विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.8 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४९ 104 104799 417740 267829 2026-06-29T13:10:08Z Geeta g hegde 6704 417740 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ८]|center=मन्वथमुक्तावलासवालता ।|right=३१५}}</noinclude> {{gap}}एष इति ॥ एष सीमा निश्चयो धर्मो निःशेषेणोक्तः, अत ऊचं वाक्पारुष्यं वक्ष्यामि । दण्डपारुष्याद्वाक्पारुष्यप्रवृत्तेः पूर्वमभिधानम् । अनुक्रमश्रुत्यां तु 'पारुप्ये दण्डवाचिके' इति दण्डशब्दस्याल्पस्वरत्वात्पूर्वनिर्देशः ॥ २६६ ॥ {{Block center|{{bold|<poem>शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ २६७ ॥</poem>}}}} {{gap}}शतमिति ॥ द्विजस्य चौरेत्याक्षेपरूपं परुषमुक्त्वा क्षत्रियः पणशतं दण्डमर्हति । एवं सार्धशतं हे वा शते लाघवगौरवापेक्षया वैश्यः । शूद्रोऽप्येवं ब्राह्मणाकोशे ताडनादिरूपं वधमर्हति ॥ २६७ ॥ {{Block center|{{bold|<poem>पञ्चाशद्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥ २६८ ॥</poem>}}}} {{gap}}पञ्चाशदिति ॥ ब्राह्मणः क्षत्रियस्योक्तरूपाक्षेपे कृते पञ्चाशत्पणान्दण्ड्यः । वैश्ये शूद्रे च यथोक्ताकोशे कृते पञ्चविंशतिदश पणाः क्रमेण ब्राह्मणस्य दण्डः स्यात् ॥ २६८॥ {{Block center|{{bold|<poem>समवणे द्विजातीनां द्वादशैव व्यतिक्रमे । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ २६९ ॥</poem>}}}} {{gap}}समेति ॥ द्विजातीनां समानजातिविषये यथोक्ताकोशे कृत द्वादशपणो दण्डः। अवचनीयेषु पुनराक्रोशवादेषु मातृभगिन्याद्यश्लीलरूपेषु तदेवेति नपुंसकानर्देशात् 'शतं ब्राह्मणमाक्रुश्य' इत्यादि यदुक्तं तदेव द्विगुणं दण्डरूपं भवेत् ॥ २६९ ।। {{Block center|{{bold|<poem>एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः॥ २७० ॥</poem>}}}} {{gap}}एकेति ॥ शूद्रो द्विजातीपातकाभियोगिन्या वाचाक्रुश्य जिह्वाच्छेदं लभेत् । यस्मादसौ पादाख्यान्निकृष्टाङ्गाजातः ॥ २७० ॥ {{Block center|{{bold|<poem>नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः। निक्षेप्योऽयोमयः शङ्कु लन्नास्ये दशाङ्गुलः ॥ २७१ ॥</poem>}}}} {{gap}}नामेति ॥ अभिद्रोह आक्रोशः। ब्राह्मणादीनां रे त्वं यज्ञदत्त ब्राह्मणापसद इत्याक्रोशेन नामजात्यादिग्रहणं कुर्वतो लोहकीलोऽग्निना प्रदीप्तो दशाहलो मुखेषु क्षेप्तव्यः ॥ २७१ ॥ {{Block center|{{bold|<poem>धर्मोपदेशं दर्पण विप्राणामस्य कुर्वतः । तप्तमासेचयेत्तैलं वके श्रोत्रे च पार्थिवः ॥ २७२ ॥</poem>}}}} {{gap}}धर्मेति ॥ कथंचिद्धर्मलेशमवगम्यायं ते धर्मोऽनुष्ठेय इति ब्राह्मणस्याहंकारादुप- दिशतोऽस्य शूद्रस्य मुखे कर्णयोश्च ज्वलत्तैलं राजा प्रक्षेपयेत् ॥ २७२ ॥