विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.2 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk ऐतरेय आरण्यकम् 0 13359 415855 365586 2026-05-14T04:29:15Z Sthiradhanvan 10470 प्रथमारण्यकस्य प्रथमे पादे - “यो वै भवति यः श्रेष्ठतामश्नुते स वा अति थिर्भवति” ईति वाक्यान्ते दुष्पृथक्त्वं निवारितम् । 415855 wikitext text/x-wiki <inputbox> type=fulltext prefix=ऐतरेय आरण्यकम् break=no width=10 searchbuttonlabel=ऐतरेय आरण्यकम् शोधः </inputbox> ऐतरेयारण्यकम् [[/आरण्यक १|आरण्यक १]] [[/आरण्यक २|आरण्यक २]] [[/आरण्यक ३|आरण्यक ३]] [[/आरण्यक ४|आरण्यक ४]] [[/आरण्यक ५|आरण्यक ५]] <big>ऐतरेय आरण्यकम् भूमिमुपस्पृशेदग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वति मा ते व्योम संदृशि ।। भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । <poem> स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितु यदायुः ।। शं न इन्द्राग्नी भवतामवोभिर्गीर्भिर्मित्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ।। स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता । त आगमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ।। कया नश्चित्र आभुवदूती सदावृधः सखा । कया शचिष्ठया वृता ।। कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृह्ळाचिदारुजे वसु ।। अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः ।। स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथः ।। ओष्ठापिधाना नकुली दन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारुमामिह वादयेदिति वाग्रसः ।। ॐ शान्तिः शान्तिः शान्तिः । </poem> ।। अथ प्रथमारण्यकम् ।। 1.1.1 ओम् ।। अथ महाव्रतम् । इन्द्रो वै वृत्रं हत्वा महानभवद्यन्महानभवत्तन्महाव्रतमभवत्तन्महाव्रतस्य महाव्रतत्वम् । द्वे एतस्याह्न आज्ये कुर्यादिति हैक आहुरेकमिति त्वेव स्थितम्। प्र वो देवायाग्नय इति राद्धिकामः । विशो विशो वो अतिथिमिति पुष्टिकामः । पुष्टिर्वै विशः पुष्टिमान्भवतीति। अतिथिमिति पदं भवति नैतत्कुर्यादित्याहुरीश्वरोऽतिथिरेव चरितोः । तदु ह स्माह कुर्यादेव । यो वै भवति यः श्रेष्ठतामश्नुते स वा अतिथिर्भवति । न वा असन्तमातिथ्यायाद्रियन्ते । तस्मादु काममेवैतकुर्यात् । स यद्येतत्कुर्यादागन्म वृत्रहन्तममित्येतं तृचं प्रथमं कुर्यात् । एतद्वा अहरीप्सन्तः संवत्सरमासते त आगछन्ति । त एतेऽनुष्टुप्शीर्षाणस्त्रयस्तृचा भवन्ति ब्रह्म वै गायत्री वागनुष्टुब्ब्रह्मणैव तद्वाचं संदधाति । अबोध्यग्निः समिधा जनानामिति कीर्तिकामः । होताजनिष्ट चेतन इति प्रजापशु कामः ।। १.१.१ ।। 1.1.2 अग्निं नरो दीधितिभिररण्योरित्यन्नाद्यकामः । अग्निर्वा अन्नादः । चिरतरमिव वा इतरेष्वाज्येष्यग्निमागछन्त्यथेह मुखत एवाग्निमागछन्ति मुखतोऽन्नाद्यमश्नुते मुखतः पाप्मानमपघ्नते । हस्तच्युती जनयन्तेति जातवदेतस्माद्वा अह्नो यजमानो जायते तस्माज्जातवत् । तानि चत्वारि छन्दांसि भवन्ति चतुष्पादा वै पशवः पशूनामवरुद्ध्यै । तानि त्रीणि छन्दांसि भवन्ति त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै । ते द्वे छन्दसी भवतः प्रतिष्ठाया एव । द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति । ताः पराग्वचनेन पञ्चविंशतिर्भवन्ति पञ्चविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंशस्तमिममात्मानं पञ्चविंशं संस्कुरुते । अथो पञ्चविंशं वा एतदहः पञ्चविंश एतस्याह्न स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्द्वे एव पञ्चविंशतिर्भवन्ति । तास्त्रिः प्रथमया त्रिरुत्तमयैकया न त्रिंशन्न्यूनाक्षरा विराट् । न्यूने वै रेतः सिच्यते न्यूने प्राणा न्यूनेऽन्नाद्यं प्रतिष्ठितमेतेषां कामानामवरुद्ध्यै । एतान्कामानवरुन्धे य एवं वेद । ता अभिसंपद्यन्ते बृहतीं च विराजं च छन्दो यैतस्याह्नः संपत्तामथो अनुष्टुभमनुष्टुबायतनानि ह्याज्यानि ।।१.१.२।। 1.1.3 गायत्रं प्रउगं कुर्यादित्याहुस्तेजो वै ब्रह्मवर्चसं गायत्री तेजस्वी ब्रह्मवर्चसी भवतीति । औष्णिह प्रउगं कुर्यादित्याहुरायुर्वा उष्णिगायुष्मान्भवतीति । आनुष्टुभं प्रउगं कुर्यादित्याहुः क्षत्त्रं वा अनुष्टुप्क्षत्त्रस्याऽऽप्त्या इति बार्हतं प्रउगं कुर्यादित्याहुः श्रीर्वै बृहती श्रीमान्भवतीति पाङ्क्तं प्रउगं कुयादित्याहुरन्नं वै पङ्क्तिरन्नवान्भवतीति त्रैष्टुभं प्रउगं कुर्यादित्याहुर्वीर्यं वै त्रिष्टुब्वीर्यवान्भवतीति जागतं प्रउगं कुर्यादित्याहुर्जागता वै पशवः पशुमान्भवतीति, इति । तदु गायत्रमेव कुर्याद्ब्रह्म वै गायत्री ब्रह्मे तदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति । तदु माधुच्छन्दसम्, इति । मधु ह स्म वा ऋषिभ्यो मधुच्छन्दाश्छन्दति तन्मधुच्छन्दसो मधुच्छन्दस्त्वम्, इति । अथो अन्नं वै मधु सर्वं वै मधु सर्वे वै कामा मधु तद्यन्माधुच्छन्दसं शंसति सर्वेषां कामानामवरुद्ध्यै, इति । सर्वान्कामानवरुन्धे य एवं वेद, इति । तद्वैकाहिकं रूपसमृद्धं बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति, इति । प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमाध्याये तृतीयः खण्डः ।। १.१.३ ।। 1.1.4 वायवायाहि दर्शतेमे सोमा अरं कृता इत्येतद्वा अहररं यजमानाय च देवेभ्यश्च, इति । अरं हास्मा एतदहर्भवति य एवं वेद येषा चैवं विद्वानेतद्धोता शंसति, इति । इन्द्रवायू इमे सुता आयातमुपनिष्कृतमिति यद्वै निष्कृतं तत्संस्कृतम्, इति । आ हास्येन्द्रवायू संस्कृतं गच्छतो य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । मित्रं हुवे पूतदक्षं धियं घृताचीं साधन्तेति वाग्वै धीर्घृताची इति । वाचमेवास्मिंस्तद्दधाति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । अश्विना यज्वरीरिष इत्यन्नं वा इषोऽन्नाद्यस्यावरुद्धयै, इति । आयातं रुद्रवर्तनी इति, इति । आ हास्याश्विनौ यज्ञं गच्छतो य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति इति । इन्द्राऽऽयाहि चित्रभानविन्द्राऽऽयाहि धियेषित इन्द्राऽऽयाहि तूतुजान इत्यायाह्यायाहीति शंसति, इति । आ हास्येन्द्रो गच्छति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । ओमासश्चर्षणीधृतो विश्वे देवास आगतेति, इति । आ हास्य विश्वे देवा हवं गच्छन्ति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । दाश्वांसो दाशुषः सुतमिति यदाह ददुषो ददुषः सुतमित्येव तदाह, इति । ददति हास्मै तं कामं देवा यत्काम एतच्छंसति, इति । य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । पावका नः सरस्वती यज्ञं वष्टु धियावसुरिति वाग्वै धियावसुः, इति । वाचमेवास्मिंस्तद्दधाति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । यज्ञं वष्ट्विति यदाह यज्ञं वहत्वित्येव तदाह, इति । ताः पराग्वचनेनैकविंशतिर्भवन्त्येकविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तमिममात्मानमेकविंशं संस्कुरुते, इति । तास्त्रिः प्रथमया त्रिरुत्तमया पञ्चविंशतिर्भवन्ति पञ्चविंश आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंशस्तमिममात्मानं पञ्चविंशं संस्कुरुतेऽथो पञ्चविंशं वा एतदहः पञ्चविंश एतस्याह्नः स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्द्वे एव पञ्चविंशतिर्भवन्ति भवन्ति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमाध्याये चतुर्थः खण्डः ।। १.१.४ ।। इति बहवृचब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमाऽध्यायः ।। १ ।। 1.2.1 आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ, इति । ऐकाहिकौ रूपसमृद्धौ बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । इन्द्र नेदीय एदिहि प्रसूतिरा शचीभिर्ये त उक्थिन इत्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । प्रैतु ब्रह्मणस्पतिरच्छा वीरमिति वीरवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । उत्तिष्ठ ब्रह्मणस्पते सुवीर्यमिति वीर्यवद्र्पसमृद्धमेतस्याह्नो रूपम्, इति । प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यमित्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याहो रूपम्, इति । अग्निर्नेता स वृत्रहेति वार्त्रघ्नमिन्द्ररूप मैन्द्रमेतदहरेतस्याह्नो रूपम्, इति । त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं वृषा वृषत्वेभिर्महित्वेति वृषण्वद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति । पिन्वन्त्यपोऽत्यं न मिहे विनयन्ति वाजिनमिति वाजिमद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति । अथो उत्सं दुहन्ति स्तनयन्तमक्षितमिति स्तनयद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति । प्र व इन्द्राय बृहत इति यद्वै बृहत्तन्महन्महद्वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । बृहदिन्द्राय गायतेति यद्वै बृहत्तन्महन्मह द्वद्रूपसमृद्धमेतस्याहो रूपम्, इति । नकिः सुदासो रथं पर्यास न रीरमदिति पर्यस्तवद्रान्तिमद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । सर्वान्प्रगाथाञ्च्छंसति सर्वेषामह्नामाप्त्यै सर्वेषामुक्थानां सर्वेषां पृष्ठानां सर्वेषां शस्त्राणां सर्वेषां प्रउगाणां सर्वेषां सवनानाम्, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये प्रथमः खण्डः ।। १ ।। ( ५) 1.2.2 असत्सु मे जरितः साभिवेगः सत्यध्वृतमिति शंसति सत्यं बा एतदहः सत्यवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । तदु वासुक्रं ब्रह्म वै वसुक्रो ब्रह्मैतदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति । तदाहुरथ कस्माद्वास्रुक्रेणैतन्मरुत्वतीयं प्रतिपद्यत इति न ह वा एतदन्यो वसुक्रान्मरुत्वतीयमुदयच्छन्न विव्याचेति तस्माद्वासुक्रेणैवैतन्मरुत्वतीयं प्रतिपद्यते, इति । तदनिरुक्तं प्राजापत्यं शंसत्यनिरुक्तो वै प्रजापतिः प्रजापतेराप्त्यै, इति । सकृदिन्द्रं निराह तेनैन्द्राद्रूपान्न प्रच्यवते, इति । पिबा सोममभि यमुग्र तर्द इति शंसति, इति। ऊर्वं गव्यं महि गृणान इन्द्रेति महद्वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । तदु भारद्वाजं भरद्वाजो ह वा ऋषीणामनूचानतमो दीर्घजीवितमस्तपस्वितम आस स एतेन सूक्तेन पाप्मानमपाहत तद्यद्भारद्वाजं शंसति पाप्मनोऽपहत्या अनूचानो दीर्घजीवी तपस्व्यसानीति तस्माद्भारद्वाजं शंसति, इति । कया शुभा सवयसः सनीळा इति शंसति, इति । आशासते प्रतिहर्यन्त्युक्थेत्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । तदु कयाशुभीयमेतद्वै संज्ञानं संतनि सूक्तं यत्कयाशुभीयमेतेन ह वा इन्द्रोऽगस्त्यो मरुतस्ते समजानत तद्यत्कयाशुभीयं शंसति संज्ञात्या एव, इति । तद्वायुष्यं तद्योऽस्य प्रियः स्यात्कुर्यादेवास्य कयाशुभीयम्, इति । मरुत्वाँ इन्द्र वृषभो रणायेति शंसति, इति । इन्द्र वृषभ इति वृषण्वद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति । तदु वैश्वामित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस, इति । विश्वं हास्मै मित्रं भवति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । जनिष्ठा उग्रः सहसे तुरायेति निविद्धानमैकाहिकं रूपसमृद्धं बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । ताः पराग्वचनेन सप्तनवतिर्भवन्ति सा या नवतिस्तिस्रस्तास्त्रिंशिन्यो विराजोऽथ याः सप्तातियन्ति यैवैषा प्रशंसा साप्त्यस्य तस्या एव, इति । तास्त्रिः प्रथमया त्रिरुत्तमयैकशतं भवन्ति, इति । पञ्चाङ्गुलयश्चतुष्पर्वा द्वे कक्षसी दोश्चाक्षश्चांसफलकं च सा पञ्चविंशतिः पञ्चविंशानीतराणि ह्यङ्गानि तच्छतमात्मैकशततमः, इति । यच्छतं तदायुरिन्द्रियं वीर्यं तेजो यजमान एकशततम आयुषीन्द्रिये वीर्ये तेजसि प्रतिष्ठितः, इति । तास्त्रिष्टुभमभि संपद्यन्ते त्रैष्टुभो हि मध्यंदिनः, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ।। २ ।। ( ६) 1.2.3 तदाहुः किं प्रेङ्खस्य प्रेङ्खत्वमित्ययं वै प्रेङ्खो योऽयं पवत एष ह्येषु लोकेषु प्रेङ्खत इति तत्प्रेङ्खस्य प्रेङ्खत्वम्, इति । एकं फलकं स्यादित्याहुरेकधा ह्येवायं वायुः पवतेऽस्य रूपेणेति, इति । तत्तन्नाऽऽदृत्यम्, इति । त्रीणि फलकानि स्युरित्याहुस्त्रयो वा इमे त्रिवृतो लोका एषां रूपेणेति, इति । तत्तन्नाऽऽदृत्यम्, इति । द्वे एव स्यातां द्वौ वा इमौ लोकावद्धातमाविव दृश्येते य उ एने अन्तरेणाऽऽकाशः सोऽन्तरिक्षलोकस्तस्माद्द्वे एव स्याताम्, इति । औदुम्बरे स्यातामूर्ग्वा अन्नाद्यमुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै, इति । मध्यत उद्धृते स्यातां मध्यतो वै प्रजा अन्नं धिनोति मध्यत एव तदन्नाद्यस्य यजमानं दधाति, इति । उभय्यो रज्जवो भवन्ति दक्षिणाश्च सव्याश्च दक्षिणा वा एकेषां पशूनां रज्जवः सव्या एकेषां तद्यदुभय्यो रज्जवो भवन्त्युभयेषां पशूनामाप्त्यै, इति । दार्भ्यः स्युर्दर्भोवा ओषधीनामपहतपाप्मा तस्माद्दार्भ्यः स्युः, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये तृतीयः खण्डः ।। ३ ।। ( ७) 1.2.4 अरत्निमात्र उपरि भूमेः प्रेङ्खः स्यादित्याहुरेतावता वै स्वर्गा लोकाः संमिता इति तत्तन्नाऽऽदृत्यम्, इति । प्रादेशमात्रे स्यादित्याहुरेतावता वै प्राणाः संमिता इति तत्तन्नाऽऽदृत्यम्, इति । मुष्टिमात्रे स्यादेतावता वै सर्वमन्नाद्यं क्रियत एतावता सर्वमन्नाद्यमभिपन्नं तस्मान्मुष्टिमात्र एव स्यात्, इति । पुरस्तात्प्रत्यञ्च प्रेङ्खमधिरोहेदित्याहुरेतस्य रूपेण य एष तपति पुरस्ताद्ध्येष इमाँल्लोकान्प्रत्यधिरोहतीति तत्तन्नाऽऽदृत्यम्, इति । तिर्यञ्चमधिरोहेदित्याहुस्तिर्यञ्चं वा अश्वमधिरोहन्ति तेनो सर्वान्कामानवाप्नवामेति तत्तन्नाऽऽदृत्यम्, इति। अन्वञ्चमधिरोहेदित्याहुरनूची वै नावमधिरोहन्ति नौर्वैषा स्वर्गयाणी यत्प्रेङ्ख इति तस्मादन्वञ्चमेवाधिरोहेत्, इति । छुबुकेनोपस्पृशेच्छुको हैवं वृक्षमधिरोहति स उ वयसामन्नादतम इति तस्माच्छुबुकेनोपस्पृशेत्, इति । बाहुभ्यामधिरोहेदेव श्येनो वयांस्यभिनिविशत एवं वृक्षं स उ वयसां वीर्यवत्तम इति तस्माद्बाहुभ्यामधिरोहेत्, इति । अस्यै पादं नोच्छिन्द्यान्नेदस्यै प्रतिष्ठाया उच्छिद्या इति, इति । प्रेङ्खं होताऽधिरोहत्यौदुम्बरीमासन्दीमुद्गाता वृषा वै प्रेङ्खो योषाऽऽसन्दी तन्मिथुनं मिथुनमेव तदुक्थमुखे करोति प्रजात्यै, इति । प्रजायते प्रजया पशुभिर्य एवं वेद, इति । अथान्नं वै प्रेङ्खः श्रीरासन्द्यन्नं चैव तच्छ्रियं चान्वधिरोहतः, इति । बृसीर्होत्रकाः समधिरोहन्ति सब्रह्मकाः, इति । समुत्सृप्य वा ओषधिवनस्पतयः फलं गृह्णन्ति तद्यदेतस्मिन्नहनि सर्वशः समधिरोहन्तीषमेव तदूर्जमन्नाद्यमधिरोहन्त्यूर्जोऽन्नाद्यस्यावरुद्ध्यै, इति । वषट्कृत्यावरोहेदित्याहुस्तत्तन्नाऽऽदृत्यमकृता वै साऽपचितिर्यामपश्यते करोति, इति । निगृह्य भक्षमवरोहेदित्याहुस्तत्तन्नाऽऽदृत्यमकृता वै साऽपचितिर्यामध्यृष्टाय करोति, इति । प्रतिख्याय भक्षमवरोहेदेषा वा अपचितिर्यां पश्यते करोति तस्मात्प्रतिख्यायैव भक्षमवरोहेत्, इति । प्राङवरोहेत्प्राग्वै देवरेत( ः ?) संप्रजायते तस्मात्प्राङवरोहेदवरोहेत्, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ।। ४ ।। (८) इति वह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयोऽध्यायः ।। २ ।। 