विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.9 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५२ 104 104802 417759 267832 2026-07-03T12:40:12Z Geeta g hegde 6704 417759 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३१८|मनुस्मृतिः।|[ अध्यायः ८}}</noinclude> {{Block center|{{bold|<poem>वनस्पतीनां सर्वेषामुपभोगं यथायथा । तथातथा दमः कार्यों हिंसायामिति धारणा ॥ २८५ ॥</poem>}}}} {{gap}}वनस्पतीनामिति ॥ वृक्षाद्युद्भिदां सर्वेषां येन येन प्रकारेण उपभोगः फलपुष्प- पत्रादिना उत्तममध्यमरूपो भवति तथातथा हिंसायामप्युत्तमसाहसादिर्दण्डो विधेय इति निश्चयः । तथाच विष्णुः-'फलोपभोगगुमच्छेदी तूत्तमं साहसं, पुप्पोपभोगगुमच्छेदी मध्यमं, वल्लीगुल्मलताच्छेदीकापणशतं, तृणच्छेद्येकं कार्पा- पणं च पण एव मनुनाप्युक्तो वेदितव्यः ॥ २८५ ॥ {{Block center|{{bold|<poem>मनुष्याणां पशूनां च दुःखाय प्रहृते सति । यथायथा महदुःखं दण्डं कुर्यात्तथातथा ॥ २८६ ॥</poem>}}}} {{gap}}मनुष्याणामिति ॥ मनुष्याणां पशूनां पीडोत्पादनार्थ प्रहारे कृते सति यथायथा पीडाधिक्यं तथातथा दण्डमप्यधिकं कुर्यात् । एवंच मर्मस्थानादौ त्वम्भेदनादिषु कृतेषु 'स्वरभेदकः शतं दण्ड्यः' इन्युक्ताइप्यधिको दण्डो दुःखविशेषापेक्षया कर्तव्यः ॥२८६॥ {{Block center|{{bold|<poem>अङ्गावपीडनायां च व्रणशोणितयोस्तथा । समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ॥ २८७ ॥</poem>}}}} {{gap}}अङ्गेति ॥ अङ्गानां करचरणादीनां व्रणशोणितयोश्च पीडनायां सत्यां समुत्था- नव्ययं यावता कालेन पूर्वावस्थाप्राप्तिः समुत्थानसंबन्धो भवति तावत्कालेन पथ्यौषधादिना यावान्व्ययो भवति तमसौ दापनीयः। अथ तं व्ययं पीडोत्पादको न दातुमिच्छति, तदा यः समुत्थानव्ययो यश्च दण्डस्तमेनं दण्डवेन राज्ञा दाप्यः ॥ २८७ ॥ {{Block center|{{bold|<poem>द्रव्याणि हिंस्यायो यस्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च सत्समम् ॥ २८८ ॥</poem>}}}} {{gap}}द्रव्येति ॥ द्रव्याण्यनुक्तविशेषदण्डानि कटकानि ताम्रघटादीनि यो यस्य ज्ञानाद- ज्ञानाद्वा नाशयेत्स तस्य द्रव्यान्तरादिना तुष्टिमुत्पादयेत्, राज्ञश्च विनाशितद्रव्यसमं दण्डं दद्यात् ॥ २८८ ॥ {{Block center|{{bold|<poem>चर्मचार्मिकमाण्डेषु काष्ठलोष्ठमयेषु च । मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ २८९ ॥</poem>}}}} {{gap}}चर्मेति ॥ चर्मणि चर्मघटितवरत्रादौ चर्मकाष्टमृत्तिकानिर्मितेषु च भाण्डेषु पुष्पमूलफलेषु परस्य नाशितेषु मूल्यात्पञ्चगुणो दण्डो राज्ञो देयः । स्वामिनश्च तुष्टिरुत्पादनीयैव ॥ २८९ ॥ {{Block center|{{bold|<poem>यानस्य चैव यातुश्च यानस्वामिन एव च । दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥ २९० ॥