विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.10
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
भगवद्गीता/अक्षरब्रह्मयोगः
0
171
417779
334125
2026-07-08T00:27:36Z
Swami Shyamananda
9631
417779
wikitext
text/x-wiki
== <ref>[https://sa.wikisource.org/s/ndh अष्टमाध्यायस्य माहात्म्यम्]</ref>अथाष्टमोऽध्याय: अक्षरब्रह्मयोग ==
{{भगवद्गीतायाः अध्यायाः}}
<poem>
'''ॐ'''
'''श्रीपरमात्मने नमः'''
'''अर्जुन उवाच'''
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥८- १॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.1 -- 8.2।। --,ते ब्रह्म तद्विदुः कृत्स्नम् (गीता 7।29) इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानि। अतः तत्प्रश्नार्थम् अर्जुनः उवाच -- एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच --,श्रीभगवानुवाच --,

'''माध्वभाष्यम्'''

।।8.1 -- 8.2।।नमः श्रीमते कृष्णाय। ँ़ मरणकालकर्त्तव्यगत्याद्यस्मिन्नध्याय उपदिशति।

'''रामानुजभाष्यम्'''

।।8.1।।अर्जुन उवाच -- जरामरणमोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतया उक्तं तद् ब्रह्म अध्यात्मं च कर्म च किम् इति वक्तव्यम् ऐश्वर्यार्थिनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किं त्रयाणां ज्ञातव्यः अधियज्ञशब्दनिर्दिष्टश्च कः तस्य च अधियज्ञभावः कथं प्रयाणकाले च एभिः त्रिभिः नियतात्मभिः कथं ज्ञेयः असि।

'''अभिनवगुप्तव्याख्या'''

।।8.1 -- 8.2।।ते ब्रह्म तद्विदुः इत्यादिना यत् भगवता उपक्षिप्तं तत् प्रश्ननवकपूर्वकं (S पूर्वं) निर्णयति ( निर्णाययति N निर्वर्णयति) --किं तद् ब्रह्मेति। अधियज्ञ इति। अधियज्ञः कथम् [कश्च] कोऽत्र देहे तिष्ठति इति शेषः।

'''जयतीर्थव्याख्या'''

।।8.1 -- 8.2।।अध्यायस्यावान्तरप्रतिपाद्यमर्थमाह -- मरणेति। गम्यत इति गतिः। आदिपदेन मार्गादिकम्। मरणकालकर्तव्यं च गतिश्च ते आदी यस्य तत्तथोक्तम्। कर्तव्यस्मरणविषयत्वगम्यत्वादिरूपो भगवन्महिमैव वर्ण्यत इति षट्कान्तर्भावसिद्धिः। उक्तव्याख्यानपूर्वकमिति चोपस्कर्तव्यम् तेनानन्तर्यलक्षणाऽपि सङ्गतिः सिद्धा तत्प्रसङ्गेनैव मरणकालकर्तव्याद्युपदेशात्।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.1।। , चतुर्षु भगवत्प्रियेष्वपि मतोऽधिकं यः प्रभोरुदारपदतः परः समचकार तं मामयम्।परोपनिषदर्थदैरमलवाक्यदीपैस्तमो निवार्य परमं भजे तमिह काशिराजं गुरुम्।।पूर्वाध्यायान्तेते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् इत्यादिना सार्धश्लोकेन सप्त पदार्था ज्ञेयत्वेन भगवता सूत्रितास्तेषां वृत्तिस्थानीयोऽयमष्टमोऽध्याय आरभ्यते। तत्र सूत्रितानि सप्त वस्तूनि विशेषतो बुभुत्समानः श्लोकाभ्यामर्जुन उवाच -- तत् ज्ञेयत्वेनोक्तं ब्रह्म किं सोपाधिकं निरुपाधिकं वा एवमात्मानं देहमधिकृत्य तस्मिन्नधिष्ठाने तिष्ठतीत्यध्यात्मं किं श्रोत्रादिकरणग्रामो वा प्रत्यक्चैतन्यं वा तथा कर्म चाखिलमित्यत्र किं कर्म यज्ञरूपमन्यद्वाविज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च इति श्रुतौ द्वैविध्यश्रवणात्। तव मम च समत्वात्कथं त्वं मां पृच्छसीति शङ्कामपनुदन्सर्वपुरुषेभ्य उत्तमस्य सर्वज्ञस्य तव न किंचिदज्ञेयमिति संबोधनेन सूचयति हे पुरुषोत्तमेति। अधिभूतं च किं प्रोक्तं पृथिव्यादिभूतमधिकृत्य यत्किंचित्कार्यमधिभूतपदेन विवक्षितं किं वा समस्तमेव कार्यजातम्। चकारः सर्वेषां प्रश्नानां समुच्चयार्थः। अधिदैवं किमुच्यते देवताविषयमनुध्यानं वा सर्वदैवतेष्वादित्यमण्डलादिष्वनुस्यूतं चैतन्यं वां।

'''पुरुषोत्तमव्याख्या'''

।।8.1।।पूर्वोक्तब्रह्मकर्मादिरूपजिज्ञासुरर्जुनः। पृष्टवान् स्पष्टमेतस्य कृष्ण उत्तरमुक्तवान्।।1।।पूर्वाध्यायान्ते भगवताते ब्रह्म [7।29] इत्यादिना समपदार्थज्ञानमुक्तं भक्तानाम् तत्स्वरूपजिज्ञासुरर्जुनः प्रभुं विज्ञापयामास -- अर्जुन उवाच किं तद्ब्रह्मेति द्वयेन। हे पुरुषोत्तम तद्ब्रह्म यदुक्तं तत्किम् अध्यात्मं किं कर्म किं च पुनः अधिभूतं किं प्रोक्तं च पुनः अधिदैवं किमुच्यते अधियज्ञः यज्ञाधिष्ठाता फलदाता कः। अत्र उक्तप्रकारेषु कथं केन प्रकारेण नियतात्मभिरनन्यैकपरिचित्तैर्ज्ञेयोऽसि। हे मधुसूदन सर्वानिष्टनिवर्तक अस्मिन् देहे प्रयाणकाले अन्तकाले कथं केन प्रकारेण ज्ञेयोऽसि। अत्रायं भावः -- पुरुषोत्तमेति सम्बोधनेन त्वमेव पुरुषोत्तमः त्वत्तः पराभावात्। कथं तद्ब्रह्मेत्युक्तम् आधिदैविकं तु त्वत्स्वरूपमेव अतस्त्वत्तोऽन्याधिदैवं किम् अध्यात्मादयस्तु৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷. हीना एव तेषां ज्ञानं किं प्रयोजनकम् सेवा च कथं कार्या इत्यादिव्यञ्जितम्। मधुसूदनेति सम्बोधनेन त्वदीयानां मरणादिभयाभावे तत्समये त्वं कथं स्वज्ञानमुक्तवानिति ज्ञापितमिति भावः।

'''वल्लभाचार्यव्याख्या'''

।।8.1।।ब्रह्मकर्मादिकं प्राज्ञैर्विज्ञेयं नास्मदादिभिः। इति जिज्ञासया पार्थः सन्दिहानोऽथ पृच्छति।।1।।अर्जुन उवाच -- किं तद्ब्रह्मेति द्वाभ्याम्। पूर्वेषां यत् ज्ञेयतयोक्तं तद्ब्रह्म किमध्यात्मं कर्म वा किमिति वक्तव्यम् अग्रिमाणां च ज्ञेयमधिभूतमधिदैवं च किम्।

'''आनन्दगिरिव्याख्या'''

।।8.1।।सप्तमाध्यायान्तेयेषां त्वन्तगतं पापम् इत्यादिना येषां ब्रह्मादीनामनुसंधानमुक्तं यच्च प्रयाणकाले भगवतः स्मरणं दर्शितं तदिदं जिज्ञासमानः सन्पृच्छतीति प्रश्नसमुदायमवतारयति -- ते ब्रह्मेति। प्रश्नबीजानि तद्विषयभूतानि ब्रह्मादीनि वस्तूनीति यावत्। बुभुत्सितविषयप्रतिलम्भानन्तरं तेषां प्रश्नद्वारा निर्णयार्थमाह -- अत इति। यदुक्तं ते ब्रह्म तद्विदुरिति तत्किं सोपाधिकं निरुपाधिकं वा ब्रह्मशब्दस्योभयत्रापि संभवादिति मत्वाह -- किं तदिति। यच्चोक्तं कृत्स्नमध्यात्ममिति तत्रात्मानं देहमधिकृत्य तस्मिन्नधिष्ठाने तिष्ठतीत्यध्यात्मशब्देन श्रोत्रादिकरणग्रामो वा प्रत्यग्भूतं ब्रह्मैव वा विवक्षितमित्याह -- किमध्यात्ममिति।विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च इति श्रुतौ कर्मणो द्वैविध्यनिर्धारणात्कर्म चाखिलमित्यत्र कीदृक्कर्म गृहीतमिति पृच्छति -- किमिति। क्षराक्षराभ्यां कार्यकारणाभ्यामतीतस्य भगवतो न किंचिद्वेद्यमस्तीति सूचयति -- पुरुषोत्तमेति। साधिभूताधिदैवमित्यत्राधिभूतशब्देन पृथिव्यादिषु भूतेषु वर्तमानं किंचिदेव गृह्यते किंवा समस्तमेव कार्यमिति निर्दिधारयिषया पृच्छति -- अधिभूतमिति। अधिदैवमिति च दैवतविषयमनुध्यानं वा दैवतेष्वादित्यमण्डलादिषु वर्तमानं चैतन्यं वा जिघृक्षितमिति प्रश्नान्तरं प्रस्तौति -- अधिदैवमिति।

'''धनपतिव्याख्या'''

।।8.1।।सप्तमाध्यायान्ते ते ब्रह्म तद्विदुरित्यादिसार्धेनार्जुनस्य प्रश्नबीजानि भगवतोक्तानि अतस्तत्प्रश्नार्थमर्जुन उवाच -- किमित्यादिना। ते ब्रह्म तद्विदुः कृत्स्त्रमिति यदुक्तं तत्किं सगुणमुत निर्गुणं। ब्रह्मशब्दस्योभयत्रापि संभवात्। यच्चोक्तं कृत्स्त्रमध्यात्ममिति तत्रात्मानं देहमधिकृत्य तस्मिन्नाधिष्ठाने तिष्ठतीत्यध्यात्मशब्देन किं त्वगादीन्द्रियसमुदायो विवक्षित उत प्रत्यगात्मैव।विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च इति श्रुतौ कर्मद्वैविध्यश्रवणात्कर्म चाखिलमित्यत्रापि कीदृक्वकर्म विवक्षितं किं लौकिकमुत वैदिकं यज्ञादि रुपं। पुरुषोत्तमस्य न किंचिदज्ञातमिति सूचयन्नाह -- पुरुषोत्तमेति। अधिभूतं च किं प्रोक्तं भूतेष्वाकाशादिषु वर्तमानं किंचिदेव गृह्यते उत सर्वमेव कार्यं। अधिदैवं किमुच्यते किं देवताविषयमनुध्यानमुतादित्यमण्डलादिषु वर्तमानं चैतन्यम्।

'''नीलकण्ठव्याख्या'''

।।8.1।।पूर्वस्मिन्नध्याये मायोपहितं ब्रह्म जगत्कारणमुक्तंतच्चोत्तमानामनुपाधिब्रह्मप्रतिपत्तावुपलक्षणं मध्यमानामुपास्यं चेति मत्वा प्रतिपत्तव्यं ब्रह्म तद्विषय एकः उपासनाविषयाश्च षट् एवं सप्त प्रश्नविषयास्ते ब्रह्म तद्विदुरित्यध्यायान्ते सार्धश्लोकेन भगवता सूत्रितास्तद्वृत्तिरूपोऽयमध्याय आरभ्यते। तत्र सूत्रितानां ब्रह्मादिशब्दानामर्थं बुभुत्सुरर्जुन उवाच। किं तत्कृत्स्नं ब्रह्मेति प्रथमः प्रश्नः। शेषः स्पष्टार्थः श्लोकः।

'''श्रीधरस्वामिव्याख्या'''

।।8.1।।ब्रह्मकर्माधिभूतादि विदुः कृष्णैकचेतसः। इत्युक्तं ब्रह्मकर्मादि स्पष्टमष्टम उच्यते।।1।।पूर्वाध्यायान्ते भगवतोपक्षिप्तानां ब्रह्माध्यात्मादिसप्तानां पदार्थानां तत्त्वं जिज्ञासुरर्जुन उवाच -- किं तद्ब्रह्मेति द्वाभ्याम्। स्पष्टोऽर्थः।

'''वेङ्कटनाथव्याख्या'''

।।8.1।।सङ्गतिदर्शनायाह -- सप्तम इति।परस्य ब्रह्मणो वासुदेवस्योपास्यत्वमिति -- मय्यासक्तमनाः [7।1] इत्यादेरथः तत्रैव ह्युपासनं प्रस्तुतम्। तच्छेषतया चान्यत्सर्वमिहोच्यते। तस्यैव प्रपञ्चनम्अहं सर्वस्य प्रभवः [10।8]वासुदेवः सर्वं [7।19]चतुर्विधा भजन्ते माम् [7।16] इत्यादिभिः परस्तात्क्रियत इति भावः।परस्येत्यादिभिरुपहितब्रह्मव्योमातीतादिपक्षप्रतिक्षेपः। ब्रह्मशब्दस्य विशेषशब्दसमभिव्याहाराद्देवतान्तरव्यावृत्तिः। वासुदेवशब्देनात्रावतारविशेषो वा विवक्षितः।निखिलेत्यादिभिरुपास्यत्वपरब्रह्मत्वोपयुक्ताकारकथनम्।निखिलचेतनाचेतनवस्तुशेषित्वमितिभूमिरापः [7।4] इत्यादेः श्लोकद्वयस्यार्थः। निखिलशब्देन कार्यकारणादिरूपावस्थासङ्ग्रहात् कार्यभूतब्रह्मरुद्रादेरपि क्रोडीकारः। कारणत्वम्एतद्योनीनि [7।6] इति श्लोकस्यार्थः।मत्तः परतरं नान्यत् [7।7] इत्युक्तस्य परत्वस्यमामेभ्यः परम् [7।13] इत्यत्रोपयुक्ततया तत्रैवोदाहर्तुमत्र तदतिक्रमेणमयि सर्वम् [7।7] इत्याद्युक्ताधारत्वोपादानम्।रसोऽहम् [7।8] इत्यादिसामानाधिकरण्यफलितं सर्वशब्दवाच्यत्वम्। तत्र हेतुराधारत्वादिविशेषसिद्धं सर्वशरीरकत्वम्। एवं शेषित्वाद्यनुवादेन वक्ष्यमाणतत्तदधिकारिप्राप्यवस्तुविशेषसामानाधिकरण्यस्यापि शरीरात्मभावहेतुकत्वं दर्शितम्।मत्त एवेति तान्विद्धि [7।12] इत्यादिषु प्रवृत्तितादधीन्यस्यापि विवक्षितत्वात्सिद्धं सर्वनियन्तृत्वम्।सवश्चेत्यनेनानिर्दिष्टानामन्येषां च आभिप्रायिकाणां सङ्ग्रहः।तस्यैवेत्यवधारणेननान्यत्किञ्चिदस्ति [7।7] इत्यस्यार्थ उक्तः।त्रिभिर्गुणमयैः [7।13] इति श्लोकस्य सार्धस्यार्थःसत्त्वेत्यादिनोक्तः।मामेव [7।14] इत्याद्युक्तप्रपत्तेः सुकृतविशेषहेतुकत्वम्।जनाः सुकृतिनः [7।16] इत्यनेन दर्शितमाहअत्युत्कृष्टसुकृतेति।न मां दुष्कृतिनः [7।15] इत्यादेः पूर्वोक्ततिरोधानप्रकारविशेषकथनरूपत्वात्सुकृतिप्रशंसाशेषत्वाच्च तदर्थोऽत्र पृथङ्गोपात्तः।चतुर्विधाः [7।16] इत्यादिकंसुकृततारतम्येनेत्यादिनाऽनुसंहितम्। उपासकभेदं चेत्यन्वयः।तेषां ज्ञानी [7।17] इत्यादेः श्लोकद्वयस्यार्थोभगवन्तमित्यादिनोक्तः।बहूनां जन्मनाम् [7।19] इत्यादिनासर्गे यान्ति परन्तप [7।27] इत्यन्तेन सिद्धमाहदुर्लभत्वमिति।येषां तु [7।28] इत्यादेरध्यायशेषस्य अर्थमाह -- एषां त्रयाणामिति। ज्ञातव्यमिह सिद्धरूपं विवक्षितम्।उपादेयं अनुष्ठेयम्। एतेनस्वयाथात्म्यम् [गी.सं.11] इत्यादिसङ्ग्रहश्लोकस्यार्थोऽपि प्रपञ्चितः। अयं त्वष्टमस्य सङ्ग्रहःऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम्। वेद्योपादेयभावानामष्टमे भेद उच्यते [गी.सं.12] इति। अत्र भेदोक्तेरध्यायार्थत्वात्स्वरूपप्रस्तावः प्रागेव कृत इति दर्शितम्।,प्रस्तुतप्रपञ्चनमिति सङ्गतिमाह -- इदानीमिति। जीवस्वरूपादिज्ञातव्यस्योपासनाद्यनुष्ठेयस्य च भेदजिज्ञासयाऽर्जुन उवाच -- किं तदिति।आर्तो जिज्ञासुः [7।16] इत्यादिना प्रागेवाधिकारित्रयस्योक्तत्वात्जरामरणमोक्षाय [7।29] इत्यादिषु यच्छब्दावृत्तिसामर्थ्यादर्थस्वभावाच्चाधिकारिभेदस्तेषां ज्ञातव्योपादेयवस्तुप्रतिनियमश्चार्जुनेन ज्ञातः तत्रैव विशेषबुभुत्सयाऽय प्रश्नः। वक्ष्यते च विशेषः। ततश्चकिं तद्ब्रह्म इत्यर्धमक्षरयाथात्म्यार्थिविषयम् अधिभूते च इत्यर्धमैश्वर्यार्थिविषयम्अधियज्ञः इति श्लोकस्तु अर्थस्वभावात् त्रयाणां साधारण इति विविनक्ति -- जरामरणेति। कथमिति प्रकारप्रश्नेअधियज्ञभाव इत्यर्थलब्धम्।अत्र इत्येतच्छब्दः शास्त्रसन्निध्युपाधिकः तच्चोत्तरग्रन्थे व्याख्यास्यति -- अत्र इन्द्रादौ मम देहभूते इति।अस्मिन् इतीदंशब्दस्तु स्वप्रत्यक्षसन्निध्युपाधिकः प्रत्यक्षा हीन्द्रादयोऽपि प्रष्टुरर्जुनस्य। एतच्छब्देदंशब्दयोश्चैकस्मिन्वाक्ये सामानाधिकरण्येन प्रयोगो दृश्यते -- स एष द्वाभ्यां दर्शनीभ्यां विराड्भ्यामनयोर्द्वाविंशयोर्द्विवचनयोरयं पुरुषः प्रतिष्ठितः इत्यादौ। यद्वाअत्र इति यज्ञस्वरूपपरामर्शः नियतात्मत्वं त्रयाणामपेक्षितम् अत्र बहुवचनमधिकारित्रयपरमित्यभिप्रायेणोक्तम् -- एभिस्त्रिभिरिति।

