विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.21
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
ऋग्वेदः सूक्तं १०.१७
0
307
341286
327729
2022-07-25T03:55:15Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = देवश्रवा यामायनः
| translator =
| section = सूक्तं १०.१७
| previous = [[ऋग्वेद: सूक्तं १०.१६|सूक्तं १०.१६]]
| next = [[ऋग्वेद: सूक्तं १०.१८|सूक्तं १०.१८]]
| notes = दे. १-२ सरण्यूः, ३-६ पूषा, ७-९ सरस्वती, १०-१४ आपः, ११-१३ सोमो वा। त्रिष्टुप्, १३-१४ अनुष्टुप्, १३ पुरस्ताद्बृहती वा।
}}
<poem><span style="font-size: 14pt; line-height:200%">त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति ।
यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥१॥
अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते ।
उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥२॥
पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः ।
स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥३॥
आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु ॥४॥
पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत् ।
स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥५॥
प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥६॥
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥७॥
सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती ।
आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥८॥
सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥९॥
आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥१०॥
द्रप्सश्चस्कन्द प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥११॥
यस्ते द्रप्स स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् ।
अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥१२॥
यस्ते द्रप्स स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा ।
अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥१३॥
पयस्वतीरोषधयः पयस्वन्मामकं वचः ।
अपां पयस्वदित्पयस्तेन मा सह शुन्धत ॥१४॥
</span></poem>
{{सायणभाष्यम्|
द्वितीयेऽनुवाके त्रयोदशसूक्तानि । तत्र त्वष्टा दुहित्रे इत्येतच्चतुर्दशर्चं प्रथमं सूक्तम् । यमपुत्रो देवश्रवा नामर्षिः । आदितो द्वादश त्रिष्टुभः त्रयोदशीचतुर्दश्यावनुष्टुभौ । यद्वा। त्रयोदशी पुरस्ताद्बृहती। आदितो द्वयोः सरण्यूर्देवता। पूषा त्वेतः' इत्याद्याश्चतस्रः पूषदेवत्याः । ‘सरस्वतीं देवयन्तः' इत्याद्यास्तिस्रः सरस्वतीदेवताकाः । आपो अस्मान् इत्याद्याः पञ्चर्चोऽब्देवताकाः । तत्र ‘द्रप्सश्चस्कन्द इत्याद्यास्तिस्रः सोमदेवत्या वा । तथा चानुक्रान्तं -- त्वष्टा देवश्रवा द्वे सरण्यूदेवते पौष्ण्यश्चतस्रः सारस्वत्यस्तिस्रः पञ्चाप्यो द्रप्सस्तिस्रः सौम्यो वान्त्ये अनुष्टुभावुपान्त्या पुरस्ताद्बृहती वा' इति । गतः सूक्तविनियोगः ॥ अत्रेतिहासमाचक्षते - त्वष्टृनामकस्य देवस्य 'सरण्यूस्त्रिशिराश्चेति स्त्रीपुंसात्मकमपत्यद्वयमभूत् । ततस्त्वष्टा सरण्यूनामिकां पुत्रीं विवस्वते प्रायच्छत् । ततस्तस्या विवस्वतश्च सकाशात् यमयम्यौ विजज्ञाते । ततः कदाचित् आत्मसदृश्या देवजनितायाः स्त्रियः समीपे तदपत्यद्वयं निधाय स्वयमाश्वं रूपं कृत्वोत्तरान् कुरून प्रतिजगामः। अथ विवस्वानेतां स्त्रियं सरण्यूमिति मत्वा तामरंसीत्। तस्यां मनुर्नाम राजर्षिरजायत । ततो विवस्वानेषा सरण्यूर्न भवतीति विज्ञाय स्वयमप्यश्वो भूत्वा तामश्वरूपिणीं प्रत्यासीत् । ततः संक्रीडमानयोस्तयोः स्वभूतं रेत पृथिव्यां पपात । अथ सा गर्भकामनया तत् पतितं रेत आजघ्रौ । ततस्तस्याः सकाशान्नासत्यो दस्रश्चेत्युभावश्विनावजायेतामिति ॥
त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति ।
य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥१
त्वष्टा॑ । दु॒हि॒त्रे । व॒ह॒तुम् । कृ॒णो॒ति॒ । इति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । सम् । ए॒ति॒ ।
य॒मस्य॑ । मा॒ता । प॒रि॒ऽउ॒ह्यमा॑ना । म॒हः । जा॒या । विव॑स्वतः । न॒ना॒श॒ ॥१
त्वष्टा । दुहित्रे । वहतुम् । कृणोति । इति । इदम् । विश्वम् । भुवनम् । सम् । एति ।
यमस्य । माता । परिऽउह्यमाना । महः । जाया । विवस्वतः । ननाश ॥१
“त्वष्टा एतन्नामको देवः “दुहित्रे । षष्ठयर्थे चतुर्थी। दुहितुः सरण्यूनामिकायाः "वहतुं वहनं विवाहम् । एधिवह्योश्चतुः' (उ.सू. १.७९) इति वहेश्चतुप्रत्ययः । तं “कृणोति करोति । “इति एतेन हेतुना “इदं विश्वं सर्वं “भुवनं भूतजातं “समेति तं विवाहं समागमत् । “पर्युह्यमाना विवस्वतोद्वोढव्या “यमस्य यम्याश्च “माता “महः महतः “विवस्वतः जाया भार्या सरण्यूः "ननाश । उत्तरान् कुरून् प्रति नष्टा । अगच्छदित्यर्थः ॥
अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते ।
उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥२
अप॑ । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्यः । कृ॒त्वी । सऽव॑र्णाम् । अ॒द॒दुः॒ । विव॑स्वते ।
उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊं॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यूः ॥२
अप । अगूहन् । अमृताम् । मर्त्येभ्यः । कृत्वी । सऽवर्णाम् । अददुः । विवस्वते ।
उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊं इति । द्वा । मिथुना । सरण्यूः ॥२
“अमृतां मरणधर्मरहितामेतां सरण्यूं “मर्त्येभ्यः मनुष्येभ्यस्तदुत्पत्यर्थम् “अपागूहन् अपगूहितवन्तः संवृतवन्तः । देवा उपनीतवन्त इत्यर्थः । किंच “सवर्णा सरण्यूसदृशीमन्यां स्त्रियं “कृत्वी कृत्वा तस्मै “विवस्वते देवाः अददुः प्रायच्छन् । “उत अपि च साश्वरूपिणी सरण्यूस्तदा "अश्विनावभरत् । स्वोदरे गर्भभूतौ धारितवती । “यत् यदा “तत् जायापतिभ्यामश्वरूपात्मना संभोगकाले रेतः पतितम् “आसीत् तदाश्विनौ जनयामासेत्यर्थः। तथा “सरण्यूः सरणवत्येतन्नामिका “द्वा “मिथुना द्वौ मिथुनौ यमयम्यौ "अजहात् त्यक्तवती । जनितवतीत्यर्थः । यद्वा । सरण्यूरेतन्नामिका मध्यमस्थाना देवता मध्यममग्निं माध्यमिकां वाचं चोत्पादितवती ॥
दीक्षितमरणे ‘पूषा त्वेतः' इत्याद्याश्चतस्रः शंसनीयाः । सूत्रितं च - ’पूषा त्वेतश्च्यावयतु प्र विद्वानिति चतस्रः ' (आश्व. श्रौ. ६. १० ) इति ॥
पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।
स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ॥३
पू॒षा । त्वा॒ । इ॒तः । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन॑ष्टऽपशुः । भुव॑नस्य । गो॒पाः ।
सः । त्वा॒ । ए॒तेभ्यः॑ । परि॑ । द॒द॒त् । पि॒तृऽभ्यः॑ । अ॒ग्निः । दे॒वेभ्यः॑ । सु॒ऽवि॒द॒त्रिये॑भ्यः ॥३
पूषा । त्वा । इतः । च्यवयतु । प्र । विद्वान् । अनष्टऽपशुः । भुवनस्य । गोपाः ।
सः । त्वा । एतेभ्यः । परि । ददत् । पितृऽभ्यः । अग्निः । देवेभ्यः । सुऽविदत्रियेभ्यः ॥३
“पूषा पोषयितैतन्नामको देवः “त्वा त्वाम् “इतः अस्माद्देशाल्लोकात् “प्र “च्यावयतु प्रकर्षेणोत्तमलोकं गमयतु । कीदृशः । “विद्वान् अस्मद्भक्ततां विजानानः “अनष्टपशुः अविनश्वरपशुयुक्तः । यस्मिन् सर्वे पशवस्तिष्ठन्ति न तु नश्यन्तीत्यर्थः। “भुवनस्य भूतजातस्य “गोपाः गोपायिता । किंच प्रक्रमय्य “सः पूषा “एतेभ्यः “पितृभ्यः “त्वा त्वां “परि “ददत् परिप्रयच्छतु । तथा “अग्निः च “सुविदत्रियेभ्यः । सुविदत्रं ज्ञानं धनं वा । तदर्हाः सुविदत्रियाः। छान्दसो घप्रत्ययः । शोभन ज्ञानेभ्यः सुधनेभ्यो वा "देवेभ्यः त्वां प्रयच्छतु । तेषां लोके स्थापयत्वित्यर्थः ॥
आयु॑र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥४
आयुः॑ । वि॒श्वऽआ॑युः । परि॑ । पा॒स॒ति॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् ।
यत्र॑ । आस॑ते । सु॒ऽकृतः॑ । यत्र॑ । ते । य॒युः । तत्र॑ । त्वा॒ । दे॒वः । स॒वि॒ता । द॒धा॒तु॒ ॥४
आयुः । विश्वऽआयुः । परि । पासति । त्वा । पूषा । त्वा । पातु । प्रऽपथे । पुरस्तात् ।
यत्र । आसते । सुऽकृतः । यत्र । ते । ययुः । तत्र । त्वा । देवः । सविता । दधातु ॥४
“विश्वायुः सर्वान्नः सर्वत्र गमनशीलो वा "आयुः । वकारलोपश्छान्दसः। वायुः । यद्वा । ‘छन्दसीणः' इत्युण्प्रत्यये वृद्धौ च कृतायां रूपम् । गन्ता वायुः । “त्वा त्वां “परि “पासति परिपातु । पूषानुज्ञया परितो रक्षतु । 'पा रक्षणे '। लेटि सिप्यडागमः। “प्रपथे प्रकृष्टे मार्गे स्वर्गे “पुरस्तात् सर्वेषां प्रथममेव वर्तमानः “पूषा स्वयमेव “त्वा त्वां प्रमितं यजमानं “पातु रक्षतु । “सुकृतः पुण्यकर्माणः “यत्र यस्मिन् देशे “आसते तिष्ठन्ति यत्र वा “ते “सुकृतः “ययुः प्राप्ताः “तत्र तस्मिन् स्थाने “देवः दीप्यमानः “सविता सर्वस्य स्वस्वकर्मणि प्रेरक एतन्नामको देवः “त्वा त्वां दधातु निदधातु ॥
एकादशिनस्य पौष्णस्य पशोर्हविषः पूषेमाः' इत्यनुवाक्या। पूषेमा आशा अनु वेद सर्वाः शुक्रं ते अन्यद्यजतं ते अन्यत्' (आश्व. श्रौ. ३. ७ ) इति हि सूत्रितम् ॥
पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत् ।
स्व॒स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥५
पू॒षा । इ॒माः । आशाः॑ । अनु॑ । वे॒द॒ । सर्वाः॑ । सः । अ॒स्मान् । अभ॑यऽतमेन । ने॒ष॒त् ।
स्व॒स्ति॒ऽदाः । आघृ॑णिः । सर्व॑ऽवीरः । अप्र॑ऽयुच्छन् । पु॒रः । ए॒तु॒ । प्र॒ऽजा॒नन् ॥५
पूषा । इमाः । आशाः । अनु । वेद । सर्वाः । सः । अस्मान् । अभयऽतमेन । नेषत् ।
स्वस्तिऽदाः । आघृणिः । सर्वऽवीरः । अप्रऽयुच्छन् । पुरः । एतु । प्रऽजानन् ॥५
"पूषा देवः “इमाः “सर्वाः “आशाः प्राच्याद्या दिशः “अनु “वेद आनुपूर्व्येण जानाति । इमाः सुखेन गन्तव्या असुखेनेति वैवमनुक्रमेण जानातीत्यर्थः । एवं सति अस्मान् प्रमिते यजमानो ब्रवीति पुत्रमुखेन याजकमुखेन वा। “अस्मान्न “अभयतमेन अत्यन्तं भयरहितेन मार्गेण "नेषत् नयतु । कथम् । स्वस्तिदाः कल्याणस्य दाता “अघृणिः आगतदीप्तियुक्तः “सर्ववीरः सर्वैर्वीरैः कर्मणि समर्थैर्ऋत्विग्भिरुपेतः “अप्रयुच्छन् अप्रमाद्यन् “प्रजानन् अस्माकं फलाफले विजानानः सन् “पुरः “एतु अस्माकं पुरस्ताद्गच्छतु । यथास्माकं भयं न भवति तथा गच्छत्वित्यर्थः ॥ ॥ २३ ॥
एकादशिनस्य पौष्णस्य पशोः पुरोडाशस्य ‘प्रपथे पथाम्' इति याज्या। सूत्रितं च-' प्रपथे पथामजनिष्ट पूषा पथपथः परिपतिं वचस्या ' ( आश्व. श्री. ३. ७) इति ॥
प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः ।
उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ॥६
प्रऽप॑थे । प॒थाम् । अ॒ज॒नि॒ष्ट॒ । पू॒षा । प्रऽप॑थे । दि॒वः । प्रऽप॑थे । पृ॒थि॒व्याः ।
उ॒भे इति॑ । अ॒भि । प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे । स॒धस्थे॒ इति॑ स॒धऽस्थे॑ । आ । च॒ । परा॑ । च॒ । च॒र॒ति॒ । प्र॒ऽजा॒नन् ॥६
प्रऽपथे । पथाम् । अजनिष्ट । पूषा । प्रऽपथे । दिवः । प्रऽपथे । पृथिव्याः ।
उभे इति । अभि । प्रियत॑मे इति प्रियऽतमे । सधस्थे इति सधऽस्थे । आ । च । परा । च । चरति । प्रऽजानन् ॥६
“पथाम् अन्तरिक्षगमनहेतुभूतानां मार्गाणां मध्ये “प्रपथे यः प्रकृष्टः पन्थास्ति तत्र “पूषा “अजनिष्ट प्रादुरभूत् । पुण्यकर्मणां सुगतिप्रापणार्थमवस्थित इति भावः । तथा “दिवः द्युलोकस्य च मार्गाणां मध्ये “प्रपथे प्रकृष्टे मार्गे जातः । तथा “पृथिव्याः “प्रपथे प्रकृष्टे मार्गे मनुष्याणां तत्तत्कर्मणि प्रवर्तनार्थं प्रादुर्भूत इत्यर्थः । सोऽयं पूषा “प्रियतमे सर्वस्येष्टतमे “सधस्थे सर्वेषां सहावस्थानभूते “उभे द्यावापृथिव्यावभिलक्ष्य “आ “चरति आभिमुख्येन चरति । सुकृतिनां सुकृतफलप्रदर्शनायानुकूलं चरतीत्यर्थः। तथा “परा चरति । दुष्कर्मणां प्रतिकूलं गच्छति । किं कुर्वन् । प्रजानन् अनेनेदं कर्म कृतमस्य कर्मण इदं फलमित्यविशेषेण जानानः ॥
व्यूळ्हस्य दशरात्रस्य तृतीये छन्दोमे प्रउगशस्त्रे सारस्वततृचस्य ‘सरस्वतीं देवयन्तः' इत्येषाद्या। सूत्र्यते हि -- प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्ते' (आश्व. श्रौ. ८. ११) इति ॥
सर॑स्वतीं देव॒यंतो॑ हवंते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने ।
सर॑स्वतीं सु॒कृतो॑ अह्वयंत॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥७
सर॑स्वतीम् । दे॒व॒ऽयन्तः॑ । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒ध्व॒रे । ता॒यमा॑ने ।
सर॑स्वतीम् । सु॒ऽकृतः॑ । अ॒ह्व॒य॒न्त॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥७
सरस्वतीम् । देवऽयन्तः । हवन्ते । सरस्वतीम् । अध्वरे । तायमाने ।
सरस्वतीम् । सुऽकृतः । अह्वयन्त । सरस्वती । दाशुषे । वार्यम् । दात् ॥७
"देवयन्तः देवान् यष्टुं स्तोतुं च कामयमाना यजमानाः "सरस्वतीम् एतन्नामिकां मध्यमस्थानदेवतां "हवन्ते कर्मावयवत्वाय आह्वयन्ति । तथा "तायमाने स्तुतिभिर्हविभिश्च विस्तीर्यमाणे “अध्वरे यज्ञे "सरस्वतीं यजन्तीति शेषः। "सुकृतः पुण्यकर्माणः "सरस्वतीम् "अह्वयन्त फलप्रदानाय ह्वयन्ते । यत एवमतः कारणात् "सरस्वती देवी "दाशुषे हवींषि दत्तवते यजमानाय "वार्यं वरणीयं कर्मफलं "दात् प्रयच्छतु ।
सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मदं॑ती ।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥८
सर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । स्व॒धाभिः॑ । दे॒वि॒ । पि॒तृऽभिः॑ । मद॑न्ती ।
आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ । अ॒न॒मी॒वाः । इषः॑ । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥८
सरस्वति । या । सऽरथम् । ययाथ । स्वधाभिः । देवि । पितृऽभिः । मदन्ती ।
आऽसद्य । अस्मिन् । बर्हिषि । मादयस्व । अनमीवाः । इषः । आ । धेहि । अस्मे इति ॥८
हे "सरस्वति हे "देवि “या त्वं “सरथं पितृभिः सह समानेन रथेन युक्तं यथा भवति तथा “ययाथ। अस्मदीयं यज्ञं प्राप्तासि । किं कुर्वती। "पितृभिः सह "स्वधाभिः हविर्लक्षणैरन्नैः "मदन्ती माद्यन्ती यज्ञं गच्छसीति संबन्धः । स त्वं "बर्हिषि "अस्मिन् वेदिस्तरणे यज्ञे “आसद्य उपविश्य “मादयस्व हविर्भिस्तृप्ता भव । आत्मानं तर्पय वा । ततस्तृप्ता सती त्वम् "अनमीवाः । अमीवा रोगः । तद्वर्जितान्यारोग्यजननानि "इषः अन्नानि "अस्मे अस्मभ्यम् "आ "धेहि पर्याप्तं प्रयच्छ ॥ ।
सर॑स्वतीं॒ यां पि॒तरो॒ हवं॑ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः ।
स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥९
सर॑स्वतीम् । याम् । पि॒तरः॑ । हव॑न्ते । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒ऽनक्ष॑माणाः ।
स॒ह॒स्र॒ऽअ॒र्घम् । इ॒ळः । अत्र॑ । भा॒गम् । रा॒यः । पोष॑म् । यज॑मानेषु । धे॒हि॒ ॥९
सरस्वतीम् । याम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणाः ।
सहस्रऽअर्घम् । इळः । अत्र । भागम् । रायः । पोषम् । यजमानेषु । धेहि ॥९
“यां त्वां सरस्वतीं "पितरो "हवन्ते आह्वयन्ति। कीदृशाः । "दक्षिणा । दक्षिणादाच्', (पा.सू. ५. ३.३६) इत्याच्प्रत्ययः । दक्षिणत आगत्य "यज्ञमभिनक्षमाणाः अभितो गच्छन्तो व्याप्नुवन्तः । "अत्र अस्मिन् यज्ञे "सहस्रार्घं बहुभिः पूजनीयमुपयोज्यम् "इळ: अन्नस्य "भागं “रायः धनस्य "पोषं पुष्टिं च यजमानेषु त्वं "धेहि स्थापय ॥”
अवभृथस्थाने आपो अस्मान् इत्येषा। सूत्रितं च--- तत् आचम्याप्लवन्त आपो अस्मान मातरः शुन्धयन्तु' (आश्व. श्रौ. ६. १३ ) इति । दशमेऽहनि वपामार्जनेऽप्येषा। सूत्रितं च -- ‘इदमापः प्र वहतेत्येतस्याः स्थान आपो अस्मान्मातरः शुन्धयन्तु' (आश्व.श्रौ. ८. १२) इति ॥
आपो॑ अ॒स्मान्मा॒तरः॑ शुंधयंतु घृ॒तेन॑ नो घृत॒प्वः॑ पुनंतु ।
विश्वं॒ हि रि॒प्रं प्र॒वहं॑ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥१०
आपः॑ । अ॒स्मान् । मा॒तरः॑ । शु॒न्ध॒य॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒ऽप्वः॑ । पु॒न॒न्तु॒ ।
विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुचिः॑ । आ । पू॒तः । ए॒मि॒ ॥१०
आपः । अस्मान् । मातरः । शुन्धयन्तु । घृतेन । नः । घृतऽप्वः । पुनन्तु ।
विश्वम् । हि । रिप्रम् । प्रऽवहन्ति । देवीः । उत् । इत् । आभ्यः । शुचिः । आ । पूतः । एमि ॥१०
"मातरः जगतो मातृस्थानीयाः "आपः "अस्मान् “शुन्धयन्तु प्रोक्षणेन शोधयन्तु। तथा “घृतप्वः। घृतमुदकम् । तेनान्यान् पुनन्तीति । तास्तथोक्ता आपः। यद्वा घृतप्वः । घृतं गव्यम् । तेन पुनन्ति । तथा ब्राह्मणं-- घृतेन नो घृतप्वः पुनन्तीति तद्वै सुपूतं यद्घृतेन पूयते' (श. ब्रा. ३.१.२.११ ) इति । ता आपः “घृतेन प्रत्यक्षेणोदकेन "नः अस्मान् "पुनन्तु । “हि यस्मात् देवीः देव्यो देवनशीला आपः "विश्वं सर्वं “रिप्रं पापं “प्रवहन्ति पुरुषसकाशात् प्रगमयन्ति । अपनयन्तीति यावत् । अनन्तरम् "आभ्यः अद्भ्यः “आ “पूतः अभिमुख्येन शुद्धः सन् स्तोताहम् “उत् “एमि उद्गच्छामि । ऊर्ध्वं स्वर्गं गच्छामीत्यर्थः ॥ ॥ २४ ॥
सुत्येऽहनि ‘द्रप्सश्चस्कन्द' इत्यादिके द्वे विप्रुड्ढोमार्थे । सूत्रितं च-' द्रप्सश्चस्कन्देति द्वाभ्यां विप्रुड्ढोमो हुत्वा' (आश्व. श्रौ. ५. २ ) इति । स्कन्नहविरभिमर्शनेऽपि ' द्रप्सः' इत्येषा । आहुतिर्बहिष्परिधि यदि स्कन्देत् तदानीमाग्नीध्रोऽनया जुहुयात् । स्कन्नमभिमृशेदिति प्रकृत्य सूत्रितं -- ’द्रप्सश्चस्कन्देत्याहुतिश्चेद्बहिष्परिध्याग्नीध्र एनां जुहुयात्' (आश्व. श्रौ. ३. १३) इति ॥
द्र॒प्सश्च॑स्कंद प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
स॒मा॒नं योनि॒मनु॑ सं॒चरं॑तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥११
द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒मान् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । यः । च॒ । पूर्वः॑ ।
स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्राः॑ ॥११
द्रप्सः । चस्कन्द । प्रथमान् । अनु । द्यून् । इमम् । च । योनिम् । अनु । यः । च । पूर्वः ।
समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥११
“द्रप्सः अभिषूयमाणस्य सोमस्य रसः "प्रथमान् पूर्वभाविनः पार्थिवाँल्लोकान् “द्यून् दीप्यमानान् द्युलोकांश्च “अनु लक्षीकृत्य “चस्कन्द स्कन्नवान् गतवान् । तदेवाह । "इमं परिदृश्यमानं “योनिं स्थानभूतं लोकं "च "यश्च अस्मात् "पूर्वः अस्ति तम् "अनु गतवान्। "समानं साधारणं “योनिं द्यावापृथिवीलक्षणं स्थानम् "अनु "संचरन्तं सम्यग्गच्छन्तं “द्रप्सं सोमरसं विप्रुड्लक्षणं "सप्त “होत्राः सप्तसंख्याका विप्रुड्ढोमस्य कर्तारो होतृप्रभृतयो वयम् "अनु आनुपूर्व्येण "जुहोमि जुहुमः । यद्वा । "होत्राः । सप्तहोतृभिः क्रियमाणा यागक्रिया होत्राः। ता अनु पश्चादध्वर्युरहं जुहोमि । यद्वा । द्रप्सः । द्रुतगामित्वाद्द्रप्स आदित्य उच्यते । स आदित्यः पृथिवीं च दिवं च गच्छति समानं योनिमन्तरिक्षं लक्षीकृत्य । सम्यक्चरन्तं तं द्रप्समादित्यमुद्दिश्य सप्त होत्राः सप्तसंख्याका दिशः । यस्यां दिशि सूर्यों वर्तते तद्व्यतिरिक्ताः सप्तसंख्याका दिशः । अनु पश्चाज्जुहोमि । यत्र यत्र वर्तते तां तां दिशं द्रव्यत्वेन प्रयच्छामि । प्रतिष्ठापयामीत्यर्थः । अत्र वाजसनेयकम्-' असौ वा आदित्यो द्रप्सः स दिवं च पृथिवीं च स्कन्दतीमं च योनिमनु यश्च पूर्वं इतीमं च लोकममुं चेत्येतत् समानं योनिमनु संचरन्तमिति समानं ह्येष एतं योनिमनु संचरति द्रप्सं जुहोम्यनु सप्त होत्रा इत्यसौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुं तदादित्यं दिक्षु प्रतिष्ठापयति' ( श. ब्रा. [https://sa.wikisource.org/s/e9y ७. ४. १. २०]) इति ।
यस्ते॑ द्र॒प्सः स्कंद॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् ।
अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतं ॥१२
यः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अं॒शुः । बा॒हुऽच्यु॑तः । धि॒षणा॑याः । उ॒पऽस्था॑त् ।
अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्ऽकृतम् ॥१२
यः । ते । द्रप्सः । स्कन्दति । यः । ते । अंशुः । बाहुऽच्युतः । धिषणायाः । उपऽस्थात् ।
अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्ऽकृतम् ॥१२
हे सोम "ते त्वदीयः "यः “द्रप्सः रसः "स्कन्दति अधिषवणचर्मणोऽन्यत्र गच्छति । "यः च “ते त्वदीयः "अंशुः रसादितरः सन् स्कन्दति। “बाहुच्युतः अध्वर्योर्बाहुभ्यां प्रच्युतः सन् स्कन्दति । यद्वा । बाहुवत्साधनभूता ग्रावाणः । तैः प्रच्युतोऽभिषुतः सन् "धिषणायाः । धिषणेत्यधिषवणफलकनाम । प्रत्येकविवक्षयैकवचनम्। अधिषवणफलकयोः “उपस्थात् समीपस्थात् प्रदेशादन्यत्र गच्छति। तथा “अध्वर्योर्वा अभिषुण्वतोऽध्वर्योर्हस्तात् स्कन्दति। “वा अपि वा “पवित्रात् दशापवित्रात् "परि स्कन्दति । तं सर्वं द्रप्सं “ते त्वदीयं रसं "मनसा अन्तःकरणेन स्तोत्रेण वा सह “वषट्कृतं वषट्कारेण स्वाहाकारेण कृतं "जुहोमि अग्नौ प्रक्षिपामि ॥
यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा ।
अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सिं॑चतु॒ राध॑से ॥१३
यः । ते॒ । द्र॒प्सः । स्क॒न्नः । यः । ते॒ । अं॒शुः । अ॒वः । च॒ । यः । प॒रः । स्रु॒चा ।
अ॒यम् । दे॒वः । बृह॒स्पतिः॑ । सम् । तम् । सि॒ञ्च॒तु॒ । राध॑से ॥१३
यः । ते । द्रप्सः । स्कन्नः । यः । ते । अंशुः । अवः । च । यः । परः । स्रुचा ।
अयम् । देवः । बृहस्पतिः । सम् । तम् । सिञ्चतु । राधसे ॥१३
हे सोम "ते त्वदीयः "यः “द्रप्सः रसोऽन्यत्र "स्कन्नः गतः "यः च त्वदीयस्तव कारणभूतः “अंशुः लताखण्डो रसादितरो भवति “स्रुचा पात्रविशेषण गृहीतः सोमः “अवः अवस्तात् स्कन्दते “परः परस्ताद्वातिरिक्तो भवति “तम् इमं सोमम् "अयं “बृहस्पतिः एतन्नामकः "देवः "सं "सिञ्चतु सम्यक् प्रक्षारयतु । किमर्थम् । "राधसे अस्माकं धनार्थम् । स्कन्ने हि सोमे प्रजापश्वादिकमपस्कन्नं भवति खलु ॥
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ ।
अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शुं॑धत ॥१४
पय॑स्वतीः । ओष॑धयः । पय॑स्वत् । मा॒म॒कम् । वचः॑ ।
अ॒पाम् । पय॑स्वत् । इत् । पयः॑ । तेन॑ । मा॒ । स॒ह । शु॒न्ध॒त॒ ॥१४
पयस्वतीः । ओषधयः । पयस्वत् । मामकम् । वचः ।
अपाम् । पयस्वत् । इत् । पयः । तेन । मा । सह । शुन्धत ॥१४
इयं प्रत्यक्षकृता । हे आपः "ओषधयः "पयस्वतीः पयस्वत्यो वृष्टिलक्षणेनोदकेन सारवत्यो भवन्ति । "मामकं मदीयं "वचः वचनं वृष्टिप्रार्थनवचनं “पयस्वत् सारवत् भवति । किं बहुना। यच्च इह किंचित् "अपाम् उदकानां "पयः क्षीरवत् सारभूतं यदस्ति तत्सर्वं पयस्वत् सारवदेव । “तेन उदकसारेण "सह “मा मां “शुन्धत यूयं शोधयत । ‘आपो अद्यान्वचारिषं रसेन समगस्महि' (ऋ. सं. १. २३. २३) इति निगमान्तरम् ॥ ॥ २५ ॥
}}
== ==
{{टिप्पणी|
प्रथम मन्त्र में "विश्वभुवन" के एकत्रीकरण द्वारा उस समाधि की ओर संकेत किया गया है जिसमें वासना-रहित उर्ध्वमन (विवस्वान्) अपनी मनीषा से यम-नियम-संयम-सम्पन्न व्यक्तित्व को जन्म देता है। यही मनीषा “सरण्यू” है जो उस व्यक्तित्व में जीव को संयम-सम्पन्न यम तथा उसकी बुद्धि को संयम-सम्पन्न यमी बना देती है। व्युत्थान के मानसिक स्तर पर वही पुनः सारे व्यक्तित्व में व्याप्त होकर "सवर्णा" कही जाती है - [http://puranastudy.freevar.com/Antariksha_Paryaya/pva18.htm अन्तरिक्षपर्यायों का प्रतीकवाद(अध्याय ५)]
}}
{{ऋग्वेदः मण्डल १०}}
4vje7ko6wsv399y34a46yrfbgqfewl9
ऋग्वेदः सूक्तं १०.८५
0
375
341271
311491
2022-07-25T01:42:48Z
Puranastudy
1572
/* */
wikitext
text/x-wiki
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = सावित्री सूर्या ऋषिका
| translator =
| section = सूक्तं १०.८५
| previous = [[ऋग्वेद: सूक्तं १०.८४|सूक्तं १०.८४]]
| next = [[ऋग्वेद: सूक्तं १०.८६|सूक्तं १०.८६]]
| notes = दे. १-५ सोमः, ६-१६ सूर्याविवाहः, १७ देवाः, १८ सोमार्कौ, १९ चन्द्रमाः, २०-२८ नृणां विवाहमन्त्रा आशीप्रायाः, २९-३० वधूवासःसंस्पर्शनिन्दा, ३१ दम्पत्योर्यक्ष्मनाशनम्, ३२-४७ सूर्या सावित्री।। अनुष्टुप्, १४, १९-२1, २३-२४, २६, ३६-३७, ४४ त्रिष्टुप्, १८, २७, ४३ जगती, ४४ उरोबृहती।
}}
<poem><span style="font-size: 14pt; line-height: 200%">सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥
सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥
सोमं मन्यते पपिवान्यत्सम्पिंषन्त्योषधिम् ।
सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥३॥
आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।
ग्राव्णामिच्छृण्वन्तिष्ठसि न ते अश्नाति पार्थिवः ॥४॥
यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः ।
वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥५॥
रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम् ॥६॥
चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥७॥
स्तोमा आसन्प्रतिधयः कुरीरं छन्द ओपशः ।
सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥८॥
सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात् ॥९॥
मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।
शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहम् ॥१०॥
ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः ।
श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचारः ॥११॥
शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥१२॥
सूर्याया वहतुः प्रागात्सविता यमवासृजत् ।
अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते ॥१३॥
यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा ॥१४॥
यदयातं शुभस्पती वरेयं सूर्यामुप ।
क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥१५॥
द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥१६॥
सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः ॥१७॥
पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् ।
विश्वान्यन्यो भुवनाभिचष्ट ऋतूँरन्यो विदधज्जायते पुनः ॥१८॥
नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम् ।
भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः ॥१९॥
सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ॥२०॥
उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे ।
अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥२१॥
उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा ।
अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ॥२२॥
अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् ।
समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः ॥२३॥
प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः ।
ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥२४॥
प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।
यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥२५॥
पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥२६॥
इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि ।
एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥२७॥
नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।
एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२८॥
परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।
कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम् ॥२९॥
अश्रीरा तनूर्भवति रुशती पापयामुया ।
पतिर्यद्वध्वो वाससा स्वमङ्गमभिधित्सते ॥३०॥
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु ।
पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः ॥३१॥
मा विदन्परिपन्थिनो य आसीदन्ति दम्पती ।
सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः ॥३२॥
सुमङ्गलीरियं वधूरिमां समेत पश्यत ।
सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥३३॥
तृष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे ।
सूर्यां यो ब्रह्मा विद्यात्स इद्वाधूयमर्हति ॥३४॥
आशसनं विशसनमथो अधिविकर्तनम् ।
सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥३५॥
गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥३६॥
तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् ॥३७॥
तुभ्यमग्रे पर्यवहन्सूर्यां वहतुना सह ।
पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥३८॥
पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥३९॥
सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।*
तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥४०॥
सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।
रयिं च पुत्राँश्चादादग्निर्मह्यमथो इमाम् ॥४१॥
इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।
क्रीळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥४२॥
आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्वर्यमा ।
अदुर्मङ्गलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे ॥४३॥
अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।
वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥४४॥
इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु ।
दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥४५॥
सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ।
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥४६॥
समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ ।
सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥४७॥
</span></poem>
{{सायणभाष्यम्|
सप्तमेऽनुवाके षट् सूक्तानि । तत्र 'सत्येन' इति सप्तचत्वारिंशदृचं प्रथमं सूक्तं सवितृसुतायाः सूर्याया आर्षम्। 'नवोनवः' इति तिस्रः ‘अनृक्षराः' इति द्वे ‘गृभ्णामि' इति द्वे ‘यदश्विना पृच्छमानौ' इत्येका ‘ पूषा त्वेतो नयतु' इत्येका ‘अघोरचक्षुः' इति चैवमेता दशर्चस्त्रिष्टुभः । ‘तृष्टमेतत्' इत्येषोरोबृहत्यष्टकद्वादशद्वयष्टकवती । “पूर्वपरं चरतः ' ‘इह प्रियं प्रजया' ‘आ नः प्रजां जनयतु' इत्येतास्तिस्रो जगत्यः । शिष्टास्त्र्यत्रिंशदनुष्टुभः । आदितः पञ्चानामृचां सोमो देवता । तत एकादशभिः सूर्या स्वविवाहं स्तुतवती । अतस्तत्र योऽर्थः प्रतिपाद्यते स एव देवतात्वेन विज्ञेयः। ‘या तेनोच्यते सा देवता' इति न्यायात् । सप्तदश्या देवी देवता । अष्टादश्याः सोमार्कौ। एकोनविंश्याश्चन्द्रमाः । सुकिंशुकम्' इत्याद्या नवर्चो विवाहमन्त्रा आशिषः प्रतिपादकाः । अतस्तत्र तत्र प्रतिपाद्योऽर्थों देवता । ‘परा देहि' अश्रीरा तनूः' इति द्वे वध्वा विवाहकाले परिहितस्य वाससः
संस्पर्शनिन्दयित्र्यौ।' ये वध्वश्चन्द्रम्' इति दंपत्योः क्षयरोगस्य नाशिनी । अतस्तद्देवताका'। परिशिष्टानां षोडशाना सूर्या देवता । तथा चानुक्रान्तं-' सत्येन सप्तचत्वारिंशत् ' सर्वमनुक्रान्तम्। सूक्तविनियोगो लैङ्गिकः ॥
स॒त्येनोत्त॑भिता॒ भूमि॒ः सूर्ये॒णोत्त॑भिता॒ द्यौः ।
ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥१
स॒त्येन॑ । उत्त॑भिता । भूमिः॑ । सूर्ये॑ण । उत्त॑भिता । द्यौः ।
ऋ॒तेन॑ । आ॒दि॒त्याः । ति॒ष्ठ॒न्ति॒ । दि॒वि । सोमः॑ । अधि॑ । श्रि॒तः ॥१
सत्येन । उत्तभिता । भूमिः । सूर्येण । उत्तभिता । द्यौः ।।
ऋतेन । आदित्याः । तिष्ठन्ति । दिवि । सोमः । अधि । श्रितः ॥ १ ॥
"सत्येन ब्रह्मणानन्तात्मना । ब्रह्मा खलु देवानां मध्ये सत्यभूतः । तेनाधःस्थितेन "भूमिः “उत्तभिता उपरि स्तम्भिता । यथाधो न पतेत्तथा कृताः। यद्वा । सत्येन अनृतप्रतियोगिना धर्मण भूमिरुत्तभितोद्धृता फलिता भवतीत्यर्थः । असति सत्ये भूम्यां सस्यादयो न फलन्ति । तथा "सूर्येण देवेन "द्यौः "उत्तभिता । सूर्यो हि द्युस्थानत्वाद्दिवं दधार। “ऋतेन यज्ञेन आदित्याः अदितेः पुत्रा देवाः "तिष्ठन्ति । यज्ञे यजमानदत्तेन खल्वाहुत्या देवा उपजीवन्ति । "दिवि द्युलोके “सोमः देवानामाप्यायनकारी वल्लीरूपो देवतारूपश्च अधि “श्रितः अधितिष्ठति । इति स्वपतिं सोमं सूर्या स्तौति॥
सोमे॑नादि॒त्या ब॒लिन॒ः सोमे॑न पृथि॒वी म॒ही ।
अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥२
सोमे॑न । आ॒दि॒त्याः । ब॒लिनः॑ । सोमे॑न । पृ॒थि॒वी । म॒ही ।
अथो॒ इति॑ । नक्ष॑त्राणाम् । ए॒षाम् । उ॒पऽस्थे॑ । सोमः॑ । आऽहि॑तः ॥२
सोमेन । आदित्याः । बलिनः । सोमेन । पृथिवी । मही।
अथो इति । नक्षत्राणाम् । एषाम् । उपऽस्थे । सोमः । आऽहितः ॥ २ ॥
“सोमेनादित्याः अदितेः पुत्रा इन्द्रादयः "बलिनः भवन्ति । ऐन्द्रवायवादिग्रहपरिग्रहादिति भावः । तथा “सोमेन आहुत्यात्मनाग्नौ हुतेन "पृथिवी भूमिः "मही महती भवति । आहुत्या वृष्टिद्वारेण सस्यादिसंपत्तेः । "अथो अपि चायं सोमः "नक्षत्राणामेषाम् । न क्षं त्रायन्त इति नक्षत्रा ग्रहचमसादयः । तेषामेषाम् "उपस्थे "सोमः रसात्मकः “आहितः । यद्वा । प्रसिद्धानामेव नक्षत्राणामुपस्थ उपस्थाने द्युलोके सोम आहितः । तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत्' (तै. ब्रा. ३. २. १. १ ) इत्यादिश्रुतेः । देवतारूपसोमपक्षे । सोमेनादित्या देवा बलिनो बलवन्तो भवन्ति तस्यैकैककलास्वादनात् । प्रथमां पिबते वह्रिर्द्वितीयां पिबते रविः' इत्यादिस्मृतेः । सोमेन पृथिवी मही। अमृतसेकेनौषध्याद्यभिवृद्ध्या पृथिव्या बलवत्त्वम् । चन्द्रस्य नक्षत्राणामुपस्थे स्थितिः प्रसिद्धा ॥
सोमं॑ मन्यते पपि॒वान्यत्स॑म्पिं॒षन्त्योष॑धिम् ।
सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥३
सोम॑म् । म॒न्य॒ते॒ । प॒पि॒ऽवान् । यत् । स॒म्ऽपिं॒षन्ति॑ । ओष॑धिम् ।
सोम॑म् । यम् । ब्र॒ह्माणः॑ । वि॒दुः । न । तस्य॑ । अ॒श्ना॒ति॒ । कः । च॒न ॥३
सोमम् । मन्यते । पपिऽवान् । यत् । सम्ऽपिंषन्ति। ओषधिम् ।।
सोमम् । यम् । ब्रह्माणः । विदुः । न । तस्य । अश्नाति । कः । चन ॥ ३ ॥
तं सोमं मन्यते । 'कः । यः “पपिवान् । वर्धनकामार्थं चिकित्सार्थं पीतः सोमो येन । “यत् यमित्यर्थः । यं सोमम् “ओषधिं वल्लीरूपं “संपिंषन्ति सामर्थ्यद्रासायनिकाः । न च स साक्षात्सोमः । तर्हि कः । उच्यते । सोमं हि तं मन्यते “यं “ब्रह्माणः । यद्ब्रह्मशब्दो ब्राह्मणशब्दपर्यायोsस्ति । कुतो नु चरसि ब्रह्मन् ' ' तस्मै मा ब्रूया निधिपाय ब्रह्मन्' इत्यादिप्रयोगात् । ब्राह्मणा इत्यर्थः । ते चर्त्विजो यजमानश्च यागसाधनभूतं संस्कर्तुं “विदुः जानन्ति “तस्य अंशम् । यद्वा । कर्मणि षष्ठी। तं सोमं "कश्चन “न अश्नाति । कश्चिदप्ययज्वेति शेषः । यज्वैनं भक्षयितुमर्हति नान्य इत्यर्थः । एवमोषधिपक्षे । अथ चन्द्रपक्ष उच्यते । तं सोमं मन्यते पपिवान् पीतवान् यजमानो यद्यमोषधिरूपं संपिंषन्त्यभिषवग्रावभिरध्वर्य्वादयो यजमानश्च:। न च स सोमः। कस्तहिं । यं ब्रह्माणो ब्राह्मणा अभिज्ञा दैवज्ञा विदुः कथयन्ति चन्द्रमसं न तस्याश्नाति कश्चनादेवो देवेभ्योऽन्यो मनुष्यादिः । देवा अग्न्यादयो रश्मयो वा । यज्ञार्हसोमस्यासमत्वं न निन्दायै अपि तु इतरस्य स्तुत्यै इति मन्तव्यम् । “ अपशवो वा अन्ये गोअश्वेभ्यः' (तै. सं. ५. २. ९. ४) इत्यादिवत् । एवमत्र सोम्या उभयथा योज्याः ॥
आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः ।
ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥४
आ॒च्छत्ऽवि॑धानैः । गु॒पि॒तः । बार्ह॑तैः । सो॒म॒ । र॒क्षि॒तः ।
ग्राव्णा॑म् । इत् । शृ॒ण्वन् । ति॒ष्ठ॒सि॒ । न । ते॒ । अ॒श्ना॒ति॒ । पार्थि॑वः ॥४
आच्छत्ऽविधानैः । गुपितः । बार्हतैः । सोम । रक्षितः ।
ग्राव्णाम् । इत् । शृण्वन् । तिष्ठसि । न । ते । अश्नाति । पार्थिवः ॥ ४ ॥
हे "सोम “आच्छद्विधानैः । आच्छादयन्ति विधानानि येषां विद्यन्ते त आच्छद्विधानाः । तैः “गुपितः । तथा “बार्हतैः गुपितः स्वानभ्राजाङ्घार्यादिभिः सप्तभिः सोमपालैः रक्षितः त्वम् । एते वा अमुष्मिँल्लोके सोममरक्षन् ' (तै. सं. ६.१.१०.५) इति ब्राह्मणम् । "ग्राव्णामिच्छृण्वन् अभिषवग्राव्णां ध्वनिं शृण्वन्नेव “तिष्ठसि । “ते त्वां “पार्थिवः पार्थिवो जनः “न “अश्नाति । न हि द्युस्थश्चन्द्ररूपः सोमोऽत्रत्यैः पानयोग्यो भवति । चन्द्रमा वै सोमो देवानामन्नं तं पौर्णमास्यामभिषुण्वन्ति' (श. ब्रा. ११.१.५.३ ) इति वाजसनेयकम् ॥
यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ ।
वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥५
यत् । त्वा॒ । दे॒व॒ । प्र॒ऽपिब॑न्ति । ततः॑ । आ । प्या॒य॒से॒ । पुन॒रिति॑ ।
वा॒युः । सोम॑स्य । र॒क्षि॒ता । समा॑नाम् । मासः॑ । आऽकृ॑तिः ॥५
यत् । त्वा । देव । प्रऽपिबन्ति । ततः । आ । प्यायसे । पुनरिति ।।
वायुः । सोमस्य । रक्षिता । समानाम् । मासः । आऽकृतिः ॥ ५ ॥
हे “देव सोम “यत् यदा “त्वा त्वां प्रपिबन्ति ओषधिरूपं त्रिष्वपि सवनेषु “ततः अनन्तरमेव “पुनः “आ “प्यायसे ।“ आ प्यायस्व सम् ' ( ऋ. सं. १. ९१. १६) इति प्रातःसवने ‘सं ते पयांसि' (ऋ. सं. १. ९१. १८) इत्युत्तरयोः सवनयोराप्यायसे । किंच “वायुः तव “सोमस्य “रक्षिता । यथा न शुष्यति तथा । वायुः शोषकः प्रसिद्धो लोके । किंच "मासः । ‘मसी परिमाणे । मस्यते परिमीयत इति मासः सोमः। स च "समानां संवत्सराणाम् "आकृतिः आकर्ता व्यवच्छेदको भवति । संवत्सरे संवत्सरे वसन्तादिकालेष्वनुष्ठीयमानत्वात् ' वसन्ते वसन्ते ज्योतिषा यजेत' इति श्रुतेः । यद्वा । सोमाधारवनस्पतिविकारग्रहद्वारेण वायुः सोमरसस्य रक्षिता भवति । ‘वायुगोपा वनस्पतयः' इति श्रुतेः । एवं वल्लीरूपसोमपक्षे योजना । चन्द्रपक्षे तु । हे देव सोम यद्यदा वा त्वां प्रपिबन्ति रश्मयोऽपरपक्षे ततोऽनन्तरमेव पूर्वपक्षे पुनराप्यायसे । वायुश्च सोमस्य तव रक्षिता । वाय्वधीनत्वाच्चन्द्रगतेः । किंच समानां संवत्सराणां मासः । षष्ठ्येकवचनमेतत् । मासस्याकृतिश्च कर्ता त्वं चासि । एकैककलाहासवृद्धिभ्यां हि मासः पूर्यते तैः संवत्सर इति ॥ ॥ २० ॥
रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी ।
सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ॥६
रैभी॑ । आ॒सी॒त् । अ॒नु॒ऽदेयी॑ । ना॒रा॒शं॒सी । नि॒ऽओच॑नी ।
सू॒र्यायाः॑ । भ॒द्रम् । इत् । वासः॑ । गाथ॑या । ए॒ति॒ । परि॑ऽकृतम् ॥६
रैभी। आसीत् । अनुऽदेयी । नाराशंसी । निऽओचनी ।।
सूर्यायाः । भद्रम् । इत् । वासः । गाथया । एति । परिऽकृतम् ॥ ६ ॥
आभिः सूर्या स्वविवाहमस्तौदित्युक्तम् । सूर्या सावित्री ब्रूते । "रैभी। रैभ्यः काश्चनर्चः । ‘रैभीः शंसति रेभन्तो वै देवाश्चर्षयश्च स्वर्गं लोकमायन्' (ऐ. ब्रा. ६. ३२) इत्यादिब्राह्मणविहिता रैभ्यः । सा रैभी “अनुदेयी “आसीत् । दीयमानवधूविनोदनायानुदीयमाना वयस्यासीत् । तथा “नाराशंसी। प्राता रत्नम् ' (ऋ. सं. १. १२५. १ ) इत्यादिका मनुष्याणां स्तुतयो नाराशंस्यः । सा नाराशंसी “न्योचनी । उचतिः सेवाकर्मा । सा वधूशुश्रूषार्थं दीयमाना दास्यभवत् । “सूर्यायाः मम “भद्रं “वासः विचित्रं दुकूलादिकमाच्छादनयोग्यं वस्त्रं “गाथया “परिष्कृतम् अलंकृतम् “एति । 'गाथा गीयते' इत्यादिब्राह्मणोक्ता गाथा । तया गाथया यत्परिष्कृतमस्ति तद्वासोऽभवदिति ॥
चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् ।
द्यौर्भूमि॒ः कोश॑ आसी॒द्यदया॑त्सू॒र्या पति॑म् ॥७
चित्तिः॑ । आः॒ । उ॒प॒ऽबर्ह॑णम् । चक्षुः॑ । आः॒ । अ॒भि॒ऽअञ्ज॑नम् ।
द्यौः । भूमिः॑ । कोशः॑ । आ॒सी॒त् । यत् । अया॑त् । सू॒र्या । पति॑म् ॥७
चित्तिः । आः । उपऽबर्हणम् । चक्षुः । आः । अभिऽअञ्जनम् ।
द्यौः । भूमिः । कोशः । आसीत् । यत् । अयात् । सूर्या । पतिम् ॥ ७ ॥
“चित्तिः देवता “उपबर्हणम् “आः आसीत् । “चक्षुः "अभ्यञ्जनम् “आः आसीत् । तथा हि। वृत्रस्य कनीनिका परापतत्त्रिककुन्नाम पर्वते । तेन त्रैककुदेनाञ्जनसजातीयेन चक्षुषी अञ्जते । तच्चक्षुरेवाञ्जनमासीदिति । “द्यौः च "भूमिः च "कोशः आसीत् । कोशस्थानीये अभूताम् । “यत् यदा "सूर्या "पतिं स्वकीयं नवभर्तारं सोमम् "अयात् अगच्छत् तदैवमुपकरणान्यासन् ॥
स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः ।
सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ॥८
स्तोमाः॑ । आ॒स॒न् । प्र॒ति॒ऽधयः॑ । कु॒रीर॑म् । छन्दः॑ । ओ॒प॒शः ।
सू॒र्यायाः॑ । अ॒श्विना॑ । व॒रा । अ॒ग्निः । आ॒सी॒त् । पु॒रः॒ऽग॒वः ॥८
स्तोमाः । आसन् । प्रतिऽधयः । कुरीरम् । छन्दः । ओपशः ।
सूर्यायाः । अश्विना । वरा । अग्निः । आसीत् । पुरःऽगवः ॥ ८ ॥
सूर्याया रथस्य “स्तोमाः त्रिवृदादयः “प्रतिधयः “आसन् । प्रतिधीयन्त इति प्रतिधय ईषातिर्यगायतकाष्ठादयः । तथा “कुरीरं “छन्दः कुरीरनामकं छन्दोऽनसः "ओपशः अभवत् । येनोपशेरते स ओपशः । तादृशायाः “सूर्यायाः “अश्विना अश्विनौ “वरा वरावास्तामिति शेषः । तस्या विवाहे “पुरोगवः पुरोगन्ता पुरतो गन्ता' यः पूर्वमेव प्रस्तावार्थं गच्छति तत्स्थानीयः “अग्निरासीत् । ‘प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीं तस्यै सर्वे देवा वरा आगच्छन् ' (ऐ. ब्रा. ४.७) इत्यादि हि ब्राह्मणम् । अत्रायमभिप्रायः । प्रजापतिः सविता स्वदुहितरं सोमाय प्रायच्छत् । सोमाय दास्यामीति मनीषामकरोत् । तस्मिन् समये पुत्र्या उपचारार्थं प्रदानान्युक्तान्यभवन् । तथा च सत्यश्विनौ प्रबलौ सन्तावाजिं पुरतो गत्वा तामलभेतामिति । उत्तरत्रापि सोमो वधूयुरभवत् । इत्यादिनायमेवार्थः स्पष्टो भविष्यति । 'योषावृणीत जेन्या' (ऋ.सं.१.११९.५) इत्यादिकमुक्तम् ॥
सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा ।
सू॒र्यां यत्पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात् ॥९
सोमः॑ । व॒धू॒ऽयुः । अ॒भ॒व॒त् । अ॒श्विना॑ । आ॒स्ता॒म् । उ॒भा । व॒रा ।
सू॒र्याम् । यत् । पत्ये॑ । शंस॑न्तीम् । मन॑सा । स॒वि॒ता । अद॑दात् ॥९
सोमः । वधूऽयुः । अभवत् । अश्विना । आस्ताम् । उभा । वरा ।।
सूर्याम् । यत् । पत्ये । शंसन्तीम् । मनसा । सविता । अददात् ॥ ९ ॥
“सोमो “वधूयुः वधूकामो वरः “अभवत् । तस्मिन् समये “अश्विना अश्विनौ "उभा उभौ “वरा वरौ "आस्ताम् अभूताम् । “यत् यदा "सूर्याँ “पत्ये "शंसन्तीं पतिं कामयमानाम् । पर्याप्तयौवनामित्यर्थः। सूर्यां "मनसा सहिताय' सोमाय वराय "सविता तत्पिता अददात् प्रादात् दित्सां चकार ॥
मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त च्छ॒दिः ।
शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हम् ॥१०
मनः॑ । अ॒स्याः॒ । अनः॑ । आ॒सी॒त् । द्यौः । आ॒सी॒त् । उ॒त । छ॒दिः ।
शु॒क्रौ । अ॒न॒ड्वाहौ॑ । आ॒स्ता॒म् । यत् । अया॑त् । सू॒र्या । गृ॒हम् ॥१०
मनः । अस्याः । अनः । आसीत् । द्यौः । आसीत् । उत । छदिः ।
शुक्रौ । अनड़्वाहौ। आस्ताम् । यत् । अयात् । सूर्या । गृहम् ॥ १० ॥
“अस्याः सूर्यायाः पत्युर्गृहं गच्छन्त्याः "अनः रथः “मनः “आसीत् । या पतिगृहं त्वया गच्छामीति मतिरस्ति सा अन आसीत् । "उत अपि च तस्या अनसः “द्यौः द्युलोकः “छदिः उपर्यपिधानम् “आसीत् । शुक्रौ दीप्तौ सूर्याचन्द्रमसौ "अनड्वाहौ रथस्य वोढारौ “आस्ताम् अभवताम् । “यत् यदा "सूर्या गृहं सोमम् अयात् अगात् ॥ ॥ २१ ॥
ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः ।
श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराचा॒रः ॥११
ऋ॒क्ऽसा॒माभ्या॑म् । अ॒भिऽहि॑तौ । गावौ॑ । ते॒ । सा॒म॒नौ । इ॒तः॒ ।
श्रोत्र॑म् । ते॒ । च॒क्रे इति॑ । आ॒स्ता॒म् । दि॒वि । पन्थाः॑ । च॒रा॒च॒रः ॥११
ऋक्ऽसामाभ्याम् । अभिऽहितौ । गावौ । ते। सामनौ । इतः ।
श्रोत्रम् । ते । चक्रे इति । आस्ताम् । दिवि । पन्थाः । चराचरः ॥ ११ ॥
हे सूर्ये देवि ते तव “ऋक्सामाभ्याम् अभिधानीस्थानाभ्याम् “अभिहितौ “गाव गोस्थानीयौ सूर्याचन्द्रमसौ “सामनौ सामानौ सन्तौ “इतः गच्छतः । अनोवाहौ पत्युर्गृहं प्रति गच्छतः । “ते तव “[https://vipin110012.tripod.com/pur_index28/shrotra.htm श्रोत्रम्] । श्रोत्रे इत्यर्थः । वरस्य गुणग्राहिणी श्रोत्रे एव “चक्रे "आस्ताम् । मनोरूपस्य रथस्य श्रोत्रे चक्रे अभवतामित्यर्थः । “दिवि “पन्थाश्चराचरः चलाचलोऽप्यन्तं गमनसाधनभूतो मार्गोऽभूत् । रथसंचारप्रदेशो द्युलोक आसीत् ॥
शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः ।
अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ॥१२
शुची॒ इति॑ । ते॒ । च॒क्रे इति॑ । या॒त्याः । वि॒ऽआ॒नः । अक्षः॑ । आऽह॑तः ।
अनः॑ । म॒न॒स्मय॑म् । सू॒र्या । आ । अ॒रो॒ह॒त् । प्र॒ऽय॒ती । पति॑म् ॥१२
शुची इति । ते । चक्रे इति । यात्याः । विऽआनः । अक्षः । आऽहतः ।
अनः । मनस्मयम् । सूर्या । आ । अरोहत् । प्रऽयती । पतिम् ।। १२ ।।
“यात्याः गच्छन्त्याः “ते तव अनसः “चक्रे चङ्क्रमणशीले रथाङ्गे “शुची श्रोत्रे आस्ताम् । “व्यानः तव व्यानो वायुः “अक्षः । उभयरथचक्रच्छिद्रगामिनी या काष्ठा सा च रथस्य सर्वं भारं वहति । सोऽक्षो व्यानोऽभूत् । “मनस्मयं मनोमयम् “अनः शकटं “सूर्या “पतिं सोमं प्रति “प्रयती प्रकर्षेण गच्छन्ती “आरोहत् आरूढवती । पतिं प्रति जिगमिषोर्मनोरूपस्य रथस्य पत्युर्गुणश्राविणी श्रोत्रे एव चक्रे अभूतां व्यानो धारको वायुश्चेष्टकोऽक्षोऽभूदित्यर्थः ।।
सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् ।
अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्यो॒ः पर्यु॑ह्यते ॥१३
सू॒र्यायाः॑ । व॒ह॒तुः । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् ।
अ॒घासु॑ । ह॒न्य॒न्ते॒ । गावः॑ । अर्जु॑न्योः । परि॑ । उ॒ह्य॒ते॒ ॥१३
सूर्यायाः । वहतुः । प्र । अगात् । सविता । यम् । अवऽअसृजत् ।
अघासु । हन्यन्ते । गावः । अर्जुन्योः । परि । उह्यते ॥ १३ ॥
सोमाय प्रदित्सितायाः “सूर्याया वहतुः । कन्याप्रियार्थं दातव्यो गवादिपदार्थों वहतुः । स च “प्रागात् तस्या अपि पूर्वमगच्छत् । “यं वहतुं “सविता अस्याः पिता “अवासृजत् अवसृष्टवान् । प्रादादित्यर्थः। कदा सागच्छत् कदा वहतुरित्युभयोः काल उच्यते । “अघासु । मघास्वित्यर्थः । मघानक्षत्रेषु “गावः सवित्रा दत्ता गावः सोमगृहं प्रति “हन्यन्ते दण्डैस्ताड्यन्ते प्रेरणार्थम् । “अर्जुन्योः । फल्गुन्योरित्यर्थः। तयोर्नक्षत्रयोः सवितुः सकाशात् परि सोमगृहं प्रति “उह्यते नीयते रथेन ॥
यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ ।
विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥१४
यत् । अ॒श्वि॒ना॒ । पृ॒च्छमा॑नौ । अया॑तम् । त्रि॒ऽच॒क्रेण॑ । व॒ह॒तुम् । सू॒र्यायाः॑ ।
विश्वे॑ । दे॒वाः । अनु॑ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्रः । पि॒तरौ॑ । अ॒वृ॒णी॒त॒ । पू॒षा ॥१४
यत् । अश्विना । पृच्छमानौ । अयातम् । त्रिऽचक्रेण । वहतुम् । सूर्यायाः ।
विश्वे । देवाः । अनु । तत् । वाम् । अजानन् । पुत्रः । पितरौ । अवृणीत । पूषा ॥ १४ ॥
हे "अश्विना अश्विनौ "यत् यदा “पृच्छमानौ सवितारं प्रष्टुम् "अयातम् अगच्छतम् । केन साधनेनायातं तदुच्यते । "त्रिचक्रेण चक्रत्रययुक्तेन रथेन । किं पृच्छमानौ । "सूर्यायाः “वहतुम् । विवाहमित्यर्थः । "तत् तदानीं “वां युवां सवितारं प्रति गच्छन्तौ “विश्व सर्वे "देवाः “अनु "अजानन् अनुज्ञातवन्तः । तथा “पितरौ "पुत्रः अश्विनोः पुत्रः "पूषा "अवृणीत वृतवान् ॥
यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ ।
क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥१५
यत् । अया॑तम् । शु॒भः॒ । प॒ती॒ इति॑ । व॒रे॒ऽयम् । सू॒र्याम् । उप॑ ।
क्व॑ । एक॑म् । च॒क्रम् । वा॒म् । आ॒सी॒त् । क्व॑ । दे॒ष्ट्राय॑ । त॒स्थ॒थुः॒ ॥१५
यत् । अयातम् । शुभः । पती इति । वरेऽयम् । सूर्याम् । उप ।
क्व । एकम् । चक्रम् । वाम् । आसीत् । क्व। देष्ट्राय । तस्थथुः ॥ १५ ॥
हे “शुभस्पती उदकस्य स्वामिनौ "यत् यौ “अयातम् अगच्छतम् । कं प्रति। “वरेयं वरणीयायाः सूर्यायाः संबन्धिनं वरैर्याचितव्यं वा । सवितारमित्यर्थः । किमर्थम् । "सूर्यामुप गन्तुम् । “वां भवतोः संप्रति दृश्यमानमिदम् "एकं चक्रं “क्व “आसीत् पुरा । "क्व वा युवां “देष्ट्राय दानाय प्रवृत्तौ “तस्थथुः इत्यश्विनोर्निवासं पृच्छति ॥ ॥ २२ ॥
द्वे ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः ।
अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ॥१६
द्वे इति॑ । ते॒ । च॒क्रे इति॑ । सू॒र्ये॒ । ब्र॒ह्माणः॑ । ऋ॒तु॒ऽथा । वि॒दुः॒ ।
अथ॑ । एक॑म् । च॒क्रम् । यत् । गुहा॑ । तत् । अ॒द्धा॒तयः॑ । इत् । वि॒दुः॒ ॥१६
द्वे इति । ते । चक्रे इति । सूर्ये । ब्रह्माणः । ऋतुऽथा। विदुः ।।
अथ । एकम् । चक्रम् । यत् । गुहा । तत् । अद्धातयः । इत् । विदुः ॥ १६ ॥
अथ स्वयमेव स्वात्मानं प्रति सूर्यां वदति । हे "सूर्ये ते तव “द्वे "चक्रे प्रज्ञाते पुरा दृष्टे द्वे एव चन्द्रसूर्यात्मके “ऋतुथा ऋतुषु विनिर्दिष्टे चक्रे “ब्रह्माणः ब्राह्मणाः विदुः । "अथैकं "चक्रं तृतीयं संवत्सरात्मकं "गुहा गुहायां निहितं "यत् अस्ति "तदद्धातय “इत् । एतन्मेधाविनामसु पठितम् (नि. ३. १५, २१ ) । मेधाविन एव "विदुः जानन्ति ॥
सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च ।
ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नमः॑ ॥१७
सू॒र्यायै॑ । दे॒वेभ्यः॑ । मि॒त्राय॑ । वरु॑णाय । च॒ ।
ये । भू॒तस्य॑ । प्रऽचे॑तसः । इ॒दम् । तेभ्यः॑ । अ॒क॒र॒म् । नमः॑ ॥१७
सूर्यायै । देवेभ्यः । मित्राय । वरुणाय । च ।
ये। भूतस्य । प्रऽचेतसः । इदम् । तेभ्यः । अकरम् । नमः ॥ १७ ॥
"सूर्यायै सूर्यस्य पत्न्यै "देवेभ्यः अग्न्यादिभ्यः "मित्राय "वरुणाय च "ये च "भूतस्य भूतजातस्य “प्रचेतसः सुमतयोऽभिमतप्रदा भवन्ति "तेभ्यः सर्वेभ्यः इदं "नमः नमस्कारम् "अकरं करोमि ॥
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ॑न्तौ॒ परि॑ यातो अध्व॒रम् ।
विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥१८
पू॒र्व॒ऽअ॒प॒रम् । च॒र॒तः॒ । मा॒यया॑ । ए॒तौ । शिशू॒ इति॑ । क्रीळ॑न्तौ । परि॑ । या॒तः॒ । अ॒ध्व॒रम् ।
विश्वा॑नि । अ॒न्यः । भुव॑ना । अ॒भि॒ऽचष्टे॑ । ऋ॒तून् । अ॒न्यः । वि॒ऽदध॑त् । जा॒य॒ते॒ । पुन॒रिति॑ ॥१८
पूर्वऽअपरम् । चरतः । मायया । एतौ । शिशू इति । क्रीळन्तौ । परि । यातः । अध्वरम् ।
विश्वानि । अन्यः ।भुव॑ना । अभिऽचष्टे । ऋतून् । अन्यः । विऽदधत् । जायते । पुनरिति ॥१८॥
कश्चित्पूर्वं गच्छति सूर्यः । अन्यस्तमनुचरति चन्द्रमाः। एवं पूर्वापरं पौर्वापर्येण "मायया स्वप्रज्ञानेन "एतौ आदित्यचन्द्रौ "चरतः गच्छतो दिवि । तौ “शिशू । शिशुवद्भ्रमणाज्जायमानत्वाद्वा शिशू इत्युच्येते । शिशू सन्तौ "क्रीळन्तौ अन्तरिक्षे विहरन्तौ "अध्वरं "परि "यातः यज्ञं प्रतिगच्छतः । तयोः "अन्यः आदित्यः "विश्वानि “भुवना भुवनानि “अभिचष्टे अभिपश्यति । “ऋतून् वसन्तादीन् “अन्यः चन्द्रमाः “विदधत् कुर्वन् मासानर्धमासांश्च कुर्वन् "पुनः "जायते । यद्यप्युभयोरपि पुनर्जनिरस्ति तथापि सूर्यस्य सर्वदा प्रवृद्धेरुदयो नाभिप्रेतः । चन्द्रस्य तु हासवृद्धि सद्भावात्पुनःपुनर्जायत इत्युक्तिर्युक्ता।' चन्द्रमा वै जायते पुनः' (तै. ब्रा. ३. ९. ५. ४) इत्यादिश्रुतेः ॥
अतिमूर्तिनाम्न्येकाहे शुक्लपक्षे चान्द्रमसीष्टिः । तत्र ‘नवोनवः' इत्येषा याज्या। सूत्रितं च--- ‘नवोनवो भवति जायमानस्तरणिर्विश्वदर्शतः' (आश्व. श्रौ. ९. ८) इति ॥
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्र॑म् ।
भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायुः॑ ॥१९
नवः॑ऽनवः । भ॒व॒ति॒ । जाय॑मानः । अह्ना॑म् । के॒तुः । उ॒षसा॑म् । ए॒ति॒ । अग्र॑म् ।
भा॒गम् । दे॒वेभ्यः॑ । वि । द॒धा॒ति॒ । आ॒ऽयन् । प्र । च॒न्द्रमाः॑ । ति॒र॒ते॒ । दी॒र्घम् । आयुः॑ ॥१९
नवःऽनवः । भवति । जायमानः । अह्राम् । केतुः । उषसाम् । एति । अग्रम् ।
भागम् । देवेभ्यः । वि । दधाति । आऽयन् । प्र । चन्द्रमाः । तिरते । दीर्घम् । आयुः ॥१९॥
अयं चन्द्रमाः “जायमानः प्रतिदिनं जायमान एकैककलाधिक्येनोत्पद्यमानः सन् "नवोनवो “भवति प्रतिदिनं नूतन एव भवति । एतत्पूर्वपक्षाद्यभिप्रायम् । तथा “अह्नां दिवसानां "केतुः प्रज्ञापकः प्रतिपदादीनां तिथीनां चन्द्रकलाहासवृद्ध्यधीनत्वात् । तादृशश्चन्द्रमाः “उषसां प्रभातीनाम् "अग्रम् “एति। एतत्कृष्णपक्षान्ताभिप्रायम् । केचनैतं पादमादित्यदैवत्यमाहुः । तस्मिन् पक्षेऽह्नां केतुत्वमुषसामग्रगतिश्च प्रसिद्धे । "देवेभ्यः "भागं हविर्भागं “वि “दधाति करोति उभयपक्षान्ते । किं कुर्वन् । “आयन प्रतिदिनं हासवृद्ध्या पक्षान्तमभिगच्छन्। एतदर्धमासाभिप्रायम्। "चन्द्रमाः उक्तलक्षणो देवः "दीर्घमायुः “तिरते वर्धयति ॥
सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम् ।
आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ॥२०
सु॒ऽकिं॒शु॒कम् । श॒ल्म॒लिम् । वि॒श्वऽरू॑पम् । हिर॑ण्यऽवर्णम् । सु॒ऽवृत॑म् । सु॒ऽच॒क्रम् ।
आ । रो॒ह॒ । सू॒र्ये॒ । अ॒मृत॑स्य । लो॒कम् । स्यो॒नम् । पत्ये॑ । व॒ह॒तुम् । कृ॒णु॒ष्व॒ ॥२०
सुऽकिंशुकम् । शल्मलिम् । विश्वऽरूपम् । हिरण्यऽवर्णम् । सुऽवृतम् । सुऽचक्रम् ।
आ। रोह। सूर्ये । अमृतस्य । लोकम् । स्योनम् । पत्ये । वहतुम् । कृणुष्व ॥ २० ॥
“सुकिंशुकं शोभनकिंशुकवृक्षनिर्मितं तथा “शल्मलिं शल्मलिवृक्षनिर्मितं "विश्वरूपं नानारूपं हिरण्यवर्णं हितरमणीयवर्णं हिरण्यालंकारयुक्तं वा "सुवृतं सुष्ठुवर्तनं "सुचक्रं शोभनचक्रोपेतं रथं हे "सूर्ये “आ “रोह । अमृतस्य लोकं स्थानं "स्योनं सुखकरं "पत्ये सोमाय "वहतुं वहनमात्मनः प्रापणं "कृणुष्व कुरुष्व । अत्र निरुक्तं (१२. ८) द्रष्टव्यम् ॥ ॥ २३ ॥
उदी॒र्ष्वात॒ः पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे ।
अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥२१
उत् । ई॒र्ष्व॒ । अतः॑ । पति॑ऽवती । हि । ए॒षा । वि॒श्वऽव॑सुम् । नम॑सा । गीः॒ऽभिः । ई॒ळे॒ ।
अ॒न्याम् । इ॒च्छ॒ । पि॒तृ॒ऽसद॑म् । विऽअ॑क्ताम् । सः । ते॒ । भा॒गः । ज॒नुषा॑ । तस्य॑ । वि॒द्धि॒ ॥२१
उत् । ईर्ष्व । अतः । पतिऽवती । हि । एषा । विश्वऽवसुम् । नमसा । गी:ऽभिः । ईळे।
अन्याम् । इच्छ । पितृऽसदम् । विऽअक्ताम् । सः । ते । भागः । जनुषा । तस्य । विद्धि ॥२१॥
आभिर्नृणां विवाहः स्तूयते । हे विश्वावसो "अतः स्थानात् कन्यासमीपात् "उदीर्ष्व उत्तिष्ठ । यतः “एषा कन्या “पतिवती “हि संजाता अत उदीर्ष्वेति वा अतःशब्दो योज्यः । "विश्वावसुम् एतन्नामानं गन्धर्वं नमसा नमस्कारेण “गीर्भिः स्तुतिभिश्च “ईळे स्तौमि । तर्ह्येनां विहाय कां स्वीकरोमीति यदि ब्रूषे तर्हि "अन्यां "पितृषदं पितृकुले स्थितां “व्यक्ताम् अनूढेति परिस्फुटां विगताञ्जनां वा । स्तनोद्ग-- मादिराहित्येनाप्रौढामित्यर्थः । "सः तादृशः पदार्थः "ते तव “भागः कल्पितः । "तस्य तं भागं “विद्धि जानीहि "जनुषा जन्मना । लभस्वेत्यर्थः ॥
उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळा महे त्वा ।
अ॒न्यामि॑च्छ प्रफ॒र्व्यं१॒॑ सं जा॒यां पत्या॑ सृज ॥२२
उत् । ई॒र्ष्व॒ । अतः॑ । वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो । नम॑सा । ई॒ळा॒म॒हे॒ । त्वा॒ ।
अ॒न्याम् । इ॒च्छ॒ । प्र॒ऽफ॒र्व्य॑म् । सम् । जा॒याम् । पत्या॑ । सृ॒ज॒ ॥२२
उत् । ईर्ष्व । अतः । विश्ववसो इति विश्वऽवसो । नमसा । ईळामहे । त्वा ।।
अन्याम् । इच्छ। प्रऽफर्व्यम् । सम् । जायाम् । पत्या । सृज ॥ २२ ॥
“अतः अस्माच्छयनात् हे "विश्वावसो कन्यास्वामिन् गन्धर्व “उदीर्ष्व उद्गच्छ। ‘ईर गतौ ' । आदादिकः । अनुदात्तेत् । तस्य लोटि रूपम् । विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्यतः । लभामि तेन कन्याम्' इति हि मन्त्रः । तादृश देव त्वां "नमसा नमस्कारेण ईळामहे स्तुमः । स त्वम् "अन्यां "प्रफर्व्यं बृहन्नितम्बां कन्याम् इच्छ। "जायां मां “पत्या सह पुनः "सं "सृज ॥
अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्था॒ येभि॒ः सखा॑यो॒ यन्ति॑ नो वरे॒यम् ।
सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥२३
अ॒नृ॒क्ष॒राः । ऋ॒जवः॑ । स॒न्तु॒ । पन्थाः॑ । येभिः॑ । सखा॑यः । यन्ति॑ । नः॒ । व॒रे॒ऽयम् ।
सम् । अ॒र्य॒मा । सम् । भगः॑ । नः॒ । नि॒नी॒या॒त् । सम् । जाः॒ऽप॒त्यम् । सु॒ऽयम॑म् । अ॒स्तु॒ । दे॒वाः॒ ॥२३
अनृक्षराः । ऋजवः । सन्तु। पन्थाः । येभिः । सखायः । यन्ति । नः । वरेऽयम् ।
सम् । अर्यमा । सम् । भगः । नः । निनीयात् ।। सम् । जापत्यम् । सुऽयमम् । अस्तु । देवाः ॥ २३ ॥
हे देवाः "पन्थाः पन्थानो मार्गाः अनृक्षराः । ऋक्षरः कण्टक उच्यते । कण्टकरहिताः “ऋजवः अकुटिलाश्च "सन्तु "येभिः यैः पथिभिः "नः अस्माकं “सखायः वरप्रेषिताः “वरेयं वरैर्याचितव्यं पितरं प्रति “यन्ति गच्छन्ति ते पन्था इति । किंच “अर्यमा देवः “नः अस्मान् “सं “निनीयात् सम्यक् प्रापयेत् । तथा भगः देवः "सं निनीयात् । हे "देवाः आसंगतमस्तु पतिकुलमिति शेषः । तथेदं "जास्पत्यं जायापत्योर्युगलं "सुयममस्तु सुमिथुनमस्तु ॥
पत्न्या योक्त्रविमोचने ‘प्र त्वा मुञ्चामि' इत्येषा । सूत्रितं च– अथास्या योक्त्रं विचृतेत्प्र त्वा मुञ्चामि वरुणस्य पाशात् ' ( आश्व. श्रौ. १. ११ ) इति ॥
प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ ।
ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥२४
प्र । त्वा॒ । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । येन॑ । त्वा॒ । अब॑ध्नात् । स॒वि॒ता । सु॒ऽशेवः॑ ।
ऋ॒तस्य॑ । योनौ॑ । सु॒ऽकृ॒तस्य॑ । लो॒के । अरि॑ष्टाम् । त्वा॒ । स॒ह । पत्या॑ । द॒धा॒मि॒ ॥२४
प्र । त्वा । मुञ्चामि । वरुणस्य । पाशात् । येन । त्वा । अबध्नात् । सविता । सुऽशेवः ।
ऋतस्य । योनौ । सुऽकृतस्य । लोके । अरिष्टाम् । त्वा । सह । पत्या । दधामि ।। २४ ।।
जातं प्राणिनं सवित्रा प्रेरितो वरुण आत्मपाशैर्बध्नाति । तस्मात् “वरुणस्य “पाशात् हे वधु “त्वा त्वां “प्र “मुञ्चामि “येन पाशेन “त्वा त्वां “सविता वरुणस्य प्रेरकः “सुशेवः सुसुखः “अबध्नात् बन्धनं कृतवान् । यज्ञविनियोगपक्षे पत्नीं योक्त्रेण बध्नाति । बन्धनस्य वरुणोऽभिमानी। अतो वरुणपाशयोक्त्रात्प्र मुञ्चामि येन योक्त्रेण सविता कर्मणामनुज्ञाता देव ऋत्विक्पाशेनाबध्नात् । तं मोचयित्वा च "ऋतस्य यज्ञस्य “योनौ स्थाने यागभूमौ "सुकृतस्य “लोके कर्मक्षेत्रे भूलोके च “अरिष्टाम् अहिंसितां त्वां पुत्राद्यर्थं “पत्या “सह “दधामि स्थापयामि ॥
प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् ।
यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥२५
प्र । इ॒तः । मु॒ञ्चामि॑ । न । अ॒मुतः॑ । सु॒ऽब॒द्धाम् । अ॒मुतः॑ । क॒र॒म् ।
यथा॑ । इ॒यम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्रा । सु॒ऽभगा॑ । अस॑ति ॥२५
प्र । इतः । मुञ्चामि । न । अमुतः । सुऽबद्धाम् । अमुतः । करम् ।
यथा । इयम् । इन्द्र । मीढ्वः । सुऽपुत्रा । सुऽभगा । असति ॥ २५ ॥
“इतः पितृकुलात् “प्र “मुञ्चामि त्वां “नामुतः भर्तृगृहात्प्रमुञ्चामि । “अमुतः भर्तृगृहे "सुबद्धां “करम् । “यथेयं कन्या हे “इन्द्र “मीढ़्वः सेक्तः “सुपुत्रा “सुभगा सुष्ठुभाग्या वा “असति भवति तथा कुरु ॥ ॥ २४ ॥
विवाहानन्तरभाविनि प्रयाणे ‘पूषा त्वेतो नयतु' इत्यनया रथादियानमारोहयेत् । सूत्रितं च- पूषा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत्' (आश्व. गृ. १. ८. १ ) इति ॥
पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न ।
गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥२६
पू॒षा । त्वा॒ । इ॒तः । न॒य॒तु॒ । ह॒स्त॒ऽगृह्य॑ । अ॒श्विना॑ । त्वा॒ । प्र । व॒ह॒ता॒म् । रथे॑न ।
गृ॒हान् । ग॒च्छ॒ । गृ॒हऽप॑त्नी । यथा॑ । असः॑ । व॒शिनी॑ । त्वम् । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥२६
पूषा । त्वा । इतः । नयतु । हस्तऽगृह्य । अश्विना । त्वा । प्र । वहताम् । रथेन ।
गृहान् । गच्छ । गृहऽपत्नी । यथा । असः । वशिनी । त्वम् । विदथम् । आ। वदासि॥२६॥
“हस्तगृह्य ग्राह्यहस्तः पूषा “त्वा त्वाम् इतः “नयतु प्रापयतु । “अश्विना अश्विनौ “त्वा त्वां “रथेन “प्र “वहतां प्रगमयताम् । “गृहान् भर्तृसंबन्धिनः “गच्छ त्वं “गृहपत्नी “यथासः भवसि स्वगृहस्वामिनी भवसि । “वशिनी सर्वेषां गृहगतानां वंशं प्रापयित्री पत्युर्वशे वर्तमाना वा “विदथं पतिगृहम् “आ “वदासि आवदसि । गृहस्थितं भृत्यादिजनमावद ॥
‘इह प्रियम्' इत्येषा वध्वा गृहप्रवेशनी । सूत्रितं च-’इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत्' (आश्व. गृ. १. ८. ८) इति ॥
इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥२७
इ॒ह । प्रि॒यम् । प्र॒ऽजया॑ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् । अ॒स्मिन् । गृ॒हे । गार्ह॑ऽपत्याय । जा॒गृ॒हि॒ ।
ए॒ना । पत्या॑ । त॒न्व॑म् । सम् । सृ॒ज॒स्व॒ । अध॑ । जिव्री॒ इति॑ । वि॒दथ॑म् । आ । व॒दा॒थः॒ ॥२७
इह । प्रियम् । प्रऽजया । ते । सम् । ऋध्यताम् । अस्मिन् । गृहे । गार्हऽपत्याय । जागृहि ।
एना। पत्या । तन्वम् । सम् । सृजस्व । अध । जिव्री इति । विदथम् । आ । वदाथः ॥२७॥
हे वधु “ते तव “इह अस्मिन् पतिकुले “प्रियं “प्रजया सह "समृध्यताम् । “अस्मिन्गृहे “गार्हपत्याय गृहपतित्वाय “जागृहि बुध्यस्व। “एना अनेन “पत्या सह “तन्वं स्वीयं शरीरं “सं “सृजस्व । संसृष्टा भव । “अध अथ "जिव्री जीर्णौ जायापती युवां “विदथं गृहम् आ “वदाथः आभिमुख्येन वदतम् ।।
नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते ।
एध॑न्ते अस्या ज्ञा॒तय॒ः पति॑र्ब॒न्धेषु॑ बध्यते ॥२८
नी॒ल॒ऽलो॒हि॒तम् । भ॒व॒ति॒ । कृ॒त्या । आ॒स॒क्तिः । वि । अ॒ज्य॒ते॒ ।
एध॑न्ते । अ॒स्याः॒ । ज्ञा॒तयः॑ । पतिः॑ । ब॒न्धेषु॑ । ब॒ध्य॒ते॒ ॥२८
नीललोहितम् । भवति । कृत्या । आसक्तिः । वि । अज्यते ।
एधन्ते । अस्याः । ज्ञातयः । पतिः । बन्धेषु । बध्यते ॥ २८ ॥
“कृत्या अभिचाराभिमानिनी देवता “नीललोहितं भवति । नीलं च लोहितं च तस्या रूपं भवतीत्यर्थः । सा कृत्या “आसक्तिः आसक्तास्यां संबद्धा “व्यज्यते । त्यज्यत इत्यर्थः । तस्यां कृत्यायामपगतायाम् “अस्याः वध्वाः "ज्ञातयः “एधन्ते वर्धन्ते । पतिः च “बन्धेषु सांसारिकेषु "बध्यते ॥
परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥२९
परा॑ । दे॒हि॒ । शा॒मु॒ल्य॑म् । ब्र॒ह्मऽभ्यः॑ । वि । भ॒ज॒ । वसु॑ ।
कृ॒त्या । ए॒षा । प॒त्ऽवती॑ । भू॒त्वी । आ । जा॒या । वि॒श॒ते॒ । पति॑म् ॥२९
परा । देहि । शामुल्यम् । ब्रह्मऽभ्यः । वि । भज । वसु ।
कृत्या । एषा । पत्ऽवती । भूत्वी । आ । जाया। विशते । पतिम् ॥ २९ ॥
“शामुल्यम् । शामलमित्यर्थः । शमलं शरीरं मलम् । शरीरावच्छन्नस्य मलस्य धारकं वस्त्रं “परा “देहि परात्यज । धृतप्रायश्चित्तार्थं “ब्रह्मभ्यः ब्राह्मणेभ्यः "वसु धनं “वि “भज प्रयच्छेत्यर्थः । किमर्थं वधूवासः परित्याग इति चेत् उच्यते । “एषा “कृत्या “पद्वती पदवती सती "जाया “भूत्वी भूत्वा “पतिं “विशते । कृत्यारूपवासःप्रवेशात् कृत्या जाया भूत्वा विशत इत्युपचर्यते । अतस्तत्परित्यागे कृत्यैव त्यक्ता भवतीत्यर्थः । यदि वधूवासः स्वयं निधत्ते तदैवं भवतीति वधूवासःसंस्पर्शनं निन्दायुक्तम् ॥
अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या ।
पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ॥३०
अ॒श्री॒रा । त॒नूः । भ॒व॒ति॒ । रुश॑ती । पा॒पया॑ । अ॒मु॒या ।
पतिः॑ । यत् । व॒ध्वः॑ । वास॑सा । स्वम् । अङ्ग॑म् । अ॒भि॒ऽधित्स॑ते ॥३०
अश्रीरा । तनूः । भवति । रुशती । पापया । अमुया ।।
पतिः । यत् । वध्वः । वाससा । स्वम् । अङ्गम् । अभिऽधित्सते ॥ ३० ॥
अत्रापि वधूवासःसंस्पर्शनिन्दोच्यते । “तनूः वरस्य संबन्धिनी अश्रीराः अश्रीका “भवति । कथं स्याच्चेदिति उच्यते । “रुशती । रुशदिति वर्णनाम । दीप्तया "अमुया अनया "पापया पापरूपया कृत्यया युक्ता चेत्तनूः । तदेवाह । “पतिर्यत् यदि “वध्वो “वाससा “स्वमङ्गमभिधित्सते परिधातुमिच्छति ॥ ॥ २५ ॥
ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ ।
पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ॥३१
ये । व॒ध्वः॑ । च॒न्द्रम् । व॒ह॒तुम् । यक्ष्माः॑ । यन्ति॑ । जना॑त् । अनु॑ ।
पुन॒रिति॑ । तान् । य॒ज्ञियाः॑ । दे॒वाः । नय॑न्तु । यतः॑ । आऽग॑ताः ॥३१
ये । वध्वः । चन्द्रम् । वहतुम् । यक्ष्माः । यन्ति । जनात् । अनु ।
पुनरिति । तान् । यज्ञियाः । देवाः । नयन्तु । यतः । आऽगताः ॥ ३१ ॥
“वध्वश्चन्द्रं हिरण्यरूपं “वहतुं “ये यक्ष्माः व्याधयः “अनु “यन्ति प्राप्नुवन्ति “जनात् अस्मद्विरोधिनः सकाशात् । यद्वा । जनाद्यमाख्यात् । “तान “पुनः “नयन्तु प्रापयन्तु “यज्ञियाः यज्ञार्हाः "देवाः इन्द्रादयः । “यत “आगताः यस्मात्ते यक्ष्मा आगतास्तत्र तान्नयन्तु ॥
वध्वाः प्रयाणे ‘मा विदन्' इत्येषा जप्या। सूत्रितं च-’कल्याणेषु देशवृक्षचतुष्पथेषु मा विदन् परिपन्थिन इति जपेत ' ( आश्व. गृ. १. ८. ६ ) इति ॥
मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती ।
सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ॥३२
मा । वि॒द॒न् । प॒रि॒ऽप॒न्थिनः॑ । ये । आ॒ऽसीद॑न्ति॒ । दम्प॑ती॒ इति॒ दम्ऽप॑ती ।
सु॒ऽगेभिः॑ । दुः॒ऽगम् । अति॑ । इ॒ता॒म् । अप॑ । द्रा॒न्तु॒ । अरा॑तयः ॥३२
मा । विदन् । परिऽपन्थिनः । ये । आऽसीदन्ति । दंपती इति दम्ऽपती ।
सुऽगेभिः । दुःऽगम् । अति । इताम् । अप । द्रान्तु । अरातयः ॥ ३२ ॥
“परिपन्थिनः पर्यवस्थातारः शत्रवः “मा “विदन् मा प्रापयन् ये “परिपन्थिनः “दंपती “आसीदन्ति अभिगच्छन्ति । "सुगेभिः सुगैर्मार्गैः "दुर्गं दुःखेन गन्तुं शक्यं दुर्गमं देशम् “अतीतां अतिगच्छताम्। “अरातयः अदातारः शत्रवः “अप "द्रान्तु अपगच्छन्तु ॥
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त ।
सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥३३
सु॒ऽम॒ङ्ग॒लीः । इ॒यम् । व॒धूः । इ॒माम् । स॒म्ऽएत॑ । पश्य॑त ।
सौभा॑ग्यम् । अ॒स्यै॒ । द॒त्त्वाय॑ । अथ॑ । अस्त॑म् । वि । परा॑ । इ॒त॒न॒ ॥३३
सुऽमङ्गलीः । इयम् । वधूः । इमाम् । सम्ऽएत । पश्यत ।
सौभाग्यम् । अस्यै । दत्त्वाय । अथ । अस्तम् । वि । परा । इतन ॥ ३३ ॥
“इयं “वधूः “सुमङ्गलीः शोभनमङ्गला । अतः “इमां सर्वं आशीःकर्तारः “समेत संगच्छत । तां “पश्यत च । तां संगताश्च दृष्ट्वा “अस्यै ऊढायै सौभाग्यं “दत्वाय दत्त्वा “अथ “अस्तम् । गृहनामैतत् । स्वस्वसंबन्धिनं “वि “परेतन विविधं परागच्छत ॥
तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे ।
सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥३४
तृ॒ष्टम् । ए॒तत् । कटु॑कम् । ए॒तत् । अ॒पा॒ष्ठऽव॑त् । वि॒षऽव॑त् । न । ए॒तत् । अत्त॑वे ।
सू॒र्याम् । यः । ब्र॒ह्मा । वि॒द्यात् । सः । इत् । वाधू॑ऽयम् । अ॒र्ह॒ति॒ ॥३४
तृष्टम् । एतत् । कटुकम् । एतत् । अपाष्ठऽवत् । विषऽवत् । न । एतत् । अत्तवे ।
सूर्याम् । यः । ब्रह्मा । विद्यात् । सः । इत् । वाधूऽयम् । अर्हति ।। ३४ ।।
अनयापि वधूवस्त्रपरित्यागः प्रतिपाद्यते । एतत् वस्त्रं “तृष्टं दाहजनकम् । तथा “एतत् “कटुकम् । तथा “अपाष्ठवत् । अपाष्ठमपस्थितमृजीषम् । तद्वत् । तथा “विषवत् । “नैतत् वस्त्रम् “अत्तवे अत्तव्यम् । अनुपयोग्यम्। “यो “ब्रह्मा ब्राह्मणः “सूर्याम् इदानीं प्रस्तुतां देवीं “विद्यात् सम्यग्जानीयात् “स “इत् स एव “वाधूयं वधूवस्त्रम् “अर्हति।।
आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् ।
सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ॥३५
आ॒ऽशस॑नम् । वि॒ऽशस॑नम् । अथो॒ इति॑ । अ॒धि॒ऽवि॒कर्त॑नम् ।
सू॒र्यायाः॑ । प॒श्य॒ । रू॒पाणि॑ । तानि॑ । ब्र॒ह्मा । तु । शु॒न्ध॒ति॒ ॥३५
आऽशसनम् । विऽशसनम् । अथो इति । अधिऽविकर्तनम् ।।
सूर्यायाः । पश्य । रूपाणि । तानि । ब्रह्मा । तु । शुन्धति ।। ३५ ।।
“आशसनं तूषाधानम्। तच्चान्यवर्णं भवति । “विशसनं शिरसि निधीयमानम् । तादृशं दशान्ते निधीयमानम् “अधिविकर्तनं यत्त्रिधा वासो विकृन्तन्ति । तान्याशसनादीनि वासांस्यवस्थितानि “सूर्यायाः "रूपाणि भवन्ति । तानि “पश्य। एवंभूतान्याशसनादीनि पुरा सूर्यास्वशरीरे स्थितान्यमङ्गलानि वासांसि विधत्ते । “तानि रूपाणि सूर्यावित् “ब्रह्मा “तु ब्राह्मण एव तस्माद्वाससः सकाशात् “शुन्धति अपनयति ॥ ॥ २६ ॥
विवाहे कन्याहस्तग्रहणे 'गृभ्णामि' इत्येषा । सूत्रितं च--- गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयात् ' ( आश्व. गृ. १. ७. ३) इति ॥
गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ ।
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥३६
गृ॒भ्णामि॑ । ते॒ । सौ॒भ॒ग॒ऽत्वाय॑ । हस्त॑म् । मया॑ । पत्या॑ । ज॒रत्ऽअ॑ष्टिः । यथा॑ । असः॑ ।
भगः॑ । अ॒र्य॒मा । स॒वि॒ता । पुर॑म्ऽधिः । मह्य॑म् । त्वा॒ । अ॒दुः॒ । गार्ह॑ऽपत्याय । दे॒वाः ॥३६
गृभ्णामि । ते। सौभगऽत्वाय । हस्तम् । मया । पत्या । जरत्ऽअष्टिः । यथा । असः ।
भगः । अर्यमा । सविता । पुरम्ऽधिः । मह्यम् । त्वा । अदुः । गार्हऽपत्याय । देवाः ॥३६॥
हे वधु "ते तव “हस्तम् अहं “गृभ्णामि गृह्णामि । किमर्थम् । “सौभगत्वाय सौभाग्याय । “मया “पत्या त्वं यथा "जरदष्टिः प्राप्तवार्धक्या “असः भवसि । “भगो “अर्यमा “सविता “पुरंधिः पूषा एते "देवाः “त्वा त्वां “मह्यम् अदुः दत्तवन्तः। किमर्थम् । “गार्हपत्याय । यथाहं गृहपतिः स्यामिति॥
तां पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वप॑न्ति ।
या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्तः॑ प्र॒हरा॑म॒ शेप॑म् ॥३७
ताम् । पू॒ष॒न् । शि॒वऽत॑माम् । आ । ई॒र॒य॒स्व॒ । यस्या॑म् । बीज॑म् । म॒नु॒ष्याः॑ । वप॑न्ति ।
या । नः॒ । ऊ॒रू इति॑ । उ॒श॒ती । वि॒ऽश्रया॑ते । यस्या॑म् । उ॒शन्तः॑ । प्र॒ऽहरा॑म । शेप॑म् ॥३७
ताम् । पूषन् । शिवऽतमाम् । आ । ईरयस्व । यस्याम् । बीजम् । मनुष्याः । वपन्ति ।
या। नः । ऊरू इति । उशती । विऽश्रयते । यस्याम् । उशन्तः । प्रऽहराम । शेपम् ॥३७॥
हे "पूषन् पोषकैतन्नामक देव "शिवतमाम् अत्यन्तमङ्गलभूतां "ताम् “एरयस्व आ ईरय सर्वतः प्रेरय । “यस्याम् ऊरौ "बीजं रेतोलक्षणं "मनुष्या “वपन्ति आदधते । “या “नः अस्माकम् “ऊरू “उशती कामयमाना “विश्रयाते । “यस्याम् ऊरौ "उशन्तः कामयमाना वयं “शेपं स्पर्शनयोग्यं पुंस्प्रजननं “प्रहराम । ऊरौ व्यञ्जनसंबन्धं करवामेत्यर्थः ॥
तुभ्य॒मग्रे॒ पर्य॑वहन्सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुन॒ः पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥३८
तुभ्य॑म् । अग्रे॑ । परि॑ । अ॒व॒ह॒न् । सू॒र्याम् । व॒ह॒तुना॑ । स॒ह ।
पुन॒रिति॑ । पति॑ऽभ्यः । जा॒याम् । दाः । अ॒ग्ने॒ । प्र॒ऽजया॑ । स॒ह ॥३८
तुभ्यम् । अग्रे । परि । अवहन् । सूर्याम् । वहतुना । सह ।।
पुनरिति । पतिऽभ्यः । जायाम् । दाः । अग्ने । प्रऽजया । सह ॥ ३८ ॥
गन्धर्वा हे अग्ने "तुभ्यमग्ने "पर्यवहन् । प्रायच्छन्नित्यर्थः । काम् । "सूर्याम् । केन सह । “वहतुना “सह । त्वं च तां सूर्यां वहतुना सह सोमाय प्रायच्छः । तद्वदिदानीमपि हे अग्ने “पुनः "पतिभ्यः अस्मभ्यं "जायां "प्रजया "सह "दाः देहि ॥
पुन॒ः पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।
दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ॥३९
पुन॒रिति॑ । पत्नी॑म् । अ॒ग्निः । अ॒दा॒त् । आयु॑षा । स॒ह । वर्च॑सा ।
दी॒र्घऽआ॑युः । अ॒स्याः॒ । यः । पतिः॑ । जीवा॑ति । श॒रदः॑ । श॒तम् ॥३९
पुनरिति । पत्नीम्। अग्निः । अदात् । आयुषा । सह । वर्चसा ।
दीर्घऽआयुः । अस्याः । यः । पतिः । जीवति । शरदः । शतम् ॥ ३९ ॥
“पुनः स्वगृहीतां "पत्नीम् "अग्निः "आयुषा “सह वर्चसा सह “अदात् प्रायच्छत् ।। "अस्याः अग्निदत्तायाः "यः "पतिः पुमान् सः "दीर्घायुः सन् "शरदः "शतं शतसंवत्सरं "जीवाति जीवतु ॥
सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥४०
सोमः॑ । प्र॒थ॒मः । वि॒वि॒दे॒ । ग॒न्ध॒र्वः । वि॒वि॒दे॒ । उत्ऽत॑रः ।
तृ॒तीयः॑ । अ॒ग्निः । ते॒ । पतिः॑ । तु॒रीयः॑ । ते॒ । म॒नु॒ष्य॒ऽजाः ॥४०
सोमः । प्रथमः । विविदे। गन्धर्वः । विविदे। उत्तरः ।
तृतीयः । अग्निः । ते। पतिः । तुरीयः । ते । मनुष्यऽजाः ॥ ४० ॥
जातां कन्यां "सोमः प्रथमभावी सन् "विविदे लब्धवान् । "गन्धर्वः "उत्तरः सन् "विविदे लब्धवान् । "अग्निः "तृतीयः "पतिः “ते तव । पश्चात् "मनुष्यजाः पतिः “तुरीयः चतुर्थः ॥ ॥२७॥
सोमो॑ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ ।
र॒यिं च॑ पु॒त्राँश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥४१
सोमः॑ । द॒द॒त् । ग॒न्ध॒र्वाय॑ । ग॒न्ध॒र्वः । द॒द॒त् । अ॒ग्नये॑ ।
र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्निः । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥४१
सोमः । ददत् । गन्धर्वाय । गन्धर्वः । ददत् । अग्नये ।
रयिम् । च । पुत्रान् । च । अदात् । अग्निः । मह्यम् । अथो इति । इमाम् ॥ ४१ ॥
“सोमः "गन्धर्वाय प्रथमं "ददत् प्रादात् । "गन्धर्वः "अग्नये प्रादात् । "अथो अपि च "अग्निः “इमां कन्यां "रयिं धनं “पुत्रांश्च "मह्यम् अदात् ॥
इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् ।
क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥४२
इ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व॑म् । आयुः॑ । वि । अ॒श्नु॒त॒म् ।
क्रीळ॑न्तौ । पु॒त्रैः । नप्तृ॑ऽभिः । मोद॑मानौ । स्वे । गृ॒हे ॥४२
इह । एव । स्तम्। मा । वि । यौष्टम् । विश्वम् । आयुः । वि। अश्नुतम् ।
क्रीळन्तौ । पुत्रैः । नप्तृऽभिः । मोदमानौ । स्वे । गृहे ॥ ४२ ॥
“इहैव "स्तम् इहैवास्मिँल्लोके स्तं भवतम् । “मा "वियौष्टं मा पृथग्भूतम् । विश्वमायुर्व्यश्नुतं प्राप्नुतम् । किंच “पुत्रैर्नप्तृभिः पौत्रैः सह "स्वे "गृहे "मोदमानौ भवतमिति शेषः ॥
गृहप्रवेशे ‘आ नः प्रजां जनयतु ' इत्याद्याश्चतस्रो होमार्थाः । सूत्रितं च-’आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यृचं हुत्वा' (आश्व. गृ. १. ८. ९) इति ॥
आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।
अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥४३
आ । नः॒ । प्र॒ऽजाम् । ज॒न॒य॒तु॒ । प्र॒जाऽप॑तिः । आ॒ऽज॒र॒साय॑ । सम् । अ॒न॒क्तु॒ । अ॒र्य॒मा ।
अदुः॑ऽमङ्गलीः । प॒ति॒ऽलो॒कम् । आ । वि॒श॒ । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥४३
आ । नः । प्रऽजाम् । जनयतु । प्रजाऽपतिः । आऽजरसाय । सम् । अनक्तु । अर्यमा ।
अदुःऽमङ्गलीः । पतिऽलोकम् । आ। विश। शम्। नः । भव । द्विऽपदे । शम् । चतु:ऽपदे॥४३॥
“प्रजापतिः देवः नः अस्माकं "प्रजाम् आ “जनयतु । "अर्यमा च "आजरसाय जरापर्यन्तं जीवनाय "समनक्तु संगमयतु । सा त्वम् "अदुर्मङ्गलीः दुर्मङ्गलरहिता सुमङ्गली। यद्वा । या मङ्गलाचारान् दूषयति सा दुर्मङ्गली । ततोऽन्या अदुर्मङ्गली । तादृशी सती “पतिलोकं पतिसमीपम् "आ “विश प्राप्नुहि । "नः अस्माकं “द्विपदे “शं "भव । तथा च "शं चतुष्पदे भव ॥ ।
अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ ।
वी॒र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥४४
अघो॑रऽचक्षुः । अप॑तिऽघ्नी । ए॒धि॒ । शि॒वा । प॒शुऽभ्यः॑ । सु॒ऽमनाः॑ । सु॒ऽवर्चाः॑ ।
वी॒र॒ऽसूः । दे॒वऽका॑मा । स्यो॒ना । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥४४
अघोरऽचक्षुः । अपतिऽघ्नी । एधि । शिवा । पशुऽभ्यः । सुऽमनाः । सुऽवर्चाः ।
वीरऽसूः । देवऽकामा । स्योना । शम् । नः । भव । द्विऽपदे । शम्। चतुःऽपदे ।। ४४ ॥
हे वधु “त्वम् "अघोरचक्षुः क्रोधादभयंकरचक्षुः “एधि भव । तथा "अपतिघ्नी भव । तथा “पशुभ्यः "शिवा हितकरी भव "सुमनाः "सुवर्चाः च भव । वीरसूः पुत्राणामेव प्रसवित्री “देवकामा "स्योना सुखकरा च भव ॥
इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु ।
दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥४५
इ॒माम् । त्वम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्राम् । सु॒ऽभगा॑म् । कृ॒णु॒ ।
दश॑ । अ॒स्या॒म् । पु॒त्रान् । आ । धे॒हि॒ । पति॑म् । ए॒का॒द॒शम् । कृ॒धि॒ ॥४५
इमाम् । त्वम् । इन्द्र । मीढ्वः । सुऽपुत्राम् । सुऽभगाम् । कृणु।
दश । अस्याम् । पुत्रान् । आ । धेहि । पतिम् । एकादशम् । कृधि ॥ ४५ ॥
हे इन्द्र “त्वम् "इमां वधूं "सुपुत्रां सुभगां च कृणु कृधि । अस्यां वध्वां "दश पुत्रान् “आ “धेहि । “पतिमेकादशं "कृधि । दश पुत्राः पतिरेकादशो यथा स्यात्तथा कृधि कृणु ॥
स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व ।
नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥४६
स॒म्ऽराज्ञी॑ । श्वशु॑रे । भ॒व॒ । स॒म्ऽराज्ञी॑ । श्व॒श्र्वाम् । भ॒व॒ ।
नना॑न्दरि । स॒म्ऽराज्ञी॑ । भ॒व॒ । स॒म्ऽराज्ञी॑ । अधि॑ । दे॒वृषु॑ ॥४६
सम्ऽराज्ञी । श्वशुरे । भव । सम्ऽराज्ञी । श्वश्र्वाम् । भव ।
ननान्दरि । सम्ऽराज्ञी । भव । सम्ऽराज्ञी । अधि । देवृषु ॥ ४६॥
हे वधु श्वशुरादिषु त्वं "सम्राज्ञी “भव। "देवृषु । देवरेष्वित्यर्थः ॥
‘समञ्जन्तु ' इत्येषा वरस्य दधिप्राशने वधूवरयोर्हृदयस्पर्शने वा विनियुक्ता। तथा च सूत्रितं - समञ्जन्तु विश्वे देवा इति दध्नः प्राश्य प्रतिप्रयच्छेदाज्यशेषेण वानक्ति हृदये' (आश्व. गृ. १. ८. ९) इति ॥
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥४७
सम् । अ॒ञ्ज॒न्तु॒ । विश्वे॑ । दे॒वाः । सम् । आपः॑ । हृद॑यानि । नौ॒ ।
सम् । मा॒त॒रिश्वा॑ । सम् । धा॒ता । सम् । ऊं॒ इति॑ । देष्ट्री॑ । द॒धा॒तु॒ । नौ॒ ॥४७
सम् । अञ्जन्तु। विश्वे । देवाः । सम्। आपः । हृदयानि । नौ।
सम् । मातरिश्वा। सम् । धाता। सम् । ॐ इति । देष्ट्री । दधातु । नौ ।। ४७ ॥
“विश्वे "देवाः सर्वे देवाः "नौ "हृदयानि मानसानि "समञ्जन्तु सम्यगञ्जन्तु । अपगतदुःखादिक्लेशानि कृत्वा लौकिकवैदिकविषयेषु प्रकाशयुक्तानि कुर्वन्त्वित्यर्थः। “आपः च “सम् अञ्जन्तु । तथा "मातरिश्वा नौ हृदयानि "सं "दधातु । आवयोर्बुद्धीः परस्परानुकूलाः करोत्वित्यर्थः । “धाता च “सं दधातु । “देष्ट्री दात्री फलानाम् । सरस्वतीत्यर्थः । सा च "सं दधातु संधानं करोतु ॥ ॥२८॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश
ऋक्संहिताभाष्येऽष्टमाष्टके तृतीयोऽध्यायः ॥
}}
== ==
{{टिप्पणी|
[https://puranastudy.webnode.com/purnima1/ पूर्णिमा उपरि टिप्पणी]
१०.८५.९-१२
[http://vedastudy.tripod.com/pur_index25/pva9.htm रथोपरि पौराणिकसंदर्भाः]
[http://vedastudy.tripod.com/pur_index25/ratha.htm रथोपरि टिप्पणी]
[https://5da2e8952caa4.site123.me/ रथोपरि शोधलेखः]
१०.८५.१२
[http://puranastudy.byethost14.com/pur_index27/vyaana.htm व्यानोपरि टिप्पणी]
१०.८५.१८ पूर्वापरं चरतो माययैतौ इति
ब्रह्मवाक् रूप सूर्या- चेतना का अवतीर्ण होना ही अध्वर है जिसको पैदा करने के लिए पहले प्राणों को एक लम्बे योगध्यान के मार्ग पर चलना पड़ता है ।..[http://puranastudy.freevar.com/Antariksha_Paryaya/pva18.htm अन्तरिक्षपर्यायों का प्रतीकवाद, अध्याय ५]
१०.८५.४०
तु. - [https://sa.wikisource.org/s/mxj भविष्यपुराणम् १.१८२.३१]
यदा तु वाग्भवत्येषा सूर्यामुं लोकमाश्रिता ।
तथा सूक्तमुषा भूत्वा सूर्या च भजतेऽखिलम् । । बृहद्देवता २.७९ ।।
वटसावित्री उपरि [http://puranastudy.onlinewebshop.net/pur_index29/vata_savitri.htm टिप्पणी]
}}
{{ऋग्वेदः मण्डल १०}}
3c6isicrsg294ndi4534788jp34ex8v
ऋग्वेदः सूक्तं ४.२७
0
912
341287
184921
2022-07-25T04:36:24Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]]
| author = वामदेवो गौतमः।
| translator =
| section = सूक्तं ४.२७
| previous = [[ऋग्वेद: सूक्तं ४.२६|सूक्तं ४.२६]]
| next = [[ऋग्वेद: सूक्तं ४.२८|सूक्तं ४.२८]]
| notes = दे. श्येनः, ५ इन्द्रो वा। त्रिष्टुप्, ५ शक्वरी।
}}
<poem><span style="font-size: 14pt; line-height: 200%">
गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा ।
शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम् ॥१॥
न घा स मामप जोषं जभाराभीमास त्वक्षसा वीर्येण ।
ईर्मा पुरंधिरजहादरातीरुत वाताँ अतरच्छूशुवानः ॥२॥
अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरंधिम् ।
सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन् ॥३॥
ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः ।
अन्तः पतत्पतत्र्यस्य पर्णमध यामनि प्रसितस्य तद्वेः ॥४॥
अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः ।
अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै ॥५॥
</span></poem>
{{सायणभाष्यम्|
गर्भे न्विति पंचर्चं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभं । अंत्या शक्करी षट्पंचाशदक्षरा। श्येनो देवता । पूर्वसूक्तेऽष्टौ वेत्युक्तत्वादंत्याया इंद्रो वा देवता। तथा चानुक्रांतं । गर्भे नु पंचांत्या शक्करीति ॥ श्येने निष्केवल्यशस्त्र इदं सूक्तं । सूत्रं तु पूर्वमुदाहृतं ॥
गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ ।
श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ॥१
गर्भे॑ । नु । सन् । अनु॑ । ए॒षा॒म् । अ॒वे॒द॒म् । अ॒हम् । दे॒वाना॑म् । जनि॑मानि । विश्वा॑ ।
श॒तम् । मा॒ । पुरः॑ । आय॑सीः । अ॒र॒क्ष॒न् । अध॑ । श्ये॒नः । ज॒वसा॑ । निः । अ॒दी॒य॒म् ॥१
गर्भे। नु। सन् । अनु। एषां । अवेदं । अहं । देवानां । जनिमानि। विश्वा।
शतं । मा। पुरः। आयसीः । अरक्षन् । अध। श्येनः । जवसा। निः। अदीयं ॥१॥
अत्रैषः श्लोकः पठ्यते -- श्येनभावं समास्थाय गर्भाद्योगेन निःसृतः । ऋषिर्गर्भे शयानः सन् ब्रूते गर्भे नु सन्निति ॥ “गर्भे “नु गर्भे एव “सन् विद्यमानः “अहं वामदेवः “एषाम् इन्द्रादीनां “देवानां “विश्वा विश्वानि सर्वाणि “जनिमानि जन्मानि “अनु “अवेदम् आनुपूर्व्येणाज्ञासिषम् । परमात्मनः सकाशात् सर्वे देवा जाता इत्यवेदिषमित्यर्थः । इतः पूर्वं “शतं बहूनि “आयसीः अयोमयानि अभेद्यानि “पुरः शरीराणि “मा माम् "अरक्षन् अपालयन् । यथाहं शरीरात् व्यतिरिक्तमात्मानं न जानीयां तथा मामरक्षन्नित्यर्थः । “अध अधुना “श्येनः श्येनवत्थि्ततः अहं “जवसा वेगेन “निरदीयं शरीरान्निरगमम् । अनावरणमात्मानं जानन्निर्गतोऽस्मीत्यर्थः । ‘ पुरुषे ह वा अयमादितः इति खण्डे • गर्भ एवैतच्छयानो वामदेव एवमुवाच ' ( ऐ, आ. २. ५. १ ) इत्यादिनायमर्थः सम्यक् प्रतिपादितः ॥
न घा॒ स मामप॒ जोषं॑ जभारा॒भीमा॑स॒ त्वक्ष॑सा वी॒र्ये॑ण ।
ई॒र्मा पुरं॑धिरजहा॒दरा॑तीरु॒त वाताँ॑ अतर॒च्छूशु॑वानः ॥२
न । घ॒ । सः । माम् । अप॑ । जोष॑म् । ज॒भा॒र॒ । अ॒भि । ई॒म् । आ॒स॒ । त्वक्ष॑सा । वी॒र्ये॑ण ।
ई॒र्मा । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । उ॒त । वाता॑न् । अ॒त॒र॒त् । शूशु॑वानः ॥२
न। घ। सः। मां। अप । जोषं । जभार। अभि । ईं। आस । त्वक्षसा। वीर्येण ।
ईर्मा। पुरंऽधिः । अजहात्। अरातीः । उत । वातान् । अतरत् । शूशुवानः ॥२॥
“सः गर्भः “मां वामदेवं “जोषं पर्याप्तं “न “घ नैव “अप “जभार अपजहार । गर्भेऽपि वसतो मे मोहो नाभूदित्यर्थः । अहं तु “ईम् इदं गर्भस्थं दुःखं “त्वक्षसा तीक्ष्णेन “वीर्येण ज्ञानसामर्थ्येन “अभि "आस अभ्यभवम् । “ईर्मा सर्वस्य प्रेरकः “पुरंधिः पुरां धारकः परमात्मा “अरातीः गर्भसंश्रितान् शत्रून् “अजहात् अत्यजत् । जघान । "उत अपि च "शूशुवानः वर्धमानः परिपूर्णः परमात्मा “वातान् गर्भक्लेशकरान् वायून् “अतरत् अतारीत् ॥
अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं॑धिम् ।
सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ॥३
अव॑ । यत् । श्ये॒नः । अस्व॑नीत् । अध॑ । द्योः । वि । यत् । यदि॑ । वा॒ । अतः॑ । ऊ॒हुः । पुर॑म्ऽधिम् ।
सृ॒जत् । यत् । अ॒स्मै॒ । अव॑ । ह॒ । क्षि॒पत् । ज्याम् । कृ॒शानुः॑ । अस्ता॑ । मन॑सा । भु॒र॒ण्यन् ॥३
अव। यत्। श्येनः । अस्वनीत्। अध। द्योः।वि। यत्। यदि।वा। अतः।ऊहुः। पुरंऽधिं।
सृजत् । यत्। अस्मै।अव। ह ।क्षिपत्।ज्यां। कृशानुः । अस्ता। मनसा। भुरण्यन् ॥३॥
“अध तदानीं सोमाहरणकाले “यत् यदा “श्येनः “द्योः द्युलोकात् “अव “अस्वनीत् अवाङ्मुखं शब्दमकरोत् । “यदि “वा यदा च । वेति चार्थे । “यत् यं “पुरंधिं सोमम् “अतः अस्माच्छ्येनात् “वि “ऊहुः सोमपाला विक्षिप्तवन्तः। “यत् यदा “अस्ता शराणां क्षेप्ता “मनसा मनोवेगेन “भुरण्यन् गन्तुमिच्छन् 'कृशानुः एतन्नामकः सोमपालः "ज्यां धनुषः कोटौ मौर्वीं “क्षिपत् "ह चिक्षेप खलु । “अस्मै श्येनाय शरम् “अव “असृजत् त्यक्तवान् । तथा च ब्राह्मणं- तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत् ' ( ऐ. ब्रा. ३. २६) इत्यादि । यदा सोमपाला इत्थमित्थं चक्रुस्तदा श्येनः सोममाजहारेत्यृचोत्तरया संबन्धः ॥
ऋ॒जि॒प्य ई॒मिन्द्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः ।
अ॒न्तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ॥४
ऋ॒जि॒प्यः । ई॒म् । इन्द्र॑ऽवतः । न । भु॒ज्युम् । श्ये॒नः । ज॒भा॒र॒ । बृ॒ह॒तः । अधि॑ । स्नोः ।
अ॒न्तरिति॑ । प॒त॒त् । प॒त॒त्रि । अ॒स्य॒ । प॒र्णम् । अध॑ । याम॑नि । प्रऽसि॑तस्य । तत् । वेरिति॒ वेः ॥४
ऋजिप्यः । ईं। इंद्रऽवतः। न। भुज्युं । श्येनः । जभार। बृहतः । अधि । स्नोः ।
अंतरिति।पतत्। पतत्रि।अस्य। पर्णं।अध।यामनि।प्रऽसितस्य। तत्। वेरिति वेः ॥४॥
“ऋजिप्यः ऋजुगामी “श्येनः “इन्द्रवतः इन्द्रो रक्षको यस्य तस्मात् "बृहतः महतः “अधि उपरि “स्नोः स्थितात् द्युलोकात् “ईम् एनं सोमं "जभार आजहार । तत्र दृष्टान्तः । इन्द्रवतः । इन्द्रः समर्थः । तद्वतो देशात् “भुज्युं न भुज्युनामकं राजानं यथाश्विनावाजह्रतुस्तद्वत् । “अध तदानीं “यामनि युद्धे “प्रसितस्य कृशानोरस्त्रैर्बद्धस्य "वेः गन्तुः “अस्य श्येनस्य “अन्तः मध्ये स्थितं “पतत्रि पतनशीलं “तत् "पर्णं "पतत् अपतत् ॥
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमन्धः॑ ।
अ॒ध्व॒र्युभि॒ः प्रय॑तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै ॥५
अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । आ॒ऽपि॒प्या॒नम् । म॒घऽवा॑ । शु॒क्रम् । अन्धः॑ ।
अ॒ध्व॒र्युऽभिः॑ । प्रऽय॑तम् । मध्वः॑ । अग्र॑म् । इन्द्रः॑ । मदा॑य । प्रति॑ । ध॒त् । पिब॑ध्यै । शूरः॑ । मदा॑य । प्रति॑ । ध॒त् । पिब॑ध्यै ॥५
अध। श्वेतं । कलशं। गोभिः । अक्तं । आऽपिप्यानं। मघऽवा। शुक्रं । अंधः ।
अध्वर्युऽभिः । प्रऽयतं । मध्वः । अग्रं। इंद्रः । मदाय । प्रति। धत्। पिबध्यै। शूरः । मदाय । प्रति । धत् । पिबध्यै ॥ ५॥
“अध अधुना “शूरः विक्रान्तः “मघवा धनवान्' “इन्द्रः “श्वेतं शुभ्रं "कलशं कलशे पात्रे स्थितं “गोभिः गव्येन पयसा “अक्तं सिक्तम् “आपिप्यानम् आप्याययन्तं “शुक्रं सारोपेतम् “अध्वर्युभिः “प्रयतं दत्तम् “अन्धः सोमलक्षणमन्नं “मध्वः मधुरस्य सोमरसस्य “अग्रम् अग्रे “मदाय मदार्थं “पिबध्यै पातुं “प्रति “धत् प्रतिदधातु । पुनरुक्तिरादरार्था ॥ ॥ १६ ॥
}}
== ==
{{टिप्पणी|
आत्मा का श्येन रूप तब उभरता है जब वह अपनी बहिर्मुखी चित्तवृत्तियों को समेटकर अपनी अन्तर्मुखी उड़ान भरता है। इसी उड़ान के फलस्वरूप जब योग-समाधि प्राप्त होती है तो वहीं ब्रह्मानन्दरस-रूप सोम इस श्येन को मिल जाता है। ....[http://puranastudy.freevar.com/Antariksha_Paryaya/pva18.htm अन्तरिक्षपर्यायों का प्रतीकवाद (अध्याय ५)]
४.२७.३ कृशानु
[https://vedastudy.yolasite.com/kritvee-krishaanu.php कृशानु उपरिपौराणिकाः संदर्भाः]
लक्ष्मीनारायणसंहिता [[लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०९१|३.९१.७८]] यां कृशाङ्ग द्विजस्य कथा अस्ति। बीजदोषकारणेन कृशाङ्गः ब्राह्मणीपुत्रो भूत्वापि चाण्डालः आसीत्। तेन तपस्तप्त्वा चाण्डालत्वात् मुक्तिं प्राप्य द्विजत्वं अगृह्णात्। कृशाङ्गः संज्ञा संकेतमस्ति यत् तपसा स्वपापानां शोधनमात्रं, कृशाङ्गत्वं पर्याप्तं नास्ति, अपितु कृशानु - यः अन्यानपि कृशं कर्तुं, तेषां दोषानां हरणाय समर्थं भवितुं शक्तः अस्ति, तस्य संज्ञा कृशानुः अस्ति। लक्ष्मीनारायणसंहितायां अयं कृत्यं अश्वपट्टसरोवरनिकटे अभूत् । अयं संकेतं अस्ति यत् कृशांगता प्राप्तिः एकांगी साधना अस्ति, कृशानुत्वं सर्वांगीणा, अश्वप्रकारा साधना। प्रस्तुतायां ऋचायां तथा अन्यत्रापि कृशानुः बाणस्य क्षेप्ता अस्ति येन कारणेन सोमस्याहरणसक्तस्य श्येनस्य पर्णं अच्छिद्यत्। पर्णः स्थूलत्वस्य प्रतीकमस्ति। यदा पर्णस्य छेदनं भवति, तदैव कृशाङ्गत्वं।
}}
{{ऋग्वेदः मण्डल ४}}
p8qatojj4geqqcdbm89q3958jn4s229
अग्निपुराणम्/अध्यायः २७
0
6749
341220
47546
2022-07-24T12:10:52Z
Puranastudy
1572
wikitext
text/x-wiki
{{अग्निपुराणम्}}
दीक्षाविघिकथनम् ।
<poem><span style="font-size: 14pt; line-height: 200%">नारद उवाच
वक्ष्ये दीक्षां सर्वदाञ्च मण्डलोब्जे हरिं यजेत्।
दशम्यामुपसंहृत्य यागद्रव्यं समस्तकम् ।। १ ।।
विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकम्।
सर्षपांस्तु फडन्तेन रक्षोध्नान् सर्व्वतः क्षिपेत् ।। २ ।।
शक्तिं सर्वात्मिकां तत्र न्यसेत् प्रासादरूपिणीम्।
सर्व्वौषधि समाहृत्य विकिरानभिमन्त्रयेत् ।। ३ ।।
शतवारं शुभे पात्रे वासुदेवेन साधकः।
संसाध्य पञ्च गव्यन्तु पञ्चभिर्मूलमूर्तिभिः ।। ४ ।।
नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तां भुवम् ।
विकिरान्वासुदेवेन क्षितेदुत्तानपाणिना ।। ५ ।।
त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत् विष्णुं तथा हृदि।
वर्द्धन्या सहिते कुम्भे साङ्गं साङ्गं विष्णुं प्रपूजयेत् ।। ६ ।।
शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्द्धनीम्।
अच्छिन्नधारया सिञ्चन् ईशानान्तं नयेच्च तम् ।। ७ ।।
कलसं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि।
संहृत्य विकिरान् दर्ब्भैः कुम्भेशं कर्क्वरीं यजेत् ।। ८ ।।
सवस्त्रं पञ्चरत्नाढ्यं स्थण्डिले पूजयेद्धरिम्।
अग्नावपि समभ्यर्च्च्य मन्त्रान् सञ्जप्य पूर्ववत् ।। ९ ।।
प्रक्षाल्य पुण्डरीकेण विलिप्यान्तः सुगन्धिना।
उखामाज्येन सम्पूर्य्य गोक्षीरेण तु साधकः ।। १० ।।
आलोक्य वासुदेवेन ततः सङ्कर्षणेन च।
तण्डुलानाज्यसंसृष्टान् क्षिपेत् क्षीरे सुसंस्कृते ।। ११ ।।
प्रद्युम्नेन समालोड्य दर्व्या सङ्घट्टयेच्छनैः।
पक्कमुत्तारयेत् पञ्चादनिरुद्धेन देशिकः ।। १२ ।।
प्रक्ष्याल्यालिप्य तत् कुर्य्यादूद्र्ध्वपुण्ड्रंतु भस्मना।
नारायणेन पार्श्वेष् चरुमेवं सुसंस्कृतम् ।। १३ ।।
भागमेकं तु देवाय कलशाय द्वितीयकम्।
तृतीयेन तु भागेन प्रदद्यादाहुतित्रयम् ।। १४ ।।
शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये ।
नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम् ।। १५ ।।
दन्तकाष्ठं भक्षयित्वा त्यक्त्वा ज्ञात्वा स्वपातकम्।
ऐन्द्राग्न्युत्तरकेशानीमुखं पतितमुत्तमम् ।। १६ ।।
शुभं सिंहशतं हुत्वा आच्म्याथ प्रविश्य च।
पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणम् ।। १७ ।।
संसारार्णवमग्नानां पशूनां पाशमुक्तये।
त्वमेव शरणं देव सदा त्वं भक्तवत्सल ।।१८।।
देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः।
पाशितान्मोचयिष्यामि त्वत्प्रसादात् पशूनिमान् ।। १९ ।।
इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः।
धारणाभिस्तु संशोध्य पूर्व्ववज्ज्वलनादिना ।। २० ।।
संस्कृत्य मूर्त्त्या संयोज्य नेत्रे बद्धवा प्रदर्शयेत्।
पुष्पपूर्णाञ्चलींस्तत्र क्षिपेत्तन्नाम योजयेत् ।। २१ ।।
अमन्त्रमर्च्चनं तत्र पूर्व्ववत् कारयेत् क्रमात्।
यस्यां मूर्त्तौ पतेत् पुष्पं तस्य तन्नाम निर्द्दिशेत् ।। २२ ।।
शिखान्तसम्मितं सूत्रं पादाङ्गुष्ठादि षड्गुणम्।
कन्यासु कर्त्तितं रक्तं पुनस्तत्त्रिगुणीकृतम् ।। २३ ।।
यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते।
प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत् ।। २४ ।।
तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसह्ख्यया ।
कृत्वा शशवे तत् सूत्रं कुण्डपार्श्वे निधाय तु ।। २५ ।।
ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत्।
सृष्टिक्रमात् प्रकृत्यादिपृथिव्यन्तानि देशिकः ।। २६ ।।
तत्रैकधा पञ्चधा स्याद्दशद्वाद्दशधापि वा ।
ज्ञातव्यः सर्व्वभेदेन ग्रथितस्तत्त्वचिन्तकैः ।। २७ ।।
अह्गैः पञ्चभिरध्वानं निखिलं विकृतिक्रमात्।
तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनै ।। २८ ।।
प्रकृतिर्लिङ्गशक्तिश्च कर्त्ता बुद्धिस्तथा मनः।
पञतम्नात्रबुद्ध्याख्यं कर्म्मख्यं भूतपञ्चकम् ।। २९ ।।
ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया।
हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु ।। ३० ।।
एकैकं शतहोभेन दत्त्वा पूर्णाहुतिं ततः।
शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत् ।। ३१ ।।
अधिवास्य यथान्यायं भक्तं शिष्यं तु दीक्षयेत्।
करणीं कर्त्तरीं वापि रजांसि खटिकामपि ।। ३२ ।।
अन्यदप्युपयोगि स्यात् सर्वं तद्वायुगोचरे।
संस्थाप्य मूलमन्त्रेण परामृष्याधिवासयेत् ।। ३३ ।।
नमो भूतेभ्यश्च बलिः कुशे शेते स्मरन् हरीम्।
मण्डपं भूषयित्वाथ वितानघटलड्डूकैः।। ३४ ।।
मण्डलेथ यजेद्विष्णुं ततः सन्तर्प्य पावकम्।
आहूय दीक्षयेच्छिष्यान् बद्धपद्मासनस्थितान् ।। ३५ ।।
सम्प्रोक्ष्य विष्णुं हस्तेन मूर्द्धानंस्पृस्य वै क्रमात्।
प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवताम् ।। ३६ ।।
सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संह रेत् क्रमात।
तन्मात्रभूतां सकलां जीवेन समातां गताम् ।। ३७ ।।
ततः स्म्प्रार्थ्य कुम्भेशं सूत्रं सहृत्य देशिकः।
अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु ।। ३८ ।।
मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तम्।
उदासीनमथासाद्य पूर्णाहुत्या च देशिकः ।। ३९ ।।
शुक्लं रजः समादाय मूलेन शतमन्त्रितम्।
सन्ताड्य हृदयन्तेन हुंफट्कारान्तसंयुतैः ।। ४० ।।
वियोगपदसंयुक्तैर्वीजैः पादादिभिः क्रमात्।
पृथिव्यादीनि तत्त्वानि विश्लष्य जुहुयात्ततः ।। ४१ ।।
वह्नावखिलतत्त्वानामालये व्याहृते हरौ।
नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद् बुधः ।। ४२ ।।
ताडनेन वियोज्यैवम् आदायापाद्य शाम्यताम्।
प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेतसि ।। ४३ ।।
गर्भाधानं जातकर्म भोगञ्चैव लयन्तथा।
हुत्वाष्टौ तत्र तत्रैव ततः शुद्धिन्तु होमयेत् ।। ४४ ।।
शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः।
सन्नयेद्द्विपरे तत्वे यावदव्याहृतं क्रमात् ।। ४५ ।।
तत् परं ज्ञानयोगेन विलाप्य परमात्मनि।
विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे ।। ४६ ।।
निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्बुधः।
दद्यात् पूर्णाहुतिं पञ्चादेवं दीक्षा समाप्यते ।। ४७ ।।
प्रयोगमन्त्रान् वक्ष्यामि यैर्द्दीक्षा होमसंलयः।
ओं यं भूतानि विशुद्धं फट्।।
अनेन ताडनं कुर्याद्वियोजनमिह द्वयम् ।। ४८ ।।
ओं यं भूतान्यापातयेहं।
आदानं कृत्वा चानेन प्रकृत्या योजनं श्रृणु।
ओं यं भूतानि पुंश्चाहो।
होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुम् ।। ४९ ।।
ओं भूतानि संहर स्वाहा।
ओं अं ओं नमो भगवते वासुदेवाय वौषट्।
पूर्णाहुत्यनन्तरे तु तद्वै शिष्यन्तु साधयेत् ।
एवं तत्त्वानि सर्वाणि क्रमात्संशोधयेद् बुधः ।। ५० ।।
नमोन्तेन खवीजेन ताडनादिपुरः सरम्।
ओं वां कर्म्मेन्द्रियाणि।
ओं दें बुद्धीन्द्रियाणि।
यं वीजेन समानन्तु ताडनादिप्रयोगकम् ।। ५१ ।।
ओं सुं गन्धतन्मात्रे वियुङ्क्ष्व हुंफट।
ओं सम्पाहिं हा ओं खं खं क्ष प्रकृत्या ।।
ओं सुं हुं गन्धतन्मात्रे संहर स्वारा।
ततः पूर्णाहुतिश्चैवमुत्तरेषु प्रयुज्यते।
ओं रां रसतन्मात्रे। ओं भेंरूपतन्मात्रे।
ओं रंस्पर्शतन्मात्रे। ओं एं शब्दतन्मात्रे ।
ओं भं नमः। ओं सों अहङ्कारः।
ओं नं बुद्धे। ओं ओं प्रकृते।
एकमूर्त्तावयं प्रोक्तो दीक्षायोगः समासतः।
एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः ।। ५२ ।।
दग्धापरस्मिन् सन्दध्यान्निर्वाणे प्रकृतिन्नरः।
अविकारे समादध्यादीश्वरे प्रकृतिन्नरः ।। ५३ ।।
शोधयित्वाथ भूतानि कर्म्माङ्गानि विशोधयेत्।
बुद्ध्याख्यान्यथ तन्मात्रमनोज्ञानमहङ्कृतिम् ।। ५४ ।।
लिङ्गात्मानं विशोध्यान्ते प्रकृतिं शोधयेत् पुनः।
पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितम् ।। ५५ ।।
स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदम्।
ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारिणी ।। ५६ ।।
अङ्गैराराध्य मन्त्रस्य नीत्वा तत्त्वगणं समम्।
क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितम् ।। ५७ ।।
ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं साधके स्मृता।
द्रव्यस्य वा न सम्पत्तिरशक्तिर्वात्मनो यदि ।। ५८ ।।
इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितम्।
सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः ।। ५९ ।।
भक्तो विनीतः शारीरैर्गुणैः सर्वैः समन्वितः।
शिष्यो नातिधनी यस्तु स्थण्डिलेभ्यर्च्च्य दीक्षयेत् ।। ६० ।।
अध्वानं निखिलं दैवं भौतं वाध्यात्मिकीकृतम्।
सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः ।। ६१ ।।
अष्टाष्टाहुतिभिः पूर्वं क्रमात् सन्तर्प्य सृष्टिमान।
स्वमन्त्रैर्वासुदेवादीन् जननादीन् विसर्जयेत् ।। ६२ ।।
होमेन शोधयेत् पश्चात्संहारक्रमयोगतः।
योनिसूत्राणि बद्धानि सुक्त्वा कर्माणि देशिकः ।। ६३ ।।
शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोध्येत्।
अग्नौ प्राकृतिके विष्णौ लयं नीत्वाधिदैविके ।। ६४ ।।
शुद्धं तत्त्वामशुद्धेन पूर्णाहुत्या तु साधयेत्
शिष्ये प्रकृतिमापन्नेदग्ध्वा प्राकृतिकान् गुणान् ।। ६५ ।।
मोचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून् ।
अथान्यां शक्तिदीक्षां वा कुर्य्यात् भावे स्थितो गुरः ।। ६६ ।।
भक्त्या सम्प्रतिपन्नानां यतीनां निर्द्धनस्य च।
सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकम् ।। ६७ ।।
देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः।
अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर्विकल्पितम् ।। ६८ ।।
शष्यदेहे तता देवम धिदैविकयाचनम्।
ध्यानयोगेन सञ्चिन्त्य पूर्ववत्ताडनादिना ।। ६९ ।।
क्रमात्तत्त्वानि सर्वाणि शोधयेत् स्थण्डिले हरौ।
ताडनेन वियोज्याथ गृहीत्वात्मनि तत्परः ।। ७० ।।
देवे संयोज्य संशोध्य गृहीत्वा तत् स्वभावतः।
आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु ।। ७१ ।।
शोधयेद्ध्यानयोगेन सर्वतो ज्ञानमुद्रया।
शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते ।। ७२ ।।
दग्ध्वा निर्वापयेच्छिष्यान् पदे चैशे नियोजयेत्।
निनयेत् सिद्धिमार्गे वा साधकं देशिकोत्तमः ।। ७३ ।।
एवमेवाधिकारस्थो गृही कर्म्मण्यतन्द्रितः।
आरोप्य पुत्रे शिष्ये वा ह्यधिकारन्तु संयमी ।। ७४ ।।
क्षीणरागमथात्मानं ज्ञात्वा संशुद्धकिल्विषः।
आरोप्य पुत्रे शिष्ये वा ह्यधिकारन्तु संयमी ।। ७५ ।।
दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः।
शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान् ।। ७६ ।।
इत्यादिमहापुराणे आग्नेये सर्वदीक्षाकथनं नाम सप्तविंशोऽध्यायः।
</span></poem>
[[वर्गः:अग्निपुराणम्]]
q42kdf314ayi4kmdz9smvz9fhlhzvnl
ब्रह्मपुराणम्/अध्यायः २१४
0
7605
341221
46577
2022-07-24T12:14:40Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः २१४
| previous = [[../अध्यायः २१३|अध्यायः २१३]]
| next = [[../अध्यायः २१५|अध्यायः २१५]]
| notes =
}}
{{ब्रह्मपुराणम्}}
<big><poem>
'''नरकवर्णनम्
'''मुनय ऊचुः
न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च।
मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः।। २१४.१ ।। <br>
उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम्।
वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम्।। २१४.२ ।। <br>
श्रूयते यमलोकस्य मार्गः परमदुर्गमः।
दुःखक्लेशकरः शश्वत्सर्वभूतभयावहः।। २१४.३ ।। <br>
कथं तेन नरा यान्ति मार्गेण यमसादनम्।
प्रमाणं चैव मार्गस्य ब्रूहि नो वदनां वर।। २१४.४ ।। <br>
मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः।
कथं नरकदुःखानि नाऽऽप्नुवन्ति नरान्मुने।। २१४.५ ।। <br>
केनोपायेन दानेन धर्मेण नियमेन च।
मानुषस्य च याम्यस्य लोकस्य कियदन्तरम्।। २१४.६ ।। <br>
कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा।
स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च।। २१४.७ ।। <br>
कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः।
किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि।।
जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः।। २१४.८ ।। <br>
'''व्यास उवाच
शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः।
संसारचक्रमजरं स्थितिर्यस्य न विद्यते।। २१४.९ ।। <br>
सोऽहं वदामि वः सर्वं यममार्गस्य निर्णयम्।
उत्क्रान्तिकालादारभ्य यथा नान्यो वदिष्यति।। २१४.१० ।। <br>
स्वरूपं चैव मार्गस्य यन्मां पृच्छथ सत्तमाः।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च।। २१४.११ ।। <br>
योजनानां सहस्राणि षडशीतिस्तदन्तरम्।
तप्तताम्रमिवाऽऽतप्तं तदध्वानमुदाहृतम्।। २१४.१२ ।। <br>
तदवश्यं हि गन्तव्यं प्रामिभिर्जीवसंज्ञकैः।
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतोऽधमाः।। २१४.१३ ।। <br>
द्वाविंशतिश्च नरका यमस्य विषये स्थिताः।
येषु दुष्कृतकर्माणो विपच्यन्ते पृथक्पृथक्।। २१४.१४ ।। <br>
नरको रौरवो रौद्रः शूकरस्ताल एव च।
कुम्भीपाको महाघोरः शाल्मलोऽथ विमाहनः।। २१४.१५ ।। <br>
कीटादः कृमिभक्षश्च ना(ला)लाभक्षो भ्रमस्तथा।
नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च।। २१४.१६ ।। <br>
अग्निज्वाला महाघोरः संदंशः शुनभोजनः।
घोरा वैतरणी चैव असिपत्रवनं तथा।। २१४.१७ ।। <br>
न तत्र वृक्षच्छाया वा न तडागाः सरांसि च।
न वाप्यो दीर्घिका वाऽपि न कूपो न प्रपा सभा।। २१४.१८ ।। <br>
न मण्डपो नाऽऽयतनं न नद्यो न च पर्वताः।
न किंचिदाश्रमस्थानं विद्यते तत्र वर्त्मनि।। २१४.१९ ।। <br>
यत्र विश्रमते श्रान्तः पुरुषोऽतीवकर्षितः।
अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः।। २१४.२० ।। <br>
प्राप्ते काले तु संत्यज्य सुहृद्बन्धुधनादिकम्।
जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजास्तथा।। २१४.२१ ।। <br>
जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम्।
देवासुरमनुष्यैश्च वैवस्वतवशानुगैः।। २१४.२२ ।।
स्त्रीपुंनपुंसकैश्चैव पृथिव्यां जीवसंज्ञितैः।
पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः।। २१४.२३ ।। <br>
संध्याकालेऽर्धरात्रे वा प्रत्यूषे वाऽप्युपस्तिते।
वृद्धैर्वा मध्यमैर्वाऽपि यौवनस्थैस्तथैव च।। २१४.२४ ।। <br>
गर्भवासेऽथ बाल्ये वा गन्तव्यः स महापथः।
प्रवासस्थैगृर्हस्थैर्वा पर्वतस्थैः स्थलेऽपि वा।। २१४.२५ ।। <br>
क्षेत्रस्तैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा।
आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा।। २१४.२६ ।। <br>
जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः।
इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा।। २१४.२७ ।। <br>
तस्यान्ते च स्वयं प्राणैरनिच्छन्नपि मुच्यते।
जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः।। २१४.२८ ।। <br>
निमित्तं किंचिदासाद्य देही प्राणैर्विमुच्यते।
विहाय सुमहत्कृत्स्नं शरीरं पाञ्चभौतिकम्।। २१४.२९ ।। <br>
अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम्।
दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये।। २१४.३० ।। <br>
तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम्।
सुखानि धार्मिको हृष्ट इह नीतो यमक्षये।। २१४.३१ ।। <br>
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः।
भीनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः।। २१४.३२ ।। <br>
उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते।
भुज्यता(क्ताना)मम्बुभक्ष्याणामधोगतिनिरोधकृत्।। २१४.३३ ।। <br>
ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा।
दत्ताः स तस्यामाह्लादमापदि प्रतिपद्यते।। २१४.३४ ।। <br>
अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा।
सोऽपि तृप्तिमवाप्नोति विनाऽप्यन्नेन वै तदा।। २१४.३५ ।। <br>
येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च।
आस्तिकः श्रद्दधानश्च सुखमृत्युं स गच्छति।। २१४.३६ ।। <br>
देवब्राह्मणपूजायां निरताश्चानसूयकाः।
शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः।। २१४.३७ ।। <br>
यः कामान्नापि संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्।
यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति।। २१४.३८ ।। <br>
वारिदास्तृषितानां ये क्षुधितान्नप्रदायिनः।
प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम्।। २१४.३९ ।। <br>
शीतं जयन्ति धनदास्तापं चन्दनदायिनः।
प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः।। २१४.४० ।। <br>
मोहं ज्ञानप्रदातारस्तथा दीपप्रदास्तमः।
कूटसाक्षी मृषावादी यो गुरुर्नानुशास्ति वै।। २१४.४१ ।। <br>
ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः।
विभिषीणाः पूतिगन्धाः कूटमुद्गरपाणयः।। २१४.४२ ।। <br>
आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तथा।
प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः।। २१४.४३ ।। <br>
क्रन्दत्यविरतः सोऽथ भ्रातृमातपितॄस्तथा।
सा तु वागस्फुटा विप्रा एकवर्णा विभाव्यते।। २१४.४४ ।। <br>
दृष्टिर्विभ्राम्यते त्रासात्कासावृष्ट्यत्य(विष्टम)थाऽऽननम्।
ततः स वेदनाविष्टं तच्छरीरं विमुञ्चति।। २१४.४५ ।। <br>
वाय्वग्रसारी तद्रूपदेहमन्यत्प्रपद्यते।
तत्कर्मयानतार्थे च न मातृपितृसंभवम्।। २१४.४६ ।। <br>
तत्प्रमाणवयोवस्थासंस्थानैः प्राप्यते व्यथा।
ततो दूतो यमस्याथ पाशैर्बध्नाति दारुणैः।। २१४.४७ ।। <br>
जन्तोः संप्राप्तकालस्य वेदनार्तस्य वै भृशम्।
भूतैः संत्यक्तदेहस्य कण्ठप्राप्तानिलस्य च।। २१४.४८ ।। <br>
शरीराच्चयावितो जीवो रोरवीति तथोल्बणम्।
निर्गतो वायुभूतस्तु षाट्कौशिककलेवरे।। २१४.४९ ।। <br>
मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा।
दारैः पुत्रर्वयस्यैश्च गुरुभिस्त्यज्यते भुवि।। २१४.५० ।। <br>
दृश्यमानश्च तैर्दीनैरश्रुपूर्णेक्षणैर्भृशम्।
स्वशरीतं समुत्सृज्य वायुभूतस्तु गच्छति।। २१४.५१ ।। <br>
अन्धकारमपारं च महाघोरं तमोवृतम्।
सुखदुःप्रदातारं दुर्गमं पापकर्मणाम्।। २१४.५२ ।। <br>
दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम्।
दुरापमतिदुर्गं च पापिष्ठानां सदाऽहितम्।। २१४.५३ ।। <br>
कृष्यमाणाश्च तैर्भूतैर्याम्यैः पाशैस्तु संयताः।
मुद्गरैस्ताड्यमानाश्च नीयन्ते तं महापथम्।। २१४.५४ ।। <br>
क्षीणायुषं समालोक्य प्राणिनं चाऽऽयुषक्षये।
निनीषवः समायान्ति यमदूता भयङ्कराः।। २१४.५५ ।। <br>
आरुढा यानकाले तु ऋक्षव्याघ्रखरेषु च।
उष्ट्रेषु वानरेष्वन्ये वृश्चिकेषु वृकेषु च।। २१४.५६ ।। <br>
उलूकसर्पमार्जारं तथाऽन्ये गृध्रवाहनाः।
श्येनशृगालमारूढाः सरघाकङ्कवाहनाः।। २१४.५७ ।। <br>
वराहपशुवेतालमहिषास्यास्तथा परे।
नानारूपधरा घोराः सर्पप्राणिभयंकराः।। २१४.५८ ।। <br>
दीर्घमुष्काः करालास्या वक्रनासास्त्रिलोचनाः।
महाहनुकपोलास्याः प्रलम्बदशनच्छदाः।। २१४.५९ ।। <br>
निर्गतैर्विकृताकारैर्दशनैरङ्कुरोपमैः।
मांसशोणितदिग्धाङ्गा दंष्ट्राभिर्भृशमुलबणैः।। २१४.६० ।। <br>
मुखैः पातालसदृशैर्ज्वलज्जिह्वैर्भयंकरैः।
नेत्रैः सुविकृताकारैर्ज्वलत्पिङ्गलचञ्चलैः।। २१४.६१ ।। <br>
मार्जारोलूकखद्योतशक्रगोपवदुद्धतैः।
केकरैः संकुलैस्तब्धैर्लोचनैः पावकोपमैः।। २१४.६२ ।। <br>
भृशमाभरणैर्भीमैराबद्धैर्भुजगोपमैः।
शोणासरलगात्रैश्च मुण्डमालाविभूषितैः।। २१४.६३ ।। <br>
कण्ठस्थकृष्णसपैश्च फूत्काररवभीषणैः।
वह्निज्वालोपमैः केशैस्तब्धरूक्षैर्भयंकरैः।। २१४.६४ ।। <br>
बभ्रुपिङ्गललोलैश्च कद्रुश्मश्रुभिरावृताः।
भुजदण्डैर्महाघोरैः प्रलम्बैः परिघोपमैः।। २१४.६५ ।। <br>
केचिद् द्विबाहवस्तत्र तथाऽन्ये च चतुर्भुजाः।
द्विरष्टबाहवश्चान्ये दशविंशभुजास्तथा।। २१४.६६ ।। <br>
असंख्यातभुजाश्चानये केचिद्बाहुमसहस्रिणः।
आयुधैर्विकृताकारैः प्रज्वलद्भिर्भयानकैः।। २१४.६७ ।। <br>
शक्तितोमरचक्राद्यैः सुदीप्तैर्विविधायुधैः।
पाशश्रृंखलदण्डैश्च भीषयन्तो महाबलाः।। २१४.६८ ।। <br>
आगच्छन्ति महारौद्रा मर्त्यानामायुषः क्षये।
ग्रहीतुं प्राणिनः सर्वं यमस्याऽऽज्ञाकरास्तथा।। २१४.६९ ।। <br>
यत्तच्छरीरमादत्ते यातनीयं स्वकर्मजम्।
तदस्य नीयते जन्तोर्यमस्य सदनं प्रति।। २१४.७० ।। <br>
बद्ध्वा तत्कालपाशैश्च निगडैर्वज्रश्रृङ्खलैः।
ताडयित्वा भृशं क्रुद्धैर्नीयते यमकिंकरैः।। २१४.७१ ।। <br>
प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर्मुहुः।
हा तात पुत्रेति वदन्तं कर्मदूषितम्।। २१४.७२ ।। <br>
आहत्य निशितैः शूलैर्मुद्गरैर्निशितैर्घनैः।
खड्गाशक्तिप्रहारैश्च वज्रदण्डैः सुदारुणैः।। २१४.७३ ।। <br>
भर्त्स्यमानो महारावैर्वज्रशक्तिसमन्वितैः।
एकैकशो भृशं क्रुद्धैस्ताडयद्भिः समन्ततः।। २१४.७४ ।। <br>
स मुह्यमानो दुःखार्तः प्रतपंश्च इतस्ततः।
आकृष्य नीयते जन्तुरध्वानं सुभयंकरैः।। २१४.७५ ।। <br>
कुशकण्टकवल्मीकशङ्कुपाषाणशर्करे।
तथा प्रदीप्तज्वलने क्षारवज्रशतोऽकटे।। २१४.७६ ।। <br>
प्रदीप्तादित्यतप्तेन दह्यमानस्तदंशुभिः।
कृष्यते यमदूतैश्च शिवासंनादभीषणैः।। २१४.७७ ।। <br>
विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवशतैः।
प्रयाति दारुणे मार्गे पापकर्मा यमालयम्।। २१४.७८ ।। <br>
क्वचिद्भीतैः क्वचित्त्रस्तैः प्रस्खलद्भिः क्वचित्क्वचित्।
दुःखेनाऽक्रनाऽक्रन्दमानैश्च गन्तव्यः स महापथः।। २१४.७९ ।। <br>
निर्भर्त्स्यमानैरुद्विग्नैर्विद्रुतैर्भयविह्वलैः।
कम्पमानशरीरैस्तु गन्तव्यं जीवसंज्ञकैः।। २१४.८० ।। <br>
कष्टकाकीर्णमार्गेण संतप्तसिकतेन च।
दह्यमानैस्तु गन्तव्यं जीवसंज्ञकैः।। २१४.८१ ।। <br>
मेदःशोणितदुर्गन्धैर्बस्तगात्रैश्च पुगशः।
दग्धस्फुटत्वचाऽऽकीर्णैर्गन्तव्यं जीवघातकैः।। २१४.८२ ।। <br>
कूजद्भिः क्रन्दमानैश्च विक्रोशद्भिश्च विस्वरम्।
वेदनार्तैश्च सद्भिश्च गन्तव्यं जीवघातकैः।। २१४.८३ ।। <br>
शक्तिभिर्भिन्दिपालैश्च खड्गतोमरसायकैः।
भिद्यद्भिस्तीक्ष्णशूलाग्रैर्गन्तव्यं जीवघातकैः।। २१४.८४ ।। <br>
श्वानैर्व्याघ्रैर्वृकैः कङ्कैर्भक्ष्यमाणैश्च पापिभिः।। २१४.८५ ।। <br>
कृन्तद्भिः क्रकचाघतैर्गन्तव्यं मांसखादिभिः।
महिषर्षभशृङ्गाग्रैर्भिद्यमानैः समन्ततः।। २१४.८६ ।। <br>
उल्लिखद्भिः शूकरैश्च गन्तव्यं मांसखादकैः।
सूचीभ्रमरकाकोलमक्षिकाभिश्च संघशः।। २१४.८७ ।। <br>
भुज्यमानैस्च गन्तव्यं पापिष्ठैर्मधुघातकैः।
विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत्।। २१४.८८ ।। <br>
शस्त्रैर्निकृत्यमानैश्च गन्तव्यं चातुरैर्नरैः।
घातयन्ति च ये जन्तूंस्ताडयन्ति निरागसः।। २१४.८९ ।। <br>
राक्षसैर्भक्ष्यमाणास्ते यान्ति याम्यपथं नराः।
ये हरन्ति परस्त्रीणां वरप्रावरणानि च।। २१४.९० ।। <br>
ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम्।
वासो धान्यं हिरण्यं वा गृहक्षेत्रमथापि वा।। २१४.९१ ।। <br>
ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः।
पाषाणैर्लगुडैर्दण्डैस्ताड्यमानैस्तु जर्जरैः।। २१४.९२ ।। <br>
हद्भिः शोणिनं भूरि गन्तव्यं तु यमालयम्।
ब्रह्मास्वं ये हरन्तीह नरा नरकनिर्भयाः।। २१४.९३ ।। <br>
ताडान्ति तथा विप्रानाक्रोशन्ति नराधमाः।
शुष्ककाष्ठनिबद्धास्ते धिन्नकर्णाक्षिनासिकाः।। २१४.९४ ।। <br>
पूयशोणितदिग्धास्ते कालगृधैश्च जम्बुकैः।
किंकरैर्भीषणैश्चण्डैस्ताड्यमानाश्च दारुणैः।। २१४.९५ ।। <br>
विक्रोशमाना गच्छन्ति पापिनस्ते यमालयम्।
एवं परमदुर्धर्षमध्वानं ज्वलनप्रभम्।। २१४.९६ ।। <br>
रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च।
प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत्।। २१४.९७ ।। <br>
कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः।
शक्तिवज्रैश्च संकीर्णमुज्ज्वलं तीव्रकण्टकम्।। २१४.९८ ।। <br>
अङ्गारवालुकामिश्रं वहिनकीटकदुर्गमम्।
ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम्।। २१४.९९ ।। <br>
अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः।
यदैव क्रन्दते जन्तुर्दुःखार्तः पतितः क्वचित्।। २१४.१०० ।। <br>
तदैवाऽऽहन्यते सर्वैरायुधैर्यमकिंकरैः।
एवं संताड्यमानश्च लुब्धः पापेषु योऽनयः।। २१४.१०१ ।। <br>
अवशो नीयते जन्तुर्दुर्धरैर्यमकिंकरैः।
सवैरेव हि गन्तव्यमध्वानं तत्सुदुर्गमम्।। २१४.१०२ ।। <br>
नीयते विविधैर्घोरैर्यमदूतैरवज्ञया।
नीत्वा सुदारुणं मार्गं प्राणिनं यमकिंकरैः।। २१४.१०३ ।। <br>
प्रवेश्यते पुरीं घोरं ताम्रायसमयीं द्विजाः।
सा पुरी विपुलाकारा लक्षयोजनमायता।। २१४.१०४ ।। <br>
चतुर्स्रा विनिर्दिष्टा चतुर्द्वारवती शुभा।
प्राकाराः काञ्चनास्तस्या योजनायुतमुच्छ्रिताः।। २१४.१०५ ।। <br>
इन्द्रनीलमहानीलपद्मरागोपशोभिता।
सा पुरी विविधैः संघैर्घोरा घोरैः समाकुला।। २१४.१०६ ।। <br>
देवदानगन्धर्वैर्यक्षराक्षसपन्नगैः।
पूर्वर्द्वारं शुभं तस्याः पताकाशतशोभितम्।। २१४.१०७ ।। <br>
वज्रेन्द्रनीलवैदूर्यमुक्ताफलविभूषितम्।
गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः।। २१४.१०८ ।। <br>
प्रवेशस्तेन देवानामृषीणां योगिनां तथा।
गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम्।। २१४.१०९ ।। <br>
उत्तरं नगरद्वारं घण्टाचामरभूषितम्।
छत्रचामरविन्यासं नानारत्नैरलंकृतम्।। २१४.११० ।। <br>
वीणारेणुरवै रम्यैर्गीतमङ्गलनादितैः।
ऋग्जुःसामनिर्घोषैर्मुनिवृन्दसमाकुलम्।। २१४.१११ ।। <br>
विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः।
ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः।। २१४.११२ ।। <br>
श्रान्तसंवाहका ये च प्रियवादरताश्च ये।
ये च दानरताः शूरा मातापितृपराश्च ये।। २१४.११३ ।। <br>
द्विजशुश्रूषणे युक्ता नित्यं येऽतिथिपूजकाः।
पश्चिमं तु महाद्वारं पुर्या रत्नैर्विभूषितम्।। २१४.११४ ।। <br>
विचित्रमणिसोपानं तोमरैः समलंकृतम्।
भेरीमृदङ्गसमनादैः शङ्खकाहलनादितम्।। २१४.११५ ।। <br>
सिद्धवृन्दैः सदा हृष्टैर्मङ्गलैः प्रणिनादितम्।
प्रवेशस्तेन हृष्टानां शिवभक्तिमतांनृणाम्।। २१४.११६ ।। <br>
सर्वतीर्थप्लुता ये च पञ्चाग्नेर्ये च सेवकाः।
प्रस्थाने ये मृता वीरा मृताः कालंजरे गिरौ।। २१४.११७ ।। <br>
अग्नौ विपन्ना ये वीराः साधितं वैरनाशकम्।
ये स्वामिमित्रलोकार्थे गोग्रहे संकुले हता।। २१४.११८ ।। <br>
ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः।
पूर्यां तस्या महाघोरं सर्वमत्त्वभयंकरम्।। २१४.११९ ।। <br>
हाहाकारसमाक्रुष्टं दक्षिणं द्वारमीदृशम्।
अन्धकारसमायुक्तं तीक्ष्णश्ङ्गैः समन्वितम्।। २१४.१२० ।। <br>
कण्टकैर्वृश्चिकैः सर्पैर्वज्रकीटैः सुदुर्गमैः।
विलुम्पद्भिर्वृकैर्व्याध्रैर्ऋर्क्षैः सिंहैः सजम्बुकैः।।१२१।।
श्वानमार्जारगृध्रैश्च सज्वालकवलैर्मुखैः।
प्रवेशस्तेन वै नित्यं सर्वेषामपकारिणाम्।। २१४.१२२ ।। <br>
ये घातयन्ति विप्रान्गा बालं वृद्धं तथाऽऽतुरम्।
शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम्।। २१४.१२२ ।। <br>
येऽगम्यागामिनो मूढाः परद्रव्यापहारिणः।
निक्षेपस्यापहर्तारो विषवहिनप्रदाश्च ये।। २१४.१२३ ।। <br>
परभूमिं गृहं शय्यां वस्त्रालंकारहारिणः।
पररन्ध्रेषु ये क्रूरा ये सदाऽनृतवादिनः।। २१४.१२४ ।। <br>
ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये।
कूटसाक्षिप्रदादातारः कन्याविक्रयमकारकाः।। २१४.१२६ ।। <br>
अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम्।
मातरं पितरं चैवये वदन्ति च पौरुषम्।। २१४.१२७ ।। <br>
अन्ये ये चैव निर्दिष्टा महापातककारिणः।
दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै।। २१४.१२८ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे यमलोकस्य मार्गस्वरूपाख्याननिरूपणं नाम चतुर्दशाधिकद्विशततमोऽध्यायः।। २१४ ।। <br>
</poem></big>
[[वर्गः:ब्रह्मपुराणम्]]
h3lrz5orov5838vmerw9hhwk9ippz5s
शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ५/ब्राह्मण ३
0
18490
341264
153849
2022-07-24T18:24:17Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">
३.५.३. हविर्धानकर्म
पुरुषो वै यज्ञः । पुरुषस्तेन यज्ञो यदेनं पुरुषस्तनुत एष वै तायमानो यावानेव पुरुषस्तावान्विधीयते तस्मात्पुरुषो यज्ञः - ३.५.३.१
शिर एवास्य हविर्धानम् । वैष्णवं देवतयाथ यदस्मिन्त्सोमो भवति हविर्वै देवानां सोमस्तस्माद्धविर्धानं नाम - ३.५.३.२
मुखमेवास्याहवनीयः । स यदाहवनीये जुहोति यथा मुखऽआसिञ्चेदेवं तत् - ३.५.३.३
स्तुप एवास्य यूपः । बाहू एवास्याग्नीध्रीयश्च मार्जालीयश्च - ३.५.३.४
उदरमेवास्य सदः । तस्मात्सदसि भक्षयन्ति यद्धीदं किं चाश्नन्त्युदर एवेदं सर्वं प्रतितिष्ठत्यथ यदस्मिन्विश्वे देवा असीदंस्तस्मात्सदो नाम त उ एवास्मिन्नेते ब्राह्मणा विश्वगोत्राः सीदन्ति - ३.५.३.५
अथ यावेतौ जघनेनाग्नी । पादावेवास्यैतावेष वै तायमानो यावानेव पुरुषस्तावान्विधीयते तस्मात्पुरुषो यज्ञः - ३.५.३.६
उभयतोद्वारं हविर्धानं भवति । उभयतोद्वारं सदस्तस्मादयं पुरुषऽआन्तं संतृण्णः प्रणिक्ते हविर्धाने उपतिष्ठते - ३.५.३.७
ते समववर्तयन्ति । दक्षिणेनैव दक्षिणमुत्तरेणोत्तरं यद्वर्षीयस्तद्दक्षिणं स्यात् - ३.५.३.८
तयोः समववृत्तयोः । छदिरधिनिदधति यदि च्छदिर्न विन्देयुश्छदिः सम्मिताम्भित्तिं प्रत्यानह्यन्ति रराट्यां परिश्रयन्त्युच्छ्रायीभ्यां छदिः पश्चादधिनिदधति च्छदिः सम्मितां वा भित्तिम् - ३.५.३.९
अथ पुनः प्रपद्य । चतुर्गृहीतमाज्यं गृहीत्वा सावित्रं प्रसवाय जुहोति सविता वै देवानां प्रसविता सवितृप्रसूताय यज्ञं तनवामहा इति तस्मात्सावित्रं जुहोति - ३.५.३.१०
स जुहोति । युञ्जते मन उत युञ्जते धिय इति मनसा च वै वाचा च यज्ञं तन्वते स यदाह युञ्जते मन इति तन्मनो युनक्त्युत युञ्जते धिय इति तद्वाचं युनक्ति धियाधिया ह्येतया मनुष्या जुज्यूषन्त्यनूक्तेनेव प्रकामोद्येनेव गाथाभिरिव ताभ्यां युक्ताभ्यां यज्ञं तन्वते - ३.५.३.११
विप्रा विप्रस्य बृहतो विपश्चित इति । ये वै ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते विप्रास्तानेवैतदभ्याह बृहतो विपश्चित इति यज्ञो वै बृहन्विपश्चिद्यज्ञमेवैतदभ्याह वि होत्रा दधे वयुनाविदेक इदिति वि हि होत्रा दधते यज्ञं तन्वाना मही देवस्य सवितुः परिष्टुतिः स्वाहेति तत्सावित्रं प्रसवाय जुहोति - ३.५.३.१२
अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । उपनिष्क्रामति दक्षिणया द्वारा पत्नीं निष्क्रामयन्ति स दक्षिणस्य हविर्धानस्य दक्षिणायां वर्तन्यां हिरण्यं निधाय जुहोतीदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूढमस्य पांसुरे स्वाहेति संस्रवं पत्न्यै पाणावानयति साक्षस्य संतापमुपानक्ति देवश्रुतौदेवेष्वाघोषतमिति प्रयच्छति प्रतिप्रस्थात्रे स्रुचं चाज्यविलापनीं च पर्याणयन्ति पत्नीमुभौ जघनेनाग्नी - ३.५.३.१३
चतुर्गृहीतमाज्यं गृहीत्वा । प्रतिप्रस्थातोत्तरस्य हविर्धानस्य दक्षिणायां वर्तन्यां हिरण्यं निधाय जुहोतीरावती धेनुमती हि भूतं सूयवसिनी मनवे दशस्या व्यस्कभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः स्वाहेति संस्रवं पत्न्यै पाणावानयति साक्षस्य संतापमुपानक्ति देवश्रुतौ देवेष्वाघोषतमिति तद्यदेवं जुहोति - ३.५.३.१४
देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयांचक्रुर्वज्रो वा आज्यं त एतेन वज्रेणाज्येन दक्षिणतो नाष्ट्रा रक्षांस्यवाघ्नंस्तथैषां नियानं नान्ववायंस्तथो एवैष एतेन वज्रेणाज्येन दक्षिणतो नाष्ट्रा रक्षांस्यवहन्ति तथास्य नियानं नान्वयन्ति तद्यद्वैष्णवीभ्यामृग्भ्यां जुहोति वैष्णवं हि हविर्धानम् - ३.५.३.१५
अथ यत्पत्न्यक्षस्य संतापमुपानक्ति । प्रजननमेवैतत्क्रियते यदा वै स्त्रियै च पुंसश्च संतप्यतेऽथ रेतः सिच्यते तत्ततः प्रजायते परागुपानक्ति पराग्घ्येव रेतः सिच्यतेऽथाह हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति - ३.५.३.१६
अथ वाचयति । प्राची प्रेतमध्वरं कल्पयन्ती इत्यध्वरो वै यज्ञः प्राची प्रेतं यज्ञं कल्पयन्ती इत्येवैतदाहोर्ध्वं यज्ञं नयतं मा जिह्वरतमित्यूर्ध्वमिमं यज्ञं देवलोकं नयतमित्येवैतदाह मा जिह्वरतमिति तदेतस्मा अह्वलामाशास्ते समुद्गृह्येव प्रवर्तयेयुर्यथा नोत्सर्जेतामसुर्या वा एषा वाग्याऽक्षे नेदिहासुर्या वाग्वदादिति यद्युत्सर्जेताम् - ३.५.३.१७
एतद्वाचयेत् । स्वं गोष्ठमावदतं देवी दुर्ये आयुर्मा निर्वादिष्टं प्रजां मा निर्वादिष्टमिति तस्यो हैषा प्रायश्चित्तिः - ३.५.३.१८
तदाहुः । उत्तरवेदेः प्रत्यङ्प्रक्रामेत्त्रीन्विक्रमांस्तद्धविर्धाने स्थापयेत्सा हविर्धानयोर्मात्रेति नात्र मात्रास्ति यत्रैव स्वयं मनसा मन्येत नाहैव सत्राऽत्यन्तिके नो दूरे तत्स्थापयेत् - ३.५.३.१९
ते अभिमन्त्रयते । अत्र रमेथां वर्ष्मन्पृथिव्या इति वर्ष्म ह्येतत्पृथिव्यै भवति दिवि ह्यस्याहवनीयो भवति नभ्यस्थे करोति तद्धि क्षेमस्य रूपम् - ३.५.३.२०
अथोत्तरेण पर्येत्याध्वर्युः । दक्षिणं हविर्धानमुपस्तभ्नाति विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायो विष्णवे त्वेति मेथीमुपनिहन्तीतरतस्ततो यदु च मानुषे - ३.५.३.२१
अथ प्रतिप्रस्थाता । उत्तरं हविर्धानमुपस्तभ्नाति दिवो वा विष्ण उत वा पृथिव्या महो वा विष्ण उरोरन्तरिक्षात उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणादोत सव्याद्विष्णवे त्वेति मेथीमुपनिहन्तीतरतस्ततो यदु च मानुषे तद्यद्वैष्णवैर्यजुर्भिरुपचरन्ति वैष्णवं हि हविर्धानम् - ३.५.३.२२
अथ मध्यमं छदिरुपस्पृश्य वाचयति । प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेतीदं हैवास्यैतच्छीर्षकपालं यदिदमुपरिष्टादधीव ह्येतत्क्षियन्त्यन्यानि शीर्षकपालानि तस्मादाहाधिक्षियन्तीति - ३.५.३.२३
अथ रराट्यामुपस्पृश्य वाचयति । विष्णो रराटमसीति ललाटं हैवास्यैतदथोच्छ्राया उपस्पृश्य वाचयति विष्णोः श्नप्त्रे स्थ इति स्रक्वे हैवास्यैते अथ यदिदं पश्चाच्छदिर्भवतीदं हैवास्यैतच्छीर्षकपालं यदिदं पश्चात् - ३.५.३.२४
अथ लस्पूजन्या स्पन्द्यया प्रसीव्यति । विष्णोः स्यूरसीत्यथ ग्रन्थिं करोति विष्णोर्ध्रुवोऽसीति नेद्व्यवपद्याता इति तं प्रकृते कर्मन्विष्यति तथो हाध्वर्युं वा यजमानं वा ग्राहो न विन्दति तन्निष्ठितमभिमृशति वैष्णवमसीति वैष्णवं हि हविर्धानम् - ३.५.३.२५
</span></poem>
omh5wqiwe3sw9gwhvy0qjqiwg1jzs3s
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/95
104
27940
341352
335659
2022-07-25T09:14:00Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६९|center=अनुबन्धः ६|right=}}</noinclude>
{{Block center|<poem>एवं चन्द्रार्कयोस्तु स्फुटम् , अवनिसुता-
{{gap}}{{gap}}{{gap}}चार्यसूर्यात्मजानां
त्वेकं मन्दस्फुटाख्यं पुनरथ विलिखे-
{{gap}}{{gap}}{{gap}}च्छीघ्रनीचोच्चवृत्तम् ।
एतद् भूमध्यकेन्द्रं, पुनरिह तु वृतौ
{{gap}}{{gap}}{{gap}}यत्र तच्छीघ्रमुच्चं
तत्केन्द्रान्तकर्णेन तु विलिखतु वृतिं
{{gap}}{{gap}}{{gap}}यत्र मन्दग्रहः स्यात् ॥ ५॥
तस्माच्छीघ्रोच्चकेन्द्रावधिरिह तु भवे-
{{gap}}{{gap}}{{gap}}च्छीघ्रकर्णाख्यरेखा
तद्वृत्तैर्यत्क्रमश्चे {{gap}}{{gap}} गतिख
{{gap}}{{gap}}{{gap}}तत्र शीघ्रस्फुटः स्यात् ।
पूर्वत्रोक्तेव मन्दस्फुटनयसरणिः
{{gap}}{{gap}}{{gap}}सौम्यभृग्वोरपि स्यात्
--किन्तु?) मध्यमेवाऽत्र तु भवति --
- - - - - - - ॥६॥</poem>}}
{{rule|5em}}
{{rule}}
1. 2. Ms. broken.
3. The ms. ends abruptly in the middle of a line with ''bhavati,''
indicating that its archetype, too, had been defective, Possibly, the work is an octad (''astaka''), as several such works are, in which case, the further two verses are lost.<noinclude></noinclude>
rb2wi8u2nailwy1jdr7qf4woaetyuiv
341353
341352
2022-07-25T09:14:56Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६९|center=अनुबन्धः ९|right=}}</noinclude>
{{Block center|<poem>एवं चन्द्रार्कयोस्तु स्फुटम् , अवनिसुता-
{{gap}}{{gap}}{{gap}}चार्यसूर्यात्मजानां
त्वेकं मन्दस्फुटाख्यं पुनरथ विलिखे-
{{gap}}{{gap}}{{gap}}च्छीघ्रनीचोच्चवृत्तम् ।
एतद् भूमध्यकेन्द्रं, पुनरिह तु वृतौ
{{gap}}{{gap}}{{gap}}यत्र तच्छीघ्रमुच्चं
तत्केन्द्रान्तकर्णेन तु विलिखतु वृतिं
{{gap}}{{gap}}{{gap}}यत्र मन्दग्रहः स्यात् ॥ ५॥
तस्माच्छीघ्रोच्चकेन्द्रावधिरिह तु भवे-
{{gap}}{{gap}}{{gap}}च्छीघ्रकर्णाख्यरेखा
तद्वृत्तैर्यत्क्रमश्चे {{gap}}{{gap}} गतिख
{{gap}}{{gap}}{{gap}}तत्र शीघ्रस्फुटः स्यात् ।
पूर्वत्रोक्तेव मन्दस्फुटनयसरणिः
{{gap}}{{gap}}{{gap}}सौम्यभृग्वोरपि स्यात्
--किन्तु?) मध्यमेवाऽत्र तु भवति --
- - - - - - - ॥६॥</poem>}}
{{rule|5em}}
{{rule}}
1. 2. Ms. broken.
3. The ms. ends abruptly in the middle of a line with ''bhavati,''
indicating that its archetype, too, had been defective, Possibly, the work is an octad (''astaka''), as several such works are, in which case, the further two verses are lost.<noinclude></noinclude>
smewt2v2sccf6z938acedfk1cpxjsp1
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/96
104
27942
341357
335660
2022-07-25T09:27:09Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=अनुबन्धः १०|right=}}
{{center|अच्युतविरचितम्}}
{{center|छायाष्टकम्}}</noinclude>
इन्दूच्चोनितभानुकोटिजनरोन्वा'दिज्यया ताडिते
'व्यर्केन्दोर्भुजकोटिजेः गतिकलोनैः पादमान्यैः क्रमात् ।
व्यासार्धेन तु' भाजिते निजदलाढ़ये चन्द्रतद्भोगयोः
कार्ये, मान्दवदुच्चभानुविवरे कर्क्योंदिजे' व्यत्ययात् ॥ ७ ॥
पातोनाद्यशशाङ्कबाहुजफलं क्षेपी दशांशोनितं
भुक्त्या चान्तिमया हतः प्रथमयाऽप्तोऽयं द्वितीयेन्दुजे ।
स्वर्णं क्रान्तिशरासने समविभिन्नाशे त्रिभोनाद्विधो-
र्दोज्य क्षेपहता हृता ~नसिसैः(?) कार्या विधोर्दिग्वशात् ॥ २ ॥
{{rule}}
Occurs in the middle of Ms. No. 41 16-A of H. H. The Maharaja's Palace Library, Trivandrum, catalogued as Drgganitakramam. The ms. is far from perfect. In the edition here, the gaps have been indicated and emendations to соггupt readings have been suggested, wherever possible.
1. Ms. reads ver, emended to a T.
2. Four lines from here and part of the fifth (i.e.,व्यर्केन्द्रौ : to भुक्त्या
च) are repeated by oversight after the words क्त्रान्तेश्चापभवा
गुणास्त in 3b ; after this the scribe again begins to write 3b
afresh.
3. Ms. reads कोमजे ; कोजे in the repetition mentioned above.
4. Rep. omits तु 5. Rep. reads कार्य
6. Ms. कर्क्याजे ; Rep. कर्क्याजके 7. Ms. om. म
8. Ms. reads नसीसैः<noinclude></noinclude>
nma05rxcptq2wyy16oslfw8iccwgzye
341358
341357
2022-07-25T09:27:41Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=अनुबन्धः १०|right=}}
{{center|अच्युतविरचितम्}}
{{center|छायाष्टकम्}}</noinclude>
{{Block center|<poem>इन्दूच्चोनितभानुकोटिजनरोन्वा'दिज्यया ताडिते
'व्यर्केन्दोर्भुजकोटिजेः गतिकलोनैः पादमान्यैः क्रमात् ।
व्यासार्धेन तु' भाजिते निजदलाढ़ये चन्द्रतद्भोगयोः
कार्ये, मान्दवदुच्चभानुविवरे कर्क्योंदिजे' व्यत्ययात् ॥ ७ ॥
पातोनाद्यशशाङ्कबाहुजफलं क्षेपी दशांशोनितं
भुक्त्या चान्तिमया हतः प्रथमयाऽप्तोऽयं द्वितीयेन्दुजे ।
स्वर्णं क्रान्तिशरासने समविभिन्नाशे त्रिभोनाद्विधो-
र्दोज्य क्षेपहता हृता ~नसिसैः(?) कार्या विधोर्दिग्वशात् ॥ २ ॥</poem>}}
{{rule}}
Occurs in the middle of Ms. No. 41 16-A of H. H. The Maharaja's Palace Library, Trivandrum, catalogued as Drgganitakramam. The ms. is far from perfect. In the edition here, the gaps have been indicated and emendations to соггupt readings have been suggested, wherever possible.
1. Ms. reads ver, emended to a T.
2. Four lines from here and part of the fifth (i.e.,व्यर्केन्द्रौ : to भुक्त्या
च) are repeated by oversight after the words क्त्रान्तेश्चापभवा
गुणास्त in 3b ; after this the scribe again begins to write 3b
afresh.
3. Ms. reads कोमजे ; कोजे in the repetition mentioned above.
4. Rep. omits तु 5. Rep. reads कार्य
6. Ms. कर्क्याजे ; Rep. कर्क्याजके 7. Ms. om. म
8. Ms. reads नसीसैः<noinclude></noinclude>
jtvmm95z3zyxb6v18trtdmtdgfip06y
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/97
104
27944
341376
335661
2022-07-25T10:24:51Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=अनुबन्धः १० |right=}}</noinclude>
{{Block center|<poem>
धन्यो-जाल-समः स्वसु-र्नळा-धियातीढ्यः कुम्भः कुजीतकः (?)
क्रान्तेश्चापभवा गुणास्तलभवा नीहा(?)श्चरार्धासवः ।
कृत्वा षड्भयुते खौ निजचरं लिप्तासु भेदं पदे
युग्मौजे स्वमृणं ततस्तु समये स्यात् काललग्नं रवेः ॥ ३ ॥
धीषष्टे पदभाकृतिं वनहतां प्रक्षिप्य मूलं श्रुतिः
शंस्य - ० ० -- ~ (2) शक्तिरतनेत्राप्तेन शङ्कुस्ततः ।
त्रिज्याकृत्यवलम्बकांशनिहतक्रान्ते (?) स्वकोटया हरेत्
कृत्वा तत्र चरं क्रमात् कृतधनुः प्रत्यक्कपाले तु तत् ॥ ५ ॥
षड्भोनं कृतक्रिये कृतकलाप्राणान्तरे [तद्] विधौ
तस्मादस्तग'काललग्नरहिता नाड्यः षडाप्तांशकान् ।
नाडी देहि]सुखांशयुक्तरहिता स्वल्पेऽधिके हि.." ॥ ५-६ ॥
युक्त्वार्कास्तगकाललग्नलवके षड्भिर्निशानाडिकां
त्यक्त्वेन्दौ कृतदृक्क्रिये कृतकलाप्राणान्तरे दोर्गुणम् ।
याम्योदक्चरमौर्विकोनसहितः कोट्यावमस्याहतस्
त्रिज्याकृत्यवलम्बकांशकहतश्चन्द्रस्य शङ्कुः फलम् ॥ ७ ॥</poem>}}
{{rule}}
1. Ms. reads जळ
2.Ms. corrupt. The krānti-jyas intended could be given by the expn. वनापो तार्किको जीरकः ।
3. Ms. reads दस्तन
4. Large unindicated gap comprising of the rest of verse 5 and the whole of verse 6,<noinclude></noinclude>
q4bere12tn8ylt3zo6ss60m65ipec8x
श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः १३
0
36060
341222
90543
2022-07-24T12:25:21Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">ब्राह्मण उवाच।
दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमःसत्त्वविभक्तकर्मदृक्।
स एष सार्थोऽर्थपरः परिभ्रमन्भवाटवीं याति न शर्म विन्दति १।
यस्यामिमे षण्नरदेव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात्।
गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यथोरणं वृकाः २।
प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर्मशकैरुपद्रुतः।
क्वचित्तु गन्धर्वपुरं प्रपश्यति क्वचित्क्वचिच्चाशुरयोल्मुकग्रहम् ३।
निवासतोयद्रविणात्मबुद्धिस्ततस्ततो धावति भो अटव्याम्।
क्वचिच्च वात्योत्थितपांसुधूम्रा दिशो न जानाति रजस्वलाक्षः ४।
अदृश्यझिल्लीस्वनकर्णशूल उलूकवाग्भिर्व्यथितान्तरात्मा।
अपुण्यवृक्षान्श्रयते क्षुधार्दितो मरीचितोयान्यभिधावति क्वचित् ५।
क्वचिद्वितोयाः सरितोऽभियाति परस्परं चालषते निरन्धः।
आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते क्व च यक्षैर्हृतासुः ६।
शूरैर्हृतस्वः क्व च निर्विण्णचेताः शोचन्विमुह्यन्नुपयाति कश्मलम्।
क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन्मुहूर्तम् ७।
चलन्क्वचित्कण्टकशर्कराङ्घ्रिर्नगारुरुक्षुर्विमना इवास्ते।
पदे पदेऽभ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय ८।
क्वचिन्निगीर्णोऽजगराहिना जनो नावैति किञ्चिद्विपिनेऽपविद्धः।
दष्टः स्म शेते क्व च दन्दशूकैरन्धोऽन्धकूपे पतितस्तमिस्रे ९।
कर्हि स्म चित्क्षुद्र रसान्विचिन्वंस्तन्मक्षिकाभिर्व्यथितो विमानः।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो बलाद्विलुम्पन्त्यथ तं ततोऽन्ये १०।
क्वचिच्च शीतातपवातवर्ष प्रतिक्रियां कर्तुमनीश आस्ते।
क्वचिन्मिथो विपणन्यच्च किञ्चिद्विद्वेषमृच्छत्युत वित्तशाठ्यात् ११।
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्शय्यासनस्थानविहारहीनः।
याचन्परादप्रतिलब्धकामः पारक्यदृष्टिर्लभतेऽवमानम् १२।
अन्योन्यवित्तव्यतिषङ्गवृद्ध वैरानुबन्धो विवहन्मिथश्च।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त बाधोपसर्गैर्विहरन्विपन्नः १३।
तांस्तान्विपन्नान्स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः।
आवर्ततेऽद्यापि न कश्चिदत्र वीराध्वनः पारमुपैति योगम् १४।
मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः।
मृधे शयीरन्न तु तद्व्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति १५।
प्रसज्जति क्वापि लताभुजाश्रयस्तदाश्रयाव्यक्तपदद्विजस्पृहः।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन्सख्यं विधत्ते बककङ्कगृध्रैः १६।
तैर्वञ्चितो हंसकुलं समाविशन्नरोचयन्शीलमुपैति वानरान्।
तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षणविस्मृतावधिः १७।
द्रुमेषु रंस्यन्सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने।
क्वचित्प्रमादाद्गिरिकन्दरे पतन्वल्लीं गृहीत्वा गजभीत आस्थितः १८।
अतः कथञ्चित्स विमुक्त आपदः पुनश्च सार्थं प्रविशत्यरिन्दम।
अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन १९।
रहूगण त्वमपि ह्यध्वनोऽस्य सन्न्यस्तदण्डः कृतभूतमैत्रः।
असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम् २०।
राजोवाच।
अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन्।
न यद्धृषीकेशयशःकृतात्मनां महात्मनां वः प्रचुरः समागमः २१।
न ह्यद्भुतं त्वच्चरणाब्जरेणुभिर्हतांहसो भक्तिरधोक्षजेऽमला।
मौहूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोऽपहतोऽविवेकः २२।
नमो महद्भ्योऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः।
ये ब्राह्मणा गामवधूतलिङ्गाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् २३।
श्रीशुक उवाच।
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मसतत्त्वं विगणयतः परानुभावः परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो धरणिमिमां विचचार २४।
सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज एवं हि नृप भगवदाश्रिताश्रितानुभावः २५।
राजोवाच।
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति २६।
</span></poem>
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे त्रयोदशोऽध्यायः।
1bf8r6t65if94o7krtkv15hv9gzyzor
विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १२१-१२५
0
49133
341223
111589
2022-07-24T13:40:07Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायाः १२१-१२५
| previous = [[../अध्यायाः ११६-१२०|अध्यायाः ११६-१२०]]
| next = [[../अध्यायाः १२६-१३०|अध्यायाः १२६-१३०]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">2.121
राम उवाच ।।
नरकाद्यान्ति तिर्यक्त्वं ततो मानुष्यमेव च ।।
तेषां चिह्नानि मे ब्रूहि मानुष्ये वरुणात्मज ।।१।।
पुष्कर उवाच ।। मणिमुक्ताप्रवालानि रत्नानि विविधानि च ।।
अपहृत्य नरो राम जायते हेमकर्तृषु ।। २ ।।
यद्वा तद्वा परद्रव्यमपहृत्य नरो बलात् ।।
प्राप्नोति भृगुशार्दूल मानुष्ये भारवाहिताम् ।। ३ ।।
यं कञ्चिद् घातयित्वापि प्राणिनं भृगुनन्दन ।।
मांसं भुक्त्वा तु धर्मज्ञ भवतीह गदातुरः ।। ४ ।।
सुवर्णचोरः कुनखी सुरापः श्यावदन्तकः ।।
ब्रह्महा क्षयरोगी स्याहुश्चर्मा गुरुतल्पगः ।। ५ ।।
पिशुनः पूतिनासः स्यात्सूचकः पूतिवक्त्रकः ।।
धान्यचौरोङ्गहीनः स्यादव्यङ्गो मिश्रहृद्भवेत् ।। ६ ।।
व्याधितश्चान्नहर्ता स्यान्मूको वागपहारकः ।।
वस्त्रापहारकः श्वित्री पङ्गुश्चाश्वापहारकः ।। ७ ।।
खल्वाटो मत्सरी राम नास्तिको वेदनिन्दकः ।।
भूय एव समाप्नोति तथा नास्तिकतां द्विज ।। ८।।
अन्धो दीपापहारी स्यात्काणो निर्वापकस्तथा ।।
अन्धो भवति गोघ्नस्तु घाण्टिकस्तैलिकस्तथा ।। ९ ।।
दरिद्रः परवित्तघ्नो उन्मत्तश्च तथाग्निदः ।।
प्रतिकूलो गुरोर्यस्तु सोऽपस्मारी प्रजायते ।। 2.121.१० ।।
मिष्टाश्येको महाभाग वातगुल्मी भवेन्नरः ।।
खगभक्ष्यस्तु कुण्डाशी दीर्घरोगी च पीडकः ।। ११ ।।
भवतीह मृगव्याधस्त्वविक्रेयस्य विक्रयात् ।।
श्लीपदी चावकीर्णी स्यान्मूर्खश्चाक्रोशको भवेत् ।।१२।।
उक्तास्तु मुख्या हि मया तिरश्चां या योनयो यानि च लक्षणानि ।।
शक्यं न कार्त्स्येन मया प्रवक्तुं या यातनाश्चैव नराधमानाम् ।।१३।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० नारकिचिह्नवर्णनन्नामैकविंशत्युत्तरशततमोऽध्यायः ।। १२१ ।।
2.122
मार्कण्डेय उवाच ।।
एतच्छ्रुत्वा यदुश्रेष्ठ रामो रतिकरः पितुः ।।
पपात भुवि निश्चेष्टश्छिन्नमूल इव द्रुमः ।। ।। १ ।।
तं विसंज्ञं महाभाग पीनोन्नतपयोधराः ।।
सचन्दनैः शीतजलैः सिषिचुर्देवयोषितः ।। २ ।।
वारुणेराज्ञया चान्यास्तालवृन्तैर्मनोरमैः ।।
वीजयन्ति महाभाग रामं धर्मभृतां वरम् ।। ३ ।।
लब्धसंज्ञं मुहूर्तेन भार्गवं चित्तविह्वलम् ।।
आश्वासयामास तदा वारुणिः परवीरहा ।। ४ ।। ।
समाश्वस्तस्ततो रामः पप्रच्छ वरुणात्मजम् ।।
दुर्गातितरणं वीरो रामो धर्मभृतां वरः ।। ५ ।।
राम उवाच ।। ।।
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः ।।
दुर्गाण्यतितरेद्येन ब्रूहि मे वरुणात्मज ।। ६ ।।
पुष्कर उवाच ।।
आश्रमेषु यथोक्तेषु यथोक्तं ते द्विजातयः ।।
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ।। ७ ।।
ये दम्भान्न जहतीह येषां वृत्तिश्च संवृता ।।
विषयाँश्च न गृह्णन्ति दुर्गाण्यतितरन्ति ते ।। ८ ।।
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः ।।
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ।। ९ ।।
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः ।।
वर्जयन्ति दिवास्वापं दुर्गाण्यतितरन्ति ते ।। 2.122.१० ।।
स्वेषु दारेषु वर्तन्ते न्यायवृत्तिमृतावृतौ ।।
अग्निहोत्रपराः सन्तो दुर्गाण्यति तरन्ति ते ।। ११ ।।
आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् ।।
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते ।। १२ ।।
ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा ।।
निक्षिप्तदण्डा भूतानां दुर्गाण्यतितरन्ति ते ।। १३ ।।
कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः ।।
येषामर्थश्च साध्वर्थो दुर्गाण्यतितरन्ति ते ।। १४ ।।
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ।।
विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ।। १५ ।।
येषां न कश्चित्त्रसति त्रस्यन्ति न च कस्यचित् ।।
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते।।१६।।
परश्रिया न तप्यन्ते सन्तः पुरुषसत्तमाः ।।
ग्राम्यास्वाद निवृत्ताश्च दुर्गाण्यतितरन्ति ते।।१७।।
सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते ।।
ये श्रद्दधानाः पुरुषा दुर्गाण्यतितरन्ति ते।।१८।।
ये न लोभान्नयन्त्यर्थान्राजानो रजसा वृताः ।।
विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते।।१९।।
ये न मानितुमिच्छन्ति मानयन्ति च ये नरान् ।।
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते ।।2.122.२०।।
ये च श्राद्धानि कुर्वन्ति तिथ्यांतिथ्यां प्रजार्थिनः ।।
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते।।२१।।
ये क्रोधं नैव कुर्वन्ति क्रोधार्तं शमयन्ति च ।।
न च कुप्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते।।२२।।
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः।।
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते।।२३।।
यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम् ।।
वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ।।२४।।
तडागारामकर्तारस्तथान्ये वृक्षरोपकाः ।।
कूपानां ये च कर्तारो दुर्गाण्यतितरन्ति ते ।। २५ ।।
गवां ग्रासप्रदातारो गवां कण्डूयकाश्च ये।।
भक्तिमन्तो गवां ये च दुर्गाण्यति तरन्ति ते ।। २६ ।।
पूजयन्ति सदा विप्रान्साधूनपि गुरूँस्तथा ।।
तपस्विनश्च धर्मज्ञ दुर्गाण्यतितरन्ति ते ।। २७ ।।
गायत्रीजापनिरतास्तीर्थयात्रारताश्च ये ।।
ये चैकमाश्रितास्तीर्थं दुर्गाण्यतितरन्ति ते ।। २८ ।।
ये चैकमाश्रिता देवं सर्वभावेन भार्गव ।।
धर्मज्ञाश्च विनीताश्च दुर्गाण्यति तरन्ति ते ।। २९ ।।
सायं प्रातश्च भुञ्जानाः पिबन्त्यापस्तु ये नराः ।।
सदोपवासिनो राम दुर्गाण्यतितरन्ति ते ।। 2.122.३० ।।
उपवासरता नित्यं नित्यं व्रतपरायणाः।।
नित्यं संयतचित्ताश्च दुर्गाण्यतितरन्ति ते।।३३।।
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च ।।
कथयन्ति च विप्रेभ्यो दुर्गाण्यति तरन्ति ते ।। ३२ ।।
ईश्वरः सर्वभूतानां जगतां प्रभवोऽप्ययः ।।
भक्ता नारायणे चैव दुर्गाण्यतितरन्ति ते ।। ३३ ।।
भक्तानां केशवे राम न भयं विद्यते क्वचित् ।।
तथा गीतश्च श्लोकोऽयं यमेन शृणु भार्गव ।। ३४ ।।
पृथ्वीशतस्करभुजङ्गहुताशविप्रदुःस्वप्नदुष्टगतमृत्युसपत्नजातम् ।।
संविद्यते न हि भयं भुवनैकभर्तुर्भक्ताश्च ये मधुरिपोर्मनुजेषु तेषु ।। ३५ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने दुर्गातितरणवर्णनन्नाम द्वाविंशत्युत्तरशततमोध्यायः।। १२२ ।।
2.123
राम उवाच ।।
भूय एव समाचक्ष्व कर्मणा येन मानवाः ।।
दुर्गाण्यतितरन्त्याशु सर्वधर्मभृतां वर ।। १ ।।
पुष्कर उवाच ।।
दुर्गाण्यतितरन्त्याशु ये नरा कृच्छ्रकारिणः ।।
प्राप्नुवन्ति तथा कामान्सर्वान्वै मनसेप्सितान् ।। २ ।।
राम उवाच ।।
कृच्छ्राणां श्रोतुमिच्छामि नामानि च विधींस्तथा ।।
एवं मे ब्रूहि धर्मज्ञ त्वं हि वेत्सि यथातथम् ।। ३ ।।
पुष्कर उवाच ।।
कृच्छ्राण्येतानि कार्याणि राम वर्णत्रयेण च ।।
कृच्छ्रेष्वेतेषु शूद्रस्य नाधिकारो विधीयते ।। ४ ।।
आदौ तु मुण्डनं कार्यं सर्वकृच्छ्रे भार्गव ।।
नित्यं त्रिषवणस्नानं केशवस्य च पूजनम् ।। ५ ।।
होमः पवित्रमन्त्रैश्च तथान्ते जाप्य एव च ।।
स्त्रीशूद्रपतितानां च तथालापं विवर्जयेत् ।। ६ ।।
एतत्कृच्छ्रेषु सर्वेषु कर्तव्यं चाविशेषतः ।।
वीरासनं च कर्तव्यं कामतोऽप्यथवा न वा ।।७।।
वीरासनेन सहितं कृच्छ्रं बहुगुणं भवेत् ।।
वीरासनेन रहितं विधिहीनं प्रकीर्तितम् ।। ८ ।।
राम उवाच ।।
वीरासनमहं त्वत्तः श्रोतुमिच्छामि सुव्रत ।।
वीरासनेन सहितं कृच्छ्रं बहुगुणं यतः ।। ९ ।।
पुष्कर उवाच ।।
उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि ।।
एतद्वीरासनं प्रोक्तं महापातकनाशनम् ।। 2.123.१० ।।
आमिक्षया तु द्वौ मासौ पक्षं तु पयसा तथा ।।
अष्टरात्रं तथा दध्ना त्रिरात्रमथ सर्पिषा ।। ११ ।।
निराहारस्त्रिरात्रं तु कुर्याद्वा तालकव्रतम् ।।
सर्वपापप्रशमनं सर्वकामप्रदं तथा ।। १२ ।।
स्नपयेदात्मनोऽर्थाय पावकं भृगुनन्दन ।।
वह्नौ ततोऽऽनुजुहुयाद्दद्यादन्नञ्च कस्यचित् ।। १३ ।।
ब्रह्मा देवेति मन्त्रेण साध्यमाने विचक्षणः ।।
दर्भांस्तु खलु बध्नीयाद्रक्षार्थमिति नः श्रुतिः ।। १४ ।।
श्रितं च श्राप्यमाणं च भाण्डे न्यस्त तथा पुनः ।।
अनेन राम मन्त्रेण नरस्त्रिरभिमन्त्रयेत् ।। १५ ।।
यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।।
निर्णोदः सर्वपापानां पवित्रमृषिभिः। स्मृतम् ।। १६ ।।
घृतं यवा मधु यवा आपो वा अमृतं यवाः ।।
सर्वं पुनीत मे पापं यन्मया दुष्कृतं कृतम् ।। १७ ।।
वाचा कृतं कर्मकृतं दुःस्वप्नं दुर्विचिन्तितम् ।।
अलक्ष्मीं नाशय तथा सर्वं पुनीत मे यवाः ।। १८ ।।
श्वसुकरावलीढं च ह्युच्छिष्टोपहृतं च यत् ।।
मातुर्गुरोरशुश्रूषा सर्वं पुनीत मे यवाः ।। १९ ।।
गणान्नं गणिकान्नं च शूद्रान्नं च तथा विशाम् ।।
चौरस्यान्नं नवश्राद्धं सर्वं पुनीत मे यवाः ।। 2.123.२० ।।
बालवृत्तमधर्मं च राजधर्मकृतं च यत् ।।
सुवर्णस्तेयमव्रात्यमयाज्यस्य च याजनम् ।। २१ ।।
ब्राह्मणानां परीवादं सर्वं पुनीत मे यवाः ।।
भाण्डेन्यस्तस्य मन्त्रोऽयं ततस्तु परिकीर्तयेत।।२२।।
(ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा)
अनेनात्मनि धर्मज्ञ जुहुयात्प्रयतः सदा ।।
न कुर्यादतिसौहित्यं व्रतमेतद्धि यावकम् ।। २३ ।।
मेधार्थिनस्त्रिरात्रं तु षड्रात्रमतिपापिनः ।।
उपपातकिनः प्रोक्तं सप्तरात्रमरिन्दम ।।२४।।।
महापातकिनश्चैव षड्रात्त्रं द्विगुणं स्मृतम् ।।
एकविंशतिरात्रेण कामानाप्नोत्यभीप्सितान् ।। २५ ।।
मासेन सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम् ।।
गवां निर्हारमुक्तैस्तु यवैः कृत्वैतदेव हि ।। ।।२६ ।।
फलं प्राप्नोति धर्मज्ञ तथा दशगुणं ध्रुवम् ।।
मासेन साक्षात्त्रिदशान्वेदान्विद्याश्च पश्यति ।। २७ ।।
वरशापसमर्थस्तु तथा भवति भार्गव ।।
शुक्लपक्षसमारम्भादारभेत्प्रत्यहं नरः ।। २८ ।।
एकैकवृद्ध्या ह्यश्नीयात्पिण्डाञ्श्रीखण्डसंयुतान् ।।
एकैकं ह्रासयेत्कृष्णे प्रतिपत्प्रभृति क्रमात् ।। २९ ।।
हविष्यस्य महाभाग नाश्नीयाच्चन्द्रसंक्षये ।।
एतच्चान्द्रायणं प्रोक्तं यवमध्यं महात्मभिः ।। 2.123.३० ।।
एतदेव विपर्यस्तं वज्रमध्यं प्रकीर्तितम् ।।
अष्टभिः प्रत्यहं ग्रासैर्यतिचान्द्रायणं स्मृतम् ।। ३१ ।।
प्रातश्चतुर्भिः सायं च शिशुचान्द्रायणं स्मृतम् ।।। ।
यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् ।। ३२ ।।
मासेन भक्षयेदेतत्सुरचान्द्रायणं स्मृतम् ।।
गोक्षीरं सप्तरात्रं तु पिबेत्स्तनचतुष्टयम् ।३३।
स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् ।।
स्तनात्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत् ।। ३४ ।।
एतत्सोमायनं नाम व्रतं कल्मषनाशनम् ।।
त्र्यहं पिबेदपस्तूष्णास्त्र्यहमुष्णं पयः पिबेत् ।। ३५ ।।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्ष्यो भवेत्त्रयहम् ।।
तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितम् ।। ३६ ।।
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतीन् ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।। ३७ ।।
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।।
एतच्च प्रत्यहाभ्यस्तं महासान्तपनं स्मृतम् ।। ३८ ।।
कृच्छ्रं पराकसंज्ञं स्याद्द्वादशाहमभोजनम् ।।
एकभुक्तेन नक्तेन तथैवायाचितेन च ।। ३९ ।।
उपवासेन चैकेन कृच्छ्रपादः प्रकीर्तितः ।।
एतदेव त्रिरभ्यस्तं शिशुकृच्छ्रं प्रकीर्तितम् ।। 2.123.४० ।।
त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचितम् ।।
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः ।। ४१ ।।
पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ।।
एकैकमुपवासं च सौम्यकृच्छं प्रकीर्तितम् ।। ४२ ।।
अम्बुसिद्धैस्तथा मासः केवलैर्वारुणं समैः ।।
फलैर्मासेन कथितं फलकृच्छ्रं मनीषिभिः ।। ४३ ।।
श्रीकृच्छ्रं श्रीफलैः प्रोक्तं पद्माक्षैरपरं तथा ।।
मासमामलकैरेव श्रीकृच्छ्रमपरं स्मृतम् ४४ ।।
पत्रैर्मतं पत्रकृच्छ्रं पुष्पैस्तत्कृच्छ्रमुच्यते ।।
मूलकृच्छ्रं तथा मूलैस्तोयकृच्छ्रं जलेन तु ।। ४५ ।।
दध्ना क्षीरेण तक्रेण पिण्याकेन कणैस्तथा ।।
शाकैर्मासं तु कार्याणि सुनामानि विचक्षणैः ।। ४६ ।।
सायं प्रातस्तु भुञ्जानो नरो यो नान्तरा पिबेत् ।।
षडभिर्वर्षैरिदं प्रोक्तं कृच्छ्रं नित्योपवासिता ।। ४७ ।।
एकभक्तेन मासेन कथितं चैकभक्तकम् ।।
न तु कृच्छ्रं तु नक्तेन महत्संवत्सराद्भवेत् ।। ४८ ।।
नक्ताशिनस्तु धर्मज्ञ एकभुक्तस्य वा पुनः ।।
त्र्यहं वोपवसेद्युक्तः स्नायीत सवनत्रयम्।।४९।।
निम्नवत्सु तथैवाप्सु त्रिः पठेदघमर्षणम् ।। ।
देवताभाववृत्तस्तु च्छन्दश्चैवाप्यनुष्टुभम् ।। 2.123.५० ।।
संस्मरेत्तस्य च तथा ऋषिं चैवाघमर्षणम् ।।
चतुर्थेऽहनि दातव्या ब्राह्मणाय तपस्विने ।। ५१ ।।
त्र्यहं जपेद्यथाशक्ति शुचिश्चैवाघमर्षणम् ।।
भाववृत्तस्तथा देवस्तथा च पुरुषः परः ।। ५२ ।।
तद्दैवत्यं विजानीयात्सूक्तं तदघमर्षणम् ।।
यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ।। ५३ ।।
तथाघमर्षणं सूक्तं सर्वकल्मषनाशनम् ।।
कृष्णाजिनं वा कुतपं परिधायाथ वल्कलम्।।५४।।
संवत्सरं व्रतं कुर्यात्सम्मितं नाम भार्गव ।।
गृहं न प्रविशेत्तत्र भवेदाकाशशायकः ।। ५५ ।।
अशक्तौ वा भवेद्राम तथा शैलगुहाशयः ।।
नित्यं त्रिषवणस्नायी तथा स्याद्द्विजसत्तम।।५६।।
भैक्ष्यशाकफलाहारः कामं स्याद्द्विजपुङ्गव ।।
वीरासनं तथा कुर्यात्काष्ठमौनं तथैव च।।५७।।
सर्वकामप्रदं ह्येतत्सर्वकल्मषनाशनम् ।।
वायव्यं कृच्छ्रमुक्तं तु पाणिपूरान्नभोजिनः ।। ५८ ।।
मासेनैकेन धर्मज्ञ सर्वकल्मषनाशनम् ।।
तिलैर्द्वादशरात्रेण कृच्छ्रमाग्नेयमुच्यते ।। ५९ ।।
लाजाप्रसृतिमप्येकां कनकेन समन्विताम् ।।
भुञ्जानस्य तथा मासं कृच्छ्रं धनददैवतम् ।। 2.123.६० ।।
गवां निर्हारनिर्मुक्तैर्यवैः सक्तून्समन्त्रतः ।।
याम्यं कृच्छ्रं विनिर्दिष्टं मासेन भृगुनन्दन ।। ६१ ।।
गोमूत्रेण चरेत्स्नानं वृत्तिं गोमयमाचरेत् ।।
गवां मध्ये सदा तिष्ठेद्गोपुरीषे च संवसेत्।।६२।।
गोष्वतृप्तासु न पिबेदुदकं भृगुनन्दन ।।
अभुक्तासु तु नाश्रीयादुत्थितासूत्थितो भवेत्।।६३।।
तथा चैवोपविष्टासु सर्वासूपविशेन्नरः ।।
मासेनैकेन कथितं गोमूत्रं कल्मषापहम् ।। ६४ ।।
अजाकृच्छ्रं तथैवैतदजामध्ये तु वर्ततः ।।
तृणानां भक्षणेनेह समतुल्यफले उभे ।। ६५ ।।
द्वादशाहेन कथितं सर्वपातकनाशनम् ।।
उपोषितश्चतुर्दश्यां पञ्चदश्यामनन्तरम् ।। ६६ ।।
पञ्चगव्यं समश्नीयाद्धविष्याशी त्वनन्तरम् ।।
ब्रह्मकूर्चमिदं कुर्यादुक्तप्रशमनाय वै ।। ६७ ।।
पक्षान्ते त्वथ वा कार्यं मासमध्ये तु वा पुनः ।।
ब्रह्मकूर्चं नरः कुर्यात्पौर्णमासेषु यः सदा ।।६८।।
तस्य पापं क्षयं याति दुर्भुक्तादि न संशयः ।।
मासाभ्यां च नरः कृत्वा ब्रह्मकूर्चं समाहितः ।। ६९ ।।
सर्वपापविनिर्मुक्तो यथेष्टां गतिमाप्नुयात् ।।
ब्रह्मभूतममावस्यां पौर्णमास्यां तथैव च ।। 2.123.७० ।।
योगभूतं परिचरेत्केशवं महदाप्नुयात् ।।
एवमेतानि कृच्छ्राणि कथितानि मया तव ।।७१ ।।
शासनानीह पापानां दुरितानां च भार्गव ।।
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः ।। ७२ ।।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ।।
अज्ञातं यदि वा ज्ञातं कृच्छ्रं पापं विशोधयेत् ।। ७३ ।।
कृच्छ्रसंशुद्धपापानां नरकं न विधीयते ।।
श्रीकामः पुष्टिकामश्च स्वर्गकामस्तथैव च ।। ७४ ।।
देवताराधनपरस्तथा कृच्छ्रं समाचरेत् ।।
रसायनानि मन्त्राश्च तथा चैवौषधाश्च ये ।। ७५ ।।
तस्य सर्वे हि सिध्यन्ति यो नरः कृच्छ्रकृद्भवेत् ।।
वैदिकानि च कर्माणि यानि काम्यानि कानिचित् ।। ७६ ।।
सिध्यन्ति सर्वाणि सदा कृच्छ्रकर्तुर्भृगूत्तम ।।
तेजसा तस्य संयोगो महता चैव जायते ।। ७७ ।।
वाञ्छितान्मानसान्कामान्स चाप्नोति न संशयः ।।
ज्ञातो भवति देवेषु तथा चर्षिगणेषु च ।।
विपाप्मा वितमस्कश्च संशुद्धश्च विशेषतः ।।७८।।
आराधनार्थं पुरुषोत्तमस्य कृच्छ्राणि कृत्वा मधुसूदनस्य ।।
सुरोत्तमानां समतीतलब्धं तल्लोकमाप्नोति जनार्दनस्य ।। ७९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृच्छ्रप्रायश्चित्तवर्णन्नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ।। १२३ ।।
2.124
।। राम उवाच ।।
वैदिकानि समाचक्ष्व कर्माणि सुरसत्तम ।।
अधिकारी भवेद्येषां कृच्छ्रकारी त्वनन्तरम् ।। १ ।।
पुष्कर उवाच ।।
शृणु काम्यानि कर्माणि पुष्कलानि ममानघ ।।
प्रतिवेदं महाभाग गदतो भृगुनन्दन ।। २ ।।
अन्तर्जले तथा होमे जपेच्च मानसेप्सितम् ।।
कामं करोति गायत्री प्राणायामाद्विशेषतः ।। ३ ।।
गायत्र्या दशसाहस्रो जपो नक्ताशिनो द्विज ।।
बहिः स्नातस्य तत्रैव सर्वकल्मषनाशनः ।। ४ ।।
दशायुतानि जप्त्वा च हविष्याशी सुसंयतः ।।
वायुभूतस्तदाप्नोति यद्विष्णोः परमं पदम् ।।५।।
परस्य ब्रह्मणो राम वाचकः प्रणवः स्मृतः ।।
पुरुषस्याप्रमेयस्य सर्वगस्याविनाशिनः ।। ६।।
तज्जपेनेह पूयन्ते येऽपि दुष्कृतकारिणः ।।
कारपूतं सलिलं नाभिमात्रोदकस्थितः ।। ७ ।।
शतजप्तं पिबेद्यस्तु स पापैर्विप्रमुच्यते ।।
अकारश्चाप्युकारश्च मकारश्च भृगूत्तम ।। ८ ।।
यजुर्वेदः सामवेद ऋग्वेदश्च विचक्षणैः ।।
कथितस्तु त्रिमात्रश्च प्रणवः परिकीर्तितः ।।९।।
मात्रात्रयं तु प्रणवस्त्रयो देवाः सनातनाः ।।
एत एव त्रयो लोकास्त्रयश्चैवाग्नयस्तथा ।। 2.124.१० ।।
महाव्याहृतिभिर्होमात्सर्वपापैः प्रमुच्यते ।।
महाव्याहृतयो ज्ञेयाः सप्तलोका विचक्षणैः ।। ११ ।।
गायत्री परमा जप्ये होमे व्याहृतयस्तथा ।।
अन्तर्जले तथा राम प्रोक्तश्चैवाघमर्षणः ।। १२ ।।
अग्निमीळे पुरोहित सूक्तोऽयं वह्निदेवतः ।।
शिरसा धारयेद्वह्निं यो जपेत्परिवत्सरम् ।। १३ ।।
होमं त्रिषवणं चैव तथा तेन समाचरेत् ।।
अनग्निज्वलनं कुर्याद्भैक्षाहारस्तु वत्सरान् ।। १४ ।।
अतः परमृचः सप्त चाग्नेय्यः परिकीर्तिताः ।।
ता जपन्प्रयतो नित्यमिष्टान्कामान्समश्नुते ।। १५ ।।
मेधाकामो जपेन्नित्यं सदसत्पदमित्यृचम् ।।
अम्बयो यान्ति याः प्रोक्ता न बन्धोमृत्युनाशिनी ।। १६ ।।
शुनःशेफमृषिं तद्वत्संनिरुद्धोऽथ वा जपेत् ।।
मुच्यते सर्वपापेभ्यो गदाचापगदी गदन् ।। १७ ।।
यदीच्छेच्छाश्वतं काममिन्द्रात्प्राप्तं पुरन्दरात् ।।
ऋग्भिः षोडशभिः स्तूयादिन्द्रमेति दिनेदिने ।। १८ ।।
हिरण्यस्तूपमित्येतज्जपञ्शत्रून्प्रबाधते ।।
क्षेमी भवति चाध्माने ये ते पक्ता जपन्नरः ।। १९ ।।
रौद्रीभिः षड्भिरीशानं स्तूयाद्यो वै दिनेदिने ।।
चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत् ।। 2.124.२० ।।
उदित्युद्यन्तमादित्यमुपतिष्ठेद्दिनेदिने ।।
क्षिपेज्जलाञ्जलीन्सप्त मनोदुःखविनाशनम् ।। २१ ।।
द्विषन्तमित्यथानर्च्य द्विष्यन्तं च जपन्स्मरेत् ।।
अगच्छन्सप्तरात्रेण विद्वेषमधिगच्छति।।२२।।
आरोग्यकामो रोगी च प्रस्कन्नस्योत्तमं जपेत् ।।
उत्तमस्तस्य चावजपेद्वैरविनाशने ।। २३ ।। ।।
उदयत्यायुरक्षय्यं तेजोमध्यन्दिने जपेत् ।।
अस्तं व्रजति सूर्ये च द्विषन्तं प्रतिपादितम् ।। ।। २४ ।।
नवपद्येति सूक्तानि जपञ्शत्रून्नियच्छति ।।
एकादश सुवर्णस्य सर्वकामांस्तु निर्दिशेत् ।। २५ ।।
आध्यात्मिकैः क इत्येतज्जपन्मोक्षमवाप्नुयात् ।।
आसनो रुद्रमित्येतद्दीर्घमायुरवाप्नुयात् ।। २६ ।।
त्वं सोमेति च सूक्तेन नवं पश्येन्निशाकरम् ।।
उपतिष्ठेत्समित्पाणिर्वासांस्याप्नोत्यसंशयम् ।। २७ ।।
आयुरिप्सन्निदमिति कौत्ससूक्तं यदाभ्यसेत् ।।
अप नः शोशुचदिति स्तुत्वा मध्ये दिवाकरम् ।। २८ ।।
यथा मुञ्जादिवेषीका तथा पापं प्रमुञ्चति ।।
जातवेदस इत्येतज्जपेत्स्वस्त्ययनं पथि ।। २९ ।।
भयैर्विमुच्यते सर्वैः स्वस्तिमानाप्नुयाद्गृहम् ।।
व्युष्टायां च तथा रात्रावेतद्दुःस्वप्ननाशनम् ।। 2.124.३० ।।
प्रमन्दितेति सूर्यस्य जपेद्गर्भविमोचनम् ।।
जपन्निन्द्रमिति स्नातो वैश्वदेवं तु सप्तकम् ।। ३१ ।।
मुञ्चत्याज्यं तथा जुह्वत्सकलं किल्बिषं नरः ।।
इमामिति जपञ्शश्वत्कामानाप्नोत्यभीप्सितान् ।। ३२ ।।
मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचि ।।
औदुम्बरीस्तु जुहुयाद्दधिमध्वाज्यसंस्कृताः ।। ३३ ।।
छित्वा सर्वान्मृत्युपाशाञ्जीवेद्रोगविवर्जितः ।।
ऊर्ध्वबाहुरनेनैव स्तुत्वा शस्त्रं तथैव च ।। ३४ ।।
मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ।।
अदृश्यः सर्वभूतानां जायते संशयं विना ।। ३५ ।।
चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा ।।
समित्पाणिर्नरो नित्यं प्राप्नुयात्तु धनायुषी ।। ३६ ।।
एतद् दुःस्वप्नस्येति च जपन्प्रातर्दिनेदिने।।
दुःस्वप्नं दहते कृत्स्नं भोजनं चाप्नुयाच्छुभम् ।। ३७ ।।
उभेषुनामीति तथा रक्षा च परिकीर्तिता ।।
निर्वर्त्य पञ्चयज्ञांश्च हुत्वा चाग्निं कृताह्निकः ।। ३८ ।।
देवासाविति देव्येदं जपन्कामानवाप्नुयात् ।।
आततायिनमायान्तं दृष्ट्वा व्याघ्रादिकं नरः ।। ३९ ।।
न मा गिरन्निति जपंस्तेभ्य एव प्रमुच्यते ।।
कया शुभेति च जपञ्ज्ञातिश्रैष्ठ्यमवाप्नुयात् ।। 2.124.४० ।।
इमं नु सोममित्येतत्सर्वान्कामानवाप्नुयात् ।।
पित्रन्त्वित्युपतिष्ठेत नित्यमन्नमुपस्थितम् ।। ४१ ।।
नास्य स्यादन्नतो व्याधिर्विषमप्यन्नतामियात् ।।
अग्ने नयेति सूक्तेन प्रत्यृचं जुहुयाद् घृतम् ।। ४२ ।।
पक्वान्नं प्रतिपद्येत कृत्वा चाकर्म गर्हितम् ।।
वीरान्वयं समाप्नोति सश्लोकं यो जपेत्सदा।।४३।।
कं कता चेति सूक्तेन विघ्नान्सर्वानपोहति ।।
यो जात इति सूक्तेन सुखमाप्नोत्यनुत्तमम्।। ४४।।
ये पराजन्नितीमां तु दुःस्वप्नशमनामृचम् ।।
एकामाहमितीयां तु विज्ञेया श्रीकरी तथा ।। ४५ ।।
चतुर्दशीमुपोष्यैकां कृष्णासु जुहुयाद् घृतम् ।।
आत्तसूक्तेन रौद्रेण व्याधिमेकं विमुञ्चति ।। ४६।।
स्नात्वानश्नञ्जपेदप्सु शीतत्रयमतन्द्रितः ।।
आमिषस्येतयोर्मोहात्कृत्वा वा कर्म गर्हितम् ।।४७।।
अध्वनि प्रस्थितो यस्तु पश्येच्छकुनमुत्थितम् ।।
अप्रशस्ते प्रशस्ते वा कनिक्रदमिदं जपेत् ।। ४८ ।।
अस्पृष्ट्वैव च जप्तव्यमेतत्तस्करमोहनम् ।।
<ref>ओ षु घृष्विराधसो - [https://sa.wikisource.org/s/13v6 ७.५९.५], ओ षु प्र याहि वाजेभिः - [https://sa.wikisource.org/s/13jx ८.२.१९], ओ षु वृष्णः प्रयज्यून् - [https://sa.wikisource.org/s/13k2 ८.७.३३], ओ षु स्वसारः कारवे शृणोत - [https://sa.wikisource.org/s/13j4 ३.३३.९], ओ षु णो अग्ने शृणुहि त्वं - [https://sa.wikisource.org/s/138i १.१३९.७]</ref>ॐष्वित्यृचमपां मध्ये जपेद्यो वै नदीं तरेत् ।।४९।।
उद्धौर्मिभिरितीमां तु जपेद्रथगतस्तरन् ।। .
अध्वानं प्रस्थितश्चैव मन्त्रैरिति च संस्मरेत् ।। 2.124.५० ।।
सुदातारं सुपुष्ट्यर्थं सर्ववेदे स्थितं नरम् ।।
नास्ति विद्यागमो यस्य सुयुक्तस्यापि भार्गव ।। ५१ ।।
स सर्पीरिति च जपन्मासात्तं प्रतिपद्यते ।।
यानाक्षं समभज्यन्तं दृष्ट्वा दुर्गेऽध्वनि द्विज ।। ५२ ।।
अभित्यवस्येति जपेदृक्षमक्षबलं दधत् ।।
कृष्णपक्षचतुर्दश्यां त्रिरात्रोपोषितः शुचिः ।। ५३ ।।
दक्षिणाप्रवणे देशे श्मशानस्थः समाहितः ।।
रक्तोष्णीष्यसिपाणिश्च तौलाकीभ्योऽनिलाशनः ।। ५४ ।।
सप्ताहं जुहुयात्तैलं सार्षपं लवणान्वितम् ।।
समिधो राजवृक्षस्य वसिष्ठे द्वेषिणीः पठन् ।। ५५ ।।
यं द्विष्यात्तस्य कृत्वा तु शम्या केनाहृतं निशि ।।
अधिष्ठाय च तं कुर्यादृग्भिश्च तिसृभिर्द्विजः ।। ५६ ।।
उद्दिश्य राम होमोऽयं सप्तरात्रं न जीवति ।।
द्वाविंशकं जपन्सूक्तमध्यात्मिकमनुत्तमम् ।। ५७ ।।
पर्वसु प्रयतो नित्यमिष्टान्कामानुपाश्नुते ।।
बृहस्पतिमजाश्वं च सतारं बभ्रुमेव च ।। ५८ ।।
पञ्चर्चेन स्तुवन्नेतान्पञ्चकामानवाप्नुयात्।।
कृणुष्वेति जपन्सूक्तं जुह्वदाज्यं समाहितः।।५९।।
अरातीनां हरेत्प्राणान्रक्षांस्यपि च नाशयेत्।।
उपतिष्ठेत यो वह्निं परीत्य च दिने दिने।।2.124.६०।।
तं रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः।।
को अद्येति च सूक्तेन वासांसि लभते परम्।।६१।।
कायेति वामदेवेन कुर्यात्स्वस्त्ययनं निशि।।।
हंसः शुचिषदित्येतच्छुचिरीक्षन्दिवाकरम् ।। ६२।।
कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि ।।
जुहुयात्क्षेत्रमध्ये तु शुना वाहस्तु पञ्चभिः।।६३।।।
इन्द्राय च मरुद्भ्यश्च पर्जन्याय भगाय च ।।
यथालिङ्गं तु विहरेल्लाङ्गलं तु कृषीवलः ।। ६४ ।।
पूष्णे धान्याय सीतायै शुनासीरमथोत्तरम् ।। ।
गन्धमाल्योपहारैश्च यजेदेताश्च देवताः ।। ६५ ।।
प्रवापणे प्रलपने खलसीतोपहारयोः ।।
अमोघं कर्म भवति वर्धते सर्वदा कृषिः ।। ६६ ।।।
क्षेत्रस्य पत्ये तत्क्षेत्रं सूर्यदृग्विन्दते भुवम् ।।
आखूत्करेषु चरणौ यजेदेतेन मूषिकाम् ।। ६७ ।।
चित्रा इन्द्रेति च स्तूयान्नास्य वृष्टिभयं भवेत् ।।।
विज्येतिष्येति ज्वलयेद्यत्रेच्छेज्जातवेदसम्।।६८।।
समुद्रादिति सूक्तेन कामानाप्नोति पावकात्।।
विश्वानि च इति द्वाभ्यामृग्भ्यां यो वह्निमर्चति।। ।।६९।।
स तरत्यापदः सर्वाः यशः प्राप्नोति चाक्षयम् ।।
अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितम्।।2.124.७०।।
उरोष्ट इति(५.३८.१) सूक्तेन वित्तमाप्नोत्यसंशयम् ।।
प्रजाकामो जपेन्नित्यं वरुणादेवसन्नया ।। ७१ ।।
स्वस्त्यात्रेयं जपेत्प्रातः सदा स्वस्त्ययनं जपेत् ।।
स्वस्तिपन्थामिति प्रोद्य स्वस्तिमान्व्रजतेऽध्वनि ।।७२।।
विजहीषुर्वनस्यान्ते शत्रूणां बाधनं भवेत् ।।
स्त्रियो गर्भप्रमूढाया गर्भमोक्षणमुत्तमम्।।७३।।
अवच्छादिति सूक्तेन वृष्टिकामः प्रयोजयेत्।।
निराहारः क्लिन्नवासा न चिरेण प्रवर्षति।।७४।।
श्रियः पञ्चदशर्चं तु जपञ्जुहुयाद् घृतेन वा।।
उपैतु मां देवसख इति सर्वौषधीजलैः ।।७५।।
सदा स्नातः श्रियं दीप्तां कुले प्राप्नोत्यसंशयम् ।।
मनसः काम इत्येतां पशुकामो नरो जपेत् ।।७६ ।।
कर्दमेनेति च स्नायात्प्रजाकामः शुचि व्रतः।।
अश्वपूर्वामिति स्नायाद्राज्यकामस्तु मानवः।।७७।।
रोहिते चर्मणि स्नायाद्ब्राह्मणस्तु यथाविधि ।।
राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च ।।७८।।
दशसाहस्रिको होमः प्रत्येकं परिकीर्तितः ।।
अप्सु वा जुहुयाद्राम पद्मान्ययुतशोऽग्निषु।।७९ ।।
इष्टान इत्यृचा वह्निं स्तुवञ्शत्रून्विनाशयेत्।।
आचार इति सूक्तेन गोष्ठे गां लोकमातरम्।।2.124.८० ।।
उपतिष्ठेद्व्रजेच्चैव य इच्छेद्गाः सदाक्षयाः।।
वाक्सिद्धिं तु स्तुवञ्शक्रं महद्धनमवाप्नुयात् ।। ८१ ।।
उपैतेति मृती राज्ञो दुन्दुभीनभिमन्त्रयेत् ।।
तेजो बलं च प्राप्नोति शत्रूंश्चैव नियच्छति ।। ८२ ।।
तृणपाणिर्जपेत्सूक्तं रक्षोघ्नं दस्युभिर्वृतः ।।
ये के च मेत्यृचं जप्त्वा दीर्घमायुरवाप्नुयात् ।।८३।।
यस्य नष्टं भवेद्द्रव्य सम्पूज्य स जपेन्निशि ।।
सौमारौद्रं जपन्सूक्तं सर्वपापैः प्रमुच्यते ।।८४।।
जीमूतसूक्तेन तथा सेनाङ्गानभिमन्त्रयेत् ।।
यथालिङ्गं ततो राजा विनिहन्ति रणे रिपून् ।। ८५ ।।
अग्निं नरेति सूक्तेन स्तुवन्नग्निं सुखी भवेत् ।।
प्राणपेति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयम् ।। ८६ ।।
अभीतयः प्रगाथेन स्तुत्वा शक्रं धनी भवेत् ।।
शंवतीः शन्न इन्द्राग्नी जपेद्व्याधिविनाशनम् ।। ८७ ।।
समुद्रज्येष्ठेति जपेत्सूक्तमेतज्जयावहम् ।
वास्तोष्पते प्रतीत्येतत्सूक्तं वातोष्पतेर्जपेत् ।। ८८ ।।
अनीवहेति सूक्तेन भूतान्निःस्वापयेन्निशि ।।
सम्बाधे विषमे दुर्गे बन्धे वा निगडैः क्वचित् ।। ८९ ।।
पलायित्वा गृहीतो वा सूक्तमेतत्तथा जपेत् ।।
त्रिरात्रं नियतोपोष्य श्रपयेत्पायसं चरुम् ।। 2.124.९० ।।
तेनायुतशतं पूर्णं जुहुयात्त्र्यम्बकेत्यृचा ।।
समुद्दिश्य महादेवं जीवेदब्दशतं सुखी ।। ९१।।
तच्चक्षुरित्यृचा स्नात उपतिष्ठेद्दिवाकरम् ।।
उद्यन्तं मध्यमं चैव दीर्घमायुर्जिजीविषुः ।। ९२ ।।
व्युषा इत्युपतिष्ठेत यः प्रातः प्रयतः शुचिः ।।
प्राप्नुयात्सहिरण्यादि नानारूपधरं बहु ।। ९३ ।।
ध्रुवं सन्ध्यासु क्षितिषु जपन्बद्धः प्रमुच्यते ।।
इदमापः प्रवहत यत्किंचिद्दुरितं पुनः ।। ९४ ।।
अपः प्रविश्य तु जपन्सर्वपापैः प्रमुच्यते ।।
सूक्ताभ्यां पर एताभ्यां हुताभ्यां भूतिमाप्नुयात् ।। ९५ ।।
सूक्ताभ्यां तिस्र एताभ्यामास्यदल्पोदकस्थितः ।।
उपतिष्ठन्रविं देवं पञ्चरात्रे गते नरः ।। ९६ ।।
अनश्नन्भार्गवश्रेष्ठ महद्धर्षमवाप्नुयात् ।।
इन्द्रासोमेति सूक्तं तु कथितं शत्रुनाशनम् ।। ९७ ।।
यस्य लुप्येद्व्रतं मोहाद्वात्यैर्वा संसृजेत्सह ।।
उपोष्याज्यस्य जुहुयात्त्वमग्ने व्रतपा इति।। ९८ ।।
आदित्यदृक्प्रमाद्रौजं जप्त्वा वादी जयी भवेत् ।।
समग्निरग्निभिश्चेति प्रपद्येद्वायुभास्करौ ।। ९९ ।।
अग्निं प्रथमतः स्तुत्वा महत्कष्टात्प्रमुच्यते ।।
न हीति च चतुष्केण मुच्यते महतो भयात् ।। 2.124.१०० ।।
ऋचं जप्त्वा य इत्येतत्सर्वान्कामानवाप्नुयात् ।।
प्राग्भोजनमिदं ब्रह्म मानवानां महर्षिणाम् ।। १०१ ।।
पूर्वाह्णे जपतो नित्यं त्वर्थसिद्धिः परा भवेत् ।।
अग्निनेत्याश्विनं सूक्तं मृजाकरमुदाहृतम् ।। १०२ ।।
समिधेति जुहोत्यग्नौ प्राप्नुयात्कीर्तिमुत्तमाम् ।।
द्विचत्वारिंशकं चैन्द्रं जप्त्वा नाशयते रिपून् ।। १०३ ।।
नाशं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च ।।
दुःस्वप्नघ्नाः परा जप्या नरः पापैः प्रमुच्यते ।। १०४ ।।
शन्नो भवेति द्वाभ्यां तु भुक्त्वान्नं प्रयतः शुचिः ।।।
हृदयं पाणिना स्पृष्ट्वा व्याधिभिर्नाभिभूयते ।। १०५ ।।
अहोरात्रोषितः स्नात्वा शक्रं सम्पूज्य मानवः ।।
इत इत्याज्यमुत्पूय जुहुयादिन्द्रमचर्येत् ।। १०६ ।।
घृतं तिलं वा धर्मज्ञ भयेभ्यो विप्रमुच्यते ।।
तत्त्वामन्दमिति स्नातो हुत्वा शत्रून्प्रमापयेत् ।।१०७।।
तान्विद्यादित्यदैवत्यं जप्त्वा मुच्येत बन्धनात् ।।
यद्द्याव इति जप्त्वा च सर्वान्कामान्समश्नुते ।। १०८ ।।
पवित्राणां पवित्रं तु पावमानऋचः स्मृताः ।।
वैखानसऋचस्त्रिंशत्पवित्राः परमाः स्मृताः ।। १०९ ।।
ऋचां द्विषष्टिः प्रोक्तं चोपवसेदृषिसत्तमैः ।।
सर्वकल्मषनाशाय पावनाय शिवाय च ।। 2.124.११० ।।
स्वादिष्टयेति सूक्तानां सप्तषष्टिरुदाहताः ।।
दशोत्तरा ऋचश्चैताः पावमान्यः शतानि षट् १११ ।।
एतज्जुह्वञ्जपंश्चैव घोरं मृत्युभयं जयेत् ।।
आध्यात्मिकं पवित्रं च सूक्तं जप्त्वाल्पतः क्वचित् ।। ११२ ।।
गतिमिष्टामवाप्नोति विन्दते महतीं श्रियम् ।।
आपोहिष्ठेति महतः प्रयुञ्जीतोदकस्थितः ।। ११३ ।।
सर्वपापविनिर्मुक्तस्त्वशेषफलमश्नुते ।।
उपतिष्ठेत राजानं यमसूक्तेन वै द्विज ।। ।। ११४ ।।
चतुर्दश्या तु कुर्वीत स्थालीपाकं यथाविधि ।।
परेयिवांसमित्येतत्सूक्तमत्र प्रयोजयेत् ।। ११५ ।।
पुरायुषः प्रमीयेत न स जातु कथञ्चन ।।
मृत्युमेव प्रपद्येत परं मृत्योरिव द्विज ।। ११६ ।।
वैशाख्यां पौर्णमास्यां तु नक्तभोजी सदा नरः ।।
पुरायुषः प्रमीयेत न स जातु कथञ्चन ।। ११७ ।।
फलाहारो जयेन्मृत्युं त्रिभिर्वर्षैः सदा नरः ।।
दशाक्षरं तु शान्त्यर्थं भद्रं न इति संस्मरन् ।। ११८ ।।
फलाहारो भवेन्मासं मासान्मासं पयः पिबेत् ।।
वायुभक्ष्यो भवेन्मासं जपन्नेतत्सहस्रशः ।। ११९ ।।
अन्तर्धानमवाप्नोति सिद्धान्पश्यति चारणान् ।।
प्रदेवतेति नियतो जपेत मरुधन्वसु ।। 2.124.१२० ।।
प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति ।।
वैभीतकांस्तु त्रीनक्षान्गन्धैः समधिवासयेत् ।। १२१ ।।
पुष्पैरवकिरेच्चैव स्थापयित्वा विहायसि ।।
संहृत्य पादौ तौ तत्र तिष्ठेद्दक्षस्तुतिं जपेत् ।। १२२ ।।
प्रावे मासेत्यृचामेकां जपेच्च मनसा निशि ।।
व्युष्टायामुदिते सूर्ये द्यूते जयमवाप्नुयात् ।। १२३ ।।
अब्रध्नमुषसानक्तेत्येतत्स्वस्त्ययनं जपेत् ।।
नमो मित्रस्य वरुणस्य चक्षुषेति च नित्यशः ।। १२४ ।।
तथाज्यं जुहुयान्नित्यं भीतिभ्यो विप्रमुच्यते ।।
देवस्यरीति नित्यं तु जपेद्देवं समश्नुते ।। १२५ ।।
मा प्रगामीति मूढस्तु पन्थानं पथि विन्दति ।।
क्षीणायुरिति मन्येत यं कचित्सुहृदं प्रियम् ।।१२६।।
यत्तेयमिति तु स्नातस्तस्य मूर्धानमालभेत् ।।
सहस्रकृत्वा पञ्चाहं तेनायुर्विन्दते पुनः।।१२७।।
स्रुक्स्रुवे दशमेनैव इध्ममौदुम्बरं भवेत् ।।
इदमिध्मेति जुहुयाद् घृतं प्राज्ञः सहस्रशः ।। १२८।।
पशुकामो गवां गोष्ठे अन्नकामश्चतुष्पथे ।।
पारावतः स्वस्त्ययनं स्नातकस्य विधीयते ।। १२९ ।।
बृहस्पते प्रथममिति ज्ञानकामस्य भार्गव ।।
वयः सुपर्णमित्येतां जपन्वै विन्दते श्रियम् ।।2.124.१३०।।
यस्ते मन्यो इति सदा मयत्नघ्नं विधीयते ।।
हविष्मतीयमभ्यस्य सर्वपापैः प्रमुच्यते ।। १३१ ।।
या ओषधीः स्वस्त्ययनं सर्वपापविनाशनम् ।। ।
तस्य माया विनश्येत कायाग्निर्वर्धते तथा ।। १३२ ।।
बृहस्पतिः प्रतीत्येतद् वृष्टिकामः प्रयोजयेत् ।।
सर्वत्र तु परा शक्तिर्ज्ञेया प्रतिरथा तथा ।। ।। १३३ ।।
भूतांशं काश्यपं नित्यं प्रजाकामस्य कीर्तितम् ।।
अहं रुद्रेभिरित्येतद्वाग्ग्मी भवति मानवः ।। १३४ ।।
न योनौ जायते विद्वांञ्जपन्नत्रीति रात्रिषु ।।
रात्रिसूक्तं जपन्रात्रौ रात्रिक्षेमी भवेन्नरः ।। १३५ ।।
या कल्पयतीति जपेन्नित्यं कृत्वा विनाशनम् ।।
आयुष्यं चैव वर्चस्यं सूक्तं दाक्षायणं महत् ।। १३६ ।।
उत देवा इति जपेदामयघ्नं धृतव्रतः ।।
अग्ने अग्नाव इत्येद्धनकामः प्रयोजयेत् ।। १३७ ।।
वैभीतकेऽब्दं हुत्वाग्निं द्विषद्द्वेषं ततो जपेत् ।।
द्विषन्तु धन्विनं हुत्वा द्विषतो विन्दते धनम् ।। १३८ ।।
अयमग्ने जनितेति जपेदग्निं भये सति ।।
द्विमार्जन्निति पाठं तु जपन्नुत्थापयेद्द्विजः ।। १३९ ।।
प्रातश्च पाठयेदेनं संसदि ब्रह्मचारिणाम् ।।
इमामिति च सूक्तेन शतकृत्वोऽभिमन्त्रितम् ।। 2.124.१४० ।।
घृतेन पीत्वा तं प्रातः सपत्नीभिर्विमुच्यते ।।
अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनम् ।। १४१ ।।
श्रद्धासूक्तं जपेन्नित्यं श्रद्धाकामविवर्धनम् ।।
ब्राह्मी यद्यस्य सूक्ते द्वे जपेत नियतः सदा ।। १४२।।
शंखपुष्पीं तु पयसा ब्राह्मीपुष्पाणि सर्पिषा ।।
शतावरी तु पयसा वचामद्भिर्घृतेन वा ।। १४३ ।।
सूक्ताभ्यां ह्यनुमन्त्राभ्यां चैकैकं तु त्र्यहं पिबेत् ।।
श्रद्धां मेधां स्मृतिं पुष्टिं वर्णं लक्ष्मीं च विन्दति ।। १४४ ।।
शासन्नर्थाञ्जपन्नित्यं संग्रामे विजिगीषतः ।।
गृहीतदक्षिणादर्भान्गृहीत्वा संस्पृशेज्जपेत् ।। १४५ ।।
मुञ्चामि त्वा हविषेति यक्ष्माणमपकर्षति ।।
ब्रह्मणाग्निः संविदानं गर्भमृत्युविनाशनम् ।। १४६ ।।
अपेहीति जपेत्सूक्तं शुचिर्दुःस्वप्ननाशनम् ।।
देवाः कपोत इति तु कपोतस्योपवेशने ।। १४७ ।।
कौशिकस्य जपेत्सूक्तं घृतेन जुहुयात्तथा ।।
सपत्नघ्नं प्रयुञ्जीत ऋषभं जपहोमयोः ।। १४८ ।।
येनेदमिति जप्त्वा वै समाधिं विन्दते पराम् ।।
मयोभूर्वात इति तु गवां स्वस्त्ययनं परम् ।। १४९ ।।
यवानां च घृताक्तानां गोमयाग्नौ समाहितः ।।
जुहुयाद्गोष्ठ मध्ये तु दधिमध्वाज्यसंस्कृतम् ।। 2.124.१५० ।।
पतन्तमिति नित्यं तु जपेत विजने वने ।।
शाम्बरीमिन्द्रजालां वा मालामेतेन धारयेत् ।। १५१ ।।
अदृश्यानां च सत्त्वानां मायामेतेन बाधते ।।
न प्रतिष्ठेति स्वस्त्ययनं नारीगर्भविवर्धनम् ।। १५२ ।।
विष्णुर्ण्यानमितीमं च तथैवापरमुच्यते ।।
महित्यृणां मवोस्विति परिस्वस्त्ययनं जपेत् ।। १५३ ।
प्रापयेद्विद्विषद्वेषं जपेच्च रिपुनाशनम् ।।
आयङ्गौः सप्तराज्ञस्तु सर्पानेतैः प्रसाधयेत् ।। ।। १५४ ।।
संसमिद्युवसेच्चैतत्सौभ्रातृकरणं महत ।।
तच्छंयोरावृणीमहे जपेत्स्वस्त्ययनं सदा ।। १५५ ।।
पितॄणां संहितां विद्यात्पितॄन्प्रीणाति वै तथा ।।
वास्तोष्पतेन मन्त्रेण यजेत गृहदेवताम् ।। १५६ ।।
तल्लिङ्गैर्देवतामन्त्रैर्देवाराधनमुच्यते ।।
जपस्येष विधिः प्रोक्तो हुते यज्ञे विशेषतः ।। ।।१५७।।
होमान्ते दक्षिणा देया यथाशक्त्या च भार्गव ।।
हुतेन शम्यते पापं हुतमन्नेन शम्यते ।।१५८।।
अन्नं हिरण्यदानेन अमोघा ब्राह्मणाशिषः।।
सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा।।१५९।।
क्षीरवृक्षास्तथेध्माश्च सर्वकामप्रदाः स्मृताः ।।
समिधः कण्टकिन्यश्च राजिका रुधिरं विषम् ।। ।। 2.124.१६०।।
तैलं च भृगुशार्दूल विज्ञेयमभिचारकम् ।।
सक्तवः फलमूलानि शाकानि विविधानि च ।। १६१ ।।
पयो दधि सुवर्णं च भैक्ष्यं नाशनमुच्यते ।।
हविःस्नानं च कर्तव्यं सर्वत्र भृगुसत्तम।।१६२।।
ऋचां विधानं कथितं तवैतत्समासतः कर्मकरं द्विजानाम् ।।
ततो विधानं यजुषां निबोध समासतो धर्मभृतां वरिष्ठ ।। १६३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० ऋग्विधानं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ।। १२४ ।।
2.125
पुष्कर उवाच ।।
ॐकारपूर्विका नाम महाव्याहतयः स्मृताः ।।
सर्वकल्मषनाशिन्यः सर्वकर्मप्रदास्तथा।।१।।
आज्याहुतिसहस्रेण देवमाराधयेद्द्विज।।
मनसः कांक्षितं राम मनसेप्तितकामदम् ।। २ ।।
शान्तिकामो यवैः कुर्यात्तिलैः पापापनुत्तये ।।
धान्यैः सिद्धार्थकैश्चैव सर्वकामकरं तथा ।। ३ ।।
औदुम्बरीभिरिध्माभिः पशुकामस्य शस्यते ।।
दश चैवान्नकामस्य पयसा शान्तिमिच्छतः ।। ४ ।।
अपामार्गसमिद्भिश्च कामयन्कनकं बहु ।।
कन्याकामो घृताक्तानि युग्मशो ग्रथितानि च।।५।।
जातीपुष्पाणि जुहुयाद्वामार्थी तिलतण्डुलम् ।।
वशीकर्मणि शाखोटवाशापामार्गमेव च ।। ६ ।।
वसासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव ।।
क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां वधकाम्यया ।। ७ ।।
सर्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विजः ।।
सहस्रशस्तु जुहुयात्प्रजावशगतो भवेत् ।। ८ ।।
वस्त्रकामस्य पुष्पाणि दूर्वा व्याधिविनाशनी ।।
ब्रह्मवर्चसकामस्य वामाग्रं च विधीयते ।। ९ ।।
प्रत्यङ्गिरेप्सुर्जुहुयात्तुषकण्टकभस्मभिः ।।
विद्वेषणे च पक्षाणि काककौशिकयोस्तथा ।। 2.125.१० ।।
कापिलं तु घृतं हुत्वा तथा चन्द्रग्रहे द्विज ।।
वचाचूर्णेन संपीतांस्तानानीय च तां वचाम् ।। ११ ।।
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ।।
सूर्योदयेऽर्काभिमुखं पुत्रकामो जपेन्नरः ।। १२।।
एकादश्यां गुग्गुलं लौहं बैल्वं खादिरमेव वा ।।
द्विषन्तन्त्वां बधानीति निखनेद्रिपुवेश्मनि ।। १३ ।।
उच्चाटनमिदं कर्म शत्रूणां कथितं तव ।।
शक्रं ध्रुवं भूपतये महाव्याहृतिभिर्भवेत् ।। १४ ।।
सूर्यस्त्वेति तथा मन्त्रं ज्ञेया प्रत्यङ्गिरा परा ।।
एतेनौदुम्बरैरिध्मैर्देवं वर्षापयेद्ध्रुवम् ।। १५ ।।
अहोरात्रं जले जप्त्वा चक्षुष्मानित्ययं द्विज ।।
प्रणष्टचक्षुर्धर्मज्ञ योगमाप्नोति चक्षुषः ।।१६ ।।
उपप्रयन्तमित्येतद्धुत्वा विप्रो महानसे ।।
अनुवाकं महाभाग नित्यसन्नेन युज्यते ।। १७ ।।
तनूपाग्नेऽसि इति च दूर्वा हुत्वा रुजान्वितः ।।
व्याधिमोक्षमवाप्नोति नात्र कार्या विचारणा ।। १८ ।।
इहैव तेभ्यः पतितं गृहीत्वा गोमयं द्विज ।।
घृताज्यमधुसंयुक्तं हुत्वा धेनुं तु तां लभेत् ।। १९ ।।
एष ते रुद्रभागेति हुत्वा राम गवेधुकाम् ।।
अर्धर्चेन तथाप्नोति धनं नास्त्यत्र संशयः ।। 2.125.२० ।।
अर्धर्चेन द्वितीयेन क्षेत्रमध्ये बलिं हरेत् ।।
मूषिकाशलभोत्पाते सुरामांसासवादिभिः।।२१।।
भेषजमिति मन्त्रेण दध्याज्यमधुहोमकः ।।
चतुष्पदानां सर्वेषामुपसर्गं विनाशयेत् ।। २२ ।।
त्र्यम्बकं यजामहेति होमः सर्वार्थसाधकः ।।
कन्यानाम गृहीत्वा च कन्यालाभकरः परः ।। २३ ।।
भयेषु च जपेन्नित्यं भयेभ्यो विप्रमुच्यते ।।
धत्तूरपुष्पं सघृतं तथा हुत्वा चतुष्पथे ।। २४ ।। ।
शून्ये शिवालये वापि शिवात्कामानवाप्नुयात् ।।
हुत्वा च गुग्गुलं राम स्वयं पश्यति शङ्करम् ।। २५ ।।
अकृत्या इति चैवाष्टौ ऋचो हुत्वा घृतादिभिः ।।
अन्वहं त्वापदां नाशं स्वकुले कुरुते धुवम् ।। २६ ।।
भवत्युत्तरवादी च जप्त्वा च विदसीत्यृचम् ।।
अग्नेस्तनोरिति तथा हुत्वा च तिल तण्डुलैः ।। २७ ।।
सहस्रशस्तु धर्मज्ञ भवेत्सर्वातिथिर्नरः ।।
युञ्जते मन इत्येतदनुवाकं तु वैष्णवम् ।। २८ ।।
सायं प्रातः समासीत दीर्घमायुरवाप्नुयात् ।।
दिवो वा विष्ण इत्यस्य कर्म व्याहृतिवद्भवेत् ।। २९ ।।
विष्णोरराटमित्येतत्सर्वबाधाविनाशनम् ।।
रक्षोघ्नं च यशस्यं च तथैव विवर प्रदम्।।2.125.३०।।
अयन्नो यज्ञ इत्येतत्संग्रामे विजयप्रदम् ।।
इदमापः प्रवहत स्नाने पापापनोदनम् ।। ३१ ।।
दैवांश इति दैवेतदभिचारेषु योजयेत् ।।
व्याधिघातः समिद्भिस्तु राजिकासृग्विषैस्तथा।।३२।।
यक्ष्माहीति तथा हुत्वा बहिर्निर्गम्य मानवः।।
उपश्रुतिं तु गृह्णीयात्सा तस्यावितथा भवेत्।।३३।।
अग्ने पवस्वेति हुतं ब्रह्मवर्चसकारकम् ।।
उदुत्यं चित्रमित्यस्य कर्म व्याहतिवद्भवेत् ।। ३४ ।।
यस्मान्नरादभ्यधिको नरो भवितुमिच्छति ।।
स्वस्ति नेन्द्रेति तु जपेत्तस्य नामान्तसंयुतम् ।। ३५ ।।
भवत्यभ्यधिकस्तस्माद्विद्यया यशसा श्रिया ।।
तथा होमादनेनैव दासलाभमवाप्नुयात् ।। ३६ ।।
विश्वकर्म हविष्यं च सूचीं लौहीं दशाङ्गुलीम् ।।
कन्याग्रे निखनेद्द्वारि ततस्सास्मै प्रदीयते ।। ३७ ।।
देवस्येति तरीतेन हुतेनैवान्नवान्भवेत् ।।
वाजस्यसति चैतेन हुत्वाज्यं सप्तभिर्द्विजः ।। ३८ ।।
यदेव जुहुयात्पश्चात्तदेवाक्षयमाप्नुयात् ।।
अग्ने अच्छेति जुहुयाद्धनकामो द्विजोत्तमः ।। ।। ३९ ।।
तिलैर्यवैश्च धर्मज्ञस्तथापामार्गतण्डुलैः ।।
सहस्रमन्त्रितां कृत्वा तथा गोरोचनां द्विजः ।। 2.125.४० ।।
तिलकं च तथा कृत्वा जनस्य प्रियतां व्रजेत् ।।
पौर्णमास्यां तथा हुत्वा मेघं राजानमित्यपि ।। ४१ ।।
उपस्थानं तथा कृत्वा दत्त्वा चान्नं द्विजन्मने ।।
सोमयाजी भवेद्राम नात्र कार्या विचारणा ।। ४२ ।।
एष ते निर्ऋतेत्याभिरभिचारककर्मणा ।।
गृहान्नैर्ऋत्यके भागे हुत्वा स्नात्वा नदीजले ।। ४३ ।।
कापिलाद्गोमयान्नित्यं पञ्चगव्याभिषेचितम् ।।
कृत्वा रुद्रांस्तथा जप्त्वा मैत्र्यमाप्नोति गुह्यकैः ।। ४४ ।।
रुद्राणां च तथा जप्यं सर्वाघविनिषूदनम् ।।
सर्वकर्मकरं होमं तथा सर्वत्र शान्तिदम् ।। ४५ ।।
अजाविकानामश्वानां कुञ्जराणां तथा गवाम् ।।
मनुष्याणां नरेन्द्राणां बालानां योषितामपि ।। ४६ ।।
ग्रामाणां नगराणां च देशानामपि भार्गव ।।
अनिद्रुतानां धर्मज्ञ व्याधितानां तथैव च ।। ४७ ।।
मरणे समनुप्राप्ते रिपुजे च तथा भये ।।
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ।। ४८ ।।
कूष्माण्डैर्घृतहोमेन सर्वान्पापानपोहति ।।
सक्तुयावकभैक्ष्याशी नक्तं मनुजसत्तम ।। ४९ ।।
बहिः स्नानरतो मासान्मुच्यते ब्रह्महत्यया ।।
मधुवातेति मन्त्रेण हुत्वैवाज्यमतन्द्रितः ।। 2.125.५० ।।
सहस्रशस्तु धर्मज्ञ दीर्घमाप्नोति जीवितम् ।।
हुत्वा दध्ना तथा पुत्रान्प्राप्नोति मनसेप्सितान् ।। ५१ ।।
गुग्गुलोः कणिकाभिस्तु सौभाग्यं विन्दते ध्रुवम् ।।
कृत्वाष्टपत्रं कमलं तन्मध्ये शशिनं लिखेत् ।। ५२ ।।
लवणेन ततस्तस्य पूजां कृत्वा यथाविधि ।।
सौभाग्यं महदाप्नोति मधुवातेति वै जपन् ।।५३ ।।
जप्त्वा पुष्पवतीत्येवं मन्त्रं राम सहस्रशः ।।
देवतायै निवेद्यैव कुसुमानि शिवं भवेत् ।। ५४ ।।
जीमूतस्यैव भवति मन्त्रं जयकरं द्विज ।।
पयस्वतीति पयसा तथा हुत्वा सहस्रशः ।। ५५ ।।
ब्रह्मवर्चसमाप्नोति दध्ना वा भृगुनन्दन ।।
दधिक्राव्णेति हुत्वा तु पुत्रान्प्राप्नोत्यसंशयम् ।। ५६ ।।
तथा घृतवतीत्येतदायुष्यं स्याद् घृतेन तु ।।
बोधश्च मेति कथितं तथा स्वस्त्ययनं परम् ।। ५७ ।।
स्वस्ति न इन्द्रेत्येतं च सर्वबाधाविनाशनम् ।।
इह गावः प्रजायध्वमिति पुष्टिविवर्धनम् ।। ५८ ।।
स्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलम् ।।
मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ।। ५९ ।।
बहित्वदन्यदित्येतत्कर्म व्याहृतिवद्भवेत् ।।
भद्रयन्ते पलाशस्य समिद्भिः कनकं लभेत् ।।2.125.६० ।।
हंसः शुचिषदित्येतज्जपंस्तोयेऽघनाशनम् ।।
चत्वारि शृङ्गेत्येतच्च सर्वपापहरं जले ।।६१ ।।
देव यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ।।
जप्त्वा पितृभ्य इत्येतत्तृप्तिं प्राप्नुयान्नरः ।। ६२ ।।
वसन्तेति च हुत्वाज्यमादित्याद्धनमाप्नुयात् ।।
शिवो भवस्वाग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ।। ६३ ।।
याम्येन इति चैतच्च तस्करेभ्यो भयावहम् ।।
दंष्ट्राभ्यामिति चैतच्च व्रीहिभिर्जुहुयान्नरः ।। ६४ ।।
यो अस्मभ्यमरातीयान्हुत्वा कृष्णतिलैर्नरः ।।
सहस्रशोऽभिचारात्तु मुच्यते विकृतिं द्विजः ।। ६५ ।।
अन्नेनान्नपतेत्वेतद्धुत्वा चान्नमवाप्नुयात् ।।
सुपर्णोऽसीति दैत्यस्य कर्म व्याहृतिवद्भवेत् ।। ६६ ।।
मनः स्वतीति जप्त्वा च बन्धनान्मोक्षमाप्नुयात् ।।
रोपयेत वचां राजा चन्द्रे ग्रस्ते जलाशये ।। ६७ ।।
या ओषधय इत्येतज्जपंस्तामुद्धरेत्पुनः ।।
तिरात्रोपोषितः कूर्चां कृत्वा तां ताम्रभाजने ।। ६८ ।।
तेनैव मन्त्रितां चन्द्रं दृष्ट्वा मासं सदा जपेत् ।।
सकापिलघृतक्षीरे पीत्वा श्रुतिधरो भवेत् ।। ।। ६९ ।।
एतमेवौषधीपाने सदा मन्त्रं जपेद्द्विज ।।
सिद्धा भवन्त्योषधयो मन्त्रेणानेन मन्त्रिताः ।। 2.125.७० ।।
द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ।।
अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ।। ७१ ।।
इह गावः प्रजायध्वं मन्त्रोऽयं पुष्टिवर्धनः ।।
हुतस्तु सर्पिषा दध्ना पयसा पायसेन वा ।। ७२ ।।
शतं व इति चैतेन हुत्वा पर्णफलानि वै ।।
आरोग्यं चिरमाप्नोति दीर्घमाप्नोति जीवितम् ।। ७३ ।।
ओषधीः प्रतिमोदध्वं जपेत्कर्मकवत्सदा ।।
लवने बीजवापे वा विशेषात्सिद्धिमाप्नुयात् ।। ७४ ।।
सर्वौषधीः समानीय सर्वव्रीहियुतास्ततः ।।
क्षेत्रमध्ये द्विजो हुत्वा कृषिमाप्नोति पुष्टिदाम् ।। ७५ ।।
अपामार्गं यवं धान्यमोषधीरिति मातरः ।।
गोकामश्चाश्वकामो वा तं कामं शीघ्रमाप्नुयात् ।। ७६ ।।
ओषधीः समजन्तेति हुत्वा चाज्येन मानवः ।।
भयमाप्नोति नैवेह यातुधानभवं क्वचित् ।। ७७ ।।
ग्रन्थावतीति चैतेन पायसं जुहुयाद्द्विज ।।
सर्वत्र शान्तिमाप्नोति नात्र कार्या विचारणा ।। ७८ ।।
सीरां युञ्जति इत्येतद्धुत्वा कृषिमवाप्नुयात् ।।
उच्छुग्मा इति चैतेन बन्धनस्थो विमुच्यते ।। ७९ ।।
युवा सुवासा एतेन वासांस्याप्नोत्यसंशयम् ।।
यस्मिँश्चापः स्थितः काष्ठे तद्गृहीत्वा विचक्षणः ।। 2.125.८० ।।
सायं यक्ष्मेति मन्त्रेण शत्रोस्तु निखनेत्पदे ।।
कुष्ठी भवति चाषस्य पक्षं गृध्रस्य वा पुनः ।। ८१ ।।
सहस्रमन्त्रितं कृत्वा शत्रोः प्रतिकृतिं ततः ।।
तेन बद्ध्वा ततो मृत्युं शत्रुः प्राप्नोत्यसंशयम् ।। ८२ ।।
शत्रुं तु नाशयत्याशु सर्वातङ्कविनाशनम् ।।
प्रपतन्तीति च ऋचा जुहुयादोषधीर्द्विज ।। ८३ ।।
मिष्टान्नभागी भवति भाण्डानां चैव रक्षिता ।।
मा मा हिंसीति चाज्येन हुतं रिपुविनाशनम् ।। ८४ ।।
कान्तारमध्वरस्येति मधुसैन्धवसंयुताम् ।।
सौभाग्यकामो जुहुयात्स्त्रियो वा पुरुषस्य वा ।। ८५ ।।
होमो द्रप्सश्च स्कन्देति वश्यकामस्य शस्यते ।।
नमोस्तु सर्पेभ्य इति पायसं सघृतं नरः ।। ८६ ।।
नागस्थानेति जुहुयात्सुवर्णं प्राप्नुयाद्बहु ।।
कृणुष्व पाज इत्येतदभिचारविनाशनम् ।। ८७ ।।
अग्ने तिष्ठेति जुहुयाद्द्रव्याः खल्वभिचारकाः ।।
शत्रोर्नाम गृहीत्वा तु शत्रुं कुर्यात्तदा वशे ।। ८८ ।।
दूर्वाकाण्डायुतं हुत्वा काण्डात्काण्डेति मन्त्रतः ।।
ग्रामे जनपदे वापि मरकं तु शमं नयेत् ।। ८९ ।।
रोगार्तो मुच्यते रोगात्तथा दुःखात्तु दुःखितः ।।
औदुम्बर्यस्तु समिधो मधुमान्नो वनस्पतिः ।। 2.125.९० ।।
हुत्वा सहस्रशो राम धनमाप्नोति मानवः ।।
सौभाग्यं महदाप्नोति व्यवहारे तथा जयम् ।। ९१ ।।
योगादिति तथा हुत्वा देवं वर्षापयेद्ध्रुवम् ।।
अपः पिबन्निति तथा हुत्वा दधिघृतं मधु ।। ९२ ।।
प्रवर्तयति धर्मज्ञ महावृष्टिमनन्तरम् ।।
अग्निर्देवतेति तथा यवमुष्ट्ययुतं द्विज ।। ९३ ।।
हुत्वा श्रद्धेयवाक्यस्तु सर्वत्रैवाभिजायते ।।
अयं पुरेति जुहुयादनुवाकेन मानवः ।। ९४ ।।
घृतपूर्णानि पद्मानि सहस्रं भृगुनन्दन ।।
कन्यां तां समवाप्नोति यामसौ मनसेप्सति ।। ९५।।
श्रियमाप्नोति च तथा धनमाप्नोत्यनुत्तमम् ।।
नमस्ते रुद्र इत्येतत्सर्वोपद्रवनाशनम् ।। ९६ ।।
सर्वशान्तिकरं प्रोक्तं महापातकनाशनम् ।।
रक्षोघ्नं च यशस्यं च श्रीरायुःपुष्टिवर्धनम् ।। ९७ ।।
अभ्यवोचदित्यनेन रक्षा स्याद्व्याधितस्य तु ।।
सिद्धार्थकानां क्षेपेण पथि चैतत्सदा पठेत् ।। ९८ ।।
क्षेमेण स्वगृहानेति सर्वबाधाविवर्जितः ।।
असौ यस्ताम्र इत्येतत्पठेन्नित्यं दिवाकरम् ।। ९९ ।।
उपतिष्ठेत धर्मज्ञ सायंप्रातरतन्द्रितः ।।
अन्नमक्षय्यमाप्नोति दीर्घमायुश्च विन्दति ।। 2.125.१०० ।।
प्रमुञ्चन्तो न इत्येतत्षड्भिरायुधमन्त्रणम् ।।
रिपूणां भङ्गदं युद्धे नात्र कार्या विचारणा ।। १०१ ।।
मानो महान्त इत्येतद्बालानां शान्तिकारकम् ।।
नमो हिरण्यबाहवे इत्यनुवाक् हर्षकारकम् ।।
राजिकां तिलतैलाक्तां जुहुयाच्छत्रुनाशनम् ।। १०२ ।।।।।
नमो वः किरिकेभ्यश्च पद्मलक्षे हुते नरः ।।
राजलक्ष्मीमवाप्नोति नात्र कार्या विचारणा ।।
बिल्वानां च तथा हुत्वा कनकं बहु विन्दति ।।१ ०३ ।
इमा रुद्रायेति तिलैः कृत्वा होमं विचक्षणः ।।
शीघ्रमेव महाभाग धनमाप्नोति चिन्तितम् ।। १०४ ।।
अनेनैव तु मन्त्रेण दूर्वाहोमेन मानवः ।।
सर्वव्याधिविनिर्मुक्तो भयान्सर्वान्व्यपोहति ।। १०५ ।।
वरारोहेण इध्मानां याते रुद्रशिवा-तनूः ।।
हुत्वाऽयुतं तु धर्मज्ञं पुत्रमाप्नोत्यभीप्सितम् ।। १०६ ।।
असंख्याताः सहस्राणि मन्त्रैस्तदभिचारकम् ।।
नमोऽस्तु रुद्रेभ्य इति प्रोक्ता प्रत्यङ्गिरा परा ।। १ ०७।।
रक्तोष्णीषो रक्तवासा रक्तमाल्यानुलेपनः ।।
अनेनैव श्मशाने तु लोहशङ्कुं नरोत्तम ।।१ ०८।।
प्रादेशमात्रं जुहुयात्सहस्रं भृगुनन्दन ।।
कृत्यामुत्थापयेज्जातां रक्तकुम्भेन पूजयेत् ।।१ ०९।।
पूर्णपात्रेण च तथा सर्वकर्मकरो भवेत ।।
आशुः शिशान इत्येतदायुधानां च रक्षणम् ।।2.125.११०।।
संग्रामे कथितं राम सर्वशत्रुविनाशनम् ।।
इमं सोममित्येतन्नदीं गत्वा समुद्रगाम् ।। १११ ।।
स्नातस्तोयेऽयुतं जप्त्वा हुत्वा दशशतं ततः ।।
साष्टं मनुजशार्दूल ग्राममाप्नोत्यभीप्सितम् ।।११२।।
वाजश्च मेति जुहुयात्सहस्रं पञ्चभिर्द्विज ।।
आज्याहुतीनां धर्मज्ञ चक्षुरोगाद्विमुच्यते ।। ११३ ।।
मनोभवस्वेति गृहे तथा हुत्वा विचक्षणः ।।
वास्तुदोषांस्ततः सर्वान्क्षिप्रमेव व्यपोहति ।। ११४ ।।
अग्न आयूंषि चैतेन हुत्वेवाज्यमतन्द्रितः ।।
सहस्रशस्तु धर्मज्ञ वशं नाप्नोति केनचित्।।११५।।
अपाम्फेनेति लाजाभिर्हुताभिर्जयमाप्नुयात् ।।
भद्रा इतीन्द्रियैर्हीनो जपन्स्यात्सकलेन्द्रियः ।। ११६ ।।
अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ।।
अध्वनीति जपन्मन्त्रं व्यवहारे जयी भवेत् ।। ११७ ।।
ब्रह्मराजभ्यामिति च कर्मारम्भेषु वै जपेत् ।।
सर्वेषु सर्वधर्मज्ञ तेषां सिद्धिमुपाश्नुते ।। ११८ ।।
नूनपादोसुर इति न्यग्रोधे द्विजसत्तम ।।
अशोकपुष्पान्सघृताञ्जुहुयाल्लक्षसंमितान् ।।११९ ।।
ततो दानवकन्यां तु स्वयमेवेह पश्यति ।।
अनुवाकस्य शेषेण तस्यान्नं विनिवेदयेत् ।। 2.125.१२० ।।
ददाति सा ततो रुक्मं तूष्णीं तत्रेच्छया भवेत् ।।
अनुगच्छेत्ततस्तूष्णीं पाणौ सङ्गृह्य सा नरम् ।। १२१ ।।
बिलं प्रवेशयेद्राम नात्र कार्या विचारणा ।।
शून्यायतनमासाद्य माषमिश्रमथौदनम् ।। १२२ ।।
कया नश्चित्र इत्येतज्जपंस्तु जुहुयान्नरः ।।
हुते शतसहस्रे तु तस्य विद्याधरः स्वकाम् ।। १२३ ।।
सुवर्णराशिं धर्मज्ञ शीघ्रमेव प्रयच्छति ।।
संवत्सरोशीत्यनया घृतं हुत्वा विचक्षणः ।। १२४ ।।
यावज्जीवमरोगी स्याल्लक्षहोमेन पण्डितः ।।
केतुं कृण्वन्नित्येतत्संग्रामे जयवर्धनम् ।।१२५।।
ऐन्द्राग्नं वर्म इत्येतद्रणे सन्नाहबन्धनम् ।।
धननागेति मन्त्रश्च धनुर्ग्रहणिकः परः ।। १२६ ।।
वक्ष्यन्तीति तथा मन्त्रो विज्ञेयो ज्याभिमन्त्रणे ।।
मन्त्रश्चाहिरिवेत्येतत्तृणमन्त्रः प्रकीर्तितः ।। १२७ ।।
युञ्जतीति तथाश्वानां योजने मन्त्र उच्यते ।।
आशुः शिशान इत्येतद्गात्रालम्भनमुच्यते ।। १२८ ।।
विष्णोः क्रमेण मन्त्रश्च रथारोहणिकः परः ।।
आजंघन्तीति चाश्वानां ताडनीय उदाहृतः ।। १२९ ।।
यः सेना अभीत्वरीति परसैन्यमुखो जपेत् ।।
डुण्डुभ इति वाप्येतड् डुण्डुभीताडने भवेत् ।।2.125.१३० ।।
एतैः पूर्वहुतैर्मन्त्रैः कृत्वैवं विजयो भवेत् ।।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।। १३१ ।।
रथमुत्पादयेच्छ्रीघ्रं संग्रामे विजयप्रदम् ।।
आकृष्णेति तथैतस्य कर्म व्याहतिवद्भवेत् ।। १३२ ।।
युवं च्यवानमेतच्च भयेषु भयनाशनम् ।।
घृताहुतिसहस्रेण नात्र कार्या विचारणा।।१३३।।
मित्रं हुवेत इत्येतन्मेधाकामस्य शस्यते ।।
स राज इति चैतेन देवताराधनं नरः ।। १३४ ।।
कुयाद्भार्गव सर्वत्र होमजप्यैर्यथेप्सितम् ।।
शिवसङ्कल्पजप्येन समाधिं मनसो लभेत्।।१३५।।
पञ्च नद्य इत्यनेन पद्मलक्षं घृताप्लुतम्।।
हुत्वा शीघ्रमवाप्नोति श्रियं ते पद्ममालिनीम् ।।१३६।।
उभावपि त इत्येतद्रूपकामस्य शस्यते ।।
यदाबध्नन्दाक्षायणा मन्त्रेणानेन मन्त्रितम् ।।१३७ ।।
सहस्रकृत्वः कनकं धारयेद्रिपुनाशनम्।।
गुह्यकानां च सर्वेषां तथा निर्वहणं परम् ।। १३८ ।।
इमं जीवेभ्य इति च सीतालोष्टं चतुर्दिशम् ।।
क्षिपेद्गृहे तदा तस्य न स्याच्चोरभयं निशि ।। १३९ ।।
परी मे गामनेषतेति वशीकरणमुत्तमम् ।।
हर्तुमप्यागतस्तस्य वशीभवति मानवः।।2.125.१४०।।
भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितं तु प्रयच्छति ।।
यस्य धर्मस्य वशगः सोऽस्य शीघ्रं भविष्यति ।। १४१ ।।
शन्नोमिति त इत्येतत्सदा सर्वत्र शान्तिदम् ।।
मनसः काममाकूतिः पुष्टिकामस्य शस्यते ।। १४२ ।।
चमषट्कं च धर्मज्ञ सर्वकामकरं स्मृतम् ।।
षट्केन च तथा होमः सर्वदेवप्रसादनः ।। १४३ ।।
औदार्येणोदकं स्पृष्ट्वा तद्दोषाद्विप्रमुच्यते ।।
विवृतं चैतदाज्येन हुतं शूलापहं भवेत् ।। १४४ ।।
गणानां त्वा गणपतिं होम कृत्वा चतुष्पथे ।।
वशे कुर्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ।। १४५ ।।
वैकङ्कतेध्महोमे च समास्त्वाग्न इतीत्यपि ।।
यशसा योगमाप्नोति विपुलं नात्र संशयः ।। १४६ ।।
अग्निर्मूर्धेतिमन्त्रेण हुत्वैवाज्यं हुताशने ।।
तत्प्रसादमवाप्नोति नात्र कार्या विचारणा।।१४७।।
एवं हि देवतालिङ्गैस्तथा राम यथा स्वकैः ।।
हुतैः प्रसादयेदिष्टां देवतां नात्र सशयः ।। १४८ ।।
हिरण्यवर्णाः शुचयो मन्त्रोऽयमभिषेचने ।।
शन्न आपश्च धन्वन्याः सर्वपापहराः स्मृताः ।। १४९ ।।
शन्नो देवीरभिष्टये चेति शान्तिकरः परः ।।
एकचक्रेति मन्त्रेण हुतेनाज्येन भार्गव ।। 2.125.१५० ।।
ग्रहेभ्यः शीघ्रमाप्नोति प्रसादं नात्र संशयः ।।
याज्यानुवाकौ वृक्षाणां समाग्ने वर्च इत्यपि।।१५१।।
तत्प्रसादमवाप्नोति नात्र कार्या विचारणा ।।
गावो भग इति द्वाभ्यां हुत्वैवाज्यं सहस्रशः ।। १५२ ।।
गाः समाप्नोति धर्मज्ञ नात्त्र कार्या विचारणा ।।
उदुत्तमं वरुण इति जुहुयाद्भृगुनन्दन ।। १५३ ।।
नदीवाहतडागेषु सुकृतेषु द्विजोत्तम ।।
संवदत्तां हिरण्यकोशं रूपं कृत्वा तथैव च ।। १५४।।
प्रवादसां सेति चैव गृहे यज्ञो विधीयते ।।
देवेभ्यो वनस्पत इति ब्रह्मयज्ञो विधीयते।।१५५।।
रात्रीयख्य इति द्वाभ्यां रात्रियज्ञाः प्रकीर्तिताः ।।
शमे शमीकं शम्याकामश्वत्थं प्लक्षमेव च।।१५६।।
उदुम्बरं च न्यग्रोधमपामार्गं च गोमयम्।।
यां कुर्याद्दर्भपिंजूलां दूर्वां प्राचीनगामिनीम् ।।१५७।।
सीतां लोष्टं सुवर्णं च तथा वल्मीकमृत्तिकाम् ।।
सं वः सृजामीति द्वाभ्यां बीजान्यप्सु विनिक्षिपेत् ।। १५८ ।।
या ओषधय इत्येतदनुवाकं ततो जपेत् ।।
अपामिवेद्विति ततः प्रोक्षणं तु विधीयते।।१५९।।
इन्नोभयमितीत्येतच्चाष्टर्चं जुहुयाद्द्विजः ।।
यद्देवा देवहेडनमृचस्तिस्रस्तथैव च ।। 2.125.१६० ।। ।
हुत्वा सम्प्रोक्षणं कुर्याद्भूयः सर्वत्र मानवः ।।
सर्वोत्पातप्रशमनं कर्मैतत्परिकीर्तितम् ।। १६१ ।।
गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमं पदम् ।।
सर्वपापप्रशमनी सर्वकर्मकरी तथा ।। १६२ ।।
एतावदुक्तं यजुषां विधानं मया हि किञ्चित्तव धर्मनिष्ठ ।।
अतः परं वच्मि नृवीर साम्नां तन्मे शृणुष्वायतलोहिताक्ष ।।१६३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने तन्त्रविधानन्नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ।।१२५।।
</span></poem>
ksytcau2btfbpit6nlc7v7otwuf1vqy
अथर्ववेदः/काण्डं १०/सूक्तम् ०८
0
64545
341265
323544
2022-07-25T00:29:20Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[अथर्ववेदः]] - [[अथर्ववेदः/काण्डं १०|काण्डं १०]]
| author = कुत्सः।
| translator =
| section = सूक्तं १०.०८
| previous = [[अथर्ववेदः/काण्डं १०/सूक्तम् ०७|सूक्तं १०.०७]]
| next = [[अथर्ववेदः/काण्डं १०/सूक्तम् ०९|सूक्तं १०.०९]]
| notes = दे. आत्मा । त्रिष्टुप्, ....
}}
<poem><span style="font-size: 14pt; line-height: 200%">10.8
यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।
स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥
स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः ।
स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥
तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त ।
बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥
द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥
इदं सवितर्वि जानीहि षड्यमा एक एकजः ।
तस्मिन् हापित्वमिच्छन्ते य एषामेक एकजः ॥५॥
आविः सन् निहितं गुहा जरन् नाम महत्पदम् ।
तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥
एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥
पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति ।
अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥
तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।
तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥
या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः ।
यया यज्ञः प्राङ्तायते तां त्वा पृच्छामि कतमा सर्चाम् ॥१०॥ {२६}
यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्।
तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥
अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते ।
ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥
प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते ।
अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥
ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।
पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥
दूरे पूर्णेन वसति दूर ऊनेन हीयते ।
महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥
यतः सूर्यः उदेत्यस्तं यत्र च गच्छति ।
तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥
ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति ।
आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥
सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥
सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति ।
प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥
यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु ।
स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७}
अपादग्रे समभवत्सो अग्रे स्वराभरत्।
चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥
भोग्यो भवदथो अन्नमदद्बहु ।
यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥
सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः ।
अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥
शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् ।
तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥
बालादेकमणीयस्कमुतैकं नेव दृश्यते ।
ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥
इयं कल्याण्यजरा मर्त्यस्यामृता गृहे ।
यस्मै कृता शये स यश्चकार जजार सः ॥२६॥
त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥
उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः ।
एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥
पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते ।
उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥
एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव ।
मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८}
अविर्वै नाम देवतर्तेनास्ते परीवृता ।
तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥
अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।
देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥
अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् ।
वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत्॥३३॥
यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः ।
अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥
येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।
य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥
इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव ।
दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥
यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥
वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥
यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः ।
यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥
अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥
बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥
उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे ।
साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥
निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा ।
इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥
पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् ।
तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥
अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः ।
तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९}
</span></poem>
o8kobtt65hk7b9ctg1dholanzjj43cu
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७७
104
82452
341349
196596
2022-07-25T07:59:21Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center= द्वितीयोऽङ्कः ।|right=६५}}</noinclude>{{gap}}'''काञ्चुकीयः'''-यदाज्ञापयति महासेनः । (निष्क्रम्य प्रविश्य) यदाज्ञप्तं महासेनेन , तत् सर्वमनुष्ठितम् । अमाट्यस्तु भरतरोहको महासेनं द्रष्टुमिच्छति ।
{{gap}}'''राजा'''–व्यक्तं न रोचते तस्मै बत्सराजसत्क्रिया । अस्यैष नीतेः परिश्रमः । अहमेवैनमनुनयामि ।
{{gap}}'''देवी'''–(क) किं सम्बन्धो णिच्चिदो।
{{gap}}'''राजा'''- न तावान्निश्चयो गम्यते ।
{{gap}}'''देवी'''–(ख) अलं दाणि तुबरिअ । बाळा मे दारिआ ।
{{gap}}'''राजा'''–यदभिरुचितं भवत्यै । प्रविशस्त्रभ्यन्तरम् ।
{{rule}}
{{gap}}(क) किं सम्बन्धो निश्चितः ।
{{gap}}(ख) अळमिदानीं त्वरित्वा। बाला मे दारिका।
{{rule}}
कर्षादित्यर्थसिद्धम् । मणिभूमिकायां मणिप्रचुरायां कक्ष्यायाम् ॥
{{gap}}यदित्यादि ॥
{{gap}}व्यक्तामित्यादि । व्यक्कं नूनम् । एषः अस्य नीतेः परिश्रमः , इदं वत्सराजग्रहणं भरतरोहकनीतिप्रयोगपरिश्रमफलम् । अतो मद्विरुद्धाभिप्रायोऽपि स नावज्ञेय
इत्यभिप्रायः । असुनयामि परिसान्त्वयामि । अर्थाद् वत्सराजसत्कारानुकूल्यार्यम् ॥
{{gap}}वत्सराजेन सह कन्यासम्बन्धेऽमिलाषमतिमहता तत्सत्कारयत्नेन भर्तुर्हृदयस्थं मन्वाना वक्ष्यमाणप्रकारस्य तढ्द्दढीभावाद्यर्थकाळप्रतक्षिपिक्षेपस्य, पूर्वनिर्दिष्टमागधकाशिराजादिकन्यार्थविषयकस्वरुचिप्रकाशनस्य नावसरसम्पादनाय पृच्छति--
किमित्यादि । संबन्धः, प्रस्तुतमागधाद्यन्यतमेन सह ॥
{{gap}}न तावादित्यादि ।
{{gap}}अळमिति । इदानीं , त्वरिस्वा अलं, वरनिर्णयं प्रति स्वरा मास्तु, कियांश्चित् कालः प्रतीक्ष्यतामित्यर्थः । कालप्रतीक्षणे हि मागधादिभ्यो गुणवत्तरं कन्यार्थिनमवश्यं लभेमहीत्याशयः । बाला असंप्राप्तयौवना ॥
{{gap}}यदिति । भवत्यै यद् अभिरुचिते, तत् करिष्यामीयार्यम् । ‘यदाभिरुचितं
भवत्यै तदा भवतु' इति पाठे वरनिर्णयो भवतेः कर्ता । अभ्यन्तरम् अन्तःपुरान्तरालम् । प्रविशतु अर्थाद् भवती ॥<noinclude></noinclude>
0pu1m8u7p316wr5uhn49885i78z6s9c
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७८
104
82453
341350
196598
2022-07-25T08:41:10Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=६६}}</noinclude>{{gap}}'''देवी'''–(क) जं महासेणो. आणवेदि । (निष्क्रान्ता सपरिवारा ।
{{gap}}'''राजा'''–(विचिन्त्य)
{{block center|<poem>र्प्व तावद् वैरमस्यावलेपादानीतेऽस्मिन् स्यात् तु मध्यस्थता मे ।
युद्धक्लिष्टं संशयस्थं विपन्नं श्रुत्वा त्वेनं संशयं चिन्तयामि ॥ १४ ॥</poem>}}
{{center|(निष्क्रान्तौ ।)}}
{{center|द्वितीयोऽङ्कः}}
{{rule}}
{{gap}}(क) यन्महासेन आज्ञापयति ।
{{rule}}
{{gap}}जमित्यादि ।
{{gap}}पूर्वमिति । पूर्वे तावत् आनयनात् प्राक् । अस्य वत्सराजस्य । अवलेपाद्
गर्वात् । मे, वैरं विरोधः । आसीदिति शेषः । अर्थात् तद्विषये । अस्मिन् , आनीते अवजित्योपस्थापिते सति । मे, मध्यस्थता स्यात् तु, पूर्ववैरनिर्यातनाद् उदासीनवृत्तिर्भवन्ती संभाव्यत एव । तुशब्दोऽवधारणे । मम मध्यस्थतायां न्याय्यायां
नाहं मध्यस्थः किन्तु स्निग्धवृत्तिर्भवामीत्येतादृशमात्मनि विशेषमाविष्कुर्वन्नाह--
अहं तु , विशेषद्योतकस्तुशब्दः। युद्धक्लिष्टं युद्धपरािखिन्नं । विपन्नं ग्रहणरूपां विपत्तिं प्राप्तम् । एनं वत्सराजं संशयस्थं श्रुत्वा प्रहाररुजाद्रिवशात् जीवेन्नवेति
सन्देहस्य विषयभूतं निशम्य । संशयं चिन्तयामि , तजीवितसन्देहं स्मरन्नधिमान्
भवामीत्यर्थः । चिन्तिरिह मनोव्यथाकरे स्मरणे वर्तते । स्निग्धचेष्टितं खलु तदेतच्चिन्तनामित्याभिप्रायः । अथवा संशयं चिन्तयामीत्यस्यायमर्थ: – संशयं संशयहेतुं रुजाम् । चिन्तयामि चिकित्सारम्भणैः प्रत्यवेक्षे इति । अभिपायः पूर्ववत् ॥ १४ ॥
{{gap}}निष्क्रान्ताविति द्वितीयाङ्कपरिसमाप्तिः ॥
{{center|द्वितीयोऽङ्कः।}}
{{rule|5em}}<noinclude></noinclude>
7sxwz19athd3zwkzyygcqpvunapdw2d
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/७९
104
82454
341385
196600
2022-07-25T11:13:04Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{center|{{larger|'''अथ तृतीयोऽङ्कः'''}}}}
{{center|(ततः प्रविशति डिण्डिकवेषो विदूषकः।)}}</noinclude>{{gap}}'''विषकः'''-(क) (निरूप्य) भो ! देवउळपीठिआए मम मोदअमब्ळों णिक्खिविअ दक्खिणामसआणि गणिअबन्घिअ पडिणिवुत्तो दाणि
{{rule}}
{{gap}}(क) भोः! देवकुलपीठिकायां मम मोदकमल्लकं निक्षिप्य दक्षिणा-
{{rule}}
{{center|अथ तृतीयाऽङ्कः ।}}
{{gap}}अथ यौगन्धरायणचकीर्षितत्वेन प्रथमाङ्कशेषे सामान्यतः सूचितानां
प्रयत्नानामिह विशेषाकाराः प्रकाश्यन्ते । यौगन्धरायणः किल भगवद्वरायणप्रसादलब्धैस्तपरिच्छदविशेषैरुन्मत्तानुरूपैः प्रच्छादितस्वरूपः क्ष्रमणकव्यञ्जनेन रुमण्वता वत्सरजवयस्येन च डिण्डिकवेषभाजा वसन्तकेन सहयाभ्यां साकमुज्जयिनीं प्राप्तः; वेषप्रत्ययान्निरङ्कुशं तस्यां पर्यटंस्तथा पर्यटद्भयामन्याभ्यां सह शून्येक्कचित् सङ्केतेन संहत्यान्वहं मन्त्रं मन्त्रयामास; स्वामिसन्दर्शनसम्भाषणादिकं साक्षाद् वा सहायद्वारेण वा समयेषु लेभे ; कार्यापोक्षितान् कांश्चित् प्रद्योतभृत्यान् इष्टार्थदानैः स्ववशवर्तिनश्चकार; सहायकर्मकालप्रतीक्षणपरान् निजभटान् बहून् काणखादिरूपच्छलचारिणः प्रद्योतभृयच्छद्माश्रयांश्च कृत्वा तत्र वासयामास । वत्सराजगृइणसिद्धिनिमित्ताद् गर्वाद निस्सपत्नभावाविस्त्रम्भाच्च नैश्चिन्स्यसुखवक्ष्यतामुपगतेषु प्रद्योत-शालङ्कायन भरतरोहकेष्वीदृशाश्छळप्रयोगा यौगःधरायणस्य न
दुष्करा बभूवुः। इत्ंथ सर्वतः संविहितात्मारमीयपरिरक्षेण यौगन्धरायणेन जातु
कश्चिदर्थ: सम्मन्त्र्य निर्णीतः । यथा-यः स महाबलो नलागिरिर्नाम प्रद्योतरय प्रियतमो गजेन्द्रः , तस्य नानविधमदसाधनसंविधानैर्भदमुपजनयिष्यामः ।
तेनाकाण्डमदोदयदुर्धर्षतां प्राप्त तं गजतदन्यप्राणिव्यापत्तिपरिहारेण क्षिप्रं दमयितुं
प्रद्योतो गजवशीकरणविद्याविशारदं वत्सराजमवश्यं शरणमुपगमिष्यति । ततः
शत्रोरनुमत्यैव स्वामी बन्धनान्निष्क्रम्य वीणां घोषवतीं इस्तगतां कृत्वा नलगिरिं
च स्वाधीनं विधाय तस्मिन् व्यवस्थितासनः पश्यत्सु शत्रुषु अनन्यानुगम्येन महत्तमेन वेगेन तं वाहयन् तत्कालोत्थितशत्रुभटप्रतिग्रहव्यग्रझीटितिविवृतात्मभिः
स्वैर्गूढभटौक्ष्चिन्त्यमानपृष्टः कौशाम्बीं गन्तुमर्हतीति । तमेनमर्थे स्वामिने निवेद्य तस्मात् प्रतिसन्देशमादाय प्रत्यागतस्य डिण्डिकवसन्तकस्य प्रवेशः यौगन्धरायणरुमण्वद्भयां सह क्कचिच्छून्ये देवालये मन्त्रणाय समागमः , वत्सराजस्य वसवद-<noinclude></noinclude>
5vkqspnnj9r68z8k4iohp8y4j2l3sr9
अथर्ववेदः/काण्डं ३/सूक्तम् १५
0
89592
341354
216183
2022-07-25T09:20:54Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[अथर्ववेदः]] - [[अथर्ववेदः/काण्डं ३|काण्डं ३]]
| author = अथर्वा (पण्यकामः)
| translator =
| section = सूक्तं ३.१५
| previous = [[अथर्ववेदः/काण्डं ३/सूक्तम् १४|सूक्तं ३.१४]]
| next = [[अथर्ववेदः/काण्डं ३/सूक्तम् १६|सूक्तं ३.१६]]
| notes = दे. विश्वेदेवाः, इन्द्राग्नी। त्रिष्टुप्, १ भुरिक्, ४ त्र्यवसाना षट्पदा बृहतीगर्भा विराडत्यष्टिः, ५ विराड्जगती, ७ अनुष्टुप्, ८ निचृत्।
}}
<poem><span style="font-size: 14pt; line-height: 200%">इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।
नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥
ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२॥
इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् ।
शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु ।
इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥४॥
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।
तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥

तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥
उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।
स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥७॥
विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः ।
रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥
</span></poem>
{{सायणभाष्यम्|
'इन्द्रम् अहं वणिजम्' इति वाणिज्यलाभार्थं विनियुज्यते । विक्रयार्थं पण्यानि विपणिं नयन् वणिक् कर्म वाणिज्यलाभार्थं कुर्यात् । तद् यथा - 'इन्द्रम् अहम्' इति सूक्तेन वज्रं वस्त्रं वा पूगीफलं वा अश्वान् वा हस्तिनो वा रत्नादि वा संपात्य अभिमन्त्र्य तत उत्थापयति । सूत्रितं हि -"'इन्द्रम् अहम्' इति पण्यं संपातवद् उत्थापयति" (कौसू ५०,१२) इति। तथा अनेनैव सूक्तेन पण्यकामः इन्द्रं यजते उपतिष्ठते वा । सूत्रितम् । ‘इन्द्रम् अहम्' इति पण्यकामः” ( कौसू ५९,६) इति।
तथा क्रव्याच्छमने कर्मणि 'विश्वाहा ते' (८) इति ऋचा पूर्णाहुतिं जुहोति । सूत्रितं च-“ विश्वाहा ते' इति पूर्णाहुतिं जुहोति" (कौसू ७०,१४) इति ।
इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ अैतु॑ पुरए॒ता नो॑ अस्तु।
नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म् ।।१।।
इन्द्रम् । अहम् । वणिजम् । चोदयामि । सः । नः । आ । एतु । पुरःऽएता । नः । अस्तु ।
नुदन् । अरातिम् । परिऽपन्थिनम् । मृगम्। सः। ईशानः । धनऽदाः । अस्तु । मह्यम् ॥१॥
अहम् व्यवहर्ता इन्द्रम् परमैश्वर्योपेतं देवं वणिजम् वाणिज्यकर्तारं चोदयामि प्रेरयामि प्रवर्तयामि । णुद प्रेरणे । सः वणिक्त्वेन प्रेरित इन्द्रो नः अस्मान् ऐतु आगच्छतु । आगत्य च नः अस्माकं पुरएता पुरतो गन्ता अस्तु भवतु । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' (पा ५,३,३९) इति पूर्वशब्दाद् असिप्रत्ययः तत्संनियोगेन पुरादेशश्च । तृजन्तेन' समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । किं कुर्वन् । अरातिम् वाणिज्यविघातकं शत्रुं परिपन्थिनम् पर्यवस्थातारं मार्गनिरोधकं चोरम् । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (पा ५,२,८९) इति इनिप्रत्ययान्तो निपातितः। मृगम् व्याघ्रादिकं च नुदन् हिंसन् ईशानः ईश्वरो नियन्ता स इन्द्रः मह्यम् वणिजे धनदाः वाणिज्यलाभरूपधनप्रदाता अस्तु भवतु । ईशान इति । ईश ऐश्वर्ये । अदादित्वात् शपो लुक् । अनुदात्तेत्त्वात् 'लसार्वधातुक' (पा ६,१,१८३ ) इति अनुदात्तत्वे धातुस्वरः। धनदाः। ददातेः 'आतो मनिन्” (पा ३,२,७४) इति विच्प्रत्ययः ।
ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति।
ते मा॑ जुषन्तां॒ पय॑सा घृ॒तेन॒ यथा॑ क्री॒त्वा धन॑मा॒हरा॑णि ।।२।।
ये । पन्थानः । बहवः । देवऽयानाः । अन्तरा । द्यावापृथिवी इति। सम्ऽचरन्ति ।
ते । मा। जुषन्ताम् । पय॑सा । घृतेन । यथा । क्रीत्वा । धनम् । आऽहराणि ॥२॥
ते प्रसिद्धा देवयानाः देवा यान्ति येष्विति देवयानाः । अधिकरणे ल्युट् । 'देवानुकूल्ययुक्ता इत्यर्थः। यद्वा दीव्यन्ति व्यवहरन्तीति देवा वणिजः । ते यत्र यान्ति ते देवयानाः । प्रहता इत्यर्थः । ईदृशा बहवः बहुदेशसंबन्धिनो ये पन्थानः मार्गाः द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये संचरन्ति वर्तन्ते । द्यौश्च पृथिवी च द्यावापृथिव्यौ । 'दिवो द्यावा' 'दिवसश्च पृथिव्याम्' (पा ६,३,२९,३०) इति द्यावादेशः । 'वा च्छन्दसि' (पा ६,१,१०६) इति पूर्वसवर्णदीर्घः । 'नोत्तरपदेऽनुदात्तादौ' (पा ६,२,१४२) इति प्रतिषेधस्य अपृथिवीरुद्रपूषमन्थिषु' इति पर्युदस्तत्वाद् ‘देवताद्वन्द्वे च' (पा ६,२,१४१) इत्युभयपदप्रकृतिस्वरत्वम् । 'अन्तरान्तरेण युक्ते' (पा २,३,४) इति द्वितीया । ते मार्गाः पयसा घृतेन च मा मां जुषन्ताम् सेवन्ताम् । मार्गश्रमनिवर्तकक्षीरघृतोपलक्षितान्नपानोपेता भवन्तु इत्यर्थः । यथा येन प्रकारेण अहं क्रीत्वा पण्यं विक्रीय धनम् लाभसहितं मूल्यधनम् आहराणि स्वगृहं प्रापयाणि । तथा जुषन्ताम् इति संबन्धः । हरतेः प्रार्थनायां लोट् ।
इ॒ध्मेना॑ग्न इ॒छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य।
याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ।।३।।
इध्मेन । अग्ने । इच्छमानः । घृतेन । जुहोमि । हव्यम् । तरसे । बलाय ।
यावत् । ईशे । ब्रह्मणा । वन्दमानः । इमाम् । धियम् । शतऽसेयाय । देवीम् ॥ ३ ॥
हे अग्ने इच्छमानः वाणिज्यलाभं कामयमानः । इषु इच्छायाम् । व्यत्ययेन शानच् । 'इषुगमियमां छः' (पा ७, ३,७७) इति छादेशः। अदुपदेशाल्लसार्वधातुक' (पा ६,१, १८६ ) इति अनुदात्तत्वे 'शप्रत्ययस्वरः । सोहम् इध्मेन इन्धनसाधनेन समित्समूहेन घृतेन आज्येन च सह हव्यम् हविः जुहोमि । किमर्थम् । तरसे वेगाय शीघ्रगमनाय बलाय शरीरसामर्थ्याय च । ब्रह्मणा मन्त्रेण स्तोत्ररूपेण वन्दमानः त्वां स्तुवन् देवीम् द्योतमानां व्यवहारकुशलाम् इमाम् मदीयां धियम् बुद्धिं शतसेयाय। शतम् इति अपरिमितनाम । असंख्यातधनलाभाय यावद् अहम् ईशे शक्नोमि लब्धुम् । तावज्जुहोमीति संबन्धः । यद्वा यावद् अहम् ईशे ईश्वरो धनाढ्यो भवामि तावत् स्तोत्रेण स्तुवन् द्योतमानाम् इमां धियम्। धीरिति कर्मनाम । इदम् वाणिज्यलाभनिमित्तं होमलक्षणं कर्म। करोमीति शेषः। ईश इति । ईश ऐश्वर्ये । लटि उत्तमैकवचने अनुदात्तेत्वात् लसार्वधातुक' (६,१,१८६) इति अनुदात्तत्वे धातुस्वरः । ‘यावद्यथाभ्याम्' (पा ८,१,३६) इति निघातप्रतिषेधः । शतसेयायेति । षणु दाने । व्यत्ययेन यत्प्रत्यये 'ये विभाषा' (पा ६,४,४३) इत्यात्वे 'ईद्यति' (पा ६,४,६५) इति ईत्वे गुणः । 'यतोऽनावः' (पा ६,१,२१३ ) इत्याद्युदात्तत्वे धातुस्वरः। समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा धातूनाम् अनेकार्थत्वात् षो अन्तकर्मणि इत्यस्मादेव यत्प्रत्ययः ।
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्।
शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः प॒लिनं॑ मा कृणोतु।
इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ।।४।।
इमाम् । अग्ने । शरणिम् । मीमृषः । नः । यम् । अध्वानम् । अगाम । दूरम् ।
शुनम् । नः । अस्तु । प्रपणः । विऽक्रयः । च । प्रतिऽपणः । फ़लिनम् । मा । कृणोतु ।
इदम् । हव्यम् । सम्ऽविदानौ । जुषेथाम् । शुनम् । नः । अस्तु । चरितम् । उत्थितम् । च ॥
हे अग्ने नः अस्माकम् इमां शरणिम् प्रवासनिबन्धनां व्रतलोपलक्षणां हिंसां मीमृषः क्षमस्व । मृष तितिक्षायाम्। स्वार्थिको णिच् । छन्दसो लुङ्। यम् अध्वानम् मार्गं दूरम् अगाम गतवन्तः स्मः । तदध्वगमनजनिताम् इमां शरणिम् इति पूर्वत्रान्वयः । इण् गतौ । लुङि 'इणो गा लुङि' (पा २,४,४५) इति गादेशः। यद्वा यम् अध्वानं दूरम् अगाम इमां शरणिम् । वर्णव्यत्ययः। इमम् अध्वानम् नः अस्मान् मीमृषः मर्षय तितिक्ष । तज्जनितदुःखनिवर्तने सह्यं कुर्वित्यर्थः । प्रपणः । व्यवहर्तुं पण्यद्रव्यस्य परिमाणकल्पनम् । विक्रयः तस्यैव सलाभमूल्यस्वीकारेण परेषां प्रदानम् । तद् उभयमपि नः अस्माकं शुनम् सुखं यथा भवति तथा अस्तु भवतु । प्रपण इति । पण व्यवहारे इत्यस्मात् 'नित्यं पणः परिमाणे' (पा ३,३,६६) इति अच्प्रत्ययः। विक्रय इति । क्रीणातेः ‘एरच्' (पा३,३,५६ ) इति अच्प्रत्ययः । तथा प्रतिपणः । प्रत्यानेतुं परद्रव्यस्य परिमाणकल्पनं प्रतिपण इत्युच्यते । सोपि मा माम् । फलिनम् प्रभूतलाभोपेतं कृणोतु करोतु।
इन्द्राग्न्योः प्रकृतत्वात् तावेवात्र प्रयुक्तौ प्रार्थ्यते - हे इन्द्राग्नी युवां संविदानौ संजानानौ ऐकमत्यं गतौ । संपूर्वाद् वेत्तेरकर्मकात् 'समो गमादिषु विदिप्रच्छि' (पावा १,३,२९ ) इत्यात्मनेपदम् । अदादित्वात् शपो लुक् । इदम् मया हूयमानं हव्यम् हविः जुषेथां सेवेथाम् । युवयोः प्रसादात् नः अस्माकं चरितम् आचरितं विक्रयादिकम् उत्थितम् तस्माद् व्यवहाराद् उत्पन्नं लाभयुक्तं धनं च शुनम् सुखम् अस्तु ।
येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒छमा॑नः।
तन्मे॒ भूयो॑ भवतु॒ मा कनी॒यो ऽग्ने॑ सात॒घ्नो दे॒वान्ह॒विषा॒ नि षे॑ध ।।५।।
येन । धनेन । प्रऽपणम् । चरामि । धनेन । देवाः । धनम् । इच्छमानः ।
तत् । मे । भूयः । भवतु । मा । कनीयः । अग्ने । सातऽघ्नः । दे॒वान् । हविषा । नि । सेध ॥५॥
हे देवाः धनेन मूल्यधनेन धनम् वृद्धियुक्तं धनम् इच्छमानः कामयमानोहं येन धनेन प्रपणम् व्यवहर्तुं परिमाणकल्पनं चरामि करोमि । तदपि शुनम् अस्तु इति पूर्वेण संबन्धः । हे अग्ने सातघ्नः सातं लाभः। षणु दाने इत्यस्माद् भावे निष्ठा । 'जनसनखनां सञ्झलोः' (पा ६,४,४२) इति आत्वम् । सातं लाभं घ्नन्तीति सातघ्नः। 'बहुलं छन्दसि' (पा ३,२,८८) इति हन्तेः क्विप्। शसि “अल्लोपोऽनः' (पा ६,४,१३४ ) इत्युपधालोपः । 'हो हन्तेः” ( पा ७,३,५४ ) इति घत्वम् । लाभप्रतिबन्धकान् देवान् हविषा हूयमानेन नि षेध परितोष्य निवारय । षिधु गत्याम् । भौवादिकः । 'उपसर्गात् सुनोति' (पा ८,३,६५) इत्यादिना षत्वम् । हे देवाः युष्मत्प्रसादात् तन्मे मदीयं धनं भूयः बहुतरं भवतु । कनीयः अल्पतरं मा भवतु । भूय इति । बहुशब्दाद् ईयसुनि ‘बहोर्लोपो भू च बहोः' (पा ६,४,१५८) इति ईयस आदेर्लोपः बहोर्भूभावश्च । कनीय इति । 'युवाल्पयोः कनन्यतरस्याम्' (पा ५,३,६४ ) इति अल्पशब्दस्य कन् आदेशः।

तस्मि॑न्म॒ इन्द्रो॒ रुचि॒मा द॑धातु प्र॒जाप॑तिः सवि॒ता सोमो॑ अ॒ग्निः ।।६।।

तस्मिन् । मे । इन्द्रः । रुचिम् । आ । दधातु । प्रजापतिः । सविता । सोमः । अग्निः ॥६॥
येन धनेन इत्यादि पूर्ववत् । येनेति यत् प्रकृतं धनं तस्मिन् मे मदीये धने रुचिम् सर्वजनप्रीतिं धनप्रदानेन आदानेच्छाम् इन्द्र आ दधातु स्थापयतु । तथा प्रजापत्यादयश्च रुचिं कुर्वन्तु।
उप॑ त्वा॒ नम॑सा व॒यं होत॑र्वैश्वानर स्तु॒मः।
स नः॑ प्र॒जास्वा॒त्मसु॒ गोषु॑ प्रा॒णेषु॑ जागृहि ।।७।।
उप । त्वा । नमसा । वयम् । होतः । वैश्वानर । स्तुमः ।
सः । नः । प्रऽजासु । आत्मऽसु । गोषु । प्राणेषु । जागृहि ॥ ७ ॥
हे होतः देवानाम् आह्वातः वैश्वानर विश्वनरहित अग्ने त्वा त्वां वयं नमसा हविर्लक्षणेन अन्नेन सह उप स्तुमः उपेत्य स्तोत्रं कुर्मः । स स्तुतस्त्वं नः अस्माकं प्रजासु पुत्रपौत्रादिलक्षणासु आत्मसु अस्मासु गोषु अस्मदीयेषु पशुषु प्राणेषु च जागृहि बुध्यस्व । प्रजादिषु दुःखलेशोपि यथा न प्राप्नोति तथा रक्षन् अवहितो वर्तस्वेत्यर्थः।
वि॒श्वाहा॑ ते॒ सद॒मिद्भ॑रे॒माश्वा॑येव॒ तिष्ठ॑ते जातवेदः।
रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ।।८।।
विश्वाहा । ते । सदम् । इत् । भरेम । अश्वायऽइव । तिष्ठते । जातऽवेदः।।
रायः । पोषेण । सम् । इषा । मदन्तः । मा । ते । अग्ने । प्रतिऽवेशाः। रिषाम ॥८॥
हे जातवेदः जातानां वेदितरग्ने तिष्ठते स्वगृहे नित्यं वर्तमानाय ते तुभ्यं विश्वाहा सर्वाण्यहानि। अत्यन्तसंयोगे द्वितीया। सदमित् सदैव भरेम हरेम । हविरिति शेषः। तत्र दृष्टान्तः - अश्वायेव स्वगृहे वर्तमानाय अश्वाय कालेकाले यथा घासः प्रदीयते तद्वत् । हे अग्ने ते तव प्रतिवेशाः परिचरणादिना प्रत्यासन्ना वयं रायः धनस्य पोषेण समृद्ध्या इंषा इष्यमाणेन अन्नेन च सं मदन्तः संमाद्यन्तो हृष्यन्तः । व्यत्ययेन शप् । मा रिषाम विनष्टा मा भूम । रुष रिष हिंसायाम् । पुषादित्वात् च्लेरङादेशः।
इति तृतीयकाण्डे तृतीयेऽनुवाके पञ्चमं सूक्तम् ।
समाप्तश्च तृतीयोऽनुवाकः।
}}
{{टिप्पणी|
}}
fbh9v2d1ec8tn2si14mtm9tb4iyjh6v
341364
341354
2022-07-25T09:39:52Z

इस “धी' को प्राप्त करने का अभिप्राय है एक दूरगामी अध्वा (मार्ग) पर यात्रा करना, जहां वह प्रपण, विक्रय और प्रतिपण को समाविष्ट करने वाले वाणिज्य के सफल होने की कामना करता है और चाहता है कि उसका गमन और उत्थान सुखमय हो -
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम्।
शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु।
इदं हव्यं संविदानो जुषेथां शुनं नो अस्तु चरितमुत्थितं च ।।-अथ.३.१५.४
इस मन्त्र में जिन देवों से हव्य स्वीकार करने के लिए गमन तथा उत्थान को सुखमय करने के लिए प्रार्थना की गई है वे आत्मा के ज्ञानपरक तथा क्रियापरक पक्ष हैं जिनको क्रमशः अग्नि तथा इन्द्र रूप में कल्पित किया जाता है। जिस धन के द्वारा और अधिक धन पाने के लिए प्रपण (वाणिज्य) किया जाता है वह धन वही ब्रह्मानंद-रस-रूप वाम है। इसलिए प्रार्थना की जाती है कि इन्द्र,सविता, प्रजापति, सोम और अग्नि साधक के इस व्यापार में रुचि बढ़ावें -
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।
तन्मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान्हविषा नि षेध।। अथ.३.१५.५
यह वाणिज्य कर्म वस्तुतः एक आध्यात्मिक व्यापार है। इसमें इन्द्र ही वणिक् है जो आत्मा के क्रियापरक पक्ष का प्रतीक है और "पुरएता” (नेता) होकर मार्ग के शत्रुओं और बाधाओं का विनाश करता हुआ आध्यात्मिक धन को देने वाला कहा जाता है -
इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।
नुदन्नरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम्।। अथ.३.१५.१
यह व्यापार उन अनेक देवयान मार्गों पर होता है जो मनुष्य के आन्तरिक जगत् में विद्यमान हैं और जिनसे पयस् और घृत (मानसिक और अति मानसिक सुख) की उपलब्धि तथा विक्रय करके आध्यात्मिक धन को संगृहीत किया जा सकता है-
ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति।
ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ।। अथ.३.१५.२
इस व्यापार को करने वाले मनुष्य के वे प्राण हैं जिनको पहले 'विशः आर्याः" कहा गया है। यह अन्तर्मुखी प्रवेश करने के कारण "विशः' कहे जाते हैं और श्रेष्ठ होने के कारण आर्य । इन पर आधिपत्य रखने वाला वैश्वानर अग्नि है जो उक्त सोम-याग-रूप वाणिज्य का स्वामी “होता” है और जिससे प्रार्थना की जाती है कि वह हमारी प्रजाओं (प्रकृष्ट इच्छाओं, विचारों, क्रियाओं ) आत्माओं,ज्ञान-शक्तियों तथा प्राणों में जागरूक रहे -
उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।
स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ।। अथ.३.१५.७
“विशः आर्याः" द्वारा होने वाले उक्त वाणिज्य के अतिरिक्त एक अनार्य प्राणों द्वारा होने वाले व्यापार का भी वेद में उल्लेख है। आर्य व्यापार में जहां प्रपणन और प्रतिपणन होता है वहां अनार्यव्यापार को पणन कहा जाता है और उसको करने वाले "पणयः ' कहे जाते हैं जो वस्तुतः अनार्य अथवा आसुरी प्राणों के प्रतीक हैं। ये पणयः ' नामक असुर देवों की गायों को चुराने वाले तस्कर हैं । - [http://puranastudy.freevar.com/Antariksha_Paryaya/pva18.htm वेदों में अन्तरिक्ष पर्यायों का प्रतीकवाद] (अरुणा शुक्ला)
}}
eicvppqo6b7r5ww2q8tbmrv0tstlbtq
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०१
104
123330
341351
340072
2022-07-25T08:51:53Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता-|right=९७}}</noinclude>
शब्दग्रहणाद्युवतीसम्बोधनम्। गुणस्तु न शक्यः। शत्रन्तान्डीपि
तस्यैव सम्बोधने हस्तविधिसामर्थ्या दुगुणाभावस्य सुवचत्वात्।
तथा च भातीति भवान् सुन्दरो नन्दनन्दनस्त्वमह्नि विहारार्थ
काननमट। हे युवति ! त्वमपि काननमह्नयट परन्तु त्वां सखीम-
पश्यतामस्माकं त्रुटिर्युगायते। अटतीत्यट हे गमनशील! त्वामपश्य
तामित्यादिशेषं विशेषरणमुभयपक्षेपि योजनीयम्। युवती सखीं
नन्दसूनु ना साकं सुरतार्थ युक्त्यः सम्मतिन्ददति प्रेरयन्ति च।
हे युवति! काननमट इति वचोब्रुवन्ति, युवतीनामित्थं स्वभावः।
यदि स्वयं गन्तु नैव प्राप्नुवन्ति तर्हि स्वसखीं नुदन्ति तस्यां
त्रुटिर्युगायत इत्यादि प्रेमवचनं च दर्शयन्ति। युवतीसम्बोधनम-
हिम्ना तत्पक्षेऽपि अटनक्रियान्वयोऽवश्यं वक्तव्य इति तत्वं
सुधियो विचारयन्तु ॥ २० ॥ यद्वा का स्त्री काननमति इति
काकुः। कास्त्रीति शेषलभ्यः। वक्तृबोद्धव्यविशेषान्प्रकरणाच्च
एतत्प्रघट कार्यो यच्छब्दलभ्यः, यच्छन्दो हेतुपर: 'यत्तद्यतस्ततो
हेतावित्यमरः। यदर्थं भवान् काननमटति, अयम्भावः। यद्यु.
वतीप्राप्तये भवानह्निकाननमटति कापि स्त्री अहिकाननं नैवा.
टति। वाराङ्गना तु नैवकाननमटितुं शक्नोति सौकुमार्यात,
किञ्चवाराङ्गना हि बहुमूल्येनयोनिविक्रेत्री, तस्था योनिरेव.
कय्या। नहि वने बहुमूल्येन योनिक्रेतारः पण्य इवोपलभ्यन्ते। न
हि षिड्गास्तदर्थं वशं गच्छन्ति च। पतिव्रताया वार्ता तु
{{rule}}
{{gap}}*यद्वाकाननंवनं कास्त्री अटति इति भङ्गश्लेषोऽस्तु नकापीतिका
कुलभ्योऽर्थः।<noinclude></noinclude>
hfbdcjkocg947pkd0o5ug4qub25sc23
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०२
104
123332
341361
340073
2022-07-25T09:35:25Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=९८|center= गोपीगीता-}}</noinclude>दूरापास्ता। अस्मद्विधा अपि गृहकृत्यं त्यक्त्वाकाननं नैवाटन्ति, यदर्थं भवान् काननमटति तद्वयथ मेवेति। परन्तु त्वामपश्यतामस्माकं त्रुटिर्युगायते। किञ्च ते तुभ्यं त्रुटिर्युगायते, अयम्भावः। भवान् अह्निकाननमटति अस्माविहायेतिशेषः। परन्तु वयं भवतः स्नेहास्पदम्। एता. दृशोऽस्मान्विहाय काननाटने तुभ्यमपिक्षणो युगायते नास्माक मेव; एतेन परस्परानुरागो व्यज्यते ॥ २१ ॥ यद्वा कात्रुटिर्युगायते इति प्रश्नकाकुः, न कापीत्यर्थः। अयम्भावः। अस्माकम्प्रतित्रुटिरपियगवद्भवतु इत्यर्थ भवानह्निकाननमटति कात्रुटिर्युगायते । त्वामपश्यतां न का पीति ईर्ष्योक्तिः। अस्मिन्पक्षे तवाननं त्वाञ्चापश्यतामिति योज्यम्। का इति पृथक् आननमिति -पृथक ।। २२॥ यद्वा अस्मिम्पक्षे काननमिति काकृक्तिरस्तु तथा च त्वामपश्यतामस्माकं कुटिलकुन्तलं आमुखं च काननं ईषदाननं दृश्यते किमपि तु न, यदित्रुटिर्युगाय स्यात्तदा तु अस्माकमाननमपि काननं स्यादित्थन्तु नैव दृश्यते । परन्तु ते तव कुटिलकुन्तलं श्रीमुखं च काननमीषदाननं स्यात्। अस्मानपश्यतस्तवैव त्रुटिर्युगायस्यात्, यतस्तवालनंतादृशमपि ईषदाननमित्याशयः। अस्मिन्पक्षे युगायेति पृथक् ते इति पृथक् युगायेति तादर्थ्ये चतुर्थी ॥ २३ ॥ यद्वा त्वा इति पृथक आमेति पृथक् पश्येति पृथक् तामिति पथक्। आसमन्ताल्लक्ष्मीर्यस्य स आमस्तत्सम्बुद्धावाम हे परिपूर्णसम्पन्नन्दसूनो ! हे सुन्दर! तर वा त्वा त्वां तां तव प्रयसी<noinclude>{{rh|left|center|right}}</noinclude>
ifmgo36m7c9hcazhebokr1ljfhpvv22
341362
341361
2022-07-25T09:36:01Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=९८|center= गोपीगीता-}}</noinclude>दूरापास्ता। अस्मद्विधा अपि गृहकृत्यं त्यक्त्वाकाननं नैवाटन्ति, यदर्थं भवान् काननमटति तद्वयथ मेवेति। परन्तु त्वामपश्यतामस्माकं त्रुटिर्युगायते। किञ्च ते तुभ्यं त्रुटिर्युगायते, अयम्भावः। भवान् अह्निकाननमटति अस्माविहायेतिशेषः। परन्तु वयं भवतः स्नेहास्पदम्। एता. दृशोऽस्मान्विहाय काननाटने तुभ्यमपिक्षणो युगायते नास्माक मेव; एतेन परस्परानुरागो व्यज्यते ॥ २१ ॥ यद्वा कात्रुटिर्युगायते इति प्रश्नकाकुः, न कापीत्यर्थः। अयम्भावः। अस्माकम्प्रतित्रुटिरपियगवद्भवतु इत्यर्थ भवानह्निकाननमटति कात्रुटिर्युगायते । त्वामपश्यतां न का पीति ईर्ष्योक्तिः। अस्मिन्पक्षे तवाननं त्वाञ्चापश्यतामिति योज्यम्। का इति पृथक् आननमिति -पृथक ।। २२॥ यद्वा अस्मिम्पक्षे काननमिति काकृक्तिरस्तु तथा च त्वामपश्यतामस्माकं कुटिलकुन्तलं आमुखं च काननं ईषदाननं दृश्यते किमपि तु न, यदित्रुटिर्युगाय स्यात्तदा तु अस्माकमाननमपि काननं स्यादित्थन्तु नैव दृश्यते । परन्तु ते तव कुटिलकुन्तलं श्रीमुखं च काननमीषदाननं स्यात्। अस्मानपश्यतस्तवैव त्रुटिर्युगायस्यात्, यतस्तवालनंतादृशमपि ईषदाननमित्याशयः। अस्मिन्पक्षे युगायेति पृथक् ते इति पृथक् युगायेति तादर्थ्ये चतुर्थी ॥ २३ ॥ यद्वा त्वा इति पृथक आमेति पृथक् पश्येति पृथक् तामिति पथक्। आसमन्ताल्लक्ष्मीर्यस्य स आमस्तत्सम्बुद्धावाम हे परिपूर्णसम्पन्नन्दसूनो ! हे सुन्दर! तर वा त्वा त्वां तां तव प्रयसी<noinclude></noinclude>
q3s92iaep7noqz3cl6m21qoqzkw7t4g
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०३
104
123334
341365
340074
2022-07-25T09:46:12Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता-|right=९९}}</noinclude>
सखीञ्च पश्य,युवयोः सारूप्यमस्ति वा न वा; त्वमाढ्यतरोऽसि
अतीव सुन्दरोऽप्यसि। सा तु कीदृगस्ति। यदितु तवानुरूपा
नस्यात्तर्हि तामपि त्यजेत्याशयः। सा तु गोपकन्या दरिद्रैव
तस्मात्तामपि कदाचित्त्यजेदित्याकृतम्। श्चः परश्वो वा तां
द्रष्टास्मीत्यपि नैव वक्तव्यम्। स्वानिष्टलब्धौ त्रुटिरपियुगायते।
अतो झटिति दर्शनीयेति गूढाशयः। अस्योत्तरं नन्दसूनुराह
पश्यतामितिपदेन, पश्यतेत्येकमामित्येकम्। अयम्भावः। मत्प्रि-
यावियोगाय भवतीयित्कौटिल्यं कृतं तत्सर्वं बुद्ध्वा मम प्रिया
मयेदानीमेव झटिति दृष्टा ममानुरुपैवेति आं ममाङ्गीकारः। नो
चेद्यूयमेव पश्यत। आवयोरानुरूप्यमितिभावः। पुनर्युवतीनां
{{rule}}
{{gap}}१ सङ्कीर्णश्लेषे अर्थान्तरे त्वामपदं सार्थकम्, तथाप्यस्मिन्पक्षेऽपि
इत्थं योजनीयम् तथाहि त्वामिति पृथक् अ इति पृथक्सम्योधनार्थमव्य
यम्, अ! हे सखि ! त्वांबवीमीतिशेषः। हे जडे! इत्यादि। यद्वा अइति निषेधा-थकमव्ययमस्तु। त्वां सखी प्रति किमपि न स्फुरति त्वं किमपि न जानासीति यावत् अतो हे जडे इत्यादि। यद्वात्वामेत्यत्र तु श्राम इति च्छेदः। तुरव.धारणेः, हे प्राम, अपक्व वाल अज्ञेतियावत् त्वंजड: तांपश्प श्रासजडपदेन तवानुरूपासासखीनास्त्येव। ममानुरूपेतितुतव भ्रमएवेति गम्यते, भेदबोधकेनापितुना सारूप्यं नास्तीतिगम्यते। 'तुस्पादभेदेऽवधारणे' इत्यमरः।
इत्थं परस्परं विवादः। अत्रेदं कौतुकम्, अन्तहितोयोगीशः प्रतिध्वनिमिषेण
एतत् श्लोकेन गोपी प्रति वक्ति तथाहि अनहि रात्री का स्त्री कानन
मटति न कापि, यद्यस्मात्कारणान्मत्प्राप्तये त्वमेवासि तस्मात्वंभव जीवे
त्याद्याशिर्ष दत्ते, शेष विशेषणं स्पष्टम्।<noinclude></noinclude>
497a1s0lto3fly4qzqq7o71antbn7id
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०४
104
123335
341366
340075
2022-07-25T09:48:30Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१००|center= गोपीगीता-}}</noinclude>
मध्ये एकां सम्बोधयन् श्रीनन्दनन्दनो वदति हे जडे! हे मूर्खे!
अज्ञानवतीति यावत्। चः समुच्चये। एवञ्च मम प्रियामुखं
मममुखञ्च कुटिलकुन्तलं श्रीमुखञ्चेति ममानुरूपैव नो चेत्त
मत्प्रियामुदीक्ष, सर्वतोऽतिशयेन पश्यति उपसर्गलभ्योऽर्थः।
दृशां पक्ष्मकृद् ब्रह्मा अजङः सर्वं जानाति। यदि दृक्षु पक्ष्माणि
न स्युस्तहिंदृशामेव वैरूप्यं स्यात्। यथा अर्मरोगिणां पक्ष्मभङ्गा
दुदृशामेव वैरूप्यं दृश्यतेऽतो योग्यसंयोजनपटुरेव ब्रह्मदेवः। तदुक्तं
श्रीहर्षेः-'निशा शशाडकं शिवया गिरीशं श्रिया हरिं योजयतः
प्रतीतः। विधेरपि स्वारसिकः प्रयासः परस्परं योग्यसमाग-
माये-ति, अत आवयोः संयोजनमपि परस्परं योग्यसमागम
एवेति स्वीकरोमि। तस्मान्मत्प्रियाम्प्रति कपटेन दोषारोपं
कृत्वा विघटनं कर्तु नैव शक्ष्यथ इति गूढाशयः। ननु नन्दसू-
नुरन्तर्हित एव सन् कथं युवति प्रति वक्ति इति तु न शङ्कनी-
यम्। योगीशो योगवलेन स्वयमदृश्यमानो युवत्युत्कण्ठावि-
वृद्धये गदतीति न शङ्कालेशोऽपि ॥२४ ॥ यद्वा हे कुटिल ! हे कप-
टिन्! भवान् जडो मूल्यतः कुटिंख्योगिनिवासस्थानं पर्णशालां
लाति गृह्णातीति कुटिलस्तत्सम्बोधनम्। सम्पत्समृद्धं स्वगृ-
हमपित्यक्त्वापर्णशालामधिवसति अतो जडः, पुनश्च अह्वि-
काननमटति तस्मादपि मूर्खः, वनमह्नि सूर्यतापतप्तं सद्दुःखा-
यैवालम्। एतदविचार्येवाटति,अतो मूर्खः, यच्छब्दोजडत्वे हेतुं
द्योतयति भवान् यद्यपि कपटी मूर्खाश्च तथापि अनुरागवशात्रु
{{rule}}
{{gap}}*कुटिशब्दो हूस्वान्तोऽपि<noinclude></noinclude>
0vvzpdhsgput3wpnoefpmc24k22nx4s
पृष्ठम्:अद्भुतसागरः.djvu/१३५
104
124945
341325
340307
2022-07-25T06:14:59Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बृहस्पत्यद्भुतावत्तः ।|right=११७}}}}</noinclude><poem>
{{gap}}वैशाखे शस्यजनना वृष्टयः सम्भवन्ति च ॥
बृद्धगर्गस्तु ।
{{gap}}विशाखां चैव मैत्रं च चरेयदि बृहस्पतिः ।
{{gap}}निरीतिकः स वैशाखो हायनः प्राणवर्षकृत्<ref>जलवृष्टिकृदित्यर्थः ।</ref> ॥
{{gap}}सर्वशस्यानि पुष्यन्ति सुभिक्षं क्षेममेव च ।
{{gap}}नरेन्द्राश्चाविरोधेन प्रजा रक्षन्ति धर्मतः ॥
घेशाखः ।
विष्णुधर्मोत्तरे |
गर्गः ।
{{gap}}ज्येष्ठामूलोपगे जीवे वर्षं स्याच्छकदैवतम् ।
{{gap}}पीडाकरं धर्मभृतां सम्यक् श्रेष्ठ महीभृताम् ॥
वराहसंहितायां तु ।
{{gap}}वृक्षगुल्मलताशस्यक्षेमकर्म विनाशनः ।
{{gap}}क्रूराज्ञादीप्तिजननो ज्येष्ठः श्रेष्ठनरान्तकृत् ॥
बृद्धगर्गस्तु ।
{{gap}}ज्येष्ठे ज्ञातिकुलधनश्रेणीश्रेष्ठा नृपाः ससर्वधर्मज्ञाः ।
{{gap}}पीड्यन्ते धान्यानि च हित्वा कङ्गु शमीजातिम् ॥
ज्येष्ठः ।
विष्णुधर्मोत्तरे |
{{gap}}ज्येष्ठे मूले च नक्षत्रे चरेयदि बृहस्पतिः ।
{{gap}}ऐन्द्रसंवत्सरः स स्यात् सर्वभूतहिते शिवः ||
{{gap}}दुर्भिक्षं जायते घोरं वैरं चैव प्रवर्त्तते ।
{{gap}}न च वर्षेत् तदा देवो न च निर्वर्त्तते सदा ॥
{{gap}}आषाढहयगे जीवे वैश्वदेवमुदाहृतम् ।
{{gap}}नाशुभं न शुभं लोके राजविग्रहकारणम् ॥
</poem>
{{rule}}<noinclude></noinclude>
nisudktywqlfm22alku1tk3nlj8xh5a
पृष्ठम्:अद्भुतसागरः.djvu/११२
104
125070
341288
340336
2022-07-25T04:57:47Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=राहोरद्भुतावर्त्तः ।|right=९३}}}}</noinclude>{{bold|<poem>{{gap}}श्रुतिसंहितास्मृतीनां भवति यथैक्यात् तदुक्तिरतः ॥
{{gap}}राहुस्तच्छादयति प्रविशति यच्छुक्लपञ्चदश्यन्ते ।
{{gap}}भूछायातमसीन्दोर्वरप्रसादात् कमलयोनेः”<ref>ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ३९-४४ श्लो.</ref> । ॥</poem>}}
<small>तथा च गर्गः ।</small>
{{gap}}{{bold|तपःप्रवृत्तस्य राहोर्ब्रह्मा वरं ददौ पञ्चदश्यन्ते चन्द्रमुपसर्प}}- इति।
<small>ब्रह्मसिद्धान्ते ।</small>
{{gap}}{{bold|<poem>“चन्द्रोऽम्बुमयोऽधःस्थो यदग्निमयभास्करस्य मासान्ते ।
छादयति शमिततापो राहुश्च्छादयदि तत्सवितुः"<ref>ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ३९-४४ श्लो. ।</ref> ॥</poem>}}
<small>सूर्यसिद्धान्ते ।</small>
{{bold|<poem>{{gap}}“तमोमयस्य तमसो रविरश्मिपलायिनः ।
{{gap}}भूछाया चन्द्रविम्बं च स्थाने द्वे परिकल्पिते"<ref>ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ४४ श्लो .।</ref>॥</poem>}}
<small>ब्रह्मसिद्धान्ते ।</small>
{{bold|<poem>{{gap}}भूछायाव्याससमः शशिकक्षायां स्थितः शशिग्रहणे ।
{{gap}}राहुश्छादयतीन्दुं सूर्यग्रहणेऽर्कमिन्दुसमः ॥
{{gap}}यत् तदधिकं तमोमयराहुव्यासस्य सूर्यदृष्टत्वात् ।
{{gap}}नश्यति भूछायेन्द्वोर्व्याससमोऽस्माद्भवति राहुः ॥
{{gap}}भूछाया नेन्दुमतो ग्रहणे छादयति नार्कमिन्दुर्वा ।
{{gap}}तत्स्थस्तद्व्याससमो राहुश्छादयति शशिसूर्यौ"<ref>नाधुनिकसूर्यसिद्धान्तेऽस्योपलब्धिः ।</ref> ॥</poem>}}
<small>धीरभद्रः ।</small>
{{bold|<poem>{{gap}}सिंहिकातनयस्यास्य राहोः पुच्छमुखादृते ।
{{gap}}नान्यदस्त्युदरं बाहुपादादिकमिति श्रुतिः <ref>ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ४७-४८ श्लो. ।</ref>॥</poem>}}
{{rule}}<noinclude></noinclude>
o19x9bcarli4mld0ee6bnjwdruawgo7
पृष्ठम्:अद्भुतसागरः.djvu/११३
104
125071
341289
340339
2022-07-25T05:02:11Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=९४|center=अद्भुतसागरे}}
}}</noinclude><small>वसिष्टः ।</small>
{{bold|}}{{bold|{{gap}}स्वर्भानु प्रत्यासन्नभगणार्धान्तरितः सूर्याचन्द्रमसौ मुखपुच्छाभ्यां गृह्णाति - इति ।}}
{{center|<small>इति महाराजाधिराजनिश्शङ्कशङ्कर श्रीमद्वल्लाल सेनदेवविरचिते-
अद्भुतसागरे राहोद्भुतावर्त्तः ।</small>}}
{{rule}}
{{center|{{bold|<small>अथ मङ्गलाद्भुतावर्त्तः ।</small>}}}}
<small>तत्र शुभसूचकमङ्गललक्षणमाह पराशरः ।</small>
{{bold|{{gap}}वर्णरश्मिप्रमाणतेजोयुक्त उदग्मार्गगः स्नेहवान् सर्वलोकहिताय भवति चात्र।}}
{{bold|<poem>{{gap}}प्रदक्षिणगतिः कान्तः स्निग्धः स विपुलोऽमलः<ref>कलसप्रभः इति अ ।</ref>।
{{gap}}तप्तकाञ्चनसंकाशो भवेल्लोकस्य वृद्धये ॥</poem>}}
<small>प्रदक्षिणगतिर्ग्रहाणामुदग्गामी ।</small>
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}विपुलविमलमूर्त्तिः किंशुकाशोकवर्णः
{{gap}}{{gap}}स्फुटरुचिरमयूखस्तप्तताम्रप्रभाभः ।
{{gap}}विचरति यदि मार्ग चोत्तरं मेदिनीजः
{{gap}}{{gap}}{{gap}}शुभकृ दवनिपानां हार्दिदश्च प्रजानाम् ॥</poem>}}
{{gap}}अत्र मध्यमार्गचारी मध्यमफल: । दक्षिणमार्गचारी भयद इत्यूहनीयम् ।
<small>यथाऽऽह गर्गः ।</small>
{{bold|<poem>{{gap}}याम्यादिपित्र्यनिधनं<ref>याम्यादिपितृपर्यन्तम् इति अ.।</ref> नवक्षं मार्गमुत्तरम् ।
{{gap}}भाग्यादितान्तं तु मध्यमं मार्गमुच्यते ॥
{{gap}}आषाढपौष्णभान्तं तु दक्षिणं समुदाहृतम् ।</poem>}}
{{rule}}<noinclude></noinclude>
hxb1uvnpgf4c93i7h2t66a4w2n7y8mz
पृष्ठम्:अद्भुतसागरः.djvu/११४
104
125072
341290
340341
2022-07-25T05:04:46Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मङ्गलाद्भुतावर्त्तः ।|right=९५}}}}</noinclude>{{bold|<poem>{{gap}}सौम्यमार्गस्थितो भौमः प्रजानां हितकारकः ॥
{{gap}}मध्ये तु मध्यफलदो याम्ये तु भयदः स्मृतः ।</poem>}}
{{bold|<small>{{gap}}येषामयं स्वामी तेषां वर्णरश्मिप्रभादिशुभलक्षणयुक्तो विशेषेण शुभकर: । विपरीतो विशेषेण विपरीतकरः ।</small>}}
{{bold|<small>मङ्गलस्वामिकान्याह यवनेश्वरः ।</small>}}
{{bold|<poem>{{gap}}चमूनृपस्तेनहुताशवृत्तिविषाग्निशस्त्रक्षतजक्षितीनाम् ।
{{gap}}प्रवालधात्वाकरपुष्पजातिचामोकराणां क्षितिसूनुरोशः ॥</poem>}}
{{bold|<small>काश्यपस्तु ।</small>}}
{{bold|<poem>{{gap}}महेन्द्रमलयं विन्ध्यं सिप्रा वेणा महानदी ।
{{gap}}गोदावर्या नर्मदाया भीमायाः पश्चिमा दिशः ॥
{{gap}}चेदिकाः कौङ्कणा दुर्गा द्रविडा वेत्रवन्नदी ।
{{gap}}मन्दाकिनी पयोष्णो च मालती सिंधुपारकाः ॥
{{gap}}सपाण्ड्याश्चोलदेशस्था द्रविडा वाऽश्मकास्तथा<ref>विदेहान्ध्राश्मकास्तथा इति अ. ।</ref>
।
{{gap}}भासापराः कुन्तलाश्चा केरलां दण्डकास्तथा ॥
{{gap}}नागराः पौरवाश्चैव कर्षकाः शस्त्रवृत्तयः ।
{{gap}}हुताशनाजीविनो ये कुञ्जराः पशुपास्तथा ॥
{{gap}}सांग्रामिका नृशसांश्च सङ्कराश्चोपघातकाः ।
{{gap}}कुमारा भूमिपतयो दाम्भिकास्तस्करा अपि ॥
{{gap}}एतेषां भूमिजः स्वामो तथैवाग्न्युपजीविनाम् ।</poem>}}
{{bold|<small>वराहसंहितायाम् ।</small>}}
{{bold|<poem>{{gap}}शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः ।
{{gap}}निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥
{{gap}}मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः ।
{{gap}}उत्तरपाण्ड्य महेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥</poem>}}
{{rule}}<noinclude></noinclude>
ecgacf1l3ji771lpfqzh1comvhnmeon
341291
341290
2022-07-25T05:05:12Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मङ्गलाद्भुतावर्त्तः ।|right=९५}}}}</noinclude>{{bold|<poem>{{gap}}सौम्यमार्गस्थितो भौमः प्रजानां हितकारकः ॥
{{gap}}मध्ये तु मध्यफलदो याम्ये तु भयदः स्मृतः ।</poem>}}
{{bold|<small>{{gap}}येषामयं स्वामी तेषां वर्णरश्मिप्रभादिशुभलक्षणयुक्तो विशेषेण शुभकर: । विपरीतो विशेषेण विपरीतकरः ।</small>}}
{{bold|<small>मङ्गलस्वामिकान्याह यवनेश्वरः ।</small>}}
{{bold|<poem>{{gap}}चमूनृपस्तेनहुताशवृत्तिविषाग्निशस्त्रक्षतजक्षितीनाम् ।
{{gap}}प्रवालधात्वाकरपुष्पजातिचामोकराणां क्षितिसूनुरोशः ॥</poem>}}
{{bold|<small>काश्यपस्तु ।</small>}}
{{bold|<poem>{{gap}}महेन्द्रमलयं विन्ध्यं सिप्रा वेणा महानदी ।
{{gap}}गोदावर्या नर्मदाया भीमायाः पश्चिमा दिशः ॥
{{gap}}चेदिकाः कौङ्कणा दुर्गा द्रविडा वेत्रवन्नदी ।
{{gap}}मन्दाकिनी पयोष्णो च मालती सिंधुपारकाः ॥
{{gap}}सपाण्ड्याश्चोलदेशस्था द्रविडा वाऽश्मकास्तथा<ref>विदेहान्ध्राश्मकास्तथा इति अ. ।</ref>।
{{gap}}भासापराः कुन्तलाश्चा केरलां दण्डकास्तथा ॥
{{gap}}नागराः पौरवाश्चैव कर्षकाः शस्त्रवृत्तयः ।
{{gap}}हुताशनाजीविनो ये कुञ्जराः पशुपास्तथा ॥
{{gap}}सांग्रामिका नृशसांश्च सङ्कराश्चोपघातकाः ।
{{gap}}कुमारा भूमिपतयो दाम्भिकास्तस्करा अपि ॥
{{gap}}एतेषां भूमिजः स्वामो तथैवाग्न्युपजीविनाम् ।</poem>}}
{{bold|<small>वराहसंहितायाम् ।</small>}}
{{bold|<poem>{{gap}}शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः ।
{{gap}}निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥
{{gap}}मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः ।
{{gap}}उत्तरपाण्ड्य महेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥</poem>}}
{{rule}}<noinclude></noinclude>
6raj5a9v3nw5lu9p6eby25add9bwum7
पृष्ठम्:अद्भुतसागरः.djvu/११५
104
125073
341292
340351
2022-07-25T05:06:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}द्रविड विदेहान्ध्राश्मकभासापरकौङ्गणाः समव्रिषिकाः ।
{{gap}}कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्करिणः ॥
{{gap}}नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्त्तानाम् ।
{{gap}}आडविकदुर्गकर्वटवधिकनृशंसावलिप्तानाम् ॥
{{gap}}नरपतिकुम्भारकुञ्जरदम्भिकडिम्भाभिघातपशुपानाम् ।
{{gap}}रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥
{{gap}}कोषभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ।
{{gap}}शठदीर्घवैरवह्णाशिनां च वसुधासुतोऽधिपतिः ॥</poem>}}
{{bold|<small>अथ वर्णफलम् । तत्र वृद्धगर्गः ।</small>}}
{{bold|<poem>{{gap}}पीतकः कृष्णवर्णो वा विरश्मिर्वा विगर्हितः ।</poem>}}
{{bold|<small>अथ चारफलम् । तत्र वृद्धगर्गः ।</small>}}
{{bold|<poem>{{gap}}त्रिंशद्भिर्लोहितो मासैर्विचरेद्राशिविंशकम् ।
{{gap}}यदा स पूजितश्चारो न च न्यूनो न चाधिकः ॥</poem>}}
<small>अथास्य नक्षत्रविशेषेषु चारादिफलं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}चारोदयाः प्रशस्ताः श्रवणमघादित्यमूलहस्तेषु ।
{{gap}}एकपदादिविशाखाप्राजापत्येषु च कुजस्य ॥
{{gap}}प्राजापत्ये श्रवणे मूले त्रिषु चोत्तरेषु शके च ।
{{gap}}विचरन् घननिवहानामुपघातकरः क्षमातनयः ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}ध्रुवेषु वैष्णवे मूले शाक्रे च विचरन् कुजः ।
{{gap}}घोरां करोत्यनावृष्टिं कृत्तिकासु मधासु च ॥</poem>}}
<small>ध्रुवेषु उत्तरात्रयरोहिणीषु ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}दक्षिणतो रोहिण्याश्चरन्महीजोऽर्घवृष्टिनिग्रहकृत् ।
{{gap}}धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥
</poem>}}<noinclude></noinclude>
btvdnuktseiblpmldjkz93z3x79o7d5
341293
341292
2022-07-25T05:06:40Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=९६|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}द्रविड विदेहान्ध्राश्मकभासापरकौङ्गणाः समव्रिषिकाः ।
{{gap}}कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्करिणः ॥
{{gap}}नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्त्तानाम् ।
{{gap}}आडविकदुर्गकर्वटवधिकनृशंसावलिप्तानाम् ॥
{{gap}}नरपतिकुम्भारकुञ्जरदम्भिकडिम्भाभिघातपशुपानाम् ।
{{gap}}रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥
{{gap}}कोषभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ।
{{gap}}शठदीर्घवैरवह्णाशिनां च वसुधासुतोऽधिपतिः ॥</poem>}}
{{bold|<small>अथ वर्णफलम् । तत्र वृद्धगर्गः ।</small>}}
{{bold|<poem>{{gap}}पीतकः कृष्णवर्णो वा विरश्मिर्वा विगर्हितः ।</poem>}}
{{bold|<small>अथ चारफलम् । तत्र वृद्धगर्गः ।</small>}}
{{bold|<poem>{{gap}}त्रिंशद्भिर्लोहितो मासैर्विचरेद्राशिविंशकम् ।
{{gap}}यदा स पूजितश्चारो न च न्यूनो न चाधिकः ॥</poem>}}
<small>अथास्य नक्षत्रविशेषेषु चारादिफलं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}चारोदयाः प्रशस्ताः श्रवणमघादित्यमूलहस्तेषु ।
{{gap}}एकपदादिविशाखाप्राजापत्येषु च कुजस्य ॥
{{gap}}प्राजापत्ये श्रवणे मूले त्रिषु चोत्तरेषु शके च ।
{{gap}}विचरन् घननिवहानामुपघातकरः क्षमातनयः ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}ध्रुवेषु वैष्णवे मूले शाक्रे च विचरन् कुजः ।
{{gap}}घोरां करोत्यनावृष्टिं कृत्तिकासु मधासु च ॥</poem>}}
<small>ध्रुवेषु उत्तरात्रयरोहिणीषु ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}दक्षिणतो रोहिण्याश्चरन्महीजोऽर्घवृष्टिनिग्रहकृत् ।
{{gap}}धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥
</poem>}}<noinclude></noinclude>
s5g29g2z9cx1nrkvzu5qvd6l4469lis
पृष्ठम्:अद्भुतसागरः.djvu/११६
104
125074
341294
340354
2022-07-25T05:09:52Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left|center=मङ्गलाद्भुतावत्तेः ।right=९७}}}}</noinclude><small>अर्घकृदधिकमूल्यकृदित्यर्थः ।</small>
{{bold|<poem>{{gap}}भित्त्वा मघा विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् ।
{{gap}}मरकं करोति घोरं यदि भित्वा रोहिणो याति ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}वक्तकाले तु संप्राप्ते स्थूलो भवति लोहितः ।
{{gap}}हर्षितश्चातिरक्तश्च ज्वलिताग्निशिखोपमः ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}गतागतं तदा कुर्यान्मघामध्येन लोहितः ।
{{gap}}तदा भवत्यनावृष्टिः पाण्ड्यो राजा विनश्यति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}मध्येन यदि मघानां गतागतं लोहितः करोति ततः ।
{{gap}}पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयमनावृष्टिः ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“वक्रानुवक्रं कृत्वा च श्रवणं यावकप्रभः ।
{{gap}}ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः”<ref>३ अ. १८ श्लो, ।</ref> ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}यद्वारे कुरुते वक्रमनुवकं च लोहितः ।
{{gap}}नक्षत्रसप्तजान् देशाँस्तद्वारं च निहन्ति सः ॥</poem>}}
{{bold|<poem>{{gap}}नाधोभात् सप्तजान् द्रुह्यान्न चाष्टादशतोऽधिकान् ।
{{gap}}उदयर्क्षान्महीजस्य भवेद्वेकं कथंचन ॥</poem>}}
<small>अथास्य पञ्च वक्त्राणि वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}उष्णमश्रुमुखं व्यालं लोहिताननमेव च ।
{{gap}}निस्त्रिंशमुशलं चेति पञ्च वक्तकुजस्य तु ॥</poem>}}
<small>तत्रोष्णमुखम् । तत्र गर्ग: <ref>तत्र शङ्खः इति छ. ।</ref>।</small>
{{bold|{{gap}}उदयात् सप्तमे कुर्यादष्टमे नवमेऽपि वा ।}}
{{rule}}<noinclude></noinclude>
p7hxau1g2nabjqf67my0qlchvtx23b5
341295
341294
2022-07-25T05:10:16Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मङ्गलाद्भुतावत्तेः ।right=९७}}}}</noinclude><small>अर्घकृदधिकमूल्यकृदित्यर्थः ।</small>
{{bold|<poem>{{gap}}भित्त्वा मघा विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् ।
{{gap}}मरकं करोति घोरं यदि भित्वा रोहिणो याति ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}वक्तकाले तु संप्राप्ते स्थूलो भवति लोहितः ।
{{gap}}हर्षितश्चातिरक्तश्च ज्वलिताग्निशिखोपमः ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}गतागतं तदा कुर्यान्मघामध्येन लोहितः ।
{{gap}}तदा भवत्यनावृष्टिः पाण्ड्यो राजा विनश्यति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}मध्येन यदि मघानां गतागतं लोहितः करोति ततः ।
{{gap}}पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयमनावृष्टिः ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“वक्रानुवक्रं कृत्वा च श्रवणं यावकप्रभः ।
{{gap}}ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः”<ref>३ अ. १८ श्लो, ।</ref> ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}यद्वारे कुरुते वक्रमनुवकं च लोहितः ।
{{gap}}नक्षत्रसप्तजान् देशाँस्तद्वारं च निहन्ति सः ॥</poem>}}
{{bold|<poem>{{gap}}नाधोभात् सप्तजान् द्रुह्यान्न चाष्टादशतोऽधिकान् ।
{{gap}}उदयर्क्षान्महीजस्य भवेद्वेकं कथंचन ॥</poem>}}
<small>अथास्य पञ्च वक्त्राणि वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}उष्णमश्रुमुखं व्यालं लोहिताननमेव च ।
{{gap}}निस्त्रिंशमुशलं चेति पञ्च वक्तकुजस्य तु ॥</poem>}}
<small>तत्रोष्णमुखम् । तत्र गर्ग: <ref>तत्र शङ्खः इति छ. ।</ref>।</small>
{{bold|{{gap}}उदयात् सप्तमे कुर्यादष्टमे नवमेऽपि वा ।}}
{{rule}}<noinclude></noinclude>
d5hcvue40u317j9heqbnhgk0lig0zxe
341296
341295
2022-07-25T05:10:52Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मङ्गलाद्भुतावत्तेः । |right=९७}}}}</noinclude><small>अर्घकृदधिकमूल्यकृदित्यर्थः ।</small>
{{bold|<poem>{{gap}}भित्त्वा मघा विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् ।
{{gap}}मरकं करोति घोरं यदि भित्वा रोहिणो याति ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}वक्तकाले तु संप्राप्ते स्थूलो भवति लोहितः ।
{{gap}}हर्षितश्चातिरक्तश्च ज्वलिताग्निशिखोपमः ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}गतागतं तदा कुर्यान्मघामध्येन लोहितः ।
{{gap}}तदा भवत्यनावृष्टिः पाण्ड्यो राजा विनश्यति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}मध्येन यदि मघानां गतागतं लोहितः करोति ततः ।
{{gap}}पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयमनावृष्टिः ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“वक्रानुवक्रं कृत्वा च श्रवणं यावकप्रभः ।
{{gap}}ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः”<ref>३ अ. १८ श्लो, ।</ref> ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}यद्वारे कुरुते वक्रमनुवकं च लोहितः ।
{{gap}}नक्षत्रसप्तजान् देशाँस्तद्वारं च निहन्ति सः ॥</poem>}}
{{bold|<poem>{{gap}}नाधोभात् सप्तजान् द्रुह्यान्न चाष्टादशतोऽधिकान् ।
{{gap}}उदयर्क्षान्महीजस्य भवेद्वेकं कथंचन ॥</poem>}}
<small>अथास्य पञ्च वक्त्राणि वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}उष्णमश्रुमुखं व्यालं लोहिताननमेव च ।
{{gap}}निस्त्रिंशमुशलं चेति पञ्च वक्तकुजस्य तु ॥</poem>}}
<small>तत्रोष्णमुखम् । तत्र गर्ग: <ref>तत्र शङ्खः इति छ. ।</ref>।</small>
{{bold|{{gap}}उदयात् सप्तमे कुर्यादष्टमे नवमेऽपि वा ।}}
{{rule}}<noinclude></noinclude>
60693ddib4op5xboe84dlfkh40x5r9y
पृष्ठम्:अद्भुतसागरः.djvu/११७
104
125075
341297
340356
2022-07-25T05:12:07Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=९८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}निवृत्तिं लोहिताङ्गस्तु तदुष्णं वक्त्रमुच्यते ॥
{{gap}}नरोऽग्निजीविनो ये च पचन्ति च दहन्ति च ।
{{gap}}तेषामेवोच्यते तापो जायते च धनसंक्षयः ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|{{gap}}अथ यस्मिन् नक्षत्रे भौमोदयं प्रतिपद्यते । यस्मात् सप्ताष्टनवमर्क्षेपूष्णमुखं नाम वक्त्रं करोति येनाग्निमन्तो ब्राह्मणा अग्रजीविनश्च पीडयन्ते ।}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}कुर्यादुदयनक्षत्रात् सप्तमादष्टमादपि ।
{{gap}}निवृत्तिं नवमात्राऽपि वक्त्रमुष्णं तदुच्यते ॥
{{gap}}अग्निहोत्रपरा विप्राः पीडयन्ते चाग्निजीविनः ।
{{gap}}प्रजासु प्रायशश्चात्र ज्वरदाहश्च जायते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}उदयर्क्षात् सप्ताष्टनवमेषु नक्षत्रेषु निवृत्तः प्रजानां संक्षयं विशेषतः पचतां दहतां न पीडां धत्ते ।}}
<small>अथाश्रुमुखं विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}दशमैकादशद्वादशेऽश्रुमुखं नाम मरककारकम् ।</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>दशमैकादशे चापि निवृत्ते द्वादशेऽपि वा ।
{{gap}}लोहिताङ्गे ग्रहे ज्ञेयं वक्त्रमश्रुमुखं च तत् ॥
{{gap}}तत्र वर्षति पर्जन्ये दूषयन् वै शुभान् रसान् ।
{{gap}}दुष्टास्तं दूषयन्याशु नृणां धातुँस्तथा दृशम् ॥
{{gap}}बहवो व्याधयो दुष्टा उत्पाद्यन्ते शरीरिणाम् ।
{{gap}}चतुर्भिः कारणैरेतैस्ततो धातुः प्रलीयते ॥</poem>}}
<small>दूषयति वर्षति दुष्टवर्षे रसान् दूषयतीत्यर्थः ।
</small><noinclude></noinclude>
sztzj6vgxioce467s8ofh1466ngwl0w
पृष्ठम्:अद्भुतसागरः.djvu/११८
104
125076
341298
340367
2022-07-25T05:13:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left|center=मङ्गलाद्भुतावः ।|right=९९}}}}</noinclude><small>तथा च पराशरः ।</small>
{{bold|{{gap}}दशमैकादशद्वादशेषु प्रदुष्टवषैर्द्रव्यरसान् दूषयन् प्राजानां
धातून् प्रकोपयति व्याधीन् प्रवर्त्तयति ।}}
<small>अथ व्यालं विष्णुधर्मोत्तरे ।</small>
{{bold|{{gap}}त्रयोदशचतुर्दशयोर्व्यालाख्यं व्यालवृद्धिकरम् ।}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}त्रयोदशचतुर्दशयोः शस्यव्यालदंष्ट्रिप्रावल्यं हिरण्यसंचयम् ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}त्रयोदशगतः कुर्याच्चतुर्दशगतोऽपि वा ।
{{gap}}निवृत्तिमुदयाद्भौमो वक्त्रं व्यालं तदुच्यते ॥
{{gap}}भवेत् तत्र मृगव्यालदंष्ट्रिभ्यः सर्वतो भयम् ।
{{gap}}औदकानि न सत्वानि शस्यमुत्तमतां व्रजेत् ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}त्रयोदशे वा नक्षत्रं यदि चापि चतुर्दशे ।
{{gap}}निवृत्तिं कुरुते भौमस्तद्दक्त्रं व्यालमुच्यते ॥
{{gap}}भवन्ति प्रचुरा व्यालास्तस्मिन् सर्पा ह्यशेषतः ।
{{gap}}नृपाणां च भयं विन्द्याच्छस्यसम्पत्तिमादिशेत् ॥</poem>}}
<small>अथ लोहितमुखं विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}पञ्चदशषोडशयो रुधिरमुखं संग्रामकारकम् ।</poem>}}{{bold|<poem></poem>}}
गर्गः ।
{{bold|<poem>{{gap}}यदि पञ्चदशे भेऽथ भूसुतः षोडशेऽपि वा।
{{gap}}निवृत्तिं कुरुते भौमस्तद्वक्त्रं लोहिताभिधम् ॥
{{gap}}दीप्तिमन्तः पार्थिवाश्च भवन्ति प्रस्थिता भुवि ।
{{gap}}क्षुद्ररोगश्च सुमहान् मुखरोगा भवन्ति च ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}पञ्चदशषोडशयोर्मुखरोगनृपक्षोभशस्त्रकोपाश्च ।}}<noinclude></noinclude>
2rpokhygzm4w1keoty19vz8od1eef1l
341299
341298
2022-07-25T05:13:34Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मङ्गलाद्भुतावः ।|right=९९}}}}</noinclude><small>तथा च पराशरः ।</small>
{{bold|{{gap}}दशमैकादशद्वादशेषु प्रदुष्टवषैर्द्रव्यरसान् दूषयन् प्राजानां
धातून् प्रकोपयति व्याधीन् प्रवर्त्तयति ।}}
<small>अथ व्यालं विष्णुधर्मोत्तरे ।</small>
{{bold|{{gap}}त्रयोदशचतुर्दशयोर्व्यालाख्यं व्यालवृद्धिकरम् ।}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}त्रयोदशचतुर्दशयोः शस्यव्यालदंष्ट्रिप्रावल्यं हिरण्यसंचयम् ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}त्रयोदशगतः कुर्याच्चतुर्दशगतोऽपि वा ।
{{gap}}निवृत्तिमुदयाद्भौमो वक्त्रं व्यालं तदुच्यते ॥
{{gap}}भवेत् तत्र मृगव्यालदंष्ट्रिभ्यः सर्वतो भयम् ।
{{gap}}औदकानि न सत्वानि शस्यमुत्तमतां व्रजेत् ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}त्रयोदशे वा नक्षत्रं यदि चापि चतुर्दशे ।
{{gap}}निवृत्तिं कुरुते भौमस्तद्दक्त्रं व्यालमुच्यते ॥
{{gap}}भवन्ति प्रचुरा व्यालास्तस्मिन् सर्पा ह्यशेषतः ।
{{gap}}नृपाणां च भयं विन्द्याच्छस्यसम्पत्तिमादिशेत् ॥</poem>}}
<small>अथ लोहितमुखं विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}पञ्चदशषोडशयो रुधिरमुखं संग्रामकारकम् ।</poem>}}{{bold|<poem></poem>}}
गर्गः ।
{{bold|<poem>{{gap}}यदि पञ्चदशे भेऽथ भूसुतः षोडशेऽपि वा।
{{gap}}निवृत्तिं कुरुते भौमस्तद्वक्त्रं लोहिताभिधम् ॥
{{gap}}दीप्तिमन्तः पार्थिवाश्च भवन्ति प्रस्थिता भुवि ।
{{gap}}क्षुद्ररोगश्च सुमहान् मुखरोगा भवन्ति च ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}पञ्चदशषोडशयोर्मुखरोगनृपक्षोभशस्त्रकोपाश्च ।}}<noinclude></noinclude>
bfr3f9ct0jcws9cgc1xd0qkeg41lu5v
पृष्ठम्:अद्भुतसागरः.djvu/११९
104
125077
341300
340370
2022-07-25T05:15:29Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left|center=मङ्गलाद्भुतावर्त्तः ।|right=१०१}}}}</noinclude>{{bold|<poem>{{gap}}तद्वक्त्रमुष्णमुदये पीडाकरमग्निवार्त्तानाम् ॥
{{gap}}द्वादशदशमैकादशनक्षत्राद्वक्तिते कुजेऽश्रुमुखम् ।
{{gap}}दूषयति रसानुदये करोति रोगानवृष्टिं च ॥
{{gap}}व्यालं त्रयोदशर्क्षाच्चतुर्दशाद्वा विपच्यतेऽस्तमये ।
{{gap}}दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च ॥
{{gap}}रुधिराननमिति वक्त्रं पञ्चदशात् षोडशाच्च विनिवृत्तेः ।
{{gap}}तत्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥
{{gap}}असिमुशलं सप्तदशाष्टादशतोऽपि वा तदनुवक्रे ।
{{gap}}दस्युगणेभ्यः पीडां करोत्यवृष्टिं सशस्त्रभयाम् ॥</poem>}}
<small>ज्योतिषपराशरविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}फल्गुन्योरुदयं कृत्वा वकं स्याद्वैश्वदेवते ।
{{gap}}प्राजापत्ये प्रवासः स्यात् त्रैलोक्यं तत्र पीड्यते ॥</poem>}}
<small>प्रवासोऽस्तमयः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}भाग्यार्यमोदितो यदि निवर्त्तते वैश्वदैवते भौमः ।
{{gap}}प्राजापत्येऽस्तमितस्त्रीनपि लोकान् निपीडयति ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}उदितः श्रवणे भौमः पुष्ये वक्रमियाद्यदि ।
{{gap}}प्राजापत्योदितश्चैव नाशाय स्यान्महीक्षिताम् ॥</poem>}}
<small>हरिवंशे कंसवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“एवं घोरो ग्रहः स्वातिमुल्लिखन् खे गभस्तिभिः |
{{gap}}वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः"<ref>२३ अ, २५ श्लो. ।</ref> ॥</poem>}}
<small>बाणयुद्धे च ।</small>
{{bold|<poem>{{gap}}“वक्रमङ्गारकश्च के कृत्तिकासु भयङ्करः ।</poem>}}
{{rule}}<noinclude></noinclude>
qllcj6rm3pjc1or4raf4eq2o820qhy4
341301
341300
2022-07-25T05:15:43Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|lcenter=मङ्गलाद्भुतावर्त्तः ।|right=१०१}}}}</noinclude>{{bold|<poem>{{gap}}तद्वक्त्रमुष्णमुदये पीडाकरमग्निवार्त्तानाम् ॥
{{gap}}द्वादशदशमैकादशनक्षत्राद्वक्तिते कुजेऽश्रुमुखम् ।
{{gap}}दूषयति रसानुदये करोति रोगानवृष्टिं च ॥
{{gap}}व्यालं त्रयोदशर्क्षाच्चतुर्दशाद्वा विपच्यतेऽस्तमये ।
{{gap}}दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च ॥
{{gap}}रुधिराननमिति वक्त्रं पञ्चदशात् षोडशाच्च विनिवृत्तेः ।
{{gap}}तत्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥
{{gap}}असिमुशलं सप्तदशाष्टादशतोऽपि वा तदनुवक्रे ।
{{gap}}दस्युगणेभ्यः पीडां करोत्यवृष्टिं सशस्त्रभयाम् ॥</poem>}}
<small>ज्योतिषपराशरविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}फल्गुन्योरुदयं कृत्वा वकं स्याद्वैश्वदेवते ।
{{gap}}प्राजापत्ये प्रवासः स्यात् त्रैलोक्यं तत्र पीड्यते ॥</poem>}}
<small>प्रवासोऽस्तमयः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}भाग्यार्यमोदितो यदि निवर्त्तते वैश्वदैवते भौमः ।
{{gap}}प्राजापत्येऽस्तमितस्त्रीनपि लोकान् निपीडयति ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}उदितः श्रवणे भौमः पुष्ये वक्रमियाद्यदि ।
{{gap}}प्राजापत्योदितश्चैव नाशाय स्यान्महीक्षिताम् ॥</poem>}}
<small>हरिवंशे कंसवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“एवं घोरो ग्रहः स्वातिमुल्लिखन् खे गभस्तिभिः |
{{gap}}वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः"<ref>२३ अ, २५ श्लो. ।</ref> ॥</poem>}}
<small>बाणयुद्धे च ।</small>
{{bold|<poem>{{gap}}“वक्रमङ्गारकश्च के कृत्तिकासु भयङ्करः ।</poem>}}
{{rule}}<noinclude></noinclude>
jx5bca0a6x5hxsjtnbary4ndbhu2pti
पृष्ठम्:अद्भुतसागरः.djvu/१२०
104
125078
341302
340373
2022-07-25T05:18:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=१०२|center=अद्भुतसागरे ।}}</noinclude>{{bold|{{gap}}"गणस्य जन्मनक्षत्रं भर्त्सयन्निव सवशः"<ref>११६ अ. ६६ श्लो. ।</ref> ॥}}
<small>बृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}त्रैमासिकः क्षुद्भयाय भयकृत् पाञ्चमासिकः ।
{{gap}}प्रवासो लोहिताङ्गस्य चतुर्मासस्तु पूजितः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}यस्मिन्नक्षेऽभ्युदितस्तदिग्व्यूहाञ्जनान् हन्ति ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यथा जनपदव्यूहे दिग्विभागः प्रकल्पितः ।
{{gap}}नक्षत्रं मोहितं कुर्याल्लोहिताङ्गस्तथाऽऽमयम् ॥</poem>}}
<small>नक्षत्राणां दिग्देशादिकं नक्षत्राद्भुते चक्ष्यामः ।</small>
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु मङ्गलोत्पातेषु मङ्गलपूजापूर्विकाप्रभूतकनकान्नगोमहीदानादिक-सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>फलपाकसमयो गागीय ।</small>
{{bold|त्रिभिर्मासैस्तु भौमस्य ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}अङ्गारकस्य च वक्रोक्तः - इति ।</poem>}}
{{center|<small>इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे मङ्गलाद्भुतावर्त्तः ।</small>}}
{{center|{{bold|अथ बुधाद्भुतावर्त्तः ।}}}}
<small>तत्र शुभसूचकबुधलक्षणमाह पराशरः ।</small>
{{bold|{{gap}}विमलजलरजतस्कूटिकाभः प्रशस्यते ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}हेमकान्तिरथ वा शुकवर्णः शस्यकेन मणिना सदृशो वा ।</poem>}}
{{rule}}<noinclude></noinclude>
500mkb0arrxu88zloj3yakuwqi1a6cb
341303
341302
2022-07-25T05:18:38Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१०२|center=अद्भुतसागरे ।}}}}</noinclude>{{bold|{{gap}}"गणस्य जन्मनक्षत्रं भर्त्सयन्निव सवशः"<ref>११६ अ. ६६ श्लो. ।</ref> ॥}}
<small>बृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}त्रैमासिकः क्षुद्भयाय भयकृत् पाञ्चमासिकः ।
{{gap}}प्रवासो लोहिताङ्गस्य चतुर्मासस्तु पूजितः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}यस्मिन्नक्षेऽभ्युदितस्तदिग्व्यूहाञ्जनान् हन्ति ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यथा जनपदव्यूहे दिग्विभागः प्रकल्पितः ।
{{gap}}नक्षत्रं मोहितं कुर्याल्लोहिताङ्गस्तथाऽऽमयम् ॥</poem>}}
<small>नक्षत्राणां दिग्देशादिकं नक्षत्राद्भुते चक्ष्यामः ।</small>
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु मङ्गलोत्पातेषु मङ्गलपूजापूर्विकाप्रभूतकनकान्नगोमहीदानादिक-सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>फलपाकसमयो गागीय ।</small>
{{bold|त्रिभिर्मासैस्तु भौमस्य ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}अङ्गारकस्य च वक्रोक्तः - इति ।</poem>}}
{{center|<small>इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे मङ्गलाद्भुतावर्त्तः ।</small>}}
{{center|{{bold|अथ बुधाद्भुतावर्त्तः ।}}}}
<small>तत्र शुभसूचकबुधलक्षणमाह पराशरः ।</small>
{{bold|{{gap}}विमलजलरजतस्कूटिकाभः प्रशस्यते ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}हेमकान्तिरथ वा शुकवर्णः शस्यकेन मणिना सदृशो वा ।</poem>}}
{{rule}}<noinclude></noinclude>
s0d6q77aprvt7104zifg4l9dn4ixaiq
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३१
104
125106
341272
340221
2022-07-25T01:52:26Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>( १२ )
प्रवृत्तिः | कालमानानां परिभाषाः सर्वाः, ग्रहाणां भगणाः, युगानां मन्वादोनो
नामानि मानानि च ब्रह्मणो गतवर्षादे: प्रयोजनाभाव इत्यादि सर्वमपि मव्य
माधिकारोक्तं श्रीपतेः साधनाध्यायोक्तश्लोकानां श्लोकान्तरमात्रमेवाकरोत् ।
सुधियो ग्रन्थाभ्यन्तरे ग्रन्थकारयोरानुरूप्यमवलोकयन्तु । एवं प्राचीनतेने कानू
विशेषान् प्रवक्तुमेव श्रीपतिः प्रथमं (साधनाध्यायं ) ग्रहभगगाध्यायं वा कृतवान् ।
तत्परं मध्यमाध्यायेसप्तभिः प्रकारैरहर्गानयनं, कदा प्रभृति बारप्रवृत्ति
रित्यत्र बहूनामाचार्यारणां मतानि, तदुदुषरणपुरःसरस्वामिनावृतिरुवनं,
मध्यमग्रहसाधनाथ बहून्येव तूतनानि प्रकारान्तराणि रव्यादीनां सर्वेषमपि
ग्रहाणां राश्यादिमन्दोच्चकथनमित्यादयो बहवोऽपि श्रीपतिकृताप्राचीनकृते-
विशेषा वर्त्तते ।
ब्राह्मस्फुट सिद्धान्ते बहुभिरेव प्रकारैरहर्गणानयन लध्वर्गगानमनं ब्रह्म-
गुप्तेन कृतं, प्राचार्योक्ताहर्गणानयनस्यानुकरणमेव श्रीपतिना कृतम् । परं सिद्धान्त-
शेखरे लघ्वहर्गणानयनस्य चर्चा ग्रन्थकृता न कृता । अर्गाद्वारकानार्थमहगंगः
सैकः कार्य इति ब्रह्मगुप्तेन श्रीपतिना च कथितः । परमहर्गगो निकोणि कत्र्तव्यो
वारज्ञानार्थमिति सिद्धान्तशिरोमणौ 'अभीष्टवारार्थमहर्गणश्चेत्सको निरेक स्तिथ -
योऽपि तद्वदित्यनेन भास्कराचार्यः कथयति । वटेश्वरसिद्धान्तेऽपि बहुभि:
प्रकारैरहर्गरणानयनं लध्वर्गणानयनं च तद्ग्रन्यकृता कृतमस्ति । भास्करा-
चार्यस्तु महदहर्गणा नयनं 'कथितकल्पगतोऽर्कसभागण' इत्यादिना,
हर्गरणानयतं च 'चैत्र सितादिगतस्थिति संघ' इत्यादिना कृतम् । यद्यपि लव-
हर्गरगानयने स्थौल्यं वर्त्तते तथाप्येकमपूर्वं वस्तु प्रतिपादितम् । वटेश्वरकृतं लध्व-
हर्गरनयनं स्थौल्यरहितं नास्ति, एतदतिरिक्तः प्रावीनाचार्यनवीनेशन लव-
हर्गरणानयनं न कृतं प्रत्युत कमलाकरेण भास्करकृतल ध्वर्गणानयनस्य
खण्डनमेव कृतम् । स्फुटगत्यध्याये सर्वेरेवार्यभटब्रह्मगुप्त लल्लाचार्यादिभिवृत्त
चतुर्थांशे चतुर्विंशतिः क्रमज्या उत्क्रमज्याश्च तत्त्वाशिव २२५ कलावृष्या साविता-
भस्य लल्लस्य च त्रिज्या = ३४३८, ब्रह्मगुप्तस्य खमुनिरद ३२७०मिता
त्रिज्या, श्रीपतिना चैतद्भिन्ना ३४१५ त्रिज्या गृहोता ब्रह्मगुप्तोत्तभूपरिधिः =
५०००, भास्कराचार्यमतेन पादोनगोक्षधृतिभूमितयोजनानीत्यनेन ग्रहाणां
योजनगतिः = ११८५८।४५। गतियोजनतिथ्यंशः कुदलस्य यतोमितिरित्यनेन
भूव्यासः = १५८१, भूपरिधि: = ४९६७ ग्रहाणां भुजान्तरकर्म प्रतिपादितमस्ति,
सूर्यसिद्धान्तोक्त भुजान्तरकर्मवदेवास्ति, सिद्धान्तशेखरे, सिद्धान्त शिरोमणावपि
भुजान्तरकर्मरण उपपादनमाचार्योक्तवदेवास्ति, प्रन्येऽपि बहवो विषयादर्शनीयाः
पठनयोग्याश्चेति ।
त्रिप्रश्नाधिकारे रवैर्मध्यान्हकालिकनतांशान् ज्ञात्वा तद्वशतो रख्यानय-
नार्थं प्रथमतः - कान्तिज्यासमागच्छति । ततोऽनुपातेन रवेर्भुजांशज्ञानं भवति ।<noinclude></noinclude>
1s2q0k2fvsciz64zv6vazduebete8as
पृष्ठम्:अद्भुतसागरः.djvu/१२१
104
125119
341304
340379
2022-07-25T05:43:22Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बुधाद्भुतावर्त्तः ।|right=१०३}}}}</noinclude>{{bold|<poem>{{gap}}स्निग्धमूर्त्तिरलघुश्च हिताय व्यत्ययेन शुभकृच्छशिपुत्रः ॥
<small>{{gap}}शस्यको मणिर्नीलवर्ण: शस्याख्यो मणिः । येषामयं स्वामी तेषामेवंविधो विशेषेण
हिताय विपरीतो विशेषेण विपरीताय ।</small>
<small>वुधस्वामिकान्याह यवनेश्वरः ।</small>
{{bold|<poem>नानागुणद्रव्यविकल्पयुक्तिनैपुण्यशिल्पश्रुतिवेसराणाम् ।
माहात्म्यमन्त्रार्थविदाब्दिकानां प्रभुर्बुधश्चैत्यवनस्पतीनाम् ॥</poem>}}
<small>वटकणिकायां तु ।</small>
{{bold|<poem>{{gap}}बुधस्य सौराष्ट्रकभोजबङ्गा गङ्गाश्रिताश्चोत्तरकूलनद्यः ।
{{gap}}सिन्धोश्च मध्या मथुरापुरस्ताद्गोमन्तसिन्ध्वद्रिगुहाश्रिताश्च ॥</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}चित्रकूटगिरी रम्यो हिमवान् कौशिकी तथा ।
{{gap}}मथुरायाश्च पूर्वार्धं लोहित्यः सिन्धुरेव च ॥
{{gap}}गाम्भीरिका च सरयू रथाख्या गण्डकी नदी ।
{{gap}}गान्धर्वा लेख्यहाराश्च दर्दुराश्चोपकृत्रिमाः<ref>तथोदाराध कृत्रिमाः इति अ. ।</ref>॥
{{gap}}विदेहाः सर्वजलजाः काम्बोजाश्च सुराष्ट्रिकाः ।
{{gap}}गन्धयुक्तिविदो ये च सौगन्धिकप्रलेपकाः ॥
{{gap}}सुवर्णरजतं रत्नमातङ्गतुरगादि यत् ।
{{gap}}पौरा जनपदाः सौम्याः सोमपुत्रोऽधिपः स्मृतः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}लोहित्यः सिन्धुनदः सरयूर्गाम्भीरिका रथाख्या च ।
{{gap}}गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः ॥
{{gap}}मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः ।
{{gap}}सौराष्ट्रसेतुजलमार्गपण्यविलपर्वताश्रयिणः ॥</poem>}}
{{rule}}<noinclude></noinclude>
0qn8qeqwyzo5crfi8i8fxgebcdm5kcp
341305
341304
2022-07-25T05:44:29Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बुधाद्भुतावर्त्तः ।|right=१०३}}}}</noinclude>{{bold|<poem>{{gap}}स्निग्धमूर्त्तिरलघुश्च हिताय व्यत्ययेन शुभकृच्छशिपुत्रः ॥
<small>{{gap}}शस्यको मणिर्नीलवर्ण: शस्याख्यो मणिः । येषामयं स्वामी तेषामेवंविधो विशेषेण
हिताय विपरीतो विशेषेण विपरीताय ।</small>
<small>वुधस्वामिकान्याह यवनेश्वरः ।</small>
{{bold|<poem>{{gap}}नानागुणद्रव्यविकल्पयुक्तिनैपुण्यशिल्पश्रुतिवेसराणाम् ।
{{gap}}माहात्म्यमन्त्रार्थविदाब्दिकानां प्रभुर्बुधश्चैत्यवनस्पतीनाम् ॥</poem>}}
<small>वटकणिकायां तु ।</small>
{{bold|<poem>{{gap}}बुधस्य सौराष्ट्रकभोजबङ्गा गङ्गाश्रिताश्चोत्तरकूलनद्यः ।
{{gap}}सिन्धोश्च मध्या मथुरापुरस्ताद्गोमन्तसिन्ध्वद्रिगुहाश्रिताश्च ॥</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}चित्रकूटगिरी रम्यो हिमवान् कौशिकी तथा ।
{{gap}}मथुरायाश्च पूर्वार्धं लोहित्यः सिन्धुरेव च ॥
{{gap}}गाम्भीरिका च सरयू रथाख्या गण्डकी नदी ।
{{gap}}गान्धर्वा लेख्यहाराश्च दर्दुराश्चोपकृत्रिमाः<ref>तथोदाराध कृत्रिमाः इति अ. ।</ref>॥
{{gap}}विदेहाः सर्वजलजाः काम्बोजाश्च सुराष्ट्रिकाः ।
{{gap}}गन्धयुक्तिविदो ये च सौगन्धिकप्रलेपकाः ॥
{{gap}}सुवर्णरजतं रत्नमातङ्गतुरगादि यत् ।
{{gap}}पौरा जनपदाः सौम्याः सोमपुत्रोऽधिपः स्मृतः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}लोहित्यः सिन्धुनदः सरयूर्गाम्भीरिका रथाख्या च ।
{{gap}}गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः ॥
{{gap}}मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः ।
{{gap}}सौराष्ट्रसेतुजलमार्गपण्यविलपर्वताश्रयिणः ॥</poem>}}
{{rule}}<noinclude></noinclude>
2s19x9jrntlzxc8v5eqfxnyphx6rd9e
341306
341305
2022-07-25T05:45:07Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बुधाद्भुतावर्त्तः ।|right=१०३}}}}</noinclude>{{bold|<poem>{{gap}}स्निग्धमूर्त्तिरलघुश्च हिताय व्यत्ययेन शुभकृच्छशिपुत्रः ॥
<small>{{gap}}शस्यको मणिर्नीलवर्ण: शस्याख्यो मणिः । येषामयं स्वामी तेषामेवंविधो विशेषेण
हिताय विपरीतो विशेषेण विपरीताय ।</small>
<small>वुधस्वामिकान्याह यवनेश्वरः ।</small>
{{gap}}नानागुणद्रव्यविकल्पयुक्तिनैपुण्यशिल्पश्रुतिवेसराणाम् ।
{{gap}}माहात्म्यमन्त्रार्थविदाब्दिकानां प्रभुर्बुधश्चैत्यवनस्पतीनाम् ॥