<noinclude></noinclude> kaqra3wkfm42k1g5jpjy31eye6t7v05 पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५० 104 104800 417741 267830 2026-06-29T13:15:39Z Geeta g hegde 6704 417741 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३१६|मनुस्मृतिः।|[ अध्यायः ८}}</noinclude> {{Block center|{{bold|<poem>श्रुतं देशं च जातिं च कर्म शारीरमेव च । वितथेन बुवन्दादाप्यः स्थाविशतं दमम् ॥ २७३ ॥</poem>}}}} {{gap}}श्रुतमिति ॥ समानजातिविषयमिदं दण्डलाघवान्न तु शूद्रस्य द्विजात्याक्षेपविष- यम् । न त्वयैतच्छ्रुतं, न भवान् तद्देशजातो, न तवेयं जातिर्न तव शरीरसंस्कार- मुपनयनादिकर्म कृतमित्यहंकारेण मिथ्या ब्रुवन्द्विशतं दण्डं दाप्यः स्यात् । बित- थेनेति तृतीयाविधाने 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया ॥ २७३ ॥ {{Block center|{{bold|<poem>काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि त्रुवन्दाप्यो दण्डं कापणावरम् ॥ २७४ ॥</poem>}}}} {{gap}}काणमिति ॥ एकाक्षिविकलं पादविकलमन्यमपि वा तथाविधं हम्ताङ्ग- विकलं सत्येनापि कागादिशब्देन बुवन्नत्यन्ताल्पं तदा कापणं दण्डं दाप्यः २७४ {{Block center|{{bold|<poem>मातरं पितरं जायां भ्रातरं तनयं गुरुम् । आक्षारयञ्छतं दाप्यः पन्थानं चाददगुरोः॥ २७५ ॥</poem>}}}} {{gap}}मातरमिति ॥ 'आक्षारितः क्षारितोऽभिशप्तः' इत्याभिधानिकाः । मात्रादी- पातकादिनाभिशपन् , गुरोश्च पन्थानमत्यजन्दण्ड्यः । भार्यादीनां गुरुलघुपाया- भिशापेन दण्डसाम्यं समाधेयम् । मेधातिथिस्तु आक्षारणं भेदनमित्युक्त्वा मातृपु- अपित्रादीनां परस्परभेदनकर्तुरयं दण्डविविरिति व्याख्यातवान् ॥ २७५ ॥ {{Block center|{{bold|<poem>ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यों विजानता। ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥ २७६ ॥</poem>}}}} {{gap}}ब्राह्मणेति ॥ ब्राह्मणक्षत्रियाभ्यां परस्परं पतनीयाक्रोशे कृते दण्डशास्त्रज्ञेन राज्ञा दण्डः कार्यः । दण्डमेत्र विशेषणाह-ब्राह्मण इति । ब्राह्मणे क्षत्रियाक्रोशिनि प्रथमसाहसः कार्यः । ब्राह्मणाक्रोशिनि पुनः क्षत्रिय मध्यमसाहसः ॥ २७६ ॥ {{Block center|{{bold|<poem>विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः । छेदवर्ज प्रणयनं दण्डस्येति विनिश्चयः ॥ २७७ ॥</poem>}}}} {{gap}}विडिति ॥ वैश्यशूयोरन्योन्यजातिं प्रति पतनीयाक्रोशे ब्राह्मणक्षत्रियवद्वेश्ये शूद्राक्रोशिनि प्रथमसाहसः । शूद्रे वैश्याक्रोशिनि मध्यमसाहस इत्येवंरूपं दण्डस्य प्रणयनं जिह्वाच्छेदरहितं यथावत्कर्तव्यमिति शास्त्रनिश्चयः । एवंच 'एकजातिर्द्विजातींस्तु' इति प्रागुक्तजिह्वाच्छेदो वैश्ये निवारितो ब्राह्मणक्षत्रिया- क्रोशविषय एवावतिष्ठते ॥ २७७ ॥ {{gap}}एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । {{gap}}अत ऊर्व प्रवक्ष्यामि ॥२७८॥