<poem>
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥८- २॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.1 -- 8.2।। --,ते ब्रह्म तद्विदुः कृत्स्नम् (गीता 7।29) इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानि। अतः तत्प्रश्नार्थम् अर्जुनः उवाच -- एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच --,श्रीभगवानुवाच --,

'''माध्वभाष्यम्'''

।।8.1 -- 8.2।।नमः श्रीमते कृष्णाय। ँ़ मरणकालकर्त्तव्यगत्याद्यस्मिन्नध्याय उपदिशति।

'''रामानुजभाष्यम्'''

।।8.2।।अर्जुन उवाच -- जरामरणमोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतया उक्तं तद् ब्रह्म अध्यात्मं च कर्म च किम् इति वक्तव्यम् ऐश्वर्यार्थिनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किं त्रयाणां ज्ञातव्यः अधियज्ञशब्दनिर्दिष्टश्च कः तस्य च अधियज्ञभावः कथं प्रयाणकाले च एभिः त्रिभिः नियतात्मभिः कथं ज्ञेयः असि।

'''अभिनवगुप्तव्याख्या'''

।।8.1 -- 8.2।।ते ब्रह्म तद्विदुः इत्यादिना यत् भगवता उपक्षिप्तं तत् प्रश्ननवकपूर्वकं (S पूर्वं) निर्णयति ( निर्णाययति N निर्वर्णयति) -- किं तद् ब्रह्मेति। अधियज्ञ इति। अधियज्ञः कथम् [कश्च] कोऽत्र देहे तिष्ठति इति शेषः।

'''जयतीर्थव्याख्या'''

।।8.1 -- 8.2।।अध्यायस्यावान्तरप्रतिपाद्यमर्थमाह -- मरणेति। गम्यत इति गतिः। आदिपदेन मार्गादिकम्। मरणकालकर्तव्यं च गतिश्च ते आदी यस्य तत्तथोक्तम्। कर्तव्यस्मरणविषयत्वगम्यत्वादिरूपो भगवन्महिमैव वर्ण्यत इति षट्कान्तर्भावसिद्धिः। उक्तव्याख्यानपूर्वकमिति चोपस्कर्तव्यम् तेनानन्तर्यलक्षणाऽपि सङ्गतिः सिद्धा तत्प्रसङ्गेनैव मरणकालकर्तव्याद्युपदेशात्।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.2।।अधियज्ञो यज्ञमधिगतो देवतात्मा परब्रह्म वा। स च कथं केन प्रकारेण चिन्तनीयः। किं तादात्म्यैन किं वात्यन्ताभेदेन। सर्वथापि स किमस्मिन्देहे वर्तते ततो बहिर्वा। देहे चेत् स कोऽत्र बुद्ध्यादिस्तद्व्यतिरिक्तो वा। अधियज्ञः कथं कोऽत्रेति न प्रश्नद्वयं किंतु सप्रकार एकएव प्रश्न इति द्रष्टव्यम्। परमकारुणिकत्वादनायासेनापि सर्वोपद्रवनिवारकस्य भगवतोऽनायासेन मत्संदेहोपद्रवनिवारणमीषत्करमुचितमेवेति सूचयन्संबोधयति हे मधुसूदनेति। प्रयाणकाले च सर्वकरणग्रामवैयग्र्याच्चित्तसमाधानानुपपत्तेः कथं केन प्रकारेण नियतात्मभिः समाहितचित्तैर्ज्ञेयोऽसीत्युक्तशङ्कासूचनार्थश्चकारः। एतत्सर्वं सर्वज्ञत्वात्परमकारुणिकत्वाच्च शरणागतं मांप्रति कथयेत्यभिप्रायः।

'''पुरुषोत्तमव्याख्या'''

।। 8.2 पूर्वोक्तब्रह्मकर्मादिरूपजिज्ञासुरर्जुनः। पृष्टवान् स्पष्टमेतस्य कृष्ण उत्तरमुक्तवान्।।1।।पूर्वाध्यायान्ते भगवताते ब्रह्म [7।29] इत्यादिना समपदार्थज्ञानमुक्तं भक्तानाम् तत्स्वरूपजिज्ञासुरर्जुनः प्रभुं विज्ञापयामास -- अर्जुन उवाच किं तद्ब्रह्मेति द्वयेन। हे पुरुषोत्तम तद्ब्रह्म यदुक्तं तत्किम् अध्यात्मं किं कर्म किं च पुनः अधिभूतं किं प्रोक्तं च पुनः अधिदैवं किमुच्यते अधियज्ञः यज्ञाधिष्ठाता फलदाता कः। अत्र उक्तप्रकारेषु कथं केन प्रकारेण नियतात्मभिरनन्यैकपरिचित्तैर्ज्ञेयोऽसि। हे मधुसूदन सर्वानिष्टनिवर्तक अस्मिन् देहे प्रयाणकाले अन्तकाले कथं केन प्रकारेण ज्ञेयोऽसि। अत्रायं भावः -- पुरुषोत्तमेति सम्बोधनेन त्वमेव पुरुषोत्तमः त्वत्तः पराभावात्। कथं तद्ब्रह्मेत्युक्तम् आधिदैविकं तु त्वत्स्वरूपमेव अतस्त्वत्तोऽन्याधिदैवं किम् अध्यात्मादयस्तु৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷. हीना एव तेषां ज्ञानं किं प्रयोजनकम् सेवा च कथं कार्या इत्यादिव्यञ्जितम्। मधुसूदनेति सम्बोधनेन त्वदीयानां मरणादिभयाभावे तत्समये त्वं कथं स्वज्ञानमुक्तवानिति ज्ञापितमिति भावः।

'''वल्लभाचार्यव्याख्या'''

।।8.2।।अधियज्ञश्च कः स चाधियज्ञोऽत्र देहे कथ ज्ञेयः। प्रयाणकाले चैभिर्नियतात्मभिः कथं ज्ञेयोऽसि।

'''आनन्दगिरिव्याख्या'''

।।8.2।।साधियज्ञं चेत्यत्राधियज्ञशब्देन यज्ञमधिकृतो विज्ञानात्मा वा परदेवता वेति प्रश्नान्तरं प्रकरोति -- अधियज्ञ इति। स च कथं केन प्रकारेण ब्रह्मत्वेन चिन्तनीयः किं तादात्म्येन किं वात्यन्ताभेदेनेत्याह -- कथमिति। सर्वथापि स किमस्मिन्देहे वर्तते ततो बहिर्वा देहे चेत्स कोऽत्र बुद्ध्यादिस्तद्व्यतिरिक्तो वेति जिज्ञासया ब्रूते -- कोऽत्रेति। अधियज्ञः कथं कोऽत्रेति न प्रश्नभेदकः[दः] कथमिति तु प्रकारभेदविवक्षयेति द्रष्टव्यम्। यत्तु समाहितचित्तानामुक्तं यत्प्रयाणकालेऽपि भगवदनुसंधानं सिध्यतीति तदयुक्तमुत्क्रमणदशायां करणग्रामवैयग्र्याच्चित्तसमाधानानुपपत्तिरित्यभिप्रेत्याह -- प्रयाणेति।

'''धनपतिव्याख्या'''

।।8.2।।अधियज्ञः कथं कोऽत्र यज्ञमधिगतो विज्ञानात्मा परमात्मा वा स च कथं केन प्रकारेण चिन्तनीयः किं तादात्म्येनोताभेदेन। सर्वथापि स किमस्मिन्देहे वर्तते उतास्माद्वहिः देहे चेत्स कोऽत्र बहिश्चेत्स किं कुङ्यादिरुत तद्य्धतिरिक्त इति प्रकारादिजिज्ञासयोक्तं कथं कोत्रेऽति। मधुसूदनेति संबोधयन् मधुसूदनस्य तव मत्संशयसूदनमतिसुकरमिति द्योतयति। यत्तूक्तंप्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः इति तत्र पृच्छति -- प्रयाणेति। प्राणोत्क्रमणदशायां करणग्रामवैयग्र्याच्चित्तसमाधानानुपपत्तेर्नियतात्मभिः प्रयाणकाले कथं ज्ञेयोऽसीति भाष्यटीकानुसारी सप्तमप्रश्नार्थः। भाष्यकृद्भिस्तु सुगमत्वान्न प्रदर्शितः।

'''नीलकण्ठव्याख्या'''

।।8.2।।अधियज्ञः कथं कोऽत्र। क इति स्वरूपप्रश्नः। कथं ज्ञेय इति पदापकर्षेण तत्तदुपासनाप्रकारप्रश्नश्चेति द्वयं मिलित्वा एकएव प्रश्नः। शेषं स्पष्टम्।

'''श्रीधरस्वामिव्याख्या'''

।।8.2।। किंच -- अधियज्ञ इति। अत्र देहे यो यज्ञो वर्तते तस्मिन्कोऽधियज्ञः। अधिष्ठाता प्रयोजकः फलदाता च क इत्यर्थः। स्वरूपं पृष्ट्वा अधिष्ठानप्रकारं पृच्छति। कथं केन प्रकारेणासावस्मिन्देहे स्थितो यज्ञमधितिष्ठतीत्यर्थः। यज्ञग्रहणं सर्वकर्मणामुपलक्षणार्थम्। अन्तकाले च नियतचित्तैः पुरुषैः कथं केनोपायेन ज्ञेयोऽसि।

'''वेङ्कटनाथव्याख्या'''

।। 8.2 सङ्गतिदर्शनायाह -- सप्तम इति।परस्य ब्रह्मणो वासुदेवस्योपास्यत्वमिति -- मय्यासक्तमनाः [7।1] इत्यादेरथः तत्रैव ह्युपासनं प्रस्तुतम्। तच्छेषतया चान्यत्सर्वमिहोच्यते। तस्यैव प्रपञ्चनम्अहं सर्वस्य प्रभवः [10।8]वासुदेवः सर्वं [7।19]चतुर्विधा भजन्ते माम् [7।16] इत्यादिभिः परस्तात्क्रियत इति भावः।परस्येत्यादिभिरुपहितब्रह्मव्योमातीतादिपक्षप्रतिक्षेपः। ब्रह्मशब्दस्य विशेषशब्दसमभिव्याहाराद्देवतान्तरव्यावृत्तिः। वासुदेवशब्देनात्रावतारविशेषो वा विवक्षितः।निखिलेत्यादिभिरुपास्यत्वपरब्रह्मत्वोपयुक्ताकारकथनम्।निखिलचेतनाचेतनवस्तुशेषित्वमितिभूमिरापः [7।4] इत्यादेः श्लोकद्वयस्यार्थः। निखिलशब्देन कार्यकारणादिरूपावस्थासङ्ग्रहात् कार्यभूतब्रह्मरुद्रादेरपि क्रोडीकारः। कारणत्वम्एतद्योनीनि [7।6] इति श्लोकस्यार्थः।मत्तः परतरं नान्यत् [7।7] इत्युक्तस्य परत्वस्यमामेभ्यः परम् [7।13] इत्यत्रोपयुक्ततया तत्रैवोदाहर्तुमत्र तदतिक्रमेणमयि सर्वम् [7।7] इत्याद्युक्ताधारत्वोपादानम्।रसोऽहम् [7।8] इत्यादिसामानाधिकरण्यफलितं सर्वशब्दवाच्यत्वम्। तत्र हेतुराधारत्वादिविशेषसिद्धं सर्वशरीरकत्वम्। एवं शेषित्वाद्यनुवादेन वक्ष्यमाणतत्तदधिकारिप्राप्यवस्तुविशेषसामानाधिकरण्यस्यापि शरीरात्मभावहेतुकत्वं दर्शितम्।मत्त एवेति तान्विद्धि [7।12] इत्यादिषु प्रवृत्तितादधीन्यस्यापि विवक्षितत्वात्सिद्धं सर्वनियन्तृत्वम्।सवश्चेत्यनेनानिर्दिष्टानामन्येषां च आभिप्रायिकाणां सङ्ग्रहः।तस्यैवेत्यवधारणेननान्यत्किञ्चिदस्ति [7।7] इत्यस्यार्थ उक्तः।त्रिभिर्गुणमयैः [7।13] इति श्लोकस्य सार्धस्यार्थःसत्त्वेत्यादिनोक्तः।मामेव [7।14] इत्याद्युक्तप्रपत्तेः सुकृतविशेषहेतुकत्वम्।जनाः सुकृतिनः [7।16] इत्यनेन दर्शितमाहअत्युत्कृष्टसुकृतेति।न मां दुष्कृतिनः [7।15] इत्यादेः पूर्वोक्ततिरोधानप्रकारविशेषकथनरूपत्वात्सुकृतिप्रशंसाशेषत्वाच्च तदर्थोऽत्र पृथङ्गोपात्तः।चतुर्विधाः [7।16] इत्यादिकंसुकृततारतम्येनेत्यादिनाऽनुसंहितम्। उपासकभेदं चेत्यन्वयः।तेषां ज्ञानी [7।17] इत्यादेः श्लोकद्वयस्यार्थोभगवन्तमित्यादिनोक्तः।बहूनां जन्मनाम् [7।19] इत्यादिनासर्गे यान्ति परन्तप [7।27] इत्यन्तेन सिद्धमाहदुर्लभत्वमिति।येषां तु [7।28] इत्यादेरध्यायशेषस्य अर्थमाह -- एषां त्रयाणामिति। ज्ञातव्यमिह सिद्धरूपं विवक्षितम्।उपादेयं अनुष्ठेयम्। एतेनस्वयाथात्म्यम् [गी.सं.11] इत्यादिसङ्ग्रहश्लोकस्यार्थोऽपि प्रपञ्चितः। अयं त्वष्टमस्य सङ्ग्रहःऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम्। वेद्योपादेयभावानामष्टमे भेद उच्यते [गी.सं.12] इति। अत्र भेदोक्तेरध्यायार्थत्वात्स्वरूपप्रस्तावः प्रागेव कृत इति दर्शितम्। प्रस्तुतप्रपञ्चनमिति सङ्गतिमाह -- इदानीमिति। जीवस्वरूपादिज्ञातव्यस्योपासनाद्यनुष्ठेयस्य च भेदजिज्ञासयाऽर्जुन उवाच -- किं तदिति।आर्तो जिज्ञासुः [7।16] इत्यादिना प्रागेवाधिकारित्रयस्योक्तत्वात्जरामरणमोक्षाय [7।29] इत्यादिषु यच्छब्दावृत्तिसामर्थ्यादर्थस्वभावाच्चाधिकारिभेदस्तेषां ज्ञातव्योपादेयवस्तुप्रतिनियमश्चार्जुनेन ज्ञातः तत्रैव विशेषबुभुत्सयाऽय प्रश्नः। वक्ष्यते च विशेषः। ततश्चकिं तद्ब्रह्म इत्यर्धमक्षरयाथात्म्यार्थिविषयम् अधिभूते च इत्यर्धमैश्वर्यार्थिविषयम्अधियज्ञः इति श्लोकस्तु अर्थस्वभावात् त्रयाणां साधारण इति विविनक्ति -- जरामरणेति। कथमिति प्रकारप्रश्नेअधियज्ञभाव इत्यर्थलब्धम्।अत्र इत्येतच्छब्दः शास्त्रसन्निध्युपाधिकः तच्चोत्तरग्रन्थे व्याख्यास्यति -- अत्र इन्द्रादौ मम देहभूते इति।अस्मिन् इतीदंशब्दस्तु स्वप्रत्यक्षसन्निध्युपाधिकः प्रत्यक्षा हीन्द्रादयोऽपि प्रष्टुरर्जुनस्य। एतच्छब्देदंशब्दयोश्चैकस्मिन्वाक्ये सामानाधिकरण्येन प्रयोगो दृश्यते -- स एष द्वाभ्यां दर्शनीभ्यां विराड्भ्यामनयोर्द्वाविंशयोर्द्विवचनयोरयं पुरुषः प्रतिष्ठितः इत्यादौ। यद्वाअत्र इति यज्ञस्वरूपपरामर्शः नियतात्मत्वं त्रयाणामपेक्षितम् अत्र बहुवचनमधिकारित्रयपरमित्यभिप्रायेणोक्तम् -- एभिस्त्रिभिरिति।

<poem>
'''श्रीभगवानुवाच'''
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥८- ३॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.3।। -- अक्षरं न क्षरतीति अक्षरं परमात्मा एतस्य वा अक्षरस्य प्रशासने गार्गि (बृह0 उ0 3।8।9 इति श्रुतेः। ओंकारस्य च ओमित्येकाक्षरं ब्रह्म (गीता 8।13) इति परेण विशेषणात् अग्रहणम्। परमम् इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम्। तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः स्वो भावः स्वभावः अध्यात्मम् उच्यते। आत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयते। भूतभावोद्भवकरः भूतानां भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूतभावोद्भवकरः भूतवस्तूत्पत्तिकर इत्यर्थः। विसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः स एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत्। एतस्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति।।

'''माध्वभाष्यम्'''

।।8.3।।परममक्षरं ब्रह्म। वेदादिशङ्काव्यावृत्त्यर्थमेतत्। आत्मन्यधि यत्तदध्यात्मम्। आत्माधिकारे यत्तदिति वा। तथा हि -- जैवः स्वभावः। स्वाख्यो भावः स्वभाव इति व्युत्पत्त्या जीवो वा स्वभावः सर्वदा अस्त्येव एकप्रकारेणेति भावः। अन्तःकरणादिव्यावृत्त्यर्थो भावशब्दः। न ह्येकप्रकारेण स्थितिरन्तःकरणादेः विकारित्वात्। स्वशब्द ईश्वरव्यावृत्त्यर्थः। भूतानां जीवानां भावानां जडपदार्थानां चोद्भवकरीश्वरक्रिया विसर्गः विशेषेण सर्जनं विसर्ग इत्यर्थः।

'''रामानुजभाष्यम्'''

।।8.3।।श्रीभगवानुवाच -- तद् ब्रह्म इति निर्दिष्टं परमम् अक्षरं न क्षरति इति अक्षरं क्षेत्रज्ञं समष्टिरूपम् तथा च श्रुतिःअव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते (सुबालो0 2) इत्यादिका। परमम् अक्षरं प्रकृतिविनिर्मुक्तात्मस्वरूपम्। स्वभावः अध्यात्मम् उच्यते स्वभावः प्रकृतिः अनात्मभूतम् आत्मनि संबद्ध्यमानं भूतसूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतया उदितम् तदुभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिः ज्ञातव्यम्।भूतभावो मनुष्यादिभावः तदुद्भवकरो यो विसर्गःपञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति (छा0 उ0 5।3।3) इति श्रुतिसिद्धो योषित्संबन्धजः स कर्मसंज्ञितः तत् च अखिलं सानुबन्धम् उद्वेजनीयतया परिहरणीयतया च मुमुक्षुभिः ज्ञातव्यम्। परिहरणीयता च अनन्तरम् एव वक्ष्यतेयदिच्छन्तो ब्रह्मचर्यं चरन्ति (गीता 8।11) इति।

'''अभिनवगुप्तव्याख्या'''

