विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.8 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/52 104 34250 417731 233763 2026-06-26T13:13:22Z Shubha 190 417731 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Soorya Hebbar" />{{rh|center=पातञ्जलयोगसूत्रभाष्यविवरणे|left=२}}</noinclude>{{gap}}तत्र प्रयोजनं तावत्-चिकित्साशास्त्रे तञ्चतुर्व्यूहत्वप्रदर्शनद्वारेण व्याख्यातम् । तद्यथा-चिकित्साशास्त्रं चतुर्व्यूहं, रोगः, रोगहेतुः, आरोग्यं, भैषज्यम् इति । विधिप्रतिषेधनियमद्वारेण [च तत्] चतुर्व्यूहविषयव्याख्यानपरम् । एवमिहापि “परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाञ्च दुःखमेव सर्वं विवेकिंन:''' इत्यारभ्य चतुर्व्यूहत्वं शास्त्रस्य प्रदर्शितम् । तद्यथा-दुःखप्रचुरः संसारो हेयः । तस्याविद्यानिमित्तो द्रष्टृदृश्यसंयोगो हेतुः । विवेकख्यातिरविप्लवा हानोपायः । विवेकख्यातौ च • सत्यामविद्यानिवृतिः, तन्निवृत्तावात्यन्तिको द्रष्टृदृश्यसंयोगोपरमो हानम् , तदेव. कैवल्यमिति । आरोग्यस्थानीयकैवल्यप्रयुक्तत्वादस्य तदेव कैवल्यं प्रयोजनम् ॥ {{gap}}ननु च हेयतद्धेतू न प्रस्तोतव्ये, निष्प्रयोजनत्वात् । हानप्रयुक्तं हि शास्त्रं, तदुपायभूता विवेकख्यातिरेव वक्तव्या । न हि कण्टकविद्धचरणतलस्य तदपनयनं मुक्त्वा दुःखतद्वेतू चोद्येते । नैतदेवं-हेयतत्कारणापेक्षत्वाद्धानोपायस्य । यावदिदमनेनोपायेन हातव्यं संसारचक्रम् अस्य चाविद्यानिमित्तो द्रष्टृदृश्यसंयोगो हेतु: इति नाख्यायते, तावन्नाविद्याप्रतिपक्षभूता विवेकख्यातिराख्यातुं शक्यते । हेयतद्धेतुमतो हानोपायार्थिनो रोगिणो भैषज्यार्थित्वदर्शनात् । न हि रोगं रोगहेतुं चानपेक्ष्य चिकित्साशास्रमुपदिश्यते । {{gap}}सम्बन्धोऽपि-विवेकख्यातेर्हानमेव फलं साध्यं हानस्यापि विवेकख्यातिरेव साधनमिति साध्यसाधनयोरितरेतरनियम एव, नान्यसंबन्धः । तद्यथा---भैषज्यस्यारोग्यमेव फलम् आरोग्यस्यापि भैषज्यमेव साधनमिति इतरेतरनियमः, स च शाखादिति । तस्मात् ससंबन्धप्रयोजनं योगानुशासनम् ! {{gap}}ननु च यदि हानं प्रयोजनं तदुपायश्च विवेकख्यातिरिति, तत्र वक्तव्यम् *अथ विवेकख्यात्यनुशासनम्* इति । किमर्थम् 'अथ योगानुशासनम्* इति सूत्रितम् ? {{gap}}तदुपायत्वाद्योगस्य । उपाय एव वक्तव्यः स्यात् । उपेयोपप्रदर्शने हि उपेयमुपायं प्रति साकाङ्क्षमेवेत्युपायः साङ्गकलापः पुनरपि वक्तव्यः स्यात् । तस्मिंश्चाभिहिते सर्वमभिहितमिति । {{rule}} १ पा २ सू १५<noinclude></noinclude> bs2imlu9z64em4zsgoq0vt3mhpl09m4 पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४८ 104 104798 417730 267828 2026-06-26T12:24:24Z Geeta g hegde 6704 417730 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३१२|मनुस्मृतिः।|[ अध्यायः ८}}</noinclude> {{Block center|{{bold|<poem>व्याधाञ्छाकुनिकान्गोपान्कैवर्तान्मूलखानकान् । व्यालग्राहानुच्छवृत्तीनन्यांश्च वनचारिणः ॥ २६० ॥</poem>}}}} {{gap}}व्याधानिति ॥ लुब्धकान् , पक्षिवधजीविनः, गोपालान् , मत्स्यजीविनो, मूलो पाटनजीविनः, सर्पग्राहिणः, शिलोज्छवृत्तीनन्यांश्च फलपुष्पेन्धनाद्यर्थ वनव्यवहारिणः पृच्छेत् । एते हि स्वप्रयोजनार्थं तेन ग्रामेण सर्वदा वनं गच्छेयु- नद्रामसीमाभिज्ञाः संभवन्ति ॥ २६० ॥ {{Block center|{{bold|<poem>ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् । तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोयोः ॥ २६१ ॥</poem>}}}} {{gap}}ते पृष्टा इति ॥ ते व्याधादयः पृष्टाः सीमारूपेषु ग्रामसंधिषु येन प्रकारेण चिह्न ब्रूयुस्तत्तेनैव प्रकारेण द्वयोर्नामयोः सीमां व्यवस्थापयेत् ॥ २६१ ॥ {{Block center|{{bold|<poem>क्षेत्रकूपतडागानामारामस्य गृहस्य च । सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ २६२ ॥</poem>}}}} {{gap}}क्षेत्रेति ॥ एकग्रामेऽपि क्षेत्रकूपतडागगृहाणां सीमासेतुविवादे समस्त देशवा- सिसाक्षिप्रमाणक एव मर्यादाचिह्ननिश्वयो विज्ञेयो न व्याधादिप्रमाणकः ॥२६२॥ {{Block center|{{bold|<poem>सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम् । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥ २६३ ॥</poem>}}}} {{gap}}सामन्ता इति ॥ सीमाचिह्ननिमित्तं विवदमानानां मनुष्याणां चदि सामन्ता देशवासिनो मिथ्या ब्रूयुस्तदा ते सर्वे प्रत्येकं राज्ञा मध्यमसाहसं दण्डनीयाः । एवं चासामन्तरूपाणां पूर्वोक्तद्विशतो दमो ज्ञेयः ॥ २६३ ॥ {{Block center|{{bold|<poem>गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाविशतो दमः ॥ २६४ ॥</poem>}}}} {{gap}}गृहमिति ॥ गृहतडागोद्यानक्षेत्राणामन्यतमं मारणं बन्धनादिभयकथनपूर्वमा- क्रम्य हरणे पञ्च पणशतानि दण्डनीयः स्यात्स्वत्वभ्रान्त्याहरतो द्विशतो दमः २६४|| {{Block center|{{bold|<poem>सीमायामविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेभूमिमेतेषामुपकारादिति स्थितिः ॥२६५ ॥</poem>}}}} {{gap}}सीमायामिति॥लिङ्गसाक्ष्याद्यभावे सीमायां परिच्छेत्तुमशक्यायां राजैव धर्मज्ञः पक्षपातरहितो ग्रामहृयमध्यवर्तिनी विवादविषयां भूमि येपामेव ग्रामवासिनामु- पकारातिशयो भवति तद्व्यतिरेकेण च महाननिर्वाहस्तेषामेव दद्यादिति शास्त्र- व्यवस्था ॥ २६५॥ {{Block center|{{bold|<poem>एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये । अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ २६६ ॥</poem>}}}}<noinclude></noinclude> ejke1ceu61kqzt94i0yv6hhxsdsxqt3 सर्वज्ञानोत्तरम् 0 165503 417732 2026-06-27T09:44:22Z Shubha 190 {{header | title = सर्वज्ञानोत्तरम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> श्रीगुरुभ्यो नमः सर्वज्ञानोत्तरम् | योगपादम् || नमः शिवायशक्त्यै च विन्दवे शाश्वत... नवीन पृष्ठं निर्मीत अस्ती 417732 wikitext text/x-wiki {{header | title = सर्वज्ञानोत्तरम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> श्रीगुरुभ्यो नमः सर्वज्ञानोत्तरम् | योगपादम् || नमः शिवायशक्त्यै च विन्दवे शाश्वताय च | गुरवे च गणेशाय कार्तिकेयाय धीमते || १ || अतः परं प्रवक्ष्यामि योगमन्त्रकितस्तुतम् | शान्तस्य * * * * * * * * * * * * * || २ || युक्ताहार विहारस्य युक्तचेष्टस्य कर्मसु | उक्त स्वप्नावबोधस्य तत्त्वतः शृणु षण्मुख || ३ || योध्यातायश्च तद्ध्यानं तद्वैर्यान्न प्रयोजनम् | सर्वाण्येतानि यो वेत्ति स योगं योक्तु मर्हति || ४ || आत्माध्याता मतोध्यानं ध्येयः सूक्ष्मो महेश्वरः | यत्परा परमैश्वर्यमेतद्ध्यान प्रयोजनम् || ५ || मानामानौ समौ कृत्वा सुखदुःखे समे तथा | हर्षं भयं विषादं च सत्यजन् योगमभ्यसेत् || ६ || शून्यागारे मठे रम्ये देवतायतने शुभे | नदीतीरे विविक्तेन्त गृहे घोरवनेपि वा || ७ || प्रच्छन्ने च विविक्ते च निश्शब्दे जनवर्जिते | योगदोष विनिमुक्ते निर्विकल्पे निरातपे || ८ || स्नात्वा शुचि रूपस्पृश्य प्रणम्य शिरसा शिवम् | योगाचार्यान्नमस्कृत्य योगं युञ्जीत * * * || ९ || पद्मकं स्वास्तिकं नापि उपस्थाप्यां जलिं तथा |? पीठार्धतर्धचन्द्रं वा कर्मतो? भद्रमेव वा || १० || प्. २) आसनं रुचिरं वद्ध्वोर्ध्वकायः समं शिरः | सर्वसंगान् परित्यज्यात्मसस्थं मनोगुह || ११ || न दन्तैः संस्पृशेद् दन्तान् सृक्विण्या च न जिह्वया | किञ्चित् कुञ्चित नेत्रस्तु शिवं सम्यक्तदोच्चरेत् || १२ || *? य स यति तत्वानि तन्मात्राद्यानि देहिनाम् | पुनर्विनंशिकश्चैवास्त्र युक्तष्षडानन || १३ || न पृथक् हृदयं तस्य न शिरो न शिखागुह | वर्मास्त्र नेत्रसहितं तस्मादेव प्रवर्तते || १४ || प्राणापानौ समौ कृत्वा सुषुम्नान्तर चारिणौ | तयोर्वृत्तिर्निरुध्यात्मा शिवं ध्यायेद् विचक्षणः || १५ || अविनाभावसंयुक्तो ज्योतीरूपं सुनिर्मलम् | सुसूक्ष्मं व्यापकं नित्यं निर्विकल्पं सदा बुधः || १६ || उत्तमा मध्यमा मन्दास्संसर्गास्त्रिविधाः स्मृताः | प्राणायामांश्च तान् कुर्यात् पूरकुम्भक रेचकान् || १७ || प्राणायामैर्दहेद्दोषान् धारणाभिदिस्तुतम् | प्राणायामो भवादेय पूरको देहपूरकः || १८ || पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः | संपूर्ण कुम्भवत् तिष्ठेत् प्राणायामस्सकुम्भकः || १९ || ततोर्ध्वं रेचयेद् वायुं मृतु निच्छ्वास संयुतम् | रेचकस्त्वेष विख्यातः प्राणसंशयकारकः || २० || प्. ३) प्रसार्यचाग्रहस्तं तु जानुं कृत्वा प्रदक्षिणम् | च्छोटिका ततो दद्यान्मनन्नैष्टा त्वभिधीयते || २१ || मात्रा द्वादश विज्ञेयाः प्रमाणं तालसंज्ञकम् | तालद्वादशकं ज्ञेयं प्राणायामस्तु आन्यसम् || २२ || मध्यमश्चतर्विंश ज्येष्ठ * * द्विगुणो भवेत् | एकैकां वर्धमात्रां प्रत्यहं योगवित्तमः || २३ || नत्वरेण विलम्बेन क्रमेणैव विवर्धयेत् | प्राणायामोत्तमोयत्त द्विगुणा धारणा मता || २४ || धारणाद्विगुणो योगो योगोपि द्विगुणी कृतः | योगसिद्धिरिति ज्ञेया शिवेन परमात्मना || २५ || तदानु पश्यते सूक्ष्मं गन्धतन्मात्रमात्मनि | रसं तेजस्परिशंति च शब्दतन्मात्रमेव च || २६ || पश्यते कर्मयोगेन वर्णभावैः पृथग्विधैः | अहंकार मनोबुद्धिं गुणमव्यक्त पौरुषम् || २७ || अभिव्यक्तानि जानीयात् स्वधर्मगुण लक्षणात् | विद्यां कलां ततः कालं मायां विद्यां ततः पराम् || २८ || दृष्ट्वानु क्रमशः सर्वान् पुनरस्त्रेण भेदयेत् | विद्येश्वरं ततस्तत्वं तथा सादाशिवं परम् || २९ || भित्वा तु क्षुरिकास्त्रेण ततः सूक्ष्मं शिवं विशेत् | अमृतात्मा शिवः साक्षात् तस्मिन्निष्टस्तु योगवित् || ३० || प्. ४) सर्वज्ञस्सर्वगस्सूक्ष्मस्सर्वेशस्सर्वकृद् भवेत् | सर्वेष्वेव स शास्त्रेषु ज्ञेयं वस्तु चतुष्टयम् || ३१ || पशुः पाशः पतिश्चैव शिवश्चेति यथाक्रमम् | ज्ञात्वा तु तत्व सद्भावं तन्त्रसारं तु दुर्लभम् || ३२ || सर्वथा वर्तमानोपि गृह्णाति न पुनस्तनुम् || ३३ || || इति योगपादः समाप्तः || पशुपाशविधानं हि श्रोतुमिच्छामि तत्वतः | संयोगं च तथा तेषां कथयस्व महेश्वर || १ || आद्याः पाशास्ततस्तेषां जीव आद्यस्तु किन्तु वै | का पाशाः कोमलाः प्रोक्ताः कस्माद्वन्धः पुमानिति || २ || पतिश्च किं विधो ज्ञेयस्साधिकार पदे स्थितः | शिवश्च कीदृशः प्रोक्तो योधिकार विवर्जितः || ३ || ईश्वरः पशुरात्मा स्वतन्त्रश्च चिन्मात्रो मनदूषितः | सममूढो नित्यसंसारी किञ्चिद् ज्ञानीश्वरो क्रितः || ४ || ताम्रस्यैव तु हेमत्वमन्तर्लूनं यथा स्थितम् | अन्तर्लूनं तथा ज्ञेयं शिवत्वं पुद्गलस्य तु || ५ || रससिद्धं यथा ताम्रं हेमत्वं प्रतिपद्यते | तथात्मा ज्ञानसम्बन्धश्शिवत्वं प्रतिपद्यते || ६ || यथा ज्ञात्वा विभागेन पयसि संस्थितम् | तथात्मा पाशसंश्लिष्ट अविभागेन संस्थितः || ७ || प्. ५) विषापहारं कुरुते * * ध्यानबलैर्यथा | कुरुते पाशविश्लेषं तथाचार्यः शिवाध्वरैः || ८ || मन्त्रौषधबलैर्यद्वत्सन्निरोधो विषस्य तु | तथा हि सर्वपाशानां सन्निरोधस्तु दीक्षया || ९ || दह्यते याम्यमानानां धातूनां तु यथामलम् | तथाचार्यो दहेत्पुंसां वायुभूतो मलावुभौ || १० || गुणभूताः स्मृताः पाशाः धर्माधर्मौ मलौ स्मृतौ | सहजौ साधकज्ञानां ताम्रकालिकवात्स्थितौ || ११ || त्रिविधास्ते स्मृताः पाशाः सहजागन्तुकास्तधा | सांसर्गिकास्तथा भूयः शृणु तेषु विनिर्णयम् || १२ || तन्मात्राद्यास्तु ये तत्वास्ससूक्ष्मास्सर्वगा गुह | ते तु पाशाः पराः प्रोक्तास्सहजास्सर्वजन्तुषु || १३ || इन्द्रियाणि च भूतानि यद्वीजं तेषु सम्भवम् | आगन्तुकाः स्मृताः ह्येते तस्मात् सांसर्गिकाः पुनः || १४ || संसर्गाद् यद् भवेत् कर्म शुभं वा यदि वा शुभम् | ते तु सांसर्गिकाः पाशाः सुखदुःखफलः प्रदा || १५ || कर्मणा तु शरीराणि भावात् कर्मोदयो भवेत् | पूर्वोपार्जित कर्माणां भावः संयोग कारकः || १६ || ईश्वरो व्यञ्जकस्तेषां भवेत् कर्मानुरूपतः | कर्मोदयाद् भवेत् सृष्टिरसास्तैः प्रलयं विदुः || १७ || प्. ६) विषयासङ्गदोषेण गुणसंगो शिखिध्वज | वन्धमाप्नोति पुरुषो ह्यकर्तो सर्वगोपि सन् || १८ || पिता पुत्रापराधेन यथैकस्थो निबध्यते | अकर्तापीह पुरुषस्तथा बन्धमवाप्नुयात् || १९ || यथैव साधुसंयोगात् उदासीनोपि मानवः | तथाबन्धमवाप्नोति तथा ज्ञेयस्तु पुद्गलः || २० || अनादि निधनाः पाशा जीवो नाद्यस्तु कीर्तितः | तच्छेदकस्तथानादिः पशुपाशपतिस्तुसः || २१ || पतिस्सदा शिवो ज्ञेयो मन्त्रात्मा मन्त्रविग्रहः | सर्वमन्त्राधिपश्चासौ सृष्टिसंहारकारकः || २२ || पदवर्णादिभिर्युक्तैः पूज्यते सर्वदा तु सः | अशेष भवनाधारो योगपीठासनस्थितः || २३ || पतिरेवं समाख्यातस्सर्वकामफलप्रदः | स्थूलसूक्ष्मोपि मिश्रश्चैवं रूपं तु संस्कृतः || २४ || शिववस्तु परं तस्मान्मन्त्रातीतो निरञ्जनः | निरामयो निराधारो वर्णरूप विवर्जितः || २५ || सर्वज्ञः सर्वगश्शान्तः सर्वात्मा सर्वतो मुखः | अतीन्द्रियो निरालम्बः सुसूक्ष्मः शाश्वतो ध्रुवः || २६ || स एव भगवान् व्यापिन् अप्रमेयो ह्यनौपमः | बहिरन्तर्विभागेन तिलेतैलमिव स्थितः || २७ || प्. ७) स्वात्मसाक्षात्कारप्रकरणम् || अथान्यं संप्रवक्ष्यामि उपायं तत्वतो गुह | अग्राह्यस्यापि सूक्ष्मस्य सर्वगस्य तु निष्कलम् || १ || येन विज्ञायते सम्यक् यं ज्ञात्वा शिवो भवेत् | न कस्य विजायाख्यातं तद्विज्ञानं शृणुष्व मे || २ || गुरुपारम्परायातमदृष्टं सर्वादिभिः | भवबन्धविमोक्षार्थं परमं सर्वतोमुखम् || ३ || यो सौ सर्वगतो देवो सर्वात्मा सर्वतोमुखः | सर्वतत्वमयो चिन्त्यस्सर्वस्योपरि संस्थितः || ४ || सर्वतत्वव्यतीतश्च वाङ्मनो नामवर्जितः | सोहमेवमुपासीत निर्विकल्पेन चेतसा || ५ || यदेव निष्कलं ज्ञानं शाश्वतं ध्रुवमव्ययम् | निर्विकल्पमनोद् देश्यं हेतु दृष्टान्तवर्जितम् || ६ || अलिङ्गमक्षरं शान्तं विषयातीतगोचरम् | अविभाष्यमसन्देहं तदहं नात्रसंशयः || ७ || अहमेव परो देवः सर्वमन्त्रमयः शिवः | सर्वमन्त्रव्यतीतश्च सृष्टिसंहारवर्जितः || ८ || मया व्याप्तमिदं सर्वं दृश्या दृश्यं चराचरम् | अहमेव जगन्नाथो मत्तः सर्वं प्रकाशते || ९ || अनेकाकारसंभिन्नं विश्वं भुवनसञ्चयम् | शिवाद्यवनि पर्यन्तं तत्सर्वं मयि संस्थितम् || १० || प्. ८) यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा | बहिरन्तर्विभागेन तत्सर्वं व्यापितं मया || ११ || अहमात्मा शिवो ह्यन्यः परमात्मेति यः स्मृतः | एवमुपासयेन्मोहान्न शिवत्वमवाप्नुयात् || १२ || शिवोऽन्यस्त्वहमेवान्यः पृथग्भावं विवर्जयेत् | यः शिवः सोहमेवेति अद्वैतं भावयेत् सदा || १३ || अद्वैतभावनायुक्तः सर्वत्रात्मनि संस्थितः | सर्वगं सर्वदेहस्थं पश्यते नात्रसंशयः || १४ || एवमेकात्मभावेन संस्थितस्य तु योगिनः | सर्वज्ञत्वं प्रवर्तेत विकल्परहितस्य च || १५ || योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः | अकायो निर्गुणो ह्यात्मा सोऽहमस्मिन्न संशयः || १६ || अविज्ञातः पशुः सो हि सृष्टिधर्म समाश्रितः | विज्ञातशाश्वतश्शुद्धस्स शिवो नात्र संशयः || १७ || तस्मादात्मा सदावेद्यः सुविचार्यः विचक्षणैः | परापरविभागेन स्थूल सूक्ष्मविभागशः || १८ || परः परमनिर्वाण अपसृष्टिभेदतः | स्थूलो मन्त्रमयः प्रोक्तः सूक्ष्मो ध्यानैक संस्थितः || १९ || अथवा बहुशोनेन किमुक्तेन षडानन | वाग्विकल्प विशेषेण मनः संमोहकारिणी || २० || प्. ९) सर्वेधर्मानस्सन्ति यमेव परिकल्पयेत् | तत्तद्भवत्यसंदेहात् सदा तद्भाव भावतः || २१ || इत्येवमात्मविज्ञानं कथितं तु समासतः | ज्ञात्वैवात्ममयं सर्वमात्मानं पर्युपासते || २२ || न तत्र देवा वेदा वा यज्ञा वा बहुदक्षिणाः | आत्मविज्ञानमाश्रित्य विमलं सर्वतो मुखम् || २३ || संसारार्णवमग्नानां भूतानां शरणार्थिनाम् | नान्यः शरणदः कश्चिदात्मज्ञानादृतेः क्वचित् || २४ || आत्मानं परमो भूत्वा यो विजानाति तत्वतः | स मुच्यते त्वयत्नेन सर्वावस्थां गतोपि सन् || २५ || आत्मलाभात्परोलाभः क्वचिदन्यो न विद्यते | तथात्मानमुपासीत योयमात्मापरस्तु सः || २६ || न प्राण्यो नैव चापानो विशिष्टकरणस्तथा | सर्वज्ञं तु तमात्मानं परिपूर्णं सदा स्मरेत् || २७ || न चैवाभ्यन्तरे बाह्ये नाति दूरे समीपतः | स निष्कले परे स्थाने तत्र चित्तं निवेशयेत् || २८ || तिर्यगूर्ध्वमधंश्चैव बहिरन्तश्च नित्यशः | सर्वशून्यं तमाभास समात्मानं भावयेत्थ || २९ || नैव शून्यं च चाशून्यमशून्यं शून्यमेव च | पक्षपात विनिर्मुक्तमात्मानं पर्युपासयेत् || ३० || निरामय निराधारं वर्णरूप विवर्जितम् | प्. १०) निरञ्जनं गुणातीतमात्मानं पर्युपासयेत् || ३१ || निरामय निरालम्बमप्रमेय मनोपमम् | स्वभावविमलं नित्यमात्मानं पर्युपासयेत् || ३२ || सन्यस्य सर्वकर्माणि निःस्पृहः सङ्गवर्जितः | भावयेदात्मनात्मानं मात्मन्येवात्मनि स्थितम् || ३३ || स देश जाति संबन्धान् वर्णाश्रम समन्वितान् | भावानेतान् परित्यज्य स्वरूपं भावयेद् बुधः || ३४ || मन्त्रोऽयं देवता ह्येषा इदं ध्यानमिदं तपः | सर्वभावान् परित्यज्यात्माभावं तु भावयेत् || ३५ || अभावे भावमाश्रित्य भावं कुर्यान्निराश्रयम् | आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || ३६ || नैव चिन्त्यं न चाचिन्त्यमचित्तं चित्तमेव च | पक्षपात विनिर्मुक्तमात्मानं पर्युपासयेत् || ३७ || अचिन्त्यं चिन्तयेन् नित्यं कृत्वा चित्तं निराश्रयम् | निस्तत्वे निष्कली भूते विन्दत्यात्मनि यत्सुखम् || ३८ || निर्विकल्पमचिन्त्यं च हेतु दृष्टान्त वर्जितम् | तत्सुखं परमं प्रोक्तमात्यन्तिकमनौपमम् || ३९ || निरस्य विषयासङ्गं मनोवृत्तिं विवर्जयेत् | यदा यात्युन्मनी भावं तदा तत्परमं सुखम् || ४० || सर्वदिग्देशकालेषु योगाभ्यासोप्यधीयते | सर्ववर्णाश्रमाणां च ज्ञानभेदो न विद्यते || ४१ || प्. ११) गवामनेकवर्णानां क्षीरस्याप्येक वर्णताः | क्षीरवत् पश्यते ज्ञानमङ्गिनस्तु गवांसमाः || ४२ || यस्मात् सर्वगतं ब्रह्म व्यापकं सर्वतो मुखम् | तस्माद्ब्रह्मणि संस्थाने दिग्देशान्न विचारयेत् || ४३ || नैव तस्य कृतोर्थेन कार्य न विधिस्मृतः | न लिङ्गं नाश्रमाचारः परमात्मनि संस्थितः || ४४ || गच्छन् तिष्ठन् स्वपन् जाग्रन् भुञ्जानोपि पिवन्नपि | सर्वदा सर्वकालेषु वातशीतातपेषु च || ४५ || भयदारिद्र्यरोगेषु मन्द्यविज्वरकादिषु | आत्मन्येष स्थितः शान्तः आत्मतृप्तस्तु निष्कलः || ४६ || ना गतोऽहं गतो वापि ना गमिष्ये न गच्छता | न भूतो न भविष्यामि प्रकृत्य स्थिर धर्मणि || ४७ || प्रकृतानि तु कर्माणि प्रकृतिः कर्मसंभवा | नाहं किञ्चित् करोमीति युक्तमन्येत तत्ववित् || ४८ || नैवः प्रकृतिबन्धोस्ति मुक्ति इत्यभिधीयते | न चैव प्राकृतैर्दोषैर्लिप्ये * * कदाचन || ४९ || निर्दश्य तमोरूप दीपो यद्वत् प्रकाशते | आभात्येवं परोह्यात्मात्स्यैक्वैवा(?) ज्ञानजंतपः || ५० || स्नेहक्षमाद्यमादीपो वलान्निर्वाणमिच्छति | तथात्मा भावनायुक्त स्वात्मन्ये वा वलिष्ठते || ५१ || प्. १२) घट संवृतमाकाशं नीयमाने यथा घटे | घटो नियतिनाकाशमाकाशत्वं प्रपद्यते || ५२ || विभिन्ने प्राकृते देहे तथात्मापरमात्मनि | इत्येवमधिकारेण सर्वज्ञेनाधिकारिणा || ५३ || सर्वबन्धाद्विनिर्मुक्तस्सर्वज्ञः सर्वगो भवेत् || ५४ || तदा गमान् परिहृत्य सर्वान् शुद्धं गृहीत्वात्मसमाधियोगम् | अस्मात्परं नान्यदिहास्ति किञ्चिद् ज्ञात्वैव संत्यज्य मनोविकल्पम् || ५५ || विज्ञानमेवं समुपास्य विद्वान् विशत्यकायं सततं नियुक्तः | सर्वत्रगामी भरतीह मुक्तस्तद्धर्मधर्मी बहिरन्तसंस्थः || ५६ || सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः | अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहस्स शिवत्वमेति || ५७ || न जपो नार्चनं स्नानं न होमो नैव साधनम् | धर्माधर्मफलं नास्ति न पिण्डो नोदक क्रिया || ५८ || नियमानि न तस्यास्ति नोपवासो विधीयते | प्रवृत्तिं न निवृत्तिश्च ब्रह्मचर्यव्रतानि च || ५९ || अग्निः प्रवेशनं नास्ति पतनं भृगुनोदके | शिवज्ञानामृतं पीत्वा विचरस्व यथासुखम् || ६० || शिववच्छाश्वतः शुद्धः सृष्टिधर्म विवर्जितः | सत्यं सत्यं पुनः सत्यं त्रिसत्यं समयः कृतः || ६१ || अतः परतरं नास्ति विज्ञेयं कुत्र चिद्गुह | प्. १३) विमलयति सर्वभावान् विमलात्मा विमलबुद्धिरतशुधीः || ६२ || सर्वं विमलं पश्यति विमलो विमलेन भावेन | जाग्रजाग्रजाग्रस्वप्नं तथा जाग्रसुषुप्तिकम् || ६३ || जाग्रतुर्यं कालपरमतीतं परदर्शनम् | विश्वाग्रस्वोपशान्तश्च शिवदर्शनमेव च || ६४ || सायुज्यमिति भेदेन चोर्ध्वमेकादश स्मृतः || ६५ || विमतीकरणम् परंभूयः प्रवक्ष्यामि विमतीकरणोत्तमम् | यथात्मा जीवसंज्ञितः * * * * * * * * || १ || मन्त्रात्मा परमाख्याश्च तस्मात् परतरं न हि | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || २ || संयोगः सर्वभूतानां भूतात्मा संप्रकीर्तितः | पुरुषाधिष्ठितैर्वीजैस्तन्मात्रैर्वीजसंयुतैः || ३ || संभवन्ति महाभूता मलया तु समन्विताः | सर्वेन्द्रिय समायुक्तं शरीरमिति चोच्यते || ४ || विनाशोत्पत्तिरेवास्य तच्चाहारमयं विदुः | आहारस्य परीणामाद्रसोत्पत्तिर्भविष्यति || रसाच्छोणितम् | शोणितान्मांसं मांसान्मेदो मेदस्वेऽस्थीनि अस्थिभ्यो मज्जामज्जातश्शुक्लंशुक्लशोणितसंयोगे वायुसंयोगाद्गर्भः संभूयते | यथाग्नीषोपीतं? शोभि? प्. १४) तत्र शरीर मध्ये नाभिः | नाभिस्थाने मलः | मलस्थाने यथा तिष्ठति वातपित्तश्लेष्माण इति त्रयो मलसंग्रहात् | ऋतुकाल संयोगात् पुंसोरेत आधिक्यादथ पुरुषो भवति | मातृरक्ताधिक्यात् स्त्री प्रजायते | उभयोस्साम्येनपुंसकम् | अथ काकञ्जकुब्जवामना जायते | परस्परा कुलत्वादन्योन्य वायुपीडिता तं स्त्रीपुंसां संयोगवैषम्याच्छुक्लं तद्विधं भवति | तेन युग्मं प्रजायते | एकरात्रोषितं कललं पञ्चरात्रेण बुद्वुदम् | सप्तरात्रेण मांसपेशी संभवति | द्विसप्तरात्रेण मांसपिण्डाकृतिर्भवति | मासादभ्यन्तरे बाहुरंसो जायते | मासद्वयेन हस्तपादाङ्गुष्ठादयो जायन्ते | त्रिभिर्मासैर्जरायु स्नायुत्वक् चर्मा भवन्ति | चतुर्भिर्मासैर्वंशपृष्ठे उरं कटिश्च भवति | पञ्चभिर्मासैश्शिरो ललाट कर्णनासा भवन्ति | षड्भिर्मासैः च्छिद्राणि भवन्ति | सप्तभिर्मासैश्शरीरस्य व्यक्तिर्भवति | अष्टभिर्मासैः पूर्णाकृतिर्भवति | नवभिर्मासैस्समायुक्त चेतनो भवति | पूर्वजातिं स्मरति | सोऽहमित्यहं चिन्तयति | चेष्टयति | घटात्घट इवाम्बुनोपलभ्यते | सूक्ष्मत्वादाकाशनीलो यथा | तस्मात् पञ्चात्मक समायुक्तं चेतनं | बुद्धिरहंकारो मनः प्रकृतिश्च प्रकृतेः पुरुश्च मनसा संकल्पं करोति | ह्य एव मनसायुक्त इन्द्रियैः सह युज्यते | इन्द्रियज्जी? ततोर्थेषु नित्यमेव प्रवर्तते || प्. १५) इत्येवं प्रकृति स्वभावं शरीरं प्रत्ययैश्चेष्टितव्यम् | असत्वात् सत्वरजस्तम इति पुरुषस्य स्वभावभेदं कुर्वन्ति || १८ || सत्वप्रकाशकं भावं रजो राजात्मकं गुह || १९ || तमो मोहात्मकं भावमुत्पादयति देहिनाम् | सत्वात्संजायते ज्ञानं रजसो लोपमेव च || २० || तमसो सत्यमज्ञानं प्रमादालस्यमेव च | सत्यात्सत्यं दया धैर्यं विनयस्थैर्यमेव च || २१ || रजसः क्रोधसंभावो निर्दयत्वं च जायते | ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः || २२ || जघन्यगुणप्रत्तिस्था अतो गच्छन्ति तामसाः | रजस्तमश्चाभि भूयसत्वं वर्धति षण्मुख || २३ || रजस्सत्वं तमश्चैव तमस्सत्वं रजस्तथा | यमेव स्वेते पुरुषो अतिसंगात्सदा गुणम् || २४ || सोस्याप्याधिको भूत्वा स्वधर्मे विनियोजयेत् | एवमेक कपालस्य षोडश पार्श्वपटलानि भवन्ति || २५ || त्रीण्यस्ति शतानि नवस्नायु शतानि नवद्वाराणि | मज्जापंचप्रस्तामेदः प्रस्थद्वयं त्रिस्तोर्ध्वं रोमकोट्यः || २६ || एकादशोत्तरर्मशित द्रवस्य पलानि अष्टौ सन्धिरस्या एकद्वयम् द्वादश पलार्मित(?) जिह्वा | वृक्षणं सार्धपलपञ्चकम् | शुक्लस्य कुडलत्रयम् | पित्तस्यादकम् | सप्तसिवाशतानि च | प्. १६) अनियत मूत्रपुरीष माहारस्यानित भावाद्विज्ञेयम् | एवं विधोयं भूतात्मा पुरुष इति चोच्यते | योत्तरे वर्तते शब्दस्तस्य वाचा प्रवर्तकः || २९ || प्राणापान समायोगात् सोन्तरात्मा प्रकीर्तितः | तस्माच्च सर्वशास्त्राणि संस्कृत प्राकृतानि च || ३० || देशभाषादिभिर्नित्यं विधिवत्संप्रवर्तते | पश्वश्च मृगाश्चैव पक्षिणश्च सरीसृपाः || ३१ || यावन्तः केचनस्सत्वा उच्चरन्ति सदा दुतम् | सूक्ष्मा वै पञ्चतन्मात्रा मनोऽहंकार एव च || ३२ || बुद्धिरष्टगुणा ज्ञेया गुणाव्यक्तं च पौरुषम् | कलाकालस्तथा माया विद्याविद्येश्वरं च यत् || ३३ || सदाशिवं तथा तत्वं वेदं वंशान्तमेव च | एतेषां चैव संयोगात् तत्वात्मा पुरुषः स्मृतः || ३४ || ततम्मेतैर्जगत्कृत्स्नं पाशाश्चेते मलात्मकः || सुसूक्ष्माः सर्वगानित्यस्सहजा सर्व ऋतुषु || ३५ || प्रकृतिश्चैव बोद्धव्या प्रक्रिया च निगद्यते | न परं प्रक्रिया ज्ञानात् न शिलाद्व्यापकं परम् || ३६ || न योगात्परतरः सिद्धिर्नशमात् परमं सुखम् | उदयो यक्ष्य तत्वस्य देहे भवति षण्मुख || ३७ || तदशात्मकं सदादेही विकार मनुवर्तते | प्. १७) यस्मिंश्चरति भूतात्मा तत्तत्वं वृषसर्पते || ३८ || आभूय सर्वतत्वानि स च तन्मयतां व्रजेत् | मुहुर्मुहु सा देही सर्वतत्वैरनुक्रमात् || ३९ || सञ्चरन्त्यविभत्त्या तु व्यापकत्वं च सर्वदा | तच्च तस्य सदा स्कन्द तत्वभावैः पृथग्विधैः || ४० || लक्ष्यते व्यापकस्यापि उदयास्तमनस्थितिम् | तथा तत्वाधिपान् भावान् प्रगृह्णाति षडानन || ४१ || सर्वधर्म मयो ह्यात्मा यथा कामं प्रकल्पयेत् | यस्मिं स्थिते रतिं याति तमेव परिसेवते || ४२ || तस्मिंस्तत्वे स्थितिं विद्यात् तत्तत्कर्म समाचरेत् || ४३ || तस्मादेवं विदित्वा तु शिवतत्वे निरामये | निर्विकारे निराधारे रतिं कुर्याद् विचक्षणः || न पुनर्मोह मायाति तस्मिंश्चैव षडानन || ४४ || स्थित्वास्मिन्नन्त कालेपि वरं निर्माणमाप्नुयात् | देही सर्वगतः सूक्ष्मः पुराणः शाश्वतो ध्रुवः || ४५ || व्यापकस्सर्व तत्वानां मजोवक्तः सनातनः | अस्वतन्त्रो निबद्धश्च चिन्मात्रो मलदूषितेः || ४६ || संमूढो नित्यसंसारी किञ्चिज्ज्ञो निश्चलो क्रियः | पशुधर्मोस्य संज्ञेयः शिवधर्मस्तनोऽन्यथा || ४७ || पशुधर्मोदयः पुंसो ह्यनेकाकार रूप धृक् | प्. १८) आत्मा जन्तुः पुमान् देही पुरुषः पुद्गली तथा || ४८ || जीवः कपाली क्षेत्रज्ञः पर्गाया एव मादयः | सर्वे धर्मात्मनः सन्ति संयुक्तः सर्वकर्मभिः || ४९ || सर्वान् देहान वाप्नोति याति सर्वासु योनिषु | यावन्नोत्पद्यते ज्ञानं तावद्भमति कर्मणा || ५० || अज्ञाना वृतदेहस्तु दुःखशोक परिप्लुतः | ज्ञानी लब्ध्वा परं शान्तं मचिरेणाधि गच्छति || ५१ || तदास्तु सर्वदुःखानां हानिरस्योपजायते || इति भूतात्मादिप्रकरणं समासम् || अतः परं प्रवक्ष्यामि पुरुषं मन्त्रविग्रहम् | सर्वशोकहरंदीप्तं सर्वपापहरंपरम् || १ || सर्वदेवासुरयक्षाणां किन्नरासुररक्षसाम् | पितृमातृगणानाञ्च सिद्धविद्याधरादिषु || २ || नागगन्धर्वतिर्यक्क्ष पिशाचां च मानुषाम् | शिवादि सर्वतत्वानां मन्त्राविद्यन्ति शाश्वताः || ३ || नास्ति मन्त्रैर्विना किञ्चित् सर्वस्थावरजंगमम् | यावन्तः केचनस्सत्वा मन्त्राधिष्ठित विग्रहाः || ४ || यस्य यस्य हि तत्वस्यादिमं तु यदक्षरम् | षष्ठं त्रयोदशान्तं च तस्मिन् तस्मिन् नियोजयेत् || ५ || तं तु मन्त्रं विजानीया सर्वतत्वात्मकंवरम् | बिन्दुनालंकृतं मूर्ध्न सर्वकामफलप्रदम् || ६ || प्. १९) तेषामङ्गानि युञ्जीत न ब्रह्मास्तेषु कीर्तितः | दीर्घभिन्ना स्मृता ह्यङ्गा नेत्रानुस्वारसंयुतः || ७ || स विसर्गस्मृतो ह्यस्त्रस्सोनुस्वारविवर्जितः | इति तेषां तु बीजानां मूर्ध्नि बिन्दुं प्रदापयेत् || ८ || ओंकार दीपितां मन्त्रां नमस्कारान्तयोजिताः | अर्चने च प्रयोक्तव्या होमे स्वाहान्त योजिताः || ९ || आवाहनास्य पात्रेषु स्थापनाचमनेषु च | स्नपने मन्त्रविन्यासे धारणाध्यानकर्मसु || १० || पूजाबलिविधानेषु जपहोम क्रियासु च | शिवस्य यो विधिः प्रोक्तः सर्वकर्मक्रमेषु च || ११ || सर्वेषांमेव तत्वानां तं विधिं परिकल्पयेत् | अनुक्तं यद् भवेत् किञ्चित् तत्सर्वं हृदयेन तु || १२ || एवं विधिं विधानज्ञो बुध्या कर्मसमारभेत् | परमीकरणं प्रोक्तं सर्वतत्वेषु मन्त्रवित् || १३ || यो यथैव भवेन् मन्त्रो वाच्यवाचकभेदतः | स्थूल सूक्ष्म परस्सोहि मन्त्रात्म पुरुषः स्मृतः || १४ || स्थूलस्तु वाचकं सिद्धं सूक्ष्मे योगं च गच्छति | परः परम निर्वाणं यं प्राप्य न निर्वर्तते || १५ || यथा प्रदीपः प्रतिबुध्यमानो भवत्यनेकः पुनरेक एव | तथाहि मन्त्रः परिकल्प्यमानो भवत्यनेकः पुनरेक एव || १६ || प्. २०) यथाम्भसोनेकविधस्य लोके जात्यन्तरं ह्येकमनेकरूपम् | तथैव मन्त्रस्य च वेदितव्यं जात्यन्तरं ह्येकमेनक रूपम् || १७ || यमेव साधयेन्मन्त्रं ममात्मानं प्रकल्पयेत् | तदात्मक स्मृता ह्यङ्गा बहिराहित द्विभागहाः || १८ || यस्य यादृग्विधं रूपं वृतं तस्यैव तादृशम् | तादृशोप्युपचारस्तु मन्त्रदेवानुरूपतः || १९ || शास्त्रोपदिष्टमार्गेण यथारूपं प्रकल्पयेत् | तथा रूपो भवेन्मन्त्रस्ततः कर्मप्रसाधयेत् || २० || श्रोतुर्भाव विभेदास्तु वर्णरूपं पृथग्विधम् | सर्वोपाश्रय सम्पन्नं स्फटिको कोपलवद्यथा || २१ || इति मात्रात्मकः पुरुषः प्रोक्तस्सर्वार्थसाधकः | सर्वज्ञः सर्वगश्चैव सर्वरूप मयो हि सः || २२ || परात्परतरं वक्ष्ये मन्त्रातीतं निरंजनम् | निरामयं निराधारं वर्णरूप विवर्जितम् || २३ || सर्वज्ञः सर्वगः शान्तस्सर्वात्मा सर्वतो मुखः | अतीन्द्रियो निरालम्बः सुसूक्ष्मः शाश्वतो व्यथः || २४ || सुनिष्कलो निशालम्बो नाख्येयो व्यापको ध्रुवः | निरौपौम्यौ प्रमेयश्च परात्मा प्रकीर्तितः || २५ || यादृशेन तु भावेन पुरुषोपास्यते यदा | एकधा बहुधा चैव तथैव प्रतिपद्यते || २६ || प्. २१) यमेव चिन्तयेद् रूपं सर्वमात्मनि विद्यते | सर्वकामप्रदो ह्यात्मा प्रोक्तष्षड्भेद विस्तरः || २७ || भूतात्मा ह्यन्तरात्मा च तत्वात्मा जीवसंज्ञितः | मन्त्रात्मा परमाख्याश्च एकोपि बहुधा स्थितः || २८ || भूतात्मा भूतसंयोगात् तत्वात्मा तत्वसंस्थितः | मन्त्रात्मा मन्त्रं यो ज्ञेयो ह्यन्तरात्मागिरान्वितः || २९ || भोक्ता तु सुखदुःखाना प्रकृतिस्थो गुणान्वितः | जित्वा स्वभुवनं तेषामेभिर्मुक्तः परस्तुः || ३० || सर्वरूपं यथैश्वर्यं नित्ययुक्तो ह्यवाप्नुयात् | प्राप्तोपि स द्विधा भावि पुनर्भावमवाप्नुयात् || ३१ || प्राग्यत्येन परीक्षेण क्षीयात्पापस्य कर्मणः | तत्वविश्लेष काले चाद्वैतं प्रतिपद्यते || ३२ || एक एव परो ह्यात्मा चित्तभेदात्त्वनेकधा | एकस्य बहुनामानि पृथग्भूतान्य कोटिभिः || ३३ || अनामकस्व कीयंते भ्रान्ति ज्ञानविमोहितैः | यथाभिव्यज्यते ज्ञानं विमलं सर्वतोमुखम् || ३४ || तदात्मीयं परं धर्मविंदते शाश्वतं ध्रुवम् | अहमेव परोह्यात्मा पुरुषः कारणः स्मृतः || ३५ || अहमेव परंब्रह्म अहं ज्ञेय मतपरम् | सर्वे विनाशकाभावां मन एव पृथग्विधाः || ३६ || प्. २२) भावाभावविनिर्मुक्त अहमेव शिवोऽव्ययः | योगसंन्यस्त कर्मायो ज्ञानसंभिन्न संशयः || ३७ || निर्विकल्पस्तदा नित्यमात्मानं पर्युपासयेत् | निरस्य वासनास्सर्वा आत्मतृप्तो निरामयः || अद्वैतभावनायुक्तस्सदात्मा समुपासयेत् | अपाकृतेन नित्येन निर्मलेनाविकारिणा || व्यापकेनाति सूक्ष्मेण परेण योगचक्षुषा | विशुद्धं शाश्वतं नित्यं प्रमेयं नौपमम् || निर्विकल्पमचिन्त्यं च हेतुं दृष्टान्तवर्जितम् | दुत्रप्तं निर्गुणं शान्तं तत्वातीतं निरञ्जनम् || अविभाव्यमसन्देहं पश्यमीशानमात्म * | सर्वगं सर्वदेहस्थं व्यापकं सर्वतोमुखम् | निरामयं निराधारमात्मानं पश्यते शिवम् | विभिन्नं प्रक्रिया मार्गं मन्त्र तन्त्र परावरम् | मूर्तामूर्तं जगत्कृत्स्नं पश्यतात्मन्युपस्थितम् || सर्वज्ञः सर्वदर्शी च परिपूर्णः सुनिर्मलः | विमुक्तः केवलीभूतस्सुखमक्षयमाप्नुयात् || इति सर्वज्ञानोत्तरे ज्ञानपादः समाप्तः || वृक्षाणां सारभूतं पुष्पं पुष्पं समुद्राणां क्षीरसागरम् | तथा च सर्वशास्त्राणां सारभूतं शिवागमम् || प्. २३) पदार्थानेक सम्पूर्ण सर्ववाङ्मय साधनम् ||१ || अल्पग्रन्थमहार्थं च तच्छ्रुणुष्व यथाक्रमम् | योऽसावतीन्द्रियो ग्राह्यस्तत्वातीतो निरंजनः || २ || सर्वज्ञः सर्वगश्शान्तस्सर्वात्मा सर्वतो मुखः | तस्माच्छास्त्रं विनिष्क्रान्तं नादरूपं निरामयम् || ३ || अत्यन्तगगनं सूक्ष्मं परमं सार्वकामिकम् | प्रविश्य वैन्दवं तत्वं बोधयित्वा च तंविलं || पुनः सदा शिवात्प्राप्तं ममेदं सूक्ष्मलक्षणम् | ततः स्वराश्च वर्णाश्च हंसवर्ण समुद्भवा || पुनर्मन्त्राश्च शास्त्राणि छन्दो लक्षणसंयुता | वभूव परमोनादो नादाच्छब्दः प्रजायते || शब्दमात्रा स्मृता मन्त्रा मन्त्रे मन्त्राधिदेवताः | सर्वान् कामान् प्रयच्छन्ति विधिना राधिता यदा || स्वरवर्णसमायोगात् दृश्यादृश्यं चराचरम् | तस्मादिपासयेद्वर्णान् स्वरसंयोगपूर्वकम् || इति श्रीसर्वज्ञानोत्तरे मन्त्रतन्त्रोत्पत्तिप्रकरणम् || वर्णयागविधानं तु स्वरं संयोग पूर्वकम् | परमीकरणं चैव ब्रूहि तत्वेन शङ्कर || १ || शृणुष्वैकमना भूत्वा वर्णयागविधिक्रमम् | ककारादि क्षकारान्तं स्वरसंयोगपूर्वकम् || २ || प्. २४) एकैकमक्षरं भिन्नं स्वरै द्वादशभिस्तथा | ह्रस्वै ब्रह्मसमाख्याता दीर्घैरङ्गानि निर्दिशेत् || ३ || सानुस्वारसमायोगात् त्रयोनेत्राः प्रकीर्तिताः | स विसर्गा स्मृता ह्यस्त्रा अनुस्वारविवर्जिताः || ४ || हृद्वीजा अपञ्चमे बीजो षष्ठं बीजं नियोजयेत् | मात्रात्रयसमायुक्तं मूर्ध्नि बिन्दु प्र * पयेत् || ५ || शिवमेवं विधिं विद्यात् सर्ववर्णेष्वनुक्रमात् | ह्रस्वदीर्घप्लुतानन्तान्य या कामं प्रकल्पयेत् || ६ || ह्रस्वस्याद्यंत युत्तेन फट्कारेण तु मारयेत् | यधि क्रोधेनसंयुक्तो जपेत् संरक्तलोचनः || ७ || ह्रिंकारान्तसंयुक्ता दीर्घस्त्रिच्चाटयेद्ध्रुवम् | महांस्तु साधको भूत्वा साध्यनूनं प्रकल्पयेत् || ८ || निर्गुत्योदितमार्गेण प्रविशेत् तस्य तेन च | तत्रस्य एवाद्वयो भूत्वा तेनेव कर्षयेत् पुनः || ९ || अङ्गान्यङ्गेषु बन्धाय चिन्त चेतसि निक्षिपेत् | पद्मकोशस्थितं तं तु संहरेद्धृदयेन तु || १० || यदेव कुरुते कर्म न देवोपवदं स्मृतम् | जपेत् तद् भावना युक्तो नामं मन्त्रपि दर्हितम् || ११ || बिन्दुयुक्ताः स्मृता मन्त्रा प्रणवादि नियोजिताः | नमस्कारान्तसंयुक्तानार्चने संप्रयोजयेत् || १२ || प्. २५) होमे स्वाहान्तसंयुक्ता शान्तिकाकर्ष पौष्टिके | वश्ये च संप्रयोक्तव्या स्वाहाकारान्तसंयुताम् || १३ || किं वा मन्त्रविधानेनाति विस्तारवेनते | सर्वसाधारणं वत्स शृणु संक्षेपविस्तरम् || १४ || यो विधिर्मन्त्रराजस्य प्रोच्यमानो भविष्यते | तमेव सर्वमात्राणां सततं परिकल्पयेत् || १५ || तथैव सर्वदेवानां यजने संप्रयोजयेत् | इति श्रीसर्वज्ञानोत्तरे क्रियापादे स्थूलवर्णमन्त्रोद्धारप्रकरणम् || मन्त्रोद्धारं प्रवक्ष्यामि तत्वतः शृणु षण्मुख | अतिगुह्यं परं सूक्ष्मं सर्वमन्त्रमयस्य तु || १ || मात्रकादौ स्थिता स्थिता या तु सर्पवद्वध कुण्डला | सा शक्तिः परमासूक्ष्मा विश्वास ददात्मिका || २ || पसरत्यूर्ध्वसंनाना प्रेरितानांतविग्रहा | करिणीय करं यद्वत् संवेष्योरसि संस्थिता || ३ || सुदीर्घा क्रियते यातु संतानेन महौजसा | संप्रदायेन सातूर्णमात्मानं मुञ्चते शुभा || ४ || प्रगुक्ता भवतीया तु करणीय करंयया | प्रकाशयति चात्मानं मोक्षद्वारं परापरम् || ५ || तत्वङ्ग्या सह गन्तव्यं मध्यदेशं विपश्चिता | मध्यदेशमनुप्राप्य त्यजेत् तां चञ्चलां स्त्रियम् || ६ || मूलमत्रां विदित्वा तु शक्तेर्मध्यं सुदुर्जयम् | प्. २६) तन्मूलं जायते येन भोधकस्सोभिधीयते || ७ || संभूतिः सर्वबीजानामुच्चारवशवर्तिनी | दीर्घोसु नाशिको नादो ह्यप्रमेयो ह्यनौपमः || ८ || स्निग्धप्रसन्नगभीरशक्त्युच्चारस्तु संस्मृतः | प्रासादष्षष्ठसंयुक्तः पुनः षष्ठान्त योजितः || ९ || अर्धेन्दुबिन्दुसंयुक्तो मात्रात्रयविभूषितः | स शिवः शाश्वतः प्रोक्तः सर्वज्ञानोत्तरोत्तरः || १० || अष्ठौ संविद्य मन्त्रज्ञैः तस्योच्चारः प्रकीर्तितः | ह्रस्वस्वरसमायोगा पञ्चब्रह्माणि निर्दिशेत् || ११ || दीर्घैः भिन्न स्मृतो ह्यंगः कारणात्मा महाद्युतिः | मूर्ध्नि बिन्दु सुषुम्नास्यां गायत्रीं तां विनिर्दिशेत् || १२ || स्वरादौ त्रीणि दिर्घाणि त्रितत्वं परिकीर्तितम् | नेत्रत्रयं तु तज्ज्ञेयं क्रमशः संप्रयोजयेत् || १३ || दक्षिणे ह्यात्मतत्वं तु विद्या तत्वमयोत्तरे | ललाटे शिवतत्वं तु त्रीणि पञ्चसु विन्यसेत् || १४ || मुखेषु नेत्रवित्प्राज्ञो नेत्रं नेत्र क्रमेण तु | विन्यसेदात्मनः पूर्वं शिवस्य च तथा पुनः || १५ || त्रयोदशान्तसंभिन्नं विद्येशानां प्रकल्पयेत् | गणेशानां तु गायत्रीं तस्मिन् सान्निध्यमागताः || १६ || हृदयं लोकपालानां विज्ञेयं सार्वकामिकम् | अस्त्रपाशुपतं दीप्तस्त्र मन्त्रं प्रकल्पयेत् || १७ || प्. २७) सर्वे बिन्दुसमायुक्ता शुद्धकुन्देन्दु संप्रभाम् | विश्वकीद्विश्ववेत्तारो विश्वकृद्विश्व मूर्तयः || १८ || ओंकारदीपिता मन्त्रा नमस्कारान्तयोजिताः | अर्च्चते संप्रयोक्तव्या होमे स्वाहान्तसंयुताः || १९ || न बिन्दुर्न शिखामात्राप्यस्त्रवशस्य षण्मुख | स विसर्गास्तथा दीप्ता घोरकर्मकरा स्मृताः || २० || एकत्रिंशान्तिकं वर्णं सप्तमस्वरयोजितम् | ककारार्धयुतं कृत्वा क्षरिकास्त्रं प्रकीर्तितम् || २१ || एते मन्त्राश्शिखास्सूक्ष्माः परमाः सर्वकामिकाः | सर्वैरेभिः सदा कुर्याच्छिवीकरणमात्मनः || २२ || यदा यदा समाचामे मन्त्रन्यासं यदा तदा | कुपितकरकायेषु मन्त्रिमन्त्रार्य सिद्धये || २३ || इति श्रीसर्वज्ञानोत्तरे क्रियापादे प्रासादमन्त्रोद्धारप्रकरणम् || अथातः संप्रवक्ष्यामि शिवीकरणमुत्तमम् | यत्कृत्वा तु नरः सम्यक् शिवो भवति नान्यथा || १ || देहं संशोधयेत् पूर्वं धारणाभिस्तु पञ्चभिः | शुद्धदेहस्ततो भूत्वा शिवमन्त्रान् नियोजयेत् || २ || सुषिम्नान्तर्वहिः शक्ति विन्यसेद् व्योमरूपिणीम् | तस्य मध्ये तु हुंकारं ज्वलन्तं पावकप्रभम् || ३ || प्राणापानसमायुक्ते तस्मिन् चित्तं निवेशयेत् | प्. २८) उत्छ्र?