<noinclude></noinclude> icvjtzj83uinei9cpcnmaafx7ki3hzc 417742 417741 2026-06-29T13:17:10Z Geeta g hegde 6704 417742 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३१६|मनुस्मृतिः।|[ अध्यायः ८}}</noinclude> {{Block center|{{bold|<poem>श्रुतं देशं च जातिं च कर्म शारीरमेव च । वितथेन बुवन्दादाप्यः स्थाविशतं दमम् ॥ २७३ ॥</poem>}}}} {{gap}}श्रुतमिति ॥ समानजातिविषयमिदं दण्डलाघवान्न तु शूद्रस्य द्विजात्याक्षेपविष- यम् । न त्वयैतच्छ्रुतं, न भवान् तद्देशजातो, न तवेयं जातिर्न तव शरीरसंस्कार- मुपनयनादिकर्म कृतमित्यहंकारेण मिथ्या ब्रुवन्द्विशतं दण्डं दाप्यः स्यात् । बित- थेनेति तृतीयाविधाने 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया ॥ २७३ ॥ {{Block center|{{bold|<poem>काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि त्रुवन्दाप्यो दण्डं कापणावरम् ॥ २७४ ॥</poem>}}}} {{gap}}काणमिति ॥ एकाक्षिविकलं पादविकलमन्यमपि वा तथाविधं हम्ताङ्ग- विकलं सत्येनापि कागादिशब्देन बुवन्नत्यन्ताल्पं तदा कापणं दण्डं दाप्यः २७४ {{Block center|{{bold|<poem>मातरं पितरं जायां भ्रातरं तनयं गुरुम् । आक्षारयञ्छतं दाप्यः पन्थानं चाददगुरोः॥ २७५ ॥</poem>}}}} {{gap}}मातरमिति ॥ 'आक्षारितः क्षारितोऽभिशप्तः' इत्याभिधानिकाः । मात्रादी- पातकादिनाभिशपन् , गुरोश्च पन्थानमत्यजन्दण्ड्यः । भार्यादीनां गुरुलघुपाया- भिशापेन दण्डसाम्यं समाधेयम् । मेधातिथिस्तु आक्षारणं भेदनमित्युक्त्वा मातृपु- अपित्रादीनां परस्परभेदनकर्तुरयं दण्डविविरिति व्याख्यातवान् ॥ २७५ ॥ {{Block center|{{bold|<poem>ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यों विजानता। ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥ २७६ ॥</poem>}}}} {{gap}}ब्राह्मणेति ॥ ब्राह्मणक्षत्रियाभ्यां परस्परं पतनीयाक्रोशे कृते दण्डशास्त्रज्ञेन राज्ञा दण्डः कार्यः । दण्डमेत्र विशेषणाह-ब्राह्मण इति । ब्राह्मणे क्षत्रियाक्रोशिनि प्रथमसाहसः कार्यः । ब्राह्मणाक्रोशिनि पुनः क्षत्रिय मध्यमसाहसः ॥ २७६ ॥ {{Block center|{{bold|<poem>विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः । छेदवर्ज प्रणयनं दण्डस्येति विनिश्चयः ॥ २७७ ॥</poem>}}}} {{gap}}विडिति ॥ वैश्यशूयोरन्योन्यजातिं प्रति पतनीयाक्रोशे ब्राह्मणक्षत्रियवद्वेश्ये शूद्राक्रोशिनि प्रथमसाहसः । शूद्रे वैश्याक्रोशिनि मध्यमसाहस इत्येवंरूपं दण्डस्य प्रणयनं जिह्वाच्छेदरहितं यथावत्कर्तव्यमिति शास्त्रनिश्चयः । एवंच 'एकजातिर्द्विजातींस्तु' इति प्रागुक्तजिह्वाच्छेदो वैश्ये निवारितो ब्राह्मणक्षत्रिया- क्रोशविषय एवावतिष्ठते ॥ २७७ ॥ {{gap}}एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । {{gap}}अत ऊर्व प्रवक्ष्यामि ॥२७८॥<noinclude></noinclude> r49tcx500bxoy74umsmzu3md30o3fao