।।8.3।।अक्षरमिति। बृहत्त्वात् बृंहत्त्वात् बृंहकत्वाच्च परं ब्रह्म। अत एव अध्यात्मशब्दवाच्यं यतः स्वः अनिवृत्तिधर्मा (N निवृत्तिधर्मा K अनिवृत्तधर्मा) चैतान्याख्यो ( चैतन्यभावः) भावः। तस्य च चैतन्यस्वभावस्य ब्रह्मणोऽपरिच्छिन्नबाह्यलक्षणतया क्रोडीकृतविश्वशक्तेः ऐश्वर्यलक्षणात् स्वातन्त्र्यात् बहिर्भावावभासनात्मा (N -- भासनात्सः) बहिर्भूतभावान्तरावभासनात्मा (S -- भावान्तरभासनात्मा यो विसर्गः) च यो विसर्गः क्रमेण भूतानां ब्रह्मादिप्रमातृ़णां भावानां जडानामुद्भवकारी जडाजडवैचित्र्यनिर्भासकः। तथा भूतभावस्य विगलितसकलवितथप्रपञ्चस्य सत्यत्वस्य उद्भवं करोतीति [स कर्मसंज्ञितः]।

'''जयतीर्थव्याख्या'''

।।8.3।।ननु पूर्वाध्याये[29]ते ब्रह्म इति निर्विशेषणमेवोपक्षिप्तम् अतएवात्रकिं तद्ब्रह्म इति तथैव पृष्टम्। उत्तरे तु कस्मात्अक्षरं परमं ब्रह्म इति सविशेषणमुपादीयते इत्यत आह -- परममिति। अक्षरस्यैव परमत्वविशेषणम् न ब्रह्मण इत्यर्थः। तर्हिअक्षरं इत्येवालं किं विशेषणेन इत्यत आह -- वेदेति। आदिपदेन प्रकृतिर्गृह्यते तयोरपि ब्रह्माक्षरशब्दवाच्यत्वात् प्रसक्तिः।स्वभावोऽध्यात्मं [8।3] इति शब्दद्वयस्यैकविषयत्वसिद्धयेऽध्यात्मशब्दं तावत् द्वेधा व्याचष्टे -- आत्मनीति। आत्मानं जीवमधिकृत्य तदुपकारित्वेन वर्तमानं वस्त्वित्यर्थः। आत्माधिकार इति ग्रन्थविशेषस्य संज्ञा यत्प्रतिपाद्यं तदध्यात्ममिति वेत्यर्थः। अत्राध्यात्मशब्दं प्रथमान्तं गृहीत्वा प्रथमं व्याख्यानम्। सप्तम्यन्तमुपादाय द्वितीयं आत्मशब्दं देहविषयमादाय व्याख्याने परमेश्वरप्रसक्तेर्न तथा व्याख्यातम्।एवं तर्हि स्वभावः इत्युभयस्य कथमुत्तरं इत्यतस्तावत्तद्व्याख्यानं प्रतिजानीते -- तथा हीति।,तत्राद्योत्तरत्वेनादौ व्याचष्टे -- जैव इति। जीवस्यायं जैवोऽन्तःकरणादिर्देहपर्यन्तः पदार्थः स्वभावः स्वस्य भाव इति व्युत्पत्त्या।ते ब्रह्म तद्विदुः [7।29] इति जीवानां प्रकृतत्वात् स्वशब्दो जीववाची तथा चात्मन्यधि यत् तदित्येवं व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीति भावः। इदानीं द्वितीयोत्तरत्वेन व्याख्याति -- स्वाख्य इति। पूर्ववदत्रापि स्वशब्दो जीववाची तथा चात्माधिकार इति व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीत्याशयः। ननु जैववाचित्वे भावशब्दः सार्थकः षष्ठ्याः साकाङ्क्षत्वात् जीववाचित्वे तु तस्य पदार्थत्वाव्यभिचारात्। स्वशब्देनैवालं किंभावशब्देन इत्यतो भावशब्दं तावदन्यथा व्याचष्टे -- सर्वदेति। यद्यपि भवनकर्ता भावः तथापि विशेषानुपादाने मुख्यस्य ग्राह्यत्वात्सर्वदेत्यादि सिध्यति तथापि तस्य किं प्रयोजनम् इत्यत आह -- अन्तःकरणादीति। स्वशब्दमात्रोपादाने तस्यात्मीयेऽपि प्रयोगादन्तःकरणादिकमपि प्रसज्येत तथा च द्वितीयस्येदमुत्तरं स्यात्। आत्मैव ह्यात्माधिकारे प्रतिपाद्यो वक्तव्यः नान्तःकरणादिकम् अतस्तद्व्यावृत्त्यर्थो भावशब्दः प्रयुक्तः। कथं तेन तद्व्यावृत्तिः इत्यत आह -- न हीति। अन्नमयं हि सोम्य मनः [छां.उ.6।5।4] इत्यादेरिति भावः। तथा चान्तःकरणादौ व्यावृत्ते स्वशब्द आत्मार्थतया व्याख्यातो भवतीति हृदयम्।एवं तर्हि भाव इत्येवास्तु किं स्वशब्देन इत्यत आह -- स्वशब्द इति। ईश्वरोऽपि हि सर्वदैकप्रकारेणास्त्येव अतो भाव इत्येवोक्ते तत्प्रसक्तौ पूर्ववत् द्वितीयोत्तरत्वासम्भवे तद्व्यावृत्त्यर्थः स्वशब्दः। न हि ईश्वरो जीवानां स्वः भेदप्रमाणविरोधात्। अत एवेश्वरस्वभावो जीव इति व्याख्यानमपास्तम्। नन्वेवमपि स्वशब्दस्यात्मीयार्थत्वादीश्वरप्रसक्तिः मैवम्द्विष्ठो यद्यपि सम्बन्धः षष्ठ्युत्पत्तिः प्रधानतः इति वचनात्तस्यात्मीत्यात्वाभावात् षष्ठ्यन्तात्खल्वयं छः। सकलकार्योत्पत्तिनिमित्तभूतो देवतोद्देशेन च पुरोडाशादिद्रव्यपरित्यागस्तज्जन्यमपूर्वमिति यावदिति व्याख्यानमसत्। तस्याध्यात्मपदेनैव गृहीतत्वादिति भावेन भूतभावेत्यादिकं व्याख्याति -- भूतानामिति। उद्भवकरी च सेश्वरक्रिया चेति विग्रहः। ईश्वरक्रियाग्रहणं कर्मशब्देनैकार्थ्यप्रतिपत्त्यर्थम्। एवंलक्षणो यो विसर्गः स कर्मसंज्ञितः न तु कुलालादिसम्बन्धीत्यर्थः। ननु,विसर्गशब्दस्त्यागार्थस्तत्कथमेवं व्याख्यानं इत्यत आह -- विशेषेणेति।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.3।।एवं सप्तानां प्रश्नानां क्रमेणोत्तरं त्रिभिः श्लोकैः श्रीभगवानुवाच -- प्रश्नक्रमेण हि निर्णये प्रष्टुरभीष्टसिद्धिरनायासेन स्यादित्यभिप्रायवान्भगवानत्र श्लोके प्रश्नत्रयं क्रमेण निर्धारितवान्। एवं द्वितीयश्लोकेऽपि प्रश्नत्रयं तृतीयश्लोके त्वेकमिति विभागः। निरुपाधिकमेव ब्रह्मात्र विवक्षितं ब्रह्मशब्देन नतु सोपाधिकमिति प्रथमप्रश्नस्योत्तरमाह -- अक्षरं न क्षरतीत्यविनाशि अश्नुते वा सर्वमिति सर्वव्यापकं [अक्षरत्वात्]एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्याद्युपक्रम्यएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःनान्यदतोऽस्ति द्रष्टृ इत्यादिमध्ये परामृश्यएतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च इत्युपसंहृतं श्रुत्या। सर्वोपाधिशून्यं सर्वस्य प्रशासितृ अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयितृ अस्मिंश्च शरीरेन्द्रियसंघाते विज्ञातृ निरुपाधिकं चैतन्यं तदिह ब्रह्मेति विवक्षितम्। एतदेव विवृणोति -- परममिति। परमं स्वप्रकाशपरमानन्दरूपं प्रशासनस्य कृत्स्नजडवर्गधारणस्य च लिङ्गस्य तत्रैवोपपत्तेःअक्षरमम्बरान्तधृतेः इति न्यायात्। न त्विहाक्षरशब्दस्य वर्णमात्ररूढत्वाच्छ्रुतिलिङ्गाधिकरणन्यायमूलकेनरूढिर्योगमपहरति इति न्यायेन रथकारशब्देन जातिविशेषवत्प्रणवाख्यमक्षरमेव ग्राह्यं तत्रोक्तलिङ्गसंभवात्ओमित्येकाक्षरं ब्रह्म इति च परेण विशेषणात्आनर्थक्यप्रतिहतानां विपरीतं बलाबलम् इति न्यायात्वर्षासु रथकार आदधीत इत्यत्र तु जातिविशेषे नास्त्यसंभव इति विशेषः। अनन्यथासिद्धेन तु लिङ्गेन श्रुतेर्बाधःआकाशस्तल्लिङ्गात् इत्यादौ विवृतः। एत्तावांस्त्विह विशेषः। अनन्यथासिद्धेन लिङ्गेन श्रुतेर्बाधे यत्र योगः संभवति तत्र स एव गृह्यते मुख्यत्वात् यथाआज्यैः स्तुवते पृष्ठैः स्तुवते इत्यादौ। यथा चात्रैवाक्षरशब्दे। यत्र तु योगोऽपि न संभवति तत्र गौणी वृत्तिर्यथाऽऽकाशप्राणादिशब्देषु। आकाशशब्दस्यापि ब्रह्मणि आसमन्तात्काशत इति योगः संभवतीति चेत्स एव गृह्यतामिति पञ्चपादीकृतः। तथाच पारमर्षं सूत्रंप्रसिद्धेश्च इति। कृतमत्र विस्तरेण। तदेवं किं तद्ब्रह्मेति निर्णीतम्। अधुना किमध्यात्ममिति निर्णीयते -- यदक्षरं ब्रह्मेत्युक्तं तस्यैव स्वभावः स्वो भावः स्वरूपं प्रत्यक्चैतन्यं नतु स्वस्य भाव इति षष्ठीसमासः लक्षणाप्रसङ्गात्। षष्ठीतत्पुरुषबाधेन कर्मधारयपरिग्रहस्य श्रुतपदार्थान्वयेन निषादस्थपत्यधिकरपासिद्धत्वात्। तस्मान्न ब्रह्मणः संबन्धि किंतु ब्रह्मस्वरूपमेव। आत्मानं देहमधिकृत्य भोक्तृतया वर्तमानमध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते न करणग्राम इत्यर्थः। यागदानहोमात्मकं वैदिकं कर्मैवात्र कर्मशब्देन विवक्षितमिति तृतीयप्रश्नोत्तरमाह। भूतानां भवनधर्मकाणां सर्वेषां स्थावरजङ्गमानां भावमुत्पत्तिमुद्भवं वृद्धिं च करोति यो विसर्गस्त्यागस्तत्तच्छास्त्रविहितो यागदानहोमात्मकः स इह कर्मसंज्ञितः कर्मशब्देनोक्त इति यावत्। तत्र देवतोद्देशेन द्रव्यत्यागो याग उत्तिष्ठद्धोमो वषट्कारप्रयोगान्तः स एव उपविष्टहोमः स्वाहाकारप्रयोगान्त आसेचनपर्यन्तो होमः। परस्वत्वापत्तिपर्यन्तः स्वत्वत्यागो दानं सर्वत्र च त्यागांशोऽनुगतः तस्य च भूतभावोद्भवकरत्वम्अग्नौ प्रास्ताहुतिः,सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति स्मृतेः।ते वा एते आहुती हुते उत्क्रामतः इत्यादिश्रुतेश्च।

'''पुरुषोत्तमव्याख्या'''

।।8.3।।एतत्प्रश्नोत्तरं साभिप्रायज्ञानार्थं श्रीभगवानुवाच -- अक्षरमिति त्रयेण। न क्षरति न चलतीत्यक्षरं सदैकरसरूपं पुरुषोत्तमचरणात्मकं भक्तहृदयादचलं गृहात्मकं वा स्थिरं तत्। परमं परः पुरुषोत्तमो मीयत अस्मिन्निति परमं ब्रह्म बृहत् व्यापकं च। स्वभावः स्वस्य भगवतो दास्यादिसेवासिद्ध्यर्थं जीवरूपेण भवनम्। अध्यात्मम् आत्मानमविकृतं सेवायोग्यं देहमधिकृत्य तदनुभवे वर्त्तमानो जीवभावोऽध्यात्मशब्देनोच्यत इत्यर्थः। भूतानां जीवानां भावस्य भगवद्रसरूपस्योद्भवकरः प्रकटकारको यो विसर्गो भगवदथद्रव्यादिविनियोगेन सेवारूपः स कर्मसंज्ञितः क्रियारूपः कर्मशब्दवाच्य इत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.3।।प्रश्नक्रमेणोत्तरमाह श्रीभगवान् -- अक्षरमिति त्रिभिः। अत्रवदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिति शब्द्यते इति भागवतपद्ये [1।2।11] ब्रह्माक्षरोऽव्यक्तोऽगणितानन्दकः यः परमात्मा सत्त्वदर्शनीयाङ्गः प्रकटानन्दांशः भगवान् पुरुषोत्तमो दर्शनीयाङ्गो निर्गुणः सदानन्द इत्युपपादितम्। यत् ब्रह्मेति निर्दिष्टं परमं प्रधानं उत्कृष्टमक्षरं न क्षरतीत्यक्षरं क्षेत्रज्ञं समष्टिव्यष्टिमूलं कूटस्थं गणितानन्दकमध्यात्मरूपं भगवतोऽभिन्नमपि पृथगुच्यते भगवद्धामत्वादित्यग्रे वक्ष्यते। यथा च सात्वततंत्रे -- विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः। प्रथमं महतः स्रष्टृ द्वितीयं खण्डसंस्थितम्। तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते इति प्रथमं अक्षरं द्वितीयं समष्टिरूपं तृतीयं व्यष्टिजीवरूपमिति बोध्यम्। अध्यात्मं आत्मनि अधिगम्यमान षोडशकलं सूक्ष्मं सेन्द्रियमनोरूपं स्वभावः। भूतेति -- भूतानां पञ्चानां भावो भौतिकं शरीरं तस्योद्भवकरो (भावेन वासनया उद्भवकरो) विसर्गःअग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति (ते) इति पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति [छा.उ.5।3।3] इति श्रुतिप्रतिपादितः कर्मपदस्यार्थः विशेषेण सर्जनस्वभावत्वात् इति पूर्वेषां वेद्यं निर्णीत्तम्।

'''आनन्दगिरिव्याख्या'''

।।8.3।।व्याख्यातप्रश्नसप्तकस्य प्रतिवचनं भागवतमवतारयति -- एषामिति। क्रमेण कृतानां प्रश्नानां क्रमेणैव प्रतिवचने प्रष्टुरभीष्टप्रतिपत्तिसौकर्यं सिध्यतीति बुध्यमानो विशिनष्टि -- यथाक्रममिति। तत्र प्रश्नत्रयं निर्णेतुं भगवद्वचनमुदाहरति -- अक्षरमिति। किं तद्ब्रह्मेति प्रश्नस्य प्रतिवचनम् -- अक्षरं ब्रह्म परममिति। तत्राक्षरशब्दस्य निरुपाधिके परस्मिन्नात्मन्यविनाशित्वव्याप्तिमत्त्वसंबन्धात्प्रवृत्तिं व्युत्पादयति -- अक्षरमित्यादिना। कथं पुनरक्षरशब्दस्य यथोक्ते परमात्मनि वृद्धप्रयोगमन्तरेण व्युत्पत्त्या प्रवृत्तिराश्रीयते व्युत्पत्तेरर्थान्तरेऽपि संभवादित्याशङ्क्य द्यावापृथिव्यादिविषयनिरङ्कुशप्रशासनस्य परस्मादन्यस्मिन्नसंभवात्तथाविधप्रशासनकर्तृत्वेन श्रुतमक्षरं ब्रह्मैवेत्याह -- एतस्येति। रूढिर्योगमपहरतीति न्यायादोंकारे वर्णसमुदायात्मन्यक्षरशब्दस्य रूढ्या प्रवृत्तिराश्रयितुमुचितेत्याशङ्क्याह -- ओंकारस्येति। प्रतिवचनोपक्रमे प्रक्रान्तमोंकाराख्यमक्षरमेवोत्तरत्र विशेषितं भविष्यतीत्याशङ्क्य परमविशेषणविरोधान्न तस्य प्रक्रमः संभवतीत्याह -- परममिति चेति। किमध्यात्ममिति प्रश्नस्योत्तरं स्वभावोऽध्यात्ममित्यादि। तद्व्याचष्टे -- तस्यैवेति। स्वकीयो भावः स्वभावः श्रोत्रादिकरणग्रामः स चात्मनि देहेऽहंप्रत्ययवेद्यो वर्तत इत्यमुं प्रतिभासं व्यावर्त्य स्वभावपदं गृह्णाति -- स्वो भाव इति। एवं विग्रहपरिग्रहे स्वभावोऽध्यात्ममुच्यत इत्यस्यायमर्थो निष्पन्नो भवतीत्यनुवादपूर्वकं कथयति -- स्वभाव इति। तस्यैव परस्येत्यादिनोक्तं न विस्मर्तव्यमिति विशिनष्टि -- परमार्थेति। परमेव हि ब्रह्म देहादौ प्रविश्य प्रत्यगात्मभावःमनुभवतितत्सृष्ट्वा तदेवानुप्राविशत् इति श्रुतेरित्यर्थः। किं कर्मेति प्रश्नस्योत्तरमुपादत्ते -- भूतेति। भूतान्येव भावास्तेषामुद्भवः समुत्पत्तिस्तां करोतीति व्युत्पत्तिं सिद्धवत्कृत्य विधान्तरेण व्युत्पादयति -- भूतानामिति। भावः सद्भावो वस्तुभावोऽतएव भूतवस्तूत्पत्तिकर इति वक्ष्यति। वैदिकं कर्मात्रोक्तविशेषणं कर्मशब्दितमिति विसर्गशब्दार्थं दर्शयन्विशदयति -- विसर्ग इत्यादिना। कथं पुनर्यथोक्तस्य यज्ञस्य सर्वेषु भूतेषु सृष्टिस्थितिप्रलयहेतुत्वेन तदुद्भवकरत्वमित्याशङ्क्य अग्नौ प्रास्ताहुतिः इत्यादिस्मृतिमनुस्मृत्याह -- एतस्माद्धीति।

'''धनपतिव्याख्या'''

।।8.3।।क्रमेण कृतानां प्रश्नानां तथैव प्रतिवचने प्रश्नकर्तुरिष्टं सुखेन प्रश्नोत्तरदानं सिध्यतीत्याशयवानर्जुनकृतप्रश्नानां क्रमेण निर्णयाय श्रीभगवानुवाच। तत्रते ब्रह्म तद्विदुः कृत्स्त्रमि त्यत्र निर्गुणं ब्रह्म विविक्षितमिति प्रथमप्रश्नस्योत्तरमाह -- अक्षरं ब्रह्मेति। यदुक्तं किं तदब्रह्मेति तदक्षरं न क्षरतीत्यक्षरं विनाशरहितं अश्रुते व्याप्नोति सर्वमिति व्युत्पत्त्या वाक्षरं सर्वत्र व्यापकम्। रुढ्याक्षरशब्देनोंकारप्रतिपत्तिभ्रमं वारयति -- परममिति। परत्वं निरतिशयं परमात्मन एव पृथिव्याद्याकाशान्तस्य विकारजातस्य धारणात्। तथाच सूत्रंअक्षरमम्बरान्तधृतेः इतिकस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति सहोवाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्यादि श्रुयते। तत्र संशयः किमक्षरशब्देनि वर्ण उच्यते किंवा परमेश्वर इति। तत्राक्षरसमाम्राय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् प्रसिद्य्धतिक्रमस्य चायुक्तत्वादोंकार एवेदं सर्वमित्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मत्वावधारणात् वर्ण एवाक्षरशब्दवाच्य इत्येवं प्राप्त उच्यते। परएव आत्माक्षरशब्दवाच्यः कस्मादम्बरान्तधृतेः पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात्। तत्र हि पृथिव्यादेः समस्तस्य विकारजातस्य कालत्रयप्रविभक्तस्याकाशएव तदोतं च प्रोतं चेत्याकाशप्रतिष्ठत्वमुकत्वा कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेत्यनेन प्रश्नेनेदमक्षरमवतीरितं। तथाचोपसंहृतमेतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति। नचेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र संभवति। यदप्योंकार एवेदं सर्वमिति तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम्। तस्मान्न क्षरत्यश्रुते वेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्मेति परममिति विशेषणादक्षरशब्देन जीवप्रधानप्रतिभ्रमोऽपि चारितः।।तृतीयप्रश्नस्योत्तरमाह -- भूतभावोद्भवकरः भूतानां भावो भूतभावः तस्योद्भवो भूतभावोद्भवस्तं करोतीति भूतभावोद्भवकरो भूतवस्तूत्पत्तिकर इति। भाष्ये भूतान्येव भावास्तेषामुद्भवः समुत्पत्तिस्तां करोतीति व्युत्पत्तिं सिद्धवत्कृत्य विधान्तरेण व्युत्पादयति -- भूतानामिति। भावः सद्भावो वस्तुभाव इति तट्टीकाकाराः। एवंच भूतानां भवनधर्मकाणां भाव उत्पत्तिः उद्भवो वृद्धिश्च तयोः करः भूतभावोद्भवकर इत्यादिष्युत्पत्तिसिद्धवत्करोऽपि बोध्यः। विसर्जन विसर्गः देवतोद्देशेन चरुपुरोडाशादेर्द्रव्यस्य परित्यागः सएव विसर्गलक्षणो यज्ञादिरुपो वेदविहितः कर्म संज्ञितः कर्मशब्देन मयोक्त इत्यर्थः।अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः।। इत स्मृतिभूतानां चराचराणामुद्भवमेतस्मात्कर्मणो दर्शयति।

'''नीलकण्ठव्याख्या'''

।।8.3।।क्रमेणैषां प्रश्नानामुत्तरमाह -- अक्षरमित्यादिभिस्त्रिभिः। तत्र किं तद्ब्रह्मेत्यस्योत्तरमक्षरं परमं ब्रह्मेति। यत्परमक्षरं तद्ब्रह्मेति योजना। अक्षरशब्दस्य वर्णेषु रूढत्वात्ओमित्येतदक्षरम् इत्यादिश्रुतौओमित्येकाक्षरं ब्रह्म इति स्मृतौ च दर्शनेनात्रापि प्रणवस्याक्षरशब्देन ग्रहणे प्रसक्ते परममिति विशेषणं प्रणवस्य परब्रह्मत्वासंभवात्। अतश्चएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम् इति श्रुतिप्रसिद्धमखण्डैकरसं वस्तु अक्षरशब्दितं तद्ब्रह्मेति प्राञ्चः। यद्वा अक्षरशब्देन जीवःकूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्यः इति गीतासुक्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः इति श्रुतौ च कूटस्थपदेनामृतपदेन च विशेषितस्याक्षरपदस्य जीववाचित्वदर्शनात्। अमृतोक्षरमित्यपेक्षिते उत्वाभावश्छान्दसः। तथाचाक्षरं जीवाख्यं परमं ब्रह्म। परममिति विशेषणेन सोपाधिकस्य पूर्वाध्यायोक्तस्य व्यावृत्तिः। नहि जीवस्य सोपाधिकस्य ब्रह्मभावः संभवति। व्यावर्तकोपाधौ मायादर्पणे जाग्रति तयोरभेदायोगात्।किं तद्ब्रह्म इति प्रश्ने परममिति विशेषणाभावेऽपिते ब्रह्म तद्विदुः कृत्स्नम् इति प्रश्नोत्थापके सूत्रे परमत्ववाचिना कृत्स्नपदेन ब्रह्मणो विशेषितत्वादुत्तरेऽपि ब्रह्मण एव परममिति विशेषं युज्यत एव। प्रश्नेऽपि तच्छब्देन कृत्स्नत्वस्यैव ग्रहात्। ततश्च किं तत्कृत्स्नं प्रश्ने यदक्षरं जीवाख्यं तदेवापेतोपाधिसंबन्धं सत् कृत्स्नं ब्रह्मेति तत्त्वमसीति महावाक्यार्थः प्रतीचो ब्रह्मभावः प्रतिपादितो भवतीति ह्यद्यम्। तथा स्वोऽनागन्तुको भावः स्वरूपं स्वभावः शुद्धस्त्वंपदार्थः सोऽध्यात्ममुच्यते। भाष्ये तु तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वो भावः स्वभावोऽध्यात्ममुच्यते अध्यात्मशब्देनाभिधीयत इति। विसर्गो देवतोद्देशेन द्रव्यत्यागात्मको यागः स कर्मसंज्ञितः। तमेव विशिनष्टि -- भूतेति। भूतानां भावः सात्विकादिः स्वभावः उद्भवश्च तयोः करणात् भूतभावोद्भवकरः। तथाहिबुद्धिः कर्मानुसारिणी इति कर्मानुसारित्वं भावस्य स्मर्यते। तथा उद्भवोऽपि कर्मत एव स्मर्यते।अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति।

'''श्रीधरस्वामिव्याख्या'''

।।8.3।। प्रश्नक्रमेणोत्तरं श्रीभगवानुवाच -- अक्षरमिति त्रिभिः। न क्षरति न चलतीत्यक्षरम्। ननु जीवोऽप्यक्षरस्तत्राह -- परमं यदक्षरं जगतां मूलकारणं तद्ब्रह्मएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति इति श्रुतेः। स्वस्यैव ब्रह्मण एवांशतो जीवरूपेण भवनं स्वभावः स एवात्मानं देहमधिकृत्य भोक्तृत्वेन वर्तमानोऽध्यात्मशब्देनोच्यत इत्यर्थः। भूतानां जरायुजादीनां भाव उत्पत्तिः उद्भवश्च उत्कृष्टत्वेन भवनमुद्भवःआदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इत्युक्तक्रमेण वृद्धिः तौ भूतभावोद्भवौ करोति यः विसर्गः देवतोद्देशेन द्रव्यत्यागरूपो यज्ञः। सर्वकर्मणामुपलक्षणमेतत्। स कर्मशब्दवाच्यः।

'''वेङ्कटनाथव्याख्या'''

।।8.3।।अक्षरं ब्रह्म परमम् इत्यत्र उद्देश्योपादेयान्यथाभावनिरासायाह -- तद्ब्रह्मेति निर्दिष्टमिति। ब्रह्मशब्दोऽत्र परमात्मसाधर्म्यादुपचारवृत्त्येति भावः। अक्षरः शब्दस्य निर्वचनं प्रतिपाद्यं च दर्शयतिन क्षरतीत्यादिना। क्षेत्रज्ञसमष्टौ श्रौतं प्रयोगं दर्शयतितथा चेति। लयोऽत्र संश्लेषविशेषः। अथवा श्रुतावक्षरशब्देन उन्मग्नचेतनांशः प्रकृत्यवस्थाविशेष एव अभिधीयत इति साक्षात्प्रलयार्थत्वेऽपि न विरोधः। तथापि शब्दप्रवृत्तिद्वारभूतचिदंशे तात्पर्यात्तदुदाहरणम्।परममक्षरम् इत्यत्र विशेषणाभिप्रेतमाह -- प्रकृतिविनिर्मुक्तमात्मस्वरूपमिति। स्वभावशब्दार्थःप्रकृतिरिति। नियतसम्बद्धमिति यावत्। किं तदित्याकाङ्क्षायां अध्यात्मशब्दानुसारेणाह -- अनात्मेति। आत्मन्यधिवसनात् सम्बध्यमानमित्यध्यात्मशब्दनिर्वचनम्। तत एव सिद्धमनात्मत्वम्।तद्वासनादिकं तत्संसर्गोपाधिकाज्ञानकर्मवासनादिकम्। भूतसूक्ष्मादेर्ज्ञातव्यत्वे श्रुतिं दर्शयति -- पञ्चाग्निविद्यायामिति। वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इत्युपक्रम्य इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इत्युक्त्वा तद्य इत्थं विदुः [छां.उ.5।10।1] इत्यप्छब्दोपलक्षितपञ्चभूतसूक्ष्मवेद्यत्वं ह्युक्तमिति भावः। ननूपायकर्तृभूतेदानीन्तनात्मस्वरूपपरित्यागेन परिशुद्धात्मस्वरूपकथनं मुमुक्षोः क्वोपयुक्तं भूतसूक्ष्मादिकथनं च किमर्थं इत्यत्राहतदुभयमिति। यथाक्रममन्वयः। अत्र पञ्चमाहुतेर्विवक्षितत्वाद्योनिजभूतविषयोऽयं भूतशब्द इत्यभिप्रायेणाह -- भूतभावो मनुष्यादिभाव इति। मनुष्यत्वादिविशिष्टशरीरयोग इत्यर्थः। विशिष्टस्य विसर्गस्य ज्ञातव्यत्वे तस्य मनुष्यादिभावहेतुत्वे च श्रुतिं दर्शयति -- पञ्चम्यामिति। अत्र मूत्रमरुन्मलादिविसर्गव्यवच्छेदार्थमुक्तंभूतभावोद्भवकर इति। तदेव दर्शयति -- योषित्सम्बन्धज इति। विसर्गविशेषणसामर्थ्यादेतत्सिद्धम्। एवं कर्मसंज्ञितरेतोविसर्गज्ञानस्य सप्रयोजनतामाह -- तच्चाखिलमिति। अत्र कर्माभिप्रायेण नपुंसकनिर्देशः।अखिलं मनुष्यत्वमृगत्वादिजातिभेदहेतुतयाऽनेकप्रकारम्।सानुबन्धं हेतुभूतैः कर्मभिः फलभूतैश्च गर्भवासादिभिः सहितमित्यर्थः। पञ्चाग्निविद्यायामुदितसर्वावस्थानुयायित्वदुस्त्यजत्वजन्मादिदुःखकरत्वादेः फलितत्वाज्जुगुप्सनीयतारूपा भयावहत्वरूपा चोद्वेजनीयता युक्ता। परिहरणीयता तु कुतः सिद्ध्येत् इत्यत्राहपरिहरणीयता चेति।

<poem>
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥८- ४॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.4।। --,अधिभूतं प्राणिजातम् अधिकृत्य भवतीति। कोऽसौ क्षरः क्षरतीति क्षरः विनाशी भावः यत्किञ्चित् जनिमत् वस्तु इत्यर्थः। पुरुषः पूर्णम् अनेन सर्वमिति पुरि शयनात् वा पुरुषः आदित्यान्तर्गतो हिण्यगर्भः सर्वप्राणिकरणानाम् अनुग्राहकः सः अधिदैवतम्। अधियज्ञः सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता यज्ञो वै विष्णुः इति श्रुतेः। स हि विष्णुः अहमेव अत्र अस्मिन् देहे यो यज्ञः तस्य अहम् अधियज्ञः यज्ञो हि देहनिर्वर्त्यत्वेन देहसमवायी इति देहाधिकरणो भवति देहभृतां वर।।

'''माध्वभाष्यम्'''

।।8.4।।भूतानि सशरीरान् जीवानधिकृत्य यत्तदधिभूतम्। क्षरो भावो विनाशिकार्यपदार्थः। अव्यक्तान्तर्भावेऽपि तस्याप्यन्यथाभावाख्यो विनाशोऽस्त्येव। तच्चोक्तम् -- अव्यक्तं परमे व्योम्नि निष्क्रिये सम्प्रलीयते इति।तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम इति च।विकारोऽव्यक्तजन्म हि इति च स्कान्दे। पुरि शयनात्पुरुषो जीवः स च सङ्कर्षणो ब्रह्मा वा। स सर्वदेवानधिकृत्य तत्पतिरित्यधिदैवतम् देवाधिकारस्थ इति वा।सर्वयज्ञभोक्तृत्वादेरधियज्ञः। अन्योऽधियज्ञोऽग्न्यादिः प्रसिद्ध इति देह इति विशेषणम्।भोक्तारं यज्ञतपसां [5।29]।त्रैविद्या मां [9।20]।ये त्वन्यदेवताभक्ताः। [9।23] एतस्य वा अक्षरस्य प्रशासने ৷৷. गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः [बृ.उ.3।8।9] इत्यादेः।कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैश्श्रेयसं पदम् [मं.भा.12।334।2] इत्यादिपरिहारश्च मोक्षधर्मे। भगवांश्चेत्तद्भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति कथमित्यस्य परिहारः पृथङ्नोक्तः। सर्वप्राणिदेहस्थरूपेण साधियज्ञः।अत्रेति स्वदेहनिवृत्त्यर्थम्। न हि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति। नात्रोक्तं ब्रह्म भगवतोऽन्यत्।ते ब्रह्म [7।29] इत्युक्त्वासाधिभूताधिदैवं मां साधियज्ञं च ये विदुः [7।30] इति परामर्शात् तस्यैव च प्रश्नात्।साधियज्ञं इति भेदप्रतीतेस्तन्निवृत्त्यर्थंअधियज्ञोऽहं इत्युक्तम्। मामित्यभेदप्रसिद्धेरक्षरमित्येवोक्तम्। आह च गीताकल्पे -- देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः। कर्मेश्वरस्य सृष्ट्यर्थं तच्चापीच्छाद्यमुच्यते। अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते। हिरण्यगर्भोऽधिदैवं देवः सङ्कर्षणोऽपि वा। ब्रह्म नारायणो देवः सर्वदेवेश्वरेश्वरः इति।यथा प्रतीतं वा सर्वमत्र नैव विरुध्यते इति। स्कान्दे च -- आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते। देहाद्बाह्यं विनाऽतीव बाह्यत्वादधिदैवतम्। देवाधिकारगं सर्वं महाभूताधिकारगम्। तत्कारणं तथा कार्यमधिभूतं तदन्तिकात् इति। महाकौर्मे च -- अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम्। सदेहजीवभूतानि यत्तेषामुपकारकृत्। अधिभूतं तु मायान्तं देवानामधिदैवतम् इति।

'''रामानुजभाष्यम्'''

।।8.4।।ऐश्वर्यार्थिनां ज्ञातव्यतया निर्दिष्टम् अधिभूतं क्षरो भावः वियदादिभूतेषु वर्तमानः तत्परिणामविशेषः क्षरणस्वभावो विलक्षणः शब्दस्पर्शादिः साश्रयः विलक्षणाः साश्रयाः शब्दस्पर्शरूपरसगन्धाः ऐश्वर्यार्थिभिः प्राप्याः तैः अनुसंधेयाः।पुरुषश्च अधिदैवतम् अधिदैवतशब्दनिर्दिष्टः पुरुषः अधिदैवतं दैवतोपरि वर्तमानम् इन्द्रप्रजापतिप्रभृतिकृत्स्नदैवतोपरि वर्तमानः इन्द्रप्रजापतिप्रभृतीनां भोग्यजाताद् विलक्षणशब्दादेः भोक्ता पुरुषः सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतया अनुसन्धेया।अधियज्ञः अहम् एव अधियज्ञशब्दनिर्दिष्टो अहम् एव अधियज्ञः यज्ञैः आराध्यतया वर्तमानः अत्रेन्द्रादौ मम देहभूते आत्मतया अवस्थितः अहम् एव यज्ञैः आराध्य इति महायज्ञादिनित्यनैमित्तकानुष्ठानवेलायां त्रयाणाम् अधिकारिणाम् अनुसन्धेयम् एतत्।इदमपि त्रयाणां साधारणम् --

'''अभिनवगुप्तव्याख्या'''

।।8.4।।अधिभूतमिति। क्षरति स्रवति परिणामादिधर्मेण इति क्षरः (S omits क्षरः) घटादिः पदार्थग्राम उच्यते। पुरुषः आत्मा। स च अधिदैवतम् तत्र सर्वदैवतानां परिनिष्ठितत्त्वात्। अत एव अशेषयज्ञभोक्तृत्वेन यज्ञान् अवश्यकार्याणि कर्माणि अधिकृत्य यः स्थितः पुरुषोत्तमः सः अहमेव। अहमेव च देहे स्थित इति प्रश्नद्वयमेकेन यत्नेन निर्णीतम्।

'''जयतीर्थव्याख्या'''