टान्तेस्त्र मोक्षस्तु हुंकारेण समन्वितः || ४ || ग्रन्थिभेदं कुरुष्वेवं पुनः साधानमारभेत् | सन्निरुद्धे कृते सम्यक् गूर्ध्वं वायुः प्रवर्तते || ५ || योद्घात इति विख्यातः स्वेच्छया तु कनीयः * | पूरकेणोपसंहृत्य हृदयेन तु मन्त्रवित् || ६ || सान्तबीजमयं जीवं न्यसेधूंकारमूर्धनि | हुंकारस्य शिखान्तस्य पुरुषं बीजविग्रहम् || ७ || ध्यात्वा त्वेकाकिनं सूक्ष्मं बिन्दुभूतं निरामयम् | ततः संयोजयेद् योगी शिवे परमकारणे || ८ || शिवातीते सदाशान्ते शुद्धस्फटिक निर्मले | एकेनोद्घात मात्रेण एकलक्षस्सुमन्त्रितः || ९ || एकीभावसमायुक्तः प्रविशेच्छिवमव्ययम् | बीजवृत्याशिखेलून तत्व वृत्या तु तत्ववित् || १० || * म्यदीनि विजानीयादनिलानि विशोधयेत् | हृदा तु पार्थिवं बीजं वारुणं शिरसा सह || ११ || नियुक्तं शिखयाग्नेयं वायव्यं कवचान्वितम् | होकार मन्त्रसंयुक्तं मण्डलेषु प्रयोजयेत् || १२ || एतास्तु धारणा ज्ञेय ऐंद्राद्या देशिकोत्तमैः | वैन्दवास्तु कलास्ताश्च निवृत्याद्याः प्रकीर्तिताः || १३ || प्रधंदारण भेदेन प्रणवेत्वेकधा स्थिताः | प्. २९) ज्ञानत्वैतास्तु कलासम्यक् स्थूल सूक्ष्मविमिश्रकाः || १४ || ततो ध्यानं प्रकुर्वीत देह संशोधनाय च | चतुरश्रं समंपीतं वज्रांग वज्राङ्गं कठिनं गुरुम् || १५ || लकारासनमारूढं हृद्बीजमध्यतः स्थितम् | उद्घातैः पञ्चभिर्युक्तं वायुभूत विशोधयेत् || १६ || अर्धचन्द्रं द्रवं सौम्यं शुद्धकुन्देन्दु समप्रभम् | वारुणं मंडं ध्यायेत् मध्ये कमलभूषितम् || वकारासन मध्यस्थं शिरोबीजमधोमुखम् | युक्तं चतुर्भिरुद्घातैः वह्निभूतं विशोधयेत् || १८ || विषानल महावेग कालपाशविनाशनम् | वर्षन्तं तमभिध्यायेत् नादमानं सुशीतलम् || १९ || डाडिमी कुसुम प्रख्य मध्यशृंगाटकाङ्कितम् | त्र्ययश्रमर्चस्सुसम्पन्नमाग्नेयं मण्डलं स्मरेत् || २० || रकारासनमारूढं शिखाख्यं बीजमुत्तमम् | उद्घातै स्त्रिभिः संयुक्तं जलभूतं विशोधयेत् || २१ || शोधयन्तं स्वकंदेहं निर्दहन्तमकल्मषम् | सकृष्णं बिन्दुभूतं * * * * * * * * * || २२ || वायव्यमण्डलं ध्यायेत् पादादारभ्य चञ्चलम् | यकारासन् संविष्टं कवचं वायुविग्रहम् || २३ || शोधयेत् पार्थिवं भूतं उद्घात दवय योजितम् | ततः सञ्चिन्तयेद् व्योमं समलं सर्वतोमुखम् || २४ || प्. ३०) नित्यं सर्वगतं शान्तं बिन्दुशक्तिविभूषितम् | ओंकारासंविष्टं हकारं नाहसंविलम् || २५ || कोनोघातमात्रेण शून्यभूतं विशोधयेत् | मण्डलं बीजसंयुक्तं ध्यानेन विविधेन च || २६ || प्राणायामैर्मतं सम्यक् धारणेत्यभिधीयते | यायेव धारणाधार्य जगत्सर्वं हि तन्मयम् || २७ || यदात्मकं च योगीन्द्रास्तत्तत्कर्मजलं ययुः | एवं संशुद्ध देहस्त्वमृतीभूतो विधानवित् || २८ || ततो निरुक्षयेन् मार्गं का नाडी वहते मम | यस्मिन् चरति पुद्गलः * * * * * * * * || २९ || तत्रान्तर्देह विनासमन्तर्य जनमेव च | देहस्तस्य विदेहस्य जाक्षिभूतस्य कर्मसु || ३० || नित्योदितस्य कुर्वीत सदासन्निहितस्य तु | वामनासा पुटे या तु इडासा परिकीर्तिता || ३१ || दक्षिणे पिङ्गला ज्ञेया सुषुम्ना मध्यत स्थिता | यस्मिन्नभ्यधिको वायुस्सानाडी सर्वकामदा || ३२ || इडानाड्यां वहन्त्यां च म दिवस्थान प्रकल्पयेत् | पिङ्गला नाडि पद्मं तु सुषुम्ना मूर्ध्नि योगवित् || ३३ || हृदयेच्चा विधानं तु नाभौ भौमं प्रकल्पयेत् | मूर्ध्नान्ते शिवं ध्यायेत् वरदं सर्वतोमुखम् || ३४ || प्. ३१) रात्रौ संपूजयेद् देवं दिवाहोमं च कारयेत् | सन्ध्यासु च ततो ध्यानं दिवा रात्रौ जप स्मृतम् || ३५ || दिवा तु तामसं कुर्याज्जपो रात्रौ तु राजसम् | सन्ध्यायां सात्विकः प्रोक्तो जपः सर्वार्थसाधकः || ३६ || विस्पष्टस्तामसः प्रोक्तो राजसोपांशुरुच्यते | मनसा सात्विकं विघात् जपं जप्यविदां विदुः || ३७ || तामसं क्रूरकर्माणां वश्यादिषु च राजसम् | सात्विकं दिव्यसिद्धीनां जपं युज्याद्विचक्षणः || ३८ || प्राणपत्ति निरोधेन यो जपः क्रियते सदा | स जपः सात्विकः प्रोक्तो भोग मोक्ष फलप्रदः || ३९ || नं तु द्विविधं कुर्यात् स्थूला सूक्ष्मं सदाबुधः | ध्यानेन हि परां सिद्धिं प्राप्नुवन्ति हि योगिनः || ४० || स्थूल मन्त्रमयं प्रोक्तं सर्वावयवसंयुतम् | द्विमार्गावस्थितं ध्यायेत् पूजाग्नौ होमवित्तमः || ४१ || केवलं शिवबीजं तु सर्वावयववर्जितम् | न जातिरूपं परं शुद्धं तत्सूक्ष्मं परिकीर्तितम् || ४२ || दक्षिणायनमित्युक्तं निशा सोमात्मिका गुह | अहस्तु विमलं प्रोक्तं सौरमेयोत्तरायणम् | सन्ध्या तु विषुवं प्रोक्तं वुत्तरेण * * * * ? || ४३ || उत्तरेण वहन्तस्य दक्षिणायनमादिशेत् | प्. ३२) दक्षिणेनोत्तरं विद्यां मध्ये तु विषुवं भवेत् || ४४ || समीभूते यदा वायुःश्चरते संपुटद्वये | विषुवं तु विजानीयात् पुण्यमन्त्रो भयात्मकम् || ४५ || विषुवं चन्द्रमाहेन्द्रांद्या दक्षिणायनमाश्रिताः | इडाख्यान्तर्गतां ध्यायेत् पितृयाने शिखिद्ध्वज || ४६ || ब्रह्मावह्नी रविर्वायुरुत्तरायणमाश्रिताः | पिंगलान्तर्गतं ध्यायेद् देवयानं तदुच्यते || ४७ || अनन्तेशश्चरुद्रश्च सदाशिव शिवौ तथा | सुषुम्नान्तर्गतं ध्यायेद् विषुवे च विचक्षणः || ४८ || धर्मज्ञानं च वैराग्यमैश्वर्यञ्च चतुष्टयम् | योगपीठं च पद्मं च प्रणवेन तु विन्यसेत् || ४९ || तत्वं विन्यसेत् पूर्वं कर्णिकायां विचक्षणः | व्यापयन्ति मधश्चोर्ध्वं पुनः शक्ति नियोजयेत् || ५० || ततश्चाकर्षयेज्जीवं शिवीभूतं निरामयम् | पूरकेण शिखान्तस्थं शिवबीजमयंपरम् || ५१ || स्थापयेत शिखामध्ये ज्योतीरूपं सुनिर्मलम् | अमृते वा प्लाव्यमानमुपरिष्टात् समं ततः || ५२ || ततोऽस्य मन्त्रविन्यास सूक्ष्मदेहस्य षण्मुख | यथा भवति तत्वेन तच्छृणुष्व यथाक्रमम् || ५३ || शान्तौ करतलौ कृत्वा करशाखासु पञ्चसु | प्. ३३) ईशानादीनि ब्रह्माणि कनिष्ठादिषु योजयेत् || ५४ || ततोङ्गानि नियुंजीत हृदयादि ततो पुनः | प्रासादं विन्यसेत् पञ्चद्व्यापिनं सर्वतोमुखम् || ५५ || ततश्चालभनं कुर्यात् पादादारभ्य मूर्ध * ? | ईशानं पञ्चधा मूर्ध्नि वक्त्रंवक्त्र चतुष्टये || ५६ || दीप्ततेजस्सितोक्तानां पञ्चमं प्रणवेन तु | हृदाद्यंगैरघोरं तु गुह्यवामं प्रकल्पयेत् || ५७ || पादादारभ्य सर्वाङ्गैः सद्योजातं तु विन्यसेत् | हृदि श्रीवातदानौ च नाभ्यां च जठरे तथा || ५८ || पृष्ठे ह्युरसि मन्त्रज्ञो विन्यसेद् बहुरूपिणम् | गुह्ये चैव तथालिङ्गे ऊर्वोर्वैजानुनोस्तथा || ५९ || जंघयोश्च स्फिचोत्कट्यां पार्श्वे वामकला न्यसेत् | पादयोर्हस्तयोश्चैव नासायां शिरसा तथा || ६० || बाह्येश्चैव च मन्त्रज्ञ सद्योजात कलान्यसेत् | नेत्रं नेत्रेषु विन्यस्य पुनरंगानि योजयेत् || ६१ || हृदयं हृदयेद् विन्यस्य शिरः शिरसि विन्यसेत् | शिखायां तु शिखाद्या तु कवचं स्तनमध्यतः || ६२ || अस्त्रं हस्तप्रदेशे तु ततोध्यानं समाश्रयेत् | शिवस्य यादृशं रूपं तादृशं चिन्तयात्मनि || ६३ || शिवमन्त्रन्यासमिदमात्मानं तु सदा कुरु | प्. ३४) प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् | यथान्तर्देह विन्यासस्तथा बाह्येपि षण्मुख || ६४ || बाह्ययागं यथा वक्ष्ये सूक्ष्मदेहान्तरे तथा | तथा वै शिष्य देहे तु अग्नौ होमे तथैव च || ६५ || इति श्रीसर्वज्ञानोत्तरे क्रियापादे परमीकरणप्रकरणम् || अतः परं प्रवक्ष्यामि बाह्ययाग विधिक्रमम् | सर्वकामप्रदं गुह्यं सर्वपापहरं परम् || १ || अलंकृत्य स्वकंदेहं शिवमन्त्रैः यथाक्रमम् | शिवीभूतः सुपूतात्मा शिवस्यार्चनमारभेत् || २ || उत्तराभिमुखो भूत्वाऽस्त्रमावर्तयेच्छुचिः | विघ्नानुच्चाटयेत् स्थूलात् तालशब्द त्रयेण तु || ३ || तर्जन्या तर्जयेत् तांस्तु हंसमंत्रान् विन्यसेत् | पुनरावेष्टयेन्मन्त्री तत्स्थानं कवचेन तु || ४ || ततो ह्यस्त्राणि विन्यस्ये दिशासु विदिशासु च | वज्रं शक्तिं च दण्डं च खड्गं पाशं तथांकुशम् || ५ || गदात्रिशूलं चक्रं च पद्मं चेति यथाक्रमम् | ऐन्द्री दिशं समारभ्य यावदीशानगोचरम् || ६ || अधश्चक्रं तु विन्यस्य पद्ममूर्ध्वं नियोजयेत् | गन्धैः पुष्पैस्तथा धूपैः पुनरस्त्राणि पूजयेत् || ७ || ततश्शक्तिमनहृत्य सूक्ष्मामृतरूपिणीम् | प्. ३५) व्यापयन्ति ह्यधश्चोर्ध्वमप्रमेयां मनौपमाम् || ८ || अर्घ्यपात्रं ततोग्राह्यं हुंफट्कारेण क्षालयेत् | स बाह्याभ्यन्तरं पश्चात् कवचेनावकुण्ठयेत् || ९ || बिन्दुस्थानं समाश्रित्य मध्ये पद्मं विचिन्तयेत् | त्रितत्वं विन्यसेत् तस्मिन् पुनः शक्तिं नियोजयेत् || १० || आपूर्य पञ्चभिर्ब्रह्मैः शिवाङ्गैश्च शिवेन च | गन्धपुष्पसमायुक्तं तज्जलं मन्त्रसंस्कृतम् || ११ || आवाहयेत् परं देवं प्रासादं परमामृतम् | अङ्गैरङ्गीकृतं वत्स शुद्धस्फटिकनिर्मलम् || १२ || द्रव्याणि प्रोक्षयेत् तेन यज्ञार्थं कल्पितानि तु | अप्रोक्षितं न ता दिव्यं भविष्यत्वं च वै शिवे || १३ || स्वमन्त्रैरर्चनं कुर्याद् देवता नयथोदितम् | धर्मादि चास्त्रपर्यन्तं शिववर्ज षडानन || १४ || शिवस्य शिवमन्त्रैस्तु होमकाले विधीयते | संपूर्णाहुति दाने च सर्वकर्म समर्पणे || १५ || धर्मज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् | आग्नेयं दिशमाश्रित्य विदिक्षु प्रणवेन तु || १६ || ब्रह्मस्थाने पुराशक्तिं कल्पयित्वा तु विन्यसेत् | योगपीठं ततः पश्चाच्छक्तिनालं च पङ्कजम् || १७ || अष्टपत्रं भवेत् तत् तु चतुर्भागान्तकर्णिकम् | प्. ३६) त्रिभागकेपराकीर्णं शक्तिजालवितानितम् || १८ || वामाज्येष्ठा च रौद्री च कालि कला बला तथा | बलप्रमथनी सर्वभूतदमनी मनोन्मनी || १९ || आर्वपत्रात् समारभ्य यावत् पत्रं तु शांकरम् | हृदयेन तु विन्यस्य केसरेषु दलेषु च || २० || मनोन्मनीं न्यसेन्मध्ये शक्तिं वै कारणात्मिकाम् | ईशानं कर्णिकायां तु शिवव्योम प्रकल्पयेत् || २१ || शिवस्य पुनरीशान्यां मूर्तिमन्त्रं प्रकल्पयेत् | सितवर्णनिभं ध्यात्वा पूर्ववक्त्रे तु पुद्गलम् || २२ || याम्येत्वघोरनामानं वाममुत्तरतो न्यसेत् | सद्यः पश्चिम भागे तु ततोह्यावाहनं भवेत् || २३ || आवाह्य सद्यमन्त्रेण वामदेवेन स्थापयेत् | अघोरेण तु सान्निध्यमर्घ्यं तत्पुरुषेण तु || २४ || ततस्तु सकलं कुर्यादव्यक्तं व्यक्तलक्षणम् | वर्णरूपक संयुक्तं पुनः पूजां प्रकल्पयेत् || २५ || ईशानं पञ्चधा मूर्ध्नि वक्तं वक्त्रचतुष्टये | दीप्ततेजस्सितोक्तानां पञ्चमं प्रणवेन तु || २६ || हृदयांगैरघोरं तु गुह्यवामं नियोजयेत् | पादादारभ्य सर्वाङ्गैः सद्योजातं तु विन्यसेत् || २७ || हृदि ग्रीवा तथांसौ च नाभौ च जठरं तथा | प्. ३७) पृष्ठे ह्युरसि मन्त्रज्ञो विन्यसेद् बहुरूपकम् || २८ || गुह्ये चैव तथालिङ्गे ऊरुभ्यां जानुनोस्तथा | जंघयोश्च स्फिचौ कट्यां पार्श्वे वामकला न्यसेत् || २९ || पादौ हस्तौ च नासा च शिरश्चैव लजा प्रभौ | सद्योजात कलाह्येवं ततस्सर्वत्र मूर्तिषु || ३० || नेत्रं नेत्रेषु विन्यस्य ततोङ्गानि नियोजयेत् | हृदयं हृदये न्यस्य शिरं शिरसि विन्यसेत् || ३१ || शिखायां तु शिखां विद्यात् कवचं स्तनमध्यतः | अस्त्रं हस्तप्रदेशे तु पुनरङ्गानि नियोजयेत् || ३२ || आग्नेर्यां हृदये न्यस्य ईशान्यां तु शिरो न्यसेत् | नैर्-ऋत्यां तु शिखां दद्यात् वायव्यां कवचं न्यसेत् || ३३ || अस्त्रं दिशासु सर्वासु द्वितीया वरणे स्थितः | पूर्वादारभ्यमन्त्रज्ञो गायत्रीं विदिशासु च || ३४ || विद्येश्वरांस्तृतीये तु पूर्वादारभ्य विन्यसेत् | अनन्तेशं च सूक्ष्मं च शिवं च पुनरुत्तमम् || ३५ || एकनेत्रैकरुद्रौ च त्रिमूर्तिं चामृतद्युतिम् | श्रीकण्ठं च शिखण्डीशं युगान्तादित्यसन्निभाः || ३६ || इच्छारूपधरास्सर्वे इक्षु मूर्ति फलप्रदाः | गणेश्वरांश्चतुर्थे तु कौबेर्याशादिशः क्रमात् || ३७ || दिवं चैव तु चण्डेशं महाकालं च नन्दिनम् | प्. ३८) गणाध्यक्षं च भृङ्गीशं वृषभं स्कन्दमेव च || ३८ || ध्यायेत् सान्निध्यमनुद्विग्नपद्मराग समप्रभात् | पञ्चमे लोकपालास्तु क्रमादावरणे बुधः || ३९ || विन्यसेदस्त्रमार्गेण ध्मातचामीकरप्रभान् | इन्द्रं च पावकं चैव यमं निर्-ऋतिमेव च || ४ || जलं वायु कुबेरेशान् विष्णु ब्रह्माणमेव च | विद्येश्वर गणेशानामाननं प्रणवं विदुः || ४१ || बिन्दुं च लोकपालानां विसर्गं चास्त्रयोनिषु | विन्यस्यैवं विधानेन ततः संपूजयेच्छिवम् || ४२ || शुद्धस्फटिकसंकाशं वरदाभयपाणिनम् | संश्लिष्ट रत्नपादान्तं शङ्खचक्राम्बुजाङ्कितम् || ४३ || समजंघोरुचरणं गूढग्रन्थि सिरोच्छ्रयम् | विस्तीर्ण कट्युरसकं पीनवक्षस्थलांसकम् || ४४ || सुरक्तपाणिशाखान्तं दीर्घबाहुं नखोज्वलम् | स्थूलबाहु शिरोस्कन्धं निम्ननाभिं कृशोदरम् || ४५ || कम्बुग्रीवं विभक्ताङ्गं संपूर्णवदनोज्वलम् | सुभ्रूललाटबिम्बोष्ठ कर्णनासं सुमूर्धजम् || ४६ || विमलं पञ्चवक्त्रं च पञ्चमूर्ध्व विभूषितम् | त्र्यक्षं दशभुजं शान्तं जटामकुटमण्डितम् || ४७ || शशांकार्धधरं देवः पद्मपत्रायतेक्षणम् | प्. ३९) बद्धपद्मासनं सौम्यं किञ्चित् कुञ्चितलोचनम् || ४८ || मन्त्रसिंहासनारूढं बीज्यमानं वराङ्गनैः | दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरमनोहरम् || ४९ || सर्वलक्षणसंपूर्णं सर्वाभरणभूषितम् | ध्यात्वात्वेवं विधं मन्त्री सर्वकामफलप्रदम् || ५० || ततः स्नानादिकं कर्मं मन्त्रयुक्तं समाचरेत् | स्नापयेत् सद्य बीजेन कवचेन विलेपयेत् || ५१ || वस्त्राणि मेखलां चैव वामदेवेन * * * ? | ईशानेन तु पुष्पाणि मकुटं कुण्डलानि च || ५२ || केयूरमुपवीतञ्च कटकं हारमेव च | अघोरेण प्रदातव्यं धूपं तत्पुरुषेण तु || ५३ || नेत्रेण दापयेद् दीपं पुनराव(र)णैः क्रमात् | गन्धपुष्पाणि धूपञ्च दीपं चात्र प्रदापयेत् || ५४ || ततस्त्वर्घ्यं प्रयुञ्जीत पाद्याचमनपूर्वकम् | निवेद्यार्घ्यं तु देवस्य ततो मुद्रां प्रदर्शयेत् || ५५ || नमस्कार ध्वजश्चैव कालकर्णि च सिष्टुरा | चोटिका मुद्राः ततः पद्मः लिङ्गञ्च द्रव्यरूपिणि || ५६ || सिद्धिताः परमाह्येताश्शिवीसान्निध्यकारकाः | गन्धदिग्धौ करौ कृत्वा मुद्रां सम्यक् प्रपूजयेत् || १ || प्. ४०) पद्भ्यां पाद्यं पुरादद्यादागतस्य शिवस्य च | मुखेष्वाचमनीयञ्च शिरस्स्वर्घ्यं निधोजयेत् || २ || प्रथमा वाहनेत्वर्घ्यं पूजान्ते च तथापुरम् | विसर्जने तृतीयन्तु देवस्यार्घ्यं प्रकल्पयेत् || ३ || पूर्वमूर्धसमारभ्य दक्षिणोत्तर पश्चिमे | मध्ये चैव तु मन्त्रज्ञः पञ्चस्वर्घ्यं नियोजयेत् || ४ || सव्यं चैवापसव्यञ्चार्घ्यं दद्यात् पुनः पुनः | ऊर्ध्ववक्त्रे तु दातव्यं समुखं च पराङ्मुखम् || ५ || संस्थितस्य च देवस्य समुखं परिकल्पयेत् | विसर्जने तु गाङ्गेयं देयमर्घ्यं पराङ्मुखम् || ६ || एवमर्घ्यविधानं तु ततो द्रव्यं निबोध मे | भक्ष्या भोज्यान्न पानादि लेह्यशोष्यान्यनेकशः || ७ || सर्वं हृदयमन्त्रेण य * * * धि चोदितम् | पुनरावणैर्दत्त्यात् नैवेद्यं मन्त्रसंस्कृतम् || ८ || अग्निः कार्यं ततः पश्चात् सुसमिद्धे हुताशने | शास्त्रदृष्टेन विधिना कृत्वा भूतबलिं हरेत् || ९ || तोयभक्तसमायुक्तं पुष्पधूपसमन्वितम् | दद्याद्भूतबलिं मन्त्री सर्वपाकविमिश्रितम् || १० || पाणिपादौ ततः क्षाल्या चान्तः पुनराचमेत् | प्रविश्यायतनं पश्चात् जपं कुर्याद् विचक्षणः || ११ || प्रणिपद्य प्रसाद्येशं ध्यानमाश्रित्य मन्त्रवित् | प्राणायामैः शिखांस्थयेकंचित्तः सदा जपेत् || १२ || प्. ४१) बद्धपद्मासनोमौनी अक्षमाला करस्थितः | स्वस्तिकं वासनं बद्ध्वा समकायशिरः स्थितः || १३ || अनन्यमानसो योगी मन्त्री तन्मयतांगतः | अचिरात्सिद्धिमाप्नोति अदैतदैतमाश्रितः || १४ || इति श्रीसर्वमन्त्रानोत्तरे क्रियापादे अर्चनाप्रकरणम् || अतः परं प्रवक्ष्यामि अग्निकार्यविधिक्रमम् | आश्रयं सर्वसिद्धीनामिहामुत्रफलप्रदम् || १ || प्रोक्षित्वा पुराप्राज्ञः कुण्डमस्त्रोदकेन तु | ततस्त्वावेष्टयेत् पश्चात् कवचेन यथाक्रमम् || २ || पुनरुल्लेखनं कुर्यादस्त्रबीजेन षण्मुख | पुनरच्युक्षणं पश्चात् कवचेन विधानवित् || ३ || विष्टरं कुण्डमध्ये तु प्रणवेण पुनर्न्यसेत् | ततः शक्तिं न्यसेत् तस्मिन् तटित्सहस्रसन्निभाम् || ४ || ऋतुमतीं विशालाक्षीं सततं योनिमुद्रया | चतुद्ध्वः स्वरसंभिन्नो वह्निबीजोर्ध्वदीपितः || ५ || षोडशान्तहतो हंसश्शक्तिरेषानिगद्यते | गन्धपुष्पार्चितां कृत्वा अर्घ्यधित्व विधानवित् || ६ || शिवसन्तर्पणार्थाय ततो वह्निं प्रकल्पयेत् | चतुर्थेन विनिर्मुक्तो ह्यधष्षष्ठं नियोजितः || ७ || स एव हंस संज्ञस्तु वह्नि सर्वार्थसाधकः | प्. ४२) ताम्रपात्रेशरावे वा वधित्वा हुताशनम् || ८ || अस्त्रेण प्रोक्षयेत् तं तु पुनर्बूज नियोजयेत् | ततस्त्वा वेष्टयेत् पश्चात् कवचेन विधानवित् || ९ || पूजयित्वा त्रिधा कुण्डे योनिमार्गेण निक्षिपेत् | सद्योजातेन मन्त्रेण हृदयं तु पुनर्जपेत् || १० || गङ्गास्तानं भवेदेवं जातवेदसि षण्मुख | शिरसाभ्यर्चयित्वा तु वामदेवं ततो जपेत् || ११ || कृतं पुंसवनं एवं सीमन्तोन्नयनं शृणु | अघोरेणार्चयेद् देवं शिखाबीजं ततो जपेत् || १२ || सीमन्तकरणं वह्नेः कृतं भवति शैवकम् | कवचेन समभ्यर्च्य जपेत् तत्पुरुषं विभुम् || १३ || जातकर्म कृतं ह्येवं ततो नाम विनिर्दिशेत् | ईशानेनार्चयित्वास्त्रं च परिवर्तयेत् || १४ || ततोस्या श्रावयेन्नाम शिवाग्निस्त्वं हुताशनः | जनने पद्ममुद्रास्य लिङ्गमुद्राग्नियोजने || १५ || निरोधे निष्ठुरा प्रोक्ता बीजाभ्या सर्वकर्मसु | एवमग्निं सुसंस्कृत्वा मुद्राः मन्त्रैः यथाक्रमम् || १६ || ततो होमं प्रकुर्वीत शास्त्रदृष्टेन कर्मणा | हृद्वीजेनास्तरेद्दर्भान् परिधयश्च निधापयेत् || १७ || प्रागग्रानुत्तराग्रां च पुनर्देवान् प्रपूजयेत् | प्. ४३) ब्रह्माणं शंखरंविष्णुमनन्तेश समन्वितम् || १८ || पूर्वादारभ्य गायत्र्या विष्टरस्तान् तथाक्रमम् | आग्नेधिंदिशमाश्रित्याज्य भाण्ड्ं तु स्थापयेत् || १९ || अधिश्रयं पुरा कृत्वा पश्चादीन् प्लवनादिकम् | प्रादेशमात्रकान् दर्भान् प्रश्चिन्ना नखेन तु || २० || अंगुष्ठानामिकैर्गृह्य घृतस्याप्लवनं कुरु | ततः संप्लवनं मन्त्री संमुखं घृतमुत्पलवत् || २१ || स्रुवं स्रुचं प्रताप्याग्नौ परिमृज्य समन्ततः | संस्पृशे तु कृशौस्सर्वमग्र मध्यावसानकम् || २२ || स्थापयेद् दक्षिणे भागेर्श्व कृज्यादीनि तथोत्तरे | हृदयेन विधानज्ञः सर्वकर्म समाचरेत् || २३ || ततोभिधारयेद् वक्त्रान् ब्रह्मभिस्त्वनुपूर्वशः | पुनरद्घाटनं कुर्यादस्त्रबीजेन षण्मुख || २४ || निष्कृतिं तु शिवास्त्रेण दत्वा सर्पिन्निरूपयेत् | शिवे सोमे तथा व्यघ्नौतस्त्रिधा परिकल्पयेत् || २५ || तर्पयित्वा ततो वह्निं दत्वा पूर्णाहुतिं क्रमात् | तत त्रासन विन्यासं प्राशुत्तं परिकल्पयेत् || २६ || पूर्वोक्तेन विधानेन गन्धपुष्पैरनुक्रमात् | पूजयित्वा शिवं सम्यक् ततो होमं समारभेत् || २७ || बहुभव्येन्धने शुद्धे सुसमिद्धे हुताशने | प्. ४४) विद्रुमे लेलिहाने च हुनते यस्ससिध्यते || २८ || अर्चिष्मान् पण्डित शिखस्सुगंद्धिल्लघुविक्रमः | स्निंध प्रदक्षिणावर्तो जातवेदस्तु सिध्वितः || २९ || विष्णुलिंगी लिखेद् भूमिं शुक्लः कृष्णः प्रक्षिणैः | दुर्गन्धश्चैव रूक्षश्च तत्र सिद्धिर्न विद्यते || ३० || तत्रैव होमयेत् तावच्छुद्धो हुताशनः | विशुद्धे पावके शुद्धेरन्यथा विफलो भवेत् || ३१ || तस्मादेवं विदित्वा तु विशुद्धो होमयेत् सदा | शिवादि सर्वमन्त्राणामाहुत्या परिसंख्यया || ३२ || दशशतं सहस्रं वा अयुतं लक्षमेव वा | होमं दशगुणं प्रद्ध्या शिवस्य परिकल्पयेत् || ३३ || ब्रह्मशक्ति शिवाङ्गानां विद्येश्वरगणेश्वरान् | लोकपालास्त्रमुख्यानां तस्मादेक गुणः स्मृतः || ३४ || संपूर्णाहुतिदानं तु प्रकुर्वाद्धारणान्वितम् | अमृतं यत्परं वत्स स्रवन्तं मनुस्मरेत् || ३५ || पदमुच्छारयेन्मन्त्रं मन्त्री पूर्णाहुतिप्रतिम् | इदमस्त्वमृतं भूयो वौषडन्तमनुस्मरेत् || ३६ || मन्त्रार्पित मनो भूत्वा मन्त्रालंकृतविग्रहः | होमयेदेक चित्तस्तु मन्त्रतन्मयतांगतः || ३७ || * * व जुहुयान्मन्त्री जपेद् वापि समाहितः | प्. ४५) शब्दे तत्वे परे तेनस्स सिद्धिफलभाग्भवेत् || ३८ || प्रणम्य भक्त्या देवेशं स्तुत्वाचान्ते क्षमापयेत् | संहृत्यैव ततो मन्त्री जपः प्रजान्निवेदयेत् || ३९ || यत्कृतं यच्च कुर्याः तत्सर्वं सुकृतं तव | त्वं गतिर्विश्ववेत्ता च नान्योनाथो हि मे शिवः || ४० || विसर्जयेत् ततो देवं पुनः पूज्या विधानतः | पश्चादग्निं विसर्जेत कृतं कर्म समाहितः || ४१ || विसर्जितस्य देवस्य गन्धपुष्पन्निवेदनम् | निर्माल्यं तद्विजानीयात् वर्ज्यं वस्त्रविभूषणम् || ४२ || अर्चयित्वा कुतं यश्चण्डेशाय निवेदयेत् | निर्माल्यं भक्षणं दानं लंघनं च विवर्जयेत् || ४३ || आचम्योद्धूल्य पूतात्मा भोजनं तु समारभेत् | अथ पात्र विधानेन क्षालयित्वा तु भोजनम् || ४४ || तथैवावेष्टनं कृत्वा ततस्तस्मिन्निवेशयेत् | शिवेन शिवगायत्र्या हृदा चैव विधानवित् || ४५ || हृदयेनाहुतिः पञ्च शेषं कुर्याच्छिवार्पणम् | आचम्य तु शुचिर्भूत्वा शिवं ध्यायेत् पुनर्जपेत् || ४६ || वासिसूज्य जपस्यान्ते सत्यं प्रियहितः कुरु | किञ्चित् संव्यवहारार्थं प्राशुतं पुनराचमेत् || ४७ || अग्निकार्यं जपो यागे योगो दीक्षाः षडानन | प्. ४६) गुह्ये मनोरमे स्थाने सुविशुद्धे महीतले || ४८ || इति सर्वज्ञानोत्तरे क्रियापादे अग्निकार्यप्रकरणम् || अतः परं प्रवक्ष्यामि महीतल विशोधनम् | तस्याः परीक्ष्य विज्ञानं परिग्रहमेव च || १ || सुगन्धास्वादुसंयुक्ता श्वेता रक्ता च पिञ्जरा | पांसुनाप्ययुनाधन्या भ्रमिस्सर्वार्थसाधिका || २ || प्रागुदक् प्लवनां स्निग्धां कृष्णां वा शुभदर्शनाम् | जलतीरसमीपस्थां शुद्धां भूमिं परीक्षयेत् || ३ || यस्य वर्णास्य यो गन्धः शोभनः स तु विद्यते | केशास्थि कंटकैर्हीनां गर्तोषरविवर्जिताम् || ४ || त्रिहस्तोद्घात भूशर्ययां सर्वदोषविवर्जिताम् || ५ || सेचयेद्गन्धतोयेन पञ्चगव्यशिवाम्भसा | धौतवस्त्रैः शुचिस्स्नातैस्ततः संचालयेत् पुनः || ६ || अकालमूलकलशे वस्त्रपूतेन वारिणा | ततः कुटवपधीतै तु पलाशाश्वत्थ मुद्गरैः || ७ || दर्पणोदरसंकाशां कृत्वा भूमिं परिग्रहेत् | पक्वेष्टकामयं वापि शुद्धदारुमयं तथा || ८ || मृण्मयं वा पुनाकृत्वा विशुद्धं यागमण्टपम् | दीर्घं द्विगुणं कृत्वा विस्तारादेकभागिकम् || ९ || प्. ४७) द्वारास्त्रिदीयके भागे सार्धहस्तप्रमाणतः | मण्डलस्य तु द्वौ भागौ भागं कुण्डस्य कल्पयेत् || १० || विदिक्षु क्रूरकर्माणि कुर्यात् कुर्यात् दिक्षु शुभानि च | चतुरश्रं प्रकुर्वीत सुघनं यागमण्टपम् || ११ || विचित्रं चित्रकर्माढ्यं प्राकारपरिवेष्टनम् | चतुरश्रं ततः. कुण्डं कुर्याद् वर्तुलमेव च || १२ || मेखलोपरिमध्यस्थं योनिश्चैव प्रकल्पयेत् | मेखलां तु समां कुर्यात् ततः शास्त्रवित्तमम् || १३ || चतुरङ्गुलमुत्सेधां विज्ञाब्जलांछनं दृढम् | हस्तप्रमाणेन अथो मध्य तथोपर || १४ || त्रिमेखलासमायुक्तं सुसमं चारुदर्शनम् | गजोष्ठवत् प्रकुर्वीत सूचि पुष्करमेव च || १५ || मेखलोपरिमध्यस्तमाज्ज्याधारं मनोहरम् | तस्योपरि पुनश्चोर्ध्वमुझ वा सदारुभिर्दृढम् || १६ || वितानसहितं कुर्याददिश्रं जालकान्वितम् | शोभनं तद्विजानीयात् सर्वकाम फलप्रदम् || १७ || कृत्वा सुनिर्मलं भूमिं परिगृह्य पुनर्यजेत् | वर्धन्यमुंदी पूर्णायामघोरास्त्राभि मन्त्रिताम् || १८ || कृत्वेद किं दधेद्धीरा मत्युच्चिन्नां प्रदक्षिणाम् | तस्या मार्गेण कलशमाचार्येणोद्धतं शनैः || १९ || प्. ४८) सर्वकास्मयेति भ्रूमयित्वा निधापयेत् | ऐशान्यमण्डलां ते तु विघ्नौघशमनं परम् || २० || पूर्वपङ्कजविन्यस्तं सप्तधान्योपरिस्थितम् | क्षालितं चास्त्रबीजेन कवचेनाव कंठितम् || २१ || स्त्रितत्वोपरि विन्यस्त चन्दनागरुधूपितम् | वस्त्रपूताम्बुसंपूर्णं पञ्चरत्न समन्वितम् || २२ || सर्वौषधि समायुक्तं सर्वगन्धोपशोभितम् | हेम्ना कण्ठे तथा बद्धं सूत्रकण्ठमथापि वा || २३ || चूतपल्लवसंयुक्तं सितवस्त्रावकुंठितम् | एवं विधं शिवं रम्यं शिवेनाधिष्ठितं गुह || २४ || यागस्यादौ तु संपूज्य यागान्ते स्नानमाचरेत् | परिग्रहे वास्तु यागं पुनर्यागं गणाधिपे || २५ || कृत्वा शिवासनं कुर्यात् शिवस्य परमात्मनः | संहृत्य होमद्रव्याणि नैवेद्यां निधानि च || २६ || ततोधिवासयेत् तानि ततः शिष्याननुक्रमात् | पञ्चगव्यं चरुं तेषां दन्तकाष्ठं च मन्त्रितम् || २७ || क्षरिका सप्तवाराणि हृदयेन समर्पयेत् | तदा न विद्यते सिद्धिः विधिक्षपन तेन च || २८ || अतोन्यथा शुभा विद्यात् दन्तकाष्ठं षडानन | ईशान्यादिष्टकाष्ठासु मुखमस्य यदा भवेत् || २९ || प्. ४९) धातु सर्वकर्माणि साधयेत् साधकोत्तमः | शोभनंन् तद्विजानीयात् सर्वकाम फलप्रदम् || ३० || इति सर्वज्ञानोत्तरे क्रियापादे भूपरिग्रहप्रकरणम् || अतः परं प्रवक्ष्यामि साधकानां हिताय वैः | पञ्चगव्यविधानं तु तत्वतः शृणु षण्मुख || १ || चरुस्थाल्यां चरोश्चैव प्रवक्ष्याम्यनुपूर्वशः | गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् || २ || पञ्चगव्यमिति प्रोक्तं महापातकनाशनम् | ईशानेन यजेत् सर्पिः क्षीरं तत्पुरुषेण तु || ३ || अघोरेण दधि प्रोक्तं सद्योजातेन गोमयम् | गोमूत्रं वामदेवेन गायत्र्या तु कुशोदकम् || ४ || आलोढ्य हृदिना सर्वं ताम्रभाजनसंस्थितम् | परिकल्प्य त्रयो भागान् देवस्याग्रे तथात्मनः || ५ || उद्धृत्य शिष्यवत्स्याशि शिवजप्तं स्वयं पिबेत् | प्रक्षाल्य पूर्ववत्स्थालीं तथैवावेष्ट्य विन्यसेत् || ६ || सूत्रेण वर्मजप्तेन पुनकण्ठो षडानन | विन्यस्य पञ्चब्रह्माणि पुनः क्षीरेण पूरयेत् || ७ || शिवाग्निनापचेतं तु वर्मणा घटयेच्छनैः | व्रीहि श्यामाकनीवारानथ वा शालिब्रक्षली || ८ || तण्डुलान् प्रक्षाल्य निक्षिपेत् पश्चात् हृदयेन तु चालयेत् | हृदयं च शिरश्चैव शिवां गायत्रमेव च || ९ || प्. ५०) जपंस्तत्साधयेन्मन्त्री चरुकं घृतसंयुतम् | यथास्सन्तं भवेदन्नं तदर्थमयारयेत् || १० || अवतार्य जपे शुद्धं यावन्निर्वाणमिच्छति | भागत्रयं ततः कुर्यात् यथा पूर्वमुदाहृतम् || ११ || आत्मीयं शिष्यसंयुक्तं कृतकर्मा तु भक्षयेत् | दन्तैरस्पृत्य मानं तु पञ्चाङ्गुल्यात्मसंस्थितम् || १२ || दर्भशर्ययां समारूढः सह शिष्यैर्जितेन्द्रियः | जनपद्ध्यानरतो मौनी प्राकारास्त्रे सुगोपितः || १३ || बन्धपाशास्थुते शिष्या दृष्ट्वा स्वप्नांति शाक्षये | कथयन्ति गुरोस्सर्वे शुचिर्भूता समाहितः || १४ || शुभैरभीप्सितां सिद्धिं (अ)शुभैर्दुःखमाप्नुयात् | तस्माद् दुःखप्रदां दृष्ट्वा न सिद्धा संप्रयोजयेत् || १५ || दुःस्वप्नदर्शने मन्त्री हेम्मष्ठक सहस्रकम् | कृत्वा दीक्षां प्रकुर्वीतैहिकी सिद्धिवर्जिताम् || १६ || शुभ्रं नदं नदीं वापि समुदं पङ्कमेव वा | अतिषोर महादुर्गं तरतेयस्ससिद्धति || १७ || व्याधि मृत्युभयं वापि बन्धनं वासनक्षयम् | विदेशगमनं वापि भवेत् तेषां विलोमतः || १८ || गवाश्वभ्रमिनाशं वा वस्त्रालंकार कुञ्जरात् | पश्येद्यश्शयितः स्वप्ने तस्य सिद्धिर्न विद्यते || १९ || प्. ५१) एतेषां तु पुरा लाभा दिष्टान् कामान् वाप्नुयात् | दृष्ट्वा न स्वपते यस्तु यावदभ्युदितो रविः || २० || शुक्लपक्षं चितिं वापि कण्टकाकीर्णमेव वा | या शिरोहत स्वप्नान्ते तस्य सिद्धिर्न विद्यते || २१ || तत्रस्थस्तु विबुध्येत तस्य सिद्धिर्विधीयते | प्रासादं वृषभं नावं पर्यङ्गं कुञ्जरं नगम् || २२ || योधि रोहति स्वप्नान्ते तस्य सिद्धिर्विधीयते | येषामेक तमाद्वापि प्यवनं मृतुलक्षणम् || २३ || अर्थनाशो मनस्तापो ह्यपि वा बन्धनं भवेत् | आसनं शयनं वेश्म वस्त्रं प्रावरणं तथा || २४ || ज्वलन्तं पश्यते स्वप्ने तस्य सिद्धिर्विधीयते | सुर्चार्नानि च भग्नानि ज्वलनास्थमनानि च || २५ || दृष्ट्वा न सिध्यते स्वप्ने हस्ताध्वस्तफलानि च | चिद्रवासोथ कृत्यञ्च स्वकं प्राकरणं तथा || २६ || ज्वलन्तं पाटिकां मलदिग्धं च दृष्ट्वा स्वप्नेन सिध्यते | सुशुक्यानि च वस्त्राणिनिचिद्राणि नवानि च || २७ || सिद्ययाच्चयितः स्वप्ने तस्य सिद्धिर्विधीयते | अग्निप्रवेशं कुरुते स्वप्नांते ऋतुमानवः || २८ || स्मृतिलोपो भवेद् वापि तस्य सिद्धिर्न विद्यते | शुक्लं विलेपनं माल्यमातपत्रासनध्वजम् || २९ || प्. ५२) शंखपद्मनिधिं चैव लब्ध्वा स्वप्ने श्रिदं लभेत् | विपरीतानि चैतानि नाममात्राणि चैव हि || ३० || पश्येद्यः शयितः स्वप्ने तस्यसिद्धिर्न विद्यते | शुक्लोदनं दधी वापि अर्धमांस फलानि च || ३१ || यस्तु भुंक्तेस्तु स्वप्नान्ते तस्य सिद्धिर्न विद्यते | शाकं तैलं फलं कृष्णमद्याद्याशैतोनिशि || ३२ || न स सिद्धिं समाप्नोति न सुखं न च सम्पदः | अप्रजं म मद्या वा समुद्रयगां पयस्विनीम् || ३३ || स्वप्नान्ते च * चेद्योवै तयस सिद्धिर्विधीयते | सर्वाण्येतानि शुष्काणि नाममात्राणि चैव हि || ३४ || यस्तु पश्यतु स्वप्नान्ते तस्य सिद्धिर्न विद्यते | आकाशगमने स्वप्ने अगम्यागमनं तथा || ३५ || विष्टानुलेपनं चैव दृष्ट्वा सिद्धिमवाप्नुयात् | तैलाभ्यङ्गमयोद्वाहं पुत्रलाभः प्रवर्तते || ३६ || गेयं लास्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यते | क्षपणं चान्त्यजातिं वा व्याधितं रक्तवाससम् || ३७ || उन्मत्तं भिन्ननासं वा दृष्ट्वा स्वप्नेनु सिध्यते | ऋक्षोष्ट्रं वानरं वापि खरमश्वतरं प्रकिम् || ३८ || योऽधि रोहति स्वप्नान्ते तस्य सिद्धिर्न विद्यते | तैलाभ्यङ्ग मथोद्वाहं पुत्रलाभ प्रवर्तते || ३९ || प्. ५३) गेयं वाद्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यते | क्षपणं चान्त्यजातिं वा व्याधितं रक्तवाससम् || ४० || उन्मत्तं छिन्ननासं वा दृष्ट्वा स्वप्ने न सिध्यते | एकाङ्ग विकलस्वप्ने * पिकारां मलान्वितः || ४१ || यस्याग्रतस्तुतं निष्ठे तस्य सिद्धिर्न विद्यते | क्षुधार्तः तृषितः स्वप्ने स्थानमुच्याट्यते स्वकान् || ४२ || ताट्यते वानरैर्घोरैर्नससिमवाप्नुयात् | वंम्मे मूत्रपुरीषं वा स्वर्णं रजतं तथा || ४३ || दन्तपङ्क्तिः पतेद् वाथ जपेद् वाहुनतेवपि रांदत्रितयेपि वा | हन्ति वाथ जयेद् वापि स्वप्ने सिद्धिमवाप्नुयात् || ४४ || स्वप्ने सोपि न सिध्यति * * * * * * * * | क्व प्रस्थितोसि मूढात्मा नास्ति ते त्वभिवांछितः | एवमुक्तो नरः स्वप्ने प्रत्यक्षं वा न सिध्यति || ४५ || वेश्या कन्याथ वा रात्रि ब्रह्मणि चानुमोदते | राजा विप्रो था दिव्य तस्य सिद्धिर्विधीयते || ४६ || राजानमर्थसम्पन्नं ब्राह्मणा वेदपारगाः | स्त्रियञ्च लक्षणोपेतां दृष्ट्वा स्वप्नः प्रसिध्यति || ४७ || शुक्लांवरधरो भूत्वा शुक्लमाल्यानुलेपना | यं विग्रहंति स्वप्नान्ते तस्य सिद्धिर्न विद्यते || ४८ || रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपनाम् | यं विग्रहति स्वप्नान्ते सुप्तेष्वपि न सिध्यति || ४९ || प्. ५४) कुचेला वा मलग्रस्था व्याधिता विकृतानना | ताभिर्ये गृहीतः स्वप्ने सुप्नेष्वपि न सिध्यति || ५० || एवं स्वप्ना मयाख्याता विधिस्यस्य षडानन | कथयन्ति तथात्यन्तध्यं भविष्यं युक्त कर्मणः || ५१ || सूत्रयित्वा पुराभूमिं मण्डपेन्य प्रमाणतः | यागं यथोदितं कृत्वा रजन्यरज्य मण्डलम् || ५२ || शुक्लाम्बरधरो भूत्वा शुक्लमाल्यानुलेपनः | शुक्लयज्ञोपवीती च सूत्रपातं समारभेत् || ५३ || पूर्वापरौदिशौ साद्ध्ये वै शंखोर्धेन भानुना | पुष्यधेयेन वा मंत्र चित्रास्वात्यन्तरेण वा || ५४ || एवं पूर्वापरं कृत्वा तत्र सूत्रं प्रकारयेत् | विकल्य मध्यदेशं तु तत्र शंकुं निधापयेत् || ५५ || शंकोरुभयतः सूत्रं सविकृत्वा प्रसारयेत् | बिन्दुद्वयं समालिख्य मत्स्यमुर्थापयेत् ततः || ५६ || शंकुविर्थं तु तत्सूत्रं मध्ये मत्स्य द्वयस्य तु | खटकाकर्षितं कृत्वा दक्षिणोत्तरतां नयेत् || ५७ || आत्रालयेतस्सूत्रं येवमुत्तरता दक्षिणे | विदिशासु तथा नीत्वा अन्तरेषु तथा नयेत् || ५८ || मध्ये बिन्दु स्थितं सूत्रं भ्रामयेच्चतुरंगुलम् | आलिख्य कर्णिकां तत्र द्वितीये केसरान् लिखेत् || ५९ || प्. ५५) तृतीये दलसदूनि दलाग्राणि चतुर्थके | प्रतिवारण रेखां तु दद्यात् पद्मस्य बाह्यतः || ६० || रेखा रेखोतर ज्ञात्वा दलाग्राणि तु संग्रहेत् | कोणेन वायुधेत् कोणं तमसूत्रेण षण्मुख || ६१ || द्वात्रिंशत् षोडशाष्टौ वा पत्राण्यालिख्य विन्यसेत् | तेभ्यश्चतुर्गुणानेव केसरान् परिकल्पयेत् || ६२ || अष्टपत्रे न्यसेच्छक्तिं यथा पूर्वमुदाहृतः | बहिरंगुलमुत्सृत्य पद्मसूत्रं प्रसारयेत् || ६३ || तस्मात् तु षोडशाष्टौ वा गायत्रीं तत्र वर्जयेत् | अथवा वाहनारूढनस्त्र हस्ता षडानन || ६४ || पृथग्बाह्यास्त्र वर्गस्य यजेत् कृत्वार्थ वा कृतिम् | यवेनान्तरित रेखाशतं स्त्रांगुल सममिताः || ६५ || दद्यांवरणे रम्यो श्वेतपीतरुणासिताः | कर्णिकां पीतवर्णेन चतुरंगु(ल)मुच्छ्रिताम् || ६६ || किंचिद्धारिकं वर्णं दद्यात् केसरसन्धिषु | केसरां मूलसश्शुक्लान् कुर्यान् मध्ये रुणेन तु || ६७ || अग्रं चैव तु शुक्लेन दलान् शुक्लेन छादयेत् | चतुर्विधां ततो रेखामभ्युधिं नाम संहताः || ६८ || विचित्रैर्मिश्रितैर्वर्णै रचनाः परिकल्पयेत् | वाहयेत् पश्चिमद्वारमितराणि निरोधयेत् || ६९ || प्. ५६) पद्ममानं विवेद्वारं विधीनां विस्तरं तथा | शोभाश्चोप शोभाश्च कपोलाश्च कपाटकाः || ७० || तुल्यमाना स्मृता ह्येता पद्मार्धेन तु कारयेत् | पद्मार्धे नाथ वा कुर्याद् द्वारं वीथिं षडानन || ७१ || तदर्तेनतरान् भूयः पृथक्प्रक्रमणेन तु | एवं तं रचितं कृत्वा परमं शिवमण्डलम् || ७२ || इष्ट्वा च विधिवद् दैवं ततो ध्यानं विशोधयेत् | इति सर्वज्ञानोत्तरे क्रियापादे पञ्चगव्यादि दीक्षाङ्गप्रकरणम् || अथाध्यासं प्रवक्ष्यामि संक्षेपान्नतु विस्तरात् | उर्वीतत्वादितः कृत्वा यावत् तत्वं निरामयम् || १ || उर्वीतत्वं तु सौवर्णं सूर्यायुत समप्रभः | कुक्कुटाण्डसमाकारं ब्रह्माण्डमेतमुच्यते || २ || भुवनान्यष्ट षट् चैव तस्यैघाभ्यन्तरे स्थिताः | शतयोजनकोट्यंस्तु प्रमाणं तस्य कित्ततः || ३ || तस्यैवाथ स्थले रुद्रा रुद्रकोटिभिरावृतः | कालाग्निरीति विख्यातो रक्तकृष्णोग्ररूपधृत् || ४ || नोर्ध्वं निरीक्षते देवो माभूद्भस्म विदं जगत् | स एव रुद्रो विज्ञेयस्स शिवस्य च कालधृत् || ५ || तस्योर्ध्वं महानरकाः घोररूपाः सुदारुणाः | जीवैस्तु नारकैः सार्धं छत्यारिंशत्गतं क्रमात् || ६ || प्. ५७) रौरवो महारौरवः कुम्भीपाकस्तथैव च | एते महद्धिकाश्शोधनीधाः प्रयत्नतः || ७ || सर्वे शुद्धा इमैः शुद्धैःर्नरकानात्रसंशयः | कूश्माण्डस्तु पतिस्तेषां न च रुद्रः प्रकीर्तितः || ८ || तस्योर्ध्वं सप्तपातालं क्रमशः संख्यवस्थिताः | स्वरूपैस्त्रिभिः संकीर्णस्थीलुहाटेश्वरः प्रभुः || ९ || तलं च नितलं चैव वितलं च तथा परम् | सुतलं तलातलं चैव पातालं च रसातलम् || १० || नागाश्च गरुडाश्चैव किं पुरुषादनुजास्तथा | अग्निर्वायु कुबेराश्च पतयस्तु पृथग्विधाः || ११ || भूलोकं च तथा विद्यात् सप्तद्वीपार्णवैः सह | सचैलमस्वनोद्यान नदीनदसमाकुलम् || १२ || जम्बूशाककुशक्रौंच शालमलीद्वीप एव च | गोमेद पुष्करं चैव सप्तद्वीपाः प्रकीर्तिताः || १३ || पुष्करद्वीप मध्यस्थं पर्यन्तो मानसो तमाः | लोकपालाः स्थितास्तस्मिन् पृथिवीं पालं नि * ते || १४ || क्षारक्षीर दधिस्सर्पि तथा इक्षुरसोपि च | मदिरोदश्च स्वादूदः समुद्राः सप्तकीर्तिताः || १५ || गर्भोदस्त्वष्टमो ज्ञेयःस्तस्योर्वी द्वीपमुच्यते | आवृतं तेन सर्वं तु सोपि चोर्व्या समावृतः || १६ || प्. ५८) समुद्रैरावृता द्वीपा द्वीपैस्तेपि समावृताः | एवं द्विगुणते वृद्ध्या सोन्यमावृत्यसंस्थिताः || १७ || जम्बूद्वीपं ततो मध्ये समन्ताल्लक्षमायतं | नानाजनसमाकीर्णं नानासत्वसमाकुलम् || १८ || अनेकोषधि सम्पन्नं नानाधातु समन्वितम् | सर्वधर्माश्रय पुण्यमपुण्यमकृतात्मनाम् || १९ || तस्य मध्ये महामेरुः स्थितोस्सौ परिमण्डलम् | प्रविष्ट षोडशाधस्ताच्चतुरश्शीतित्रश्शितः || २० || स तु सर्वत्र सौवर्णः कांचनद्रुमसंकुलः | सिद्धविद्याधराकीर्णः किन्नरासुरसेवितः || २१ || वि * * * * * * भ शैलाश्चत्वारः स्थितस्य चतुर्दिशम् | ष्ठ * * * * * ब्धाः मेधिनीतैस्तु तेषां मूर्ध्नि समो पराः || २२ || * * * * * * रस्तस्य पूर्वेण दक्षिणे गन्धमादनः | * * * * * * * * श्चि मे नैव सुपार्श्वश्च तथोत्तरे || २३ || * * * * * ति फलो जंबु * * * * स्थो पद एव च | * * मूर्ध्नि महप्रक्षाश्चतुर्णां चानु पूर्वशः || २४ || रक्तोदमानसं चैव सितोधेश्च महाह्रदः | तथावान समीपस्था विज्ञेया मंदरादिषु || २५ || सदा पुष्पफलोपेतं पूर्वं चैत्र रथं वनम् | नानासुरभि गन्धाढ्यं नन्दनं गन्धमादने || २६ || प्. ५९) विविधामोद बबुलं वैभ्राजं वैपुले स्थितम् | निर्मितांस्तपुरादेवैः सरांसि च सरोरुहाः || २७ || सर्वगन्ध वहं रम्यं सुपार्श्वे विवनं ततः | तेषु वृक्षं लता गुल्म रूपाद्याये सुगन्धिनः || २८ || निर्मितास्ते पुरादेवैः सरांसि च सरोरुहाः | सदा सन्निहिता तेषु वसन्तकुसुमायुधम् || २९ || कोकिलारावमधुरैष्षट् पदोद्गीतकिन्नरैः | नित्यज्योत्स्नाकरं चन्द्र उच्वातपतिभास्करः || ३० || वर्षन्ति स्वेच्छया मेघा मारुतीश्च या | तेषु देवाः सगन्धर्वकिन्नराप्सरसोगणाः || ३१ || सिद्धविद्याधराश्चैव सदा क्रीडंनिभाविताः | चतुर्दशसहस्राणि योजनानि षडानन || ३२ || मेरोर्मूर्ध्नि अधोभागे लोकपालाष्टकं पुनः | इन्द्रपावकधर्मेशनीरुतीवरुणानिलाः || ३३ || कुबेरश्च तथेशानो लोकपालाष्टकं पुनः | पूर्वेणैन्द्रामरावत्यां तेजोपत्यां हुताशनः || ३४ || वैवस्वत्यां यमो राजा कृष्णवत्यां निशाचरः | शरवत्यां जलाध्यक्षो गन्धवत्यां तु मारुतः || ३५ || यशोवत्यां निधानेश ईशानस्तु महोदयः | अष्टपुष्यास्तु देवानां भोगस्थानानि षण्मुख || ३६ || प्. ६०) प्रज्यं तेषु म * महाभागानधिकारं च बाह्यशः | मेरोर्मूर्ध्नि सभा दिव्या ब्रह्मणश्च तथात्मनः || ३७ || मनोवतीति विख्याता महामहामुंन्निसेवीतर | तत्र गङ्गानदी पुण्या कृत्वा तस्याः प्रदक्षिणम् || ३८ || पतिता हि चतुर्दिक्षु विष्कं गिरि * * मूर्ध्नि | * सावंभो निधिसोमोऽमृतात्मा ज्योतिषांपतिः || ३९ || तस्मादिहागता दिव्याऽनुग्रहार्थं सरिद्वरा | तस्यैशान्यां महाश्रोतं ज्योतिष्कं नाम विश्रुतम् || ४० || तस्य मूर्ध्नि सभादिव्या महादेवस्य धीमतः | रुद्रकन्येस्सलावण्येर्देवदानवदुर्लभैः || ४१ || आवृता सा सभा दिव्या रुद्रैश्यामित विक्रमैः | भुवर्लोकस्तु तस्योर्ध्वं स्वर्लोकस्तस्य मूर्धनि || ४२ || उहजनस्तपस्सत्यमुपर्युपरि संस्थिताः | ब्राह्माण्डभित्तिमासृत्य सत्यलोकस्य मूर्धनि || ४३ || ब्रह्मा विष्णुश्च रुद्रश्च स्थिता लोकाः क्रमेण तु | ऐश्वर्यामृतसंप्राप्ता एकद्वित्रिगुण क्रमात् || ४४ || आत्मतुल्य गुणोपेतैः वृता कन्यैश्च तत्समैः | बाह्यतश्चत रुद्रास्तु स्थिता देश दिशास्वपि || ४५ || ब्रह्माण्डस्य महासेन धारकास्तेत्वनिन्दिताः | दिव्यज्ञानबलोपेत स्वच्छन्दगतिगोचराम् || ४६ || प्. ६१) शशाङ्कांकित मूर्धानो जटामकुटमण्डिताः | * * * * समप्रखैः दिव्ययौवनशोभितैः || ४७ || आवृतास्ते समन्तात् तु रुद्रैश्च बलदर्पितैः | एते प्रमांडा दधो भागे पूवादिदिगसृके || ४८ || अनन्तः पालको वीरो विषाग्निर्विषलोचनः | वृषो वृषधरो वीरो ग्रसनो बंद्धवांमुखः || ४९ || कपालीशो ह्यजो बुद्धो वज्ञदेह प्रमर्दनः | विभूति रघयश्शास्तापिनाकी त्रिदशाधिपः || ५० || अग्निरुद्रो हुताशी च पिङ्गलः * दको हरः | ज्वलनो दहनो बभ्रु भस्मान्तक क्षयान्तकः || ५१ || याम्यो मृत्युहरोधाता विधाता कर्त एव च | कालो रौद्रश्च विख्यातो धर्माधर्म पतिस्तथा || ५२ || नैर्-ऋतो मारणोहन्त क्रूरद्रष्टा भयानकः | ऊर्ध्वशेफो विरूपाक्षो धूम्रलोहित दंष्ट्रवान् || ५३ || लोह्यती बल * शैवपाशहस्तो महाबलः | श्वेतोथ जयभद्रश्च दीर्घबाहुर्बलान्तकः || ५४ || बंदवामुखोथ भीमश्च वरुणो लयवासकाः | कपर्दी मेघसञ्चारी सर्वगः सर्वगन्धवान् || ५५ || वायुः सूक्ष्मश्च तीक्ष्णश्च वेगकान् शोणितद्युतिः | * श्शिखः जटामकुटधारी च नानारत्नविभूषितः || ५६ || प्. ६२) निधीशो रूपवान् धन्यस्सौ देहस्तथैव च | प्रगैक्षणेकाशश्चा प्रकाशश्चललक्ष्मिवान् || ५७ || कामधृक्ल सर्ववद्याधिपस्सर्वज्ञस्सर्वगेश्शिवः | प्रभुः पिङ्गे क्षणे शानौ भूतबालो बलि * धः || ५८ || शंभुर्विभुर्गणाध्यक्षस्त्रक्षः त्रिदशवन्दितः | संवाहश्च विवाहश्च बिन्दुभ्यो मेक्षणश्शुचिः || ५९ || लोकेशबलमाक्रम्य प्रभुश्शक्ति समन्विताः | विचरन्ति महादेवा लोकपालैः प्रपूजिताः || ६० || एते रुद्रासामाख्याताः सूर्यकोटि समप्रभाः | कपालमालाभरणाः लोकपालस्त्रधारिणः || ६१ || एषामूर्ध्वं भवेदापो दशधा वृत्य संस्थिताः | खराखमुखरमावर्तोर्मिसमाकुलः || ६२ || तत्रास्ते भगवान् देवो वरुणो मृतसंभवः | शुद्धस्फटिकसंकाशी आदि गुह्याष्टकावृतः || ६३ || ओंकारस्तस्य पूर्वेण आग्नेययाः शशिभूषणः | देवदेवस्तु याम्यायां भोजगन्धस्तु नैर्-ऋते || ६४ || आषाढमेश्च वारुण्याः वायव्यां डिंडिरेव च | भारभूमिस्तु सौम्यायामैशान्यां लाकुलं विदुः || ६५ || अत ऊर्ध्वं भवेदन्यद् वाग्नेर्यावरणं विदुः | सुभाताय सुसंकाश मेघस्तनित निस्वनः || ६६ || प्. ६३) तत्रास्ते भगवानग्निरिति मह्याष्टका प्रतिः | पद्मराग प्रतीकाशो ज्वलन्तस्तेन तेजसा || ६७ || हरश्च त्रिपुरघ्नश्च त्रिशूलिः सूक्ष्म एव च | महाकालश्च सर्वाश्च ईशानो भरवस्तथा || ६८ || अत ऊर्ध्वं भवेदन्यद्वायव्यावरणं पुनः | नीलजीमूतसंकाशो भिन्नाञ्जन समप्रभः || ६९ || तत्रास्ते भगवान् वायुः कृष्णवर्णाञ्जनोपमः | सुभगः कामरूपी च गुह्याद्गुह्याष्टकावृतः || ७० || पितामहं पितुः स्थानं स्वयंभूरुग्र एव च | विश्वेशश्च महानादो महद्भीमस्तथाष्टमः || ७१ || अतश्चोर्ध्वं भवेद् व्योम भूतस्त्वे संप्रदवितः | अप्रमेयमनिर्देश्य मोक्षस्तानमिवापरः || ७२ || तत्रास्ते भगवान् देवो व्योमरूपी महेश्वरः | सूक्ष्ममूर्ति महाश्चासौ पवित्रेरष्टभिर्वितः || ७३ || भावश्चैव महायोगी त्रिमूर्ती रुद्र एव च | महाबल शिवश्चैव सहस्राक्षः स्थाणुरेव च || ७४ || अतो ह्यूर्ध्वं भवेत् तत्त्वं हंकारस्य षण्मुख | दीप्तपावकवर्णाभं भीमनादं दुरासदम् || ७५ || त्रिविधस्तस्त्र्य विज्ञेयोहंकारो घोररूपधृत् | प्रलयाम्बुधनिर्घोष स्थाण्वष्टक समावृतः || ७६ || प्. ६४) कपर्द ऊर्ध्वरेभाश्च महानुत्कट एव च | श्रीकण्ठो नीलकण्ठश्च महातेजास्तथैव च || ७७ || महालिंगेश्च स्थूलेशः कारणाज्ञानुवर्तिनः | आदिगुह्याष्टका रुद्रा अतिगुह्याष्टकास्तथा || ७८ || गुह्याद्गुह्याष्टकाश्चैव पवित्राष्टक एव च | स्थाण्वष्टकाश्च पश्यैते नियोगाद्भामिवासिनः || ७९ || अनुग्रहायमोकानां लिंगभूताः प्रदष्ठिताः | तेषामेव समीपस्थः यद्यत्तोयं षडानन || ८० || तत्तीर्थं पुनरं पुण्यं तत्र स्नात्वा शिवं व्रजेत् | रुद्राहेते सदा शुद्धाः कामरूपाः बलोत्कटाः || ८१ || कोट्यायुत परीवाराः सुखदुःख फलप्रदाः | प्रमदाभिरनिन्द्याभिर्दिव्य यौवनशालिभिः || ८२ || * * तास्ते समन्तात् तु कामविभ्रमकारिभिः | शुद्धस्फटिकसंकाशैः डाडिमीकुसुमप्रभैः || ८३ || नीलांजन समप्रभैः श्यामवर्णैरनौपमैः | * * ङ्ग रागसंकाशैः कामरूपैर्मनोहरैः || ८४ || (दीप्य)न्ते नित्यमेतैस्ते पञ्चतत्वाधिपाः शिवाः | * * र्ध्वं तु भवेदन्यत् बुद्यावरण संज्ञकम् || ८५ || आदित्योदयसंकाशं सन्ध्यारागसमप्रभम् | तस्य मध्ये स्थिता बुद्धिः व्यापिनी विश्वरूपिणी || ८६ || प्. ६५) अणिमाद्यष्टसंयुक्ता तुषि शक्ति समन्विता | सखीभिस्समतुल्याभिद्विरष्टवयशालिभिः || ८७ || आतासा महाभागा तत्प्रबुद्धैश्च योगिभिः | देवयोन्यष्टकं तत्र परितः सुव्यवस्थितः || ८८ || अप्रबुद्धं च शुद्धं च तथा सृष्टि प्रवर्तिकः | पैशाचं राक्षसं याक्षं गन्धर्वं चन्द्रमेव च || ८९ || सौम्यं चैवाथ प्राजेशं ब्राह्मं चैवाष्टमः स्मृतः | अत्तोर्ध्वं तु भवेदन्यद् गुणावरणसंज्ञकः || ९० || इन्द्रनील महारत्न शुद्धस्फटिकरूपकः | तद्वर्णो भुवनान्तस्था ब्रह्माविष्णुमहेश्वरः || ९१ || तमोरजस्तथा सत्व गुणाविष्ठितविग्रहाः | तथा च वनितास्सर्व पुरुषास्तं निवासिनः || ९२ || अन्योन्यबलमाक्रम्य गुणेश्शासंप्रवर्तकः | अष्टौ योगीश्वरांदस्ति तस्मिन्निरामयाः || ९३ || निर्गुणानिरहंकारा नित्यं योगपरायणाः | अक्तं च कृतश्चैव भैरवं ब्राह्ममेव च || ९४ || अतश्चोर्ध्वं भवेदन्यदव्यक्तं तत्वमुत्तमम् | अप्रतक्लमविज्ञेयं निर्वाणपदपस्थितः || ९५ || अप्रमेयमनिर्देश्यं निर्गुणं गुणमालि च | उत्पत्ति सर्वतत्वानां भूतानां च षडानन || ९६ || प्. ६६) स्थित्वा तु पुरुषः सूक्ष्मो व्यक्ताव्यक्तः सनातनः | उत्पादयति सत्वानि भवभूतानि चैव हि || ९७ || तत्रैव संस्थिता रुद्रा अष्टावेव महाबलाः | तत्तत्व धर्मिणः सर्वे सर्वे चानन्दविग्रहाः || ९८ || क्रोधेश्चांडसंवर्तो ज्योतिपिंगसुरगाः | पञ्चान्तकैकवीरौ च शिवेदसहितैश्वराः || ९९ || नितम्बकटिनिस्तारै पीनोनतपयोधरैः | आक्षाम्मद्ध्यदेशान्ते संपूर्णवदनोज्वलैः || १०० || सर्वलक्षणसम्पन्नैः सर्वाभरणभूषितैः | सेव्यन्तो नित्यमेते तु स्मरबाणनिपीडितैः || १०१ || शिखे तेन सहिता एते क्रोधेशादय ईश्वरः | अतोर्ध्वं तु भवेदन्यत् रागावरणसंज्ञकम् || १०२ || कुंकुमोदकसंकाशं कुसुंभरजसन्निभम् | तत्रास्ते भगवान् रागो जपाकुसुमसन्निभः || १०३ || * * क सर्वतत्वानां अप्रमेय सुदुर्जयः | * मी पुरुषसंकाशै बन्धूक कुसुम प्रभाः || १०४ || * * नमदसद्भावैः सदामदनविह्वलैः | * * * दि गणांकार विस्रस्त मृगलोचनैः || १०५ || सेव्यते स भगवान् रागश्चानन्द रूपधृत् | तत्रैव पुरुषो ज्ञेयस्तद्धर्मगुणरंजितः || १०६ || प्. ६७) अमृत्तौ व्यापकोचिद्व्यौ ब्रह्माण्डो मूर्तमानसौ | तत्रैव संस्थिता रुद्रा अष्टौ च शिवतुल्यगाः || १०७ || ज्ञानविज्ञानसम्पन्ना वीतरागा निरञ्जनाः | वामदेवो भवश्चैवोद्भवश्च तथा पुनः || १०८ || एकपिङ्गे