1.3.1 हिङ्कारेणैतदहः प्रतिपद्येतेत्याहुः, इति । ब्रह्म वै हिंकारो ब्रह्मैव तदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते य एवं वेद, इति । यदेव हिंकारेण प्रतिपद्यता३इ वृषा वै हिंकारो योषर्क्तन्मिथुनं मिथुनमेव तदुक्थमुखे करोति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद, इति । यद्वेव हिंकारेण प्रतिपद्यता३इ यथा वा अभ्रिरेवं ब्रह्मणो हिंकारो यद्वै किंचाभ्रियाऽभितितृत्सत्यभ्येवैनत्तृणत्त्येवम्, इति । यं कामं कामयते हिंकारेणाभ्येवैनं तृणत्ति य एवं वेद, इति । यद्वेव हिंकारेण प्रतिपद्यता३इ वाचो वा एषा व्यावृत्तिर्दैव्यं च मानुष्ये च यद्धिंकारः स यद्धिंकृत्य प्रतिपद्यते वाचमेव तद्व्यावर्तयति दैवीं च मानुषीं च, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये प्रथमः खण्डः ।। १ ।। ( ९) 1.3.2 तदाहुः कैतस्याह्नः प्रतिपदिति मनश्च वाक्चेति ब्रूयात्, इति । सर्वेऽन्यस्मिन्कामाः श्रिताः सर्वानन्यान्कामान्दुहे, इति । मनसि वै सर्वे कामाः श्रिता मनसा हि सर्वान्कामान्ध्यायति, इति । सर्वे हास्मिन्कामाः श्रयन्ते य एवं वेद, इति । वाग्वै सर्वान्कामान्दुहे वाचा हि सर्वान्कामान्वदति, इति । सर्वान्हास्मै कामान्वाग्दुहे य एवं वेद, इति । तदाहुर्नैतदहर्ऋचा न यजुषा न साम्ना प्रत्यक्षात्प्रति.पद्येत नर्चो न यजुषो न साम्न इयादिति, इति । तदेता व्याहृतीः पुरस्ताज्जपेत्, इति । भूर्भुवः स्वरित्येता वाव व्याहृतय इमे त्रयो वेदा भूरित्येव ऋग्वेदो भुव इति यजुर्वेदः स्वरिति सामवेदस्तन्नर्चा न यजुषा न साम्ना प्रत्यक्षात्प्रतिपद्यते नर्चो न यजुषो न साम्न एति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये द्वितीयः खण्डः ।। २ ।। ( १०) 1.3.3 तदिति प्रतिपद्यते तत्तदिति वा अन्नमन्नमेव तदभिप्रतिपद्यते, इति । एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदेकाक्षरद्व्यक्षरां ततेति तातेति तथैवैतत्कुमारः प्रथमवादी वाचं व्याहरत्येकाक्षरद्व्य क्षरां ततेति तातेति तयैव तत्ततवत्या वाचा प्रतिपद्यते, इति । तदुक्तमृषिणा, इति । बृहस्पते प्रथमं वाचो अग्रमित्येतद्ध्येव प्रथमं वाचो अग्रम् इति । यत्प्रैरत नामधेयं दधाना इति वाचा हि नामधेयानि धीयन्ते, इति । यदेषां श्रेष्ठं यदरिप्रमासीदित्येतद्ध्येव श्रेष्ठमैतदरिप्रम्, इति । प्रेणा तदेषां निहितं गुहाऽऽविरितदिमु ह गुहाऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत्तदुक्तं भवति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये तृतीयः खण्डः ।। ३ ।। ( ११) 1.3.4 तदिदास भुवनेषु ज्येष्ठमिति प्रतिपद्यत एतद्वाव भुवनेषु ज्येष्ठम्, इति । यतो जज्ञ उग्रस्त्वेष नृम्ण इत्यतो ह्येष जात उग्रस्त्वेष नृम्णः, इति । सद्यो जज्ञानो निरिणाति शत्रूनिति सद्यो ह्येष जातः पाप्मानमपाहत, इति । अनु यं विश्वे मदन्त्यूमा इति भूतानि वै विश्व ऊमास्त एनमनु मदन्त्युदगादुदगादिति, इति । वावृधानः शवसा भूर्योजा इत्येष वै वावृधानः शवसा भूर्योजा इति, इति । शत्रुर्दासाय भियसं दधाति, इति । अव्यनच्च व्यनच्च सस्नीति यच्च प्राणि यच्चाप्राणकमित्येव तदाह, इति । सं ते नवन्त प्रभृता मदेष्विति तव सर्वं वश इत्येव तदाह, इति । त्वे क्रतुमपि बृञ्जन्ति विश्व इति त्वयीमानि सर्वाणि भूतानि सर्वाणि मनांसि सर्वे क्रतवोऽपि वृञ्जन्तीत्येव तदाह, इति । द्विर्यदेते त्रिर्भवन्त्यूमा इति द्वौ वै सन्तौ मिथुनौ प्रजायेते प्रजात्यै, इति । प्रजायते प्रजया पशुभिर्य एवं वेद, इति । स्वादोः स्वादीयः स्वादुना सृजा समिति मिथुनं वै स्वादु प्रजा स्वादु मिथुनेनैव तत्प्रजां संसृजति, इति । अदः सुमधु मधुनाऽभियोधीरिति मिथुनं वै मधु प्रजा मधु मिथुनेनैव तत्प्रजामभियुध्यति, इति । तदुक्तमृषिणा स्वां यत्तनूं तन्वामैरयतेत्यस्यां शारीर्यामिमां छन्दोमयीमित्येव तदाह इति । तनूरेव तन्वो अस्तु भेषजमित्यस्यै शारीर्या इयं छन्दोमयीत्येव तदाह, इति । तस्यै यान्यष्टावक्षराणि सा गायत्री यान्येकादश सा त्रिष्टुब्यानि द्वादश सा जगत्यथ यानि दश सा विराड्दशिन्येषु त्रिषु च्छन्दःसु प्रतिष्ठिता, इति । पुरुष इति त्र्यक्षरं स उ विराजि, इति । एतानि वाव सर्वाणि च्छन्दांसि यान्येतानि विराट् चतुर्थान्येवमु हैवैवं विदुष एतदहः सर्वैश्छन्दोभिः प्रतिपन्नं भवति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये चतुर्थः खण्डः ।। ४ ।। ( १२) 1.3.5 ता नदेन विहरति पुरुषो वै नदस्तस्मात्पुरुषो वदन्त्सर्वः संनदतीव, इति । नदं व ओदतीनामितीँ३ आपो वा ओदत्यो या दिव्यास्ता हीदं सर्वमुन्दन्त्यापो वा ओदत्यो या मुख्यास्ता हीदं सर्वमन्नाद्यमुन्दन्ति, इति । नदं योयुवतीनामिती३ आपो वाव योयुवत्यो या अन्तरिक्ष्यास्ता हि पोप्लूयन्त इवाऽऽपो वाव योयुवत्यो याः स्वेदते ता हि सरीसृप्यन्त इव, इति । पतिं वो अघ्न्यानामितीँ३ आपो वा अघ्न्या या अग्नेर्धूमाज्जायन्त आपो वा अघ्न्या याः शिश्नात्प्रसृज्यन्ते, इति । धेनूनामिषुध्यसीतीँ३ आपो वाव धेनवस्ता हीदं सर्व धिन्वन्तीषुध्यसीति यदाह पतीयसीत्येव तदाह, इति । त्रिष्टुभं चानुष्टुभं च विहरति वृषा वै त्रिष्टुब्योषाऽनुष्टुप्तन्मिथुनं तस्मादपि पुरुषो जायां वित्त्वा कृस्नतरमिवाऽऽत्मानं मन्यते, इति । तास्त्रिः प्रथमया पञ्चविंशतिर्भवन्ति पञ्चविंश आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंशस्तमिममात्मानं पञ्चविंशं संस्कुरुतेऽथो पञ्चविंशं वा एतदहः पञ्चविंश एतस्याह्नः स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्द्वे एव पञ्चविंशतिर्भवन्ति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये पञ्चमः खण्डः ।। ५ ।। ( १३) 1.3.6 तदिति प्रतिपद्यते तत्तदिति वा अन्नमन्नमेव तदभिप्रतिपद्यत एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदेकाक्षरद्व्यक्षरा ततेति तातेति तथैवैतत्कुमारः प्रथमवादी वाचं व्याहरत्येकाक्षरद्व्यक्षरां ततेति तातेति तयैव तत्ततवत्या वाचा प्रतिपद्यते तदुक्तमृषिणा बृहस्पते प्रथमं वाचो अग्रमित्येतद्ध्येव प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधाना इति वाचा हि नामधेयानि धीयन्ते यदेषां श्रेष्ठं यदरिप्रमासीदित्येतद्ध्येव श्रेष्ठमेतदरिप्रं प्रेणा तदेषां निहितं गुहाऽऽविरितीदमु ह गुहाऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत्तदुक्तं भवति,इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये षष्ठः खण्डः ।। ६ ।। ( १४) 1.3.7 तदिदास भुवनेषु ज्येष्ठमिति प्रतिपद्यते यद्वै ज्येष्ठं तन्महन्महद्वद्रूपसमृद्धमेतस्याहो रूपम्, इति । तां सु ते कीर्तिं मघवन्महित्वेति महद्वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । भूय इद्वावधे वीर्यायेति वीर्यवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । नृणामु त्वा नृतमं गीर्भिरुक्थैरित्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । न्यूनाक्षरे प्रथमे पदे विहरति न्यूने वै रेतः सिच्यते न्यूने प्राणा न्यूनेऽन्नाद्यं प्रतिष्ठितमेतेषां कामानामवरुद्ध्या एतान्कामानवरुन्धे य एवं वेद, इति । द्वे दशाक्षरे भवत उभयोरन्नाद्ययोरुपाप्त्यै यच्च पद्वद्यच्चापादकमित्यष्टादशाष्टादशाक्षराणि भवन्ति यानि दश नव प्राणा आत्मैव दशमः साऽऽत्मनः संस्कृतिरष्टावष्टा उद्यन्तेऽश्नुते यद्यत्कामयते य एवं वेद, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये सप्तमः खण्डः ।। ७ ।। ( १५) 1.3.8 ता नदेन विहरति प्राणो वै नदस्तस्मात्प्राणो नदन्त्सर्वः संनदतीव, इति । नदं व ओदतीनामितीँ३ उष्णिगक्षरै र्भवत्यनुष्टुप्पादैरायुर्वा उष्णिग्वागनुष्टुप्तदस्मिन्नायुश्च वाचं च दधाति, इति । तास्त्रिः प्रथमया पञ्चविंशतिर्भवन्ति पञ्चविंश आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ वाक् आत्मैव पञ्चविंशस्तमिममात्मानं पञ्चविंशं संस्कुरुतेऽथो पञ्चविंशं वा एतदहः पञ्चविंश एतस्याह्नः स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्वै एव पञ्चविंशतिर्भवन्तीत्यध्यात्मं पञ्चविंशः, इति । अथाधिदैवतं चक्षुः श्रोत्रं मनो वाक्प्राणस्ता एताः पञ्च देवता इमं विष्टाः पुरुषं पञ्चो हैवैता देवता अयं विष्टः पुरुषः सोऽत्राऽऽ लोमभ्य आ नखेभ्यः सर्वः साङ्ग आप्यते तस्मात्सर्वाणि भूतान्या पिपीलिकाभ्य आप्तान्येव जायन्ते, इति । तदुक्तमृषिणा, इति । सहस्रधा पञ्चदशान्युक्थेति पञ्च हि दशतो भवन्ति इति । यावद्द्यावापृथिवी तावदित्तदिति यावती वै द्यावापृथिवी तावानात्मा, इति । सहस्रधा महिमानः सहस्रमित्युक्थान्येव तदनु मदति महयति, इति । यावद्ब्रह्म विष्ठितं तावती वागिति यत्र ह क्व च ब्रह्म तद्वाग्यत्र वा वाक्तद्वा ब्रह्मेत्येतत्तदुक्तं भवति, इति । एषां वा एषां सूक्तानां नवर्चं प्रथमं नव वै प्राणाः प्राणानां क्लृप्त्यै, इति । षळृचम भवति षड्वा ऋतव ऋतूनामाप्त्यै, इति । पञ्चर्चं भवति पञ्चपदा पङ्क्तिः पङ्क्तिर्वा अन्नमन्नाद्यस्यावरुद्ध्यै, इत्यादि । तृचो भवति त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै, इति । ता अभि संपद्यन्ते बृहती छन्दोऽमृतं देवलोकमेष आत्मैवमु हैवैवं विदेतयैव संपदाऽमृतमेवाऽऽत्मानमभिसंभवति संभवति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्यायेऽष्टमः खण्डः ।। ८ ।। ( १६) इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयोऽध्यायः ।। ३ ।। अथ प्रथमारण्यके चतुर्थोऽध्यायः । 1.4.1 अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातो ग्रीवास्ता आचक्षते यथा छन्दसमुष्णिह इति, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातः शिरस्तद्गायत्रीषु भवत्यग्रं वै छन्दसां गायत्र्यग्रमङ्गानां शिरस्तदर्कवतीषु भवत्यग्निर्वा अर्कस्ता नव भवन्ति नवकपालं वै शिरो दशमीं शंसति त्वक्केशा इत्येव सा भवत्यथो स्तोमातिशंसनाया एव तौ त्रिवृच्च स्तोमौ भवतो गायत्रं च च्छन्द एतयोर्वै स्तोमच्छन्दसोः प्रजातिमनु सर्वमिदं प्रजायते यदिदं किंच प्रजात्यै, इति । प्रजायते प्रजया पशुभिर्य एवं वेद, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातो विजवस्ता विराजो भवन्ति तस्मात्पुरुषः पुरुषमाह वि वा अस्मासु राजसि ग्रीवा वै धारयसीति स्तभमानं वा यद्वा द्रुताः संबाह्ळतमाः सत्योऽन्नतमां प्रत्यच्यन्तेऽन्नं हि विराळन्नमु वीर्यम्, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये प्रथमः खण्डः ।। १ ।। ( १७) 1.4.2 अथातो दक्षिणः पक्षः सोऽयं लोकः सोऽयमग्निः सा वाक्तद्रथंतरं स वसिष्ठस्तच्छतं तानि षड्वीर्याणि भवन्ति संपात एव कामानामभ्याप्त्यै प्रतिष्ठित्या अन्नाद्याय पङ्क्तिः, इति । अथात उत्तरः पक्षः सोऽसौ लोकः सोऽसावादित्यस्तन्मनस्तद्बृहत्स भरद्वाजस्तच्छतं तानि षड्वीर्याणि भवन्ति संपात एव कामानामभ्याप्त्यै प्रतिष्ठित्या अन्नाद्याय पङ्क्तिः, इति । ता ऊनातिरिक्तौ भवतो वृषा वै वृहद्योषा रथंतरमतिरिक्तं वै पुंसो न्यूनं स्त्रियै तस्मात्, इति । ऊनातिरिक्तौ भवतोऽथो एकेन ह वै पुत्रेण सुपर्णस्योत्तरः पक्षो ज्यायांस्तस्मादेकयर्चोत्तरः पक्षो भूयान्भवति, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातः पुच्छं ता एकविंशतर्द्विपदा भवन्त्येकविंशतिर्हीमानि प्रत्यञ्चि सुपर्णस्य पत्राणि भवन्ति, इति । अथो एकविंशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठा पुच्छं वयसाम्, इति । द्वाविंशी शंसति प्रतिष्ठयोरेव तद्रूपं क्रियते तस्मात्सर्वाणि वयांसि पुच्छेन प्रतितिष्ठन्ति पुच्छेनैव प्रतिष्ठायोत्पतन्ति प्रतिष्ठा हि पुच्छम्, इति । स एष द्वाभ्यां दशिनीभ्यां विराड्भ्यामनयोर्द्वाविंश्योर्द्विपदयोरयं पुरुषः प्रतिष्ठितस्तस्य यत्सुपर्णरूपं तदस्य कामानामभ्याप्त्या अथ यत्पुरुषरूपं तदस्य श्रियै यशसेऽन्नाद्यायापचित्यै, इति । अथ सूददोहा अथ धाय्याऽथ सूददोहा वृषा वै सूददोहा योषा धाय्या तदुभयतः सूददोहसा धाय्या परिशंसति तस्माद्द्वयो रेतः सिक्तं सदेकतामेवाप्येति योषामेवाभ्यत आजाना हि योषाऽतः प्रजाना तस्मादेनामत्र शंसति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये द्वितीयः खण्डः ।। २ ।। ( १८) 1.4.3 [ गायत्रीं तृचाशीतिं शंसत्ययं वै लोको गायत्री तृचाशीतिर्यदेवास्मिँल्लोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिस्तदश्नवै तदाप्नवानि तदवरुणधै तन्मेऽसदिति, इति । अथ सूददोहाः प्राणो वै सूददोहाः [ प्राणेनेमं लोकं संतनोति, इति । बार्हतीं तृचाशीतिं शंसत्यन्तरिक्षलोको वै बार्हती तृचाशीतिर्यदेवान्तरिक्षलोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिस्तदश्नवै तदाप्रवानि तदवरुणधै तन्मेऽसदित्यथ सूददोहाः प्राणो वै सूददोहाः प्राणेनान्तरिक्षलोकं संतनोति, इति । औष्णिहीं तृचाशीतिं शंसत्यसौ वै लोको द्यौरौष्णिही तृचाशीतिर्यदेवामुष्मिँलोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिर्यद्देवानां दैवं तदश्नवै तदाप्नवानि तदवरुणधै तन्मेऽसदित्यथ सूददोहाः प्राणो वै सूददोहाः प्राणेनामुं लोकं संतनोति संतनोति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये तृतीयः खण्डः ।। ३ ।। ( १९) इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थोऽध्यायः ।। ४ ।। 1.5.1 अथ प्रथमारण्यके पञ्चमोऽध्यायः । तत्र प्रथमः खण्डः । (विंशः) वशं शंसति वशे म इदं सर्वमसदिति, [ इति ।] ता एकविंशतिर्भवन्त्येकविंशतिर्हि ता अन्तरुदरे विकृतयः, इति । अथो एकविंशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठोदरमन्नाद्यानाम्, इति । ता विच्छन्दसो भवन्ति विक्षुद्रमिव वा अन्तस्त्यमणीय इव च स्थवीय इव च, इति । ताः प्रणावं छन्दस्कारं यथोपपादं शंसति यथोपपादमिव वा अन्तस्त्यं हसीय इव च द्राघीय इव च, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । तामत्रोत्सृजति द्वादशकृत्वः शस्त्वा द्वादशविधा वा इमे प्राणाः सप्त शीर्षण्या द्वौ स्तन्यौ त्रयोऽवाञ्चोऽत्र वै प्राणा आप्यन्तेऽत्र संस्क्रियन्ते तस्मादेनामत्रोत्सृजति, इति । इन्द्राग्नी युवं सु न इत्यैन्द्राग्ना ऊरू उर्वष्ठीवे प्रतिष्ठे, इति । ताः षट्पदा भवन्ति प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति । द्वितीया सप्तपदा भवति तां गायत्रीं चानुष्टुभं च करोति ब्रह्म वै गायत्री वागनुष्टुब्ब्रह्मणैव तद्वाचं संदधाति, इति । त्रिष्टुभमन्ततः शंसति वीर्यं वै त्रिष्टुब्वीर्येणैव तत्पशून्परिगच्छति तस्मात्पशवो वीयर्मनूपतिष्ठन्त ईर्यतां चैवाभ्युत्थानं च, इति ।।] इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये प्रथमः खण्डः ।। १ ।। ( २०) 1.5.2 प्र वो महे मन्दमानायान्धस इत्यैन्द्रे निष्केवल्ये तास्त्रिष्टुब्जगत्यो भवन्ति, इति । तदाहुरथ कस्मात्त्रिष्टुब्जगतीषु निविदं दधातीति न ह वा एतस्याह्न एकं छन्दो निविदं दाधार न विव्याचेति तस्मास्त्रिष्टुब्जगतीषु निविदं दधाति, इति । तदेतदहस्त्रिनिवित्कं विद्याद्वशो निविद्वालखिल्या निविन्निविदेव निविदेवमेनत्त्रिनिवित्कं विद्यात्, इति । अथ सूक्ते वनेन वायो न्यधायि चाकन्यो जात एव प्रथमो मनस्वानिति, इति । तयोरस्त्यन्ने समस्य यदसन्मनीषा इत्यन्नाद्यस्यावरुद्ध्यै, इति । अथाऽऽवपनमेते अन्तरेणैन्द्रीणां दशतीनां त्रिष्टुब्जगतीनां संपन्नानां यावतीरावपन्ते तावन्त्यूर्ध्वमायुषो वर्षाणि जीवन्त्येतेन हैवाऽऽवपनेनाऽऽयुराप्यते, इति । प्रजां मे पशवोऽर्जयन्नित्येव सजनीयमनु शंसति, इति । तार्क्ष्यं शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते, इति । एकपदा शंसत्येकधेदं सर्वमसानीत्यथो सर्वां छन्दस्कृतिमाप्नवानीति, इति। । इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गास्ताः सप्तानुषजति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधात्यष्टमीं नानुषजति वागष्टमी नेन्मे वाक्प्राणैरनुषक्ताऽसदिति तस्मादु सा वाक्समानायतना प्राणैः सत्यननुषक्ता इति । विराजः शंसत्यन्नं वै विराजोऽन्नाद्यस्यावरुद्ध्यै, इति । इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गास्ताः