विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.1
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः २३
0
24546
415829
75201
2026-05-11T04:29:34Z
~2026-28442-72
10462
415829
wikitext
text/x-wiki
कलियुगीयेतिहाससमुच्चयवर्णनम्
<poem><span style="font-size: 14pt; line-height: 200%">सूत उवाच
वैक्रमे राज्यविगते चतुष्षष्ट्युत्तरं मुने ।
द्वाविंशदब्दशतकं भूतनन्दिस्तदा नृपः । । १
कुबेरयक्षकान्मौनान्धनधान्यसमन्वितान् ।
सार्द्धलक्षान्कलैर्घोरैर्जित्वा तान्युद्धकारिणः । । २
किल्किलायां स्वयं राज्यं नागवंशैश्चकार ह ।
आग्नेय्यां दिशि विख्याता पुण्डरीकेण निर्मिता । । ३
पुरी किलकिला नाम तत्र राजा बभूव ह ।
पुण्डरीकादयो नागास्तस्मिन्राज्यं प्रशासति । । ४
गेहे गेहे जनैस्सर्वैः पूजनीया बभूविरे ।
स्वाहा स्वधा वषट्कारो देवपूजा महीतले । । ५
त्यक्त्वा देवानुपागम्य संस्थिता मेरुमूर्द्धनि ।
शक्राज्ञया कुबेरस्तु शूकधान्यं समन्ततः । । ६
यक्षैः षडंशानादाय देवेभ्यः प्रददौ प्रभुः ।
मणिस्वर्णादिवस्तूनि मौनराज्येषु यानि वै । । ७
दत्तानि तानि कोशेषु पुनर्देवश्चकार ह ।
मण्डलीकं पदं तेन सत्कृतं भूतनन्दिना । । ८
शतार्द्धं तु ततो राजा शिशुनन्दिर्बभूव ह ।
नागपूजां पुरस्कृत्य तिरस्कृत्य सुरान्भुवि । । ९
चकार राज्यं विशाब्दं यशोनन्दिस्ततोऽनुजः ।
भ्रात्रासनं स्वयं प्राप्तो नागपूजापरायणः । । 3.4.23.१०
पञ्चविंशतिवर्षाणि स च राज्यमचीकरत् ।
ततस्तत्तनयो राजा स बभूव प्रवीरकः । । ११
एकादशाब्दं तद्राज्यं कर्मभूम्यां प्रकीर्तितम् ।
कदाचित्स च बाह्लीके सेनया सार्द्धमागतः । । १२
तत्र तैरभवद्युद्धं पैशाचैर्म्लेच्छदारुणैः ।
मासमात्रान्तरे म्लेच्छा लक्षसंख्या मृतिं गताः । । १३
तथा षष्टिसहस्राश्च नागभक्ता लयं गताः ।
बादलो नाम तद्राजा रोमजस्थो महाबलः । । १४
यशोनन्दिनमाहूय ददौ जालवतीं सुताम् ।
गृहीत्वा म्लेच्छराजस्य सुतां गेहमुपागतः । । १५
गर्भो जातस्ततस्तस्यां बभूव तनयो बली ।
बाह्लीको नाम विख्यातो नागपूजनतत्परः । । १६
तदन्वये नृपा जाता बाह्लीकाश्च त्रयोदश ।
चतुश्शतानि वर्षाणि कृत्वा राज्यं मृतिं गताः । । १७
अयोमुखे च बाह्लीके राज्यमत्र प्रशासति ।
तदा पितृगणास्सर्वे कृष्णचैतन्यमाययुः । । १८
नत्वोचुर्वचनं तत्र भगवञ्छृणु मे वचः ।
वयं पितृगणा भूपैर्नागवंश्यैर्निराकृताः । । १९
श्राद्धतर्पणकर्माणि तैर्वयं वर्द्धितास्सदा ।
पितृवृद्धात्सोमवृद्धिस्ततो देवाश्च वर्द्धनाः । । 3.4.23.२०
देववृद्धाल्लोकवृद्धिस्तस्माद्ब्रह्मा प्रजापतिः ।
ब्रह्मवृद्धात्परं हर्षं गेहे गेहे जने जने । । २१
अतोऽस्मान्रक्ष भगवन्प्रजाः पाहि सनातनीः ।
इति श्रुत्वा वचस्तेषां यज्ञांशो भगवान्हरिः । । २२
पुष्यमित्रं धर्मपरमार्यवशविवर्द्धनम् । । २३
जातमात्रः स वै बालः षोडशार्द्धवयोऽभवत् ।
अयोनिर्योनिभूतांस्तानयोमुख पुरस्सरान् । । २४
जित्वा देशान्निराकृत्य स्वयं राज्यं गृहीतवान् ।
यथा शिवांशतो जातो विक्रमो नाम भूपतिः । । २५
शकान्गन्धर्वपक्षीयाञ्जित्वा पूज्यो बभूव ह ।
नागपक्षांस्तथा भूपान्गोलकास्यान्भयङ्करान् । । २६
पुष्यमित्रस्तदा जित्वा सर्वपूज्योऽभवद्भुवि ।
सप्तविंशच्छतं वर्षं द्विसप्तत्युत्तरं तथा । । २७
राज्यं विक्रमतो जातं समाप्तिमगमत्तदा ।
पुष्यमित्रे राज्यपदं प्राप्ते समभवत्तदा । । २८
शतवर्षं राज्यपदं तेन धर्मात्मना धृतम् ।
अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । । २९
पुरी द्वारवती तेन राज्ञा च पुनरुद्धृताः ।
कुरुसूकरपद्मानि क्षेत्राणि विविधानि च । । 3.4.23.३०
नैमिषोत्पलवृन्दानां वनक्षेत्राणि भूतले ।
नानातीर्थानि तेनैव स्थापितानि समन्ततः । । ३१
तदा कलिः स गन्धर्वो देवतापितृदूषकः ।
ब्राह्मणं वपुरास्थाय पुष्यमित्रमुपागमत् । । ३२
नत्वोवाच प्रियं वाक्यं शृणु भूप दयापर ।
आर्यदेशे पितृगणाः पूजार्हाः श्राद्धतर्पणैः । । ३३
अज्ञानमिति तज्ज्ञेय भुवि यत्पितृपूजनम् ।
मृता ये तु नरा भूमौ पूर्वकर्मवशानुगाः । । ३४
भवन्ति देहवन्तस्ते चतुराशीतिलक्षधा ।
छद्मना मयदेवेन पितृपूजा विनिर्मिता । । ३५
वृथा श्रमं वृथा कर्म नृणां च पितृपूजनम् ।
इति श्रुत्वा वचो घोरं विहस्याह महीपतिः । । ३६
भवान्मूर्खो महामूढो न जानीष परं फलम् ।
भुवर्लोके न ये दृष्टाः शून्यभूताश्च भास्वराः । । ३७
ये तु ते वै पितृगणाः पिण्डरूपविमानगाः ।
सत्पुत्रैश्च विधानेन पिण्डदानं च यत्कृतम् । । ३८
तद्विमानं नभोजातं सर्वानन्दप्रदायकम् ।
अब्दमात्रं स्थितिस्तेषां पिण्डपायसरूपिणाम् । । ३९
गीताष्टादशकाध्यायैः सप्तशत्याश्चरित्रकैः ।
पावितं यत्तु वै पिण्डं त्रिशताब्दं च तत्स्थितिः । । 3.4.23.४०
श्राद्धतर्पणहीना ये दृश्यन्ते मानवा भुवि ।
ते सर्वे नारका ज्ञेयाः कुलमेकोत्तरं शतम् । । ४१
श्राद्धकर्म महान्धर्मः श्राद्धोऽयं सर्वकारणम् ।
इति श्रुत्वा स गन्धर्वः कलीराजोऽत्र देहिनाम् । । ४२
नत्वोवाच नृपश्रेष्ठं प्रसन्नवदनो हि सः ।
सदा भव ममाशु त्वं तवाहं नृप किङ्करः । । ४३
कलिमित्रः पुष्यमित्रो भवान्भुवि भवेत्सदा ।
यथा विक्रमराजस्य वैतालस्य च वै सखा ।।४४
सर्वकार्यकरोऽहं वै तथा तव न संशयः ।
इत्युक्त्या च नृपं धीरं समादाय स वै कलिः ।।४५
सप्तद्वीपांस्तथा खण्डान्नभोमार्गाननेकशः ।
स्वपृष्ठस्थाय राज्ञे च दर्शयामास वीर्यवान् ।।४६
आर्यधर्मं कलौ स्थाप्य नष्टभूतं स वै नृपः ।
त्यक्त्वा प्राणांश्च यज्ञांशे तेजस्तस्य समागमत् ।।४७
आन्ध्रदेशोद्भवो राजा सुगदो नाम वीर्यवान् ।
विना भूपं च तं देशं दृष्ट्वा राज्यमचीकरत् ।।४८
विंशदब्दं पदं तेन कर्मभूम्यां च सत्कृतम् ।
तदन्वये षष्टिनृपा बभूवुर्बहुमार्गिणः ।।४९
पुष्यमित्रगते राज्ये दशोत्तरशतत्रयम् ।
तस्मिन्काले लयं जग्मुश्चान्ध्रदेशनिवासिनः ।।3.4.23.५०
शतार्द्धाब्दं ततो भूमिर्विना राज्ञा बभूव ह ।
तदा क्षुद्रा नरा लुब्धा लुण्ठिताश्चौरदारुणैः ।।५ १
दारिद्रमगमन्घोरं विना स्वर्णं च भूरभूत् ।
पुनर्देवश्च भगवान्प्रार्थितस्तानुवाच ह ।।५२
देशे कौशलके जातः सूर्य्यांशाच्य महीपतिः ।
राक्षसारिरिति ख्यातो देवमार्गपरायणः ।।५३
ममाज्ञया स वै राजा भविष्यति महीतले ।
इत्युक्त्वान्तर्दधे विष्णुर्देवलोकानुपागमत् ।।५४
राक्षसारिमयोध्यायां स्थापयामासुरेव तम् ।
आन्ध्रराष्ट्रे च यद्द्रव्यं राक्षसैश्च समाहृतम् ।।५५
तद्द्रव्यं राक्षसाञ्जित्वा ग्रामे ग्रामे चकार सः ।
तारधातोरष्टमूल्यं सुवर्णं भुवि तत्कृतम् ।।५६
आरधा(ध?)तोः शतं मूल्यं राजतं तेन वै कृतम् ।
ताम्रधातोः पञ्चमूल्यमारधातोश्च तत्कृतम् ।।५७
नागधातोः पञ्चमूल्यं भुवि तेनैव निर्मितम् ।
ताम्रं पवित्रमधिकं नागो वङ्गस्तथोत्तमः । । ५८
लौहधातोः शतं मूल्यं वङ्गोऽसौ तेन सत्कृतः ।
शतार्द्धाब्दं महीं भुक्त्वा सूर्यलोकमुपाययौ । । ५९
तदन्वये षष्टिनृपा जाता वेदपरायणाः ।
पुष्यमित्रगते राज्ये चाब्दे सप्तशते गते । । 3.4.23.६०
कौशलान्वयसम्भूता भूपाः स्वर्गमुपाययुः ।
शतार्द्धाब्दं ततो भूमिर्मण्डलीकं नृपं विना । । ६१
क्षुद्रभूपाश्च बुभुजे देशे देशे च भार्गवः ।
ततो बैदरदेशीयो नाम्ना भूपो विशारदः । । ६२
आर्यदेशमुपागम्य लक्षसैन्यसमन्वितः ।
क्षुद्रभूपान्वशीकृत्य मण्डलीको बभूव ह । । ६३
नानाकलैश्च कर्माणि विचित्राणि महीतले ।
ग्रामे ग्रामे नराश्चकुर्वर्णसङ्करकारकाः । । ६४
ब्रह्मक्षत्रमयो वर्णो नाममात्रेण दृश्यते ।
वैश्यप्राया नरा आर्याः शूद्रप्रायाश्च कारिणः । । ६५
तद्राष्ट्रे मनुजाश्चासन्नाममात्रं सुरार्चकाः ।
षष्टिवर्षं पदं तेन कर्मभूम्यां च सत्कृतम् । । ६६
ततो नृपा महीं प्राप्ताः षट्सङ्ख्यास्तु तदन्वयाः ।
पुष्यमित्रगते राष्ट्रे शतषोडशहायनी । । ६७
वैदूरा निधनं जग्मुः कलिकाले भयानके ।
चतुश्शतानि वर्षाणि क्षुद्ररूपा च भूरभूत् । । ६८
तत्पश्चान्नैषधे राष्ट्रं कालमाली नृपोऽभवत् ।
क्षुद्रभूपान्वशीकृत्य स्वयं राजा बभूव वै । । ६९
यमाभूया भुवि त्वष्ट्रा नगरी यमुनातटे ।
निर्मिता योजनायातु कालकालेति विश्रुता । । 3.4.23.७०
तत्रार्यदेश भूपानां पूज्यो राजा स चाभवत् ।
देवान्पितॄंस्तिरस्कृत्य प्रेतपूजां जने जने । । ७१
कालमाली च कृतवान्देशनैषधसंस्थितः ।
द्वात्रिंशद्वर्षराज्यं तद्बभूव जनपीडनम् । । ७२
तदन्वये षष्टिनृपा बभूवुः प्रेतपूजकाः ।
शताब्दांतमभूद्राज्यं तेषां नैषधदेशिनाम् । । ७३
सहस्राब्दं तु तत्पश्चात्क्षुद्रभूपा मही ह्यभूत् ।
सुरार्चनं वेदमार्गः श्रुतमात्रश्च दृश्यते । । ७४
पुष्यमित्रगते राज्ये चैकत्रिंशच्छते कलौ ।
द्वात्रिंशदुत्तरे चैव तदा देवाश्च दुःखिताः । । ७५
कृष्णचैतन्यमागम्य नत्वोचुर्वचनं प्रियम् ।
भगवन्कलिकालेऽद्य वर्णाश्चत्वारिभूतले १ । । ७६
भ्रष्टाचाराः प्रेतमयाः शतार्द्धाब्दप्रजीविनः ।
देवान्पितॄंस्तिरस्कृत्य पिशाचान्पूजयन्ति वै । । ७७
ग्रामे ग्रामे च कुघ्नानि पूजितानि नरैर्भुवि ।
दृश्यन्तेऽस्माभिरद्यैव दुःखिताश्च नरा भृशम् । । ७८
भूतप्रेतपिशाचाश्च डाकिनीशाकिनीगणाः ।
स्वपूजाभिर्मदान्धाश्च निन्दयन्ति सुरान्पितॄन् । । ७९
अतोऽस्मान्दुर्बलान्विद्धि सबलान्भूतनायकान् ।
कृपया पाहि नः स्वामिञ्छरणागतवत्सल । । 3.4.23.८०
इति श्रुत्वा स यज्ञांशो नदीहोपवने स्थितः ।
नम्रभूतान्सुरान्प्राह मागधे तु महीपतिः । । ८१
पुरञ्जयो ब्रह्मपरस्तस्य पत्नी पुरञ्जनी ।
मदाज्ञया तयोः पुत्रो भविष्यति महाबलः । । ८२
विश्वस्फूर्जिरिति ख्यातो ब्रह्ममार्गपरो गुणी ।
इत्युक्तवचने तस्मिन्गर्भं धत्ते पुरञ्जनी । । ८३
दशमासान्तरे जातो विश्वस्फूर्जिर्महाबलः ।
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी । । ८४
पुष्यमित्रो यथा चासीद्वर्णधर्मप्रवर्तकः ।
तथायं बालको जातो ब्रह्ममार्गपरो बली । । ८५
करिष्यति परो वर्णान्कलिन्दयदुमद्रकान् ।
प्रजाश्च ब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । । ८६
वीर्यवान्क्षत्रमुत्साद्य पद्मवत्याः स वै पुरम् ।
इत्याकाशवचः श्रुत्वा स नृपस्तु पुरञ्जयः । । ८७
ददौ दानं क्षुधार्तेभ्योऽतिथिभ्यस्सपरिच्छदः ।
अष्टौ वर्षसहस्राणि चाष्टवर्षशतानि च । । ८८
कर्मभूम्यां कलौ प्राप्ते व्यतीतानि तदा मुने ।
विश्वस्फूर्जिर्नृपश्चासीन्महाबुद्धो महाबलः । । ८९
क्षुद्रभूपान्वशीकृत्य सर्ववर्णान्नरांस्तदा ।
स्थापयामास वै ब्रह्मे वर्णे ब्रह्मपरायणे । । 3.4.23.९०
क्षत्रविट्च्छूद्रका वर्णाः पिशाचा वर्णसङ्कराः ।
गुरुण्डाद्यास्तथा म्लेच्छा ब्राह्मणास्ते बभूविरे । । ९१
सन्ध्यातर्पणदेवानां पूजादिविविधाः क्रियाः ।
चक्रुस्ते वेदविधिना तुल्यभोजनशीलिनः । । ९२
षष्टिवर्षं कृतं राज्यं तेन सम्यक्कृता मुने ।
तदन्वये नृपाश्चासन्सहस्रा भुवि विश्रुताः । । ९३
अयुताब्दान्तरे जाता ब्रह्ममार्गपरायणाः ।
तैश्च दत्तानि भागानि यज्ञमध्ये विधानतः । । ९४
दैत्येभ्यश्च सुरेभ्यश्च तुल्यरूपाणि चागमन् ।
विस्मिताश्च सुरास्सर्वे यज्ञांशं शरणं ययुः । । ९५
तदुक्तं कारणं ज्ञात्वा शक्रपुत्र उवाच तान् ।
वेदो नारायणः साक्षाद्विवेकी हंसरूपवान् । । ९६
नृणां च युगभेदेन वर्णभेदं चकार ह ।
तद्गुणो ब्राह्मणो वर्णः क्षत्रियस्तु रजोगुणः । । ९७
तमोगुणस्तथा वैश्यो गुणसाम्यात्तु शूद्रकः ।
तृप्तिं यान्ति पितुर्वृन्दा ब्राह्मणैः क्षत्रियैः सुराः । । ९८
वैश्यैश्च यक्षरक्षांसि क्षुद्रैर्दैत्याश्च दानवाः ।
एकवर्णे च चत्वारो वर्णाः कायस्थ एव सः । । ९९
भूतप्रेतपिशाचाद्याः कायस्थैस्तर्पितास्सदा ।
ब्रह्मवर्णे तु वर्णाश्च स्थिताश्चत्वारि साम्प्रतम् । । 3.4.23.१००
ब्रह्मशङ्करवर्णोऽयं तेभ्यः पूर्वं हि दानवाः ।
अर्द्धतृप्ता भविष्यन्ति तत्पश्चात्स्वर्गवासिनः ।। १०१
अतोऽहं च कलौ घोरे युष्मदर्थे महीतले ।
सौराष्टनृपतेर्गेहं स्वांशाद्यास्यामि भोः सुराः ।। १०२
इत्युक्त्वा स च यज्ञांशः सोमनाथः कलैकया ।
नाम्ना बभूव तद्गेहे सौराष्ट्रनगरीस्थितः ।। १०३
जित्वा भूपान्स्वयं राज्यं चकाराब्धितटे मुदा ।
क्षत्रवर्णमयी भूमिस्तदा जाता कलौ युगे ।। १०४
सोमनाथः स वै यज्ञैः सुरान्सर्वानतर्पयत् ।
शताब्दं च कृतं राज्यं तेन देवप्रसादतः ।। १०५
तस्य राज्यमयं संवदभवल्लोकविश्रुतम् ।
तदन्वये सार्द्धशतं भूपाश्चासन्सुरप्रियाः ।। १०६
अयुताब्दान्तरे किञ्चिदधिके च सुखप्रदाः ।
कर्मभूम्यां कलौ प्राप्ते हायना अयुतत्रयम् ।। १०७
व्यतीतं च ततो दैत्या दुःखिताः कलिमब्रुवन् ।
पुरास्समाभिः शताब्दं च तपसा वै महेश्वरः ।। १०८
तुष्टीकृतस्तदास्मभ्यं भवान्दत्तो हितेन वै ।
अर्धभागं वज्रमयमर्धभागं च कोमलम् ।। १०९
तवाङ्गं सुन्दरं देव कलेऽस्मान्रक्ष दुःखितान् ।
इति श्रुत्वा च स कलिर्देत्यपक्षविवर्द्धनः ।। 3.4.23.११०
स्वांशाज्जन्म कलौ प्राप्य गुर्जरे देशदारुणे ।
आभीरी सिंहिका नाम सिहमांसाशना खला ।। १११
तस्या योनौ समागम्य राहुर्नाम स चाभवत् ।
यथा राहुर्नभोमार्गे दारुणो हि विधुन्तुदः ।। ११२
तथा राहुः कलेरंशो भुवि जातः सुरन्तुदः ।
जातमात्रे सुते तस्मिन्भूमिकम्पो महानभूत् ।। ११३
विपरीता ग्रहाः सर्वे जनयन्ति महद्भयम् ।
तद्भयात्सकला देवास्त्यक्त्वा मूर्तीः समन्ततः ।। ११४
महेन्द्रं शरणं जग्मुः सुमेरुगिरिमूर्द्धनि ।
तदर्थे भगवाञ्छक्रस्तुष्टाव जगदम्बिकाम् । । ११५
कन्यामूर्तिमयी देवी सुरान्प्राह शिवङ्करी ।
ममाङ्गदर्शनाद्देवाः क्षुत्तृड्भ्यां च विना सदा । । ११६
भवध्वं च ततो यूयं मद्विलोकनतत्पराः ।
इति श्रुत्वा तु ते देवा हर्षिताः सम्बमूविरे । । ११७
आभीरीतनयो राहुः कृत्वा राज्यं शतं समाः ।
त्यक्त्वा प्राणान्कलौ लीनो बभूव मुनिसत्तम । । ११८
तदन्वये सार्द्धशतमयुताब्दान्तरेभवत् ।
महामदमतं घोरं चिरकालाद्विनाशितम् । । ११९
तैः पुनश्चोद्धृतं भूमौ सर्वे म्लेच्छा बभूविरे ।
न वेदाश्च न देवाश्च न वर्णाश्च कलौ युगे । । 3.4.23.१२०
दृश्यन्ते न च मर्यादा कलिकाले तदन्वये ।
द्विजशेषाः सहस्राश्च पुनरर्बुदमूर्द्धनि । । १२१
द्वादशाहं प्रयत्नेन देवानाराधितुं क्षमा ।
अर्बुदाच्च समुद्भूतो राजन्यः खड्गचर्मधृक् । । १२२
महेन्द्रं शरणं जग्मुः सुमेरुगिरिमूर्द्धनि ।
तदर्थे भगवाञ्छक्रस्तुष्टाव जगदम्बिकाम् । । ११५
कन्यामूर्तिमयी देवी सुरान्प्राह शिवङ्करी ।
ममाङ्गदर्शनाद्देवाः क्षुत्तृड्भ्यां च विना सदा । । ११६
भवध्वं च ततो यूयं मद्विलोकनतत्पराः ।
इति श्रुत्वा तु ते देवा हर्षिताः सम्बमूविरे । । ११७
आभीरीतनयो राहुः कृत्वा राज्यं शतं समाः ।
त्यक्त्वा प्राणान्कलौ लीनो बभूव मुनिसत्तम । । ११८
तदन्वये सार्द्धशतमयुताब्दान्तरेभवत् ।
महामदमतं घोरं चिरकालाद्विनाशितम् । । ११९
तैः पुनश्चोद्धृतं भूमौ सर्वे म्लेच्छा बभूविरे ।
न वेदाश्च न देवाश्च न वर्णाश्च कलौ युगे । । १२०
दृश्यन्ते न च मर्यादा कलिकाले तदन्वये ।
द्विजशेषाः सहस्राश्च पुनरर्बुदमूर्द्धनि । । १२१
द्वादशाहं प्रयत्नेन देवानाराधितुं क्षमा ।
अर्बुदाच्च समुद्भूतो राजन्यः खड्गचर्मधृक् । । १२२
कलियुगे महाघोरे धर्मः क्षीणो भवेद् भुवि ।
नरेन्द्रो नाम पुरुषो धर्मरक्षां करिष्यति । । १२३
क्षणकालं स धर्मं वै धारयिष्यति सत्तमः ।
लालचौके ध्वजं वीरः संस्थापयिष्यति भूतले । । १२४
जित्वा म्लेच्छान्दुराधर्षान्नाम्ना चार्वबली ह्यभूत् ।
पञ्चयोजनमाना स भूमिरात्मविवृद्धये । । १२५
निर्मिता तेन शुद्धेन नाम्ना चार्वपुरी स्मृता ।
शनैः शनैरार्यकुलं पुनस्तत्र ववर्द्ध ह । । १२६
शतार्द्धाब्दं प्रयत्नेन तेन राज्यं महत्कृतम् ।
तदन्वये सार्द्धशतं नृपाश्चासंस्तदा मुने । । १२७
अयुताब्दान्तरे वीरा म्लेच्छमित्राश्च सङ्कराः ।
म्लेच्छकन्योद्वहा घोरा नाममात्रार्य्यमार्गगाः । । १२८
</span></poem>
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये
कलियुगीयेतिहाससमुच्चयवर्णनं नाम त्रयोविंशोऽध्यायः । २३
lzp6jictkcrzubji4tvyb4wd3ufg8cw
415830
415829
2026-05-11T04:36:06Z
~2026-28442-72
10462
415830
wikitext
text/x-wiki
कलियुगीयेतिहाससमुच्चयवर्णनम्
<poem><span style="font-size: 14pt; line-height: 200%">सूत उवाच
वैक्रमे राज्यविगते चतुष्षष्ट्युत्तरं मुने ।
द्वाविंशदब्दशतकं भूतनन्दिस्तदा नृपः । । १
कुबेरयक्षकान्मौनान्धनधान्यसमन्वितान् ।
सार्द्धलक्षान्कलैर्घोरैर्जित्वा तान्युद्धकारिणः । । २
किल्किलायां स्वयं राज्यं नागवंशैश्चकार ह ।
आग्नेय्यां दिशि विख्याता पुण्डरीकेण निर्मिता । । ३
पुरी किलकिला नाम तत्र राजा बभूव ह ।
पुण्डरीकादयो नागास्तस्मिन्राज्यं प्रशासति । । ४
गेहे गेहे जनैस्सर्वैः पूजनीया बभूविरे ।
स्वाहा स्वधा वषट्कारो देवपूजा महीतले । । ५
त्यक्त्वा देवानुपागम्य संस्थिता मेरुमूर्द्धनि ।
शक्राज्ञया कुबेरस्तु शूकधान्यं समन्ततः । । ६
यक्षैः षडंशानादाय देवेभ्यः प्रददौ प्रभुः ।
मणिस्वर्णादिवस्तूनि मौनराज्येषु यानि वै । । ७
दत्तानि तानि कोशेषु पुनर्देवश्चकार ह ।
मण्डलीकं पदं तेन सत्कृतं भूतनन्दिना । । ८
शतार्द्धं तु ततो राजा शिशुनन्दिर्बभूव ह ।
नागपूजां पुरस्कृत्य तिरस्कृत्य सुरान्भुवि । । ९
चकार राज्यं विशाब्दं यशोनन्दिस्ततोऽनुजः ।
भ्रात्रासनं स्वयं प्राप्तो नागपूजापरायणः । । 3.4.23.१०
पञ्चविंशतिवर्षाणि स च राज्यमचीकरत् ।
ततस्तत्तनयो राजा स बभूव प्रवीरकः । । ११
एकादशाब्दं तद्राज्यं कर्मभूम्यां प्रकीर्तितम् ।
कदाचित्स च बाह्लीके सेनया सार्द्धमागतः । । १२
तत्र तैरभवद्युद्धं पैशाचैर्म्लेच्छदारुणैः ।
मासमात्रान्तरे म्लेच्छा लक्षसंख्या मृतिं गताः । । १३
तथा षष्टिसहस्राश्च नागभक्ता लयं गताः ।
बादलो नाम तद्राजा रोमजस्थो महाबलः । । १४
यशोनन्दिनमाहूय ददौ जालवतीं सुताम् ।
गृहीत्वा म्लेच्छराजस्य सुतां गेहमुपागतः । । १५
गर्भो जातस्ततस्तस्यां बभूव तनयो बली ।
बाह्लीको नाम विख्यातो नागपूजनतत्परः । । १६
तदन्वये नृपा जाता बाह्लीकाश्च त्रयोदश ।
चतुश्शतानि वर्षाणि कृत्वा राज्यं मृतिं गताः । । १७
अयोमुखे च बाह्लीके राज्यमत्र प्रशासति ।
तदा पितृगणास्सर्वे कृष्णचैतन्यमाययुः । । १८
नत्वोचुर्वचनं तत्र भगवञ्छृणु मे वचः ।
वयं पितृगणा भूपैर्नागवंश्यैर्निराकृताः । । १९
श्राद्धतर्पणकर्माणि तैर्वयं वर्द्धितास्सदा ।
पितृवृद्धात्सोमवृद्धिस्ततो देवाश्च वर्द्धनाः । । 3.4.23.२०
देववृद्धाल्लोकवृद्धिस्तस्माद्ब्रह्मा प्रजापतिः ।
ब्रह्मवृद्धात्परं हर्षं गेहे गेहे जने जने । । २१
अतोऽस्मान्रक्ष भगवन्प्रजाः पाहि सनातनीः ।
इति श्रुत्वा वचस्तेषां यज्ञांशो भगवान्हरिः । । २२
पुष्यमित्रं धर्मपरमार्यवशविवर्द्धनम् । । २३
जातमात्रः स वै बालः षोडशार्द्धवयोऽभवत् ।
अयोनिर्योनिभूतांस्तानयोमुख पुरस्सरान् । । २४
जित्वा देशान्निराकृत्य स्वयं राज्यं गृहीतवान् ।
यथा शिवांशतो जातो विक्रमो नाम भूपतिः । । २५
शकान्गन्धर्वपक्षीयाञ्जित्वा पूज्यो बभूव ह ।
नागपक्षांस्तथा भूपान्गोलकास्यान्भयङ्करान् । । २६
पुष्यमित्रस्तदा जित्वा सर्वपूज्योऽभवद्भुवि ।
सप्तविंशच्छतं वर्षं द्विसप्तत्युत्तरं तथा । । २७
राज्यं विक्रमतो जातं समाप्तिमगमत्तदा ।
पुष्यमित्रे राज्यपदं प्राप्ते समभवत्तदा । । २८
शतवर्षं राज्यपदं तेन धर्मात्मना धृतम् ।
अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । । २९
पुरी द्वारवती तेन राज्ञा च पुनरुद्धृताः ।
कुरुसूकरपद्मानि क्षेत्राणि विविधानि च । । 3.4.23.३०
नैमिषोत्पलवृन्दानां वनक्षेत्राणि भूतले ।
नानातीर्थानि तेनैव स्थापितानि समन्ततः । । ३१
तदा कलिः स गन्धर्वो देवतापितृदूषकः ।
ब्राह्मणं वपुरास्थाय पुष्यमित्रमुपागमत् । । ३२
नत्वोवाच प्रियं वाक्यं शृणु भूप दयापर ।
आर्यदेशे पितृगणाः पूजार्हाः श्राद्धतर्पणैः । । ३३
अज्ञानमिति तज्ज्ञेय भुवि यत्पितृपूजनम् ।
मृता ये तु नरा भूमौ पूर्वकर्मवशानुगाः । । ३४
भवन्ति देहवन्तस्ते चतुराशीतिलक्षधा ।
छद्मना मयदेवेन पितृपूजा विनिर्मिता । । ३५
वृथा श्रमं वृथा कर्म नृणां च पितृपूजनम् ।
इति श्रुत्वा वचो घोरं विहस्याह महीपतिः । । ३६
भवान्मूर्खो महामूढो न जानीष परं फलम् ।
भुवर्लोके न ये दृष्टाः शून्यभूताश्च भास्वराः । । ३७
ये तु ते वै पितृगणाः पिण्डरूपविमानगाः ।
सत्पुत्रैश्च विधानेन पिण्डदानं च यत्कृतम् । । ३८
तद्विमानं नभोजातं सर्वानन्दप्रदायकम् ।
अब्दमात्रं स्थितिस्तेषां पिण्डपायसरूपिणाम् । । ३९
गीताष्टादशकाध्यायैः सप्तशत्याश्चरित्रकैः ।
पावितं यत्तु वै पिण्डं त्रिशताब्दं च तत्स्थितिः । । 3.4.23.४०
श्राद्धतर्पणहीना ये दृश्यन्ते मानवा भुवि ।
ते सर्वे नारका ज्ञेयाः कुलमेकोत्तरं शतम् । । ४१
श्राद्धकर्म महान्धर्मः श्राद्धोऽयं सर्वकारणम् ।
इति श्रुत्वा स गन्धर्वः कलीराजोऽत्र देहिनाम् । । ४२
नत्वोवाच नृपश्रेष्ठं प्रसन्नवदनो हि सः ।
सदा भव ममाशु त्वं तवाहं नृप किङ्करः । । ४३
कलिमित्रः पुष्यमित्रो भवान्भुवि भवेत्सदा ।
यथा विक्रमराजस्य वैतालस्य च वै सखा ।।४४
सर्वकार्यकरोऽहं वै तथा तव न संशयः ।
इत्युक्त्या च नृपं धीरं समादाय स वै कलिः ।।४५
सप्तद्वीपांस्तथा खण्डान्नभोमार्गाननेकशः ।
स्वपृष्ठस्थाय राज्ञे च दर्शयामास वीर्यवान् ।।४६
आर्यधर्मं कलौ स्थाप्य नष्टभूतं स वै नृपः ।
त्यक्त्वा प्राणांश्च यज्ञांशे तेजस्तस्य समागमत् ।।४७
आन्ध्रदेशोद्भवो राजा सुगदो नाम वीर्यवान् ।
विना भूपं च तं देशं दृष्ट्वा राज्यमचीकरत् ।।४८
विंशदब्दं पदं तेन कर्मभूम्यां च सत्कृतम् ।
तदन्वये षष्टिनृपा बभूवुर्बहुमार्गिणः ।।४९
पुष्यमित्रगते राज्ये दशोत्तरशतत्रयम् ।
तस्मिन्काले लयं जग्मुश्चान्ध्रदेशनिवासिनः ।।3.4.23.५०
शतार्द्धाब्दं ततो भूमिर्विना राज्ञा बभूव ह ।
तदा क्षुद्रा नरा लुब्धा लुण्ठिताश्चौरदारुणैः ।।५ १
दारिद्रमगमन्घोरं विना स्वर्णं च भूरभूत् ।
पुनर्देवश्च भगवान्प्रार्थितस्तानुवाच ह ।।५२
देशे कौशलके जातः सूर्य्यांशाच्य महीपतिः ।
राक्षसारिरिति ख्यातो देवमार्गपरायणः ।।५३
ममाज्ञया स वै राजा भविष्यति महीतले ।
इत्युक्त्वान्तर्दधे विष्णुर्देवलोकानुपागमत् ।।५४
राक्षसारिमयोध्यायां स्थापयामासुरेव तम् ।
आन्ध्रराष्ट्रे च यद्द्रव्यं राक्षसैश्च समाहृतम् ।।५५
तद्द्रव्यं राक्षसाञ्जित्वा ग्रामे ग्रामे चकार सः ।
तारधातोरष्टमूल्यं सुवर्णं भुवि तत्कृतम् ।।५६
आरधा(ध?)तोः शतं मूल्यं राजतं तेन वै कृतम् ।
ताम्रधातोः पञ्चमूल्यमारधातोश्च तत्कृतम् ।।५७
नागधातोः पञ्चमूल्यं भुवि तेनैव निर्मितम् ।
ताम्रं पवित्रमधिकं नागो वङ्गस्तथोत्तमः । । ५८
लौहधातोः शतं मूल्यं वङ्गोऽसौ तेन सत्कृतः ।
शतार्द्धाब्दं महीं भुक्त्वा सूर्यलोकमुपाययौ । । ५९
तदन्वये षष्टिनृपा जाता वेदपरायणाः ।
पुष्यमित्रगते राज्ये चाब्दे सप्तशते गते । । 3.4.23.६०
कौशलान्वयसम्भूता भूपाः स्वर्गमुपाययुः ।
शतार्द्धाब्दं ततो भूमिर्मण्डलीकं नृपं विना । । ६१
क्षुद्रभूपाश्च बुभुजे देशे देशे च भार्गवः ।
ततो बैदरदेशीयो नाम्ना भूपो विशारदः । । ६२
आर्यदेशमुपागम्य लक्षसैन्यसमन्वितः ।
क्षुद्रभूपान्वशीकृत्य मण्डलीको बभूव ह । । ६३
नानाकलैश्च कर्माणि विचित्राणि महीतले ।
ग्रामे ग्रामे नराश्चकुर्वर्णसङ्करकारकाः । । ६४
ब्रह्मक्षत्रमयो वर्णो नाममात्रेण दृश्यते ।
वैश्यप्राया नरा आर्याः शूद्रप्रायाश्च कारिणः । । ६५
तद्राष्ट्रे मनुजाश्चासन्नाममात्रं सुरार्चकाः ।
षष्टिवर्षं पदं तेन कर्मभूम्यां च सत्कृतम् । । ६६
ततो नृपा महीं प्राप्ताः षट्सङ्ख्यास्तु तदन्वयाः ।
पुष्यमित्रगते राष्ट्रे शतषोडशहायनी । । ६७
वैदूरा निधनं जग्मुः कलिकाले भयानके ।
चतुश्शतानि वर्षाणि क्षुद्ररूपा च भूरभूत् । । ६८
तत्पश्चान्नैषधे राष्ट्रं कालमाली नृपोऽभवत् ।
क्षुद्रभूपान्वशीकृत्य स्वयं राजा बभूव वै । । ६९
यमाभूया भुवि त्वष्ट्रा नगरी यमुनातटे ।
निर्मिता योजनायातु कालकालेति विश्रुता । । 3.4.23.७०
तत्रार्यदेश भूपानां पूज्यो राजा स चाभवत् ।
देवान्पितॄंस्तिरस्कृत्य प्रेतपूजां जने जने । । ७१
कालमाली च कृतवान्देशनैषधसंस्थितः ।
द्वात्रिंशद्वर्षराज्यं तद्बभूव जनपीडनम् । । ७२
तदन्वये षष्टिनृपा बभूवुः प्रेतपूजकाः ।
शताब्दांतमभूद्राज्यं तेषां नैषधदेशिनाम् । । ७३
सहस्राब्दं तु तत्पश्चात्क्षुद्रभूपा मही ह्यभूत् ।
सुरार्चनं वेदमार्गः श्रुतमात्रश्च दृश्यते । । ७४
पुष्यमित्रगते राज्ये चैकत्रिंशच्छते कलौ ।
द्वात्रिंशदुत्तरे चैव तदा देवाश्च दुःखिताः । । ७५
कृष्णचैतन्यमागम्य नत्वोचुर्वचनं प्रियम् ।
भगवन्कलिकालेऽद्य वर्णाश्चत्वारिभूतले १ । । ७६
भ्रष्टाचाराः प्रेतमयाः शतार्द्धाब्दप्रजीविनः ।
देवान्पितॄंस्तिरस्कृत्य पिशाचान्पूजयन्ति वै । । ७७
ग्रामे ग्रामे च कुघ्नानि पूजितानि नरैर्भुवि ।
दृश्यन्तेऽस्माभिरद्यैव दुःखिताश्च नरा भृशम् । । ७८
भूतप्रेतपिशाचाश्च डाकिनीशाकिनीगणाः ।
स्वपूजाभिर्मदान्धाश्च निन्दयन्ति सुरान्पितॄन् । । ७९
अतोऽस्मान्दुर्बलान्विद्धि सबलान्भूतनायकान् ।
कृपया पाहि नः स्वामिञ्छरणागतवत्सल । । 3.4.23.८०
इति श्रुत्वा स यज्ञांशो नदीहोपवने स्थितः ।
नम्रभूतान्सुरान्प्राह मागधे तु महीपतिः । । ८१
पुरञ्जयो ब्रह्मपरस्तस्य पत्नी पुरञ्जनी ।
मदाज्ञया तयोः पुत्रो भविष्यति महाबलः । । ८२
विश्वस्फूर्जिरिति ख्यातो ब्रह्ममार्गपरो गुणी ।
इत्युक्तवचने तस्मिन्गर्भं धत्ते पुरञ्जनी । । ८३
दशमासान्तरे जातो विश्वस्फूर्जिर्महाबलः ।
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी । । ८४
पुष्यमित्रो यथा चासीद्वर्णधर्मप्रवर्तकः ।
तथायं बालको जातो ब्रह्ममार्गपरो बली । । ८५
करिष्यति परो वर्णान्कलिन्दयदुमद्रकान् ।
प्रजाश्च ब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । । ८६
वीर्यवान्क्षत्रमुत्साद्य पद्मवत्याः स वै पुरम् ।
इत्याकाशवचः श्रुत्वा स नृपस्तु पुरञ्जयः । । ८७
ददौ दानं क्षुधार्तेभ्योऽतिथिभ्यस्सपरिच्छदः ।
अष्टौ वर्षसहस्राणि चाष्टवर्षशतानि च । । ८८
कर्मभूम्यां कलौ प्राप्ते व्यतीतानि तदा मुने ।
विश्वस्फूर्जिर्नृपश्चासीन्महाबुद्धो महाबलः । । ८९
क्षुद्रभूपान्वशीकृत्य सर्ववर्णान्नरांस्तदा ।
स्थापयामास वै ब्रह्मे वर्णे ब्रह्मपरायणे । । 3.4.23.९०
क्षत्रविट्च्छूद्रका वर्णाः पिशाचा वर्णसङ्कराः ।
गुरुण्डाद्यास्तथा म्लेच्छा ब्राह्मणास्ते बभूविरे । । ९१
सन्ध्यातर्पणदेवानां पूजादिविविधाः क्रियाः ।
चक्रुस्ते वेदविधिना तुल्यभोजनशीलिनः । । ९२
षष्टिवर्षं कृतं राज्यं तेन सम्यक्कृता मुने ।
तदन्वये नृपाश्चासन्सहस्रा भुवि विश्रुताः । । ९३
अयुताब्दान्तरे जाता ब्रह्ममार्गपरायणाः ।
तैश्च दत्तानि भागानि यज्ञमध्ये विधानतः । । ९४
दैत्येभ्यश्च सुरेभ्यश्च तुल्यरूपाणि चागमन् ।
विस्मिताश्च सुरास्सर्वे यज्ञांशं शरणं ययुः । । ९५
तदुक्तं कारणं ज्ञात्वा शक्रपुत्र उवाच तान् ।
वेदो नारायणः साक्षाद्विवेकी हंसरूपवान् । । ९६
नृणां च युगभेदेन वर्णभेदं चकार ह ।
तद्गुणो ब्राह्मणो वर्णः क्षत्रियस्तु रजोगुणः । । ९७
तमोगुणस्तथा वैश्यो गुणसाम्यात्तु शूद्रकः ।
तृप्तिं यान्ति पितुर्वृन्दा ब्राह्मणैः क्षत्रियैः सुराः । । ९८
वैश्यैश्च यक्षरक्षांसि क्षुद्रैर्दैत्याश्च दानवाः ।
एकवर्णे च चत्वारो वर्णाः कायस्थ एव सः । । ९९
भूतप्रेतपिशाचाद्याः कायस्थैस्तर्पितास्सदा ।
ब्रह्मवर्णे तु वर्णाश्च स्थिताश्चत्वारि साम्प्रतम् । । 3.4.23.१००
ब्रह्मशङ्करवर्णोऽयं तेभ्यः पूर्वं हि दानवाः ।
अर्द्धतृप्ता भविष्यन्ति तत्पश्चात्स्वर्गवासिनः ।। १०१
अतोऽहं च कलौ घोरे युष्मदर्थे महीतले ।
सौराष्टनृपतेर्गेहं स्वांशाद्यास्यामि भोः सुराः ।। १०२
इत्युक्त्वा स च यज्ञांशः सोमनाथः कलैकया ।
नाम्ना बभूव तद्गेहे सौराष्ट्रनगरीस्थितः ।। १०३
जित्वा भूपान्स्वयं राज्यं चकाराब्धितटे मुदा ।
क्षत्रवर्णमयी भूमिस्तदा जाता कलौ युगे ।। १०४
सोमनाथः स वै यज्ञैः सुरान्सर्वानतर्पयत् ।
शताब्दं च कृतं राज्यं तेन देवप्रसादतः ।। १०५
तस्य राज्यमयं संवदभवल्लोकविश्रुतम् ।
तदन्वये सार्द्धशतं भूपाश्चासन्सुरप्रियाः ।। १०६
अयुताब्दान्तरे किञ्चिदधिके च सुखप्रदाः ।
कर्मभूम्यां कलौ प्राप्ते हायना अयुतत्रयम् ।। १०७
व्यतीतं च ततो दैत्या दुःखिताः कलिमब्रुवन् ।
पुरास्समाभिः शताब्दं च तपसा वै महेश्वरः ।। १०८
तुष्टीकृतस्तदास्मभ्यं भवान्दत्तो हितेन वै ।
अर्धभागं वज्रमयमर्धभागं च कोमलम् ।। १०९
तवाङ्गं सुन्दरं देव कलेऽस्मान्रक्ष दुःखितान् ।
इति श्रुत्वा च स कलिर्देत्यपक्षविवर्द्धनः ।। 3.4.23.११०
स्वांशाज्जन्म कलौ प्राप्य गुर्जरे देशदारुणे ।
आभीरी सिंहिका नाम सिहमांसाशना खला ।। १११
तस्या योनौ समागम्य राहुर्नाम स चाभवत् ।
यथा राहुर्नभोमार्गे दारुणो हि विधुन्तुदः ।। ११२
तथा राहुः कलेरंशो भुवि जातः सुरन्तुदः ।
जातमात्रे सुते तस्मिन्भूमिकम्पो महानभूत् ।। ११३
विपरीता ग्रहाः सर्वे जनयन्ति महद्भयम् ।
तद्भयात्सकला देवास्त्यक्त्वा मूर्तीः समन्ततः ।। ११४
महेन्द्रं शरणं जग्मुः सुमेरुगिरिमूर्द्धनि ।
तदर्थे भगवाञ्छक्रस्तुष्टाव जगदम्बिकाम् । । ११५
कन्यामूर्तिमयी देवी सुरान्प्राह शिवङ्करी ।
ममाङ्गदर्शनाद्देवाः क्षुत्तृड्भ्यां च विना सदा । । ११६
भवध्वं च ततो यूयं मद्विलोकनतत्पराः ।
इति श्रुत्वा तु ते देवा हर्षिताः सम्बमूविरे । । ११७
आभीरीतनयो राहुः कृत्वा राज्यं शतं समाः ।
त्यक्त्वा प्राणान्कलौ लीनो बभूव मुनिसत्तम । । ११८
तदन्वये सार्द्धशतमयुताब्दान्तरेभवत् ।
महामदमतं घोरं चिरकालाद्विनाशितम् । । ११९
तैः पुनश्चोद्धृतं भूमौ सर्वे म्लेच्छा बभूविरे ।
न वेदाश्च न देवाश्च न वर्णाश्च कलौ युगे । । 3.4.23.१२०
दृश्यन्ते न च मर्यादा कलिकाले तदन्वये ।
द्विजशेषाः सहस्राश्च पुनरर्बुदमूर्द्धनि । । १२१
द्वादशाहं प्रयत्नेन देवानाराधितुं क्षमा ।
अर्बुदाच्च समुद्भूतो राजन्यः खड्गचर्मधृक् । । १२२
महेन्द्रं शरणं जग्मुः सुमेरुगिरिमूर्द्धनि ।
तदर्थे भगवाञ्छक्रस्तुष्टाव जगदम्बिकाम् । । ११५
कन्यामूर्तिमयी देवी सुरान्प्राह शिवङ्करी ।
ममाङ्गदर्शनाद्देवाः क्षुत्तृड्भ्यां च विना सदा । । ११६
भवध्वं च ततो यूयं मद्विलोकनतत्पराः ।
इति श्रुत्वा तु ते देवा हर्षिताः सम्बमूविरे । । ११७
आभीरीतनयो राहुः कृत्वा राज्यं शतं समाः ।
त्यक्त्वा प्राणान्कलौ लीनो बभूव मुनिसत्तम । । ११८
तदन्वये सार्द्धशतमयुताब्दान्तरेभवत् ।
महामदमतं घोरं चिरकालाद्विनाशितम् । । ११९
तैः पुनश्चोद्धृतं भूमौ सर्वे म्लेच्छा बभूविरे ।
न वेदाश्च न देवाश्च न वर्णाश्च कलौ युगे । । १२०
दृश्यन्ते न च मर्यादा कलिकाले तदन्वये ।
द्विजशेषाः सहस्राश्च पुनरर्बुदमूर्द्धनि । । १२१
द्वादशाहं प्रयत्नेन देवानाराधितुं क्षमा ।
अर्बुदाच्च समुद्भूतो राजन्यः खड्गचर्मधृक् । । १२२
जित्वा म्लेच्छान्दुराधर्षान्नाम्ना चार्वबली ह्यभूत् ।
पञ्चयोजनमाना स भूमिरात्मविवृद्धये । । १२३
निर्मिता तेन शुद्धेन नाम्ना चार्वपुरी स्मृता ।
शनैः शनैरार्यकुलं पुनस्तत्र ववर्द्ध ह । । १२४
शतार्द्धाब्दं प्रयत्नेन तेन राज्यं महत्कृतम् ।
तदन्वये सार्द्धशतं नृपाश्चासंस्तदा मुने । । १२५
अयुताब्दान्तरे वीरा म्लेच्छमित्राश्च सङ्कराः ।
म्लेच्छकन्योद्वहा घोरा नाममात्रार्य्यमार्गगाः । । १२६
तदा मलयदेशस्थैर्म्लेच्छैर्लक्षप्रमाणकैः ।
आर्वुदार्यैः समं युद्धमभवल्लोमहर्षणम् । । १२७
वर्षमात्रान्तरे जित्वा मालवस्था महाबलाः ।
मण्डलीकपदातैश्च मुक्तमार्यैः समन्ततः । । १२८
चत्वारिंशत्सहस्राणि वर्षाणि जगतीतले ।
म्लेच्छभूपाश्च शतशो बभूवुः स्वल्पजीविनः । । १२९
पंचविंशत्सहस्राणि तेषां संख्या च भूभुजाम् ।
ये तु पुण्या महीपालाः पूर्वजन्मतपोद्भवाः । । 3.4.23.१३०
तेषां लीला च मुनिभिः पुराणेषु प्रकीर्तिता ।
नानासंवत्कराः सर्वे पैशाचा धर्मदूषकाः । । १३१
नवत्यब्दसहस्राणि व्यतीतानि कलौ युगे ।
जाता म्लेच्छमयी भूमिरलक्ष्मीस्तु जनेजने । । १३२
</span></poem>
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये
कलियुगीयेतिहाससमुच्चयवर्णनं नाम त्रयोविंशोऽध्यायः । २३
247v6v63gcnauasbz852quuffjcb65u
सदस्यः:V(g)
2
25211
415833
415822
2026-05-11T05:49:13Z
EmausBot
3495
स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना।
415833
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]]
9vhg30k1e6nvvz0wv8aqv2lym7zg53g
फेत्कारिणीतन्त्रम्
0
164232
415831
2026-05-11T05:29:58Z
Shubha
190
{{header | title = फेत्कारिणीतन्त्रम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00190 Uniform title: phetkāriṇītantra Main title: phetkāriṇītant... नवीन पृष्ठं निर्मीत अस्ती
415831
wikitext
text/x-wiki
{{header
| title = फेत्कारिणीतन्त्रम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00190
Uniform title: phetkāriṇītantra
Main title: phetkāriṇītantra
Editor : caṭṭopādhyāya, rasika mohana
Description:
Notes:
Data entered by staff of Muktabodha under the supervision of Mark S.G. Dyczkowski
Revision 0: October 9, 2008
Publisher : Unknown, late 19th century
Publication year :
Publication city :
Publication country : India
----
चल्चुत्त एन्द् ओf १९थ् चेन्तुर्य. स्च्रिप्त् बेन्गलि
फेत्कारिणीतन्त्रम्
ओं नमः परमदेवतायै
क्रोधोज्ज्बलन्तीं ज्वलनं वमन्तीं
सृष्टिं दहन्तीं दितिजं ग्रसन्तीम् |
भीमं नदन्तीं प्रणमामि कृत्यां
रोरूयमाणां क्षुधयोग्रकालीम् || १/१ ||
उन्मत्तभैरवं नारसिंहडामरभैरवम् |
शिवाकारं मालिन्याद्यमसिताङ्गादियामलम् || १/२ ||
सिद्धयोगीश्वरी तन्त्रं योगिनीजालशम्बरम् |
दृष्ट्वा कृत्याविधिं फेत्कारिणीतन्त्रं विरच्यते || १/३ ||
पञ्चाशद्वर्णरूपात्मा मातृका परमेश्वरी |
तत्रोत्पन्ना निगद्यन्ते प्रत्येकं शिवशक्तितः || १/४ ||
अस्या एताः कलाः सर्वाः पञ्चाशद्वर्णसिद्धये |
तेभ्य एव समुत्पन्ना वर्णा ये विष्णुशूलिनोः || १/५ ||
मूर्तयः शक्तिसंयुक्ता उच्यन्ते ताः क्रमेण तु |
प्रथमं केशवः प्रोक्तस्ततो नारायणो मतः || १/६ ||
माधवोऽप्यथ गोविन्दो विष्णुश्च मधुसूदनः |
त्रिविक्रमस्तथा ख्यातो वामनः श्रीधरस्तथा || १/७ ||
हृषीकेशः पद्मनाभो दामोदर इति स्मृतः |
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः || १/८ ||
एते स्वरभवाः प्रोक्ताः कथ्यन्ते व्यञ्जनोद्भवाः |
चक्री गदी तथा शार्ङ्गी खड्गी शङ्खी हली तथा || १/९ ||
मुसली च ततः शूली पाशी चाप्यङ्कुशी तथा |
मुकुन्दो नन्दनो नन्दी नरो नरकजिद्धरिः || १/१० ||
कृष्णः सत्यस्तथा प्रोक्तः शाश्वतः शौरिरेव च |
शूरो जनार्दनः ख्यातो भूधरो विश्वमूर्तिकः || १/११ ||
वैकुण्ठश्च तथा प्रोक्तो नरोत्तमस्ततो बली |
बलाग्रजस्तथा बालो वृषघ्नश्च वृषोऽपि च || १/१२ ||
हंसो वराहो विमलो नृसिंह इति कीर्तितः |
कीर्तिः कान्तिस्तथा तुष्टिः पुष्टिर्धृतिरपि क्षमा || १/१३ ||
शान्तिः क्रिया दया मेधा इच्छा श्रद्धा तथा मता |
लज्जा लक्ष्मीसरस्वत्यौ प्रीती रतिरिमाः स्वराः || १/१४ ||
ऋद्धिः समृद्धिः शुद्धिश्च भक्तिर्बुद्धिर्मतिः क्षमा |
रमोमा क्लेदिनी क्लिन्ना वसुधा वसुदा परा || १/१५ ||
परा परायणा सूक्ष्मा सन्ध्या प्रजा प्रभा निशा |
अमोघा विद्युता चैव शक्तयः सर्वकामदाः || १/१६ ||
शङ्खचक्रधराः सर्वा घनाभाः पीतवाससः |
केशवाद्या निजाङ्गस्थाः शक्त्याऽलङ्कृतविग्रहाः || १/१७ ||
एता सस्मितवक्त्राश्च विद्युदाभाः प्रकीर्तिता |
कान्ता क्षान्ता च कीर्त्याद्याः कमलाभयपाणिकाः || १/१८ ||
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः |
अर्घीशो भारभूतिश्च मौलीशः शाल्वकोटरः || १/१९ ||
झिण्टीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः |
अक्रूरश्च महासेनः स्वरजा रुद्रमूर्तयः || १/२० ||
ततः क्रोधीशचण्डेशपञ्चान्तकशिवोत्तमाः |
अथैकरुद्रकर्मैकनेत्रोर्ध्वचतुराननाः || १/२१ ||
अजेशः सर्वसोमेशस्तथा लाङ्गलिदारुकौ |
अर्धनारीश्वर श्यामा कान्ताश्चाषाढिदण्डिनौ || १/२२ ||
अद्रिमाणश्च मेषश्च लोहितश्च तथा शिखी |
छगलण्डद्विरण्डेशौ महाकालकपालिनौ || १/२३ ||
भुजङ्गीशः पिनाकीशः खड्गीशश्चकरस्तथा |
श्वेतो भृङ्गीशनकुली शिवः संवर्तकस्तथा || १/२४ ||
एते रुद्राः स्ववर्णेभ्यो जाता उड्डनिभाननाः |
कान्तालिङ्गितदेहाश्च कपालशूलपाणयः || १/२५ ||
पूर्णोदरा च विरजा शाल्मली तदनन्तरम् |
लोलाक्षी वर्तुलाक्षी च दीर्घघोणा तथैव च || १/२६ ||
सुदीर्घमुखीगोमुख्योर्नवमी दीर्घजिह्विका |
कुण्डोदर्यूर्ध्वकेशी च ततो विकृतमुख्यपि || १/२७ ||
ज्वालामुखी तथा चोल्कामुखी च श्रीमुखी तथा |
विद्यामुखी स्वरोत्पन्नाः एताः स्युः स्वरशक्तयः || १/२८ ||
महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विते |
गौरी त्रैलोक्यविजया तथा मन्त्रान्तशक्तिका || १/२९ ||
भूतमाता लम्बोदरी भाविनी नागरी तथा |
खेचरी मज्जरी चैव रूपिणी वीरिणी तथा || १/३० ||
काकोदरी पूतना च भद्रकाल्यपि योगिनी |
शङ्खिनीगज्जिनीकालरात्रीकुब्जिन्य एव च || १/३१ ||
कपर्दिनी वज्रिणी च जया च सुमुखेश्वरी |
रेवती माधवी चैव वारुणी वायवी तथा || १/३२ ||
रक्षोपधारिणी चान्या तथैव सहजाह्वयाः |
लक्ष्मीश्च व्यापिनी माया ख्यातास्तु शिवशक्तयः || १/३३ ||
रुद्राङ्गस्था जवाभासा रतिसुन्दरविग्रहाः |
रक्तोत्पलकपालाभ्यां विबद्धबाहवस्तथा || १/३४ ||
पुंप्रकृत्या स्वरूपाया मातृकायाः शुभोपमाः |
मात्राज्ञातस्त्रिलिङ्गाद्यैर्भिन्नाः क्रूराश्च नामभिः || १/३५ ||
पुंलिङ्गा हुंफडन्ताश्च स्वाहान्ता योषितो मताः |
नपुंसका नमोऽन्ताश्च इत्युक्ता मनवस्त्रिधा || १/३६ ||
मन्त्रविद्याविभागेन ते पुनर्द्विविधा मताः |
ते स्युः पुंदेवता मन्त्रा विद्याः स्त्रीदेवतास्तथा || १/३७ ||
पुंमन्त्राः क्लीबमन्त्राश्च योषिन्मन्त्राश्च मारणे |
शान्त्यभिचारयोर्ग्राह्या यथा जप्यन्तु मन्त्रिभिः || १/३८ ||
सौम्यमन्त्राः प्रधानाख्याः संयोज्याः क्रूरकर्मणा |
आसीन्मन्त्रस्तु हंसाख्यो वर्णस्तु परमात्मनः || १/३९ ||
सोऽहमिति गतोऽद्वैतमद्वैतं हंसलोपतः |
कण्ठं भित्त्वा विनिर्यातो हंसवर्णविलोपतः || १/४० ||
स चादिध्वनिसम्पन्नो ब्रह्मविष्णुशिवात्मकः |
त्रैलोक्येऽपि ततो जातास्त्रयो वेदा गुणास्त्रयः || १/४१ ||
त्रयोऽग्नयस्त्रय कालास्त्रयो दोषा स्वरास्त्रयः |
प्रकर्षार्णवतां प्राप्ता महाध्वनि ध्रुवादयः || १/४२ ||
उकारः कुटिलः प्रोक्तो मकारः काल एव च |
ऐन्द्रो बली लकारश्च हंसोऽप्यथ ह उच्यते || १/४३ ||
विन्ध्यवासिनी माया च इकारस्तु कुचद्वयम् |
माया लज्जा च क्रींकारो हुंकारो कूर्च उच्यते || १/४४ ||
द्विठः स्वाहा समाख्याता कालाग्निर्व्यापकोऽङ्कुशः |
अस्त्रं फडित्यतो ब्रह्मा दक्षकर्णादितः शिवः || १/४५ ||
सकारस्तु भृगुप्राणौ नो वाणी पावकाशनः |
नागेशोज्ज्वलनो रेफो रकारस्त्विन्दुरीरितः || १/४६ ||
सकुलो भग एकार उकारः शिव उच्यते |
दक्षवामाविति प्रोक्तौ पाशी ऋः परिकीर्तितः || १/४७ ||
लोलाक्षिका लकारश्च हकारो नकुलीश्वरः |
इन्द्रासनगतो ब्रह्मा स त्रिमूर्तिश्च मन्मथः || १/४८ ||
द्रौं ज्योतिस्त्रितत्त्वं ह्रीं हुं कूर्चः क्रोध ईरितः |
वायुर्यकारो विख्यातो जीमूतः कथितो बुधैः || १/४९ ||
वह्नेरूर्ध्वगतो महादिसहितो वर्णो नृसिंहान्वयः |
सार्णं वामविलोचनेव शशभृत् खण्डेन्दुमुक्तो ग्रहः ||
कौलिन्याः कथितं तदेतदमलं बीजं न्यसेत् सादरं |
भूतप्रेतपिशाचचेटकभये रक्षा भवेद् व्याहृतम् || १/५० ||
ह्सौस्तार्तीय इत्युक्तो ह्सौर्ज्ञेयः सदाशिवः |
शून्यं ह इति कथितो भैरवाद्यैः समाहितैः || १/५१ ||
इति फेत्कार्णीतन्त्रे मन्त्रकोषविवरणं नाम प्रथमः पटलः ||
द्वितीयः पटलः
श्रीशिव उवाच
अथ कुण्डविधिं वक्ष्ये शान्तिकादिक्रमेण च |
शान्तिके चतुरस्रं स्यात् पौष्टिके वृत्तमेव च || २/१ ||
त्रिकोणमभिचारे तु पञ्चास्रं मारणे मतम् |
षडस्रं मोहने चैव सप्तास्रं स्तम्भने मतम् || २/२ ||
शत्रूच्छेदे तथाष्टास्रं नवास्रं व्याधिहा मतम् |
होमे तु कारयेत् कुण्डमेकमेवैकहस्तकम् || २/३ ||
चतुरस्रं त्रिकोणं वा वृत्तञ्च मेखलात्रयम् |
सैकतैः स्थण्डिलं कुर्याच्चतुरङ्गुलसंस्थितम् || २/४ ||
चतुरस्रं तु पूर्वस्यां कुण्डं साम्राज्यसिद्धिदम् |
शत्रूणां तापने शस्तं योन्याख्यं वह्निकोणगम् || २/५ ||
अर्धचन्द्रं तु याम्यायां शत्रूणां मारणे मतम् |
त्रिकोणं नैर्-ऋतेः कोणे रिपूणां व्याधिवर्धनम् || २/६ ||
वारुण्यां तु सदावृत्तमायुःश्रीपुष्टिवर्धनम् |
वायव्यां तु षडस्रन्तु शत्रूणां मारणे हितम् || २/७ ||
सौम्यायां पद्मसंज्ञं तु श्रीमेधापुष्टिदं नृणाम् |
सर्वकामप्रदं कुण्डमैशान्यामष्टकोणकम् || २/८ ||
इति फेत्कारिणीतन्त्रे द्वितीयः पटलः ||
तृतीयः पटलः
अथ स्रुक् च स्रुवविधिं वक्ष्येऽहमवधारय |
षट्त्रिंशदङ्गुला स्रुक् स्याच्चतुर्विंशाङ्गुलः स्रुवः || ३/१ ||
मुखं कण्ठस्तथा वेदी सप्त चैवाष्टभिः क्रमात् |
आयामानाहतो दण्डो विंशतिश्चतुरङ्गुलः || ३/२ ||
वेदरामाङ्गुलैः कुण्डो गण्डी द्विचतुरङ्गुला |
खातं वेदाङ्गुलैर्वृत्तमङ्गुलद्वितयं खनेत् || ३/३ ||
मेखला द्व्यङ्गुला तद्वच्छोभाशेषं विचिन्तयेत् |
वेदीं त्र्यङ्गुलविस्तारां कुर्यात् कुण्डमुहाग्रयोः || ३/४ ||
कनिष्ठाग्रमितं वक्त्रं स्रवद्घृतविनिर्गमे |
कार्षिकं द्व्यंगुलं खातं पङ्के मृगपदाकृतिः || ३/५ ||
द्वाविंशत्यङ्गुलो दण्ड आनाहश्चतुरङ्गुलः |
कुण्डमूलाग्रयोर्गण्डी स्रुवे काञ्चनवद् भवेत् || ३/६ ||
सुवर्णरूप्यताम्रैर्वा स्रुक्स्रुवौ दारुजावपि |
अयोमयौ च स्रुक्स्रुवौ कारस्करमयावपि || ३/७ ||
नागेन्द्रतनये विल्वः क्षुद्रकर्मणि संस्थितौ |
चन्दनं खादिराश्वत्थप्लक्षचूतविकङ्कताः || ३/८ ||
शम्यामलकसारश्च पलाशश्चेति दारवः |
अस्त्राङ्गमूलविद्याभिः स्नानं कुर्याद् यथाविधि || ३/९ ||
पूजाप्रदेशमागत्य दत्त्वा चार्घ्यं विवस्वते |
गन्धपुष्पादिभिः सम्यग् द्वारपूजां समाचरेत् || ३/१० ||
कांस्यघण्टार्चनं कृत्वा द्वारमाच्छाद्य वाससा |
कृत्वोपवीतं हस्तश्च उत्तरप्राङ्मुखः शुचिः || ३/११ ||
उपविश्यासनं योज्यं पद्मं स्वस्तिकमेवं वा |
पद्मासने च विद्यार्थी कुर्यात् सर्वं समाहितः || ३/११ ||
प्राङ्मुखोदङ्मुखो वापि वक्ष्यमाणक्रमेण तु |
श्रीकामः स्वस्तिकेनेह पश्चिमाभिमुखेन तु || ३/१२ ||
आसीनः प्रणवेनाथ परामृज्य करावुभौ |
अङ्गुलीषु च विन्यस्य अङ्गमन्त्राणि वै क्रमात् || ३/१३ ||
अस्त्रमन्त्रेण दिग्बन्धं कुर्यात् सर्वासु दिक्षु च |
अग्निप्राकारवत् कृत्वा ततो मन्त्रेण सर्वतः || ३/१४ ||
प्राणायामत्रयं कुर्यान्मन्त्रेण प्रणवेन वा |
उच्चारयेत्तु प्रणवं स्वरेणैकेन मन्त्रवित् || ३/१५ ||
उदरं पूरयित्वा तु वायुना यावदास्थितः |
प्राणायामो भवत्येवं पूरको देहपूरकः || ३/१६ ||
पिधाय सर्वगात्राणि निश्वासोच्छ्वासवर्जितः |
पूर्णकुम्भवत्तिष्ठेत्तु प्राणायामः स कुम्भकः || ३/१७ ||
मुञ्चेद् वायुं तथैकेन पूरयेच्चैव मन्त्रवित् |
निश्वासयोगमुक्तस्तं वायुं बाह्येन रेचयेत् || ३/१८ ||
रेचकाह्वयः सम्प्रोक्तः प्राणायामो न संशयः |
जानू प्रदक्षिणीकृत्य न द्रुतं न बिलम्बितम् || ३/१९ ||
क्रियते चाङ्गुलीस्फोटः सा मात्रा परिकीर्तिता |
ततो द्वादशमात्राभिः पूरकः क्रियते तु वै || ३/२० ||
तस्माद् द्विगुणमात्राभी रेचकः क्रियते तथा |
प्राणायामत्रयं चैव एकैकं त्रितयात्मकम् || ३/२१ ||
लिङ्गकार्यं हृदिस्थं तु चैतन्यं सर्वसाक्षिणम् |
प्रणवेन विनिःसार्य ब्रह्मरन्ध्राद् बहिर्बुधैः || ३/२२ ||
तेनैव संपुटीकृत्य मस्तकोपरि विन्यसेत् |
चैतन्यरहितं देहं वाह्यंचाभ्यन्तरं तथा || ३/२३ ||
नाभिमण्डलमध्यस्थं वायुमण्डलमध्यगम् |
यं वर्णं धूम्रवर्णन्तु ध्यात्वा तेन विशोधयेत् || ३/२४ ||
अग्निमण्डलसंस्थेन जीवेनाग्निस्वरूपिणा |
निर्दहेदथ तं भस्मराशिं देहाकृतिं भवेत् || ३/२५ ||
भ्रूमध्यगं हृदिस्थं वा ध्यायेदरुणमण्डलम् |
अर्धचन्द्राकृतिं श्वेतं पद्मद्वयपदान्वितम् || ३/२६ ||
तत्रस्थेन वकारेण प्लावयेन्मधुरूपिणा |
बीजन्तु पार्थिवं न्यस्य चिन्तयेद् व्योममण्डलम् || ३/२७ ||
प्रणवेन द्विधा कृत्वा तत्र चैतन्यरूपिणम् |
मस्तकोपरि विन्यस्य चैतन्येन च योजयेत् || ३/२८ ||
अमृतप्लाविताद् वर्णात् सद्योजातमकल्मषम् |
आत्मानं चिन्तयेन्मन्त्री देवतारूपिणं ततः || ३/२९ ||
ऋषिच्छन्दोदैवतानि स्मृत्वा न्यासं समाचरेत् |
अङ्गन्यासकरन्यासौ देहन्यास इति त्रिधा || ३/३० ||
उत्प्त्तिस्थितिसंहारभेदभिन्नं गुणेन सः |
प्रथमं स्यात् करन्यासो देहन्यासस्तु मध्यमः || ३/३१ ||
अङ्गन्यासस्तृतीयः स्यादिति शास्त्रस्य निर्णयः |
ओंकारं सम्पुटीकृत्य मनुना व्यापकं न्यसेत् || ३/३२ ||
कूर्परादिकनिष्ठान्तं करन्यासास्तु पूर्वतः |
सर्वाङ्गेषु च विन्यस्य क्रमेणैवोत्क्रमेण तु || ३/३३ ||
दक्षिणाङ्गष्ठमारभ्य वामाङ्गष्ठं तथा ततः |
औत्पत्तिकोऽस्ति मन्त्राणां संहाराख्यो विपर्ययः || ३/३४ ||
दक्षिणाङ्गुष्ठमारभ्य उभयोरपि हस्तयोः |
कनिष्ठान्तं भवेन्न्यासः स्थितिर्नाम महोदयः || ३/३५ ||
शिरःप्रभृतिपादान्तं न्यासस्योत्पत्तिरिष्यते |
पादादिकः शिरोऽन्तस्तु सोऽपि संहरणो भवेत् || ३/३६ ||
उदरोपक्रमो न्यासो हृदयान्तः स्थितिर्भवेत् |
मन्त्राक्षराणां विन्यासेऽप्ययमेव क्रमोत्तमः || ३/३७ ||
हृदि मूर्ध्नि शिखास्थाने बाहौ पार्श्वे च दिक्षु च |
नेत्रयोरङ्गमन्त्राणां षण्णां न्यासक्रमो भवेत् || ३/३८ ||
अस्त्रान्तान्यङ्गमन्त्राणि शैवे शाक्ते विदुर्बुधाः |
नेत्रान्तानि तथोक्तानि वैष्णवे न्यासपूजयोः || ३/३९ ||
हृदये विधिवत् कार्यो न शिरसि ठद्वयम् |
वषट् शिखायां कथितं कवचे हुमिति स्मृतम् || ३/४० ||
नेत्रेण वौषट् कथितं न्यासनीयन्तु फट् तथा |
तेऽङ्गुष्ठवर्जमङ्गुल्यश्चतस्रो हृदि मूर्धनि || ३/४१ ||
शिखायां मुष्टिरेव स्यादङ्गुष्ठकृतनासिकः |
सर्वाङ्गुलीभिर्वा नाभौ पाण्योः कवचबन्धने || ३/४२ ||
तर्जन्यादित्रयं नेत्रे हस्ते हस्ततलद्वयम् |
हस्तैर्विन्यस्य .........टतो वै बन्धयेद् दिशः || ३/४३ ||
अङ्गुष्ठतर्जन्यग्राभ्यां दिशः पूर्वादिकाः क्रमात् |
पञ्चाङ्गानि यदोक्तानि तदा नेत्रं परित्यजेत् || ३/४४ ||
अनुक्ताङ्गेषु मन्त्रेषु पदशो वर्णशोऽपि वा |
तेनैवाङ्गानि कल्पानि मन्त्रेण सकलेन वा || ३/४५ ||
उत्पत्तिसंज्ञको न्यासः संहाराख्यो यतेर्भवेत् |
ऋषिच्छन्दोदैवतानि शिरोवदनहृत्सु च || ३/४६ ||
स्मरेद् जापादावात्मनि नमस्कृत्य ततोऽर्चयेत् |
प्राणायामत्रयं कृत्वा प्रविश्य हृदयाम्बुजम् || ३/४७ ||
देवतां तत्र सञ्चिन्त्य मनसाराधयेत्ततः |
येन क्रमेण वै मन्त्रैर्द्रव्यैर्नानाविधैः शुभैः || ३/४८ ||
तेन क्रमेण तेनैव मानसो याग ईरितः |
न वा चोच्चारयेन्मन्त्रं मनसैव मनुं स्मरन् || ३/४९ ||
मुद्रां प्रदर्शयेत्तत्र देवतां भावयेत् पराम् |
तत्र चावाहनं नेष्टं हृदये मानसार्चने || ३/५० ||
आराध्य मनसा भक्त्या बाह्यपूजामथाचरेत् |
स्थानशुद्धिं द्रव्यशुद्धिं कृत्वा पात्राणि शोधयेत् || ३/५१ ||
अर्घ्यपात्रादिकं तेषु कल्पयेद् विधिपूर्वकम् |
पीठपूजां विधायाथ तत्र वा इष्टदेवताम् || ३/५२ ||
पूजयेत् परया भक्त्या विधिदृष्टेन कर्मणा |
आसनावाहने चार्घ्यं पाद्यमाचमनं तथा || ३/५३ ||
स्नानं वासोपवीतञ्च भूषणानि च सर्वशः |
गन्धं पुष्पं तथा धूपं दीपमन्नञ्च तर्पणम् || ३/५४ ||
माल्यानुलेपनं चैव नमस्कारविसर्जनम् |
अष्टादशोपचाराश्च तैश्च पूजां समाचरेत् || ३/५५ ||
शक्तिभिर्मूर्तिभिश्चैव लोकपालैश्च संयुतः |
पीठमन्त्रैः समायोगो नित्ययागः स उच्यते || ३/५६ ||
पीठेनैव समस्तेन बहिरावरणैर्विना |
मन्त्रपूर्वकृतो यागो नित्ययागः स मध्यमः || ३/५७ ||
अग्निकार्येण हविषा भूषणैश्च समन्वितम् |
द्रव्यशुद्धिसमायुक्तमुत्तमं पूजनं तथा || ३/५८ ||
अग्निकार्यविहीनं तु कालमङ्गं निवेद्य च |
उपचारैर्युतं सर्वं मध्यमं पूजनं स्मृतम् || ३/५९ ||
वस्त्रालङ्कारशोभादि वर्जयित्वा पृथग्विधि |
केवलं पुण्ययोगं तु कनिष्ठं पूजनं भवेत् || ३/६० ||
उशीरं चन्दनं चैव पात्रमात्रे तु कल्पयेत् |
जातीकर्पूरकक्कोलबहुमूलं तमालकम् || ३/६१ ||
चूर्णयित्वा तथा न्यायं क्षिपेदाचमनीयके |
कुशाग्राण्यक्षतं चैव यवव्रीहितिलानपि || ३/६२ ||
आज्यसिद्धार्थपुष्पाणि निक्षिपेदर्घ्यपात्रके |
माक्षिकं शर्करासर्पिर्दधिक्षीरयुतं सदा || ३/६३ ||
मधुपर्कं कल्पयित्वा प्रदद्याद्विधिपूर्वकम् |
उशीरं कुङ्कुमञ्चैव मांसी मलयजं तथा || ३/६४ ||
मुराञ्चैव तु ह्रीवेरं कुष्ठञ्चागुरुमेव च |
अष्टाङ्गान्यत्र गन्धस्य वैष्णवे कथितान्यपि || ३/६५ ||
रोचनाकपिकाश्मीरमांसी त्वगुरुचन्दनैः |
षष्ठो वैष्णवगन्धोऽयं शैवे शाक्ते च शस्यते || ३/६६ ||
आसनं स्वागतं चार्घ्यं पाद्यमाचमनीयकम् |
मधुपर्काचमनस्नानवसनाभरणानि च || ३/६७ ||
गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा |
प्रयोजयेत्तदर्चायामुपचारांस्तु षोडश || ३/६८ ||
अर्घ्यपाद्यासनमधुपर्कमाचमनान्यपि |
गन्धादिका नैवेद्यान्ता पूजा पञ्चोपचारिका || ३/६९ ||
सपर्या त्रिविधा प्रोक्ता तासामेकां समाश्रयेत् |
मनसाराधितं ध्यात्वा वामनासापुटेन तु || ३/७० ||
प्रणवेनाज्जलिं कृत्वा न्यसेद् दारुचितासने |
हृदयेनाथ मन्त्रेण कल्पयित्वा तु सन्निधिम् || ३/७१ ||
सन्निरोधं ततः कुर्यान्मन्त्रेण कवचेन तु |
प्रणवेनाभिमुख्यञ्च कृत्वा न्यासं विधाय च || ३/७२ ||
स्वदेहवद् देवदेहे ततः पाद्यादि कल्पयेत् |
पाद्यञ्च पादयोर्दद्यादर्घ्यं शिरसि दीयते || ३/७३ ||
मुखे चाचमनीयं स्यान्मधुपर्कञ्च तत्र वै |
पुनराचमनं वक्त्रे दद्यान्मन्त्रविशारदः || ३/७४ ||
पाद्यं सम्पादयाम्यस्मै इति पाद्यादि कल्पयेत् |
प्रणवादिनमोऽन्तेन मन्त्रेणानेन संयुतः || ३/७५ ||
आदावन्ते च पूजायामत्यन्तं मूलविद्यया |
पाद्यार्घ्याचमनीयानि दद्यादेतानि देशिकः || ३/७६ ||
विसर्जनं यदात्मन्यारोपणञ्च अपेक्षितम् |
मण्डलादौ तथाचम्य क्रमस्तस्य विवक्षितः || ३/७७ ||
सपुष्पाभ्याञ्च हस्ताभ्यां ध्यायेदेवं तु साधकः |
यागभूमिगते देव पारावारांस्तु संस्मरेत् || ३/७८ ||
ध्यायेद् देवं ततो वक्त्रे हृदये तदनन्तरम् |
भुक्तिमुक्तिप्रदं देवं प्रसन्नवदनेक्षणम् || ३/७९ ||
तथात्मानं तु तं देवमेकीकृत्य विचिन्तयेत् |
विसर्जनं यदान्यत्र विमुख्यार्घ्यं तदा ददेत् || ३/८० ||