क्षणे शानौ भुवनेशा पुरस्सराः | अंगुष्ठमात्रसहिता महादेवाष्टकाश्शिवाः || १०९ || निरामय महौजस्कास्तेनुरागनिरोधकाः | अतस्त्रध्वं भवेदन्यद् विद्यावरणसंज्ञकः || ११० || इन्द्रकोपसंकाशं क्वविच्चामीकरप्रभः | तस्य मद्ध्य स्थिता विद्या व्यापिनी विश्वरूपिणी || १११ || विश्वगा विश्ववेत्री सा रहस्य पदगामिनी | मण्डलाधारचित्रांगी ध्यानलोलायतेक्षणा || ११२ || शास्त्रशः भावनिश्वास वोषधीकेशसंचया | भावाभावाविलासाध्यैर्नित्यं प्रमुदितेन्द्रियैः || ११३ || संरम्भजनितारम्भैः खिनमष्ट पद क्रमैः | उत्क * * * निश्वासैः पयो पयो हरालसैः || ११४ || आकीर्णं हि पुरं दिव्यं विद्याविभवरंकितैः | तत्रैव संस्थिता रुद्रास्त्रयोदश * * * * || ११५ || वरेभ्यो परता शुद्धा विद्या विधि प्रकाशिकाः | वामदेवश्च भीमश्च उग्रश्चैव भवस्तथा || ११६ || प्. ६८) सर्वेशा * नेश्वरौ चैवैकवीराप्रचण्डधृक् | ईश्वरोथ उमाकान्तस्त्वजेशोनन्त एव च || ११७ || तत एक शिवश्चैव सर्वेषामुपरि स्थितः | अतोर्ध्वं तु भवेदन्यत् कलावरणसंज्ञकम् || ११८ || श्वेता पीतारूणं कृष्णं क्वचिच्चामीकुंसुमा * | तस्य मध्ये कलाज्ञेया चित्रवर्णानुलेपिनी || ११९ || चित्राभरण रत्नाढ्या चित्रमाल्याभरप्रिया | विज्ञानगमसंपन्नै रूपयौवनगर्वितैः || १२० || सहार्यविकटाक्षेपा तत्कालकरणोचितैः | मनोहारि सुरम्याङ्गै मदलालसजृंभितैः || १२१ || मण्डितं तत्पुरं रम्यं कलाभावानुरंजितैः | तत्र रुद्रो विभुर्व्यापी सर्वज्ञो ज्ञानभासकः || १२२ || नीललोहितवर्णोसौ शीतेन्दु सदृशः क्वचित् | कलाब्रह्माङ्गसंभूतैर्मन्त्रविग्रहधारिभिः || १२३ || आवृतोसौस्मंता तु नेककोट्ययुतैः पुनः | याम्यज्येष्ठश्च रुद्रश्च कालकालविकारणः || १२४ || बलविकरणो देवो बलप्रमथनस्तथा | दमनः सर्वभूतानां मनोन्मन एव च || १२५ || दशैते सृष्टिसंहार स्थित्यनुग्रहकारकाः | अत ऊर्ध्वं भवेदन्यत् कालस्यावरणंगुह || १२६ || प्. ६९) नीलनील समाकारं नीलाञ्जन समप्रभम् | तस्य मध्ये स्थितः कालो रौद्र सर्वांजनान्तकृत् || १२७ || दंष्ट्रा विकटघोरस्य पिङ्गलभ्रूश्मसुतारकः | अतसी पुष्पसंकाशैः कान्तिमत्प्रियदर्शिभिः || १२८ || अशोकपल्लवाकार पाणिपादाम्बुजांकिभिः | अत्यर्थरूपसम्पद्भिः प्रवालालशोभिभिः || १२९ || संसेव्यते सभगवान् कालः कामानुरागिभिः | उच्चुष्माश्शापरश्शंडा मातङ्गा घोररूपिणः || १३० || याम्यो हालाहलश्चैव क्रोधनो बंधवा मुखः | ततस्सूलगणानि * * * षद्रास्तथा परे || १३१ || हुलहुलास्तस्तथा चान्ये कालस्य विषये स्थिताः | अतोर्ध्वं तु भवेदन्यन्मायातत्वं सुदुस्तरम् || १३२ || मण्डवकोशवच्छिद्रं हरिताल समप्रभः | तस्य मध्ये स्थिता देवी माया तु बहुरूपिणी || १३३ || यथा तु मोहितं कृत्स्नं जगत्स्थावरजंगमम् | इन्द्रनीलसमप्रख्य रश्मिजालावकुंठितम् || १३४ || चलद्विन्दु सहस्रैस्तु कोटिभिस्तुमसावृता | वामचारास्त्रयस्तत्र वामगावामलोचनाम् || १३५ || वामकावामकृत्यं चोत्पाद्यन्ते षडानन | डंगविभ्रमकारिण्यो डंगस्नेहानुरंजिताः || १३६ || प्. ७०) डंभहासूत्रपातिन्यो डंभवाक्य मनोहराः | तथा च पुरुषा स्कन्द ज्ञेया माया शुक्लसंभवाः || १३७ || बहुप्रलापिनो मिथ्या मायाचार परायणा | अथवा सर्वतत्वानां निर्गमं सामुदाविकः || १३८ || त्रिमलं व्यापकं क्षिप्रं प्रोच्यमानं निबोध मे | यस्य तत्वस्य यत्तत्वं जन्मन्यभिधिकं भवेत् || १३९ || तत्स्वभावी भवेत् सोपि प्रलयेपि तथा गुह | एवं हि सर्वतत्वानां तत्वभाव प्रधश्चिधा || १४० || कथितास्ते समासेन रुद्रास्तस्मिन्निबोधमे | गगनेशो ह्यसाध्यश्च तथा हरिहरावुभौ || १४१ || दशोनो महावीर्यस्त्रिगलो गोपतिस्तथा | अथ संपुटस्संस्थास्ते मायातत्वस्य षण्मुखा || १४२ || ऊर्द्दोपि संस्थिता ये तु तां प्रवक्ष्याम्यतो शृणु | क्षमुशो ब्रह्मणोहन्त विद्येशानस्तथापरः || १४३ || विद्येशश्च शिवश्चैव अनन्तष्षष्ठ उच्यते | अमाधिनः स्मृतास्सर्वे मोहराग विवर्जिताः || १४४ || मायाबन्धविमोक्तारः पाशजाल विभेदकाः | अथोर्ध्वं तु भवेदन्यत् विद्यातत्वं षडानन || १४५ || डाडिमी पुष्पसंकाशं किञ्चित् पीतं सुनिर्मलम् | तत्र विद्याधिपा ज्ञेयाः पद्मराग समप्रभाः || १४६ || प्. ७१) सुदीप्ता निर्मलास्सूक्ष्मा व्यापिनी सर्वतोमुखी | तस्माद्विनिःसृता मन्त्रा पञ्चाङ्गं कृतलक्षणाः || १४७ || विद्याश्चै तथा ज्ञेया विद्यामन्त्राश्चमिश्रकाः | अचिन्त्या इपिणस्सर्वे सर्वे चानन्दविक्रमाः || १४८ || सर्वत्रगमिनः सर्वे सर्वे सर्वार्थसाधकाः | चतुर्विधामृतास्सर्वे पार्थिवाप्यानलानिला || १४९ || सर्वे समानधर्माणो श्रोतृभेदा पृथक्फलाः | पाणिनाचिन्तभेदात्तु मन्त्रभेदैः परः शिवाः || १५० || संस्थितोऽनुग्रहार्थाय साक्षिभूतस्तु कर्मणाः | स्थानं कर्म च भावञ्च देवता व्याप्तिमेव च || १५१ || वर्तते वीक्ष्य विश्वात्मा फलक्षेत्र विभक्तिषु | एवं हि मन्त्रभेदस्तु मन्त्रीतीतस्य षण्मुख || १५२ || अधुनाभेदभेदन्तु प्रोच्यमानं निबोध मे | यावन्तः केचनसत्वाः सर्वतत्वेषु संस्थिताः || १५३ || तावन्तस्तु स्मृता भेद देहस्यस्य विदेहिनः | यादृग्रूपं भवेत् तेषां नामगोत्रञ्च षण्मुख || १५४ || तादृग्रूपं शिवविद्या तेषु देहे व्यवस्थितः | छायारूपमिव स्थूलैः सूक्ष्मैः सूक्ष्मतरं तु तः || १५५ || निष्कले निष्कलात्यन्त रूपं स्निमु रूपकम् | प्राणी धर्मादि निर्मुक्तस्सुख दुःखफलं गुह || १५६ || प्. ७२) दादात्युपाह्यरूपेण तत्तद्धर्मानुरूपतः | एवं विद्या विचारेऽस्मिन् मन्त्रभेद शिवस्य तु || १५७ || देहभेदांश्च विख्यातस्तत्वभेदस्तथा विदुः | विद्योर्ध्वं तु भवेदन्यद् विद्येशावरणं पुनः || १५८ || दीप्तपावकवर्णाभं किञ्चित् द्रक्तं सुनिर्मलम् | अष्टौ विद्येश्वराः स्कन्द स्थितास्तस्मिन् विभूतितः || १५९ || विष्णुर्लिङ्गाग्निसंकाशो विद्यूमकिरणोज्वलाः | तत्र मध्य महासेन चक्रवत् परिसंस्थिताः || १६० || तेऽधिकारं क्रमात् कुर्युः शक्तिचक्रसमन्विताः | स रहस्य सकल्पानि मन्त्र तन्त्राणि षण्मुख || १६१ || निगमन्ति महात्मानो रुद्राणाममितौजसाः | प्रासादासनपर्यङ्गा प्राकारभूषणायुधाः || १६२ || सर्वे मन्त्रमयास्थेवे यथेष्टा सर्वकामिका | विद्येश्चेश्वर्ये रचिस्सेस्तु दिव्यामृत सुखप्रदैः || १६३ || कुञ्चिताग्र कचोद्गारैर्ललाट मृदुपट्टकैः | पिनाकी धनुराकारै भ्रूभिरुन्नतवक्षभिः || १६४ || आलोकर्ण पर्वतैः स्निग्ध नेत्रोत्पलैः शुभैः | सम्पूर्ण शशिसंकाशवदनाभोग मण्डलैः || १६५ || आताम्रोन्नतविम्वोष्टैस्तुंगनासाग्रशोभिभिः | नात्युन्नतैः समैः स्निग्धैःर्विशुद्धैर्दन्तपङ्क्तिभिः || १६६ || प्. ७३) पद्मरागप्रतीकाशैन्नीलयं नानन्दकारिभिः | गुप्तरध्रैः समैः कर्णैर्विरोमैः स्निग्ध कोमलैः || १६७ || आकंबुकर्णसीमन्तैर्मृणालललितैर्भुजैः | आवृत्त संहतैः पूर्णैः पीनोन्नतपयोधरैः || १६८ || आक्षां मध्यदेशान्तैर्गम्भीरावृत्तनाभिभिः | त्रिवलीतरंग भंगोधैरोमराशिप्रकम्पिभिः || १६९ || पुलकोद्भिन्नरम्यान्तैर्निगूढैरस्थिसंन्धिभिः | अश्वत्रपत्रसदृशैः गुह्य देशैर्मनोरमैः || १७० || कदली गर्भसंस्पर्शैरुरुभिश्शुभलक्षणैः | निगूढजानुगुल्फभिर्नितम्ब विपुलो ज्वलैः || १७१ || प्रस्तजंघैस्समैः पादैः प्रशस्तैर्लक्षणान्वितैः | सुरक्तपाणि पादान्तैश्शंखचक्राम्बुजांकितैः || १७२ || सुक्लिंतैष्ठरङ्गुलि पर्वेस्तनुतुङ्गनखोज्वलैः | स्निग्ध त्वक् स्वधल्परेखाभिस्सर्वलक्षणसंयुतैः || १७३ || सेव्यन्ते तु विद्येशास्सदा कदपपिडिताः | दिव्यगन्धानुलिप्तांगैः दिव्याभरणभूषितैः || १७४ || दिव्याम्बरधरैः सैम्यैः दिव्यमाल्योक्तमांगिभिः | रुद्रैश्च विविधाकारैः कालानलसमप्रभैः || १७५ || दिव्यज्ञानबलोपेतैस्सृष्टिसंहारकारकैः | अथोर्ध्वं तु भवेदन्यत् सर्वैश्वर्य मयं शुभम् || १७६ || सदाशिवं परं तत्वः शुद्धस्फटिक निर्मलः | योगपीठं परंशुद्धं तस्मिन् विद्या महात्मनः || १७७ || प्. ७४) धर्मादि चरणैर्युक्तं मध्ये कमल भूषितम् | चारुकेसरपर्यन्तं सहस्रदलविस्तरम् || १७८ || बहिरष्टभिसंयुक्तं पङ्कजैर्विमलात्मकैः | विशुद्ध शक्तिभिंनं ब्रह्माङ्गैरूपशोभितम् || १७९ || विद्येश्वरैश्च पीठस्थैः सिद्धयोगिभिरावृतम् | तत्रास्ते भगवान् देवो सर्वतत्वेश्वरोहरः || १८० || सदाशिवो विभुर्व्यापी मन्त्रमूर्ति मधः परः | अनन्तकान्ति सम्पन्नः अप्रमेय गुणक्रमः || १८१ || अनन्तशक्ति संभोग अनन्तासनसंस्थितः | विभज्यसस्वकं देहमष्टधा परमेश्वरः || १८२ || अनन्तादि शिखंड्यन्त स्थित शान्तेन चेतसा | अतोर्ध्वं बैन्दवं तत्वं विमलं सर्वतोमुखम् || १८३ || परमं तत्वानामनन्तं ज्योतिरूपिणम् | तत्र विन्दु स्थितं स्कन्द शुद्धस्फटिकनिर्मलः || १८४ || कदम्बगोलकाकारं स्फुरत्किरणमालिनम् | सकलो निष्कलश्चैव तथा सकलनिष्कलः || १८५ || सूक्ष्मो भिन्नकलश्चैव शिवो ज्ञेयस्तु पञ्चधा | कलै शान्त्यादिभिर्युक्त सकलं परिपठ्यते || १८६ || निष्कलः केवलो बिन्दु व्यापी सकलनिष्कलः | ज्वालिन्यादिभिः संयुक्तः सूक्ष्मोसौ परिकीर्तितः || १८७ || प्. ७५) स्वरैः षोडशभिर्भिन्नैर्भिन्नात्मा विन्दुरुच्यते | ततोस्यानन्ततो भेद सर्वशास्त्रेषु षण्मुख || १८७ || मन्त्रेषु मातृकायाञ्च न विना बिन्दुना क्वचित् | निष्कलस्ता पराशक्तिरचिन्त्या सर्वतोमुखी || १८८ || सुसूक्ष्मा निर्मला नित्यानन्तानिर्वाणदायिनी | याविजृम्भति तत्वेषु सर्वतत्वेषु चैव हि || १८९ || तथा भूतं जगत्सर्वमेकयानेकरूपया | अस्या ऊर्ध्वं निरालम्बं निराधारं निरामयम् || १९० || अचलं व्यापकं शान्तं सृष्टिसंहारवर्जितम् | प्रकृतेः पुरुषसंयोगात् विद्यारागस्य चैव हि || १९१ || कलाकालस्य संयोगात् मायातत्वनन्तस्य संगमात् | विद्या सदा शिवश्चैव बिन्दोः शक्तिसमागमात् || १९२ || सृष्टिरुत्पद्यते स्कन्द विन्दुशक्त्यादितः क्रमात् | पृथिवीमादितः कृत्वा यावत्तत्वन्तु वैन्दवम् || १९३ || तत्वात्तत्वं विजानीयात् दद्धा प्रत्य * संस्थितम् | उर्वी तत्वादितः कृत्वा देवताश्च षडानन || १९४ || अन्योन्यान्तरितैश्वर्या प्रभावान्तरितस्तथा | यानि नामानि तत्वानां तानि तत्वाधिपेष्वपि || १९५ || ज्ञात्वैवं योजयेन्मन्त्री यस्मिन् न्यः प्राप्तुमीहते | ब्रह्माण्डादूर्ध्वतो ये तु सर्वतत्वेष्ववस्थिताः || १९६ || जरामृत्युविनिर्मुक्त द्वन्द्वोपद्रववर्जिताः | तेषां हि या तना काचित् न भयं विद्यते क्वचित् || १९७ || प्. ७६) वर्ज्य सृष्टिं तु संहारं स्थितिं सर्वात्मकां गुह | स्थितिकाले प्रभुंजन्ते यत्वैश्वर्यं यथोदितम् || १९८ || संहारे निर्गुणाभूत्वा तत्वैः सार्धं विशंतिते | सृष्टिकाले प्रजायन्ते सर्वतत्वैः स्वकैः क्रमात् || १९९ || पुनरप्येवमेतेषां उदयास्तमनस्थितिः | यो यस्मिन्नाश्रितो नित्यं तत्वतस्तद्विधानवित् || २०० || तत्कालसमयो सोपि भवते तत्परायणः | यथान्तराणि प्रोक्तानि प्रभावैर्य व्याप्तिषु || २०१ || तथान्तराणि वेद्यानि उदयास्तमनादिषु | नोदयास्तमनं स्कन्द भवते शिव वेदिनः || २०२ || यतो हि सर्वतत्वानां विज्ञानादन्ततस्थिताः | तत्वैरेभिर्निबंधात्मा सर्वधर्मश्च संयुतः || २०३ || नान्येन शक्यते माक्तुः वर्ज्यदीक्षाः शिवात्मिकाः || २०४ || || श्री श्री इति श्रीमत्सर्वज्ञानोत्तरे क्रियापादेऽध्वप्रकरणम् || अतः परं प्रवक्ष्यामि अप्रबुद्धस्य देहिनः | सर्वतत्व निबन्धस्य सर्वधर्ममयस्य तु || १ || पशुधर्म नियुक्तस्यानादि मलमुषिणः | शृणुवत्सपरां दीक्षां शिवसायुज्यदांशुभाम् || २ || यस्य यस्य हि देवस्यादि मन्तो येक्षरः | अकाराकारसंभिन्नं वह्निबीजमन्वितः || ३ || प्. ७७) वायुबीजसुसंयुक्तं अथ षष्ठं नियोजितः | मूर्ध्नि बिन्दुसमायुक्तः मन्त्री सर्वेषु कीर्तितम् || ४ || तदेकमक्षरं भिन्नं मात्राद्वादशभिः पुनः | ह्रस्वब्रह्म समाख्याता दीर्घैरङ्गानि निर्दिशेत् || ५ || त्रितत्वं बिन्दुसंयुक्तं त्रयो नेत्राः प्रकीर्तिताः | स विसर्जास्स्मृताः ह्यस्त्रा बिन्दुनाद विवर्जिताः || ६ || शिवोक्तेन विधानेन इष्ट्वा देवाननु क्रमात् | तर्पयित्वा यथा भूयस्ततो दीक्षां समारभेत् || ७ || उपोषितां शुचीः स्नातानाचान्तान् धौतवाससः | धौतपादास्तु संसिक्तान् रिष्यामन्त्रि प्रवेशयेत् || ८ || आलभ्यः पञ्चभिः ब्रह्मैः शिवांगैः प्रणवेन च | नेत्रं नेत्रेषु विन्यस्य नेत्रबन्धं तु कारयेत् || ९ || दुकूलपट्टवेदांगैस्तथा कार्पासजेन वा | सतशेन नवेनाथ सितेनश्लष्णवाससा || १० || पुष्पांजलि समायुक्त दक्षिणामूर्तिमानयेत् | गुरोस्संसिक्तमनसा दर्भहस्तः सुमन्त्रितः || ११ || दर्भाग्रेर्दक्षिणाजानुं स्पृशत्वै देशिकस्य तु | ततश्चालंवनं कृत्वा पाशान् संहृत्य होमयेत् || १२ || हृदयेन विधानज्ञस्तथैवास्त्र द्वयेन तु | वर्गातीतं यकारं तं प्रासादं च पुनः क्रमात् || १३ || प्. ७८) पूर्वात् बीजितान् कृत्वा धर्माधर्मेषु योजयेत् | धर्मे तु संस्तीज्योष्ठा वामा धर्मे ततोच्यते || १५ || उभयोः संस्थिता रौद्री तत्रस्थो होमयेदुभौ | त्रितत्वभेदिता वर्णा शक्तित्रयमिहोच्यते || १६ || वर्णातीत धर्मे तु धर्मा मध्यममेव तु | धर्माधर्मौ प्रसादेन व्यामिश्रौ होमयेत् पुनः || १७ || अथवा तावुभौ स्कन्द धर्माधर्मौ विमिश्रितौ | होमयेच्छिवतत्वेन सकलेन विचक्षणः || १८ || अकारौकारसंभिन्नं हंसंवर्गान्तसंस्थितम् | मकारसहितं देवं वह्निवायुसमीरितम् || १९ || मूर्ध्नि बिन्दुसमायुक्तमतष्षष्ठं नियोजितः | सकलां सर्वभूतस्यं शिवतत्व प्रकीर्तितम् || २० || यस्मिन् तत्वे प्रभुर्यस्तु शिवं तत्र प्रकल्पयेत् | तन्मन्त्रैस्सर्व संस्कारस्तस्मिंस्तत्वे समाचरेत् || २१ || पतिधर्मैः समस्तैस्तु पशुधर्मान्निराकुरु | पतिधर्मांश्च वे धर्मे रमस्केनतानि तु || २२ || स्थाने जन्मतथेश्वर्यं तद्भोगापातनं तथा | अधिकारं लयं चैव होमयेत् क्रमशः पुनः || २३ || तत्वं संयोजयेत् पूर्वं कुण्डमध्ये विधानवित् | स्वनाम सर्वतत्वानां मन्त्रो ग्रहणकर्मणि || २४ || प्. ७९) तत्व मध्ये तु गायत्रीं स्वमन्त्र विधिकल्पिताम् | पशुसंगृह्य तत्वज्ञ तस्य गर्भे नियोजयेत् || २५ || नासाग्रं नियतस्थानं पशोर्ग्रहण कर्मणि | ह्रस्व वी * * * * * तेजपिंडा कृतिं स्मरेत् || २६ || ताडयित्वास्त्र बीजेन हृदयेन समुद्रया | गर्भादानं तु सद्येन वासुपुंसवने स्मृतम् || २७ || सुम * * नो संज्ञेन पुरुषं जातकर्मणि | ईशानं योजये नाम्नि हृदयञ्चान्न प्राशने || २८ || शिरसा त्वधिकारञ्च शिखाया भोगमेव च | ऐश्वर्य नेत्रबीजेन कवचेन लयं हुनेत् || २९ || एकैकेन दशाहुत्या पूर्णाहुत्य शिवेन तु | दशभिः स्रोतसं शुद्धिं ब्रह्माङ्गैरनुपूर्वशः || ३० || शिवेन सर्वतत्वेषु तत्वशुद्धिं समाचरेत् | पाशच्छेदं तथा दाहं प्रायश्चित्तं च होमयेत् || ३१ || तत्वं तत्वेषु सन्धाय नरकांश्च विरोधयेत् | * * * * * * * * * * * * हुं फट् कारेत् || ३२ || वियोज्य ज्येष्ठया पश्चाद्रौद्राच्चैव चोद्धरेत् | तत्वे तत्वे त्विदं कर्म विधिनानेन षण्मुख || ३३ || कर्मभूमौ सुविस्तारं भूर्लोके तु समारभेत् | कालाग्नि रुद्रतत्वे तु कालाग्नित्वं विशोधयेत् || ३४ || प्. ८०) नारके नारकान् धर्मान् भुक्त्वा कूश्मांडतां नयेत् | पाताले सप्तमेतं तु न्यासं कृत्वा विमोचयेत् || ३५ || अथोर्ध्वं हाटकं तत्वं भूलोके जनयेत् ततः | स्थावरत्वं तु सद्येन सारिसृप्यमवात्मना || ३६ || पक्षित्वं घोररूपेण मृगत्वं पुरुषेण तु | पशुत्वमीशबीजेन होमयेदनुपूर्वशः || ३७ || एकैदशभिर्मन्त्रीं हुत्वा पूर्णाहुतिं ततः | सद्येन वामदेवेन हृदिना च विधानवित् || ३८ || शूद्रत्वं होमयेद् देही वैश्यादीननुपूर्वशः | गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा || ३९ || उपनिष्क्रमणं नामान्नप्राशनमेव च | हृदिना निष्क्रम कर्म चूडा वै ब्रह्मभिः स्मृता || ४० || अथोपनयनं कार्यं ब्रह्माङ्गैर्दशभिः क्रमात् | मेखलोपवीतं च दण्डं कृष्णाजिनं तपः || ४१ || स्वाध्यायमग्नीकार्यञ्च सन्ध्योपासनमेव च | भिक्षाभिवादनं मौनं ब्रह्मचर्यं शमोदमः || ४२ || गुरुपसदनं जाप्यमनिन्दामस्सुहार्जवः | अहिंसा सत्यमद्रोहस्त्यागः क्षांतिरपैशुनः || ४३ || दयाभूतेषु लोलुत्वं मदिवं ह्रीरचापचलम् | तेजः क्षमाशुचि शौचमद्रो * * * * निता || ४४ || प्. ८१) सर्वाननुक्रमेणैतान् गायत्र्यां दशधा हुनेत् | त्रायुषं चोपाकर्म गोदानं च महाव्रतम् || ४५ || नैष्ठिकं चासिधारं च हुनेत् पाशुपतेन तु | ततस्ता प्लावनेभ्योमश्शिवांगैरभिधीयते || ४६ || पत्नीसंयोजनं कुर्यात् ब्रह्माङ्गैः पुनरेव हि | कृत्वा दर्भमयां पत्नीं मोमित्येव नियोजयेत् || ४७ || एकैकैर्दशभिमन्त्री एकैकेनाहुतीदश | अग्निष्टोमोत्यग्निष्टोमो वाजपेयोक्य षोडशी || ४८ || अतिरात्राप्तोर्यामश्च सोमसंस्था इति स्मृताः | ब्रह्माङ्गैः शिवगायत्र्या महास्त्रेण शिवेनव || ४९ || विंशाहुतीर्दद्यात् एकैकस्य विशुद्धये | पूर्णाहुतिं ततः पश्चात् सर्वसंस्कारकर्मसु || ५० || शिवेन संप्रयुंजीत प्लुतेनामृतवर्षिणा | शिवेन कुरुते होमं यस्मिन् संस्कार कर्मणि || ५१ || वर्जा पूर्णाहुतीमेकां द्विगुणं तत्समाचरेत् | सोमसंस्थावसाने तु सर्वमन्त्रैः सकृत् सकृत् || ५२ || सोमवानाहुतिं दद्याद् दधिक्षीरं घृतं मधु | सहस्रक्रतु मध्ये तु दशदज्ञात् परं हुनेत् || ५३ || त्रिंशत्त्रिंश तिराहुत्या शिवेन च विचक्षणः | अश्वमेधं ततो होमेदाहुत्यं पञ्चविंशतिः || ५४ || प्. ८२) शिवमन्त्रेण मन्त्रज्ञो * * स्था भवति ध्रुवम् | वानप्रस्थ ततो हुत्वा सर्वमन्त्रैश्च पञ्चधा || ५५ || तस्मिन् सर्वपरित्यागं कृत्वा * * * * यते | भिक्षुत्वं होमयेत् तस्य सर्वमन्त्रैः सकृत् सकृत् || ५६ || विशुद्धं कल्मषं भूयो ब्रह्मलोके नियोजयेत् | सन्धानं पूर्ववत् कृत्वा भेदयित्वा ततः पुनः || ५७ || इष्ट्वातु पूर्ववद् देवान् पूर्वोक्त विधिमारभेत् | ब्रह्मत्वं वासु देवत्वं रुद्रत्वं विधानवित् || ५८ || पूर्ववत्कर्मयोगेन होमयेत् सुसमाहितः | कटाहं पूर्ववद्भित्वा दलरुद्रादिगीश्वरान् || ५९ || पूर्वोक्तेन विधानेन यजेद्ब्रह्माणु मूर्धनि | * * * * * * * * मेजेशं पूर्वतो न्यसेत् || ६० || अग्निरुद्रं स्वके देशे कालं याम्ये नियोजयेत् | भयानकं तु नैर्-ऋत्यां वारुणं तु महाबलम् || ६१ || वारुण्यां शोषणन्यस्य कामरूपं ततोत्तरे | सर्वविद्याधिपं रुद्रमैशान्यां तु नियोजयेत् || ६२ || स्वमन्त्रैरर्चयेत्सर्वान् शिववच्छंभुमीश्वरम् | पूर्वोक्तेन विधानेन कृत्वा मण्डल तर्पणम् || ६३ || ततस्तु शंभुरुद्रत्वं जनयित्वा विरोधयेत् | शेषेषु निष्कृतिं दद्यात् विंशविंशाहुति क्रमात् || ६४ || प्. ८३) विशोध्या पार्थिवं तत्वं वरुणेत्वे नियोजयेत् | तेजो निले तथा * त्नि अहं क्रीडिषणे गुणे || ६५ || प्राकृते पौरुषे चैव रागविद्या कले तथा | काले मायां पुनश्चेति विद्यायामीश्वरै तथा || ६६ || सदाशिवे तथा तत्वे तथा सकलनिष्कले | सर्वतत्वाधिपाधर्मान् तत्वधर्मास्तथापरान् || ६७ || विधिनानेन संशोध्य कारणे चोन्मने न्यसेत् | अथासर्वतत्वेषु यजेदेकं परं शिवम् || ६८ || तन्मन्त्रैः सर्वसंस्थारास्तत्वे तत्वे समाचरेत् | तस्यैव दक्षिणामूर्तौ क्रमात् तत्वाधिपान् न्यसेत् || ६९ || तं मध्ये पितु रुद्रास्ताण्ययैव नियोजयेत् | पूर्ववत् सर्वकर्माणि सर्वाध्वानि समाचरेत् || ७० || तथैव चोन्मनीभावमाहुत्यन्ते षडानन | चवारेव विधिः प्रोक्तः शरीरे शृणु सांप्रतम् || ७१ || धेनशुधेन शुद्धस्तु भवतीह न संशयः | पूर्वोक्तेन विधानेन धारणाभिस्तु पञ्चभिः || ७२ || शोधयेत् सर्वतत्वानि देहस्थानि पुनर्णमात् | पशुं संयोजयेत् पूर्वं पूर्वोक्तविधिना शिवे || ७३ || साधिकारे शिवातीते शुद्धस्फटिक निर्मले | कर्मण्येव कृते तस्य शिवाश्शेदो विधीयते || ७४ || प्. ८४) सप्ताभिर्मन्त्रितां कृत्वा क्षुरिकास्त्रेण कर्तरीम् | योजयेहीत शिखास्थाने युक्तां त्रिमधुरेण तु || ७५ || शिवाबीजेन मन्त्रज्ञो वौषडन्तेन निक्षिपेत् | शक्तिसम्पुटमध्यस्थं कारणेन नियोजयेत् || ७६ || अनमस्कं ततः पश्चात् साधिकाराद्विमोचयेत् | यमुद्दिश्यकृतंकर्म मन्त्रदैवतपूर्वकः || ७७ || विधानशास्त्रदृष्टेन तत् तस्य फलदद्धुवम् | यत्कृतः कामचारेण विधिहीनं षडानन || ७८ || न तेन कर्मणा सिद्धिं न सुखं न परां गतिम् || ७९ || || इति सर्वज्ञानोत्तरे क्रियापादे दीक्षाप्रकरणम् || अतस्संक्षेपतो वक्ष्ये दीक्षाविधि विनिश्चयम् | चातुर्वर्णहितार्थाय परमेशेन भाषितः || १ || संहृत्य सर्वतत्वानि पञ्चधा परिवर्तयेत् | देवताश्च ततो भूयस्तेषु मन्त्रान् यथाक्रमम् || २ || पृथिव्यापस्तथा तेजोः वायुराकाशमेव च | एतानि पञ्चतत्वानि सर्वेषां व्यापकानि तु || ३ || न विनापञ्चभिस्तत्वैर्देह बन्धो विधीयते | स्थूलसूक्ष्मविभागेन ज्ञात्वैतानि विशोधयेत् || ४ || सर्वतत्वानि शुद्धानि विशुद्धैः षडानन | देवैश्च देवतास्सर्वे शुद्धा स्मृताः भवन्ति हि || ५ || प्. ८५) ब्रह्माविष्णुश्च रुद्रश्चानन्तेश सदाशिवौ | पृथिव्यादिषु तत्वेषु क्रमात् तत्वाधिपाः स्मृताः || ६ || तेषां मध्यमन्त्रस्तु विभिंता मन्त्र या भवतु | त्रयस्त्रिंशतिमं शम्भोरितरेषास्वनामकम् || ७ || पूर्वविधजनं कृत्वा तथा योनिं प्रकल्पयेत् | ग्रहणं न तथा भूयः पशुसंयोजनं तथा || ८ || निवृत्ति * समन्त्रेण साधयेत् साधकोत्तमः | गुह्यकेन प्रतिष्ठां तु विद्याघोरेण होमयेत् || ९ || शान्तिं तत् पुरुषेणैव शान्त्यतीतां शिवेन तु | एकैकस्य शतं ज्ञेयमाहुतीनां तु साधकैः || १० || हुतैश्चैव तु मुच्यन्ते पशवोजन्मबन्धनात् | गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा || ११ || जन्मनिष्क्रमणं नाम अन्नप्राशनमेव च | अधिकारं तथा भोगं लयं चैव विधानवित् || १२ || ततश्च स्रोतसं शुद्धिं तत्व संशुद्धिमेव च | वियोगञ्च तथोद्धारं तत्वसन्धानमेव च || १३ || छेदं भेदनं दाहमेतान् पूर्ववदाचरेत् | पृथिव्यादिषु तत्वेषु ततः कुर्यान्निरंजनम् || १४ || पूर्ववद् देह संश्लिष्टान् शोध्यतत्वा शिवं नयेत् | पुनरेवं प्रवक्ष्यामि गुह्याद्गुह्यतरं परम् || १५ || प्. ८६) संस्काररहितः कर्मा भित्वा केवल योजनः | इष्ट्वा देवं शिवं शान्तं प्रासादममितौजसः || १६ || सहस्राहुति होमं तु ब्रह्माङ्गैः पुनराचरेत् | भूयोप्यष्ट सहस्रं तु दत्वा देवस्य षण्मुख || १७ || संहृत्य पुद्गलं पश्चात् शिवाग्रेव नियोजयेत् | ततः सन्धाय तत्वानि पुनर्मूलेन भेदयेत् || १८ || ततस्तेनैव मार्गेण बिन्दुतत्वे नियोजयेत् | अमनस्कं यथा पूर्व वासतत्वं षडानन || १९ || कृत्वा तु देहसंश्लिष्टान् पुनस्तत्वं नियोजयेत् | पूर्वोक्तेन विधानेन योजयित्वा पशुं शिवम् || २० || तथा चैव शिवाश्चेदं कृत्वा कुर्यादनामयम् | एवं दीक्षा समाना यागचण्डेश्वरस्य तु || २१ || कृत्वा पूर्वं गुरोर्यागं अपरेऽहनि पुत्रकः || २२ || गुरुरप्यात्मसंशुद्ध्या विद्यादेवं विधानतः | शिवादीयोविदात्मायं गुरुपंति पुनर्व्रजेत् || २३ || शास्त्रोपदिष्टमार्गेण वारुण्यामीश्वरस्य तु | पद्मसंस्थान्यजन्मन्त्री मण्डले हृष्टमानसान् || २४ || सदाशिवमनन्तं च विद्यारुद्रं सहोमया | विष्णुनद्देवेशं ब्रह्माणं स्कन्दमेव च || २५ || समयिकं पुत्रकः पश्चात् पूज्य शंभुं तथा गुरु | प्. ८७) गन्धपुष्प सवित्राध्यैर्वस्त्रालंकार वाहनैः || २६ || पूजयित्वा विधानेन तथात्मानं निवेदयेत् | एवं निवेदितात्मा तु गुरुपाशैर्विमुच्यते || २७ || अध प्रभृति भगवन्यो विदेहो ममात्मकः | युष्मदीयो विकल्पेन शंस्यवाल्यश्च ते सदा || २८ || एवं गुरुवशो भूत्वा सन्तुष्टो यावदायुषः | अनुज्ञातो यदा तेन कुर्यात् कार्याणि सुव्रतः || २९ || अग्निकार्यं जपं पूजा दीक्षाज्ञान व्रतानि च | वृथा तेषां विजानीयात् गुरुर्येषां न देवता || ३० || गुरुः पिता गुरुर्माता गुरुर्देवो गुरुः सुहृत् | गुरोस्तु न परं किञ्चिदित्याह भगवान् शिवः || ३१ || ज्ञानाज्ञानेन दिव्येनाचोद्घाटयति चक्षुषी | अज्ञानतिमिराक्रान्ते तस्माज्ज्ञानमयो हि सः || ३२ || सिद्धविद्याधरान् भोगान् सदेवासुर मानुषान् | प्राप्नुवन्ति समायुक्त गुरुणोक्तेन कर्मणा || ३३ || गुरुपदिष्टमार्गेण प्राप्नुवन्ति परंपदम् | तस्मादादौ गुरुः प्रोक्तः पश्चाद् देवो निरंजनः || ३४ || दीक्षया तु परं ज्ञानं नयते शाश्वतं यतः | तस्मान्नास्तत्र बोद्धव्यः गुरुभ्यः परतो गुह || ३५ || गुरवस्तोषिता येनाहं रुद्रगणैः सह | तोषितो नात्रसन्देहस्तथा देवास्सवासवाः || ३६ || प्. ८८) अवज्ञानेन क्रुद्धेन नरके पतनं ध्रुवम् | तस्मादेवं विदित्वा तु गुरुं नैवावमानयेत् || ३७ || आसनं शयनं यानं नरोहेद्गुरुसन्निधौ || ३८ || (नाध्यापनं प्रकुर्वीत) गुरों निम्नासनो भूत्वा स तिष्ठो तत्परायणः | चित्रां नैवाग्रतो धार्यं नोष्णंषं न च पादुके || ३९ || किरीटाद्युज्वलाज्वलां त्येवं न कुर्याद् गुरुसन्निधौ | नाध्यापनं प्रकुर्वीत व्याख्यानं शिष्यसंग्रहम् || ४० || गुरोश्चैव समीपस्थो गुरुशिष्य प्रबोधनम् | न श्रोतव्या गुरोर्निन्दा शास्त्रनिन्दा तथैव च || ४१ || देवस्य देशिकानाञ्च मुनीनाञ्च षडानन | गुरोर्ज्येष्ठं कनिष्ठं वा भ्रातरं न व्यति क्रमेत् || ४२ || तथा चैवात्मनो ज्येष्ठान् सर्वान् पश्येद् गुरुशिव | दीक्षाभिषेक ज्येष्ठेन कनिष्ठस्य कदाचन || ४३ || तपोविद्याधिकस्यापि * तव्यं नाभिपादनम् | सर्वतो गुरवो ज्ञेया ये चान्ये पूर्वदीक्षिताः || ४४ || मान्याः पूज्याश्च ते नित्यं गुरवोन्यत्र षण्मुख || ४५ || इति श्री सर्वज्ञानोत्तरे क्रियापादे कलातत्वपञ्चतत्वदीक्षाप्रकरणम् || न प्राप्तोपि परां दीक्षां गुरुभुक्तोपि यत्नतः | कालेनान्त स्थितो यस्य तस्य मोक्षाः कथं भवेत् || १ || किं प्रदा तस्य संक्लेशो मोक्षमुद्दिश्य यः कृतः | प्. ८९) किं किंचिद् विद्यते कर्म तस्य धर्मोक्ष साधनम् || २ || गुरुभक्ताय शान्ताय सत्याचाराय सुव्रत | मृतस्यापि वरं स्कन्द दीक्षाकर्म विधीयते || ३ || * * * * * * * * विधिसंक्षेपविस्तरम् | अपि कल्पमति कुर्याद् एकश्चित्त समाहितः || ४ || तत्वानि देवता बीजं कलिकैः करवीरकैः | उच्चार्य विन्यसेन् मन्त्री दर्भै पुत्नीशके कृते || ५ || स्नापयित्वास्त्र बीजेन पञ्चगव्य शिवाम्बुजा | संस्थाप्य दक्षिणे पार्श्वे तस्य नाम हृदि न्यसेत् || ६ || अथवा व्योमसंस्थाने गोमयेन षडानन | सम्मन्त्र्य पञ्चगव्येन कृत्वा तस्मिन् नियोजयेत् || ७ || शक्तित्रयत्येनेत्तासु धर्माधर्म च षण्मुख | तदेवालम्भनं कृत्वा तस्मात् संहृत्य होमयेत् || ८ || ततस्तु मूर्ध्नि आगव्य यावत् पादतलान्तकः | विन्यसेत् सर्वतत्वानि तत्वैर्देवा न तु क्रमात् || ९ || बिन्दु तत्वे न्यसेन् मूर्ध्नि तत्र बिन्दु नियोजयेत् | शान्तीं च निष्कले स्थाने ध्यात्वा सर्वानिधो मुखात् || १० || मूर्ध्निथो खण्डिकोर्ध्वं तु न्यसेद् देवं सदाशिवम् | तत्रास्तथस्य संलीन विन्यसेच्छक्तिमण्डलम् || ११ || जिह्वायां वक्त्र मध्ये तु तत्र विद्यां च योजयेत् | अष्टौ विद्येश्वरान् मन्त्री ग्रीवायां बाहु संधिषु || १२ || प्. ९०) मायां वै यामपार्श्वे तु न्यसेत् कालं तु दक्षिणे | कलामुरसिसंस्थाप्य हृदये नीललोहितम् || १३ || तत्रापरम् पुनर्विद्यां तत्रैव पुरुषः स्मृतः | रागोपि रञ्जकस्तस्य विद्य प्रबोध लक्ष्मणैः || १४ || अव्यक्तमुदरे ध्यात्वा नाभौ सूक्ष्माणि विन्यसेत् | शब्द स्पर्शं च रूपञ्च रसोगन्धश्च पञ्चमः || १५ || पृष्ठवंशे गुणं न्यस्य तत्रैव पुरुषत्रयम् | नाभि मेढ्रान्तरे बुद्धि महङ्कृतिश्च सन्धिषु || १६ || योन्यं व्योमेश्वरं देवं व्योम मध्ये नियोजयेत् | तत्रैव योजयेद् वायुं गुह्याद्गुह्याष्टकावृतम् || १७ || योनभ्यन्तरतः स्कन्द वित्तस्थाने हुताशनम् | तस्याधो वारुणं तत्वं यावधा जानुमण्डलः || १८ || तस्याभ्यन्तरे लोकान् यावदामुश्ल कीलकौ | लोकादौ विन्यसेद् देवान् ब्रह्म विष्णु महेश्वरान् || १९ || गुल्फाय पो * * प्रंते तु किञ्चिदभ्यन्तरे गुह | चिन्तयेत् सप्तपाताल नरकांस्तु तल स्थितौ || २० || पादाङ्गुष्ठे तु देवेशं कालाधिपतिमीश्वरम् | स्थापयित्वा विधानेन पुनरभ्यर्चयेत् क्रमात् || २१ || संचित्य सहिता न्यध्व मूर्ध्नि आरभ्य मन्त्रवित् | पादादारभ्य तान् सर्व अंसौ संस्थाप्य शोधयेत् || २२ || प्. ९१) यागं यथोचितं कृत्वा तत्वे योनि मनु क्रमात् | कल्पयित्वा यथा पूर्वं पशुं संहृत्य योजयेत् || २३ || गर्भाधानादितः कृत्वा सर्वकर्माणि पूर्ववत् | तत्वातु सर्वतत्वेषु तथा संयोजयेच्छिवे || २४ || क्षीराज्यदधिसंमिश्राअं सूच्यग्रे संव्यवस्थिताम् | कृत्वाग्नौ होमयेत् पश्चात् तां तु पुत्तलकां बुधः || २५ || अथवा पुनरप्येवं स्थूलसूक्ष्मविभेदतः | व्योमानिलानलाम्भोर्वीः पञ्चतत्वानि योजयेत् || २६ || तेषामन्तर्गतान्यसेत् सर्व तत्वात् षडानन | कलाभिर्व्यापितास्तांश्च शान्ति शृण्यादिभिः क्रमात् || २७ || कलया शृन्यया लौप्तमाकाशं बैन्दवं परम् | व्याप्त सदाशिवं तत्वं शान्तया वायुरूपया || २८ || तस्यायो या पदं व्यक्तं विद्याया तेजरूपया | अव्यक्ताद्यावदंभोंतं व्याप्त चैव प्रतिष्ठया || २९ || स चाह्याभ्यन्तरं पश्चात् ब्रह्माण्डं तु प्रत्तय | व्यापितं सहरुद्रैश्च ध्मातचाकेरा भयम् || ३० || यदेव श्रन्यया व्याप्तं तच्छून्यमिति चोच्यते | वायव्ययागतो वायुस्तेजस्तेज सद्याप्रतः || ३१ || आपो वारुणया प्रोक्तो उर्वी पार्थिवया वृता | यदन्तरं यथा व्याप्तं तस्य नाम्ना तु तत्स्मृतः || ३२ || प्. ९२) बहिरेवं स्थिता व्याप्ति शरीरे श्रासु तत्वतः | शोधनान् क्रमं चैषां पशुमाश्रित्य संस्थितः || ३३ || संचिन्त्य पूर्ववद्रूपं तथा नाडीर्विचिन्तयेत् | शक्तित्रयं न्यसेत् तावद्धर्माधर्मौ च षण्मुख || ३४ || तन्मात्रैः पञ्चभिर्युक्तं गुणैश्च त्रिभिरावृतः | मनोबुद्धिरहंकारैरव्यक्तेन हृदि पुद्गलः || ३५ || भ्रुवो कर्णान्तरादूर्ध्वं श्रत्येश्रन्ये कलान्यसेत् | तस्याधो हृदयादूर्ध्वं मनिले शान्तिमेव च || ३६ || हृदयाद्राव मेढ्रान्तं विद्यां तेजसि योजयेत् | मेढ्राधो यावजान्वन्तं प्रतिष्ठा वरुणा न्यसेत् || ३७ || तस्याधः पार्थिवं तत्वं यावत् पादतलान्तिकम् | निवृत्तिं योजयेत् तत्र ध्यात्वा पूर्ववदर्चयेत् || ३८ || विद्येश्वरं यं बीजं कलाश्रुत्यां प्रकल्पयेत् | कवचादि शिवाअंगानि पुनश्शत्याकाः क्रमात् || ३९ || उर्वीवार्णबीजाभ्यां तेजसा निलखात्मभिः | संयुक्तास्ते स्मृतास्तत्वा योमाध्याक्ष्मावसानिकाः || ४० || ह्रस्वादौ ये स्त्वरापञ्च नपुंसकविवर्जिताः | तन्मात्रस्थे तु विज्ञेया गन्धाद्यादेशिकोत्तमैः || ४१ || अहंकारश्च संज्ञं तु अम्बुधीनीति संज्ञकम् | मकारस्तु मनः प्रोक्तः * तमः परिकीर्तितः || ४२ || प्. ९३) रकारं तु रजो विद्धि संसत्वं तु निगद्यते | यकारं प्रकृतिं स्कन्द परिकल्प्यविशोधयेत् || ४३ || पृथिव्यादीनि तत्वानि निवृत्त्यादि विशोधयेत् | गन्धादि पञ्चसूक्ष्मानि सद्यादिभिरनु क्रमात् || ४४ || त्रितत्वेन तु होतव्यमहंकारादिकं क्रमात् | प्रणवेन विधानज्ञो होमधीत गुणत्रयम् || ४५ || तत्वे तत्वे तु तत्वज्ञः पञ्च सूक्ष्माणि शोधयेत् | गुणत्रयं तथा व्यक्तं मनोबुद्धिमहंकृतः || ४६ || एकैकस्याहुतिशत्तं दद्याच्छुद्धेन सर्पिषा | तिलैर्वाघृतसंमिश्रैस्तण्डुलै राज्य संयुतैः || ४७ || श्रीफलैर्बिल्वपत्रैर्वा पुस्पैर्वाऽर्धाञ्जिकैः शुभैः | होमयेत ततोदिष्टं तैस्तु पूर्णाहुतिं तथा || ४८ || पूर्ववत् स्रोत शुद्धिस्तु तत्व संशुद्धिनैव च | क्रमात् संधाय तत्वानि तया हित्वा शिवं नयेत् || ५१ || एवं दीक्षा मृतस्योक्ता जीवतोपि हि षण्मुख | समयादिभ निर्मुक्ता सुख बन्धाद् विमुच्यते || ५० || सृष्टिसंहारन्यायेन पृथगत ध्वनि कल्पना | दीक्षा संहारतः कार्यारनयोरविसंमता || ५१ || विपन्नस्याखिलं कर्मा हन्येकस्मिन् समाप्यते | आचारोऽयं स्थितं स्कन्द सिध्यर्थम् जीवितस्य तु || ५२ || इति सर्वज्ञानोत्तरे क्रियापादे मृतकदीक्षाप्रकरणम् || अथ परं प्रवक्ष्यामि समयाचार लंघने | यथा विशुद्धयते देही विपन्नोप षडानन || १ || मृदम्भुना तु संशोद्ध्यास्त्र जप्तेन मन्त्रवित् | आलिप्यामलकैः पूतैः स्थापयित्वा शिवांभसा || २ || भस्मस्नानं विलोमेन कृत्वा तु परियापयेत् | गन्धपुष्पैरलंकृत्य उदक पाद निवेशयेत् || ३ || रक्तगन्धैस्तथा पुष्पैरजैवस्त्रोपवीतकैः | सं चाद्यवस्त्रसंयुक्तजस्त्रजापिभिरुत्क्षिपेत् || ४ || नीत्वा तु शांकरि दीक्षां शुचिस्थाने निधापयेत् | नि-ऋति प्लवनं तत्र शिवक्षेत्रं प्रकल्पयेत् || ५ || चतुर्हस्तायतं निम्न द्विहस्त समविस्तरम् | अस्त्र जप्तैस्तु तत्कीलैर्विदिक्षु कीलितो बहिः || ६ || विलोमं रक्तसूत्रेण कवचाख्येन वेष्टयेत् | पीतेन रजसावत्रं तस्य मध्ये समालिखेत् || ७ || त्र्यश्रमञ्च समायुक्तः शृंगाटकं तथोपरि | रक्तेन रजसा तं तु सर्वधान्यमयेन वा || ८ || पूर्वोक्तेन विधानेन तत्र वह्निं प्रकल्पयेत् | अस्त्रेण प्रस्तरां दर्भान् प्युत्क्रमेण तु देवताः || ९ || पर्युक्षणं तथा कुर्यादर्चिनाभ्युक्षणं तथा | स्रुचं स्रुवं च होमान्ते शवस्थोपरिविन्यसेत् || १० || प्. ९५) पूर्ववच्छोदयेदाज्यमभिर्वार्य विलोमतः | तथैवोद्घाटनं कुर्यात् निष्णतिं च षडानन || ११ || तर्पयित्वा तथा वह्निं दत्वा पूर्णाहुतिं ततः | ऐश्वर्यादि विलोमेन मन्त्र सिंहासनं न्यसेत् || १२ || सन्ध्यादि मन्त्र विन्यासं दत्वा देहेष्वके गुह | शिवे शिवासने चैव तथा होमं समाचरेत् || १३ || पूजयित्वाय तथा न्यायं गन्धपुष्पैः पवित्रकैः | अर्घ्यपाद्यादिभिश्चैव यथाशक्त्या विचक्षणैः || १४ || ततः संचिन्तयेन्नाडीः दिव्यरूपा मनोरमाः | ततश्चिति * नेत्तत्र चन्दनागरुदादिभिः || १५ || यथावासं भवेत् तस्य कुचवस्त्रोक्तरं गृह | पुनरभ्युक्ष्य तु प्रेतं मात्र बीजेन षण्मुख || १६ || चिति मध्ये नियुंजीत वस्त्रं चं न घृतप्लुतः | ततः संचिन्तयेन्नाडीं तस्य देहे विचक्षणः || १७ || स्वसंज्ञां हृदि संस्थाप्य तं मध्ये पुद्गलं न्यघे | ततः संधाय तत्वानि पादादारभ्य मन्त्रवित् || १८ || हित्वा तु तां तथा भूधः पशुं संयोजयेच्छिवे | तत्र संदीपयेद् बहिं तमस्ताद प्रदक्षिणः || १९ || अस्त्रबीजेन मन्त्रज्ञ आग्नेयीध्यारणं स्मरेत् | अविच्छिन्नां तथा राम घोयस्त्राभिमन्त्रिताः || २० || प्. ९६) भ्रामयित्वास्त्रबीजेन जलधारां निधापयेत् | ततोजलं प्रजेद् विद्वान् स्नात्वा दत्वोदकं शुचिः || २१ || यागं यथोदितं कृत्वा निवेद्येशं क्षमापयेत् | एवं विमुच्यते देही समयादि विलंघने || २२ || अज्ञानाज्ज्ञानतो वापि कृतौ त्वं तेष्ठि कर्मणि | इति श्रीसर्वज्ञानोत्तरे अन्त्येष्टिप्रकरणम् || एवं दीक्षा त्वया ख्याता मृतानामपि शंकर | तथैवाचार रहितामन्त्येष्टिः पाशशोधिनी || १ || नैष्ठिकानां समाख्याहि ब्रह्मचर्यो जितात्मनाः | ज्ञानचर्यान्वितस्यापि कालाकस्य गतिर्भवेत् || २ || ज्ञानाचर्या द्वितौ बौद्धौ बुद्धि तत्वमवाप्नुयात् | तामसं जिनभक्तानां प्राप्नुवन्ति * * * * || ३ || ये भवन्त्य जितात्मानस्तेषां मुक्तिस्तु दीक्षया | चैवतानि पश्यन्ति मुक्तिस्थानानि षण्मुख || ४ || मुक्तिस्थानं भवेदेकं विमलं सर्वतो मुखम् | अचलं बासकं शान्तं लिङ्गाश्रय विवर्जितः || ५ || तस्मिन् नियोजन्मन्त्री शोध्य तत्व क्रमेण तु | यो चस्मिन्नाश्रितो लिङ्गी तमादौ पूजयेत् ततः || ६ || तर्पयित्वा तथा सम्यक् प्रायश्चित्तं विशोधयेत् | पञ्चरात्रं त्रिरात्रं वा क्षपयित्वा षडानन || ७ || पश्चादष्ट सहस्रं तु अस्त्र बीजेन होमयेत् | प्. ९७) भूयोप्यष्टसहस्रं तु मूलमन्त्रेण होमयेत् || ८ || भूत्वा दीक्षापराकार्या संसार्णव तारिणी | नैष्ठिको दीक्षितस्त्वेन नित्यमप्यभिचारतः || ९ || शिवशास्त्रपरोनित्यं शिवहोमरतः शुचिः | शिवार्चन शिवध्यायी शिवजापि सदा भवेत् || १० || अ * ल कांक्षिण स्कन्द नानुग्रहं करिष्यति | द्वावेवाश्रमिणौ शैवे गृहस्थ ब्रह्मचारिणौ || ११ || लोकानुग्रहकर्तारौ परिव्राट् तापसौ न हि | एवं कार्याधिकारोयं यावत् संक्रामतो न्यतः || १२ || संक्रामिताधिकारस्तु कर्मशन्या समाचरेत् | गृहस्थ ब्रह्मचारित्वं संज्ञामात्रं तु केवलम् || १३ || पारमार्थिकमेतेषां नाश्रमो नाश्रमक्रिया | यदर्थं कृत कर्माणो नियुक्तौ परमे पदे || १४ || तदर्थं नाश्रमः प्रोक्तः शिवशास्त्र समाश्रितः | पूर्वसन्ध्या जपं होमं यच्च कर्म क्रमागतः || १५ || स्थित्यर्थमाचरेत् किञ्चित् सततं मन्त्र तत्परः | यस्मिन् वर्णो स्थितो दीक्षां प्राप्तो देही शिवात्मिकाम् || १६ || तत्रैव संस्थितो नित्यं शिवधर्मं प्रकल्पयेत् | यदुक्तं शिवशास्त्रेऽस्मिन् न्युक्तं कर्मषडानन || १७ || तदवश्यं तु कर्तव्यं तद्विलंख्य विलंघनम् | प्. ९८) आज्ञेयं कारणा ज्ञेया नोविकल्प्या कदाचन || १८ || सिद्धे यं साधनं नास्ति दूषणं न च विद्यते | न पुं हि य*(?)