सप्तानुषजति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधात्यष्टमीं नानुषजति वागष्टमी नेन्मे वाक्प्राणैरनुषक्ताऽसदिति तस्मादु सा वाक्समानायतना प्राणैः सत्यननुषक्ता, इति । विराजः शंसत्यन्नं वै विराजोऽन्नाद्यस्यावरुद्ध्यै, इति । वासिष्ठेन परिदधाति वसिष्ठोऽसानीति, इति । एष स्तोमो मह उग्राय वाह इति महद्वत्या रूपसमृद्धया, इति । धुरी वात्यो न वाजयन्नधायीत्यन्तो वै धूरन्त एतदहरेतस्याह्नो रूपम्, इति । इन्द्र त्वाऽयमर्क ईट्टे वसूनामित्यर्कवत्या रूपसमृद्धया, इति । दिवीव द्यामधि नः श्रोमतं धा इति यत्र ह क्व च ब्रह्मण्या वागुद्यते तद्धास्य कीर्तिर्भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्यात्, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये द्वितीयः खण्डः ।। २ ।। ( २१) 1.5.3 तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरावैकाहिकौ रूपसमृद्धौ, इति । बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । तद्देवस्य सवितुर्वार्यं महदिति सावित्रमन्तो वै महदन्त एतदहरेतस्याह्नो रूपम्, इति । कतरा पूर्वा कतराऽपराऽयोरिति द्यावापृथिवीयं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपम्, इति । अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम्, इति । रथस्त्रिचक्र इति पदे तत्त्रिवत्तदन्तो वै त्रिवदन्त एतदहरेतस्याह्नो रूपम्, इति । अस्य वामस्य पलितस्य होतुरिति वैश्वदेवं बहुरूपं वा एतदहरेतस्याह्नो रूपम्, इति । गौरीर्मिमाय सलिलानि तक्षतीत्येतदन्तम्, इति । आ नो भद्राः क्रतवो यन्तु विश्वत इति वैश्वदेवं निविद्धानमैकाहिकं रूपसमृद्धम्, इति । बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । वैश्वानराय धिषणामृतावृधे इत्याग्निमारुतस्य प्रतिपदन्तो वै धिषणाऽन्त एतदहरेतस्याह्नो रूपम्, इति । प्र यज्यवो मरुतो भ्राजदृष्टय इति मारुतं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपम्, इति । जातवेदसे सुनवाम सोममिति जातवेदस्यां पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्या स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते, इति । इमं स्तोममर्हते जातवेदस इति जातवेदस्यं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपमह्नो रूपम्, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः ।। ३ ।। ( २२) इति बहवृचब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः ।। ५ ।। इति बहवृचब्राह्मणारण्यकाण्डे प्रथमारण्यकं समाप्तम् ।। १ ।। 2.1.1 अथ द्वितीयारण्यकम् । प्रथमोऽध्यायः । तत्रप्रथमः खण्डः एष पन्था एतत्कर्मैतद्ब्रह्मैतत्सत्यम्, इति । तस्मान्न प्रमाद्येत्तन्नातीयात्, इति । न ह्यत्यायन्पूर्वे येऽत्यायंस्ते परा बभूवुः,इति । तदुक्तमृषिणा प्रजा ह तिस्रो अत्यायमीयुर्न्य१न्या अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेशेति, इति । प्रजा ह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गावगधाश्चेरपादाः, इति । न्य१न्या अर्कमभितो विविश्र इति ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम्, इति । बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावाऽदित्यः, इति । पवमानो हरित आ विवेशेति वायुरेव पवमानो दिशो हरित आविष्टः, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये प्रथमः खण्डः ।।१ ।। 2.1.2 पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किंच, इति । तस्याग्निरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति । अन्तरिक्षमेवोक्थमन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति तस्य वायुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति । असावेव द्यौरुक्थममुतःप्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किंच तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति । इत्यधिदैवतमथाध्यात्मम्, इति । पुरुष एवोक्थमयमेव महान्प्रजापतिरहमुक्थमस्मीति विद्यात्, इति । तस्य मुखमेवोक्थं यथा पृथिवी तथा, इति । तस्य वागर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति । नासिके एवोक्थं यथाऽन्तरिक्षं तथा, इति । तस्य प्राणोऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति । तदेतद्ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव, इति । ललाटमेवोक्थं यथा द्यौस्तथा तस्य चक्षुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति । समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेवान्नेन हीमानि सर्वाणि भूतानि समनन्तीँ३ अन्नेनेमं लोकं जयत्यन्नेनामुं तस्मात्समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव, इति । तदिदमन्नमन्नादमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किंच, इति । यद्ध किंचेदं प्रेर्ता३इ तदसौ सर्वमत्ति यदु किंचातः प्रैतीँ ३ तदियं सर्वमत्ति सेयमित्याद्याऽत्त्री, इति । अत्ता ह वा आद्यो भवति, इति । न तस्येशे यन्नाद्याद्यद्वैनं नाद्युः, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ।। २ ।। 2.1.3 अथातो रेतसः सृष्टिः प्रजापते रेतो देवा देवानां रेतो वर्षे वर्षस्य रेत ओषधय ओषधीनां रेतोऽन्नमन्नस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसो रेतो वाग्वाचो रेतः कर्म तदिदं कर्म कृतमयं पुरुषो ब्रह्मणो लोकः, इति । स इरामयो यद्धीरामयस्तस्माद्धिरण्मयः, इति । हिरण्मयो ह वा अमुष्मिँल्लोके संभवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये तृतीय खण्डः ।। ३ ।। 2.1.4 तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात्प्रपदे तस्मात्प्रपदे इत्याचक्षते शफाः खुरा इत्यन्येषां पशूनाम्, इति । तदूर्ध्वमुदसर्पत्ता ऊरू अभवताम्, इति । उरु गृणीहीत्यब्रवीत्तदुदरमभवत्, इति। उर्वेव मे कुर्वित्यब्रवीत्तदुरोऽभवत्, इति । उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्माहैव ता३इ, इति । ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वम्, इति । ता एताः शीर्षञ्छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः, इति । श्रयन्तेऽस्मिञ्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद, इति । ता अहिंसन्ताहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुवन्हन्तास्माच्छरीरादुत्क्रामाम तद्यस्मिन्न उत्क्रान्त इदं शरीरं पत्स्पति तदुक्थं भविष्यतीति, इति । वागुदक्रामदवदन्नश्नन्पिबन्नास्तैव चक्षुरुदक्रामदपश्यन्नश्नन्पिबन्नास्तैव श्रोत्रमुदक्रामदशृण्वन्नश्नन्पिब न्नास्तैव मन उत्क्रामन्मीलित इवाश्नन्पिबन्नास्तैव प्राण उदक्रामत्तत्प्राण उत्क्रान्तेऽपद्यत, इति । तदशीर्यताशारीतीँ३ तच्छरीरम भवत्तच्छरीरस्य शरीरत्वम्, इति । शीर्यते ह वा अस्य द्विषन्पाप्मा भ्रातव्यः पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद, इति । ता अहिंसन्तैवाहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुवन्हन्तेदं पुनः शरीरं प्रविशाम तद्यस्मिन्नः प्रपन्न इदं शरीरमुत्थास्यति तदुक्थं भविष्यतीति, इति । वाक्प्राविशदशयदेव चक्षुः प्राविशदशयदेव श्रोत्रं प्राविशदशयदेव मनः प्राविशदशयदेव प्राणः प्राविशत्तत्प्राणे प्रपन्न उदतिष्ठत्तदुक्थमभवत्, इति । तदेतदुक्थाँ३ प्राण एव, इति प्राण उक्थमित्येव विद्यात्, इति । तं देवा अब्रुवन्त्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्मस्त्वमस्माकमसीति, इति । तदप्येतदृषिणोक्तं त्वमस्माकं तव स्मसीति, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ।। ४ ।। 2.1.5 तं देवाः प्राणयन्त स प्रणीतः प्रातायत प्रातायीतीँ३ तत्प्रातरभवत्समागादितीँ२ तत्सायमभवदहरेव प्राणो रात्रिरपानः, इति । वागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनो दिशः श्रोत्रं स एष प्रहितां संयोगोऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत्तदुक्तं भवति, इति । एतद्ध स्म वै तद्विद्वानाह हिरण्यदन्बैदो न तस्येशे यं मह्यं न दद्युरिति प्रहितां वा अहमध्यात्मं संयोगं निविष्टं वेदैतद्ध तत्, इति । अनीशानानि ह वा अस्मै भूतानि बलिं हरन्ति य एवं वेद, इति । तत्सत्त्यं सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यस्तदेतत्त्रिवृत्त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिकेति, इति । स यदि ह वा अपि मृषा वदति सत्त्यं हैवास्योदितं भवति य एवमेतत्सत्त्यस्य सत्त्यत्वं वेद इति । इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ।। ५ ।। 2.1.6 तस्य वाक्तन्तिर्नामानि दामानि तदस्येदं वाचा तन्त्या नाभिर्दामभिः सर्वं सितं सर्वं हीदं नामनीँ३ सर्वं वाचाऽभिवदति, इति । वहन्ति ह वा एनं तन्तिसंबद्धा य एवं वेद, इति । तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुम्मांसमनुष्टुप्स्नावान्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती स च्छन्दोभिश्छन्नो यच्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते, इति । छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यांचिद्दिशि कामयते य एवमेतच्छन्दसां छन्दस्त्वं वेद, इति । तदुक्तमृषिणा, इति । अपश्यं गोपामित्येष वै गोपा एष हीदं सर्वं गोपायति, इति । अनिपद्यमानमिति न ह्येष कदाचन संविशति, इति । आ च परा च पथिभिश्चरन्तमित्या च ह्येष परा च पथिभिश्चरति, इति । स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च वस्त इमा एव दिशः, इति । आवरीवर्ति भुवनेष्वन्तरित्येष ह्यन्तर्भुवनेष्वावरीवर्ति, इति । अथो आवृतासोऽवतासो न कर्तृभिरिति, इति । सर्वं हीदं प्राणेनाऽऽवृतम्, इति । सोऽयमाकाशः प्राणेन बृहत्या विष्टब्धस्तद्यथाऽयमाकाशः प्राणेन बृहत्या विष्टब्ध एवं सर्वाणि भूतान्या पिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात्, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये षष्ठः खण्डः ।। ६ ।। 2.1.7 अथातो विभूतयोऽस्य पुरुषस्य, इति । तस्य वाचा सृष्टौ पृथिवी चाग्निश्चास्यामोषधयो जायन्तेऽग्निरेनाः स्वदयतीदमाहरतेदमाहरतेत्येवमेतौ वाचं पितरं परिचरतः पृथिवी चाग्निश्च, इति । यावदनु पृथिवी यावदन्वग्निस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चाग्नेश्च य एवमेतां वाचो विभूतिं वेद, इति । प्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु चरन्त्यन्तरिक्षमनु शृण्वन्ति वायुरस्मै पुण्यं गन्धमावहत्येवमेतौ प्राणं पितरं परिचरतोऽन्तरिक्षं च वायुश्च यावदन्वन्तरिक्षं यावदनु वायुस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यन्तेऽन्तरिक्षस्य च वायोश्च य एवमेतां प्राणस्य विभूतिं वेद, इति । चक्षुषा सृष्टौ द्यौश्चाऽऽदित्यश्च द्यौर्हास्मै वृष्टिम न्नाद्यं संप्रयच्छत्यादित्योऽस्य ज्योतिः प्रकाशं करोत्येवमेतौ चक्षुः पितरं परिचरतो द्यौश्चाऽऽदित्यश्च यावदनु द्यौर्यावदन्वादित्यस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते दिवश्चाऽऽदित्यस्य च य एवमेतां चक्षुषो विभूतिं वेद, इति । श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च दिग्भ्यो हैनमायतीँ३ दिग्भ्यो विशृणोति चन्द्रमा अस्मै पूर्व पक्षापरपक्षान्विचिनोति पुण्याय कर्मण एवमेते श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च यावदनु दिशो यावदनु चन्द्रमास्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यते दिशां च चन्द्रमसश्च य एवमेतां श्रोत्रस्य विभूतिं वेद, इति । मनसा सृष्टा आपश्च वरुणश्चाऽऽपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे वरुणोऽस्य प्रजां धर्मेण दाधारैवमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च यावदन्वापो यावदनु वरुणस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यतेऽपां च वरुणस्य च य एवमेतां मनसो विभूतिं वेद, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये सप्तमः खण्डः ।। ७ ।। 2.1.8 आपा३ इत्याप इति तदिदमाप एवेदं वै मूलमदस्तूलमयं पितैते पुत्रा यत्र ह क्व च पुत्रस्य तत्पितुर्यत्र वा पितुस्तद्वा पुत्रस्येत्येतत्तदुक्तं भवति, इति । एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेय आऽहं मां देवेभ्यो वेद ओ मद्देवान्वेदेतःप्रदाना ह्येत इतःसंभृता इति, इति । स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणस्तं ब्रह्मगिरिरित्याचक्षते, इति । गिरति ह वै द्विषन्तं पाप्मानं भ्रातृव्यं पराऽस्य द्विष न्पाप्मा भ्रातृव्यो .भवति य एव वेद, इति । स एषोऽसुः स एष प्राणः स एष भूतिश्चाभूतिश्च, इति । तं भूतिरिति देवा उपासांचक्रिरे ते बभूवुऽस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसिति, इति । अभूतिरित्यसुरास्ते पराबभूवुः, इति । भवत्यात्मना पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद, इति । स एष मृत्युश्चैवामृतं च, इति । तदुक्तमृषिणा, इति । अपाङ्प्राङेति स्वधया गृभीत इत्यपानेन ह्ययं यतः प्राणो न पराङ्भवति, इति । अमर्त्यो मर्त्येना सयोनिरित्येतेन हीदं सर्वं सयोनि मर्त्यानि हीमानि शरीराणीँ३ अमृतैषा देवता, इति । ता शश्वन्ता विषूचीना वियन्ता न्य१न्यं चिक्युर्न निचिक्युरन्यमिति निचिन्वन्ति हैवेमानि शरीराणीँ३ अमृतैवैषा देवता, इति । अमृतो ह वा अमुष्मिँल्लोके संभवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद य एवं वेद, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमाध्यायेऽष्टमः खण्डः ।। ८ ।। इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमोऽध्यायः ।। १ ।। 2.2.1 अथ द्वितीयारण्यके द्वितीयोऽध्यायः । तत्र प्रथमः खण्डः । (नवमः) एष इमं लोकमभ्यार्चत्पुरुषरूपेण य एष तपति प्राणो वाव तदभ्यार्चत्प्राणो ह्येष य एष तपति तं शतं वर्षाण्यभ्यार्चत्तस्माच्छतं वर्षाणि पुरुषायुषो भवन्ति तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तम्, इति । स इदं सर्वं मध्यतो दधे यदिदं किंच स यदिदं सर्वं मध्यतो दधे यदिदं किंच तस्मान्माध्यमास्तस्मान्माध्यमा इत्याचक्षत एतमेव सन्तम्, इति । प्राणो वै गृत्सोऽपानो मदः स यत्प्राणो गृत्सोऽपानो मदस्तस्माद्गृत्समदस्तस्माद्गृत्समद इत्याचक्षत एतमेव सन्तम्, इति । तस्येदं विश्वं मित्रमासीद्यदिदं किंच तद्यदस्येदं विश्वं मित्रमासीद्यदिदं किंच तस्माद्विश्वामित्रस्तस्माद्विश्वामित्र इत्याचक्षत एतमेव सन्तम्, इति । तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वाम देवस्तस्माद्वामदेव इत्याचक्षत एतमेव सन्तम्, इति । स इदं सर्वं पाप्मनोऽत्रायत यदिदं किंच स यदिदं सर्वं पाप्मनोऽत्रायत यदिदं किंच तस्मादत्रयस्तस्मादत्रय इत्याचक्षत एतमेव सन्तम्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये प्रथमः खण्डः ।। १ ।। ( ९) 2.2.2 एष उ एव बिभ्रद्वाजः प्रजा वै वाजस्ता एष बिभर्ति यद्बिभर्ति तस्माद्भरद्वाजस्त स्माद्भरद्वाज इत्याचक्षत एतमेव सन्तम्, इति । तं देवा अब्रुवन्नयं वै नः सर्वेषां वसिष्ठ इति तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वसिष्ठ इति तस्माद्वसिष्ठस्तस्माद्वसिष्ठ इत्याचक्षत एतमेव सन्तम्, इति । स इदं सर्वमभिप्रागाद्यदिदं किंच स यदिदं सर्वमभिप्रागाद्यदिदं किंच तस्मात्प्रगाथास्त स्मात्प्रगाथा इत्याचक्षत एतमेव सन्तम्, इति । स इदं सर्वमभ्यपवयत यदिदं किंच स यदिदं सर्वमभ्यपवयत यदिदं किंच तस्मात्पावमान्यस्तस्मात्पावमान्य इत्याचक्षत एतमेव सन्तम्, इति । सोऽब्रवीदहमिदं सर्वमसानि यच्च क्षुद्रं यच्च महदिति ते क्षुद्रसूक्ताश्चाभवन्महासूक्ताश्च तस्मात्क्षुद्रसूक्तास्तस्मात्क्षुद्रसूक्ता इत्याचक्षत एतमेव सन्तम्, इति । सूक्तं बतावोचतेति तत्सूक्तमभवत्तस्मात्सूक्तं तस्मात्सूक्तमित्याचक्षत एतमेव सन्तम्, इति । एष वा ऋगेष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत स यदेभ्यः सर्वेभ्यो भूतेभ्योऽर्चत तस्मादृक्तस्मादृगित्याचक्षत एतमेव सन्तम्, इति । एष वा अर्धर्च एष ह्येभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत स यदेभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत तस्मादर्धर्चस्तस्मादर्धर्च इत्याचक्षत एतमेव सन्तम्, इति । एष वै पदमेष हीमानि सर्वाणि भूतानि पादि स यदिमानि सर्वाणि भूतानि पादि तस्मात्पदं तस्मात्पदमित्याचक्षत एतमेव सन्तम्, इति । एष वा अक्षरमेष ह्येभ्यः सर्वेभ्यो भूतेभ्यः क्षरति न चैनमतिक्षरन्ति स यदेभ्यः सर्वेभ्यो भूतेभ्यः क्षरति न चैनमतिक्षरन्ति तस्मादक्षरं तस्मादक्षरमित्याचक्षत एतमेव सन्तम्, इति । ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ।। २ ।। ( १०) 2.2.3 विश्वामित्रं ह्येतदहः शंसिष्यन्तमिन्द्र उपनिषससाद स हान्नमित्यभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति । तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः स वा ऋषे द्वितीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति । तमिन्द्र उवाच ऋषे प्रियं वै ते धामोपागाः स वा ऋषे तृतीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति । तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागा वरं ते ददामीति स होवाच त्वामेव जानीयामिति तमिन्द्र उवाच प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणः सर्वाणि भूतानि प्राणो ह्येष य एष तपति स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि तस्य मेऽन्नं मित्रं दक्षिणं तद्वैश्वामित्रमेष तपन्नेवास्मीति होवाच, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ।। ३ ।। ( ११) 2.2.4 तद्वा इदं बृहतीसहस्रं संपन्नं तस्य यानि व्यञ्जनानि तच्छरीरं यो घोषः स आत्मा य ऊष्माणः स प्राणः, इति । एतद्ध स्म वै तद्विद्वान्वसिष्ठो वसिष्ठो बभूव तत एतन्नामधेयं लेभे, इति । एतदु हैवेन्द्रो विश्वामित्राय प्रोवाचैतदु हैवेन्द्रो भरद्वाजाय प्रोवाच तस्मात्स तेन बन्धुना यज्ञेषु हूयते, इति । तद्वा इदं वृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति व्यञ्जनैरेव रात्रीराप्नुवन्ति स्वरैरहानि, इति । तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य परस्तात्प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद, इति । तद्योऽहं सोऽसौ योऽसौ सोऽहम्, इति । तदुक्तमृषिणा सूर्य आत्मा जगतस्तस्थुषश्चेति, इति । एतदु हैवोपेक्षेतोपेक्षेत, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ।। ४ ।। ( १२) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयोऽध्यायः ।। २ ।। 2.3.1 यो ह वा आत्मानं पञ्चविधमुक्थं वेद यस्मादिदं सर्वमुत्तिष्ठति स संप्रतिवित्पृथिवी वायुराकाश आपो ज्योतींषीत्येष वा आत्मोक्थं पञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं ह वै समानानां भवति य एवं वेद, इति । तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमापश्च पृथिवी चान्नमेतन्मयानि ह्यन्नानि भवन्ति ज्योतिश्च वायुश्चान्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश आकाशे हीदं सर्वं समोप्यत आवपनं ह वै समानानां भवति य एवं वेद, इति । तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमोषधिवनस्पतयोऽन्नं प्राणभृतोऽन्नादमोषधिवनस्पतीन्हि प्राणभृतोऽदन्ति, इति । तेषां य उभयतोदन्ताः पुरुषस्यानुविधा विहितास्तेऽन्नादा अन्नमितरे पशवस्तस्मात्त इतरान्पशूनधीव चरन्त्यधीव ह्यन्नेऽन्नादो भवति, इति । अधीव ह समानानां जायते य एवं वेद, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयाण्यके तृतीयाध्याये प्रथमः खण्डः ।। १ ।। ( १३) 2.3.2 तस्य य आत्मानमाविस्तरां वेदाश्नुते हाऽऽविर्भूयः, इति । ओषधिवनस्पतयो यच्च किंच प्राणभृत्स आत्मानमाविस्तरां वेदौषधिवनस्पतिषु हि रसो दृश्यते चित्तं प्राणभृत्सु, इति । प्राणभृत्सु त्वेवाऽऽविस्तरामात्मा तेषु हि रसोऽपि दृश्यते न चित्तमितरेषु, इति । पुरुषे त्वेवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीप्सत्येवं संपन्नः, इति । अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये द्वितीयः खण्डः ।। २ ।। ( १४) 2.3.3 स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किंचाश्नुतेऽत्येनं मन्यते यद्यन्तरिक्षलोकमश्नुतेऽत्येनं मन्यते यद्यमुं लोकमश्नुवीतात्येवैनं मन्येत, इति । स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतस्ता आपो यच्छरीरं सा पृथिवी यः प्राणः स वायुः, इति । स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानस्ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं मनो वागिति प्राणस्य ह्यन्वपायमेता अपियन्ति, इति । स एष वाचश्चित्तस्योत्तरोत्तरिक्रमो यद्यज्ञः स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः स एष यज्ञानां संपन्नतमो यत्सोम एतस्मिन्ह्येताः पञ्च विधा अधिगम्यन्ते यत्प्राक्सवनेभ्यः सैका विधा त्रीणि सवनानि यदूर्ध्वं सा पञ्चमी, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये तृतीयः खण्डः ।। ३ ।। ( १५) 2.3.4 यो ह वै यज्ञे यज्ञं वेदाहन्यहर्देवेषु देवमध्यूह्ळं स संप्रतिविदेष वै यज्ञे यज्ञोऽहन्यहर्देवेषु देवोऽध्यूह्ळो यदेतन्महदुक्थम्, इति । तदेतत्पञ्चविधं त्रिवृत्पञ्चदशं सप्तदशमेकविंशं पञ्चविंशमिति स्तोमतो गायत्रं रथंतरं वृहद्भद्रं राजनमिति सामतो गायत्र्युष्णिग्बृ हतीत्रिष्टुब्द्विपदेति च्छन्दस्तः शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम्, इति । पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निधनमुपयन्ति तत्स्तोभसहस्रं भवति, इति । एवं ह्येताः पञ्च विधा अनुशस्यन्ते यत्प्राक्तृचाशीतिभ्यः सैका विधा तिस्रस्तृचाशीतयो यदूर्ध्वं सा पञ्चमी, इति । तदेतत्सहस्रं तत्सर्वं तानि दश दशेति वै सर्वमेतावती हि संख्या दश दशतस्तच्छतं दश शतानि तत्सहस्रं तत्सर्वं तानि त्रीणि च्छन्दांसि भवन्ति त्रेधा विहितं वा इदमन्नमशनं पानं खादस्तदेतैराप्नोति, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये चतुर्थः खण्डः । । ४ । । ( १६) 2.3.5 तद्धैतदेके नानाच्छन्दसा सहस्रं प्रतिजानते किमन्यत्सदन्यद्ब्रूयामेति, इति । त्रिष्टुप्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्सहस्रमेके, इति । तदुक्तमृषिणा, इति । अनुष्टुभमनु चञ्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत्तदुक्तं भवति, इति । स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः, इति । ईश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽहाकृत्स्नो ह्येष आत्मा यद्वागभि हि प्राणे न मनसेऽस्यमानो वाचा नानुभवति, इति । बृहतीमभि संपादयेदेष वै कृत्स्न आत्मा यद्बृहती, इति । सोऽयमात्मा सर्वतः शरीरैः परिवृतस्तद्यथाऽयमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता, इति । मध्यं ह्येषामङ्गानामात्मा मध्य छन्दसां बृहती, इति । स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽह कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद्बृहतीमेवाभि संपादयेत्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये पञ्चमः खण्डः ।। ५ ।। ( १७) 2.3.6 तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्यैकादशानुष्टुभां शतानि भवन्ति पञ्चविंशतिश्चानुष्टुभ आत्तं वै भूयसा कनीयः, इति । तदुक्तमृषिणा, इति । वाचमष्टापदीमहमित्यष्टौ हि चतुरक्षराणि भवन्ति, इति । नवस्रक्तिमिति बृहती संपद्यमाना नवस्रक्ति , इति । ऋतस्पृशमिति सत्यं वै वागृचा स्पृष्टा, इति । इन्द्रात्परि तन्वं मम इति तद्यदेवैतद्बृहतीसहस्रमनुष्टुप्संपन्नं भवति तस्मात्तदैन्द्रात्प्राणाद्बृहत्यै वाचमनुष्टुभं तन्वं संनिर्मिमीते, इति । स वा एष वाचः परमो विकारो यदेतन्महदुक्थं तदेतत्पञ्चविधं मितममितं स्वरः सत्यानृते इति, इति । ऋग्गाथा कुम्ब्या तन्मितं यजुर्निगदो वृथा वाक्तदमितं सामाथो यः कश्च गेष्णः स स्वर ओमिति सत्यं नेत्यनृतम्, इति । तदेतत्पुष्पं फलं वाचो यत्सत्यं स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः पुष्पं हि फलं वाचः सत्यं वदति, इति । अथैतन्मूलं वाचो यदनृतं तद्यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते तस्मादनृतं न वदेद्दयेत त्वेनेन, इति । पराग्वा एतद्रिक्तमक्षरं यदेतदो३मिति तद्यत्किंचोमित्याहात्रैवास्मै तद्रिच्यते स यत्सर्वमों कुर्याद्रिञ्च्यादात्मानं स कामेभ्यो नालं स्यात्, इति । अथैतत्पूर्णमभ्यात्मं यन्नेति स यत्सर्वं नेति ब्रूयात्पापिकाऽस्य कीर्तिर्जायेत सैनं तत्रैव हन्यात्, इति । तस्मात्काल एव दद्यात्काले न दद्यात्तत्सत्यानृते मिथुनी करोति तयोर्मिथुनात्प्रजायते भूयान्भवति, इति । यो वै तां वाचं वेद यस्या एष विकारः स संप्रतिविदकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति, इति । तस्यै यदुपांशु स प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तत्तिर इव तिर इव ह्यशरीरमशरीरो हि प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तदाविराविर्हि शरीरम्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये षष्ठः खण्डः ।। ६ ।। ( १८) 2.3.7 तद्वा इदं बृहतीसहस्रं संपन्नं तद्यशः स इन्द्रः स भूतानामधिपतिः स य एवमेतमिन्द्रं भूतानामधिपतिं वेद विस्रसा हैवास्माल्लोकात्प्रैतीति ह स्माऽऽह महिदास ऐतरेयः प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति, इति । तदाहुर्यदनेन रूपेणामुं लोकमभिसंभवतीँ३ अथ केन रूपेणेमं लोकमाभवतीँ३, इति । तद्यदेतत्स्त्रियां लोहितं भवत्यग्नेस्तद्रूपं तस्मात्तस्मान्न बीभत्सेताथ यदेतत्पुरुषे रेतो भवत्यादित्यस्य तद्रूपं तस्मात्तस्मान्न बीभत्सेत सोऽयमात्मेममात्मानममुष्मा आत्मने संप्रयच्छत्यसावात्माऽमुमात्मानमिमस्मा आत्मने संप्रयच्छति तावन्योन्यमभिसंभवतोऽनेनाह रूपेणामुं लोकमभिसंभवत्यमुनो रूपेणेमं लोकमाभवति, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये सप्तमः खण्डः ।। ७ ।। ( १९) 2.3.8 तत्रैते श्लोकाः ३, इति । यदक्षरं पञ्चविधं समेति युजो युक्ता अभियत्संवहन्ति । सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति, इति । यदक्षरादक्षरमेति युक्तं युजो युक्ता अभि यत्संवहन्ति । सत्यस्य शृणु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति, इति । यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु । तद्वियूया कवयो अन्वविन्दन्नामायत्ता समतृप्यञ्च्छृतेऽधि इति । यस्मिन्नामा समतृप्यञ्च्छृतेऽधि तत्र देवाः सर्वयुजो भवन्ति । तेन पाप्मानमपहत्य ब्रह्मणा स्वर्गं लोकमप्येति विद्वान्, इति । नैनं वाचा स्त्रियं ब्रुवन्नैनमस्त्रीपुमान्ब्रुवन् । पुमांसं न ब्रुवन्नेनं वदन्वदति कश्चन, इति । अः इति ब्रह्म तत्राऽऽगतमहमिति, इति । तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति जीवाक्षरेणैव जीवाहराप्नोति जीवाह्ना जीवाक्षरमिति, इति । अनकाममारोऽथ देवरथस्तस्य वागुद्धिः श्रोत्रे पक्षसी चक्षुषी युक्ते मनः संग्रहीता तदयं प्राणोऽधितिष्ठति, इति । तदुक्तमृषिणा, इति । आ तेन यातं मनसो जवीयसा निमिषश्चिज्जवीयसेति जवीयसेति, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्यायेऽष्टमः खण्डः ।। ८ ।। ( २०) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयोऽध्यायः ।। ३ ।। 2.4.1 अथ द्वितीयारण्यके चतुर्थोऽध्यायः । तत्र प्रथमः खण्डः । (एकविंशः) आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्, इति । स ईक्षत लोकान्नु सृजा इति स इमाँल्लोकानसृजत, इति । अम्भो मरीचीर्मरमापः, इति । अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आपः, इति । स ईक्षतेमे लोका लोकपालान्नु सृजा इति । सोऽद्य एव पुरुषं समुद्धृत्यामूर्छयत्, इति । तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षीभ्यां चक्षुश्चक्षुष आदित्यः कर्णो निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये प्रथमः खण्डः ।। १ ।। ( २१) 2.4.2 ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामन्ववार्जत्, इति । ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति ताभ्योऽश्वमानयत्ता अब्रुवन्न् वै नोऽयमलमिति ताभ्यः पुरुषमानयत्ता अब्रुवन्त्सुकृतं बतेति पुरुषो वाव सुकृतम्, इति । ता अब्रवीद्यथायतनं प्रविशतेति, इति । अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन्, इति । तमशनापिपासे अब्रूतामावाभ्यामभि प्रजानीहीति ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति तस्माद्यस्य कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये द्वितीयः खण्डः ।। २ ।। ( २२) 2.4.3 स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्तिरजायत या वै सा मूर्तिरजायतान्नं वै तत्, इति । तदेनत्सृष्टं पराङत्यजिघांसत्तद्वाचाऽजिघृक्षत्तन्नाशक्नोद्वाचा ग्रहीतुं स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत्तत्प्राणेनाजिघृक्षत्तन्नाशक्रोत्प्राणेन ग्रहीतुं स यद्धै नत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यच्चक्षुषाऽजिघृक्षत्तन्नाशक्नोच्चक्षुषा ग्रहीतुं स यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा हैवान्नमत्रप्स्यत्तच्छ्रोत्रेणाजिघृक्षत्तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुं स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत्तत्त्वचाऽजिघृक्षत्तन्नाशक्नोत्त्वचा ग्रहीतुं स यद्धैनत्त्वचाऽग्रहैष्यत्स्पृष्ट्वा हैवान्नमत्रप्स्यत्तन्मनसाऽजिघृक्षत्तन्नाशक्नोन्मनसा ग्रहीतुं स यद्धै नन्मनसाऽग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत्तच्छिश्नेनाजिघृक्षत्तन्नाशक्नोच्छिश्नेन ग्रहीतुं स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत्तदपानेनाजिघृक्षत्तदावयत्, इति । सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः, इति । स ईक्षत कथं न्विदं मदृते स्यादिति, इति । स ईक्षत कतरेण प्रपद्या इति, इति । स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभि प्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति, इति । स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत, इति । सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम्, इति । तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति, इति । स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति स एतमेव पुरुषं ब्रह्मततममपश्यत्, इति । इदमदर्शमितीँ३ तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये तृतीयः खण्डः ।। ३ ।। (२३) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थोऽध्यायः ।। ४ ।। 2.5.1 पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः, इति । तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभृतमात्मन्येवाऽऽत्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म, इति । तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा तस्मादेनां न हिनस्ति, इति । साऽस्यैतमात्मानमत्र गतं भावयति सा भावयित्री भावयितव्या भवति, इति । तं स्त्री गर्भे बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति, इति । स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयति, इति । एषां लोकानां संतत्या एवं संतता हीमे लोकाः, इति । तदस्य द्वितीयं जन्म, इति । सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते, इति । अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति, इति । स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म, इति । तदुक्तमृषिणा, इति । गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति, इति । गर्भ एवैतच्छयानो वामदेव एवमुवाच स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्त्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमाध्याये प्रथमः खण्डः ।। १ ।। (२४) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमोऽध्यायः ।। ५ ।। 