यथासुखासितोऽन्यत्र गच्छस्वेति विसर्जयेत् |
आचार्यैस्तु ततोऽन्यत्र क्वचिन्नेष्टं विसर्जनम् || ३/८१ ||
किन्तु तत्रैव हस्ताभ्यां पूर्ववत्तु निवेदयेत् |
यथाशक्ति जपं कृत्वा प्राणायामत्रयं तथा || ३/८२ ||
विमुच्याङ्गानि च पुनरित्थं देवं विसर्जयेत् |
जपकाले यदा पश्येदशुचिर्मन्त्रवित्तमः || ३/८३ ||
प्राणायामं ततः कृत्वा ततः शेषं समाचरेत् |
यदा चैव जपेन्मन्त्री स्वयमस्य शुचिः पुनः || ३/८४ ||
स्नात्वा चैव यथापूर्वं न्यासं कृत्वा पुनर्जपेत् |
पुरश्चरणकानीह एतानि कथयाम्यतः || ३/८५ ||
भैक्ष्यादिसुमिताहारः सकृदादौ विधीयते |
दिवा चैव जपं कुर्यात् पुरश्चरणिको द्विजः || ३/८६ ||
शाकयावकभक्ष्याशी चणकैः सह सर्पिषा |
दध्ना मूलैः फलर्वापि कुर्यादशनमन्वहम् || ३/८७ ||
ब्रह्मचर्यं तथैवोक्तं स्नानं त्रिषवणं तथा |
पूर्वाह्ने देवतायाश्च पूजां कुर्याद् विशेषतः || ३/८८ ||
यावैर्यवान्नं शाकञ्च पयो भक्ष्यं हविष्यकम् |
पूर्वं पूर्वं प्रशस्तं स्यादशनं मन्त्रसाधने || ३/८९ ||
सर्वमन्त्राः प्रयोक्तव्याः प्रायशः प्रणवादिकाः |
अनन्यचेता आसीनो वाग्यतो विहितासनः || ३/९० ||
अनुतिष्ठेत्तु मन्त्राणि गुरुवन्दनपूर्वकम् |
क्षेत्रं तीर्थं वनारामदेवालयनदीह्रदाः || ३/९१ ||
कुटीविविक्तमित्येते देशाः स्युर्न्मन्त्रसिद्धिदाः |
मन्त्रं सदेवताभावमाचारेषु च जाप्यतः || ३/९२ ||
कृष्णाष्टमीचतुर्दश्योर्ग्रहणादौ विशेषतः |
उच्चैर्जपाद्विशिष्टं स्यादुपांशुर्दशभिर्गुणैः || ३/९३ ||
जिह्वाजपः शतगुणः सहस्रो मानसो जपः |
दशलक्षजपादेकवर्णो मन्त्रः प्रसिध्यति || ३/९४ ||
वर्णवृद्ध्या जपे ह्नासस्तेनान्येषां समूहयेत् |
बीजाद् द्वित्रिगुणं मन्त्रं मालासन्धौ जपक्रियाम् || ३/९५ ||
विंशत्यर्णाधिका मन्त्रा मालामन्त्रा इति स्मृताः |
दशाक्षराधिका मन्त्रास्तदर्धा बीजसंज्ञकाः || ३/९६ ||
वार्धके सिद्धिदा मन्त्रा मालामन्त्रास्तु यौवने |
पञ्चाक्षरात्मका बाल्ये मन्त्रास्ते सिद्धिदाः परे || ३/९७ ||
जपाद् दशांशं सर्वत्र हवनं तर्पणं विदुः |
द्रव्याशक्तौ घृतं होमे त्वशक्तः सर्वतो जपेत् || ३/९८ ||
मूलमन्त्राद् दशांशं स्यादङ्गादीनां जपक्रिया |
अशक्तावुक्तहोमस्य जपस्तु द्विगुणो भवेत् || ३/९९ ||
येषां जपे च होमे च संख्या नोक्ता मया प्रिये |
तेषामष्टसहस्राणि संख्योक्ता जपहोमयोः || ३/१०० ||
स्वाहान्तेनैव मन्त्रेण कुर्याद् होमं बलिं तथा |
नमोऽन्तेन नमस्कारमर्चनञ्च समाचरेत् || ३/१०१ ||
मन्त्रान्ते नाम संयोज्य तर्पयामीति तर्पणम् |
संख्या नोक्ता जपे होमे चाष्टोत्तरसहस्रकम् || ३/१०२ ||
पौष्टिकादीनि कर्माणि यद्वारतिथियोगतः |
प्रारब्धव्यानि विधिना तच्च संप्रोच्यते मया || ३/१०३ ||
पञ्चमी च द्वितीया च तृतीया सप्तमी तथा |
बुधेज्यवारसंयुक्ता शान्तिकर्मणि पूजिता || ३/१०४ ||
गुरुचन्द्रयुता षष्ठी चतुर्थी च त्रयोदशी |
सप्तमी पौष्टिके शस्ता अष्टमी नवमी तथा || ३/१०५ ||
दशम्येकादशी चैव भानुशुक्रदिनान्विता |
आकर्षणे त्वमावास्या नवमी प्रतिपत्तथा || ३/१०६ ||
पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्मणि |
कार्ष्णी चतुर्दशी तद्वदष्टमी मन्दतारका || ३/१०७ ||
उच्चाटने तिथिः शस्ता प्रदोषेषु विशेषतः |
चतुर्दश्यष्टमी कृष्णा अमावस्या तथैव च || ३/१०८ ||
मन्दारकदिनेऽप्येताः शस्ता मारणकर्मणि |
बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा || ३/१०९ ||
पौर्णमासी च विज्ञेया तिथिः स्तम्भनकर्मणि |
शुभग्रहोदये कुर्यादशुभान्यशुभोदये || ३/११० ||
रौद्रकर्मणि रिक्तार्के मृत्युयोगे च मारणम् |
सूर्योदयं समारभ्य घटिकादशकं क्रमात् || ३/१११ ||
ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने |
वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः || ३/११२ ||
हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि |
शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः || ३/११३ ||
प्रावृडुच्चाटने ज्ञेया शरन्मारणकर्मणि |
संलिखेत् स्तम्भनं कुम्भे हर्यक्षे वृश्चिकोदये || ३/११४ ||
द्वेषोच्चाटादिकं नक्रकुलीराजतुलोदये |
मेषकन्याधनुर्मीने वश्यशान्तिकपौष्टिकम् || ३/११५ ||
मारणं चाष्टमे राशौ रिपोर्भेदादिनिग्रहम् |
वश्यं पूर्वेऽह्णि मध्याह्ने विद्वेषोच्चाटनं लिखेत् || ३/११६ ||
शान्तिपुष्टिस्त्वहन्यन्ते सन्ध्याकाले तु मारणम् |
अर्धरात्रे लिखेत् स्तम्भमाकृष्टिं प्राग् दिनोदयात् || ३/११७ ||
यदन्यच्छोभनं कार्यं तत् प्रत्यूषे लिखेद् बुधः |
इन्द्रे स्तम्भनमुच्चाटमग्नौ सर्वाभिचारकम् || ३/११८ ||
याम्ये रक्षसि विद्वेषं शान्तिं वरुणसोमयोः |
कुलोत्सादं मरुद्भागे पक्षे कलहनिग्रहौ || ३/११९ ||
कुर्वीत नोदितं कर्म यच्छुभं ब्रह्मणः पदे |
वश्याकृष्टौ लिखेद् भूर्जे लिखेदुच्चाटनं ध्वजे || ३/१२० ||
गर्दभत्वचि विद्वेषं स्तम्भनं गजचर्मणि |
प्रेतचीरे समालिख्य तापज्वरादिमारणम् || ३/१२१ ||
विवादे च स्तम्भनादि शिलायामपि मोहनम् |
वश्यां कुङ्कुमकर्पूररोचनाभिर्हरिद्रया || ३/१२२ ||
यावेन स्तम्भनाकृष्टिं लिखेच्चानामिका स्मृता |
विद्वेषणं स्वरक्तेन काकरक्तेन मारणम् || ३/१२३ ||
मोहं विद्वेषरक्तेन उच्चाटं चोष्ट्रजासृजा |
विद्वेषोच्चाटनं काकपक्षेणापि च मारणम् || ३/१२४ ||
वश्ये चाकर्षणे स्तम्भे रक्तवर्णं विचिन्तयेत् |
निर्विषीकरणे स्तम्भे रक्तवर्णं विचिन्तयेत् || ३/१२५ ||
शान्तौ पुष्टौ चाप्यायने सितम् |
पीतं स्तम्भनकार्येषु धूम्रमुच्चाटने स्मरेत् || ३/१२६ ||
उन्मादे शक्रगोपाभं कृष्णवर्णं तु मारणे |
आसनं श्वेतरूपं तु सात्त्विकं समुदाहृतम् || ३/१२७ ||
यानमार्गे स्थितं पीतं राजसं परिकीर्तितम् |
दण्डमानस्थितं रौद्रं कृष्णं तामसमुच्यते || ३/१२८ ||
सात्त्विकं मोक्षकामानां राजसं राज्यमिच्छताम् |
तामसं शत्रुनाशार्थं सर्वव्याधिनिवारणम् || ३/१२९ ||
सर्वोपद्रवशान्त्यर्थं तामसं तु विचिन्तयेत् |
रुद्राः सतार्क्ष्यगन्धर्वयक्षरक्षोहिकिन्नराः || ३/१३० ||
पिशाचभूतदैत्येन्द्रसिद्धाः किंपुरुषाः सुराः |
सर्वेषामपि मन्त्राणामंशाः पञ्चदश स्मृताः || ३/१३१ ||
केचिदष्टादश प्राहुः समग्राणां नृणां मताः |
द्व्यक्षरी कर्तरी सूची त्र्यक्षरी चतुरक्षरैः || ३/१३२ ||
मुद्गरो मुषलः पञ्चवर्णः षड्भिस्तु शृङ्खलाः |
कवचः सप्तभिः शूलश्चाष्टाभिर्नवभिः परः || ३/१३३ ||
शक्तिश्च दशभिश्चैकादशभिः परशुः स्मृतः |
चक्रं द्वादशभिर्वर्णैः कुलिशं स्यात् त्रयोदशैः || ३/१३४ ||
द्विसप्तभिश्च नाराचभुसुण्डी पक्षवर्णकाः |
पद्मं षोडशभिर्वर्णैर्मन्त्रच्छेदे तु कर्तरी || ३/१३५ ||
भेदेन कथिता सूची भुञ्जानो मुद्गरः स्मृतः |
मुषलः क्षोभणे बन्धे शृङ्खलः क्रकचच्छिदि || ३/१३६ ||
घाते शूलं परिस्तम्भे शक्तिराकृष्टिकर्मणि |
विद्वेषे परशुं चक्रं सर्वकर्मसु योजयेत् || ३/१३७ ||
सन्धाने कुलिशः प्रोक्तो नाराचः सैन्यभेदने |
भुसुण्डी मारणे पद्मं शान्तिपुष्ट्यादिकर्मणि || ३/१३८ ||
चक्रं तु रञ्जकं कर्म ऊर्ध्वं नैवं प्रयोजयेत् |
क्वचिदेवं दर्शितं तु तत्त्वागमविरोधि च || ३/१३९ ||
सहस्राक्षरमन्त्रादेः प्रयोगविधिदर्शनात् |
यथाकामो जपः कार्यो मन्त्राणामपि मे शृणु || ३/१४० ||
मन्त्रादौ योजनं नाम्नः पल्लवः परिकीर्तितः |
मारणे विषसंहारे ग्रहभूतविनिग्रहे || ३/१४१ ||
उच्चाटने च विद्वेषे पल्लवो हि प्रशस्यते |
मन्त्रादौ नामसंस्थानं योग इत्यभिधीयते || ३/१४२ ||
शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विशोधने |
मोहने दीपने योगं प्रयुञ्जन्ति मनीषिणः || ३/१४३ ||
स्तम्भनोच्चाटनोद्भेदविद्वेषेषु स उच्यते |
नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोध उच्यते || ३/१४४ ||
मन्त्राभिमुख्यकरणे सर्वव्याधिनिवारणे |
ज्वरग्रहविषाद्यार्त्तिशान्तिके रोध उच्यते || ३/१४५ ||
सम्मोहने स एवाथ मन्त्रनामाक्षराणि च |
एकैकान्तरितं यत्तु ग्रथनं तत् प्रकीर्तितम् || ३/१४६ ||
तच्छान्तिके विधातव्यं नामाद्यन्ते यथा मनुः |
तत् संपुटं भवेत्तत्तु कीलने परिभाषितम् || ३/१४७ ||
स्तम्भे मृत्युञ्जये दिव्ये रक्षादिव्ये च संपुटः |
मन्त्राक्षराभ्यामेकैकं साध्यनामाक्षरं क्रमात् || ३/१४८ ||
कथ्यते स विदर्भस्तु वश्यकर्मणि पौष्टिके |
एवं योगक्रमः प्रोक्तः सर्वकार्ये मनीषिभिः || ३/१४९ ||
बन्धनोच्चाटने द्वेषे संकीर्णे हु/ प्रयोजयेत् |
फट्कारं छेदने हु/फट् विघ्नग्रहनिवारणे || ३/१५० ||
क्षुद्रक्रियाद्युपध्वस्ते स्त्रियोऽन्यत्र नपुंसकाः |
पुष्टौ चाप्यायने वौषट् बोधने सनिकृन्ततौ || ३/१५१ ||
अग्निकार्ये जपेत् स्वाहा नमः सर्वत्र चार्चने |
शान्तिपुष्टिवशद्वेषाकृष्ट्युच्चाटनमारणे || ३/१५२ ||
स्वाहा स्वधा वषट् हुं च वौषट् फट् योजयेत् क्रमात् |
वश्याकर्षणसन्तापज्वरे स्वाहा प्रयोजयेत् || ३/१५३ ||
क्रोधोपशमनेशान्तौ प्रीतौ योज्यं नमो बुधैः |
वषट् सम्मोहनोद्दीपपुष्टिमृत्युञ्जयेषु च || ३/१५४ ||
ह्रींकारं प्रीतिनाशञ्च छेदने मारणे तथा |
उच्चाटने च विद्वेषे वषट् चाग्निकृते वषट् || ३/१५५ ||
मन्त्रज्ञापनकार्ये च लाभालाभे वषट् स्मृतम् |
स्त्रीपुंनपुंसकत्वेन त्रिधा स्युर्मन्त्रजातयः || ३/१५६ ||
स्त्रीमन्त्रा वह्निजायान्ता नमोऽन्ताश्च नपुंसकाः |
हुं फट् पुमांस इत्युक्ता वश्योच्चाटनकर्मसु || ३/१५७ ||
ताराग्न्यन्यवियत्प्रायो मन्त्र आग्नेय उच्यते |
शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसोम्ययोः || ३/१५८ ||
आग्नेयमन्त्रः सौम्यः स्यात् प्रायशोऽन्ते नमोऽन्वितः |
मन्त्रः शान्तोऽपि रौद्रत्वं हु/ फट् पल्लवितो यदि || ३/१५९ ||
सुप्तः प्रबुद्ध्यमानो वा मन्त्रः सिद्धिं न यच्छति |
स्वापकालो वामबाहो जागरो दक्षिणावहः || ३/१६० ||
आग्नेयस्य मनोः सौम्यमन्त्रः स्यात् सुविपर्ययात् |
प्रबोधकाले जानीयादुभयोरुभयावहम् || ३/१६१ ||
स्वापे तु नोच्यं द्वाराणां स्तोभयेत् स्तोभकर्मणि |
आग्नेयीं धारणां कृत्वा कुर्यादावेशनं क्रमात् || ३/१६२ ||
माहेन्द्रीं धारणां कृत्वा संहारं तु समारभेत् |
तत्रैव दक्षिणे चित्तं कृत्वा मारणमेव च || ३/१६३ ||
विद्वेषोच्चाटनोच्छेदे कुब्जीकरणमारभेत् |
आधारे दक्षिणे भागे विषग्रहसमागमात् || ३/१६४ ||
सेनाञ्च स्तम्भयेत् कृत्वा कार्यारम्भञ्च मानवः |
तत्रैव वामे कर्तव्यो व्यवहारश्च शत्रुतः || ३/१६५ ||
शान्तिकं पौष्टिकं वश्यं वनितायाश्च मोहनम् |
बैन्दवे दक्षिणे भागे स्थाप्य चित्तं चरेद् बुधः || ३/१६६ ||
कर्माभिचारविद्यां तु वामे तत्रैव साधयेत् |
आधारे कर्णिकायां तु चित्तं संस्थाप्य साधयेत् || ३/१६७ ||
सिद्धिं सारस्वतीं चान्यां शाक्तेयीञ्चैव साधयेत् |
पौष्टिकी सिद्धिरतुला धर्मकामार्थसिद्धिदा || ३/१६८ ||
लभ्यते हृदयान्तस्य कर्णिका स्थिरचेतसा |
चतुरस्रार्द्धचन्द्रञ्च त्रिकोणञ्च षडस्रकम् || ३/१६९ ||
सुवृत्तञ्च पृथिव्यादिमण्डलाकृतयः क्रमात् |
पीतं शुक्लं तथा रक्तं कृष्णाभं धूम्रवर्णकम् || ३/१७० ||
तत्रोर्वादीनि बीजानि नरकं हयकारकम् |
नाभिमध्ये मण्डलं तु वायोस्तद्बीजसंयुतम् || ३/१७१ ||
धारयेत्तत्र चैतन्यं वायुभूतविशेषकम् |
त्रिकोणं पिङ्गलो वह्निमण्डलं हृदि चिन्तयेत् || ३/१७२ ||
धारयेत्तत्र चैतन्यं अग्निभूतं समन्ततः |
माहेन्द्रं मण्डलं कल्पे पृथिवीमण्डलाह्वयम् || ३/१७३ ||
कलापेन युतं तत्र चैतन्यस्तम्भकं स्मरेत् |
अर्धचन्द्रं ललाटे तु श्वेतपद्मद्वयाङ्कितम् || ३/१७४ ||
धारयेत्तत्र चैतन्यं वारिरूपं विचिन्तयेत् |
कल्पयित्वा विचारे च दक्षिणाप्लवगां महीम् || ३/१७५ ||
वसनं लोहितं प्रोक्तमुष्णीषं लोहितं स्मृतम् |
वृत्तं दिवस्तत्षड्बिन्दुलाञ्छितं मातरिश्वनः || ३/१७६ ||
त्रिकोणं स्वस्तिकोपेतं वह्ने रन्ध्रेण संयतम् |
अम्भोजमम्भसे भूमेश्चतुरस्रं सवज्रकम् || ३/१७७ ||
रतिर्वाणी रमा ज्येष्ठा दुर्गा काली तु ताः क्रमात् |
षट् कर्मदेवताः प्रोक्ताः पूजादौ ताः प्रपूजयेत् || ३/१७८ ||
ऐशींचैन्द्री च नि-ऋतिर्वायवग्नीनां दिशो मताः |
स दैवतं दिक्कालादि ज्ञात्वा कर्माणि साधयेत् || ३/१७९ ||
आसनान्यथ वक्ष्यामि कर्मणा विहितेन तु |
पद्मासनं पौष्टिके च शान्तिके स्वस्तिकासनम् || ३/१८० ||
आकृष्टौ पौष्टिके तद्वद्विद्वेषे कुक्कुटासनम् |
अर्धस्वस्तिकमुच्चाटे त्वर्धस्थापनपार्ष्णिकम् || ३/१८१ ||
मारणे स्तम्भने तद्वद्विकटं परिकीर्तितम् |
वश्ये भद्रासनं तेषां कथ्यते चाथ भावना || ३/१८२ ||
षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाशगदाह्वयाः |
मुसलाशनिखड्गाख्याः शान्तिकादिषु कर्मषु || ३/१८३ ||
शान्तिके पौष्टिके वश्ये सौन्दर्यातिशयान्विता |
सर्वाभरणसन्दीप्ता प्राप्तकाममनोरथा || ३/१८४ ||
ध्यातव्या देवता सम्यक् सुप्रसन्नाननाम्बुजा |
आकर्षणेऽपि तद्वच्च बडिशेनेव मत्स्यकान् || ३/१८५ ||
साध्यमाकर्षणे द्वेषे भर्त्स्यमानं जनैरिव |
वध्यमाकर्षणे जनैर्दण्डैर्दारितस्तस्करो यथा || ३/१८६ ||
उलूको वायसाविष्टः समर्तव्योच्चाटने रिपुः |
स्तम्भने च शिलाक्रान्तस्तृणं पर्णादिवत् स्मरेत् || ३/१८७ ||
आहतस्तस्करो राजपुरुषैः परशुर्यथा |
व्याघ्रेण वा निष्प्रयत्नो हन्यते मारणे पुनः || ३/१८८ ||
यत्किञ्चिच्छवमारुह्य सन्दष्टौष्ठपुटः क्रुधा |
कर्म कुर्यात्ततो मन्त्री यथा क्रूरेषु कर्मसु || ३/१८९ ||
मुक्ताभिः स्फटिकैर्वाऽपि समायोज्याक्षसूत्रकम् |
शान्तिकर्मणि मिश्रे वा जपेन्मन्त्रस्य सिद्धये || ३/१९० ||
प्रवालवज्रमणिभिर्वश्यपौष्टिकयोर्जपेत् |
मत्तेभदन्तमणिभिर्जपेदाकृष्टिकर्मणि || ३/१९१ ||
मृतयुद्धे च शूरस्य दशनैर्गर्दभस्य च |
कृत्वाक्षमालां जप्तव्यं शत्रुमारणमिच्छता || ३/१९२ ||
साध्यकेशसूत्रयुक्तिस्तुरङ्गदशनोद्भवैः |
अक्षमालां समालोक्य द्वेषोच्चाटनयोर्जपेत् || ३/१९३ ||
मृतस्य युद्धशून्यस्य दशनैर्गर्दभस्य च |
कृत्वा मालां प्रजप्तव्यं शत्रुमारणमिच्छता || ३/१९४ ||
क्रियते शङ्खमणिभिर्धर्मकामार्थसिद्धये |
पद्माक्षैश्च जपेन्मन्त्रं सर्वकामार्थसिद्धये || ३/१९५ ||
रुद्राक्षमालया जप्तो मन्त्रः सर्वफलप्रदः |
पद्मसूत्रकृता रज्जुः शस्ता शान्तिकपौष्टिके || ३/१९६ ||
आकृष्ट्युच्चाटयोर्वाजिपुच्छवालसमुद्भवा |
नरस्नायुविशेषैस्तु मारणे रज्जुरुत्तमा || ३/१९७ ||
अन्यासामक्षमालानां रज्जुः कार्पासिकी शुभा |
सप्तविंशतिसंख्यातैः कृत्वा मुक्तिं प्रयच्छति || ३/१९८ ||
अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा |
अक्षमाला विनिर्दिष्टा तत्रादौ तत्त्वदर्शिभिः || ३/१९९ ||
अष्टोत्तरशतेनैव सर्वकर्मसु पूजिता |
मध्यमाङ्गुष्ठकाभ्याञ्च जपेदाकर्षणं मनुम् || ३/२०० ||
अङ्गुष्ठतर्जनीभ्यां तु विद्वेषोच्चाटयोर्जपेत् |
जपेज्ज्येष्ठकनिष्ठाभ्यां शत्रुमारणकर्मणि || ३/२०१ ||
अङ्गुष्ठानामिकाभ्यां तु जपेदन्येषु कर्मसु |
अङ्गुष्ठेन जपेदित्थमन्यैरङ्गुलिभिः सहः || ३/२०२ ||
अङ्गुष्ठेन विना जप्यं कृतं तदफलं भवेत् |
जपेद् वश्ये पूर्वमुखे दक्षिणे चाभिचारके || ३/२०३ ||
पश्चिमे धनदं विन्द्यादुत्तरं शान्तिके भवेत् |
आयुष्यरक्षां शान्तिं पुष्टिं वापि करिष्यति || ३/२०४ ||
इति प्रधानं सम्बोध्य प्रार्थयेच्चाविसर्गतः || ३/२०५ ||
देवतां सम्बोध्य तत्कर्तृकां तत् साध्याख्याय मन्त्रो मन्त्रबीजगर्भं लिखेत् |
उपदेवताऽङ्गानामेकाक्षरमन्त्रश्चेत्तदेव परितो लिखेत् | सामान्यमन्त्रलेखनादौ
क्रमेणावगन्तव्यः | जपहोमादौ त्वेवं संकल्प्य पूर्णाहुत्यादिकर्मावसाने तथैव
प्रार्थयेदिति रहस्यम् |
अष्टास्रे चतुरस्रे वा वृत्ते चाम्बुरुहाकृतौ |
शान्तिके पौष्टिके चैव होमः स्याद् यज्ञसाधकैः || ३/२०६ ||
कार्यः प्राग्वदनेनाथ सौम्येन वदनेन वा |
आकृष्टौ वायुकुण्डे तु कौबेरीं दिङ्मुखेन तु || ३/२०७ ||
नै-ऋत्युदङ्मुखस्तस्मिन् कुण्डे विद्वेषणे हुनेत् |
आग्नेयीदिङ्मुखस्तत्र कुण्डे मारुतकेऽपि वा || ३/२०८ ||
उच्चाटने हुनेन्मन्त्री मारणे याम्यदिङ्मुखः |
जुहुयाद् याम्यकुण्डे तु मन्त्री तत्साधनैस्ततः || ३/२०९ ||
वज्रलाञ्छितकुण्डे तु ग्रहभूतनिवारणे |
वायव्यदिङ्मुखो वश्ये कुण्डे योन्याकृतौ हुनेत् || ३/२१० ||
वज्रलाञ्छितकुण्डे तु स्तम्भे प्राग्वदनोहुनेत् |
द्रव्याण्यपि प्रवक्ष्यामि तत्तत्कर्मानुरूपतः || ३/२११ ||
शान्तिके तु पयः सर्पिस्तिलक्षीरक्रमेण तु |
अमृताख्या लता चैव पायसं तत्र कीर्तितम् || ३/२१२ ||
पौष्टिके तु प्रवक्ष्यामि होमद्रव्याण्यतः परम् |
विल्वपत्रैश्च राज्यं स्यात् जातीपुष्पैस्तथैव च || ३/२१३ ||
कन्यार्थी जुहुयाल्लाजैः शीकामः कमलैस्तथा |
दध्ना च श्रियमाप्नोति अन्नैरन्नं घृतप्लुतैः || ३/२१४ ||
पञ्चवर्णेन पुष्पेण जुहयाद् घृतसंप्लुतैः |
तद्वर्णं लभते वस्त्रं त्रियामा नात्र संशयः || ३/२१५ ||
क्षीरेण सर्पिषा वापि कमलैर्मधुनाप्लुतैः |
समृद्ध्यै जुहुयान्मन्त्री महादारिद्र्यशान्तये || ३/२१६ ||
लक्षहोमालभेच्छान्तिं घृतबिल्वतिलैर्निधिम् |
आकर्षणे तु लवणं प्रियङ्गु पौष्टिकोदितैः || ३/२१७ ||
वश्यार्थी जातीकुसुमैराकृष्टौ करवीरजैः |
कार्पासनिम्बैस्तक्राद्यैर्नवकेशैस्तथापि वा || ३/२१८ ||
उचाटने काकपक्षैरथवा मोहने बुधः |
उन्मत्तबीजैर्जुहुयाद्विषरक्तेन मारणे || ३/२१९ ||
अजापयश्च तत्सर्पिः कार्पासास्थि नृणामपि |
तन्मांसञ्चापि साध्यस्य नखरोमनरैरपि || ३/२२० ||
एकीकृत्य हुनेन्मन्त्री शत्रुमारणकाङ्क्षया |
लशुनैरसृजाभ्युक्ष्य गर्दभस्य च मारणे || ३/२२१ ||
जुहुयात् सर्पिषा तैलैरथवा शत्रुमारणे |
रोहीबीजैस्तिलोपेतैरुत्सादे जुहुयाद् यवैः || ३/२२२ ||
कटुतैलैः तुषकण्टकसंयुक्तैर्बीजैः कार्पासकैरपि |
सर्षपैस्तिलसंमिश्रैर्हुनेत् सर्वाभिचारके || ३/२२३ ||
काकोलूकच्छदैः क्रूरैः कारस्करविभीतकैः |
मरीचैः सर्षपैः सिद्धैरर्कक्षीरैः कटुद्रुमैः || ३/२२४ ||
कटुतैलैः स्नुहीक्षीरैः कुर्यान्मारणकर्णणि |
आयुःकामैर्घृततिलैर्वाभिराम्रपल्लवैः || ३/२२५ ||
पयसाक्तैराम्रपत्रैर्ज्वरं सद्यो विनाशयेत् |
गुडूची मृत्युज्जयेन तथा शान्तौ गजाश्वयोः || ३/२२६ ||
जुहुयात् सर्षपैर्गौरैः सद्योरोगं हरेद् गवाम् |
वृष्टिकामो वैतसीभिः समिद्भिः पत्रकैस्तथा || ३/२२७ ||
हुत्वा पुष्टिमवाप्नोति पुत्रजीवैस्तु पुत्रकम् |
घृतगुग्गुलुहोमेन वाक्पतित्वं प्रजायते || ३/२२८ ||
मल्लिकाजातिविद्रुमनागपुन्नागसम्भवैः |
पुष्पैः सरस्वतीसिद्धिस्तथा सर्वार्थसाधनम् || ३/२२९ ||
पयसा लवणैर्वापि हुनेद् वृष्टिनिवारणे |
रक्तपुष्पैरपामार्गैरङ्कोलैश्च सुभद्रकैः || ३/२३० ||
एभिर्मधुरसं सिक्तैर्मन्त्री कुर्याच्च वश्यकम् |
वातोद्धूतैः शुष्कपत्रैः काष्ठैरशनिपातितैः || ३/२३१ ||
उष्ट्रास्थिना चावकुष्ठैः शत्रोरुच्चाटनं तथा |
दूर्वागुडूचीगव्येन सर्पिषा तिलतण्डुलैः || ३/२३२ ||
अन्नैः समिद्भिः पालाशैः शान्तिं कुर्याद् विचक्षणः |
सुतीर्थे प्रजपेन्मन्त्रं पूर्वं पापविमुक्तये || ३/२३३ ||
शुद्धदेहाय मन्त्रोऽसौ ततः सिद्धिं प्रयच्छति |
न ध्यातो नार्चितो मन्त्रः सुसिद्धो न प्रसीदति || ३/२३४ ||
ना जप्तः सिद्धिदो मन्त्रो ना हुतः कलदो भवेत् |
पूजां ध्यानं जपं होमं यथा कर्मचतुष्टयम् || ३/२३५ ||
प्रत्यहं साधकः कुर्यात् स्वयं चेत् सिद्धिमिच्छति |
जपस्यान्तः शिवं ध्यायेद् ध्यानस्यान्तः पुनर्जपः || ३/२३६ ||
जपध्यानसमायुक्तः शीघ्रं सिध्यति मन्त्रवित् |
कारस्करक्ष्यामलकोदुम्बरो जम्बुसंज्ञकः || ३/२३७ ||
खदिरः कुष्ठकरचौ पिप्पलो नागरोहिणौ |
पलाशलक्षकाम्बष्ठविल्वार्जुनविकङ्कताः || ३/२३८ ||
मन्त्रः सारसिको मोट आरूढाग्निः सदागतिः |
सबिन्दुः सपराक्रान्तस्तुम्बुरुश्च तथा ईशः || ३/२३९ ||
ईकारः स्वरमायेति आकारः पाश उच्यते |
क्रोमङ्कुशश्च हुं क्रोधः इ विष्णुश्च परापरः || ३/२४० ||
आद्यः सबिन्दुकः सृष्टिवर्गान्तस्तु ह उच्यते |
द्वाभ्यां वा बहुभिश्चैव संयुक्तः पिण्ड उच्यते || ३/२४१ ||
ईकारः श्रीमहामाया एकारो भगसंज्ञकः |
बिन्दुश्चन्द्रश्च कुण्डोऽनुस्वारो हुंकार उच्यते || ३/२४२ ||
कलाविसर्ग इत्युक्त इकारो हः प्रकीर्तितः |
मन्दिरान्त्यश्च कालाग्निः क्रोधस्तत्त्वेति क्षः स्मृतः || ३/२४३ ||
अन्तःस्थाः स्युर्यरलवा उष्माणः शषसहास्तथा |
बाह्यं लकार एकार इति चान्ये प्रचक्षते || ३/२४४ ||
एवं श्रीकण्ठादीनां काल्याद्यन्यासां द्वादश शक्तीनामन्त्यवर्णेन न्यासो
वक्ष्यते | तत्तदेव संज्ञा तद्वर्णसंज्ञात्र स्वरे द्रष्टव्येत्यलं सूचितेन |
निहन्तव्यो यदा शत्रुर्नान्यथा च स्थितिर्मता |
इत्याकुलमनास्तद्वत् कुर्याद् ब्राह्मणवर्जितम् || ३/२४५ ||
कर्मणा प्रबलेनैव प्रतिबन्धो विरोधिना |
यदि सिद्धिं न लभते द्विस्त्रिर्वा पुनराचरेत् || ३/२४६ ||
दैवेनापहतोऽत्यन्तमैहिकानि न कारयेत् |
नापराधोऽस्त्यत्र किञ्चित् प्राप्नुयादुपहास्यताम् || ३/२४७ ||
सामान्यतः परिज्ञाय प्रयोगविधिमुत्तमम् |
तत्र कर्मविशेषेण कारयेदिति नान्यथा || ३/२४८ ||
इति फेत्कारिणीतन्त्रे साधारणपटलस्तृतीयः ||
चतुर्थः पटलः
अथ वक्ष्ये कुक्कुटानामाद्यमन्त्रवरं तथा |
जगतामुपकारार्थं क्षपणैकगुरुर्यथा || ४/१ ||
पुराप्रोक्तं नान्तं षष्ठस्वरपरिगतं बिन्दुमत्कुक्कुटाख्यं
वीप्सैतत्त्वां पुनरपि च पदं वीप्सितं पूर्वमन्त्रम्
नान्तं भूतस्वरपरिगतं वेत्ति मन्त्रोऽयमुक्तः स्यादायुः
श्रीविभवसकलसुखसौभाग्यसम्पत्प्रदायी || ४/२ ||
प्रोक्तः पञ्चदशार्णोऽयं मन्त्रः कुक्कुटदैवतः |
तत्सर्वं देवतातेजः सर्वस्य शाक्तिबृंहितम् || ४/३ ||
क्षीरोदधिमध्यगते द्वीपवरे कनकमयरत्नभूमौ
अनवरतसिकतात्युक्तामणिमयमृदुपवन उर्वीतलरम्ये |
तत्र समुण्डितममलं विपुलतरुफलितरत्नफलजातं
हेमजालमयहीनं बहुमणिविलसद्विचित्रपत्रपरम् || ४/४ ||
तं पुनरधिष्ठितं ध्यायेदधिकोज्ज्वलाङ्गमतिशोभम् |
चूडाशोभितवक्त्रं कुक्कुटमतितीक्ष्णनखचरणम् || ४/५ ||
वक्त्रं यस्य षडाननो गिरिसुता यस्योदरं कालहा
पृष्ठं यस्य च वामकुञ्जरमुखौ पादौ च सव्येतरौ |
पक्षौ यस्य सुरद्रुमौ मणिमयीं यः शृङ्खलां बन्धुरां
आकर्षादिगुणं करोतु स तु नः सर्वानसौ कुक्कुटः || ४/६ ||
गौरीहस्तारविन्दे त्वनिशमधिवसन् यन्मुखारूढकायः
सर्वालङ्कारदीप्तः प्रचलितचरणः पक्षविक्षेपदक्षः |
हेमाभो रत्नचञ्चुमणिमयविलसद्वृत्तकण्ठः सुरूपः
पायान्नस्ताम्रचूडः सकलजननतः सर्वसिद्धिप्रदाता || ४/७ ||
अथवा
सर्वप्रियः सागरमध्यरत्नद्वीपस्य तालाग्रनिवासिकुक्कुटः |
वेद्याभिरामोऽखिलभूषणाढ्यो वशीकरोत्याशु सुसेवितोऽमरैः || ४/८ ||
अमुष्.य पूर्वसेवार्थमेकलिङ्गे शिवालये |
देवस्य महतीं पूजां कृत्वाऽऽसीन उदङ्मुखः || ४/९ ||
पर्वताग्रे नदीतीरे वृषशून्ये शिवालये |
पश्चिमद्वारसंयुक्ते कुर्यान्मन्त्रपुरस्क्रियाम् || ४/१० ||
गुरुं प्रणम्य मनसा आसनं परिकल्पयेत् |
करशुद्धिं देहशुद्धिं तालत्रयमथाचरेत् || ४/११ ||
दिग्बन्धं कारयेत् पश्चात् विद्वानस्त्रेण तत्परम् |
प्राणायामत्रयं पश्चात् प्रणवेन प्रकल्पयेत् || ४/१२ ||
मातृकां विन्यसेत् पूर्वं पश्चान्न्यासं समाचरेत् |
पक्षिमन्त्रस्य प्रथमं यं मन्त्रं तं विनिर्दिशेत् || ४/१३ ||
द्वितीयपदमुच्चार्य शिरसैव तु कारयेत् |
वीं शिखायाञ्च विन्यस्य वनपक्षितृतीयकम् || ४/१४ ||
तुरीयपदमुच्चार्य नेत्रे तु विनियोजयेत् |
चञ्च्वास्त्रेण च संयुक्तमङ्गषट्कं विधीयते || ४/१५ ||
पू/ हृदयाय नमो वीप्सौ तत्त्वां शिरसे स्वाहा |
पू/ शिखायै वषट् वीप्सौ तत्त्वां कवचाय हु/ || ४/१६ ||
पू/ वीप्सितुं नेत्रत्रयाय वौषट् पू/ करतलपृष्ठाभ्याम् अस्त्राय फट् |
नमः स्वाहा वषट् हु/ च वौषट् च क्रमान्न्यसेत् || ४/१७ ||
पूमादि पूमन्तरञ्च क्रमशो विन्यसेत् सुधीः |
ललाटबिन्दुमध्ये च चक्षुःश्रवणयोरपि || ४/१८ ||
नासाविवरयोश्चैव आस्ये कण्ठे तथा हृदि |
जठरे नाभिदेशे च लिङ्गे गुह्ये च विन्यसेत् || ४/१९ ||
समस्तेन तु मन्त्रेण मूर्धादिव्यापकं न्यसेत् |
एवं विन्यस्यदेहस्तु ध्यायेत् पक्षिं शिवात्मकम् || ४/२० ||
मनसा देवमभ्यर्च्य षोडशैरुपचारकिः |
विज्ञाप्य बाह्ययोगेन देवं सन्तोष्य यत्नतः || ४/२१ ||
ध्यात्वा कुक्कुटदेवं तं जपेद् भानुसहस्रकम् |
तावच्छतं तर्पयित्वा पुरश्चर्या कृता भवेत् || ४/२२ ||
रक्षाकरणविद्वेषस्तम्भनोच्चाटनादिकम् |
कर्माणि कुर्यादिष्टानि मन्त्रेणानेन मन्त्रवित् || ४/२३ ||
आलिख्य मन्त्रेण विदर्भितं यत् साध्याक्षरान्तान् लवणस्य पात्रे |
प्राणान् प्रतिष्ठाप्य शतं तथाष्टौ जप्त्वा धृतं चेत् स वशं प्रयाति || ४/२४ ||
ताम्बूलं यद्यष्टोत्तरसहस्रं जप्त्वा भोक्तुं दत्तं यस्याः |
वश्या नित्यं प्रत्युपदेशाद्धास्यन्नर्थान् प्रार्थितभोगान् || ४/२५ ||
मन्त्रं जप्तुमथ पञ्च शतं यः कनकाह्वयत्वं मपञ्चयुतम् |
भक्ष्यभोज्यविधिषु प्रतियोज्यं सान्वयाति वशं मरणान्तम् || ४/२६ ||
मूलं मूलकमासतैलसहितं चित्राद्वयस्य त्वचं
पुष्पं बीजसवीर्यहस्तिकुसुमं स्वनासिकान्तर्जलम् |
पत्रं रौहिणमङ्गपञ्चकमलं तद्भाण्डयुक्तं मिथो
दण्डं वा पुरुषस्य तद्धृतमिदं वश्याङ्गना मन्मथः || ४/२७ ||
अष्टोत्तरशतं जप्तं हयमारकमूलकम् |
सप्तरात्रं क्षिपेद् यस्या मूर्ध्नि सा वशगा भवेत् || ४/२८ ||
भूर्जे साध्यविदर्भितं मनुमिमं संलिख्य कौलालिकी
मृत्स्नाकल्पितपुत्तली हृदि कृता प्राणान् प्रतिष्ठाप्य च |
जप्त्वा दिनं त्रिसन्ध्यमथवा चालोड्य गुण्डीरसै -
र्लिप्ते वश्यमवश्यमेव भविता चान्येषु जन्मस्वपि || ४/२९ ||
अष्टोत्तरसहस्रं जप्तं प्रसूनकाण्डं कृताञ्जलेः शिरसा |
धारयति सर्वलोके प्रियो भवेन्नियतमेव मन्त्रिवरः || ४/३० ||
तद्वच्छदमथ वल्ली लक्ष्मीपुष्पाणि धारयेदेवम् |
समृदा भद्रकरिष्णुः प्रियाश्च मुसलीशमन्त्रजापेन || ४/३१ ||
मधुकञ्च दूर्वादेवीं हंसां चैव तथा घृतम् |
तथैवैकं वरणमूलनाय का कथा मनुष्येषु || ४/३२ ||
दशनविद्मवार्द्रमनुस्वराक्षि विश्वत्र्यैकैकभागेन |
अञ्जल्यादि क्रमशः संयोज्य देशमखिलं वश्यकरम् || ४/३३ ||
प्रत्येकैकं शतमष्टौ जप्त्वा संयोज्य दशकमपि पिष्ट्वा गुटकीकृत्य सहस्राष्टं
जप्त्वा गुटिकया रचिता तिलकक्रिया सुनारीनरलोकरञ्जनार्थमिदं कपिलाघृतदीपितया
तत्तद्बहुर्णगर्भया वर्त्त्या कज्जलधृतमिव तत्कर्पूरयुतम् | सहस्रपरिजप्तं
दिनमनुदिननयनयुतं कुर्यादखिललोकं वश्यम् | इति वशीकरणम् |
आत्मानं कुक्कुटं ध्यात्वा स्वकीयगणशक्तया |
साध्यां शृङ्खलया कण्ठे बध्वाकर्षमनुं जपेत् || ४/३४ ||
सहस्रमध्यरात्रे तु रात्रित्रयमतन्द्रितः |
तुरीयकुक्कुटस्यान्ते साध्यनाम च कर्म च || ४/३५ ||
जपेत् संयोज्य वश्यार्थी कालेषु सकलेष्वपि |
यामारभ्य जपेदेवं योषितं मदनालसाम् || ४/३६ ||
स्विद्यत्स्वेदार्द्रवसना मदनाकुलचेतसा |
उत्स्विन्नगुह्यजघना शिथिलांशुकभूषणा || ४/३७ ||
चलत्पादप्रविन्यासा स्फुरद्रोमाञ्चकञ्चुका |
कामानलोष्णनिःश्वासा शोषिताधरपल्लवा || ४/३८ ||
विकीर्णकेशपाशा च प्रेरिता घूर्णितेक्षणा |
रचिताञ्जलिरायाति मुखेनास्यालयं निशि || ४/३९ ||
साध्यप्रणवदर्भितं मनुमिमं ताम्बूलपत्रोदरे |
लेखन्या प्रविलिख्य कर्मसहितं प्राणान् प्रतिष्ठाप्य च |
जप्त्वाष्टौ शतमर्कदुग्धजनिता लेपे त्रिरात्रान्तरे
तप्तं दीपशिखाग्निना स्वयममूर्वश्योर्वशी चाश्रयेत् || ४/४० ||
भूर्जे मन्त्रमिदं विलिख्य सकलं साध्यान्वयाढ्यं पुटं
प्राप्तप्राणमथाष्टकोत्तरशतं जप्तं त्रिरात्रं पुनः |
मधुक्षौद्रक्षीरगतेष्विदं पृथगपि प्रक्षिप्य मन्त्रं जप -
न्नाकर्षत्यचिरादभीष्टवनितां नागादिलोकादपि || ४/४१ ||
आलिख्यैव शरावके मनुमिमं तन्नामकर्मान्वितं
रात्रौ रोचनया प्रणीतपवनं जप्त्वा च साष्टौ शतम् |
तस्यानाभिमुखाङ्गजन्यभवनं संतापयन् खादिरे
वह्नौ मत्तमतङ्गवेगविषमा योषा समायाति च || ४/४२ ||
नाभिमात्रजले स्थित्वा साध्यनामविदर्भितम् |
त्रिसहस्रञ्च त्रिदिनं इष्टमाकर्षयेद् ध्रुवम् || ४/४३ ||
इत्याकर्षणम् |
कपिरोम तथा हिङ्गु खरचर्मणि चूर्णयेत् |
मन्त्रं जप्तं सप्तवारं नामकर्मविदर्भितम् || ४/४४ ||
त्रिसहस्रं पुनस्तेन स्निग्धयोरन्तराऽन्तरा |
धूपो भवति विद्विष्टौ स्निग्धावपि विभिद्यतः || ४/४५ ||
तालपत्रे लिखेन्मन्त्रं नामकर्मविदर्भितम् |
विषलिप्तं द्विधा कृत्वा निखनेत् सिन्धुतीरयोः || ४/४६ ||
मन्त्रेणानेन कर्मान्तं खादिराग्नौ सहस्रकम् |
हुनेदन्योन्यविद्वेषो भवेतामपि रोगिणोः || ४/४७ ||
इति विद्वेषः |
आलिख्यामे शरावे च निशायां साध्याक्षरं पुटितम् |
मन्त्रं स्थापितपवनं सहस्रजप्तं चतुष्पथे निखनेत् || ४/४८ ||
स्तम्भनमेतदवश्यं भविता जगताञ्च नात्र सन्देहः |
कृत्वा प्रतिकृतिरथवा श्मशानाङ्गारकेशवसनया सम्यगधिष्ठितपवनां हृद्गते
नाम्नीं समन्त्रललाटां वृषणस्थितपवनां सहस्रजप्तं तल्लक्षया वसनां दग्धां
स्मृत्वा लिखेत् | श्मशानदेशे सपत्नीकस्य वाक्स्तम्भः | आलिख्य चेष्टकायुगले मन्त्रं
साध्यनामपुटितं निशायां निशीथकाले सहस्रं जप्तं प्रतिष्ठितप्राणं
बन्धनमतितीक्ष्णतरम् | स्तम्भनमतितीक्ष्णाम्बुनिक्षिप्तम् |
लिखितमन्त्रचितामयकीलकं सहितकर्म सनाम समाहतम् |
कृतजपं त्रिसहस्रकसंख्यया पथि खनेदथ जालनिवारणम् || ४/४९ ||
विहितनिम्बभवो रिपुनामयुङ्मनुमिमं निशया कृतनामकम् |
नवसहस्रजपाद् वसुसाधितं पथि खनेदथ सैन्यनिरोधकम् || ४/५० ||
इति स्तम्भनम् | अथोच्चाटनम् |
अङ्गारकं पितृभुवो रिपुपौषनर्क्षे
जप्त्वा विनिर्मितमिदं पितृभूगताग्नौ |
दग्ध्वा च तद्भवविमिश्रितमत्र शत्रो -
रालिख्यनाम मनुकर्मयुगस्य मूर्ध्नि || ४/५१ ||
क्षिप्तं प्रचालयति चाष्टसहस्रजप्तं
जप्त्वा शिवे कुजदिने सचतुर्दशीके |
कर्मान्वयाढ्यमनुना त्रिसहस्रजप्तं
दत्तं विधाय रिपुमूर्ध्नि विनिक्षिपेत् तम् || ४/५२ ||
उच्चाटयेद् ध्रुवमसौ रिपुमाशु चैतद्
अङ्गारकं पितृभुवो रिपुपौषनर्क्षे |
जप्त्वा विनिर्मितमिदं रिपुनाम तस्मिन्
मन्त्रोपमं पुटितमष्टसहस्रजप्तम् || ४/५३ ||
तद्वैरिवेश्मनि विनाशकरं विकीर्णम्
कृत्वा श्मशानस्य चतुष्टयं किलन् |
जप्त्वा सकर्मान्वयसंपुटं मनुं
सहस्रजप्तं निखनेद् द्विषां गृहे || ४/५४ ||
तद्द्वारि चोच्चाटनमाशु जायते |
निरस्य काकनिलयं पितृभूगताग्नौ
जप्त्वा च तद्भसितमिश्रितमन्त्रशत्रोः || ४/५५ ||
आलिख्य नाम मनुकर्मयुगस्य मूर्ध्नि
प्रोच्चाटयेद् रिपुमष्टसहस्रजप्तम् |
जप्त्वा परे कुजदिने सचतुर्दशीके
कर्मान्वयाढ्यमनुना च सहस्रजप्तम् || ४/५६ ||
दत्तं विध्याय रिपुमूर्ध्नि विनिक्षिपेच्च
उच्चाटयेद्रिपुमसौ ध्रुवमाशु चैतत् |
श्मशानजोल्कारिपुनामकर्म
संपृक्तपत्रं च सहस्रजप्तम् || ४/५७ ||
द्वारे क्षिपेदुलूककमत्र शत्रोरुच्चाटयेत् सप्तदिनान्तराले |
कीलं चिताकाष्ठमयञ्च नाम कर्मान्वितं चाष्टसहस्रसंख्यम् || ४/५८ ||
मन्त्रेण जप्तं निखनेदरातिर्गेहे तदुच्चाटयति क्षणेन
उन्मत्तरसालोलितचितामसीं काकपक्षेण |
कारस्करफलकान्तरमनुं लिखेत्
काकवन्ध्याफलंकान्तमनुं लिखेत् कर्मनामसंपुटितम् || ४/५९ ||
प्रस्थाप्य प्राणानस्मिन् द्विषतोऽष्तविषानुलिप्तसंसिद्धम् |
तत्रैव सहस्रजप्तं श्मशानदेशे चतुष्पथे वापि || ४/६० ||
निखनेदरिभवने तदम्बुमस्तके रिपोः क्षिप्तम् |
देशान्तरमथवाऽसौ यास्यति लोकान्तरं सदा रोगी || ४/६१ ||
इत्युच्चाटनम् |
चतुर्थः पटलः ||
पञ्चमः पटलः
मन्त्रं साध्यस्य नामप्रतिपुटितमथालिख्य तालस्य पत्रे
पुत्तल्योर्निधायार्पितपवनमनोर्जपमन्त्रौ सहस्रकम् |
वह्नावुन्मत्तदीप्ते पितृवनजनिते तीक्ष्णतैलेन लिप्तं
हत्वा स्थित्वा निशार्क्षे त्रिदिनपरिमितं मोहयेन्मारयेद्वा || ५/१ ||
साध्याख्यवृक्षकृतरूपमधिष्ठितेन
जप्तं सहस्रमपि कीलयति श्मशाने |
शस्त्रेण दारयति साधितमन्त्रमङ्गं
यद्यद्रिपोरपि विनश्यति तत्तदङ्गम् || ५/२ ||
वैरिप्रसवमृत्तिकापदरजः संयुक्तचक्रा मृदा
कृत्वा पुत्तलिकाञ्च नाम हृदये शीर्षे पदे वा लिखेत् |
अङ्गारैः पितृभूगतैर्मनुमिमं तन्नामकर्मान्वितं
तस्य न्यस्य हृदीदमाशु पवनं जप्यात् सहस्रद्वयम् || ५/३ ||
सदा च तेन शतधा शस्त्रेणाहतपुत्तलीम्
याम्याशाभिमुखो निदानदशभिर्दीप्ते श्मशानानले
तैलं तीक्ष्णभवं विरिच्य जुहयान्नैर्-ऋत्य-ऋक्षेऽथवा
मन्त्री प्रेतपतेः पुरं श्रुतमसौ यास्यत्यरातिर्ध्रुवम् || ५/४ ||
अङ्गारवारे कुलिरादाय तु रिपो -
रालिख्य पत्रे प्रतिमाप्रतिष्ठाम् |
प्राणान् प्रतिष्ठाप्य विषानुलिप्तां
श्मशानभूमौ जुहुयाद् विनाश्यम् || ५/५ ||
रिपोः प्रतिकृतिं कृत्वा गोमयेन च तद्धृदि |
तालपत्रे समालिख्य तदा मनुविदर्भितम् || ५/६ ||
विन्यस्य तत्प्रतिकृतेः स्थाप्योपरि च राजतम् |
मृन्मयं वा घटं सम्यग् गोमयेन च पूरितम् || ५/७ ||
तत्रापि निक्षिपेत् पत्रं लिखितं स्यात्तदा बुधः |
वैरिप्राणान् प्रतिष्ठाप्य यस्मिन् गोमयवारिणि || ५/८ ||
त्रिसन्ध्यान्ते जपेत्तस्मिन् छाया यावद् भविष्यति |
दृष्ट्वा तां गोमयजले रिपुच्छायां समाहितः || ५/९ ||
शस्त्रेण छेदयेदङ्गं यस्य स्वहृदि भीषणम् |
तत्तद्विनश्यति रिपोः सप्ताहान्नात्र संशयः || ५/१० ||
हृदयोदरकण्ठेषु विच्छिन्ने भविता मृतिः |
शिरोरोगो भवेत्तस्य ब्रणे शस्त्रेण मस्तके || ५/११ ||
शुण्ठीं चित्रकहिङ्गुं च मरीचारोहिपिप्पली |
मन्दारधूममाकन्दं प्रोक्तमेतद्विषं बुधैः || ५/१२ ||
काकमाचीमामलकीमौडुम्बरजम्बुखदिरकृष्णा च |
वंशपिप्पलनागौ रौहिणनलिनसमुद्रसारिकाः || ५/१३ ||
हरिद्रानिम्बकुटजविकङ्कतकदम्बवकुलत्वक्संज्ञाः |
वञ्जुलपनसार्कशमी कदम्बनिम्बं प्रकाशमूलञ्च || ५/१४ ||
ततः सहस्रं मनुमादराद् जपति यः |
स रमाभवनं भवेज्जपविधौ कपिमांसीकुसुमैः || ५/१५ ||
समं जपित्वा कुक्कुटरूपिणो मनुमष्टोत्तरशतं जपेत् |
सहस्रधा यन्महेशमनुः कुक्कुटमनुरूपकः || ५/१६ ||
पञ्चान्वितस्य भवनञ्च मनोरथाद्यै -
रापूज्यते बहुविधैरपि वत्सरेण || ५/१७ ||
नित्यं प्रत्युषसि प्रतीतमनसापि पादेन भूधारणा -
च्चान्योऽन्येन समन्ततः स्वपुरतः पर्याक्षिपन्तं मुहुः |
ध्यात्वा कुक्कुटमीशरूपमथवा भूत्वैव माया स्वयं
भक्त्या यः प्रजपेदुपेन्द्रमिव तं प्राप्नोत्विवानन्दयेत् || ५/१८ ||
तुण्डेन खण्डीकृततालवृन्तमाछादयन्तं फलरत्नखण्डैः |
ध्यात्वा मनुं स्वं नयनो जपेद् यो विद्विष्टमाखण्डलवत् समेति || ५/१९ ||
दोषायमाणं निजपक्वपत्रं पतत्परार्द्धं बहुमूल्यरत्नम् |
ध्यात्वा मणिं नियतमेव मनुं प्रजप्य
प्रौढां श्रियं भृशमवाप्य च रत्नपूर्णाम् || ५/२० ||
भूमौ काञ्चनमृत्तिकापदरजोराजीः किरन्तं मुदा
कूजन्तं चरणेन धान्यनिचयं नोत्कीर्य चञ्च्वादिना |
सञ्चिन्त्योज्ज्वलतामचूडमरुणं किञ्चित्समाकुञ्चित -
ग्रीवं यः प्रजपेदमुष्य भवनं धान्यादिभिः पूर्यते || ५/२१ ||
दशौषधं दशभषितं मनुनामुना
कृतजपं शिरसा धृतम् |
दुरितानि रोगविषभूतभयापहं
भजतां वशीकरणमतीव रमाकरम् || ५/२२ ||
सुजलेन्धनचर्मभषितं त्रिधा
विधिवत् सहस्रजप्तमभिरक्षति चाखिलम् |
भूर्जपत्रमभिलिख्य तन्नाममात्रकं
नरमाशु रक्षितधूर्जपान्वितम् || ५/२३ ||
मनुना तण्डुलमनुना सहस्रजप्तं तु कुक्कुटं यो वेत्ति |
सोऽसौ कुक्कुटहंसवद् युद्धेषु चोद्जेष्यति || ५/२४ ||
क्षिप्रं स्पृष्ट्वा सहस्रकमपि सञ्चिन्त्य कुक्कुटं प्रजपेत् |
जेष्यति सपदि रणे तान् सभटैश्चरणायुधैः || ५/२५ ||
समायातो बहुना किमत्र मनुना लिखितं परिवाञ्छितं सपदि साध्यते |
अचिरेण तस्य भवने भजते वसतिं कमला विमला || ५/२६ ||
इति जपनिरतानां कुक्कुटाख्यानलक्षः
क्षपणकमुनिराह क्षिप्तभूतारिपक्षः |
दुरितनिवहपक्षक्षेपणः सर्वभक्षः
प्रणतसुजनरक्षाविक्षतानां स्वपक्षः || ५/२७ ||
निखिलमभिमतानामर्थिनां कल्पवृक्षः
सुरवरनरनारीरञ्जनाकृष्टिदक्षः || ५/२८ ||
अनन्तं बिन्दुसंयुक्तं पुंकोलिद्वितयं ततः |
वांशक्तिश्चाथ पुंकोलीयुगलं विगलं ततः || ५/२९ ||
चु/कारं वरुणं तत्तदनन्ताढ्यं समुद्धरेत् |
क्रोधं तदुद्धरेन्मन्त्रं कुक्कुटस्य मनोरमम् || ५/३० ||
इति फेत्कारिणीतन्त्रे कुक्कुटेश्वरविवरणं नाम पञ्चमः पटलः ||
षष्ठः पटलः
देवी उवाच
सूचिता मे पुरा शम्भो मन्त्रा नैकविधास्त्वया |
इदानीं श्रोतुमिच्छामि देवीमुच्छिष्टपूर्विकाम् || ६/१ ||
शम्भुरुवाच
शृणु देवि वरारोहे देवीं तां कथयाम्यहम् |
यस्या विज्ञानमात्रेण भवेद् विद्यामयो नरः || ६/२ ||
देवी उवाच
आ/ पू/ कोलि पू/ कोलि वा/ ह्री पूं कोलि विगल चु/ वा/ हु/ हु/ |
को विधिः किं फलं चास्य मयि विद्यास्वरूपतः |
कथ्यतां देव यत्नेन रहस्येन निवेदितम् || ६/३ ||
शम्भुरुवाच
शृणु देवि विधिं वक्ष्ये फलं चोच्चाटनादिकम् |
विषं च स्थावरं देवि विद्याभावान् निहन्ति च || ६/४ ||
अथान्यत् संप्रवक्ष्यामि देवीं गुह्यतमां प्रिये |
उच्छिष्टपूर्विकां चैव मातङ्गीं सर्वसिद्धिदाम् || ६/५ ||
सर्वपापहरां देवीं सर्वदोषविवर्जिताम् |
यया विज्ञातया देव्या क्षयं गच्छन्ति चापदः || ६/६ ||
स्थावरं जङ्गमं चैव कृत्रिमं चाङ्गजं तथा |
विषं जयति देवेशि स्वपराङ्गसमाश्रितम् || ६/७ ||
इयं विद्या परा विद्या सर्वपापापहारिणी |
स्वर्गदा मोक्षदा चैव राज्यसौख्यफलप्रदा || ६/८ ||
इयं देवि मया पूर्वं साधिता विषनिर्जिता |
सकृदुच्चारिता विद्या ब्रह्महत्याविशोधिनी || ६/९ ||
सर्वपापापहन्त्रीयं लोकसौभाग्यदायिनी |
यद्युच्छिष्टमुखो भूत्वा स्मरद्देवीं कदाचन || ६/१० ||
तदाचान्तो भवेद् देवि विनैवाचमने कृते |
दुर्भगा सुभगा नूनं दुःखिता सुखिता भवेत् || ६/११ ||
वन्ध्यापि लभते पुत्रं शतहायनजीवितम् |
निर्धनो धनमाप्नोति मूर्खो विद्यामवाप्नुयात् || ६/१२ ||
यां यां प्रार्थयते सिद्धिं हठात् तां तामवाप्नुयात् |
विधानञ्च प्रवक्ष्यामि शृणु देवि मनोरमे || ६/१३ ||
भोजनानन्तरं देवि विनैवाचमने कृते |
बलिं दत्त्वा प्रथमतो मूलमन्त्रेण साधकः || ६/१४ ||
ततो मन्त्रं जपेद् ध्यात्वा देवींतामिष्टसिद्धये |
मन्त्रं शृणु महादेवि यथावत् कथयामि ते || ६/१५ ||
नम उच्छिष्टशब्दं तु तथा चाण्डालिनीति च |
सुमुखीति ततो देवि कीर्तयेत्तदनन्तरम् || ६/१६ ||
महापिशाचिनि पश्चाल्लज्जाबीजं ततः परम् |
नादबिन्दुसमायुक्तं ठकारत्रितयं पुनः || ६/१७ ||
सविसर्गं महादेवि सर्वसिद्धिप्रदायकम् |
चतुर्विंशत्यक्षरीयं विद्या सर्वार्थदायिनी || ६/१८ ||
न तिथिर्न च नक्षत्रं नोपवासो विधीयते |
नाङ्गन्यासकरन्यासौ न वर्णन्यास ईरितः || ६/१९ ||
नारिदोषो न वा विघ्नं नाशौचो नियमो न च |
यस्य तिष्ठति मन्त्रोऽयं न स विघ्नैरवाप्यते || ६/२० ||
ध्यानमस्याः प्रवक्ष्यामि यथावज्जगदीश्वरि |
शवोपरि समासीनां रक्ताम्बरपरिच्छदाम् || ६/२१ ||
रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् |
सुवक्त्रां षोडशाब्दां तु पीनोन्नतपयोधराम् || ६/२२ ||
कपालकर्तृकाहस्तां परमज्योतिरूपिणीम् |
वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः || ६/२३ ||
उच्छिष्टेन बलिं दत्त्वा जपेत्तद्गतमानसः |
उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता || ६/२४ ||
उच्छिष्टं जपमानस्य जायन्ते सर्वसिद्धयः |
अपरञ्च प्रवक्ष्यामि शृणु देवि फलप्रदम् || ६/२५ ||
होमं संतर्पणं चास्याः सहसा कार्यसिद्धये |
स्थण्डिले मण्डलं कृत्वा चतुरस्रं समाहितः || ६/२६ ||
पूजयेन्मण्डले देवीं मूलमन्त्रेण मन्त्रवित् |
ततोऽग्नेर्घ्यं समादाय वह्निरूपां व्यवस्थिताम् || ६/२७ ||
देवीं ध्यात्वा चरेद्धोमं दधिसिद्धार्थतण्डुलैः |
सहस्रैकविधानेन राजा भवति वश्यगः || ६/२८ ||
मार्जारस्य तु मांसेन यो देव्यै होममाचरेत् |
स प्राप्नोति परां विद्यां सर्वशास्त्रवशीकृताम् || ६/२९ ||
कुर्याच्छागस्य मांसेन होमं मधुसमन्वितम् |
सहस्रैकविधानेन भवन्ति धनसिद्धयः || ६/३० ||
विद्याकामश्चरेद्धोमं शर्करामधुपायसैः |
नूनं तस्य भवन्त्येव सिद्धविद्याश्चतुर्दश || ६/३१ ||
रजस्वलाया वस्त्रेण मधुना पायसेन च |
होमं कृत्वा महादेवि त्रैलोक्यं वशमानयेत् || ६/३२ ||
नागवल्ल्या चरेद्धोमं मधुना सह सर्पिषा |
अयुतैकविधानेन सिद्धिविद्या भवेद् ध्रुवम् || ६/३३ ||
सद्योमार्जारमांसेन घृतेन मधुना सह |
देवगन्धर्वकन्याया भवेदाकर्षणं ध्रुवम् || ६/३४ ||
शशकस्य तु मांसेन मधुनालोडितेन तु |
कृत्वा होममवाप्नोति विद्यावित्तवरस्त्रियः || ६/३५ ||
धूस्तूरार्कस्य योगेन चितावह्नौ तु मन्त्रवित् |
कोकिलाकाकपक्षैस्तु होमे शत्रून् विनाशयेत् || ६/३६ ||
उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् |
पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने || ६/३७ ||
उलूककाकपक्षाभ्यां कुर्याद्धोमं निरन्तरम् |
द्वेषयेच्छत्रुमन्योन्यं कलहाकुलमुद्धतम् || ६/३८ ||
उलूकपक्षहोमेन गर्भपातो वरस्त्रियाः |
सहस्रैकविधानेन कुर्याद् होमं समाहितः || ६/३९ ||
विल्वपत्रेण साज्येन मासमेकं निरन्तरम् |
अपि वन्ध्या लभेत् पुत्रं चिरजीविनमुत्तमम् || ६/४० ||
बन्धूककुसुमं हुत्वा रक्तं मधुसमन्वितम् |
दुर्भगाया हठाद्देवि सौभाग्यं सुखदायकम् || ६/४१ ||
प्रातरुत्थाय यः कश्चिद् होमं कुर्याद् दिने दिने |
जवापुष्पेण साज्येन शतमष्टोत्तरं प्रिये || ६/४२ ||
षण्मासस्य प्रयोगेण भवेदाकर्षणं ध्रुवम् |
देवगन्धर्वमर्त्यानां कन्या नागाङ्गजास्तथा || ६/४३ ||
हठादागत्य कामार्त्ता बलादालिङ्गयान्ति तम् |
विद्यायाः क्रियते होमस्तिलपायसमिश्रितैः || ६/४४ ||
समाप्नोति महाविद्यां शास्त्रौघपदशालिनीम् |
मधुना रुरुमांसेन होमं कुर्यात् प्रयत्नतः || ६/४५ ||
विद्यावान् धनवान् विद्धि शस्त्रशास्त्रवशीकृताम् |
इयं देवि महादेवि वामाचारफलप्रदा || ६/४६ ||
दक्षिणाचारयोगेन न भवेत् फलदायिनी |
भोजनानन्तरं चास्या बलिं दत्त्वा दिने दिने || ६/४७ ||
उच्छिष्टेन जपेन्मन्त्रं शतमष्टोत्तरं प्रिये |
उज्जटे वा श्मशाने वा शून्यागारे चतुष्पथे || ६/४८ ||
वालिप्रदानतो देवि प्रत्यक्षा भवति ध्रुवम् |
एषा देवी मया जप्ता भैरवाकारमिच्छता || ६/४९ ||
इत्येषा कथिता देवी सर्वपापापहारिणी |
मन्त्रस्योच्चारणाद्देवि सर्वपापवर्जितः || ६/५० ||
उच्छिष्टदूषणं नास्ति स पवित्रो भवेद् ध्रुवम् |
इत्युच्छिष्टचण्डालिनी देवी भुवनत्रयविश्रुता || ६/५१ ||
नान्या प्रवर्तते काचिद् विद्यां शृणु वरानने |
शृणु देवि महाविद्यां समयाकालसाधिनीम् || ६/५२ ||
शङ्कर उवाच
न तिथिर्न च नक्षत्रं न च साध्यादिमर्चयेत् |
महाविद्येति विख्याता शिवदीक्षान्तगामिनी || ६/५३ ||
यज्ञोपवीतं देवेशि धार्यते साधकैर्नरैः |
उच्छिष्टेनार्चयेद्देवीं महादेवेन साधिताम् || ६/५४ ||
नाप्यनवगतस्तिष्ठेत् सर्वग्रन्थं सुविस्तरम् |
बहुनोक्तेन किं देवि त्रैलोक्यमपि साधयेत् || ६/५५ ||
सदाकालं तु मन्त्रोऽयं स्मर्तव्यस्त्रिपुण्ड्रधारिणा |
पयसा गुडभक्तेन झषेण जुहुयान्नरः || ६/५६ ||
आयुर्धनञ्च पुत्रांश्च विद्यामष्टादशीं लभेत् |
गोप्तव्येयं प्रयत्नेन कथितव्या न कस्यचित् || ६/५७ ||
गुरुभक्तिः प्रकर्तव्या कायेन च धनेन च |
लोकापवादो न च देवि पापं नैवापरस्तिष्ठति मर्त्यलोके || ६/५८ ||
सुखं भुक्त्वा परे देवि प्लवञ्च साधको व्रजेत् |
पक्षैकसारां धनदैकसारां विद्यैकसाराञ्च शृणुष्व विद्याम् || ६/५९ ||
सर्वोपकारां परमार्थसारां महानुभावां भुवि कामधेनुम् |
इति शिवदीक्षान्तर्गतभवसिद्धलक्ष्मीमते पश्चिमाम्नाये फेत्कारिणीतन्त्रे
उच्छिष्टचाण्डालिनीविवरणं नाम षष्ठः पटलः ||
सप्तमः पटलः
धूमावती प्रयोगोऽयमधुना लिख्यते मया |
दान्तावर्घीशबिन्द्वन्तो बीजो धूमावती द्विठः || ७/१ ||
धूमावतीमनुः प्रोक्तः शत्रुनिग्रहकारकः |
षडङ्गं याति संयुक्तं कल्पयेत्तेन मन्त्रवित् || ७/२ ||
पिप्पलादो मुनिश्छन्दो निवृदेषा तु देवता |
विवर्णा चञ्चला कृष्णा दीर्घा च मलिनाम्बरा || ७/३ ||
विमुक्तकुन्तला रूक्षा विधवा विरलद्विजा |
काकध्वजरथारूढा विलम्बितपयोधरा || ७/४ ||
सूर्यहस्तातिरूक्षाक्षी धूतहस्ता वरान्विता |
प्रवृद्धघोषातिभृशं जटिला कुटिलेक्षणा || ७/५ ||
क्षुत्पिपासार्दिता नित्यं भीषणा कलहप्रदा |
एवंविधां समाध्यायेत् ततः कर्म समाचरेत् || ७/६ ||
तच्चतुर्थेन वर्णेन षष्ठस्वरयुतेन च |
षड्दीर्घजातियुक्तेन कुर्यादङ्गानि मन्त्रवित् || ७/७ ||
जपेत् कृष्णचतुर्दश्यां पुरश्चरणसिद्धये |
उपवासरतो मन्त्री शून्यागारे दिवानिशम् || ७/८ ||
श्मशाने विपिने वापि जपेल्लक्षन्तु वाग्यतः |
सोष्णीश आर्द्रवासाश्च पुरश्चरणकर्मणि || ७/९ ||
साध्योपरियन्त्रमालिख्य तस्मिन् संस्थाप्य शिवं यजेत् |
अवष्टभ्य शिवं शत्रुनाम्नाऽथ प्रजपेन्मनुम् || ७/१० ||
सहस्रादूर्ध्वतः शत्रुर्ज्वरेण परिगृह्यते |
पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा || ७/११ ||
मन्त्राद्यक्षरमालिख्य शत्रुनाम ततः परम् |
द्वितीयान्तं मनोः शत्रोर्नामैवं मुनिना लिखेत् || ७/१२ ||
वनेऽयुतजपाच्छत्रोर्निश्चितं मरणं भवेत् |
कृत्वा यन्त्रे रिपोराख्यामरण्ये यामिनीदले || ७/१३ ||
उत्सादो जायते शत्रोर्मनोरयुतजापतः |
दग्ध्वा काकं श्मशानाग्नौ तद्भस्मादाय मन्त्रितम् || ७/१४ ||
विरोधिनाम्नाष्टाशासु सद्य उच्चाटनं रिपोः |
श्मशानभस्मना कृत्वा शिवं तस्योपरि न्यसेत् || ७/१५ ||
विरोधिनाम संलिख्य कृष्णपक्षे समाचरेत् |
महिषीक्षीरधूपञ्च दद्याच्छत्रुविपत्करम् || ७/१६ ||
महिषीरूपमाश्रित्य स्वप्ने शत्रुं निपातयेत् |
वन्ध्याकरतले नासाद्वयोरूर्ध्वं रिपोर्न्यसेत् || ७/१७ ||
जलस्थः प्रजपेन्मन्त्री हू/कारान्नाशयेदरीन् |
श्मशानभस्मना लिङ्गं कृत्वा पुष्पादिनाऽर्चयेत् || ७/१८ ||
चिताकाष्ठानले क्षीरहोमाच्छान्तिः प्रजायते |
रजोधूपप्रदानेन गृध्ररूपेण कालिका || ७/१९ ||
मारयत्यरिमागत्य शान्तिर्निर्माल्यधूपतः |
वराहवालधूपेन हन्याच्छूकररूपिणीम् || ७/२० ||
अश्वत्थपत्रधूपेन शान्तिर्भवति नान्यथा |
शान्तिः सर्वाभिचारस्य पञ्चगव्येन जायते || ७/२१ ||
क्षीरेण वापि देवेशि मधुरत्रितयेन वा |
कीलेत् क्षीरतरोर्विदर्भ्य विलिखेन्मन्त्रेण नामाक्षरं
जप्त्वाऽऽलिख्य पदद्वये तु निखनेदुच्चाटनं विद्विषाम् |
तत्पादद्वयधूलिकीर्णहविषा दद्याद् द्विजेभ्यो बलिं
तज्जप्त्वा चितिभस्मकीर्तितमनोर्हुत्वेति तद्वद्भवेत् || ७/२२ ||
वान्तं शत्रुगृहेषु तच्छिरसि वा तेषां कुलोच्चाटनं
वायव्ये विलिखेत्तदर्णसहितं वायुस्वराष्टौ शिवा
न्यक्षेः रक्ततयारिमाक्षरदशः कृत्वैव तत्रोषितं
चूर्णं तस्य च पल्लवे विनिहितं जप्तं सहस्राक्षरम् || ७/२३ ||
जप्त्वा वासे श्मशाने वा निर्माल्ये पादगोचरे |
गर्दभावासभूमौ च भूतस्थाने चतुष्पथे || ७/२४ ||
ऊषरे मोहनाद् भूमौ पुष्पितावासके स्वयम् |
आनीय शर्करां मन्त्री दिग्वासा दक्षिणामुखः || ७/२५ ||
श्मशाने लोष्टं निःक्षिप्य तत्राग्नौ भर्ज्जयेत्तथा |
चूर्णं तत्तु जपेल्लक्षं निक्षिपेच्छत्रुवेश्मनि || ७/२६ ||
सेनामध्ये च सर्वेषां पक्षादुच्चाटनं भवेत् |
गर्ते पिपीलिकानान्तु पादभूमितले कणान् || ७/२७ ||
घृतान्नं सप्तरात्रन्तु जुहुयान्मन्त्रविन्निशि |
भ्रमते काकवत् सर्वां महीमामरणादिषु || ७/२८ ||
कृत्वा प्रतिकृतिं शत्रोर्जन्म-ऋक्षेण मन्त्रवित् |
कृत्वा प्रतिष्ठां प्राणस्य विद्धा मर्मसु कण्टकैः || ७/२९ ||
आयसैर्मन्त्रमावर्त्य वक्ष्यमाणैः प्रवेष्टयेत् |
पूर्वोक्तशर्कराभिस्तु जप्त्वा नित्यं प्रतापयेत् || ७/३० ||
सप्तरात्रेण तस्यापि भवत्युच्चाटनं ध्रुवम् |
अथ सैन्यद्वये लिख्य सारमेयवराहयोः || ७/३१ ||
मन्त्रेण गर्भितौ साध्यौ भौमवारोदयादिषु |
धुस्तूररससंयुक्ता चिताङ्गारेण मन्त्रिणा || ७/३२ ||
वृषस्य पृष्ठतो बध्वा केशपाशेन तं जपेत् |
श्मशाने शत्रुमाहूय तद्गेहे निखनेन्निशि || ७/३३ ||
विद्वेषणं भवेत् सद्यो गौरीशङ्करयोरपि |
अश्वत्थत्वचि मन्त्रार्णैर्दर्भितं साध्यमालिखेत् || ७/३४ ||
अन्यप्रियतरस्तत्तज्जप्त्वा उद्धृत्य चाभ्यसेत् |
पूर्वोक्तकण्टकैर्विद्धा नयेत् स्पृष्ट्वा शतम् शतम् || ७/३५ ||
विद्विष्टौ भवतस्तौ तु नाम्नामपि च तत्क्षणात् |
वर्णान्तान् विलिखेत् विषाख्यमभितः कोणेषुमन्त्राक्षरैः
संरुद्धान् परितः प्रभञ्जनगृहं मध्ये च साध्यं पृथक् |
अङ्गारैः कनकोद्भवैरविपदे मन्त्रं जपंस्ताडयेत्
कार्पासे लवणे कुजार्किदिवसे भूर्लोकविद्वेषताम् || ७/३६ ||
आपाद्य पूर्वाञ्च मूर्त्तिं शत्रोरालिख्य शोषयेत् |
तापयेन्निशि तं जप्त्वा वह्नेरुपरि लम्बयेत् || ७/३७ ||
एवं सप्तदिनं द्रव्यैराजप्यालिख्य शोषयेत् |
व्योमाग्निलशुनोन्मत्तहिङ्गुसिद्धार्थशूरणैः || ७/३८ ||
पिण्डैर्लवणसंपूतैरुन्मत्तद्रवसंयुतैः |
पेषयित्वा तेन सम्यक् लिखेन्मन्त्री मनुं जपेत् || ७/३९ ||
निःक्षिप्य प्रतिमां तत्र हुनेन्नित्यं जपेन्मनुम् |
बलिमध्ये खनेत् कीलं युक्तरूपं तथोपरि || ७/४० ||
वह्निं प्रज्वाल्य तत्कीलैर्द्रव्यसंयुक्ततो जपेत् |
सप्तरात्रं ततः कुण्डं शून्यागारे पुरा हुनेत् || ७/४१ ||
त्रिकोणशूलदीप्तञ्च मेखलायतनान्वितम् |
तत्रापि निखनेत् कीलं वह्निं प्रज्वाल्य पूर्ववत् || ७/४२ ||
ततः प्रतिकृतिं मन्त्री वह्नेरुपरि लम्बयेत् |
मुक्तद्रव्येण संल्लिप्तामूर्ध्वपादामधोमुखीम् || ७/४३ ||
रक्तद्रव्यैः समाराध्य प्रज्ज्वाल्य विषवृक्षजैः |
इन्धनैः प्रतिमायाञ्च समित्प्रज्वलितां हुनेत् |
अनेनादिभिराहुत्योर्निर्विषं यात्यसंशयः || ७/४४ ||
इति फेत्कारिणीतन्त्रे धूमावतीविवरणं नाम सप्तमः पटलः ||
अष्टमः पटलः
श्रीदेवी उवाच
अधुना श्रोतुमिच्छामि गृध्रकर्णामनुं शिव |
श्रीशिव उवाच
गृध्रकर्णामनुं देवि कथयामि शृणु प्रिये || ८/१ ||
गृध्रकर्णापदं चोक्त्वा विरूपिणि पदं ततः |
लम्बस्तनिपदं पश्चाद् महोररिपदं वदेत् || ८/२ ||
उत्पादयपदं भूयस्तथैवोपरि देवि च |
पदान्येतानि वीप्सायै वदेत्तन्मन्त्रमेव च || ८/३ ||
वह्निजायापदं चोक्त्वा ततो मन्त्रं जपेद् बुधः |
अयुतं मन्त्रसिद्ध्यर्थं मातृकान्यासतत्परः || ८/४ ||
पिप्पलादो मुनिश्रेष्ठो निबृच्छन्द उदाहृतम् |
स्वयमेव तु पञ्चाङ्गभद्रकाली तु देवता || ८/५ ||
अतिरौद्री महादंष्ट्रा कृशा दीर्घा कृशोदरी |
प्रमत्तनयना शूरा दीर्घघोणा मदान्विता || ८/६ ||
स्निग्धगम्भीरनिर्घोषा नीलजीमूतसन्निभा |
भ्रुकुट्याग्नीव संदीप्ता महावदनभीषणा || ८/७ ||
दष्टौष्ठा कोपताम्रोष्ठी रक्तदीर्घतनूरुहा |
त्रिशूलैरुग्रदोर्दण्डा नरकीटपलाशिनी || ८/८ ||
अतिरक्ताम्बरा देवी रक्तमांसासवप्रिया |
शिरोमाला विचित्राङ्गी पिबन्ती शोणितासवम् || ८/९ ||
नृत्यन्ती च हसन्ती च पिशाचगणसेविता |
पिशाचस्कन्धमारुह्य भ्रमन्ती वसुधातलम् || ८/१० ||
शङ्करस्य मुखोत्पन्ना योगिनी योगवल्लभा |
इत्थंभूता भद्रकाली मातृभिः परिवारिता || ८/११ ||