95fe89epgi0cadddaw9tb4cccmc62ub
341307
341306
2022-07-25T05:45:43Z

{{gap}}बुधस्य सौराष्ट्रकभोजबङ्गा गङ्गाश्रिताश्चोत्तरकूलनद्यः ।
{{gap}}सिन्धोश्च मध्या मथुरापुरस्ताद्गोमन्तसिन्ध्वद्रिगुहाश्रिताश्च ॥

nzcz5gfu391u04gho1tifirj754qbzc
341308
341307
2022-07-25T05:46:06Z

{{gap}}चित्रकूटगिरी रम्यो हिमवान् कौशिकी तथा ।
{{gap}}मथुरायाश्च पूर्वार्धं लोहित्यः सिन्धुरेव च ॥
{{gap}}गाम्भीरिका च सरयू रथाख्या गण्डकी नदी ।
{{gap}}गान्धर्वा लेख्यहाराश्च दर्दुराश्चोपकृत्रिमाः<ref>तथोदाराध कृत्रिमाः इति अ. ।</ref>॥
{{gap}}विदेहाः सर्वजलजाः काम्बोजाश्च सुराष्ट्रिकाः ।
{{gap}}गन्धयुक्तिविदो ये च सौगन्धिकप्रलेपकाः ॥
{{gap}}सुवर्णरजतं रत्नमातङ्गतुरगादि यत् ।
{{gap}}पौरा जनपदाः सौम्याः सोमपुत्रोऽधिपः स्मृतः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}लोहित्यः सिन्धुनदः सरयूर्गाम्भीरिका रथाख्या च ।
{{gap}}गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः ॥
{{gap}}मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः ।
{{gap}}सौराष्ट्रसेतुजलमार्गपण्यविलपर्वताश्रयिणः ॥</poem>}}
{{rule}}<noinclude></noinclude>
3dp5p1dyqm6csx6p8zpkcp3zwg1fre8
पृष्ठम्:अद्भुतसागरः.djvu/१२२
104
125120
341309
340387
2022-07-25T05:50:17Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१०४|center=अद्भुतसागरे}}}}{{bold|}}</noinclude>{{bold|<poem>{{gap}}उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः ।
{{gap}}आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ॥
{{gap}}चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः ।
{{gap}}दूतनपुंकहास्यज्ञभूततन्त्रेन्द्रजालज्ञाः ॥
{{gap}}आवर्त्तिकref>आरक्षक इति अ. ।</ref> नटनर्त्तकघृततैलस्नेहतिक्तबीजानि ।
{{gap}}व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ॥</poem>}}
<small>अथास्य नक्षत्रविशेषचारफलं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}विचरन् श्रवणधनिष्ठाप्राजापत्येन्द्रवैश्वदेवानि ।
{{gap}}मृद्गन् हिमकरतनयः करोत्यदृष्टिं सरोगभयाम् ॥</poem>}}
<small>मृद्गन् निघ्नन् ।</small>
<small>तथा च काश्यपः ।</small>
{{bold|<poem>{{gap}}सौम्यं विष्णुं धनिष्ठां च रोहिणीं विष्णुमेव च ।
{{gap}}शशिजश्च यदा हन्ति प्रजा रोगेश्च पीड्यते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}रौद्रादीनि मघान्तान्युपाश्रिते चन्द्रजे प्रजापीडा |
{{gap}}शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}रौद्रादीनि यदा पञ्च भेदितानि समन्ततः ।
{{gap}}चन्द्रजेन तदा पीडा शश्वत् क्षुद्भव्याधिभिः ॥
{{gap}}हस्तादिषु यदा षट्सु नक्षत्रेष्विन्दुजः स्थितः ।
{{gap}}गवामशोभनः प्रोक्तः सुभिक्षं शस्यसम्पदः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}हस्तादीनि चरन् षडृक्षाण्युपपीडयन् गवामशुभः ।
{{gap}}स्नेहरसार्घविवृद्धिं करोति चोर्वी प्रभूतान्नाम् ॥</poem>}}
{{rule}}<noinclude></noinclude>
d9beltez4pycnae9mmxhhkpo44vxrhe
पृष्ठम्:अद्भुतसागरः.djvu/१२३
104
125121
341310
340390
2022-07-25T05:53:08Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बुधाद्भुतावर्त्तः ।|right=१०५}}}}</noinclude>{{bold|<poem>{{gap}}आर्यम्णं हौतभुजं भाद्रपदामुत्तरां यमेशं च ।
{{gap}}चन्द्रस्य सुतो निघ्नन् प्राणभृतां संक्षयं कुरुते<ref>धातुसंक्षयकृत् इति अ .।</ref>॥</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}भरणीकृत्तिकार्यम्णमाहिर्बुधं च चन्द्रजः ।
{{gap}}धातुद्रव्यविनाशाय धनवार्त्ताँश्च पीडयेत् ॥</poem>}}
<small>निघ्नन्निति सम्बन्धः ।</small>
{{bold|<poem>{{gap}}रेवतीं वारुणं मूलमश्विनीं चैव सोमजः ।
{{gap}}वणिजां जलजानां च तुरङ्गाणां च पीडनम् ॥</poem>}}
<small>निघ्नन् करोतीति सम्बन्धः ।</small>
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}आश्विनवारुणमूलान्यपमृद्गन् रेवतीं च चन्द्रसुतः ।
{{gap}}पण्यभिषग्गोजाविकसलिलजतुरगोपघातकरः ॥
{{gap}}पूर्वाद्यृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्गीयात् ।
{{gap}}क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}पूर्वाद्यृक्षत्रये सौम्यो भेदं कृत्वा यदि व्रजेत् ।
{{gap}}क्षुच्छस्त्रतस्करभयं करोति प्राणिनां वधम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}विशेषस्तु सौम्यादिषड्नक्षत्रचारी सुवृष्टये । श्रविष्ठावारुणयोश्च । दक्षिणतो नैर्ऋतेन्द्रपूर्वासु भयकृत्। अश्विन्यां वणिग्विनाशाय । त्वाष्ट्रे शरच्छस्यानाम् | रोहिणीश्रवणाग्नेयब्रह्मराशिष्वम्भोदविनाशाय ।}}
<small>{{gap}}अथास्य देवलमतेनोदयदिनैर्गतिचतुष्टयं वराहसंहितायाम् ।</small>
{{bold|{{gap}}ऋज्वतिवाऽवक्ता विकला च मतेन देवलस्यैताः ।}}
{{rule}}<noinclude></noinclude>
ihn1oiw10z7bjywkon0ytmsog6kpo6f
पृष्ठम्:अद्भुतसागरः.djvu/१२४
104
125127
341311
340391
2022-07-25T05:54:16Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१०६|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}पञ्चचतुर्द्व्येकाहा ऋष्यादीनां षडभ्यस्ताः ॥</poem>}}
<small>तथा च देवलः ।</small>
{{bold|<poem>{{gap}}दिनानि त्रिंशदुदितस्तिष्ठेद्यदि च सोमजः ।
{{gap}}ऋज्वी गतिः सा विज्ञेया प्रजानां हितकारिणी ॥
{{gap}}चतुर्विंशदि्दनान्येवं यदि तिष्ठेच्च सोमजः ।
{{gap}}अतिवक्ता गतिर्ज्ञेया दुर्भिक्षभयलक्षणा ॥
{{gap}}अहानि द्वादश यदा बुधस्तिष्ठेत् तथोद्गतः ।
{{gap}}वा गतिस्तु विज्ञेया शस्त्रसंभ्रमकारिणी ॥
{{gap}}षड्दिनानि यदा तिष्ठेद्वतः सोमनन्दनः ।
{{gap}}विकला सा गतिर्जेया भयरोगविवर्धिनी ॥</poem>}}
<small>अथास्योदयदिनैर्गतिसप्तकमाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}प्रकृता च विमिश्रा च संक्षिप्ता तीक्ष्णसंज्ञिता ।
{{gap}}बुधस्य घोरा पापा च गतिर्यागान्तिकी तथा ॥
{{gap}}प्राकृतीं गतिमास्थाय त्रिपक्षं दृश्यते ग्रहः ।
{{gap}}मासं मासं च पादोनं मिश्रासंक्षिप्तयोर्भवेत् ॥
{{gap}}अष्टादशाहं तीक्ष्णायां पक्षं योगान्तिकीगतः ।
{{gap}}एकादशाहं पापायां दर्शयित्वाऽस्तमृच्छति ॥
{{gap}}अह्नां द्वाविंशतिं सार्धां संक्षिप्तामेत्य लक्ष्यते ।
{{gap}}अष्टादशाहं तीक्ष्णायां घोरायां दशपञ्च च ॥
{{gap}}पापायां पादहीनानि तथैकादश तिष्ठति ।
{{gap}}योगान्तिक्यामिन्दुसूनुर्त्तवाहं लक्ष्यते तथा ॥
{{gap}}चारकाले य एवोक्ताः सोमपुत्रस्य भागशः ।
{{gap}}अस्तकाले तु एव स्युः सूर्यमण्डलचारिणः ॥
</poem>}}<noinclude></noinclude>
8mo9dmvw3nmy144gpcrp4qfrwwcxt6d
पृष्ठम्:अद्भुतसागरः.djvu/१२५
104
125129
341312
340394
2022-07-25T05:55:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left|center=बुधाद्भुतावर्त्तः ।|right=१०७}}}}</noinclude><small>चारकाले उदयकाले ।</small>
<small>पराशरश्च ।</small>
{{bold|{{gap}}अथ चत्वारिंशत्रिंशद्वाविंशत्यष्टादशपञ्चदशैकादशतवरात्राणि गतिक्रमादुदितोऽभिदृश्यते । तान्येवास्तमिते भवन्तीति ।}}
<small>{{gap}}उदयदिनान्नवदिनपर्यन्तं योगान्तिकी । तदुपरि एकादशाहपर्यन्तं पापा। तदुपर पञ्चदशपर्यन्तं घोरा । एवमन्या अपि । अत्र यान्युदयास्तदिनानि गणिते न सम्भवन्ति तान्युत्पातवशाद्भवन्ति ।</small>
<small>उदयश्चास्य सोत्पात एव तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम् ।
{{gap}}जलपवनदहनभयकृद्धान्यार्घक्षयविवृद्ध्यै वा ॥</poem>}}
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}स्नेहशस्यरसादीनां तथाऽर्घक्षयवृद्धयोः ।
{{gap}}ग्रहाणामुदयार्थं वा दृश्यते ह्युदितो बुधः ॥
{{gap}}अत्युष्णमतिशीतं च वर्षं वायुरथोभयम् ।
{{gap}}फलं बुधोदयस्यैतद्रसधान्यविनाशकम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|उष्णशीतवाय्वभ्र सूर्येन्दुग्रहणायोदयते शस्यविघाताय न ।}}
<small>अथैतासां फलं गर्गः ।</small>
{{bold|<poem>{{gap}}क्षेमारोग्यसुभिक्षेषु लक्षणा प्राकृता गतिः ।
{{gap}}संक्षिप्ता च विमिश्रा च शुभा शुभफलोदये ॥</poem>}}
<small>शुभमशुभं च मिलितमेतयोः फलम् ।</small>
<small>तथा च नक्षत्रदिनाभ्यां प्राकृतां गतिमभिधायोक्तं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}संक्षिप्तमिश्रयोर्मिश्राम् इति ।</poem>}}
<small>गर्गः ।</small>
{{bold|<poem>{{gap}}तीक्ष्णा घोरा च पापा च तथा योगान्तिको परा ।
{{gap}}एताश्चतस्रः सौम्यस्य दुर्भिक्षक्षेमलक्षणाः ॥
</poem>}}<noinclude></noinclude>
4s0it8toqhxhk30egwbtoiyncxoba0w
341313
341312
2022-07-25T05:55:41Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बुधाद्भुतावर्त्तः ।|right=१०७}}}}</noinclude><small>चारकाले उदयकाले ।</small>
<small>पराशरश्च ।</small>
{{bold|{{gap}}अथ चत्वारिंशत्रिंशद्वाविंशत्यष्टादशपञ्चदशैकादशतवरात्राणि गतिक्रमादुदितोऽभिदृश्यते । तान्येवास्तमिते भवन्तीति ।}}
<small>{{gap}}उदयदिनान्नवदिनपर्यन्तं योगान्तिकी । तदुपरि एकादशाहपर्यन्तं पापा। तदुपर पञ्चदशपर्यन्तं घोरा । एवमन्या अपि । अत्र यान्युदयास्तदिनानि गणिते न सम्भवन्ति तान्युत्पातवशाद्भवन्ति ।</small>
<small>उदयश्चास्य सोत्पात एव तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम् ।
{{gap}}जलपवनदहनभयकृद्धान्यार्घक्षयविवृद्ध्यै वा ॥</poem>}}
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}स्नेहशस्यरसादीनां तथाऽर्घक्षयवृद्धयोः ।
{{gap}}ग्रहाणामुदयार्थं वा दृश्यते ह्युदितो बुधः ॥
{{gap}}अत्युष्णमतिशीतं च वर्षं वायुरथोभयम् ।
{{gap}}फलं बुधोदयस्यैतद्रसधान्यविनाशकम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|उष्णशीतवाय्वभ्र सूर्येन्दुग्रहणायोदयते शस्यविघाताय न ।}}
<small>अथैतासां फलं गर्गः ।</small>
{{bold|<poem>{{gap}}क्षेमारोग्यसुभिक्षेषु लक्षणा प्राकृता गतिः ।
{{gap}}संक्षिप्ता च विमिश्रा च शुभा शुभफलोदये ॥</poem>}}
<small>शुभमशुभं च मिलितमेतयोः फलम् ।</small>
<small>तथा च नक्षत्रदिनाभ्यां प्राकृतां गतिमभिधायोक्तं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}संक्षिप्तमिश्रयोर्मिश्राम् इति ।</poem>}}
<small>गर्गः ।</small>
{{bold|<poem>{{gap}}तीक्ष्णा घोरा च पापा च तथा योगान्तिको परा ।
{{gap}}एताश्चतस्रः सौम्यस्य दुर्भिक्षक्षेमलक्षणाः ॥
</poem>}}<noinclude></noinclude>
p1nfqqtxtc4s6u3oxf1r35jm6ow6ejz
पृष्ठम्:अद्भुतसागरः.djvu/१२६
104
125130
341314
340396
2022-07-25T05:57:27Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=अद्भुतसागरे|right=१०८}}}}</noinclude><small>नक्षत्रविशेषे चारैरपि प्राकृतादिगतयो भवन्ति । तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः ।
{{gap}}सप्त पराशरतन्त्रे नक्षत्रैः कीर्त्तिता गतयः ॥
{{gap}}प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च ।
{{gap}}मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदेवानि ॥
{{gap}}संक्षिप्तायां पुष्यः पुनर्वसुः फाल्गुनीद्वयं चेति ।
{{gap}}तीक्ष्णयां भाद्रपदाद्वयं सशक्राश्वयुक् पौष्णम् ॥
{{gap}}घोरा श्रवणं त्वाष्ट्रं वसुदेवं वारुणं चैव ।
{{gap}}पापाख्या सावित्रं मैत्रं चन्द्राग्निदेवतं चेति ॥
{{gap}}योगान्तिकी तु मूलं द्वे आषाढे गतिः सुतस्येन्दोः ।
{{gap}}प्राकृतगत्यामारोग्यवृष्टिशस्यप्रवृद्धयः क्षेमम् ॥
{{gap}}संक्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ।</poem>}}
<small>तथा च पराशरः ।</small>
{{bold|{{gap}}अथास्य गतीः सप्त वक्ष्यन्ते प्राकृता विमिश्रा संक्षिप्ता ती-क्ष्क्षा घोरा पापा योगान्तिकी चेति । प्राकृता याम्याग्नेयरोहिणीवायव्यानि सा क्षेमारोग्यशस्यवती । विमिश्रा सौम्यार्द्रामघाऽऽश्लेषा च । संक्षिप्ता पुण्यार्यम्णभाग्यादि-त्यानि । तीक्ष्नाऽजपादश्चत्वारि ज्येष्ठा च । घोरा त्रीणि श्रवणादीनि त्वाष्ट्रं च । पापा सावित्र्यैन्द्राग्न्यमित्राणि । योगान्तिकी मूलमाषाढे । एताश्चतस्त्रो दुर्भिक्षाक्षेमाय ।}}
<small>अथोदयास्तफलं तत्र पराशरः ।</small>
{{bold|{{gap}}हस्तोदितो मैत्रमनुचरन् पशुगोकोशलानभिहन्ति । विशाखामध्यगस्तु शस्यम् ।}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}कार्त्तिकेऽश्वयुजे पौषे आषाढे श्रावणे बुधः ।</poem>}}<noinclude></noinclude>
8ond1b82dmpbv1z4esz0e3b618228l9
पृष्ठम्:अद्भुतसागरः.djvu/१२७
104
125131
341315
340399
2022-07-25T05:58:59Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बृहस्पत्यद्भुतावर्त्तः ।|right=१०९}}}}</noinclude>{{bold|<poem>दृष्टो लोकभयाय स्यान्माघवैशाखयोस्तथा ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}वैशाखे पौर्णमासे च श्रावणाषाढयोरपि ।
{{gap}}न दृश्यते बुधः प्रायो मासेष्वन्येषु दृश्यते ॥
{{gap}}यदाऽदृश्येषु दृश्यः स्याद्दृश्येषु च न दृश्यते ।
{{gap}}गवां रोगमनावृष्टिं दुर्भिक्षं चातिनिर्दिशेत् ॥</poem>}}
<small>पौर्णमासे कार्त्तिके ।</small>
<small>अथोदयदिनफलम् । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}पुरस्तादुदितः सौम्यो धान्यस्त्रेहार्धवर्धनः ।
{{gap}}अर्घह्रासकरः स्निग्धो भवत्ययनमास्थितः ॥</poem>}}
<small>अथ वक्त्रफलम् । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}अवर्षे कुरुते वर्षं वर्षे वर्षति यच्छति ।
{{gap}}भयं च कुरुते क्षेमं सर्वत्र प्रतिलोमगः ॥</poem>}}
{{bold|{{gap}}अत्रानुक्त विशेषशान्तिषु बुधोत्पातेषु बुधग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>फलपाकसमयो गार्गीये ।</small>
{{bold|<poem>{{gap}}बुधे यावत् तु दर्शनम् इति ।</poem>}}
{{center|<small>इति महाराजाधिराज निश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे बुधाद्भुतावर्त्तः ।</small>}}
{{center|{{bold|अथ बृहस्पत्यद्भुतावर्त्तः ।}}}}
<small>तत्र शुभसूचकबृहस्पतिलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः ।
{{gap}}ग्रहहतो न यदि सत्पथवार्त्ता हितकरोऽमरगुरुर्मनुजानाम् ॥</poem>}}<noinclude></noinclude>
15fznco4kd6vrxzm9pnbw3eveybm61x
पृष्ठम्:अद्भुतसागरः.djvu/१२८
104
125132
341316
340402
2022-07-25T06:00:38Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=११०|center=अद्भुतसागरे}}}}</noinclude><small>येपामयं स्वामी तेषामेवंविधा विशेषेण हितकर: । विपरोता विशेषेण विपरीतकर: ।</small>
<small>बृहस्पतिस्वामिकान्याह यवनेश्वरः ।</small>
{{bold|<poem>{{gap}}मङ्गाल्यधर्मद्विजवेदोयज्ञधान्याकरस्थानगुणात्मजानाम् ।
{{gap}}सुवर्णयानासनपौष्टिकानां प्रभुर्गुरुर्मव्रिमहत्तराणाम् ॥</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}त्रैगर्त्ताः सिन्धुसौवीराः शतद्रूर्मथुरा नदी ।
{{gap}}शुघ्नौदीच्या विपाशा च दारुकाम्बष्ठका अपि ॥
{{gap}}राजा पुरोहितो मन्त्री माङ्गल्यं पौष्टिकं व्रतम् ।
{{gap}}कारुण्यकर्मसिद्धानां विद्याशौचतपस्विनाम् ॥
{{gap}}मत्स्याश्च वाटधानाश्च यौधेयाश्चार्जुनायानाः |
{{gap}}सारस्वताः पारतकाः हस्त्यश्वध्वजचामराः ॥
{{gap}}शब्दार्थविदुषः पौरा नीतिज्ञाः शीलसंयुताः ।
{{gap}}मांसी तगरकुष्टं च शैलेयं लवणं सुरा
{{gap}}मधुरस्वादुवल्लीजविप्राणां चाधिपो गुरुः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सिन्धुनदपूर्वभागो मधुरापश्चार्थभरतसौवीराः ।
{{gap}}शुघ्नौदीच्यविपाशासरिच्छतद्रूरमठशाल्वाः ||
{{gap}}त्रैगर्त्तपौरवाम्बष्ठपारता वाटधानयौधेयाः ।
{{gap}}सारस्वतार्जुनायनमत्स्यार्धग्रामराष्ट्राणि ||
{{gap}}हस्त्य श्वपुरोहितनृपतिमन्त्रिमाङ्गल्यपौष्टिकासक्ताः ।
{{gap}}कारुण्यसत्यशौचत्रतविद्यादानधर्मरताः ।
{{gap}}पौरमहाधनशब्दार्थवेद विदुषोऽभिचारनीतिज्ञाः ।
{{gap}}मनुजेश्वरोपकरणं छत्रध्वजचामराद्यं च ॥
{{gap}}शैलेयकमांसीकष्टतगररससैन्धवानि वल्लीजम् ।
</poem>}}<noinclude></noinclude>
djfyoq8h8pmty60wrv8idaj12is6sor
पृष्ठम्:अद्भुतसागरः.djvu/१२९
104
125133
341317
340406
2022-07-25T06:01:55Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बृहस्पत्यद्भुतावर्त्तः।|righ=१११}}}}</noinclude>{{bold|<poem>{{gap}}मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥</poem>}}
<small>अथ वर्णफलम् । तत्र पराशरः।</small>
{{bold|<poem>{{gap}}श्वेतरक्तपीतकृष्णवर्णो ब्राह्मणादिवर्णजयाय ।</poem>}}
<small>वराहसंहितायाम्।</small>
{{bold|<poem>{{gap}}धूम्राभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे।
{{gap}}विपुलेऽमले सुतारे रात्रौ दृष्टे नृपाः स्वस्थाः ॥
{{gap}}अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यावे ।
{{gap}}हरिते च तस्करेभ्यः पीडा रक्ते च शस्त्रभयम् ॥</poem>}}
<small>अथ नक्षत्रफलम् । तत्र पराशरः।</small>
{{bold|<poem>{{gap}}मध्यदक्षिणोत्तरमार्गप्रविचारी मध्यदारुणोत्तमप्रजावकरः ।</poem>}}
<small>वराहसंहितायां तु।</small>
{{bold|<poem>{{gap}}उदगारोग्यसुभिक्षक्षमकरो वाक्पतिश्चरन् भानाम् ।
{{gap}}याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥</poem>}}
<small>पराशरः।</small>
{{bold|<poem>{{gap}}प्रच्छादनेऽवरोहिण्याः प्रजापीडां विनिर्दिशेत् ।
{{gap}}शकटारोहणे विद्याज्जगतः संभ्रमं बुधः ॥</poem>}}
<small>अथ राशिफलं विष्णुधर्मोत्तरे।</small>
{{bold|<poem>{{gap}}जीवस्त्रयोदशभिर्मासै राशिं विचरन् शुभफलो भवति । अन्यथा कष्टफलः।</poem>}}
<small>पराशरस्तु।</small>
{{bold|<poem>{{gap}}सपादमृक्षद्वयमब्देन प्रविचरन् सम्पत्करो विपर्ययाद्विपरीतः ।</poem>}}
<small>वराहसंहिताया तु।</small>
{{bold|<poem>{{gap}}विचरन् नक्षत्रद्वयं मिष्टस्तत्सार्धवत्सरेण मध्यफलः ।
{{gap}}शस्यानां विध्वंसो विचरेदधिकं यदि कदाचित् ।।</poem>}}
<small>अथ बार्हस्पत्याब्दफलं वराहसंहितायाम् ।</small>
{{bold|{{gap}}वर्षाणि कार्तिकादीन्याग्नेयाद्यानयोगीनि ।}}<noinclude></noinclude>
7rdoimmjf8tdahu5gtcjgkdansqq2vm
341318
341317
2022-07-25T06:02:24Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बृहस्पत्यद्भुतावर्त्तः। |righ=१११}}}}</noinclude>{{bold|<poem>{{gap}}मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥</poem>}}
<small>अथ वर्णफलम् । तत्र पराशरः।</small>
{{bold|<poem>{{gap}}श्वेतरक्तपीतकृष्णवर्णो ब्राह्मणादिवर्णजयाय ।</poem>}}
<small>वराहसंहितायाम्।</small>
{{bold|<poem>{{gap}}धूम्राभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे।
{{gap}}विपुलेऽमले सुतारे रात्रौ दृष्टे नृपाः स्वस्थाः ॥
{{gap}}अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यावे ।
{{gap}}हरिते च तस्करेभ्यः पीडा रक्ते च शस्त्रभयम् ॥</poem>}}
<small>अथ नक्षत्रफलम् । तत्र पराशरः।</small>
{{bold|<poem>{{gap}}मध्यदक्षिणोत्तरमार्गप्रविचारी मध्यदारुणोत्तमप्रजावकरः ।</poem>}}
<small>वराहसंहितायां तु।</small>
{{bold|<poem>{{gap}}उदगारोग्यसुभिक्षक्षमकरो वाक्पतिश्चरन् भानाम् ।
{{gap}}याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥</poem>}}
<small>पराशरः।</small>
{{bold|<poem>{{gap}}प्रच्छादनेऽवरोहिण्याः प्रजापीडां विनिर्दिशेत् ।
{{gap}}शकटारोहणे विद्याज्जगतः संभ्रमं बुधः ॥</poem>}}
<small>अथ राशिफलं विष्णुधर्मोत्तरे।</small>
{{bold|<poem>{{gap}}जीवस्त्रयोदशभिर्मासै राशिं विचरन् शुभफलो भवति । अन्यथा कष्टफलः।</poem>}}
<small>पराशरस्तु।</small>
{{bold|<poem>{{gap}}सपादमृक्षद्वयमब्देन प्रविचरन् सम्पत्करो विपर्ययाद्विपरीतः ।</poem>}}
<small>वराहसंहिताया तु।</small>
{{bold|<poem>{{gap}}विचरन् नक्षत्रद्वयं मिष्टस्तत्सार्धवत्सरेण मध्यफलः ।
{{gap}}शस्यानां विध्वंसो विचरेदधिकं यदि कदाचित् ।।</poem>}}
<small>अथ बार्हस्पत्याब्दफलं वराहसंहितायाम् ।</small>
{{bold|{{gap}}वर्षाणि कार्तिकादीन्याग्नेयाद्यानयोगीनि ।}}<noinclude></noinclude>
j89jb0wemmqmpcxzn3q9sfxgyliva8c
341319
341318
2022-07-25T06:02:47Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बृहस्पत्यद्भुतावर्त्तः । |righ=१११}}}}</noinclude>{{bold|<poem>{{gap}}मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥</poem>}}
<small>अथ वर्णफलम् । तत्र पराशरः।</small>
{{bold|<poem>{{gap}}श्वेतरक्तपीतकृष्णवर्णो ब्राह्मणादिवर्णजयाय ।</poem>}}
<small>वराहसंहितायाम्।</small>
{{bold|<poem>{{gap}}धूम्राभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे।
{{gap}}विपुलेऽमले सुतारे रात्रौ दृष्टे नृपाः स्वस्थाः ॥
{{gap}}अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यावे ।
{{gap}}हरिते च तस्करेभ्यः पीडा रक्ते च शस्त्रभयम् ॥</poem>}}
<small>अथ नक्षत्रफलम् । तत्र पराशरः।</small>
{{bold|<poem>{{gap}}मध्यदक्षिणोत्तरमार्गप्रविचारी मध्यदारुणोत्तमप्रजावकरः ।</poem>}}
<small>वराहसंहितायां तु।</small>
{{bold|<poem>{{gap}}उदगारोग्यसुभिक्षक्षमकरो वाक्पतिश्चरन् भानाम् ।
{{gap}}याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥</poem>}}
<small>पराशरः।</small>
{{bold|<poem>{{gap}}प्रच्छादनेऽवरोहिण्याः प्रजापीडां विनिर्दिशेत् ।
{{gap}}शकटारोहणे विद्याज्जगतः संभ्रमं बुधः ॥</poem>}}
<small>अथ राशिफलं विष्णुधर्मोत्तरे।</small>
{{bold|<poem>{{gap}}जीवस्त्रयोदशभिर्मासै राशिं विचरन् शुभफलो भवति । अन्यथा कष्टफलः।</poem>}}
<small>पराशरस्तु।</small>
{{bold|<poem>{{gap}}सपादमृक्षद्वयमब्देन प्रविचरन् सम्पत्करो विपर्ययाद्विपरीतः ।</poem>}}
<small>वराहसंहिताया तु।</small>
{{bold|<poem>{{gap}}विचरन् नक्षत्रद्वयं मिष्टस्तत्सार्धवत्सरेण मध्यफलः ।
{{gap}}शस्यानां विध्वंसो विचरेदधिकं यदि कदाचित् ।।</poem>}}
<small>अथ बार्हस्पत्याब्दफलं वराहसंहितायाम् ।</small>
{{bold|{{gap}}वर्षाणि कार्तिकादीन्याग्नेयाद्यानयोगीनि ।}}<noinclude></noinclude>
0e2dakobfu9hbfx7khyrmijalez3wvw
341320
341319
2022-07-25T06:03:52Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बृहस्पत्यद्भुतावर्त्तः । |right=१११}}}}</noinclude>{{bold|<poem>{{gap}}मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥</poem>}}
<small>अथ वर्णफलम् । तत्र पराशरः।</small>
{{bold|<poem>{{gap}}श्वेतरक्तपीतकृष्णवर्णो ब्राह्मणादिवर्णजयाय ।</poem>}}
<small>वराहसंहितायाम्।</small>
{{bold|<poem>{{gap}}धूम्राभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे।
{{gap}}विपुलेऽमले सुतारे रात्रौ दृष्टे नृपाः स्वस्थाः ॥
{{gap}}अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यावे ।
{{gap}}हरिते च तस्करेभ्यः पीडा रक्ते च शस्त्रभयम् ॥</poem>}}
<small>अथ नक्षत्रफलम् । तत्र पराशरः।</small>
{{bold|<poem>{{gap}}मध्यदक्षिणोत्तरमार्गप्रविचारी मध्यदारुणोत्तमप्रजावकरः ।</poem>}}
<small>वराहसंहितायां तु।</small>
{{bold|<poem>{{gap}}उदगारोग्यसुभिक्षक्षमकरो वाक्पतिश्चरन् भानाम् ।
{{gap}}याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥</poem>}}
<small>पराशरः।</small>
{{bold|<poem>{{gap}}प्रच्छादनेऽवरोहिण्याः प्रजापीडां विनिर्दिशेत् ।
{{gap}}शकटारोहणे विद्याज्जगतः संभ्रमं बुधः ॥</poem>}}
<small>अथ राशिफलं विष्णुधर्मोत्तरे।</small>
{{bold|<poem>{{gap}}जीवस्त्रयोदशभिर्मासै राशिं विचरन् शुभफलो भवति । अन्यथा कष्टफलः।</poem>}}
<small>पराशरस्तु।</small>
{{bold|<poem>{{gap}}सपादमृक्षद्वयमब्देन प्रविचरन् सम्पत्करो विपर्ययाद्विपरीतः ।</poem>}}
<small>वराहसंहिताया तु।</small>
{{bold|<poem>{{gap}}विचरन् नक्षत्रद्वयं मिष्टस्तत्सार्धवत्सरेण मध्यफलः ।
{{gap}}शस्यानां विध्वंसो विचरेदधिकं यदि कदाचित् ।।</poem>}}
<small>अथ बार्हस्पत्याब्दफलं वराहसंहितायाम् ।</small>
{{bold|{{gap}}वर्षाणि कार्तिकादीन्याग्नेयाद्यानयोगीनि ।}}<noinclude></noinclude>
gfytejohm4ezrma7mi4o3ofwbvutb8p
पृष्ठम्:अद्भुतसागरः.djvu/१३०
104
125134
341321
340409
2022-07-25T06:08:39Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=११२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}क्रमशस्त्रिभं च पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥</poem>}}
<small>काश्यपश्च ।</small>
{{bold|<poem>{{gap}}कार्त्तिकादिसमा ज्ञेया द्वद्विनक्षत्रचारिणः ।
{{gap}}त्रिभं भाद्रपदं ज्ञेयं फाल्गुनाश्वयुजौ<ref>त्रिभं भाद्रपदे ज्ञेयं फाल्गुने श्रावणे इति अ. ।</ref> तथा ॥</poem>}}
<small>नक्षत्रचारिण इति चारशब्द उदयचारपरः ।</small>
<small>तथा च काश्यपः ।</small>
{{bold|<poem>{{gap}}संवत्सरे युगे चैव षष्ट्यब्देऽङ्गिरसः सुतः ।
{{gap}}यन्नक्षत्रोदयं कुर्यात् तत्संज्ञं वत्सरं विदुः ॥</poem>}}
<small>वृद्धगर्गश्च ।</small>
{{bold|<poem>{{gap}}प्रावासान्ते समर्क्षण तूदितो युगपच्चरन् ।
{{gap}}तस्मात् कालात् तदृक्षाद्यो गुरोरब्दः प्रवर्त्तते ॥</poem>}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री ।
{{gap}}तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥</poem>}}
<small>{{gap}}पराशरेणाप्युदयादेव फलमुक्तं तद्वाक्यमत्रैव लिखिष्यामः । अतो यत्र चारमात्रेण बार्हस्पत्याब्दश्रवणं तत्रोदयचारपरता। पराशरबृद्धगर्गाभ्यां तु श्रवणादित्रये श्रावणः । पूर्वभाद्रपदादित्रये भाद्रः । अश्विनोभरण्योराश्विन इत्युक्तम् तद्वाक्यमनन्तरमेव लिखितम् ।</small><small></small>
<small>अथैतेषां फलम् । तत्र पराशरः ।</small>
{{bold|{{gap}}तस्मिन् कृत्तिकारोहिणीषूदिते क्षुच्छस्त्राग्न्यनावृष्टिप्राबल्यं गोशाकटिकपीडा च । सौम्यरौद्रयोरेतदेव गवादिवर्जम् । तिष्यपुनर्वस्वोरुक्तविपर्ययः । पुष्यवन्मघाऽऽश्लेषासु राज्ञामृपतापश्च । फाल्गुनीसावित्रेषु क्वचित् क्षेमसुभिक्षं नारीदौर्भाग्यं च । चित्रास्वात्युदितो नृपशस्यवर्षक्षेमारोग्यकरः । एवमेवैन्द्राग्न्यमैत्रयोः । ऐन्द्रनैर्ऋतयोर्वनस्पतिवर्षश्रेष्ठनृपतिप्रधानविनाशायेतरवृद्धये । आषाढ-}}
{{rule}}<noinclude></noinclude>
kfwg6q5w7qlqvuaamgqv5zk50hxorgg
पृष्ठम्:अद्भुतसागरः.djvu/१३२
104
125146
341322
340420
2022-07-25T06:09:59Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=११४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}शलभाद्याकुलः सौम्यो दुर्भिक्षभयकारकः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च शस्यवधः ।
{{gap}}व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ॥</poem>}}
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}सौम्यं रौद्रं च नक्षत्रं चरेद्यदि बृहस्पतिः ।
{{gap}}भवेत् स मार्गशीर्षोऽब्दः सर्वदोषसमन्वितः ॥
{{gap}}न वर्षति तदा देवः शुष्यन्ति च जलाशयाः ।
{{gap}}न समृद्व्यन्ति शस्यानि जातं चैव विहन्यते ॥
{{gap}}दुर्भिक्षभयरोगैश्च विविधैश्चाप्युपद्रवैः ।
{{gap}}चराचराणां भूतानामनयः संप्रवर्त्तते ॥</poem>}}
<small>मार्गशीर्षः ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}आदित्यपुष्यगे चाब्दं विज्ञेयं गुरुदैवतम् ।
{{gap}}आतङ्करहिते लोकं क्षेमारोग्यसुखप्रदम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः ।
{{gap}}द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥</poem>}}
<small>{{gap}}द्वित्रा गुणा हि यस्मात् स द्वित्रिगुणो हि धान्यार्थः । यावता मूल्येन यावद्धान्यं
लब्धमासीत् तावता तद्विगुणं त्रिगुगं वा लभ्यत इत्यर्थः ।</small>
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}पुनर्वसुं च पुष्यं च चरेद्यदि बृहस्पतिः ।
{{gap}}पौषः संवत्सरः स स्यात् सर्वौषधिसमन्वितः ॥
{{gap}}शस्यं सम्पद्यते सर्वं सम्यग् वर्षति वासवः ।
{{gap}}उत्तमं क्षेमसौभिक्षं भवेद्धर्मस्तदा सताम् ॥</poem>}}
<small>पाष: ।</small><noinclude></noinclude>
jfl5xj74utkyvdfb79ctgf5ka9r0ode
पृष्ठम्:अद्भुतसागरः.djvu/१३३
104
125147
341323
340423
2022-07-25T06:12:28Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बृहस्पत्यद्भुतावर्त्तः।|right=११५}}}}</noinclude><small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}सार्पपित्रोपगे जीवे पित्र्यं वर्षमुदाहृतम् ।
{{gap}}हार्दिवृष्टिप्रदं लोके शिवसौभिक्षकारकम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}पितृप्रजापतिवृद्धिर्माघे हार्दिश्च सर्वभूतानाम् ।
{{gap}}आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}क्षेमारोग्यसुभिक्षाणि वर्षाणि च शुभानि च ।
{{gap}}पितृपूजाः प्रवर्त्तन्ते माघे राज्ञां च सन्धयः ॥</poem>}}
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}आश्लेषां च मघां चैव चरेद्यदि बृहस्पतिः ।
{{gap}}माघसंवत्सरः स स्यात् सर्वभूतहितोदयः ॥
{{gap}}सम्यग्वर्षति पर्जन्यः शस्यमुत्तमतां भजेत् ।
{{gap}}क्षेमारोग्यसुभिक्षाणि प्रजा धर्मकरी तदा ॥</poem>}}
<small>माघः ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}फाल्गुनीद्वयहस्तस्थे वर्षं भाग्यमुदाहृतम् ।
{{gap}}चौरप्राबल्यदं घोरं नारीदौर्भाग्यकारकम् ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}नारीदौर्भाग्यकृद्घोरः फाल्गुनः शस्यवर्षदः ।
{{gap}}क्वचित् क्षेमसुभिक्षाणि क्वचिदक्षेमकारकः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}फाल्गुनवर्षो विन्द्यात् क्वचित् क्वचित् क्षेमवृष्टिशस्यानि ।
{{gap}}दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}फाल्गुन्यौ चैव हस्तं च चरेद्यदि बृहस्पतिः ।
</poem>}}<noinclude></noinclude>
fqjmv7v14t2jw1nhx9juzp7z5ppo4be
पृष्ठम्:अद्भुतसागरः.djvu/१३४
104
125148
341324
340426
2022-07-25T06:13:48Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=११६|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}स फाल्गुनोऽतिक्रूरः स्याद्धान्यमुत्कर्षतां व्रजेत् ॥
{{gap}}क्वचिन्निष्पद्यते शस्यं क्वचिच्छस्यं विपद्यते ।
{{gap}}क्वचित् सुभिक्षं भवति क्वचित् क्षेमः क्वचिद्वयम् ॥</poem>}}
<small>फाल्गुनः ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}चित्रास्वातिगते जीत्रे त्वाष्ट्रं वर्षमुदाहृतम् ।
{{gap}}शूकधान्यक्षयकरं भूपानां भयवर्धनम् ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}मृदुभावाश्च राजानः स्त्रियः कामपरायणाः ।
{{gap}}क्षेमारोग्ये च मृदुनी चैत्रो वर्षस्तदा मृदुः ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}चित्रां स्वातिं च नक्षत्रं चरेद्यदि बृहस्पतिः ।
{{gap}}चैत्रः संवत्सरः सोऽल्पक्षेमारोग्यसुभिक्षकृत् ॥</poem>}}
{{bold|<poem>{{gap}}मृदवः पार्थिवाश्चात्र चित्रं च मृदु वर्षति ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः ।
{{gap}}वृष्टिस्तु कोशधान्यस्य भवति पीडा च रूपवताम् ॥</poem>}}
<small>चैत्रः ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}विशाखामैत्रगे जीवे वर्षमिन्द्राग्निदेवतम् ।
{{gap}}सौभिक्षानन्दजनकं यज्ञधर्मप्रवर्धनम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}वैशाखे धर्मपरा विगतभयाः प्रमुदिताः प्रजाः सर्वाः ।
{{gap}}यज्ञक्रिया प्रवृत्तिर्निष्पत्तिः सर्वशस्यानाम् ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}ईतयः प्रशमं यान्ति सन्धिं कुर्वन्ति पार्थिवाः ।
</poem>}}<noinclude></noinclude>
8c7lgmq6y2wr59pk4uvgz5p4jhgxy14
पृष्ठम्:अद्भुतसागरः.djvu/१३६
104
125149
341326
340429
2022-07-25T06:17:30Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=११८|center=|right=अद्भुतसागरे}}</noinclude><small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}आषाढे जायन्ते शस्यानि क्वचिदवृष्टिरन्यत्र ।
{{gap}}योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}दुर्भिक्षाक्षेमजनन आषाढोऽन्योन्यभेदकृत् ।
{{gap}}भूपालयुद्धजननी मध्यमक्षेमकारकः ॥</poem>}}
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}पूर्वोत्तरे च आषाढे चरेद्यदि बृहस्पतिः ।
{{gap}}आषाढः स तु विज्ञेयस्तस्य संवत्सरोऽशुभः ॥
{{gap}}मिथो भेदाः प्रवर्त्तन्ते वलक्षोभा भवन्ति च ।
{{gap}}शारदं पच्यते धान्यं ग्रीष्मधान्यं न पच्यते ॥</poem>}}
<small>आषाढः ।</small>
<small>विष्णुधर्मोत्तरे ।</small><small></small>
{{bold|<poem>{{gap}}विष्णुवासवभस्थे तु वैष्णवं परिकोर्त्तितम् ।
{{gap}}क्षेमसौभिक्षदं लोके पाखण्डपरिपीडनम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small><small></small>
{{bold|<poem>{{gap}}श्रावणवर्षे क्षेमं सम्यक् शस्यानि पाकमुपयान्ति ।
{{gap}}क्षुद्रा ये पाखण्डास्ते पीड्यन्ते च तद्भक्ताः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}श्रावणः शस्यसम्पन्नः क्षेमारोग्यविवर्धनः ।
{{gap}}धान्यमाहार्घ्यमायाति सम्यग्वर्षति वासवः ॥
{{gap}}क्षुद्राः पाखण्डिनः सर्वान् सद्भक्ताँश्चोपतापयेत् ।</poem>}}
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}श्रावणादीनि च त्रीणि चरेद्यदि बृहस्पतिः ।
{{gap}}श्रावणो नाम सोऽब्दः स्यात् क्षेमसौभिक्षपुष्टिमान् ॥</poem>}}
<small>श्रावणः ।</small><noinclude></noinclude>
seetn9twtom0kaqrc1wnav6lm3hab9r
341329
341326
2022-07-25T06:19:28Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=११८|center=|right=अद्भुतसागरे}}}}</noinclude><small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}आषाढे जायन्ते शस्यानि क्वचिदवृष्टिरन्यत्र ।
{{gap}}योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}दुर्भिक्षाक्षेमजनन आषाढोऽन्योन्यभेदकृत् ।
{{gap}}भूपालयुद्धजननी मध्यमक्षेमकारकः ॥</poem>}}
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}पूर्वोत्तरे च आषाढे चरेद्यदि बृहस्पतिः ।
{{gap}}आषाढः स तु विज्ञेयस्तस्य संवत्सरोऽशुभः ॥
{{gap}}मिथो भेदाः प्रवर्त्तन्ते वलक्षोभा भवन्ति च ।
{{gap}}शारदं पच्यते धान्यं ग्रीष्मधान्यं न पच्यते ॥</poem>}}
<small>आषाढः ।</small>
<small>विष्णुधर्मोत्तरे ।</small><small></small>
{{bold|<poem>{{gap}}विष्णुवासवभस्थे तु वैष्णवं परिकोर्त्तितम् ।
{{gap}}क्षेमसौभिक्षदं लोके पाखण्डपरिपीडनम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small><small></small>
{{bold|<poem>{{gap}}श्रावणवर्षे क्षेमं सम्यक् शस्यानि पाकमुपयान्ति ।
{{gap}}क्षुद्रा ये पाखण्डास्ते पीड्यन्ते च तद्भक्ताः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}श्रावणः शस्यसम्पन्नः क्षेमारोग्यविवर्धनः ।
{{gap}}धान्यमाहार्घ्यमायाति सम्यग्वर्षति वासवः ॥
{{gap}}क्षुद्राः पाखण्डिनः सर्वान् सद्भक्ताँश्चोपतापयेत् ।</poem>}}
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}श्रावणादीनि च त्रीणि चरेद्यदि बृहस्पतिः ।
{{gap}}श्रावणो नाम सोऽब्दः स्यात् क्षेमसौभिक्षपुष्टिमान् ॥</poem>}}
<small>श्रावणः ।</small><noinclude></noinclude>
l7lrok68ytxo3zsl592kw2k9ggsourz
पृष्ठम्:अद्भुतसागरः.djvu/१३७
104
125150
341331
340431
2022-07-25T06:20:48Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=बृहस्पत्यद्भुतावर्त्तः ।|right=११९}}</noinclude><small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}प्रौष्ठपादे वरं शस्यं विनश्यत्यपरं च यत् ।
{{gap}}निष्पद्यते क्वचित् क्षेमं कचिदक्षेमकारकम् ॥</poem>}}
<small>वरं शस्यं श्रेष्ठशस्यं सम्भवति । अपरं भावि तद्विनश्यतीति योजनम् ।
तथा च विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}प्रौष्ठपादद्वयोपगे जीवे वारुणगे तथा ।
{{gap}}पूर्वशस्यप्रदं त्वाजं पश्चाद्धान्यविनाशकम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वशस्यं च ।
{{gap}}न भवत्यपरं शस्यं क्वचित् सुभिक्षं क्वचिच्च भयम् ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}रेवतीं न प्रौष्ठपदं नरेद्यदि बृहस्पतिः ।
{{gap}}प्रौष्ठपाद इति ज्ञेयो मध्यः संवत्सरो भवेत् ॥
{{gap}}सम्पद्यते शस्यपूर्वमुत्तरं नोपपद्यते ।
{{gap}}योगक्षेमो भवेन्मध्यो धान्यमुप्तार्धतां व्रजेत् ॥</poem>}}
<small>भाद्रः ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}पौष्णाश्वियाम्यगे जीवे वर्षं स्यादश्विदैवतम् ।
{{gap}}सुवृष्टिक्षेमदं लोकं सर्वातङ्गविवर्जितम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}अश्वयुगब्देऽजस्त्रं पतति जलं प्रमुदिताः प्रजाः क्षेमः ।
{{gap}}प्राणचयः प्राणभृतां सर्वेषामन्नबाहुल्यम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}भवेच्छस्याम्बुजलजक्षेमश्चाश्वयुजः शिवः ।
{{gap}}संवृत्तो वत्सरः श्रीमान् सर्वकामसुखावहः ॥</poem>}}<noinclude></noinclude>
5bng66cf7ejipyer2g438z14ywi0p7c
पृष्ठम्:अद्भुतसागरः.djvu/१३८
104
125151
341333
340433
2022-07-25T06:23:42Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१२०|center|=अद्भुतसागरे}}}}</noinclude><small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}अश्विनीं चैव याम्यं च चरेद्यदि बृहस्पतिः ।
{{gap}}संवत्सरः सोऽश्वयुजः सर्वभूतहितावहः ॥
{{gap}}सुभिक्षारोग्यक्षेमं च भवेत् स हि सदोत्तमः ।</poem>}}
<small>आश्विनः ।</small>
<small>अथ बार्हस्पत्ये द्वादशयुगानि ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}तथा खण्डयुगानीह द्वादशोक्तानि भूपते ।
{{gap}}षष्ट्यब्दं च निवर्त्तन्ते पञ्चाब्दानि पृथक् पृथक् ॥
{{gap}}एतेषां तु प्रवक्ष्यामि देवतानि पृथक् पृथक् ।
{{gap}}विष्णुर्वृहस्पतिः शक्तो वह्निस्त्वष्टा तथैव च ॥
{{gap}}अहिर्बुध्नश्च<ref>मरुतो पितरः इति अ ।</ref> विश्वेदेवा निशाकरः ।
{{gap}}इन्द्राग्नी चैव नासत्यौ भगश्चौव महाबलः ॥
{{gap}}इति द्वादश ये प्रोक्ता मया खण्डयुगे खलु ।</poem>}}
<small>वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}चत्वारि युगान्यादौ शुभानि चत्वारि मध्यानि ।
{{gap}}चत्वारि तान्यशुभानि बुधैर्विशेषः कृतो वर्षे ॥</poem>}}
<small>{{gap}}प्रभवादिनिर्विशेषो विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}प्रभवो विभवः शुक्लः प्रमोदश्च प्रजापतिः ।
{{gap}}वैष्णवे तु युगे पञ्च प्रोक्ताः संवत्सराः शुभाः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>क्वचित् त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः ।
संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथाऽपि ॥
तस्माद्वितीयो विभवः प्रदिष्टः शुक्लस्तृतीयः परतः प्रमोदः ।</poem>}}
{{rule}}<noinclude></noinclude>
qlcbu043pu0e3d2n9zkoro45x897x7i
341334
341333
2022-07-25T06:24:02Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१२०|center=अद्भुतसागरे}}}}</noinclude><small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}अश्विनीं चैव याम्यं च चरेद्यदि बृहस्पतिः ।
{{gap}}संवत्सरः सोऽश्वयुजः सर्वभूतहितावहः ॥
{{gap}}सुभिक्षारोग्यक्षेमं च भवेत् स हि सदोत्तमः ।</poem>}}
<small>आश्विनः ।</small>
<small>अथ बार्हस्पत्ये द्वादशयुगानि ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}तथा खण्डयुगानीह द्वादशोक्तानि भूपते ।
{{gap}}षष्ट्यब्दं च निवर्त्तन्ते पञ्चाब्दानि पृथक् पृथक् ॥
{{gap}}एतेषां तु प्रवक्ष्यामि देवतानि पृथक् पृथक् ।
{{gap}}विष्णुर्वृहस्पतिः शक्तो वह्निस्त्वष्टा तथैव च ॥
{{gap}}अहिर्बुध्नश्च<ref>मरुतो पितरः इति अ ।</ref> विश्वेदेवा निशाकरः ।
{{gap}}इन्द्राग्नी चैव नासत्यौ भगश्चौव महाबलः ॥
{{gap}}इति द्वादश ये प्रोक्ता मया खण्डयुगे खलु ।</poem>}}
<small>वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}चत्वारि युगान्यादौ शुभानि चत्वारि मध्यानि ।
{{gap}}चत्वारि तान्यशुभानि बुधैर्विशेषः कृतो वर्षे ॥</poem>}}
<small>{{gap}}प्रभवादिनिर्विशेषो विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}प्रभवो विभवः शुक्लः प्रमोदश्च प्रजापतिः ।
{{gap}}वैष्णवे तु युगे पञ्च प्रोक्ताः संवत्सराः शुभाः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>क्वचित् त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः ।
संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथाऽपि ॥
तस्माद्वितीयो विभवः प्रदिष्टः शुक्लस्तृतीयः परतः प्रमोदः ।</poem>}}
{{rule}}<noinclude></noinclude>
8argg1fu371rwrmryilkz8c61r0jmqa
पृष्ठम्:अद्भुतसागरः.djvu/१३९
104
125153
341335
340435
2022-07-25T06:28:54Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left|center=बृहस्पत्यद्भुतावर्त्तः ।|right=१२१}}}}</noinclude>{{bold|<poem>प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाण्यथ पञ्च चैवम्<ref>वर्षाणि फलान्यथैषाम् इति अ ।</ref> ॥
सम्पन्नशस्यां खलु रोगशोक<ref>निष्पन्नशालोक्षुयवादिशस्याम् इति अ. ।</ref>भयैर्विमुक्तामुपशान्तवैराम् ।
संहृष्टदोषां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ॥</poem>}}
<small>क्रमेण पञ्चानां फलं पञ्चकम् । विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च ।
{{gap}}अब्दा जीवयुगे पञ्च तेषामाद्याः शुभास्ततः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}अद्योऽङ्गिराः श्रीमुखभावसंज्ञौ युवा च धातेति युगे द्वितीये ।
{{gap}}वर्षाणि पञ्चैव यथाक्रमेण त्रोण्यत्र शस्तानि समे परे द्वे ।
{{gap}}त्रिष्वद्भिराद्येषु <ref>त्रिष्वाद्यवर्षेषु इति अ. ।</ref> निकामवर्षी देवो निरातङ्गभयश्च लोकः ।
{{gap}}अब्दद्वयेऽप्येव समा सुवृष्टिः किन्त्वत्र रोगाः समारागमश्च ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः ।
{{gap}}शाक्रेऽन्दाः पञ्च निर्दिष्टा येषामद्यौ शुभावहौ ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>शाक्रे युगे पूर्वमथेश्वराख्यं वर्षं द्वितीयं बहुधान्यमाहुः ।
प्रमाथिनं विक्रममप्यतोऽन्यं वृषं च विन्द्याद्गुरुचारयोगात् ॥
आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् ।
पापः प्रमाथी वृषविक्रमौ च सुभिक्षदौ रोगभयप्रदौ च ॥</poem>}}
<small>कृतानुकारं सत्ययुगसादृश्यम् ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}वर्ही सुभानुस्तरणो वारिदश्च तथा नृपः ।
{{gap}}आग्नेये पञ्च निर्दिष्टा द्वितीयं तेषु शोभनम् ॥</poem>}}
{{rule}}<noinclude></noinclude>
biwji1aq8kldg4a4457pq9wopr6pki0
341336
341335
2022-07-25T06:29:10Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बृहस्पत्यद्भुतावर्त्तः ।|right=१२१}}}}</noinclude>{{bold|<poem>प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाण्यथ पञ्च चैवम्<ref>वर्षाणि फलान्यथैषाम् इति अ ।</ref> ॥
सम्पन्नशस्यां खलु रोगशोक<ref>निष्पन्नशालोक्षुयवादिशस्याम् इति अ. ।</ref>भयैर्विमुक्तामुपशान्तवैराम् ।
संहृष्टदोषां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ॥</poem>}}
<small>क्रमेण पञ्चानां फलं पञ्चकम् । विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च ।
{{gap}}अब्दा जीवयुगे पञ्च तेषामाद्याः शुभास्ततः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}अद्योऽङ्गिराः श्रीमुखभावसंज्ञौ युवा च धातेति युगे द्वितीये ।
{{gap}}वर्षाणि पञ्चैव यथाक्रमेण त्रोण्यत्र शस्तानि समे परे द्वे ।
{{gap}}त्रिष्वद्भिराद्येषु <ref>त्रिष्वाद्यवर्षेषु इति अ. ।</ref> निकामवर्षी देवो निरातङ्गभयश्च लोकः ।
{{gap}}अब्दद्वयेऽप्येव समा सुवृष्टिः किन्त्वत्र रोगाः समारागमश्च ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः ।
{{gap}}शाक्रेऽन्दाः पञ्च निर्दिष्टा येषामद्यौ शुभावहौ ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>शाक्रे युगे पूर्वमथेश्वराख्यं वर्षं द्वितीयं बहुधान्यमाहुः ।
प्रमाथिनं विक्रममप्यतोऽन्यं वृषं च विन्द्याद्गुरुचारयोगात् ॥
आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् ।
पापः प्रमाथी वृषविक्रमौ च सुभिक्षदौ रोगभयप्रदौ च ॥</poem>}}
<small>कृतानुकारं सत्ययुगसादृश्यम् ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}वर्ही सुभानुस्तरणो वारिदश्च तथा नृपः ।
{{gap}}आग्नेये पञ्च निर्दिष्टा द्वितीयं तेषु शोभनम् ॥</poem>}}
{{rule}}<noinclude></noinclude>
67n7spqb0dnqkvatkhakjy9237trsms
पृष्ठम्:अद्भुतसागरः.djvu/१४०
104
125157
341337
340436
2022-07-25T06:32:37Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=अद्भुतसागरे|right=१२२}}}}</noinclude><small>वराहसंहितायाम् ।</small>
{{bold|<poem>श्रेष्ठं चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम् ।
वर्ष द्वितीयं तु सुभानुसंज्ञं रोगप्रदं मृत्युकरं नवं<ref>नतम् इति अ. ।</ref> च ॥
तारणं तदनु भूरिवारिदं शस्यवृद्धिमुदितातिपार्थिवम् ।
पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुंलम् ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}सर्वजित् सर्वधारी च विरोधी विकृतः खरः ।
{{gap}}त्वाष्ट्रे पञ्चयुगे येषां द्वितीयस्तु शुभप्रदः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरोऽन्यः खलु सर्वधारी ।
तस्माद्विरोधी विकृतः खरश्च शस्तो द्वितीयोऽत्र भयाय शेषाः ॥
नन्दनोऽथ विजयो जयस्तथा मन्मथश्च परतश्च दुर्मुखः ।
कान्तमत्र युग आदितस्त्रयं मन्मथः समफलोऽधमः परः ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}नन्दनो विजयश्चैव जयः कामश्च दुर्मुखः ।
{{gap}}अहिर्बुध्य्नयुगे पञ्च येषामाद्या हितास्त्रयः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च ।
शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः ॥</poem>}}
{{bold|<poem>{{gap}}ईतिप्रायाः प्रचुरपवना वृष्टिरब्दे तु पूर्वे
{{gap}}मन्दं शस्यं न बहु सलिलं वत्सरेऽत्र द्वितीये ।
{{gap}}अत्युद्वेगः प्रचुरसलिलः स्यात् तृतीयश्चतुर्थो
{{gap}}दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ॥</poem>}}
{{rule}}<noinclude></noinclude>
t8veqw8y21o50wd65hm1vtlwjfwjlr5
पृष्ठम्:अद्भुतसागरः.djvu/१४२
104
125159
341342
340438
2022-07-25T06:53:29Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१२४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>विक्रमः सकललोकनन्दनो राक्षसः क्षयकरोऽनलस्तथा ।
ग्रीष्मधान्यजननीऽथ राक्षसो वह्निकोपमरकप्रदोऽनलः ॥</poem>}}
<small>विष्णुधर्मोत्तरे।</small>
{{bold|<poem>{{gap}}पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती ।
{{gap}}आश्विने तु युगे पञ्च तृतीयस्तेषु शस्यते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>एकादशे पिङ्गलकालयुक्तसिद्धार्थ रौद्राः खलु दुर्मतिश्च ।
आद्ये त्ववृष्टिर्महती सचौरा श्वासो हनुत्कम्पयुतश्च कासः ॥
यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाञ्च ।
रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिर्मध्यमवृष्टिकृत् सः ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}दुन्दुभ्यङ्गारकौ रक्तः क्रोधश्चापि क्षयस्तथा ।
{{gap}}भाग्ये पञ्च शुभाः सर्वे विशेषेण च पञ्चमः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>भाग्ये युगे दुन्दुभिसंज्ञमाद्यं शस्यस्य वृद्धिं महतीं करोति ।
अङ्गारसज्ञं तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः ॥
रक्ताख्यमब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रिकृतं गदाश्च ।
क्रोधं बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यं कुरुते विरोधैः ॥
{{gap}}क्षयमिति युगास्यान्त्यस्यान्त्यं बहुक्षयकारकम् ।
{{gap}}जनयति भयं तद्विप्राणां कृषीवलवृद्धिदम् ॥
{{gap}}उपचयकरं विट्शूद्राणां परस्वहृतां तथा ।
{{gap}}कथितमखिलं षष्ट्यब्दे यत् तदत्र समासतः ॥
<small>षष्ट्यव्दारम्भसमयो विष्णुधर्मोत्तरे ।</small>
{{gap}}माघशुक्लसमारम्भे चन्द्रार्कौै वासवर्क्षगौ ।
{{gap}}जीवयुक्तौ यदा स्यातां षष्ट्यब्दादिस्तदा भवेत् ॥</poem>}}<noinclude></noinclude>
8jsrjg7d4p3ni5fcx8sx3gto021efhj
पृष्ठम्:अद्भुतसागरः.djvu/१४३
104
125161
341343
340442
2022-07-25T06:58:08Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=भार्गवाद्भुतावर्त्तः ।|right=१२५}}}}</noinclude><small>{{gap}}अतः कल्पादौ नास्यारम्भः । तत्राश्चिन्याद्यस्थत्वाग्रहाणाम् । कल्पारम्भाच्चत्वारिंशल्लक्षाधिकसप्ततिकोटि -७०४०००००० भिर्वर्षैर्माघशुक्लप्रतिप्रदादौ रविचन्द्रवृहस्पतीनां धनिष्ठाद्यवस्थाने षष्ट्यब्दप्रवेशो भवति । अपरं चत्वारिंशल्लक्षाधिकषडशीतिकोटि - ८६४०००००० भिर्वर्षैः पुनरेवंविधो योगो भवति । एवमस्यारम्भपञ्चकं कल्पे । पञ्चमारम्भानन्तरं षोडशकोटि-१६०००००००भिर्वर्षेः कल्पसमाप्तिः । ततो द्वात्रिंशत्कोट्यधिकपद्मचतुष्क- ४३२००००००० वत्सरैः कल्पसमाप्तिरिति ।</small>
<small>अथाद्भुतसागरारम्भशकाब्दात् षट्यब्दयुगगणनम् ।</small>
{{bold|{{gap}}खनवदशो - १०९० नशकाब्दात्
{{bold|{{gap}}{{gap}}षड्- ६ गुणितात् पुनः कृताब्धि-४४ गुणात् ।
{{bold|{{gap}}षट्त्रिगुणाश्वि - २३६समेता}}
{{bold|{{gap}}{{gap}}दयुतत्रय - ३००००लब्धयुतो गताब्दगणः ।।}}
{{bold|{{gap}}तस्मादिषुभि ५र्लब्धानि पञ्चयुक्तानि सूर्य-१२-शिष्टानि ।}}
{{bold|{{gap}}वृत्तानि वैष्णवादीन्यध:प्रविष्टस्य वर्षाणि ।।}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु वृहस्पत्युत्पातेषु बृहस्पतिपूजापूर्विका
प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकगुरुलाघवमवगम्य कर्त्तव्या । ।}}}}}}
<small>फलपाकसमयो वराहसंहितायाम् ।</small>
{{bold|जीवस्य वर्षेण}} -इति ।
{{center|<small>इति महाराजाधिराजनिश्शङ्कशङ्कर श्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे बृहस्पत्यद्भुतावर्त्तः ।</small>}}
{{center|{{bold|अथ भार्गवाद्भुतावर्त्तः ।}}}}
<small>तत्र शुभसूचकभार्गवलक्षणमाह पराशरः ।</small>
{{bold|{{gap}}हिमकनकरजतशङ्खस्फटिकवैदूर्यमुक्तामधुघृतमेदमांससम<ref>मण्डकुमुदशशाङ्कच्छवि इति अ.।-}}</ref>
{{rule}}<noinclude></noinclude>
78gc70gqrqn72cxaea4s6cahxey2vc5
341344
341343
2022-07-25T06:59:30Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=भार्गवाद्भुतावर्त्तः ।|right=१२५}}}}</noinclude><small>{{gap}}अतः कल्पादौ नास्यारम्भः । तत्राश्चिन्याद्यस्थत्वाग्रहाणाम् । कल्पारम्भाच्चत्वारिंशल्लक्षाधिकसप्ततिकोटि -७०४०००००० भिर्वर्षैर्माघशुक्लप्रतिप्रदादौ रविचन्द्रवृहस्पतीनां धनिष्ठाद्यवस्थाने षष्ट्यब्दप्रवेशो भवति । अपरं चत्वारिंशल्लक्षाधिकषडशीतिकोटि - ८६४०००००० भिर्वर्षैः पुनरेवंविधो योगो भवति । एवमस्यारम्भपञ्चकं कल्पे । पञ्चमारम्भानन्तरं षोडशकोटि-१६०००००००भिर्वर्षेः कल्पसमाप्तिः । ततो द्वात्रिंशत्कोट्यधिकपद्मचतुष्क- ४३२००००००० वत्सरैः कल्पसमाप्तिरिति ।</small>
<small>अथाद्भुतसागरारम्भशकाब्दात् षट्यब्दयुगगणनम् ।</small>
{{bold|{{gap}}खनवदशो - १०९० नशकाब्दात्
{{bold|{{gap}}{{gap}}षड्- ६ गुणितात् पुनः कृताब्धि-४४ गुणात् ।
{{bold|{{gap}}षट्त्रिगुणाश्वि - २३६समेता}}
{{bold|{{gap}}{{gap}}दयुतत्रय - ३००००लब्धयुतो गताब्दगणः ।।}}
{{bold|{{gap}}तस्मादिषुभि ५र्लब्धानि पञ्चयुक्तानि सूर्य-१२-शिष्टानि ।}}
{{bold|{{gap}}वृत्तानि वैष्णवादीन्यध:प्रविष्टस्य वर्षाणि ।।}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु वृहस्पत्युत्पातेषु बृहस्पतिपूजापूर्विका
प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकगुरुलाघवमवगम्य कर्त्तव्या । ।}}}}}}
<small>फलपाकसमयो वराहसंहितायाम् ।</small>
{{bold|जीवस्य वर्षेण}} -इति ।
{{center|<small>इति महाराजाधिराजनिश्शङ्कशङ्कर श्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे बृहस्पत्यद्भुतावर्त्तः ।</small>}}
{{center|{{bold|अथ भार्गवाद्भुतावर्त्तः ।}}}}
<small>तत्र शुभसूचकभार्गवलक्षणमाह पराशरः ।</small>
{{bold|{{gap}}हिमकनकरजतशङ्खस्फटिकवैदूर्यमुक्तामधुघृतमेदमांससम<ref>मण्डकुमुदशशाङ्कच्छवि इति अ.-}}</ref>}}
{{rule}}<noinclude></noinclude>
1l4pbpuukzu5qpeolst5ry5yhgh57dt
341345
341344
2022-07-25T07:00:06Z

{{center|{{bold|अथ भार्गवाद्भुतावर्त्तः।}}}}
<small>तत्र शुभसूचकभार्गवलक्षणमाह पराशरः ।</small>
{{bold|{{gap}}हिमकनकरजतशङ्खस्फटिकवैदूर्यमुक्तामधुघृतमेदमांससम<ref>मण्डकुमुदशशाङ्कच्छवि इति अ.-}}</ref>}}
{{rule}}<noinclude></noinclude>
mtuhmh6gjnlqnafvps8o1gfxg6lq4v2
पृष्ठम्:अद्भुतसागरः.djvu/१४४
104
125163
341346
340444
2022-07-25T07:05:53Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=१२६|center=अद्भुतसागरे}}</noinclude>{{bold|वपुरच्छस्निग्धदीपकान्तिप्रकाशः प्रसन्नार्चिरणुरवनिपतिहितकरः प्रशान्तवैरदुर्भिक्षरोगावृष्टिश्च ।}}
<small>अपि च ।</small>
{{bold|<poem>{{gap}}कूटाङ्गारनिभः स्निग्धो मार्गस्थो रजतप्रभः ।
{{gap}}विस्तृतो विश्वप्रजाभावकरः स्मृतः ॥</poem>}}
<small>कूटाङ्गारनिभः सप्तलोहवर्णः ।</small>
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दधिकुमुदशशाङ्ककान्तिभृत् स्फुटविकसन् किरणो वृहत्तनुः ।
{{gap}}सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥</poem>}}
<small>येषामयं स्वामी तेषामेवम्भूतो विशेषेणाभ्युदयाय विपरीतो विशेषेण विपरीताय ।</small>
<small>{{gap}}भार्गवस्वामिकान्याह यवनेश्वरः ।</small>
{{bold|<poem>वज्रादिरत्नाकरगोसुतस्त्रीविवादगन्धाम्बरभूषणानाम् ।
सौभाग्यसौख्यश्रुतिसञ्चयानां प्रभुर्निधीनां धनिनां च शुक्रः ॥</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}चन्द्रभागां वितस्तां च ऐरावतीं पिबन्ति ये ।
{{gap}}पुष्कलावर्त्तकैकेया गान्धारं पुष्कलावतम् <ref>प्रस्थलास्तथा इति अ .। पृष्ठलम्वतम् इति छ. ।</ref>॥
{{gap}}तक्षशिला मालवका दर्शार्णा मौक्तिकं गिरिः ।
{{gap}}धान्याढ्याः कुकुरा <ref>कुञ्जरा इति अ</ref> । गावः प्रस्थापनविलेपने ॥</poem>}}
<small>गिरिर्बहुगिरिर्नाम देशः ।</small>
{{bold|<poem>{{gap}}सुरूपं सुभगोद्यानं कामुका: कामचारिणः ।
{{gap}}पेशला मधुरा हृद्याः सलिलाशयजीविनः ॥
{{gap}}तरुणा योषितः क्रीडा विदुषां जनगोष्ठिका ।
{{gap}}चित्राण्डजाः कुशास्तरणपत्रोर्णं नालिकामलम् चित्राण्डाजाश्च<ref>कोशेयं पत्रोर्णे काशिकौशलम् इति अ. ।</ref>॥<poem>
{{rule}}<noinclude></noinclude>
jgwm6l67zmndvdqp1mz73ddkeufupjp
341347
341346
2022-07-25T07:06:12Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१२६|center=अद्भुतसागरे}}}}</noinclude>{{bold|वपुरच्छस्निग्धदीपकान्तिप्रकाशः प्रसन्नार्चिरणुरवनिपतिहितकरः प्रशान्तवैरदुर्भिक्षरोगावृष्टिश्च ।}}
<small>अपि च ।</small>
{{bold|<poem>{{gap}}कूटाङ्गारनिभः स्निग्धो मार्गस्थो रजतप्रभः ।
{{gap}}विस्तृतो विश्वप्रजाभावकरः स्मृतः ॥</poem>}}
<small>कूटाङ्गारनिभः सप्तलोहवर्णः ।</small>
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दधिकुमुदशशाङ्ककान्तिभृत् स्फुटविकसन् किरणो वृहत्तनुः ।
{{gap}}सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥</poem>}}
<small>येषामयं स्वामी तेषामेवम्भूतो विशेषेणाभ्युदयाय विपरीतो विशेषेण विपरीताय ।</small>
<small>{{gap}}भार्गवस्वामिकान्याह यवनेश्वरः ।</small>
{{bold|<poem>वज्रादिरत्नाकरगोसुतस्त्रीविवादगन्धाम्बरभूषणानाम् ।
सौभाग्यसौख्यश्रुतिसञ्चयानां प्रभुर्निधीनां धनिनां च शुक्रः ॥</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}चन्द्रभागां वितस्तां च ऐरावतीं पिबन्ति ये ।
{{gap}}पुष्कलावर्त्तकैकेया गान्धारं पुष्कलावतम् <ref>प्रस्थलास्तथा इति अ .। पृष्ठलम्वतम् इति छ. ।</ref>॥
{{gap}}तक्षशिला मालवका दर्शार्णा मौक्तिकं गिरिः ।
{{gap}}धान्याढ्याः कुकुरा <ref>कुञ्जरा इति अ</ref> । गावः प्रस्थापनविलेपने ॥</poem>}}
<small>गिरिर्बहुगिरिर्नाम देशः ।</small>
{{bold|<poem>{{gap}}सुरूपं सुभगोद्यानं कामुका: कामचारिणः ।
{{gap}}पेशला मधुरा हृद्याः सलिलाशयजीविनः ॥
{{gap}}तरुणा योषितः क्रीडा विदुषां जनगोष्ठिका ।
{{gap}}चित्राण्डजाः कुशास्तरणपत्रोर्णं नालिकामलम् चित्राण्डाजाश्च<ref>कोशेयं पत्रोर्णे काशिकौशलम् इति अ. ।</ref>॥<poem>
{{rule}}<noinclude></noinclude>
df8h7enbt07jl18176bimkgu281n1yd
पृष्ठम्:अद्भुतसागरः.djvu/१४५
104
125170
341348
340451
2022-07-25T07:27:39Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=|right=१२७}}भार्गवाद्भुतावर्त्तः ।}}</noinclude>{{bold|<poem>{{gap}}पिप्पल्यश्चन्दनं जातिरजाद्यामलकं<ref>जातीफलमामलकम् इति अ ।</ref> तथा ।
{{gap}}गन्धपत्रं च लोध्रं च शुक्र एषां पतिः स्मृतः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}तक्षशिलमार्त्तिकावतबहुगिरिगान्धारपुष्कलावतकाः ।
{{gap}}प्रस्थलमालवकैकयदशार्णकोशीनरः शिवयः ॥
{{gap}}ये च पिबन्ति वितस्तामैरावतीं चन्द्रभागसरितं च ।
{{gap}}रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥
{{gap}}सुरभिकुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः ।
{{gap}}वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः ॥
{{gap}}उद्यानसलिलकामुक यशःसुखौदार्यरूपसम्पन्नाः ।
{{gap}}विद्वदमात्यवणिग्जनपट<ref>घट इति अ..।</ref>कृच्चित्राण्डजास्त्रिफलाः ॥
{{gap}}कौशेयकटुक<ref>पट्ट इति अ ।</ref> <ref>गन्धपत्रचोचानि इति अ । तत्र चोचं मलिनपत्रं नारिकेलं च इति भट्टोत्पलः ।</ref>कम्बलपत्रौर्णिकलोध्रुगन्धपत्राणि ।
{{gap}}जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः गन्धपत्रचोचानि इति अ । तत्र चोचं मलिनपत्रं नारिकेलं च इति भट्टोत्पलः ।॥</poem>}}
<small>वटकणिकायां तु ।</small>
{{bold|<poem>{{gap}}देशा भृगोस्तक्षशिला वितस्ता गान्धारकाः पुष्कलमालवाश्च ।
{{gap}}दशार्णकोशीनरचन्द्रभागाश्चैद्याश्च संप्रस्थलकैकयाख्याः ॥</poem>}}
<small>अशुभसूचकभार्गवलक्षणमाह पराशरः ।</small>
{{bold|<poem>{{gap}}श्यावनीलरूक्षकपिलरक्तध्वस्तदीनाल्पलोधसन्निभः शस्त्रवैरव्याध्यवर्षान्नक्षयकरः ।</poem>}}
<small>अथ वर्णफलम् । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}सुवर्णरजताभश्च घृतमण्डनिभो महान् ।
{{gap}}शुक्रो माञ्जिष्ठवर्णश्च दधिवर्णश्च वर्षकः ॥</poem>}}<noinclude></noinclude>
mgia1i5so1zkscu22039ymyk49rfr9y
पृष्ठम्:अद्भुतसागरः.djvu/१४६
104
125171
341355
340453
2022-07-25T09:22:01Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१२८|center=अद्भुतसागरे}}}}</noinclude><small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शिखिभयमनलाभे शस्त्रकोपश्च रक्ते
{{gap}}{{gap}}कनकनिकषगौरे व्याधयो दैत्यपूज्ये ।
{{gap}}हरितकपिशरूपे श्वासकासप्रकोपः
{{gap}}{{gap}}पतति न सलिलं खाद्बस्मरुक्षासिताभे ॥</poem>}}
<small>वृद्धगर्गश्च ।</small>
{{bold|<poem>{{gap}}नीले कपिलवर्णे वा भयं भवति भार्गवे ।
{{gap}}ताम्रवर्णे तथा रूक्षे मेघेष्वम्बु न विद्यते ॥
{{gap}}श्यामवर्णोऽभिघाताय नीलपीतस्तु रोगकृत् ।
{{gap}}चित्रे भयान्युदीर्यन्ते दुर्भिक्षं कपिले भवेत् ॥
{{gap}}धूम्रवर्णोऽग्निवर्णो वा कुर्याद्वस्त्राग्निसम्भवम् ।</poem>}}
<small>अथ नक्षत्रगतफलम् । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}अश्विन्यां तुरगे पीडा याम्ये तु कृषिजीविनाम् ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>अश्विन्यां हयपीडा याम्ये तु किरातयवनाम् ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>अनलमभिव्रजन् पुरविरोधाय ।</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}भेदयेत् कृत्तिकां शुक्रो बहु तोयं हि पातयेत् ।
{{gap}}रोहिणीतुरगं घोरं गृद्धाकुलभयावहम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}भिन्दन् गतोऽनलर्क्षं कुलातिक्रान्तवारिवाहाभिः ।
{{gap}}अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}मृगे तु सर्वशस्यानां क्षयं कुर्याद्भृगोः सुतः ।</poem>}}<noinclude></noinclude>
caffy34ye3razujb2bhjegfx0bszb80
341356
341355
2022-07-25T09:25:05Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१२८|center=अद्भुतसागरे}}}}</noinclude><small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शिखिभयमनलाभे शस्त्रकोपश्च रक्ते
{{gap}}{{gap}}कनकनिकषगौरे व्याधयो दैत्यपूज्ये ।
{{gap}}हरितकपिशरूपे श्वासकासप्रकोपः
{{gap}}{{gap}}पतति न सलिलं खाद्बस्मरुक्षासिताभे ॥</poem>}}
<small>वृद्धगर्गश्च ।</small>
{{bold|<poem>{{gap}}नीले कपिलवर्णे वा भयं भवति भार्गवे ।
{{gap}}ताम्रवर्णे तथा रूक्षे मेघेष्वम्बु न विद्यते ॥
{{gap}}श्यामवर्णोऽभिघाताय नीलपीतस्तु रोगकृत् ।
{{gap}}चित्रे भयान्युदीर्यन्ते दुर्भिक्षं कपिले भवेत् ॥
{{gap}}धूम्रवर्णोऽग्निवर्णो वा कुर्याद्वस्त्राग्निसम्भवम् ।</poem>}}
<small>अथ नक्षत्रगतफलम् । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}अश्विन्यां तुरगे पीडा याम्ये तु कृषिजीविनाम् ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}अश्विन्यां हयपीडा याम्ये तु किरातयवनाम् ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>अनलमभिव्रजन् पुरविरोधाय ।</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}भेदयेत् कृत्तिकां शुक्रो बहु तोयं हि पातयेत् ।
{{gap}}रोहिणीतुरगं घोरं गृद्धाकुलभयावहम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}भिन्दन् गतोऽनलर्क्षं कुलातिक्रान्तवारिवाहाभिः ।
{{gap}}अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}मृगे तु सर्वशस्यानां क्षयं कुर्याद्भृगोः सुतः ।</poem>}}<noinclude></noinclude>
arbqtv4gfu09jxs2kl9d77e85ppjgjy
पृष्ठम्:अद्भुतसागरः.djvu/१४७
104
125172
341359
340454
2022-07-25T09:32:20Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=|right=भार्गवाद्भुतावर्त्तः ।}}}}</noinclude>{{bold|{{gap}} <ref>इत: प्रभृतीनि सर्वाणि शुक्रनक्षत्रचारफलबोधकानि काश्यपवचनानि अ. पुस्तकेऽन्यथा दृश्यन्ते । द्रष्टव्यम् अ. पृ. २२३।</ref>आर्द्रायां कलिङ्गजातान् कोशलाँश्च निपीडयेत् ॥}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सौम्योपगतो रसशस्यसंक्षयायोशनाः समादिष्टः ।
{{gap}}आर्द्रागितस्तु कोशलकलिङ्गहा सलिलनिकरकरः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}पुनर्वसौ विदर्भाँश्च पीडयत्युशनाः शुभः ।
{{gap}}पुष्ये तु वृष्टिमाख्याति पुष्टां शस्यविवृद्धये ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः ।
{{gap}}पुष्ये पुष्टा वृष्टिर्विद्याधररणविमर्दश्च ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}आश्लेषासु च सर्पाणां पीडां कुर्याद्भृगोः सुतः ।
{{gap}}मघायां तु गते घोरं भयं विन्द्यात् तु भार्गवे ॥
{{gap}}सलिलं च भवद्भूरि येन धात्री न दृश्यते ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}आश्लेषासु भुजङ्गमदारुणपीडावहश्चरन् शुक्रः ।
{{gap}}भिन्दन्मघां महामात्रदोषकृद्भूरिवृष्टिकरः ॥</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}भाग्ये पुलिन्दशवरान् नाशयेत् सलिलं पतेत् ।
{{gap}}आर्यम्णे तु भवेत् पीडा पाञ्चालकुरुजाङ्गले ॥
{{gap}}सुवृष्टिश्च सुभिक्षश्च चरत्यस्मिन् भृगोः सुते ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}भाग्ये शवरपुलिन्दप्रध्वंसकरोऽम्बुनिवहमोक्षाय |
{{gap}}आर्यम्णे कुरुजाङ्गलपाञ्चालघ्नः सलिलदायी ॥</poem>}}
{{rule}}<noinclude></noinclude>
b60heav4s7kjkud67lig30qkkd2pyq9
341360
341359
2022-07-25T09:33:03Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=भार्गवाद्भुतावर्त्तः ।|right=१२९}}}}</noinclude>{{bold|{{gap}} <ref>इत: प्रभृतीनि सर्वाणि शुक्रनक्षत्रचारफलबोधकानि काश्यपवचनानि अ. पुस्तकेऽन्यथा दृश्यन्ते । द्रष्टव्यम् अ. पृ. २२३।</ref>आर्द्रायां कलिङ्गजातान् कोशलाँश्च निपीडयेत् ॥}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सौम्योपगतो रसशस्यसंक्षयायोशनाः समादिष्टः ।
{{gap}}आर्द्रागितस्तु कोशलकलिङ्गहा सलिलनिकरकरः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}पुनर्वसौ विदर्भाँश्च पीडयत्युशनाः शुभः ।
{{gap}}पुष्ये तु वृष्टिमाख्याति पुष्टां शस्यविवृद्धये ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः ।
{{gap}}पुष्ये पुष्टा वृष्टिर्विद्याधररणविमर्दश्च ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}आश्लेषासु च सर्पाणां पीडां कुर्याद्भृगोः सुतः ।
{{gap}}मघायां तु गते घोरं भयं विन्द्यात् तु भार्गवे ॥
{{gap}}सलिलं च भवद्भूरि येन धात्री न दृश्यते ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}आश्लेषासु भुजङ्गमदारुणपीडावहश्चरन् शुक्रः ।
{{gap}}भिन्दन्मघां महामात्रदोषकृद्भूरिवृष्टिकरः ॥</poem>}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}भाग्ये पुलिन्दशवरान् नाशयेत् सलिलं पतेत् ।
{{gap}}आर्यम्णे तु भवेत् पीडा पाञ्चालकुरुजाङ्गले ॥
{{gap}}सुवृष्टिश्च सुभिक्षश्च चरत्यस्मिन् भृगोः सुते ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}भाग्ये शवरपुलिन्दप्रध्वंसकरोऽम्बुनिवहमोक्षाय |
{{gap}}आर्यम्णे कुरुजाङ्गलपाञ्चालघ्नः सलिलदायी ॥</poem>}}
{{rule}}<noinclude></noinclude>
cmhgxnkypxbyk7pmt5rznpti9bzkfpz
पृष्ठम्:अद्भुतसागरः.djvu/१४८
104
125173
341363
340455
2022-07-25T09:38:21Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१३०|center=अद्भुतसागरे}}}}</noinclude><small>काश्यपः ।</small>
{{bold|<poem>{{gap}}हस्ते प्राप्ते कौरवाणां पीडां चित्रकरेषु च ।
{{gap}}जलस्य तु निरोधं वै कुर्यादेवं तु भार्गवः ॥
{{gap}}सवृष्टिं कृपकृत्पीडां चित्राभेदं यदा व्रजेत् ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः ।
{{gap}}कूपकृदण्डजपीडा चित्रास्थे शोभना वृष्टिः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}स्वातिं स्थित्वा सुवृष्टिं च वणिङ्नाविकभीतिकृत् ।
{{gap}}वराहसंहितायां तु स्वातिगतिमात्रेण फलमुक्तम् ।
{{gap}}स्वातौ प्रभूतवृष्टिर्दूतवणिङ्नाविकान् स्पृशत्यनयः ।</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}विशाखायां सुवृष्टिश्च मैत्रे मैत्रं विकाश्यते ।
{{gap}}ऐन्द्रे पौरविरोध: स्यान्मूले तु भिषजां भयम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}ऐन्द्राग्नेऽपि सुदृष्टिर्वणिजां न भयं विजानीयात् ।
{{gap}}मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसंतापः ॥
{{gap}}मौलिकभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः ।</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}आषाढयोर्व्याधिभयं वैष्णवे श्रवणे रुजः ।
{{gap}}धनिष्ठायां कर्मकृतां वारुणे शौण्डिकक्षयः ॥
{{gap}}प्रौष्ठपादे व्याघ्रहिंसा आहिर्बुध्न्ये फलक्षयः ।
{{gap}}पापिनां सनृपाणां च पौष्णे विद्यान्महाभयम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति ।
{{gap}}श्रवणे श्रवणव्याधिः पाखण्डभयं धनिष्ठासु ॥</poem>}}<noinclude></noinclude>
0uf43fo8aonx23blwsm4rcbxxdj7g9h
पृष्ठम्:अद्भुतसागरः.djvu/१४९
104
125174
341367
340456
2022-07-25T09:49:37Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=भार्गवाद्भुतावर्त्तः ।|right=१३१}}</noinclude>{{bold|<poem>{{gap}}शतभिषजि सौण्डिकानामजैकभे द्यूतजीविनां पीडा।
{{gap}}कुरुपाञ्चालानामपि करोति चास्मिन् सितः सलिलम् ॥
{{gap}}आहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम् ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}भार्ग्यार्यमानिलेन्द्राग्नेयप्रौष्ठपादरौद्रयाम्यतिष्यगतः स्निग्धो रश्मिवान् वर्षकरः ।</poem>}}
<small>वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}भाद्रपदानिलचित्रा याम्यविशाखे सफाल्गुन्यौ ।
{{gap}}समुपेत्य वर्षति सितो भिन्दँश्च गतो मघाग्नेये ॥
{{gap}}मूलज्येष्ठाषाढापुनर्वसूनां यदैति मध्येन ।
{{gap}}भौमहते चामार्गे। यावत् तावत् कुतः सलिलम् ॥</poem>}}
<small>पराशरः ।</small>
{{bold|{{gap}}प्राजापत्यत्वाष्टेन्द्राग्नेयमैत्राणामुदङ्मध्यदक्षिणेन च व्रजन् क्षेमशस्यवृष्टीनां प्रकृष्टमध्यान्तफलो भवति मित्र्याग्नेययोरुदङ्मध्यगतः । प्रजाहिताय एवमेवाषाढादित्यरोहिणीमध्यगत इन्दोर्दक्षिणतः सुवृष्टये सूर्यादुत्तरतः ।}}
{{bold|<poem>{{gap}}अवर्षके भे विचरन् यदि वर्षति भार्गवः ।
{{gap}}वर्षकर्क्षगतो वर्षं षोडशार्चिर्न वर्षति ॥</poem>}}
<small>षोडशार्चिरिति संपूर्णरश्मिरपि न वर्षतीत्यर्थः ।</small>
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}आग्नेयत्वाष्ट्रमैत्राणि रोहिणीं पित्र्यमेव च ।
{{gap}}ऐन्द्राग्नं चापि रौद्रं च शुक्रो दक्षिणतश्चरन् ॥
{{gap}}करोत्यर्थकृतां वृद्धिमवृष्टिं शस्यनिग्रहम् ।
{{gap}}शस्त्रं रोगं च कोपं च ग्रीष्मे चाग्निभयं भवेत् ॥
{{gap}}आषाढरोहिणीनां च भेदने च पुनर्वसोः ।</poem>}}<noinclude></noinclude>
ix9w8ac60j8p4dlmm2osao44gibjj1n
341368
341367
2022-07-25T09:49:51Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=भार्गवाद्भुतावर्त्तः ।|right=१३१}}}}</noinclude>{{bold|<poem>{{gap}}शतभिषजि सौण्डिकानामजैकभे द्यूतजीविनां पीडा।