2.6.1 अथ द्वितीयारण्यके षष्ठोऽध्यायः । तत्र प्रथमः खण्डः ( पञ्चविंशः) कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा, इति । येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति यदेतद्धृदयं मनश्चैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति, इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति, इति । एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिजानि चाश्वा गावः पुरुषा हस्तिनो यत्किंचेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रम्, इति । प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा, इति । प्रज्ञानं ब्रह्म, इति । स एतेन प्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्त्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके षष्ठाध्याये प्रथमः खण्डः ।। १ ।। ( २५) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके षष्ठोऽध्यायः ।। ६ ।। 2.7.1 वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणी स्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्त्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके सप्तमाध्याये प्रथमः खण्डः ।। १ ।। ( २६) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके सप्तमोऽध्यायः ।। ७ ।। इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यकं समाप्तम् ।। २ ।। 3.1.1 अथ तृतीयारण्यकम् । प्रथमोऽध्यायः तत्रप्रथमः खण्डः अथातः संहिताया उपनिषत्, इति । पृथिवी पूर्वरूपं द्यौरुत्तररूपं वायुः संहितेति माण्डूकेय आकाशः संहितेत्यस्य माक्षव्यो वेदयांचक्रे, इति । स हाविपरिहृतो मेने न मेऽस्य पुत्रेण समगादिति, इति । समाने वै तत्परिहृतो मेन इत्यागस्त्यः समानं ह्येतद्भवति वायुश्चाऽऽकाशश्चेति, इति । इत्यधिदैवतमथाध्यात्मम्, इति । वाक्पूर्वरूपं मन उत्तररूपं प्राणः संहितेति शूरवीरो माण्डूकेयः, इति । अथ हास्य पुत्र आह ज्येष्ठो मनः पूर्वरूपं वागुत्तररूपं मनसा वा अग्रे संकल्पयत्यथ वाचा व्याहरति तस्मान्मन एव पूर्वरूपं वागुत्तररूपं प्राणस्त्वेव संहितेति, इति । समानमेनयोरत्र पितुश्च पुत्रस्य च, इति । स एषोऽश्वरथः प्रष्टिवाहनो मनोवाक्प्राणसंहतः, इति । स य एवमेतां सहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । इति नु माण्डूकेयानाम्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये प्रथमः खण्डः ।। १ ।। 3.1.2 अथ शाकल्यस्य, इति । पृथिवी पूर्वरूपं द्यौरुत्तररूपं वृष्टिः संधिः पर्जन्यः संधाता, इति । तदुतापि यत्रैतद्बलवदनूद्गृह्णन्त्संदधदहोरात्रे वर्षति, इति । द्यावापृथिव्यौ समधातामित्युताप्याहुः, इति । इती न्वधिदैवतमथाध्यात्मम्, इति । पुरुषो ह वा अयं सर्व आन्दं द्वे बिदले भवत इत्याहुस्तस्येदमेव पृथिव्या रूपमिदं दिवस्तत्रायमन्तरेणाऽऽकाशो यथाऽसौ द्यावापृथिव्यावन्तरेणाऽऽकाशस्तस्मिन्हस्मिन्नाकाशे प्राण आयत्तो यथाऽमुष्मिन्नाकाशे वायुरायत्तो यथाऽमूनि त्रीणि ज्योतींष्येवमिमानि पुरुषे त्रीणि ज्योतींषि, इति । यथाऽसौ दिव्यादित्य एवमिदं शिरसि चक्षुर्यथाऽसावन्तरिक्षे विद्युदेवमिदमात्मनि हृदयं यथाऽयमग्निः पृथिव्यामेवमिदमुपस्थे रेतः, इति । एवमु ह स्म सर्वलोकमात्मानमनुविधायाऽऽहेदमेव पृथिव्या रूपमिदं दिवः, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ।। २ ।। 3.1.3 अथातो निर्भुजप्रवादाः, इति । पृथिव्यायतनं निर्भुजं दिव्यायतनं प्रतृण्णमन्तरिक्षायतनमुभयमन्तरेण, इति । अथ यद्येनं निर्भुजं ब्रुवन्तमुपवदेदच्योष्टाऽवराभ्यां स्थानाभ्यामित्येनं ब्रूयादथ यद्येनं प्रतृण्णं ब्रुवन्तमुपवदेदच्योष्टा उत्तराभ्यां स्थानाभ्यामित्येनं ब्रूयाद्यस्त्वेवोभयमन्तरेणाऽऽह तस्य नास्त्युपवादः, इति । यद्धि संधिं विवर्तयति तन्निर्भुजस्य रूपमथ यच्छुद्धे अक्षरे अभिव्याहरति तत्प्रतृण्णस्याग्र उ एवोभयमन्तरेणोभयं व्याप्तं भवति, इति । अन्नाद्यकामो निर्भुजं ब्रूयात्स्वर्गकामः प्रतृण्णमुभयकाम उभयमन्तरेण, इति । अथ यद्येनं निर्भुजं ब्रुवन्तं पर उपवदेत्पृथिवीं देवतामारः पृथिवी त्वा देवता रिष्यतीत्येनं ब्रूयादथ यद्येनं प्रतृण्णं ब्रुवन्तं पर उपवदेद्दिवं देवतामारो द्यौस्त्वा देवता रिष्यतीत्येनं ब्रूयादथयद्येनमुभयमन्तरेण ब्रुवन्तं पर उपवदेदन्तरिक्षं देवतामारोऽन्तरिक्षं त्वा देवता रिष्यतीत्येनं ब्रूयात्, इति । यथा तु कया च ब्रुवन्वाऽब्रुवन्तं वा ब्रूयादभ्याशमेव यत्तथा स्यात्, इति । न त्वेवान्यत्कुशलाद्ब्राह्मणं ब्रूयात्, इति । अतिद्युम्न एव ब्राह्मणं ब्रूयात्, इति । नातिद्युम्ने चन ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्मणेभ्य इति ह स्माऽऽह शूरवीरो माण्डूकेयः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये तृतीयः खण्डः ।। ३ ।। 3.1.4 अथातोऽनुव्याहाराः, इति । प्राणो वंश इति विद्यात्, इति । स य एनं प्राणवंशमुपवदेच्छक्नुवन्चेन्मन्येत प्राणं वंशं समधा३म्, प्राणं मा वंशं संदधतं न शक्नोषीत्याह प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात, इति । अथ चेदशक्नुवन्तं मन्येत प्राणं वंशं समधित्सिषन्तं नाशकः संधातुं प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात्, इति । यथा तु कथा च ब्रुवन्वाऽब्रुवन्तं वा ब्रूयादभ्याशमेव यत्तथा स्यान्न त्वेवान्यत्कुशलाद्ब्राह्मणं ब्रूयादतिद्युम्न एव ब्राह्मणं ब्रूयान्नातिद्युम्ने चन ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्मणेभ्य इति ह स्माऽऽह शूरवीरो माण्डूकेयः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ।। ४ ।। 3.1.5 अथ खल्वाहुर्निर्भुजवक्त्राः, इति । पूर्वमक्षरं पूर्वरूपमुत्तरमुत्तररूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण सा संहितेति, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । अथ वयं ब्रूमो निर्भुजवक्त्रा इति ह स्माऽऽह ह्रस्वो माण्डूकेयः पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तररूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण येन संधिं विवर्तयति येन स्वरास्वरं विजानाति येन मात्रामात्रां विभजते सा संहितेति इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । अथ हास्य पुत्र आह मध्यमः प्रातीबोधीपुत्रोऽक्षरे खल्विमे अविकर्षन्ननेकीकुर्वन्यथावर्णमाह तद्याऽसौ मात्रा पूर्वरूपोत्तररूपे अन्तरणे संधिविज्ञपनी साम तद्भवति सामैवाहं संहितां मन्य इति, इति । तदप्येतदृषिणोक्तम्, इति । बृहस्पते न परः साम्नो विदुरिति, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ।। ५ ।। 3.1.6 वृहद्रथंतरयो रूपेण संहिता संधीयत इति तार्क्ष्यः, इति । वाग्वै रथंतरस्य रूपं प्राणो बृहत उभाभ्यामु खलु संहिता संधीयते वाचा च प्राणेन च, इति । एतस्यां ह स्मोपनिषदि संवत्सरं गा रक्षयते तार्क्ष्यः, इति। एतस्यां ह स्म मात्रायां संवत्सरं गा रक्षयते तार्क्ष्यः, इति । तदप्येतदृषिणोक्तम्, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । वाक्प्राणेन संहितेति कौण्ठरव्यः प्राणः पवमानेन पवमानो विश्वैर्देवैर्विश्वे देवाः स्वर्गेण लोकेन स्वर्गो लोको ब्रह्मणा सैषाऽवरपरा संहिता, हति । स यो हैतामवरपरां संहितां वेदैवं हैव स प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन संधीयते यथैषा संहिता, इति । स यदि परेण वोपसृतः स्वेन वाऽर्थेनाभिव्याहरेदभिव्याहार्षन्नेव विद्याद्दिवं संहिताऽगमद्विदुषां देवानामेवं भविष्यतीति शश्वत्तथा स्यात्, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । वाक्संहितेति पञ्चालचण्डः, इति । वाचा वै वेदाः संधीयन्ते वाचा छन्दांसि वाचा मित्राणि संदधति वाचा सर्वाणि भूतान्यथो वागेवेदं सर्वमिति, इति । तद्यत्रैतदधीते वा भाषते वा वाचि तदा प्राणो भवति वाक्तदा प्राणं रेह्ळ्यथ यत्र तूष्णीं वा भवति स्वपिति वा प्राणे तदा वाग्भवति प्राणस्तदा वाचं रेह्ळि ताव न्योन्यं रीह्ळो वाग्वै माता प्राणः पुत्रः, इति । तदप्येतदृषिणोक्तम्, इति । एकः सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे । तं पाकेन मनसाऽपश्यमन्तितस्तं माता रेह्ळि स उ रेह्ळि मातरमिति, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । अथातः प्रजापतिसंहिता, इति । जाया पूर्वरूपं पतिरुत्तररूपं पुत्रः संधिः प्रजननं संधानं सैषाऽदितिः संहिता, इति । अदितिर्हीदं सर्वं यदिदं किंच पिता च माता च पुत्रश्च प्रजननं च, इति । तदप्येतदृषिणोक्तम्, इति । अदितिर्माता स पिता स पुत्र इति, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति सर्वमायुरेति, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये षष्ठः खण्डः ।। ६ ।। इति बहवृचब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमोऽध्यायः ।। १ ।। 3.2.1 प्राणो वंश इति स्थविरः शाकल्यस्तद्यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युरेवमस्मिन्प्राणे चक्षुः श्रोत्रं मनो वागिन्द्रियाणि शरीरं सर्व आत्मा समाहितः, इति। तस्यैतस्याऽऽत्मनः प्राण ऊष्मरूपमस्थीनि स्पर्शरूपं मज्जानः स्वररूपं मांसं लोहितमित्येतदन्यच्चतुर्थमन्तस्था रूपमिति ह स्माऽऽह ह्रस्वो माण्डूकेयः, इति । त्रयं त्वेव न एतत्प्रोक्तम्, इति । तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणामिति त्रीणीतः षष्टि शतानि त्रीणीतस्तानि सप्तविंशतिशतानि भवन्ति सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः स एषोऽहःसंमानश्चक्षुर्मयः श्रोत्रमयश्छ न्दोमयो मनोमयो वाङ्मय आत्मा, इति । स य एवमेतमहःसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं वेदाह्नां सायुज्यं सरूपतां सलोकतामश्नुते पुत्री पशुमान्भवति सर्वमायुरेति, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये प्रथमः खण्डः ।। १ ।। (७) 3.2.2 अथ कौण्ठरव्यः, इति । त्रीणि षष्टि शतान्यक्षराणां त्रीणि षष्टि शतान्यूष्मणां त्रीणि षष्टि शतानि संधीनाम्, इति । यान्यक्षराण्यवोचामाहानि तानि यानूष्मणोऽवोचाम रात्रयस्ता यान्त्संधीनवोचामाहोरात्राणां ते संधय इत्यधिदैवतम्, इति । अथाध्यात्मं यान्यक्षराण्यधिदैवतमवोचामास्थीनि तान्यध्यात्मं यानूष्मणोऽधिदैवतमवोचाम मज्जानस्तेऽध्यात्मम्, इति । एष ह वै संप्रति प्राणो यन्मज्जैतद्रेतो न ह वा ऋते प्राणाद्रेतः सिच्यते यद्वा ऋते प्राणाद्रेतः सिच्येत पूयेन्न संभवेत् इति । यान्त्संधीनधिदैवतमवोचाम पर्वाणि तान्यध्यात्मम् इति । तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणामिति पञ्चेतश्च त्वारिंशच्छतानि पञ्चेतस्तदशीतिसहस्रं भवत्यशीतिसहस्रं वा अर्कलिनो बृहतीरहरभिसंपादयन्ति , इति । स एषोऽक्षरसंमानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा, इति । स य एवमेतमक्षरसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुते पुत्री पशुमान्भवति सर्वमायुरेति, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ।। २ ।। ( ८) 3.2.3 चत्वारः पुरुषा इति बाध्वः, इति । शरीरपुरुषश्छन्दःपुरुषो वेदपुरुषो महापुरुष इति, इति । शरीरपुरुष इति यमवोचाम स य एवायं दैहिक आत्मा तस्य योऽयमशरीरः प्रज्ञात्मा स रसः, इति । छन्दःपुरुष इति यमवोचामाक्षरसमाम्नाय एव तस्यैतस्याकारो रसः, इति । वेदपुरुष इति यमवोचाम येन वेदान्वेद ऋग्वेदं यजुर्वेदं सामवेदं तस्यैतस्य ब्रह्मा रसः, इति । तस्माद्ब्रह्माणं ब्रह्मिष्ठं कुर्वीत यो यज्ञस्योल्बणं पश्येत्, इति । महापुरुष इति यमवोचाम संवत्सर एव प्रध्वंसयन्नन्यानि भूतान्यैक्या भावयन्नन्यानि तस्यैतस्यासावादित्यो रसः, इति । स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात्तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति, इति । तदप्येतदृषिणोक्तम्, इति । चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्चेति, इति । एतामनुविधं संहितां संधीयमानां मन्य इति ह स्माऽऽह बाध्वः, इति । एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगा एतमस्यामेतं दिव्येतं वायावेतमाकाश एतमप्स्वेतमोषधीश्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते, इति । स एष संवत्सरसंमानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा, इति । स य एवमेतं संवत्सरसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं परस्मै शंसति, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ।। ३ ।। ( ९) 3.2.4 दुग्धदोहा अस्य वेदा भवन्ति न तस्यानूक्ते भागोऽस्ति न वेद सुकृतस्य पन्थानमिति, इति । तदप्येतदृषिणोक्तम्, इति । यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति । यदीं शृणोत्यलकं शृणोति न हि प्रवेद सुकृतस्य पन्थामिति, इति । न तस्यानूक्ते भागोऽस्ति न वेद सुकृतस्य पन्थानमित्येतत्तदुक्तं भवति, इति । तस्मादेवं विद्वान्न परस्मा अग्निं चिनुयान्न परस्मै महाव्रतेन स्तुवीत न परस्मा एतदहः शंसेत्, इति । कामं पित्रे वाऽऽचार्याय वा शंसेदात्मन एवास्य तत्कृतं भवति, इति । स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदि त्यवोचाम तौ यत्र विहीयेते चन्द्रमा इवाऽऽदित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्जिष्ठा व्यस्तः पायुः काककुलायगन्धिकमस्य शिरो वायति संपरेतोऽस्याऽऽऽत्मा न चिरमिव जीविष्यतीति विद्यात्, इति । स यत्करणीयं मन्येत तत्कुर्वीत यदन्ति यच्च दूरक इति सप्त जपेदादित्प्रत्नस्य रेतस इत्येका यत्र ब्रह्मा पवमानेति षळुद्वयं तमसस्परीत्येका, इति । अथापि यत्र च्छिद्र इवाऽऽदित्यो दृश्यते रथनाभिरिवाभिख्यायेत च्छिद्रां वा छायां पश्येत्तदप्येवमेव विद्यात्, इति । अथाप्यादर्शे वोदके वा जिह्मशिरसं वाऽशिरसं वाऽऽत्मानं पश्येद्विपर्यस्ते वा कन्याके जिह्मेन वा दृश्येयातां तदप्येवमेव विद्यात्, इति । अथापिधायाक्षिणी उपेक्षेत तद्यथा बटरकाणि संपतन्तीव दृश्यन्ते तानि यदा न पश्येत्तदप्येवमेव विद्यात्, इति । अथाप्यपिधाय कर्णा उपशृणुयात्स एषोऽग्नेरिव प्रज्वलतो रथस्येवोपब्दिस्तं यदा न शृणुयात्तदप्येवमेव विद्यात्, इति । अथापि यत्र नील इवाग्निर्दृश्यते यथा मयूरग्रीवा मेघे वा विद्युतं पश्येन्मेघे वा विद्युतं न पश्येन्महामेघे वा मरीचीरिव पश्येत तदप्येवमेव विद्यात्, इति । अथापि यत्र भूमिं ज्वलन्तीमिव पश्येत तदप्येवमेव विद्यात्, इति । इति प्रत्यक्षदर्शनानि, इति । अथ स्वप्नाः, इति । पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट एनमास्कन्दयत्याशु वायुरेनं प्रवहति सुवर्णं खादित्वाऽपगिरति मध्वश्नाति बिसानि भक्षयत्येकपुण्डरीकं धारयति खरैर्वराहैर्युक्तैर्याति कृष्णां धेनुं कृष्णवत्सां नलदमाली दक्षिणामुखो व्राजयति, इति । स यद्येतेषां किंचित्पश्येदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्यृचं हुत्वाऽन्येनान्नेन ब्राह्मणान्भोजयित्वा चरुं स्वयं प्राश्नीयात्, इति । स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः श्रोता मन्ता द्रष्टाऽऽदेष्टा घोष्टा विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुषः स म आत्मेति विद्यात्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ।। ४ ।। ( १०) 3.2.5 अथ खल्वियं सर्वस्यै वाच उपनिषत्सर्वा ह्येवेमाः सर्वस्यै वाच उपनिषद इमां त्वेवाऽऽचक्षते, इति । पृथिव्या रूपं स्पर्शा अन्तरिक्षस्योष्मणो दिवः स्वरा अग्ने रूपं स्पर्शा वायोरूष्माण आदित्यस्य स्वरा ऋग्वेदस्य रूपं स्पर्शा यजुर्वेदस्योष्माणः सामवेदस्य स्वराश्चक्षुषो रूपं स्पर्शाः श्रोत्रस्योष्माणो मनसः स्वराः प्राणस्य रूपं स्पर्शा अपानस्योष्माणो व्यानस्य स्वराः, इति । अथ खल्वियं दैवी वीणा भवति तदनुकृतिरसौ मानुषी वीणा भवति, इति । यथाऽस्याः शिर एवममुष्याः शिरो यथाऽस्या उदरमेवममुष्या अम्भणं यथाऽस्यै जिह्वैवममुष्यै वादनं यथाऽस्यास्तन्त्रय एवममुष्या अङ्गुलयो यथाऽस्याः स्वरा एवममुष्याः स्वरा यथाऽस्याः स्पर्शा एवममुष्याः स्पर्शा यथा ह्येवेयं शब्दवती तर्द्मवत्येवमसौ शब्दवती तर्द्मवती यथा ह्येवेयं लोमशेन चर्मणाऽपिहिता भवत्येवमसौ लोमशेन चर्मणाऽपिहिता, इति । लोमशेन ह स्म वै चर्मणा पुरा वीणा अपिदधति, इति । स यो हैतां दैवीं वीणां वेद श्रुतवदनो भवति भूमिप्राऽस्य कीर्तिर्भवति यत्र क्वचाऽऽर्या वाचो भाषन्ते विदुरेनं तत्र, इति । अथातो वाग्रसो यस्यां संसद्यधीयानो वा भाषमाणो वा न विरुरुचुषेत तत्रैतामृचं जपेत्, इति । ओष्ठापिधाना न कुलीदन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारु मामिह वादयेदिति वाग्रसः, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये पञ्चमः खण्डः ।। ५ ।। ( ११) 3.2.6 अथ हास्मा एतत्कृष्णहारितो वाग्ब्राह्मणमिवोपोदाहरति, इति । प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत संवत्सरः स च्छन्दोभिरात्मानं समदधाद्यच्छन्दोभिरात्मानं समदधात्तस्मात्संहिता, इति । तस्यै वा एतस्यै संहितायै णकारो बलं षकारः प्राण आत्मा, इति । स यो हैतौ णकारषकारावनुसंहितमृचो वेद सबलां सप्राणां संहितां वेदाऽऽयुष्यमिति विद्यात्, इति । स यदि विचिकित्सेत्सणकारं ब्रवाणीँ३ अणकाराँ३ इति सणकारमेव ब्रूयात्सषकारं ब्रवाणीँ३ अषकाराँ३ इति सषकारमेव ब्रूयात्, इति । यद्वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयीयमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ताविति ह स्माऽऽह ह्रस्वो माण्डूकेयः, इति । अथ यद्वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयीयमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ताविति ह स्माऽऽह स्थविरः शाकल्यः, इति । एतद्ध स्म वै तद्विद्वांस आहुर्ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे वाचि हि प्राणं जुहुमः प्राणे वा वाचं यो ह्येव प्रभवः स एवाप्ययः, इति । ता एताः संहिता नानन्तेवासिने प्रब्रूयान्नासंवत्सरवासिने नाप्रवक्त्र इत्याचार्या आचार्याः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये षष्ठः खण्डः ।। ६ ।। ( १२) इति बह्वृचब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयोऽध्यायः ।। २ ।। इति बह्वृचब्राह्मणारण्यककाण्डे तृतीयारण्यकं समाप्तम् ।। ३ ।। 4.1.1 विदा मघवन्विदा गातुमनु शंसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरूवसो, इति । आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय । इन्द्र द्युम्नाय न इष एवा हि शक्रः, इति । राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृञ्जसे । मंहिष्ठ वज्रिन्नृञ्जस आयाहि पिब मत्स्व, इति । विदा रायः सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु । मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम्, इति ।। यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय । इन्द्रो विदे तमु स्तुषे वशी हि शक्रः, इति । तमूतये हवामहे जेतारमपराजितम् । स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत्, इति । इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । स नः पर्षदति द्विषः स नः पर्षदति स्रिधः, इति । पूर्वस्य यत्ते अद्रिवः सुम्न आधेहि नो वसो । पूर्तिः शविष्ठ शस्यत ईशे हि शक्रः, इति । नूनं तं नव्यं संन्यसे प्रभो जनस्य वृत्रहन् । समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः, इति । एवा ह्येवैवा ह्यग्ना३इ, इति । एवा ह्येवैवा ही३न्द्रम् । एवा ह्येवैवा हि विष्णा३उ । एवा ह्येवैवा हि पूष३न् । एवा ह्येवैवा हि देवा३ः, इति । एवा हि शक्रो वशी हि शक्रो वशाँ अनु, इति । आ यो मन्याय मन्यव उपो मन्याय मन्यवे, इति । उपेहि विश्वध, इति । विदा मघवन्विदो३म्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे चतुर्थारण्यके प्रथमाध्याये प्रथमः खण्डः ।। १ ।। इति बह्वृचब्राह्मणारण्यककाण्डे चतुर्थारण्यके प्रथमोऽध्यायः ।। १ ।। इति बह्वृचब्राह्मणारण्यककाण्डे चतुर्थमारण्यकं समाप्तम् ।। ४ ।। अथ पञ्चममारण्यकम् । प्रथमोऽध्यायः तत्र प्रथमः खण्डः 5.1.1 महाव्रतस्य पञ्चविंशतिं सामिधेन्यः, इति । एकविंशतौ प्रागुपोत्तमायाः समिधाऽग्निमिति चतस्रः, इति । वैश्वकर्मण ऋषभ उपालम्भनीय उपांशु, इति । आज्यप्रउगे विश्वजितः, इति । होत्राश्चतुर्विंशात्, इति । ईङ्खयन्तीरपस्युव इति च ब्राह्मणच्छंस्यावपेत प्रातःसवने तीव्रस्याभिवयसो अस्य पाहीति माध्यंदिनः, इति । त्रिकद्रुकेषु महिषो यवाशिरमिति स्तोत्रिय एन्द्र याह्युप नः परावत इन्द्राय हि द्यौरसुरो अनम्नत प्रोष्वस्मै पुरोरयमित्यतोऽनुरूपः, इति । चतुर्विंशान्मरुत्वतीयस्याऽऽतानोऽसत्सु मे जरितः साभिवेगः पिबा सोममभि यमुग्र तर्दः कया शुभा सवयसः सनीळा मरुत्वाँ इन्द्र वृषभो रणाय, इति । जनिष्ठा उग्रः सहसे तुरायेति मरुत्वतीयम्, इति । संस्थिते मरुत्वतीये होता विसंस्थितसंचरेण निष्क्रम्याऽऽग्नीध्रीये तिस्र आज्याहुतीर्जुहोत्यौदुम्बरेण स्रुवेण, इति । अनु मामिन्द्रो अनु मां बृहस्पतिरनु सोमो अनु वाग्देव्यावीत् । अनु मां मित्रावरुणाविहावतामनु द्यावापृथिवी पूर्वहूतौ, इति । आदित्या मा विश्वे अवन्तु देवाः सप्त राजानो य उदाभिषिक्ताः । वायुः पूषा वरुणः सोमो अग्निः सूर्यो नक्षत्रैरवत्विह माऽनु, इति ।। पितरो मा विश्वमिदं च भूतं पृश्निमातरो मरुतः स्वर्काः । ये अग्निजिह्वा उत वा यजत्रास्ते नो देवाः सुहवाः शर्म यच्छतेति, इति । दक्षिणे मार्जालीये दश स्रुच्युत्तमां चतुर्गृहीतं पूर्वमवदायोत्तरतोऽग्नेरुपनिधाय विहरणप्रभृति मध्यंदिने मार्जालीयो जागरितो भवति तस्मिन्परिवृते जुहोति प्राग्द्वारे वोदग्द्वारे वा प्रागुदग्द्वारे वा,इति। अग्निरिवानाधृष्यः पृथिवीव सुषदा भूयासम्, इति । अन्तरिक्षेमिवानाप्यं द्यौरिवानाधृष्यो भूयासम्, इति । सूर्य इवाप्रतिशयश्चन्द्रमा इव पुनर्भूर्भूयासम्, इति । मन इवापूर्वं वायुरिव श्लोकभूर्भूयासम्, इति । अहरिव स्वं रात्रिरिव प्रियो भूयासम् , इति । गाव इव पुनर्भुवो मिथुनमिव मरीचयो भूयासम्, इति । आप इव रस ओषधय इव रूपं भूयासम्, इति । अन्नमिव विभु यज्ञ इव प्रभूर्भूयासम्, इति । ब्रह्मेव लोके क्षत्रमिव श्रियां भूयासम्, इति । यदग्न एषा समितिर्भवातीति, इति । अत्र विभजाथ वीथेति त्रीण्यनन्वृचम् , इति। अत्र तिष्ठन्नादित्यमुपतिष्ठते पर्यावृत्ते प्रदक्षिणमावृत्यैतैश्चैवास्वाहाकारैरेह्येवा३ इदं मधू३ इदं मधु । इमं तीव्रसुतं पिबा३ इदं मधू३ इदं मध्विति च, इति । प्रेष्याः संशास्ति पूर्णकुम्भास्तिस्रोऽवमाः षडुत्तमाः, इति । इमं धिष्ण्यमुदकुभं च त्रिः प्रदक्षिणं परिव्रजाथ दक्षिणैः पाणिभिर्दक्षिणानूरूनाघ्नाना एह्येवा३ इदं मधू३ इदं मध्विति वदत्यः । इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये प्रथमः खण्डः ।। १ ।। 5.1.2 उपाकृते स्तोत्रे त्रैधं निनयाथात्रोत्तरे च मार्जालीये शेषमन्तर्वेदि, इति । प्रदक्षिणमग्निं निष्क्रम्याग्रेण यूपं पुरस्तात्प्रत्यङ्मुखास्तिष्ठन्नग्नेः शिर उपतिष्ठते नमस्ते गायत्राय यत्ते शिर इति, इति । तेनैव यथेतं प्रत्येत्य दक्षिणमुदङ्मुखः पक्षं नमस्ते राथंतराय यस्ते दक्षिणः पक्ष इति, इति । अपरेणाग्निपुच्छमतिक्रम्य प्राङ्मुख उत्तरं नमस्ते बृहते यस्त उत्तरः पक्ष इति, इति । पश्चात्प्राङ्पुच्छं नमस्ते भद्राय यत्ते पुच्छं या ते प्रतिष्ठेति, इति । दक्षिणतः पुच्छस्याऽऽत्मानं नमस्ते राजनाय यस्त आत्मेति, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये द्वितीयः खण्डः ।। २ ।। 5.1.3 यथेतं सदः प्रसर्पति, इति । पुरस्तात्प्रेङ्ख उपक्लृप्तो भवति, इति । स्थूणे रज्जू वीवध इत्येतत्प्रक्षाल्य तीर्थेन प्रपाद्योत्तरेणाऽऽग्नीध्रीयं परिव्रज्य पूर्वया द्वारा सदः सर्वान्धिष्ण्यानुत्तरेण, इति । औदुम्बराणि काष्ठानि प्रेङ्खस्य भवन्ति पालाशानि मिश्राणि वा, इति । त्रीणि फलकान्युभयतस्तष्टानि द्वे वा सूच्यश्च तावत्यः, इति । इषुमात्रः प्राङ्प्रेङ्खो निमुष्टिकस्तिर्यङुदगग्रः प्रागग्राभ्यां सूचीभ्यां समुतः, इति । दक्षिणोत्तरे स्थूणे निखायाभितो होतृषदनं वीवधमत्यादधात्यास्यसंमितं कर्तुः, इति । कुष्ठासु च्छिद्राणि प्रेङ्खस्य भवन्ति रज्जूभ्यामूर्ध्वमुद्वयति दक्षिणतो दक्षिणयोत्तरतः सव्यया दार्भ्ये त्रिगुणे स्यातां सव्यदक्षिणे पञ्चव्यायामे द्विगुणे वीवधे त्रिः प्रदक्षिणं पर्यस्योर्ध्वग्रन्थिं निष्टर्क्यं बध्नाति, इति । शाखाभिर्बृसीभिर्वा पर्यृषन्त्यप्रकम्पि, इति । चतुरङ्गुलेनैष विभूमः प्रेङ्खः स्यान्मुष्टिमात्रेण वा, इति । दक्षिणत उदाहिततरः समो वा, इति । पदमात्रे धिष्ण्यात्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये तृतीयः खण्डः ।। ३ ।। 5.1.4 निष्ठिते प्रेङ्खे होता वाणमौदुम्बरंशततन्तुमुभाभ्यां परिगृह्योत्तरत उपोहते यथा वीणाम्, इति । सप्तभिश्छन्दोभिश्चतुरुत्तरैः स्थानान्यस्योर्ध्वमुद्गृह्णीयाद्दशभिर्वा, इति । गायत्रेण त्वा छन्दसोदूहाम्यौष्णिहेन त्वाऽऽनुष्टुभेन त्वा बार्हतेन त्वा पाङ्क्तेन त्वा त्रैष्टुभेन त्वा जागतेन त्वा वैराजेन त्वा द्वैपदेन त्वाऽतिच्छन्दसा त्वेति, इति । छन्दांस्यनुक्रम्य स्थानानामनुपरिक्रमणमौदुम्बर्याऽऽर्द्रया शाखया सपलाशया मूलदेशेन वाणं त्रिरूर्ध्वमुल्लिखति, इति । प्राणाय त्वाऽपानाय त्वा व्यानाय त्वोल्लिखामीति, इति । अन्येभ्योऽपि कामेभ्यः पुनरपि न तूल्लिखामीति ब्रूयात्, इति । अथैनं सशाखं छन्दोगेभ्यः प्रयच्छति, इति । भूतेभ्यस्त्वेति पश्चार्धे फलके पाणी प्रतिष्ठापयति प्राणमनु प्रेङ्खस्वेति प्राञ्चं प्रेङ्खं प्रणयति व्यानमन्वीङ्खस्वेति तिर्यञ्चमपानमन्वीङ्खस्वेत्यभ्यात्मम्, इति । भूर्भुवः स्वरिति जपति, इति । प्राणाय त्वेति प्राञ्चमेव व्यानाय त्वेति तिर्यञ्चमपानाय त्वेत्यभ्यात्मम्, इति । वसवस्त्वा गायत्रेण च्छन्दसाऽऽरोहन्तु तानन्वारोहामीति पश्चार्धे फलकेऽरत्नी प्रतिष्ठापयति, इति । अथ पूर्वं फलकं नानापाणिभ्यामभिपद्येत यथा हि स्रप्स्यन्, इति । मध्यमं छुबुकेनोपस्पृशेद्द्वयोर्वा संधिम्, इति । रुद्रास्त्वा त्रैष्टुभेन च्छन्दसाऽऽरोहन्तु तानन्वारोहामीति दक्षिणं सक्थ्यतिहरत्यादित्यास्त्वा जागतेन च्छन्दसाऽऽरोहन्तु तानन्वारोहामीति सव्यं विश्वे त्वा देवा आनुष्टुभेन च्छन्द साऽऽरोहन्तु तानन्वारोहामीति समारोहति, इति । पश्चात्स्वस्य धिष्ण्यस्य दक्षिणं पादं प्राञ्चं प्रतिष्ठापयत्यथ सव्यं यदेतरः श्राम्येदथेतरं यदेतरोऽथेतरं नोभौ विभूमौ कुर्यात्, इति । कूर्चान्होत्रकाः समारोहन्ति ब्रह्मा चौदुम्बरीमासन्दीमुद्गाता, इति । यदि कस्मैचिदवश्यकर्मिणो जिगमिषेदादिश्य पालं प्राङ्वरुह्य चरित्वा तमर्थमेवमेवाजपया वृताऽऽरोहेत्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये चतुर्थः खण्डः ।। ४ ।। 5.1.5 प्रस्तोतारं संशास्ति पञ्चविंशस्य स्तोमस्य तिसृष्वर्धतृतीयास्वर्धत्रयोदशासु वा परिशिष्टासु प्रथमं प्रतिहारं प्रब्रूतादिति, इति । अर्धत्रयोदशासु प्रवाचयतेति जातूकर्ण्यः, इति । प्रोक्ते जपति इति । सुपर्णोऽसि गरुत्मान्प्रेमां वाचं वदिष्यामि बहु वदिष्यन्तीं बहु पतिष्यन्तीं बहु करिष्यन्तीं बहु सनिष्यन्तीं बहोर्भूयः करिष्यन्तीं स्वर्गच्छन्तीं स्वर्वदिष्यन्तीं स्वः पतिष्यन्तीं स्वः करिष्यन्तीं स्वः सनिष्यन्तीं स्वरिमं यज्ञं वक्ष्यन्तीं स्वर्मां यजमानं वक्ष्यन्तीमिति, इति । दीक्षिते यजमानशब्दो नादीक्षिते, इति । स्वरमुमिति योऽस्य प्रियः स्यान्न तु वक्ष्यन्तीमिति ब्रूयात्, इति । उक्थवीर्याणि च, इति । सं प्राणो वाचा समहं वाचा सं चक्षुर्मनसा समहं मनसा सं श्रोत्रमात्मना समहमात्मना मयि महान्मयि भर्गो मयि भगो मयि भुजो मयि स्तोभो मयि स्तोमो मयि श्लोको मयि घोषो मयि यशो मयि श्रीर्मयि कीर्तिर्मयि मुक्तिरिति, इति । आहूय वागिति जपति, इति । त्रय आहावाः शस्त्रादेर्निविदः परिधानीयाया इति, इति । शब्दानध्वर्यवः कारयन्ति, इति । एतस्मिन्नहनि प्रभूतमन्नं दद्यात्, इति । राजपुत्रेण चर्म व्याधयन्त्याघ्नन्ति भूमिदुन्दुभिं पत्न्यश्च काण्डवीणा भूतानां च मैथुनं ब्रह्मचारिपुंश्चल्योः संप्रवादोऽनेकेन साम्ना निष्केवल्याय स्तुवते राजनस्तोत्रियेण प्रतिपद्यते, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये पञ्चमः खण्डः ।। ५ ।। 5.1.6 तदिदास भुवनेषु ज्येष्ठं तां सु ते कीर्तिं मघवन्महित्वा भूय इद्वावृधे वीर्याय नृणामु त्वा नृतमं गीर्भिरुक्थैरिति तिस्रः, इति । अत्र हैके स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाऽभि योधीरित्यात्मन एते पदे उद्धृत्य पक्षपदे प्रत्यवदधात्यश्वायन्तो मघवन्निन्द्र वाजिनो गामश्वं रथ्यमिन्द्र संकिरेत्येतयोश्च स्थान इतरे, इति । श्रियमह गोरश्वमात्मन्धत्ते सं पक्षयोः पतनाय, इति । नदं व ओदतीनामित्येतयैतानि व्यतिषजति पादैः पादान्बृहतीकारं नदवन्त्युत्तराणि प्रथमायां च पुरुषाक्षराण्युपदधाति पादेष्वेकैकमवसाने तृतीयवर्जं स खलु विहरति, इति । अपि निदर्शनायोदाहरिष्यामस्तदिदास भुवनेषु ज्येष्ठं पु । नदं व ओदतीनाम् । यतो जज्ञ उग्रस्त्वेष नृम्णो रु । नदं योयुवतीनो३म् । सद्यो जज्ञानो निरिणाति शत्रून्पतिं वो अघ्न्यानाम् । अनु यं विश्वे मदन्त्यूमाः षो धेनूनामिषुध्यसोमिति, इति । एवमेतां त्रिः, इति । अन्यासु चेत्समाम्नातासु राजनेन साम्ना स्तुवीरन्यथास्थानं ता इहैवेमा असमाम्नातासु चेत्स्तुवीरन्त्समाम्नातस्य तावतीरुद्धृत्य तत्र ताः शंसेदिहो एवेमाः, इति । अन्यासु चेत्प्राक्सूददोहसस्ताः, इति । तदिदासेत्येतदादि शस्त्रम्, इति । अविहृतश्चात्र प्रतिगरः, इति । ता अस्य सूददोहस इत्येतदादिः सूददोहाः सूददोहाः इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये षष्ठः खण्डः ।। ६ ।। इति बह्वृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमोऽध्यायः ।। १ ।। 