ध्यात्वा सम्यक् समाराध्य मन्त्रकार्यं समारभेत् |
धूमावत्याश्च यत् प्रोक्तमनया च तदाचरेत् || ८/१२ ||
उक्तः प्रयोग एवात्र विशेषविधिरुच्यते |
विज्ञाय तं तु निर्घोषमेकसूत्रं वनान्तरात् || ८/१३ ||
विषवृक्षं समादाय ततो होमं समाचरेत् |
शून्यागारे वने वापि कुण्डं कृत्वा त्रिकोणकम् || ८/१४ ||
विल्ववृक्षेन्धनैर्वह्निं प्रज्वाल्य धारयेत् सुधीः |
ततः कुण्डं जपेन्मन्त्री विषवृक्षस्य साधकः || ८/१५ ||
अष्टोत्तरशतं वह्नौ तदग्नौ प्रक्षिपेद् बुधः |
सुविनीतं द्विजं धीरं कृत्वा चोत्तरसाक्षिणम् || ८/१६ ||
दिक्षु सर्वासु संस्थाप्य सुभटान् खड्गहस्तकान् |
कृतरक्षः समाराध्यो वह्निः क्रोधसमन्वितः || ८/१७ ||
अष्टोत्तरशतं जप्त्वा दण्डाग्रं जातवेदसि |
दत्त्वा सिद्धार्थके मन्त्री जुहुयात् सवनद्वयम् || ८/१८ ||
यष्ट्याग्रमग्नौ सुनिवेश्य पश्चात् सिद्धार्थकैस्तेन समुक्षितैश्च |
हुनेत् सहस्रद्वयमत्रधीमान् विसृज्य वह्निं बलिदानपूर्वकम् || ८/१९ ||
ध्यायेद् देव्याः स्वरूपं प्रलयानलनिभं रक्तवर्णोग्रनेत्रं
शूलाग्रप्रोतसिंहं तरुणनरशिरःस्रग्विणं तीक्ष्णदंष्ट्रम् |
उल्काव्यग्रोर्ध्वहस्तं रुधिरमधुमदभ्रान्तचित्तं सुघोरं
शत्रूणां सङ्घमुच्चैः करविधृतशिलादण्डनिर्घोषघोरम् || ८/२० ||
भ्रामयित्वा करेणोल्कां दक्षिणेन रिपोर्मुखम् |
गत्वा दूरेण विसृजेत् ततः क्रोधानले स्थितः || ८/२१ ||
सुमहाव्रत तत्तीर्थं गत्वा वेगेन वाग्यतः |
स्नात्वावश्यं शुचिर्भूत्वा कण्ठमात्रोदके स्थितः || ८/२२ ||
संजपेत् स नरो दुर्गां सावित्रीं च समाहितः |
अष्टोत्तरसहस्रं तु जपेदन्यच्छतं शतम् || ८/२३ ||
उत्तीर्य चाच्छाद्य ततः सुमोहाय सुरालयम् |
गत्वा तु महतीं पूजां कृत्वा देवस्य चक्रिणः || ८/२४ ||
पादयुग्मं समालम्ब्य वर्णलक्षं जपेद् बुधः |
तावज्जप्त्वा घटे सद्भिरभिषिञ्चेत् स्वकं वपुः || ८/२५ ||
दक्षिणां विधिवद् दत्त्वा शान्तिहोमञ्च कारयेत् |
ध्यात्वा दुर्गां जपेल्लक्षं सावित्रीञ्च तथैव च || ८/२६ ||
कृत्वाभिषेकं ताभ्यां तु शक्तितो भोजयेद् द्विजान् |
दक्षिणां शक्तितो दत्त्वा सिद्धो भवति साधकः || ८/२७ ||
रुद्रदण्डप्रयोगोऽयं दारुणो रणसूदनः |
पुरा देवासुरे युद्धे हरेण किल निर्मितः || ८/२८ ||
तत्प्रयोगमहं वक्तुं न शक्नोमि तथाऽपि चेत् |
प्रयोगमात्रं तद्वक्ष्ये विद्वेषोच्चाटनादिकम् || ८/२९ ||
विभीतकफलैः शत्रोर्लिखेन्नाम सहस्रकम् |
मन्त्रं जप्त्वा सहस्रं तत् खनेत् पितृवने बुधः || ८/३० ||
उच्चाटनं भवेत् क्षिप्रं मरणं चापि किं पुनः |
मानवानां द्विजश्रेष्ठ न कर्तव्यं मनीषिभिः || ८/३१ ||
तथैव किल तस्यैव त्रिकोणेऽधोमुखं लिखेत् |
धूस्तूरबीजकर्णेन जप्त्वा वालिप्य तत्पदे || ८/३२ ||
खनेदुच्चाटयेच्छत्रून् वाताहतरजो यथा |
इति फेत्कारिणीतन्त्रे गृध्रकर्णाविवरणं नाम
अष्टमः पटलः ||
नवमः पटलः
श्रीशिव उवाच
साम्प्रतं संप्रवक्ष्यामि भद्रकालीमहामनुम् |
श्रूयतां परमेशानि सावधानाऽवधारय || ९/१ ||
प्रासादबीजमुद्धृत्य कालीति पदमुद्धरेत् |
महाकालि पदं चोक्त्वा किलयुग्ममतः परम् || ९/२ ||
षडग्निवल्लभान्तोऽयं भद्रकालीमहामनुः |
आराध्य प्रजपेन्नित्यमष्टोत्तरशतं मनुम् || ९/३ ||
(हौं कालि महाकालि किलि किलि फट् स्वाहा)
जपमाला विधातव्या अष्टाधिकशतेन च |
ध्यातव्येयं महादेवो भद्रकाली भयापहा || ९/४ ||
क्षुत्क्षामाकोटराक्षी मसिमलिनमुखी मुक्तकेशी रुदन्ती
नाहं तृप्ता वदन्ती जगदखिलमिदं ग्रासमेकं करोमि |
हस्ताभ्यां धारयन्ती ज्वलदनलशिखासन्निभं पाशमुग्रं
दन्तैर्जम्बूफलाभैः परिहरतु भयं पातु मां भद्रकाली || ९/५ ||
प्रयोगश्चात्र कर्तव्यः सामान्यपटलोदितः |
अशेषकालिकामन्त्रं कथितं कार्यसिद्धये || ९/६ ||
इयं देवी महादेवी शत्रुनिग्रहकारिणी |
यथेष्टचेष्टया चिन्त्या धर्मकामार्थसिद्धिदा || ९/७ ||
इति फेत्कारिणीतन्त्रे भद्रकालीविवरणं नाम
नवमः पटलः ||
दशमः पटलः
अथातः संप्रवक्ष्यामि पुण्याप्त्यै दक्षिणाविधिम् |
सर्वसिद्धिप्रदं साक्षान्महापातकनाशनम् || १०/१ ||
दैवैर्देवत्वविषये सिद्धैः खेचरसिद्धये |
गन्धवैर्दानवैर्यक्षैः स्वस्वकार्यार्थसिद्धये || १०/२ ||
पन्नगै राक्षसैर्मत्यैर्मुनिभिश्च मुमुक्षुभिः |
कामिभिर्धर्मिभिश्चार्थलिप्सुभिः सेवितां सदा || १०/३ ||
देवीं दक्षिणसंज्ञां तां प्रवक्ष्यामि यथा मुने |
ओं करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् || १०/४ ||
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषणाम् |
सद्यश्छिन्नशिरःखड्गवामाधोऽर्ध्वकराम्बुजाम् || १०/५ ||
अभयं वरदं चैव दक्षिणाधोर्ध्वपाणिकाम् |
महामेघप्रभां श्यामां तथा चैव दिगम्बराम् || १०/६ ||
कण्ठावसक्तमुण्डालीं गलद्रुधिरचर्चिताम् |
कर्णावतंसतां नीतशवयुग्मभयानकाम् || १०/७ ||
घोरद्रंष्ट्रां करालास्यां पीनोन्नतपयोधराम् |
शवानां करसंघातैः कृतकाञ्चीं हसन्मुखीम् || १०/८ ||
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् |
घोररूपां महारौद्रीं श्मशानालयवासिनीम् || १०/९ ||
दन्तुरां दक्षिणव्यापिमुक्तालम्बिकचोच्चयाम् |
शवरूपमहादेवहृदयोपरि संस्थिताम् || १०/१० ||
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् |
माहाकालेन च समं विपरीतरतातुराम् || १०/११ ||
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् |
एवं सञ्चित्य कालीं तु श्मशानालयवासिनीम् || १०/१२ ||
प्रवक्ष्यामि मनुं तस्याः सर्वकामप्रदायकम् |
(क्री/ क्री/ क्री/ हू/ हू/ ह्री/ दक्षिणे कालिके क्री/ क्री/ क्री/
हू/ हू/ ह्री/ स्वाहा) || १०/१३ ||
वर्गाद्यं वह्निसंस्थं च रतिबिन्दुसमन्वितम् |
त्रिगुणञ्च ततः कूर्चयुग्मं लज्जायुगं ततः || १०/१४ ||
दक्षिणे कालिके चेति पूर्ववच्च ततः पुनः |
ठद्वयेन समायुक्तं मनुमेनं विदुर्बुधाः || १०/१५ ||
द्वाविंशत्यक्षरो मन्त्रः सर्वसिद्धिप्रदो नृणाम् |
नात्र शुध्याद्यपेक्षास्ति न वा मित्रारिदूषणम् || १०/१६ ||
न वा प्रयासबाहुल्यं समयासमयादिकम् |
न वित्तव्ययबाहुल्यं कायक्लेशकरं न च || १०/१७ ||
य एनं चिन्तयेन्मन्त्री सर्वकामसमृद्धिदम् |
तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः || १०/१८ ||
गद्यपद्यमयी वाणी सभायां तस्य जायते |
तस्य दर्शनमात्रेण वादिनश्च पराजिताः || १०/१९ ||
राजानोऽपि हि दासत्वं भजन्ते किं परे जनाः |
वह्नेः शैत्यं जलस्तम्भं गतिस्तम्भं विवस्वतः || १०/२० ||
दिवारात्रिव्यत्ययञ्च स कर्तुं भवति क्षमः |
ब्रह्महत्या सुरापानमगम्यागमनं तथा || १०/२१ ||
सर्वमाशु हरत्येव दक्षिणामेव चिन्तयेत् |
वागीश्वरसमो वाचि धनैर्धनपतिर्भवेत् || १०/२२ ||
कामतुल्यः स नारीणां रिपूणां च यमोपमः |
सर्वस्येह जनस्येह वल्लभः कीर्तिवर्द्धनः || १०/२३ ||
अन्ते च लभते देव्या दुर्लभाञ्च गतिं नरः |
चन्द्रसूर्यप्रभो भूत्वा वसेत् कल्पायुतं दिवि || १०/२४ ||
इत्येवमादिकं चैव बहुना कथ्यते पुनः |
न तस्य दुर्लभं किञ्चिद् यः स्मरेद् घोरदक्षिणाम् || १०/२५ ||
नागयज्ञोपवीताञ्च चन्द्रार्द्धकृतशेखराम् |
जटाजूटञ्च सञ्चिन्त्य महाकालीसमीपगाम् || १०/२६ ||
कूर्चलज्जायुगं बीजद्वयं चान्ते तथैव च |
एवं सञ्चिन्त्य देवीं तु रक्तपुष्पैः समर्चयेत् || १०/२७ ||
कामबाणसदाविद्धा निर्लज्जा विह्वला स्त्रियः |
स्वं स्वं सन्त्यज्य भर्त्तारमालिङ्गन्ते सदैव तम् || १०/२८ ||
लोहितां शूलहस्तां तामेकशूलधरां तथा |
महाकालसमीपस्थां ध्यात्वा पीतैः सुपुष्पकैः || १०/२९ ||
अभ्यर्च्य कालिकां पश्चात्तथैवान्तेऽपि योजयेत् |
आकर्षणं भवत्येव सदा स्थावरजङ्गमम् || १०/३० ||
स्वर्गपातालगं चापि किमन्यद् भूतले स्थितम् |
आकर्षयति सर्वं हि महाकालवचो यथा || १०/३१ ||
कपिलां द्विभुजां कर्तृकपालसव्यदक्षिणाम् |
ध्यात्वैवं हि च सर्वस्य चान्ते च द्वयमेव हि || १०/३२ ||
एवं प्रजप्य पुष्पेण कृष्णेनैनां प्रपूजयेत् |
मारणं हि भवत्यस्य यमुद्दिश्य कृता क्रिया || १०/३३ ||
उच्चाटयति पिङ्गाक्षी संत्रासयति केकरी |
विद्रावयति मुक्तास्या प्रोन्मत्तयति घूर्णिता || १०/३४ ||
विक्षोभयति संक्रुद्धा संपादयति सायुधा |
संकोचयति संक्रुद्धा विप्रलब्धा विरोधयेत् || १०/३५ ||
यं यं भावं जनो नेयस्तद्भावस्थां स्मरेद्यदि |
अत्र सर्वं प्रकर्तव्यं भावमात्रं विचिन्तयेत् || १०/३६ ||
उच्चाटयति नैवात्र सर्वत्र सुरतो मतः |
स्नातः शुक्लाम्बरधरः कृतनित्यक्रियो दिवा || १०/३७ ||
रात्रौ नग्नः शयानश्च मैथुने च व्यवस्थितः |
अथवा मुक्तकेशश्च तेन स्युः सर्वसिद्धयः || १०/३८ ||
स्तम्भनं मोहनञ्चैव वशीकारो विशेषतः |
नग्नां परस्त्रियं वीक्षन् प्रजपेदयुतं नरः || १०/३८ ||
निकेतः सर्वविद्यानां पारगः सर्वदैव हि |
तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः || १०/३९ ||
गद्यपद्यमयी तस्य वाणी सर्वविधा भवेत् |
अथवा मुक्तकेशश्च हविष्यं भक्षयेन्नरः || १०/४० ||
प्रजपेदयुतं तावदेवं प्रतिविधिः स्मृतः |
अष्टोत्तरशतं जप्त्वा भागमामन्त्रणेन च || १०/४१ ||
मैथुनं यः प्रयात्येवं धनधान्यसुतान्वितः |
सर्वविद्यावतां श्रेष्ठो भवेद्वै नात्र संशयः || १०/४२ ||
ऋतुमत्या भगं पश्यन् प्रजपेदयुतं नरः |
बालिशस्यापि तद्वाणी गद्यपद्यमयी भवेत् || १०/४३ ||
छन्दोबद्धा च वै तस्य वाणी वक्त्रात् प्रवर्तते |
सुरतेषु सदा जप्यं महापातकमुक्तये || १०/४४ ||
श्मशानालयमागत्य मुक्तकेशो दिगम्बरः |
जपेदयुतसंख्यं तु सर्वकामार्थसिद्धये || १०/४५ ||
तत्रैव प्रेतमावास्य यो जपेन्मन्त्रवित्तमः |
अयुतं वाग्यतो भूत्वा बिभीषिकपरायणः || १०/४६ ||
स याति परमां सिद्धिं देवैरपि सुदुर्लभाम् |
आकर्षणं वशीकारोच्चाटनं बोधनं तथा || १०/४७ ||
स्तम्भनं मोहनञ्चैव भासनं द्रावणं तथा |
वाग्मित्वञ्च धनित्वञ्च बहुपुत्रित्वमेव च || १०/४८ ||
बहुवल्लभतां चैव सर्वप्रियत्वमेव हि |
समायाति खेचरत्वं देवत्वमपि चैव हि || १०/४९ ||
न जरा न च मृत्युर्वा न रोगो न च वा भयम् |
न भीतिर्न मनुष्यस्य न च वाक् कायपातनम् || १०/५० ||
अथवा स भवेन्नित्यं चतुर्विंशतिसिद्धियुक् |
स्वदेहरुधिराक्तैश्च विल्वपत्रैः सहस्रशः || १०/५१ ||
श्मशानेऽभ्यर्च्य देवीं तु वागीशसमतां ब्रजेत् |
रेतोयुक्तेन पुष्पेण अर्कस्येह सहस्रशः || १०/५२ ||
श्मशानेऽभ्यर्च्य कालीं तु सर्वसिद्धिं स विन्दति |
धनवान् बलवान् वाग्मी सर्वयोषित्प्रियः सुधीः || १०/५३ ||
जायते नात्र संदेहो महाकालवचो यथा |
श्मशाने योषितं नीत्वा सुवस्त्रां गणिकां तथा || १०/५४ ||
रक्तचन्दनदिग्धाङ्गी रक्तपुष्पैरलङ्कृताम् |
जवापुष्पिर्मनुं प्रोक्ष्य ततो ध्यायेत्तु चण्डिकाम् || १०/५५ ||
ततो गत्वा लभेद्राज्यं यदि सा न भयायते |
श्मशानशयने चैव शवासनगतः पुनः || १०/५६ ||
असकृत्तु जपेन्मन्त्रं सर्वथा वाऽयुतैस्तथा |
रेतोभिश्च तथा तद्वत् स्वकीयेन कचेन च || १०/५७ ||
मैथुनायितयोषाया भगप्रक्षालनेन च |
मेषमाहिषरक्तेन नररक्तेन चैव हि || १०/५८ ||
मूषमार्जाररक्तेन वाग्मिता तस्य जायते |
घनित्वं जायते तस्य सर्वसिद्धिः प्रजायते || १०/५९ ||
वचसा स भवेज्जीवो धनेन च धनाधिपः |
आज्ञया देवराजोऽपि रूपेणापि मनोभवः || १०/६० ||
बलेन पवनो ह्येष सर्वतत्त्वार्थसाधकः |
साधिता साधितं मांसं सास्थि दद्यात् सदा बलिम् || १०/६१ ||
मूषमार्जारमांसञ्च मेषमाहिषमेव च |
शवस्यास्थि प्रदातव्यं तथा मद्यसमन्वितम् || १०/६२ ||
स्वनखच्छिन्नमार्जारकेशं सम्मार्जनागतम् |
निवेदयेत् श्मशाने तत् सर्वसिद्धीश्वरो भवेत् || १०/६३ ||
नारीरजोऽन्वितं कृत्वा पर्णानां शतमुत्तमम् |
प्रत्येकं प्रजपेन्मन्त्रं ततस्तद्धोमयेद् बुधः || १०/६४ ||
योनिरूपं हि कुण्डं वै कृत्वा वितस्तिमानतः |
हस्तविस्तारतः कृत्वा हस्तञ्चापि तथाप्यधः || १०/६५ ||
तत्र कार्या हि विप्रेण वह्निस्थापनकक्रिया |
महाकालाय देवाय प्रदद्यात् प्रथमाहुतिम् || १०/६६ ||
दद्यादाज्येन भक्तेन मांसेन रुधिरेण च |
कृष्णपुष्पेण साज्येन रेतसापि विशेषतः || १०/६७ ||
रुरुमांसेन साज्येन भक्तेन रुधिरेण च |
आमिषादिकमप्येवं जुहुयात् पितृकानने || १०/६८ ||
स्नातः शुक्लाम्बरधरः शुचिः प्रयतमानसः |
दिवा चैव प्रकर्तव्यं सर्वकामार्थसिद्धये || १०/६९ ||
रत्रौ नग्नो मुक्तकेशो मैथुनेनापि तत्त्वतः |
प्रकर्त्तव्यं प्रयत्नेन सर्वकामार्थसिद्धये || १०/७० ||
द्विजानाञ्चैव सर्वेषां दिवाविधिरिहोच्यते |
शूद्राणाञ्च तथा प्रोक्तं रात्रौ दृष्टं महामतम् || १०/७१ ||
यद्यत् कामयते चित्ते तत्तदाप्नोति नित्यशः |
महाकालं हुनेद्यत्नात् पश्चाद्देवीं प्रयत्नतः || १०/७२ ||
त्रिधा विभज्य मन्त्रं वै यत्नात् साधकसत्तमः |
मांसं रक्तं त्वचं केशं नखं भक्तञ्च पायसम् || १०/७३ ||
आज्यञ्चेति प्रयत्नेन होतव्यं सर्वसिद्धये |
एवं कृत्वा विधातव्यं लभते सिद्धिमुत्तमाम् || १०/७४ ||
यद्यत् प्रार्थयते चित्ते तत्तदाप्नोति नित्यशः |
देवत्वं दानवत्वञ्च सिद्धचारणतां तथा ||
सदा हुत्वा समाप्नोति नित्यमेवमतन्द्रितः || १०/७५ ||
अथ वक्ष्यामहं देव्या पूजाविधिमनुत्तमम् |
त्रिकोणं विन्यसेत् पूर्वं पुनः पश्चात् त्रिकोणकम् || १०/७६ ||
नवकोणं तु तस्यान्ते तन्मध्ये स्थापयेच्छिवाम् |
एवं पञ्चदशारं वै रेखाभिः परिवेष्टयेत् || १०/७७ ||
वहिरष्टदलं कार्यं चतुर्द्वारोपशोभितम् |
ततः पूर्वादिकोणेषु वामावर्तेन विन्यसेत् || १०/७८ ||
कालीं कपालिनीं कुल्वां कुरुकुल्वां विरोधिनीम् |
विप्रचित्तां तु विन्यस्य बहिः षट्कोणके पुनः || १०/७९ ||
उग्रामुग्रप्रभां दीप्तां परत्रिकोणके न्यसेत् |
नीलां घनां बलाकाञ्च तथैवापरके त्रिके || १०/८० ||
मात्रां मुद्रां मितां चैवापरत्रिकोणके बुधः |
सर्वाः श्यामा असिकरा मुण्डमालाविभूषिताः || १०/८१ ||
तर्जनीं वामहस्तेन धारयन्त्यश्च सस्मिताः |
तद्वहिर्मूलतश्चापि ब्राह्मी नारायणी तथा || १०/८२ ||
माहेश्वरी च चामुण्डा कौमारी चापराजिता |
वाराही च तथा पूज्या नारसिंही तथैव च || १०/८३ ||
ततो मध्ये त्रिकोणान्तर्न्यसेद् देवीञ्च दक्षिणाम् |
महाकालञ्च तथैव न्यसेच्चैष विधिः स्मृतः || १०/८४ ||
सर्वासामपि देवीनां बलिपूजा तथैव च |
अनुलेपनकं चापि विभवेनोपकल्पितम् || १०/८५ ||
त्रिस्त्रिः पूजा प्रकर्तव्या सर्वासामपि सर्वदा |
अङ्गन्यासकरन्यासौ यथावत् कथयाम्यहम् || १०/८६ ||
दीर्घषट्कयुताद्येन प्रणवाद्येन मन्त्रवित् |
षडङ्गानि न्यसेन्मन्त्री त्रिः सकृद् वा यथासुखम् || १०/८७ ||
पञ्चाशद्भिश्च वर्णैश्च हृदयं द्वौ भुजौ तथा |
तथा जङ्घाद्वयञ्चैव योजनीयं दिशो दश || १०/८८ ||
पञ्चधा दशधा वापि मूलमन्त्रेण सप्तधा |
समस्ताङ्गं प्रकुर्वीत शोधितं मन्त्रवित्तमः || १०/८९ ||
ततः पूर्वोक्तरूपां तां ध्यायेद्वै घोरदक्षिणाम् |
योगिनीचक्रसहितां महाकालसमन्विताम् || १०/९० ||
संपूज्य प्रयतश्चापि बलिं स प्रतिपादयेत् |
बलिमुत्थाप्य नैवेद्यं नै-ऋत्याञ्च निवेदयेत् || १०/९१ ||
हृदये चैव देवीं स्वे समर्प्य विधिवद् बुधः |
निर्माल्यं वै शुचौ देशे धारणीयं प्रयत्नतः || १०/९२ ||
लक्षञ्चैव जपेन्मन्त्री हविष्याशी दिवा शुचिः |
अशुचिश्च तथा रात्रौ लक्षमेकं तथैव च || १०/९३ ||
दशांशं होमयेन्मन्त्री तर्पयेदभिषेचयेत् |
होमेऽपि तर्पणे चैव यथावत् कथितो विधिः || १०/९४ ||
एवं देवीं कलुषदहनीं पूजयित्वा यथावद्
धृत्वा तावद् बलिमपि तथा तर्पयित्वाऽभिषिच्य |
यं यं कामं रचयति मनः स्वाहितं मर्त्यलोक -
स्तं तं प्राप्य प्रयाति प्रतिपदपदवीं योगिभिः प्रार्थनीयाम् || १०/९५ ||
भैरवोऽस्य ऋषिः प्रोक्तस्त्रिष्टुप्छन्द उदाहृतम् |
श्मशानकालिका देवी क्रींबीजं हू/ च शक्तिकः || १०/९६ ||
सकलसिद्ध्यर्थे विनियोगः |
इति फेत्कारिणीतन्त्रे श्मशानकालिकाकथने
दशमः पटलः ||
एकादशः पटलः
कैलासशिखरासीनं चन्द्रखण्डविराजितम् |
वक्षःस्थले समासीना पृच्छति स्म नगात्मजा || ११/१ ||
श्रीदेवी उवाच
कथयेशान सर्वज्ञ भारतास्ते तपोधनाः |
कां विद्यां प्राप्य कवयो भारतादीन् प्रचक्रिरे || ११/२ ||
श्रुत्वा नगात्मजावाक्यं रहस्यं परमेश्वरः |
प्राह प्रियां परिष्वज्य साधु साध्विति पूजयन् || ११/३ ||
श्रीशिव उवाच
शृणु साध्वि महाविद्यामज्ञानेन्धनदाहिनीम् |
यामवाप्य महात्मानो धर्मकामार्थमुक्तिषु || ११/४ ||
नासाध्यं मेनिरे किञ्चित् कवयः शुद्धबुद्धयः |
वादे वदसि यां वाक्यस्तम्भिनीं प्रतिवादिनीम् || ११/५ ||
विद्या हानिकरी वैरी विदुषां बलिदानतः |
हास्याय या सदस्यानामशुद्धजल्पनादिना || ११/६ ||
वादिनं वाथ राजानं मन्त्रिणं वशमानयेत् |
ज्ञानमात्रेण मन्त्रस्य मतिरुग्रा प्रजायते || ११/७ ||
जपादेव तु सार्वज्ञ्यं जायते नात्र संशयः |
जिह्वायां न्यसनादेव मूर्खोऽपि सुकविर्भवेत् || ११/८ ||
प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा परा
खड्गेन्दीवरकर्तृखर्परभुजा हूंकारबीजोद्भवा
खर्वा नीलविशालपिङ्गलजटाजूटोग्रनागैर्युता
जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् || ११/९ ||
अव्याहतमतिः शास्त्रे विजयी वाक्पतिर्भवेत् |
महाचीनक्रमां नत्वा तारां त्रिभवतारिणीम् || ११/१० ||
तत्साधनविधिं वक्ष्ये मम सर्वज्ञसाधनम् |
सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् || ११/११ ||
न च दोषो दिवारात्रौ न सन्ध्यायां महानिशि |
वस्त्रासनस्थानगेहदेहस्पर्शादिवारिणः || ११/१२ ||
शुद्धिं न चारयेदत्र निर्विकल्यं मनश्चरेत् |
नात्र सिद्धाद्यपेक्षास्ति न वा मित्रादिदूषणम् || ११/१३ ||
य एवं चिन्तयेद् देवीं सर्वकामसमृद्धिदाम् |
गद्यपद्यमयी वाणी सभायां तस्य जायते || ११/१४ ||
तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः |
राजानोऽपि च दासत्वं भजन्ते किं परे जनाः || ११/१५ ||
सर्वदा पूजयेद् देवीमस्नातः कृतभोजनः |
महानिशि शुचौ देशे बलिं मन्त्रेण दापयेत् || ११/१६ ||
स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियाः |
जपस्थाने महाशङ्खं निवेश्योर्ध्वं जपञ्चरेत् || ११/१७ ||
स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र तत्राप्यचूडके |
उपहारं यथायोग्यं भक्ष्यद्रव्यान् यथारुचीन् || ११/१८ ||
मांसं मत्स्यं दधि क्षौद्रं पयः शाकाज्यमैक्षवम् |
भक्ताद्यशेषभक्ष्याणि दत्त्वा भक्षन् जपञ्चरेत् || ११/१९ ||
दिक्कालनियमो नास्ति स्थित्यादिनियमो न च |
जपे न कालनियमो नार्चादिषु बलिष्वपि || ११/२० ||
स्वेच्छया नियमोक्तोऽत्र महामन्त्रस्य साधने |
नाधर्मो जायते तेन किञ्चिद् धर्मो महान् भवेत् || ११/२१ ||
स्वेच्छाचारोऽत्र गदितः प्रचरेद् धृष्टमानसः |
कृतार्थं मन्यमानस्तु सन्तुष्टनिजमानसः || ११/२२ ||
सुगन्धिश्वेतलौहित्यकुषुमैरर्च्चयेत् दलैः |
विल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः || ११/२३ ||
एकलिङ्गे श्मशाने च शून्यागारे चतुष्पथे |
तत्रस्थं साधयेद् योगी तारां त्रिभवतारिणीम् || ११/२४ ||
अवाप्य मन्त्रं विधिवत् परितोष्य गुरुं तथा |
गोभूहिरण्यवस्त्राद्यैर्यथाविभवविस्तरैः || ११/२५ ||
मृदुचूडकमासीनोऽप्यन्येषु कोमलेऽपि वा |
विष्टरेषु समाश्रित्य साधयेत् सिद्धिमुत्तमाम् || ११/२६ ||
भूतशुद्धिं विधायाथ शून्यं विश्वं विचिन्तयेत् |
निर्लेपं निर्मलं शुद्धमात्मानं तारिणीमयम् || ११/२७ ||
अन्तरिक्षे ततो ध्यायेदाःकाराद् रक्तपङ्कजम् |
भूयस्तस्योपरि ध्यायेत् टांकारात् श्वेतपङ्कजम् || ११/२८ ||
तस्योपरि पुनर्ध्यायेद् इकारं नीलसन्निभम् |
ततो हुकारजां पश्येत् कर्तृकां बीजभूषिताम् || ११/२९ ||
कर्तृकोपरि तां ध्यायेदात्मानं तारिणीमयम् |
प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् || ११/३० ||
खर्वां लम्बोदरीं भीमां व्याघ्रचर्मावृत्तां कटौ |
नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् || ११/३१ ||
बालार्कमण्डलाकारलोचनत्रयभूषिताम् |
चतुर्भुजां ललज्जिह्वां भीमरूपां वरप्रदाम् || ११/३२ ||
खड्गकर्तृधरां पक्षे वामोत्पलकपालिनीम् |
पिङ्गोग्रैकजटां ध्यायेद् मौलावक्षोभ्यभूषिताम् || ११/३३ ||
सुमुखं चतुरस्रञ्च वृत्तं गोमुखमेव च |
योनिमुद्रेति विख्याता पञ्चमुद्रा नमस्कृता || ११/३४ ||
ज्वलच्चितामध्यगतां घोरदंष्ट्राकरालिनीम् |
सावेशस्मेरवदनां स्त्र्यलङ्कारविभूषिताम् || ११/३५ ||
विश्वव्यापकतोयान्तः श्वेतपद्मान्तरस्थिताम् |
भावनारससम्पन्नो भवेद् योगी महाकविः || ११/३६ ||
जडोऽपि यदि मूर्खः स्याद् भावनावशतत्परः |
लभतेऽभिमतां वाणीं मन्त्रस्य लक्षजापतः || ११/३७ ||
(ह्री/ स्त्रीं हू/ फट्)
त्र्यक्षरोऽयं महामन्त्रः फट्कारान्तो हृदि स्थितः |
पञ्चरश्मिसमायुक्तोऽप्यज्ञानेन्धनदाहकः || ११/३८ ||
तस्योद्धारविधिं वक्ष्ये मम सार्वज्ञ्यकारणम् |
प्रथमं सपरं दत्त्वा चतुर्थस्वरभूषितम् || ११/३९ ||
रेफारूढं स्फुरद्दीप्तमिन्दुबिन्दुविभूषितम् |
स्तृंकारञ्च ततो दद्यात् चतुर्थस्वरभूषितम् || ११/४० ||
दीर्घोकारसमायुक्तं हंकारं योजयेत्ततः |
फट्कारं तु ततो दद्यात् सम्पूर्णं सिद्धिमन्त्रकम् || ११/४१ ||
कल्पयेत् स्थिरचित्तेन पण्डितोऽहं महाकविः |
अजस्रभावनाभ्यासाद् भवेद् देवो न संशयः || ११/४२ ||
सुविमलनखपाणिपादकुन्तै -
र्मुदितमनाः परभूषणेषु मौनी |
हरिहरकमलोद्भवाङ्घ्रिभक्तो
भवति चिराय सरस्वतीनिवासः || ११/४३ ||
कृतसुकृतसहस्रानेकजन्मप्रतानै -
र्यदि भवति मनुष्यो गुर्वधीनश्चिराय |
कथमपि मनुमेनं प्राप्य शिष्याय नास्मै
निजकुलतिलकाय ज्येष्ठपुत्राय दद्यात् || ११/४४ ||
न पापरतये दद्याद् नाभक्ताय कदाचन |
गुरुभक्ताय शान्ताय दद्यात् पात्रे दयात्मने || ११/४५ ||
मनुर्विमृश्य दातव्यो ज्येष्ठस्यापि विनीतताम् |
पुत्राय किमथान्यस्मै विगोत्राय सुपौरुषम् || ११/४६ ||
मधुना त्रिदिनादर्वाग्
जिह्वायां विन्यसेदमुम् |
(मन्त्री) यदि पठति पठितोऽसौ
न पठति चेन्नास्य मूर्खता भवति || ११/४७ ||
गुरुचरणसरोजं सर्वदा भक्तिभावात्
परिचरति विधेयो वास्य सर्वात्मना स्यात् |
कथमपि मनुमेनं मानजन्मा नरोऽसौ
भवति जगति वादिद्वैतसिद्धान्तहन्ता || ११/४८ ||
सर्वदा गोपयेदेनं मनुं च गुरुमेव च |
तेन वीर्यवती विद्या निर्वीर्या स्यात् प्रकाशनात् || ११/४९ ||
उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता |
तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् || ११/५० ||
न कदाचिद् भवेन्मूर्खो मनुं यो वेत्ति मानवः |
त्रिलोक्यां भवति ख्यातो विधायास्य च पूजनम् || ११/५१ ||
यस्मिन् दिवसे लभते मनुं तत्र लाभो यदि स्यात् |
नियतं लभते व्यत्ययमपि सदसत्कर्मणोरुभयोः || ११/५२ ||
उपदेशादङ्गमन्त्रो बलिमन्त्रस्तथैव च |
ज्ञातव्या विदुषा सिद्धिरस्य मन्त्रस्य लाभतः || ११/५३ ||
उपांशु स्यात् शतगुणः साहस्रो मानसः स्मृतः |
अचिरादीहिता सिद्धिर्महाशङ्खस्य मालया || ११/५४ ||
यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः |
कृतार्थस्तेन जायेत स्वर्गं वा मोक्षमेव वा || ११/५५ ||
भ्रान्तिस्तत्र न कर्तव्या सिद्धिहानिः प्रजायते |
शुद्धचित्तो भवेन्नित्यं सिद्धिः स्यादपवर्गदा || ११/५६ ||
उपचारविशेषेण राजपत्नीं वशं नयेत् |
राजानं जपमात्रेण बलिना सकलं जगत् || ११/५७ ||
इति नीलसरस्वत्याः प्रपञ्चोऽयं प्रदर्शितः |
ब्रह्मणा पूर्वमस्मभ्यं मया तुभ्यं नगात्मजे || ११/५८ ||
सिद्धमन्त्रो यदा मन्त्री बालिशस्यापि मूर्द्धनि |
करं दत्वा दिशत्याशु सोऽपि श्लोकान् करोत्युत || ११/५९ ||
नीलसारस्वतेमन्त्रे कविताविघ्नकारिणि |
अनास्था च द्वितीयं तु न किञ्चिद् विघ्नकारणम् || ११/६० ||
सदा प्रसादं भजतां सदा नीलसरस्वतीम् |
विशेषतः कलियुगे मत्प्रसादाद् भविष्यति || ११/६१ ||
अल्पज्ञमपि विद्वांसो मानयिष्यन्ति वाग्मिनः |
वाचस्पतिरिवाचार्यं पश्यन्मन्त्रज्ञमीदृशम् || ११/६२ ||
मन्त्रस्य ज्ञानमात्रेण चानुभावद्वयं भवेत् |
तात्कालिकी च कविता परैरनभिभाविता || ११/६३ ||
विद्या ब्राह्मणमित्याह शेवधिस्तेऽस्मि रक्ष माम् |
असूयकाय मां मा दास्तथा स्यां वीर्यवत्तमा || ११/६४ ||
यमेव तु शुचिं विद्यान्नियतं ब्रह्मचारिणम् |
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने || ११/६५ ||
यद्यदृष्टवशाल्लाभो मन्त्रस्यास्य भवेत् प्रिये |
स्वगोत्रे पौरुषं नैतदन्यगोत्रं नयेत् सुधीः || ११/६६ ||
विद्यां वेदानवाप्नोति कीर्तिमायुः सुतान् बहून् |
स वासः श्रीसरस्वत्योर्यत्र सारस्वतो मनुः || ११/६७ ||
पुष्करिण्या जलेऽगाधे यष्टिकाष्ठं तमोग्रहे |
दन्तेनानीय तत् तूर्णं कीलकं तेन कारयेत् || ११/६८ ||
तेन मधुघृताक्तेन पद्मिनीपत्रमात्रके |
लिखेद् वज्रावलीमध्ये मूलमन्त्रञ्च सिद्धिदम् || ११/६९ ||
तत्कुण्डे चतुरस्रे तु निक्षिप्य जुहुयादपि |
सहस्रं क्षीरनीराक्तं पद्मानां लोहितत्विषाम् || ११/७० ||
प्रणवं पूर्वमुच्चार्य पद्मे युग्मं तथैव च |
महापद्मे पदं ब्रूयात् पद्मावति पदं ततः || ११/७१ ||
माये स्वाहेति मन्त्रेण यथा पूर्वं बलिं हरेत् |
एवं यः कुरु कर्म स स्याद् द्रुतकविर्ध्रुवम् || ११/७२ ||
अर्धरात्रे ततो नित्यं बलिं दद्यात् चतुष्पथे |
प्रणवं पूर्वमुद्धृत्य हृल्लेखां च ततः परम् || ११/७३ ||
एकजटे पदस्यान्ते महाशब्दमुदीरयेत् |
यक्षाधिपदमाभाष्य पतये पदतो मम || ११/७४ ||
उपनीतं पदं चोक्त्वा बलिं गृह्णेति च द्विधा |
गृह्णापय द्विधा चोक्त्वा मम सर्वपदान्ततः || ११/७५ ||
शान्तिं कुरुपदं ब्रूयात् परविद्यामनन्तरम् |
द्विधाकृष्येति च ब्रूयात् त्रुटं छिन्धीति च द्विधा || ११/७६ ||
सर्वादि च ततो जगद्वशमानयशब्दतः |
मायास्वाहेति मन्त्रोऽयं बल्यादौ वृद्धिसिद्धितः || ११/७७ ||
परसैन्यग्रहारिष्टरोगकृत्यानिवारणम् |
अथवा मधुलाजाभ्यां जिह्वायां बालकस्य तु || ११/७८ ||
नाडीच्छेदाद् यथा पूर्वं लिखेद्धेमशलाकया |
मूलमन्त्रं लिखेन्मन्त्री यस्योष्ठे श्वेतदूर्वया || ११/७९ ||
वाक्योच्चारणतो बालो वाग्मी द्रुतकविर्भवेत् |
शताभिजप्तमात्रेण रोचनातिलको नरः || ११/८० ||
कृत्वा पश्यन्ति यं मन्त्री तं कुर्यादात्मवद्वशम् |
श्मशानाङ्गारमादाय मङ्गले वासरे निशि || ११/८१ ||
कृष्णवस्त्रेण संवेष्ट्य बध्नीयाद्रक्ततन्तुना |
शताभिमन्त्रितं तच्च प्रक्षिपेदरिमन्दिरे || ११/८२ ||
सप्ताहाभ्यन्तरे तेषामुच्चाटनमिदं महत् |
नरास्थिनि लिखेन्मन्त्रं क्षारयुक्तहरिद्रया || ११/८३ ||
सहस्रं परिसंजप्य निशायां रविवासरे |
क्षिप्यते यस्य गेहे तु मृत्युस्तस्य त्रिमासतः || ११/८४ ||
क्षेत्रे तु शस्यहानिः स्याज्जवहानिस्तुरङ्गमे |
योनियुग्मे लिखेद् भूर्जे लाक्षारसेन मन्त्रवित् || ११/८५ ||
तन्मध्ये साध्यसंयुक्तं मूलमन्त्रं लिखेत्ततः |
स्वरान् क्रमगतांश्चापि कादिवर्णान् यथाक्रमम् || ११/८६ ||
अष्टवर्गसमायुक्तं यन्त्रमेतत् प्रयोजयेत् |
वेष्टितं पीतवस्त्रेण यत्नेन परिवेष्टयेत् || ११/८७ ||
वध्नीयात् पट्टसूत्रेण शिशूनां कण्ठभूषणम् |
स्त्रीणां वामकरे बन्धमन्येषां दक्षिणे करे || ११/८८ ||
वन्ध्यापि लभते पुत्रं निर्धनो धनवान् भवेत् |
इयं रक्षा पुरा बद्धा ज्ञानार्थं गोतमादिभिः || ११/८९ ||
कीर्त्यर्थं पार्थिवैश्चान्यैः संग्रामे जयकाङ्क्षिभिः |
इति निगदितमेतद् गोतमद्यैर्यदुक्तं
सकलजनहितार्थं मन्त्रवर्णस्वरूपम् |
यदधिगमवशात् स्याद्वाञ्छिताशेषसिद्धि -
र्द्रुततरकवितायै यत्नमन्यं त्यजेच्च || ११/९० ||
अथ ते संप्रवक्ष्यामि पूजाविधिमनुत्तमम् |
आदौ जलमधिष्ठाय पादयोः क्षालनं ततः || ११/९१ ||
द्विराचम्य शिखां बध्वा ततो भूमिविशोधनम् |
विघ्नानुत्सादयित्वा तु कुर्याद् भूम्यभिमन्त्रणम् || ११/९२ ||
यन्त्रं लिखित्वाऽधिष्ठाय पुष्पं वाक्कायमानसम् |
मृद्वासनं समध्यास्य मायां पूर्वदले लिखेत् || ११/९३ ||
याम्ये बीजं द्वितीयं तु चोत्तरे फं पश्चिमे ढं |
मध्ये बीजं लिखेत्तारं भूतशुद्धिं समाचरेत् || ११/९४ ||
मायां नाभौ रक्तवर्णां ध्यात्वा तज्जातवह्निना |
शुष्कं पापात्मकं देहं दग्धं सञ्चिन्तयेत्ततः || ११/९५ ||
ह्रीकारं हृदि पीताभं तदुद्भूतेन वायुना |
भस्म प्रोत्सारितं ध्यात्वा ललाटे चिन्तयेत्ततः || ११/९६ ||
कूर्चं तूषारवर्णाभं तदुद्भूतामृतेन तु |
तदस्थिप्लावितं कृत्वा तत्रात्मानं विचिन्तयेत् || ११/९७ ||
समस्तदोषनिर्मुक्तं निर्मलं देवतात्मकम् |
विश्वव्यापकतोयान्तां बीजोत्थबीजकर्णिकाम् || ११/९८ ||
खर्वां श्यामां प्रत्यालीढां शवाधिरूढां चिताग्निमध्यस्थाम् |
वृत्तारुणत्रिनेत्रां मौलावक्षोभ्यभूषितां पञ्चमुद्रा -
ढ्यां मर्त्यशिरोमालामेकजटामुदग्रदशानास्याम् |
युवतीमुग्राहियुतां चपलचलल्लोलां व्याघ्रचर्म -
कटिवस्त्रां निस्त्रिंशकर्तृकोत्पलां शुभ्रकपालां
महोदरीमीडे || ११/९९ ||
चिन्तयित्वैवमात्मानं कराङ्गन्यासमाचरेत् |
षड्दीर्घाढ्येन बीजेन पाण्यङ्गपूजनं ततः || ११/१०० ||
आवाह्य स्थापयित्वादावर्घ्यं दत्त्वानुलेपयेत् |
श्रीमदेकजटे चैव वज्रपुष्पमित्यभिधाय च || ११/१०१ ||
मूलेनाग्निप्रियान्तेन सतारेण यजेत् पुनः |
दत्त्वा गन्धादिकमपि बलियुक्तं निवेदयेत् || ११/१०२ ||
अक्षोभ्यवज्रमादौ तु तारिणीं मूर्ध्नि पूजयेत् |
प्रणवाद्यग्निजायान्तं वज्रपुष्पं विनिषिपेत् || ११/१०३ ||
तथा वैरोचनं शङ्खं पाण्डवं पद्मनाभकम् |
असिताभं यजेन्मन्त्री दिक्ष्वैन्द्रीतश्चतुर्दले || ११/१०४ ||
नामकं नामकञ्चैव पाण्डवं तारया सह |
वह्न्यादिषु चतुष्कोणे स्वैः स्वैर्मन्त्रैर्यजेत् क्रमात् || ११/१०५ ||
द्वारे पूर्वादितः पद्मान्तकं चापि यमान्तकम् |
विघ्नान्तकं समभ्यर्च्य पूजयेन्नरकान्तकम् || ११/१०६ ||
नात्युच्चं नातिनीचं स्याद् ध्यात्वा मन्त्री जपेन्मनुम् |
बलिं दत्त्वा नमस्कृत्य स्तुत्वा देवीं विसर्जयेत् || ११/१०७ ||
सयोनिगोमयेनाष्टपत्रमब्जं सुशोभनम् |
भूपुरं बहुरत्नाढ्यं यन्त्रमेकजटात्मकम् || ११/१०८ ||
वलिपूजादिकं दद्यान्निशायां क्रियते सदा |
तत्तदक्षयतां याति तारादेव्याः प्रसादतः || ११/१०९ ||
श्रीमदेकजटेत्युक्त्वा वज्रपुष्पं प्रतीच्छतु |
तारादिवह्निजायान्तमुदीर्य यजनं चरेत् || ११/११० ||
इति श्रीफेत्कारिणीतन्त्रे श्रीमदेकजटाप्रकरणे एकादशः पटलः ||
द्वादशः पटलः
श्रीशिव उवाच
अथातः संप्रवक्ष्यामि महाकालीमहामनुम् |
यस्य विज्ञानमात्रेण नासाध्यं वर्तते भुवि || १२/१ ||
प्रलयाऽग्निरुधिरगतावूर्ध्वकेश्या समन्वितौ |
नादबिन्दुसमायुक्तावेवं क्रोधद्वयं पुनः || १२/२ ||
पशुं गृहाण पदतो वर्मास्त्रानलवल्लभा |
चतुर्दशाक्षरी प्रोक्ता महाकाली ध्रुवादिका || १२/३ ||
(ओं फ्रें फ्रें हू/ हू/ पशुं गृहाण हू/ फट् स्वाहा)
प्रेक्तान्विकानलवधूस्तारादिरपरो मनुः |
हरद्वयं स्तम्भयुग्मं कीलयद्वयमुद्धरेत् || १२/४ ||
वह्निजायान्त उक्तोऽयं ध्रुवादिरपरो मनुः |
न्यासशुद्धीनृष्यादींश्च नात्र कार्या विचारणा || १२/५ ||
कृष्णतोयेन सम्पूर्णे कृष्णकुम्भेऽथ कालिकाम् |
ब्रह्मादिदिक्षु दूतीभिर्युक्ताः संपूज्य भक्तितः || १२/६ ||
पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रत्रिलोचनाम् |
शक्तिशूलधनुर्बाणखड्गखेटवराभयाम् || १२/७ ||
दक्षादक्षभुजैर्देवीं बिभ्राणां भोगिभूषणाम् |
अर्धचन्द्रां जटायुक्तां जिह्वाललनभीषणाम् || १२/८ ||
निर्मांसमेदुरामस्थिपञ्जरां मुण्डमालिनीम् |
मत्तव्यालोपवीताङ्गी भूतवेतालवेष्टिताम् || १२/९ ||
मेदोवसावलिप्ताङ्गीं महाप्रेताधिरूढकाम् |
ध्यात्वैवं सिद्धिदं साध्यं साधयेन्मनसि स्थितम् || १२/१० ||
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा |
वाराही च तथैवैन्द्री चामुण्डा चण्डिकाष्टमी || १२/११ ||
पूर्वादीशानपर्यन्तं कुम्भाङ्के संस्थिता इमाः |
कर्णिकायां ततो देवी महाकालभयापहा || १२/१२ ||
नामोच्चारेण संरुद्धे वह्नौ संज्वलिते परे |
जुहुयाद्वैरिणं क्रुद्धो देवीमन्त्रं जपन् यथा || १२/१३ ||
समिधं पिचुमर्दस्य विभीतं चित्रकाष्ठिका |
हरं विषं राजिण्ठञ्च ककजालवलान्विता || १२/१४ ||
गृहे चैव श्मशाने वा विभीताङ्गारहोमतः |
सप्ताहाद् वैरिणं हन्ति कालिकामन्त्रयोगतः || १२/१५ ||
उच्चाटमपराह्ने तु सन्ध्यायां मारणं तथा |
दक्षिणस्यां दिशि स्थित्वा ग्रामदेर्दक्षिणामुखः || १२/१६ ||
इति श्रीफेत्कारिणीतन्त्रे महाकालीमन्त्रद्वये द्वादशः पटलः ||
त्रयोदशः पटलः
अथातः संप्रवक्ष्यामि मन्त्रं परिमलात्मकम् |
यस्य विज्ञानमात्रेण नासाध्यं भुवनत्रये || १३/१ ||
रुद्रजाया महायोगिन्यतो गौरीपदं वदेत् |
भुवनभयङ्करीपदं वर्मान्तमुच्चरेन्मनुम् || १३/२ ||
षड्दीर्घयुक्तबीजेन मन्त्रार्द्धेनास्त्रयोगिनीम् |
हृदयञ्च ततोऽर्धेन वर्मास्त्रेण शिरः क्रमात् || १३/३ ||
शिखा - कवच - नेत्रास्त्रमेवं न्यासक्रमः स्मृतः |
अङ्गिराश्च ऋषिर्देवी गायत्रीच्छन्द ईरितम् || १३/४ ||
सिंहवक्त्रा च भूतानां भयङ्कारिण्यतः परम् |
महाकृत्वा देवता चेत्युक्त्वा न्यासं समाचरेत् || १३/५ ||
सिहाननां कृष्णमुखीं लम्बमानपयोधराम् |
दंष्ट्राकरालवदनां त्रिनेत्रां सर्वतोज्ज्वलाम् || १३/६ ||
कृष्णकञ्चुकसंवितां विधूमाग्निसमप्रभाम् |
त्रिशूलचक्रमुषलखट्वाङ्गकरपङ्कजाम् || १३/७ ||
लेलिहानां महाजिह्वां विद्युत्प्रेक्षणभीषणाम् |
ध्यात्वा कृत्यां विधानेन पूजयेन्मन्त्रवित्तमः || १३/८ ||
ध्यात्वा कृत्यामर्चयेत् रक्तपुष्पैश्च वश्यके |
कृष्णं मारणकार्येषु मांसरक्तासवैस्तथा || १३/९ ||
कृत्याञ्च मदनां सर्वकुल्लां स्वच्छादनीं तथा |
भीषणां श्रीमतीं चैव प्रतिष्ठाञ्च तथा पराम् || १३/१० ||
विद्यामभ्यर्चयेदष्टपत्रेषु क्रमतः सुधीः |
पूर्वे तु शाङ्करी नाम शुक्लवर्णाम्बरान्विताम् || १३/११ ||
द्विभुजां सौम्यवदनां पाशाङ्कुशधरां शिवाम् |
दक्षिणे भिषिकां नाम ललज्जिह्वां सुधामुखीम् || १३/१२ ||
कृष्णवर्णां रक्तकेशीं रक्तमाल्यानुलेपनाम् |
चतुर्भुजां सिंहनादज्वलच्छूलकपालिनीम् || १३/१३ ||
खड्गहस्तां शिरोमालां सर्वाभरणभूषिताम् |
पश्चिमे वारुणीं नाम स्वर्णवर्णां हसन्मुखीम् || १३/१४ ||
सुवर्णमालिकां शुभ्रदंष्ट्रामभयदां सदा |
उत्तरे भीमिकां नाम चतुर्वर्गभयङ्करीम् || १३/१५ ||
पूजयित्वा जपेन्मन्त्री नित्यमष्टोत्तरं शतम् |
अथास्या विनियोगस्तु कर्तव्यो मन्त्रिणा सदा || १३/१६ ||
कालं विदित्वा प्रतिमां मधूच्छिष्टेन कारयेत् |
द्वादशाङ्गुलतः शत्रोर्नखलोमसमन्वितम् || १३/१७ ||
हृदये नामधेयं च फट्कारं सर्वकर्मके |
अमुष्य प्राणा इह चामुष्य जीव इह स्थितः || १३/१८ ||
(आं क्रीं क्रौं यं रं लं वं शं षं सं हं सः)
अमुष्य सर्वेन्द्रियाणि चामुष्य वाङ्मनश्चक्षुः-
श्रोत्रघ्राणप्राणा इहानय त्वमग्निवल्लभा |
इति प्राणं प्रतिष्ठाप्य मरिचैः प्रतिमां लेपयेत्ततः || १३/१९ ||
मृतब्राह्मणचाण्डालकेशाभ्यां पादयोः पृथक् |
बदध्वा कारस्करमये तोरणे वाप्यधोमुखी || १३/२० ||
तस्याधो मेखलायुक्तं त्रिकोणं यत्र कुण्डकम् |
तत्र सायं विधायाग्निं परिस्तीर्य शरैस्तृणैः || १३/२१ ||
विभीतकपरिध्मातं कल्पयेद् यस्य मारणम् |
जुहुयान्निचुलैर्लाजैः काकोलूकस्य पिच्छकैः || १३/२२ ||
दारयैनं शोषयैनं मारयेत्यभिधाय च |
अष्टोत्तरशतेनैव मनुजो जुहुयात्ततः || १३/२३ ||
होमान्ते विधिवत् कृत्यामाराध्याग्नेस्तु सन्निधौ |
योऽयं मे कण्ठग्रहोऽतिदूरस्थो वान्तिकेऽपि च || १३/२४ ||
सर्वेऽपि तृप्तिमायान्तु इत्युक्त्वा तु नेवेदयेत् |
संरक्ष्याग्निं विधानेन नवरात्रं समाचरेत् || १३/२५ ||
मृतस्तिष्ठति मृतानांशवस्तावदस्त्रविघ्नः |
अर्कक्षीरेण मरिचं पिष्ट्वा सिद्धार्थमेव च |
जले संलोड्य मन्त्रेण रिपुं ध्यात्वा निरुद्धदृक् || १३/२६ ||
कृष्णाम्बरोत्तरी योगपादेनाक्रम्य तद्रिपुम् |
वज्रं शूलमिदं ध्यात्वा तस्योपरि विनिक्षिपेत् || १३/२७ ||
नवरात्रान्तरे शत्रुर्म्रियते नात्र संशयः |
हरसिद्धे चितावह्नौ तैलसिक्तैर्विभीतकैः || १३/२८ ||
युद्ध्यतो म्रियते शत्रुः सत्यमेव गणोदित्म् |
रिपोः प्रतिकृतिं कृत्वा साध्यक्षफलकेऽमले || १३/२९ ||
अर्कक्षीरेण मरिचं पिष्ट्वा तत्रैव लेपयेत् |
फट्कारं हृदये कृत्वा शिवनिर्माल्यकूपके || १३/३० ||
क्षिपेत् कृष्णचतुर्दश्यां जप्त्वा मन्त्रं सहस्रशः |
सद्योऽवगाहनं कृत्वा कुर्यादस्यानुरक्षणम् || १३/३१ ||
मन्त्रं जप्त्वा विधानेन भेदयेत् सिंहमुद्रया |
षण्मासान् म्रियते शत्रुः सन्ध्ययोरुभयोरपि || १३/३२ ||
वायवोः समुद्धृतं पर्णं शुष्कं वैभीतकं ततः |
गृहीत्वा च लिखेन्मन्त्री कृष्णसर्पस्य शोणितैः || १३/३३ ||
नामधेयं रिपोरन्ते वायुबीजं प्रयोजयेत् |
निखनेत्तस्य गेहे तु करिवत् भ्रमते ध्रुवम् || १३/३४ ||
वातोद्धूतैः शुष्कपत्रैः काष्ठैरशनिपातितैः |
उष्ट्रास्थिना चिताङ्गारैः शत्रोरुच्चाटनं भवेत् || १३/३५ ||
दूर्वां गुडूचीगन्धेन सर्पिषा तिलतण्डुलैः |
अन्नैः समिद्भिः पालाशैः शान्तिं कुर्याद्विचक्षणः || १३/३६ ||
लक्ष्मीं विल्वफलैः पत्रैर्नन्द्यावर्तैः श्रिये तथा |
वज्रपुष्पैरपामार्गैरङ्गारैश्च सुभद्रकैः || १३/३७ ||
मधुरत्रयसंसिक्तैरेभिः कुर्यात्तु वश्यकम् |
उक्तमौशनसे तन्त्रे वारमस्यापि कथ्यते || १३/३८ ||
शान्तिं कृत्वा विधानेन जपेत् परिमलं त्विदम् |
महाव्याधिप्रशमनं नित्यमष्टाधिकं शतम् || १३/३९ ||
जपेदेकाग्रचित्तस्थो लोकवश्यकरं परम् |
मनसा चिन्तयेत् कृत्यां गजारूढां वितन्द्रिताम् || १३/४० ||
चौरव्याघ्रमृगादीनां सलिलादिभयापहाम् |
सकृच्छ्रवणमात्रेण सर्वपापविनाशनम् || १३/४१ ||
समाभिमन्त्रितं तोयं पीत्वा नित्यं समाहितः |
मेधावी च भवेद्वाग्मी तावज्जप्त्वाभिषेकतः || १३/४२ ||
सप्ताभिमन्त्रितं कृत्वा विषमप्यमृतं भवेत् |
मासं पक्षं द्विमासं वा षण्मासं वत्सरं तथा || १३/४३ ||
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् |
अथ वक्ष्ये विशेषेण महाशान्तिविधिक्रमम् || १३/४४ ||
सर्वसिद्धिकरं पुण्यं सर्वपापविनाशनम् |
सर्वग्रहादिदोषाणां नाशनं सिद्धिकारणम् || १३/४५ ||
सर्वमुद्राप्रहरणं सर्वारिष्टविनाशनम् |
अकालमृत्युमथनं सदा विजयवर्धनम् || १३/४६ ||
आयुष्यं पावनं पुष्टिलक्ष्मीसौभाग्यवश्यकृत् |
पुत्रदं कीर्तिदं चैव अलक्ष्मीमलनाशनम् || १३/४७ ||
महाव्याधिप्रशनमपस्मारविनाशनम् |
योगिनीभूतवेतालाः प्रेतकुष्माण्डपन्नगाः || १३/४८ ||
तत्र स्थाने न तिष्ठन्ति डाकिन्याद्या विशेषतः |
कृत्यामभ्यर्चयेद् वत्से यथाविधिपुरःसरम् || १३/४९ ||
षोडशारं लिखेत् पद्मं योनियुक्तं सबिन्दुकम् |
तन्मध्येऽष्टदलं लिख्य पकारादीन् न्यसेत् क्रमात् || १३/५० ||
तन्मध्ये रसकोणं तु लिखेन्मूलं मनुं स्मरन् |
चन्द्रबिम्बं लिखेन्मध्ये तस्योर्ध्वे प्रतिमां लिखेत् || १३/५१ ||
तस्य मध्ये लिखेत् कूर्म वस्त्रं स्रग्दामभूषितम् |
तस्य मध्ये न्यसेत् कृत्यां सर्वलक्षणसंयुताम् || १३/५२ ||
पूजयेच्च यथान्यायं पायसं तु निवेदयेत् |
परितोऽष्टघटे न्यस्या असिताङ्गादिभैरवाः || १३/५३ ||
असिताङ्गो रुरुश्चण्डः क्रीधीशोन्मत्तभैरवः |
कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः || १३/५४ ||
गन्धपुष्पादिनाभ्यर्च्य तद्बाह्ये क्षेत्रपालकान् |
लोकेशान्तं यजेद्देवीं तदग्रे होममाचरेत् || १३/५५ ||
जुहुयादाज्यापामार्गावक्षतं तिलसर्षपौ |
दूर्वाग्रखदिराश्वत्थं प्रत्येकं तु शताष्टकम् || १३/५६ ||
कुण्डे वा स्थण्डिले वापि होमकर्म समाचरेत् |
तस्य दक्षिणपार्श्वे तु लक्ष्मीं ध्यायेद्यथाविधि || १३/५७ ||
कुम्भमध्ये न्यसेद् देवीं दक्षिणे तु श्रियं स्मरेत् |
वामपार्श्वे यजेद् देवीं हृल्लेखां भुवनेश्वरीम् || १३/५८ ||
तस्यैव वामपार्श्वे तु पूजयेदणिमादिकम् |
अयुतं मूलमन्त्रं तु जपेन्मृत्युविनाशनम् || १३/५९ ||
अयुतं भ्रूणहत्यां तु जपेत् परिमलं विदुः |
महाव्याधिप्रशमनं तावज्जप्त्वाभिषेकतः || १३/६० ||
एवं यः कुरुते मर्त्यः पुण्यां गतिमवाप्नुयात् |
येन ज्ञातं परिमलं यस्य वक्त्रे स्थितं सदा || १३/६१ ||
तस्यासाध्यं न विद्येत व्याधिभ्योऽपि भयं नहि |
इत्यादिबहुले तन्त्रे ज्ञेयः परिमलो मनुः || १३/६२ ||
महाशान्तिकरः पुंसां दुःखदारिद्रनाशनः |
तस्य वश्या भवेत् क्षिप्रमश्वारुढा तथा भवेत् |
सावित्र्या संपुटीकृत्य दुर्गाबीजं समं न्यसेत् || १३/६३ ||
इष्टसिद्धिर्भवेदाशु नात्र कार्या विचारणा |
आत्मनो वा परस्यापि रोगादिपरिपीडितः || १३/६४ ||
समारभ्य जपेन्मन्त्री सद्यः सद्यो विमुच्यते |
धान्यहोमाद् भवेद् धान्यं पयसा पशुलाभकृत् || १३/६५ ||
बिल्वाल्लक्ष्मीमवाप्नोति सत्यं सत्यं न संशयः |
आदित्यमण्डलादग्रे यत् कृत्वा भुवि रोधशः || १३/६६ ||
ज्वरो निर्दग्धमानश्च अधोवदनमारुतम् |
जानुदघ्ने जले तिष्ठन् ध्यायेद् वह्निमयं जलम् || १३/६७ ||
रिपुदेहे विनिःक्षिप्य सहस्रं क्रोधसंयुतः |
प्रज्वाल्य हस्तं हृदयं शतं पद्मादिभिः स्पृशेत् || १३/६८ ||
प्रोक्षणेन जलस्यैव वैरिणः कारयेद् बुधः |
आदित्यमण्डलाधस्तादग्निनापो विदर्भितम् || १३/६९ ||
तयोर्मध्यगतः शत्रुर्ज्वालामालाकुलावृतः |
ध्यातः शत्रुर्विचार्यैतन्नात्र कार्या विचारणा || १३/७० ||
इति श्रीफेत्कारिणीतन्त्रे त्रयोदशः पटलः ||
चतुर्दशः पटलः
श्रीशिव उवाच-
ध्यायेद्दुर्गां जयाख्यां गजमुखजननीं विश्वरूपां भवानीं
हेरम्बं पाययन्तीं स्तनमनवरतं रत्नसिंहासनस्थाम् |
ब्रह्मार्द्यैर्देववृन्दैर्युगकरकलितां सेबितां सिद्धसंघैः
रत्नालङ्कारपूरां परमशिववधूमभ्रवर्णां त्रिनेत्राम् || १४/१ ||
एवं ध्यात्वा महादेवीं मनुं तस्या जपेत् सुधीः |
अथातः संप्रवक्ष्यामि जयदुर्गामनुं प्रिये || १४/२ ||
यस्याः प्रसादामात्रेण स्वयं सदाशिवो भवेत् |
दुर्गे दुर्गे पदं चोक्त्वा रक्षणीति पदं ततः || १४/३ ||
तारादिवह्निजायान्तो जयदुर्गामहामनुः |
पातिमध्यगतं कृत्वा न्यसेत् मन्त्रपदं बुधः || १४/४ ||
रक्षाकरीयं कथिता जयदुर्गा वर्मसंयुता |
श्यामां त्रिलोचनां ध्यात्वा ह्यात्मानं च चतुर्भुजाम् || १४/५ ||
शङ्खचक्रेषु शूलानि वहन्तीं रौद्ररूपिणीम् |
युद्धे च व्यवहारादौ जयादौ तज्जपेन्नरः || १४/६ ||
(ओं दुर्गे दुर्गे रक्षणि स्वाहा हू/ हू/ हू/)
जयां श्रीं पूजयेन्नित्यां खड्गं च छुरिकां तथा |
जयदुर्गामनुः प्रोक्तः कथ्यते चापरो मनुः || १४/७ ||
नमो भगवतीत्युक्त्वा ज्वालामालिन्यतः परम् |
गृध्रगणपरिवृते द्विठस्तारादिरीरितः || १४/८ ||
ओं नमो हृदयं प्रोक्तं भगवति शिरसस्तथा |
ज्वालामालिनि च शिखागृध्रगणपरिवृते ततः || १४/९ ||
कवचं स्वाहास्रमित्येतज्जातियुक्तं न्यसेत्तनौ |
(ओं नमो भगवति ज्वालामालिनि गृध्रगणपरिवृते स्वाहा)
अयुतं नियुतं चैतत् जपेन्मन्त्रं जपाज्जयी || १४/१० ||
रुद्राङ्गनाग्निजायाभ्यां रुद्धं ज्वालामुखीत्यपि |
मन्त्रान्तरं समाख्यातं ज्वालामुख्या मनूत्तमः || १४/११ ||
(ह्री/ स्वाहा ज्वालामुखि ह्री/ स्वाहा)
दीपतैलाक्तपादोऽर्धरात्रे गुरुदिनादितः |
जपेदष्टसहस्रं तु त्रयोविंशतिवासरान् || १४/१२ ||
प्रत्यहं सायनं षट्कं ददातीति न संशयः |
नारायणीये कथितमगस्त्येन पुरा पुनः || १४/१३ ||
दुर्गा नवप्रकाराः स्युः नवदुर्गा विशेषतः |
सुसिद्धिमिच्छता गोप्या नाम्नापि न समीरयेत् || १४/१४ ||
पुत्रस्य नृपतेश्चापि धार्मिकस्य विशेषतः |
नवदुर्गाविधानेन दर्शयेत् कार्यगौरवात् || १४/१५ ||
नृपोऽपि सम्यगाराध्य मन्त्रज्ञं विविधैर्धनैः |
भक्त्या सन्निहितं कुर्याद्रक्षार्थं नित्यमादरात् || १४/१६ ||
आपत्स्वयं प्रयोक्तव्यो मारणादौ विशेषतः |
ततो मन्त्री प्रयत्नेन प्रकुर्यान्मारणक्रियाम् || १४/१७ ||
परैरभ्यर्थितो मन्त्री राज्ञे सर्वं निवेदयेत् |
निवेद्य विधिवत् पश्चात् मन्त्रिवर्येण निर्दहेत् || १४/१८ ||
स्मृतिमात्रेण वै मन्त्री रिपून् सर्वान् विनाशयेत् |
प्रदद्यात् दक्षिणां तस्मै सहस्रं शतमेव वा || १४/१९ ||
गवां सुवर्णनिष्काणां भूमिं वा शस्यशालिनीम् |
सर्वशान्तिमवाप्नोति सर्वरक्षाकृतिर्भवेत् || १४/२० ||
नवदुर्गाविधानेन ध्यानस्यादौ विशेषतः |
तद्वत् कर्माणि कुर्वीत नात्र कार्या विचारणा || १४/२१ ||
कृष्णां त्रिलोचनां शङ्खचक्रशूलासिधारिणीम् |
ज्वालामुखीं भीमरूपां ध्यायेत् त्रैलोक्यभीतिदाम् || १४/२२ ||
इति फेत्कारिणीमहातन्त्रे शिवपार्वतीसंवादे जयदुर्गा-
गृध्रगणपरिवृतज्वालामुखीकथनं नाम
चतुर्दशः पटलः ||
पञ्चदशः पटलः
श्रीशिव उवाच
आग्नेयमभिधास्यामि मन्त्रं सर्वार्थसाधकम् |
मारीचिः काश्यपः प्रोक्तो मनुरस्य महामनोः || १५/१ ||
त्रिष्टुप्छन्दो देवताऽत्र जातवेदोऽग्निरीरितः |
नवभिः सप्तभिः षड्भिः सप्तभिः पुनरष्टभिः || १५/२ ||
सप्तभिर्मूलमन्त्रार्णैः षडङ्गविधिरीरितः |
यथा जातवेदसे हृदयाय नमः | सोममरातीयतो शिरसे स्वाहा | निदधाति वेदः
शिखायै वषट् | स नः परिषदति कवचाय हु/ | दुर्गाणि विश्वानावेव नेत्रत्रयाय वौषट् |
सिन्धुं दुरितात्यग्निः अस्त्राय फट् | इति षडङ्गानि | अथ मन्त्रः
जातवेदसे सुनवाम सोममरातीयतो निदधाति वेदः |
स नः परिषदति दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः || १५/३ ||
इति आग्नेय मन्त्र इति चतुश्चत्वारिशदक्षरं ज्ञेयम् | इति मूलेनैव षडङ्गानि |
अङ्गुष्ठगुल्फजङ्घासु जानुनोरुरुयुग्मके
कट्यन्धुनाभिषु हृदि स्तनयोः पाश्वयोद्वयोः || १५/४ ||
पृष्ठे च स्कन्धयोर्मध्ये बाहुमूलेऽपि बाहुषु |
प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेषु च || १५/५ ||
मुखनासाक्षिकर्णेषु गण्डमस्तिष्कमूर्द्धसु |
क्रमेण विन्यसेद् वर्णान् विद्वान् मन्त्रसमुद्भवान् || १५/६ ||
शिरोललाटनयनकर्णौष्ठरसनासु च |
सकण्ठबाहुहृत्कुक्षिकटिगुह्योरुजानुषु || १५/७ ||
जङ्घयोः पादयोर्न्यसेत् पदान्यस्य मनोः सुधीः |
अत्राक्षरविन्यासे द्वयोः स्थाने एकमक्षरम् | पदन्यासे चोच्चरेदेकं
बाह्वोरेकमुरुजानुजङ्घाचरणद्वयेषु चैकैकं न्यसेत् |
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् |
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां स्मरेत् || १५/९ ||
दक्षिणपार्श्वे चक्रखड्गशरमुषलवराणि वामपार्श्वे शङ्खखेटकधनुरभयानि क्वापि |
मन्त्रवर्णसहस्राणि जपेन्मन्त्रं विशालधीः |
तदन्ते तिलसिद्धार्थचित्रमूलैः समिद्वरैः || १५/१० ||
क्षीरद्रुमाणामाज्येन हविषाक्तैर्घृतान्वितैः |
चतुश्चत्वारिंशदाढ्यं चतुश्शतसमन्वितम् || १५/११ ||
चतुःसहस्रं जुहुयादर्चिते हव्यवाहने |
मण्डले सर्वतोभद्रे षट्कोणाङ्कितकर्णिके || १५/१२ ||
विधिना वक्ष्यमाणेन पीठं देव्याः प्रपूजयेत् |
षड्गुणितं यन्त्रं कृत्वा कोणेषु दुर्गाबीजमालिख्य बहिर्वीथ्यादिकं परिकल्प्य-
जयाख्यां विजयां भद्रां भद्रकालीमनन्तरम् |
सुमुखीं दुर्मुखीं संज्ञां पश्चाद् व्याघ्रमुखीं पुनः || १५/१३ ||
अथ सिंहमुखीं दुर्गां नवशक्तीः प्रपूजयेत् |
आसनं सिंहमन्त्रेण दद्यादुक्तेन देशिकः || १५/१४ ||
ओं वज्रनखदंष्ट्राय सिंहाय नमः |
मूर्ति मूलेन सङ्कल्प्य तस्यामावाह्य पूजयेत् |
(सर्वविद्यामयी ब्रह्मविद्यामन्नपूर्णान्तर्गतामुच्यते) || १५/१५ ||
षडङ्गानि यथापूर्वं केशरेष्वर्चयेत् सुधीः |
श्र्यादिपादाष्टकोत्पन्ना मूर्तयोऽर्च्या बहिः पुनः || १५/१६ ||
जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः |
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः || १५/१७ ||
कौमारतत्त्वतेजाः स्यात् विश्वमुखो देवमुखस्ततः |
ततो भूसलिलाग्निवायवथानन्तनमोऽन्वितान् || १५/१८ ||
चतुर्दिक्षु समभ्यर्च्य कोणेष्वेतत् कलाः पुनः |
ततश्च पूर्वादिदिक्षु पृथिव्यादिचतुष्टयम् || १५/१९ ||
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिरितीरिता |
कलाचतुष्टयं कोणेषु संपूज्य यथाविधि || १५/२० ||
पूर्वादिदिक्षु संपूज्य जालाद्या वर्णशक्तयः |
जागता तपनी वेदगर्भा दहनरूपिणी || १५/२१ ||
सेन्दुखण्डा शुम्भहन्त्री नभश्चारिण्यनन्तरम् |
वागीश्वरी मदवहा सोमरूपा मनोजवा || १५/२२ ||
मरुद्वेगा रात्रिसंज्ञा तीव्रकोपा यशोवती |
तोयात्मिका पुनर्नित्या दयावत्यपहारिणी || १५/२३ ||
तिरस्क्रिया वेदमाता तत्प्रिया मदनप्रिया |
समाराध्या नन्दनी च परा विश्वविमर्दिनी || १५/२४ ||
षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्र्यनन्तरम् |
निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी || १५/२५ ||
वेदना वह्निगर्भा च सिंहवाहाह्वया तथा |
धुर्या दुर्विषहा पश्चादद्रिजा तापहारिणी || १५/२६ ||
त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः |
लोकपालांस्तथाऽभ्यर्चेत् ब्रजाद्यायुधसंयुतान् || १५/२७ ||
इत्थं पूजादिभिः सिद्धे मन्त्रेऽस्मिन् साधकोत्तमः |
आग्नेयास्त्राधिकरी स्यात् तद्विधानमुदीर्यते || १५/२८ ||
आग्नेयास्त्रमिति प्रोक्तं विलोमपठितो मनुः |
पूर्वोक्ता एव ऋष्याद्या मन्त्रस्य परिकीर्तिताः || १५/२९ ||
प्रतिलोमक्रमादस्य षडङ्गानि प्रकल्पयेत् |
मन्त्रन्यासपदन्यासौ विदध्यात् प्रतिलोमतः || १५/३० ||
ध्यानभेदान् विजानीयाद् गुर्वादेशान्न चान्यथा |
पूर्ववज्जपकॢप्तिः स्याद् जुहुयात् पूर्वसंख्यया || १५/३१ ||
पञ्चगव्यसुपक्वेन चरुणा तस्य सिद्धये |
अर्चनं पूर्ववत् कुर्यात् तत् शक्तीः प्रतिलोमतः || १५/३२ ||
सर्वत्र देशिकः कुर्यात् गायत्र्या द्विगुणं जपम् |
क्रूरकर्माणि कुर्वीत प्रतिलोमविधानतः || १५/३३ ||
शान्तिकं पौष्टिकं कर्म कर्तव्यमनुलोमतः |
प्रयोगकाले प्रजपेदष्टौ पादान् विलोमतः || १५/३४ ||
शोधितो जायते पश्चाद् मन्त्रोऽयं विधिनाऽमुना |
श्र्यादिः पञ्चाक्षरः पादो ज्ञेयो ज्ञानेन्द्रियात्मकः || १५/३५ ||
धूमाद्योऽन्यः पञ्चवर्णः स्मृतः कर्मेन्द्रियात्मकः |
चाद्यस्तृतीयः पञ्चार्णः पञ्चभूतमयः स्मृतः || १५/३६ ||
त्याज्यः सप्ताक्षरः पादश्चतुर्थो धातुरूपकः |
दः पूर्वः पञ्चमः पाद ऊर्मिरूपः षडक्षरः || १५/३७ ||
तोवर्णादिः षडर्णोऽन्यः षाट्कौशिकमयो मतः |
सोपूर्वः पञ्चवर्णोऽन्यः शब्दादिमय ईरितः || १५/३८ ||
सेवर्णाद्यष्टमो ज्ञेयः पञ्चार्णो वचनादिकः |
एवं तत्त्वसमायोगात् पादकॢप्तिरुदाहृता || १५/३९ ||
तत्तत्पादाक्षरोत्पन्नास्ताराद्या वह्निदेवताः |
प्रधानमूर्तिप्रतिमाः स्वस्ववर्णोंदितप्रभाः || १५/४० ||
प्रज्वलत्केशवदना भीमदंष्ट्रा भयानकाः |
देवता इन्द्रियोत्पन्ना ऊर्ध्वदृष्टय ईरिताः || १५/४१ ||
देवता भूतपादोत्थास्तिर्यग्वक्त्राः प्रकीर्तिताः |
धातुरूपाक्षरोत्पन्ना उदयानलशोभिताः || १५/४२ ||
ऊर्मिजा ऊर्ध्ववदनाः केशोत्थास्तिर्यगाननाः |
एताः सर्वाः स्मृताः क्लीबा इन्द्रियार्थोद्भवाः स्त्रियः || १५/४३ ||
अथ तिर्ययङ्मुखोपेता ईरितावर्णदेवताः |