।।8.4।।परिहारं सङ्गमयितुमधिभूतशब्दार्थं तावदाह -- भूतानीति। अधिकृत्य तदुपकारित्वेन यद्वर्ततेक्षरः,सर्वाणि भूतानि [15।16] इति वक्ष्यमाणं क्षरं व्यावर्तयितुं व्याचष्टे -- क्षर इति। क्षरशब्दव्याख्या विनाशीति। भावशब्दस्यार्थद्वयं कार्य इति पदार्थ इति। भवत्युत्पद्यत इति भावः। उत्पत्तिमान्पदार्थो नाशवान् पदार्थ इति प्रत्येकमुत्तरम्। सर्वभूतानामध्यात्मत्वान्न ग्रहणम्। नन्वव्यक्तमपि सशरीरान् जीवानधिकृत्य वर्तत इति तस्याप्यधिभूतेऽन्तर्भावोऽस्त्येव न चैतद्विनाशि कार्यं वानासतः [2।16] इत्युक्तत्वात्। ततोऽव्यापकमुत्तरमित्यत आह -- अव्यक्तेति। अव्यक्तस्याधिभूतान्तर्भावेऽपि नाव्यापकमुत्तरमिति शेषः। कुतः इत्यत आह -- तस्यापीति। अन्यथाभावो वैषम्यपरित्यागेन साम्यावस्थापत्तिः। यत इति शेषः। तथा विक्रियालक्षणं जन्म चेत्यपि ग्राह्यम्। उभयत्र क्रमेण प्रमाणान्याह -- तच्चेति। व्योम्नि व्याप्ते प्रलये प्रचुरव्यापाराभावात् निष्क्रिये। ननु पुरुषः परमात्मा स ब्रह्माधियज्ञशब्दाभ्यामुक्त इत्यत आह -- पुरी त। शरीरे अधिकरणे शेतेः [अष्टा.3।2।15] इति डः।वर्णागमो वर्णविपर्ययश्च इत्यादिना साधुः। तथाप्यध्यात्मशब्देन गतार्थतेत्यत आह -- स चेति। सर्वजीवाभिमानित्वादिति भावः। तस्याधिदैवत्वं कथं इत्यतो द्वेधाऽऽह -- स इति। अधिकृत्य वर्तत इत्यस्यैव विवरणं -- पतिरिति। देवाधिकारस्थस्तत्प्रकरणेषु मुख्यतः प्रतिपाद्यः। सर्वदेवतासङ्ग्रहार्थं वा द्वितीयं व्याख्यानम्। अक्षरार्थस्तु पूर्ववत्।अधियज्ञः कथं [8।2] इत्यस्योत्तरं भगवताऽनुक्तं भाष्यकृदाह -- सर्वेति। आदिपदेन तत्प्रवर्तकत्वादिनाऽध्यात्मशब्दवदधियज्ञशब्देऽव्ययीभावः। किन्तु अधिगतो यज्ञमिति प्रादिसमासः। अधिष्ठितो यज्ञोऽनेनेति बहुव्रीहिर्वा।अधियज्ञः कः इति प्रश्ने तत्परिहारे च देह इत्यस्य प्रयोजनमाह -- अन्य इति। अन्यो भगवतः इति सिद्धार्थतापरिहारार्थं प्रश्नवाक्ये देह इति विशेषणं प्रयुक्तं कर्तृभोक्तृफलदातृ़णां हेप्रेरकत्वेन वर्तमान इति। अतः परिहारवाक्येऽपि यथाप्रश्नं तदुपात्तमिति वाक्यशेषः। भगवतः सर्वयज्ञभोक्तृत्वं कुतो येनैवमुत्तरमध्याह्रियते इत्यत आह -- भोक्तारमिति। त्रैविद्यानुष्ठितयज्ञभोक्तृत्वाभावात्सर्वेत्यनुपपन्नमित्यत आह -- त्रैविद्या इति। प्रवर्तकत्वे श्रुतिमाह -- एतस्येति। यज्ञफलदातृत्वादौ प्रमाणमाह -- कुतो हीति। ध्रुवश्चिरन्तनः। निश्श्रेयसे मुक्तौ भवं पदं सुखम्। इत्यादेः प्रश्नस्य। नन्वेष परिहरो भगवतैवं कुतो नोक्तः इत्यत आह -- भगवांश्चेदिति। चेच्छब्दो यदाशब्दार्थे। अधियज्ञोऽहमिति यदाधियज्ञत्वेन भगवानुक्तः तदा तस्य सर्वयज्ञभोक्तृत्वादेरधियज्ञत्वमर्जुनस्य सिद्धमेव भोक्तारमित्यादेरर्थस्य तेन श्रुतत्वात् अन्यत्वपक्ष एव कथमिति पृष्टत्वात्। एवमालोच्य भगवता कथमित्यस्य प्रश्नस्य परिहारोऽधियज्ञोऽहमित्यतः पृथक् नोक्तः। अस्माभिस्तु मन्दान्बोधयितुमुक्त इति भावः। ननु यज्ञधियज्ञः स्वयमेव तर्हि कथंसाधियज्ञं मां इति प्रागवोचत् इत्यत आह -- सर्वेति। रूपविशेषापेक्षया साहित्यमुक्तमिति भावः। अनेन परिहारवाक्यस्थस्य देह इति विशेषणस्य प्रयोजनान्तरं चोक्तं भवति।अत्रेति देहविशेषणं किमर्थं इत्यत आह -- अत्रेति। इह लौकिके देह इत्यर्थः। कुत ईश्वरदेहो व्यावर्तनीयः इत्यत आह -- न हीति। तत्र स्वदेहे। पृथक् पृथग्भावेन। यथाऽधियज्ञोऽहमेवेत्युक्तं न तथा ब्रह्माहमिति। अतो भगवतोऽन्यदेवेदं ब्रह्म परममिति तु स्वरूपकथनम्। न तु विशेषणमिति शङ्का निवारयति -- नात्रेति। पूर्वाध्यायेते ब्रह्म तद्विदुः [7।29] इत्युक्त्वा कथम्भूतं ब्रह्मेत्याकाङ्क्षायां साधिभूताधिदैवं साधियज्ञं च ब्रह्मेति वक्तव्ये मामिति ब्रह्मणः परामर्शात्। तत्रास्तु भगवानेव ब्रह्म अत्र तु कुतः इत्यत आह -- तस्यैवेति पृष्टस्यैव वक्तव्यत्वात्। तर्हि अधियज्ञस्य ब्रह्मणश्च भगवत्त्वादेकत्राहमेवेत्युक्तिः अपरत्र तदनुक्तिः किंनिबन्धना इत्यत आह -- साधियज्ञमिति। शेषं तात्पर्यनिर्णये। एतेनापव्याख्यानमपि निरस्तम्। द्वादशादौ च विस्तरेण आगमसम्मत्योक्तं स्थापयति -- आह चेति। यानि देहस्थविष्णुरूपाणिसोधियज्ञ इतीरितः। तदपीच्छाप्रयत्नाद्यमेव न तु परिणामरूपम्। जडं देहाद्बाह्यम्। न केवलमेषां पदानामेतावन्मात्रार्थत्वं किन्तु यथाप्रतीतं प्रतीतिमनतिक्रम्य शब्दशक्त्या यावत्प्रतीतं प्रमाणाविरुद्धं च तदत्र व्याख्यायमानं वक्तुरभिप्रायं न व्यभिरचरतीत्यर्थः. कि़ञ्चिद्व्यवहितत्वात् मध्येऽपीति शब्दः। एतदेव वाक्यान्तरेण स्पष्टयति -- स्कान्दे चेति। आत्मनोऽभिमानस्य विषयः आत्माधिकारस्थं तत्र प्रतिपाद्यं देहाद्बाह्यं विनेति। सामर्थ्यादात्माभिमानस्थेन सम्बध्यते। तत्र युक्तिः अतीव बाह्यत्वात्। अत्यभिमानविषयत्वाभावात्। महाभूताधिकारगं महाभूतम्। कार्यकारणग्रहणहेतुः। तदन्तिकात्तत्तादात्म्यात् देवानामुपकारकृत्।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.4।। संप्रत्यग्रिमप्रश्नत्रयस्योत्तरमाह -- क्षरतीति क्षरो विनाशी भावो यत्किंचिज्जनिमद्वस्तु भूतं प्राणिजातमधिकृत्य भवतीत्यधिभूतमुच्यते। पुरुषो हिरण्यगर्भः समष्टिलिङ्गात्मा व्यष्टिसर्वकरणानुग्राहकः।आत्मैवेदमग्र आसीत्पुरुषविधः इत्युपक्रम्यस यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुषः इत्यादि श्रुत्या प्रतिपादितः। चकारात्स वै शरीरी प्रथमः स वै पुरुष उच्यते। आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत इत्यादिस्मृत्या च प्रतिपादितः। अधिदैवतं दैवतान्यादित्यादीन्यधिकृत्य चक्षुरादिकरणान्यनुगृह्णातीति तथोच्यते। अधियज्ञः सर्वयाज्ञाधिष्ठाता सर्वयज्ञफलदायकश्च। सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता।यज्ञो वै विष्णुः इति श्रुतेः। सच विष्णुरधियज्ञोऽहं वासुदेव एव न मद्भिन्नः कश्चित्। अतएव परब्रह्मणः सकाशादत्यन्ताभेदेनैव प्रतिपत्तव्य इति कथमिति व्याख्यातम्। सचात्रास्मिन्मनुष्यदेहे यज्ञरूपेण वर्तते बुद्ध्यादिव्यतिरिक्तो विष्णुरूपत्वात्। एतेन स किमस्मिन्देहे ततो बहिर्वा देहे चेत्कोऽत्र बुद्ध्यादिस्तद्यतिरिक्तो वेति संदेहो निरस्तः। मनुष्यदेहे य यज्ञस्यावस्थानं यज्ञस्य मनुष्यदेहनिर्वत्वात्पुरुषो वै यज्ञः पुरुषस्तेन यज्ञो यदेनं पुरुषस्तनुते इत्यादिश्रुतेः। हे देहभृतां वर सर्वप्राणिनां श्रेष्ठेति संबोधयन् प्रतिक्षणं मत्संभाषणात्कृतकृत्यस्त्वमेतद्बोधयोग्योऽसीति प्रोत्साहयत्यर्जुनं भगवान्। अर्जुनस्य सर्वप्राणिश्रेष्ठत्वं भगवदनुग्रहातिशयभाजनत्वात्प्रसिद्धमेव।

'''पुरुषोत्तमव्याख्या'''

।।8.4।।एवं ब्रह्माध्यात्मकर्मोत्तराण्युक्त्वाऽधिभूताद्युत्तराण्याह -- अधिभूतमिति। क्षरो भावो विनश्वरो देहो भगवद्विप्रयोगतापाधिक्येन नाशभावयुक्तोऽधिभूतं जीवमात्रमधिकृत्य भवतीति अधिभूतं दास्यार्थमाविर्भावितस्वांशे विप्रयोगतापार्थं प्रकटीक्रियत इति तथोच्यत इति भावः। च पुनः। पुरुषो मम जीवहृदि पुरुषत्वेन रसात्मको भावः स अधिदैवः तं क्रीडात्मकभावमधिकृत्य भवतीति सर्वमूलरूप इति तथोच्यत इति भावः। किञ्च हे देहभृतां वर मत्सेवौपयिकसामर्थ्ययुक्त अत्र जगति देहे देहनिमित्तं सेवौपयिकोपचयार्थं अधियज्ञः यज्ञादिकर्मात्मकस्तत्प्रवर्तकश्चेत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.4।।अग्रिमाणामाह -- अधिभूतमिति। पूर्वनिर्दिष्टमधिभूतं क्षरो भावः भूताधिकृतः क्षरणस्वभावो भौतिकः पदार्थः युष्मदादिविराडन्तः किञ्च पुरुषो जीवोऽत्रात्मा सर्वत्रास्त्यधिदैवतं (सर्वेषामधिदैवतं) सर्वसाधारणं शब्दादिभोक्तृ चेति सूर्याद्या अधिदेवताश्चकारेण संगृह्यन्ते। सा भोक्तृत्वावस्था पुरुषान्तर्यामिज्ञानिभिः (पुरुषोत्तमज्ञानिभिः) सर्वत्रैकरूपतया(सर्वाधिगम्यतया)ऽनुसन्धेया। अधियज्ञोऽहमिति -- यस्त्वया पृष्टः कोऽधियज्ञ इति स चाहं यज्ञाधिष्ठातावयवी यज्ञैश्चाराध्यः परमात्मरूपः।देहेऽस्मिन्कथं इत्यस्योत्तरमाह -- अत्र देहे समस्तभूतशरीरे तदन्तर्यामितया स्थितः यथोक्तं भागवते -- आध्यात्मिकस्तु यः प्रोक्तः सोऽसावेवाधिदैविकः। यस्तत्रोभयविच्छेदः स स्मृतो ह्याधिभौतिकः। एकमेकतराभावे यदि नोपलभामहे। त्रितयं तत्र यो वेद स आत्मा [स्वाश्रयाश्रयः] स्वाश्रयः परः। [भाग.2।10।9] इति। हे देहभृतां वर यथा देहभृतः केचन विज्ञाः (लिप्ताः) केचनाऽविज्ञाः (अलिप्ताः) तथाऽहमभिज्ञः (अलिप्तः) साक्षी त्वं चापि तेषु वरो जिज्ञासुः देहभृत्त्वादिति तं स्तौति।

'''आनन्दगिरिव्याख्या'''

।।8.4।।संप्रति प्रश्नत्रयस्योत्तरमाह -- अधिभूतमिति। अधिभूतं च किं प्रोक्तमित्यस्य प्रतिवचनं अधिभूतं क्षरो भाव इति। तत्राधिभूतपदमनूद्य वाच्यमर्थं कथयति -- अधिभूतमित्यादिना। तस्य निर्देशमन्तरेण निर्ज्ञातुमशक्यत्वात्प्रश्नद्वारा तन्निर्दिशति -- कोऽसाविति। कार्यमात्रमत्र संगृहीतमिति वक्तुमुक्तमेव व्यनक्ति -- यत्किंचिदिति। अधिदैवं किमिति प्रश्ने पुरुषश्चेत्यादिप्रतिवचनं तत्र पुरुषशब्दमनूद्य मुख्यमर्थं तस्योपन्यस्यति -- पुरुष इति। तस्यैव संभावितमर्थान्तरमाह -- पुरि शयनाद्वेति। वैराजं देहमासाद्यादित्यमण्डलादिषु दैवतेषु योऽन्तरवस्थितो लिङ्गात्मा व्यष्टिकरणानुग्राहकोऽत्र पुरुषशब्दार्थः स चाधिदैवतमिति स्फुटयति -- आदित्येति। अधियज्ञः कथमित्यादिप्रश्नं परिहरन्नधियज्ञशब्दार्थमाह -- अधियज्ञ इति। कथमुक्तायां देवतायामधियज्ञशब्दः स्यादित्याशङ्क्य श्रुतिमनुसरन्नाह -- यज्ञो वा इति। परैव देवताऽधियज्ञशब्देनोच्यते। सा च ब्रह्मणः सकाशादत्यन्ताभेदेन प्रतिपत्तव्येत्याह -- स हि विष्णुरिति। शास्त्रीयव्यवहारभूमिरत्रेत्युक्ता। देहसामानाधिकरण्याद्वात्रेत्यस्य व्याख्यानम् -- अस्मिन्निति। किमधियज्ञो बहिरन्तर्वा देहादिति संदेहो मा भूदित्याह -- देह इति। ननु यज्ञस्य देहाधिकरणत्वाभावात्कथं तथाविधयज्ञाभिमानिदेवतात्वं भगवता विवक्ष्यते तत्राह -- यज्ञो हीति। एतेन तस्य बुद्ध्यादिव्यतिरिक्तत्वमुक्तमवधेयम्। नहि परा देवता दर्शितरीत्याधियज्ञशब्दिता बुद्ध्यादिष्वन्तर्भावमनुभावयितुमलम्। देहान्बिभ्रतीति देहभृतः सर्वे प्राणिनस्तेषामेव वरः श्रेष्ठः। युक्तं हि भगवता साक्षादेव प्रतिक्षणं संवादं विदधानस्यार्जुनस्य सर्वेभ्यः श्रैष्ठ्यम्।

'''धनपतिव्याख्या'''

।।8.4।।अधिभूतं च किं प्रोक्तमिति चतुर्थप्रश्नस्योत्तरमाह -- अधिभूतमिति। भूतं प्राणिजातमधिकृत्य भवतीत्यधिभूतम्। क्षरो भावः क्षरतीति क्षरो विनाशी भावो यत्किंचिज्जनिमद्वस्त्वित्यर्थः। अधिदैवं किमुच्यत इति पञ्चमप्रश्नस्योत्तरमाह। पुरुषश्चाधिदैवतं पूर्णमनेन सर्वमिति पुरुषः सर्वासु पूर्षु शयनाद्वा पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः सर्वप्राणिकरणानुग्राहकः सोऽधिदैवतं दैवतान्यादित्यादीन्यधिकृत्य चक्षुरादिकरणग्राममनुगृह्णतीत्यधिदैवतमुच्यते। अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदनेति षष्ठश्रस्योत्तरमाह -- अधियज्ञ इति। यज्ञो हि देहेनोत्पात्द्योऽतो देहसमवायी। अतो देहस्तस्याधिकरणं भवति। अस्मिन्देहेऽधियज्ञः सर्वयज्ञाभिमानिनी देवता विषण्वाख्या।यज्ञो वै विष्णुः इति श्रुतेः। सोऽधियज्ञो विष्णुरहमेव कथमित्यवान्तरप्रकारप्रश्नोऽप्यनेनैव परिहृतः। अधियज्ञो बुद्य्धादिव्यतिरिक्तः परमात्माभिन्नोऽस्मिन्देहे प्रतिपत्तव्य इति। देहान्बिभ्रतीति देहभृतस्तेषां सर्वेषां प्राणिनां वरः श्रेष्ठस्तस्य संबोधनं हे देहभृतां वरेति। उक्तंच भगवता प्रतिक्षणं संवादं संविदधानस्यार्जुनस्य सर्वेभ्यः प्राणिभ्यः श्रैष्ट्यमिति भाष्यटीकाकाराः। एवंभूतं मां देहभृतां वरस्त्वं प्रतिपत्तुमर्हसीति सूचनार्थं,वा संबोधनम्।

'''नीलकण्ठव्याख्या'''

।।8.4।।क्षरो भावो जनिमद्वस्तु कर्मफलभूतं तत्साधनभूतं च तदधिभूतमित्युच्यते। अधिदैवतं पुरुषः सर्वासु पूर्षु वसतीति सर्वकरणानुग्राहकः सकलदेवतात्मा हिरण्यगर्भः। अधियज्ञो यज्ञाभिमानी विष्णुरन्तर्यामी सोऽहमेव देह्यस्मि। अत्रास्मिन्देहे देहभृतां वर।

'''श्रीधरस्वामिव्याख्या'''

।।8.4।।किंच -- अधिभूतमिति। क्षरो विनश्वरो भावो देहादिपदार्थो भूतं प्राणिमात्रमधिकृत्य भवतीत्यधिभूतमुच्यते। पुरुषो वैराजः सूर्यमण्डलमध्यवर्ती स्वांशभूतसर्वदेवतानामधिपतिरधिदैवतमुच्यते। अधिदैवतमधिष्ठात्री देवतास वै शरीरी प्रथमः स वै पुरुष उच्यते। आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत इति श्रुतेः। अत्रास्मिन्देहेऽन्तर्यामित्वेन स्थितोऽहमेवाधियज्ञो यज्ञाधिष्ठात्री देवता यज्ञादिकर्मप्रवर्तकस्तत्फलदाता च कथमित्यस्योत्तरमनेनैवोक्तं द्रष्टव्यम्। अन्तर्यामिणोऽसङ्गत्वादिभिर्गुणैर्जीववैलक्षण्येन देहान्तर्वर्तित्वस्य प्रसिद्धत्वात्। तथाच श्रुतिः -- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति इति। देहभृतां मध्ये श्रेष्ठ इति संबोधयन् त्वमप्येवंभूतमन्तर्यामिणं पराधीनस्वप्रवृत्तिनिवृत्त्यन्वयव्यतिरेकाभ्यां बोद्धुमर्हसीति सूचयति।

'''वेङ्कटनाथव्याख्या'''