5.2.1 अथ पञ्चमारण्यके द्वितीयोऽध्यायः । तत्र प्रथमः खण्डः । (सप्तमः) ग्रीवाः, इति । यस्येदमारजस्तुजो युजो वनं सहः । इन्द्रस्य रन्त्यं बृहत्, इति । नाधृष आदधर्षदाधृषाणं धृषितं शवः । पुरा यदीमतिव्यथिरिन्द्रस्य धृषितं सहः, इति । स नो ददातु तं रयिं रयिं पिशङ्गसंदृशम् । इन्द्रः पतिस्तवस्तमो जनेष्वा, इति । सूददोहाः, इति । शिरो गायत्रमिन्द्रमिद्गाथिनो बृहदिति, इति। अन्यासु चेत्समाम्नातासु स्तुवीरन्नुभयासंस्था न विपर्ययोऽसमाम्नातासु चेत्स्तुवीरन्मिश्रासु च, इति । सूक्तस्योत्तमां सूददोहाः, इति । विजवः, इति । सुतस्ते सोम उपयाहि यज्ञं मत्स्वा मदं पुरुवारं मघाय । मंहिष्ठ इन्द्र विजुरो गृणध्यै, इति । ससाहतुर्वृत्रहत्येषु शत्रूनृभुर्विगाह एषः । स नो नेतारं महयाम इन्द्रम्, इति । इनो वसुः समजः पर्वतेष्ठाः प्रति वामृजीषी । इन्द्रः शश्वद्भिर्जोहूत्र एवैः, इति । सूददोहाः, इति । इत्येतत्त्रयं ग्रीवा शिरो विजवः सर्वमर्धर्च्यम्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये प्रथमः खण्डः ।। १ ।। ( ७) 5.2.2 राथंतरो दक्षिणः पक्षः, इति । अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरस्य स्तोत्रियानुरूपौ प्रगाथौ चतस्रः सतीः षड्बृहतीः करोति, इति । इन्द्रस्य नु वीर्याणि प्रवोचं त्वे ह यत्पितरश्चिन्न इन्द्रेति पञ्चदश यस्तिग्मशृङ्ग वृषभो न भीम उग्रो जज्ञे वीर्याय स्वधावानुदु ब्रह्माण्यैरत श्रवस्याऽऽते मह इन्द्रोऽत्युग्रेति पञ्च सूक्तान्या न इन्द्रो दूरादा न आसादिति संपात इत्था हि सोम इन्मद इति पङ्क्तिः सूददोहाः, इति । बार्हत उत्तरः, इति । त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहतः स्तोत्रियानुरूपौ प्रगाथौ चतस्रः सतीः षड्बृहतीः करोति, इति । तमु ष्टुहि यो अभिभूत्योजाः सुत इत्त्वं निमिश्ल इन्द्र सोम इति त्रीण्यभूरेको रयिपते रयीणामित्यष्टौ सूक्तानि कथा महामवृधत्कस्य होतुरिति संपात इन्द्रो मदाय वावृध इति पङ्क्तिः सूददोहाः, इति । राथंतरो दक्षिणः पक्षः पञ्चदशः स्तोम एकशतं वसिष्ठप्रासाहा बार्हत उत्तरः सप्तदशः स्तोमो द्विशतं भरद्वाजप्रासाहः, इति । भद्रं पुच्छं द्विपदासु, इति । इमा नु कं भुवना सीषधामाऽऽयाहि वनसा सहेति नव समाम्नाता अथासमाम्नाताः, इति । प्र व इन्द्राय वृत्रहन्तमाय विप्रा गाथं गायत यज्जुजोषत्, इति । अर्चन्त्यर्कं देवतास्वर्का आस्तोभति श्रुतो युवा स इन्द्रः, इति । उपप्रक्षे मधुमति क्षियन्तः पुष्यन्तो रयिं धीमहे तमिन्द्र, इति । विश्वतो दावन्विश्वतो न आभर यं त्वा शविष्ठमीमहे, इति । स सुप्रणीते नृतमः स्वराळसि मंहिष्ठो वाजसातये, इति ।। त्वं ह्येक ईशिषे सनादमृक्त ओजसा, इति । विश्वस्य प्रस्तोभ विद्वान्पुरा वा यदि वेहाऽऽस नूनम्, इति । इषं नो मित्रावरुणा कर्तनेळां पीवरीमिषं कृणुही न इन्द्र, इति । शं पदं मघं रयिषणि न सोमो अव्रतं हिनोति न स्पृशद्रयिः, इति । एष ब्रह्मेति तिस्रः, इति । आधूर्ष्वस्मा इत्येका सूददोहा यद्वावानेति धाय्या सूददोहाः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ।। २ ।। ( ८) ।। 5.2.3 'गायत्री तृचाशीतिः, इति । महाँ इन्द्रो य ओजसेति तिस्र उत्तमा उद्धरति पुरोळाशं नो अन्धस इति तिस्र इन्द्र इत्सोमपा एक इत्येतत्प्रभृतीनां तिस्र उत्तमा उद्धरति तासां स्वादवः सोमा आयाहीत्येतामुद्धृत्य न ह्यन्यं बळाकरमित्येतां प्रत्यवदधाति जज्ञानो नु शतक्रतुरित्येका पुरुहूतं पुरुष्टुतमिति शेष उद्धेदभि श्रुता मघमित्युत्तमामुद्धरति प्रकृतान्यृजीषिण आ घा ये अग्निमिन्धत आ तू न इन्द्र क्षुमन्तमिति सूक्ते सूददोहाः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये तृतीयः खण्डः ।। ३ ।। ( ९) ।। 5.2.4 बार्हती तृचाशीतिः, इति । मा चिदन्यद्विशंसतेत्येकया न त्रिंशत्पिबा सुतस्य रसिन इति विंशतेः सप्तमीं चाष्टमीं चोद्धरति यदिन्द्र प्रागपागुदगिति चतुर्दश वयं घ त्वा सुतावन्त इति पञ्चदश मो षु त्वा वाघतश्चनेत्येतस्य द्विपदां चोद्धरति राथंतरं च प्रगाथमथ हास्य नकिः सुदासो रथमित्येतं प्रगाथमुद्धृत्य त्वामिदा ह्यो नर इत्येतं प्रगाथं प्रत्यवदधात्यभि प्र वः सुराधसमिति षड्वालखिल्यानां सूक्तानि यः सत्राहा विचर्षणिरिति शेषोऽयं ते अस्तु हर्यत इति सूक्ते उभयं शृणवच्च न इति सप्तमीं चाष्टमीं चोद्धरति तरोभिर्वो विदद्वसुमित्युत्तमामुद्धरति यो राजा चर्षणीनामित्येकादश तं वो दस्ममृतीषहमा नो विश्वा सुहव्यो या इन्द्र भुज आभर इति नव सूददोहाः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ।। ४ ।। ( १०) 5.2.5 औष्णिही तृचाशीतिः, इति । य इन्द्र सोमपातम इति सूक्ते तम्वभि प्रगायतेत्युत्तमामुद्धरतीन्द्राय साम गायत सखाय आशिषामहीति तिस्र उत्तमा उद्धरति य एक इद्विदयत आयाह्यद्रिभिः सुतं यस्य त्यच्छम्बरं मद इति त्रयस्तृचा गायत्र्यः संपदोष्णिहः सप्त सप्त गायत्र्यः षट्षळुष्णिहो भवन्ति यदिन्द्राहं यथा त्वं प्र संम्राजं चर्षणीनामिति सूक्ते उत्तरस्योत्तमे उद्धरति वार्त्रहत्याय शवस इत्युत्तमामुद्धरति सुरूपकृत्नुमूतय इति त्रीण्येन्द्रसानसिं रयिमिति सूक्ते य आनयत्परावत इति तिस्र उत्तमा उद्धरति रेवतीर्नः सधमाद इति तिस्रः सूददोहाः, इति । इत्येतास्तिस्रस्तृचाशीतयः सर्वा अर्धर्च्याः, इति । अन्नमशीतयः, इति । उदरं वशः, इति । त्वाऽवतः पुरूवसविति वशः सनितः सु सनितरित्येतदन्तो ददीरेक्ण इति द्विपदा नूनमथेत्येकपदा ता अस्य सूददोहस इत्येतदन्तः सूददोहाः सूददोहाः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये पञ्चमः खण्डः ।। ५ ।। ( ११) इति बह्वृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयोऽध्यायः ।। २ ।। 5.3.1 ऊरू, इति । इन्द्राग्नी युवं सु न इत्येतस्यार्धर्चान्गायत्रीकारमुत्तरमुत्तरस्यानुष्टुप्कारं प्रागुत्तमायाः प्र वो महे मन्दमानायान्धस इति निविद्धानं वनेन वायो न्यधायि चाकन्यो जात एव प्रथमो मनस्वानिति ते अन्तरेणाऽऽयाह्यर्वाङुपवन्धुरेष्ठा विधुं दद्राणं समने बहूनामित्येतदावपनं दशतीनामैन्द्रीणां त्रिष्टुब्जगतीनां बृहतीसंपन्नानां यावतीरावपेरंस्तावन्त्यूर्ध्वमायुषो वर्षाणि जिजीविषेत्संवत्सरात्संवत्सराद्दशतो न वा त्यमू षु वाजिनं देवजूतमिन्द्रो विश्वं विराजतीत्येकपदेन्द्रं विश्वा अवीवृधन्नित्यानुष्टुभं तस्य प्रथमायाः पूर्वमर्धर्चं शस्त्वोत्तरेणार्धर्चेनोत्तरस्याः पूर्वमर्धर्चं व्यतिषजति पादैः पादाननुष्टुप्कारं प्रागुत्तमायाः पूर्वस्मात्पूर्वस्मादर्धर्चादुत्तरमुत्तरमर्धर्चं व्यतिषजति प्रकृत्या शेषः पिबा सोममिन्द्र मन्दतु त्वेति षड्योनिष्ट इन्द्र सदने अकारीत्येतस्य चतस्रः शस्त्वोत्तमामुपसंतत्योपोत्तमया परिदधाति, इति । परिहित उक्थ उक्थसंपदं जपति, इति । उक्थवीर्यस्य स्थान उक्थदोहः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये प्रथमः खण्डः ।। १ ।। ( १२) 5.3.2 मूर्धा लोकानामसि वाचो रसस्तेजः प्राणस्याऽऽयतनं मनसः संवेशश्चक्षुषः संभवः श्रोत्रस्य प्रतिष्ठा हृदयस्य सर्वम् । इन्द्रः कर्माक्षितममृतं व्योम । ऋतं सत्यं विजिग्यानं विवाचनमन्तो वाचो विभुः सर्वस्मादुत्तरं ज्योतिरूधरप्रतिवादः पूर्वं सर्वं वाक्परागर्वाक्सप्रु सलिलं धेनु पिन्वति । चक्षुः श्रोत्रं प्राणः सत्यसंमितं वाक्प्रभूतं मनसो विभूतं हृदयोग्रं ब्राह्मणभर्तृमन्नशुभे वर्षपवित्रं गोभगं पृथिव्युपरं वरुणवय्वितमं तपस्तन्विन्द्रज्येष्ठं सहस्रधारमयुताक्षरममृतं दुहानम्, इति । एतास्त उक्थ भूतय एता वाचो विभूतयः । ताभिर्म इह धुक्ष्वामृतस्य श्रियं महीम्, इति । प्रजापतिरिदं ब्रह्म वेदानां ससृजे रसम् । तेनाहं विश्वमाप्यासं सर्वान्तामान्दुहां महत्, इति । भूर्भुवः स्वस्त्रयो वेदोऽसि । ब्रह्म प्रजां मे धुक्ष्व, इति । आयुः प्राणं मे धुक्ष्व । पशून्विशं मे धुक्ष्व । श्रियं यशो मे धुक्ष्व । लोकं ब्रह्मवर्चसमभयं यज्ञसमृद्धिं मे धुक्ष्व, इति । इति वाचयत्यध्वर्युमबुद्धं चेदस्य भवति, इति । ओमुक्थशा यज सोमस्येतीज्यायै संप्रेषितो ये यजामह इत्यागूर्य नित्ययैव यजति व्यवान्येवानुवषट्करोति, इति । उक्तं वषटकारानुमन्त्रणम्, इति । आहरत्यध्वर्युरुक्थपात्रमतिग्राह्याश्चमसांश्च, इति ।। भक्षं प्रतिख्याय होता प्राङ्प्रेङ्खादवरोहति, इति । अथैतं प्रेङ्खं प्रत्यञ्चमवबध्नन्ति यथा शंसितारं भक्षयिष्यन्तं नोपहनिष्यसीति, इति । प्रेङ्खस्य ह्यायतनमासीनो होता भक्षयति, इति । अथैतदुक्थपात्रं होतोपसृष्टेन जपेन भक्षयति । वाग्देवी सोमस्य तृप्यतु । सोमो मे राजाऽऽयुःप्राणाय वर्षतु । स मे प्राणः सर्वमायुर्दुहां महत्, इति । उत्तमादाभिप्लविकात्तृतीयसवनमन्यद्वैश्वदेवान्निविद्धानादस्य वामस्य पलितस्य होतुरिति सलिलस्य दैर्घतमस एकचत्वारिंशतमानोभद्रीयं च तस्य स्थान ऐकाहिकौ वैश्वदेवस्य प्रतिपदनुचरौ, इति । च्यवेत चेद्यज्ञायज्ञीयमग्ने तव श्रवो वय इति षट्स्तोत्रियानुरूपौ यदीलान्दं भूयसीषु चेत्स्तुवीरन्नाऽग्निं न स्ववृक्तिभिरिति तावतीरनुरूपः, इति । संपन्नं महाव्रतं संतिष्ठत इदमहरग्निष्टोमो यथाकालमवभृथं प्रेङ्खं हरेयुः संदहेयुर्बृसीः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये द्वितीयः खण्डः ।। २ ।। ( १३) 5.3.3 नादीक्षितो महाव्रतं शंसेन्नानग्नौ न परस्मै नासंवत्सर इत्येके कामं पित्रे वाऽऽचार्याय वा शंसेदात्मनो हैवास्य तच्छस्तं भवति, इति । होतृशस्त्रेषूक्थशा यज सोमस्येत्येकः प्रैषः स नाराशंसेष्वनाराशंसेषु वा होत्रकाणामुक्थशा यज सोमानामिति, इति । तदिदमहर्नानन्तेवासिने प्रब्रूयान्नासंवत्सरवासिने नो एवासंवत्सरवासिने नाब्रह्मचारिणे नासब्रह्मचारिणे नो एवासब्रह्मचारिणे नानभिप्राप्तायैतं देशम्, इति । न भूयः सकृद्गदनाद्द्विर्गदनाद्वा द्वय्येव , इति। एक एकस्मै प्रब्रूयादिति ह स्माऽऽह जातूकर्ण्यः, इति । न वत्से च न तृतीय इति, इति । न तिष्ठंस्तिष्ठते न व्रजन्व्रजते न शयानः शयानाय नोपर्यासीन उपर्यासीनायाध एवाऽऽसीनोऽध आसीनाय, इति । नावष्टब्धो न प्रतिस्तब्धो नातिवीतो नाङ्कं कृत्वोर्ध्वज्ञुरनपश्रितोऽधीयीत न मांसं भुक्त्वा न लोहितं दृष्ट्वा न गतासुं नाव्रत्यमाक्रम्य नाक्त्वा नाभ्यज्य नोन्मर्दनं कारयित्वा न नापितेन कारयित्वा न स्नात्वा न वर्णकेनानुलिप्य न स्रजमपिनह्य न स्त्रियमुपगम्य नोल्लिख्य नावलिख्य,इति । नेदमेकस्मिन्नहनि समापयेदिति ह स्माऽऽह जातूकर्ण्यः समापयेदिति गालवो यदन्यत्प्राक्तृचाशीतिभ्यः समापयेदेवेत्याग्निवेश्यायनोऽन्यमन्यस्मिन्देशे शमयमान इति, इति । यत्रेदमधीयीत न तत्रान्यदधीयीत यत्र त्वन्यदधीयीत काममिदं तत्राधीयीत, इति । नेदमनधीयन्त्स्नातको भवति यद्यप्यन्यद्बह्वधीयान्नैवेदमनधीयन्त्स्नातको भवति, इति । नो एवास्मात्प्रमाद्येत्, इति । अस्माच्चेन्न प्रमाद्येदलमात्मन इति विद्यात्, इति । अलं सत्यं विद्यात्, इति । नेदंविदनिदंविदा समुद्दिशेन्न सहभुञ्जीत न सधमादी स्यात्, इति । अथातः स्वाध्यायधर्मं व्याख्यास्याम उप पुराणे नाऽऽपीते कक्षोदके पूर्वाह्णे न संभिन्नासु च्छायास्वपराह्णे नाध्यूह्ळे मेघेऽपर्तौ वर्षे त्रिरात्रं वैदिकेनाध्यायेनान्तरियान्नास्मिन्कथां वदेत नास्य रात्रौ च न च कीर्तयिषेत्, इति । तदिति वा एतस्य महतो भूतस्य नाम भवति योऽस्यैतदेवं नाम वेद ब्रह्म भवति ब्रह्म भवति, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये तृतीयः खण्डः ।। ३ ।। ( १४) इति बहवृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयोऽध्यायः ।। ३ ।। ॐ उदितः शुक्रियं दधे । तमहमात्मनि दधे । अनु मामैत्विन्द्रियम् । मयि श्रीर्मयि यशः । सर्वः सप्राणः संबलः । उत्तिष्ठाम्यनु श्रीः । उत्तिष्ठत्वनु माऽऽयन्तु देवताः । अदब्धं चक्षुरिषितं मनः । सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिँसीः । तच्चक्षुर्देव हितं शुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतम् । त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः । आवदंस्त्वं शकुने भद्रमावद तूष्णीमासीनः सुमतिं चिकिद्धि नः । यदुत्पतन्वदसि कर्कुरिर्यथा बृहद्वदेम विदथे सुवीराः । शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् । मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् । वाड्रमे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणी स्थ श्रुतं मे मा प्रहासीरनेनाधीतेन । अहोरात्रान्त्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः । इत्युत्तरशान्तिः इति वह्वृचब्राह्मणारण्यककाण्डे पञ्चममारण्यकं समाप्तम् ।। ५ ।। This conversion has been done from Aitareyaaranyakam (Aanandaashram, Pune) with the help of [http://www.indsenz.com/ Indsenz] Sanskrit OCR Aitareya Aranyakam </big> [[वर्गः:ऋग्वेदारण्यकम्]] ick756f9aa5xi7ir06ymqwm2qz74ktu सदस्यः:V(g) 2 25211 415858 415833 2026-05-14T08:51:11Z EmausBot 3495 [[सदस्यः:G(x)]] को दोहरे पुननिर्देशित ठीक किया। 415858 wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यः:G(x)]] 95d6euwz5uasoehai0z4cdinzeslj5p प्राणाग्निहोत्रम् 0 164236 415856 2026-05-14T06:44:15Z Shubha 190 {{header | title = प्राणाग्निहोत्रम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00268 Uniform title: prāṇāgnihotra Manuscript : BHU C4257 Description... नवीन पृष्ठं निर्मीत अस्ती 415856 wikitext text/x-wiki {{header | title = प्राणाग्निहोत्रम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00268 Uniform title: prāṇāgnihotra Manuscript : BHU C4257 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India ---- प्. २५१अ) ओं नमो गुरवे || अल्पवित्तानरा ये च अग्निहोत्रं न कुर्वते | तेषां प्राणाग्निहोत्रं तु प्रसादं कुरु शूलभृत् || १ || शरीरेस्मिन् कत्यग्नयः को यजमानः का पत्नी क ऋत्विक् | को ध्वयुः? | को होता | क उत्गतः | क उपद्रष्टा | कः प्रतिप्रसुता | कः स्नातकः | क इन्द्रः | क इन्द्राग्नी | किं हविर्धानं | किमिन्धनं | कः कलशः | का आपः | कोर्घः | किमर्घपात्रं | प्. २५०ब्) को गन्धः | किं पुष्पम् | को धूपः | को दीपः | का वेदिः | का अन्तर्वेदिः | इमिध्मं | के परिधयः | को यूपा | कारणिः | कश्च समः | कः पशुः | को होमः | का रसना | क उपयामः | कौ स्रुक् स्रुवौ | कः पुरोडाशः | कानि भुवनानि | के लोकाः | कानि लोकान्तराणि | किं जुहोति | क उमादेवताः | प्रीता भवंति | इत्येतत्सृष्टि तत्वं तु भगवन्वक्तु मर्हसि || || अति गुह्यतरं प्रश्नं यत्त्वया चोदितं परम् | यन्न कस्य चिदाख्यातं शृणु वक्ष्यामि षण्मुख || इदं रहस्यं परमं न देयं यस्य कस्य चित् | परिक्ष्य तु प्रदाततव्यं गुरुदेवाग्नि पूजके || प्. २५२अ) अस्मिञ्शरीरे सप्ताग्नयो भवन्ति *? | मुखे चाहवनीयोग्निर्दक्षिणाग्निर्मनस्थितः | हृदये गार्हपत्योग्निर्नाभ्यासौपसदस्मृतः | उत्तरोग्निर्भ्रुवोर्मध्ये ऊर्ध्वाग्निर्द्वादशान्तरे | अधोग्निः पादयोर्मध्ये इति सप्ताग्नयः स्मृताः || एतेषां तु शरीरेषु | पुरुषो यजमानः | प्रकृतिः पत्नी | प्राण ऋत्विका | प्राणोध्व *?