स्वाभिमुख्यः स्मृताः सौम्ये पराङ्मुख्योऽन्यकर्मणि || १५/४४ ||
आद्यसंख्याः समुत्पन्ना देवता ज्वलिताननाः |
याभिर्मन्त्री दहेत् शत्रोः राज्यं सगिरिकाननम् || १५/४५ ||
अस्त्रं मनुष्यनक्षत्रेष्वारभेत विचक्षणः |
आसुरेषु प्रयुञ्जीत देवतासु च संहरेत् || १५/४६ ||
पूर्वोत्तरत्रयं पश्चात् भरण्यार्द्रा च रोहिणी |
इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः || १५/४७ ||
ज्येष्ठा शतभिषा मूला घनिष्ठाश्लेषकृत्तिका |
चित्रा मघा विशाखाः स्युस्तारा राक्षसदेवताः || १५/४८ ||
अश्विनी रेवती पुष्या स्वाती हस्ता पुनर्वसुः |
अनुराधा मृगशिरः श्रवणं देवतारकाः || १५/४९ ||
देवता इन्द्रियोत्पन्ना ऊर्ध्वदृष्टय ईरिताः |
उपक्रमेत नन्दासु रिक्तास्वस्त्रं विसर्जयेत् || १५/५० ||
भद्रास्वारोहणं कुर्यात् जयास्वानन्त्यमुत्तमम् |
उपक्रमो भौमवारे शनिवारे विसर्जनम् || १५/५१ ||
प्रतिसंहरणं वारे गुरोः शुक्रस्य वा भवेत् |
स्थिरेषु राशिष्वारम्भश्चरेषु च विसर्जनम् || १५/५२ ||
अस्त्रसंहरणं कुर्यादुभयात्मसु देशिकः |
कृष्णपक्षेऽनलेनास्त्रं विसृजेच्छशिना पुनः || १५/५३ ||
शुक्लपक्षे क्रमादस्त्रं पुनरात्मनि संहरेत् |
भानुना मोक्षसंहारौ कुर्यात् पक्षद्वये सुधीः || १५/५४ ||
पश्चिमाभिमुखो भूत्वा कर्म सर्वत्र साधयेत् |
नक्षत्रवृक्षसकलान् साध्याख्यान् कर्मसंयुतान् || १५/५५ ||
तत्तन्मन्त्राक्षरोपेतान् मन्त्री मन्त्रार्णसंख्यया |
जुहुयादेधिते वह्नौ मारयेद्रिपुमात्मनः || १५/५६ ||
कृष्णाष्टमीं समारभ्य यावत् कृष्णा चतुर्दशी |
धुस्तूरविषवृक्षाख्यभूरुहोत्थान् समिद्वरान् || १५/५७ ||
राजितैलेन संलिप्तान् पृथक् सप्तसहस्रकम् |
जुहुयात् संयतो भूत्वा रिपुर्यमपुरं व्रजेत् || १५/५८ ||
सप्तरात्रं प्रजुहुयात् सिद्धार्थस्नेहलोलितैः |
आर्द्रवस्त्रो वृष्टिकाले मरिचैर्मधुनाऽमुना || १५/५९ ||
निगृह्यते ज्वरेणारिः प्रलयाग्निसमेन सः |
तालपत्रे समालिख्य शत्रुनाम यथाविधि || १५/६० ||
आग्नेयास्त्रेण संवेष्ट्य कुण्डमध्ये निखन्य तत् |
जुहुयान्मरिचैः क्रुद्धो ज्वराक्रान्तः स जायते || १५/६१ ||
तदादाय क्षिपेत्तोये शीतले स वशो भवेत् |
पिष्ट्वाऽपामार्गबीजानि मरिचं मधुसंयुतम् || १५/६२ ||
अत्युष्णलवणे तोये निःक्षिप्य क्वथयेत्ततः |
ऋक्षवृक्षप्रतिकृतेर्हृदये वदने नसि || १५/६३ ||
किञ्चित्किञ्चित् क्षिपेत्तोयं दर्व्या कारस्करोत्थया |
आग्नेयमुच्चरेद् मन्त्रं सोऽचिरात् ज्वरितो भवेत् || १५/६४ ||
क्वथितेऽम्भसि तां क्षिप्त्वा हन्यात् शत्रुमयत्नतः |
तीक्ष्णस्नेहेन संल्लिप्तां शत्रोः प्रतिकृतिं निशि || १५/६५ ||
तापयेदेधिते वह्नौ प्रतिलोमं मनुं जपन् |
ज्वरेण बाध्यते सद्यो होमादस्य मृतिर्भवेद् || १५/६६ ||
सामुद्रे लवणे हिङ्गुविषजीरकलोडिते |
क्वथिते पुत्तलीं साध्य नक्षत्रतरुनिर्मिताम् || १५/६७ ||
अधोवक्त्रां विनिक्षिप्य यष्ट्या विषतरूत्थया |
तच्छिरस्ताडनं कुर्याद् जपेदस्त्रं विलोमतः || १५/६८ ||
सप्ताहान्मरणं याति शत्रुर्ज्वरविमोहितः |
आदित्यरथनागेन्द्रग्रस्तीकृतविषाहतम् || १५/६९ ||
नग्नं तैलेन लिप्ताङ्गं दग्धं भानुमरीचिभिः |
अधोमुखं निजरिपुं ध्यात्वा क्वाथितवरिणा || १५/७० ||
तर्पयेद् भानुमालोक्य शत्रुर्मृत्युप्रियो भवेत् |
बिभ्रन्तीं मुसलं शूलं ध्यायेत् कालघनप्रभाम् || १५/७१ ||
कार्पासबीजैर्निम्बस्य पत्रैर्मेषीघृतप्लुतैः |
हुत्वा विद्वेषयेत् शत्रून् मन्त्रेणानेन देशिकः || १५/७२ ||
बिभ्राणां तर्जनीं शूलं ध्यात्वा देवीं भयङ्करीम् |
महिषीघृतसंयुक्तैः पल्लवैर्विषवृक्षजैः || १५/७३ ||
हुत्वा रिपोः क्षणात् सेनामुच्चाटयति मन्त्रवित् |
ध्यात्वा देवीं पुरा प्रोक्तां चतुर्भिर्मरिचादिभिः || १५/७४ ||
अजारुधिरसंसिक्तैः जुहुयाद् दिवसत्रयम् |
रिपोरुच्चाटनं कुर्यात् सेनाया नात्र संशयः || १५/७५ ||
अग्निशूलधरां दुर्गां ज्वलन्तीं प्रलयाग्निवत् |
ध्यात्वा सर्षपतैलाक्तैबीजैर्धुस्तूरसम्भवैः || १५/७६ ||
हुत्वा विमोहयेत् शत्रून् मरिचैश्च ससर्षपैः |
कालाज्जननिभां दुर्गां शूलखड्गधरां स्मरेत् || १५/७७ ||
नक्षत्रवृक्षसंभूतैर्व्रणकृत्स्नेहसंप्लुतैः |
समिद्वरैः प्रजुहुयात् हन्यान्मासेन वैरिणम् || १५/७८ ||
सिंहाधिरूढां धावन्तीं धावमानं रिपुं प्रति |
शरान् कार्मुकनिर्मुक्तान् वह्निज्वालामुखाकुलान् || १५/७९ ||
मुञ्चन्तीं संस्मरन् दुर्गां तर्पयेदुष्णवारिणा |
भानुबिम्बं समालोक्य रिपोरुच्चाटनं भवेत् || १५/८० ||
स्पृशेच्च हृदयं मन्त्री तथा रक्षार्थमात्मनः |
अतिदुर्गामयोमुष्टिं गदाहस्तां विचिन्तयेत् || १५/८१ ||
विद्युद्दामसमानाभां महिषीघृतसंप्लुतैः |
पुलाकैर्जुहुयाद् निम्बविभीतकसमिद्वरैः || १५/८२ ||
कोद्रवैरथवा शत्रोः सेनायाः स्तम्भनं भवेत् |
आत्तपाशाङ्कुशां रक्तां गालिदुर्गामनुं स्मरेत् |
लोणैः समधुरैः साध्यवृक्षकाष्ठैधितेऽनले || १५/८३ ||
जुहुयात् निशि सप्ताहान्मन्त्रविद् वशयेन्नृपान् |
पाशाङ्कुशधरां रक्तां विश्वदुर्गां विचिन्तयेत् || १५/८४ ||
कलिनीकुसुमैः फुल्लैश्चन्दनाम्भःसमुक्षितैः |
जुहुयान्निशि यो मन्त्री तस्य विश्वं वशं भवेत् || १५/८५ ||
शरच्चन्द्रनिभां देवीं परमानन्दकारिणीम् |
पाशाङ्कुशधरां ध्यात्वा सिन्धुदुर्गां समिद्वरैः || १५/८६ ||
वैतसैर्मधुना सिक्तैर्जुहुयाद् दृष्टिसिद्धये |
कपालं त्रिशिखं पाशमङ्कुशं बिभ्रतीं करैः || १५/८७ ||
जवाकुसुमसंकाशामग्निदुर्गां विचिन्तयेत् |
हुत्वा लवणपुत्तल्या मधुरत्रययुक्तया || १५/८८ ||
एवं ध्यायेद् वाञ्छितार्थान्मन्त्रविन्नात्र संशयः |
अतिदुर्गाणि इत्याद्या यदर्णास्त्रिधुरीरिताः || १५/८९ ||
दुर्गार्णान्ताथ गाल्याद्या गालिदुर्गा समीरिता |
विन्द्वाद्यान्यक्षरान्ता सा विश्वदुर्गा प्रकीर्तिता || १५/९० ||
सिन्ध्वाद्या सा वकारान्ता सिन्धुदुर्गा निगद्यते |
तां तामग्न्यादिकामेनामग्निदुर्गां विदुर्बुधाः || १५/९१ ||
अङ्गने स्थण्डिलं कृत्वा सुगन्धिकुसुमादिभिः |
देवीमभ्यर्चयेन्नित्यं प्रागुक्तेनैव वर्त्मना || १५/९२ ||
आहरेद् रात्रिषु बलिं चरुणा सर्वसिद्धये |
कृत्यारोगभयद्रोहभूतारीन् नाशयेदयम् || १५/९३ ||
यथावदग्निमाराध्य शस्तैः पुष्पैर्मनोरमैः |
स्थित्वा तस्याग्रतो मन्त्री जपेन्मन्त्रमनन्यधीः || १५/९४ ||
जपोऽयं सर्वसिद्ध्यै स्यान्नात्र कार्या विचारणा |
लवणैर्मधुना सिक्तैर्जुहुयात् पश्चिमामुखः || १५/९५ ||
मन्त्रार्णसंख्यया मन्त्री रिपुमेव वशं नयेत् |
शालीन् प्रक्षाल्य संशोध्य शुद्धान् कुर्वीत तण्डुलान् || १५/९६ ||
जपित्वा पञ्चगव्येन संस्कृते हव्यवाहने |
चरुं पचेत् जपेद् मन्त्रमवतार्य पुनः सुधीः || १५/९७ ||
अर्चयित्वा विषहरीं देवीमग्नौ यथा पुरा |
जुहुयात् चरुणानेन साज्येनाष्टसहस्रकम् || १५/९८ ||
पात्रे संपातनं कुर्वन् साध्यं तत् प्राशयेत् पुनः |
शिष्टं तन्निखनेद् द्वारि संपातं प्राङ्गणान्तरे || १५/९९ ||
कृत्यारोगा विनश्यन्ति सह भूतग्रहामयैः |
परैरुत्पादिता कृत्या पुनस्तानेव भक्षयेत् || १५/१०० ||
व्रीहिभिर्हविषा क्षीरैः पयोवृक्षसमिद्वरैः |
आज्यैर्मधुत्रयोपेतैरेतैर्दशशतं पृथक् || १५/१०१ ||
जुहुयात् सम्पदां भूमिः साधको भवति ध्रुवम् |
भास्करे मेषराशिस्थे मन्त्रज्ञोऽनुगुणे दिने || १५/१०२ ||
नद्यां सागरगामिन्यां सततं पुष्कलाम्भसि |
उद्धृत्यादाय सिकताः संशोध्य परिशोधयेत् || १५/१०३ ||
न्यस्य ताः पञ्चगव्येषु संस्कृते हव्यवाहने |
भर्जयेन्मनुना सिद्ध्यै दर्व्या ब्रह्मतरूत्थया || १५/१०४ ||
सिंहमीनधनुःस्थेऽर्के कृष्णपक्षेऽष्टमीतिथौ |
विशाखाकृत्तिकामूलाहस्तोत्तरमघासु च || १५/१०५ ||
रौहिण्यां श्रवणे वारौ मन्दवाक्पतिदैवतौ |
विहायाऽन्येषु कुर्वीत सिकतस्थापनं सुधीः || १५/१०६ ||
गृहग्रामादिराष्ट्राणां रक्षार्थं कथिताः शुभाः |
प्रस्थाढकघटोन्मानान्मध्यादिष्ववटेष्वथ || १५/१०७ ||
नवसु प्रक्षिपेज्जप्त्वा तेषु संपूजयेत् क्रमात् |
मध्यादिदेवीमन्त्राणि कपालान्तानि देशिकः || १५/१०८ ||
चक्रं शङ्खमसिं खेटं बाणं चापं त्रिशूलकम् |
कपालं स्वस्वमन्त्रेण संपूज्यान्ते बलिं हरेत् || १५/१०९ ||
नक्षत्रग्रहराशीनां लोकेशानां बलिं हरेत् |
विहिता यत्र रक्षेयं वर्द्धन्ते तत्र संपदः || १५/११० ||
क्षुद्रग्रहमहारोगाश्चौरभूतसरीसृपाः |
अमुना विलयं यान्ति विधिना नात्र संशयः || १५/१११ ||
सिकतानां विशुद्धानां विकारकुडवं सुधीः |
पञ्चगव्ययुतं पात्रे ब्रह्मवृक्षविनिर्मिते || १५/११२ ||
निक्षिप्य विधिना यत्र स्थापयेत्तत्र सम्पदः |
दिने दिने प्रवर्द्धन्ते कालवृष्ट्यादिभिः सह || १५/११३ ||
महोत्पाता विनश्यन्ति कृत्याद्रोहमहाग्रहाः |
पञ्चगव्याशनं कुर्यात् स्थापनं विधिनाऽमुना || १५/११४ ||
गोमूत्रं प्रस्थमानं स्याद् गोमयं च तदर्धकम् |
आज्यात् सप्तगुणं क्षीरं गोमूत्रात् त्रिगुणं दधि || १५/११५ ||
गोमूत्रेण समं सर्पिः सर्वं वा सममुच्यते |
गावः स्युः कपिलश्वेतहिमधूमारुणप्रभाः || १५/११६ ||
अभावे गदिताः सर्वाः समं वा कपिलोद्भवम् |
एकोनपञ्चाशत् कोष्ठे फलके ब्रह्मशाखिनः ||| १५/११७ ||
विहाय कोणकोष्ठानि शक्त्याद्यं जातवेदसम् |
लिखित्वा मध्यकोष्ठेषु पूजयेत् तत्र देवताः || १५/११८ ||
कृत्वा होमं समं पातं निखनेत्तु यथा पुरा |
दद्याद्वलिं यथापूर्वं अस्य पूर्वोदितं फलम् || १५/११९ ||
मध्ये मायाष्टकोष्ठेषु पादानष्टौ कृत्वा मातृकार्णैः परीतम् |
भूबिम्बस्थं सर्वभूतामयघ्नं रक्षायुःश्रीकीर्तिदं यन्त्रमेतत् || १५/१२० ||
आग्नेयास्त्रस्य जानाति विसर्गादानकर्मणी |
यः पुमान् गुरुणा शिष्टस्तस्याधीनं जगत्त्रयम् || १५/१२१ ||
जातप्रज्ञोऽथवा राजा द्रविणोऽराति वा तथा |
एवं शब्दस्य शक्तिः स्यात् जाववेदास्तथा स्मृतः || १५/१२२ ||
यजामहे स्वयं देवं सोमेन भुवनेश्वरम् |
वह्निरूपेण तिष्ठन्तं परमात्मानमव्ययम् || १५/१२३ ||
अराते द्रविणं चापि विद्यां चापि हरप्रिये |
पुत्रादक्षादिकान् सर्वान् सम्यग्ज्ञानं तथैव च || १५/१२४ ||
दत्त्वा चतुर्हरिर्देवः सर्वलोकपितामहः |
यः सम्यक् सर्वलोकानां शत्रुत्वं सम्यगाचरेत् || १५/१२५ ||
चित्रभानुर्महादेवः क्षुत्पिपासादिकं मम |
व्यपोहतु महादेवः पुरुषार्थविबोधनः || १५/१२६ ||
नौर्यथा दुस्तरं सिन्धुं तरत्येव न संशयः |
पुरस्क्रियायुतं चास्य दशांशं घृतहोमतः || १५/१२७ ||
अश्वत्थवृक्षं संस्पृस्य शनैश्चरदिने जपेत् |
इष्टसिद्धिमवाप्नोति भयं चाशु विनश्यति || १५/१२८ ||
यः सहस्रं जपेन्नित्यं ब्रह्माप्नोति न संशयः |
सर्वदुर्गेषु यो नित्यं स्मरेन्मन्त्रमतन्द्रितः || १५/१२९ ||
दुर्गाणि निस्तरेत् सद्यो नात्र कार्या विचारणा |
धन्यं यशस्यमायुष्यमारोग्यं पुष्टिवर्द्धनम् || १५/१३० ||
किमत्र बहुनोक्तेन पुरुषार्थचतुष्टयम् |
दुर्गागारं समाश्रित्य साधयन्ति मनीषिणः || १५/१३१ ||
सावित्री सहिता दुर्गा महासिद्धिकरी स्मृता |
पूजिता विधिना सा च सर्वमिष्टं प्रयच्छति || १५/१३२ ||
अपूजिता वै सर्वेषामनिष्टमपि दास्यति |
अपामार्गशतं हुत्वा गोष्ठे शान्तिकरी भवेत् || १५/१३३ ||
सर्वानभिमुखी कर्तुमधुना लवणेन च |
दुर्गमार्गे भये द्यूते व्यवहारे जले रणे || १५/१३४ ||
बन्धने व्यसने राज्ञो मन्त्रं तु मनसा जपेत् |
जपमात्रेण विप्राणां सर्वं संसाधयेत् यथा || १५/१३५ ||
राजन्यवैश्ययोर्नित्यं जपहोमाभिषेचनैः |
यमुद्दिश्य जपेद्विप्रस्तत्तदाप्नोत्यसंशयम् || १५/१३६ ||
आदित्यमण्डलं पश्यन् जानुदघ्ने जले स्थितः |
यावदस्तमनं विप्रः सर्वान् कामानवाप्नुयात् || १५/१३७ ||
आपदं निस्तरेद्विप्र आत्मनो वा परस्य वा |
आदित्यमण्डलासीनां दुर्गां दुर्गहरां शिवाम् || १५/१३८ ||
शङ्खचक्रधरां सौम्यां वरदाभयधारिणीम् |
चतुर्भुजां त्रिनेत्रां च रक्ताभां जातवेदसीम् || १५/१३९ ||
चिन्तयित्वा जगद्धात्रीं पश्यन्नादित्यमण्डलम् |
आस्यदघ्ने जले स्थित्वा जपेत्तद्गतमानसः || १५/१४० ||
अष्टोत्तरसहस्रं तु सर्वान् कामानवाप्नुयात् |
महद्भिः पातकैः सर्वैः पातकैरुपपातकैः || १५/१४१ ||
पापैश्च मुच्यते घोरैस्तथा रोगभयादिभिः |
जलस्य मण्डले मन्त्री जुहुयादनया जलम् || १५/१४२ ||
सूर्यवारं समारभ्य शतमष्टोत्तरं बुधः |
सुवर्णं लभते मन्त्री सद्यो रत्नान् स्वरूपतः || १५/१४३ ||
नाभिदघ्ने जले स्थित्वा मण्डलाभिमुखः स्वयम् |
देव्याऽभिषिच्यमानोऽहं यत्नैरपि विचिन्तयेत् || १५/१४४ ||
अभिषिञ्चेत् स्वकं देहं जलैर्मन्त्राभिमन्त्रितैः |
आयुरारोग्यमैश्वर्यं शत्रुनाशं जलं च यम् || १५/१४५ ||
सौभाग्यमचलां लक्ष्मीं लभते नात्र संशयः |
प्रभूतैरिन्धनैरग्निं स्थाप्य प्रज्वाल्य वाग्यतः || १५/१४६ ||
अष्टदिक्षु च मध्ये च गन्धपुष्पादिभिर्यजेत् |
प्राच्यामग्निमहादुर्गां मन्त्राणामधिदेवताम् || १५/१४७ ||
अभ्यर्च्य गन्धपुष्पाद्यैर्मनसा वाथ वै शिवाम् |
शङ्खं चक्रं धनुश्चापं दधतीं मृत्युतर्जनीम् || १५/१४८ ||
वामे चक्रमसिं चेषुं सन्नद्धां विविधायुधैः |
पवित्रां सिंहाधिरूढां गायत्रीं कुमारीं जपेत् || १५/१४९ ||
ध्यायेदीप्सितसिद्धिदां त्रिनयनां सिंहाधिरूढां शिवाम् |
ध्यायन् जपेदष्टोत्तरशतं
प्रक्षिपेत् काष्ठशलाकां ज्वलितेऽग्नौ मुहुर्मुहुः |
सिद्ध्यन्ति सर्वकर्याणि विनश्यन्ति भयानि च || १५/१५० ||
किमत्र बहुनोक्तेन राज्यं शत्रुहतं लभेत् |
आयुरारोग्यकामस्तु समाधाय हुताशनम् || १५/१५१ ||
प्राच्यामग्नेरधिष्ठात्रीं दुर्गां गन्धादिनाऽर्चयेत् |
हुनेद् दुर्गां पार्षदाय तथैकैकाहुतिं क्रमात् || १५/१५२ ||
पार्श्वयोश्च तथा दुर्गां पार्षदेभ्यस्ततः क्रमात् |
तिलेन जुहुयादाज्यं व्याहृतिभिस्ततः परम् || १५/१५३ ||
क्रूरग्रहविनाशाय गोमूत्राक्तैः सकण्टकैः |
तदग्ने जुहुयान्मन्त्री सर्वग्रहं विनश्यति || १५/१५४ ||
अश्वत्थः प्रथमो ज्ञेयो द्वितीयो वट उच्यते |
उदुम्बरस्तथा प्लक्षो वृक्षाणां क्रम ईरितः || १५/१५५ ||
चतुर्णां क्षीरवृक्षाणां सन्निधौ जुहुयात् क्रमात् |
मध्वक्तैस्तु तथा सर्वैर्वश्याः स्युर्मरणान्तिकम् || १५/१५६ ||
पुरञ्जनपदं राष्ट्रं तद्वदेव वशं नयेत् |
तथा वर्णाश्च चत्वारो वश्याः स्युश्च यथाक्रमम् || १५/१५७ ||
पलाशवृक्षं संस्पृश्य मन्त्रसारैस्तु पञ्चभिः |
छित्त्वा परशुना भित्त्वा पञ्चधा तं क्रमेण तु || १५/१५८ ||
प्राच्यां प्राग्दक्षिणांशश्च प्रतीच्यंशस्तथैव च |
उदीच्यंशश्च सन्ध्यादौ मासपक्षदिनं ततः || १५/१५९ ||
शङ्खं चक्रं च जलजं ताञ्च कौमोदकीं तथा |
पञ्चगव्येन संगृह्य स्वैस्वैर्मन्त्रैर्विधानतः || १५/१६० ||
तत्रावाह्य विशोध्य त्वां समाराध्य यथाक्रमम् |
एवमेव क्रमेणैव मन्त्रयेच्च शतं शतम् || १५/१६१ ||
समापयेच्चतुःशङ्खं शङ्खादिषु यथाक्रमम् |
अभ्यर्च्य देवदेवेशीं मनुनानेन भक्तितः || १५/१६२ ||
स्मृतं नैव जपेन्मन्त्रमभिमन्त्र्य च भक्तितः |
अग्रहारपुरक्षेत्रगृहवप्रादिषु क्रमात् || १५/१६३ ||
चतुर्दिक्षु च मध्ये च खनित्वा हस्तमात्रकम् |
पञ्चगव्यं विनिक्षिप्य तथा शङ्खादि विन्यसेत् || १५/१६४ ||
स्वे स्वे स्थाने समभ्यर्च्य पूजयित्वा दलान्यपि |
ध्यायेत् समन्ततो दुर्गां सिंहारूढां यथाविधि || १५/१६५ ||
यस्यैवं कुरुते राज्ये स देशो निरुपद्रवः |
धनधान्यसमृद्धश्च सदा निष्कण्टको भवेत् || १५/१६६ ||
पञ्चवक्त्रमयं नास्ति न कथञ्चन सम्भवेत् |
पञ्चशुक्लोत्पलान्यानि गृहीत्वा पूर्ववत् क्रमात् || १५/१६७ ||
एवमाराध्यतां मन्त्री निखनेत् सर्वशान्तये |
अथवा पूर्ववन्मन्त्री पञ्चगव्येन मन्त्रितम् || १५/१६८ ||
महादिदिक्षु मध्ये च निखनेत् सर्वशान्तये |
एवं च पञ्चदुर्गाया विनियोग उदीरितः || १५/१६९ ||
शतपत्रसहस्रं तु हुत्वाऽऽज्याक्तं बलिं हरेत् |
सुवर्णं लभते तद्वदुत्पलैः पुष्टिमाप्नुयात् || १५/१७० ||
वासांसि चाप्नुयान्मन्त्री पुष्पवर्णानुरूपतः |
मध्वाज्याक्तैः सितैः पुष्पैः सर्वान् कामानवाप्नुयात् || १५/१७१ ||
प्रणम्य पुनराज्याक्तमुपतिष्ठेद् दिवाकरम् |
जप्त्वाऽयुतं सहस्रं वा मोक्षं गच्छेन्न संशयः || १५/१७२ ||
ब्रह्मवर्चसकामस्तु पलाशसमिधो हुनेत् |
न्यग्रोधसमिधो हुत्वा धनधान्यमवाप्नुयात् || १५/१७३ ||
उदुम्बरसमिद्धोमाद्धनवानन्नवान् भवेत् |
अश्वस्थसमिधो हुत्वा कार्यमाशु च साधयेत् || १५/१७४ ||
संमोहोच्चाटनं कुर्वन् रात्रौ नग्नस्तु वाग्यतः |
दुर्गास्थानेषु नवसु दुर्गाबीजेन शर्करान् || १५/१७५ ||
यावदेवं रिपुं कृत्वा रिपुमध्ये विनिक्षिपेत् |
ततो यास्यन्ति सहसा भीताः सद्यः परस्परम् || १५/१७६ ||
सावित्र्या संपुटीकृत्य दुर्गाबीजं समं न्यसेत् |
इष्टसिद्धिर्भवत्याशु नात्र कार्या विचारणा || १५/१७७ ||
आत्मनो वा परस्यापि रोगादिपरिपीडितः |
समारभ्य जपेन्मन्त्री सद्यः सद्यो विमुच्यते || १५/१७८ ||
धान्यहोमाद् भवेद्धान्यं पयसा पशुमान् भवेत् |
विल्वैर्लक्ष्मीमवाप्नोति श्रीपुष्पैश्च तथैव च || १५/१७९ ||
मधूकाक्तैश्च तत्पत्रैर्विश्वमात्मवशं नयेत् |
आदित्यमण्डलादग्रे यः कृत्वा भुवि वैरिणः || १५/१८० ||
ज्वालानिर्दग्धमानस्तु अधोवदनमारुतम् |
जानुदघ्ने जले तिष्ठन् ध्यायन् वह्निमयं जलम् || १५/१८१ ||
अतिदुर्गेति मन्त्रेण गृहीत्वाऽज्जलिना जलम् |
रिपुदेहे विनिःक्षिप्य सहस्रं क्रोधसंयुतम् || १५/१८२ ||
प्रज्वाल्य हस्तैर्हृदयं शतपर्ण्यादिभिः स्पृशेत् |
प्रोक्षणेन जलस्यैव वैरिणः कारयेद् वधम् || १५/१८३ ||
आदित्यमण्डलाधस्तादग्निनापोविदर्भितम् |
तयोर्मध्यगतः शत्रुर्ज्वालामालाकुलावृतः ||
ध्यातः शत्रुर्विनश्येत नात्र कार्या विचारणा || १५/१८४ ||
इति जातवेदाद्या अष्टौ दुर्गाः |
अथो दिनास्त्रं कृत्यास्त्रं वक्ष्ये शत्रुविमर्दनम् |
अतिदुर्गामनुं प्राहुर्दिनास्त्रं मन्त्रवित्तमाः || १५/१८५ ||
प्रतिलोममिमं मन्त्रं कृत्यास्त्रं परिचक्षते |
दिनास्त्रस्य षडङ्गानि प्रतिलोमादितान् विदुः || १५/१८६ ||
भानुबिम्बगतं शत्रुमधोवक्त्रं विषाहतम् |
मूलादुत्थितया ग्रस्तं कुण्डल्या भावयन् सुधीः || १५/१८७ ||
मूलाधारे क्षिपेत् सद्यः प्रस्फुरत्कालपावके |
दिनत्रयाज्ज्वराक्रान्तो रिपुः प्राणान् विमुञ्चति || १५/१८८ ||
दिनास्त्रेण प्रविद्धाङ्गं स्वाधिष्ठानगतं रिपुम् |
पञ्चवायुसमिद्धेन वह्निना दग्धविग्रहम् || १५/१८९ ||
ध्यायन् मनुं जपेत् सद्यः स भवेद् यमवल्लभः |
मणिपूरगतं शत्रुमग्निना दग्धविग्रहम् || १५/१९० ||
ध्यायन् दिनास्त्रं प्रजपेत् स मृत्युवशतां व्रजेत् |
अनाहताहितः शत्रुर्निर्दग्धो मन्त्रवह्निना || १५/१९१ ||
पाशेन बद्ध्वा शीघ्रेण नीयते यमकिङ्करैः |
विशुद्धस्थानगो वैरी दिनबाणेन पीडितः || १५/१९२ ||
अधोमुखः स्मृतस्तूर्णं परायुः स्याद् दिनत्रयात् |
आज्ञायां निहतं शत्रुं दहेज्ज्वालाग्निना धिया || १५/१९३ ||
पुत्रमित्रकलत्रादीन् हित्वा मृत्युमुपाश्रयेत् |
नाभिमात्रोदके स्थित्वा ध्यायन् बिम्बं दिनेशितुः || १५/१९४ ||
वैरिणं दग्धसर्वाङ्गं मन्त्रमष्टोत्तरं शतम् |
जपेत् सप्तदिनादर्वाक् यमलोकं स गच्छति || १५/१९५ ||
रविवारं समारभ्य सप्ताहं प्रजपेन्मनुम् |
सूर्योदयं समारभ्य यावदस्तमयो भवेत् || १५/१९६ ||
सन्निपातज्वराविष्टो यमग्रस्तो भवेदरिः |
स्थित्वा दुर्गालये मन्त्री त्रिरात्रं वर्जिताशनः || १५/१९७ ||
दिनबाणेन विद्धाङ्गं वैरिणं परिचिन्तयन् |
जपेन्मनुमिमं शत्रुर्ज्वरितो मरणं ब्रजेत् || १५/१९८ ||
स्पृष्ट्वा दुर्गां जपेन्मन्त्रं मनसा त्रिदिनं स्मरन् |
शूलप्रोतं निजरिपुं दिनास्त्रेण प्रपीडितम् || १५/१९९ ||
ज्वरेण महताविष्टो जायतेऽसौ यमातिथिः |
रविमण्डलगं शत्रुं दष्टं तद्रथपन्नगैः || १५/२०० ||
विषाग्निदग्धसर्वाङ्गं ध्यायन्नुष्णेन वारिणा |
तर्पयेद् दिनबाणेन स्यादसौ यमवल्लभः || १५/२०१ ||
रविबिम्बादागतया ज्वालया ग्रस्तविग्रहम् |
रिपुं ध्यात्वा जपेन्मन्त्रं स क्रीडति यमान्तिके || १५/२०२ ||
ग्रहयुक्तार्कबिम्बस्थं विद्धं मन्त्रमयैः शरैः |
प्रतिपद्य निजं शत्रुं प्रजपेन्मन्त्रवित्तमः || १५/२०३ ||
रिपुं नयति शीघ्रेण यमदूतो यमालयम् |
प्रलयानलसंकाशाअं कालरात्रिमिवापराम् || १५/२०४ ||
शूलपाशधरां घोरां सिंहस्कन्धनिषेदुषीम् |
सवितुर्मण्डलान्तःस्थां रक्तनेत्रत्रयोद्गतैः || १५/२०५ ||
विस्फुलिङ्गैर्निर्दहन्तीं रिपुमाकुलविग्रहम् |
स्पष्टद्रंष्टाधरां नृत्यद्भ्रुकुटीकुटिलाननाम् || १५/२०६ ||
तर्जयन्तीं निजं शत्रुं तर्जन्या भीमरूपया |
दंष्ट्रामयूखज्वालेन द्योतयन्तीं दिगन्तरम् || १५/२०७ ||
शूलेन वैरिणो वक्षो दारयन्तीं भयङ्करीम् |
जपेद् दिनत्रयं मन्त्री मारयेद् रिपुमात्मनः || १५/२०८ ||
अस्त्रमन्त्रकृतन्यासः प्रलयाग्निसमप्रभाम् |
रक्तवस्त्रधरां क्रूरां रक्तनेत्रत्रयान्विताम् || १५/२०९ ||
सिंहारुढां धावमानां धावमानं रिपुं प्रति |
खड्गेन तच्छिरश्छित्त्वा क्षणाद् व्योमतलं गताम् || १५/२१० ||
ध्यात्वा दुर्गां जपेन्मत्री त्रिदिनं वर्जितासनः |
अनेनैव विधानेन रिपुर्मृत्युप्रियो भवेत् || १५/२११ ||
कर्माण्येतानि कुर्वीत दिवसे न तु रात्रिषु |
पश्चिमामुखलिङ्गस्य सजीवं महिषं पुरः || १५/२१२ ||
निधाय तस्य शिरसि कुण्डं कृत्वा त्रिकोणकम् |
तस्मिन् समेधिते वह्नौ यथावद् देशिकोत्तमः || १५/२१३ ||
सत्रिकोणान् समन्त्रार्णान् साध्यनामसमन्वितान् |
अजारक्तेन संसिक्तान् कारस्करसमिद्वरान् || १५/२१४ ||
सहस्रं जुहुयाद् देवीं ध्यात्वा सवितृमण्डले |
प्रलयाग्निसमां घोरां द्वात्रिंशद्भुजशोभिताम् || १५/२१५ ||
उद्यदायुधसंदीप्तां नृत्यन्तीं सिंहमस्तके |
महाद्रंष्ट्रां महाभीमां ज्वलत्केशीं नदन्मुखीम् || १५/२१६ ||
रक्तार्द्रमांसवदनां घूर्णितोग्रत्रिलोचनाम् |
अनेन विधिना शत्रुर्महाज्वरप्रपीडितः || १५/२१७ ||
विमुञ्चति निजं देहं पुत्रमित्रादिभिः सह |
उर्ध्वमुष्णाम्भसा मन्त्री लम्बयित्वा भुजङ्गमम् || १५/२१८ ||
भानुविम्बगतां दुर्गां सहस्रादित्यसन्निभाम् |
सहस्रपाणिचरणां सहस्राक्षिशिरोमुखीम् || १५/२१९ ||
सहस्रनागबद्धाङ्गीं त्रासयन्तीं जगत्त्रयम् |
ध्यायेन्मूलेन सर्पास्ये तर्पयेदुष्णवारिणा || १५/२२० ||
संयुतः कालपाशेन वैरी मुञ्चेत् सुजीवितम् |
मध्याह्नार्कायुतप्रख्यां नदन्तीं नरसिंहवत् || १५/२२१ ||
घोरसिंहसमासीनां महाभीषणदर्शनाम् |
शूलप्रोताहितां ध्यायन् जपेन्मन्त्रमनन्यधीः || १५/२२२ ||
तर्पयेदुष्णतोयेन सर्पवक्त्रे दिनत्रयम् |
यमस्य भवनं गच्छेदरातिर्नात्र संशयः || १५/२२३ ||
ऋक्षवृक्षप्रतिकृतिं प्रतिष्ठितसमीरणाम् |
उष्णोदके विनिःक्षिप्य विषाढ्यो विधिना ततः || १५/२२४ ||
अर्केन्द्वनलसङ्काशां खड्गखेटकधारिणीम् |
नयनत्रयनिर्गच्छद्विस्फुलिङ्गशतार्गलाम् || १५/२२५ ||
सिंहस्थां सर्पभूषाढ्यां त्रैलोक्यभयदायिनीम् |
खड्गकृत्याहितां ध्यायन् प्रजपेदयुतं मनुम् || १५/२२६ ||
विधानेनामुना शत्रुर्ग्रस्तो भवति मृत्युना |
प्रकल्प्य दुर्गायतने त्रिकोणं कुण्डमुत्तमम् || १५/२२७ ||
तत्र संज्वलिते वह्नौ महिषीशकृताकृताम् |
पुत्तलीमजरक्ताक्तां प्रतिष्ठितसमीरणाम् || १५/२२८ ||
छित्वा छित्वा च जुहुयादजरक्तान्वितां निशि |
ध्यात्वा दुर्गां प्रनृत्यन्तीं महिषोरःस्थलान्तरे || १५/२२९ ||
शूलेन महिषस्याङ्गं भिन्दन्तीं घोरदर्शनाम् |
अट्टहासैरजस्रोत्थैर्भीषितासुरसैनिकाम् || १५/२३० ||
प्रलयानलसङ्काशां ज्वलन्नेत्रत्रयान्विताम् |
संदंष्ट्राधरसंभिन्नां दंष्ट्राभीममुखाम्बुजाम् || १५/२३१ ||
खड्गखेटकयुक्ताभिः कन्याभिश्च समन्विताम् |
अनेन विधिना शत्रुः प्रयाति यमसन्निधिम् || १५/२३२ ||
दिनास्त्रमेतत् कथितं शत्रुनिग्रहकारकम् |
सर्वान् कृत्योदितान् कुर्यात् प्रयोगान्मन्त्रवित्तमः || १५/२३३ ||
आधारादुत्थितां देवीं कुण्डलीं सर्परूपिणीम् |
सुषुम्नारन्ध्रमार्गेण यातां व्योमस्थलं ततः || १५/२३४ ||
मुखेन शत्रुमादाय निवृत्तां स्वगृहं प्रति |
ज्वलत्कालानलैर्दीप्तां विचिन्त्य प्रजपेन्मनुम् || १५/२३५ ||
सप्तभिर्वासरैः शत्रुर्मृत्युमाप्नोति मोहितः |
अङ्गारवारे चिताग्नौ सर्षपस्नेहलोडितम् || १५/२३६ ||
सिद्धार्थगुडसंयुक्तं जुहुयात् पक्षमादृतम् |
कृत्यास्त्रज्वलया दग्धो रिपुर्यमपुरं व्रजेत् || १५/२३७ ||
चतुर्दश्यामर्धरात्रे चितास्थिन्यथ साधकः |
व्रणतैलविलिप्तानि चिताग्नौ जुहुयात्ततः || १५/२३८ ||
अनेन विधिना शत्रुर्मृत्युमेष्यति कातरः |
तुषास्थिनिर्मितां शत्रोर्व्रणतैलपरिप्लुताम् || १५/२३९ ||
प्रतिमां स्थापितप्राणां जुहुयान्निशि साधकः |
छित्वा छित्वाऽजरक्तेन सप्ताहान्म्रियते रिपुः || १५/२४० ||
श्मशानवालुकां स्पृष्ट्वा साक्षतां नियुतं जपेत् |
विकिरेत्तांस्तडागादौ कृत्यास्त्रक्वाथितं जलम् || १५/२४१ ||
तदीयपीतमरिचं निहन्ति सकलान् जनान् |
कृष्णाङ्गारचतुर्दश्यां प्रजप्तैः प्रेतभस्मभिः || १५/२४२ ||
महिषाज्येन लुलितास्तन्मन्त्राक्षरसंख्यया |
निर्माय गुटिका एताः सम्यग्जप्तसमीरणाः || १५/२४३ ||
चितिकाष्ठेधिते वह्नौ जुहुयाद् दृढमानसः |
चतुर्दशीत्रयादर्वाक् शत्रुर्मृत्युवशो भवेत् || १५/२४४ ||
श्मशानभस्म सिद्धार्थं पञ्चगव्ये विनिःक्षिपेत् |
माहिषे संस्मरेद् देवीं कालाग्निसदृशप्रभाम् || १५/२४५ ||
भर्जयेत् प्रजपेन्मन्त्रं ग्रहकाष्ठैश्चितानले |
दुर्गागारे प्रजुहुयादनेनायुतमन्त्रवित् || १५/२४६ ||
पुनरादाय तद्भस्म सेनायां वैरिणः क्षिपेत् |
सा सेना बहुधा भिन्ना ज्वररोगविमोहिता || १५/२४७ ||
आयुधानि परित्यज्य युद्धकाले पलायते |
गेहग्रामादिषु क्षिप्तं कुर्यादुच्चाटनं क्षणात् || १५/२४८ ||
सप्तवारेषु कुलिके दुर्गावेश्मसु शर्कराः |
सप्तमाहेन्द्रदिग्वज्रं गृहीत्वा प्रजपेन्मनुम् || १५/२४९ ||
महिषीपञ्चगव्येषु भर्जयेत्तां यथाविधि |
भूयो जपित्वा विकिरेद् गेहग्रामपुरेष्विमाः || १५/२५० ||
स देशो नश्यति क्षिप्रं दग्धमन्त्रभवाग्निना |
ब्रह्मदण्डी मर्कटिकां करक्रोशनिकात्रयम् || १५/२५१ ||
भौमवारेषु कुलिके गृहीत्वा प्रजपेन्मनुम् |
चतुर्दश्यां रिपोर्गेहे मुसलं प्रक्षिपेन्मनुम् || १५/२५२ ||
सार्द्धं पुत्रकलत्राद्यैरुत्सादो जायते रिपोः |
एकैकं वा खनेन्मन्त्री मण्डलात्तत्फलं लभेत् || १५/२५३ ||
षड्बिन्दुषट्कं पुत्तल्यां निखनेदर्कदलान्वितम् |
स्पृष्ट्वा तां प्रजपेन्मन्त्रं कृष्णाष्टभ्यां निशार्द्धतः || १५/२५४ ||
शत्रोर्नामसमायुक्तां श्मशाने निखनेदिमाम् |
प्राणांश्च स रिपुः शीघ्रं विमुञ्चति सबान्धवः |
कपालफलकान्मन्त्री कृत्यास्त्राक्षरसंख्यकान् || १५/२५५ ||
संस्पृश्य प्रजपेदस्त्रं प्राणस्थापनपूर्वकम् |
कृष्णाङ्गारचतुर्दश्यां श्मशाने विषवृक्षके || १५/२५६ ||
जुहुयादजरक्ताक्तान् कृत्यास्त्रज्ज्वालया हतः |
रिपुर्यमपुरं गच्छेन्महाज्वरविमोहितः || १५/२५७ ||
अजरक्तेन सम्पूर्णे कलशे निक्षिपेदमुम् |
कपालेन पिधायैनं छादयेद् रक्तवाससा || १५/२५८ ||
पूजयेद् रक्तपुष्पाद्यैः स्पृष्ट्वा तमयुतं जपेत् |
भौमवारे निशामध्ये कारस्करसमेधिते || १५/२५९ ||
श्मशानवह्नौ जुहुयाद् गच्छेद् यमपुरं रिपुः |
साध्यनक्षत्रवृक्षेण कृत्वा कुम्भं प्रपूरयेत् || १५/२६० ||
माहिषैः पञ्चगव्यैस्तं विराजं तत्र निक्षिपेत् |
जपपूजादिकं सर्वं यथापूर्वकमाचरेत् || १५/२६१ ||
कारस्करभवे वह्नौ कृत्यास्त्रेण समेधिते |
अयुतं व्रणतैलेन हुत्वान्ते तं घटं पुनः || १५/२६२ ||
आमस्तकं समुद्धृत्य जपेन्मन्त्रमनन्यधीः |
जुहुयाद् विधिनानेन त्रिदिनान्म्रियते रिपुः || १५/२६३ ||
सुन्दरं महिषीपुत्रमेकरात्रमुपोषितम् |
पाययेन्महिषीसर्पिःप्रस्थं मन्त्रेण मन्त्रितम् || १५/२६४ ||
कुशैराबद्धसर्वाङ्गं स्थापितः प्राणमञ्जसा |
कारस्करैधिते वह्नौ व्रणतैलेन मन्त्रवित् || १५/२६५ ||
होमं कृत्वायुतं मन्त्री जुहुयाद् यतमानसः |
एकेन दिवसेनारिर्गच्छेद् यमपुरं ततः || १५/२६६ ||
त्रिकोणकुण्डनिहिते वह्नौ मन्त्रेण दीपिते |
अर्चिते गन्धपुष्पाद्यैरयुतं जुहुयात् क्रमात् || १५/२६७ ||
राजीभल्लातकतिलतैलैः सप्तदिनं ततः |
प्रसूतिसमयप्राप्तां महिषीं स्थापितानिलाम् || १५/२६८ ||
पूजितां गन्धपुष्पाद्यैः स्पृशन् कूर्चेन तं जपेत् |
मस्तकाद् योनिपर्यन्तं धिया वत्समनुस्मरन् || १५/२६९ ||
आकृष्य हस्ते पतितं जुहुयादेधितेऽनले |
एवं कृते समुत्पन्ना कृत्या दीप्ता हुताशनात् || १५/२७० ||
भक्षयेदचिराच्छत्रुमीश्वरेणापि रक्षितम् |
पुनरग्नौ विशत्येषा कर्तारमपि रक्षिणी || १५/२७१ ||
एवंविधानि कार्याणि यः कुर्यामन्त्रवित्तमः |
स जपेदात्मरक्षार्थं मन्त्रान् मृत्युञ्जयादिकान् || १५/२७२ ||
इति श्रीफेत्कारिणीतन्त्रे जातवेदादिनवदुर्गाप्रकरणे
पञ्चदशः पटलः ||
षोडशः पटलः
श्रीशिव उवाच
अथो लवणमन्त्रस्य विधानमभिधीयते |
सर्वशान्तिकरो मन्त्रो ग्रहणादेव सिध्यति || १६/१ ||
व्रतोपवासनियमैः पौरश्चर्यादिभिर्विना |
छन्दोऽनुष्टुब् महारात्रिर्भद्रकाली च देवता || १६/२ ||
ऋगाद्याः कथिताः पूर्वं लवणाम्भसि पूर्विकाः |
लवणादिद्वितीयाद्या दहत्याः परिकीर्तिताः || १६/३ ||
संदहत्या चतुर्थी स्याद् याते पूर्वार्थपञ्चमी |
अङ्गिरा मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् || १६/४ ||
अग्निरात्री पुनर्दुगा भद्रकाली च देवता |
चिटिमन्त्राक्षरैः कुर्यात् षडङ्गानि समाहितः || १६/५ ||
पञ्चभिर्हृदयं प्रोक्तं त्रिभिर्वर्णैः शिरः स्मृतम् |
पञ्चवर्णैः शिखा प्रोक्ता कवचं करणाक्षरैः || १६/६ ||
पञ्चभिर्नेत्रमुदितं युगलेनास्त्रमीरितम् |
तारं चिटिद्वयं पश्चाच्चाण्डालि तदनन्तरम् || १६/७ ||
महापदाद्यां तां ब्रूयादमकं मे ततः परम् |
वशमानय ठद्वन्द्वं चिटिमन्त्र उदाहृतः || १६/८ ||
चतुर्विंशत्यक्षरात्मा सर्वकामफलप्रदः |
(ओं चिटि चिटि चाण्डालि महाचाण्डालि अमुकं मे वशमानय स्वाहा)
नवकुङ्कुमसन्निभं त्रिनेत्रं रुचिराकल्पशतं भजामि वह्निम् |
श्रुवशक्तिवराभयानि दोर्भिर्दधतं रक्तसरोरुहे निषण्णम् || १६/९ ||
इति वह्निध्यानम्
कालाम्बुदद्युतिमिन्द्रवक्त्रां हारावलीशोभिपयोधराढ्याम् |
कपालपाशाङ्कशशूलहस्तां नीलाम्बरां तां युवतीं नमामि || १६/१० ||
वह्निस्त्रीध्यानमेतत्
नीलाम्बुदाभामसिशङ्खशूलखड्गाढ्यहस्तां तरुणेन्दुचूडाम् |
भीमां त्रिनेत्रां जितशत्रुवर्गां दुर्गां स्मरेद् दुर्गविभङ्गदक्षाम् || १६/११ ||
दुर्गाध्यानमेतत्
टङ्कं कापालं डमरुं त्रिशूलं संबिभ्रती चन्द्रकलावतंसा |
पिङ्गोर्ध्वकेशी सितधूमनेत्रा भूयाद् विभूत्यै मम भद्रकाली || १६/१२ ||
भद्रकालीध्यानमेतत्
ऋक्पञ्चकं जपेत् सम्यगयुतं तद्दशांशतः |
महिषीघृतसिक्तेन जुहुयादेधितेऽनले || १६/१३ ||
एवं कृत्वा पुरश्चर्यां प्रयोगे कुशलो भवेत् |
अग्नियामवती ध्येयौ वश्याकर्षणकर्मणोः || १६/१४ ||
ध्यायेद् दुर्गां भद्रकालीं मन्त्री मारणकर्मणि |
जानुप्रमाणे सलिले स्थित्वा निशि जपेन्मनुम् || १६/१५ ||
अनेन वाञ्छितः साध्यः किङ्करो जायते क्षणात् |
नाभिमात्रजले स्थित्वा जपेन्मन्त्रमिमं सुधीः || १६/१६ ||
अष्टोत्तरसहस्रं यस्तस्य साध्यो वशीभवेत् |
ऋक्पञ्चकं जपेन्मन्त्री कण्ठमात्राम्भसि स्थितः || १६/१७ ||
सप्तभिर्दिवसैः साध्यं वशयेद् विधिनामुना |
विलिख्य तालपत्रे तं साध्यनामविदर्भितम् || १६/१८ ||
प्रक्षिप्य क्षीरसंमिश्रे जले तत् क्वाथयेन्निशि |
वश्यो भवति साध्योऽसौ नात्र कार्या विचारणा || १६/१९ ||
तालपत्रे लिखित्वैवं भद्रकालीगृहे खनेत् |
वश्याय सर्वजन्तूनां प्रयोगोऽयमुदाहृतः || १६/२० ||
ताम्रपात्रे समालिख्य मन्त्रं साध्यविदर्भितम् |
तापयेत् खादिरे वह्नौ मासाद् वश्यो भवेन्नरः || १६/२१ ||
त्रिकोणकुण्डमापाद्य सम्यक् शास्त्रोक्तलक्षणम् |
तस्मिन् होमं प्रकुर्वीत संस्कृते हव्यवाहने || १६/२२ ||
प्रक्षाल्य गव्यदुग्धेन संयोज्य लवणं सुधीः |
संचूर्णितं तु जुहुयात् सप्ताहाद् वशयेज्जनान् || १६/२३ ||
दधिमध्वाज्यसंसिक्तैः सैन्धवैर्जुहुयात्तथा |
वशयेत् सकलान् देवानचिरात् किमु पार्थिवान् || १६/२४ ||
विशुद्धं लवणप्रस्थं विभक्तं पञ्चधा पृथक् |
एकैकया प्रजुहुयाद् ऋचा पञ्चाहमादरात् || १६/२५ ||
यस्य नाम्ना स वश्यः स्यादनेनैव न संशयः |
शुद्धं लवणमादाय जुहुयान्मधुरान्वितम् || १६/२६ ||
ऊनपञ्चाशदाहुत्या वशं नयति वाञ्छितम् |
नित्यं शुद्धेन लोणेन हुत्वा शत्रुं वशं नयेत् || १६/२७ ||
मधुरत्रयसंयुक्तैर्लवणैः साधुचूर्णितैः |
जुहुयाद् वशयेन्नारीर्नरान् नरपतीनपि || १६/२८ ||
मन्त्रं कृष्णतृतीयादौ प्रजपेद् यावदष्टमीम् |
पुत्तलीः पञ्च कुर्वीत साङ्गोपाङ्गाः समाः शुभाः || १६/२९ ||
एका साध्यक्रमेण स्यात् पुत्तलीष्टमयी स्मृता |
लवणं पोतसंभूतं चूर्णितं परिशोधितम् || १६/३० ||
कुडर प्रोक्षयेत् क्षीरदध्याज्यमधुभिः क्रमात् |
गुडाज्यमधुभिः सम्यग् मिश्रितेनाम्बुना ततः || १६/३१ ||
कुर्वीत पुत्तलीं सौम्यां सर्वावयवशोभिताम् |
प्राणमन्त्रं कृतं यन्त्रमासां हृदि विनिक्षिपेत् || १६/३२ ||
आसु प्राणान् प्रतिष्ठाप्य पूजयेत् कुसुमादिभिः |
पश्चात् कृष्णाष्टमीरात्रौ याममात्रगते सति || १६/३३ ||
विधाय मातृकान्यासं मन्त्रन्यासमनन्तरम् |
चिटिमन्त्रसमुद्भूतान् चतुर्विंशतिसंख्यकान् || १६/३४ ||
ताराद्यान् विन्यसेद् वर्णान् स्थानेष्वेषु समाहितः |
मूर्ध्नि भाले दृशोः श्रुत्योर्नासास्यचिबुकेष्वपि || १६/३५ ||
कण्ठहृत्स्तनयुग्मेषु कुक्षौ नाभौ कटिद्वये |
मेढ्रे पायौ प्रविन्यस्य शिष्टं वर्णचतुष्टयम् || १६/३६ ||
ऊरुद्वये जानुयुग्मे जङ्घायुग्मे पदद्वये |
एवं विन्यस्य सर्वाङ्गे रक्तमाल्यानुलेपनः || १६/३७ ||
रक्तवस्त्रधरः शुद्धः पुत्तलीं दारुणा कृताम् |
अधोमुखीं खनेत् कुण्डे पिष्टजामासनादधः || १६/३८ ||
मृण्मयीं प्रतिमां पाददेशे न्यसेत्तथात्मनः |
मधूच्छिष्टमयीं व्योम्नि कुण्डस्योर्ध्वं प्रलम्बयेत् || १६/३९ ||
लवणेन कृतां पश्चात् पुत्तलीं संस्पृशन् जपेत् |
ऋक्पञ्चकं यथान्यायमष्टोत्तरसहस्रकम् || १६/४० ||
समं कृत्य चिटिमन्त्रान् पुनस्तस्यास्तनौ न्यसेत् |
अङ्गुलीसन्धिप्रपदजङ्घोरुजानुपायुषु || १६/४१ ||
लिङ्गदेशे पुनर्नाभौ जठरे हृदयाम्बुजे |
स्तनद्वये तु स्कन्धे च चिबुके वदने पुनः || १६/४२ ||
घ्राणयोः कर्णयोरक्ष्णोर्ललाटे मूर्द्धनि क्रमात् |
अग्निमादाय संदीप्य साध्यनक्षत्रदारुभिः || १६/४३ ||
तस्मिन्नभ्यर्च्य मन्त्रोक्तां देवतां दारुपत्रके |
कुसीतराजिपुष्पाभिर्दत्त्वार्घ्यं प्रणमेत् सुधीः || १६/४४ ||
मन्त्रैरेतैः प्रयोगादावन्ते संयतमानसः |
ओं त्वमनेनाप्यमित्रघ्न निशायां हव्यवाहन || १६/४५ ||
हविषा मन्त्रदत्तेन तृप्तो भव तया सह |
जातवेदो महादेव तप्तजाम्बूनदप्रभ || १६/४६ ||
स्वाहापते विश्वभक्ष्य लवणं दह शत्रुहन् |
ओं ईशे सर्वाभिः सर्वाणि ग्रस्तयुक्तं त्वया जगत् || १६/४७ ||
महादेवि नमस्तुभ्यं वरदे कामदा भव |
ओं तमोमयि महादेवि महादेवस्य सुव्रते || १६/४८ ||
त्रियामे पुरुषं हुत्वा वशमानय देहि मे |
ओं दुर्गे दुर्गादिरहिते दुर्गसंबोधनाकुले || १६/४९ ||
शङ्खचक्रधरे देवि दुष्टशत्रुभयङ्करि |
ओं नमस्ते दह मे शत्रुं वशमानय चण्डिके || १६/५० ||
शाकम्भरि महादेवि शरणं मे भवानघे |
ओं भद्रकालि महातीक्ष्णे भद्रसिद्धिप्रदायिनि || १६/५१ ||
सपत्नान् मे हन हह दह शोषय तापय |
शूलासिशक्तिवज्राद्यैरुत्कृत्योत्कृत्य मारय || १६/५२ ||
महादेवि महाकालि रक्षास्मानक्षतात्मिके |
साध्यं संस्कृत्य निष्पाद्य पुत्तलीं सप्तधा पुनः || १६/५३ ||
ऋक्पञ्चकं समुच्चार्य जुहुयादेधितेऽनले |
प्रथमो दक्षिणः पादस्तत्करस्तदनन्तरम् || १६/५४ ||
शिरस्तृतीयमाख्यातं वाहस्तस्ततः परम् |
मध्यादूर्ध्वं पञ्चमः स्यादर्धोंऽशः षष्ठ ईरितः || १६/५५ ||
सप्तमो वामपादः स्यादेवं भागक्रमः स्मृतः |
सप्तसप्तविभागो वा प्रोक्तेष्वेषु यथाविधि || १६/५६ ||
हुत्वैवमर्चयित्वाग्निं प्रणमेद् दण्डवत्ततः |
यजमानो धनैर्धान्यैः पूजयेद् गुरुमात्मनः || १६/५७ ||
अनेन विधिना मन्त्री वशयेदसुरान् सुरान् |
किं पुनर्मनुजान् भूपान् नामाद्यान्नरयोषितः || १६/५८ ||
मारणे पूर्वप्रोक्तं पुत्तलीनां चतुष्टयम् |
निवेशयेद् यथा पूर्वं साधको विधिना ततः || १६/५९ ||
अपरान् वक्ष्यमाणेन विधिनानेन कल्पयेत् |
वाराहपारावतविट्तिलकाष्ठत्र्युषणरामठैः || १६/६० ||
व्रणकृन्निम्बनिर्यासं साध्यवामाङ्घ्रिरेणुभिः |
महिषीमूत्रसंपिष्टैः पूर्वोक्तैर्लवणान्वितैः || १६/६१ ||
विधाय पुत्तलीं सम्यक् प्राणस्थापनमारभेत् |
जपपूजादिकं कुर्यात् प्रागुवर्त्मना ततः || १६/६२ ||
ततः पूर्वोदिते कुण्डे रात्रौ प्रज्वलितेऽनले |
दुर्गां वा भद्रकालीं वा समभ्यर्च्य यथाविधि || १६/६३ ||
धारयन्निशितं शस्त्रं सव्यहस्तेन साधकः |
वामपादं समारभ्य दक्षिणाङ्घ्र्यवसानकम् || १६/६४ ||
छित्वा छित्वा प्रजुहुयान्निराहारो जितेन्द्रियः |
कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी || १६/६५ ||
अनेनैव विधानेन कुर्याद् होमं जितेन्द्रियः |
त्रिःसप्ताहप्रयोगेण मारयेद् रिपुमात्मनः || १६/६६ ||
नीलनीरदसङ्काशो रौद्री सर्वार्थसिद्धिदा |
वारुणो वरुणा नाम ऋषिः सञ्चलनः स्वयम् || १६/६७ ||
यः सहस्रं जपेत्तावत् तस्य वश्यं भवेज्जगत् |
जानुदघ्ने जले स्थित्वा रजन्यां ध्यानमास्थितः || १६/६८ ||
यमुद्दिश्य जपेन्मन्त्रं स सद्यो वशमेष्यति |
रक्तपुष्पैः समाराध्य भद्रकालीं स्पृशन् जपन् || १६/६९ ||
शतं सहस्रं वा ध्यायन् स सद्यो वशमेष्यति |
तालपत्रे लिखेन्मन्त्रं साध्यनामविदर्भितम् || १६/७० ||
जप्त्वा शतं सहस्रं वा भद्रकालीगृहे खनेत् |
स दासवद् भवेत्तस्य यावज्जीवं न संशयः || १६/७१ ||
रक्तपुष्पधरो मन्त्री रक्तमाल्यानुलेपनः |
प्राणायामत्रयं कृत्वा जुहुयात् सुमना भुवि || १६/७२ ||
गते यामे रजन्यास्तु साध्यनामाङ्किते शुभे |
साध्यवृक्षमये पीठे समासीनो परासने || १६/७३ ||
प्रणतेनाग्निमध्ये तु कुण्डे वा स्थण्डिलेऽपि वा |
पद्मपुष्पं परिस्तीर्य कुशैः शरमयैरपि || १६/७४ ||
आराध्याग्निं महारात्रिं प्राच्यामग्निं प्रपूजयेत् |
रक्तवस्त्रेण लवणैः कुर्याच्च प्रतिमां शुभाम् || १६/७५ ||
मधुयुक्तां लोलक्रोडां पूजितामपि सेन्द्रियाम् |
अक्षराणि न्यसेत्तत्र मन्त्रस्याथ विचक्षणः || १६/७६ ||
परिदीप्याग्निमाज्येन प्रणवेन हुनेत्ततः |
पुनर्व्याहृतिवर्णैश्च समस्तैश्च तथैव च || १६/७७ || १६/
वामपादे तु चारभ्य यावदापूर्यते करः |
तावदादाय तेनैव संस्कृतेन करेण तु || १६/७८ ||
गुरुपदेशसिद्धेन मन्त्रेण प्रणवादिना |
जुहुयात् सप्तभिर्मन्त्री सप्तधा ध्यानमास्थितः || १६/७९ ||
पुनर्व्याहृतिभिश्चाज्यं जुहुयात् प्रणवेन च |
होमान्ते बलिदानं तु नित्यं कुर्याद्विजानता || १६/८० ||
तिललाजादिना सक्तुदधिसंमिश्रभोजनम् |
क्रमेण निक्षिपेद् भूमौ द्विस्त्रिर्वा साधकोत्तमः || १६/८१ ||
ओं नमो रात्रिगणेभ्यः सर्ववश्यकरेभ्यः प्रतिगृह्णन्तु |
सर्ववश्याय सर्वशान्ताय बलिमिमं स्वाहा |
दत्त्वा बलिं जपेद् भूयो लवणादिमनुं बुधः || १६/८२ ||
परिषिच्याग्निमाराध्य महारात्रिं तथैव च |
शेषं समापयेद् विद्वान् स सद्यो वशमेष्यति || १६/८३ ||
कृष्णाष्टमीं समारभ्य यावत् शुक्लचतुर्दशी |
होमान्ते दक्षिणां भूमिं हिरण्यं वा यथाविधि || १६/८४ ||
ऋत्विग्भ्यो गुरवे वापि दद्याद् विप्राय भोजयेत् |
यस्त्वेवं कुरुते होमं गुरुशास्त्रोपदेशतः || १६/८५ ||
आमृत्योर्वशमायाति स मर्त्यो नात्र संशयः |
तथाकर्षणमिच्छंस्तु नाभिमात्रजले स्थितः || १६/८६ ||
सहस्रमधिकं वापि यथाकार्यमनन्यधीः |
ध्यायेन्नित्यं महारत्रौ जपेन्मन्त्रमतन्द्रितः || १६/८७ ||
पाशबन्धगतं साध्यं नियमो मातृसन्निधौ |
ज्वालामालप्रतीकाशां महारात्रिं महाभुजाम् || १६/८८ ||
दंष्ट्राकरालवदनां स सद्यो वशमेष्यति |
भद्रकालीं समाराध्य गन्धपुष्पादिभिः क्रमात् || १६/८९ ||
रक्तपुष्पसहस्रेण प्रतिवारं वदन् क्षिपेत् |
ध्यायेन्नरं महादेवीं स सद्यस्त्वागमिष्यति || १६/९० ||
शत्रुपुत्रनरो नार्यः साध्यनामविदर्भितम् |
क्षीरमिश्रजले क्षिप्त्वा क्वाथयेद् ध्यानमास्थितः || १६/९१ ||
जपेच्छतं सहस्रं वा स सद्यस्त्वागमिष्यति
अरुणोऽरुणपङ्कजसन्निहितःस्रुवशक्तिवराभययुक्तकरः
अमृताच्चिरजातवातैर्विमललसन्नयनत्रितयोऽवतु |
वोर्द्धहनो नीलतरांशुकाकनकलावनीलतनु-
निर्बिडस्तनभारा
साङ्कुशपाशसशूलकपालग्रामवती भवतोऽवतु नित्यम् || १६/९३ ||
ओं करकमलविराजच्चक्रशङ्खासिशूला
परिलसितकिरीटोत्पाटितानेकदैत्या |
त्रिनयनलसिताङ्गी तिग्मरश्मिप्रकाशा
पवनसखनिभाङ्गी पातु कात्यायनी वः || १६/९४ ||
ओं स्वरौद्रसृतदंष्ट्रिका त्रिनयनोर्ध्वकेशा
फलककपालपरशुडमरुकर्त्रीशूलाकुला |
घना घननिभा रणद्रुधिरा किङ्किणीमालिका
भवसिद्धये भवतु भद्रकाली चिरम् || १६/९५ ||
खेटासिमुषलतोमरकपालशक्तिसपाशशूलान् |
दधती दंष्ट्रोग्रा ध्येया त्रिनयनविराजिता || १६/९६ ||
लवणेनाज्ययुक्तेन हुत्वेष्ट्वाभिभवेद् ध्रुवम् |
तिलतैलं विमिश्रित्य हुत्वा श्रीमान् भविष्यति || १६/९७ ||
पुन्नागपुष्पैर्मिश्रित्य हुत्वा पुत्रमवाप्नुयात् |
मातुलुङ्गफलेनैव सर्वशान्तिर्भवेद् ध्रुवम् || १६/९८ ||
उन्मत्तबीजहोमेन मत्तो भवति नान्यथा |
निम्बतैलेन युक्तेन लवणेनाशु मारणम् || १६/९९ ||
हुत्वा वा लवणेनाशु नष्टद्रव्यं प्रसिध्यति |
कारस्करोत्थधात्री स्यादुदुम्बरतरुः पुनः || १६/१०० ||
जम्बूखदिरकृष्णाख्यौ वंशपिप्पलसंज्ञकौ |
नागरोहिणनामानौ पलाशप्लक्षसंज्ञकौ || १६/१०१ ||
जम्बुश्च विल्वार्जुनाख्यविकङ्कतमहीरुहाः |
बकुलः सरलः सर्जो वञ्जुलः पनसार्ककौ || १६/१०२ ||
शमीकदम्बाम्रनिम्बमधुका ऋक्षशाखिनः |
आत्मरक्षादिकं सर्वं कुर्यान्मन्त्री यथा पुरा || १६/१०३ ||
अमुना विधिना सम्यगभीष्टफलसाधने |
सदृशो नास्ति मन्त्रोऽन्यः सत्यमेव न चान्यथा || १६/१०४ ||
आकल्पयन्तीति प्रत्यङ्गिरसो मन्त्रेणापामार्गराजीमृधवींषि पृथगष्टोत्तरशतं हुत्वा
परकृत्याप्रणाशात्मरक्षां कुर्वन् दशदिक्षु बलिं हरेन्मन्त्रैरेतैः || १६/१०५ ||
यथा - यो मे पूर्वगतः पाप्मा तत् केनेह हेतुना कर्मणा इन्द्रस्त्वं देवराजी
जम्भयतु स्तम्भयतु मोहयतु शोषयतु पातयतु तापयतु द्रावयतु त्रासयतु क्षामयतु
नाशयतु मारयतु बलिं तस्मै प्रयच्छतु || १६/१०६ ||
कृतं मम शुभं मम शिवं मम शान्तिं स्वस्त्ययनं मम यो मेऽग्निगतो यो
मे ईशगतो यो मे ऊर्ध्वगतो यो मे दिविगतो यो मे पातकेनेह कर्मणा || १६/१०७ ||
सूर्यस्त्वं देवराजो जम्भयतु स्तम्भयतु मोहयतु तापयतु त्रासयतु बलिं तस्यै
प्रयच्छतु यत् कृतं मम शिवं शुभं मम शान्तिस्वस्त्ययनं मम यो मे सर्वगतः ||
१६/१०८ ||
एवं दिशासु दशसु देवताभ्यो बलिं हरेत् |
कलावेवं कृतेऽरीणामाशु कृत्या विनश्यति || १६/१०९ ||
इति श्रीपश्चिमाम्नाये फेत्कारिणीतन्त्रे तन्त्रराजोत्तमे लवणमन्त्राख्यानं नाम षोडशः
पटलः ||
सप्तदशः पटलः
श्रीशिव उवाच
मन्त्राणां लेखनद्रव्यं चन्दनं रोचना निशा |
गृहधूमचिताङ्गारौ मारणेषु विषाणि च || १७/१ ||
सोमाग्निलोणपिण्डानि धुस्तूरकरसस्ततः |
गृहधूमस्त्रिकटुकं विषाष्टकमुदीरितम् || १७/२ ||
अथ वक्ष्यामि यन्त्राणां भेदांस्तन्त्रेषु गोपितान् |
यैः साधयन्ति सततं मन्त्रिणो निजवाञ्छितम् || १७/३ ||
शूलाङ्किते वह्निगृहस्य युग्मे
धूमावतीमन्त्रं लिखेत् क्रमेण |
मध्यादिकोणेषु मरुद्गृहस्थं
यन्त्रं हुताशानिलवर्णपीतम् || १७/४ ||
धूंधूंधूमावतिपदं द्विठो धूमावतीमनुः |
धूमावती स्मृता काली शत्रुनिग्रहकारिका || १७/५ ||
विषेण कनकाम्भोभिः प्रेतकर्पटकल्पितैः |
श्मशाने निखनेदेतच्छत्रुमुच्चाटयेद् ध्रुवम् || १७/६ ||
स वज्रषट्कोणमध्ये सकर्मसाध्यं धू/मध्ये विलिख्य प्राच्यादिकोणाभ्यन्तरे धू/
षट्कोणस्य धू/ धूमावति स्वाहा इति लिखेत् || १७/७ ||
स्वाहा च त्रिकोणे तद्बहिः षट्बिन्दुलाञ्छितं मातरिश्वनः | इति वायुगृहम् || १७/८ ||
तद्बहिरसंख्याताभ्यां वायुवर्णाभ्यां वेष्टयेत् |
नामालिख्य मकारकोष्ठयुगले कोष्ठेषु तस्या लिखेद्
मन्त्रज्ञो ञणनामकारसहितां धूमावतीं पत्रगाम् |
वीतं घर्मुटिकादिना परमिदं वायवद्रिगेहावृतं
यन्त्रं प्रान्तपरेतभूमिनिहितं विद्वेषणं स्याद् द्विषाम् || १७/१० ||
पूर्वं घर्मटिकेयुग्मं ततो वर्मटिकेयुगम् |
घोरे विद्वेषकारिणि विद्वेषोद्वेगकारिणि || १७/११ ||
अथ घोराघोरयोः स्यादमुकामुकयोस्ततः |
विद्वेषयद्वयं हु/ फट् विद्या घर्मटिकेरिता || १७/१२ ||
अष्टदलाभ्यन्तरेऽधः केशरद्वये कोष्ठद्वययुक्तं मकारं लिखेत् |
कोष्ठद्वयाभ्यन्तरे मध्ये नाम मकाराभ्यन्तरे कोणचतुष्टये ईशकोणादारभ्य ङ ञ ण
न म इति लिखित्वा अष्टपत्रेषु धूमावतीमनुं तद्बहिर्घर्मटिकामन्त्रेण वेष्टयित्वा
षड्बिन्दुलाञ्छितं वायुगृह त्रिभिर्वेष्टयेत् || १७/१३ ||
प्राक्प्रत्यग्दक्षिणोदग्विधिवदभिलिखेत् स्पष्टरेखाचतुष्कं
कोणोद्यच्छूलयुक्तं बलयुगलयुतं मध्यपूर्वं तदन्तम् |
मन्त्रस्थार्णान् परस्ताद् वसुपदविवरेष्वष्टवर्णान् लिखित्वा
शूलोद्यद्द्वादशार्णं विधिवदभिहितं प्रेतराजस्य मन्त्रम् || १७/१४ ||
यमराजमदोमेययमो दारुणधोदयः |
यत्र योनित्रयस्केय यस्के यच्च निरामयः |
उक्तो धूमान्धकाराय स्वाहेत्यष्टाक्षरो मनुः || १७/१५ ||
प्रणवोष्ट्रां ततो दंष्ट्रां तत्परं विकृतं ततः |
आननाय वधूर्वह्नेर्मन्त्रोऽयं द्वादशाक्षरः || १७/१६ ||
विषवृक्षस्य फलके नृचर्मणि पटेऽथवा |
आलिख्याष्टविषैरेतत् श्मशाने निखनेन्निशि || १७/१७ ||
ज्वरेण महताविष्टो मूर्च्छाकुलितमानसः |
रिपुर्गच्छति पक्षेण यमलोकं न संशयः || १७/१८ ||
इह चक्रे कुण्डलिनीरूपद्वादशाक्षरचक्रं लिखित्वा कोणचतुष्टयगतां रेखां
शूलाङ्कितां कृत्वा शूलाधो वृत्तचतुष्टयं दत्त्वा मध्यादितस्तदन्तं यमराजेत्यादि लिखित्वा
मध्यवृत्ताधःकोणस्थाग्नेयकोष्ठादितो धूमान्धकाराय स्वाहेत्यष्टार्णान्तं लिखित्वा
शूलचतुष्टये शूलस्य प्रथमशूलाद् दंष्ट्रामन्त्रं लिखेत् || १७/१९ ||
एकाशीतिपदेषु मध्यदहने साध्यं लिखेद् धू/ पुनः
क्षींश्रींध्रुं इति दिग्गतासु विलिखेद् बीजानि पङ्क्तिष्वथ |
शिष्टेष्वीशनिशाचरादि विलिखेत् कालीमनुं पङ्क्तिश -
स्तद्वाह्ये यमबीजमग्निपवनाबीजञ्च यन्त्रं लिखेत् || १७/२० ||
काली मार रमा वाणी नील मोक्ष क्षमो नली |
मामोदेत तदेमोमा रक्ष तत्तत्कृतक्षरः || १७/२१ ||
कालीमनुरयं प्रोक्तः कालरात्रिः स्ववैरिणाम् |
यमा पाट टमा माय माट मोट टमो टमा || १७/२२ ||
वामो भुवि विभू मोवा टटवीस्त्वटवी टट |
यमात्मकोऽयमाख्यातः श्लोको वैरिविनाशनः || १७/२३ ||
लिखेदष्टविषाङ्गारनिम्बनिर्यासकज्जलैः |
निग्रहाख्यमिदं यन्त्रं काकपक्षेण कर्पटे || १७/२४ ||
विभीतवृक्षे वल्मीके श्मशाने वा चतुष्पथे |
दक्षिणस्थेऽनिले मन्त्री निखनेदर्धरात्रिके || १७/२५ ||
सर्वथा शत्रुरेतेन सप्ताहान्मरणं व्रजेत् |
निगृह्यते महारोगैः पतितो वा भवेदयम् || १७/२६ ||
शिलायामिष्टकायां वा चक्रमेतत् प्रकल्पितम् |
मर्कटीविषदण्डीभिः समालिप्तमधोमुखम् || १७/२७ ||
यन्त्रं रात्रौ खनेत्तत्र भूमौ भूयोऽशुभं व्रजेत् |
ऊर्ध्वाधो दशरेखाभिस्तिर्यग्रेखास्तथा दश || १७/२८ ||
एवमेकाशीतिकोष्ठकं चक्रमालिख्य पञ्चममध्यकोष्ठे त्रिकोणे तं साध्यं
सकर्मालिख्य चतुर्दिक्षु प्रथमकोष्ठे मध्यस्थसाध्यकोष्ठोपकोष्ठादारभ्य निर्गमक्रमेण
धू/ क्षीं श्रू/ ह्रूं लिखित्वा ईशानकोणादारभ्य प्रथमपङ्क्तौ वसुकोष्ठेषु
नीलामोक्षक्षमालिनी तदधो मामोदेत तदे वोमा तदधो रक्ष तत्तत्कृतक्षर तदधो ह्रूं
इत्यादि तदधो रक्ष तत्तत्कृतक्षर तदधो मामो देत तदे मोमा तदधो नीलमोक्षक्षमालिनी
तदधः काली मार रमा वाणी इति लिखित्वावाह्य ईशकोणादारभ्य यमापाटटमामाय इति
प्राच्याम्, माट मोट टमो टमा दक्षिणे, वामो भुवि विभूमो वा प्रतीच्याम्,
टटवीस्त्वटवीटट इत्युत्तर इति लिखित्वा वृत्तं दत्त्वा तद्बाह्ये वह्निपवनाभ्यां वेष्टयेत् || १७/२९ ||
इति लिखेच्चतुः षष्टिपदेष्वष्टमीशनिशादिकाल्यादियमात्मकश्लोकेन संवेष्ट्य
कृशानुवायुबीजवृतं यन्त्रमिदं विदध्यात् || १७/३० ||
इति श्रीपश्चिमाम्नाये फेतकारिणीतन्त्रे धूमावतीसिद्धयन्त्राख्यानं नाम सप्तदशः
पटलः ||
अष्टादशः पटलः
श्रीशिव उवाच
भूतलिप्या पुटीकृत्य यो मन्त्रं भजते नरः |
क्रमोत्क्रमाच्छतावृत्त्या तस्य सिद्धो भवेन्मनुः || १८/१ ||
अङ्कोन्मुक्तशशाङ्ककोटिसदृशीमापीनतुङ्गस्तनीं
चन्द्रार्धाङ्कितमस्तकां मधुमदा व्यालोलनेत्रत्रयाम् |
बिभ्राणामनिशं वरं जपवटीं विद्यां कपालं करै -
राढ्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये || १८/२ ||
पञ्चह्रस्वाः सन्धिवर्णा व्योमेराग्निजलं धरा |
अन्त्यमाद्यं द्वितीयञ्च चतुर्थं मध्यमं क्रमात् || १८/३ ||
पञ्चवर्णाक्षराणि स्युरन्ते श्वेतेन्दुभिः सह |
एषा भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः || १८/४ ||
अ इ उ ऋ ऌ ए ऐ ओ औ ह य व र ल ङ क ख घ ग ञ च छ झ ज ण ट ठ ढ
ड न त थ ध द म प फ भ ब स ष श स ष श ब भ फ प म द ध थ त न
ड ढ ठ ट ण ज झ छ च ञ ग घ ख क ङ ल व र य ह औ ओ ऐ ए ऌ ऋ उ इ अ |
ध्यात्वा जप्त्वा शतावृत्त्या क्रमोत्क्रमविधानतः |
ज्ञानविज्ञानसम्पन्नो भवेत् सिद्धो न संशयः || १८/५ ||
क्रमे आदिपृथिव्यन्ता व्युत्क्रमे सादि आन्तगाः |
एवं संपूज्य विधिवद् जपन् भूतलिपिं नरः || १८/६ ||
क्रमोत्क्रमाच्छतावृत्त्या सर्वान् कामानवाप्नुयात् |
अनया संपुटीकृत्य योऽमुं मन्त्रं जपेन्नरः || १८/७ ||
क्रमोत्क्रमाच्छतावृत्त्या तस्य सिद्धो भवेन्मनुः |
पाशाङ्कुशपुटाशक्तिर्वाणीबिन्दुविभूषिताः || १८/८ ||
याद्याः सप्त सकारान्ता व्योम सत्येन्दुसंयुतम् |
(य/ र/ ल/ व/ श/ ष/ स/)
तदन्ते हंसमन्त्रः स्यात् ततोऽमुष्यपदं भवेत् || १८/९ ||
प्राणा इति वदेत् पश्चाद् इह प्राणास्ततः परम् |
अमुष्य जीव इह च स्थितोऽमुष्यपदं भवेत् || १८/१० ||
सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः |
श्रोत्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् ||
तिष्ठन्त्वग्निवधूरन्ते प्राणमन्त्रोऽयमीरितः || १८/११ ||
अमुष्यपदपूर्वं तु पाशाद्यादि प्रयोजयेत् |
प्रयोगेषु समाख्यातः प्राणाकर्षी महामौः || १८/१२ ||
इति श्रीफेत्कारिणीतन्त्रे महातन्त्रराजोत्तमे भूतलिपिप्राणप्रतिष्ठो- पदेशकथनं नाम
अष्टादशः पटलः ||
एकोनविंशः पटलः
श्रीशिव उवाच
मन्त्राणां दश संस्काराः कथ्यन्ते सिद्धिदायिनः |
जननं जीवनं पश्चात् ताडनं बोधनं तथा || १९/१ ||
अथाभिषेको विमलीकरणाप्यायने पुनः |
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः || १९/२ ||
शोधिताः सकला मन्त्रा भवन्ति किल सिद्धिदाः |
मन्त्राणां मातृकामध्यादुद्धारो जननं स्मृतम् || १९/३ ||