र्षकं वाक्यं दैविकं रिषिस्तथा || १९ || न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजन्मना | न शैवं विष्णुना वाक्यं बाध्यते तु कदाचन || २० || यो भि बाधति मूढात्मा सं नष्टो मूढचेतनः | उत्तरोत्तर वैशिष्ट्यं सर्वेषां परिकीर्तितम् || २१ || वाक्यानां वाक्यवित् प्राज्ञैस्तथा गुह्यं हितैषिभिः | * * वर्णाश्रमाचार प्रायश्चित्ताश्च लौकिकाः || २२ || सम्बन्धादशधर्माश्च प्रसिद्धां ना विचारयेत् | गर्भाधानादितः कृत्वा यावदुद् बाहमेव वा || २३ || तावं तु वैष्टिकं कर्म पश्चाद् वै वेत्यनन्यभात् | न मुख्य प्रवत्या च स्कन्द लोकं धर्मान् समाचरेत् || २४ || न चान्य शास्त्रेद्दिष्टां न चान्यं देवतां स्मरेत् | विशुद्ध भावना युक्त शिवैक गत मानसः || २५ || विशुद्ध माप्नुयात् स्तानमचिन्त्य सर्वग मृव | शबलं कर्मसन्देह द्यत्कृतं कृतकोद्भवम् || २६ || नेह मन्त्रफलं तस्य नैकान्ते सुखदं भवेत् | यमेवेच्छति संप्राप्त शुद्धकर्म समाश्रयेत् || २७ || तत्कर्म परतां नित्यं सुखी त * दवा स्व्यतः | प्. ९९) शास्त्रस्यैवा विरोधेन शुद्ध कर्माजितेन्द्रियः || २८ || अनेनैव स्वदेहेन सिध्यते नात्र संशयः | ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राशुद्धस्तु साधकाः || २९ || सुवर्णादानु पूर्वेणाचार्याश्च षडानन | श्रद्धधानान सूयाश्च कर्मज्ञाः कर्म तत्पराः || ३० || अनुरक्ताभिषक्ताश्च ते त्वानुग्रहकाः स्मृताः | कृष्णवर्णमृगो यस्मिन् चरते तु षडानन || ३१ || तद्देशं याज्ञिकं विद्यात् यश्च विप्रैरधिष्ठितः | यत्र विप्रास्सदाचारा यतयश्च तपोधनाः || ३२ || संनिदेवास्तथा वेदाः पुण्यदेहां तमादिशेत् | तद्देश कुलसंभूता आचार्याश्शास्त्रसंमिताः || ३३ || शिवशास्त्रं परां नित्यं शिवार्चाग्निपरायणाः | आपादमस्तकं यावत् भस्मस्नानं द्विजस्य तु || ३४ || नाभेरूर्ध्व ह्रपस्योक्तं मारत्नेन तु भस्मना | वैश्यस्य पट्टिका प्रोक्ता शूद्रस्य तु त्रिपुंड्रकः || ३५ || भस्मना ब्रह्म जप्तेन यथास्थानेष्वनुक्रमात् | ब्राह्मणस्य जटाश्लष्णाः कनकाः परिकीर्तिताः || ३६ || स्थूलास्तद्विगुणो ज्ञेया क्षत्रियस्य तु व्यन्तराः | वैश्यस्यैका शिखा स्थाने तथा शूद्रस्य कीर्तिताः || ३७ || ह्रस्व श्लक्ष्णानुसंयुक्तास्संयतस्य जितेन्द्रियः | प्. १००) यज्ञोपवीत सूत्रं तु विप्रे पञ्चसरं मृतम् || ३८ || त्रिसरं क्षत्रियस्योक्तः वैश्यस्य द्विसरं स्मृतः | शूद्रस्यैक सरं ज्ञेयं नित्यमव्यभिचारिणः || ३९ || अर्चायामग्निकार्ये वा सन्ध्या काले च नान्यथा | इति श्रीसर्वज्ञानोत्तरे लिङ्गोद्धारादिप्रकरणम् || अभिषेक विधानं तु संप्रवक्ष्याम्यतः परम् | हिताय देशिकं द्राणाः यथा शम्भु मुखाच्च्युतः || १ || पूर्वोक्ते भूतले शुद्धे गोमयेनोपलेपि ते | सर्वशोभाभिरम्ये तु सर्व गन्ध विभूषिते || २ || सुतिथौ वार नक्षत्रे मुहूर्ते करणान्विते | शुभग्रहोदये लग्ने शकुने मंगलैर्युते || ३ || सत्यव्रत चरं दान्तं त्यागयुक्तं दयान्वितम् | प्रसन्नवदनं दक्षं गुरुभक्तं दृढव्रतम् || ४ || शौचाचारसुसंपन्नं योगयुक्तं जितेन्द्रियम् | शिवभक्तं सदाशान्तं शिष्यं तन्त्रस्य पारगः || ५ || यागम्मुत्वा यथोद्दिष्टं दीक्षा निवृत्य मन्त्रवित् | ततोभिषेचयेत् तं तु युक्तायुक्त विचारकः || ६ || वीणावेणु मृदं गाद्यैः काहलैः पटहादिभिः | शंखतूर्यनिनादैश्च नृत्तगेय समन्वितैः || ७ || सर्वमंगलसंयुक्तमभिषेकं समारभेत् | प्. १०१) यागदक्षिणपूर्वेण पश्चिमे वोत्तरेण च || ८ || यतोद्वारं नाभि पश्चात् तण्डुलं परिकल्पयेत् | द्वात्रिंशदांगुल विस्तारमुच्छ्रायं तावदेवभिः || ९ || चतरश्रं समं शुद्धं मध्ये कमल भूषितम् | पूर्ववत् पीठविन्यासं तस्मिन् संस्थाप्य पूजयेत् || १० || शुद्धपद्मासितं स्नातं मन्त्रालंकृत विग्रहम् | ततः कुम्भान्यथा पूर्वं पूर्वादारभ्य कल्पयेत् || ११ || शिवकुम्भविधानेन मन्त्रदेवत संयुतम् | अष्टौ विद्येश्वरान् मन्त्री अष्टभिः संनियोजयेत् || १२ || चतुष्वंगान्यथास्थानं पञ्च ब्रह्माणि पञ्चसु | अस्त्रजप्तं कुरुस्वैकं शिवजप्तं तथा परः || १३ || गायत्र्या चमनार्थं तु वन्यां परि कल्पयेत् | शतमष्टोत्तरं जप्त्वा शिवाख्यमभिमन्त्रयेत् || १४ || प्रथमं चास्त्र बीजेन स्नापयित्वा विधानवित् | विद्येश्वरैस्ततः पश्चादनन्ताद्यैर्यथा क्रमात् || १५ || ब्रह्मभिश्चानुपूर्वेण पुनरङ्गान्यनुक्रमात् | अभिषेकं शिवेनैव पश्चात् कुर्वीत षण्मुखः || ६ || ततो गन्धैश्च पुष्पैश्च वस्त्रालंकारपादुकैः | ब्रह्मसूत्र पवित्राद्यैः र्भूव्य पट्टं निवेदयेत् || १७ || पूजयित्वा विधानेन शिववन्तं तु देशिकः | प्. १०२) शिव समीपं समाश्रित्याधिकारं समर्पयेत् || १८ || गुरुणायोऽधिकारस्तु गमवत्ससमर्पितः | अद्य प्रभृति योगीन्द्र सोधिकारो मया त्वयि || १९ || अनुग्राह्यास्तथा शिष्याश्शास्त्रदृष्टेन कर्मणा | श्रोतव्यं शिवशास्त्रं च श्रावणीयं तदर्थिनाम् || २० || संवत्सरोषिते शिष्ये दीक्षां निर्वर्तयेद्बुधः | सायके मन्त्र दीक्षां तु यस्मिन् तत्वे भिषिच्यते || २१ || इतरेष्वाहुतीं दत्वा शिवहस्तं प्रकल्पयेत् | समया मृपयेत् पश्चात् ब्रह्माङ्गानि तथैव च || २२ || न निंद्या तु कारणं देवं तच्छास्त्रं च शिवोद्भवः | देशिकं पुत्रकं चैव गुरोर्वाक्यं न लंघयेत् || २३ || सुतिकायां न संस्पर्शं छाया चतुरलंघनात् | यत्नेन वर्णयेत् प्राज्ञो देव जग्धं च सौनिकम् || २४ || इत्येता समयास्तन्त्रैः समासात् परिकीर्तिताः | पालानां तु शिवं यान्ति सन्निरोधं ततो न्यथा || २५ || पिण्ड मन्त्रास्थतस्त्राव्यावत्सरात्मा शिवशिवस्तथा | समयज्ञेष्विदं ज्ञानमथ ऊर्ध्वं न दापयेत् || २६ || ब्राह्मणाः क्षत्रिया वैश्याः स्त्री शूद्रादि नपुंसकाः | दीक्षाकाले त्वमीमांस्या ज्ञानदाने विचारयेत् || २७ || त्रिचतुःपञ्चभिः विप्र क्षत्रिये नव सप्तभिः | प्. १०३) अष्टभिर्दशभिर्वैश्ये शूद्रे विंशत्या दापयेत् || २८ || उत्तमं सर्वशास्त्राणां शिवशास्त्रात्मकं गुह | गुह्याद्गुह्यतरं गुह्यं भवितव्यं प्रयत्नतः || २९ || ना शिष्याय प्रदातव्यं नाभक्ताय न नास्तिके | न गुरु द्वेषिणे चैव कन्यशास्त्ररताय च || ३० || यस्य देवे पराभक्तिः नित्यं गुरौ षण्मुख | नान्यशास्त्रे यथा भक्तिर्ज्ञानं तस्मिन्न स योजयेत् || ३१ || न जल्प शिवशास्त्रेण प्रकुर्वीत कदाचन | न वोरणं कुर्यात् दशद् देजनसं * * * * || ३२ || विविक्ते निर्जने रम्ये पूज्यविद्याधिपं गुरुम् | जितेन्द्रियः शुचिः स्नातः शिवज्ञानं तु श्रावयेत् || ३३ || श्रोतव्यं च तथा भूतैस्तच्छक्तैस्ता परायणैः | आदावन्ते च संयोज्य गुरुं संभाव भावितैः || ३४ || पौर्णमास्याममावास्यां चतुर्दश्यष्टमेषु च | नाध्यापयेच्छिवज्ञानं ग्रहणाय न सन्धिषु || ३५ || सविशेष जपं पूजा व्रत होमं समाचरेत् | दानोपवासनियमात् सर्वेष्वे तेषु षण्मुख || ३६ || कृतघ्ना नास्तिकाः क्रूराः निस्सत्याः कलह प्रियाः | मायाशाठ्य समोपेता भूमंते तन्त्र हारिणः || ३७ || पृच्छन्ति मधुरैर्वाक्यै शेषमुत्वाद्य वा पुनः | प्. १०४) तेषां न विश्वसेद्धर्मान् यदीच्छेच्छान्तिमात्मनः || ३८ || एवं कार्यधिकारो हि यावत् संक्रमितोन्यतः | सङ्क्रामिताधिकारस्तु कर्मसन्यासमाचरेत् || ३९ || साधकस्याभिषेकस्तु एवं वत्स विधीयते | आचार्य साधकश्चैव द्वावेतौ तुल्यमङ्गलौ || ४० || समाप्त विद्यो कर्तव्यो गुरुस्साधक एव च | सकाम सायको ज्ञेया निष्ठा मे देशिकः स्मृतः || ४१ || एक एव क्रियाकारो भावभेद प्रधक्तयोः | सोल्पं होमं जपध्यानं कुरुते देशिकस्सदा || ४२ || कर्मनिष्ठा प्रतिष्ठो हि सततं साधकोत्तमः | इति श्रीसर्वज्ञानोत्तरे क्रियापादे अभिषेकप्रकरणम् || अतः परं प्रवक्ष्यामि स्नानं वित्रानुसारतः | पञ्चभिः कलशैर्वापि पूर्वोक्त विधिकल्पितैः || १ || अष्टो विद्येश्वरान् मन्त्री एकस्मिन् विनियोजयेत् | द्वितीये पञ्च ब्रह्माणि तृतीयंग चतुष्टयम् || २ || अस्तु युक्तं चतुर्थं तु शिवकुम्भञ्च च पञ्चकम् | अभिमन्त्र्य यथा न्यासं पूर्ववत् स्नानमाचरेत् || ३ || चतुर्भिर्वायथाकुम्भैरभिषेकं समाचरेत् | विद्येश्वराद्यया पूर्वं ब्रह्माङ्गानि च मन्त्रवित् || ४ || एकस्मिन् कलशे योज्यमस्त्रयुक्तं तृतीयकः | प्. १०५) चतुर्थं शिवकुम्भं तु अभिषिञ्चेत पूर्ववत् || ५ || अथवा द्वौ पुनः कुम्भौ अभिषेकाय कल्पयेत् | एकस्मिन् सर्वमन्त्रांश्च शिवकुम्भं तृतीयकः || ६ || ब्रह्मपत्रपुटैर्वापि शंक शुक्त्याथवा पुनः | अभिषेकं प्रकुर्वीत ततोऽनुज्ञापयेत् पुनः || ७ || पुष्पैर्वा मनसा वापि वाचा वापि प्रशस्यथा | अननुज्ञातमन्त्रस्तु न कुर्यान्मात्रिकां विधिम् || ८ || स्तुवं स्रुचाक्षसूत्रञ्च संग्रहेत् तत् ततः क्रमात् | त्रिकालमर्चनं जपं होमं समाचरेत् || ९ || इति सर्वज्ञानोत्तरे क्रियापादे संक्षिप्ताभिषेकप्रकरणम् || स्रुवस्यावक्षसूत्रस्य विधानं शृणु तत्वतः | जपस्य सिद्धि द्रव्याणि प्रवक्ष्याम्यनुपूर्वशः || १ || स्रुवं हस्त प्रमाणं तु आधारोङ्गुष्ठ पर्वतः | बाहु मात्रं स्रुचं ज्ञेया पुष्करं संनि सन्निभः || २ || पालाशाश्वत्थ बिल्वं तु वैकंकतं तु वा पुनः | क्षालयित्वास्त्रबीजेन धारणाभिर्विशोधयेत् || ३ || ततश्च पञ्चगव्येन पुनर्गन्धोदकेन तु | त्रितत्वं शक्तिबीजं तु योजयेदुभयोरपि || ४ || गन्धपुष्पैरलंकृत्य धूपं दद्याद् विधानवित् | सप्तरात्रं स्थितिं कृत्वा पश्चाद्धोमो नियोजयेत् || ५ || प्. १०६) पुत्रदीप फलं वृक्षो मधो गत्वा विशोधयेत् | खसस्यं गोमयं ग्राह्यं पुनस्तत्रो विलेपयेत् || ६ || सिक्त्वातु पूर्ववन्मन्त्री अस्त्रगन्ध शिवांबुना | शिवी कृत्वा तु तं वृक्षं शिववत् प्रति पूजयेत् || ७ || पुरस्तादग्निकार्यं तु शास्त्र दृष्टेन कर्मणा | कृत्वा भूत बलिं दत्वा पश्चादक्षाणि संहरेत् || ८ || मध्ये शाखा समुद्भुतैर्मन्त्रमावर्तयेच्छिवः | पूर्वशाखोद्भवस्कन्द जपे तत्पुरुषं बिलम् || ९ || अघोरवामदेवौ वा सद्योजाताङ्गमेव वा | ये यथावस्थिता मन्त्रास्तैस्तुतान् परिकल्पयेत् || १० || वायव्यानल माहेन्दु वरुणावाथ मिश्रकाः | तेभिस्वस्त्रोतजैरक्षै सर्वे सिध्यन्त्य संशयः || ११ || कंन्याकर्तितु सूत्रेण त्रिगुणं त्रिगुणे न तु | अक्षमाला प्रकुर्वीत शुद्धे नास्त्रोदकेन तु || १२ || शतमष्टोत्तरं वापि चतुःपञ्चाशदेव वा | सप्तविंशति वा मन्त्री अक्षमाला शुभास्मृता || १३ || शक्तिन्यासं पुराकृत्वा तस्मिन् सूत्रे निधापयेत् | वेधयेदस्त्रबीजेन प्रोतयेद्धृदयेन तु || १४ || अन्योन्य संस्थितं कृत्वा मुखं तेषां सुसंहृतान् | निरुजांति प्रणान् शुद्धान् न भिन्नामल वर्जितान् || १५ || प्. १०७) ततः शिवाम्भसा क्षाल्यं पुनर्गन्धैर्विभूषयेत् | स्वस्त्रोते विन्यसेच्छक्तिं वीरपत्रस्तथोपरि || १६ || मूयूरचन्द्रकैश्छाद्य पश्चादक्षाणि योजयेत् | वीरपत्रस्य तथा चैव पश्चादालभनं कुरु || १७ || स्वमन्त्रं पूजयेत् तत्र गन्धपुष्पैरनुक्रमात् | शिवीभूतं तु तत्सूत्रं संपुटित्वा दिने दिने || १८ || ततस्समुद्गके मन्त्री मांत्रालब्धे निधापयेत् | सौवर्णे राजते चैव ताम्रसिद्धोर्थकेपि वा || १९ || ग्रहणं मोक्षणं चैव स्थापनं च विधानवित् | हृदये तु कर्तव्यमर्चनं च विलेपनम् || २० || अतः संक्षेपतो वक्ष्ये भूयोक्षस्य विधिं परम् | आहृत्य निपुणानक्षान् अस्त्रजप्तेन भस्मना || २१ || संशोध्यवारि युक्तेन धारणा निपुणः क्रमात् | ततस्तु पञ्चगव्येन पुनर्गन्धोदकेन तु || २२ || ततः शिवाम्भसा क्षाल्य पुनर्गन्धैर्विभूषयेत् | यागं कृत्वा यथोद्दिष्टं पूर्वोक्त मेखलं यथा || २३ || ततस्तु प्राणसंघातमाकृष्य हृदि मण्डले | त्रितत्वे मध्यगो भूत्वा जपं कुर्यात् समाहितः || २४ || त्रितत्व मध्यगो भूत्वा जपं कुर्यात् समाहितः | त्रिभिस्तु चुलकैर्नित्यं यावत् संख्या प्रपूर्यते || २५ || प्. १०८) तावतत् गन्धतोयेन शिवस्य जपमर्पयेत् | जपं कृत्वोदिसंकृत्वा पुनरीशं प्रसाधयेत् || २६ || तमाकृष्य तथैवैह व्रतमन्त्रैः समाचरेत् || २७ || इति श्रीसर्वज्ञानोत्तरे क्रियापादे जपादिप्रकरणम् || अतः परं प्रवक्ष्यामि व्रतानां व्रतमुत्तमम् | शिवव्रतमितिख्यातं सर्वदा सुरपूजितम् || १ || विशुद्धं पाण्डरं जन्म शुक्लवासोनुलेपनम् | शुक्लयज्ञोपवीती च जटामकुट मण्डितः || १२ || सर्वाभरणसंपन्न शुक्लमाला विभूषितैः | चरुभूत् ब्रह्मचर्यस्य शिवाग्नि गुरुपूजितः || १३ || मन्त्रमूर्ति शिवस्यैव यथापूर्व प्रकीर्तितम् | तथा वै साधकैंद्राणा व्रतज्ञेयं तथात्मकम् || १४ || शुक्लकौपीन वासं वा उष्णीषाक्षक मण्डलुम् | शिवालये वसन्नित्यं भिक्षाभक्षो जितेन्द्रियः || १५ || शिवध्यानरतो मौनी शिवाग्नि गुरुपूजकः | संवत्सरे व्यतिक्रान्ते शिवतुल्यो भवेदिति || १६ || इति सर्वज्ञानोत्तरे क्रियापादे शिवव्रतप्रकरणम् || अतः परं प्रवक्ष्यामि लक्ष्मणं तु शिवालये | स्थापनं चैव लिंगस्य यस्मिन् सर्व प्रतिष्ठितः || १ || ब्रह्माद्या देवतास्सर्वे लिङ्गमाश्रित्य संस्थिताः | प्. १०९) तस्माद् वै स्थापयेल्लिङ्गं शास्त्रदृष्टेन कर्मणा || २ || त्रिण्यां विद्याव्रतो योगी गुरुदेवाग्नि पूजकः | आचार्यस्तत्व विद्धीमान् विशिष्टकुलजः शुचिः || ३ || सर्वलक्षणहीनोपि शिवशास्त्रार्थ विद्गुह | स्थापकस्स परप्रोक्त शिवविच्छास्त्र संमतः || ४ || सर्वलक्षणसंपन्न संम्यत् शास्त्रं न विन्दति | न योगी न व्रतस्नातो ना चावाचार्य उच्यते || ५ || न शठो नास्तिकः क्रूर पिशुनो न च मत्सरी | कुषीकु * सखीं व्यङ्गं क्षयरोगी जलोदरी || ६ || काणः केकरपिङ्गाक्षः कपालकुतशेखरः | सर्वदोषाश्रयं वत्स तार्किकं तु विवर्जयेत् || ७ || भोजका देवजग्धाश्च देवव्रतधरांश्च ये | विनाग्नि नैष्ठिकाश्चैव स्थापनेषु विवर्जयेत् || ८ || स्थान शुद्धात्मशुद्धी च द्रव्यशुद्धिं तथैव च | मन्त्रस्य लिङ्गशुद्धिं च विदित्वा गमकृत् || ९ || शिवा भवास्त्रतोयेन स्थानमभ्युक्षयेत् ततः | माहेन्द्र वारुणं वापि पुनः क्षेत्रं प्रकल्पयेत् || १० || दिशां बन्धं ततः कुर्यात् यथापूर्वमुदाहृतम् | स्थान शुद्धिर्भवेदेवं देहशुद्धिः प्रचोदिता || ११ || मन्त्रशुद्धिर्मनोंथथे मन्त्री मन्त्र विचक्षणः | प्. २१०) मलाध्यैश्वर्य ज्ञालानि मन्त्राणां कीर्तितानि तु || १२ || तेषां प्रबोधिनी शक्ति शिवाज्ञानं न मन्त्रता | मन्त्रशुद्धिर्भवेदेवं समासात् परिकीर्तितः || १३ || द्रव्यशुद्धिस्तु द्रव्याणां प्रोक्षितानां शिवाम्भसा | लिङ्गशुद्धिं पुनर्वक्ष्या विभातां चार्चनस्य च || १४ || लक्षणं चैव लिङ्गस्य येन सान्निध्यतां व्रजेत् | लिङ्गाद्धस्तशतं क्षेत्रमाचार्ये स्थापितस्य तु || १५ || स्वायंभूते सहस्रं स्याद्रिष्ठिभिस्तु सदर्थकम् | भूमि संशोधनं कृत्वा क्षेत्रस्य जननं कुरु || १६ || जनिते तु शिवक्षेत्रे पश्चाद् वै भूपरिग्रहः | शिलान्यासं ततः पश्चात् सूत्रयित्वा विधानवित् || १७ || हेमरत्नादिभिर्बीजैर्भूषयित्वा निधापयेत् | पुण्याह जय शब्दैश्च शंखवाद्यकनिस्वनैः || १८ || बाहुर्मंगल निर्घोषैः पूज्य विष्णुविनायकान् | दिशाबलिं ततो दद्यात् पूजयित्वा दिगीश्वरान् || १९ || आचार्यः शिल्पिभिः सार्धं लिंगं कुर्यात् सलक्षणम् | स्थपतिश्च यथोद्दिष्टं प्रासादं शास्त्रसम्मतम् || २० || प्रासादाद्वा भवेल्लिङ्गं लिङ्गात् प्रासाद एव वा | यदेव सूत्रितं पूर्वं तेन सूत्रेण चोदितम् || २१ || अस्त्रयागं पुनः कृत्वा अस्त्रैरस्त्रं नियोजयेत् | स्नापयित्वास्त्रतोयेन गन्ध पुष्पैर्नियोजयेत् || २२ || प्. १११) धूपं दत्वा विधानेन रात्रिमेकां निधापयेत् | वस्त्रशययां समारूढं कुठारं टङ्कमुद्गरम् || २३ || घृतेन मधुनाभ्यज्य मुखा तेषां पुनः क्रमात् | अस्त्रं तु जपतो ध्याने प्रवेशे हृदयं जपेत् || २४ || संप्राप्योदित शैलं तु तत्र यागं पुनः क्रमात् | कृत्वा भूतबलिं दत्वा हृदयं परिवर्तयेत् || २५ || तस्य पादांश्शिलां गृह्य विवर्तां सौम्यदर्शनम् | विवर्णामनवद्यांस्तु विशुद्धां सुनिदर्शनाम् || २६ || अस्त्राभिमन्त्रितं कृत्वा सद्येना लभनं कुरु | ते नैवाभ्यर्चनं भूयस्तत्र कर्म समाचरेत् || २७ || अथो भागे कुर्वीत * * * * * तात्मकः | पूर्वमूत्तरमीशानं मस्तकं परिकल्पयेत् || २८ || वृक्षस्य पूर्वतं पूर्वं प्रासादे पूर्वते मुखे | यतो वापि भवेद्वारं तत्रवंत्रं तु कल्पयेत् || २९ || स्वस्थानस्यंतु पूर्वेण प्रासादं पश्चिमामुखम् | दक्षिणेन तथा कुर्यात् पश्चिमे पूर्वतो मुखम् || ३० || उत्तरेण तथा भूय पूर्वं पश्चिमे * व वा | द्वारं तु मध्यतः स्थाप्य भूमिभागवशाद् भवेत् || ३१ || नोत्तराभिमुखां देवां न कुर्याद् दक्षिण मुखात् | विदिशासु च वक्त्राणि न कुर्यात् तु कदाचन || ३२ || प्. ११२) अन्यथा स्थाप्यमानानां दैवानां शिखि संभव | दुर्भिक्षं विग्रहो राजा वुपसर्गो भयानि च || ३३ || उच्छ्रायां देन कुर्वीत विस्तारं गुणबहिः | चतुरश्रयावर्तुलां वा प्रदंगो पुरान्वितम् || ३४ || प्राकाराभ्यन्तरेष्टौ तु पार्श्वे विन्यस्य मन्त्ररा * | प्रासादानि मुखान् कुर्यान् न गर्भतैस्तु वेधयेत् || ३५ | इन्द्र पावक धर्मेश निऋ-ऋति वरुणा तिलात् | कुबेरं च तथैशानं स्थापयेत् तेषु देवता || ३६ || द्वारे देशे बहिः स्थाप्यौ दुर्गाविघ्नविनायकौ | स्थाप्यौनन्दिमहाकालौ शिवस्य पुरतस्तथा || ३७ || शिवलिंगं ततो मध्ये ज्येष्ठमध्यमकन्यसम् | संपूर्णोदर पार्श्वं तु पृष्ठमुन्नतमस्तकम् || ३८ || अवक्रापश्रयं हीना श्रमवक्र * * स्थितम् | पद्मार्थचंद्र चक्राक श्रीवत्स स्वस्तिकाङ्कितम् || ३९ || एकहस्तद्विहस्तं वा त्रिहस्तं वापि कन्यसः | चतुर्हस्तं पञ्चहस्तं षड् हस्तं मध्यम * * || ४० || सप्ताष्ट नवहस्तं वा उत्तमं परिकीर्तितम् | श्वेतरक्तं तथा पीतं कृष्ण विप्रादितः क्रमात् || ४१ || गुरु स्निग्धं सुगन्धं च सुस्वरं तेजसान्वितः | व्यामिश्रमपि त गृह्यं चतुर्णाममविशोभतः || ४२ || प्. ११३) सर्वशल्य विनिर्मुक्तं सर्वतोष विवर्जितम् | सर्वलक्षणसंयुक्तं शिवलिङ्गनिधापयेत् || ४३ || अंगुल्य द्वंगुलं वापि कुर्यात् तु चतुरंगुलम् | अष्टाङ्गुल वितस्तिं वा मणिरत्न मयं शुभः || ४४ || सततां रत्न लिङ्गानां प्रासादो न विधीयते | प्रासादे वा गृहे रम्ये यथेष्ठं संप्रपूजयेत् || ४५ || यदात्मकं बलेर्लिङ्गं वेदीकार्या तदात्यका | लिङ्गवेद्यासमुज्ञेयं वेदिलिङ्ग समास्मृतः || ४६ || सौवर्णराजता वापि ताम्रावा विमला भवेत् | अभावे रत्नवेदीनां रत्नलिङ्गेषु कीर्तिता || ४७ || वेद्याः पूर्वापरं ज्ञात्वा तथावोत्तर लक्षणं | मध्ये प्रवेशयेद्यल्लिङ्गं द्वौ भागौ बाह्यतः स्मृतौ || ४८ || भागद्वयं भवेद् दृश्यं तृतीयं संप्रवेशयेत् | विहितं रत्नलिंगानां सुषिरे होम भे * ते || ४९ || तेषा. हि लक्षण मध्ये उत्तरे प्रयत्नतः | भागत्रयं समं कृत्वा तत ऊर्द्ध्वं परित्यजेत् || ५० || तत्र सर्वत्र समं श्रेष्ठ सुप्तक्तोन्नत मस्तकम् | सर्वदोषविनिर्मुक्तं सर्वलक्षणसंयुतम् || ५१ || चतुरश्रमथो भागमष्टाश्रं मध्यत स्थितम् | वृत्तं चैव तमूर्ध्वं तु प्रकूर्वीत षडानन || ५२ || प्. ११४) सुविशुद्धस्य लिङ्गस्य कुक्कुटाण्डमयस्य च | यव मध्यं ततः कुर्याच्चतुरश्रमतः पुनः || ५३ || परिपूर्णातरं मध्ये अत ऊर्ध्वकृतं भवेत् | अष्टाश्रं वा प्रकूर्वीत सुप्तताराकार मध्यकम् || ५४ || समाश्रं निव्रणं शुद्धं तेजस्कं चारुदर्शनः | मृदंग कामतं जेयं मृदंगाकार * स्तिकः || ५५ || स्थापितं च वने वापि स्थितं वा विषमं यदि | मणिरत्नमयं लिङ्गं पुनः संस्थाप्य पूजयेत् || ५६ || ऊत्तरप्लवनां वेदिं दर्पणोदर सन्निभः | मेखलां द्वादशांगेन प्रणालं चार्ध भागिकः || ५७ || प्रमाण लक्षणं चैव मणिरत्नमयेषु च | स्थापनं चार्चनं प्रोक्तमितरेण विधिं शृणु || ५८ || अथ गर्भग्रं पुरस्कन्द लिङ्गस्य त्रिगुणं कुरु | मध्यमांसे शस्य सद्वेदीं भक्तिर्वेदी समास्मृताः || ५९ || तत् प्रमाणं भवेद्वारं विस्तरेण विधानवित् | उच्छ्राय द्विगुणं कुर्या सुसमीकन्यसस्य तु || ६० || षष्ठं भागमथस्त्यज्य द्वारमध्यमकं न्यसेत् | कल्पयीत यथोद्दिष्टं मध्यमस्थाधुना शृणु || ६१ || द्व त्रि भागे तु संत्यज्याधो भागस्य षण्मुख | ऊर्ध्वभागे प्रकुर्वीत द्वारं वै मध्य संमितु || ६२ || प्. ११५) भागमेकं परित्यज्य द्वयोर्भागः प्रकल्पयेत् | तद्भागं पूरयेद्भूमौ शेषं लिङ्ग क्रमेण तु || ६३ || अधो वेदिं स्थिरां कृत्वा निर्वाणां सुसमन्विता | सुश्लिष्टामिष्टकैश्च्छाद्यं यावत् क्षेत्र समा * *|| ६४ || ततसूत्तर वेद्यां च पीठस्य रचनां कुरु | विधिना शास्त्रदृष्टेन सर्वकर्माणि चैवभि || ६५ || लिंगाद्वे तथा गर्भो भक्तिश्चैव षडानन | प्रासादं च तथा तत्तलिङ्गमानेन कारयेत् || ६६ || तल्लिंगं मंजरीययास्त्रि * * * * * * * * | शुकनासा महासेन शिखरं चैव लैंगितम् || ६७ || तल्लैंगिकं पुनः सूत्रं गर्भादुभयतो न्यसेत् | दिगश्रमुश्रयार्धेन शुकनासस्य मण्डपम् || ६८ || गर्भस्यो भयतो लिङ्गमेकैकं संप्रवेशयेत् | द्वौलिङ्गादग्रतः कुर्याच्छुकनासस्य षण्मुख || ६९ || वलभिच्छांदकं वापि गजसिंहाकृतिं तथा | हंसकृत्यातिं वापि शुकनासं समं कुरु || ७० || द्वौ लिंगावर्धलिंगञ्च गर्भं वै मध्यमस्य तु | द्वौ लिङ्गावुत्तमस्योक्तौ त्रीणिलिङ्गानिकं न्यसेत् || ७१ || अथवा सर्वलिंगानां यो भागो द्वारकर्मणि | गृहीत्वा तेन भागेन प्रासादं परिवर्तयेत् || ७२ || प्. ११६) सूत्रेण सुमितं कृत्वा लिङ्गं भागत्रयं कुरु | चतुरश्रमधोभागमष्ठ भूमध्यम स्थितः || ७३ || वृद्धतृतीयकं भागं किञ्चिदुन्नतमस्तकम् | अत ऊर्ध्वं मध्यमञ्च समभागं प्रशस्यते || ७४ || पीठलिङ्गसमाप्रोक्तं पूजाभागद्वयेन वा | अन्यथा रुचिता लिंगात् गर्भान्तं नवधा कुरु || ७५ || मध्यपीठं पदान्यष्टौ स्वांशमात्रादि * * * | सर्वेषामेव भागानां परिणाहस्तु कीर्तितः || ७६ || ब्रह्माद्यस्तु त्रयोभागं वृत्तं षोडशसंयुतम् | एवं कुंडितं क्षेत्रं परिणाहस्तु कीर्तितः || ७७ || मस्तकं यस्य लिंगस्य येनांशेन तु वृत्तयेत् | तत्र भागं पुनस्तस्या यामे परिकल्पयेत् || ७८ || ब्रह्मवेद्यां न्यसेद् भाग द्वितीये पीठिका स्थिताः | अर्चा भागं तृतीयान्तु कर्तव्यं लक्षणान्वितम् || ७९ || ऊर्ध्वं तृतीयके भागं त्यज्य लक्षण मुद्धरेत् | सूत्रयित्वा सुवर्णेन तल्लिङ्गाकृति मुत् जिरेत् || ८० || अष्टाश्राम्मध्यतश्चोर्ध्वं बाहुभिः समलंकृतम् | उत्कीर्य मधुनाज्येन पश्चातमुपलेपयेत् || ८१ || द्विस्त्रे कान्तरिते सूत्रे तस्य मध्ये पुनर्नयेत् | मध्यमांगुलिमानेन तश्शुभं लक्षणं स्मृतः || ८२ || अथ लक्षण यथालिङ्गं हीण लक्षणमेव वा | अति दीर्घ कृशं ह्रस्वं नाथश्रयं त्यत्र देवताः || ८३ || प्. ११७) तस्मात् सर्व प्रयत्नेन प्रोचरे लक्षणं शुभम् | श्लक्ष्णं मेव संचिन्नं सुप्रमाणं सुदर्शनः || ८४ || सर्वदोषविनिर्मुक्ताः वेदिं कुर्यात् स लक्षणः | यथालिंगं तथा चैषा स्थापनीया प्रयत्नतः || ८५ || दीर्घमायुः क्षयात् कुर्याद् वेद्यां ह्रस्वं तथा धनः | तस्माद्ध्रस्व तरं लिङ्गं नाति दीर्घञ्च कारयेत् || ८६ || मद्धया हारेण * * संयतेन जितात्मना | आचार्येण च शान्तेन सततं मन्त्रजापिना || ८७ || लिङ्गं वेदी वृषश्चैव निष्पन्नादी यदा हवेत् | गो युक्तारथमारूढमानयीत तदा शुचिः || ८८ || गन्धपुष्पैरलंकृत्य धूपं दत्वा विधानवित् | पुरःप्रदक्षिणी कृत्य नानाघोषैः प्रवेशयेत् || ८९ || नीत्वा चायतनं दिव्यं ईशानीं दिशमाश्रितः | मृदुशययासनं रूढमेकरात्रं निधापयेत् || ९० || तत्रादि व्यासनं कुर्यादाचार्यः सुसमाहितः | होमं कृत्वा विधानोक्तं जपेद् ब्रह्मादि संहिताः || ९१ || ततो मूर्ति धारानष्टौ सकलीकृत विग्रहान् | जपध्यानरतां छान्तान् अर्धरात्रे प्रवेशयेत् || ९२ || उत्तिष्ठंत्तेति विपेन्द्र कलशान्वारि पूरितान् | मन्त्र द्रव्य समायुक्तान् संपादयथ मे परान् || ९३ || प्. ११८) ततो लिंगं समुत्थाप्यास्त्र जप्तेन वारिणा | स्नापयेद् वस्त्र पूतेन शीतेनाष्टोत्तरेण वा || ९४ || धारणाभिश्च संशोध्य लिंगं वेदिं तथा वृषम् | संस्नाप्य वारुणैर्मन्त्रैर्भूषयित्वा प्रवेशयेत् || ९५ || चतुरश्रराशिलां कृत्वा त्रयंगुलाधार मेखलाः | चतुरश्रेण लिङ्गस्य समसूत्रेण सूत्रिताम् || ९६ || सुदृढां निस्तृणां शुद्धां द्वादशांकुलमुच्छ्रिताम् | सहोमा निहितां श्लिष्टां सुस्थिरां समसूत्रिताम् || ९७ || संप्रोक्ष्या यतनं मन्त्री मन्त्र पूतेन वारिणा | ब्रह्ममध्ये शिलां न्यस्य विधानोक्तं ततः कुरु || ९८ || सौवर्णां तादृशीं कृत्वा कुर्मं पृष्ठे निधापयेत् | या तव सर्व बीजानि रत्नानि च पुनः क्रमात् || ९९ || ततः शिलां प्रतिष्ठाप्य तस्या मध्ये यथा विधि | तत्र शक्तिं न्यसेद् विद्वान् अंकुरांकुरसन्निभाम् || १०० || हरितालं तु पूर्वेणाग्नेययां तु मनःशिलाम् | यान्याधामं जनं दद्यान्नैर्-ऋत्यं हेममाक्षिकम् || १०१ || विमलकं तु वारुण्यां वायव्यां परतं न्यसेत् | कासीसमुत्तरे दद्यादीशान्यां रोचनां न्यसेत् || १०२ || गैरिकावा विधातव्या ब्रह्मस्थाने विचक्षणैः | पवित्रा सर्वमङ्गल्या ज्ञेयाः पुष्ठिकराः स्मृताः || १०३ || प्. ११९) व्रीहींश्च गर्भ षष्ठिंश्चैन्द्रा दिशि नियोजयेत् | माषांश्चैव कुलुत्थांश्चाग्नेययां दिशि योजयेत् || १०४ || मुद्गांश्च चणकांश्चैव याम्यायां तु नियोजयेत् | तिलान् कृष्णातलांश्चैव नैर्-ऋत्यां दिशि योजयेत् || १०५ || गोधूमांश्च यवांश्चैव वारुण्यां दिशि योजयेत् | प्रियंगवश्च श्यामाकान् सौम्यायां दिशि योजयेत् || १०६ || ऐशान्यां सर्वधान्यानि दद्यात् पुष्टिकराणि तु | धातवः सर्वबीजानि ब्रह्मस्थाने नियोजयेत् || १०७ || भूयोपि पूर्वतो व्रीहि निष्पावं दक्षिनेन तु | पश्चिमेन यवान् दद्यात् उत्तरेण प्रियंगवः || १०८ || बीजगाढं न कुर्वीत मंगलार्थं नियोजयेत् | विपरीतानि बीजानि यदालिङ्गस्य पादयेत् || १०९ || ततो दोषा निवर्तन्ते व्याधयश्च भयानि च | ऐन्द्रां तु पादयेद् वज्रं सूर्यकान्तं तु व * तः || ११० || इन्द्रनीलं तु याम्यायां वैडूर्यान्नैर्-ऋते दिशि | शंखश्चैव तु वारुण्यां वायव्यां पुष्परागकम् || १११ || मरतकं तु कौवेर्यांमैन्यो मौक्तिकं न्यसेत् | ब्रह्मस्थाने ब्रह्ममणी वासुकेरमृतं मणिम् || ११२ || लोताक्षोयत साध्यानां विश्वेभ्यः पुलको मणिः | सौम्ये शानयोर्मध्ये चन्द्रकन्तु प्रदापयेत् || ११३ || प्. १२०) अलाभात् सर्व धातूनां हरितालं तु दापयेत् | अलाभात् सर्वबीजानां धवबीजं प्रदापयेत् || ११४ || अलाभात्सर्व रत्नानां वज्रमेकं तु दापयेत् | अलाभात् सर्व लोहानां स्वर्णमेकं तु दापयेत् || ११५ || यथास्थानेषु तैर्वतैर्विधि प्राप्नोति दुष्कलम् | किञ्चिच्च पुष्पधूपाणि यवभूते नियोजयेत् || ११६ || धूपं दत्वा पुनश्चैव पश्चाल्लिंगन्तु स्थापयेत् | मध्यावलंबनं कृत्वा तेन सूत्रेण तत्ववित् || ११७ || निश्शब्द नियतं शान्तं स्थितलिङ्गं स चालयेत् | नमः सर्वात्मकायेति लिखाधः वायसेन तु || ११८ || पीतवर्णामतो भागे चतुरश्रे पितामहम् | अतसी पुष्प संकाशं मध्ये तु पुरुषोत्तमम् || ११९ || वृत्तभागे न्यसेद्रुद्रं शुद्धकुन्देन्दु समप्रभम् | तत्रैव देवतास्सर्वा अर्चा भाग समाश्रिताः || १२० || यदाद्यमैश्वरं तेजः सर्वदेवमयं च तत् | पिण्ड भूतं च तत्वानां ततोज्ञो लिङ्गमुच्यते || १२१ || इमां भूतं विजानीयात् शुद्ध काञ्चन समप्रभम् | गणमातांबिकां पुण्या धात्री योगीश्वरी पुरा || १२२ || धर्मादि चरणं न्यस्य ततः पीठं नियोजयेत् | प्रणवेन विधानज्ञो अर्चान्यत् पूर्व चोदितम् || १२३ || प्. १२१) प्रणवं सर्वदेवत्यं विज्ञेयं परमात्यतः | सञ्चिन्त्य देवता रूपं यद्विकल्पत्ति तद्भवेत् || १२४ || ऐन्द्र वारुण कौबेर्येरास्वन्यस्यां दिशि षण्मुख | स्थापितच्च पते लिङ्गं तच्छान्तिं तत्र कारयेत् || १२५ || सा एव देवता याज्ञ्य पञ्चाङ्गकृत लक्षणाः | होमं कुर्यात् तु तत्रैव दद्याद् गो मिथुनं ततः || १२६ || ततस्तु देवदेवेशं शिवं परमकारणम् | पूर्वोक्तेन विधानेन लिङ्गेग्नौ संप्रपूजयेत् || १२७ || पूजां गृह्णानि लिङ्गस्थो वह्निस्थो वा परा हुतिम् | आचार्य मूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति || १२८ || आचार्यस्यापि मन्त्रस्य शिवज्ञान शिवस्य च | नानात्वं नैव कुर्वीति विद्याविद्येश्वरादयः || १२९ || शिवज्ञान समायुक्त आचार्यो मन्त्र विग्रही | सर्वमूर्ति धरो नित्यं शिवमन्त्रं प्रपूजयेत् || १३० || अस्त्रं चैव तु पीठस्यात् लोकेशासन्मूलमाश्रितान् | गणेशान् लिङ्गमध्यस्यात् पूजयीत यथा क्रमम् || १३१ || विद्येश्वरान्तदूर्ध्वन्तु चक्रवत्परिसंस्थितान् | ऊर्ध्वाधश्शक्ति संलीनात् पूजयित्वा विधानवित् || १३२ || शक्तिस्थं ब्रह्मभिर्युक्तं शिवाङ्गैः परिपारितम् | शिवं विश्वेश्वरं देवं लिङ्गमूर्ध्वं निपूजयेत् || १३३ || लिंगं प्रक्षाल्य शास्त्रेण शिवास्त्रं यत्प्रकीर्तितम् | प्. १२२) रुद्ररुपध विघ्ना तेन प्रोत्सारितास्तुते || १३४ || पीठं प्रक्षाल्य पश्चात् तु वर्धन्यादुदकेन तु | पाशुपतेन चास्त्रेण उषारूपधराहताः || १३५ || एवं प्रोत्सारणं कृत्वा विघ्नानां विविधं बुधः | ततोर्ध्वानं प्रकुर्वीत शिवस्य परमात्मनः || १३६ || अर्चयित्वा विधानेन यथा पूजां विसर्जयेत् | अभ्यर्च्य पञ्चभिर्ब्रह्मैश्चण्डेशाय निवेदयेत् || १३७ || धुनि चण्डेश्वरायेति हुं फट् स्वाहेत्यनुक्रमात् | करेण दक्षिणे नैव निर्माल्यं सततं बुधः || १३८ || वां महास्तेन मन्त्रज्ञ स्रुजं गृह्य विचक्षणः | नश्रन्य मस्तकं लिङ्गं कृत्वा तिष्ठेत् साधकः || १३९ || न चास्य भ्रूम यद्धस्तादुपरिष्ठान् कदाचन | तर्जन्या तर्जयेद् विघ्नान् सान्निध्यं लिङ्गमुद्रया || १४० || निरोधे निष्ठुरा कुर्यात् स्नानकाले विचक्षणः | संप्रक्षाल्य करौ मन्त्री स्पृष्ट्वा लिंगं पुनः पुनः || १४१ || सक्तोथ क्षालयेद्गात्रं स्नानमूर्ध्वं समाचरेत् | इति श्रीसर्वज्ञानोत्तरे प्रतिष्ठाप्रकरणम् || गन्धे क्षीणे यथा लिङ्गे वर्तुमानं तु कारयेत् | चालयित्वा तु तत्स्थानात् पृष्ठदेशे निधापयेत् || १ || शैले निलयेश्छैलं दाखे दाखं तथा | प्. १२३) मृण्मये मृण्मयं चैव रत्ने रत्नं नियोजयेत् || २ || सुवर्णेन तु संधाय घृतेन मधुना सह | पूर्वोक्तेन विधानेन प्रयत्नेन तु स्थापयेत् || ३ || एवं तु तेन धत्तेन विधिज्ञो विधि सत्तमः | रक्षो भूत पीशाचाश्च आश्रयं निविगर्हितम् || ४ || अत्युच्चं वा प्रमाणस्थं विषमस्थां समं कुरु | निमुस्तं बोध्न तं कुर्याद् वारार्थं न व्यतिक्रमेत् || ५ || न चैव वेधनं कुर्यारदेशस्य षण्मुख | याम्यां वा पश्चिमां वापि सूत्रमेकं परित्यजेत् || ६ || अथ बाह्यात् क्रमे सूत्रमीशानं सार्वद्वारिकम् | शास्त्रोक्तं विधिमुत्सृज्य भक्तियुक्तोपि मानवः || ७ || सुस्थितं दुःस्थितं वापि शिवलिङ्गं न चालयेत् | शास्त्रोपदिष्टमार्गेण घृ * नाहुतिभिः क्रमात् || ८ || शतेन स्थापयेल्लिङ्गं सहस्रेण तु चालयेत् | दुद्धरेद्वापि पूर्व * * * सूत्रेण मन्त्रवित् || ८ || अत्राम्बु पञ्चगव्येन धारणाभिर्विशोधयेत् | दधि क्षीर घृतैः स्नाप्य ततोलिंगं विरुक्षयेत् || १० || यवगोधुमजैश्चूर्णैः कषाग्नैर्गन्धयोजितैः | त्वक् भिश्च विविधैर्मद्धैः क्षीरवृक्षसमुद्भवैः || ११ || आभिः क्षीरकुशाग्रैश्च मद्ध्य क्षत तिलेस्सह | यवैः सिद्धार्थकैःर्युक्तं पश्चादर्घ्यं प्रदापयेत् || १२ || ततो गन्धैश्च पुष्पैश्च धूपवस्त्रविभूषणैः | भक्ष्य भोज्यान्न पानादि द्यैश्चिन्तयेद्बिन्दुमीश्वरम् || १३ || प्. १२४) यद्यद् द्रव्यं निषेधं स्यात् तन्मयं तत्र चिन्तयेत् | शक्तियुक्तं परं देव मया भृतं षडानन || १४ || यो द्यो वासौ सदा देव सर्वदः सर्व कामिकः | सर्वज्ञः सर्वगश्शान्तो मूक्तो मूक्तो निरामयः || १५ || युक्तानि शक्तिमन्त्रेण सर्वद्रव्याणि षण्मुख | मेद्ध्यानि तु भंतिहतस्मात् सर्वत्र योजयेत् || १६ || शिरस्थाने तु देवस्याचार्यो होममाचरेत् | शिवस्य शिवमन्त्रेण सहस्र परिसंख्यया || १७ || ब्रह्मभिश्च शिवांगैश्च यथास्थानेष्वनुक्रमात् | तस्यार्थेन बहिः पश्चात् मूर्ति होमं समाचरेत् || १८ || विद्येश्वर गणैर्मन्त्रैर्लोकपालैस्तथैव च | यथास्थानेषु पञ्चाङ्गैः मूर्ति होम परः स्मृतः || १९ || अथवा सर्वमन्त्राणां यथा पूर्वमुदाहृतम् | शिवस्य शिवयागे तु तथाग्नौ तर्पयेत् सदा || २० || पृथक् पृथक् पदा स्कन्द व्या * * * स्य देवताः | तथा पञ्चां संयुक्ताः स्वमन्त्रविधि कल्पिताः || २१ || अथाभ्यर्च महेशानं लिङ्गेग्नौ स्थंडिलेपि वा | तदेक मन्त्रमन्त्रास्तु ध्येया सर्वांग युताः || २२ || एवमिष्ट्वा यथान्यायं ततो दद्याद् दिशा बलिम् | इष्ट्वा चण्डेश्वरं देवा गुरुं च संप्रपूजयेत् || २३ || प्. १२५) गन्ध पुष्प पवित्राद्यैर्वस्त्रालंकार वाहनैः | ग्रामखेट पुरे वापि यथा विभवविस्तरैः || २४ || वित्तशाठ्यं न कुर्वीत महापुण्य जिगीर्षया | सर्वान् कामानवाप्नोति यथोक्तेन तु कर्मणा || २५ || सर्वयज्ञतपोदान सर्वतीर्थेषु यत्फलम् | तत्फलं कोटिगुणितं स्थाप्य लिंगं लभेन्नरः || २६ || यो लिङ्गं स्थापयेदेवं विधि पूर्वं सदक्षिणः | सर्वागमोदितं पुण्यं कोटि कोटि गुणं लभेत् || २७ || पिस्तृजं मातृजं वापि यतवोद्गहते स्त्रिधाम् | कुलैकविंशमुत्तार्य ततो गछतु परां गतिम् || २८ || अज्ञात्वा विधिवच्छास्त्रं कुरुते यस्तु लोभतः | कर्तारञ्च तथात्मानं इहामुत्र विनाशयेत् || २९ || तस्मात् सर्व प्रयत्नेन विधिवत् कारयेद् बुधः | कर्ताकारयिता चैव ततो याति परां गतिम् || ३० || इति श्रीसर्वज्ञानोत्तरे जीर्णोद्धारप्रकरणम् || चालय मानेषु लिङ्गेषु विधिरेषु प्रकीर्तिता | अचलेषु समाख्याहि तत्वतः प्रतिमासु च || १ || अतत्वज्ञे चल लिंगं स्थापितं तु * दा भवेत् | स्थपत्या वा यवान्येन तस्य कालो(?) विधिः स्मृतः || २ || सौवर्णं राजतं ताम्रं कर्तुं वा शैल मृण्मयम् | प्. १२६) स पीठं निर्मितं लिंगं धधन्यदचलं भवेत् || ३ || अस्त्राम्बु पञ्चगव्येन धारणादिभिर्विशोधयेत् | स्थापयेत् सर्व बीजैस्तु प्लुतैर्बिन्दु विभूषणैः || ४ || ध्यानेन देवता पीठं यातु बीजं सरत्नकम् | पूर्वोक्तेन विधानेन प्रणवेन तु सा स्मरेत् || ५ || इन्द्रश्च पावकश्चैव यम नि-ऋ-ऋति एव च | जलवायु कुबेरेश ब्रह्मानन्दाश्च देवताः || ६ || पृथिव्यादीनि गन्धान्तं ब्रह्मवेद्यां प्रकल्पयेत् | धारिका मूर्ध्नि वेद्या तु धर्मादि चरणान्न्यसेत् || ७ || तानि चैव निबंधानि गुणैरन्योन्य वर्तिभिः | चतस्त्रो गात्रकां कृत्वा रागाद्य वरणादिषु || ८ || अथोर्ध्व चन्दने भूयो माया विद्ये प्रकल्पयेत् | वा त्वा लिङ्गं तु तन्मध्ये शिवान्तं वाथ चिन्तयेत् || ९ || विशुद्धि रश्मि निर्भासं सूर्यकोटि समप्रभम् | आधारं सर्वदेवानां भक्तिमुक्ति फलप्रदम् || १० || तस्य मूर्ध्नि सितं पद्मं तल्लिनं चारु कार्णिकम् || ११ || चारुकेसरपर्यन्तं अष्टपत्रं मनोरमम् | लिङ्गमेवं सदा कल्प्य ततः संस्थापयेच्छिवम् || १२ || पूर्वोक्तेन विधानेन पूजयेच्च यथा क्रमम् | स्वाहा स्वधा वषट्कारैः वषट् कारेण चैव हि || १३ || प्. १२७) अभ्यर्च्य संप्रयुंजीत नेत्र वक्त्राणि चैव हि | अभ्यर्च्य संप्रयुंजीत धूपं भक्ष्यादिभिः क्रमात् || १४ || अग्निस्थस्यावि देवस्य गन्धपुष्पपवित्रकैः | वस्त्रेषु चार्घ्य पात्रेषु नमस्कारोपि धीयते || १५ || सर्वलिंगे स्वयं स्कन्द विधिरुक्तः समासतः | प्रयत्नेन तु कर्तव्यः प्रतिमासु निबोधमे || १६ || प्रतिमां लक्षणोपेतां विचित्र लेप्यां तथेतराम् | यादृशं देवतारूपं तादृग्रूपं तु कारयेत् || १७ || अस्त्राम्बु पञ्चगव्याद्यैः स्नानं पूर्ववदाचरेत् | तथा च भूत संशुद्धिं धारणाभिः समाचरेत् || १८ || सौम्येन देवता स्थाप्य प्रथमेन षडानन | ततोङ्गानि नियुंजीत नेत्र वक्त्राणि चैव हि || १९ || संचिन्त्य देवता रूपं शुद्धाव * व लक्षणम् | प्रसन्न वदनं सौम्यं सर्वालंकार भूषितम् || २० || हृदा तु गन्धपुष्पाणि वस्त्राण्याभरणानि च | धूपोपहार द्रव्याणि दीपानि स्वकीयेन नियोजयेत् || २१ || होमे रत्नेषु रप्येषु ताम्रशैलमयेषु च | दाखेषु च सर्वेषु सदा स्नानं विधीयते || २२ || चित्र लेप्येषु वैद्यानां तस्यानन्तेषु कारयेत् | पाद्यमाचमनं चार्घ्यं सर्वज्ञानेन संस्मरेत् || २३ || प्. २२८) केवलं मन्त्र विन्यास मुत्न पुष्पैर्निरंबुभिः | कृत्वा धूपं प्रयुंजीत नैवेद्यं चोप कल्पयेत् || २४ || गन्धपुष्पैस्तथा धूपैस्तद्गृहं परिवासयेत् | वस्त्र शोभां पुना कृत्वा चित्रवर्णैर्वराम्बरैः || २५ || तोरणैश्च ध्वजैश्छत्रैः पताकैश्चारु दक्षणैः | रचनाभिरनेकाभि रचित्वा देवता न्यसेत् || २६ || ततो होमं प्रकूर्वित पुरस्तात् संयतेन्द्रियः | स्थापिता देवता या तु तस्या मन्त्रैस्तु पूर्ववत् || २७ || स्थापने सर्वदेवानां पुरस्ताद्धोममाचरेत् | सततं अग्नि कार्येषु अगारं पृथग् भवेत् || २८ || प्रतिदेवं प्रतिष्ठायां * * * * * * * * | इति सर्वज्ञानोत्तरे प्रतिमादिप्रकरणं || पुनरेवं प्रवक्ष्यामि जपस्य विधिनिर्णयम् | यथा च विन्दते कालमाप्यायन विसर्जनम् || १ || जपाद् दशांशतो होमे जपान्ते दशलाक्षिकः | कोटिः कल्पेदिता वत्स उत्तमा सिद्धि साधने || २ || मध्यस्य तु पञ्चास्यत् कन्यसे पञ्चविंशतिः | सर्वाणि क्षुद्र कर्माणि तस्यार्थेन तु कारयेत् || ३ || दीर्घकंटकिनो वृक्षा निंबतिन्दु विभीतकाः | श्रशक्र श्लेष्मातकाश्चैव विज्ञेया क्रूरकर्मणि || ४ || प्. १२९) द्विविधाग्रा स्फुटिता वक्रा वक्रच्छेदा समिद्धयः | विषा प्रकटिकैर्लाक्षाः प्रयोज्याः क्रूरकर्मणि || ५ || उक्ताभ्यस्त्वन्यथा स्कन्द क्षीरवृक्ष समुद्भवाः | शान्ति कर्मणि विज्ञेयास्त्यक्त्वा वा ब्रह्मवृक्षजा || ६ || लता पल्लवमध्यस्था ग्रन्थि हीनाः समत्वचः | नीरुजा निर्व्रणाश्शान्त क्रूरेष्वेता विलोमिकाः || ७ || विषमाश्रास्सदा कुंड विज्ञेयाः क्रूर कर्मसु | समाश्राः शान्तिके कर्षै पौष्टिके च षडानन || ८ || सा भाग्यमर्थ संसिद्धिं नित्य होमात् प्रवर्तते | जपेन पाप संशुद्धिं ज्ञानध्यानात् प्रमुच्यते || ९ || विशिष्टजन संपादो नरेन्द्रजन वन्दनम् | आत्मोत्कर्षबलं चैव यदि स्यात् सिध्यते ध्रुवम् || १० || दिव्यान्तरिक्ष भौमानि सिद्धि लिंगानि पश्यति | अथवाभ्यन्तरे वाचं श्रुत्वा भूष्याणि संहरेत् || ११ || पुष्पलोहादि लोहानि रसं चोपरसानि च | उपवीतां जनादीनि अरिताल मनःशिलाम् || १२ || अरिवर्गाहतं लोहं घृतमध्वानि वेधयेत् | प्रहिरसे पञ्चगव्येतीतः कुर्याद्वरायुधम् || १३ || रसं चोपरसं चैव पीत सूर्म्येण शोधयेत् | होमान्तरादि शुल्पानां शोधनं पूर्वचोदितम् || १४ || प्. १३०) यद्यस्य शोधनं द्रव्य मूलतन्त्रैः प्रकीर्तितम् | रसतन्त्रे तथा भूयस्तत्तन्नैव विशोधयेत् || १५ || अक्ष सूत्र विधानेन द्रव्यालभन मालभेत् | कथितं तु पुरावत्स स्त्रिविध द्रव्य साधनम् || १६ || उत्तमं मध्यमं चैव कन्यसं च यथा क्रमम् | सात्विकं राजसं चैव तामसं चेति तत्स्मृतम् || १७ || ज्वलन्तं सात्विकं विद्यात् सधूमं राजसं स्मृतम् | सोष्णं वै तामसं विद्यात् * दद्रव्य विचक्षणः || ८ || उत्तिष्ठं ज्वलमानेन सधूमेन सुरांगना | सोष्माणो दृश्यतां याति इति तो त्रिविधा गतिः || १९ || बीजमन्त्रं तदा ध्यानमात्मानञ्च विधानवित् | बिन्दुमध्यगतं कुर्याच्छक्त्याधिष्ठित विग्रहम् || २० || रसो रसायनं रोगो गणिकां जन पादुके | एव मुक्तनिबिध्यन्ते हरिताल मनःशिले || २१ || बिन्दु नाद मयो यो योत्रगीयदा भवति षण्मुख | तदाशु सर्व कार्याणि संसाययति नान्यथा || २२ || सितशान्तितरोज्ञेयः पीतः पौष्टिक कर्मणि | शिख्यवन्मारणे प्रोक्ता व्यायव्योच्चाटने स्मृतः || २३ || ऐंद्रकोपक संकाशो वशीकरण कर्मणि | विद्वेषणे प्रयुंजीत धूमवर्णो निलात्मकः || २४ || प्. १३१) इन्द्रायुध समाकारं तथैवा कर्षणे मनम् | सर्वा वर्णात्मको बिन्दुः सर्व कर्म करः स्मृतः || २५ || भ्रुवोर्मध्यगतं चैव षट्च्छदनेन यो | शुद्धस्फटिक संकाशं पश्यते करणेन तु || २६ || निश्वासो श्वास योगेन देहिनां देह संस्थितः | उदितो भास्करो भूत्वा सोमश्चै * कलात्मकः || २७ || स एव कालो नाद्यन्तो यस्मिन् सर्वं प्रतिष्ठितम् | विशते च पुनस्तस्मिन् तस्माच्चैव प्रवर्तते || २८ || दक्षिणे प्राणवृत्तिस्तु * त्युमाख्याति देहिनाम् | उत्तरेण तथैवेह * य च पुनरीश्वरम् || २९ || त्रैरब्दिक महो * * * भ्यां ज्ञेया द्विराब्दिकम् | अभिरे * तथा * * हे * नाहाय पाडिकम् || ३० || अ * र्ध्व * * * * मौ यदा चरति भास्करः | तदा होरात्रिकं मृत्युं पुनराख्याहि देहिनाम् || ३१ || मृत्युमेवं विधं दृष्ट्वा यदि जीवितु मिच्छति | तदाऽसौ सौम्य नाथस्थं तमेव परिचिन्तयेत् || ३२ || शुद्धकुन्देन्दु वर्णाभां शङ्खगोक्षीर सप्रभम् | अमृतीरूपमात्मानं तन्मध्ये तन्मयं गुह || ३३ || अथ चावर्ण पूर्वं वाऽमृता परिकीर्तिताः | तामेव धारयेन्नित्यं न मृत्यु वशगो भवेत् || ३४ || प्. १३२) दूर्वां त्रिमधुरक्तां वा अमृताद्व्यंगुला तथा | जुहुधा त्रिमधुरक्तां वा प्लुतेन विद्यते || ३५ || अथ निर्वेद मायानि जीविते वस्थिरे चले | कालात्मकं तदा देवं मृत्युरूपं विचिन्तयेत् || ३६ || वह्निना मूर्ति संभिन्नं सुषुम्ना मध्य संस्थितम् | ज्वलज्ज्वलन संकाशं दीप्ततेज शिखार्चितम् || ३७ || उत्कृष्य मूर्ध्नि शब्देन प्राणास्तत्समतां नयेत् | काला जु * समाधाय मनसा निश्चलेन्द्रियः || ३८ || निष्पद्य स्पन्दनौ सम्यक् सर्वद्वाराणि चैव हि | सन्ताड्या वायुवेगेन क्षुरिकास्त्रेण मूर्धनि || ३९ || अ * श भावनायुक्तो बिन्दुनाद मयं स्मरेत् | एवं विमुच्यते प्राणैः तस्मिन्नेव प्रकी * ते || ४० || बिन्दुनादोद्भवं सर्वं स्थूल सूक्ष्म * * * * | तस्माद्बिन्दुमुपासीत शक्तिस्नरस * * * || ४१ || यथा तु चित्त सम्पन्नश्चरुभस्थ तं भवेत् | वित्तहीनं चरेद् भिक्षां कणपत्वां न कीमथ || ४२ || इति सर्वज्ञानोत्तरे सिद्धिसाधकादिप्रकरणम् || अतः परं प्रवक्ष्यामि भिक्षा चर्या विधिक्रमम् | भोजनं शयनं शौचमायामञ्च जपाश्रयम् || १ || हृदिना ग्रहणं कुर्यात् पात्रस्य सततं बुधः | प्. १३३) क्षालयित्वास्त्र बीजेन कवचेन तु वेष्टयेत् || २ || ईशानं चिन्तयन् मध्ये गायत्रास्त्रं च मन्त्रवित् | अस्त्रं तु जपतो नित्यं भिक्षामावयेच्छुचिः || ३ || अस्त्र दण्डे तु विन्यस्य छत्रे गायत्रिमेव तु | ततो भिक्षामटेन्नित्यं पतिता शस्तवर्जिताम् || ४ || आगत्य तत्पुनः पात्रं शुद्धि स्थाने निधापयेत् | संगृह्य मूर्तिकां भूयो जंघा शौचं तु कारयेत् || ५ || आचम्योद्धुल्य पूतात्मा पुनरभ्युक्षयेच्चरुम् | शोधयित्वा विधानेन देवाग्न्यात्मनि कल्पयेत् || ६ || अथ प्राणाहुतिं दत्वा शिवहोमं पुनः क्रमात् | स्निग्धमल्पं च भुञ्जीत भविष्य शीतलं निशि || ५ || आचम्य बहिः निष्क्रान्तो भक्षयेदं तथा वनः | उद्धूल्य पुनराचम्य * यीत विधिना ततः || ८ || त्रिहस्तोत्खात भूशयये शुचि शुद्धे महीतले | सर्वलक्षणसंपूर्णो पुनरा कृत्वा जपालयम् || ९ || वितानध्वज संयुक्तं पताकै रूप शोभितम् | रुद्रावतार क्रिडाद्यैश्चित्र कर्म विभूषितम् || १० || नवैकादश हस्तं वा सप्तहस्तमथापि वा | प्रागुत कल्पकनं कुर्याच्छयनं च सदा बुधः || ११ || पञ्चरंगित सूत्रेण वर्मालब्धो * मन्त्रवित् | द्वार देशादारभ्य वेष्टयेत् त्रिगुणेन तु || १२ || प्. १३४) रत्निमात्रां स्थितः कीला नष्टौ दिग्देवतान्वितान् | अंगान् स्वस्थान् विन्यस्थान् पूजयित्वा यथा क्रमात् || १३ || चतुरः कलशान् पूर्णान् विदिशासु निवेशयेत् | शिवस्थाने यजेद् रुद्रं प * ध्यानेन वा गुह || १४ || दीप्ततेजोनिल प्रख्यं दंष्ट्रोत्कटभयानकम् | शस्त्रोद्यतकरं घोरं सर्वविघ्न विनाशनम् || १५ || ततः शक्तिं न्यसेद् भूमौ विद्यां तत्रोपरिन्यसेत् | स्वरचक्रं ततो दद्याद् वर्णानि च यथाक्रमम् || १६ || पूर्ववन्मन्त्र देहस्तु प्राकारास्त्रैः सुगोपितम् | शयीतमनसा योगी शिवं पश्येत् समं ततः || १७ || तमेव जपतो नित्यं ध्यानमाश्रित्य मन्त्रवित् | अर्धरात्रे तु सवने तथैव समुपासयेत् || १८ || शयनं च तथा भूय प्रबुधस्य तथा जपः | गतिं देवस्य विज्ञाय जपध्यानादिकं क्रमात् || १९ || प्रहरार्धे ततोत्थाय ध्यात्वा देवं पिनाकिनम् | मनसा वर्तयेत् तं तु प्रणवं बिन्दु वर्जितम् || २० || निर्गत्य शयनं स्थानात् आवश्यकरणं कुरु | बहिरंगो पवीती च दृष्टिदूत पदक्रमी || १२ || दिवैवोद मुखस्तिष्थे छात्रो वै दक्षिणमुखः | अर्धरात्रे तु नैर्-ऋत्ये द्वे सन्ध्ये तु यथा दिवा || २२ || प्. १३५) काष्ठितृणोपलं लोष्ठं वांत ध्यानं षडानन | ततो मलं प्रकुर्वीत वस्त्रतश्चावकुंठितः || २३ || न नदीषु कुर्यान्न भस्मनि न गोमये | न गुल्मे शाद्वले प्रश्मेशानोप वनेषु च || २४ || काष्ठेन दावा रामृश्य पायुं लोष्ठेन वा गुह | ग्रहीतशिग्नो भूत्वा तु मृत्तिका हरणं कुरु || २५ || बालुकोषर संवर्ज्य वृक्ष मूल जलाये * | वल्मीक मृत्तिकां चैव तथा वै ग्रामयानिकाम् || २६ || विशुद्धं मृत्तिकां गृह्य जयतीरे निधापयेत् | ततः शौचं प्रकुर्वीत मृत्तिकां गृह्य वारिणाम् || २७ || लिङ्गे त्रीणि गुदे सप्त दशैक करे स्मृतः | उभयोः सप्ततातप्य मृत्तिका शुद्धिमिच्छता || २८ || एकैकमन्तरे त्रीणि एव शौचं कृतं भवेत् | दन्त काष्ठं ततो मन्त्री भक्षयेदभिमन्त्रितम् || २९ || आचम्य विधिनोत्थाय पुनरुद्धुलयेत् क्रमात् | पश्चाद्योजं ध्यानं यावदभ्युदितो रधिः || ३० || ततः स्नानं प्रकुर्वीत सकृत् विततवारिणि | अथोर्ध्वं भस्मना स्नानं सर्वकाम समृद्धये || ३१ || लेप गन्ध विनाशाय वारुणं परिकीर्तितम् | इति श्रीसर्वज्ञानोत्तरे भिक्षाचर्यादिप्रकरणम् || प्. १३६) अथातः संप्रवक्ष्यामि वारुणं स्नानमुत्तमम् | सावनं परमं स्कन्द लेप गन्ध विनाशनम् || १ || पाणिपादौ पुरःक्षाल्य मृत्तिकां गृह्य वारुणी | उपस्पृश्य शुचिर्भूत्वा शिवं ध्यायेत् स निर्मलम् || २ || अस्त्रेण प्रोक्षणं कुर्यात् मृत्तिका हरणं कुरु | मनयितास्त्र बीजेन हृदयेन तु संहरेत् || ३ || जलतीरे निधायै तत् क्षालयित्वा जलाश्रयम् | अस्त्रेण क्षालयेत् पूर्वं स्थापयेद्धृदयेन तु || ४ || ते नैवाभ्युक्षणं भूयस्ततो भागत्रयं पुनः | पूर्वदक्षिणे नैव तथा चैवोत्तरेण तु || ५ || अस्त्र जप्तं भवेत् पूर्वं ब्रह्म जप्तं तु दक्षिणं | उत्तरं शिव जप्तं तु प्रकुर्वीत पृथक् पृथक् || ६ || अस्त्र जप्तं क्षिपेद् दिक्षु दशस्वपि यथाक्रमम् | नाराचास्त्र प्रयोगेण तोय मध्ये पुनः क्षिपेत् || ७ || आग्नेयी धारणा ध्यात्वा पुनरमृतं विचिन्तयेत् | शिवजप्तेन भागेन ततोभ्यावर्तयेज्जले || ८ || शिवतीर्थं भवेदेवं विधिनानेन षण्मुख | अत्र ग्रन्थ पातः || प्. १३७) सर्वज्ञानोत्तरपादम् जंघे पादे तथा हस्ते प्रक्षाल्य तु पुनः पुनः | कंथयित्वा ततः स्नायात् शिवतीर्थस्य मध्यतः || १ || चक्रवत्युपचारेण सुगन्धामलकादिभिः | ब्रह्माङ्गैः शिव गायत्र्या महास्त्रेण शिवेन च || २ || अभिषेकं प्रकुर्वीत सन्ध्योपासनमेव च | संहृत्यसर्वमन्त्राणि निनादेन विधानवित् || ३ || आकृष्योदितमार्गेण स्थापयीत हृदिस्वके | तत आयतनं गच्छेत् पुष्पहस्तो विचक्षणः || ४ || यदा तु रोगादिना वारुण स्नान शक्तस्तदा प्रक्षाल्य | पाणि पादौ तु भस्मस्नानं समाचरेत् || ५ || इति श्रीसर्वज्ञानोत्तरे वारुणस्नानप्रकरणम् || भस्मस्नानं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् | सर्वज्ञा * त्तोमं पुण्यं सर्वपापहरं परम् || ६ || ख संस्थं गोमयं गृह्य स्थाने वा पतितं शुभे | अधः परिसन्त्यज्य पञ्चगव्येन मर्दयेत् || ७ || विविक्ते निर्जने रम्ये सर्वोपद्रव वर्जिते | प्रक्षवल्मीक निर्मुक्ते प्रवाते परिशोषयेत् || ८ || शुष्कं संहरेत् प्राज्ञः अस्त्रबीजेन प्रोक्षयेत् | शिवाग्निं जनयित्वा तु निर्दहेत् तेन वह्निना || ९ || अथ संक्षेपतः स्कन्द आरण्य गोमयं पुनः | पञ्चगव्येन संयुक्तं विधानेन तु निर्दहेत् || १० || प्. १३८) तस्याप्य संभवेभस्म लेप गन्ध विवर्जितम् | शुचि स्थानाश्रितं शुद्धं तदप्येवं पुनर्दहेत् || ११ || संहृत्य हृदि मन्त्रेण नवे भाण्डे निधापयेत् | अस्त्रं तु जपतो मन्त्री सर्वविघ्नविनाशनम् || १२ || अस्त्राभिमन्त्रितं कृत्वा मलस्नानं समाचरेत् | विधिस्नानं ततः पश्चात् मूर्ध्न आरभ्य मन्त्रवित् || ३ || ब्रह्मभिस्त्वनुपूर्वेण बहिरंगैरनुक्रमात् | अभिषेकं शिवे नैव पश्चात् कूर्वित षण्मुख || १४ || उद्धूल्य विधिवत् प्राज्ञः कौपीना परिवर्तये * | प्रक्षाल्य तु मृदा पादौ करौ च पुनराचमेत् || १५ || त्रितत्व परिजप्तं तु त्रिः पिबेन् मन्त्रविज्जलम् | परिमृज्यान्मुखं शक्त्या त्रिवारं तु यथाक्रमम् || १६ || प्रणवेन ततो विद्वान् शिखानेत्रादिकं स्पृशेत् | आचम्य विधिना भूयः पितृदेवाश्च तर्पयेत् || १७ || सर्व मन्त्रैः सदा संध्यां वन्दयित्वा विचक्षणः | ततो ध्यानं प्रकुर्वित जपञ्च त्रिविधं पुनः || १८ || जपेत् षट्क त्रयं पुण्यं नित्यं मनोवाक्काय कर्मभिः | काल्ये च मध्यमे चैव प्रासादादि क्रमेण तु || १९ || सर्वेषु वा शिवं ध्यात्वा नित्यं जपध्यानेषु वा स्मरेत् | प्राणवृत्ति निरोधेन नैव पापमवाप्नुयात् || २० || प्. १३९) संहितां वा स्मरेन् नित्यं त्रिषु कालेषु मन्तवित् | शतमष्टोत्तरमक्षैस्सर्व पाप विशुद्धये || २१ || सर्व विघ्न विनाशार्थं पाशजालस्य चैव हि | अस्त्राणि घोरूपाणि सततं परिवर्तयेत् || २२ || एवं मन्त्रमयो भूत्वा सर्व मन्त्रांस्तु योजयेत् | संसाययेद्रुद्रान्मन्त्रान्योगि योगात्मकान् गुणान् || २३ || * * स्नायो यदा मन्त्री मन्त्रसाधनमारभेत् | * * हा यो योगी सिद्धिं कमण्डलु धरस्सदा || २४ || श्रीसर्वज्ञानोत्तरे भस्मस्नानप्रकरणम् || अतः परं प्रवक्ष्यामि कमण्डलुधरस्सदा || २५ || असहायस्य योगीन्द्र सखा ये व कमण्डलुम् | प्रज्वल्यमग्निं घोरेणास्त्रेण च विधानवित् || २६ || प्रातरुत्थाय तं नित्यं देहे देव कमण्डलुम् | ताम्रम्येन संशोध्य तथास्त्रोदक भस्मना || २७ || रौप्य हेमौ तु संशोद्ध्य लेप गन्ध मलान्वितौ | ततस्त्वा पूरयेत् पश्चाद् वस्त्रपूतेन वारिणा || २८ || पाद्यमाचमनं शौचमाचरेत् सततं क्रमात् | न किञ्चित् संस्पृशेत् तावद् यावच्छुष्कौ करावुभौ || २९ || सुशुष्क पाणि पूतात्मा व्यतिकार्यं यथोदितम् | नान्येन सेवितं वस्त्रं न शयया न कमण्डलुम् || ३० || न भस्मना कलावत्यं संसेवेत कदाचन | आत्म शययात्म वस्त्रं च जायापत्यं कमण्डलुम् || ३१ || प्. १४०) आत्मनः शुचिरेतानि परेषामशुचिर्भवेत् | श्रीसर्वज्ञानोत्तरे कमण्डलुप्रकरणं || इति सर्वज्ञानोत्तरपादः समाप्तः || </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] q2hhem7qyvc4vtcbvp5yvxqt5ip8ld0 417733 417732 2026-06-27T10:22:26Z Shubha 190 417733 wikitext text/x-wiki {{header | title = सर्वज्ञानोत्तरम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> श्रीगुरुभ्यो नमः सर्वज्ञानोत्तरम् । योगपादम् ।। नमः शिवायशक्त्यै च विन्दवे शाश्वताय च । गुरवे च गणेशाय कार्तिकेयाय धीमते ।। १ ।। अतः परं प्रवक्ष्यामि योगमन्त्रकितस्तुतम् । शान्तस्य * * * * * * * * * * * * * ।। २ ।। युक्ताहार विहारस्य युक्तचेष्टस्य कर्मसु । उक्त स्वप्नावबोधस्य तत्त्वतः शृणु षण्मुख ।। ३ ।। योध्यातायश्च तद्ध्यानं तद्वैर्यान्न प्रयोजनम् । सर्वाण्येतानि यो वेत्ति स योगं योक्तु मर्हति ।। ४ ।। आत्माध्याता मतोध्यानं ध्येयः सूक्ष्मो महेश्वरः । यत्परा परमैश्वर्यमेतद्ध्यान प्रयोजनम् ।। ५ ।। मानामानौ समौ कृत्वा सुखदुःखे समे तथा । हर्षं भयं विषादं च सत्यजन् योगमभ्यसेत् ।। ६ ।। शून्यागारे मठे रम्ये देवतायतने शुभे । नदीतीरे विविक्तेन्त गृहे घोरवनेपि वा ।। ७ ।। प्रच्छन्ने च विविक्ते च निश्शब्दे जनवर्जिते । योगदोष विनिमुक्ते निर्विकल्पे निरातपे ।। ८ ।। स्नात्वा शुचि रूपस्पृश्य प्रणम्य शिरसा शिवम् । योगाचार्यान्नमस्कृत्य योगं युञ्जीत * * * ।। ९ ।। पद्मकं स्वास्तिकं नापि उपस्थाप्यां जलिं तथा ।? पीठार्धतर्धचन्द्रं वा कर्मतो? भद्रमेव वा ।। १० ।। प्. २) आसनं रुचिरं वद्ध्वोर्ध्वकायः समं शिरः । सर्वसंगान् परित्यज्यात्मसस्थं मनोगुह ।। ११ ।। न दन्तैः संस्पृशेद् दन्तान् सृक्विण्या च न जिह्वया । किञ्चित् कुञ्चित नेत्रस्तु शिवं सम्यक्तदोच्चरेत् ।। १२ ।। *? य स यति तत्वानि तन्मात्राद्यानि देहिनाम् । पुनर्विनंशिकश्चैवास्त्र युक्तष्षडानन ।। १३ ।। न पृथक् हृदयं तस्य न शिरो न शिखागुह । वर्मास्त्र नेत्रसहितं तस्मादेव प्रवर्तते ।। १४ ।। प्राणापानौ समौ कृत्वा सुषुम्नान्तर चारिणौ । तयोर्वृत्तिर्निरुध्यात्मा शिवं ध्यायेद् विचक्षणः ।। १५ ।। अविनाभावसंयुक्तो ज्योतीरूपं सुनिर्मलम् । सुसूक्ष्मं व्यापकं नित्यं निर्विकल्पं सदा बुधः ।। १६ ।। उत्तमा मध्यमा मन्दास्संसर्गास्त्रिविधाः स्मृताः । प्राणायामांश्च तान् कुर्यात् पूरकुम्भक रेचकान् ।। १७ ।। प्राणायामैर्दहेद्दोषान् धारणाभिदिस्तुतम् । प्राणायामो भवादेय पूरको देहपूरकः ।। १८ ।। पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः । संपूर्ण कुम्भवत् तिष्ठेत् प्राणायामस्सकुम्भकः ।। १९ ।। ततोर्ध्वं रेचयेद् वायुं मृतु निच्छ्वास संयुतम् । रेचकस्त्वेष विख्यातः प्राणसंशयकारकः ।। २० ।। प्. ३) प्रसार्यचाग्रहस्तं तु जानुं कृत्वा प्रदक्षिणम् । च्छोटिका ततो दद्यान्मनन्नैष्टा त्वभिधीयते ।। २१ ।। मात्रा द्वादश विज्ञेयाः प्रमाणं तालसंज्ञकम् । तालद्वादशकं ज्ञेयं प्राणायामस्तु आन्यसम् ।। २२ ।। मध्यमश्चतर्विंश ज्येष्ठ * * द्विगुणो भवेत् । एकैकां वर्धमात्रां प्रत्यहं योगवित्तमः ।। २३ ।। नत्वरेण विलम्बेन क्रमेणैव विवर्धयेत् । प्राणायामोत्तमोयत्त द्विगुणा धारणा मता ।। २४ ।। धारणाद्विगुणो योगो योगोपि द्विगुणी कृतः । योगसिद्धिरिति ज्ञेया शिवेन परमात्मना ।। २५ ।। तदानु पश्यते सूक्ष्मं गन्धतन्मात्रमात्मनि । रसं तेजस्परिशंति च शब्दतन्मात्रमेव च ।। २६ ।। पश्यते कर्मयोगेन वर्णभावैः पृथग्विधैः । अहंकार मनोबुद्धिं गुणमव्यक्त पौरुषम् ।। २७ ।। अभिव्यक्तानि जानीयात् स्वधर्मगुण लक्षणात् । विद्यां कलां ततः कालं मायां विद्यां ततः पराम् ।। २८ ।। दृष्ट्वानु क्रमशः सर्वान् पुनरस्त्रेण भेदयेत् । विद्येश्वरं ततस्तत्वं तथा सादाशिवं परम् ।। २९ ।। भित्वा तु क्षुरिकास्त्रेण ततः सूक्ष्मं शिवं विशेत् । अमृतात्मा शिवः साक्षात् तस्मिन्निष्टस्तु योगवित् ।। ३० ।। प्. ४) सर्वज्ञस्सर्वगस्सूक्ष्मस्सर्वेशस्सर्वकृद् भवेत् । सर्वेष्वेव स शास्त्रेषु ज्ञेयं वस्तु चतुष्टयम् ।। ३१ ।। पशुः पाशः पतिश्चैव शिवश्चेति यथाक्रमम् । ज्ञात्वा तु तत्व सद्भावं तन्त्रसारं तु दुर्लभम् ।। ३२ ।। सर्वथा वर्तमानोपि गृह्णाति न पुनस्तनुम् ।। ३३ ।। ।। इति योगपादः समाप्तः ।। पशुपाशविधानं हि श्रोतुमिच्छामि तत्वतः । संयोगं च तथा तेषां कथयस्व महेश्वर ।। १ ।। आद्याः पाशास्ततस्तेषां जीव आद्यस्तु किन्तु वै । का पाशाः कोमलाः प्रोक्ताः कस्माद्वन्धः पुमानिति ।। २ ।। पतिश्च किं विधो ज्ञेयस्साधिकार पदे स्थितः । शिवश्च कीदृशः प्रोक्तो योधिकार विवर्जितः ।। ३ ।। ईश्वरः पशुरात्मा स्वतन्त्रश्च चिन्मात्रो मनदूषितः । सममूढो नित्यसंसारी किञ्चिद् ज्ञानीश्वरो क्रितः ।। ४ ।। ताम्रस्यैव तु हेमत्वमन्तर्लूनं यथा स्थितम् । अन्तर्लूनं तथा ज्ञेयं शिवत्वं पुद्गलस्य तु ।। ५ ।। रससिद्धं यथा ताम्रं हेमत्वं प्रतिपद्यते । तथात्मा ज्ञानसम्बन्धश्शिवत्वं प्रतिपद्यते ।। ६ ।। यथा ज्ञात्वा विभागेन पयसि संस्थितम् । तथात्मा पाशसंश्लिष्ट अविभागेन संस्थितः ।। ७ ।। प्. ५) विषापहारं कुरुते * * ध्यानबलैर्यथा । कुरुते पाशविश्लेषं तथाचार्यः शिवाध्वरैः ।। ८ ।। मन्त्रौषधबलैर्यद्वत्सन्निरोधो विषस्य तु । तथा हि सर्वपाशानां सन्निरोधस्तु दीक्षया ।। ९ ।। दह्यते याम्यमानानां धातूनां तु यथामलम् । तथाचार्यो दहेत्पुंसां वायुभूतो मलावुभौ ।। १० ।। गुणभूताः स्मृताः पाशाः धर्माधर्मौ मलौ स्मृतौ । सहजौ साधकज्ञानां ताम्रकालिकवात्स्थितौ ।। ११ ।। त्रिविधास्ते स्मृताः पाशाः सहजागन्तुकास्तधा । सांसर्गिकास्तथा भूयः शृणु तेषु विनिर्णयम् ।। १२ ।। तन्मात्राद्यास्तु ये तत्वास्ससूक्ष्मास्सर्वगा गुह । ते तु पाशाः पराः प्रोक्तास्सहजास्सर्वजन्तुषु ।। १३ ।। इन्द्रियाणि च भूतानि यद्वीजं तेषु सम्भवम् । आगन्तुकाः स्मृताः ह्येते तस्मात् सांसर्गिकाः पुनः ।। १४ ।। संसर्गाद् यद् भवेत् कर्म शुभं वा यदि वा शुभम् । ते तु सांसर्गिकाः पाशाः सुखदुःखफलः प्रदा ।। १५ ।। कर्मणा तु शरीराणि भावात् कर्मोदयो भवेत् । पूर्वोपार्जित कर्माणां भावः संयोग कारकः ।। १६ ।। ईश्वरो व्यञ्जकस्तेषां भवेत् कर्मानुरूपतः । कर्मोदयाद् भवेत् सृष्टिरसास्तैः प्रलयं विदुः ।। १७ ।। प्. ६) विषयासङ्गदोषेण गुणसंगो शिखिध्वज । वन्धमाप्नोति पुरुषो ह्यकर्तो सर्वगोपि सन् ।। १८ ।। पिता पुत्रापराधेन यथैकस्थो निबध्यते । अकर्तापीह पुरुषस्तथा बन्धमवाप्नुयात् ।। १९ ।। यथैव साधुसंयोगात् उदासीनोपि मानवः । तथाबन्धमवाप्नोति तथा ज्ञेयस्तु पुद्गलः ।। २० ।। अनादि निधनाः पाशा जीवो नाद्यस्तु कीर्तितः । तच्छेदकस्तथानादिः पशुपाशपतिस्तुसः ।। २१ ।। पतिस्सदा शिवो ज्ञेयो मन्त्रात्मा मन्त्रविग्रहः । सर्वमन्त्राधिपश्चासौ सृष्टिसंहारकारकः ।। २२ ।। पदवर्णादिभिर्युक्तैः पूज्यते सर्वदा तु सः । अशेष भवनाधारो योगपीठासनस्थितः ।। २३ ।। पतिरेवं समाख्यातस्सर्वकामफलप्रदः । स्थूलसूक्ष्मोपि मिश्रश्चैवं रूपं तु संस्कृतः ।। २४ ।। शिववस्तु परं तस्मान्मन्त्रातीतो निरञ्जनः । निरामयो निराधारो वर्णरूप विवर्जितः ।। २५ ।। सर्वज्ञः सर्वगश्शान्तः सर्वात्मा सर्वतो मुखः । अतीन्द्रियो निरालम्बः सुसूक्ष्मः शाश्वतो ध्रुवः ।। २६ ।। स एव भगवान् व्यापिन् अप्रमेयो ह्यनौपमः । बहिरन्तर्विभागेन तिलेतैलमिव स्थितः ।। २७ ।। प्. ७) स्वात्मसाक्षात्कारप्रकरणम् ।। अथान्यं संप्रवक्ष्यामि उपायं तत्वतो गुह । अग्राह्यस्यापि सूक्ष्मस्य सर्वगस्य तु निष्कलम् ।। १ ।। येन विज्ञायते सम्यक् यं ज्ञात्वा शिवो भवेत् । न कस्य विजायाख्यातं तद्विज्ञानं शृणुष्व मे ।। २ ।। गुरुपारम्परायातमदृष्टं सर्वादिभिः । भवबन्धविमोक्षार्थं परमं सर्वतोमुखम् ।। ३ ।। यो सौ सर्वगतो देवो सर्वात्मा सर्वतोमुखः । सर्वतत्वमयो चिन्त्यस्सर्वस्योपरि संस्थितः ।। ४ ।। सर्वतत्वव्यतीतश्च वाङ्मनो नामवर्जितः । सोहमेवमुपासीत निर्विकल्पेन चेतसा ।। ५ ।। यदेव निष्कलं ज्ञानं शाश्वतं ध्रुवमव्ययम् । निर्विकल्पमनोद् देश्यं हेतु दृष्टान्तवर्जितम् ।। ६ ।। अलिङ्गमक्षरं शान्तं विषयातीतगोचरम् । अविभाष्यमसन्देहं तदहं नात्रसंशयः ।। ७ ।। अहमेव परो देवः सर्वमन्त्रमयः शिवः । सर्वमन्त्रव्यतीतश्च सृष्टिसंहारवर्जितः ।। ८ ।। मया व्याप्तमिदं सर्वं दृश्या दृश्यं चराचरम् । अहमेव जगन्नाथो मत्तः सर्वं प्रकाशते ।। ९ ।। अनेकाकारसंभिन्नं विश्वं भुवनसञ्चयम् । शिवाद्यवनि पर्यन्तं तत्सर्वं मयि संस्थितम् ।। १० ।। प्. ८) यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । बहिरन्तर्विभागेन तत्सर्वं व्यापितं मया ।। ११ ।। अहमात्मा शिवो ह्यन्यः परमात्मेति यः स्मृतः । एवमुपासयेन्मोहान्न शिवत्वमवाप्नुयात् ।। १२ ।। शिवोऽन्यस्त्वहमेवान्यः पृथग्भावं विवर्जयेत् । यः शिवः सोहमेवेति अद्वैतं भावयेत् सदा ।। १३ ।। अद्वैतभावनायुक्तः सर्वत्रात्मनि संस्थितः । सर्वगं सर्वदेहस्थं पश्यते नात्रसंशयः ।। १४ ।। एवमेकात्मभावेन संस्थितस्य तु योगिनः । सर्वज्ञत्वं प्रवर्तेत विकल्परहितस्य च ।। १५ ।। योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः । अकायो निर्गुणो ह्यात्मा सोऽहमस्मिन्न संशयः ।। १६ ।। अविज्ञातः पशुः सो हि सृष्टिधर्म समाश्रितः । विज्ञातशाश्वतश्शुद्धस्स शिवो नात्र संशयः ।। १७ ।। तस्मादात्मा सदावेद्यः सुविचार्यः विचक्षणैः । परापरविभागेन स्थूल सूक्ष्मविभागशः ।। १८ ।। परः परमनिर्वाण अपसृष्टिभेदतः । स्थूलो मन्त्रमयः प्रोक्तः सूक्ष्मो ध्यानैक संस्थितः ।। १९ ।। अथवा बहुशोनेन किमुक्तेन षडानन । वाग्विकल्प विशेषेण मनः संमोहकारिणी ।। २० ।। प्. ९) सर्वेधर्मानस्सन्ति यमेव परिकल्पयेत् । तत्तद्भवत्यसंदेहात् सदा तद्भाव भावतः ।। २१ ।। इत्येवमात्मविज्ञानं कथितं तु समासतः । ज्ञात्वैवात्ममयं सर्वमात्मानं पर्युपासते ।। २२ ।। न तत्र देवा वेदा वा यज्ञा वा बहुदक्षिणाः । आत्मविज्ञानमाश्रित्य विमलं सर्वतो मुखम् ।। २३ ।। संसारार्णवमग्नानां भूतानां शरणार्थिनाम् । नान्यः शरणदः कश्चिदात्मज्ञानादृतेः क्वचित् ।। २४ ।। आत्मानं परमो भूत्वा यो विजानाति तत्वतः । स मुच्यते त्वयत्नेन सर्वावस्थां गतोपि सन् ।। २५ ।। आत्मलाभात्परोलाभः क्वचिदन्यो न विद्यते । तथात्मानमुपासीत योयमात्मापरस्तु सः ।। २६ ।। न प्राण्यो नैव चापानो विशिष्टकरणस्तथा । सर्वज्ञं तु तमात्मानं परिपूर्णं सदा स्मरेत् ।। २७ ।। न चैवाभ्यन्तरे बाह्ये नाति दूरे समीपतः । स निष्कले परे स्थाने तत्र चित्तं निवेशयेत् ।। २८ ।। तिर्यगूर्ध्वमधंश्चैव बहिरन्तश्च नित्यशः । सर्वशून्यं तमाभास समात्मानं भावयेत्थ ।। २९ ।। नैव शून्यं च चाशून्यमशून्यं शून्यमेव च । पक्षपात विनिर्मुक्तमात्मानं पर्युपासयेत् ।। ३० ।। निरामय निराधारं वर्णरूप विवर्जितम् । प्. १०) निरञ्जनं गुणातीतमात्मानं पर्युपासयेत् ।। ३१ ।। निरामय निरालम्बमप्रमेय मनोपमम् । स्वभावविमलं नित्यमात्मानं पर्युपासयेत् ।। ३२ ।। सन्यस्य सर्वकर्माणि निःस्पृहः सङ्गवर्जितः । भावयेदात्मनात्मानं मात्मन्येवात्मनि स्थितम् ।। ३३ ।। स देश जाति संबन्धान् वर्णाश्रम समन्वितान् । भावानेतान् परित्यज्य स्वरूपं भावयेद् बुधः ।। ३४ ।। मन्त्रोऽयं देवता ह्येषा इदं ध्यानमिदं तपः । सर्वभावान् परित्यज्यात्माभावं तु भावयेत् ।। ३५ ।। अभावे भावमाश्रित्य भावं कुर्यान्निराश्रयम् । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ।। ३६ ।। नैव चिन्त्यं न चाचिन्त्यमचित्तं चित्तमेव च । पक्षपात विनिर्मुक्तमात्मानं पर्युपासयेत् ।। ३७ ।। अचिन्त्यं चिन्तयेन् नित्यं कृत्वा चित्तं निराश्रयम् । निस्तत्वे निष्कली भूते विन्दत्यात्मनि यत्सुखम् ।। ३८ ।। निर्विकल्पमचिन्त्यं च हेतु दृष्टान्त वर्जितम् । तत्सुखं परमं प्रोक्तमात्यन्तिकमनौपमम् ।। ३९ ।। निरस्य विषयासङ्गं मनोवृत्तिं विवर्जयेत् । यदा यात्युन्मनी भावं तदा तत्परमं सुखम् ।। ४० ।। सर्वदिग्देशकालेषु योगाभ्यासोप्यधीयते । सर्ववर्णाश्रमाणां च ज्ञानभेदो न विद्यते ।। ४१ ।। प्. ११) गवामनेकवर्णानां क्षीरस्याप्येक वर्णताः । क्षीरवत् पश्यते ज्ञानमङ्गिनस्तु गवांसमाः ।। ४२ ।। यस्मात् सर्वगतं ब्रह्म व्यापकं सर्वतो मुखम् । तस्माद्ब्रह्मणि संस्थाने दिग्देशान्न विचारयेत् ।। ४३ ।। नैव तस्य कृतोर्थेन कार्य न विधिस्मृतः । न लिङ्गं नाश्रमाचारः परमात्मनि संस्थितः ।। ४४ ।। गच्छन् तिष्ठन् स्वपन् जाग्रन् भुञ्जानोपि पिवन्नपि । सर्वदा सर्वकालेषु वातशीतातपेषु च ।। ४५ ।। भयदारिद्र्यरोगेषु मन्द्यविज्वरकादिषु । आत्मन्येष स्थितः शान्तः आत्मतृप्तस्तु निष्कलः ।। ४६ ।। ना गतोऽहं गतो वापि ना गमिष्ये न गच्छता । न भूतो न भविष्यामि प्रकृत्य स्थिर धर्मणि ।। ४७ ।। प्रकृतानि तु कर्माणि प्रकृतिः कर्मसंभवा । नाहं किञ्चित् करोमीति युक्तमन्येत तत्ववित् ।। ४८ ।। नैवः प्रकृतिबन्धोस्ति मुक्ति इत्यभिधीयते । न चैव प्राकृतैर्दोषैर्लिप्ये * * कदाचन ।। ४९ ।। निर्दश्य तमोरूप दीपो यद्वत् प्रकाशते । आभात्येवं परोह्यात्मात्स्यैक्वैवा(?) ज्ञानजंतपः ।। ५० ।। स्नेहक्षमाद्यमादीपो वलान्निर्वाणमिच्छति । तथात्मा भावनायुक्त स्वात्मन्ये वा वलिष्ठते ।। ५१ ।। प्. १२) घट संवृतमाकाशं नीयमाने यथा घटे । घटो नियतिनाकाशमाकाशत्वं प्रपद्यते ।। ५२ ।। विभिन्ने प्राकृते देहे तथात्मापरमात्मनि । इत्येवमधिकारेण सर्वज्ञेनाधिकारिणा ।। ५३ ।। सर्वबन्धाद्विनिर्मुक्तस्सर्वज्ञः सर्वगो भवेत् ।। ५४ ।। तदा गमान् परिहृत्य सर्वान् शुद्धं गृहीत्वात्मसमाधियोगम् । अस्मात्परं नान्यदिहास्ति किञ्चिद् ज्ञात्वैव संत्यज्य मनोविकल्पम् ।। ५५ ।। विज्ञानमेवं समुपास्य विद्वान् विशत्यकायं सततं नियुक्तः । सर्वत्रगामी भरतीह मुक्तस्तद्धर्मधर्मी बहिरन्तसंस्थः ।। ५६ ।। सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहस्स शिवत्वमेति ।। ५७ ।। न जपो नार्चनं स्नानं न होमो नैव साधनम् । धर्माधर्मफलं नास्ति न पिण्डो नोदक क्रिया ।। ५८ ।। नियमानि न तस्यास्ति नोपवासो विधीयते । प्रवृत्तिं न निवृत्तिश्च ब्रह्मचर्यव्रतानि च ।। ५९ ।। अग्निः प्रवेशनं नास्ति पतनं भृगुनोदके । शिवज्ञानामृतं पीत्वा विचरस्व यथासुखम् ।। ६० ।। शिववच्छाश्वतः शुद्धः सृष्टिधर्म विवर्जितः । सत्यं सत्यं पुनः सत्यं त्रिसत्यं समयः कृतः ।। ६१ ।। अतः परतरं नास्ति विज्ञेयं कुत्र चिद्गुह । प्. १३) विमलयति सर्वभावान् विमलात्मा विमलबुद्धिरतशुधीः ।। ६२ ।। सर्वं विमलं पश्यति विमलो विमलेन भावेन । जाग्रजाग्रजाग्रस्वप्नं तथा जाग्रसुषुप्तिकम् ।। ६३ ।। जाग्रतुर्यं कालपरमतीतं परदर्शनम् । विश्वाग्रस्वोपशान्तश्च शिवदर्शनमेव च ।। ६४ ।। सायुज्यमिति भेदेन चोर्ध्वमेकादश स्मृतः ।। ६५ ।। विमतीकरणम् परंभूयः प्रवक्ष्यामि विमतीकरणोत्तमम् । यथात्मा जीवसंज्ञितः * * * * * * * * ।। १ ।। मन्त्रात्मा परमाख्याश्च तस्मात् परतरं न हि । पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। २ ।। संयोगः सर्वभूतानां भूतात्मा संप्रकीर्तितः । पुरुषाधिष्ठितैर्वीजैस्तन्मात्रैर्वीजसंयुतैः ।। ३ ।। संभवन्ति महाभूता मलया तु समन्विताः । सर्वेन्द्रिय समायुक्तं शरीरमिति चोच्यते ।। ४ ।। विनाशोत्पत्तिरेवास्य तच्चाहारमयं विदुः । आहारस्य परीणामाद्रसोत्पत्तिर्भविष्यति ।। रसाच्छोणितम् । शोणितान्मांसं मांसान्मेदो मेदस्वेऽस्थीनि अस्थिभ्यो मज्जामज्जातश्शुक्लंशुक्लशोणितसंयोगे वायुसंयोगाद्गर्भः संभूयते । यथाग्नीषोपीतं? शोभि? प्. १४) तत्र शरीर मध्ये नाभिः । नाभिस्थाने मलः । मलस्थाने यथा तिष्ठति वातपित्तश्लेष्माण इति त्रयो मलसंग्रहात् । ऋतुकाल संयोगात् पुंसोरेत आधिक्यादथ पुरुषो भवति । मातृरक्ताधिक्यात् स्त्री प्रजायते । उभयोस्साम्येनपुंसकम् । अथ काकञ्जकुब्जवामना जायते । परस्परा कुलत्वादन्योन्य वायुपीडिता तं स्त्रीपुंसां संयोगवैषम्याच्छुक्लं तद्विधं भवति । तेन युग्मं प्रजायते । एकरात्रोषितं कललं पञ्चरात्रेण बुद्वुदम् । सप्तरात्रेण मांसपेशी संभवति । द्विसप्तरात्रेण मांसपिण्डाकृतिर्भवति । मासादभ्यन्तरे बाहुरंसो जायते । मासद्वयेन हस्तपादाङ्गुष्ठादयो जायन्ते । त्रिभिर्मासैर्जरायु स्नायुत्वक् चर्मा भवन्ति । चतुर्भिर्मासैर्वंशपृष्ठे उरं कटिश्च भवति । पञ्चभिर्मासैश्शिरो ललाट कर्णनासा भवन्ति । षड्भिर्मासैः च्छिद्राणि भवन्ति । सप्तभिर्मासैश्शरीरस्य व्यक्तिर्भवति । अष्टभिर्मासैः पूर्णाकृतिर्भवति । नवभिर्मासैस्समायुक्त चेतनो भवति । पूर्वजातिं स्मरति । सोऽहमित्यहं चिन्तयति । चेष्टयति । घटात्घट इवाम्बुनोपलभ्यते । सूक्ष्मत्वादाकाशनीलो यथा । तस्मात् पञ्चात्मक समायुक्तं चेतनं । बुद्धिरहंकारो मनः प्रकृतिश्च प्रकृतेः पुरुश्च मनसा संकल्पं करोति । ह्य एव मनसायुक्त इन्द्रियैः सह युज्यते । इन्द्रियज्जी? ततोर्थेषु नित्यमेव प्रवर्तते ।। प्. १५) इत्येवं प्रकृति स्वभावं शरीरं प्रत्ययैश्चेष्टितव्यम् । असत्वात् सत्वरजस्तम इति पुरुषस्य स्वभावभेदं कुर्वन्ति ।। १८ ।। सत्वप्रकाशकं भावं रजो राजात्मकं गुह ।। १९ ।। तमो मोहात्मकं भावमुत्पादयति देहिनाम् । सत्वात्संजायते ज्ञानं रजसो लोपमेव च ।। २० ।। तमसो सत्यमज्ञानं प्रमादालस्यमेव च । सत्यात्सत्यं दया धैर्यं विनयस्थैर्यमेव च ।। २१ ।। रजसः क्रोधसंभावो निर्दयत्वं च जायते । ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः ।। २२ ।। जघन्यगुणप्रत्तिस्था अतो गच्छन्ति तामसाः । रजस्तमश्चाभि भूयसत्वं वर्धति षण्मुख ।। २३ ।। रजस्सत्वं तमश्चैव तमस्सत्वं रजस्तथा । यमेव स्वेते पुरुषो अतिसंगात्सदा गुणम् ।। २४ ।। सोस्याप्याधिको भूत्वा स्वधर्मे विनियोजयेत् । एवमेक कपालस्य षोडश पार्श्वपटलानि भवन्ति ।। २५ ।। त्रीण्यस्ति शतानि नवस्नायु शतानि नवद्वाराणि । मज्जापंचप्रस्तामेदः प्रस्थद्वयं त्रिस्तोर्ध्वं रोमकोट्यः ।। २६ ।। एकादशोत्तरर्मशित द्रवस्य पलानि अष्टौ सन्धिरस्या एकद्वयम् द्वादश पलार्मित(?) जिह्वा । वृक्षणं सार्धपलपञ्चकम् । शुक्लस्य कुडलत्रयम् । पित्तस्यादकम् । सप्तसिवाशतानि च । प्. १६) अनियत मूत्रपुरीष माहारस्यानित भावाद्विज्ञेयम् । एवं विधोयं भूतात्मा पुरुष इति चोच्यते । योत्तरे वर्तते शब्दस्तस्य वाचा प्रवर्तकः ।। २९ ।। प्राणापान समायोगात् सोन्तरात्मा प्रकीर्तितः । तस्माच्च सर्वशास्त्राणि संस्कृत प्राकृतानि च ।। ३० ।। देशभाषादिभिर्नित्यं विधिवत्संप्रवर्तते । पश्वश्च मृगाश्चैव पक्षिणश्च सरीसृपाः ।। ३१ ।। यावन्तः केचनस्सत्वा उच्चरन्ति सदा दुतम् । सूक्ष्मा वै पञ्चतन्मात्रा मनोऽहंकार एव च ।। ३२ ।। बुद्धिरष्टगुणा ज्ञेया गुणाव्यक्तं च पौरुषम् । कलाकालस्तथा माया विद्याविद्येश्वरं च यत् ।। ३३ ।। सदाशिवं तथा तत्वं वेदं वंशान्तमेव च । एतेषां चैव संयोगात् तत्वात्मा पुरुषः स्मृतः ।। ३४ ।। ततम्मेतैर्जगत्कृत्स्नं पाशाश्चेते मलात्मकः ।। सुसूक्ष्माः सर्वगानित्यस्सहजा सर्व ऋतुषु ।। ३५ ।। प्रकृतिश्चैव बोद्धव्या प्रक्रिया च निगद्यते । न परं प्रक्रिया ज्ञानात् न शिलाद्व्यापकं परम् ।। ३६ ।। न योगात्परतरः सिद्धिर्नशमात् परमं सुखम् । उदयो यक्ष्य तत्वस्य देहे भवति षण्मुख ।। ३७ ।। तदशात्मकं सदादेही विकार मनुवर्तते । प्. १७) यस्मिंश्चरति भूतात्मा तत्तत्वं वृषसर्पते ।। ३८ ।। आभूय सर्वतत्वानि स च तन्मयतां व्रजेत् । मुहुर्मुहु सा देही सर्वतत्वैरनुक्रमात् ।। ३९ ।। सञ्चरन्त्यविभत्त्या तु व्यापकत्वं च सर्वदा । तच्च तस्य सदा स्कन्द तत्वभावैः पृथग्विधैः ।। ४० ।। लक्ष्यते व्यापकस्यापि उदयास्तमनस्थितिम् । तथा तत्वाधिपान् भावान् प्रगृह्णाति षडानन ।। ४१ ।। सर्वधर्म मयो ह्यात्मा यथा कामं प्रकल्पयेत् । यस्मिं स्थिते रतिं याति तमेव परिसेवते ।। ४२ ।। तस्मिंस्तत्वे स्थितिं विद्यात् तत्तत्कर्म समाचरेत् ।। ४३ ।। तस्मादेवं विदित्वा तु शिवतत्वे निरामये । निर्विकारे निराधारे रतिं कुर्याद् विचक्षणः ।। न पुनर्मोह मायाति तस्मिंश्चैव षडानन ।। ४४ ।। स्थित्वास्मिन्नन्त कालेपि वरं निर्माणमाप्नुयात् । देही सर्वगतः सूक्ष्मः पुराणः शाश्वतो ध्रुवः ।। ४५ ।। व्यापकस्सर्व तत्वानां मजोवक्तः सनातनः । अस्वतन्त्रो निबद्धश्च चिन्मात्रो मलदूषितेः ।। ४६ ।। संमूढो नित्यसंसारी किञ्चिज्ज्ञो निश्चलो क्रियः । पशुधर्मोस्य संज्ञेयः शिवधर्मस्तनोऽन्यथा ।। ४७ ।। पशुधर्मोदयः पुंसो ह्यनेकाकार रूप धृक् । प्. १८) आत्मा जन्तुः पुमान् देही पुरुषः पुद्गली तथा ।। ४८ ।। जीवः कपाली क्षेत्रज्ञः पर्गाया एव मादयः । सर्वे धर्मात्मनः सन्ति संयुक्तः सर्वकर्मभिः ।। ४९ ।। सर्वान् देहान वाप्नोति याति सर्वासु योनिषु । यावन्नोत्पद्यते ज्ञानं तावद्भमति कर्मणा ।। ५० ।। अज्ञाना वृतदेहस्तु दुःखशोक परिप्लुतः । ज्ञानी लब्ध्वा परं शान्तं मचिरेणाधि गच्छति ।। ५१ ।। तदास्तु सर्वदुःखानां हानिरस्योपजायते ।। इति भूतात्मादिप्रकरणं समासम् ।। अतः परं प्रवक्ष्यामि पुरुषं मन्त्रविग्रहम् । सर्वशोकहरंदीप्तं सर्वपापहरंपरम् ।। १ ।। सर्वदेवासुरयक्षाणां किन्नरासुररक्षसाम् । पितृमातृगणानाञ्च सिद्धविद्याधरादिषु ।। २ ।। नागगन्धर्वतिर्यक्क्ष पिशाचां च मानुषाम् । शिवादि सर्वतत्वानां मन्त्राविद्यन्ति शाश्वताः ।। ३ ।। नास्ति मन्त्रैर्विना किञ्चित् सर्वस्थावरजंगमम् । यावन्तः केचनस्सत्वा मन्त्राधिष्ठित विग्रहाः ।। ४ ।। यस्य यस्य हि तत्वस्यादिमं तु यदक्षरम् । षष्ठं त्रयोदशान्तं च तस्मिन् तस्मिन् नियोजयेत् ।। ५ ।। तं तु मन्त्रं विजानीया सर्वतत्वात्मकंवरम् । बिन्दुनालंकृतं मूर्ध्न सर्वकामफलप्रदम् ।। ६ ।। प्. १९) तेषामङ्गानि युञ्जीत न ब्रह्मास्तेषु कीर्तितः । दीर्घभिन्ना स्मृता ह्यङ्गा नेत्रानुस्वारसंयुतः ।। ७ ।। स विसर्गस्मृतो ह्यस्त्रस्सोनुस्वारविवर्जितः । इति तेषां तु बीजानां मूर्ध्नि बिन्दुं प्रदापयेत् ।। ८ ।। ओंकार दीपितां मन्त्रां नमस्कारान्तयोजिताः । अर्चने च प्रयोक्तव्या होमे स्वाहान्त योजिताः ।। ९ ।। आवाहनास्य पात्रेषु स्थापनाचमनेषु च । स्नपने मन्त्रविन्यासे धारणाध्यानकर्मसु ।। १० ।। पूजाबलिविधानेषु जपहोम क्रियासु च । शिवस्य यो विधिः प्रोक्तः सर्वकर्मक्रमेषु च ।। ११ ।। सर्वेषांमेव तत्वानां तं विधिं परिकल्पयेत् । अनुक्तं यद् भवेत् किञ्चित् तत्सर्वं हृदयेन तु ।। १२ ।। एवं विधिं विधानज्ञो बुध्या कर्मसमारभेत् । परमीकरणं प्रोक्तं सर्वतत्वेषु मन्त्रवित् ।। १३ ।। यो यथैव भवेन् मन्त्रो वाच्यवाचकभेदतः । स्थूल सूक्ष्म परस्सोहि मन्त्रात्म पुरुषः स्मृतः ।। १४ ।। स्थूलस्तु वाचकं सिद्धं सूक्ष्मे योगं च गच्छति । परः परम निर्वाणं यं प्राप्य न निर्वर्तते ।। १५ ।। यथा प्रदीपः प्रतिबुध्यमानो भवत्यनेकः पुनरेक एव । तथाहि मन्त्रः परिकल्प्यमानो भवत्यनेकः पुनरेक एव ।। १६ ।। प्. २०) यथाम्भसोनेकविधस्य लोके जात्यन्तरं ह्येकमनेकरूपम् । तथैव मन्त्रस्य च वेदितव्यं जात्यन्तरं ह्येकमेनक रूपम् ।। १७ ।। यमेव साधयेन्मन्त्रं ममात्मानं प्रकल्पयेत् । तदात्मक स्मृता ह्यङ्गा बहिराहित द्विभागहाः ।। १८ ।। यस्य यादृग्विधं रूपं वृतं तस्यैव तादृशम् । तादृशोप्युपचारस्तु मन्त्रदेवानुरूपतः ।। १९ ।। शास्त्रोपदिष्टमार्गेण यथारूपं प्रकल्पयेत् । तथा रूपो भवेन्मन्त्रस्ततः कर्मप्रसाधयेत् ।। २० ।। श्रोतुर्भाव विभेदास्तु वर्णरूपं पृथग्विधम् । सर्वोपाश्रय सम्पन्नं स्फटिको कोपलवद्यथा ।। २१ ।। इति मात्रात्मकः पुरुषः प्रोक्तस्सर्वार्थसाधकः । सर्वज्ञः सर्वगश्चैव सर्वरूप मयो हि सः ।। २२ ।। परात्परतरं वक्ष्ये मन्त्रातीतं निरंजनम् । निरामयं निराधारं वर्णरूप विवर्जितम् ।। २३ ।। सर्वज्ञः सर्वगः शान्तस्सर्वात्मा सर्वतो मुखः । अतीन्द्रियो निरालम्बः सुसूक्ष्मः शाश्वतो व्यथः ।। २४ ।। सुनिष्कलो निशालम्बो नाख्येयो व्यापको ध्रुवः । निरौपौम्यौ प्रमेयश्च परात्मा प्रकीर्तितः ।। २५ ।। यादृशेन तु भावेन पुरुषोपास्यते यदा । एकधा बहुधा चैव तथैव प्रतिपद्यते ।। २६ ।। प्. २१) यमेव चिन्तयेद् रूपं सर्वमात्मनि विद्यते । सर्वकामप्रदो ह्यात्मा प्रोक्तष्षड्भेद विस्तरः ।। २७ ।। भूतात्मा ह्यन्तरात्मा च तत्वात्मा जीवसंज्ञितः । मन्त्रात्मा परमाख्याश्च एकोपि बहुधा स्थितः ।। २८ ।। भूतात्मा भूतसंयोगात् तत्वात्मा तत्वसंस्थितः । मन्त्रात्मा मन्त्रं यो ज्ञेयो ह्यन्तरात्मागिरान्वितः ।। २९ ।। भोक्ता तु सुखदुःखाना प्रकृतिस्थो गुणान्वितः । जित्वा स्वभुवनं तेषामेभिर्मुक्तः परस्तुः ।। ३० ।। सर्वरूपं यथैश्वर्यं नित्ययुक्तो ह्यवाप्नुयात् । प्राप्तोपि स द्विधा भावि पुनर्भावमवाप्नुयात् ।। ३१ ।। प्राग्यत्येन परीक्षेण क्षीयात्पापस्य कर्मणः । तत्वविश्लेष काले चाद्वैतं प्रतिपद्यते ।। ३२ ।। एक एव परो ह्यात्मा चित्तभेदात्त्वनेकधा । एकस्य बहुनामानि पृथग्भूतान्य कोटिभिः ।। ३३ ।। अनामकस्व कीयंते भ्रान्ति ज्ञानविमोहितैः । यथाभिव्यज्यते ज्ञानं विमलं सर्वतोमुखम् ।। ३४ ।। तदात्मीयं परं धर्मविंदते शाश्वतं ध्रुवम् । अहमेव परोह्यात्मा पुरुषः कारणः स्मृतः ।। ३५ ।। अहमेव परंब्रह्म अहं ज्ञेय मतपरम् । सर्वे विनाशकाभावां मन एव पृथग्विधाः ।। ३६ ।। प्. २२) भावाभावविनिर्मुक्त अहमेव शिवोऽव्ययः । योगसंन्यस्त कर्मायो ज्ञानसंभिन्न संशयः ।। ३७ ।। निर्विकल्पस्तदा नित्यमात्मानं पर्युपासयेत् । निरस्य वासनास्सर्वा आत्मतृप्तो निरामयः ।। अद्वैतभावनायुक्तस्सदात्मा समुपासयेत् । अपाकृतेन नित्येन निर्मलेनाविकारिणा ।। व्यापकेनाति सूक्ष्मेण परेण योगचक्षुषा । विशुद्धं शाश्वतं नित्यं प्रमेयं नौपमम् ।। निर्विकल्पमचिन्त्यं च हेतुं दृष्टान्तवर्जितम् । दुत्रप्तं निर्गुणं शान्तं तत्वातीतं निरञ्जनम् ।। अविभाव्यमसन्देहं पश्यमीशानमात्म * । सर्वगं सर्वदेहस्थं व्यापकं सर्वतोमुखम् । निरामयं निराधारमात्मानं पश्यते शिवम् । विभिन्नं प्रक्रिया मार्गं मन्त्र तन्त्र परावरम् । मूर्तामूर्तं जगत्कृत्स्नं पश्यतात्मन्युपस्थितम् ।। सर्वज्ञः सर्वदर्शी च परिपूर्णः सुनिर्मलः । विमुक्तः केवलीभूतस्सुखमक्षयमाप्नुयात् ।। इति सर्वज्ञानोत्तरे ज्ञानपादः समाप्तः ।। वृक्षाणां सारभूतं पुष्पं पुष्पं समुद्राणां क्षीरसागरम् । तथा च सर्वशास्त्राणां सारभूतं शिवागमम् ।। प्. २३) पदार्थानेक सम्पूर्ण सर्ववाङ्मय साधनम् ।।१ ।। अल्पग्रन्थमहार्थं च तच्छ्रुणुष्व यथाक्रमम् । योऽसावतीन्द्रियो ग्राह्यस्तत्वातीतो निरंजनः ।। २ ।। सर्वज्ञः सर्वगश्शान्तस्सर्वात्मा सर्वतो मुखः । तस्माच्छास्त्रं विनिष्क्रान्तं नादरूपं निरामयम् ।। ३ ।। अत्यन्तगगनं सूक्ष्मं परमं सार्वकामिकम् । प्रविश्य वैन्दवं तत्वं बोधयित्वा च तंविलं ।। पुनः सदा शिवात्प्राप्तं ममेदं सूक्ष्मलक्षणम् । ततः स्वराश्च वर्णाश्च हंसवर्ण समुद्भवा ।। पुनर्मन्त्राश्च शास्त्राणि छन्दो लक्षणसंयुता । वभूव परमोनादो नादाच्छब्दः प्रजायते ।। शब्दमात्रा स्मृता मन्त्रा मन्त्रे मन्त्राधिदेवताः । सर्वान् कामान् प्रयच्छन्ति विधिना राधिता यदा ।। स्वरवर्णसमायोगात् दृश्यादृश्यं चराचरम् । तस्मादिपासयेद्वर्णान् स्वरसंयोगपूर्वकम् ।। इति श्रीसर्वज्ञानोत्तरे मन्त्रतन्त्रोत्पत्तिप्रकरणम् ।। वर्णयागविधानं तु स्वरं संयोग पूर्वकम् । परमीकरणं चैव ब्रूहि तत्वेन शङ्कर ।। १ ।। शृणुष्वैकमना भूत्वा वर्णयागविधिक्रमम् । ककारादि क्षकारान्तं स्वरसंयोगपूर्वकम् ।। २ ।। प्. २४) एकैकमक्षरं भिन्नं स्वरै द्वादशभिस्तथा । ह्रस्वै ब्रह्मसमाख्याता दीर्घैरङ्गानि निर्दिशेत् ।। ३ ।। सानुस्वारसमायोगात् त्रयोनेत्राः प्रकीर्तिताः । स विसर्गा स्मृता ह्यस्त्रा अनुस्वारविवर्जिताः ।। ४ ।। हृद्वीजा अपञ्चमे बीजो षष्ठं बीजं नियोजयेत् । मात्रात्रयसमायुक्तं मूर्ध्नि बिन्दु प्र * पयेत् ।। ५ ।। शिवमेवं विधिं विद्यात् सर्ववर्णेष्वनुक्रमात् । ह्रस्वदीर्घप्लुतानन्तान्य या कामं प्रकल्पयेत् ।। ६ ।। ह्रस्वस्याद्यंत युत्तेन फट्कारेण तु मारयेत् । यधि क्रोधेनसंयुक्तो जपेत् संरक्तलोचनः ।। ७ ।। ह्रिंकारान्तसंयुक्ता दीर्घस्त्रिच्चाटयेद्ध्रुवम् । महांस्तु साधको भूत्वा साध्यनूनं प्रकल्पयेत् ।। ८ ।। निर्गुत्योदितमार्गेण प्रविशेत् तस्य तेन च । तत्रस्य एवाद्वयो भूत्वा तेनेव कर्षयेत् पुनः ।। ९ ।। अङ्गान्यङ्गेषु बन्धाय चिन्त चेतसि निक्षिपेत् । पद्मकोशस्थितं तं तु संहरेद्धृदयेन तु ।। १० ।। यदेव कुरुते कर्म न देवोपवदं स्मृतम् । जपेत् तद् भावना युक्तो नामं मन्त्रपि दर्हितम् ।। ११ ।। बिन्दुयुक्ताः स्मृता मन्त्रा प्रणवादि नियोजिताः । नमस्कारान्तसंयुक्तानार्चने संप्रयोजयेत् ।। १२ ।। प्. २५) होमे स्वाहान्तसंयुक्ता शान्तिकाकर्ष पौष्टिके । वश्ये च संप्रयोक्तव्या स्वाहाकारान्तसंयुताम् ।। १३ ।। किं वा मन्त्रविधानेनाति विस्तारवेनते । सर्वसाधारणं वत्स शृणु संक्षेपविस्तरम् ।। १४ ।। यो विधिर्मन्त्रराजस्य प्रोच्यमानो भविष्यते । तमेव सर्वमात्राणां सततं परिकल्पयेत् ।। १५ ।। तथैव सर्वदेवानां यजने संप्रयोजयेत् । इति श्रीसर्वज्ञानोत्तरे क्रियापादे स्थूलवर्णमन्त्रोद्धारप्रकरणम् ।। मन्त्रोद्धारं प्रवक्ष्यामि तत्वतः शृणु षण्मुख । अतिगुह्यं परं सूक्ष्मं सर्वमन्त्रमयस्य तु ।। १ ।। मात्रकादौ स्थिता स्थिता या तु सर्पवद्वध कुण्डला । सा शक्तिः परमासूक्ष्मा विश्वास ददात्मिका ।। २ ।। पसरत्यूर्ध्वसंनाना प्रेरितानांतविग्रहा । करिणीय करं यद्वत् संवेष्योरसि संस्थिता ।। ३ ।। सुदीर्घा क्रियते यातु संतानेन महौजसा । संप्रदायेन सातूर्णमात्मानं मुञ्चते शुभा ।। ४ ।। प्रगुक्ता भवतीया तु करणीय करंयया । प्रकाशयति चात्मानं मोक्षद्वारं परापरम् ।। ५ ।। तत्वङ्ग्या सह गन्तव्यं मध्यदेशं विपश्चिता । मध्यदेशमनुप्राप्य त्यजेत् तां चञ्चलां स्त्रियम् ।। ६ ।। मूलमत्रां विदित्वा तु शक्तेर्मध्यं सुदुर्जयम् । प्. २६) तन्मूलं जायते येन भोधकस्सोभिधीयते ।। ७ ।। संभूतिः सर्वबीजानामुच्चारवशवर्तिनी । दीर्घोसु नाशिको नादो ह्यप्रमेयो ह्यनौपमः ।। ८ ।। स्निग्धप्रसन्नगभीरशक्त्युच्चारस्तु संस्मृतः । प्रासादष्षष्ठसंयुक्तः पुनः षष्ठान्त योजितः ।। ९ ।। अर्धेन्दुबिन्दुसंयुक्तो मात्रात्रयविभूषितः । स शिवः शाश्वतः प्रोक्तः सर्वज्ञानोत्तरोत्तरः ।। १० ।। अष्ठौ संविद्य मन्त्रज्ञैः तस्योच्चारः प्रकीर्तितः । ह्रस्वस्वरसमायोगा पञ्चब्रह्माणि निर्दिशेत् ।। ११ ।। दीर्घैः भिन्न स्मृतो ह्यंगः कारणात्मा महाद्युतिः । मूर्ध्नि बिन्दु सुषुम्नास्यां गायत्रीं तां विनिर्दिशेत् ।। १२ ।। स्वरादौ त्रीणि दिर्घाणि त्रितत्वं परिकीर्तितम् । नेत्रत्रयं तु तज्ज्ञेयं क्रमशः संप्रयोजयेत् ।। १३ ।। दक्षिणे ह्यात्मतत्वं तु विद्या तत्वमयोत्तरे । ललाटे शिवतत्वं तु त्रीणि पञ्चसु विन्यसेत् ।। १४ ।। मुखेषु नेत्रवित्प्राज्ञो नेत्रं नेत्र क्रमेण तु । विन्यसेदात्मनः पूर्वं शिवस्य च तथा पुनः ।। १५ ।। त्रयोदशान्तसंभिन्नं विद्येशानां प्रकल्पयेत् । गणेशानां तु गायत्रीं तस्मिन् सान्निध्यमागताः ।। १६ ।। हृदयं लोकपालानां विज्ञेयं सार्वकामिकम् । अस्त्रपाशुपतं दीप्तस्त्र मन्त्रं प्रकल्पयेत् ।। १७ ।। प्. २७) सर्वे बिन्दुसमायुक्ता शुद्धकुन्देन्दु संप्रभाम् । विश्वकीद्विश्ववेत्तारो विश्वकृद्विश्व मूर्तयः ।। १८ ।। ओंकारदीपिता मन्त्रा नमस्कारान्तयोजिताः । अर्च्चते संप्रयोक्तव्या होमे स्वाहान्तसंयुताः ।। १९ ।। न बिन्दुर्न शिखामात्राप्यस्त्रवशस्य षण्मुख । स विसर्गास्तथा दीप्ता घोरकर्मकरा स्मृताः ।। २० ।। एकत्रिंशान्तिकं वर्णं सप्तमस्वरयोजितम् । ककारार्धयुतं कृत्वा क्षरिकास्त्रं प्रकीर्तितम् ।। २१ ।। एते मन्त्राश्शिखास्सूक्ष्माः परमाः सर्वकामिकाः । सर्वैरेभिः सदा कुर्याच्छिवीकरणमात्मनः ।। २२ ।। यदा यदा समाचामे मन्त्रन्यासं यदा तदा । कुपितकरकायेषु मन्त्रिमन्त्रार्य सिद्धये ।। २३ ।। इति श्रीसर्वज्ञानोत्तरे क्रियापादे प्रासादमन्त्रोद्धारप्रकरणम् ।। अथातः संप्रवक्ष्यामि शिवीकरणमुत्तमम् । यत्कृत्वा तु नरः सम्यक् शिवो भवति नान्यथा ।। १ ।। देहं संशोधयेत् पूर्वं धारणाभिस्तु पञ्चभिः । शुद्धदेहस्ततो भूत्वा शिवमन्त्रान् नियोजयेत् ।। २ ।। सुषिम्नान्तर्वहिः शक्ति विन्यसेद् व्योमरूपिणीम् । तस्य मध्ये तु हुंकारं ज्वलन्तं पावकप्रभम् ।। ३ ।। प्राणापानसमायुक्ते तस्मिन् चित्तं निवेशयेत् । प्. २८) उत्छ्र?टान्तेस्त्र मोक्षस्तु हुंकारेण समन्वितः ।। ४ ।। ग्रन्थिभेदं कुरुष्वेवं पुनः साधानमारभेत् । सन्निरुद्धे कृते सम्यक् गूर्ध्वं वायुः प्रवर्तते ।। ५ ।। योद्घात इति विख्यातः स्वेच्छया तु कनीयः * । पूरकेणोपसंहृत्य हृदयेन तु मन्त्रवित् ।। ६ ।। सान्तबीजमयं जीवं न्यसेधूंकारमूर्धनि । हुंकारस्य शिखान्तस्य पुरुषं बीजविग्रहम् ।। ७ ।। ध्यात्वा त्वेकाकिनं सूक्ष्मं बिन्दुभूतं निरामयम् । ततः संयोजयेद् योगी शिवे परमकारणे ।। ८ ।। शिवातीते सदाशान्ते शुद्धस्फटिक निर्मले । एकेनोद्घात मात्रेण एकलक्षस्सुमन्त्रितः ।। ९ ।। एकीभावसमायुक्तः प्रविशेच्छिवमव्ययम् । बीजवृत्याशिखेलून तत्व वृत्या तु तत्ववित् ।। १० ।। * म्यदीनि विजानीयादनिलानि विशोधयेत् । हृदा तु पार्थिवं बीजं वारुणं शिरसा सह ।। ११ ।। नियुक्तं शिखयाग्नेयं वायव्यं कवचान्वितम् । होकार मन्त्रसंयुक्तं मण्डलेषु प्रयोजयेत् ।। १२ ।। एतास्तु धारणा ज्ञेय ऐंद्राद्या देशिकोत्तमैः । वैन्दवास्तु कलास्ताश्च निवृत्याद्याः प्रकीर्तिताः ।। १३ ।। प्रधंदारण भेदेन प्रणवेत्वेकधा स्थिताः । प्. २९) ज्ञानत्वैतास्तु कलासम्यक् स्थूल सूक्ष्मविमिश्रकाः ।। १४ ।। ततो ध्यानं प्रकुर्वीत देह संशोधनाय च । चतुरश्रं समंपीतं वज्रांग वज्राङ्गं कठिनं गुरुम् ।। १५ ।। लकारासनमारूढं हृद्बीजमध्यतः स्थितम् । उद्घातैः पञ्चभिर्युक्तं वायुभूत विशोधयेत् ।। १६ ।। अर्धचन्द्रं द्रवं सौम्यं शुद्धकुन्देन्दु समप्रभम् । वारुणं मंडं ध्यायेत् मध्ये कमलभूषितम् ।। वकारासन मध्यस्थं शिरोबीजमधोमुखम् । युक्तं चतुर्भिरुद्घातैः वह्निभूतं विशोधयेत् ।। १८ ।। विषानल महावेग कालपाशविनाशनम् । वर्षन्तं तमभिध्यायेत् नादमानं सुशीतलम् ।। १९ ।। डाडिमी कुसुम प्रख्य मध्यशृंगाटकाङ्कितम् । त्र्ययश्रमर्चस्सुसम्पन्नमाग्नेयं मण्डलं स्मरेत् ।। २० ।। रकारासनमारूढं शिखाख्यं बीजमुत्तमम् । उद्घातै स्त्रिभिः संयुक्तं जलभूतं विशोधयेत् ।। २१ ।। शोधयन्तं स्वकंदेहं निर्दहन्तमकल्मषम् । सकृष्णं बिन्दुभूतं * * * * * * * * * ।। २२ ।। वायव्यमण्डलं ध्यायेत् पादादारभ्य चञ्चलम् । यकारासन् संविष्टं कवचं वायुविग्रहम् ।। २३ ।। शोधयेत् पार्थिवं भूतं उद्घात दवय योजितम् । ततः सञ्चिन्तयेद् व्योमं समलं सर्वतोमुखम् ।। २४ ।। प्. ३०) नित्यं सर्वगतं शान्तं बिन्दुशक्तिविभूषितम् । ओंकारासंविष्टं हकारं नाहसंविलम् ।। २५ ।। कोनोघातमात्रेण शून्यभूतं विशोधयेत् । मण्डलं बीजसंयुक्तं ध्यानेन विविधेन च ।। २६ ।। प्राणायामैर्मतं सम्यक् धारणेत्यभिधीयते । यायेव धारणाधार्य जगत्सर्वं हि तन्मयम् ।। २७ ।। यदात्मकं च योगीन्द्रास्तत्तत्कर्मजलं ययुः । एवं संशुद्ध देहस्त्वमृतीभूतो विधानवित् ।। २८ ।। ततो निरुक्षयेन् मार्गं का नाडी वहते मम । यस्मिन् चरति पुद्गलः * * * * * * * * ।। २९ ।। तत्रान्तर्देह विनासमन्तर्य जनमेव च । देहस्तस्य विदेहस्य जाक्षिभूतस्य कर्मसु ।। ३० ।। नित्योदितस्य कुर्वीत सदासन्निहितस्य तु । वामनासा पुटे या तु इडासा परिकीर्तिता ।। ३१ ।। दक्षिणे पिङ्गला ज्ञेया सुषुम्ना मध्यत स्थिता । यस्मिन्नभ्यधिको वायुस्सानाडी सर्वकामदा ।। ३२ ।। इडानाड्यां वहन्त्यां च म दिवस्थान प्रकल्पयेत् । पिङ्गला नाडि पद्मं तु सुषुम्ना मूर्ध्नि योगवित् ।। ३३ ।। हृदयेच्चा विधानं तु नाभौ भौमं प्रकल्पयेत् । मूर्ध्नान्ते शिवं ध्यायेत् वरदं सर्वतोमुखम् ।। ३४ ।। प्. ३१) रात्रौ संपूजयेद् देवं दिवाहोमं च कारयेत् । सन्ध्यासु च ततो ध्यानं दिवा रात्रौ जप स्मृतम् ।। ३५ ।। दिवा तु तामसं कुर्याज्जपो रात्रौ तु राजसम् । सन्ध्यायां सात्विकः प्रोक्तो जपः सर्वार्थसाधकः ।। ३६ ।। विस्पष्टस्तामसः प्रोक्तो राजसोपांशुरुच्यते । मनसा सात्विकं विघात् जपं जप्यविदां विदुः ।। ३७ ।। तामसं क्रूरकर्माणां वश्यादिषु च राजसम् । सात्विकं दिव्यसिद्धीनां जपं युज्याद्विचक्षणः ।। ३८ ।। प्राणपत्ति निरोधेन यो जपः क्रियते सदा । स जपः सात्विकः प्रोक्तो भोग मोक्ष फलप्रदः ।। ३९ ।। नं तु द्विविधं कुर्यात् स्थूला सूक्ष्मं सदाबुधः । ध्यानेन हि परां सिद्धिं प्राप्नुवन्ति हि योगिनः ।। ४० ।। स्थूल मन्त्रमयं प्रोक्तं सर्वावयवसंयुतम् । द्विमार्गावस्थितं ध्यायेत् पूजाग्नौ होमवित्तमः ।। ४१ ।। केवलं शिवबीजं तु सर्वावयववर्जितम् । न जातिरूपं परं शुद्धं तत्सूक्ष्मं परिकीर्तितम् ।। ४२ ।। दक्षिणायनमित्युक्तं निशा सोमात्मिका गुह । अहस्तु विमलं प्रोक्तं सौरमेयोत्तरायणम् । सन्ध्या तु विषुवं प्रोक्तं वुत्तरेण * * * * ? ।। ४३ ।। उत्तरेण वहन्तस्य दक्षिणायनमादिशेत् । प्. ३२) दक्षिणेनोत्तरं विद्यां मध्ये तु विषुवं भवेत् ।। ४४ ।। समीभूते यदा वायुःश्चरते संपुटद्वये । विषुवं तु विजानीयात् पुण्यमन्त्रो भयात्मकम् ।। ४५ ।। विषुवं चन्द्रमाहेन्द्रांद्या दक्षिणायनमाश्रिताः । इडाख्यान्तर्गतां ध्यायेत् पितृयाने शिखिद्ध्वज ।। ४६ ।। ब्रह्मावह्नी रविर्वायुरुत्तरायणमाश्रिताः । पिंगलान्तर्गतं ध्यायेद् देवयानं तदुच्यते ।। ४७ ।। अनन्तेशश्चरुद्रश्च सदाशिव शिवौ तथा । सुषुम्नान्तर्गतं ध्यायेद् विषुवे च विचक्षणः ।। ४८ ।। धर्मज्ञानं च वैराग्यमैश्वर्यञ्च चतुष्टयम् । योगपीठं च पद्मं च प्रणवेन तु विन्यसेत् ।। ४९ ।। तत्वं विन्यसेत् पूर्वं कर्णिकायां विचक्षणः । व्यापयन्ति मधश्चोर्ध्वं पुनः शक्ति नियोजयेत् ।। ५० ।। ततश्चाकर्षयेज्जीवं शिवीभूतं निरामयम् । पूरकेण शिखान्तस्थं शिवबीजमयंपरम् ।। ५१ ।। स्थापयेत शिखामध्ये ज्योतीरूपं सुनिर्मलम् । अमृते वा प्लाव्यमानमुपरिष्टात् समं ततः ।। ५२ ।। ततोऽस्य मन्त्रविन्यास सूक्ष्मदेहस्य षण्मुख । यथा भवति तत्वेन तच्छृणुष्व यथाक्रमम् ।। ५३ ।। शान्तौ करतलौ कृत्वा करशाखासु पञ्चसु । प्. ३३) ईशानादीनि ब्रह्माणि कनिष्ठादिषु योजयेत् ।। ५४ ।। ततोङ्गानि नियुंजीत हृदयादि ततो पुनः । प्रासादं विन्यसेत् पञ्चद्व्यापिनं सर्वतोमुखम् ।। ५५ ।। ततश्चालभनं कुर्यात् पादादारभ्य मूर्ध * ? । ईशानं पञ्चधा मूर्ध्नि वक्त्रंवक्त्र चतुष्टये ।। ५६ ।। दीप्ततेजस्सितोक्तानां पञ्चमं प्रणवेन तु । हृदाद्यंगैरघोरं तु गुह्यवामं प्रकल्पयेत् ।। ५७ ।। पादादारभ्य सर्वाङ्गैः सद्योजातं तु विन्यसेत् । हृदि श्रीवातदानौ च नाभ्यां च जठरे तथा ।। ५८ ।। पृष्ठे ह्युरसि मन्त्रज्ञो विन्यसेद् बहुरूपिणम् । गुह्ये चैव तथालिङ्गे ऊर्वोर्वैजानुनोस्तथा ।। ५९ ।। जंघयोश्च स्फिचोत्कट्यां पार्श्वे वामकला न्यसेत् । पादयोर्हस्तयोश्चैव नासायां शिरसा तथा ।। ६० ।। बाह्येश्चैव च मन्त्रज्ञ सद्योजात कलान्यसेत् । नेत्रं नेत्रेषु विन्यस्य पुनरंगानि योजयेत् ।। ६१ ।। हृदयं हृदयेद् विन्यस्य शिरः शिरसि विन्यसेत् । शिखायां तु