ः | अपानो होता | समान उद्गाता | उपानता | द्रष्टाव्यानः | प्रतिप्रस्थाता | मनः स्नातकः | आत्मेन्द्रः | तृष्णेन्द्राणी | हविर्यानं | मूलमन्त्रः वह्निः | सूर्योदयो होमः | मूर्द्धाद्रोणः | कलशः शोणितमापः | प्. २५२ब्) केशादर्भाः ब्रह्मनाडि राज्यस्थालिका पुर्यष्टकं ग्रहाः | दन्ता अर्घः | कपालमर्घपात्रं | परमान्विवपः? | परमात्मा दीपः | तन्मन्त्रः | पुष्पम् | वातो गन्धः | नामावेदिः | जिह्वान्तर्वेदिः | इध्ममस्थीनि | अन्त्राणि परिधयः | शोत्रे च समः | अहङ्कारो धूपः | अरणि प्राणशक्तिः | बुद्धी भ्रुवौ | उपयामः | नेत्रे पुरोडाशः | चित्तं पशुः | हस्तौ स्रुक् स्रुवौ | इन्द्रियाण्या हृतयः || अनेनैव क्रमेणेति विद्वान्यदिजु होति वै || अथ त्रयस्त्रिंशद्देव कोट्यस्तृप्ता भवन्ति | य एवं वेत्ति स वेदवित् | स आ हिताग्निः सहथ्य कव्ययोः समर्थः | प्. २५३अ) तस्माच्छरीरेयेष्ट सर्वे देवता यष्टा भवन्ति | अतः परं प्रवक्ष्यामि आत्मज्ञानं शिवोदितम् | ज्ञानिनो येन मुच्यन्ते घोरात्संसारसागरात् || अत्र शरीरे पादयोर्विष्णुर्जङ्घयोर्मरुतः | जान्वोः पृथ्वी ऊर्धोः मित्त्रावरुणौ | कट्यमिन्द्राग्नि | गुदेवायुः | लिङ्गे भद्रः | अस्थि शीर्षे | कुवीरः | नाड्या अग्निः | उदरे समुद्रः | अन्त्रेषु नागाः | पार्श्वयोः हरिः | पृष्ठे पितरः | ओष्ठयोः धर्माधर्मौ | नासाग्रे त्वष्ट्या बाह्वोर्वायुः | ग्रीवायां कालरात्रिः | हस्तयोरिन्द्रः | हस्ततले क्रोधः | अङ्गुलीषु सर्पाः | नखेषु नक्षत्राणि | प्. २५३ब्) जिह्वायां शरस्वती | हन्योः? गुरुः | दक्षिण दंष्ट्रासयमः | वामदंष्ट्रासु बृहस्पतिः | दन्तेषु मरुतः | चक्षुषोः चन्द्रादित्यौ | श्रोत्रयोर्दिशः | नासापुटयोः द्वावश्विनौ | अङ्गप्रत्यङ्गेव सर्व हृदये ब्रह्मा | भ्रुवोर्मध्ये नारायणः | शिरसि महेश्वरः | तस्योपर्यव्यक्तः | सारास्तिस्रो रोमकोटयः तारका भवन्ति | अत्र नाभि प्रभृति शिरोन्तं यावत्सप्तलोकाः कथिताः नाड्यां भूर्लोकः | हृदये भुवोलोकः | कण्ठे स्वर्लोकः | जठरे महोलोकः | *? मूर्ध्नि सत्यलोकः || आभासतालमुत्तलं श्रीतालं च नभस्तलम् | नाड्यधस्ताल्लताभासं गुह्ये भूतालसंज्ञितम् | प्. २५४अ) कुड्प्रदे *? श्रीतालं गुल्फदेशेरसातलम् | पादयोश्च तथैवान्या पातालास्सप्तसंज्ञिताः || जम्बुद्वीपस्तु निद्रा स्याद् व्यतिः कौमार्यसंज्ञिताः | कुशद्दीपश्च चिद्धा तु क्रौञ्च द्वीपस्त्वहङ्कृतिः || अदान्ते सिंहलद्वीपो मनः पुष्करसंज्ञितः | बुद्धिः शाकलद्वीपः स्याद् द्वीपाः सप्ततथोदिताः || यथा ह्यस्मिञ्शरीरे तु सप्तनद्यो वसन्ति च | तथा चैव समासीनं शृणु वक्ष्यामि षण्मुख || गङ्गा च शिरसि प्रोक्ता ललाटे सिन्धुरेव च | नासाग्रे च वितस्तातु कण्ठे स्याच्छतरुद्रिका | हृदये यमुना प्रोक्ता नाड्यां चैव सरस्वती | ऐरावती तु गुह्ये स्याद् विपाशा तदधः स्थिता || सर्वतीर्थ मयं ह्येतच्छरीरमधुना शृणु | ब्रह्मद्वारे ब्रह्मतीर्थं केदारं शिरसि स्थितम् || वाराणसी ललाटे तु हृदये पुष्करं तथा | नाड्यांकनखलं चैव सर्वतीर्थानि चात्मनि || ब्रह्मावर्तं दक्षहस्ते तीर्थान्येतानि देहिनः | देवतीर्थं पितृतीर्थं वायुतीर्थमतः परम् || सोमतीर्थमग्नितीर्थं शरीरे तु सदास्थितम् | सत्यतीर्थं दयातीर्थं तीर्थमिन्द्रिय निग्रहः || सर्वभूतदयातीर्थं नान्यतीर्थं प्रकल्पयेत् | तीर्थानामधिकं तीर्थं यत्र भावो हि निर्मलः || प्. २५५अ) हृअये मेरुमाश्रित्य चन्द्रादित्यौ च तिष्ठतः | या बुद्धिस्स च आदित्यो यन्मनः स च चन्द्रमाः || अग्निश्चैवत्वहङ्कारो देवार्कर्मेन्द्रियाणि च | सर्वदेव मयो ह्यात्मा सर्वतीर्थमयस्तथा || तस्मात् सर्वप्रयत्नेन आत्मस्थमर्चयेत् सदा | आत्मस्थो येन हूयन्ते नात्मानं नार्चयन्ति ये || मूढाशयादुराचारा अन्यदेवारने रताः | न ते विदन्ति तं देवं सर्व व्यापि नमीश्वरम् || जन्मना पशवस्ते हि इति सत्यं षडानन | नार्चयेन्मृङ्मयं लिङ्गं न शैलं न च काञ्चनम् || अर्चयेद्देहजं लिङ्गं भुक्तिमुक्ति फलप्रदम् | प्. २५५ब्) स्वदेहा यतनं लिङ्गं मनो यत्र स्वयं प्रभुः || हृद्पीठे कर्णिकामध्ये तत्र लिङ्गं प्रपूजयेत् | हृत्पीठे भद्रपीठोयं सर्वरत्नविभूषितम् || तं ज्ञात्वा चैव षण्मासात् सर्वपापक्षयो भवेत् | अमण्डले न भोक्तव्यं न च वै वामपाणिना || नग्नो मुक्त शिखश्चैव भक्षयेन्न कदाचन | विष्णुसोमश्च सूर्यश्च ह्री हुताशः शचीपतिः || मण्डलादुपजीवन्ति तस्मात् कुर्वीत मण्डलम् | असुरायातु धानाश्च क्रूरकर्मणि राक्षसः || बलमन्नस्य हिंसन्ति मण्डलेन विवर्जितम् | मण्डलानि प्रकुर्वन्ति चतुरश्रं त्रिकोणकम् || प्. २५६अ) क्रमद्वयं परिमाणं विस्तीर्णं मुनिपुङ्गव | नखेनक्तनखी भुत्वा काष्ठेन व्याधिमिच्छति || अश्मना धनहानिः स्यान् मृण्मयेन कलिर्भवेत् || अतः परं प्रवक्ष्यामि आत्मज्ञानं विधानतः | यज्ज्ञात्वा मुच्यते जन्तुर्घोरात्संसारसागरात् || अस्त्रेण सोधयेत्पात्रं प्रणवेणासनं ददेत् | सकलं हंस रूपं च शरीरं चिन्तयेद्बुधः || हृदिस्थाने स्थितं कुण्डं प्रणवे नैव शोधयेत् | सोमसूर्याग्नि कुण्डे तु मध्यस्थं ज्योतिरुत्तमम् || हंसोहंसाक्षरो देवो जीवादित्यस्तु सुव्रते | यत्र ज्वाला कलापेतो भासयेन्नाभि मण्डलम् || एषा ज्वाला प्रधानास्याज्जिह्वाग्रं पाति सर्वदा | प्. २५६ब्) जठराग्निर्विचिन्त्योसौ पावकः परमेश्वरः || अनङ्गधेनु दुग्धा च द्वादशान्ते समाहितः | प्राणाद्या आहुतीः पञ्च जुहुयाद्यदि पावके || पात्रे सङ्गृह्य तच्चैनं रेचकं नैव शोधयेत् | पूरकेन विचिन्त्यै तत्सोमं रूपं षडानन || आप्यायकः स्मृत एषा पूर्णेनाथ कुशेन वा | प्रोल्लिखेल्लक्षणं विप्रः सिद्धाकामस्तु कर्मसु || अतः परं प्रवक्ष्यामि कलाः षोडशसंयुतः | सन्धयोद्वक्त्रमध्ये तु स्वाहा नैराहुती भवेत् || नाभि मध्ये स्मरेत् कुण्डं वक्त्र वह्नेन्दु मेखला | तन्मध्ये संस्थितं ज्योतिश्शिवाग्निः सर्वभक्षकः || प्. २५७अ) पद्मसंपुटके लीन ज्वालामाला वपुः स्थिते | द्वासप्तति सहस्राणि नाडयः परिकीर्तिताः || अन्नः सोमः स्रुवोहस्तौ दाता सूर्यो यजेद्धरिम् | ब्राह्मीं समाधिमास्थाय भुङ्के ह्यन्नं चतुर्विधम् || प्राणोपानः समानश्च उदानो व्यान एव च | एत्येता वायवः पञ्च शरीरेषु शरीरिणाम् || प्रणम्य हृदयं स्थानमपानस्य पुनर्गुदम् | समानो नाभि देशस्थमुदानः कण्ठमाश्रितः || पञ्चमस्तत्र विज्ञेयो व्यानः सर्वाङ्ग सन्धिषु | एतेषां जुहुयादन्नं शरीरं मन्त्रयेद् द्विजम् || एतैस्तृप्तैस्तु तुर्विधमाहारं शुक्लं पीतं जीर्णं समानं नयति | प्. २५७ब्) * *? करणात्ममानः स्थापनाद्वासमानः | उदानो नाम हिक्काशब्दश्छरिस्फारकास *? सोत्क्रान्ति चोदनः | ऊर्धं नामगमनाद्बोदानः? | व्यानोनामप्रसारणा कुञ्चनोल्लङ्घन प्लवनगमनशमनोर्थापन हसन गीतनृत्तवादित्राभिलाष चरित प्रवर्तको भवति | व्यापनाद्व्यायश्छनाद्वाव्यानः | प्राणो ह्यदित्य दैवत्यः | * * *? सोमदैवत्यः समानस्य तु पर्जन्य उदानो भद्र? दैवतः | व्यानं? *? विष्णु दैवत्य इत्ये *? देवताः पृथक् || प्राणाग्निहोत्र यत्नेन कुर्याच्चैव विधानतः | प्. २६०) सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते || अनेन विधिना यच्च भुङ्के ह्यन्नं समाहितः | तेन तृप्तेन तृप्यन्ते देवताः पितृभिः सह || हृदिस्था देवतास्सर्वा हृदि प्राणाः प्रतिष्ठिताः | चतुर्विंशति तत्वानि पुरुषो हृदये परः || नाभेरूर्ध्वमधस्थाश्च कण्ठा धस्तात् षडङ्गुलम् | हृदयं तद्विजानीयाद्विशस्या यतनं महत् || योग्निस्तृप्यति चाग्निस्तु एकस्तिष्ठति सप्तधा | त्रैलोक्यं व्यापितं तेन यजन्ते ब्रह्मवादिनः || विप्रादि श्वपचान्तानां भूतानां च हितो नलः | तस्मैता आहुतीर्दद्यात् तृप्तिर्भवति चार्धया || </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] c13zbdxbv7xxgctdfce985afphmimqe 415857 415856 2026-05-14T06:45:26Z Shubha 190 415857 wikitext text/x-wiki {{header | title = प्राणाग्निहोत्रम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00268 Uniform title: prāṇāgnihotra Manuscript : BHU C4257 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India ---- प्. २५१अ) ओं नमो गुरवे ।। अल्पवित्तानरा ये च अग्निहोत्रं न कुर्वते । तेषां प्राणाग्निहोत्रं तु प्रसादं कुरु शूलभृत् ।। १ ।। शरीरेस्मिन् कत्यग्नयः को यजमानः का पत्नी क ऋत्विक् । को ध्वयुः? । को होता । क उत्गतः । क उपद्रष्टा । कः प्रतिप्रसुता । कः स्नातकः । क इन्द्रः । क इन्द्राग्नी । किं हविर्धानं । किमिन्धनं । कः कलशः । का आपः । कोर्घः । किमर्घपात्रं । प्. २५०ब्) को गन्धः । किं पुष्पम् । को धूपः । को दीपः । का वेदिः । का अन्तर्वेदिः । इमिध्मं । के परिधयः । को यूपा । कारणिः । कश्च समः । कः पशुः । को होमः । का रसना । क उपयामः । कौ स्रुक् स्रुवौ । कः पुरोडाशः । कानि भुवनानि । के लोकाः । कानि लोकान्तराणि । किं जुहोति । क उमादेवताः । प्रीता भवंति । इत्येतत्सृष्टि तत्वं तु भगवन्वक्तु मर्हसि ।। ।। अति गुह्यतरं प्रश्नं यत्त्वया चोदितं परम् । यन्न कस्य चिदाख्यातं शृणु वक्ष्यामि षण्मुख ।। इदं रहस्यं परमं न देयं यस्य कस्य चित् । परिक्ष्य तु प्रदाततव्यं गुरुदेवाग्नि पूजके ।। प्. २५२अ) अस्मिञ्शरीरे सप्ताग्नयो भवन्ति *? । मुखे चाहवनीयोग्निर्दक्षिणाग्निर्मनस्थितः । हृदये गार्हपत्योग्निर्नाभ्यासौपसदस्मृतः । उत्तरोग्निर्भ्रुवोर्मध्ये ऊर्ध्वाग्निर्द्वादशान्तरे । अधोग्निः पादयोर्मध्ये इति सप्ताग्नयः स्मृताः ।। एतेषां तु शरीरेषु । पुरुषो यजमानः । प्रकृतिः पत्नी । प्राण ऋत्विका । प्राणोध्व *?ः । अपानो होता । समान उद्गाता । उपानता । द्रष्टाव्यानः । प्रतिप्रस्थाता । मनः स्नातकः । आत्मेन्द्रः । तृष्णेन्द्राणी । हविर्यानं । मूलमन्त्रः वह्निः । सूर्योदयो होमः । मूर्द्धाद्रोणः । कलशः शोणितमापः । प्. २५२ब्) केशादर्भाः ब्रह्मनाडि राज्यस्थालिका पुर्यष्टकं ग्रहाः । दन्ता अर्घः । कपालमर्घपात्रं । परमान्विवपः? । परमात्मा दीपः । तन्मन्त्रः । पुष्पम् । वातो गन्धः । नामावेदिः । जिह्वान्तर्वेदिः । इध्ममस्थीनि । अन्त्राणि परिधयः । शोत्रे च समः । अहङ्कारो धूपः । अरणि प्राणशक्तिः । बुद्धी भ्रुवौ । उपयामः । नेत्रे पुरोडाशः । चित्तं पशुः । हस्तौ स्रुक् स्रुवौ । इन्द्रियाण्या हृतयः ।। अनेनैव क्रमेणेति विद्वान्यदिजु होति वै ।। अथ त्रयस्त्रिंशद्देव कोट्यस्तृप्ता भवन्ति । य एवं वेत्ति स वेदवित् । स आ हिताग्निः सहथ्य कव्ययोः समर्थः । प्. २५३अ) तस्माच्छरीरेयेष्ट सर्वे देवता यष्टा भवन्ति । अतः परं प्रवक्ष्यामि आत्मज्ञानं शिवोदितम् । ज्ञानिनो येन मुच्यन्ते घोरात्संसारसागरात् ।। अत्र शरीरे पादयोर्विष्णुर्जङ्घयोर्मरुतः । जान्वोः पृथ्वी ऊर्धोः मित्त्रावरुणौ । कट्यमिन्द्राग्नि । गुदेवायुः । लिङ्गे भद्रः । अस्थि शीर्षे । कुवीरः । नाड्या अग्निः । उदरे समुद्रः । अन्त्रेषु नागाः । पार्श्वयोः हरिः । पृष्ठे पितरः । ओष्ठयोः धर्माधर्मौ । नासाग्रे त्वष्ट्या बाह्वोर्वायुः । ग्रीवायां कालरात्रिः । हस्तयोरिन्द्रः । हस्ततले क्रोधः । अङ्गुलीषु सर्पाः । नखेषु नक्षत्राणि । प्. २५३ब्) जिह्वायां शरस्वती । हन्योः? गुरुः । दक्षिण दंष्ट्रासयमः । वामदंष्ट्रासु बृहस्पतिः । दन्तेषु मरुतः । चक्षुषोः चन्द्रादित्यौ । श्रोत्रयोर्दिशः । नासापुटयोः द्वावश्विनौ । अङ्गप्रत्यङ्गेव सर्व हृदये ब्रह्मा । भ्रुवोर्मध्ये नारायणः । शिरसि महेश्वरः । तस्योपर्यव्यक्तः । सारास्तिस्रो रोमकोटयः तारका भवन्ति । अत्र नाभि प्रभृति शिरोन्तं यावत्सप्तलोकाः कथिताः नाड्यां भूर्लोकः । हृदये भुवोलोकः । कण्ठे स्वर्लोकः । जठरे महोलोकः । *? मूर्ध्नि सत्यलोकः ।। आभासतालमुत्तलं श्रीतालं च नभस्तलम् । नाड्यधस्ताल्लताभासं गुह्ये भूतालसंज्ञितम् । प्. २५४अ) कुड्प्रदे *? श्रीतालं गुल्फदेशेरसातलम् । पादयोश्च तथैवान्या पातालास्सप्तसंज्ञिताः ।। जम्बुद्वीपस्तु निद्रा स्याद् व्यतिः कौमार्यसंज्ञिताः । कुशद्दीपश्च चिद्धा तु क्रौञ्च द्वीपस्त्वहङ्कृतिः ।। अदान्ते सिंहलद्वीपो मनः पुष्करसंज्ञितः । बुद्धिः शाकलद्वीपः स्याद् द्वीपाः सप्ततथोदिताः ।। यथा ह्यस्मिञ्शरीरे तु सप्तनद्यो वसन्ति च । तथा चैव समासीनं शृणु वक्ष्यामि षण्मुख ।। गङ्गा च शिरसि प्रोक्ता ललाटे सिन्धुरेव च । नासाग्रे च वितस्तातु कण्ठे स्याच्छतरुद्रिका । हृदये यमुना प्रोक्ता नाड्यां चैव सरस्वती । ऐरावती तु गुह्ये स्याद् विपाशा तदधः स्थिता ।। सर्वतीर्थ मयं ह्येतच्छरीरमधुना शृणु । ब्रह्मद्वारे ब्रह्मतीर्थं केदारं शिरसि स्थितम् ।। वाराणसी ललाटे तु हृदये पुष्करं तथा । नाड्यांकनखलं चैव सर्वतीर्थानि चात्मनि ।। ब्रह्मावर्तं दक्षहस्ते तीर्थान्येतानि देहिनः । देवतीर्थं पितृतीर्थं वायुतीर्थमतः परम् ।। सोमतीर्थमग्नितीर्थं शरीरे तु सदास्थितम् । सत्यतीर्थं दयातीर्थं तीर्थमिन्द्रिय निग्रहः ।। सर्वभूतदयातीर्थं नान्यतीर्थं प्रकल्पयेत् । तीर्थानामधिकं तीर्थं यत्र भावो हि निर्मलः ।। प्. २५५अ) हृअये मेरुमाश्रित्य चन्द्रादित्यौ च तिष्ठतः । या बुद्धिस्स च आदित्यो यन्मनः स च चन्द्रमाः ।। अग्निश्चैवत्वहङ्कारो देवार्कर्मेन्द्रियाणि च । सर्वदेव मयो ह्यात्मा सर्वतीर्थमयस्तथा ।। तस्मात् सर्वप्रयत्नेन आत्मस्थमर्चयेत् सदा । आत्मस्थो येन हूयन्ते नात्मानं नार्चयन्ति ये ।। मूढाशयादुराचारा अन्यदेवारने रताः । न ते विदन्ति तं देवं सर्व व्यापि नमीश्वरम् ।। जन्मना पशवस्ते हि इति सत्यं षडानन । नार्चयेन्मृङ्मयं लिङ्गं न शैलं न च काञ्चनम् ।। अर्चयेद्देहजं लिङ्गं भुक्तिमुक्ति फलप्रदम् । प्. २५५ब्) स्वदेहा यतनं लिङ्गं मनो यत्र स्वयं प्रभुः ।। हृद्पीठे कर्णिकामध्ये तत्र लिङ्गं प्रपूजयेत् । हृत्पीठे भद्रपीठोयं सर्वरत्नविभूषितम् ।। तं ज्ञात्वा चैव षण्मासात् सर्वपापक्षयो भवेत् । अमण्डले न भोक्तव्यं न च वै वामपाणिना ।। नग्नो मुक्त शिखश्चैव भक्षयेन्न कदाचन । विष्णुसोमश्च सूर्यश्च ह्री हुताशः शचीपतिः ।। मण्डलादुपजीवन्ति तस्मात् कुर्वीत मण्डलम् । असुरायातु धानाश्च क्रूरकर्मणि राक्षसः ।। बलमन्नस्य हिंसन्ति मण्डलेन विवर्जितम् । मण्डलानि प्रकुर्वन्ति चतुरश्रं त्रिकोणकम् ।। प्. २५६अ) क्रमद्वयं परिमाणं विस्तीर्णं मुनिपुङ्गव । नखेनक्तनखी भुत्वा काष्ठेन व्याधिमिच्छति ।। अश्मना धनहानिः स्यान् मृण्मयेन कलिर्भवेत् ।। अतः परं प्रवक्ष्यामि आत्मज्ञानं विधानतः । यज्ज्ञात्वा मुच्यते जन्तुर्घोरात्संसारसागरात् ।। अस्त्रेण सोधयेत्पात्रं प्रणवेणासनं ददेत् । सकलं हंस रूपं च शरीरं चिन्तयेद्बुधः ।। हृदिस्थाने स्थितं कुण्डं प्रणवे नैव शोधयेत् । सोमसूर्याग्नि कुण्डे तु मध्यस्थं ज्योतिरुत्तमम् ।। हंसोहंसाक्षरो देवो जीवादित्यस्तु सुव्रते । यत्र ज्वाला कलापेतो भासयेन्नाभि मण्डलम् ।। एषा ज्वाला प्रधानास्याज्जिह्वाग्रं पाति सर्वदा । प्. २५६ब्) जठराग्निर्विचिन्त्योसौ पावकः परमेश्वरः ।। अनङ्गधेनु दुग्धा च द्वादशान्ते समाहितः । प्राणाद्या आहुतीः पञ्च जुहुयाद्यदि पावके ।। पात्रे सङ्गृह्य तच्चैनं रेचकं नैव शोधयेत् । पूरकेन विचिन्त्यै तत्सोमं रूपं षडानन ।। आप्यायकः स्मृत एषा पूर्णेनाथ कुशेन वा । प्रोल्लिखेल्लक्षणं विप्रः सिद्धाकामस्तु कर्मसु ।। अतः परं प्रवक्ष्यामि कलाः षोडशसंयुतः । सन्धयोद्वक्त्रमध्ये तु स्वाहा नैराहुती भवेत् ।। नाभि मध्ये स्मरेत् कुण्डं वक्त्र वह्नेन्दु मेखला । तन्मध्ये संस्थितं ज्योतिश्शिवाग्निः सर्वभक्षकः ।। प्. २५७अ) पद्मसंपुटके लीन ज्वालामाला वपुः स्थिते । द्वासप्तति सहस्राणि नाडयः परिकीर्तिताः ।। अन्नः सोमः स्रुवोहस्तौ दाता सूर्यो यजेद्धरिम् । ब्राह्मीं समाधिमास्थाय भुङ्के ह्यन्नं चतुर्विधम् ।। प्राणोपानः समानश्च उदानो व्यान एव च । एत्येता वायवः पञ्च शरीरेषु शरीरिणाम् ।। प्रणम्य हृदयं स्थानमपानस्य पुनर्गुदम् । समानो नाभि देशस्थमुदानः कण्ठमाश्रितः ।। पञ्चमस्तत्र विज्ञेयो व्यानः सर्वाङ्ग सन्धिषु । एतेषां जुहुयादन्नं शरीरं मन्त्रयेद् द्विजम् ।। एतैस्तृप्तैस्तु तुर्विधमाहारं शुक्लं पीतं जीर्णं समानं नयति । प्. २५७ब्) * *? करणात्ममानः स्थापनाद्वासमानः । उदानो नाम हिक्काशब्दश्छरिस्फारकास *? सोत्क्रान्ति चोदनः । ऊर्धं नामगमनाद्बोदानः? । व्यानोनामप्रसारणा कुञ्चनोल्लङ्घन प्लवनगमनशमनोर्थापन हसन गीतनृत्तवादित्राभिलाष चरित प्रवर्तको भवति । व्यापनाद्व्यायश्छनाद्वाव्यानः । प्राणो ह्यदित्य दैवत्यः । * * *? सोमदैवत्यः समानस्य तु पर्जन्य उदानो भद्र? दैवतः । व्यानं? *? विष्णु दैवत्य इत्ये *? देवताः पृथक् ।। प्राणाग्निहोत्र यत्नेन कुर्याच्चैव विधानतः । प्. २६०) सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।। अनेन विधिना यच्च भुङ्के ह्यन्नं समाहितः । तेन तृप्तेन तृप्यन्ते देवताः पितृभिः सह ।। हृदिस्था देवतास्सर्वा हृदि प्राणाः प्रतिष्ठिताः । चतुर्विंशति तत्वानि पुरुषो हृदये परः ।। नाभेरूर्ध्वमधस्थाश्च कण्ठा धस्तात् षडङ्गुलम् । हृदयं तद्विजानीयाद्विशस्या यतनं महत् ।। योग्निस्तृप्यति चाग्निस्तु एकस्तिष्ठति सप्तधा । त्रैलोक्यं व्यापितं तेन यजन्ते ब्रह्मवादिनः ।। विप्रादि श्वपचान्तानां भूतानां च हितो नलः । तस्मैता आहुतीर्दद्यात् तृप्तिर्भवति चार्धया ।। </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] bm42qpv8okh01qw10f5dztow1w4mc6w