद्ये यशसि च श्लोकः शरे खङ्गे च सायकः ॥ २ ॥ जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ ॥ आलोकौ दर्शनद्योतौ भेरीपटहमानकौ ॥ ३ ॥ उत्सङ्गचिह्नयोरङ्कः कलङ्कोङ्कापवादयोः ॥ (तक्षको नागवर्धक्योरर्कः स्फटिकसूर्ययोः ) ॥ ४ ॥ ( १ )</poem> वक्ष्यमाणेषु कान्तादिवर्गेष्वेव केऽपि नानार्था उक्ता नतु प्रागुक्तपर्यायेषु । यथा । मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोरिति । भूरिप्रयोगा यत्र कुत्रापि काव्यादिषु कविभिः प्राचुर्येण प्रयुक्ता ये नाकलोकादयः शब्दास्ते पूर्वोक्तेषु येषु पर्यायेषु दृश्यंते तेषु पर्यायेषु अपिशब्दादत्रापि कान्तादिषु कीर्तिताः । यथा नाकशब्दः प्रचुरप्रयोगत्वात्प्राक् स्वर्गाकाशयोरुक्तोपि पुनरिहोक्तः। जम्बुकशब्दस्तु सृगालपर्यायेष्वेवोक्तो नतु वरुणपर्यायेषु । भूरिप्रयोगत्वाभावात् । इह तु जम्बुकौ क्रोष्टुवरुणावित्युभयत्रोच्यते ॥ १ ॥ नाक इत्येकं नाम ककारान्तं आकाशे स्वर्गे च वर्तते । न अकं दुःखमत्र नाकः “नम्राद्” इति सूत्रे निपातितः । • भुबने स्वर्गादौ जने च लोक इत्येकम् । “लोक्यते लोकः " । पये अनुष्टुवादौ पचे यशसि कीर्तौ श्लोक इत्येकम् । श्लोक्यते श्लोकः । “श्लोक संघाते" | यक्षसि यथा । उत्तमलोको हरिः । श्चरे बाणे खड्ने च सायकः ॥ २ ॥ कोष्टा सृगालः बरुणः प्रसिद्ध उभौ जम्मुकशब्दवाच्यौ । “जम्बुक: फेरवे नीचे पश्चिमाशापतावपि " इति मेदिनी । चिपिटो भ्रष्टव्रीहितण्डुलः पोहे इति लौकिक भाषायाम् । अर्भकः शिशुः तावुभौ पृथुकौ । “पृथुकः पुंसि विपिटे शिशौ स्यादभिधेयवत्" इति । दर्शनं प्रकाशआलोकौ । “आलोकस्तु पुमान् धोते दर्शने बन्दिभाषणे" इति मेदिनी | भेरीपटहं वाद्यविशेषौ | तूर्याइत्वादेकवद्भावः | उमावानकौ । “आनकः पटहे भेर्या मृदङ्गे ध्वनदम्बुदे " इति मेदिनी ॥ ३ ॥ उत्संगः क्रोडः तत्र चिहे चाइः । “अङ्को रूपकभ्रेदाऽवचिहरेखाजिभूषणे । रूपकांशान्तिकोत्सङ्गस्थानेऽङ्कं पापदुःखयोः” इति मेदिनी | चिहे दोषारोपे च कलङ्कः । “कलको केऽपवादे च कालायसमलेsपि च" इति मेदिनी । नागविशेषे त्वष्टरि व तक्षकः । स्फटिकसूर्यसोरर्क {{rule}}<noinclude>१ इदम तापपुस्तकेऽपि नाति ।</noinclude> b78vw763d455saq7540obq4ki6a4b1t पृष्ठम्:शिवलीलार्णवः.djvu/१२७ 104 125350 341084 341083 2022-07-22T12:20:35Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>सप्तदशः सर्गः । अजनिष्ट सुन्दर इति प्रथितो नृपतेरमुष्य पृतनाधिपतिः । अतनिष्ट भक्तिमयमष्टविधामपि सुन्दरेशपदपङ्कजयोः ॥ २ ॥ अभिषेणनाय कृतसन्नहने शबरेश्वरे बलिनि चेदिपतौ । भटसंग्रहाय स बहु द्रविणं प्रददौ चमूपतिवशे नृपतिः ॥ ३ ॥ स शिवे निवेद्य शबरेन्द्रजये प्रतिभूर्भवानवानभर्त्तुरिति । अविचिन्त्य किञ्चिदपि पर्यचरद्रविणैस्तु तैर्द्रविणनाथसखम् ॥ ४ ॥ अतिनूत्नमातनुत धाम विभोः स सुधार्पणस्फुटितसङ्घटनैः । रथमूर्जितं क्षितिरथस्य हयान् करिणश्च काञ्चनमयानकरोत् ॥ ५ ॥ बलमानयेयमिति मन्त्रिवरान् बहुधा तु सोऽतिसमधत्त गिरा | कुलभूषणाय परिपृष्टवते कथयाम्बभूव पृतनां मिलिताम् ॥ ६ ॥ सचिवोदितश्रवणजातरुषं नृपमिङ्गितैस्सिमवबुद्ध्य ततः । बहिरानिनाय स महीरमणं बलदर्शनाय सह तैः पिशुनैः ॥ ७ ॥ समये शशाङ्कशकलाभरणः सहितो गणैर्मनुजरूपधरैः । स्वयमाजगाम पृतनारजसा स्थगयन् दिशश्च विदिशश्च पुरः ॥ ८ ॥ रथवाजिसिन्धुरपदातिभिदाप्रविभक्तमप्युपसमेत्य मिथः । चलितं बलं नृपतिना ददृशे चतुरम्बुराशिसमवाय इव ॥ ९ ॥ असिचर्मचापशरकुन्तगदापरिघत्रिशूलनलिकादिकराम् । अतिभीषणाकृतिमदृष्टचरीं परिपश्यति स्म स पदातिचमूम् ॥ १० ॥ प्रलयान्तघोरपवनाभिहतप्रचलद्धराधरकुलप्रतिमम् । प्रसमीक्ष्य तं मदगजप्रकरं परिदुदुवुर्नरपतेः करिणः ॥ ११ ॥ ११९ कुरुविन्दकज्जलकुसुम्भनिशाशरकाण्डवासवशरासरुचः । मसृणोन्नतांसलमहाहनवस्तुरगाः प्रचेलुरथ तस्य पुरः ॥ १३ ॥ सुरवाहिनीलहरिशुभ्रपटीपरिवी तमौलिरसिचर्मधरः । परिनर्त्तयंस्तुरगमिन्दुधरो निरगादनादिरपि सादिवपुः ॥ १४ ॥ vi करभोष्टपुङ्गवकरीन्द्रधृतैर्विविधायुधोपकरणैश्च स्थैः । विविधध्वजैर्धुरि विभोश्चलिता रथिकाः शिलादतनयप्रमुखाः ॥ १६ ॥<noinclude></noinclude> qagn9xqopunw5u6v7oreai2nze7hjj4 पृष्ठम्:शिवलीलार्णवः.djvu/१२८ 104 125351 341085 2022-07-22T12:20:54Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>१२, शिवलीकाण असकृद्विरिञ्चमुखमन्दुरिकाकुतुकादिवोत्पतितुमभ्रपथे । त्वरमाणमागमतुरङ्गबरं शमयन्निगालकरघट्टनया ॥ १५ ॥ हयमुत्पतन्तमिषुव * द्रभसादवरुद्ध्य सव्यमपसव्यमपि । भ्रमयन्नयत्नलबमुरुयुगद्रढिमैकदेशहतदुर्विनयम् ॥ १६ ॥ अभिगच्छति क्षितिभृति स्वयमप्यभिगम्य मूर्त्त इव वीररसः । अवधूय खड्गमवरुद्ध्य हयं प्रणनाम तं प्रणतमेष पुरः ॥ १७ ॥ अवितर्क्यवैभवमदृष्टचरं तमवेक्ष्य तामपि चमूं महतीम् । तदुदाररूपहृतवाङ्मनसः क्षणमास्त पाण्ड्यनृपतिस्तिमितः ॥ १८ ॥ वचनैरमुं प्रकटितप्रणयैर्वसनैर्विभूषणगणैश्च नृपः । परितोषयन् प्रतिमुहुः प्रणमन् परिषस्वजे दृढमभीक्ष्णमपि ॥ १९ ॥ मशकं विजेतुमनुचिन्तयता मदसिन्धुरोऽयमुपलब्ध इति । कथयन् नृपश्चरमुखादशृणोन्मृगयासु सिंहनिहतं विमतम् ॥ २० ॥ अथ पार्थिवः प्रमुदितस्तमसावनुमन्यते स्म शिबिराय यदा । स तिरोदधे सतुरगः सबलो गिरिशस्तदैव धुरि भूमिभुजः ॥ २१ ॥ तदवेत्य केलिषु कुतूहलिनो मधुरेश्वरस्य महिमायमिति । पिशुनान् निगृह्य पृतनाधिपतिं बहुमन्यते स्म बहुधा नृपतिः ॥ २२ ॥ निखिलं पुरा निजघनं गिरिशे व्ययितं यथा किल चमूपतिना । सकलं तथा व्ययितुमेव नृपश्चकमे तदादि मधुराधिपतौ ॥ २३ ॥ गजवाजिगोमहिषधान्यधनक्षितिभृत्यमित्रसुतदारमुखम् । सकलं शिवाय न ममेति वदन् ऋतुनारराध महताथ शिवम् ॥ २४ ॥ अवलोक्य रिक्तमथ कोशगृहं दुपतेर्दयानिधिरनङ्गरिपुः । धनमक्षयं वितरति स्म तथा सस्था न पारयति तद् व्ययितुम् ॥ २५ ॥ vir धनमक्षयं धनपतेर्दिशतो विगता शिवस्य नहि भिक्षुकता । कुलभूषणेऽद्य तु तदर्पयतः सदनं सुवर्णमणिचित्रमभूत् ॥ २१ ॥ * 'तासभा 'दिति खपुस्तके पाठ:<noinclude></noinclude> t7wos5lr82u2zq3rbng8c7x62pkzb9i 341086 341085 2022-07-22T12:24:52Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>१२, शिवलीलार्णवे असकृद्विरिञ्चमुखमन्दुरिकाकुतुकादिवोत्पतितुमभ्रपथे । त्वरमाणमागमतुरङ्गबरं शमयन्निगालकरघट्टनया ॥ १५ ॥ हयमुत्पतन्तमिषुव * द्रभसादवरुद्ध्य सव्यमपसव्यमपि । भ्रमयन्नयत्नलवमुरुयुगद्रढिमैकदेशहतदुर्विनयम् ॥ १६ ॥ अभिगच्छति क्षितिभृति स्वयमप्यभिगम्य मूर्त्त इव वीररसः । अवधूय खड्गमवरुद्ध्य हयं प्रणनाम तं प्रणतमेष पुरः ॥ १७ ॥ अवितर्क्यवैभवमदृष्टचरं तमवेक्ष्य तामपि चमूं महतीम् । तदुदाररूपहृतवाङ्मनसः क्षणमास्त पाण्ड्यनृपतिस्तिमितः ॥ १८ ॥ वचनैरमुं प्रकटितप्रणयैर्वसनैर्विभूषणगणैश्च नृपः । परितोषयन् प्रतिमुहुः प्रणमन् परिषस्वजे दृढमभीक्ष्णमपि ॥ १९ ॥ मशकं विजेतुमनुचिन्तयता मदसिन्धुरोऽयमुपलब्ध इति । कथयन् नृपश्चरमुखादशृणोन्मृगयासु सिंहनिहतं विमतम् ॥ २० ॥ अथ पार्थिवः प्रमुदितस्तमसावनुमन्यते स्म शिबिराय यदा । स तिरोदधे सतुरगः सबलो गिरिशस्तदैव धुरि भूमिभुजः ॥ २१ ॥ तदवेत्य केलिषु कुतूहलिनो मधुरेश्वरस्य महिमायमिति । पिशुनान् निगृह्य पृतनाधिपतिं बहुमन्यते स्म बहुधा नृपतिः ॥ २२ ॥ निखिलं पुरा निजघनं गिरिशे व्ययितं यथा किल चमूपतिना । सकलं तथा व्ययितुमेव नृपश्चकमे तदादि मधुराधिपतौ ॥ २३ ॥ गजवाजिगोमहिषधान्यधनक्षितिभृत्यमित्रसुतदारमुखम् । सकलं शिवाय न ममेति वदन् ऋतुनारराध महताथ शिवम् ॥ २४ ॥ अवलोक्य रिक्तमथ कोशगृहं नृपतेर्दयानिधिरनङ्गरिपुः । धनमक्षयं वितरति स्म तथा स यथा न पारयति तद् व्ययितुम् ॥ २५ ॥ vir धनमक्षयं धनपतेर्दिशतो विगता शिवस्य नहि भिक्षुकता । कुलभूषणेऽद्य तु तदर्पयतः सदनं सुवर्णमणिचित्रमभूत् ॥ २१ ॥ * 'तासभा 'दिति खपुस्तके पाठ:<noinclude></noinclude> oqb9imijt7zh84xl4stzi2h6m4lktum पृष्ठम्:शिवलीलार्णवः.djvu/१२९ 104 125352 341087 2022-07-22T12:25:41Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>१२१ सप्तदशः सर्गः अथ कन्यकाः किल कुलेषु विशामतिसुन्दरेण वपुषा शतशः । अलभन्त जन्म मधुरानगरे समयेन शङ्करकथानिरताः ॥ २७॥ परपुंसि दारुवनचारिण याः परमं बबन्धुरभिलाषभिमाः मुनिसुभ्रुवो हि पतिशापवशादभजन् विशां पुनरपत्यदशाम् ॥ २८ ॥ अथ तासु तत्र कलितावतरे तरुणिम्नि वैश्यतनयासु शनैः । मनसि स्मरस्मरजितौ युगपत् सुहृदाविव प्रविशतः स्म तदा ॥ २९ ॥ अथ वैश्यवीथिषु वणिक्तरुणो विमलाम्बरो विविधभूषणभृत् । अतिसुन्दरो वलयविक्रयिणामवलम्ब्य रूपमचरद् गिरिशः ॥ ३० ॥ वितथेषु पुष्पविशिखेषु शिवे वलयायुधानि बहुधा कलयन् । अयमालि ! सञ्चरति पञ्चशरो न मृषेति तत्र जगदुः सुदृशः ॥ ३१ ॥ वणिजस्ततो वलयविक्रयिणो भवति स्म वैश्यसुदृशां च तदा । इतरेतराशय चमत्करणी सरसा वचः प्रतिवचम्सरणिः ॥ ३२ ॥ वितरन्तु पक्कमिह तालफलं यदि वापि जम्भलफलं विपुलम् । बलयानिमान् दधतु वामदृशः कनकेन किं मम गिरौ वसतः ॥ ३३ ॥ व नु काञ्चिदेशमपहाय गतिर्मम वः कदाचिदिति मत्सविधे । अधरेधुरुक्तमधुना तु कथं वसतिं निजामभिदधासि गिरौ ॥ ३४ ॥ अतनुज्वरादभिहतोऽस्मि चिरात् तृषितोऽम्मि कापि यदि बिम्बफलैः । तरुणी भिषज्यात ममार्त्तिमिमां पथिकस्य मे भवति सा शरणम् ॥ ३५ ॥ उचितोपयोगविरहादफलं वितरामि तावदिह बिम्बफलम् । मदनाश्रवस्य परितश्चरतो भवतः कथं भवतु विज्वरता ॥ ३६ ॥ मुदृढास्तवैव करयोरुचिता इति ये त्वया सुघटिता वलयाः । त्वयि निर्गते सपदि तैर्गलितं वचनं कथं नु तव विश्वसिमः ॥ ३७ ॥ वलयान् प्रदाय करिदन्तमयान् न मणिर्न काञ्चनमयान मया । अपि काञ्चिकार्थनमभूद् विफलं त्वयि मे प्रतिश्रुतमपीह कथम् ॥ ३८ ॥ मम देहि विद्रुममयान् वलयान् मम देहि विद्रुममणि प्रथमम् । मम देहि दन्तवलयान् विमलांस्तव तन्वि ! वेद्मि न हि दन्तपदम् ॥ ३९ ॥ १. काञ्चेिकस्य आरनालस्य अर्थ च काञ्चिकाया अर्थनम्,<noinclude></noinclude> j1mhe146jn162fbtnmraqzc4o5yxjqe 341088 341087 2022-07-22T12:29:54Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>१२१ सप्तदशः सर्गः अथ कन्यकाः किल कुलेषु विशामतिसुन्दरेण वपुषा शतशः । अलभन्त जन्म मधुरानगरे समयेन शङ्करकथानिरताः ॥ २७॥ परपुंसि दारुवनचारिण याः परमं बबन्धुरभिलाषभिमाः मुनिसुभ्रुवो हि पतिशापवशादभजन् विशां पुनरपत्यदशाम् ॥ २८ ॥ अथ तासु तत्र कलितावतरे तरुणिम्नि वैश्यतनयासु शनैः । मनसि स्मरस्मरजितौ युगपत् सुहृदाविव प्रविशतः स्म तदा ॥ २९ ॥ अथ वैश्यवीथिषु वणिक्तरुणो विमलाम्बरो विविधभूषणभृत् । अतिसुन्दरो वलयविक्रयिणामवलम्ब्य रूपमचरद् गिरिशः ॥ ३० ॥ वितथेषु पुष्पविशिखेषु शिवे वलयायुधानि बहुधा कलयन् । अयमालि ! सञ्चरति पञ्चशरो न मृषेति तत्र जगदुः सुदृशः ॥ ३१ ॥ वणिजस्ततो वलयविक्रयिणो भवति स्म वैश्यसुदृशां च तदा । इतरेतराशय चमत्करणी सरसा वचः प्रतिवचस्सरणिः ॥ ३२ ॥ वितरन्तु पक्कमिह तालफलं यदि वापि जम्भलफलं विपुलम् । बलयानिमान् दधतु वामदृशः कनकेन किं मम गिरौ वसतः ॥ ३३ ॥ क्व नु काञ्चिदेशमपहाय गतिर्मम वः कदाचिदिति मत्सविधे । अधरेधुरुक्तमधुना तु कथं वसतिं निजामभिदधासि गिरौ ॥ ३४ ॥ अतनुज्वरादभिहतोऽस्मि चिरात् तृषितोऽस्मि कापि यदि बिम्बफलैः । तरुणी भिषज्यति ममार्त्तिमिमां पथिकस्य मे भवति सा शरणम् ॥ ३५ ॥ उचितोपयोगविरहादफलं वितरामि तावदिह बिम्बफलम् । मदनाश्रवस्य परितश्चरतो भवतः कथं भवतु विज्वरता ॥ ३६ ॥ मुदृढास्तवैव करयोरुचिता इति ये त्वया सुघटिता वलयाः । त्वयि निर्गते सपदि तैर्गलितं वचनं कथं नु तव विश्वसिमः ॥ ३७ ॥ वलयान् प्रदाय करिदन्तमयान् न मणिर्न काञ्चनमयान मया । अपि काञ्चिकार्थनमभूद् विफलं त्वयि मे प्रतिश्रुतमपीह कथम् ॥ ३८ ॥ मम देहि विद्रुममयान् वलयान् मम देहि विद्रुममणिं प्रथमम् । मम देहि दन्तवलयान् विमलांस्तव तन्वि ! वेद्मि न हि दन्तपदम् ॥ ३९ ॥ १. काञ्चेिकस्य आरनालस्य अर्थ च काञ्चिकाया अर्थनम्,<noinclude></noinclude> 7j5qudu6xtu2aveodnm89w0a59f39q3 पृष्ठम्:शिवलीलार्णवः.djvu/१३० 104 125353 341089 2022-07-22T12:30:15Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>१२२ शिवलीलार्णवे इति सल्लपन् सरसमिन्दुधरो विचरन् गृहेषु विविधेषु विशाम् । करपल्लवव्यतिकरेण तदा सफलचिकार जननं सुशाम् ॥ ४० ॥ अथ ता मुनीन्द्रदयिता न चिरात् तनयोपलम्भमुदिताः शतशः । परिमृष्टश।पकलुषाः प्रमथैर्गिरिशो निनाय कलधौतगिरिम् ॥ ४१ ॥ स कदाचिदाम्त वटमूलतले सनकादिभिः शमधनैर्नियतैः । अणिमादिसिद्धिकृतमद्रिसुताचरणार्चनोपनिषदं कथयन् ॥ ४२ ॥ उपदेशमेनमतिभक्तिवशादुपशृण्वतां शमवतां सविधे । अपि यक्षिणीरनवधानपराः कुपितः शशाप कुसुमास्त्रहरः ॥ ४३ ॥ क्वचिदत्र पाण्ड्यविषये विपिने विजने तले वटतरोर्महतः । उपलत्वमेत्य वसतेति ततः प्रससाद ताभिरसकृत् प्रणतः ॥ ४४ ॥ स समाः सहस्रमतिलङ्घय ततः परिगृह्य देशिकतनुं गिरिशः । अणिमादिसिद्धिमनुगृह्य पुनर्नयति स्म यक्षवनितास्त्रिदिवम् ।। ४५ ॥ कुलभूषणोऽपि धरणीरमणः शफरेक्षणासहचरार्चनया | अथ राजपूर्वपदमिन्द्रमसौ लभते म्म शिक्षितनयं तनयम् ॥ ४६॥ अपि राजसिंह इति कश्चिद्भूदनुजोऽस्य दुर्विषयलुप्तमतिः । समनन्तरं पितुरयं सहजं मुतवद् ररक्ष तमपि क्षितिपः ॥ ४७ ॥ समयेऽत्र चोलनृपतिः प्रथितः कुलशत्रुरम्य किल पाण्ड्यविभोः । मधुरेशदर्शनकुतूहलिना मनसान्वतप्यत तपांसि चरन् । ४८ ॥ स्वपने कदाचिद्रथ चोलनृपं प्रतिबोच्य गूढमुपयातमिमम् । विघटय्य गोपुरकवाटयुगं निजमानिनाय निशि धाम शिवः ॥ ४९ ॥ स निमज्ज्य हेमनलिनीसलिले प्रणिपत्य मीननयनागिरिशौ । तदनुग्रहेण नगराच बहिर्निरगान् तदैव निशि चोलनृपः ॥ ५० ॥ स पुनश्च गोपुरकवाटयुगं घटयञ्छिवो वृषभमुद्रिकया। परिचिह्नयन् मनसि पाण्ड्य विभोरतनिष्ट संशयमभेद्यतरम् ॥ ५१ ॥ स परेछुराप्तसचिवैर्विमृशन्नपि किञ्चिदध्यवससौ न यदा | नृपतिस्तदा निखिलमोहहरं शरणं ययौ शशिकलाभरणम् || ५२ ॥<noinclude></noinclude> 1y079dpu0kb1gqp94qx8990wed4m0ai 341090 341089 2022-07-22T12:34:05Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>१२२ शिवलीलार्णवे इति सल्लपन् सरसमिन्दुधरो विचरन् गृहेषु विविधेषु विशाम् । करपल्लवव्यतिकरेण तदा सफलचिकार जननं सुशाम् ॥ ४० ॥ अथ ता मुनीन्द्रदयिता न चिरात् तनयोपलम्भमुदिताः शतशः । परिमृष्टश।पकलुषाः प्रमथैर्गिरिशो निनाय कलधौतगिरिम् ॥ ४१ ॥ स कदाचिदास्त वटमूलतले सनकादिभिः शमधनैर्नियतैः । अणिमादिसिद्धिकृतमद्रिसुताचरणार्चनोपनिषदं कथयन् ॥ ४२ ॥ उपदेशमेनमतिभक्तिवशादुपशृण्वतां शमवतां सविधे । अपि यक्षिणीरनवधानपराः कुपितः शशाप कुसुमास्त्रहरः ॥ ४३ ॥ क्वचिदत्र पाण्ड्यविषये विपिने विजने तले वटतरोर्महतः । उपलत्वमेत्य वसतेति ततः प्रससाद ताभिरसकृत् प्रणतः ॥ ४४ ॥ स समाः सहस्रमतिलङ्घय ततः परिगृह्य देशिकतनुं गिरिशः । अणिमादिसिद्धिमनुगृह्य पुनर्नयति स्म यक्षवनितास्त्रिदिवम् ।। ४५ ॥ कुलभूषणोऽपि धरणीरमणः शफरेक्षणासहचरार्चनया | अथ राजपूर्वपदमिन्द्रमसौ लभते स्म शिक्षितनयं तनयम् ॥ ४६॥ अपि राजसिंह इति कश्चिद्भूदनुजोऽस्य दुर्विषयलुप्तमतिः । समनन्तरं पितुरयं सहजं सुतवद् ररक्ष तमपि क्षितिपः ॥ ४७ ॥ समयेऽत्र चोलनृपतिः प्रथितः कुलशत्रुरस्य किल पाण्ड्यविभोः । मधुरेशदर्शनकुतूहलिना मनसान्वतप्यत तपांसि चरन् । ४८ ॥ स्वपने कदाचिद्रथ चोलनृपं प्रतिबोद्ध्य गूढमुपयातमिमम् । विघटय्य गोपुरकवाटयुगं निजमानिनाय निशि धाम शिवः ॥ ४९ ॥ स निमज्ज्य हेमनलिनीसलिले प्रणिपत्य मीननयनागिरिशौ । तदनुग्रहेण नगराच बहिर्निरगान् तदैव निशि चोलनृपः ॥ ५० ॥ स पुनश्च गोपुरकवाटयुगं घटयञ्छिवो वृषभमुद्रिकया। परिचिह्नयन् मनसि पाण्ड्य विभोरतनिष्ट संशयमभेद्यतरम् ॥ ५१ ॥ स परेद्युराप्तसचिवैर्विमृशन्नपि किञ्चिदध्यवससौ न यदा | नृपतिस्तदा निखिलमोहहरं शरणं ययौ शशिकलाभरणम् || ५२ ॥<noinclude></noinclude> e4qcrw8unzxihcwjj6rodx2oy2j93r6 चाक्षुष उपनिषद 0 125354 341102 2022-07-23T03:46:16Z Puranastudy 1572 <poem><span style="font-size: 14pt; line-height: 200%">॥ चाक्षुषोपनिषत् ॥ अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः। यच्चक्षूरोगाः सर्वतो नश्यंति। चाक्षुषी दीप्तिर्भ... नवीन पृष्ठं निर्मीत अस्ती wikitext text/x-wiki <poem><span style="font-size: 14pt; line-height: 200%">॥ चाक्षुषोपनिषत् ॥ अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः। यच्चक्षूरोगाः सर्वतो नश्यंति। चाक्षुषी दीप्तिर्भविष्यतीति। अस्याश्वक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः । गायत्री छन्दः । सूर्योदेवता । चक्षूरोगनिवृत्तये विनियोगः । ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितम् चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाहमन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्याय अक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः । हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति । न तस्य कुले अन्धो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति । विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपन्तं सहस्ररश्मिः शतधावर्तमानः पुरःप्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते आदित्याय । अहोवाहिन्यहोवाहिनी स्वाहा। ॐ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। अपध्वान्तमूर्णुहि पूर्द्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान्। पुण्डरीकाक्षाय नमः। पुष्करेक्षणाय नमः। अमलेक्षणाय नमः। कमलेक्षणाय नमः। विश्वरूपाय नमः।महाविष्णवे नमः। इति चाक्षुषोपनिषत् संपूर्णा। </span></poem> 0uuvye9p1yweaug3vrl4mt9c6cia94z 341107 341102 2022-07-23T04:03:35Z Puranastudy 1572 wikitext text/x-wiki <poem><span style="font-size: 14pt; line-height: 200%">॥ चाक्षुषोपनिषत् ॥ अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः। यच्चक्षूरोगाः सर्वतो नश्यंति। चाक्षुषी दीप्तिर्भविष्यतीति। अस्याश्वक्षुषी विद्यायाः [https://puranastudy.angelfire.com/pur_index2/ahirbudhnya.htm अहिर्बुध्न्य] ऋषिः । गायत्री छन्दः । सूर्योदेवता । चक्षूरोगनिवृत्तये विनियोगः । ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितम् चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाहमन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्याय अक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः । हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति । न तस्य कुले अन्धो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति । विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपन्तं सहस्ररश्मिः शतधावर्तमानः पुरःप्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते आदित्याय । अहोवाहिन्यहोवाहिनी स्वाहा। ॐ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। अपध्वान्तमूर्णुहि पूर्द्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान्। पुण्डरीकाक्षाय नमः। पुष्करेक्षणाय नमः। अमलेक्षणाय नमः। कमलेक्षणाय नमः। विश्वरूपाय नमः।महाविष्णवे नमः। इति चाक्षुषोपनिषत् संपूर्णा। </span></poem> 1yb8tvru14n7zpyuzrd6r9bpquyonhd 341108 341107 2022-07-23T04:20:15Z Puranastudy 1572 wikitext text/x-wiki <poem><span style="font-size: 14pt; line-height: 200%">॥ चाक्षुषोपनिषत् ॥ अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः। यच्चक्षूरोगाः सर्वतो नश्यंति। चाक्षुषी दीप्तिर्भविष्यतीति। अस्याश्चाक्षुषी विद्यायाः [https://puranastudy.angelfire.com/pur_index2/ahirbudhnya.htm अहिर्बुध्न्य] ऋषिः । गायत्री छन्दः । सूर्योदेवता । चक्षूरोगनिवृत्तये विनियोगः । ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितम् चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाहमन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्याय अक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः । हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति । न तस्य कुले अन्धो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति । विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपन्तं सहस्ररश्मिः शतधावर्तमानः पुरःप्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते आदित्याय । अहोवाहिन्यहोवाहिनी स्वाहा। ॐ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। अपध्वान्तमूर्णुहि पूर्द्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान्। पुण्डरीकाक्षाय नमः। पुष्करेक्षणाय नमः। अमलेक्षणाय नमः। कमलेक्षणाय नमः। विश्वरूपाय नमः।महाविष्णवे नमः। इति चाक्षुषोपनिषत् संपूर्णा। </span></poem> == == {{टिप्पणी| मेरुदंडधारकेषु जीवेषु लालाग्रन्थिः [https://en.wikipedia.org/wiki/Salivary_gland श्रोत्रयोः अधोभागे] भवति( देहस्य विकासे लालाग्रन्थ्याः श्रोत्रतः सन्धिर्भवति)। किन्तु कथनमस्ति यत् विषधारकस्य सर्पस्य लालाग्रन्थिः अथवा विषग्रन्थिः चक्षुषोः पृष्ठे भवति। अहिर्बुध्न्यस्य अस्मिन् विषये किं योगदानमस्ति, अन्वेषणीयः। }} csjahdi21zrdvqq175l2u4nutcyza8t पृष्ठम्:शिवलीलार्णवः.djvu/१३१ 104 125355 341138 2022-07-23T07:10:40Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>सप्तदशः सर्गः । अपदानमेतदधिगत्य नृपः सकलं गिरा गगनसम्भवया | सवितामियेष गुणगृह्यतया स तदैव चोलधरणीपतिना ॥ ५३ ॥ अथ राजसिंहनृपतिर्नृपतेरनुजो विगृह्य कियदप्यपदे । उपयम्य चोलनृपतेस्तनयामपि तेन सख्यमकरोत् सुदृढम् ॥ १४ ॥ अथ तौ समेत्य मधुरानगरीमभिजग्मतुर्बहुचमूसहितौ । ददृशे निदाघसमयोऽपि तदा परिशोषयन् सलिलशब्दमपि ॥ ५५ ॥ अपि शुष्यति त्रिदिवसिन्धुजले तृषया हतेषु तुरगेषु भृशम् । गतिमान्द्यतो गगनसीम्नि रवेर्दिवसेषु दैर्ध्यमजनिष्ट तदा ।। ५६ ॥ तपने जगत् तपति निष्करुणं समये समस्तमयशो निहितम् । सचिवः खलः शिथिलयन् प्रकृतीर्नृपतिं किलापदि निमज्जयति ॥ ५७ ॥ बिततेषु विश्वजयिनः कुसुमेप्वतनोः शिरीषमवशिष्टमिदम् । तदपि प्रणश्यतु किमस्य गतं प्रभवोऽपि किं परमुखादरिणः ॥ १८ ॥ कुचकुम्भमेव मदनः सुदृशामवलम्व्य पूर्वमजयद् भुवनम् । अधुनापि चेत् स कुशली तदलं किमनेन धर्मह्तकेन शुना ॥ ५९ ॥ अविचारितारिसममित्रकथे समये जगत् तपति दुर्ललिते । मदनस्तदाशुगहताश्च समं शरणं ययुः स्तनगिरिं दृशाम् || ६० ॥ मदने प्रवर्त्तयति वारयति श्रमवारिशीकरकिरे समये । अलभन्त कामिषु गतागतिकामसकृच्चरा इव दृशः सुदृशाम् ॥ ६१ ॥ अनवेक्ष्य नाथमियमम्बुजिनी शिशिरे यदास्त विदितं किल तत् । परया श्रिया ज्वलति तत्र रवौ कथमद्य जीवनकथापि गता ॥ ६२ || विकचेषु सूरकिरणोष्मभिया मुकुलीकृतेषु च निवाततया । कमलोदरेषु शयितुं भ्रमरो न शशाक तप्तमधुसेवनतः ॥ ६३ ॥ अपि नारिकेलसलिलेक्षुर सैरजहत् तृषो रविकरकथितैः । अपिबन्नहः परिणतौ सुदृशामधरं प्रियाः प्रणयशीतलितम् ॥ ६४ ॥ करिणोऽपि कर्णवलयानसकृञ्चलयाम्बभूवुरनिलाय मुधा । ववृते न फूत्कृतिषु वामदृशां व्यजनेऽपि लुप्त इव गन्धवहः ॥ ६५ ॥ १२३<noinclude></noinclude> q9hic3bbrjtdjfoy5v0assp5t7j532s पृष्ठम्:शिवलीलार्णवः.djvu/१३२ 104 125356 341139 2022-07-23T07:11:03Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे अनवग्रहैरपरदिक्पवनैः समुदस्यमानमपदिश्य रजः | सलिलाशया मरुमरीचिषु किं धरणी दिगन्तमगमत् तृषिता ॥ १६ ॥ अतिचण्डपश्चिमसमीरहृतैरभितोऽपि तिग्ममहसः किरणैः । अनुषञ्जिता इव वनावलयो दवसङ्गता दहशिरे शतशः ॥ ६७ ॥ सरसीषु पल्वलदशा ददृशे भुवि पल्वलेष्वपि च शाडुलता । अपि शाङ्खलेषु चिरजाङ्गलता परतो वयं न वदितुं प्रभवः ।। ६८ ।। पवनेन संवलित एव शिखी परिजृम्भते न परथेत्ययशः । परिमार्छुमेव पवने विरमत्यदहद् वनं वनमहो दहनः ६९ ॥ क्वथितं जलं क्षितितलं ज्वलितं मरुतश्च मुर्मुरकिरः परितः । गगनं च दुर्विषहमर्ककरैरिति पर्यणम्त जगदग्निमयम् ॥ ७० ॥ १२४ अपनीय कञ्चुकमहर्निरमे मरुदाशया रहसि मुग्धवधूः । समवस्थिताः समुपलभ्य हठात् परिरेभिरे सुकृतिनस्तरुणाः ॥ ७१ ॥ रजनीमुखाहृतमृणाललतावलयैः शशाङ्ककिरणस्त्रपितैः । उषसि स्वयं प्रियतमोपहृतैः सरसीप्ववर्तयत चक्रगणः ॥ ७२ ॥ इयतापि तावदिदमापतितं प्रलयं तरेम पयसेति दृढम् । अवगत्य यत्र शफरैरुषितं लुलितं सरस्तदपढे महिषैः ॥ ७३ ॥ अवगाह्य पद्ममकरन्दझरीप्वहिमतावनुदिते भ्रमराः । अजपन्नुपांशु कृतझङ्करणा मनापमृत्युहरमन्त्रमिव ॥ ७४ ॥ धृतमल्लिकाकुसुमहारलता घनसारचन्दनरसार्द्रकुचाः | वनिता दुकूलवसनाभरणास्तरुणानुपासत दिनापगमे ॥ ७५ ॥ कटकं प्रविष्टवति चण्डकरे कटकं तदव्यथत चोळपतेः । ववृधे तु पाण्ड्यनृपतेः समये महसां निधेरिव महः परुषम् ॥ ७६ ॥ अथ सुन्दरेशमभिवन्द्य नृपः कलयन् प्रसादबलमस्य बलम् । निरगाद्यथोपनतसैन्यवृतो नगरादरातिविजयाय तदा ॥ ७७ ॥ चिरसम्प्ररूढदृढमत्सरयोरजनिष्ट जन्यमथ तत्र तयोः । अपि विस्मयात्र हृदि यद् सदामपि नारदस्य यदलम्मतये ॥ ७८ ॥<noinclude></noinclude> ktvd20n17xcytn56rgsq25aflg5ku6n 341142 341139 2022-07-23T07:15:16Z Shardashah 5308 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे अनवग्रहैरपरदिक्पवनैः समुदस्यमानमपदिश्य रजः | सलिलाशया मरुमरीचिषु किं धरणी दिगन्तमगमत् तृषिता ॥ १६ ॥ अतिचण्डपश्चिमसमीरहृतैरभितोऽपि तिग्ममहसः किरणैः । अनुषञ्जिता इव वनावलयो दवसङ्गता दहशिरे शतशः ॥ ६७ ॥ सरसीषु पल्वलदशा ददृशे भुवि पल्वलेष्वपि च शाडुलता । अपि शाडुलेषु चिरजाङ्गलता परतो वयं न वदितुं प्रभवः ।। ६८ ।। पवनेन संवलित एव शिखी परिजृम्भते न परथेत्ययशः । परिमार्ष्टुमेव पवने विरमत्यदहद् वनं वनमहो दहनः ६९ ॥ क्वथितं जलं क्षितितलं ज्वलितं मरुतश्च मुर्मुरकिरः परितः । गगनं च दुर्विषहमर्ककरैरिति पर्यणस्त जगदग्निमयम् ॥ ७० ॥ १२४ अपनीय कञ्चुकमहर्निरमे मरुदाशया रहसि मुग्धवधूः । समवस्थिताः समुपलभ्य हठात् परिरेभिरे सुकृतिनस्तरुणाः ॥ ७१ ॥ रजनीमुखाहृतमृणाललतावलयैः शशाङ्ककिरणस्त्रपितैः । उषसि स्वयं प्रियतमोपहृतैः सरसीप्ववर्तयत चक्रगणः ॥ ७२ ॥ इयतापि तावदिदमापतितं प्रलयं तरेम पयसेति दृढम् । अवगत्य यत्र शफरैरुषितं लुलितं सरस्तदपढे महिषैः ॥ ७३ ॥ अवगाह्य पद्ममकरन्दझरीप्वहिमतावनुदिते भ्रमराः । अजपन्नुपांशु कृतझङ्करणा मदनापमृत्युहरमन्त्रमिव ॥ ७४ ॥ धृतमल्लिकाकुसुमहारलता घनसारचन्दनरसार्द्रकुचाः | वनिता दुकूलवसनाभरणास्तरुणानुपासत दिनापगमे ॥ ७५ ॥ कटकं प्रविष्टवति चण्डकरे कटकं तदव्यथत चोळपतेः । ववृधे तु पाण्ड्यनृपतेः समये महसां निधेरिव महः परुषम् ॥ ७६ ॥ अथ सुन्दरेशमभिवन्द्य नृपः कलयन् प्रसादबलमस्य बलम् । निरगाद्यथोपनतसैन्यवृतो नगरादरातिविजयाय तदा ॥ ७७ ॥ चिरसम्प्ररूढदृढमत्सरयोरजनिष्ट जन्यमथ तत्र तयोः । अपि विस्मयात्र हृदि यद् द्युसदामपि नारदस्य यदलम्मतये ॥ ७८ ॥<noinclude></noinclude> i40xxcjx9eib8z6phxs73c3qtk9k2qd 341176 341142 2022-07-23T07:55:50Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे अनवग्रहैरपरदिक्पवनैः समुदस्यमानमपदिश्य रजः | सलिलाशया मरुमरीचिषु किं धरणी दिगन्तमगमत् तृषिता ॥ १६ ॥ अतिचण्डपश्चिमसमीरहृतैरभितोऽपि तिग्ममहसः किरणैः । अनुषञ्जिता इव वनावलयो दवसङ्गता दहशिरे शतशः ॥ ६७ ॥ सरसीषु पल्वलदशा ददृशे भुवि पल्वलेष्वपि च शाडुलता । अपि शाडुलेषु चिरजाङ्गलता परतो वयं न वदितुं प्रभवः ।। ६८ ।। पवनेन संवलित एव शिखी परिजृम्भते न परथेत्ययशः । परिमार्ष्टुमेव पवने विरमत्यदहद् वनं वनमहो दहनः ६९ ॥ क्वथितं जलं क्षितितलं ज्वलितं मरुतश्च मुर्मुरकिरः परितः । गगनं च दुर्विषहमर्ककरैरिति पर्यणस्त जगदग्निमयम् ॥ ७० ॥ १२४ अपनीय कञ्चुकमहर्निरमे मरुदाशया रहसि मुग्धवधूः । समवस्थिताः समुपलभ्य हठात् परिरेभिरे सुकृतिनस्तरुणाः ॥ ७१ ॥ रजनीमुखाहृतमृणाललतावलयैः शशाङ्ककिरणस्त्रपितैः । उषसि स्वयं प्रियतमोपहृतैः सरसीप्ववर्तयत चक्रगणः ॥ ७२ ॥ इयतापि तावदिदमापतितं प्रलयं तरेम पयसेति दृढम् । अवगत्य यत्र शफरैरुषितं लुलितं सरस्तदपदे महिषैः ॥ ७३ ॥ अवगाह्य पद्ममकरन्दझरीप्वहिमतावनुदिते भ्रमराः । अजपन्नुपांशु कृतझङ्करणा मदनापमृत्युहरमन्त्रमिव ॥ ७४ ॥ धृतमल्लिकाकुसुमहारलता घनसारचन्दनरसार्द्रकुचाः | वनिता दुकूलवसनाभरणास्तरुणानुपासत दिनापगमे ॥ ७५ ॥ कटकं प्रविष्टवति चण्डकरे कटकं तदव्यथत चोळपतेः । ववृधे तु पाण्ड्यनृपतेः समये महसां निधेरिव महः परुषम् ॥ ७६ ॥ अथ सुन्दरेशमभिवन्द्य नृपः कलयन् प्रसादबलमस्य बलम् । निरगाद्यथोपनतसैन्यवृतो नगरादरातिविजयाय तदा ॥ ७७ ॥ चिरसम्प्ररूढदृढमत्सरयोरजनिष्ट जन्यमथ तत्र तयोः । अपि विस्मयात्र हृदि यद् द्युसदामपि नारदस्य यदलम्मतये ॥ ७८ ॥<noinclude></noinclude> jy4jgttrutmi0fa74zldkp1s4rtce7o पृष्ठम्:शिवलीलार्णवः.djvu/१३३ 104 125357 341144 2022-07-23T07:15:48Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>सप्तदशः सर्गः । असिकुन्तशूलपरशुच्छुरिकापरिघाभिघातविगलढघिरम् । १२९ अविचारितस्वपरसैन्यमभूत् समरे भुजाभुजि कचाकाचे च प्रहरद्वयं चलति तद्वलयोः । तदवेक्षितुं गगनमध्यतलं रविरध्यरोहदतितुङ्गमिव || ८० ॥ मधुमासपुष्पितपलाशवनप्रतिमं तुरङ्गखुरधूलिवृतम् । तदुदन्यया परुषयाभिहतं बलयोर्द्वयं सममभूद् विरतम् ॥ ८१ ॥ परिपूरितां शिशिरकुम्भशतैर्विपुलां प्रपां वचन पाण्ड्यबले । अधिरुह्य मौलिसरिदम्बुभरैस्तृषितानतर्पयत भूतपतिः ।। ८२ ॥ करुणामृतेन मधुराधिपतेर्मधुरैश्च मौलितटिनीसलिलैः । परिपोषिताः सपदि पाण्ड्यभटाः पुनराहवाय मतिमादधिरे ॥ ८३ ॥ अथ सिंहनादमुखरा युगपन्नृपतेर्भटाः परिनिपत्य रणे । सह राजसिंहधरणीपतिना जगृहु: करे सपदि चोलनृपम् ॥ ८४ ॥ जयं समासाद्य निवर्त्तमानः प्रपां पुनः क्वाप्यनवेक्षमाणः । राजेन्द्र पाण्ड्यो मधुरेश्वरस्य लीलायितं तत् कलयाम्बभूव ॥ ८५ ॥ सख्यं प्रदाय मधुरेश्वरभक्तियोगात् सत्कृत्य चोलनृपतिं विससर्ज पाण्ड्यः । राजसिंहमपि दुर्मदमुन्मदिष्णुं भ्रातेति जातकरुणो बिभराम्बभूव ॥ ८६ ॥ अम्भोभिः केवलैरप्यवनिपतिचमूं तर्पयन् जातु तप्तां ख्यातिं धत्ते यदीशः कियदिव न यशो नित्यमन्नप्रदायाः । देव्या मीनेक्षणाया इति नगरजुषामद्भुतान् भक्तिवादान् शृण्वन् राजेन्द्रपाण्ड्यः सकलमपि महीचक्रमेकः शशास ॥ ८७ ॥ ततो राजेशपाण्ड्योऽभूद्रा जगम्भीर इत्यतः । पुरुहूतजिदप्यस्मादस्मादासीत्_कुलध्वजः ॥ ८८ ॥ सुन्दरेशप्रसादेन सुन्दरेशाङ्घ्रिशेखरः । ततो जज्ञे यतो जज्ञे तारेन्दुविमलं यशः ॥ ८९ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे सप्तदशः सर्गः । प्रथनं तदस्थिरजयापजयम् ॥ ७९ ॥<noinclude></noinclude> qdcj58jbvdn8qkb66utui0j50yxbref 341145 341144 2022-07-23T07:17:20Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>________________ सप्तदशः सर्गः । असिकुन्तशूलपरशुच्छुरिकापरिघाभिघातविगलदुधिरम् । अविचारितस्वपरसैन्यमभूत् प्रथनं तदस्थिरजयापजयम् ॥ ७९ ॥ समरे भुजाभुजि कचाकाच च प्रहरद्वयं चलति तद्बलयोः । तदवक्षितुं गगनमध्यतलं रविरध्यरोहदतितुङ्गमिव ॥ ८० ॥ मधुमासपुष्पितपलाशवनप्रतिमं तुरङ्गखुरधूलिवृतम् । तदुदन्यया परुषयाभिहतं बलयोर्द्वयं सममभूद् विरतम् ॥ ८१ ॥ परिपूरितां शिशिरकुम्भशतैर्विपुलां प्रपां कचन पाण्ड्यबले । अधिरुह्य मौलिसरिदम्बुभरैस्तृषितानतर्पयत भूतपतिः ॥ ८२ ॥ करुणामृतेन मधुराधिपतेर्मधुरैश्च मौलितटिनीसलिलैः । परिपोषिताः सपदि पाण्ड्यभटाः पुनराहवाय मतिमादधिरे ॥ ८३ ॥ अथ सिंहनादमुखरा युगपन्नृपतेर्भटाः परिनिपत्य रणे । सह राजसिंहधरणीपतिना जगृहुः करे सपदि चोलनृपम् ॥ ८४ ॥ जयं समासाद्य निवर्तमानः प्रपां पुनः क्वाप्यनवेक्षमाणः । राजेन्द्रपाण्ड्यो मधुरेश्वरस्य लीलायितं तत् कलयाम्बभूव ।। ८५ ॥ सख्यं प्रदाय मधुरेश्वरभक्तियोगात् सत्कृत्य चोलनृपतिं विससर्ज पाण्ड्यः । तं राजसिंहमपि दुर्मदमुन्मदिप्णुं भ्रातेति जातकरुणो बिभराम्बभूव ॥ ८६ ॥ अम्भोभिः केवलैरप्यवनिपतिचमू तर्पयन् जातु तप्तां ख्यातिं धत्ते यदीशः कियदिव न यशो नित्यमन्नप्रदायाः । देव्या मीनेक्षणाया इति नगरजुषामभृतान् भक्तिवादान् शृण्वन् राजेन्द्रपाण्ड्यः सकलमपि महीचक्रमेकः शशास ॥ ८७ ॥ ततो राजेशपाण्ड्योऽभूद्राजगम्भीर इत्यतः । पुरुहूतजिदप्यस्मादस्मादासीत् कुलध्वजः ॥ ८८॥ सुन्दरेशप्रसादेन सुन्दरेशाघिशेखरः । ततो जज्ञे यतो जज्ञे तारेन्दुविमलं यशः ॥ ८९ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे सप्तदशः सर्गः ।<noinclude></noinclude> cqqfuj8i6ga7uvdypa45hd3sztqsomr 341148 341145 2022-07-23T07:21:07Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>________________ सप्तदशः सर्गः । असिकुन्तशूलपरशुच्छुरिकापरिघाभिघातविगलद्रुधिरम् । अविचारितस्वपरसैन्यमभूत् प्रथनं तदस्थिरजयापजयम् ॥ ७९ ॥ समरे भुजाभुजि कचाकचि च प्रहरद्वयं चलति तद्बलयोः । तदवक्षितुं गगनमध्यतलं रविरध्यरोहदतितुङ्गमिव ॥ ८० ॥ मधुमासपुष्पितपलाशवनप्रतिमं तुरङ्गखुरधूलिवृतम् । तदुदन्यया परुषयाभिहतं बलयोर्द्वयं सममभूद् विरतम् ॥ ८१ ॥ परिपूरितां शिशिरकुम्भशतैर्विपुलां प्रपां कचन पाण्ड्यबले । अधिरुह्य मौलिसरिदम्बुभरैस्तृषितानतर्पयत भूतपतिः ॥ ८२ ॥ करुणामृतेन मधुराधिपतेर्मधुरैश्च मौलितटिनीसलिलैः । परिपोषिताः सपदि पाण्ड्यभटाः पुनराहवाय मतिमादधिरे ॥ ८३ ॥ अथ सिंहनादमुखरा युगपन्नृपतेर्भटाः परिनिपत्य रणे । सह राजसिंहधरणीपतिना जगृहुः करे सपदि चोलनृपम् ॥ ८४ ॥ जयं समासाद्य निवर्तमानः प्रपां पुनः क्वाप्यनवेक्षमाणः । राजेन्द्रपाण्ड्यो मधुरेश्वरस्य लीलायितं तत् कलयाम्बभूव ।। ८५ ॥ सख्यं प्रदाय मधुरेश्वरभक्तियोगात् सत्कृत्य चोलनृपतिं विससर्ज पाण्ड्यः । तं राजसिंहमपि दुर्मदमुन्मदिष्णुं भ्रातेति जातकरुणो बिभराम्बभूव ॥ ८६ ॥ अम्भोभिः केवलैरप्यवनिपतिचमूं तर्पयन् जातु तप्तां ख्यातिं धत्ते यदीशः कियदिव न यशो नित्यमन्नप्रदायाः । देव्या मीनेक्षणाया इति नगरजुषामद्भृतान् भक्तिवादान् शृण्वन् राजेन्द्रपाण्ड्यः सकलमपि महीचक्रमेकः शशास ॥ ८७ ॥ ततो राजेशपाण्ड्योऽभूद्राजगम्भीर इत्यतः । पुरुहूतजिदप्यस्मादस्मादासीत् कुलध्वजः ॥ ८८॥ सुन्दरेशप्रसादेन सुन्दरेशाघिशेखरः । ततो जज्ञे यतो जज्ञे तारेन्दुविमलं यशः ॥ ८९ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे सप्तदशः सर्गः ।<noinclude></noinclude> iu2cnp1h0gh0ollqh7otokjmi429qxz पृष्ठम्:शिवलीलार्णवः.djvu/१३४ 104 125358 341149 2022-07-23T07:21:29Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे अथाष्टादशः सर्गः । स हयान् सहस्रमयुतं भटोत्तमान् करिणः शतं दश महारथानपि । परिगृह्य सैन्यमुचितं व्ययं चरन्नवशिष्टमन्यदखिलं शिवे ददौ ॥ १ ॥ अथ धानि पुष्पवननाम्नि धूर्जटेरविदूरवर्त्तिनि कदम्बकाननात् । अजनिष्ट कापि किल हेमनायिकेत्यभिविश्रुता जगति रुद्रकन्यका ॥ २ ॥ शिवभक्तपूजनपरा शिवव्रता शिवबिम्बमेकमखिलोत्सवोचितम् । परिकल्प्य सिक्थकमयं प्रचक्रमे परिशुद्धताम्रकणसञ्चयाय सा ॥ ३ ॥ अथ नाचिरादनुपलब्धसाधना दधती तमेव सुदृढं मनोरथम् । मधुरेशमेव धृतसिद्धविग्रहं मदिरेक्षणालभत भाग्यतोऽतिथिम् ॥ ४ ॥ प्रणिपत्य तं परिचरन्त्यनेकधा रससिद्धिदर्शनपरेण तेन सा । अनुकम्पिता सकलमायसं गृहे भसितेन तम्य नयति स्म हेमताम् ॥ ५ ॥ कृतविस्मयाथ गिरिशे तिरोहिते परिकल्प्य तां प्रतिकृतिं हिरण्मयीम् । अवलम्ब्य गण्डतलमङ्गुलीमुखैः परिचुम्बति स्म गणिकातिसुन्दरम् ॥ ६ ॥ अधुनापि तन्नखपदं यदीक्ष्यते विमले कपोलफलके महेशितुः । श्रमवारिलेशवति तत्र सङ्गतं शकलं विधोरिव जटापरिच्युतम् ॥ ७ ॥ अपि यन्महाक्रतुभिराप्तदक्षिणैरपि वा त्रयीपरिचयैरहर्निशम् । अनवाप्यमस्ति पदमैन्दुशेखरं तदवाप सा तदनुकम्पिता ततः ॥ ८ ॥ गजवाजियोधरथयूथभीषणां परिगृह्य चोलनृपतौ पताकिनीम् । अभिगच्छति स्वयमनन्यसाधनः शिवमारराध शिवपादशेखरः ॥ ९ ॥ तमुवाच वागथ नभस्समुद्भवा न बिभीहि तम्य महती चमूरिति । अभिषेणय त्वमरिमल्पसैनिको विजयस्तवैव भवितेति पार्थिवम् ॥ १० ॥ १२६ अथ पाण्ड्यमल्पबलमभ्ययात् बली सरितं समुद्र इव चोलपार्थिवः । नृपतिश्च निश्चलमतिर्व्यवस्थितः कलयन् पुरः कनकशैलकार्मुकम् ॥ ११ ॥ अथ युद्धमुद्धतमवर्धत क्षणाद् दृढरूढगूढतरवैरयोस्तयोः । असिपातपाटितपतन्मतङ्गजस्रवदस्रसिन्धुहृतसैन्धवव्रजम् ॥ १२ ॥ १. देवदासी.<noinclude></noinclude> 49nxw593j8h3d9ylnr6gzo0mqjzj6wf 341153 341149 2022-07-23T07:24:31Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे अथाष्टादशः सर्गः । स हयान् सहस्रमयुतं भटोत्तमान् करिणः शतं दश महारथानपि । परिगृह्य सैन्यमुचितं व्ययं चरन्नवशिष्टमन्यदखिलं शिवे ददौ ॥ १ ॥ अथ धाम्नि पुष्पवननाम्नि धूर्जटेरविदूरवर्त्तिनि कदम्बकाननात् । अजनिष्ट कापि किल हेमनायिकेत्यभिविश्रुता जगति रुद्रकन्यका ॥ २ ॥ शिवभक्तपूजनपरा शिवव्रता शिवबिम्बमेकमखिलोत्सवोचितम् । परिकल्प्य सिक्थकमयं प्रचक्रमे परिशुद्धताम्रकणसञ्चयाय सा ॥ ३ ॥ अथ नाचिरादनुपलब्धसाधना दधती तमेव सुदृढं मनोरथम् । मधुरेशमेव धृतसिद्धविग्रहं मदिरेक्षणालभत भाग्यतोऽतिथिम् ॥ ४ ॥ प्रणिपत्य तं परिचरन्त्यनेकधा रससिद्धिदर्शनपरेण तेन सा । अनुकम्पिता सकलमायसं गृहे भसितेन तस्य नयति स्म हेमताम् ॥ ५ ॥ कृतविस्मयाथ गिरिशे तिरोहिते परिकल्प्य तां प्रतिकृतिं हिरण्मयीम् । अवलम्ब्य गण्डतलमङ्गुलीमुखैः परिचुम्बति स्म गणिकातिसुन्दरम् ॥ ६ ॥ अधुनापि तन्नखपदं यदीक्ष्यते विमले कपोलफलके महेशितुः । श्रमवारिलेशवति तत्र सङ्गतं शकलं विधोरिव जटापरिच्युतम् ॥ ७ ॥ अपि यन्महाक्रतुभिराप्तदक्षिणैरपि वा त्रयीपरिचयैरहर्निशम् । अनवाप्यमस्ति पदमैन्दुशेखरं तदवाप सा तदनुकम्पिता ततः ॥ ८ ॥ गजवाजियोधरथयूथभीषणां परिगृह्य चोलनृपतौ पताकिनीम् । अभिगच्छति स्वयमनन्यसाधनः शिवमारराध शिवपादशेखरः ॥ ९ ॥ तमुवाच वागथ नभस्समुद्भवा न बिभीहि तस्य महती चमूरिति । अभिषेणय त्वमरिमल्पसैनिको विजयस्तवैव भवितेति पार्थिवम् ॥ १० ॥ १२६ अथ पाण्ड्यमल्पबलमभ्ययात् बली सरितं समुद्र इव चोलपार्थिवः । नृपतिश्च निश्चलमतिर्व्यवस्थितः कलयन् पुरः कनकशैलकार्मुकम् ॥ ११ ॥ अथ युद्धमुद्धतमवर्धत क्षणाद् दृढरूढगूढतरवैरयोस्तयोः । असिपातपाटितपतन्मतङ्गजस्रवदस्रसिन्धुहृतसैन्धवव्रजम् ॥ १२ ॥ १. देवदासी.<noinclude></noinclude> 0r9dss36biopgrpfa6svj0jn4wr7m1s पृष्ठम्:शिवलीलार्णवः.djvu/१३५ 104 125359 341154 2022-07-23T07:24:50Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>अष्टादशः सर्गः । निशित्तेषु तत्र निपतत्सु सायकेष्वभितो भयादतिविदूरवर्त्तिनः । निहतान् हयद्विपभटान् निनीषवो मुहुराह्वयन् यमभटाः प्रसान्त्वनैः ॥ १३ ॥ १२७ वपुरानिलं न पिशिताशनक्षमं यदि पार्थिवं शरशतैर्विभेत्स्यते । इदमुत्तरेम कथमर्थकृच्छ्रमित्यवलन्त दूरमभितः पिशाचिकाः ॥ १४ ॥ प्रथमं हता युधि दिवं समुद्गताः पुनरर्धवर्त्मनि शरैर्निपातिताः । पुनरुद्गता द्विगुणभागभाजिनः कतिचिद् भटा दिवि कृताः सुधाशनैः ॥ १५ ॥ अगृहीतशक्तिकतया मिथः कथास्ववबद्रमौनकृतहस्तचेष्टिताः । अमरस्त्रियो रणहताश्च तद्भटाः पशुवत् सुखं निखिलमप्यभुञ्जत ॥ १६ ॥ धवलातपत्रवलयाश्चकाशिरे रदनाश्च मत्तकरिणां निपातिताः । यशसो दिगन्तमभिपूरयिष्यतः प्रथमोद्गता रणतलेऽङ्कुरा इव ॥ १७ ॥ तुरगैः समं तुरगसादिनो हता दिवमुद्ययुः समधिरुह्य तान् पुनः । अतिसाहसेन दिवमभ्युपेयुषामपि वाह्यवाहकदशा न शाम्यति ॥ १८ ॥ अवभिद्य बिम्बमहिमद्युतेर्दिवं प्रति गच्छतां युधि भटाश्वदन्तिनाम् । गणनाममर्त्त्यगगका वितेनिरे चरमाङ्गसीम्नि निभृता विवस्वतः ॥ १९ ॥ शरपञ्जरस्थगितभूनभोन्तरे समाराङ्गणे घनतमस्समावृते | अभिसारिकेव विजयेन्दिरा चरन्त्यवृणीत तं तमविशेषदर्शिनी ॥ २० ॥ बलयोर्द्वयोरपि मदोद्भटा भटा बहवस्तथा रणमुखे निपातिताः । सकलं यथाजनि पुरं शतक्रतोर्हतदार मन्दिर विमानभूषणम् ॥ २१ ॥ हतशिष्टमल्पमवलोकयन् बलं प्रचचाल पाण्ड्यनृपतिर्यदा पुरः । तरसावपत्य हयसादिरूपतः पुरतश्चचाल पुरशासनस्तदा ॥ २२ ॥ परुषं रुषा परिरटन् करेण च भ्रमयन् युधि त्रिशिखमुन्मिषाच्छखम् । प्रचलन् पदानि कतिचित् पुराहितः शिथिलीचकार निखिलं बलं द्विजांभू ॥ २३ ॥ अपविद्धकुन्तलमचिन्तिताटवीसलिला नलप्रदरगर्त्तकण्टकम् । अनवेक्षितस्वजनमानशे दिशो बधिरान्धमूकमिव तद् बलं द्विषाम् ॥ २४ ॥ सह धावतो निजजनान् परभ्रमादभिगम्य केचिदभयं ययाचिरे । अपरे क्षताः स्म इति मूच्छिताः स्वयं क्षतजोक्षितान् पथि समक्ष्यि धावतः ॥<noinclude></noinclude> l5tu6urzxcizcuo0eeq8btasznpk9mx 341156 341154 2022-07-23T07:28:54Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>अष्टादशः सर्गः । निशित्तेषु तत्र निपतत्सु सायकेष्वभितो भयादतिविदूरवर्त्तिनः । निहतान् हयद्विपभटान् निनीषवो मुहुराह्वयन् यमभटाः प्रसान्त्वनैः ॥ १३ ॥ १२७ वपुरानिलं न पिशिताशनक्षमं यदि पार्थिवं शरशतैर्विभेत्स्यते । इदमुत्तरेम कथमर्थकृच्छ्रमित्यवलन्त दूरमभितः पिशाचिकाः ॥ १४ ॥ प्रथमं हता युधि दिवं समुद्गताः पुनरर्धवर्त्मनि शरैर्निपातिताः । पुनरुद्गता द्विगुणभागभाजिनः कतिचिद् भटा दिवि कृताः सुधाशनैः ॥ १५ ॥ अगृहीतशक्तिकतया मिथः कथास्ववबद्धमौनकृतहस्तचेष्टिताः । अमरस्त्रियो रणहताश्च तद्भटाः पशुवत् सुखं निखिलमप्यभुञ्जत ॥ १६ ॥ धवलातपत्रवलयाश्चकाशिरे रदनाश्च मत्तकरिणां निपातिताः । यशसो दिगन्तमभिपूरयिष्यतः प्रथमोद्गता रणतलेऽङ्कुरा इव ॥ १७ ॥ तुरगैः समं तुरगसादिनो हता दिवमुद्ययुः समधिरुह्य तान् पुनः । अतिसाहसेन दिवमभ्युपेयुषामपि वाह्यवाहकदशा न शाम्यति ॥ १८ ॥ अवभिद्य बिम्बमहिमद्युतेर्दिवं प्रति गच्छतां युधि भटाश्वदन्तिनाम् । गणनाममर्त्त्यगणका वितेनिरे चरमाङ्गसीम्नि निभृता विवस्वतः ॥ १९ ॥ शरपञ्जरस्थगितभूनभोन्तरे समाराङ्गणे घनतमस्समावृते | अभिसारिकेव विजयेन्दिरा चरन्त्यवृणीत तं तमविशेषदर्शिनी ॥ २० ॥ बलयोर्द्वयोरपि मदोद्भटा भटा बहवस्तथा रणमुखे निपातिताः । सकलं यथाजनि पुरं शतक्रतोर्ह्रतदार मन्दिर विमानभूषणम् ॥ २१ ॥ हतशिष्टमल्पमवलोकयन् बलं प्रचचाल पाण्ड्यनृपतिर्यदा पुरः । तरसावपत्य हयसादिरूपतः पुरतश्चचाल पुरशासनस्तदा ॥ २२ ॥ परुषं रुषा परिरटन् करेण च भ्रमयन् युधि त्रिशिखमुन्मिषाच्छखम् । प्रचलन् पदानि कतिचित् पुराहितः शिथिलीचकार निखिलं बलं द्विजांभू ॥ २३ ॥ अपविद्धकुन्तलमचिन्तिताटवीसलिला नलप्रदरगर्त्तकण्टकम् । अनवेक्षितस्वजनमानशे दिशो बधिरान्धमूकमिव तद् बलं द्विषाम् ॥ २४ ॥ सह धावतो निजजनान् परभ्रमादभिगम्य केचिदभयं ययाचिरे । अपरे क्षताः स्म इति मूच्छिताः स्वयं क्षतजोक्षितान् पथि समीक्ष्य धावतः ॥<noinclude></noinclude> 7f213a2gfbn8r67jiwxc7mmbf1hso75 पृष्ठम्:शिवलीलार्णवः.djvu/१३६ 104 125360 341158 2022-07-23T07:29:13Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे अधियुद्धरङ्गमसवस्तृणीकृताः शिवपादशेखरवरूथिनीभटैः । इति किं प्रतीक्ष्य रुषिताखिलं तृणं पृतना चचर्व पथि चोलभूभृतः ॥ २६ ॥ अथ मुक्तकेशमपथेन विद्रवन् सरसि क्वचित् सतुरगः ससैनिकः । निममज्ज चोलनृपतिन्निमज्जयन्नखिलं कुलं स्वमयशःपयोनिधौ ॥ २७ ॥ १२८ अतुलानि हेममणिभूषणाम्बराण्युपहृत्य तस्य कटकान्महीपतिः । अखिलानि तान्युपददे महाशयो हरिणाङ्कचूडचरणारविन्दयोः ॥ २८ ॥ अथ भक्तसौम्य कश्चिदर्चयन्ननिशान्नदाननियमेन शङ्करम् । अनुवर्तयन् व्रतमृणार्णधारयाप्यवसीदति स्म विधनः स सर्वथा ॥ २९ ॥ व्रतभङ्गखेदविवशं तमग्रतः पतितं जिहासुमपि दुर्लभानसून् । प्रतिपाद्य तण्डुलनिधानमक्षयं परिरक्षति स्म मधुरेश्वरो हरः ॥ ३० ॥ अथ कश्चिदर्थपतिरित्याभख्यया विदितो विशामधिपतिः पुरे वसन् । असुतो धनानि भगिनीसुते दिशन् दशमी जगाम तपसे वनाश्रमम् ॥ ३१ ॥ अखिलं धनं तदपहर्तुमिच्छवो भगिनीसुते विनिहितं सनाभयः । पृथुकं यदा तमधिकं बबाधिरे शरणं ययौ स मधुरेश्वरं तदा ॥ ३२ ॥ अथ तस्य मातुलवपुः परो भवन्नभिजित्य तान् नृपसभे विरोधिनः । सहसा यदा पुरहरस्तिरोदधे सकलैस्तदा सदसिं विस्मितं जनैः ॥ ३३ ॥ तनयं ततो वरगुणं तपोबलाच्छिवभक्तमेत्य शिवपादशेखरः । अखिलं महविलयमर्पयन् सुते शफरेक्षणाचरणयोरलीयत |॥ ३४ ॥ स कदाचिदेत्य मृगयां परापतन् शयितं क्वचिद् हुमतले पथि द्विजम् । निहतं तुरङ्गखुरघट्टनैर्विदन् बिभयाम्बभूव जगृहे च हत्यया ॥ ३५ ॥ बसुधेश्वरो वरगुणोऽथ दुःखितः सकलं निनाय सचिवेषु भूभरम् । जपदानहोमविधिभिर्जगत्पतिं सततं यजन्नपि न शान्तिमाप सः ॥ ३६ ॥ अशृणोत् स वाचमशरीरिणीं ततः करुणालयस्य हरिणाङ्कधारिणः । मधुराकृतस्य हि महत्त्वमंहसः सुकृतस्य वा न पाथ वर्तते गिराम् ॥ ३७ ॥ मम लिङ्गमर्जुनवरोरधस्तले महदस्ति सद्यतनयातटे शुभे । तदुपासनेन तव तात ! दुष्कृतं सकलं प्रयाति विलयं क्षणादिति ॥ ३८ ॥<noinclude></noinclude> kuv7udvac65ctij86ja9pi86v3r00sv 341160 341158 2022-07-23T07:32:37Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे अधियुद्धरङ्गमसवस्तृणीकृताः शिवपादशेखरवरूथिनीभटैः । इति किं प्रतीक्ष्य रुषिताखिलं तृणं पृतना चचर्व पथि चोलभूभृतः ॥ २६ ॥ अथ मुक्तकेशमपथेन विद्रवन् सरसि क्वचित् सतुरगः ससैनिकः । निममज्ज चोलनृपतिर्न्निमज्जयन्नखिलं कुलं स्वमयशःपयोनिधौ ॥ २७ ॥ १२८ अतुलानि हेममणिभूषणाम्बराण्युपहृत्य तस्य कटकान्महीपतिः । अखिलानि तान्युपददे महाशयो हरिणाङ्कचूडचरणारविन्दयोः ॥ २८ ॥ अथ भक्तसौम्य कश्चिदर्चयन्ननिशान्नदाननियमेन शङ्करम् । अनुवर्तयन् व्रतमृणार्णधारयाप्यवसीदति स्म विधनः स सर्वथा ॥ २९ ॥ व्रतभङ्गखेदविवशं तमग्रतः पतितं जिहासुमपि दुर्लभानसून् । प्रतिपाद्य तण्डुलनिधानमक्षयं परिरक्षति स्म मधुरेश्वरो हरः ॥ ३० ॥ अथ कश्चिदर्थपतिरित्यभिख्यया विदितो विशामधिपतिः पुरे वसन् । असुतो धनानि भगिनीसुते दिशन् दशमी जगाम तपसे वनाश्रमम् ॥ ३१ ॥ अखिलं धनं तदपहर्तुमिच्छवो भगिनीसुते विनिहितं सनाभयः । पृथुकं यदा तमधिकं बबाधिरे शरणं ययौ स मधुरेश्वरं तदा ॥ ३२ ॥ अथ तस्य मातुलवपुः परो भवन्नभिजित्य तान् नृपसभे विरोधिनः । सहसा यदा पुरहरस्तिरोदधे सकलैस्तदा सदसिं विस्मितं जनैः ॥ ३३ ॥ तनयं ततो वरगुणं तपोबलाच्छिवभक्तमेत्य शिवपादशेखरः । अखिलं महविलयमर्पयन् सुते शफरेक्षणाचरणयोरलीयत |॥ ३४ ॥ स कदाचिदेत्य मृगयां परापतन् शयितं क्वचिद् द्रुमतले पथि द्विजम् । निहतं तुरङ्गखुरघट्टनैर्विदन् बिभयाम्बभूव जगृहे च हत्यया ॥ ३५ ॥ वसुधेश्वरो वरगुणोऽथ दुःखितः सकलं निनाय सचिवेषु भूभरम् । जपदानहोमविधिभिर्जगत्पतिं सततं यजन्नपि न शान्तिमाप सः ॥ ३६ ॥ अशृणोत् स वाचमशरीरिणीं ततः करुणालयस्य हरिणाङ्कधारिणः । मधुराकृतस्य हि महत्त्वमंहसः सुकृतस्य वा न पथि वर्तते गिराम् ॥ ३७ ॥ मम लिङ्गमर्जुनवरोरधस्तले महदस्ति सद्यतनयातटे शुभे । तदुपासनेन तव तात ! दुष्कृतं सकलं प्रयाति विलयं क्षणादिति ॥ ३८ ॥<noinclude></noinclude> tq1rv7a9f6gnui2en5gfaybjb7mtrdl पृष्ठम्:शिवलीलार्णवः.djvu/१३७ 104 125361 341163 2022-07-23T07:36:26Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>अष्टादशः सर्गः । स तथेति कार्यमवधार्य निस्सरन्नपदिश्य चोळनरपालविग्रहम् । शिवमर्जुनेशमभिवन्द्य तत्क्षणादभवन्निवृत्तकलुषो महीपतिः ॥ ३९ ॥ स पुनः समेत्य नगरीमकल्मषः फणिवक्रमुक्त इव पार्विको विधुः । प्रशशास वासव इव त्रिविष्टपं वसुधेश्वरो वरगुणः क्षमातलम् ॥ ४० ॥ अथ भद्र इत्यभिमतः क्षमापतेरतिविश्रुतश्च भुवि गायकाग्रणीः । उपवीणयन्ननिशमुत्पलप्रियं चिरमास्त कश्चन कदम्बकानने ॥ ४१ ॥ अथ तं विजेतुमपरस्तु गायकः प्रथयन् यशो बिरुदडिण्डिमस्वनैः । नृपतिं ददर्श स यदा तदा शिवः स्वयमेव भक्तमवितुं मनो दधे ॥ ४२ ॥ स निधाय मूर्ध्नि शशिखण्डमण्डने मुमहान्तमिन्धनभरं नराकृतिः । दिवसावसानसमयावधि भ्रमन् परितश्चचार मधुरापुरे हरः ॥ ४३ ॥ १२९ इदमिन्धनं धनमिवाहृतं चिरादतिशुष्क मव्रणमकण्टकं गुरु । क्षममस्य मूल्यमुपकल्प्य गृह्यतामिति घोषयन् परिचचार शङ्करः ॥ ४४ ॥ उपगायतोऽस्य पथि गानवैभवादुपजातपल्लवतयाति कोमलम् । अपि मस्तकस्थसरिदम्भसार्दितं न तदिन्धनं जगृहिरे पुरौकसः ॥ ४५ ॥ चरतोऽस्य तत्र नगरे ततस्ततश्चरणाब्जविन्यसनभावितं रजः । चतुराननप्रभृतिभिः समं सुरैः प्रणिपत्य सञ्जगृहिरे महर्षयः ॥ ४६ ॥ करयुग्मसङ्गमितभारमन्थरं घटितश्रमाम्बुकणमस्य वीथिषु । क्रयवादनादजितकोकिलारवं गतमागतं च न गतं ममाशयात् ॥ ४७ ॥ अथ काष्ठभारमवरोप्य दुर्भरं स बहिर्गृहादभिनवस्य गायतः । उपविश्य वीतभरणश्रमः शनैरुपगायति स्म मधुरं यदृच्छया ॥ ४८ ॥ अथ षाडवौडवविभेदि सर्वमप्यवलम्ब्य रागकुलमस्तसङ्करम् । स जगावनुल्लिखिततानधोरणीमधुरं ह्रिये हृदि भिये च गायताम् ॥ ४९ ॥ अथ विस्मयादभिनवस्य गायतो गुरुसम्प्रदायमभिगम्य पृच्छत : स जगाद भद्रसदने गतागतैरदसीयगीतिगुणरीतिमाहृतम् ॥ ५० ॥ तदुदीरितश्रवणलब्धसाध्वसे प्रपलायिते सपदि तत्र गायके । उप *गम्य भद्रमुचितैर्विभूषणैर्बहुमन्यते स्म नृपतिर्धनैरपि ॥ ११ ॥ १. षाडवः षट्स्वरो रागः । औडवस्तु पञ्चस्वरः. * 'चर्य' इति खपुस्तके पाठः.