hdrgk514w6nt397eas0jr3getyj3tpk
341369
341368
2022-07-25T09:50:25Z

5u71ruc4hs1kwug0ihh2n894lbb7w0e
पृष्ठम्:शिवलीलार्णवः.djvu/१५३
104
125378
341224
341219
2022-07-24T15:01:59Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>विंशः सर्गः ।
अज्ञानमस्य कवितापदसम्प्ररूढ-
माद्यः कविः शमयितुं कलशोद्भवेन ।
उद्बोधयन् द्रमिडसूत्ररहस्यसार-
मुच्चैर्यशो जगति कीरकवेर्व्यतारीत् ॥ ६६ ॥
अधीत्य कीराद् द्रमिडागमार्थमथापरे सङ्घकविप्रवेकाः ।
वृत्तीर्विचित्राः स्वयमारचय्य पस्पर्धिरे ते तु परस्परेण ॥ ६७ ॥
स्वस्य प्रबन्धोत्तममध्यमत्वे संशय्य सर्वे कृतसंविदस्ते ।
सर्वज्ञमीशं शरणं प्रपन्नास्तस्मिन्नतिष्ठन्त कृतप्रणामाः ॥ ६८ ॥
आविर्भूय ततो लिङ्गादाह तान् मधुरेश्वरः ।
तदीयेषु प्रबन्धेषु तारतम्यविवेचने ॥ ६९ ॥
अस्ति रुद्र इति ख्यातो वैश्यः स्कन्दांशसम्भवः ।
शापान्मे मूकतां प्राप्तः स वश्छेत्स्यति संशयम् ॥ ७० ॥
शृण्वतस्तस्य यां हर्षात् स्यन्दते बाष्पनिर्झरः ।
सकण्टकानि चाङ्गानि सा वृत्तिर्गृह्यतामिति ॥ ७१ ॥
तदनु तमुपगम्य श्रावयन्तः स्वसूक्तीः
पृथगुपचितबाष्पाः कण्टकोद्भेदरम्याः ।
कपिलभरणकीरैः कल्पिता एव वृत्ती:
परिजगृहुरथान्यास्तत्यजुर्दूरतस्ते ॥ ७२ ॥
दिवं गते चम्पकपाण्ड्यदेवे ततश्चिरात् कोऽपि तदन्ववाये ।
राजा कवीनामपि पार्थिवानां राजा कुलेशो धरणीं बभार ॥ ७३ ॥
अथ सङ्घिषु कस्यचित् कवेरवमेने स यदा सरस्वतीम् ।
मधुराधिपतेर्मनस्यभूत् प्रतिघो भक्तदयानिधेस्तदा ॥ ७४ ॥
कदम्बमूलमुत्सृज्य कविभिः सह शङ्करः ।
स्थानमुत्तरहालास्यं प्राप वेगवतीतटे ॥ ७५ ॥
क्षितिपतिरथेशानं जानन् रुषा परिनिर्गतं
4 कविकुलमशेषं (कविभिः सह शङ्करः ।)
प्रतिनवसुधाधारासारास्पदैर्वचनैः स्तुवन्
नगरमनयद् भूयः श्रेयस्करं जगतां हरम् ॥ ७६ ॥<noinclude></noinclude>
c14abatuj0ih3sz9r27m4h4a02utc5x
पृष्ठम्:शिवलीलार्णवः.djvu/१५४
104
125379
341225
2022-07-24T15:02:17Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे
कालेन केनापि तु कारणेन देवीं क्वचिद् दाशकुलेऽवतीर्णाम् ।
पाणौ ग्रहीष्यन् प्रमथाधिनाथम्तीरं ययौ दक्षिणवारिराशेः ॥ ७७ ॥
स दाशमाशंसितकन्यकावरं समेत्य देवो मधुरेश्वरो युवा ।
सुतां ययाचे स्वयमुद्गिरन् गिरा स्वमद्भुतं वागुरिकत्वकौशलम् ॥ ७८ ॥
अदृष्टचरमद्भुतं वपुरमुप्य पश्यन्नपि
प्रभावमवधारयन्नपि ततः स्फुटं धीवरः ।
परीक्षितुममुं पुनर्जलघिगर्भसञ्चारिणं
मया समुपदर्शितं मकरमाहरेत्यादिशत् ॥ ७९ ॥
आसाद्य वैसारिणतां चरन्तमम्भोनिधौ नन्दिनमात्मशापात् ।
सन्दर्शितं दाशकुलेश्वरेण सानन्दमालोकत चन्द्रचूडः ॥ ८० ॥
महामायाजालं महदपि निजं स्वप्रपदनाद्
विजित्य स्वच्छन्दं पयसि विहरन्तं जलनिधेः ।
ग्रहीतुं शैलादिं किल करुणया वागुरिकया
विशालं चिक्षेप त्रिपुरमथनो जालमुदधौ ॥ ८१ ॥
तद्भक्तिवागुराबद्धस्तरुणेन्दुशिखामणिः ।
आक्षिप्य करुणाजालमाचकर्ष तमर्णवात् ॥ ८२ ॥
मीनमहायापि कृतप्रवृत्तिं मृगाकमौलिं वनितादरेण ।
पश्यन्ननङ्गो विजयध्वजं स्वं प्रायेण चक्रे तदुपक्रमं तम् ॥ ८३ ॥
आसाद्य सञ्चरं देहमागमान्वेषणोचितम् ।
आलुलोके परं तत्त्वमागमान्विष्टमैश्वरम् ।। ८४ ।।
पर्युपासितपादोऽयं प्रकृतिस्थेन नन्दिना |
कैवर्त्तकन्यां जग्राह कैरवप्रियशेखरः ॥ ८५ ॥
समुत्सृजन् स मत्स्यतां ननन्द नन्दिकेश्वरः
स धीवरश्च भूतले सुधीवरत्वमागतः ।
विमानमागमय्य तां समागते पुरं शिवे
तदा तदाशये मुदं ददाश दाशकन्यका ॥ ८६ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलालार्णव विंशः सर्गः ।
१. तं मीनम् २ सञ्चर देहम् । 'देहम्' इति पदं तु 'दिव्यं' इति पठनीय स्यात् । कर्ता तु
नन्दी गम्यः । अन्यथा ‘सञ्चरम्' इत्यस्य स्थाने 'स चिरं' इति वा 'स चिराद्' इति वा पाठः स्यात्.<noinclude></noinclude>
4dvzdaauphm9z518cud50zdgfqlvupb
341226
341225
2022-07-24T15:05:21Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे
कालेन केनापि तु कारणेन देवीं क्वचिद् दाशकुलेऽवतीर्णाम् ।
पाणौ ग्रहीष्यन् प्रमथाधिनाथस्तीरं ययौ दक्षिणवारिराशेः ॥ ७७ ॥
स दाशमाशंसितकन्यकावरं समेत्य देवो मधुरेश्वरो युवा ।
सुतां ययाचे स्वयमुद्गिरन् गिरा स्वमद्भुतं वागुरिकत्वकौशलम् ॥ ७८ ॥
अदृष्टचरमद्भुतं वपुरमुष्य पश्यन्नपि
प्रभावमवधारयन्नपि ततः स्फुटं धीवरः ।
परीक्षितुममुं पुनर्जलघिगर्भसञ्चारिणं
मया समुपदर्शितं मकरमाहरेत्यादिशत् ॥ ७९ ॥
आसाद्य वैसारिणतां चरन्तमम्भोनिधौ नन्दिनमात्मशापात् ।
सन्दर्शितं दाशकुलेश्वरेण सानन्दमालोकत चन्द्रचूडः ॥ ८० ॥
महामायाजालं महदपि निजं स्वप्रपदनाद्
विजित्य स्वच्छन्दं पयसि विहरन्तं जलनिधेः ।
ग्रहीतुं शैलादिं किल करुणया वागुरिकया
विशालं चिक्षेप त्रिपुरमथनो जालमुदधौ ॥ ८१ ॥
तद्भक्तिवागुराबद्धस्तरुणेन्दुशिखामणिः ।
आक्षिप्य करुणाजालमाचकर्ष तमर्णवात् ॥ ८२ ॥
मीनमहायापि कृतप्रवृत्तिं मृगाकमौलिं वनितादरेण ।
पश्यन्ननङ्गो विजयध्वजं स्वं प्रायेण चक्रे तदुपक्रमं तम् ॥ ८३ ॥
आसाद्य सञ्चरं देहमागमान्वेषणोचितम् ।
आलुलोके परं तत्त्वमागमान्विष्टमैश्वरम् ।। ८४ ।।
पर्युपासितपादोऽयं प्रकृतिस्थेन नन्दिना |
कैवर्त्तकन्यां जग्राह कैरवप्रियशेखरः ॥ ८५ ॥
समुत्सृजन् स मत्स्यतां ननन्द नन्दिकेश्वरः
स धीवरश्च भूतले सुधीवरत्वमागतः ।
विमानमागमय्य तां समागते पुरं शिवे
तदा तदाशये मुदं ददाश दाशकन्यका ॥ ८६ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णव विंशः सर्गः ।
१. तं मीनम् २ सञ्चर देहम् । 'देहम्' इति पदं तु 'दिव्यं' इति पठनीय स्यात् । कर्ता तु
नन्दी गम्यः । अन्यथा ‘सञ्चरम्' इत्यस्य स्थाने 'स चिरं' इति वा 'स चिराद्' इति वा पाठः स्यात्.<noinclude></noinclude>
96juyc0iqc0wyv5nsk0mib0ovr048p0
पृष्ठम्:शिवलीलार्णवः.djvu/१५५
104
125380
341227
2022-07-24T15:06:06Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>एकविंशः सर्गः ।
अथैकविंशः सर्गः ।
कुलेशमाराधयतो महेशं कुलेशपाण्ड्याभवत् कुमारः।
अन्वयर्थन् स्वामरिमर्दनाख्यां बभार पित्रा विधृतां भुवं यः ॥ १ ॥
आस्थानभूषामणिरस्य राज्ञः सर्वागमज्ञः सचिवः सुमेधाः ।
आसीद् द्विजो बातपुरीशनामा वाचस्पतिर्वासवसंसदीव ॥ २ ॥
स सजिघृक्षुस्तुरगानुदारान् सर्वैर्धनौघैरपि पाण्ड्यदेवः ।
तमादिशद् बातपुरीशमेव चोलेषु गन्तुं तटमम्बुराशेः ॥ ३ ॥
लब्धाभ्यनुज्ञः सचिवः स गच्छन् द्वित्रैर्दिनैः प्रैक्षत चोलदेशम् ।
स्तोतुं प्रसक्ते विषयान्तरेऽपि जागर्त्ति यस्मिन्नुपमानभावः ॥ ४ ॥
कान्तासहस्रोपगतस्य सिन्धोः का वा रतिः प्रावृषि सेवयेति ।
सङ्गच्छते तेन निदाघ एव सह्यात्मजा यत्र हि निस्सपलम् ॥ ५ ॥
वर्षास्ववज्ञैव शरयुपेक्षा द्वेषो हिमे वाथ हिमात्यये वा ।
यत्राप्सु रागः सुरभौ शुचौ च तत्रैव यस्मिन् सरितो वहन्ति ॥ ६ ॥
प्रावृड्डिमर्दो दिशि पश्चिमायामुत्पीडपीडा पुनरुत्तरस्याम् ।
स्वैरोपयोगो यदि सह्यजाया यत्रैव सौभाग्यमितः किमस्य ॥ ७ ॥
प्रत्यग्रपू ( रा ? ) गाभिगतेषु यस्मिन् प्रस्निग्धरम्भावन मेदुरेषु ।
कवेरकन्यातटकाननेषु कामः समुन्मीलति धर्म एव ॥ ८ ॥
हव्याय यत्रापततां सुराणामातिथ्यनिर्वर्त्तनतोऽनुवेलम् ।
गन्धर्वविद्याधरकिन्नराद्या निर्विद्य निन्दन्ति पथि स्थितिं स्वाम् ॥ ९ ॥
अध्येतुमध्यापयितुं च तन्त्राण्याहर्तुमर्थानथ चोपभोक्तुम् ।
स्वर्गापवर्गौ च वशे विधातुं जात्यैव यस्मिन् द्रमिडा निरूढाः ॥ १० ॥
स्वादीयसी यत्र कवेरजैव ततस्तरां केरफलोदकानि ।
१४७
ततस्तमां चाथ गिरां विलासाः प्रसन्नगम्भीरपदाः कथीनाम् ॥ ११ ॥
द्रष्टुं न रम्भापनसाम्रकेरच्छायावृते यत्र हि शक्यमर्कम् ।
शक्यं तु सम्भावयितुं सरोजसौरभ्यसम्भारहरैः समीरैः ॥ १२ ॥
ये जातिभेदाः क्रमुकाम्रकेरशालीक्षुरम्भाफणिवल्लरीणाम् ।
व्युत्पित्सवस्तेषु चरन्ति पान्था विश्रम्य विश्रम्य चिराय यस्मिन् ॥ १३ ॥
नाग<noinclude></noinclude>
leanzmwrystawue1pts9dlla4roysa6
341228
341227
2022-07-24T15:09:56Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>एकविंशः सर्गः ।
अथैकविंशः सर्गः ।
कुलेशमाराधयतो महेशं कुलेशपाण्ड्याभवत् कुमारः।
अन्वयर्थन् स्वामरिमर्दनाख्यां बभार पित्रा विधृतां भुवं यः ॥ १ ॥
आस्थानभूषामणिरस्य राज्ञः सर्वागमज्ञः सचिवः सुमेधाः ।
आसीद् द्विजो बातपुरीशनामा वाचस्पतिर्वासवसंसदीव ॥ २ ॥
स सञ्जिघृक्षुस्तुरगानुदारान् सर्वैर्धनौघैरपि पाण्ड्यदेवः ।
तमादिशद् बातपुरीशमेव चोलेषु गन्तुं तटमम्बुराशेः ॥ ३ ॥
लब्धाभ्यनुज्ञः सचिवः स गच्छन् द्वित्रैर्दिनैः प्रैक्षत चोलदेशम् ।
स्तोतुं प्रसक्ते विषयान्तरेऽपि जागर्त्ति यस्मिन्नुपमानभावः ॥ ४ ॥
कान्तासहस्रोपगतस्य सिन्धोः का वा रतिः प्रावृषि सेवयेति ।
सङ्गच्छते तेन निदाघ एव सह्यात्मजा यत्र हि निस्सपत्नम् ॥ ५ ॥
वर्षास्ववज्ञैव शरद्युपेक्षा द्वेषो हिमे वाथ हिमात्यये वा ।
यत्राप्सु रागः सुरभौ शुचौ च तत्रैव यस्मिन् सरितो वहन्ति ॥ ६ ॥
प्रावृड्डिमर्दो दिशि पश्चिमायामुत्पीडपीडा पुनरुत्तरस्याम् ।
स्वैरोपयोगो यदि सह्यजाया यत्रैव सौभाग्यमितः किमस्य ॥ ७ ॥
प्रत्यग्रपू ( रा ? ) गाभिगतेषु यस्मिन् प्रस्निग्धरम्भावन मेदुरेषु ।
कवेरकन्यातटकाननेषु कामः समुन्मीलति धर्म एव ॥ ८ ॥
हव्याय यत्रापततां सुराणामातिथ्यनिर्वर्त्तनतोऽनुवेलम् ।
गन्धर्वविद्याधरकिन्नराद्या निर्विद्य निन्दन्ति पथि स्थितिं स्वाम् ॥ ९ ॥
अध्येतुमध्यापयितुं च तन्त्राण्याहर्तुमर्थानथ चोपभोक्तुम् ।
स्वर्गापवर्गौ च वशे विधातुं जात्यैव यस्मिन् द्रमिडा निरूढाः ॥ १० ॥
स्वादीयसी यत्र कवेरजैव ततस्तरां केरफलोदकानि ।
१४७
ततस्तमां चाथ गिरां विलासाः प्रसन्नगम्भीरपदाः कवीनाम् ॥ ११ ॥
द्रष्टुं न रम्भापनसाम्रकेरच्छायावृते यत्र हि शक्यमर्कम् ।
शक्यं तु सम्भावयितुं सरोजसौरभ्यसम्भारहरैः समीरैः ॥ १२ ॥
ये जातिभेदाः क्रमुकाम्रकेरशालीक्षुरम्भाफणिवल्लरीणाम् ।
व्युत्पित्सवस्तेषु चरन्ति पान्था विश्रम्य विश्रम्य चिराय यस्मिन् ॥ १३ ॥
नाग<noinclude></noinclude>
9mhil5v90c69l0j8ecnsjqpyyifqdn4
पृष्ठम्:शिवलीलार्णवः.djvu/१५६
104
125381
341229
2022-07-24T15:10:13Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे
●
आदाय शस्त्राण्यवगाह्य सिन्धुं तपांसि विक्रीय च तत्रयन्ते ।
यत्रान्यतस्तत्र कलौ यदीया यजन्त्यविच्छिन्नमधीयते च ॥ १४ ॥
सान्यत्र सिन्धुर्ननु यात्र कुल्या तेऽन्यत्र धन्या इह ये कदर्याः ।
ये
अभ्यस्तविद्या इव येऽत्र किञ्चिदन्यत्र विद्यागुरवस्त एव ॥ १५ ॥
गच्छन्नहोभिः कतिभिश्चिदस्मिन् स पश्चिमे योजनतः पयोधेः ।
माकन्दरम्भावनसान्द्रमेकं माहेश्वरं धाम समालुलेोके ॥ १६ ॥
अध्यासितं पाशुपतैर्महद्भिरालोक्य वल्मीकपतेः पदं तत् ।
अप्राकृतीं भाग्यवशात् ततोऽयमाध्यात्मिकीं तामपि शुद्धिमूहे ॥ १७ ॥
आस्थाय कारुण्यर सैकरूपामाचार्यमूर्त्तिं मधुरैर्वचोभिः |
प्रबोधयन्तं शतशो महर्षीन् प्रत्यक्षमैक्षिष्ट स चन्द्रचूडम् ॥ १८ ॥
अङ्गैः क्षितावष्टभिरानभन्तं तं दूरतो बाप्पतरङ्गिताक्षम् ।
दृष्ट्या दयाशीलतयानुगृह्णन् देवः समीपस्थितिमादिदेश ॥ १९ ॥
उत्प्रेक्षितस्योद्वणशक्तिपातं शुद्धाध्वलिप्सासुभगैर्वचोभिः ।
सम्भावयन् नैष्ठिकदीक्षया तं चन्द्रार्धचूडः स्वयमन्वगृह्णात् ॥ २० ॥
आरुह्य माहेश्वरमाश्रमं सः सञ्छिन्नपाशः सचिवः क्षणेन ।
अश्वाय नीतैर्द्रविणैर्महेशमाराधयन् पार्थिवमप्यरक्षत् ॥ २१ ॥
आकारितो दूतमुखेन राज्ञा कर्गेजपालापकलङ्कितेन ।
अश्वैः सहैवागमनं स्वकीयं शम्भोर्निदेशेन स सन्दिदेश ॥ २२ ॥
अश्वानसङ्ख्यानहमानयेयमासीद राजानमपेतशङ्कः ।
इति स्थिरं व्याहृतमिन्दुमौलेर्विश्वस्य भूयः स पुरीमविक्षत् ॥ २३ ॥
अश्वानमूल्यानमितान् समीपमासादितानप्यरिमर्दनाय ।
निवेदयन् वृत्तमिदं स सर्वे न्यवेदयन्नीपवनेश्वरेऽपि ॥ २४ ॥
पन्थानमालक्ष्य तुरङ्गमाणां पाण्ड्ये परेयुः स्वयमादिनान्तात् ।
क्रुद्ध्यत्युदाकुर्वत राजभृत्या क्रूराशया मन्त्रिणि लब्धरन्धाः ॥ २९ ॥
कृताभ्यनुज्ञैः कुपितेन राज्ञा क्रूरैश्चिरद्वेषिभिरस्य भृत्यैः ।
कदर्थ्यमानः करुणं स भूयो विसृज्य धैर्य विललाप धीरः ॥ २६ ॥<noinclude></noinclude>
ln863fujiur9690hs8z7faw89nxd6iv
341230
341229
2022-07-24T15:14:35Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे
●
आदाय शस्त्राण्यवगाह्य सिन्धुं तपांसि विक्रीय च तत्रयन्ते ।
यत्रान्यतस्तत्र कलौ यदीया यजन्त्यविच्छिन्नमधीयते च ॥ १४ ॥
सान्यत्र सिन्धुर्ननु यात्र कुल्या तेऽन्यत्र धन्या इह ये कदर्याः ।
ये
अभ्यस्तविद्या इव येऽत्र किञ्चिदन्यत्र विद्यागुरवस्त एव ॥ १५ ॥
गच्छन्नहोभिः कतिभिश्चिदस्मिन् स पश्चिमे योजनतः पयोधेः ।
माकन्दरम्भावनसान्द्रमेकं माहेश्वरं धाम समालुलोके ॥ १६ ॥
अध्यासितं पाशुपतैर्महद्भिरालोक्य वल्मीकपतेः पदं तत् ।
अप्राकृतीं भाग्यवशात् ततोऽयमाध्यात्मिकीं तामपि शुद्धिमूहे ॥ १७ ॥
आस्थाय कारुण्यर सैकरूपामाचार्यमूर्त्तिं मधुरैर्वचोभिः |
प्रबोधयन्तं शतशो महर्षीन् प्रत्यक्षमैक्षिष्ट स चन्द्रचूडम् ॥ १८ ॥
अङ्गैः क्षितावष्टभिरानभन्तं तं दूरतो बाष्पतरङ्गिताक्षम् ।
दृष्ट्या दयाशीलतयानुगृह्णन् देवः समीपस्थितिमादिदेश ॥ १९ ॥
उत्प्रेक्षितस्योद्वणशक्तिपातं शुद्धाध्वलिप्सासुभगैर्वचोभिः ।
सम्भावयन् नैष्ठिकदीक्षया तं चन्द्रार्धचूडः स्वयमन्वगृह्णात् ॥ २० ॥
आरुह्य माहेश्वरमाश्रमं सः सञ्छिन्नपाशः सचिवः क्षणेन ।
अश्वाय नीतैर्द्रविणैर्महेशमाराधयन् पार्थिवमप्यरक्षत् ॥ २१ ॥
आकारितो दूतमुखेन राज्ञा कर्गेजपालापकलङ्कितेन ।
अश्वैः सहैवागमनं स्वकीयं शम्भोर्निदेशेन स सन्दिदेश ॥ २२ ॥
अश्वानसङ्ख्यानहमानयेयमासीद राजानमपेतशङ्कः ।
इति स्थिरं व्याहृतमिन्दुमौलेर्विश्वस्य भूयः स पुरीमविक्षत् ॥ २३ ॥
अश्वानमूल्यानमितान् समीपमासादितानप्यरिमर्दनाय ।
निवेदयन् वृत्तमिदं स सर्वे न्यवेदयन्नीपवनेश्वरेऽपि ॥ २४ ॥
पन्थानमालक्ष्य तुरङ्गमाणां पाण्ड्ये परेयुः स्वयमादिनान्तात् ।
क्रुद्ध्यत्युदाकुर्वत राजभृत्या क्रूराशया मन्त्रिणि लब्धरन्ध्राः ॥ २९ ॥
कृताभ्यनुज्ञैः कुपितेन राज्ञा क्रूरैश्चिरद्वेषिभिरस्य भृत्यैः ।
कदर्थ्यमानः करुणं स भूयो विसृज्य धैर्य विललाप धीरः ॥ २६ ॥<noinclude></noinclude>
q8v8iu3p482ndaeeqdnlk7sa9kjpztn
पृष्ठम्:शिवलीलार्णवः.djvu/१५७
104
125382
341231
2022-07-24T15:14:59Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>एकविंशः सर्गः ।
व्यासज्जसे किमधुना विधिकेशवाद्यै-
र्व्यासज्जसे किमथवा ललितैर्भवान्याः ।
कन्दन्ति कत्यशरणा इह माहशोऽन्ये
कर्णातिथिर्भवतु कस्य तवार्त्तनादः ॥ २७ ॥
बद्धस्य दुष्परिहरैर्मलकर्ममाया-
बन्धैस्त्रिभिर्मम चिरादपि दीनबन्धो ! ।
बन्धं हरिष्यसि किलेति घृतक्षणस्य
बन्धं तुरीयमपि हा कथमद्य दत्से ॥ २८ ॥
कर्मेति काल इति वापदिशन्ति येऽन्ये
किं तैरिति त्रिजगतीं तृणवद् विचिन्त्य ।
त्वामेव संश्रितवतोऽपि दशा यदीयं
त्वं बुध्यसे क्कनु भवत्ययशो यशो वा ॥ २९ ॥
नाहं बिभेमि नृपतेर्नच तद्भटेभ्यः
कुर्वन्ति नाम किममी परतोऽपि मृत्योः ।
इत्थं कृतान्तवशगेऽपि हि मय्युपेक्षा
किं ते भवेदिति विषदति किन्तु चेतः ॥ ३० ॥
एकं विधेयमवलम्बनमित्युपेक्ष्य
नीतिं श्रितोऽस्मि चरणौ तव चन्द्रमौले ! |
आतः किमित्थमियमापदि मे महत्या-
मन्योन्यदत्तभरयोरनयोरुपेक्षा ॥ ३१ ॥
किं ज्ञानयोगविभवैः शिव! किं तपोभिः
किं कर्मभिश्च हृदयं तव रञ्जययम् ।
कन्दल्लठत्कृपणदर्शनकौतुकं वा
निर्वर्त्त्य दास्यपदवीं तव निर्वहेयम् ॥ ३२ ॥
प्रारब्धकर्माणि चलत्यविलङ्घनीये
भक्तिः करिष्यति किमीशपदार्पितेति ।
दुर्निश्चयो हतधियामिह दुःश्रवोऽयं
निन्देव ते मनसि मे परिवर्तमानः ॥ ३३ ॥<noinclude></noinclude>
gjn97sqrnuh6ocepk0gsgp3fq51xanh
341232
341231
2022-07-24T15:17:48Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>एकविंशः सर्गः ।
व्यासज्जसे किमधुना विधिकेशवाद्यै-
र्व्यासज्जसे किमथवा ललितैर्भवान्याः ।
क्रन्दन्ति कत्यशरणा इह माहशोऽन्ये
कर्णातिथिर्भवतु कस्य तवार्त्तनादः ॥ २७ ॥
बद्धस्य दुष्परिहरैर्मलकर्ममाया-
बन्धैस्त्रिभिर्मम चिरादपि दीनबन्धो ! ।
बन्धं हरिष्यसि किलेति घृतक्षणस्य
बन्धं तुरीयमपि हा कथमद्य दत्से ॥ २८ ॥
कर्मेति काल इति वापदिशन्ति येऽन्ये
किं तैरिति त्रिजगतीं तृणवद् विचिन्त्य ।
त्वामेव संश्रितवतोऽपि दशा यदीयं
त्वं बुध्यसे क्कनु भवत्ययशो यशो वा ॥ २९ ॥
नाहं बिभेमि नृपतेर्नच तद्भटेभ्यः
कुर्वन्ति नाम किममी परतोऽपि मृत्योः ।
इत्थं कृतान्तवशगेऽपि हि मय्युपेक्षा
किं ते भवेदिति विषदति किन्तु चेतः ॥ ३० ॥
एकं विधेयमवलम्बनमित्युपेक्ष्य
नीतिं श्रितोऽस्मि चरणौ तव चन्द्रमौले ! |
आतः किमित्थमियमापदि मे महत्या-
मन्योन्यदत्तभरयोरनयोरुपेक्षा ॥ ३१ ॥
किं ज्ञानयोगविभवैः शिव! किं तपोभिः
किं कर्मभिश्च हृदयं तव रञ्जययम् ।
क्रन्दलुठत्कृपणदर्शनकौतुकं वा
निर्वर्त्त्य दास्यपदवीं तव निर्वहेयम् ॥ ३२ ॥
प्रारब्धकर्माणि चलत्यविलङ्घनीये
भक्तिः करिष्यति किमीशपदार्पितेति ।
दुर्निश्चयो हतधियामिह दुःश्रवोऽयं
निन्देव ते मनसि मे परिवर्तमानः ॥ ३३ ॥<noinclude></noinclude>
qq8jb46s6gyigzciv026mwncruxc4em
पृष्ठम्:शिवलीलार्णवः.djvu/१५८
104
125383
341233
2022-07-24T15:18:09Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>og
शिवलीलार्णवे
किं मस्कृतेऽवतरितव्यमशिक्षितं ते
किं वा भुजाभुजि परैः कलहायितव्यम् ।
सङ्कल्पमात्रमपि चेन्न चिकीर्षसि त्वं
शम्भो ! ममैव तु जितं दुरितैर्दुरन्तैः ॥ ३४ ॥
भक्तिर्दृढा यदि ममास्ति भवेत् किमेवं
तु
को वेद तत्त्वमिदमस्ति तु मेऽन्तरङ्गे ।
लोकास्तु भक्त इति मां जगृहुर्यथा ते
त्वां भक्तवश्यमवयन्ति तथा दयेथाः ॥ ३५ ॥
कः स्वापराधिषु पराक्रमते न लोकः
शृङ्गेण हन्ति ननु गारीपै दण्डहस्तम् ।
भक्तापदक्षमतयैव तवेश्वरत्वं
तां नाशय द्रढय वा समयस्तवायम् ॥ ३६॥
यत् प्रालपं चरणयोस्तव यत्तदित्थं
मुग्धो विदग्ध इव मुग्धशशाङ्कमौले! ।
तत् क्षम्यतां मम तु को वचनेऽधिकारः
स्वामी परामृशतु वा स्वमुपेक्षतां वा ॥ ३७ ॥
इति निशम्य स वातपुरीशितुः करुणमालपितं करुणानिधिः ।
तुरगलक्षखुरक्षतरेणुभिः परिपतन् दहशे विधुशेखरः || ३८ ॥
तुरगसादित्व श्रित भक्तानुकम्पया |
शिवा स्वयं तुरगतां शिश्राय बहुधा तदा ॥ ३९ ॥
कुमुदकज्जलकुङ्कुमदाडिमीकुसुमहेमकुवेलसमत्विषः ।
परुषहेषितभीषितशात्रवा दहशिरे दिशि दिश्यपि सैन्धवाः ॥ ४० ॥
समुत्तुङ्गत्वङ्गत्तरतुरगरिङ्खाशतहत-
क्षमारेणुश्रेणिक्षणचुलुकितैरम्बुनिधिभिः ।
स्थलीभूतैः सद्यः सति धरणिभागे द्विगुणिते
भविष्यन् कैमुत्यादजनि विशदस्तस्य विजयः ॥ ४१ ॥
यदि मरुद् विजितं विजितं मनो यदि मनो विजितं विजितं जगत् ।
जितवतां मरुतं च तदर्वतां किमभिधेयमतस्त्रिजगज्जये ॥ ४२ ॥
१. शिवा जम्बुक: अथ च पार्वती.
२. अयं श्लोकः खपुस्तके न दृश्यते,<noinclude></noinclude>
noxtx510wnn0b3vrni8ljwe7kfmlcpa
341234
341233
2022-07-24T15:21:03Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>og
शिवलीलार्णवे
किं मस्कृतेऽवतरितव्यमशिक्षितं ते
किं वा भुजाभुजि परैः कलहायितव्यम् ।
सङ्कल्पमात्रमपि चेन्न चिकीर्षसि त्वं
शम्भो ! ममैव तु जितं दुरितैर्दुरन्तैः ॥ ३४ ॥
भक्तिर्दृढा यदि ममास्ति भवेत् किमेवं
तु
को वेद तत्त्वमिदमस्ति तु मेऽन्तरङ्गे ।
लोकास्तु भक्त इति मां जगृहुर्यथा ते
त्वां भक्तवश्यमवयन्ति तथा दयेथाः ॥ ३५ ॥
कः स्वापराधिषु पराक्रमते न लोकः
शृङ्गेण हन्ति ननु गारीषै दण्डहस्तम् ।
भक्तापदक्षमतयैव तवेश्वरत्वं
तां नाशय द्रढय वा समयस्तवायम् ॥ ३६॥
यत् प्रालपं चरणयोस्तव यत्तदित्थं
मुग्धो विदग्ध इव मुग्धशशाङ्कमौले! ।
तत् क्षम्यतां मम तु को वचनेऽधिकारः
स्वामी परामृशतु वा स्वमुपेक्षतां वा ॥ ३७ ॥
इति निशम्य स वातपुरीशितुः करुणमालपितं करुणानिधिः ।
तुरगलक्षखुरक्षतरेणुभिः परिपतन् ददृशे विधुशेखरः || ३८ ॥
तुरगसादित्वश्रित भक्तानुकम्पया |
शिवा स्वयं तुरगतां शिश्राय बहुधा तदा ॥ ३९ ॥
कुमुदकज्जलकुङ्कुमदाडिमीकुसुमहेमकुवेलसमत्विषः ।
परुषहेषितभीषितशात्रवा दहशिरे दिशि दिश्यपि सैन्धवाः ॥ ४० ॥
समुत्तुङ्गत्वङ्गत्तरतुरगरिङ्खाशतहत-
क्षमारेणुश्रेणिक्षणचुलुकितैरम्बुनिधिभिः ।
स्थलीभूतैः सद्यः सति धरणिभागे द्विगुणिते
भविष्यन् कैमुत्यादजनि विशदस्तस्य विजयः ॥ ४१ ॥
यदि मरुद् विजितं विजितं मनो यदि मनो विजितं विजितं जगत् ।
जितवतां मरुतं च तदर्वतां किमभिधेयमतस्त्रिजगज्जये ॥ ४२ ॥
१. शिवा जम्बुक: अथ च पार्वती.
२. अयं श्लोकः खपुस्तके न दृश्यते,<noinclude></noinclude>
0qcjmwomsnd7fcz7jicp4p5mduv1uk3
पृष्ठम्:शिवलीलार्णवः.djvu/१५९
104
125384
341235
2022-07-24T15:21:22Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>एकविंशः सर्गः ।
उदात्तेष्वारोहन् प्रसभमनुदात्तेष्ववतर-
ञ्छनैः क्रामन्नेव स्वरितपथमेकश्रुतिमपि ।
समुद्यन्मीमांसाद्वयमयखली नै कविधृतः
पुरः प्रादुर्भूतः पुरमथितुराम्नायतुरगः ॥ ४३ ॥
तत्र कञ्चिदतिचित्रतेजसं सादिनं प्रपतनप्रसादिनम् ।
पश्यति स्म बहुमानविस्मयस्मेरदृष्टिररिमर्दनो नृपः ॥ ४४ ॥
व्रीडानुतापव्यथितोऽथ पाण्ड्यः प्रकाशयन् वातपुरीशमग्रे ।
समीपमासेदुषि सादिवर्ये प्रत्युद्ययौ तेन समं प्रहृष्टः ॥ ४५ ॥
कृतप्रणामेन कृतप्रणामः स्तुवन् नृपेण स्तुवता स भूयः ।
कृताः कथाः काश्चिदथान्ततोऽश्वान् विक्रीय यच्छन्निदमाचचक्षे ॥ ४६ ॥
१७.२
आनतिमासीद् धनमश्वहेतोरनेन यत् ते सचिवेन राजन् ! |
तत् सर्वमादाय तवैव भूत्यै मयाहृताः पश्य शिवास्तुरङ्गाः ॥ ४७ ॥
गुल्मेषु कुञ्जेषु वनोदरेषु केदारकेषूपवनेषु चामी ।
स्वच्छन्दचारा लघुविक्रमाश्च तरन्ति तोयेष्वपि दुस्तरेषु ॥ ४८ ॥
न श्वोऽयमस्तीति किलाश्वशब्दस्तन्त्रैर्निरुक्तो विदितस्तवापि ।
सम्यक् परीक्ष्य त्वमिमं गृहाण धनं ममैतत् तुरगास्तवेमे ॥ ४९ ॥
तथेति तस्य प्रतिनन्द्य वाचं तं भूषणैर्हेभिरम्बरैश्च ।
सम्भाव्य सद्यो विसृजन् नृपालस्तृप्तिं न लेभे तुरगान् स पश्यन् ॥ ५० ॥
आज्ञापिता द्रागरिमर्दनेन पाण्ड्येन भृत्याः परितो भ्रमन्तः ।
बबन्धुरश्वानथ मन्दुरासु सार्धं विनीतैस्तुरः पुराणैः ॥ ५१ ॥
परेयुरश्वावसथे नियुक्ताः प्रातः समैक्षन्त नृपालभृत्याः ।
समन्ततोऽश्वान् दशतः पुराणाञ् शब्दायमानाञ् शतशः सृगान् ॥ ५२ ॥
आकर्ण्य वृत्तं महदद्भुतं तत् पाण्ड्यः प्रजज्वाल रुषा स भूयः ।
इत्थं किलेदं कृतमिन्द्रजालमनेन नूनं मयि मन्त्रिणेति ॥ ५३ ॥
दुष्टैः स्वतो राजनिदेशरूक्षैः कदर्थितो राजभटैः स भूयः ।
आत्मानमात्मन्यनुसन्दधानो न क्केशलेशं गणयाम्बभूव ॥ १४ ॥<noinclude></noinclude>
5cv5b33gspn538s7uyuxkuo2aljygnr
341236
341235
2022-07-24T15:24:56Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>एकविंशः सर्गः ।
उदात्तेष्वारोहन् प्रसभमनुदात्तेष्ववतर-
ञ्छनैः क्रामन्नेव स्वरितपथमेकश्रुतिमपि ।
समुद्यन्मीमांसाद्वयमयखली नै कविधृतः
पुरः प्रादुर्भूतः पुरमथितुराम्नायतुरगः ॥ ४३ ॥
तत्र कञ्चिदतिचित्रतेजसं सादिनं प्रपतनप्रसादिनम् ।
पश्यति स्म बहुमानविस्मयस्मेरदृष्टिररिमर्दनो नृपः ॥ ४४ ॥
व्रीडानुतापव्यथितोऽथ पाण्ड्यः प्रकाशयन् वातपुरीशमग्रे ।
समीपमासेदुषि सादिवर्ये प्रत्युद्ययौ तेन समं प्रहृष्टः ॥ ४५ ॥
कृतप्रणामेन कृतप्रणामः स्तुवन् नृपेण स्तुवता स भूयः ।
कृताः कथाः काश्चिदथान्ततोऽश्वान् विक्रीय यच्छन्निदमाचचक्षे ॥ ४६ ॥
१७.२
आनतिमासीद् धनमश्वहेतोरनेन यत् ते सचिवेन राजन् ! |
तत् सर्वमादाय तवैव भूत्यै मयाहृताः पश्य शिवास्तुरङ्गाः ॥ ४७ ॥
गुल्मेषु कुञ्जेषु वनोदरेषु केदारकेषूपवनेषु चामी ।
स्वच्छन्दचारा लघुविक्रमाश्च तरन्ति तोयेष्वपि दुस्तरेषु ॥ ४८ ॥
न श्वोऽयमस्तीति किलाश्वशब्दस्तन्त्रैर्निरुक्तो विदितस्तवापि ।
सम्यक् परीक्ष्य त्वमिमं गृहाण धनं ममैतत् तुरगास्तवेमे ॥ ४९ ॥
तथेति तस्य प्रतिनन्द्य वाचं तं भूषणैर्हेमभिरम्बरैश्च ।
सम्भाव्य सद्यो विसृजन् नृपालस्तृप्तिं न लेभे तुरगान् स पश्यन् ॥ ५० ॥
आज्ञापिता द्रागरिमर्दनेन पाण्ड्येन भृत्याः परितो भ्रमन्तः ।
बबन्धुरश्वानथ मन्दुरासु सार्धं विनीतैस्तुरः पुराणैः ॥ ५१ ॥
परेद्युरश्वावसथे नियुक्ताः प्रातः समैक्षन्त नृपालभृत्याः ।
समन्ततोऽश्वान् दशतः पुराणान् शब्दायमानाञ् शतशः सृगान् ॥ ५२ ॥
आकर्ण्य वृत्तं महदद्भुतं तत् पाण्ड्यः प्रजज्वाल रुषा स भूयः ।
इत्थं किलेदं कृतमिन्द्रजालमनेन नूनं मयि मन्त्रिणेति ॥ ५३ ॥
दुष्टैः स्वतो राजनिदेशरूक्षैः कदर्थितो राजभटैः स भूयः ।
आत्मानमात्मन्यनुसन्दधानो न क्केशलेशं गणयाम्बभूव ॥ १४ ॥<noinclude></noinclude>
lw66q7qf8wfsob4lf0j5nzdex9tpoea
पृष्ठम्:शिवलीलार्णवः.djvu/१६०
104
125385
341237
2022-07-24T15:27:09Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे
अत्रान्तरे भक्तमनुग्रहीतुमालोच्य कारुण्यनिधिर्महेशः ।
भयानकां दुर्ललितैस्तरमैः प्रावर्त्तयद् वेगवतीमकाण्डे ॥ ५५ ॥
सा निष्पतन्त्येव पुरं समस्तं कल्लोलजालैः कबलीचकार ।
संरुध्य ये मन्त्रिणमभ्यहिंसन् सम्भ्रम्य दूरे परिदुद्रुवुस्ते ॥ १६ ॥
पूरेण तस्याः पुरशासनस्य कारुण्यपूरेण विनिर्यतेव ।
निर्मोचितो वातपुरीश्वरोऽपि हालास्यनाथान्तिकमाससाद ॥ १७ ॥
तां बध्यमानां शतशोऽपि मर्यैः पात्रोदरे वेगवतीममान्तीम् ।
आलक्ष्य बन्धुं नृपतिः स पौरानाबालवृद्धाङ्गनमादिदेश ॥ ५८ ॥
बध्नत्सु पौरेषु विभज्य सीमामापूपिकी काचिदतीव जीर्णा ।
निर्बध्यमाना नृपतेर्भुजिष्यैर्विचिन्वती कर्मकरं चचार |॥ ५९ ॥
सा पिष्टकानेव सदा पचन्ती निवेदयन्ती मनसा महेशे ।
तद्विक्रयेणापि च वर्त्तयन्ती दयास्पदं भूतपतेर्बभूव ॥ ६० ॥
गवेषयन्ती जरती समन्ताद् गवेष्यमाणं निगमैः समस्तैः ।
ऐक्षिष्ट सा कर्मकरं युवानमंसोपरिन्यस्तखनित्रमेकम् ॥ ६१ ॥
तामाह वृद्धामभिगम्य देवः किं कर्म कुर्यो तव शंस मातः! ।
अनाश्रयः कर्मकरो जनानामा से चिरादत्र हि नाथकामः ॥ ६२ ॥
आपूपिकीं किं धनमर्थयिष्ये भक्ष्येण मे कर्मकृतो हि भाव्यम् ।
विक्रीय पूर्णान् वितरत्वपूपान् क्षामानथामाञ्च्छिथिलांश्च मह्यम् ॥ ६३ ॥
कियानयं वेगवतीनिरोधः कियानयं राजभटानुरोधः ।
प्रतीहि मातः ! पच पिष्टकं त्वं विन्यस्य भारं मयि वीतशङ्का ॥ ६४ ॥
आमन्त्रणैरेव विमोहयंस्तामम्बेति देवीति पितामहीति ।
विस्रंसयन्नूष्मलमूष्मलं स जग्राह तत् सर्वमपूपजातम् || ६५ ।।
जगौ जहास प्रणनर्त्त चित्रं ववल्ग वल्गूनि वचांस्यभाणीत् ।
व्यासञ्जयन् कर्मकृतः समस्तान् त्रिस्रब्धमेको विजहार देवः ॥ ६६ ॥
इदं खनित्रं पिटकोऽयमेष राशिमृदामद्य मयोपनीतः ।
पश्येति राज्ञो गणकान् समेतान् प्रसारयंस्तानहसीन्निवृत्तान् ॥ ६७ ॥
उच्छृङ्खलैरूर्मिभिरुत्पतन्तीं भूयोऽप्यमान्तीं तयोः सवन्तीम् ।
भीता भटा भूमिभुजे शशंसुः पाण्ड्योऽपि तां प्रेक्षितुमाजगाम ॥ १८ ॥<noinclude></noinclude>
0h1ltvt20ol2ry0tw057pfxwtjfx560
341238
341237
2022-07-24T15:31:09Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे
अत्रान्तरे भक्तमनुग्रहीतुमालोच्य कारुण्यनिधिर्महेशः ।
भयानकां दुर्ललितैस्तरङ्गैः प्रावर्त्तयद् वेगवतीमकाण्डे ॥ ५५ ॥
सा निष्पतन्त्येव पुरं समस्तं कल्लोलजालैः कबलीचकार ।
संरुध्य ये मन्त्रिणमभ्यहिंसन् सम्भ्रम्य दूरे परिदुद्रुवुस्ते ॥ १६ ॥
पूरेण तस्याः पुरशासनस्य कारुण्यपूरेण विनिर्यतेव ।
निर्मोचितो वातपुरीश्वरोऽपि हालास्यनाथान्तिकमाससाद ॥ १७ ॥
तां बध्यमानां शतशोऽपि मर्त्यैः पात्रोदरे वेगवतीममान्तीम् ।
आलक्ष्य बन्धुं नृपतिः स पौरानाबालवृद्धाङ्गनमादिदेश ॥ ५८ ॥
बध्नत्सु पौरेषु विभज्य सीमामापूपिकी काचिदतीव जीर्णा ।
निर्बध्यमाना नृपतेर्भुजिष्यैर्विचिन्वती कर्मकरं चचार |॥ ५९ ॥
सा पिष्टकानेव सदा पचन्ती निवेदयन्ती मनसा महेशे ।
तद्विक्रयेणापि च वर्त्तयन्ती दयास्पदं भूतपतेर्बभूव ॥ ६० ॥
गवेषयन्ती जरती समन्ताद् गवेष्यमाणं निगमैः समस्तैः ।
ऐक्षिष्ट सा कर्मकरं युवानमंसोपरिन्यस्तखनित्रमेकम् ॥ ६१ ॥
तामाह वृद्धामभिगम्य देवः किं कर्म कुर्यो तव शंस मातः! ।
अनाश्रयः कर्मकरो जनानामासे चिरादत्र हि नाथकामः ॥ ६२ ॥
आपूपिकीं किं धनमर्थयिष्ये भक्ष्येण मे कर्मकृतो हि भाव्यम् ।
विक्रीय पूर्णान् वितरत्वपूपान् क्षामानथामाञ्च्छिथिलांश्च मह्यम् ॥ ६३ ॥
कियानयं वेगवतीनिरोधः कियानयं राजभटानुरोधः ।
प्रतीहि मातः ! पच पिष्टकं त्वं विन्यस्य भारं मयि वीतशङ्का ॥ ६४ ॥
आमन्त्रणैरेव विमोहयंस्तामम्बेति देवीति पितामहीति ।
विस्रंसयन्नूष्मलमूष्मलं स जग्राह तत् सर्वमपूपजातम् || ६५ ।।
जगौ जहास प्रणनर्त्त चित्रं ववल्ग वल्गूनि वचांस्यभाणीत् ।
व्यासञ्जयन् कर्मकृतः समस्तान् विस्रब्धमेको विजहार देवः ॥ ६६ ॥
इदं खनित्रं पिटकोऽयमेष राशिमृदामद्य मयोपनीतः ।
पश्येति राज्ञो गणकान् समेतान् प्रसारयंस्तानहसीन्निवृत्तान् ॥ ६७ ॥
उच्छृङ्खलैरूर्मिभिरुत्पतन्तीं भूयोऽप्यमान्तीं तयोः सवन्तीम् ।
भीता भटा भूमिभुजे शशंसुः पाण्ड्योऽपि तां प्रेक्षितुमाजगाम ॥ १८ ॥<noinclude></noinclude>
inojb000zmxqdvm7ywn6p76ywolhge1
पृष्ठम्:शिवलीलार्णवः.djvu/१६१
104
125386
341239
2022-07-24T15:31:24Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>एकविंशः सर्गः ।
आलक्ष्य राजागममप्रमत्तान् कर्मान्तिकान् कर्मकृतः स पश्यन् ।
खनन्निव क्ष्मां मृदमापगायां क्षिपन्निवान्तः स्वयमप्यचारीत् ॥ ६९ ॥
'ततस्ततस्तत्र तटीर्निबद्धाः परामृशन् पाण्ड्यनृपोऽतिरुष्टः ।
अपूरितं क्वापि स वीक्ष्य निम्नं केनेदमित्थं कृतमित्यपृच्छत् ॥ ७० ॥
आपूपिकीकर्मकरं युवानमालक्षयन्तो गणकास्ततस्तम् ।
हस्ते गृहीत्वा पुरतः क्षिपन्तो विवक्रिरे तस्य विचेष्टितानि ॥ ७१ ॥
आपूपिकी काचिदतीव जीर्णा सेयं दृढं कर्मकरं न्ययुङ्क्त ।
अयं नियुक्तोऽपि भृतोऽपि सम्यङ् न स्पन्दते किञ्चन दुर्विनीतः ॥ ७२ ॥
ब्रूते पुरस्ताद् विनयोक्तिमेव किञ्चिन्निवृत्ते गणके तु भूयः ।
विडम्बयन् भाषितचेष्टितैस्तं पार्श्वस्थितान् हासयते विशङ्कः || ७३ ||
दत्तं कियद् दारुणया जरत्या दत्ते तु किञ्चिच्छिथिलानपूपान् ।
अहो ममाभाग्यमियं किलासीन्नाथेति शेते मुहुरातशोकः ॥ ७४ ॥
किं मेऽस्ति तातो जननी किमास्ते किमास्पदं किं धनमस्ति किञ्चित् ।
किं राजभृत्याः कृपणेषु कुर्युर्यातेति नोऽधः कुरुते कदापि ॥ ७५ ॥
अन्यायवृत्ते नृपतावमुष्मिन्नाप्लाव्यते किन्नगरं न तोयैः ।
किं ताडितैः कर्मकरैरिहेति तत्त्वं ब्रवीतीव कदापि मन्दम् ॥ ७६ ॥
आकर्णयन् वृत्तमिदं स सर्वमन्तर्हसन्तं च तमीक्षमाणः ।
आवर्त्त्य वेत्रेण तमाजघान पाण्ड्यः क्रुधा प्रस्फुरिताधरोष्ठः ॥ ७७ ॥
अङ्गं त्रिलोकीमयमिन्दुमौलेरभ्याहतं तेन यदा तदैव ।
1
वक्ता च हन्ता च निरीक्षिता च वेत्राहतं विश्वमभूत् समस्तम् ॥ ७८ ॥
आलम्ब्य संज्ञां कथमप्यथैनमालोकते यावदयं नरेन्द्रः ।
तावत् तिरोऽभूत् तरुणेन्दुमौलिः सा च स्रवन्ती विरराम सद्यः ॥ ७९ ॥
१५३
आलोक्य लीलायतमद्भुतं तदानन्दवाप्पस्थगितैर्वचोभिः ।
अस्ताविषुः स्वस्वधियोऽनुरूपैः पौराः सपाण्ड्याः पतिमम्बिकायाः ।। ८० ॥
चूडाबद्धभुजङ्गपुङ्गवशिरोविन्यस्तपृथ्वीभर-
प्रान्तप्रस्खलितैः कणैः कतिपयैरीषत्करे पूरणे ।
मिथ्यारोपितयत्नगौरवकथाविज्ञापनाचातुरी-
• सम्मुझज्जरतीगृहीतशिथिलापूपाय तुभ्यं नमः ॥ ८१ ॥<noinclude></noinclude>
5hgqs6qt4kwo1bxxch8d5v0soyr307q
341240
341239
2022-07-24T15:35:15Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>एकविंशः सर्गः ।
आलक्ष्य राजागममप्रमत्तान् कर्मान्तिकान् कर्मकृतः स पश्यन् ।
खनन्निव क्ष्मां मृदमापगायां क्षिपन्निवान्तः स्वयमप्यचारीत् ॥ ६९ ॥
'ततस्ततस्तत्र तटीर्निबद्धाः परामृशन् पाण्ड्यनृपोऽतिरुष्टः ।
अपूरितं क्वापि स वीक्ष्य निम्नं केनेदमित्थं कृतमित्यपृच्छत् ॥ ७० ॥
आपूपिकीकर्मकरं युवानमालक्षयन्तो गणकास्ततस्तम् ।
हस्ते गृहीत्वा पुरतः क्षिपन्तो विवव्रिरे तस्य विचेष्टितानि ॥ ७१ ॥
आपूपिकी काचिदतीव जीर्णा सेयं दृढं कर्मकरं न्ययुङ्क्त ।
अयं नियुक्तोऽपि भृतोऽपि सम्यङ् न स्पन्दते किञ्चन दुर्विनीतः ॥ ७२ ॥
ब्रूते पुरस्ताद् विनयोक्तिमेव किञ्चिन्निवृत्ते गणके तु भूयः ।
विडम्बयन् भाषितचेष्टितैस्तं पार्श्वस्थितान् हासयते विशङ्कः || ७३ ||
दत्तं कियद् दारुणया जरत्या दत्ते तु किञ्चिच्छिथिलानपूपान् ।
अहो ममाभाग्यमियं किलासीन्नाथेति शेते मुहुरातशोकः ॥ ७४ ॥
किं मेऽस्ति तातो जननी किमास्ते किमास्पदं किं धनमस्ति किञ्चित् ।
किं राजभृत्याः कृपणेषु कुर्युर्यातेति नोऽधः कुरुते कदापि ॥ ७५ ॥
अन्यायवृत्ते नृपतावमुष्मिन्नाप्लाव्यते किन्नगरं न तोयैः ।
किं ताडितैः कर्मकरैरिहेति तत्त्वं ब्रवीतीव कदापि मन्दम् ॥ ७६ ॥
आकर्णयन् वृत्तमिदं स सर्वमन्तर्हसन्तं च तमीक्षमाणः ।
आवर्त्त्य वेत्रेण तमाजघान पाण्ड्यः क्रुधा प्रस्फुरिताधरोष्ठः ॥ ७७ ॥
अङ्गं त्रिलोकीमयमिन्दुमौलेरभ्याहतं तेन यदा तदैव ।
1
वक्ता च हन्ता च निरीक्षिता च वेत्राहतं विश्वमभूत् समस्तम् ॥ ७८ ॥
आलम्ब्य संज्ञां कथमप्यथैनमालोकते यावदयं नरेन्द्रः ।
तावत् तिरोऽभूत् तरुणेन्दुमौलिः सा च स्रवन्ती विरराम सद्यः ॥ ७९ ॥
१५३
आलोक्य लीलायतमद्भुतं तदानन्दवाष्पस्थगितैर्वचोभिः ।
अस्ताविषुः स्वस्वधियोऽनुरूपैः पौराः सपाण्ड्याः पतिमम्बिकायाः ।। ८० ॥
चूडाबद्धभुजङ्गपुङ्गवशिरोविन्यस्तपृथ्वीभर-
प्रान्तप्रस्खलितैः कणैः कतिपयैरीषत्करे पूरणे ।
मिथ्यारोपितयत्नगौरवकथाविज्ञापनाचातुरी-
• सम्मुह्यज्जरतीगृहीतशिथिलापूपाय तुभ्यं नमः ॥ ८१ ॥<noinclude></noinclude>
bac6zqj2g6cawqsj2lp3oc2c78ss3wr
पृष्ठम्:शिवलीलार्णवः.djvu/१६२
104
125387
341241
2022-07-24T15:40:19Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलाणेवे
योगक्षेमभरः समस्तजगतां न्यस्तस्तवाङ्ङ्घ्रिद्वये
कुक्षौ त्रीणि जगन्ति मूर्ध्नि शशभृद्गङ्गाकपॉलस्रजः ।
वोढव्यस्तदुपर्ययं यदि मृदां भारोऽपि गौरीपते !
कस्ते मद्भरणे श्रमः क इव मे त्रासस्तदभ्यर्थने ॥ ८२ ॥
हे सन्तः शृणुताधुनैव मिलितैरम्माभिरेतच्छित्रे
वाच्यं वेत्रहतिं विभज्य न वयं भोक्तुं समर्था इति ।
नो चेत् पादहतिः शिलाप्रहरणं कोदण्डदण्डाहति-
र्गण्डूषोदकसेक इत्यपि भवेत् सर्वे विभाज्यं हि नः || ८३ ॥
ध्यायंध्यायमुपायकोटिभिरहं त्वत्प्राप्त्युपायं चिरं
निर्विष्णो निरचैषमेकमधुना हालास्यचूडामणे ! |
दिष्ट्या वेगवतीतटे यदि देतद्वपुर्मामकं
संरोहेदपि जातु तत्तटमृदा साकं त्वदीयं शिरः ॥ ८४ ॥
धूलीधूसरितं शशाङ्कशकलं जम्बालिता जाह्नवी
भग्नं ब्रह्मकपालदाम फणिनो भूषोचिताः क्लेशिताः ।
मृद्धारोद्वहनं कुतोऽभ्युपगतं को वा गुणः पिष्टके
सा दुष्टा जरती किमौषधमदात् तत्रेति न ज्ञायते ॥ ८५ ॥
पद्भ्यां किन्निहतः सुतो दिनमणेर्भग्नाश्चपेटाहतै-
र्दन्ताः किं तरणेः किमित्यपहृतं धातुः शिरः पञ्चमम् ।
कामं त्वं जगदी * श्वरो भव ततः कर्माणि किं जीर्यति
प्रत्यक्षं निनु पाण्ड्यवेत्रलतिकाघातोऽयमासादितः ॥ ८६ ॥
देवा दूरतरं प्रयात मुनयो गृह्णीत मौनं क्षणं
मातुः शंसत मा चिरं गणवरा देवस्य दृष्टां दशाम् ।
पुष्पैश्चन्दन सम्भृतैरपि सुरैर्यन्मन्दमभ्यर्च्यते
तद् दिव्यं वपुरैश्वरं विलुलितं पाण्ड्यस्य वेत्राहतैः ॥ ८७ ॥
अम्ब ! स्विद्यति वक्रमम्ब ! किमपि श्रान्त्या गतिर्मन्थरा
मातः ! सीदति शङ्करे प्रहृतवान् वेत्रेण पाण्ड्यो विभुः ।
इत्यावेदयतां मुखादनुपदं श्रुत्वा गणानां शिवा
प्रेमोदीर्णपतिव्रतप्रशमितक्रोधा कथं वर्त्तते ॥ ८८ ॥
● 'श्वरोऽसि भवतः' इति खपुस्तके पाठः,
+ 'खलु' इति खपुस्तके पाठः.
१५४<noinclude></noinclude>
rvbxt6axo7s4hvi2xn87b80plzzr3wo
341242
341241
2022-07-24T15:44:18Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे
योगक्षेमभरः समस्तजगतां न्यस्तस्तवाङ्ङ्घ्रिद्वये
कुक्षौ त्रीणि जगन्ति मूर्ध्नि शशभृद्गङ्गाकपालस्रजः ।
वोढव्यस्तदुपर्ययं यदि मृदां भारोऽपि गौरीपते !
कस्ते मद्भरणे श्रमः क इव मे त्रासस्तदभ्यर्थने ॥ ८२ ॥
हे सन्तः शृणुताधुनैव मिलितैरम्माभिरेतच्छिवे
वाच्यं वेत्रहतिं विभज्य न वयं भोक्तुं समर्था इति ।
नो चेत् पादहतिः शिलाप्रहरणं कोदण्डदण्डाहति-
र्गण्डूषोदकसेक इत्यपि भवेत् सर्वे विभाज्यं हि नः || ८३ ॥
ध्यायंध्यायमुपायकोटिभिरहं त्वत्प्राप्त्युपायं चिरं
निर्विष्णो निरचैषमेकमधुना हालास्यचूडामणे ! |
दिष्ट्या वेगवतीतटे यदि पतेदेतद्वपुर्मामकं
संरोहेदपि जातु तत्तटमृदा साकं त्वदीयं शिरः ॥ ८४ ॥
धूलीधूसरितं शशाङ्कशकलं जम्बालिता जाह्नवी
भग्नं ब्रह्मकपालदाम फणिनो भूषोचिताः क्लेशिताः ।
मृद्धारोद्वहनं कुतोऽभ्युपगतं को वा गुणः पिष्टके
सा दुष्टा जरती किमौषधमदात् तत्रेति न ज्ञायते ॥ ८५ ॥
पद्भ्यां किन्निहतः सुतो दिनमणेर्भग्नाश्चपेटाहतै-
र्दन्ताः किं तरणेः किमित्यपहृतं धातुः शिरः पञ्चमम् ।
कामं त्वं जगदी * श्वरो भव ततः कर्माणि किं जीर्यति
प्रत्यक्षं निनु पाण्ड्यवेत्रलतिकाघातोऽयमासादितः ॥ ८६ ॥
देवा दूरतरं प्रयात मुनयो गृह्णीत मौनं क्षणं
मातुः शंसत मा चिरं गणवरा देवस्य दृष्टां दशाम् ।
पुष्पैश्चन्दन सम्भृतैरपि सुरैर्यन्मन्दमभ्यर्च्यते
तद् दिव्यं वपुरैश्वरं विलुलितं पाण्ड्यस्य वेत्राहतैः ॥ ८७ ॥
अम्ब ! स्विद्यति वक्रमम्ब ! किमपि श्रान्त्या गतिर्मन्थरा
मातः ! सीदति शङ्करे प्रहृतवान् वेत्रेण पाण्ड्यो विभुः ।
इत्यावेदयतां मुखादनुपदं श्रुत्वा गणानां शिवा
प्रेमोदीर्णपतिव्रतप्रशमितक्रोधा कथं वर्त्तते ॥ ८८ ॥
● 'श्वरोऽसि भवतः' इति खपुस्तके पाठः,
+ 'खलु' इति खपुस्तके पाठः.
१५४<noinclude></noinclude>
9rwllxewclx96u879ghgzazydywfgdd
पृष्ठम्:शिवलीलार्णवः.djvu/१६३
104
125388
341243
2022-07-24T15:50:39Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>)
एकविंशः सर्गः ।
त्राणे योऽधिकृतः समस्तजगतां तस्याम्बुराशौ सुखं
निद्राणस्य तथाविधेऽपि समये प्रष्टैव नालक्ष्यते ।
'विष्टिं कृर्वति ताम्यात श्रमभराद्वेत्राहतिस्त्वय्यभूत्
कस्या कथयिष्यसीममनयं स्वामिन्ननाथो ह्यसि ॥ ८९ ॥
लीलाधारितसिन्धुतीरसिकताभारान्तरालस्थितो
भूयासं मशकोऽप्यहं पशुपते ! तावच्च नार्हामि किम् ।
यत् कीदृग्विधमैश्वरं शिर इति प्रष्टुं प्रवृत्ते विधा-
वीहक् ताहा तदित्युपदिशंस्तस्यापि च स्यां गुरुः ॥ ९० ॥
पाण्ड्यो दण्डयितास्तु पाण्ड्यतनया द्रष्ट्री कथं वर्त्तते
कामं सा जननी ममैव किमतो युक्तं तु वाच्यं मया ।
सव्ये स्थापय मूर्ध्नि मृद्भरममुं सव्यं वपुर्दर्शय
प्राप्ते वेत्रलताहते च तदनु द्रक्ष्यामि देव्याः स्थितिम् ॥ ९१ ॥
वोढुं प्रवृत्ते त्वयि वेगवत्याः शीर्षण शम्भो ! सिकतावितानम् ।
भारं द्वयोः पर्यवसन्नमूहे चित्ते यतीनां शिरसि श्रुतीनाम् ।। ९२ ॥
अर्धे पौरुषमर्धमेव भवति स्त्रैणं च यत् तावकं
साम्राज्यं गृहकर्म वा किमपि तन्नायाति निर्व्यूढताम् ।
त्वं राज्ञी मधुरापुरस्य दयितस्तत्रैव ते ताड्यते
त्वं मातः! स्वयमन्नदासि जगतां कान्तस्तु ते भिक्षते ॥ ९३ ॥
आखेटधर्ममनुपालयतानुभूतः
पार्थप्रहार इति यत् तदवैमि युक्तम् ।
आयासवृत्त्यनुगुणां भृतिमध्यविन्द-
नङ्गीकरोषि किमपार्थममुं प्रहारम् ॥ ९४ ॥
वेत्रात विभक्तुं विश्वात्मकता प्रदर्शिता भवता ।
करगतकबलग्रासे पुनरभिनीतं शिवाद्वैतम् ॥ १५ ॥
वेत्राहतिमतिघोरां विभज्य ये भुञ्जते जना नियतम् ।
भवतापतापितेष्वपि तेषूपेक्षैव ते कथं लीला ॥ ९६ ॥
१. विष्टिवेंतनकर्म.
THE KUPPUSWAMI SASTRO
RESEARCH INSTITUTE
MADRAS-d<noinclude></noinclude>
ok4s08cdu8ylwjqkj2v7w6z23q737zb
341244
341243
2022-07-24T15:54:32Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>)
एकविंशः सर्गः ।
त्राणे योऽधिकृतः समस्तजगतां तस्याम्बुराशौ सुखं
निद्राणस्य तथाविधेऽपि समये प्रष्टैव नालक्ष्यते ।
'विष्टिं कृर्वति ताम्यति श्रमभराद्वेत्राहतिस्त्वय्यभूत्
कस्या कथयिष्यसीममनयं स्वामिन्ननाथो ह्यसि ॥ ८९ ॥
लीलाधारितसिन्धुतीरसिकताभारान्तरालस्थितो
भूयासं मशकोऽप्यहं पशुपते ! तावच्च नार्हामि किम् ।
यत् कीदृग्विधमैश्वरं शिर इति प्रष्टुं प्रवृत्ते विधा-
वीदृक् ताहा तदित्युपदिशंस्तस्यापि च स्यां गुरुः ॥ ९० ॥
पाण्ड्यो दण्डयितास्तु पाण्ड्यतनया द्रष्ट्री कथं वर्त्तते
कामं सा जननी ममैव किमतो युक्तं तु वाच्यं मया ।
सव्ये स्थापय मूर्ध्नि मृद्भरममुं सव्यं वपुर्दर्शय
प्राप्ते वेत्रलताहते च तदनु द्रक्ष्यामि देव्याः स्थितिम् ॥ ९१ ॥
वोढुं प्रवृत्ते त्वयि वेगवत्याः शीर्षण शम्भो ! सिकतावितानम् ।
भारं द्वयोः पर्यवसन्नमूहे चित्ते यतीनां शिरसि श्रुतीनाम् ।। ९२ ॥
अर्धे पौरुषमर्धमेव भवति स्त्रैणं च यत् तावकं
साम्राज्यं गृहकर्म वा किमपि तन्नायाति निर्व्यूढताम् ।
त्वं राज्ञी मधुरापुरस्य दयितस्तत्रैव ते ताड्यते
त्वं मातः! स्वयमन्नदासि जगतां कान्तस्तु ते भिक्षते ॥ ९३ ॥
आखेटधर्ममनुपालयतानुभूतः
पार्थप्रहार इति यत् तदवैमि युक्तम् ।
आयासवृत्त्यनुगुणां भृतिमप्यविन्द-
न्नङ्गीकरोषि किमपार्थममुं प्रहारम् ॥ ९४ ॥
वेत्राहतिं विभक्तुं विश्वात्मकता प्रदर्शिता भवता ।
करगतकबलग्रासे पुनरभिनीतं शिवाद्वैतम् ॥ १५ ॥
वेत्राहतिमतिघोरां विभज्य ये भुञ्जते जना नियतम् ।
भवतापतापितेष्वपि तेषूपेक्षैव ते कथं लीला ॥ ९६ ॥
१. विष्टिवेंतनकर्म.
THE KUPPUSWAMI SASTRO
RESEARCH INSTITUTE
MADRAS-d<noinclude></noinclude>
3bslkw8e2gljpbseblk2akoeu9tyoxv
पृष्ठम्:शिवलीलार्णवः.djvu/१६४
104
125389
341245
2022-07-24T15:54:55Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे
आनम्यानम्य मौलिं त्वयि किरति मृदं स्रंसते मूर्ध्नि गङ्गा
बद्ध्वाबद्ध्वा कपर्दे स्पृशति फणधरा दारुणं निश्श्वसन्ति ।
औत्सुक्यान् ताड्यमाने त्वयि जगदखिलं ताड्यते वेत्रयष्ट्या
भक्तस्यैकस्य रक्षा भवति पशुपते ! सर्वलोकस्य शिक्षा ॥ ९७ ॥
अस्मत्तो बहुधा गृहीतमधुनाप्यस्मद्भवस्रोतसां
संरोधे न किमप्ययं प्रयतते देवः प्रमाणं ततः ।
इत्यग्रे विनिपत्य पाण्ड्यनृपतेब्रूमो वयं चेत् ततः
कोपात् कोपमुपेयुषः क्षितिपतेः किं भावि सम्भाव्यताम् ॥ ९८ ॥
वोढव्यानि वहानि ते सुरनदीवेधःकपालादिका-
न्यात्मानं च निवेदयाम्यथ भवद्भक्त्यामृतेनाप्लुतम् ।
इत्यभ्यर्थयमानमीषदपि मामप्रेक्षमाणो भवान्
पिष्टापूपकृते मृदं बहास चेद् देवः प्रमाणं ततः ॥ ९९ ॥
प्रहृतं प्रहृतमिति त्वं पाण्ड्य ! विषीदसि किमम्बिकारमणे ।
प्रहृतं यदि साधु कृतं पाशुपतं गणय सिद्धमस्त्रं तत् ॥ १०० ॥
पाण्ड्येन प्रहृतोऽसि वेत्रलतया पार्थेन गाण्डीवतः
पांदनापि किरातकेन वटुना केनापि च प्रस्तरैः ।
तत्तत् प्रत्युत तेषु तेषु तप इत्यग्राहि मत्पूजने
त्वागांस्येव पदे पदे गणयसे दैवं ममैवविधम् ॥ १०१ ॥
इत्थं स्तवोक्त्या मुखरेषु पौरेप्वाश्चर्यममेषु गणाः पुरारेः ।
आपूपिकीमद्भुतवेषरूपां निन्युर्दिवं दिव्यविमानरूढाम् ।। १०२ ॥
अथावसीदन्नरिमर्दनोऽपि पाण्ड्यः स्वयं पाशुपतापचारात् ।
पादप्रणामैः प्रियभाषितैश्च प्रसादयामास स मन्त्रिवर्यम् ॥ १०३ ॥
वैहायसीं गिरमथाकलयन् पुरारेर्भीतस्तदैव सचिवं प्रजिघाय पाण्ड्यः ।
वैराग्यमेव हृदि वातपुरीश्वरोऽपि कृत्वा चिदम्बरमगाहत सर्ववेदी ॥ १०४ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णव एकविशः सर्गः ।<noinclude></noinclude>
p7tjqm7jsmmkuuykwfl5q8jho4qeidy
341246
341245
2022-07-24T15:58:15Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे
आनम्यानम्य मौलिं त्वयि किरति मृदं स्रंसते मूर्ध्नि गङ्गा
बद्ध्वाबद्ध्वा कपर्दे स्पृशति फणधरा दारुणं निश्श्वसन्ति ।
औत्सुक्यान् ताड्यमाने त्वयि जगदखिलं ताड्यते वेत्रयष्ट्या
भक्तस्यैकस्य रक्षा भवति पशुपते ! सर्वलोकस्य शिक्षा ॥ ९७ ॥
अस्मत्तो बहुधा गृहीतमधुनाप्यस्मद्भवस्रोतसां
संरोधे न किमप्ययं प्रयतते देवः प्रमाणं ततः ।
इत्यग्रे विनिपत्य पाण्ड्यनृपतेर्ब्रूमो वयं चेत् ततः
कोपात् कोपमुपेयुषः क्षितिपतेः किं भावि सम्भाव्यताम् ॥ ९८ ॥
वोढव्यानि वहानि ते सुरनदीवेधःकपालादिका-
न्यात्मानं च निवेदयाम्यथ भवद्भक्त्यामृतेनाप्लुतम् ।
इत्यभ्यर्थयमानमीषदपि मामप्रेक्षमाणो भवान्
पिष्टापूपकृते मृदं बहास चेद् देवः प्रमाणं ततः ॥ ९९ ॥
प्रहृतं प्रहृतमिति त्वं पाण्ड्य ! विषीदसि किमम्बिकारमणे ।
प्रहृतं यदि साधु कृतं पाशुपतं गणय सिद्धमस्त्रं तत् ॥ १०० ॥
पाण्ड्येन प्रहृतोऽसि वेत्रलतया पार्थेन गाण्डीवतः
पादेनापि किरातकेन वटुना केनापि च प्रस्तरैः ।
तत्तत् प्रत्युत तेषु तेषु तप इत्यग्राहि मत्पूजने
त्वागांस्येव पदे पदे गणयसे दैवं ममैवंविधम् ॥ १०१ ॥
इत्थं स्तवोक्त्या मुखरेषु पौरेष्वाश्चर्यममेषु गणाः पुरारेः ।
आपूपिकीमद्भुतवेषरूपां निन्युर्दिवं दिव्यविमानरूढाम् ।। १०२ ॥
अथावसीदन्नरिमर्दनोऽपि पाण्ड्यः स्वयं पाशुपतापचारात् ।
पादप्रणामैः प्रियभाषितैश्च प्रसादयामास स मन्त्रिवर्यम् ॥ १०३ ॥
वैहायसीं गिरमथाकलयन् पुरारेर्भीतस्तदैव सचिवं प्रजिघाय पाण्ड्यः ।
वैराग्यमेव हृदि वातपुरीश्वरोऽपि कृत्वा चिदम्बरमगाहत सर्ववेदी ॥ १०४ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णव एकविशः सर्गः ।<noinclude></noinclude>
kuaatwi3v0xn6mt998gjztag2fpgska
पृष्ठम्:शिवलीलार्णवः.djvu/१६५
104
125390
341247
2022-07-24T15:58:32Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वाविंशः सर्गः ।
अथ द्वाविंशः सर्गः ।
अथाबिरासीदरिमर्दनस्य कुले नृपः कोऽपि गुणैरुदारः ।
अभ्युन्नतं स्फारतरैर्यशोभिराचक्षते यं किल कुब्जपाण्ड्यम् ॥ १ ॥
स पाण्ड्यवंशप्रभवोऽपि देवः संसर्गदोषाच्चिरमार्हतानाम् ।
अवाप दीक्षामपि तन्मतेन दुरुत्तरो दुर्जनसम्प्रयोगः ॥ २ ॥
आशङ्कनीयोऽपि न वेदवेद्योराब्रह्मणो यत्र किलान्तरायः ।
तस्मिन् विशुद्धे शिवदासवंशे सम्बन्ध इत्याविरभूत् कुमारः ॥ ३ ॥
तं मातृहीनं शिशुमुल्ललन्तं स्तन्येन गौरी बिभराम्बभूव ।
यं ज्ञानपूर्णापरनामधेयं तदादि लोकाः समुदाहरन्ति ॥ ४ ॥
स्कन्दांशजः स द्विजसार्वभौमस्तारुण्य एवाखिलतन्त्रवेदी ।
त्रय्यन्तसिद्धान्तदृशा पुरारेरुत्कर्षमुच्चैर्विशदीचकार ॥ ५ ॥
तं भस्मरुद्राक्षषडक्षराणां तत्त्वावबोधैकनिधिं महान्तम् ।
आराध्य केचित् कलिमभ्यजैषुः पचेलिमप्राक्तनपुण्ययोगात् ॥ ६ ॥
तथागताचार्यकदुर्विपाकतमोवृते राजकुले तदानीम् ।
मन्त्री च राज्ञो महिषी च तस्य भक्ति परामूहतुरिन्दुचूडे ॥ ७ ॥
सम्बन्धनाथाङ्घ्रिसरोजयोस्तावाबध्य भक्तिं महतीमनन्याम् ।
प्रायस्यतां त्रातुममुं प्रदर्श्य मनं नृपं बाह्यमतान्धकूपे ॥ ८ ॥
कदाचिदासीदथ कुब्जपाण्ड्यस्तापज्वरेण ज्वलताभिभूतः ।
यत्रार्हतानां नृपदेशिकानां यत्नः समस्तो विफलीबभूव ॥ ९ ॥
देवी तदा देशिकसार्वभौममारोग्यहेतोरवनीश्वरस्य ।
सर्वज्ञमभ्यर्थनया महत्या सम्बन्धनाथं स्वयमानिनाय ॥ १० ॥
स ज्ञानपूर्णः प्रविशन् दृशा तं सम्भावयामास रुजाभितप्तम् |
कोटीरकोटीन्दुगलत्सुधार्द्रमन्तःस्मरन् देवमहंग्रहेण ॥ ११ ॥
अत्याश्रमस्थो मुनिरस्य राज्ञो भाग्येन फाले भसितं निधाय ।
पस्पर्श हस्तेन च तं महेशपादारविन्दार्चनभावितेन ॥ १२ ॥
स स्पृष्टमात्रो भगवत्तरेण शिवाभिमर्शेन गुरोः करेण ।
तत्याज विश्वत्रयभेषजेन तापज्वराचि सहसा नरेन्द्रः ॥ १३ ॥
११७<noinclude></noinclude>
symkx2quqpto1lggy7dcmkhwp6hmogm
341248
341247
2022-07-24T16:01:35Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वाविंशः सर्गः ।
अथ द्वाविंशः सर्गः ।
अथाविरासीदरिमर्दनस्य कुले नृपः कोऽपि गुणैरुदारः ।
अभ्युन्नतं स्फारतरैर्यशोभिराचक्षते यं किल कुब्जपाण्ड्यम् ॥ १ ॥
स पाण्ड्यवंशप्रभवोऽपि देवः संसर्गदोषाच्चिरमार्हतानाम् ।
अवाप दीक्षामपि तन्मतेन दुरुत्तरो दुर्जनसम्प्रयोगः ॥ २ ॥
आशङ्कनीयोऽपि न वेदवेद्योराब्रह्मणो यत्र किलान्तरायः ।
तस्मिन् विशुद्धे शिवदासवंशे सम्बन्ध इत्याविरभूत् कुमारः ॥ ३ ॥
तं मातृहीनं शिशुमुल्ललन्तं स्तन्येन गौरी बिभराम्बभूव ।
यं ज्ञानपूर्णापरनामधेयं तदादि लोकाः समुदाहरन्ति ॥ ४ ॥
स्कन्दांशजः स द्विजसार्वभौमस्तारुण्य एवाखिलतन्त्रवेदी ।
त्रय्यन्तसिद्धान्तदृशा पुरारेरुत्कर्षमुच्चैर्विशदीचकार ॥ ५ ॥
तं भस्मरुद्राक्षषडक्षराणां तत्त्वावबोधैकनिधिं महान्तम् ।
आराध्य केचित् कलिमभ्यजैषुः पचेलिमप्राक्तनपुण्ययोगात् ॥ ६ ॥
तथागताचार्यकदुर्विपाकतमोवृते राजकुले तदानीम् ।
मन्त्री च राज्ञो महिषी च तस्य भक्ति परामूहतुरिन्दुचूडे ॥ ७ ॥
सम्बन्धनाथाङ्घ्रिसरोजयोस्तावाबध्य भक्तिं महतीमनन्याम् ।
प्रायस्यतां त्रातुममुं प्रदर्श्य मनं नृपं बाह्यमतान्धकूपे ॥ ८ ॥
कदाचिदासीदथ कुब्जपाण्ड्यस्तापज्वरेण ज्वलताभिभूतः ।
यत्रार्हतानां नृपदेशिकानां यत्नः समस्तो विफलीबभूव ॥ ९ ॥
देवी तदा देशिकसार्वभौममारोग्यहेतोरवनीश्वरस्य ।
सर्वज्ञमभ्यर्थनया महत्या सम्बन्धनाथं स्वयमानिनाय ॥ १० ॥
स ज्ञानपूर्णः प्रविशन् दृशा तं सम्भावयामास रुजाभितप्तम् |
कोटीरकोटीन्दुगलत्सुधार्द्रमन्तःस्मरन् देवमहंग्रहेण ॥ ११ ॥
अत्याश्रमस्थो मुनिरस्य राज्ञो भाग्येन फाले भसितं निधाय ।
पस्पर्श हस्तेन च तं महेशपादारविन्दार्चनभावितेन ॥ १२ ॥
स स्पृष्टमात्रो भगवत्तरेण शिवाभिमर्शेन गुरोः करेण ।
तत्याज विश्वत्रयभेषजेन तापज्वरार्त्ति सहसा नरेन्द्रः ॥ १३ ॥
११७<noinclude></noinclude>
7obmq696rvwksnfocesuguw58ug1ffs
पृष्ठम्:शिवलीलार्णवः.djvu/१६६
104
125391
341249
2022-07-24T16:01:54Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे
औदर्यवह्निज्वलनोत्थितां
तामार्ति निवृत्तां मुमुदे स पश्यन् ।
देवी तु शान्तं विदती जहर्ष भवज्वरज्वालमहाभिषङ्गम् ॥ १४ ॥
तापज्वरो भूमिभृतः शरीरात् तस्यापनीतः करुणादृशायम् ।
तैथागतानां द्विगुणस्तदादि चिन्तात्मना चेतसि सञ्जजम्भे ॥ १५ ॥
अष्टौं सहस्राणि तथागतानामष्टासु शैलेषु कृतास्पदानाम् ।
जातेऽभिषङ्गे मधुरामवापुर्जल्पेन जेतुं शिवदेशिकं तम् ॥ १६ ॥
पारीणमेनं पदवाक्यमाने त्रय्यन्तसिद्धान्तगुरुं महान्तम् ।
आसाद्य जल्पाय सकृत् प्रवृत्ता आसन् क्षणादप्रतिभा जिनेन्द्राः ॥ १७ ॥
उत्सृज्य सर्वाण्युपबृंहणानि मीमांसितन्यायदृढीकृतानि ।
उल्लङ्घय तर्कानपि पामरास्ते सम्भूय तं प्रेत्ययतोऽजिगीषन् ॥ १८ ॥
संसारतापानखिलान् निहन्तुं शक्नोत्यहिंसैव हि शाक्यदृष्टा ।
नार्च्य महेशो न शिवा विभूतिरित्यार्हताः स्वामलिखन् प्रतिज्ञाम् ॥ १९ ॥
वेदाः प्रमाणं सह कामिकाद्यैर्विश्वाधिकः शङ्कर एक एव ।
भस्मैव धायै भुत्र मोक्षमाणैरित्यालिखत् स्वां स गुरुः प्रतिज्ञाम् ॥ २० ॥
जैना अथोचुर्ज्वलने क्षिपामो द्वये वयं स्वस्वकृतान्तलेखम् ।
दाहाददाहादपि सर्वलोकाः पश्यन्तु नो भङ्गजयाविहेति ॥ २१ ॥
तथेति सम्बन्धकरार्पितेन लेखेन जग्लेऽपि न हव्यवाहे ।
अदह्यत द्राक् पुनरार्हतानां लेखः सहायुर्लिपिभिस्तु तेषाम् ॥२२॥
पराजये शूलशिखाधिरोहं पणं वृणानाः स्वयमेव जैनाः ।
विचिक्षिपुः स्रोतसि वेगवत्याः पत्रं प्रवाहाभिमुखं चलेति ॥ २३ ॥
तत् स्रोतसा तत्क्षणमेव सिन्धोरनीयत प्राग्दिशमासमुद्रात् ।
प्रत्यग्दृशा तद् गुरुणार्पितं तु प्रत्यङ्मुखं स्रोतसि सञ्चचाल ॥ २४ ॥
ततः क्षणाद् देशिकसार्वभौम विज्ञानसिन्धोरिव वीचिघोषः ।
समन्ततः शङ्करकिङ्कराणां समुज्जजम्भे विजयाट्टहासः ॥ २५ ॥
चार्वाकशिष्या विजितास्ततस्ते सौत्रान्तिका माध्यमिकाश्च जैनाः ।
अवीक्षितान्योन्यमुखाः प्रचेलुरारोदुकामाः स्वयमेव शूलम् ॥ २६ ॥
१. तथागतानां जैनानाम् . २. प्रत्ययतः शपथात्.<noinclude></noinclude>
6rygmqgbnqt4shlerla7vm0daa63odn
341250
341249
2022-07-24T16:05:28Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे
औदर्यवह्निज्वलनोत्थितां
तामार्त्ति निवृत्तां मुमुदे स पश्यन् ।
देवी तु शान्तं विदती जहर्ष भवज्वरज्वालमहाभिषङ्गम् ॥ १४ ॥
तापज्वरो भूमिभृतः शरीरात् तस्यापनीतः करुणादृशायम् ।
तैथागतानां द्विगुणस्तदादि चिन्तात्मना चेतसि सञ्जजृम्भे ॥ १५ ॥
अष्टौं सहस्राणि तथागतानामष्टासु शैलेषु कृतास्पदानाम् ।
जातेऽभिषङ्गे मधुरामवापुर्जल्पेन जेतुं शिवदेशिकं तम् ॥ १६ ॥
पारीणमेनं पदवाक्यमाने त्रय्यन्तसिद्धान्तगुरुं महान्तम् ।
आसाद्य जल्पाय सकृत् प्रवृत्ता आसन् क्षणादप्रतिभा जिनेन्द्राः ॥ १७ ॥
उत्सृज्य सर्वाण्युपबृंहणानि मीमांसितन्यायदृढीकृतानि ।
उल्लङ्घय तर्कानपि पामरास्ते सम्भूय तं प्रेत्ययतोऽजिगीषन् ॥ १८ ॥
संसारतापानखिलान् निहन्तुं शक्नोत्यहिंसैव हि शाक्यदृष्टा ।
नार्च्य महेशो न शिवा विभूतिरित्यार्हताः स्वामलिखन् प्रतिज्ञाम् ॥ १९ ॥
वेदाः प्रमाणं सह कामिकाद्यैर्विश्वाधिकः शङ्कर एक एव ।
भस्मैव धार्यं भुवि मोक्षमाणैरित्यालिखत् स्वां स गुरुः प्रतिज्ञाम् ॥ २० ॥
जैना अथोचुर्ज्वलने क्षिपामो द्वये वयं स्वस्वकृतान्तलेखम् ।
दाहाददाहादपि सर्वलोकाः पश्यन्तु नो भङ्गजयाविहेति ॥ २१ ॥
तथेति सम्बन्धकरार्पितेन लेखेन जग्लेऽपि न हव्यवाहे ।
अदह्यत द्राक् पुनरार्हतानां लेखः सहायुर्लिपिभिस्तु तेषाम् ॥२२॥
पराजये शूलशिखाधिरोहं पणं वृणानाः स्वयमेव जैनाः ।
विचिक्षिपुः स्रोतसि वेगवत्याः पत्रं प्रवाहाभिमुखं चलेति ॥ २३ ॥
तत् स्रोतसा तत्क्षणमेव सिन्धोरनीयत प्राग्दिशमासमुद्रात् ।
प्रत्यग्दृशा तद् गुरुणार्पितं तु प्रत्यङ्मुखं स्रोतसि सञ्चचाल ॥ २४ ॥
ततः क्षणाद् देशिकसार्वभौम विज्ञानसिन्धोरिव वीचिघोषः ।
समन्ततः शङ्करकिङ्कराणां समुज्जजम्भे विजयाट्टहासः ॥ २५ ॥
चार्वाकशिष्या विजितास्ततस्ते सौत्रान्तिका माध्यमिकाश्च जैनाः ।
अवीक्षितान्योन्यमुखाः प्रचेलुरारोदुकामाः स्वयमेव शूलम् ॥ २६ ॥
१. तथागतानां जैनानाम् . २. प्रत्ययतः शपथात्.<noinclude></noinclude>
1obplkqtegdgu5jn4ev4hk2pu7xd180
पृष्ठम्:शिवलीलार्णवः.djvu/१६७
104
125392
341251
2022-07-24T16:08:42Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>"
द्वाविंशः सर्गः ।
ते बोध्यमाना अपि शैवधर्मं शूलाधिरोहाय रुचि बबन्धुः ।
प्राणान्तिकां निष्कृतिमेव युक्तां पश्यन् स चैतेषु तथानुमेने ॥ २७ ॥
पाण्ड्यस्ततः प्रत्ययदर्शनेन सम्बन्धनाथं शरणं प्रपन्नः ।
अशेषपापच्छिदुरामयाचद् दीक्षां शिवज्ञानविधानदक्षाम् ॥ २८ ॥
आचार्यवर्योऽप्यधिवासितं प्राक् छिष्यं शुभस्वप्ननिरस्तशोकम् ।
आराधितस्य ज्वलने पुरारेरनुज्ञया सन्निधिमानिनाय |॥ २९ ॥
षडध्वनः पञ्च कलाश्च तस्य संशोधयन् देशिकसार्वभौमः ।
दुर्दीक्षया दूषितमप्ययत्नात् सम्भावयामास शरीरकोशम् ॥ ३० ॥
शरीरमाविश्य स तस्य नाडीसंधानमार्गेण गुरुः पुनानः ।
जातिं समुद्घृत्य दयासमुद्रश्च के शिवज्ञाननिधानमेनम् ॥ ३१ ॥
वित्तं शरीरं हृदयं च तस्य विन्यस्य पाण्ड्यश्चरणारविन्दे ।
अभ्यर्थयन्नर्धशशाङ्कचूडं शैवाध्वपान्थः प्रशशास पृथ्वीम् ॥ ३२ ॥
शिवव्रतस्थाः शिवमन्त्रसक्ताः शिवागमज्ञानसुधारसज्ञाः ।
प्रजा बभूवुः सकलास्तदानीं प्रजेश्वरे शैवपदाधिरूढे ॥ ३३ ॥
अध्यात्मविद्याभिरयं प्रबुद्धान् मन्दान् विचित्राभिरुपासनाभिः ।
बाह्यार्चनैरेव परांश्च शम्भोर्धीरोऽनुजग्राह यथाधिकारम् ॥ ३४ ॥
अधीष्व वेदानवधारयार्थानधीहि शम्भुं वह भूतिमङ्गे |
तपांसि तप्यस्व सुरान् यजेति सर्वे जनाः शङ्करमारराधुः ॥ ३५ ॥
काले ततो वैश्यकुले बभूव कश्चिन्महार्थो मधुरानगर्याम् ।
करग्रहं मातुलकन्यकायाः कर्त्तु प्रतस्थे स कदापि चोलान् ॥ ३६ ॥
अतीतयोर्मातुलयोस्ततस्तामादातुकामः स्वजनानुमत्या ।
वैश्यस्तया साकमनूढयैव भूयः स्वमावासमभि प्रतस्थे ॥ ३७॥
मध्येपथं क्वापि महेशधाम्नि शैवानि तीर्थान्यटता स दिया ।
सम्बन्धनाथेन समाजगाम सञ्जीवितश्चात्र स सर्पदष्टः ॥ ३८ ॥
सम्बन्धनाथेन तदा नियुक्तः स बालिकोद्वाहकृते कुमारः ।
पाणिग्रहं साक्षिषु बान्धवेषु चिकर्षिमाणः समशेत किञ्चित् ॥ ३९ ॥
।
१. 'अधीष्व अधीतवन्त इत्यर्थः । समुच्चयेऽन्यतरस्याम् (३-४-३) इाते लोट् । एवं अधीही-
त्यादिष्वपि.<noinclude></noinclude>
2qpevj6zw9gf81plqm5zo33nbgs5s21
341252
341251
2022-07-24T16:24:53Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>"
द्वाविंशः सर्गः ।
ते बोध्यमाना अपि शैवधर्मं शूलाधिरोहाय रुचि बबन्धुः ।
प्राणान्तिकां निष्कृतिमेव युक्तां पश्यन् स चैतेषु तथानुमेने ॥ २७ ॥
पाण्ड्यस्ततः प्रत्ययदर्शनेन सम्बन्धनाथं शरणं प्रपन्नः ।
अशेषपापच्छिदुरामयाचद् दीक्षां शिवज्ञानविधानदक्षाम् ॥ २८ ॥
आचार्यवर्योऽप्यधिवासितं प्राक् छिष्यं शुभस्वप्ननिरस्तशोकम् ।
आराधितस्य ज्वलने पुरारेरनुज्ञया सन्निधिमानिनाय |॥ २९ ॥
षडध्वनः पञ्च कलाश्च तस्य संशोधयन् देशिकसार्वभौमः ।
दुर्दीक्षया दूषितमप्ययत्नात् सम्भावयामास शरीरकोशम् ॥ ३० ॥
शरीरमाविश्य स तस्य नाडीसंधानमार्गेण गुरुः पुनानः ।
जातिं समुद्घृत्य दयासमुद्रश्च के शिवज्ञाननिधानमेनम् ॥ ३१ ॥
वित्तं शरीरं हृदयं च तस्य विन्यस्य पाण्ड्यश्चरणारविन्दे ।
अभ्यर्थयन्नर्धशशाङ्कचूडं शैवाध्वपान्थः प्रशशास पृथ्वीम् ॥ ३२ ॥
शिवव्रतस्थाः शिवमन्त्रसक्ताः शिवागमज्ञानसुधारसज्ञाः ।
प्रजा बभूवुः सकलास्तदानीं प्रजेश्वरे शैवपदाधिरूढे ॥ ३३ ॥
अध्यात्मविद्याभिरयं प्रबुद्धान् मन्दान् विचित्राभिरुपासनाभिः ।
बाह्यार्चनैरेव परांश्च शम्भोर्धीरोऽनुजग्राह यथाधिकारम् ॥ ३४ ॥
अधीष्व वेदानवधारयार्थानधीहि शम्भुं वह भूतिमङ्गे |
तपांसि तप्यस्व सुरान् यजेति सर्वे जनाः शङ्करमारराधुः ॥ ३५ ॥
काले ततो वैश्यकुले बभूव कश्चिन्महार्थो मधुरानगर्याम् ।
करग्रहं मातुलकन्यकायाः कर्त्तु प्रतस्थे स कदापि चोलान् ॥ ३६ ॥
अतीतयोर्मातुलयोस्ततस्तामादातुकामः स्वजनानुमत्या ।
वैश्यस्तया साकमनूढयैव भूयः स्वमावासमभि प्रतस्थे ॥ ३७॥
मध्येपथं क्वापि महेशधाम्नि शैवानि तीर्थान्यटता स दिष्ट्या ।
सम्बन्धनाथेन समाजगाम सञ्जीवितश्चात्र स सर्पदष्टः ॥ ३८ ॥
सम्बन्धनाथेन तदा नियुक्तः स बालिकोद्वाहकृते कुमारः ।
पाणिग्रहं साक्षिषु बान्धवेषु चिकर्षिमाणः समशेत किञ्चित् ॥ ३९ ॥
।
१. 'अधीष्व अधीतवन्त इत्यर्थः । समुच्चयेऽन्यतरस्याम् (३-४-३) इाते लोट् । एवं अधीही-
त्यादिष्वपि.<noinclude></noinclude>
1j0oj346zypeg1xkgalw589hlukp3tm
पृष्ठम्:शिवलीलार्णवः.djvu/१६८
104
125393
341253
2022-07-24T16:25:21Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे
शम्भुः शमी कूप इति त्रयं तत् तत्र स्थितं साक्षिपदे वृणानः ।
अग्राहयत् पाणिमनेन सद्यः स देशिको मातुलकन्यकीयाः ॥ ४० ॥
स तां समादाय वधूं नवोढां सम्प्राप्य भूयो मधुरां विशालाम् ।
आराधयन्नार्तशरण्यमीशं हालास्यनाथं मुमुदे चिरेण ॥ ४१ ॥
कालेन तस्यास्तनया बभूवुः कारुण्ययोगेन शशाङ्कमौलेः ।
स्तनन्धयांस्तानपथे द्विषत्या सा जातु लेभे कलहं सपत्न्या ॥ ४२ ॥
वेश्येव काचित् त्वमसीह गेहे करग्रहे कस्तव दासि ! साक्षी ।
इति प्रवृत्तं कलहेऽतिवादमेषा सपत्न्या ममृषे न साध्वी ॥ ४३ ॥
सा बाष्पमत्यूष्मलमुद्वहन्ती सद्यो विनिर्गत्य गृहाद् विषण्णा ।
आपन्नबन्धोश्चरणं पुरारेर्हालास्यनेतुः शरणं प्रपेदे ॥ ४४ ॥
साक्षी भवानेव करग्रहे मे शम्भो ! शमीकूपसमीपवर्ती ।
साक्ष्यं न धत्से यदि मे सपत्न्याः सद्यो विहास्यामि तनूमिहेति ॥ ४५ ॥
हालास्यनाथान्तिकमभ्युपेत्य सम्पश्य पाणिग्रहसाक्षिणो मे ।
इति त्वमाकर्ष बलात् सपत्नीमित्याह तां व्योमगिरा महेशः ॥ ४६ ॥
सा प्रेयसा बन्धुजनैश्च साकं तामानयन्ती प्रसभं सपत्नीम् ।
यावच्छिवस्यान्तिकमेति तावत् तत्र स्वयं तत् त्रयमाविरासीत् ॥ ४७ ॥
इमे समेताः सदनं पुरारेरीशानकोणेऽस्य कदाप्यदृष्टम् ।
अन्धुं शमीवृक्षमनाथबन्धुं लिङ्गं च दृष्ट्वा बिभयाम्बभूवुः ॥ ४८ ॥
भोगाङ्गपूजावसरे पुरारेः समागतास्तत्र सुराः समस्ताः ।
आलोक्य लीलायितमद्भुतं तद् भक्त्या नतास्तुष्टुवुरिन्दुचूडम् ॥ ४९ ॥
क्व ते दया वाङ्मनसातिभूमिः क्व दुर्लभो वा त्वदवाप्त्युपायः ।
अहो जितं सुन्दरनाथ ! मर्त्यैरहो जितं तत्र च दीनदीनैः ॥ १० ॥
गुप्तं वृथा कोटिभिरागमानां गुप्तं वृथाहो गुरुभिः पुराणैः ।
कोणे यदत्र त्वमिहानुकम्पाकोशालयद्वारमपावृणोषि ॥ ५१ ॥
अस्माभिरज्ञानपि तारयद्भिः कियान् प्रकर्षो विबुधेषु कार्यः ।
इति त्वया चिन्तयता किमीश ! प्रतारिता स्मस्त्रिदिवार्पणेन ॥ ५९ ॥
१. 'तद' इति खपुस्तके पाठः.<noinclude></noinclude>
mvpvu2uugxaeoldjy3zkvp1r3ahawwn
341254
341253
2022-07-24T16:28:28Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>शिवलीलार्णवे
शम्भुः शमी कूप इति त्रयं तत् तत्र स्थितं साक्षिपदे वृणानः ।
अग्राहयत् पाणिमनेन सद्यः स देशिको मातुलकन्यकायाः ॥ ४० ॥
स तां समादाय वधूं नवोढां सम्प्राप्य भूयो मधुरां विशालाम् ।
आराधयन्नार्तशरण्यमीशं हालास्यनाथं मुमुदे चिरेण ॥ ४१ ॥
कालेन तस्यास्तनया बभूवुः कारुण्ययोगेन शशाङ्कमौलेः ।
स्तनन्धयांस्तानपथे द्विषत्या सा जातु लेभे कलहं सपत्न्या ॥ ४२ ॥
वेश्येव काचित् त्वमसीह गेहे करग्रहे कस्तव दासि ! साक्षी ।
इति प्रवृत्तं कलहेऽतिवादमेषा सपत्न्या ममृषे न साध्वी ॥ ४३ ॥
सा बाष्पमत्यूष्मलमुद्वहन्ती सद्यो विनिर्गत्य गृहाद् विषण्णा ।
आपन्नबन्धोश्चरणं पुरारेर्हालास्यनेतुः शरणं प्रपेदे ॥ ४४ ॥
साक्षी भवानेव करग्रहे मे शम्भो ! शमीकूपसमीपवर्ती ।
साक्ष्यं न धत्से यदि मे सपत्न्याः सद्यो विहास्यामि तनूमिहेति ॥ ४५ ॥
हालास्यनाथान्तिकमभ्युपेत्य सम्पश्य पाणिग्रहसाक्षिणो मे ।
इति त्वमाकर्ष बलात् सपत्नीमित्याह तां व्योमगिरा महेशः ॥ ४६ ॥
सा प्रेयसा बन्धुजनैश्च साकं तामानयन्ती प्रसभं सपत्नीम् ।
यावच्छिवस्यान्तिकमेति तावत् तत्र स्वयं तत् त्रयमाविरासीत् ॥ ४७ ॥
इमे समेताः सदनं पुरारेरीशानकोणेऽस्य कदाप्यदृष्टम् ।
अन्धुं शमीवृक्षमनाथबन्धुं लिङ्गं च दृष्ट्वा बिभयाम्बभूवुः ॥ ४८ ॥
भोगाङ्गपूजावसरे पुरारेः समागतास्तत्र सुराः समस्ताः ।
आलोक्य लीलायितमद्भुतं तद् भक्त्या नतास्तुष्टुवुरिन्दुचूडम् ॥ ४९ ॥
क्व ते दया वाङ्मनसातिभूमिः क्व दुर्लभो वा त्वदवाप्त्युपायः ।
अहो जितं सुन्दरनाथ ! मर्त्यैरहो जितं तत्र च दीनदीनैः ॥ १० ॥
गुप्तं वृथा कोटिभिरागमानां गुप्तं वृथाहो गुरुभिः पुराणैः ।
कोणे यदत्र त्वमिहानुकम्पाकोशालयद्वारमपावृणोषि ॥ ५१ ॥
अस्माभिरज्ञानपि तारयद्भिः कियान् प्रकर्षो विबुधेषु कार्यः ।
इति त्वया चिन्तयता किमीश ! प्रतारिता स्मस्त्रिदिवार्पणेन ॥ ५९ ॥
१. 'तद' इति खपुस्तके पाठः.<noinclude></noinclude>
4n0vj8wuol7kun0xqic41drxmeb59mw
पृष्ठम्:शिवलीलार्णवः.djvu/१६९
104
125394
341255
2022-07-24T16:28:44Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वाविंशः सर्गः ।
पाण्ड्यप्रियं त्वां विदती शिवापि पाण्ड्यात्मजासीद्यदि का कथा नः ।
पाण्ड्येषु जायेमहि खञ्जर्राटाः कोयष्टयः कोलकिशोरका वा ॥ ५३ ॥
●
लीलासु ते लब्धसरूपभावा ग्राम्या इमे पाण्डुषु चन्द्रमौले ! ।
जिघ्रन्ति केचिद् विलिखन्ति केचिच्चर्वन्ति केचिञ्च वतंसमिन्दुम् ॥ ५४ ॥
त्वं तावदत्यन्तमृदुः प्रजासु त्वत्तोऽपि मृद्वी गृहिणी तवेयम् ।
अद्यायतौ वा चरतोः किलैवमात्मैकशेषो भविता ध्रुवं वाम् ।। ५५ ।।
कैवल्यदानाय कृतप्रतिज्ञौ काशीपतिः पाण्ड्यपतिर्युवां द्वौ ।
शिष्यैकविश्रान्तममुष्य दानं सार्वत्रिकं तावकमेव शम्भो ! ॥ ५६ ॥
विश्वस्य दीर्घं श्रवणादिभङ्गीं वीतोद्यमाः स्मश्विरमीश ! मोक्षे । 1
सम्प्रत्यवाबुद्ध्यत वाक्यशेषपञ्चाक्षरीयं मधुरा विनेति ॥ ५७ ॥
ये ये जना यद्यदिहार्थयन्ते तत्तन्निरस्तोपधि तेषु तेषु ।
ओमित्यलोभादनुजानतः किमोमित्यभिख्यैव तवेयमासीत् ॥ १८ ॥
अन्वेषणीयं किमनाहते ते तत्त्वं हताः स्मो वयमागमौघैः ।
विस्पष्टमत्राहत एव तत्त्वं वेत्रेण पाण्ड्यस्य यदीक्षितं तत् ॥ ५९ ॥
स्वरूपमेतत् तव सुन्दरेश ! शुद्धा दयेत्येव तु लक्षयामः ।
कदम्बमूलन्तु तटस्थलक्ष्म कारुण्यसिन्धो ! तव तर्कयामः ॥ ६०
यद्धामसीमाक्रममात्र एव वृत्रद्रुहस्तत् कलुषं विलिल्ये |
सकृद् विगाह्यैव यदीयतीर्थे शापं मुनेरिन्द्रगजो मुमोच ॥ ६१ ॥
नीपाटवीं यः कुलशेखरेण निर्मापयामास च राजधानीम् ।
प्राप्ता शिवा पाण्ड्यकुलेऽवतारमनुज्ञया यस्य तटातकेति ॥ ६२ ॥
उपायत स्वं युधि जेतुकामामुपायतस्तामपि लीलया यः ।
पतञ्जलेर्भक्तिमवेत्य नृत्तं प्रादर्शयद् रूप्यसभान्तरे यः ॥ ६३ ॥
कुण्डोदरस्योदरपूरणेऽपि कुण्ठोयमा येन कृतान्नपूर्णा ।
नालं पिपासोपशमाय यस्य नदी च सा वेगवती यतोऽभूत् ॥ ६४ ॥
१. काशीपतिर्विश्वेश्वरः
illu<noinclude></noinclude>
q4rbjlv769273ou0tcsyyad8xc97vg2
341256
341255
2022-07-24T16:31:40Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वाविंशः सर्गः ।
पाण्ड्यप्रियं त्वां विदती शिवापि पाण्ड्यात्मजासीद्यदि का कथा नः ।
पाण्ड्येषु जायेमहि खञ्जरीटाः कोयष्टयः कोलकिशोरका वा ॥ ५३ ॥
●
लीलासु ते लब्धसरूपभावा ग्राम्या इमे पाण्डुषु चन्द्रमौले ! ।
जिघ्रन्ति केचिद् विलिखन्ति केचिच्चर्वन्ति केचिञ्च वतंसमिन्दुम् ॥ ५४ ॥
त्वं तावदत्यन्तमृदुः प्रजासु त्वत्तोऽपि मृद्वी गृहिणी तवेयम् ।
अद्यायतौ वा चरतोः किलैवमात्मैकशेषो भविता ध्रुवं वाम् ।। ५५ ।।
कैवल्यदानाय कृतप्रतिज्ञौ काशीपतिः पाण्ड्यपतिर्युवां द्वौ ।
शिष्यैकविश्रान्तममुष्य दानं सार्वत्रिकं तावकमेव शम्भो ! ॥ ५६ ॥
विश्वस्य दीर्घं श्रवणादिभङ्गीं वीतोद्यमाः स्मश्विरमीश ! मोक्षे । 1
सम्प्रत्यवाबुद्ध्यत वाक्यशेषपञ्चाक्षरीयं मधुरा विनेति ॥ ५७ ॥
ये ये जना यद्यदिहार्थयन्ते तत्तन्निरस्तोपधि तेषु तेषु ।
ओमित्यलोभादनुजानतः किमोमित्यभिख्यैव तवेयमासीत् ॥ १८ ॥
अन्वेषणीयं किमनाहते ते तत्त्वं हताः स्मो वयमागमौघैः ।
विस्पष्टमत्राहत एव तत्त्वं वेत्रेण पाण्ड्यस्य यदीक्षितं तत् ॥ ५९ ॥
स्वरूपमेतत् तव सुन्दरेश ! शुद्धा दयेत्येव तु लक्षयामः ।
कदम्बमूलन्तु तटस्थलक्ष्म कारुण्यसिन्धो ! तव तर्कयामः ॥ ६०
यद्धामसीमाक्रममात्र एव वृत्रद्रुहस्तत् कलुषं विलिल्ये |
सकृद् विगाह्यैव यदीयतीर्थे शापं मुनेरिन्द्रगजो मुमोच ॥ ६१ ॥
नीपाटवीं यः कुलशेखरेण निर्मापयामास च राजधानीम् ।
प्राप्ता शिवा पाण्ड्यकुलेऽवतारमनुज्ञया यस्य तटातकेति ॥ ६२ ॥
उपायत स्वं युधि जेतुकामामुपायतस्तामपि लीलया यः ।
पतञ्जलेर्भक्तिमवेत्य नृत्तं प्रादर्शयद् रूप्यसभान्तरे यः ॥ ६३ ॥
कुण्डोदरस्योदरपूरणेऽपि कुण्ठोयमा येन कृतान्नपूर्णा ।
नालं पिपासोपशमाय यस्य नदी च सा वेगवती यतोऽभूत् ॥ ६४ ॥
१. काशीपतिर्विश्वेश्वरः
illu<noinclude></noinclude>
dqwbdnuq8l8q3k9mnj5lbo3y710swo1
पृष्ठम्:शिवलीलार्णवः.djvu/१७०
104
125395
341257
2022-07-24T16:32:00Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>शिवलीलार्णवे
समाहृताः काञ्चनमालिकायाः स्नानाय येनाम्बुधयः समस्ताः ।
महीपतिं यो मलयध्वजं च दिवं गतं दर्शयति स्म पत्नीम् ॥ ६५॥
मीनेक्षणायां सुतमुग्रपाण्ड्यमवाप यः सुन्दरपाण्ड्यदेवः ।
तस्मै च यं शक्तिधराय वज्रं चण्डायुधं चक्रमपि व्यतारीत् ॥ ६६ ॥
उद्वेलमप्यर्णवमुग्रपाण्ड्यो यद्दत्तया शोषयति स्म शक्त्या ।
वज्रेण मौलिं बिभिदे मघोनश्चण्डायुधेनापि जघान मेरुम् ॥ ६७ ॥
आचष्ट यश्चाशयमागमानां जिज्ञासमानेषु तपोधनेषु ।
यद्दत्तरत्नाहितमौलिनैव पाण्ड्यार्भको राजपदेऽभिषिक्तः ॥ ६८ ॥
कपर्दजैर्यस्य घनाघनौघैः पपे पयोधिः परिजृम्भमाणः ।
प्राप्तैश्च तैर्यः पटमण्डपत्वमवारयद् वृष्टिमतिप्रवृद्धाम् ॥ ६९ ॥
सिद्धात्मना यो विततार सर्वाः सिद्धीः प्रजानां मधुरानगर्याम् ।
यः सुन्दरेशानविमानसक्तं शिलागजञ्चाशयदिक्षुकाण्डान् ॥ ७० ॥
अस्त्रेण तुर्यावतरेण शौरर्हस्ती हतो येन तथागतानाम् ।
श्वश्रूदुरालापविवासिताया यः प्रादुरासीद् द्विजकन्यकायाः ॥ ७१ ॥
व्यत्यस्य नृत्तं विदधे दयालुः पाण्ड्यस्य यः प्रार्थनया महत्या ।
पान्थद्विजस्त्रीवधपापवादं व्याजेन यो व्याधवटोरहार्षीत् ॥ ७२ ॥
स्वमातृजारं पितृघातिनं च विप्राधमं यो विमलीचकार ।
अङ्कस्य भार्याहरमस्त्रशिष्यमङ्कात्मनैवाजयदाहवे यः ॥ ७३ ॥
मायोरगं यः शमयाम्बभूव मायागवीं यस्य पुनर्महोक्षः ।
मः पाण्ड्यसेनान्यमनुग्रहीतुं सन्दर्शयामास चमूं नृपालम् ॥ ७४ ॥
पाण्ड्याय यः प्रादित हेम यश्च वैश्याङ्गनाभ्यो वलयान् दयार्द्रः ।
अष्टापि सिद्धीः प्रतिपादयन् यो यक्षाङ्गनासु प्रससाद भूयः ॥ ७५ ॥
द्वारं समुद्घाट्य निशि स्वयं यश्चोलाय सेवामदिशन्निगूढम् ।
पानीयदानेन च पाण्ड्यसेनामुज्जीव्य चोलेन्द्रमजापयद् यः ॥ ७६ ॥
स्वर्णे दिशन् सिद्धरसं प्रयुज्य पुपोष वेश्यां शिवधर्मिणीं यः ।
पाण्ड्यस्य यः स्वैकपरायणस्य सादी भवन् साधयति स्म चोलम् ॥ ७७ ॥<noinclude></noinclude>
dt5zgjalen1bbj6axrndbtr6lsxo7gg
341258
341257
2022-07-24T16:34:28Z

ovhqcsfkdttm6hwjpztedoddpnmd33a
पृष्ठम्:शिवलीलार्णवः.djvu/१७१
104
125396
341259
2022-07-24T16:34:48Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वाविंशः सर्गः ।
अक्षय्यमप्यक्षतमर्पयन् यो भक्ताय भक्तार्पणमन्वगृह्णात् ।
येनादृतो मातुलरूपभाजा वैश्यो वटुर्ज्ञातिजनान् विजिग्ये ॥ ७८ ॥
आस्थाय यश्चार्जुननाथलिङ्गं पाण्ड्ये महत् पातकमुन्ममार्ज ।
काष्ठानि मूर्ध्ना कलयन् न्यधत्त काष्ठां परां गायति यः स्वभक्ते ॥ ७९ ॥
भद्राय भूरि द्रविणं दिदेश पुत्रं ददौ चेरमहीभुजे यः ।
भद्राय दिव्यं फलकं दिदेश वृष्टौ महत्यामपि गायते यः ॥ ८० ॥
द्वीपान्तरीयामवमापि गीत्या भद्रा विजिग्ये यदनुग्रहेण ।
वाराहमास्थाय वपुर्ददौ यः स्तन्यामृतं कोलकिशोरकाणाम् ॥ ८१ ॥
प्रापय्य मानुष्यकमद्भुतं यः पाण्ड्यस्य तान् मन्त्रिपदेऽभ्यषिञ्चत् ।
यः खञ्जरीटं शरणं प्रपन्नं चक्रे बलिभ्यो बलिनं खगेभ्यः ॥ ८२ ॥
जहार कोयष्टिमनुग्रहीतुं यादांसि यः काञ्चनपङ्कजिन्याः ।
कल्पान्तलुप्तां कटकाहिना यः सीमां विवव्रे मधुरानगर्याः ॥ ८३ ॥
प्राद्रावयत् पाण्ड्यकृतेऽरिसेनां बाणैः स्वनामाक्षरलाञ्छितैर्यः ।
दुरासदं दुष्कविभिः स्वयं यः प्रादाद् विचित्रं फलकं कवीनाम् ॥ ८४ ॥
पाण्ड्यस्य चिन्तानुगुणं निबध्य पद्यं ददौ यश्च निजार्चकाय ।
विद्याविवादे विहितातिवादं कीरं कविं यः पुनरन्वगृह्णात् ॥ ८५ ॥
अपि स्वयं कुम्भभवेन यस्तमबोधयद् द्रामिडसूत्रतत्त्वम् ।
व्यवेचयन्मूकमुखेन यश्च तत्तत्कृता द्रामिडसूत्रवृत्तीः ॥ ८६ ॥
भक्ते कवौ क्वापि विमाननेन पाण्ड्याय कुप्यन्नगराद्ययौ यः ।
दाशो भवन् दाशकुलेऽवती जग्राह पाणौ जगदम्बिकां यः ॥ ८७ ॥
आचार्यमूर्ति परिगृह्य नम्रमदीक्षयद् वातपुरीश्वरं यः ।
अदर्शयद् यस्तुरगान् सृगालानभ्यर्थितो वातपुरीश्वरेण ॥ ८८ ॥
प्रावर्त्तयद् वेगवतीमथैनं पाण्डयेन यः पालयितुं निरुद्धम् ।
विश्वात्मता यो विशदीचकार वेत्राहतिं स्वां भुवने विवृण्वन् ॥ ८९ ॥
१६३
सम्बन्धनाथस्य मुखादकार्षीच्छान्तं ज्वरं पाण्ड्यमहीपतेर्यः ।
विद्याविवादे विजिताननेन यः शूलमारोपयति स्म बौद्धान् ॥ ९० ॥<noinclude></noinclude>
6bggoahxzhmrhx1zzcrtk6zzvky6jor
341260
341259
2022-07-24T16:37:46Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वाविंशः सर्गः ।
अक्षय्यमप्यक्षतमर्पयन् यो भक्ताय भक्तार्पणमन्वगृह्णात् ।
येनादृतो मातुलरूपभाजा वैश्यो वटुर्ज्ञातिजनान् विजिग्ये ॥ ७८ ॥
आस्थाय यश्चार्जुननाथलिङ्गं पाण्ड्ये महत् पातकमुन्ममार्ज ।
काष्ठानि मूर्ध्ना कलयन् न्यधत्त काष्ठां परां गायति यः स्वभक्ते ॥ ७९ ॥
भद्राय भूरि द्रविणं दिदेश पुत्रं ददौ चेरमहीभुजे यः ।
भद्राय दिव्यं फलकं दिदेश वृष्टौ महत्यामपि गायते यः ॥ ८० ॥
द्वीपान्तरीयामवमापि गीत्या भद्रा विजिग्ये यदनुग्रहेण ।
वाराहमास्थाय वपुर्ददौ यः स्तन्यामृतं कोलकिशोरकाणाम् ॥ ८१ ॥
प्रापय्य मानुष्यकमद्भुतं यः पाण्ड्यस्य तान् मन्त्रिपदेऽभ्यषिञ्चत् ।
यः खञ्जरीटं शरणं प्रपन्नं चक्रे बलिभ्यो बलिनं खगेभ्यः ॥ ८२ ॥
जहार कोयष्टिमनुग्रहीतुं यादांसि यः काञ्चनपङ्कजिन्याः ।
कल्पान्तलुप्तां कटकाहिना यः सीमां विवव्रे मधुरानगर्याः ॥ ८३ ॥
प्राद्रावयत् पाण्ड्यकृतेऽरिसेनां बाणैः स्वनामाक्षरलाञ्छितैर्यः ।
दुरासदं दुष्कविभिः स्वयं यः प्रादाद् विचित्रं फलकं कवीनाम् ॥ ८४ ॥
पाण्ड्यस्य चिन्तानुगुणं निबध्य पद्यं ददौ यश्च निजार्चकाय ।
विद्याविवादे विहितातिवादं कीरं कविं यः पुनरन्वगृह्णात् ॥ ८५ ॥
अपि स्वयं कुम्भभवेन यस्तमबोधयद् द्रामिडसूत्रतत्त्वम् ।
व्यवेचयन्मूकमुखेन यश्च तत्तत्कृता द्रामिडसूत्रवृत्तीः ॥ ८६ ॥
भक्ते कवौ क्वापि विमाननेन पाण्ड्याय कुप्यन्नगराद्ययौ यः ।
दाशो भवन् दाशकुलेऽवतीर्णां जग्राह पाणौ जगदम्बिकां यः ॥ ८७ ॥
आचार्यमूर्ति परिगृह्य नम्रमदीक्षयद् वातपुरीश्वरं यः ।
अदर्शयद् यस्तुरगान् सृगालानभ्यर्थितो वातपुरीश्वरेण ॥ ८८ ॥
प्रावर्त्तयद् वेगवतीमथैनं पाण्डयेन यः पालयितुं निरुद्धम् ।
विश्वात्मता यो विशदीचकार वेत्राहतिं स्वां भुवने विवृण्वन् ॥ ८९ ॥
१६३
सम्बन्धनाथस्य मुखादकार्षीच्छान्तं ज्वरं पाण्ड्यमहीपतेर्यः ।
विद्याविवादे विजिताननेन यः शूलमारोपयति स्म बौद्धान् ॥ ९० ॥<noinclude></noinclude>
5gt9jdr9aueg4kb5fwg43kgo5i7m80k
पृष्ठम्:शिवलीलार्णवः.djvu/१७२
104
125397
341261
2022-07-24T16:38:02Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>१६४
शिवलीलार्णवे
आनीय यः कूपशमीमहेशान् वैश्याविवाहे विववार साक्ष्यम् ।
लीलास्वनन्तास्वपि यस्य दृष्टा लीला चतुष्षष्टिरियं पुराणे ॥ ९१ ॥
आलम्बमेकं जगतां त्रयाणामव्याजकारुण्यसुधानिधानम् ।
तं तादृशं त्वामपहाय शम्भो ! किं तावदन्यैरिह किम्पचानैः ॥ ९२ ॥
इतिं॰ स्तवोक्त्या मुदितः सुराणामीशः स वैश्यां सह बल्लभेन ।
निर्विष्टभोगामवनौ चिराय निन्ये परं धाम दयार्द्रचेताः ॥ ९३ ॥
इत्थं समस्तार्त्तिहरः प्रजानामीशः कदम्बद्रुममूलधामा ।
आस्ते त्रिलोकीमनुकम्पमानः साचिव्यतो मीनविलोचनायाः ॥ ९४ ॥
श्रोतव्यं निधिरस्ति कोऽपि निहितो हालास्य इत्यग्रतो
मन्तव्यं स निधिर्जगन्निधिरिति न्यायैरथोञ्चावचैः ।
ध्यातव्यं हृदि मूललिङ्गमथ च श्रीसुन्दरेशाभिधं
द्रष्टव्यं शफरेक्षणासहचरं तत्त्वं ततः शाङ्करम् ॥ ९५ ॥
लेलिां चतुष्पष्टिमिमां प्रणतां हालास्यनेतुस्तरुणेन्दुमौलेः ।
श्रीनीलकण्ठे मयि कर्णजाहमानीय मीनाक्षि ! चिरं दयेथाः ॥ ९६ ॥
कृतिः समर्ध्या विरसा मयेति कस्यैष दोषः स परं भवान्याः ।
रम्यां कृतिं सा यदि रोचयेत तथानुगृह्णातु निवारितं कैः ॥ ९७ ॥
मा भूवन् नव च रसाः कविप्रणीताः
काव्येऽस्मिन् पदकमलार्पिते पुरारेः ।
आस्ते तु ध्रुवमखिलाभिनन्दनीयां
कारुण्यामृतरसकन्दली जनंन्याः ॥ ९८ ॥
हालास्येशितुरीशितुर्यदि सखे ! लीलासु शुश्रूषसे
तत्सर्वागमगुप्तमस्य यदि वा तत्त्वं विजिज्ञाससे ।
पारं वाथ दिदृक्षसे यदि परं काव्यागमस्रोतसां
तत् कर्णे कुरु नलिकण्ठमखिनो वाचं शिवैकाश्रयाम् ॥ ९९ ॥
१. 'लीलाचतुष्षाष्टे' इति पाठः स्यात् ।
§ इतः प्रभृति ९८ तमश्लोकप्रथमपादावधिकानि अक्षराणि त्रुटितानि कपुस्तके.<noinclude></noinclude>
8kq1p6piebq76c2nd0ifmo3d4q009h5
341262
341261
2022-07-24T16:41:07Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१६४
शिवलीलार्णवे
आनीय यः कूपशमीमहेशान् वैश्याविवाहे विववार साक्ष्यम् ।
लीलास्वनन्तास्वपि यस्य दृष्टा लीला चतुष्षष्टिरियं पुराणे ॥ ९१ ॥
आलम्बमेकं जगतां त्रयाणामव्याजकारुण्यसुधानिधानम् ।
तं तादृशं त्वामपहाय शम्भो ! किं तावदन्यैरिह किम्पचानैः ॥ ९२ ॥
इतिं॰ स्तवोक्त्या मुदितः सुराणामीशः स वैश्यां सह बल्लभेन ।
निर्विष्टभोगामवनौ चिराय निन्ये परं धाम दयार्द्रचेताः ॥ ९३ ॥
इत्थं समस्तार्त्तिहरः प्रजानामीशः कदम्बद्रुममूलधामा ।
आस्ते त्रिलोकीमनुकम्पमानः साचिव्यतो मीनविलोचनायाः ॥ ९४ ॥
श्रोतव्यं निधिरस्ति कोऽपि निहितो हालास्य इत्यग्रतो
मन्तव्यं स निधिर्जगन्निधिरिति न्यायैरथोञ्चावचैः ।
ध्यातव्यं हृदि मूललिङ्गमथ च श्रीसुन्दरेशाभिधं
द्रष्टव्यं शफरेक्षणासहचरं तत्त्वं ततः शाङ्करम् ॥ ९५ ॥
लीलां चतुष्षष्टिमिमां प्रणतां हालास्यनेतुस्तरुणेन्दुमौलेः ।
श्रीनीलकण्ठे मयि कर्णजाहमानीय मीनाक्षि ! चिरं दयेथाः ॥ ९६ ॥
कृतिः समर्ध्या विरसा मयेति कस्यैष दोषः स परं भवान्याः ।
रम्यां कृतिं सा यदि रोचयेत तथानुगृह्णातु निवारितं कैः ॥ ९७ ॥
मा भूवन् नव च रसाः कविप्रणीताः
काव्येऽस्मिन् पदकमलार्पिते पुरारेः ।
आस्ते तु ध्रुवमखिलाभिनन्दनीयां
कारुण्यामृतरसकन्दली जनंन्याः ॥ ९८ ॥
हालास्येशितुरीशितुर्यदि सखे ! लीलासु शुश्रूषसे
तत्सर्वागमगुप्तमस्य यदि वा तत्त्वं विजिज्ञाससे ।
पारं वाथ दिदृक्षसे यदि परं काव्यागमस्रोतसां
तत् कर्णे कुरु नीलकण्ठमखिनो वाचं शिवैकाश्रयाम् ॥ ९९ ॥
१. 'लीलाचतुष्षाष्टे' इति पाठः स्यात् ।
§ इतः प्रभृति ९८ तमश्लोकप्रथमपादावधिकानि अक्षराणि त्रुटितानि कपुस्तके.<noinclude></noinclude>
tbsei77w16pivsam6hq5ua7kxqxvctj
पृष्ठम्:शिवलीलार्णवः.djvu/१७३
104
125398
341263
2022-07-24T16:42:48Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>एकविंशः सर्गः ।
मलयध्वजपाण्ड्यकन्यका-
चरणद्वन्द्वनिवेशितात्मना ।
शिवयोः कविनेदमर्पितं
शिवलीलार्णवकाव्यमद्भुतम् ॥ १०० ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्य-
चतुरधिकशतप्रवन्धनिर्वाहक श्रीमन्महाव्रतयाजि -
श्रीमदप्पयदीक्षितसोदर्याच्चान्दीक्षित-
पौत्रेण नारायणदीक्षितात्मजेन
भूमिदेवीगर्भसम्भवेन महाकवि-
श्रीनीलकण्ठदीक्षितेन
विरचिते शिवलीलार्णवे
महाकाव्ये
द्वाविशः सर्गः ।
समाप्तञ्चायं
शिवलीलार्णवः ।
322
१६५<noinclude></noinclude>
b9y2bs1ttt768irig9ymkxwje4czanp
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३२
104
125399
341266
2022-07-25T01:25:38Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:(१३)
भुजांशतो राश्यादिरवेर्ज्ञानं पदावीनं तत्र पदज्ञानोपायः प्राचीन: कैश्चिन्त कृतः,
यथाऽत्राचार्योग--
:'कान्तिव्यसार्धगुगा जिनभागज्याहृता धनुरजादौ ।
:कक्र्यादी चकाप्रोहा तुलादो सचकार्यम् ॥
चक्रात्प्रोमृगादौ स्फुटो सकृत् व्यस्तमृणं धनं मध्यम् । अस्मादिति'
एतेन रवेरानयनं कृतम् । श्रीपतिना तुलाढतस्य विवस्वतो दिनदलप्रभयो-
'यु' तिरविता | भवति वै निजदेश त्यनेन पलभामानं ज्ञात्वा ---
:'आद्यपदेचयिनी पलभाल्पिका स्यात् छायाल्पिका भवति वृद्धिमती द्वितीये ।
:छायाधिका भवति वृद्धिमती तृतीये तुर्येपुनः क्षयवती तदनल्पिका च ॥
:वृद्धि प्रयान्ती यदि दक्षिणाग्रच्छाया तथापि प्रथमं पदं स्यात् ।
:ह्रास व्रजन्तीमथ तां विलोक्य रवेविजानीहि पदं द्वितीयम् ॥'
इत्यनेन गोलयुक्तिसिद्ध पदज्ञानं कृतम् । अत्र भास्कराचार्य:-
:क्रान्तिज्या त्रिज्याघ्नी जिनभागज्योद्घृता दोर्ज्या |
:तद्धनुराधे चरणे वर्षस्यार्क: प्रजायतेऽन्येषु ॥
:भार्धाच्च्युतः सभार्थी भगणात्पतितोऽत्र चरणानाम् |
:ऋतुचिन्हैर्ज्ञानं स्यादृतुचिन्हान्यग्रतस्ततो वक्ष्ये ॥'
इत्यनेनाचार्योक्तवदेव कथितवान् केवलं 'ऋतुचिन्हैशनं स्यादिति' विशेषं
कथितवान् | पदज्ञानार्थमृतुवर्णन नामकमेकमधिकार सिद्धान्तशिरोमरोगला-
घ्यायेऽभिहितम् | भास्करतो नवीनाः कमलाकरत: प्राचीनाः सर्वेऽपि सिद्धान्त-
ग्रन्थकर्तारो ज्यौतिषसिद्धान्तस्यैकम ज्ञात्वा स्वस्वसिद्धान्तमन्थे निश्चित रूपेण
'ऋतुवरर्गानाध्याय,' प्रोक्त'वन्तः । सिद्धान्ततत्वविवेके आये पदेऽपचयिनी
पलभाउल्पिका स्या' दित्यादि श्रीपत्युक्त पदज्ञानबोधक श्लोकद्वयं लिखित्वा
कमलाकरेग -
:'ऋतुचिह्नैरिदं पूर्वैरुक्तं सर्वत्र तन हि ।
:केवलं कुकविप्रीत्यै पदज्ञप्त्यै न तद्रवेः ॥'
इत्यनेन भास्करोक्त ऋतुवर्णनं निन्दितम् । वस्तुत: 'सर्वत्र तन्नही'ति
कमलाकरोक्त यथार्थमेव । परं पदज्ञान प्रकारोऽयं श्रोपयुक्त इति कमलाकरेण
मोक्तः । सिद्धान्तशेखरस्याप्राप्तौ प्रकारोऽयं कमलाकरस्यैवेत्याधुनिका ज्योतिर्विदो
जानन्त आसन् । यदि रवेः पदज्ञानाथं कोऽपि प्रकार: प्राचीनैर्यथार्थतो नोक्तस्तदा
प्रकारस्यास्य रचयिता श्रोपतिरवश्यमेव सर्वेषां ज्योतिविदां प्रशंसापात्रमित्यत्र
न कोऽपि सन्देहः । महदाश्चर्यं चैतद्यत् श्रीपतिकृतमिदं गोलयुक्तियुक्त पदज्ञानं<noinclude></noinclude>
4c15czmnnmwqnaiha15aeo3s127im5s
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३३
104
125400
341267
2022-07-25T01:31:07Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:( १४ )
त्यक्त्वा भास्कराचार्येण ऋतुवर्णनद्वारा पदज्ञानं समोचीनं ज्ञात्वा कृतमिति ।
चन्द्रग्रहणाध्याये रविचन्द्रभुवां योजनविम्वानि, रविचन्द्रयोर्योजनात्मक कर्म-
स्पष्टीकरणं, भूभा बिम्बानयनं, ग्रासमानाद्यानयनं, परिलेख प्रकारचाचार्येक्तः,
श्रीपतिना भास्कराचार्येरंग च कथनक्रममादाय विशेषतया तथैवानूदितः । ब्रह्म-
गुप्तकृत एव सूर्यग्रहणाधिकार : श्रीपतिना प्रायः श्लोकान्तररुक्तः | उदयास्तमया-
ध्याये आयन हक्कर्म साधनं कृतं परं तन्न समीचीनं श्रीपतिनाऽपि प्राचीनोत्त
तदानयनं कृत्वा --
:खनभोवृतिभिः समाहृतं प्रथमं हुक्कूलमायनाह्वयम् |
:द्युचराश्रितभोदयासुभिर्विहृतं स्पष्टमिह प्रजायते ॥
इत्यनेन तत्स्फुटीकरणं कृतं, एतदवलोक्य भास्कराचार्येण 'आयनं वल-
नमस्फुटेषुणा सगुणमि' स्यादिना तदेवोक्तम् । चन्द्राध्याये ब्रह्मगुप्तेन बहवों-
विषयाः प्रतिपादिताः सन्ति, श्रीपतिना तु वराहब्रह्मगुप्ललल्लाचार्याणां बहवः
श्लोका अनूदिताः । वस्तुतो नास्ति कश्चिद्विशेषः । केवलं चन्द्रस्य स्पष्टचरा-
नयने परिलेख सूत्रप्रमारणानयने च वहून्येव प्रकारान्तराणि स्फुटोक्त्या लिखि-
तानि सन्ति । वराह्ब्रह्मगुप्तलल्लाचार्यैरुदयान्तरकर्म नोक्तं ग्रहयुत्यध्याये ( ग्रह-
युद्धाध्याये ग्रहयोगाध्याये वा) -
:अन्त्यभ्रमेणगुरिणता रविबाहुजीवाऽभीष्टभ्रमेण विहृता फलकार्मुकेरण ।
:बाहो: कलासु रहितास्ववशेषकं ते यातासवो युगयुजो: पदयोर्धनम् ॥
इत्यनेन श्रीपत्युक्तं दृग्गरिगतैक्यकृत् कमैद भास्कराचार्येण उदयान्तर-
कर्मेति नाम्नोक्तम् । सिद्धान्तशेखरस्याप्राप्तौ भास्कराचार्यवानुभूतमिदं कर्मे-
त्याधुनिकानां गणकानां प्रतीतिरासीत् । इदमुदयान्तरकर्म प्रथमं श्रीपतिरेक
स्वकीय विचारेण कथयामासेति ज्ञायते । तथा च--
:त्रिभविरहित चन्द्रोच्चोनभास्वभुजज्या गगननृपविनिघ्नी भञयज्या विभक्ता ।
:भवति चरफलाख्यं तत्पृथक्स्थं शरघ्नं हृतमुडुपतिकणंत्रिज्ययोरन्तरेण ॥१॥
:परमफलमवाप्तं तद्धन पृथक्स्थे तुहिन किरणकर्णे त्रिज्यकोना विकेऽथ | स्फुट-
:दिनकर हीनादिन्दुतो या भुजज्या स्फुटपरसफलघ्नी भाजिता त्रिज्ययाऽऽप्तम् ॥२॥
:शशिनिचरफलाख्यं सूर्यहीनेन्दुगोलात् तहणमुतधनं चेन्द्रच्चहीनार्कगोलम् ।
:यदि भवति हि साम्यं व्यस्तमेतद्विधेयं स्फुटरिणतहमैक्यं कत्तु मिच्छन्द्रिरत्र ॥३॥
श्लोकत्रयेणानेन हरितक्यार्थं श्रीपतिना चन्द्र संस्कारविशेषो दत्तः ।
स्मन्नपि प्राचीन ग्रन्थे नायं संस्कारो लिखितो वर्त्तते । यद्यपि -<noinclude></noinclude>
3t7rjljn49wuplb4qxrm41kcex0nmc1
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३४
104
125401
341268
2022-07-25T01:35:16Z
अनुनाद सिंह
1115
/* अपरिष्कृतम् */ :( १५ ) इन्दूच्चोनार्क कोटिघ्ना गत्यंशा विभवा विधोः । गुरणो व्यर्केन्दुदोः कोटयोरूपपञ्चाप्तयोः क्रमात् ॥ फले शशाङ्कतद्गत्योलिप्ताद्ये स्वर्णयोर्वधे । ऋणं चन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="अनुनाद सिंह" /></noinclude>:( १५ )
इन्दूच्चोनार्क कोटिघ्ना गत्यंशा विभवा विधोः ।
गुरणो व्यर्केन्दुदोः कोटयोरूपपञ्चाप्तयोः क्रमात् ॥
फले शशाङ्कतद्गत्योलिप्ताद्ये स्वर्णयोर्वधे ।
ऋणं चन्द्र भुक्तौ स्वर्णसाम्यवधेऽन्यथा ॥
इत्यनेनैतादृश एव चन्द्रसंस्कारो मुञ्जालाचार्येण 'लघुमानस' नामके
करणग्रन्थे कथितः । परमेतयोः सदृशत्वाभावात् श्रीपतिना वेंधेन दृष्ट्वा ततो
भिन्नोऽयं कथित इति प्रतिभाति । श्रीपयुक्तोऽयं संस्कारो भास्कराचार्यरेणासकृद्-
दृष्ट्वा विवेचितस्तत्र स्वोपलब्धेविस्तारपूर्वकं प्रतिपादनार्थमेको 'बीजोपनय
नामको ग्रन्थः ५९ श्लोकात्मकः सिद्धान्तशिरोमणि रचनैकवर्षानन्तरं -
:मयाय बीजोपनये यदन्ते सूर्योक्तमाद्यं परमं रहस्यम् ।
:प्रकाशये गोप्यमपीह देवं प्रणम्य बीजं जगतां हितार्थम् ॥ १॥
:यद्यपि पूर्वमपीदं संक्षेपादुक्तमागमोक्तदिशा ।
:मैतावतैव कश्चित् दृक्करौक्याय कल्पते गएकः ॥२॥
:दृक्करणक्यविहीना: खेटा: स्थूला न कर्मणामः ।
:प्रत इह तदर्हतायै तात्कालिकवीजविस्तरं वक्ष्ये ॥ ३॥
:पाता रवेस्तामसकीलकाख्यास्तेषां समाकर्षणतः शशाङ्कः ।
:तत्तुङ्गशक्तिश्च निजस्वभावं विहाय नित्यं विषमत्वमेति ॥४॥
:चन्द्राच्च तद्योगवियोगतश्च साध्यं हि भाद्यं विषमं यतः स्यात् ।
:तस्माद्विधोरत्र विशुद्धिशुद्ध विस्तार्यते बीजफल क्रियेयम् ॥५॥
:एकेन पुसा निखिलग्रहाणामन्तं प्रबोधो नहि शक्यतेऽतः ।
:व्यासात्समासाच्च यथोपलब्धं प्रोक्तं मयेत्यादरणीयमेतत् ॥६॥
इत्यादिना सिद्धान्तशिरोमरिणवद्वासनाभाष्यसहितो विरचित इति ।
भग्रहयोगाध्याये -
:कृत्यापि दृष्टिकर्म श्रीषेणार्यभटविष्णुचन्द्रोक्तम् ।
:प्रतिदिनमुदयेऽस्ते वा न भवति हरिणतयोरैक्यम् ॥ १॥
:भमुनिमृगव्याधानां यतस्ततो दृष्टिकर्म वक्ष्यामि ।
:हरिणतसमं देयं शिष्याय त्रिरोषितादेयम् ॥२॥
इति ब्रह्मगुप्तेन पाण्डित्वपूर्णमुक्तम् । एतदेव यथार्थ बुध्वा तदुक्तो (ब्रह्म-
गुप्तोक्तः) भग्रहयुत्यध्यायः सम्पूर्णोपि स्फुटोक्त्याऽनूदितः श्रीपतिनेति ।<noinclude></noinclude>
liw4cn7wowu7wrqhjm23q15yes6je7w
341269
341268
2022-07-25T01:36:22Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:( १५ )
:इन्दूच्चोनार्ककोटिघ्ना गत्यंशा विभवा विधोः ।
:गुणो व्यर्केन्दुदोः कोटयोरूपपञ्चाप्तयोः क्रमात् ॥
:फले शशाङ्कतद्गत्योलिप्ताद्ये स्वर्णयोर्वधे ।
:ऋणं चन्द्र भुक्तौ स्वर्णसाम्यवधेऽन्यथा ॥
इत्यनेनैतादृश एव चन्द्रसंस्कारो मुञ्जालाचार्येण 'लघुमानस' नामके
करणग्रन्थे कथितः । परमेतयोः सदृशत्वाभावात् श्रीपतिना वेंधेन दृष्ट्वा ततो
भिन्नोऽयं कथित इति प्रतिभाति । श्रीपयुक्तोऽयं संस्कारो भास्कराचार्यरेणासकृद्-
दृष्ट्वा विवेचितस्तत्र स्वोपलब्धेविस्तारपूर्वकं प्रतिपादनार्थमेको 'बीजोपनय
नामको ग्रन्थः ५९ श्लोकात्मकः सिद्धान्तशिरोमणि रचनैकवर्षानन्तरं -
:मयाय बीजोपनये यदन्ते सूर्योक्तमाद्यं परमं रहस्यम् ।
:प्रकाशये गोप्यमपीह देवं प्रणम्य बीजं जगतां हितार्थम् ॥ १॥
:यद्यपि पूर्वमपीदं संक्षेपादुक्तमागमोक्तदिशा ।
:मैतावतैव कश्चित् दृक्करौक्याय कल्पते गएकः ॥२॥
:दृक्करणक्यविहीना: खेटा: स्थूला न कर्मणामः ।
:प्रत इह तदर्हतायै तात्कालिकवीजविस्तरं वक्ष्ये ॥ ३॥
:पाता रवेस्तामसकीलकाख्यास्तेषां समाकर्षणतः शशाङ्कः ।
:तत्तुङ्गशक्तिश्च निजस्वभावं विहाय नित्यं विषमत्वमेति ॥४॥
:चन्द्राच्च तद्योगवियोगतश्च साध्यं हि भाद्यं विषमं यतः स्यात् ।
:तस्माद्विधोरत्र विशुद्धिशुद्ध विस्तार्यते बीजफल क्रियेयम् ॥५॥
:एकेन पुसा निखिलग्रहाणामन्तं प्रबोधो नहि शक्यतेऽतः ।
:व्यासात्समासाच्च यथोपलब्धं प्रोक्तं मयेत्यादरणीयमेतत् ॥६॥
इत्यादिना सिद्धान्तशिरोमरिणवद्वासनाभाष्यसहितो विरचित इति ।
भग्रहयोगाध्याये -
:कृत्यापि दृष्टिकर्म श्रीषेणार्यभटविष्णुचन्द्रोक्तम् ।
:प्रतिदिनमुदयेऽस्ते वा न भवति हरिणतयोरैक्यम् ॥ १॥
:भमुनिमृगव्याधानां यतस्ततो दृष्टिकर्म वक्ष्यामि ।
:हरिणतसमं देयं शिष्याय त्रिरोषितादेयम् ॥२॥
इति ब्रह्मगुप्तेन पाण्डित्वपूर्णमुक्तम् । एतदेव यथार्थ बुध्वा तदुक्तो (ब्रह्म-
गुप्तोक्तः) भग्रहयुत्यध्यायः सम्पूर्णोपि स्फुटोक्त्याऽनूदितः श्रीपतिनेति ।<noinclude></noinclude>
bvuh6p4s7138xs6wrk7fol6lcibftvo
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३५
104
125402
341270
2022-07-25T01:39:00Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:(१६)
ब्राह्मस्फुटसिद्धान्तोत्तरार्धे परिकर्मविशतिः (सङ्कलितम्, व्यत्रकलिनम्
प्रत्युत् तन्नो गुणनम् । भागहारः, वर्गः, वर्गमूलम्, घनः, घनमूलम् | पवजातयः,
त्रैराशिकम्, व्यस्तत्रैराशिकम, पञ्चराशिकम्, सप्तराशिकम्, नवराणिकम्, एका-
दश राशिकम्, भाण्डप्रति भाण्डं चेति ) कथिताऽस्ति, सर्वचैव चतुर्वेदाचार्याक्का
उद्देशका: (उदाहरणानि) सन्ति । सिद्धान्तशेखरेऽपि परिकर्मविंशतिः (अभिन्ना-
ङ्कानां गुणन-भजन-वर्ग-वर्गमूल-घन-घनमूलानीति पट् ६, भिन्नाकानां योगान्तर-
गुणन-भजन-वर्ग-वर्गमूलानीति षद् ६, भाग प्रभाग-भागानुबन्ध-भागापवाहाव्य-
जाति चतुष्टयम् ४, विलोमकर्म १, त्रैौराशिकम् १, व्यस्त राशिकम् १, पञ्च-
राशिकम् १, इति ) ब्रह्मगुप्तश्रीपत्युक्त विशत्यां परिकर्मसु विषयवर्ण महा
भेदोऽस्ति तद्विशते: परिकर्मणां नामानि बहुधा भिन्नानि सन्ति । भास्करीत-
प्रकीर्णविषयाः (सङ्कलिततो भाण्डप्रतिभाण्डं यावत्) यादृशाः स्फुटरूपे
वरिंगताः सन्ति न तादृशा ब्रह्मगुप्तश्रीपत्योः परिकर्मविशत्युक्तविषयाः । वि
यास्तु ब्रह्मगुप्तौ-श्रीपत्युक्तौ भास्करोक्तौ-समाना एव किन्तु तत्प्रति पादरीतयो
भिन्ना भिन्नाः सन्ति । एवमौ व्यवहारा: (मिश्रक व्यवहारः, श्री व्यवहार,
क्षेत्रव्यवहारः, खातव्यवहारः, चिति व्यवहारः, क्राकचिक व्यवहारा, राशिव्यय-
हारः, छायाव्यवहारः) ब्राह्मस्फुटसिद्धान्ते, सिद्धान्तशेवरे भास्करीम लीलावत्यां
च सन्ति, एतेष्वष्ट्रसु व्यवहारेष्वपि बहुधैवान्याहशत्वमस्ति, सर्वेषु व्यवहारेg
ब्रह्मगुप्तोक्तश्रीपत्युक्तव्यवहाराभ्यां भास्करोक्तव्यवहारेपु-विषयाधिक्य-विषय-
प्रतिपादन स्फुटत्वं चास्ति, ग्रन्थत्रया (ब्राह्मस्फुटसिद्धान्तः सिद्धान्तशेवरः लीला-
वती च) वलोकनेनेति स्फुटं भवति, एतत्परं प्रश्नाध्यायोऽस्ति यत्र मध्यमत्युत्तग
ध्यायः, स्फुटगत्युत्तराध्यायः | त्रिप्रश्नोत्तराध्यायः | ग्रहणोत्तराध्यायः | शृङ्गो-
न्मत्युत्तराध्यायः । एतेषु पञ्चसूत्तराध्यायेषु सोत्तराः प्रश्ता: सन्ति प्रश्नावातीच
विलक्षणाः सन्ति, येषामभ्यासेन पाठका ती ज्योतिषसिद्धान्तविषयेषु-निपुरगा
भवितुमर्हन्ति प्रत्यध्यायमीदृशः सोत्तरप्रश्नक्रमलेख: किश्चित् किञ्चिद्वटेश्वर-
"सिद्धान्ते-सिद्धान्तशेखरे चावलोक्यते । सिद्धान्तशिरोमण्यादौ नायं क्रमोऽस्ति ।
एतत्परं प्रश्नसहितः कुट्टकाध्यायोऽस्ति ब्रह्मगुप्तोक्तकुट्टकाध्याये श्रीपयुक्त-
भास्करोक्ताभ्यां विषयाधिक्यमस्ति किन्तु विषयकथनस्फुटता भास्करोक्ता-
वेवास्ति, धनरादीनां सङ्कलितव्यवकलितादि-भास्करोक्तवदेवास्ति-सिद्धान्त-
शेखरेऽपि, ततः परमेकवतमोकरणं बीजमस्ति, भास्करोक्तैकवर्ण समीकरण-
ब्रीजतोऽल्पमेवास्ति । ततः परमनेकवर्ण समीकरणबीजमस्ति, ब्रह्मगुप्तमिदमपूर्व-
----
१. ब्रह्मगुप्तोक्त कुट्टकाध्याये बहवः प्रश्नास्तादृशाः सन्ति येषामुत्तरमतीबाऽऽनन्द-
जनकमस्ति, `येषामभ्यासेन पाठकास्तत्सम्बन्धिविषयाणामतिज्ञातारो भवितुमर्हन्तीति ।<noinclude></noinclude>
kmj50x7gfhnpo5xy27kxv3d1ts39vzd
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३०
104
125403
341273
2022-07-25T01:57:47Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:(११)
न च श्रीपतिरेव निजपूर्ववत्तिनां ग्रन्थकाराणां ग्रन्थेभ्यस्तदुक्तविषयान्
छन्दोऽन्तरेण तथैव निबध्य स्वग्रन्ये स्वोक्त्या लिखितवानपितु तत्पूर्ववर्तिनां
ग्रन्थकाराणामपि सैव रीतिः । परवत्तिनो भास्कराचार्यादयोऽपि न तां रीतिममुञ्च
निति प्रत्यक्षदर्शनादेव स्फुटीभवति ।
यथा भास्कराचार्य:- गरिणताध्यायस्य मध्यमाधिकारे सिद्धान्त ग्रन्थलक्षणं
ज्योतिः शास्त्रस्य वेदाङ्गत्व निरूपणं वेदाङ्गानां नामानि वेदाङ्गषु ज्योतिः
शास्त्रस्य प्राधान्यं तच्च द्विजैरेव पठनीयमिति सर्व परतोऽपि भचक्रचलन काल-
----
ऽस्य सर्वथा सहशमेव तथा च प्रकारान्तरेण स्फुट स्थिति दल साधनं श्रीपत्युक्तम् ।
:स्पित्यर्धोनयुतात् परिस्फुटतिथे: स्याल्लम्बनं पूर्ववत्
::तन्मध्यग्रद्धेच मध्यमतिथो ततस्तु तिथौ ।
:स्थित्यर्धेन परिस्फुटेषु जनितेनोनाधिकाद्वाऽसकृत
::तत्तिय्यन्तर नाडिकाः स्थितिदले स्तः स्पर्शमुक्तयोः स्फुटे ॥
अस्य लोकस्य द्वितीयं चरणं शुद्धं नास्ति | प्रकारोऽयं ब्रह्मगुप्तोक्तस्या-
:स्फुटतिथ्यन्ताल्लम्बनमसकृत् स्थित्यर्धहीनयुक्ताद्वा
::तत्स्फुट विक्षेपकृत स्थित्यर्घोनयुततिथ्यन्तात् ।।
:तत्स्पष्टतिथिच्छेदान्त रे स्फुटे दिनदले विहीनयुतात् ।
:;स्व विभर्धिनासकृदेवं स्पष्टे विमर्थेि ।
ऽस्य पुनरुक्तिरेव । सिद्धान्तशिरोमणौ -
:तिथ्यन्ता दुगणितागतात् स्थिति दलेनोनाधिकाल्लम्बनं
::तत्कालोत्थनतीषु संस्कृति भव स्थित्यर्धहीनाधिके ।
:दर्शान्ते गरिणतागते धनमूर्ण वा तद्विधायासकृज्
:ज्ञेयो प्रग्रहमोक्ष संज्ञसमयावेवं क्रमात् प्रस्फुटौ ||
भास्करोक्तमपि सर्वथैव तदनुरूपमेवास्ति । एवं सिद्धान्तशेखरस्य सूर्यग्रहणाध्यायोप-
संहारे स्फुटं भवति पञ्चजीवया लम्वनं नहि यतस्ततः कृतम् | युक्तमुक्तमिति जिष्णुसूनुना
सन्मयाऽपि कथितं परिस्फुटम् इति ब्रह्मगुप्तोक्तस्या-
:हरितक्यं न भवति यस्मात् पञ्चज्यया रविग्रहणे ।
:तस्माद्यथा तदैक्यं तथा प्रवक्ष्यामि तिथ्यते ॥
ऽस्य सदृशमेव | मध्यगत्यध्यायतो ग्रन्थ समाप्ति यावत्सादृश्यस्यैवमेव स्थितिरिति
द्वयोर्ग्रन्थयो 'ब्रह्मिस्फुट सिद्धान्त सिद्धान्तशेखरयोः' रवलोकनेन स्फुटं भवतीति ।<noinclude></noinclude>
tc8f0shqftiu5v6rz4w711z67z7192f
341274
341273
2022-07-25T01:58:42Z

::स्व विभर्धिनासकृदेवं स्पष्टे विमर्थेि ।
ऽस्य पुनरुक्तिरेव । सिद्धान्तशिरोमणौ -
:तिथ्यन्ता दुगणितागतात् स्थिति दलेनोनाधिकाल्लम्बनं
::तत्कालोत्थनतीषु संस्कृति भव स्थित्यर्धहीनाधिके ।
:दर्शान्ते गरिणतागते धनमूर्ण वा तद्विधायासकृज्
:ज्ञेयो प्रग्रहमोक्ष संज्ञसमयावेवं क्रमात् प्रस्फुटौ ||
भास्करोक्तमपि सर्वथैव तदनुरूपमेवास्ति । एवं सिद्धान्तशेखरस्य सूर्यग्रहणाध्यायोप-
संहारे स्फुटं भवति पञ्चजीवया लम्वनं नहि यतस्ततः कृतम् | युक्तमुक्तमिति जिष्णुसूनुना
सन्मयाऽपि कथितं परिस्फुटम् इति ब्रह्मगुप्तोक्तस्या-
:हरितक्यं न भवति यस्मात् पञ्चज्यया रविग्रहणे ।
:तस्माद्यथा तदैक्यं तथा प्रवक्ष्यामि तिथ्यते ॥
ऽस्य सदृशमेव | मध्यगत्यध्यायतो ग्रन्थ समाप्ति यावत्सादृश्यस्यैवमेव स्थितिरिति
द्वयोर्ग्रन्थयो 'ब्रह्मिस्फुट सिद्धान्त सिद्धान्तशेखरयोः' रवलोकनेन स्फुटं भवतीति ।<noinclude></noinclude>
5zwhykiwyzekkpu7038im9akg43yrne
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२९
104
125404
341275
2022-07-25T02:06:57Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:( १० )
एतदनुरूप एव बटेश्वरसिद्धान्ते बटेश्वरेण स्वीयप्रकारोऽभिहितः ।
सिद्धान्तशेखरे सर्वत्र श्रीपतेः स्वकीयः प्रकारोऽल्पोवानेवास्ति ब्रह्मगुप्तोत-
प्रकारा एवं छन्दोऽन्तरेण लिखिताः सन्ति' वराहोक्त पञ्चसिद्धान्तितिकायां त्रयो-
दशभिरार्याभिरुक्तो वासिष्ठसिद्धान्तः पैतामहसिद्धान्तश्च वराहोक्त्यैव दूरभ्रष्टा
विति तत्रापि ब्रह्मसिद्धान्तापेक्षया यत्किञ्चित् वासिष्ठसिद्धान्तः सूक्ष्मताभिधायि ।
तन्त्र परीक्षाध्याये--
:लाटात् सूर्यशशाची मध्याविन्दूच्च चन्द्रपातौ च ।
:कुजबुधशीघ्रबृहस्पति सितशीघ्रशनैश्चरान् मध्यान् ॥
:युगजातवर्षं भगरणान् वासिष्ठाद्विजयनन्दिकृत पादात् |
:मन्दोच्च परिधिपातस्पष्टीकरण द्यमार्यभटात्
:श्रीषेरणेन गृहीत्वा रत्नोच्चयरोमकः कृतः पन्थाः ।
:एतानेव गृहीत्वा वसिष्ठो विष्णुचन्द्रेण ॥
इति ब्रह्मगुप्तोवत्या वसिष्टसिद्धान्तरचयिता विष्णुचन्द्रनामक: करित्र-
दासीत् । सम्भवतोऽयं विष्णुचन्द्र: प्राचीनं वसिष्ठसिद्धान्त संस्कृतवानिति
'एतानेव गृहीत्वा वासिष्ठो विष्णुचन्द्ररा' इत्युक्त्या स्फुटं भवति । परमयं
ग्रन्थोऽधुना कुत्रापि नोपलभ्यते । एतस्यैव विष्णुचन्द्रस्य मतं यत्र तत्र श्रीगणायं-
भटाभ्यां सह ब्रह्मगुप्तेन खण्डितम् ।
----
१. यथोदाहरणार्थ किञ्चित्प्रोच्यते । सिद्धान्तशेखरस्य सूर्यग्रहणाधिकारे ।
:तिथ्यन्तात् स्थितिखण्डहीन सहितात् प्राग्वत्ततो लम्बनं
::कुर्यात् प्रग्रहमोक्षयोः स्थितिदलं युक्तं विधायासकृत् ।
:तन्मध्यग्रहगोत्यलम्बनभुवा बिश्लेषणानेहसा
:मनमुतातिरपि तथा संमीलनोन्मीलने ||
:अधिकमृणयोराधं मध्यात्तथाऽन्त्य मिहात्मकं भवति
::धनयोश्चाद्यं हीनं यदाऽधिकमन्तिमम्
:नमनविवरेवं कुर्याद्वहीनमतोऽन्यथा स्थितिदल-
::मृगस्वस्थे भेदे तदैवययुतं पुनः ॥
इति ब्रह्मगुप्तोत्तस्या-
:प्राग्वल्लम्बनमसकृत् विष्यत्तात् स्थितिदलेन हीनयुतात् ।
::अधिकोन तन्मध्याहणयोहनाधिक धनयोः ॥
:यद्यधिक स्थित्यर्थं तदाऽन्त रेणान्यथोनमृणमेकम् ।
::अन्यद्धनं तदेक्येनाधिकमेवं विमर्दार्धे ॥
::: (शेष पृष्ठ १६ पर)<noinclude></noinclude>
bhie6vsi29hy79bl34m1j0if4630y2o
341276
341275
2022-07-25T02:09:02Z
अनुनाद सिंह
1115
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:( १० )
एतदनुरूप एव बटेश्वरसिद्धान्ते बटेश्वरेण स्वीयप्रकारोऽभिहितः ।
सिद्धान्तशेखरे सर्वत्र श्रीपतेः स्वकीयः प्रकारोऽल्पोवानेवास्ति ब्रह्मगुप्तोत-
प्रकारा एवं छन्दोऽन्तरेण लिखिताः सन्ति' वराहोक्त पञ्चसिद्धान्तितिकायां त्रयो-
दशभिरार्याभिरुक्तो वासिष्ठसिद्धान्तः पैतामहसिद्धान्तश्च वराहोक्त्यैव दूरभ्रष्टा
विति तत्रापि ब्रह्मसिद्धान्तापेक्षया यत्किञ्चित् वासिष्ठसिद्धान्तः सूक्ष्मताभिधायि ।
तन्त्र परीक्षाध्याये--
:लाटात् सूर्यशशाची मध्याविन्दूच्च चन्द्रपातौ च ।
:कुजबुधशीघ्रबृहस्पति सितशीघ्रशनैश्चरान् मध्यान् ॥
:युगजातवर्षं भगरणान् वासिष्ठाद्विजयनन्दिकृत पादात् ।
:मन्दोच्च परिधिपातस्पष्टीकरण द्यमार्यभटात् ॥
:श्रीषेरणेन गृहीत्वा रत्नोच्चयरोमकः कृतः पन्थाः ।
:एतानेव गृहीत्वा वसिष्ठो विष्णुचन्द्रेण ॥
इति ब्रह्मगुप्तोवत्या वसिष्टसिद्धान्तरचयिता विष्णुचन्द्रनामक: करित्र-
दासीत् । सम्भवतोऽयं विष्णुचन्द्र: प्राचीनं वसिष्ठसिद्धान्त संस्कृतवानिति
'एतानेव गृहीत्वा वासिष्ठो विष्णुचन्द्ररा' इत्युक्त्या स्फुटं भवति । परमयं
ग्रन्थोऽधुना कुत्रापि नोपलभ्यते । एतस्यैव विष्णुचन्द्रस्य मतं यत्र तत्र श्रीगणायं-
भटाभ्यां सह ब्रह्मगुप्तेन खण्डितम् ।
----
१. यथोदाहरणार्थ किञ्चित्प्रोच्यते । सिद्धान्तशेखरस्य सूर्यग्रहणाधिकारे ।
:तिथ्यन्तात् स्थितिखण्डहीन सहितात् प्राग्वत्ततो लम्बनं
::कुर्यात् प्रग्रहमोक्षयोः स्थितिदलं युक्तं विधायासकृत् ।
:तन्मध्यग्रहगोत्यलम्बनभुवा बिश्लेषणानेहसा
:मनमुतातिरपि तथा संमीलनोन्मीलने ॥
:अधिकमृणयोराधं मध्यात्तथाऽन्त्य मिहात्मकं भवति
::धनयोश्चाद्यं हीनं यदाऽधिकमन्तिमम्
:नमनविवरेवं कुर्याद्वहीनमतोऽन्यथा स्थितिदल-
::मृगस्वस्थे भेदे तदैवययुतं पुनः ॥
इति ब्रह्मगुप्तोत्तस्या-
:प्राग्वल्लम्बनमसकृत् विष्यत्तात् स्थितिदलेन हीनयुतात् ।
::अधिकोन तन्मध्याहणयोहनाधिक धनयोः ॥
:यद्यधिक स्थित्यर्थं तदाऽन्त रेणान्यथोनमृणमेकम् ।
::अन्यद्धनं तदेक्येनाधिकमेवं विमर्दार्धे ॥
::: (शेष पृष्ठ १६ पर)<noinclude></noinclude>
s0ypvr3myavtv0qx9gk5qrmemfdb9ah
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२८
104
125405
341277
2022-07-25T02:15:55Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:(९)
इत्युक्त्याइन्यान् सर्वान् सिद्धान्तानिन्दन्ति । ब्राह्मस्फुटसिद्धान्ते बहुषु
स्थलेषु स्थौल्यं त्वस्त्येव तथापि बहवो विषया अत्र निवेशिताः सन्ति, तस्मा-
सर्वश्रेष्ठो ब्राह्मस्फुटसिद्धान्तोऽस्तीतिकथने न काचिद्विप्रतिपत्तिः प्रतिभाति ।
कोऽध्याय 'छन्दश्चत्युत्तराध्यायः अस्ति यत्र लिखितानां श्लोकानां व्याख्यो-
पपत्तिश्चाद्यावधि केनापि न कृता तेषु तादृशं काठिन्यमस्ति यदर्थो न मनसि
समागच्छति, उपपत्तेश्च ria का ?, प्रश्नाध्यायो याशोss ग्रन्थेऽस्ति न
.
तादृशोऽन्येषु सिद्धान्तग्रन्थेषु । अत्र ग्रन्थे मध्यगत्यादीनां पञ्चाध्यायानां प्रश्न:
सोत्तराः पृथक् पृथक् लिखिताः सन्ति । येषामभ्यासेन पाठका प्रतीन सिद्धान्त-
ग्रन्थे निपुरगा भवितुमर्हन्ति । सिद्धान्तशिरोमणेर्भ मिकायां 'जीवासाधनं विनैव
यद्भुजज्यानयनं कृतवान् श्रीपतिस्तत्त्वपूर्वमेव स्यात् । यथा तत्प्रकारो विदां
विनोदाय प्रदर्श्यते-
:दोः कोटिभागरहिताभिहताः खनागचन्द्रास्तदीयचरणेन शरार्कदिग्भिः ।
:ते व्यासखण्डगुरिता विहृताः फलं तु ज्याभिविनापि भवतो भुजकोटिजीवे ॥
इति केनापि लिखितमस्ति तन्नैव युक्तियुक्त यतो ज्याभिविना भुजकोटि-
ज्ययोरानयनं ज्यातश्चापानयनं च सर्वप्रथमं ब्रह्मगुप्तेनैव कृतम् यथा तदुक्त-
प्रकारः--
:भुजकोट्य शोनगुणा भार्धांशास्तञ्चतुर्थभागोनैः ।
:पञ्चद्वन्दुखचन्द्र विभाजिता व्यासदलगुरिणता ॥
:तज्ज्ये परसफलज्या सङ्गुणिता तत्फले विना ज्याभिः ।
:इष्टोच्चनीचवृत्तव्यासार्धं परमफलजीवा ॥
:::;इष्टज्यातश्चापानयनञ्च
:इष्टज्यासङ्गुणिताः पञ्चकयमलैकशून्यचन्द्रमसः ।
:इष्टज्यापादयुतव्यासार्ध विभाजिता लब्धम् ॥
:नवतिकृतेः प्रोह्यपदं नवते: संशोध्य शेषभागकलाः ।
:एवं धनुरिष्टाया भवति ज्याया विना ज्याभिः ॥
----
१. चिरादेव प्रकारोऽयं श्रींपत्युक्तोऽस्तीति ज्योतिविदां मध्ये प्रसिद्धोऽस्ति । तथैव
ज्यातश्चापानयनमपि । एतदवलम्ब्यैव ग्रहलाघवे करणग्रन्ये गणेशदेशेन बहवः
प्रकारा विलिखिताः ।<noinclude></noinclude>
ogwlo9d2tbwd2ee1ruv4kzopxsxumr1
341278
341277
2022-07-25T02:18:57Z
अनुनाद सिंह
1115
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:(९)
इत्युक्त्याइन्यान् सर्वान् सिद्धान्तानिन्दन्ति । ब्राह्मस्फुटसिद्धान्ते बहुषु
स्थलेषु स्थौल्यं त्वस्त्येव तथापि बहवो विषया अत्र निवेशिताः सन्ति, तस्मा-
सर्वश्रेष्ठो ब्राह्मस्फुटसिद्धान्तोऽस्तीतिकथने न काचिद्विप्रतिपत्तिः प्रतिभाति ।
कोऽध्याय 'छन्दश्चत्युत्तराध्यायः अस्ति यत्र लिखितानां श्लोकानां व्याख्यो-
पपत्तिश्चाद्यावधि केनापि न कृता तेषु तादृशं काठिन्यमस्ति यदर्थो न मनसि
समागच्छति, उपपत्तेश्च कथैव का?, प्रश्नाध्यायो यादृशोऽत्र ग्रन्थेऽस्ति न
तादृशोऽन्येषु सिद्धान्तग्रन्थेषु । अत्र ग्रन्थे मध्यगत्यादीनां पञ्चाध्यायानां प्रश्न:
सोत्तराः पृथक् पृथक् लिखिताः सन्ति । येषामभ्यासेन पाठका प्रतीन सिद्धान्त-
ग्रन्थे निपुणा भवितुमर्हन्ति । सिद्धान्तशिरोमणेर्भ मिकायां 'जीवासाधनं विनैव
यद्भुजज्यानयनं कृतवान् श्रीपतिस्तत्त्वपूर्वमेव स्यात् । यथा तत्प्रकारो विदां
विनोदाय प्रदर्श्यते-
:दोः कोटिभागरहिताभिहताः खनागचन्द्रास्तदीयचरणेन शरार्कदिग्भिः ।
:ते व्यासखण्डगुरिता विहृताः फलं तु ज्याभिविनापि भवतो भुजकोटिजीवे ॥
इति केनापि लिखितमस्ति तन्नैव युक्तियुक्त यतो ज्याभिविना भुजकोटि-
ज्ययोरानयनं ज्यातश्चापानयनं च सर्वप्रथमं ब्रह्मगुप्तेनैव कृतम् यथा तदुक्त-
प्रकारः--
:भुजकोट्य शोनगुणा भार्धांशास्तञ्चतुर्थभागोनैः ।
:पञ्चद्वन्दुखचन्द्र विभाजिता व्यासदलगुरिणता ॥
:तज्ज्ये परसफलज्या सङ्गुणिता तत्फले विना ज्याभिः ।
:इष्टोच्चनीचवृत्तव्यासार्धं परमफलजीवा ॥
:::;इष्टज्यातश्चापानयनञ्च
:इष्टज्यासङ्गुणिताः पञ्चकयमलैकशून्यचन्द्रमसः ।
:इष्टज्यापादयुतव्यासार्ध विभाजिता लब्धम् ॥
:नवतिकृतेः प्रोह्यपदं नवते: संशोध्य शेषभागकलाः ।
:एवं धनुरिष्टाया भवति ज्याया विना ज्याभिः ॥
----
१. चिरादेव प्रकारोऽयं श्रींपत्युक्तोऽस्तीति ज्योतिविदां मध्ये प्रसिद्धोऽस्ति । तथैव
ज्यातश्चापानयनमपि । एतदवलम्ब्यैव ग्रहलाघवे करणग्रन्ये गणेशदेशेन बहवः
प्रकारा विलिखिताः ।<noinclude></noinclude>
3k22j6g1q1dhy003edmq81s7fc3wdxa
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२७
104
125406
341279
2022-07-25T02:22:45Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:(८)
शिरोमणेर्गरिगताध्यायस्य स्पष्टाधिकारे एतस्याऽनयन प्रकारोऽभिहितः । 'मुहुः
स्फुटातो ग्रहणे रवीन्दोस्तिथिस्त्विदं जिणुसुतो जगाद' इति भास्कारोक्तेजयते
यदेतस्याविष्कर्ता ब्रह्मगुप्त एवास्ति | भास्कराचार्येण भोग्यखण्डस्पष्टीकरण
यदभिहितं तन्मूलमपि ब्राह्मस्फुटसिद्धान्तस्य ध्यानग्रहोपदेशाध्याये ब्रह्मगुप्तोक्त
मेव, न ह्यन्यैराचार्यैस्तत्सम्बन्धे किमपि लिखितम् | कमलाकरेण तु सिद्धान्त-
तत्वविवेके भास्करोक्तभोग्यखण्डस्पष्टीकरणस्य खण्डनमेव कृतम् । वस्तुत:
कमलाकरोक्तं खण्डनं न समीचीनम् । ब्राह्मस्फुटसिद्धान्ते त्रिश्नाधिकारे
दिक्साधने 'पूर्वापरयोबिन्दू तुल्यच्छायाग्रयोदिगपराध: । पूर्वान्य: कान्तिवशात्
तन्मध्याच्छकुतल मितरे' इत्यत्र क्रान्तिवशादिवसाधने कथं भेद उत्पद्यते तदर्थ
चतुर्वेदाचार्येण कर्णवृत्ताग्रान्तरं यत्साधितं तदेव 'छायानिर्गमनप्रवेशसमयाक
क्रान्तिजीवान्तरमि' त्याद्युक्त्या श्रीपतिना, तदनु 'तत्कालापम जीवयोस्तुविवरादि'
त्यादिना भास्करेण च गृहीतम् | मन्दफलानयने वस्तुतो मन्दकर्णानुपातेनैव
• मन्दफलं सिध्यति । यद्यप्यत्र भास्करेग स्वमतं न प्रतिपादितं तथापि चन्द्रग्रहयो
स्फुटरविचन्द्रक साधने 'मन्द तिक्त्र तिवत् प्रसाध्या' इत्यादिना ब्रह्मगुप्त-
स्यैव मतं स्वीकृतमित्यपि ब्रह्मगुप्तोक्तेर्वेलक्षण्यमस्ति । लल्लाचार्येण वळनक-
गोरानयन मुत्क्रमज्ययाकृतमिति ब्रह्मगुप्तोक्तो 'अत्र ज्याशब्देनोत्कमज्या
ग्रति चतुर्वेदाचार्यव्याख्यानमेव लक्ष्यीकृत्य भास्करेण 'ब्रह्मगुप्तकृतिरत्र-
सुन्दरी साऽन्यथा तदनुर्गविचार्यते' इत्युक्तम् ।
:'युगमत्वन्तरकल्पाः कालपरिच्छेदकाः स्मृतावुक्ताः ।
:यस्मान्न रोमके ते स्मृतिवाह्यो रोमकस्तस्मात् ॥'
::::(ब्राह्मस्फुट सिद्धान्त अध्याय २)
इति ब्रह्मगुप्तोक्त्या 'रोमक' इति नाम्ना चार्य कस्यचित्यज्यो
तिविदो मूलमादाय रोमक सिद्धान्तो रचित इति स्फुटं भवति । प्राचीनाचार्या
मध्ये केवलं ब्रह्मगुप्त एव रोमकमतं खण्डयति । वराहमिहिरस्तु रोमक
सिद्धान्तमतेनाहर्गणादीनां बहूनामेव सिद्धान्तोक्तविषयाणां साधनं स्वीकरोति ।
ब्रह्मगुप्तः ---
:ब्रह्मो ग्रहगणितं महता कालेन यत् खिलीभृतम् ।
:अभिधीयते स्फुटं तज्जिष्णुसुतब्रह्लागुप्तेन ॥
इत्युक्त्या ब्रह्मसिद्धान्तमेव संस्कृतवानिति स्फुटमेन। तदेतेषां मूलरूप
- एको ब्रह्मसिद्धान्तोऽतिप्राचीन प्रासीदिति सिद्धयति । ब्रह्मगुप्तस्तु -
:'येऽज्ञानपटलरुद्ध दृशोऽन्यं ब्राह्माद्वदन्ति सिद्धान्तम् ।
:सेषां युगादिभेदे ये दोषास्तान् प्रवक्ष्यामि ॥'<noinclude></noinclude>
0bag6x6dt7q9pept2ag3ye8avzjdcif
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२६
104
125407
341280
2022-07-25T02:25:00Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:( ७ )
तत्फलस्याप्यभावो यात्रोद्वाहादिषु पुनरिह द्युत्रयं नैव दुष्टम् || अनेन कथितम्,
अर्थात्सूर्यविम्बं तुहिनकिरणापक्रमेण ( चन्द्रस्य स्पष्टक्रान्त्या सह) यावत्काल-
पर्यन्तमेकमार्गे ( एकस्मिन्नहोरात्रवृत्त इर्थांद्यावत् क्रान्त्योविवरं मानक्यार्धादल्यं
भवति यथा बिम्बैकदेशजक्रान्त्योः साम्यं भवतीत्यर्थः ।) तावत् मुनिभिः फलादेश-
कृभिः पातसंजातफलस्य संभवः कथितः | तस्य सूर्यस्य चन्द्रस्य स्पष्टान्त्या
सहकमार्गावस्थानाभावे तत्फलस्याप्यभावो भवति । इह पुनः पातस्थितिकाले
यात्रोद्वाहादिषु मङ्गलकार्येषु दिनत्रयं दुष्टं नैव । केबुचित्फलग्रन्थेषु व्यतीपात-
बैधृतयोः सतोस्तद्दिनं तत्पूर्वदिनमपरदिनं चेति दिनत्रयं शुभकार्ये निषिद्धमिति
कंश्चिदुवतं तत्परिहारार्थं माह- दुयुत्रयं नैव दुष्टम् । सूर्यसिद्धान्तादिषु पातकाल
एवं शुभकार्येषु दोषभाक् गते पातकाले च दोषो न भवतीति । प्रसङ्गादत्र
सिद्धान्तशेखरवचनोल्लेखः कृतः । यतः श्रीपतिराचार्या (ब्रह्मगुप्तात्) दर्वाचीनोऽ-
स्ति । ब्राह्मस्फुट सिद्धान्ते तन्नामोल्लेखो नास्ति ।
भारतीयानां ज्योतिर्विदां मध्ये प्रार्यभट एवं सर्वप्रथमं दिनराग्योः कारण-
स्वरूपं पृथिव्या आवर्तनं कथयति । यथा गीतिकापादस्य प्रथमश्लोके एकस्मिन्
महायुगे ४३२०००० भूमेभंगणा: १५८२२३७५०० एतावन्तो भवन्तीति प्रथमं
कथयित्वा दृष्टान्तद्वारेण भूभ्रमणं--
:अनुलोमगतिर्नोस्थ: पश्यत्यचलं विलोमगं यद्वत् ।
:अचलानि भानि तद्वत् समपश्चिमवाति लङ्कायाम् ॥
अनेन दृढीकरोति । परमत्र विचित्रमेतदवलोक्यते यदार्यभटीय टीका-
कारेण परमेश्वरेणंतत्-श्लोकस्यावतरणं 'भूमेः प्राग्गमनं नक्षत्राणां गत्यभावञ्चे-
च्छन्ति केचित्तन्मिथ्याज्ञानवशादुत्पन्नां प्रत्यग्गमन प्रतीतिमङ्गीकृत्य भूमेः प्राग्ग-
तिरभिधीयते । परमार्थंतस्तु स्थिरैवभूमिः' इत्युक्तम् । स्वयमप्यार्यभट :-
:उदयास्तमय निमित्तं नित्यं प्रवहेण वायुना क्षिप्तः ।
:लङ्कासमपश्चिमगो भपञ्जर: सग्रहो भ्रमति ॥
इत्यनेन भूभ्रमणमस्वीकरोतीति दृश्यन्ते । आर्यभटस्य मनसि निश्चयो
नासीद्यत् पृथिवी चलति नवा चलति । ब्रह्मगुप्तेनैक्रमपूर्वं वस्तु 'नतकर्म' प्रति-
पादितम् । मन्दफल - शीघ्रफल - भुजान्तरादि संस्कारेण यो हि स्पष्टग्रह: समा-
गच्छति स स्वगोलीयः (ग्रहगोलीयः) स ग्रहोऽस्माकं यत्र प्रत्यक्षोभूतो भवति स
एवास्माकं स्पष्टग्रहो भवितुमर्हति । स्वगोलीय स्पष्टग्र हे यावता संस्कारेणास्माकं
स्पष्टग्रहो भवति तस्यैव संस्कारस्य नाम 'नतकर्म' ब्रह्मगुप्ततः केsपि प्राचीना
आचार्या एतस्य (नतकर्मण:) नामोल्लेखं न कृतवन्तः | भास्कराचार्येण सिद्धान्त-<noinclude></noinclude>
7apbtndd2y7ggavsb9lr7r182j1kn9l
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२५
104
125408
341281
2022-07-25T02:28:10Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:(६)
इति कमलाकरोत्तया स्वयं भगवान् सूर्य एवास्य रचयिता आश्चर्यम्य
विषयोऽयमस्ति यदत्रा ( सूर्यसिद्धान्ते) यनांशानयनम् ।
:'त्रिंशत्कृत्यो युगे भानां चक्र प्राक् परिलम्बते ।
:तद्गुणाद्भूदिनैर्भक्ताद् धुगरणाद्यदवाप्यते ॥'
:'तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः ।
:तत्संस्कृताद् ग्रहात् कान्तिच्छाया चरदलादिकम् ॥'
इत्यनेन कृतमस्ति । परं ब्राह्मस्फुटसिद्धान्तनिर्मात्रा ब्रह्मगुप्तेन तस्व
(अयनांशस्य) चर्चाsपि न कृता । कथं ब्रह्मगुप्तेन तच्चर्चा न कृतेति न ज्ञायते ।
सूर्य सिद्धान्तस्योदयास्ताधिकारे अभिजिद् ब्रह्महृदयं स्वातीवैष्णव वासवाः'
इत्यादिना सदोदित नक्षत्राणि भगवता सूर्येण कथितानि सन्ति, अस्य श्लोकस्य
सुधावर्षिणी टीकायां 'देशज्ञानं विना सदोदित नक्षत्राणां ज्ञानं न भवति निरक्ष
च सौम्य ध्रुवोऽप्यदृश्योऽतः केनचिद्गोलानभिज्ञेनायं श्लोकः प्रक्षिप्त, इनि
यल्लिखितमस्ति तत्समीचीनं नास्ति । पाताधिकारे पातस्थितिकालस्य फलं--
:आद्यन्तकालयोर्मध्यः कालो ज्ञेयोऽतिदारुणः ।
:प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥
:एकायनगतं यावदर्केन्द्रोर्मंण्डलान्तरम् ।
:सम्भवस्तावदेवास्य सर्वंकमँविनाशकृत् ॥
:स्नानदानजपत्राद्धव्रतहोमादिकर्मभिः
:प्राप्यते सुमहच्छ्रे यस्तत्कालज्ञानतस्तथा ॥
इत्यनेन पातस्थितिकालः सर्वकर्मविनाशकृदुक्तः | पातकाले स्नानदान-
जपश्राद्धव्रतहोमादि कर्मभिमंहत्कल्याणं प्राप्यते लोकैरिति । तथा च--
:रवीन्द्वोस्तुल्यता क्रान्त्योविषुवत्सन्निधो यदा ।
:द्विर्भवेद्धि तदा पातः स्यादभावो विपर्ययात् ॥
इत्यनेनापूर्वविषयः कथितोऽर्थाद्रविगोलसन्धिसमीपे यदा रविचन्द्रयोः
क्रान्तिसाम्यं भवेत्तदाऽल्पेनैव कालेन द्विवार: पात: स्यात् । यदा व्ययनसन्धि-
समीपे क्रान्तिसाम्याभावस्तदा वहुकालपर्यन्त क्रान्ति साम्याभावः स्यादिति ।
ब्राह्मस्फुटसिद्धान्तेऽपि पातस्थितिकालफलं सूर्यसिद्धान्तोक्तवत्कथितम् ।
सिद्धान्तशेखरे कियत्कालपर्यन्तं पातफलमिति 'भानोबिम्बं तुहिनकिरणापक्रमे-
कमार्गे यांवत्तावन्मुतिभिरुदित संभवस्तत्फलस्य तस्याभावे भवति नियतं<noinclude></noinclude>
1q2a8ltifutpeh2zo6flimbsgcgvi13
पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२४
104
125409
341282
2022-07-25T02:38:53Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:(५)
:द्वघूनं शकेन्द्रकालं पञ्चभिरुद्धृत्य शेषवर्षाणाम् ।
:द्विगुणं माघसिताद्यं कुर्याद् द्युगणं तदन्ह्यदयात् ॥ २॥
:सैक षष्ट्यशे गणे तिथिर्भमार्क नवाहतेऽक्ष्यकैः ।
:दिग्रसभाग: सप्तभिरूनं शशिभं धनिष्ठाद्यम्
:प्रागर्धे पर्व यदा तदोत्तरातोऽन्यथा तिथिः पूर्वा ।
:अर्कने व्यतिपाता घुगणे पञ्चाम्बरहुताशेः ॥४॥
:द्व्यग्निनगेषूत्तरतः स्वमितमेष्य दिनमपि याम्यायनस्य |
:द्विघ्नं शशिरसभक्तं द्वादशहीनं दिवसमानम् ॥५॥
एतदनुसारेणैकस्मिन् युगे सौरवर्षाणि = ५, सौरमासाः= ५ x १२ = ६० ।
अधिमासौ = २ । चन्द्रमासाः = ६२ एते त्रिशद्गुरिणतास्तिथयः =- १८६० अव
F = ३०, एभी रहितास्तिथयोऽहमरगः = १८३० इति ॥
पञ्च सिद्धान्तिकायां 'पोलिश सिद्धान्तः' इति नाम्ना एकोऽध्यायो वर्त्तते,
ब्राह्मस्फुट सिद्धान्तटीकायां पृथूदकेन बहून्येव पौलिशसिद्धान्तवचनानि प्रमाण-
त्वेनोद्ध तानि सन्ति । अस्य सिद्धान्त रचयितुः सम्बन्चे बहूनि मतान्तराणि सन्ति ।
वराहोक्तपौलिशसिद्धान्ते यवनपुरात् उज्जयिन्या वाराणस्याश्च देशान्तरमुल्लिखितमस्ति । यथा -
:अवनाच्चरजा नाड्य: सप्तावन्त्यां विभागसंमिश्राः ।
:वाराणस्यां त्रिकृतिः साधनमन्यत्र वक्ष्यामि ॥
शाकल्यसंहितोक्त ब्रह्मसिद्धान्ते पुलिशसिद्धान्तोल्लेखो वर्त्तते । ब्राह्मस्फुट-
सिद्धान्तटीकायां पृथूदकेन 'देशान्तर रेखा च पोलिशे पठ्यते' इत्युक्तम् । तथा च
पुलिशाचार्य :-
:'उज्जयिनी रोहीतककुरुयमुनाहिमनिवासमेरूणाम् ।
: देशान्तरं न कार्यं तल्लेखामध्यसंस्थदेशेषु ॥'
इत्यादि विचारेण पौलिशसिद्धान्तः सर्वमान्य श्रासीदिति प्रतिभाति ।
परमयं सिद्धान्तः साम्प्रतं नोपलभ्यते इति ।
सूर्य सिद्धान्त एव प्राचीनतमः सर्वप्रथमः सिद्धान्तग्रन्थ इति बहूनां विदुषां
मतम् ।
:'केचित्प्रत्यक्ष सूर्याच्च भिन्नोऽयमिति यद्वलात् ।
:वदन्ति मूढवादस्याप्रामाण्यात्तदसध्रुवम् ॥'<noinclude></noinclude>
n189rml9bzdlry8bthjckiyhstyatxi
341283
341282
2022-07-25T02:39:50Z
अनुनाद सिंह
1115
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:(५)
:द्वघूनं शकेन्द्रकालं पञ्चभिरुद्धृत्य शेषवर्षाणाम् ।
:द्विगुणं माघसिताद्यं कुर्याद् द्युगणं तदन्ह्यदयात् ॥ २॥
:सैक षष्ट्यशे गणे तिथिर्भमार्क नवाहतेऽक्ष्यकैः ।
:दिग्रसभाग: सप्तभिरूनं शशिभं धनिष्ठाद्यम् ॥३॥
:प्रागर्धे पर्व यदा तदोत्तरातोऽन्यथा तिथिः पूर्वा ।
:अर्कने व्यतिपाता घुगणे पञ्चाम्बरहुताशेः ॥४॥
:द्व्यग्निनगेषूत्तरतः स्वमितमेष्य दिनमपि याम्यायनस्य |
:द्विघ्नं शशिरसभक्तं द्वादशहीनं दिवसमानम् ॥५॥
एतदनुसारेणैकस्मिन् युगे सौरवर्षाणि = ५, सौरमासाः= ५ x १२ = ६० ।
अधिमासौ = २ । चन्द्रमासाः = ६२ एते त्रिशद्गुरिणतास्तिथयः =- १८६० अव
F = ३०, एभी रहितास्तिथयोऽहमरगः = १८३० इति ॥
पञ्च सिद्धान्तिकायां 'पोलिश सिद्धान्तः' इति नाम्ना एकोऽध्यायो वर्त्तते,
ब्राह्मस्फुट सिद्धान्तटीकायां पृथूदकेन बहून्येव पौलिशसिद्धान्तवचनानि प्रमाण-
त्वेनोद्ध तानि सन्ति । अस्य सिद्धान्त रचयितुः सम्बन्चे बहूनि मतान्तराणि सन्ति ।
वराहोक्तपौलिशसिद्धान्ते यवनपुरात् उज्जयिन्या वाराणस्याश्च देशान्तरमुल्लिखितमस्ति । यथा -
:अवनाच्चरजा नाड्य: सप्तावन्त्यां विभागसंमिश्राः ।
:वाराणस्यां त्रिकृतिः साधनमन्यत्र वक्ष्यामि ॥
शाकल्यसंहितोक्त ब्रह्मसिद्धान्ते पुलिशसिद्धान्तोल्लेखो वर्त्तते । ब्राह्मस्फुट-
सिद्धान्तटीकायां पृथूदकेन 'देशान्तर रेखा च पोलिशे पठ्यते' इत्युक्तम् । तथा च
पुलिशाचार्य :-
:'उज्जयिनी रोहीतककुरुयमुनाहिमनिवासमेरूणाम् ।
: देशान्तरं न कार्यं तल्लेखामध्यसंस्थदेशेषु ॥'
इत्यादि विचारेण पौलिशसिद्धान्तः सर्वमान्य श्रासीदिति प्रतिभाति ।
परमयं सिद्धान्तः साम्प्रतं नोपलभ्यते इति ।
सूर्य सिद्धान्त एव प्राचीनतमः सर्वप्रथमः सिद्धान्तग्रन्थ इति बहूनां विदुषां
मतम् ।
:'केचित्प्रत्यक्ष सूर्याच्च भिन्नोऽयमिति यद्वलात् ।
:वदन्ति मूढवादस्याप्रामाण्यात्तदसध्रुवम् ॥'<noinclude></noinclude>
5lxst5srs9u3t7tg5qy9j56g3iclblb
पृष्ठम्:Manasollasa part 2.pdf/१६
104
125410
341284
2022-07-25T02:54:40Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:13
To prevent smoke nuisance from the होमशाला in the palace he
recommends the construction of latticed windows etc. The necessity of having a चतुष्क in the palace and the passage i.e. अलिन्द shows that the old engineers had a good grasp of the problems of light and ventilation.
The king is advised also to spend different seasons in different
types of palaces which are constructed differently to suit the seasons and the variable weather. The author is particular in having four palaces for the four seasons, i. e. the spring, the summer, the winter and the rainy season.
Then begins the chapter entitled the स्नानोपभोग or 'the
enjoyment of bath'. The king's person, he says, should first be
anointed with fragrant oil and then massaged by expert wrestlers
well-versed in the art of massaging. An ointment prepared with
fragrant unguents like Kostha etc. in water or Känjikā is applied
afterwards to the body for rubbing and cleaning the skin. A Khali
(a special preparation of an ointment of wheat-flour etc. in Aranālas)
is then applied to remove grease from the skin and it serves the same
purpose as the modern soap. Young women then pour over the head water
from golden jars made fragrant by various scented things. The scented oil
of Amalaki is then applied to the hair; sometimes scented turmeric is
applied in addition. The oil and turmeric are then removed with warm
water and the body is rubbed vigorously with a dry towel. Finally the
removal of wet clothings completes the elaborate process of a royal bath.
The bath over, the king should put on a pair of sandals made of
Sriparni or Harichandana wood or of leather which covers only the front
portion of the foot according to convenience. This is called the पादुकाभोग or the enjoyment of sandals.
Coming out of the Snänagrha (bath room) the king should enter
the Sukha-Mandir (pleasure hall). He should then summon the
officer-in-charge of Tambula 'betel leaves' and take from him one Tambūla.
For this purpose excellent areca nuts are obtained from places like
Vanaväsī. A slice from the top of the nut is first removed and then it is
dried in the shade. One fourth of this nut is used in preparing the
Tambula which consists of fifty-two yellowish betel leaves with their ends
removed. The ingredients used for the Tambūla include pearl oyster, the
Is'avāsa camphor, Kastūrī (musk) and various other sweet smelling things.
----
:1. धूमनिर्गमनोपायकृतजालपरिष्करा । (विं. ३-९१३)
:2. गवाक्षैः शोभिते हर्म्ये रम्ये सर्वप्रकाशके । (विं. ३-९२३)<noinclude></noinclude>
gg1ynvl20onau9fe046kf1nhjtqugx3
पृष्ठम्:Manasollasa part 2.pdf/१७
104
125411
341285
2022-07-25T03:08:16Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:14
The author then proceeds to describe the vilepanas or unguents to
render the skin soft, clean and fair. Different vilepanas are prescribed
for different seasons. The vilepana called Sandhya is designed to remove
the smell of perspiration. In this chapter the author deals with the tests
of Chandana and Kastüri which are used in the summer and the
rainy season respectively. The lepana known as pullinga is prescribed for
the cold season (Hemanta and Siśira) exclusively. The colour of the
vilepana is required to be harmonized with the dress which also changes
according to seasons.
The author next deals with the interesting topic of Vastropabhoga
or the "enjoyment of garments". The chapter opens with astrological
observations on the auspicious and inauspicious moments for putting on
new dress and gives the results arising therefrom. The author incidentally
observes that for putting on new clothing on ceremonial occasions like
the Grhotsava or marriage, it is not necessary to observe the Muhurta or
auspicious moments. After applying the vilepana to his body the king
should call the officer-in-charge of the royal ward-robe and order him to
bring excellent clothes of cotton or silk woven with silver or golden
threads of various kinds and colours brought from different countries'
and wear them.
In the वसन्त (spring) season the king is asked to put on silk or
cotton clothes which are thin and charming. In Grisma (summer) he
should wear clothes of white colour. But if he wants to wear woollen
clothes of white colour they must be very thin, soft and beautiful. In the
rainy season he should wear red, pink, reddish and dark-red clothes made in
an attractive style. In the Sarad (autumn) season he should wear very
thin clothes dyed with safflower or lac. In the cold season, he should
wear woollen clothes of various kinds. On the whole the king
should according to different seasons wear thin, costly and beautiful
clothes of various colours to suit his own complexion.
Then comes the माल्यभोग (enjoyment of garlands). After putting
on fine clothes he should wear garlands made of various kinds of flowers.
The line in मानसोल्लासः - बिभर्ति माल्यं शिरसा नृपतिः स्वानुसारतः ।
वि ३. अ. ७. श्लोक ४७.
----
1. Among the places mentioned one is Anilväd or Anahilapurapattana
(modern Pattana in the Mehasana Prant of the Baroda Raj).<noinclude></noinclude>
sqcvxgom5a8m2qwkr8d7jwld1r55o7i
आर्यबुद्धबलाधानप्रातिहार्यविकुर्वाणनिर्देशः
0
125412
341327
2022-07-25T06:18:24Z
Shubha
190
{{header | title = आर्यबुद्धबलाधानप्रातिहार्यविकुर्वाणनिर्देशः | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> आर्यबुद्धबलाधानप्रातिहार्यविकुर्वाणनिर्देशनाम म... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = आर्यबुद्धबलाधानप्रातिहार्यविकुर्वाणनिर्देशः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
आर्यबुद्धबलाधानप्रातिहार्यविकुर्वाणनिर्देशनाम महायानसूत्रम्
एवं मया श्रुतम् । एकस्मिन् समये भगवान्महानदीनैरञ्जनातीरे सन्निषण्णः सार्धमार्यावलोकितेश्वर वज्रपाणि मैत्रेयमञ्जुश्रीपूर्वङ्गमैः सप्तबोधिसत्त्वसहस्रैः सार्धं सुभूति शारिपुत्रमौद्गल्यायनपुर्वङ्गमैः सर्वेर्महाश्रावकैः शक्रब्रह्मलोकपालराजामात्यब्राह्मणगृहपतिभिः सर्वैः सत्कृतः मानितः पूजितः । भगवान् भक्तकृत्यं कृत्वा मण्डलमालायां सन्निषण्णो धर्मप्रतिसंयुक्तया कथया एतान् सन्तोषयति सञ्चोदयति समुत्तेजयति संहर्षयति । मण्डलमालायास्तथागतो महर्द्धिनगरीं वाराणसीं गत्वा तस्यामाम्रपालीवने निषीदति स्म । अथ तस्मिन् समये महापृथिवी सङ्कम्पिता सम्प्रवेधिता । स्थितं तत्र महासिंहासनमेकं नानारत्नमयं सप्तकर्मकृतं योजनमात्रमुच्चमर्धयोजनमात्रविस्तृतं सुखचितमतिहर्षणीयं मनोज्ञं दिव्यभक्तसंस्तृतं नानादिव्यपुष्पफलप्रलम्बितं दिव्यगन्धवर्णयुक्तम् । तथागतानामवरोपितकुशलमूलमवलोक्य सर्वसत्त्वानामनुत्पत्तिधर्मक्षान्तिप्रतिलम्भोऽभूत् ।
अथ भगवान् सिंहासनस्थितो बुद्धावतंसकनाम समाधिं प्रतिलेमे । अथ समाधेर्व्युत्थाय बोधिसत्त्वार्यावलोकितेश्वरं वज्रपाणिं चेदमवोचत् । अवलोकितेश्वर त्वं महालोकधातुं गत्वा च दशसु दिक्षु लोकधातौ विनेयसत्त्वानां कषाययुक्तानामश्राद्धानां पापचरितानां क्लेशावृतानाममातृज्ञानामपितृज्ञानामश्रामण्यानामब्राह्मण्यानां त्रिरत्नानभिश्राद्धानां तेषां सर्वेषां त्वं च वज्रपाणिश्च द्वौ महर्द्धिं समाधिबलं प्रतिपद्य अस्यां मण्डलमालायामभिसङ्क्षिप्य सङ्ग्रहं कुरुतम् ।
अथार्यावलोकितेश्वरो वज्रपाणिश्च तथागतस्य वचनं श्रुत्वा सर्वसत्त्वानवलोक्य समुत्तेजनं नाम समाधिं समापेदे । तेन समाधिबलेन महापृथिवी षड्विकारं कम्पिता प्रकम्पिता सम्प्रकम्पिता । त्रिसाहस्रमहासाहस्रलोकधातौ ब्रह्मलोकधातौ यावद्रूपलोकधातौ तयोः कायावभासप्रादुर्भावोऽभूत् । अथ तदवभासत इमाः सञ्चोदना गाथा निश्चरन्ति स्म ।
अथ तदा कायावभासनिश्चरितगाथावसाने एकैकं पारम्पर्येण त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वे सत्त्वा विज्ञापिताः समुत्तेजिवाः । ते सर्वे सत्त्वा मिथ्यादृष्टिं परित्यज्य सम्यगदृष्टियुक्ता अभूवन् । ये मानमदस्तम्भयुक्तास्ते मानमदस्तम्भवियुक्ता अभूवन् । ये कामरागानुचरिताः प्रमत्तास्ते प्राणातिपातादत्तादानकामेषु मिथ्याचाराद्यष्टाकुशलधर्मेभ्यो निवृत्ताः आर्याष्टाङ्गिकमार्गे स्थापिताः । सर्वे ते औद्धत्यहास्यलास्यक्रीडालोभक्रोधेर्ष्यारागादि सर्वं परित्यज्य तथागतदर्शनसेवनपर्युपासनधर्मश्रवणकामा अभूवन् । देवनागयक्षगन्धर्वासुरकिन्नरगरुडमहोरगराजामात्यभिक्षुभिक्षुण्युपासकोपासिकाभिः सर्वे दिव्यपुष्पमाल्यगन्धचूर्णचीवरच्छत्रध्वजपताकादिभिः तथागतः पूजितः । अथ सर्वे ते येन महानगर्ययां वाराणस्यामाम्रपालीवनं तेनोपसङ्क्रम्य तथागतानामवरोपितकुशलमूलपुण्यतेजसा तथागतस्योपरि पुष्पवर्गमभिप्रावर्षन् ।
अथ तदा भगवान् जम्बुद्वीपे आम्रपालीवनं समन्ततः नियुतशतसहस्रयोजनविस्तीर्णमध्यतिष्ठत्(बुबल्१७७.१८) समं पाणितलमिव च दिव्यं मनोरमं वर्णोपेतम् । दिव्यपुष्पवृक्षगन्धवृक्षफलवृक्षमहारत्नवृक्षकल्पवृक्षवस्त्रवृक्षादिभिरलङ्कतं दिव्यसंहासनोपेतं रत्नपट्टादामाभिप्रभं पीतं दिव्यकिङ्किणीदामशब्दोपशोभितं तद्यथा सुखावतीलोकधातुः । तथा मनोज्ञं प्रह्लादनीयं प्रेमणीयमभिनन्दनीयं (बुबल्१७८) सर्वबोधिसत्त्वश्रावकप्रत्येकबुद्धदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगो पासकोपासिकाराजामात्यब्राह्मणगृहपत्याकीर्णमध्यतिष्ठत् ।
अथार्यावलोकितेश्वरो बोधिसत्त्वो वज्रपाणिश्च समाधेर्व्युत्थाय येन भगवांस्तेनोपसङ्क्रान्तः । उपसङ्क्रम्य त्रिः प्रदक्षिणीकृत्य भगवन्तमेतदवोचत् । अस्ति भगवन् तथागतानामुपायकौशल्यं सत्त्वपरिपाकाय । बहवो भगवन् बोधिसत्त्वा महाश्रावका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराजामात्यगृहपतयो भिक्षुभिक्षुण्युपासकोपासिकाः सन्निपतितास्तथागततेजसा ऋद्ध्यनुभावेन । साधु साधु कुलपुत्राः । एवमेव बहवो भो जिनपुत्रास्तथागतानामुपायकौशल्यं सत्त्वपरिपाकाय यथाशयानां यथा वैनयिककुशलमूलाधिगतानां नानाधिमुक्तानां सत्त्वानां चरिं ज्ञात्वा धर्मं देशयन्ति । केचित्सत्त्वा बोधिसत्त्ववैनेयाः केचिच्छ्रावकवैनेयाः केचित्प्रत्येकबुद्धवैनेयाः केचिद्देववैनेयाः केचित्शक्रवैनेयाः केचिद्ब्रह्मवैनेयाः केचिन्नागवैनेयाः केचिन्महर्धिकवैनेयाः केचिद्राजवैनेयाः केचित्समाधिवैनेयाः केचिद्धर्मश्रवणवैनेयाः केचित्प्रातिहार्यवैनेयाः केचित्तथागतपरिनिर्वाणवैनेयाः केचिद्धातुवैनेयाः केचित्चैत्यकरणप्रवेशविहारचङ्क्रमोद्यानकारापणकुशलमूलवैनेयोत्सुकाः केचित्प्रस्तरप्रतिबिम्बकारापणालेख्यसुवर्णरजतरैत्यप्रतिबिम्बकारापणकुशलमूलोतसुकवैनेयाः केचिद्भिक्षुसङ्घपूजनसत्करणकुशलमूलोत्सुकवैनेयाः केचित्(बुबल्१७९) सूत्रपृच्छनलिखनपठनपूजनोत्सुकवैनेयाः केचिद्दीपपुष्पधूपगन्धमाल्याहाराभ्यलङ्करणोत्सुका भवन्ति । न परमार्थकुशलमूलधर्मोपेता न निर्वाणधर्मोपेताः । धर्माणामपि च भो जिनपुत्रा नास्ति तथागतानां किञ्चिदज्ञातं वा अदृष्टं वा अश्रुतं वा अविदितं वा । आगतं वा जानाति । अनागतं वा जानाति । अल्पं वा जानाति । बहुं वा जानाति । अतीतं जानाति । प्रत्युत्पन्नं जानाति । सर्वसत्त्वानामीर्यापथं जानाति । चरिं जानाति । धातुं
जानाति । उत्पादं जानाति । उपपत्तिं जानाति । तद्यथा भो जिनपुत्रा वैद्यः सुशिक्षितः सर्वाष्टाङ्गायुर्वेदमुपगतः सर्वधातुकौशल्यसर्वद्रव्योपकरणप्रयोगाभियुक्तः सत्त्वानां नानाव्याधिशरीरपरिपीडितानां धातुं जानाति । बलं जानाति । वेलं जानाति । औषधं जानाति । वातिकं पैत्तिकं श्लैष्मिकं सान्निपातिकं रुधिरमामजं गुल्मिकं जलोदरं हृदरोगं कुष्ठं कण्डूं दद्रुं पिटकादीन् विषवैसर्पादीन् जानाति । स सर्वं ज्ञात्वा नानाविधानि द्रव्यौषधानि प्रयोज्य वमनविरेचनचूर्णयोगनस्तुकर्मसीराबन्धनधृततैलबालचूर्णयोगेन पाचनवनमप्रयोगोपायैः सर्वसत्त्वानां तान् सवव्याधीनुपशमयति । नानाव्याधितः परिमोक्ष्यन्ते नानाव्याधिभयेभ्यश्च । एवमेव भो जिनपुत्रास्तथागतो नानासमाधिऋद्धिपादबलवैशारद्यदिव्यचक्षुःश्रोत्रादिभिरष्टाङ्गायुर्वेदसमन्वागतः नानाधात्वाशयप्रयोगकुशलः रागद्वेषमोहव्याधिक्लेशोपक्लेशव्याधिपीडीतानां (बुबल्१८०) सत्त्वानां मानमदमत्तता वृतानां कामशोकभयक्रोधावृतानां नरकतिर्यग्योनियमलोकभूमिपरिमोक्षणार्थं नानोपायकौशल्यैर्नानाप्रकारयोगैः नानासमाधिऋद्धिविक्रीडितैः सत्त्वान् परिमोचयति । यावदनुत्तरायां सम्यकम्बोधौ प्रतिष्ठाप्यानुपधिशेषे निर्वाणधातौ परिनिर्वापयति । अकुशलैर्धमैः परिमोक्ष्यते । आर्याष्टाङ्गे मार्गे प्रतिष्ठापयति । तद्यथापि कुलपुत्राः चन्द्रमण्डलमुपायाकौशल्य समन्वागतं यथाधातुकुशलमूलवैनेयान् सत्त्वानामर्थाय आत्मानमन्तर्हितं दर्शयति । अर्धचन्द्राकृतिमण्डलमुपदर्शयति । कृष्णपक्षशुक्लपक्षाण्युपदर्शयति ।
परिपूर्णचन्द्रमण्डलमुपदर्शयति । सर्वतमोऽन्धकारं विधमयति । सर्वतृणवनगुल्मौषधिफलादीन् प्रह्लादयति । एवमेव भो जिनपुत्राः तथागतानां नानादुःखावृतानां सत्त्वानां नानाधातुवैनेयानां सत्त्वानां मार्गचर्याकौशल्यं परिनिर्वाणं दर्शयति । जातिं दर्शयति । चक्रवर्तिराज्यं दर्शयति । क्रीडारतिस्त्रीहास्यलास्यगन्धमाल्यरतिक्रीडां दर्शयति । गृहत्यागप्रव्रज्यादुष्करचर्यां दर्शयति । मारबलदमनधर्म चक्रप्रवर्तनं दर्शयति । यावन्महाधर्ममेघवृष्टया सर्वसत्त्वानां सन्तोषणमुपदर्शयति । परिनिर्वृता अपि तथागता नानाप्रयोगधातुपूजनस्तूपविहारप्रतिबिम्बकारापणप्रव्रज्याभिनिष्क्रमणभिक्षुसङ्घसत्कारविनयधर्मलिखनवाचनपठनादेव सर्वसत्त्वान्मोक्षयन्ति । शिक्षाधारणव्रतनियमोपवाससंवरग्रहणोपायकुशलैः सर्वसत्त्वान्मोक्षयन्ति । (बुबल्१८१) सर्वनरकतिर्यग्योनियमलोकाक्षणापायदुर्गतिभ्यो यावत्प्रह्लादयन्ति । धर्मश्रवणेन अनुत्तरायां सम्यक्सम्बोधौ स्थापयन्ति ।
अथ तस्मिन् समये केषाञ्चिदल्पबुद्धीनां देवपुत्राणामेतदभवत् ।
किमयं तथागतः क्षिप्रमेव परिनिर्वाणधातौ प्रवेष्टुमिच्छतीति ते चिन्तयित्वा दुर्मनसः अभूवन् । ...द्यमित्यर्थं परिनिर्वाणं वर्णयति सूचयति । महापर्षत्सन्निपात्य नानाऋद्धिविकुर्वाणप्रातिहार्यं दर्शयति । तद्यथा पूर्वकैः
तथागतैरर्हद्भिः सम्यक्सम्बुद्धैस्तथागतकृत्यं कृतं दीर्घतरमायुरधिष्ठाय सर्वसत्त्वान् जातिजराव्याधिच्युतिशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोक्ष्य तथायमनेन तथागतेन सर्वे तथागतकृत्यं नाद्यापि कृतम् । तस्मात्शोकव्यतिक्रमणं संवर्णयतीति चिन्तयित्वा ते तूष्णीमभूवन् ।
अथ मञ्जुश्रीः कुमारभूतस्तेषां देवपुत्राणां चेतसैव चित्तमाज्ञाय तान् देवपुत्रानेतदवोचत् । देवपुत्रा मा एवं चिन्तयत मा प्रव्याहरत । मा दिनमनसो भवत । बहूनितथागतानामुपायकुशलनानोपायप्रज्ञासमाध्यादिकुशलमूलबलप्रणिधानानि नानाशयानां सत्त्वानां धर्मं देशयन्ति । यथा मया देवपुत्राः तथागतानां पूर्वकाणां तथागतोपायकौशल्यमृद्धिविकुर्वाणप्रातिहार्यं दृष्टं तथाहं जानामि । मा हि एव तथागतो बुद्धबलाधानप्रातिहार्यं नाम महासूत्रराजं प्रकाशयितुकामोऽतिरेक कर्तुकामः । अपि च देवपुत्रा न तथागताः परिनिर्वान्ति । न तथागतानां परिनिर्वाणं संविद्यते । न आयुःक्षयो भवति । (बुबल्१८२) अप्रमेयकल्पकोटीमनभिलाप्याकल्पास्तथागताः तिष्ठन्ति ।
अपि च उपायकौशल्येन सत्त्वानां परिनिर्वाणं दर्शयन्ति । न चाक्रान्तिर्न सङ्क्रान्तिः तथागतानां संविद्यते । सद्धर्मान्तर्धानं दर्शयन्ति । यथा यथा सत्त्वान् पश्यति परिनिर्वाणवैनेयः धातुवैनेयः कषायिकजातीयः तथागते अश्रद्दधानतामगुरुशुश्रूषितां गच्छति तथा तथागतः परिनिर्वाणं दर्शयति न चाक्रान्तिर्न सङ्क्रान्तिस्तथागतानां संविद्यते । सर्वसत्त्वाः परिपक्वकुशलमूला भवन्ति । तथागते दर्शनाभिकाङ्क्षिणः पूजार्हाः धर्मश्रवणाथिकाः । चन्द्रमण्डलं यथा रोचते तथा तदा तथागता लोक उत्पद्यन्ते बहुजनहिताय बहुजनसुखाय ।
यावद्देवानां च मुनुष्याणां च त्रिरत्नोद्दयोतनाय स्फुटनाय न च तथागतानां जातिः संविद्यते । तद्यथापि नाम कुलपुत्राः आदर्शमण्डले सुमृष्टे नाना रूपाणि दृश्यन्ते दृश्यं न संविद्यते न तत्रागमो दृश्यते न निर्गमः प्रतिबिम्बस्य एवमेव देवपुत्राः तथागतकायो द्रष्टव्यः । तद्यथापि नाम कुलपुत्रा मायकारःसुशिक्षितः नानानगरतोरणोद्यानां नानारथां चक्रवर्तिरूपां नानारतिक्रीडां दर्शयित्वा अन्तर्धापयति न च तस्याः क्रान्तिर्दृश्यते न आगमो न निर्गमः एवमेव तथागतानामुतपादपरिनिर्वाणं द्रष्टव्यम् । अपि च देवपुत्राः पूर्वप्रणिधानेन तथागताः परिनिर्वृता अपि कल्पपरिनिर्वृता अपि कल्पकोटीपरिनिर्वृता अपि सत्त्वानां पूजनसत्करणधातुस्तूपकारापणप्रतिबिम्बकारापणनामधेयग्रहणसद्धर्मधारणपूजना (बुबल्१८३) नानालोकधातुव्यवस्थिता अपि मोक्षयन्ति सर्वनरकतिर्यग्योनियमलोकाक्षणदुर्गतिविनिपातेभ्यः सर्वदुःखेभ्यः यावदनुपूर्वेण अनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्यते । कः पुनर्वादो ये तथागतान् प्रत्यक्षपूजया पूजयिष्यन्ति गन्धपुष्पमाल्यविलेपनवस्त्राभरणैः । ये च देवपुत्राः केचित्सत्त्वा वर्षशतसहस्रकल्पकोटीपरिनिर्वृतान् प्राञ्जलिभूतानेकवारान्नामधेयं ग्रहीष्यन्तिऽनमो बुद्धायेतिऽ कृत्वा पुष्पमाकाशे क्षेपस्यन्ति ते सर्वे दुःखस्यान्तं करिष्यन्ति । तिष्ठत्वाकाशे पुष्पं ये केचित्सत्त्वाः अनुशिक्षमाणास्तथागतपूजार्थाय एकतथागतशिक्षामपि धारयिष्यन्ति एकदिवसमेकरात्रिमुहूर्तं तथागतपूजनचिन्ताभियुक्ताः सर्वदुःखस्यान्तं कृत्वानुपूर्वेणानुत्तरां सम्यक्सम्बोधिमभिसम्बोधिष्यन्ति । ये च तथागतपूजायां दिश्यसिकनाम....वापि
हास्यलास्यबालरतिक्रीडनकमेव कारयिष्यन्ति सर्वे ते दुःखस्यान्तं कृत्वानुत्तरां सम्यक्सम्बोधिमभिसम्बोधिष्यन्ति कः पुनर्वादो ये धातुस्तूपं धातुप्रतिमां वा कृत्वा सर्वसत्त्वदयापरज्ञाःऽसर्वसत्त्वान् दुःखेभ्यः परिमोचयिष्यामीतिऽ अनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पाद्य दिव्यपुष्पगन्धमाल्यविलेपनचूर्णतूर्यच्छत्रध्वजपताकाभिः पूजयिष्यन्ति दर्शयिष्यन्ति तेजातिजरामरणदुःखोपायासेभ्यः परिमोक्ष्यन्ते ।�
</poem>
rhn0nnkb5hadiwsj7yezz6jni5iwkbt
341328
341327
2022-07-25T06:18:45Z
Shubha
190
added [[Category:बौद्धदर्शनम्]] using [[Help:Gadget-HotCat|HotCat]]