</poem>}}}}<noinclude></noinclude> aq2edo3no4ua37xs1aw1qadl149n5pr पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५३ 104 104803 417760 267833 2026-07-03T12:45:32Z Geeta g hegde 6704 417760 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ८]|center=मन्वथमुक्तावलासवालता ।|right=३१९}}</noinclude> {{gap}}यानस्येति ॥ यानस्य रथादेातुः सारथ्यादेर्यानस्वामिनश्च यस्य तद्यानं तेषां न्ननास्यादीनि दश निमित्तानि दण्डमतिक्रम्य वर्तन्ते । एषु निमित्तेषु सन्सु णिमारणे द्रव्यनाश च प्रकृते यानस्वामिनां दण्टो न भवतीति मन्वादय आहुः । सद्ध्यतिरिक्तनिमित्ते च पुनर्दण्डोऽनुष्टीयते ॥ २९० ॥ {{Block center|{{bold|<poem>छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ २९१ ।। छेदने चैव यत्राणां योकरश्म्योस्तथैव च । आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ २९२ ॥</poem>}}}} {{gap}}छिन्नेति ॥ छेदन इति ॥ नासायां भवं नास्यं । शरीरावयवत्वाद्यत् । सा चेह शिवर्दनासासंबन्धिनी रजुः । छिन्ननास्यरजौ बलीवादिके, भग्नयुगाख्ये काटे, दिौ भूमिवैषम्यादिना तिरश्चीनं वागते, तथा चक्रान्तः प्रविष्टाक्षकाष्ठभङ्गे यन्त्राणां बिन्धनानां छेदने, योऋस्य पशुग्रीवारजौ, रश्मेः प्रहरणस्य च छेदने, अपस- सरेत्युच्चैः शब्दे सारथ्यादिना कृते च यानेन प्राणिहिंसाव्यविनाशयोः कृतयोः स्थ्यादेर्दण्डो नास्तीति मनुराह ॥ २९१ ॥ २९२ ॥ {{Block center|{{bold|<poem>यत्रापवर्तते युग्यं वैगुण्यात्माजकस्य तु । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ।। २९३ ।।</poem>}}}} {{gap}}यत्रेति ॥ यत्र सारथेरकौशलाद्यानमन्यथा व्रजति तत्र हिंसायामशिक्षितसारथ्य- योगस्वामी द्विशतं दण्डं दाप्यः स्यात् ॥ २९३ ॥ {{Block center|{{bold|<poem>प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति । युग्यस्थाः प्राजकेऽनाते सर्वे दण्ड्याः शतं शतम् ॥२९४॥</poem>}}}} {{gap}}प्राजक इति ॥ यदि सारथिः कुशलः स्यात्तदा सारथिरेवोक्तद्विशतं दमं वक्ष्य- गं च 'मनुष्यमारणे' इत्यादिकं दण्डमर्हति न स्वामी। अकुशले तु तस्सिन्सारथि- मिव्यतिरिक्ता अन्येऽपि यानारूढा अकुशलसारथिकयानारोहणात्सर्वे प्रत्येकं । शतं दण्ड्याः॥ २९४ ॥ {{Block center|{{bold|<poem>स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा । प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ॥ २९५ ॥</poem>}}}} {{gap}}स चेदिति ॥ स चेत्प्राजकः संमुखागतैः प्रचुरगवादिभी स्थान्तरेण वा संरुद्धः थगमनानवधानात्प्रत्यक्सर्पणाक्षमः संकटेऽपि स्वस्थतुरगान्प्रेरयन् , तुरगै रथेन स्थावयवैर्वा प्राणिनो व्यापादयति तत्राविचारितो दण्डः कर्तव्य एव ॥ २९५ ॥ {{gap}}सकृदपराधे कीदृश इत्याह- {{Block center|{{bold|<poem>मनुष्यमारणे क्षिप्तं चौरवत्किल्विषं भवेत् । प्राणभृत्सु महत्वधं गोगजोष्ट्रहयादिषु ॥ २९६ ॥</poem>}}}}<noinclude></noinclude> hrqw2cmb8mdztgbvdf1hknd1hvh1kzh