।।8.4।।ऐश्वर्यार्थिनां ज्ञातव्यतया निर्दिष्टमित्येतदधिदैवतेऽप्यनुषञ्जनीयम् अधिभूतक्षरशब्दनिर्वचनानुरोधेन व्याख्यातिवियदादीति। भूतशब्दस्यात्र जन्तुविषयत्वव्यवच्छेदाय वियदादिशब्दः। शब्दाद्यवस्थातद्वतोर्भोग्ययोर्द्वयोरपि क्षरशब्देन सङ्ग्रहणायक्षरणस्वभाव इति निर्वचनम्। नश्वर इत्यर्थः।विलक्षण इतिइन्द्रप्रजापतिप्रभृतीनां भोग्यजातात् इति वक्ष्यमाणमत्रापि द्रष्टव्यम्। एवंविधं च वैलक्षण्यं स्वासाधारणभक्तियोगप्रसन्नपरमात्मसङ्कल्पविशेषप्रसूतभोगरूपत्वात्। अस्य ज्ञातव्यताहेतुं दर्शयति -- विलक्षणा इति।क्षरो भावः इत्येकवचनं जात्यभिप्रायमिति भावः।प्राप्याप्राप्यत्वादित्यर्थः। अधिदैवतशब्दे रूढिभ्रमव्युदासायाह -- अधिदैवतशब्दनिर्दिष्ट इति। तन्निरुक्तिःदैवतोपरिवर्तमानमिति। देवतोपरीति सम्बन्धसामान्यषष्ठ्या समासः। दैवतशब्दस्यात्र सर्वेश्वरात् सङ्कोचं देवतान्तरेष्वभिव्याप्तिं चाह -- इन्द्रेति। उपरि वर्तमानत्वमिह न केवलं देशाद्यपेक्षया किन्तु भोगप्रकर्षादपीत्यभिप्रायेणेत्याह -- इन्द्रेत्यादि पुरुष इत्यन्तम्।ननु पुरुषान्तरमिहाविवक्षितम् स्वात्मस्वरूपपुरुषानुसन्धानमधिकार्यन्तरस्यापि समानम् ततोऽत्र को विशेषः इत्यत्राह -- सा चेति। न परिशुद्धस्वरूपमिहानुसन्धेयं न चाशुद्धेऽपि हेयत्वमिह भाव्यम्। पुरुषशब्दनिर्देशश्चात्र भावप्रधान इति भावः।अहमेवेति क इति प्रश्नस्योत्तरम्। कथमिति प्रश्नस्योत्तरत्वं तदभिप्रेतं विवृणोति -- अधियज्ञ इति। यज्ञे सम्बध्यमानोऽधियज्ञः। तत्र च सर्वेश्वरस्याराध्यतया सम्बन्ध इत्याह -- यज्ञैराराध्यतया वर्तमान इति। इन्द्रादयो हि तत्र च आराध्याः श्रुताः तत्कथमहमेवेत्युच्यत इत्यत्रोत्तरम्अत्र देहे इत्यनेन विवक्षितमिति दर्शयति -- अत्रेन्द्रादाविति।अधियज्ञोऽहमेवात्र देहे इतीश्वरेणाभिधीयमानत्वात्तद्देहविषयत्वं प्रतीतम्। स चेश्वरदेहःयज देवपूजायाम् [1।1027] इति याज्यदेवतापेक्षयज्ञप्रसङ्गादिन्द्रादिरेवेत्यभिप्रायेणोक्तम् -- इन्द्रादाविति।यां यां तनुम् [7।21] इति प्रागुक्तं स्मारयति -- मम देहभूत इति। कर्मणा ह्यचिद्द्रव्यं कस्यचिद्देहो भवति न तथाऽत्र देहत्वं कादाचित्कमिति ज्ञापनायदेहभूत इति प्रयोगः। देहभूतकेवलेन्द्रादिव्यवच्छेदार्थंअहमेवेत्यवधारणम्। पूर्वनिर्दिष्टब्रह्माध्यात्मकर्माधिभूताधिदैववन्न तत्त्वान्तरमिति ज्ञापनार्थं वा। विष्णुः सर्वा देवताः इति च श्रुतिः। एतेनकथम् इति प्रश्नस्याप्युत्तरं दत्तम्। तत्तद्विशिष्टस्याराध्यत्वात्।देहभृतां वर,इत्यनेनाध्यात्मचिन्तानुगुणसत्त्वोत्तरदेहेन्द्रियादिमत्त्वं स्वस्यालौकिकेन्द्रादिदेहवत्त्वे निदर्शनं चाभिप्रेतम्। एवंविधाधियज्ञविज्ञानमनुष्ठानानुप्रविष्टम् न तु तदुपकारकमात्रम् न चैश्वर्यार्थिमात्रविषयमिति दर्शयति -- इति महायज्ञेति। अकरणनिमित्तानर्हतादिपरिहाराय त्रयाणामवश्यकर्तव्यताद्योतनायनित्यनैमित्तिकोक्तिः।

<poem>
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥८- ५॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.5।। --,अन्तकाले च मरणकाले च मामेव परमेश्वरं विष्णुं स्मरन् मुक्त्त्वा परित्यज्य कलेवरं शरीरं यः प्रयाति गच्छति सः मद्भावं वैष्णवं तत्त्वं याति। नास्ति न विद्यते अत्र अस्मिन् अर्थे संशयः -- याति वा न वा इति।।न मद्विषय एव अयं नियमः। किं तर्हि --,

'''माध्वभाष्यम्'''

।।8.5।।मद्भावं मयि सत्तां निर्दुःखनिरतिशयानन्दात्मिकाम्। तच्चोक्तम् -- मुक्तानां च (तु) गतिर्ब्रह्म क्षेत्रज्ञ इति कल्पितः [म.भा.5।334।41] इति मोक्षधर्मे।

'''रामानुजभाष्यम्'''

।।8.5।।अन्तकाले च माम् एव स्मरन् कलेवरं त्यक्त्वाः यः प्रयाति स मद्भावं याति। मम यो भावः स्वभावः तं याति तदानीं यथा माम् अनुसंधत्ते तथाविधाकारो भवति इत्यर्थः। यथा आदिभरतादयः तदानीं स्मर्यमाणमृगसजातीयाकाराः संभूताः।स्मर्तुः स्वविषयसजातीयाकारतापादनम् अन्त्यप्रत्ययस्य स्वभाव इति सुस्पष्टम् आह --

'''अभिनवगुप्तव्याख्या'''

।।8.5 -- 8.7।।अथ योऽवशिष्टः प्रश्नः कथं प्रयाणकाले ज्ञेयोऽसि इति तं निर्णयति -- अन्तकालेऽपि इत्यादि असंशयम् इत्यन्तम्। न केवलं स्वस्थावस्थायां यावत् अन्तकालेऽपि ( N कालेऽपीति) । मामेति -- व्यवच्छिन्नसकलोपाधिकम्। कथं च अस्वस्थावस्थायां (K (n) अन्तावस्थायाम्) विनिवत्तसकलेन्द्रियचेष्टस्य भगवान् स्मृतिपथमुपेयात् इत्युपायमपि उपदिशति तस्मादिति। सर्वावस्थासु व्यावहारिकीष्वपि यस्य भगवत्तत्त्वं न हृदयादपयाति तस्य भगवत्येव सकलकर्मसंन्यासिनः सततं भगवन्मयस्य अवश्यं स्वयमेव भगवत्तत्त्वं स्मृतिविषयतां यातीति। सदातद्भावभावितत्त्वं च अत्र हेतुः। अतः एवाह -- येनैव वस्तुना सदा भावितान्तःकरणः (NK (n) अन्तःकरणभावः) तदेव मरणसमये स्मर्यते तद्भाव एव च प्राप्यते इति। सर्वथा मत्परम एव मत्प्रेप्सः स्यादित्यत्र तात्पर्यम्। न तु यदेवान्ते स्मर्यते तत्तत्त्वमेवावाप्यते (N तत्तदेवावाप्यते) इति। एवं हि सति ज्ञानिनोऽपि यावच्छरीरभाविधातुदोषविकलितचिवृत्तेर्जडतां प्राप्तस्य तामसस्येव गतिः स्यात्। न च अम्युपगमोऽत्र युक्तः प्रमाणभूतश्रुतिविरोधात्। अस्ति हि -- तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम्।ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः।।इति (PS 83 )तस्मादेवं विध्यनुवादौ। सदा येन भावितमन्तःकरणं तदेवान्ते प्रयाणानन्तरं प्राप्यते। तच्च स्मर्यते न वा इति नात्र निर्बन्धः। अन्वाचयश्चायम् अपिशब्देन सूचितः। स्मरणस्य असर्वथाभावं वाशब्दः स्फुटयति। सदा च मत्परमो जनः सर्वथा स्यात् इति तात्पर्यं मुनिरेव प्रकटयति। यदाह -- तस्मात् सर्वेषु कालेषु मानुस्मर इति। ,तेनेत्थमत्र पदसङ्गतिः -- सदा यं यं भावं स्मरन् कलेबरं त्यजति अन्तेऽपि वा स्मरन् -- वाग्रहणात् अस्मरन् वा -- तं तमेवैति। यतोऽसौ सदा तद्भावेन भावितः।अन्ये तु -- कलेवरं त्यजति सति अन्ते कलेवरत्यागक्षणे बन्धुपुत्रादिप्रमात्रगोचरे (SK (n) -- प्रमात्रन्तरागोचरे) श्वासायासहिक्कागद्गदादिचेष्टाचरमभाविनि क्षणे शरीरदार्ढ्यबन्धप्रतनूभावात् देहकृतसुखदुःखमोहबन्धे,(K -- वन्ध्ये) कालांशे देहत्यजनशब्दवाचेय यदेव स्मरति तदेव प्रथमसंविदनुगृहीतम् अस्य रूपं संपद्यते। तादृशे (SN तादृशि) च काले स्मरणस्य कारणं सदा तद्भावभावितत्त्वमिति। त्यजति इति सप्तमी योज्या इति। प्राक्तन एवार्थः।ननु एवमन्तकाले किं प्रयोजनं तत्स्मरणेन क एवमाह प्रयोजनम् इति किंतु वस्तुवृत्तोपनतमेव तद्भवति तस्मिन्नन्त्ये क्षणे।ननु पुत्रकलत्रबन्धुभृतेः शिशिरोदकपानादेर्वा अन्त्ये क्षणे दृष्टं स्मरणम् इति तद्भावापत्तिः स्यात् मैवम्। न हि सोऽन्त्यः क्षणः स्फुटदेहावस्थानात्। न हि असावन्त्यः क्षणः अस्मद्विवक्षितो भवादृशैर्लक्ष्यते। तत्र त्वन्त्ये क्षणे येनैव रूपेण भवितव्यं तत्संस्कारस्य दूरवर्त्तिनोऽपि -- जातिदेशकालव्यवहितानामपि (SN omit जाति also the following compound word स्मृति,etc.) आनन्तर्यम् स्मृतिसंस्कारयोरेकरूपत्त्वात् (YS IV 9.)इति न्यायेन प्रबोधेन भाव्यम्। तद्वशात् तत्स्मरणं तत्स्मृत्या तद्भावप्राप्तिः। कस्य चित्तु देहस्य स्वस्थावस्थायामपि तदेव काकतालीयवशाद्व्यज्यते। यथा मृगादेः पुराणे वर्णनं तत्कृतं तु मृगत्वम्। अत एव प्रयाणकालेऽपि च माम् (VII30 ) इत्यादौ अपि च इति ग्रहणम्। ये हि सदा भगवन्तं भावयन्ति,एवंभूता भविष्यामः इति तेषाम्तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी (YS I 50 )इति न्यायेन तस्यामलक्ष्यायामन्तदशायां संस्कारान्तरापहस्तनेन तत्संस्कारकृते तत्तत्त्वस्मरणे देहसद्भावक्षणकृते च तस्य स्मरणे ( omits देहसद्भाव -- स्मरणे) अनन्तरं देहविनिपातक्षणे एव कालसंस्कारनिवृत्तेः तदिदमित्यादिवेद्यविभागानवभासात् संविन्मात्रसतत्त्वपरमेश्वरस्वभावतैव भवति (CA adds इति श्रीमदभिनवगुप्तगुरूणां संमतम् ( संस्मृतम्) after भवति) इत्यलम् ( इत्यलं बहुना)। असंशयमिति -- नात्र संदेग्धव्यमिति [तात्पर्यम्]।

'''जयतीर्थव्याख्या'''

।।8.5।।मद्भावमित्यस्य मदात्मकत्वमित्यन्यथाप्रतीतिनिरासायाह -- मद्भावमिति। न तु भगवति स्थितिः सर्वदाऽस्ति सा कथं फलं इत्यतो विशिनष्टि -- निर्दुःखेति। क्वचित्पाठःमद्भावं मद्वद्भावं इति। तत्र भगवत्प्रतिबिम्बानां जीवानां तत्सादृश्यं सदाऽस्ति तत्कथं प्राप्यमुच्यते इत्यत उक्तं निर्दुःखेति। अत्रआत्मकं इति पाठः अभिव्यक्तमिति शेषः। प्रतीत एवार्थः किं न स्यात् इति चेत् न मुक्तानां भगवदाश्रितत्वेन तद्भावायोगात्। तदपि कुतः इत्यत आह -- तच्चेति। क्षेत्रज्ञः परमात्मा गतिरिति समर्थितः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.5।।इदानीं प्रयाणकाले च कथं ज्ञेयोऽसीति सप्तमस्य प्रश्नस्योत्तरमाह -- मामेव भगवन्तं वासुदेवमधियज्ञं सगुणं निर्गुणं वा परममक्षरं ब्रह्म न त्वध्यात्मादिकं स्मरन्सदा चिन्तयंस्तत्संस्कारपाटवात्समस्तकरणग्रामवैयग्र्यवत्यन्तकालेऽपि स्मरन्कलेवरं मुक्त्वा शरीरेऽहंममाभिमानं त्यक्त्वा प्राणवियोकाले यः प्रयाति सगुणध्यानपक्षेऽग्रिर्ज्योतिरहः शुक्ल इत्यादिवक्ष्यमाणेन देवयानमार्गेण पितृयानमार्गात्प्रकर्षेण याति स उपासको मद्भावं मद्रूपतां निर्गुणब्रह्मभावं हिरण्यगर्भलोकभोगान्ते याति प्राप्नोति। निर्गुणब्रह्मस्मरणपक्षे तु कलेवरं त्यक्त्वा प्रयातीति लोकदृष्ट्यभिप्रायंन तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते इति श्रुतेस्तस्य प्राणोत्क्रमणाभावेन गत्यभावात्स मद्भावं साक्षादेव याति।ब्रह्मैव सन्ब्रह्माप्येति इति श्रुतेः। नास्त्यत्र देहव्यतिरिक्त आत्मनि मद्भावप्राप्तौ वा संशयः। आत्मा देहाद्व्यतिरिक्तो न वा देहव्यतिरेकेऽपि ईश्वराद्भिन्नो न वेति संदेहो न विद्यते।छिद्यन्ते सर्वसंशयाः इति श्रुतेः। अत्र च कलेवरं मुक्त्वा प्रयातीति देहाद्भिन्नत्वं मद्भावं यातीति चेश्वरादभिन्नत्वं जीवस्योक्तमिति द्रष्टव्यम्।

'''पुरुषोत्तमव्याख्या'''

।।8.5।।प्रयाणकाले च कथं ज्ञेयोऽसि इत्यस्योत्तरमाह -- अन्तकाल इति। अन्तकाले एतद्देहावसानसमये वा अन्तरूपस्य अन्तिमजन्मनो देहस्य काले नाशसमये प्राप्ते सति मामेव स्मरन् यः प्रयाति देहं मुञ्चति स कलेवरं मृतदेहं भजनायोग्यं मुक्त्वा मद्भावं सेवौपयिकस्वरूपं याति प्राप्नोति। अत्रार्थे संशयो नास्ति न वर्त्तते। अतः सन्देहो न कर्त्तव्य इत्यर्थः। चकारेण शुद्धावस्थादिकं न विचारणीयमिति ज्ञापितम्। एवकारेण कामनयाऽन्यत् किञ्चिदपि फलत्वेन न स्मरणीयमिति ज्ञापितम्।

'''वल्लभाचार्यव्याख्या'''

।।8.5।।प्रयाणकाले च कथं ज्ञेयोऽसि इत्यस्योत्तरमाह -- अन्तकाल इति। एवकारोऽन्यव्यवच्छेदार्थकः। मन्त्रोपासनाद्यस्पृष्टं पूर्णानन्दं मां लीलापुरुषोत्तममेव स्मरन् यो भक्तिमान् योगी प्रयाति प्रयाणं करोति स मद्भावं यातीति नास्त्यत्र संशयः।

'''आनन्दगिरिव्याख्या'''

।।8.5।।यत्तु प्रयाणकाले चेत्यादि चोदितं तत्राह -- अन्तकाले चेति। मामेवेत्यवधारणेनाध्यात्मादिविशिष्टत्वेन स्मरणं व्यावर्त्यते। विशिष्टस्मरणे हि चित्तविक्षेपान्न प्रधानस्मरणमपि स्यात्। नच मरणकाले कार्यकरणपारवश्याद्भगवदनुस्मरणासिद्धिः। सर्वदैव नैरन्तर्येणादरधिया भगवति समर्पितचेतसस्तत्कालेऽपि कार्यकरणजातमगणयतो भगवदनुसंधानसिद्धेः। शरीरे तस्मिन्नहंममाभिमानाभावादिति यावत्। प्रयातीत्यत्र प्रकृतशरीरमपादानम्।ब्रह्म वेद ब्रह्मैव भवति इत्यादिश्रुतिमाश्रित्याह -- नास्तीति। व्यासेध्यं संशयमेवाभिनयति -- याति वेति।

'''धनपतिव्याख्या'''

।।8.5।।प्रयाणकाले चेत्यादिसप्तमप्रश्नस्योत्तरमाह -- अन्तकाल इति। अन्तकाले च प्रयाणकाले। प्राणोत्क्रमणकाले इति यावत्। मामेव परमेश्वरं विष्णुं स्मरन्। चकारात्सदा भगवद्भावभावित इति ज्ञेयम्। मामेवेति विशेषणेनाध्यात्मादिविशिष्टत्वेन स्मरणं व्यावर्त्यते। विशिष्टस्मरणे हि चित्तविक्षेपान्न प्रधानस्मरणमपि स्यात्। कलेवरं शरीरं त्यक्त्वा यः प्रयाति स मद्भावं वैष्णवं तत्त्वं याति सगुणब्रह्मचिन्तकश्चेत्क्रमेण निर्गुणब्रह्मविच्चेत्सद्यः। अस्मिन्पक्षे कलेवरं मुक्त्वेति लोकदृष्ट्यभिप्रायम्।न तस्य प्राणा उत्क्रामन्त्यत्रेव समवलीयन्ते इति श्रुतेः। अत्रास्मिन्नर्थे संशयः मद्भावं याति नवेति न विद्यतेस एतान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्तेब्रह्माविदाप्नोति परम्ब्रह्म वेद ब्रह्मैव भवति इत्यादिश्रुतेः। अत्र किचिन्नास्त्यत्र देहव्यतिरिक्त आत्मनि मदभावप्राप्तौ वा संशयः। आत्मा देहाद्य्वतिरोक्तो न वा देहव्यतिरेकेऽपि ईश्वराद्भिन्नो न वेति संदेहो न विद्यते।छिद्यन्ते सर्वसंशयाः इति श्रुतेः। अत्र च करेवरं मुक्त्वा प्रयातीति देहाद्भिन्नत्वं मद्भावं यातीति चेश्वरादभिन्नत्वं जीवस्योक्तमिति द्रष्टव्यमिति। तत्रेदं वक्तव्यम्प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मनिभिरिति प्रश्नप्रतिवचने देहाद्य्वतिरिक्तो न वेति संशयनिराकरणवर्णनमकाण्डे ताण्डवम्। देहाद्य्वतिरिक्त आत्मेत्यर्थस्यासकृद्य्वुत्पादितत्वेन संशयाप्रसक्त्याऽप्रसक्तप्रतिषेधश्च युक्तभिर्निरुपितेऽर्थेऽपि पुनरुत्पन्नस्य संशयस्यार्थिकार्थेन निवृत्त्यसंभवश्चछिद्यन्ते सर्वसंशयाः इति श्रुतिरपि परावरविद इति पदसत्त्वे उदाहर्तुं योग्येति दिक्।