[[वर्गः:बौद्धदर्शनम्]]
pn8bnq1qc37ggb1sg56susnytlxwowh
आर्यचतुर्धर्मनिर्देशसूत्रम्
0
125413
341330
2022-07-25T06:20:26Z
Shubha
190
{{header | title = आर्यचतुर्धर्मनिर्देशसूत्रम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> आर्यचतुर्धर्मनिर्देशसूत्रम् (पापशोधनोपायभूतं चतुःप्रतिपक्षबलनिर्... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = आर्यचतुर्धर्मनिर्देशसूत्रम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
आर्यचतुर्धर्मनिर्देशसूत्रम्
(पापशोधनोपायभूतं चतुःप्रतिपक्षबलनिर्देशसूत्रम्)
(ख)
संस्कृते पुनरुद्धारितं भारतीयभाषायाम् - आर्यचतुर्धर्मनिर्देशं नाम महायानसुत्रम् ।
नमः सर्वबुद्धबोधिसत्त्वेभ्यः एवं मया श्रुतम् - एकस्मिन् समये भगवान् बुद्धः त्रायस्त्रिंशदेवेषु सुधर्मादेवसभायां सार्द्धं पञ्चानां भिक्षुशतानां महासंघेन, संबहुलैः मैत्रेयमञ्जुश्र्यादिबोधिसत्त्वैर्महासत्त्वैर्विहरतिस्म । तस्मिन् समये भगवान् बुद्धः बोधिसत्त्वं महासत्त्वं मैत्रेयमुद्दिश्योपदिष्टवान् -
चतुर्भिर्मैत्रेय! धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृतोपचितं पापमभिभवति । कतमैश्चतुर्भिः? यदुत विदूषणासमुदाचारेण, प्रतिपक्षसमुदाचारेण, प्रत्यापत्तिबलेन, आश्रयबलेन च । तत्र विदूषणासमुदाचारोऽकुशलं कर्माध्याचरति, तत्रैव तत्रैव च विप्रतिसारबहुलो भवति । तत्र प्रतिपक्षसमुदाचारः कृत्वाऽप्यकुशलं कर्म कुशले कर्मण्यत्यर्थाभियोगं गतः । प्रत्यापत्तिबलं संवरसमादानादकरणसंवरलाभः । तत्राश्रयबलं बुद्धःधर्मसंघशरणगमनमनुत्सृष्टबोधिचित्तता च । सुबलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुम् । एभिर्मैत्रेय !चतुर्भिधर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृपोपचित्तं पापमभिभवतीति ॥
बोधिसत्त्वैर्महासत्त्वैः सूत्रमिदं सदा पठनीयं (वाचयितव्यं) स्वाध्यायितव्यं चिन्तयितव्यं सुबहुलं भावयितव्यं च । अनेन दुश्चरितानि फलं नाभिनिर्वर्तिष्यन्ते । एवं भगवानुपदिष्टवान् । बोधिसत्त्वेन महासत्त्वेन मैत्रेयेण तैश्च भिक्षुभिः बोधिसत्त्वैः शतक्रत्वादिदेवपुत्रैः सर्वसम्पन्नपरिमण्डलेन च आप्तमनसा भगवतः प्रवचनमभिनन्दितम् ।
॥ इति आर्यचतुर्धर्मनिर्देशं नाम महायानसूत्रं समाप्तम् ॥
भारतीयोपाध्यायसुरेन्द्रबोधिना महालोचावा - वन्देज्ञानसेनेन चानूदितं व्यवस्थापितं च ।
॥ भवतु सर्वमङ्गलम् ॥ �
</poem>
anhtnyg9a01t9ysj1wellxitoej95ic
आर्यमहागणपतिहृदयम्
0
125414
341332
2022-07-25T06:23:42Z
Shubha
190
{{header | title = आर्यमहागणपतिहृदयम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> (१०) नमो भगवते आर्यमहागणपतिहृदयाय । नमो रत्नत्रयाय ॥ एवं मया श्रुतमेकस्मिन् समय... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = आर्यमहागणपतिहृदयम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
(१०)
नमो भगवते आर्यमहागणपतिहृदयाय । नमो रत्नत्रयाय ॥
एवं मया श्रुतमेकस्मिन् समये भगवान् राजगृहे विहरति स्म । गृध्रकूटपर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः संबहुलैश्च बोधिसत्वैर्महासत्वैः । तेन खलु पुनः समयेन भगवानायुष्मन्तमानन्दमामन्त्रयते स्म ॥
यः कश्चित्कुलपुत्र आनन्द इमानि गणपतिहृदयानि धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति तस्य सर्वाणि कार्यसिद्धानि भविष्यन्ति ॥
ओं नमोऽस्तु ते महागणपतये स्वाहा ।
ओं गः गः गः गः गः गः गः गः ।
ओं नमो गणपतये स्वाहा ।
ओं गणाधिपतये स्वाहा ।
ओं गणेश्वराय स्वाहा ।
ओं गणपतिपूजिताय स्वाहा ।
ओं कट कट मट मट दर दर विदर विदर हन हन गृह्ण गृह्ण धाव धाव भञ्ज भञ्ज जम्भ जम्भ तम्भ (११) तम्भ स्तम्भ स्तम्भ मोह मोह देह देह ददापय ददापय धनसिद्धि मे प्रयच्छ ।
ओं रुद्रावताराय स्वाहा ।
ओमद्भुतविन्दुक्षुभितचित्तमहाहासमागच्छति ।
महाभयमहाबलपराक्रमाय महाहस्तिदक्षिणाय ददापय स्वाहा ।
ओं नमोऽस्तु ते महागणपतये स्वाहा ।
ओं गः गः गः गः गः गः गः गः ।
ओं नमो गणपतये स्वाहा ।
ओं गणेश्वराय स्वाहा ।
ओं गणाधिपतये स्वाहा ।
ओं गणपतिपूजिताय स्वाह ।
ओं सुरु सुरु स्वाहा । ओं तुरु तुरु स्वाहा । ओं मुरु मुरु स्वाहा ।
इदमानन्द गणपतिहृदयानि ॥
यः कश्चित्कुलपुत्रो वा कुलदुहिता वा भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा । यः कश्चित्कार्यमालभते मन्त्रसाधनं वा त्रिरत्नपूजं वा देशान्तरगमनं वा राजकुलगमनं वा अन्तर्धानं वा तेन बुद्धभगवतां पूजां कृत्वा आर्यगणपतिहृदयं सप्तवारानुचारयितव्यं सर्वकार्याणि तस्य सिध्यन्ते नात्र शंसयः । सर्वकलिकलहमर्दमात्सरेषु नित्यं शमतव्यं सर्वप्रशमं गच्छति । दिनेदिने कल्पमुत्थाय सर्वसप्तवारानुचारयितव्यं महासौभागे भविष्यति । (१२) राजकुलगमनकाले महाप्रासादो भविष्यन्ति । श्रुतिधरो भविष्यति । न चास्य काये महाव्याधयो भविष्यन्ति । न कश्चिदेव तारप्रदक्षिणोऽवतारं लप्स्यते भृङ्गोऽवतारं लप्स्यति न चास्य बोधिचित्तोत्तराया भविष्यन्ति । जातौ जातौ जातिस्मरो भविष्यति ॥
इदमवोचत्भगवानात्तमनास्ते च भिक्षवस्ते बोधिसत्वा महासत्वाः सा च सर्वावती पर्षत्सदेवमानुषासुरगरुडगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ॥
आर्यमहागणपतिहृदयं समाप्तम् ॥�
</poem>
j6exo6m7u718g7xaeyp6lanwnwynm4z
पृष्ठम्:अद्भुतसागरः.djvu/१४१
104
125415
341338
2022-07-25T06:44:49Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ विष्णुधर्मोत्तरे । शोककृच्छुभकृत् क्रोधी विश्वावसुपरावसू । वैश्वे पञ्च शुभौ येषामब्दौ राजन् द्विपञ्चमौ ॥ वराहसंहितायां तु । वैश्वे युगे शोककृ<ref>शोकहृत् इति... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{bold|{{rh|centerबृहस्पत्यद्भुतावर्त्तः ।|right=१२३}}}}</noinclude>विष्णुधर्मोत्तरे ।
शोककृच्छुभकृत् क्रोधी विश्वावसुपरावसू ।
वैश्वे पञ्च शुभौ येषामब्दौ राजन् द्विपञ्चमौ ॥
वराहसंहितायां तु ।
वैश्वे युगे शोककृ<ref>शोकहृत् इति भट्टोत्पलसम्मतः पाठः ।</ref>द्वित्यथाद्याः संवत्सरोऽतः शुभकृद्द्वितीयः ।
क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति परावसुश्च<ref>पराभवश्च इति अ, ।</ref> ॥
पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः ।
अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्त्तिद्विजगोभयं च ॥
विष्णुधर्मोत्तरे ।
प्लवङ्गः कीलकः सौम्यः समो रोधकृदेव च ।
सौम्ये पञ्च शुभौ येषां प्रथमानन्तरावुभौ ॥
वराहसंहितायां तु ।
आद्यः प्लवङ्गो नवमे युगेऽव्दः स्यात् कीलकोऽन्यःपरतश्च सौम्यः ।
साधारणो रोधकृदित्यथैवं शुभप्रदौ कीलकसौम्यसंज्ञौ ॥
कष्टः प्लवङ्गो बहुशः प्रजानां साधारणोऽल्पं जलमीतयश्च ।
यत् पञ्चमं रोधकृदित्यथाब्दं चित्रं जलं तत्र च शस्यसम्पत् ॥
विष्णुधर्मोत्तरे।
धावनं मथनं वीरं राक्षसं चानलं तथा ।
इन्द्राग्निदैवते पञ्च सर्व एवाशुभप्रदाः ॥
वराहसंहितायां तु ।
इन्द्राग्निदेवं दशमं युंगं यत् तत्राद्यमब्दं परिधाविसंज्ञम् ।
प्रमाथिनं विक्रममप्यतोऽन्यत् स्याद्राक्षसं चानलसंज्ञितं च ॥
परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोषः ।
अलसस्तु जनः प्रमाथिसंज्ञे मरकं रक्तकपुष्पवीजनाशः ॥<noinclude></noinclude>
95xt9jfhw9sttgln42b00u0l7odje2m
341339
341338
2022-07-25T06:50:05Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{bold|{{rh|centerबृहस्पत्यद्भुतावर्त्तः ।|right=१२३}}}}{{gap}}</noinclude><small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}शोककृच्छुभकृत् क्रोधी विश्वावसुपरावसू ।
{{gap}}वैश्वे पञ्च शुभौ येषामब्दौ राजन् द्विपञ्चमौ ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>वैश्वे युगे शोककृ<ref>शोकहृत् इति भट्टोत्पलसम्मतः पाठः ।</ref>द्वित्यथाद्याः संवत्सरोऽतः शुभकृद्द्वितीयः ।
क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति परावसुश्च<ref>पराभवश्च इति अ, ।</ref> ॥
पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः ।
अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्त्तिद्विजगोभयं च ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}प्लवङ्गः कीलकः सौम्यः समो रोधकृदेव च ।
{{gap}}सौम्ये पञ्च शुभौ येषां प्रथमानन्तरावुभौ ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>आद्यः प्लवङ्गो नवमे युगेऽव्दः स्यात् कीलकोऽन्यःपरतश्च सौम्यः ।
साधारणो रोधकृदित्यथैवं शुभप्रदौ कीलकसौम्यसंज्ञौ ॥
कष्टः प्लवङ्गो बहुशः प्रजानां साधारणोऽल्पं जलमीतयश्च ।
यत् पञ्चमं रोधकृदित्यथाब्दं चित्रं जलं तत्र च शस्यसम्पत् ॥</poem>}}
<small>विष्णुधर्मोत्तरे।</small>
{{bold|<poem>{{gap}}धावनं मथनं वीरं राक्षसं चानलं तथा ।
{{gap}}इन्द्राग्निदैवते पञ्च सर्व एवाशुभप्रदाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}इन्द्राग्निदेवं दशमं युंगं यत् तत्राद्यमब्दं परिधाविसंज्ञम् ।
{{gap}}प्रमाथिनं विक्रममप्यतोऽन्यत् स्याद्राक्षसं चानलसंज्ञितं च ॥
{{gap}}परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोषः ।
{{gap}}अलसस्तु जनः प्रमाथिसंज्ञे मरकं रक्तकपुष्पवीजनाशः ॥
</poem>}}<noinclude></noinclude>
6klelrcjbayrma20oikv0d5j2uozbon
341340
341339
2022-07-25T06:50:27Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|centerबृहस्पत्यद्भुतावर्त्तः ।|right=१२३}}}}{{gap}}</noinclude><small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}शोककृच्छुभकृत् क्रोधी विश्वावसुपरावसू ।
{{gap}}वैश्वे पञ्च शुभौ येषामब्दौ राजन् द्विपञ्चमौ ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>वैश्वे युगे शोककृ<ref>शोकहृत् इति भट्टोत्पलसम्मतः पाठः ।</ref>द्वित्यथाद्याः संवत्सरोऽतः शुभकृद्द्वितीयः ।
क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति परावसुश्च<ref>पराभवश्च इति अ, ।</ref> ॥
पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः ।
अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्त्तिद्विजगोभयं च ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}प्लवङ्गः कीलकः सौम्यः समो रोधकृदेव च ।
{{gap}}सौम्ये पञ्च शुभौ येषां प्रथमानन्तरावुभौ ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>आद्यः प्लवङ्गो नवमे युगेऽव्दः स्यात् कीलकोऽन्यःपरतश्च सौम्यः ।
साधारणो रोधकृदित्यथैवं शुभप्रदौ कीलकसौम्यसंज्ञौ ॥
कष्टः प्लवङ्गो बहुशः प्रजानां साधारणोऽल्पं जलमीतयश्च ।
यत् पञ्चमं रोधकृदित्यथाब्दं चित्रं जलं तत्र च शस्यसम्पत् ॥</poem>}}
<small>विष्णुधर्मोत्तरे।</small>
{{bold|<poem>{{gap}}धावनं मथनं वीरं राक्षसं चानलं तथा ।
{{gap}}इन्द्राग्निदैवते पञ्च सर्व एवाशुभप्रदाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}इन्द्राग्निदेवं दशमं युंगं यत् तत्राद्यमब्दं परिधाविसंज्ञम् ।
{{gap}}प्रमाथिनं विक्रममप्यतोऽन्यत् स्याद्राक्षसं चानलसंज्ञितं च ॥
{{gap}}परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोषः ।
{{gap}}अलसस्तु जनः प्रमाथिसंज्ञे मरकं रक्तकपुष्पवीजनाशः ॥
</poem>}}<noinclude></noinclude>
46qb1z65t4uxh847iz8i4khg3tr0pb2
341341
341340
2022-07-25T06:51:08Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=बृहस्पत्यद्भुतावर्त्तः ।|right=१२३}}}}</noinclude><small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}शोककृच्छुभकृत् क्रोधी विश्वावसुपरावसू ।
{{gap}}वैश्वे पञ्च शुभौ येषामब्दौ राजन् द्विपञ्चमौ ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>वैश्वे युगे शोककृ<ref>शोकहृत् इति भट्टोत्पलसम्मतः पाठः ।</ref>द्वित्यथाद्याः संवत्सरोऽतः शुभकृद्द्वितीयः ।
क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति परावसुश्च<ref>पराभवश्च इति अ, ।</ref> ॥
पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः ।
अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्त्तिद्विजगोभयं च ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}प्लवङ्गः कीलकः सौम्यः समो रोधकृदेव च ।
{{gap}}सौम्ये पञ्च शुभौ येषां प्रथमानन्तरावुभौ ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>आद्यः प्लवङ्गो नवमे युगेऽव्दः स्यात् कीलकोऽन्यःपरतश्च सौम्यः ।
साधारणो रोधकृदित्यथैवं शुभप्रदौ कीलकसौम्यसंज्ञौ ॥
कष्टः प्लवङ्गो बहुशः प्रजानां साधारणोऽल्पं जलमीतयश्च ।
यत् पञ्चमं रोधकृदित्यथाब्दं चित्रं जलं तत्र च शस्यसम्पत् ॥</poem>}}
<small>विष्णुधर्मोत्तरे।</small>
{{bold|<poem>{{gap}}धावनं मथनं वीरं राक्षसं चानलं तथा ।
{{gap}}इन्द्राग्निदैवते पञ्च सर्व एवाशुभप्रदाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}इन्द्राग्निदेवं दशमं युंगं यत् तत्राद्यमब्दं परिधाविसंज्ञम् ।
{{gap}}प्रमाथिनं विक्रममप्यतोऽन्यत् स्याद्राक्षसं चानलसंज्ञितं च ॥
{{gap}}परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोषः ।
{{gap}}अलसस्तु जनः प्रमाथिसंज्ञे मरकं रक्तकपुष्पवीजनाशः ॥
</poem>}}<noinclude></noinclude>
062zpy0658ki5d5icz03aqkhr7n6h17
आर्यशालिस्तम्बकमहायानसूत्रटीका
0
125416
341370
2022-07-25T10:14:12Z
Shubha
190
{{header | title = आर्यशालिस्तम्बकमहायानसूत्रटीका | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> आर्यशालिस्तम्बकमहायानसूत्रटीका (संस्कृत - पुनरुद्धारः) भारतीयभा... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = आर्यशालिस्तम्बकमहायानसूत्रटीका
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
आर्यशालिस्तम्बकमहायानसूत्रटीका
(संस्कृत - पुनरुद्धारः)
भारतीयभाषायाम् - आर्यशालिस्तम्बकमहायानसूत्रटीका ।
भोटभाषायाम् - ह्फगस्पा - सलु - जङपा - शेस्व्यवा - थेग्पा - छेनपोई - दोई - ग्याछेर्ब्शद्पा
अथ शालिस्तम्बविभाषायाः प्रथमं पटलम्
नम आर्यमञ्जुश्रीकुमारभूताय ।
तत्रऽअनन्ताचिन्त्यगुण्यं हिऽ इत्यादिषु अनन्तगुण्यमिति गुणं हि बलाभयासंसृष्टादिगुणार्थे देवमनुष्यैः परिचेयत्वात्, सेव्यत्वात्, अभ्यसनीयत्वाद्, भावनीयत्वात्, साक्षात्करणीयत्वात्प्राप्तकरणीयत्वाच्च गुणाः । ते गुणास्तु बहवः । अनन्ताचिन्त्येति समस्तं पदम् । अचिन्त्यगुणत्वं तु श्रावक-प्रत्येकबुद्ध-सर्व-पृथग्जन-सर्वतार्किकगण-चित्तगोचरं समतिक्रमणात् । ततः सोऽनन्ताचिन्त्यगुण समन्वितः । कतम इति चेत्, उच्यते - सम्बुद्धं करुणात्मकम् । इत्युक्तम् । सम्यगविपर्यस्तञ्च बुद्धत्वात्सम्बुद्धः । सर्वधर्मानित्यत्वस्य दुःख-शून्य-नैरात्म्यादि-धर्मान्-पुद्गलनैरात्म्यस्वभावतया यथावदवबोधत्वाद्बुद्धः ।
प्रफुल्लकमलवद्बुद्धेर्विकासाद्बुद्धो, बोधत्वाद्वा बुद्धः । अज्ञाननिद्रा सुप्तजगन्मध्ये जाग्रतपुरुषवत्, यथावदविपर्यस्तसम्यग्ज्ञानोदयाद्बुद्ध इति । अथवाज्ञजनावबोधनाद्बुद्धः । यथा - पराधीनस्य स्वयमेव प्रतिसंवेदन-धर्मतत्त्वाव-बोधवदुन्मार्गभ्रान्तचित्तस्य संसाराटवीकान्तारे जन्म-जरा-व्याधि-मरणादि-पीडितस्य विविधदर्शनगहनवने क्लेशाशीविषभयाप्लुतान इतस्ततः परिभ्रमतोऽन्यांश्चापि सन्मार्गे सन्निवेश्य मोक्षानुत्तरमहानगरे प्रवेशकारित्वाद्बुद्ध इति ।
करुणात्मकमिति तु करुणस्वभावम् । क्लेशकर्मदुःखनिवारकत्वात्करुणः । यस्मिन् करुणात्मकत्वं स्वभावतः स करुणात्मकः । स सम्बुद्धः ; करुणात्मकताया अपि भूतत्वात्संबुद्धः करुणात्मकः । तस्मात्तं बुद्धं करुणात्मकं प्रणिपत्य शालिस्तम्बमिति इत्युक्तम् । प्रणिपत्येति सम्यक्पूजयित्वा वन्दना-गौरव-प्रवणतया प्रणिपत्य । प्रणिपत्य किं करोमीति चेत्- शालिस्तम्बमिति सूत्रस्य उपनिबद्धशास्त्रकारिकां प्रवक्ष्यामि । इत्युक्तम् । तत्र अनन्ताचिन्त्यगुण्यो हि इत्यनेन स्वार्थसम्पत्तिर्दर्शिता । करुणात्मक इत्यनेन परार्थसम्पत्तिरुक्ता । सम्बुद्धमिति बुद्धो हि (अधिगतार्थत्वात्) सर्वज्ञ एव ।ऽअनन्ताचिन्त्यगुण्यं हिऽ इत्यनेन रागादिरहितत्वम्, क्लेशोपक्लेशानामगुणानां गुणविरोधत्वात् । तस्मात्तादृशं सर्वज्ञं विरक्तं सम्बुद्धं करुणात्मक इति यः सर्वंजानन् वीतरागः, स आचार्यमुष्टेरभावादपरान् यथावगतं धर्मं दिशति । अनेन तु परहितकारित्वात्परार्थोपसम्पदा दिष्टा । एवं स्वपरार्थोपसम्पन्नं तं सम्बुद्धं प्रणमामि । तथापि, विवक्षितपदस्य विद्यमानत्वाद्विवक्षुणा किमिष्यते? इति प्रश्नः । उत्तरं - प्रवक्ष्यामि । किं वक्ष्यामि? उच्यते - शालिस्तम्बसूत्रोपनिबद्ध-शास्त्र-कारिकाम् । शास्त्रं रचयितुमादौ सम्बन्ध-प्रयोजनाभिधानाभिधेयचतुष्टयं किं न निर्वचनीयम्?
अत्र तदभावात्तदारम्भणमनुचितम् । असम्बद्धादित्वात्प्रमत्तप्रलापवदित्यनारम्भणीयमिति धर्मः । शास्त्रमिति धर्मी । धर्मधर्मिसामान्यं हि पक्षः । असम्बद्धादित्वादिति हेतुः । अवबोधकत्वाथेतुः, हेत्वर्थस्य तु अवबोधकत्वात् । तस्मातसम्बन्धादित्वादनारम्भणीयमिति । प्रमत्तप्रलापवदिति उपमा । एवं वादिने उच्यते - असम्बन्धादित्वादिति यदुक्तमित्युक्तहेतोरसिद्धमुक्तायामत्रोक्तौ सम्बन्धादयश्चत्वारः सन्त्येव । ते च कतमे? उच्यते - शालिस्तम्बसूत्रोपनिबद्ध-शास्त्रकारिकायाः वक्ष्यमाणत्वादत्र सम्बन्धः स्यादेव । शालिस्तम्बसूत्रमिति तीर्थिकाद्यन्येषु ग्रन्थविशेषणतया अनुपलब्धत्वात्शास्त्रमिदं बुद्धसम्बद्धम् । तस्माथेत्वएर्थोऽसिद्ध एव । सम्बन्धभावश्च प्रयोजनस्याप्यभावे नास्ति । तस्मादुक्तमत्र प्रयोजनम् - हेतुप्रत्ययार्थावगमार्थं पुद्गल-नैरात्म्य-धर्मनैरात्म्य-ग्राह्य-ग्राहकाभावाव गमात्क्लेशज्ञेयावरणं विभज्य अनुत्तर-सम्यक्संबुद्धोपलब्धिः अत्र प्रयोजनमस्त्येव ।
तस्मात्सप्रयोजनत्वात्चिकित्सादिशास्त्रवद्विरचनीयमेव । यद्यद्सार्थकं तत्तत्तु विरचनीयम् । यथा चिकित्सादिशास्त्रवद्भूतत्वादुपमासिद्धिं वक्ष्यामि । अस्याभिधानेन शालिस्तम्बोपमया आध्यात्मिक-बाह्य-प्रतीत्यसमुत्पाद-समुपयोगादनेनाभिधानेन शालिस्तम्बमिति चापि भवति । तस्मादपि अर्थोऽसिद्ध एव । अभिधेयमिति प्रतीत्यसमुत्पादस्य द्वादशाङ्गस्य सप्रत्ययस्य पृथक्तः यथाक्रमं लक्षणव्यवस्थापनात्कर्त्रादीनहेतून् प्रतिकूलहेतून् च विहाय क्लेशोपक्लेश प्रहाणात्सम्यग्ज्ञानमुत्पाद्य अनुत्तरधर्मकायोपलम्भादिदमभिधेयमप्यस्त्येव । तस्माच्च हेत्वर्थोऽसिद्ध एव । तस्मात्चिकित्सादिशास्त्रवदिदं शास्त्रं सम्बन्धादिसमन्वितत्वाद्, आरम्भणीयमेव। आरम्भणीयमिति धर्मः । शास्त्रमिति च धर्मी । धर्मधर्मिसाधारणो हि पक्षः । अत्र धर्मभावाद्धर्मी छत्रीवत् । तथा सत्यपि शास्त्रमारब्धुं प्रणामकरणं निरर्थकम्, प्रयोजनाभावात्, काकदन्तपरीक्षादिशास्त्रवतित्यस्य हेत्वर्थस्य सिद्धत्वं दर्शयितुमुच्यते -
शास्त्रारम्भणाय शास्तृपूजा कृता । किमर्थमिति चेत्, शास्त्रे तत्र च गौरवोत्पादहेतुभूतत्वाद्, धर्मश्रवणे जातगौरवाणां श्रवण-चिन्तन-भावनासु गौरवं भवति । अजातगौरवाणां तु अभूतत्वाधेत्वर्थे च सिद्ध एव । अपि शिष्टाचार-नयप्रदर्शनार्थं शास्त्रारम्भे शास्तुः पूजा कृता । अयं तु सज्जनविदुषामाचारोऽस्ति । यदा कश्चित्प्रयोजनारम्भणमवतरति प्रथममिष्टदेवं प्रणम्य विशिष्टप्रयोजनं प्रविशति, अभीष्टार्थोऽचिरं सिध्यति, तस्मादनेनापि शास्त्रकारेण तामेव सदाचारनीतिमनुसरता शास्त्रारम्भणे स्वशास्तुर्गुणाभिधानपूर्वकं प्रणामं कृत्वा शास्त्रव्याख्यानावतारादत्र प्रयोजनमस्त्येव । उच्यते - शास्त्रारम्भे शास्त्रे प्रणामकरणं न निष्फलं शास्तरि शास्त्रेषु च गौरवोत्पादहेत्वर्थम्, नान्यथा । ततः शास्त्रारम्भे शास्तुः पूजनं व्यवस्थितमेव । तस्माच्च परैः शास्त्रादौ प्रणामकरणं निष्प्रयोजनमिति किमुच्यते? तद्धेतोरसिद्धतां दर्शयितुं कथितम् । शास्त्रमारब्धुं प्रणामकरणं तु चिकित्सादिशास्त्रवत्सप्रयोजनमेव, न च काकदन्तपरीक्षावत् । स्वशास्तारं प्रणम्य शालिस्तम्बसूत्रोपनिबद्धां शास्त्रकारिकां प्रवक्ष्यामीति उक्ते । कतमा च सा इति चेत्- मुनी राजगृहस्यैव इत्यादि कथितं राजगृहं तु राज्ञो गृहं राजप्रसाद इत्यर्थः ।
गृध्रनामकपर्वते इति तु गृध्रकूटपर्वते । तस्मादेव संगीतिसूत्रेऽएवं मया श्रुतमित्युक्तम् । कस्माच्छ्रुतमिति । तस्मादुक्तम् । भगवतः एकस्मिन् समये इति एकस्मिन् समये । भगवान् तु भग्नवानिति भगवान् । किं भग्नवानिति चेत् । तस्मादुक्तं मारचतुष्टयम् । क्लेश-स्कन्ध-देवपुत्र-मृत्यवो मारा इत्याख्याताः । कथं भग्ना इति? उच्यते - प्रतिपक्षज्ञानोपलब्धेः । दर्शन-भावना-मार्गावतारनयेन चतुः स्मृत्युपस्थानादिसप्तत्रिंशद्बोधिपाक्षिकधर्मभावनाक्रमेण चतुरार्यसत्यभावनाविभावनतया स्कन्धतथतापरिज्ञानेन अनित्य-दुःख-शून्य-नैरात्म्यादीनामविपरीत-ज्ञानान्वितत्वात्पुद्गलधर्मयोर्नैरात्म्य-ग्राह्यग्राहकाभाव-कल्पनाद्ऽइदं धातुत्रयमपि चित्तमात्रम्ऽ इति अवगमात्क्लेशज्ञेयावरण-रहितद्वारेण क्लेशा भग्नाः । नित्य-सुख-शुचि-सात्म्याविपर्यासचतुष्टयादिरहितः अनुत्तरधर्मकाय संयुक्तोऽप्रतिष्ठित निर्वाणोपलब्धेः स्कन्धं मृत्युमारञ्च जयति ।
सर्वधर्मान्माया-मरीचि-गन्धर्वनगर-निर्माण-प्रतिबिम्ब-प्रतिश्रुत्कालातचक्र-स्वप्नवत्स्ववबोधात्संक्लेशालयविज्ञान-वासना-मलापगतत्वाच्च अभूतसंकल्पान् समुच्छिद्य महामैत्र्यादि-बाणाक्षेपेण ससैन्यं मकरध्वजं प्रहृत्य देवपुत्रमारं पराजयत । एवं चतुर्मारभञ्जनाद्भगवानिति । पुनश्चोक्तम् -
चतुर्मारारिभग्नत्वाद्भवत्रयसमुद्गत-
भाव्यतीतपरिज्ञानाद्भवस्थो भगवानिति ।
तादृशो भगवान् राजगृहे गृध्रकूटपर्वते विहरतिस्म । किमर्थ तन्नगरं राजगृहमिति चेत् । उच्यते - तन्नगरं पूर्वं कुशीनगरमित्याख्यातम् । यदा तन्नगरे कुपितैरमानुषैः पुनः पुनरग्निः क्षिप्तस्तदा राजावगत्य आदिशत्, ज्ञानिनो नागरिकाः । अद्य प्रभृति यस्य गृहं प्रथममग्निना दह्यते, स शीतवनं महाश्मशानं गत्वा गृहं निर्माय वसेदित्याज्ञातवान् । ततश्च कर्मप्रत्ययवशेन आदौ राजप्रासादोऽग्निं प्राप्तः । ततो राजा अमात्यानाहूयादिशत्- ज्ञानिन अमात्याः जानन्तु एवं, मयैव तन्नयप्रज्ञापात्मयैव तदतिक्रमो मयि न शोभते, अनयत्वात् । ज्ञानिनो मन्त्रिणः । शीतवने महाश्मशानमध्ये राजप्रासादो निर्मीयताम् (अहं) तत्र गत्वा वत्स्यामि । ततो राज्ञो वचनमात्रेण सर्वैस्तथा कृतम् ।
तदा प्रथमं राजा तत्र गत्वा उवास । ततः परैरुषितत्वाद्राजगृहमिति नामोपचरितम् । तत्र राजगृह-महानगरस्य पूर्वोत्तरसीमायां गृध्रकूटनामक पर्वतेऽस्ति । यस्य पर्वतस्य शिखरो गृध्रशिरोवत्स गृध्रकूटपर्वत इत्युच्यते । अथवा पापेन मारेण गृध्राकारमभिनिर्माय भगवच्चीवरहरणारम्भे भगवतोऽधिष्ठानेना - सामर्थ्यात्तत्रैव निक्षिप्तं, तच्चीवरमद्यापि पाषाणीभूय चतुष्पुटितचीवरमिव अवतिष्ठते । तदुपलक्षितः पर्वतो गृध्रकूट इत्युच्यते । मुनिः तद्गृध्रकूटपर्वते विहरतिस्म । किमेकाकी एव? उच्यते । न, भिक्षूणां बोधिसत्त्वानां संघैः सार्धं व्यवस्थितः । भिक्षूणामर्थात्भिक्षुसार्धमर्धत्रयोदशभिः महता भिक्षुसङ्घेन बोधिसत्त्वानां च इति तु संबहुलैश्च बोधिसत्त्व-महासत्त्वैः सार्धम् । व्यवस्थितस्तु उत्थान-संचक्रमण-व्यवस्थिति-शयनादि-चतुर्विध-चर्यया व्यवस्थितः । कोऽसा विति? मुनिः । मुनिस्तु काय-वाक्-चित्तैर्मौनित्वात् । काय-वाक्-चित्ताप्रवृत्तेर्मुनिः । कुत्र न प्रवर्तते? तस्मादुक्तम् । काय-वाक्चित्तदुश्चरिते न प्रवर्तत इत्यर्थो दर्शितः । अत्र मौनित्वान्मुनिः । युक्तार्थार्थाय दण्डिवदिति । अपि च - किमर्थं स्थान-काल-परिवार-निर्देशः? उच्यते - चक्रवर्तिराजसाधर्म्यात् । चक्रवर्तिराजानामाचारस्त्वेवमाख्यातः -
यदा ब्राह्मणेषु गृहस्थेषु च अनुग्रहादि कृतं तदा निवास-स्थानं ग्राम-नगरादि, यत्र स्थित्वा तत्कार्यं, स्थानं निरुच्यते । कस्मिन् स्थाने? अमुके । आधिपत्यं प्रदर्शयितुममात्यादिभिः सार्धमिति। कालस्तु पूर्वापराह्णकालः । कानिति? ब्राह्मण-गृहस्थादीन् । तस्मात्भगवतोऽपि अनुत्तरधर्मचक्रवर्तिराजत्वात्स्थान-काल-पारिवारादय उक्ताः । कुत्रेति? राजगृहे । एकस्मिन् समये तु प्रातः काले । कैश्चित्सार्धमिति?
सार्धत्रयोदशशतैः भिक्षुभिः बोधिसत्त्वैश्च ।
कानिति भिक्षून् । किमुक्तमिति? शालिस्तम्बकसूत्रम् । पुनश्चोक्तम् -
कुत्र कैश्चित्समं क्वापि कस्मात्कस्मै च देशितम् ।
उपदिश्य च तान्यन्ते आनन्दपदमीरितम् ।
शालिस्तम्बं विलोक्य च इत्यादि । शालिस्तम्बं विलोक्य दृष्ट्वा इत्यर्थः । हेतुप्रत्ययसंभूतमिति हेतुप्रत्ययजनितम् । तदुत्पादक ईश्वरादिः कोऽपि अन्यो नास्तीत्यभिप्रायः । अपि चोक्तम् -
बीजादेरतिरिक्तं हि नान्यधेतुरितीर्यते ।
प्रत्यक्षादिविरुद्धत्वाद् । बीजादङ्कुरादि जन्यते, ईश्वर-प्रधान-स्वभाव-कालादिर्न हेतुः । प्रत्यक्षानुमानाभ्यामनुपलभ्यमानत्वादाकाशोत्पलवत् ।
हेतुप्रत्ययजं तद्वद्द्वादशाङ्गक्रमोद्गतम् ।
प्रतीत्यमिति यः पश्येत् । इत्युक्तम् ।
हेतुप्रत्ययाभ्यां जनितो धर्मः प्रतीत्यसमुत्पादः, द्वादशाङ्गः भिक्षुर्भिक्षुणी अन्यो वा यः कश्चित्कृतादिकमहेतु-प्रतिकूलहेतु-विरहितं पश्यति, स
धर्मं बुद्धं च पश्यति ।
इत्युक्त्वा नायको भिक्षून् तूष्णीं भावमवस्थितः ।
अष्टाङ्गमार्यधर्मं फलधर्माधिगमस्वभावतां सस्कन्धनिर्वाणमशेष स्कन्धाभिधानमपि च यथावत्पश्यति इत्युक्त्वा भगवांस्तूष्णीं भावमवस्थितः । तदा इत्यादि तु भिक्षुशारिपुत्रो बोधिसत्त्वं मैत्रेयमुपसंक्रम्येदं पर्यपृच्छत् । इत्युक्त्वा इति भगवतः शारिपुत्रेण यत्सूत्रं श्रुतं तद्भिक्षूनुक्त्वा उपदिश्य । नायक इति विविधोपायनयेन सत्त्वानां नयनत्वान्नायकः । तूष्णींभावमवस्थितः समाधिं समापद्य विहरति स्मित्यधिवचनम् । भिक्षुः शारिपुत्रः श्रुत्वा इत्युवाच भिक्षुः इति - क्लेशभञ्जनाद्भिक्षुः । शारिपुत्रः श्रुत्वा इति तु भगवतः श्रुत्वा । सूत्रे तदायुष्मान् शारिपुत्रो मैत्रेयो बोधिसत्त्वो महासत्त्वो यत्रेत्यादिना देशितवान् । गत्वा मैत्रेयसन्निधौ तु यत्र बोधिसत्त्वो मैत्रेयो दिने सदावस्थितः, तत्र गत्वा, उभौ शिलातले उपविशताम् । अथायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वमेतदवोचत्-
तथागतेऽद्य मैत्रेय उक्त्यर्थं न विभज्य च ।
तृष्णींभावे स्थिते चात्र तदर्थो गम्यते कथम् । इत्युक्तम् ।
अद्य मैत्रेय इत्युक्त्वा भिक्षून् भगवान् शालिस्तम्बोपमादेशनया यदुक्तम् - मैत्रेय! सुगतोक्तसूत्रान्तार्थः कतमः? भगवताप्यर्थो न विभक्तः । सर्वज्ञगोचर-विषयाणामपि सर्वश्रावक-प्रत्येकबुद्ध-विषयातिक्रान्तत्वात्प्रतीत्यसमुत्पादः कतमः? धर्मः कतमः? बुद्धः कतमः? इत्यादि अपृच्छत् । अयमेव सूत्रकारेण सूत्रसम्बन्ध उक्तम् -
किं प्रतीत्यं च धर्मः कः बुद्धोऽपि कतमस्तथा । इत्युक्तम् ।
कथं च प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यति । धर्मं पश्यन् बुद्धं पश्यति? इति तु
प्रतीत्यं तु कथं दृष्ट्वा धर्मं बुद्धं च पश्यति ।
सन्देहो मेऽत्र ब्रूहीति ऊचे शारिसुतोऽजितम् ।
स्थविरशारिपुत्रः तत्सन्देहोत्पादादजितमाह । अजितस्तु मैत्रेयः । किं विशेषणको मैत्रेयः?
भावात्मिका हि मैत्री स्यान्मैत्रेयोऽब्रूत निर्णयम् ।
मैत्री समाध्यन्वितत्वात्सुप्रतिष्ठत्वात्मैत्री भावात्मिका । निर्णयमिति तु निश्चयः । अब्रूतेति उदीरितवान् । कमिति चेत्? शारिपुत्रम् । किमुक्तमिति चेतन्न भगवता इत्यादि उक्तम् । यो भिक्षवः प्रतीत्यसमुत्पादमित्यादि । कतम प्रतीत्यसमुत्पादो नाम । यदिदम् - अविद्याप्रत्ययाः संस्काराः । संस्कारप्रत्ययं विज्ञानम् । विज्ञानप्रत्ययं नामरूपम् । नामरूपप्रत्ययं षडायतनम् । षडायतनप्रत्ययः स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा। तृष्णाप्रत्ययमुपादानम् ।
उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणम् । जरामरणप्रत्ययाः शोक-परिदेव-दुःख-दौर्मनस्योपायासाः सम्भवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अयमुच्यते प्रतीत्यसमुत्पादो भगवता । तत्र प्रतीत्यसमुत्पादो नाम सहेतुकः सप्रत्ययो नाहेतुको नाप्रत्ययः ।
तस्मात्प्रतीत्यसमुत्पाद इत्युच्यते । अपि च - अविद्यादिभवाङ्गादीनामयं सम्भवक्रमः कथमवगन्तव्यः? लक्षणं कतमत्? कर्म च कतमदिति चेत्? उच्यते । तत्र प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यामुत्पन्नोऽवगन्तव्यः । कतमाभ्यां द्वाभ्याम्? उच्यते? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च । स च प्रतीत्यसमुत्पादो बाह्य आध्यात्मिकश्च पृथक्त्वाद्द्विविधो व्यवस्थापितः । कथमिति? उच्यते । " बीजादङ्कुरोत्पादात्फलोत्पादपर्यन्तम् । बीजे सति अङ्कुरः प्रादुर्भवति फलप्रादुर्भावश्च । असति च बीजे अङ्कुरानुत्पादात्, न हि फलोत्पाद इति । बीजस्य नैवं भवति अहमङ्कुरमभिनिर्वर्तयामीति । अङ्कुरस्यापि नैवं भवति अहं बीजेनाभिनिर्वर्तित इति । एवं यावत्पुष्पस्यापि नैवं भवति फलमभिनिर्वर्तयामीति । फलस्यापि नैवं भवति अहमङ्कुर-पुष्पाभ्यामभिनिर्वर्तित इति । अथ पुनर्बीजे सति अङ्कुरात्फलपर्यन्तं प्रादुर्भवति । एवं बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धो द्रष्टव्यः ।
बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धः कथं द्रष्टव्यः? उच्यते । षण्णां धातूनां समवायात् । कतमेषां षण्णां धातूनामिति । यदिदं पृथिव्यादि च कालश्च । एवं बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धो द्रष्टव्यः । बीजं पृथिव्यादौ किं हितं कृत्वा हेतोः प्रत्ययं मतमिति । पृथिव्यादि तु संधारणमित्यादि, स्नेहनं, पाचनं, निर्हरणम्, अनावरणं परिणामनां च क्रमशः करोति । असत्स्वेषु न भवति । यदाविकलो भवति, ततः सर्वेषां समवायाद्तद्भवति । पृथिव्यादौ र्नैवं भवति वयं बीजसंधारणादि करोमीति । बीजस्यापि नैवं भवति अहमेतेषां प्रत्ययेन संधारणादि कार्येण हितं करोमि । अथ पुनः पृथिव्यादिषु सत्सु बीजादङ्कुरादि प्रादुर्भवति, असत्सु च न भवति । तस्मादेव सूत्रकारेण उक्तम् ।
द्वादशाङ्गमविद्यादिमरणान्तं यथाक्रमम् ।
इत्यादि । भवाङ्गो येषामविद्यादिमरणान्तमस्ति, ते अविद्यादि मरणपर्यन्ताः ।
तस्मात्तर्हि भवन्त्येव दुःखस्कन्धा हि केवलम् । तस्मादिति तु अविद्यादि क्रमशः प्रादुर्भवति ।
दुःखस्कन्धस्तु दुःख-समूहः । केवलमिति आत्मात्मीयवियुक्तः । भवति इति तु उत्पद्यते ।
धर्मश्चाष्टाङ्गिको मार्गः फलं निर्वाणमुच्यते । इत्युक्तम् ।
धर्मस्तु स्वलक्षणधारणाद्धर्मः । अष्टाङ्गमार्ग इति तु मिथ्यादृष्टि-मिथ्यासंकल्प-मिथ्यावाक्-मिथ्याकर्मान्त-मिथ्याजीव-मिथ्याव्यायाम-मिथ्या-स्मृति-मिथ्यासमाधयः । तत्र मिथ्यादृष्टिरिति मिथ्यादर्शनम् । पञ्चदृष्टयस्तु सत्कायान्त-दृष्टि-शील-मिथ्याश्चेति । एताः सर्वा अपि मिथ्याश्रवणचिन्तनादिषु प्रविष्टाः । तस्मात्कुदृष्टित्वात्मिथ्या मार्गाचरणेन अनिष्टविपाकाभिनिर्वर्तितत्वाथेतु-कर्म-फलानि अपवादारोपाकारेण प्रविष्टत्वान्मिथ्यादृष्टिरिति । तत्प्रतिकूलत्वात्सम्यक्दृष्टिः मार्गाङ्ग एव व्यवस्थापिता । योनिशः स्थित-सम्यक्श्रवण-चिन्तनादयः श्रद्धापूर्वगत्वाथेतु-फल-सत्य-रत्न-कर्मफलदि-भावदर्शनं हि सम्यक्दृष्टिः । सम्यक्मार्गोपयोगादभीष्टफलाभिनिर्हारत्वादनित्य-दुःख-शून्य-नैरात्म्या-द्याकारेण प्रविष्ट त्वात्सम्यक्दृष्टिरिति ।
तत्र मिथ्यासंकल्पः-सङ्कल्प-विपर्ययः । सङ्कल्पो गोचर-विषयालम्बनानामधिवचनम् । गोचरमिति षड्विषया रूपादयः । मिथ्येति विपर्यासः । नित्य-सुख-शुच्यात्माद्याकारालम्बनाद्राग-द्वेष-मोहवृद्धेः मिथ्यासंकल्पः । तद्विपरीतः सम्यक्संकल्पः । सम्यङ्नाम अविपर्यासः । संकल्पस्तु क्रिया, चिन्तनं च इदमिदं करिष्य इति आदौ चित्ते निधाय काय-वाक्-चित्त-चर्याकुशलः, राग-द्वेष-मोह-रहित-स्वभावः, अनित्य-दुःख-शून्य-नैरात्म्यादिसु नियोजितो यो योनिशोमन सिकारयोगः (स) सम्यङ्मार्गाङ्गमित्युच्यते । मिथ्यावागिति दुर्वचनम् । स्वपरविसंवादाकारप्रवृत्ता या वाक्सा मिथ्यावाक् । राग-द्वेष-मोहाद्याकारसम्बद्धत्वादात्मस्तुति-परपंसन-स्वभावेन प्रवृत्ता, चतुर्विध-वाग्दोषमिश्रिता सम्यक्-सत्य-तथता-सर्वधर्मप्रहीणा, राज-चौर-स्त्री-गृहस्थ-जनकथास्वरूपा तुच्छ-व्यर्थता-बहुला सर्वार्यजन-निन्दितत्वान्मिथ्यावागित्युच्यते । तत्प्रतिकूलत्वात्स्वपराविसंवादाकारा राग-द्वेष-मोहादि-रहित-स्वभावा, चतुर्विधवाग्दोषरहित-त्वात्सत्य-सम्यक्-तथतानुसारिणी, चतुःसत्यानुकूलकरणा, सर्वकुशलधर्मसंग्रहा हित-परिच्छिन्न-स्वरूपत्वादात्मस्तुति-परपंसनविहीना अनित्य-दुःख-शून्य(ता)-नैरात्म्यादि-रूपेण प्रवृत्तेः सर्वार्य जनाविसंवादिनी सम्यङ्मार्गानुसारित्वात्सम्यग्वागित्युच्यते ।
मिथ्या-कर्मान्तो विपरीतकर्मकरणम् । कर्मेति काय-वाक्-चित्त-दुष्कृत-बीजवपनादक्षयविपाकफलाभिनिर्वर्तित-स्वभावाकुशल-कर्मान्त-कारित्वात्क्षारादिदोषसंसृष्टकुक्षेत्रे कुबीजवपनवदनभीष्टविपाकाभि-निर्वर्तितत्वात्पंसनीयः कर्मान्तस्तु मिथ्याकर्मान्त इत्युच्यते । कर्मरति-निद्रारति-वादरत्यादि-स्वभावं मिथ्याकर्म इत्युच्यते । स्वपरास्पृष्ट दुःखप्रतिष्ठाधारस्वभावम्, तद्विरुद्धत्वात्सम्यक्कर्मान्तः । अविपरीतकर्मकृत्त्वात्काय-वाक्-चित्त-सुकृतबीजवपनात्सत्क्षेत्रसदृशसुकृतकर्मक्षेत्रेऽभीष्टविपाकाभिनिर्वर्तित-विधि-प्रवृत्तेः, अनित्य-दुःख-शून्य(ता)-नैरात्म्यादि-स्वरूपेण प्रवृत्तेः, सम्यक्कर्मान्त-कारित्वात्, सम्यक्कर्मान्तः, सन्मार्गानुसरणत्वात्सम्यक्मार्ग इत्युच्यते ।
मिथ्याजीवस्तु विपरीताजीवः । कपट-लपन-नैष्पेशिकत्व-नैमित्तिकत्वेन प्रवृत्य अविपन्न-काय-वागाद्युपजीविकया पुरुष-स्त्र्यादि-निमित्तदेशनेन अस्त्राश्व-काव्य-चिकित्सापरीक्षा-संख्या-गृहस्थपरीक्षा-कुमारपरीक्षा-सामुद्रिक-लक्षणपरीक्षा-निमित्तज्ञानादौ स्वपरविसंवादरूपेण प्रवृत्तेः तन्नयेन चीवर-पिण्डादि-साधनानुवृत्त्या विहारस्तु मिथ्याजीव इत्युच्यते । तत्प्रतिकूलत्वात्सम्यगाजीवस्तु मार्गाङ्गमित्युच्यते । सम्यक्तु विद्यावियुक्त-काय-वाक्-चित्तप्रवृत्या चीवरादि-साधनम्, तन्नयेन आजीवः सम्यगाजीवानुसरणत्वात्स्वपरावि-संवादस्वरूपाकारत्वादार्यमार्गानुवर्तित्वात्, सम्यगाजीवस्तु मार्गस्याङ्गमेव व्यवस्थापितः । मिथ्याव्यायामः-व्यायामस्तु प्रयत्नः । मिथ्या इति विपर्यासः । असत्काय-वाक्-चित्त-प्रचारैः स्वपरापकारो, युद्धादिप्रज्ञप्तिः, दूतादिगमनं, चारः, उत्पातः, निक्षेपोत्क्षेपापोहानपोह-सन्धि-विधिनोत्पादः, क्षेत्र-विद्या-व्यापार-राज्यादि-स्वपरापकारि-काय-वाक्-चित्त-प्रवृत्त-विविधाकारारब्धाः क्रियाः प्रयत्नाश्च मिथ्याव्यायाम इत्युच्यन्ते । तद्विरुद्धभूतत्वात्सम्यक्व्यायामः ।
सम्यक्-व्यायामस्तु मार्गाङ्गएव व्यवस्थापितः । या कायवाक्चित्तचर्यास्वपरोपकार-मात्रकुशलप्रवृत्या आर्यमार्गमनुसरति सा सम्यग्व्यायामत्वात्सम्यक्व्यायामः । स मार्गाङ्गमेव उच्यते । मिथ्या स्मृतिरिति कुत्सनीया स्मृतिः मिथ्यास्मृतिः । स्मृतिस्तु स्मरणम् । इयं मिथ्या स्मृतिश्चापि भूतत्वान्मिथ्यास्मृतिः । कालत्रयविषयेषु पूर्वहासानन्दानुभूत-रूप-शब्द-गन्ध-रस-स्पर्शादीननुस्मरननुकथनम् । तत्रापि अध्यवसानानुराग-प्रतिघतादि-परिद्वेषत्वात्स्वपरापकारकारित्वाद्, अभीष्टविपाकसम्बद्धत्वाच्च मिथ्या-निमित्त-मनसिकारस्तु मिथ्यास्मृतिः । तद्विरुद्धत्वात्सम्यक्-स्मृतिस्तु मार्गाङ्गमेव कथिता । गुणानुस्मरणं पूर्वीकृत्य बुद्ध-धर्म-संघ-शील-त्याग-देवाद्यनुस्मरणं सम्यक्स्मृतिः मार्गाङ्गमेव उच्यते । समाधिकार्यं-समाधिस्तु ध्यानम् । सर्वथा समाधाय धारणत्वात्समाधिः । स तु मिथ्यापि सन्, समाधिरपि भूतत्वान्मिथ्यासमाधिः मिथ्येति तु विपर्ययः । ईश्वर-स्वभाव-काल-प्रधानाध्यात्मात्माद्यसत्सु तत्रालम्बनपूर्वकं यच्चित्त-स्फरणं स्यात्, अपि तु-रूपादि-बाह्यवस्तूनि अनित्य-दुःख-शून्य-नैरात्म्याकारीणि नित्य-सुख-शुच्यात्म दृष्टयादितया अध्यवसीय तेषु आलम्बनपूर्वकं यच्चित्तस्फरणम्, साध्यवसाय पूर्वकं यच्चित्ताधिष्ठानं तत्तु मिथ्यासमाधिरित्युच्यते । तद्विरुद्धं चित्ताधिष्ठानं सम्यक्समाधिरित्युच्यते । स्कन्ध धात्वायतनात्मात्मीयताशून्यादिषु अनित्य-दुःख-शून्य(ता)-नैरात्म्याद्याकारपूर्वकं चित्तप्रतिष्ठानम् । चित्तैकाग्रता तु सम्यक्समाधिरित्युच्यते । सर्वधर्मसमताप्रतिपत्तेः समाधिः । चित्तैकाग्रता एकालम्बनत्वञ्चेति । अधिवचनम् । स सम्यक्-समाधिर्मार्गाङ्गमेव उच्यते । एवं यः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति ।
दर्शनाद्यष्टसेत्वङ्गं हेतुद्वादशपूर्वगम् ।
विशुद्धात्मा हि यः पश्येद्धर्मतथ्यं स पश्यति ।
फलं तुं श्रामण्यफलम् । तत्प्राप्तिस्तु साक्षात्करणम् । सर्वसंक्लेशालय-विज्ञानबीजवासनामलापगतत्वादाश्रयपरावृत्तिमयं मनोगोचराचिन्त्या-प्रमेयगुणमण्यलङ्कृतायाः स्वपराधीनात्मक प्रत्यात्मवेद्यसर्वसत्त्वार्थनिरन्तरानाभोग कृतात्म-सर्वप्रपञ्चरहितायाः शमथविपश्यना-युगनद्ध-सर्वधर्म-तथतायाः अधिगमत्वात्क्लेश-ज्ञेयावरणगिरिगह्वरवनमूल-विदहनस्वभावतानुत्तरसम्यक्-संफलं शैक्षज्ञानं तु फल धर्म इत्युच्यते ।
अथ शालिस्तम्ब-विभाषाया द्वितीयं पटलम् ।
निर्वाणं नाम सोपधिशेष-निरुपधिशेष-स्वभावताप्रतिष्ठितनिर्वाणमित्युक्तम् । अजरम्, अमरम्, अतापं, स्थिरं, शान्तं, नित्यम्, असंहार्यम्, अक्षयात्मकम्, आदिमध्यान्तरहितमद्वयं धातुत्रयविरहितं काय-वाक्-चित्तकर्मसमतिक्रान्तं मणिरत्नराजविविधरूपसदृशं गुणमणिविविधप्रभाभिः निरन्तरं जगदर्थकारि शान्तं, धर्मात्मक-काय-भूतं निर्वाणं मन्यते ।
सर्वस्याधिगमादेवं धर्मजं बुद्धमेव च ।
एवं तद्वत्-संक्लेश-व्यवदानात्मक-सर्वधर्माणां धर्म-तथतायाः यथास्थितिवदवगतत्वाद्बुद्ध इत्युच्यते । धर्मजं नाम धर्मेभ्यो जनितत्वाद्धर्मजम् । धर्मेण जनितमित्यधिवचनम् ।
तथोक्तमार्यं दृष्टत्वाद्यः पश्यति स पश्यति ।
तथेति बुद्धमिति तथोक्तत्वात्, तादृशो भगवान् । आर्यं दृष्टत्वादिति ज्ञानचक्षुषा । आर्यस्तु लोकोत्तरः । पश्यतीति चक्षुषा । यः पश्यतीति यः प्रतीत्यसमुत्पादं धर्मञ्चैवं पश्यति स धर्मजः, धर्मजत्वाद्बुद्धं पश्यतीति भाष्यते ।
तत्रात्र प्रतीत्यसमुत्पादः कीदृश उक्त इति चेत् । यः प्रतीत्यसमुत्पादमिदमित्यादि । प्राणादिरहिताद्यश्च इति तु यः प्रतीत्यसमुत्पादं सततं प्राणादिरहितं प्राणरहितम्, अपश्यद्युक्त्यनुमानाभ्यां चर्यां, मापनम्, कल्पनाम्, उपपरीक्षणञ्च करोति, सततमजीवमिति तु निर्जीवम् । अजीवमार्हता एवं कल्पयन्ति । इमानि सर्वाणि बाह्याभ्यन्तराणि वस्तूनि सजीवानि इन्द्रियान्वितानि । तस्मात्सर्वाश्चैताः भूमयः सूक्ष्मप्राणिभिः पूर्णाः । तस्मात्सर्वे प्राणिनो जन्तून् भक्षन्ति । ये प्राणिनः प्राणिनो न भक्षन्ति ते प्राणिनस्तु मोक्षं प्राप्नुवन्तीति उच्यते । तस्मात्तन्निराकरणाय अजीव-निर्जीवेत्यादि उक्तम् । अजीव इति निर्जीवः, निष्प्राणस्याधिवचनम्, हेतुप्रत्ययोत्पादधर्मित्वात् । हेतुस्तु बीजादि । प्रत्ययश्च पृथिव्यादि । तेऽपि परस्परमन्योन्यकल्पना-परिकल्पना-विकल्प-रहित्वात्तृण-वृक्ष-भित्ति-धर्मसदृशा अचलाः निष्क्रियाश्च तस्मात्प्राणादिरहितत्वादजीवाः । परस्परं हेतुप्रत्ययोपनिबद्धजा अन्योन्ये चाचेतनाः । क्रिया कर्माप्यवभासते ।
हेतुप्रत्ययसन्ततिरियमनादितः प्रवृत्ता । यथाजीवकानामार्हतानां वृक्षा सचेतनाः सन्ति, चलत्वात्, सुप्तत्वात्, छिन्नेऽपि उत्पादत्वादिति, या व्यवहारप्रज्ञप्तिस्तादृशी नास्ति । बाह्यवस्तुषु सूर्यस्य चन्द्रस्य च स्पर्शवशेन लयो विस्तरश्च अनुमीयेते । क्व तेषां शयनोत्थानम्? वायुसञ्चारवशाद्वृक्ष-शाखादि-कम्पनानुमानात्तेषां गमनागमनं कुत उपलभ्यते । अर्थोऽसिद्ध एव । छिन्ने उत्पाद इति अयमर्थोऽसिद्ध एव इति दर्शयितुमुच्यते । यदि सोऽपि सचेतनः स्यत्, कस्मात्छेदनावस्थायां प्राणातिपत्तीत्यादि दुःखं नानुभवति । अनिच्छादिचर्यां प्रार्थनादिं वा ततोऽन्यत्रगमनं वाल्पमपि न कुर्वन्ति । छिन्ने उत्पादत्वात्सचेतनत्वाभ्युपगमश्चेत्, तर्हि यच्छेदेऽनुत्पादः, तन्निवर्तनादचेतनत्वमेव स्यात् । सचेतनानामङ्ग-प्रत्यङ्गादिच्छेदानुत्पाद-धर्मित्वादचेतनताया एव प्रसङ्गो जायते । तस्मात्तद्धेत्वर्थोऽसिद्ध एव । तस्मादजीवं, निर्जीवमितीदं व्यवस्थितम् । यथावदविपरीतमिति अहेतोः प्रतिकूलहेतोर्वियुक्तत्वात् । अजातमिति तु जन्यजनकरहितत्वात् । अभूतमिति शाश्वतोच्छेदरहितत्वात् । अकृतमिति तु कर्तृरहितत्वात् । आभ्यन्तरकर्तृपुरुषेश्वरादिप्रवृत्ति-संस्कार-रहितत्त्वाच्च । अप्रतिघमिति तु अनावरणस्वभावत्वात् । अनालम्बनमिति तु आलम्ब्यालम्बनरहितत्वात् । व्युपशमस्वभावमिति तु कर्मक्लेशरहितत्वात् । एकान्तशमस्वभावमिति सर्वप्रपञ्चरहितं सर्वकल्पनाजालरहितम् । सततस्थितम्, अभयमुत्पादविनाशरहितञ्च । य एतादृङ्नयेन धर्ममपि पश्यति । व्युपशान्त्यन्त-संयुतमित्युक्तम् । व्युपशान्त्यन्तमिति तु उपशममन्ते दर्शयितुं व्युपशमपर्यन्तम् । यस्तु एतादृशनयेन धर्मं सततमजीवादिस्वभावं पश्यति ।
प्रतीत्यं धर्मबुद्धौ च शुद्धिबुद्धया हि पश्यति ।
सोऽनुत्तरधर्मशरीरं बुद्धं पश्यति । इति भगवता उक्तम् । इत्यस्यार्थस्तु यः पश्यति । आर्यधर्ममभिसंबुध्य इति तु यो पापधर्माणां पारे अर्थात्दूरे स आर्यः । तेषां धर्म आर्यधर्मः, सम्यक्दृष्टिरित्यादिः । अभिसंबुध्येति अभिमुखे एकाग्रताकरणात्साक्षात्करणाच्च समाधिप्राप्तेरित्यधिवचनम् । सम्यग्ज्ञानोपनयेनैव इति सम्यगविपर्ययेण सर्वधर्मनैरात्म्यतथतावगमत्वात् । अनुत्तरमिति तत्पूर्वं विशिष्टधर्मस्य अभावः, तस्मात्तदेवानुत्तरमित्युक्तम् । धर्मकाय इति धर्मकाय एव धर्मकायः, निशादा-पुत्रवत् । बुद्ध इति धर्मावबोधात् । तथापि यः प्रतीत्यसमुत्पादं पश्यति स धर्मकृतानुत्तरबोध्यशैक्षस्वभावतां पश्यति । येन स आर्यज्ञानगोचरधर्मं तादृशं स्वयथावदभिसंबोधेः धर्मज्ञः, धर्मनिर्माणं धर्मदर्शनं बुद्धदर्शनमिति भगवता उक्तम् । प्रतीत्यसमुत्पादलक्षणं भेदव्यवस्थापनार्थं प्रतीत्यलक्षणं तावदित्युक्तम् । कस्मात्प्रतीत्यसमुत्पाद उच्यते इति चेत् । तस्मादुक्तम् -
सहेत्वादिपदान्वितम् ।
सहेतुकः सप्रत्यय (उच्यते) नाहेतुको नाप्रत्ययः । भगवता प्रतीत्यसमुत्पादलक्षणं संक्षेपेणोक्तम्, एतत्प्रत्ययस्यैव फलम् । तस्मादुक्तम् ।
बुद्धोत्पादो भवेन्नो वा स्थितेयं धर्मता यतः ।
हेतुप्रत्यय-प्रवाहोऽविच्छिन्नः । हेतुफलमविच्छिन्नमन्योन्यं प्रवर्तते । अत्राहेतुः प्रतिकूलहेतुः वा प्रवर्तको निवर्तको वा कोऽपि नास्ति । तस्मात्तथागतानामुत्पादाद्वा अनुत्पादाद्वा धर्मतो धर्मस्थितितो धर्मनियमतश्च एष प्रवाहः, इत्युक्तम् । यदि प्रत्ययरहितेन एकेनैव हेतुना भावा उत्पद्य तिष्ठन्ति, यदि प्रत्ययोऽपि हेतुमनपेक्ष्य किञ्चिदुत्पादयितुं समर्थः चेत्तदा ते स्थिता अस्थिता इति वक्तुं युज्येत, तेषामुत्पादः फलोद्भवोऽपि नाहेतोर्न चाप्रत्ययात्तथागतानामुत्पादो वानुत्पादो वा एषा धर्मता धर्मस्थितता च आदितः प्रवर्तेते ॥
तद्यथा - प्रतीत्यसमुत्पादस्य धर्म एतत्प्रत्ययताफलमिति भगवता प्रतीत्यसमुत्पादः संक्षेपेण उक्तः । अत्र धर्मता तु हेतुप्रत्ययर्योर्धर्मता । धर्मस्थिततेति अविप्रणाशधर्मता । धर्मनियामतेति इदंप्रत्ययताक्रमनियामता । हेतुप्रत्यय-क्रमवत्प्रतीत्यसमुत्पादसमतेति हेत्वभावे प्रत्ययाप्रवृत्तिः प्रत्ययाभावे च न हेतु-प्रवृत्तिः । परस्परसामग्र्यां च प्रवृत्तिः । अनन्यतथतेति अन्यताविरहितत्वात् । भूततेति अविसंवादत्वात् । सत्यता इति सत्यानुकूलत्वात् । तथतेति अर्थान्वितत्वात् । अविपरीततेति तु चतुर्विधविपर्ययरहितत्वात् । अविपर्ययतेति अनुकूलत्वात् । एवमपि प्रतीत्यसमुत्पादोऽयमित्यादि हेतुप्रत्ययद्विविधत्वाधेतुप्रत्ययोभयार्थ प्रतीत्यसमुत्पादस्य क्रमोऽभ्युपगन्तव्यः । कतमौ द्वाविति? उच्यते । हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च। तच्च बाह्याध्यात्मिक-भेदेन चतुर्विधोऽवगन्तव्यम् -
बाह्य आध्यात्मिकश्चापि द्विविधो हेतुप्रत्ययः । इत्युक्तम् ।
एवं बाह्याध्यात्मिकविशेषेण पृथघेतुप्रत्ययानां लक्षण-भेदः कीदृश इति चेत् ।
बाह्यो हेतुस्तु बीजादि इत्युक्तम् ।
तत्र कतमो बाह्यः सहेतुकः प्रतीत्यसमुत्पाद इति उक्त्वा तदिदम् - बीजादङ्कुरः । अङ्कुरात्पत्रम् । पत्रात्काण्डम् । काण्डान्नालम् । नालाद्गण्डः गण्डाद्गर्भम् [गर्भाच्छूकः] पुष्पात्फलमित्युक्तम् ।
प्रत्ययः षड्विधो मतः ।
इति त्ववस्थात्वाद्बाह्यप्रतीत्यसमुत्पाद इति योज्यम् । षड्विध इति तु पृथिव्यादयः षड्विधाः । तस्मात्तूक्तम् -
बीजाङ्कुरप्रकाण्डादिः फले यद्वत्प्रवर्तते ।
बीजे सति अङ्कुर-काण्डादि-फल-पर्यन्तानां प्रादुर्भावाद्, बीजेऽसति अङ्कुरकाण्डादिफलपर्यन्तं न प्रादुर्भवति । तत्र बीजस्य नैवं भवति अहमङ्कुरादि अभिनिर्वर्तयामि इति । अङ्कुरस्यापि नैवं भवति अहं बीजादिना अभिनिर्वर्तितः इति । एवं यावत्पुष्पस्य नैवं भवति अहं फलमभिनिर्वर्तयामीति । फलस्यापि नैवं भवति अहं पुष्पेणाभिनिर्वर्तित इति । अथ पुनर्बीजे सति अङ्कुरादितः फलादि पर्यन्तं प्रादुर्भावः । असति न भवति । एवं बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः ।
प्रत्ययस्तु पृथिव्यादि कालान्तं हि यथा क्रमम् ।
तस्मादेव कथं बाह्यप्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इत्यादि उक्तम् । बाह्यप्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धाः कतिधा द्रष्टव्या इत्युक्तं षण्णां धातूनां समवायात् । कतमेषां षण्णामिति । पृथिव्यप्तेजोवाय्वाकाशर्तुधातूनां यथाक्रमं समवायाद्बाह्यप्रतीत्यसमुत्पादस्येति प्रत्ययता यथाक्रमम् । क्रमो यथावद्ज्ञातव्यः । एषां हेतुप्रत्ययानां कतमस्य कर्म कतमदिति चेत्? तस्मादुक्तम् ।
धारणं स्नेहनं पाको धान्यवृद्धिरनावृतिः ।
परिणामस्तथा तेषां कार्यं तद्वत्प्रवर्तते ॥
तत्र पृथिवीधातुर्बीजस्य संधारणकृत्यं करोतीति बीजमङ्कुरोत्पादोन्मुखमाश्रयत्वात्कठिनत्वमेव उच्यते । अब्धातुः स्नेहयतीति अभिष्यन्दयतीति भाषितः । तेजो धातुः परिपाचयतीति परिपुष्टयवसरे उपपद्यमाने परस्पर-स्पर्शेणोष्णता एव परिपाक इति उच्यते ।
वायुधातुरभिनिर्हरतीति वर्धनत्वाद्, स्वावस्थायाः समुद्धृत्य बहिरा नयनाद्वायुधातुर्बीजमभिनिर्हरति वर्धयतीति उच्यते । आकाशधातुर्बीजाङ्कुरादीनामनावरणकृत्यं करोतीति । आकाशधातुर्विघ्नाकरणत्वादनुकूलप्रवृतेः बीजाङ्कुराद्यनावरणकृत्यं करोतीत्युच्यते । ऋतुरपि बीजस्य परिणामनकृत्यं करोतीति ऋतुरपि सर्वाकारमभिनिर्हरति । ऋतौ यथावत्परिवर्तमाने बीजपरिणामकृत्यं करोतीति । सर्वेषामप्यवैकल्ये प्रादुर्भावः । वैकल्ये तु न प्रादुर्भावः । तस्मादेव उक्तम् ।
नो चेत्प्रत्ययसामग्री बीजे भूतेऽपि नाङ्कुरः ।
बीजाभावे तु सत्येवं प्रत्ययभावोऽपि तादृशः ॥
तस्मादेव उक्तम् । सर्वसमवायाद्बीजे निरुद्धे ततोऽभिनिर्हारः स्यात् ।
हेतवः प्रत्ययास्तद्वदात्मग्राहादिवर्जिताः ।
हेतुप्रत्ययसामग्र्या न नश्येत्कर्मणः फलम् ॥
तत्र पृथिवीधातोर्नैवं भवति अहं संघातकृत्यं करोमीति । तद्वत्जले अग्नौ, वायौ, आकाशे, ऋतौ चापि नैवं भवति । आत्मात्मीयग्रहाभावान्न कर्मफल-प्रज्ञप्ति-प्रणाशः, सर्वत्र हेतुप्रत्ययवैकल्याभावादित्यवगन्तव्यम् । सोऽङ्कुरोऽपीति बीजहेतुकतदङ्कुरादीनामुत्पादो
न स्वतो परतो नापि न द्वयोः कर्तृकालतः ।
ईश्वरादिकृतं नैवं स्वभावान्नाप्यहेतुतः ॥ इत्युक्तम् ।
स्वत इति हेतुप्रत्ययाभावे स्वत उत्पादः । स्वभाववादिन एवं कल्पन्त इति श्रूयते ।
भावानां स्वभावत सततमत्र तिष्ठति ।
अत्र न कश्चिदुत्पद्यते न च कश्चिन्निरुध्यते ।
मायूरस्य पत्रवैचित्र्यं, कमलादिषु रक्तता,
काण्डादीनां तैक्ष्ण्यादिकं केन पूर्वनिर्मितमित्युच्यते ।
तस्मात्तन्मतनिराकरणायोक्तम् । भावानां स्वत उत्पादो न युज्यते । पूर्वाध्यवसितत्वात् । उत्पत्तिमत्त्वेन अभ्युपगम्यते, हेतुप्रत्ययताभ्युपगमः । तस्माद्वस्तूनां स्वभावत उत्पादो न युज्यते, उत्पत्तिमत्वाद्घटादिवत् । यस्यानुसारं भावाः सततं स्थिताः तदनुसारमुत्पाद-क्रिया-कर्म-स्थिति-विनाशा अपि न युज्यन्ते, उत्पाद-क्रिया-कर्म-स्थिति-विनाशा अपि साक्षादवभासन्ते ।
तस्मादत्र दोषस्य प्रसज्यमानत्वान्न स्वत इत्युक्तम् । भावानां स्वत उत्पादश्चेत्नित्यमुत्पादप्रसंगः स्यात्, आकाशवत् । कस्यचिदपि कुत्रापि कदापि उत्पादो निरोधो वा नास्तीति चेत्- उच्यते- प्रत्यक्षविरोधः । एवं भावानां हेतुप्रत्ययादुत्पादो भासते, तस्मात्तावद्भावानां न स्वभावत उत्पादः । परतः इति आत्मतः । परेषामुत्पादको विनाशकश्चात्मास्तीति श्रूयते । बाह्याभ्यन्तरसर्ववस्तूनि तु आत्मगुणाः । आत्मा अन्तः करणपुरुषोऽस्ति ।
तथा सति गमनागमन-चलन-कम्पन-निराकरण-मन्यना-क्रिया-कर्माणि तत्रैव अन्यत्रापि च प्रवर्तन्ते । चक्षुरादिः आत्मगुणः, परार्थत्वात्, शयनाद्यङ्गवदिति । परसंज्ञा तु आत्मनि सत्येवोच्यते । चक्षुरादिः तद्गुणत्वात्, तदर्थस्तु परार्थः । यथा शयनादि परैरुपयुक्तत्वात्परार्थमितिवत्परार्थत्वादिति । अयं हेतुः शयनोपमया न युज्यते संघातत्वात् । आत्मात्वसंघातस्वरूपः । कथमात्मा असंघातः सन् स्वशरीराभावे शयनादीनङ्गसंघान् स्वरूपेणोपकर्तुं युज्यते । तस्मात्स हेत्वर्थोऽसिद्धः, असंघातस्य परार्थनिष्पादकत्वात् । शयनभेदेन शयनोपमा संघातस्य परार्थत्वमेव साधयति । आत्मनः संघातत्वाधेतुप्रत्यययोरुत्पादोपलब्ध आत्मात्मीय इति मन्यनाकारप्रवृत्तेः चित्तमेवात्मा इत्युच्यते । अत्रान्तः करणपुरुषः कूर्मकेशस्वभाववद्युक्त्यनुमानरहितस्तु क्वचिन्नास्तीति दर्शयितुं भगवता बाह्याध्यात्मिकभावानां परत उत्पादो न युज्यत इत्युक्तम् । यदि भावानां स्वतोऽपि नोत्पादो न च परतोऽपि, तदा भावानां द्विविध उत्पाद इति चेत्, तस्मात्तन्मतनिषेधार्थमुक्तम् । न द्वयोः न च कालत इत्युक्तम् ।
न स्वतः परतश्च न । अन्ये तु स्वपरयोः सम्बन्धाद्भावोत्पादं मन्यन्ते । तस्मादुभयत एव वदन्ति । तथापि स्वतोऽनुपलब्धत्वात्परतश्चाभावात्न द्वयोः इत्युक्तम् । हेतु-प्रत्ययातिरिक्तं न स्वतो न परत इति भगवता उक्तम् । यदि उभयसंयोगेऽपि उत्पादविनाशौ नेष्टौ, तदा परतन्त्रेण कर्त्रा उत्पादविनाशौ भविष्यत इति कैश्चिदुच्यते । अन्ये तीर्थिकास्तु कर्त्ता नाम कश्चिदाद्यःकर्ता, नित्योऽनवच्छिन्नो व्यापकश्चात्मेति कश्चिदस्ति, स एव बाह्यमाभ्यन्तरञ्चेदं सर्वमुत्पादयति विनाशयतीति मन्यन्ते । तस्मात्तन्मतखण्डनार्थमुक्तम् । भावानामुत्पादः स्थितिर्विनाशश्चैव न कर्त्रधीनाः । अथ कस्येति चेत्- हेतुप्रत्ययसम्बन्धाद्भावानां प्रवृत्तिर्भासते । कर्तुस्तु आकाशवन्निर्विकारत्वात्तदधीना उत्पाद-स्थितिविनाशाश्च नैव युज्यन्ते ।
कस्मादिति चेत्, कर्त्तरि निर्विकार-निष्क्रियाकाशात्मनि क्रिया कर्म च किञ्चिदपि नास्ति । उत्पद्यमाना भावा हेतुप्रत्ययापेक्षाः प्रवृत्ति-क्रमोद्भूता एव भासन्ते । यदनुसारं कर्त्तारमपेक्षते प्रवृत्तिस्तदनुसारं भावानामुत्पाद-स्थिति-विनाशाश्च सदा आसन्ना भवन्ति । कर्तुर्नित्यत्वाद्भावानामुत्पादओ-स्थिति-विनाशा युगपद्भविष्यन्ति अथवा उत्पाद-स्थिति-विनाशा न भविष्यन्ति । नित्यत्वात्क्वचिदपि किञ्चिदपि उत्पादो वा विनाशो वा न स्यात् । हेतुं प्रत्ययञ्च अपेक्ष्य प्रवर्तमानानां भावानामेव कर्तृ-क्रिया-हेतुफलोत्पादसमः क्रमोद्भव उपलभ्यते । अनुत्पन्ना-काशोत्पलादीनान्तु उत्पाद-स्थिति-विनाशा न युज्यन्ते । अविकारहेतुभिः परस्परमाश्रित्य प्रवर्तमानैः उत्पादनियमो न युज्यते ।
नित्यभावादनित्यो हि समुत्पादो न युज्यते ।
हेतुतस्त्वविकारत्वात्समस्यैवोद्भवे सति ।
हेतौ फले च संभिन्नेऽविकारस्तु कथं भवेत् ।
हेतौ विकारस्यापि भूतत्वात्तदसादृश्यपक्षो नष्टः । क्रियानन्वितवन्ध्यापुत्रात्मनि कस्याश्चित्क्रियायाः कर्मणो वा नियतेन अयुक्तत्वाद्भगवद्धर्मेषु अविसंवादित्वाद्भावोत्पादक्रिया कर्त्तारं नापेक्षते, किन्तु सति हेतुप्रत्ययसङ्ग्रहे भावानामुत्पादविनाशौ युज्येत इत्युक्तम् । यद्येवमत्र भावोत्पाद-स्थित्यन्यथा-भावतादिरभ्युपगन्तव्यः ।
भावोत्पादस्थितीनां तु ज्ञातव्यो हेतुरीश्वरः ।
अन्येषां विप्रतिपत्तिर्यथावत्तैर्हि भाष्यते ॥
अन्यैः सत्त्वभाजनलोकयोरुत्पाद-स्थिति-विनाशास्तु ईश्वरकृतप्रणाशा अवगम्यन्ते, तदीश्वरेच्छावशात्काय-भूमित्रय-कर्त्रादिसंभवः स्यादिति श्रूयते । अन्ये तस्यैव चित्तोत्पादमात्रेण नरक-प्रेत-तिर्यक्-देव-मनुष्यदयाश्च सत्त्वाः ज्वर-विष-व्याधि-स्त्री-पुरुष-नपुंसक-सुकृतरूप-विकृतरूप-दस्यु-जिह्म-चौराः काममिथ्याचार-प्राणातिपात-मृषावाद-मद्यपान-द्यूतप्रवेश-प्रत्यन्त-शबर-डोम्बी-निर्दय-क्रूर-पारुष्यवाद-ब्रह्मघात-मातृपितृघातक-व्याधादयः, यक्ष-राक्षस-डाकिन्यादयः सर्वे परघातकाः, सुख-दुःखादयः स्वर्गो विमोक्षश्च तानि सर्वाणि चित्तोत्पादमात्रेणोद्धृतानीति वदन्ति । ईश्वरकर्तृत्ववादिनोऽतिसुकुमारप्रज्ञा एव, अतिमन्दप्रज्ञा एव, गतानुगतिकाश्चैव युक्तिविशेषरहिते तस्मिन् गौरवप्रवणत्वात्पूर्वोत्तरविरुद्धं बालयुवकचाण्डालवदयथार्थ प्रत्यक्षादिविरुद्धं, दान-विनय-संयमेष्टानिष्टफलं, सुकृतदुष्कृतकर्म, गम्यागम्यं, भक्ष्याभक्ष्यं, स्वर्गापवर्गादिफलविरुद्धं, युक्त्यागमादिविरुद्धं च वाङ्मात्रेण पक्षीकृत्य निजाज्ञानपटलेन नेत्राच्छादनत्वादसमर्थत्वात्पशुभूतास्तु पशुभ्योऽप्यतिछुद्रतराः पशवः । निगूढवन्ध्यापुत्रस्वभावं पशुपतिमाश्रित्य, जन्मस्थितिविनाशानां हेतुतांस्यअपि तूच्चताम् । उत्पादे स्थितौ च सहेतुक एवाभ्युपगम्यमाने सति नित्यवादभङ्गत्वाद्वादोत्सर्गः, विपरीतसिद्धत्वादीश्वरस्य अहेतुत्वमेव सिध्यति । इच्छामात्रेण उत्पादे सति युगपदेव सम्पूर्णजगत उत्पादस्थिति-विनाशाः स्युः ।
तस्मादपि असिद्धार्थतैव स्यात्, सर्वेषां नित्योत्पादप्रसङ्गत्वात् । दुःख-कुहना-जिह्माशुच्यकृतज्ञताद्युद्धरणानां तु प्रयोजनविशेषाभावाच्च असिद्धार्थता । तदुद्धरणायासो निष्फलः । प्रयोजनाभावे हि कल्पनापूर्वङ्गमानां प्रवृत्तिर्नास्ति, प्रयोजनाव्याप्तेः । तत्प्रयोजनवद्व्यावृत्तौ कल्पनापूर्वङ्गमानां प्रवृत्तेरपि निवृत्तेः असिद्धार्थतास्ति ।
हेतुप्रत्ययवैकल्ये क्रमोत्पादविनाशौ
प्रत्यक्षतया भासेते, अवैकल्ये चानुत्पादः ।
सत्त्वभाजनलोकयोरुत्पद्यमानसुखदुःखादीनां स्थितिविनाशौ क्रमश उपलभ्येते, तस्मान्न ईश्वरो हेतुः । कस्यचिदपि भावस्य उत्पाद-स्थिति-विनाशा न युज्यन्ते। तस्मादपि प्रत्यक्षविरोधोऽसिद्धार्थ एव । नान्यत्प्रत्यक्षतो गरीयः प्रमाणमिति सर्ववादिप्रसिद्धम् ।
नैकान्तेऽर्थक्रिया । दयाप्रतापाभावे
गम्भीर्यगुण-दर्शन-चर्या-चिन्तनादि न युज्यते ।
एकान्तक्रियायुक्ता युक्तयोर्गाम्भीर्यगुणस्य रूपादेर्वा आलम्बन चिन्तनस्यैव अयुक्तत्वात्, तत्तु प्रतिकूलम् ।
हेतावसति सर्वत्र प्रत्यय एव कथं भवेत् ।
अहेतौ कारकाभावात्कथमीष्टे महेश्वरः ।
भावकर्ता महेशश्चेत्सोऽपि कर्ता न मन्यते ।
पित्रभावे सुतोत्पत्तिः सा नेष्टा दृश्यते न च ।
हेतुनिष्यन्दसादृश्यं मन्यन्ते युक्तिवादिनः ।
नित्यान्नित्यफलं युक्तमनित्याच्चाप्यनित्यकम् ।
शालिबीजात्फलं तस्मादङ्कुरोत्पाद ईक्ष्यते ।
तथा महेश्वरे नित्ये भावानां स्यात्सदोद्भवः ।
यथाग्निर्दाहयेत्सर्वं तथाचेदीश्वरो मतः ।
अग्निहेतुस्तथान्योऽग्निः ईश्वरे नास्ति हेतुकम् ।
क्रमप्रवृत्तज्वालाभिः सर्वदाहोऽपि मन्यते ।
ईश्वरस्याविकारित्वादग्निवत्त्वं न युज्यते ।
तस्मादीश्वरकर्तृत्वाभ्युपगमे बहुदोषसंभवाद्भगवता भावानामुत्पादः ईश्वरकृतो न युज्यते इत्युक्तम् । परे तु सर्वं कालेन विवर्तितं मन्यन्ते । तैरेवमुच्यते ।
स्थितिर्भावान् समुत्पाद्य कालेनैव विवर्त्यते ।
भावोत्पादस्थिती चापि कालेनैव विवर्तिते ।
तदेवमुच्यते । अत्र काल इति किं नाम? नित्यो वा अनित्यो वा, पुरुषः स्त्री नपुंसकस्वभावो वा, देवो पिशाचो वा, मूर्तोऽमूर्तो वा, सक्रियो निष्क्रियो वा ।
स नित्यश्चेत्तदा तत्र क्रियापेक्षा न युज्यते ।
उत्पादश्चेत्सकृत्सोऽपि विरुद्धत्वान्न मन्यते ।
अनित्यत्वेऽकालस्य हेतुप्रत्यययोगतः ।
यदि पुंस्त्रीनपुंसादि यत्किञ्चित्स्याद्विरुध्यते ।
देह्यदेहिक्रियादौ च पारस्परविरुद्धता ।
नित्यत्वे निर्विकारत्वात्क्रियाकर्म विरुध्यते ।
एवं कालवादिनां कालवशेन भावानामुत्पाद-स्थिति-विनाशाभ्यु-पगमस्यापि अयुक्तत्वात्तदप्यसमञ्जसमेव । सूर्यचन्द्र-नक्षत्र-पर्व-वत्सरादि-बाह्याभ्यन्तरभावानां गतगम्यस्वभावत्वात्कालाख्यया भावानामुत्पाद-स्थिति-विनाशास्तु कालपरिणामत्वेन न युज्यन्ते।
अन्यच्च, स्वभाववादिन आन्तरबाह्यान् सर्वभावान् स्वभावोद्भवान्मन्यन्ते । भावानां स्वभाव एव, कस्यचिद्भावस्य उत्पादस्य विनाशस्य वा कश्चिदपि हेतुर्नास्ति । खर-स्निग्धोष्ण-लघुत्व-श्लक्ष्ण-तीक्ष्णानि स्वभाव एव । मधुराम्ल-लवण-कटुकानि असत्त्वभेदा एव ।
देव-मानुष-तिर्यञ्चो राजब्रह्म-कुजातयः ।
सुकृतं दुष्कृतं चापि सुखं दुःखं सदा स्थितम् ।
स्वभाववैमत्या तेभ्यो भ्रान्तचित्तेभ्य एवं वक्तव्यम् ।
स्वभावे विकृते दृष्टे प्रत्यक्षादिविरुद्धता ।
विकारो वर्तते यत्र निर्विकारः कथं भवेत् ।
व्यक्त्यनेकप्रभेदाच्च जन्म नाशश्च भासते ।
जातेर्विनाशसम्बन्धान्निर्विकारः कथं भवेत् ।
स्वभावे निर्विकारत्वात्पुरुषादौ निरर्थके ।
कुले राजनि क्षेत्रादौ तत्फलं चापि भासते ।
स्वभावे विकृते जाते नित्यवादी तु भ्रंसते ।
मार्गोऽयं युज्यते तस्माधेतुप्रत्ययवादिनाम् ।
एवं स्वभाववादिष्वपि परस्परविरोधत्वादुत्पाद-स्थिति-विनाशानां स्वभावादुद्भवो न युज्यत इत्युक्तम् । अथ भावानामुत्पाद-स्थिति-विनाशा अहेतुतो भवन्ति इत्यपरेऽहेतुवादिनो हेतुं विनैव केवलं भावानामुत्पाद-निरोधौ कल्पयन्ति । अहेतुवादोऽभ्यपगम्येत चेत्, हेतोः अनिश्चितत्वात्कृतप्रणाशाकृताभ्यागमानवस्थाश्च भविष्यन्ति । सुकृत-दुष्कृतादि-पितृ-पुत्र-ब्राह्मण-राजन्य-वैश्य-शूद्र-श्वपचादि-शुच्यशुचि-गम्यागम्य-भक्ष्याभक्ष्य-देवपिशाचादि-दान-विनय-संयम-जप-तपस्योपवास-निश्चय-यागज्ञानाज्ञान-हेत्वनिश्चयात्परस्परभेदनिर्णय-व्यवस्थापि न संभवति । तस्मात्तस्यैव दोषस्य प्रसज्यमानत्वादहेतुवादोऽपि लोकादि-विरुद्धत्वादसिद्ध एव ।
ये चान्ये प्रधान-परमाण्वाद्यहेतु-प्रतिकूलहेतुवादादयस्तेऽपि तेनैव निषेधितव्याः । तस्मान् ।
न स्वतः परतो नापि न द्वयोः कर्तृकालतः ।
ईश्वरादिकृतं नैव स्वभावान्नाप्यहेतुतः ॥ इत्युक्तम् ।
हेतुप्रत्यययोर्वृत्तिर्भासतेऽनादिकालतः ॥
इति तु अनादि-कालतः प्रपञ्च-वासनाबीजस्य अविच्छिन्न-नदीस्त्रोतः-प्रवाहवदनुप्रवृत्तेः
हेतुप्रत्यययोर्वृत्तिर्भासतेऽनादिकालतः । इत्युक्तम् ।
तस्मादेव सूत्रे अथ पुनः पृथिव्यप्तेजोवाय्वाकाशर्तुधातुसमवायाद्बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति इत्युक्तम् ।ऽअथ पुनःऽ इति तु अभावादुद्भव-स्व-पर-द्वयेश्वरादि-रहित-बीज-पृथिव्यादि-सामग्र्या एव अङ्कुरादि उत्पद्यत इति उक्तम् ।
पञ्चभिर्हेतुभिर्बाह्यः प्रतीत्योत्पाद इष्यते । इति ।
पञ्चभिर्हेतुभिरिति तु हेतुपञ्चकैरिति, बाह्यस्येति बीजादेः ।ऽप्रतीत्योत्पादऽ इति प्रतीत्यम् ।
शाश्वततो न चोच्छेदान्न सङ्क्रान्तेः परीत्ततः ।
हेर्तोर्महाफलावाप्तिः सदृशानुप्रबोधतः । इत्युक्तम् ।
ऽशाश्वततो नऽ इति यस्मादन्यद्बीजम्, अन्योऽङ्कुरः, न च य एवाङ्कुरास्तदेव बीजम्, बीजमेवापि नाङ्कुरः । अनिरुद्धाद्बीजादपि अङ्कुरो नोत्पद्यते । न च निरुद्धाद्, तथापि बीजनिरोधे अङ्कुर उत्पद्यते । तस्मान्न शाश्वततो, न चोच्छेदादिति न च पूर्वनिरुद्धाद्बीजादङ्कुरो निष्पद्यते नाचाप्यनिरुद्धाद् । अपि तु बीजाद्निरुद्धात्तस्मिन्नेव समयेऽङ्कुरो उत्पद्यते । अतो नोच्छेदतः । न संक्रान्तितः इति तु बीजाङ्कुरौ तु असदृशौ एव । तस्मात्ऽन संक्रान्तितः । परीत्ततः हेतोरिति- परीत्तबीजवपनान्महाफलावाप्तिरिति तत्परीत्त-हेतोर्बहुफलाभिनिर्वृत्तिः, परीत्तान्महाफलाभि-निर्वृत्तित्वात्, तस्मात्परीत्तहेतोर्महाफलाभिनिर्वृतिः । सदृशानुप्रबोधादिति तु यादृशं बीजमुप्यते तादृशमेव फलाभिनिर्वृतिरिति । अतस्तत्सदृशानुप्रबन्धः । सदृशाफलाभिनिर्वृत्तिः ।
बीजाङ्कुरयोर्भिन्नत्वाद्बीजं नित्यं न वर्तते ।
यतश्चोच्छेदतो नास्ति बीजे सति तथाङ्कुरः ।
बीजसादृश्यसिद्धत्वात्तद्भिन्नं न चेष्यते ।
अङ्कुरस्य फलादीनां सङ्क्रान्तिश्चाङ्कुरस्य न ।
एकबीजं परीत्ताणोः बीजत्वेनैव सम्भवेत् ।
तस्मात्परीत्ततो हेतोर्जायते हि महत्फलम् ।
उप्ते शाल्यादि बीजे हि श्यामाकादिफलं न हि ।
तस्मादेव -
अङ्कुरो बीजवन्नेष्टो निर्हेतुर्नोऽङ्कुरोद्भवः ।
समो निरोध उत्पादस्तुलोन्नामावनामवत् । इत्युक्तम् ।
एवं बाह्यप्रतीत्यसमुत्पादः परिकल्पनात्मकेन अनुपचयत्वेन द्रष्टव्यः ।
तथैवाध्यात्मिकस्यापि हेतुश्च प्रत्ययो द्विधा ।
तथैवाध्यात्मिकस्यापि बाह्य-प्रतीत्यसमुत्पादवधेतुप्रत्ययाकारद्वयोप-निबन्धनत्वात्पृथक्द्विविधोऽवगन्तव्यः । द्विधा हेतुश्चप्रत्यय इति तु आध्यात्मिकः प्रतीत्यसमुत्पादो हेतूपनिबन्धनः प्रत्ययोपनिबन्धनश्च द्वयाकारोऽवगन्तव्यः । इष्ट इति अभीष्टस्य च अभिप्रेतस्य अभिमतस्य चेत्यधिवचनम् । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कथमवगन्तव्यः? उच्यते -
आदिहेतुरविद्यास्य मृत्युरन्त्यो यथाक्रमम् ।
तत्रादावविद्यादेशनादादौ अविद्या, अन्ते मरणाङ्गदेशनत्वान्मृत्युरन्ते । यत्तयोर्मध्ये स्यात्तत्तु मध्य इष्यते । तस्मात्सूत्रे अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्यय मुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरण-शोक-परिदेव-दुःख-दौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । इत्युक्तम् ।
सजन्मक्लेशकर्मात्मा द्वादशाङ्गस्त्रिकाण्डकः ।
हेतुप्रत्ययसम्भूतः कर्त्तेत्यादिविवर्जितः ।
क्लेश-कर्म-जाति-परतन्त्रोऽयमात्मापि अंशत्रयेण व्यवस्थाप्यते । क्लेश-परतन्त्रस्वभावतया, कर्मपरतन्त्रस्वभावतया जन्मपरतन्त्रस्वभावतया च । तत्र क्लेश परतन्त्र-स्वभावताया अङ्गानि त्रीण्यविद्यातृष्णोपादानानि । कर्म-परतन्त्र-स्वभावतायाः द्वे अङ्गे-भवसंस्कारौ । जाति-परतन्त्र लक्षणमपि शेषसप्ताङ्गम्-विज्ञानम्, नामरूपम्, षडायतनम्, स्पर्शो, वेदना, जातिः, जरामरणञ्चेति । अपीतिपदं संग्राह्यतां दर्शयति । शोक-परिदेवना-दौर्मनस्योपायासादीनां प्रियवियोगा-प्रियसंप्रयोग-कामविपत्त्यादीनां च संग्रहः । एवमयं प्रतीत्यसमुत्पादो द्वादशाङ्गः त्रिस्वभावतया वेदितव्यः । सोऽपि कर्त्रादि-स्वभावता-रहितो ज्ञातव्यः ।
अथ शालिस्तम्बसूत्रटीकायां तृतीयं पटलम् ।
अविद्या यदि नादौ स्यादन्ते मृत्युर्न संभवेद् ।
ऽअविद्या यदि नादौ स्याद्ऽ इति तु यदि अविद्या चेन्नाभविष्यन्नैव संस्काराः प्रज्ञास्यन्ते । तद्वद्जरामरणपर्यन्तं चेन्नाभविष्यन्नैव शोकादि प्रज्ञास्यते ।
तेभ्यो भिन्नो न कुत्रापि ह्यात्मात्मीयश्च विद्यते ।
तत्राविद्याया नैवं भवति अहं संस्कारादि अभिनिर्वर्तयामीत्यतो जरामरणपर्यन्तं नैवं भवति अहं शोकादि अभिनिर्वर्तयामीति । संस्कारादीनामपि नैवं भवति वयमविद्यादिभ्योऽभिनिर्वर्तिताः । एवं यावज्जरामरणस्यापि नैवं भवति वयं जात्यादिभिरभिनिर्वर्तिता इति ।
अविद्यासंभवादादावन्ते मृत्युश्च भासते ।
अथ च सत्यामविद्यायां संस्काराद्यभिनिर्वृत्तिर्भवति, प्रादुर्भावः । एवं यावज्जरामरणं, शोकपरिदेवाद्यभिनिर्वृत्तिर्भवति ।
हेतुराध्यात्मिकस्यास्य ।
एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः । कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः? उच्यते -
प्रत्ययाः षट्प्रकारकाः ।
अस्येति तु आध्यात्मिकस्य। प्रत्ययस्तु सामग्री षट्प्रकारका इति षड्विधाः ।
प्रत्ययोऽध्यात्मिकस्त्वन्ते विज्ञानं चादिके धरा ।
विज्ञानस्यान्ते परिदेशनत्वाद्ऽअन्ते विज्ञानम्ऽ । आदिके धरा इत्युच्यते ।
तस्मात्सूत्रे -षण्णां धातूनां समवायात्पृथिव्यप्तेजोवाय्वाकाश-विज्ञानादिस्त्वाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः । इत्युक्तम् ।
काठिन्यानुग्रहौ पाकः श्वासवृद्धिरनावृतिः ।
तत्र अध्यात्म-पृथिवीधातुः कतमः? यत्कायसम्बद्ध-कठिन-कर्कश-रूक्ष-खरगत-केश-रोम-नख-दन्त-स्वेद-मल-चर्म-मांस-स्नाय्वस्थयादि-सदृशम्, अन्यच्च अस्मिन् काये यत्किञ्चिदस्ति तत्सर्वं संगृह्य पृथिवीधातुरुच्यते । अनुग्रह तु संग्रहः, सम्बन्धो-मृदुः, आलिङ्गनं, पिण्डीकरणं स्निग्धता च । तद्यथाश्रु-स्वेद-कफ-सिंघाणक-मज्जा-शुक्र-मूत्रोच्चार-रक्त-लसीका-मस्तक-ग्रहणी-पक्वाशयादिः अन्यच्चास्मिन् काये तादृशं स्निग्ध-स्वभावं स्याज्जलधातुरुच्यते ।
पाको नाम पाचनम्-पाक-पाचन-पाचकोष्णाग्निस्ताप-तापन-वृतिर्यश्चैतत्कायमध्ये अशित-पीत-खादितानां सम्यक्सुपाचकः । अन्यच्च यत्किञ्चित्कं तादृशं तत्सर्वं तु तेजोधातुरुच्यते । श्वास इति वायुधातुः । श्वासस्तु उच्छ्वासः, आश्वासो, भाषणं, प्रलापो, गमनागमनं क्षयो वृद्धिरिति । कायस्य विस्तारः, सङ्कोचः, कम्पनं, चलनं, उत्क्षेपः, पोषणं, वृद्धिः, पीनसः, कासः, छिक्का, ऊर्ध्ववायुरधोवायुरन्यच्चापि एतत्कायमध्ये यत्किञ्चित्तादृशमस्ति तत्सर्वमेकतः पिण्डीकृत्य वायुधातुरित्युच्यते । आकाशमिति अनावृतत्वादाकाशम् । आवरणं सप्रतिघं संवृतञ्च । राजी-कोषान्तारन्ध्र-मुखरन्ध्र-कर्णपुट-नासापुट-नेत्रछिद्रादयः कायान्तः कोषश्चायमाकाशधातुरित्युच्यते ।
नामरूपानुवृत्तिश्च पञ्चविज्ञानसंयुतः ।
तस्मात्क्लिष्टं मनश्चैवाध्यात्मिक प्रत्यया इमे ॥
तत्र नामानुवृत्तिः रूपानुवृत्तिश्च आध्यात्मिकविज्ञानधातुरित्युच्यते । पञ्चविज्ञानसंयुतः इति तानि पञ्चविज्ञानकायानि, ततः क्लिष्टं मनश्चापि इति क्लेशमयं मनः, तानि च चतुर्महाभूतानि एकतः पिण्डीकृत्य नडकलापयोगेन नामरूपमित्युच्यते । तत्र नामेति चत्वारोऽरूपस्कन्धाः-वेदना, संज्ञा, संस्कारो विज्ञानं चेति । रूपं नाम पित्रोः शुक्रशोणितोद्भूतमन्तराभवमाश्रित्य यत्प्रथमं नामरूपाभिनिर्वर्तनं तन्निश्रित्य पूर्वंनामरूपाभिनिर्वर्तनं-मनोविज्ञानं सास्रवं निवृत-व्याकृत स्वभावमात्ममोहादिचतुःक्लेशात्मकम् । आत्ममोहः, आत्ममानम्, आत्मदृष्टिः, आत्मोत्कर्षश्चेत्येतत्क्लेशसंयुतं क्लिष्टं मन इति एकतः पिण्डीकृतं नामरूपमित्युच्यते ।
धातूनां सन्निपाताद्वै शरीरोत्पाद इष्यते ।
अनन्तरोदिताः षड्धातवः । सन्निपाताद्वै इति तु वैकल्याभावात् । शरीरमिति तु भूत-भौतिक-संनिपात-पिण्डम् । उत्पादो नाम प्रादुर्भावः । इष्यते इति तु अनुमतम् । अस्य कर्त्रादि न वर्तते इति भावः ।
आत्मात्मीयविकल्पानामुत्पादस्तैर्न मन्यते ।
इति तु अस्माभिरेते उत्पादिता इति च तैर्वयमुत्पादिता इति तेऽन्योन्य विकल्पं नोत्पादयन्ति ।
तेषु सत्सु समुत्पादः तेष्वसत्सु न संभवः ।
प्रत्ययेषु असत्सु शरीरोत्पादो न युज्यते । यदा आध्यात्मिकप्रत्ययादि-वैकल्याभावस्तदा संनिपातात्शरीरमुत्पद्यते । वैकल्ये शरीरं न उत्पाद्यते ।
नैवात्मादिमयास्ते हि नाप्यन्यच्चापि किञ्चन ।
तत्र पृथिवीधातुस्तु नात्मा अहंममेति मन्यना-वियुक्तत्वात् ।ऽन सत्त्वास्तुऽ चित्त-मनो-विज्ञान-वियुक्तत्वात् । न जीवः चलत्वाभावात् । न जन्तुस्तु जन्यजनक विरहितत्वात् ।ऽन मनुजोऽ मनुवियुक्तत्वात् ।ऽन मानवऽ स्तु अन्तः स्थितमानवासदृशत्वात् ।ऽन स्त्रीऽ, न पुमान् - न नपुंसकस्तु आध्यात्मिकस्त्री पुरुष-नपुंसकात्मकः । न चाहं ममिति तु आत्मात्मीय-मन्यना-वियुक्तत्वात् ।
नाप्यन्यच्चापि किञ्चन इति तु ईश्वरादि-कर्तृ-क्रिया-कर्म-विरहितत्वात् । तद्वत्जलम्, अग्निर्वायुराकाशो विज्ञानधातुश्चापि नात्मा, न सत्त्वो, न जीवो, न जन्तुः, न मनुजो, न मानवो, न स्त्री, न पुमान्, न नपुंसकं न चाहं न मम स्यात् । न चेश्वरादि अन्यत्किञ्चिदिति ज्ञातव्यम् ।
यैकपिण्डादिसंज्ञा साविद्या त्रिभवछादिका ।
तत्र कतमाविद्या? उच्यते । त्रिभवछादिकेत्युच्यते । त्रिभवस्तु भवत्रयं कामभवः, रूपभवः, अरूपभवश्च । तेऽपि सत्त्वभाजनलोके व्यवहारेण द्विविधाः व्यवस्थापिताः ।
अथ च धातु-गति-योनि-भेदेन क्रम-त्रयेण स्थापितः । कथमिति चेत् । उच्यते - तत्र कामधातुः षट्त्रिंशदाश्रयनिकायविज्ञप्त्यवभासं साधारणासाधारण-स्वभावेन एकपिण्डत्वेन कल्पयन् संज्ञया ग्रहणत्वादविद्येति उच्यते । तत्र षट्त्रिंशदाश्रयनिकायास्तु अष्टौ उष्णस्वभावा महानरकाः, शीतस्वभावाः अष्टौ महानरकाः । संजीव-कालसूत्र-संघात-रौरव-महारौरव-तपन-प्रतापनावीचयो-ऽष्टोष्णनरकाः । हाहाधरापपाटट-हाहावत्-अर्बुद-निरर्बुद-पद्म-महापद्मोत्पलानि शीतस्वभावत्वादष्टौ शीतनरकाश्च । प्रत्येकः प्रादेशिकश्च नरकः, प्रेताश्रयः, तिर्यगाश्रयः, असुराआश्रयः । चतुर्द्वीपाः, अष्टौ अन्तर्द्वीपाश्च ।
तत्र प्रेताश्रयस्तु मरौ अटवीकान्तारे च । तद्भिन्नस्तु विभागः - ग्राम-नगर-निगम-श्मशान-पर्वताटवी-कर्वट-द्वीप-नदी-वायु-सागर-पल्वल-तडाग-कूपोद्यानस्थान-देवालय-मातृगृह-नागलोक-मरु-सरस्-वृक्ष-शून्यालय-महापथ-नदीतटारण्यवास-प्रपात-सेतु-कौलस्थान-मुख-महापथापण-चत्वर-श्रृङ्गाटक-पावनतीर्थस्थान-जलाशयादिषु स्थित्वा स्वकर्मवशेन विज्ञप्त्यवभास-विकल्पोद्भवानां यदज्ञानं सेयमविद्या इत्युच्यते । तिर्यक्स्थानं मध्ये-सागरम् । योनिस्थानानि चत्वार्यण्डजो, जरायुजः, संस्वेदजः, उपपादुकश्च । योन्याश्रयभेदेन विविधा तिर्यग्जगद्विज्ञप्त्यवभासित-विकल्पवासनालिप्तसन्तानाः ।
तदन्यथाविभक्ताः - गर्दभ-सूकर-वानर-गजोष्ट्राश्व-मृग-महिष-गौ-गवय-चमरी-श्व-श्रृगाल-नकुल-मूषक-सिंह-व्याघ्र-तरक्ष्वृक्ष-वृक-मार्जार-मीन-कच्छप-मकर-शिशुमार-सर्प-पिपीलिका-लूता-पतंग-तित्तिरि-पिपीलक-कृमि-वल्मीक-गोधा-कीट-जलवासि-शुक-शारिका-कोकिला-मयूर-हंस-क्रौञ्च-वक-काक-गृध्रोल्लूक-जीवञ्जीव-सुपर्णादयोऽनिश्चित-गतित्वात्स्वकर्मवासना-पारतन्त्र्येण अवभासाकारं स्थितं तु यदज्ञानं तदपि अविद्या इत्युच्यते । असुराणां चतुराश्रयस्तु सुमेरोश्चतुः परिषण्डमध्येऽस्ति ।
तद्भिन्नविभागेन स्थितं पर्वताटवी-वनोद्यान-नदी-ग्रामादिषु स्वकर्म-वशात्प्रज्ञप्तावभास-विकल्पनोद्भूतमन्यस्थानानां यदज्ञानं तदपि अविद्येत्युच्यते । नरक-सत्त्वानां स्वकर्मवशितानुकूलविकल्पनोद्भवानां तु अनवतप्तमहासागराद्विंशतिसाहस्र-योजनाधोभाजनस्य विज्ञप्ति-स्वभावमूलभूतेषु अन्यस्थानेष्वभि-निर्वृत्तिः । ततोऽन्यत्र प्रत्येकसत्त्वस्य नरकादि-भाजनस्य विज्ञप्ति-विकल्पनोद्भूतस्य पर्वताटवी-मरु-दरी-प्रपात-नदी-तीरादिस्थानाभिनिर्वृत्तं यदज्ञानमिदमप्य-विद्येत्युच्यते । चत्वारो द्वीपास्तु पूर्वस्यां विदेहः, दक्षिणस्यां जम्बूद्वीपः, पश्चिमायामपरगोदानीयः, उत्तरस्यां, च कुरुरिति । अष्टावन्तर्द्वीपास्तु पूर्वयां विदेहपर्षदो देहो विदेहश्च । दक्षिणस्यां-जम्बूद्वीप-पर्षदः चपलक उत्तरमन्त्री च । पश्चिमस्याम-परगोदानीय-पर्षदः चामरश्चापरचामरश्च ।
उत्तरस्यां कुरु-पर्षदः कुरुः कौरवश्च । तेद्वीपोपद्वीपानां प्रभेदेन विविधा-कारेण भिन्नाः । स्वविज्ञानावभासविकल्पनावशेनोद्भूतं विभिन्नप्रपंच-वासनालिप्तं तादृशं यदज्ञानमिदमपि अविद्येत्युच्यते । षड्देवानां सत्त्व-भाजनावभास-विज्ञप्त्यवभासविशेष-साधारणासाधारणाशेषस्वभावेषु पिण्डग्रहण-कल्पना-वशेनोद्भूतं यदज्ञानमिदमपि अविद्येत्युच्यते । तत्र षड्देवनिकाया इति । चतुर्महाराजकायिकाः - त्रायस्त्रिंशो, यामः, तुषितो, निर्माणरतयः परनिर्मितवशवर्तिनश्च । अन्ये च विद्याधर-सिद्धः, ऋषिर्गरुड-गन्धर्वः-किन्नर-महोरग, यक्षादयः, नक्षत्र-ग्रह-तारा-चन्द्र-सूर्या सपरिवाराः सप्रासादाः, उत्पाद-विनाश-स्वकर्मवशेन विज्ञप्त्याकारावभास-विकल्पना-वासनानुगामिनोऽण्डज-जरायुज-संस्वेदजोपपादुकाश्च । योन्याश्रय भेदेन विविध-तिर्यग्जगद्-विज्ञप्त्यवभासित-विकल्प-वासनालिप्तसन्तानाः गदर्भ-सूकर-वानर-गजोष्ट्राश्व-मृग-महिष-गौ-गवय-चमरी-श्व-श्रृगाल-नकुल-मूषक-सिंह-व्याघ्र-तरक्ष्वृक्ष-वृक-मार्जार-मीन-कच्छप-मकर-शिशुमार-सर्प-पिपीलिका-लूता-पतंग-तित्तिरि-पिपीलक-कृमि-वाल्मीकि-गोधा-यूका-कीट-जलवासि-शुक-शारिका-कोकिल-मयूर-हंस-क्रौञ्च-वक-काक-गृध्रोलूक-जीवञ्जीव-सुपर्णादयो-ऽनिश्चितगतित्वात्स्वकर्म-वासनापारतन्त्र्येण प्रज्ञप्त्यवभासाकार-स्थिताः । एवं पृथग्गति-योनि-बहुत्व-भेदेन विभिन्न-सत्त्वभाजनलोका इत्याख्याताः साधारणा-साधारणविशेषादिपिण्डग्रहोद्भूत एकतः संक्षिप्य कामधातुरित्युच्यते । परञ्चोक्तम् -
धातुगतियोनिभेदैः कामभवस्तु षट्त्रिंशत् ।
नरा द्वादश, षड्देवाः षोडश नरकास्तथा ।
सासुरप्रेततिर्यञ्चः ।
तादृश-विभिन्न-विकल्पवासनोद्भूतं यदज्ञानम्, अपरिच्छिन्नम्, अव्यक्ता-वरणम्, अनवबोधम्, अपरिज्ञातामिस्रं पूर्वान्तापरान्त-मध्य-हेतु-कर्म-फल-सत्य-रत्न-दुःख-समुदय-निरोध-मार्गकं यदज्ञानं साविद्या। त्रिधात्ववच्छादि केत्युच्यते । तस्मात्सूत्रे- येषामेव षण्णां धातूनामेक-संज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, ध्रुवसंज्ञा, शाश्वतसंज्ञा, सुखसंज्ञा, आत्मसंज्ञा, सत्व(संज्ञा), जीव(संज्ञा), पुरुषसंज्ञा, पुद्गल(संज्ञा), मनुज(संज्ञा), मानव(संज्ञा), अहंकार-ममकारसंज्ञा । एवमादि विविधमज्ञानमियमुच्यतेऽविद्येति देशितम् । तत्र पृथिवीधातोरष्टद्रव्यत्वादेकसंज्ञा न युज्यते । परमाणूनां परस्परं संचयात्मकत्वात्पिण्डग्राहो न युज्यते । हेतुप्रत्यययोः सम्बद्धप्रवृतेः नित्यसंज्ञा न युज्यते । चिरकालमस्थितत्वाद्ध्रुवसंज्ञा न युज्यते । सहोत्पाद-विनाशत्वान्न शाश्वतसंज्ञा । संस्कार-विपरिणाम-दुःखान्वितत्वान्न सुखसंज्ञा । षट्त्रिंशद्-विधाशुचिद्रव्यसमवायान्न शुचि संज्ञा । भूत-भौतिक-द्रव्य-वैपुल्यान्न आत्मसंज्ञा । चित्तचैतसिकाधिष्ठानत्वान्न सत्त्वसंज्ञा । क्रियाभावान्न जीवसंज्ञा । अपि च । गमनागमनरहितत्वान्न पुद्गलसंज्ञा अस्ति । अहंमममन्यनाविरहित्वान्न मनुज-मानवसंज्ञा । अहंममेत्यादि-रहितत्वान्मनुजादिसंज्ञा न युज्यते । एवं षण्णां धातूनां तदनित्यादिस्वभावस्य यदज्ञानमियमविद्येत्युच्यते ।
तत्र अविद्येति तु विद्या न भूतत्वादविद्या । न तु विद्याभावः, अभावस्तु न किञ्चिदपि । अविद्या विद्याभिन्ना विद्यान्तरमेवस्ति । तस्मादभावो निषेधोऽपि नास्ति, परत्वमपि नास्ति । अथ किमिति चेत्? विरोधः । अविद्या तु न विद्याभावः विद्याधर्मतो विरुद्धा अविद्येति उच्यते । परनिर्मितवशवर्ति तद्देवो - परिप्रभृति सप्तदशाश्रयाकारविज्ञप्त्यवभासो रूपधातुः । तदुद्भवः सत्त्व भाजनलोक-स्वभावः साधारणः, असाधारणश्च विशेषविकल्पवशसम्भवः । आश्रयास्तु चतुर्ध्यानानां त्रिविधभावनान्वितत्वाद्ब्रह्मकायिकादयो द्वादश, चतुर्थध्यानस्य मिश्रभावनान्वितत्वात्पञ्चावासाः पञ्चशुद्धावासाः । तत्र प्रथमे तु ब्रह्मकायिक-ब्रह्मपुरोहित-महाब्रह्माणः । द्वितीये तु परीत्ताभाप्रमाणाभाभास्वराः । तृतीयेस्तु परीत्तशुभाप्रमाणशुभ-शुभकृत्स्नाः । चतुर्थे -अनभ्रक-पुण्यप्रसव-बृहत्फलाः । शुद्धावासास्तु अवृहातप-सुदर्शन-सुदृग-कनिष्ठाः ।
चतुर्ध्यानभूमयः-सवितर्कावितर्क-सुखोपेक्षासंप्रयुक्ताः-ध्यानान्तरानागम्यभूमय इमा या अज्ञानम्, अदर्शनम्, अनभिसमिता इमा अप्यविद्येत्युच्यन्ते । याश्च नाममात्रं संज्ञावभास-विज्ञप्ति-विकल्पोद्भवाः चतस्र आरूप्यसमापत्तय आकाश-विज्ञानाकिञ्चन-नैवसंज्ञानासंज्ञायतनं यच्चाज्ञानानभिसमित्यदर्शन-मिदमप्यविद्येत्युच्यते । तस्मादेव भगवता-
चतुर्ध्यानान्यानागम्यमान्तरा भूमयस्तथा ।
आरूप्यायाः समापत्तेः पृथक्संज्ञाचतुष्टयम् ।
चतुर्भुवो विशुद्धीनां दशभूदेशनात्मिकम् ।
महेशप्राप्तिसंस्थानं तत्तु नान्यत्त्रिधातुतः ।
स्वचित्तयोगयोगेशो विशुद्धयुद्भवभूस्तथा ।
ज्ञानं समाधिः रूपं च वशिताप्रतिवेदिनः । इत्युक्तम् ।
तत्रापि यदक्लिष्टमज्ञानम्, अदर्शनम्, अनभिसंमतम्, अनवबोधभावनामार्ग-ज्ञानोत्पाद-बाधकं तदप्यविद्या इत्युच्यते । तस्मादविद्यातमस्तिमिरपटलेन नयनावृतत्वाद्विषयेषु रूप-शब्द-गन्ध-रस-स्पर्श-धर्माकारविज्ञप्तिविपर्यय-विकल्पवासनावभासत्वेन नित्यात्म-सुख-शुच्यादि-विपर्यासत्वाद्राग-द्वेष-मोह-विस्ताराद्रागजं कर्मापि अभिसंस्करोति । इष्टविघातकत्वाद्द्वेषोत्पन्नं कर्मापि अभिसंस्करोति । अमार्गे मार्गसंज्ञत्वाद्, अशुचिषु शुचिसंज्ञत्वाद्, अमुक्तौ मुक्ति संज्ञत्वाच्च मोहजमपि अभिसंस्करोति । तद्द्वयव्यावृत्त्या अनिञ्ज्यमपि अभिसंस्करोति ।
तत्प्रत्ययात्तन्निदानाच्च विद्यायां राग-द्वेष-मोहाहंकार-दृष्टि-संशयेर्ष्या-मात्सर्यानुगामनादकुशल-कायकर्मत आत्मनो ज्ञानस्य च परित्राणार्थ प्राणातिपातः अदत्तादानं, काममिथ्याचारः, उन्मादहेतुकं मद्यपानमन्यथा-नीप्सित-विपाकाभिनिर्वर्तनमपि अभिसंस्करोति । वाचो मृषावाद-पैशुन्य-पारुष्य-प्रलापैरनिष्टविपाकाभिनिर्वर्तनमपि अभिसंस्करोति । मानस-कर्मणोऽभिध्या-व्यापाद-मिथ्यादृष्टि-सम्प्रयोगोऽपि अभिसंस्करोति । काय-वाक्-चित्त-दुश्चरित-धर्म-समादान-हेतुभिः सत्त्वाः नरक-प्रेत-तिर्यग्-देव-मनुष्यासुरेषु उत्पत्स्यन्ते । तस्माद-ज्ञान-विषये राग-द्वेष मोहादिः प्रत्यक्षः, इत्युक्तम् । तत्र अविद्यया इति अविद्या-प्रत्ययेन संस्कारभावाभिसंस्कारित्वाद्विभावितं संस्कारभाव-प्रतिविज्ञप्तिस्वभावं विज्ञानमभिनिर्वर्तते । तस्मादेव
ततः संस्कृतभावानां ज्ञप्तिर्विज्ञानसंभवा ।
इति उक्तम् । ततः इति तु संस्कारमाश्रित्य भावानां विज्ञप्तिरिति तु विज्ञापकत्वाद्विज्ञप्तिः । विज्ञाने कर्मवासना-स्थापनमित्यधिवचनम् ।
विज्ञानेन सहोद्भूताश्चतुस्स्कन्धा अरूपिणः ।
इति विज्ञानेन सहोद्गता इति तु विज्ञानस्य हेतुत उद्भूताः । चतुःस्कन्धा अरूपिणः । इति तु चत्वारो विज्ञान-स्कन्धाः वेदना-संज्ञा-संस्कार-विज्ञानमित्यादयः । अरूपिणस्तु-भूत-भौतिक-संचयाकार-रहितत्वात्सन्ति, न तु नित्यम् ।
अथ किमिति चेत्? चित्तचैतसिकस्वभावोऽस्ति । स्कन्धत्वं तु विपुल-द्रव्यात्मकत्वात् । रूपं तु धातुचतुष्टयम् । पितृमातृ-शुक्रशोणितोद्भूताः पृथिव्याप्ते-जोवायुधातवः । तान् संगृह्य विज्ञानप्रत्ययं नामरूपमित्युच्यते ।
नामरूपमुपादाय चेन्द्रियायतनोद्भवः ।
इति यत्पूर्वमिन्द्रिये सतृष्णवासनानामरूपं स्थापितं तन्नामरूपं संनिश्रित्य चक्षुरादि-षडिन्द्रियाभिनिर्वर्तनेन इन्द्रियस्य षडायतनानि प्रादुर्भवन्तीति । इन्द्रिय-षडायतनानि षड्विज्ञानाश्रितानि । रूपादि-विषयालम्बन-विज्ञप्त्यवभासग्रहण-स्वभावानामभिनिर्वर्तनाद्भगवता
नामरूपसंनिश्रितानीन्द्रियाणि षडायतनमित्युक्तम् ।
विषयेन्द्रियविज्ञान-संघातात्स्पर्श सम्भवः ।
षडिन्द्रियायतनमपेक्ष्य विषयेषु इन्द्रियविज्ञानसंनिपातात्स्पर्शः । इन्द्रियविज्ञानं रूपादिविषयेषु स्पर्श इव निरान्तरमेव प्रवर्तते । अत्र स्पर्शस्तु किञ्चिदपि नास्ति । असंचित-पञ्चविज्ञानानि संचित विषयेन्द्रियैः सह युगपदेकत्र भूतत्वात्स्पर्शवन्ति सन्ति, न तु स्पर्श इत्युच्यते । तस्मादेव भगवतापि त्रयाणां धर्माणां संनिपातः स्पर्श इत्युक्तम् । आलम्बनावभासाकारेण स्पर्शो जातः । तद्वत्स्पर्शरसास्वादनियन्त्रणे षट्स्पर्शा कायानाश्रित्य षड्वेदनाकाया उत्पद्यन्ते । तस्माद्वेदना स्पर्शजा ज्ञेया । इत्युक्तम् । वेदना तु स्पर्शेण जनिता स्पर्शहेतूद्भवा इत्यधिवचनम् ।
तत्र वेदनेति तद्वेदयितृत्वाद्वेदना । वेदनानुभवः । सुख-दुःखादुःखासुखा-सौमनस्य-दौर्मनस्य-विशिष्टाः । वेदनावभासाकारविज्ञप्ति विकल्पनावशोद्भूतानां त्रिवर्गभेदेन षड्वेदनाकायोत्पादाद्भगवता स्पर्शसहभवा वेदनेत्युक्तम् । तद्वत्किञ्चिद्वेदनास्वादसक्ता अभिनिवेशात्मिका हि वेदनाहेतुकी तृष्णेति तृष्णोद्भवः । तस्मादेव तृष्ण च वेदनोद्गता इत्युक्तम् ।
तृष्णेति त्रिधातुरागः । रागोऽध्यवसानम्, अभिलाषः, आसक्तिरवियोगाकांक्षा, नन्दनं, प्रेम इत्यधिवचनम् । सा च इन्द्रियविषयविज्ञानभेदेन तृष्णाकायः षड्धा व्यवस्थापिता । तृष्णावभासाकार-विज्ञप्ति-वशोद्भूत षट्तृष्णा-कायोत्पादात्सुगतेन वेदनाध्यवसाना तृष्णेत्युक्तम् । एवमध्यवसित-तृष्णावृद्धिरुपादानम् । तस्मात्तृष्णावृद्धिरुपादानमित्युक्तम् ।
तृष्णा रागालिङ्गितस्य इष्टावियोगस्य हेतुः । कुशलमकुशलम-व्याकृतादि तूपादानम् । उपादानार्थेन उपादानम् । उपपञ्चमादानमुपादानम् । यथागृहीत-स्वकर्म-पथ्यदनस्य परवशादुपादानादुत्पादः पुनर्भव इत्युच्यते । तस्मादेव उपादानोद्गतो भव इत्युक्तम् ।
स्वकर्मवासनाया यथावदवभासाकार-विज्ञप्ति-विकल्पना-वशेनोद्भूतस्य पुनर्भवस्याभिनिर्वर्तनाद्भव इति, पुर्नर्भूतत्वात् । यथावत्स्वकर्म-वासनावशेन इति कुशलाकुशलानेञ्ज्य-कर्मवासनावशेनेत्यधिवचनम् । एवं कर्मभवस्तु हेतुः स्यात् । स्कन्धोत्पादो भवाज्जातः । कर्मभवस्य तद्धेतोः स्कन्धोत्पादो जातिरित्युच्यते । तत्र स्कन्धोत्पादस्तु स्कन्धानामुत्पादः।
धात्वायतनप्राप्तिरपि संक्षेपेण जातिरित्युच्यते । तत्र स्कन्धस्तु अनेकद्रव्यसंराश्यर्थस्तु स्कन्धार्थः । अथवा अनित्यतयैव ध्वंसत्वात्, उत्पादानन्तरमेव अनित्यताराक्षसेन भक्षणं, प्रतिहननं, विनाशनमित्यधिवचनम् । एवमभिनिर्वृत्तौ उत्पादहेतुना जातिप्रत्ययेन जरैव अभिनिर्वर्तते, तस्मादेव जातेरेवं जरापि च इत्युक्तम् ।
जातिप्रत्ययाभिनिर्वर्तितस्कन्धानां जीर्णता तु जरा । दौर्बल्य-खालित्य-पालित्य-बलिकापूर्णता-विभुग्नता-कुब्जत्व-दौर्बल्य-खरखरत्व-दण्डावष्टम्भ चर्याव्यक्तीन्द्रियभ्रंश-स्मृतिभ्रंशाः इति तादृशी तु जाति-प्रत्ययेन भिनिर्वर्तित-स्कन्धानां स्वकर्माकारिणी विज्ञप्त्यवभास-विकल्पनावासना-वशेनोत्पन्ना जीर्णता जरेत्युच्यते । एवं जराजीर्ण-स्कन्धान्यथात्वं मरणमित्युच्यते । तस्मादेवोक्तम् -
स्कन्धाभावो जराया यः स मृत्युश्चेत्युदीर्यते ।
तत्र जरेति श्लथीभूत-जराप्रत्ययेन मरणसंभवः । तत्र मरणमिति स्कन्धान्यथात्वम् । मरण-मृत-कालकृत-परलोकगमन-संक्रान्ति-गति-स्कन्ध-विध्वंसन-स्कन्धनाशायुःक्षय-जीवेन्द्रियनिरोधेत्येतादृशादि-संग्रहो जरामरणम् । मरणावभासाकार-विज्ञप्तिविकल्पनावशेन उद्भूतः स्कन्धनाशो मरणम् । अन्तावस्था, अन्तशयनं, विज्ञानसंक्रमणं, ऊष्महानिः, आयुर्वियोगः, कायिकानुकौल्यत्यागः, भवसंक्रान्तिः, यश्च विज्ञानान्तिमावस्थाश्रयोच्छेदाद्युत्पन्नो बहुधाप्रलापः, ग्रहणम्, दौर्बल्यं, परिजीर्णता, दैन्यं, निरोधानिरोधकः, मुखदौर्वर्ण्यं, अनाथता, स्वकर्मविकल्पनोद्भूत-यमपुरुषैः परस्पर-समादानावभासविज्ञप्तिः, स्वल्पमात्रओ-प्राणावशेषे श्वासप्रश्वासोद्भवा अरतिः, प्रकम्पः, कण्ठपरिशोषणम्, नासिकाच्छेदः, स्वेदः, क्लेदो मलं, स्वमूत्रोच्चार-लालाशरीरलेपः, निःसहायो, महान्धकार-प्रपात-पर्वत-परिषण्ड-गहनाटवी-शून्यालय-गृह-प्रासादोर्ध्व-मण्डप-कूटागाराग्नि-कुण्ड-महाह्रद-पलालस्कन्धगमनमिव चित्तविपर्यस्तस्य स्कन्धान्तरग्रहणं मरणमित्युच्यते ।
मूढे तु मरणाच्छोकः । इति सतृष्णस्य अन्तर्दाहः शोकः । अन्तर्दाहश्च चित्तपरितापः । शोचनार्थेन शोकः । अथ मम प्रियवस्त्विष्टवस्तु-वियोगो भविष्यति इति खिद्यमानस्य सन्तापाच्छोक इत्युच्यते । यथाकर्मोद्गताकारावभास-विज्ञप्त्याभिभूतस्य आनन्द-भयानिष्टाकारोत्पन्नो मर्मोच्छेद-दुःख-चित्त-खेदोद्भूत-शोकान्तरोत्थः-अहो, हाहा, किं, केन, कथम्, कुत्र शरणं गत्वा पश्यामि, इह गच्छामि, गतोऽहम्, गृहीतः, हतः, मृतः, भक्षितः, विनष्टः, प्रनष्टः, अहो मातः, अहो पितः, भ्रातः, भगिनि, पुत्र, पुत्रि, हे भार्य इति अनेकधा प्रलापो मिथ्यापदनिर्नादोत्पन्नः पैलोत्तकसंतापो दौर्मनस्यम् । तस्मात्शोकतश्चापलापो यो दौर्मनस्यं स उच्यते । इत्युक्तम् ।
दौर्मनस्यसमुद्भूतं पञ्चविज्ञानकायिकम् ।
आसातं दुःखमित्युक्तं कायसौख्यविधातकम् ।
दौर्मनस्य-समुद्भूतमिति तु दौर्मनस्यादेव । पंचविज्ञानकायिकमिति तु मनोज्ञ-रूप-शब्द-गन्ध-रस-स्पर्शानुस्मरणोपपन्नं पञ्चविज्ञानकायदुःखमुपघातकम् । आसातमनुभव-कायसौख्य-विघातात्मकं दुःखाकारावभास-विज्ञप्ति-वशेनोद्भूतं दुःखमित्युच्यते ।
दुःखं मनसिकारारव्यं मनसस्तूपघातकम् ।
दौर्मनस्यं च तज्ज्ञेयमन्योपक्लेशहेतु यत् ।
मानसं सुखं दुःखञ्चानुस्मृत्य पूर्वहसन-नन्दन-क्रीडन-विस्तार-चित्तविक्षेपाद्ययोनिशोमनसिकारसंप्रयुक्तं मानसदुःखम् । दौर्मनस्यादि उप-संक्लेशजनित्वादन्योपक्लेश हेतु यत् । इत्युक्तम् । यदन्यदेतादृशादि उपक्लेशः, स तु क्लेशोऽप्युच्यते, उपायास इत्युच्यते । तत्र एषां द्वादशभवाङ्गानामन्वर्थ नामानि दर्शयितुं - तमोऽभिज्ञानामरूपायतस्पर्शवित्तर्षतः । इत्युक्तम् ।
तत्र अन्धकारार्थेनाविद्या । अभीति अभिसंस्कारार्थेन संस्काराः । प्रवणत्वान्नाम । रोपणार्थेन रूपम् । आयतस्पर्शवित्तर्षतः । इति आयद्वारार्थे नायतनम् । स्पर्शनार्थेन स्पर्शः । अनुभवनार्थेन वेदना । परितर्षणार्थेन तृष्णा ।
तृष्णादानभवोत्पादः पाकनाश विशोकतः ।
उपादानार्थेन उपादानम् । पुनर्भवजननार्थेन भवः ।
भावार्थेन जातिः, पाकार्थेन जरा । विनाशार्थेन मरणम् । शोचनार्थेन शोकः ।
वचनादि कायसंपीडा चित्तदौर्मानसं तथा ।
क्लेशादन्वर्थकं नाम यथाक्रममुदीरितम् ।
वचनपरिदेवनार्थेन परिदेवः । कायसंपीडनार्थेन दुःखम् । चित्तसंपीडनार्थेन दौर्मनस्यम् । उपक्लेशार्थेन उपायासाः । पुनस्तत्त्वापरिज्ञेत्यादि तु परीक्षार्थं प्रदर्शनार्थमुक्तम् ।
पुनस्तत्त्वापरिज्ञानाद विद्यादेर्यथाक्रमम् ।
पूर्वपूर्वेभ्य उत्पादोऽप्याख्यातश्चोत्तरोत्तरः ।
तत्त्वापरिज्ञानं तु अप्रतिपत्तिर्विप्रतिपत्तिश्च । अयोनिशोमनसिकारहेतुत्वादज्ञानममविद्या । अविद्यायां सत्यां विभिन्नाः संस्कारा अभिनिर्वर्तन्ते पुण्योपगाः, अपुण्योपगाः, आनेञ्ज्योपगाः। तत्र पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति । अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति । आनेञ्ज्योपगानां संस्काराणामानेञ्ज्योपगमेव विज्ञानं भवति ।
इदमुच्यते विज्ञानप्रत्ययं नामरूपम् । नामरूपविवृद्धया षड्भिरायतनद्वारै कृत्यक्रियाः प्रवर्तन्ते । तन्नामरूपप्रत्ययं षडायतनमित्युच्यते । षड्भ्यश्चायतनेभ्यः षट्स्पर्शकायाः प्रवर्तन्ते । अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते । यज्जातीयः स्पर्शो भवति, तज्जातीया वेदना प्रवर्तते । इयमुच्यते स्पर्शप्रत्यया वेदनेति । यस्तां वेदनां विशेषेणास्वादयति, अभिनन्दति, अध्यवसायं तिष्ठति सा वेदनाप्रत्यया तृष्णेत्युच्यते । आस्वादनाध्यवसानाध्यवसायस्थानादात्मप्रियरूप-सातरूप-वियोगो माभूदिति यस्य भूयः प्रणिधानमियं तृष्णा प्रत्ययोपादानेत्युच्यते । एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च स उपादान-प्रत्ययो भव इत्युच्यते । तत्कर्मनिर्जातानां पञ्चस्कन्धानामभिनिर्वृत्तिर्या सा भवप्रत्ययो जातिरित्युच्यते । जात्याभिनिर्वृत्तानां स्कन्धानामुपचयन-परिपाकाद्विनाशो भवति ।
तदिदं जातिप्रत्ययं जरामरणमित्युच्यते। पूर्वपूर्वाङ्गानामुत्तरोत्तराणां हेतुत्वात्, तानि उत्तरोद्भवात्प्रत्यय एव । एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादो-ऽन्योन्यहेतुकोद्भूतः ।
द्वादशाङ्गस्त्रिप्रवृत्तिर्नित्योच्छेदो ह्यनादिजः।
प्रवृत्तेर्जलधारावद्वर्ततेऽनादिकालिकः ।
नानित्यः स तु सततं स्थितत्वात् । न संस्कृत इति तु संस्कारवियुक्तत्वात् । स न चेतनः चित्तवियुक्तत्वात् । न प्रत्ययसम्भव इति प्रत्ययवियुक्तत्वात् । न क्षयधर्मस्तूपचयवियुक्तत्वात् । न निरोधधर्मः उत्पाद-स्थिति-विनाश-वियुक्तत्वात् ।
अनादिकालप्रवृत्तस्तु सन्धिकाल-परिच्छेद-वियुक्तत्वात् । नदीस्त्रोतवत्स्त्रोतोद्भूत अनुच्छिन्नप्रवाहः ।
अथ आर्यशालिस्तम्बसूत्र-टीकायां चतुर्थोऽन्तिमः पटलः ।
प्रतीत्यसमुत्पादोऽयं नदीस्त्रोतवतविच्छिन्नोऽनुप्रवर्तते । अथ चेमान्यस्य चत्वार्यङ्गानि हेतुः संघातकारकाणि च, द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते । तस्मात्कतमानि चत्वारि? इत्युक्तम्।
अविद्या च तृषा कर्म विज्ञानं क्रमशो मताः ।
अविद्या, तृष्णा, कर्म, विज्ञानञ्चेति यथाक्रमम् । हेतुर्विज्ञानबीजं हि । विज्ञानं बीज-स्वभावत्वेन हेतुः । कर्म क्षेत्रमुदीरितम् । कर्म क्षेत्र-स्वभावत्वेन हेतुरित्युक्तम् । अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः ।
कर्मक्लेशा विज्ञानबीजत्वेन व्यवस्थिताः ।
कर्मक्लेशा विज्ञानबीजं जनयन्ति । तत्र
कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति च ।
विज्ञाननामकं बीजं तृष्णया स्निह्यते परम् ।
विज्ञानबीजं चाविद्या किरति स्नेहनेन वै ।
कर्म तृष्णा तथाविद्या क्षेत्रं स्नेहोऽवकीर्णनम् ।
विज्ञाने न करोमीदं न विज्ञानमितो मतम् ।
तत्र कर्मणोऽपि नैवं भवति इत्यादि तु कर्मणोऽपि नैवं भवति अहं विज्ञान-बीजस्य क्षेत्रकार्यं करोमि। तृष्णाया अपि इत्यादि तु एवं तृष्णाया अपि नैवं भवति अहं विज्ञानबीजं स्नेहयामीति । अविद्याया अपि इत्यादि तु अविद्याया अपि नैवं भवति अहं विज्ञानबीजमवकिरोमीति । विज्ञानस्यापि इत्यादि तु नैवं भवति अहमेभिः प्रत्ययैर्जनितमिति ।
तथापि बीजविज्ञाने कर्मक्लेशप्रतिष्ठिते ।
विज्ञानबीजमित्युक्तं कीर्णेऽविद्यास्ववस्करे ।
तृष्णाजलेन संसिक्ते
अविद्या-स्ववस्कर इति स्ववस्करेण च सदृशेन स्ववस्करं सर्वेष्वनुगत-त्वात् । कीर्णे स्ववस्करे इति स्ववस्करेण प्रच्छादनम् । तृष्णाजलेन संसिक्ते तृष्णैव जलम् । संसिक्ते इति तु स्नेहने ।
हेतुतो नामरूपयोः । अङ्कुरोत्पादभासो हि ।
इति तु हेतु प्रत्ययसामग्या उत्पादस्तु नामरूपाङ्कुरमभिनिर्वर्तयति । नामरूपाङ्कुरमित्यादेस्तु ।
न स्वपरोभयादिताः । नामरूपमिदं जातम् ।
नामरूपाङ्कुरमिदं तु स्वयं परत उभयादितो नोत्पन्नम् । अथ कीदृशमिति चेत् ।
पितुर्मातुः समागमात् । अविरोधादृतोश्चापि ।
पितुर्मातुः समागमादित्यादि तु पितृमातृसंयोगो वा सक्तिः, समागमः, युक्तत्वम्, पुत्रप्रसूतिसामर्थ्यम्, ऋतुमत्वञ्च ।ऽत्रिदिवसात्यये रजोनिवृत्तिस्तुऽ स हि स्त्रीणामृतुरुच्यते । तदा पुरुषसमागमे शुक्रशोणितसंयोगे, स्वयं गन्धर्वस्यापि चित्त-विपर्ययेऽपि मातापितृक्रियाधिमुक्तौ गर्भोत्पादक्रमेण कललार्बुद-पेशी-घन-प्रशाखावस्थामतिक्रम्य प्रसूतस्य, शैशव-कौमार्य-मध्यता-यौवन-वृद्धत्त्वादि-दशावस्था भवन्ति । तस्मादप्युक्तम्-
किञ्चिदास्वादवे धितम् ।
बीजविज्ञानमित्युक्तं मातृगर्भे क्रमाच्चयः ।
नामरूपाङ्कुरोत्पादः ।
अथ च मातापितृसंयोगाद्-ऋतुसमवायादन्येषां च प्रत्ययानां समवायात्तत्रास्वादविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति ।
न वैकल्याच्च प्रत्ययैः ।
विरोधत्वाच्च हेतूनां मायानैरात्म्यनिग्रहे ।
उत्पादोऽपि न संभवः ।
तस्मादस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यादित्युक्तम् ।
अस्वामिकेषु इति तु अन्तः करणं पुरुषादि अनुपलम्भनस्वभावमस्ति । तत्राभिनिवेशेनोत्पन्नो य आग्रहः । धर्मस्तु स्कन्धधात्वायतन-स्वभावः । अमम इति आत्मात्मीयरहितः । अपरिग्रह इति तु ईश्वरादि-परिग्रहानुपलम्भात् । मायालक्षण-स्वभाव इति यथा माया तु अभूतापि विविधव्यवहारं प्रतिपादयति, तद्वत्मायास्वभावस्य सर्वधर्मेषु क्रियादिर्विविधोपलभ्यते । हेतुप्रत्यय-संनिपात-व्यतिरिक्तं हेतुप्रत्ययादिधर्मः किञ्चिदपि न उत्पद्यते, विनश्यति वा । यथापि हेतुप्रत्ययवैकल्यत्वाद्भावानामनुत्पादस्तदवबोधयितुअमुपमा ।
चक्षुर्विज्ञानमप्यतः । पञ्चभिर्हेतुभिर्जातम् । इत्युक्तम् ।
तद्यथा पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते । कतमैः पञ्चभिरित्यादिस्तु -
चक्षूरूपावभासनैः । नभस्तज्ज मनस्कारैः । इति ।
तस्मात्चक्षुः प्रतीत्य रूपञ्चालोकञ्चाकाशञ्च तज्जमनसिकारञ्च इत्यादि उक्तम् । तत्र चक्षुरिति रूपं द्रष्टुं चक्षुरिन्द्रियं विकलं भवति ।
तस्मादेव चक्षुर्विज्ञानस्याश्रयकृत्यं करोति इत्युक्तम् । आलोक इति चन्द्र-नक्षत्राग्न्यौषधि-मणि-प्रभानामभिव्यक्त्यै आलोकोऽपि उपस्थितः । आकाशोऽपि नानावृत्ति-विकलो भवति । तज्जमनसिकारोऽपि समन्वाहार-कार्येऽविकलो भवति ।
पञ्चावैकल्यतस्तथा । चक्षुर्विज्ञानमुद्भूतम् ।
चक्षुर्विज्ञानस्य प्रत्ययेषु कस्यचिदप्यभावे न चक्षुर्विज्ञानस्योत्पादः, सति चोत्पादो भवति ।
मया ते जनिता इति । विकल्पो न यथोदेति
इति तत्र चक्षुषो नैवं भवतिऽअहं चक्षुर्विज्ञानस्याश्रय-कृत्यं करोमीति । रूपस्यापि नैवं भवति, अहं चक्षुर्विज्ञानस्यालम्बनकृत्यं करोमीति । आलोकस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्यावभासकृत्यं करोमीति । आकाशस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्यावरणकृत्यं करोमीति । तज्जमनसिकारस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्य समन्वाहार-कृत्यं करोमीति । चक्षुर्विज्ञानस्यापि नैवं भवति अहमेभिः प्रत्ययैर्जनितमिति ।
अथ च पुनः सत्स्वेषु प्रत्ययेषु चक्षुर्विज्ञानस्योत्पत्तिर्भवति । असत्स्वेषु न भवति । एवं
श्रोत्रज्ञानादिका खिलम् । उत्पादस्य क्रमश्चैवं
तद्वत्श्रोत्रेन्द्रियादीनां पञ्चभिर्हेतुभिरुत्पादक्रमोऽवगन्तव्यः ।
हेतुप्रत्ययसङ्ग्रहात् ।
कर्त्रादीनां च वैकल्यादहंकारवियोगतः ।
उत्पादोऽपि यथापूर्वं तथा चापि प्रतीत्यजम् ।
हेतुमत्संविजानीयात्
तथा चापि हेतुप्रत्ययक्रमोऽनन्तरोक्त-क्रमः । एवं सर्वधर्माणामुत्पाद-स्थिति-विनाशा अवगन्तव्याः ।
अस्माल्लोकात्परंनहि ।
कश्चिद्धर्मो क्वचिद्गन्ता हेतुप्रत्ययतस्तथा ।
कर्मणःफलमभ्येति
तत्र धर्मस्तु चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनादयो धर्माः । रूप-शब्द-गन्ध-रस-स्पर्शादयो धर्माः, स्कन्ध-धात्वायतन-प्रतीत्यसमुत्पादादयो धर्माः । अस्मादिति तु अस्माल्लोकात्परं लोकमथवा परलोकादमुं लोकं कश्चिद्धर्मो न संक्रामति । यद्येवं नित्यवादो वा अहेतु-प्रतिकूल-हेतुवादो वा भविष्यतीति चेत् । उच्यते । हेतुप्रत्ययवैकल्याभावात्कर्मणः फलमभ्येति इति ।
तत्र सङ्क्रान्त्यभावेऽपि कर्मफलाविनाशित्वं प्रत्यक्षानुमान-विश्वस्तागम-प्रख्यातेन अनेनोदाहरणेन ज्ञातव्यम् ।
यथादर्शे विशोधिते ।
दृश्यन्ते मुखबिम्बानि दर्पणेऽपि च बिम्बकम् ।
संक्रामितं भवेन्नैव
तस्मादुक्तम् । तद्यथा- सुपरिशुद्ध आदर्शमण्डले मुख-प्रतिबिम्बकं दृश्यते । न च तत्रादर्शमण्डले मुखं संक्रामति । अस्ति च मुख प्रतिविज्ञप्ति र्हेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिच्च्यवते नाप्यन्यत्रोत्पद्यते । अस्ति च कर्मफलविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् ।
तदन्योन्याविकल्पनम् ।
कर्तृक्रियाविहीनं तत्तथोत्पादावभासनम् ।
पूर्ववृद्धिक्रमाच्च स्यात्
तदिति तु मुखमादर्शश्च । अन्योन्यमिति परस्परमन्योन्यम् । अविकल्पनमिति विकल्पनाभावः । कर्तृक्रियाविहीनं तदिति तत्र कर्ता क्रिया च न स्तः । किं तन्नोच्छिद्यत इति चेत्- तथोत्पादावभासनमित्युक्तम् । कथं कर्तृविहीनं क्रिया कर्म च भविष्यतीति उच्यते- पूर्ववृद्धिक्रमाच्च स्यात् ।
दूरस्थश्चन्द्रमा यथा ।
परीत्तो दकपात्रान्ते दृश्यते न च क्रामति ।
अस्ति क्रिया च कर्मापि ।
तद्यथा - चन्द्रमण्डलं [द्वि] चत्वारिंशद्योजन-शतमूर्ध्वं स्थितम् । अथ च पुनः परीत्तेऽभ्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते । न च चन्द्रमण्डलं तस्मात्स्थानाच्च्युतम् । अथ च पुनः परीत्तेऽभ्युदकस्थभाजने दृश्यते । अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिद्च्यवते नाप्युत्पद्यते । अस्ति च कर्मफल-प्रतिविज्ञप्तिः हेतुप्रत्ययानामवैकल्यात् ।
अपि च, तद्यथाग्निरुपादाने प्रत्यये सति ज्वलति उपादान-वैकल्यान्न ज्वलति । एवमेव कर्मक्लेशजनितं विज्ञानबीजं तत्र तत्रोपपत्त्यायतन-प्रतिसन्धौ मातुःकुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति । अस्वामिकेषु धर्मेषु अपरिग्रहेषु परस्पर-प्रत्ययमन्मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् ।
सन्ति ते कल्पनात्मकाः । बाह्यकर्मक्रिया हेतुः
तत्र बाह्यप्रतीत्यसमुत्पादस्य क्रियाकर्म-व्यवस्था तु कल्पनात्मिका ज्ञेया ।
अध्यात्मपरतन्त्रतः । पञ्चविज्ञानसंभूतः
तत्र परतन्त्र-प्रतीत्यसमुत्पादस्य लक्षणमध्यात्म-पञ्चेन्द्रिय-विषय-विज्ञप्त्यवभासाकारत्वेन वेदितव्यम् ।
परमार्थोऽविचार्यतः । परिनिष्पन्न आख्यातः
यो विकल्प-परतन्त्रात्माकारो विज्ञप्त्यवभासाकाररहितो निर्विकल्पः सुपरिशुद्धश्च, अब्धातु-सुवर्णाकाशवत्परिशुद्धः । क्लेश-ज्ञेयावरण-स्वरूप-परिशुद्धः चन्द्रोदयवद्, अचिन्त्यगुणः, अप्रमेय-प्रभाव-भासात्मकः, असंक्रान्तः सर्वसत्त्वार्थमनाभोगाविच्छेदकः, आदिमध्यान्तरहितः, त्रिधातु-समतीतो निर्मलो-ऽमलो मलप्रहाण-स्वरूपः । प्रतिस्वसंविद्-गोचरात्मक-काय-वाक्-चित्तकर्म-समतीतः, स्वसंवेदनः, अपराधीनो विश्वरूपमणिरत्नराज इव अनुत्तरो धर्मकाय इत्युच्यते ।
सहेतुप्रत्ययोद्भवः ।
सर्वदा द्विविधो ज्ञेयः कर्त्रादिरहितस्तथा ।
तुच्छशून्यादिनिः सारः
तस्मात्तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिराकारैर्द्रष्टव्यः । इत्युक्तम् । कतमैः पञ्चभिः? उक्तम् । न शाश्वततो । यस्मादन्ये मरणान्तिकाः स्कन्धा अन्य औपपत्त्यंशिकाः स्कन्धाः । न तु य एव मरणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः । य एवोपपत्ति-हेतवस्त एव विनाशकाः । य एव विनाश-हेतुस्स एवापि औपपत्तिको भविष्यति । अतो मरणान्तिकाः स्कन्धा निरुध्यन्ते औपपत्त्यंशिका स्कन्धाः प्रादुर्भवन्ति । अतो न शाश्वततः । न च पूर्वनिरुद्धेषु मरणान्तिकेषु स्कन्धेषु इति निरुद्धय न चिरं गतत्वादौपपत्त्यंशिका इति औपपत्त्यंशे निश्रितत्वादौपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति । मरणान्तिका अनिरुद्धा एव । औपपत्त्यंशिकः स्कन्धः प्रादुर्भवेत्, तद-युक्तत्वादुक्तम्- अपि तु मरणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिका स्कन्धा प्रार्दुभवन्ति, तुलादण्डोन्नामावनामवत् । अतो नोच्छेदतः, विसदृशाः सत्त्वनिकायाः सभागायां जात्यां जातिमभिनिर्वर्तयन्ति । अतो न संक्रान्तितः परीत्तकर्म क्रियते, विपुलः फलविपाकोऽनुभूयते ।
अतः परीत्त-हेतुतो विपुलफलमभिनिर्वर्तितम् । यथावेदनीयं कर्म क्रियते तदावेदनीयो विपाकोऽनुभूयते । अतस्तत्सदृशानुप्रबन्धतश्च । यः कश्चिदिमं प्रतीत्यसमुत्पादं सम्यक्प्रणीतमेवं यथाभूतं सम्यक्प्रज्ञया सततसमितमजीवं यथावदविपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनालम्बं शिवमभयमव्युपशमस्वभावं पश्यति । असतः तुच्छतः, रिक्ततः, असारतः रोगतः, गण्डतः, अघतः, अनित्यतः, दुःखतः, शून्यतः, अनात्मतः । इति ।
य इमं प्रतीत्यसमुत्पादमिति आध्यात्मिकप्रतीत्यसमुत्पादम् । यदिमं सम्यगिति अविपरीतम् । प्रज्ञया इति लोकोत्तरप्रज्ञया । यथाभूतमिति तु तथतायथावत् । सततसमितमिति सर्वकालमविच्छिन्नम् । अजीवमिति प्राण-कर्त्रादि-वियुक्त-त्वादजीवम् । अजातमिति जातिरहितत्वात् । अभूतमिति स्थिति-रहितत्वात् । अकृतमिति कर्तुरभावात् । असंस्कृतमिति संस्कृत-लक्षण-रहितत्वात् । अप्रतिघमिति आवरण-रहितत्वात् । अनालम्बनमिति आलम्ब्यालम्बक-रहितत्वात् । शिवमिति शान्तत्वात् । अभयमिति तु उत्पादादि-भयरहितत्वात् । अनाहार्यमिति क्लेश-पारतन्त्र्य-रहितत्वात् । अव्ययमिति सततं व्यवस्थितत्वात् । अव्युपशममिति एकान्तशमगतिरहितत्वात् ।ऽअसतःऽ स्कन्धात्पृथगन्याभावात् । तुच्छत इति मुक्तात्मनो ह्रस्वलोहवदेकान्तस्य अभावात् । रिक्तत इति अन्तस्थित-स्वरूपात्मद्रव्याभावात् । असारत इति स्फरणात्मकताभावात् । रोगत इति रोगात्मक-स्कन्धात्पृथक्त्वाभावत् । गण्डत इति स्कन्धानतिरिक्तबाधकान्तरा-भावात् । अप्रतिघत इति कर्मक्लेशातिरिक्त-बाधकस्वरूपान्तराभावात् । अनित्यत इति सहोपपादविनाशः स्कन्धात्पृथगन्यन स्वभावात् । दुःखत इति संस्कारविपरिणामदुःखाभ्यां पार्थक्याभावात् । शून्यत इति कल्पना स्वभावतया अभूत-परिकल्पनायाः पृथकत्वाभावात् । अनात्मत इति स्कन्धानतिरिक्तमात्मद्रव्याभावात् ।
कर्त्रादिरहितस्तथा ।
तुच्छशून्यादिनिःसारः प्रज्ञयैवं य ईक्षितः ।
किं कथं वा कुतः केन कल्पवादादि हानितः।
अनन्ताचिन्त्य गुण्यकम् । शान्तं धर्मात्मकं कायम् ।
तथतार्थं स एव पूर्वान्तं न प्रतिसरति इत्युक्तम् । किं न्वहमभूवमतीत इति नायं मोहोत्पादः । असंमोहे ज्ञानोत्पादत्वादहमतीत एतन्नर-सदृशोऽभूवमित्यादि च । अहं देवो वा गन्धर्वो वा किं सुखविहारो दुःखविहारोऽभूवमित्ययं मोहोऽभाव एव । अहं सुगतौ दुर्गतौ वा, चिरम्, अचिरं वा कथमभूवमिति मोहोऽप्यभाव एव । अनागतान्ते न प्रतिसरति । किं न्वहं भविष्याम्यनागतेऽध्वनि इति च आहोस्विन्न भविष्यामि इति मोहोऽप्यत्र नास्त्येव । किं न्वहं भविष्याम्यनागतेऽध्वनि इति अनागतेऽध्वनि देवो वा पिशाचो वा नरो वा किं वा भविष्यामीति अत्र मोहस्याप्यनुद्भव एव । सुखी वा दुःखी वा सुरूपो वा कुरूपो वा कथं भविष्यामि इति मोहोऽप्यत्र नास्ति । अन्तरपि न प्रतिसरति इति अन्तर्न मुह्यति । किं न्विदमिति आत्मा निरात्मा वा इति । कथं न्विदमिति किं सरूपोऽथवा विरूपो वेति मोहोऽत्र नोद्भवति । के सन्त इति सुकृत-कर्मकारिणः दुष्कृत-कर्मकारिणो वेति न मोहोत्पादः । अयं सत्त्वो देवगतेर्नरगतेर्वा कुत आगत इतश्च्युतो देवेषु मनुष्येषु नरके प्रेते तिर्यञ्चि वा कुत्र गमिष्यतीति मोहोऽत्र न सम्भवति । श्रमण-ब्राह्मणानां पृथग्लोके दृष्टिगतानि भविष्यन्ति इत्यादि । दृष्टिगतानि इति दृष्टिस्थानि । पृथगिति भिन्नमेव । तद्यथेति तु निदर्शनार्थम् । आत्मवाद-प्रतिसंयुक्तानीति स्कन्ध-व्यतिरिक्तात्मभावः । अविचारत आत्मात्मीयेति स्वभावात्मग्रह-संयुक्तत्वादात्मवादप्रति-संयुक्तानीत्युक्तम् । विपरीतधारणा-समुत्थानार्थं पुद्गलवाद-प्रतिसंयुक्तानीत्यादि तु पुनर्गमनत्वात्पुद्गल इति स्कन्ध-व्यतिरिक्तः । यस्यामुं लोकं त्यक्त्वा परलोक-गमनस्य परलोकं विहाय अमुमेतल्लोकगमनस्य चाभावात्ग्रहण-दुर्विपरीतग्रहणमित्युक्तम् । कौतुक-मङ्गलवाद-प्रतिसंयुक्तानीति । कौतुकस्तु लोकशिल्पस्थानं, यच्च विविधविद्यास्थाने
उत्सवावाह-विवाह-कलह-युद्धैः, उद्यान-नदी-सागर-पर्वत-वनेषु तत्तद्-भिन्नेषु च आर्यस्य गमन-दर्शन-संक्रमण-प्रवृत्त्यावासानुरमणक्रीडा-सुखा-स्वाद-नृत्य-गीत-पदालाप-धावन-लंघनैः, अद्भुत-पुरुष-स्त्री-दारक-दारिका-विग्रहकथा-वाद-प्रहेलिकोक्तिभिः, गजाश्वादि-योधनैः, दूर्वा-दधि-गोरोचना-क्षेत्रहल-मुद्गर-पुष्प-फल-कलश-शङ्ख-मत्स्या-दिभिः, ब्राह्मणर्षभ-चन्द्र-सूर्य-ग्रह-नक्षत्र-तारा-क्षण-योग-करणादिनैमित्तिका-दिभिः आत्मशुद्धयन्वेषणम् । विपरीतानेकाकार-प्रलम्ब-रज्जुलम्ब्येऽमार्गे मार्गसंज्ञा, अशुचौ शुचिसंज्ञा, अमुनौ मुनिसंज्ञया षड्जगच्चक्र-प्रविष्ट-बुद्धिमतो गमनं गम्यं च संसारमेवानुसरन्ति न तु निर्वाणमिति । तेषां सम्यक्प्रज्ञया दर्शने चतुर्विधविपर्यय-रहितत्वात्समुच्छिन्नमूलानि तालवृक्षमस्तकवदनाभासगतानि आयत्यामनुत्पाद-निरोधधर्माणि इति । तस्मादेवोक्तम् ।
तथा कश्चिच्च न च्युतः । जन्माभासोऽप्यसंल्लोके
तस्मादुदाहरणम्-
यथापादपसङ्गतः ।
वह्निस्त्रोतप्रवृत्तिः स्याथेतुवैकल्यतस्तथा ।
नानुप्रवर्तते ह्यग्निः
तथा इति यथा चन्द्रस्य रूपे दूरस्थितेऽपि परीत्तजलभाजनेषु जले विपुलतैलपात्रेषु वा अवभासते । चन्द्ररूपसंक्रान्तिरनेकत्वं वापि नास्ति, तथापि अनेकजलपात्रेषु दृश्यते । एवमस्मान्न कश्चिच्च्युतो न गतो नागतो, हेतुप्रत्ययवैकल्यात्च्युति-गमनागमनावभासाः । तद्वज्जलभाजनवत्सत्त्वसन्तानस्य जगतः स्थानान्तरेषु बहुरूपेण चित्तचन्द्रबिम्बोत्पादः, हेतुप्रत्ययावैकल्यात् । कुशलाकुशलानेञ्ज्यादि-हेतोर्यथाक्षेपा तत्रावभासाकारा विज्ञप्तिरुद्भवति । आत्मात्मीयवियुक्तः सर्वभावेषु प्रतीत्यसमुत्पादक्रमोऽवगन्तव्यः । अविच्छेदो - दाहरणम्- यथापादपसङ्गतः । वह्निस्त्रोतः प्रवृत्तिः स्यात् । कर्मक्लेश-लिप्त-चित्तसन्तानं वह्निस्त्रोतोनिबद्धमिन्धनं तु कर्मक्लेशत एव स्यादिति परीक्ष्यते । यथा - अग्नीन्धनहेतुकं ज्वलनमविच्छिन्नम् । इन्धनाभावे विच्छिन्नम्, तद्वदत्रापि कर्मक्लेशेन्धनमुच्छिद्य संक्लेशालय-विज्ञानबीजओ-सन्ताने ज्ञानाग्नि-संयोगाद्दग्धे सति हेतु-निरोधान्न फलोद्भवः । तस्मादेवोक्तम् - यान्येकेषां श्रमण-ब्राह्माणानां तद्यथा इति इतो बाह्यानां लोकस्तु लोकः ।
नश्यन्-नश्यन् गत्यर्थः, लुज्यतत्वाल्लोकः । विशीर्यमाण इत्यधिवचनम् । दृष्टिगतानीति दृग्दर्शनं विपरीत-शास्त्रश्रवणचिन्तनादिमिथ्या-ज्ञानोद्भवं मिथ्या-ज्ञानं तु दृष्टिरित्युच्यते । पृथक्तु भिन्नम् । तद्यथा - आत्मवाद-प्रतिसंयुक्तानीत्यादि तु पञ्चोपादान-स्कन्धेषु रूप-वेदना-संज्ञा-संस्कार-विज्ञार्नोष्वति आत्मात्मीय-रहितेषु, आत्मत्वेन सम्यग्दृष्टिर्या क्लिष्टप्रज्ञा सा दृष्टिः । सत्कायान्तदृष्टि-शील-व्रत-मिथ्यादृष्टिपूर्वकं कुप्रज्ञाविद्यासंप्रयुक्तत्वाद्दृष्टिरिति । तदविद्यापूर्वकं रागप्रतिघाकाराविद्यादृष्टि-विचिकित्सोपक्लेश-संप्रयुक्तो दृष्टि-लक्षण-धात्वाकारभेदमनधिगम्य संक्लिष्टालय-विज्ञान-वासनावस्थित-तदाकार-विज्ञानावभासपोषणात्प्रागेव लोकोत्तर-मार्गाश्रितचतुरार्यसत्यभावना-भ्यासक्रमेण दुःख-समुदय-निरोध-मार्ग-दर्शन-भावना-विमुक्ति-विशेषानन्तरेण प्रहाण-साक्षात्कारः । यश्चापि सप्तत्रिंशद्बोधिपक्षधर्मस्मृत्युपस्थान-सम्यक्प्रहाणर्द्धिपादेन्द्रिय-बल-बोध्यङ्ग-मार्ग-प्रतीत्यसमुत्पाद-ध्यानारूप्यप्रमाण-षडनुस्मृत्यादियधर्मपुद्गलनैरात्म्य-बोधिचित्तभावना-समाधि-धारणा-श्रद्धा-वीर्य-समाधि-प्रज्ञा-भूमि-वशीकारा-भिज्ञान-ज्ञान-पारमिता-विमुक्तिद्वार-क्षान्ति-भावनादि-क्रमेण लोकोत्तरमार्गानुगत-त्वादधिमुक्तिचर्यायां प्रतिस्थाप्य निर्याण-प्रयोग-साक्षात्कारादिन्द्रिय-बलाभयओ-असंसृष्ट-प्रतिसंविद्-व्यञ्जन-महापुरुष-लक्षणर्द्धिपादादि भावनां परिपूर्य अनुत्तरसम्यक्-समवबोधावबोधात्शमथ-विपश्यनानुकूल-समभावो भावनेऽनन्ता-चिन्त्यगुण्यं शान्तस्वभावकायं, आदिमध्यान्तवर्जितं, ज्ञात्वा प्राप्नोति बुद्धत्वमित्युक्तम् । तत्र रूपस्कन्धस्तु रूपावभासाकार-विज्ञप्त्यवभास-विकल्पोद्भूतोऽनेक-द्रव्यात्मको भूतभौतिक-रूप-लक्षण एकादशओ-सामान्यात्मक-पञ्चद्रव्याकारारोप-संघट्टितः
चक्षुः-श्रोत्रादिरूप-शब्दादिकाम-रूपारूप-प्रतिसंयुक्ताभूतपरिकल्पना-लक्षणः स्कन्धो धात्वायतनेन्द्रिय-विज्ञान-विषयात्मकोऽथ च तादृगन्यतादृग्रूप-लक्षणो धर्मस्तु रूपस्कन्ध इति ।
तत्र वेदनास्कन्ध इति सुख-दुःखोभयाकारेण आस्वादाकार-विज्ञप्त्यवभासः । विषयेन्द्रियविज्ञानभेदेन वेदना षट्काया । धात्वाकारविशेषभेदेन क्लेशोप-क्लेशसंप्रयुक्तत्वादनन्ताः प्रभेदाः स्युः । सुख-दुःख-सौमनस्य-दौर्मनस्यो-पेक्षान्वितत्वात्षडाकारमात्मद्रव्यमेव अभूतसंकल्प-विकल्पालय-विज्ञानवासनोप-निबद्धत्वाद्राग-द्वेष-मोहादित्रिधातु-विकल्पवशोद्भूत-द्रव्य-संगृहीतत्वाद्वेदना-स्कन्ध इति । संज्ञा सूक्ष्म-स्थूल-महाङ्गतादि-चित्रीकाराव-भासाकार-विज्ञप्ति-र्विकल्पनावशोद्भूत-पूर्वहसन-नन्दन-क्रीडनादि-काननुस्मृत्य स्त्री-पुरुषादि-निमित्तविशेषग्रहणात्मिका विषयेन्द्रिय-विज्ञानभेदेन षट्काया संज्ञा । राग-द्वेष-मोह-निबन्धनत्वाद्धात्वाकार-विशेषभेदेन तु अनन्तप्रसरा । संक्लिष्टस्यालयविज्ञान-वासना-सम्बन्धत्वादात्ममोहादि-संयुक्तात्मता तु संज्ञेति । संस्कारस्तु संप्रयुक्ता-प्रयुक्त-प्रज्ञप्ति-संस्कृता-संस्कृतावभासांकार-विज्ञप्तिः-विकल्पनावशेनोद्भूतः । पूर्वाक्षिप्तालय-विज्ञानादस्तित्व-वासना-भेदेन तु धातोः आकार-विशेषानन्त-प्रसरान्वितस्य संस्कार-स्कन्ध-संगृहीतत्वात्संस्कारस्कन्ध इति । तत्र विज्ञान-स्कन्धस्त्वष्टविधः । विषयेन्द्रिय-विज्ञानानां विशिष्टावभासाकार-विज्ञप्तिः । विकल्पनावशोद्भूतालय-विज्ञानस्य वासनोपनिबद्धत्वाद्धातोराकार-विशेष-भेदेनानन्तप्रसरो हि विज्ञानस्कन्ध इति ।
तेषामप्येवं धात्वायतन-सास्रव-संस्कृत-संक्लेशादि-पर्यायभेदेन स्व-लक्षणसम्बन्धेन संक्षिप्य स्कन्धो धातुरायतनमिति । एवं संक्लिष्टालयविज्ञान-बीजान्विता अभूतसंकल्पसमुत्त्थत्रैधातुकोद्गतास्ते चित्तचैतसिकादयस्तु संसार इति । तथापि तत्र आदावेव कर्त्रादिरहितो रिक्तस्तुच्छोऽसार इति विदित्वा चतुरार्यसत्य-भावनानुलोमप्रवृत्त्या निर्णीतो लोकोत्तर-ज्ञानाग्नि-समुद्भूतो-ऽविद्यान्धकारादि-रहितो हेतुप्रत्ययार्थतथतापरिज्ञानात्शान्तो धर्मकायोऽवगम्यते ।
तस्माद्दुःख-समुदय-निरोध-मार्ग-दर्शन-भावनामार्गक्रमः। तत्र दुःख-सत्यम्-अनित्यता-दुःखता-शून्यता-नैरात्म्य-सम्यगनुदर्शनज्ञानेन क्षान्ति-मुक्ति-प्रहाण-विशेषानान्तर्यज्ञानेन च तद्-दुःखमवगम्य क्लेशालयविज्ञानवासनां संनिहत्य पुद्गलधर्मनैरात्म्यमवबुध्य, त्रैधातुकावभासिताभूतसंकल्पोद्भूतमस्मिन् चित्तमात्रे माया-मरीचि-गन्धर्वनगरालातचक्र-प्रतिश्रुत्कोदकचन्द्र-प्रतिबिम्बवद्विभावने, स्कन्धादौ धातौ आयतने च ग्राह्य-ग्राहकतां विहाय धर्मनैरात्म्यसमतायां प्रविशे, स्वचित्तमेव आद्यमनुत्पन्नमिति शून्यज्ञानप्रवेशे, सर्वधर्मनिःस्वभावताज्ञानस्य करुणामूलक-बोधिचित्तस्य हेतूभूत-विविधोपाय-पुण्यज्ञानसम्भारसंचये दशपारमिताहेतुभिः दशभूम्याधार दशज्ञानालम्बन-दशवशिताफलान्वितेऽनन्ताचिन्त्य-गुणाकारः शान्तधर्मकायोऽवबुध्यते । एवं समुदय-सत्य-समुदय-हेतु-प्रभव-प्रत्ययानन्तर्य-विमुक्ति-प्रहाण-विशेष-दर्शनानुलोम-प्रतिलोम-भावनाकारेण संक्लिष्टालयविज्ञान-वासना-मल-रहितत्वे शान्तधर्मकाये प्रवेशः । निरोध-सत्येऽपि निरोध-शान्त-प्रणीत-निःसरणतानन्तर्य-विमुक्ति-प्रहाण-विशेष-दर्शन-भावनामार्गक्रमेण संक्लिष्टा-लयविज्ञानवासनासमुद्घातेन आनन्तर्य-प्रहाण-विमुक्ति-विशेष-भावनया पुद्गल-धर्मनैरात्म्याधिगमे शान्तधर्मकायप्राप्तिः । हेतुप्रत्ययओ-रहितत्वात्मार्गसत्येऽपि मार्ग-न्याय-प्रतिपत्ति-नैर्याणिक-सन्दर्शने एवं दर्शन-भावनानन्तर्य-प्रहाण-विमुक्ति-विशेषमार्गानुकूलतायै आलयविज्ञाने विद्यमानां वासनां संनिहत्य पुद्गलधर्म-नैरात्म्य-समतावबोधात्त्रिकायाधिष्ठान-शान्त-धर्मकायस्याचिन्त्या-प्रमेयगुण-गणस्य आदिमध्यान्तरहितस्य अविच्छिन्न-नाभोगकरणात्मक-सर्वार्थानामनुत्तरं सर्वज्ञत्वं प्राप्नोति । अपि चोक्तम् -
य एवं तथताक्षमः । तस्मै व्याक्रियते नूनं
य एवमनन्तरोक्त-प्रतीत्यसमुत्पाद-पुद्गलधर्मनैरात्म्य-तत्त्व-क्षम इच्छति, स एव पुद्गलधर्मनैरात्म्यक्षमतान्वितत्वादनुत्तरसम्यक्सम्बोधिं व्याकृतवत्पश्येत्, जानीयाच्चेत्यर्थः । तस्मात्सूत्रे- यो भदन्त शारिपुत्र कुलपुत्रो कुलदुहिता वा एवंविध-धर्मक्षान्ति-समन्वितः, तस्य तथागतोऽर्हत्सम्यक्सम्बुद्धोऽनुत्तरः सम्यक्सम्बोधिं व्याकरोति इत्युक्तम् ।
मैत्रेयस्तु स्वयं तथा । उवाच शारिपुत्राय
एवं शारिपुत्रो बोधिसत्त्वो मैत्रेयमपृच्छत् । बोधिसत्त्वो मैत्रेयोऽपि शालिस्तम्बोपमा कृता इदं सूत्रं विस्तरेण विभज्य भाषितवान् । बोधिसत्त्वमैत्रेयेण भाषितां शालिस्तम्बोपमां कृत्वा शारिपुत्रस्तु तच्छ्रुत्वा इति शालिस्तम्बोपमा कृता । संस्तुतो धृत सारश्च देवसंघानिति । धृतसार इति धर्मार्थतथतावबोधत्वात्सारग्रहणम् । देवसंघानिति देव-नाग-यक्ष-गन्धर्वादि-सहितान् । अनुमोदितेति अनुमोद्य । सःस्तुत इति त्वया यथोक्तः तथैव अस्ति नान्यथेति, अवधारयन्निर्जातत्वात् ।
गत्वोत्त्थाय प्रहर्षितः । आख्यातवांश्च भिक्षुभ्यः
तस्मादेव सूत्रे- अथ आयुष्मान् शारिपुत्रो मैत्रेयस्य बोधिसत्त्वस्य भाषितमभिनन्द्य उत्थायासनात्प्रक्रान्त इत्युक्तम् । मैत्रेयेण बोधिसत्त्वेन महासत्त्वेन एवमुक्तं मैत्रेयेण बोधिसत्त्वेन, एवमिति शारिपुत्रेण कथितम् । अनुमोदितम् । शारिपुत्रः तच्छुत्वा प्रहर्षितः सन्तुष्ट इत्यर्थः । गत्वा भिक्षुभ्यो गम्भीरोदाराद्भुतं सूत्रं यथाश्रुतवत्सर्वसत्त्वहिताय भाषितम् ।
शालिस्तम्बस्य सूत्रस्य विस्तराख्या सुभद्रिका ।
हीनबुद्धि प्रबोधार्थं शतैर्द्वादशभिः कृता ।
आचार्यनागार्जुनेन विरचिता शालिस्तम्बकविस्तराख्याटीका समाप्ता ।
भारतीयोपाध्यायेन धर्मश्रीभद्रेण लोकचक्षुषा भदन्तसाधुमतिना ज्ञान कुमारेण चानूदिता । महासंशोधक-लोकचक्षुषा भदन्त-श्रीकुटीरेण संशोध्य निर्णीता ।
</poem>
3pt6zbemjs6zzd7lrr27dtrje45qbh3
341371
341370
2022-07-25T10:15:05Z