<noinclude></noinclude> 0uot3lgj42b458xg57fd4m9wdcf3mch पृष्ठम्:शिवलीलार्णवः.djvu/१३८ 104 125362 341164 2022-07-23T07:36:56Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे स ददौ समस्तमपि तन्महेश्वरे विततार यद् वरगुणोऽस्य पार्थिवः । अपि सञ्चितं वसु दिशन् शिवाश्रमिप्वधनो बभूव बहुधार्जयन्नपि ॥ १२ ॥ कविगायकाभिमतकल्पशाखिनः सविधे कदाचिदथ चेरभूपतेः । प्रवितीर्य पुत्रमपि भक्तमात्मनः प्रजिघाय भद्रमभृतांशुशेखरः ॥ ५३ ॥ स्वपने पुरैव स च तत्समागमं प्रतिबोधितः पुरहरेण पार्थिवः । अभिगम्य भद्रममितैर्विभूषणद्रावणाम्बरैः सपदि पर्यपूजयत् ॥ ५४ ॥ इति कन्दलत्यहरहर्दयारसे शफरेक्षणासहचरस्य गायके | भवति स्म भक्तिरपि तस्य तावती चरमं शरीरमधितष्ठुषस्तदा ॥ ५५ ॥ उषसि प्रगे तदनु सङ्गवे ततो दिनमध्यगे दिनमणौ निशामुखे । रजनीदले च नियमादसेवत प्रमथाधिनाथमुपवीणयन्नयम् ॥ ५६ ॥ समयेषु षट्सु नियमेन यज्जगौ स बहिर्वृषात् स्वयमनावृते वसन् । द्रढिमानमस्य नियमे परीक्षितुं जलदानचोदयत वृष्टये हरः ॥ ५७ ॥ स्तनितारवैर्बधिर तामगुर्दिशस्तटितां त्विषा तनुभृतां हृता दृशः । अपतन् क्षितावशनयः पदे पदे तिमिरं निरन्तरमरुद्ध रोदसी ॥ ५८ ॥ जगदास्त बद्धमिव जातसाध्वसं समये यदा स तु तदैव गायकः । अवगाह्य हेमकमलाकरे शनैरभिगम्य सन्निधिमगायदैश्वरम् ॥ ५९ ॥ अथ मेघरञ्जिमहिरञ्जिमुख्यतन्मृदुगानसंवलितरागवैभवात् । द्रवतां प्रपन्नमिव भूनभोन्तरं ददृशे तदा जलधरैर्निशात्यये ॥ ६० ॥ करकोपलैर्विघटिता विपञ्चिका करजा न तस्य वशवर्त्तिनोऽभवन् । अपि कम्पमानवपुरप्रकम्पिनीमवलम्व्य भक्तिमयमुज्जगौ पुनः ॥ ६१ ॥ घनकर्दमद्भवनिमग्नमग्रतश्चरणद्वयं चलयितुं च नाशकत् । स यदा तदास्य विपुलं समुन्नतं स्वयमुद्रभूव मणिचित्रमासनम् ॥ ६२ ॥ स निविश्य तत्र शिवसक्तया दृशा निरवर्त्तयन्नियममत्वरो यदा । विरतं घनैर्विमलमम्बरं बभौ विललास दिक्षु च तदैव कौसुदी ॥ ६३ ॥ फलकं तदद्भुतमवेक्ष्य पार्थिवः प्रणिपत्य भद्रमसकृत् प्रशस्य च । शिवलिङ्गतोऽपि शिवयोगिषु स्थिरां शिवभावनामकृत तत्प्रभृत्ययम् ॥ ६४ ॥<noinclude></noinclude> rvwpjz7eovpmytzcl9chula01zswokw 341167 341164 2022-07-23T07:41:41Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे स ददौ समस्तमपि तन्महेश्वरे विततार यद् वरगुणोऽस्य पार्थिवः । अपि सञ्चितं वसु दिशन् शिवाश्रमिप्वधनो बभूव बहुधार्जयन्नपि ॥ १२ ॥ कविगायकाभिमतकल्पशाखिनः सविधे कदाचिदथ चेरभूपतेः । प्रवितीर्य पुत्रमपि भक्तमात्मनः प्रजिघाय भद्रमभृतांशुशेखरः ॥ ५३ ॥ स्वपने पुरैव स च तत्समागमं प्रतिबोधितः पुरहरेण पार्थिवः । अभिगम्य भद्रममितैर्विभूषणद्रावणाम्बरैः सपदि पर्यपूजयत् ॥ ५४ ॥ इति कन्दलत्यहरहर्दयारसे शफरेक्षणासहचरस्य गायके | भवति स्म भक्तिरपि तस्य तावती चरमं शरीरमधितष्ठुषस्तदा ॥ ५५ ॥ उषसि प्रगे तदनु सङ्गवे ततो दिनमध्यगे दिनमणौ निशामुखे । रजनीदले च नियमादसेवत प्रमथाधिनाथमुपवीणयन्नयम् ॥ ५६ ॥ समयेषु षट्सु नियमेन यज्जगौ स बहिर्वृषात् स्वयमनावृते वसन् । द्रढिमानमस्य नियमे परीक्षितुं जलदानचोदयत वृष्टये हरः ॥ ५७ ॥ स्तनितारवैर्बधिर तामगुर्दिशस्तटितां त्विषा तनुभृतां हृता दृशः । अपतन् क्षितावशनयः पदे पदे तिमिरं निरन्तरमरुद्ध रोदसी ॥ ५८ ॥ जगदास्त बद्धमिव जातसाध्वसं समये यदा स तु तदैव गायकः । अवगाह्य हेमकमलाकरे शनैरभिगम्य सन्निधिमगायदैश्वरम् ॥ ५९ ॥ अथ मेघरञ्जिमहिरञ्जिमुख्यतन्मृदुगानसंवलितरागवैभवात् । द्रवतां प्रपन्नमिव भूनभोन्तरं ददृशे तदा जलधरैर्निशात्यये ॥ ६० ॥ करकोपलैर्विघटिता विपञ्चिका करजा न तस्य वशवर्त्तिनोऽभवन् । अपि कम्पमानवपुरप्रकम्पिनीमवलम्व्य भक्तिमयमुज्जगौ पुनः ॥ ६१ ॥ घनकर्दमद्भवनिमग्नमग्रतश्चरणद्वयं चलयितुं च नाशकत् । स यदा तदास्य विपुलं समुन्नतं स्वयमुद्रभूव मणिचित्रमासनम् ॥ ६२ ॥ स निविश्य तत्र शिवसक्तया दृशा निरवर्त्तयन्नियममत्वरो यदा । विरतं घनैर्विमलमम्बरं बभौ विललास दिक्षु च तदैव कौसुदी ॥ ६३ ॥ फलकं तदद्भुतमवेक्ष्य पार्थिवः प्रणिपत्य भद्रमसकृत् प्रशस्य च । शिवलिङ्गतोऽपि शिवयोगिषु स्थिरां शिवभावनामकृत तत्प्रभृत्ययम् ॥ ६४ ॥<noinclude></noinclude> e4yi5q2buub35d9k06r62l7ntj670dx पृष्ठम्:शिवलीलार्णवः.djvu/१३९ 104 125363 341168 2022-07-23T07:42:03Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>अष्टादशः सर्गः अथ राजराज इति दिक्षु विश्रुतं तनयं बहुश्रुतमसावविन्दत । तप्नसा प्रसाद्य तरुणेन्दुशेखरं मलयध्वजान्वयमहानिधिं नृपः ॥ ६५॥ अवरोप्य भारमखिलं भुवः सुते लघुरुत्पतन् वरगुणः शिवान्तिकम् । अवनीभृतः पुनरैधात् फणाधरानियमस्य भूभरणवासनेहशी ॥ ६६ ।। उदितोदितं विविधया सपर्यया भजतां स्वमेव भुवि पाण्ड्यभूभुजाम् । अपवर्गमेकविधमर्पयन्नयं मधुरेश्वरोऽपि महतीं ह्रियं दधे ॥ ६७ ॥ १३१ अथ राजराज लब्धमाख्यया पुरभित्सखत्वमतिशय्य वर्त्तितुम् । पितरौ गुरुं सुहृदमात्मनः प्रभुं कुलदैवतं च कुरुते स्म तं नृपः ॥ ६८ ॥ निममज्ज तस्य हृदयं निसर्गतः शफरेक्षणासहचराङ्घ्रिपद्मयोः । कुलशेखरान्वयभुवां शिवव्रते कुत एष कारणगवेषणश्रमः ॥ ३९ ॥ अथ भद्रनामनि चिराय गायके शिवलोकमेयुषि तदीयगेहिनी । चतुरा ततोऽपि किल गानविद्यया शिवमारराध समयेषु षट्स्वपि ॥ ७० ॥ अवरोधगहमधिजग्मुषी विभोरवनीपतेर्दयितया कयाचन । कलहायते स्म निजगानविद्यया दृढया महेशदयया च जातु सा ॥ ७१ ॥ तदुपक्रमं धरणिवल्लभोऽपि तामवमन्तुमाहितकुतूहलश्चिरात् । स्वयमानिनाय जलराशिमध्यतः सुदृशं स काञ्चिदथ गानकोविदाम् ॥ ७२ || जगतुस्ततः सदसि ते महीपतेरधिकेत्यगृह्यत तु तत्र नूतना । मनसाधिगम्य मधुरेश्वरं शुचा भणति स्म भद्रगृहिणी पुनर्नृपम् ॥ ७३ ॥ सदसि स्थिता मयि चिरादमर्षिणो यदि किञ्चिदाहुरिह किं ततः क्षतम् । अभिगम्य सन्निधिमनङ्गशासितुः कथयन्त्वमी तरतमत्वमावयोः ॥ ७४ ॥ विजयेत या भवतु सात्र भट्टिनी विजिता तु मा भवतु सात्र किङ्करा । इति सा यदाह तदनिच्छतोऽप्य भूदभिनन्दनीयमवनीभुजस्तदा ॥ ७५ ॥ अथ ते समेत्य सविधं महेशितुः सह पार्थिवेन सदसि स्थितैरपि । जगतुर्गिरा मधुरयादितस्ततः परिवादिनीमुरलिकाविपञ्चिभि. ॥ ७६ ।। अधिका तु यद्यपि नवैव तत्त्वतस्तदपि प्रपन्नजनपक्षपातिनः । मधुरेश्वरस्य किल मायया वृता बहुधा समस्तुवत भद्रगेहिनीम् ॥ ७७ ॥ १. शिवसायुज्यप्राप्त्या शेषादिनागभूषणोऽभवदिति तात्पर्यम्.<noinclude></noinclude> oe53c0lmkbn3ehoxkmfvrospylojgoa 341171 341168 2022-07-23T07:46:46Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>अष्टादशः सर्गः अथ राजराज इति दिक्षु विश्रुतं तनयं बहुश्रुतमसावविन्दत । तप्नसा प्रसाद्य तरुणेन्दुशेखरं मलयध्वजान्वयमहानिधिं नृपः ॥ ६५॥ अवरोप्य भारमखिलं भुवः सुते लघुरुत्पतन् वरगुणः शिवान्तिकम् । अवनीभृतः पुनरधात् फणाधरानियमस्य भूभरणवासनेदृशी ॥ ६६ ।। उदितोदितं विविधया सपर्यया भजतां स्वमेव भुवि पाण्ड्यभूभुजाम् । अपवर्गमेकविधमर्पयन्नयं मधुरेश्वरोऽपि महतीं ह्रियं दधे ॥ ६७ ॥ १३१ अथ राजराज लब्धमाख्यया पुरभित्सखत्वमतिशय्य वर्त्तितुम् । पितरौ गुरुं सुहृदमात्मनः प्रभुं कुलदैवतं च कुरुते स्म तं नृपः ॥ ६८ ॥ निममज्ज तस्य हृदयं निसर्गतः शफरेक्षणासहचराङ्घ्रिपद्मयोः । कुलशेखरान्वयभुवां शिवव्रते कुत एष कारणगवेषणश्रमः ॥ ३९ ॥ अथ भद्रनामनि चिराय गायके शिवलोकमेयुषि तदीयगेहिनी । चतुरा ततोऽपि किल गानविद्यया शिवमारराध समयेषु षट्स्वपि ॥ ७० ॥ अवरोधगहमधिजग्मुषी विभोरवनीपतेर्दयितया कयाचन । कलहायते स्म निजगानविद्यया दृढया महेशदयया च जातु सा ॥ ७१ ॥ तदुपक्रमं धरणिवल्लभोऽपि तामवमन्तुमाहितकुतूहलश्चिरात् । स्वयमानिनाय जलराशिमध्यतः सुदृशं स काञ्चिदथ गानकोविदाम् ॥ ७२ || जगतुस्ततः सदसि ते महीपतेरधिकेत्यगृह्यत तु तत्र नूतना । मनसाधिगम्य मधुरेश्वरं शुचा भणति स्म भद्रगृहिणी पुनर्नृपम् ॥ ७३ ॥ सदसि स्थिता मयि चिरादमर्षिणो यदि किञ्चिदाहुरिह किं ततः क्षतम् । अभिगम्य सन्निधिमनङ्गशासितुः कथयन्त्वमी तरतमत्वमावयोः ॥ ७४ ॥ विजयेत या भवतु सात्र भट्टिनी विजिता तु मा भवतु सात्र किङ्करा । इति सा यदाह तदनिच्छतोऽप्य भूदभिनन्दनीयमवनीभुजस्तदा ॥ ७५ ॥ अथ ते समेत्य सविधं महेशितुः सह पार्थिवेन सदसि स्थितैरपि । जगतुर्गिरा मधुरयादितस्ततः परिवादिनीमुरलिकाविपञ्चिभि. ॥ ७६ ।। अधिका तु यद्यपि नवैव तत्त्वतस्तदपि प्रपन्नजनपक्षपातिनः । मधुरेश्वरस्य किल मायया वृता बहुधा समस्तुवत भद्रगेहिनीम् ॥ ७७ ॥ १. शिवसायुज्यप्राप्त्या शेषादिनागभूषणोऽभवदिति तात्पर्यम्.<noinclude></noinclude> lbjjim3t5wi77bbauf072dag33urpat 341172 341171 2022-07-23T07:47:00Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>अष्टादशः सर्गः अथ राजराज इति दिक्षु विश्रुतं तनयं बहुश्रुतमसावविन्दत । तप्नसा प्रसाद्य तरुणेन्दुशेखरं मलयध्वजान्वयमहानिधिं नृपः ॥ ६५॥ अवरोप्य भारमखिलं भुवः सुते लघुरुत्पतन् वरगुणः शिवान्तिकम् । अवनीभृतः पुनरधात् फणाधरानियमस्य भूभरणवासनेदृशी ॥ ६६ ।। उदितोदितं विविधया सपर्यया भजतां स्वमेव भुवि पाण्ड्यभूभुजाम् । अपवर्गमेकविधमर्पयन्नयं मधुरेश्वरोऽपि महतीं ह्रियं दधे ॥ ६७ ॥ १३१ अथ राजराज लब्धमाख्यया पुरभित्सखत्वमतिशय्य वर्त्तितुम् । पितरौ गुरुं सुहृदमात्मनः प्रभुं कुलदैवतं च कुरुते स्म तं नृपः ॥ ६८ ॥ निममज्ज तस्य हृदयं निसर्गतः शफरेक्षणासहचराङ्घ्रिपद्मयोः । कुलशेखरान्वयभुवां शिवव्रते कुत एष कारणगवेषणश्रमः ॥ ३९ ॥ अथ भद्रनामनि चिराय गायके शिवलोकमेयुषि तदीयगेहिनी । चतुरा ततोऽपि किल गानविद्यया शिवमारराध समयेषु षट्स्वपि ॥ ७० ॥ अवरोधगहमधिजग्मुषी विभोरवनीपतेर्दयितया कयाचन । कलहायते स्म निजगानविद्यया दृढया महेशदयया च जातु सा ॥ ७१ ॥ तदुपक्रमं धरणिवल्लभोऽपि तामवमन्तुमाहितकुतूहलश्चिरात् । स्वयमानिनाय जलराशिमध्यतः सुदृशं स काञ्चिदथ गानकोविदाम् ॥ ७२ || जगतुस्ततः सदसि ते महीपतेरधिकेत्यगृह्यत तु तत्र नूतना । मनसाधिगम्य मधुरेश्वरं शुचा भणति स्म भद्रगृहिणी पुनर्नृपम् ॥ ७३ ॥ सदसि स्थिता मयि चिरादमर्षिणो यदि किञ्चिदाहुरिह किं ततः क्षतम् । अभिगम्य सन्निधिमनङ्गशासितुः कथयन्त्वमी तरतमत्वमावयोः ॥ ७४ ॥ विजयेत या भवतु सात्र भट्टिनी विजिता तु मा भवतु सात्र किङ्करा । इति सा यदाह तदनिच्छतोऽप्य भूदभिनन्दनीयमवनीभुजस्तदा ॥ ७५ ॥ अथ ते समेत्य सविधं महेशितुः सह पार्थिवेन सदसि स्थितैरपि । जगतुर्गिरा मधुरयादितस्ततः परिवादिनीमुरलिकाविपञ्चिभि. ॥ ७६ ।। अधिका तु यद्यपि नवैव तत्त्वतस्तदपि प्रपन्नजनपक्षपातिनः । मधुरेश्वरस्य किल मायया वृता बहुधा समस्तुवत भद्रगेहिनीम् ॥ ७७ ॥ १. शिवसायुज्यप्राप्त्या शेषादिनागभूषणोऽभवदिति तात्पर्यम्.<noinclude></noinclude> 3b62wsi8b374wcxfnluprpb4t8mqb0v पृष्ठम्:शिवलीलार्णवः.djvu/१४० 104 125364 341173 2022-07-23T07:47:19Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे जयभनयोर्विदितयोर्विपर्ययादपि तत्र नीपवनभर्त्तुराज्ञया । विजिता नवैव विजितं तु भद्रयेत्यगदीदभीक्ष्णमवशो महीपतिः ॥ ७८ ॥ अवलम्ब्य दास्यमथ सिंहलागता सदसि स्वयं परिचचार भद्रिकाम् । स च पार्थिवः कनकभूपणाम्बरैर्विविधैरपूजयत विस्मयेन ताम् ॥ ७९ ॥ इति राजराजधरणीपतेः क्षितिं परिरक्षतः प्रणिहितेन चेतसा । विनयो विवेकत इवातिविश्रुतस्तनयोऽभवत् सुगुण इत्यभिख्यया ॥ ८० ॥ तारुण्य एव विनयावनतं कुमारं तं राजराजनृपतिः सकलागमज्ञम् । पश्यन्नखण्डितपराक्रममभ्यषिञ्चत् सम्प्रार्थितः प्रकृतिभिः किल यौवराज्ये ॥ ८१ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवेऽष्टादशः सर्गः । १३२ अथैकोनविंशः सर्गः । तनूभवे वहति ततो वसुन्धरां चिरादसौ नृपतिरुपेत्य विश्रमम् । वनेचरैः सह मृगयाकुतूहली वनंवन व्यचरदधिज्यकार्मुकः ॥ १ ॥ परिभ्रमच्छ्रगणविकृष्टशृङ्खलावलीघनध्वनिजनितप्रबोधनाः । ततस्ततस्तरुतलकुञ्जपुञ्जतो विनिर्ययुर्विवृतमुखा मृगादनाः ॥ २ ॥ पुनः पुनः परिपततः शुन: क्रुधा जिघृक्षवः खरन खरा स्तरक्षवः | प्रचक्रमुः किमपि यदा तदा शरैर्निरन्तरानकृततरामिमान् नृपः स्तनग्रहग्रहिलतया निरुन्धतस्तनन्धयान् सपदि विलङ्घय सम्प्लुता । मृगी मृगं क्षितिपतिपाणिगोचरादपालयत् स्वयमभिपेतुषी पुरः ॥ ४ ॥ स्वसायकादपि चललक्ष्यपातिनः स्वयं पुरः परिचलता महीभृता । अरुध्यत प्रथममविध्यत त्वथ त्वरोच्चलत्तुरगखुरक्षता मृगी ॥ ५ ॥ सटासु तच्छबरभटावलम्बितः प्रकम्पितुं किमपि न चक्षमे स्वतः । अवैक्षत भ्रुकुटिविटङ्कभीमया दृशा पुनस्तदपि मृगान् मृगाधिपः ॥ ६ ॥<noinclude></noinclude> kcn3lsubuxri0rycqb75kgl3nh2lcu2 341174 341173 2022-07-23T07:50:11Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे जयभनयोर्विदितयोर्विपर्ययादपि तत्र नीपवनभर्त्तुराज्ञया । विजिता नवैव विजितं तु भद्रयेत्यगदीदभीक्ष्णमवशो महीपतिः ॥ ७८ ॥ अवलम्ब्य दास्यमथ सिंहलागता सदसि स्वयं परिचचार भद्रिकाम् । स च पार्थिवः कनकभूषणाम्बरैर्विविधैरपूजयत विस्मयेन ताम् ॥ ७९ ॥ इति राजराजधरणीपतेः क्षितिं परिरक्षतः प्रणिहितेन चेतसा । विनयो विवेकत इवातिविश्रुतस्तनयोऽभवत् सुगुण इत्यभिख्यया ॥ ८० ॥ तारुण्य एव विनयावनतं कुमारं तं राजराजनृपतिः सकलागमज्ञम् । पश्यन्नखण्डितपराक्रममभ्यषिञ्चत् सम्प्रार्थितः प्रकृतिभिः किल यौवराज्ये ॥ ८१ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवेऽष्टादशः सर्गः । १३२ अथैकोनविंशः सर्गः । तनूभवे वहति ततो वसुन्धरां चिरादसौ नृपतिरुपेत्य विश्रमम् । वनेचरैः सह मृगयाकुतूहली वनंवन व्यचरदधिज्यकार्मुकः ॥ १ ॥ परिभ्रमच्छ्रगणविकृष्टशृङ्खलावलीघनध्वनिजनितप्रबोधनाः । ततस्ततस्तरुतलकुञ्जपुञ्जतो विनिर्ययुर्विवृतमुखा मृगादनाः ॥ २ ॥ पुनः पुनः परिपततः शुन: क्रुधा जिघृक्षवः खरनखरास्तरक्षवः | प्रचक्रमुः किमपि यदा तदा शरैर्निरन्तरानकृततरामिमान् नृपः स्तनग्रहग्रहिलतया निरुन्धतस्तनन्धयान् सपदि विलङ्घय सम्प्लुता । मृगी मृगं क्षितिपतिपाणिगोचरादपालयत् स्वयमभिपेतुषी पुरः ॥ ४ ॥ स्वसायकादपि चललक्ष्यपातिनः स्वयं पुरः परिचलता महीभृता । अरुध्यत प्रथममविध्यत त्वथ त्वरोच्चलत्तुरगखुरक्षता मृगी ॥ ५ ॥ सटासु तच्छबरभटावलम्बितः प्रकम्पितुं किमपि न चक्षमे स्वतः । अवैक्षत भ्रुकुटिविटङ्कभीमया दृशा पुनस्तदपि मृगान् मृगाधिपः ॥ ६ ॥<noinclude></noinclude> 5o45ytk6yi8tixcuz0klyj137g8i9if पृष्ठम्:शिवलीलार्णवः.djvu/१४१ 104 125365 341175 2022-07-23T07:52:48Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>एकोनविंशः सर्गः । वृथा मयन् विपिनचरान् शराहतान् विषादमावहत यमन्तरन्तकः । स· तस्य तं महिषगणान् निपातयन्नपाहरद् वनभुवि वाहनार्पणात् ॥ ७ ॥ गणंगणं चमरवराहगण्डकान् वृकानपि क्षपयति तत्र पार्थिवे । किटिर्झटित्युपनिपपात कश्चन क्रुधा ज्वलन्नचलगुहागृहात् ततः ॥ ८ ॥ स दंष्ट्रया कुलिशनिशातधारया परिक्षिपन् शबरभटानितस्ततः गणं शुनामविगणयन् पदेपदे धरापतेस्तुरगसमीपमापतत् ॥ ९ ॥ अवस्थितं धुरि तमवेक्ष्य पार्थिवः स सन्दधे धनुषि न यावदाशुगम् । स तावदुच्चलित विषाणकोणतो व्यदारयच्चरणतले तुरङ्गमम् ॥ १० ॥ अवप्लुतः सपदि तुरङ्गमात् ततः पतिः क्षिते रथमधिरुह्य तं पुरः अवाकिरज्ज्वलितमुखैः शिलीमुखैर्धराधरं जलद इवाम्बुवृष्टिभिः ॥ ११ ॥ स तद्धनुर्बलयविनिस्सृतैः शरैः समाचितः शललगणैरिवाभितः । अचूर्णयन्मुखमसकृद् विधूर्णयन् ससारथिं सतुरगमम्य तं रथम् ॥ १२ ॥ ततः प्लुतः सपदि रथान्महारथस्तमुद्धतं गिरिमिव जङ्गमं किटिम् । अनुद्रुतं प्रियतमया नृपो रयादपातयत् स भुवि कृपाणपाटितम् ॥ १३ ॥ ततः प्रभृत्यजनि वराहशैल इत्यभिख्यया धरणिधरः स विश्रुतः । उपत्यकामुपरुरुधे स यस्य तां पतन् किटिः पृथुरिव पादपर्वतः ॥ १४ ॥ गते पुरं धरणिपतौ सविस्मये क्षुधार्दिताम्तद्नु वराहपोतकाः । प्रसूस्तनप्रणयकृतातिकूजिता दशापतन् द्विसमधिकाम्तदावशाः ॥ १५ ॥ तपस्विनामवनक्कृते तपम्यतां गिरेस्तटे कृतरतिरत्र शङ्करः । . कृपालयः किटिपृथुकानपालयत् स तत्प्रसूतनुरमितैः स्तनामृतैः ॥ १६ ॥ पुरा युगे वृषलकुमारका हि ते तदाश्रिताः शमधनशापतो वपुः । समुद्घृताः पुरमथनस्तनामृतैः क्षणाद् दधुः किटिवदना मनुष्यताम् ॥ १७ ॥ कलासु ते दधुरखिलासु कौशलं विशिष्य च क्षितिपतित दुषीम् । न सूकरः शिवचरणे कृताशयः स सूकरः पुरभिदि यः पराङ्मुखः ॥ १८ ॥ बराहताभरणविलासवासनावशादिव श्रुतेशतमोलिलालितम् । विमार्गितुं चरणयुगं पुराद्वषः कुतूहलं सततममी वितेनिरे ॥ १९ ॥ १. विषाणं वराहदन्तः.<noinclude></noinclude> lbtfzsg2jdtk0izruk8s7uslx6cqo4v