'''नीलकण्ठव्याख्या'''

।।8.5।।अत्र षट्प्रश्नोत्तरेषु प्रथमे जीवस्य ब्रह्मभाव उक्तः। तं जानतां प्रयाणमेव नास्ति।न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति इति श्रुतेः। द्वितीये शुद्धस्त्वंपदार्थ उक्तस्तज्ज्ञानस्यापि वस्तुतत्त्वविषयत्वान्न तत्र भावनापेक्षास्तीति न भावनाफलभूतकाले तत्प्रत्ययोऽपेक्षते। तृतीयचतुर्थयोस्तु कर्मतत्साधनभूतं च जन्यं वस्तूक्तम्। तत्रापि न भावनापेक्षास्ति। अन्तकाले प्रबलेनैव कर्मणा चित्तस्यावरोधात्तत्साधनफलभूतस्यैव स्मरणावश्यंभावेन तत्र भावनाया वैयर्थ्यात् परिशेषादन्त्ययोरेव कार्यकारणब्रह्मणोः सोपाधिकनिरुपाधिकयोरन्यतरस्य भावना सुदृढा चेदन्तकाले तत्प्रत्ययोऽवश्यंभावीति तयोरन्यतरं रूपं परमात्मानं स्मरन् यः कलेवरं मुक्त्वार्चिरादिमार्गेण प्रयाति स ब्रह्मलोकप्राप्तिद्वारा क्रमेण मद्भावं मोक्षं यातीत्याह -- अन्तकाले चेति। स्पष्टा योजना। नास्त्यत्र संशय इति। सोपाधिकब्रह्मोपास्तिं प्रकृत्यशतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति इति तदुपासकस्य गतिपूर्वकस्यामृतत्वस्य श्रवणात्। यस्तु शुद्धत्वंपदार्थरूपमध्यात्मवस्तुमात्रं वेद असौ ब्रह्मात्मैक्यज्ञानाभावात्न तस्य प्राणा उत्क्रामन्ति इत्येतद्वाक्यविषयो न भवति किंतु शतं चैकाचेत्येतस्यैव,विषयः। ननु तस्यानुपासकत्वात्कथमेतदिति चेन्न।नहि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति इति न्यायेन तस्योभयभ्रष्टत्वासंभवात्। कठवल्लीषु निष्कलप्रत्यगात्मविदं केवलयोगिनं प्रकृत्य शतं चैकाचेत्याम्नानाच्च।वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्वाः। ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे इति श्रुतेर्निश्चतार्थानां शोधितत्वंपदार्थानामेव क्रममुक्तिरवगम्यते। नचात्र सुनिश्चितार्था इत्यनेन ब्रह्मात्मैक्यनिश्चयवन्तो ग्रहीतुं शक्याः। तेषां गत्यभावस्य प्रोक्तत्वात्। नाप्युपासकाः असंभवात्। उपासना हि नाम अतस्मिंस्तद्बुद्धिः। यथा शालग्रामे विष्णुबुद्धिरेवं सूत्रविराडन्तर्यामिष्वात्मबुद्धिरिति न तद्वन्तः सुनिश्चितार्था इति वक्तुं शक्यम्। तस्मादध्यात्मविदां ब्रह्मात्मैक्यानवगमादनुपासकत्वेनान्त्यप्रत्ययाभावेऽप्यर्चिरादिगतिप्राप्तिरस्तीति सर्वमनवद्यम्।

'''श्रीधरस्वामिव्याख्या'''

।।8.5।। प्रयाणकाले च कथं ज्ञेयोऽसीत्यनेन पृष्टमन्तकालज्ञानोपायं तत्फलं च दर्शयति -- अन्तकाल इति। मामेवोक्तलक्षणमन्तर्यामिरूपं परमेश्वरं स्मरन्देहं त्यक्त्वा यः प्रकर्षेणार्चिरादिमार्गेण याति स मद्भावं मद्रूपतां याति। अत्र च संशयो नास्ति। स्मरणं ज्ञानोपायो मद्भावापत्तिश्च फलमित्यर्थः।

'''वेङ्कटनाथव्याख्या'''

।।8.5।।प्रयाणकाले [8।2] इत्यस्य प्रश्नस्य सङ्ग्रहेणोत्तरंअन्तकाले इति श्लोकः। अतो न ज्ञानिमात्रविषय इत्यभिप्रायेणाह -- इदमपीति। अधियज्ञपदार्थस्वाभाव्याद्वक्ष्यमाणप्रकाराच्चेति भावः। अन्वयं दर्शयति -- अन्तकाले चेति।मद्भावं याति इत्यत्र श्रुत्यादिविरुद्धतादात्म्यावाप्तिभ्रमव्युदासायाहमम यो भाव इति। नन्वीश्वरस्वभावप्राप्तावस्यापि कृशोदरीनीडनिहितकीटस्य तज्जातीयत्ववदीश्वरान्तरत्वप्रसङ्गः त्रयाणामधिकारिणां गुणाष्टकरूपेश्वरस्वभावप्राप्त्यविशेषेऽधिकारिभेदश्च न स्यादित्यत आह -- तदानीमिति। तत्तदनुसन्धेयाकारविशेषसाम्यप्राप्तिर्विवक्षिता। साम्यं च स्वरूपभेदकवैधर्म्ये स्थिते सत्येवेति न कश्चिद्दोष इति भावः। एवं प्रश्नाः प्रत्युक्ताः।नास्त्यत्र संशयः इत्यनेन अभिप्रेतां प्रयोजकप्रसिद्धिं दर्शयति -- यथाऽऽदिभरतादय इति। एतेनोदाहरणेनापि तादात्म्यभ्रमो निरस्तः न ह्यादिभरतस्य स्मर्यमाणमृगेण तादात्म्यम् अपितु तत्समानाकारमृगशरीरपरिग्रह एवेति तत्रैव प्रसिद्धम्। तदानीं देहवियोगकाल इत्यर्थः।

<poem>
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥८- ६॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.6।। --,यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन् त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेवरं शरीरं तं तमेव स्मृतं भावमेव एति नान्यं कौन्तेय सदा सर्वदा तद्भावभावितः तस्मिन् भावः तद्भावः स भावितः स्मर्यमाणतया अभ्यस्तः येन सः तद्भावभावितः सन्।।यस्मात् एवम् अन्त्या भावना देहान्तरप्राप्तौ कारणम् --,

'''माध्वभाष्यम्'''

।।8.6 -- 8.7।।स्मरन्पुरुषस्त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदित्यन्त इति विशेषणम् सुमतेनव शङ्कावकाशः।स्मरंस्त्यजति इत्येककालीनत्वप्रतीतेः। दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति शङ्का।त्यजन्देहं न कश्चित्तु मोहमाप्नोत्यसंशयम् इति स्कान्दे। तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति [बृ.उ.4।4।2] इति हि श्रुतिः।सदा तद्भावभावितः इत्यन्तकालस्मरणोपायमाह -- भावोऽन्तर्गतं मनः तथाभिधानात्। भावितत्वं अतिवासितत्वम्।भावना त्वतिवासना इत्यभिधानात्।

'''रामानुजभाष्यम्'''

।।8.6।।अन्ते अन्तकाले यं यं वा अपि भावं स्मरन् कलेवरं त्यजति तं तं भावम् एव मरणान्तरम् एति। अन्त्यप्रत्ययश्च पूर्वभावितविषय एव जायते।यस्मात् पूर्वकालाभ्यस्तविषये एव अन्त्यप्रत्ययो जायते --

'''अभिनवगुप्तव्याख्या'''

।।8.5 -- 8.7।।अथ योऽवशिष्टः प्रश्नः कथं प्रयाणकाले ज्ञेयोऽसि इति तं निर्णयति -- अन्तकालेऽपि इत्यादि असंशयम् इत्यन्तम्। न केवलं स्वस्थावस्थायां यावत् अन्तकालेऽपि ( N कालेऽपीति) । मामेति -- व्यवच्छिन्नसकलोपाधिकम्। कथं च अस्वस्थावस्थायां (K (n) अन्तावस्थायाम्) विनिवत्तसकलेन्द्रियचेष्टस्य भगवान् स्मृतिपथमुपेयात् इत्युपायमपि उपदिशति तस्मादिति। सर्वावस्थासु व्यावहारिकीष्वपि यस्य भगवत्तत्त्वं न हृदयादपयाति तस्य भगवत्येव सकलकर्मसंन्यासिनः सततं भगवन्मयस्य अवश्यं स्वयमेव भगवत्तत्त्वं स्मृतिविषयतां यातीति। सदातद्भावभावितत्त्वं च अत्र हेतुः। अतः एवाह -- येनैव वस्तुना सदा भावितान्तःकरणः (NK (n) अन्तःकरणभावः) तदेव मरणसमये स्मर्यते तद्भाव एव च प्राप्यते इति। सर्वथा मत्परम एव मत्प्रेप्सः स्यादित्यत्र तात्पर्यम्। न तु यदेवान्ते स्मर्यते तत्तत्त्वमेवावाप्यते (N तत्तदेवावाप्यते) इति। एवं हि सति ज्ञानिनोऽपि यावच्छरीरभाविधातुदोषविकलितचिवृत्तेर्जडतां प्राप्तस्य,तामसस्येव गतिः स्यात्। न च अम्युपगमोऽत्र युक्तः प्रमाणभूतश्रुतिविरोधात्। अस्ति हि -- तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम्।ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः।।इति (PS 83 )तस्मादेवं विध्यनुवादौ। सदा येन भावितमन्तःकरणं तदेवान्ते प्रयाणानन्तरं प्राप्यते। तच्च स्मर्यते न वा इति नात्र निर्बन्धः। अन्वाचयश्चायम् अपिशब्देन सूचितः। स्मरणस्य असर्वथाभावं वाशब्दः स्फुटयति। सदा च मत्परमो जनः सर्वथा स्यात् इति तात्पर्यं मुनिरेव प्रकटयति। यदाह -- तस्मात् सर्वेषु कालेषु मानुस्मर इति। तेनेत्थमत्र पदसङ्गतिः -- सदा यं यं भावं स्मरन् कलेबरं त्यजति अन्तेऽपि वा स्मरन् -- वाग्रहणात् अस्मरन् ,वा -- तं तमेवैति। यतोऽसौ सदा तद्भावेन भावितः।अन्ये तु -- कलेवरं त्यजति सति अन्ते कलेवरत्यागक्षणे बन्धुपुत्रादिप्रमात्रगोचरे (SK (n) -- प्रमात्रन्तरागोचरे) श्वासायासहिक्कागद्गदादिचेष्टाचरमभाविनि क्षणे शरीरदार्ढ्यबन्धप्रतनूभावात् देहकृतसुखदुःखमोहबन्धे,(K -- वन्ध्ये) कालांशे देहत्यजनशब्दवाचेय यदेव स्मरति तदेव प्रथमसंविदनुगृहीतम् अस्य रूपं संपद्यते। तादृशे (SN तादृशि) च काले स्मरणस्य कारणं सदा तद्भावभावितत्त्वमिति। त्यजति इति सप्तमी योज्या इति। प्राक्तन एवार्थः।ननु एवमन्तकाले किं प्रयोजनं तत्स्मरणेन क एवमाह प्रयोजनम् इति किंतु वस्तुवृत्तोपनतमेव तद्भवति तस्मिन्नन्त्ये क्षणे।ननु पुत्रकलत्रबन्धुभृतेः शिशिरोदकपानादेर्वा अन्त्ये क्षणे दृष्टं स्मरणम् इति तद्भावापत्तिः स्यात् मैवम्। न हि सोऽन्त्यः क्षणः स्फुटदेहावस्थानात्। न हि असावन्त्यः क्षणः अस्मद्विवक्षितो भवादृशैर्लक्ष्यते। तत्र त्वन्त्ये क्षणे येनैव रूपेण भवितव्यं तत्संस्कारस्य दूरवर्त्तिनोऽपि -- जातिदेशकालव्यवहितानामपि (SN omit जाति also the following compound word स्मृति,etc.) आनन्तर्यम् स्मृतिसंस्कारयोरेकरूपत्त्वात् (YS IV 9.)इति न्यायेन प्रबोधेन भाव्यम्। तद्वशात् तत्स्मरणं तत्स्मृत्या तद्भावप्राप्तिः। कस्य चित्तु देहस्य स्वस्थावस्थायामपि तदेव काकतालीयवशाद्व्यज्यते। यथा मृगादेः पुराणे वर्णनं तत्कृतं तु मृगत्वम्। अत एव प्रयाणकालेऽपि च माम् (VII30 ) इत्यादौ अपि च इति ग्रहणम्। ये हि सदा भगवन्तं भावयन्ति,एवंभूता भविष्यामः इति तेषाम्तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी (YS I 50 )इति न्यायेन तस्यामलक्ष्यायामन्तदशायां संस्कारान्तरापहस्तनेन तत्संस्कारकृते तत्तत्त्वस्मरणे देहसद्भावक्षणकृते च तस्य स्मरणे ( omits देहसद्भाव -- स्मरणे) अनन्तरं देहविनिपातक्षणे एव कालसंस्कारनिवृत्तेः तदिदमित्यादिवेद्यविभागानवभासात् संविन्मात्रसतत्त्वपरमेश्वरस्वभावतैव भवति (CA adds इति श्रीमदभिनवगुप्तगुरूणां संमतम् ( संस्मृतम्) after भवति) इत्यलम् ( इत्यलं बहुना)। असंशयमिति -- नात्र संदेग्धव्यमिति [तात्पर्यम्]।

'''जयतीर्थव्याख्या'''

।।8.6 -- 8.7।।ननु कलेवरत्यागस्यान्ताव्यभिचारादन्त इति व्यर्थमित्यत आह -- स्मरन्निति। नान्त इत्येतत्कलेवरं त्यजतीत्यस्य विशेषणं येन व्यर्थं स्यात् किन्तु अन्ते स्मरन्निति स्मरणस्यैव तत्रापि किं प्रयोजनं इति चेत् उच्यतेलक्षणहेत्वोः क्रियायाः [अष्टा.3।2।126] इति लक्षणेऽपि शतुर्विधानात्।स्मरन्पुरुषः कलेवरं त्यजति इति स्मरणकलेवरत्यागयोर्भिन्नकालत्वेऽपि न कश्चिच्छब्दविरोध इति मन्दमतेः शङ्का स्यात् सा मा भूदित्येवमर्थमन्त इति स्मरणस्य विशेषणमुपात्तम् तेनात्र स्मरणकलेवरत्यागयोरेककालत्वसिद्धिरिति।मन्दमतेः इत्यस्य कृत्यमाह -- सुमतेरिति। कुतः इत्यत आह -- स्मरन्निति।लटः शतृशानचौ [अष्टा.3।2।124] इति लडादेशत्वेनापि शतुर्विधानमस्ति स च लडिति वर्तमाने पुनर्लङ्ग्रहणसामर्थ्यात्क्वचित् प्रथमासामानाधिकरण्येऽपि भवति लक्षणे विहिताच्च ल़डादेशो बलीयान्। तत्र क्रियाया इत्युपपदसापेक्षत्वात् अस्यानपेक्षत्वात्। अप्रथमासमानाधिकरणे इत्यस्यातिप्रसक्तिपरिहारमात्रार्थत्वात्। तथा च बलवतो ग्राह्यत्वेस्मरंस्त्यजति इत्यस्य स्मरति च त्यजति चेत्यर्थः स्यात्। एवं चान्तः इत्यनुक्ते़ऽपि स्मरणत्यागयोरेककालीनत्वप्रतीतेः सुमतेर्नैव शङ्कावकाश इति भावः।ननु दुर्मतिरपि शाब्दं न्यायं जानात्येव अन्यथा शास्त्रे नाधिक्रियेत केवलमध्यात्मविषये न प्रवीणः तत्कथं तस्याप्येषा शङ्का स्यात् ततश्च तं प्रत्यपि अन्त इत्येतत् व्यर्थमित्यत आह -- दुर्मतेरिति। दुर्मतेर्भविष्यति शङ्का भिन्नकालत्वविषया। कुतः मरणकाले महद्दुःखं जायते दुःखस्य च संस्कारविलोपहेतुत्वं प्रसिद्धम् अतो दुःखात्कारणात् मूर्छितो न स्मरंस्त्यजति। कलेवरत्यागसमये स्मरणमसम्भवीति यावत्। एतामनुपपत्तिं पश्यन् बलवन्तमपि लडादेशं विहाय लक्षणार्थमेव हि मन्यत इति भावः। ननु सुमतेरप्येवं शङ्का स्यादेव कथं चेयं शङ्का तत्त्वप्रतीतिरेवेति चेत् न अज्ञानिन एव देहाभिमानिनो देहत्यागमात्मत्यागमिव मन्यमानस्य मरणकाले दुःखं भवति तदपि मरणक्षणात्पूर्वमेव ज्ञानी तु सर्वदा देहं हेयमेव मन्यमानो न मनागपि दुःखायते किन्तु विशिष्टमेव तस्योत्क्रमणामत्यध्यात्मशास्त्रमनुसन्दधानस्य सुमतेः शङ्कानवकाशात्। किं तदध्यात्मशास्त्रं इत्यत आह -- त्यजन्निति। कश्चिद्विद्वान्। अविद्वानपि तत्काले तस्येति मरणवैशिष्ट्यमात्रपरम् न त्वन्त इत्येतत् स्मरणविशेषणं चेत् तदासदा तद्भावभावितः [8।6] इत्यनेनैव गतार्थं स्यात् अन्यथा तद्व्यर्थं भवेदित्यत आह -- सदेति। अन्तकालस्मरणमेव तत्प्राप्तिसाधनम्। न च तदकस्माद्भवति अतः तदुपायत्वेन सदा तद्भावभावितत्वमुच्यत इत्यर्थः। कथमित्यतो यथाऽयं तदुपायः स्यात् तथा व्याचष्टे -- भाव इति। तथाऽभिधानादिति स्याद्भावोऽन्तर्गतं मन इत्येवरूपादभिधानादित्यर्थः। वासितत्वं संस्कृतत्वम्। तस्मिन् भावस्तद्भावस्तेन भावित इति मनोधर्मेणात्मोपचर्यते।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.6।।अन्तकाले भगवन्तमनुध्यायतो भगवत्प्राप्तिर्नियतेति वदितुमन्यदपि यत्कंचित्काले ध्यायतो देहं त्यजतस्तत्प्राप्तिरवश्यंभाविनीति दर्शयति -- न केवलं मां स्मरन्मद्भावं यातीति नियमः किं तर्हि यं यं वापि भावं देवताविशेषंचकारादन्यदपि यत्किंचिद्वा स्मरंश्चिन्तयन्नन्ते प्राणवियोगकाले कलेवरं त्यजति स तं तमेव स्मर्यमाणं भावमेव नान्यमेति प्राप्नोति। हे कौन्तेयेति पितृष्वसृपुत्रत्वेन स्नेहातिशयं सूचयति। तेन चावश्यानुग्राह्यत्वं तेन च प्रतारणाशङ्काशून्यत्वमिति। अन्तकाले स्मरणोद्यमासंभवेऽपि पूर्वाभ्यासजनिता वासनैव स्मृतिहेतुरित्याह -- सदेति। सदा सर्वदा तस्मिन्देवताविशेषादौ भावो भावना वासना तद्भावः स भावितः संपादितो येन स तथा। भाविततद्भाव इत्यर्थः। आहिताग्न्यादेराकृतिगणत्वाद्भावितपदस्य परनिपातः। तद्भावेन तच्चिन्तनेन भावितो वासितचित्त इति वा।