2f45qob675w33eprz8qfefndbsjwz6q
आर्यसंघाटसूत्रम्
0
125417
341372
2022-07-25T10:17:34Z
Shubha
190
{{header | title = आर्यसंघाटसूत्रम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> स्वस्तिः नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥ [१] एवं मया श्रुतमेकस्मिन् समये भगवान् र... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = आर्यसंघाटसूत्रम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
स्वस्तिः
नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥
[१] एवं मया श्रुतमेकस्मिन् समये भगवान् राजगृहे विहरति स्म । गृद्ध्रकूटे पर्वते महता भिक्षुसंघेन । सार्धं
[२] द्वाविंशतिभिर्भिक्षुसहस्रैः तद्यथा आयुष्मता चाज्ञातकौण्डिन्येन । आयुष्मता च महामौद्गल्यायेन । आयुष्मता च शारद्वतीपुत्रेण । आयुष्मता च महाकाश्यपेन । आयुष्मता च राहुलेन । आयुष्मता च बक्कुलेन । आयुष्मता च भद्रवासेन । आयुष्मता च भद्रश्रिया । आयुष्मता च नन्दश्रिया । आयुष्मता च जाङ्गुलेन । आयुष्मता च सुभूतिना । आयुष्मता च रेवतेन । आयुष्मता च नन्दसेनेन । आयुष्मता चानन्देन । एवंप्रमुखैर्द्वाविंशतिभिर्भिक्षुसहस्रैः ।
[३] द्वाषष्टिभिश्च बोधिसत्त्वसहस्रैः तद्यथा मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन । सर्वशूरेण च बोधिसत्त्वेन महासत्त्वेन । कुमारश्रिया च बोधिसत्त्वेन महासत्त्वेन । कुमारवासिना च बोधिसत्त्वेन महासत्त्वेन । कुमारभद्रेण च बोधिसत्त्वेन महासत्त्वेन । अनूनेन च (नाम) बोधिसत्त्वेन महासत्त्वेन । मंजुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन । समन्तभद्रेन च बोधिसत्त्वेन महासत्त्वेन । सुदर्शनेन च बोधिसत्त्वेन महासत्त्वेन । भैषज्यराजेन च बोधिसत्त्वेन महासत्त्वेन । (वज्रसेनेन च बोधिसत्त्वेन महासत्त्वेन ।) एवंप्रमुखैर्द्वाषष्टिभिर्बोधिसत्त्वसहस्रैः
[४] द्वाषष्टिभिश्च देवपुत्रसहस्रैः तद्यथा अर्जुनेन च देवपुत्रेण । भद्रेण च देवपुत्रेण । सुभद्रेण च देवपुत्रेण । धर्मरुचिना च देवपुत्रेण । चन्दनगर्भेण च देवपुत्रेण । चन्दवासिना च देवपुत्रेण । चन्दनेन च देवपुत्रेण । चन्दनसेनेन च देवपुत्रेण । एवंप्रमुखैर्द्वाषष्टिभिर्देवपुत्रसहस्रैः ॥
[५] अष्टाभिश्च देवकन्यासहस्रैः तद्यथा मृदंगिन्या च देवकन्याया । प्रासादवत्या च देवकन्याया । महात्मसंप्रयुक्तया च देवकन्याया । वर्षश्रियाया च देवकन्याया । (पद्मश्रियाय च देवकन्याया ।) प्रजापतिवासिन्या च देवकन्याया । बलिन्या च देवकन्याया । सुबाहुयुक्तया च देवकन्याया । एवंप्रमुखैरष्टाभिर्देवकन्यासहस्रैः
[६] अष्टाभिश्च नागराजसहस्रैः तद्यथा अपलालेन च नागराज्ञा । एलपत्रेण च नागराज्ञा । तिमिङ्गिलेन च नागराज्ञा । कुंभसारेण च नागराज्ञा । कुंभशीर्षेण च नागराज्ञा । सुनन्देन च नागराज्ञा । सुशाखेन च नागराज्ञा । गवशीर्षेण च नागाराज्ञा । एवंप्रमुखैरष्टाभिर्नागराजसहस्रैस्
[७] ते सर्वे येन राजगृहं महानगरं येन गृद्ध्रकूटः पर्वतो येन च भगवांच्छाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रामदुपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिष्प्रदक्षिणीकृत्य भगवतः पुरतस्तस्थिरे ।
[८] (एतदवोचन् देशयतु भगवां धर्मं देशयतु सुगतः धर्मं यं श्रुत्वास्मे क्षिप्रमनुत्तरा सम्यक्संबोधिमभिसंबुद्ध्येम येन च सर्वसत्त्वानां कर्मावरणक्षयो भवेयात्) भगवांश्च तूष्णीभावेनाधिवासयति स्म ।
[९] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत्
[१०] बह्व्यो भगवन् देवकोट्योप्सरकन्याकोट्यो बोधिसत्त्वकोट्यः बह्व्यो भगवंच्छ्रावककोट्यः सन्निपतिताः सन्निषण्णा धर्मश्रवणाय । तत्साधु भगवन् तेषां यथासन्निपतितानां (सन्निषण्णानां) तथागतोऽर्हन् सम्यक्संबुद्धस्तथारूपं धर्मनयप्रवेशं देशयतु । यथैषां स्याद्दीर्घरात्रमर्थाय हिताय सुखाय देवानां च मनुष्यानां च यथारूपेण धर्मनयप्रवेशेन देशितेन वृद्धानां सत्त्वानां सह श्रवणेनैव सर्वकर्मावरणानि चैषां परिक्षयं गच्छेयुः दहराश्च सत्त्वाः कुशलेषु धर्मेष्वभियुज्यमाना विशेषामधिगच्छेयुर्न हीयेरन्न परिहीयेरन् कुशलैर्धर्मैः ॥
[११] एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत्- साधु साधु सर्वेशूर साधु खलु पुनस्त्वं सर्वशूर यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धमेतमर्थं परिप्रष्टव्यं मन्यसे । तेन हि त्वं सर्वशूर शृणु साधु च सुष्ठु च मनसिकुरु................. ते ।
[१२] एवं भगवन्निति सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवतः प्रव्यश्रौषाद् ।
[१३] भगवनस्यैतदवोचतस्ति सर्वशूर [(सद्धर्मपर्यायो । येन धर्मपर्यायेण सर्वसत्वानां पंचानन्तर्याणि कर्मावरणनि क्षयं ................... । तथान्ये च कर्मावरणानि क्षयं गच्छन्ते । क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुद्धयंतेःकतरो भगवं सद्धर्मपर्यायः
[१४] भगवानाहः) संघाटो नाम धर्मपर्याय । य एतर्हि जम्बुद्वीपे प्रचरिष्यति । यः कश्चित्सर्वशूरेमं संघाटं धर्मपर्यायं श्रोष्यति । तस्य पञ्चानन्तर्याणि कर्माणि परिक्षयं यास्यन्ति । अवैवर्तिकाश्च भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ ।
[१५] तत्किं मन्यसे सर्वशूर य इमं संघाटसूत्रं धर्मपर्यायं श्रोष्यति । यथैकस्य तथागतस्य [सत्कारं कृत्वा] पुण्यस्कन्धस्तथा तावन्तं पुण्यस्कन्धः स सत्त्व प्रसविष्यतीति । नैवं सर्वशूर द्रष्टव्यम् ।
[१६] सर्वशूरो बोधिसत्त्व आह । यथा कथं पुनर्भगवन् द्रष्टव्यम् ।
भगवानाह । यथा गंगानदीबालुकासमानां तथागतानामर्हतां सम्यक्संबुद्धानां (सत्कारं कृत्वा) पुण्यस्कन्धस्तावन्तं सर्वशूर ते सत्वाः पुण्यस्कन्धं प्रसविष्यन्ति । ये सर्वशूर इमं संघाटं धर्मपर्यायं श्रोष्यन्ति ते सर्वे अवैवर्तिका भविष्यन्ति (अनुत्तरस्यां सम्यक्संबोधेः) । सर्वे च तथागतं द्रक्ष्यन्ति । सर्वे च तथागतदर्शाविनो भविष्यन्ति । सर्वे चानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । अधृष्याश्च भविष्यन्ति मारेन पापीमता । ते च सर्वे तदेव कुशलधर्ममनुप्राप्स्यन्ति । ये सर्वशूर इमं संघाटसूत्रं श्रोष्यन्ति । ते सर्वे उत्पादनिरोधं ज्ञास्यन्ति ।
[१७] अथ ते सर्वे (यथासन्निपतिता बोधिसत्त्वा महाश्रावका) देवनागमनुष्याप्सरकन्याकोट्यस्तेन कालेन तेन समयेनोत्थायासनेभ्यः एकांसान्युत्तरासंगानि कृत्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलयः प्रणमय्य (ते सर्वे) भगवन्तं परिपृच्छन्ति स्म । कियन्तं भगवन्नेकस्य तथागतस्य (सत्कारं कृत्वा) पुण्यस्कन्धः
[१८] भगवानाह । शृणु कुलपुत्रा; एकस्य बुद्धस्य पुण्यस्कन्धस्य प्रमाणं तद्यथा महासमुद्रे उदकबिन्दवः यावन्तो जंबुद्वीपे परमाणवः यथा गंगानदीबालिकासमाः सत्त्वास्ते सर्वे दशभूमिप्रतिष्ठिता बोधिसत्त्वा भवेयुः यच्च तेषां बोधिसत्त्वानां पुण्यस्कन्धमतो बहुतरं पुण्यस्कन्धमेकस्य बुद्धस्य (पुण्यस्कन्धम्) । अतश्च ते सर्वशूर सत्त्वा बहुतरं पुण्यस्कन्धं प्रसविष्यन्ति य इमं संघाटं धर्मपर्यायं श्रोष्यन्ति । यावन्न शक्यं गणनायोगेन तस्य पुण्यस्कन्धस्य पर्यन्तमधिगन्तुम् । यस्य सर्वशूर तस्मिन् काले तस्मिन् समये एतद्वचनं श्रुत्वा महानुत्साहो भविष्यति स एवमप्रमेयं पुण्यस्कन्धं प्रसविष्यति ।
[१९] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- कतमे ते भगवन् सत्त्वा ये धर्मपरितृषिता भविष्यन्ति । एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत्- द्वाविमौ सर्वशूर सत्त्वौ धर्मपरितृषितौ । कतमौ द्वौ । यदुतैकः सर्वशूर सर्वसत्त्वसमचित्तः द्वितीयः सर्वशूर यो धर्मं श्रुत्वा सर्वसत्त्वानां समं प्रकाशयति (इमौ द्वौ धर्मपरितृषितौ) ।
[२०] सर्वशूरो बोधिसत्त्व आह - कतमं भगवन् धर्मं श्रुत्वा सर्वसत्त्वानां समप्रकाशना; भगवानाह - एकः सर्वशूर धर्मं श्रुत्वा बोधाय परिणामयंति । यदा च बोधाय परिणामयति तदा सर्वसत्त्वा धर्मपरितृषिता भविष्यन्ति । द्वितीयस्सर्वशूर यो महायानमवगाहयति स नित्यं धर्मपरितृषितो भवत् ।
[२१] अथ ते देवनागमनुष्याप्सरसकोट्य उत्थायासनाद्भगवतः पुरतः प्रांजलयो भूत्वा भगवन्तमेतदवोचन् वयं भगवन् धर्मपरितृषिताः परिपूरयतु भगवानस्माकं सर्वसत्त्वानां चाशा ।
[२२] अथ खलु भगवांस्तस्यां वेलायां स्मितं प्रादुष्चकारः अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद्येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत्- को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय ।
[२३] अथ खलु भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमामन्त्रयामास । ये सर्वशूर सत्त्वा इहागत्वा ते सर्वे अनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्यन्ते । सर्वे ते तथागतगोचरपरिनिष्पत्तये परिनिष्पद्यन्ते ।
[२४] सर्वशूरो बोधिसत्त्व आह - को भगवन् हेतुः कः प्रत्ययः यदेते सत्त्वा इहगत्वानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्यन्ते भगवानाह - साधु साधु सर्वशूर यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे । तेन हि सर्वशूर शृणु । इह सर्वशुर परिणामनविशेषो द्रष्टव्यः ।
[२५] भूतपूर्वं सर्वशूरातीतेऽध्वन्यसंख्येयैः कल्पैर्यदापि तेन कालेन तेन समयेन रत्नश्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोको उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् ।
[२६] तेन खलु पुनः सर्वशूर कालेनाहं माणावको भूवन् ये सत्त्वाः सांप्रतं मया बुद्धज्ञाने प्रतिष्ठपितास्ते सर्वे तेन कालेन तेन समयेन मृगा अभूवन् तेन च कालेन तेन समयेनाहमेवं प्रणिधानमकार्षीद्ये केचिन्मृगाः सांप्रतं दुःखेन परिपीडिताः एते सर्वे मम बुद्धक्षेत्र उपपद्येरन् सर्वांश्च तानहं बुद्धज्ञाने प्रतिष्ठापयेयं ते च मृगास्तद्वचनं श्रुत्वा एवं वाचमभाषन्त - एवं भवतु; तेन सर्वशूर कुशलमूलेनैते सत्त्वा इहगत्वानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते ॥
[२७] अथ खलु सर्वशुरो बोधिसत्त्वो महासत्त्वो भगवतोऽन्तिकात्तदुत्साहं श्रुत्वा भगवन्तमेतदवोचत्- कियन्तं भगवंस्तेषां सत्त्वानामायुष्प्रमाणं भविष्यति । भगवानाह । चतुरशीतिः कल्पसहस्राणि तेषां सत्त्वानामायुष्प्रमाणं भविष्यति ।
[२८] सर्वशूरो बोधिसत्त्व आह - कियन्तं भगवन् कल्पस्य प्रमाणम् । भगवानाह - शृणु कुलपुत्र । तद्यथापि नाम सर्वशूर कश्चिदेव पुरुषो नगरं कारयेद्द्वादशयोजनायामविस्तारमूर्ध्वेन त्रीणि योजनानि प्रमाणम् । तच्च नगरं तिलफलकैः परिपूर्णं कुर्यात्(स च पुरुष शिरजीवी स्यात्) अथ स पुरुषो वर्षशतस्यात्ययात्ततस्तिलफलकैः परिपूर्णान्नगरादेकं तिलफलकं बहिर्निक्षिपेदनेन पर्यायेण स पुरुषः सर्वाणि तानि तिलफलकानि क्षयं कुर्यात्पर्यवदानं कुर्यात्तच्च नगरममूलमप्रतिष्ठानां भवेन्न चाद्यापि च कल्पं क्षीयेत ॥
[२९] पुनरपरं सर्वशूर (अपरां ते उपमा करिष्याम्यस्यैवार्थस्य प्रसिद्धये ।) तद्यथापि नाम पर्वतो भवेत्पंचविंशद्योजनानि प्रमाणेन द्वादश योजनान्यूर्ध्वेन । अथ कश्चिदेव पुरुषस्तस्य पर्वतस्य पार्श्वे गृहं कारयेत्स दीर्घस्याध्वनो वर्षशतस्यात्ययेन काशिकेन वस्त्रेणैकवारा परिमार्जयेदेवं कृत्वा तस्य पर्वतस्य क्षयो भवेन्न च कल्पं क्षीयेत । एतत्सर्वशूर कल्पस्य प्रमाणम् ।
[३०] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद्(एकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणाम्य) भगवन्तमेतदवोचत्- एकपरिणामनया भगवन्नेवं बहु पुण्यस्कन्धं प्रसवति । यदुताशीतिः कल्पान् सुखमायुष्प्रमाणं भविष्यति । कः पुनर्वादो यस्तथागतशासने बहुतरमधिकारं करिष्यति । तस्य कियन्तमायुष्प्रमाणं भविष्यति ।
[३१] भगवानाह - शृणु कुलपुत्र य इमं संघाटं सूत्रं श्रोष्यति । तस्य चतुरशीतिः कल्पसहस्राण्यायुष्प्रमाणं भविष्यति । कः पुनर्वादो यः संघाटं सूत्रं लिखापयिष्यति वाचयिष्यति । स सर्वशूरः सत्त्वो बहुतरं पुण्यस्कन्धं प्रसविष्यति । यः सर्वशूर प्रसन्नचित्तः संघाटं सूत्रमध्याशयेन नमस्करिष्यति स पंचनवति कल्पां जातौ जातिस्मरो भविष्यति । षष्टि कल्पसहस्राणि राजा चक्रवर्ती भविष्यति । दृष्टेव धर्मे सर्वशूर सर्वेषां प्रियो भविष्यति मनापः न स सर्वशूर शस्त्रेण कालं करिष्यति । प्रियो भविष्यति मनापः न स सर्वशूर शस्त्रेण कालं करिष्यति । न विषेण (नोदकेन नाग्नौ) कालं करिष्यति । काखोर्दं चास्य न क्रमिष्यति । मरणकालसमये चरिमनिरोधे वर्तमाने नवति बुद्धाकोट्यः संमुखं द्रक्ष्यति । ते च सर्वशूर बुद्धा भगवन्त आश्वासयन्ति । मा भैः सत्पुरुष त्वया संघाटं सूत्रं महाधर्मपर्यायं सुभाषितं श्रुतं श्रुत्वा इयान् पुण्यस्कन्धः प्रसूतः तेषां पंचनवति बुद्धकोट्यः पृथक्पृथग्लोकधातुषु बुद्धा भगवन्तो व्याकरिष्यन्ति । कः पुनर्वादः सर्वशूर य इमं संघाटसूत्रं महाधर्मपर्यायं सकलसमाप्तं विस्तरेण श्रोष्यति । (लेखयिष्यति वाचयिष्यति भावयिष्यति ॥)॥
[३२] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- अहं भगवन् संघाटसूत्रं महाधर्मपर्यायं श्रोष्यामि । कियन्तं (अहं) भगवन् पुण्यस्कन्धं प्रसविष्यामि । भगवानाह - यावन्तो गंगानदीबालिकासमानां बुद्धानां भगवतां (सत्कारं कृत्वा) पुण्यस्कन्धस्तावन्तं सर्वशूर स सत्त्वः पुण्यस्कन्धं प्रसविष्यति ।
[३३] सर्वशूरो बोधिसत्त्व आह - यदहं भगवन् संघाटसूत्रं धर्मपर्यायं शृणोमि नाहं भगवंस्तृप्तिं संजानामि । भगवानाह - साधु साधु सर्वशूर यस्त्वं धर्माणां तृप्तिं न संजानानि । अहमपि सर्वशूर धर्माणां तृप्तिं न संजानामि । कः पुनर्वादः सर्वशूर यद्बालपृथग्जनास्तृप्तिं ज्ञास्यन्ति ।
[३४] यः कश्चित्सर्वशूर कुलपुत्रो वा कुलदुहिता वा महायाने प्रसादं जनयिष्यन्ति । स कल्पसहस्रं विनिपातं न गमिष्यति । पंच कल्पसहस्राणि तिर्यक्षुर्नोपपत्स्यते । द्वादश कल्पसहस्राणि दुर्बुद्धिं स भविस्यति । अष्टादश कल्पसहस्राणि प्रत्यन्तिमे जनपदे नोपपत्स्यते । विंशति कल्पसहस्राणि प्रदानशूरो भविष्यति । पंचविंशत्कल्पसहस्राणि देवलोके उपपत्स्यते । पंचत्रिंशत्कल्पसहस्राणि ब्रह्मचर्यं चरिष्यति । स चत्वारिंशत्कल्पसहस्राणि निष्क्रान्तगृहावासो भविष्यति । पंचाशत्कल्पसहस्राणि धर्मधरो भविष्यति । पंचषष्टिः कल्पसहस्राणि मरणानुस्मृतिं भावयिष्यति । तस्य सर्वशूर कुलपुत्रस्य वा कुलदुहितुर्वा न किंचित्पापकानि कर्माणि संवेत्स्यन्ते । न च तस्य मारः पापीमानवतारं लप्स्यते । न जातु मातुकुक्षावुपपत्स्यते । ये सर्वशूर इमं संघाटं धर्मपर्यायं श्रोष्यन्ति । ते यत्र यत्रोपपत्स्यन्ते तत्र तत्र पंचनवत्यासंख्येयैः कल्पैर्विनिपातं न गमिष्यन्ति । अशीतिः कल्पसहस्राणि श्रुतधरा भविष्यन्ति । कल्पशतसहस्रं प्राणातिपातात्प्रतिविरता भविष्यन्ति नवानवति कल्पसहस्राणि मृषावादात्प्रतिविरता भविष्यन्ति । त्रयोदश कल्पसहस्राणि पिशुनवचनात्प्रतिविरता भविष्यन्ति । दुर्लभास्ते सर्वशूर सत्त्वा य इमन् धर्मपर्यायं श्रोष्यन्ति ।
[३५] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणाम्य भगवन्तमेतदवोचत्- कियन्तं भगवं(स्ते सत्त्वा) अपुण्यस्कन्धं प्रसविष्यति । य इमन् धर्मपर्यायं प्रतिक्षेप्स्यन्ति । भगवानाह - बहु सर्वशूर सद्धर्मप्रतिक्षेपादपुण्यस्कन्धं प्रसविष्यति ।
[३६] सर्वशूर आह - कियन्तं भगवन् सत्त्वानां पापकं कर्मस्कन्धं भविष्यति । भगवानाह - अलमलं सर्वशूर मा मे पापकं कर्मस्कन्धं परिपृच्छः अपि तु सर्वशूर शृणु निर्देक्ष्यामि तेषां सद्धर्मप्रतिक्षेपकानां पापकमकुशलस्कन्धम् । यावन्तं ते पापकमकुशलस्कन्धं प्रतिगृहीष्यन्ति । य इमन् धर्मपर्यायं प्रतिक्षिपन्ति । यश्च सर्वशूर द्वादशगंगानदीबालिकासमानान् तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके दुष्टचित्तमुत्पादयेद्यश्चेमं संघाटसूत्रं प्रतिक्षिपेदयं ततो बहुतरं पापकम् (कुशलस्कन्ध प्रादुर्भविष्यति । अतः सर्वशूर-म्-) अकुशलस्कन्धं प्रसविष्यन्ति । अतस्ते सर्वशूर सद्धर्मप्रतिक्षेपका सत्त्वाः बहुतरमकुशलस्कन्धं प्रसविष्यन्ति ये महायाने आघातचित्तमुत्पादयिष्यन्ति । दग्धास्ते सर्वशूर सत्त्वा दग्धा एव ।
[३७] सर्वशूर आह - न ते भगवन् सत्त्वा शक्यं मोचयितुम् । भगवानाह - शृणु सर्वशूर; न शक्या मोचयितुं तद्यथापि नाम सर्वशूर कश्चिदेव पुरुषः कस्यचित्सत्त्वस्य शीर्षंच्छिंद्यादथ स पुरुषः केनचिद्भैषज्येन प्रलिंपेन माक्षिकेन वा शर्करया वा । गुडेन वा घृतेन वा तैलेन वा तं शीर्षं प्रलेपयेत्तत्किं मन्यसे सर्वशूर शक्यं स सत्त्वः पुनरप्युत्थापयितुम् ।
[३८] सर्वशूरो बोधिसत्त्व आह - न शक्यं भगवन्न शक्यं सुगत । भगवानाह - (एवमेव सर्वशूर न शक्य[ं]ते स सत्त्वो मोचयितुं बहुभिरुपायैर्यो महायानस्याघ्[आत]चित्तम् [उ]त्[प्]आदयिति ॥)॥
[३९]पुनरपरं सर्वशूर । तद्यथापि नाम द्वितीयः पुरुषो भवेत्स तीक्ष्णेन शस्त्रेणापरस्य सत्त्वस्य प्रहारं दद्यात्स न शक्नुयादेकप्रहारेण जीविताद्व्यवरोपयितुम् । किं चापि सर्वशूर ब्रणमुत्पद्येत । अथ च पुनर्भैषज्ययोगं कर्तव्यं तदा ब्रणात्परिमुच्यते । यदा परिमुक्तो भवति तदा दुःखं स्मरति । अहमिदानीञ्जानामि न कदाचित्पुनः पापकमकुशलं कर्माभिसंस्कारं करिष्यामि ।
[४०] एवमेव सर्वशूर स सद्धर्मप्रतिक्षेपकः पुरुषो यदा नरके दुःखं स्मरति तदा सर्वपापं परिवर्जयति । यदा सर्वपापं परिवर्जयति । तदा सर्वधर्मा आमुखीकरिष्यति (यदा) सर्वधर्मा आमुखीकृत्वा (तदा) सर्वकुशलधर्मपारिपूरिङ्करिष्यति । तद्यथापि नाम सर्वशूर मृतस्य पुरुषस्य मातापितरौ शोचन्ति परिदेवन्ति न च शक्नुवन्ति त्रातुमेवमेव सर्वशूर बालपृथग्जनाः सत्त्वा न शक्नुवन्त्यात्महितं परहितं वा कर्तुं निराशा इव मातापितर गता इति । एवमेव सर्वशूर निराशा भवन्ति ते सत्त्वा मरणकालसमये ।
[४१] द्वाविमौ सर्वशूर सत्त्वानां नैराश्यौ मरणकालसमये । कतमौ द्वौ । यदुतैकः सत्त्वः पापं कर्म करोति कारापयति वा । द्वितीयः सर्वशूर सद्धर्मं प्रतिक्षिपति । इमौ द्वौ सत्त्वानां नैराश्यौ मरणकालसमये ।
[४२] सर्वशूरो बोधिसत्त्व आह - का भदन्त भगवंस्तेषां सत्त्वानां गतिः कोऽभिसंपरायो भवति । भगवानाह - अनन्ता गतिः सर्वशूर सद्धर्मप्रतिक्षेपकानां सत्त्वानामनन्तोऽभिसंपरायः कल्पमेव ते सर्वशूर रौरवे महानरके दुःखं वेदनां वेदयिष्यन्ति । कल्पं संघाते । कल्पं तपने कल्पं प्रतापने । कल्पं कालसूत्रे महानरके । कल्पं महावीचौ महानरके । कल्पं रोमहर्षे महानरके । कल्पं हहे महानरके । (कल्पं तपने महानरके) इमेष्वष्टसु महानरकेषु सर्वशूर अष्टौ कल्पाः सद्धर्मप्रतिक्षेपकैः सत्त्वैर्दुःखमनुभवितव्यम् ॥
[४३]अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- दुःखं भगवन् दुःखं सुगत नोत्सहामि श्रोतुम् । अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषतः ॥
(१) यस्त्वं नोत्सहसे श्रोतुमिदं वाक्यं महाभयम्
नरके यथैकान्तदुःखे सत्त्वा विन्दन्ति वेदनां
(२) यत्करोति शुभं कर्मं सुखं तस्य भविष्यति ।
यत्करोत्यशुभं कर्म दुःखमेव भविष्यति ।
(३) जातस्य मरणं दुःखं शोकं दुःखोऽथ बन्धनं
नित्यं दुःखं हि बालस्य सुखहेतो न वेत्ति यः
(४) पण्डितानां सुखं यो वै स्मरते बुद्धमुत्तमम्
प्रसन्नाश्च महायाने न ते यास्यन्ति दुर्गतिम्
(५) एवमेव सर्वशूर पूर्वकर्म प्रचोदितम् ।
अल्पं हि कृयते कर्म अनन्तं भुज्यते फलम् ।
(६) बीजमल्पं यथा वाप्य प्रभूतं लभते फलं
बुद्धक्षेत्र तु सुक्षेत्रे उप्ताद्बीजाद्महाफलं
(७) पण्डितानां सुखं भवति रमन्ते जिनशासने ।
विवर्जयन्ति पापानि कुर्वन्ति कुशलं बहु;
(८) वालमात्रं प्रदास्यन्ति ये दानं मम शासने ।
अशीतिः कल्पसहस्राणि महाभोगा महाधनाः
(९) यत्र यत्रोपपद्यन्ते नित्यं दानं स्मरन्ति ते ।
एवं महाफला ह्येषा गंभीरा बुद्धदक्षिणाः ॥
[४४] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- कथं भगवन् भगवतः शासने धर्मो ज्ञातव्यः कथं भगवन् संघाटं सूत्रं धर्मपर्यायं श्रुत्वा कुशलमूलं परिगृहीतं भविष्यति । भगवानाह - यः सर्वशूर द्वादशगंगानदीबालिकासमांस्तथागतानर्हतः सम्यक्संबुद्धान् सर्वसुखोपधानैरुपतिष्ठेत । यश्चेमं संघाटसूत्रं धर्मपर्यायं शृणुयादेवमेव तस्य पुण्यस्कन्धो ज्ञातव्यः ।
[४५] सर्वशूरो बोधिसत्त्व आह - कथं भगवन् कुशलमूलपरिपूरिः कर्तव्याः एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत्- यत्सर्वशूर कुशलमूलं तत्तथागतसमं ज्ञातव्यं सर्वशूर आह - कतमच्च भगवन् कुशलमूलं तथागतसमं ज्ञातव्यम् । भगवानाह - धर्मभाणकः सर्वशूर तथागतसमो ज्ञातव्यः सर्वशूर आह - कतमो भगवन् धर्मभाणकः भगवानाह - यः संघाटं सूत्रं श्रावयति स धर्मभाणकः
[४६] सर्वशूरो बोधिसत्त्व आह - ये भगवन् संघाटसूत्रं धर्मपर्यायं श्रोष्यन्ति । ते ईदृशं पुण्यस्कन्धं प्रसविष्यन्ति । कः पुनर्वादो ये लिखिष्यन्ति (स्वयं वा लिखिष्यन्ति) वाचयिष्यन्ति । कियन्तं ते भगवन् पुण्यस्कन्धं प्रसविष्यन्ति । भगवानाह - शृणु सर्वशूर । तद्यथा चतुर्षु दिक्ष्वेकैकस्यान् दिशि द्वादशगंगानदीबालिकासमांस्तथागतानर्हतः सम्यक्संबुद्धा द्वादशगंगानदीबालिकासमान् कल्पानवतिष्ठन्तो धर्मं देशयेयुरस्य संघाटसूत्रस्य धर्मपर्यायस्य पुण्यस्कन्धं वर्णयेयुर्लेखयतस्तस्य पुण्यस्कन्धस्य न शक्यं पर्यन्तमधिगन्तुं वाचया वा व्याहर्तुम् । अष्टाचत्वारिङ्शद्भिरपि गंगानादिबालिकासमैर्बुद्धैर्भगवद्भिर्न शक्यं लिख्यमानस्य यत्पुण्यस्कन्धं तद्व्याहर्तुं कः पुनर्वादो ये वाचयिष्यन्ति चिन्तयिष्यन्ति वा ये वा धर्मध्याना भविष्यन्ति ।
[४७] सर्वशूरो बोधिसत्त्व आह - कियन्तं भगवन् वाचयमानाः पुण्यस्कन्धं प्रसविष्यन्ति ॥ अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषताः ॥
(१०) चतुष्पदायां गाथायां वाचितायां तु यच्छुभम् ।
चतुरशीति गंगाया बालिका स्युः समा जिनाः
(११) ते वाचितस्येह यत्पुण्यं कथयेयुरविष्ठिताः
न च क्षीयेत तत्पुण्यं यावद्व्याकरणं भवेत्
(१२) बुद्धानां कोटयोऽशीतिस्तिष्ठेयुः कल्पतात्तकान्
महायानगुणाः सर्वे वर्णयेयुर्दशो दिशः
(१३) संघाटस्य च यत्पुण्यं तत्क्षयं नैव च व्रजेत्
बुद्धानान् दुर्लभा एवमनन्ता धर्मदेशनाः
[४८] तेन खलु पुनः कालेन तेन समयेन चतुरशीतिर्देवपुत्रकोटिशतसहस्राणि येन तथागतो येन च संघाटसूत्रं धर्मपर्यायनिर्देशं तेनांञ्जलयः प्रणाम्य भगवन्तमेतदवोचन् - साधु साधु भगवन् येन भगवता ईदृशं धर्मनिधानं जंबुद्वीपे स्थापितम् ।
(४९) अन्ये चाष्टादश कोटीसहस्राणि निग्रन्थानां येन भगवाम्स्तेनोपसंक्रामनुपसंक्रम्य भगवन्तमेवमाहुः जय भोः श्रमणो गौतम; भगवानाह - तथागतो नित्यमेव जयति । भो निग्रन्थतीर्थिकाः कथं युष्माकं तीर्थिकानां जयं तेऽवोचन् जयतु जयत्वेव श्रमणो गौतम; भगवानाह - नाहं युष्माकं जयं पश्यामि । आह च -
(१४) विपरीता स्थिता यूयं भविष्यति जयः कथं
यूयं शृणुथ निग्रन्था वक्ष्यामि भवतां हितं
(१५) बालबुद्धेः सुखं नास्ति किं जयं वो भविष्यति ।
दर्शयिष्याम्यहं मार्गं गंभीरं बुद्धचक्षुषाः ॥
[५०] अथ ते निग्रन्था भगवतोऽन्तिके क्रुद्धा अप्रसादचित्तमुत्पादयामासुः तेन खलु पुनः कालेन तेन समयेन शक्रो देवानामिन्द्रो (तस्यां पर्षदिः सन्निपतितो भूत्सन्निषण्णः स तानन्यतीर्थिकानिग्रन्थां भगवतोऽन्तिके क्रुद्धानभिवीक्ष्य) वज्रं पराहनत्
[५१] अथ तेऽष्टादश कोट्यो निग्रन्थानां भीतास्त्रस्ता महाता दुःखदौर्मनस्येनार्ता अस्रुकण्ठा परिदेवन्ति । तथागतश्च स्वकमात्मानमन्तर्धितं दर्शयति स्म ।
अथ ते निग्रन्था अस्रुमुखा रुदन्ति तथागतमपश्यन्तश्च गाथां बभाषिरे ।
(१६) नास्ति कश्चिदिह त्राणां न माता न पिता तथा ।
अतवीमिह पश्याम शून्यागारां निरालयाम् ।
(१७) उदकं चैव नैवास्ति न वृक्षा न च पक्षीणाः
जनं चात्र न पश्याम अनाथा दुःखवेदनां
(१८) वेदयामो महाघोरामपश्यन्तश्तथागतं
(को नु स्याच्छरणं नाथो येन त्रायेन महाभयात् ॥)॥
[५२] तेन खलु पुनः कालेन तेन समयेन तेऽष्टादश कोट्यो निग्रन्थानामुत्थायायनेभ्यो जानुद्वयं भूमौ निपात्य शब्दमुदीरयन्ति घोषमनुश्रावयन्ति ।
(१९) तथागतः कारुणिकः संबुद्धि द्बिपदोत्तमः
कुरुष्व हितमस्माकं त्रायस्व कृपणं जगत्
[५३] अथ भगवान् स्मितं प्रादुष्कृत्वा सर्वशूरं बोधिसत्त्वं महासत्त्वमामन्त्रयति । गच्छ सर्वशूर निग्रन्थानामन्यतीर्थिकानान् धर्मन् देशय । एवमुक्ते सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- ननु भगवन् कालपर्वताः सुमेरोः पर्वतराजस्य शिरसा प्रणमन्ति । तिष्ठति तथागतेऽहं धर्मन् देशयामि । भगवानाह - अलं कुलपुत्र बहु तथागतानामुपायकौशल्यं गच्छ सर्वशूर व्यवलोकय दश दिशि लोकधातून् पश्य क्व तथागतं पश्यसि । कुत्र वा तथागतस्यासनं प्रज्ञप्तं (पश्यसि) । अहमेव सर्वशूर स्वयं निग्रन्थानामन्यतीर्थिकानां धर्मन् देशयिष्यामि ।
[५४] सर्वशूरो बोधिसत्त्व आह - कस्य भदन्त भगवनृद्ध्यानुभावेन गच्छामि । स्वऋद्धेर्वा । अथ वा तथागतस्य ऋद्ध्यानुभावेन गच्छामि । भगवानाह - स्वकेन सर्वशूर ऋद्धिबलाधिष्ठानेन गच्छः पुनरेव सर्वशूर तथागतस्य ऋद्ध्यानुभावेनागच्छः अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद्भगवन्तं प्रदक्षिणिकृत्य तत्रैवान्तर्धितः ॥
[५५] अथ खलु भगवांस्तेषामन्यतीर्थिकानां धर्मन् देशयति । जातिर्मार्षा दुःखं जातिरेव दुःखं जातस्य सतो बहूनि भयान्युत्पद्यन्ते । जातस्य व्याधिभयमुत्पद्यते व्याधेर्जराभयमुत्पद्यते । जीर्णस्य मृत्युभयमुत्पद्यते । त आहुः कतमद्भगवाञ्जातस्य भयं
[५६] भगवानाह - जातं जातमिति नाम । जातस्य पुरुषस्य बहूनि भयाणि जायन्ते राजभयं जायते चोरभयं जायते । अग्निभयं जायते । विषभयं जायते । उदकभयं जायते । वायुभयं जायते । आवर्तभयं जायते । स्वकृतानां कर्मणां भयं जायते । एवं भगवता जातिनिदानं बहुप्रकारं धर्मन् देशयतः
[५७] तेन कालेन तेन समयेन तेषामन्यतीर्थिकानां निग्रन्थानां (श्रुत्वा) महासन्त्रासो भवदेवं चाहुः न भूयो वयं भगवन्नुत्सहामहे जतिदुःखमनुभवितुं
[५८] अस्मिन् खलु पुनः संघाटे धर्मपर्याये भगवता भाष्यमाणे तेऽष्टादश कोट्यो निग्रन्था अन्यतीर्थिकाः परिनिष्पन्ना अभूवन्ननुत्तरस्याः सम्यक्संबोधेः स्वकाये चाष्टादश बोधिसत्त्वसहस्राः दशमहाभूमिप्रतिष्ठिताः । सर्वे नानार्धिविकुर्वितानि (स्वकायमनेकप्रकारं) सन्दर्शयामासुः तद्यथा अश्वरूपम् । हस्तिरूपम् । सिंहरूपं व्याघ्ररूपं गरुडरूपं सुमेरुरूपं नन्दिकरूपं केचिद्वृक्षरूपम् । ते सर्वे पद्मासने पर्यंकेन निषीदन्ति । नव कोटीसहस्राणि बोधिसत्त्वानां भगवतो दक्षिणे पार्श्वे निषीदन्ति । नव कोटीसहस्राणि (बोधिसत्त्वानां) भगवतो वामे पार्श्वे निषीदन्ति । तथागतस्तु नित्यसमाहितः उपायकौशल्येन सत्त्वानां धर्मन् देशयन् संदृश्यते ।
[५९] यावत्सप्तमे रातृदिवसेन तथागतः पाणितलं प्रसारयति । जानाति च भगवान् यः सर्वशूरो बोधिसत्त्वो महासत्त्वस्तस्याः पद्मोत्तराया लोकधातोरिहागच्छतीति । यदा च सर्वशूरो बोधिसत्त्वो महासत्त्वो गतस्तदा सप्त रात्रिन्दिवसैस्तां पद्मोत्तरां लोकधातुमनुप्राप्तः स्वऋद्धिबलाधिष्ठानेन । यदा च भगवान् बहुं प्रसारयति । तदा सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवतः पुरत स्थितः भगवन्तं सप्तकृत्प्रदक्षिणीकृत्य भगवतोऽन्तिके चित्तं प्रसादयमानो येन तथागतस्तेनांजलिं प्रणाम्य भगवन्तमेतदवोचत्-
[६०] गतोऽस्मि भगवन् दशसु दिक्षु सर्वलोकधातुषु दृष्टानि मे भगवन्नवानवति कोटीसहस्राणि (लोकधातुनाम् । दृष्टानि च मे भगवन्नवति कोटीसहस्राणि) बुद्धक्षेत्राणामेकया ऋद्ध्याः द्वितीयया ऋद्ध्या बुद्धानां भगवतां कोटीशतसहस्रम् ।

[६१] यावत्सप्तमे रातृदिवसे तां पद्मोत्तरां लोकधातुमनुप्राप्तः अत्रान्तरमक्षोभ्यकोटीसहस्रं बुद्धक्षेत्राणां दृष्टं ततोऽहं तेषां बुद्धानां भगवतामृद्धिं पश्यामि । द्वानवतिषु बुद्धक्षेत्रकोटीनयुतशतसहस्रेषु तथागता धर्मन् देशयन्ति । अशीतिषु कोटीशतसहस्रेषु बुद्धक्षेत्रेषु तत्रैव दिवसे अशीति कोटीशतसहस्राणि तथागतानामर्हतां सम्यक्संबुद्धानां लोक उत्पन्नानि । सर्वांश्च तानहं तथागतान् वन्दित्वा पुनरेव प्रक्रान्तः
[६२] तत्रैव दिवसे भगवन्नेकोनचत्वारिंशत्सु बुद्धक्षेत्रकोटीसहस्राण्यतिक्रम्य सर्वेषु च तेष्वेकूनचत्वारिंशत्सु बुद्धक्षेत्रकोटीसहस्रेष्वेकूनचत्वारिंशत्कोटीसहस्राणि बोधिसत्त्वानां निष्क्रम्य तत्रैव दिवसेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः वन्दिताश्च मे भगवन् ते तथागता अर्हन्तः सम्यक्संबुद्धास्तृगुप्तं प्रदक्षिणीकृत्य ऋद्ध्या चान्तर्धितः
[६३] षष्टिकोटिषु भगवन् बुद्धक्षेत्रेषु बुद्धान् भगवतः पश्यामि । वन्दितानि च मे भगवन् तानि बुद्धक्षेत्राणि ते च बुद्धा भगवन्तस्ततश्चाहं प्रक्रान्तम् ।
[६४] अन्येषु च भगवन् कोटीशतेषु बुद्धक्षेत्रेषु तथागताः परिनिर्वायमाणान् पश्यामि । वन्दिताश्च मे ते तथागतास्ततश्चाहं प्रक्रान्तः ।
[६५] दृष्टं च मे भगवन्नपरेषु पंचनवतिकोटिषु बुद्धक्षेत्रेषु सद्धर्ममन्तर्धायन्तम् । चित्तायासो मे भगवंस्तत्र जातः अस्रूणि च प्रमुंचामि । अन्यांश्च रोदमानान् बहून् देवनागयक्षराक्षसान् कामरूपिनश्च महता शोकशल्यसमर्पितान् पश्यामि । एवमपरं बुद्धक्षेत्रं निरवशेषं दग्धं ससमुद्रं ससुमेरुं सपृथिवीप्रदेशं तमपि भगवन् वन्दित्वा निराशीभूतः
[६६] प्रक्रान्तोऽस्मि यावदहं भगवन् तां पद्मोत्तरां लोकधातुमनुप्राप्तः तस्यां च भगवन् पद्मोत्तरायां लोकधातौ पंच कोटीशतसहस्राण्यासनानां प्रज्ञप्तान् पश्यामि । दक्षिणस्यान् दिशि कोटीशतसहस्राण्यासनानां प्रज्ञप्तान् पश्यामि । वामेन पार्श्वेन कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि । पूर्वस्यान् दिशि कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि । पश्चिमायान् दिशि कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि । ऊर्ध्वायां दिशि कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि ।
[६७] सर्वाणि च भगवन् तान्यासनानि सप्तरत्नमयानि । सर्वेषु च तेष्वासनेषु तथागता अर्हन्तः सम्यक्संबुद्धा निषण्णा धर्मन् देशयन्ति । तत्राहं भगवन्नाश्चर्यप्राप्तस्तांस्तथागतानभिवन्द्य परिपृच्छामि । किन्नामेयं भगवन् लोकधातुः । ते तथागता आहुः पद्मोत्तरा नामेयं कुलपुत्र लोकधातुः
[६८] ततोऽहं भगवंस्तान् प्रदक्षिणीकृत्य पुनरपि तांस्तथागतान् परिपृच्छामि - किन्नाम इह बुद्धक्षेत्रे तथागतः ते तथागता आहुः पद्मगर्भो नाम कुलपुत्र तथागतोऽर्हन् सम्यक्संबुद्धो य इह बुद्धक्षेत्रे बुद्धकृत्यं करोति । ततस्तानहमेतदवोचत्- बहूनि तथागतकोटीनियुतशतसहस्राणि दृश्यन्ते । तन्न जानामि कतम स पद्मगर्भो नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति । ते तथागता आहुः वयन् ते कुलपुत्र तं पद्मगर्भं तथागतं दर्शयिष्याम । यः स पद्मगर्भो नाम तथागतोऽर्हन् सम्यक्संबुद्धः
[६९] अथ तत्क्षणादेव ते सर्वे तथागतकाया अन्तर्धिताः सर्वे च बोधिसत्त्वरूपाणि सन्दृश्यन्ते । एकमेव तथागतं पश्यामि । यथाहं तस्य तथागतस्य पादौ शिरसाभिवन्द्य पुरतः स्थितः आसनं च प्रादुर्भूतम् । स च मां तथागत एवमाह । निषीद कुलपुत्रात्र आसने ।
[७०] अथाहं तस्मिन्नासने निषण्णः तदा च भगवन्ननेकान्यासनानि प्रादुर्भूतानि । न च कश्चित्तेष्वासनेषु निषण्णं पश्यामि । (तदहं तथागतं परिपृच्छामि । न भगव एष्वासनेषु एकमपि सत्त्वं निषण्णं पश्यामि ।) स भगवान्मामेवमाह । नाकृतकुशलमूलाः कुलपुत्र सत्त्वा एष्वासनेषु शक्नुवन्ति निषत्तुं तमहं तं तथागतमिदमवोचत्- कीदृशं भगवन् सत्त्वाः कुशलमूलं कृत्वा । एष्वासनेषु निषीदन्ति । स मं भगवन्नेवमाह । शृणु कुलपुत्र ये सत्त्वाः संघाटं सूत्रं धर्मपर्यायं श्रोष्यन्ति । ते तेन कुशलमूलेन एष्वासनेषु निषत्स्यन्ते । कः पुनर्वादो ये लिखिष्यन्ति वाचयिष्यन्ति । त्वया सर्वशूर संघाटं धर्मपर्यायं श्रुतं यस्त्वमत्रासने निषीदित । अन्यत्र कस्तवेह बुद्धक्षेत्रेऽभ्यंन्तरप्रवेशं दद्यात्
[७१] एवमुक्ते तेन भगवता अहं तं भगवन्तमेतदवोचत्- कियन्तं भगवन् स सत्त्वः पुण्यस्कन्धं प्रसविष्यति य इमं संघाटं धर्मपर्यायं श्रोष्यति । अथ स भगवां पद्मगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां स्मितं प्रदुष्कार्षीत्तदहं भगवन् स्मितकारणं तं भगवन्तं परिपृष्टवान् को भगवन् हेतुः किं कारणं यत्तथागतः स्मितं प्रादुष्करोति ।
[७२] स भगवानाह । शृणु कुलपुत्र सर्वशूरः (बोधिसत्त्वो महासत्त्वो महास्थामप्राप्तः) तद्यथापि नाम कुलपुत्र कश्चिदेव राजा भवेच्चक्रवर्त्ती चतुर्द्वीपेश्वरः स चतुर्षु द्वीपक्षेत्रेषु तिले वापयेत्तत्किं मन्यसे सर्वशूर बहूनि तस्य बीजान्युत्पद्येरन् सर्वशूर आह । बहूनि भगवन् बहूनि सुगत ।
[७३] स भगवानाह । ततः सर्वशूर कश्चित्सत्त्वो भवेद्यस्तानि तिलफलकान्येकराशिं कुर्यादन्यतराः पुरुषस्ततस्तिलफलराशेर्चैकं तिलफलकं गृह्य द्वितीये पार्श्वे स्थापयेत्तत्किं मन्यसे सर्वशूर शक्नुयात्स सत्त्वस्तानि तिलफलकानि गणयितुं वोपमां कर्तुं सर्वशूरो बोधिसत्त्व आह । नो हीदं भगवन्नो हीदं सुगत; न शक्यं तानि तिलफलकानि गणयितुं
[७४] भगवानाह - एवमेव सर्वशूरास्य संघाटस्य धर्मपर्यायस्य यत्पुण्यस्कन्धं तन्न शक्यमनुपम्यं कर्तुमन्यत्र तथागतेन । तद्यथा सर्वशूर यावन्तस्ते तिलफलकास्तावान्तस्तथागता भवेयुः ते सर्वेऽस्य संघाटस्य धर्मपर्यायस्य श्रवणकुशलमूलपुण्यं परिकीर्तयेयुर्न चोपमयापि पुण्यस्य क्षयो भवेत्कः पुनर्वादो यो लिखिष्यति । वाचयिष्यति ।
[७५] सर्वशूरो बोधिसत्त्व आह । कियन्तं भगवन् लिखतः पुण्यं भवति य इमन् धर्मपर्यायं लिखयति । भगवानाह । शृणु कुलपुत्र । तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषो भवेद्यस्त्रिसाहस्रमहासाहस्र्यां लोकधातौ तृणं वा काष्ठं वा तं सर्वमंगुलिमात्रंच्छिन्द्यात्
[७६] द्वितीयामुपमां शृणु सर्वशूर; तद्यथापि नाम यावन्तस्त्रिसाहस्रमहासाहस्र्यां लोकधातौ शिलान् वा प्रपातान् वा मृत्तिकान् वा परमाणुरजो वा ते सर्वे राजानश्चक्रवर्तिनो भवेयुश्चतुर्द्वीपेश्वराः सप्तरत्नसमन्वागताः तत्किं मन्यसे सर्वशूर यस्तेषां तावतां राज्ञां चक्रवर्तिनां पुण्यस्कन्धं न शक्यं तस्योपमां कर्तुं सर्वसत्त्वैरपि । सर्वशूरो बोधिसत्त्व आह । न शक्यं भगवन्नन्यत्र तथागतात्
[७७] भगवानाहैवमेव सर्वशूर न शक्यं संघाटसूत्रस्य धर्मपर्यायस्य लिख्यमानस्य पुण्यस्कन्धोपमां कर्तुम्यावन्तस्तेषां राज्ञां चक्रवर्तिनां पुण्यमतो बहुतरं पुण्यं प्रसवति य इतो धर्मपर्यायादेकाक्षरमपि लिखित्वा स्थापयेद्बहुतरं तस्य पुण्यं वदामि न त्वेव तेषां राज्ञां चक्रवर्तिनाम् ।
[७८] एवमेव सर्वशूर बोधिसत्त्वस्य महासत्त्वस्य महायानसद्धर्मधारकस्य प्रतिपत्तिस्थितस्य यत्पुण्यं तन्न शक्यं राजभिश्चक्रवर्तिभिरभिभवितुमेवमेवास्य संघाटस्य धर्मपर्यायस्य लेखनाद्यत्पुण्यं तन्न शक्यमुपमां कर्तुम् । इमं सर्वशूर संघाटं सूत्रं पुण्यनिधानानि दर्शयति । सर्वक्लेशानुपशमयति । सर्वधर्मोल्कां ज्वालयति । सर्वमारान् पापीमतः पराजयति । सर्वबोधिसत्त्वभवनान्युज्वालयति । सर्वधर्मनिर्हारानभिनिर्हरति ।
[७९] एवमुक्ते सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- इह भगवन् ब्रह्मचर्यं परमदुष्करचर्याः तत्कस्य हेतोः दुर्लभा भगवंस्तथागतचर्याः एवमेव दुर्लभा ब्रह्मचर्याः यदा च ब्रह्मचर्यं चरिष्यति । तदा तथागतं संमुखं द्रक्ष्यति । रातृन्दिवं च तथागतदर्शनं भविष्यति । यदा च तथागतं पश्यति तदा परिशुद्धं बुद्धक्षेत्रं पश्यति । यदा परिशुद्धं बुद्धक्षेत्रं पश्यति । तदा सर्वधर्मनिधानानि पश्यति । यदा सर्वधर्मनिधानानि पश्यति । तदास्य मरणकालसमये त्रासं नोत्पद्यते न स जातु मातुः कुक्षावुपपत्स्यते । न तस्य जातु शोको भविष्यति । न च तृष्णापाशेन बद्धो भविष्यति ।
[८०] एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत्- तत्किं मन्यसे सर्वशूर ननु दुर्लभस्तथागतानमुत्पादः आह । दुर्लभो भगवन् दुर्लभः सुगत; भगवानाह । एवमेव सर्वशूर दुर्लभो यं संघातो धर्मपर्यायः येषां खलु पुनः सर्वशूरायं संघाटो धर्मपर्यायः श्रोत्रावभासमागमिष्यति । सोऽशीतिः कल्पां जात्या जातिस्मरो भविष्यति । षष्टि कल्पसहस्राणि चक्रवर्तिराज्यं प्रतिलप्स्यते । अष्टौ कल्पसहस्राणि शक्रत्वं प्रतिलप्स्यते । पंचविंशतिः कल्पसहस्राणि शुद्धावासकायिकानान् देवानां सहभाव्यतायामुपपत्स्यते । अष्टातृंशत्कल्पसहस्राणि महाब्रह्मा भविष्यति ।
[८१] नवानवतिः कल्पसहस्राणि विनिपातं न गमिष्यति । कल्पशतसहस्रं प्रेतेषु नोपपत्स्यते । अष्टाविंशति कल्पसहस्राणि तिर्यक्षुर्नोपपत्स्यते । त्रयोदश कल्पसहस्राण्यसुरकायिकेषु नोपपत्स्यते । न शस्त्रेण कालं करिष्यति (न विषेण नाग्निना न चास्य परोपक्रमभयं भविष्यति) ।
[८२] पंचविंशतिः कल्पसहस्राणि न दुष्प्रज्ञो भविष्यति । सप्त कल्पसहस्राणि प्रज्ञाचरितो भविष्यति । नव कल्पसहस्राणि प्रासादिको भविष्यति । दर्शनीयः यथा तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपकायपरिनिष्पत्तिस्तथा तस्य भविष्यति । पंचदश कल्पसहस्राणि न स्त्रीभावेषूपपत्स्यते । षोडश कल्पसहस्राणि व्याधिः काये नाक्रमिष्यति । पंचतृंशत्कल्पसहस्राणि दिव्यचक्षुर्भविष्यति ।
[८३] एकोनविंशत्कल्पसहस्राणि नागयोनिषु नोपपत्स्यते । षट्कल्पसहस्राणि न क्रोधाभिभूतो भविष्यति । सप्त कल्पसहस्राणि दरिद्रकुलेषु नोपपत्स्यते । अशीतिः कल्पसहस्राणि द्वौ द्वीपौ परिभुंक्ते । यदा दरिद्रो भवति तदा ईदृशं सुखं प्रतिलप्स्यते । द्वादश कल्पसहस्राणि अन्धयोनिषु नोपपत्स्यते । त्रयोदश कल्पसहस्राणि अपायेषु नोपपत्स्यते । एकादश कल्पसहस्राणि क्षान्तिवादी भविष्यति । मरणकालसमये चरिमविज्ञाननिरोधे वर्तमाने न विपरीतसंज्ञी भविष्यति । न च क्रोधाभिभूतो भविष्यति ।
[८४] स पूर्वस्यान् दिशि द्वादश गंगानदीबालिकासमान् बुद्धान् भगवतः संमुखन् द्रक्ष्यति । दक्षिणस्यां दिशि विंशतिर्बुद्धकोटी संमुखन् द्रक्ष्यति । पश्चिमस्यान् दिशि पंचविंशतिर्गंगानदीबालिकासमान् बुद्धान् भगवतः संमुखं द्रक्ष्यति । उत्तरस्यान् दिशि विंशतिर्गंगानदीबालुकासमान् बुद्धां भगवतः संमुखं द्रक्ष्यति । उर्ध्वायां दिशि नवति कोटीसहस्राणि बुद्धानां भगवतां संमुखं द्रक्ष्यति । अधस्ताद्दिशि कोटीशतं गंगानदीबालुकासमान् बुद्धान् भगवतः संमुखन् द्रक्ष्यति ।
[८५] ते च सर्वे तथागतास्तं कुलपुत्रमाश्वासयन्ति । मा भैः कुलपुत्र त्वया संघाटं (सूत्रन्) धर्मपर्यायं श्रुत्वा इयन्तः सांपरायिकानि गुणानुशंसमुखानि च भविष्यन्ति । पश्यसि त्वं भोः कुलपुत्रेमान्यनेकानि गंगानदीबालिकासमानि तथागतकोटीनियुतशतसहस्राणि । आह । पश्यामि भगवन् पश्यामि सुगत । (भगवान्) आह । एते भोः कुलपुत्र तथागतास्तव सकाशमुपसंक्रान्ता दर्शनाय । आह । किं मया कुशलकर्म कृतं येनेमे बहवस्तथागता आगता ।
[८६] आह । शृणु कुलपुत्र त्वया मानुष्यकमात्मभावं प्रतिलभ्य संघाटं धर्मपर्यायं श्रोत्रावभासमागतम् । तेन त्वया एतावत्पुण्यस्कन्धं प्रसूतम् । (सर्वशूर) आह । यदि मम भगवन्न एतावान् पुण्यस्कन्धः कः पुनर्वादो यः सकलसमाप्तं श्रोष्यति ।
[८७] (भगवान्) आहालं भोः कुलपुत्र शृणु चतुष्पदिकाया गाथाया (श्रुतायाः) पुण्यं वर्णयामि । तद्यथा कुलपुत्र त्रयोदश गंगानदीबालिकासमानां तथागतानामर्हतां सम्यक्संबुद्धानां यः पुण्यसकन्धस्ततो बहुतरं पुण्यस्कन्धं प्रसवति । यश्चतुष्पदिकामपि गाथामितो धर्मपर्यायाच्छ्रोष्यति । यश्च त्रयोदश गंगानदीबालुकासमांस्तथागतानर्हतः सम्यक्संबुद्धान् पूजयति । यश्चेतः संघाटाद्धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां श्रोष्यति । अयं ततो बहुतरं पुण्यस्कन्धं प्रसविष्यति । कः पुनर्वादो यः सकलसमाप्तं श्रोष्यति । न तस्य पुण्यस्कन्धस्य शक्यमुपमां कर्तुम्
[८८] शृणु कुलपुत्र यश्चेमं संघाटं (नाम) सूत्रं धर्मपर्यायं सकलसमाप्तं विस्तरेण श्रोष्यति । यश्च सर्वस्यां तृसाहस्रमहासाहस्र्यां लोकधातौ तिलं वापयेद्यावन्तस्ते तिलफलकास्तावन्तो राजानश्चक्रवर्तिनो भवेयुरथ कश्चिदेव पुरुषो भवेदाढ्यो महाधनो महाभोगः अथ खलु स पुरुषस्तेषां सर्वेषां राज्ञां चक्रवर्तिनां यथाकामिकं दानन् दद्यात्तत्किं मन्यसे सर्वशूरापि तु स पुरुषस्ततोनिदानं बहु पुण्यं प्रसवेदाह । बहु भगवन् बहु सुगत; भगवानाह - यावन्तः कुलपुत्र तेषां राज्ञां चक्रवर्तिनां दानन् ददतः पुण्यस्कन्धः यश्चैकस्य स्रोतआपन्नस्य दानन् दद्यादयं ततो बहुतरं पुण्यस्कन्धं प्रसवति ।
[८९] ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे स्रोतआपना भवेयुस्तेषां सर्वेर्षां दानन् ददतो यत्पुण्यस्कन्धमयं ततो बहुतरं पुण्यस्कन्धं प्रसवति । य एकस्य सकृदागामिनो दानन् दद्याद्ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे सकृदागामिनो भवेयुः तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयन् ततो बहुतरं पुण्यस्कन्धं प्रसवति । य एकस्यानागामिनो दानान् दद्याद्ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे नागामिनो भवेयुः तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धमयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्यार्हतो दानन् दद्याद्ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वेऽर्हन्तो भवेयुः तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति । य एकस्य प्रत्येकबुद्धस्य दानन् दद्याद्ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे प्रत्येकबुद्धा भवेयुस्तेषान् सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्य बोधिसत्त्वस्य दानन् दद्याद्ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे बोधिसत्त्वा भवेयुस्तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति । य एकस्य तथागतस्य चित्तं प्रसादयेद्
[९०] यश्च त्रिसाहस्रमहासाहस्र्यां लोकधातौ तथागतपरिपूर्णायां चित्तं प्रसादयेद्यश्चेमं संघाटसूत्रं धर्मपर्यायं लिखिष्यति । किमंग पुनः सर्वशूर य इमन् धर्मपर्यायं श्रोष्यति । श्रुत्वा च धारयिष्यति वाचयिष्यति पर्यवाप्स्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति । कः पुनर्वादः सर्वशूर य इमं संघाटसूत्रं धर्मपर्यायं चित्तप्रसादेन नमस्करिष्यति ।
[९१] तत्किं मन्यसे सर्वशूर शक्यमिदं सूत्रं बालपृथग्जनैः श्रोतुमाह । नो हीदं भगवनाह । ये च श्रोष्यन्ति न च प्रसादमुत्पादयिष्यन्ति । शृणु सर्वशूर सन्ति केचित्सर्वशूर बालपृथग्जनाः सत्त्वाः ये शक्नुयुर्महासमुद्रे गाधं लब्धुमाह । नो हीदं भगवन्
[९२] (भगवान्) आह । अस्ति पुनः सर्वशूर कश्चित्सत्त्वो य एकपाणितलेन समुद्रं क्षपयेदाह । नो हीदं भगवन्नो हीदं सुगत । भगवानाह । यथा सर्वशूर नास्ति स कश्चित्सत्त्वो यः शक्नुयादेकपाणितलेन । महासमुद्रं शोषयितुम् । एवमेव सर्वशूर ये हीनाधिमुक्तिकाः सत्त्वाः न शक्यं तैरयन् धर्मपर्यायः श्रोतुं यैः सर्वशूराशीतिर्गंगानदीबालुकासमानि तथागतकोटीनियुतशतसहस्राणि न दृष्टानि । न तैः शक्यमयं संघाटं धर्मपर्यायं लिखितुम् । यैर्नवति गंगानदीबालिकासमानि तथागतानि न दृष्टानि न तैः शक्यमयन् धर्मपर्यायः श्रोतुम्
[९३] येन तथागतकोटीशतसहस्राणि न दृष्टानि त इमन् धर्मपर्यायं श्रुत्वा प्रतिक्षिपन्ति । यैः सर्वशूर गंगानदीबालुकासमानि तथागतकोटीशतानि दृष्टानि त इमन् धर्मपर्यायं श्रुत्वा प्रसादचित्तमुत्पादयन्ति हर्षयन्ति यथाभूतं प्रजानन्ति । य इमं संघाटं धर्मपर्यायं यथाभूतं शद्दधन्ति न प्रतिक्षिपन्ति ।
[९४] शृणु सर्वशूर ये केचिदस्मात्संघाटाद्धर्मपर्यायदेकाक्षरामपि चतुष्पदिकां गाथां लिखिष्यन्ति तेषां सर्वशूर सत्त्वानां ततः पश्चात्पंचनवति कोटीसहस्रानि लोकधातुनामतिक्रम्य यथा सुखावतीलोकधातुस्तथा तेषां बुद्धक्षेत्रं भविष्यति । तेषां च सर्वशूर सत्त्वानां चतुरशीतिः कल्पसहस्राण्यायुष्प्रमाणं भविष्यति ।
[९५] शृणु सर्वशूर ये बोधिसत्त्वा महासत्त्वा अस्मात्संघाटाद्धर्मपर्यायादन्तशश्चतुष्पदिकामपि गाथां श्रोष्यन्ति । बद्यथा सर्वशूर कश्चित्सत्त्वो भवेद्(रौद्रः साहसिकः सद्धर्मविमुखः परलोकनिरपेक्षः पापकारी) यः पंचानन्तर्याणि कर्माणि कुर्यात्कारयेद्वा क्रियमाणानि वानुमोदेत्सचेत्स इतः संघाटाद्धर्मपर्यायच्चतुष्पदिकमपि गाथां शृणुयात्तस्य तानि पंचानन्तर्याणि कर्माणि परिक्षयं गच्छेयुः
[९६] शृणु सर्वशूर । पुनरपरं गुणमामन्त्रयामि । तद्यथापि कश्चित्सत्त्वो भवेद्यः स्तूपभेदं कारयेत्संघभेदं च । बोधिसत्त्वं समाधेरुच्चालयेत्बुद्धज्ञानस्यान्तरायं कुर्यात्मातापितरं जीविताद्व्यावरोपयेद्
अथ स सत्त्वः पश्चाद्विप्रतिसारीभूतः शोचेत परिदेवेत नष्टोऽहमनेन कायेन नष्टं मे परलोकमिति । कल्पमेवाहं नष्टः ततोऽस्य महाचित्तायासं भवेत दुःखां वेदनां वेदयेत । कटुकां वेदनां वेदयेत । तस्य सर्वशूर सत्त्वस्य सर्वसत्त्वाः परिवर्जयन्ति जुगुप्सन्ति (च) । दग्धो नष्ट एषा सत्त्व लौकिकलोकोत्तराद्धर्म नष्टोऽनेकानि कल्पानि यथा दग्धस्थूणम् ।
[९७] एवमेवायं पुरुषः यथा सुचित्रं गृहं दग्धस्थूणं न शोभते । एवमेवायं स पुरुष इह लोके न शोभते । यत्र यत्र च गच्छति तत्र तत्र सत्त्वैः परिभाष्यते प्रहरन्ति च; क्षुत्पिपासार्दितोऽपि न किंचिल्लभते । ततो दुःखां वेदनां वेदयति ।
[९८] स क्षुत्पिपासाहेतुना परिभाषाहेतुना प्रहारहेतुना स्तूपभेदं च पंचानन्तर्याणि च कर्माणि समनुस्मरति । स ततो दुःखं निर्वेदचित्तमुत्पादयति । कुत्राहं यास्यामि को मे त्रात भविस्यति ।
[९९] स एवं चिन्तयति गमिष्याम्यहं पर्वतगिरिकन्दरेषु प्रविशामि तत्र मे कालक्रिया भविष्यति न च मे इह कश्चि त्रातास्ति । आह च ॥
(२०) कृतं मे पापकं कर्म दग्धस्थूनं निरन्तरम्
नेमं लोके शोभयिष्ये न शोभयिष्यामि परत्र चः
(२१) अन्तर्गृहे न शोभामि न शोभामि च बाहिर ।
(सर्वत्रैव न शोभामि पापकारी तथास्म्यहम् ॥)॥
(२२) दोषहेतोः कृतं पापं तेन यास्यामि दुर्गतिम्
परत्र दुःखितः कुत्र वसिष्यामि ह दुर्गतौ ॥
(२३) शृण्वन्ति देवता वाचा अश्रुकण्ठं प्ररोदति ।
अहो निराशक्ष्परलोकं प्रयास्यामिः दुर्गतिम् ॥
तं देवता आहुः
(२४) मूढोऽसि गच्छ पुरुष मैवं चिन्तय दुःखितः
शरणं न च मे त्राणं दुःखां विन्दामि वेदनाम्
(२५) मातृघाटं पितृघाटं पंचानन्तर्याञ्च मे कृतं
पर्वते मूर्ध्नि गच्छामि तत आत्मा त्यजाम्यहम्
(२६) मा गच्छ मूढपुरुष कर्म मा कुरु पापकम् ।
बहु त्वया कृतं पापं व्यापन्नेन हि चेतसा
(२७) कुर्वन्ति ये आत्मघातं नरकं यान्ति दुःखिताः
ततः पतन्ति भूमीषु क्रन्दन्ति शोकवेदनाः
(२८) न तेन वीर्येण भवन्ति बुद्धा
भवन्ति नैवापि न श्रावकं लभ्यति मोक्षयानम्
अन्यस्य वीर्यस्य कुरुष्व यथम्
(२९) गच्छस्य तं परवत येन सो ऋषि गत्वा च तं दृष्ट्व ऋषिर्महात्मा ।
वन्दित्वा पादौ शिरसा च तस्य त्राणं भवाही मम अग्रसत्त्व
(३०) देशेहि धर्मं कुशलं मुहूर्त्तं भातोऽस्मि त्रस्तो अति[[रिवा]]दुःखपीडितः
(ततो गतः स पुरुषु भीतभीतस्) (तं पर्वतं यत्र रिशिर्महात्मा ।)
(३१) (वन्दित्वा पादौ हि तदा महार्षेः) (प्रोवाच वाक्यं समुदीरं या गीरा ।)
(देशेहि धर्मं मम पापकारिणः) (कृपां जनित्वा परदुःखितस्य ॥)॥
(३२) ऋषिर्वदन्तं शृणु सत्त्वसार निषद्य चिन्तस्य क्षणं कुरुष्व ।
(शृणुष्व वाक्यं मम दुःखितस्य) (श्रुत्वा ह्युपायं परिचिन्तयस्व ।)
(३३) भीतः स त्रस्तो अति [[रिवा]] दुःखपीडितस्ततो निषण्णः क्षण [[वर]] तं मुहूर्तं देशेमि पापं कृत यन्मया बहू ऋषे हि वाचमिदमब्रवीति ।
ऋषिराह ।
(३४) भुंशाहि तं भोजनु यद्ददामि दुःखेन च क्रन्दसि शोकपीडितः
क्षुधा पिपासाय च पीडीतस्त्वं निराशकश्च त्रिभवाद्भविष्यसि ।
(३५) भोजनान्युपनामित्वा ऋषिः सत्त्व प्रसादयन्
मृष्टं भुंज मनापं च शरीरे तर्पनार्थिकम् ।
(३६) पश्चात्ते धर्म भाषामि सर्वपापक्षयंकरम्
तस्य तद्भोजनं मृष्टं मुहूर्तं भुक्तवानसौ ।
(३७) भुक्त्वा हस्तौ च प्रक्षाल्य कृत्वा प्रदक्षिणमृषिम् ।
पर्यंकेन निषीदित्वा वदत्यत्पापकं कृतम्
(३८) मातृघातं पितृघातं स्तूपभेदं मया कृतम् ।
बोधिसत्त्वस्य बुद्धत्वे अन्तरायं कृतं मया ।
(३९) तस्य तद्वचनं श्रुत्वा ऋषिर्वाक्यमथाब्रवीत्
असाधुस्तव [[भो]] पुरुष यत्कृतं पापकं त्वया ।
(४०) देशेहि पापकं कर्म कृतं कारापितं च यत् ॥
अथ खलु तस्मिन् काले स पुरुषः शोकशल्यसमर्पित भीतस्त्रस्त उद्विग्न को मे त्राता भविष्यतीत्याह च ॥
(४१) कृतं मे पापकं कर्म दुःखां वेत्स्यामि वेदनाम् ।
नरके रौरवे घोरे तथैव च प्रतापने ॥
अथ खलु स पुरुषस्तस्य ऋषेर्जानुद्वयं भूमौ निपात्याह च ।
(४२) देशेयं पापकं कर्म यत्कृतं कारितं मया ।
माफलं पापकं भोतु मा मे स्या दुःखवेदनाम् ।
(४३) ऋषिस्त्राणं भवेन्मह्यमासन्ने हं भवेन् तव
निष्कौकृत्यस्य शान्तस्य शम्यन्तं पापकान्मम;
[१००] अथ खलु स रिषिस्तेन कालेन तेन समयेन तं पुरुषमेतदवोचत्- एवं चाश्वासयति । मा भैः कुलपुत्राहं ते त्राणं भविष्याम्यहन् ते गतिरहं परायणं भविष्यामि । संमुखं धर्म शृणु श्रुतं त्वया किंचित्संघाटं नाम धर्मपर्यायम् । स आह । न मे कदाचिच्छ्रुतम् ।
ऋषिराह - कोऽग्निदग्धस्य सत्त्वस्य धर्मन् देशयत्यन्यत्र यः करुणाविहारितया सत्त्वानां धर्मन् देशयति । आह । शृणु कुलपुत्र
[१०१] भूतपूर्वं (मया) असंख्येयैः कल्पैरसंख्येयतरैर्यदासीत्तेनो कालेन तेन समयेन विमलचन्द्रो नाम राजाभूद्धार्मिको धर्मराजा । तस्य खलु पुनः कुलपुत्र राज्ञो विमलचन्द्रस्य गृहे पुत्रो जातः
[१०२] अथ स राजा विमलचन्द्रो लक्षणनैमित्तिकांच्छास्त्रपाठकान् ब्राह्मणान् सन्निपात्य कुमारमुपदर्श्यैवमाह - किं ब्राह्मण कुमारस्य निमित्तं पश्यथ शोभनमशोभनं वेति । तत्रैको नैमित्तिको ब्राह्मणः कथयत्यसाधुरयं महाराज कुमारो जातः आसाधुरिति । राजा श्रुत्वा ससंभ्रम पप्रच्छ । किमिदं ब्राह्मणा नैमित्तिकः कथयत्ययं देव राजकुमारो यदि सप्त वर्षाणि जीवति स एष मातापितरं जीविताद्व्यावरोपयिष्यति । ततोऽस राजा एवमाह । वरं मे जीवितान्तरायो भवतु माच्चाहं पुत्रं वधेयम् । तत्कस्मात्कदाचित्कर्हचिल्लोके मनुष्योत्पादं लभ्यते । नाहं तथा करिष्यामि । यदिमं मानुष्यकं कायं विरागयिष्यामि ।
[१०३] अथ स कुमारो वर्धते यदन्य वर्षद्वयेन वर्धन्ते तदासावेकेन मासेन वर्धते । जानाति च स राजा विमलचन्द्रो यं कुमारो मम कर्मोपचयेन वर्धते । ततो राजा तस्य कुमारस्य पट्टमाबन्ध्यैवमाह । तव राज्यं भवतु विपुलं च कीर्तिराज्यभोगैश्वर्यं च कारय धर्मेण मा अधर्मेण । ततस्तस्य राजा पट्टं बध्वा राजेति नामधेयमकरोत्स च राजा विमलचन्द्रो न भूयः स्वविषये राज्यं कारयत्य्
[१०४] अथ ते त्रिंशदमात्यकोट्यो येन स राजा विमलचन्द्रस्तेनोपसंक्रान्ता उपेत्य तं राजानं विमलचन्द्रमेवमाहुः कस्मात्त्वं भोः महाराज स्वविषये न भूयो राज्यं कारयसि । राजाह - बहून्यसंख्येयानि कल्पानि । यन्मया राज्यभोगैश्वर्याधिपत्यं कारितं न च मे कदाचिद्विषयेषु तृप्तिरासीत्तेन च कालेन तेन समयेन न चिरेण कालान्तरेण स पुत्रस्तं मातापितरं जीविताद्व्यावरोपयति । तेन च तत्र पंचानन्तर्याणि कर्मान्युपचितानि । अहं च भोः पुरुष तावच्चिरं कालसमयमनुस्मरामि । यथाद्य श्वो वा ।
[१०५] यदा तस्य राज्ञो दुःखा वेदना उत्पन्नाः तदा स राजा विप्रतिसारीभूतो स्रुकण्ठः परिदेवति पापं मे कर्म कृतमिति । अवीचौ महानरके दुःखां वेदनां प्रत्यनुभविष्यामीति ततोऽहं कारुण्यचित्तमुत्पाद्य तत्र गत्वा तस्य राज्ञो धर्मन् देशयितवानथ स राज तं धर्मं श्रुत्वा तस्य तानि पंचानन्तर्याणि कर्माणि क्षिप्रं निरवशेषं परिक्षयं गतानि ।
आह च ।
(४४) संघाटं धर्मपर्यायं सूत्रराजं महातपाः
ये श्रोष्यन्ति इमन् धर्मन् पदं प्राप्स्यन्त्यनुत्तरम्
(४५) सर्वपापक्षयं भवति । सर्वक्लेशांच्छमिष्यति ।
शृणु धर्मं प्रवक्ष्यामि येन क्षिप्रं विमोक्षसे ।
(४६) चतुष्पदायां गाथायां भाष्यमाणं निरन्तरं
सर्वपापक्षयं कृत्वा स्रोतापन्नो भविष्यसि ।
(४७) ततो दानमुदानेमि सर्वपापप्रमोचनम् ।
विमोचिता दुःखिता सत्त्वा नारकाद्भयभैरवात्
(४८) ततः स पुरुषोत्थाय आसनादञ्जलीकृतः
प्रणम्य शिरसा तस्य साधुकारं प्रयच्छति ।
(४९) साधु कल्याणमित्राणां साधु पापविनाशकः
साधु संघाटनिर्देशं ये श्रोष्यन्ति महानयम् ॥
[१०६] अथ खलु तेन कालेन तेन समयेनोपर्यन्तरिक्षे स्थितानि द्वादश देवपुत्रसहस्राणि कृतांजलिपुटानि तमृषिमुपगम्य पादौ शिरसा प्रणम्यैवमाहुः भगवन् केवच्चिरं स्मरसि महातपः एवं चत्वारि कोटी नागराज्ञामागत्य अष्टादश कोटीसहस्राणि यक्षराज्ञामागत्य येन स ऋषिस्तेनांजलिं प्रणाम्यैवमाहुः केवच्चिरं स्मरसि ।
[१०७] महात्मा ऋषिराह ।
शतमसंख्येयकल्पकोटीनियुतसहस्राणि समनुस्मरामि । आह । केन कुशलकर्मणा । मुहूर्तमात्रेणैवं पापं कर्म (सर्वपापकर्म) प्रशान्तम् (आह । संघाटं धर्मपर्यायं श्रुत्वा) (अनेन कुशलकर्मणा सर्वपापकर्म प्रशान्तम्)
[१०८] ये च तत्र सत्त्वाः सन्निपतिताः यैरिमं धर्मपर्यायं श्रुत्वा श्रद्दधानता वा कृता पत्तीयनं वा । ते सर्वे व्याक्रियन्तेऽनुत्तरायां सम्यक्संबोधौ । येन च पुरुषेण ताणि पंचानन्तर्याणि कर्माणि कृतानि । तेनेमं संघाटं धर्मपर्यायं श्रुत्वा मुहूर्तमात्रेण तानि पंचानन्तर्याणि कर्माणि निरवशेषं परिक्षयं पर्यादानं कृताणि । तस्यानेकानि कल्पकोटीनियुतशतसहस्राणि सर्वदुर्गतिद्वाराणि पिथितानि भवन्ति । द्वात्रिंशद्देवलोकद्वाराण्यपावृतानि भवन्ति । य इतः संघाटाद्धर्मपर्यायादन्तशश्चतुष्पदिकामपि गाथां श्रोष्यति । तस्येतादृशानि कुशलमूलानि भविष्यन्ति । कः पुनर्वादो यः संघाटसूत्रं सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति । पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्वाद्यांजलिकर्मप्रणामं वा करिष्यति । एकां वारामनुमोदिष्यत्येवं च वक्ष्यति । साधु सुभाषितमिति ।
[१०९] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- कियन्तं भगवन्नञ्जलिप्रणामात्पुण्यस्कन्धं प्रसवति । ये ते संघाटं धर्मपर्यायं भाष्यमाणं श्रुत्वाञ्जलिं कृत्वा प्रणमन्ति । भगवानाह - शृणु कुलपुत्र येन पंचानन्तर्याणि कर्माणि कृताणि कारितानि क्रियमाणानि वानुमोदितानि भवेयुः यदि स इतत्संघाटाद्धर्मपर्यायादन्तशश्चतुष्पदिकामपि गाथां श्रुत्वाञ्जलिं प्रणामयिष्यति । तस्य (तानि) सर्वाणि पंचानन्तर्याणि कर्माणि क्षयं गतानि भविष्यन्ति । कः पुनर्वादः सर्वशूर यः सकलसमाप्तमेवायं धर्मपर्यायं श्रोष्यत्ययं ततो बहुतरं पुण्यस्कन्धं प्रसविष्यति ।
[११०] उपमां ते कुलपुत्र करिष्यामि । अस्य संघाटसूत्रार्थस्य विज्ञप्तये । तद्यथापि नाम सर्वशूरानवतप्तस्य नागराजस्य भवने न कदाचित्सूर्यो वभासयति । ततश्च पंच महानद्यः प्रवहन्ति । अथ कश्चिदेव पुरुषो भवेद्यस्तासां पंचानां महानदीनामुदकस्य बिन्दूनि गणयेत्तत्किं मन्यसे सर्वशूर शक्यं तेषामुदकविन्दुनां गणनायोगेन पर्यन्तमधिगन्तुमाह । नो हीदं भगवन्नो हीदं सुगत, भगवानाह - एवमेव सर्वशूर न शक्यं संघाटसूत्रस्य धर्मपर्यायस्य कुशलमूलं कल्पेन वा कल्पशतेन वा कल्पसहस्रेण वा कल्पशतसहस्रेण वा कल्पकोटीनियुतशतसहस्रेण वा गणनया पर्यन्तमधिगन्तुम् ।
[१११] तत्किं मन्यसे सर्वशूर दुष्करं तस्य य इमं संघाटं धर्मपर्यायं मुहूर्तं प्रकाशयेत । आह - दुष्करं भगवं दुष्करं सुगत, भगवानाह - अतः सुदुष्करतरं सर्वशूर तस्य य इमं संघाटं धर्मपर्यायं शाक्ष्यति श्रोतुम्
[११२] तद्यथा अनवतप्तात्(महासरसः) पंच महानद्यः प्रवहन्ति । तासां पंचानां महानदीनां प्रवहतामुदकविन्दून्न शक्यं केनचिद्गणकेन वा गणकमहामात्रेन वा गणनया पर्यन्तमधिगन्तुमेवमेवास्य धर्मपर्यायस्य पुण्यस्कन्धस्य न शक्यं पर्यन्तमधिगन्तुं सर्वशूर आह - कतमास्ता भगवन् पंच महानद्य । भगवानाह - तद्यथा । गंगा सीता वक्षुः यमुनाश्चन्द्रभागा च । इमा सर्वशूर पंच महानद्यो महासमुद्रे प्रविशन्ति । एकैका च महानदी पंचमहानदीशतपरिवाराः ॥
[११३] पुनरपरं सर्वशूर पंचेमा महानद्यः आकाशे प्रवहन्ति । या सततसमितमुदकविन्दुभिः प्रजां प्लावयन्ति । ताश्च पंच महानद्यः एकैका सहस्रपरिवाराः आह - कतमास्ता भगवन् पंच महानद्यः सहस्रापरिवाराः या आकाशे प्रवहन्ति । भगवानाह - सुन्दरी नाम (नदी) सहस्रपरिवारा, शंखा नाम (नदी) सहस्रपरिवारा, वहन्ती नाम (नदी) सहस्रपरिवारा, चित्रसेना नाम (नदी) सहस्रपरिवारा, धर्मवृत्ता नाम (नदी) सहस्रपरिवारा, इमास्ता सर्वशूर पंच महनद्यः सहस्रपरिवारा या जंबूद्वीपे औत्सुक्यमापद्यन्ते । याः कालेन कालं जंबूद्वीपे बिन्दुभिर्वर्षधाराः प्रमुंचन्ति । तेन पुष्पफलसस्यान्यभिरुह्यन्ति । यदा जंबूद्वीपे (विन्दूभि) वर्षधाराः प्रपतन्ति । तदा उदकं जायते । जातं चोदकं सर्वक्षेत्रारामाणि संतर्पयति सुखं च कारयति । तद्यथापि नाम सर्वशूर प्रजापति सर्वजंबूद्वीपे सुखं कारयति ।
[११४] एवमेव सर्वशुरायं संघाटो धर्मपर्याय बहुजनहिताय बहुजनसुखाय जंबूद्वीपे प्रकाशितः यथा (च सर्वशूर) देवानां त्रायस्तिंशानामायुष्प्रमाणं न तथा मनुष्याणाम् । (तत्र) कतमे च सर्वशूर त्रायस्त्रिंशा देवाः यत्र शक्रो देवानामिन्द्रः प्रतिवसति । ते त्रायस्त्रिंशा नाम देवाः सन्ति (तद्यथा)सर्वशूर सत्त्वाः य एकं वाक्सुचरितं भाषन्ते । तेषां न शक्यं पुण्यस्कन्धस्योपमां कर्तुम् । (यन् ते देवमनुष्येष्वनुपमं सौख्यमनुभवन्ति ।)
[११५] सन्ति सर्वशूर सत्त्वाः य एकं वग्दुश्चरितं भाषन्ते न शक्यं तेषां नरकतिर्यक्षूपमां कर्तुं यत्ते सत्त्वाः नरकतिर्यक्प्रेतदुःखां वेदनां वेदयन्ति । न (च) कश्चित्तेषां त्राता भवति तत्र ते निराशाः परिदेवन्ते नरकेषु प्रपतमानाः तदकल्याणमित्रवशेन द्रष्टव्यम् । ये सत्त्वा वाक्सुचरितं भाषन्ते तेषां न शक्यं पुण्यस्कन्धस्योपमां कर्तुम् । तत्कल्याणमित्रवशेन द्रष्टव्यम् ।
[११६] यदा कल्याणमित्रं पश्यति तदा तथागतो दृष्टो भवति । यदा तथागतं पश्यति । तदा (तस्य) सर्वपापक्षयो भवति । यदा सर्वपापक्षयो भवति । तदा प्रजापतिर्जंबूद्वीपे औत्सुक्यं करोति । यदा प्रजापतिर्जंबुद्वीपे औत्सुक्यं करोति । तदा जंबूद्वीपकनां सत्त्वानां सुखस्य न शक्यमुपमां कर्तुमेवमेवायं सर्वशूर संघाटो धर्मपर्याय जंबूद्वीपकानां सत्त्वानां बुद्धकृत्यं करोति । तदा न शक्यं तेषां सत्त्वानां पुण्यस्कन्धस्योपमां कर्तुम्
[११७] तद्यथापि नाम सर्वशूर यत्रेमाः पंच महानद्यः संभेदं समवसरणं गच्छन्ति । तत्र न शक्यमुदकस्य प्रमाणमुद्ग्रहीतुम् । एतावदुदककुंभा वा उदककुंभशतानि वा उदककुंभसहस्राणि वा उदककुंभशतसहस्राणि वा । अपि तु बहुत्वादुदकस्य महानुदकस्कन्ध इति संख्यां गच्छति ।
[११८] एवमेव सर्वशूर यदा जंबूद्वीपका सत्त्वा इमं संघातं धर्मपर्यायं श्रोष्यन्ति । श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति । वाचयिष्यन्ति पर्यवाप्स्यन्ति । परेषां च विस्तरेण संप्रकाशयिष्यन्ति प्रतिपत्या च संपादयिष्यन्ति । तदा न शक्यं तेषां सत्त्वानां पुण्यस्कन्धस्य प्रमाणमुद्ग्रहीतुमपि तु बहुत्वात्पुण्यस्य महान् पुण्यस्कन्ध इति संख्यां गच्छति ।
[११९] ये सर्वशूर सत्त्वाः संघाटं धर्मपर्यायं न श्रोष्यन्ति न तैः शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं न शक्यं धर्मचक्रं प्रवर्तयितुं न शक्यं धर्मगण्डी पराहनितुं न शक्यं तैर्धर्मसिंहासनमभिरोढुं न शक्यं (तै) निर्वाणधातुमनुप्रवेष्टुम् । न शक्यमप्रमेयै रश्मिभिरवभासयितुं य इमं सर्वशूर संघाटं धर्मपर्यायं न श्रोष्यन्ति न शक्यं तैर्बोधिमण्डे निषत्तुम् ।
[१२०] सर्वशूर आह - पृच्छामि भगवं पृच्छामि सुगत, कंचिदेव कौतुहलं भगवानाह - पृच्छ त्वं सर्वशूर यद्यदेवाकांक्षस्यहं ते निष्कांक्षं करिष्यामि (सर्वशूर) आह - कतमः स भगवनृषिरभूद्येन ते सत्त्वाः पंचभिरानन्तर्यैः कर्मभिः परिमोक्षिताः अवैवर्त्तिकभूमौ च प्रतिष्ठापिताः भगवानाह -
(५०) सूक्ष्मं वचन बुद्धानां सर्वशूर शृणोहि मे
संघाटदर्शनं सूत्रमृषिरूपेण दर्शितं
(५१) संघाटो बुद्धरूपं च दर्शयत्यनुकम्पया ।
यथा बलिकगंगाया रूपं दर्शयते तथा ।
(५२) बुद्धो दर्शयते रूपं धर्मन् देशयते स्वयम्
बुद्धं य इच्छते द्रष्टुं (लोकनाथं जिनोत्तमम् ॥)॥
(५३) (संघाटस्तेन श्रोतव्यः) संघाटं बुद्धसादृशम् ।
बुद्धस्तत्र भवेन्नित्यं संघाटं यत्र तिष्ठति ।
[१२१] भगवानाह - शृणु कुलपुत्र । भूतपूर्वं सर्वशूरातीते ध्वनि नवानवत्यसंख्येयङ्कल्पाननुस्मरामि । (तत्र) द्वादश बुद्धकोट्य बभूवन् रत्नोत्तमनामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः अहं तेन कालेन तेन समयेन प्रदानशूरो भूवं चन्द्र नाम । ते च मे द्वादश बुद्धकोट्य पर्युपासिताः खादनीयभोजनीयमाल्यगन्धविलेपनेन यथासुखम् । प्रणीतेनाहारेण सर्वसुखोपधानेनोपस्थिताः उपस्थाप्य च तत्रैव मया सर्वशूर व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम्
[१२२] अभिजानाम्यहं सर्वशूराष्टादश बुद्धकोट्य सर्वे रत्नावभासनामानस्तथागता लोक उत्पन्ना अभूवन् तत्राहमपि प्रदानशूरो भूवन् गर्भसेनो नाम । ते चाष्टादश बुद्धकोट्यो मया पर्युपासिताः पूजिताश्च । यथा तथागतानां प्रत्यर्हं गन्धमाल्यविलेपनालंकारविभूषणैः तत्र च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम् ।
[१२३] अनुस्मराम्यहं सर्वशूर विष्मशतिर्बुद्धकोट्यः शिखिसंभवनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्त, पूजिता मे ते बुद्धा भगवन्तो यथा प्रत्यर्हेण पूजसत्कारेण तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न चाद्यापि कालसमयमभूद्व्याकरणाय ॥
[१२४] अनुस्मराम्यहं सर्वशूर विंशत्येव बुद्धकोट्यः काश्यप नामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्तः तत्राहमपि प्रदानशूरो भूवन् कृतं मे तेषां तथागतानामुपस्थानम् । गन्धेन माल्येन विलेपनेन तथागतगुरूपस्थानेनोपस्थिताः यथा तथागतानां गुरुगौरवं कर्तव्यं तथा कृतम् । तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम् ।
[१२५] अनुस्मराम्यहं सर्वशूर षोडश बुद्धकोट्यो भूवन् विमलप्रभासनामान तथागता अर्हन्तः सम्यक्संबुद्धाः तेन च कालेन तेन समयेनाहं गृहपतिरभूवदाढ्यो महाधनो महाभोगः सर्वस्वपरित्यागी (महात्यागी ।) । ते च मया षोडश बुद्धकोट्यः पूजिता आस्तरणप्रावरणेन गन्धेन माल्येन विलेपनेन विभूषणाच्छादनेन च । यथा तथागतानां गुरूपस्थानं (कर्तव्यं तथा च मया) कृतम् । तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम् । न च मे कालं न समयमभूद्व्याकरणाय ॥
[१२६] शृणु सर्वशूरानुस्मराम्यहं पंचनवतिर्बुद्धकोट्यो लोक उत्पन्नान्यभूवन् सर्वे शाक्यमुनिसहनामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः अहं च तेन कालेन तेन समयेन च राजा भूद्धार्मिको धर्मराजा, पर्युपासिता मे (ते) पंचनवतिर्बुद्धकोट्यः शाक्यमुनिनामधेयास्तथागताः गन्धेन माल्येन विलेपनेनास्तरणप्रवरणेन च्छत्रध्वजपताकाभिश्च । तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम् ॥
[१२७] अनुस्मराम्यहं सर्वशूर नवतिर्बुद्धकोट्यः क्रकत्सुदनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्त, अहं च तेन कालेन तेन समयेन ब्राह्मकुमारोऽभूव आढ्यो महाधनो महाभोगः प्रदानदाता सर्वस्वपरित्यागी । ते च मया तथागता सर्वे उपस्थिताः गन्धेन माल्येन विलेपनेनास्तराणप्रावरणेन विभूषणाच्छादनेन । यादृशं च तथागतानामुपस्थानं (तथा तेषां मया प्रत्यर्हमुपस्थानं) कृतं तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न च मे कालं न समयं व्याकरणाय ॥
[१२८] अनुस्मराम्यहं सर्वशूराष्टादश बुद्धकोट्यः लोक उदपद्यन्त ; सर्वे कनकमुनिनामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः अहं च तेन कालेन तेन समयेन प्रदानशूरो भूवन् पर्युपासिता मे ते तथागता अर्हन्तः सम्यक्संबुद्धाः पुजिताश्च गन्धेन माल्येन विलेपनेनास्तरणप्रावरणेन विभूषणेन । यथा तथागतानां गुरुपस्थानां तथा मे उपस्थिताः तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न च मे कालं न समयं व्याकरणायै ।
[१२९] अनुस्मराम्यहं सर्वशूर त्रयोदश बुद्धकोट्यो लोक उदपद्यन्त; सर्वे वभासशिर्नामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः ते च मे तथागताः पूजिता आस्तरणप्रावरणेन गन्धेन माल्येन विलेपनाच्छादनविभूषणेन । यथा तथागतानां गुरूपस्थानं कृतं तदृशमुपस्थानमुपस्थिताः तैश्च तथागतैर्नानाधर्ममुखानि भाषितानि अर्थविनयविनिश्चया तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न चाद्यापि समयं व्याकरणाय ।
[१३०] अनुस्मराम्यहं सर्वशूर पंचविंशतिर्बुद्धकोट्यः पुष्यनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपाद्यन्त; अहं च तेन कालेन तेन समयेन प्रब्रजितोऽभूवं पर्युपासिता मे ते तथागता यथा आनन्दैतर्हि ममोपस्थायकौपस्थानमुपतिष्ठति । तादृशं च मे ते तथागता उपस्थिताः तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न चाद्यापि मे समयमभूद्व्याकरणाय ।
[१३१] अनुस्मराम्यहं सर्वशूर अष्टादश बुद्धकोट्यो विपश्यिनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्त; पर्युपासिता मे ते तथागता अर्हन्तः सम्यक्संबुद्धाः आभरणप्रावरणेनाच्छादनगन्धमाल्यविलेपनेन यथा तथागतोपस्थानं तथा (मे) उपस्थिता । अहं च तेन कालेन तेन समयेन प्रब्रजितोऽभूवन् तत्रैव च (मे) व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धवान्न चाद्यपि समयं व्याकरणाय न चिरेण कालेन ।
[१३२] यः पश्चिमको विपश्यि लोक उत्पन्नः स इमं संघाटं धर्मपर्यायं भाषितवान् तमहं ज्ञात्वा तस्मिन् समये जंबुद्वीपे सप्तरत्नवर्षं प्रवृष्टवान् तदा ते जांबुद्वीपकाः सत्त्वा अदरिद्रा संवृत्ताः तत्रैव चाहं व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धवान् ततश्चिरेण कालसमयेनाद्यापि (च) मां न व्याकरोति (अनुत्पत्तिकधर्मक्षान्तिव्याकरणेन ।)
[१३३] आह । कतमः स भगवान् कालः कतमः स समयः भगवानाह - शृणु सर्वशूर ततो द्व्यसंख्येयैः कल्पैर्दीपंकरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि । ततोऽहं सर्वशुर तेन कालेन तेन समयेन मेघो नाम अणवको भूवन् यदा च भगवन् दीपंकरस्तथागतो लोक उत्पन्नः तदाहमपि तस्मिन् काले तस्मिन् समये ब्रह्मचर्यमचार्षं माणवकरूपेण ततोऽहं भगवन्तन् दीपंकरन् तथागतं दृष्ट्वा प्रसाद प्रतिलब्धः सप्तभिरुत्पलैरवकीर्णवां तच्च तथागतावरोपितं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामितं स च मान् दीपंकरस्तथागतो व्याकार्षीद्भविष्यसि त्वं माणवकानागतेऽध्वन्यसंख्येयैः कल्पैः शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति ।
[१३४] ततोऽहं सर्वशूर द्वादशतालमात्रं विहायसमन्तरीक्षे स्थित्वानुत्पत्तिकधर्मक्षान्तिं प्रतिलब्धवान् यच्च मे सर्वशूरासंख्येयेषु कल्पेषु ब्रह्मचर्यं चीर्णम् । यच्च पारमिताप्रतिसंयुक्तं कुशलमूलं तत्सर्वमामुखीभूतमिवानुस्मरामि यथाद्य श्वो वा । तत्र मया सर्वशूरानेकानि सत्त्वकोटीनियुतशतसहस्राणि कुशलेषु धर्मेषु प्रतिष्ठापितानि । कः पुनर्वाद सर्वशूर य एतर्ह्यहम अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः सर्वसत्त्वहितैषिणः कारुणिकः सत्त्वानां निरोधधर्मन् देशयिष्यामि ।
[१३५] नैतत्स्थानं विद्यते । तत्कस्य हेतोः बहुप्रकारं चाहं सर्वशूर सत्त्वानान् धर्मन् देशयामि । यथारूपवैनयिकानां सत्त्वानां तथारूपेण धर्मन् देशयामि । देवरूपेण देवलोके (देवानां) धर्मन् देशयामि । नागभवणे नागरूपेण (नागानानं) धर्मन् देशयामि । यक्षभवने यक्षरूपेन (यक्षानां) धर्मन् देशयामि । प्रेतभवने प्रेतरूपेण (प्रेतानां) धर्मन् देशयामि । मनुष्यलोके मनुष्यरूपेन (मनुष्याणां) धर्मन् देशयामि । बुद्धवैनयिकानां सत्त्वानां बुद्धरूपेण धर्मन् देशयामि । बोधिसत्त्वावैनयिकानां सत्त्वानां बोधिसत्त्वरूपेण धर्मन् देशयामि । श्रावकवैनयिकानां सत्त्वानां श्रावकरूपेण धर्मन् देशयामि । येन येन रूपेण सत्त्वा विनयं गच्छन्ति तेन तेन रूपेणाहं सत्त्वानान् धर्मन् देशयामि । एवं बहुप्रकारमहं सर्वशूर सत्त्वानान् धर्मन् देशयामि ।
[१३६] तत्कस्य हेतोर्यथैव सर्वशूर सत्त्वा बहुप्रकारं धर्मं शृण्वन्ति । तथैव ते सत्त्वसाराः बहुप्रकारं सत्त्वानान् धर्मन् देशयन्ति । ते च सत्त्वास्तेषु तथागतेषु कुशलमूलान्यवरोपयन्ति । दानानि च ददन्ति । पुण्यानि च कुर्वन्ति । स्वार्थे च प्रतिजागरन्ति । मरणानुस्मृतिं च भावयिष्यन्ति । ते चैवंरूपं कुशलं कर्माभिसंस्कारमभिसंस्करिष्यन्ति । तेनैव च धर्मश्रवणकुशलमूलहेतुना तत्पूर्वकं कुशलमूलं संस्मरिष्यन्ति । तेषां तद्भविष्यति दीर्घरात्रमर्थाय हिताय सुखाय देवानां च मनुष्याणां च । एवं हि सर्वशूर संघाटसूत्रस्य धर्मपर्यायस्य सहश्रवणमात्रेणैवमप्रमेया(-म्-असंख्येया) गुणानुशंसा भविष्यन्ति ।
[१३७] अथ ते सत्त्वाः परस्परमेवमाहुः अस्त्यन्यः कश्चित्कुशलो धर्मफलविपाकः यस्य कृतत्वादुपचितत्वादनुत्तरां सम्यक्संबोधिमभिसंबोद्ध्यते सर्वसत्त्वाहितैषिणश्च भवन्ति ॥
[१३८] अथ भगवंस्तेषां सत्त्वानां चेतसैव चेतःपरिवितर्कमाज्ञाय तानेतदवोचत्- अस्ति कुलपुत्रा ये धर्मं पत्तीयन्ति ते एवं वक्ष्यन्ति अस्ति धर्मो यथाभूतः तेषां महाफलं सुखविपाकमनुत्तरं धर्मसुखं भविष्यति ।
[१३९] ये सत्त्वा मोहमूढास्त एवं वक्ष्यन्ति । न सन्ति धर्माः न सन्ति धर्मानां पारगः स तेषां महाफलं कटुकविपाकमपायेषुपपत्स्यते । पुनः पुनश्च ते (मोहपुरुषा) अपायभूमिपरायणा भविष्यन्ति ।
[१४०] अष्टौ कल्पान्नैरायिकान् दुःखं वेदनामनुभविष्यन्ति । द्वादश कल्पानि प्रेतयोनिषु दुःखं वेदनां वेदयिष्यन्ति । षोडश कल्पान्यसुरेषूपपत्स्यन्ते । नव कल्पसहस्रानि भूतपिशाचयोनिषूपपत्स्यन्ते । चतुर्दश कल्पसहस्राणि अजिह्वका भविष्यन्ति । षोडश कल्पसहस्राणि मातुगर्भे कालं करिष्यति । द्वादश कल्पसहस्राणि मांसपिण्डा भविष्यन्ति । एकादश कल्पसहस्राणि जात्यन्धभूताः प्रजास्यन्ति । दुःखां वेदनां वेदयमाना । (जात्यन्धं च दृष्ट्वा)
[१४१] तदा मातापितृभ्यामेवं भविष्यति । निरास्वादमस्माभिर्दुःखमनुभूतं निरास्वादमस्माकां पुत्रोऽजातः निरास्यादं नवा मासाः कुक्षौ धारितः शीतोष्णां वेदनां वेदयमानैः क्षुत्पिपासासुःखाणि च प्रत्यनुभूतानि । बहूनि च दृष्टधर्मवेदनीयानि दुःखानि दृष्ट्वा पुत्रोऽजातः न च गृहे मातापित्रावुत्सुकौ कृतौ न स्वकायम् । ततो मातापितृभ्यां महती निराशता भविष्यति । एवमेव सर्वशूर निराशाः सद्धर्मप्रतिक्षेपकाः सत्त्वाः नरकतिर्यक्प्रेतपरायणाः ते च तस्मिन्मरणकालसमये महता शोकाशल्यसमर्पिता भविष्यन्ति ।
[१४२] ये सर्वशूर सत्त्वा एवं वाग्भाषन्ते अस्ति धर्मः अस्ति धर्माणां पारगः ते तेन कुशलमूलेन विंशाति कल्पाण्युत्तरकुरुषूपपत्स्यन्ते । पंचविंशति कल्पसहस्राणि त्रायस्त्रिंशानान् देवानां सहभाव्यतायामुपपत्स्यन्ते । त्रयस्त्रिंशद्भ्यो देवेभ्यश्च्यवित्वा उत्तरकुरुषुपपत्स्यन्ते । न च मातुः कुक्षावुपपत्स्यन्ते । लोकधातुशतसहस्रं च द्रक्ष्यन्ति । सर्वे (च तां लोकधातवः) सुखावतीनामानः सर्वबुद्धक्षेत्रसन्दर्शनन् दृष्ट्वा तत्रैव प्रतिष्ठानां कृत्वा तत्रैव बोधिमभिसम्भोत्स्यन्ते ।
[१४३] एवं हि सर्वशूर महाप्रभावो यं संघाटो धर्मपर्यायः येऽस्मिंश्चित्तप्रसादं करिष्यन्ति । न ते जातु विषमपरिहारेण कालं करिष्यन्ति । परिशुद्धशीलसमवागतास्ते (सत्त्वा) भविष्यन्ति ।
[१४४] सन्ति सर्वशूर सत्त्वा य एवं वक्स्यन्ति रात्रिन्दिवं तथागतो बहूनि सत्त्वानि परिमोचयन्ति । अद्यापि सत्त्वधातुः क्षयं न गच्छन्ति । बहवो बोधाय प्रणिधानं कुर्वति । बहवः स्वर्गलोक उपपद्यन्ते । बहवो निर्वृतिमनुप्राप्नुवन्ति । अथ केन हेतुना सत्त्वानां क्षयो न भवति ॥
इइ. मैत्रेयपरिपृच्छा ।
[१४५] अथान्यतीर्थिकचरकपरिब्राजकनिग्रन्थानामेतदभवत्गमिष्यामो वयं श्रमणेन गौतमेन सार्धं विवादं करिष्यामः अथ खलु चतुर्नवति ब्राह्मणान्यतीर्थिकचरकपरिब्राजकाः अनेकानि च निग्रन्थशतानि येन राजगृहं महानगरं तेनोपसंक्रामन्ति । तेन च कालेन तेन समयेन भगवान् स्मितां प्रादुष्चकार; ॥
[१४६] अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत्- को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय । नाहेतुं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धा स्मितं प्रादुष्कुर्वन्ति ।
[१४७] भगवानाह - शृणु कुलपुत्राद्येह राजगृहे महानगरे महासन्निपातो भविष्यति । आह । के भगवनिहायास्यन्ति । देवा वा नागा वा यक्षा वा मनुष्या वा अमनुष्या वा । भगवानाह - सर्व एते मैत्रेयाद्येहागमिष्यन्ति । देवनागयक्षमनुष्यामनुष्याः चतुरशीतिं च सहस्राणि ब्राह्मणानामिहायास्यन्ति ।
[१४८] नवति कोटीसहस्राणि तीर्थिकचरकपरिब्राजकनिग्रन्थानामिहा यास्यन्ति । ते मया सार्धं विवादं करिष्यन्ति । तेषां सर्वेषां विवादशमनाय धर्मन् देशयिष्यामि । सर्वे च ते ब्राह्मणा अनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयिष्यन्ति । नवति कोटीशतसहस्राण्यन्यतीर्थिकचरकपरिब्राजकनिग्रन्थाः सर्वे स्रोतआपत्तिफलं प्राप्स्यन्ति ।
[१४९] अष्टादश कोटीसहस्राणि नागराज्ञामागमिष्यन्ति । ये ममान्तिकाद्धर्मं श्रोष्यन्ति । श्रुत्वा च (ता) सर्वेऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयिष्यन्ति ।
[१५०] षष्टि कोटीसहस्रानि शुद्धावासकायिकानां देवपुत्राणामागमिष्यन्ति । द्वात्रिंशद्भिः कोटीसहस्रैर्मारः पापीयान् सपरिवार आयास्यति । द्वादश कोटीसहस्राणि असुरराज्ञामागमिष्यन्ति । पंचमात्राणि (च) राजशतानि सपरिवाराण्यायास्यन्ति धर्मश्रवणाय । ते सर्वे ममान्तिकाद्धर्मं श्रुत्वानुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयिष्यन्ति ॥
[१५१] अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं (तृष्) प्रदक्षिणीकृत्वा तत्रैवान्तर्धिततः ॥
इइइ. सर्वशूरपरिपृच्छा (२)
[१५२] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यं प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणाम्य भगवन्तमेतदवोचत्- किन्नामो भगवन् पंचमात्राणि राजशतानि ।
[१५३] भगवानाह - शृणु सर्वशूर नदो नाम राजा सुनन्दो नाम राजा । उपनन्दो नाम राजा । जिनर्षभो नाम राजा । ब्रह्मसेनो नाम राजा । ब्रह्मघोषो नाम राजा । सुदर्शनो नाम राजा । जयसेनो नाम राजा । नन्दसेनो नाम राजा । बिंबिसारो नाम राजा । प्रसेनजिन्नाम राजा । विरूढको नाम राजा । एवंप्रमुखानि पंचमात्राणि राजशतानि । एकैको राज विंशतिकोटीसहस्रपरिवारः ते सर्वेऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः स्थापयित्वा राजा विरूढकः
[१५४] पूर्वस्यान् दिशि तृंशत्कोटीसहस्रानि बोधिसत्त्वानामागच्छन्ति । (दक्षिणायां दिशायां पंचाशत्कोटीसहस्रानि बोधिसत्त्वानामागच्छन्ति; पश्चिमायान् दिशायां षष्टि कोटीसहस्राणि बोधिसत्त्वानामागच्छन्ति ।) उत्तरस्यान् दिशि अशीति कोटीसहस्राणि बोधिसत्त्वानामागच्छन्ति । अधस्ताद्दिशि नवति कोटीसहस्रानि बोधिसत्त्वानामागच्छन्ति । ऊर्ध्वायान् दिशि शत कोटीसहस्राणि बोधिसत्त्वानामागच्छन्ति । सर्वे च दशभूमिप्रतिष्ठिताः
[१५५] अथ ते सर्वे बोधिसत्त्वा येन राजगृहं महानगरं येन च गृद्ध्रकूटपर्वतो येन भगवांस्तेनोपसंक्रान्ता भगवतो दर्शनाय (;वन्दनाय) । सर्वे च ते बोधिसत्त्वानुत्तरां सम्यक्संबोधिं संप्रस्थिताः
[१५६] अथ खलु भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमामन्त्रयति (स्म;) गच्छ त्वं सर्वशूर दशसु दिक्षु सर्वलोकधातुषु बोधिसत्त्वानामेवं वद । अद्य तथागतो राजगृहे महानगरे धर्मन् देशयति । तद्यूयं सर्वे दशसु दिक्षु लोकधातुषु स्थिता अञ्जलीन् प्रणामयथ; अनुश्राव्य च मुहूर्तमात्रेण च पुनरेवागच्छ धर्मश्रवणाय ।
[१५७] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद्भगवतः पादौ शिरसाभिवन्द्य भगवन्तं (तृष्) प्रदक्षिणीकृत्य ऋद्धिबलेनान्तर्धितः
[१५८] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो दशसु दिक्षु लोकधातुषु गत्वा बोधिसत्त्वानामारोचयति । अद्य मार्षा शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः सहायां लोकधातौ राजगृहे महानगरे सत्त्वानान् धर्मं देशयति । तद्यूयं साधुकारमनुप्रयच्छथ्; तद्युष्माकमद्यैव हिताय सुखाय महालाभो भविष्यति ।
[१५९] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो दशसु दिक्षु लोकधातुषु गत्वा सर्वबुद्धान् पर्युपास्य बोधिसत्त्वानामारोचयति । तद्यथापि नाम बलवान् पुरुषो च्छटासंघाटं कुर्यादत्रान्तरे सर्वशूरो बोधिसत्त्वो महासत्त्वो येन राजगृहं महानगरं येन च भगवांस्तेनागत्य भगवतः पुरत स्थितः तत्र च सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था सन्निपतिताः बहवश्च देवनागमनुष्यामनुष्याः पंचमात्राणि च राजशतानि सपरिवाराणि सन्निपतितानि । त्रयस्त्रिंशत्कोटीसहस्राणि माराणां पापीयसां सपरिवाराः सन्निपतिता ।
[१६०] अथ खलु पुनः तेन समयेन राजगृहं महानगरं प्रकंपितमथ खलु दशसु दिक्षु लोकधातुषि दिव्यं चन्दनचूर्णं प्रवर्षितम् । दिव्यं च पुष्पवर्षं प्रवर्षितम् । तद्भगवतो मूर्धसन्धौ कूटागारः संस्थितः तेन खलु पुनः समयेन तथागतस्य पुरतः शक्रो देवानामिन्द्रो वज्रं पराहनत्
[१६१] अथ खलु तस्मिन् समये चतुर्दिशं चत्वारो वातराजनः संक्षुब्धाः प्रवान्ति । येन च राजगृहे महानगरे संकरा वा पंसवो वा बालिका वा तत्सर्वं नगराद्बहिः प्रक्षिपन्ति । दशसु दिक्षु लोकधातुषु गन्धोदकवर्षं प्रवर्षन्ति । दशसु दिक्षु लोकधातुषूत्पलपद्मकुमुदपुण्डरीकानि प्रवर्षन्ति । ते च पुष्पास्तेषां सत्त्वानामुपरिमुर्ध्नि पुष्पच्छत्राणि तस्थिरे । तथागतस्य चोपरिमुर्ध्नि उपर्यन्तरीक्षे चतुरशीतिः कूटागारसहस्राणि संस्थितानि । तेषु च चतुरशीतिषु पुष्पकूटागारसहस्रेषु चतुरशीति सहस्राण्यासनानां प्रज्ञप्तानि सप्तरत्नमयानि प्रादुर्भूतानि । सर्वत्र चासने तथागतो निषण्णो धर्मन् देशयति । अथ खल्वयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितः ॥
[१६२] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत्- को भगवन् हेतुः कः प्रत्ययो यदिमान्येवंरूपाणि राजगृहे महानगरे प्रातिहार्याणि; सन्दृश्यन्ते । भगवानाह - तद्यथा कश्चिदेव पुरुषः स्याच्चञ्चलश्चपलोऽहंकारममकारस्थितः स च दरिद्रो भवेत्तस्य राजा शीर्षं परिमार्जयेदथ स पुरुषोऽधिमानाद्यावाद्राजद्वारं गत्वा बलसा तं राजकुलं प्रवेष्टुमिच्छेदथ ते राजामात्यपार्षद्यास्तं पुरुषं गृह्णीयुर्बहुभिश्च प्रकारैस्ताडयेयुर्
[१६३] अथ तेन कालेन तेन समयेन स राजा शृणुयादेतं प्रकृतिं स दरिद्रपुरुषो बलसाभ्यन्तरं प्रवेष्टुकाम इति । श्रुत्वा चास्यैवं भवेदवश्यमयं मम घातयितुकामः ततः स राजा रुष्टस्तान् पार्षद्यानेवं वदेद्गच्छन्तु भवन्त एतं पुरुषं पर्वतविवरं नीत्वा जीविताद्व्यपरोपयथ; सर्वपरिवारं मातापितृपुत्रदुहितृदासीदासकर्मकराणां च व्यसनमापादयथ । अथ ते सर्वे जीविताद्व्यवरोपिताः तस्य (च) सर्वे स्वजनबन्धुवर्गाः परमशोकशल्यसमर्पिता भवेयुः
[१६४] एवमेव सर्वशूर तथागतोऽप्यर्हन् सम्यक्संबुद्धः सत्त्वानान् धर्मन् देशयति । तत्र यथा स पुरुषोऽधिमानिक एवं बालपृथग्जनास्तथागतं रूपवर्णलिंगसंस्थानतो निमित्तमुद्गृह्य तथागतकायमिति संजानन्ति ।
[१६५] तत्र ते बहून् धर्मंच्छ्रुत्वाधिमाने पतन्ति नानाप्रलापान् प्रलपन्ति । अहंकारममकारेणाभिभूताः (सत्त्वाः) स्वयमेव धर्मं न शृण्वन्ति न प्रकाशयन्ति । यः कश्चित्सूत्रं वा गाथां वान्तशो दृष्टान्तं वा तेषामारोचयति । तत्ते न गृह्णन्ति न श्रोत्रमवदधन्ति । वयं स्वयं जानीमह इति । तत्कस्य हेतोर्यथापीदमधिमानत्वात्ते च बाहुश्रुत्येन प्रमादमापद्यन्ते ।
[१६६] ये बालपृथग्जनैः सार्धं समवधानं कुर्वन्ति । न ते तथारूपं धर्मोपसंहितं वचनं श्रोष्यन्ति । तेत्तेन बाहुश्रुत्येन प्रमत्ता भविष्यन्ति । ते तथारूपाः पुरुषाः स्वकाव्यानि स्थापयन्ति । स्वग्रन्थानि दानानि स्थापयन्ति । ते सर्वलोकं चात्मानं च विसंपादयन्ति । व्यर्थं च राष्ट्रपिण्डं प्रभूतं परिभोक्ष्यन्ति । भुक्त्वा च न सम्यक्परिणमयिष्यंति । मरणकालसमये च तेषां महासन्त्रासो भविष्यति ।
[१६७] ते च सत्त्वास्तं वक्ष्यन्ति । बहवस्त्वया वयं शिल्पज्ञानं शिक्षापिताः कथं त्वं स्वमात्मानं न शक्नुषे परिसंस्थापयितुम् । स तेषामेवं वदेन्न शक्यं मार्षा इदानीमात्मानं परिसंस्थापयितुम् ।
[१६८] तत्र ते सत्त्वा(स्तस्य तद्भाषितं श्रुत्वा) नानाप्रकारं परिदेवयिष्यन्ति । यथा तस्यैकपुद्गलस्यर्थेन बहवो ज्ञतृसंघा जीविताद्व्यवरोपिता अनपराधिनः स्वकर्मप्रत्ययेन । एवमेव ते सत्त्वा मरणकालसमये तेषां परिदेवतां नरकतिर्यग्योनिपरायणमात्मानं समनुपश्यन्तः अकल्याणमित्रहेतोः एवमेव युष्माकं ब्राह्मणानामन्यतीर्थिकचरकपरिब्राजकनिग्रन्थानामेवं वदामि । मा यूयं प्रमत्ता भवथः तद्यथापिनामाजातपक्षः शकुनिर्न शक्नोत्याकाशे प्रक्रमितुं देवलोकगमनाय । एवमेव युष्माभिर्(अहंकारममकारस्थितैर्)न शक्यं निर्वाणमनुप्राप्तुं न युष्माकं तथा ऋद्धिः संविद्यते । तत्कस्य हेतोः कर्मप्रकरणेन यूयं कुक्कुटयोन्या इवोत्पन्नाः न चिरेणायं कायो भेदनधर्मा मरणपर्यवसानो भविष्यति । मरणकालसमये निरास्वादनता परितस्यनता च भविष्यति ।
[१६९] किमयमस्माभिरात्मभावः सन्धारितो ये वयं न देवसुखं न मनुष्यलोकसुखं प्रत्यनुभविष्याम । नापि निर्वाणपदस्था भविष्याम; निरर्थकमस्माभिः शरीरमुद्बूढम् । का गतिरस्माभिः कः परायणं भविष्यति । कुत्रोपपत्तिः कुत्र (वा) निरोधो भविष्यति ।
[१७०] अथ (खलु) भगवांस्(पुनरपि) तेषामन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणानमन्त्रयति । मा यूयं मार्षा रत्नमयाज्जंबूद्वीपान्निराशा भविष्यध्वे; मा यायं धर्मरत्नात्परिबाह्या भविष्यथेति । पृच्छथ यूयं मार्षास्तथागतं यद्यदेवाकांक्षथाहं युष्माकं सर्वाभिप्रायान् परिपूरयिष्यामि ।
[१७१] अथ खलु ते सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था उत्थायासनेभ्यः एकांसानि चीवराणि प्रवृत्यांजलयः प्रगृह्य भगवन्तं परिपृच्छन्ति (स्म) । बहूनि भगवं सत्त्वानि रात्रिन्दिवस्तथागतः संसारा परिमोचयति । न च सत्त्वधातोरूनत्वं वा पूर्णत्वं वा प्रज्ञायते । को भगवन् हेतुः कः प्रत्ययः यत्ते सत्त्वा समाना उत्पादनिरोधं दर्शयन्ति ॥०॥
(संघाटे महाधर्मपर्याये सर्वशूरपरिपृच्छा समाप्ता ॥० ॥ ॥)॥
इव्. भैषज्यसेनपरिपृच्छा ।
[१७२] तत्र खलु भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति स्म । महासन्नाहं सन्नह्यन्ति तीर्थ्या । महाकौकृत्यविनोदनार्थाय । महाधर्मोल्काज्वालनाय । महाप्रश्ननिदानं परिपृच्छन्ति । (शृणुथ यूयं कुलपुत्रा इहानन्तापर्यन्त पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुरतो नांततरः सत्त्वधातुः सन्ति च सत्त्वाः ये सत्त्वहितार्थमुत्पादनिरोधं दर्शयंति) पश्चिमे तु काले भविष्यन्ति दहरा सत्त्वा वृद्धा वा ये उत्पादनिरोधं करिष्यन्ति । सन्ति भैषज्यसेन वृद्धा सत्त्वा दहरा इव न किंचिज्जानन्ति ।
[१७३] तद्यथापि नाम भैषज्यसेन कश्चिदेव पुरुषः शिरं शोचयेत नवकानि च वस्त्राणि प्रवृणुयात्स च गृहाद्बहिर्निष्क्रमेत । तमेनं सत्त्वा आमन्त्रयन्ति । सुप्रावृतानि ते नवकानि वस्त्राणीति । अथ कश्चिदेवापरः सत्त्वो भवेत्स शिरः शोचयेत पुराणकानि च वस्त्राणि (शोचयित्वा) प्रावृणुयात्तानि च शिथिलकानि भवन्ति न च शोभन्ते । स च पुरुषः सुस्नातशिरा भवति वस्त्रं चास्य न शोभते । एवमेव भैषज्यसेन संति वृद्धा सत्त्वा ये जंबूद्वीपं न शोभयन्ति । दहरास्तु सत्त्वा उत्पादनिरोधं दर्शयन्ति ।
[१७४] अथ खलु ते सर्वेऽन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणा उत्थायसनाद्भगवन्तमेतदवोचन् - को भगवन्नस्माकं वृद्धो वा दहरो वा भगवानाह - वृद्धा यूयं पुनः पुनर्नरकतिर्यक्प्रेतेषु दुःखां वेदनां दृष्ट्वा तदद्यापि यूयं तृप्तिं नाधिगच्छथ;
[१७५] अथ खलु ते सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्थाः सर्वे च नागराजानो भगवन्तमेतदवोचन् - न भूयो भगवन्नुत्सहाम संसारे दुःखां वेदनामनुभवितुं ते चान्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणा एवमाहुः न सन्ति दहरा सत्त्वा ये शक्नुयुर्धर्मतां साक्षात्कर्तुम् ॥
[१७६] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- पश्य भदन्त भगवन् कियद्दुरधिमोच्या इमे सत्त्वाः भगवानाह - शृणु भैषज्यसेन संप्रतं तथागतः सर्वलोकप्रत्यक्षं करोति ।
[१७७] अथ खलु चतुनवति कोटीसहस्राणि नवकानां सत्त्वानां ते तथागतस्य पुरतः स्थिताः न च तथागतं बन्दन्ति नालपन्ति न संलपन्ति । तूष्णींभावेनाधिवासयन्ति । अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- को भगवन् हेतुः कः प्रत्ययो यदेते सत्त्वा भगवन्तं नालपन्ति न संलपन्ति न वन्दन्ति न च भगवन्तं परिपृच्छन्ति । भगवानाह - शृणु भैषज्यसेन ये सत्त्वा एवं वदन्ति न शक्यं नवकैः सत्त्वैर्धर्मता साक्षात्कर्तुम् ॥ त एते भैषज्यसेन नवकाः सत्त्वा युष्माभिर्द्रष्टव्याः ते च सत्त्वा एवमाहुर्वयं भदन्त भगवन्नवकाः सत्त्वा वयं भदन्त सुगत नवकाः सत्त्वा । भगवानाह - एषां भो सत्त्वानां लोकप्रत्यक्षं सांप्रतं स्वशरीराल्लोकस्य प्रमानं दर्शयथ ।
[१७८] तेन खलु पुनः कालेन तेन समयेन चतुर्नवति कोटीसहस्राणि नवकानां सत्त्वानां कायस्य भेदादन्तरिक्षे स्थित्वा दशभूमिप्रतिलब्धा अभूवनथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- सुलब्धा लाभा भगवन्नीदृशाः सत्त्वाः ये संसारे परिक्षयाय पर्यदानाय वीर्यमारभन्ते । अद्यैव भगवन्निमे सत्त्वा उत्पन्नाः अद्यैव भगवन्निमे सत्त्वाः परिमुक्ताः (अद्यैव) सर्वे दशभूमिप्रतिष्ठिता दृष्टाः ॥
[१७९] अथ खलु सर्वब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था नागराजानोऽपि माराश्च पापीयानं सपरिवारमुपसंक्रान्तं विचक्षुष्करणाय; सर्वे च ते भगवन्तमेतदवोचन्निह वयं भगवन् तथागतस्यान्तिकमुपसंक्रान्ता विचक्षुष्करणाय । ते वयं भगवन्निमन् धर्मपर्यायं श्रुत्वा प्रसादप्रतिलब्धा अभूवन् बुद्धे च धर्मे च । तत्रास्माकं भगवन् सर्वेषामेवं भगवत्येवंरूपं बुद्धसुखं प्रतिलभेम; ॥ एवंरूपाश्च तथागता अर्हन्तः सम्यक्संबुद्धा लोके भवेम;
[१८०] भगवानाहैवमेतद्भद्रमुखा एवमेतद्यथा यूयं तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकमुपसंक्रान्ताः तैर्युष्माभिरिमं संघाटं (सूत्रं) धर्मपर्यायं श्रुत्वानुत्तरायाः सम्यक्संबोधेश्चित्तान्युत्पादितानि । तेन यूयं भद्रमुखाः कुशलमूलेन न चिरेण कालेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यध्वे । अथ समन्तरभाषिता च भगवतेयं वाग्
[१८१] अथ तावदेव तेषां सर्वेषामन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणानामनुत्पत्तिकधर्मक्षान्तिप्रैत्लब्धोऽभूवत्सर्वे च दशभूमिप्रतिष्ठिता बोधिसत्त्वाः संवृत्ताः सर्वे च ते बोधिसत्त्वा उपर्यन्तरीक्षे सप्त तालान् वैहायसमभ्युद्गम्य सप्तरत्नमयानि कूटागाराणि तथागतस्योपनामयन्ति । सर्वे च नानाविकुर्वाधिष्ठानर्ध्यभिसंकारानभिसंस्कुर्वन्ति । अथ तावदेव ते सर्वे भगवत उपरिमूर्ध्नि स्थित्वा भगवन्तं नानापुष्पैरभ्यवकिरन्ति । तथागतांश्च मनसि कुर्वन्ति । स्वकाये च बुद्धसंज्ञामुत्पादयन्त्यनेकानि च देवपुत्रकोटीनियुतशतसहस्राणि (दिव्यपुष्प्[ऐ]स्) तथागतमभ्यवकिरन्ति (स्मः) ।
[१८२] एवं च वाचमभाशन्त; महालाभः श्रमणो गौतमः महाक्षेत्रं लोकनाथः समाधिबलाधानप्राप्तः विज्ञो विज्ञार्थिकः यः ईदृशान् सत्त्वान् संसारादनुपूर्वेणोपायकौशल्येन परिमोचयत्येकेन सुभाषितमात्रेण एतावन्ति सत्त्वानि संसारात्परिमुच्यन्ते ॥
[१८३] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत्- को भगवन् हेतुः कः प्रत्ययो य एत देवपुत्रा एवं वान्निश्चारयन्ति । बहूनि चर्ध्यभिसंस्कारं कुर्वन्ति । बहुभिश्च गुणवर्णस्तवैस्तथागतमभिस्तवन्ति स्म । भगवानाह - शृणु कुलपुत्र न हि ते मां स्तुन्वन्ति । स्वकायमेव स्तुन्वन्ति । स्वकायमेव धर्मराजासने स्थापयिष्यन्ति । स्वकायमेवग्रधर्मासने प्रतिष्ठापयिष्यन्ति । स्वकायादेव धर्मरश्मिन्निश्चारयिष्यन्ति । सर्वबुद्धपरिगृहीताश्च भविष्यन्त्यनुत्तरास्याः सम्यक्संबोधेरभिसंबोधायाभिसंबुध्य च धर्मन् देशयिष्यन्ति (च) ॥
[१८४] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- बहवो भदन्त भगवन् सत्त्वाः बहवो भदन्त सुगतः सत्त्वा रात्रिन्दिवं परिमुच्यन्ते तदद्यापि सत्त्वानां क्षयो न भवति । भगवानाह - साधु साधु भैषज्यसेन यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे । शृणु भैषज्यसेन तद्यथापि नाम भैषज्यसेन कश्चिदेव पुरुषो भवेदाढ्यो महाधनो महाभोगः प्रभूतभोगः बहुधनधान्यकोशकोष्ठागारसमन्वागतः बहुदासदासीकर्मकरपौरुषेयानि चास्य स्युः बहूनि च धनस्कन्धानि भवेयुः बहूनि च क्षेत्रारामाणि संविद्येरन् बहूनि च धनधान्यानि । तद्यथा यवगोधुमशालितिलमाषमुद्गादीनि स च पुरुषो वसन्तकाले सर्वानि तानि धनधान्यानि वापयेत । अथ यावदपरेण कालसमयेन सर्वाणि तानि धनधान्यानि परिपद्यरन् स परिपक्वानीति विदित्वा स यावदभ्यन्तरगृहे प्रवेशयेत; स पुरुषस्तानि धनधान्यानि गृहस्याभ्यन्तरे पृथक्पृथक्स्थापयति । स्थापयित्वा परिभुंक्ते । यावद्वसन्तकाले (समये) पुनरेव तानि बीजानि वापयति ।
[१८५] एवमेव भैषज्यसेन इमे सत्त्वाः पूर्वं शुभं कर्म कृत्वा पश्चात्तेषां कर्मणां परिक्षयात्पुनः पुनरपि पुण्यक्षेत्रमेषन्ते कुशलमूलान्यवरोपयन्ति । कुशलमूलान्यवरोपयित्वा तत्र च कुशलधर्मे प्रतिपत्य संपादयन्ति । प्रतिपत्तिसंपन्ना सर्वधर्मान् वर्धयन्ति । सर्वधर्मान् वर्धयित्वा प्रीतिप्रामोद्यमुत्पादयन्ति । तेन च प्रीतिप्रामोद्यचित्तेन भैषज्यसेनानेकानि कल्पकोटीसहस्राणि न नाश्यन्ते । एवमेव भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्त्वो न कदाचिद्विनाशधर्मा भवति । संक्षिप्तेन सर्वधर्मान् प्रजानाति ।
[१८६] आह । कथं भगवन् प्रथमचित्तोत्पादिको बोधिसत्त्वः स्वप्नं पश्यति । भगवानाह । बहूनि भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्त्वः स्वप्नान्तरे भयानि पश्यति । तत्कस्य हेतोर्यदा स्वप्नान्तरे भयानि पश्यति । तदा सर्वपापकानि कर्माणि परिशोधयति । न शक्यं भैषज्यसेन पापकर्मणा सत्त्वेन तीव्रं दुःखमपनयितुं न च पापेन स्वप्नेन दृष्टेनास्य भयं भवति ।
[१८७] भैषज्यसेन आह - कतमानि भगवन् प्रथमचित्तोत्पादिको बोधिसत्त्वः स्वप्नान्तरे भयानि पश्यति । भगवानाह - अग्निं भैषज्यसेन प्रज्वलितं पश्यति । तत्र तेन बोधिसत्त्वेनैवं चित्तमुत्पादयितव्यं सर्वक्लेशानि मे दग्धाः द्वितीयं भैषज्यसेन उदकं पश्यति लुडितं संप्रलुडितम् । तत्र तेन प्रथमचित्तोत्पादिकेन बोधिसत्त्वेन न भेत्तव्यम् । तत्कस्य हेतोः एवं हि भैषज्यसेन बोधिसत्त्वेन सर्वमोहबन्धनानि विनिवर्त्य सर्वपापक्षयं कृतं भवति । तृतीयं भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्त्वः स्वप्नं पश्यति महाभयम् । आह - कतमं भगवन्
[१८८] भगवानाह - स्वशरीरे शीर्षं मुण्डितं पश्यति । तत्र तेन भैषज्यसेन प्रथमचित्तोत्पादिकेन बोधिसत्त्वेन न भेत्तव्यं तत्कस्य हेतोः तेनैवं चित्तमुत्पादयितव्यं रागद्वेषमोहानि मे मुण्डितानि भवन्ति । षड्गतिकं च मे संसारं पराजितं भविष्यति । न हि तस्य नरकावासो भविष्यति । न तिर्यक्षु न प्रेतेषु (वा) नासुरेषु (वा) न नागेषु न देवेषु परिशुद्धेषु भैषज्यसेन बुद्धक्षेत्रेषु प्रथमचित्तोत्पादिको बोधिसत्त्वः उपपत्तिं प्रतिगृह्णाति ।
[१८९] (भविष्यति) भैषज्यसेन पश्चिमे काले पश्चिमे समये यदि कश्चित्सत्त्वो बोधौ चित्तं परिणमयिष्यति । तेन महती परिभाषणा द्रष्टव्या । परिभूतवासश्च भविष्यति । तत्र(तेन) भैषज्यसेन प्रथमचित्तोत्पादिकेन बोधिसत्त्वेन न परिखेदचित्तमुत्पादयितव्यं न व्यवसितव्यम् ।
[१९०] बहवो भैषज्यसेन मया धर्मा देशिताः मया च भैषज्यसेनानेकानि कल्पनियुतशतसहस्रानि दुष्करचर्या चीर्णा न मया भैषज्यसेन राज्यभोगार्थाय वा वृत्तिभोगार्थाय वा ऐश्वर्यभोगार्थाय वा दुष्करचर्या चीर्णाः स्वभावधर्मावबोधाय भैषज्यसेन मया दुष्करचर्या चीर्णाः न च मे तावदनुत्तरा सम्यक्संबोधिमभिसंबुद्धा यावन्न मयायं धर्मपर्यायः श्रुतः यस्मिन्स्तु भैषज्यसेन कालसमये मयायं संघाटो धर्मपर्याय श्रुतः तत्रैव मे दिवसे अनुत्तरा सम्यक्संबोधिमभिसंबुद्धा गंभीरो यं भैषज्यसेन धर्मपर्यायः दुर्लभोऽस्य भैषज्यसेन धर्मपर्यायस्य कल्पकोटीनियुतशतसहस्रैरपि श्रवः परमदुर्लभो भैषज्यसेन तथागतानामुत्पादः परमदुर्लभा भैषज्यसेनास्य धर्मपर्यायस्य धारकः
[१९१] ये ते इमन् धर्मपर्यायं श्रोष्यन्ति । सर्वे ते नुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । कल्पशतसहस्रं भैषज्यसेन सत्त्वा संसारात्पश्चान्मुखं करिष्यन्ति । परिषुद्धं च बुद्धक्षेत्रं प्रतिलप्स्यन्ते । निरोधमार्गं च प्रज्ञस्यन्ति । भव्याश्च ते निश्रयं प्रज्ञातुम् । भव्याः कुशलस्थानं प्रज्ञतुम् । भव्या अभिज्ञाकुशलस्थानं प्रज्ञतुं भव्याः कुशलस्थाननिरोधं प्रज्ञातुम्
[१९२] निरोधमेव भैषज्यसेन किमर्थमुच्यते । आह । अर्थ उच्यते भगवन् धर्मस्थानं भगवानाह - कतमं भैषज्यसेन धर्मस्थानम् । आह । धर्म उच्यते भगवन्नारब्धवीर्यता । आरब्धशीलता । शीलसमन्वागमता धर्मनिधानमित्युच्यते । इदं भगवन् धर्मनिधानं संभवति । भगवानाह - साधु साधु भैषज्यसेन यस्(त्वं) तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे ।
[१९३] आह । केन कारेणन भगवन् तथागता लोक उत्पद्यन्ते । भगवानाह - ये भैषज्यसेन बाहुश्रुत्यसमन्वागमं प्रजानन्ति । ते तथागतानामुत्पादं प्रजानन्ति । ते तथागतानामुत्पादं ज्ञात्वा इदं तथागतानामुत्पादसुखस्थानं प्रजानन्ति । यदा च तथागता लोक उत्पद्यन्ते तदा सत्त्वा सर्वधर्मान् प्रजानन्ति । उपायकुशलान् धर्मान् प्रजानन्ति । लौकिकलोकोत्तरान् धर्मान् प्रजानन्ति । लौकिकलोकोत्तराणि ज्ञानानि प्रजानन्ति ।
[१९४] आह ज्ञानमेवं ज्ञात्वा कतमं निर्वाणं प्रजानन्ति । भगवानाह - धर्ममेव भैषज्यसेन प्रजानन्ति । धर्ममेव ज्ञात्वा (एवमेव) भैषज्यसेन धर्मसंग्रहं प्रजानतां प्रथमो लाभ उत्पद्यते । यथाश्रुतं गृह्य धार्मिकमेव लाभो भविष्यति ।
[१९५] तद्यथापि नाम भैषज्यसेन कश्चिदेव पुरुषो वाणिजको भवेत्स लाभहेतोर्गच्छन् परक्यस्वकस्य सुवर्णस्य पुरुषभारसहस्रं गृहीत्वा गच्छेत्तस्य गच्छतस्तौ मातापितरावेवमाहुतुः शृणु कुलपुत्र इदं सुवर्णस्य पुरुषभारसहस्रं गृहीतं परक्यस्वकस्य च; त त्वयेदं सुवर्णं सुगृहीतं कर्तव्यं न च किंचिदतो विनाशयितव्यं महालाभं कृत्वा सुवर्णमेव सुगृहीतं कुरु तदस्माकं महालाभो भविष्यति । सुखं च जीविष्यामः स च पुत्रस्तौ मातापितरावेवं वदेदेवं करिष्यामि । इत्युक्त्वा स वाणिजकः सुवर्णं गृहीत्वा गच्छेदथ स वाणिजकः प्रमादाद्यावन्मासमात्रेण सर्वं सुवर्णं विनाशयेद्विलयं कुर्यात्
[१९६] अथ स पुरुषः परमचिन्तामापन्नः शोकशल्येनाविद्धहृदयः सह्रीरवत्राप्येन च स्वगृहं न परविशेत; तस्य तौ मातापितरौ शृणुयातामेवं युवाभ्यां पुत्रेण तत्सुवर्णं सर्वं विनाशितमिति श्रुत्वा निराशीभूतौ शोकशल्येनाभ्याहतहृदयौ वस्त्राणि पाटयतः शोचतः क्रन्दतः एवं च परिदेवतः दुष्पुत्रोऽस्माकं गृहे पुत्ररूपेणोत्पन्नः सकलमेव गृहं विनाशीतवानस्माकमनाथं कृत्वा दासौ कर्मकरौ कृतौ; तस्य तौ मातापितरौ चिन्तापरिगतहृदयौ निराशौ कालगतौ ततस्तेन पुत्रेण श्रुतं मतापितरौ मे निराशौ कालगतौ; सोऽपि पुत्रो निराश एव कालगतः
[१९७] एवमेव भैषज्यसेन तथागतोऽप्येतमर्थं भाषते । ये सत्त्वा मम शसने न प्रसीदन्ति ते निराशीभूता मरणकालसमये शोकशल्याभ्याहतहृदया महाधर्मरत्नबहिष्कृताः कालं कुर्वन्ति । यथा तौ मातापितरौ निराशौ शोचतः परिदेवतः सुवर्णहेतोः शोकशल्याभ्याहतहृदयौ परक्यस्वकेन सुवर्णेन शोकशल्यपरिगतौ चिन्तामापद्य कालगतौः
[१९८] एवमेव भैषज्यसेन ये मम शसने न प्रसीदन्ते पश्चान्मरणकालसमये परितप्यमानाः परिदेवन्तो दुःखां वेदनां वेदयन्ति । पूर्वकृतानि च पुण्यानि परिभुक्त्वा न भूयोऽन्यानि पुण्यानि कुर्वन्ति सुक्षेत्रगतानि । तत्र तेषां पुण्यपरिक्षीणानां शोकशल्यपरिगतहृदयानां तेन कालेन तेन समयेन नरकतिर्यग्योनियमलोकोपपत्तिं घोरां दारुणान् दृष्ट्वा मरणकालसमये एवं भवति । को मे त्राता भवेद्यदहं नरक (गति) तिर्यक्प्रेतयमलोकविषयं न पश्येयन्न च तां दुःखां वेदनां वेदयेयम् ।
[१९९] तस्यैवं प्रलपतः परलोकमाक्रमतः तौ मातापितरावेवमाहतः किं करिष्याम पुत्रक; गाथाभिश्चाद्ध्याभाषतः (५४) ग्रहीतुं शक्यते नैव व्याधिर्दुःखं महाभयम् । नास्ति ते मरणं पुत्र ग्लानस्य मरणाद्भयम् ।
(५५) मोक्षो भविष्यते तुभ्यं व्याधेर्हि भयभैरवात्
धृतिं कुरुष्व हे पुत्र ततः सिद्धिर्भविष्यति ।
पुत्र आह -
(५६) निरुद्ध्यते मे विज्ञानं कायो मे पीड्यते भृशम्
सर्वे अङ्गानि दुःखन्ति मृत्युं पश्यामि आत्मनः
(५७) न पश्यतश्चक्षुषी मे कर्णौ मे न शृणोन्ति च ।
श्रोत्रं पुनर्न लप्स्यामि न कायः संसहिष्यति ।
(५८) अङ्गमंगानि दुःखन्ति काष्ठा इव अचेतनाः
विस्वादयसि मे अम्ब नागतं मरणं तव;
माता आह -
(५९) वक्तुं नार्हसि पुत्रैवं मा मे त्रासपरां कुरु ।
कायं तव ज्वराक्रान्तं विप्रकाराणि पश्यसि ।
पुत्र आह -
(६०) न पश्यामि ज्वरं कायेर्न च व्याधिर्न दुःखति ।
पश्यामि मरनं घोरं हतं कायं च मे भृशम्
(६१) पश्यामि आत्मना सर्वं कायं दुःखप्रपीडितम् ।
गच्छामि कस्य शरणं को मे त्राता भविष्यति ।
(६२) मातापिता वदेत्पुत्र देवक्रोधं हि ते भवेत्
देवेभ्यो यजनं कृत्वा ततः स्वस्तिर्भविष्यति ।
पुत्रा आह -
(६३) करिष्यथा यूयमेव येन स्वस्तिर्भवेन्मम ।
शीघ्रं शीघ्रं च गत्वा वै पृच्छथा देवपालकम्
[२००] अथ तस्य तौ मातापितरौ देवकुकं गत्वा देवस्य धूपं दापयन्ति । अथ स देवपालकः देवस्य धूपं दत्वैवं वाचं भाषते । देवस्ते क्रुद्धः देवस्योपकारः कर्तव्यः यजनं कर्तव्यम् । तत्र पशुर्घातयितव्यः पुरुषश्च घातयितव्यः ततस्ते पुत्रो व्याधेः परिमोक्ष्यते । अथ तौ मातापितरौ तस्यां वेलायामेवं चिन्तयतः किं करिष्यामो दरिद्राश्चास्म । यदि देवो न परसीदिष्यति तदस्माकं पुत्रः कालं करिष्यति । अथ वा प्रसादं कुर्यात्तद्वयं परमदरिद्राः पशुं पुरुषं चानयाम ।
[२०१] अथ तौ शीघ्रशीघ्रं स्वगृहं गत्वा यत्किंचिद्गृहे परिष्कारं संविद्यते तत्सर्वं विक्रीय; पशुक्रयार्थे गच्छतः अथ तावदन्यतरं पुरुषमेवं वदेयुः देहि भोः पुरुषः सुवर्णमस्माकं याचितं यदि शक्नुमो दशमे दिवसे पुनरपि दातुं तच्छोभनमथ न शक्नुमो दातुं तद्वयं तव दासा भविष्यामः कर्मकराः तौ च तं सुवर्णं गृहीत्वा गच्छेयुः पशुं पुरुषं क्रोतुम् ।
[२०२] अथ ताभ्यां च पशुः पुरुष क्रीतः स च पुरुषो न जानीयाद्यन्मामेते जीविताद्व्यवरोपयिष्यन्ति । अथ तौ मातापितरौ संमोहमापन्नौ न भूयः स्वगृहं प्रविष्टौ । तौ देवकुलं गत्वा तं देवपलकमामन्त्रयन्ति । शीघ्रमिदानीं यजनं कुरुष्व ।
अथ तौ मातापितरौ स्वयमेव तं पशुं घातयतः तं च पुरुषं जीविताद्व्यवरोपयतः ततः स देवपालक आरब्धो यज्ञं यजनाय मेदं प्रज्वालयति । ततः स देवोऽवतीर्य एवं कथयति । तव पुत्रो मया परिगृहीता इति । ततस्तौ मातापितरौ प्रीतिप्रामोद्येन स्फुटावाहतुः वरं पुत्रो जीवतु वयं दासा भविष्यामः ततस्तौ मातापितरौ निवर्त्य सुयष्टां देवं कृत्वा यावत्स्वगृहं गत्वा तदा तं पुत्रं कालगतं पश्यन्ति । ततस्तौ मातापितरौ महता दुःखदौर्मनस्येन शोकशल्येनाविद्धहृदयौ निराशीभूतौ । तत्रैव कालगतौ । एवमेव भैषज्यसेनाकल्याणमित्रसंसर्गता द्रष्टव्याः
[२०३] आह । पृच्छामि (तावद्) भगवन् पृच्छामि सुगत; आह । पृच्छ भैषज्यसेन । आह । कुत्र भगवन् तेषां सत्त्वानामुपपत्तिः कोऽभिसंपरायः आह । अलं भैषज्यसेन किन् तवानेनार्थेन परिपृष्टेन । आह । पृच्छामि भगवन् पृच्छामि सुगत; भगवानाह । तत्र भैषज्यसेन माता रौरवे महानरके उपपन्ना; पिता संघाते महानरके उपपन्नः पुत्रस्तपने महानरके उपपन्नः देवपालको महाविचौ महानरके उपपन्नः
[२०४] आह । अनपराधिकस्य भगवन् पुरुषस्य कुत्रोपपत्तिः कोऽस्याभिसंपरायः । भगवानाह - इह भैषज्यसेनानपराधिकस्य पुरुषस्य त्रायस्त्रिंशानन् देवनां सहभाव्यतायामुपपत्तिर्द्रष्टव्या; आह । को भगवन् हेतुः कः प्रत्ययो यत्स पुरुषस्त्रायस्त्रिंशता देवानां सहभाव्यतायामुपपन्नः भगवानाह - शृणु भैषज्यसेन स पुरुषो मरणकालसमये जीविताद्व्यवरोप्यमाणस्तथागतस्योपरि चित्तं प्रसाद्यैवं वाचमभाषतः नमस्तस्य भगवते तथागतस्यार्हतः सम्यक्संबुद्धस्येत्येकवाराकृतम् । स तेन भैषज्यसेन कुशलमूलेन षष्टिः कल्पान् त्रायस्त्रिंशतां देवानां सुखमनुभविष्यति । अशीतिः कल्पां जात्या जातिस्मरो भविष्यति । जातौ जातौ च सर्वशोकविगतो भविष्यति । जातमात्रश्च सर्वदुःखानि निर्वापयिष्यति । न हि ते सर्वसत्त्वा शक्यं परिनिर्वापयितुम्
[२०५] एवमुक्ते भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- कथं भगवन्न शक्यं सर्वसत्त्वाः परिनिर्वापयितुं भगवानाह - वीर्यं भैषज्यसेनारब्धव्यमाह । कतमो भगवन् वीर्यारंभः भगवानाह । शृणु भैषज्यसेन वीर्यमुच्यते फलानां दर्शनम् । यदुत स्रोतआपत्तिफलं नाम वीर्यस्थानम् । सकृदागामिफलं नाम वीर्यस्थानम् । अनागामिफलं नाम वीर्यस्थानम् । अर्हत्वफलमर्हन्निरोधश्च नाम वीर्यस्थानम् । प्रत्येकबुद्धफलं प्रत्येकबुद्धफलज्ञानं नाम वीर्यस्थानम् । बोधिसत्त्वभूमिफलं च बोधिस्थानं वीर्यस्थानं नाम । इमे भैषज्यसेन वीर्यस्थानानां नामानि ।
[२०६] आह । कथं भगवन् स्रोतआपन्नो दर्शयितव्यः स्रोतआपत्तिफलञ्च । भगवानाह । तद्यथापि नाम कश्चिदेव भैषज्यसेन पुरुष वृक्षं वापयेत । वापितस्य वृक्षस्य तत्रैव दिवसे अङ्कुरं विरुह्येत । यत्रैव दिवसे अङ्कुरं विरुह्यन्त तत्रैव दिवसे तदङ्कुरं योजनमधस्ताद्गच्छेते; द्वितीयश्च पुरुष एवमेव वृक्षं वापयेत; अथ तत्रैवदिवसे वातक्षोभेन तस्य वृक्षस्य नाङ्कुरानि विरुह्येरनथ स पुरुषस्तस्मात्स्थानात्तं वृक्षमुद्धरेतथान्यतरश्च पुरुषः कलहभण्डनविग्रहविवादं कुर्यात्किमर्थं मे भूमिं खनसीति ।
[२०७] तेन च कालेन तेन समयेन राजा अश्रौशीदेवं द्वौ पुरुषौ परस्परकलहभण्डनविग्रहजातौ विवदतः तेन च राज्ञा तयोर्दूतः प्रेषितः गच्छ भोः पुरुष तौ द्वौ पुरुषावानय; एवं देवेति स पुरुषस्तस्य राज्ञः प्रतिश्रुत्य त्वरमाणरूपः प्रधात्वा तौ पुरुषावेतदवोचत्- राजा युवयोरामन्त्रयति । अथ तावदेव तत्रैव पुरुष भीतस्त्रस्त द्वितीयश्च पुरुषोऽभीतोऽनुत्रस्तः येन स राजा तेनोपनीतावुपनीय राज्ञ पुरतः स्थापितावथ स राजा तयोरेवमाह । किमिदं भो युवयोः कलहभण्डनविग्रहविवादो जातः
[२०८] अथ खलु तौ द्वौ पुरुषावुत्थाय तं राजानमेतदवोचतां शृणु महाराजास्माकं न किंचित्पृथिवीप्रदेशः संविद्यते । याचितके पृथिवीप्रदेशे वृक्षो वापितः तत्रैव दिवसे वापितस्तत्रैव दिवसेऽङ्कुरं पत्राणि पुष्पाणि फलाणि च प्रादुर्भूतानि आमार्धं पक्वार्धं च । एतेन च द्वितीयेन पुरुषेण तत्रैव दिवसे तस्मिन् पृथिवीप्रदेशे वृक्षो वापित । तस्य च वृक्षस्य नांकुराणि रोहन्ति । वातेन क्षुभितेन न पत्राणि न पुष्पाणि न फलानि प्रादुर्भूतानि । न च महाराज योजनमधस्तादस्य मूलं गच्छति । स एष पुरुषो मया सार्धं विवदति तवापराध इति । अपि (तु) च देव स्वयमेव परीक्ष्य जानीयान्नात्र मम किंचिदपराधः संविद्यते ।
[२०९] अथ खलु स राजा त्रिंशत्कोट्योऽमात्यानामाहूयैकध्येऽसंपात्यैवमाह । कथयथ यूयम् । आमात्या आहुः किं कथयाम महाराज राजाह । क्व युष्माभि दृष्टं वा श्रुतं वा यत्रैव दिवसे वृक्षो वापितस्तत्रैव दिवसेऽङ्कुरं विरुह्यते । पत्राणि पुष्पानि फलानि च जायन्ते । पक्वर्ध-म्-आमार्धानि निश्चयमिदं भवद्भिः कर्तव्यम् । अथ खलु ते अमात्य उत्थायासनात्तं राजानमेवमाहुः अस्माकं महाराज निश्चयमिदं न शोभते कर्तुं न च शक्ष्यामोऽस्य निश्चयं वक्तुम् । विस्मयमिदं महाराज एष एव पुरुषस्तावत्प्रष्टव्यः वद भोः पुरुष किं सत्यमेतमर्थं यद्वदसि । आह । सत्यं महाराजैतमर्थम् । राजाह ।
(६४) न श्रुतं नैव च पुष्याम दुःश्राद्धेयं वचस्तव ।
वृक्षो यत्र दिने वुप्तस्तत्रैवाङ्कुरितो दिने ।
(६५) पत्राः पुष्पं फलं दत्तं दिने तत्रैव भाषसि ।
कृतांजालिः स पुरुषस्तं राजानमथाव्रवीत्
(६६ ब्) गच्छ स्वयं वापय तरुं पश्य रुह्यति अङ्कुरम् ॥
[२१०] अथ खलु स राजा तृंशत्कोटिभिरमात्यैः सार्धं बहिर्निष्क्रामति । तौ च द्वौ पुरुषौ चारकावरोधं कारयति । ततः स राजा स्वयमेव वृक्षं वापयति । न च स वृक्षो अङ्कुराणि ददाति न पत्राणि न पुष्पाणि न फलानि । अथ स राजा रुष्ट एवमाह । गच्छन्तु भवन्तः शीघ्रमानयन्तु दारुपाटकानि कुठाराणि । यावदानयित्वा यस्तेन पुरुषेण वापितो वृक्षः सपत्राणि पुष्पफलः प्रादुर्भूतः तं वृक्षं रोषाच्छेदयति ।
[२११] तं चैकं वृक्षं च्छिन्नं द्वादश वृक्षाः प्रादुर्भूताः द्वादश वृक्षा च्छिन्नाश्चतुर्विंशति वृक्षाः प्रादुर्भूताः सप्तरत्नमयाः समूलाः सपत्राः सपहलाः सांकुराः अथ तेभ्याश्चतुर्विंशति वृक्षेभ्यश्चतुर्विंशति पक्षिणः कुर्कुटाः प्रादुर्भूतानि । सुवर्णचूडानि सुवर्णतुण्डानि सप्तरत्नमयानि पक्ष्माणि । अथ खलु स राजा रोषाभिभूतः स्वहस्तेन कुठारं गृह्य तं वृक्षं पराहनति । ततश्च वृक्षात्पराहतादमृतोदकं प्रवहति ।
[२१२] अथ (खलु) स राजा संविग्नमना आज्ञापयति । गच्छथ तौ पुरुषौ ततश्चारकाबन्धनान्मोचयध्वमेवं देवेति । तत्क्षनमेव प्रधावित्वा तौ पुरुषौ ततश्चारकबन्धनान्मोक्षयित्वा येन तं वृक्षं तेनोपनीयतः अथ स राजा पप्रिच्छ । किमयं वृक्षस्त्वद्वापितः एको भूत्वा च्छिद्यमानो द्विगुणविद्ध्याभ्वर्धमानः यावच्चतुर्विंशतुधा गतः मद्वापितस्तु वृक्षो नांकुराणि न पत्राणि न पुष्पाणि न फलानि दत्तवान् ततः स पुरुष एवमाह । यादृशानि महाराज मम पुण्याणि न तव तादृशानि पुण्यानि संविद्यन्ते ।
[२१३] अथ खलु ते त्रिंशदमात्यकोट्यस्तस्य पुरुषस्योभौ जानुमण्डलौ पृथिव्यां प्रतिष्ठाप्यैवमाहुः त्वया राज्यं कारयितव्यं नायं पूर्विमको राजा शोभते । अथ (खलु) स पुरुषस्तानमात्यान् गाथाभिः प्रत्यभाषत; ॥
(६६ द्) राज्यभोगैश्च मे नार्थो न धान्येन धनेन वा ।
(६७) प्रसादो मम बुद्धेभ्यो भवेयं द्विपदोत्तमः ॥
ब्रजेन्निर्वाणधातौ हि शान्ते यत्र तथागतः
(६८) देशेय धर्मं युष्माकं निर्वाणपुरगामिनम् ॥
पर्यंकमबन्धित्वा प्रतिज्ञामकरोत्ततः
(६९) पूर्वं मया कृतं पापं राज्ञो बन्धनमागतः
इदन् तु कृत्वा प्रणिधिं मम पापक्षयो भवेत् ॥
[२१४] अथ खलु ते चतुर्विंशति पक्षिणकुक्कुटकोट्यो वज्रतुण्डेन तूर्याणि पराहनति स्म ॥ अथ खलु तेन कालेन तेन समयेन द्वात्रिंशति कूटागारसहस्राणि प्रादुर्भूतानि । एकैकं च कूटागारं पंचविंशतियोजनप्रमाणं प्रादुरभवतेकैकस्मिंश्च कूटागारे पंचविंशति पक्षिणकुक्कुटाः प्रादुर्भूतानि । सुवर्णचूडानि सुवर्णतुण्डानि सुवर्णमुखानि । ते मानुष्यकं वाचं निश्चारयन्ति ।
(७०) असाधुस्ते महाराज यद्बृक्ष च्छेदितस्त्वया ।
कोटीशतानि वृक्षाणां चतुर्विंशत्स्थिताः पुनः
(७१) पापेन कर्मणानेन अनिष्ठं भोक्ष्यसे फलम्
[[न]] जानीषे कीदृशः सत्त्वो येनायं वापितो द्रुमः
राजाह -
(७२) न जानामि इममर्थं व्यकुरुधवं महातपा ।
कीदृशोऽसौ महासत्त्वो येनायं वापितो द्रुमः पक्षिण आहुः
(७३) एषो हि लोकप्रद्योतो उत्पत्स्यति विनायकः
मोचकः सर्वसत्त्वानां संसारभवबन्धनात् ॥
राजाह -
(७४) कतमो द्वितीयः सत्त्वो यस्य वृक्षं न रूहति ।
किं वा कर्म कृतं तेन पापमाचक्ष्व मे द्विजाः
पक्षिण आहुः -
(७५) देवदत्तो हि मूढोऽसौ यस्य वृक्षं न रूहति ।
न कृतं कुशलं किंचिद्रुह्यते स्य कथं द्रुम ॥
[२१४] अथ खलु तेन कालेन तेन समयेन तृंशत्कोट्य आमात्यानामिमन् धर्मपर्यायं श्रुत्वा सर्वे दशभूमिप्रतिष्ठिता बोधिसत्त्वा अभिज्ञाप्रतिलब्धाः संवृत्ताः स च राजा दशभूमिप्रतिष्ठितः कुशलधर्माभिसमयमनुप्राप्तः ॥
[२१५] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- को भगवन् हेतुः कः प्रत्ययो यत्त्रिंशत्कोट्यो जनानां दशभूमिप्रतिष्ठिता अभिज्ञाप्रतिलब्धा संवृत्ताः भगवानाह - शृणु भैषज्यसेन व्याकरिष्यामि । अथ खलु भगवांस्तस्यां वेलायां स्मितं प्रादुष्चकार; अथ तावदेव तस्मिन् समये भगवतो मुखद्वाराच्चतुरशीति रश्मिशतसहस्राणि नश्चरन्ति स्मानेकवर्णानि नानावर्णान्यनेकशतसहस्रवर्णानि । तद्यथा नीलपीतलोहितावदातमंजिष्ठास्फटिकरजतवर्णानि । ता अनन्तापर्यन्तानि लोकधातवोऽवभास्य पुनरेव प्रत्युदावृत्या (तं) भगवन्तं तृष्प्रदक्षिणीकृत्य भगवतो मूर्धन्यन्तर्धीयन्त ।
[२१६] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वः उत्थायासनादेकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत्- को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणायः नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति । भगवानाह - पश्यसि त्वं भैषज्यसेन चतुर्दिशं लोकधातौ समन्ताज्जनकायमागच्छन्तं ममान्तिके । आह । नोहीदं भगवन्न पश्यामि । भगवानाह - तेन हि भैषज्यसेन व्यवलोकय पश्य जनकायं
[२१७] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो व्यवलोक्याद्राक्षीत्पूर्वस्यान् दिश्येको वृक्षः प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्रैकान्ते पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि । ते च न भाषन्ते न जल्पन्ति नालपन्ति न संलपन्ति न भुंजन्ति नोत्तिष्ठन्ति न चंक्रमन्ति तूष्णींभावेनाधिवासयन्ति । दक्षिणस्यान् दिशि-म्-एको वृक्षः प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि । ते न जल्पन्ति नालपन्ति न संलपन्ति । न भाषन्ते नोत्तिष्ठन्ति न चंक्रमन्ति । तूष्णींभावेनाधिवास्यन्ति । पश्चिमायां दिश्येको वृक्षः प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि । ते न जल्पन्ति नालपन्ति न संलपन्ति । न भाषन्ति नोत्तिष्ठन्ति न चंक्रमन्ति । तूष्णींभावेनाधिवासयन्ति । उत्तरस्यान् दिशि-म्-एको वृक्षः प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि । ते न जल्पन्ति नालपन्ति न संलपन्ति न भाषन्ति नोत्तिष्ठन्ति । न चंक्रमन्ति तूष्णींभावेनाधिवासयन्ति । ऊर्ध्वायान् दिश्येको वृक्षः प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि । ते न जल्पन्ति नालपन्ति न संलपन्ति न भाषन्ति । नोत्तिष्ठन्ति न चंक्रमन्ति । तूष्णींभावेनाधिवास्यन्ति । अधस्ताद्दिश्येको वृक्षो प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्र च पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि । ते न जल्पन्ति नालपन्ति न संलपन्ति
न भाषन्ति नोत्तिष्ठान्ति । न चंक्रमन्ति । तूष्णीभावेनाधिवासयन्ति ॥
[२१८] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशं सचेन्मे भगवानवकाशं कुर्यात्पृष्टः प्रश्नव्याकरणाय । एवमुक्ते भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमेतदवोचत्- पृच्छ त्वं भैषज्यसेन यद्यदेवाकांक्षस्यहन् ते तस्य तस्यैव प्रश्नस्य परिपृष्टस्य व्याकरणेन चित्तमाराधयिष्ये ।
[२१९] एवमुक्ते भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- किमेतद्भगवंश्चतुर्दिशे लोकधातुषु जनकायमागत्यावस्थितो यावदधस्ता ऊर्ध्वायां दिशि पंचाशत्कोट्यो जनकायमागत्यावस्थितः ते च भगवन्तं नालपन्ति न संलपन्ति । न जल्पन्ति न वदन्ति न भाषन्ति । नोत्तिष्ठन्ति न चंक्रमन्ति । तूष्णींभावेनाधिवासयन्ति । को भगवन् हेतुः कः प्रत्ययः भगवानाह - गच्छ त्वं भैषज्यसेन स्वयमेव तांस्तथागतान् परिपृच्छा; यतो लोकधातावेते जनकाया आगता । आह । कस्य भगवनृद्धिबलाधानेन गच्छामि । तथागतस्यर्ध्यानुभावेन उत स्वर्ध्या; भगवानाह - स्वकेन भैषज्यसेन ऋद्धिबलाधानेन गच्छ । पुनरपि तथागतस्यर्ध्यानुभावेनागच्छ;
[२२०] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तं तृगुप्तं प्रदक्षिणीकृत्य तत्रैवान्तर्धितः अथ खल्वितो लोकधाता षण्नवति लोकधातुकोटीरतिक्रम्य चन्द्रप्रदीपा नाम लोकधातुः तत्र चन्द्रावतिक्षेत्रो नाम तथागतोऽर्हन् सम्यक्संबुद्ध एतर्हि तिष्ठति धृयते यापयति । अशीतिकोटी बोधिसत्त्वमहासत्त्वसहस्रपरिवृतः पुरस्कृतो धर्मन् देशयति स्म । तां लोकधातुं भैषज्यसेनो बोधिसत्त्वोऽनुप्राप्तः
[२२१] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो येन भगवांस्तेनोपसंक्रान्त उपसंक्रम्य तस्य भगवतश्चन्द्रावतिक्षेत्रस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसाभिवन्द्य पुरत स्थितः स्थित्वा येन स भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत्- आगतोऽस्मि भगवन् षण्नवति लोकधातुकोटीसहस्राण्यतिक्रम्य भगवतः शाक्यमुनेस्तथागतस्य बुद्धक्षेत्रात्सहाया लोकधातोः न चाहं भगवंस्तावन्ति सत्त्वानि क्वचित्पश्यामि । यावन्ति तत्र दृष्टानि । को भगवन् हेतुः कः प्रत्ययो यत्सहायां लोकधातौ भगवतः शाक्यमुनेस्तथागतस्य पुरतो बहुजनकायः सन्निपतितो दशदिगभ्यागतस्तत्रस्थः पश्याम्यासीत्तानि चेहस्थो न पश्यामि ।
[२२२] स भगवानाह - तत्रैव भैषज्यसेन संचरन्ति संतिष्ठन्ति । आह । यथा कथं पुनर्भगवन् भगवानाह - अचेतनवृक्षसंभूतानि सत्त्वानि । आह । केन भगवन् दृष्टं केन श्रुतं यदचेतने वृक्षे मनुष्या जायन्ते । स भगवानाह - न भैषज्यसेन त्वया दृष्टं (वा) न श्रुतं (वा) यदचेतने वृक्षे मनुष्या जायंते । आह । न मे भगवन् दृष्टं न श्रुतं यदचेतने वृक्षे मनुष्या जायन्ते । स भगवानाह - इच्छसि त्वं भैषज्यसेन द्रष्टुं तदहं सांप्रतं दर्शयिष्यामि । आह । इच्छामि भगवन्निच्छामि सुगत;
[२२३] अथ खलु भगवांश्चन्द्रावतिक्षेत्रस्तथागतस्तस्यां वेलायां शतपुण्यविचित्रितं स्वं बाहुं प्रसारयति स्म । ततश्च बाहुतः कोटीशतसहस्रं जनकायानां प्रादुरभवतेकैकश्च जनकायो बाहुशतं प्रसार्य नानागन्धविलेपनैस्तथागतमभ्यवकिरन्ति ।
अथ स भगवांश्चन्द्रावतिक्षेत्रस्तथागतो भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति । पश्यसि त्वं भैषज्यसेन एष जनकायस्तथागतं नानागन्धमाल्यविलेपनैरभ्यवकिरन्ति । आह । पश्यामि भगवन् पश्यामि सुगत ; स भगवानाह - एते अचेतना जनकायाः प्रादुर्भूताः एत अचेतना मनुष्याः प्रत्याजाताः ॥ अथ खलु तेषां कोटीशतसहस्राणामेकैकस्य यद्बाहुशतं ते सर्वे विकीर्यन्ते ।
[२२४] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वस्तं दृष्ट्वा भगवन्तमेतदवोचत्- किमिदं भगवन् किमिदं सुगतः यन्मनुष्याणां मुहूर्तमात्रेण बाहुशतं विकीर्णं यदि भगवंच्छतबाहवो न मुच्यन्ते कः पुनर्वादो द्विबाहुका मनुष्या मोक्ष्यन्ते । भगवानाह - एवमेव भैषज्यसेनाचेतनाः सत्त्वा जायन्ते । अचेतना निरुद्ध्यन्ते । अस्माकमपि भैषज्यसेन शरीरमचेतनभूतं मन्यितव्यम् । आह । कतमे भगवन् सत्त्वा ये दहराः कतमे वृद्धाः भगवानाह - सन्ति भैषज्यसेन दहराः सत्त्वा सन्ति वृद्धाः आह । कतमे भगवन् दहरा कतमे वृद्धाः आह । ये ते साम्प्रतंविकीर्णा ते वृद्धाः ये ते वृक्षेभ्यो निर्जातास्ते दहरा । आह । इच्छामि भगवन् दहराणि सत्त्वानि द्रष्टुम्
[२२५] अथ खलु स भगवांश्चन्द्रावतिक्षेत्रस्तथागतो दक्षिणं पाणितलं प्रसारयति । अथ दशभ्यो दिग्भ्यः कोटीशतसहस्रं जनकायानामागच्छन्ति । अधस्तादूर्ध्वायान् दिशि पंचाशत्कोटी जनकायस्यागच्छन्ति । आगत्वा च ते जनकाया भगवतः पादौ शिरसाभिवन्द्य न च तथागतमालपन्ति न संलपन्ति तूष्णींभावेनाधिवासयन्ति स्म ।
[२२६] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- किमेते भगवन् सत्त्वास्तथागतं नालपन्ति न संलपन्ति तूष्णींभावेनाधिवासयन्ति । भगवानाह - न जानासि भैषज्यसेन अचेतनः पृथिवीप्रदेशो नालपन्ति न संलपन्ति । (न) धर्मस्कन्धं प्रजानाति । तत्कस्य हेतोः इहैकत्या भैषज्यसेन दहरा सत्त्वाः नोत्पादं जानन्ति न निरोधं जानन्ति । दृष्ट्वा च न जरा न व्याधिर्न शोको न परिदेवः न प्रियविप्रयोगो नाप्रियसंप्रयोगः न प्रियाद्विनाभावः न मरणं नाकालमृत्यु । नापि तानि सर्वकटुकानि दुःखाणि दृष्ट्वा उद्योगमापद्यन्ते कुतस्ते ज्ञास्यन्ति । पुनः पुनस्ते भैषज्यसेन शिक्षयितव्यानि ।
[२२७] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- कुतो भगवन् दहरा सत्त्वा आगच्छन्ति । कुतश्च्यवन्ति । कुत्रोपपद्यन्ते । ये धर्मं न जानन्ति (न बुद्ध्यन्ति) । भगवानाह - शृणु भैषज्यसेन यन्मानुष्यकमात्मभावं प्रतिगृह्णन्ति । तन्न रुप्यकारेण कृतम् । न चीमरकारेण कृतम् । न काष्ठकारेण कृतम् । न कुलालेन कृतम् । न राजभयेनोत्पद्यते । स्त्रीपुरुषसंयोगात्पापेन कर्मणा संयुक्तं संभवति । पुनः पुनश्च तेषां सत्त्वानां शिल्पानि शिक्षापयन्ति । अनन्तं च तेषां कटुकं दुःखं संभवति । कटुका वेदनाः तत्र तेषां पूर्वकृतानां पापकानां कर्मणां विपाकमनुभवन्ति । इहैव ते भैषज्यसेन दहराः सत्त्वा आगता य एते (नालपन्ति न संलपन्ति) नोत्तिष्ठन्ति य ईदृशान् दुःखां वेदनामनुभवन्ति । अनेन कारणेन भैषज्यसेन नालपन्ति न संलपन्ति । एवं ते भैषज्यसेन दहराः सत्त्वाः कुशलमजानानाः नोत्पादं जानन्ति न निरोधं जानन्ति । न च ते मानुष्यकमात्मभावं प्रतिलप्स्यन्ते । इमे उच्यन्ते भैषज्यसेन दहराः सत्त्वा ।
[२२८] आह । कथं भगवन् दहराः सत्त्वा उत्पद्यन्ते कथं निरुध्यन्ते । भगवानाह - तद्यथापि नाम भैषज्यसेन कश्चिदेव पुरुष अग्निं काष्ठेन परिमार्जयेत्त तस्यानुपूर्वेण तं काष्ठमग्निना प्रदीप्येत । एवमेव भैषज्यसेन मानुष्यात्मभावं प्रथमं संजायते । जातं च सन् वेदनां वेदयति । आह । को त्राभिजातो जातः कः परिनिर्वृतः भगवानाह - बुद्ध एव भैषज्यसेनाभिजातो जातः तथागत एव परिनिर्वृतः
[२२९] तद्यथापि नाम भैषज्यसेन कस्मिंचिदन्धकारगृहे तिमिरागारे राज्ञा पुरुषो बन्धनावरोधः कृतः स्यात्तत्र स पुरुषोऽन्धकारगृहे प्रविष्टः अन्तर्गृहे तिमिरं तिमिरागारं पश्येतथान्यः क कश्चित्पुरुषः पूर्वदुःखवेदनाभिर्दृष्टश्चिन्तयेन्नष्ट एष पुरुषः अनभ्यसितः दुःखो जीविते विनाशं यास्यति । स तत्राग्निमानयित्वा तत्राभ्यन्तर्गृहे सुक्ष्ममग्निं च्छोरयेत्स च पुरुषश्चारकावरुद्धस्तमग्निरश्मिं पश्येद्दृष्ट्वा चाश्वस्तो भवेदुत्साहं च वर्धयेत्स चाग्निः केनचिदेव हेतुना प्रज्वलेत; तेन चाग्निन्ज्वालेन तद्गृहं समन्ततः प्रज्वलेत्स च पुरुषस्तत्रैव दह्येत्तं च दग्धं राजा श्रुत्वा चिन्तायासमापद्येत । तस्यैवं भवेन्न भूयोऽहं स्वविषये कंचित्सत्त्वं चारकावरोधं करिष्यामि । अथ स राजा तेषां स्वविषयनिवासिनां सत्त्वानामेवं समाश्वासयेत्मा यूयं भवन्तः सत्त्वा भायथ मा उत्रसथ; अभयं युष्माकं भवतुः न मम विषये भूयो दण्डोपचारं (वा) बन्धनावरोधं वा भविष्यति । न च कस्यचित्सत्त्वस्य जीवितविनाशं करिष्यामि । निर्भया भवन्तः सत्त्वा यूयं भवथ ।
[२३०] एवमेव भैषज्यसेन तथागतः सर्वक्लेशदग्धः सर्वव्याधिप्रशान्तः यथा स पुरुषो गृहदाहात्स्वकायं दहति । (सर्व)सत्त्वानामर्थाय हिताय सुखाय (च) प्रतिपन्नो भवति । सत्त्वान् वधबन्धनावरोधेषु परिमोचयेदेवमेव तथागतो रागद्वेषमोहमलप्रहीणः सर्वसत्त्वानान् दीप इव लोक उत्पन्नः सत्त्वान्मोचयति नरकतिर्यक्प्रेतासुरकायेभ्यः दहरांश्च (सत्त्वां) वृद्धांश्च सत्त्वान्मोचयति ।
[२३१] अथ तावदेवोपर्यन्तरीक्षादिमा गाथा निश्चचारा; ॥
(७६) अहो क्षेत्रं जिनक्षेत्रं सुक्ष्त्रेमभिसंस्कृतम् ।
वुप्तानि यत्र बीजानि न विनाशं ब्रजन्ति हि ।
(७७) बुद्धक्षेत्रं जिनक्षेत्रं प्रशस्तं जिनशासनम् ।
शास्ता करोत्युपायं हि सर्वसत्त्वपरिग्रहे ।
(७८) स्थितो निर्वानधातौ सन् दृश्यते धरणीतले ।
शान्तं कृत्वा सर्वलोकं बुद्धः शोधेति दक्षिणाम् ।
(७९) मोचेति नवकान् सत्त्वान्मोचेति च पुराणकान्
मोचयित्वानुपूर्वेण सर्वसत्त्वास्त्रिधातुकात्
(८०) बद्धा हि नरकद्वारस्तिर्यक्प्रेता विमोचिताः
शान्तिः कृता हि लोकेस्मिन् परलोके सुखं कृतम् ॥
[२३२] अथ खलु भगवांस्तस्यां वेलायां स्मितं प्रादुष्चकार । आह च -
(८१) साधु दर्शनु साधूनां बुद्धानां साधु दर्शनम् ।
साधु धर्मगुणः क्षेत्रं संघसामग्रिदर्शनम्
(८२) साधु संघातनिर्देशं सर्वपापविनाशनं
ये श्रोष्यन्ति इदं सूत्रं पदं प्राप्स्यन्त्यनुत्तरं
[२३३] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत्- को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय । भगवानाह - पश्यसि त्वं कुलपुत्रैतानि दहराणि सत्त्वानि । आह । पश्यामि भगवन् पश्यामि सुगत; भगवानाह - सर्व एते भैषज्यसेनाद्यैव दशभूमिप्रतिष्ठिता बोधिसत्त्वा भविष्यन्ति ॥
[२३४] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वोऽशीतिर्योजनसहस्राण्यूर्धवमुपर्यन्तरीक्षे स्थादथाशीतिर्देवपुत्रकोटीसहस्राणि भगवत उपरि पुष्पवर्षं प्रवर्षन्ति ते च दहराः सत्त्वा दृष्ट्वा सर्वेऽञ्जलयः कृत्वा नमस्कुर्वन्ति ।
[२३५] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो अन्तरीक्षस्थ एवं वाग्भाषते । येन त्रिसाहस्रमहासाहस्रो लोकधातुः शब्देनापूरयति । द्वात्रिंशन्महानरकोपपन्नाः सत्त्वास्तं शब्दं शृण्वन्ति । द्वात्रिंशच्च देवनिकायास्तं शब्दं शृण्वन्ति । त्रिसाहस्रमहासाहस्रश्च लोकधातुः षड्विकारं प्रकम्पितः चतुरशीतिश्च नागराजसहस्राणि महासमुद्रे संक्षुब्दानि । त्रिंशत्कोटीसहस्राणि राक्षसानामिमं जंबूद्वीपमागतानि । पंचविंशत्कोटीसहस्राणि प्रेतानां यक्षानां राक्षसानामडकवत्यां राजधान्यामागतानि भगवतः पुरतो महासन्निपातः संस्थितः ॥
[२३६] अथ खलु भगवांस्तेषान् दहराणां सत्त्वानान् धर्मन् देशयति । दशसु दिक्षु लोकधातुकोटीनियुतशतसहस्रेषु बोधिसत्त्वा महासत्त्वाः स्वकस्वकाभ्यो ऋद्धिभिरागतानि । अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत्- बहवो भगवन् बहवो सुगत बोधिसत्त्वाः सन्निपतिताः सन्निषण्णाः बहूनि च भगवन् देवनागानि सन्निपतितानि सन्निषण्णानि । पुनश्चानेकानि राक्षसप्रेतान्यडकवत्यां राजधान्यमागत्य सन्निपतितानि सन्निषण्णान्यभूवन् धर्मश्रवणाय ॥
[२३७] तत्र खलु भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति । आगच्छ कुलपुत्र; अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो ऋद्धिबलेनोर्ध्वादवतीर्य येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत्- धर्मस्कन्धो (भगवन्) धर्मस्कन्ध इति । भगवन्नुच्यते कियता भगवन् धर्मस्कन्ध इत्युच्यते । भगवानाह - धर्मस्कन्ध इति कुलपुत्रोच्यते । यो ब्रह्मचर्यं पर्येषते ब्रह्मचर्यं पर्येष्य सर्वपापाद्विरमति । पश्यसि त्वं कुलपुत्रामी दहरा सत्त्वा अब्रह्मचर्याद्विरमन्ति । आह पश्यामि भगवन् पश्यामि सुगत; आह । ते नूनन् धारणीप्रतिलब्धा भविष्यन्ति । सर्वधर्मसमन्वागताश्च भविष्यन्ति । आह । केनोपायेन भगवन् बहूनि सत्त्वानि सन्निपतितानि । धर्मस्कन्धं श्रोतुम्
[२३८] अथ खलु भगवां भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति । बहवो भैषज्यसेन सत्त्वाः सन्ति । ये जातिरेव दुःखं न शृण्वन्ति । जरा एव दुःखं न शृण्वन्ति । व्याधिरेव दुःखं न शृण्वन्ति । शोकदुःखं परिदेवदुःखं प्रियविप्रयोगदुःखमप्रियसंप्रयोगदुःखं मरणं तु सर्वदुःखं हरते । कायजीवितमिदमुच्यते भैषज्यसेन सर्वदुःखम्
[२३९] अथ खलु ते दहराः सत्त्वा इमन्निर्देशं श्रुत्वा येन भगवांस्तेनांजलयः प्रणमय्य भगवन्तमेतदवोचनस्माकमपि भगवन्मर्त्तव्यम् । भगवानाह - युष्माभिरपि कुलपुत्राः सर्वसत्त्वैश्च मर्तव्यमिति । आह । कथं भगवन्मरणकालमाक्रमति । भगवानाह - मरणकाले कुलपुत्राश्चरिमविज्ञाने विज्ञाननिरोधो नाम वातः विज्ञानविभ्रमो नाम वातः विज्ञानसंक्षोभसंयुक्तो नाम वातः इमे त्रयः कुलपुत्रा वाता मरणकालसमये चरिमविज्ञाने संलुडन्ति (संक्षुभन्ति) संक्षोभमुत्पादयन्ति । त आहु । कतमानि भगवन् त्रीणि मरणकालसमये विज्ञाननिरोधे वर्तमाने शरीरं निर्घातयन्ति । भगवानाह - शस्त्रकश्च नाम मार्षाः सूचकश्च नाम मार्षाः ष्ठीलकश्च नाम; ये शरीरं निर्घातयंति । आह । किमेतद्भगवंच्छरीरण्नाम; भगवानाह - आदीप्तकश्च नाम मार्षा दहनवासकश्च नाम; मेडिकश्च नाम; शृंगारिकश्च नाम । श्मशानिकश्च नाम; दुर्बुद्धिकश्च नाम । भारगुरुकश्च नाम; जातिपरिपीडितश्च नाम; जातिसंक्षुभितश्च नाम; जीवितपरिभाविकश्च नाम; मरणप्रियविप्रयोगकश्च नाम; इमे मार्षा उच्यन्ते शरीरनामानः
[२४०] त आहु । कथं भगवन्मृयते कथं जीवति । भगवानाह - विज्ञानं नामायुष्मन्तो म्रियते । पुण्यं नामायुष्मन्तो जीवति । शरीरं नाम मार्षा मृयते स्नायुकोटीभिर्बद्धं चतुरशीतिभिः सिराकूर्वसहस्रै रोमकूपैर्बद्धं द्वादशभिः सहस्रैरंगानां बद्धम् । षष्ट्युत्तरैस्त्रिभिः शतैरस्थीनां बद्धं चतुरशीतिः कृमिकुलशतान्यभ्यन्तरे वसन्ति तेषां सर्वेषां प्रणकानां मरणं संविद्यते । मरणनिरोधं च संविद्यते तत्र सर्वे ते प्राणका निराशा भवन्ति । यदा स पुरुषो मृयते तदा सर्वप्राणकानां वातसंक्षोभः संलुडति अन्योन्यपरिभाक्षनार्थाय तदा ते दुःखां वेदनां वेदयन्ति । अन्ये पुनः पुत्रशोकं कुर्वन्ति । अन्ये दुहितृशोकं ज्ञातृशोकं सर्वे एव ते शोकशल्यविद्धाः अन्योन्यभक्षणमारभन्ते । सर्वे ते अनुपूर्वेण परस्परं भक्षयन्त; द्वौ प्राणकाववतिष्ठन्ते । तौ सप्ताहमभियुध्यतः याव सप्ताहेऽतिक्रान्ते तत एकः प्राणको निर्मथ्यते । एको मुच्यते । तत्कतम आयुष्मन्त उच्यते धर्मः तत्किं मन्यध्वे यथा सर्वप्राणकानामन्योन्यनिरोधेन मरणम् ।
[२४१] एवमेव बालपृथग्जना सत्त्वा अन्योन्यविरधमाप्द्यन्ते । ते जात्या न बिभ्यन्ति । व्याधिभ्यो न बिभ्यन्ति । मरणा न बिभ्यन्ति यथा (तौ) द्वौ प्राणकौ युध्यतः एवमेव बालपृथग्जनाः परस्परं युध्यन्ते । अथ मरणकालसमये उच्यते साधु पुरुषैः किं त्वं भो पुरुष विश्वासमापद्यसे । किं त्वया मनुष्यलोके न किंचिदादीनवं दृष्टम् । न जात्या[दा]दीनवो दृष्टः न जरया न व्याधेरादीनवो दृष्ट । न मरणादादीनवो दृष्ट । आह । दृष्टो मे आयुष्मन्त जात्या[दा]दीनवो जरया व्याधेरादीनवो दृष्टः सर्वपश्चान्मरणादादीनवो दृष्टः आह । कथं न कृतानि यत्करणीयानि कुशलमूलानि । तत्कथं त्वया भोः पुरुष न कृतमुभयोर्लोकयो हितसंवर्तकानि धर्मस्कन्धकुशलमूलानि । द्वितीयं मार्षाः पृच्छामि । कथं त्वया न कृतः कुशलमूलसंभारः यस्त्वं परिमुक्तः स्याज्जात्या जरया व्याधेर्मरणात्तत्कथं ते न कृतं योनिशोमनसिकारप्रत्यवेक्षणां किं त्वया भोः पुरुष श्रुतम् । पृथिव्यां गण्ड्यामाकोटनशब्दम् । न च दृष्टा जांबुद्वीपका मनुष्या दानानि ददन्तः पुण्यानि च कुर्वन्तः उपवासमुपवसन्तः तथागतक्षेत्रे कुशलमूलबीजान्यवरोपयन्तः गन्धं वा माल्यं वा दीपं व न त्वया दृष्टं खादनीयभोजनीयं वा दीयमानं न च ते दृष्टास्तथागतस्य चतस्रः पर्षदः सन्तर्प्यमानाः भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा इमांश्चतस्रः पर्षदः शासनेऽभिनिवुस्ताः एवं
तस्य हितानि वदन्त्यालपन्ति च । न हि देवकृतं किंचितसाधुस्त्वया भोः पुरुष कृतमिमिमं जंबुद्वीपमागत्य;
[२४२] तस्य मृतस्य धर्मराजा तस्मिन् काले तं पुरुषमनुशासन् ता गाथा भाषते -
(८३) दृष्ट्वा तथागतोत्पादः श्रुत्वा गण्डीपराहताम्
श्रुत्वा धर्मन् देशयमानं शन्तं निर्वाणगामिनम् ।
(८४) कस्मात्ते न कृतं पुण्यं परलोकसुखावहम्
भोक्ष्यसे नरके दुःखमनिष्ठकर्मणः फलम्
[२४३] अथ स पुरुषस्तं धर्मराजानं गाथाभि प्रत्यभाषत -
(८५) बालबुद्धिरहमासीत्पापमित्रवशानुगः
कृतं मे पापकं कर्म कामभ्रान्तेन चेतसा ॥
(८६) कामश्च मे चितस्तस्य आगतं दारुणं फलम्
कृता मे प्राणिनां हिंसा सांघिकं च विनाशितम् ।
(८७) कृतं मे स्तूपभेदं च प्रदुष्टेनानतरात्मना
दौष्ठुल्यं भाषितं वाक्यं माता मे परितापिता ॥
(८८) अपराधं विजानामि स्वशरीरेण यत्कृतं
रौरवे नरके पश्याम्युपपत्तिं सुदारुणे ।
(८९) संघाते वेदनां वेत्स्ये तथैव च प्रतापने ।
महावीचौ च कटुकामनुभविष्यामि वेदनां
(९०) महापद्मे च नरके क्रन्दयिष्यामि सुदुःखितः
वारा शतं कालसूत्रे उत्पत्स्यामि महाभये
(९१) हताश्च नारका सत्त्वाः पुनः पश्यन्ति ते भयम्
योजनानां शतं भूयः प्रतिपद्यन्ति महाभयम्
(९२) द्वारन् ते न लभिष्यन्ति पुनः कुंभे प्रतापिताः
क्षूरं तु नाम नरकं सहस्रं क्षूरसंभवम्
(९३) शतं सहस्रं कोटीनां क्षूराणां जायते ग्रतः
तैस्तस्य भिद्यन्ते गात्रं कर्मभि दुष्कृतैः स्वकैः ॥
(९४) वातक्षोभा महाघोरा सर्वं च्छिन्दन्ति तां तनुम्
अनुभाव्या मया दुःखा ईदृशा नरके ध्रुवम्
(९५) द्रक्ष्यन्ते सर्वसत्त्वा मे कायं दुःखप्रपीडितम् ।
अर्था परक्या आदत्ता मया वेश्मस्य कारणात्
(९६) पुत्रा दुहितरो मह्य भ्राता च भागिनी तथा
माता पिता चैव मम मित्रज्ञातिगणोऽपि च
(९७) दासकर्मकराश्चैव गावो भृत्यः पशुं तथा ।
भ्रान्तो स्म्यहं कुकार्येषु रुप्यसौवर्णभाजनैः
(९८) वस्त्रैस्तथा सुसूक्ष्मैश्च भ्रान्तः कारापने गृहे
सुविचित्रं गृहं कृत्वा नरनारीसमाकुलम् ।
(९९) वीणास्तूर्याः पराहत्य रतं मे दुर्दमं मनः
गात्रं गन्धोदकैर्लिप्तं कृतज्ञोऽद्यापि नैव सः
(१००) अचेतन शरीरस्त्वं भ्रान्तोऽस्मि तव कारणात्
न विद्या ते मम त्राता कश्चित्सत्त्वः पुनर्भवेत्
(१०१) वातक्षोभे महाघोरे शरीरपरितापने ।
भुक्ता रसा स्वादुवन्तो जिह्वया विविधास्तथा
(१०२) शीर्षे मालाश्च बहवो बद्धा श्वित्राः सुशोभनाः
रूपेण भ्रामितश्चक्षुश्चक्षुत्राणं न विद्यते ।
(१०३) पापानां चक्षुषी हेतुर्मया दृष्ट्वातु यत्कृतम्
श्रोत्रौ हेतुश्च मे भूयः बाहू वज्रपराहताः
(१०४) हस्तेभ्यः कटका बद्धा अङ्गुलीयेभि यंत्रिका ।
ग्रीवायां मुक्तिहाराणि पादौ चापि स्वलंकृतौ
(१०५) जालानि कृत्वा तत्रैव सौवरणं संस्थितं ततः
गात्रै च विविधा रत्ना सौवर्णकटकास्तथा ।
(१०६) उदारै रमितो भोगैर्मनसंबृहणैरपि ।
स्पर्शं च सुकुमारं मे तृष्णग्रस्तेन सेवितम् ।
(१०७) नानास्तरणशय्याभिः कायः क्रीडापितो मया।
स्नातो गन्धोदकैर्विशदैर्गन्धैश्चापि प्रलेपितः
(१०८) कर्पूरचन्दनैर्दिव्यैर्धूपनैश्चापि धूपितः
कस्तूरिकासमायुक्तो वासो वर्णकरः कृतः
(१०९) गन्धवार्षिकतैलेन सुमनाचण्पकादिभिः
मक्षितः पाण्डुरं वस्त्रं प्रावृतं सूक्ष्मकाशिकं
(११०) अवतीर्य हस्तिपृष्ठादश्वपृष्ठे भिरुह्य च
राजाहमिति मन्यामि जनो मे धावते ग्रतः
(१११) अन्तःपुरं विजानामि गीते नृत्ये सुशीक्षितः
निरापराधा मृगया हता काण्डैश्च मे मृगा
(११२) ईदृशं मे कृतं पापं परलोकमजानता ।
परमांसा मया भुक्तास्ततो दुःखमिदं मम ॥
(११३) मरणं मे न विज्ञातमागमिष्यति दारुणं
बालबुद्धिरहमासीच्छरीरं पोषितं मया ।
(११४) आगतं मरणं मे द्य कश्चित्त्राता न विद्यते ।
यूयं हि ज्ञातयः सर्वे मुखं मे किं निरीक्षथ ।
(११५) कस्माद्वस्त्रं पाटयध्वं प्रलापैश्चापि किंकृते ।
केशान् कस्माद्विकिरथ रक्तं किं वा करिष्यति
(११६) पांसुं च शीर्षे क्षिपथ उरस्ताडं करोथ किम्
जीवं नाहं वारितव्यः पापात्किं रुदितेन वः
(११७) शरीरं मे वृकभोज्यं कुर्कुराणां च वायसाम्
भविष्यते पक्षिणां च वृथा पुष्टमयन् तनुः
(११८) मरणोरगसंस्पृष्टो जायतेऽपि सुदारुणः
तथोपयोज्यं भैषज्यं यथास्मान्मुच्यते भयात्
(११९) यन्मे वैद्याः प्रदास्यन्ति भैषज्यं न तदिष्यते
सांप्रतं धर्मभैषज्यं क्लेशोरगविमोचकम्
(१२०) मृयतो मम दातव्यं मा मेमं संप्रयच्छथ ।
पोष्यमाणशरीरो यमवश्यं नाशमेष्यति ।
(१२१) पापस्कन्धं किमाक्षिप्य यत्पश्चा दुःखदायकम्
पोषितो मे पृयं कायः कृतघ्नत्वं करिष्यति ।
(१२२) पुत्रा दुहितरं किं मे चक्षुषा सन्निरीक्षथ ।
त्रायध्वमस्माद्रोगान्मे रुदध्वं किन्निरर्थकम्
(१२३) यूयं हि पुत्र दुहितृ कृतघ्ना मम साम्प्रतम्
युष्माकं पोषणार्थाय परकीयं मया हृतम् ।
(१२४) साप्रतं मरणं प्राप्तं निराशं मां करोथ किम्
जातिदुर्गतिसंत्रस्तो मरणेन च पीडितः
(१२५) वेदना संज्ञा संस्काराः स्पर्षं परमवेदनाः
तृष्णाया भ्राम्यते बालः प्राप्नोति कटुकं फलं;
(१२६) शोकबन्धन मह्य तु जातस्य विषमे कुले
अल्पपुण्यं तु मां ज्ञात्वा शोचयिष्यन्त्यपरे जनाः
(१२७) दानशीलपरिभ्रष्टो धर्माच्चापि परान्मुखः
पुनर्भवं न जानीते क्लेशोरगविषार्दिता
(१२८) भ्राम्यते विद्यया बालो यत्र मोक्षं न विद्यते ।
मोक्षार्थं न विजानाति भ्रान्तः पापं करोति च
(१२९) क्लेशैश्च भ्राम्यते बालो नित्यं व्याक्षिप्तमानसः ॥
दह्यते ह्यग्निना दीप्तः कायो विविधबन्धनः
(१३०) विभ्रान्तो भ्रमते कायो यत्र सौख्यं न विद्यते ।
तच्च सौख्यं न जानाति यदभ्यन्तसुखावहम्
(१३१) बुद्धानां सुखदं क्षेत्रं धर्मचक्रं महागदम्
शीलं च सत्यं शीलनां ब्रह्मघोषास्तथागता ॥
[२४४] अथ खलु भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयेतदवोचत्- एवं च भैषज्यसेन सत्त्वा मरणकाले परिदेवन्ति । न न हि तेषां कश्चित्त्राता भविष्यत्यन्यत्र सुकृतानां कर्माणां फलविपाकं च गाथा चेमा भाषते ॥
(१३२) कृत्वा तु पापकं कर्म नरकेषु पतन्ति हि
भुंजन्ते चीमरं तप्तं पीवन्ते लोहपानकम्
(१३३) कायेभ्यो वर्षतेऽङ्गारं दग्धाः क्रन्दन्ति दारुणम्
दह्यत्येषां तच्छरीरं नरकेस्मिन्महाभये ।
(१३४) न विजानन्ति सौख्यानि धर्मं च न विजानते
बालो भ्रमत्यधर्मेण सौख्यं नाप्नोति किंचन;
(१३५) श्रद्धाशीलेन संपन्नः प्रज्ञायुक्तो महातपाः
मित्रं भजति कल्याणं शीघ्रं भोति तथागतः
(१३६) वीर्यमारभते श्रेयं बुद्धलोकोपपत्तये
देशेथ कुशलं धर्मं सर्वसत्त्वपरिग्रहं
(१३७) मैत्रं चित्तं समापन्नो ब्रह्मचर्यपरायणः
श्रुत्वैवं भैषज्यसेन प्रतिपत्तिपरो भवेत्
(१३८) विमुक्तिदर्शनं बुद्धं गुष्टशब्दं विनायकम् ।
लोकस्य मातापितरं बोधिचित्तं तदुच्यते ।
(१३९) कल्याणमित्रां परमां सुदुष्करं यो देशयेत्
[[इह]] धर्म लोके शृण्वन्ति ये गौरवाद्बुद्धशासनं
ते भोन्ति बुद्धाः सुगता नरोत्तमाः
(१४०) लोकनाथा भवन्त्येते सर्वसत्त्वप्रमोचकाः
शान्तेभ्यो बुद्धक्षेत्रेभ्यो ये भवन्ति सगौरवाः ॥
[२४५] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- किमिदं भगवन् पृथिवी कंपति संप्रकंपति । एवमुक्ते भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमेतदवोचत्- व्यवलोकय भैषज्यसेन किं पश्यसि । व्यवलोकितं भैषज्यसेनेन बोधिसत्त्वेन महासत्त्वेन । अथ तावदेव चतुर्भ्यो दिग्भ्यः पश्यति । पृथिवीविवरं ददाति । पृथिव्या विवृतायां पश्यति । पृथिवीविवरेभ्यो विंशति कोट्यो मनुष्याणां जायन्ते । अधस्ताद्दिशि विंशति कोट्यो मनुष्यानां जायन्ते । ऊर्ध्वायां दिशायां पंचविंशति कोट्यो मनुष्यानां जायन्ते ।
[२४६] अथ ते दहराः सत्त्वा व्यवलोक्य भगवन्तमेतदवोचन् कतमे भगवन्निह जाता । भगवानाह - पश्यथ यूयमिमे जनकायाः त आहुः पश्यामो भगवन् भगवानाह - इमे जनकाया युष्माकं सखाया जाताः त आहुः एतेषामपि भगवन् सत्त्वानां मरणं भविष्यतीति; भगवानाह - एवमेतन्मार्षाः सर्वसत्त्वानामपि मरणं भविष्यति ।
[२४७] अथ ते पूर्विमका सत्त्वा दहराः ये प्रथमतरमुत्पन्नास्ते येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचन् - नोत्सहामो वयं पुनर्भगवं जातिं मरणं च द्रष्टुं भगवानाह - तत्किं यूयमुत्सहथ वीर्यवलालब्धं त आहुः तथागतं संमुखं पश्येमः तस्य च सकाशाद्धर्मश्रवणं मृष्टं मनापं शृणुयामः तथागतश्रावकसंघं च निषण्णं पश्येमः बोधिसत्त्वान्महर्धिकान्महानुभावान् पश्येमः ईदृशं च भगवन्नोत्सहामो जातिं मरणं च द्रष्टुम्
[२४८] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो ऋद्धिबलेनोत्थायासनात्सार्धं तैः पंचभिर्बोधिसत्त्वशतैः ते सर्वे ऋद्ध्या उत्थायोपर्यन्तरीक्षे चंक्रमन्ति । पर्यंकञ्च बध्वा ध्यायन्ति । तेषां सर्वकायेभ्यः सिंहा निष्क्रामन्ति । व्याघ्रा निष्क्रामन्ति । व्याडा निष्क्रामन्ति । हस्तिनो निष्क्रामन्ति । महाऋद्धिविकुर्वितानि दर्शयन्ति । पर्वतेषु च पर्यंकं बध्वा निषीदन्ति । विंशतिर्योजनसहस्राण्यूर्ध्वमारुहन्ति । दश कोटीसहस्राणि चन्द्रमसूर्याणि-म्-अवतरन्ति ।
[२४९] अथ खलु ते दहराः सत्त्वा भगवन्तमेतदवोचन् - को भगवन् हेतुः कः प्रत्ययो महारश्म्यावभासस्य महच्च ऋद्धिविकुर्विता लोके प्रादुर्भूताः भगवानाह - पश्यथ कुलपुत्रा एतौ चन्द्रसूर्यौ प्रादुर्भूतौ । त आहु । पश्यामो भदन्त भगवन् पश्यामो भदन्त सुगत; भगवानाह - एष बोधिसत्त्वैः स्वकायाद्रश्म्यावभासो ऋद्धिप्रातिहार्यं च दर्शितं सन्दर्शयित्वा सत्त्वानान् धर्मन् देशयन्ति । बहुजनहिताय बहुजनसुखाय लोकानुकंपायैर्महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च इहैव ते मानुष्यके काये वीर्यबलमुपदर्शयित्वा ईदृशमृद्धिबलमुपदर्शयन्ति । आह । देशयतु भगवान् रश्म्यावभासप्रादुर्भावाय धर्मम्
[२५०] एवमुक्ते भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमेतदवोचत्- पश्यसि त्वं भैषज्यसेन त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकंपितः आह । पश्यामि भगवं पश्यामि सुगत । तस्य मम भगवन्नेवं भवत्वहं तथागतमेतमर्थं परिपृच्छेयम् । भगवानाह - पृच्छ त्वं भैषज्यसेन यद्यदेवाकांक्षस्यहं ते तस्य तस्यैव प्रश्नस्य व्याकरणेन चित्तमाराधयिष्यामि निर्देक्ष्यामि विभजिष्यामि । भैषज्यसेन यदतीतानागतप्रत्युत्पन्नेष्वध्वसु तत्सर्वं दर्शयिष्यामि । आह । देशयतु मे भगवन् कौकृत्यविनोदनार्थम् । इहाहं भगवन् पश्यामि तथागतं चतुरशीतिभिर्देवपुत्रसहस्रैः परिवृतं चतुरशीतिभिः कोटीसहस्रैर्बोधिसत्त्वैः परिवृतं; द्वादशभिः कोटीसहस्रैर्नागराज्ञां परिवृतम् । अष्टादशभिः कोटीसहस्रैर्भूतानां परिवृतं पंचविंशतिभिः कोटीसहस्रैः प्रेतपिशाचैः परिवृतम् ।
[२५१] भगवानाह - नूनमेते भैषज्यसेन सत्त्वाः य इह पर्षदि ममान्तिके सन्निपतिता सन्निषण्णा धर्मश्रवणाय । त एते भैषज्यसेनाद्यैव संसारं पश्चन्मुखं करिष्यन्ति । अद्यैव दशभूमिप्रतिलाभिनो भविष्यन्ति । दशभूमिप्रतिष्ठिता निर्वाणधातौमनुप्राप्स्यन्ति । सर्वसत्त्वहितैषिणः जरामरणपरिमोक्षणार्थाय कृतधर्माः सुखावहाः क्लेशपाशं निर्जित्वा प्राप्स्यन्ते बुद्धशासनाम् । आह । किमेते भगवन् सत्त्वा बहूनि सत्त्वस्थानानि नानाविचित्रैः कर्मभिऋ उत्पन्नानि । ते भगवन्तं परिवार्यावस्थितानि
भगवानाह - शृणु भैषज्यसेन ।
आह च -
(१४१) मूढाः सत्त्वा न जानन्ति कुतो मोक्षो भविष्यति ।
बहवो नवकाः सत्त्वाः अद्य प्राप्स्यन्ति धारणिम्
(१४२) ज्ञास्यन्ते ते सर्वधर्मान् प्राप्तये दशभूमिनां
भूमयो दश प्राप्स्यन्ति बुद्धकृत्यं करिष्यतः
(१४३) वर्तिष्यन्ति धर्मचक्रं धर्मवर्षं प्रवर्षिषूः
रमणीयं शासनं मह्यं येन सत्त्वाः समागताः
(१४४) देवनागाश्च प्रेताश्च असुराश्च सुदारुणाः
दशभूमिप्रतिष्ठन्ते धर्मशब्दपराहताः
(१४५) धर्मभेरी उदाहरं धर्मशंखप्रपूरणं
अद्यैषां नवसत्त्वानां वीर्यस्थामो भविष्यति ।
(१४६) धर्मं प्राप्स्यन्ति अद्येमे यथा प्राप्तं तथागतैः ॥
[२५२] अथ पंचमात्राणि सहस्राणि दहराणां सत्त्वानामुत्थायासनेभ्यो येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचन् -
(१४७) गुरुभारो भगवन् कायो दारुणश्च महाभय ।
संसारे येन बध्यामः पर्यन्तमविजानकाः
(१४८) मार्गन् तु न विजानामो मार्गमेव न दृश्यते ।
अन्धभूता वयं नाथ अस्माकं कुरु संग्रहम् ।
(१४९) अध्येषाम वयं वीर धर्मन् देशय नायक;
अल्पप्रज्ञा वयं जाता अनभिज्ञाः सुखस्य हि;
(१५०) धर्मन् देशय अस्माकं दुःखान्मोचय दारुणात्
यत्र यत्रोपपद्येमः स्यादस्माद्बुद्धदर्शनम् ॥
[२५३] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो येन ते दहरा सत्त्वास्तेनोपसंक्रामदुपसंक्रम्य तान् दहरान् सत्त्वाङ्गाथाया अध्यभाषता -
(१५१) भूंजध्वं भोजनं यूयं पिवध्वं रसमद्भुतम्
पश्चाद्विशारदा भूत्वा धर्मं श्रोष्यथ निर्भयम् ।
त आहुः -
(१५२) भदन्त स्थविर कस्त्वं नजानीमो वयं तव;
प्रासादिकस्त्वं पश्यामः शान्तरूपं महायशः
(१५३) मुक्तं नरकतिर्यक्षुः प्रेतलोकान्महाभयात्
शान्तस्ते सर्वपापानि यथा जगति शोभसे
(१५४) पश्याम हस्ते करकं सप्तरत्नसमन्वितम्
सूत्रं रत्नामयं काये तेजराशौ विवेष्टितम् ।
(१५५) प्रतिवोढुं न शक्ता स्म शान्तवाक्यस्य ते वच ।
भक्तेन कार्यं नास्माकं पानेन स्वादुना न च ।
(१५६) भक्तादुच्चार संभवति पानान्मूत्रं तथैव च ।
शोणितं च रसाद्भवति रक्तान्मांसं च संभवेत्
(१५७) नास्माकं भोजनं कार्यं पानान् चैव सौसंस्कृतं;
वस्त्राणि नैव सूक्ष्माणि पट्टापट्टकसंहिता ।
(१५८) कटकाश्च न सौवर्णाः कार्या मुक्तिलता न च;
अङ्गुलियैर्नैव कार्यं सर्वे ते नित्यधर्मिणः
(१५९) जीवितैरर्थिकाश्च स्म न च गच्छेम दुर्गतिम्
अर्थिका धर्मदानेन न देवानां सुखैरपि;
(१६०) कल्याणमित्रता कार्या न राज्यं चक्रवर्तिनाम् ।
चक्रवर्ती मरिष्यन्ति त्यक्त्वा द्वीपान् सुशोभनाम् ।
(१६१) न पुत्राः पृष्ठतो यान्ति न भार्या न च धीतराः
सप्तरत्ना निवर्त्यन्ते नापि यास्यन्ति पृष्ठतः
(१६२) संन्निपात्य बहुजनो न च यास्यन्ति पृष्ठतः
पुरतश्च न धावन्ते वशं भूयो न वर्तति ।
(१६३) एकजन्मिकराजानो भ्रामिता नित्यया बहु;
कृत्वा पापानि कर्माणि रौरवं प्रपतन्ति ते ।
(१६४) चतुर्दिशं पर्यण्वित्वा सप्तरत्नैर्महर्धिकैः
यास्यते क्व च सा ऋद्धिर्यदा वत्स्यति रौरवे ।
(१६५) मृता ऋद्धिं न शक्नोन्ति यत्र भूमिर्न विद्यते
स्थविर शृणुष्व अस्माकं गच्छ येन तथागतः
(१६६) कांक्षाम दर्शनं तस्य मातापित्रोर्यथैव हि ।
नास्माकं विद्यते माता न पिता भ्रातरौ न च
(१६७) सैव लोकगुरुर्माता पिता चैव तथागतः
सैव चन्द्रश्च सूर्यश्च क्षेममार्गप्रदर्शकः
(१६८) मोचकः स हि संसाराद्येन भूयो न जायते ।
स नावातरको ओघात्क्लेशोघाच्च महाभयात्
(१६९) तेन प्रतारिताः सत्त्वाः न भूयो विनिवर्तिता
सद्धर्मो देशितस्तेन अग्रबोधीय कारणात्
(१७०) नास्माकं भोजनेनार्थो न राज्यफलकांक्षिणः
न देवलोकगमनं कार्यं नरकभीरुभिः
(१७१) सुखं मानुष्यकं जन्म दृश्यते यत्र सर्ववित्
अल्पायुषाश्च दृश्यन्ते दुष्कृतैः कर्मभिः स्वकैः
(१७२) रज्यन्ते कामभोगैस्ते विन्दन्ति मरणं न च;
जानन्ति न च भायन्ते निरोधोत्पादवांचिताः
(१७३) सुक्ष्मान् धर्मान्न जानन्ति सूक्ष्मं कार्यं न कुर्वन्ते ।
शान्तं धातुं न जानन्ति अविद्याक्रान्तचेतसः
(१७४) च्यवन्तो न च खिद्यन्ते जायन्तश्च पुनः पुन
दीर्घरात्रं दुःखहता नित्यता दण्डताडिताः
(१७५) परकीयं हरिष्यन्ति घात्यन्ते बन्धने तथा ।
पंचबन्धनबद्धास्ते पूर्वपापेन चोदिताः
(१७६) निराशाश्च मरिष्यन्ति शोकशल्यसमर्पिता ।
निरुद्ध्यमाने विज्ञाने करुणं परिदेवते ।
(१७७) को नु त्राता भवेयुर्मे सर्वान् भोगान् ददाम्यहम् ।
सुवर्णरुप्यस्फटिकं दासोऽपि च भवाम्यहम् ।
(१७८) सर्वं कर्म करिष्यामि दासयोग्यं च यद्भवेत्
न राज्यभोगैर्मे कार्यं न धान्येन धनेन च ।
(१७९) स्वशरीरेण मे कार्यं पापकारी न मुच्यते
एवं हि स्थविरास्माकं न कार्यं भोजनं भवेत्
(१८०) राजानोऽपि मरिष्यन्ति यैर्भुक्तं मृष्टभोजनम्
देवपुत्रा मरिष्यन्ति पीत्वा वै पानमुत्तमम्
(१८१) नानारसमायुक्तं संस्कृतं पानभोजनम्
आनीय पुरतो राजा जिह्वया स्पृशति भोजन ।
(१८२) रसगृद्धा हि राजानः पापं कुर्वन्त्यनल्पकम् ।
रज्यन्त्यनित्येहि रसेहि यत्र सारं न विद्यते ।
(१८३) पानं न कार्यमस्माकं न च कार्यं हि भोजनम् ।
धर्मता ईदृशी कार्या दुःखान्मुच्येम यद्वयम्
(१८४) तृष्णाबन्धननिर्मुक्तं तृष्णाक्लेशविमोक्षनम्
सर्वबन्धननिर्मुक्तं तं बुद्धं शरणं गताः
(१८५) वयं हि शरणं यामो लोकनाथं महर्षिणम्
वन्दनाय वयं यामः सत्त्वानां प्रियदर्शनम्
(१८६) नामं तव न जानामो नाममाचक्ष्व शोभनम् ।
भैषज्यसेनो बोधिसत्त्व आह -
यूयं हि श्रोतुमिच्छध्वं नामं सर्वजनस्य च ।
(१८७) वृतः कोटीशतसहस्रैर्नवकैः सत्त्वैस्तथागतः
त आहुः तव तु श्रोतुमिच्छामो नामं सर्वगुणोद्भवम् ।
(१८८) गंभीरं श्रूयते नाम यस्त्वं बुद्धाना श्रावकः आह ।
भैषज्यसेनो नाम्नाहं सत्त्वानां भैषज्यो ह्यहं
(१८९) युष्माकं देशयैष्यामि सर्वेषामौषधं वरम् ।
सर्वव्याधिप्रशमनं सर्वव्याधिहते जने ।
(१९०) रागो व्याधिर्महाव्याधिर्लोके नश्यति दारुणः
मोहो व्याधिर्महाघोरो येन भ्राम्यन्त्यबुद्धयः
(१९१) व्रजन्ति नरकं सत्त्वास्तिर्यक्प्रेतेषु वै तथा;
द्वेषग्रस्ता इमे बालास्तेषां शान्तिः कथं भवेत् ॥
त आहुः -
(१९२) मुच्येम सर्वदुःखातः श्रुत्वा धर्ममिमं शुभम् ।
मुक्तश्च सर्वदुःखेभ्यो बालबुद्धिरजानकाः
(१९३) श्रोष्यामहे धर्मदानं पापकर्मविवर्जिताः
सर्वपापं विवर्जित्वा प्रहीणभयभैरवाः
(१९४) द्रक्ष्याम शीघ्रं संबुद्धं सर्वव्याधिप्रमोचकम् ।
वैद्यराजं महावैद्यं दुःखितानां चिकित्सकम् ।
(१९५) गच्छ स्थविर शीघ्रं त्वं वन्दनाय तथागतम् ।
वन्दस्व चास्मद्वचना ब्रूहि लोकविनायकम् ।
(१९६) प्रशामय इमं व्याधिं प्रशमयाग्निं सुदारुणम्
कायो यं ज्वलितः सर्वो दह्यमानो न शाम्यते ।
(१९७) दुःखार्दितानामस्माकं कार्युण्यं कुरु सुब्रत;
कायभारो महाभारस्तीक्ष्णभारः सुदारुणः
(१९८) द्वेषमोहसमाक्रान्त उद्वहन्ति जनाः सदा;
पुनः पुनर्बहंत्येते मोक्षभारमजानकाः
(१९९) मर्तव्यं न विजानन्ते त्रासो नोत्पद्यते थ च ।
मोक्षमार्गमजानाना मोक्षमार्गमपश्यकाः
(२००) अस्माकं मरणं नास्ति कदाचिदिति सुस्थिताः
संभ्रान्ता न विजानन्ति पश्यन्तो मातरं मृता;
(२०१) पितरं न स्मरन्त्यन्ये नित्यं च व्याधिपीडिताः
क्लेशकर्मप्रलुडिताः कथं भूंजाम भोजनम् ।
(२०२) दुःखान्तं न विजानामः श्रमामोऽथ निरर्थकम् ।
अस्माकमीदृशान् दुःखां जात्यविद्यानिदानतः
(२०३) महाभयं गुरुभारं संज्ञासंस्कारवेदना ।
तृष्णाया भ्राम्यते बालो यो धर्मं न विजानते ।
(२०४) जातो लोके ह्यनर्थाय कायभारपरिवृत
स्नानानुलेपनैः कार्यं शुचिर्वस्त्रं सुशोभनं;
(२०५) मृष्टं च भोजनं कार्यं यच्छरीरे मनोरमम् ।
पंचतूर्यामनोज्ञं च श्रोत्रं याचयते तथा ।
(२०६) सप्तरत्नसमुत्थाने रूपे रज्यन्ति चक्षुषी ।
सर्वं रसं च मृष्टं च जिह्वा याचयतेऽपि च ।
(२०७) स्पर्शं च मृदुकं सूक्ष्मं कायः प्रार्थयते सदा ।
मांसद्वयं शरीरेण निष्पीड्य रती जायते ।
(२०८) कायो ह्यचेतनो ह्येष रतिं कस्तत्र विन्दति ।
पादौ मे रमतस्तत्र प्रावृतं चर्म सुन्दरम् ।
(२०९) भवन्ति मरणत्राण न वस्त्रं न विलेपनम्
भवेच्छरीरं न त्राणं किं पुनर्वस्त्रलेपनम् ।
(२१०) पुरुष उच्यते कायमेति श्वासं महाबलं
तीक्ष्णं बलं प्रतिसंख्या तं तच्छरीरे महागुणम् ।
(२११) क्रीडया भ्रामितः पूर्वमश्वहस्तिपरिवृतः
मोक्षधर्ममजानानो रतोऽहं पापकर्मणि ।
(२१२) क्रीड्या कारापितं पापं परलोकमजानता;
पुनः पुनश्च जातोऽहं पुनर्मरणमागतः
(२१३) शोकः पुनः पुनर्दृष्टं परिदेवितबन्धनम् ।
मातॄणां मरणं दृष्टं दृष्टाश्च पितरो मृता ।
(२१४) ज्ञातयो भगिनी चैव पुत्रा भार्या मृतापि च ।
शून्याः सर्वे हि संस्काराः को हि रज्येत्सचेतनः
(२१५) विश्वासं हि मया ज्ञातं लोभग्रस्तेन चेतसा;
शान्तं धर्मं नोपलब्धं मरणं नाभिनन्दितम् ।
(२१६) तेन दानं न दत्तं मे लोभेनावृतचेतसा;
कः स्या लोभसमो पापो योऽद्यापि न निवर्तते ।
(२१७) संभ्रान्ता हि वयं जाताः संभ्रान्तं सकलं जगत्
संभ्रान्ताः शब्दं शृणुमो असद्धर्मपरिग्रहम् ।
(२१८) मोक्षं ध्यानाश्च मर्गामः शरीरं नोद्वहामहे ।
बुद्धा भवेम लोकार्थे शास्तारो गुरवो जगे ।
(२१९) बुद्धो मातापिता लोके बुद्धो मार्गप्रदर्शकः
प्रवर्षते धर्मवर्षं जंबुद्वीपे समन्ततः
(२२०) मूढा सत्त्वा न जानन्ति धर्माणां संग्रहं कथम् ।
बोधौ चित्तं नामयित्वा लभ्यते धर्मसंग्रहः
(२२१) शुन्यताः सर्वसस्ंकाराः शुन्या भोगा धनं तथा ।
पश्याम शुन्यमात्मानं दृष्ट्वा जाता निराशता;
(२२२) स्थविर भैषज्यसेन-म्-अस्माकं वचनं शृणु;
दूरं च ते विसर्जेम बोधिसत्त्वाना कारणात्
(२२३) बोधिसत्त्वा न खिद्यन्ते वीर्यवन्तो महातपाः
स्मृत्वा संसारदोषाणि कुर्वन्ते गुणसंग्रहं;
(२२४) गच्छस्व येन शास्तासौ पृच्छ चास्माक कारनात्
प्रतिलब्धसुखः शास्ता मा किंचित्खिद्यते जिनः
(२२५) पराजितस्त्वया मारः सबलश्च सवाहनः
शीघ्रमुज्वालितं धर्मं सर्वसत्त्वसुखावहम् ।
(२२६) न चास्माभिः श्रुतो धर्मो येन बुद्धा भवेमहे ।
गच्छस्व शीघ्रं स्थविर अस्माकं हितकारणात्
(२२७) नोत्तरामो वयं यावन्न पश्यामस्तथागतम् ।
द्वातृंशलक्षणधरं स्थिता सर्वे सगौरवाः ॥
भैषज्यसेनो बोधिसत्त्व आह -
(२२८) ऊर्ध्वं तावन्निरीक्षध्वं किं पश्यध्वं हि सांप्रतं;
(२२९) अवलोकयन्ति ते ऊर्ध्वं स्थिता पंच अनूनकाः
शतास्त्रयः सहस्राणि कूटागाराः समन्ततः
(२३०) सप्तरत्नसमारूढा रत्नजालस्वलंकृताः
पद्मं प्रफुल्लं मध्ये च दिव्यगन्धप्रमुञ्चनम् ।
(२३१) पृच्छन्ति स्थविरं तत्र किमेतदिह दृश्यते
कूटागारा रत्नजालाः पद्मकेसरसंस्थिताः
भैषजयसेन आह -
(२३२) स्थानान्येतानि युष्माकं गच्छध्वं बुद्धदर्शनम् ।
वन्दध्वं लोकप्रद्योतं योऽसौ लोकोत्तरो गुरुः ॥
त आह -
(२३३) तत्र मार्गं न जानीमो न पश्यामस्तथागतम् ।
यत्र मार्गं न जानीमः क्व गच्छाम वन्दितुम् ।
भैषज्यसेन आह -
(२३४) वन्दनाय च गन्तव्यं शास्तारममृतप्रभम् ।
अनन्तमाकाशमिव परामार्ष्टुं न शक्यते ।
(२३५) स्थाने तिष्ठत्यसौ शास्ता यथा तिष्ठन्ति मेरवः
सुमेरोरुपमा स्यात्तु गाधं चैव महोदधे ।
(२६) तृसाहस्राच्च रजसो न ज्ञानाद्बुद्धसंभवात्
वन्दितो लोकप्रद्योतो बोधिसत्त्वैर्दशद्दिशे ॥
त आहुः -
(२३७) विलोकय लोकनाथ पूरयास्मकमाशयम् ।
चित्तेन वन्दितोऽस्माभिः शास्ता लब्धास्ततः फलम् ।
भैषज्यसेनो बोधिसत्त्व आह -
(२३८) न गन्धै रज्यते शास्ता न माल्यैर्न
विलेपनैः हेतुं गृह्णाति सत्त्वानां येन मुच्यन्ति संस्कृतात्
(२३९) संग्रामं न कुरुते तस्य मारः परमदारुणं;
दमितो हि मनो येन बुद्धं च शरणं गतः
(२४०) मृत्योर्न यास्यति वशं क्षिप्रं प्राप्स्यति धारणी
चित्तप्रसादं कृत्वासौ शास्तारं पश्यते ततः
[२५४] अथ खलु भगवान् कलविङ्करुतस्वरमनोज्ञघोषस्तथागतः स्मितं प्रादुष्चकार; अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्व उत्थायासनाद्येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत्- को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय यद्भगवतो मुखद्वाराच्चतुरशीति रश्मिशतसहस्राणि निश्चरन्ति । तैश्च रश्मिभिरियं त्रिसाहस्रमहासाहस्रा लोकधातुरवभासेन स्फुटाभूत्सर्वे च द्वातृंशन्महानिरया स्फुटा अभूवन् द्वातृंशतिश्च देवभवनान्यवभासितानि । ताश्च रश्मयो नानावर्णाः तद्यथा नीलपीतलोहितावदातमंजिष्ठास्फटिकरजतवरणाः एताश्च रश्मयो भगवतो मुखद्वारान्निश्चर्य त्रिसाहस्रमहासाहस्रायां लोकधातौ सत्त्वानां सर्वमुखोपधानं कृत्वा पुनरेव प्रत्युदावृत्य भगवन्तं सप्तकृत्प्रदक्षिणाकृत्य भगवतो मूर्धन्यन्तरधीयन्त;
[२५५] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कञ्चिदेव प्रदेशं सचेन्मे भगवानवकाशं कुर्यात्पृष्टः प्रश्नव्याकरणाय; ॥ एवमुक्ते भगवां भैषज्यसेनं बोधिसत्त्वं महासत्त्वमेतदवोचत्- पृच्छ त्वं भैषज्यसेन यद्यदेवाकांक्षस्यहं ते तस्य तस्यैव (पृष्टस्य) प्रश्नस्य व्याकरणेन चित्तमारधयिष्यामि ।
[२५६] एवमुक्ते भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- तृंशत्कोटीसहस्राणि भगवन्नवकानां सत्त्वानां प्रादुर्भूतानि ते तथागतस्य सूक्ष्मान् धर्मदेशनामवगाहन्ति । सूक्ष्मं भगवन् बृद्धानां सत्त्वानां परिभाषन्ति परिवदन्ति परिपीडयन्ति । न यूयं बृद्धाः सत्त्वा धर्मं जानीथ नित्यं यूयंमधर्मे चाकुशले च रज्यथ । तद्भगवान्मृष्टा मनापा वाग्भाषन्ते तत्केन कारणेन भगवन्तमेवं वाग्भाषन्ते । भगवानाह - न विजानासि भैषज्यसेन केन कारणेनैते सत्त्वा एवं वाग्भाषन्ते । तथागतस्यैभिर्मृदुकं सुकुकारं भाषितं धर्मं श्रुत्वा तेनैते भैषज्यसेन सर्वधर्माणामर्थमवभोत्स्यन्ते सर्वगुणसमन्वागताश्च भविष्यन्ति । सर्वे च धारणामवगाहिष्यन्ति । अद्य-द्-अग्रेण दशभूमिप्रतिष्ठिता भविष्यन्ति । अद्य महादुन्दुभिशब्दं प्रकरिष्यन्ति । अद्य महाधर्मप्रकारसमन्वागता भविष्यन्ति । पश्यसि त्वं भैषज्यसेन इमानि कूटागाराणि ॥ भैषज्यसेन आह - पश्यामि भगवन् पश्यामि सुगत । भगवानाह - अद्येमे भैषज्यसेन दहराः सत्त्वाः एषु कूटागारेष्वभिरुह्य धर्माभिसमयमनुप्राप्स्यन्ति । अद्येमे सर्वकुशलधर्मपारिपूरिं करिष्यन्ति । अद्य महाधर्मदुन्दुभिं पराहनिष्यन्ति । अनेकेषां च देवनिकायानामद्य धर्माभिसमयो भविष्यति । बहूनाञ्च नैरयिकानां सत्त्वानां विनिपातसंप्रस्थितानां तथागतज्ञाननिर्देशं श्रुत्वा सर्वसंसारपराङ्मुखपराजयो भविष्यति ।
[२५७] तस्यां च वेलायां वृद्धसत्त्वैर्नवानवतिभिः कोटीशस्रैः (सर्वे) स्रोतआपत्तिफलं प्राप्तं ते च सर्वधर्मसमन्वागता भविष्यन्ति । सर्वे ते भैषज्यसेन सर्वदुःखपरिवर्जिता भविष्यन्ति । सर्वे ते भैषज्यसेन सर्वतथागतदर्शनं निष्पादयिष्यन्ति । सर्वे ते भैषज्यसेन महाधर्मसमन्वागता भविष्यन्ति । अवलोकय भैषज्यसेन चतुर्दिशं
[२५८] अवलोकयति भैषज्यसेनो बोधिसत्त्वो महासत्त्वः समन्ता चतुर्दिशं स पश्यति पूर्वस्यान् दिशि पंचाशत्कोट्यो गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति । दक्षिणस्यान् दिशि षष्टि कोटी गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति । पश्चिमस्यांन् दिशि सप्तति कोटी गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति । उत्तरस्यान् दिश्यशीति कोट्यो गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति । अधस्ताद्दिशि नवकोटीसहस्राणि गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति । ऊर्ध्वायां दिशि कोटीशतसहस्रं गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति । ते चागतागता बोधिसत्त्वा महासत्त्वा भगवतः पुरतः पादौ शिरशाभिवन्द्यैकान्ते तशुः
[२५९] एकान्तस्थितानां दशदिग्भ्यागतानां बोधिसत्त्वानां महासत्त्वानामथ भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- किमेतद्भगवन् खग-म्-अन्तरीक्षे कृष्णरूपं लोहितरूपं (च) पश्यामि । भगवानाह - किमिदं भैषज्यसेन । न संजानासि यदेतदन्तरीक्षे कृष्णरूपं लोहितरूपं च पश्यसि । आह । न जानामि भगवन्न जानामि सुगत । भगवानाह - एष तथागत एव जानाति । मारोऽयं भैषज्यसेन विचक्षुस्करणायेहोपसंक्रान्तः इच्छसि भैषज्यसेनैतान् बोधिसत्त्वान्महासत्त्वान् द्रष्टुं य एते खगान्तरीक्षे व्यवस्थिताः आह । इच्छामि भगवन्निच्छामि सुगत ।
[२६०] अथ भगवांस्तान् बोधिसत्त्वान् दर्शयित्वा भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति स्म । ईदृशानां भैषज्यसेन कोटीशतगंगानदीवालिकासमानि बोधिसत्त्वाना आगतानि । आह । को भगवन् हेतुः कः प्रत्ययो यदेते बोधिसत्त्वा एतावन्त इहागता । भगवानाह - दहराणां सत्त्वानां प्रत्ययेन भैषज्यसेन संप्रतं सर्वसत्त्वा धर्मध्यानसमन्वागता भविष्यन्ति । पश्यसि त्वं भैषज्यसेन य एते बोधिसत्त्वा महासत्त्वा नानारूपा आगता ऋद्धिबलाधानेन । आहावलोकितानि मया कोटीशतगंगानदीवालिकासमा लोकधातवस्तत्र मया कोटीनियुतशतसहस्रगंगानदीवालिकासमा बोधिसत्त्वा महासत्त्वा दृष्टाः स्वकस्वकेन ऋद्धिबलेन तिष्ठन्ति नानारूपा नानावर्णा नानाबलसंस्थानास्तिष्ठन्ति । आर्यधर्मविहारेषु ते बोधिसत्त्वस्तिष्ठन्ति । धर्मविहारेषु ते बोधिसत्त्वपरिवारास्तिष्ठन्ति ।
[२६०] इदमवोचद्भगवानात्तमनाः सर्वशुरो बोधिसत्त्वो महासत्त्वः भैषज्यसेनो बोधिसत्त्वो महासत्त्वः सर्वे च नवपुराणका बोधिसत्त्वा महासत्त्वाः सा च सर्वावती पर्षत्सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दत्
चोलोफोन् ब्: ॥ ० ॥ संघाटं ना[म] महायानसूत्रं महाधर्मपर्यायम् ॥०॥
चोलोफोन् द्: ॥ ० ॥ आर्यसंघाटं नाम धर्म्मपर्यायं समाप्तम् ॥०॥
</poem>
jxq2jw8mvy835bgsiv72694h3qluft7
341373
341372
2022-07-25T10:18:07Z