प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः |
एतज्जीवनमित्याहुर्मन्त्रतन्त्रविशारदाः || १९/४ ||
मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा |
प्रत्येकं वायुना मन्त्री ताडनं तदुदाहृतम् || १९/५ ||
विलिख्य मन्त्रं तं मन्त्री प्रसूनैः करवीरजैः |
तन्मन्त्राक्षरसंख्यातैर्हन्याद् यत्नेन बोधनम् || १९/६ ||
स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसंख्यया |
अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये || १९/७ ||
संचिन्त्य मनसा मन्त्री सुषुम्नामूलमध्यतः |
ज्योतिर्मन्त्रेण विधिवद् दहेन्मन्त्री मलत्रयम् || १९/८ ||
मन्त्रे मलत्रयं मन्त्री विमलीकरणं त्विदम् |
तारं व्योमाग्निमनुयुग् दण्डी ज्योतिर्मनुर्मतः || १९/९ || १९/(ओं ह्रौम्)
कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः |
तेन मन्त्रेण विधिवद् एतदाप्यायनं स्मृतम् |
मन्त्रेण वरिणा मन्त्री तर्पणं तर्पणं स्मृतम् || १९/१० ||
तारमायारमायोगो मनोर्दीपनमुच्यते |
जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् || १९/११ ||
संस्कारा दश संप्रोक्ताः सर्वतन्त्रेषु गोपिताः |
यान् कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमाप्नुयात् || १९/१२ ||
इति मन्त्राणां दोषोद्धाराय दशविधसंस्काराः ||
अथात्र होमद्रव्याणां प्रमाणमभिधीयते |
कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् || १९/१४ ||
उक्तानि पञ्चगव्यानि समानानि मनीषिभिः |
तत्समं मधु दुग्धञ्च यवमात्रमुदाहृतम् || १९/१५ ||
दधि प्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टिसम्मिताः |
पृथुकास्तत्समानाः स्युः सक्तवोऽपि तथोदिताः || १९/१६ ||
गुडं पलार्धमानं स्याच्छर्करापि तथा स्मृता |
ग्रासार्धं चरुमानं स्यादिक्षुः पर्वावधिः स्मृतः |
एकैकं पत्रपुष्पादि तथा धूपादि कल्पयेत् || १९/१७ ||
कदलीफलनारङ्गफलान्येकैकशो विदुः |
मातुलुङ्गं चतुःखण्डं पनसं दशधा स्मृतम् || १९/१८ ||
अष्टधा नारिकेलानि खण्डितानि विदुर्बुधाः |
त्रिधाकृतं फलं विल्वं कपित्थं खण्डितं द्विधा || १९/१९ ||
उर्वारुकफलं होमे चोदितं खण्डितं द्विधा |
फलान्यन्यानि खण्डानि समिधः स्युर्दशाङ्गुलाः || १९/२० ||
दूर्वात्रयं समुद्दिष्टं गुडूची चतुरऽऽगुला |
व्रीहयो मुष्टिमात्राः स्युर्मुद्गा माषा यवा अपि || १९/२१ ||
तण्डुलाः स्युस्तदर्धांशाः कोद्रवा मुष्टिसम्मिताः |
गोधूमा रक्तकलमा विहिता मुष्टिमानतः || १९/२२ ||
तिलाश्चुल्लकमात्राः स्युः सर्षपास्तत्प्रमाणकाः |
शुक्तिप्रमाणं लवणं मरीचान्यपि विंशतिः || १९/२३ ||
पुरं वरदमानं स्याद् रामठं तत्समं स्मृतम् |
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमानि च || १९/२४ ||
तिन्तिडीबीजमानानि समुद्दिष्टानि देशिकैः |
अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते || १९/२५ ||
अथात्र होमद्रव्याणां फलं शृणु वरानने |
पालाशैर्मधुरत्रयेण कुसुमैः सिक्तैरशेषान्नरः
कामं चम्पकपाटलादिबकुलैः प्राप्नोति होमात्त्रयम् |
बाह्यं बिन्दुदलैः फलैरपि तथा साम्राज्यमम्भोरुहैर्
आयुः शाद्बलपल्लवैः सह गुडैः शान्तिं सहाज्यैस्तिलैः || १९/२६ ||
अघोरेण द्रविणं निगदत्वं प्राप्नुयाच्च सिद्धार्थैः |
प्रीतिं गुडेन पत्रैः पुत्रान् सौख्यं फलैर्मनुजः || १९/२७ ||
लाजैः सौभाग्यं धान्यमन्येन होमात्
पुष्पैः कादम्बैर्यक्षलोकाधिपत्यम् |
मर्त्यः पुन्नागैरेभिर्विद्याधरत्वं
पुष्पैर्मालत्याः सिद्धगन्धर्वलोकान् || १९/२८ ||
आकृष्टिर्यक्षिणीनां त्रिमधुरसहितैरर्जुनैः सर्षपैः स्याद्
वैश्या वश्या भवेयुर्जयरिपुकुसुमैर्किंशुकैश्चापि होमात् |
वश्याः स्युः कर्णिकारैरथ धरिणसुराः क्षत्रियाः काशमर्दै -
र्वैश्या नाकिं किरातैर्गण इव वशगाः पाटलाभिश्च शूद्राः || १९/२९ ||
छागलाङ्गजजाङ्गलेन होमात्परराष्ट्रं स्ववशं भवेदशेषम् |
अथ वैरिबलं पराङ्मुखं स्यान्मधुराक्तेन महापललेन वापि || १९/३० ||
कटुत्रयनिम्बपत्रकेशैः सगुडैर्मारपलान्वितैर्निशासु |
कटुतैलविमिश्रितैश्च होमादरयस्त्रिमुनिवासरान्म्रियन्ते || १९/३१ ||
लग्नजिदजरोमहरिद्राखण्डनखैर्विहितः किल होमः |
सप्तदिनात् प्रतिपक्षनृपाणां स्तम्भनकृत् प्रबलस्य बलस्य || १९/३२ ||
माषैर्मूकत्वं कोद्रवैर्व्याधिबाधा आतङ्केतिः स्यात् कलायैस्तु होमात् |
उन्मत्तस्य वृक्षजाभिः समिद्भिर्मृत्युः सप्ताहात् शाल्मलीवृक्षजाभिः || १९/३३ ||
कपिलाघृतसंयुक्तैर्मनुष्यो यवगोधूमतिलैः
षडस्रकुण्डे नियतं खेचरत्वमेति |
हुत्या निशिचारेण समाहितान्तरात्मा
पलाशद्रुमकाष्ठैः परिज्वाल्य हव्याशनं चन्दनाभ्युक्षितैर्बन्धुजीवैः || १९/३४ ||
समस्तानि भूतानि वश्यानि होमाद्भवेयुः प्रियङ्गुप्रसूनैश्च तद्वत् |
नरो भक्ष्यभोज्यान्नपानानि हुत्वा परां सम्पदं प्राप्नुयादत्र लोके || १९/३५ ||
वटोदुम्बराद्यङ्कुरैः स्वादुवर्गान्वितैः |
काम्यतां मल्लिकाभिर्यशः स्यात् || १९/३६ ||
तुष्टिर्नीलाम्बुजैर्होमात् सौगन्धिकैर्भवेत् पुष्टिः |
कुमुदैर्जनवात्सल्यं पुत्राः मल्लिकुसुमैः स्युः || १९/३७ ||
यत्खलु अभीष्टतमं स्याद् भूमितले मनसो मनुजानाम् |
तत्सकलं मधुरत्रयहोमात् स्यादचिरेण स्वशक्तिमुपेतुम् || १९/३८ ||
घृताहुतिर्द्विगुणितषोडशाङ्गुलाभिर्वरातत इह मध्यमार्धतः |
गजाङ्गुलोन्नतिरधमा तिलोद्भवं तथैव माक्षिकमपि पञ्चगव्ययुक् || १९/३९ ||
एकं चुल्लकं पयसो दध्नस्तद्वद्यवाग्वाश्च |
एकैकापूपनिकरपायसमक्षप्रमाणञ्च || १९/४० ||
कदलीफलमेकैकं मातुलुङ्गनागरङ्गञ्च |
पनसं दशखण्डं गुडखण्डं स्यात्फलं वैल्वम् || १९/४१ ||
करकट्टिका गुडखण्डा दलपुष्पफलान्यखण्डानि |
इत्यादिकं सर्वद्रव्यं होतव्यं विधिना ततः |
सर्वशान्तिमवाप्नोति नात्र कार्या विचारणा || १९/४२ ||
ओं तत्सत् ओं शान्तिः ओं शान्तिः |
इति फेत्कारिणीमहातन्त्रे जननादिदशसंस्कारक्रियाहोमद्रव्य-संख्यादिकथनं
नामोनविंशः पटलः ||
विंशः पटलः
श्रीशिव उवाच
नवधाकृतभूभागे न्यसेन्मध्ये स्वरान् क्रमात् |
कादिवर्णान् सप्तसंख्यानीशाने लक्षमित्यपि || २०/१ ||
क्षेत्राद्यर्णं त्रये कोष्ठे दीपस्थानं मुखाभिधम् |
हस्तौ कुक्षी च पादौ द्वौ शिष्टं पुच्छमुदाहृतम् || २०/२ ||
सिद्धिश्चास्ये करेऽल्पायुरुदासत्वं तु पार्श्वयोः |
दुःखं चरणयोः पीडा पुच्छे कूर्मतनोर्जपात् || २०/३ ||
नामाद्यक्षरमारभ्य यावन्मन्त्राद्यदर्शनम् |
सप्तप्लुतं त्रिभिः शिष्टमृणं त्याज्यं धनात्मकम् || २०/४ ||
मन्त्राद्यक्षरमारभ्य यावन्नामादिदर्शनम् |
त्रिभिः प्लुतं सप्तशिष्टं स्वग्राह्यमीदृशात्मकम् || २०/५ ||
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च |
सपिण्डाक्षरमन्त्राणां अरिमित्रं न चार्चयेत् || २०/६ ||
एकाक्षरे त्रिकूटे च मालामन्त्रे वरानने |
स्वप्नलब्धे स्त्रिया दत्ते मित्रामित्रं न चार्चयेत् || २०/७ ||
सिद्धः साध्यः सुसिद्धोऽरिश्चतुर्धा तत्स्फुटं भवेत् |
द्वारशारे अकडमे जिज्ञासान्नसमन्त्रयोः || २०/८ ||
नवैकपञ्चमे सिद्धः साध्यः षड्दशयुग्मके |
सुसिद्धस्त्रिसप्तके रुद्रे द्वादशाष्टचतुर्ष्वरिः || २०/९ ||
चतुष्कोष्ठे स्वरान् वर्णानीशानादिक्रमाल्लिखेत् |
चक्रेऽकथह इत्युक्तः सिद्धादौ नामवर्णयोः || २०/१० ||
इति पश्चिमाम्नाये फेत्कारिणीतन्त्रे कूर्मचक्र-ऋणिधनिसिद्धसाध्या-ख्यानादिनाम विंशः
पटलः ||
एकविंशः पटलः
श्रीशिव उवाच
क्रोधमन्त्रं जपेल्लक्षं कोट्यादित्यसमप्रभम् |
अट्टहासं महारौद्रं प्रत्यालीढं महाप्रभम् || २१/१ ||
दक्षिणे वज्रसंयुक्तं तर्जनीं वामपाणिना |
विषादिक्रोधवज्रास्त्रं क्रोधराजमहामनुम् || २१/२ ||
विषं हनपदं गृह्य विध्वंसयपदं ततः |
नाशयेति पदं चोक्त्वा पाशं क्रोधास्त्रसंयुतम् || २१/३ ||
विषं च वज्रज्वालेन हनयुग्ममतः परम् |
सर्वभूतान् ततः कूर्चमस्त्रान्ते भूतमारणम् || २१/४ ||
क्रोधाधिपं व्योमवक्त्रं वज्रपाणिं सुरान्तकम् |
कालकल्पतरुं नत्वा भूतिनीसिद्धिरुच्यते || २१/५ ||
आद्या विभूषिणी देवी परा कुण्डलधारिणी |
तारिणी सिंहिनी चाथो हंसिनी च ततो नटी || २१/६ ||
(ओं हन विध्वंसय नाशय आ/ हू/ फट्)
चेटिका किन्नरी प्रोक्ता भूतिनी तु रतिप्रिया |
क्रोधास्त्रद्वयनामान्ते भूतवीर्यस्त्रिकूर्चतः || २१/७ ||
(आ/ हू/ वज्र फट्)
तारलज्जाद्वयादस्त्रद्वयादेव विभूषिणी |
क्रोधद्वयं तु मन्त्रोऽयं विभूषिण्या उदाहृतः || २१/८ ||
(ओं वज्रज्वालेन हन हन सर्वभूतान् हू/ फट्)
कर्त्री चैककरे परे नरशिरस्तुङ्गाकृतिर्भीषणा
दन्तान्तर्गतमांसशोणितवसासंयुक्तभूतव्रजा |
कालव्यालकरालशालविटपव्यालम्बिपृष्ठाङ्गका
यस्याः केशकुलाकुलाखिलमही शैलान्तमारक्षतु || २१/९ ||
एकवृक्षतटं गत्वा यामिन्यां प्रवसंस्त्र्यहम् |
जपेदष्टसहस्रं तु ध्यायन्नेकाग्रमानसः || २१/१० ||
जपान्ते पूजनं नाम्ना पुरो धूपं निवेद्य च |
प्रजपेदर्धरात्रे तु समायाति विभूषिणी || २१/११ ||
चन्दनोदकमिश्रेण दत्तेऽर्घ्ये तुष्यते ध्रुवम् |
माता वा भगिनी भार्या तुष्टा भवति कामिता || २१/१२ ||
करामलयितुं कृत्वा माता भूत्वा जगत्त्रयम् |
शताष्टपरिवारस्य ददात्यञ्जनभूषणम् || २१/१३ ||
भगिनी चेन्महाभागा सहस्रयोजनादपि |
ददाति स्त्रियमानीय दिव्यं रसरसायनम् || २१/१४ ||
भार्या चेत् पृष्ठमारोप्य स्वर्गं नयति यच्छति |
दीनाराणां सहस्रं तु रसं चैव रसायनम् || २१/१५ ||
सर्वाशाः पूरयत्येव सदा देवी विभूषिणी |
ध्रुवमायास्त्रद्वयतः प्रोक्ता कुण्डलधारिणी || २१/१६ ||
त्रिकूर्चास्त्रः समाख्यातः कुण्डलधारिणीमनुः |
(ओं ओं ह्री/ ह्री/ फट् फट् कुण्डलधारिणी हू/ हू/ हू/ फट्)
कर्णे कुण्डलधारिणी शशिमुखी वीणावती सम्मिता
शैलश्रोणिविलम्बिकाञ्चिविततव्यामुग्धलोकत्रया |
मुक्ताहारविहारिणी प्रविलसत्प्रोत्तुङ्गकुम्भस्तनी
पायात्कुण्डलधारिणी त्रिजगतामानन्दसन्दोहभूः || २१/१७ ||
श्मशाने प्रजपेद् रात्रावयुतं कुण्डलधारिणी |
आयाति रुधिरेणार्घ्यो देयस्तुष्टो ददात्यपि || २१/१८ ||
किं कर्तव्यं मया वत्स मातेति भव साधकः |
पञ्चशतवासराणि त्रैलोक्यमपि दास्यति || २१/१९ ||
क्रोधद्वयास्त्रयुगतः सिन्दूरहारिणीपदम् |
कूर्चत्रयास्त्रसंप्रोक्तः सिन्दूरहारिणीमनुः || २१/२० ||
(हू/ हू/ फट् फट् सिन्दूरहारिणी हू/ हू/ हू/ फट्)
स्वर्णालङ्कृतहारिणी चलदलव्यालोलशाखाम्बरा
सोत्कण्ठीकृतगात्रकल्पसुभगा शुभ्रांशुका सस्मिता |
अन्तःसन्ततकान्तिकान्तमलिना त्रैलोक्यशोभागता
पायाद् वल्लभमूलराहुलतिका सिन्दूरहारिण्यसौ || २१/२१ ||
शून्यदेवालयं गत्वा जपेदष्टसहस्रकम् |
शीघ्रमायात्यागता सा भार्या भवति कामिता || २१/२२ ||
पञ्चविंशतिदीनारान् वस्त्रालङ्कारभूषणा |
रक्षति द्वादशजनान् देवी सिन्दूरहारिणी || २१/२३ ||
लज्जाद्वयास्त्रयुगतः सिंहिनीति पदं ततः |
क्रोधबीजत्रयाज्जातः कीर्तितः सिंहिनीमनुः || २१/२४ ||
(ह्री/ ह्री/ फट् फट् सिंहिनी हू/ हू/ हू/ फट्)
शैलाग्रद्रुमदुर्गदन्तुरदरीदुर्गान्तदैत्यस्थिता
केशस्रस्तसमस्तविश्वचरणा प्रभ्रष्टचन्द्रासनी |
यावत्तारविदन्तधारणवनप्रक्षुब्धसिद्धाङ्गना
सेयं पातु समस्तमस्तककुलव्यालम्बिमालाकुला || २१/२५ ||
गत्वैकलिङ्गं यामिन्यां प्रजपेदयुतं मनुम् |
ततो हृष्टाऽतिवरदा सिंहिन्यायाति पूजिता || २१/२६ ||
किं करोमि वदत्येवं भार्या भवति कामिता |
दीनारं वस्त्रयुगलं दधद् रसरसायनम् || २१/२७ ||
तारस्त्रिमूर्त्यस्त्रयुगाद् हंसिनी भूतिनी ततः |
त्रिकूर्चास्त्रं च कथितो हंसि(नी)मनुरुत्तमः || २१/२८ ||
(ओं ओं फट् फट् हंसिनी भूतिनी हू/ हू/ हू/ फट्)
शुभ्राशुभ्रसरोजतुल्यनयना नागा गले लम्बिता
प्रारब्धध्वनिमुग्धमाधववधूसंसेविता सादरम् |
किञ्चित् तिर्यगपाङ्गलोचनवती व्यामुग्धदीक्षामुखी
मुक्तायुक्तविलोलहारलतिका श्रीहंसिनी पातु वः || २१/२९ ||
वज्रपाणिगृहं गत्वा प्रतिमां शोभनां लिखेत् |
हयमारेण संपूज्य जपेदयुतसंख्यकम् || २१/३० ||
यावदर्धनिशां देवी हंसिन्यायाति निश्चितम् |
चन्दनार्घ्यप्रदानेन हृष्टा वदति साधकम् || २१/३१ ||
किं ते मयाद्य कर्तव्यं किङ्करी भव साधकः |
वस्त्रालङ्कारभोज्यादि व्ययार्थं संप्रयच्छति || २१/३२ ||
तदशेषव्ययाभावाद् न ददाति प्रकुप्यति |
तारं क्रोधास्त्रयुगतो नटीतिपदमुद्धरेत् || २१/३३ ||
कूर्चत्रयोदस्त्रान्तोऽयं कथितो नर्तकीमनुः |
(ओं हू/ हू/ फट् फट् नटी हू/ हू/ हू/ फट्)
श्रीशिव उवाच
शृणु देवि प्रवक्ष्यामि चोटिकासाधनोत्तमम् |
यत्प्रसादं नरो लब्ध्वा सर्ववाञ्छितमाप्नुयात् || २१/३४ ||
ताराचक्राधारयुगं नटीतिपदमुद्धरेत् |
कूर्चत्रयलज्जान्तोऽयं कथितो नर्तकीमनुः || २१/३५ ||
फुल्लेन्दीवरसुन्दराम्बरमुखीमुत्तुङ्गकुम्भस्तनीं
खेलत्खञ्जनयुग्ममीननयनामानन्ददायिस्मिताम् |
क्षीराम्भोनिधिकूलवन्दिवनितामानीलवासासनीं
चन्द्रोद्यत्सुनखादिनीं मणिकुलव्याहारकारोत्तराम् || २१/३६ ||
नीचगामङ्गनां गत्वा सप्ताहं जपपूजने |
कृत्वार्कास्तमने धूपं चन्दनेन जपेदपि || २१/३७ ||
कामभोगप्रदात्री सा भार्या भवति नर्तकी |
सुवर्णपलमेकं तु व्ययार्थं त्यज्य गच्छति || २१/३८ ||
दिने दिने नटी देवी स्थायिनी भवति ध्रुवम् |
तारकूर्चद्वयं चास्त्रद्वयं चेटी ततः परम् || २१/३९ ||
ततः क्रोधद्वयं दत्त्वा चेटीमन्त्रोत्तमो मतः |
(ओं हू/ हू/ फट् फट् चेटी हू/ हू/)
गच्छन्ती मितभाषिणी शशिमुखी भ्रष्टोत्तरीयाम्बरा
बिभ्रन्ती कलशं सरोजममलं स्वर्णान्तसीमन्तिनी |
श्रीखण्डादिविलेपनामलवपुः सौरभ्यसम्भाविता
किञ्चिद् वक्रसमाचितापि कबरी पायाच्चिरं चेटिका || २१/४० ||
कुत्रापि भीषणस्थाने नामोच्चारणमात्रतः |
ध्रुवं चेटि समागत्य चेटीकर्म करोत्यपि || २१/४१ ||
अथवा स्वगृहद्वारे त्र्यहं रात्रौ जपं चरेत् |
आगत्य निलयं देवी चेटीकर्म करोति सा || २१/४२ ||
तारकूर्चास्तयुग्मं तु कामेश्वरीभूतिन्यतः |
अन्ते क्रोधद्वयं कामेश्वरीमन्त्र उदाहृतः || २१/४३ ||
(ओं हू/ फट् फट् कामेश्वरी भूतिन्यै हू/ हू/)
कामं युद्धसमागता मधुरता वासन्तपुष्पान्विता
गायन्ती मधुरस्वरा स्मितमुखी वीणावती चञ्चला |
रक्ताम्भोजविलोचना मधुमदैर्युक्ता समन्तादियं
पायात् पुष्पधनुर्धरा मधुमुखी कामेश्वरी भूतिनी || २१/४४ ||
मातृस्थानं समागत्य कृत्वा मांसस्य भक्षणम् |
मांसादीनि बलिं दत्त्वा सहस्रं सप्तवासरान् || २१/४५ ||
जपेन्नियतमयाति रुधिरार्घ्यं निवेदयेत् |
कामेश्वरी भवेत्तुष्टा भार्या भवति कामिता || २१/४६ ||
सर्वाशाः पूरयत्येव राज्यं यच्छति निश्चितम् |
तारं लज्जां च कूर्चास्त्रद्वयमुक्त्वा रतिप्रिये |
क्रोधद्वयस्त्रयुक् कामेश्वरीतन्त्रोक्तवत् क्रिया || २१/४७ ||
(ओं हू/ फट् फट् रतिप्रिये हू/ हू/ फट्)
हेमप्राकारमध्ये सुरविटपितले हेमपीठाधिरूढा
यक्षीबाला विसर्पत्परिमलकुसुमोद्भासिधमिल्लभारा |
पीनोत्तुङ्गस्तनाढ्या कुवलयनयना रक्तवर्णा कराभ्यां
भ्राम्यद् रक्तोत्पलाभा सकलसुरनता दिव्यभूषाङ्गहारा || २१/४८ ||
क्रोधद्वयास्त्रयुगतो देवीति पदमुद्धरेत् |
अन्ते क्रोधद्वयं गृह्य देवीमन्त्रमनुत्तमम् || २१/४९ ||
दिव्यकामिकहेमाभा कुमारी दिव्यरूपिणी ||
(हू/ हू/ फट् फट् देवि हू/ हू/)
सर्वालङ्कारसंयुक्ता भार्या भवति कामिता || २१/५० ||
रात्रौ देवगृहं गत्वा तत्र शययां प्रकल्पयेत् |
सितवस्त्रं चन्दनञ्च जातीपुष्पं प्रदापयेत् || २१/५१ ||
धूपञ्च गुग्गुलं कृत्वा सहस्रं प्रजपेन्मनुम् |
जपान्ते नियतायाति चुम्बनालिङ्गनादिभिः || २१/५२ ||
कामिता भव भार्येयं सत्यं देवाङ्गनायिका |
ददात्यष्टौ दिनान्यन्ते दिव्यं वस्त्रयुगं ततः || २१/५३ ||
कामिकं भोजनं दिव्यं परिवारस्य दास्यति |
अन्यच्च वैश्रवणगृहाद् द्रव्यमानीय यच्छति || २१/५४ ||
एतज्जप्त्वा सहस्राणि जपान्ते सिध्यति ध्रुवम् |
मुहुर्मुहुर्जपेन्मन्त्रमित्याह क्रोधभूपतिः || २१/५५ ||
फेत्कारिणीतन्त्र इयं मयोक्ता कृत्या समस्तागमसारभूता |
शत्रोर्विनाशाय घनाय सम्यक् सद्भिःसदेयं नियतं नियोज्या || २१/५६ ||
दुःखाय हि दुर्जनसिंहा पराघातिनी कृत्या |
गदितेष्टसिद्धिदात्री मया तत् फेत्कारिणीतन्त्रे || २१/५७ ||
सृष्टिस्थितिविनाशानामद्वितीयातिभैरवी |
महाकृत्या स्मृता नित्यमशुभारिविनाशिनी || २१/५८ ||
इति श्रीफेत्कारिणीतन्त्रे देवीश्वरसंवादे चेटिकासाधनं नाम एकविंशतितमः पटलः
समाप्तः ||
समाप्तश्चायं ग्रन्थः
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
j62m73bdu3j8m0ziqgszpc10xqoaevu
415832
415831
2026-05-11T05:31:37Z
Shubha
190
415832
wikitext
text/x-wiki
{{header
| title = फेत्कारिणीतन्त्रम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00190
Uniform title: phetkāriṇītantra
Main title: phetkāriṇītantra
Editor : caṭṭopādhyāya, rasika mohana
Description:
Notes:
Data entered by staff of Muktabodha under the supervision of Mark S.G. Dyczkowski
Revision 0: October 9, 2008
Publisher : Unknown, late 19th century
Publication year :
Publication city :
Publication country : India
----
चल्चुत्त एन्द् ओf १९थ् चेन्तुर्य. स्च्रिप्त् बेन्गलि
फेत्कारिणीतन्त्रम्
ओं नमः परमदेवतायै
क्रोधोज्ज्बलन्तीं ज्वलनं वमन्तीं
सृष्टिं दहन्तीं दितिजं ग्रसन्तीम् ।
भीमं नदन्तीं प्रणमामि कृत्यां
रोरूयमाणां क्षुधयोग्रकालीम् ।। १/१ ।।
उन्मत्तभैरवं नारसिंहडामरभैरवम् ।
शिवाकारं मालिन्याद्यमसिताङ्गादियामलम् ।। १/२ ।।
सिद्धयोगीश्वरी तन्त्रं योगिनीजालशम्बरम् ।
दृष्ट्वा कृत्याविधिं फेत्कारिणीतन्त्रं विरच्यते ।। १/३ ।।
पञ्चाशद्वर्णरूपात्मा मातृका परमेश्वरी ।
तत्रोत्पन्ना निगद्यन्ते प्रत्येकं शिवशक्तितः ।। १/४ ।।
अस्या एताः कलाः सर्वाः पञ्चाशद्वर्णसिद्धये ।
तेभ्य एव समुत्पन्ना वर्णा ये विष्णुशूलिनोः ।। १/५ ।।
मूर्तयः शक्तिसंयुक्ता उच्यन्ते ताः क्रमेण तु ।
प्रथमं केशवः प्रोक्तस्ततो नारायणो मतः ।। १/६ ।।
माधवोऽप्यथ गोविन्दो विष्णुश्च मधुसूदनः ।
त्रिविक्रमस्तथा ख्यातो वामनः श्रीधरस्तथा ।। १/७ ।।
हृषीकेशः पद्मनाभो दामोदर इति स्मृतः ।
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः ।। १/८ ।।
एते स्वरभवाः प्रोक्ताः कथ्यन्ते व्यञ्जनोद्भवाः ।
चक्री गदी तथा शार्ङ्गी खड्गी शङ्खी हली तथा ।। १/९ ।।
मुसली च ततः शूली पाशी चाप्यङ्कुशी तथा ।
मुकुन्दो नन्दनो नन्दी नरो नरकजिद्धरिः ।। १/१० ।।
कृष्णः सत्यस्तथा प्रोक्तः शाश्वतः शौरिरेव च ।
शूरो जनार्दनः ख्यातो भूधरो विश्वमूर्तिकः ।। १/११ ।।
वैकुण्ठश्च तथा प्रोक्तो नरोत्तमस्ततो बली ।
बलाग्रजस्तथा बालो वृषघ्नश्च वृषोऽपि च ।। १/१२ ।।
हंसो वराहो विमलो नृसिंह इति कीर्तितः ।
कीर्तिः कान्तिस्तथा तुष्टिः पुष्टिर्धृतिरपि क्षमा ।। १/१३ ।।
शान्तिः क्रिया दया मेधा इच्छा श्रद्धा तथा मता ।
लज्जा लक्ष्मीसरस्वत्यौ प्रीती रतिरिमाः स्वराः ।। १/१४ ।।
ऋद्धिः समृद्धिः शुद्धिश्च भक्तिर्बुद्धिर्मतिः क्षमा ।
रमोमा क्लेदिनी क्लिन्ना वसुधा वसुदा परा ।। १/१५ ।।
परा परायणा सूक्ष्मा सन्ध्या प्रजा प्रभा निशा ।
अमोघा विद्युता चैव शक्तयः सर्वकामदाः ।। १/१६ ।।
शङ्खचक्रधराः सर्वा घनाभाः पीतवाससः ।
केशवाद्या निजाङ्गस्थाः शक्त्याऽलङ्कृतविग्रहाः ।। १/१७ ।।
एता सस्मितवक्त्राश्च विद्युदाभाः प्रकीर्तिता ।
कान्ता क्षान्ता च कीर्त्याद्याः कमलाभयपाणिकाः ।। १/१८ ।।
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।
अर्घीशो भारभूतिश्च मौलीशः शाल्वकोटरः ।। १/१९ ।।
झिण्टीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः स्वरजा रुद्रमूर्तयः ।। १/२० ।।
ततः क्रोधीशचण्डेशपञ्चान्तकशिवोत्तमाः ।
अथैकरुद्रकर्मैकनेत्रोर्ध्वचतुराननाः ।। १/२१ ।।
अजेशः सर्वसोमेशस्तथा लाङ्गलिदारुकौ ।
अर्धनारीश्वर श्यामा कान्ताश्चाषाढिदण्डिनौ ।। १/२२ ।।
अद्रिमाणश्च मेषश्च लोहितश्च तथा शिखी ।
छगलण्डद्विरण्डेशौ महाकालकपालिनौ ।। १/२३ ।।
भुजङ्गीशः पिनाकीशः खड्गीशश्चकरस्तथा ।
श्वेतो भृङ्गीशनकुली शिवः संवर्तकस्तथा ।। १/२४ ।।
एते रुद्राः स्ववर्णेभ्यो जाता उड्डनिभाननाः ।
कान्तालिङ्गितदेहाश्च कपालशूलपाणयः ।। १/२५ ।।
पूर्णोदरा च विरजा शाल्मली तदनन्तरम् ।
लोलाक्षी वर्तुलाक्षी च दीर्घघोणा तथैव च ।। १/२६ ।।
सुदीर्घमुखीगोमुख्योर्नवमी दीर्घजिह्विका ।
कुण्डोदर्यूर्ध्वकेशी च ततो विकृतमुख्यपि ।। १/२७ ।।
ज्वालामुखी तथा चोल्कामुखी च श्रीमुखी तथा ।
विद्यामुखी स्वरोत्पन्नाः एताः स्युः स्वरशक्तयः ।। १/२८ ।।
महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विते ।
गौरी त्रैलोक्यविजया तथा मन्त्रान्तशक्तिका ।। १/२९ ।।
भूतमाता लम्बोदरी भाविनी नागरी तथा ।
खेचरी मज्जरी चैव रूपिणी वीरिणी तथा ।। १/३० ।।
काकोदरी पूतना च भद्रकाल्यपि योगिनी ।
शङ्खिनीगज्जिनीकालरात्रीकुब्जिन्य एव च ।। १/३१ ।।
कपर्दिनी वज्रिणी च जया च सुमुखेश्वरी ।
रेवती माधवी चैव वारुणी वायवी तथा ।। १/३२ ।।
रक्षोपधारिणी चान्या तथैव सहजाह्वयाः ।
लक्ष्मीश्च व्यापिनी माया ख्यातास्तु शिवशक्तयः ।। १/३३ ।।
रुद्राङ्गस्था जवाभासा रतिसुन्दरविग्रहाः ।
रक्तोत्पलकपालाभ्यां विबद्धबाहवस्तथा ।। १/३४ ।।
पुंप्रकृत्या स्वरूपाया मातृकायाः शुभोपमाः ।
मात्राज्ञातस्त्रिलिङ्गाद्यैर्भिन्नाः क्रूराश्च नामभिः ।। १/३५ ।।
पुंलिङ्गा हुंफडन्ताश्च स्वाहान्ता योषितो मताः ।
नपुंसका नमोऽन्ताश्च इत्युक्ता मनवस्त्रिधा ।। १/३६ ।।
मन्त्रविद्याविभागेन ते पुनर्द्विविधा मताः ।
ते स्युः पुंदेवता मन्त्रा विद्याः स्त्रीदेवतास्तथा ।। १/३७ ।।
पुंमन्त्राः क्लीबमन्त्राश्च योषिन्मन्त्राश्च मारणे ।
शान्त्यभिचारयोर्ग्राह्या यथा जप्यन्तु मन्त्रिभिः ।। १/३८ ।।
सौम्यमन्त्राः प्रधानाख्याः संयोज्याः क्रूरकर्मणा ।
आसीन्मन्त्रस्तु हंसाख्यो वर्णस्तु परमात्मनः ।। १/३९ ।।
सोऽहमिति गतोऽद्वैतमद्वैतं हंसलोपतः ।
कण्ठं भित्त्वा विनिर्यातो हंसवर्णविलोपतः ।। १/४० ।।
स चादिध्वनिसम्पन्नो ब्रह्मविष्णुशिवात्मकः ।
त्रैलोक्येऽपि ततो जातास्त्रयो वेदा गुणास्त्रयः ।। १/४१ ।।
त्रयोऽग्नयस्त्रय कालास्त्रयो दोषा स्वरास्त्रयः ।
प्रकर्षार्णवतां प्राप्ता महाध्वनि ध्रुवादयः ।। १/४२ ।।
उकारः कुटिलः प्रोक्तो मकारः काल एव च ।
ऐन्द्रो बली लकारश्च हंसोऽप्यथ ह उच्यते ।। १/४३ ।।
विन्ध्यवासिनी माया च इकारस्तु कुचद्वयम् ।
माया लज्जा च क्रींकारो हुंकारो कूर्च उच्यते ।। १/४४ ।।
द्विठः स्वाहा समाख्याता कालाग्निर्व्यापकोऽङ्कुशः ।
अस्त्रं फडित्यतो ब्रह्मा दक्षकर्णादितः शिवः ।। १/४५ ।।
सकारस्तु भृगुप्राणौ नो वाणी पावकाशनः ।
नागेशोज्ज्वलनो रेफो रकारस्त्विन्दुरीरितः ।। १/४६ ।।
सकुलो भग एकार उकारः शिव उच्यते ।
दक्षवामाविति प्रोक्तौ पाशी ऋः परिकीर्तितः ।। १/४७ ।।
लोलाक्षिका लकारश्च हकारो नकुलीश्वरः ।
इन्द्रासनगतो ब्रह्मा स त्रिमूर्तिश्च मन्मथः ।। १/४८ ।।
द्रौं ज्योतिस्त्रितत्त्वं ह्रीं हुं कूर्चः क्रोध ईरितः ।
वायुर्यकारो विख्यातो जीमूतः कथितो बुधैः ।। १/४९ ।।
वह्नेरूर्ध्वगतो महादिसहितो वर्णो नृसिंहान्वयः ।
सार्णं वामविलोचनेव शशभृत् खण्डेन्दुमुक्तो ग्रहः ।।
कौलिन्याः कथितं तदेतदमलं बीजं न्यसेत् सादरं ।
भूतप्रेतपिशाचचेटकभये रक्षा भवेद् व्याहृतम् ।। १/५० ।।
ह्सौस्तार्तीय इत्युक्तो ह्सौर्ज्ञेयः सदाशिवः ।
शून्यं ह इति कथितो भैरवाद्यैः समाहितैः ।। १/५१ ।।
इति फेत्कार्णीतन्त्रे मन्त्रकोषविवरणं नाम प्रथमः पटलः ।।
द्वितीयः पटलः
श्रीशिव उवाच
अथ कुण्डविधिं वक्ष्ये शान्तिकादिक्रमेण च ।
शान्तिके चतुरस्रं स्यात् पौष्टिके वृत्तमेव च ।। २/१ ।।
त्रिकोणमभिचारे तु पञ्चास्रं मारणे मतम् ।
षडस्रं मोहने चैव सप्तास्रं स्तम्भने मतम् ।। २/२ ।।
शत्रूच्छेदे तथाष्टास्रं नवास्रं व्याधिहा मतम् ।
होमे तु कारयेत् कुण्डमेकमेवैकहस्तकम् ।। २/३ ।।
चतुरस्रं त्रिकोणं वा वृत्तञ्च मेखलात्रयम् ।
सैकतैः स्थण्डिलं कुर्याच्चतुरङ्गुलसंस्थितम् ।। २/४ ।।
चतुरस्रं तु पूर्वस्यां कुण्डं साम्राज्यसिद्धिदम् ।
शत्रूणां तापने शस्तं योन्याख्यं वह्निकोणगम् ।। २/५ ।।
अर्धचन्द्रं तु याम्यायां शत्रूणां मारणे मतम् ।
त्रिकोणं नैर्-ऋतेः कोणे रिपूणां व्याधिवर्धनम् ।। २/६ ।।
वारुण्यां तु सदावृत्तमायुःश्रीपुष्टिवर्धनम् ।
वायव्यां तु षडस्रन्तु शत्रूणां मारणे हितम् ।। २/७ ।।
सौम्यायां पद्मसंज्ञं तु श्रीमेधापुष्टिदं नृणाम् ।
सर्वकामप्रदं कुण्डमैशान्यामष्टकोणकम् ।। २/८ ।।
इति फेत्कारिणीतन्त्रे द्वितीयः पटलः ।।
तृतीयः पटलः
अथ स्रुक् च स्रुवविधिं वक्ष्येऽहमवधारय ।
षट्त्रिंशदङ्गुला स्रुक् स्याच्चतुर्विंशाङ्गुलः स्रुवः ।। ३/१ ।।
मुखं कण्ठस्तथा वेदी सप्त चैवाष्टभिः क्रमात् ।
आयामानाहतो दण्डो विंशतिश्चतुरङ्गुलः ।। ३/२ ।।
वेदरामाङ्गुलैः कुण्डो गण्डी द्विचतुरङ्गुला ।
खातं वेदाङ्गुलैर्वृत्तमङ्गुलद्वितयं खनेत् ।। ३/३ ।।
मेखला द्व्यङ्गुला तद्वच्छोभाशेषं विचिन्तयेत् ।
वेदीं त्र्यङ्गुलविस्तारां कुर्यात् कुण्डमुहाग्रयोः ।। ३/४ ।।
कनिष्ठाग्रमितं वक्त्रं स्रवद्घृतविनिर्गमे ।
कार्षिकं द्व्यंगुलं खातं पङ्के मृगपदाकृतिः ।। ३/५ ।।
द्वाविंशत्यङ्गुलो दण्ड आनाहश्चतुरङ्गुलः ।
कुण्डमूलाग्रयोर्गण्डी स्रुवे काञ्चनवद् भवेत् ।। ३/६ ।।
सुवर्णरूप्यताम्रैर्वा स्रुक्स्रुवौ दारुजावपि ।
अयोमयौ च स्रुक्स्रुवौ कारस्करमयावपि ।। ३/७ ।।
नागेन्द्रतनये विल्वः क्षुद्रकर्मणि संस्थितौ ।
चन्दनं खादिराश्वत्थप्लक्षचूतविकङ्कताः ।। ३/८ ।।
शम्यामलकसारश्च पलाशश्चेति दारवः ।
अस्त्राङ्गमूलविद्याभिः स्नानं कुर्याद् यथाविधि ।। ३/९ ।।
पूजाप्रदेशमागत्य दत्त्वा चार्घ्यं विवस्वते ।
गन्धपुष्पादिभिः सम्यग् द्वारपूजां समाचरेत् ।। ३/१० ।।
कांस्यघण्टार्चनं कृत्वा द्वारमाच्छाद्य वाससा ।
कृत्वोपवीतं हस्तश्च उत्तरप्राङ्मुखः शुचिः ।। ३/११ ।।
उपविश्यासनं योज्यं पद्मं स्वस्तिकमेवं वा ।
पद्मासने च विद्यार्थी कुर्यात् सर्वं समाहितः ।। ३/११ ।।
प्राङ्मुखोदङ्मुखो वापि वक्ष्यमाणक्रमेण तु ।
श्रीकामः स्वस्तिकेनेह पश्चिमाभिमुखेन तु ।। ३/१२ ।।
आसीनः प्रणवेनाथ परामृज्य करावुभौ ।
अङ्गुलीषु च विन्यस्य अङ्गमन्त्राणि वै क्रमात् ।। ३/१३ ।।
अस्त्रमन्त्रेण दिग्बन्धं कुर्यात् सर्वासु दिक्षु च ।
अग्निप्राकारवत् कृत्वा ततो मन्त्रेण सर्वतः ।। ३/१४ ।।
प्राणायामत्रयं कुर्यान्मन्त्रेण प्रणवेन वा ।
उच्चारयेत्तु प्रणवं स्वरेणैकेन मन्त्रवित् ।। ३/१५ ।।
उदरं पूरयित्वा तु वायुना यावदास्थितः ।
प्राणायामो भवत्येवं पूरको देहपूरकः ।। ३/१६ ।।
पिधाय सर्वगात्राणि निश्वासोच्छ्वासवर्जितः ।
पूर्णकुम्भवत्तिष्ठेत्तु प्राणायामः स कुम्भकः ।। ३/१७ ।।
मुञ्चेद् वायुं तथैकेन पूरयेच्चैव मन्त्रवित् ।
निश्वासयोगमुक्तस्तं वायुं बाह्येन रेचयेत् ।। ३/१८ ।।
रेचकाह्वयः सम्प्रोक्तः प्राणायामो न संशयः ।
जानू प्रदक्षिणीकृत्य न द्रुतं न बिलम्बितम् ।। ३/१९ ।।
क्रियते चाङ्गुलीस्फोटः सा मात्रा परिकीर्तिता ।
ततो द्वादशमात्राभिः पूरकः क्रियते तु वै ।। ३/२० ।।
तस्माद् द्विगुणमात्राभी रेचकः क्रियते तथा ।
प्राणायामत्रयं चैव एकैकं त्रितयात्मकम् ।। ३/२१ ।।
लिङ्गकार्यं हृदिस्थं तु चैतन्यं सर्वसाक्षिणम् ।
प्रणवेन विनिःसार्य ब्रह्मरन्ध्राद् बहिर्बुधैः ।। ३/२२ ।।
तेनैव संपुटीकृत्य मस्तकोपरि विन्यसेत् ।
चैतन्यरहितं देहं वाह्यंचाभ्यन्तरं तथा ।। ३/२३ ।।
नाभिमण्डलमध्यस्थं वायुमण्डलमध्यगम् ।
यं वर्णं धूम्रवर्णन्तु ध्यात्वा तेन विशोधयेत् ।। ३/२४ ।।
अग्निमण्डलसंस्थेन जीवेनाग्निस्वरूपिणा ।
निर्दहेदथ तं भस्मराशिं देहाकृतिं भवेत् ।। ३/२५ ।।
भ्रूमध्यगं हृदिस्थं वा ध्यायेदरुणमण्डलम् ।
अर्धचन्द्राकृतिं श्वेतं पद्मद्वयपदान्वितम् ।। ३/२६ ।।
तत्रस्थेन वकारेण प्लावयेन्मधुरूपिणा ।
बीजन्तु पार्थिवं न्यस्य चिन्तयेद् व्योममण्डलम् ।। ३/२७ ।।
प्रणवेन द्विधा कृत्वा तत्र चैतन्यरूपिणम् ।
मस्तकोपरि विन्यस्य चैतन्येन च योजयेत् ।। ३/२८ ।।
अमृतप्लाविताद् वर्णात् सद्योजातमकल्मषम् ।
आत्मानं चिन्तयेन्मन्त्री देवतारूपिणं ततः ।। ३/२९ ।।
ऋषिच्छन्दोदैवतानि स्मृत्वा न्यासं समाचरेत् ।
अङ्गन्यासकरन्यासौ देहन्यास इति त्रिधा ।। ३/३० ।।
उत्प्त्तिस्थितिसंहारभेदभिन्नं गुणेन सः ।
प्रथमं स्यात् करन्यासो देहन्यासस्तु मध्यमः ।। ३/३१ ।।
अङ्गन्यासस्तृतीयः स्यादिति शास्त्रस्य निर्णयः ।
ओंकारं सम्पुटीकृत्य मनुना व्यापकं न्यसेत् ।। ३/३२ ।।
कूर्परादिकनिष्ठान्तं करन्यासास्तु पूर्वतः ।
सर्वाङ्गेषु च विन्यस्य क्रमेणैवोत्क्रमेण तु ।। ३/३३ ।।
दक्षिणाङ्गष्ठमारभ्य वामाङ्गष्ठं तथा ततः ।
औत्पत्तिकोऽस्ति मन्त्राणां संहाराख्यो विपर्ययः ।। ३/३४ ।।
दक्षिणाङ्गुष्ठमारभ्य उभयोरपि हस्तयोः ।
कनिष्ठान्तं भवेन्न्यासः स्थितिर्नाम महोदयः ।। ३/३५ ।।
शिरःप्रभृतिपादान्तं न्यासस्योत्पत्तिरिष्यते ।
पादादिकः शिरोऽन्तस्तु सोऽपि संहरणो भवेत् ।। ३/३६ ।।
उदरोपक्रमो न्यासो हृदयान्तः स्थितिर्भवेत् ।
मन्त्राक्षराणां विन्यासेऽप्ययमेव क्रमोत्तमः ।। ३/३७ ।।
हृदि मूर्ध्नि शिखास्थाने बाहौ पार्श्वे च दिक्षु च ।
नेत्रयोरङ्गमन्त्राणां षण्णां न्यासक्रमो भवेत् ।। ३/३८ ।।
अस्त्रान्तान्यङ्गमन्त्राणि शैवे शाक्ते विदुर्बुधाः ।
नेत्रान्तानि तथोक्तानि वैष्णवे न्यासपूजयोः ।। ३/३९ ।।
हृदये विधिवत् कार्यो न शिरसि ठद्वयम् ।
वषट् शिखायां कथितं कवचे हुमिति स्मृतम् ।। ३/४० ।।
नेत्रेण वौषट् कथितं न्यासनीयन्तु फट् तथा ।
तेऽङ्गुष्ठवर्जमङ्गुल्यश्चतस्रो हृदि मूर्धनि ।। ३/४१ ।।
शिखायां मुष्टिरेव स्यादङ्गुष्ठकृतनासिकः ।
सर्वाङ्गुलीभिर्वा नाभौ पाण्योः कवचबन्धने ।। ३/४२ ।।
तर्जन्यादित्रयं नेत्रे हस्ते हस्ततलद्वयम् ।
हस्तैर्विन्यस्य .........टतो वै बन्धयेद् दिशः ।। ३/४३ ।।
अङ्गुष्ठतर्जन्यग्राभ्यां दिशः पूर्वादिकाः क्रमात् ।
पञ्चाङ्गानि यदोक्तानि तदा नेत्रं परित्यजेत् ।। ३/४४ ।।
अनुक्ताङ्गेषु मन्त्रेषु पदशो वर्णशोऽपि वा ।
तेनैवाङ्गानि कल्पानि मन्त्रेण सकलेन वा ।। ३/४५ ।।
उत्पत्तिसंज्ञको न्यासः संहाराख्यो यतेर्भवेत् ।
ऋषिच्छन्दोदैवतानि शिरोवदनहृत्सु च ।। ३/४६ ।।
स्मरेद् जापादावात्मनि नमस्कृत्य ततोऽर्चयेत् ।
प्राणायामत्रयं कृत्वा प्रविश्य हृदयाम्बुजम् ।। ३/४७ ।।
देवतां तत्र सञ्चिन्त्य मनसाराधयेत्ततः ।
येन क्रमेण वै मन्त्रैर्द्रव्यैर्नानाविधैः शुभैः ।। ३/४८ ।।
तेन क्रमेण तेनैव मानसो याग ईरितः ।
न वा चोच्चारयेन्मन्त्रं मनसैव मनुं स्मरन् ।। ३/४९ ।।
मुद्रां प्रदर्शयेत्तत्र देवतां भावयेत् पराम् ।
तत्र चावाहनं नेष्टं हृदये मानसार्चने ।। ३/५० ।।
आराध्य मनसा भक्त्या बाह्यपूजामथाचरेत् ।
स्थानशुद्धिं द्रव्यशुद्धिं कृत्वा पात्राणि शोधयेत् ।। ३/५१ ।।
अर्घ्यपात्रादिकं तेषु कल्पयेद् विधिपूर्वकम् ।
पीठपूजां विधायाथ तत्र वा इष्टदेवताम् ।। ३/५२ ।।
पूजयेत् परया भक्त्या विधिदृष्टेन कर्मणा ।
आसनावाहने चार्घ्यं पाद्यमाचमनं तथा ।। ३/५३ ।।
स्नानं वासोपवीतञ्च भूषणानि च सर्वशः ।
गन्धं पुष्पं तथा धूपं दीपमन्नञ्च तर्पणम् ।। ३/५४ ।।
माल्यानुलेपनं चैव नमस्कारविसर्जनम् ।
अष्टादशोपचाराश्च तैश्च पूजां समाचरेत् ।। ३/५५ ।।
शक्तिभिर्मूर्तिभिश्चैव लोकपालैश्च संयुतः ।
पीठमन्त्रैः समायोगो नित्ययागः स उच्यते ।। ३/५६ ।।
पीठेनैव समस्तेन बहिरावरणैर्विना ।
मन्त्रपूर्वकृतो यागो नित्ययागः स मध्यमः ।। ३/५७ ।।
अग्निकार्येण हविषा भूषणैश्च समन्वितम् ।
द्रव्यशुद्धिसमायुक्तमुत्तमं पूजनं तथा ।। ३/५८ ।।
अग्निकार्यविहीनं तु कालमङ्गं निवेद्य च ।
उपचारैर्युतं सर्वं मध्यमं पूजनं स्मृतम् ।। ३/५९ ।।
वस्त्रालङ्कारशोभादि वर्जयित्वा पृथग्विधि ।
केवलं पुण्ययोगं तु कनिष्ठं पूजनं भवेत् ।। ३/६० ।।
उशीरं चन्दनं चैव पात्रमात्रे तु कल्पयेत् ।
जातीकर्पूरकक्कोलबहुमूलं तमालकम् ।। ३/६१ ।।
चूर्णयित्वा तथा न्यायं क्षिपेदाचमनीयके ।
कुशाग्राण्यक्षतं चैव यवव्रीहितिलानपि ।। ३/६२ ।।
आज्यसिद्धार्थपुष्पाणि निक्षिपेदर्घ्यपात्रके ।
माक्षिकं शर्करासर्पिर्दधिक्षीरयुतं सदा ।। ३/६३ ।।
मधुपर्कं कल्पयित्वा प्रदद्याद्विधिपूर्वकम् ।
उशीरं कुङ्कुमञ्चैव मांसी मलयजं तथा ।। ३/६४ ।।
मुराञ्चैव तु ह्रीवेरं कुष्ठञ्चागुरुमेव च ।
अष्टाङ्गान्यत्र गन्धस्य वैष्णवे कथितान्यपि ।। ३/६५ ।।
रोचनाकपिकाश्मीरमांसी त्वगुरुचन्दनैः ।
षष्ठो वैष्णवगन्धोऽयं शैवे शाक्ते च शस्यते ।। ३/६६ ।।
आसनं स्वागतं चार्घ्यं पाद्यमाचमनीयकम् ।
मधुपर्काचमनस्नानवसनाभरणानि च ।। ३/६७ ।।
गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा ।
प्रयोजयेत्तदर्चायामुपचारांस्तु षोडश ।। ३/६८ ।।
अर्घ्यपाद्यासनमधुपर्कमाचमनान्यपि ।
गन्धादिका नैवेद्यान्ता पूजा पञ्चोपचारिका ।। ३/६९ ।।
सपर्या त्रिविधा प्रोक्ता तासामेकां समाश्रयेत् ।
मनसाराधितं ध्यात्वा वामनासापुटेन तु ।। ३/७० ।।
प्रणवेनाज्जलिं कृत्वा न्यसेद् दारुचितासने ।
हृदयेनाथ मन्त्रेण कल्पयित्वा तु सन्निधिम् ।। ३/७१ ।।
सन्निरोधं ततः कुर्यान्मन्त्रेण कवचेन तु ।
प्रणवेनाभिमुख्यञ्च कृत्वा न्यासं विधाय च ।। ३/७२ ।।
स्वदेहवद् देवदेहे ततः पाद्यादि कल्पयेत् ।
पाद्यञ्च पादयोर्दद्यादर्घ्यं शिरसि दीयते ।। ३/७३ ।।
मुखे चाचमनीयं स्यान्मधुपर्कञ्च तत्र वै ।
पुनराचमनं वक्त्रे दद्यान्मन्त्रविशारदः ।। ३/७४ ।।
पाद्यं सम्पादयाम्यस्मै इति पाद्यादि कल्पयेत् ।
प्रणवादिनमोऽन्तेन मन्त्रेणानेन संयुतः ।। ३/७५ ।।
आदावन्ते च पूजायामत्यन्तं मूलविद्यया ।
पाद्यार्घ्याचमनीयानि दद्यादेतानि देशिकः ।। ३/७६ ।।
विसर्जनं यदात्मन्यारोपणञ्च अपेक्षितम् ।
मण्डलादौ तथाचम्य क्रमस्तस्य विवक्षितः ।। ३/७७ ।।
सपुष्पाभ्याञ्च हस्ताभ्यां ध्यायेदेवं तु साधकः ।
यागभूमिगते देव पारावारांस्तु संस्मरेत् ।। ३/७८ ।।
ध्यायेद् देवं ततो वक्त्रे हृदये तदनन्तरम् ।
भुक्तिमुक्तिप्रदं देवं प्रसन्नवदनेक्षणम् ।। ३/७९ ।।
तथात्मानं तु तं देवमेकीकृत्य विचिन्तयेत् ।
विसर्जनं यदान्यत्र विमुख्यार्घ्यं तदा ददेत् ।। ३/८० ।।
यथासुखासितोऽन्यत्र गच्छस्वेति विसर्जयेत् ।
आचार्यैस्तु ततोऽन्यत्र क्वचिन्नेष्टं विसर्जनम् ।। ३/८१ ।।
किन्तु तत्रैव हस्ताभ्यां पूर्ववत्तु निवेदयेत् ।
यथाशक्ति जपं कृत्वा प्राणायामत्रयं तथा ।। ३/८२ ।।
विमुच्याङ्गानि च पुनरित्थं देवं विसर्जयेत् ।
जपकाले यदा पश्येदशुचिर्मन्त्रवित्तमः ।। ३/८३ ।।
प्राणायामं ततः कृत्वा ततः शेषं समाचरेत् ।
यदा चैव जपेन्मन्त्री स्वयमस्य शुचिः पुनः ।। ३/८४ ।।
स्नात्वा चैव यथापूर्वं न्यासं कृत्वा पुनर्जपेत् ।
पुरश्चरणकानीह एतानि कथयाम्यतः ।। ३/८५ ।।
भैक्ष्यादिसुमिताहारः सकृदादौ विधीयते ।
दिवा चैव जपं कुर्यात् पुरश्चरणिको द्विजः ।। ३/८६ ।।
शाकयावकभक्ष्याशी चणकैः सह सर्पिषा ।
दध्ना मूलैः फलर्वापि कुर्यादशनमन्वहम् ।। ३/८७ ।।
ब्रह्मचर्यं तथैवोक्तं स्नानं त्रिषवणं तथा ।
पूर्वाह्ने देवतायाश्च पूजां कुर्याद् विशेषतः ।। ३/८८ ।।
यावैर्यवान्नं शाकञ्च पयो भक्ष्यं हविष्यकम् ।
पूर्वं पूर्वं प्रशस्तं स्यादशनं मन्त्रसाधने ।। ३/८९ ।।
सर्वमन्त्राः प्रयोक्तव्याः प्रायशः प्रणवादिकाः ।
अनन्यचेता आसीनो वाग्यतो विहितासनः ।। ३/९० ।।
अनुतिष्ठेत्तु मन्त्राणि गुरुवन्दनपूर्वकम् ।
क्षेत्रं तीर्थं वनारामदेवालयनदीह्रदाः ।। ३/९१ ।।
कुटीविविक्तमित्येते देशाः स्युर्न्मन्त्रसिद्धिदाः ।
मन्त्रं सदेवताभावमाचारेषु च जाप्यतः ।। ३/९२ ।।
कृष्णाष्टमीचतुर्दश्योर्ग्रहणादौ विशेषतः ।
उच्चैर्जपाद्विशिष्टं स्यादुपांशुर्दशभिर्गुणैः ।। ३/९३ ।।
जिह्वाजपः शतगुणः सहस्रो मानसो जपः ।
दशलक्षजपादेकवर्णो मन्त्रः प्रसिध्यति ।। ३/९४ ।।
वर्णवृद्ध्या जपे ह्नासस्तेनान्येषां समूहयेत् ।
बीजाद् द्वित्रिगुणं मन्त्रं मालासन्धौ जपक्रियाम् ।। ३/९५ ।।
विंशत्यर्णाधिका मन्त्रा मालामन्त्रा इति स्मृताः ।
दशाक्षराधिका मन्त्रास्तदर्धा बीजसंज्ञकाः ।। ३/९६ ।।
वार्धके सिद्धिदा मन्त्रा मालामन्त्रास्तु यौवने ।
पञ्चाक्षरात्मका बाल्ये मन्त्रास्ते सिद्धिदाः परे ।। ३/९७ ।।
जपाद् दशांशं सर्वत्र हवनं तर्पणं विदुः ।
द्रव्याशक्तौ घृतं होमे त्वशक्तः सर्वतो जपेत् ।। ३/९८ ।।
मूलमन्त्राद् दशांशं स्यादङ्गादीनां जपक्रिया ।
अशक्तावुक्तहोमस्य जपस्तु द्विगुणो भवेत् ।। ३/९९ ।।
येषां जपे च होमे च संख्या नोक्ता मया प्रिये ।
तेषामष्टसहस्राणि संख्योक्ता जपहोमयोः ।। ३/१०० ।।
स्वाहान्तेनैव मन्त्रेण कुर्याद् होमं बलिं तथा ।
नमोऽन्तेन नमस्कारमर्चनञ्च समाचरेत् ।। ३/१०१ ।।
मन्त्रान्ते नाम संयोज्य तर्पयामीति तर्पणम् ।
संख्या नोक्ता जपे होमे चाष्टोत्तरसहस्रकम् ।। ३/१०२ ।।
पौष्टिकादीनि कर्माणि यद्वारतिथियोगतः ।
प्रारब्धव्यानि विधिना तच्च संप्रोच्यते मया ।। ३/१०३ ।।
पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ।
बुधेज्यवारसंयुक्ता शान्तिकर्मणि पूजिता ।। ३/१०४ ।।
गुरुचन्द्रयुता षष्ठी चतुर्थी च त्रयोदशी ।
सप्तमी पौष्टिके शस्ता अष्टमी नवमी तथा ।। ३/१०५ ।।
दशम्येकादशी चैव भानुशुक्रदिनान्विता ।
आकर्षणे त्वमावास्या नवमी प्रतिपत्तथा ।। ३/१०६ ।।
पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्मणि ।
कार्ष्णी चतुर्दशी तद्वदष्टमी मन्दतारका ।। ३/१०७ ।।
उच्चाटने तिथिः शस्ता प्रदोषेषु विशेषतः ।
चतुर्दश्यष्टमी कृष्णा अमावस्या तथैव च ।। ३/१०८ ।।
मन्दारकदिनेऽप्येताः शस्ता मारणकर्मणि ।
बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा ।। ३/१०९ ।।
पौर्णमासी च विज्ञेया तिथिः स्तम्भनकर्मणि ।
शुभग्रहोदये कुर्यादशुभान्यशुभोदये ।। ३/११० ।।
रौद्रकर्मणि रिक्तार्के मृत्युयोगे च मारणम् ।
सूर्योदयं समारभ्य घटिकादशकं क्रमात् ।। ३/१११ ।।
ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने ।
वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः ।। ३/११२ ।।
हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि ।
शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः ।। ३/११३ ।।
प्रावृडुच्चाटने ज्ञेया शरन्मारणकर्मणि ।
संलिखेत् स्तम्भनं कुम्भे हर्यक्षे वृश्चिकोदये ।। ३/११४ ।।
द्वेषोच्चाटादिकं नक्रकुलीराजतुलोदये ।
मेषकन्याधनुर्मीने वश्यशान्तिकपौष्टिकम् ।। ३/११५ ।।
मारणं चाष्टमे राशौ रिपोर्भेदादिनिग्रहम् ।
वश्यं पूर्वेऽह्णि मध्याह्ने विद्वेषोच्चाटनं लिखेत् ।। ३/११६ ।।
शान्तिपुष्टिस्त्वहन्यन्ते सन्ध्याकाले तु मारणम् ।
अर्धरात्रे लिखेत् स्तम्भमाकृष्टिं प्राग् दिनोदयात् ।। ३/११७ ।।
यदन्यच्छोभनं कार्यं तत् प्रत्यूषे लिखेद् बुधः ।
इन्द्रे स्तम्भनमुच्चाटमग्नौ सर्वाभिचारकम् ।। ३/११८ ।।
याम्ये रक्षसि विद्वेषं शान्तिं वरुणसोमयोः ।
कुलोत्सादं मरुद्भागे पक्षे कलहनिग्रहौ ।। ३/११९ ।।
कुर्वीत नोदितं कर्म यच्छुभं ब्रह्मणः पदे ।
वश्याकृष्टौ लिखेद् भूर्जे लिखेदुच्चाटनं ध्वजे ।। ३/१२० ।।
गर्दभत्वचि विद्वेषं स्तम्भनं गजचर्मणि ।
प्रेतचीरे समालिख्य तापज्वरादिमारणम् ।। ३/१२१ ।।
विवादे च स्तम्भनादि शिलायामपि मोहनम् ।
वश्यां कुङ्कुमकर्पूररोचनाभिर्हरिद्रया ।। ३/१२२ ।।
यावेन स्तम्भनाकृष्टिं लिखेच्चानामिका स्मृता ।
विद्वेषणं स्वरक्तेन काकरक्तेन मारणम् ।। ३/१२३ ।।
मोहं विद्वेषरक्तेन उच्चाटं चोष्ट्रजासृजा ।
विद्वेषोच्चाटनं काकपक्षेणापि च मारणम् ।। ३/१२४ ।।
वश्ये चाकर्षणे स्तम्भे रक्तवर्णं विचिन्तयेत् ।
निर्विषीकरणे स्तम्भे रक्तवर्णं विचिन्तयेत् ।। ३/१२५ ।।
शान्तौ पुष्टौ चाप्यायने सितम् ।
पीतं स्तम्भनकार्येषु धूम्रमुच्चाटने स्मरेत् ।। ३/१२६ ।।
उन्मादे शक्रगोपाभं कृष्णवर्णं तु मारणे ।
आसनं श्वेतरूपं तु सात्त्विकं समुदाहृतम् ।। ३/१२७ ।।
यानमार्गे स्थितं पीतं राजसं परिकीर्तितम् ।
दण्डमानस्थितं रौद्रं कृष्णं तामसमुच्यते ।। ३/१२८ ।।
सात्त्विकं मोक्षकामानां राजसं राज्यमिच्छताम् ।
तामसं शत्रुनाशार्थं सर्वव्याधिनिवारणम् ।। ३/१२९ ।।
सर्वोपद्रवशान्त्यर्थं तामसं तु विचिन्तयेत् ।
रुद्राः सतार्क्ष्यगन्धर्वयक्षरक्षोहिकिन्नराः ।। ३/१३० ।।
पिशाचभूतदैत्येन्द्रसिद्धाः किंपुरुषाः सुराः ।
सर्वेषामपि मन्त्राणामंशाः पञ्चदश स्मृताः ।। ३/१३१ ।।
केचिदष्टादश प्राहुः समग्राणां नृणां मताः ।
द्व्यक्षरी कर्तरी सूची त्र्यक्षरी चतुरक्षरैः ।। ३/१३२ ।।
मुद्गरो मुषलः पञ्चवर्णः षड्भिस्तु शृङ्खलाः ।
कवचः सप्तभिः शूलश्चाष्टाभिर्नवभिः परः ।। ३/१३३ ।।
शक्तिश्च दशभिश्चैकादशभिः परशुः स्मृतः ।
चक्रं द्वादशभिर्वर्णैः कुलिशं स्यात् त्रयोदशैः ।। ३/१३४ ।।
द्विसप्तभिश्च नाराचभुसुण्डी पक्षवर्णकाः ।
पद्मं षोडशभिर्वर्णैर्मन्त्रच्छेदे तु कर्तरी ।। ३/१३५ ।।
भेदेन कथिता सूची भुञ्जानो मुद्गरः स्मृतः ।
मुषलः क्षोभणे बन्धे शृङ्खलः क्रकचच्छिदि ।। ३/१३६ ।।
घाते शूलं परिस्तम्भे शक्तिराकृष्टिकर्मणि ।
विद्वेषे परशुं चक्रं सर्वकर्मसु योजयेत् ।। ३/१३७ ।।
सन्धाने कुलिशः प्रोक्तो नाराचः सैन्यभेदने ।
भुसुण्डी मारणे पद्मं शान्तिपुष्ट्यादिकर्मणि ।। ३/१३८ ।।
चक्रं तु रञ्जकं कर्म ऊर्ध्वं नैवं प्रयोजयेत् ।
क्वचिदेवं दर्शितं तु तत्त्वागमविरोधि च ।। ३/१३९ ।।
सहस्राक्षरमन्त्रादेः प्रयोगविधिदर्शनात् ।
यथाकामो जपः कार्यो मन्त्राणामपि मे शृणु ।। ३/१४० ।।
मन्त्रादौ योजनं नाम्नः पल्लवः परिकीर्तितः ।
मारणे विषसंहारे ग्रहभूतविनिग्रहे ।। ३/१४१ ।।
उच्चाटने च विद्वेषे पल्लवो हि प्रशस्यते ।
मन्त्रादौ नामसंस्थानं योग इत्यभिधीयते ।। ३/१४२ ।।
शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विशोधने ।
मोहने दीपने योगं प्रयुञ्जन्ति मनीषिणः ।। ३/१४३ ।।
स्तम्भनोच्चाटनोद्भेदविद्वेषेषु स उच्यते ।
नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोध उच्यते ।। ३/१४४ ।।
मन्त्राभिमुख्यकरणे सर्वव्याधिनिवारणे ।
ज्वरग्रहविषाद्यार्त्तिशान्तिके रोध उच्यते ।। ३/१४५ ।।
सम्मोहने स एवाथ मन्त्रनामाक्षराणि च ।
एकैकान्तरितं यत्तु ग्रथनं तत् प्रकीर्तितम् ।। ३/१४६ ।।
तच्छान्तिके विधातव्यं नामाद्यन्ते यथा मनुः ।
तत् संपुटं भवेत्तत्तु कीलने परिभाषितम् ।। ३/१४७ ।।
स्तम्भे मृत्युञ्जये दिव्ये रक्षादिव्ये च संपुटः ।
मन्त्राक्षराभ्यामेकैकं साध्यनामाक्षरं क्रमात् ।। ३/१४८ ।।
कथ्यते स विदर्भस्तु वश्यकर्मणि पौष्टिके ।
एवं योगक्रमः प्रोक्तः सर्वकार्ये मनीषिभिः ।। ३/१४९ ।।
बन्धनोच्चाटने द्वेषे संकीर्णे हु/ प्रयोजयेत् ।
फट्कारं छेदने हु/फट् विघ्नग्रहनिवारणे ।। ३/१५० ।।
क्षुद्रक्रियाद्युपध्वस्ते स्त्रियोऽन्यत्र नपुंसकाः ।
पुष्टौ चाप्यायने वौषट् बोधने सनिकृन्ततौ ।। ३/१५१ ।।
अग्निकार्ये जपेत् स्वाहा नमः सर्वत्र चार्चने ।
शान्तिपुष्टिवशद्वेषाकृष्ट्युच्चाटनमारणे ।। ३/१५२ ।।
स्वाहा स्वधा वषट् हुं च वौषट् फट् योजयेत् क्रमात् ।
वश्याकर्षणसन्तापज्वरे स्वाहा प्रयोजयेत् ।। ३/१५३ ।।
क्रोधोपशमनेशान्तौ प्रीतौ योज्यं नमो बुधैः ।
वषट् सम्मोहनोद्दीपपुष्टिमृत्युञ्जयेषु च ।। ३/१५४ ।।
ह्रींकारं प्रीतिनाशञ्च छेदने मारणे तथा ।
उच्चाटने च विद्वेषे वषट् चाग्निकृते वषट् ।। ३/१५५ ।।
मन्त्रज्ञापनकार्ये च लाभालाभे वषट् स्मृतम् ।
स्त्रीपुंनपुंसकत्वेन त्रिधा स्युर्मन्त्रजातयः ।। ३/१५६ ।।
स्त्रीमन्त्रा वह्निजायान्ता नमोऽन्ताश्च नपुंसकाः ।
हुं फट् पुमांस इत्युक्ता वश्योच्चाटनकर्मसु ।। ३/१५७ ।।
ताराग्न्यन्यवियत्प्रायो मन्त्र आग्नेय उच्यते ।
शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसोम्ययोः ।। ३/१५८ ।।
आग्नेयमन्त्रः सौम्यः स्यात् प्रायशोऽन्ते नमोऽन्वितः ।
मन्त्रः शान्तोऽपि रौद्रत्वं हु/ फट् पल्लवितो यदि ।। ३/१५९ ।।
सुप्तः प्रबुद्ध्यमानो वा मन्त्रः सिद्धिं न यच्छति ।
स्वापकालो वामबाहो जागरो दक्षिणावहः ।। ३/१६० ।।
आग्नेयस्य मनोः सौम्यमन्त्रः स्यात् सुविपर्ययात् ।
प्रबोधकाले जानीयादुभयोरुभयावहम् ।। ३/१६१ ।।
स्वापे तु नोच्यं द्वाराणां स्तोभयेत् स्तोभकर्मणि ।
आग्नेयीं धारणां कृत्वा कुर्यादावेशनं क्रमात् ।। ३/१६२ ।।
माहेन्द्रीं धारणां कृत्वा संहारं तु समारभेत् ।
तत्रैव दक्षिणे चित्तं कृत्वा मारणमेव च ।। ३/१६३ ।।
विद्वेषोच्चाटनोच्छेदे कुब्जीकरणमारभेत् ।
आधारे दक्षिणे भागे विषग्रहसमागमात् ।। ३/१६४ ।।
सेनाञ्च स्तम्भयेत् कृत्वा कार्यारम्भञ्च मानवः ।
तत्रैव वामे कर्तव्यो व्यवहारश्च शत्रुतः ।। ३/१६५ ।।
शान्तिकं पौष्टिकं वश्यं वनितायाश्च मोहनम् ।
बैन्दवे दक्षिणे भागे स्थाप्य चित्तं चरेद् बुधः ।। ३/१६६ ।।
कर्माभिचारविद्यां तु वामे तत्रैव साधयेत् ।
आधारे कर्णिकायां तु चित्तं संस्थाप्य साधयेत् ।। ३/१६७ ।।
सिद्धिं सारस्वतीं चान्यां शाक्तेयीञ्चैव साधयेत् ।
पौष्टिकी सिद्धिरतुला धर्मकामार्थसिद्धिदा ।। ३/१६८ ।।
लभ्यते हृदयान्तस्य कर्णिका स्थिरचेतसा ।
चतुरस्रार्द्धचन्द्रञ्च त्रिकोणञ्च षडस्रकम् ।। ३/१६९ ।।
सुवृत्तञ्च पृथिव्यादिमण्डलाकृतयः क्रमात् ।
पीतं शुक्लं तथा रक्तं कृष्णाभं धूम्रवर्णकम् ।। ३/१७० ।।
तत्रोर्वादीनि बीजानि नरकं हयकारकम् ।
नाभिमध्ये मण्डलं तु वायोस्तद्बीजसंयुतम् ।। ३/१७१ ।।
धारयेत्तत्र चैतन्यं वायुभूतविशेषकम् ।
त्रिकोणं पिङ्गलो वह्निमण्डलं हृदि चिन्तयेत् ।। ३/१७२ ।।
धारयेत्तत्र चैतन्यं अग्निभूतं समन्ततः ।
माहेन्द्रं मण्डलं कल्पे पृथिवीमण्डलाह्वयम् ।। ३/१७३ ।।
कलापेन युतं तत्र चैतन्यस्तम्भकं स्मरेत् ।
अर्धचन्द्रं ललाटे तु श्वेतपद्मद्वयाङ्कितम् ।। ३/१७४ ।।
धारयेत्तत्र चैतन्यं वारिरूपं विचिन्तयेत् ।
कल्पयित्वा विचारे च दक्षिणाप्लवगां महीम् ।। ३/१७५ ।।
वसनं लोहितं प्रोक्तमुष्णीषं लोहितं स्मृतम् ।
वृत्तं दिवस्तत्षड्बिन्दुलाञ्छितं मातरिश्वनः ।। ३/१७६ ।।
त्रिकोणं स्वस्तिकोपेतं वह्ने रन्ध्रेण संयतम् ।
अम्भोजमम्भसे भूमेश्चतुरस्रं सवज्रकम् ।। ३/१७७ ।।
रतिर्वाणी रमा ज्येष्ठा दुर्गा काली तु ताः क्रमात् ।
षट् कर्मदेवताः प्रोक्ताः पूजादौ ताः प्रपूजयेत् ।। ३/१७८ ।।
ऐशींचैन्द्री च नि-ऋतिर्वायवग्नीनां दिशो मताः ।
स दैवतं दिक्कालादि ज्ञात्वा कर्माणि साधयेत् ।। ३/१७९ ।।
आसनान्यथ वक्ष्यामि कर्मणा विहितेन तु ।
पद्मासनं पौष्टिके च शान्तिके स्वस्तिकासनम् ।। ३/१८० ।।
आकृष्टौ पौष्टिके तद्वद्विद्वेषे कुक्कुटासनम् ।
अर्धस्वस्तिकमुच्चाटे त्वर्धस्थापनपार्ष्णिकम् ।। ३/१८१ ।।
मारणे स्तम्भने तद्वद्विकटं परिकीर्तितम् ।
वश्ये भद्रासनं तेषां कथ्यते चाथ भावना ।। ३/१८२ ।।
षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाशगदाह्वयाः ।
मुसलाशनिखड्गाख्याः शान्तिकादिषु कर्मषु ।। ३/१८३ ।।
शान्तिके पौष्टिके वश्ये सौन्दर्यातिशयान्विता ।
सर्वाभरणसन्दीप्ता प्राप्तकाममनोरथा ।। ३/१८४ ।।
ध्यातव्या देवता सम्यक् सुप्रसन्नाननाम्बुजा ।
आकर्षणेऽपि तद्वच्च बडिशेनेव मत्स्यकान् ।। ३/१८५ ।।
साध्यमाकर्षणे द्वेषे भर्त्स्यमानं जनैरिव ।
वध्यमाकर्षणे जनैर्दण्डैर्दारितस्तस्करो यथा ।। ३/१८६ ।।
उलूको वायसाविष्टः समर्तव्योच्चाटने रिपुः ।
स्तम्भने च शिलाक्रान्तस्तृणं पर्णादिवत् स्मरेत् ।। ३/१८७ ।।
आहतस्तस्करो राजपुरुषैः परशुर्यथा ।
व्याघ्रेण वा निष्प्रयत्नो हन्यते मारणे पुनः ।। ३/१८८ ।।
यत्किञ्चिच्छवमारुह्य सन्दष्टौष्ठपुटः क्रुधा ।
कर्म कुर्यात्ततो मन्त्री यथा क्रूरेषु कर्मसु ।। ३/१८९ ।।
मुक्ताभिः स्फटिकैर्वाऽपि समायोज्याक्षसूत्रकम् ।
शान्तिकर्मणि मिश्रे वा जपेन्मन्त्रस्य सिद्धये ।। ३/१९० ।।
प्रवालवज्रमणिभिर्वश्यपौष्टिकयोर्जपेत् ।
मत्तेभदन्तमणिभिर्जपेदाकृष्टिकर्मणि ।। ३/१९१ ।।
मृतयुद्धे च शूरस्य दशनैर्गर्दभस्य च ।
कृत्वाक्षमालां जप्तव्यं शत्रुमारणमिच्छता ।। ३/१९२ ।।
साध्यकेशसूत्रयुक्तिस्तुरङ्गदशनोद्भवैः ।
अक्षमालां समालोक्य द्वेषोच्चाटनयोर्जपेत् ।। ३/१९३ ।।
मृतस्य युद्धशून्यस्य दशनैर्गर्दभस्य च ।
कृत्वा मालां प्रजप्तव्यं शत्रुमारणमिच्छता ।। ३/१९४ ।।
क्रियते शङ्खमणिभिर्धर्मकामार्थसिद्धये ।
पद्माक्षैश्च जपेन्मन्त्रं सर्वकामार्थसिद्धये ।। ३/१९५ ।।
रुद्राक्षमालया जप्तो मन्त्रः सर्वफलप्रदः ।
पद्मसूत्रकृता रज्जुः शस्ता शान्तिकपौष्टिके ।। ३/१९६ ।।
आकृष्ट्युच्चाटयोर्वाजिपुच्छवालसमुद्भवा ।
नरस्नायुविशेषैस्तु मारणे रज्जुरुत्तमा ।। ३/१९७ ।।
अन्यासामक्षमालानां रज्जुः कार्पासिकी शुभा ।
सप्तविंशतिसंख्यातैः कृत्वा मुक्तिं प्रयच्छति ।। ३/१९८ ।।
अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ।
अक्षमाला विनिर्दिष्टा तत्रादौ तत्त्वदर्शिभिः ।। ३/१९९ ।।
अष्टोत्तरशतेनैव सर्वकर्मसु पूजिता ।
मध्यमाङ्गुष्ठकाभ्याञ्च जपेदाकर्षणं मनुम् ।। ३/२०० ।।
अङ्गुष्ठतर्जनीभ्यां तु विद्वेषोच्चाटयोर्जपेत् ।
जपेज्ज्येष्ठकनिष्ठाभ्यां शत्रुमारणकर्मणि ।। ३/२०१ ।।
अङ्गुष्ठानामिकाभ्यां तु जपेदन्येषु कर्मसु ।
अङ्गुष्ठेन जपेदित्थमन्यैरङ्गुलिभिः सहः ।। ३/२०२ ।।
अङ्गुष्ठेन विना जप्यं कृतं तदफलं भवेत् ।
जपेद् वश्ये पूर्वमुखे दक्षिणे चाभिचारके ।। ३/२०३ ।।
पश्चिमे धनदं विन्द्यादुत्तरं शान्तिके भवेत् ।
आयुष्यरक्षां शान्तिं पुष्टिं वापि करिष्यति ।। ३/२०४ ।।
इति प्रधानं सम्बोध्य प्रार्थयेच्चाविसर्गतः ।। ३/२०५ ।।
देवतां सम्बोध्य तत्कर्तृकां तत् साध्याख्याय मन्त्रो मन्त्रबीजगर्भं लिखेत् ।
उपदेवताऽङ्गानामेकाक्षरमन्त्रश्चेत्तदेव परितो लिखेत् । सामान्यमन्त्रलेखनादौ
क्रमेणावगन्तव्यः । जपहोमादौ त्वेवं संकल्प्य पूर्णाहुत्यादिकर्मावसाने तथैव
प्रार्थयेदिति रहस्यम् ।
अष्टास्रे चतुरस्रे वा वृत्ते चाम्बुरुहाकृतौ ।
शान्तिके पौष्टिके चैव होमः स्याद् यज्ञसाधकैः ।। ३/२०६ ।।
कार्यः प्राग्वदनेनाथ सौम्येन वदनेन वा ।
आकृष्टौ वायुकुण्डे तु कौबेरीं दिङ्मुखेन तु ।। ३/२०७ ।।
नै-ऋत्युदङ्मुखस्तस्मिन् कुण्डे विद्वेषणे हुनेत् ।
आग्नेयीदिङ्मुखस्तत्र कुण्डे मारुतकेऽपि वा ।। ३/२०८ ।।
उच्चाटने हुनेन्मन्त्री मारणे याम्यदिङ्मुखः ।
जुहुयाद् याम्यकुण्डे तु मन्त्री तत्साधनैस्ततः ।। ३/२०९ ।।
वज्रलाञ्छितकुण्डे तु ग्रहभूतनिवारणे ।
वायव्यदिङ्मुखो वश्ये कुण्डे योन्याकृतौ हुनेत् ।। ३/२१० ।।