शिखाद्या तु कवचं स्तनमध्यतः ।। ६२ ।। अस्त्रं हस्तप्रदेशे तु ततोध्यानं समाश्रयेत् । शिवस्य यादृशं रूपं तादृशं चिन्तयात्मनि ।। ६३ ।। शिवमन्त्रन्यासमिदमात्मानं तु सदा कुरु । प्. ३४) प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् । यथान्तर्देह विन्यासस्तथा बाह्येपि षण्मुख ।। ६४ ।। बाह्ययागं यथा वक्ष्ये सूक्ष्मदेहान्तरे तथा । तथा वै शिष्य देहे तु अग्नौ होमे तथैव च ।। ६५ ।। इति श्रीसर्वज्ञानोत्तरे क्रियापादे परमीकरणप्रकरणम् ।। अतः परं प्रवक्ष्यामि बाह्ययाग विधिक्रमम् । सर्वकामप्रदं गुह्यं सर्वपापहरं परम् ।। १ ।। अलंकृत्य स्वकंदेहं शिवमन्त्रैः यथाक्रमम् । शिवीभूतः सुपूतात्मा शिवस्यार्चनमारभेत् ।। २ ।। उत्तराभिमुखो भूत्वाऽस्त्रमावर्तयेच्छुचिः । विघ्नानुच्चाटयेत् स्थूलात् तालशब्द त्रयेण तु ।। ३ ।। तर्जन्या तर्जयेत् तांस्तु हंसमंत्रान् विन्यसेत् । पुनरावेष्टयेन्मन्त्री तत्स्थानं कवचेन तु ।। ४ ।। ततो ह्यस्त्राणि विन्यस्ये दिशासु विदिशासु च । वज्रं शक्तिं च दण्डं च खड्गं पाशं तथांकुशम् ।। ५ ।। गदात्रिशूलं चक्रं च पद्मं चेति यथाक्रमम् । ऐन्द्री दिशं समारभ्य यावदीशानगोचरम् ।। ६ ।। अधश्चक्रं तु विन्यस्य पद्ममूर्ध्वं नियोजयेत् । गन्धैः पुष्पैस्तथा धूपैः पुनरस्त्राणि पूजयेत् ।। ७ ।। ततश्शक्तिमनहृत्य सूक्ष्मामृतरूपिणीम् । प्. ३५) व्यापयन्ति ह्यधश्चोर्ध्वमप्रमेयां मनौपमाम् ।। ८ ।। अर्घ्यपात्रं ततोग्राह्यं हुंफट्कारेण क्षालयेत् । स बाह्याभ्यन्तरं पश्चात् कवचेनावकुण्ठयेत् ।। ९ ।। बिन्दुस्थानं समाश्रित्य मध्ये पद्मं विचिन्तयेत् । त्रितत्वं विन्यसेत् तस्मिन् पुनः शक्तिं नियोजयेत् ।। १० ।। आपूर्य पञ्चभिर्ब्रह्मैः शिवाङ्गैश्च शिवेन च । गन्धपुष्पसमायुक्तं तज्जलं मन्त्रसंस्कृतम् ।। ११ ।। आवाहयेत् परं देवं प्रासादं परमामृतम् । अङ्गैरङ्गीकृतं वत्स शुद्धस्फटिकनिर्मलम् ।। १२ ।। द्रव्याणि प्रोक्षयेत् तेन यज्ञार्थं कल्पितानि तु । अप्रोक्षितं न ता दिव्यं भविष्यत्वं च वै शिवे ।। १३ ।। स्वमन्त्रैरर्चनं कुर्याद् देवता नयथोदितम् । धर्मादि चास्त्रपर्यन्तं शिववर्ज षडानन ।। १४ ।। शिवस्य शिवमन्त्रैस्तु होमकाले विधीयते । संपूर्णाहुति दाने च सर्वकर्म समर्पणे ।। १५ ।। धर्मज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् । आग्नेयं दिशमाश्रित्य विदिक्षु प्रणवेन तु ।। १६ ।। ब्रह्मस्थाने पुराशक्तिं कल्पयित्वा तु विन्यसेत् । योगपीठं ततः पश्चाच्छक्तिनालं च पङ्कजम् ।। १७ ।। अष्टपत्रं भवेत् तत् तु चतुर्भागान्तकर्णिकम् । प्. ३६) त्रिभागकेपराकीर्णं शक्तिजालवितानितम् ।। १८ ।। वामाज्येष्ठा च रौद्री च कालि कला बला तथा । बलप्रमथनी सर्वभूतदमनी मनोन्मनी ।। १९ ।। आर्वपत्रात् समारभ्य यावत् पत्रं तु शांकरम् । हृदयेन तु विन्यस्य केसरेषु दलेषु च ।। २० ।। मनोन्मनीं न्यसेन्मध्ये शक्तिं वै कारणात्मिकाम् । ईशानं कर्णिकायां तु शिवव्योम प्रकल्पयेत् ।। २१ ।। शिवस्य पुनरीशान्यां मूर्तिमन्त्रं प्रकल्पयेत् । सितवर्णनिभं ध्यात्वा पूर्ववक्त्रे तु पुद्गलम् ।। २२ ।। याम्येत्वघोरनामानं वाममुत्तरतो न्यसेत् । सद्यः पश्चिम भागे तु ततोह्यावाहनं भवेत् ।। २३ ।। आवाह्य सद्यमन्त्रेण वामदेवेन स्थापयेत् । अघोरेण तु सान्निध्यमर्घ्यं तत्पुरुषेण तु ।। २४ ।। ततस्तु सकलं कुर्यादव्यक्तं व्यक्तलक्षणम् । वर्णरूपक संयुक्तं पुनः पूजां प्रकल्पयेत् ।। २५ ।। ईशानं पञ्चधा मूर्ध्नि वक्तं वक्त्रचतुष्टये । दीप्ततेजस्सितोक्तानां पञ्चमं प्रणवेन तु ।। २६ ।। हृदयांगैरघोरं तु गुह्यवामं नियोजयेत् । पादादारभ्य सर्वाङ्गैः सद्योजातं तु विन्यसेत् ।। २७ ।। हृदि ग्रीवा तथांसौ च नाभौ च जठरं तथा । प्. ३७) पृष्ठे ह्युरसि मन्त्रज्ञो विन्यसेद् बहुरूपकम् ।। २८ ।। गुह्ये चैव तथालिङ्गे ऊरुभ्यां जानुनोस्तथा । जंघयोश्च स्फिचौ कट्यां पार्श्वे वामकला न्यसेत् ।। २९ ।। पादौ हस्तौ च नासा च शिरश्चैव लजा प्रभौ । सद्योजात कलाह्येवं ततस्सर्वत्र मूर्तिषु ।। ३० ।। नेत्रं नेत्रेषु विन्यस्य ततोङ्गानि नियोजयेत् । हृदयं हृदये न्यस्य शिरं शिरसि विन्यसेत् ।। ३१ ।। शिखायां तु शिखां विद्यात् कवचं स्तनमध्यतः । अस्त्रं हस्तप्रदेशे तु पुनरङ्गानि नियोजयेत् ।। ३२ ।। आग्नेर्यां हृदये न्यस्य ईशान्यां तु शिरो न्यसेत् । नैर्-ऋत्यां तु शिखां दद्यात् वायव्यां कवचं न्यसेत् ।। ३३ ।। अस्त्रं दिशासु सर्वासु द्वितीया वरणे स्थितः । पूर्वादारभ्यमन्त्रज्ञो गायत्रीं विदिशासु च ।। ३४ ।। विद्येश्वरांस्तृतीये तु पूर्वादारभ्य विन्यसेत् । अनन्तेशं च सूक्ष्मं च शिवं च पुनरुत्तमम् ।। ३५ ।। एकनेत्रैकरुद्रौ च त्रिमूर्तिं चामृतद्युतिम् । श्रीकण्ठं च शिखण्डीशं युगान्तादित्यसन्निभाः ।। ३६ ।। इच्छारूपधरास्सर्वे इक्षु मूर्ति फलप्रदाः । गणेश्वरांश्चतुर्थे तु कौबेर्याशादिशः क्रमात् ।। ३७ ।। दिवं चैव तु चण्डेशं महाकालं च नन्दिनम् । प्. ३८) गणाध्यक्षं च भृङ्गीशं वृषभं स्कन्दमेव च ।। ३८ ।। ध्यायेत् सान्निध्यमनुद्विग्नपद्मराग समप्रभात् । पञ्चमे लोकपालास्तु क्रमादावरणे बुधः ।। ३९ ।। विन्यसेदस्त्रमार्गेण ध्मातचामीकरप्रभान् । इन्द्रं च पावकं चैव यमं निर्-ऋतिमेव च ।। ४ ।। जलं वायु कुबेरेशान् विष्णु ब्रह्माणमेव च । विद्येश्वर गणेशानामाननं प्रणवं विदुः ।। ४१ ।। बिन्दुं च लोकपालानां विसर्गं चास्त्रयोनिषु । विन्यस्यैवं विधानेन ततः संपूजयेच्छिवम् ।। ४२ ।। शुद्धस्फटिकसंकाशं वरदाभयपाणिनम् । संश्लिष्ट रत्नपादान्तं शङ्खचक्राम्बुजाङ्कितम् ।। ४३ ।। समजंघोरुचरणं गूढग्रन्थि सिरोच्छ्रयम् । विस्तीर्ण कट्युरसकं पीनवक्षस्थलांसकम् ।। ४४ ।। सुरक्तपाणिशाखान्तं दीर्घबाहुं नखोज्वलम् । स्थूलबाहु शिरोस्कन्धं निम्ननाभिं कृशोदरम् ।। ४५ ।। कम्बुग्रीवं विभक्ताङ्गं संपूर्णवदनोज्वलम् । सुभ्रूललाटबिम्बोष्ठ कर्णनासं सुमूर्धजम् ।। ४६ ।। विमलं पञ्चवक्त्रं च पञ्चमूर्ध्व विभूषितम् । त्र्यक्षं दशभुजं शान्तं जटामकुटमण्डितम् ।। ४७ ।। शशांकार्धधरं देवः पद्मपत्रायतेक्षणम् । प्. ३९) बद्धपद्मासनं सौम्यं किञ्चित् कुञ्चितलोचनम् ।। ४८ ।। मन्त्रसिंहासनारूढं बीज्यमानं वराङ्गनैः । दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरमनोहरम् ।। ४९ ।। सर्वलक्षणसंपूर्णं सर्वाभरणभूषितम् । ध्यात्वात्वेवं विधं मन्त्री सर्वकामफलप्रदम् ।। ५० ।। ततः स्नानादिकं कर्मं मन्त्रयुक्तं समाचरेत् । स्नापयेत् सद्य बीजेन कवचेन विलेपयेत् ।। ५१ ।। वस्त्राणि मेखलां चैव वामदेवेन * * * ? । ईशानेन तु पुष्पाणि मकुटं कुण्डलानि च ।। ५२ ।। केयूरमुपवीतञ्च कटकं हारमेव च । अघोरेण प्रदातव्यं धूपं तत्पुरुषेण तु ।। ५३ ।। नेत्रेण दापयेद् दीपं पुनराव(र)णैः क्रमात् । गन्धपुष्पाणि धूपञ्च दीपं चात्र प्रदापयेत् ।। ५४ ।। ततस्त्वर्घ्यं प्रयुञ्जीत पाद्याचमनपूर्वकम् । निवेद्यार्घ्यं तु देवस्य ततो मुद्रां प्रदर्शयेत् ।। ५५ ।। नमस्कार ध्वजश्चैव कालकर्णि च सिष्टुरा । चोटिका मुद्राः ततः पद्मः लिङ्गञ्च द्रव्यरूपिणि ।। ५६ ।। सिद्धिताः परमाह्येताश्शिवीसान्निध्यकारकाः । गन्धदिग्धौ करौ कृत्वा मुद्रां सम्यक् प्रपूजयेत् ।। १ ।। प्. ४०) पद्भ्यां पाद्यं पुरादद्यादागतस्य शिवस्य च । मुखेष्वाचमनीयञ्च शिरस्स्वर्घ्यं निधोजयेत् ।। २ ।। प्रथमा वाहनेत्वर्घ्यं पूजान्ते च तथापुरम् । विसर्जने तृतीयन्तु देवस्यार्घ्यं प्रकल्पयेत् ।। ३ ।। पूर्वमूर्धसमारभ्य दक्षिणोत्तर पश्चिमे । मध्ये चैव तु मन्त्रज्ञः पञ्चस्वर्घ्यं नियोजयेत् ।। ४ ।। सव्यं चैवापसव्यञ्चार्घ्यं दद्यात् पुनः पुनः । ऊर्ध्ववक्त्रे तु दातव्यं समुखं च पराङ्मुखम् ।। ५ ।। संस्थितस्य च देवस्य समुखं परिकल्पयेत् । विसर्जने तु गाङ्गेयं देयमर्घ्यं पराङ्मुखम् ।। ६ ।। एवमर्घ्यविधानं तु ततो द्रव्यं निबोध मे । भक्ष्या भोज्यान्न पानादि लेह्यशोष्यान्यनेकशः ।। ७ ।। सर्वं हृदयमन्त्रेण य * * * धि चोदितम् । पुनरावणैर्दत्त्यात् नैवेद्यं मन्त्रसंस्कृतम् ।। ८ ।। अग्निः कार्यं ततः पश्चात् सुसमिद्धे हुताशने । शास्त्रदृष्टेन विधिना कृत्वा भूतबलिं हरेत् ।। ९ ।। तोयभक्तसमायुक्तं पुष्पधूपसमन्वितम् । दद्याद्भूतबलिं मन्त्री सर्वपाकविमिश्रितम् ।। १० ।। पाणिपादौ ततः क्षाल्या चान्तः पुनराचमेत् । प्रविश्यायतनं पश्चात् जपं कुर्याद् विचक्षणः ।। ११ ।। प्रणिपद्य प्रसाद्येशं ध्यानमाश्रित्य मन्त्रवित् । प्राणायामैः शिखांस्थयेकंचित्तः सदा जपेत् ।। १२ ।। प्. ४१) बद्धपद्मासनोमौनी अक्षमाला करस्थितः । स्वस्तिकं वासनं बद्ध्वा समकायशिरः स्थितः ।। १३ ।। अनन्यमानसो योगी मन्त्री तन्मयतांगतः । अचिरात्सिद्धिमाप्नोति अदैतदैतमाश्रितः ।। १४ ।। इति श्रीसर्वमन्त्रानोत्तरे क्रियापादे अर्चनाप्रकरणम् ।। अतः परं प्रवक्ष्यामि अग्निकार्यविधिक्रमम् । आश्रयं सर्वसिद्धीनामिहामुत्रफलप्रदम् ।। १ ।। प्रोक्षित्वा पुराप्राज्ञः कुण्डमस्त्रोदकेन तु । ततस्त्वावेष्टयेत् पश्चात् कवचेन यथाक्रमम् ।। २ ।। पुनरुल्लेखनं कुर्यादस्त्रबीजेन षण्मुख । पुनरच्युक्षणं पश्चात् कवचेन विधानवित् ।। ३ ।। विष्टरं कुण्डमध्ये तु प्रणवेण पुनर्न्यसेत् । ततः शक्तिं न्यसेत् तस्मिन् तटित्सहस्रसन्निभाम् ।। ४ ।। ऋतुमतीं विशालाक्षीं सततं योनिमुद्रया । चतुद्ध्वः स्वरसंभिन्नो वह्निबीजोर्ध्वदीपितः ।। ५ ।। षोडशान्तहतो हंसश्शक्तिरेषानिगद्यते । गन्धपुष्पार्चितां कृत्वा अर्घ्यधित्व विधानवित् ।। ६ ।। शिवसन्तर्पणार्थाय ततो वह्निं प्रकल्पयेत् । चतुर्थेन विनिर्मुक्तो ह्यधष्षष्ठं नियोजितः ।। ७ ।। स एव हंस संज्ञस्तु वह्नि सर्वार्थसाधकः । प्. ४२) ताम्रपात्रेशरावे वा वधित्वा हुताशनम् ।। ८ ।। अस्त्रेण प्रोक्षयेत् तं तु पुनर्बूज नियोजयेत् । ततस्त्वा वेष्टयेत् पश्चात् कवचेन विधानवित् ।। ९ ।। पूजयित्वा त्रिधा कुण्डे योनिमार्गेण निक्षिपेत् । सद्योजातेन मन्त्रेण हृदयं तु पुनर्जपेत् ।। १० ।। गङ्गास्तानं भवेदेवं जातवेदसि षण्मुख । शिरसाभ्यर्चयित्वा तु वामदेवं ततो जपेत् ।। ११ ।। कृतं पुंसवनं एवं सीमन्तोन्नयनं शृणु । अघोरेणार्चयेद् देवं शिखाबीजं ततो जपेत् ।। १२ ।। सीमन्तकरणं वह्नेः कृतं भवति शैवकम् । कवचेन समभ्यर्च्य जपेत् तत्पुरुषं विभुम् ।। १३ ।। जातकर्म कृतं ह्येवं ततो नाम विनिर्दिशेत् । ईशानेनार्चयित्वास्त्रं च परिवर्तयेत् ।। १४ ।। ततोस्या श्रावयेन्नाम शिवाग्निस्त्वं हुताशनः । जनने पद्ममुद्रास्य लिङ्गमुद्राग्नियोजने ।। १५ ।। निरोधे निष्ठुरा प्रोक्ता बीजाभ्या सर्वकर्मसु । एवमग्निं सुसंस्कृत्वा मुद्राः मन्त्रैः यथाक्रमम् ।। १६ ।। ततो होमं प्रकुर्वीत शास्त्रदृष्टेन कर्मणा । हृद्वीजेनास्तरेद्दर्भान् परिधयश्च निधापयेत् ।। १७ ।। प्रागग्रानुत्तराग्रां च पुनर्देवान् प्रपूजयेत् । प्. ४३) ब्रह्माणं शंखरंविष्णुमनन्तेश समन्वितम् ।। १८ ।। पूर्वादारभ्य गायत्र्या विष्टरस्तान् तथाक्रमम् । आग्नेधिंदिशमाश्रित्याज्य भाण्ड्ं तु स्थापयेत् ।। १९ ।। अधिश्रयं पुरा कृत्वा पश्चादीन् प्लवनादिकम् । प्रादेशमात्रकान् दर्भान् प्रश्चिन्ना नखेन तु ।। २० ।। अंगुष्ठानामिकैर्गृह्य घृतस्याप्लवनं कुरु । ततः संप्लवनं मन्त्री संमुखं घृतमुत्पलवत् ।। २१ ।। स्रुवं स्रुचं प्रताप्याग्नौ परिमृज्य समन्ततः । संस्पृशे तु कृशौस्सर्वमग्र मध्यावसानकम् ।। २२ ।। स्थापयेद् दक्षिणे भागेर्श्व कृज्यादीनि तथोत्तरे । हृदयेन विधानज्ञः सर्वकर्म समाचरेत् ।। २३ ।। ततोभिधारयेद् वक्त्रान् ब्रह्मभिस्त्वनुपूर्वशः । पुनरद्घाटनं कुर्यादस्त्रबीजेन षण्मुख ।। २४ ।। निष्कृतिं तु शिवास्त्रेण दत्वा सर्पिन्निरूपयेत् । शिवे सोमे तथा व्यघ्नौतस्त्रिधा परिकल्पयेत् ।। २५ ।। तर्पयित्वा ततो वह्निं दत्वा पूर्णाहुतिं क्रमात् । तत त्रासन विन्यासं प्राशुत्तं परिकल्पयेत् ।। २६ ।। पूर्वोक्तेन विधानेन गन्धपुष्पैरनुक्रमात् । पूजयित्वा शिवं सम्यक् ततो होमं समारभेत् ।। २७ ।। बहुभव्येन्धने शुद्धे सुसमिद्धे हुताशने । प्. ४४) विद्रुमे लेलिहाने च हुनते यस्ससिध्यते ।। २८ ।। अर्चिष्मान् पण्डित शिखस्सुगंद्धिल्लघुविक्रमः । स्निंध प्रदक्षिणावर्तो जातवेदस्तु सिध्वितः ।। २९ ।। विष्णुलिंगी लिखेद् भूमिं शुक्लः कृष्णः प्रक्षिणैः । दुर्गन्धश्चैव रूक्षश्च तत्र सिद्धिर्न विद्यते ।। ३० ।। तत्रैव होमयेत् तावच्छुद्धो हुताशनः । विशुद्धे पावके शुद्धेरन्यथा विफलो भवेत् ।। ३१ ।। तस्मादेवं विदित्वा तु विशुद्धो होमयेत् सदा । शिवादि सर्वमन्त्राणामाहुत्या परिसंख्यया ।। ३२ ।। दशशतं सहस्रं वा अयुतं लक्षमेव वा । होमं दशगुणं प्रद्ध्या शिवस्य परिकल्पयेत् ।। ३३ ।। ब्रह्मशक्ति शिवाङ्गानां विद्येश्वरगणेश्वरान् । लोकपालास्त्रमुख्यानां तस्मादेक गुणः स्मृतः ।। ३४ ।। संपूर्णाहुतिदानं तु प्रकुर्वाद्धारणान्वितम् । अमृतं यत्परं वत्स स्रवन्तं मनुस्मरेत् ।। ३५ ।। पदमुच्छारयेन्मन्त्रं मन्त्री पूर्णाहुतिप्रतिम् । इदमस्त्वमृतं भूयो वौषडन्तमनुस्मरेत् ।। ३६ ।। मन्त्रार्पित मनो भूत्वा मन्त्रालंकृतविग्रहः । होमयेदेक चित्तस्तु मन्त्रतन्मयतांगतः ।। ३७ ।। * * व जुहुयान्मन्त्री जपेद् वापि समाहितः । प्. ४५) शब्दे तत्वे परे तेनस्स सिद्धिफलभाग्भवेत् ।। ३८ ।। प्रणम्य भक्त्या देवेशं स्तुत्वाचान्ते क्षमापयेत् । संहृत्यैव ततो मन्त्री जपः प्रजान्निवेदयेत् ।। ३९ ।। यत्कृतं यच्च कुर्याः तत्सर्वं सुकृतं तव । त्वं गतिर्विश्ववेत्ता च नान्योनाथो हि मे शिवः ।। ४० ।। विसर्जयेत् ततो देवं पुनः पूज्या विधानतः । पश्चादग्निं विसर्जेत कृतं कर्म समाहितः ।। ४१ ।। विसर्जितस्य देवस्य गन्धपुष्पन्निवेदनम् । निर्माल्यं तद्विजानीयात् वर्ज्यं वस्त्रविभूषणम् ।। ४२ ।। अर्चयित्वा कुतं यश्चण्डेशाय निवेदयेत् । निर्माल्यं भक्षणं दानं लंघनं च विवर्जयेत् ।। ४३ ।। आचम्योद्धूल्य पूतात्मा भोजनं तु समारभेत् । अथ पात्र विधानेन क्षालयित्वा तु भोजनम् ।। ४४ ।। तथैवावेष्टनं कृत्वा ततस्तस्मिन्निवेशयेत् । शिवेन शिवगायत्र्या हृदा चैव विधानवित् ।। ४५ ।। हृदयेनाहुतिः पञ्च शेषं कुर्याच्छिवार्पणम् । आचम्य तु शुचिर्भूत्वा शिवं ध्यायेत् पुनर्जपेत् ।। ४६ ।। वासिसूज्य जपस्यान्ते सत्यं प्रियहितः कुरु । किञ्चित् संव्यवहारार्थं प्राशुतं पुनराचमेत् ।। ४७ ।। अग्निकार्यं जपो यागे योगो दीक्षाः षडानन । प्. ४६) गुह्ये मनोरमे स्थाने सुविशुद्धे महीतले ।। ४८ ।। इति सर्वज्ञानोत्तरे क्रियापादे अग्निकार्यप्रकरणम् ।। अतः परं प्रवक्ष्यामि महीतल विशोधनम् । तस्याः परीक्ष्य विज्ञानं परिग्रहमेव च ।। १ ।। सुगन्धास्वादुसंयुक्ता श्वेता रक्ता च पिञ्जरा । पांसुनाप्ययुनाधन्या भ्रमिस्सर्वार्थसाधिका ।। २ ।। प्रागुदक् प्लवनां स्निग्धां कृष्णां वा शुभदर्शनाम् । जलतीरसमीपस्थां शुद्धां भूमिं परीक्षयेत् ।। ३ ।। यस्य वर्णास्य यो गन्धः शोभनः स तु विद्यते । केशास्थि कंटकैर्हीनां गर्तोषरविवर्जिताम् ।। ४ ।। त्रिहस्तोद्घात भूशर्ययां सर्वदोषविवर्जिताम् ।। ५ ।। सेचयेद्गन्धतोयेन पञ्चगव्यशिवाम्भसा । धौतवस्त्रैः शुचिस्स्नातैस्ततः संचालयेत् पुनः ।। ६ ।। अकालमूलकलशे वस्त्रपूतेन वारिणा । ततः कुटवपधीतै तु पलाशाश्वत्थ मुद्गरैः ।। ७ ।। दर्पणोदरसंकाशां कृत्वा भूमिं परिग्रहेत् । पक्वेष्टकामयं वापि शुद्धदारुमयं तथा ।। ८ ।। मृण्मयं वा पुनाकृत्वा विशुद्धं यागमण्टपम् । दीर्घं द्विगुणं कृत्वा विस्तारादेकभागिकम् ।। ९ ।। प्. ४७) द्वारास्त्रिदीयके भागे सार्धहस्तप्रमाणतः । मण्डलस्य तु द्वौ भागौ भागं कुण्डस्य कल्पयेत् ।। १० ।। विदिक्षु क्रूरकर्माणि कुर्यात् कुर्यात् दिक्षु शुभानि च । चतुरश्रं प्रकुर्वीत सुघनं यागमण्टपम् ।। ११ ।। विचित्रं चित्रकर्माढ्यं प्राकारपरिवेष्टनम् । चतुरश्रं ततः. कुण्डं कुर्याद् वर्तुलमेव च ।। १२ ।। मेखलोपरिमध्यस्थं योनिश्चैव प्रकल्पयेत् । मेखलां तु समां कुर्यात् ततः शास्त्रवित्तमम् ।। १३ ।। चतुरङ्गुलमुत्सेधां विज्ञाब्जलांछनं दृढम् । हस्तप्रमाणेन अथो मध्य तथोपर ।। १४ ।। त्रिमेखलासमायुक्तं सुसमं चारुदर्शनम् । गजोष्ठवत् प्रकुर्वीत सूचि पुष्करमेव च ।। १५ ।। मेखलोपरिमध्यस्तमाज्ज्याधारं मनोहरम् । तस्योपरि पुनश्चोर्ध्वमुझ वा सदारुभिर्दृढम् ।। १६ ।। वितानसहितं कुर्याददिश्रं जालकान्वितम् । शोभनं तद्विजानीयात् सर्वकाम फलप्रदम् ।। १७ ।। कृत्वा सुनिर्मलं भूमिं परिगृह्य पुनर्यजेत् । वर्धन्यमुंदी पूर्णायामघोरास्त्राभि मन्त्रिताम् ।। १८ ।। कृत्वेद किं दधेद्धीरा मत्युच्चिन्नां प्रदक्षिणाम् । तस्या मार्गेण कलशमाचार्येणोद्धतं शनैः ।। १९ ।। प्. ४८) सर्वकास्मयेति भ्रूमयित्वा निधापयेत् । ऐशान्यमण्डलां ते तु विघ्नौघशमनं परम् ।। २० ।। पूर्वपङ्कजविन्यस्तं सप्तधान्योपरिस्थितम् । क्षालितं चास्त्रबीजेन कवचेनाव कंठितम् ।। २१ ।। स्त्रितत्वोपरि विन्यस्त चन्दनागरुधूपितम् । वस्त्रपूताम्बुसंपूर्णं पञ्चरत्न समन्वितम् ।। २२ ।। सर्वौषधि समायुक्तं सर्वगन्धोपशोभितम् । हेम्ना कण्ठे तथा बद्धं सूत्रकण्ठमथापि वा ।। २३ ।। चूतपल्लवसंयुक्तं सितवस्त्रावकुंठितम् । एवं विधं शिवं रम्यं शिवेनाधिष्ठितं गुह ।। २४ ।। यागस्यादौ तु संपूज्य यागान्ते स्नानमाचरेत् । परिग्रहे वास्तु यागं पुनर्यागं गणाधिपे ।। २५ ।। कृत्वा शिवासनं कुर्यात् शिवस्य परमात्मनः । संहृत्य होमद्रव्याणि नैवेद्यां निधानि च ।। २६ ।। ततोधिवासयेत् तानि ततः शिष्याननुक्रमात् । पञ्चगव्यं चरुं तेषां दन्तकाष्ठं च मन्त्रितम् ।। २७ ।। क्षरिका सप्तवाराणि हृदयेन समर्पयेत् । तदा न विद्यते सिद्धिः विधिक्षपन तेन च ।। २८ ।। अतोन्यथा शुभा विद्यात् दन्तकाष्ठं षडानन । ईशान्यादिष्टकाष्ठासु मुखमस्य यदा भवेत् ।। २९ ।। प्. ४९) धातु सर्वकर्माणि साधयेत् साधकोत्तमः । शोभनंन् तद्विजानीयात् सर्वकाम फलप्रदम् ।। ३० ।। इति सर्वज्ञानोत्तरे क्रियापादे भूपरिग्रहप्रकरणम् ।। अतः परं प्रवक्ष्यामि साधकानां हिताय वैः । पञ्चगव्यविधानं तु तत्वतः शृणु षण्मुख ।। १ ।। चरुस्थाल्यां चरोश्चैव प्रवक्ष्याम्यनुपूर्वशः । गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।। २ ।। पञ्चगव्यमिति प्रोक्तं महापातकनाशनम् । ईशानेन यजेत् सर्पिः क्षीरं तत्पुरुषेण तु ।। ३ ।। अघोरेण दधि प्रोक्तं सद्योजातेन गोमयम् । गोमूत्रं वामदेवेन गायत्र्या तु कुशोदकम् ।। ४ ।। आलोढ्य हृदिना सर्वं ताम्रभाजनसंस्थितम् । परिकल्प्य त्रयो भागान् देवस्याग्रे तथात्मनः ।। ५ ।। उद्धृत्य शिष्यवत्स्याशि शिवजप्तं स्वयं पिबेत् । प्रक्षाल्य पूर्ववत्स्थालीं तथैवावेष्ट्य विन्यसेत् ।। ६ ।। सूत्रेण वर्मजप्तेन पुनकण्ठो षडानन । विन्यस्य पञ्चब्रह्माणि पुनः क्षीरेण पूरयेत् ।। ७ ।। शिवाग्निनापचेतं तु वर्मणा घटयेच्छनैः । व्रीहि श्यामाकनीवारानथ वा शालिब्रक्षली ।। ८ ।। तण्डुलान् प्रक्षाल्य निक्षिपेत् पश्चात् हृदयेन तु चालयेत् । हृदयं च शिरश्चैव शिवां गायत्रमेव च ।। ९ ।। प्. ५०) जपंस्तत्साधयेन्मन्त्री चरुकं घृतसंयुतम् । यथास्सन्तं भवेदन्नं तदर्थमयारयेत् ।। १० ।। अवतार्य जपे शुद्धं यावन्निर्वाणमिच्छति । भागत्रयं ततः कुर्यात् यथा पूर्वमुदाहृतम् ।। ११ ।। आत्मीयं शिष्यसंयुक्तं कृतकर्मा तु भक्षयेत् । दन्तैरस्पृत्य मानं तु पञ्चाङ्गुल्यात्मसंस्थितम् ।। १२ ।। दर्भशर्ययां समारूढः सह शिष्यैर्जितेन्द्रियः । जनपद्ध्यानरतो मौनी प्राकारास्त्रे सुगोपितः ।। १३ ।। बन्धपाशास्थुते शिष्या दृष्ट्वा स्वप्नांति शाक्षये । कथयन्ति गुरोस्सर्वे शुचिर्भूता समाहितः ।। १४ ।। शुभैरभीप्सितां सिद्धिं (अ)शुभैर्दुःखमाप्नुयात् । तस्माद् दुःखप्रदां दृष्ट्वा न सिद्धा संप्रयोजयेत् ।। १५ ।। दुःस्वप्नदर्शने मन्त्री हेम्मष्ठक सहस्रकम् । कृत्वा दीक्षां प्रकुर्वीतैहिकी सिद्धिवर्जिताम् ।। १६ ।। शुभ्रं नदं नदीं वापि समुदं पङ्कमेव वा । अतिषोर महादुर्गं तरतेयस्ससिद्धति ।। १७ ।। व्याधि मृत्युभयं वापि बन्धनं वासनक्षयम् । विदेशगमनं वापि भवेत् तेषां विलोमतः ।। १८ ।। गवाश्वभ्रमिनाशं वा वस्त्रालंकार कुञ्जरात् । पश्येद्यश्शयितः स्वप्ने तस्य सिद्धिर्न विद्यते ।। १९ ।। प्. ५१) एतेषां तु पुरा लाभा दिष्टान् कामान् वाप्नुयात् । दृष्ट्वा न स्वपते यस्तु यावदभ्युदितो रविः ।। २० ।। शुक्लपक्षं चितिं वापि कण्टकाकीर्णमेव वा । या शिरोहत स्वप्नान्ते तस्य सिद्धिर्न विद्यते ।। २१ ।। तत्रस्थस्तु विबुध्येत तस्य सिद्धिर्विधीयते । प्रासादं वृषभं नावं पर्यङ्गं कुञ्जरं नगम् ।। २२ ।। योधि रोहति स्वप्नान्ते तस्य सिद्धिर्विधीयते । येषामेक तमाद्वापि प्यवनं मृतुलक्षणम् ।। २३ ।। अर्थनाशो मनस्तापो ह्यपि वा बन्धनं भवेत् । आसनं शयनं वेश्म वस्त्रं प्रावरणं तथा ।। २४ ।। ज्वलन्तं पश्यते स्वप्ने तस्य सिद्धिर्विधीयते । सुर्चार्नानि च भग्नानि ज्वलनास्थमनानि च ।। २५ ।। दृष्ट्वा न सिध्यते स्वप्ने हस्ताध्वस्तफलानि च । चिद्रवासोथ कृत्यञ्च स्वकं प्राकरणं तथा ।। २६ ।। ज्वलन्तं पाटिकां मलदिग्धं च दृष्ट्वा स्वप्नेन सिध्यते । सुशुक्यानि च वस्त्राणिनिचिद्राणि नवानि च ।। २७ ।। सिद्ययाच्चयितः स्वप्ने तस्य सिद्धिर्विधीयते । अग्निप्रवेशं कुरुते स्वप्नांते ऋतुमानवः ।। २८ ।। स्मृतिलोपो भवेद् वापि तस्य सिद्धिर्न विद्यते । शुक्लं विलेपनं माल्यमातपत्रासनध्वजम् ।। २९ ।। प्. ५२) शंखपद्मनिधिं चैव लब्ध्वा स्वप्ने श्रिदं लभेत् । विपरीतानि चैतानि नाममात्राणि चैव हि ।। ३० ।। पश्येद्यः शयितः स्वप्ने तस्यसिद्धिर्न विद्यते । शुक्लोदनं दधी वापि अर्धमांस फलानि च ।। ३१ ।। यस्तु भुंक्तेस्तु स्वप्नान्ते तस्य सिद्धिर्न विद्यते । शाकं तैलं फलं कृष्णमद्याद्याशैतोनिशि ।। ३२ ।। न स सिद्धिं समाप्नोति न सुखं न च सम्पदः । अप्रजं म मद्या वा समुद्रयगां पयस्विनीम् ।। ३३ ।। स्वप्नान्ते च * चेद्योवै तयस सिद्धिर्विधीयते । सर्वाण्येतानि शुष्काणि नाममात्राणि चैव हि ।। ३४ ।। यस्तु पश्यतु स्वप्नान्ते तस्य सिद्धिर्न विद्यते । आकाशगमने स्वप्ने अगम्यागमनं तथा ।। ३५ ।। विष्टानुलेपनं चैव दृष्ट्वा सिद्धिमवाप्नुयात् । तैलाभ्यङ्गमयोद्वाहं पुत्रलाभः प्रवर्तते ।। ३६ ।। गेयं लास्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यते । क्षपणं चान्त्यजातिं वा व्याधितं रक्तवाससम् ।। ३७ ।। उन्मत्तं भिन्ननासं वा दृष्ट्वा स्वप्नेनु सिध्यते । ऋक्षोष्ट्रं वानरं वापि खरमश्वतरं प्रकिम् ।। ३८ ।। योऽधि रोहति स्वप्नान्ते तस्य सिद्धिर्न विद्यते । तैलाभ्यङ्ग मथोद्वाहं पुत्रलाभ प्रवर्तते ।। ३९ ।। प्. ५३) गेयं वाद्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यते । क्षपणं चान्त्यजातिं वा व्याधितं रक्तवाससम् ।। ४० ।। उन्मत्तं छिन्ननासं वा दृष्ट्वा स्वप्ने न सिध्यते । एकाङ्ग विकलस्वप्ने * पिकारां मलान्वितः ।। ४१ ।। यस्याग्रतस्तुतं निष्ठे तस्य सिद्धिर्न विद्यते । क्षुधार्तः तृषितः स्वप्ने स्थानमुच्याट्यते स्वकान् ।। ४२ ।। ताट्यते वानरैर्घोरैर्नससिमवाप्नुयात् । वंम्मे मूत्रपुरीषं वा स्वर्णं रजतं तथा ।। ४३ ।। दन्तपङ्क्तिः पतेद् वाथ जपेद् वाहुनतेवपि रांदत्रितयेपि वा । हन्ति वाथ जयेद् वापि स्वप्ने सिद्धिमवाप्नुयात् ।। ४४ ।। स्वप्ने सोपि न सिध्यति * * * * * * * * । क्व प्रस्थितोसि मूढात्मा नास्ति ते त्वभिवांछितः । एवमुक्तो नरः स्वप्ने प्रत्यक्षं वा न सिध्यति ।। ४५ ।। वेश्या कन्याथ वा रात्रि ब्रह्मणि चानुमोदते । राजा विप्रो था दिव्य तस्य सिद्धिर्विधीयते ।। ४६ ।। राजानमर्थसम्पन्नं ब्राह्मणा वेदपारगाः । स्त्रियञ्च लक्षणोपेतां दृष्ट्वा स्वप्नः प्रसिध्यति ।। ४७ ।। शुक्लांवरधरो भूत्वा शुक्लमाल्यानुलेपना । यं विग्रहंति स्वप्नान्ते तस्य सिद्धिर्न विद्यते ।। ४८ ।। रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपनाम् । यं विग्रहति स्वप्नान्ते सुप्तेष्वपि न सिध्यति ।। ४९ ।। प्. ५४) कुचेला वा मलग्रस्था व्याधिता विकृतानना । ताभिर्ये गृहीतः स्वप्ने सुप्नेष्वपि न सिध्यति ।। ५० ।। एवं स्वप्ना मयाख्याता विधिस्यस्य षडानन । कथयन्ति तथात्यन्तध्यं भविष्यं युक्त कर्मणः ।। ५१ ।। सूत्रयित्वा पुराभूमिं मण्डपेन्य प्रमाणतः । यागं यथोदितं कृत्वा रजन्यरज्य मण्डलम् ।। ५२ ।। शुक्लाम्बरधरो भूत्वा शुक्लमाल्यानुलेपनः । शुक्लयज्ञोपवीती च सूत्रपातं समारभेत् ।। ५३ ।। पूर्वापरौदिशौ साद्ध्ये वै शंखोर्धेन भानुना । पुष्यधेयेन वा मंत्र चित्रास्वात्यन्तरेण वा ।। ५४ ।। एवं पूर्वापरं कृत्वा तत्र सूत्रं प्रकारयेत् । विकल्य मध्यदेशं तु तत्र शंकुं निधापयेत् ।। ५५ ।। शंकोरुभयतः सूत्रं सविकृत्वा प्रसारयेत् । बिन्दुद्वयं समालिख्य मत्स्यमुर्थापयेत् ततः ।। ५६ ।। शंकुविर्थं तु तत्सूत्रं मध्ये मत्स्य द्वयस्य तु । खटकाकर्षितं कृत्वा दक्षिणोत्तरतां नयेत् ।। ५७ ।। आत्रालयेतस्सूत्रं येवमुत्तरता दक्षिणे । विदिशासु तथा नीत्वा अन्तरेषु तथा नयेत् ।। ५८ ।। मध्ये बिन्दु स्थितं सूत्रं भ्रामयेच्चतुरंगुलम् । आलिख्य कर्णिकां तत्र द्वितीये केसरान् लिखेत् ।। ५९ ।। प्. ५५) तृतीये दलसदूनि दलाग्राणि चतुर्थके । प्रतिवारण रेखां तु दद्यात् पद्मस्य बाह्यतः ।। ६० ।। रेखा रेखोतर ज्ञात्वा दलाग्राणि तु संग्रहेत् । कोणेन वायुधेत् कोणं तमसूत्रेण षण्मुख ।। ६१ ।। द्वात्रिंशत् षोडशाष्टौ वा पत्राण्यालिख्य विन्यसेत् । तेभ्यश्चतुर्गुणानेव केसरान् परिकल्पयेत् ।। ६२ ।। अष्टपत्रे न्यसेच्छक्तिं यथा पूर्वमुदाहृतः । बहिरंगुलमुत्सृत्य पद्मसूत्रं प्रसारयेत् ।। ६३ ।। तस्मात् तु षोडशाष्टौ वा गायत्रीं तत्र वर्जयेत् । अथवा वाहनारूढनस्त्र हस्ता षडानन ।। ६४ ।। पृथग्बाह्यास्त्र वर्गस्य यजेत् कृत्वार्थ वा कृतिम् । यवेनान्तरित रेखाशतं स्त्रांगुल सममिताः ।। ६५ ।। दद्यांवरणे रम्यो श्वेतपीतरुणासिताः । कर्णिकां पीतवर्णेन चतुरंगु(ल)मुच्छ्रिताम् ।। ६६ ।। किंचिद्धारिकं वर्णं दद्यात् केसरसन्धिषु । केसरां मूलसश्शुक्लान् कुर्यान् मध्ये रुणेन तु ।। ६७ ।। अग्रं चैव तु शुक्लेन दलान् शुक्लेन छादयेत् । चतुर्विधां ततो रेखामभ्युधिं नाम संहताः ।। ६८ ।। विचित्रैर्मिश्रितैर्वर्णै रचनाः परिकल्पयेत् । वाहयेत् पश्चिमद्वारमितराणि निरोधयेत् ।। ६९ ।। प्. ५६) पद्ममानं विवेद्वारं विधीनां विस्तरं तथा । शोभाश्चोप शोभाश्च कपोलाश्च कपाटकाः ।। ७० ।। तुल्यमाना स्मृता ह्येता पद्मार्धेन तु कारयेत् । पद्मार्धे नाथ वा कुर्याद् द्वारं वीथिं षडानन ।। ७१ ।। तदर्तेनतरान् भूयः पृथक्प्रक्रमणेन तु । एवं तं रचितं कृत्वा परमं शिवमण्डलम् ।। ७२ ।। इष्ट्वा च विधिवद् दैवं ततो ध्यानं विशोधयेत् । इति सर्वज्ञानोत्तरे क्रियापादे पञ्चगव्यादि दीक्षाङ्गप्रकरणम् ।। अथाध्यासं प्रवक्ष्यामि संक्षेपान्नतु विस्तरात् । उर्वीतत्वादितः कृत्वा यावत् तत्वं निरामयम् ।। १ ।। उर्वीतत्वं तु सौवर्णं सूर्यायुत समप्रभः । कुक्कुटाण्डसमाकारं ब्रह्माण्डमेतमुच्यते ।। २ ।। भुवनान्यष्ट षट् चैव तस्यैघाभ्यन्तरे स्थिताः । शतयोजनकोट्यंस्तु प्रमाणं तस्य कित्ततः ।। ३ ।। तस्यैवाथ स्थले रुद्रा रुद्रकोटिभिरावृतः । कालाग्निरीति विख्यातो रक्तकृष्णोग्ररूपधृत् ।। ४ ।। नोर्ध्वं निरीक्षते देवो माभूद्भस्म विदं जगत् । स एव रुद्रो विज्ञेयस्स शिवस्य च कालधृत् ।। ५ ।। तस्योर्ध्वं महानरकाः घोररूपाः सुदारुणाः । जीवैस्तु नारकैः सार्धं छत्यारिंशत्गतं क्रमात् ।। ६ ।। प्. ५७) रौरवो महारौरवः कुम्भीपाकस्तथैव च । एते महद्धिकाश्शोधनीधाः प्रयत्नतः ।। ७ ।। सर्वे शुद्धा इमैः शुद्धैःर्नरकानात्रसंशयः । कूश्माण्डस्तु पतिस्तेषां न च रुद्रः प्रकीर्तितः ।। ८ ।। तस्योर्ध्वं सप्तपातालं क्रमशः संख्यवस्थिताः । स्वरूपैस्त्रिभिः संकीर्णस्थीलुहाटेश्वरः प्रभुः ।। ९ ।। तलं च नितलं चैव वितलं च तथा परम् । सुतलं तलातलं चैव पातालं च रसातलम् ।। १० ।। नागाश्च गरुडाश्चैव किं पुरुषादनुजास्तथा । अग्निर्वायु कुबेराश्च पतयस्तु पृथग्विधाः ।। ११ ।। भूलोकं च तथा विद्यात् सप्तद्वीपार्णवैः सह । सचैलमस्वनोद्यान नदीनदसमाकुलम् ।। १२ ।। जम्बूशाककुशक्रौंच शालमलीद्वीप एव च । गोमेद पुष्करं चैव सप्तद्वीपाः प्रकीर्तिताः ।। १३ ।। पुष्करद्वीप मध्यस्थं पर्यन्तो मानसो तमाः । लोकपालाः स्थितास्तस्मिन् पृथिवीं पालं नि * ते ।। १४ ।। क्षारक्षीर दधिस्सर्पि तथा इक्षुरसोपि च । मदिरोदश्च स्वादूदः समुद्राः सप्तकीर्तिताः ।। १५ ।। गर्भोदस्त्वष्टमो ज्ञेयःस्तस्योर्वी द्वीपमुच्यते । आवृतं तेन सर्वं तु सोपि चोर्व्या समावृतः ।। १६ ।। प्. ५८) समुद्रैरावृता द्वीपा द्वीपैस्तेपि समावृताः । एवं द्विगुणते वृद्ध्या सोन्यमावृत्यसंस्थिताः ।। १७ ।। जम्बूद्वीपं ततो मध्ये समन्ताल्लक्षमायतं । नानाजनसमाकीर्णं नानासत्वसमाकुलम् ।। १८ ।। अनेकोषधि सम्पन्नं नानाधातु समन्वितम् । सर्वधर्माश्रय पुण्यमपुण्यमकृतात्मनाम् ।। १९ ।। तस्य मध्ये महामेरुः स्थितोस्सौ परिमण्डलम् । प्रविष्ट षोडशाधस्ताच्चतुरश्शीतित्रश्शितः ।। २० ।। स तु सर्वत्र सौवर्णः कांचनद्रुमसंकुलः । सिद्धविद्याधराकीर्णः किन्नरासुरसेवितः ।। २१ ।। वि * * * * * * भ शैलाश्चत्वारः स्थितस्य चतुर्दिशम् । ष्ठ * * * * * ब्धाः मेधिनीतैस्तु तेषां मूर्ध्नि समो पराः ।। २२ ।। * * * * * * रस्तस्य पूर्वेण दक्षिणे गन्धमादनः । * * * * * * * * श्चि मे नैव सुपार्श्वश्च तथोत्तरे ।। २३ ।। * * * * * ति फलो जंबु * * * * स्थो पद एव च । * * मूर्ध्नि महप्रक्षाश्चतुर्णां चानु पूर्वशः ।। २४ ।। रक्तोदमानसं चैव सितोधेश्च महाह्रदः । तथावान समीपस्था विज्ञेया मंदरादिषु ।। २५ ।। सदा पुष्पफलोपेतं पूर्वं चैत्र रथं वनम् । नानासुरभि गन्धाढ्यं नन्दनं गन्धमादने ।। २६ ।। प्. ५९) विविधामोद बबुलं वैभ्राजं वैपुले स्थितम् । निर्मितांस्तपुरादेवैः सरांसि च सरोरुहाः ।। २७ ।। सर्वगन्ध वहं रम्यं सुपार्श्वे विवनं ततः । तेषु वृक्षं लता गुल्म रूपाद्याये सुगन्धिनः ।। २८ ।। निर्मितास्ते पुरादेवैः सरांसि च सरोरुहाः । सदा सन्निहिता तेषु वसन्तकुसुमायुधम् ।। २९ ।। कोकिलारावमधुरैष्षट् पदोद्गीतकिन्नरैः । नित्यज्योत्स्नाकरं चन्द्र उच्वातपतिभास्करः ।। ३० ।। वर्षन्ति स्वेच्छया मेघा मारुतीश्च या । तेषु देवाः सगन्धर्वकिन्नराप्सरसोगणाः ।। ३१ ।। सिद्धविद्याधराश्चैव सदा क्रीडंनिभाविताः । चतुर्दशसहस्राणि योजनानि षडानन ।। ३२ ।। मेरोर्मूर्ध्नि अधोभागे लोकपालाष्टकं पुनः । इन्द्रपावकधर्मेशनीरुतीवरुणानिलाः ।। ३३ ।। कुबेरश्च तथेशानो लोकपालाष्टकं पुनः । पूर्वेणैन्द्रामरावत्यां तेजोपत्यां हुताशनः ।। ३४ ।। वैवस्वत्यां यमो राजा कृष्णवत्यां निशाचरः । शरवत्यां जलाध्यक्षो गन्धवत्यां तु मारुतः ।। ३५ ।। यशोवत्यां निधानेश ईशानस्तु महोदयः । अष्टपुष्यास्तु देवानां भोगस्थानानि षण्मुख ।। ३६ ।। प्. ६०) प्रज्यं तेषु म * महाभागानधिकारं च बाह्यशः । मेरोर्मूर्ध्नि सभा दिव्या ब्रह्मणश्च तथात्मनः ।। ३७ ।। मनोवतीति विख्याता महामहामुंन्निसेवीतर । तत्र गङ्गानदी पुण्या कृत्वा तस्याः प्रदक्षिणम् ।। ३८ ।। पतिता हि चतुर्दिक्षु विष्कं गिरि * * मूर्ध्नि । * सावंभो निधिसोमोऽमृतात्मा ज्योतिषांपतिः ।। ३९ ।। तस्मादिहागता दिव्याऽनुग्रहार्थं सरिद्वरा । तस्यैशान्यां महाश्रोतं ज्योतिष्कं नाम विश्रुतम् ।। ४० ।। तस्य मूर्ध्नि सभादिव्या महादेवस्य धीमतः । रुद्रकन्येस्सलावण्येर्देवदानवदुर्लभैः ।। ४१ ।। आवृता सा सभा दिव्या रुद्रैश्यामित विक्रमैः । भुवर्लोकस्तु तस्योर्ध्वं स्वर्लोकस्तस्य मूर्धनि ।। ४२ ।। उहजनस्तपस्सत्यमुपर्युपरि संस्थिताः । ब्राह्माण्डभित्तिमासृत्य सत्यलोकस्य मूर्धनि ।। ४३ ।। ब्रह्मा विष्णुश्च रुद्रश्च स्थिता लोकाः क्रमेण तु । ऐश्वर्यामृतसंप्राप्ता एकद्वित्रिगुण क्रमात् ।। ४४ ।। आत्मतुल्य गुणोपेतैः वृता कन्यैश्च तत्समैः । बाह्यतश्चत रुद्रास्तु स्थिता देश दिशास्वपि ।। ४५ ।। ब्रह्माण्डस्य महासेन धारकास्तेत्वनिन्दिताः । दिव्यज्ञानबलोपेत स्वच्छन्दगतिगोचराम् ।। ४६ ।। प्. ६१) शशाङ्कांकित मूर्धानो जटामकुटमण्डिताः । * * * * समप्रखैः दिव्ययौवनशोभितैः ।। ४७ ।। आवृतास्ते समन्तात् तु रुद्रैश्च बलदर्पितैः । एते प्रमांडा दधो भागे पूवादिदिगसृके ।। ४८ ।। अनन्तः पालको वीरो विषाग्निर्विषलोचनः । वृषो वृषधरो वीरो ग्रसनो बंद्धवांमुखः ।। ४९ ।। कपालीशो ह्यजो बुद्धो वज्ञदेह प्रमर्दनः । विभूति रघयश्शास्तापिनाकी त्रिदशाधिपः ।। ५० ।। अग्निरुद्रो हुताशी च पिङ्गलः * दको हरः । ज्वलनो दहनो बभ्रु भस्मान्तक क्षयान्तकः ।। ५१ ।। याम्यो मृत्युहरोधाता विधाता कर्त एव च । कालो रौद्रश्च विख्यातो धर्माधर्म पतिस्तथा ।। ५२ ।। नैर्-ऋतो मारणोहन्त क्रूरद्रष्टा भयानकः । ऊर्ध्वशेफो विरूपाक्षो धूम्रलोहित दंष्ट्रवान् ।। ५३ ।। लोह्यती बल * शैवपाशहस्तो महाबलः । श्वेतोथ जयभद्रश्च दीर्घबाहुर्बलान्तकः ।। ५४ ।। बंदवामुखोथ भीमश्च वरुणो लयवासकाः । कपर्दी मेघसञ्चारी सर्वगः सर्वगन्धवान् ।। ५५ ।। वायुः सूक्ष्मश्च तीक्ष्णश्च वेगकान् शोणितद्युतिः । * श्शिखः जटामकुटधारी च नानारत्नविभूषितः ।। ५६ ।। प्. ६२) निधीशो रूपवान् धन्यस्सौ देहस्तथैव च । प्रगैक्षणेकाशश्चा प्रकाशश्चललक्ष्मिवान् ।। ५७ ।। कामधृक्ल सर्ववद्याधिपस्सर्वज्ञस्सर्वगेश्शिवः । प्रभुः पिङ्गे क्षणे शानौ भूतबालो बलि * धः ।। ५८ ।। शंभुर्विभुर्गणाध्यक्षस्त्रक्षः त्रिदशवन्दितः । संवाहश्च विवाहश्च बिन्दुभ्यो मेक्षणश्शुचिः ।। ५९ ।। लोकेशबलमाक्रम्य प्रभुश्शक्ति समन्विताः । विचरन्ति महादेवा लोकपालैः प्रपूजिताः ।। ६० ।। एते रुद्रासामाख्याताः सूर्यकोटि समप्रभाः । कपालमालाभरणाः लोकपालस्त्रधारिणः ।। ६१ ।। एषामूर्ध्वं भवेदापो दशधा वृत्य संस्थिताः । खराखमुखरमावर्तोर्मिसमाकुलः ।। ६२ ।। तत्रास्ते भगवान् देवो वरुणो मृतसंभवः । शुद्धस्फटिकसंकाशी आदि गुह्याष्टकावृतः ।। ६३ ।। ओंकारस्तस्य पूर्वेण आग्नेययाः शशिभूषणः । देवदेवस्तु याम्यायां भोजगन्धस्तु नैर्-ऋते ।। ६४ ।। आषाढमेश्च वारुण्याः वायव्यां डिंडिरेव च । भारभूमिस्तु सौम्यायामैशान्यां लाकुलं विदुः ।। ६५ ।। अत ऊर्ध्वं भवेदन्यद् वाग्नेर्यावरणं विदुः । सुभाताय सुसंकाश मेघस्तनित निस्वनः ।। ६६ ।। प्. ६३) तत्रास्ते भगवानग्निरिति मह्याष्टका प्रतिः । पद्मराग प्रतीकाशो ज्वलन्तस्तेन तेजसा ।। ६७ ।। हरश्च त्रिपुरघ्नश्च त्रिशूलिः सूक्ष्म एव च । महाकालश्च सर्वाश्च ईशानो भरवस्तथा ।। ६८ ।। अत ऊर्ध्वं भवेदन्यद्वायव्यावरणं पुनः । नीलजीमूतसंकाशो भिन्नाञ्जन समप्रभः ।। ६९ ।। तत्रास्ते भगवान् वायुः कृष्णवर्णाञ्जनोपमः । सुभगः कामरूपी च गुह्याद्गुह्याष्टकावृतः ।। ७० ।। पितामहं पितुः स्थानं स्वयंभूरुग्र एव च । विश्वेशश्च महानादो महद्भीमस्तथाष्टमः ।। ७१ ।। अतश्चोर्ध्वं भवेद् व्योम भूतस्त्वे संप्रदवितः । अप्रमेयमनिर्देश्य मोक्षस्तानमिवापरः ।। ७२ ।। तत्रास्ते भगवान् देवो व्योमरूपी महेश्वरः । सूक्ष्ममूर्ति महाश्चासौ पवित्रेरष्टभिर्वितः ।। ७३ ।। भावश्चैव महायोगी त्रिमूर्ती रुद्र एव च । महाबल शिवश्चैव सहस्राक्षः स्थाणुरेव च ।। ७४ ।। अतो ह्यूर्ध्वं भवेत् तत्त्वं हंकारस्य षण्मुख । दीप्तपावकवर्णाभं भीमनादं दुरासदम् ।। ७५ ।। त्रिविधस्तस्त्र्य विज्ञेयोहंकारो घोररूपधृत् । प्रलयाम्बुधनिर्घोष स्थाण्वष्टक समावृतः ।। ७६ ।। प्. ६४) कपर्द ऊर्ध्वरेभाश्च महानुत्कट एव च । श्रीकण्ठो नीलकण्ठश्च महातेजास्तथैव च ।। ७७ ।। महालिंगेश्च स्थूलेशः कारणाज्ञानुवर्तिनः । आदिगुह्याष्टका रुद्रा अतिगुह्याष्टकास्तथा ।। ७८ ।। गुह्याद्गुह्याष्टकाश्चैव पवित्राष्टक एव च । स्थाण्वष्टकाश्च पश्यैते नियोगाद्भामिवासिनः ।। ७९ ।। अनुग्रहायमोकानां लिंगभूताः प्रदष्ठिताः । तेषामेव समीपस्थः यद्यत्तोयं षडानन ।। ८० ।। तत्तीर्थं पुनरं पुण्यं तत्र स्नात्वा शिवं व्रजेत् । रुद्राहेते सदा शुद्धाः कामरूपाः बलोत्कटाः ।। ८१ ।। कोट्यायुत परीवाराः सुखदुःख फलप्रदाः । प्रमदाभिरनिन्द्याभिर्दिव्य यौवनशालिभिः ।। ८२ ।। * * तास्ते समन्तात् तु कामविभ्रमकारिभिः । शुद्धस्फटिकसंकाशैः डाडिमीकुसुमप्रभैः ।। ८३ ।। नीलांजन समप्रभैः श्यामवर्णैरनौपमैः । * * ङ्ग रागसंकाशैः कामरूपैर्मनोहरैः ।। ८४ ।। (दीप्य)न्ते नित्यमेतैस्ते पञ्चतत्वाधिपाः शिवाः । * * र्ध्वं तु भवेदन्यत् बुद्यावरण संज्ञकम् ।। ८५ ।। आदित्योदयसंकाशं सन्ध्यारागसमप्रभम् । तस्य मध्ये स्थिता बुद्धिः व्यापिनी विश्वरूपिणी ।। ८६ ।। प्. ६५) अणिमाद्यष्टसंयुक्ता तुषि शक्ति समन्विता । सखीभिस्समतुल्याभिद्विरष्टवयशालिभिः ।। ८७ ।। आतासा महाभागा तत्प्रबुद्धैश्च योगिभिः । देवयोन्यष्टकं तत्र परितः सुव्यवस्थितः ।। ८८ ।। अप्रबुद्धं च शुद्धं च तथा सृष्टि प्रवर्तिकः । पैशाचं राक्षसं याक्षं गन्धर्वं चन्द्रमेव च ।। ८९ ।। सौम्यं चैवाथ प्राजेशं ब्राह्मं चैवाष्टमः स्मृतः । अत्तोर्ध्वं तु भवेदन्यद् गुणावरणसंज्ञकः ।। ९० ।। इन्द्रनील महारत्न शुद्धस्फटिकरूपकः । तद्वर्णो भुवनान्तस्था ब्रह्माविष्णुमहेश्वरः ।। ९१ ।। तमोरजस्तथा सत्व गुणाविष्ठितविग्रहाः । तथा च वनितास्सर्व पुरुषास्तं निवासिनः ।। ९२ ।। अन्योन्यबलमाक्रम्य गुणेश्शासंप्रवर्तकः । अष्टौ योगीश्वरांदस्ति तस्मिन्निरामयाः ।। ९३ ।। निर्गुणानिरहंकारा नित्यं योगपरायणाः । अक्तं च कृतश्चैव भैरवं ब्राह्ममेव च ।। ९४ ।। अतश्चोर्ध्वं भवेदन्यदव्यक्तं तत्वमुत्तमम् । अप्रतक्लमविज्ञेयं निर्वाणपदपस्थितः ।। ९५ ।। अप्रमेयमनिर्देश्यं निर्गुणं गुणमालि च । उत्पत्ति सर्वतत्वानां भूतानां च षडानन ।। ९६ ।। प्. ६६) स्थित्वा तु पुरुषः सूक्ष्मो व्यक्ताव्यक्तः सनातनः । उत्पादयति सत्वानि भवभूतानि चैव हि ।। ९७ ।। तत्रैव संस्थिता रुद्रा अष्टावेव महाबलाः । तत्तत्व धर्मिणः सर्वे सर्वे चानन्दविग्रहाः ।। ९८ ।। क्रोधेश्चांडसंवर्तो ज्योतिपिंगसुरगाः । पञ्चान्तकैकवीरौ च शिवेदसहितैश्वराः ।। ९९ ।। नितम्बकटिनिस्तारै पीनोनतपयोधरैः । आक्षाम्मद्ध्यदेशान्ते संपूर्णवदनोज्वलैः ।। १०० ।। सर्वलक्षणसम्पन्नैः सर्वाभरणभूषितैः । सेव्यन्तो नित्यमेते तु स्मरबाणनिपीडितैः ।। १०१ ।। शिखे तेन सहिता एते क्रोधेशादय ईश्वरः । अतोर्ध्वं तु भवेदन्यत् रागावरणसंज्ञकम् ।। १०२ ।। कुंकुमोदकसंकाशं कुसुंभरजसन्निभम् । तत्रास्ते भगवान् रागो जपाकुसुमसन्निभः ।। १०३ ।। * * क सर्वतत्वानां अप्रमेय सुदुर्जयः । * मी पुरुषसंकाशै बन्धूक कुसुम प्रभाः ।। १०४ ।। * * नमदसद्भावैः सदामदनविह्वलैः । * * * दि गणांकार विस्रस्त मृगलोचनैः ।। १०५ ।। सेव्यते स भगवान् रागश्चानन्द रूपधृत् । तत्रैव पुरुषो ज्ञेयस्तद्धर्मगुणरंजितः ।। १०६ ।। प्. ६७) अमृत्तौ व्यापकोचिद्व्यौ ब्रह्माण्डो मूर्तमानसौ । तत्रैव संस्थिता रुद्रा अष्टौ च शिवतुल्यगाः ।। १०७ ।। ज्ञानविज्ञानसम्पन्ना वीतरागा निरञ्जनाः । वामदेवो भवश्चैवोद्भवश्च तथा पुनः ।। १०८ ।। एकपिङ्गे क्षणे शानौ भुवनेशा पुरस्सराः । अंगुष्ठमात्रसहिता महादेवाष्टकाश्शिवाः ।। १०९ ।। निरामय महौजस्कास्तेनुरागनिरोधकाः । अतस्त्रध्वं भवेदन्यद् विद्यावरणसंज्ञकः ।। ११० ।। इन्द्रकोपसंकाशं क्वविच्चामीकरप्रभः । तस्य मद्ध्य स्थिता विद्या व्यापिनी विश्वरूपिणी ।। १११ ।। विश्वगा विश्ववेत्री सा रहस्य पदगामिनी । मण्डलाधारचित्रांगी ध्यानलोलायतेक्षणा ।। ११२ ।। शास्त्रशः भावनिश्वास वोषधीकेशसंचया । भावाभावाविलासाध्यैर्नित्यं प्रमुदितेन्द्रियैः ।। ११३ ।। संरम्भजनितारम्भैः खिनमष्ट पद क्रमैः । उत्क * * * निश्वासैः पयो पयो हरालसैः ।। ११४ ।। आकीर्णं हि पुरं दिव्यं विद्याविभवरंकितैः । तत्रैव संस्थिता रुद्रास्त्रयोदश * * * * ।। ११५ ।। वरेभ्यो परता शुद्धा विद्या विधि प्रकाशिकाः । वामदेवश्च भीमश्च उग्रश्चैव भवस्तथा ।। ११६ ।। प्. ६८) सर्वेशा * नेश्वरौ चैवैकवीराप्रचण्डधृक् । ईश्वरोथ उमाकान्तस्त्वजेशोनन्त एव च ।। ११७ ।। तत एक शिवश्चैव सर्वेषामुपरि स्थितः । अतोर्ध्वं तु भवेदन्यत् कलावरणसंज्ञकम् ।। ११८ ।। श्वेता पीतारूणं कृष्णं क्वचिच्चामीकुंसुमा * । तस्य मध्ये कलाज्ञेया चित्रवर्णानुलेपिनी ।। ११९ ।। चित्राभरण रत्नाढ्या चित्रमाल्याभरप्रिया । विज्ञानगमसंपन्नै रूपयौवनगर्वितैः ।। १२० ।। सहार्यविकटाक्षेपा तत्कालकरणोचितैः । मनोहारि सुरम्याङ्गै मदलालसजृंभितैः ।। १२१ ।। मण्डितं तत्पुरं रम्यं कलाभावानुरंजितैः । तत्र रुद्रो विभुर्व्यापी सर्वज्ञो ज्ञानभासकः ।। १२२ ।। नीललोहितवर्णोसौ शीतेन्दु सदृशः क्वचित् । कलाब्रह्माङ्गसंभूतैर्मन्त्रविग्रहधारिभिः ।। १२३ ।। आवृतोसौस्मंता तु नेककोट्ययुतैः पुनः । याम्यज्येष्ठश्च रुद्रश्च कालकालविकारणः ।। १२४ ।। बलविकरणो देवो बलप्रमथनस्तथा । दमनः सर्वभूतानां मनोन्मन एव च ।। १२५ ।। दशैते सृष्टिसंहार स्थित्यनुग्रहकारकाः । अत ऊर्ध्वं भवेदन्यत् कालस्यावरणंगुह ।। १२६ ।। प्. ६९) नीलनील समाकारं नीलाञ्जन समप्रभम् । तस्य मध्ये स्थितः कालो रौद्र सर्वांजनान्तकृत् ।। १२७ ।। दंष्ट्रा विकटघोरस्य पिङ्गलभ्रूश्मसुतारकः । अतसी पुष्पसंकाशैः कान्तिमत्प्रियदर्शिभिः ।। १२८ ।। अशोकपल्लवाकार पाणिपादाम्बुजांकिभिः । अत्यर्थरूपसम्पद्भिः प्रवालालशोभिभिः ।। १२९ ।। संसेव्यते सभगवान् कालः कामानुरागिभिः । उच्चुष्माश्शापरश्शंडा मातङ्गा घोररूपिणः ।। १३० ।। याम्यो हालाहलश्चैव क्रोधनो बंधवा मुखः । ततस्सूलगणानि * * * षद्रास्तथा परे ।। १३१ ।। हुलहुलास्तस्तथा चान्ये कालस्य विषये स्थिताः । अतोर्ध्वं तु भवेदन्यन्मायातत्वं सुदुस्तरम् ।। १३२ ।। मण्डवकोशवच्छिद्रं हरिताल समप्रभः । तस्य मध्ये स्थिता देवी माया तु बहुरूपिणी ।। १३३ ।। यथा तु मोहितं कृत्स्नं जगत्स्थावरजंगमम् । इन्द्रनीलसमप्रख्य रश्मिजालावकुंठितम् ।। १३४ ।। चलद्विन्दु सहस्रैस्तु कोटिभिस्तुमसावृता । वामचारास्त्रयस्तत्र वामगावामलोचनाम् ।। १३५ ।। वामकावामकृत्यं चोत्पाद्यन्ते षडानन । डंगविभ्रमकारिण्यो