विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.1 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०८ 104 104757 415820 267770 2026-05-06T12:19:47Z Geeta g hegde 6704 415820 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|२७४|मनुस्मृतिः।|[ अध्यायः ७}}</noinclude> {{Block center|{{bold|<poem>जीवन्तीनां तु तासां ये तद्धरेयुः खबान्धवाः। ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः॥ २९ ॥</poem>}}}} {{gap}}जीवन्तीनामिति ॥ वयमत्रानन्तराधिकारिणो रक्ष्याम इदं धन मित्यादिव्याजेन ये बान्धवान्तासां जीवन्तीनां तद्धनं गृह्णन्ति तान्वक्ष्यमाणचौरदण्डेन धार्मिको राजा दण्डयेत् ॥ २९ ॥ {{Block center|{{bold|<poem>प्रणटस्वामिकं रिक्थं राजा व्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिहरेत् ॥ ३०॥</poem>}}}} {{gap}}प्रणष्टेति ॥ अज्ञातस्वामिकं धनं राजा कस्य किं प्रणष्टमित्येवं पटहादिना उद्घोप्य राजद्वारादौ रक्षितं वर्षत्रयं स्थापयेत् । वर्षत्रयमध्ये यदि धनस्वाम्यागच्छति तदा स एव गृह्णीयात् । तदूर्वं तु नृपतिर्विनियुञ्जीत ॥ ३० ॥ {{Block center|{{bold|<poem>ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि । संवाद्य रूपसंख्यादीन्स्वामी तद्रव्यमर्हति ॥ ३१ ॥</poem>}}}} {{gap}}ममेदमित्यादि ॥ मदीयं धनमिति यो वदति स किंरूपं, किंसंख्याकं, कुत्र प्रणष्टं तद्धनमित्यादिविधानेन प्रष्टव्यः । ततो यदि रूपसंख्यादीन्सत्यान्वदति तदा स तत्र धनस्वामी तद्धनं ग्रहीतुमर्हति ॥ ३१ ॥ {{Block center|{{bold|<poem>अवेदयानो नष्टस्य देशं कालं च तत्त्वतः। वर्ण रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ ३२ ॥</poem>}}}} {{gap}}अवेदयान इत्यादि ॥ नष्टद्रव्यस्य देशकालावस्मिन्देशेऽस्सिन्काले नष्टमिति, तथा वर्ण शुक्लादि, आकारं कटकमुकुटादि, परिमाणं च यथावदजानन्नष्टद्रव्यसम- दण्डमर्हति ॥ ३२ ॥ {{Block center|{{bold|<poem>आददीताथ षड्भागं प्रणष्टाधिगतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥३३॥</poem>}}}} {{gap}}देशकालादिसंवादे पुनः आददीतेति ॥ यदेतद्वाज्ञा प्रणष्टद्रव्यं प्राप्त तस्मा- षड्भागं दशमं द्वादशं वा रक्षादिनिमित्तं पूर्वेषां साधूनामयं धर्म इति जानराजा गृह्णीयात् । धनस्वामिनो निर्गुणसगुणत्वापेक्षश्चायं षड्भागादिग्रहण- विकल्पः । अवशिष्टं स्वामिने समर्पयेत् ॥ ३३ ॥ {{Block center|{{bold|<poem>प्रणष्टाधिगतं द्रव्यं तिष्ठेयुक्तैरधिष्ठितम् । यांस्तत्र चौरान्गृह्णीयात्ताराजेभेन घातयेत् ॥ ३४ ॥</poem>}}}} {{gap}}प्रणष्टेति ॥ यद्रव्यं कस्यापि प्रणष्टं सत् राजपुरुषैः प्राप्तं रक्षायुक्तै रक्षितं कृत्वा स्थाप्यं । तस्मिंश्च द्रव्ये यांचौरान्गृह्णीयात्तान्हस्तिना घातयेत् । गोविन्दराजस्तु 'शताभ्यधिके वधः' इति दर्शनादत्रापि शतसुवर्णस्य मौल्यादिकद्रव्यहरणे वध-<noinclude></noinclude> 2rmlr3hkgq37m4exuqfqvdm6x93zk4s पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०९ 104 104758 415821 267771 2026-05-06T12:25:51Z Geeta g hegde 6704 415821 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|left=अध्यायः ७]|center=मन्वथमुक्तावलासवालता ।