वज्रलाञ्छितकुण्डे तु स्तम्भे प्राग्वदनोहुनेत् ।
द्रव्याण्यपि प्रवक्ष्यामि तत्तत्कर्मानुरूपतः ।। ३/२११ ।।
शान्तिके तु पयः सर्पिस्तिलक्षीरक्रमेण तु ।
अमृताख्या लता चैव पायसं तत्र कीर्तितम् ।। ३/२१२ ।।
पौष्टिके तु प्रवक्ष्यामि होमद्रव्याण्यतः परम् ।
विल्वपत्रैश्च राज्यं स्यात् जातीपुष्पैस्तथैव च ।। ३/२१३ ।।
कन्यार्थी जुहुयाल्लाजैः शीकामः कमलैस्तथा ।
दध्ना च श्रियमाप्नोति अन्नैरन्नं घृतप्लुतैः ।। ३/२१४ ।।
पञ्चवर्णेन पुष्पेण जुहयाद् घृतसंप्लुतैः ।
तद्वर्णं लभते वस्त्रं त्रियामा नात्र संशयः ।। ३/२१५ ।।
क्षीरेण सर्पिषा वापि कमलैर्मधुनाप्लुतैः ।
समृद्ध्यै जुहुयान्मन्त्री महादारिद्र्यशान्तये ।। ३/२१६ ।।
लक्षहोमालभेच्छान्तिं घृतबिल्वतिलैर्निधिम् ।
आकर्षणे तु लवणं प्रियङ्गु पौष्टिकोदितैः ।। ३/२१७ ।।
वश्यार्थी जातीकुसुमैराकृष्टौ करवीरजैः ।
कार्पासनिम्बैस्तक्राद्यैर्नवकेशैस्तथापि वा ।। ३/२१८ ।।
उचाटने काकपक्षैरथवा मोहने बुधः ।
उन्मत्तबीजैर्जुहुयाद्विषरक्तेन मारणे ।। ३/२१९ ।।
अजापयश्च तत्सर्पिः कार्पासास्थि नृणामपि ।
तन्मांसञ्चापि साध्यस्य नखरोमनरैरपि ।। ३/२२० ।।
एकीकृत्य हुनेन्मन्त्री शत्रुमारणकाङ्क्षया ।
लशुनैरसृजाभ्युक्ष्य गर्दभस्य च मारणे ।। ३/२२१ ।।
जुहुयात् सर्पिषा तैलैरथवा शत्रुमारणे ।
रोहीबीजैस्तिलोपेतैरुत्सादे जुहुयाद् यवैः ।। ३/२२२ ।।
कटुतैलैः तुषकण्टकसंयुक्तैर्बीजैः कार्पासकैरपि ।
सर्षपैस्तिलसंमिश्रैर्हुनेत् सर्वाभिचारके ।। ३/२२३ ।।
काकोलूकच्छदैः क्रूरैः कारस्करविभीतकैः ।
मरीचैः सर्षपैः सिद्धैरर्कक्षीरैः कटुद्रुमैः ।। ३/२२४ ।।
कटुतैलैः स्नुहीक्षीरैः कुर्यान्मारणकर्णणि ।
आयुःकामैर्घृततिलैर्वाभिराम्रपल्लवैः ।। ३/२२५ ।।
पयसाक्तैराम्रपत्रैर्ज्वरं सद्यो विनाशयेत् ।
गुडूची मृत्युज्जयेन तथा शान्तौ गजाश्वयोः ।। ३/२२६ ।।
जुहुयात् सर्षपैर्गौरैः सद्योरोगं हरेद् गवाम् ।
वृष्टिकामो वैतसीभिः समिद्भिः पत्रकैस्तथा ।। ३/२२७ ।।
हुत्वा पुष्टिमवाप्नोति पुत्रजीवैस्तु पुत्रकम् ।
घृतगुग्गुलुहोमेन वाक्पतित्वं प्रजायते ।। ३/२२८ ।।
मल्लिकाजातिविद्रुमनागपुन्नागसम्भवैः ।
पुष्पैः सरस्वतीसिद्धिस्तथा सर्वार्थसाधनम् ।। ३/२२९ ।।
पयसा लवणैर्वापि हुनेद् वृष्टिनिवारणे ।
रक्तपुष्पैरपामार्गैरङ्कोलैश्च सुभद्रकैः ।। ३/२३० ।।
एभिर्मधुरसं सिक्तैर्मन्त्री कुर्याच्च वश्यकम् ।
वातोद्धूतैः शुष्कपत्रैः काष्ठैरशनिपातितैः ।। ३/२३१ ।।
उष्ट्रास्थिना चावकुष्ठैः शत्रोरुच्चाटनं तथा ।
दूर्वागुडूचीगव्येन सर्पिषा तिलतण्डुलैः ।। ३/२३२ ।।
अन्नैः समिद्भिः पालाशैः शान्तिं कुर्याद् विचक्षणः ।
सुतीर्थे प्रजपेन्मन्त्रं पूर्वं पापविमुक्तये ।। ३/२३३ ।।
शुद्धदेहाय मन्त्रोऽसौ ततः सिद्धिं प्रयच्छति ।
न ध्यातो नार्चितो मन्त्रः सुसिद्धो न प्रसीदति ।। ३/२३४ ।।
ना जप्तः सिद्धिदो मन्त्रो ना हुतः कलदो भवेत् ।
पूजां ध्यानं जपं होमं यथा कर्मचतुष्टयम् ।। ३/२३५ ।।
प्रत्यहं साधकः कुर्यात् स्वयं चेत् सिद्धिमिच्छति ।
जपस्यान्तः शिवं ध्यायेद् ध्यानस्यान्तः पुनर्जपः ।। ३/२३६ ।।
जपध्यानसमायुक्तः शीघ्रं सिध्यति मन्त्रवित् ।
कारस्करक्ष्यामलकोदुम्बरो जम्बुसंज्ञकः ।। ३/२३७ ।।
खदिरः कुष्ठकरचौ पिप्पलो नागरोहिणौ ।
पलाशलक्षकाम्बष्ठविल्वार्जुनविकङ्कताः ।। ३/२३८ ।।
मन्त्रः सारसिको मोट आरूढाग्निः सदागतिः ।
सबिन्दुः सपराक्रान्तस्तुम्बुरुश्च तथा ईशः ।। ३/२३९ ।।
ईकारः स्वरमायेति आकारः पाश उच्यते ।
क्रोमङ्कुशश्च हुं क्रोधः इ विष्णुश्च परापरः ।। ३/२४० ।।
आद्यः सबिन्दुकः सृष्टिवर्गान्तस्तु ह उच्यते ।
द्वाभ्यां वा बहुभिश्चैव संयुक्तः पिण्ड उच्यते ।। ३/२४१ ।।
ईकारः श्रीमहामाया एकारो भगसंज्ञकः ।
बिन्दुश्चन्द्रश्च कुण्डोऽनुस्वारो हुंकार उच्यते ।। ३/२४२ ।।
कलाविसर्ग इत्युक्त इकारो हः प्रकीर्तितः ।
मन्दिरान्त्यश्च कालाग्निः क्रोधस्तत्त्वेति क्षः स्मृतः ।। ३/२४३ ।।
अन्तःस्थाः स्युर्यरलवा उष्माणः शषसहास्तथा ।
बाह्यं लकार एकार इति चान्ये प्रचक्षते ।। ३/२४४ ।।
एवं श्रीकण्ठादीनां काल्याद्यन्यासां द्वादश शक्तीनामन्त्यवर्णेन न्यासो
वक्ष्यते । तत्तदेव संज्ञा तद्वर्णसंज्ञात्र स्वरे द्रष्टव्येत्यलं सूचितेन ।
निहन्तव्यो यदा शत्रुर्नान्यथा च स्थितिर्मता ।
इत्याकुलमनास्तद्वत् कुर्याद् ब्राह्मणवर्जितम् ।। ३/२४५ ।।
कर्मणा प्रबलेनैव प्रतिबन्धो विरोधिना ।
यदि सिद्धिं न लभते द्विस्त्रिर्वा पुनराचरेत् ।। ३/२४६ ।।
दैवेनापहतोऽत्यन्तमैहिकानि न कारयेत् ।
नापराधोऽस्त्यत्र किञ्चित् प्राप्नुयादुपहास्यताम् ।। ३/२४७ ।।
सामान्यतः परिज्ञाय प्रयोगविधिमुत्तमम् ।
तत्र कर्मविशेषेण कारयेदिति नान्यथा ।। ३/२४८ ।।
इति फेत्कारिणीतन्त्रे साधारणपटलस्तृतीयः ।।
चतुर्थः पटलः
अथ वक्ष्ये कुक्कुटानामाद्यमन्त्रवरं तथा ।
जगतामुपकारार्थं क्षपणैकगुरुर्यथा ।। ४/१ ।।
पुराप्रोक्तं नान्तं षष्ठस्वरपरिगतं बिन्दुमत्कुक्कुटाख्यं
वीप्सैतत्त्वां पुनरपि च पदं वीप्सितं पूर्वमन्त्रम्
नान्तं भूतस्वरपरिगतं वेत्ति मन्त्रोऽयमुक्तः स्यादायुः
श्रीविभवसकलसुखसौभाग्यसम्पत्प्रदायी ।। ४/२ ।।
प्रोक्तः पञ्चदशार्णोऽयं मन्त्रः कुक्कुटदैवतः ।
तत्सर्वं देवतातेजः सर्वस्य शाक्तिबृंहितम् ।। ४/३ ।।
क्षीरोदधिमध्यगते द्वीपवरे कनकमयरत्नभूमौ
अनवरतसिकतात्युक्तामणिमयमृदुपवन उर्वीतलरम्ये ।
तत्र समुण्डितममलं विपुलतरुफलितरत्नफलजातं
हेमजालमयहीनं बहुमणिविलसद्विचित्रपत्रपरम् ।। ४/४ ।।
तं पुनरधिष्ठितं ध्यायेदधिकोज्ज्वलाङ्गमतिशोभम् ।
चूडाशोभितवक्त्रं कुक्कुटमतितीक्ष्णनखचरणम् ।। ४/५ ।।
वक्त्रं यस्य षडाननो गिरिसुता यस्योदरं कालहा
पृष्ठं यस्य च वामकुञ्जरमुखौ पादौ च सव्येतरौ ।
पक्षौ यस्य सुरद्रुमौ मणिमयीं यः शृङ्खलां बन्धुरां
आकर्षादिगुणं करोतु स तु नः सर्वानसौ कुक्कुटः ।। ४/६ ।।
गौरीहस्तारविन्दे त्वनिशमधिवसन् यन्मुखारूढकायः
सर्वालङ्कारदीप्तः प्रचलितचरणः पक्षविक्षेपदक्षः ।
हेमाभो रत्नचञ्चुमणिमयविलसद्वृत्तकण्ठः सुरूपः
पायान्नस्ताम्रचूडः सकलजननतः सर्वसिद्धिप्रदाता ।। ४/७ ।।
अथवा
सर्वप्रियः सागरमध्यरत्नद्वीपस्य तालाग्रनिवासिकुक्कुटः ।
वेद्याभिरामोऽखिलभूषणाढ्यो वशीकरोत्याशु सुसेवितोऽमरैः ।। ४/८ ।।
अमुष्.य पूर्वसेवार्थमेकलिङ्गे शिवालये ।
देवस्य महतीं पूजां कृत्वाऽऽसीन उदङ्मुखः ।। ४/९ ।।
पर्वताग्रे नदीतीरे वृषशून्ये शिवालये ।
पश्चिमद्वारसंयुक्ते कुर्यान्मन्त्रपुरस्क्रियाम् ।। ४/१० ।।
गुरुं प्रणम्य मनसा आसनं परिकल्पयेत् ।
करशुद्धिं देहशुद्धिं तालत्रयमथाचरेत् ।। ४/११ ।।
दिग्बन्धं कारयेत् पश्चात् विद्वानस्त्रेण तत्परम् ।
प्राणायामत्रयं पश्चात् प्रणवेन प्रकल्पयेत् ।। ४/१२ ।।
मातृकां विन्यसेत् पूर्वं पश्चान्न्यासं समाचरेत् ।
पक्षिमन्त्रस्य प्रथमं यं मन्त्रं तं विनिर्दिशेत् ।। ४/१३ ।।
द्वितीयपदमुच्चार्य शिरसैव तु कारयेत् ।
वीं शिखायाञ्च विन्यस्य वनपक्षितृतीयकम् ।। ४/१४ ।।
तुरीयपदमुच्चार्य नेत्रे तु विनियोजयेत् ।
चञ्च्वास्त्रेण च संयुक्तमङ्गषट्कं विधीयते ।। ४/१५ ।।
पू/ हृदयाय नमो वीप्सौ तत्त्वां शिरसे स्वाहा ।
पू/ शिखायै वषट् वीप्सौ तत्त्वां कवचाय हु/ ।। ४/१६ ।।
पू/ वीप्सितुं नेत्रत्रयाय वौषट् पू/ करतलपृष्ठाभ्याम् अस्त्राय फट् ।
नमः स्वाहा वषट् हु/ च वौषट् च क्रमान्न्यसेत् ।। ४/१७ ।।
पूमादि पूमन्तरञ्च क्रमशो विन्यसेत् सुधीः ।
ललाटबिन्दुमध्ये च चक्षुःश्रवणयोरपि ।। ४/१८ ।।
नासाविवरयोश्चैव आस्ये कण्ठे तथा हृदि ।
जठरे नाभिदेशे च लिङ्गे गुह्ये च विन्यसेत् ।। ४/१९ ।।
समस्तेन तु मन्त्रेण मूर्धादिव्यापकं न्यसेत् ।
एवं विन्यस्यदेहस्तु ध्यायेत् पक्षिं शिवात्मकम् ।। ४/२० ।।
मनसा देवमभ्यर्च्य षोडशैरुपचारकिः ।
विज्ञाप्य बाह्ययोगेन देवं सन्तोष्य यत्नतः ।। ४/२१ ।।
ध्यात्वा कुक्कुटदेवं तं जपेद् भानुसहस्रकम् ।
तावच्छतं तर्पयित्वा पुरश्चर्या कृता भवेत् ।। ४/२२ ।।
रक्षाकरणविद्वेषस्तम्भनोच्चाटनादिकम् ।
कर्माणि कुर्यादिष्टानि मन्त्रेणानेन मन्त्रवित् ।। ४/२३ ।।
आलिख्य मन्त्रेण विदर्भितं यत् साध्याक्षरान्तान् लवणस्य पात्रे ।
प्राणान् प्रतिष्ठाप्य शतं तथाष्टौ जप्त्वा धृतं चेत् स वशं प्रयाति ।। ४/२४ ।।
ताम्बूलं यद्यष्टोत्तरसहस्रं जप्त्वा भोक्तुं दत्तं यस्याः ।
वश्या नित्यं प्रत्युपदेशाद्धास्यन्नर्थान् प्रार्थितभोगान् ।। ४/२५ ।।
मन्त्रं जप्तुमथ पञ्च शतं यः कनकाह्वयत्वं मपञ्चयुतम् ।
भक्ष्यभोज्यविधिषु प्रतियोज्यं सान्वयाति वशं मरणान्तम् ।। ४/२६ ।।
मूलं मूलकमासतैलसहितं चित्राद्वयस्य त्वचं
पुष्पं बीजसवीर्यहस्तिकुसुमं स्वनासिकान्तर्जलम् ।
पत्रं रौहिणमङ्गपञ्चकमलं तद्भाण्डयुक्तं मिथो
दण्डं वा पुरुषस्य तद्धृतमिदं वश्याङ्गना मन्मथः ।। ४/२७ ।।
अष्टोत्तरशतं जप्तं हयमारकमूलकम् ।
सप्तरात्रं क्षिपेद् यस्या मूर्ध्नि सा वशगा भवेत् ।। ४/२८ ।।
भूर्जे साध्यविदर्भितं मनुमिमं संलिख्य कौलालिकी
मृत्स्नाकल्पितपुत्तली हृदि कृता प्राणान् प्रतिष्ठाप्य च ।
जप्त्वा दिनं त्रिसन्ध्यमथवा चालोड्य गुण्डीरसै -
र्लिप्ते वश्यमवश्यमेव भविता चान्येषु जन्मस्वपि ।। ४/२९ ।।
अष्टोत्तरसहस्रं जप्तं प्रसूनकाण्डं कृताञ्जलेः शिरसा ।
धारयति सर्वलोके प्रियो भवेन्नियतमेव मन्त्रिवरः ।। ४/३० ।।
तद्वच्छदमथ वल्ली लक्ष्मीपुष्पाणि धारयेदेवम् ।
समृदा भद्रकरिष्णुः प्रियाश्च मुसलीशमन्त्रजापेन ।। ४/३१ ।।
मधुकञ्च दूर्वादेवीं हंसां चैव तथा घृतम् ।
तथैवैकं वरणमूलनाय का कथा मनुष्येषु ।। ४/३२ ।।
दशनविद्मवार्द्रमनुस्वराक्षि विश्वत्र्यैकैकभागेन ।
अञ्जल्यादि क्रमशः संयोज्य देशमखिलं वश्यकरम् ।। ४/३३ ।।
प्रत्येकैकं शतमष्टौ जप्त्वा संयोज्य दशकमपि पिष्ट्वा गुटकीकृत्य सहस्राष्टं
जप्त्वा गुटिकया रचिता तिलकक्रिया सुनारीनरलोकरञ्जनार्थमिदं कपिलाघृतदीपितया
तत्तद्बहुर्णगर्भया वर्त्त्या कज्जलधृतमिव तत्कर्पूरयुतम् । सहस्रपरिजप्तं
दिनमनुदिननयनयुतं कुर्यादखिललोकं वश्यम् । इति वशीकरणम् ।
आत्मानं कुक्कुटं ध्यात्वा स्वकीयगणशक्तया ।
साध्यां शृङ्खलया कण्ठे बध्वाकर्षमनुं जपेत् ।। ४/३४ ।।
सहस्रमध्यरात्रे तु रात्रित्रयमतन्द्रितः ।
तुरीयकुक्कुटस्यान्ते साध्यनाम च कर्म च ।। ४/३५ ।।
जपेत् संयोज्य वश्यार्थी कालेषु सकलेष्वपि ।
यामारभ्य जपेदेवं योषितं मदनालसाम् ।। ४/३६ ।।
स्विद्यत्स्वेदार्द्रवसना मदनाकुलचेतसा ।
उत्स्विन्नगुह्यजघना शिथिलांशुकभूषणा ।। ४/३७ ।।
चलत्पादप्रविन्यासा स्फुरद्रोमाञ्चकञ्चुका ।
कामानलोष्णनिःश्वासा शोषिताधरपल्लवा ।। ४/३८ ।।
विकीर्णकेशपाशा च प्रेरिता घूर्णितेक्षणा ।
रचिताञ्जलिरायाति मुखेनास्यालयं निशि ।। ४/३९ ।।
साध्यप्रणवदर्भितं मनुमिमं ताम्बूलपत्रोदरे ।
लेखन्या प्रविलिख्य कर्मसहितं प्राणान् प्रतिष्ठाप्य च ।
जप्त्वाष्टौ शतमर्कदुग्धजनिता लेपे त्रिरात्रान्तरे
तप्तं दीपशिखाग्निना स्वयममूर्वश्योर्वशी चाश्रयेत् ।। ४/४० ।।
भूर्जे मन्त्रमिदं विलिख्य सकलं साध्यान्वयाढ्यं पुटं
प्राप्तप्राणमथाष्टकोत्तरशतं जप्तं त्रिरात्रं पुनः ।
मधुक्षौद्रक्षीरगतेष्विदं पृथगपि प्रक्षिप्य मन्त्रं जप -
न्नाकर्षत्यचिरादभीष्टवनितां नागादिलोकादपि ।। ४/४१ ।।
आलिख्यैव शरावके मनुमिमं तन्नामकर्मान्वितं
रात्रौ रोचनया प्रणीतपवनं जप्त्वा च साष्टौ शतम् ।
तस्यानाभिमुखाङ्गजन्यभवनं संतापयन् खादिरे
वह्नौ मत्तमतङ्गवेगविषमा योषा समायाति च ।। ४/४२ ।।
नाभिमात्रजले स्थित्वा साध्यनामविदर्भितम् ।
त्रिसहस्रञ्च त्रिदिनं इष्टमाकर्षयेद् ध्रुवम् ।। ४/४३ ।।
इत्याकर्षणम् ।
कपिरोम तथा हिङ्गु खरचर्मणि चूर्णयेत् ।
मन्त्रं जप्तं सप्तवारं नामकर्मविदर्भितम् ।। ४/४४ ।।
त्रिसहस्रं पुनस्तेन स्निग्धयोरन्तराऽन्तरा ।
धूपो भवति विद्विष्टौ स्निग्धावपि विभिद्यतः ।। ४/४५ ।।
तालपत्रे लिखेन्मन्त्रं नामकर्मविदर्भितम् ।
विषलिप्तं द्विधा कृत्वा निखनेत् सिन्धुतीरयोः ।। ४/४६ ।।
मन्त्रेणानेन कर्मान्तं खादिराग्नौ सहस्रकम् ।
हुनेदन्योन्यविद्वेषो भवेतामपि रोगिणोः ।। ४/४७ ।।
इति विद्वेषः ।
आलिख्यामे शरावे च निशायां साध्याक्षरं पुटितम् ।
मन्त्रं स्थापितपवनं सहस्रजप्तं चतुष्पथे निखनेत् ।। ४/४८ ।।
स्तम्भनमेतदवश्यं भविता जगताञ्च नात्र सन्देहः ।
कृत्वा प्रतिकृतिरथवा श्मशानाङ्गारकेशवसनया सम्यगधिष्ठितपवनां हृद्गते
नाम्नीं समन्त्रललाटां वृषणस्थितपवनां सहस्रजप्तं तल्लक्षया वसनां दग्धां
स्मृत्वा लिखेत् । श्मशानदेशे सपत्नीकस्य वाक्स्तम्भः । आलिख्य चेष्टकायुगले मन्त्रं
साध्यनामपुटितं निशायां निशीथकाले सहस्रं जप्तं प्रतिष्ठितप्राणं
बन्धनमतितीक्ष्णतरम् । स्तम्भनमतितीक्ष्णाम्बुनिक्षिप्तम् ।
लिखितमन्त्रचितामयकीलकं सहितकर्म सनाम समाहतम् ।
कृतजपं त्रिसहस्रकसंख्यया पथि खनेदथ जालनिवारणम् ।। ४/४९ ।।
विहितनिम्बभवो रिपुनामयुङ्मनुमिमं निशया कृतनामकम् ।
नवसहस्रजपाद् वसुसाधितं पथि खनेदथ सैन्यनिरोधकम् ।। ४/५० ।।
इति स्तम्भनम् । अथोच्चाटनम् ।
अङ्गारकं पितृभुवो रिपुपौषनर्क्षे
जप्त्वा विनिर्मितमिदं पितृभूगताग्नौ ।
दग्ध्वा च तद्भवविमिश्रितमत्र शत्रो -
रालिख्यनाम मनुकर्मयुगस्य मूर्ध्नि ।। ४/५१ ।।
क्षिप्तं प्रचालयति चाष्टसहस्रजप्तं
जप्त्वा शिवे कुजदिने सचतुर्दशीके ।
कर्मान्वयाढ्यमनुना त्रिसहस्रजप्तं
दत्तं विधाय रिपुमूर्ध्नि विनिक्षिपेत् तम् ।। ४/५२ ।।
उच्चाटयेद् ध्रुवमसौ रिपुमाशु चैतद्
अङ्गारकं पितृभुवो रिपुपौषनर्क्षे ।
जप्त्वा विनिर्मितमिदं रिपुनाम तस्मिन्
मन्त्रोपमं पुटितमष्टसहस्रजप्तम् ।। ४/५३ ।।
तद्वैरिवेश्मनि विनाशकरं विकीर्णम्
कृत्वा श्मशानस्य चतुष्टयं किलन् ।
जप्त्वा सकर्मान्वयसंपुटं मनुं
सहस्रजप्तं निखनेद् द्विषां गृहे ।। ४/५४ ।।
तद्द्वारि चोच्चाटनमाशु जायते ।
निरस्य काकनिलयं पितृभूगताग्नौ
जप्त्वा च तद्भसितमिश्रितमन्त्रशत्रोः ।। ४/५५ ।।
आलिख्य नाम मनुकर्मयुगस्य मूर्ध्नि
प्रोच्चाटयेद् रिपुमष्टसहस्रजप्तम् ।
जप्त्वा परे कुजदिने सचतुर्दशीके
कर्मान्वयाढ्यमनुना च सहस्रजप्तम् ।। ४/५६ ।।
दत्तं विध्याय रिपुमूर्ध्नि विनिक्षिपेच्च
उच्चाटयेद्रिपुमसौ ध्रुवमाशु चैतत् ।
श्मशानजोल्कारिपुनामकर्म
संपृक्तपत्रं च सहस्रजप्तम् ।। ४/५७ ।।
द्वारे क्षिपेदुलूककमत्र शत्रोरुच्चाटयेत् सप्तदिनान्तराले ।
कीलं चिताकाष्ठमयञ्च नाम कर्मान्वितं चाष्टसहस्रसंख्यम् ।। ४/५८ ।।
मन्त्रेण जप्तं निखनेदरातिर्गेहे तदुच्चाटयति क्षणेन
उन्मत्तरसालोलितचितामसीं काकपक्षेण ।
कारस्करफलकान्तरमनुं लिखेत्
काकवन्ध्याफलंकान्तमनुं लिखेत् कर्मनामसंपुटितम् ।। ४/५९ ।।
प्रस्थाप्य प्राणानस्मिन् द्विषतोऽष्तविषानुलिप्तसंसिद्धम् ।
तत्रैव सहस्रजप्तं श्मशानदेशे चतुष्पथे वापि ।। ४/६० ।।
निखनेदरिभवने तदम्बुमस्तके रिपोः क्षिप्तम् ।
देशान्तरमथवाऽसौ यास्यति लोकान्तरं सदा रोगी ।। ४/६१ ।।
इत्युच्चाटनम् ।
चतुर्थः पटलः ।।
पञ्चमः पटलः
मन्त्रं साध्यस्य नामप्रतिपुटितमथालिख्य तालस्य पत्रे
पुत्तल्योर्निधायार्पितपवनमनोर्जपमन्त्रौ सहस्रकम् ।
वह्नावुन्मत्तदीप्ते पितृवनजनिते तीक्ष्णतैलेन लिप्तं
हत्वा स्थित्वा निशार्क्षे त्रिदिनपरिमितं मोहयेन्मारयेद्वा ।। ५/१ ।।
साध्याख्यवृक्षकृतरूपमधिष्ठितेन
जप्तं सहस्रमपि कीलयति श्मशाने ।
शस्त्रेण दारयति साधितमन्त्रमङ्गं
यद्यद्रिपोरपि विनश्यति तत्तदङ्गम् ।। ५/२ ।।
वैरिप्रसवमृत्तिकापदरजः संयुक्तचक्रा मृदा
कृत्वा पुत्तलिकाञ्च नाम हृदये शीर्षे पदे वा लिखेत् ।
अङ्गारैः पितृभूगतैर्मनुमिमं तन्नामकर्मान्वितं
तस्य न्यस्य हृदीदमाशु पवनं जप्यात् सहस्रद्वयम् ।। ५/३ ।।
सदा च तेन शतधा शस्त्रेणाहतपुत्तलीम्
याम्याशाभिमुखो निदानदशभिर्दीप्ते श्मशानानले
तैलं तीक्ष्णभवं विरिच्य जुहयान्नैर्-ऋत्य-ऋक्षेऽथवा
मन्त्री प्रेतपतेः पुरं श्रुतमसौ यास्यत्यरातिर्ध्रुवम् ।। ५/४ ।।
अङ्गारवारे कुलिरादाय तु रिपो -
रालिख्य पत्रे प्रतिमाप्रतिष्ठाम् ।
प्राणान् प्रतिष्ठाप्य विषानुलिप्तां
श्मशानभूमौ जुहुयाद् विनाश्यम् ।। ५/५ ।।
रिपोः प्रतिकृतिं कृत्वा गोमयेन च तद्धृदि ।
तालपत्रे समालिख्य तदा मनुविदर्भितम् ।। ५/६ ।।
विन्यस्य तत्प्रतिकृतेः स्थाप्योपरि च राजतम् ।
मृन्मयं वा घटं सम्यग् गोमयेन च पूरितम् ।। ५/७ ।।
तत्रापि निक्षिपेत् पत्रं लिखितं स्यात्तदा बुधः ।
वैरिप्राणान् प्रतिष्ठाप्य यस्मिन् गोमयवारिणि ।। ५/८ ।।
त्रिसन्ध्यान्ते जपेत्तस्मिन् छाया यावद् भविष्यति ।
दृष्ट्वा तां गोमयजले रिपुच्छायां समाहितः ।। ५/९ ।।
शस्त्रेण छेदयेदङ्गं यस्य स्वहृदि भीषणम् ।
तत्तद्विनश्यति रिपोः सप्ताहान्नात्र संशयः ।। ५/१० ।।
हृदयोदरकण्ठेषु विच्छिन्ने भविता मृतिः ।
शिरोरोगो भवेत्तस्य ब्रणे शस्त्रेण मस्तके ।। ५/११ ।।
शुण्ठीं चित्रकहिङ्गुं च मरीचारोहिपिप्पली ।
मन्दारधूममाकन्दं प्रोक्तमेतद्विषं बुधैः ।। ५/१२ ।।
काकमाचीमामलकीमौडुम्बरजम्बुखदिरकृष्णा च ।
वंशपिप्पलनागौ रौहिणनलिनसमुद्रसारिकाः ।। ५/१३ ।।
हरिद्रानिम्बकुटजविकङ्कतकदम्बवकुलत्वक्संज्ञाः ।
वञ्जुलपनसार्कशमी कदम्बनिम्बं प्रकाशमूलञ्च ।। ५/१४ ।।
ततः सहस्रं मनुमादराद् जपति यः ।
स रमाभवनं भवेज्जपविधौ कपिमांसीकुसुमैः ।। ५/१५ ।।
समं जपित्वा कुक्कुटरूपिणो मनुमष्टोत्तरशतं जपेत् ।
सहस्रधा यन्महेशमनुः कुक्कुटमनुरूपकः ।। ५/१६ ।।
पञ्चान्वितस्य भवनञ्च मनोरथाद्यै -
रापूज्यते बहुविधैरपि वत्सरेण ।। ५/१७ ।।
नित्यं प्रत्युषसि प्रतीतमनसापि पादेन भूधारणा -
च्चान्योऽन्येन समन्ततः स्वपुरतः पर्याक्षिपन्तं मुहुः ।
ध्यात्वा कुक्कुटमीशरूपमथवा भूत्वैव माया स्वयं
भक्त्या यः प्रजपेदुपेन्द्रमिव तं प्राप्नोत्विवानन्दयेत् ।। ५/१८ ।।
तुण्डेन खण्डीकृततालवृन्तमाछादयन्तं फलरत्नखण्डैः ।
ध्यात्वा मनुं स्वं नयनो जपेद् यो विद्विष्टमाखण्डलवत् समेति ।। ५/१९ ।।
दोषायमाणं निजपक्वपत्रं पतत्परार्द्धं बहुमूल्यरत्नम् ।
ध्यात्वा मणिं नियतमेव मनुं प्रजप्य
प्रौढां श्रियं भृशमवाप्य च रत्नपूर्णाम् ।। ५/२० ।।
भूमौ काञ्चनमृत्तिकापदरजोराजीः किरन्तं मुदा
कूजन्तं चरणेन धान्यनिचयं नोत्कीर्य चञ्च्वादिना ।
सञ्चिन्त्योज्ज्वलतामचूडमरुणं किञ्चित्समाकुञ्चित -
ग्रीवं यः प्रजपेदमुष्य भवनं धान्यादिभिः पूर्यते ।। ५/२१ ।।
दशौषधं दशभषितं मनुनामुना
कृतजपं शिरसा धृतम् ।
दुरितानि रोगविषभूतभयापहं
भजतां वशीकरणमतीव रमाकरम् ।। ५/२२ ।।
सुजलेन्धनचर्मभषितं त्रिधा
विधिवत् सहस्रजप्तमभिरक्षति चाखिलम् ।
भूर्जपत्रमभिलिख्य तन्नाममात्रकं
नरमाशु रक्षितधूर्जपान्वितम् ।। ५/२३ ।।
मनुना तण्डुलमनुना सहस्रजप्तं तु कुक्कुटं यो वेत्ति ।
सोऽसौ कुक्कुटहंसवद् युद्धेषु चोद्जेष्यति ।। ५/२४ ।।
क्षिप्रं स्पृष्ट्वा सहस्रकमपि सञ्चिन्त्य कुक्कुटं प्रजपेत् ।
जेष्यति सपदि रणे तान् सभटैश्चरणायुधैः ।। ५/२५ ।।
समायातो बहुना किमत्र मनुना लिखितं परिवाञ्छितं सपदि साध्यते ।
अचिरेण तस्य भवने भजते वसतिं कमला विमला ।। ५/२६ ।।
इति जपनिरतानां कुक्कुटाख्यानलक्षः
क्षपणकमुनिराह क्षिप्तभूतारिपक्षः ।
दुरितनिवहपक्षक्षेपणः सर्वभक्षः
प्रणतसुजनरक्षाविक्षतानां स्वपक्षः ।। ५/२७ ।।
निखिलमभिमतानामर्थिनां कल्पवृक्षः
सुरवरनरनारीरञ्जनाकृष्टिदक्षः ।। ५/२८ ।।
अनन्तं बिन्दुसंयुक्तं पुंकोलिद्वितयं ततः ।
वांशक्तिश्चाथ पुंकोलीयुगलं विगलं ततः ।। ५/२९ ।।
चु/कारं वरुणं तत्तदनन्ताढ्यं समुद्धरेत् ।
क्रोधं तदुद्धरेन्मन्त्रं कुक्कुटस्य मनोरमम् ।। ५/३० ।।
इति फेत्कारिणीतन्त्रे कुक्कुटेश्वरविवरणं नाम पञ्चमः पटलः ।।
षष्ठः पटलः
देवी उवाच
सूचिता मे पुरा शम्भो मन्त्रा नैकविधास्त्वया ।
इदानीं श्रोतुमिच्छामि देवीमुच्छिष्टपूर्विकाम् ।। ६/१ ।।
शम्भुरुवाच
शृणु देवि वरारोहे देवीं तां कथयाम्यहम् ।
यस्या विज्ञानमात्रेण भवेद् विद्यामयो नरः ।। ६/२ ।।
देवी उवाच
आ/ पू/ कोलि पू/ कोलि वा/ ह्री पूं कोलि विगल चु/ वा/ हु/ हु/ ।
को विधिः किं फलं चास्य मयि विद्यास्वरूपतः ।
कथ्यतां देव यत्नेन रहस्येन निवेदितम् ।। ६/३ ।।
शम्भुरुवाच
शृणु देवि विधिं वक्ष्ये फलं चोच्चाटनादिकम् ।
विषं च स्थावरं देवि विद्याभावान् निहन्ति च ।। ६/४ ।।
अथान्यत् संप्रवक्ष्यामि देवीं गुह्यतमां प्रिये ।
उच्छिष्टपूर्विकां चैव मातङ्गीं सर्वसिद्धिदाम् ।। ६/५ ।।
सर्वपापहरां देवीं सर्वदोषविवर्जिताम् ।
यया विज्ञातया देव्या क्षयं गच्छन्ति चापदः ।। ६/६ ।।
स्थावरं जङ्गमं चैव कृत्रिमं चाङ्गजं तथा ।
विषं जयति देवेशि स्वपराङ्गसमाश्रितम् ।। ६/७ ।।
इयं विद्या परा विद्या सर्वपापापहारिणी ।
स्वर्गदा मोक्षदा चैव राज्यसौख्यफलप्रदा ।। ६/८ ।।
इयं देवि मया पूर्वं साधिता विषनिर्जिता ।
सकृदुच्चारिता विद्या ब्रह्महत्याविशोधिनी ।। ६/९ ।।
सर्वपापापहन्त्रीयं लोकसौभाग्यदायिनी ।
यद्युच्छिष्टमुखो भूत्वा स्मरद्देवीं कदाचन ।। ६/१० ।।
तदाचान्तो भवेद् देवि विनैवाचमने कृते ।
दुर्भगा सुभगा नूनं दुःखिता सुखिता भवेत् ।। ६/११ ।।
वन्ध्यापि लभते पुत्रं शतहायनजीवितम् ।
निर्धनो धनमाप्नोति मूर्खो विद्यामवाप्नुयात् ।। ६/१२ ।।
यां यां प्रार्थयते सिद्धिं हठात् तां तामवाप्नुयात् ।
विधानञ्च प्रवक्ष्यामि शृणु देवि मनोरमे ।। ६/१३ ।।
भोजनानन्तरं देवि विनैवाचमने कृते ।
बलिं दत्त्वा प्रथमतो मूलमन्त्रेण साधकः ।। ६/१४ ।।
ततो मन्त्रं जपेद् ध्यात्वा देवींतामिष्टसिद्धये ।
मन्त्रं शृणु महादेवि यथावत् कथयामि ते ।। ६/१५ ।।
नम उच्छिष्टशब्दं तु तथा चाण्डालिनीति च ।
सुमुखीति ततो देवि कीर्तयेत्तदनन्तरम् ।। ६/१६ ।।
महापिशाचिनि पश्चाल्लज्जाबीजं ततः परम् ।
नादबिन्दुसमायुक्तं ठकारत्रितयं पुनः ।। ६/१७ ।।
सविसर्गं महादेवि सर्वसिद्धिप्रदायकम् ।
चतुर्विंशत्यक्षरीयं विद्या सर्वार्थदायिनी ।। ६/१८ ।।
न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।
नाङ्गन्यासकरन्यासौ न वर्णन्यास ईरितः ।। ६/१९ ।।
नारिदोषो न वा विघ्नं नाशौचो नियमो न च ।
यस्य तिष्ठति मन्त्रोऽयं न स विघ्नैरवाप्यते ।। ६/२० ।।
ध्यानमस्याः प्रवक्ष्यामि यथावज्जगदीश्वरि ।
शवोपरि समासीनां रक्ताम्बरपरिच्छदाम् ।। ६/२१ ।।
रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् ।
सुवक्त्रां षोडशाब्दां तु पीनोन्नतपयोधराम् ।। ६/२२ ।।
कपालकर्तृकाहस्तां परमज्योतिरूपिणीम् ।
वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः ।। ६/२३ ।।
उच्छिष्टेन बलिं दत्त्वा जपेत्तद्गतमानसः ।
उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता ।। ६/२४ ।।
उच्छिष्टं जपमानस्य जायन्ते सर्वसिद्धयः ।
अपरञ्च प्रवक्ष्यामि शृणु देवि फलप्रदम् ।। ६/२५ ।।
होमं संतर्पणं चास्याः सहसा कार्यसिद्धये ।
स्थण्डिले मण्डलं कृत्वा चतुरस्रं समाहितः ।। ६/२६ ।।
पूजयेन्मण्डले देवीं मूलमन्त्रेण मन्त्रवित् ।
ततोऽग्नेर्घ्यं समादाय वह्निरूपां व्यवस्थिताम् ।। ६/२७ ।।
देवीं ध्यात्वा चरेद्धोमं दधिसिद्धार्थतण्डुलैः ।
सहस्रैकविधानेन राजा भवति वश्यगः ।। ६/२८ ।।
मार्जारस्य तु मांसेन यो देव्यै होममाचरेत् ।
स प्राप्नोति परां विद्यां सर्वशास्त्रवशीकृताम् ।। ६/२९ ।।
कुर्याच्छागस्य मांसेन होमं मधुसमन्वितम् ।
सहस्रैकविधानेन भवन्ति धनसिद्धयः ।। ६/३० ।।
विद्याकामश्चरेद्धोमं शर्करामधुपायसैः ।
नूनं तस्य भवन्त्येव सिद्धविद्याश्चतुर्दश ।। ६/३१ ।।
रजस्वलाया वस्त्रेण मधुना पायसेन च ।
होमं कृत्वा महादेवि त्रैलोक्यं वशमानयेत् ।। ६/३२ ।।
नागवल्ल्या चरेद्धोमं मधुना सह सर्पिषा ।
अयुतैकविधानेन सिद्धिविद्या भवेद् ध्रुवम् ।। ६/३३ ।।
सद्योमार्जारमांसेन घृतेन मधुना सह ।
देवगन्धर्वकन्याया भवेदाकर्षणं ध्रुवम् ।। ६/३४ ।।
शशकस्य तु मांसेन मधुनालोडितेन तु ।
कृत्वा होममवाप्नोति विद्यावित्तवरस्त्रियः ।। ६/३५ ।।
धूस्तूरार्कस्य योगेन चितावह्नौ तु मन्त्रवित् ।
कोकिलाकाकपक्षैस्तु होमे शत्रून् विनाशयेत् ।। ६/३६ ।।
उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् ।
पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने ।। ६/३७ ।।
उलूककाकपक्षाभ्यां कुर्याद्धोमं निरन्तरम् ।
द्वेषयेच्छत्रुमन्योन्यं कलहाकुलमुद्धतम् ।। ६/३८ ।।
उलूकपक्षहोमेन गर्भपातो वरस्त्रियाः ।
सहस्रैकविधानेन कुर्याद् होमं समाहितः ।। ६/३९ ।।
विल्वपत्रेण साज्येन मासमेकं निरन्तरम् ।
अपि वन्ध्या लभेत् पुत्रं चिरजीविनमुत्तमम् ।। ६/४० ।।
बन्धूककुसुमं हुत्वा रक्तं मधुसमन्वितम् ।
दुर्भगाया हठाद्देवि सौभाग्यं सुखदायकम् ।। ६/४१ ।।
प्रातरुत्थाय यः कश्चिद् होमं कुर्याद् दिने दिने ।
जवापुष्पेण साज्येन शतमष्टोत्तरं प्रिये ।। ६/४२ ।।
षण्मासस्य प्रयोगेण भवेदाकर्षणं ध्रुवम् ।
देवगन्धर्वमर्त्यानां कन्या नागाङ्गजास्तथा ।। ६/४३ ।।
हठादागत्य कामार्त्ता बलादालिङ्गयान्ति तम् ।
विद्यायाः क्रियते होमस्तिलपायसमिश्रितैः ।। ६/४४ ।।
समाप्नोति महाविद्यां शास्त्रौघपदशालिनीम् ।
मधुना रुरुमांसेन होमं कुर्यात् प्रयत्नतः ।। ६/४५ ।।
विद्यावान् धनवान् विद्धि शस्त्रशास्त्रवशीकृताम् ।
इयं देवि महादेवि वामाचारफलप्रदा ।। ६/४६ ।।
दक्षिणाचारयोगेन न भवेत् फलदायिनी ।
भोजनानन्तरं चास्या बलिं दत्त्वा दिने दिने ।। ६/४७ ।।
उच्छिष्टेन जपेन्मन्त्रं शतमष्टोत्तरं प्रिये ।
उज्जटे वा श्मशाने वा शून्यागारे चतुष्पथे ।। ६/४८ ।।
वालिप्रदानतो देवि प्रत्यक्षा भवति ध्रुवम् ।
एषा देवी मया जप्ता भैरवाकारमिच्छता ।। ६/४९ ।।
इत्येषा कथिता देवी सर्वपापापहारिणी ।
मन्त्रस्योच्चारणाद्देवि सर्वपापवर्जितः ।। ६/५० ।।
उच्छिष्टदूषणं नास्ति स पवित्रो भवेद् ध्रुवम् ।
इत्युच्छिष्टचण्डालिनी देवी भुवनत्रयविश्रुता ।। ६/५१ ।।
नान्या प्रवर्तते काचिद् विद्यां शृणु वरानने ।
शृणु देवि महाविद्यां समयाकालसाधिनीम् ।। ६/५२ ।।
शङ्कर उवाच
न तिथिर्न च नक्षत्रं न च साध्यादिमर्चयेत् ।
महाविद्येति विख्याता शिवदीक्षान्तगामिनी ।। ६/५३ ।।
यज्ञोपवीतं देवेशि धार्यते साधकैर्नरैः ।
उच्छिष्टेनार्चयेद्देवीं महादेवेन साधिताम् ।। ६/५४ ।।
नाप्यनवगतस्तिष्ठेत् सर्वग्रन्थं सुविस्तरम् ।
बहुनोक्तेन किं देवि त्रैलोक्यमपि साधयेत् ।। ६/५५ ।।
सदाकालं तु मन्त्रोऽयं स्मर्तव्यस्त्रिपुण्ड्रधारिणा ।
पयसा गुडभक्तेन झषेण जुहुयान्नरः ।। ६/५६ ।।
आयुर्धनञ्च पुत्रांश्च विद्यामष्टादशीं लभेत् ।
गोप्तव्येयं प्रयत्नेन कथितव्या न कस्यचित् ।। ६/५७ ।।
गुरुभक्तिः प्रकर्तव्या कायेन च धनेन च ।
लोकापवादो न च देवि पापं नैवापरस्तिष्ठति मर्त्यलोके ।। ६/५८ ।।
सुखं भुक्त्वा परे देवि प्लवञ्च साधको व्रजेत् ।
पक्षैकसारां धनदैकसारां विद्यैकसाराञ्च शृणुष्व विद्याम् ।। ६/५९ ।।
सर्वोपकारां परमार्थसारां महानुभावां भुवि कामधेनुम् ।
इति शिवदीक्षान्तर्गतभवसिद्धलक्ष्मीमते पश्चिमाम्नाये फेत्कारिणीतन्त्रे
उच्छिष्टचाण्डालिनीविवरणं नाम षष्ठः पटलः ।।
सप्तमः पटलः
धूमावती प्रयोगोऽयमधुना लिख्यते मया ।
दान्तावर्घीशबिन्द्वन्तो बीजो धूमावती द्विठः ।। ७/१ ।।
धूमावतीमनुः प्रोक्तः शत्रुनिग्रहकारकः ।
षडङ्गं याति संयुक्तं कल्पयेत्तेन मन्त्रवित् ।। ७/२ ।।
पिप्पलादो मुनिश्छन्दो निवृदेषा तु देवता ।
विवर्णा चञ्चला कृष्णा दीर्घा च मलिनाम्बरा ।। ७/३ ।।
विमुक्तकुन्तला रूक्षा विधवा विरलद्विजा ।
काकध्वजरथारूढा विलम्बितपयोधरा ।। ७/४ ।।
सूर्यहस्तातिरूक्षाक्षी धूतहस्ता वरान्विता ।
प्रवृद्धघोषातिभृशं जटिला कुटिलेक्षणा ।। ७/५ ।।
क्षुत्पिपासार्दिता नित्यं भीषणा कलहप्रदा ।
एवंविधां समाध्यायेत् ततः कर्म समाचरेत् ।। ७/६ ।।
तच्चतुर्थेन वर्णेन षष्ठस्वरयुतेन च ।
षड्दीर्घजातियुक्तेन कुर्यादङ्गानि मन्त्रवित् ।। ७/७ ।।
जपेत् कृष्णचतुर्दश्यां पुरश्चरणसिद्धये ।
उपवासरतो मन्त्री शून्यागारे दिवानिशम् ।। ७/८ ।।
श्मशाने विपिने वापि जपेल्लक्षन्तु वाग्यतः ।
सोष्णीश आर्द्रवासाश्च पुरश्चरणकर्मणि ।। ७/९ ।।
साध्योपरियन्त्रमालिख्य तस्मिन् संस्थाप्य शिवं यजेत् ।
अवष्टभ्य शिवं शत्रुनाम्नाऽथ प्रजपेन्मनुम् ।। ७/१० ।।
सहस्रादूर्ध्वतः शत्रुर्ज्वरेण परिगृह्यते ।
पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा ।। ७/११ ।।
मन्त्राद्यक्षरमालिख्य शत्रुनाम ततः परम् ।
द्वितीयान्तं मनोः शत्रोर्नामैवं मुनिना लिखेत् ।। ७/१२ ।।
वनेऽयुतजपाच्छत्रोर्निश्चितं मरणं भवेत् ।
कृत्वा यन्त्रे रिपोराख्यामरण्ये यामिनीदले ।। ७/१३ ।।
उत्सादो जायते शत्रोर्मनोरयुतजापतः ।
दग्ध्वा काकं श्मशानाग्नौ तद्भस्मादाय मन्त्रितम् ।। ७/१४ ।।
विरोधिनाम्नाष्टाशासु सद्य उच्चाटनं रिपोः ।
श्मशानभस्मना कृत्वा शिवं तस्योपरि न्यसेत् ।। ७/१५ ।।
विरोधिनाम संलिख्य कृष्णपक्षे समाचरेत् ।
महिषीक्षीरधूपञ्च दद्याच्छत्रुविपत्करम् ।। ७/१६ ।।
महिषीरूपमाश्रित्य स्वप्ने शत्रुं निपातयेत् ।
वन्ध्याकरतले नासाद्वयोरूर्ध्वं रिपोर्न्यसेत् ।। ७/१७ ।।
जलस्थः प्रजपेन्मन्त्री हू/कारान्नाशयेदरीन् ।
श्मशानभस्मना लिङ्गं कृत्वा पुष्पादिनाऽर्चयेत् ।। ७/१८ ।।
चिताकाष्ठानले क्षीरहोमाच्छान्तिः प्रजायते ।
रजोधूपप्रदानेन गृध्ररूपेण कालिका ।। ७/१९ ।।
मारयत्यरिमागत्य शान्तिर्निर्माल्यधूपतः ।
वराहवालधूपेन हन्याच्छूकररूपिणीम् ।। ७/२० ।।
अश्वत्थपत्रधूपेन शान्तिर्भवति नान्यथा ।
शान्तिः सर्वाभिचारस्य पञ्चगव्येन जायते ।। ७/२१ ।।
क्षीरेण वापि देवेशि मधुरत्रितयेन वा ।
कीलेत् क्षीरतरोर्विदर्भ्य विलिखेन्मन्त्रेण नामाक्षरं
जप्त्वाऽऽलिख्य पदद्वये तु निखनेदुच्चाटनं विद्विषाम् ।
तत्पादद्वयधूलिकीर्णहविषा दद्याद् द्विजेभ्यो बलिं
तज्जप्त्वा चितिभस्मकीर्तितमनोर्हुत्वेति तद्वद्भवेत् ।। ७/२२ ।।
वान्तं शत्रुगृहेषु तच्छिरसि वा तेषां कुलोच्चाटनं
वायव्ये विलिखेत्तदर्णसहितं वायुस्वराष्टौ शिवा
न्यक्षेः रक्ततयारिमाक्षरदशः कृत्वैव तत्रोषितं
चूर्णं तस्य च पल्लवे विनिहितं जप्तं सहस्राक्षरम् ।। ७/२३ ।।
जप्त्वा वासे श्मशाने वा निर्माल्ये पादगोचरे ।
गर्दभावासभूमौ च भूतस्थाने चतुष्पथे ।। ७/२४ ।।
ऊषरे मोहनाद् भूमौ पुष्पितावासके स्वयम् ।
आनीय शर्करां मन्त्री दिग्वासा दक्षिणामुखः ।। ७/२५ ।।
श्मशाने लोष्टं निःक्षिप्य तत्राग्नौ भर्ज्जयेत्तथा ।
चूर्णं तत्तु जपेल्लक्षं निक्षिपेच्छत्रुवेश्मनि ।। ७/२६ ।।
सेनामध्ये च सर्वेषां पक्षादुच्चाटनं भवेत् ।
गर्ते पिपीलिकानान्तु पादभूमितले कणान् ।। ७/२७ ।।
घृतान्नं सप्तरात्रन्तु जुहुयान्मन्त्रविन्निशि ।
भ्रमते काकवत् सर्वां महीमामरणादिषु ।। ७/२८ ।।
कृत्वा प्रतिकृतिं शत्रोर्जन्म-ऋक्षेण मन्त्रवित् ।
कृत्वा प्रतिष्ठां प्राणस्य विद्धा मर्मसु कण्टकैः ।। ७/२९ ।।
आयसैर्मन्त्रमावर्त्य वक्ष्यमाणैः प्रवेष्टयेत् ।
पूर्वोक्तशर्कराभिस्तु जप्त्वा नित्यं प्रतापयेत् ।। ७/३० ।।
सप्तरात्रेण तस्यापि भवत्युच्चाटनं ध्रुवम् ।
अथ सैन्यद्वये लिख्य सारमेयवराहयोः ।। ७/३१ ।।
मन्त्रेण गर्भितौ साध्यौ भौमवारोदयादिषु ।
धुस्तूररससंयुक्ता चिताङ्गारेण मन्त्रिणा ।। ७/३२ ।।
वृषस्य पृष्ठतो बध्वा केशपाशेन तं जपेत् ।
श्मशाने शत्रुमाहूय तद्गेहे निखनेन्निशि ।। ७/३३ ।।
विद्वेषणं भवेत् सद्यो गौरीशङ्करयोरपि ।
अश्वत्थत्वचि मन्त्रार्णैर्दर्भितं साध्यमालिखेत् ।। ७/३४ ।।
अन्यप्रियतरस्तत्तज्जप्त्वा उद्धृत्य चाभ्यसेत् ।
पूर्वोक्तकण्टकैर्विद्धा नयेत् स्पृष्ट्वा शतम् शतम् ।। ७/३५ ।।
विद्विष्टौ भवतस्तौ तु नाम्नामपि च तत्क्षणात् ।
वर्णान्तान् विलिखेत् विषाख्यमभितः कोणेषुमन्त्राक्षरैः
संरुद्धान् परितः प्रभञ्जनगृहं मध्ये च साध्यं पृथक् ।
अङ्गारैः कनकोद्भवैरविपदे मन्त्रं जपंस्ताडयेत्
कार्पासे लवणे कुजार्किदिवसे भूर्लोकविद्वेषताम् ।। ७/३६ ।।
आपाद्य पूर्वाञ्च मूर्त्तिं शत्रोरालिख्य शोषयेत् ।
तापयेन्निशि तं जप्त्वा वह्नेरुपरि लम्बयेत् ।। ७/३७ ।।
एवं सप्तदिनं द्रव्यैराजप्यालिख्य शोषयेत् ।
व्योमाग्निलशुनोन्मत्तहिङ्गुसिद्धार्थशूरणैः ।। ७/३८ ।।
पिण्डैर्लवणसंपूतैरुन्मत्तद्रवसंयुतैः ।
पेषयित्वा तेन सम्यक् लिखेन्मन्त्री मनुं जपेत् ।। ७/३९ ।।
निःक्षिप्य प्रतिमां तत्र हुनेन्नित्यं जपेन्मनुम् ।
बलिमध्ये खनेत् कीलं युक्तरूपं तथोपरि ।। ७/४० ।।
वह्निं प्रज्वाल्य तत्कीलैर्द्रव्यसंयुक्ततो जपेत् ।
सप्तरात्रं ततः कुण्डं शून्यागारे पुरा हुनेत् ।। ७/४१ ।।
त्रिकोणशूलदीप्तञ्च मेखलायतनान्वितम् ।
तत्रापि निखनेत् कीलं वह्निं प्रज्वाल्य पूर्ववत् ।। ७/४२ ।।
ततः प्रतिकृतिं मन्त्री वह्नेरुपरि लम्बयेत् ।
मुक्तद्रव्येण संल्लिप्तामूर्ध्वपादामधोमुखीम् ।। ७/४३ ।।
रक्तद्रव्यैः समाराध्य प्रज्ज्वाल्य विषवृक्षजैः ।
इन्धनैः प्रतिमायाञ्च समित्प्रज्वलितां हुनेत् ।
अनेनादिभिराहुत्योर्निर्विषं यात्यसंशयः ।। ७/४४ ।।
इति फेत्कारिणीतन्त्रे धूमावतीविवरणं नाम सप्तमः पटलः ।।
अष्टमः पटलः
श्रीदेवी उवाच
अधुना श्रोतुमिच्छामि गृध्रकर्णामनुं शिव ।
श्रीशिव उवाच
गृध्रकर्णामनुं देवि कथयामि शृणु प्रिये ।। ८/१ ।।
गृध्रकर्णापदं चोक्त्वा विरूपिणि पदं ततः ।
लम्बस्तनिपदं पश्चाद् महोररिपदं वदेत् ।। ८/२ ।।
उत्पादयपदं भूयस्तथैवोपरि देवि च ।
पदान्येतानि वीप्सायै वदेत्तन्मन्त्रमेव च ।। ८/३ ।।
वह्निजायापदं चोक्त्वा ततो मन्त्रं जपेद् बुधः ।
अयुतं मन्त्रसिद्ध्यर्थं मातृकान्यासतत्परः ।। ८/४ ।।
पिप्पलादो मुनिश्रेष्ठो निबृच्छन्द उदाहृतम् ।
स्वयमेव तु पञ्चाङ्गभद्रकाली तु देवता ।। ८/५ ।।
अतिरौद्री महादंष्ट्रा कृशा दीर्घा कृशोदरी ।
प्रमत्तनयना शूरा दीर्घघोणा मदान्विता ।। ८/६ ।।
स्निग्धगम्भीरनिर्घोषा नीलजीमूतसन्निभा ।
भ्रुकुट्याग्नीव संदीप्ता महावदनभीषणा ।। ८/७ ।।
दष्टौष्ठा कोपताम्रोष्ठी रक्तदीर्घतनूरुहा ।
त्रिशूलैरुग्रदोर्दण्डा नरकीटपलाशिनी ।। ८/८ ।।
अतिरक्ताम्बरा देवी रक्तमांसासवप्रिया ।
शिरोमाला विचित्राङ्गी पिबन्ती शोणितासवम् ।। ८/९ ।।
नृत्यन्ती च हसन्ती च पिशाचगणसेविता ।
पिशाचस्कन्धमारुह्य भ्रमन्ती वसुधातलम् ।। ८/१० ।।
शङ्करस्य मुखोत्पन्ना योगिनी योगवल्लभा ।
इत्थंभूता भद्रकाली मातृभिः परिवारिता ।। ८/११ ।।
ध्यात्वा सम्यक् समाराध्य मन्त्रकार्यं समारभेत् ।
धूमावत्याश्च यत् प्रोक्तमनया च तदाचरेत् ।। ८/१२ ।।
उक्तः प्रयोग एवात्र विशेषविधिरुच्यते ।
विज्ञाय तं तु निर्घोषमेकसूत्रं वनान्तरात् ।। ८/१३ ।।
विषवृक्षं समादाय ततो होमं समाचरेत् ।
शून्यागारे वने वापि कुण्डं कृत्वा त्रिकोणकम् ।। ८/१४ ।।
विल्ववृक्षेन्धनैर्वह्निं प्रज्वाल्य धारयेत् सुधीः ।
ततः कुण्डं जपेन्मन्त्री विषवृक्षस्य साधकः ।। ८/१५ ।।
अष्टोत्तरशतं वह्नौ तदग्नौ प्रक्षिपेद् बुधः ।
सुविनीतं द्विजं धीरं कृत्वा चोत्तरसाक्षिणम् ।। ८/१६ ।।
दिक्षु सर्वासु संस्थाप्य सुभटान् खड्गहस्तकान् ।
कृतरक्षः समाराध्यो वह्निः क्रोधसमन्वितः ।। ८/१७ ।।
अष्टोत्तरशतं जप्त्वा दण्डाग्रं जातवेदसि ।
दत्त्वा सिद्धार्थके मन्त्री जुहुयात् सवनद्वयम् ।। ८/१८ ।।
यष्ट्याग्रमग्नौ सुनिवेश्य पश्चात् सिद्धार्थकैस्तेन समुक्षितैश्च ।
हुनेत् सहस्रद्वयमत्रधीमान् विसृज्य वह्निं बलिदानपूर्वकम् ।। ८/१९ ।।
ध्यायेद् देव्याः स्वरूपं प्रलयानलनिभं रक्तवर्णोग्रनेत्रं
शूलाग्रप्रोतसिंहं तरुणनरशिरःस्रग्विणं तीक्ष्णदंष्ट्रम् ।
उल्काव्यग्रोर्ध्वहस्तं रुधिरमधुमदभ्रान्तचित्तं सुघोरं
शत्रूणां सङ्घमुच्चैः करविधृतशिलादण्डनिर्घोषघोरम् ।। ८/२० ।।
भ्रामयित्वा करेणोल्कां दक्षिणेन रिपोर्मुखम् ।
गत्वा दूरेण विसृजेत् ततः क्रोधानले स्थितः ।। ८/२१ ।।
सुमहाव्रत तत्तीर्थं गत्वा वेगेन वाग्यतः ।
स्नात्वावश्यं शुचिर्भूत्वा कण्ठमात्रोदके स्थितः ।। ८/२२ ।।
संजपेत् स नरो दुर्गां सावित्रीं च समाहितः ।
अष्टोत्तरसहस्रं तु जपेदन्यच्छतं शतम् ।। ८/२३ ।।
उत्तीर्य चाच्छाद्य ततः सुमोहाय सुरालयम् ।
गत्वा तु महतीं पूजां कृत्वा देवस्य चक्रिणः ।। ८/२४ ।।
पादयुग्मं समालम्ब्य वर्णलक्षं जपेद् बुधः ।
तावज्जप्त्वा घटे सद्भिरभिषिञ्चेत् स्वकं वपुः ।। ८/२५ ।।
दक्षिणां विधिवद् दत्त्वा शान्तिहोमञ्च कारयेत् ।
ध्यात्वा दुर्गां जपेल्लक्षं सावित्रीञ्च तथैव च ।। ८/२६ ।।
कृत्वाभिषेकं ताभ्यां तु शक्तितो भोजयेद् द्विजान् ।
दक्षिणां शक्तितो दत्त्वा सिद्धो भवति साधकः ।। ८/२७ ।।
रुद्रदण्डप्रयोगोऽयं दारुणो रणसूदनः ।
पुरा देवासुरे युद्धे हरेण किल निर्मितः ।। ८/२८ ।।
तत्प्रयोगमहं वक्तुं न शक्नोमि तथाऽपि चेत् ।
प्रयोगमात्रं तद्वक्ष्ये विद्वेषोच्चाटनादिकम् ।। ८/२९ ।।
विभीतकफलैः शत्रोर्लिखेन्नाम सहस्रकम् ।
मन्त्रं जप्त्वा सहस्रं तत् खनेत् पितृवने बुधः ।। ८/३० ।।
उच्चाटनं भवेत् क्षिप्रं मरणं चापि किं पुनः ।
मानवानां द्विजश्रेष्ठ न कर्तव्यं मनीषिभिः ।। ८/३१ ।।
तथैव किल तस्यैव त्रिकोणेऽधोमुखं लिखेत् ।
धूस्तूरबीजकर्णेन जप्त्वा वालिप्य तत्पदे ।। ८/३२ ।।
खनेदुच्चाटयेच्छत्रून् वाताहतरजो यथा ।
इति फेत्कारिणीतन्त्रे गृध्रकर्णाविवरणं नाम
अष्टमः पटलः ।।
नवमः पटलः
श्रीशिव उवाच
साम्प्रतं संप्रवक्ष्यामि भद्रकालीमहामनुम् ।
श्रूयतां परमेशानि सावधानाऽवधारय ।। ९/१ ।।
प्रासादबीजमुद्धृत्य कालीति पदमुद्धरेत् ।
महाकालि पदं चोक्त्वा किलयुग्ममतः परम् ।। ९/२ ।।
षडग्निवल्लभान्तोऽयं भद्रकालीमहामनुः ।
आराध्य प्रजपेन्नित्यमष्टोत्तरशतं मनुम् ।। ९/३ ।।
(हौं कालि महाकालि किलि किलि फट् स्वाहा)
जपमाला विधातव्या अष्टाधिकशतेन च ।
ध्यातव्येयं महादेवो भद्रकाली भयापहा ।। ९/४ ।।
क्षुत्क्षामाकोटराक्षी मसिमलिनमुखी मुक्तकेशी रुदन्ती
नाहं तृप्ता वदन्ती जगदखिलमिदं ग्रासमेकं करोमि ।
हस्ताभ्यां धारयन्ती ज्वलदनलशिखासन्निभं पाशमुग्रं
दन्तैर्जम्बूफलाभैः परिहरतु भयं पातु मां भद्रकाली ।। ९/५ ।।
प्रयोगश्चात्र कर्तव्यः सामान्यपटलोदितः ।
अशेषकालिकामन्त्रं कथितं कार्यसिद्धये ।। ९/६ ।।
इयं देवी महादेवी शत्रुनिग्रहकारिणी ।
यथेष्टचेष्टया चिन्त्या धर्मकामार्थसिद्धिदा ।। ९/७ ।।
इति फेत्कारिणीतन्त्रे भद्रकालीविवरणं नाम
नवमः पटलः ।।
दशमः पटलः
अथातः संप्रवक्ष्यामि पुण्याप्त्यै दक्षिणाविधिम् ।
सर्वसिद्धिप्रदं साक्षान्महापातकनाशनम् ।। १०/१ ।।
दैवैर्देवत्वविषये सिद्धैः खेचरसिद्धये ।
गन्धवैर्दानवैर्यक्षैः स्वस्वकार्यार्थसिद्धये ।। १०/२ ।।
पन्नगै राक्षसैर्मत्यैर्मुनिभिश्च मुमुक्षुभिः ।
कामिभिर्धर्मिभिश्चार्थलिप्सुभिः सेवितां सदा ।। १०/३ ।।
देवीं दक्षिणसंज्ञां तां प्रवक्ष्यामि यथा मुने ।
ओं करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।। १०/४ ।।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषणाम् ।
सद्यश्छिन्नशिरःखड्गवामाधोऽर्ध्वकराम्बुजाम् ।। १०/५ ।।
अभयं वरदं चैव दक्षिणाधोर्ध्वपाणिकाम् ।
महामेघप्रभां श्यामां तथा चैव दिगम्बराम् ।। १०/६ ।।
कण्ठावसक्तमुण्डालीं गलद्रुधिरचर्चिताम् ।
कर्णावतंसतां नीतशवयुग्मभयानकाम् ।। १०/७ ।।
घोरद्रंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ।
शवानां करसंघातैः कृतकाञ्चीं हसन्मुखीम् ।। १०/८ ।।
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ।
घोररूपां महारौद्रीं श्मशानालयवासिनीम् ।। १०/९ ।।
दन्तुरां दक्षिणव्यापिमुक्तालम्बिकचोच्चयाम् ।
शवरूपमहादेवहृदयोपरि संस्थिताम् ।। १०/१० ।।
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् ।
माहाकालेन च समं विपरीतरतातुराम् ।। १०/११ ।।
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।
एवं सञ्चित्य कालीं तु श्मशानालयवासिनीम् ।। १०/१२ ।।
प्रवक्ष्यामि मनुं तस्याः सर्वकामप्रदायकम् ।
(क्री/ क्री/ क्री/ हू/ हू/ ह्री/ दक्षिणे कालिके क्री/ क्री/ क्री/
हू/ हू/ ह्री/ स्वाहा) ।। १०/१३ ।।
वर्गाद्यं वह्निसंस्थं च रतिबिन्दुसमन्वितम् ।
त्रिगुणञ्च ततः कूर्चयुग्मं लज्जायुगं ततः ।। १०/१४ ।।
दक्षिणे कालिके चेति पूर्ववच्च ततः पुनः ।
ठद्वयेन समायुक्तं मनुमेनं विदुर्बुधाः ।। १०/१५ ।।
द्वाविंशत्यक्षरो मन्त्रः सर्वसिद्धिप्रदो नृणाम् ।
नात्र शुध्याद्यपेक्षास्ति न वा मित्रारिदूषणम् ।। १०/१६ ।।
न वा प्रयासबाहुल्यं समयासमयादिकम् ।
न वित्तव्ययबाहुल्यं कायक्लेशकरं न च ।। १०/१७ ।।
य एनं चिन्तयेन्मन्त्री सर्वकामसमृद्धिदम् ।
तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ।। १०/१८ ।।
गद्यपद्यमयी वाणी सभायां तस्य जायते ।
तस्य दर्शनमात्रेण वादिनश्च पराजिताः ।। १०/१९ ।।
राजानोऽपि हि दासत्वं भजन्ते किं परे जनाः ।
वह्नेः शैत्यं जलस्तम्भं गतिस्तम्भं विवस्वतः ।। १०/२० ।।
दिवारात्रिव्यत्ययञ्च स कर्तुं भवति क्षमः ।
ब्रह्महत्या सुरापानमगम्यागमनं तथा ।। १०/२१ ।।
सर्वमाशु हरत्येव दक्षिणामेव चिन्तयेत् ।
वागीश्वरसमो वाचि धनैर्धनपतिर्भवेत् ।। १०/२२ ।।
कामतुल्यः स नारीणां रिपूणां च यमोपमः ।
सर्वस्येह जनस्येह वल्लभः कीर्तिवर्द्धनः ।। १०/२३ ।।
अन्ते च लभते देव्या दुर्लभाञ्च गतिं नरः ।
चन्द्रसूर्यप्रभो भूत्वा वसेत् कल्पायुतं दिवि ।। १०/२४ ।।
इत्येवमादिकं चैव बहुना कथ्यते पुनः ।
न तस्य दुर्लभं किञ्चिद् यः स्मरेद् घोरदक्षिणाम् ।। १०/२५ ।।
नागयज्ञोपवीताञ्च चन्द्रार्द्धकृतशेखराम् ।
जटाजूटञ्च सञ्चिन्त्य महाकालीसमीपगाम् ।। १०/२६ ।।
कूर्चलज्जायुगं बीजद्वयं चान्ते तथैव च ।
एवं सञ्चिन्त्य देवीं तु रक्तपुष्पैः समर्चयेत् ।। १०/२७ ।।
कामबाणसदाविद्धा निर्लज्जा विह्वला स्त्रियः ।
स्वं स्वं सन्त्यज्य भर्त्तारमालिङ्गन्ते सदैव तम् ।। १०/२८ ।।
लोहितां शूलहस्तां तामेकशूलधरां तथा ।
महाकालसमीपस्थां ध्यात्वा पीतैः सुपुष्पकैः ।। १०/२९ ।।
अभ्यर्च्य कालिकां पश्चात्तथैवान्तेऽपि योजयेत् ।
आकर्षणं भवत्येव सदा स्थावरजङ्गमम् ।। १०/३० ।।
स्वर्गपातालगं चापि किमन्यद् भूतले स्थितम् ।
आकर्षयति सर्वं हि महाकालवचो यथा ।। १०/३१ ।।
कपिलां द्विभुजां कर्तृकपालसव्यदक्षिणाम् ।
ध्यात्वैवं हि च सर्वस्य चान्ते च द्वयमेव हि ।। १०/३२ ।।
एवं प्रजप्य पुष्पेण कृष्णेनैनां प्रपूजयेत् ।
मारणं हि भवत्यस्य यमुद्दिश्य कृता क्रिया ।। १०/३३ ।।
उच्चाटयति पिङ्गाक्षी संत्रासयति केकरी ।
विद्रावयति मुक्तास्या प्रोन्मत्तयति घूर्णिता ।। १०/३४ ।।
विक्षोभयति संक्रुद्धा संपादयति सायुधा ।
संकोचयति संक्रुद्धा विप्रलब्धा विरोधयेत् ।। १०/३५ ।।
यं यं भावं जनो नेयस्तद्भावस्थां स्मरेद्यदि ।
अत्र सर्वं प्रकर्तव्यं भावमात्रं विचिन्तयेत् ।। १०/३६ ।।
उच्चाटयति नैवात्र सर्वत्र सुरतो मतः ।
स्नातः शुक्लाम्बरधरः कृतनित्यक्रियो दिवा ।। १०/३७ ।।
रात्रौ नग्नः शयानश्च मैथुने च व्यवस्थितः ।
अथवा मुक्तकेशश्च तेन स्युः सर्वसिद्धयः ।। १०/३८ ।।
स्तम्भनं मोहनञ्चैव वशीकारो विशेषतः ।
नग्नां परस्त्रियं वीक्षन् प्रजपेदयुतं नरः ।। १०/३८ ।।
निकेतः सर्वविद्यानां पारगः सर्वदैव हि ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः ।। १०/३९ ।।
गद्यपद्यमयी तस्य वाणी सर्वविधा भवेत् ।
अथवा मुक्तकेशश्च हविष्यं भक्षयेन्नरः ।। १०/४० ।।
प्रजपेदयुतं तावदेवं प्रतिविधिः स्मृतः ।
अष्टोत्तरशतं जप्त्वा भागमामन्त्रणेन च ।। १०/४१ ।।
मैथुनं यः प्रयात्येवं धनधान्यसुतान्वितः ।
सर्वविद्यावतां श्रेष्ठो भवेद्वै नात्र संशयः ।। १०/४२ ।।
ऋतुमत्या भगं पश्यन् प्रजपेदयुतं नरः ।
बालिशस्यापि तद्वाणी गद्यपद्यमयी भवेत् ।। १०/४३ ।।
छन्दोबद्धा च वै तस्य वाणी वक्त्रात् प्रवर्तते ।
सुरतेषु सदा जप्यं महापातकमुक्तये ।। १०/४४ ।।
श्मशानालयमागत्य मुक्तकेशो दिगम्बरः ।
जपेदयुतसंख्यं तु सर्वकामार्थसिद्धये ।। १०/४५ ।।
तत्रैव प्रेतमावास्य यो जपेन्मन्त्रवित्तमः ।
अयुतं वाग्यतो भूत्वा बिभीषिकपरायणः ।। १०/४६ ।।
स याति परमां सिद्धिं देवैरपि सुदुर्लभाम् ।
आकर्षणं वशीकारोच्चाटनं बोधनं तथा ।। १०/४७ ।।
स्तम्भनं मोहनञ्चैव भासनं द्रावणं तथा ।
वाग्मित्वञ्च धनित्वञ्च बहुपुत्रित्वमेव च ।। १०/४८ ।।
बहुवल्लभतां चैव सर्वप्रियत्वमेव हि ।
समायाति खेचरत्वं देवत्वमपि चैव हि ।। १०/४९ ।।
न जरा न च मृत्युर्वा न रोगो न च वा भयम् ।
न भीतिर्न मनुष्यस्य न च वाक् कायपातनम् ।। १०/५० ।।
अथवा स भवेन्नित्यं चतुर्विंशतिसिद्धियुक् ।
स्वदेहरुधिराक्तैश्च विल्वपत्रैः सहस्रशः ।। १०/५१ ।।
श्मशानेऽभ्यर्च्य देवीं तु वागीशसमतां ब्रजेत् ।
रेतोयुक्तेन पुष्पेण अर्कस्येह सहस्रशः ।। १०/५२ ।।
श्मशानेऽभ्यर्च्य कालीं तु सर्वसिद्धिं स विन्दति ।
धनवान् बलवान् वाग्मी सर्वयोषित्प्रियः सुधीः ।। १०/५३ ।।
जायते नात्र संदेहो महाकालवचो यथा ।
श्मशाने योषितं नीत्वा सुवस्त्रां गणिकां तथा ।। १०/५४ ।।
रक्तचन्दनदिग्धाङ्गी रक्तपुष्पैरलङ्कृताम् ।
जवापुष्पिर्मनुं प्रोक्ष्य ततो ध्यायेत्तु चण्डिकाम् ।। १०/५५ ।।
ततो गत्वा लभेद्राज्यं यदि सा न भयायते ।
श्मशानशयने चैव शवासनगतः पुनः ।। १०/५६ ।।
असकृत्तु जपेन्मन्त्रं सर्वथा वाऽयुतैस्तथा ।
रेतोभिश्च तथा तद्वत् स्वकीयेन कचेन च ।। १०/५७ ।।
मैथुनायितयोषाया भगप्रक्षालनेन च ।
मेषमाहिषरक्तेन नररक्तेन चैव हि ।। १०/५८ ।।
मूषमार्जाररक्तेन वाग्मिता तस्य जायते ।
घनित्वं जायते तस्य सर्वसिद्धिः प्रजायते ।। १०/५९ ।।
वचसा स भवेज्जीवो धनेन च धनाधिपः ।
आज्ञया देवराजोऽपि रूपेणापि मनोभवः ।। १०/६० ।।
बलेन पवनो ह्येष सर्वतत्त्वार्थसाधकः ।
साधिता साधितं मांसं सास्थि दद्यात् सदा बलिम् ।। १०/६१ ।।
मूषमार्जारमांसञ्च मेषमाहिषमेव च ।
शवस्यास्थि प्रदातव्यं तथा मद्यसमन्वितम् ।। १०/६२ ।।
स्वनखच्छिन्नमार्जारकेशं सम्मार्जनागतम् ।
निवेदयेत् श्मशाने तत् सर्वसिद्धीश्वरो भवेत् ।। १०/६३ ।।
नारीरजोऽन्वितं कृत्वा पर्णानां शतमुत्तमम् ।
प्रत्येकं प्रजपेन्मन्त्रं ततस्तद्धोमयेद् बुधः ।। १०/६४ ।।
योनिरूपं हि कुण्डं वै कृत्वा वितस्तिमानतः ।
हस्तविस्तारतः कृत्वा हस्तञ्चापि तथाप्यधः ।। १०/६५ ।।
तत्र कार्या हि विप्रेण वह्निस्थापनकक्रिया ।
महाकालाय देवाय प्रदद्यात् प्रथमाहुतिम् ।। १०/६६ ।।
दद्यादाज्येन भक्तेन मांसेन रुधिरेण च ।
कृष्णपुष्पेण साज्येन रेतसापि विशेषतः ।। १०/६७ ।।
रुरुमांसेन साज्येन भक्तेन रुधिरेण च ।
आमिषादिकमप्येवं जुहुयात् पितृकानने ।। १०/६८ ।।
स्नातः शुक्लाम्बरधरः शुचिः प्रयतमानसः ।
दिवा चैव प्रकर्तव्यं सर्वकामार्थसिद्धये ।। १०/६९ ।।
रत्रौ नग्नो मुक्तकेशो मैथुनेनापि तत्त्वतः ।
प्रकर्त्तव्यं प्रयत्नेन सर्वकामार्थसिद्धये ।। १०/७० ।।
द्विजानाञ्चैव सर्वेषां दिवाविधिरिहोच्यते ।
शूद्राणाञ्च तथा प्रोक्तं रात्रौ दृष्टं महामतम् ।। १०/७१ ।।
यद्यत् कामयते चित्ते तत्तदाप्नोति नित्यशः ।
महाकालं हुनेद्यत्नात् पश्चाद्देवीं प्रयत्नतः ।। १०/७२ ।।
त्रिधा विभज्य मन्त्रं वै यत्नात् साधकसत्तमः ।
मांसं रक्तं त्वचं केशं नखं भक्तञ्च पायसम् ।। १०/७३ ।।
आज्यञ्चेति प्रयत्नेन होतव्यं सर्वसिद्धये ।
एवं कृत्वा विधातव्यं लभते सिद्धिमुत्तमाम् ।। १०/७४ ।।
यद्यत् प्रार्थयते चित्ते तत्तदाप्नोति नित्यशः ।
देवत्वं दानवत्वञ्च सिद्धचारणतां तथा ।।
सदा हुत्वा समाप्नोति नित्यमेवमतन्द्रितः ।। १०/७५ ।।
अथ वक्ष्यामहं देव्या पूजाविधिमनुत्तमम् ।
त्रिकोणं विन्यसेत् पूर्वं पुनः पश्चात् त्रिकोणकम् ।। १०/७६ ।।
नवकोणं तु तस्यान्ते तन्मध्ये स्थापयेच्छिवाम् ।
एवं पञ्चदशारं वै रेखाभिः परिवेष्टयेत् ।। १०/७७ ।।
वहिरष्टदलं कार्यं चतुर्द्वारोपशोभितम् ।
ततः पूर्वादिकोणेषु वामावर्तेन विन्यसेत् ।। १०/७८ ।।
कालीं कपालिनीं कुल्वां कुरुकुल्वां विरोधिनीम् ।
विप्रचित्तां तु विन्यस्य बहिः षट्कोणके पुनः ।। १०/७९ ।।
उग्रामुग्रप्रभां दीप्तां परत्रिकोणके न्यसेत् ।
नीलां घनां बलाकाञ्च तथैवापरके त्रिके ।। १०/८० ।।
मात्रां मुद्रां मितां चैवापरत्रिकोणके बुधः ।
सर्वाः श्यामा असिकरा मुण्डमालाविभूषिताः ।। १०/८१ ।।
तर्जनीं वामहस्तेन धारयन्त्यश्च सस्मिताः ।
तद्वहिर्मूलतश्चापि ब्राह्मी नारायणी तथा ।। १०/८२ ।।
माहेश्वरी च चामुण्डा कौमारी चापराजिता ।
वाराही च तथा पूज्या नारसिंही तथैव च ।। १०/८३ ।।
ततो मध्ये त्रिकोणान्तर्न्यसेद् देवीञ्च दक्षिणाम् ।
महाकालञ्च तथैव न्यसेच्चैष विधिः स्मृतः ।। १०/८४ ।।
सर्वासामपि देवीनां बलिपूजा तथैव च ।
अनुलेपनकं चापि विभवेनोपकल्पितम् ।। १०/८५ ।।
त्रिस्त्रिः पूजा प्रकर्तव्या सर्वासामपि सर्वदा ।
अङ्गन्यासकरन्यासौ यथावत् कथयाम्यहम् ।। १०/८६ ।।
दीर्घषट्कयुताद्येन प्रणवाद्येन मन्त्रवित् ।
षडङ्गानि न्यसेन्मन्त्री त्रिः सकृद् वा यथासुखम् ।। १०/८७ ।।
पञ्चाशद्भिश्च वर्णैश्च हृदयं द्वौ भुजौ तथा ।
तथा जङ्घाद्वयञ्चैव योजनीयं दिशो दश ।। १०/८८ ।।
पञ्चधा दशधा वापि मूलमन्त्रेण सप्तधा ।
समस्ताङ्गं प्रकुर्वीत शोधितं मन्त्रवित्तमः ।। १०/८९ ।।
ततः पूर्वोक्तरूपां तां ध्यायेद्वै घोरदक्षिणाम् ।
योगिनीचक्रसहितां महाकालसमन्विताम् ।। १०/९० ।।
संपूज्य प्रयतश्चापि बलिं स प्रतिपादयेत् ।
बलिमुत्थाप्य नैवेद्यं नै-ऋत्याञ्च निवेदयेत् ।। १०/९१ ।।
हृदये चैव देवीं स्वे समर्प्य विधिवद् बुधः ।
निर्माल्यं वै शुचौ देशे धारणीयं प्रयत्नतः ।। १०/९२ ।।
लक्षञ्चैव जपेन्मन्त्री हविष्याशी दिवा शुचिः ।
अशुचिश्च तथा रात्रौ लक्षमेकं तथैव च ।। १०/९३ ।।
दशांशं होमयेन्मन्त्री तर्पयेदभिषेचयेत् ।
होमेऽपि तर्पणे चैव यथावत् कथितो विधिः ।। १०/९४ ।।
एवं देवीं कलुषदहनीं पूजयित्वा यथावद्
धृत्वा तावद् बलिमपि तथा तर्पयित्वाऽभिषिच्य ।
यं यं कामं रचयति मनः स्वाहितं मर्त्यलोक -
स्तं तं प्राप्य प्रयाति प्रतिपदपदवीं योगिभिः प्रार्थनीयाम् ।। १०/९५ ।।
भैरवोऽस्य ऋषिः प्रोक्तस्त्रिष्टुप्छन्द उदाहृतम् ।
श्मशानकालिका देवी क्रींबीजं हू/ च शक्तिकः ।। १०/९६ ।।
सकलसिद्ध्यर्थे विनियोगः ।
इति फेत्कारिणीतन्त्रे श्मशानकालिकाकथने
दशमः पटलः ।।
एकादशः पटलः
कैलासशिखरासीनं चन्द्रखण्डविराजितम् ।
वक्षःस्थले समासीना पृच्छति स्म नगात्मजा ।। ११/१ ।।
श्रीदेवी उवाच
कथयेशान सर्वज्ञ भारतास्ते तपोधनाः ।
कां विद्यां प्राप्य कवयो भारतादीन् प्रचक्रिरे ।। ११/२ ।।
श्रुत्वा नगात्मजावाक्यं रहस्यं परमेश्वरः ।
प्राह प्रियां परिष्वज्य साधु साध्विति पूजयन् ।। ११/३ ।।
श्रीशिव उवाच
शृणु साध्वि महाविद्यामज्ञानेन्धनदाहिनीम् ।