डंगस्नेहानुरंजिताः ।। १३६ ।। प्. ७०) डंभहासूत्रपातिन्यो डंभवाक्य मनोहराः । तथा च पुरुषा स्कन्द ज्ञेया माया शुक्लसंभवाः ।। १३७ ।। बहुप्रलापिनो मिथ्या मायाचार परायणा । अथवा सर्वतत्वानां निर्गमं सामुदाविकः ।। १३८ ।। त्रिमलं व्यापकं क्षिप्रं प्रोच्यमानं निबोध मे । यस्य तत्वस्य यत्तत्वं जन्मन्यभिधिकं भवेत् ।। १३९ ।। तत्स्वभावी भवेत् सोपि प्रलयेपि तथा गुह । एवं हि सर्वतत्वानां तत्वभाव प्रधश्चिधा ।। १४० ।। कथितास्ते समासेन रुद्रास्तस्मिन्निबोधमे । गगनेशो ह्यसाध्यश्च तथा हरिहरावुभौ ।। १४१ ।। दशोनो महावीर्यस्त्रिगलो गोपतिस्तथा । अथ संपुटस्संस्थास्ते मायातत्वस्य षण्मुखा ।। १४२ ।। ऊर्द्दोपि संस्थिता ये तु तां प्रवक्ष्याम्यतो शृणु । क्षमुशो ब्रह्मणोहन्त विद्येशानस्तथापरः ।। १४३ ।। विद्येशश्च शिवश्चैव अनन्तष्षष्ठ उच्यते । अमाधिनः स्मृतास्सर्वे मोहराग विवर्जिताः ।। १४४ ।। मायाबन्धविमोक्तारः पाशजाल विभेदकाः । अथोर्ध्वं तु भवेदन्यत् विद्यातत्वं षडानन ।। १४५ ।। डाडिमी पुष्पसंकाशं किञ्चित् पीतं सुनिर्मलम् । तत्र विद्याधिपा ज्ञेयाः पद्मराग समप्रभाः ।। १४६ ।। प्. ७१) सुदीप्ता निर्मलास्सूक्ष्मा व्यापिनी सर्वतोमुखी । तस्माद्विनिःसृता मन्त्रा पञ्चाङ्गं कृतलक्षणाः ।। १४७ ।। विद्याश्चै तथा ज्ञेया विद्यामन्त्राश्चमिश्रकाः । अचिन्त्या इपिणस्सर्वे सर्वे चानन्दविक्रमाः ।। १४८ ।। सर्वत्रगमिनः सर्वे सर्वे सर्वार्थसाधकाः । चतुर्विधामृतास्सर्वे पार्थिवाप्यानलानिला ।। १४९ ।। सर्वे समानधर्माणो श्रोतृभेदा पृथक्फलाः । पाणिनाचिन्तभेदात्तु मन्त्रभेदैः परः शिवाः ।। १५० ।। संस्थितोऽनुग्रहार्थाय साक्षिभूतस्तु कर्मणाः । स्थानं कर्म च भावञ्च देवता व्याप्तिमेव च ।। १५१ ।। वर्तते वीक्ष्य विश्वात्मा फलक्षेत्र विभक्तिषु । एवं हि मन्त्रभेदस्तु मन्त्रीतीतस्य षण्मुख ।। १५२ ।। अधुनाभेदभेदन्तु प्रोच्यमानं निबोध मे । यावन्तः केचनसत्वाः सर्वतत्वेषु संस्थिताः ।। १५३ ।। तावन्तस्तु स्मृता भेद देहस्यस्य विदेहिनः । यादृग्रूपं भवेत् तेषां नामगोत्रञ्च षण्मुख ।। १५४ ।। तादृग्रूपं शिवविद्या तेषु देहे व्यवस्थितः । छायारूपमिव स्थूलैः सूक्ष्मैः सूक्ष्मतरं तु तः ।। १५५ ।। निष्कले निष्कलात्यन्त रूपं स्निमु रूपकम् । प्राणी धर्मादि निर्मुक्तस्सुख दुःखफलं गुह ।। १५६ ।। प्. ७२) दादात्युपाह्यरूपेण तत्तद्धर्मानुरूपतः । एवं विद्या विचारेऽस्मिन् मन्त्रभेद शिवस्य तु ।। १५७ ।। देहभेदांश्च विख्यातस्तत्वभेदस्तथा विदुः । विद्योर्ध्वं तु भवेदन्यद् विद्येशावरणं पुनः ।। १५८ ।। दीप्तपावकवर्णाभं किञ्चित् द्रक्तं सुनिर्मलम् । अष्टौ विद्येश्वराः स्कन्द स्थितास्तस्मिन् विभूतितः ।। १५९ ।। विष्णुर्लिङ्गाग्निसंकाशो विद्यूमकिरणोज्वलाः । तत्र मध्य महासेन चक्रवत् परिसंस्थिताः ।। १६० ।। तेऽधिकारं क्रमात् कुर्युः शक्तिचक्रसमन्विताः । स रहस्य सकल्पानि मन्त्र तन्त्राणि षण्मुख ।। १६१ ।। निगमन्ति महात्मानो रुद्राणाममितौजसाः । प्रासादासनपर्यङ्गा प्राकारभूषणायुधाः ।। १६२ ।। सर्वे मन्त्रमयास्थेवे यथेष्टा सर्वकामिका । विद्येश्चेश्वर्ये रचिस्सेस्तु दिव्यामृत सुखप्रदैः ।। १६३ ।। कुञ्चिताग्र कचोद्गारैर्ललाट मृदुपट्टकैः । पिनाकी धनुराकारै भ्रूभिरुन्नतवक्षभिः ।। १६४ ।। आलोकर्ण पर्वतैः स्निग्ध नेत्रोत्पलैः शुभैः । सम्पूर्ण शशिसंकाशवदनाभोग मण्डलैः ।। १६५ ।। आताम्रोन्नतविम्वोष्टैस्तुंगनासाग्रशोभिभिः । नात्युन्नतैः समैः स्निग्धैःर्विशुद्धैर्दन्तपङ्क्तिभिः ।। १६६ ।। प्. ७३) पद्मरागप्रतीकाशैन्नीलयं नानन्दकारिभिः । गुप्तरध्रैः समैः कर्णैर्विरोमैः स्निग्ध कोमलैः ।। १६७ ।। आकंबुकर्णसीमन्तैर्मृणालललितैर्भुजैः । आवृत्त संहतैः पूर्णैः पीनोन्नतपयोधरैः ।। १६८ ।। आक्षां मध्यदेशान्तैर्गम्भीरावृत्तनाभिभिः । त्रिवलीतरंग भंगोधैरोमराशिप्रकम्पिभिः ।। १६९ ।। पुलकोद्भिन्नरम्यान्तैर्निगूढैरस्थिसंन्धिभिः । अश्वत्रपत्रसदृशैः गुह्य देशैर्मनोरमैः ।। १७० ।। कदली गर्भसंस्पर्शैरुरुभिश्शुभलक्षणैः । निगूढजानुगुल्फभिर्नितम्ब विपुलो ज्वलैः ।। १७१ ।। प्रस्तजंघैस्समैः पादैः प्रशस्तैर्लक्षणान्वितैः । सुरक्तपाणि पादान्तैश्शंखचक्राम्बुजांकितैः ।। १७२ ।। सुक्लिंतैष्ठरङ्गुलि पर्वेस्तनुतुङ्गनखोज्वलैः । स्निग्ध त्वक् स्वधल्परेखाभिस्सर्वलक्षणसंयुतैः ।। १७३ ।। सेव्यन्ते तु विद्येशास्सदा कदपपिडिताः । दिव्यगन्धानुलिप्तांगैः दिव्याभरणभूषितैः ।। १७४ ।। दिव्याम्बरधरैः सैम्यैः दिव्यमाल्योक्तमांगिभिः । रुद्रैश्च विविधाकारैः कालानलसमप्रभैः ।। १७५ ।। दिव्यज्ञानबलोपेतैस्सृष्टिसंहारकारकैः । अथोर्ध्वं तु भवेदन्यत् सर्वैश्वर्य मयं शुभम् ।। १७६ ।। सदाशिवं परं तत्वः शुद्धस्फटिक निर्मलः । योगपीठं परंशुद्धं तस्मिन् विद्या महात्मनः ।। १७७ ।। प्. ७४) धर्मादि चरणैर्युक्तं मध्ये कमल भूषितम् । चारुकेसरपर्यन्तं सहस्रदलविस्तरम् ।। १७८ ।। बहिरष्टभिसंयुक्तं पङ्कजैर्विमलात्मकैः । विशुद्ध शक्तिभिंनं ब्रह्माङ्गैरूपशोभितम् ।। १७९ ।। विद्येश्वरैश्च पीठस्थैः सिद्धयोगिभिरावृतम् । तत्रास्ते भगवान् देवो सर्वतत्वेश्वरोहरः ।। १८० ।। सदाशिवो विभुर्व्यापी मन्त्रमूर्ति मधः परः । अनन्तकान्ति सम्पन्नः अप्रमेय गुणक्रमः ।। १८१ ।। अनन्तशक्ति संभोग अनन्तासनसंस्थितः । विभज्यसस्वकं देहमष्टधा परमेश्वरः ।। १८२ ।। अनन्तादि शिखंड्यन्त स्थित शान्तेन चेतसा । अतोर्ध्वं बैन्दवं तत्वं विमलं सर्वतोमुखम् ।। १८३ ।। परमं तत्वानामनन्तं ज्योतिरूपिणम् । तत्र विन्दु स्थितं स्कन्द शुद्धस्फटिकनिर्मलः ।। १८४ ।। कदम्बगोलकाकारं स्फुरत्किरणमालिनम् । सकलो निष्कलश्चैव तथा सकलनिष्कलः ।। १८५ ।। सूक्ष्मो भिन्नकलश्चैव शिवो ज्ञेयस्तु पञ्चधा । कलै शान्त्यादिभिर्युक्त सकलं परिपठ्यते ।। १८६ ।। निष्कलः केवलो बिन्दु व्यापी सकलनिष्कलः । ज्वालिन्यादिभिः संयुक्तः सूक्ष्मोसौ परिकीर्तितः ।। १८७ ।। प्. ७५) स्वरैः षोडशभिर्भिन्नैर्भिन्नात्मा विन्दुरुच्यते । ततोस्यानन्ततो भेद सर्वशास्त्रेषु षण्मुख ।। १८७ ।। मन्त्रेषु मातृकायाञ्च न विना बिन्दुना क्वचित् । निष्कलस्ता पराशक्तिरचिन्त्या सर्वतोमुखी ।। १८८ ।। सुसूक्ष्मा निर्मला नित्यानन्तानिर्वाणदायिनी । याविजृम्भति तत्वेषु सर्वतत्वेषु चैव हि ।। १८९ ।। तथा भूतं जगत्सर्वमेकयानेकरूपया । अस्या ऊर्ध्वं निरालम्बं निराधारं निरामयम् ।। १९० ।। अचलं व्यापकं शान्तं सृष्टिसंहारवर्जितम् । प्रकृतेः पुरुषसंयोगात् विद्यारागस्य चैव हि ।। १९१ ।। कलाकालस्य संयोगात् मायातत्वनन्तस्य संगमात् । विद्या सदा शिवश्चैव बिन्दोः शक्तिसमागमात् ।। १९२ ।। सृष्टिरुत्पद्यते स्कन्द विन्दुशक्त्यादितः क्रमात् । पृथिवीमादितः कृत्वा यावत्तत्वन्तु वैन्दवम् ।। १९३ ।। तत्वात्तत्वं विजानीयात् दद्धा प्रत्य * संस्थितम् । उर्वी तत्वादितः कृत्वा देवताश्च षडानन ।। १९४ ।। अन्योन्यान्तरितैश्वर्या प्रभावान्तरितस्तथा । यानि नामानि तत्वानां तानि तत्वाधिपेष्वपि ।। १९५ ।। ज्ञात्वैवं योजयेन्मन्त्री यस्मिन् न्यः प्राप्तुमीहते । ब्रह्माण्डादूर्ध्वतो ये तु सर्वतत्वेष्ववस्थिताः ।। १९६ ।। जरामृत्युविनिर्मुक्त द्वन्द्वोपद्रववर्जिताः । तेषां हि या तना काचित् न भयं विद्यते क्वचित् ।। १९७ ।। प्. ७६) वर्ज्य सृष्टिं तु संहारं स्थितिं सर्वात्मकां गुह । स्थितिकाले प्रभुंजन्ते यत्वैश्वर्यं यथोदितम् ।। १९८ ।। संहारे निर्गुणाभूत्वा तत्वैः सार्धं विशंतिते । सृष्टिकाले प्रजायन्ते सर्वतत्वैः स्वकैः क्रमात् ।। १९९ ।। पुनरप्येवमेतेषां उदयास्तमनस्थितिः । यो यस्मिन्नाश्रितो नित्यं तत्वतस्तद्विधानवित् ।। २०० ।। तत्कालसमयो सोपि भवते तत्परायणः । यथान्तराणि प्रोक्तानि प्रभावैर्य व्याप्तिषु ।। २०१ ।। तथान्तराणि वेद्यानि उदयास्तमनादिषु । नोदयास्तमनं स्कन्द भवते शिव वेदिनः ।। २०२ ।। यतो हि सर्वतत्वानां विज्ञानादन्ततस्थिताः । तत्वैरेभिर्निबंधात्मा सर्वधर्मश्च संयुतः ।। २०३ ।। नान्येन शक्यते माक्तुः वर्ज्यदीक्षाः शिवात्मिकाः ।। २०४ ।। ।। श्री श्री इति श्रीमत्सर्वज्ञानोत्तरे क्रियापादेऽध्वप्रकरणम् ।। अतः परं प्रवक्ष्यामि अप्रबुद्धस्य देहिनः । सर्वतत्व निबन्धस्य सर्वधर्ममयस्य तु ।। १ ।। पशुधर्म नियुक्तस्यानादि मलमुषिणः । शृणुवत्सपरां दीक्षां शिवसायुज्यदांशुभाम् ।। २ ।। यस्य यस्य हि देवस्यादि मन्तो येक्षरः । अकाराकारसंभिन्नं वह्निबीजमन्वितः ।। ३ ।। प्. ७७) वायुबीजसुसंयुक्तं अथ षष्ठं नियोजितः । मूर्ध्नि बिन्दुसमायुक्तः मन्त्री सर्वेषु कीर्तितम् ।। ४ ।। तदेकमक्षरं भिन्नं मात्राद्वादशभिः पुनः । ह्रस्वब्रह्म समाख्याता दीर्घैरङ्गानि निर्दिशेत् ।। ५ ।। त्रितत्वं बिन्दुसंयुक्तं त्रयो नेत्राः प्रकीर्तिताः । स विसर्जास्स्मृताः ह्यस्त्रा बिन्दुनाद विवर्जिताः ।। ६ ।। शिवोक्तेन विधानेन इष्ट्वा देवाननु क्रमात् । तर्पयित्वा यथा भूयस्ततो दीक्षां समारभेत् ।। ७ ।। उपोषितां शुचीः स्नातानाचान्तान् धौतवाससः । धौतपादास्तु संसिक्तान् रिष्यामन्त्रि प्रवेशयेत् ।। ८ ।। आलभ्यः पञ्चभिः ब्रह्मैः शिवांगैः प्रणवेन च । नेत्रं नेत्रेषु विन्यस्य नेत्रबन्धं तु कारयेत् ।। ९ ।। दुकूलपट्टवेदांगैस्तथा कार्पासजेन वा । सतशेन नवेनाथ सितेनश्लष्णवाससा ।। १० ।। पुष्पांजलि समायुक्त दक्षिणामूर्तिमानयेत् । गुरोस्संसिक्तमनसा दर्भहस्तः सुमन्त्रितः ।। ११ ।। दर्भाग्रेर्दक्षिणाजानुं स्पृशत्वै देशिकस्य तु । ततश्चालंवनं कृत्वा पाशान् संहृत्य होमयेत् ।। १२ ।। हृदयेन विधानज्ञस्तथैवास्त्र द्वयेन तु । वर्गातीतं यकारं तं प्रासादं च पुनः क्रमात् ।। १३ ।। प्. ७८) पूर्वात् बीजितान् कृत्वा धर्माधर्मेषु योजयेत् । धर्मे तु संस्तीज्योष्ठा वामा धर्मे ततोच्यते ।। १५ ।। उभयोः संस्थिता रौद्री तत्रस्थो होमयेदुभौ । त्रितत्वभेदिता वर्णा शक्तित्रयमिहोच्यते ।। १६ ।। वर्णातीत धर्मे तु धर्मा मध्यममेव तु । धर्माधर्मौ प्रसादेन व्यामिश्रौ होमयेत् पुनः ।। १७ ।। अथवा तावुभौ स्कन्द धर्माधर्मौ विमिश्रितौ । होमयेच्छिवतत्वेन सकलेन विचक्षणः ।। १८ ।। अकारौकारसंभिन्नं हंसंवर्गान्तसंस्थितम् । मकारसहितं देवं वह्निवायुसमीरितम् ।। १९ ।। मूर्ध्नि बिन्दुसमायुक्तमतष्षष्ठं नियोजितः । सकलां सर्वभूतस्यं शिवतत्व प्रकीर्तितम् ।। २० ।। यस्मिन् तत्वे प्रभुर्यस्तु शिवं तत्र प्रकल्पयेत् । तन्मन्त्रैस्सर्व संस्कारस्तस्मिंस्तत्वे समाचरेत् ।। २१ ।। पतिधर्मैः समस्तैस्तु पशुधर्मान्निराकुरु । पतिधर्मांश्च वे धर्मे रमस्केनतानि तु ।। २२ ।। स्थाने जन्मतथेश्वर्यं तद्भोगापातनं तथा । अधिकारं लयं चैव होमयेत् क्रमशः पुनः ।। २३ ।। तत्वं संयोजयेत् पूर्वं कुण्डमध्ये विधानवित् । स्वनाम सर्वतत्वानां मन्त्रो ग्रहणकर्मणि ।। २४ ।। प्. ७९) तत्व मध्ये तु गायत्रीं स्वमन्त्र विधिकल्पिताम् । पशुसंगृह्य तत्वज्ञ तस्य गर्भे नियोजयेत् ।। २५ ।। नासाग्रं नियतस्थानं पशोर्ग्रहण कर्मणि । ह्रस्व वी * * * * * तेजपिंडा कृतिं स्मरेत् ।। २६ ।। ताडयित्वास्त्र बीजेन हृदयेन समुद्रया । गर्भादानं तु सद्येन वासुपुंसवने स्मृतम् ।। २७ ।। सुम * * नो संज्ञेन पुरुषं जातकर्मणि । ईशानं योजये नाम्नि हृदयञ्चान्न प्राशने ।। २८ ।। शिरसा त्वधिकारञ्च शिखाया भोगमेव च । ऐश्वर्य नेत्रबीजेन कवचेन लयं हुनेत् ।। २९ ।। एकैकेन दशाहुत्या पूर्णाहुत्य शिवेन तु । दशभिः स्रोतसं शुद्धिं ब्रह्माङ्गैरनुपूर्वशः ।। ३० ।। शिवेन सर्वतत्वेषु तत्वशुद्धिं समाचरेत् । पाशच्छेदं तथा दाहं प्रायश्चित्तं च होमयेत् ।। ३१ ।। तत्वं तत्वेषु सन्धाय नरकांश्च विरोधयेत् । * * * * * * * * * * * * हुं फट् कारेत् ।। ३२ ।। वियोज्य ज्येष्ठया पश्चाद्रौद्राच्चैव चोद्धरेत् । तत्वे तत्वे त्विदं कर्म विधिनानेन षण्मुख ।। ३३ ।। कर्मभूमौ सुविस्तारं भूर्लोके तु समारभेत् । कालाग्नि रुद्रतत्वे तु कालाग्नित्वं विशोधयेत् ।। ३४ ।। प्. ८०) नारके नारकान् धर्मान् भुक्त्वा कूश्मांडतां नयेत् । पाताले सप्तमेतं तु न्यासं कृत्वा विमोचयेत् ।। ३५ ।। अथोर्ध्वं हाटकं तत्वं भूलोके जनयेत् ततः । स्थावरत्वं तु सद्येन सारिसृप्यमवात्मना ।। ३६ ।। पक्षित्वं घोररूपेण मृगत्वं पुरुषेण तु । पशुत्वमीशबीजेन होमयेदनुपूर्वशः ।। ३७ ।। एकैदशभिर्मन्त्रीं हुत्वा पूर्णाहुतिं ततः । सद्येन वामदेवेन हृदिना च विधानवित् ।। ३८ ।। शूद्रत्वं होमयेद् देही वैश्यादीननुपूर्वशः । गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।। ३९ ।। उपनिष्क्रमणं नामान्नप्राशनमेव च । हृदिना निष्क्रम कर्म चूडा वै ब्रह्मभिः स्मृता ।। ४० ।। अथोपनयनं कार्यं ब्रह्माङ्गैर्दशभिः क्रमात् । मेखलोपवीतं च दण्डं कृष्णाजिनं तपः ।। ४१ ।। स्वाध्यायमग्नीकार्यञ्च सन्ध्योपासनमेव च । भिक्षाभिवादनं मौनं ब्रह्मचर्यं शमोदमः ।। ४२ ।। गुरुपसदनं जाप्यमनिन्दामस्सुहार्जवः । अहिंसा सत्यमद्रोहस्त्यागः क्षांतिरपैशुनः ।। ४३ ।। दयाभूतेषु लोलुत्वं मदिवं ह्रीरचापचलम् । तेजः क्षमाशुचि शौचमद्रो * * * * निता ।। ४४ ।। प्. ८१) सर्वाननुक्रमेणैतान् गायत्र्यां दशधा हुनेत् । त्रायुषं चोपाकर्म गोदानं च महाव्रतम् ।। ४५ ।। नैष्ठिकं चासिधारं च हुनेत् पाशुपतेन तु । ततस्ता प्लावनेभ्योमश्शिवांगैरभिधीयते ।। ४६ ।। पत्नीसंयोजनं कुर्यात् ब्रह्माङ्गैः पुनरेव हि । कृत्वा दर्भमयां पत्नीं मोमित्येव नियोजयेत् ।। ४७ ।। एकैकैर्दशभिमन्त्री एकैकेनाहुतीदश । अग्निष्टोमोत्यग्निष्टोमो वाजपेयोक्य षोडशी ।। ४८ ।। अतिरात्राप्तोर्यामश्च सोमसंस्था इति स्मृताः । ब्रह्माङ्गैः शिवगायत्र्या महास्त्रेण शिवेनव ।। ४९ ।। विंशाहुतीर्दद्यात् एकैकस्य विशुद्धये । पूर्णाहुतिं ततः पश्चात् सर्वसंस्कारकर्मसु ।। ५० ।। शिवेन संप्रयुंजीत प्लुतेनामृतवर्षिणा । शिवेन कुरुते होमं यस्मिन् संस्कार कर्मणि ।। ५१ ।। वर्जा पूर्णाहुतीमेकां द्विगुणं तत्समाचरेत् । सोमसंस्थावसाने तु सर्वमन्त्रैः सकृत् सकृत् ।। ५२ ।। सोमवानाहुतिं दद्याद् दधिक्षीरं घृतं मधु । सहस्रक्रतु मध्ये तु दशदज्ञात् परं हुनेत् ।। ५३ ।। त्रिंशत्त्रिंश तिराहुत्या शिवेन च विचक्षणः । अश्वमेधं ततो होमेदाहुत्यं पञ्चविंशतिः ।। ५४ ।। प्. ८२) शिवमन्त्रेण मन्त्रज्ञो * * स्था भवति ध्रुवम् । वानप्रस्थ ततो हुत्वा सर्वमन्त्रैश्च पञ्चधा ।। ५५ ।। तस्मिन् सर्वपरित्यागं कृत्वा * * * * यते । भिक्षुत्वं होमयेत् तस्य सर्वमन्त्रैः सकृत् सकृत् ।। ५६ ।। विशुद्धं कल्मषं भूयो ब्रह्मलोके नियोजयेत् । सन्धानं पूर्ववत् कृत्वा भेदयित्वा ततः पुनः ।। ५७ ।। इष्ट्वातु पूर्ववद् देवान् पूर्वोक्त विधिमारभेत् । ब्रह्मत्वं वासु देवत्वं रुद्रत्वं विधानवित् ।। ५८ ।। पूर्ववत्कर्मयोगेन होमयेत् सुसमाहितः । कटाहं पूर्ववद्भित्वा दलरुद्रादिगीश्वरान् ।। ५९ ।। पूर्वोक्तेन विधानेन यजेद्ब्रह्माणु मूर्धनि । * * * * * * * * मेजेशं पूर्वतो न्यसेत् ।। ६० ।। अग्निरुद्रं स्वके देशे कालं याम्ये नियोजयेत् । भयानकं तु नैर्-ऋत्यां वारुणं तु महाबलम् ।। ६१ ।। वारुण्यां शोषणन्यस्य कामरूपं ततोत्तरे । सर्वविद्याधिपं रुद्रमैशान्यां तु नियोजयेत् ।। ६२ ।। स्वमन्त्रैरर्चयेत्सर्वान् शिववच्छंभुमीश्वरम् । पूर्वोक्तेन विधानेन कृत्वा मण्डल तर्पणम् ।। ६३ ।। ततस्तु शंभुरुद्रत्वं जनयित्वा विरोधयेत् । शेषेषु निष्कृतिं दद्यात् विंशविंशाहुति क्रमात् ।। ६४ ।। प्. ८३) विशोध्या पार्थिवं तत्वं वरुणेत्वे नियोजयेत् । तेजो निले तथा * त्नि अहं क्रीडिषणे गुणे ।। ६५ ।। प्राकृते पौरुषे चैव रागविद्या कले तथा । काले मायां पुनश्चेति विद्यायामीश्वरै तथा ।। ६६ ।। सदाशिवे तथा तत्वे तथा सकलनिष्कले । सर्वतत्वाधिपाधर्मान् तत्वधर्मास्तथापरान् ।। ६७ ।। विधिनानेन संशोध्य कारणे चोन्मने न्यसेत् । अथासर्वतत्वेषु यजेदेकं परं शिवम् ।। ६८ ।। तन्मन्त्रैः सर्वसंस्थारास्तत्वे तत्वे समाचरेत् । तस्यैव दक्षिणामूर्तौ क्रमात् तत्वाधिपान् न्यसेत् ।। ६९ ।। तं मध्ये पितु रुद्रास्ताण्ययैव नियोजयेत् । पूर्ववत् सर्वकर्माणि सर्वाध्वानि समाचरेत् ।। ७० ।। तथैव चोन्मनीभावमाहुत्यन्ते षडानन । चवारेव विधिः प्रोक्तः शरीरे शृणु सांप्रतम् ।। ७१ ।। धेनशुधेन शुद्धस्तु भवतीह न संशयः । पूर्वोक्तेन विधानेन धारणाभिस्तु पञ्चभिः ।। ७२ ।। शोधयेत् सर्वतत्वानि देहस्थानि पुनर्णमात् । पशुं संयोजयेत् पूर्वं पूर्वोक्तविधिना शिवे ।। ७३ ।। साधिकारे शिवातीते शुद्धस्फटिक निर्मले । कर्मण्येव कृते तस्य शिवाश्शेदो विधीयते ।। ७४ ।। प्. ८४) सप्ताभिर्मन्त्रितां कृत्वा क्षुरिकास्त्रेण कर्तरीम् । योजयेहीत शिखास्थाने युक्तां त्रिमधुरेण तु ।। ७५ ।। शिवाबीजेन मन्त्रज्ञो वौषडन्तेन निक्षिपेत् । शक्तिसम्पुटमध्यस्थं कारणेन नियोजयेत् ।। ७६ ।। अनमस्कं ततः पश्चात् साधिकाराद्विमोचयेत् । यमुद्दिश्यकृतंकर्म मन्त्रदैवतपूर्वकः ।। ७७ ।। विधानशास्त्रदृष्टेन तत् तस्य फलदद्धुवम् । यत्कृतः कामचारेण विधिहीनं षडानन ।। ७८ ।। न तेन कर्मणा सिद्धिं न सुखं न परां गतिम् ।। ७९ ।। ।। इति सर्वज्ञानोत्तरे क्रियापादे दीक्षाप्रकरणम् ।। अतस्संक्षेपतो वक्ष्ये दीक्षाविधि विनिश्चयम् । चातुर्वर्णहितार्थाय परमेशेन भाषितः ।। १ ।। संहृत्य सर्वतत्वानि पञ्चधा परिवर्तयेत् । देवताश्च ततो भूयस्तेषु मन्त्रान् यथाक्रमम् ।। २ ।। पृथिव्यापस्तथा तेजोः वायुराकाशमेव च । एतानि पञ्चतत्वानि सर्वेषां व्यापकानि तु ।। ३ ।। न विनापञ्चभिस्तत्वैर्देह बन्धो विधीयते । स्थूलसूक्ष्मविभागेन ज्ञात्वैतानि विशोधयेत् ।। ४ ।। सर्वतत्वानि शुद्धानि विशुद्धैः षडानन । देवैश्च देवतास्सर्वे शुद्धा स्मृताः भवन्ति हि ।। ५ ।। प्. ८५) ब्रह्माविष्णुश्च रुद्रश्चानन्तेश सदाशिवौ । पृथिव्यादिषु तत्वेषु क्रमात् तत्वाधिपाः स्मृताः ।। ६ ।। तेषां मध्यमन्त्रस्तु विभिंता मन्त्र या भवतु । त्रयस्त्रिंशतिमं शम्भोरितरेषास्वनामकम् ।। ७ ।। पूर्वविधजनं कृत्वा तथा योनिं प्रकल्पयेत् । ग्रहणं न तथा भूयः पशुसंयोजनं तथा ।। ८ ।। निवृत्ति * समन्त्रेण साधयेत् साधकोत्तमः । गुह्यकेन प्रतिष्ठां तु विद्याघोरेण होमयेत् ।। ९ ।। शान्तिं तत् पुरुषेणैव शान्त्यतीतां शिवेन तु । एकैकस्य शतं ज्ञेयमाहुतीनां तु साधकैः ।। १० ।। हुतैश्चैव तु मुच्यन्ते पशवोजन्मबन्धनात् । गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।। ११ ।। जन्मनिष्क्रमणं नाम अन्नप्राशनमेव च । अधिकारं तथा भोगं लयं चैव विधानवित् ।। १२ ।। ततश्च स्रोतसं शुद्धिं तत्व संशुद्धिमेव च । वियोगञ्च तथोद्धारं तत्वसन्धानमेव च ।। १३ ।। छेदं भेदनं दाहमेतान् पूर्ववदाचरेत् । पृथिव्यादिषु तत्वेषु ततः कुर्यान्निरंजनम् ।। १४ ।। पूर्ववद् देह संश्लिष्टान् शोध्यतत्वा शिवं नयेत् । पुनरेवं प्रवक्ष्यामि गुह्याद्गुह्यतरं परम् ।। १५ ।। प्. ८६) संस्काररहितः कर्मा भित्वा केवल योजनः । इष्ट्वा देवं शिवं शान्तं प्रासादममितौजसः ।। १६ ।। सहस्राहुति होमं तु ब्रह्माङ्गैः पुनराचरेत् । भूयोप्यष्ट सहस्रं तु दत्वा देवस्य षण्मुख ।। १७ ।। संहृत्य पुद्गलं पश्चात् शिवाग्रेव नियोजयेत् । ततः सन्धाय तत्वानि पुनर्मूलेन भेदयेत् ।। १८ ।। ततस्तेनैव मार्गेण बिन्दुतत्वे नियोजयेत् । अमनस्कं यथा पूर्व वासतत्वं षडानन ।। १९ ।। कृत्वा तु देहसंश्लिष्टान् पुनस्तत्वं नियोजयेत् । पूर्वोक्तेन विधानेन योजयित्वा पशुं शिवम् ।। २० ।। तथा चैव शिवाश्चेदं कृत्वा कुर्यादनामयम् । एवं दीक्षा समाना यागचण्डेश्वरस्य तु ।। २१ ।। कृत्वा पूर्वं गुरोर्यागं अपरेऽहनि पुत्रकः ।। २२ ।। गुरुरप्यात्मसंशुद्ध्या विद्यादेवं विधानतः । शिवादीयोविदात्मायं गुरुपंति पुनर्व्रजेत् ।। २३ ।। शास्त्रोपदिष्टमार्गेण वारुण्यामीश्वरस्य तु । पद्मसंस्थान्यजन्मन्त्री मण्डले हृष्टमानसान् ।। २४ ।। सदाशिवमनन्तं च विद्यारुद्रं सहोमया । विष्णुनद्देवेशं ब्रह्माणं स्कन्दमेव च ।। २५ ।। समयिकं पुत्रकः पश्चात् पूज्य शंभुं तथा गुरु । प्. ८७) गन्धपुष्प सवित्राध्यैर्वस्त्रालंकार वाहनैः ।। २६ ।। पूजयित्वा विधानेन तथात्मानं निवेदयेत् । एवं निवेदितात्मा तु गुरुपाशैर्विमुच्यते ।। २७ ।। अध प्रभृति भगवन्यो विदेहो ममात्मकः । युष्मदीयो विकल्पेन शंस्यवाल्यश्च ते सदा ।। २८ ।। एवं गुरुवशो भूत्वा सन्तुष्टो यावदायुषः । अनुज्ञातो यदा तेन कुर्यात् कार्याणि सुव्रतः ।। २९ ।। अग्निकार्यं जपं पूजा दीक्षाज्ञान व्रतानि च । वृथा तेषां विजानीयात् गुरुर्येषां न देवता ।। ३० ।। गुरुः पिता गुरुर्माता गुरुर्देवो गुरुः सुहृत् । गुरोस्तु न परं किञ्चिदित्याह भगवान् शिवः ।। ३१ ।। ज्ञानाज्ञानेन दिव्येनाचोद्घाटयति चक्षुषी । अज्ञानतिमिराक्रान्ते तस्माज्ज्ञानमयो हि सः ।। ३२ ।। सिद्धविद्याधरान् भोगान् सदेवासुर मानुषान् । प्राप्नुवन्ति समायुक्त गुरुणोक्तेन कर्मणा ।। ३३ ।। गुरुपदिष्टमार्गेण प्राप्नुवन्ति परंपदम् । तस्मादादौ गुरुः प्रोक्तः पश्चाद् देवो निरंजनः ।। ३४ ।। दीक्षया तु परं ज्ञानं नयते शाश्वतं यतः । तस्मान्नास्तत्र बोद्धव्यः गुरुभ्यः परतो गुह ।। ३५ ।। गुरवस्तोषिता येनाहं रुद्रगणैः सह । तोषितो नात्रसन्देहस्तथा देवास्सवासवाः ।। ३६ ।। प्. ८८) अवज्ञानेन क्रुद्धेन नरके पतनं ध्रुवम् । तस्मादेवं विदित्वा तु गुरुं नैवावमानयेत् ।। ३७ ।। आसनं शयनं यानं नरोहेद्गुरुसन्निधौ ।। ३८ ।। (नाध्यापनं प्रकुर्वीत) गुरों निम्नासनो भूत्वा स तिष्ठो तत्परायणः । चित्रां नैवाग्रतो धार्यं नोष्णंषं न च पादुके ।। ३९ ।। किरीटाद्युज्वलाज्वलां त्येवं न कुर्याद् गुरुसन्निधौ । नाध्यापनं प्रकुर्वीत व्याख्यानं शिष्यसंग्रहम् ।। ४० ।। गुरोश्चैव समीपस्थो गुरुशिष्य प्रबोधनम् । न श्रोतव्या गुरोर्निन्दा शास्त्रनिन्दा तथैव च ।। ४१ ।। देवस्य देशिकानाञ्च मुनीनाञ्च षडानन । गुरोर्ज्येष्ठं कनिष्ठं वा भ्रातरं न व्यति क्रमेत् ।। ४२ ।। तथा चैवात्मनो ज्येष्ठान् सर्वान् पश्येद् गुरुशिव । दीक्षाभिषेक ज्येष्ठेन कनिष्ठस्य कदाचन ।। ४३ ।। तपोविद्याधिकस्यापि * तव्यं नाभिपादनम् । सर्वतो गुरवो ज्ञेया ये चान्ये पूर्वदीक्षिताः ।। ४४ ।। मान्याः पूज्याश्च ते नित्यं गुरवोन्यत्र षण्मुख ।। ४५ ।। इति श्री सर्वज्ञानोत्तरे क्रियापादे कलातत्वपञ्चतत्वदीक्षाप्रकरणम् ।। न प्राप्तोपि परां दीक्षां गुरुभुक्तोपि यत्नतः । कालेनान्त स्थितो यस्य तस्य मोक्षाः कथं भवेत् ।। १ ।। किं प्रदा तस्य संक्लेशो मोक्षमुद्दिश्य यः कृतः । प्. ८९) किं किंचिद् विद्यते कर्म तस्य धर्मोक्ष साधनम् ।। २ ।। गुरुभक्ताय शान्ताय सत्याचाराय सुव्रत । मृतस्यापि वरं स्कन्द दीक्षाकर्म विधीयते ।। ३ ।। * * * * * * * * विधिसंक्षेपविस्तरम् । अपि कल्पमति कुर्याद् एकश्चित्त समाहितः ।। ४ ।। तत्वानि देवता बीजं कलिकैः करवीरकैः । उच्चार्य विन्यसेन् मन्त्री दर्भै पुत्नीशके कृते ।। ५ ।। स्नापयित्वास्त्र बीजेन पञ्चगव्य शिवाम्बुजा । संस्थाप्य दक्षिणे पार्श्वे तस्य नाम हृदि न्यसेत् ।। ६ ।। अथवा व्योमसंस्थाने गोमयेन षडानन । सम्मन्त्र्य पञ्चगव्येन कृत्वा तस्मिन् नियोजयेत् ।। ७ ।। शक्तित्रयत्येनेत्तासु धर्माधर्म च षण्मुख । तदेवालम्भनं कृत्वा तस्मात् संहृत्य होमयेत् ।। ८ ।। ततस्तु मूर्ध्नि आगव्य यावत् पादतलान्तकः । विन्यसेत् सर्वतत्वानि तत्वैर्देवा न तु क्रमात् ।। ९ ।। बिन्दु तत्वे न्यसेन् मूर्ध्नि तत्र बिन्दु नियोजयेत् । शान्तीं च निष्कले स्थाने ध्यात्वा सर्वानिधो मुखात् ।। १० ।। मूर्ध्निथो खण्डिकोर्ध्वं तु न्यसेद् देवं सदाशिवम् । तत्रास्तथस्य संलीन विन्यसेच्छक्तिमण्डलम् ।। ११ ।। जिह्वायां वक्त्र मध्ये तु तत्र विद्यां च योजयेत् । अष्टौ विद्येश्वरान् मन्त्री ग्रीवायां बाहु संधिषु ।। १२ ।। प्. ९०) मायां वै यामपार्श्वे तु न्यसेत् कालं तु दक्षिणे । कलामुरसिसंस्थाप्य हृदये नीललोहितम् ।। १३ ।। तत्रापरम् पुनर्विद्यां तत्रैव पुरुषः स्मृतः । रागोपि रञ्जकस्तस्य विद्य प्रबोध लक्ष्मणैः ।। १४ ।। अव्यक्तमुदरे ध्यात्वा नाभौ सूक्ष्माणि विन्यसेत् । शब्द स्पर्शं च रूपञ्च रसोगन्धश्च पञ्चमः ।। १५ ।। पृष्ठवंशे गुणं न्यस्य तत्रैव पुरुषत्रयम् । नाभि मेढ्रान्तरे बुद्धि महङ्कृतिश्च सन्धिषु ।। १६ ।। योन्यं व्योमेश्वरं देवं व्योम मध्ये नियोजयेत् । तत्रैव योजयेद् वायुं गुह्याद्गुह्याष्टकावृतम् ।। १७ ।। योनभ्यन्तरतः स्कन्द वित्तस्थाने हुताशनम् । तस्याधो वारुणं तत्वं यावधा जानुमण्डलः ।। १८ ।। तस्याभ्यन्तरे लोकान् यावदामुश्ल कीलकौ । लोकादौ विन्यसेद् देवान् ब्रह्म विष्णु महेश्वरान् ।। १९ ।। गुल्फाय पो * * प्रंते तु किञ्चिदभ्यन्तरे गुह । चिन्तयेत् सप्तपाताल नरकांस्तु तल स्थितौ ।। २० ।। पादाङ्गुष्ठे तु देवेशं कालाधिपतिमीश्वरम् । स्थापयित्वा विधानेन पुनरभ्यर्चयेत् क्रमात् ।। २१ ।। संचित्य सहिता न्यध्व मूर्ध्नि आरभ्य मन्त्रवित् । पादादारभ्य तान् सर्व अंसौ संस्थाप्य शोधयेत् ।। २२ ।। प्. ९१) यागं यथोचितं कृत्वा तत्वे योनि मनु क्रमात् । कल्पयित्वा यथा पूर्वं पशुं संहृत्य योजयेत् ।। २३ ।। गर्भाधानादितः कृत्वा सर्वकर्माणि पूर्ववत् । तत्वातु सर्वतत्वेषु तथा संयोजयेच्छिवे ।। २४ ।। क्षीराज्यदधिसंमिश्राअं सूच्यग्रे संव्यवस्थिताम् । कृत्वाग्नौ होमयेत् पश्चात् तां तु पुत्तलकां बुधः ।। २५ ।। अथवा पुनरप्येवं स्थूलसूक्ष्मविभेदतः । व्योमानिलानलाम्भोर्वीः पञ्चतत्वानि योजयेत् ।। २६ ।। तेषामन्तर्गतान्यसेत् सर्व तत्वात् षडानन । कलाभिर्व्यापितास्तांश्च शान्ति शृण्यादिभिः क्रमात् ।। २७ ।। कलया शृन्यया लौप्तमाकाशं बैन्दवं परम् । व्याप्त सदाशिवं तत्वं शान्तया वायुरूपया ।। २८ ।। तस्यायो या पदं व्यक्तं विद्याया तेजरूपया । अव्यक्ताद्यावदंभोंतं व्याप्त चैव प्रतिष्ठया ।। २९ ।। स चाह्याभ्यन्तरं पश्चात् ब्रह्माण्डं तु प्रत्तय । व्यापितं सहरुद्रैश्च ध्मातचाकेरा भयम् ।। ३० ।। यदेव श्रन्यया व्याप्तं तच्छून्यमिति चोच्यते । वायव्ययागतो वायुस्तेजस्तेज सद्याप्रतः ।। ३१ ।। आपो वारुणया प्रोक्तो उर्वी पार्थिवया वृता । यदन्तरं यथा व्याप्तं तस्य नाम्ना तु तत्स्मृतः ।। ३२ ।। प्. ९२) बहिरेवं स्थिता व्याप्ति शरीरे श्रासु तत्वतः । शोधनान् क्रमं चैषां पशुमाश्रित्य संस्थितः ।। ३३ ।। संचिन्त्य पूर्ववद्रूपं तथा नाडीर्विचिन्तयेत् । शक्तित्रयं न्यसेत् तावद्धर्माधर्मौ च षण्मुख ।। ३४ ।। तन्मात्रैः पञ्चभिर्युक्तं गुणैश्च त्रिभिरावृतः । मनोबुद्धिरहंकारैरव्यक्तेन हृदि पुद्गलः ।। ३५ ।। भ्रुवो कर्णान्तरादूर्ध्वं श्रत्येश्रन्ये कलान्यसेत् । तस्याधो हृदयादूर्ध्वं मनिले शान्तिमेव च ।। ३६ ।। हृदयाद्राव मेढ्रान्तं विद्यां तेजसि योजयेत् । मेढ्राधो यावजान्वन्तं प्रतिष्ठा वरुणा न्यसेत् ।। ३७ ।। तस्याधः पार्थिवं तत्वं यावत् पादतलान्तिकम् । निवृत्तिं योजयेत् तत्र ध्यात्वा पूर्ववदर्चयेत् ।। ३८ ।। विद्येश्वरं यं बीजं कलाश्रुत्यां प्रकल्पयेत् । कवचादि शिवाअंगानि पुनश्शत्याकाः क्रमात् ।। ३९ ।। उर्वीवार्णबीजाभ्यां तेजसा निलखात्मभिः । संयुक्तास्ते स्मृतास्तत्वा योमाध्याक्ष्मावसानिकाः ।। ४० ।। ह्रस्वादौ ये स्त्वरापञ्च नपुंसकविवर्जिताः । तन्मात्रस्थे तु विज्ञेया गन्धाद्यादेशिकोत्तमैः ।। ४१ ।। अहंकारश्च संज्ञं तु अम्बुधीनीति संज्ञकम् । मकारस्तु मनः प्रोक्तः * तमः परिकीर्तितः ।। ४२ ।। प्. ९३) रकारं तु रजो विद्धि संसत्वं तु निगद्यते । यकारं प्रकृतिं स्कन्द परिकल्प्यविशोधयेत् ।। ४३ ।। पृथिव्यादीनि तत्वानि निवृत्त्यादि विशोधयेत् । गन्धादि पञ्चसूक्ष्मानि सद्यादिभिरनु क्रमात् ।। ४४ ।। त्रितत्वेन तु होतव्यमहंकारादिकं क्रमात् । प्रणवेन विधानज्ञो होमधीत गुणत्रयम् ।। ४५ ।। तत्वे तत्वे तु तत्वज्ञः पञ्च सूक्ष्माणि शोधयेत् । गुणत्रयं तथा व्यक्तं मनोबुद्धिमहंकृतः ।। ४६ ।। एकैकस्याहुतिशत्तं दद्याच्छुद्धेन सर्पिषा । तिलैर्वाघृतसंमिश्रैस्तण्डुलै राज्य संयुतैः ।। ४७ ।। श्रीफलैर्बिल्वपत्रैर्वा पुस्पैर्वाऽर्धाञ्जिकैः शुभैः । होमयेत ततोदिष्टं तैस्तु पूर्णाहुतिं तथा ।। ४८ ।। पूर्ववत् स्रोत शुद्धिस्तु तत्व संशुद्धिनैव च । क्रमात् संधाय तत्वानि तया हित्वा शिवं नयेत् ।। ५१ ।। एवं दीक्षा मृतस्योक्ता जीवतोपि हि षण्मुख । समयादिभ निर्मुक्ता सुख बन्धाद् विमुच्यते ।। ५० ।। सृष्टिसंहारन्यायेन पृथगत ध्वनि कल्पना । दीक्षा संहारतः कार्यारनयोरविसंमता ।। ५१ ।। विपन्नस्याखिलं कर्मा हन्येकस्मिन् समाप्यते । आचारोऽयं स्थितं स्कन्द सिध्यर्थम् जीवितस्य तु ।। ५२ ।। इति सर्वज्ञानोत्तरे क्रियापादे मृतकदीक्षाप्रकरणम् ।। अथ परं प्रवक्ष्यामि समयाचार लंघने । यथा विशुद्धयते देही विपन्नोप षडानन ।। १ ।। मृदम्भुना तु संशोद्ध्यास्त्र जप्तेन मन्त्रवित् । आलिप्यामलकैः पूतैः स्थापयित्वा शिवांभसा ।। २ ।। भस्मस्नानं विलोमेन कृत्वा तु परियापयेत् । गन्धपुष्पैरलंकृत्य उदक पाद निवेशयेत् ।। ३ ।। रक्तगन्धैस्तथा पुष्पैरजैवस्त्रोपवीतकैः । सं चाद्यवस्त्रसंयुक्तजस्त्रजापिभिरुत्क्षिपेत् ।। ४ ।। नीत्वा तु शांकरि दीक्षां शुचिस्थाने निधापयेत् । नि-ऋति प्लवनं तत्र शिवक्षेत्रं प्रकल्पयेत् ।। ५ ।। चतुर्हस्तायतं निम्न द्विहस्त समविस्तरम् । अस्त्र जप्तैस्तु तत्कीलैर्विदिक्षु कीलितो बहिः ।। ६ ।। विलोमं रक्तसूत्रेण कवचाख्येन वेष्टयेत् । पीतेन रजसावत्रं तस्य मध्ये समालिखेत् ।। ७ ।। त्र्यश्रमञ्च समायुक्तः शृंगाटकं तथोपरि । रक्तेन रजसा तं तु सर्वधान्यमयेन वा ।। ८ ।। पूर्वोक्तेन विधानेन तत्र वह्निं प्रकल्पयेत् । अस्त्रेण प्रस्तरां दर्भान् प्युत्क्रमेण तु देवताः ।। ९ ।। पर्युक्षणं तथा कुर्यादर्चिनाभ्युक्षणं तथा । स्रुचं स्रुवं च होमान्ते शवस्थोपरिविन्यसेत् ।। १० ।। प्. ९५) पूर्ववच्छोदयेदाज्यमभिर्वार्य विलोमतः । तथैवोद्घाटनं कुर्यात् निष्णतिं च षडानन ।। ११ ।। तर्पयित्वा तथा वह्निं दत्वा पूर्णाहुतिं ततः । ऐश्वर्यादि विलोमेन मन्त्र सिंहासनं न्यसेत् ।। १२ ।। सन्ध्यादि मन्त्र विन्यासं दत्वा देहेष्वके गुह । शिवे शिवासने चैव तथा होमं समाचरेत् ।। १३ ।। पूजयित्वाय तथा न्यायं गन्धपुष्पैः पवित्रकैः । अर्घ्यपाद्यादिभिश्चैव यथाशक्त्या विचक्षणैः ।। १४ ।। ततः संचिन्तयेन्नाडीः दिव्यरूपा मनोरमाः । ततश्चिति * नेत्तत्र चन्दनागरुदादिभिः ।। १५ ।। यथावासं भवेत् तस्य कुचवस्त्रोक्तरं गृह । पुनरभ्युक्ष्य तु प्रेतं मात्र बीजेन षण्मुख ।। १६ ।। चिति मध्ये नियुंजीत वस्त्रं चं न घृतप्लुतः । ततः संचिन्तयेन्नाडीं तस्य देहे विचक्षणः ।। १७ ।। स्वसंज्ञां हृदि संस्थाप्य तं मध्ये पुद्गलं न्यघे । ततः संधाय तत्वानि पादादारभ्य मन्त्रवित् ।। १८ ।। हित्वा तु तां तथा भूधः पशुं संयोजयेच्छिवे । तत्र संदीपयेद् बहिं तमस्ताद प्रदक्षिणः ।। १९ ।। अस्त्रबीजेन मन्त्रज्ञ आग्नेयीध्यारणं स्मरेत् । अविच्छिन्नां तथा राम घोयस्त्राभिमन्त्रिताः ।। २० ।। प्. ९६) भ्रामयित्वास्त्रबीजेन जलधारां निधापयेत् । ततोजलं प्रजेद् विद्वान् स्नात्वा दत्वोदकं शुचिः ।। २१ ।। यागं यथोदितं कृत्वा निवेद्येशं क्षमापयेत् । एवं विमुच्यते देही समयादि विलंघने ।। २२ ।। अज्ञानाज्ज्ञानतो वापि कृतौ त्वं तेष्ठि कर्मणि । इति श्रीसर्वज्ञानोत्तरे अन्त्येष्टिप्रकरणम् ।। एवं दीक्षा त्वया ख्याता मृतानामपि शंकर । तथैवाचार रहितामन्त्येष्टिः पाशशोधिनी ।। १ ।। नैष्ठिकानां समाख्याहि ब्रह्मचर्यो जितात्मनाः । ज्ञानचर्यान्वितस्यापि कालाकस्य गतिर्भवेत् ।। २ ।। ज्ञानाचर्या द्वितौ बौद्धौ बुद्धि तत्वमवाप्नुयात् । तामसं जिनभक्तानां प्राप्नुवन्ति * * * * ।। ३ ।। ये भवन्त्य जितात्मानस्तेषां मुक्तिस्तु दीक्षया । चैवतानि पश्यन्ति मुक्तिस्थानानि षण्मुख ।। ४ ।। मुक्तिस्थानं भवेदेकं विमलं सर्वतो मुखम् । अचलं बासकं शान्तं लिङ्गाश्रय विवर्जितः ।। ५ ।। तस्मिन् नियोजन्मन्त्री शोध्य तत्व क्रमेण तु । यो चस्मिन्नाश्रितो लिङ्गी तमादौ पूजयेत् ततः ।। ६ ।। तर्पयित्वा तथा सम्यक् प्रायश्चित्तं विशोधयेत् । पञ्चरात्रं त्रिरात्रं वा क्षपयित्वा षडानन ।। ७ ।। पश्चादष्ट सहस्रं तु अस्त्र बीजेन होमयेत् । प्. ९७) भूयोप्यष्टसहस्रं तु मूलमन्त्रेण होमयेत् ।। ८ ।। भूत्वा दीक्षापराकार्या संसार्णव तारिणी । नैष्ठिको दीक्षितस्त्वेन नित्यमप्यभिचारतः ।। ९ ।। शिवशास्त्रपरोनित्यं शिवहोमरतः शुचिः । शिवार्चन शिवध्यायी शिवजापि सदा भवेत् ।। १० ।। अ * ल कांक्षिण स्कन्द नानुग्रहं करिष्यति । द्वावेवाश्रमिणौ शैवे गृहस्थ ब्रह्मचारिणौ ।। ११ ।। लोकानुग्रहकर्तारौ परिव्राट् तापसौ न हि । एवं कार्याधिकारोयं यावत् संक्रामतो न्यतः ।। १२ ।। संक्रामिताधिकारस्तु कर्मशन्या समाचरेत् । गृहस्थ ब्रह्मचारित्वं संज्ञामात्रं तु केवलम् ।। १३ ।। पारमार्थिकमेतेषां नाश्रमो नाश्रमक्रिया । यदर्थं कृत कर्माणो नियुक्तौ परमे पदे ।। १४ ।। तदर्थं नाश्रमः प्रोक्तः शिवशास्त्र समाश्रितः । पूर्वसन्ध्या जपं होमं यच्च कर्म क्रमागतः ।। १५ ।। स्थित्यर्थमाचरेत् किञ्चित् सततं मन्त्र तत्परः । यस्मिन् वर्णो स्थितो दीक्षां प्राप्तो देही शिवात्मिकाम् ।। १६ ।। तत्रैव संस्थितो नित्यं शिवधर्मं प्रकल्पयेत् । यदुक्तं शिवशास्त्रेऽस्मिन् न्युक्तं कर्मषडानन ।। १७ ।। तदवश्यं तु कर्तव्यं तद्विलंख्य विलंघनम् । प्. ९८) आज्ञेयं कारणा ज्ञेया नोविकल्प्या कदाचन ।। १८ ।। सिद्धे यं साधनं नास्ति दूषणं न च विद्यते । न पुं हि य*(?)र्षकं वाक्यं दैविकं रिषिस्तथा ।। १९ ।। न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजन्मना । न शैवं विष्णुना वाक्यं बाध्यते तु कदाचन ।। २० ।। यो भि बाधति मूढात्मा सं नष्टो मूढचेतनः । उत्तरोत्तर वैशिष्ट्यं सर्वेषां परिकीर्तितम् ।। २१ ।। वाक्यानां वाक्यवित् प्राज्ञैस्तथा गुह्यं हितैषिभिः । * * वर्णाश्रमाचार प्रायश्चित्ताश्च लौकिकाः ।। २२ ।। सम्बन्धादशधर्माश्च प्रसिद्धां ना विचारयेत् । गर्भाधानादितः कृत्वा यावदुद् बाहमेव वा ।। २३ ।। तावं तु वैष्टिकं कर्म पश्चाद् वै वेत्यनन्यभात् । न मुख्य प्रवत्या च स्कन्द लोकं धर्मान् समाचरेत् ।। २४ ।। न चान्य शास्त्रेद्दिष्टां न चान्यं देवतां स्मरेत् । विशुद्ध भावना युक्त शिवैक गत मानसः ।। २५ ।। विशुद्ध माप्नुयात् स्तानमचिन्त्य सर्वग मृव । शबलं कर्मसन्देह द्यत्कृतं कृतकोद्भवम् ।। २६ ।। नेह मन्त्रफलं तस्य नैकान्ते सुखदं भवेत् । यमेवेच्छति संप्राप्त शुद्धकर्म समाश्रयेत् ।। २७ ।। तत्कर्म परतां नित्यं सुखी त * दवा स्व्यतः । प्. ९९) शास्त्रस्यैवा विरोधेन शुद्ध कर्माजितेन्द्रियः ।। २८ ।। अनेनैव स्वदेहेन सिध्यते नात्र संशयः । ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राशुद्धस्तु साधकाः ।। २९ ।। सुवर्णादानु पूर्वेणाचार्याश्च षडानन । श्रद्धधानान सूयाश्च कर्मज्ञाः कर्म तत्पराः ।। ३० ।। अनुरक्ताभिषक्ताश्च ते त्वानुग्रहकाः स्मृताः । कृष्णवर्णमृगो यस्मिन् चरते तु षडानन ।। ३१ ।। तद्देशं याज्ञिकं विद्यात् यश्च विप्रैरधिष्ठितः । यत्र विप्रास्सदाचारा यतयश्च तपोधनाः ।। ३२ ।। संनिदेवास्तथा वेदाः पुण्यदेहां तमादिशेत् । तद्देश कुलसंभूता आचार्याश्शास्त्रसंमिताः ।। ३३ ।। शिवशास्त्रं परां नित्यं शिवार्चाग्निपरायणाः । आपादमस्तकं यावत् भस्मस्नानं द्विजस्य तु ।। ३४ ।। नाभेरूर्ध्व ह्रपस्योक्तं मारत्नेन तु भस्मना । वैश्यस्य पट्टिका प्रोक्ता शूद्रस्य तु त्रिपुंड्रकः ।। ३५ ।। भस्मना ब्रह्म जप्तेन यथास्थानेष्वनुक्रमात् । ब्राह्मणस्य जटाश्लष्णाः कनकाः परिकीर्तिताः ।। ३६ ।। स्थूलास्तद्विगुणो ज्ञेया क्षत्रियस्य तु व्यन्तराः । वैश्यस्यैका शिखा स्थाने तथा शूद्रस्य कीर्तिताः ।। ३७ ।। ह्रस्व श्लक्ष्णानुसंयुक्तास्संयतस्य जितेन्द्रियः । प्. १००) यज्ञोपवीत सूत्रं तु विप्रे पञ्चसरं मृतम् ।। ३८ ।। त्रिसरं क्षत्रियस्योक्तः वैश्यस्य द्विसरं स्मृतः । शूद्रस्यैक सरं ज्ञेयं नित्यमव्यभिचारिणः ।। ३९ ।। अर्चायामग्निकार्ये वा सन्ध्या काले च नान्यथा । इति श्रीसर्वज्ञानोत्तरे लिङ्गोद्धारादिप्रकरणम् ।। अभिषेक विधानं तु संप्रवक्ष्याम्यतः परम् । हिताय देशिकं द्राणाः यथा शम्भु मुखाच्च्युतः ।। १ ।। पूर्वोक्ते भूतले शुद्धे गोमयेनोपलेपि ते । सर्वशोभाभिरम्ये तु सर्व गन्ध विभूषिते ।। २ ।। सुतिथौ वार नक्षत्रे मुहूर्ते करणान्विते । शुभग्रहोदये लग्ने शकुने मंगलैर्युते ।। ३ ।। सत्यव्रत चरं दान्तं त्यागयुक्तं दयान्वितम् । प्रसन्नवदनं दक्षं गुरुभक्तं दृढव्रतम् ।। ४ ।। शौचाचारसुसंपन्नं योगयुक्तं जितेन्द्रियम् । शिवभक्तं सदाशान्तं शिष्यं तन्त्रस्य पारगः ।। ५ ।। यागम्मुत्वा यथोद्दिष्टं दीक्षा निवृत्य मन्त्रवित् । ततोभिषेचयेत् तं तु युक्तायुक्त विचारकः ।। ६ ।। वीणावेणु मृदं गाद्यैः काहलैः पटहादिभिः । शंखतूर्यनिनादैश्च नृत्तगेय समन्वितैः ।। ७ ।। सर्वमंगलसंयुक्तमभिषेकं समारभेत् । प्. १०१) यागदक्षिणपूर्वेण पश्चिमे वोत्तरेण च ।। ८ ।। यतोद्वारं नाभि पश्चात् तण्डुलं परिकल्पयेत् । द्वात्रिंशदांगुल विस्तारमुच्छ्रायं तावदेवभिः ।। ९ ।। चतरश्रं समं शुद्धं मध्ये कमल भूषितम् । पूर्ववत् पीठविन्यासं तस्मिन् संस्थाप्य पूजयेत् ।। १० ।। शुद्धपद्मासितं स्नातं मन्त्रालंकृत विग्रहम् । ततः कुम्भान्यथा पूर्वं पूर्वादारभ्य कल्पयेत् ।। ११ ।। शिवकुम्भविधानेन मन्त्रदेवत संयुतम् । अष्टौ विद्येश्वरान् मन्त्री अष्टभिः संनियोजयेत् ।। १२ ।। चतुष्वंगान्यथास्थानं पञ्च ब्रह्माणि पञ्चसु । अस्त्रजप्तं कुरुस्वैकं शिवजप्तं तथा परः ।। १३ ।। गायत्र्या चमनार्थं तु वन्यां परि कल्पयेत् । शतमष्टोत्तरं जप्त्वा शिवाख्यमभिमन्त्रयेत् ।। १४ ।। प्रथमं चास्त्र बीजेन स्नापयित्वा विधानवित् । विद्येश्वरैस्ततः पश्चादनन्ताद्यैर्यथा क्रमात् ।। १५ ।। ब्रह्मभिश्चानुपूर्वेण पुनरङ्गान्यनुक्रमात् । अभिषेकं शिवेनैव पश्चात् कुर्वीत षण्मुखः ।। ६ ।। ततो गन्धैश्च पुष्पैश्च वस्त्रालंकारपादुकैः । ब्रह्मसूत्र पवित्राद्यैः र्भूव्य पट्टं निवेदयेत् ।। १७ ।। पूजयित्वा विधानेन शिववन्तं तु देशिकः । प्. १०२) शिव समीपं समाश्रित्याधिकारं समर्पयेत् ।। १८ ।। गुरुणायोऽधिकारस्तु गमवत्ससमर्पितः । अद्य प्रभृति योगीन्द्र सोधिकारो मया त्वयि ।। १९ ।। अनुग्राह्यास्तथा शिष्याश्शास्त्रदृष्टेन कर्मणा । श्रोतव्यं शिवशास्त्रं च श्रावणीयं तदर्थिनाम् ।। २० ।। संवत्सरोषिते शिष्ये दीक्षां निर्वर्तयेद्बुधः । सायके मन्त्र दीक्षां तु यस्मिन् तत्वे भिषिच्यते ।। २१ ।। इतरेष्वाहुतीं दत्वा शिवहस्तं प्रकल्पयेत् । समया मृपयेत् पश्चात् ब्रह्माङ्गानि तथैव च ।। २२ ।। न निंद्या तु कारणं देवं तच्छास्त्रं च शिवोद्भवः । देशिकं पुत्रकं चैव गुरोर्वाक्यं न लंघयेत् ।। २३ ।। सुतिकायां न संस्पर्शं छाया चतुरलंघनात् । यत्नेन वर्णयेत् प्राज्ञो देव जग्धं च सौनिकम् ।। २४ ।। इत्येता समयास्तन्त्रैः समासात् परिकीर्तिताः । पालानां तु शिवं यान्ति सन्निरोधं ततो न्यथा ।। २५ ।। पिण्ड मन्त्रास्थतस्त्राव्यावत्सरात्मा शिवशिवस्तथा । समयज्ञेष्विदं ज्ञानमथ ऊर्ध्वं न दापयेत् ।। २६ ।। ब्राह्मणाः क्षत्रिया वैश्याः स्त्री शूद्रादि नपुंसकाः । दीक्षाकाले त्वमीमांस्या ज्ञानदाने विचारयेत् ।। २७ ।। त्रिचतुःपञ्चभिः विप्र क्षत्रिये नव सप्तभिः । प्. १०३) अष्टभिर्दशभिर्वैश्ये शूद्रे विंशत्या दापयेत् ।। २८ ।। उत्तमं सर्वशास्त्राणां शिवशास्त्रात्मकं गुह । गुह्याद्गुह्यतरं गुह्यं भवितव्यं प्रयत्नतः ।। २९ ।। ना शिष्याय प्रदातव्यं नाभक्ताय न नास्तिके । न गुरु द्वेषिणे चैव कन्यशास्त्ररताय च ।। ३० ।। यस्य देवे पराभक्तिः नित्यं गुरौ षण्मुख । नान्यशास्त्रे यथा भक्तिर्ज्ञानं तस्मिन्न स योजयेत् ।। ३१ ।। न जल्प शिवशास्त्रेण प्रकुर्वीत कदाचन । न वोरणं कुर्यात् दशद् देजनसं * * * * ।। ३२ ।। विविक्ते निर्जने रम्ये पूज्यविद्याधिपं गुरुम् । जितेन्द्रियः शुचिः स्नातः शिवज्ञानं तु श्रावयेत् ।। ३३ ।। श्रोतव्यं च तथा भूतैस्तच्छक्तैस्ता परायणैः । आदावन्ते च संयोज्य गुरुं संभाव भावितैः ।। ३४ ।। पौर्णमास्याममावास्यां चतुर्दश्यष्टमेषु च । नाध्यापयेच्छिवज्ञानं ग्रहणाय न सन्धिषु ।। ३५ ।। सविशेष जपं पूजा व्रत होमं समाचरेत् । दानोपवासनियमात् सर्वेष्वे तेषु षण्मुख ।। ३६ ।। कृतघ्ना नास्तिकाः क्रूराः निस्सत्याः कलह प्रियाः । मायाशाठ्य समोपेता भूमंते तन्त्र हारिणः ।। ३७ ।। पृच्छन्ति मधुरैर्वाक्यै शेषमुत्वाद्य वा पुनः । प्. १०४) तेषां न विश्वसेद्धर्मान् यदीच्छेच्छान्तिमात्मनः ।। ३८ ।। एवं कार्यधिकारो हि यावत् संक्रमितोन्यतः । सङ्क्रामिताधिकारस्तु कर्मसन्यासमाचरेत् ।। ३९ ।। साधकस्याभिषेकस्तु एवं वत्स विधीयते । आचार्य साधकश्चैव द्वावेतौ तुल्यमङ्गलौ ।। ४० ।। समाप्त विद्यो कर्तव्यो गुरुस्साधक एव च । सकाम सायको ज्ञेया निष्ठा मे देशिकः स्मृतः ।। ४१ ।। एक एव क्रियाकारो भावभेद प्रधक्तयोः । सोल्पं होमं जपध्यानं कुरुते देशिकस्सदा ।। ४२ ।। कर्मनिष्ठा प्रतिष्ठो हि सततं साधकोत्तमः । इति श्रीसर्वज्ञानोत्तरे क्रियापादे अभिषेकप्रकरणम् ।। अतः परं प्रवक्ष्यामि स्नानं वित्रानुसारतः । पञ्चभिः कलशैर्वापि पूर्वोक्त विधिकल्पितैः ।। १ ।। अष्टो विद्येश्वरान् मन्त्री एकस्मिन् विनियोजयेत् । द्वितीये पञ्च ब्रह्माणि तृतीयंग चतुष्टयम् ।। २ ।। अस्तु युक्तं चतुर्थं तु शिवकुम्भञ्च च पञ्चकम् । अभिमन्त्र्य यथा न्यासं पूर्ववत् स्नानमाचरेत् ।। ३ ।। चतुर्भिर्वायथाकुम्भैरभिषेकं समाचरेत् । विद्येश्वराद्यया पूर्वं ब्रह्माङ्गानि च मन्त्रवित् ।। ४ ।। एकस्मिन् कलशे योज्यमस्त्रयुक्तं तृतीयकः । प्. १०५) चतुर्थं शिवकुम्भं तु अभिषिञ्चेत पूर्ववत् ।। ५ ।। अथवा द्वौ पुनः कुम्भौ अभिषेकाय कल्पयेत् । एकस्मिन् सर्वमन्त्रांश्च शिवकुम्भं तृतीयकः ।। ६ ।। ब्रह्मपत्रपुटैर्वापि शंक शुक्त्याथवा पुनः । अभिषेकं प्रकुर्वीत ततोऽनुज्ञापयेत् पुनः ।। ७ ।। पुष्पैर्वा मनसा वापि वाचा वापि प्रशस्यथा । अननुज्ञातमन्त्रस्तु न कुर्यान्मात्रिकां विधिम् ।। ८ ।। स्तुवं स्रुचाक्षसूत्रञ्च संग्रहेत् तत् ततः क्रमात् । त्रिकालमर्चनं जपं होमं समाचरेत् ।। ९ ।। इति सर्वज्ञानोत्तरे क्रियापादे संक्षिप्ताभिषेकप्रकरणम् ।। स्रुवस्यावक्षसूत्रस्य विधानं शृणु तत्वतः । जपस्य सिद्धि द्रव्याणि प्रवक्ष्याम्यनुपूर्वशः ।। १ ।। स्रुवं हस्त प्रमाणं तु आधारोङ्गुष्ठ पर्वतः । बाहु मात्रं स्रुचं ज्ञेया पुष्करं संनि सन्निभः ।। २ ।। पालाशाश्वत्थ बिल्वं तु वैकंकतं तु वा पुनः । क्षालयित्वास्त्रबीजेन धारणाभिर्विशोधयेत् ।। ३ ।। ततश्च पञ्चगव्येन पुनर्गन्धोदकेन तु । त्रितत्वं शक्तिबीजं तु योजयेदुभयोरपि ।। ४ ।। गन्धपुष्पैरलंकृत्य धूपं दद्याद् विधानवित् । सप्तरात्रं स्थितिं कृत्वा पश्चाद्धोमो नियोजयेत् ।। ५ ।। प्. १०६) पुत्रदीप फलं वृक्षो मधो गत्वा विशोधयेत् । खसस्यं गोमयं ग्राह्यं पुनस्तत्रो विलेपयेत् ।। ६ ।। सिक्त्वातु पूर्ववन्मन्त्री अस्त्रगन्ध शिवांबुना । शिवी कृत्वा तु तं वृक्षं शिववत् प्रति पूजयेत् ।। ७ ।। पुरस्तादग्निकार्यं तु शास्त्र दृष्टेन कर्मणा । कृत्वा भूत बलिं दत्वा पश्चादक्षाणि संहरेत् ।। ८ ।। मध्ये शाखा समुद्भुतैर्मन्त्रमावर्तयेच्छिवः । पूर्वशाखोद्भवस्कन्द जपे तत्पुरुषं बिलम् ।। ९ ।। अघोरवामदेवौ वा सद्योजाताङ्गमेव वा । ये यथावस्थिता मन्त्रास्तैस्तुतान् परिकल्पयेत् ।। १० ।। वायव्यानल माहेन्दु वरुणावाथ मिश्रकाः । तेभिस्वस्त्रोतजैरक्षै सर्वे सिध्यन्त्य संशयः ।। ११ ।। कंन्याकर्तितु सूत्रेण त्रिगुणं त्रिगुणे न तु । अक्षमाला प्रकुर्वीत शुद्धे नास्त्रोदकेन तु ।। १२ ।। शतमष्टोत्तरं वापि चतुःपञ्चाशदेव वा । सप्तविंशति वा मन्त्री अक्षमाला शुभास्मृता ।। १३ ।। शक्तिन्यासं पुराकृत्वा तस्मिन् सूत्रे निधापयेत् । वेधयेदस्त्रबीजेन प्रोतयेद्धृदयेन तु ।। १४ ।। अन्योन्य संस्थितं कृत्वा मुखं तेषां सुसंहृतान् । निरुजांति प्रणान् शुद्धान् न भिन्नामल वर्जितान् ।। १५ ।। प्. १०७) ततः शिवाम्भसा क्षाल्यं पुनर्गन्धैर्विभूषयेत् । स्वस्त्रोते विन्यसेच्छक्तिं वीरपत्रस्तथोपरि ।। १६ ।। मूयूरचन्द्रकैश्छाद्य पश्चादक्षाणि योजयेत् । वीरपत्रस्य तथा चैव पश्चादालभनं कुरु ।। १७ ।। स्वमन्त्रं पूजयेत् तत्र गन्धपुष्पैरनुक्रमात् । शिवीभूतं तु तत्सूत्रं संपुटित्वा दिने दिने ।। १८ ।। ततस्समुद्गके मन्त्री मांत्रालब्धे निधापयेत् । सौवर्णे राजते चैव ताम्रसिद्धोर्थकेपि वा ।। १९ ।। ग्रहणं मोक्षणं चैव स्थापनं च विधानवित् । हृदये तु कर्तव्यमर्चनं च विलेपनम् ।। २० ।। अतः संक्षेपतो वक्ष्ये भूयोक्षस्य विधिं परम् । आहृत्य निपुणानक्षान् अस्त्रजप्तेन भस्मना ।। २१ ।। संशोध्यवारि युक्तेन धारणा निपुणः क्रमात् । ततस्तु पञ्चगव्येन पुनर्गन्धोदकेन तु ।। २२ ।। ततः शिवाम्भसा क्षाल्य पुनर्गन्धैर्विभूषयेत् । यागं कृत्वा यथोद्दिष्टं पूर्वोक्त मेखलं यथा ।। २३ ।। ततस्तु प्राणसंघातमाकृष्य हृदि मण्डले । त्रितत्वे मध्यगो भूत्वा जपं कुर्यात् समाहितः ।। २४ ।। त्रितत्व मध्यगो भूत्वा जपं कुर्यात् समाहितः । त्रिभिस्तु चुलकैर्नित्यं यावत् संख्या प्रपूर्यते ।। २५ ।। प्. १०८) तावतत् गन्धतोयेन शिवस्य जपमर्पयेत् । जपं कृत्वोदिसंकृत्वा पुनरीशं प्रसाधयेत् ।। २६ ।। तमाकृष्य तथैवैह व्रतमन्त्रैः समाचरेत् ।। २७ ।। इति श्रीसर्वज्ञानोत्तरे क्रियापादे जपादिप्रकरणम् ।। अतः परं प्रवक्ष्यामि व्रतानां व्रतमुत्तमम् । शिवव्रतमितिख्यातं सर्वदा सुरपूजितम् ।। १ ।। विशुद्धं पाण्डरं जन्म शुक्लवासोनुलेपनम् । शुक्लयज्ञोपवीती च जटामकुट मण्डितः ।। १२ ।। सर्वाभरणसंपन्न शुक्लमाला विभूषितैः । चरुभूत् ब्रह्मचर्यस्य शिवाग्नि गुरुपूजितः ।। १३ ।। मन्त्रमूर्ति शिवस्यैव यथापूर्व प्रकीर्तितम् । तथा वै साधकैंद्राणा व्रतज्ञेयं तथात्मकम् ।। १४ ।। शुक्लकौपीन वासं वा उष्णीषाक्षक मण्डलुम् । शिवालये वसन्नित्यं भिक्षाभक्षो जितेन्द्रियः ।। १५ ।। शिवध्यानरतो मौनी शिवाग्नि गुरुपूजकः । संवत्सरे व्यतिक्रान्ते शिवतुल्यो भवेदिति ।। १६ ।। इति सर्वज्ञानोत्तरे क्रियापादे शिवव्रतप्रकरणम् ।। अतः परं प्रवक्ष्यामि लक्ष्मणं तु शिवालये । स्थापनं चैव लिंगस्य यस्मिन् सर्व प्रतिष्ठितः ।। १ ।। ब्रह्माद्या देवतास्सर्वे लिङ्गमाश्रित्य संस्थिताः । प्. १०९) तस्माद् वै स्थापयेल्लिङ्गं शास्त्रदृष्टेन कर्मणा ।। २ ।। त्रिण्यां विद्याव्रतो योगी गुरुदेवाग्नि पूजकः । आचार्यस्तत्व विद्धीमान् विशिष्टकुलजः शुचिः ।। ३ ।। सर्वलक्षणहीनोपि शिवशास्त्रार्थ विद्गुह । स्थापकस्स परप्रोक्त शिवविच्छास्त्र संमतः ।। ४ ।। सर्वलक्षणसंपन्न संम्यत् शास्त्रं न विन्दति । न योगी न व्रतस्नातो ना चावाचार्य उच्यते ।। ५ ।। न शठो नास्तिकः क्रूर पिशुनो न च मत्सरी । कुषीकु * सखीं व्यङ्गं क्षयरोगी जलोदरी ।। ६ ।। काणः केकरपिङ्गाक्षः कपालकुतशेखरः । सर्वदोषाश्रयं वत्स तार्किकं तु विवर्जयेत् ।। ७ ।। भोजका देवजग्धाश्च देवव्रतधरांश्च ये । विनाग्नि नैष्ठिकाश्चैव स्थापनेषु विवर्जयेत् ।। ८ ।। स्थान शुद्धात्मशुद्धी च द्रव्यशुद्धिं तथैव च । मन्त्रस्य लिङ्गशुद्धिं च विदित्वा गमकृत् ।। ९ ।। शिवा भवास्त्रतोयेन स्थानमभ्युक्षयेत् ततः । माहेन्द्र वारुणं वापि पुनः क्षेत्रं प्रकल्पयेत् ।। १० ।। दिशां बन्धं ततः कुर्यात् यथापूर्वमुदाहृतम् । स्थान शुद्धिर्भवेदेवं देहशुद्धिः प्रचोदिता ।। ११ ।। मन्त्रशुद्धिर्मनोंथथे मन्त्री मन्त्र विचक्षणः । प्. २१०) मलाध्यैश्वर्य ज्ञालानि मन्त्राणां कीर्तितानि तु ।। १२ ।। तेषां प्रबोधिनी शक्ति शिवाज्ञानं न मन्त्रता । मन्त्रशुद्धिर्भवेदेवं समासात् परिकीर्तितः ।। १३ ।। द्रव्यशुद्धिस्तु द्रव्याणां प्रोक्षितानां शिवाम्भसा । लिङ्गशुद्धिं पुनर्वक्ष्या विभातां चार्चनस्य च ।। १४ ।। लक्षणं चैव लिङ्गस्य येन सान्निध्यतां व्रजेत् । लिङ्गाद्धस्तशतं क्षेत्रमाचार्ये स्थापितस्य तु ।। १५ ।। स्वायंभूते सहस्रं स्याद्रिष्ठिभिस्तु सदर्थकम् । भूमि संशोधनं कृत्वा क्षेत्रस्य जननं कुरु ।। १६ ।। जनिते तु शिवक्षेत्रे पश्चाद् वै भूपरिग्रहः । शिलान्यासं ततः पश्चात् सूत्रयित्वा विधानवित् ।। १७ ।। हेमरत्नादिभिर्बीजैर्भूषयित्वा निधापयेत् । पुण्याह जय शब्दैश्च शंखवाद्यकनिस्वनैः ।। १८ ।। बाहुर्मंगल निर्घोषैः पूज्य विष्णुविनायकान् । दिशाबलिं ततो दद्यात् पूजयित्वा दिगीश्वरान् ।। १९ ।। आचार्यः शिल्पिभिः सार्धं लिंगं कुर्यात् सलक्षणम् । स्थपतिश्च यथोद्दिष्टं प्रासादं शास्त्रसम्मतम् ।। २० ।। प्रासादाद्वा भवेल्लिङ्गं लिङ्गात् प्रासाद एव वा । यदेव सूत्रितं पूर्वं तेन सूत्रेण चोदितम् ।। २१ ।। अस्त्रयागं पुनः कृत्वा अस्त्रैरस्त्रं नियोजयेत् । स्नापयित्वास्त्रतोयेन गन्ध पुष्पैर्नियोजयेत् ।। २२ ।। प्. १११) धूपं दत्वा विधानेन रात्रिमेकां निधापयेत् । वस्त्रशययां समारूढं कुठारं टङ्कमुद्गरम् ।। २३ ।। घृतेन मधुनाभ्यज्य मुखा तेषां पुनः क्रमात् । अस्त्रं तु जपतो ध्याने प्रवेशे हृदयं जपेत् ।। २४ ।। संप्राप्योदित शैलं तु तत्र यागं पुनः क्रमात् । कृत्वा भूतबलिं दत्वा हृदयं परिवर्तयेत् ।। २५ ।। तस्य पादांश्शिलां गृह्य विवर्तां सौम्यदर्शनम् । विवर्णामनवद्यांस्तु विशुद्धां सुनिदर्शनाम् ।। २६ ।। अस्त्राभिमन्त्रितं कृत्वा सद्येना लभनं कुरु । ते नैवाभ्यर्चनं भूयस्तत्र कर्म समाचरेत् ।। २७ ।। अथो भागे कुर्वीत * * * * * तात्मकः । पूर्वमूत्तरमीशानं मस्तकं परिकल्पयेत् ।। २८ ।। वृक्षस्य पूर्वतं पूर्वं प्रासादे पूर्वते मुखे । यतो वापि भवेद्वारं तत्रवंत्रं तु कल्पयेत् ।। २९ ।। स्वस्थानस्यंतु पूर्वेण प्रासादं पश्चिमामुखम् । दक्षिणेन तथा कुर्यात् पश्चिमे पूर्वतो मुखम् ।। ३० ।। उत्तरेण तथा भूय पूर्वं पश्चिमे * व वा । द्वारं तु मध्यतः स्थाप्य भूमिभागवशाद् भवेत् ।। ३१ ।। नोत्तराभिमुखां देवां न कुर्याद् दक्षिण मुखात् । विदिशासु च वक्त्राणि न कुर्यात् तु कदाचन ।। ३२ ।। प्. ११२) अन्यथा स्थाप्यमानानां दैवानां शिखि संभव । दुर्भिक्षं विग्रहो राजा वुपसर्गो भयानि च ।। ३३ ।। उच्छ्रायां देन कुर्वीत विस्तारं गुणबहिः । चतुरश्रयावर्तुलां वा प्रदंगो पुरान्वितम् ।। ३४ ।। प्राकाराभ्यन्तरेष्टौ तु पार्श्वे विन्यस्य मन्त्ररा * । प्रासादानि मुखान् कुर्यान् न गर्भतैस्तु वेधयेत् ।। ३५ । इन्द्र पावक धर्मेश निऋ-ऋति वरुणा तिलात् । कुबेरं च तथैशानं स्थापयेत् तेषु देवता ।। ३६ ।। द्वारे देशे बहिः स्थाप्यौ दुर्गाविघ्नविनायकौ । स्थाप्यौनन्दिमहाकालौ शिवस्य पुरतस्तथा ।। ३७ ।। शिवलिंगं ततो मध्ये ज्येष्ठमध्यमकन्यसम् । संपूर्णोदर पार्श्वं तु पृष्ठमुन्नतमस्तकम् ।। ३८ ।। अवक्रापश्रयं हीना श्रमवक्र * * स्थितम् । पद्मार्थचंद्र चक्राक श्रीवत्स स्वस्तिकाङ्कितम् ।। ३९ ।। एकहस्तद्विहस्तं वा त्रिहस्तं वापि कन्यसः । चतुर्हस्तं पञ्चहस्तं षड् हस्तं मध्यम * * ।। ४० ।। सप्ताष्ट नवहस्तं वा उत्तमं परिकीर्तितम् । श्वेतरक्तं तथा पीतं कृष्ण विप्रादितः क्रमात् ।। ४१ ।। गुरु स्निग्धं सुगन्धं च सुस्वरं तेजसान्वितः । व्यामिश्रमपि त गृह्यं चतुर्णाममविशोभतः ।। ४२ ।। प्. ११३) सर्वशल्य विनिर्मुक्तं सर्वतोष विवर्जितम् । सर्वलक्षणसंयुक्तं शिवलिङ्गनिधापयेत् ।। ४३ ।। अंगुल्य द्वंगुलं वापि कुर्यात् तु चतुरंगुलम् । अष्टाङ्गुल वितस्तिं वा मणिरत्न मयं शुभः ।। ४४ ।। सततां रत्न लिङ्गानां प्रासादो न विधीयते । प्रासादे वा गृहे रम्ये यथेष्ठं संप्रपूजयेत् ।। ४५ ।। यदात्मकं बलेर्लिङ्गं वेदीकार्या तदात्यका । लिङ्गवेद्यासमुज्ञेयं वेदिलिङ्ग समास्मृतः ।। ४६ ।। सौवर्णराजता वापि ताम्रावा विमला भवेत् । अभावे रत्नवेदीनां रत्नलिङ्गेषु कीर्तिता ।। ४७ ।। वेद्याः पूर्वापरं ज्ञात्वा तथावोत्तर लक्षणं । मध्ये प्रवेशयेद्यल्लिङ्गं द्वौ भागौ बाह्यतः स्मृतौ ।। ४८ ।। भागद्वयं भवेद् दृश्यं तृतीयं संप्रवेशयेत् । विहितं रत्नलिंगानां सुषिरे होम भे * ते ।। ४९ ।। तेषा. हि लक्षण मध्ये उत्तरे प्रयत्नतः । भागत्रयं समं कृत्वा तत ऊर्द्ध्वं परित्यजेत् ।। ५० ।। तत्र सर्वत्र समं श्रेष्ठ सुप्तक्तोन्नत मस्तकम् । सर्वदोषविनिर्मुक्तं सर्वलक्षणसंयुतम् ।। ५१ ।। चतुरश्रमथो भागमष्टाश्रं मध्यत स्थितम् । वृत्तं चैव तमूर्ध्वं तु प्रकूर्वीत षडानन ।। ५२ ।। प्. ११४) सुविशुद्धस्य लिङ्गस्य कुक्कुटाण्डमयस्य च । यव मध्यं ततः कुर्याच्चतुरश्रमतः पुनः ।। ५३ ।। परिपूर्णातरं मध्ये अत ऊर्ध्वकृतं भवेत् । अष्टाश्रं वा प्रकूर्वीत सुप्तताराकार मध्यकम् ।। ५४ ।। समाश्रं निव्रणं शुद्धं तेजस्कं चारुदर्शनः । मृदंग कामतं जेयं मृदंगाकार * स्तिकः ।। ५५ ।। स्थापितं च वने वापि स्थितं वा विषमं यदि । मणिरत्नमयं लिङ्गं पुनः संस्थाप्य पूजयेत् ।। ५६ ।। ऊत्तरप्लवनां वेदिं दर्पणोदर सन्निभः । मेखलां द्वादशांगेन प्रणालं चार्ध भागिकः ।। ५७ ।। प्रमाण लक्षणं चैव मणिरत्नमयेषु च । स्थापनं चार्चनं प्रोक्तमितरेण विधिं शृणु ।। ५८ ।। अथ गर्भग्रं पुरस्कन्द लिङ्गस्य त्रिगुणं कुरु । मध्यमांसे शस्य सद्वेदीं भक्तिर्वेदी समास्मृताः ।। ५९ ।। तत् प्रमाणं भवेद्वारं विस्तरेण विधानवित् । उच्छ्राय द्विगुणं कुर्या सुसमीकन्यसस्य तु ।। ६० ।। षष्ठं भागमथस्त्यज्य द्वारमध्यमकं न्यसेत् । कल्पयीत यथोद्दिष्टं मध्यमस्थाधुना शृणु ।। ६१ ।। द्व त्रि भागे तु संत्यज्याधो भागस्य षण्मुख । ऊर्ध्वभागे प्रकुर्वीत द्वारं वै मध्य संमितु ।। ६२ ।। प्. ११५) भागमेकं परित्यज्य द्वयोर्भागः प्रकल्पयेत् । तद्भागं पूरयेद्भूमौ शेषं लिङ्ग क्रमेण तु ।। ६३ ।। अधो वेदिं स्थिरां कृत्वा निर्वाणां सुसमन्विता । सुश्लिष्टामिष्टकैश्च्छाद्यं यावत् क्षेत्र समा * *।। ६४ ।। ततसूत्तर वेद्यां च पीठस्य रचनां कुरु । विधिना शास्त्रदृष्टेन सर्वकर्माणि चैवभि ।। ६५ ।। लिंगाद्वे तथा गर्भो भक्तिश्चैव षडानन । प्रासादं च तथा तत्तलिङ्गमानेन कारयेत् ।। ६६ ।। तल्लिंगं मंजरीययास्त्रि * * * * * * * * । शुकनासा महासेन शिखरं चैव लैंगितम् ।। ६७ ।। तल्लैंगिकं पुनः सूत्रं गर्भादुभयतो न्यसेत् । दिगश्रमुश्रयार्धेन शुकनासस्य मण्डपम् ।। ६८ ।। गर्भस्यो भयतो लिङ्गमेकैकं संप्रवेशयेत् । द्वौलिङ्गादग्रतः कुर्याच्छुकनासस्य षण्मुख ।। ६९ ।। वलभिच्छांदकं वापि गजसिंहाकृतिं तथा । हंसकृत्यातिं वापि शुकनासं समं कुरु ।। ७० ।। द्वौ लिंगावर्धलिंगञ्च गर्भं वै मध्यमस्य तु । द्वौ लिङ्गावुत्तमस्योक्तौ त्रीणिलिङ्गानिकं न्यसेत् ।। ७१ ।। अथवा सर्वलिंगानां यो भागो द्वारकर्मणि । गृहीत्वा तेन भागेन प्रासादं परिवर्तयेत् ।। ७२ ।। प्. ११६) सूत्रेण सुमितं कृत्वा लिङ्गं भागत्रयं कुरु । चतुरश्रमधोभागमष्ठ भूमध्यम स्थितः ।। ७३ ।। वृद्धतृतीयकं भागं किञ्चिदुन्नतमस्तकम् । अत ऊर्ध्वं मध्यमञ्च समभागं प्रशस्यते ।। ७४ ।। पीठलिङ्गसमाप्रोक्तं पूजाभागद्वयेन वा । अन्यथा रुचिता लिंगात् गर्भान्तं नवधा कुरु ।। ७५ ।। मध्यपीठं पदान्यष्टौ स्वांशमात्रादि * * * । सर्वेषामेव भागानां परिणाहस्तु कीर्तितः ।। ७६ ।। ब्रह्माद्यस्तु त्रयोभागं वृत्तं षोडशसंयुतम् । एवं कुंडितं क्षेत्रं परिणाहस्तु कीर्तितः ।। ७७ ।। मस्तकं यस्य लिंगस्य येनांशेन तु वृत्तयेत् । तत्र भागं पुनस्तस्या यामे परिकल्पयेत् ।। ७८ ।। ब्रह्मवेद्यां न्यसेद् भाग द्वितीये पीठिका स्थिताः । अर्चा भागं तृतीयान्तु कर्तव्यं लक्षणान्वितम् ।। ७९ ।। ऊर्ध्वं तृतीयके भागं त्यज्य लक्षण मुद्धरेत् । सूत्रयित्वा सुवर्णेन तल्लिङ्गाकृति मुत् जिरेत् ।। ८० ।। अष्टाश्राम्मध्यतश्चोर्ध्वं बाहुभिः समलंकृतम् । उत्कीर्य मधुनाज्येन पश्चातमुपलेपयेत् ।। ८१ ।। द्विस्त्रे कान्तरिते सूत्रे तस्य मध्ये पुनर्नयेत् । मध्यमांगुलिमानेन तश्शुभं लक्षणं स्मृतः ।। ८२ ।। अथ लक्षण यथालिङ्गं हीण लक्षणमेव वा । अति दीर्घ कृशं ह्रस्वं नाथश्रयं त्यत्र देवताः ।। ८३ ।। प्. ११७) तस्मात् सर्व प्रयत्नेन प्रोचरे लक्षणं शुभम् । श्लक्ष्णं मेव संचिन्नं सुप्रमाणं सुदर्शनः ।। ८४ ।। सर्वदोषविनिर्मुक्ताः वेदिं कुर्यात् स लक्षणः । यथालिंगं तथा चैषा स्थापनीया प्रयत्नतः ।। ८५ ।। दीर्घमायुः क्षयात् कुर्याद् वेद्यां ह्रस्वं तथा धनः । तस्माद्ध्रस्व तरं लिङ्गं नाति दीर्घञ्च कारयेत् ।। ८६ ।। मद्धया हारेण * * संयतेन जितात्मना । आचार्येण च शान्तेन सततं मन्त्रजापिना ।। ८७ ।। लिङ्गं वेदी वृषश्चैव निष्पन्नादी यदा हवेत् । गो युक्तारथमारूढमानयीत तदा शुचिः ।। ८८ ।। गन्धपुष्पैरलंकृत्य धूपं दत्वा विधानवित् । पुरःप्रदक्षिणी कृत्य नानाघोषैः प्रवेशयेत् ।। ८९ ।। नीत्वा चायतनं दिव्यं ईशानीं दिशमाश्रितः । मृदुशययासनं रूढमेकरात्रं निधापयेत् ।। ९० ।। तत्रादि व्यासनं कुर्यादाचार्यः सुसमाहितः । होमं कृत्वा विधानोक्तं जपेद् ब्रह्मादि संहिताः ।। ९१ ।। ततो मूर्ति धारानष्टौ सकलीकृत विग्रहान् । जपध्यानरतां छान्तान् अर्धरात्रे प्रवेशयेत् ।। ९२ ।। उत्तिष्ठंत्तेति विपेन्द्र कलशान्वारि पूरितान् । मन्त्र द्रव्य समायुक्तान् संपादयथ मे परान् ।। ९३ ।। प्. ११८) ततो लिंगं समुत्थाप्यास्त्र जप्तेन वारिणा । स्नापयेद् वस्त्र पूतेन शीतेनाष्टोत्तरेण वा ।। ९४ ।। धारणाभिश्च संशोध्य लिंगं वेदिं तथा वृषम् । संस्नाप्य वारुणैर्मन्त्रैर्भूषयित्वा प्रवेशयेत् ।। ९५ ।। चतुरश्रराशिलां कृत्वा त्रयंगुलाधार मेखलाः । चतुरश्रेण लिङ्गस्य समसूत्रेण सूत्रिताम् ।। ९६ ।। सुदृढां निस्तृणां शुद्धां द्वादशांकुलमुच्छ्रिताम् । सहोमा निहितां श्लिष्टां सुस्थिरां समसूत्रिताम् ।। ९७ ।। संप्रोक्ष्या यतनं मन्त्री मन्त्र पूतेन वारिणा । ब्रह्ममध्ये शिलां न्यस्य विधानोक्तं ततः कुरु ।। ९८ ।। सौवर्णां तादृशीं कृत्वा कुर्मं पृष्ठे निधापयेत् । या तव सर्व बीजानि रत्नानि च पुनः क्रमात् ।। ९९ ।। ततः शिलां प्रतिष्ठाप्य तस्या मध्ये यथा विधि । तत्र शक्तिं न्यसेद् विद्वान् अंकुरांकुरसन्निभाम् ।। १०० ।। हरितालं तु पूर्वेणाग्नेययां तु मनःशिलाम् । यान्याधामं जनं दद्यान्नैर्-ऋत्यं हेममाक्षिकम् ।। १०१ ।। विमलकं तु वारुण्यां वायव्यां परतं न्यसेत् । कासीसमुत्तरे दद्यादीशान्यां रोचनां न्यसेत् ।। १०२ ।। गैरिकावा विधातव्या ब्रह्मस्थाने विचक्षणैः । पवित्रा सर्वमङ्गल्या ज्ञेयाः पुष्ठिकराः स्मृताः ।। १०३ ।। प्. ११९) व्रीहींश्च गर्भ षष्ठिंश्चैन्द्रा दिशि नियोजयेत् । माषांश्चैव कुलुत्थांश्चाग्नेययां दिशि योजयेत् ।। १०४ ।। मुद्गांश्च चणकांश्चैव याम्यायां तु नियोजयेत् । तिलान् कृष्णातलांश्चैव नैर्-ऋत्यां दिशि योजयेत् ।। १०५ ।। गोधूमांश्च यवांश्चैव वारुण्यां दिशि योजयेत् । प्रियंगवश्च श्यामाकान् सौम्यायां दिशि योजयेत् ।। १०६ ।। ऐशान्यां सर्वधान्यानि दद्यात् पुष्टिकराणि तु । धातवः सर्वबीजानि ब्रह्मस्थाने नियोजयेत् ।। १०७ ।। भूयोपि पूर्वतो व्रीहि निष्पावं दक्षिनेन तु । पश्चिमेन यवान् दद्यात् उत्तरेण प्रियंगवः ।। १०८ ।। बीजगाढं न कुर्वीत मंगलार्थं नियोजयेत् । विपरीतानि बीजानि यदालिङ्गस्य पादयेत् ।। १०९ ।। ततो दोषा निवर्तन्ते व्याधयश्च भयानि च । ऐन्द्रां तु पादयेद् वज्रं सूर्यकान्तं तु व * तः ।। ११० ।। इन्द्रनीलं तु याम्यायां वैडूर्यान्नैर्-ऋते दिशि । शंखश्चैव तु वारुण्यां वायव्यां पुष्परागकम् ।। १११ ।। मरतकं तु कौवेर्यांमैन्यो मौक्तिकं न्यसेत् । ब्रह्मस्थाने ब्रह्ममणी वासुकेरमृतं मणिम् ।। ११२ ।। लोताक्षोयत साध्यानां विश्वेभ्यः पुलको मणिः । सौम्ये शानयोर्मध्ये चन्द्रकन्तु प्रदापयेत् ।। ११३ ।। प्. १२०) अलाभात् सर्व धातूनां हरितालं तु दापयेत् । अलाभात् सर्वबीजानां धवबीजं प्रदापयेत् ।। ११४ ।। अलाभात्सर्व रत्नानां वज्रमेकं तु दापयेत् । अलाभात् सर्व लोहानां स्वर्णमेकं तु दापयेत् ।। ११५ ।। यथास्थानेषु तैर्वतैर्विधि प्राप्नोति दुष्कलम् । किञ्चिच्च पुष्पधूपाणि यवभूते नियोजयेत् ।। ११६ ।। धूपं दत्वा पुनश्चैव पश्चाल्लिंगन्तु स्थापयेत् । मध्यावलंबनं कृत्वा तेन सूत्रेण तत्ववित् ।। ११७ ।। निश्शब्द नियतं शान्तं स्थितलिङ्गं स चालयेत् । नमः सर्वात्मकायेति लिखाधः वायसेन तु ।। ११८ ।। पीतवर्णामतो भागे चतुरश्रे पितामहम् । अतसी पुष्प संकाशं मध्ये तु पुरुषोत्तमम् ।। ११९ ।। वृत्तभागे न्यसेद्रुद्रं शुद्धकुन्देन्दु समप्रभम् । तत्रैव देवतास्सर्वा अर्चा भाग समाश्रिताः ।। १२० ।। यदाद्यमैश्वरं तेजः सर्वदेवमयं च तत् । पिण्ड भूतं च तत्वानां ततोज्ञो लिङ्गमुच्यते ।। १२१ ।। इमां भूतं विजानीयात् शुद्ध काञ्चन समप्रभम् । गणमातांबिकां पुण्या धात्री योगीश्वरी पुरा ।। १२२ ।। धर्मादि चरणं न्यस्य ततः पीठं नियोजयेत् । प्रणवेन विधानज्ञो अर्चान्यत् पूर्व चोदितम् ।। १२३ ।। प्. १२१) प्रणवं सर्वदेवत्यं विज्ञेयं परमात्यतः । सञ्चिन्त्य देवता रूपं यद्विकल्पत्ति तद्भवेत् ।। १२४ ।। ऐन्द्र वारुण कौबेर्येरास्वन्यस्यां दिशि षण्मुख । स्थापितच्च पते लिङ्गं तच्छान्तिं तत्र कारयेत् ।। १२५ ।। सा एव देवता याज्ञ्य पञ्चाङ्गकृत लक्षणाः । होमं कुर्यात् तु तत्रैव दद्याद् गो मिथुनं ततः ।। १२६ ।। ततस्तु देवदेवेशं शिवं परमकारणम् । पूर्वोक्तेन विधानेन लिङ्गेग्नौ संप्रपूजयेत् ।। १२७ ।। पूजां गृह्णानि लिङ्गस्थो वह्निस्थो वा परा हुतिम् । आचार्य मूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति ।। १२८ ।। आचार्यस्यापि मन्त्रस्य शिवज्ञान शिवस्य च । नानात्वं नैव कुर्वीति विद्याविद्येश्वरादयः ।। १२९ ।। शिवज्ञान समायुक्त आचार्यो मन्त्र विग्रही । सर्वमूर्ति धरो नित्यं शिवमन्त्रं प्रपूजयेत् ।। १३० ।। अस्त्रं चैव तु पीठस्यात् लोकेशासन्मूलमाश्रितान् । गणेशान् लिङ्गमध्यस्यात् पूजयीत यथा क्रमम् ।। १३१ ।। विद्येश्वरान्तदूर्ध्वन्तु चक्रवत्परिसंस्थितान् । ऊर्ध्वाधश्शक्ति संलीनात् पूजयित्वा विधानवित् ।। १३२ ।। शक्तिस्थं ब्रह्मभिर्युक्तं शिवाङ्गैः परिपारितम् । शिवं विश्वेश्वरं देवं लिङ्गमूर्ध्वं निपूजयेत् ।। १३३ ।। लिंगं प्रक्षाल्य शास्त्रेण शिवास्त्रं यत्प्रकीर्तितम् । प्. १२२) रुद्ररुपध विघ्ना तेन प्रोत्सारितास्तुते ।। १३४ ।। पीठं प्रक्षाल्य पश्चात् तु वर्धन्यादुदकेन तु । पाशुपतेन चास्त्रेण उषारूपधराहताः ।। १३५ ।। एवं प्रोत्सारणं कृत्वा विघ्नानां विविधं बुधः । ततोर्ध्वानं प्रकुर्वीत शिवस्य परमात्मनः ।। १३६ ।। अर्चयित्वा विधानेन यथा पूजां विसर्जयेत् । अभ्यर्च्य पञ्चभिर्ब्रह्मैश्चण्डेशाय निवेदयेत् ।। १३७ ।। धुनि चण्डेश्वरायेति हुं फट् स्वाहेत्यनुक्रमात् । करेण दक्षिणे नैव निर्माल्यं सततं बुधः ।। १३८ ।। वां महास्तेन मन्त्रज्ञ स्रुजं गृह्य विचक्षणः । नश्रन्य मस्तकं लिङ्गं कृत्वा तिष्ठेत् साधकः ।। १३९ ।। न चास्य भ्रूम यद्धस्तादुपरिष्ठान् कदाचन । तर्जन्या तर्जयेद् विघ्नान् सान्निध्यं लिङ्गमुद्रया ।। १४० ।। निरोधे निष्ठुरा कुर्यात् स्नानकाले विचक्षणः । संप्रक्षाल्य करौ मन्त्री स्पृष्ट्वा लिंगं पुनः पुनः ।। १४१ ।। सक्तोथ क्षालयेद्गात्रं स्नानमूर्ध्वं समाचरेत् । इति श्रीसर्वज्ञानोत्तरे प्रतिष्ठाप्रकरणम् ।। गन्धे क्षीणे यथा लिङ्गे वर्तुमानं तु कारयेत् । चालयित्वा तु तत्स्थानात् पृष्ठदेशे निधापयेत् ।। १ ।। शैले निलयेश्छैलं दाखे दाखं तथा । प्. १२३) मृण्मये मृण्मयं चैव रत्ने रत्नं नियोजयेत् ।। २ ।। सुवर्णेन तु संधाय घृतेन मधुना सह । पूर्वोक्तेन विधानेन प्रयत्नेन तु स्थापयेत् ।। ३ ।। एवं तु तेन धत्तेन विधिज्ञो विधि सत्तमः । रक्षो भूत पीशाचाश्च आश्रयं निविगर्हितम् ।। ४ ।। अत्युच्चं वा प्रमाणस्थं विषमस्थां समं कुरु । निमुस्तं बोध्न तं कुर्याद् वारार्थं न व्यतिक्रमेत् ।। ५ ।। न चैव वेधनं कुर्यारदेशस्य षण्मुख । याम्यां वा पश्चिमां वापि सूत्रमेकं परित्यजेत् ।। ६ ।। अथ बाह्यात् क्रमे सूत्रमीशानं सार्वद्वारिकम् । शास्त्रोक्तं विधिमुत्सृज्य भक्तियुक्तोपि मानवः ।। ७ ।। सुस्थितं दुःस्थितं वापि शिवलिङ्गं न चालयेत् । शास्त्रोपदिष्टमार्गेण घृ * नाहुतिभिः क्रमात् ।। ८ ।। शतेन स्थापयेल्लिङ्गं सहस्रेण तु चालयेत् । दुद्धरेद्वापि पूर्व * * * सूत्रेण मन्त्रवित् ।। ८ ।। अत्राम्बु पञ्चगव्येन धारणाभिर्विशोधयेत् । दधि क्षीर घृतैः स्नाप्य ततोलिंगं विरुक्षयेत् ।। १० ।। यवगोधुमजैश्चूर्णैः कषाग्नैर्गन्धयोजितैः । त्वक् भिश्च विविधैर्मद्धैः क्षीरवृक्षसमुद्भवैः ।। ११ ।। आभिः क्षीरकुशाग्रैश्च मद्ध्य क्षत तिलेस्सह । यवैः सिद्धार्थकैःर्युक्तं पश्चादर्घ्यं प्रदापयेत् ।। १२ ।। ततो गन्धैश्च पुष्पैश्च धूपवस्त्रविभूषणैः । भक्ष्य भोज्यान्न पानादि द्यैश्चिन्तयेद्बिन्दुमीश्वरम् ।। १३ ।। प्. १२४) यद्यद् द्रव्यं निषेधं स्यात् तन्मयं तत्र चिन्तयेत् । शक्तियुक्तं परं देव मया भृतं षडानन ।। १४ ।। यो द्यो वासौ सदा देव सर्वदः सर्व कामिकः । सर्वज्ञः सर्वगश्शान्तो मूक्तो मूक्तो निरामयः ।। १५ ।। युक्तानि शक्तिमन्त्रेण सर्वद्रव्याणि षण्मुख । मेद्ध्यानि तु भंतिहतस्मात् सर्वत्र योजयेत् ।। १६ ।। शिरस्थाने तु देवस्याचार्यो होममाचरेत् । शिवस्य शिवमन्त्रेण सहस्र परिसंख्यया ।। १७ ।। ब्रह्मभिश्च शिवांगैश्च यथास्थानेष्वनुक्रमात् । तस्यार्थेन बहिः पश्चात् मूर्ति होमं समाचरेत् ।। १८ ।। विद्येश्वर गणैर्मन्त्रैर्लोकपालैस्तथैव च । यथास्थानेषु पञ्चाङ्गैः मूर्ति होम परः स्मृतः ।। १९ ।। अथवा सर्वमन्त्राणां यथा पूर्वमुदाहृतम् । शिवस्य शिवयागे तु तथाग्नौ तर्पयेत् सदा ।। २० ।। पृथक् पृथक् पदा स्कन्द व्या * * * स्य देवताः । तथा पञ्चां संयुक्ताः स्वमन्त्रविधि कल्पिताः ।। २१ ।। अथाभ्यर्च महेशानं लिङ्गेग्नौ स्थंडिलेपि वा । तदेक मन्त्रमन्त्रास्तु ध्येया सर्वांग युताः ।। २२ ।। एवमिष्ट्वा यथान्यायं ततो दद्याद् दिशा बलिम् । इष्ट्वा चण्डेश्वरं देवा गुरुं च संप्रपूजयेत् ।। २३ ।। प्. १२५) गन्ध पुष्प पवित्राद्यैर्वस्त्रालंकार वाहनैः । ग्रामखेट पुरे वापि यथा विभवविस्तरैः ।। २४ ।। वित्तशाठ्यं न कुर्वीत महापुण्य जिगीर्षया । सर्वान् कामानवाप्नोति यथोक्तेन तु कर्मणा ।। २५ ।। सर्वयज्ञतपोदान सर्वतीर्थेषु यत्फलम् । तत्फलं कोटिगुणितं स्थाप्य लिंगं लभेन्नरः ।। २६ ।। यो लिङ्गं स्थापयेदेवं विधि पूर्वं सदक्षिणः । सर्वागमोदितं पुण्यं कोटि कोटि गुणं लभेत् ।। २७ ।। पिस्तृजं मातृजं वापि यतवोद्गहते स्त्रिधाम् । कुलैकविंशमुत्तार्य ततो गछतु परां गतिम् ।। २८ ।। अज्ञात्वा विधिवच्छास्त्रं कुरुते यस्तु लोभतः । कर्तारञ्च तथात्मानं इहामुत्र विनाशयेत् ।। २९ ।। तस्मात् सर्व प्रयत्नेन विधिवत् कारयेद् बुधः । कर्ताकारयिता चैव ततो याति परां गतिम् ।। ३० ।। इति श्रीसर्वज्ञानोत्तरे जीर्णोद्धारप्रकरणम् ।। चालय मानेषु लिङ्गेषु विधिरेषु प्रकीर्तिता । अचलेषु समाख्याहि तत्वतः प्रतिमासु च ।। १ ।। अतत्वज्ञे चल लिंगं स्थापितं तु * दा भवेत् । स्थपत्या वा यवान्येन तस्य कालो(?) विधिः स्मृतः ।। २ ।। सौवर्णं राजतं ताम्रं कर्तुं वा शैल मृण्मयम् । प्. १२६) स पीठं निर्मितं लिंगं धधन्यदचलं भवेत् ।। ३ ।। अस्त्राम्बु पञ्चगव्येन धारणादिभिर्विशोधयेत् । स्थापयेत् सर्व बीजैस्तु प्लुतैर्बिन्दु विभूषणैः ।। ४ ।। ध्यानेन देवता पीठं यातु बीजं सरत्नकम् । पूर्वोक्तेन विधानेन प्रणवेन तु सा स्मरेत् ।। ५ ।। इन्द्रश्च पावकश्चैव यम नि-ऋ-ऋति एव च । जलवायु कुबेरेश ब्रह्मानन्दाश्च देवताः ।। ६ ।। पृथिव्यादीनि गन्धान्तं ब्रह्मवेद्यां प्रकल्पयेत् । धारिका मूर्ध्नि वेद्या तु धर्मादि चरणान्न्यसेत् ।। ७ ।। तानि चैव निबंधानि गुणैरन्योन्य वर्तिभिः । चतस्त्रो गात्रकां कृत्वा रागाद्य वरणादिषु ।। ८ ।। अथोर्ध्व चन्दने भूयो माया विद्ये प्रकल्पयेत् । वा त्वा लिङ्गं तु तन्मध्ये शिवान्तं वाथ चिन्तयेत् ।। ९ ।। विशुद्धि रश्मि निर्भासं सूर्यकोटि समप्रभम् । आधारं सर्वदेवानां भक्तिमुक्ति फलप्रदम् ।। १० ।। तस्य मूर्ध्नि सितं पद्मं तल्लिनं चारु कार्णिकम् ।। ११ ।। चारुकेसरपर्यन्तं अष्टपत्रं मनोरमम् । लिङ्गमेवं सदा कल्प्य ततः संस्थापयेच्छिवम् ।। १२ ।। पूर्वोक्तेन विधानेन पूजयेच्च यथा क्रमम् । स्वाहा स्वधा वषट्कारैः वषट् कारेण चैव हि ।। १३ ।। प्. १२७) अभ्यर्च्य संप्रयुंजीत नेत्र वक्त्राणि चैव हि । अभ्यर्च्य संप्रयुंजीत धूपं भक्ष्यादिभिः क्रमात् ।। १४ ।। अग्निस्थस्यावि देवस्य गन्धपुष्पपवित्रकैः । वस्त्रेषु चार्घ्य पात्रेषु नमस्कारोपि धीयते ।। १५ ।। सर्वलिंगे स्वयं स्कन्द विधिरुक्तः समासतः । प्रयत्नेन तु कर्तव्यः प्रतिमासु निबोधमे ।। १६ ।। प्रतिमां लक्षणोपेतां विचित्र लेप्यां तथेतराम् । यादृशं देवतारूपं तादृग्रूपं तु कारयेत् ।। १७ ।। अस्त्राम्बु पञ्चगव्याद्यैः स्नानं पूर्ववदाचरेत् । तथा च भूत संशुद्धिं धारणाभिः समाचरेत् ।। १८ ।। सौम्येन देवता स्थाप्य प्रथमेन षडानन । ततोङ्गानि नियुंजीत नेत्र वक्त्राणि चैव हि ।। १९ ।। संचिन्त्य देवता रूपं शुद्धाव * व लक्षणम् । प्रसन्न वदनं सौम्यं सर्वालंकार भूषितम् ।। २० ।। हृदा तु गन्धपुष्पाणि वस्त्राण्याभरणानि च । धूपोपहार द्रव्याणि दीपानि स्वकीयेन नियोजयेत् ।। २१ ।। होमे रत्नेषु रप्येषु ताम्रशैलमयेषु च । दाखेषु च सर्वेषु सदा स्नानं विधीयते ।। २२ ।। चित्र लेप्येषु वैद्यानां तस्यानन्तेषु कारयेत् । पाद्यमाचमनं चार्घ्यं सर्वज्ञानेन संस्मरेत् ।। २३ ।। प्. २२८) केवलं मन्त्र विन्यास मुत्न पुष्पैर्निरंबुभिः । कृत्वा धूपं प्रयुंजीत नैवेद्यं चोप कल्पयेत् ।। २४ ।। गन्धपुष्पैस्तथा धूपैस्तद्गृहं परिवासयेत् । वस्त्र शोभां पुना कृत्वा चित्रवर्णैर्वराम्बरैः ।। २५ ।। तोरणैश्च ध्वजैश्छत्रैः पताकैश्चारु दक्षणैः । रचनाभिरनेकाभि रचित्वा देवता न्यसेत् ।। २६ ।। ततो होमं प्रकूर्वित पुरस्तात् संयतेन्द्रियः । स्थापिता देवता या तु तस्या मन्त्रैस्तु पूर्ववत् ।। २७ ।। स्थापने सर्वदेवानां पुरस्ताद्धोममाचरेत् । सततं अग्नि कार्येषु अगारं पृथग् भवेत् ।। २८ ।। प्रतिदेवं प्रतिष्ठायां * * * * * * * * । इति सर्वज्ञानोत्तरे प्रतिमादिप्रकरणं ।। पुनरेवं प्रवक्ष्यामि जपस्य विधिनिर्णयम् । यथा च विन्दते कालमाप्यायन विसर्जनम् ।। १ ।। जपाद् दशांशतो होमे जपान्ते दशलाक्षिकः । कोटिः कल्पेदिता वत्स उत्तमा सिद्धि साधने ।। २ ।। मध्यस्य तु पञ्चास्यत् कन्यसे पञ्चविंशतिः । सर्वाणि क्षुद्र कर्माणि तस्यार्थेन तु कारयेत् ।। ३ ।। दीर्घकंटकिनो वृक्षा निंबतिन्दु विभीतकाः । श्रशक्र श्लेष्मातकाश्चैव विज्ञेया क्रूरकर्मणि ।। ४ ।। प्. १२९) द्विविधाग्रा स्फुटिता वक्रा वक्रच्छेदा समिद्धयः । विषा प्रकटिकैर्लाक्षाः प्रयोज्याः क्रूरकर्मणि ।। ५ ।। उक्ताभ्यस्त्वन्यथा स्कन्द क्षीरवृक्ष समुद्भवाः । शान्ति कर्मणि विज्ञेयास्त्यक्त्वा वा ब्रह्मवृक्षजा ।। ६ ।। लता पल्लवमध्यस्था ग्रन्थि हीनाः समत्वचः । नीरुजा निर्व्रणाश्शान्त क्रूरेष्वेता विलोमिकाः ।। ७ ।। विषमाश्रास्सदा कुंड विज्ञेयाः क्रूर कर्मसु । समाश्राः शान्तिके कर्षै पौष्टिके च षडानन ।। ८ ।। सा भाग्यमर्थ संसिद्धिं नित्य होमात् प्रवर्तते । जपेन पाप संशुद्धिं ज्ञानध्यानात् प्रमुच्यते ।। ९ ।। विशिष्टजन संपादो नरेन्द्रजन वन्दनम् । आत्मोत्कर्षबलं चैव यदि स्यात् सिध्यते ध्रुवम् ।। १० ।। दिव्यान्तरिक्ष भौमानि सिद्धि लिंगानि पश्यति । अथवाभ्यन्तरे वाचं श्रुत्वा भूष्याणि संहरेत् ।। ११ ।। पुष्पलोहादि लोहानि रसं चोपरसानि च । उपवीतां जनादीनि अरिताल मनःशिलाम् ।। १२ ।। अरिवर्गाहतं लोहं घृतमध्वानि वेधयेत् । प्रहिरसे पञ्चगव्येतीतः कुर्याद्वरायुधम् ।। १३ ।। रसं चोपरसं चैव पीत सूर्म्येण शोधयेत् । होमान्तरादि शुल्पानां शोधनं पूर्वचोदितम् ।। १४ ।। प्. १३०) यद्यस्य शोधनं द्रव्य मूलतन्त्रैः प्रकीर्तितम् । रसतन्त्रे तथा भूयस्तत्तन्नैव विशोधयेत् ।। १५ ।। अक्ष सूत्र विधानेन द्रव्यालभन मालभेत् । कथितं तु पुरावत्स स्त्रिविध द्रव्य साधनम् ।। १६ ।। उत्तमं मध्यमं चैव कन्यसं च यथा क्रमम् । सात्विकं राजसं चैव तामसं चेति तत्स्मृतम् ।। १७ ।। ज्वलन्तं सात्विकं विद्यात् सधूमं राजसं स्मृतम् । सोष्णं वै तामसं विद्यात् * दद्रव्य विचक्षणः ।। ८ ।। उत्तिष्ठं ज्वलमानेन सधूमेन सुरांगना । सोष्माणो दृश्यतां याति इति तो त्रिविधा गतिः ।। १९ ।। बीजमन्त्रं तदा ध्यानमात्मानञ्च विधानवित् । बिन्दुमध्यगतं कुर्याच्छक्त्याधिष्ठित विग्रहम् ।। २० ।। रसो रसायनं रोगो गणिकां जन पादुके । एव मुक्तनिबिध्यन्ते हरिताल मनःशिले ।। २१ ।। बिन्दु नाद मयो यो योत्रगीयदा भवति षण्मुख । तदाशु सर्व कार्याणि संसाययति नान्यथा ।। २२ ।। सितशान्तितरोज्ञेयः पीतः पौष्टिक कर्मणि । शिख्यवन्मारणे प्रोक्ता व्यायव्योच्चाटने स्मृतः ।। २३ ।। ऐंद्रकोपक संकाशो वशीकरण कर्मणि । विद्वेषणे प्रयुंजीत धूमवर्णो निलात्मकः ।। २४ ।। प्. १३१) इन्द्रायुध समाकारं तथैवा कर्षणे मनम् । सर्वा वर्णात्मको बिन्दुः सर्व कर्म करः स्मृतः ।। २५ ।। भ्रुवोर्मध्यगतं चैव षट्च्छदनेन यो । शुद्धस्फटिक संकाशं पश्यते करणेन तु ।। २६ ।। निश्वासो श्वास योगेन देहिनां देह संस्थितः । उदितो भास्करो भूत्वा सोमश्चै * कलात्मकः ।। २७ ।। स एव कालो नाद्यन्तो यस्मिन् सर्वं प्रतिष्ठितम् । विशते च पुनस्तस्मिन् तस्माच्चैव प्रवर्तते ।। २८ ।। दक्षिणे प्राणवृत्तिस्तु * त्युमाख्याति देहिनाम् । उत्तरेण तथैवेह * य च पुनरीश्वरम् ।। २९ ।। त्रैरब्दिक महो * * * भ्यां ज्ञेया द्विराब्दिकम् । अभिरे * तथा * * हे * नाहाय पाडिकम् ।। ३० ।। अ * र्ध्व * * * * मौ यदा चरति भास्करः । तदा होरात्रिकं मृत्युं पुनराख्याहि देहिनाम् ।। ३१ ।। मृत्युमेवं विधं दृष्ट्वा यदि जीवितु मिच्छति । तदाऽसौ सौम्य नाथस्थं तमेव परिचिन्तयेत् ।। ३२ ।। शुद्धकुन्देन्दु वर्णाभां शङ्खगोक्षीर सप्रभम् । अमृतीरूपमात्मानं तन्मध्ये तन्मयं गुह ।। ३३ ।। अथ चावर्ण पूर्वं वाऽमृता परिकीर्तिताः । तामेव धारयेन्नित्यं न मृत्यु वशगो भवेत् ।। ३४ ।। प्. १३२) दूर्वां त्रिमधुरक्तां वा अमृताद्व्यंगुला तथा । जुहुधा त्रिमधुरक्तां वा प्लुतेन विद्यते ।। ३५ ।। अथ निर्वेद मायानि जीविते वस्थिरे चले । कालात्मकं तदा देवं मृत्युरूपं विचिन्तयेत् ।। ३६ ।। वह्निना मूर्ति संभिन्नं सुषुम्ना मध्य संस्थितम् । ज्वलज्ज्वलन संकाशं दीप्ततेज शिखार्चितम् ।। ३७ ।। उत्कृष्य मूर्ध्नि शब्देन प्राणास्तत्समतां नयेत् । काला जु * समाधाय मनसा निश्चलेन्द्रियः ।। ३८ ।। निष्पद्य स्पन्दनौ सम्यक् सर्वद्वाराणि चैव हि । सन्ताड्या वायुवेगेन क्षुरिकास्त्रेण मूर्धनि ।। ३९ ।। अ * श भावनायुक्तो बिन्दुनाद मयं स्मरेत् । एवं विमुच्यते प्राणैः तस्मिन्नेव प्रकी * ते ।। ४० ।। बिन्दुनादोद्भवं सर्वं स्थूल सूक्ष्म * * * * । तस्माद्बिन्दुमुपासीत शक्तिस्नरस * * * ।। ४१ ।। यथा तु चित्त सम्पन्नश्चरुभस्थ तं भवेत् । वित्तहीनं चरेद् भिक्षां कणपत्वां न कीमथ ।। ४२ ।। इति सर्वज्ञानोत्तरे सिद्धिसाधकादिप्रकरणम् ।। अतः परं प्रवक्ष्यामि भिक्षा चर्या विधिक्रमम् । भोजनं शयनं शौचमायामञ्च जपाश्रयम् ।। १ ।। हृदिना ग्रहणं कुर्यात् पात्रस्य सततं बुधः । प्. १३३) क्षालयित्वास्त्र बीजेन कवचेन तु वेष्टयेत् ।। २ ।। ईशानं चिन्तयन् मध्ये गायत्रास्त्रं च मन्त्रवित् । अस्त्रं तु जपतो नित्यं भिक्षामावयेच्छुचिः ।। ३ ।। अस्त्र दण्डे तु विन्यस्य छत्रे गायत्रिमेव तु । ततो भिक्षामटेन्नित्यं पतिता शस्तवर्जिताम् ।। ४ ।। आगत्य तत्पुनः पात्रं शुद्धि स्थाने निधापयेत् । संगृह्य मूर्तिकां भूयो जंघा शौचं तु कारयेत् ।। ५ ।। आचम्योद्धुल्य पूतात्मा पुनरभ्युक्षयेच्चरुम् । शोधयित्वा विधानेन देवाग्न्यात्मनि कल्पयेत् ।। ६ ।। अथ प्राणाहुतिं दत्वा शिवहोमं पुनः क्रमात् । स्निग्धमल्पं च भुञ्जीत भविष्य शीतलं निशि ।। ५ ।। आचम्य बहिः निष्क्रान्तो भक्षयेदं तथा वनः । उद्धूल्य पुनराचम्य * यीत विधिना ततः ।। ८ ।। त्रिहस्तोत्खात भूशयये शुचि शुद्धे महीतले । सर्वलक्षणसंपूर्णो पुनरा कृत्वा जपालयम् ।। ९ ।। वितानध्वज संयुक्तं पताकै रूप शोभितम् । रुद्रावतार क्रिडाद्यैश्चित्र कर्म विभूषितम् ।। १० ।। नवैकादश हस्तं वा सप्तहस्तमथापि वा । प्रागुत कल्पकनं कुर्याच्छयनं च सदा बुधः ।। ११ ।। पञ्चरंगित सूत्रेण वर्मालब्धो * मन्त्रवित् । द्वार देशादारभ्य वेष्टयेत् त्रिगुणेन तु ।। १२ ।। प्. १३४) रत्निमात्रां स्थितः कीला नष्टौ दिग्देवतान्वितान् । अंगान् स्वस्थान् विन्यस्थान् पूजयित्वा यथा क्रमात् ।। १३ ।। चतुरः कलशान् पूर्णान् विदिशासु निवेशयेत् । शिवस्थाने यजेद् रुद्रं प * ध्यानेन वा गुह ।। १४ ।। दीप्ततेजोनिल प्रख्यं दंष्ट्रोत्कटभयानकम् । शस्त्रोद्यतकरं घोरं सर्वविघ्न विनाशनम् ।। १५ ।। ततः शक्तिं न्यसेद् भूमौ विद्यां तत्रोपरिन्यसेत् । स्वरचक्रं ततो दद्याद् वर्णानि च यथाक्रमम् ।। १६ ।। पूर्ववन्मन्त्र देहस्तु प्राकारास्त्रैः सुगोपितम् । शयीतमनसा योगी शिवं पश्येत् समं ततः ।। १७ ।। तमेव जपतो नित्यं ध्यानमाश्रित्य मन्त्रवित् । अर्धरात्रे तु सवने तथैव समुपासयेत् ।। १८ ।। शयनं च तथा भूय प्रबुधस्य तथा जपः । गतिं देवस्य विज्ञाय जपध्यानादिकं क्रमात् ।। १९ ।। प्रहरार्धे ततोत्थाय ध्यात्वा देवं पिनाकिनम् । मनसा वर्तयेत् तं तु प्रणवं बिन्दु वर्जितम् ।। २० ।। निर्गत्य शयनं स्थानात् आवश्यकरणं कुरु । बहिरंगो पवीती च दृष्टिदूत पदक्रमी ।। १२ ।। दिवैवोद मुखस्तिष्थे छात्रो वै दक्षिणमुखः । अर्धरात्रे तु नैर्-ऋत्ये द्वे सन्ध्ये तु यथा दिवा ।। २२ ।। प्. १३५) काष्ठितृणोपलं लोष्ठं वांत ध्यानं षडानन । ततो मलं प्रकुर्वीत वस्त्रतश्चावकुंठितः ।। २३ ।। न नदीषु कुर्यान्न भस्मनि न गोमये । न गुल्मे शाद्वले प्रश्मेशानोप वनेषु च ।। २४ ।। काष्ठेन दावा रामृश्य पायुं लोष्ठेन वा गुह । ग्रहीतशिग्नो भूत्वा तु मृत्तिका हरणं कुरु ।। २५ ।। बालुकोषर संवर्ज्य वृक्ष मूल जलाये * । वल्मीक मृत्तिकां चैव तथा वै ग्रामयानिकाम् ।। २६ ।। विशुद्धं मृत्तिकां गृह्य जयतीरे निधापयेत् । ततः शौचं प्रकुर्वीत मृत्तिकां गृह्य वारिणाम् ।। २७ ।। लिङ्गे त्रीणि गुदे सप्त दशैक करे स्मृतः । उभयोः सप्ततातप्य मृत्तिका शुद्धिमिच्छता ।। २८ ।। एकैकमन्तरे त्रीणि एव शौचं कृतं भवेत् । दन्त काष्ठं ततो मन्त्री भक्षयेदभिमन्त्रितम् ।। २९ ।। आचम्य विधिनोत्थाय पुनरुद्धुलयेत् क्रमात् । पश्चाद्योजं ध्यानं यावदभ्युदितो रधिः ।। ३० ।। ततः स्नानं प्रकुर्वीत सकृत् विततवारिणि । अथोर्ध्वं भस्मना स्नानं सर्वकाम समृद्धये ।। ३१ ।। लेप गन्ध विनाशाय वारुणं परिकीर्तितम् । इति श्रीसर्वज्ञानोत्तरे भिक्षाचर्यादिप्रकरणम् ।। प्. १३६) अथातः संप्रवक्ष्यामि वारुणं स्नानमुत्तमम् । सावनं परमं स्कन्द लेप गन्ध विनाशनम् ।। १ ।। पाणिपादौ पुरःक्षाल्य मृत्तिकां गृह्य वारुणी । उपस्पृश्य शुचिर्भूत्वा शिवं ध्यायेत् स निर्मलम् ।। २ ।। अस्त्रेण प्रोक्षणं कुर्यात् मृत्तिका हरणं कुरु । मनयितास्त्र बीजेन हृदयेन तु संहरेत् ।। ३ ।। जलतीरे निधायै तत् क्षालयित्वा जलाश्रयम् । अस्त्रेण क्षालयेत् पूर्वं स्थापयेद्धृदयेन तु ।। ४ ।। ते नैवाभ्युक्षणं भूयस्ततो भागत्रयं पुनः । पूर्वदक्षिणे नैव तथा चैवोत्तरेण तु ।। ५ ।। अस्त्र जप्तं भवेत् पूर्वं ब्रह्म जप्तं तु दक्षिणं । उत्तरं शिव जप्तं तु प्रकुर्वीत पृथक् पृथक् ।। ६ ।। अस्त्र जप्तं क्षिपेद् दिक्षु दशस्वपि यथाक्रमम् । नाराचास्त्र प्रयोगेण तोय मध्ये पुनः क्षिपेत् ।। ७ ।। आग्नेयी धारणा ध्यात्वा पुनरमृतं विचिन्तयेत् । शिवजप्तेन भागेन ततोभ्यावर्तयेज्जले ।। ८ ।। शिवतीर्थं भवेदेवं विधिनानेन षण्मुख । अत्र ग्रन्थ पातः ।। प्. १३७) सर्वज्ञानोत्तरपादम् जंघे पादे तथा हस्ते प्रक्षाल्य तु पुनः पुनः । कंथयित्वा ततः स्नायात् शिवतीर्थस्य मध्यतः ।। १ ।। चक्रवत्युपचारेण सुगन्धामलकादिभिः । ब्रह्माङ्गैः शिव गायत्र्या महास्त्रेण शिवेन च ।। २ ।। अभिषेकं प्रकुर्वीत सन्ध्योपासनमेव च । संहृत्यसर्वमन्त्राणि निनादेन विधानवित् ।। ३ ।। आकृष्योदितमार्गेण स्थापयीत हृदिस्वके । तत आयतनं गच्छेत् पुष्पहस्तो विचक्षणः ।। ४ ।। यदा तु रोगादिना वारुण स्नान शक्तस्तदा प्रक्षाल्य । पाणि पादौ तु भस्मस्नानं समाचरेत् ।। ५ ।। इति श्रीसर्वज्ञानोत्तरे वारुणस्नानप्रकरणम् ।। भस्मस्नानं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् । सर्वज्ञा * त्तोमं पुण्यं सर्वपापहरं परम् ।। ६ ।। ख संस्थं गोमयं गृह्य स्थाने वा पतितं शुभे । अधः परिसन्त्यज्य पञ्चगव्येन मर्दयेत् ।। ७ ।। विविक्ते निर्जने रम्ये सर्वोपद्रव वर्जिते । प्रक्षवल्मीक निर्मुक्ते प्रवाते परिशोषयेत् ।। ८ ।। शुष्कं संहरेत् प्राज्ञः अस्त्रबीजेन प्रोक्षयेत् । शिवाग्निं जनयित्वा तु निर्दहेत् तेन वह्निना ।। ९ ।। अथ संक्षेपतः स्कन्द आरण्य गोमयं पुनः । पञ्चगव्येन संयुक्तं विधानेन तु निर्दहेत् ।। १० ।। प्. १३८) तस्याप्य संभवेभस्म लेप गन्ध विवर्जितम् । शुचि स्थानाश्रितं शुद्धं तदप्येवं पुनर्दहेत् ।। ११ ।। संहृत्य हृदि मन्त्रेण नवे भाण्डे निधापयेत् । अस्त्रं तु जपतो मन्त्री सर्वविघ्नविनाशनम् ।। १२ ।। अस्त्राभिमन्त्रितं कृत्वा मलस्नानं समाचरेत् । विधिस्नानं ततः पश्चात् मूर्ध्न आरभ्य मन्त्रवित् ।। ३ ।। ब्रह्मभिस्त्वनुपूर्वेण बहिरंगैरनुक्रमात् । अभिषेकं शिवे नैव पश्चात् कूर्वित षण्मुख ।। १४ ।। उद्धूल्य विधिवत् प्राज्ञः कौपीना परिवर्तये * । प्रक्षाल्य तु मृदा पादौ करौ च पुनराचमेत् ।। १५ ।। त्रितत्व परिजप्तं तु त्रिः पिबेन् मन्त्रविज्जलम् । परिमृज्यान्मुखं शक्त्या त्रिवारं तु यथाक्रमम् ।। १६ ।। प्रणवेन ततो विद्वान् शिखानेत्रादिकं स्पृशेत् । आचम्य विधिना भूयः पितृदेवाश्च तर्पयेत् ।। १७ ।। सर्व मन्त्रैः सदा संध्यां वन्दयित्वा विचक्षणः । ततो ध्यानं प्रकुर्वित जपञ्च त्रिविधं पुनः ।। १८ ।। जपेत् षट्क त्रयं पुण्यं नित्यं मनोवाक्काय कर्मभिः । काल्ये च मध्यमे चैव प्रासादादि क्रमेण तु ।। १९ ।। सर्वेषु वा शिवं ध्यात्वा नित्यं जपध्यानेषु वा स्मरेत् । प्राणवृत्ति निरोधेन नैव पापमवाप्नुयात् ।। २० ।। प्. १३९) संहितां वा स्मरेन् नित्यं त्रिषु कालेषु मन्तवित् । शतमष्टोत्तरमक्षैस्सर्व पाप विशुद्धये ।। २१ ।। सर्व विघ्न विनाशार्थं पाशजालस्य चैव हि । अस्त्राणि घोरूपाणि सततं परिवर्तयेत् ।। २२ ।। एवं मन्त्रमयो भूत्वा सर्व मन्त्रांस्तु योजयेत् । संसाययेद्रुद्रान्मन्त्रान्योगि योगात्मकान् गुणान् ।। २३ ।। * * स्नायो यदा मन्त्री मन्त्रसाधनमारभेत् । * * हा यो योगी सिद्धिं कमण्डलु धरस्सदा ।। २४ ।। श्रीसर्वज्ञानोत्तरे भस्मस्नानप्रकरणम् ।। अतः परं प्रवक्ष्यामि कमण्डलुधरस्सदा ।। २५ ।। असहायस्य योगीन्द्र सखा ये व कमण्डलुम् । प्रज्वल्यमग्निं घोरेणास्त्रेण च विधानवित् ।। २६ ।। प्रातरुत्थाय तं नित्यं देहे देव कमण्डलुम् । ताम्रम्येन संशोध्य तथास्त्रोदक भस्मना ।। २७ ।। रौप्य हेमौ तु संशोद्ध्य लेप गन्ध मलान्वितौ । ततस्त्वा पूरयेत् पश्चाद् वस्त्रपूतेन वारिणा ।। २८ ।। पाद्यमाचमनं शौचमाचरेत् सततं क्रमात् । न किञ्चित् संस्पृशेत् तावद् यावच्छुष्कौ करावुभौ ।। २९ ।। सुशुष्क पाणि पूतात्मा व्यतिकार्यं यथोदितम् । नान्येन सेवितं वस्त्रं न शयया न कमण्डलुम् ।। ३० ।। न भस्मना कलावत्यं संसेवेत कदाचन । आत्म शययात्म वस्त्रं च जायापत्यं कमण्डलुम् ।। ३१ ।। प्. १४०) आत्मनः शुचिरेतानि परेषामशुचिर्भवेत् । श्रीसर्वज्ञानोत्तरे कमण्डलुप्रकरणं ।। इति सर्वज्ञानोत्तरपादः समाप्तः ।। </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] klue91uf73ceqygcqz615riw6s530wy