q2nfd8ap40i5ex4unhznxvz22cjlzat
आर्यशालिस्तम्बककारिका
0
125418
341374
2022-07-25T10:19:58Z
Shubha
190
{{header | title = आर्यशालिस्तम्बककारिका | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> नागार्जुन: आर्यशालिस्तम्बककारिका आर्यमञ्जुश्रिये नमः अनन्ताचिन्त्यगुण्य... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = आर्यशालिस्तम्बककारिका
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
नागार्जुन: आर्यशालिस्तम्बककारिका
आर्यमञ्जुश्रिये नमः
अनन्ताचिन्त्यगुण्यं हि सम्बुद्धं करुणात्मकम् ।
प्रणिपत्य प्रवक्ष्यामि शालिस्तम्बककारिकाम् । १ ॥
मुनी राजगृहस्यैव गृध्रनामकपर्वते ।
भिक्षूणां बोधिसत्त्वानां संघैः सार्धं व्यवस्थितः ॥ २ ॥
हेतुप्रत्ययसंभूतं शालिस्तम्बं विलोक्य च ।
हेतुप्रत्ययजं तद्वद्द्वादशाङ्कक्रमोद्गतम् ॥ ३ ॥
प्रतीत्यमिति यः प्रश्येत्धर्मं बुद्धं च पश्यति ।
इत्युक्त्वा नायका भिक्षून् तूष्णीभावमवस्थितः ॥ ४ ॥
भिक्षुः शारिसुत्रः श्रुत्वा गत्वा मैत्रेयसन्निधौ ।
तथागतोऽद्य मैत्रेय उक्त्यर्थं न विभज्य च ॥ ५ ॥
तूष्णीं भावे स्थितश्चात्र तदर्थो गम्यते कथम् ।
किं प्रतीत्यं च को धर्मो बुद्धोऽपि कतमस्तथा ॥ ६ ॥
प्रतीत्यं तु कथं दृष्ट्वा धर्म बुद्धं च पश्यति ।
सन्देहो मेऽत्र ब्रूहीति ऊचे शारिसुतोऽजितम् ॥ ७ ॥
भावात्मिका हि मैत्री स्यात्मैत्रेयोऽब्रूत्निर्णयम् ।
द्वादशाङ्गमविद्यादि मरणान्तं यथाक्रमम् ॥ ८ ॥
तस्मात्तर्हिभवन्त्येव दुःखस्कन्धा हि केवलम् ।
धर्मश्चाष्टाङ्गिको मार्गः फलं निर्वाणमुच्यते ॥ ९ ॥
सर्वस्याधिगमादेवं धर्मजं बुद्धमेव च ।
तथोक्तमार्यं दुष्टत्वात्यः पश्यति स पश्यति ॥ १० ॥
प्राणादिरहिताद्यश्च व्युपशान्त्यन्तसंयुतम् ।
प्रतीत्यं धर्मबुद्धौ च शुद्धबुद्धया वि पश्यति ॥ ११ ॥
प्रतीत्यलक्षणं तावत्सहेत्वादिपदान्वितम् ।
बुद्धोत्पादो भवेन्नो वा स्थितेयं धर्मता यतः ॥ १२ ॥
बाह्य आध्यात्मिकश्चापि द्विविधो हेतुप्रत्ययः ।
बाह्यो हेतुस्तु बीजादिः प्रत्ययः षड्विधो मतः ॥ १३ ॥
बीजाङ्कुरप्रकाण्डादिः फले यद्वत्प्रवर्तते ।
प्रत्ययस्तु पृथिव्यादिकालान्तो हि यथाक्रमम् ॥ १४ ॥
धारणं स्नेहनं पाको धान्यवृद्धिरनावृतिः ।
परिणामस्तथा तेषां कार्यं तद्वत्प्रवर्तते ॥ १५ ॥
नो चेत्प्रत्ययसामग्री बीजे भूतेऽपि नाङ्कुरः ।
बीजाभावे तु सत्येव प्रत्ययभावोऽपि तादृशः ॥ १६ ॥
हेतवः प्रत्ययास्तद्वदात्मग्राहादिवर्जिता ।
हेतुप्रत्ययसमग्र्या न नश्येत्कर्मणः फलम् ॥ १७ ॥
न स्वतो परतो नापि न द्वयोः कर्तृकालतः ।
ईश्वरादिकृतं नैवं स्वभावान्नाप्यहेतुतः ॥ १८ ॥
हेतुप्रत्यययोर्वृत्तिर्भासतेऽनादिकालतः ॥
पञ्चभिर्हेतुभिर्बाह्यः प्रतीत्योत्पाद इष्यते ॥ १९ ॥
शाश्वततो न चोच्चेदान्न संक्रन्तेः परीत्ततः ।
हेर्तोर्महाफलावाप्तिः सदृशानुप्रबोधतः ॥ २० ॥
अङ्कुरो बीजवनेष्टो निर्हेतुर्नोऽङ्कुरोद्भवः ।
समो निरोध उत्पादस्तुलोन्नामावनामवत् ॥ २१ ॥
तथैवाध्यात्मिकस्यापि हेतुश्च प्रत्ययो द्विधा ।
आदिहेतुरविद्यास्य मृत्युरन्त्यो यथाक्रमम् ॥ २२ ॥
समजन्मक्लेशकर्मात्मा द्वादशाङ्कस्त्रिकाण्डकः ।
हेतुप्रत्ययसम्भूतः कर्तेत्यादिविवर्जितः ॥ २३ ॥
अविद्या यदि नादौ स्यादन्ते मृत्युर्न संभवेद् ।
तेभ्यो भिन्नो न कुत्रापि ह्यात्मात्मीयश्च विद्यते ॥ २४ ॥
अविद्यासंभवादादावन्ते मृत्युश्च भासते ।
हेतोराध्यात्मिकस्यैवं प्रत्ययाः षड्प्रकारकः ॥ २५ ॥
प्रत्ययोऽध्यात्मिकस्त्वन्ते विज्ञानं चादिके धरा ।
काठिन्यं संग्रहः पाकः श्वासवृद्धिरनावृतिः ॥ २६ ॥
ज्ञानरूपानुवृत्तिश्च पञ्चविज्ञानसंयुतम् ।
तस्मात्क्लिष्टं मनश्चापि हीमेऽध्यात्मिकप्रत्ययाः ॥ २७ ॥
धातूनां सन्निपाताद्वै शरीरोत्पाद इष्यते ।
आत्मात्मीयविकल्पानामुत्पादस्तैर्न मन्यते ॥ २८ ॥
तेषु सत्सु समुत्पादस्तेष्वसत्सु न संभवः ।
नैवात्मादिमयास्ते हि नाप्यन्यच्चापि किञ्चन ॥ २९ ॥
यैकपिण्डादिसंज्ञा साविद्यात्रिभवछादिका ।
रागो द्वेषश्च मोहादिः प्रवृत्ताः सन्त्यविद्यया ॥ ३० ॥
ततः संस्कृतभावानां ज्ञप्तिर्विज्ञानसंभवा ।
विज्ञानेन सहोद्भूताश्चतुस्कन्धा अरूपिणः ॥ ३१ ॥
नामरूपमुपादाय चेन्द्रियायतनोद्भवः ।
विषयेन्रियविज्ञानसंघातात्स्पर्शसम्भवः ॥ ३२ ॥
वेदना स्पर्शजा ज्ञेया तृष्णा च वेदनोद्गता ।
तृष्णावृद्धिरुपादानमुपादानोद्गतो भवः ॥ ३३ ॥
स्कन्धोत्पादो भवाज्जातिर्जातेरेवं जरापि च ।
स्कन्धाभावो जराया यः स मृत्युश्चेत्युदीर्यते ॥ ३४ ॥
मूढे तु मरणाच्छोकः सतृष्णे दाह आन्तरः ।
शोकतश्चापलापो यो दौर्मनस्यं स उच्यते ॥ ३५ ॥
दौर्मनस्यसमुद्भूतं पञ्चविज्ञानकायिकम् ।
आसातदुःखमित्युक्तं कायसौख्यविघातकम् ॥ ३६ ॥
दुःखं मनसिकाराख्यं मनसस्तूपधातकम् ।
दौर्मनस्यं च तज्ज्ञेयमन्योपक्लेशहेतुक्रम् ॥ ३७ ॥
तमोऽभिज्ञानामरूपायतस्पर्शवित्तर्षतः ।
तृष्णादानभवोत्पाद पाकनाशविशोकतः ॥ ३८ ॥
वचनादिकायसंपीडाचित्तदुर्मानसास्तथा ।
क्लेशादन्वर्थकं नाम यथाक्रममुदीरितम् ॥ ३९ ॥
पुनस्तत्त्वपरिज्ञानादविद्यादेश्च यथाक्रमम् ।
पूर्वपूर्वेभ्य उत्पादोऽप्याख्यातश्चोत्तरोत्तरः ॥ ४० ॥
द्वादशाङ्गौत्रिप्रवृत्ती नित्योच्छेदौ ह्यनादिजौ ।
प्रवृत्तेर्जलधारावद्वर्ततेऽनादिकालतः ॥ ४१ ॥
तथाप्येते तु चत्वारः संघातकरहेतवः ।
अविद्या च तृषा कर्म विज्ञानं क्रमशो मताः ॥ ४२ ॥
हेतोर्विज्ञानबीजं हि कर्मक्षेत्रमुदीरितम् ।
प्रथमः च तृषा प्रोक्ते हेतुः क्लेशस्वभावतः ॥ ४३ ॥
कर्मक्लेशास्तुविज्ञानबीजत्वेन व्यवस्थिताः ।
कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति च ॥ ४४ ॥
विज्ञाननामकं बीजं तृष्णया स्निह्यते परम् ।
विज्ञानबीजं चाविद्या किरति स्नेहनेन वै ॥ ४५ ॥
कर्म तृष्णा तथाविद्या क्षेत्रंस्नेहोऽवकीर्णनम् ।
विज्ञाने न करोमीदं न विज्ञानमितो मतम् ॥ ४६ ॥
तथापि बीजविज्ञानें कर्मक्लेशप्रतिष्ठिते ।
विज्ञानं बीजमित्युक्तं कीर्णेऽविद्यास्ववस्करे ॥ ४७ ॥
तृष्णाजलेन संसिक्ते हेतुतो नामरूपयोः ।
अङ्कुरोत्पादभासो हि न स्वपरोभयादितः ॥ ४८ ॥
नामरूपमिदंजातं पितुर्मातुःसमागमात् ।
अविरोधादृतोश्चापि किञ्चिदास्वादवेधितम् ॥ ४९ ॥
बीजविज्ञानमित्युक्तं मातृगर्भे क्रमाच्चयः ।
नामरूपाङ्कुरोत्पादस्त्ववैकल्याच्च प्रत्ययैः ॥ ५० ॥
अविरोधत्वाच्चहेतूनां मायानैरात्म्यनिग्रहे ।
उत्पादोऽपि न संभाव्यः चक्षुर्विज्ञानमप्यतः ॥ ५१ ॥
पञ्चभिर्हेतुभिर्जातं चक्षूरूपावभासनैः ।
नभस्तज्जमनस्कारैः पञ्चवैकल्यतस्तथा ॥ ५२ ॥
चक्षुर्विज्ञानमुद्भूतं मया ते जनिता इति ।
विकल्पो न यथोदेति श्रोत्रज्ञानादिकाखिलम् ॥ ५३ ॥
उत्पादस्य क्रमश्चैवं हेतुप्रत्ययसङ्ग्रहात् ।
कर्त्रादीनां च वैकल्यादहङ्कारवियोगतः ॥ ५४ ॥
उत्पादोऽपि यथापूर्व तथ चापि प्रतीत्यजम् ।
हेतुमत्संविजानीयादस्माल्लोकात्परं नहि ॥ ५५ ॥
कश्चिद्धमः क्वचिद्गन्ता हेतुप्रत्ययतस्तथा ।
कर्मणः फलमभ्येति, यथा दर्शे विशोधिते ॥ ५६ ॥
दृश्यन्ते मुखबिम्बानि दर्पणेऽपि च बिम्बकम् ।
संक्रामितं भवेत्रैव तदन्योन्याविकल्पनम् ॥ ५७ ॥
कर्तृक्रियाविहीनं तत्तथोत्पादावभासनम् ।
पूर्ववृद्धिक्रमाच्च स्याद्दूरस्थश्चन्द्रमा यथा ॥ ५८ ॥
परीत्तोदकपात्रान्ते दृश्यते न च क्रामति ।
अस्ति क्रिया च कर्मापि तथा चास्माच्च्युतिर्न हि ॥ ५९ ॥
जन्माभासोऽप्यसंल्लोके नोपादानं विनानलः ।
ज्वलेत्सकल उज्ज्वालो हीनोपादानहानितः ॥ ६० ॥
स्कन्धत्वप्रतिसन्धिःस्यात्, सन्ति ते कल्पनात्मकाः ।
बाह्यं कर्म क्रिया हेतुरध्यात्मपरतन्त्रतः ॥ ६१ ॥
पञ्चविज्ञानसंभवाःपरमार्थोऽविचार्यतः ।
परिनिष्पन्न आख्यातःसहेतुप्रत्ययोद्भवः ॥ ६२ ॥
सर्वदा द्विविधो ज्ञेयः कर्त्रादिरहितस्तथा ।
तुच्छशून्यादितिःसारःप्रज्ञयैवं य ईक्षितः ॥ ६३ ॥
किं कथं वा कुतो केन कल्पवादादिहानितः ।
उदचन्द्रस्य यथा बिम्बं ततः कश्चिच्च न च्युतः ॥ ६४ ॥
लोके जन्मापि चाभाति यथा पादपसङ्गतः ।
वह्निस्त्रोतः प्रवृतिःस्याधेतुवैकल्पतस्तथा ॥ ६५ ॥
नानुप्रवर्तते ह्यग्नितद्वत्संक्लेशबीजके ।
दग्धे ज्ञानाग्निना हेतोरभावान्नफलं तथा ॥ ६६ ॥
क्रिया कर्मापि नैवास्तिअनन्ताचिन्त्यगुण्यकम् ।
शान्तधर्मात्मकं कायमादिमध्यान्तवर्जितम् ॥ ६७ ॥
ज्ञात्वा प्राप्नोति बुद्धत्वं य एवं तथताक्षमः ।
तस्मै व्याक्रियते नूनं मैत्रेयस्तु स्वयं तथा ॥ ६८ ॥
उवाच शारिपुत्राय शालिस्तम्बोपमा कृता ।
शारिपुत्रस्तु तच्छ्रुत्त्वा देवसंघानुमोदितः ॥ ६९ ॥
संस्तुतो धृतसारश्च गत्वोत्थाय प्रहर्षितः ।
आख्यातवांश्च भिक्सुभ्यः ॥ ७० ॥
आर्यानागार्जुनविरचिता आर्यशालिस्तम्बकसूत्रकारिका समाप्ता ।
भावतीयोपाध्यायेन धर्मश्रीभद्रेण महासंशोधकलोकचक्षुस्साधुमतिज्ञानकुमाराभ्यां चानूदितः ।
पश्चात्श्रीकुटीरक्षितेन संशोध्य निर्णीतः ॥ �
</poem>
6i7oksqm9drwnnu76gw188eb3dfnygy
341375
341374
2022-07-25T10:20:19Z

rpawoujkaun4m7nqw124s25exd1uv88
आर्यताराभट्टारिकानामाष्टोत्तरशतकस्तोत्रम्
0
125419
341377
2022-07-25T10:52:22Z
Shubha
190
{{header | title = आर्यताराभट्टारिकानामाष्टोत्तरशतकस्तोत्रम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> आर्यताराभट्टारिकानामाष्टोत्तरशतकस्तोत्रम् ओं नमः... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = आर्यताराभट्टारिकानामाष्टोत्तरशतकस्तोत्रम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
आर्यताराभट्टारिकानामाष्टोत्तरशतकस्तोत्रम्
ओं नमः श्रीमदार्यतारायै
श्रीमत्पोतलके रम्ये नानाधातुविराजिते ।
नानाद्रुमलताकीर्णे नानापक्षिनिकूजिते ॥ १
नानानिर्झरझंकारे नानामृगसमाकुले ।
नानाकुसुमजातीभिः समन्तादधिवासिते ॥ २
नानाहृदयफलोपेते षट्पदोद्गीतनिस्वने ।
किन्नरैर्मधुरैर्गीतैर्मत्तवारणसंकुले ॥ ३
सिद्धविद्याधारगणैः गन्धर्वैश्च निनादिते ।
मुनिभिर्वीतरागैश्च सततं संनिषेविते ॥ ४
बोधिसत्वगणैश्चान्यैः दशभूमीश्वरैरपि ।
आयतारादिभिर्देवीविद्याराज्ञीसहस्रकैः ॥ ५
क्रोधराजगणैश्चान्यैः हयग्रीवादिभिर्वृते ।
सर्वसत्वहितोद्युक्तो भगवानवलोकितः ॥ ६
विजहार ततः श्रीमान् पद्मगर्भासने स्थितः ।
महता तपसा युक्तो मैत्र्या च कृपयान्वितः ॥ ७
धर्मं दिदेश तस्यां स महत्यां देवपर्षदि ।
तत्रोपविष्टमागम्य वज्रपाणिर्महाबलः ॥ ८
परमकृपया युक्तः पप्रच्छेत्यवलोकितम् ।
तस्करोरगसिंहाग्निगजव्याघ्राम्बुसंकटे ॥ ९
सीदन्त्यमी मुने सत्वा मग्नाः संसारसागरे ।
बद्धाः संसारकैः पाशै रागद्वेषतमोपहैः ॥ १०
मुच्यन्ते येन संसारात्तन्मे ब्रूहि महामुने ।
एवमुक्ते जगन्नाथः स श्रीमानवलोकितः ॥ १० इस्
उवाच मधुरां वाणीं वज्रपाणिं प्रबोधिनम् ।
शृणु गुह्यकराजेन्द्र अमिताभस्य तायिनः ॥ ११
प्रणिधानवशोत्पन्ना ममाज्ञा लोकमातरः ।
महाकरुणयोपेता जगदुद्धरणोद्धृताः ॥ १२
उदितादित्यसंकाशाः पूर्णेन्दुवदनप्रभाः ।
भासयन्ति द्रुमांस्ताराः सदेवासुरमानुषान् ॥ १३
कम्पयन्ति त्रयो लोकान् त्रास्यन्ती यक्षराक्षसान् ।
नीलोत्पलकरा देवी मा भैर्मा भैरिति ब्रुवन् ॥ १४
जगत्संरक्षणार्थाय अहमुत्पादिता जिनैः ।
कान्तारे शस्त्रसंपर्के नानाभयसमाकुले ॥ १५
स्मरणादेव नामानि सत्वान् रक्षाम्यहं सदा ।
तारयिष्याम्यहं नाथ नानाभयमहार्णवात् ॥ १६
तेन तारेति मं लोके गायन्ति मुनिपुंगवाः ।
कृताञ्जलिपुटा भूत्वा ततः सादरसाध्वसाः ॥ १७
ज्वलतीर्यन्तरीक्षेस्थ इदं वचनमब्रवीत् ।
नामाष्टशतकं ब्रूहि यत्पुरा कीर्तितं जिनैः ॥ १८
दाशभूमीश्वरैर्नाथैर्बोधिसत्वैर्महर्द्धिकैः ।
सर्वपापहरं पुण्यं माङ्गल्यं कीर्तिवर्धनम् ॥ १९
धनहान्यकरं चैव आरोग्यपुष्टिवर्धनम् ।
मैत्रीमालम्ब्य सत्वानां तत्कीर्तय महामुने ॥ २०
एवमुक्तेऽथ भगवान् प्रहसन्नवलोकितः ।
व्यवलोक्य दिशः सर्वा मैत्र्या स्फुरणया दृशा ॥ २१
दक्षिणकरमुद्धृत्य पुण्यलक्षणमण्डितम् ।
तमुवाच महाप्राज्ञः साधु साधु महातपः ॥ २२
नामानि शृणु महाभाग सर्वसत्वैकवत्सलः ।
यानि संकीर्त्य मनुजाः सम्यक्ते स्युर्धनेश्वराः ॥ २३
सर्वव्याधिविनिर्मुक्ताः सर्वैश्वर्यगुणान्विताः ।
अकालमृत्युनिर्दग्धाश्च्युता यान्ति सुखावतीम् ॥ २४
तान्यहं संप्रवक्ष्यामि देवसंघाः शृणुध्व मे
अनुमोदेत सद्धर्मे भविष्यध्वं सुनिर्वृताः ॥ २५
ओं लोचने सुलोचने तारे तारोत्सवे सर्वसत्वानुकम्पिनि ।
सर्वसत्वोत्तारिणि सहस्रभुजे सहस्रनेत्रे ॥ २६
ओं नमो भगवतेऽवलोक्य आवलोक्या ।
सर्वसत्वानां चाहं फुट्स्वाहा ॥ २७
ओं शुद्धे विशुद्धे शोधनविशोधनि ।
सुगतात्मजे मैत्रीहृदये निर्मले श्यामे श्यामरूपिणि ॥ २८
महाप्राज्ञे प्रवरे प्रवरभूषिते पराजिते ।
महारौद्रि विश्वरूपि महायश ॥ २९
कल्पाग्निमहातेजा लोकधात्रीमहायशा ।
सरस्वती विशालाक्षी प्रज्ञाश्रीबुद्धिवर्धनी ॥ ३०
ओं धृतिदा पुष्टिदा स्वाहा ओंकारा कामरूपिणी ।
सर्वसत्वहितोद्युक्ता संग्रामे तारणी जया ॥ ३१
प्रज्ञापारमितादेवी आर्यातारा मनोरमा ।
दुन्दुभिसखिनी पूर्णविद्याराज्ञी प्रियंवदा ॥ ३२
चन्द्रानना महागौरी अजिता पीतवाससा ।
महामाया महाश्वेता महाबलपराक्रमा ॥ ३३
महारौद्री महाचण्डी दुष्टसत्वनिसूदनी ।
प्रशान्ता शान्तरूपा च विजया ज्वलनप्रभा ॥ ३४
विद्युन्माली ध्वजी खड्गी चक्री चापयुतायुधा ।
जम्भनी स्तम्भनी काली कालरात्री निशाचरी ॥ ३५
रक्षणी मोहिनी शान्ता कान्ता विभाविनी शुभा ।
ब्राह्मणी वेदमाता च गुहा च गुहवासिनी ॥ ३६
माङ्गल्या शङ्करी सौम्या जातवेदा मनोजवा ।
कापालिनी महाभागा संध्या सत्यापराजिता ॥ ३७
सार्थवाहा कृपदृष्टी नष्टमार्गप्रदर्शनी ।
वरदा शासनी शास्त्री स्त्रीरूपामितविक्रमा ॥ ३८
शवली योगिनी सिद्धा चाण्डाली चामृता ध्रुवा ।
धन्या पुण्या महाभागा सुभागा प्रियदर्शनी ॥ ३९
कृतान्तत्रासनी भीमा उग्रा उग्रमहातपा ।
जगदेकहितोद्युक्ता शरण्य भक्तिवत्सला ॥ ४०
वागीश्वरी शिवा सूक्ष्मा नित्या सर्वार्थमातृका ।
सर्वार्थसाधनी भद्रा गोप्त्री धात्री धनंजया ॥ ४१
अभया गौतमी पुण्या श्रीमल्लोकेश्वरात्मजा ।
तारा नामगुणानन्ता सर्वाशापरिपूरणी ॥ ४२
नामाष्टोत्तरशतकं तत्कीर्तितं हितेन वः ।
रहस्यमद्भुतं गुह्यं देवानामपि दुर्लभम् । ४३
सौभाग्यं भाग्यकरणं सर्वकील्बिषनाशनम् ।
सर्वव्याधिप्रशमनं सर्वसत्वसुखावहम् ॥ ४४
त्रिकारं यः पठेद्धीमान् शुचिः स्नानसमाहितः ।
अचिरेणैव कालेन राज्यश्रियमवाप्नुयात् ॥ ४५
दुःखितः स्यात्सुखी नित्यदरिद्रो धनवान् भवेत् ।
जडो भवेन्महाप्राज्ञो मेधावी च न संशयः ॥ ४६
बन्धनान्मुच्यते बद्धो व्यवहारे जयो भवेत् ।
शत्रवो मित्रतां यान्ति शृङ्गिणश्चाथ दंष्ट्रिणः ॥ ४७
संग्रामे संकटे दुर्गे नानाभयसमाकुले ।
स्मरणादेव नामानि सर्वपापान्यपोहति ॥ ४८
नाकालमृत्युर्भवति प्राप्नोति विपुलां श्रियम् ।
मानुश्यं सफलं जन्म यस्य कस्य महात्मनः ॥ ४९
यश्चेदं प्रातरुत्थाय मानवः कीर्तयिष्यति ।
स दीर्घकालमायुष्मान् श्रियं च लभते नरः ॥ ५०
देवा नागास्तथा यक्षा गन्धर्वाः कटपूतनाः ।
पिशाचराक्षसा भूता मातरो रौद्रतेजसः ॥ ५१
क्षयापस्मारकारकश्चैव क्षतकाखोर्डकादयः ।
डाकिन्यास्तारका प्रेताः स्कन्दा मारा महाग्रहाः ॥ ५२
छायामपि न लङ्घन्ते किं पुनस्तस्य विग्रहः ।
दुष्टसत्वा न वाधन्ते व्याधयो नाक्रमन्ति च ॥ ५३
देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः ।
सर्वैश्वर्यगुणैर्युक्तः पुत्रपौत्रैश्च वर्धते ॥ ५४
जातिस्मरो भवेद्धीमान् कुलीनः प्रियदर्शनः ॥ ५५
प्रीतिमांश्च महावाग्मी सर्वशास्त्रविशारदः ॥ ५६
कल्याणमित्रसंसेवी बोधिचित्तविभूषितः ।
सदाविरहितो बुद्धैर्यत्र यत्रोपपद्यते ॥ ५७
इत्यार्यताराभट्टारिकाया नामाष्टोत्तरशतकं बुद्धभाषितं समाप्तम् ।
॥ शुभम् ॥
</poem>
95ffwgec3o4f5v3oapc4duywh7qld2m
341378
341377
2022-07-25T10:52:45Z

qskybvn4fyafm93zubv2l4blz2feqgu
आर्यतारास्रग्धरास्तोत्रम्
0
125420
341379
2022-07-25T10:55:35Z
Shubha
190
{{header | title = आर्यतारास्रग्धरास्तोत्रम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> आर्यतारास्रग्धरास्तोत्र ओं नमो भगवत्यै आर्यतारायै. बालार्कालोकताम्रप... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = आर्यतारास्रग्धरास्तोत्रम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
आर्यतारास्रग्धरास्तोत्र
ओं नमो भगवत्यै आर्यतारायै.
बालार्कालोकताम्रप्रवरसुरशिरश्चारुचूडामणिश्री-
संपत्संपर्करागनातिचिररचितालक्तकव्यक्तभक्ती ।
भक्त्या पादौ तवार्ये करपुटमुकुटातोपभुग्नोत्तमाङ्गस्
तारिण्यापच्छरण्यैर्नवनुतिकुसुमस्रग्भिरभ्यर्चयामि ॥ १
दुर्लङ्घे दुःखवह्नौ विनिपतिततनुर्दुर्भगः कांदिशीकः
किं किं मूढः करोमीत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः ।
श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मीम्
आलोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापहन्त्रीम् ॥ २
सर्वस्मिन् सत्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता
तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं मादृशस्याप्यवश्यम् ।
सामर्थ्यं चाद्वितीयं सकलजगदघध्वान्ततिग्मांशुबिम्बं
दुःखीवाहं तथापि प्रतपति धिगहो दुष्कृतं दुर्विदग्धम् ॥ ३
धिग्धिग्मां मन्दभाग्यं दिवसकररुचाप्यप्रणुण्णान्धकारं
तृष्यन्तं कूलकच्छे हिमशकलशिलाशीतले हैमवत्याः ।
रत्नद्वीपप्रतोल्याविपुलमणिगुहागेहगर्भे दरिद्रं
नाथीकृत्वाप्यानाथं भगवति भवतीं सर्वलोकैकधात्रीम् ॥ ४
मातापि स्तन्यहेतोर्विरुवति बहुशः खेदमायाति पुत्रे
क्रोधं धत्ते पितापि प्रतिदिवसमसत्प्रार्थनासु प्रयुक्तः ।
त्वं तु त्रैलोक्यवाञ्छाविपुलफलमहाकल्पवृक्षाग्रवल्ली
सर्वेभ्योऽभ्यार्चितार्थान् विसृजसि न च ते विक्रिया जातु काचित् ॥ ५
यो यः क्लेशोघवह्निज्वलिततनुरहं तारणी तस्य तस्ये-
त्यात्मोपज्ञां प्रतिज्ञां कुरु मयि सफलां दुःखपातालमग्ने ।
वर्धन्ते यावदन्ते परुषपरिभवाः प्राणिनां दुःखवेगाः
सम्यक्संबुद्धयाने प्रणिधिधृतधियां तावदेवानुकम्पा ॥ ६
इत्युच्चैरूर्ध्वबाहौ नदति नुतिपदव्याजमाक्रन्दनादं
नार्हत्यन्योऽप्युपेक्षां जननि जनयितुं किं पुनर्यादृशी त्वम् ।
त्वत्तः पश्यन् परेषामभिमतविभवप्रार्थनाः प्राप्तकामा
दह्ये सह्येन भूयस्तरमरतिभुवा संततान्तर्ज्वरेण ॥ ७
पापी यद्यस्मि कस्मात्त्वयि मम महती वर्धते भक्तिरेषा
श्रुत्या स्मृत्या च नाम्नोऽप्यपहरसि हठात्पापमेका त्वमेव ।
त्यक्तव्यापारभारा नुदसि मयि कथं कथ्यतां तथ्यकथ्ये
पथ्यं ग्लाने मरिष्यत्यपि विपुलकृपः किं भिषग्रोरुधीति ॥ ८
मायामात्सर्यमानप्रभृतिभिरधमैस्तुल्यकालं क्रमाच्च
स्वैर्दोषैर्वाक्यमानो मठकरभ इवानेकसाधारणांसः ।
युष्मत्पादाब्जपूजां क्षणमपि न लभे यत्तदर्थं विशेषाद्
एषा कार्पण्यदीनाक्षरपदरचना स्यान्ममावन्ध्यकामा ॥ ९
कल्पान्तभ्रान्तवातभ्रमितजलवलल्लोलकल्लोलहेला-
संक्षोभोत्क्षिप्तवेलातटविकटचटस्फोटमोटाट्टहासात् ।
मज्जद्भिर्भिन्ननौकैः सकरुणरुदिताक्रन्दनिष्पन्दमन्दैः
स्वच्छन्दं देवि सद्यस्त्वदभिभूतिपरैस्तीरमुत्तीर्यतेऽब्धेः ॥ १०
धूमभ्रान्ताभ्रगर्भोद्भवगगणगृहोत्सङ्गरिङ्गत्स्फुलिङ्ग-
स्फूर्जज्ज्वालाकरालज्वलनजवविशद्वेश्मविश्रान्तशय्याः ।
त्वय्याबद्धप्रणमाञ्जलिपुटमुकुटा गद्गदोद्गीतयाज्ञाः
प्रोद्यद्विद्युद्विलासोज्ज्वलजलदजवैराप्रियन्ते क्षणेन ॥ ११
दानांभःपूर्यमाणोभयकटकटकालम्बिरोलम्बमाला-
हुंकाराहूयमानप्रतिगजजनितद्वेषवह्नेर्द्विपस्य ।
दन्तान्तोत्तुङ्गदोलातलतुलिततनुस्त्वामनुस्मृत्य मृत्युं
प्रत्याचष्टे प्रहृष्टः पृथुशिखरशिरःकोटिकोट्टोपविष्टः ॥ १२
प्रौढप्रासप्रहारप्रहतनरशिरःशूलवल्ल्युत्सवायां
शून्याटव्यां कराग्रग्रहविलसदसिस्फोटकस्फीतदर्पान् ।
दस्यून् दास्ये नियुङ्क्ते सभृकुटीकुटिलभ्रूकटाक्षेक्षिताक्षांश्
चिन्तालेखन्यखिन्नस्फुटलिखितपदं नामधामश्रियां ते ॥ १३
वज्रक्रूरप्रहारप्रखरणखमुखोत्खातमत्तेभकुम्भश्
च्योतत्सान्द्रास्रधौतस्फुटविकटसटासंकटस्कन्धसंधिः ।
क्रुध्यन्नापित्सुरारादुपरि मृगरिपुस्तीक्ष्णदांष्ट्रोत्कटास्यस्
त्रस्यन्नावृत्य याति त्वदुचितरचितस्तोत्रदुग्धार्थवाचः ॥ १४
धूमावर्तान्धकाराकृतिविकृतिफणिस्फारफूत्कारपूर-
व्यापारव्यात्तवक्त्रस्फुरदुरुरसनारज्जुकीनाशपाशैः ।
पापात्संभूय भूयस्तव गुणगणना तत्परस्त्वत्परात्मा
धत्ते मत्तालिमालावलयकुवलयस्रग्विभूषां विभूतिम् ॥ १५
भर्तृभ्रूभेदभीतोद्भटकटकभटाकृष्टदुःश्लिष्टकेशश्
चञ्चद्वाचाटचेटोत्कटरटितकटुग्रन्थिपाशोपगूढः ।
क्षुत्तृट्क्षामोष्ठकण्ठस्त्यजति स सपदि व्यापदं तां दुरन्तां
यो यायादार्याताराचरणशरणतां स्निग्धवन्धूज्झितोऽपि ॥ १६
मायानिर्माणकर्मक्रमकृतविकृतानेकनेपथ्यमिथ्या-
रूपारम्भानुरूपप्रहरणकिरणाडंबरोड्डामराणि ।
त्वत्तन्त्रोद्धार्यमन्त्रस्मृतिहृतदुरितस्या वहन्त्यप्रधृष्यं
प्रेतप्रोतान्त्रतन्त्रीनिचयविरचितस्राञ्जि रक्षांसि रक्षाम् ॥ १७
गर्जज्जीमूतमूर्तित्रिमदमदनदीबध्हधारान्धकारे
विद्युद्द्योतायमानप्रहरणकिरणे निष्पतद्बाणवर्षे ।
रुद्धः संग्रामकाले प्रबलभुजबलैर्विद्विषद्भिर्द्विषद्भिस्
त्वद्दत्तोत्साहपुष्टिः प्रसभमरिमहीमेकवीरः पिनष्टि ॥ १८
पापाचारानुबन्धोद्धतगदविगलत्पूतिपूयास्रविस्र-
त्वङ्मांसासक्तनाडीमुखकुहरगलज्जन्तुजग्धक्षताङ्गाः ।
युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता
जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीकायताक्षाः ॥ १९
विश्रान्तं श्रोत्रपात्रे गुरुभिरुपहृतां यास्य नाम्नायं भैक्ष्यं
विद्वद्गोष्ठीषु यश्च श्रुतधनविरहान्मूकतामभ्युपैति ।
सर्वालंकारभूषाविभावसमुदितं प्राप्य वागीश्वरत्वं
सोऽपि त्वद्भक्तिशक्त्या हरति नृपसभे वादिसिंहासनानि ॥ २०
भूशय्याधूलिधूम्रस्फुटितकटकटीकर्पटोद्घाटिताङ्गो
यूकायुंषि प्रपिंशन् परपुरपुरतः कर्परे तर्पणार्थी ।
त्वामाराध्याध्यवस्यन्वरयुवतिवहच्चामरस्मेरचार्वीम्
उर्वीं धत्ते मदान्धद्विपदशनघनामुद्धृतैकातपत्राम् ॥ २१
सेवाकर्मान्तशिल्पाप्रणयविनिमयोपायपर्यायखिन्नः
प्राग्जन्मोपात्तपुण्योपचितशुभफलं वित्तमप्राप्नुवन्तः ।
दैवातिक्रामनीं त्वां कृपणजनजनन्यर्थमभ्यर्थ्य भूयो
भूमेर्निर्वान्तचामीकरनिकरनिधीन्निर्द्धना प्राप्नुवन्ति ॥ २२
वृत्तिछेदे विलक्षः क्षतनिवसनया भार्यया भर्त्स्यमानो
दूरादात्मंभरित्वात्स्वजनसुतसुहृद्बन्धुभिर्वर्ज्यमानः ।
त्वय्यावेद्य स्वदुःखं तुरगखुरमुखोत्खातसीम्नां गृहाणाम्
ईष्टे स्वान्तःपुरस्त्रीवलयझणझणाजातनिद्राप्रबोधः ॥ २३
चक्रंदिक्चक्रचुम्बि स्फुरदुरुकिरणा लक्षणालंकृतास्त्री
षड्दन्तो दन्तिमुख्यः शिखिगलरुचिरश्यामरोमा वराश्वः ।
भास्वद्भास्वन्मयूखो मणिरमलगुणः कोषभृत्पूर्णकोषः
सेनानीर्वीरसैन्यो भवति भगवति त्वत्प्रसादांशलेशात् ॥ २४
स्वच्छन्दश्चन्दनांभःसुरभिमणिशिलादत्तसंकेतकान्तः
कान्ताक्रीडानुरागादभिनवरचितातिथ्यतथ्योपचारः ।
त्वद्विद्यालब्धसिद्धिर्मलयमधुवनं याति विद्याधरेन्द्रः
खड्गांशुश्यामपीनोन्नतभुजपरिघ प्रोल्लसत्पारिहार्यः ॥ २५
हाराक्रान्तस्तनान्ताः श्रवणकुवलयस्पर्धमानायताक्षा
मन्दारोदारवेणीतरुणपरिमलामोघमाद्यद्द्विरेफाः ।
काचीनादानुबन्धोद्धततरचरणोदारमञ्जीरतूर्यास्
त्वन्नाथं प्रार्थयन्ते स्मरमदमुदिताः सादरा देवकन्याः ॥ २६
रत्नच्छन्नान्तवापीकनककमलिनीवज्रकिञ्जल्कमालाम्
उन्मज्जत्पारिजातद्रुमधुरमधूद्धूतधूलीवितानाम् ।
वीणावेणुप्रवीणामरपुररमणीदत्तमाधूर्यतूर्यां
कृत्वायुष्मत्सपर्यामनुभवति चिरं नन्दनोद्यानयात्राम् ॥ २७
कर्पूरैलालवङ्गत्वगगरुनलदक्षोगन्धोदकायां
दान्ताकन्दर्पदर्पोत्कटकुचकुहरावर्तविश्रान्तवीच्याम् ।
मन्दाकिन्याममन्दच्छटसलिलसरित्क्रीडया सुन्दरीभिः
क्रीडन्ति त्वद्गतान्तःकरणपरिणतोत्तप्तपुण्यप्रभावाः ॥ २८
गीर्वाणग्रामणीभिर्विनयभरनमन्मौलिभिर्वन्दिताज्ञः
स्वर्गोत्सङ्गे धिरूढः सुरकरिणि रणद्भूषणोद्भासिताङ्गे ।
शच्या दोर्दामदोलाविरलवलयितोद्दामरोमाञ्चमूर्तिः
पूतस्त्वद्दृष्टिपातैरवति सुरमहीं हीरभिन्नप्रकोष्ठः ॥ २९
चूडारत्नावतंसासनगतसुगतव्योमलक्ष्मीवितानं
प्रोद्यद्बालार्ककोटिपटुतरकिरणापूर्यमानत्रिलोकम् ।
प्रौढालीढैकपदं क्रमभरविनमद्ब्रह्मरुद्रेन्द्रविष्णु
त्वद्रूपं भाव्यमानं भवति भवभयोच्छित्तये जन्मभाजाम् ॥ ३०
पश्यन्त्येके सकोपं प्रहरणकिरणोद्गूर्णदोर्दण्डखण्ड-
व्याप्तव्योमान्तरालं वलयफणिफणादारुणाहार्यचर्याम् ।
द्विष्टव्युत्त्रासिहासोड्डमरडमरुकोड्डामरास्फालवेला-
वेतालोत्तालतालप्रमदमदमहाकेलिकोलाहलोग्रम् ॥ ३१
केचित्त्वेकैकरोमोद्गमगतगगणाभोगभूभूतलस्थ-
स्वस्थब्रह्मेन्द्ररुद्रप्रभृतिनरमरुत्सिद्धगन्धर्वनागम् ।
दिक्चक्राक्रामिधामस्थितसुगतशतानन्तनिर्माणचित्रम्
चित्रं त्रैलोक्यवन्द्यं स्थिरचररचिताशेषभावस्वभावम् ॥ ३२
लाक्षासिन्दूररागारुणतरकिरणादित्यलौहित्यमेके
श्रीमत्सान्द्रेन्द्रनीलोपलदलदलितक्षोदनीलं तथान्ये ।
क्षीराब्धिक्षुब्धदुग्धाधिकतरधवलं काञ्चनाभं च केचित्
त्वद्रूपं विश्वरूपं स्फटिकवदुपधायुक्तिभेदाद्विभिन्नम् ॥ ३३
सार्वज्ञज्ञानदीपप्रकटितसकलज्ञेयतत्त्वैकसाक्षी
साक्षाद्वेत्ति त्वदीयं गुणगणगणनां सर्ववित्तत्सुतो वा ।
यत्तु व्यादाय वक्त्रं वलिभुजरटितं मादृशो रटीति
व्यापत्सा तीव्रदुःखज्वरजनितरुजश्चेतसो हास्यहेतुः ॥ ३४
यन्मे विज्ञप्स्यमानं प्रथमतरमदस्त्वं विशेषेण वेत्त्री
त्वद्व्याहारातिरेकश्रमविधिरबुधस्वान्तसंतोषहेतुः ।
किं तु स्निग्धस्य बन्धोर्विषमिव पुरतो दुःखमुद्गीर्य वाचा
ज्ञातार्थस्यापि दुःखी हृदयलघुतया स्वस्थतां विन्दतीव ॥ ३५
कल्याणानन्दसिन्धुप्रकटशशिकले शीतलां देहि दृष्टिं
पुष्टिं ज्ञानोपदेशैः कुरु घनकरुणे ध्वंसय ध्वान्तमन्तः ।
त्वत्स्तोत्रांभःपवित्रीकृतमनसि मयि श्रेयसः स्थानमेकं
दृष्टं यस्मादमोघं जगति तव गुणस्तोत्रमात्रं प्रजानाम् ॥ ३६
संस्तुत्य त्वद्गुणौघावयवमनियतेयत्तमाप्तं मया यत् ।
पुण्यं पुण्याहवाञ्छाफलमधुररसास्वादमामुक्तिभोग्यम् ।
लोकस्तेनार्यलोकेश्वरचरणतलस्वस्तिकस्वस्तिचिह्नाम्
अह्नायायं प्रयायात्सुगतसुतमहीं तां सुखावत्युपाख्याम् ॥ ३७
</poem>
04b5nrh07jib7yztx76qc94o5si3cj6
341380
341379
2022-07-25T10:55:53Z

nufalikx6ixzjilqv6ij1kt566wtn67
आर्यधर्मधातुगर्भविवरणम्
0
125421
341381
2022-07-25T10:57:44Z
Shubha
190
{{header | title = आर्यधर्मधातुगर्भविवरणम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> आचार्य नागार्जुनपादविरचितम् आर्यधर्मधातुगर्भविवरणम् भारतीयभाषायाम्- आर... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = आर्यधर्मधातुगर्भविवरणम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
आचार्य नागार्जुनपादविरचितम्
आर्यधर्मधातुगर्भविवरणम्
भारतीयभाषायाम्- आर्यधर्मधातुगर्भविवरणम्।
भोटभाषायाम्- फग्-पा-छोस्-क्यि-यिङ्-क्यि-ञिङ्-पोई-नम-पर-डेल-पा।
नमो रत्नत्रयाय
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥
इत्युक्तम् ।
अत्रऽये धर्माऽ इति सप्तभिः प्रकारैरवगन्तव्याः । तद्यथा- विज्ञानं नामरूपं षडायतनं स्पर्शः वेदना जातिर्जरामरणमिति । इमे धर्माः अपि पञ्चभ्यः प्रकारेभ्य उत्पद्यन्त इतिऽहेतुप्रभवाःऽ इत्युक्तम् । के ते पञ्च हेतवः? अविद्या तृष्णा उपादानं संस्कारा भवश्चेति ।
सप्तविधानां धर्माणां पञ्चप्रकाराणां च तेषां हेतूनां निरोधस्तावद्ऽहेतुं तेषां च यो निरोधःऽ इत्यादिनाभिहितः । स एवोपशमः मोक्षो निर्वाणमिति । स च केनोक्तः?ऽतथागतो ह्यवदत् । इति । तेनोपदिष्ट इत्यभिप्रायेण तथा कथितम् ।
अर्थानां यथा स्थितिस्तथा (यथावत्) अवबोधात्ऽतथागतःऽ इत्युच्यते । वस्तूनां यथा स्थितिः, तस्या अभ्रान्ततया अन्येभ्यो देशनाद्वाऽतथागतःऽ । एवंविधो यो देशकः, यश्चैवं स्वयं बोधकः श्रवणशीलयुक्तश्च सऽएवंवादीऽ (महाश्रमणः) इत्युक्तः ।
ऽमहान्ऽ-शब्दः प्रधानाद्भुतपरमप्रवरपर्यायः । यो वादी विद्वान् वीरः तपस्वी महोत्साहः तीव्रवीर्यः अद्भुतकर्मकारि च भवति, स एवऽमहान्ऽ इति । (स) अशेषज्ञातव्यानां ज्ञानाद्ऽविद्वान्ऽ । अशेषक्लेशानां दमने समर्थत्वाद्ऽवीरःऽ । शीलस्य सम्यग्भावनयाऽतपस्वीऽ । गुणादिष्वपरिखेदाद्ऽमहोत्साहःऽ । यस्य शिरः कपालं वा अग्निना दीप्तम्, तदवानिवऽतीव्रवीर्यः तथा अद्भुतधर्माणां साक्षात्कारित्वाद्ऽअद्भुतकर्मकारीऽ इति । एतादृश एवऽमहान्ऽ इत्युच्यते ।
श्रमणः इति पापानां क्लेशानां चोपशमाद्ऽश्रमणःऽ । सर्वपापानां प्रक्षालनाद्ऽब्राह्मणःऽ । क्लेशक्लमथपरिवर्जनाद्ऽश्रमणःऽ स्वकीयमलापसारणात्ऽप्रव्रजितःऽ इति । इत्येवंविधैर्गुणैः समन्वागत इति । भगवता बुद्धेनोक्त इत्यनेन योगः करणीयः । एवमेव दुःखसमुदयनिरोधमार्गसत्येष्वपि योगः करणीयः ।
अविद्याहेतोः संस्काराः, इत्यारभ्य जरामरणपर्यन्तं (स्वभावतः सिद्धं) कर्तारमनपेक्ष्य समुत्पादस्तावद्ऽअनुलोमःऽ । अविद्यादिहेतूनां निवृत्तेरवबोधःऽप्रतिलोमःऽ इत्युक्तः ।
अविद्यानिवृत्तेः संस्कारादयो निवर्तन्त इत्युपदेशकारकत्वात्(भगवान् बुद्ध एव)ऽमहाश्रमणःऽ इति ।
॥ आचार्यनागार्जुनपादविरचितंऽआर्यधर्मधातुगर्भविवरणम्ऽ समाप्तम् ॥
भारतीयोपाध्यायेन ज्ञानगर्भेणऽमहालोचावा वन्दे पलचेक्महाभागेन चानूद्य संशोध्य च सुनिर्णीतम् ।
॥ भवतु सर्वमङ्गलम् ॥
</poem>
em04vcx4pzge872onuixuv11sqytmql
341382
341381
2022-07-25T10:58:03Z