यामवाप्य महात्मानो धर्मकामार्थमुक्तिषु ।। ११/४ ।।
नासाध्यं मेनिरे किञ्चित् कवयः शुद्धबुद्धयः ।
वादे वदसि यां वाक्यस्तम्भिनीं प्रतिवादिनीम् ।। ११/५ ।।
विद्या हानिकरी वैरी विदुषां बलिदानतः ।
हास्याय या सदस्यानामशुद्धजल्पनादिना ।। ११/६ ।।
वादिनं वाथ राजानं मन्त्रिणं वशमानयेत् ।
ज्ञानमात्रेण मन्त्रस्य मतिरुग्रा प्रजायते ।। ११/७ ।।
जपादेव तु सार्वज्ञ्यं जायते नात्र संशयः ।
जिह्वायां न्यसनादेव मूर्खोऽपि सुकविर्भवेत् ।। ११/८ ।।
प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा परा
खड्गेन्दीवरकर्तृखर्परभुजा हूंकारबीजोद्भवा
खर्वा नीलविशालपिङ्गलजटाजूटोग्रनागैर्युता
जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् ।। ११/९ ।।
अव्याहतमतिः शास्त्रे विजयी वाक्पतिर्भवेत् ।
महाचीनक्रमां नत्वा तारां त्रिभवतारिणीम् ।। ११/१० ।।
तत्साधनविधिं वक्ष्ये मम सर्वज्ञसाधनम् ।
सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् ।। ११/११ ।।
न च दोषो दिवारात्रौ न सन्ध्यायां महानिशि ।
वस्त्रासनस्थानगेहदेहस्पर्शादिवारिणः ।। ११/१२ ।।
शुद्धिं न चारयेदत्र निर्विकल्यं मनश्चरेत् ।
नात्र सिद्धाद्यपेक्षास्ति न वा मित्रादिदूषणम् ।। ११/१३ ।।
य एवं चिन्तयेद् देवीं सर्वकामसमृद्धिदाम् ।
गद्यपद्यमयी वाणी सभायां तस्य जायते ।। ११/१४ ।।
तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः ।
राजानोऽपि च दासत्वं भजन्ते किं परे जनाः ।। ११/१५ ।।
सर्वदा पूजयेद् देवीमस्नातः कृतभोजनः ।
महानिशि शुचौ देशे बलिं मन्त्रेण दापयेत् ।। ११/१६ ।।
स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियाः ।
जपस्थाने महाशङ्खं निवेश्योर्ध्वं जपञ्चरेत् ।। ११/१७ ।।
स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र तत्राप्यचूडके ।
उपहारं यथायोग्यं भक्ष्यद्रव्यान् यथारुचीन् ।। ११/१८ ।।
मांसं मत्स्यं दधि क्षौद्रं पयः शाकाज्यमैक्षवम् ।
भक्ताद्यशेषभक्ष्याणि दत्त्वा भक्षन् जपञ्चरेत् ।। ११/१९ ।।
दिक्कालनियमो नास्ति स्थित्यादिनियमो न च ।
जपे न कालनियमो नार्चादिषु बलिष्वपि ।। ११/२० ।।
स्वेच्छया नियमोक्तोऽत्र महामन्त्रस्य साधने ।
नाधर्मो जायते तेन किञ्चिद् धर्मो महान् भवेत् ।। ११/२१ ।।
स्वेच्छाचारोऽत्र गदितः प्रचरेद् धृष्टमानसः ।
कृतार्थं मन्यमानस्तु सन्तुष्टनिजमानसः ।। ११/२२ ।।
सुगन्धिश्वेतलौहित्यकुषुमैरर्च्चयेत् दलैः ।
विल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः ।। ११/२३ ।।
एकलिङ्गे श्मशाने च शून्यागारे चतुष्पथे ।
तत्रस्थं साधयेद् योगी तारां त्रिभवतारिणीम् ।। ११/२४ ।।
अवाप्य मन्त्रं विधिवत् परितोष्य गुरुं तथा ।
गोभूहिरण्यवस्त्राद्यैर्यथाविभवविस्तरैः ।। ११/२५ ।।
मृदुचूडकमासीनोऽप्यन्येषु कोमलेऽपि वा ।
विष्टरेषु समाश्रित्य साधयेत् सिद्धिमुत्तमाम् ।। ११/२६ ।।
भूतशुद्धिं विधायाथ शून्यं विश्वं विचिन्तयेत् ।
निर्लेपं निर्मलं शुद्धमात्मानं तारिणीमयम् ।। ११/२७ ।।
अन्तरिक्षे ततो ध्यायेदाःकाराद् रक्तपङ्कजम् ।
भूयस्तस्योपरि ध्यायेत् टांकारात् श्वेतपङ्कजम् ।। ११/२८ ।।
तस्योपरि पुनर्ध्यायेद् इकारं नीलसन्निभम् ।
ततो हुकारजां पश्येत् कर्तृकां बीजभूषिताम् ।। ११/२९ ।।
कर्तृकोपरि तां ध्यायेदात्मानं तारिणीमयम् ।
प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् ।। ११/३० ।।
खर्वां लम्बोदरीं भीमां व्याघ्रचर्मावृत्तां कटौ ।
नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् ।। ११/३१ ।।
बालार्कमण्डलाकारलोचनत्रयभूषिताम् ।
चतुर्भुजां ललज्जिह्वां भीमरूपां वरप्रदाम् ।। ११/३२ ।।
खड्गकर्तृधरां पक्षे वामोत्पलकपालिनीम् ।
पिङ्गोग्रैकजटां ध्यायेद् मौलावक्षोभ्यभूषिताम् ।। ११/३३ ।।
सुमुखं चतुरस्रञ्च वृत्तं गोमुखमेव च ।
योनिमुद्रेति विख्याता पञ्चमुद्रा नमस्कृता ।। ११/३४ ।।
ज्वलच्चितामध्यगतां घोरदंष्ट्राकरालिनीम् ।
सावेशस्मेरवदनां स्त्र्यलङ्कारविभूषिताम् ।। ११/३५ ।।
विश्वव्यापकतोयान्तः श्वेतपद्मान्तरस्थिताम् ।
भावनारससम्पन्नो भवेद् योगी महाकविः ।। ११/३६ ।।
जडोऽपि यदि मूर्खः स्याद् भावनावशतत्परः ।
लभतेऽभिमतां वाणीं मन्त्रस्य लक्षजापतः ।। ११/३७ ।।
(ह्री/ स्त्रीं हू/ फट्)
त्र्यक्षरोऽयं महामन्त्रः फट्कारान्तो हृदि स्थितः ।
पञ्चरश्मिसमायुक्तोऽप्यज्ञानेन्धनदाहकः ।। ११/३८ ।।
तस्योद्धारविधिं वक्ष्ये मम सार्वज्ञ्यकारणम् ।
प्रथमं सपरं दत्त्वा चतुर्थस्वरभूषितम् ।। ११/३९ ।।
रेफारूढं स्फुरद्दीप्तमिन्दुबिन्दुविभूषितम् ।
स्तृंकारञ्च ततो दद्यात् चतुर्थस्वरभूषितम् ।। ११/४० ।।
दीर्घोकारसमायुक्तं हंकारं योजयेत्ततः ।
फट्कारं तु ततो दद्यात् सम्पूर्णं सिद्धिमन्त्रकम् ।। ११/४१ ।।
कल्पयेत् स्थिरचित्तेन पण्डितोऽहं महाकविः ।
अजस्रभावनाभ्यासाद् भवेद् देवो न संशयः ।। ११/४२ ।।
सुविमलनखपाणिपादकुन्तै -
र्मुदितमनाः परभूषणेषु मौनी ।
हरिहरकमलोद्भवाङ्घ्रिभक्तो
भवति चिराय सरस्वतीनिवासः ।। ११/४३ ।।
कृतसुकृतसहस्रानेकजन्मप्रतानै -
र्यदि भवति मनुष्यो गुर्वधीनश्चिराय ।
कथमपि मनुमेनं प्राप्य शिष्याय नास्मै
निजकुलतिलकाय ज्येष्ठपुत्राय दद्यात् ।। ११/४४ ।।
न पापरतये दद्याद् नाभक्ताय कदाचन ।
गुरुभक्ताय शान्ताय दद्यात् पात्रे दयात्मने ।। ११/४५ ।।
मनुर्विमृश्य दातव्यो ज्येष्ठस्यापि विनीतताम् ।
पुत्राय किमथान्यस्मै विगोत्राय सुपौरुषम् ।। ११/४६ ।।
मधुना त्रिदिनादर्वाग्
जिह्वायां विन्यसेदमुम् ।
(मन्त्री) यदि पठति पठितोऽसौ
न पठति चेन्नास्य मूर्खता भवति ।। ११/४७ ।।
गुरुचरणसरोजं सर्वदा भक्तिभावात्
परिचरति विधेयो वास्य सर्वात्मना स्यात् ।
कथमपि मनुमेनं मानजन्मा नरोऽसौ
भवति जगति वादिद्वैतसिद्धान्तहन्ता ।। ११/४८ ।।
सर्वदा गोपयेदेनं मनुं च गुरुमेव च ।
तेन वीर्यवती विद्या निर्वीर्या स्यात् प्रकाशनात् ।। ११/४९ ।।
उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् ।। ११/५० ।।
न कदाचिद् भवेन्मूर्खो मनुं यो वेत्ति मानवः ।
त्रिलोक्यां भवति ख्यातो विधायास्य च पूजनम् ।। ११/५१ ।।
यस्मिन् दिवसे लभते मनुं तत्र लाभो यदि स्यात् ।
नियतं लभते व्यत्ययमपि सदसत्कर्मणोरुभयोः ।। ११/५२ ।।
उपदेशादङ्गमन्त्रो बलिमन्त्रस्तथैव च ।
ज्ञातव्या विदुषा सिद्धिरस्य मन्त्रस्य लाभतः ।। ११/५३ ।।
उपांशु स्यात् शतगुणः साहस्रो मानसः स्मृतः ।
अचिरादीहिता सिद्धिर्महाशङ्खस्य मालया ।। ११/५४ ।।
यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः ।
कृतार्थस्तेन जायेत स्वर्गं वा मोक्षमेव वा ।। ११/५५ ।।
भ्रान्तिस्तत्र न कर्तव्या सिद्धिहानिः प्रजायते ।
शुद्धचित्तो भवेन्नित्यं सिद्धिः स्यादपवर्गदा ।। ११/५६ ।।
उपचारविशेषेण राजपत्नीं वशं नयेत् ।
राजानं जपमात्रेण बलिना सकलं जगत् ।। ११/५७ ।।
इति नीलसरस्वत्याः प्रपञ्चोऽयं प्रदर्शितः ।
ब्रह्मणा पूर्वमस्मभ्यं मया तुभ्यं नगात्मजे ।। ११/५८ ।।
सिद्धमन्त्रो यदा मन्त्री बालिशस्यापि मूर्द्धनि ।
करं दत्वा दिशत्याशु सोऽपि श्लोकान् करोत्युत ।। ११/५९ ।।
नीलसारस्वतेमन्त्रे कविताविघ्नकारिणि ।
अनास्था च द्वितीयं तु न किञ्चिद् विघ्नकारणम् ।। ११/६० ।।
सदा प्रसादं भजतां सदा नीलसरस्वतीम् ।
विशेषतः कलियुगे मत्प्रसादाद् भविष्यति ।। ११/६१ ।।
अल्पज्ञमपि विद्वांसो मानयिष्यन्ति वाग्मिनः ।
वाचस्पतिरिवाचार्यं पश्यन्मन्त्रज्ञमीदृशम् ।। ११/६२ ।।
मन्त्रस्य ज्ञानमात्रेण चानुभावद्वयं भवेत् ।
तात्कालिकी च कविता परैरनभिभाविता ।। ११/६३ ।।
विद्या ब्राह्मणमित्याह शेवधिस्तेऽस्मि रक्ष माम् ।
असूयकाय मां मा दास्तथा स्यां वीर्यवत्तमा ।। ११/६४ ।।
यमेव तु शुचिं विद्यान्नियतं ब्रह्मचारिणम् ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ।। ११/६५ ।।
यद्यदृष्टवशाल्लाभो मन्त्रस्यास्य भवेत् प्रिये ।
स्वगोत्रे पौरुषं नैतदन्यगोत्रं नयेत् सुधीः ।। ११/६६ ।।
विद्यां वेदानवाप्नोति कीर्तिमायुः सुतान् बहून् ।
स वासः श्रीसरस्वत्योर्यत्र सारस्वतो मनुः ।। ११/६७ ।।
पुष्करिण्या जलेऽगाधे यष्टिकाष्ठं तमोग्रहे ।
दन्तेनानीय तत् तूर्णं कीलकं तेन कारयेत् ।। ११/६८ ।।
तेन मधुघृताक्तेन पद्मिनीपत्रमात्रके ।
लिखेद् वज्रावलीमध्ये मूलमन्त्रञ्च सिद्धिदम् ।। ११/६९ ।।
तत्कुण्डे चतुरस्रे तु निक्षिप्य जुहुयादपि ।
सहस्रं क्षीरनीराक्तं पद्मानां लोहितत्विषाम् ।। ११/७० ।।
प्रणवं पूर्वमुच्चार्य पद्मे युग्मं तथैव च ।
महापद्मे पदं ब्रूयात् पद्मावति पदं ततः ।। ११/७१ ।।
माये स्वाहेति मन्त्रेण यथा पूर्वं बलिं हरेत् ।
एवं यः कुरु कर्म स स्याद् द्रुतकविर्ध्रुवम् ।। ११/७२ ।।
अर्धरात्रे ततो नित्यं बलिं दद्यात् चतुष्पथे ।
प्रणवं पूर्वमुद्धृत्य हृल्लेखां च ततः परम् ।। ११/७३ ।।
एकजटे पदस्यान्ते महाशब्दमुदीरयेत् ।
यक्षाधिपदमाभाष्य पतये पदतो मम ।। ११/७४ ।।
उपनीतं पदं चोक्त्वा बलिं गृह्णेति च द्विधा ।
गृह्णापय द्विधा चोक्त्वा मम सर्वपदान्ततः ।। ११/७५ ।।
शान्तिं कुरुपदं ब्रूयात् परविद्यामनन्तरम् ।
द्विधाकृष्येति च ब्रूयात् त्रुटं छिन्धीति च द्विधा ।। ११/७६ ।।
सर्वादि च ततो जगद्वशमानयशब्दतः ।
मायास्वाहेति मन्त्रोऽयं बल्यादौ वृद्धिसिद्धितः ।। ११/७७ ।।
परसैन्यग्रहारिष्टरोगकृत्यानिवारणम् ।
अथवा मधुलाजाभ्यां जिह्वायां बालकस्य तु ।। ११/७८ ।।
नाडीच्छेदाद् यथा पूर्वं लिखेद्धेमशलाकया ।
मूलमन्त्रं लिखेन्मन्त्री यस्योष्ठे श्वेतदूर्वया ।। ११/७९ ।।
वाक्योच्चारणतो बालो वाग्मी द्रुतकविर्भवेत् ।
शताभिजप्तमात्रेण रोचनातिलको नरः ।। ११/८० ।।
कृत्वा पश्यन्ति यं मन्त्री तं कुर्यादात्मवद्वशम् ।
श्मशानाङ्गारमादाय मङ्गले वासरे निशि ।। ११/८१ ।।
कृष्णवस्त्रेण संवेष्ट्य बध्नीयाद्रक्ततन्तुना ।
शताभिमन्त्रितं तच्च प्रक्षिपेदरिमन्दिरे ।। ११/८२ ।।
सप्ताहाभ्यन्तरे तेषामुच्चाटनमिदं महत् ।
नरास्थिनि लिखेन्मन्त्रं क्षारयुक्तहरिद्रया ।। ११/८३ ।।
सहस्रं परिसंजप्य निशायां रविवासरे ।
क्षिप्यते यस्य गेहे तु मृत्युस्तस्य त्रिमासतः ।। ११/८४ ।।
क्षेत्रे तु शस्यहानिः स्याज्जवहानिस्तुरङ्गमे ।
योनियुग्मे लिखेद् भूर्जे लाक्षारसेन मन्त्रवित् ।। ११/८५ ।।
तन्मध्ये साध्यसंयुक्तं मूलमन्त्रं लिखेत्ततः ।
स्वरान् क्रमगतांश्चापि कादिवर्णान् यथाक्रमम् ।। ११/८६ ।।
अष्टवर्गसमायुक्तं यन्त्रमेतत् प्रयोजयेत् ।
वेष्टितं पीतवस्त्रेण यत्नेन परिवेष्टयेत् ।। ११/८७ ।।
वध्नीयात् पट्टसूत्रेण शिशूनां कण्ठभूषणम् ।
स्त्रीणां वामकरे बन्धमन्येषां दक्षिणे करे ।। ११/८८ ।।
वन्ध्यापि लभते पुत्रं निर्धनो धनवान् भवेत् ।
इयं रक्षा पुरा बद्धा ज्ञानार्थं गोतमादिभिः ।। ११/८९ ।।
कीर्त्यर्थं पार्थिवैश्चान्यैः संग्रामे जयकाङ्क्षिभिः ।
इति निगदितमेतद् गोतमद्यैर्यदुक्तं
सकलजनहितार्थं मन्त्रवर्णस्वरूपम् ।
यदधिगमवशात् स्याद्वाञ्छिताशेषसिद्धि -
र्द्रुततरकवितायै यत्नमन्यं त्यजेच्च ।। ११/९० ।।
अथ ते संप्रवक्ष्यामि पूजाविधिमनुत्तमम् ।
आदौ जलमधिष्ठाय पादयोः क्षालनं ततः ।। ११/९१ ।।
द्विराचम्य शिखां बध्वा ततो भूमिविशोधनम् ।
विघ्नानुत्सादयित्वा तु कुर्याद् भूम्यभिमन्त्रणम् ।। ११/९२ ।।
यन्त्रं लिखित्वाऽधिष्ठाय पुष्पं वाक्कायमानसम् ।
मृद्वासनं समध्यास्य मायां पूर्वदले लिखेत् ।। ११/९३ ।।
याम्ये बीजं द्वितीयं तु चोत्तरे फं पश्चिमे ढं ।
मध्ये बीजं लिखेत्तारं भूतशुद्धिं समाचरेत् ।। ११/९४ ।।
मायां नाभौ रक्तवर्णां ध्यात्वा तज्जातवह्निना ।
शुष्कं पापात्मकं देहं दग्धं सञ्चिन्तयेत्ततः ।। ११/९५ ।।
ह्रीकारं हृदि पीताभं तदुद्भूतेन वायुना ।
भस्म प्रोत्सारितं ध्यात्वा ललाटे चिन्तयेत्ततः ।। ११/९६ ।।
कूर्चं तूषारवर्णाभं तदुद्भूतामृतेन तु ।
तदस्थिप्लावितं कृत्वा तत्रात्मानं विचिन्तयेत् ।। ११/९७ ।।
समस्तदोषनिर्मुक्तं निर्मलं देवतात्मकम् ।
विश्वव्यापकतोयान्तां बीजोत्थबीजकर्णिकाम् ।। ११/९८ ।।
खर्वां श्यामां प्रत्यालीढां शवाधिरूढां चिताग्निमध्यस्थाम् ।
वृत्तारुणत्रिनेत्रां मौलावक्षोभ्यभूषितां पञ्चमुद्रा -
ढ्यां मर्त्यशिरोमालामेकजटामुदग्रदशानास्याम् ।
युवतीमुग्राहियुतां चपलचलल्लोलां व्याघ्रचर्म -
कटिवस्त्रां निस्त्रिंशकर्तृकोत्पलां शुभ्रकपालां
महोदरीमीडे ।। ११/९९ ।।
चिन्तयित्वैवमात्मानं कराङ्गन्यासमाचरेत् ।
षड्दीर्घाढ्येन बीजेन पाण्यङ्गपूजनं ततः ।। ११/१०० ।।
आवाह्य स्थापयित्वादावर्घ्यं दत्त्वानुलेपयेत् ।
श्रीमदेकजटे चैव वज्रपुष्पमित्यभिधाय च ।। ११/१०१ ।।
मूलेनाग्निप्रियान्तेन सतारेण यजेत् पुनः ।
दत्त्वा गन्धादिकमपि बलियुक्तं निवेदयेत् ।। ११/१०२ ।।
अक्षोभ्यवज्रमादौ तु तारिणीं मूर्ध्नि पूजयेत् ।
प्रणवाद्यग्निजायान्तं वज्रपुष्पं विनिषिपेत् ।। ११/१०३ ।।
तथा वैरोचनं शङ्खं पाण्डवं पद्मनाभकम् ।
असिताभं यजेन्मन्त्री दिक्ष्वैन्द्रीतश्चतुर्दले ।। ११/१०४ ।।
नामकं नामकञ्चैव पाण्डवं तारया सह ।
वह्न्यादिषु चतुष्कोणे स्वैः स्वैर्मन्त्रैर्यजेत् क्रमात् ।। ११/१०५ ।।
द्वारे पूर्वादितः पद्मान्तकं चापि यमान्तकम् ।
विघ्नान्तकं समभ्यर्च्य पूजयेन्नरकान्तकम् ।। ११/१०६ ।।
नात्युच्चं नातिनीचं स्याद् ध्यात्वा मन्त्री जपेन्मनुम् ।
बलिं दत्त्वा नमस्कृत्य स्तुत्वा देवीं विसर्जयेत् ।। ११/१०७ ।।
सयोनिगोमयेनाष्टपत्रमब्जं सुशोभनम् ।
भूपुरं बहुरत्नाढ्यं यन्त्रमेकजटात्मकम् ।। ११/१०८ ।।
वलिपूजादिकं दद्यान्निशायां क्रियते सदा ।
तत्तदक्षयतां याति तारादेव्याः प्रसादतः ।। ११/१०९ ।।
श्रीमदेकजटेत्युक्त्वा वज्रपुष्पं प्रतीच्छतु ।
तारादिवह्निजायान्तमुदीर्य यजनं चरेत् ।। ११/११० ।।
इति श्रीफेत्कारिणीतन्त्रे श्रीमदेकजटाप्रकरणे एकादशः पटलः ।।
द्वादशः पटलः
श्रीशिव उवाच
अथातः संप्रवक्ष्यामि महाकालीमहामनुम् ।
यस्य विज्ञानमात्रेण नासाध्यं वर्तते भुवि ।। १२/१ ।।
प्रलयाऽग्निरुधिरगतावूर्ध्वकेश्या समन्वितौ ।
नादबिन्दुसमायुक्तावेवं क्रोधद्वयं पुनः ।। १२/२ ।।
पशुं गृहाण पदतो वर्मास्त्रानलवल्लभा ।
चतुर्दशाक्षरी प्रोक्ता महाकाली ध्रुवादिका ।। १२/३ ।।
(ओं फ्रें फ्रें हू/ हू/ पशुं गृहाण हू/ फट् स्वाहा)
प्रेक्तान्विकानलवधूस्तारादिरपरो मनुः ।
हरद्वयं स्तम्भयुग्मं कीलयद्वयमुद्धरेत् ।। १२/४ ।।
वह्निजायान्त उक्तोऽयं ध्रुवादिरपरो मनुः ।
न्यासशुद्धीनृष्यादींश्च नात्र कार्या विचारणा ।। १२/५ ।।
कृष्णतोयेन सम्पूर्णे कृष्णकुम्भेऽथ कालिकाम् ।
ब्रह्मादिदिक्षु दूतीभिर्युक्ताः संपूज्य भक्तितः ।। १२/६ ।।
पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रत्रिलोचनाम् ।
शक्तिशूलधनुर्बाणखड्गखेटवराभयाम् ।। १२/७ ।।
दक्षादक्षभुजैर्देवीं बिभ्राणां भोगिभूषणाम् ।
अर्धचन्द्रां जटायुक्तां जिह्वाललनभीषणाम् ।। १२/८ ।।
निर्मांसमेदुरामस्थिपञ्जरां मुण्डमालिनीम् ।
मत्तव्यालोपवीताङ्गी भूतवेतालवेष्टिताम् ।। १२/९ ।।
मेदोवसावलिप्ताङ्गीं महाप्रेताधिरूढकाम् ।
ध्यात्वैवं सिद्धिदं साध्यं साधयेन्मनसि स्थितम् ।। १२/१० ।।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथैवैन्द्री चामुण्डा चण्डिकाष्टमी ।। १२/११ ।।
पूर्वादीशानपर्यन्तं कुम्भाङ्के संस्थिता इमाः ।
कर्णिकायां ततो देवी महाकालभयापहा ।। १२/१२ ।।
नामोच्चारेण संरुद्धे वह्नौ संज्वलिते परे ।
जुहुयाद्वैरिणं क्रुद्धो देवीमन्त्रं जपन् यथा ।। १२/१३ ।।
समिधं पिचुमर्दस्य विभीतं चित्रकाष्ठिका ।
हरं विषं राजिण्ठञ्च ककजालवलान्विता ।। १२/१४ ।।
गृहे चैव श्मशाने वा विभीताङ्गारहोमतः ।
सप्ताहाद् वैरिणं हन्ति कालिकामन्त्रयोगतः ।। १२/१५ ।।
उच्चाटमपराह्ने तु सन्ध्यायां मारणं तथा ।
दक्षिणस्यां दिशि स्थित्वा ग्रामदेर्दक्षिणामुखः ।। १२/१६ ।।
इति श्रीफेत्कारिणीतन्त्रे महाकालीमन्त्रद्वये द्वादशः पटलः ।।
त्रयोदशः पटलः
अथातः संप्रवक्ष्यामि मन्त्रं परिमलात्मकम् ।
यस्य विज्ञानमात्रेण नासाध्यं भुवनत्रये ।। १३/१ ।।
रुद्रजाया महायोगिन्यतो गौरीपदं वदेत् ।
भुवनभयङ्करीपदं वर्मान्तमुच्चरेन्मनुम् ।। १३/२ ।।
षड्दीर्घयुक्तबीजेन मन्त्रार्द्धेनास्त्रयोगिनीम् ।
हृदयञ्च ततोऽर्धेन वर्मास्त्रेण शिरः क्रमात् ।। १३/३ ।।
शिखा - कवच - नेत्रास्त्रमेवं न्यासक्रमः स्मृतः ।
अङ्गिराश्च ऋषिर्देवी गायत्रीच्छन्द ईरितम् ।। १३/४ ।।
सिंहवक्त्रा च भूतानां भयङ्कारिण्यतः परम् ।
महाकृत्वा देवता चेत्युक्त्वा न्यासं समाचरेत् ।। १३/५ ।।
सिहाननां कृष्णमुखीं लम्बमानपयोधराम् ।
दंष्ट्राकरालवदनां त्रिनेत्रां सर्वतोज्ज्वलाम् ।। १३/६ ।।
कृष्णकञ्चुकसंवितां विधूमाग्निसमप्रभाम् ।
त्रिशूलचक्रमुषलखट्वाङ्गकरपङ्कजाम् ।। १३/७ ।।
लेलिहानां महाजिह्वां विद्युत्प्रेक्षणभीषणाम् ।
ध्यात्वा कृत्यां विधानेन पूजयेन्मन्त्रवित्तमः ।। १३/८ ।।
ध्यात्वा कृत्यामर्चयेत् रक्तपुष्पैश्च वश्यके ।
कृष्णं मारणकार्येषु मांसरक्तासवैस्तथा ।। १३/९ ।।
कृत्याञ्च मदनां सर्वकुल्लां स्वच्छादनीं तथा ।
भीषणां श्रीमतीं चैव प्रतिष्ठाञ्च तथा पराम् ।। १३/१० ।।
विद्यामभ्यर्चयेदष्टपत्रेषु क्रमतः सुधीः ।
पूर्वे तु शाङ्करी नाम शुक्लवर्णाम्बरान्विताम् ।। १३/११ ।।
द्विभुजां सौम्यवदनां पाशाङ्कुशधरां शिवाम् ।
दक्षिणे भिषिकां नाम ललज्जिह्वां सुधामुखीम् ।। १३/१२ ।।
कृष्णवर्णां रक्तकेशीं रक्तमाल्यानुलेपनाम् ।
चतुर्भुजां सिंहनादज्वलच्छूलकपालिनीम् ।। १३/१३ ।।
खड्गहस्तां शिरोमालां सर्वाभरणभूषिताम् ।
पश्चिमे वारुणीं नाम स्वर्णवर्णां हसन्मुखीम् ।। १३/१४ ।।
सुवर्णमालिकां शुभ्रदंष्ट्रामभयदां सदा ।
उत्तरे भीमिकां नाम चतुर्वर्गभयङ्करीम् ।। १३/१५ ।।
पूजयित्वा जपेन्मन्त्री नित्यमष्टोत्तरं शतम् ।
अथास्या विनियोगस्तु कर्तव्यो मन्त्रिणा सदा ।। १३/१६ ।।
कालं विदित्वा प्रतिमां मधूच्छिष्टेन कारयेत् ।
द्वादशाङ्गुलतः शत्रोर्नखलोमसमन्वितम् ।। १३/१७ ।।
हृदये नामधेयं च फट्कारं सर्वकर्मके ।
अमुष्य प्राणा इह चामुष्य जीव इह स्थितः ।। १३/१८ ।।
(आं क्रीं क्रौं यं रं लं वं शं षं सं हं सः)
अमुष्य सर्वेन्द्रियाणि चामुष्य वाङ्मनश्चक्षुः-
श्रोत्रघ्राणप्राणा इहानय त्वमग्निवल्लभा ।
इति प्राणं प्रतिष्ठाप्य मरिचैः प्रतिमां लेपयेत्ततः ।। १३/१९ ।।
मृतब्राह्मणचाण्डालकेशाभ्यां पादयोः पृथक् ।
बदध्वा कारस्करमये तोरणे वाप्यधोमुखी ।। १३/२० ।।
तस्याधो मेखलायुक्तं त्रिकोणं यत्र कुण्डकम् ।
तत्र सायं विधायाग्निं परिस्तीर्य शरैस्तृणैः ।। १३/२१ ।।
विभीतकपरिध्मातं कल्पयेद् यस्य मारणम् ।
जुहुयान्निचुलैर्लाजैः काकोलूकस्य पिच्छकैः ।। १३/२२ ।।
दारयैनं शोषयैनं मारयेत्यभिधाय च ।
अष्टोत्तरशतेनैव मनुजो जुहुयात्ततः ।। १३/२३ ।।
होमान्ते विधिवत् कृत्यामाराध्याग्नेस्तु सन्निधौ ।
योऽयं मे कण्ठग्रहोऽतिदूरस्थो वान्तिकेऽपि च ।। १३/२४ ।।
सर्वेऽपि तृप्तिमायान्तु इत्युक्त्वा तु नेवेदयेत् ।
संरक्ष्याग्निं विधानेन नवरात्रं समाचरेत् ।। १३/२५ ।।
मृतस्तिष्ठति मृतानांशवस्तावदस्त्रविघ्नः ।
अर्कक्षीरेण मरिचं पिष्ट्वा सिद्धार्थमेव च ।
जले संलोड्य मन्त्रेण रिपुं ध्यात्वा निरुद्धदृक् ।। १३/२६ ।।
कृष्णाम्बरोत्तरी योगपादेनाक्रम्य तद्रिपुम् ।
वज्रं शूलमिदं ध्यात्वा तस्योपरि विनिक्षिपेत् ।। १३/२७ ।।
नवरात्रान्तरे शत्रुर्म्रियते नात्र संशयः ।
हरसिद्धे चितावह्नौ तैलसिक्तैर्विभीतकैः ।। १३/२८ ।।
युद्ध्यतो म्रियते शत्रुः सत्यमेव गणोदित्म् ।
रिपोः प्रतिकृतिं कृत्वा साध्यक्षफलकेऽमले ।। १३/२९ ।।
अर्कक्षीरेण मरिचं पिष्ट्वा तत्रैव लेपयेत् ।
फट्कारं हृदये कृत्वा शिवनिर्माल्यकूपके ।। १३/३० ।।
क्षिपेत् कृष्णचतुर्दश्यां जप्त्वा मन्त्रं सहस्रशः ।
सद्योऽवगाहनं कृत्वा कुर्यादस्यानुरक्षणम् ।। १३/३१ ।।
मन्त्रं जप्त्वा विधानेन भेदयेत् सिंहमुद्रया ।
षण्मासान् म्रियते शत्रुः सन्ध्ययोरुभयोरपि ।। १३/३२ ।।
वायवोः समुद्धृतं पर्णं शुष्कं वैभीतकं ततः ।
गृहीत्वा च लिखेन्मन्त्री कृष्णसर्पस्य शोणितैः ।। १३/३३ ।।
नामधेयं रिपोरन्ते वायुबीजं प्रयोजयेत् ।
निखनेत्तस्य गेहे तु करिवत् भ्रमते ध्रुवम् ।। १३/३४ ।।
वातोद्धूतैः शुष्कपत्रैः काष्ठैरशनिपातितैः ।
उष्ट्रास्थिना चिताङ्गारैः शत्रोरुच्चाटनं भवेत् ।। १३/३५ ।।
दूर्वां गुडूचीगन्धेन सर्पिषा तिलतण्डुलैः ।
अन्नैः समिद्भिः पालाशैः शान्तिं कुर्याद्विचक्षणः ।। १३/३६ ।।
लक्ष्मीं विल्वफलैः पत्रैर्नन्द्यावर्तैः श्रिये तथा ।
वज्रपुष्पैरपामार्गैरङ्गारैश्च सुभद्रकैः ।। १३/३७ ।।
मधुरत्रयसंसिक्तैरेभिः कुर्यात्तु वश्यकम् ।
उक्तमौशनसे तन्त्रे वारमस्यापि कथ्यते ।। १३/३८ ।।
शान्तिं कृत्वा विधानेन जपेत् परिमलं त्विदम् ।
महाव्याधिप्रशमनं नित्यमष्टाधिकं शतम् ।। १३/३९ ।।
जपेदेकाग्रचित्तस्थो लोकवश्यकरं परम् ।
मनसा चिन्तयेत् कृत्यां गजारूढां वितन्द्रिताम् ।। १३/४० ।।
चौरव्याघ्रमृगादीनां सलिलादिभयापहाम् ।
सकृच्छ्रवणमात्रेण सर्वपापविनाशनम् ।। १३/४१ ।।
समाभिमन्त्रितं तोयं पीत्वा नित्यं समाहितः ।
मेधावी च भवेद्वाग्मी तावज्जप्त्वाभिषेकतः ।। १३/४२ ।।
सप्ताभिमन्त्रितं कृत्वा विषमप्यमृतं भवेत् ।
मासं पक्षं द्विमासं वा षण्मासं वत्सरं तथा ।। १३/४३ ।।
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ।
अथ वक्ष्ये विशेषेण महाशान्तिविधिक्रमम् ।। १३/४४ ।।
सर्वसिद्धिकरं पुण्यं सर्वपापविनाशनम् ।
सर्वग्रहादिदोषाणां नाशनं सिद्धिकारणम् ।। १३/४५ ।।
सर्वमुद्राप्रहरणं सर्वारिष्टविनाशनम् ।
अकालमृत्युमथनं सदा विजयवर्धनम् ।। १३/४६ ।।
आयुष्यं पावनं पुष्टिलक्ष्मीसौभाग्यवश्यकृत् ।
पुत्रदं कीर्तिदं चैव अलक्ष्मीमलनाशनम् ।। १३/४७ ।।
महाव्याधिप्रशनमपस्मारविनाशनम् ।
योगिनीभूतवेतालाः प्रेतकुष्माण्डपन्नगाः ।। १३/४८ ।।
तत्र स्थाने न तिष्ठन्ति डाकिन्याद्या विशेषतः ।
कृत्यामभ्यर्चयेद् वत्से यथाविधिपुरःसरम् ।। १३/४९ ।।
षोडशारं लिखेत् पद्मं योनियुक्तं सबिन्दुकम् ।
तन्मध्येऽष्टदलं लिख्य पकारादीन् न्यसेत् क्रमात् ।। १३/५० ।।
तन्मध्ये रसकोणं तु लिखेन्मूलं मनुं स्मरन् ।
चन्द्रबिम्बं लिखेन्मध्ये तस्योर्ध्वे प्रतिमां लिखेत् ।। १३/५१ ।।
तस्य मध्ये लिखेत् कूर्म वस्त्रं स्रग्दामभूषितम् ।
तस्य मध्ये न्यसेत् कृत्यां सर्वलक्षणसंयुताम् ।। १३/५२ ।।
पूजयेच्च यथान्यायं पायसं तु निवेदयेत् ।
परितोऽष्टघटे न्यस्या असिताङ्गादिभैरवाः ।। १३/५३ ।।
असिताङ्गो रुरुश्चण्डः क्रीधीशोन्मत्तभैरवः ।
कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः ।। १३/५४ ।।
गन्धपुष्पादिनाभ्यर्च्य तद्बाह्ये क्षेत्रपालकान् ।
लोकेशान्तं यजेद्देवीं तदग्रे होममाचरेत् ।। १३/५५ ।।
जुहुयादाज्यापामार्गावक्षतं तिलसर्षपौ ।
दूर्वाग्रखदिराश्वत्थं प्रत्येकं तु शताष्टकम् ।। १३/५६ ।।
कुण्डे वा स्थण्डिले वापि होमकर्म समाचरेत् ।
तस्य दक्षिणपार्श्वे तु लक्ष्मीं ध्यायेद्यथाविधि ।। १३/५७ ।।
कुम्भमध्ये न्यसेद् देवीं दक्षिणे तु श्रियं स्मरेत् ।
वामपार्श्वे यजेद् देवीं हृल्लेखां भुवनेश्वरीम् ।। १३/५८ ।।
तस्यैव वामपार्श्वे तु पूजयेदणिमादिकम् ।
अयुतं मूलमन्त्रं तु जपेन्मृत्युविनाशनम् ।। १३/५९ ।।
अयुतं भ्रूणहत्यां तु जपेत् परिमलं विदुः ।
महाव्याधिप्रशमनं तावज्जप्त्वाभिषेकतः ।। १३/६० ।।
एवं यः कुरुते मर्त्यः पुण्यां गतिमवाप्नुयात् ।
येन ज्ञातं परिमलं यस्य वक्त्रे स्थितं सदा ।। १३/६१ ।।
तस्यासाध्यं न विद्येत व्याधिभ्योऽपि भयं नहि ।
इत्यादिबहुले तन्त्रे ज्ञेयः परिमलो मनुः ।। १३/६२ ।।
महाशान्तिकरः पुंसां दुःखदारिद्रनाशनः ।
तस्य वश्या भवेत् क्षिप्रमश्वारुढा तथा भवेत् ।
सावित्र्या संपुटीकृत्य दुर्गाबीजं समं न्यसेत् ।। १३/६३ ।।
इष्टसिद्धिर्भवेदाशु नात्र कार्या विचारणा ।
आत्मनो वा परस्यापि रोगादिपरिपीडितः ।। १३/६४ ।।
समारभ्य जपेन्मन्त्री सद्यः सद्यो विमुच्यते ।
धान्यहोमाद् भवेद् धान्यं पयसा पशुलाभकृत् ।। १३/६५ ।।
बिल्वाल्लक्ष्मीमवाप्नोति सत्यं सत्यं न संशयः ।
आदित्यमण्डलादग्रे यत् कृत्वा भुवि रोधशः ।। १३/६६ ।।
ज्वरो निर्दग्धमानश्च अधोवदनमारुतम् ।
जानुदघ्ने जले तिष्ठन् ध्यायेद् वह्निमयं जलम् ।। १३/६७ ।।
रिपुदेहे विनिःक्षिप्य सहस्रं क्रोधसंयुतः ।
प्रज्वाल्य हस्तं हृदयं शतं पद्मादिभिः स्पृशेत् ।। १३/६८ ।।
प्रोक्षणेन जलस्यैव वैरिणः कारयेद् बुधः ।
आदित्यमण्डलाधस्तादग्निनापो विदर्भितम् ।। १३/६९ ।।
तयोर्मध्यगतः शत्रुर्ज्वालामालाकुलावृतः ।
ध्यातः शत्रुर्विचार्यैतन्नात्र कार्या विचारणा ।। १३/७० ।।
इति श्रीफेत्कारिणीतन्त्रे त्रयोदशः पटलः ।।
चतुर्दशः पटलः
श्रीशिव उवाच-
ध्यायेद्दुर्गां जयाख्यां गजमुखजननीं विश्वरूपां भवानीं
हेरम्बं पाययन्तीं स्तनमनवरतं रत्नसिंहासनस्थाम् ।
ब्रह्मार्द्यैर्देववृन्दैर्युगकरकलितां सेबितां सिद्धसंघैः
रत्नालङ्कारपूरां परमशिववधूमभ्रवर्णां त्रिनेत्राम् ।। १४/१ ।।
एवं ध्यात्वा महादेवीं मनुं तस्या जपेत् सुधीः ।
अथातः संप्रवक्ष्यामि जयदुर्गामनुं प्रिये ।। १४/२ ।।
यस्याः प्रसादामात्रेण स्वयं सदाशिवो भवेत् ।
दुर्गे दुर्गे पदं चोक्त्वा रक्षणीति पदं ततः ।। १४/३ ।।
तारादिवह्निजायान्तो जयदुर्गामहामनुः ।
पातिमध्यगतं कृत्वा न्यसेत् मन्त्रपदं बुधः ।। १४/४ ।।
रक्षाकरीयं कथिता जयदुर्गा वर्मसंयुता ।
श्यामां त्रिलोचनां ध्यात्वा ह्यात्मानं च चतुर्भुजाम् ।। १४/५ ।।
शङ्खचक्रेषु शूलानि वहन्तीं रौद्ररूपिणीम् ।
युद्धे च व्यवहारादौ जयादौ तज्जपेन्नरः ।। १४/६ ।।
(ओं दुर्गे दुर्गे रक्षणि स्वाहा हू/ हू/ हू/)
जयां श्रीं पूजयेन्नित्यां खड्गं च छुरिकां तथा ।
जयदुर्गामनुः प्रोक्तः कथ्यते चापरो मनुः ।। १४/७ ।।
नमो भगवतीत्युक्त्वा ज्वालामालिन्यतः परम् ।
गृध्रगणपरिवृते द्विठस्तारादिरीरितः ।। १४/८ ।।
ओं नमो हृदयं प्रोक्तं भगवति शिरसस्तथा ।
ज्वालामालिनि च शिखागृध्रगणपरिवृते ततः ।। १४/९ ।।
कवचं स्वाहास्रमित्येतज्जातियुक्तं न्यसेत्तनौ ।
(ओं नमो भगवति ज्वालामालिनि गृध्रगणपरिवृते स्वाहा)
अयुतं नियुतं चैतत् जपेन्मन्त्रं जपाज्जयी ।। १४/१० ।।
रुद्राङ्गनाग्निजायाभ्यां रुद्धं ज्वालामुखीत्यपि ।
मन्त्रान्तरं समाख्यातं ज्वालामुख्या मनूत्तमः ।। १४/११ ।।
(ह्री/ स्वाहा ज्वालामुखि ह्री/ स्वाहा)
दीपतैलाक्तपादोऽर्धरात्रे गुरुदिनादितः ।
जपेदष्टसहस्रं तु त्रयोविंशतिवासरान् ।। १४/१२ ।।
प्रत्यहं सायनं षट्कं ददातीति न संशयः ।
नारायणीये कथितमगस्त्येन पुरा पुनः ।। १४/१३ ।।
दुर्गा नवप्रकाराः स्युः नवदुर्गा विशेषतः ।
सुसिद्धिमिच्छता गोप्या नाम्नापि न समीरयेत् ।। १४/१४ ।।
पुत्रस्य नृपतेश्चापि धार्मिकस्य विशेषतः ।
नवदुर्गाविधानेन दर्शयेत् कार्यगौरवात् ।। १४/१५ ।।
नृपोऽपि सम्यगाराध्य मन्त्रज्ञं विविधैर्धनैः ।
भक्त्या सन्निहितं कुर्याद्रक्षार्थं नित्यमादरात् ।। १४/१६ ।।
आपत्स्वयं प्रयोक्तव्यो मारणादौ विशेषतः ।
ततो मन्त्री प्रयत्नेन प्रकुर्यान्मारणक्रियाम् ।। १४/१७ ।।
परैरभ्यर्थितो मन्त्री राज्ञे सर्वं निवेदयेत् ।
निवेद्य विधिवत् पश्चात् मन्त्रिवर्येण निर्दहेत् ।। १४/१८ ।।
स्मृतिमात्रेण वै मन्त्री रिपून् सर्वान् विनाशयेत् ।
प्रदद्यात् दक्षिणां तस्मै सहस्रं शतमेव वा ।। १४/१९ ।।
गवां सुवर्णनिष्काणां भूमिं वा शस्यशालिनीम् ।
सर्वशान्तिमवाप्नोति सर्वरक्षाकृतिर्भवेत् ।। १४/२० ।।
नवदुर्गाविधानेन ध्यानस्यादौ विशेषतः ।
तद्वत् कर्माणि कुर्वीत नात्र कार्या विचारणा ।। १४/२१ ।।
कृष्णां त्रिलोचनां शङ्खचक्रशूलासिधारिणीम् ।
ज्वालामुखीं भीमरूपां ध्यायेत् त्रैलोक्यभीतिदाम् ।। १४/२२ ।।
इति फेत्कारिणीमहातन्त्रे शिवपार्वतीसंवादे जयदुर्गा-
गृध्रगणपरिवृतज्वालामुखीकथनं नाम
चतुर्दशः पटलः ।।
पञ्चदशः पटलः
श्रीशिव उवाच
आग्नेयमभिधास्यामि मन्त्रं सर्वार्थसाधकम् ।
मारीचिः काश्यपः प्रोक्तो मनुरस्य महामनोः ।। १५/१ ।।
त्रिष्टुप्छन्दो देवताऽत्र जातवेदोऽग्निरीरितः ।
नवभिः सप्तभिः षड्भिः सप्तभिः पुनरष्टभिः ।। १५/२ ।।
सप्तभिर्मूलमन्त्रार्णैः षडङ्गविधिरीरितः ।
यथा जातवेदसे हृदयाय नमः । सोममरातीयतो शिरसे स्वाहा । निदधाति वेदः
शिखायै वषट् । स नः परिषदति कवचाय हु/ । दुर्गाणि विश्वानावेव नेत्रत्रयाय वौषट् ।
सिन्धुं दुरितात्यग्निः अस्त्राय फट् । इति षडङ्गानि । अथ मन्त्रः
जातवेदसे सुनवाम सोममरातीयतो निदधाति वेदः ।
स नः परिषदति दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः ।। १५/३ ।।
इति आग्नेय मन्त्र इति चतुश्चत्वारिशदक्षरं ज्ञेयम् । इति मूलेनैव षडङ्गानि ।
अङ्गुष्ठगुल्फजङ्घासु जानुनोरुरुयुग्मके
कट्यन्धुनाभिषु हृदि स्तनयोः पाश्वयोद्वयोः ।। १५/४ ।।
पृष्ठे च स्कन्धयोर्मध्ये बाहुमूलेऽपि बाहुषु ।
प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेषु च ।। १५/५ ।।
मुखनासाक्षिकर्णेषु गण्डमस्तिष्कमूर्द्धसु ।
क्रमेण विन्यसेद् वर्णान् विद्वान् मन्त्रसमुद्भवान् ।। १५/६ ।।
शिरोललाटनयनकर्णौष्ठरसनासु च ।
सकण्ठबाहुहृत्कुक्षिकटिगुह्योरुजानुषु ।। १५/७ ।।
जङ्घयोः पादयोर्न्यसेत् पदान्यस्य मनोः सुधीः ।
अत्राक्षरविन्यासे द्वयोः स्थाने एकमक्षरम् । पदन्यासे चोच्चरेदेकं
बाह्वोरेकमुरुजानुजङ्घाचरणद्वयेषु चैकैकं न्यसेत् ।
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां स्मरेत् ।। १५/९ ।।
दक्षिणपार्श्वे चक्रखड्गशरमुषलवराणि वामपार्श्वे शङ्खखेटकधनुरभयानि क्वापि ।
मन्त्रवर्णसहस्राणि जपेन्मन्त्रं विशालधीः ।
तदन्ते तिलसिद्धार्थचित्रमूलैः समिद्वरैः ।। १५/१० ।।
क्षीरद्रुमाणामाज्येन हविषाक्तैर्घृतान्वितैः ।
चतुश्चत्वारिंशदाढ्यं चतुश्शतसमन्वितम् ।। १५/११ ।।
चतुःसहस्रं जुहुयादर्चिते हव्यवाहने ।
मण्डले सर्वतोभद्रे षट्कोणाङ्कितकर्णिके ।। १५/१२ ।।
विधिना वक्ष्यमाणेन पीठं देव्याः प्रपूजयेत् ।
षड्गुणितं यन्त्रं कृत्वा कोणेषु दुर्गाबीजमालिख्य बहिर्वीथ्यादिकं परिकल्प्य-
जयाख्यां विजयां भद्रां भद्रकालीमनन्तरम् ।
सुमुखीं दुर्मुखीं संज्ञां पश्चाद् व्याघ्रमुखीं पुनः ।। १५/१३ ।।
अथ सिंहमुखीं दुर्गां नवशक्तीः प्रपूजयेत् ।
आसनं सिंहमन्त्रेण दद्यादुक्तेन देशिकः ।। १५/१४ ।।
ओं वज्रनखदंष्ट्राय सिंहाय नमः ।
मूर्ति मूलेन सङ्कल्प्य तस्यामावाह्य पूजयेत् ।
(सर्वविद्यामयी ब्रह्मविद्यामन्नपूर्णान्तर्गतामुच्यते) ।। १५/१५ ।।
षडङ्गानि यथापूर्वं केशरेष्वर्चयेत् सुधीः ।
श्र्यादिपादाष्टकोत्पन्ना मूर्तयोऽर्च्या बहिः पुनः ।। १५/१६ ।।
जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः ।
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः ।। १५/१७ ।।
कौमारतत्त्वतेजाः स्यात् विश्वमुखो देवमुखस्ततः ।
ततो भूसलिलाग्निवायवथानन्तनमोऽन्वितान् ।। १५/१८ ।।
चतुर्दिक्षु समभ्यर्च्य कोणेष्वेतत् कलाः पुनः ।
ततश्च पूर्वादिदिक्षु पृथिव्यादिचतुष्टयम् ।। १५/१९ ।।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिरितीरिता ।
कलाचतुष्टयं कोणेषु संपूज्य यथाविधि ।। १५/२० ।।
पूर्वादिदिक्षु संपूज्य जालाद्या वर्णशक्तयः ।
जागता तपनी वेदगर्भा दहनरूपिणी ।। १५/२१ ।।
सेन्दुखण्डा शुम्भहन्त्री नभश्चारिण्यनन्तरम् ।
वागीश्वरी मदवहा सोमरूपा मनोजवा ।। १५/२२ ।।
मरुद्वेगा रात्रिसंज्ञा तीव्रकोपा यशोवती ।
तोयात्मिका पुनर्नित्या दयावत्यपहारिणी ।। १५/२३ ।।
तिरस्क्रिया वेदमाता तत्प्रिया मदनप्रिया ।
समाराध्या नन्दनी च परा विश्वविमर्दिनी ।। १५/२४ ।।
षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्र्यनन्तरम् ।
निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी ।। १५/२५ ।।
वेदना वह्निगर्भा च सिंहवाहाह्वया तथा ।
धुर्या दुर्विषहा पश्चादद्रिजा तापहारिणी ।। १५/२६ ।।
त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः ।
लोकपालांस्तथाऽभ्यर्चेत् ब्रजाद्यायुधसंयुतान् ।। १५/२७ ।।
इत्थं पूजादिभिः सिद्धे मन्त्रेऽस्मिन् साधकोत्तमः ।
आग्नेयास्त्राधिकरी स्यात् तद्विधानमुदीर्यते ।। १५/२८ ।।
आग्नेयास्त्रमिति प्रोक्तं विलोमपठितो मनुः ।
पूर्वोक्ता एव ऋष्याद्या मन्त्रस्य परिकीर्तिताः ।। १५/२९ ।।
प्रतिलोमक्रमादस्य षडङ्गानि प्रकल्पयेत् ।
मन्त्रन्यासपदन्यासौ विदध्यात् प्रतिलोमतः ।। १५/३० ।।
ध्यानभेदान् विजानीयाद् गुर्वादेशान्न चान्यथा ।
पूर्ववज्जपकॢप्तिः स्याद् जुहुयात् पूर्वसंख्यया ।। १५/३१ ।।
पञ्चगव्यसुपक्वेन चरुणा तस्य सिद्धये ।
अर्चनं पूर्ववत् कुर्यात् तत् शक्तीः प्रतिलोमतः ।। १५/३२ ।।
सर्वत्र देशिकः कुर्यात् गायत्र्या द्विगुणं जपम् ।
क्रूरकर्माणि कुर्वीत प्रतिलोमविधानतः ।। १५/३३ ।।
शान्तिकं पौष्टिकं कर्म कर्तव्यमनुलोमतः ।
प्रयोगकाले प्रजपेदष्टौ पादान् विलोमतः ।। १५/३४ ।।
शोधितो जायते पश्चाद् मन्त्रोऽयं विधिनाऽमुना ।
श्र्यादिः पञ्चाक्षरः पादो ज्ञेयो ज्ञानेन्द्रियात्मकः ।। १५/३५ ।।
धूमाद्योऽन्यः पञ्चवर्णः स्मृतः कर्मेन्द्रियात्मकः ।
चाद्यस्तृतीयः पञ्चार्णः पञ्चभूतमयः स्मृतः ।। १५/३६ ।।
त्याज्यः सप्ताक्षरः पादश्चतुर्थो धातुरूपकः ।
दः पूर्वः पञ्चमः पाद ऊर्मिरूपः षडक्षरः ।। १५/३७ ।।
तोवर्णादिः षडर्णोऽन्यः षाट्कौशिकमयो मतः ।
सोपूर्वः पञ्चवर्णोऽन्यः शब्दादिमय ईरितः ।। १५/३८ ।।
सेवर्णाद्यष्टमो ज्ञेयः पञ्चार्णो वचनादिकः ।
एवं तत्त्वसमायोगात् पादकॢप्तिरुदाहृता ।। १५/३९ ।।
तत्तत्पादाक्षरोत्पन्नास्ताराद्या वह्निदेवताः ।
प्रधानमूर्तिप्रतिमाः स्वस्ववर्णोंदितप्रभाः ।। १५/४० ।।
प्रज्वलत्केशवदना भीमदंष्ट्रा भयानकाः ।
देवता इन्द्रियोत्पन्ना ऊर्ध्वदृष्टय ईरिताः ।। १५/४१ ।।
देवता भूतपादोत्थास्तिर्यग्वक्त्राः प्रकीर्तिताः ।
धातुरूपाक्षरोत्पन्ना उदयानलशोभिताः ।। १५/४२ ।।
ऊर्मिजा ऊर्ध्ववदनाः केशोत्थास्तिर्यगाननाः ।
एताः सर्वाः स्मृताः क्लीबा इन्द्रियार्थोद्भवाः स्त्रियः ।। १५/४३ ।।
अथ तिर्ययङ्मुखोपेता ईरितावर्णदेवताः ।
स्वाभिमुख्यः स्मृताः सौम्ये पराङ्मुख्योऽन्यकर्मणि ।। १५/४४ ।।
आद्यसंख्याः समुत्पन्ना देवता ज्वलिताननाः ।
याभिर्मन्त्री दहेत् शत्रोः राज्यं सगिरिकाननम् ।। १५/४५ ।।
अस्त्रं मनुष्यनक्षत्रेष्वारभेत विचक्षणः ।
आसुरेषु प्रयुञ्जीत देवतासु च संहरेत् ।। १५/४६ ।।
पूर्वोत्तरत्रयं पश्चात् भरण्यार्द्रा च रोहिणी ।
इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ।। १५/४७ ।।
ज्येष्ठा शतभिषा मूला घनिष्ठाश्लेषकृत्तिका ।
चित्रा मघा विशाखाः स्युस्तारा राक्षसदेवताः ।। १५/४८ ।।
अश्विनी रेवती पुष्या स्वाती हस्ता पुनर्वसुः ।
अनुराधा मृगशिरः श्रवणं देवतारकाः ।। १५/४९ ।।
देवता इन्द्रियोत्पन्ना ऊर्ध्वदृष्टय ईरिताः ।
उपक्रमेत नन्दासु रिक्तास्वस्त्रं विसर्जयेत् ।। १५/५० ।।
भद्रास्वारोहणं कुर्यात् जयास्वानन्त्यमुत्तमम् ।
उपक्रमो भौमवारे शनिवारे विसर्जनम् ।। १५/५१ ।।
प्रतिसंहरणं वारे गुरोः शुक्रस्य वा भवेत् ।
स्थिरेषु राशिष्वारम्भश्चरेषु च विसर्जनम् ।। १५/५२ ।।
अस्त्रसंहरणं कुर्यादुभयात्मसु देशिकः ।
कृष्णपक्षेऽनलेनास्त्रं विसृजेच्छशिना पुनः ।। १५/५३ ।।
शुक्लपक्षे क्रमादस्त्रं पुनरात्मनि संहरेत् ।
भानुना मोक्षसंहारौ कुर्यात् पक्षद्वये सुधीः ।। १५/५४ ।।
पश्चिमाभिमुखो भूत्वा कर्म सर्वत्र साधयेत् ।
नक्षत्रवृक्षसकलान् साध्याख्यान् कर्मसंयुतान् ।। १५/५५ ।।
तत्तन्मन्त्राक्षरोपेतान् मन्त्री मन्त्रार्णसंख्यया ।
जुहुयादेधिते वह्नौ मारयेद्रिपुमात्मनः ।। १५/५६ ।।
कृष्णाष्टमीं समारभ्य यावत् कृष्णा चतुर्दशी ।
धुस्तूरविषवृक्षाख्यभूरुहोत्थान् समिद्वरान् ।। १५/५७ ।।
राजितैलेन संलिप्तान् पृथक् सप्तसहस्रकम् ।
जुहुयात् संयतो भूत्वा रिपुर्यमपुरं व्रजेत् ।। १५/५८ ।।
सप्तरात्रं प्रजुहुयात् सिद्धार्थस्नेहलोलितैः ।
आर्द्रवस्त्रो वृष्टिकाले मरिचैर्मधुनाऽमुना ।। १५/५९ ।।
निगृह्यते ज्वरेणारिः प्रलयाग्निसमेन सः ।
तालपत्रे समालिख्य शत्रुनाम यथाविधि ।। १५/६० ।।
आग्नेयास्त्रेण संवेष्ट्य कुण्डमध्ये निखन्य तत् ।
जुहुयान्मरिचैः क्रुद्धो ज्वराक्रान्तः स जायते ।। १५/६१ ।।
तदादाय क्षिपेत्तोये शीतले स वशो भवेत् ।
पिष्ट्वाऽपामार्गबीजानि मरिचं मधुसंयुतम् ।। १५/६२ ।।
अत्युष्णलवणे तोये निःक्षिप्य क्वथयेत्ततः ।
ऋक्षवृक्षप्रतिकृतेर्हृदये वदने नसि ।। १५/६३ ।।
किञ्चित्किञ्चित् क्षिपेत्तोयं दर्व्या कारस्करोत्थया ।
आग्नेयमुच्चरेद् मन्त्रं सोऽचिरात् ज्वरितो भवेत् ।। १५/६४ ।।
क्वथितेऽम्भसि तां क्षिप्त्वा हन्यात् शत्रुमयत्नतः ।
तीक्ष्णस्नेहेन संल्लिप्तां शत्रोः प्रतिकृतिं निशि ।। १५/६५ ।।
तापयेदेधिते वह्नौ प्रतिलोमं मनुं जपन् ।
ज्वरेण बाध्यते सद्यो होमादस्य मृतिर्भवेद् ।। १५/६६ ।।
सामुद्रे लवणे हिङ्गुविषजीरकलोडिते ।
क्वथिते पुत्तलीं साध्य नक्षत्रतरुनिर्मिताम् ।। १५/६७ ।।
अधोवक्त्रां विनिक्षिप्य यष्ट्या विषतरूत्थया ।
तच्छिरस्ताडनं कुर्याद् जपेदस्त्रं विलोमतः ।। १५/६८ ।।
सप्ताहान्मरणं याति शत्रुर्ज्वरविमोहितः ।
आदित्यरथनागेन्द्रग्रस्तीकृतविषाहतम् ।। १५/६९ ।।
नग्नं तैलेन लिप्ताङ्गं दग्धं भानुमरीचिभिः ।
अधोमुखं निजरिपुं ध्यात्वा क्वाथितवरिणा ।। १५/७० ।।
तर्पयेद् भानुमालोक्य शत्रुर्मृत्युप्रियो भवेत् ।
बिभ्रन्तीं मुसलं शूलं ध्यायेत् कालघनप्रभाम् ।। १५/७१ ।।
कार्पासबीजैर्निम्बस्य पत्रैर्मेषीघृतप्लुतैः ।
हुत्वा विद्वेषयेत् शत्रून् मन्त्रेणानेन देशिकः ।। १५/७२ ।।
बिभ्राणां तर्जनीं शूलं ध्यात्वा देवीं भयङ्करीम् ।
महिषीघृतसंयुक्तैः पल्लवैर्विषवृक्षजैः ।। १५/७३ ।।
हुत्वा रिपोः क्षणात् सेनामुच्चाटयति मन्त्रवित् ।
ध्यात्वा देवीं पुरा प्रोक्तां चतुर्भिर्मरिचादिभिः ।। १५/७४ ।।
अजारुधिरसंसिक्तैः जुहुयाद् दिवसत्रयम् ।
रिपोरुच्चाटनं कुर्यात् सेनाया नात्र संशयः ।। १५/७५ ।।
अग्निशूलधरां दुर्गां ज्वलन्तीं प्रलयाग्निवत् ।
ध्यात्वा सर्षपतैलाक्तैबीजैर्धुस्तूरसम्भवैः ।। १५/७६ ।।
हुत्वा विमोहयेत् शत्रून् मरिचैश्च ससर्षपैः ।
कालाज्जननिभां दुर्गां शूलखड्गधरां स्मरेत् ।। १५/७७ ।।
नक्षत्रवृक्षसंभूतैर्व्रणकृत्स्नेहसंप्लुतैः ।
समिद्वरैः प्रजुहुयात् हन्यान्मासेन वैरिणम् ।। १५/७८ ।।
सिंहाधिरूढां धावन्तीं धावमानं रिपुं प्रति ।
शरान् कार्मुकनिर्मुक्तान् वह्निज्वालामुखाकुलान् ।। १५/७९ ।।
मुञ्चन्तीं संस्मरन् दुर्गां तर्पयेदुष्णवारिणा ।
भानुबिम्बं समालोक्य रिपोरुच्चाटनं भवेत् ।। १५/८० ।।
स्पृशेच्च हृदयं मन्त्री तथा रक्षार्थमात्मनः ।
अतिदुर्गामयोमुष्टिं गदाहस्तां विचिन्तयेत् ।। १५/८१ ।।
विद्युद्दामसमानाभां महिषीघृतसंप्लुतैः ।
पुलाकैर्जुहुयाद् निम्बविभीतकसमिद्वरैः ।। १५/८२ ।।
कोद्रवैरथवा शत्रोः सेनायाः स्तम्भनं भवेत् ।
आत्तपाशाङ्कुशां रक्तां गालिदुर्गामनुं स्मरेत् ।
लोणैः समधुरैः साध्यवृक्षकाष्ठैधितेऽनले ।। १५/८३ ।।
जुहुयात् निशि सप्ताहान्मन्त्रविद् वशयेन्नृपान् ।
पाशाङ्कुशधरां रक्तां विश्वदुर्गां विचिन्तयेत् ।। १५/८४ ।।
कलिनीकुसुमैः फुल्लैश्चन्दनाम्भःसमुक्षितैः ।
जुहुयान्निशि यो मन्त्री तस्य विश्वं वशं भवेत् ।। १५/८५ ।।
शरच्चन्द्रनिभां देवीं परमानन्दकारिणीम् ।
पाशाङ्कुशधरां ध्यात्वा सिन्धुदुर्गां समिद्वरैः ।। १५/८६ ।।
वैतसैर्मधुना सिक्तैर्जुहुयाद् दृष्टिसिद्धये ।
कपालं त्रिशिखं पाशमङ्कुशं बिभ्रतीं करैः ।। १५/८७ ।।
जवाकुसुमसंकाशामग्निदुर्गां विचिन्तयेत् ।
हुत्वा लवणपुत्तल्या मधुरत्रययुक्तया ।। १५/८८ ।।
एवं ध्यायेद् वाञ्छितार्थान्मन्त्रविन्नात्र संशयः ।
अतिदुर्गाणि इत्याद्या यदर्णास्त्रिधुरीरिताः ।। १५/८९ ।।
दुर्गार्णान्ताथ गाल्याद्या गालिदुर्गा समीरिता ।
विन्द्वाद्यान्यक्षरान्ता सा विश्वदुर्गा प्रकीर्तिता ।। १५/९० ।।
सिन्ध्वाद्या सा वकारान्ता सिन्धुदुर्गा निगद्यते ।
तां तामग्न्यादिकामेनामग्निदुर्गां विदुर्बुधाः ।। १५/९१ ।।
अङ्गने स्थण्डिलं कृत्वा सुगन्धिकुसुमादिभिः ।
देवीमभ्यर्चयेन्नित्यं प्रागुक्तेनैव वर्त्मना ।। १५/९२ ।।
आहरेद् रात्रिषु बलिं चरुणा सर्वसिद्धये ।
कृत्यारोगभयद्रोहभूतारीन् नाशयेदयम् ।। १५/९३ ।।
यथावदग्निमाराध्य शस्तैः पुष्पैर्मनोरमैः ।
स्थित्वा तस्याग्रतो मन्त्री जपेन्मन्त्रमनन्यधीः ।। १५/९४ ।।
जपोऽयं सर्वसिद्ध्यै स्यान्नात्र कार्या विचारणा ।
लवणैर्मधुना सिक्तैर्जुहुयात् पश्चिमामुखः ।। १५/९५ ।।
मन्त्रार्णसंख्यया मन्त्री रिपुमेव वशं नयेत् ।
शालीन् प्रक्षाल्य संशोध्य शुद्धान् कुर्वीत तण्डुलान् ।। १५/९६ ।।
जपित्वा पञ्चगव्येन संस्कृते हव्यवाहने ।
चरुं पचेत् जपेद् मन्त्रमवतार्य पुनः सुधीः ।। १५/९७ ।।
अर्चयित्वा विषहरीं देवीमग्नौ यथा पुरा ।
जुहुयात् चरुणानेन साज्येनाष्टसहस्रकम् ।। १५/९८ ।।
पात्रे संपातनं कुर्वन् साध्यं तत् प्राशयेत् पुनः ।
शिष्टं तन्निखनेद् द्वारि संपातं प्राङ्गणान्तरे ।। १५/९९ ।।
कृत्यारोगा विनश्यन्ति सह भूतग्रहामयैः ।
परैरुत्पादिता कृत्या पुनस्तानेव भक्षयेत् ।। १५/१०० ।।
व्रीहिभिर्हविषा क्षीरैः पयोवृक्षसमिद्वरैः ।
आज्यैर्मधुत्रयोपेतैरेतैर्दशशतं पृथक् ।। १५/१०१ ।।
जुहुयात् सम्पदां भूमिः साधको भवति ध्रुवम् ।
भास्करे मेषराशिस्थे मन्त्रज्ञोऽनुगुणे दिने ।। १५/१०२ ।।
नद्यां सागरगामिन्यां सततं पुष्कलाम्भसि ।
उद्धृत्यादाय सिकताः संशोध्य परिशोधयेत् ।। १५/१०३ ।।
न्यस्य ताः पञ्चगव्येषु संस्कृते हव्यवाहने ।
भर्जयेन्मनुना सिद्ध्यै दर्व्या ब्रह्मतरूत्थया ।। १५/१०४ ।।
सिंहमीनधनुःस्थेऽर्के कृष्णपक्षेऽष्टमीतिथौ ।
विशाखाकृत्तिकामूलाहस्तोत्तरमघासु च ।। १५/१०५ ।।
रौहिण्यां श्रवणे वारौ मन्दवाक्पतिदैवतौ ।
विहायाऽन्येषु कुर्वीत सिकतस्थापनं सुधीः ।। १५/१०६ ।।
गृहग्रामादिराष्ट्राणां रक्षार्थं कथिताः शुभाः ।
प्रस्थाढकघटोन्मानान्मध्यादिष्ववटेष्वथ ।। १५/१०७ ।।
नवसु प्रक्षिपेज्जप्त्वा तेषु संपूजयेत् क्रमात् ।
मध्यादिदेवीमन्त्राणि कपालान्तानि देशिकः ।। १५/१०८ ।।
चक्रं शङ्खमसिं खेटं बाणं चापं त्रिशूलकम् ।
कपालं स्वस्वमन्त्रेण संपूज्यान्ते बलिं हरेत् ।। १५/१०९ ।।
नक्षत्रग्रहराशीनां लोकेशानां बलिं हरेत् ।
विहिता यत्र रक्षेयं वर्द्धन्ते तत्र संपदः ।। १५/११० ।।
क्षुद्रग्रहमहारोगाश्चौरभूतसरीसृपाः ।
अमुना विलयं यान्ति विधिना नात्र संशयः ।। १५/१११ ।।
सिकतानां विशुद्धानां विकारकुडवं सुधीः ।
पञ्चगव्ययुतं पात्रे ब्रह्मवृक्षविनिर्मिते ।। १५/११२ ।।
निक्षिप्य विधिना यत्र स्थापयेत्तत्र सम्पदः ।
दिने दिने प्रवर्द्धन्ते कालवृष्ट्यादिभिः सह ।। १५/११३ ।।
महोत्पाता विनश्यन्ति कृत्याद्रोहमहाग्रहाः ।
पञ्चगव्याशनं कुर्यात् स्थापनं विधिनाऽमुना ।। १५/११४ ।।
गोमूत्रं प्रस्थमानं स्याद् गोमयं च तदर्धकम् ।
आज्यात् सप्तगुणं क्षीरं गोमूत्रात् त्रिगुणं दधि ।। १५/११५ ।।
गोमूत्रेण समं सर्पिः सर्वं वा सममुच्यते ।
गावः स्युः कपिलश्वेतहिमधूमारुणप्रभाः ।। १५/११६ ।।
अभावे गदिताः सर्वाः समं वा कपिलोद्भवम् ।
एकोनपञ्चाशत् कोष्ठे फलके ब्रह्मशाखिनः ।।। १५/११७ ।।
विहाय कोणकोष्ठानि शक्त्याद्यं जातवेदसम् ।
लिखित्वा मध्यकोष्ठेषु पूजयेत् तत्र देवताः ।। १५/११८ ।।
कृत्वा होमं समं पातं निखनेत्तु यथा पुरा ।
दद्याद्वलिं यथापूर्वं अस्य पूर्वोदितं फलम् ।। १५/११९ ।।
मध्ये मायाष्टकोष्ठेषु पादानष्टौ कृत्वा मातृकार्णैः परीतम् ।
भूबिम्बस्थं सर्वभूतामयघ्नं रक्षायुःश्रीकीर्तिदं यन्त्रमेतत् ।। १५/१२० ।।
आग्नेयास्त्रस्य जानाति विसर्गादानकर्मणी ।
यः पुमान् गुरुणा शिष्टस्तस्याधीनं जगत्त्रयम् ।। १५/१२१ ।।
जातप्रज्ञोऽथवा राजा द्रविणोऽराति वा तथा ।
एवं शब्दस्य शक्तिः स्यात् जाववेदास्तथा स्मृतः ।। १५/१२२ ।।
यजामहे स्वयं देवं सोमेन भुवनेश्वरम् ।
वह्निरूपेण तिष्ठन्तं परमात्मानमव्ययम् ।। १५/१२३ ।।
अराते द्रविणं चापि विद्यां चापि हरप्रिये ।
पुत्रादक्षादिकान् सर्वान् सम्यग्ज्ञानं तथैव च ।। १५/१२४ ।।
दत्त्वा चतुर्हरिर्देवः सर्वलोकपितामहः ।
यः सम्यक् सर्वलोकानां शत्रुत्वं सम्यगाचरेत् ।। १५/१२५ ।।
चित्रभानुर्महादेवः क्षुत्पिपासादिकं मम ।
व्यपोहतु महादेवः पुरुषार्थविबोधनः ।। १५/१२६ ।।
नौर्यथा दुस्तरं सिन्धुं तरत्येव न संशयः ।
पुरस्क्रियायुतं चास्य दशांशं घृतहोमतः ।। १५/१२७ ।।
अश्वत्थवृक्षं संस्पृस्य शनैश्चरदिने जपेत् ।
इष्टसिद्धिमवाप्नोति भयं चाशु विनश्यति ।। १५/१२८ ।।
यः सहस्रं जपेन्नित्यं ब्रह्माप्नोति न संशयः ।
सर्वदुर्गेषु यो नित्यं स्मरेन्मन्त्रमतन्द्रितः ।। १५/१२९ ।।
दुर्गाणि निस्तरेत् सद्यो नात्र कार्या विचारणा ।
धन्यं यशस्यमायुष्यमारोग्यं पुष्टिवर्द्धनम् ।। १५/१३० ।।
किमत्र बहुनोक्तेन पुरुषार्थचतुष्टयम् ।
दुर्गागारं समाश्रित्य साधयन्ति मनीषिणः ।। १५/१३१ ।।
सावित्री सहिता दुर्गा महासिद्धिकरी स्मृता ।
पूजिता विधिना सा च सर्वमिष्टं प्रयच्छति ।। १५/१३२ ।।
अपूजिता वै सर्वेषामनिष्टमपि दास्यति ।
अपामार्गशतं हुत्वा गोष्ठे शान्तिकरी भवेत् ।। १५/१३३ ।।
सर्वानभिमुखी कर्तुमधुना लवणेन च ।
दुर्गमार्गे भये द्यूते व्यवहारे जले रणे ।। १५/१३४ ।।
बन्धने व्यसने राज्ञो मन्त्रं तु मनसा जपेत् ।
जपमात्रेण विप्राणां सर्वं संसाधयेत् यथा ।। १५/१३५ ।।
राजन्यवैश्ययोर्नित्यं जपहोमाभिषेचनैः ।
यमुद्दिश्य जपेद्विप्रस्तत्तदाप्नोत्यसंशयम् ।। १५/१३६ ।।
आदित्यमण्डलं पश्यन् जानुदघ्ने जले स्थितः ।
यावदस्तमनं विप्रः सर्वान् कामानवाप्नुयात् ।। १५/१३७ ।।
आपदं निस्तरेद्विप्र आत्मनो वा परस्य वा ।
आदित्यमण्डलासीनां दुर्गां दुर्गहरां शिवाम् ।। १५/१३८ ।।
शङ्खचक्रधरां सौम्यां वरदाभयधारिणीम् ।
चतुर्भुजां त्रिनेत्रां च रक्ताभां जातवेदसीम् ।। १५/१३९ ।।
चिन्तयित्वा जगद्धात्रीं पश्यन्नादित्यमण्डलम् ।
आस्यदघ्ने जले स्थित्वा जपेत्तद्गतमानसः ।। १५/१४० ।।
अष्टोत्तरसहस्रं तु सर्वान् कामानवाप्नुयात् ।
महद्भिः पातकैः सर्वैः पातकैरुपपातकैः ।। १५/१४१ ।।
पापैश्च मुच्यते घोरैस्तथा रोगभयादिभिः ।
जलस्य मण्डले मन्त्री जुहुयादनया जलम् ।। १५/१४२ ।।
सूर्यवारं समारभ्य शतमष्टोत्तरं बुधः ।
सुवर्णं लभते मन्त्री सद्यो रत्नान् स्वरूपतः ।। १५/१४३ ।।
नाभिदघ्ने जले स्थित्वा मण्डलाभिमुखः स्वयम् ।
देव्याऽभिषिच्यमानोऽहं यत्नैरपि विचिन्तयेत् ।। १५/१४४ ।।
अभिषिञ्चेत् स्वकं देहं जलैर्मन्त्राभिमन्त्रितैः ।
आयुरारोग्यमैश्वर्यं शत्रुनाशं जलं च यम् ।। १५/१४५ ।।
सौभाग्यमचलां लक्ष्मीं लभते नात्र संशयः ।
प्रभूतैरिन्धनैरग्निं स्थाप्य प्रज्वाल्य वाग्यतः ।। १५/१४६ ।।
अष्टदिक्षु च मध्ये च गन्धपुष्पादिभिर्यजेत् ।
प्राच्यामग्निमहादुर्गां मन्त्राणामधिदेवताम् ।। १५/१४७ ।।
अभ्यर्च्य गन्धपुष्पाद्यैर्मनसा वाथ वै शिवाम् ।
शङ्खं चक्रं धनुश्चापं दधतीं मृत्युतर्जनीम् ।। १५/१४८ ।।
वामे चक्रमसिं चेषुं सन्नद्धां विविधायुधैः ।
पवित्रां सिंहाधिरूढां गायत्रीं कुमारीं जपेत् ।। १५/१४९ ।।
ध्यायेदीप्सितसिद्धिदां त्रिनयनां सिंहाधिरूढां शिवाम् ।
ध्यायन् जपेदष्टोत्तरशतं
प्रक्षिपेत् काष्ठशलाकां ज्वलितेऽग्नौ मुहुर्मुहुः ।
सिद्ध्यन्ति सर्वकर्याणि विनश्यन्ति भयानि च ।। १५/१५० ।।
किमत्र बहुनोक्तेन राज्यं शत्रुहतं लभेत् ।
आयुरारोग्यकामस्तु समाधाय हुताशनम् ।। १५/१५१ ।।
प्राच्यामग्नेरधिष्ठात्रीं दुर्गां गन्धादिनाऽर्चयेत् ।
हुनेद् दुर्गां पार्षदाय तथैकैकाहुतिं क्रमात् ।। १५/१५२ ।।
पार्श्वयोश्च तथा दुर्गां पार्षदेभ्यस्ततः क्रमात् ।
तिलेन जुहुयादाज्यं व्याहृतिभिस्ततः परम् ।। १५/१५३ ।।
क्रूरग्रहविनाशाय गोमूत्राक्तैः सकण्टकैः ।
तदग्ने जुहुयान्मन्त्री सर्वग्रहं विनश्यति ।। १५/१५४ ।।
अश्वत्थः प्रथमो ज्ञेयो द्वितीयो वट उच्यते ।
उदुम्बरस्तथा प्लक्षो वृक्षाणां क्रम ईरितः ।। १५/१५५ ।।
चतुर्णां क्षीरवृक्षाणां सन्निधौ जुहुयात् क्रमात् ।
मध्वक्तैस्तु तथा सर्वैर्वश्याः स्युर्मरणान्तिकम् ।। १५/१५६ ।।
पुरञ्जनपदं राष्ट्रं तद्वदेव वशं नयेत् ।
तथा वर्णाश्च चत्वारो वश्याः स्युश्च यथाक्रमम् ।। १५/१५७ ।।
पलाशवृक्षं संस्पृश्य मन्त्रसारैस्तु पञ्चभिः ।
छित्त्वा परशुना भित्त्वा पञ्चधा तं क्रमेण तु ।। १५/१५८ ।।
प्राच्यां प्राग्दक्षिणांशश्च प्रतीच्यंशस्तथैव च ।
उदीच्यंशश्च सन्ध्यादौ मासपक्षदिनं ततः ।। १५/१५९ ।।
शङ्खं चक्रं च जलजं ताञ्च कौमोदकीं तथा ।
पञ्चगव्येन संगृह्य स्वैस्वैर्मन्त्रैर्विधानतः ।। १५/१६० ।।
तत्रावाह्य विशोध्य त्वां समाराध्य यथाक्रमम् ।
एवमेव क्रमेणैव मन्त्रयेच्च शतं शतम् ।। १५/१६१ ।।
समापयेच्चतुःशङ्खं शङ्खादिषु यथाक्रमम् ।
अभ्यर्च्य देवदेवेशीं मनुनानेन भक्तितः ।। १५/१६२ ।।
स्मृतं नैव जपेन्मन्त्रमभिमन्त्र्य च भक्तितः ।
अग्रहारपुरक्षेत्रगृहवप्रादिषु क्रमात् ।। १५/१६३ ।।
चतुर्दिक्षु च मध्ये च खनित्वा हस्तमात्रकम् ।
पञ्चगव्यं विनिक्षिप्य तथा शङ्खादि विन्यसेत् ।। १५/१६४ ।।
स्वे स्वे स्थाने समभ्यर्च्य पूजयित्वा दलान्यपि ।
ध्यायेत् समन्ततो दुर्गां सिंहारूढां यथाविधि ।। १५/१६५ ।।
यस्यैवं कुरुते राज्ये स देशो निरुपद्रवः ।
धनधान्यसमृद्धश्च सदा निष्कण्टको भवेत् ।। १५/१६६ ।।
पञ्चवक्त्रमयं नास्ति न कथञ्चन सम्भवेत् ।
पञ्चशुक्लोत्पलान्यानि गृहीत्वा पूर्ववत् क्रमात् ।। १५/१६७ ।।
एवमाराध्यतां मन्त्री निखनेत् सर्वशान्तये ।
अथवा पूर्ववन्मन्त्री पञ्चगव्येन मन्त्रितम् ।। १५/१६८ ।।
महादिदिक्षु मध्ये च निखनेत् सर्वशान्तये ।
एवं च पञ्चदुर्गाया विनियोग उदीरितः ।। १५/१६९ ।।
शतपत्रसहस्रं तु हुत्वाऽऽज्याक्तं बलिं हरेत् ।
सुवर्णं लभते तद्वदुत्पलैः पुष्टिमाप्नुयात् ।। १५/१७० ।।
वासांसि चाप्नुयान्मन्त्री पुष्पवर्णानुरूपतः ।
मध्वाज्याक्तैः सितैः पुष्पैः सर्वान् कामानवाप्नुयात् ।। १५/१७१ ।।
प्रणम्य पुनराज्याक्तमुपतिष्ठेद् दिवाकरम् ।
जप्त्वाऽयुतं सहस्रं वा मोक्षं गच्छेन्न संशयः ।। १५/१७२ ।।
ब्रह्मवर्चसकामस्तु पलाशसमिधो हुनेत् ।
न्यग्रोधसमिधो हुत्वा धनधान्यमवाप्नुयात् ।। १५/१७३ ।।
उदुम्बरसमिद्धोमाद्धनवानन्नवान् भवेत् ।
अश्वस्थसमिधो हुत्वा कार्यमाशु च साधयेत् ।। १५/१७४ ।।
संमोहोच्चाटनं कुर्वन् रात्रौ नग्नस्तु वाग्यतः ।
दुर्गास्थानेषु नवसु दुर्गाबीजेन शर्करान् ।। १५/१७५ ।।