|right=२७५}}</noinclude> {{gap}}माह । तन्न । तत्र संधिं कृत्वा तु यच्चौर्यमिति यत्स्वाम्येऽपि प्रणष्टराजरक्षितव्य- हरणनैव विशेषेण वधविधानाच्छतादभ्यधिके वध इत्यस्य विशेपोपदिष्टवधेतरवि- पयत्वात् ॥ ३४॥ {{Block center|{{bold|<poem>ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ ३५ ॥</poem>}}}} {{gap}}ममायमिति ॥ यो मानुषः स्वयं निधि लब्ध्वा, अन्येन वा निधौ प्राप्ते ममायं निधिरिति वदति सत्येन प्रमाणेन च स्वसंबन्ध बोधयति तस्य पुरुषस्य निर्गुणत्व- सगुणत्वापेक्षया ततो निधानादष्टभागं द्वादशभागं वा राजा गृह्णीयात् । अवशिष्टं तस्यार्पयेत् ॥ ३५॥ {{Block center|{{bold|<poem>अनृतं तु वदन्दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य संख्यायाल्पीयसीं कलाम् ।। ३६ ॥</poem>}}}} {{gap}}अनृतमिति ॥ अस्त्रीयं स्वीयमिति ब्रुवन्स्वधनस्याष्टमं भागं दण्डयः । यद्वा तस्यैव निधेरत्यन्ताल्पभागं गणयित्वा येनावसादं न गच्छति न विषयश्च लभते तद्दण्ड्यः । अल्पीयसीमितीयसुन्नन्तनिर्देशात्पूर्वस्मादन्योऽयं दण्डः । विकल्पश्च निर्गुणसगुणापेक्षः ॥ ३६॥ {{Block center|{{bold|<poem>विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । अशेषतोऽप्याददीत सर्वस्याधिपतिहि सः ॥ ३७ ॥</poem>}}}} {{gap}}विद्वानित्यादि ॥ विद्वान्पुनर्ब्राह्मणः पूर्वमुपनिहितं निधिं दृष्ट्वा सर्व गृह्णीयात् । न षड्भागं दद्यात् । यस्मात्सर्वस्य धनजातस्य प्रभुः । अतएवोक्तम् 'सर्वस्वं ब्राह्मणस्येदम्' इति । तस्मात्परनिहितविषयमेतद्वचनम् । तथाच नारद -'परेण निहितं लब्ध्वा राजा ह्यपहरेनिधिम् । राजा स्वामी निधिः सर्वः सर्वेषां ब्राह्मणा- हते ॥' याज्ञवल्क्योऽप्याह-'राजा लब्ध्वा निधिं दद्याहिजेभ्योऽर्धे द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्पतः ॥' अतो यन्मेधातिथिगोविन्दराजाभ्यां 'ममायमिति यो ब्रूयात्' इत्युक्तं, राजदेयार्थनिरासार्थ पित्रादिनिहितविषयत्वमे- वास्य वचनस्य व्याख्यातं तदनार्पम् । नारदादिमुनिव्याख्याविपरीतं स्वकल्पितं न मेधातिथिगोविन्दराजव्याख्यानमाद्रिये ॥ ३७ ॥ {{Block center|{{bold|<poem>यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । तस्माद्विजेभ्यो दत्त्वार्धमधु कोशे प्रवेशयेत् ॥ ३८ ॥</poem>}}}} {{gap}}यं त्विति ॥ यं पुनरस्वामिकं पुरातनं भूम्यन्तर्गतं निधिं राजा लभते तस्माद्रा- ह्मणेभ्योऽधं दत्त्वार्धमात्मीयधनागारे च प्रवेशयेत् ॥ ३८ ॥ {{Block center|{{bold|<poem>निधीनां तु पुराणानां धातूनामेव च क्षितौ । अर्धभारक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ ३९ ॥</poem>}}}}<noinclude></noinclude> pri0btoic5cp7tli6z8hsg679j6myte