oub8fxt2yygynq6u6riss2orollvpoa
अशोकावदानम्
0
125422
341383
2022-07-25T11:08:00Z
Shubha
190
{{header | title = अशोकावदानम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> अशोकावदानं पांशुप्रदानावदानं योऽसौ स्वमांसतनुभिर्यजनानि कृत्वा- तप्यच्चिरं करुणया ज... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = अशोकावदानम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
अशोकावदानं
पांशुप्रदानावदानं
योऽसौ स्वमांसतनुभिर्यजनानि कृत्वा- तप्यच्चिरं करुणया जगतो हिताय ।
तस्य श्रमस्य सफलीकरणाय सन्तः सावर्जितं शृणुत सांप्रतभाष्यमाणम् ॥
एवं मया श्रुतमेकस्मिन् समये भगवान् श्रावस्त्यां विहरति । इति सूत्रं वक्तव्यम् । अत्र तावद्भगवत्तथागतवदनाम्भोधरविवरप्रत्युद्गतवचनसरत्सलिलधारासम्पातापनीतरागद्वेषमोहमदमानमायाशाठ्यपङ्कपटलानां शब्दन्यायादितर्कशास्त्रार्थावलोकनोत्पन्नप्रज्ञाप्रदीपप्रोत्सारितकुशास्त्रदर्शनान्धकाराणां संसारतृष्णाछेदिप्रवरसद्धर्मपयःपानशौण्डानां गुरूणां संनिघौ सर्वाववादकश्रेष्ठं शक्रब्रह्मेशानयमवरूणकुवेरवा[व]सवसोमादित्यादिभिरप्यप्रतिहतशासनं कन्दर्पदर्पापमर्दनशूरं महात्मानमतिमहर्द्धिकं स्थविरोपगुप्तमारभ्य काञ्चिदेव विबुधजनमनः प्रसादकारीं धर्म्यां कथां समनुस्मरिष्यामः । तत्र तावद्गुरुभिरवहितश्रोत्रैर्भवितव्यम् ।
(आव्२)
एवमनुश्रूयते । यदा भगवान् परिनिर्वाणकालसमयेऽपलालनागं विनीय कुम्भकारीं चण्डालीं गोपालीं च तेषां मथुरामनुप्राप्तः । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । अस्यामानन्द मथुरायां मम वर्षशतपरिनिर्वृतस्य गुप्तो नाम गान्धिको भविष्यति । तस्य पुत्रो भविष्यति उपगुप्तनामालक्षणको बुद्धो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्य करिष्यति । तस्याववादेन बहवो भिक्षवः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यन्ति । तेऽष्टादशहस्तामायामेनं द्वादशहस्तां विस्तारेण चतुरङ्गुलमात्राभिः शलाकाभिर्गुहां पूरयिष्यन्ति । एषोऽग्रो मे आनन्द श्रावकाणां भविष्यति अववादकानां यदुत उपगुप्तो भिक्षुः ।
पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिम् । एवं भदन्त । एष आनन्द उरूमुण्डो नाम पर्वतः । अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य शाणकवासी नाम भिक्षुर्भविष्यति । सोऽत्र उरूमुण्डपर्वते विहारं प्रतिष्ठापयिष्यति । उपगुप्तं च प्रव्राजयिष्यति ।
मथुरायामानन्द नटो भटश्च द्वौ भ्रातरौ श्रेष्ठिनौ भविष्यतः । तौ उरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यतः । तस्य नटभटिकेति (आव्३) संज्ञा भविष्यति । एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदिदं नटभटिकारण्यायतनम् ।
अथायुष्मान आनन्दो भगवन्तमिदमवोचत् । आश्चर्य भदन्त यदीदृशमायुष्मानुपगुप्तो बहुजनहितं करिष्यति । भगवानाह । नानन्द एतर्हि, यथातितेऽप्यध्वनि तेन विनिपतितशरीरेणाप्यत्रैव बहुजनहितं कृतम् ।
उरूमुण्डपर्वते त्रयः पार्श्वाः । एकत्र प्रदेशे पञ्च प्रत्येकबुद्धशातानि प्रतिवसन्ति । द्वितीये पञ्चर्षिशतानि । तृतीये पञ्चमर्कटशतानि । तत्र योऽसौ पञ्चानां मर्कटशतानां यूथपतिः स तं यूथमपहाय यत्र पार्श्वे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति तत्र गतः । तस्य तान् प्रत्येकबुद्धान् दृष्ट्वा प्रसादो जातः । स तेषां प्रत्येकबुद्धानां शीर्णपर्णानि मूलफलानि चोपनामयति, यदा च ते पर्यङ्केणोपविष्टा भवन्ति स वृद्धान्ते कृत्वा यावन्नवान्तं गत्वा पर्यङ्केणोपविशति ।
यावत्ते प्रत्येकबुद्धाः परिनिर्वृताः । स तेषां शीर्णपर्णानि मूलफलानि चोपनामयति । ते न प्रतिगृण्हन्ति । स तेषां चीवरकर्णिकानि आकर्षयति । पादौ गृण्हाति । यावत्स मर्कटश्चिन्तयति । नियतमेते कालगता भविष्यन्ति । ततः स मर्कटः शोचित्वा परिदेवित्वा च द्वितीयं पार्श्वं गतो यत्र पञ्चर्षिशतानि प्रतिवसन्ति ।
(आव्४)
ते च ऋषयः केचित्कण्टकापाश्रयाः केचिद्भस्मापाश्रयाः केचिदूर्ध्वहस्ताः केचित्पञ्चातपावस्थिताः । स तेषां तेषामीर्यापथान् विकोपयितुमारब्धः । ये कण्टकापाश्रयास्तेषां कण्टकानुद्धरति । भस्मापाश्रयाणां भस्म विधुनोति । ऊर्ध्वहस्तानामधो हस्तं पातयति । पञ्चातपावस्थितानामग्निमवकिरति । यदा च तैरीर्यापथो विकोपितो भवति तदा स तेषामग्रतः पर्यङ्कं बध्नाति ।
यावत्तैरृषिभिराचार्याय निवेदितम् । तेनापि चोक्तम् । पर्यङ्केण तावन्निषीदत । यावत्तानि पञ्चर्षिशतानि पर्यङ्केणोपविष्टानि । तेऽनाचार्यका अनुपदेशकाः सप्तत्रिंशद्बोधिपक्षान् धर्मानामुखीकृत्य प्रत्येकां बोधिं साक्षात्कृतवन्तः ।
अथ तेषां प्रत्येकबुद्धानामेतदभवद् । यत्किञ्चदस्माभिः श्रेयोऽवाप्तं तत्सर्वमिमं मर्कटमागम्य । तैर्यावत्स मर्कटः फलमूलैः परिपालितः । कालगतस्य च तच्छरीरं गन्धकाष्ठैर्ध्मापितम् ।
तत्किं मन्यसे आनन्द योऽसौ पञ्चानां मर्कटशतानां यूथपतिः स एष उपगुप्तः । तदापि तेन विनिपतितशरीरेणाप्यत्रैवोरुमुण्डपर्वते बहुजनहितं कृतम् । अनागतेऽप्यध्वनि वर्षशतपरिनिर्वृतस्य ममात्रैवोरुमुण्डपर्वते बहुजनहितं करिष्यति । तच्च यथैवं तथोपदर्शयिष्यामः ।
(आव्५)
शाणकवास्युपाख्यानं
यदा स्थविरेण शाणकवासिना उरुमुण्डे पर्वते विहारः प्रतिष्ठापितः, समन्वाहरति । किमसौ गन्धिक उत्पन्नः । अथाद्यापि नोत्पद्यत इति । पश्यत्युत्पन्नः । स यावत्समन्वाहरति । योऽसौ तस्य पुत्र उपगुप्तो नाम्नालक्षणको बुद्धो निर्दिष्टो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति, किमसावुत्पन्नः । अद्यापि नोत्पद्यत इति । पश्यत्यद्यापि नोत्पद्यते ।
तेन यावदुपायेन गुप्तो गान्धिको भगवच्छासनेऽभिप्रसादितः । स यदाभिप्रसन्नस्तदा स्थविरः संबहुलैर्भिक्षुभिः सार्धमेकदिवसं तस्य गृहं प्रविष्टः अपरस्मिन्नहनि, आत्मद्वितीयः । अन्यस्मिन्नहनि, एकाकी । यावद्गुप्तो गान्धिकः स्थविरं शाणकवासिनमेकाकिनं दृष्ट्वा कथयति । न खल्वार्यस्य कश्चित्पश्चाच्छ्रमणम् । स्थविर उवाच । जराधर्माणां कुतोऽस्माकं पश्चाच्छ्रमणो भवति । यदि केचिच्छ्रद्धापुरोगेण (आव्६) प्रव्रजन्ति, तेऽस्माकं पश्चाच्छ्रमणा भवन्ति । गुप्तो गान्धिक उवाच । आर्याहं तावद्गृहवासे परिगृद्धो विषयाभिरतश्च । न मया शक्यं प्रव्रजितुम् । अपि तु योऽस्माकं पुत्रो भवति तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः । स्थविर उवाच । वत्स एवमस्तु । अपि तु दृढप्रतिज्ञां स्मरेथास्त्वमिति ।
यावद्गुप्तस्य गान्धिकस्य पुत्रो जातः । तस्याश्वगुप्त इति नामधेय कृतम् ।
स यदा महान् संवृत्तस्तदा स्थविरशाणकवासी गुप्तं गान्धिकमधिगम्योवाच । वत्स त्वया प्रतिज्ञातं योऽस्माकं पुत्रो भविष्यति तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः । अयं च पुत्रो जातः । अनुजानीहि प्रव्राजयिष्यामीति । गान्धिक उवाच । आर्य अयमस्माकमेकपुत्रः । मर्षयान्यो योऽस्माकं द्वितीयः पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः ।
यावत्स्थविरशाणकवासी समन्वाहरति । किमयं स उपगुप्तः । पश्यति नेति । तेन स्थविरेणाभिहित एवमस्त्विति । तस्य यावद्द्वितीयः पुत्रो जातः । तस्य धनगुप्त इति नाम कृतम् । सोपि यदा महान् संवृत्तस्तदा स्थविरशाणकवासी गुप्तं गान्धिकमुवाच । वत्स त्वया प्रतिज्ञातं योऽस्माकं पुत्रो भविष्यति तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः । अयं च ते पुत्रो जातः । अनुजानीहि प्रव्राजयिष्यामीति । गान्धिक उवाच । आर्य मर्षय एकोऽस्माकं बहिर्धा द्रव्यं संचयिष्यति, द्वितीयोऽन्तर्गृहे परिपालनं करिष्यतीति । अपि तु योऽस्माकं तृतीयः पुत्रो भविष्यति स आर्यस्य दत्तः ।
(आव्७)
यावत्स्थविरशाणकवासी समन्वाहरति । किमयं स उपगुप्तः । पश्यति नेति । ततः स्थविर उवाच । एवमस्त्विति । यावद्गुप्तस्य गान्धिकस्य तृतीयः पुत्रो जातः । अभिरूपो दर्शनीयः प्रासादिकोऽतिक्रान्तो मानुषवर्णमसंप्राप्तश्च दिव्यवर्णम् । तस्य विस्तरेण जातौ जातिमहं कृत्वा उपगुप्त इति नाम कृतम् । सोऽपि यदा महान् संवृत्तो यावत्स्थविरशाणकवासी गुप्तं गान्धिकमभिगम्योवाच । वत्स त्वया प्रतिज्ञातं योऽस्माकं तृतीयः पुत्रो भविष्यति तं वयमार्यस्य दास्यामः पश्चाच्छ्रमणार्थे । अयं ते तृतीयः पुत्र उत्पन्नः । अनुजानीहि प्रव्राजयिष्यामीति । गुप्तो गान्धिक उवाच । आर्य समयतः । यदालाभोऽनुच्छेदो भविष्यतीति तदानुज्ञास्यामि ।
यदा तेन समयः कृतस्तदा मारेण सर्वावती मथुरा गन्धाविष्टा । ते (मथुरावासिनः) सर्वे उपगुप्तसकाशाद्गन्धान् क्रीणन्ति । स प्रभूतान् ददाति ।
यावत्स्थविरशाणकवासी उपगुप्तसकाशं गतः । उपगुप्तश्च गन्धापणे स्थितः । स धर्मेण व्यवहारं करोति । गन्धान् विक्रीणीते । स स्थविरेण शाणकवासिनाभिहितः । वत्स कीदृशास्ते चित्तचैतसिकाः प्रवर्तन्ते । क्लिष्टा वाक्लिष्टा वेति । उपगुप्त उवाच । आर्य नैव जानामि कीदृशाः क्लिष्टाश्चित्तचैतसिकाः कीदृशा अक्लिष्टा इति । स्थविरशाणकवासी उवाच । वत्स (आव्८) यदि केवलं चित्तं परिज्ञातुं शक्यसि प्रतिपक्षं मोचयितुम् । तेन तस्य कृष्णिकपट्टिका दत्ता पाण्डुरिका च । यदि क्लिष्टं चित्तमुत्पद्यते कृष्णिकां पट्टिकां स्थापय । अथाक्लिष्टं चित्तमुत्पद्यते पाण्डुरां पट्टिकां स्थापय । अशुभां मनसि कुरु । बुद्धानुस्मृतिं च भावयस्वेति । तेनास्य व्यपदिष्टम् ।
तस्य यावदारब्धा अक्लिष्टाश्चित्तचैतसिकाः प्रवर्तितुम् । स द्वौ भागौ कृष्णिकानां स्थापयति । एकं पाण्डुरिकाणाम् । यावदर्धं कृष्णिकानां स्थापयति । अर्धं पण्डुरिकाणाम् । यावद्द्वौ भागौ पाण्डुरिकाणां स्थापयति । एकं कृष्णिकानाम् ।
यावदनुपूर्वेण सर्वाण्येव शुक्लानि चित्तान्युत्पद्यन्ते । स पाण्डुरिकाणामेव पट्टिकां स्थापयति । धर्मेण व्यवहारं करोति ।
मथुरायां वासवदत्ता नाम गणिका । तस्या दासी उपगुप्तसकाशं गत्वा गन्धान् क्रीणाति । सा वासवदत्तया चोच्यते । दारिकेमुष्यते स गान्धिकस्त्वया, बहून् गन्धानानयसीति । दारिकोवाच । आर्यदुहित उपगुप्तो गान्धिकदारको रूपसम्पन्नश्चातुर्यमाधुर्यसम्पन्नश्च (आव्९) धर्मेण व्यवहारं करोति । श्रुत्वा च वासवदत्ताया उपगुप्तसकाशे सानुरागं चित्तमुत्पन्नम् । तया यावद्दासी उपगुप्तसकाशं प्रेषिता । त्वत्सकाशमागमिष्यामि । इच्छामि त्वया सार्धं रतिमनुभवितुम् । यावद्दास्या उपगुप्तस्य निवेदितम् । उपगुप्त उवाच । अकालस्ते भगिनि मद्दर्शनायेति ।
वासवदत्ता पञ्चभिः पुराणशतैः परिचार्यते । तस्य बुद्धिरुत्पन्ना । नियतं पञ्चपुराणशतानि नोत्सहते दातुम् । तया यावद्दासी उपगुप्तसकाशं प्रेषिता । न ममार्यपुत्रसकाशात्कार्षापणेनापि प्रयोजनम् । केवलमार्यपुत्रेण सह रतिमनुभवेयम् । दास्य तथा निवेदितम् । उपगुप्त उवाच । अकालस्ते भगिनि मद्दर्शनायेति ।
यावदन्यतरः श्रेष्ठिपुत्रो वासवदत्तायाः सकाशं प्रविष्टः । अन्यतरश्च सार्थवाह उत्तरापथात्पञ्चशतमश्वपण्यं गृहीत्वा मथुरामनुप्राप्तः । तेनाभिहितम् । कतरा वेश्या सर्वप्रधाना, तेन श्रुतं वासवदत्तेति । स पञ्चपुराणशतानि गृहीत्वा बहून् च प्राभृतान् वासवदत्तायाः सकाशमभिगतः ।
ततो वासवदत्तया लोभाकृष्टया तं श्रेष्ठिपुत्रं प्रघातयित्वावस्करे प्रक्षिप्य सार्थवाहेन सह रतिरनुभूता । यावत्स श्रेष्ठिपुत्रो (आव्१०) बन्धुभिरवस्करादुद्धृत्य राज्ञो निवेदितः । ततो राज्ञाभिहितम् । गच्छन्तु भवन्तो वासवदत्तां हस्तपादौ कर्णनासे च छित्त्वा श्मशाने छोरयन्तु ।
यावत्तैर्वासवदत्ता हस्तपादौ कर्णनासे च छित्त्वा श्मशाने छोरिता । यावदुपगुप्तेन श्रुतं वासवदता हस्तपादौ कर्णनासे च छित्त्वा श्मशाने छोरिता । तस्य बुद्धिरुत्पन्ना । पूर्वं तया मम विषयनिमित्तं दर्शनमाकाङ्क्षितम् । इदानिं तु तस्या हस्तपादौ कर्णनासे च विकर्तितौ । इदानीं तु तस्य दर्शनकाल इति । आह च ।
यदा प्रशस्ताम्बरसंवृताङ्गी अभूद्विचित्राभरणैर्विभूषिता ।
मोक्षार्थिनां जन्मपराङ्मुखाणां श्रेयस्तदास्यास्तु न दर्शनं स्यात् ॥
इदानीं तु कालोऽयं द्रष्टुं गतमानरागहर्षायाः ।
निशितासिविक्षतायाः स्वभावनियतस्य रूपस्य ॥
यावदेकेन दारकेण उपस्थायकेन छत्रमादाय प्रशान्तेनेर्यापथेन श्मशानमनुप्राप्तः । तस्याश्च प्रेषिका पूर्वगुणानुरागात्समीपेऽवस्थिता काकादीन्निवारयति । तया च वासवदत्ताया निवेदितम् । (आव्११) आर्युदुहितर्यस्य त्वयाहं सकाशं पुनः पुनरनुप्रेषिता अयं स उपगुप्तोऽभ्यागतः । नियतमेष कामरागार्त आगतो भविष्यति । श्रुत्वा च वासवदत्ता कथयति ।
प्रनष्टशोभां दुःखार्ता भूमौ रुधिरपिञ्जराम् ।
मां दृष्ट्वा कथमेतस्य कामरागो भविष्यति ॥
ततः प्रेषिकामुवाच । यौ हस्तपादौ कर्णानासे च मच्छरीराद्विकर्तितौ तौ श्लेषयेति । तया यावच्छ्लेषयित्वा पट्टकेन प्रच्छादिता । उपगुप्तश्चागत्य वासवदत्ताया अग्रतः स्थितः ।
ततो वासवदत्ता उपगुप्तमग्रतः स्थितं दृष्ट्वा कथयति । आर्यपुत्र, यदा मच्छशरीरं स्वस्थभूतं विषयरत्यनुकूलं तदा मया आर्यपुत्रस्य पुनः पुनर्दूती विसर्जिता । आर्यपुत्रेणाभिहितम् । आकालस्ते भगिनि मम दर्शनायेति । इदानीं मम हस्तपादौ कर्णनासे च विकर्तितौ । स्वरुधिरकर्दम एवावस्थिता । इदानीं किमागतोऽसि । आह च ।
इदं यदा पङ्कजगर्भकोमलं महार्हवस्त्राभरणैर्विभूषितम् ।
बभूव गात्रं मम दर्शनक्षमं तदा न दृष्टोऽसि मयाल्पभाग्यया ॥
एतर्हि किं द्राष्टुमिहागतोऽसि मे यदा शरीरं मम दर्शनाक्षमम् ।
निवृत्तलीलारतिहर्षविस्मयं भयावहं शोणितपङ्कलेपनम् ॥
उपगुप्त उवाच ।
नाहं भगिनि कामार्तः संनिधावागतस्तव ।
कामानामशुभानां तु स्वभावं द्रष्टुमागतः ॥
प्रच्छादिता वस्त्रविभूषणाद्यैर्वाह्यैर्विचित्रैर्मदनानुकूलैः ।
निरीक्ष्यमाणापि हि यत्नवभ्दिर्नाप्यत्र दृष्टासि भवेद्यथा च ॥
(आव्१२)
इदं तु रूपं तव दृष्यमेतत्स्थितं स्वभावे रचनाद्वियुक्तम् ।
तेऽपण्डितास्ते च विगर्हणीया ये प्राकृतेऽस्मिन् कृणपे रमन्ते ॥
त्वचावनद्धे रुधिरावसक्ते चर्मावृते मांसघनावलिप्ते ।
शिरासहस्रैश्च वृते समन्तात्को नाम रज्येत कुतः शरीरे ॥
अपि च भगिनि ।
बहिर्भद्राणि रूपाणि दृष्ट्वा बालोऽभिरज्यते ।
अभ्यन्तरविदुष्टानि ज्ञात्वा धीरो विरज्यते ॥
अवकृष्टावकृष्टस्य कुणपस्य ह्यमेध्यता ।
मेध्याः कामोपसंहाराः कामिनः शुभसंज्ञिनः ॥
इह हि ।
दौर्गन्ध्यं प्रतिवार्यते बहुविधैर्गन्धैरमेध्याकरैः
वैकृत्यं बहिराध्रियेत विविधैर्वस्त्रादिभिर्भूषणैः ।
स्वेदक्लेदमलादयोऽप्यशुचयस्तान्निर्हरत्यम्भसा
येनामेध्यकरङ्कमेतदशुभं कामात्मभिः सेव्यते ॥
संबुद्धस्य तु ते वचः सुवचसः शृण्वन्ति कुर्वन्त्यपि
ते कामान् श्रमशोकदुःखजननान् सभ्दिः सदा गर्हितान् ।
त्यक्त्वा कामनिमित्तमुक्तमनसः शान्ते वने निर्गताः
पारं यान्ति भवार्णवस्य महतः संश्रित्य मार्गप्लवम् ॥
(आव्१३)
श्रुत्वा वासवदत्ता संसारादुद्विग्ना बुद्धगुणानुस्मरणाच्चावर्जितहृदयोवाच ।
एवमेतत्तथा सर्वं यथा वदति पण्डितः ।
मे त्वां साधु समसाद्य बुद्धस्य वचनं श्रुतम् ॥
यावदुपगुप्तेन वासवदत्ताया अनुपूर्विकां कथां कृत्वा सत्यानि संप्रकाशितानि । उपगुप्तश्च वासवदत्तायाः शरीरस्वभावमवगम्य कामधातुवैराग्यं गतः । तेन आत्मियया धर्मदेशनया सह सत्याभिसमयादनागामिफलं वासवदत्तया च श्रोतापत्तिफलं प्राप्तम् । ततो वासवदत्ता दृष्टसत्या उपगुप्तं संरागयन्ती उवाच ।
तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः ॥
(आव्१४)
अपि च । एषाहं तं भगवन्तं तथगतमर्हन्तं सम्यक्संबुद्धं शरणं गच्छामि । धर्मं च भिक्षुसङ्घं चेत्याह ।
एष व्रजामि शरणां विबुद्धनवकमलविमलधवलनेत्रम् ।
तममरबुधजनसहितं जिनं विरागं सङ्घं चेति ॥
यावदुपगुप्तो वासवदत्तां धर्म्यया कथया संदर्श्य प्रक्रान्तः । अचिरप्रक्रान्ते चोपगुप्ते वासवदत्ता कालगता देवेषूपपन्ना । दैवतैश्च मथुरायामारोचितम् । वासवदत्तया उपगुप्तसकाशाद्धर्मदेशनां श्रुत्वा आर्यसत्यानि दृष्टानि । सा कालगता देवेषूपपन्नेति । श्रुत्वा च मथुरावास्तव्येन जनकायेन वासवदत्तायाः शरिरे पूजा कृता ।
यावत्स्थविरशाणकवासी गुप्तं गान्धिकमभिगम्योवाच । अनुजानीहि उपगुप्तं प्रव्राजयिष्यामीति । गुप्तो गान्धिक उवाच । आर्य एष समयः । यदा न लाभो न छेदो भविष्यति तदानुज्ञास्यामीति ।
यावत्स्थविरशाणकवासिना ऋद्ध्या तथाधिष्ठितं यथा न लाभो न छेदः । ततो गुप्तो गान्धिको गणयति तुलयति मापयति । पश्यति न लाभो न छेदः ।
ततः स्थविरशणकवासी गुप्तं गान्धिकमुवाच । अयं हि भगवता बुद्धेन निर्दिष्टः, मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति । अनुजानीहि प्रव्राजयिष्यामीति ।
यावद्गुप्तेन गान्धेकेन अभ्यनुज्ञातः । ततः स्थविरेण शाणकवासिना (आव्१५) उपगुप्तो नटभटिकारण्यायतनं नीतम् । उपसंपादितश्च ज्ञप्तिचतुर्थं च कर्म व्यवसितम् । उपगुप्तेन च सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम् ।
ततः स्थविरेण शाणकवासिनाभिहितम् । वत्स उपगुप्त त्वं भगवता निर्दिष्टो वर्षशतपरिनिर्वृतस्य मम उपगुप्तो नाम भिक्षुर्भविष्यति, अलक्षणक्तो बुद्धः । यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति । एषोऽग्रो मे आनन्द श्रावकाणामववादकानां यदुतोपगुप्तो भिक्षुः । इदानीं वत्स शासनहितं कुरुष्वेति । उपगुप्त उवाच । एवमस्त्विति ।
ततः स धर्मश्रवणेऽधीष्टः । मथुरायां च शब्दो विसृतः । उपगुप्तो नामालक्षणको बुद्धोऽद्य धर्मं देशयिष्यतीति । श्रुत्वा चानेकानि प्राणिशतसहस्राणि निर्गतानि ।
यावत्स्थविरोपगुप्तः समापद्यावलोकयति । कथं तथागतस्य परिषन्निषण्णाः । पश्यति चार्धचन्द्रिकाकारेण पर्षदवस्थिता । यवदवलोकयति कथं तथागतेन धर्मदेशना कृता । पश्यति पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशना कृता । सोऽपि पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशनां कर्तुमारब्धः ।
मारेण च तस्यां पर्षदि मुक्ताहारवर्षमुत्सृष्टम् । वैनेयानां मनांसि व्याकुलीकृतानि । एकेनापि सत्यदर्शनं न कृतम् ।
(आव्१६)
यावत्स्थविरोपगुप्तो व्यवलोकयति । केनायं व्याक्षेपः कृतः । पश्यति मारेण ।
यावद्द्वितीये दिवसे बहुतरको जनकायो निर्गतः । उपगुप्तो धर्मं देशयति । मुक्ताहारं च वर्षोपवर्षितमिति । यावद्द्वितीयेऽपि दिवसे स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशनायामारब्धायां मारेण चास्य पर्षदि सुवर्णवर्षमुत्सृष्टम् । वैनेयानां मनांसि संक्षोभोतानि । एकेनापि सत्यदर्शनं न कृतम् ।
यावत्स्थविरोपगुप्तो व्यवलोकयति, केनायं व्याक्षेपः कृतः । पश्यति मारेण पापीयसेति ।
यावत्तृतीये दिवसे बहुतरको जनकायो निर्गतः । उपगुप्तो धर्मं देशयति । मुक्तावर्षं सुवर्णवर्षं च पततीति । यावत्तृतीयेऽपि दिवसे स्थविरोपगुप्तः पूर्वकालकरणीयां कथां कृत्वा सत्यानि आरब्धः संप्रकाशयितुम् । मारेण च नातीदूरे नाटकमारब्धम् । दिव्यानि च वाद्यानि संप्रवादितानि । दिव्याश्चाप्सरसो नाटयितुं प्रवृत्ताः । यावद्वीतरागो जनकायो दिव्यानि रूपाणि दृष्ट्वा दिव्यांश्च शब्दान् श्रुत्वा मारेणाकृष्टः ।
अतो मारेणोपगुप्तस्य पर्षदाकृष्टा । प्रीतमनसा मारेण (आव्१७) स्थविरोपगुप्तस्य शिरसि माला बद्धा । यावत्स्थविरोपगुप्तः समन्वाहरितुमारब्धः । कोऽयम् । पश्यति मारः । तस्य बुद्धिरुत्पन्ना । अयं मारो भगवच्छासने महान्तं व्याक्षेपं करोति । किमर्थमयं भगवता न विनीतः । पश्यति ममायं विनेयः । तस्य च विनयात्सत्त्वानुग्रहादहं भगवता अलक्षणको बुद्धो निर्दिष्टः ।
यावत्स्थविरोपगुप्तः समन्वाहरति । किमस्य विनेयकाल उपस्थित आहोस्विन्नेति । पश्यति विनेयकाल उपस्थितः । ततः स्थविरोपगुप्तेन त्रयः कुणपा गृहीताः । अहिकुणपं कुर्कुस्कुणपं मनुष्यकुणपं च । ऋद्ध्या च पुष्पमालामभिनिर्माय मारसकाशमभिगतः । दृष्ट्वा च मारस्य प्रीतिरुत्पन्ना । उपगुप्तोऽपि मयाकृष्ट इति ।
ततो मारेण स्वशरीरमुपनामितम् । स्थविरोपगुप्तः स्वयमेव बध्नाति । ततः स्थविरेणोपगुप्तेन अहिकुणपं मारस्य शिरसि बद्धम् । कुर्कुरकुणपं ग्रीवायां कर्णावसक्तं मनुष्यकुणपं च । ततः समालभ्योवाच ।
भिक्षुजनप्रतिकूला माला बद्धा यथैव मे भवता ।
कामिजनप्रतिकूलं तव कुणपमिदं मया बद्धम् ॥
(आव्१८)
यत्ते बलं भवति तत्प्रतिदर्शयस्व बुद्धात्मजेन हि सहाद्य समागतोऽसि । उग्दृत्तमप्यनिलभिन्नतरङ्गवक्त्रं व्यावर्तते मलयकुक्षिषु सागराम्भः ॥
अथ मारस्तं कुणपमपनेतुमारब्धः । परमपि च स्वयमनुप्रविश्य पिपीलिक इव अद्रिराजमपनेतुं न शशाक । सामर्षो वैहायसमुत्पत्य उवाच ।
यदि मोक्तुं न शक्यामि कण्ठात्स्वकुणपं स्वयम् ।
अन्ये देवा हि मोक्ष्यन्ते मतोऽभ्यधिकतेजसः ॥
स्थविर उवाच ।
ब्रह्माणं वज्र शरणं शतक्रतुं वा दीप्तं वा प्रविश हुताशमर्णवं वा ।
न क्लेदं न च परिशोषणं न भेदं कण्ठस्थं कुणपमिदं तु यास्यतीह ॥
स महेन्द्ररुद्रोपेन्द्रद्रविणेश्वरयमवरुणकुवेरवसवादीनां देवानामभिगम्य अकृतार्थ एव ब्रह्माणमभिगतः ।
तेन चोक्तम् ।
(आव्१९)
मर्षय वत्स ।
शिष्येण दशबलस्य स्वयमृद्ध्या कृतान्तमर्यादा ।
कस्तां भेत्तुं शक्तो वेलां वरुणालयस्येव ॥
अपि पद्मनालसूत्रैर्बद्धवा हिमवन्तमुद्धरेत्क्वचित् ।
न तु तव कण्ठासक्तं श्वकुणपमिदमुद्धरेयमहम् ॥
कामं ममापि महदस्ति बलं तथापि नाहं तथागतसुतस्य बलेन तुल्यः ।
तेजस्विनां न खलु न ज्वलनेऽस्ति किन्तु नासौ द्युतिर्हुतवहे रविमण्डलेया ॥
मारोऽब्रवीत् । किमिदानीमाज्ञापयसि । कं शरणं व्रजामीति ।
ब्रह्माब्रवीत् ।
शीघ्रं तमेव शरणं व्रज यं समेत्य भ्रष्टस्त्वमृद्धिविभवाद्यशसः सुखाच्च ।
भ्रष्टो हि यः क्षितितले भवतीह जन्तुरुत्तिष्ठति क्षितिमसाववलम्ब्य भूयः ॥
अथ मारस्तथागतशिष्यसामर्थ्यमुपलभ्य चिन्तयामास ।
ब्रह्मणा पुज्यते यस्य शिष्याणामपि शासनम् ।
तस्य बुद्धस्य सामर्थ्यं प्रमातुं को नु शक्नुयात् ॥
कर्तुकामोऽभविष्यत्कां शिष्टिं क्षमो न सुव्रतः ।
यां नऽकरिष्यत्क्षान्त्यां तु तेनाहमनुरक्षितः ॥
किं बहुना ।
अद्यावैमि मुनेर्महाकरुणतां तस्यातिमैत्रात्मनः
सर्वोपद्रवविप्रमुक्तमनसश्चामीकराद्रिद्युतिः ।
(आव्२०)
मोहान्धेन हि तत्र तत्र स मया तैस्तैर्नयैः खेदितः
तेनाहं च तथापि नाम बलिना नैवाप्रियं श्रावितः ॥
अथ कामधात्वधिपतिर्मारो नास्त्यन्या गतिरन्यत्र उपगुप्तकादेवेति ज्ञात्वा सर्वमुत्सृज्य स्थविरोपगुप्तसमीपमुपेत्य पादयोर्निपत्योवाच । भदन्त किमविदितमेतद्भदन्तस्य यथा बोधिमूलमुपादाय मया भगवतो विप्रियशतानि कृतानि । कुतः ।
शालायां ब्राह्मणग्रामे मामासाद्य स गौतमः ।
भक्तच्छेदमपि प्राप्य नाकार्षीन्मम विप्रियम् ॥
गौर्भूत्वा सर्पवत्स्थित्वा कृत्वा शाकटिकाकृतिम् ।
स मयायासितो नाथो न चाहं तेन हिंसितः ॥
(आव्२१)
त्वया पुनरहं वीर त्यक्त्वा हि सहजां दयाम् ।
सदेवासुरमध्येषु लोकेष्वद्य विडम्बितः ॥
स्थविरोऽब्रवीत् । पापीयान् कथमपरीक्ष्यैव तथगतमाहात्म्येषु श्रावकमुपसंहरसि ।
किं सर्षपेण समतां नयसीह मेरुं
खद्योतकेन रविमञ्जलिना समुद्रम् ।
अन्या हि सा दशबलस्य कृपा प्रजासु
न श्रावकस्य हि महाकरुणास्ति सौम्य ॥
अपि च ।
यदर्थं हि भगवता सापराधोऽपि मर्षितः ।
इदं तत्कारणं साक्षादस्माभिरुपलक्षितम् ॥
मार उवाच ।
ब्रूहि ब्रूहि श्रीमतस्तस्य भावं सङ्गं छेत्तुं क्षान्तिगुप्तव्रतस्य ।
यौऽसौ मोहान्नित्यमायसितो मे तेनाहं च प्रेक्षितो मैत्रचित्तैः ॥
(आव्२२)
स्थविर उवाच । शृणु सौम्य त्वं हि भगवत्यसकृदसकृदवस्खलितः । न च बुद्धावरोपितानामकुशलानां धर्माणामन्यत्प्रक्षालनमन्यत्र तथागतप्रसादादेव ।
तदेतत्कारणं तेन पश्यता दीर्घदर्शिना ।
त्वं नाप्रियमिह प्रोक्तः प्रियाण्येव तु लम्भितः ॥
न्यायेनानेन भक्तिस्तव हृदि जनिता तेनाग्रमतिना
स्वल्पापि ह्यत्र भक्तिर्भवति मतिमतां निर्वाणफलदा ।
संक्षेपाद्यत्कृतं ते वृजिनमिह मुनेर्मोहान्धमनसा
सर्वं प्रक्षालितं तत्तवहृदयगतैः श्रद्धाम्बुविसरैः ॥
अथ मारः कदम्बपुष्पवदाहृष्टरोमकूपः सर्वाङ्गेण प्रणिपत्योवाच ।
स्थाने मया बहुविधं परिखेदितोऽसौ
प्राक्सिद्धितश्च भुवि सिद्धिमनोरथेन ।
सर्वं च मर्षितमृषिप्रवरेण तेन
पुत्रापराध इव सानुनयेन पित्रा ॥
(आव्२३)
स बुद्धप्रसादाप्ययितमनाः सुचिरं बुद्धगुणाननुस्मृत्य स्थविरस्य पादयोर्निपत्योवाच ।
अनुग्रहो मेऽद्य परः कृतस्त्वया निवेशितं यन्मयि बुद्धगौरवम् ।
इदं तु कण्ठव्यवलम्बि मैत्र्या महर्षिकोपाभरणं विसर्जय ॥
स्थविर उवाच । समयतो विमोक्ष्यामीति । मार उवाच । कः समय इति । स्थविर उवाच । अद्यप्रभृति भिक्षवो न विहेठयितव्या इति । मारोऽब्रवीत् । न विहेठयिष्ये । किमपरमाज्ञापयसीति । स्थविर उवाच । एवं तावच्छासनकार्यं प्रति ममाज्ञा । स्वकार्यं प्रति विज्ञापयिष्यामि भवन्तम् । मारः ससम्भ्रम उवाच । प्रसीद स्थविर किमाज्ञापयसीति । स्थविरोऽब्रवीत् । स्वयमवगच्छसि यदहं वर्षशतपरिनिर्वृते भगवति प्रव्रजितः । तद्
धर्मकायो मया तस्य दृष्टस्त्रैलोक्यनाथस्य ।
काञ्चनाद्रिनिभस्तस्य न दृष्टो रूपकायो मे ॥
तदनुपममनुग्रहं प्रति त्वमिह विदर्शय बुद्धविग्रहम् ।
प्रियमधिकमतो हि नास्ति मे दशबलरूपकुतूहलो ह्यहम् ॥
मार उवाच । तेन हि ममापि समयः श्रूयताम् ।
सहसा त्वमिहोद्विक्ष्य बुद्धनेपथ्यधारिणम् ।
न प्रणामस्त्वया कार्यः सर्वज्ञगुणगौरवात् ॥
(आव्२४)
बुद्धानुस्मृतिपेशलेन मनसा पूजां यदि त्व मयि
स्वल्पामप्युपदर्शयिष्यसि विभो दग्धो भविष्याम्यहम् ।
का शक्तिर्मम वीतरागविहितां सोढुं प्रणामक्रियां
हस्तन्यासमिवोद्वहन्ति न गजस्यैरण्डवृक्षाङ्कुराः ॥
स्थविरोप्याह । एवमस्तु । न भवन्तं प्रणमिष्यामीति । मारोऽब्रवीत् । तेन मुहूर्तमागमस्व यावदहं वनगहनमनुप्रविश्य
शूरं वञ्चयितुं पुरा व्यवसितेनोत्तप्तहेमप्रभं
बौद्धं रूपमचिन्त्यबुद्धविभवादासीन्मया यत्कृतम् ।
कृत्वा रूपमहं तदेव नयनप्रल्हादिकं देहिनां
एष्याम्यर्कमयूखजालममलं भामण्डलेनाक्षिपन् ॥
अथ स्थविर एवमस्तु इत्युक्त्वा तं कुणपमपनीय तथागतरूपदर्शनोत्सुकोऽवस्थितः । मारश्च वनगहनमनुप्रविश्य बुद्धरूपं कृत्वा नट इव सरुचिरनेपथ्यस्तस्माद्वनगहनादारब्धोनिष्क्रमितुम् । वक्ष्यते हि ।
ताथागतं वपुरथोत्तमलक्षणाढ्यमादर्शयन्नयनशान्तिकरं नराणाम् ।
प्रत्यग्ररङ्गमिव चित्रपटं महार्हमुद्घातयन् वनमसौ तदलंचकार ॥
अथ व्यामप्रभामण्डलमण्डितमसेचनकदर्शनं भगवतो रूपमभिनिर्माय दक्षिणे पार्श्वे स्थविरशारद्वतीपुत्रं वामपार्श्वे स्थविरमहामौद्गल्यायनं पृष्ठश्चायुष्मन्तमानन्दं बुद्धपात्रव्यग्रहस्तं स्थविरमहाकाश्यपानिरुद्धसुभूतिप्रभृतीनां (आव्२५) च महाश्रावकाणां रूपाण्यभिनिर्माय अर्धत्रयोदशभिर्भिक्षुशतैरर्धचन्द्रेणानुपरिवृतं बुद्धवेशमादर्शयित्वा मारः स्थविरोपगुप्तस्यान्तिकमाजगाम । स्थविरोपगुप्तस्य च भगवतो रूपमिदमिदृशमिति प्रामोद्यमुत्पन्नम् ।
स प्रमुदितमनास्त्वरितमासनादुत्थाय निरीक्षमाण उवाच ।
धिगस्तु तां निष्करुणामनित्यतां भिनत्ति रूपाणि यदीदृशान्यपि ।
शरीरमीदृक्किल तन्महामुनेरनित्यतां प्राप्य विनाशमागतम् ॥
स बुद्धावलम्बितया स्मृत्या तथाप्यासक्तमनाः संवृत्तो यथा बुद्धं भगवन्तमहं पश्यामीति व्यक्तमुपागतः । स पद्ममुकुलप्रतिममञ्जलिं कृत्वोवाच । अहो रूपशोभाः भगवतः । किं बहुना ।
वक्त्रेणाभिभवत्ययं हि कमलं नीलोत्पलं चक्षुषा
कान्त्या पुष्पवनं मन प्रियतया चन्द्रं समाप्तद्युतिम् ।
गाम्भीर्येण महोदधिं स्थिरतया मेरुं रविं तेजसा
गत्या सिंहमवेक्षितेन वृषभं वर्णेन चामीकरम् ॥
स भूयसा मात्रया हर्षेणापूर्यमाणहृदयो व्यापिना स्वरेणोवाच ।
अहो भवविशुद्धानां कर्मणां मधुरं फलम् ।
कर्मणेदं कृतं रूपं नैश्वर्येण यदुच्छया ॥
(आव्२६)
यत्तत्कल्पसहस्रकोटिनियुतैर्वाक्कायचित्तोभ्दवं
दानक्षान्तिसमाधिबुद्धिनियमैस्तेनार्हता शोधितम् ।
तेनेदं जननेत्रकान्तममलं रूपं समुत्थापितं
यं दृष्ट्वा रिपुरप्यभिप्रमुदितः स्यात्किं पुनर्मद्विधः ॥
संबुद्धालम्बनैः संज्ञां विस्मृत्य बुद्धसंज्ञामधिष्ठाय मूलनिकृत्त इव द्रूमः सर्वशरीरेण मारस्य पादयोर्निपतितः । अथ मारः ससम्भ्रमोऽब्रवीत् । एवं त्वं भदन्त नार्हसि समयं व्यतिक्रमितुम् । स्थविर उवाच । कः समय इति । मार उवाच । ननु प्रतिज्ञातं भदन्तेन नाहं भवन्तं प्रणमिष्यामीति ।
ततः स्थविर उपगुप्तः पृथिवीतलादुत्थाय सगद्गदकण्ठोऽब्रवीत । पापीयान् ।
न खलु न विदितं मे यत्स वादिप्रधानो
जलविहत इवाग्नि र्निर्वृतिं संप्रयातः ।
अपि तु नयनकान्तिमाकृतिं तस्य दृष्ट्वा
तमृषिमभिनतोऽहं त्वां तु नाभ्यर्चयामि ॥
मार उवाच । कथमिहाहं नार्चितो भवामि यदेवं मा प्रणमसीति ।
स्थविरोऽब्रवीत् । श्रूयतां यथा त्वं नैव मयाभ्यर्चितो भवसि न च मया समयातिक्रमः कृत इति ।
(आव्२७)
मृन्मयीषु प्रतिकृतिष्वमराणां यथा जनः ।
मृत्संज्ञा[न्ता]मनादृत्य नमत्यमरसंज्ञया ॥
तथाहं त्वामिहोद्वीक्ष्य लोकनाथवपुर्धरम् ।
मारसंज्ञामनादृत्य नतः सुगतसंज्ञया ॥
अथ मारो बुद्धवेशमन्तर्धापयित्वा स्थविरोपगुप्तमभ्यर्च्य प्रक्रान्तः । यावच्चतुर्थे दिवसे मारः स्वयमेव मथुरायां घण्टावघोषित्तुमारब्धः । यो युष्माकं स्वर्गापवर्गसुखं प्रार्थयते स स्थविरोपगुप्तसकाशाद्धर्मं शृणोतु । यैश्च युष्माभिस्तथागतो न दृष्टस्ते स्थविरोपगुप्तं पश्यन्त्विति । आह च ।
उत्सृज्य दारिद्रमनर्थमूलं यः स्फीतशोभां श्रियमिच्छतीह ।
स्वर्गापवर्गाय च यस्य वाञ्छा स श्रद्धया धर्ममतः शृणोतु ॥
दृष्टो न यैर्वा द्विपदप्रधानः शास्ता महाकारुणिकाः स्वयम्भूः ।
ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्तु भास्वत्त्रिभवप्रदीपम् ॥
यावन्मथुरायां शब्दो विसृतः स्थविरोपगुप्तेन मारो विनीत इति । श्रुत्वा च यभ्दूयसा मथुरावास्तव्यो जनकायः स्थविरोपगुप्तसकाशं निर्गतः । ततः स्थविरोपगुप्तोऽनेकेषु ब्राह्मणशतसहस्रेषु संनिपतितेषु सिंह इव निर्भीः सिंहासनमभिरूढो वक्ष्यति च ।
मां प्रति न तेन शक्यं सिंहासनमविदुषा समभिरोढुम् ।
यस्[तु] सिंहासनस्थो मृग इव स हि याति सङ्कोचम् ॥
(आव्२८)
सिंह इव यस्तु निर्भीर्निनदति परवादिदर्पनाशार्थम् ।
सिंहासनमभिरोढुं स कथिकसिंहो भवति योग्यः ॥
यावत्स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यानि संप्रकाशितानि । श्रुत्वा चानेकैः प्राणिशतसहस्रैर्मोक्षभागीयानि कुशलमूलान्याक्षिप्तानि । कैश्चिदनागामिफलं प्राप्तम् । कैश्चित्सकृदागामिफलम् । कैश्चिच्छ्रोतापत्तिफलम् । यावदष्टादशसहस्राणि प्रव्रजितानि । सर्वैश्च युज्यमानैर्यावदर्हत्त्वं प्राप्तम् ।
तत्र चोरुमुण्डपर्वते गुहाष्टादशहस्ता दीर्घेण द्वादशहस्ता विस्तरेण । यदा तु कृतकरणीयाः । संवृत्तास्तदा स्थविरोपगुप्तेनाभिहितम् । यो मदीयेनववादेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति तेन चतुरङ्गुलमात्रा शलाका गुहायां प्रक्षेप्तव्या ।
यावदेकस्मिन् दिवसेष्टादशभिरर्हत्सहस्रैः शलाकाः प्रक्षिप्ताः । तस्य यावदासमुद्रायां शब्दो विसृतः । मथुरायमुपगुप्तनामा अववादकानामग्रो निर्दिष्टो भगवता । तद्यथा हि ।
विनीतकामधात्वीश्वरे द्वितीयशास्तृकल्पे महात्मनि स्थविरोपगुप्ते सुरमनुजमहोरगासुरगरुडयक्षगन्धर्वविद्याधरार्चितपादयुग्मे [सति] पूर्वबुद्धाक्षेत्रावरोपितकुशलबीजसन्ततीनामनेकेषां सत्त्वशतसहस्राणां सद्धर्मसलिलवर्षधारानिपातामोक्षाङ्कुरानभ्यवर्धयन्नुरुमुण्डे शैले ।
कार्यानुरोधात्प्रणतसकलसामन्तचूडामणिमयूखोभ्दासितपादपीठस्याशोकस्य राज्ञः पूर्वं पांशुप्रदानं समनुस्मरिष्यामः । इत्येवमनुश्रूयते ।
(आव्२९)
पांशुप्रदानं नाम प्रकरणं
भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत् । वक्ष्यति च ।
कनकाचलसन्निभाग्रदेहो द्विरदेन्दप्रतिमः सलीलगामी ।
परिपूर्णशशाङ्कसौम्यवक्त्रौ भगवान् भिक्षुगणैर्वृतो जगाम ॥
यावद्भगवता साभिसंस्कारं नगरद्वारे पादं प्रतिष्ठापितम् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः साभिसंस्कारं नगरद्वारमिन्द्रकीले पादौ व्यवस्थापयन्ति । तदा चित्राणि अद्भूतानि प्रादुर्भवन्ति । अन्धाश्चक्षूंषि प्रतिलभन्ते । बधिराः श्रोत्रग्रहणसमर्था भवन्ति । पङ्गवो गमनसमर्था भवन्ति । हडिनिगडचारकावबद्धानां सत्त्वानां बन्धनानि शिथिलीभवन्ति । जन्मजन्मवैरानुबद्धाः सत्त्वास्तदनन्तरं मैत्रचित्ततां लभन्ते । वत्सा दामानि छित्त्वा मातृभिः सार्धं समागच्छन्ति । हस्तिनः क्रोशन्ति । अश्वा ह्रेषन्ते । ऋषभा गर्जन्ति । शुकशारिककोकिलजीवजीवबर्हिणो मधुरान्निकूजन्ति । पेडागतालङ्कारा मधुरशब्दं निश्चारयन्ति । अपराहतानि च वादित्रभाण्डानि मधुरं शब्दं निश्चारयन्ति । उन्नतोन्नता पृथिवीप्रदेशा अवनमन्ति । अवनताश्चोन्नमन्ति । अपगतपाषाणशर्करकपालाश्चावतिष्ठन्ते ।
इयं च तस्मिन् समये पृथिवी षड्विकारं प्रकम्प्यते । तद्यथा पूर्वो दिग्भाग उन्नमति । पश्चिमोऽवनमति । अन्तोऽवनमति । मध्य (आव्३०) उन्नमति । चलितः प्रचलितो वेधितः प्रवेधित इतीमे चान्ये चाद्भुतधर्माः प्रादुर्भवन्ति । भगवतो नगरप्रवेशे वक्ष्यति ।
लवणजलनिवासिनी ततो वा नगरनिगममण्डिता सशैला ।
मुनिचरणनिपीडिता च भूमी पवनबलहतं हि यानपात्रम् ॥
अथ बुद्धप्रवेशकालनियतैः प्रातिहार्यैरावर्जिताः स्त्रीमनुष्यास्, तन्नगरमनिबलचलितभिन्नविचितरङ्गक्षुभितमिव महासमुद्रं विमुक्तोच्चनादं बभूव । न हि बुद्धप्रवेशतुल्यं नाम जगत्यद्भुतमुपलभ्यते । पुरप्रवेशसमये हि भगवतश्चित्राण्यद्भूतानि दृश्यन्ते । वक्ष्यति हि ।
निम्ना चोन्नमते नतावनमते बुद्धानुभावान्मही
स्थूणा शर्करकण्टकव्यपगता निर्दोषतां याति च ।
अन्धा मूकजडेन्द्रियाश्च पुरुषा व्यक्तेन्द्रियास्तत्क्षणं
संवाद्यन्त्यनिघट्टिताश्च नगरे नन्दन्ति तूर्यस्वनाः ॥
सर्वं च तन्नगरं सूर्यसहस्रातिरेकया कनकमरीचिवर्णया बुद्धप्रभया स्फुटं बभूव । आह च ।
सूर्यप्रभां समवभर्त्स्य हि तस्य भाभिर्व्याप्तं जगत्सकलमेव सकाननस्थम् ।
(आव्३१)
संप्राप च प्रवरधर्मकथाभिरामो लोकं सुरासुरनरं हि समुक्तभावम् ॥
यावद्भगवान् राजमार्गं प्रतिपन्नः । तत्र द्वौ बालदारकौ । एकोऽग्रकुलिकपुत्रो द्वितीयः कुलिकपुत्रश्च । पांश्वागारैः क्रीडतः । एकस्य जयो नाम द्वितीयस्य विजयः । ताभ्यां भगवान् दृष्टो द्वात्रिंशमहापुरुषलक्षणालङ्कृतशरीरोऽसेचनकदर्शनश्च ।
यावज्जयेन दारकेण शक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तः । विजयेन च कृताञ्जलिनाभ्यनुमोदितम् । वक्ष्यति च ।
दृष्ट्वा महाकारुणिकं स्वयम्भुवं व्यामप्रभोद्द्योतितसर्वगात्रम् ।
धीरेण वक्त्रेण कृतप्रसादः पांशुं ददौ जातिजरान्तकाय ॥
स भगवते प्रतिपादयित्वा प्रणिधानं कर्तुमारब्धः । अनेनाहं कुशलमूलेन एकच्छत्रायां पृथिव्यां राजा स्याम् । अत्रैव च बुद्धे भगवति कारां कुर्यामिति ।
ततो मुनिस्तस्य निशाम्य भावं बालस्य सम्यक्प्रणिधिं च बुद्ध्वा ।
इष्टं फलं क्षेत्रवशेन दृष्ट्वा जग्राह पांशुं करुणायमानः ॥
(आव्३२)
तेन यावद्राज्यवैपाक्यं कुशलमाक्षिप्तम् । ततो भगवता स्मितं विदर्शितम् ।
धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं विदर्शयन्ति ।
तस्मिन् समये नीलपीतलोहितावदातमञ्जिष्ठस्फटिकरजतवर्णा अर्चिषो मुखान्निश्चरन्ति । केचिदूर्ध्वतो गच्छन्ति केचिदधस्ताद्गच्छन्ति । येऽधो गच्छन्ति ते सञ्जीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिपर्यन्तेषु गत्वा ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति । ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति ।
तेन तेषां सत्त्वानां कारणविशेषाः प्रतिप्रस्रभ्यन्ते । तेषामेवं भवति । किं नु भवन्तो वयमितश्च्युता आहोस्विदन्यत्रोपपन्ना इति । येनास्माकं कारणविशेषाः प्रतिप्रस्रब्धाः । तेषां भगवान् प्रसादसंजननार्थं निर्मितं विसर्जयति । तेषामेवं भवति । न वयं च्युता नाप्यन्यत्रोपपन्नाः । अपि तु अयमपूर्वदर्शनोऽस्यानुभावेनास्माकं कारणविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तानि प्रसादयित्वा नरकवेदनीयानि कर्माणि क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति । यत्र सत्यानां भाजनभूता भवन्ति । ये ऊर्ध्वतो गच्छन्ति ते चतुर्महाराजिकान् देवांस्त्रयस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मान् परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठपर्यन्तेषु देवेषु गत्वा अनित्यं दुःखं शून्यमनात्मेति उद्घोषयन्ति । गाथाद्वयं च भाषन्ते ।
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः ॥
(आव्३३)
यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥
अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेवानुगच्छन्ति । यदि भगवानतीतं कर्म व्याकर्तुकामो भवति पृष्ठतोऽन्तर्धीयन्तेऽनागतं व्याकर्तुकामो भवति पुरतोऽन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति पादतलेऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति पादांगुष्ठेऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो[र]न्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतलेऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतलेऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति आस्येऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामन्तर्धीयन्ते । अनुत्तरां स्मयक्संबोधिं व्याकर्तुकामो भवति उष्णीषेऽन्तर्धीयन्ते ।
अथ ता अर्चिषो भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतो वामे करतलेऽन्तर्हिताः ।
अथायुष्मानानन्दः कृताञ्जलिपुटो गाथां भाषते । नाहेत्वप्रत्ययः ।
गतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः ।
नाकारणं शङ्खमृणालगौरं स्मितं विदर्शेन्ति जिना जितारयः ॥
तत्कालं स्वयमधिगम्य वीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र कांक्षितानाम् ।
धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः ॥
मेघस्तनितनिर्घोष गोवृषेन्द्रनिभेक्षण ।
फलं पांशुप्रदानस्य व्याकुरुष्व नरोत्तम ॥
(आव्३४)
भगवानाह । एतदानन्द एवमेतदानन्द नाहेत्वप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितमुपदर्शयन्ति । अपि तु सहेतु सप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितमुपदर्शयन्ति ।
पश्यसि त्वमानन्द दारकं येन तथागतस्य पात्रे पांश्वञ्जलिः प्रक्षिप्तः । एवं भदन्त । अयमानन्द दारकः अनेन कुशलमूलेन वर्षशतपरिनिर्वृतस्य तथागतस्य पाटलिपुत्रे नगरेऽशोको नाम्ना राजा भविष्यति । चतुर्भागचक्रवर्ती धार्मिको धर्मराजा । यो मे शरीरधातून् वैस्तारिकान् करिष्यति । चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यति । बहुजनहिताय प्रतिपत्स्यते । इति । आह च ।
अस्तंगते मयि भविष्यति सैकराजा योऽसौ ह्यशोक इति नाम विशालकीर्तिः ।
मद्धातुगर्भपरिमण्डितजम्बुषण्डमेतत्करिष्यति नरामरपूजितं नु ॥
अयमस्य देयधर्मो यत्तथागतस्य पांश्वञ्जलिः पात्रे प्रक्षिप्तः ।
यावद्भगवता तेषां सर्व आयुष्मत आनन्दाय दत्ताः । गोमयेन मिश्रयित्वा यत्र चंक्रमे तथागतश्चंक्रम्यते तत्र गोमयकार्षी प्रयच्छेति । यावदायुष्मतानन्देन तेषां सगोमयेन मिश्रयित्वा यत्र चंक्रमति भगवान् तत्र गोमयकार्षी दत्ता ।
तेन खलु पुनः समयेन राजगृहे नगरे बिम्बिसारो राजा राज्यं कारयति । राज्ञो बिम्बिसारस्य अजातशत्रुः पुत्रः । अजातशत्रोरुदायी । (आव्३५) उदायिभद्रस्य मुण्डः । मुण्डस्य काकवर्णी । काकवर्णिनः सहली । सहलिनस्तुलकुचिः । तुलकुचेर्महामण्डलः । महामण्डलस्य प्रसेनजित् । प्रसेनजितो नन्दः । नन्दस्य बिन्दुसारः । पाटलिपुत्रे नगरे बिन्दुसारो नाम राजा राज्यं कारयति । बिन्दुसारस्य राज्ञः पुत्रो जातः । तस्य सुसीम इति नामधेयं कृतम् ।
तेन च समयेन चम्पायां नगर्यामन्यतमो ब्राह्मणः । तस्य दुहिता जाता । अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणी । सा नैमित्तिकैर्व्याकृता । अस्या दारिकाया राजा भर्ता भविष्यति । द्वे पुत्ररत्ने जनयिष्यति । एकश्चतुर्भागचक्रवर्ती भविष्यति । द्वितीयः प्रव्रजित्वा सिद्धव्रतो भविष्यति । श्रुत्वा च ब्राह्मणस्य रोमहर्षो जातः । सम्पत्तिकामो लोकः ।
स तां दुहितरं ग्रहाय पाटलिपुत्रं गतः । तेन सा सर्वालङ्कारैर्विभूषयित्वा राज्ञो बिन्दुसारस्य भार्यार्थमनुप्रदत्ता । इयं हि देवकन्याधन्या प्रशस्ता चेति ।
यावद्राज्ञा बिन्दुसारेणान्तःपुरं प्रवेशिता । अन्तःपुरिकाणां बुद्धिरुत्पन्ना । इयमभिरूपा प्रासादिका जनपदकल्याणी । यदि राजानया सार्धं परिचारयिष्यति अस्माकं भूयश्चक्षुःसंप्रेषणमपि न करिष्यति । (आव्३६) ताभिः सा नापितकर्म शिक्षापिता । सा राज्ञः केशश्मश्रु प्रसाधयति । यावत्सुशिक्षिता संवृत्ता । यदारभते राज्ञः केशश्मश्रु प्रसाधयितुं तदा राजा शेते । यावद्राज्ञा प्रीतेन वरेण प्रवारिता । किं त्वं वरमिच्छसीति । तयाभिहितम् । देवेन मे सह समागमः स्यात् । राजाह । त्वं नापिनी अहं राजा क्षत्रियो मूर्धाभिषिक्तः । कथं मया सार्धं समागमो भविष्यति । सा कथयति । देव नाहं नापिनी । अपि ब्राह्मणस्याहं दुहिता । तेन देवस्य पत्न्यर्थं दत्ता । राजा कथयति । केन त्वं नापितकर्म शिक्षापिता । सा कथयति । अन्तःपुरिकाभिः । राजाह । न भूयस्त्वया नापितकर्म कर्तव्यम् ।
यावद्राजाग्रमहिषी स्थापिता । तया सार्धं क्रीडति रमते परिचारयति । सा अपन्नसत्त्वा संवृत्ता । यावदष्टानां नवानां मासानामत्ययात्प्रसूता । तस्याः पुत्रो जातः ।
तस्य विस्तरेण जातिमहं कृत्वा [पृच्छति] किं कुमारस्यभवतु नाम । सा कथयति । अस्य दारकस्य जातस्य अशोकास्मि संवृत्ता । तस्याशोक इति नाम कृतम् ।
यावद्द्वितीयः पुत्रो जातः । विगते शोके जातस्तस्य वीतशोक इति नाम कृतम् ।
अशोको दुःस्पर्शगात्रः । राज्ञो बिन्दुसारस्यानभिप्रेतः ।
अथ राजा बिन्दुसारः कुमारं परीक्षितुकामः पिङ्गलवत्साजीवं परिव्राजकमामन्त्रयते । उपाध्याय कुमारांस्तावत्परीक्षयामः । (आव्३७) कः शक्यते ममात्ययाद्राज्यं कारयितुम् । पिङ्गलवत्साजीवः परिव्राजकः कथयति । तेन हि देव कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गच्छ, परीक्षयामः । यावद्राजा कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गतः ।
यावदशोकः कुमारो मात्रा चोच्यते । वत्स राजा कुमारान् परीक्षितुकामः सुवर्णमण्डपमुद्यानं गतः । त्वमपि तत्र गच्छेति । अशोकः कथयति । राज्ञोऽहमनभिप्रेतो दर्शनेनापि । किमहं तत्र गमिष्यामि । सा कथयति । तथापि गच्छेति । अशोक उवाच । आहारं प्रेषय ।
यावदशोकः पाटलिपुत्रन्निर्गच्छति । राधगुप्तेन चाग्रामात्यपुत्रेणोक्तः । अशोक क्व गमिष्यसीति । अशोकः कथयति । राजाद्य सुवर्णमण्डपे उद्याने कुमारान् परीक्षयति । तत्र राज्ञो महल्लको हस्तिनागस्तिष्ठति । यावदशोकस्तस्मिन्महल्लकेऽभिरुह्य सुवर्णमण्डपमुद्यानं गत्वा कुमाराणां मध्येऽत्र पृथिव्यां प्रस्तीर्य निषसाद ।
यावत्कुमाराणामाहार उपनामितः । अशोकस्यापि मात्रा शाल्योदनं दधिसंमिश्रं मृद्भाजने प्रेषितम् । ततो राज्ञा बिन्दुसारेण पिङ्गलवत्साजीवः परिव्राजकोऽभिहितः । उपाध्याय परीक्षस्व कुमारान् । कः शक्यते ममात्ययाद्राज्यं कर्तुमिति । पश्यति पिङ्गलवत्साजीवः परिव्राजकः । चिन्तयति च । अशोको राजा भविष्यति । अयं च राज्ञो नाभिप्रेतः । यदि कथयिष्यामि अशोको राजा भविष्यतीति, नास्ति मे जीवितम् । स कथयति । देवाभेदेन (आव्३८) व्याकरिष्यामि । राजाह । अभेदेन व्याकुरुष्व । आह । यस्य यानं शोभनं स राजा भविष्यति ।
तेषामेकैकस्य बुद्धिरुत्पन्ना । मम यानं शोभनमहं राजा भविष्यामि । अशोकश्चिन्तयति । अहं हस्तिस्कन्धेनागतो मम यानं शोभनमहं राजा भविष्यामीति । राजाह । भूयस्तावदुपाध्याय परीक्षस्व । पिङ्गलवत्साजीवः परिव्राजकः कथयति । देव यस्यासनमग्रं स राजा भविष्यति ।
तेषामेकैकस्य बुद्धिरुत्पन्ना । ममासनमग्रम् । अशोकश्चिन्तयति । मम पृथिवी आसनमहं राजा भविष्यामि । एवं भाजनं भोजनं पानं विस्तरेण कुमाराणां परीक्ष्य [पाटलिपुत्रं] प्रविष्टः ।
यावदशोको मात्रोच्यते । को व्याकृतो राजा भविष्यतीति । अशोकः कथयति । अभेदेन व्याकृतम् । यस्य यानमग्रमासनं पानं भाजनं भोजनं चेति स राजा भविष्यतीति । यथा पश्यामि अहं राजा भविष्यामि । मम हस्तिस्कन्धं यानं पृथिवी आसनं मृन्मयं भाजनं शाल्योदनं दधिव्यञ्जनं भोजनं पानीयं पानमिति ।
ततः पिङ्गलवत्साजीवः परिव्राजकोऽशोको राजा भविष्यतीति तस्य मातरमारब्ध सेवितुम् । यावत्तयोच्यते । उपाध्याय कतरः कुमारो राज्ञो बिन्दुसारस्यात्ययाद्राजा भविष्यतीति । आह । अशोकः । तयोच्यते । कदाचित्त्वां राजा निर्बन्धेन पृच्छेत । (आव्३९) गच्छ त्वं प्रत्यन्तं समाश्रय । यदा श्रृणोषि अशोको राजा संवृत्तस्तदागन्तव्यम् । यावत्स प्रयन्तेषु जनपदेषु संश्रितः ।
अथ राज्ञो बिन्दुसारस्य तक्षशिला नाम नगरं विरुद्धम् । तत्र राज्ञा बिन्दुसारेण अशोको विसर्जितः । गच्छ कुमार तक्षिशीलानगरम् । संनाहय । चतुरङ्गबलकायं दत्तम् । यानं प्रहरणं च प्रतिषिद्धम् ।
यावदशोकः कुमारः पाटलिपुत्रान्निर्गच्छन् भृत्यैर्विज्ञप्तः । कुमार नैवास्माकं सैन्यप्रहरणं केन वयं कं योधयामः । ततोऽशोकेनाभिहितम् ।
यदि मम राज्यवैपाक्यं कुशलमस्ति सैन्यप्रहरणं प्रादुर्भवतु । एवमुक्ते कुमारेण पृथिव्यामवकाशो दत्तो देवताभिः सैन्यप्रहरणानि चोपनीतानि । यावत्कुमारश्चतुरङ्गेण बलकायेन तक्षशिलां गतः ।
श्रुत्वा तक्षशिलानिवासिनः पौरा अर्धतृतीयानि योजनानि मार्गे शोभां कृत्वा पूर्णघटमादाय प्रत्युद्गताः । प्रत्युद्गम्य च कथयन्ति । न वयं कुमारस्य विरुद्धा नापि राज्ञो बिन्दुसारस्य । अपि तु दुष्टामात्या अस्माकं परिभवं कुर्वन्ति । महता च सत्कारेण तक्षशिलां प्रवेशितः ।
(आव्४०)
एवं विस्तरेण अशोकः खशराज्यं प्रवेशितः । तस्य द्वौ महानग्नौ संश्रितौ । तेन तौ वृत्त्या संविभक्तौ । तस्याग्रतः पर्वतान् संछिन्दन्तौ संप्रस्थितौ । देवताभिश्चोक्तम् । अशोकश्चतुर्भागचक्रवर्ती भविष्यति । न केनचिद्विरोधितव्यमिति । विस्तरेण यावदासमुद्रा पृथिवी आज्ञापिता ।
यावत्सुसीमः कुमार उद्यानात्पाटलिपुत्रं प्रविशति । राज्ञो बिन्दुसारस्याग्रामात्यः खल्वाटकः पाटलिपुत्रान्निर्गच्छति । तस्य सुसीमेन कुमारेण क्रीडाभिप्रायतया खटका मुर्ध्नि पातिता । यावदमात्यश्चिन्तयति । इदानीं खटकां निपातयति । यदा राजा भविष्यति तदा शस्रं पातयिष्यति । तथा करिष्यामि यथा राजैव न भविष्यति । तेन पञ्चामात्यशतानि भिन्नानि । अशोकश्चतुर्भागचक्रवर्ती निर्दिष्टः । एतं राज्ये प्रतिष्ठापयिष्यामः । तक्षशिलाश्च पुनर्विरोधिताः ।
यावद्राज्ञा सुसीमः कुमारस्तक्षशिलामनुप्रेषितः । न च शक्यते संनामयितुम् । बिन्दुसारश्च राजा ग्लानीभूतः । तेनाभिहितम् । (आव्४१) सुसीमं कुमारमानयत । राज्ये प्रतिष्ठापयिष्यामीति । अशोकं तक्षशिलां प्रवेशयत ।
यावदमात्यैरशोकः कुमारो हरिद्रया प्रलिप्तः । लाक्षां च लोहपात्रे क्वाथयित्वा क्वथितेन रसेन लोहपात्राणि म्रक्षयित्वा छोरयन्ति । अशोकः कुमारो ग्लानीभूत इति । यदा बिन्दुसारः स्वल्पावशेषप्राणः संवृत्तस्तदामात्यैरशोकः कुमारः सर्वालङ्कारैर्भूषयित्वा राज्ञो बिन्दुसारस्योपनीतः । इमं तावद्राज्ये प्रतिष्ठापय । यदा सुसीम आगतो भविष्यति तदा तं राज्ये प्रतिष्ठापयिष्यामः ।
ततो राजा रुषितः । अशोकेन चाभिहितम् । यदि मम धर्मेण राज्यं भवति देवता मम पट्टं बध्नन्तु । यावद्देवताभिः पट्टो बद्धः । तं दृष्ट्वा बिन्दुसारस्य राज्ञ उष्णं शोणितिअं मुखादागतम् । यावत्कालगतः ।
यदाशोको राज्ये प्रतिष्ठितस्तस्योर्ध्व योजनं यक्षाः [आदेशं] श्रृण्वन्ति । अधो योजनं नागाः । तेन राधगुप्तोऽग्रामात्यः स्थापितः ।
सुसीमेनापि श्रुतं बिन्दुसारो राजा कालगतोऽशोको राज्ये प्रतिष्ठितः । इति श्रुत्वा च रूषितमभ्यागतः । त्वरितं च तस्माद्देशादागतः ।
(आव्४२)
अशोकेनापि पाटलिपुत्रे नगरे एकस्मिन् द्वारे एको नग्नः स्थापितः । द्वितीये द्वितीयस्तृतीये राधगुप्तः पूर्वद्वारे स्वयमेव राजाशोकोऽवस्थितः ।
राधगुप्तेन च पूर्वस्मिन् द्वारे यन्त्रमयो हस्ती स्थापितः । तस्योपरि अशोकस्य च प्रतिमा निर्मिता । परितश्च परिखां खनयित्वा खदिराङ्गारैश्च पूरयित्वा तृणेनाच्छाद्य [सा] पांशुनाकीर्णा । सुसीमश्चाभिहितो यदि शक्यसेऽशोकं घातयितुं राजेति ।
स यावत्पूर्वद्वारं गतः । अशोकेन सह योत्स्यामीति । अङ्गारपूर्णायां परिखायां पतितः । तत्रैव चानयेन व्यसनमापन्नः । यदा च सुसीमः प्रघातितस्तस्यापि महानग्नो भद्रायुधो नाम्नानेकसहस्रपरिवारः । स भगवच्छासने प्रव्रजितोऽर्हन् संवृत्तः ।
यदाशोको राज्ये प्रतिष्ठितः स तैरमात्यैरवज्ञादृश्यते । तेनामात्यानां शासनार्थमभिहितम् । भवन्तः पुष्पवृक्षान् फलवृक्षांश्च छित्त्वा कण्टकवृक्षान् परिपालयन्तु । अमात्या आहुः । देवेन कुत्र दृष्टम् । अपि तु कण्टकवृक्षान् छित्त्वा पुष्पवृक्षाः फलवृंक्षाश्च परिपालयितव्याः । तैर्यावत्त्रिरपि राज्ञ आज्ञा प्रतिकलिता । ततो (आव्४३) राज्ञा रुषितेन असिं निष्कोशं कृत्वा पञ्चानाममात्यशतानां शिरांसि छिन्नानि ।
यावद्राजाशोकोऽपरेण समयेनान्तः पुरपरिवृतो वसन्तकाले समये पुष्पितफलितेषु पादपेषु पूर्वनगरस्य उद्यानं गतः । तत्र च परिभ्रमताशोकवृक्षः सुपुष्पितो दृष्टः । ततो राज्ञो ममायं सहनामा इत्यनुनयो जातः । स च राजाशोको दुःस्पर्शगात्रः । ता युवतयस्तं नेच्छन्ति स्प्रष्टुम् । यावद्राजा शयितस्तस्यान्तःपुरेण रोषेण तस्मादशोकवृक्षात्पुष्पाणि शाखाश्च छिन्नाः ।
यावद्राज्ञा प्रतिबुद्धेन सोऽशोकवृक्षो दृष्टः । पुष्टाश्च तत्रस्थाः केन स छिन्नः । ते कथयन्ति देवान्तःपुरिकाभिरिति । श्रुत्वा च राज्ञामर्षजातेन पञ्चस्त्रीशतानि किटिकैः संवेष्टय दग्धानि ।
तस्येमानि अशुभानि आलोक्य चण्डो राजा चण्डाशोक इति व्यवस्थापितः ।
यावद्राधगुप्तेनाग्रामात्येनाभिहितः । देव न सदृशं स्वयमेवेदृशमकार्यं कर्तुम् । अपि तु देवस्य वध्यघातकाः पुरुषाः स्थापयितव्या ये देवस्य वध्यकरणीयं शोधयिष्यन्ति । यावद्राज्ञा राजपुरुषाः प्रत्युक्ता वध्यघातं मे मार्गध्वमिति ।
(आव्४४)
यावत्तत्र नातिदूरे पर्वतपादमूले कर्वटकम् । तत्र तन्त्रवायः प्रतिवसति । तस्य पुत्रो जातः । गिरिक इति नामधेयं कृतम् । चण्डो दुष्टात्मा मातरं पितरं च परिभाषते ।
दारकदारिकाश्च ताडयति । पिपीलिकान्मक्षिकान्मूषिकान्मत्स्यांश्च जालेन बडिशेन प्रघातयति । चण्डो दारकस्तस्य चण्डगिरिक इति नामधेयं कृतम् ।
यावद्राजपुरुषैर्दृष्टः पापे कर्मणि प्रवृत्तः । स तैरभिहितः । शक्यसे राज्ञोऽशोकस्य वध्यकरणीयं कर्तुम् । स आह । कृत्स्नस्य जम्बुद्वीपस्य वध्यकरणीयं साधयिष्यामीति ।
यावद्राज्ञो निवेदितम् । राज्ञाभिहितमानीयतामिति । स च राजपुरुषैरभिहितः । आगच्छ राजा त्वामाह्वयतीति । तेनाभिहितम् । आगमयत । यावदहं मातापितराववलोकयामीति । यावन्मातापितरावुवाच । अम्ब, तातानुजानीध्वं यास्याम्यहं राज्ञोऽशोकस्य वध्यकरणीयं साधयितुम् । ताभ्यां च स निवारितः । तेन तौ जीविताद्व्यपरोपितौ । एवं यावद्राजपुरुषैरभिहितः । किमर्थं चिरेणाभ्यागतोऽसि । तेन चैतत्प्रकरणं विस्तरेणारोचितम् ।
स तैर्यावद्राज्ञोऽशोकस्योपनामितः । तेन राज्ञोऽभिहितम् । (आव्४५) ममार्थाय गृहं कारयस्वेति । यावद्राज्ञा गृहं कारापितम् । परमदारुणं द्वारमात्ररमणीयम् । तस्य रमणीयकं बन्धनमिति संज्ञा व्यवस्थापिता । स आह । देव वरं मे प्रयच्छ । यस्तत्र प्रविशेत्तस्य न भूयो निर्गम इति । यावद्राज्ञाभिहितम् । एवमस्त्विति ।
ततः स चण्डगिरिकः कुक्कुटारामं गतः । भिक्षुश्च । बालपण्डितसूत्रं पठति । सत्त्वा नरकेषूपपन्नाः । यावन्नरकपाला गृहीत्वायोमय्यां भूमावादीप्तायां संप्रज्वलितायामेकज्वालीभूतायामुत्तानकान् प्रतिष्ठाप्य अयोमयेन विष्कम्भणेन मुखद्वारं विष्कम्भ्य अयोगुडानादीप्तान् प्रदीप्तान् संप्रज्वलितानेकज्वालीभूतानास्ये प्रक्षिपन्ति । ये तेषां सत्त्वानामोष्ठावपि दहन्ति जिह्वामपि कण्ठमपि कण्ठनाडमपि हृदयमपि हृदयसामन्तमपि अन्त्राणि अन्त्रगुणानपि दग्ध्वा अधः प्रघरन्ति । इयद्दुःखा हि भिक्षवो नरकाः ।
सत्त्वा नरकेषूपपन्नाः । यावन्नरकपाला गृहीत्वा अयोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामुत्तानकान् प्रतिष्ठाप्य अयोमयेन विष्कम्भणेन मूखद्वारं विष्कम्भ्य क्वथितं ताम्रमास्ये प्रक्षिपन्ति । यत्तेषां सत्त्वानामोष्ठौ अपि दहन्ति जिह्वामपि तालु अपि कण्ठमपि कण्ठनाडमपि अन्त्राणि अन्त्रगुणानापि दग्ध्वा अधः प्रघरन्ति । इयद्दुःखा हि भिक्षवो नरकाः ।
सन्ति सत्त्वा नरकेषूपपन्नाः । यान्नरकपाला गृहीत्वायोमय्यां भूमावादीप्तायां संप्रज्वलितायामेकज्वालीभूतायामवाङ्मुखान् प्रतिष्ठाप्यायोमयेन सूत्रेण आदीप्तेन संप्रज्वलितेन एकज्वालीभूतेन आस्फाट्य अयोमयेन कुठारेण आदीप्तेन संप्रदीप्तेन संप्रज्वलितेन एकज्वालीभूतेन तक्ष्णुवन्ति संतक्ष्णुवन्ति संप्रतक्ष्णुवन्ति अष्टांशमपि षडंशमपि चतुरस्रमपि वृत्तमपि मण्डलमपि उन्नतमपि अवनतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति । इयद्दुःखा हि भिक्षवो नरकाः ।
(आव्४६)
सन्ति सत्त्वा नरकेषूपपन्नाः । यान्नरकपाला गृहीत्वा अयोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामवाङ्मुखान् प्रतिष्ठाप्यायोमयेन सूत्रेणादीप्तेन प्रदीप्तेन संप्रज्वलितेनैकज्वालीभूतेनास्फाट्यायोमय्यां भूम्यामादीप्तायां प्रदीप्तायां संप्रज्वलितायां नैकज्वालीभूतायां तक्ष्णुवन्ति संतक्ष्णुवन्ति संपरितक्ष्णुवन्ति अष्टांशमपि षडंशमपि चतुरस्रमपि मण्डलमपि उन्नतमपि अनवतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति । इयद्दुःखा हि भिक्षवो नरकाः ।
सन्ति सत्त्वा नरकेषूपपन्नाः । यान्नरकपाला गृहीत्वायोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामुत्तानकान् प्रतिष्ठाप्य पञ्चविधबन्धनकारणां कारयन्ति । उभयोर्हस्तयोरायसौ कीलौ क्रामन्ति । उभयोः पादयोरायसौ कीलौ क्रामन्ति । मध्ये हृदयस्यायसं कीलं क्रामन्ति । सुदुःखा हि भिक्षवो नरकाः ।
एवं पञ्च वेदना इति सोऽपि (चण्डगिरिकः) कुरुते । तत्सदृशाश्च कारणाः सत्त्वानामारब्धः कारयितुं [सोऽपि तच्चारके] ।
यावच्छ्रावस्त्यामन्यतमः सार्थवाहः पत्न्या सह महासमुद्रमवतीर्णः । तस्य सा पत्नी महासमुद्रे प्रसूता । दारको जातस्तस्य समुद्र इति नामधेयं कृतम् ।
यावत्विस्तरेण द्वादशभिर्वषैर्महासमुद्रादुत्तीर्णः । स च सार्थवाहः पञ्चभिर्धूर्तशतैर्मुषितः । सार्थवाहः स प्रघातितः । स च समुद्रः सार्थवाहपुत्रो भगवच्छासने प्रव्रजितः । स जनपदचारिकां चरन् पाटलिपुत्रमनुप्राप्तः ।
(आव्४७)
स पूर्वाह्णे निवास्य पात्रचीवरमादाय पाटलिपुत्रं पिण्डाय प्रविष्टः । सोऽनभिज्ञया च रमणीयकं भवनं प्रविष्टः । तच्च द्वारमात्ररमणीयमभ्यन्तरं नरकभवनसदृशं प्रतिभयं दृष्ट्वा च पुनर्निर्गन्तुकामश्चण्डगिरिकेणावलोकितः । गृहीत्वा चोक्तः । इह ते निधनमुपसंगन्तव्यमिति । विस्तरेण कार्यम् ।
ततो भिक्षुः शोकार्तो वाष्पकण्ठः संवृत्तः । तेनोच्यते । किमिदं बालदारक इव रुदसीति । स भिक्षुः प्राह ।
न शरीरविनाशं हि भद्र शोचामि सर्वशः ।
मोक्षधर्मान्तरायं तु शोचामि भृशमात्मनः ॥
दुर्लभं प्राप्य मानुष्यं प्रव्रज्यां च सुखोदयाम् ।
शाक्यसिंहं च शास्तारं पुनस्त्यक्ष्यामि दुर्मतिः ॥
तेनोच्यते । दत्तवरोऽहं नृपतिना । धीरो भव । नास्ति ते मोक्ष इति । ततः सकरुणैर्वचनैस्तं भिक्षुः क्रमं याचति स्म । मासं यावत् । सप्तरात्रमनुज्ञातः ।
स खलु मरणभयोद्विग्नहृदयः सप्तरात्रेण मे न भवितव्यमिति व्यायममतिः संवृत्तः ।
अथ सप्तमे दिवसे अशोकस्य राज्ञोऽन्तःपुरिका कुमारेण सह संरक्तां निरीक्ष्यमाणां संलपन्तीं च दृष्ट्वा सहदर्शनादेव रुषितेन (आव्४८) राज्ञा तौ द्वावपि तं चारकमनुप्रेषितौ । तत्र मूशलैरयोद्रोण्यामस्थ्यवशेषौ कृतौ । ततो भिक्षुस्तौ दृष्ट्वा संविग्नः प्राह ।
अहो कारुणिकः शास्ता सम्यगाह महामुनिः ।
फेनपिण्डोपमं रूपमसारमनवस्थितम् ॥
क्व तद्वदनकान्तित्वं गात्रशोभा क्व सा गाता ।
धिगस्त्वन्यायसंसारं रमन्ते यत्र बालिशाः ॥
इदमालम्बनं प्राप्तं चारके वसता मया ।
यदाश्रित्य तरिष्यामि पारमद्य भवोदधेः ॥
तेन तां रजनीं कृत्स्नां युज्यता बुद्धशासने ।
सर्वसंयोजनं छित्त्वा प्राप्तमर्हत्त्वमुत्तमम् ॥
ततस्तस्मिंन् रजनिक्षये स भिक्षुश्चण्डगिरिकेणोच्यते । भिक्षो निर्गता रात्रिरुदित आदित्यः कारणाकालस्तवेति । ततो भिक्षुराह । दीर्घायुर्ममापि निर्गता रात्रिरुदित आदित्यः परानुग्रहकाल इति । यथेष्टं वर्ततामिति ।
चण्डगिरिकः प्राह । नावगच्छामि विस्तीर्यतां वचनमेतदिति । ततो भिक्षुराह ।
(आव्४९)
ममापि हृदयाद्घोरा निर्गता मोहशर्वरी ।
पञ्चावरणसंच्छन्ना क्लेशतस्करसेविता ॥
उदितो ज्ञानसूर्यश्च मनोनभसि मे शुभः ।
प्रभया यस्य पश्यामि त्रैलोक्यमिह तत्त्वतः ॥
परानुग्रहकालो मे शास्तुर्वृत्तानुवर्तिनः ।
इदं शरीरं दीर्घायुर्यथेष्टं क्रियतामिति ॥
ततस्तेन निर्घृणेन दारुणहृदयेन परलोकनिरपेक्षेण रोषाविष्टेन बहूदकायां स्थाल्यां नररुधिरवसामूत्रपूरीषसंकुलायां महालोह्यां प्रक्षिप्तः । प्रभूतेन्धनैश्चाग्निः प्रज्वालितः । स च बहुनापीन्धनक्षयेण न संतप्यते । ततः पुनः प्रज्वालयितुं चेष्टते । यदा तस्यापि न प्रज्वलति ततो विचार्य तां लोहीं पश्यति । तं भिक्षुं पद्मस्योपरि पर्यङ्केणोपविष्टं दृष्ट्वा च ततो राज्ञे निवेदयामास । अथ राजनि समागते प्राणिसहस्रेषु संनिपतितेषु स भिक्षुर्वैनेयकालमवेक्षमाणः
(आव्५०)
ऋद्धिं समुत्पाद्य स तन्मुहूर्तं लोह्यन्तरस्थः सलिलाद्रगात्रः ।
निरीक्षमाणस्य जनस्य मध्ये नभस्तलं हंस इवोत्पपात ॥
विचित्राणि च प्रातिहार्याणि दर्शयितुमारब्धः । वक्ष्यति हि ।
अर्धेन गात्रेण ववर्ष तोयमर्धेन जज्वाल हुताशनश्च ।
वर्षञ्ज्वलंश्चैव रराज यः खे दीप्तौषधिप्रस्रवणेव शैलः ॥
तमुद्गतं व्योम्नि निशाम्य राजा कृताञ्जलिर्विस्मयफुल्लवक्त्रः ।
उद्वीक्षमाणस्तमुवाच धीरं कौतुहलात्किंचिदहं विवक्षुः ॥
मनुष्यतुल्यं तव सौम्य रूपमृद्धिप्रभावस्तु नरानतीत्य ।
न निश्चयं तेन विभो व्रजामि को नाम भावस्तव शुद्धभाव ॥
तत्साम्प्रतं ब्रूहि ममेदमर्थं यथा प्रजानामि तव प्रभावम् ।
ज्ञात्वा च ते धर्मगुणप्रभावान् यथाबलं शिष्यवदाचरेम ॥
ततो भिक्षुः प्रवचनपरिग्राहकोऽयं भविष्यति भगवद्धातुं च विस्तरीकरिष्यति महाजनहितार्थं च प्रतिपत्स्यत इति मत्वा स्वगुणमुद्भावयंस्तमुवाच ।
अहं महाकारुणिकस्य राजन् प्रहीणसर्वास्रवबन्धनस्य ।
बुद्धस्य पुत्रो वदतां वरस्य धर्मान्वयः सर्वभवेष्वसक्तः ॥
(आव्५१)
दान्तेन दान्तः पुरुषर्षभेन शान्तिं गतेनापि शमं प्रणीतः ।
मुक्तेन संसारमहाभयेभ्यो निर्मोक्षितोऽहं भवबन्धनेभ्यः ॥
अपि च महाराज त्वं भगवता व्याकृतः । वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरेऽशोको नाम राजा भविष्यति । चतुर्भागचक्रवर्ती धर्मराजो यो मे शरीरधातून् वैस्तारिकान् करिष्यति । चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यति । इदं च देवेन नरकसदृशं स्थानमेव स्थापितं यत्र प्राणिसहस्राणि निपात्यन्ते । तदर्हसि देव सर्वसत्त्वेभ्योऽभयप्रदानं दातुं भगवतश्च मनोरथं परिपूरयितुम् । आह च ।
तस्मान्नरेन्द्र अभयं प्रयच्छ सत्त्वेषु कारुण्यपुरोजवेषु ।
नाथस्य संपूर्य मनोरथं च वैस्तारिकान् धर्मधरान् कुरुष्व ॥
अथ स राजा बुद्धे समुपजातप्रसादः कृतकरसंपुटस्तं भिक्षुं क्षमयन्नुवाच ।
दशबलसुत क्षन्तुमर्हसीमं कुकृतमिदं च तवाद्य देशयामि ।
शरणमृषिमुपैमि तं च बुद्धं गणवरमार्यनिवेदितं च धर्मम् ॥
अपि च ।
करोमि चैष व्यवसायमद्य तद्गौरवात्तत्प्रवणप्रसादात् ।
गां मण्डयिष्यामि जिनेन्द्रचैत्यैर्हंसांशुशङ्खेन्दुबलाककल्पैः ॥
यावत्स भिक्षुस्तदैव ऋद्ध्या प्रक्रान्तः । अथ राजारब्धो निष्क्रामितुम् । ततश्चण्डगिरिकः कृताञ्जलिरुवाच । देव लब्धवरोऽहं नैकस्य विनिर्गम इति । राजाह । मा तावन् । मामपीच्छसि घातयितुम् ।
(आव्५२)
स उवाच । एवमेव ।
राजाह । कोऽस्माकं प्रथमतरं प्रविष्टः ।
चण्डगिरिक उवाच । अहम् ।
ततो राज्ञाभिहितम् । कोऽत्रेति ।
यावद्वध्यघातैर्गृहीतः । गृहित्वा च यन्त्रगृहं प्रवेशितः । प्रवेशयित्वा दग्धः । तच्च रमणीयकं बन्धनमपनीतम् । सर्वसत्त्वेभ्यश्चाभयप्रदानमनुप्रदत्तम् ॥
ततो राजा भगवच्छरीरधातुं विस्तरिष्यामीति चतुरङ्गेण बलकायेन गत्वाजातशत्रुप्रतिष्ठापितं द्रोणस्तूपमुत्पाट्य शरीरधातुं गृहीतवान् । यत्र उद्धारणं च विस्तरेण कृत्वा धातुप्रत्यंशं दत्त्वा स्तूपं प्रत्यस्थापयत् । एवं द्वितीयं स्तूपं विस्तरेण । भक्तिमतो यावत्सप्तद्रोणाद्ग्रहाय स्तूपांश्च प्रतिष्ठाप्य रामग्रामं गतः ।
ततो राजा नागैर्नागभवनमवतारितः । विज्ञप्तश्च । वयमस्य [शरीरधातोः] अत्रैव पूजां करिष्याम इति । यावद्राज्ञाभ्यनुज्ञातम् ।
ततो नागराजेन पुनरपि नागभवनादुत्तारितः । वक्ष्यति हि ।
रामग्रामेऽस्ति त्वष्टमं स्तूपमद्य नागास्तत्कालं भक्तिमन्तो ररक्षुः ।
धातूनेतस्मान्नोपलेभे स राजा श्रद्धालू राजा यस्त्वकृत्वा जगाम ॥
(आव्५३)
यावद्राजा चतुरशीतिकरण्डसहस्रं कारयित्वा सौवर्णरूप्यस्फटिकवैदूर्यमयाणां तेषु धातवः प्रक्षिप्ताः । एवं विस्तरेण चतुरशीतिकुम्भसहस्रं (आव्५४) पट्टसहस्रं च यक्षाणां हस्ते दत्त्वा विसर्जितम् । आसमुद्रायां पृथिव्यां हिनोत्कृष्टमध्यमेषु नगरेषु यत्र कोटिः परिपूर्यते तत्र धर्मराजिका प्रतिष्ठापयितव्या ।
तस्मिन् समये तक्षशिलायां षट्त्रिंशत्कोट्यः । तैरभिहितम् । षट्त्रिंशत्करण्डकाननुप्रयच्छेति । राजा चिन्तयति । न यदि वैस्तारिका धातवो भविष्यन्ति । उपायज्ञो राजा । तेनाभिहितम् । पञ्चत्रिंशत्कोट्यः शोधयितव्याः । विस्तरेण यावद्राज्ञाभिहितम् । यत्राधिकतरा भवन्ति यत्र च न्यूनतरा तत्र न दातव्यम् ।
यावद्राजा कुक्कुटारामं गत्वा स्थविरयशसमभिगम्य उवाच । अयं मे मनोरथः । एकस्मिन् दिवसे एकस्मिन्मूहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयेयमिति । स्थविरेणाभिहितम् । एवमस्तु । अहं तस्मिन् समये पाणिना सूर्यमण्डलं प्रतिच्छादयिष्यामीति ।
(आव्५५)
यावत्तस्मिन् दिवसे स्थविरयशसा पाणिना सूर्यमण्डलं प्रतिच्छादितम् । एकस्मिन् दिवसे एकमुहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम् । वक्ष्यति च ।
ताभ्यः सप्तभ्यः पूर्विकाभ्यः कृतिभ्यो धातुं तस्यर्षेः स ह्युपादाय मौर्यः ।
चक्रे स्तूपानां शारदाभ्रप्रभाणां लोके साशीति ह्यह्नि चातुःसहस्रम् ॥
यावच्च राज्ञाशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं धार्मिको धर्मराजा संवृत्तस्तस्य धर्माशोक इति संज्ञा जाता । वक्ष्यति च ।
आर्यो मौर्यश्रीः स प्रजानां हितार्थं कृत्स्ने स्तूपान् यः कारयामास लोके ।
चण्डाशोकत्वं प्राप्य पूर्वं पृथिव्यां धर्माशोकत्वं कर्मणा तेन लेभे ॥
पांशुप्रदानावदानं षड्विंशतिमम् ।
(आव्५६)
वीतशोकावदानं
यदा राज्ञाशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम् । पञ्चवार्षिकं च कृतम् । त्रीणी शतसहस्राणि भिक्षूणां भोजितानि । यत्रैकमर्हतां द्वे शैक्षाणां पृथग्जनकल्याणकानां च । आसमुद्रायां पृथिव्यां जनकाया यभ्दूयसा भगवच्छासनेऽभिप्रसन्नाः ।
तस्य भ्राता वीतशोको नाम तीर्थ्याभिप्रसन्नः । स तीर्थ्यैर्विग्राहितः । नास्ति श्रमणशाक्यपुत्रीयाणां मोक्ष इति । एते हि सुखाभिरताः परिखेदभीरवश्चेति ।
यावद्राज्ञाशोकेनोच्यते । वीतशोक मा त्वं हीनायतने प्रसादमुत्पादय । अपि तु बुद्धधर्मसङ्घे प्रसादमुत्पादय । एष आयतनगतः प्रसाद इति ।
अथ राजाशोकोऽपरेण समयेन मृगवधाय निर्गतः । तत्र वीतशोकेनारण्ये ऋषिर्दृष्टः । पञ्चातपेनावस्थितः । स च कष्टतपःसारसंज्ञी । तेनाभिगम्य पादाभिवन्दनं कृत्वा स ऋषिः पृष्टः । भगवन् कियच्चिरं ते इहारण्ये प्रतिवसतः । स उवाच । द्वादशवर्षाणीति । वीतशोकः कथयति । कस्तवाहारः । ऋषिरुवाच । फलमूलानि । किं प्रावरणम् । दर्भचीवराणि । का शय्या । तृणसंस्तरः । वीतशोक उवाच । भगवन् किं दुःखं बाधते । ऋषीरुवाच । इमे (आव्५७) मृगा ऋतुकाले संवसन्ति । यदा मृगाणां संवासो दृष्टो भवति तस्मिन् समये रागेण परिदह्यामि ।
वीतशोक उवाच । अस्य कष्टेन तपसा [वर्तमानस्य] रागोऽद्यापि बाधते प्रागेव । श्रमणाः शाक्यपुत्रीयाः स्वास्तीर्णासनशयनोपसेविनः । कुत एषां रागप्रहाणं भविष्यति । आह च ।
कष्टेऽस्मिन् विजने वने निवसता वाय्वम्बुमूलाशिना
रागो नैव जितो यदीह ऋषिणा कालप्रकर्षेण हि ।
भुक्त्वान्नं सघृतं प्रभूतपिशितं दद्युत्तमालङकृतं
शाक्येष्विन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥
सर्वथा वञ्चितो राजाशोको यच्छ्रमणेषु शाक्यपुत्रीयेषु कारां करोति ।
एतच्च वचनं श्रुत्वा राजा उपायज्ञोऽमात्यानुवाच । अयं वितशोकस्तीर्थ्याभिप्रसन्नः । उपायेन भगवच्छासनेऽभिप्रसादयितव्यः ।
अमात्याः आहुः । देव किमाज्ञापयसि । राजाह । यदाहं राजालङ्कारं मौलि पट्टं चापनयित्वा स्नानशालां प्रविष्टो भवामि, तदा यूयं वीतशोकस्य उपायेन मौलि पट्टं च बद्ध्वा [एनं] सिंहासने निषादयिष्यथ । एवमस्त्विति ।
यावद्राजा राजालङ्कारं मौलिपट्टं चापनयित्वा स्नानशालायां प्रविष्टः । ततोऽमात्यैर्वीतशोक उच्यते । राज्ञोऽशोकस्यात्ययात्(आव्५८) त्वं राजा भविष्यसि । इमं तावद्राजालङ्कारं प्रवरमौलिपट्टं च बद्ध्वा [त्वां] सिंहासने निषादयिष्यामः । किं शोभसे न वेऽति ।
[स] तैस्तदाभरणं मौलिपट्टं च बद्ध्वा सिंहासने निषादितः । राज्ञश्च निवेदितम् ।
ततो रजाशोको वीतशोकं राजालङ्कारमौलिपट्टबद्धं च सिंहासनोपविष्टं दृष्ट्वा कथयति । अद्याप्यहं जीवामि, त्वं राजा संवृत्तः । ततो राज्ञाभिहितम् । कोऽत्रम् ।
ततो यावद्वध्यघातका नीलाम्बरवासिनः प्रलम्बकेशा घण्टाशब्दपाणयो राज्ञः पादयोर्निपत्योचुः । देव किमाज्ञापयसि ।
राजाह ।
वीतशोको मया परित्यक्त इति । यावद्वीतशोक उच्यते । सशस्त्रैवैध्यघातैरस्माभिः परिवृतोऽसीति । ततोमात्या राज्ञः पादयोर्निपत्य ऊचुः । देव मर्षय वीतशोकम् । देवस्यैष भ्राता ।
ततो राज्ञाभिहितम् । सप्ताहमस्य मर्षयामि । भ्राता चैष मम । भ्रातुः स्नेहादस्य सप्ताहं राज्यं प्रयच्छामि ।
यावत्तूर्यशतानि संप्रवादितानि । जयशब्दैश्चानन्दितम् । प्राणिशतसहस्रैश्चाञ्जलिः कृतः । स्त्रीशतैश्च परिवृतः ।
(आव्५९)
वध्यघातकाश्च द्वारि तिष्ठन्ति । दिवसे गते वीतशोकस्याग्रतः स्थित्वा आरोचयन्ति । निर्गतं वीतशोक एकं दिवसम् । षडहान्यवशिष्टानि । एवं द्वितीये दिवसे । विस्तरेण यावत्सप्ताहदिवसे वीतशोको राजालङ्कारविभूषितो राज्ञोऽशोकस्य समीपमुपनीतः ।
ततो राज्ञाशोकेनाभिहितम् । वीतशोक कच्चित्सुगीतं सुनृत्यं सुवादितमिति । वीतशोक उवाच । न मे दृष्टं वा स्याच्छ्रु तं वेति । आह च ।
येन श्रुतं भवेद्गीतं नृत्यं चापि निरीक्षितम् ।
रसाश्चास्वादिता येन स ब्रूयात्तव निर्णयम् ॥
राजाह । वीतशोक इदं मया राज्यं सप्ताहं तव दत्तम् । तर्यशतानि संप्रवादितानि । जयशब्दैश्चानन्दितम् । अञ्जलिशतानि प्रगृहीतानि । स्त्रीशतैश्च परिचीर्णः । कथं त्वं कथयसि नैव मे दृष्टं न श्रुतमिति । वीतशोक उवाच ।
न मे दृष्टं नृत्यं न च नृप श्रुतो गीतनिनदः
न मे गन्धा घ्राता न च खलु रसा मेऽद्य विदिताः ।
न मे स्पृष्टः स्पर्शः कनकमणिहाराङ्गजनितः
समूहो नारीणां मरणपरिबद्धेन मनसा ॥
स्त्रियो नृत्यं गितं भवनशयनान्यासनविधिः
वयो रूपं लक्ष्मीर्बहुविविधरत्ना च वसुधा ।
निरानन्दा शून्या मम तु वरशय्या गतसुखा
स्थितान् दृष्ट्वा द्वारे वधकपुरुषान्नीलवसनान् ॥
(आव्६०)
श्रुत्वा घण्तारवं घोरं नीलाम्बरधरस्य हि ।
भयं मे मरणाज्जातं पार्थिवेन्द्र सुदारुणम् ॥
मृत्युशल्यपरीतोऽहं नाश्रौषं गीतमुत्तमम् ।
नाद्राक्षं नृपते नृत्यं न च भोक्तुं मनःस्पृहा ॥
मृत्युज्वरगृहीतस्य न मे स्वप्नोऽपि विद्यते ।
कृत्स्ना मे रजनी याता मृत्युमेवानुचिन्ततः ॥
राजाह । वीतशोक । मा तावत् । तवैकजन्मिकस्य मरणभयात्तव राजश्रियं प्राप्य हर्षो नोत्पन्नः । किं पुनर्भिक्षवो ये जन्मशतमरणभयभीताः सर्वाण्युपपत्त्यायतनानि दुःखान्यनुसृतानि पश्यन्ति । नरके तावच्छरीरसंतापकृतमग्निदाहदुःखं च तिर्यक्ष्वन्योन्यभक्षणपरित्रासदुःखं, प्रेतेषु क्षुत्तर्षदुःखम् । पर्येष्टिसमुदाचारदुःखं मनुष्येषु । च्यवनपतनभ्रंशदुःखं देवेषु । एभिः पञ्चभिर्दुःखैस्त्रैलोक्यमनुषक्तं शारीरमानसैर्दुःखैरुत्पीडिता वधकभूतान् स्कन्धान् पश्यन्ति । शून्यग्रामभूतान्यायतनानि, चौरभूतानि विषयाणि कृत्स्नं च त्रैधातुकमनित्याग्निना प्रदीप्तं पश्यन्ति । तेषां रागः कथमुत्पद्यते । आह च ।
तावदेकजन्मिकस्य मरणभयात्तव न जायते हर्षः ।
मनसि विषयैर्मनोज्ञैः सततं खलु पच्यमानस्य ॥
किं पुनर्जन्मशतानां मरणभयमनागतं विचिन्तयताम् ।
मनसि भविष्यति हर्षो भिक्षूणां भोजनाद्येषु ॥
(आव्६१)
तेषां न वस्त्रशयनासनभोजनादि मोक्षेऽभियुक्तमनसां जनयेत सङ्गम् ।
पश्यन्ति ये वधकशत्रुनिभं शरीरमादीप्तवेश्मसदृशांश्च भवाननित्यान् ॥
कथं च तेषां न भवेद्विमोक्षो मोक्षार्थिनां जन्मपराङमुखाणाम् ।
येषां मनः सर्वसुखाश्रयेषु व्यावर्तते पद्मदलादिवाम्भः ॥
यदा वीतशोको राज्ञाशोकेनोपायेन भगवच्छासनेऽभिप्रसादितः स कृतकरपुट उवाच । देव एषोऽहं तं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं शरणं गच्छामि । धर्मं च भिक्षुसंङ्घं चेति । आह च ।
एष व्रजामि शरणं विबुद्धनवकमलविमलनिभनेत्रम् ।
बुधविबुधमनुजमहितं जिनं विरागं सङ्घं चेति ॥
अथ राजाशोको वीतशोकं कण्ठे परिष्वज्योवाच । न त्वं मया परित्यक्तः । अपि तु बुद्धशासनाभिप्रसादार्थं तव मया एष उपायः प्रदर्शितः ।
ततो वीतशोको गन्धपुष्पमाल्यादिवादित्रसमुदयेन भगवतश्चैत्यानर्चयति । सद्धर्मं च श्रृणोति । सङ्घे च कारां कुरुते ।
स कुक्कुटारामं गतः । तत्र यशो नाम स्थविरः अर्हन् षडभिज्ञः । स तस्य पुरतो निषण्णो धर्मश्रवणाय । स्थविरश्च तमवलोकयितुमारब्धः ।
स पश्यति वीतशोकमुपचितहेतुकं चरमभविकं तेनैवाश्रयेनार्हत्त्वं प्राप्तव्यम् । तेन तस्य प्रव्रज्याया वर्णो भाषितः । तस्य श्रुत्वा (आव्६२) स्पृहा जाता । प्रव्रजेयं भगवच्छासने । तत उत्थाय कृताञ्जलिः स्थविरमुवाच । लभेयमहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भवतोऽन्तिके ब्रह्मचर्यम् । स्थविर उवाच । वत्स । राजानमशोकमनुज्ञापयस्वेति ।
ततो वीतशोको येन राजाशोकस्तेनोपसंक्रम्य कृताञ्जलिरुवाच । देव अनुजानीहि माम् । प्रव्रजिष्यामि स्वाख्याते धर्मविनये सम्यगेव श्रद्धयागारादनागारिकाम् । आह च ।
उभ्दान्तोऽस्मि निरंकुशो गज इव व्यावर्तितो विभ्रमात्
त्वद्बुद्धिप्रभवांकुशेन विधिवद्बुद्धोपदेशैरहम् ।
एकं त्वर्हसि मे वरं प्रवरितुं त्वं पार्थिवानां पते
लोकालोकवरस्य शासनवरे लिङ्गं शुभं धारये ॥
श्रुत्वा च राजा साश्रुकण्ठो वीतशोकं कण्ठे परिष्वज्योवाच । वीतशोक । अलमनेन व्यवसायेन । प्रव्रज्या खलु वैवर्णीकाभ्युपगता वास पांशुकूलम् ।
प्रावरणं परिजनोज्झितम् । आहारों भैक्षं परकुले । शयनासनं वृक्षमूले तृणसंस्तरः पर्णसंस्तरः । ब्याबाधे खल्वपि भैषज्यमसुलभम् । पूतिमुक्तं च भोजनम् । त्वं च सुकुमारः शीतोष्णक्षित्पिपासानां दुःखानामसहिष्णुः । प्रसीद निवर्तय मानसम् ।
वीतशोक उवाच । देव ।
(आव्६३)
नैवाहं तन्न जाने न विषयतृषितो नायासविहतः
प्रव्रज्यां प्राप्तुकामो न रिपुहृतबलो नैवार्यकृपणः ।
दुःखार्त मृत्युनेष्टं व्यसनपरिगतं दृष्ट्वा जगदिदं
पन्थानं जन्मभीरुः शिवमभयमहं गन्तुव्यवसितः ॥
श्रुत्वा राजाशोकः सशब्दं प्ररुदितुमारब्धः । अथ वीतशोको राजानमनुनयन्नुवाच । देव ।
संसारदोलामभिरुह्य लोलां यदा निपातो नियतः प्रजानाम् ।
किमार्थमागच्छति विक्रिया ते सर्वेण सर्वस्य यदा वियोगः ॥
राजाह । वीतशोक । भैक्षे तावदभ्यासः क्रियताम् । राजकुले वृक्षवाटिकायां तस्य तृणसंस्तरः संस्तृतः । भोजनं चास्य दत्तम् । सोऽन्तःपुरं पर्यटति महार्हं चाहारं लभते ।
ततो राज्ञान्तःपुरिकाभिहिता । प्रव्रजितसारूप्यमस्याहारमनुप्रयच्छेति । तेन यावदभिदूषिता पूतिकमाषा लब्धाः । तांश्च (आव्६४) परिभोक्तुमारब्धः । दृष्ट्वा राज्ञाशोकेन निवारितः । अनुज्ञातश्च प्रव्रज, किन्तु प्रव्रजित्वा उपदर्शयिष्यसि ।
स यावत्कुक्कुटारामं गतः । तस्य बुद्धिरुत्पन्ना । यदि इह प्रव्रजिष्यामि आकीर्णो भविष्यामि । ततो विदेहेषु जनपदेषु गत्वा प्रव्रजितः । ततस्तेन युज्यता यावदर्हत्त्वं प्राप्तम् ।
अथायुष्मतो वीतशोकस्य अर्हत्त्वं प्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिन एतदभवत् । अस्ति खलु मे [द्रष्टुकामो भ्राता । ततः पाटलिपुत्राय प्रस्थितः ।] पूर्वं राज्ञोऽशोकस्य गृहद्वारमनुप्राप्तः । ततो दौवारिकमुवाच । गच्छ राज्ञोऽशोकस्य निवेदय वीतशोको द्वारितिष्ठति देवं द्रष्टुकाम इति ।
ततो दौवारिको राजानमशोकमभिगम्योवाच । देव, दिष्ट्या वृद्धि र्वीतशोकोऽभ्यागतो द्वारि तिष्ठति देवं द्रष्टुकामः । ततो राज्ञाभिहितम् । गच्छ शीघ्रं प्रवेशयेति ।
यावद्वीतशोको राजकुलं प्रविष्टः । दृष्ट्वा च राजाशोकः सिंहासनादुत्थाय मूलनिकृत्त इव द्रुमः सर्वशरीरेण [भूमौ निपतितः । ततः स] आयुष्मन्तं वीतशोकं निरीक्षमाणः प्ररुदन्नुवाच ।
भूतेषु संसर्गगतेषु नित्यं दृष्ट्वापि मां नैति यथा विकारम् ।
विवेकवेगाधिगतस्य शङ्के प्रज्ञारसस्यतिरसस्य तृप्तः ॥
(आव्६५)
अथ राज्ञोऽशोकस्य राघगुप्तो नामाग्रामात्यः । स पश्यत्यायुष्मतो वीतशोकस्य पांशुकूलं च चीवरं मृन्मयं पात्रं यावदन्नभक्षं लूहप्रणीतम् । दृष्ट्वा च राज्ञः पादयोर्निपत्य कृताञ्जलिरुवाच । देव यथायमल्पेच्छः सन्तुष्टश्च नियतमयं कृतकरणीयो भविष्यति । प्रीतिरुत्पाद्येत । कुतः ।
भैक्षान्नभोजनं यस्य पांशुकूलं च चीवरम् ।
निवासो वृक्षमूलं च तस्य ह्यनियतं कथम् ॥
निरास्रवं यस्य मनो विशालं निरामयं चोपचितं शरीरम् ।
स्वच्छन्दतो जीवितसाधनं च नित्योत्सवं तस्य मनुष्यलोके ॥
श्रुत्वा ततो राजा प्रीतमना उवाच ।
अपहाय मौर्यवंशं मगधपुरं सर्वरत्ननिचयं च ।
दृष्ट्वा वशंनिवहं [नु]प्रहीणमदमानमोहसारम्भम् ॥
अत्युद्धतमिव मन्ये यशसा पूतं पुरमिव गेहं च ।
प्रतिपद्यतां त्वया [वै] दशबलधरशासनमुदारम् ॥
अथ राजाशोकः सर्वाङ्गेण परिगृह्य प्रज्ञप्त एवासने निषादयामास । प्रणीतेन चाहारेण स्वहस्तं सन्तर्पयति । भुक्तवन्तं (आव्६६) विदित्वा घौतहस्तमपनीतपात्रमायुष्मतो वीतशोकस्य पुरतो निषण्णो धर्मश्रवणाय ।
अथायुष्मान् वीतशोको राजानमशोकं धर्म्यया कथया संदर्शयन्नुवाच ।
अप्रमादेन सम्पाद्य राजैश्वर्यं प्रवर्तताम् ।
दुर्लभत्रीणि रत्नानि नित्यं पूजय पार्थिव ॥
स यावद्धर्म्यया कथया संप्रहर्षयित्वा संप्रस्थितः । अथ राजाशोकः कृतकरपुटः पञ्चभिरमात्यशतैः परिवृतोऽनेकैश्च पौरजनसहस्रैः परिवृतः पुरस्कृत आयुष्मन्तं वीतशोकमनुव्रजितुमारब्धः । वक्ष्यति हि ।
भ्राता ज्येष्ठेन राज्ञा तु गौरवेणानुगम्यते ।
प्रव्रज्यायाः खलु श्लाध्यं संदृष्टिकमिदं फलम् ॥
तत आयुस्मान् वीतशोकः स्वगुणानुभ्दावयन् पश्यतः सर्वजनकायस्य ऋद्ध्या वैहायसमुत्पत्य प्रक्रान्तः । अथ राजाशोकः कृतकरपुटः प्राणिकशतसहस्रैः परिवृतः पुरस्कृतो गगनतलावसक्तदृष्टिरायुष्मन्तं वीतशोकं निरीक्षमाण उवाच ।
स्वजनस्नेहनिःसङ्गो विहङ्ग इव गच्छसि ।
श्रीरागनिगडैर्बद्धानस्मान् प्रत्यादिशन्निव ॥
(आव्६७)
आत्मायत्तस्य शान्तस्य मनःसंकेतचारिणः ।
ध्यानस्य फलमेतच्च रागान्धैर्यन्न दृश्यते ॥
अपि च ।
ऋद्धया खल्ववभर्त्सिताः परमया श्रीगर्वितास्ते वयं
बुद्ध्या खल्वपि नामिताः शिरसिताः प्रज्ञाभिमानोदयाः ।
प्राप्तार्थेन फलान्धबुद्धिमनसः संवेजितास्ते वयं
संक्षेपेण सबास्पदुर्दिनमुखाः स्थाने विमुक्ता वयम् ॥
तत्रायुष्मान् वीतशोकः प्रत्यन्तिकेषु जनपदेषु शय्याशनाय निर्गतः । तस्य च महाव्याधिरुत्पन्नः । श्रुत्वा च राज्ञाशोकेन भैषज्यमुपस्थायकाश्च विसर्जिताः । तस्य तेन व्याधिना स्पृष्टस्य शिरः खुस्तमभवत् । यदा च व्याधिर्निर्गतस्तस्य विरुढानि शिरसि रोमाणि । तेन वैद्योपस्थायकाश्च विसर्जिताः । तस्य च गोरसः प्राय आहारोनुसेव्यते । स घोषं गत्वा भैक्षं पर्यटति ।
तस्मिंश्च समये पुण्डवर्धननगरे निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपतिता चित्रार्पिता । उपासकेनाशोकस्य राज्ञो निवेदितम् । श्रुत्वा च राज्ञाभिहितं शीघ्रमानीयताम् ।
(आव्६८)
तस्योर्ध्वं योजनं यक्षाः श्रुण्वन्ति । अधो योजनं नागाः । यावत्तं तत्क्षणेन यक्षैरुपनीतम् । दृष्ट्वा च राज्ञा रुषितेनाभिहितम् । पुण्डवर्धने सर्वे आजीविकाः प्रघातयितव्याः । यावदेकदिवसेऽष्टादशसहस्राणि आजीविकानां प्रघातितानि ।
ततः पाटलिपुत्रे भूयोऽन्येन निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपतिता चित्रार्पिता । श्रुत्वा च राज्ञामर्षितेन स निर्ग्रन्थोपासकः सबन्धुवर्गो गृहं प्रवेशयित्वाग्निना दग्धः । आज्ञप्तं च यो मे निर्ग्रन्थस्य शिरो दास्यति तस्य दीनारं दास्यामि । इति घोषितम् ।
स चायुष्मान् वीतशोक आभीरस्य गृहे रात्रिवासमुपगतः । तस्य च व्याधिना क्लिष्टस्य लूहानि चीवराणि दीर्घकेशनखश्मश्रु । आभीर्या बुद्धिरुत्पन्ना निर्ग्रन्थोऽयमस्माकं गृहे रात्रिवासमुपगतः । स्वामिनमुवाच । आर्यपुत्र सम्पन्नोऽयमस्माकं दीनारः । इमं निर्ग्रन्थं प्रघातयित्वा शिरो राज्ञोऽशोकस्योपनामयेयमिति ।
ततः स आभीरोऽसिं निष्कोषं कृत्वा आयुष्मन्तं वीतशोकमभिगतः । आयुष्मता च वीतशोकेन पूर्वान्तं ज्ञानं क्षिप्तम् । पश्यति स्वयंकृतानां कर्मणां फलमिदमुपस्थितम् । ततः कर्मप्रतिशरणो भूत्वावस्थितः । तेन तथास्याभीरेण शिरश्छिन्नम् । राज्ञोऽशोकस्योपनीतम् । दीनारं प्रयच्छेति ।
(आव्६९)
दृष्ट्वा च राज्ञाशोकेन न परिज्ञातम् । विरलानि चास्य शिरसि रोमाणि न व्यक्तिमुपगच्छन्ति । ततो वैद्या उपस्थायका आनीताः । तैर्दृष्ट्वाभिहितम् । देव वीतशोकस्यैत्शिरः । श्रुत्वा राजा मुर्च्छितो भूमौ पतितः । यावज्जलसेकं दत्त्वा स्थापितः । अमात्यैश्चाभिहितम् । देव वीतरागाणामपि अत्र पीडा जाता । दीयतां सर्वसत्त्वेष्वभयप्रदानम् ।
यावद्राज्ञाभयप्रदानं दत्तं, न भूयः कश्चित्प्रघातयितव्यः ।
ततो भिक्षवः संशयजाताः सर्वसंशयछेत्तारमायुष्मन्तमुपगुप्तं पृच्छन्ति । किं कर्म कृतमायुष्मता वीतशोकेन यस्य कर्मणो विपाकेन शस्त्रेण प्रघातितः । स्थविर उवाच । तेन ह्यायुष्मन्तः कर्माणि कृतानि पूर्वमन्यासु जातिषु । शूयताम् ।
भूतपूर्वं भिक्षवोऽतीतेऽध्वनि अन्यतमो लुब्धो मृगान् प्रघातयित्वा जीविकां कल्पयति । अटव्यामुदपानम् । स तत्र लुब्धो गत्वा पशान् यन्त्रांश्च स्थापयित्वा मृगान् प्रघातयति ।
असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते । विस्तरः । अन्यतरः प्रत्येकबुद्धस्तस्मिन्नुदपाने आहारकृत्यं कृत्वोदपानादुत्तीर्य वृक्षमूले पर्यङ्केण निषण्णः । तस्य गन्धेन मृगास्तस्मिन्नुदपाने (आव्७०) नाभ्यागताः । स लुब्ध आगत्य पश्यति नैव मृगा उदपानमभ्यागताः । पदानुसारेण च तं प्रत्येकबुद्धमभिगतः । दृष्ट्वा चास्य बुद्धिरुत्पन्ना । अनेनैष आदीनव उत्पादितः । तेनासिं निष्कोषं कृत्वा स प्रत्येकबुद्धः प्रघातितः ।
किं मन्यध्वे आयुष्मन्तः । योऽसौ लुब्धः स एष वितशोकः । यत्रानेन मृगाः प्रघातितास्तस्य कर्मणो विपाकेन महान् व्याधिरुत्पन्नः ।
यत्प्रत्येकबुद्धः शस्त्रेण प्रघातितस्तस्य कर्मणो विपाकेन बहूनि वर्षसहस्राणि नरकेषु दुःखमनुभूय पञ्चजन्मशतनि मनुष्यषुपपन्नः शस्त्रेण प्रघातितः । तत्कर्मावशेषेणैतर्हि अर्हत्त्वप्राप्तोऽपि शस्त्रेण प्रघातितः ।
किं कर्म कृतं येन उच्चकुले उपपन्नः । अर्हत्त्वं च प्राप्तम् ।
स्थविर उवाच । काश्यपे सम्यक्सम्बुद्धे प्रव्रजितः । अभूत्प्रदानरुचिः । तेन दायकदानपतयः सङ्घभक्ताः कारापिताः । तर्पणानि यवागूपानानि निमन्त्रणाकानि [कारापितानि] स्तूपेषु च छत्राण्यवरोपितानि । ध्वजपताकागन्धमाल्यपुष्पवादित्रसमुदयेन पूजाः कृताः । तस्य कर्मणो विपाकेनोच्चकुल उपपन्नः । यावद्दशवर्षसहस्राणि ब्रह्मचर्यं चरित्वा सम्यक्प्रणिधानं कृतम् । तस्य कर्मणो विपाकेनार्हत्त्वं प्राप्तमिति ।
इति श्रीदिव्यावदाने वीतशोकावदानमष्टाविंशतितमम् ।
(आव्७१)
कुनालावदानं
यशोऽमात्योपाख्यानं
स इदानीमचिरजातप्रसादो बुद्धाशासने यत्र शाक्यपुत्रीयान् ददर्श, आकीर्णे रहसि वा तत्र शिरसा पादयोर्निपत्य वन्दते स्म ।
तस्य च यशो नामामात्यः परमश्राद्धो भगवति । स तं राजानमुवाच ।
देव नार्हसि सर्वर्णप्रव्रजितानां प्रणिपातं कर्तुम् । सन्ति हि शाक्यश्रामणेरकाश्चतुर्भ्यो वर्णेभ्यः प्रव्रजिता इति । तस्य राजा न किंचिदवोचद् ।
अथ स राजा केनचित्कालान्तरेण सर्वसचिवानुवाच । विविधानां प्राणिनां शिरोभिः कार्यम् । तत्त्वममुकस्य प्राणिनः शीर्षमानय त्वममुकस्येति । यशोऽमात्यः पुनराज्ञप्तस्त्वं मानुषं शीर्षमानयेति । समानीतेषु च शीरःस्वभिहिताः । गच्छतेमानि शिरांसि मूल्येन विक्रीणिध्वमिति ।
अथ सर्वशिरांसि विक्रीतानि । तदेव मानुषं शिरो न कश्चिज्(आव्७२) जग्राह । ततो राज्ञाभिहितः । विनापि मूल्येन कस्मैचिदेतच्छिरो देहिति ।
न चास्य कश्चित्प्रतिग्राहको बभूव । ततो यशोऽमात्यस्तस्य शिरसः प्रतिग्राहकमनासाद्य सव्रीडो राजानमुपेत्येदमर्थमुवाच ।
गोगर्दभोरभ्रमृगद्विजानां मूल्यैर्गृहीतानि शिरांसि पुम्भिः ।
शिरस्त्विदं मानुषमप्रशस्तं न गृह्यते मूल्यमृतेऽपि राजन् ॥
अथ स राजा तममात्यमुवाच । किमिदमिति । इदं मानुषशिरो न कश्चिद्गृण्हातीति ।
अमात्य उवाच । जुगुप्सितत्वादिति । राजाब्रवीत् । किमेतदेव शिरो जुगुप्सितमाहोस्वित्सर्वमानुषशिरांसीति । अमात्य उवाच । सर्वमानुषशिरांसीति ।
राजाब्रवीत् । किमिदं मदीयमपि शिरो जुगुप्सितमिति । स च भयान्नेच्छति तस्माद्भूतार्थमभिधातुम् । स राज्ञाभिहितः । अमात्य सत्यमुच्यतामिति । स उवाच । एवमिति ।
ततः स राजा तममात्यं प्रतिज्ञायां प्रतिष्ठाप्य प्रत्यादिशन्निममर्थमुवाच । हं भो रूपैश्वर्यजनितमदविस्मित युक्तमिदं भवतः । यस्मात्त्वं भिक्षुचरणप्रणामं मां विच्छन्दयितुमिच्छसि ।
विनापि मूल्यैर्विजुगुप्सितत्वात्प्रतिग्रहीता भुवि यस्य नास्ति ।
शिरस्तदासाद्य ममेह पुण्यं यद्यर्जितं किं विपरीतमत्र ॥
(आव्७३)
जातिं भवान् पश्यति शाक्यभिक्षुष्वन्तर्गतांस्तेषु गुणान्न चेति ।
अतो भवान् जातिमदावलेपादात्मानमन्यांश्च हिनस्ति मोहात् ॥
आवाहकालेऽथ विवाहकाले जातेः परीक्षा न तु धर्मकाले ।
धर्मक्रियाया हि गुणा निमित्त गुणाश्च जातिं न विचारयन्ति ॥
यद्युच्चकुलीनगता दोषा गर्हां प्रयान्ति लोकेऽस्मिन् ।
कथमिव नीचजनगता गुणा न सत्कारमर्हन्ति ॥
चित्तवशेन हि पुंसां कडेवरं निन्द्यतेऽथ सत्क्रियते ।
शाक्यश्रमणमनांसि च शुद्धान्यर्चाम्यतः शाक्यान् ॥
यदि गुणपरिवर्जितो द्विजातिः पतित इति प्रथितोऽपि यात्यवज्ञाम् ।
ननु निधनकुलोद्गतोऽपि जन्तुः शुभगुणयुक्त इति प्रणम्यपूज्यः ॥
अपि च ।
किं ते कारुणिकस्य शाक्यवृषभस्यैतद्वचो न श्रुतं
प्राज्ञैः सारमसारकेभ्य इह यन्त्रेभ्यो ग्रहीतुं क्षमम् ।
तस्यानन्यथवादिनो यदि च तामाज्ञां चिकीर्षाम्यहं
व्याहन्तुं च भवान् यदि प्रयतते नैतत्सुहृल्लक्षणम् ॥
इक्षुक्षोदवदुज्झितो भुवि यदा कायो मम स्वप्स्यति
प्रत्युत्थाननमस्कृताञ्जलिपुटक्लेशक्रियास्वक्षमः ।
कायेनाहमनेन किन्नु कुशलं शक्ष्यामि कर्तुं तदा
तस्मान्न्वर्हमतः श्मशाननिधनात्सारं ग्रहीतुं मया ॥
(आव्७४)
भवनादिव प्रदीप्तान्निमज्जमानादिवाप्सु रत्ननिधेः ।
कायाद्विधाननिधनाद्ये सारं नाधिगच्छन्ति ॥
ते सारमपश्यन्तः सारासारेष्वकोविदाप्राज्ञाः ।
ते मरणमकरवदनप्रवेशसमये विषीदन्ति ॥
दधिघृतनवनीतक्षीरतक्रोपयोगाद्
वरमपहृतसारो मण्डकुम्भोवभग्नः ।
न भवति बहुश्चोच्यं यद्वदेवं शरीरं
सुचरितहृतसारं नैति शोकोऽन्तकाले ॥
सुचरितविमुखानां गर्वितानां यदा तु
प्रसभमिह हि मृत्यु कायकुम्भं भिनत्ति ।
दहति हृदयमेषां शोकवन्हिस्तदानीं
दधिघत इव भग्ने सर्वशोऽप्राप्तसारे ॥
कर्तुं विघ्नमतो न मेऽर्हति भवान् कायप्रणामं प्रति
श्रेष्ठोऽस्मीत्यपरीक्षको हि गणयन्मोहान्धकारावृतः ।
कायं यस्तु परीक्षते दशबलव्याहारदीपैर्बुधः
नासौ पार्थिवभृत्ययोर्विस[ष]मतां कायस्य संपश्यति ॥
त्वङ्मांसास्थिशिरायाकृत्प्रभृतो भावा हि तुल्या नृणां
आहार्यैस्तु विभूषणैरधिकता कायस्य निष्पाद्यते ।
एतत्सारमिहेष्यते तु यदिमं निश्रित्य कायाधमं
प्रत्युत्थाननमस्कृतादि कुशलं प्राज्ञैः समुत्थाप्यते ।
इति ।
राजाशोकोपाख्यानं
अथाशोको राजा हि क्षोदकसिकतापिण्डैरण्डकाष्ठेभ्योऽपि असारतरत्वं कायस्यावेत्य, प्रणामादिभ्यः समुत्थस्य फलस्य बहुकल्पशः स्थापयित्वा सुमेरुवन्, महापृथिवीभ्यः सारतरतामवेक्ष्य भगवतः (आव्७५) स्तूपवन्दनायामात्मानमलङ्कर्तुकामोऽमात्यगणपरिवृतः कुक्कुटारामं गत्वा तत्र वृद्धान्ते स्थित्वा कृताञ्जलिरुवाच ।
अस्ति कश्चिदन्योऽपि निर्दिष्टः सर्वदर्शिना ।
यथाहं तेन निर्दिष्टं पांशुदानेन धीमता ॥
तत्र यशो नाम्ना सङ्घस्थविर उवाच । अस्ति महाराज । यदा भगवतः परिनिर्वाणकालसमयस्तदापलालं नागं दमयित्वा कुम्भकारीं चण्डालीं गोपालीं च नागं च मथुरामनुप्राप्तः ।
तत्र भगवानायुष्मन्तमानन्दमामन्त्रयत । अस्यामानन्द मथुरायां वर्षशतपरिनिर्वृतस्य तथागतस्य गुप्तो नाम्ना गान्धिको भविष्यति । तस्य पुत्रो भविष्यत्युपगुप्तो नाम्ना अववादकानामग्रः अलक्षणको बुद्धो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यति ।
पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिम् । एवं भदन्त । एष आनन्द उरुमुण्डो नाम पर्वतोऽत्र वर्षशतपरिनिर्वृतस्य तथागतस्य नटभटिका नामारण्यायतनं भविष्यति । एतदग्रं मे (आव्७६) आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदुत नटभटिका नामारण्यायतनम् । आह च ।
अववादकानां प्रवर उपगुप्तो महायशाः ।
व्याकृतो लोकनाथेन बुद्धकार्यं करिष्यति ॥
राजाह ।
किं पुनः स शुद्धसत्त्व उपपन्नः । अथाद्यापि नोत्पद्यत इति । स्थविर उवाच । उत्पन्नः स महात्मा उरुमुण्डे पर्वते जितक्लेशोऽर्हद्गणैः परिवृतस्तिष्ठति लोकानुकम्पार्थम् । अपि च देव ।
सर्वज्ञलीलो हि स शुद्धसत्त्वो धर्मं प्रणीतं वदते गणाग्रे ।
देवासुरेन्द्रोरगमानुषांश्च सहस्रशो मोक्षपुरं प्रणेता ॥
तेन खलु समयेनायुष्मानुपगुप्तोऽष्टादशभिरर्हत्सहस्रैः परिवृतो नटभटिकारण्यायतने प्रतिवसति । श्रुत्वा च राजामात्यगणानाहूय कथयति ।
संनाह्यतां हस्तिरथाश्वकायः शीघ्रं प्रयास्याम्युरुमुण्डशैलम् ।
द्रक्ष्यामि सर्वास्रव विप्रमुक्तं साक्षदर्हन्तः ह्युपगुप्तमार्यम् ॥
ततोऽमात्यैरभिहितः । देव दूतः प्रेषयितव्यो विषयनिवासी स देवस्य स्वयमेवागमिष्यति । राजाह । नासावस्माक अर्हत्यभिगन्तुं किंतु वयमेवार्हामस्तस्याभिगन्तुम् । अपि च ।
(आव्७७)
मन्ये वज्रमयं तस्य देहं शैलोपमाधिकम् ।
शास्तृतुल्योपगुप्तस्य यो ह्याज्ञामाक्षिपेन्नरः ॥
यावद्राज्ञा स्थविरोपगुप्तस्य सकाशं दूतः प्रेषितः स्थविरदर्शनाय आगमिष्यामीति । स्थविरोपगुप्तश्चिन्तयति । यदि राजागमिष्यति महाजनकायस्य पीडा भविष्यति । गोचरस्य च । ततः स्थविरेणाभिहितम् । स्वयमेवागमिष्यामीति ।
ततो राज्ञा स्थविरोपगुप्तस्यार्थे नौयानेनागमिष्यतीति यावच्च मथुरां यावच्च पाटलिपुत्रमन्तरान्नौसङ्क्रमोऽवस्थापितः । अथ स्थविरोपगुप्तो राज्ञोऽशोकस्य अनुग्रहार्थमष्टादशभिरर्हत्सहस्रैः परिवृतो नावमभिरुह्य पाटलिपुत्रमनुप्राप्तः ।
ततो राजपुरुषै राज्ञोऽशोकस्य निवेदितम् । देव दिष्ट्या वर्धस्व । अनुग्रहार्थं तव सोपगुप्तश्चित्तेश्वरः शासनकर्णधारः पुरस्कृतस्तीर्णभवौघपारैः सार्धं समभ्यागत एष पभ्द्याम् ।
श्रुत्वा च राज्ञा प्रीतमनसा शतसहस्रमूल्यो मुक्ताहारः स्वशरीरादवनीय प्रियाख्यायिनो दत्तः । घाण्टिकं चाहूय कथयति । घूष्यन्तां पातलिपुत्रे घण्टाः । स्थविरोपगुप्तस्यागमनं निवेद्यताम् । वक्तव्यम् ।
(आव्७८)

स्वर्गापवर्गाय च हेतुभूतं स पश्यतां कारुणिकोपगुप्तम् ॥
येभिर्न दृष्टो द्विपदप्रधानः शास्ता महाकारुणिकः स्वयम्भूः ।
ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्त्युदारं त्रिभवप्रदीपम् ॥
यावद्राज्ञा पाटलिपुत्रे घण्टां घोषयित्वा नगरशोभां च कारयित्वा अर्धतृतीयानि योजनानि गत्वा सर्ववाद्येन सर्वपुष्पगन्धमाल्येन सर्वपौरैः सर्वमात्यैः सह स्थविरोपगुप्तं प्रत्युद्गतः ।
ददर्श राजा स्थविरोपगुप्तं दुरत एव अष्टादशभिरर्हत्सहस्रैरर्धचन्द्रेणोपगुप्तम् । यदन्तरं च राजा स्थविरोपगुप्तमद्राक्षीत्तदन्तरं हस्तिस्कन्धादवतीर्य पद्भ्यां नदीतिरमभिगम्य एकं पादं नदीतीरे स्थाप्य द्वितीयं नौफलके स्थविरोपगुप्तं सर्वाङ्गेणानुपरिगृह्य नाव उत्तारितवान् । उत्तार्य च मूलनिकृत्त इव द्रुमः सर्वशरीरेणोपगुप्तस्य पादयोर्निपतितो मुखतुण्डकेन च पादावनुपरिमार्ज्य उत्थाय द्वौ जानुमण्डलौ पृथिवीतले निक्षिप्य कृताञ्जलिः स्थविरोपगुप्तं निरीक्षमाण उवाच ।
यदा मया शत्रुगणान्निहत्य प्राप्ता समुद्राभरणा सशैला ।
एकातपत्रा पृथिवी तदा मे प्रीतिर्न सा या स्थविरं निरीक्ष्य ॥
(आव्७९)
त्वद्दर्शनां मे द्विगुणप्रसादः संजायतेऽस्मिन् वरशासनाग्रे ।
त्वद्दर्शनाच्चैव परोपि शुद्धो दृष्टो मयाद्य अप्रतिमः स्वयम्भूः ॥
अपि च ।
शान्तिंगते कारुणिके जिनेन्द्रे त्वं बुद्धकार्यं कुरुषे त्रिलोके ।
नष्टे जगन्मोहनमीलिताक्षे त्वमर्कवज्ज्ञानवभासकर्ता ॥
त्वं शास्तृकल्पो जगदेकचक्षुरववादकानां प्रवरः शरण्यम् ।
विभो ममाज्ञां वद शीघ्रमद्य कर्तास्मि वाक्यं तव शुद्धसत्त्व ॥
अथ स्थविरोपगुप्तो दक्षिणेन पाणिना राजानं शिरसि परिमार्जयन्नुवाच ।
अप्रमादेन संपाद्य राजैश्वर्यं प्रवर्तताम् ।

अपि च महाराज तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन तव च मम शासनमुपन्यस्तं सत्त्वसारथिवरेण गणमध्ये परीत्तं परिपाल्यं यत्नतोऽस्माभिः । राजाह । स्थविर यथाहं निर्दिष्टो भगवता तदेवानुष्ठीयते । कुतः ।
स्तूपैर्विचित्रैर्गिरिश्रृङ्गकल्पैश्छत्रध्वजैश्चोच्छ्रितरत्नचित्रैः ।
संशोभिता मे पृथिवी समन्ताद्वैस्तारिका धातुधराः कृताश्च ॥
(आव्८०)
अपि च ।
आत्मा पुत्रो गृहं दाराः पृथिवी कोशमेव च ।
न किञ्चिदपरित्यक्तं धर्मराजस्य शासने ॥
स्थविरोपगुप्त आह । साधु साधु महाराज । एतदेवानुष्ठेयम् । कुतः ।
ये धर्ममुपजीवन्ति कायैर्भोगैश्च जीवितैः ।
गते काले न शोचन्ति इष्टं यान्ति सुरालयम् ॥
यावद्राजा महता श्रीसमुदयेन स्थविरोपगुप्तं राजकुले प्रवेशयित्वा सर्वाङ्गेणानुपरिगृह्य प्रज्ञप्त एवासने निषादयामास । स्थविरोपगुप्तस्य शरीरं मृदु सुमृदु । तद्यथा तूलपिशुर्वा कर्पासपिशुर्वा ।
अथ राजा स्थविरोपगुप्तस्य शरीरसंस्पर्शमवगम्य कृताञ्जलिरुवाच ।
मृदूनि तेऽङ्गानि उदारसत्त्व तूलोपमाङ्गं काशिकोपमं च ।
अहं त्वधन्यः खरकर्कशाङ्गो निःस्पर्शगात्रः परुषाश्रयश्च ॥
स्थविर उवाच ।
दानं मनापं सुशुभं प्रणितं दत्तं मया ह्यप्रतिपुद्गलस्य ।
न पांशुदानं हि मया प्रदत्तं यथा त्वयादायि तथागतस्य ॥
राजाह । स्थविर ।
बालभावादहं पूर्वं क्षेत्रं प्राप्य ह्यनुत्तरम् ।
पांशून् रोपितवांस्तत्र फलं यस्येदृशं मम ॥
(आव्८१)
अथ स्थविरो राजानं संहर्षयन्नुवाच । महाराज ।
पश्य क्षेत्रस्य माहात्म्यं पांशुर्यत्र विरुह्यते ।
राजश्रीर्येन ते प्राप्ता आधिपत्यमनुत्तरम् ॥
श्रुत्वा च राजा विस्मयोत्फुल्लनेत्रः अमात्यानाहूयोवाच ।
बलचक्रवर्तिराज्यं प्राप्तं मे पांशुदानमात्रेण ।
केन भगवन् भवन्तो नार्चयितव्यः प्रयत्नेन ॥
अथ राजा स्थविरोपगुप्तस्य पादयोर्निपत्योवाच । स्थविरोऽयं मे मनोरथो ये भगवता बुद्धेन प्रदेशा अद्युषितास्तानर्चेयम् । चिन्हानि च कुर्यां पश्चिमस्यां जनतायामनुग्रहार्थम् ।
स्थविर उवाच । साधु महाराज शोभनस्ते चित्तोत्पादः । अहं प्रदर्शयिष्याम्यधुना ।
बुद्धेनाध्युषिता देशास्तान्नमस्ये कृताञ्जलिः ।
गत्वा चिन्हानि तेष्वेव करिष्यामि न संशयः ॥
अथ राजा चतुरङ्गबलकायं संनाह्य गन्धमाल्यपुष्पमादाय स्थविरोपगुप्तसहायः संप्रस्थितः । अथ स्थविरोपगुप्तो राजानमशोकं सर्वप्रथमेन लुम्बिनीवनं प्रवेशयित्वा दक्षिणं हस्तमभिप्रसार्योवाच । अस्मिन्महाराज प्रदेशे भगवान् जातः । आह च ।
इदं हि प्रथमं चैत्यं बुद्धस्योत्तमचक्षुषः ।
जातमात्रेह स मुनिः प्रक्रान्तः सप्तपदं भुवि ॥
(आव्८२)
चतुर्दिशमवलोक्य वाचं भाषितवान् पुरा ।
इयं मे पश्चिमा जातिर्गर्भवासश्च पश्चिमः ॥
अथ राजा सर्वशरीरेण तत्र पादयोर्निपत्योत्थाय कृताञ्जलिः प्ररुदन्नुवाच ।
धन्यास्ते कृतपुण्याश्च यैर्दृष्टः स महामुनिः ।
प्रजातः संश्रुता यैश्च वाचस्तस्य मनोरमाः ॥
अथ स्थविरो राज्ञः प्रसादबुद्ध्यर्थमुवाच । महाराज किं द्रक्ष्यसि तां देवताम् ।
यया दृष्टः प्रजायन् स वनेऽस्मिन् वदतां वरः ।
क्रममाणः पदान् सप्त श्रुत्वा वाचो यया मुनेः ॥
राजाह । परं स्थविर द्रक्ष्यामि । अथ स्थविरोपगुप्तो यस्य वृक्षस्य शाखामवलम्बय देवी महामाया प्रसूता तेन दक्षिणहस्तमभिप्रसार्य उवाच ।
नैवासिका य इहाशोकवृक्षे सम्बुद्धदर्शिनी या देवकन्या ।
साक्षादसौ दर्शयतु स्वदेहं राज्ञो ह्यशोकस्य प्रसादवृद्ध्यै ॥
यावत्सा देवता स्वरूपेण स्थविरोपगुप्तसमीपे स्थित्वा कृताञ्जलिरुवाच । स्थविर किमाज्ञापयसि । अथ स्थविरो राजानमशोकमुवाच । महाराज इयं सा देवता ययां दृष्टो भगवाञ्जायमानः । अथ राजा कृताञ्जलिस्तां देवतामुवाच ।
दृष्ट्स्त्वया लक्षणभूषिताङ्गः प्रजायमानः कमलायताक्षः ।
श्रुतास्त्वया तस्य नरर्षभस्य वाचो मनोज्ञाः प्रथमा वनेऽस्मिन् ॥
(आव्८३)
देवता प्राह ।
मया हि दृष्टः कनकावदातः प्रजायमानो द्विपदप्रधानः ।
पादानि सप्त क्रममाण एव श्रुताश्च वाचा अपि तस्य शास्तुः ॥
राजाह । कथय देवते कीदृशी भगवतो जायमानस्य श्रीर्बभूवेति । देवता प्राह । न शक्यं मया वाग्भिः संप्रकाशयितुमपि तु संक्षेपतः श्रृणु ।
विनिर्मिताभा कनकावदाता सैन्द्रे त्रिलोके नयनाभिरामा ।
ससागरान्ता च मही सशैला महार्णवस्था इव नौश्चचाल ॥
यावद्राज्ञा जात्यां शतसहस्रं दत्तम् । चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः । अथ स्थविरोपगुप्तो राजानं कपिलवस्तु निवेशयित्वा दक्षिणहस्तमभिप्रसार्योवाच । अस्मिन् प्रदेशे महाराज बोधिसत्त्वो राज्ञः शुद्धोदनस्योपनामितः । तं द्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरमसेचनकदर्शनं च दृष्ट्वा राजा सर्वशरीरेण बोधिसत्त्वस्य पदयोर्निपतितः ।
इदं महाराज शाक्यवर्धं नाम देवकुलम् । अत्र बोधिसत्त्वो जातमात्र उपनीतो देवमर्चयिष्यतीति । सर्वदेवता च बोधिसत्त्वस्य पादयोर्निपतिता । ततो राज्ञा शुद्धोदनेन बोधिसत्त्वो देवतानामप्ययं देव इति तेन बोधिसत्त्वस्य देवातिदेव इति नामधेयं कृतम् । अस्मिन् प्रदेशे महाराज बोधिसत्त्वो ब्राह्मणानां नैमित्तिकानां विपश्चिकानामुपदर्शितः । अस्मिन् प्रदेशेऽसितेन ऋषिणा निर्दिष्टो बुद्धो लोके भविष्यतीति ।
(आव्८४)
अस्मिन् प्रदेशे महाराज महाप्रजापत्या संवर्धितः । अस्मिन् प्रदेशे लिपिज्ञानं शिक्षापितः । अस्मिन् प्रदेशे हस्तिग्रीवायामश्वपृष्ठे रथे शरधनुग्रहे तोमरग्रहेऽङकुशग्रहे कुलानुरूपासु विद्यासु पारगः संवृतः । इयं बोधिसत्त्वस्य व्यायामशाला बभूव । अस्मिन् प्रदेशे महाराज बोधिसत्त्वो देवताशतसहस्रैः परिवृतः षष्टिभिः स्त्रीसहस्रैः सार्धं रतिमनुभूतवान् ।
अस्मिन् प्रदेशे बोधिसत्त्वो जीर्णातुरमृतसंदर्शनोद्विग्नो वनसंश्रितः । अस्मिन् प्रदेशे जम्बुच्छायायां निषद्य विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखमनास्रवसदृशं प्रथमध्यानं समापन्नः । अथ परिणते मध्यान्हेऽतिक्रान्ते भक्तकालसमयेऽन्येषां वृक्षाणां छाया प्राचीननिम्ना प्राचीनप्रवणा प्राचीनप्राग्भारा जम्बुच्छाया बोधिसत्त्वस्य कायं न जहाति । दृष्ट्वा च पुनर्राजा शुद्धोदनः सर्वशरीरेण बोधिसत्त्वस्य पादयोर्निपतिताः । अनेन द्वारेण बोधिसत्त्वो देवताशतसहस्रैः परिवृतोऽर्धरात्रे कपिलवस्तुनो निर्गतः ।
अस्मिन् प्रदेशे बोधिसत्त्वेन छन्दकस्याश्वमाभरणानि च दत्त्वा प्रतिनिवर्तितः । आह च ।
छन्दकाभरणान्यश्वश्चास्मिन् प्रतिनिवर्तितः ।
निरुपस्थायको वीरः प्रविष्टैकस्तपोवनम् ॥
(आव्८५)
अस्मिन् प्रदेशे बोधिसत्त्वो लुब्धकसकाशात्काशिकैर्वस्त्रैः काषायाणि वस्त्राणी ग्रहाय प्रव्रजितः । अस्मिन् प्रदेशे भार्गवेणाश्रमेणोपनिमन्त्रितः । अस्मिन् प्रदेशे बोधिसत्त्वो राज्ञा बिम्बिसारेणार्धराज्येनोपनिमन्त्रितः । अस्मिन् प्रदेशे आराडोद्रकमभिगतः । आह च ।
उद्रकाराडका नाम ऋषयोऽस्मिन् तपोवने ।
अधिगतार्यसत्त्वेन पुरुषेन्द्रेण तापिताः ॥
अस्मिन् प्रदेशे बोधिसत्त्वेन षड्वर्षाणि दुष्करं चीर्णम् । आह च ।
षड्वर्षाणि हि कटुकं तपस्तप्त्वा महामुनिः ।
नायं मार्गो ह्यभिज्ञाया इति ज्ञात्वा समत्यजत् ॥
अस्मिन् प्रदेशे बोधिसत्त्वेन नन्दाया नन्दबलायाश्च ग्रामिकदुहित्रोः सकाशात्षोडशगुणितं मधुपायसं परिभुक्तम् ।
आह च ।
अस्मिन् प्रदेशे नन्दाया भुक्त्वा च मधुपायसम् ।
बोधिमूलं महावीरो जगाम वदतां वरः ॥
अस्मिन् प्रदेशे बोधिसत्त्वः कालिकेन नागराजेन बोधिमूलमभिगच्छन् संस्तुतः ।
(आव्८६)
आह च ।
कालिकभुजगेन्द्रेण संस्तुतो वदतां वरः ।
प्रयातोऽनेन मार्गेण बोधिमण्डेऽमृतार्थिकः ॥
अथ राजा स्थविरस्य पादयोर्निपत्य कृताञ्जलिरुवाच
अपि पश्येम नागेन्द्रं येन दृष्टस्तथागतः ।
व्रजानोऽनेन मार्गेण मत्तनागेन्द्रविक्रमः ॥
अथ कालिको नागराजः स्थविरसमीपे स्थित्वा कृताञ्जलिरुवाच । स्थविर किमाज्ञापयसीति । अथ स्थविरो राजानमुवाच । अयं स महाराज कालिको नागराजा येन भगवाननेन मार्गेण बोधिमूलं निर्गच्छन् संस्तुतः । अथ राजा कृताञ्जलिः कलिकं नागराजमुवाच ।
दृष्टस्त्वया ज्वलितकाञ्चनतुल्यवर्णः शास्ता ममाप्रतिसमः शरदेन्दुवक्त्रः ।
आख्याहि मे दशबलस्य गुणैकदेशं तत्कीदृशी वद हि श्रीः सुगते तदानीम् ॥
कालिक उवाच । न शक्यं वाग्भिः संप्रकाशयितुमपि तु संक्षेपं शृणु ।
चरणतलपराहतः सशैलो ह्यवनितलः प्रचचाल षड्विकारम् ।
रविकिरणविभाधिका नृलोके सुगतशशिद्युतिरक्षया मनोज्ञा ॥
(आव्८७)
यावद्राजा चैत्यं प्रतिष्ठाप्य प्रक्रान्तः । अथ स्थविरोपगुप्तो राजानं बोधिमूलमुपनामयित्वा दक्षिणं करमभिप्रसार्योवाच । अस्मिन् प्रदेशे महाराज बोधिसत्त्वेन महामैत्रीसहायेन सकलं मारबलं जित्वानुत्तरा सम्यक्सम्बोधिरभिसम्बुद्धा । आह च ।
इह मुनिवृषभेण बोधिमूले नमुचिबलं विकृतं निरस्तमाशु ।
इदममृतमुदारमग्र्यबोधि ह्यधिगतमप्रतिपुद्गलेन तेन ॥
यावद्राज्ञा बोधौ शतसहस्रं दत्तम् । चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः । अथ स्थविरोपगुप्तो राजानमशोकमुवाच । अस्मिन् प्रदेशे भगवान् चतुर्णां महाराजानां सकाशाच्चत्वारि शैलमयानि पात्राणि ग्रहाय एकपात्रमधियुक्तम् । अस्मिन् प्रदेशे त्रपुषभल्लिकयोर्वणिजोरपि पिण्डपात्रं प्रतिगृहीतम् । अस्मिन् प्रदेशे भगवान् वाराणसीमभिगच्छनुपगणेनाजीविकेन संस्तुतः । यावत्स्थविरो राजानमृषिपतनमुपनीय दक्षिणं हस्तमभिप्रसार्योवाच । अस्मिन् प्रदेशे महाराज भगवता त्रिपरिवर्तं द्वादशाकारं धार्म्यं धर्मचक्रं प्रवर्तितम् । आह च ।
शुभं धर्ममयं चक्रं संसारविनिवर्तये ।
अस्मिन् प्रदेशे नाथेन प्रवर्तितमनुत्तरम् ॥
अस्मिन् प्रदेशे जटिलसहस्रं प्रव्राजितम् । अस्मिन् प्रदेशे राज्ञो बिम्बिसारस्य धर्मं देशितम् । राज्ञा च बिम्बिसारेण सत्यानि दृष्टानि (आव्८८) चतुरशीतिभिश्च देवतासहस्रैरनेकैश्च मागधकैर्ब्राह्मणगृहपतिसहस्रैः । अस्मिन् प्रदेशे भगवता शक्रस्य देवन्द्रस्य धर्मो देशितः । शक्रेण च सत्यानि दृष्टानि चतुरशीतिभिश्च देवतासहस्रैः । अस्मिन् प्रदेशे महाप्रातिहार्यं विदर्शितम् । अस्मिन् प्रदेशे भगवान् देवेषु त्रयास्त्रिंशेषु वर्षा उषित्वा मातुर्जनयित्र्या धर्मं देशयित्वा देवगणपरिवृतः अवतीर्णः । विस्तरेण यावत्स्थविरो राजानमशोकं कुशिनगरीमुपनामयित्वा दक्षिणं करतलमभिप्रसार्योवाच । अस्मिन् प्रदेशे महाराज भगवान् सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । आह च ।
लोकं सदेवमनुजासुरयक्षनागमक्षय्यधर्मविनये मतिमान् विनीय ।
वैनेयसत्त्वविरहादुपशान्तबुद्धिः शान्तिं गतः परमकारुणिको महर्षिः ॥
श्रुत्वा च राजा मूर्च्छितः पतितः । यावज्जलपरिषेकं कृत्वोत्थापितः । अथ राजा कथंचित्संज्ञामुपलभ्य परिनिर्वाणे शतसहस्रं दत्त्वा चैत्यं प्रतिष्ठाप्य पादयोर्निपत्योवाच । स्थविर अयं मे मनोरथो ये च भगवता श्रावका अग्रतायां निर्दिष्टास्तेषां शरीरपूजां करिष्यामीति । स्थविर उवाच । साधु साधु महाराज । शोभनस्ते चित्तोत्पादः । स्थविरो राजानमशोकं जेतवनं प्रवेशयित्वा दक्षिणं करमभिप्रसार्योवाच । अयं महाराज स्थविरशारिपुत्रस्य स्तूपः । क्रियतामस्यार्चनमिति । राजाह । के तस्य गुणा बभूवुः । स्थविर उवाच । स हि द्वितीयशास्ता धर्मसेनाधिपतिर्धर्मचक्रप्रवर्तनः प्रज्ञावतामग्रो निर्दिष्टो भगवता ।
(आव्८९)
सर्वलोकस्य या प्रज्ञ स्थापयित्वा तथागतम् ।
शारिपुत्रस्य प्रज्ञायाः कलां नार्हति षोडशीम् ॥
आह च ।
सद्धर्मचक्रमतुलं यज्जिनेन प्रवर्तितम् ।
अनुवृत्तं हि तत्तेन शारिपुत्रेण धीमता ॥
कस्तस्य साधु बुद्धादन्यः पुरुषः शारद्वतस्येह ।
ज्ञात्वा गुणगणनिधिं वक्तुं शक्नोति निरवशेषात् ॥
ततो राजा प्रीतमनाः स्थविरशारद्वतीपुत्रस्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच ।
शारद्वतीपुत्रमहं भक्त्त्या वन्दे विमुक्तभवसङ्गम् । लोकप्रकाशकिर्तिं ज्ञानवतामुत्तमं वीरम् ॥
यावत्स्थविरोपगुप्तः स्थविरमहामौद्गल्यायनस्य स्तूपमुपदर्शयन्नुवाच । अयं महाराज स्थविरमहामौद्गल्यायनस्य स्तूपः । क्रियतामस्यार्चनमिति । रजाह । केतस्य गुणा बभूवुरिति । स्थविर उवाच । स हि ऋद्धिमतामग्रो निर्दिष्टो भगवता येन दक्षिणेन पादाङगुष्ठेन शक्रस्य देवेन्द्रस्य वैजयन्तः प्रासादः प्रकम्पितो नन्दोपनन्दौ नागराजानौ विनीतौ । आह च ।
शक्रस्य येन भवनं पादाङगुष्ठेन कम्पितम् ।
पूजनीयः प्रयत्नेन कोलितः स द्विजोत्तमः ॥
भुजगेश्वरौ प्रतिभयौ दान्तौ येनातिदुर्दमौ लोके ।
कस्तस्य शुद्धबुद्धेः पारं गच्छेद्गुणार्णवस्य ॥
यावद्राजा महामौद्गल्यायनस्य स्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच ।
(आव्९०)
ऋद्धिमतामग्रो यो जन्मजराशोकदुःखनिर्मुक्तः ।
मौद्गल्यायनं वन्दे मूर्ध्ना प्रणिपत्य विख्यातम् ॥
यावत्स्थविरोपगुप्तः स्थविरमहाकाश्यपस्य स्तूपमुपदर्शयन्नुवाच । अयं महाराज स्थविरमहाकाश्यपस्य स्तूपः । क्रियतामस्यार्चनमिति । राजाह । के तस्य गुणा बभूवुः । स्थविरोवाच । स हि महात्मापेच्छान्नां सन्तुष्टानां धूपगुणवादिनामग्रो निर्दिष्टो भगवता, अर्धासनेनोपनिमन्त्रितः श्वेतचीवरेणाच्छादितो दीनातुरग्राहकः शासनसंधरकश्चेति । आह च ।
पुण्यक्षेत्रमुदारं दीनातुरग्राहको निरायासः ।
सर्वज्ञचीवरधरः शासनसंधारको मतिमान् ॥
कस्तस्य गुरोर्मनुजो वक्तुं शक्तो गुणान्निरवशेषान् ।
आसनवरस्य सुमतिर्यस्य जिनो दत्तवानर्धम् ॥
ततो राजाशोकः स्थविरमहाकाश्यपस्य स्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच ।
पर्वतगुहानिलयमरणं वैरपराङमुखं प्रशमयुक्तम् ।
सन्तोषगुणविवृद्दं वन्दे खलु काश्यपं स्थविरम् ॥
यावत्स्थविरोपगुप्तः स्थविरबत्कुलस्य स्तूपं दर्शयन्नुवाच । अयं महाराज स्थविरबत्कुलस्य स्तूपः । क्रियतामर्चनमिति । राजाह । केतस्य गुणा बभूवुरिति ।
(आव्९१)
स्थविर उवाच । स महात्माल्पबाधानामग्रो निर्दिष्टो भगवता । अपि च न तेन कस्यचिद्द्विपदिका गाथा श्राविता । राजाह । दीयतामत्र काकणिः । यावदमात्यैरभिहितः । देव किमर्थं तुल्येष्ववस्थितेष्वत्र काकणी दीयत इति । राजाह । श्रूयतामत्राभिप्रायो मम ।
आज्ञाप्रदीपेन महोगृहस्थं हृतं तमो यद्यपि तेन कृत्स्नम् ।
अल्पेच्छभावान्न कृतं हि तेन यथा कृतं सत्त्वहितं तदन्यैः ॥
सा प्रत्याहता तस्यैव राज्ञः पादमूले निपतिता । यावदमात्या विस्मिता ऊचुः । अहो तस्य महात्मनोऽल्पेच्छता । बभूवानयाप्यनर्थी ।
यावत्स्थविरोपगुप्तः स्थविरानन्दस्य स्तूपमुपदर्शयन्नुवाच । अयं स्थविरानन्दस्य स्तूपः । क्रियतामस्यार्चनमिति । राजाह । के तस्य गुणा बभूवुरिति । स्थविर उवाच । स हि भगवत उपस्थायको बभूव । बहुश्रुतानामग्र्यो प्रवचनग्राहकश्चेति । आह च ।
मुनिपात्ररक्षणपटुः स्मृतिधृतिमतिनिश्चितः श्रुतसमुद्रः ।
विस्पष्टमधुरवचनः सुरनरमहिंतः सदानन्दः ॥
सम्बुद्धचित्तकुशलः सर्वत्र विचक्षणो गुणकरण्डः ।
जिनसंस्तुतो जितरणः सुरनरमहितः सदानन्दः ॥
(आव्९२)
यावद्राज्ञा तस्य स्तूपे कोटिर्दत्ता । यावदमात्यैरभिहितः । किमर्थमयं देव सर्वेषां सकाशादधिकतरं पूज्यते ।
राजाह । श्रूयतामभिप्रायः ।
यत्तच्छरीरं वदतां वरस्य धर्मात्मनो धर्ममयं विशुद्धम् ।
तद्धारितं तेन विशोकनाम्ना तस्माद्विशेषेण स पूजनीयः ॥
धर्मप्रदीपो ज्वलति प्रजासु क्लेशान्धकारान्तकरो यदद्य ।
तत्तत्प्रभावात्सुगतेन्द्रसूनोस्तस्माद्विशेषेण स पूजनीयः ॥
यथा सामुद्रं सलिलं समुद्रैर्धार्येत कच्चिन्न हि गोष्पदेन ।
नाथेन तद्धर्ममवेक्ष्य भावं सूत्रान्तकोऽयं स्थविरोऽभिषिक्तः ॥
अथ राजा स्थविराणां स्तूपार्चनं कृत्वा स्थविरोपगुप्तस्य पादयोर्निपत्य प्रीतिमना उवाच ।
मानुष्यं सफलीकृतमृतुशतैरिष्टेन यत्प्राप्यते
राज्यैश्वर्यगुणैश्चलैश्च विभवैः सारं गृहीतं परम् ।
लोकं चैत्यशतैरलङ्कृतमिदं स्वेताभ्रकूटप्रभैः
अस्याद्याप्रतिमस्य शासनकृते किं नो कृतं दुष्करम् ॥
इति ॥
(आव्९३)
यावद्राजा स्थविरोपगुप्तस्य प्रणामं कृत्वा प्रक्रान्तः ।
यावद्राज्ञाशोकेन जातौ बोधौ धर्कचक्रे परिनिर्वाणे एकैकशतसहस्रं दत्तम् । तस्य बोधौ विशेषतः प्रसादो जात इह भगवतानुत्तरा सम्यक्सम्बोधिरभिसम्बुद्धेति । स यानि विशेषयुक्तानि रत्नानि तानि बोधिं प्रेषयति ।
अथ राज्ञोऽशोकस्य तिष्यरक्षिता नामाग्रमहिषी । तस्या बुद्धिरुत्पन्ना । अयं राजा मया सार्धं रतिमनुभवति विशेषयुक्तानि च रत्नानि बोधौ प्रेषयति । तया मातङ्गी व्याहरिता । शक्यसि त्वं बोधिं मम सपत्नीं प्रघातयितुम् । तयाभिहितम् । शक्ष्यामि किन्तु कार्षापणान् देहीति ।
यावन्मातङ्ग्या बोधिवृक्षो मन्त्रैः परिजप्तः सूत्रं च बद्धम् । यावद्बोधिवृक्षः शोष्टुमारब्धः । ततो राजपुरुषै राज्ञे निवेदितम् । देव बोधिवृक्ष शुष्यत इति । आह च ।
यत्रोपविष्टेन तथागतेन कृत्स्नं जगब्दुद्धमिदं यथावद् ।
सर्वज्ञता चाधिगता नरेन्द्र बोधिद्रुमोऽसौ निधनं प्रयाति ॥
श्रुत्वा च राजा मुर्च्छितो भूमौ पतितः । यावज्जलसेकं दत्त्वा उत्थापितः । अथ राजा कथंचित्संज्ञामुपलभ्य प्ररुदन्नुवाच ।
दृष्ट्वा न्वहं तं द्रुमराजमूलं जानामि दृष्टोऽद्य मया स्वयम्भूः ।
नाथद्रूमे चैव गते प्रणाशं प्राणाः प्रयास्यन्ति ममापि नाशम् ।
(आव्९४)
अथ तिष्यरक्षिता राजानं शोकार्तमवेक्ष्योवाच । देव, यदि बोधिर्न भविष्यत्यहं देवस्य रतिमुत्पादयिष्यामि । राजाह । न सा स्त्री अपि तु बोधिवृक्षः । स यत्र भगवतानुत्तरा सम्यक्सम्बोधिरधिगत । तिष्यरक्षिता मातङ्गीमुवाच । शक्यसि त्वं बोधिवृक्षं यथापौराणमवस्थापयितुम् । मातङ्गी आह । यदि तावत्प्राणणुकमवशिष्टं भविष्यति, यथापौराणमवस्थापयिष्यामीति ।
विस्तरेण यावत्तया सूत्रं मुक्त्वा वृक्षं सामन्तेन खनित्वा दिवसे क्षीरकुम्भसहस्रेण पाययति । यावदल्पैरहोभिर्यथापौराणः संवृत्तः । ततो राजपुरुषै राज्ञे निवेदितम् । देव, दिष्ट्या वर्धस्व । यथापौराणः संवृत्तः । श्रुत्वा च प्रीतिमना बोधिवृक्षं निरीक्षमाण उवाच ।
बिम्बिसारप्रभृतिभिः पार्थिवेन्द्रैर्द्युतिन्धरैः ।
न कृतं तत्करिष्यामि सत्कारद्वयमुत्तमम् ॥
बोधिं च स्नापयिष्यामि कुम्भैर्गन्धोदकाकुलैः ।
सङ्घस्य च करिष्यामि सत्कारं पञ्चवार्षिकः ॥
अथ राजा सौवर्णरूप्यवैडूर्यस्फटिकमयानां कुम्भानां सहस्रं गन्धोदकेन पूरयित्वा प्रभूतं चान्नपानं समुदानीय गन्धमाल्यपुष्पसञ्चयं कृत्वा स्नात्वाहतानि वासांसि नवानि दीर्घदशानि प्रावृत्याष्टाङ्गसमन्वागतमुपवासमुपोष्य धूपकटच्छुकमादाय शरणतलमभिरुह्य (आव्९५) चतुर्दिशमायाचितुमारब्धः । ये भगवतो बुद्धस्य श्रावकास्ते ममानुग्रहायागच्छन्तु ।
अपि च ।
सम्यग्गता ये सुगतस्य शिष्याः शान्तेन्द्रिया निर्जितकामदोषाः ।
सम्माननार्हा नरदेवपूजिता अयान्तु तेऽस्मिन्ननुकम्पया मम ॥
प्रशमदमरता विमुक्तसङ्गाः प्रवरसुताः सुगतस्य धर्मराजाः ।
असुरसुरनरार्चितार्यवृत्तास्त्विह मदनुग्रहणात्समभ्युपेयुः ॥
वसन्ति काश्मीरपुरे सुरम्ये ये चापि धीरास्तमसोवनेऽस्मिन् ।
महावने रेवतके य आर्या अनुग्रहार्थं मम तेऽभ्युपेयुः ॥
अनवतप्तह्रदे निवसन्ति ये गिरिनदीषु च पर्वतकन्दरेः ।
जिनसुताः खलु ध्यानरताः सदा समुदयन्त्विह तेऽद्य कृपाबलाः ॥
शईरीषके ये प्रवरे विमाने वसन्ति पुत्रा वदतां वरस्य ।
अनुग्रहार्थं मम ते विशोका ह्यायान्तु कारुण्यनिविष्टभावाः ॥
गन्धमादनशैले च ये वसन्ति महौजसः ।
इहायान्तु हि कारुण्युमुत्पाद्योपनिमन्त्रिताः ॥
(आव्९६)
एवमुक्ते च राज्ञि त्रीणि शतसहस्राणि भिक्षूणां संनिपतितानि । तत्रैकं शतसहस्रमर्हतां द्वे शैक्षाणां पृथग्जनकल्याणकानां च । न कश्चिद्वृद्धासनमाक्रम्यते स्म । राजाह । किमर्थं वृद्धासनं तन्नाक्रम्यते । तत्र यशो नाम्ना वृद्धः षडभिज्ञः । स उवाच । महाराज वृद्धस्य तदासनमिति । राजाह । अस्ति स्थविर त्वत्सकाशादन्यो वृद्धतर इति । स्थविर उवाच । अस्ति महाराज । वदतां वरेण वशिना निर्दिष्टः सिंहनादिनामग्र्यः । पिण्डोलभरद्वाजस्यैतदग्रासनं नृपते ।
अथ राजा कदम्बपुष्पवदाहृष्टरोमकूपः कथयति । अस्ति कश्चिद्बुद्धदर्शी भिक्षुर्घ्रियत इति ।
स्थविर उवाच । अस्ति महारज पिण्डोलभरद्वाजो नाम्ना बुद्धदर्शी तिष्ठत इति ।
राजा कथयति । स्थविर, शक्यः सोऽस्माभिर्दृष्टिमिति । स्थविर उवाच । महाराज इदानीं द्रक्ष्यसि । अयं तस्य आगमनकाल इति । अथ राजा प्रीतिमाना उवाच ।
लाभः परः स्यादतुलो ममेह महासुखश्चायमनुत्तमश्च ।
पश्याम्यहं यत्तमुदारसत्त्वं साक्षाद्भरद्वाजसगोत्रनाम ॥
ततो राजा कृतकरपुटो गगनतलावसक्तदृष्टिरवस्थितः । अथ स्थविरपिण्डोलभरद्वाजोऽनेकैरर्हत्सहस्रैरर्धचन्द्राकारेणोपगूढो राजहंस (आव्९७) इव गगनतलादवतीर्य वृद्धान्ते निषसाद् । स्थविरपिण्डोलभरद्वाजं दृष्ट्वा तान्यनेकानि भिक्षुशतसहस्राणि प्रत्युपस्थितानि ।
अद्राक्षीद्राजा पिण्डोलभरद्वाजं श्वेतपलितशिरसं प्रलम्बुभ्रूललाटं निगूढाक्षितारकं प्रत्येकबुद्धाश्रयम् । दृष्ट्वा च राजा मूलनिकृत्त इव द्रुमः सर्वशरीरेण स्थविरपिण्डोलभरद्वाजस्य पादयोः पतितः । मुखतुण्डकेन च पादावनुपरिमार्ज्योत्थाय तौ जानुमण्डलौ पृथिवीतले प्रतिष्ठाप्य कृताञ्जलिः स्थविरपीण्डोलभरद्वाजं निरीक्षमाणः प्ररुदन्नुवाच ।

एकातपत्रा पृथिवी तदा मे प्रीतीर्न सा या स्थविरं निरीक्ष्य ॥
त्वद्दर्शनाद्भवति दृष्टोऽद्य तथागतः । करुणालाभात्त्वद्दर्शनाच्च द्विगुणप्रसादो ममोत्पन्नः । अपि च स्थविर दृष्टस्ते त्रैलोक्यनाथो गुरुर्मे भगवान् बुद्ध इति । ततः स्थविरपिण्डोलभरद्वाज उभाभ्यां पाणिभ्यां भ्रुवमुन्नाम्य राजानमशोकं निरीक्षमाण उवाच ।
दृष्टो मया ह्यसकृदप्रतिमो महर्षिः । सन्तप्तकाञ्चनसमोपमतुल्यतेजः ।
द्वात्रिंशलक्षणधरः शरदिन्दुवक्त्रो ब्राह्मस्वराधिकरणो ह्यरणाविहारी ॥
(आव्९८)
राजाह । स्थविर कुत्र ते भगवान् दृष्टः कथं चेति । स्थविर उवाच । यदा महाराज भगवान् विजितमारपरिवारः पञ्चभिरर्हच्छतैः सार्धं प्रथमतो राजगृहे वर्षामुषितोऽहं तत्कालं तत्रैवासम् । मया स दक्षिणीयः सम्यग्दृष्ट इति । आह च ।
वीतरागैः परिवृतो वीतरागो महामुनिः ।
यदा राजगृहे वर्षा उषितः स तथागतः ॥
तत्कालमासं तत्राहं सुबुद्धस्य तदन्तिके ।
यथ पश्यसि मां साक्षादेवं दृष्टो मया मुनिः ॥
यदापि महाराज भगवता श्रावस्त्यां तीर्थ्यान् विजयार्थं महाप्रातिहार्य कृतं बुद्धावतंसकं यावदकनिष्ठभवनं निर्मितं महत्तत्कालं तत्रैवाहमासम् । मया तद्बुद्धविक्रीडितं दुष्तमिति ।
आह च ।
तीर्थ्या यदा भगवता कुपथप्रयाता ऋद्धिप्रभावविधिना खलु निर्गृहीताः ।
विक्रीडीतं दशबलस्य तदा ह्युदारं दृष्टं मया तु नृप हर्षकरं प्रजानाम् ॥
यदापि महाराज भगवता देवेषु त्रयस्त्रिंशेषु वर्षा उषित्वा मातुर्जनयित्र्या धर्मं देशयित्वा देवगणपरिवृतः सांकाश्ये नगरेऽवतीर्णोऽहं तत्कालं तत्रैवासम् । मया सा देवमनुष्यसंपदा दृष्टा उत्पलवर्णया च निर्मिता चक्रवर्तिसंपदा इति ।
(आव्९९)
यदावतीर्णो वदतां वरिष्ठो वर्षामुषित्वा खलु देवलोके ।
तत्राप्यहं सन्निहितो बभूव दृष्टो मयासौ मुनिरग्रसत्त्वः ॥
यदा महाराज सुमागधया अनाथपिण्डदुहित्रा उपनिमन्त्रितः पञ्चभिरर्हच्छतैः सार्धमृद्ध्या पुण्डवर्धनं गतस्तदाहमृद्ध्या पर्वतशैलं ग्रहाय गगनतलमाक्रम्य पुण्डवर्धनं गतः । त्वन्निमित्तं च मे भगवताज्ञा क्षिप्ता । न तावत्ते परिनिर्वातव्यं यावद्धर्मो नान्तर्हित इति । आह च ।
यदा जगामर्द्धिबलेन नायकः सुमागधायोपनिमन्त्रितो गुरुः ।
तदा गृहीत्वर्द्धिबलेन पर्वतं जगाम तूर्णं खलु पुण्डवर्धनम् ॥
आज्ञा तदा शाक्यकुलोदितेन दत्ता च मे कारुणिकेन तेन ।
तावन्नते निर्वृतिरभ्युपेया अन्तर्हितो यावदयं न धर्मः ॥
यदापि महाराज त्वया पूर्वं बालभावाद्भगवतो राजगृहं पिण्डाय प्रविष्टस्य सक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तो राधगुप्तेन चानुमोदितं त्वं च भगवता निर्दिष्टोऽयं दारको वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरेऽशोको नाम राजा भविष्यति चतुर्भागचक्रवर्ती धार्मिको धर्मराजा यो मे शरीरधातुकं वैस्तारिकं करिष्यति चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यत्यहं तत्कालं तत्रैवासम् । आह च ।
यदा पांश्वञ्जलिर्दस्त्वया बुद्धस्य भाजने ।
बालभावात्प्रसादित्वा तत्रैवाहं तदाभवम् ॥
(आव्१००)
राजाह । स्थविर । कुत्रेदानीमुष्यत इति । स्थविर उवाच ।
उत्तरे सरराजस्य पर्वते गन्धमादने ।
वसामि नृपते तत्र सार्धं सब्रह्मचारिभिः ॥
राजाह । कियन्तः स्थविरस्य परिवाराः । स्थविर उवाच ।
षष्ट्यर्हन्तः सहस्राणि परिवारो नृणां वर ।
वसामि यैरहं सार्धं निष्पृहैर्जितकल्मषैः ॥
अपि च महाराज किमनेन सन्देहेन कृतेन । परिविष्यतां भिक्षुसङ्घः । भुक्तवतो भिक्षुसङ्घस्य प्रतिसंमोदनं करिष्यामि । राजाह । एवमस्तु यथा स्थविर आज्ञापयति । किन्तु बुद्धस्मृतिप्रतिबोधितोऽहं बोधिस्नपनं तावत्करिष्यामि । समनन्तरं च मनापेन चाहारेण भिक्षुसङ्घमुपस्थास्यामीति ।
अथ राजा सर्वमित्रमुद्घोषकमामन्त्रयति । अहमार्यसङ्घस्य शतसहस्रं दास्यामि । कुम्भसहस्रेण च बोधिं स्नापयिष्यामि । मम नाम्ना घुष्यतां पञ्चवार्षिकमिति ।
तत्कालं च कुनालस्य नयनद्वयमविपन्नमासीत् । स राज्ञो दक्षिणे पार्श्वे स्थितः । तेनांगुलिद्वयमुत्क्षिप्तं न तु वाग्भाषिता । द्विगुणं त्वहं प्रदास्यामीत्याकारयति । पाणौ वर्धितमात्रे च कुनालेन सर्वजनकायेन हास्यं मुक्तम् ।
ततो राजा हास्यं मुक्त्वा कथयति । अहो राधगुप्त केनैतद्वर्धितमिति ।
राधगुप्तः कथयति । देव बहवः पुण्यार्थिनः प्राणिनो यः पुण्यार्थी तेन वर्धितमिति ।
(आव्१०१)
राजाह । शतसहस्रत्रयं दास्यामीत्यार्यसङ्घे । कुम्भसहस्रेण च बोधिं स्नपयिष्यामि । मम नाम्ना घुष्यतां पञ्चवार्षिकमिति ।
यावत्कुनालेन चतस्रोऽङगुलय उत्क्षिप्ता । ततो राजा रूषितो राधगुप्तमुवाच । अहो राधगुप्त कोऽयमस्माभिः सार्धं प्रतिद्वन्द्वयति अलोकज्ञः ।
रुषितं च राजानमवेक्ष्य राधगुप्तो राज्ञः पादयोर्निपत्योवाच । देव कस्य शक्तिर्नरेन्द्रेण सार्धं विस्पर्धितुं भवेत् । कुनालो गुणवान् पित्रा सार्धं विकुरुते । अथ राजा दक्षिणेन परिवृत्य कुनालमवलोक्योवाच । स्थविर अहं कोशं स्थापयित्वा राज्यमन्तःपुरममात्यगणमात्मानं च कुनालं चार्यसङ्घे निर्यातयामि । सुवर्णरूप्यस्फटिकवैडूर्यमयैः पञ्चकुम्भसहस्रैर्नानागन्धपूर्णैः क्षीरचन्दनकुंकुमकर्पूरवासितैर्महाबोधिं स्नपयिष्यामि । पुष्पशतसहस्राणि च बोधिप्रमुखे चार्यसङ्घे ददामि । मम नाम्ना घुष्यतां पञ्चवार्षिकमिति । आह च ।
राज्यं समृद्धं हि संस्थाप्य कोशमन्तः पुरामात्यगणं च सर्वम् ।
ददामि सङ्घे गुणपात्रभूते आत्माकुनालं च गुणोपपन्नम् ॥
ततो राजा पिण्डोलभरद्वाजप्रमुखे भिक्षुसङ्घे निर्यातयित्वा बोधिवृक्षस्य च चतुर्दिशं वारं बद्ध्वा स्वयमेव च वारमभिरुह्य चतुर्भिः कुम्भसहस्रै र्बोधिस्नपनं कृतवान् । कृतमात्रे च बोधिस्नपने बोधिवृक्षो यथापौराणः संवृत्तः । वक्ष्यति हि ।
(आव्१०२)
कृतमात्रे नृपतिना बोधिस्नपनमुत्तमम् ।
बोधिवृक्षस्तदा जातो हरित्पल्लवकोमलः ॥
दृष्ट्वा हरितपत्राढ्यं पल्लवाङ्कुरकोमलम् ।
राजा हर्षपरं यातः सामात्यगणनैगमः ॥
अथ राजा बोधिस्नपनं कृत्वा भिक्षुसङ्घं परिवेष्टुमारब्धः । तत्र यशो नाम्ना स्थविरः । तेनाभिहितम् । महाराज महानयं परमदक्षिणीय आर्यसङ्घः संनिपतितः । तथा ते परिवेष्टव्यं यथा तेन क्षतिर्न स्यादिति ।
ततो राजा स्वहस्तेन परिवेषयन् यावन्नवकान्तं गतः । तत्र द्वौ श्रामणेरौ संरञ्जनीयं धर्मं समादाय वर्ततः । एकेनापि सक्तवो दत्ता द्वितीयेनापि सक्तवः । एकेन खाद्यका द्वितीयेनापि खाद्यका एव । एकेन मोदका द्वितीयेनापि मोदकाः । तौ दृष्ट्वा राजा हसितः । इमौ श्रामणेरौ बालक्रीडया क्रीडतः ।
यावद्राज्ञा भिक्षुसङ्घं परिवेष्य वृद्धान्तमारूढः । स्थविरेण चानुयुक्तः । मा देवेन कुत्रचिदप्रसाद उत्पादित इति ।
राजाह । नेति । अपि तु अस्ति द्वौ श्रामणेरौ बालक्रीडया क्रीडयो यथा बालदारकाः पांश्वागारैः क्रीडन्त्येवं तौ श्रामणेरौ सक्तुक्रीडया क्रीडतः खाद्यक्रीडया क्रीडतः ।
स्थविर उवाच । अलं महाराज । उभौ हि तौ उभयतो भागविमुक्तौ अर्हन्तौ ।
(आव्१०३)
श्रुत्वा च राज्ञः प्रीतिमनसो बुद्धिरुत्पन्ना । तौ श्रमणेरावागम्य भिक्षुसङ्घं पटेनाच्छादयिष्यामि । ततस्तौ श्रामणेरौ राज्ञोऽभिप्रायमवगम्य भूयोऽन्येऽस्माभिः स्वगुणा उभ्दावयितव्या इति [चिन्तितौ] । तयोरेकेन कटाहका उपस्थापिता द्वितीयेन रङ्गः समुदानीतः ।
राज्ञा पृष्टौ श्रामणेरकौ । किमिदमारब्धम् । तयोरभिहितम् । देवोऽस्माकमागम्य भिक्षुसङ्घं पटेनाच्छादितुकामः । तान् पटान् रञ्जयिष्यामः ।
श्रुत्वा च राज्ञो बुद्धिरुत्पन्ना । मया केवलं चिन्तितं न तु वाङ निश्चारिता । परचित्तविदावेतौ महात्मानौ । ततः सर्वशरीरेण पादयोर्निपत्यं कृताञ्जलिरुवाच ।
मौर्यः सभृत्यः सजनः सपौरः सुलब्धलाभार्थसुयष्टयज्ञः ।
यस्येदृशः साधुजन प्रसादः काले तथोत्साहि करोति दानम् ॥
यावद्राज्ञाभिहितम् । युष्माकमागम्य त्रिचीवरेण भिक्षुसङ्घमाच्छादयिष्यामीति । ततो राजाशोकः पञ्चवार्षिके पर्यवसिते सर्वभिक्षून् त्रिचीवरेणाच्छाद्य चत्वारि शतसहस्राणि सङ्घास्याच्छादनानि (आव्१०४) दत्त्वा पृथिवीमन्तःपुरममात्यगणमात्मानं च कुनालं च निष्क्रीतवान् । भूयसा भगवच्छासने श्रद्धा प्रतिलब्धा । चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम् । इति ।
(आव्१०५)
कुनालोपाख्यानं
यस्मिन्नेव दिवसे राज्ञाशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं तस्मिन्नेव दिवसे राज्ञोऽशोकस्य पद्मावती नाम्ना देवी प्रसूता । पुत्रो जातः अभिरूपो दर्शनीयः प्रासादिको नयनानि चास्य परशोभनानि ।
यावद्राज्ञोऽशोकस्य निवेदितम् । देव दिष्ट्या वृद्धिर्देवस्य पुत्रो जातः । श्रुत्वा राजा आत्तमनाः कथयति ।
प्रीतिः परा मे विपुला ह्यवाप्ता मौर्यस्य वंशस्य परा विभूतिः ।
धर्मेण राज्यं मम कुर्वतो हि जातः सुतो धर्मविवर्धनोऽस्तु ॥
तस्य धर्मविवर्धन इति नाम कृतम् । यावत्कुमारो राज्ञोऽशोकस्योपनामितः । अथ राजा कुमारं निरीक्ष्य प्रीतमनाः कथयति ।
सुतस्य मे नेत्रवरा सुपुण्या सुजातनीलोत्पलसंनिकाशा ।
अलङ्कतं शोभति यस्य वक्त्रं सम्पूर्णचन्द्रप्रतिमं विभाति ॥
यावद्राजामात्यानुवाच । दृष्टानि भवभ्दिः कस्येदृशानि नयनानि । अमात्या ऊचुः । देव मनुष्यभूतस्य न दृष्टानि । अपि तु देव, अस्ति हिमवति पर्वतराजे कुनालो नाम पक्षी प्रतिवसति । तस्य सदृशानि नयनानि । आह च ।
(आव्१०६)
हिमेन्द्रराजे गिरिशैलशृङ्गे प्रबालपुष्पप्रसवे जलाढ्ये ।
कुनालनाम्नेति निवासि पक्षी नेत्राणि तेनास्य समान्यमूनि ॥
ततो राज्ञाभिहितम् । कुनालः पक्षी आनीयतामिति ।
तस्योर्ध्वतो योजनं यक्षाः श्रृण्वन्ति । अधो योजनं नागाः । ततो यक्षिस्तत्क्षणेन कुनालः पक्षी आनीतः । अथ राजा कुनालस्य नेत्राणि सुचिरं निरीक्ष्य न किंचिद्विशेषं पश्यति । ततो राज्ञाभिहितम् । कुमारस्य कुनालसदृशानि नयनानि । भवतु कुमारस्य कुनाल इति नाम । वक्ष्यति हि ।
नेत्रानुरागेण स पार्थिवेन्द्रः सुतं कुनालेति तदा बभाषे ।
ततोऽस्य नाम प्रथितं पृथिव्यां तस्यार्यसत्त्वस्य नृपात्मजस्य ॥
विस्तरेण यावत्कुमारो महान् संवृत्तः । तस्य काञ्चनमाला नाम दारिका पत्न्यर्थे आनीता ।
यावद्राजाशोकः कुनालेन सह कुक्कुटारामं गतः । तत्र यशो नाम्ना सङ्घस्थविरः अर्हन् षडभिज्ञः । स पश्यति कुनालस्य न चिरान्नयनविनाशो भविष्यति ।
तेन राजाभिहितः । किमर्थं कुनालः स्वकर्मणि न नियुज्यते । ततो राज्ञाभिहितः । कुनाल सङ्घस्थविरो यदाज्ञापयति तत्परिपालयितव्यम् । ततः कुनालः स्थविरस्य पादयोर्निपत्य कथयति । स्थविर किमाज्ञापयसि । स्थविर उवाच । चक्षुःकुनाल अनित्यमिति कुरु । आह ।
(आव्१०७)
कुमार चक्षुः सततं परीक्ष्यं चलात्मकं दुःखसहस्रयुक्तम् ।
यत्रानुरक्ता बहवः पृथग्जनाः कुर्वन्ति कर्माण्यहितावहानि ॥
स च तथाभ्यासं करोति मनसिकारप्रयुक्तः । एकाभिरामः प्रशमारामश्च संवृत्तः । स राजकुले विविक्ते स्थानेऽवस्थितस्चक्षुरादीन्यायतनानि अनित्यादिभिराकारैः परीक्षते ।
तिष्यरक्षिता च नाम्नाशोकस्याग्रमहिषी तं प्रदेशमभिगता । सा तं कुनालमेकाकिनं दृष्ट्वा नयनानुरागेण गात्रेषु परिष्वज्य कथयति ।
दृष्ट्वा तवेदं नयनाभिरामं श्रीमद्वपुर्नेत्रयुगं च कान्तम् ।
दंदह्यते मे हृदयं समन्ताद्दावाग्निना प्रज्वलते च कक्षः ॥
श्रुत्वा कुनाल उभाभ्यां पाणिभ्यां कर्णौ पिधाय कथयति ।
वाक्यं न युक्तं तव वक्त्तुमेतत्सूनोः पुरस्ताज्जननी ममासि ।
अधर्ममार्गं परिवर्जयस्व अपायमार्गस्य स एव हेतुः ॥
ततस्तिष्यरक्षिता तत्कालमलभमाना ऋद्धा कथयति ।
अभिकामामभिगतां यत्त्वं नेच्छसि मामिह ।
न चिरादेव दुर्बुद्धे सर्वथा न भविष्यसि ॥
(आव्१०८)
कुनाल उवाच ।
मम भवतु मरणं मात स्थितस्य धर्मे विशुद्धभावस्य ।
न तु जीवितेन कार्यं सज्जनजनधिक्कृतेन मम ॥
स्वर्गस्य धर्मलोपो यतो भवति जीवितेन किं तेन ।
मम मरणहेतुना वै बुधपरिभूतेन धिक्कृतेन ॥
यावत्तिष्यरक्षिता कुनालस्य छिद्रान्वेषिणि अवस्थिता ।
राज्ञोऽशोकस्योत्तरापथे तक्षशिला नगरं विरुद्धम् । श्रुत्वा च राजा स्वयमेवाभिप्रस्थितः । ततोऽमात्यैरभिहितः । देव कुमारः प्रेष्यताम् ।
अथ राजा कुनालमाहूय कथयति । वत्स कुनाल गमिष्यसि तक्षशिलानगरं संनामयितुम् ।
कुनाल उवाच । परं देव गमिष्यामि ।
ततो नृपस्तस्य निशाम्य भावं पुत्राभिधानस्य मनोरथस्य ।
स्नेहाच्च योग्यं मनसा च बुद्द्वा आज्ञापयामास विहारयात्राम् ॥
अथ राजाशोको नगरशोभां मार्गशोभां च कृत्वा जीर्णातुरकृपणांश्च मार्गादपनीय एकरथेऽभिरुह्य कुमारेण सह पाटलिपुत्रान्निर्गतः । अनुव्रजित्वा निवर्तमानः कुनालं कण्ठे परिष्वज्य नयनं निरीक्षमाणः प्ररुदन्नुवाच ।
(आव्१०९)
धन्यानि तस्य चक्षूंषि चक्षुष्मन्तश्च ते जनाः ।
सततं ये कुमारस्य द्रक्ष्यन्ति दुखपङ्कजम् ॥
यावन्नैमित्तिको ब्राह्मणः पश्यति कुमारस्य न चिरान्नयनविनाशो भविष्यति । स च राजाशोकस्तस्य नयनेष्वत्यर्थमनुषुक्तः । दृष्ट्वा च कथयति ।
नृपात्मजस्य नयने विशुद्धे महीपतिश्चाप्यनुरक्तमस्य ।
श्रिया विवृद्धे हि सुखानुकूले पश्यामि नेत्रेऽद्य विनश्यमाने ॥
इदं पुरं स्वर्ग इव प्रहृष्टं कुमारसंदर्शनजातहर्षम् ।
पुरं विपन्ने नयने तु तस्य भविष्यते शोकपरीतचेतः ॥
अनुपूर्वेण तक्षशिलामनुप्राप्तः । श्रुत्वा च तक्षशिलापौरा अर्धत्रिकाणि योजनानि मार्गशोभां नगरशोभां च कृत्वा पूर्णकुम्भैः प्रत्युद्गताः । वक्ष्यति च ।
श्रुत्वा तक्षशिलापौरो रत्नपूर्णघटादिकान् ।
गृह्य प्रत्युज्जगामाशु बहुमान्य नृपात्मजम् ॥
प्रत्युद्गम्य कृताञ्जलिरुवाच । न वयं कुमारस्य विरुद्धा न राज्ञोऽशोकस्य । अपि तु दृष्टात्मानोऽमात्या आगत्यास्माकमपमानं कुर्वन्ति । यावत्कुनालो महता सम्मानेन तक्षशिलां प्रवेशितः ।
(आव्११०)
राज्ञश्चाशोकस्य महान् व्याधिरुत्पन्नः । तस्य मुखादुच्चारो निर्गन्तुमारब्धः । सर्वरोमकूपेभ्यश्चाशुचि प्रघरति न च शक्यते चिकित्सितुम् । ततो राज्ञाभिहितम् । कुनालमानयत राज्ये प्रतिष्ठापयिष्यामीति । किं ममेदृशेन जीवितेन प्रयोजनम् ।
श्रुत्वा च तिष्यरक्षिता चिन्तयति । यदि कुनालं राज्ये प्रतिष्ठापयिष्यति नास्ति मम जीवितम् । तयाभिहितम् । अहं त्वा स्वस्थं करिष्यामि किं तु वैद्यानां प्रवेशः प्रतिषिध्यताम् । यावद्राज्ञा वैद्यानां प्रवेशः प्रतिषिद्धः । ततस्तिष्यरक्षितया वैद्यानामभिहितम् । यदि कश्चिदीदृशेन व्याधिना स्पृष्टः स्त्री वा पुरुषो वागच्छति मम दर्शयितव्याः ।
अन्यतमश्चाभीरस्तादृशेनैव व्याधिना स्पृष्टः । तस्य पत्न्या वैद्याय व्याधिर्निवेदितः । वैद्येनाभिहितम् । स एवागच्छत्वातुरो व्याधिं दृष्ट्वा भैषज्यमुपदेक्ष्यामि । यावदाभीरो वैद्यसकाशमभिगतः । वैद्येन च तिष्यरक्षितायाः समीपमुपनीतः । ततस्तिष्यरक्षितया प्रतिगुप्ते प्रदेशे जीविताद्व्यपरोपितः । जीविताद्व्यपरोप्य कुक्षिं पाटयित्वा पश्यति च तस्य पक्वाशयस्थानम् । अन्त्रायां कृमिर्महान् प्रादुर्भूतः । स यद्यूर्ध्वं गच्छति तेनाशुचि प्रघरति । अथाघो गच्छत्यधः प्रघरति । यावत्तत्र मरिचान् पेषयित्वा दत्तो न च [स] म्रियते । एवं पिप्पलिं श्रृङ्गवेरं च । विस्तरेण यावत्पलाण्डुं दत्तः । स्पृष्टश्च (आव्१११) मृत उच्चारमार्गेण निर्गतः । एतच्च प्रकरणं तया राज्ञे निवेदितम् । देव पलाण्डुं परिभुंक्ष्व स्वास्थ्यं भविष्यति । राजाह । देवि, अहं क्षत्रियः कथं पलाण्डुं परिभक्षयामि । देव्युवाच । देव, परिभोक्तव्यं जीवितस्यार्थे भैषज्यमेतत् ।
राज्ञा परिभुक्तम् । स च कृमिर्मृत उच्चारमार्गेण निर्गतः । स्वस्थीभूतश्च राजा । तेन परितुष्टेन तिष्यरक्षिता वरेण प्रवारिता । किं ते वर प्रयच्छामि । तयाभिहितम् । सप्ताहं मम देवो राज्यं प्रयच्छतु । राजाह । अहं को भविष्यामि । देव्युवाच । सप्ताहस्यात्ययाद्देव एव राजा भविष्यति ।
यावद्राज्ञा तिष्यरक्षितायाः सप्ताहं राज्यं दत्तम् । तस्या बुद्धिरुत्पन्ना । इदानीं मयास्य कुनालस्य वैरं निर्यातयितव्यः । तया कपटलेखो लिखितस्तक्षशिलकानां पौराणाम् । कुनालस्य नयनं विनाशयितव्यमिति । आह च ।
राजा ह्यशोको बलवान् प्रचण्ड आज्ञापयत्तक्षशिलाजनं हि ।
उद्धार्यतां लोचनमस्य शत्रौर्मौर्यस्य वंशस्य कलङ्कु एषः ॥
राज्ञोऽशोकस्य यत्र कार्यमाशु परिप्राप्यं भवति [स] दन्तमुद्रया मुद्रयति । यावत्तिष्यरक्षिता शयितस्य राज्ञस्तं लेखं दन्तमुद्रया मुद्रयिष्यामीति राज्ञः सकाशमभिगता । राजा च भीतः प्रतिबुद्धः । (आव्११२) देवी कथयति । किमिदमिति । राजा कथयति । देवि स्वप्नं मंऽशोभनं दृष्टम् । पश्यामि द्वौ गृध्रौ कुनालस्य नयनमुत्पाटयितुमिच्छतः । देवी कथयति । स्वास्थ्यं कुमारस्येति । एवं द्विरपि राजा भीतः प्रतिबुद्धः कथयति । देवि स्वप्नो मे न शोभनो दृष्ट इति । तिष्यरक्षिता कथयति । कीदृशः स्वप्न इति । राजाह । पश्यामि कुनालं दीर्घकेशनखश्मश्रुं पौरं प्रविष्टम् । देव्याह । स्वास्थ्यं कुमारस्येति ।
यावत्तिष्यरक्षितया राज्ञः शयितस्य स लेखो दन्तमुद्रया मुद्रयित्वा तक्षशिलां प्रेषितः । यावद्राज्ञा शयितेन स्वप्ने दृष्टं दन्ता विशीर्णाः ।
ततो राजा तस्या एव रात्रेरत्यये नैमित्तिकानाहूय कथयति । कीदृश एषां स्वप्नानां विपाक इति । नैमित्तिकाः कथयन्ति । देव य ईदृशस्वप्नानि पश्यति तस्य पुत्रस्य चक्षुर्भेदो भवति । आह च ।
दन्ता यस्य विशीर्यन्ते स्वप्नान्ते प्रपतन्ति च ।
चतुर्भेदं च पुत्रस्य पुत्रनाशं स पश्यति ॥
श्रुत्वा च राजाशोकस्त्वरितमुत्थायासनात्कृताञ्जलिश्चतुर्दिशं देवतां याचयितुमारब्धः । आह च ।
या देवता शास्तुरभिप्रसन्ना धर्मे च सङ्घे च गणप्रधाने ।
ये चापि लोके ऋषयो वरिष्ठा रक्षन्तु तेऽस्मत्तनयं कुनालम् ॥
(आव्११३)
स च लेखोऽनुपूर्वेण तक्षशिलामुपनीतः । अथ तक्षशिलाः पौरजानपदा लेखदर्शनात्कुनालस्य गुणविस्तरतुष्टा नोत्सहन्ते तदप्रियं निवेदितुम् । चिरं विचारयित्वा चण्डो राजा दुःशीलः स्वपुत्रस्य न मर्षयति प्रागेवास्माकं [किं] मर्षयति । आह च ।
मुनिवृत्तस्य शान्तस्य सर्वभूतहितैषिणः ।
यस्य द्वेषः कुमारस्य कस्य नास्य भविष्यति ॥
तैर्यावत्कुनालस्य निवेदितम् । लेखश्चोपनीतः । ततः कुनालो वाचयित्वा कथयति । विश्रब्धं यथात्मप्रयोजनं क्रियतामिति । यावच्चण्डाला उपनीताः कुनालस्य नयनमुत्पाटयतेति । ते च कृताञ्जलिपुटा ऊचुः । नोत्सहयामः । कुतः ।
यो हि चन्द्रमसः कान्तिं मोहादभ्युद्धरेन्नरः ।
स चन्द्रसदृशाद्वक्त्रात्तव नेत्रे समुद्धरेत् ॥
ततः कुमारेण मकुटं दत्तम् । अनया दक्षिणयोत्पाटयत इति । तस्य तु कर्मणावश्यं विपक्तव्यम् । पुरुषो हि विकृतरूपोष्टादशभिर्दौर्वर्णिकैः (आव्११४) समन्वागतोऽभ्यागतः । स कथयति । अहमुत्पाटयिष्यामीति । यावत्कुनालस्य समीपं नीतः । तस्मिंश्च समये कुनालस्य स्थविराणां वचनमामुखीभूतम् । स तद्वचनमनुस्मृत्योवाच ।
इमां विपत्तिं विज्ञाय तैरुक्तं तत्त्ववादिभिः ।
पश्यानित्यमिदं सर्वं नास्ति कश्चिद्ध्रुवे स्थितः ॥
कल्याणमित्रास्ते मह्यं सुखकामा हितैषिणः ।
यैरयं देशितो धर्मो वीतक्लेशैर्महात्मभिः ॥
अनित्यतां संपरिपश्यतो मे गुरूपदेशान्मनसि प्रकुर्वतः ।
उत्पाटनेऽहं न बिभेमि सौम्य नेत्रद्वयस्यास्थिरतां हि पश्ये ॥
उत्पाट्ये वा न वा नेत्रे यथा वा मन्यते नृपः ।
गृहीतसारं चक्षुर्मे ह्यनित्यादिभिराश्रयैः ॥
ततः कुनालस्तं पुरुषमुवाच । तेन हि भोः पुरुष एकं तावन्नयनमुत्पाट्य मम हस्तेऽनुप्रयच्छ । यवत्स पुरुषः कुनालस्य नयनमुत्पाटयितुं प्रवृत्तः । ततोऽनेकानि प्राणिशतसहस्राणि विक्रोष्टुमारब्धानि । कष्टं भोः ।
(आव्११५)
एष हि निर्मलज्योत्स्नो गगनात्पतते शशी ।
पुण्डरीकवनाच्चापि श्रीमानुत्पाट्यतेऽम्बुजः ॥
तेषु प्राणिशतसहस्रेषु रुदत्सु कुनालस्यैव नयनमुत्पाट्य हस्ते दत्तम् । ततः कुनालस्तन्नयनं गृह्योवाच ।
रूपाणि कस्मान्न निरीक्षसे त्वं यथा पुरा प्राकृतमांसपिण्ड ।
ते वञ्चितास्ते च विगर्हणीया आत्मेति ये त्वामबुधाः श्रयन्ते ॥
सामग्र्यकं बुर्बुदसन्निकाशं सुदुर्लभं निर्विषयास्वतन्त्रम् ।
एवं प्रवीक्षन्ति सदाप्रमत्ता ये त्वां न ते दुःखमनुप्रयान्ति ॥
एवं चिन्तयता तेन सर्वभावेष्वनित्यताम् ।
स्त्रोतापत्तिफलं प्राप्तं जनकायस्य पश्यतः ॥
ततः कुनालो दृष्टसत्यस्तं पुरुषमुवाच । इदानीं द्वितीयं विश्रब्धं नयनमुत्पाट्यताम् । यावत्तेन पुरुषेण कुनालस्य द्वितीयं नयनमुत्पाट्य हस्ते दत्तम् । अथ कुनालो मांसचक्षुषि उद्धृते प्रज्ञाचक्षुषि च विशुद्धे कथयति ।
उद्धृतं मांसचक्षुर्मे यद्यप्येतत्सुदुर्लभम् ।
प्रज्ञाचक्षुर्विशुद्धं मे प्रतिलब्धमनिन्दितम् ।
(आव्११६)
परित्यक्तो नृपतिना यद्यहं पुत्रसंज्ञया ।
धर्मराजस्य पुत्रत्वमुपेतोऽस्मि महात्मनः ॥
ऐश्वर्याद्यद्यहं भ्रष्टः शोकदुःखनिबन्धनाद् ।
धर्मैश्वर्यमवाप्तं मे दुःखशोकविनाशनम् ॥
यावत्कुनालेन श्रुतं नायं तातस्याशोकस्य आदेशः । अपि तु तिष्यरक्षितायामयं प्रयोग इति । श्रुत्वा च कुनालः कथयति ।
चिरं सुखं तिष्ठतु तिष्यनाम्नी आयुर्बलं पालयतां च देवी ।
संप्रेषितोयं हि यया प्रयोगो यस्यानुभावेन कृतः स्वकार्थः ॥
ततः काञ्चनमालया श्रुतं कुनालस्य नयनानि उत्पाटितानीति । श्रुत्वा च भर्तृतया कुनालसमीपमुपसंक्रम्य पर्षदमवगाह्य कुनालमुद्धृतनयनं रुधिरावसिक्तगात्रं दृष्ट्वा मूर्छिता भूमौ पतिता । यावज्जलसेकं कृत्वा उत्थापिता ।
ततः कथंचित्संज्ञामुपलभ्य सस्वरं प्ररुदती उवाच ।
नेत्राणि कान्तानि मनोहराणि ये मां निरीक्ष्या जनयन्ति तुष्टिम् ।
ते मे विपन्ना ह्यनिरीक्षणीया स्त्यजन्ति मे प्राणसमाः शरीरम् ॥
ततः कुनालो भार्यामनुनयन्नुवाच । अलं रुदितेन । नार्हसि शोकमाश्रयितुम् । स्वयंकृतानामिह कर्मणां फलमुपस्थितम् । आह च ।
कर्मात्मकं लोकमिदं विदित्वा दुःखात्मकं चापि जनं हि मत्वा ।
मत्वा च लोकं प्रियविप्रयोगं कर्तुं प्रिये नार्हसि वाष्पमोक्षम् ॥
(आव्११७)
ततः कुनालो भार्यया सह तक्षशिलाया निष्कासितः । स गर्भाधानमुपादाय परमसुकुमारशरिरः । न किञ्चिदुत्सहते कर्म कर्तुम् । केवलं वीणां वादयति । गायति च । ततो भैक्ष्यं लभते कुनालः पत्न्या सह भुंक्ते ।
ततः काञ्चनमाला येन मार्गेण पातलिपुत्रादानीता तमेव मार्गंमनुसरन्ती भर्तुद्वितीया पाटलिपुत्रं गता । यावदशोकस्य गृहमारब्धा प्रवेष्टुम् । द्वारपालेन च निवारितौ । यावद्राज्ञोऽशोकस्य यानशालायामवस्थितौ ।
ततः कुनालो रात्र्याः प्रत्युषमये वीणां वादयितुमारब्धः । यथा नयनान्युत्पाटितानि सत्यदर्शनं च कृतं तदनुरूपं हितं च गीतं प्रारब्धम् । आह च ।
चक्षुरादीनि यः प्राज्ञः पश्यत्यायतनानि च ।
ज्ञानदीपेन शुद्धेन स संसाराद्विमुच्यते ॥
यदि तव भवदुःखपीडिता भवति च दोषविनिश्चिता मतिः ।
सुखमिह च यदीच्छसि ध्रुवं त्वरितमिहायतनानि संत्यज ॥
(आव्११८)
तस्य गीतशब्दो राज्ञाशोकेन श्रुतः । श्रुत्वा च प्रीतमना उवाच ।
गीतं कुनालेन मयि प्रसक्तं वीणास्वरश्चैव श्रुतश्चिरेण ।
अभ्यागतोऽपीह गृहं नु कञ्चिन्न चेच्छति द्रष्टुमयं कुमारः ॥
अथ राजाशोकोऽन्यतमपुरुषमाहूयोवाच । पुरुष लक्ष्यते ।
न खल्वेष किं गीतस्य कुनालसदृशो ध्वनिः ।
कर्मण्यधैर्यतां चैव सूचयन्निव लक्ष्यते ॥
तदनेनास्मि शब्देन धैर्यादाकम्पितो भृशम् ।
कलभस्येव नष्टस्य प्रनष्टकलभः करी ॥
गच्छ कुनालमानयस्वेति । यावत्पुरुषो यानशालां गतः । पश्यति कुनालमुद्धृतनयनं वातातपपरिदग्धगात्रमप्रत्यभिज्ञाय च राजानमशोकमभिगम्योवाच । देव न ह्येष कुनालः । अन्धक एष वनीपकः पत्न्या सह देवस्य यानशालायामवस्थितः । श्रुत्वा च राजा संविग्नश्चिन्तयामास । यथा मया स्वप्नान्यशोभनानि दृष्टानि नियतं कुनालस्य नयनानि विनष्टानि भविष्यन्ति । आह च ।
स्वप्नान्तरे निमित्तानि यथा दृष्टानि मे पुरा ।
निःसंशयं कुनालस्य नेत्रे वै निधनं गते ॥
ततो राजा प्ररुदन्नुवाच ।
शीघ्रमानीयतामेष मत्समीपं वनीपकः ।
न हि मे शाम्यते चेतः सुतव्यसनचिन्तया ॥
यावत्पुरुषो यानशालां गत्वा कुनालमुवाच । कस्य त्वं पुत्रः । किं च नाम । कुनालः प्राह ।
(आव्११९)
अशोको नाम राजासौ मौर्याणां कुलवर्धनः ।
कृत्स्नेयं पृथिवी यस्य वशे वर्तति किंकर ॥
तस्य राज्ञस्त्वहं पुत्रः कुनाल इति विश्रुतः ।
धार्मिकस्य तु पुत्रोऽहं बुद्धस्य आदित्यबान्धवः ॥
ततः कुनाल पत्न्या सह राज्ञोऽशोकस्य समीपमानीतः । अथ राजाशोकः [पश्यति] कुनालमुद्धृतनयनं वातातपपरिदग्धगात्रं रथ्याचोडकसंघातप्रत्यवरेण वाससा लक्ष्यालक्ष्यप्रच्छादितकौपीनम् । स तमप्रत्यभिज्ञाय आकृतिमात्रकं दृष्ट्वा कथयति । त्वं कुनाल इति । कुनालः प्राह । एवं देव कुनालोऽस्मीति । श्रुत्वा मूर्च्छितो भूमौ पतितः । वक्ष्यति हि ।
ततः कुनालस्य मुखं निरीक्ष्य नेत्रोद्धृतं शोकपरीतचेताः ।
राजा ह्यशोकः पतितो धरण्यां हा पुत्र शोकेन हि दह्यमानः ॥
यावज्जलपरिषेकं कृत्वा राजानमुत्थापयित्वासने निषादितः । अथ राजा कथञ्चित्संज्ञामुपलभ्य कुनालमुत्सङ्गे स्थापयामास । वक्ष्यति हि ।
ततो मुहूर्तं नृप आश्वसित्वा कण्ठे परिष्वज्य रसाश्रुकण्ठः ।
मुहुः कुनालस्य मुखं प्रमृज्य बहूनि राजा विललाप तत्र ॥
नेत्रे कुनालप्रतिमे विलोक्य सुतं कुनालेति पुरा बभासे ।
तदस्य नेत्रे निधनं गते ते पुत्रं कुनालेति कथं च वक्ष्ये ॥
आह च ।
कथय कथय साधुपुत्र तावद्वदनमिदं तव केन चारुनेत्रम् ।
(आव्१२०)
गगनमिव विपन्नचन्द्रतारं व्यपगतशोभमनीक्षकं कृतं ते ॥
अकरुणहृदयेन तेन तात मुनिसदृशस्य न साधु साधुबुद्धेः ।
नरवरनयनेष्ववैरवैरं प्रकृतमिदं मम भूरिशोकमूलम् ॥
वद सुवदन क्षिप्रमेतदर्थं व्रजति शरीरमिदं पुरा विनाशम् ।
तव नयनविनाशशोकदग्धं वनमिव नागविमुक्तवज्रदग्धम् ॥
ततः कुनालः पितरं प्रणिपत्य उवाच ।
राजन्नतीतं खलु नैव शोच्यं किं न श्रुतं ते मुनिवाक्यमेतत् ।
यत्कर्मभिस्तेऽपि जिना न मुक्ताः प्रत्येकबुद्धाः सुदृढैस्तथैव ॥
लब्धाफलस्थाश्च पृथग्जनाश्च ये कृतानि कर्माण्यमृतानि देहिनाम् ।
स्वयं कृतानामिह कर्मणां फलं कथं तु वक्ष्यामि परैरिदं कृतम् ॥
(आव्१२१)
अहमेव महाराज कृतापराधश्च सापराधश्च । विनिवर्तयामि योऽहं विनयामि विपत्तिजननानि ।
न शस्त्रवज्राग्निविषाणि पन्नगाः कुर्वन्ति पीडां रभसापकारिणः ।
शरीरलक्ष्ये हि धृते हि पार्थिव पतन्ति दुःखान्यशिवानि देहिनाम् ॥
अथ राजा शोकाग्निना संतापितहृदय उवाच ।
केनोद्धृतानि नयनानि सुतस्य मह्यं को जीवितं सुमधुरं त्यजितुं व्यवस्तः ।
शोकानलो निपतितो हृदये प्रचण्डः आचक्ष्व पुत्र लघु कस्य हरामि दण्डम् ॥
यावद्राज्ञाशोकेन श्रुतं तिष्यरक्षिताया अयं प्रयोग इति । श्रुत्वा राजा तिष्यरक्षितामाहूयोवाच ।
(आव्१२२)
कथं ह्यधन्ये न निमज्जसे क्षितौ छेत्तास्मि शीर्षं परशुप्रहारितम् ।
त्यजाम्यहं त्वामतिपापकारिणीमधर्मयुक्तां श्रियमात्मवानिव ॥
ततो राजा क्रोधाग्निना प्रज्वलितस्तिष्यरक्षितां निरीक्ष्योवाच ।
उत्पाट्य नेत्रे परिपाटयामि गात्रं किमस्या नखरैः सुतीक्ष्णैः ।
जीवन्तिशूलामथ कारयामि छेत्तास्मि नासां क्रकचेन वास्याः ॥
क्षूरेण जिव्हामथ कर्तयामि विषेण पूर्णामथ घाटयिष्ये ।
स एवमित्यादिवघप्रयोगं बहुप्रकारं ह्यवदन्नरेन्द्रः ॥
श्रुत्वा कुनालः करुणात्मकस्तु विज्ञापयामास गुरुं महात्मा ।
अनार्यकर्मा यदि तिष्यरक्षिता त्वमार्यकर्मा भव मा वधी स्त्रियम् ॥
फलं हि मैत्र्या सदृशं न विद्यते प्रभो तितिक्षा सुगतेन वर्णिता ।
(आव्१२३)
पुनः प्रणम्य पितरं कुमारः कृताञ्जलिः सूनृतवाग्जगाद ॥
राजन्न मे दुःखलवोऽस्ति कश्चित्तीव्रापकारेऽपि न मन्युतापः ।
मनः प्रसन्नं यदि मे जनन्यां ययोद्धृते मे नयने स्वयं हि ।
तत्तेन सत्येन ममास्तु तावन्नेत्रद्वयं प्राक्तनमेव सद्यः ॥
इत्युक्तमात्रे पूर्वाधिकप्रशोभिते नेत्रयुग्मे प्रादुर्बभूवतुः । यावद्राज्ञाशोकेन तिष्यरक्षितामर्षितेन जतुगृहं प्रवेशयित्वा दग्धा । तक्षशिलाश्च पौराः प्रघातिताः ।
भिक्षवः संशयजाताः सर्वसंशयछेत्तारमायुष्मन्तं स्थविरोपगुप्तं पृच्छति । किं कुनालेन कर्म कृतं यस्य कर्मणो विपाकेन नयनान्युत्पाटितानि ।
स्थविर उवाच । तेन ह्यायुष्मन्तः श्रूयताम् ।
भूतपूर्वमतीतेऽध्वनि वाराणस्यामन्यतमो लुब्धकः । स हिमवन्तं गत्वा मृगान् प्रघातयति । सोऽपरेण समयेन हिमवन्तं गतः । तत्र चाशनिपतितानि पञ्चमृगशतनि एकस्या गुहायां प्रविष्टान्यासादितानि । तेन वागुरया सर्वे गृहीताः । तस्य बुद्धिरुत्पन्ना । यदि (आव्१२४) प्रघातयिष्यामि मांसः क्लेदमुपयास्यति । तेन पञ्चानां मृगशतानामक्षीण्युत्पाटितानि । ते उद्धृतनयना न क्वचित्पलायन्ति । एवं बहूनां मृगशतानां नयनान्युत्पाटितानि ।
किं मन्यध्वमायुष्मन्तः । योऽसौ लुब्धकः स एष कुनालः । यत्तत्रानेन बहूनां मृगशतानां नयनान्युत्पाटितानि तस्य कर्मणो विपाकेन बहूनि वर्षशतसहस्राणि नरकेषु दुःखमनुभूय ततः कर्मविशेषेण पञ्चजन्मशतानि तस्य नयनान्युत्पाटितानि ।
किं कर्म कृतं यस्य कर्मणो विपाकेनोच्चे कूले उपपन्नः । प्रासादिकश्च संवृत्तः । सत्यदर्शनं च कृतम् ।
तेन ह्यायुष्मन्तः श्रूयताम् ।
भूतपूर्वमतीतेऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्सम्बुद्धो लोक उदपादि ।
यदा क्रकुच्छन्दः सम्यक्सम्बुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्याशोकेन राज्ञा चतूरत्नमयः स्तूपः कारितः । यदा राजाशोकः कालगतोऽश्राद्धो राजा राज्ये प्रतिष्ठितः । तानि रत्नान्यदत्तादायिकैर्हृतानि । पांशुकाष्ठं चावशिष्टम् । तत्र जनकायो गत्वा विशीर्णं दृष्ट्वा शोचितुमारब्धः ।
(आव्१२५)
तस्मिंश्च समयेन्यतमश्च श्रेष्ठिपुत्रः । तेनोक्तः । किमर्थं रुद्यत इति । तैरभिहितं क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य स्तूपश्चतूरत्नमय आसीत् । स इदानीं विशीर्णमिति ।
ततस्तेन या तत्र क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य कायप्रमाणिका प्रतिमा बभूव विशीर्णा साभिसंस्कृता । सम्यक्प्रणिधानं च कृतम् । यादृशः क्रकुच्छन्दः शास्तेदृशमेव शास्तारमारागयेयम् । मा विरागयेयमिति ।
किं मन्यध्वमायुष्मन्तः । योऽसौ श्रेष्ठिपुत्रः स एष कुनालः । यत्रानेन क्रकुच्छन्दस्य स्तूपोऽभिसंस्कृतस्तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः । यत्प्रतिमाभिसंस्कृता तस्य कर्मणो विपाकेन कुनालः प्रासादिकः संवृत्तः । यत्प्रणिधानं कृतं तस्य कर्मणो विपाकेन कुनालेन [यादृशः] शाक्यमुनिः सम्यक्सम्बुद्धस्तादृश एव शास्ता समारागितो न विरागितः । सत्यदर्शनं च कृतम् ।
इति श्रीदिव्यावदाने कुनालावदनं सप्तविंशतिमं समाप्तम् ॥
(आव्१२६)
अशोकावदानं
यदा राज्ञाशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा स भिक्षूनुवाच । केन भगवच्छासने प्रभूतं दानं दत्तम् । भिक्षव ऊचुः । अनाथपिण्डदेन गृहपतिना । राजाह । कियत्तेन भगवच्छासने दानं दत्तम् । भिक्षव ऊचुः । कोटिशतं तेन भगवच्छासने दानं दत्तम् । श्रुत्वा च राजाशोकश्चिन्तयति । तेन गृहपतिना भूत्वा कोटिशतं भगवच्छासने दानं दत्तम् । तेनाभिहितम् । अहमपि कोटीशतं भगच्छासने दानं दास्यामि ।
तेन यावच्चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम् । सर्वत्र च शतसहस्राणि दत्तानि । जातौ बोधौ धर्मचक्रे परिनिर्वाणे च सर्वत्र शतसहस्रं दत्तम् । पञ्चवार्षिकं कृतम् । तत्र च चत्वारि शतसहस्राणि दत्तानि । त्रीणि शतसहस्राणि भिक्षूणां भोजितानि । यत्रैकमर्हतां द्वे शैक्षाणां पृथग्जनकल्याणकानां च । कोषं स्थापयित्वा महापृथिवीमन्तःपुरामात्यगणमात्मानं कुनालं चार्यसङ्घे निर्यातयित्वा चत्वारि शतसहस्राणि दत्त्वा निष्क्रीतवान् । षण्णवतिकोट्यो भगवच्छासने दानं दत्तम् । स यावद्ग्लानीभूतः । अथ राजा इदानीं न भविष्यामीति विक्लवीभूतः ।
तस्य राधगुप्तो नामामात्यो येन सह पांशुदानं दत्तम् । तदा स राजानमशोकं विक्लवीभूतमवेक्ष्य पादयोर्निपत्य कृताञ्जलिरुवाच ।
(आव्१२७)
यच्छत्रुसङ्घैः प्रबलैः समेत्य नोद्वीक्षितं चण्डदिवाकराभम् ।
पद्माननश्रीशतसंप्रपीतं कस्मात्सवाष्पं तव देव वक्त्रम् ॥
राजाह । राधगुप्त, नाहं द्रव्यविनाशं न राज्यनाशनं न चाश्रयवियोगं शोचामि । किन्तु शोचामि, आर्यैर्यद्, विप्रयोक्ष्यामि ।
नाहं पुनः सर्वगुणोपपन्नं सङ्घं समक्षं नरदेवपूजितम् ।
संपूजयिष्यामि वरान्नपानैरेतद्विचिन्त्याश्रुविमोक्षणं मे ॥
अपि च राधगुप्त, अयं मे मनोरथो बभूव, कोटीशतं भगवच्छासने दानं दास्यामीति । स च मेऽभिप्रायो न परिपूर्णः ।
ततो राज्ञाशोकेन चतस्रः कोटीः परिपुरयिष्यामीति हिरण्यसुवर्णं कुक्कुटारामं प्रेषयितुमारब्धः ।
तस्मिंश्च समये कुनालस्य संपदी नाम पुत्रो युवराज्ये प्रवर्तते । तस्यामात्यैरभिहितम् । कुमार अशोको राजा स्वल्पकालवस्थायी । (आव्१२८) इदं च द्रव्यं कुक्कुटारामं प्रेष्यते । कोशबलिनश्च राजानः । निवारयितव्यः ।
यावत्कुमारेण भाण्डागारिकः प्रतिषिद्धः । यदा राज्ञोऽशोकस्याप्रतिषिद्धा [सम्पत्] तस्य सुवर्णभाजने आहारमुपनाम्यते । भुक्त्वा तानि सुवर्णभाजनानि कुक्कुटारामं प्रेषयति ।
तस्य सुवर्णभाजनं प्रतिषिद्धम् । रूप्यभाजने आहारमुपनाम्यते । तान्यपि कुक्कुटारामं प्रेषयति । ततो रूप्यभाजनमपि प्रतिषिद्धम् । तस्य यावन्मृभ्दाजन आहारमुपनाम्यते ।
तस्मिंश्च समये राज्ञोऽशोकस्यार्धामलकं करान्तरगतम् । अथ राजाशोकः संविग्नः अमात्यान् पौरांश्च संनिपात्य कथयति । कः साम्प्रतं पृथिव्यामीश्वरः ।
ततोऽमात्या उत्थायासनाद्येन राजाशोकस्तेनाञ्जलिं प्रणम्य ऊचुः । देव पृथिव्यामीश्वरः । अथ राजा अशोकः साश्रुदुर्दिननयनवदनोऽमात्यानुवाच ।
दाक्षिण्यादनृतं हि किं कथयथ भ्रष्टाधिराज्या वयं
शेषं त्वामलकार्धमित्यवसितं यत्र प्रभुत्वं मम ।
ऐश्वर्यं धिगनार्यमुद्धतनदीतोयप्रवेशोपमं
मर्त्येन्द्रस्य ममापि यत्प्रतिभयं दारिद्र्यमभ्यागतम् ॥
(आव्१२९)
अथवा को भगवतो वाक्यमन्यथा करिष्यति । सम्पत्तयो हि सर्वा विपत्तिनिदाना इति प्रतिज्ञातं यदवितथवादिना गौतमेन न हि तद्विसंवदति । प्रतिशिष्यतेऽस्मन्नचिराज्ञा मम यावतिथा मनसा साद्य महाद्रिशिलातले विहतावन्नदी प्रतिनिवृत्ता ।
आज्ञाप्य व्यवधूतडिम्बडमरामेकातपत्रां महीं
उत्पाट्य प्रतिगर्वितानरिगणानाश्वास्य दीनातुरान् ।
भ्रष्टास्थायतनो न भाटि कृपणः संप्रत्यशोको नृपश्
छिन्नम्लानविशीर्णपत्रकुसुमः शुष्यत्यशोको यथा ॥
ततो राजाशोकः समीपगतं पुरुषमाहूयोवाच । भद्रमुख पूर्वगुणानुरागाद्भ्रष्टैश्वर्यस्यापि मम इमं तावदपश्चिमं व्यापारं कुरु । इदं ममार्धामलकं ग्रहाय कुक्कुटारामं गत्वा सङ्घे निर्यातय । मद्वचनाच्च सङ्घस्य पादाभिवन्दनं कृत्वा वक्तव्यम् ।
जम्बुद्वीपैश्वर्यस्य राज्ञ एष साम्प्रतं विभव इति । इदं तावदपश्चिमं दानं तथा परिभोक्तव्यं यथा मे सङ्घगता दक्षिणा विस्तीर्णा स्यादिति । आह च ।
(आव्१३०)
इदं प्रदानं चरमं ममाद्य राज्यं च तच्चैव गतं स्वभावम् ।
आरोग्यवैद्योषधिवर्जितस्य त्राता न मेऽस्त्यार्यगणाद्बहिर्धा ॥
तत्तथा भुज्यतां येन प्रदानं मम पश्चिमम् ।
यथा सङ्घगता मेऽद्य विस्तीर्णा दक्षिणा भवेत् ॥
एवं देवेति स पुरुषो राज्ञोऽशोकस्य प्रतिश्रुत्य तदर्धामलकं गृह्य कुक्कुटारामं गत्वा वृद्धान्ते स्थित्वा कृताञ्जलिस्तदर्धामलकं सङ्घे निर्यातयन्नुवाच ।
एकच्छत्रसमुच्छ्रयां वसुमतीमाज्ञापयन् यः पुरा
लोकं तापयति स्म मध्यदिवसप्राप्तो दिवा भास्करः ।
भाग्यच्छिद्रमवेक्ष्य सोऽद्य नृपतिः स्वैः कर्मभिर्वञ्चितः
संप्राप्ते दिवसक्षये रविरिव भ्रष्टप्रभावः स्थितः ॥
भक्त्यावनतेन शिरसा प्रणम्य सङ्घाय तेन खलु दत्तमिदमामलकस्यार्धं लक्ष्मीचापल्यचिन्हितम् । ततः सङ्घस्थविरो भिक्षूनुवाच । भदन्ता भवभ्दिः शक्यमिदानीं संवेगमुत्पादयितुम् । कुतः । एवं ह्युक्तं भगवता- परविपत्तिः संवेजनीयं स्थानमिति । कस्येदानीं सहृदयस्य संवेगो नोत्पाद्यते । कुतः ।
(आव्१३१)
त्यागशूरो नरेन्द्रोऽसौ अशोको मोर्यकुञ्जरः ।
जन्बुद्विपेश्वरो भूत्वा जातोऽर्धामलकेश्वरः ॥
भृत्यैः स भूमिपतिरद्य हृताधिकारो
दानं प्रयच्छति किलामलकार्धमेतत् ।
श्रीभोगविस्तरमदैरतिगर्वितानां
प्रत्यादिशन्निव मनांसि पृथग्जनानाम् ॥
यावद्तदर्धामलकं चुर्णयित्वा यूषे प्रक्षिप्य सङ्घे चारितम् ।
ततो राजाशोको राधगुप्तमुवाच । कथय राधगुप्त कः साम्प्रतं पृथिव्यामीश्वरः ।
अथ राधगुप्तोऽशोकस्य पादयोर्निपत्य कृताञ्जलिरुवाच । देवः पृथिव्यामीश्वरः ।
अथ राजाशोकः कथंचिदुत्थाय चतुर्दिशमवलोक्य सङ्घायाञ्जलिं कृत्वोवाच ।
एष इदानीं महत्कोशं स्थापयित्वा इमां समुद्रपर्यन्तां महापृथिवीं भगवच्छ्रावकसङ्घे निर्यातयामि ।
आह च ।
इमां समुद्रोत्तमनीलकञ्चुकामनेकरत्नाकरभूषिताननाम् ।
ददाम्यहं भुतधरां समन्दरां सङ्घाय तस्मै ह्युपभुज्यतां फलम् ॥
(आव्१३२)
अपि च ।
दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलं
काङ्क्षामि द्रुतवारिवेगचपलां प्रागेव राजश्रियम् ।
दानस्यास्य फलं तु भक्तिमहितं यन्मेऽस्ति तेनाप्नुयां
चित्तैश्वर्यमहर्यमार्यमहितं नायाति यद्विक्रियाम् ॥
यावत्पत्राभिलिखितं कृत्वा दन्तमुद्रया मुद्रितम् । ततो राजा महापृथिवीं सङ्घे दत्त्वा कालगतः । यावदमात्यैर्नीलपीताभिः शिविकाभिर्निर्हरित्वा शरीरपूजां कृत्वा ध्मापयित्वा राजानं प्रतिष्ठापयिष्याम इति [उक्तम्] । यावद्राधगुप्तेनाभिहितम् । राज्ञाशोकेन महापृथिवी सङ्घे निर्यातिता इति । ततोऽमात्यैरभिहितं किमर्थमिति ।
राधगुप्त उवाच । एष राज्ञोऽशोकस्य मनोरथो बभूव कोटीशतं भगवच्छासने दानं दास्यामीति । तेन षण्ण्वतिकोट्यो दत्ताः । यावदाज्ञा प्रतिषिद्धा । तदभिप्रायेण राज्ञा महापृथिवी सङ्घे दत्ता ।
यावदमात्यैश्चतस्रः कोटीर्भगवच्छासने दत्त्वा पृथिवीं निष्क्रीय संपदी राज्ये प्रतिष्ठापितः ।
(आव्१३३)
संपदिनो बृहस्पति पुत्रो बृहस्पतेऽर्वृषसेनो वृषसेनस्य पुष्यधर्मा पुष्यधर्मणः पुष्यमित्रः । सोऽमात्यानामन्त्रयते । क उपायः स्याद्यदस्माकं नाम चिरं तिष्ठेद् ।
तैरभिहितम् । देवस्य च वंशादशोको नाम्ना राजा बभूवेति । तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं यावद्भगवच्छासनं प्राप्यते तावत्तस्य यशः स्थास्यति । देवोऽपि चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयतु ।
राजाह । महेशाख्यो राजाशोको बभूव । अन्यः कश्चिदुपाय इति । तस्य ब्राह्मणपुरोहितः पृथग्जनोऽश्राद्धः । तेनाभिहितम् । देव, द्वाभ्यां कारणाभ्यां नाम चिरं स्थास्यति । राज्ञाशोकेन चतुरशीतिधर्मराजिकासहस्रं स्थापितमतस्तस्य नाम चिरं तिष्ठति । भवांश्चेत्तानि नाशयेद्भवतो नाम चिरतरं स्थास्यतीति ।
यावद्राजा पुष्यमित्रश्चतुरङ्गबलकायं संनाहयित्वा भगवच्छासनं विनाशयिष्यामीति कुक्कुटारामं निर्गतः । द्वारे च सिंहनादो मुक्तः । यावत्स राजा भीतः पाटलिपुत्रं प्रविष्टः । एवं द्विरपि त्रिरपि । यावद्भिक्षूंश्च सङ्घमाहूय कथयति । भगवच्छासनं नाशयिष्यामीति । किमिच्छथ स्तूपं सङ्घारामान् वा । स्तूपाः भिक्षुभिः (आव्१३४) परिगृहीताः । यावत्पुष्यमित्रो यावत्सङ्घारामं [नाशयन्] भिक्षूंश्च प्रघातयन् प्रस्थितः ।
स यावच्छाकलमनुप्राप्तः । तेनाभिहितम् । यो मे श्रमणशिरो दास्यति तस्याहं दीनारशतं दास्यामि । [तत्र एकः] धर्मराजिकावास्यऽर्हदृद्ध्या शिरो दातुमारब्धः । श्रुत्वा च राजार्हन्तं प्रघातयितुमारब्धः । स च निरोधं समापन्नः । तस्य परोपक्रमो न क्रमते । स तं समुत्सृज्य यावत्कोष्ठकं गतः ।
दंष्ट्रानिवासी यक्षश्चिन्तयति । इदं भगवच्छासनं विनश्यति । अहं च शिक्षां धारयानि । न मया शक्यं कस्यचिदप्रियं कर्तुम् । तस्य दुहिता कृमिशेन यक्षेण याच्यते । न चानुप्रयच्छति त्वं पापकर्मकारीति । यावत्सा दुहिता तेन कृमिशस्य दत्ता । भगवच्छासनपरित्राणार्थं परिग्रहपरिपालनार्थं च ।
पुष्यमित्रस्य राज्ञः पृष्ठतो यक्षो महाप्रमाणोऽनुबद्धः । तस्यानुभावात्स राजा न प्रतिहन्यते । यावद्दंष्ट्रानिवासी यक्षस्तं पुष्यमित्रानुबद्धं (आव्१३५) यक्षं ग्रहाय पर्वतचर्येऽचरत् । यावद्दक्षिणं महासमुद्रं गतः । कृमिशेन च यक्षेण महान्तं पर्वतमानयित्वा पुष्यमित्रो राजा सबलवाहनोऽवष्टब्धः । तस्य सुनिहित इति संज्ञा व्यवस्थापिता । यदा पुष्यमित्रो राजा प्रघाततस्तदा मौर्यवंशः समुच्छिन्नः ।
इति श्रीदिव्यावदानेऽशोकावदानं समाप्तम् ॥�
नेw देल्हि : सहित्य अकदेमि, १९६३.
इन्पुत्ब्य्मेम्बेर्सोf थे सन्स्क्रित्बुद्धिस्तिन्पुत्प्रोजेच्त्.
wइथ्किन्द्पेर्मिस्सिओनोf थे दिगितल्सन्स्क्रित्बुद्धिस्त्चनोन् प्रोजेच्त्
ओf नगर्जुन इन्स्तितुते, नेपल्
अन्दुनिवेर्सित्योf थे wएस्त्, रोसेमेअद्, चलिfओर्निअ, उस
(www.उwएस्त्.एदु।सन्स्क्रित्चनोन्)
सस्त्र सेच्तिओन्, तेxत्नो. ५६
थे त्रन्स्लितेरतिओनेमुलतेस्थे चोन्वेन्तिओन्सोf नगरि स्च्रिप्त्.
थेरेfओरे, मन्य्wओर्द्बोउन्दरिएसरे नोत्मर्केद्ब्य्ब्लन्क्स्.
स्त्रुच्तुरे ओf रेfएरेन्चेस्(अद्देद्):
आव्न्न्न् = पगिनतिओनोf एद्.
... = बोल्द्
___________________________________________________________________
थिस्तेxत्fइले इस्fओर्रेfएरेन्चे पुर्पोसेसोन्ल्य्!
चोप्य्रिघ्तन्द्तेर्म्सोf उसगे अस्fओर्सोउर्चे fइले.
तेxत्चोन्वेर्तेद्तो च्लस्सिचल्सन्स्क्रितेxतेन्देद्(च्स्x) एन्चोदिन्ग्:
देस्च्रिप्तिओन् छरच्तेर् =अस्चिइ
लोन्ग आ २२४
लोन्ग आ २२६
लोन्गि ई २२७
लोन्गि ई २२८
लोन्गु ऊ २२९
लोन्गु ऊ २३०
वोचलिच्र् ऋ २३१
वोचलिच्र् ऋ २३२
लोन्ग्वोचलिच्र् ॠ २३३
वोचलिच्ल् ळ २३५
लोन्ग्वोचलिच्ल् ॡ २३७
वेलर्न् ङ् २३९
वेलर्न् ङ् २४०
पलतल्न् ञ् १६४
पलतल्न् ञ् १६५
रेत्रोfलेx त् ट् २४१
रेत्रोfलेx त् ट् २४२
रेत्रोfलेx द् ड् २४३
रेत्रोfलेx द् ड् २४४
रेत्रोfलेx न् ण् २४५
रेत्रोfलेx न् ण् २४६
पलतल्स् श् २४७
पलतल्स् श् २४८
रेत्रोfलेx स् ष् २४९
रेत्रोfलेx स् ष् २५०
अनुस्वर ं २५२
चपितलनुस्वर ं २५३
विसर्ग ः २५४
लोन्गे ¹ १८५
लोन्गो º १८६
लुन्देर्बर् × २१५
रुन्देर्बर् १५९
नुन्देर्बर् १७३
कुन्देर्बर् É २०१
तुन्देर्बर् Â १९४
ओथेर्छरच्तेर्सोf थे च्स्x एन्चोदिन्ग्तब्ले अरे नोतिन्च्लुदेद्.
उन्लेस्सिन्दिचतेदोथेर्wइसे, अच्चेन्त्स्हवे बेएन् द्रोप्पेदिनोर्देर्
तो fअचिलितते wओर्द्सेअर्छ्.
fओर चोम्प्रेहेन्सिवे लिस्तोf च्स्x अन्दोथेर्ग्रेतिलेन्चोदिन्ग्स्
अन्द्fओर्मत्स्सेए:
www.सुब्.उनि-गोएत्तिन्गेन्.देबेने_१।fइइन्दोलो।ग्रेतिल् ।ग्रेत्दिअच्.प्द्f
अन्द्
www.सुब्.उनि-गोएत्तिन्गेन्.देबेने_१।fइइन्दोलो।ग्रेतिल् ।ग्रेत्दिअस्.प्द्f

7g7xoepxtt0dh4h8cpl5t784dibsgyy
341384
341383
2022-07-25T11:08:21Z

cjckvmywaifot0vkna9n81n56cqjecz