यावदेवं रिपुं कृत्वा रिपुमध्ये विनिक्षिपेत् ।
ततो यास्यन्ति सहसा भीताः सद्यः परस्परम् ।। १५/१७६ ।।
सावित्र्या संपुटीकृत्य दुर्गाबीजं समं न्यसेत् ।
इष्टसिद्धिर्भवत्याशु नात्र कार्या विचारणा ।। १५/१७७ ।।
आत्मनो वा परस्यापि रोगादिपरिपीडितः ।
समारभ्य जपेन्मन्त्री सद्यः सद्यो विमुच्यते ।। १५/१७८ ।।
धान्यहोमाद् भवेद्धान्यं पयसा पशुमान् भवेत् ।
विल्वैर्लक्ष्मीमवाप्नोति श्रीपुष्पैश्च तथैव च ।। १५/१७९ ।।
मधूकाक्तैश्च तत्पत्रैर्विश्वमात्मवशं नयेत् ।
आदित्यमण्डलादग्रे यः कृत्वा भुवि वैरिणः ।। १५/१८० ।।
ज्वालानिर्दग्धमानस्तु अधोवदनमारुतम् ।
जानुदघ्ने जले तिष्ठन् ध्यायन् वह्निमयं जलम् ।। १५/१८१ ।।
अतिदुर्गेति मन्त्रेण गृहीत्वाऽज्जलिना जलम् ।
रिपुदेहे विनिःक्षिप्य सहस्रं क्रोधसंयुतम् ।। १५/१८२ ।।
प्रज्वाल्य हस्तैर्हृदयं शतपर्ण्यादिभिः स्पृशेत् ।
प्रोक्षणेन जलस्यैव वैरिणः कारयेद् वधम् ।। १५/१८३ ।।
आदित्यमण्डलाधस्तादग्निनापोविदर्भितम् ।
तयोर्मध्यगतः शत्रुर्ज्वालामालाकुलावृतः ।।
ध्यातः शत्रुर्विनश्येत नात्र कार्या विचारणा ।। १५/१८४ ।।
इति जातवेदाद्या अष्टौ दुर्गाः ।
अथो दिनास्त्रं कृत्यास्त्रं वक्ष्ये शत्रुविमर्दनम् ।
अतिदुर्गामनुं प्राहुर्दिनास्त्रं मन्त्रवित्तमाः ।। १५/१८५ ।।
प्रतिलोममिमं मन्त्रं कृत्यास्त्रं परिचक्षते ।
दिनास्त्रस्य षडङ्गानि प्रतिलोमादितान् विदुः ।। १५/१८६ ।।
भानुबिम्बगतं शत्रुमधोवक्त्रं विषाहतम् ।
मूलादुत्थितया ग्रस्तं कुण्डल्या भावयन् सुधीः ।। १५/१८७ ।।
मूलाधारे क्षिपेत् सद्यः प्रस्फुरत्कालपावके ।
दिनत्रयाज्ज्वराक्रान्तो रिपुः प्राणान् विमुञ्चति ।। १५/१८८ ।।
दिनास्त्रेण प्रविद्धाङ्गं स्वाधिष्ठानगतं रिपुम् ।
पञ्चवायुसमिद्धेन वह्निना दग्धविग्रहम् ।। १५/१८९ ।।
ध्यायन् मनुं जपेत् सद्यः स भवेद् यमवल्लभः ।
मणिपूरगतं शत्रुमग्निना दग्धविग्रहम् ।। १५/१९० ।।
ध्यायन् दिनास्त्रं प्रजपेत् स मृत्युवशतां व्रजेत् ।
अनाहताहितः शत्रुर्निर्दग्धो मन्त्रवह्निना ।। १५/१९१ ।।
पाशेन बद्ध्वा शीघ्रेण नीयते यमकिङ्करैः ।
विशुद्धस्थानगो वैरी दिनबाणेन पीडितः ।। १५/१९२ ।।
अधोमुखः स्मृतस्तूर्णं परायुः स्याद् दिनत्रयात् ।
आज्ञायां निहतं शत्रुं दहेज्ज्वालाग्निना धिया ।। १५/१९३ ।।
पुत्रमित्रकलत्रादीन् हित्वा मृत्युमुपाश्रयेत् ।
नाभिमात्रोदके स्थित्वा ध्यायन् बिम्बं दिनेशितुः ।। १५/१९४ ।।
वैरिणं दग्धसर्वाङ्गं मन्त्रमष्टोत्तरं शतम् ।
जपेत् सप्तदिनादर्वाक् यमलोकं स गच्छति ।। १५/१९५ ।।
रविवारं समारभ्य सप्ताहं प्रजपेन्मनुम् ।
सूर्योदयं समारभ्य यावदस्तमयो भवेत् ।। १५/१९६ ।।
सन्निपातज्वराविष्टो यमग्रस्तो भवेदरिः ।
स्थित्वा दुर्गालये मन्त्री त्रिरात्रं वर्जिताशनः ।। १५/१९७ ।।
दिनबाणेन विद्धाङ्गं वैरिणं परिचिन्तयन् ।
जपेन्मनुमिमं शत्रुर्ज्वरितो मरणं ब्रजेत् ।। १५/१९८ ।।
स्पृष्ट्वा दुर्गां जपेन्मन्त्रं मनसा त्रिदिनं स्मरन् ।
शूलप्रोतं निजरिपुं दिनास्त्रेण प्रपीडितम् ।। १५/१९९ ।।
ज्वरेण महताविष्टो जायतेऽसौ यमातिथिः ।
रविमण्डलगं शत्रुं दष्टं तद्रथपन्नगैः ।। १५/२०० ।।
विषाग्निदग्धसर्वाङ्गं ध्यायन्नुष्णेन वारिणा ।
तर्पयेद् दिनबाणेन स्यादसौ यमवल्लभः ।। १५/२०१ ।।
रविबिम्बादागतया ज्वालया ग्रस्तविग्रहम् ।
रिपुं ध्यात्वा जपेन्मन्त्रं स क्रीडति यमान्तिके ।। १५/२०२ ।।
ग्रहयुक्तार्कबिम्बस्थं विद्धं मन्त्रमयैः शरैः ।
प्रतिपद्य निजं शत्रुं प्रजपेन्मन्त्रवित्तमः ।। १५/२०३ ।।
रिपुं नयति शीघ्रेण यमदूतो यमालयम् ।
प्रलयानलसंकाशाअं कालरात्रिमिवापराम् ।। १५/२०४ ।।
शूलपाशधरां घोरां सिंहस्कन्धनिषेदुषीम् ।
सवितुर्मण्डलान्तःस्थां रक्तनेत्रत्रयोद्गतैः ।। १५/२०५ ।।
विस्फुलिङ्गैर्निर्दहन्तीं रिपुमाकुलविग्रहम् ।
स्पष्टद्रंष्टाधरां नृत्यद्भ्रुकुटीकुटिलाननाम् ।। १५/२०६ ।।
तर्जयन्तीं निजं शत्रुं तर्जन्या भीमरूपया ।
दंष्ट्रामयूखज्वालेन द्योतयन्तीं दिगन्तरम् ।। १५/२०७ ।।
शूलेन वैरिणो वक्षो दारयन्तीं भयङ्करीम् ।
जपेद् दिनत्रयं मन्त्री मारयेद् रिपुमात्मनः ।। १५/२०८ ।।
अस्त्रमन्त्रकृतन्यासः प्रलयाग्निसमप्रभाम् ।
रक्तवस्त्रधरां क्रूरां रक्तनेत्रत्रयान्विताम् ।। १५/२०९ ।।
सिंहारुढां धावमानां धावमानं रिपुं प्रति ।
खड्गेन तच्छिरश्छित्त्वा क्षणाद् व्योमतलं गताम् ।। १५/२१० ।।
ध्यात्वा दुर्गां जपेन्मत्री त्रिदिनं वर्जितासनः ।
अनेनैव विधानेन रिपुर्मृत्युप्रियो भवेत् ।। १५/२११ ।।
कर्माण्येतानि कुर्वीत दिवसे न तु रात्रिषु ।
पश्चिमामुखलिङ्गस्य सजीवं महिषं पुरः ।। १५/२१२ ।।
निधाय तस्य शिरसि कुण्डं कृत्वा त्रिकोणकम् ।
तस्मिन् समेधिते वह्नौ यथावद् देशिकोत्तमः ।। १५/२१३ ।।
सत्रिकोणान् समन्त्रार्णान् साध्यनामसमन्वितान् ।
अजारक्तेन संसिक्तान् कारस्करसमिद्वरान् ।। १५/२१४ ।।
सहस्रं जुहुयाद् देवीं ध्यात्वा सवितृमण्डले ।
प्रलयाग्निसमां घोरां द्वात्रिंशद्भुजशोभिताम् ।। १५/२१५ ।।
उद्यदायुधसंदीप्तां नृत्यन्तीं सिंहमस्तके ।
महाद्रंष्ट्रां महाभीमां ज्वलत्केशीं नदन्मुखीम् ।। १५/२१६ ।।
रक्तार्द्रमांसवदनां घूर्णितोग्रत्रिलोचनाम् ।
अनेन विधिना शत्रुर्महाज्वरप्रपीडितः ।। १५/२१७ ।।
विमुञ्चति निजं देहं पुत्रमित्रादिभिः सह ।
उर्ध्वमुष्णाम्भसा मन्त्री लम्बयित्वा भुजङ्गमम् ।। १५/२१८ ।।
भानुविम्बगतां दुर्गां सहस्रादित्यसन्निभाम् ।
सहस्रपाणिचरणां सहस्राक्षिशिरोमुखीम् ।। १५/२१९ ।।
सहस्रनागबद्धाङ्गीं त्रासयन्तीं जगत्त्रयम् ।
ध्यायेन्मूलेन सर्पास्ये तर्पयेदुष्णवारिणा ।। १५/२२० ।।
संयुतः कालपाशेन वैरी मुञ्चेत् सुजीवितम् ।
मध्याह्नार्कायुतप्रख्यां नदन्तीं नरसिंहवत् ।। १५/२२१ ।।
घोरसिंहसमासीनां महाभीषणदर्शनाम् ।
शूलप्रोताहितां ध्यायन् जपेन्मन्त्रमनन्यधीः ।। १५/२२२ ।।
तर्पयेदुष्णतोयेन सर्पवक्त्रे दिनत्रयम् ।
यमस्य भवनं गच्छेदरातिर्नात्र संशयः ।। १५/२२३ ।।
ऋक्षवृक्षप्रतिकृतिं प्रतिष्ठितसमीरणाम् ।
उष्णोदके विनिःक्षिप्य विषाढ्यो विधिना ततः ।। १५/२२४ ।।
अर्केन्द्वनलसङ्काशां खड्गखेटकधारिणीम् ।
नयनत्रयनिर्गच्छद्विस्फुलिङ्गशतार्गलाम् ।। १५/२२५ ।।
सिंहस्थां सर्पभूषाढ्यां त्रैलोक्यभयदायिनीम् ।
खड्गकृत्याहितां ध्यायन् प्रजपेदयुतं मनुम् ।। १५/२२६ ।।
विधानेनामुना शत्रुर्ग्रस्तो भवति मृत्युना ।
प्रकल्प्य दुर्गायतने त्रिकोणं कुण्डमुत्तमम् ।। १५/२२७ ।।
तत्र संज्वलिते वह्नौ महिषीशकृताकृताम् ।
पुत्तलीमजरक्ताक्तां प्रतिष्ठितसमीरणाम् ।। १५/२२८ ।।
छित्वा छित्वा च जुहुयादजरक्तान्वितां निशि ।
ध्यात्वा दुर्गां प्रनृत्यन्तीं महिषोरःस्थलान्तरे ।। १५/२२९ ।।
शूलेन महिषस्याङ्गं भिन्दन्तीं घोरदर्शनाम् ।
अट्टहासैरजस्रोत्थैर्भीषितासुरसैनिकाम् ।। १५/२३० ।।
प्रलयानलसङ्काशां ज्वलन्नेत्रत्रयान्विताम् ।
संदंष्ट्राधरसंभिन्नां दंष्ट्राभीममुखाम्बुजाम् ।। १५/२३१ ।।
खड्गखेटकयुक्ताभिः कन्याभिश्च समन्विताम् ।
अनेन विधिना शत्रुः प्रयाति यमसन्निधिम् ।। १५/२३२ ।।
दिनास्त्रमेतत् कथितं शत्रुनिग्रहकारकम् ।
सर्वान् कृत्योदितान् कुर्यात् प्रयोगान्मन्त्रवित्तमः ।। १५/२३३ ।।
आधारादुत्थितां देवीं कुण्डलीं सर्परूपिणीम् ।
सुषुम्नारन्ध्रमार्गेण यातां व्योमस्थलं ततः ।। १५/२३४ ।।
मुखेन शत्रुमादाय निवृत्तां स्वगृहं प्रति ।
ज्वलत्कालानलैर्दीप्तां विचिन्त्य प्रजपेन्मनुम् ।। १५/२३५ ।।
सप्तभिर्वासरैः शत्रुर्मृत्युमाप्नोति मोहितः ।
अङ्गारवारे चिताग्नौ सर्षपस्नेहलोडितम् ।। १५/२३६ ।।
सिद्धार्थगुडसंयुक्तं जुहुयात् पक्षमादृतम् ।
कृत्यास्त्रज्वलया दग्धो रिपुर्यमपुरं व्रजेत् ।। १५/२३७ ।।
चतुर्दश्यामर्धरात्रे चितास्थिन्यथ साधकः ।
व्रणतैलविलिप्तानि चिताग्नौ जुहुयात्ततः ।। १५/२३८ ।।
अनेन विधिना शत्रुर्मृत्युमेष्यति कातरः ।
तुषास्थिनिर्मितां शत्रोर्व्रणतैलपरिप्लुताम् ।। १५/२३९ ।।
प्रतिमां स्थापितप्राणां जुहुयान्निशि साधकः ।
छित्वा छित्वाऽजरक्तेन सप्ताहान्म्रियते रिपुः ।। १५/२४० ।।
श्मशानवालुकां स्पृष्ट्वा साक्षतां नियुतं जपेत् ।
विकिरेत्तांस्तडागादौ कृत्यास्त्रक्वाथितं जलम् ।। १५/२४१ ।।
तदीयपीतमरिचं निहन्ति सकलान् जनान् ।
कृष्णाङ्गारचतुर्दश्यां प्रजप्तैः प्रेतभस्मभिः ।। १५/२४२ ।।
महिषाज्येन लुलितास्तन्मन्त्राक्षरसंख्यया ।
निर्माय गुटिका एताः सम्यग्जप्तसमीरणाः ।। १५/२४३ ।।
चितिकाष्ठेधिते वह्नौ जुहुयाद् दृढमानसः ।
चतुर्दशीत्रयादर्वाक् शत्रुर्मृत्युवशो भवेत् ।। १५/२४४ ।।
श्मशानभस्म सिद्धार्थं पञ्चगव्ये विनिःक्षिपेत् ।
माहिषे संस्मरेद् देवीं कालाग्निसदृशप्रभाम् ।। १५/२४५ ।।
भर्जयेत् प्रजपेन्मन्त्रं ग्रहकाष्ठैश्चितानले ।
दुर्गागारे प्रजुहुयादनेनायुतमन्त्रवित् ।। १५/२४६ ।।
पुनरादाय तद्भस्म सेनायां वैरिणः क्षिपेत् ।
सा सेना बहुधा भिन्ना ज्वररोगविमोहिता ।। १५/२४७ ।।
आयुधानि परित्यज्य युद्धकाले पलायते ।
गेहग्रामादिषु क्षिप्तं कुर्यादुच्चाटनं क्षणात् ।। १५/२४८ ।।
सप्तवारेषु कुलिके दुर्गावेश्मसु शर्कराः ।
सप्तमाहेन्द्रदिग्वज्रं गृहीत्वा प्रजपेन्मनुम् ।। १५/२४९ ।।
महिषीपञ्चगव्येषु भर्जयेत्तां यथाविधि ।
भूयो जपित्वा विकिरेद् गेहग्रामपुरेष्विमाः ।। १५/२५० ।।
स देशो नश्यति क्षिप्रं दग्धमन्त्रभवाग्निना ।
ब्रह्मदण्डी मर्कटिकां करक्रोशनिकात्रयम् ।। १५/२५१ ।।
भौमवारेषु कुलिके गृहीत्वा प्रजपेन्मनुम् ।
चतुर्दश्यां रिपोर्गेहे मुसलं प्रक्षिपेन्मनुम् ।। १५/२५२ ।।
सार्द्धं पुत्रकलत्राद्यैरुत्सादो जायते रिपोः ।
एकैकं वा खनेन्मन्त्री मण्डलात्तत्फलं लभेत् ।। १५/२५३ ।।
षड्बिन्दुषट्कं पुत्तल्यां निखनेदर्कदलान्वितम् ।
स्पृष्ट्वा तां प्रजपेन्मन्त्रं कृष्णाष्टभ्यां निशार्द्धतः ।। १५/२५४ ।।
शत्रोर्नामसमायुक्तां श्मशाने निखनेदिमाम् ।
प्राणांश्च स रिपुः शीघ्रं विमुञ्चति सबान्धवः ।
कपालफलकान्मन्त्री कृत्यास्त्राक्षरसंख्यकान् ।। १५/२५५ ।।
संस्पृश्य प्रजपेदस्त्रं प्राणस्थापनपूर्वकम् ।
कृष्णाङ्गारचतुर्दश्यां श्मशाने विषवृक्षके ।। १५/२५६ ।।
जुहुयादजरक्ताक्तान् कृत्यास्त्रज्ज्वालया हतः ।
रिपुर्यमपुरं गच्छेन्महाज्वरविमोहितः ।। १५/२५७ ।।
अजरक्तेन सम्पूर्णे कलशे निक्षिपेदमुम् ।
कपालेन पिधायैनं छादयेद् रक्तवाससा ।। १५/२५८ ।।
पूजयेद् रक्तपुष्पाद्यैः स्पृष्ट्वा तमयुतं जपेत् ।
भौमवारे निशामध्ये कारस्करसमेधिते ।। १५/२५९ ।।
श्मशानवह्नौ जुहुयाद् गच्छेद् यमपुरं रिपुः ।
साध्यनक्षत्रवृक्षेण कृत्वा कुम्भं प्रपूरयेत् ।। १५/२६० ।।
माहिषैः पञ्चगव्यैस्तं विराजं तत्र निक्षिपेत् ।
जपपूजादिकं सर्वं यथापूर्वकमाचरेत् ।। १५/२६१ ।।
कारस्करभवे वह्नौ कृत्यास्त्रेण समेधिते ।
अयुतं व्रणतैलेन हुत्वान्ते तं घटं पुनः ।। १५/२६२ ।।
आमस्तकं समुद्धृत्य जपेन्मन्त्रमनन्यधीः ।
जुहुयाद् विधिनानेन त्रिदिनान्म्रियते रिपुः ।। १५/२६३ ।।
सुन्दरं महिषीपुत्रमेकरात्रमुपोषितम् ।
पाययेन्महिषीसर्पिःप्रस्थं मन्त्रेण मन्त्रितम् ।। १५/२६४ ।।
कुशैराबद्धसर्वाङ्गं स्थापितः प्राणमञ्जसा ।
कारस्करैधिते वह्नौ व्रणतैलेन मन्त्रवित् ।। १५/२६५ ।।
होमं कृत्वायुतं मन्त्री जुहुयाद् यतमानसः ।
एकेन दिवसेनारिर्गच्छेद् यमपुरं ततः ।। १५/२६६ ।।
त्रिकोणकुण्डनिहिते वह्नौ मन्त्रेण दीपिते ।
अर्चिते गन्धपुष्पाद्यैरयुतं जुहुयात् क्रमात् ।। १५/२६७ ।।
राजीभल्लातकतिलतैलैः सप्तदिनं ततः ।
प्रसूतिसमयप्राप्तां महिषीं स्थापितानिलाम् ।। १५/२६८ ।।
पूजितां गन्धपुष्पाद्यैः स्पृशन् कूर्चेन तं जपेत् ।
मस्तकाद् योनिपर्यन्तं धिया वत्समनुस्मरन् ।। १५/२६९ ।।
आकृष्य हस्ते पतितं जुहुयादेधितेऽनले ।
एवं कृते समुत्पन्ना कृत्या दीप्ता हुताशनात् ।। १५/२७० ।।
भक्षयेदचिराच्छत्रुमीश्वरेणापि रक्षितम् ।
पुनरग्नौ विशत्येषा कर्तारमपि रक्षिणी ।। १५/२७१ ।।
एवंविधानि कार्याणि यः कुर्यामन्त्रवित्तमः ।
स जपेदात्मरक्षार्थं मन्त्रान् मृत्युञ्जयादिकान् ।। १५/२७२ ।।
इति श्रीफेत्कारिणीतन्त्रे जातवेदादिनवदुर्गाप्रकरणे
पञ्चदशः पटलः ।।
षोडशः पटलः
श्रीशिव उवाच
अथो लवणमन्त्रस्य विधानमभिधीयते ।
सर्वशान्तिकरो मन्त्रो ग्रहणादेव सिध्यति ।। १६/१ ।।
व्रतोपवासनियमैः पौरश्चर्यादिभिर्विना ।
छन्दोऽनुष्टुब् महारात्रिर्भद्रकाली च देवता ।। १६/२ ।।
ऋगाद्याः कथिताः पूर्वं लवणाम्भसि पूर्विकाः ।
लवणादिद्वितीयाद्या दहत्याः परिकीर्तिताः ।। १६/३ ।।
संदहत्या चतुर्थी स्याद् याते पूर्वार्थपञ्चमी ।
अङ्गिरा मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् ।। १६/४ ।।
अग्निरात्री पुनर्दुगा भद्रकाली च देवता ।
चिटिमन्त्राक्षरैः कुर्यात् षडङ्गानि समाहितः ।। १६/५ ।।
पञ्चभिर्हृदयं प्रोक्तं त्रिभिर्वर्णैः शिरः स्मृतम् ।
पञ्चवर्णैः शिखा प्रोक्ता कवचं करणाक्षरैः ।। १६/६ ।।
पञ्चभिर्नेत्रमुदितं युगलेनास्त्रमीरितम् ।
तारं चिटिद्वयं पश्चाच्चाण्डालि तदनन्तरम् ।। १६/७ ।।
महापदाद्यां तां ब्रूयादमकं मे ततः परम् ।
वशमानय ठद्वन्द्वं चिटिमन्त्र उदाहृतः ।। १६/८ ।।
चतुर्विंशत्यक्षरात्मा सर्वकामफलप्रदः ।
(ओं चिटि चिटि चाण्डालि महाचाण्डालि अमुकं मे वशमानय स्वाहा)
नवकुङ्कुमसन्निभं त्रिनेत्रं रुचिराकल्पशतं भजामि वह्निम् ।
श्रुवशक्तिवराभयानि दोर्भिर्दधतं रक्तसरोरुहे निषण्णम् ।। १६/९ ।।
इति वह्निध्यानम्
कालाम्बुदद्युतिमिन्द्रवक्त्रां हारावलीशोभिपयोधराढ्याम् ।
कपालपाशाङ्कशशूलहस्तां नीलाम्बरां तां युवतीं नमामि ।। १६/१० ।।
वह्निस्त्रीध्यानमेतत्
नीलाम्बुदाभामसिशङ्खशूलखड्गाढ्यहस्तां तरुणेन्दुचूडाम् ।
भीमां त्रिनेत्रां जितशत्रुवर्गां दुर्गां स्मरेद् दुर्गविभङ्गदक्षाम् ।। १६/११ ।।
दुर्गाध्यानमेतत्
टङ्कं कापालं डमरुं त्रिशूलं संबिभ्रती चन्द्रकलावतंसा ।
पिङ्गोर्ध्वकेशी सितधूमनेत्रा भूयाद् विभूत्यै मम भद्रकाली ।। १६/१२ ।।
भद्रकालीध्यानमेतत्
ऋक्पञ्चकं जपेत् सम्यगयुतं तद्दशांशतः ।
महिषीघृतसिक्तेन जुहुयादेधितेऽनले ।। १६/१३ ।।
एवं कृत्वा पुरश्चर्यां प्रयोगे कुशलो भवेत् ।
अग्नियामवती ध्येयौ वश्याकर्षणकर्मणोः ।। १६/१४ ।।
ध्यायेद् दुर्गां भद्रकालीं मन्त्री मारणकर्मणि ।
जानुप्रमाणे सलिले स्थित्वा निशि जपेन्मनुम् ।। १६/१५ ।।
अनेन वाञ्छितः साध्यः किङ्करो जायते क्षणात् ।
नाभिमात्रजले स्थित्वा जपेन्मन्त्रमिमं सुधीः ।। १६/१६ ।।
अष्टोत्तरसहस्रं यस्तस्य साध्यो वशीभवेत् ।
ऋक्पञ्चकं जपेन्मन्त्री कण्ठमात्राम्भसि स्थितः ।। १६/१७ ।।
सप्तभिर्दिवसैः साध्यं वशयेद् विधिनामुना ।
विलिख्य तालपत्रे तं साध्यनामविदर्भितम् ।। १६/१८ ।।
प्रक्षिप्य क्षीरसंमिश्रे जले तत् क्वाथयेन्निशि ।
वश्यो भवति साध्योऽसौ नात्र कार्या विचारणा ।। १६/१९ ।।
तालपत्रे लिखित्वैवं भद्रकालीगृहे खनेत् ।
वश्याय सर्वजन्तूनां प्रयोगोऽयमुदाहृतः ।। १६/२० ।।
ताम्रपात्रे समालिख्य मन्त्रं साध्यविदर्भितम् ।
तापयेत् खादिरे वह्नौ मासाद् वश्यो भवेन्नरः ।। १६/२१ ।।
त्रिकोणकुण्डमापाद्य सम्यक् शास्त्रोक्तलक्षणम् ।
तस्मिन् होमं प्रकुर्वीत संस्कृते हव्यवाहने ।। १६/२२ ।।
प्रक्षाल्य गव्यदुग्धेन संयोज्य लवणं सुधीः ।
संचूर्णितं तु जुहुयात् सप्ताहाद् वशयेज्जनान् ।। १६/२३ ।।
दधिमध्वाज्यसंसिक्तैः सैन्धवैर्जुहुयात्तथा ।
वशयेत् सकलान् देवानचिरात् किमु पार्थिवान् ।। १६/२४ ।।
विशुद्धं लवणप्रस्थं विभक्तं पञ्चधा पृथक् ।
एकैकया प्रजुहुयाद् ऋचा पञ्चाहमादरात् ।। १६/२५ ।।
यस्य नाम्ना स वश्यः स्यादनेनैव न संशयः ।
शुद्धं लवणमादाय जुहुयान्मधुरान्वितम् ।। १६/२६ ।।
ऊनपञ्चाशदाहुत्या वशं नयति वाञ्छितम् ।
नित्यं शुद्धेन लोणेन हुत्वा शत्रुं वशं नयेत् ।। १६/२७ ।।
मधुरत्रयसंयुक्तैर्लवणैः साधुचूर्णितैः ।
जुहुयाद् वशयेन्नारीर्नरान् नरपतीनपि ।। १६/२८ ।।
मन्त्रं कृष्णतृतीयादौ प्रजपेद् यावदष्टमीम् ।
पुत्तलीः पञ्च कुर्वीत साङ्गोपाङ्गाः समाः शुभाः ।। १६/२९ ।।
एका साध्यक्रमेण स्यात् पुत्तलीष्टमयी स्मृता ।
लवणं पोतसंभूतं चूर्णितं परिशोधितम् ।। १६/३० ।।
कुडर प्रोक्षयेत् क्षीरदध्याज्यमधुभिः क्रमात् ।
गुडाज्यमधुभिः सम्यग् मिश्रितेनाम्बुना ततः ।। १६/३१ ।।
कुर्वीत पुत्तलीं सौम्यां सर्वावयवशोभिताम् ।
प्राणमन्त्रं कृतं यन्त्रमासां हृदि विनिक्षिपेत् ।। १६/३२ ।।
आसु प्राणान् प्रतिष्ठाप्य पूजयेत् कुसुमादिभिः ।
पश्चात् कृष्णाष्टमीरात्रौ याममात्रगते सति ।। १६/३३ ।।
विधाय मातृकान्यासं मन्त्रन्यासमनन्तरम् ।
चिटिमन्त्रसमुद्भूतान् चतुर्विंशतिसंख्यकान् ।। १६/३४ ।।
ताराद्यान् विन्यसेद् वर्णान् स्थानेष्वेषु समाहितः ।
मूर्ध्नि भाले दृशोः श्रुत्योर्नासास्यचिबुकेष्वपि ।। १६/३५ ।।
कण्ठहृत्स्तनयुग्मेषु कुक्षौ नाभौ कटिद्वये ।
मेढ्रे पायौ प्रविन्यस्य शिष्टं वर्णचतुष्टयम् ।। १६/३६ ।।
ऊरुद्वये जानुयुग्मे जङ्घायुग्मे पदद्वये ।
एवं विन्यस्य सर्वाङ्गे रक्तमाल्यानुलेपनः ।। १६/३७ ।।
रक्तवस्त्रधरः शुद्धः पुत्तलीं दारुणा कृताम् ।
अधोमुखीं खनेत् कुण्डे पिष्टजामासनादधः ।। १६/३८ ।।
मृण्मयीं प्रतिमां पाददेशे न्यसेत्तथात्मनः ।
मधूच्छिष्टमयीं व्योम्नि कुण्डस्योर्ध्वं प्रलम्बयेत् ।। १६/३९ ।।
लवणेन कृतां पश्चात् पुत्तलीं संस्पृशन् जपेत् ।
ऋक्पञ्चकं यथान्यायमष्टोत्तरसहस्रकम् ।। १६/४० ।।
समं कृत्य चिटिमन्त्रान् पुनस्तस्यास्तनौ न्यसेत् ।
अङ्गुलीसन्धिप्रपदजङ्घोरुजानुपायुषु ।। १६/४१ ।।
लिङ्गदेशे पुनर्नाभौ जठरे हृदयाम्बुजे ।
स्तनद्वये तु स्कन्धे च चिबुके वदने पुनः ।। १६/४२ ।।
घ्राणयोः कर्णयोरक्ष्णोर्ललाटे मूर्द्धनि क्रमात् ।
अग्निमादाय संदीप्य साध्यनक्षत्रदारुभिः ।। १६/४३ ।।
तस्मिन्नभ्यर्च्य मन्त्रोक्तां देवतां दारुपत्रके ।
कुसीतराजिपुष्पाभिर्दत्त्वार्घ्यं प्रणमेत् सुधीः ।। १६/४४ ।।
मन्त्रैरेतैः प्रयोगादावन्ते संयतमानसः ।
ओं त्वमनेनाप्यमित्रघ्न निशायां हव्यवाहन ।। १६/४५ ।।
हविषा मन्त्रदत्तेन तृप्तो भव तया सह ।
जातवेदो महादेव तप्तजाम्बूनदप्रभ ।। १६/४६ ।।
स्वाहापते विश्वभक्ष्य लवणं दह शत्रुहन् ।
ओं ईशे सर्वाभिः सर्वाणि ग्रस्तयुक्तं त्वया जगत् ।। १६/४७ ।।
महादेवि नमस्तुभ्यं वरदे कामदा भव ।
ओं तमोमयि महादेवि महादेवस्य सुव्रते ।। १६/४८ ।।
त्रियामे पुरुषं हुत्वा वशमानय देहि मे ।
ओं दुर्गे दुर्गादिरहिते दुर्गसंबोधनाकुले ।। १६/४९ ।।
शङ्खचक्रधरे देवि दुष्टशत्रुभयङ्करि ।
ओं नमस्ते दह मे शत्रुं वशमानय चण्डिके ।। १६/५० ।।
शाकम्भरि महादेवि शरणं मे भवानघे ।
ओं भद्रकालि महातीक्ष्णे भद्रसिद्धिप्रदायिनि ।। १६/५१ ।।
सपत्नान् मे हन हह दह शोषय तापय ।
शूलासिशक्तिवज्राद्यैरुत्कृत्योत्कृत्य मारय ।। १६/५२ ।।
महादेवि महाकालि रक्षास्मानक्षतात्मिके ।
साध्यं संस्कृत्य निष्पाद्य पुत्तलीं सप्तधा पुनः ।। १६/५३ ।।
ऋक्पञ्चकं समुच्चार्य जुहुयादेधितेऽनले ।
प्रथमो दक्षिणः पादस्तत्करस्तदनन्तरम् ।। १६/५४ ।।
शिरस्तृतीयमाख्यातं वाहस्तस्ततः परम् ।
मध्यादूर्ध्वं पञ्चमः स्यादर्धोंऽशः षष्ठ ईरितः ।। १६/५५ ।।
सप्तमो वामपादः स्यादेवं भागक्रमः स्मृतः ।
सप्तसप्तविभागो वा प्रोक्तेष्वेषु यथाविधि ।। १६/५६ ।।
हुत्वैवमर्चयित्वाग्निं प्रणमेद् दण्डवत्ततः ।
यजमानो धनैर्धान्यैः पूजयेद् गुरुमात्मनः ।। १६/५७ ।।
अनेन विधिना मन्त्री वशयेदसुरान् सुरान् ।
किं पुनर्मनुजान् भूपान् नामाद्यान्नरयोषितः ।। १६/५८ ।।
मारणे पूर्वप्रोक्तं पुत्तलीनां चतुष्टयम् ।
निवेशयेद् यथा पूर्वं साधको विधिना ततः ।। १६/५९ ।।
अपरान् वक्ष्यमाणेन विधिनानेन कल्पयेत् ।
वाराहपारावतविट्तिलकाष्ठत्र्युषणरामठैः ।। १६/६० ।।
व्रणकृन्निम्बनिर्यासं साध्यवामाङ्घ्रिरेणुभिः ।
महिषीमूत्रसंपिष्टैः पूर्वोक्तैर्लवणान्वितैः ।। १६/६१ ।।
विधाय पुत्तलीं सम्यक् प्राणस्थापनमारभेत् ।
जपपूजादिकं कुर्यात् प्रागुवर्त्मना ततः ।। १६/६२ ।।
ततः पूर्वोदिते कुण्डे रात्रौ प्रज्वलितेऽनले ।
दुर्गां वा भद्रकालीं वा समभ्यर्च्य यथाविधि ।। १६/६३ ।।
धारयन्निशितं शस्त्रं सव्यहस्तेन साधकः ।
वामपादं समारभ्य दक्षिणाङ्घ्र्यवसानकम् ।। १६/६४ ।।
छित्वा छित्वा प्रजुहुयान्निराहारो जितेन्द्रियः ।
कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी ।। १६/६५ ।।
अनेनैव विधानेन कुर्याद् होमं जितेन्द्रियः ।
त्रिःसप्ताहप्रयोगेण मारयेद् रिपुमात्मनः ।। १६/६६ ।।
नीलनीरदसङ्काशो रौद्री सर्वार्थसिद्धिदा ।
वारुणो वरुणा नाम ऋषिः सञ्चलनः स्वयम् ।। १६/६७ ।।
यः सहस्रं जपेत्तावत् तस्य वश्यं भवेज्जगत् ।
जानुदघ्ने जले स्थित्वा रजन्यां ध्यानमास्थितः ।। १६/६८ ।।
यमुद्दिश्य जपेन्मन्त्रं स सद्यो वशमेष्यति ।
रक्तपुष्पैः समाराध्य भद्रकालीं स्पृशन् जपन् ।। १६/६९ ।।
शतं सहस्रं वा ध्यायन् स सद्यो वशमेष्यति ।
तालपत्रे लिखेन्मन्त्रं साध्यनामविदर्भितम् ।। १६/७० ।।
जप्त्वा शतं सहस्रं वा भद्रकालीगृहे खनेत् ।
स दासवद् भवेत्तस्य यावज्जीवं न संशयः ।। १६/७१ ।।
रक्तपुष्पधरो मन्त्री रक्तमाल्यानुलेपनः ।
प्राणायामत्रयं कृत्वा जुहुयात् सुमना भुवि ।। १६/७२ ।।
गते यामे रजन्यास्तु साध्यनामाङ्किते शुभे ।
साध्यवृक्षमये पीठे समासीनो परासने ।। १६/७३ ।।
प्रणतेनाग्निमध्ये तु कुण्डे वा स्थण्डिलेऽपि वा ।
पद्मपुष्पं परिस्तीर्य कुशैः शरमयैरपि ।। १६/७४ ।।
आराध्याग्निं महारात्रिं प्राच्यामग्निं प्रपूजयेत् ।
रक्तवस्त्रेण लवणैः कुर्याच्च प्रतिमां शुभाम् ।। १६/७५ ।।
मधुयुक्तां लोलक्रोडां पूजितामपि सेन्द्रियाम् ।
अक्षराणि न्यसेत्तत्र मन्त्रस्याथ विचक्षणः ।। १६/७६ ।।
परिदीप्याग्निमाज्येन प्रणवेन हुनेत्ततः ।
पुनर्व्याहृतिवर्णैश्च समस्तैश्च तथैव च ।। १६/७७ ।। १६/
वामपादे तु चारभ्य यावदापूर्यते करः ।
तावदादाय तेनैव संस्कृतेन करेण तु ।। १६/७८ ।।
गुरुपदेशसिद्धेन मन्त्रेण प्रणवादिना ।
जुहुयात् सप्तभिर्मन्त्री सप्तधा ध्यानमास्थितः ।। १६/७९ ।।
पुनर्व्याहृतिभिश्चाज्यं जुहुयात् प्रणवेन च ।
होमान्ते बलिदानं तु नित्यं कुर्याद्विजानता ।। १६/८० ।।
तिललाजादिना सक्तुदधिसंमिश्रभोजनम् ।
क्रमेण निक्षिपेद् भूमौ द्विस्त्रिर्वा साधकोत्तमः ।। १६/८१ ।।
ओं नमो रात्रिगणेभ्यः सर्ववश्यकरेभ्यः प्रतिगृह्णन्तु ।
सर्ववश्याय सर्वशान्ताय बलिमिमं स्वाहा ।
दत्त्वा बलिं जपेद् भूयो लवणादिमनुं बुधः ।। १६/८२ ।।
परिषिच्याग्निमाराध्य महारात्रिं तथैव च ।
शेषं समापयेद् विद्वान् स सद्यो वशमेष्यति ।। १६/८३ ।।
कृष्णाष्टमीं समारभ्य यावत् शुक्लचतुर्दशी ।
होमान्ते दक्षिणां भूमिं हिरण्यं वा यथाविधि ।। १६/८४ ।।
ऋत्विग्भ्यो गुरवे वापि दद्याद् विप्राय भोजयेत् ।
यस्त्वेवं कुरुते होमं गुरुशास्त्रोपदेशतः ।। १६/८५ ।।
आमृत्योर्वशमायाति स मर्त्यो नात्र संशयः ।
तथाकर्षणमिच्छंस्तु नाभिमात्रजले स्थितः ।। १६/८६ ।।
सहस्रमधिकं वापि यथाकार्यमनन्यधीः ।
ध्यायेन्नित्यं महारत्रौ जपेन्मन्त्रमतन्द्रितः ।। १६/८७ ।।
पाशबन्धगतं साध्यं नियमो मातृसन्निधौ ।
ज्वालामालप्रतीकाशां महारात्रिं महाभुजाम् ।। १६/८८ ।।
दंष्ट्राकरालवदनां स सद्यो वशमेष्यति ।
भद्रकालीं समाराध्य गन्धपुष्पादिभिः क्रमात् ।। १६/८९ ।।
रक्तपुष्पसहस्रेण प्रतिवारं वदन् क्षिपेत् ।
ध्यायेन्नरं महादेवीं स सद्यस्त्वागमिष्यति ।। १६/९० ।।
शत्रुपुत्रनरो नार्यः साध्यनामविदर्भितम् ।
क्षीरमिश्रजले क्षिप्त्वा क्वाथयेद् ध्यानमास्थितः ।। १६/९१ ।।
जपेच्छतं सहस्रं वा स सद्यस्त्वागमिष्यति
अरुणोऽरुणपङ्कजसन्निहितःस्रुवशक्तिवराभययुक्तकरः
अमृताच्चिरजातवातैर्विमललसन्नयनत्रितयोऽवतु ।
वोर्द्धहनो नीलतरांशुकाकनकलावनीलतनु-
निर्बिडस्तनभारा
साङ्कुशपाशसशूलकपालग्रामवती भवतोऽवतु नित्यम् ।। १६/९३ ।।
ओं करकमलविराजच्चक्रशङ्खासिशूला
परिलसितकिरीटोत्पाटितानेकदैत्या ।
त्रिनयनलसिताङ्गी तिग्मरश्मिप्रकाशा
पवनसखनिभाङ्गी पातु कात्यायनी वः ।। १६/९४ ।।
ओं स्वरौद्रसृतदंष्ट्रिका त्रिनयनोर्ध्वकेशा
फलककपालपरशुडमरुकर्त्रीशूलाकुला ।
घना घननिभा रणद्रुधिरा किङ्किणीमालिका
भवसिद्धये भवतु भद्रकाली चिरम् ।। १६/९५ ।।
खेटासिमुषलतोमरकपालशक्तिसपाशशूलान् ।
दधती दंष्ट्रोग्रा ध्येया त्रिनयनविराजिता ।। १६/९६ ।।
लवणेनाज्ययुक्तेन हुत्वेष्ट्वाभिभवेद् ध्रुवम् ।
तिलतैलं विमिश्रित्य हुत्वा श्रीमान् भविष्यति ।। १६/९७ ।।
पुन्नागपुष्पैर्मिश्रित्य हुत्वा पुत्रमवाप्नुयात् ।
मातुलुङ्गफलेनैव सर्वशान्तिर्भवेद् ध्रुवम् ।। १६/९८ ।।
उन्मत्तबीजहोमेन मत्तो भवति नान्यथा ।
निम्बतैलेन युक्तेन लवणेनाशु मारणम् ।। १६/९९ ।।
हुत्वा वा लवणेनाशु नष्टद्रव्यं प्रसिध्यति ।
कारस्करोत्थधात्री स्यादुदुम्बरतरुः पुनः ।। १६/१०० ।।
जम्बूखदिरकृष्णाख्यौ वंशपिप्पलसंज्ञकौ ।
नागरोहिणनामानौ पलाशप्लक्षसंज्ञकौ ।। १६/१०१ ।।
जम्बुश्च विल्वार्जुनाख्यविकङ्कतमहीरुहाः ।
बकुलः सरलः सर्जो वञ्जुलः पनसार्ककौ ।। १६/१०२ ।।
शमीकदम्बाम्रनिम्बमधुका ऋक्षशाखिनः ।
आत्मरक्षादिकं सर्वं कुर्यान्मन्त्री यथा पुरा ।। १६/१०३ ।।
अमुना विधिना सम्यगभीष्टफलसाधने ।
सदृशो नास्ति मन्त्रोऽन्यः सत्यमेव न चान्यथा ।। १६/१०४ ।।
आकल्पयन्तीति प्रत्यङ्गिरसो मन्त्रेणापामार्गराजीमृधवींषि पृथगष्टोत्तरशतं हुत्वा
परकृत्याप्रणाशात्मरक्षां कुर्वन् दशदिक्षु बलिं हरेन्मन्त्रैरेतैः ।। १६/१०५ ।।
यथा - यो मे पूर्वगतः पाप्मा तत् केनेह हेतुना कर्मणा इन्द्रस्त्वं देवराजी
जम्भयतु स्तम्भयतु मोहयतु शोषयतु पातयतु तापयतु द्रावयतु त्रासयतु क्षामयतु
नाशयतु मारयतु बलिं तस्मै प्रयच्छतु ।। १६/१०६ ।।
कृतं मम शुभं मम शिवं मम शान्तिं स्वस्त्ययनं मम यो मेऽग्निगतो यो
मे ईशगतो यो मे ऊर्ध्वगतो यो मे दिविगतो यो मे पातकेनेह कर्मणा ।। १६/१०७ ।।
सूर्यस्त्वं देवराजो जम्भयतु स्तम्भयतु मोहयतु तापयतु त्रासयतु बलिं तस्यै
प्रयच्छतु यत् कृतं मम शिवं शुभं मम शान्तिस्वस्त्ययनं मम यो मे सर्वगतः ।।
१६/१०८ ।।
एवं दिशासु दशसु देवताभ्यो बलिं हरेत् ।
कलावेवं कृतेऽरीणामाशु कृत्या विनश्यति ।। १६/१०९ ।।
इति श्रीपश्चिमाम्नाये फेत्कारिणीतन्त्रे तन्त्रराजोत्तमे लवणमन्त्राख्यानं नाम षोडशः
पटलः ।।
सप्तदशः पटलः
श्रीशिव उवाच
मन्त्राणां लेखनद्रव्यं चन्दनं रोचना निशा ।
गृहधूमचिताङ्गारौ मारणेषु विषाणि च ।। १७/१ ।।
सोमाग्निलोणपिण्डानि धुस्तूरकरसस्ततः ।
गृहधूमस्त्रिकटुकं विषाष्टकमुदीरितम् ।। १७/२ ।।
अथ वक्ष्यामि यन्त्राणां भेदांस्तन्त्रेषु गोपितान् ।
यैः साधयन्ति सततं मन्त्रिणो निजवाञ्छितम् ।। १७/३ ।।
शूलाङ्किते वह्निगृहस्य युग्मे
धूमावतीमन्त्रं लिखेत् क्रमेण ।
मध्यादिकोणेषु मरुद्गृहस्थं
यन्त्रं हुताशानिलवर्णपीतम् ।। १७/४ ।।
धूंधूंधूमावतिपदं द्विठो धूमावतीमनुः ।
धूमावती स्मृता काली शत्रुनिग्रहकारिका ।। १७/५ ।।
विषेण कनकाम्भोभिः प्रेतकर्पटकल्पितैः ।
श्मशाने निखनेदेतच्छत्रुमुच्चाटयेद् ध्रुवम् ।। १७/६ ।।
स वज्रषट्कोणमध्ये सकर्मसाध्यं धू/मध्ये विलिख्य प्राच्यादिकोणाभ्यन्तरे धू/
षट्कोणस्य धू/ धूमावति स्वाहा इति लिखेत् ।। १७/७ ।।
स्वाहा च त्रिकोणे तद्बहिः षट्बिन्दुलाञ्छितं मातरिश्वनः । इति वायुगृहम् ।। १७/८ ।।
तद्बहिरसंख्याताभ्यां वायुवर्णाभ्यां वेष्टयेत् ।
नामालिख्य मकारकोष्ठयुगले कोष्ठेषु तस्या लिखेद्
मन्त्रज्ञो ञणनामकारसहितां धूमावतीं पत्रगाम् ।
वीतं घर्मुटिकादिना परमिदं वायवद्रिगेहावृतं
यन्त्रं प्रान्तपरेतभूमिनिहितं विद्वेषणं स्याद् द्विषाम् ।। १७/१० ।।
पूर्वं घर्मटिकेयुग्मं ततो वर्मटिकेयुगम् ।
घोरे विद्वेषकारिणि विद्वेषोद्वेगकारिणि ।। १७/११ ।।
अथ घोराघोरयोः स्यादमुकामुकयोस्ततः ।
विद्वेषयद्वयं हु/ फट् विद्या घर्मटिकेरिता ।। १७/१२ ।।
अष्टदलाभ्यन्तरेऽधः केशरद्वये कोष्ठद्वययुक्तं मकारं लिखेत् ।
कोष्ठद्वयाभ्यन्तरे मध्ये नाम मकाराभ्यन्तरे कोणचतुष्टये ईशकोणादारभ्य ङ ञ ण
न म इति लिखित्वा अष्टपत्रेषु धूमावतीमनुं तद्बहिर्घर्मटिकामन्त्रेण वेष्टयित्वा
षड्बिन्दुलाञ्छितं वायुगृह त्रिभिर्वेष्टयेत् ।। १७/१३ ।।
प्राक्प्रत्यग्दक्षिणोदग्विधिवदभिलिखेत् स्पष्टरेखाचतुष्कं
कोणोद्यच्छूलयुक्तं बलयुगलयुतं मध्यपूर्वं तदन्तम् ।
मन्त्रस्थार्णान् परस्ताद् वसुपदविवरेष्वष्टवर्णान् लिखित्वा
शूलोद्यद्द्वादशार्णं विधिवदभिहितं प्रेतराजस्य मन्त्रम् ।। १७/१४ ।।
यमराजमदोमेययमो दारुणधोदयः ।
यत्र योनित्रयस्केय यस्के यच्च निरामयः ।
उक्तो धूमान्धकाराय स्वाहेत्यष्टाक्षरो मनुः ।। १७/१५ ।।
प्रणवोष्ट्रां ततो दंष्ट्रां तत्परं विकृतं ततः ।
आननाय वधूर्वह्नेर्मन्त्रोऽयं द्वादशाक्षरः ।। १७/१६ ।।
विषवृक्षस्य फलके नृचर्मणि पटेऽथवा ।
आलिख्याष्टविषैरेतत् श्मशाने निखनेन्निशि ।। १७/१७ ।।
ज्वरेण महताविष्टो मूर्च्छाकुलितमानसः ।
रिपुर्गच्छति पक्षेण यमलोकं न संशयः ।। १७/१८ ।।
इह चक्रे कुण्डलिनीरूपद्वादशाक्षरचक्रं लिखित्वा कोणचतुष्टयगतां रेखां
शूलाङ्कितां कृत्वा शूलाधो वृत्तचतुष्टयं दत्त्वा मध्यादितस्तदन्तं यमराजेत्यादि लिखित्वा
मध्यवृत्ताधःकोणस्थाग्नेयकोष्ठादितो धूमान्धकाराय स्वाहेत्यष्टार्णान्तं लिखित्वा
शूलचतुष्टये शूलस्य प्रथमशूलाद् दंष्ट्रामन्त्रं लिखेत् ।। १७/१९ ।।
एकाशीतिपदेषु मध्यदहने साध्यं लिखेद् धू/ पुनः
क्षींश्रींध्रुं इति दिग्गतासु विलिखेद् बीजानि पङ्क्तिष्वथ ।
शिष्टेष्वीशनिशाचरादि विलिखेत् कालीमनुं पङ्क्तिश -
स्तद्वाह्ये यमबीजमग्निपवनाबीजञ्च यन्त्रं लिखेत् ।। १७/२० ।।
काली मार रमा वाणी नील मोक्ष क्षमो नली ।
मामोदेत तदेमोमा रक्ष तत्तत्कृतक्षरः ।। १७/२१ ।।
कालीमनुरयं प्रोक्तः कालरात्रिः स्ववैरिणाम् ।
यमा पाट टमा माय माट मोट टमो टमा ।। १७/२२ ।।
वामो भुवि विभू मोवा टटवीस्त्वटवी टट ।
यमात्मकोऽयमाख्यातः श्लोको वैरिविनाशनः ।। १७/२३ ।।
लिखेदष्टविषाङ्गारनिम्बनिर्यासकज्जलैः ।
निग्रहाख्यमिदं यन्त्रं काकपक्षेण कर्पटे ।। १७/२४ ।।
विभीतवृक्षे वल्मीके श्मशाने वा चतुष्पथे ।
दक्षिणस्थेऽनिले मन्त्री निखनेदर्धरात्रिके ।। १७/२५ ।।
सर्वथा शत्रुरेतेन सप्ताहान्मरणं व्रजेत् ।
निगृह्यते महारोगैः पतितो वा भवेदयम् ।। १७/२६ ।।
शिलायामिष्टकायां वा चक्रमेतत् प्रकल्पितम् ।
मर्कटीविषदण्डीभिः समालिप्तमधोमुखम् ।। १७/२७ ।।
यन्त्रं रात्रौ खनेत्तत्र भूमौ भूयोऽशुभं व्रजेत् ।
ऊर्ध्वाधो दशरेखाभिस्तिर्यग्रेखास्तथा दश ।। १७/२८ ।।
एवमेकाशीतिकोष्ठकं चक्रमालिख्य पञ्चममध्यकोष्ठे त्रिकोणे तं साध्यं
सकर्मालिख्य चतुर्दिक्षु प्रथमकोष्ठे मध्यस्थसाध्यकोष्ठोपकोष्ठादारभ्य निर्गमक्रमेण
धू/ क्षीं श्रू/ ह्रूं लिखित्वा ईशानकोणादारभ्य प्रथमपङ्क्तौ वसुकोष्ठेषु
नीलामोक्षक्षमालिनी तदधो मामोदेत तदे वोमा तदधो रक्ष तत्तत्कृतक्षर तदधो ह्रूं
इत्यादि तदधो रक्ष तत्तत्कृतक्षर तदधो मामो देत तदे मोमा तदधो नीलमोक्षक्षमालिनी
तदधः काली मार रमा वाणी इति लिखित्वावाह्य ईशकोणादारभ्य यमापाटटमामाय इति
प्राच्याम्, माट मोट टमो टमा दक्षिणे, वामो भुवि विभूमो वा प्रतीच्याम्,
टटवीस्त्वटवीटट इत्युत्तर इति लिखित्वा वृत्तं दत्त्वा तद्बाह्ये वह्निपवनाभ्यां वेष्टयेत् ।। १७/२९ ।।
इति लिखेच्चतुः षष्टिपदेष्वष्टमीशनिशादिकाल्यादियमात्मकश्लोकेन संवेष्ट्य
कृशानुवायुबीजवृतं यन्त्रमिदं विदध्यात् ।। १७/३० ।।
इति श्रीपश्चिमाम्नाये फेतकारिणीतन्त्रे धूमावतीसिद्धयन्त्राख्यानं नाम सप्तदशः
पटलः ।।
अष्टादशः पटलः
श्रीशिव उवाच
भूतलिप्या पुटीकृत्य यो मन्त्रं भजते नरः ।
क्रमोत्क्रमाच्छतावृत्त्या तस्य सिद्धो भवेन्मनुः ।। १८/१ ।।
अङ्कोन्मुक्तशशाङ्ककोटिसदृशीमापीनतुङ्गस्तनीं
चन्द्रार्धाङ्कितमस्तकां मधुमदा व्यालोलनेत्रत्रयाम् ।
बिभ्राणामनिशं वरं जपवटीं विद्यां कपालं करै -
राढ्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये ।। १८/२ ।।
पञ्चह्रस्वाः सन्धिवर्णा व्योमेराग्निजलं धरा ।
अन्त्यमाद्यं द्वितीयञ्च चतुर्थं मध्यमं क्रमात् ।। १८/३ ।।
पञ्चवर्णाक्षराणि स्युरन्ते श्वेतेन्दुभिः सह ।
एषा भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः ।। १८/४ ।।
अ इ उ ऋ ऌ ए ऐ ओ औ ह य व र ल ङ क ख घ ग ञ च छ झ ज ण ट ठ ढ
ड न त थ ध द म प फ भ ब स ष श स ष श ब भ फ प म द ध थ त न
ड ढ ठ ट ण ज झ छ च ञ ग घ ख क ङ ल व र य ह औ ओ ऐ ए ऌ ऋ उ इ अ ।
ध्यात्वा जप्त्वा शतावृत्त्या क्रमोत्क्रमविधानतः ।
ज्ञानविज्ञानसम्पन्नो भवेत् सिद्धो न संशयः ।। १८/५ ।।
क्रमे आदिपृथिव्यन्ता व्युत्क्रमे सादि आन्तगाः ।
एवं संपूज्य विधिवद् जपन् भूतलिपिं नरः ।। १८/६ ।।
क्रमोत्क्रमाच्छतावृत्त्या सर्वान् कामानवाप्नुयात् ।
अनया संपुटीकृत्य योऽमुं मन्त्रं जपेन्नरः ।। १८/७ ।।
क्रमोत्क्रमाच्छतावृत्त्या तस्य सिद्धो भवेन्मनुः ।
पाशाङ्कुशपुटाशक्तिर्वाणीबिन्दुविभूषिताः ।। १८/८ ।।
याद्याः सप्त सकारान्ता व्योम सत्येन्दुसंयुतम् ।
(य/ र/ ल/ व/ श/ ष/ स/)
तदन्ते हंसमन्त्रः स्यात् ततोऽमुष्यपदं भवेत् ।। १८/९ ।।
प्राणा इति वदेत् पश्चाद् इह प्राणास्ततः परम् ।
अमुष्य जीव इह च स्थितोऽमुष्यपदं भवेत् ।। १८/१० ।।
सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः ।
श्रोत्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् ।।
तिष्ठन्त्वग्निवधूरन्ते प्राणमन्त्रोऽयमीरितः ।। १८/११ ।।
अमुष्यपदपूर्वं तु पाशाद्यादि प्रयोजयेत् ।
प्रयोगेषु समाख्यातः प्राणाकर्षी महामौः ।। १८/१२ ।।
इति श्रीफेत्कारिणीतन्त्रे महातन्त्रराजोत्तमे भूतलिपिप्राणप्रतिष्ठो- पदेशकथनं नाम
अष्टादशः पटलः ।।
एकोनविंशः पटलः
श्रीशिव उवाच
मन्त्राणां दश संस्काराः कथ्यन्ते सिद्धिदायिनः ।
जननं जीवनं पश्चात् ताडनं बोधनं तथा ।। १९/१ ।।
अथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ।। १९/२ ।।
शोधिताः सकला मन्त्रा भवन्ति किल सिद्धिदाः ।
मन्त्राणां मातृकामध्यादुद्धारो जननं स्मृतम् ।। १९/३ ।।
प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः ।
एतज्जीवनमित्याहुर्मन्त्रतन्त्रविशारदाः ।। १९/४ ।।
मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा ।
प्रत्येकं वायुना मन्त्री ताडनं तदुदाहृतम् ।। १९/५ ।।
विलिख्य मन्त्रं तं मन्त्री प्रसूनैः करवीरजैः ।
तन्मन्त्राक्षरसंख्यातैर्हन्याद् यत्नेन बोधनम् ।। १९/६ ।।
स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसंख्यया ।
अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये ।। १९/७ ।।
संचिन्त्य मनसा मन्त्री सुषुम्नामूलमध्यतः ।
ज्योतिर्मन्त्रेण विधिवद् दहेन्मन्त्री मलत्रयम् ।। १९/८ ।।
मन्त्रे मलत्रयं मन्त्री विमलीकरणं त्विदम् ।
तारं व्योमाग्निमनुयुग् दण्डी ज्योतिर्मनुर्मतः ।। १९/९ ।। १९/(ओं ह्रौम्)
कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः ।
तेन मन्त्रेण विधिवद् एतदाप्यायनं स्मृतम् ।
मन्त्रेण वरिणा मन्त्री तर्पणं तर्पणं स्मृतम् ।। १९/१० ।।
तारमायारमायोगो मनोर्दीपनमुच्यते ।
जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ।। १९/११ ।।
संस्कारा दश संप्रोक्ताः सर्वतन्त्रेषु गोपिताः ।
यान् कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमाप्नुयात् ।। १९/१२ ।।
इति मन्त्राणां दोषोद्धाराय दशविधसंस्काराः ।।
अथात्र होमद्रव्याणां प्रमाणमभिधीयते ।
कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् ।। १९/१४ ।।
उक्तानि पञ्चगव्यानि समानानि मनीषिभिः ।
तत्समं मधु दुग्धञ्च यवमात्रमुदाहृतम् ।। १९/१५ ।।
दधि प्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टिसम्मिताः ।
पृथुकास्तत्समानाः स्युः सक्तवोऽपि तथोदिताः ।। १९/१६ ।।
गुडं पलार्धमानं स्याच्छर्करापि तथा स्मृता ।
ग्रासार्धं चरुमानं स्यादिक्षुः पर्वावधिः स्मृतः ।
एकैकं पत्रपुष्पादि तथा धूपादि कल्पयेत् ।। १९/१७ ।।
कदलीफलनारङ्गफलान्येकैकशो विदुः ।
मातुलुङ्गं चतुःखण्डं पनसं दशधा स्मृतम् ।। १९/१८ ।।
अष्टधा नारिकेलानि खण्डितानि विदुर्बुधाः ।
त्रिधाकृतं फलं विल्वं कपित्थं खण्डितं द्विधा ।। १९/१९ ।।
उर्वारुकफलं होमे चोदितं खण्डितं द्विधा ।
फलान्यन्यानि खण्डानि समिधः स्युर्दशाङ्गुलाः ।। १९/२० ।।
दूर्वात्रयं समुद्दिष्टं गुडूची चतुरऽऽगुला ।
व्रीहयो मुष्टिमात्राः स्युर्मुद्गा माषा यवा अपि ।। १९/२१ ।।
तण्डुलाः स्युस्तदर्धांशाः कोद्रवा मुष्टिसम्मिताः ।
गोधूमा रक्तकलमा विहिता मुष्टिमानतः ।। १९/२२ ।।
तिलाश्चुल्लकमात्राः स्युः सर्षपास्तत्प्रमाणकाः ।
शुक्तिप्रमाणं लवणं मरीचान्यपि विंशतिः ।। १९/२३ ।।
पुरं वरदमानं स्याद् रामठं तत्समं स्मृतम् ।
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमानि च ।। १९/२४ ।।
तिन्तिडीबीजमानानि समुद्दिष्टानि देशिकैः ।
अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते ।। १९/२५ ।।
अथात्र होमद्रव्याणां फलं शृणु वरानने ।
पालाशैर्मधुरत्रयेण कुसुमैः सिक्तैरशेषान्नरः
कामं चम्पकपाटलादिबकुलैः प्राप्नोति होमात्त्रयम् ।
बाह्यं बिन्दुदलैः फलैरपि तथा साम्राज्यमम्भोरुहैर्
आयुः शाद्बलपल्लवैः सह गुडैः शान्तिं सहाज्यैस्तिलैः ।। १९/२६ ।।
अघोरेण द्रविणं निगदत्वं प्राप्नुयाच्च सिद्धार्थैः ।
प्रीतिं गुडेन पत्रैः पुत्रान् सौख्यं फलैर्मनुजः ।। १९/२७ ।।
लाजैः सौभाग्यं धान्यमन्येन होमात्
पुष्पैः कादम्बैर्यक्षलोकाधिपत्यम् ।
मर्त्यः पुन्नागैरेभिर्विद्याधरत्वं
पुष्पैर्मालत्याः सिद्धगन्धर्वलोकान् ।। १९/२८ ।।
आकृष्टिर्यक्षिणीनां त्रिमधुरसहितैरर्जुनैः सर्षपैः स्याद्
वैश्या वश्या भवेयुर्जयरिपुकुसुमैर्किंशुकैश्चापि होमात् ।
वश्याः स्युः कर्णिकारैरथ धरिणसुराः क्षत्रियाः काशमर्दै -
र्वैश्या नाकिं किरातैर्गण इव वशगाः पाटलाभिश्च शूद्राः ।। १९/२९ ।।
छागलाङ्गजजाङ्गलेन होमात्परराष्ट्रं स्ववशं भवेदशेषम् ।
अथ वैरिबलं पराङ्मुखं स्यान्मधुराक्तेन महापललेन वापि ।। १९/३० ।।
कटुत्रयनिम्बपत्रकेशैः सगुडैर्मारपलान्वितैर्निशासु ।
कटुतैलविमिश्रितैश्च होमादरयस्त्रिमुनिवासरान्म्रियन्ते ।। १९/३१ ।।
लग्नजिदजरोमहरिद्राखण्डनखैर्विहितः किल होमः ।
सप्तदिनात् प्रतिपक्षनृपाणां स्तम्भनकृत् प्रबलस्य बलस्य ।। १९/३२ ।।
माषैर्मूकत्वं कोद्रवैर्व्याधिबाधा आतङ्केतिः स्यात् कलायैस्तु होमात् ।
उन्मत्तस्य वृक्षजाभिः समिद्भिर्मृत्युः सप्ताहात् शाल्मलीवृक्षजाभिः ।। १९/३३ ।।
कपिलाघृतसंयुक्तैर्मनुष्यो यवगोधूमतिलैः
षडस्रकुण्डे नियतं खेचरत्वमेति ।
हुत्या निशिचारेण समाहितान्तरात्मा
पलाशद्रुमकाष्ठैः परिज्वाल्य हव्याशनं चन्दनाभ्युक्षितैर्बन्धुजीवैः ।। १९/३४ ।।
समस्तानि भूतानि वश्यानि होमाद्भवेयुः प्रियङ्गुप्रसूनैश्च तद्वत् ।
नरो भक्ष्यभोज्यान्नपानानि हुत्वा परां सम्पदं प्राप्नुयादत्र लोके ।। १९/३५ ।।
वटोदुम्बराद्यङ्कुरैः स्वादुवर्गान्वितैः ।
काम्यतां मल्लिकाभिर्यशः स्यात् ।। १९/३६ ।।
तुष्टिर्नीलाम्बुजैर्होमात् सौगन्धिकैर्भवेत् पुष्टिः ।
कुमुदैर्जनवात्सल्यं पुत्राः मल्लिकुसुमैः स्युः ।। १९/३७ ।।
यत्खलु अभीष्टतमं स्याद् भूमितले मनसो मनुजानाम् ।
तत्सकलं मधुरत्रयहोमात् स्यादचिरेण स्वशक्तिमुपेतुम् ।। १९/३८ ।।
घृताहुतिर्द्विगुणितषोडशाङ्गुलाभिर्वरातत इह मध्यमार्धतः ।
गजाङ्गुलोन्नतिरधमा तिलोद्भवं तथैव माक्षिकमपि पञ्चगव्ययुक् ।। १९/३९ ।।
एकं चुल्लकं पयसो दध्नस्तद्वद्यवाग्वाश्च ।
एकैकापूपनिकरपायसमक्षप्रमाणञ्च ।। १९/४० ।।
कदलीफलमेकैकं मातुलुङ्गनागरङ्गञ्च ।
पनसं दशखण्डं गुडखण्डं स्यात्फलं वैल्वम् ।। १९/४१ ।।
करकट्टिका गुडखण्डा दलपुष्पफलान्यखण्डानि ।
इत्यादिकं सर्वद्रव्यं होतव्यं विधिना ततः ।
सर्वशान्तिमवाप्नोति नात्र कार्या विचारणा ।। १९/४२ ।।
ओं तत्सत् ओं शान्तिः ओं शान्तिः ।
इति फेत्कारिणीमहातन्त्रे जननादिदशसंस्कारक्रियाहोमद्रव्य-संख्यादिकथनं
नामोनविंशः पटलः ।।
विंशः पटलः
श्रीशिव उवाच
नवधाकृतभूभागे न्यसेन्मध्ये स्वरान् क्रमात् ।
कादिवर्णान् सप्तसंख्यानीशाने लक्षमित्यपि ।। २०/१ ।।
क्षेत्राद्यर्णं त्रये कोष्ठे दीपस्थानं मुखाभिधम् ।
हस्तौ कुक्षी च पादौ द्वौ शिष्टं पुच्छमुदाहृतम् ।। २०/२ ।।
सिद्धिश्चास्ये करेऽल्पायुरुदासत्वं तु पार्श्वयोः ।
दुःखं चरणयोः पीडा पुच्छे कूर्मतनोर्जपात् ।। २०/३ ।।
नामाद्यक्षरमारभ्य यावन्मन्त्राद्यदर्शनम् ।
सप्तप्लुतं त्रिभिः शिष्टमृणं त्याज्यं धनात्मकम् ।। २०/४ ।।
मन्त्राद्यक्षरमारभ्य यावन्नामादिदर्शनम् ।
त्रिभिः प्लुतं सप्तशिष्टं स्वग्राह्यमीदृशात्मकम् ।। २०/५ ।।
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।
सपिण्डाक्षरमन्त्राणां अरिमित्रं न चार्चयेत् ।। २०/६ ।।
एकाक्षरे त्रिकूटे च मालामन्त्रे वरानने ।
स्वप्नलब्धे स्त्रिया दत्ते मित्रामित्रं न चार्चयेत् ।। २०/७ ।।
सिद्धः साध्यः सुसिद्धोऽरिश्चतुर्धा तत्स्फुटं भवेत् ।
द्वारशारे अकडमे जिज्ञासान्नसमन्त्रयोः ।। २०/८ ।।
नवैकपञ्चमे सिद्धः साध्यः षड्दशयुग्मके ।
सुसिद्धस्त्रिसप्तके रुद्रे द्वादशाष्टचतुर्ष्वरिः ।। २०/९ ।।
चतुष्कोष्ठे स्वरान् वर्णानीशानादिक्रमाल्लिखेत् ।
चक्रेऽकथह इत्युक्तः सिद्धादौ नामवर्णयोः ।। २०/१० ।।
इति पश्चिमाम्नाये फेत्कारिणीतन्त्रे कूर्मचक्र-ऋणिधनिसिद्धसाध्या-ख्यानादिनाम विंशः
पटलः ।।
एकविंशः पटलः
श्रीशिव उवाच
क्रोधमन्त्रं जपेल्लक्षं कोट्यादित्यसमप्रभम् ।
अट्टहासं महारौद्रं प्रत्यालीढं महाप्रभम् ।। २१/१ ।।
दक्षिणे वज्रसंयुक्तं तर्जनीं वामपाणिना ।
विषादिक्रोधवज्रास्त्रं क्रोधराजमहामनुम् ।। २१/२ ।।
विषं हनपदं गृह्य विध्वंसयपदं ततः ।
नाशयेति पदं चोक्त्वा पाशं क्रोधास्त्रसंयुतम् ।। २१/३ ।।
विषं च वज्रज्वालेन हनयुग्ममतः परम् ।
सर्वभूतान् ततः कूर्चमस्त्रान्ते भूतमारणम् ।। २१/४ ।।
क्रोधाधिपं व्योमवक्त्रं वज्रपाणिं सुरान्तकम् ।
कालकल्पतरुं नत्वा भूतिनीसिद्धिरुच्यते ।। २१/५ ।।
आद्या विभूषिणी देवी परा कुण्डलधारिणी ।
तारिणी सिंहिनी चाथो हंसिनी च ततो नटी ।। २१/६ ।।
(ओं हन विध्वंसय नाशय आ/ हू/ फट्)
चेटिका किन्नरी प्रोक्ता भूतिनी तु रतिप्रिया ।
क्रोधास्त्रद्वयनामान्ते भूतवीर्यस्त्रिकूर्चतः ।। २१/७ ।।
(आ/ हू/ वज्र फट्)
तारलज्जाद्वयादस्त्रद्वयादेव विभूषिणी ।
क्रोधद्वयं तु मन्त्रोऽयं विभूषिण्या उदाहृतः ।। २१/८ ।।
(ओं वज्रज्वालेन हन हन सर्वभूतान् हू/ फट्)
कर्त्री चैककरे परे नरशिरस्तुङ्गाकृतिर्भीषणा
दन्तान्तर्गतमांसशोणितवसासंयुक्तभूतव्रजा ।
कालव्यालकरालशालविटपव्यालम्बिपृष्ठाङ्गका
यस्याः केशकुलाकुलाखिलमही शैलान्तमारक्षतु ।। २१/९ ।।
एकवृक्षतटं गत्वा यामिन्यां प्रवसंस्त्र्यहम् ।
जपेदष्टसहस्रं तु ध्यायन्नेकाग्रमानसः ।। २१/१० ।।
जपान्ते पूजनं नाम्ना पुरो धूपं निवेद्य च ।
प्रजपेदर्धरात्रे तु समायाति विभूषिणी ।। २१/११ ।।
चन्दनोदकमिश्रेण दत्तेऽर्घ्ये तुष्यते ध्रुवम् ।
माता वा भगिनी भार्या तुष्टा भवति कामिता ।। २१/१२ ।।
करामलयितुं कृत्वा माता भूत्वा जगत्त्रयम् ।
शताष्टपरिवारस्य ददात्यञ्जनभूषणम् ।। २१/१३ ।।
भगिनी चेन्महाभागा सहस्रयोजनादपि ।
ददाति स्त्रियमानीय दिव्यं रसरसायनम् ।। २१/१४ ।।
भार्या चेत् पृष्ठमारोप्य स्वर्गं नयति यच्छति ।
दीनाराणां सहस्रं तु रसं चैव रसायनम् ।। २१/१५ ।।
सर्वाशाः पूरयत्येव सदा देवी विभूषिणी ।
ध्रुवमायास्त्रद्वयतः प्रोक्ता कुण्डलधारिणी ।। २१/१६ ।।
त्रिकूर्चास्त्रः समाख्यातः कुण्डलधारिणीमनुः ।
(ओं ओं ह्री/ ह्री/ फट् फट् कुण्डलधारिणी हू/ हू/ हू/ फट्)
कर्णे कुण्डलधारिणी शशिमुखी वीणावती सम्मिता
शैलश्रोणिविलम्बिकाञ्चिविततव्यामुग्धलोकत्रया ।
मुक्ताहारविहारिणी प्रविलसत्प्रोत्तुङ्गकुम्भस्तनी
पायात्कुण्डलधारिणी त्रिजगतामानन्दसन्दोहभूः ।। २१/१७ ।।
श्मशाने प्रजपेद् रात्रावयुतं कुण्डलधारिणी ।
आयाति रुधिरेणार्घ्यो देयस्तुष्टो ददात्यपि ।। २१/१८ ।।
किं कर्तव्यं मया वत्स मातेति भव साधकः ।
पञ्चशतवासराणि त्रैलोक्यमपि दास्यति ।। २१/१९ ।।
क्रोधद्वयास्त्रयुगतः सिन्दूरहारिणीपदम् ।
कूर्चत्रयास्त्रसंप्रोक्तः सिन्दूरहारिणीमनुः ।। २१/२० ।।
(हू/ हू/ फट् फट् सिन्दूरहारिणी हू/ हू/ हू/ फट्)
स्वर्णालङ्कृतहारिणी चलदलव्यालोलशाखाम्बरा
सोत्कण्ठीकृतगात्रकल्पसुभगा शुभ्रांशुका सस्मिता ।
अन्तःसन्ततकान्तिकान्तमलिना त्रैलोक्यशोभागता
पायाद् वल्लभमूलराहुलतिका सिन्दूरहारिण्यसौ ।। २१/२१ ।।
शून्यदेवालयं गत्वा जपेदष्टसहस्रकम् ।
शीघ्रमायात्यागता सा भार्या भवति कामिता ।। २१/२२ ।।
पञ्चविंशतिदीनारान् वस्त्रालङ्कारभूषणा ।
रक्षति द्वादशजनान् देवी सिन्दूरहारिणी ।। २१/२३ ।।
लज्जाद्वयास्त्रयुगतः सिंहिनीति पदं ततः ।
क्रोधबीजत्रयाज्जातः कीर्तितः सिंहिनीमनुः ।। २१/२४ ।।
(ह्री/ ह्री/ फट् फट् सिंहिनी हू/ हू/ हू/ फट्)
शैलाग्रद्रुमदुर्गदन्तुरदरीदुर्गान्तदैत्यस्थिता
केशस्रस्तसमस्तविश्वचरणा प्रभ्रष्टचन्द्रासनी ।
यावत्तारविदन्तधारणवनप्रक्षुब्धसिद्धाङ्गना
सेयं पातु समस्तमस्तककुलव्यालम्बिमालाकुला ।। २१/२५ ।।
गत्वैकलिङ्गं यामिन्यां प्रजपेदयुतं मनुम् ।
ततो हृष्टाऽतिवरदा सिंहिन्यायाति पूजिता ।। २१/२६ ।।
किं करोमि वदत्येवं भार्या भवति कामिता ।
दीनारं वस्त्रयुगलं दधद् रसरसायनम् ।। २१/२७ ।।
तारस्त्रिमूर्त्यस्त्रयुगाद् हंसिनी भूतिनी ततः ।
त्रिकूर्चास्त्रं च कथितो हंसि(नी)मनुरुत्तमः ।। २१/२८ ।।
(ओं ओं फट् फट् हंसिनी भूतिनी हू/ हू/ हू/ फट्)
शुभ्राशुभ्रसरोजतुल्यनयना नागा गले लम्बिता
प्रारब्धध्वनिमुग्धमाधववधूसंसेविता सादरम् ।
किञ्चित् तिर्यगपाङ्गलोचनवती व्यामुग्धदीक्षामुखी
मुक्तायुक्तविलोलहारलतिका श्रीहंसिनी पातु वः ।। २१/२९ ।।
वज्रपाणिगृहं गत्वा प्रतिमां शोभनां लिखेत् ।
हयमारेण संपूज्य जपेदयुतसंख्यकम् ।। २१/३० ।।
यावदर्धनिशां देवी हंसिन्यायाति निश्चितम् ।
चन्दनार्घ्यप्रदानेन हृष्टा वदति साधकम् ।। २१/३१ ।।
किं ते मयाद्य कर्तव्यं किङ्करी भव साधकः ।
वस्त्रालङ्कारभोज्यादि व्ययार्थं संप्रयच्छति ।। २१/३२ ।।
तदशेषव्ययाभावाद् न ददाति प्रकुप्यति ।
तारं क्रोधास्त्रयुगतो नटीतिपदमुद्धरेत् ।। २१/३३ ।।
कूर्चत्रयोदस्त्रान्तोऽयं कथितो नर्तकीमनुः ।
(ओं हू/ हू/ फट् फट् नटी हू/ हू/ हू/ फट्)
श्रीशिव उवाच
शृणु देवि प्रवक्ष्यामि चोटिकासाधनोत्तमम् ।
यत्प्रसादं नरो लब्ध्वा सर्ववाञ्छितमाप्नुयात् ।। २१/३४ ।।
ताराचक्राधारयुगं नटीतिपदमुद्धरेत् ।
कूर्चत्रयलज्जान्तोऽयं कथितो नर्तकीमनुः ।। २१/३५ ।।
फुल्लेन्दीवरसुन्दराम्बरमुखीमुत्तुङ्गकुम्भस्तनीं
खेलत्खञ्जनयुग्ममीननयनामानन्ददायिस्मिताम् ।
क्षीराम्भोनिधिकूलवन्दिवनितामानीलवासासनीं
चन्द्रोद्यत्सुनखादिनीं मणिकुलव्याहारकारोत्तराम् ।। २१/३६ ।।
नीचगामङ्गनां गत्वा सप्ताहं जपपूजने ।
कृत्वार्कास्तमने धूपं चन्दनेन जपेदपि ।। २१/३७ ।।
कामभोगप्रदात्री सा भार्या भवति नर्तकी ।
सुवर्णपलमेकं तु व्ययार्थं त्यज्य गच्छति ।। २१/३८ ।।
दिने दिने नटी देवी स्थायिनी भवति ध्रुवम् ।
तारकूर्चद्वयं चास्त्रद्वयं चेटी ततः परम् ।। २१/३९ ।।
ततः क्रोधद्वयं दत्त्वा चेटीमन्त्रोत्तमो मतः ।
(ओं हू/ हू/ फट् फट् चेटी हू/ हू/)
गच्छन्ती मितभाषिणी शशिमुखी भ्रष्टोत्तरीयाम्बरा
बिभ्रन्ती कलशं सरोजममलं स्वर्णान्तसीमन्तिनी ।
श्रीखण्डादिविलेपनामलवपुः सौरभ्यसम्भाविता
किञ्चिद् वक्रसमाचितापि कबरी पायाच्चिरं चेटिका ।। २१/४० ।।
कुत्रापि भीषणस्थाने नामोच्चारणमात्रतः ।
ध्रुवं चेटि समागत्य चेटीकर्म करोत्यपि ।। २१/४१ ।।
अथवा स्वगृहद्वारे त्र्यहं रात्रौ जपं चरेत् ।
आगत्य निलयं देवी चेटीकर्म करोति सा ।। २१/४२ ।।
तारकूर्चास्तयुग्मं तु कामेश्वरीभूतिन्यतः ।
अन्ते क्रोधद्वयं कामेश्वरीमन्त्र उदाहृतः ।। २१/४३ ।।
(ओं हू/ फट् फट् कामेश्वरी भूतिन्यै हू/ हू/)
कामं युद्धसमागता मधुरता वासन्तपुष्पान्विता
गायन्ती मधुरस्वरा स्मितमुखी वीणावती चञ्चला ।
रक्ताम्भोजविलोचना मधुमदैर्युक्ता समन्तादियं
पायात् पुष्पधनुर्धरा मधुमुखी कामेश्वरी भूतिनी ।। २१/४४ ।।
मातृस्थानं समागत्य कृत्वा मांसस्य भक्षणम् ।
मांसादीनि बलिं दत्त्वा सहस्रं सप्तवासरान् ।। २१/४५ ।।
जपेन्नियतमयाति रुधिरार्घ्यं निवेदयेत् ।
कामेश्वरी भवेत्तुष्टा भार्या भवति कामिता ।। २१/४६ ।।
सर्वाशाः पूरयत्येव राज्यं यच्छति निश्चितम् ।
तारं लज्जां च कूर्चास्त्रद्वयमुक्त्वा रतिप्रिये ।
क्रोधद्वयस्त्रयुक् कामेश्वरीतन्त्रोक्तवत् क्रिया ।। २१/४७ ।।
(ओं हू/ फट् फट् रतिप्रिये हू/ हू/ फट्)
हेमप्राकारमध्ये सुरविटपितले हेमपीठाधिरूढा
यक्षीबाला विसर्पत्परिमलकुसुमोद्भासिधमिल्लभारा ।
पीनोत्तुङ्गस्तनाढ्या कुवलयनयना रक्तवर्णा कराभ्यां
भ्राम्यद् रक्तोत्पलाभा सकलसुरनता दिव्यभूषाङ्गहारा ।। २१/४८ ।।
क्रोधद्वयास्त्रयुगतो देवीति पदमुद्धरेत् ।
अन्ते क्रोधद्वयं गृह्य देवीमन्त्रमनुत्तमम् ।। २१/४९ ।।
दिव्यकामिकहेमाभा कुमारी दिव्यरूपिणी ।।
(हू/ हू/ फट् फट् देवि हू/ हू/)
सर्वालङ्कारसंयुक्ता भार्या भवति कामिता ।। २१/५० ।।
रात्रौ देवगृहं गत्वा तत्र शययां प्रकल्पयेत् ।
सितवस्त्रं चन्दनञ्च जातीपुष्पं प्रदापयेत् ।। २१/५१ ।।
धूपञ्च गुग्गुलं कृत्वा सहस्रं प्रजपेन्मनुम् ।
जपान्ते नियतायाति चुम्बनालिङ्गनादिभिः ।। २१/५२ ।।
कामिता भव भार्येयं सत्यं देवाङ्गनायिका ।
ददात्यष्टौ दिनान्यन्ते दिव्यं वस्त्रयुगं ततः ।। २१/५३ ।।
कामिकं भोजनं दिव्यं परिवारस्य दास्यति ।
अन्यच्च वैश्रवणगृहाद् द्रव्यमानीय यच्छति ।। २१/५४ ।।
एतज्जप्त्वा सहस्राणि जपान्ते सिध्यति ध्रुवम् ।
मुहुर्मुहुर्जपेन्मन्त्रमित्याह क्रोधभूपतिः ।। २१/५५ ।।
फेत्कारिणीतन्त्र इयं मयोक्ता कृत्या समस्तागमसारभूता ।
शत्रोर्विनाशाय घनाय सम्यक् सद्भिःसदेयं नियतं नियोज्या ।। २१/५६ ।।
दुःखाय हि दुर्जनसिंहा पराघातिनी कृत्या ।
गदितेष्टसिद्धिदात्री मया तत् फेत्कारिणीतन्त्रे ।। २१/५७ ।।
सृष्टिस्थितिविनाशानामद्वितीयातिभैरवी ।
महाकृत्या स्मृता नित्यमशुभारिविनाशिनी ।। २१/५८ ।।
इति श्रीफेत्कारिणीतन्त्रे देवीश्वरसंवादे चेटिकासाधनं नाम एकविंशतितमः पटलः
समाप्तः ।।
समाप्तश्चायं ग्रन्थः
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
5xtq3avrcreui7upp5ji4yndtdthm05