'''पुरुषोत्तमव्याख्या'''

।।8.6।।अन्यास्मरणे हेतुमाह -- यं यमिति। हे कौन्तेय तत्स्मरणायोग्य यं यं देवतान्तरमपि वा स्वमनोभिलषितजीवस्वरूपं स्मरन् अन्ते कलेवरं त्यजति स तमेव तत्सारूप्यमेति प्राप्नोतीत्यर्थः। अपीति निश्चयार्थे वा। अत एव भरतस्य अन्ते मृगस्मरणे मृगशरीराप्तिः अयमेवार्थोऽपिशब्देन द्योतितः। यतोऽन्तकाले यत्स्मरणेन म्रियते तमेव प्राप्नोत्यतः साधारण्येनापि मत्स्मरणेन मरणे मत्प्राप्तौ न सन्देह इत्यर्थः। नन्वन्ते वैकल्ये देवतान्तरस्मरणं स्वाभिलषितस्मरणं वा कथं स्यात् इत्यत आह -- सदा तद्भावभावितः निरन्तरं,तद्भावेन भावितो यो भवति स तमेवान्ते स्मरति।

'''वल्लभाचार्यव्याख्या'''

।।8.6।।न केवलं मां स्मरन्मद्भावं यातीति नियमः -- यं यमिति। अन्तेऽन्तकाले तमेव भावं स्मर्त्तुः स्वविषयजातीयाकारत्वसम्पादकं भावं स्वरूपमेति भरतवत्।

'''आनन्दगिरिव्याख्या'''

।।8.6।।अन्तकाले भगवन्तमनुध्यायतो भगवत्प्राप्तिनियमवदन्यमपि तत्काले देवादिविशेषं ध्यायतो देहं त्यजतस्तत्प्राप्तिरवश्यंभाविनीति दर्शयति -- नेत्यादिना। कथं पुनरन्तकाले परवशस्य नियतविषयस्मृतिर्भवितुमुत्सहते तत्राह -- सदेति। देवादिविशेषस्तस्मिन्निति सप्तम्यर्थः। भावो भावना वासना स भावो भावितः संपादितो येन पुंसा स तथाविधः सन् यं यं भावं स्मरति तं तमेव देहत्यागादूर्ध्वं गच्छतीति संबन्धः।

'''धनपतिव्याख्या'''

।।8.6।।अन्तकाले मां स्मरन् मामेवैतीति नायं नियमः किंतु यं यं वापि भावं देवताविशेषं स्मरन् चिन्तयन्नन्ते मरणकाले कलेवरं शरीरं त्यजति तं तमेव चिन्तितं भावमेवैति नान्यम्। यद्यपि यंयं चापीति पाठश्चकारादन्यदपि यत्किंचिद्वा स्मरन्निति कैश्चिद्य्वाख्यायस्तथापि भाष्यकारैवर्याख्यातो न भवतीत्युपेक्षणीयः। अन्तकाले विवशस्यापि स्मृतिभवने किं कारणमिति तत्राह। सदा तद्भावभावितः सदा सर्वदा तस्मिन्देवतादिविशेषे भावो भावना वासना स भावितोऽभ्यस्तो येन सः सन् सर्वदा तस्य भावो भावनानुचिन्तनं तेन भावितो वासितचित्त इति व्युत्पत्तिं सिद्धवत्कृत्याचार्यैस्तथा व्युत्पादितमित्यविरोधः। कौन्तेयेति संबोधयन् संबन्धप्रदर्शनेन स्वस्मिन्सर्वदा भावनाभ्याससौलभ्यं द्योतयति।

'''नीलकण्ठव्याख्या'''

।।8.6।।न केवलं कार्यकारणब्रह्मणोरेव भावनान्त्यप्रत्ययवशात्तद्भावप्राप्तिहेतुरपि तु कीटस्य जीवत एव भावनाबलाद्भाव्यवस्तुभावप्राप्तिर्दृश्यते। नन्दिकेश्वरस्य च स्मर्यतेस हि महादेवं भावयंस्तत्सारूप्यं देहान्तरं विनैव प्राप्तः इति। योगशास्त्रेऽपि प्रसिद्धम्। तत्र किमु वक्तव्यमन्तप्रत्ययवशाद्देहान्तरे भाव्यभावप्राप्तिरस्तीति मत्वा तमेवार्थमन्यत्रापि दर्शयति -- यं यमिति। तद्भावभावितः भाव्याकारवासनया रञ्जित इत्यर्थः।

'''श्रीधरस्वामिव्याख्या'''

।।8.6।।न केवलं मां स्मरन्मद्भावं प्राप्नोतीति नियमः किं तर्हि -- यं यमिति। यं यं भावं देवतान्तरं वाऽन्यमपि वाऽन्तकाले स्मरन्देहं त्यजति तं तमेव स्मर्यमाणं भावं प्राप्नोति अन्तकाले भावविशेषस्मरणे हेतुः सदेति। सर्वदा तस्य भावो भावनानुचिन्तनं तेन भावितो वासितचित्तः।

'''वेङ्कटनाथव्याख्या'''

।।8.6।।न केवलमीश्वरविषयान्तिमप्रत्ययस्वभावोऽयमिति मन्तव्यम् किन्तु सर्वसाधारणमिदमत्राप्युक्तमिति प्रयोजकाकारोयं यम् इति श्लोकेनोच्यत इत्याह -- स्मर्तुरिति। अन्तशब्दः पूर्वश्लोकाभिहितान्तकालपरः। तस्य चान्तिमप्रत्ययप्रभावज्ञापनायस्मरन् इत्यनेनान्वय इति दर्शयति -- अन्ते अन्तकाले इति। वीप्सयावापि इत्यनेन च स्मर्तव्यविषयनियमो नीचोत्तमविषयवैषम्याभावश्च दर्शितः।तं तम् इति वीप्सया त्वसङकीर्णतत्तत्प्राप्तिः। अवधारणेन प्रबलपुण्यान्तरेणापि तस्या दुर्वारत्वं च विवक्षितम्। भावशब्दोऽत्र स्वभावपरः। धर्मिप्रत्ययस्तु नान्तरीयकः। भावशब्दस्यात्र पदार्थपरत्वे प्रस्तुतभावशब्दवैरूप्यम्तं तमेति इति साजात्यलक्षणा च।तं तमेवैति इत्यत्र यत्र क्वचन जन्मनि सर्वसाधारणतज्जातियोगमात्रव्युदासायोक्तंमरणानन्तरमिति। नह्यादिभरतमृगत्वे जन्मान्तरव्यवधानंसदा तद्भावभावितः इत्यनेनान्तिमस्मृतिहेतुर्विवक्षित इत्याह -- अन्तिमप्रत्ययश्चेति। तद्भावभावितः तद्भावनावासित इत्यर्थः तस्मिन् भावो भावितो येनेति वा तद्भावभावितः।

<poem>
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥८- ७॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.7।। --,तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रम्। युध्य च युद्धं च स्वधर्मं कुरु। मयि वासुदेवे अर्पिते मनोबुद्धी यस्य तव स त्वं मयि अर्पितमनोबुद्धिः सन् मामेव यथास्मृतम् एष्यसि आगमिष्यसि असंशयः न संशयः अत्र विद्यते।।किञ्च --,

'''माध्वभाष्यम्'''

।।8.6 -- 8.7।।स्मरन्पुरुषस्त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदित्यन्त इति विशेषणम् सुमतेनव शङ्कावकाशः।स्मरंस्त्यजति इत्येककालीनत्वप्रतीतेः। दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति शङ्का।त्यजन्देहं न कश्चित्तु मोहमाप्नोत्यसंशयम् इति स्कान्दे। तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति [बृ.उ.4।4।2] इति हि श्रुतिः।सदा तद्भावभावितः,इत्यन्तकालस्मरणोपायमाह -- भावोऽन्तर्गतं मनः तथाभिधानात्। भावितत्वं अतिवासितत्वम्।भावना त्वतिवासना इत्यभिधानात्।

'''रामानुजभाष्यम्'''

।।8.7।।तस्मात् सर्वेषु कालेषु आप्रयाणाद् अहरहः माम् अनुस्मर अहरहः अनुस्मृतिकरं युद्धादिकं वर्णाश्रमानुबन्धिश्रुतिस्मृतिचोदितनित्यनैमित्तिकं च कर्म कुरु। एतदुपायेन मय्यर्पितमनोबुद्धिः अन्तकाले च माम् एव स्मरन् यथाभिलषितप्रकारं मां प्राप्स्यसि न अत्र संशयः।एवं सामान्येन सर्वत्र स्वप्राप्यावाप्तिः अन्त्यप्रत्ययाधीना इति उक्त्वा तदर्थं त्रयाणाम् उपासनप्रकारभेदं वक्तुम् उपक्रमते। तत्र ऐश्वर्यार्थिनाम् उपासनप्रकारं यथोपासनम् अन्त्यप्रत्ययकारकं च आह --

'''अभिनवगुप्तव्याख्या'''

।।8.5 -- 8.7।।अथ योऽवशिष्टः प्रश्नः कथं प्रयाणकाले ज्ञेयोऽसि इति तं निर्णयति -- अन्तकालेऽपि इत्यादि असंशयम् इत्यन्तम्। न केवलं स्वस्थावस्थायां यावत् अन्तकालेऽपि ( N कालेऽपीति) । मामेति -- व्यवच्छिन्नसकलोपाधिकम्। कथं च अस्वस्थावस्थायां (K (n) अन्तावस्थायाम्) विनिवत्तसकलेन्द्रियचेष्टस्य भगवान् स्मृतिपथमुपेयात् इत्युपायमपि उपदिशति तस्मादिति। सर्वावस्थासु व्यावहारिकीष्वपि यस्य भगवत्तत्त्वं न हृदयादपयाति तस्य भगवत्येव सकलकर्मसंन्यासिनः सततं भगवन्मयस्य अवश्यं स्वयमेव भगवत्तत्त्वं स्मृतिविषयतां यातीति। सदातद्भावभावितत्त्वं च अत्र हेतुः। अतः एवाह -- येनैव वस्तुना सदा भावितान्तःकरणः (NK (n) अन्तःकरणभावः) तदेव मरणसमये स्मर्यते तद्भाव एव च प्राप्यते इति। सर्वथा मत्परम एव मत्प्रेप्सः स्यादित्यत्र तात्पर्यम्। न तु यदेवान्ते स्मर्यते तत्तत्त्वमेवावाप्यते (N तत्तदेवावाप्यते) इति। एवं हि सति ज्ञानिनोऽपि यावच्छरीरभाविधातुदोषविकलितचिवृत्तेर्जडतां प्राप्तस्य तामसस्येव गतिः स्यात्। न च अम्युपगमोऽत्र युक्तः प्रमाणभूतश्रुतिविरोधात्। अस्ति हि -- तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम्।ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः।।इति (PS 83 )तस्मादेवं विध्यनुवादौ। सदा येन भावितमन्तःकरणं तदेवान्ते प्रयाणानन्तरं प्राप्यते। तच्च स्मर्यते न वा इति नात्र निर्बन्धः। अन्वाचयश्चायम् अपिशब्देन सूचितः। स्मरणस्य असर्वथाभावं वाशब्दः स्फुटयति। सदा च मत्परमो जनः सर्वथा स्यात् इति तात्पर्यं मुनिरेव प्रकटयति। यदाह -- तस्मात् सर्वेषु कालेषु मानुस्मर इति। तेनेत्थमत्र पदसङ्गतिः -- सदा यं यं भावं स्मरन् कलेबरं त्यजति अन्तेऽपि वा स्मरन् -- वाग्रहणात् अस्मरन् ,वा -- तं तमेवैति। यतोऽसौ सदा तद्भावेन भावितः।अन्ये तु -- कलेवरं त्यजति सति अन्ते कलेवरत्यागक्षणे बन्धुपुत्रादिप्रमात्रगोचरे (SK (n) -- प्रमात्रन्तरागोचरे) श्वासायासहिक्कागद्गदादिचेष्टाचरमभाविनि क्षणे शरीरदार्ढ्यबन्धप्रतनूभावात् देहकृतसुखदुःखमोहबन्धे,(K -- वन्ध्ये) कालांशे देहत्यजनशब्दवाचेय यदेव स्मरति तदेव प्रथमसंविदनुगृहीतम् अस्य रूपं संपद्यते। तादृशे (SN तादृशि) च काले स्मरणस्य कारणं सदा तद्भावभावितत्त्वमिति। त्यजति इति सप्तमी योज्या इति। प्राक्तन एवार्थः।ननु एवमन्तकाले किं प्रयोजनं तत्स्मरणेन क एवमाह प्रयोजनम् इति किंतु वस्तुवृत्तोपनतमेव तद्भवति तस्मिन्नन्त्ये क्षणे।ननु पुत्रकलत्रबन्धुभृतेः शिशिरोदकपानादेर्वा अन्त्ये क्षणे दृष्टं स्मरणम् इति तद्भावापत्तिः स्यात् मैवम्। न हि सोऽन्त्यः क्षणः स्फुटदेहावस्थानात्। न हि असावन्त्यः क्षणः अस्मद्विवक्षितो भवादृशैर्लक्ष्यते। तत्र त्वन्त्ये क्षणे येनैव रूपेण भवितव्यं तत्संस्कारस्य दूरवर्त्तिनोऽपि -- जातिदेशकालव्यवहितानामपि (SN omit जाति also the following compound word स्मृति,etc.) आनन्तर्यम् स्मृतिसंस्कारयोरेकरूपत्त्वात् (YS IV 9.)इति न्यायेन प्रबोधेन भाव्यम्। तद्वशात् तत्स्मरणं तत्स्मृत्या तद्भावप्राप्तिः। कस्य चित्तु देहस्य स्वस्थावस्थायामपि तदेव काकतालीयवशाद्व्यज्यते। यथा मृगादेः पुराणे वर्णनं तत्कृतं तु मृगत्वम्। अत एव प्रयाणकालेऽपि च माम् (VII30 ) इत्यादौ अपि च इति ग्रहणम्। ये हि सदा भगवन्तं भावयन्ति,एवंभूता भविष्यामः इति तेषाम्तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी (YS I 50 )इति न्यायेन तस्यामलक्ष्यायामन्तदशायां संस्कारान्तरापहस्तनेन तत्संस्कारकृते तत्तत्त्वस्मरणे,देहसद्भावक्षणकृते च तस्य स्मरणे ( omits देहसद्भाव -- स्मरणे) अनन्तरं देहविनिपातक्षणे एव कालसंस्कारनिवृत्तेः तदिदमित्यादिवेद्यविभागानवभासात् संविन्मात्रसतत्त्वपरमेश्वरस्वभावतैव भवति (CA adds इति श्रीमदभिनवगुप्तगुरूणां संमतम् ( संस्मृतम्) after भवति) इत्यलम् ( इत्यलं बहुना)। असंशयमिति -- नात्र संदेग्धव्यमिति [तात्पर्यम्]।

'''जयतीर्थव्याख्या'''

।।8.6 -- 8.7।।ननु कलेवरत्यागस्यान्ताव्यभिचारादन्त इति व्यर्थमित्यत आह -- स्मरन्निति। नान्त इत्येतत्कलेवरं त्यजतीत्यस्य विशेषणं येन व्यर्थं स्यात् किन्तु अन्ते स्मरन्निति स्मरणस्यैव तत्रापि किं प्रयोजनं इति चेत् उच्यतेलक्षणहेत्वोः क्रियायाः [अष्टा.3।2।126] इति लक्षणेऽपि शतुर्विधानात्।स्मरन्पुरुषः कलेवरं त्यजति इति स्मरणकलेवरत्यागयोर्भिन्नकालत्वेऽपि न कश्चिच्छब्दविरोध इति मन्दमतेः शङ्का स्यात् सा मा भूदित्येवमर्थमन्त इति स्मरणस्य विशेषणमुपात्तम् तेनात्र स्मरणकलेवरत्यागयोरेककालत्वसिद्धिरिति।मन्दमतेः इत्यस्य कृत्यमाह -- सुमतेरिति। कुतः इत्यत आह -- स्मरन्निति।लटः शतृशानचौ [अष्टा.3।2।124] इति लडादेशत्वेनापि शतुर्विधानमस्ति स च लडिति वर्तमाने पुनर्लङ्ग्रहणसामर्थ्यात्क्वचित् प्रथमासामानाधिकरण्येऽपि भवति लक्षणे विहिताच्च ल़डादेशो बलीयान्। तत्र क्रियाया इत्युपपदसापेक्षत्वात् अस्यानपेक्षत्वात्। अप्रथमासमानाधिकरणे इत्यस्यातिप्रसक्तिपरिहारमात्रार्थत्वात्। तथा च बलवतो ग्राह्यत्वेस्मरंस्त्यजति इत्यस्य स्मरति च त्यजति चेत्यर्थः स्यात्। एवं चान्तः इत्यनुक्ते़ऽपि,स्मरणत्यागयोरेककालीनत्वप्रतीतेः सुमतेर्नैव शङ्कावकाश इति भावः।ननु दुर्मतिरपि शाब्दं न्यायं जानात्येव अन्यथा शास्त्रे नाधिक्रियेत केवलमध्यात्मविषये न प्रवीणः तत्कथं तस्याप्येषा शङ्का स्यात् ततश्च तं प्रत्यपि अन्त इत्येतत् व्यर्थमित्यत आह -- दुर्मतेरिति। दुर्मतेर्भविष्यति शङ्का भिन्नकालत्वविषया। कुतः मरणकाले महद्दुःखं जायते दुःखस्य च संस्कारविलोपहेतुत्वं प्रसिद्धम् अतो दुःखात्कारणात् मूर्छितो न स्मरंस्त्यजति। कलेवरत्यागसमये स्मरणमसम्भवीति यावत्। एतामनुपपत्तिं पश्यन् बलवन्तमपि लडादेशं विहाय लक्षणार्थमेव हि मन्यत इति भावः। ननु सुमतेरप्येवं शङ्का स्यादेव कथं चेयं शङ्का तत्त्वप्रतीतिरेवेति चेत् न अज्ञानिन एव देहाभिमानिनो देहत्यागमात्मत्यागमिव मन्यमानस्य मरणकाले दुःखं भवति तदपि मरणक्षणात्पूर्वमेव ज्ञानी तु सर्वदा देहं हेयमेव मन्यमानो न मनागपि दुःखायते किन्तु विशिष्टमेव तस्योत्क्रमणामत्यध्यात्मशास्त्रमनुसन्दधानस्य सुमतेः शङ्कानवकाशात्। किं तदध्यात्मशास्त्रं इत्यत आह -- त्यजन्निति। कश्चिद्विद्वान्। अविद्वानपि तत्काले तस्येति मरणवैशिष्ट्यमात्रपरम् न त्वन्त इत्येतत् स्मरणविशेषणं चेत् तदासदा तद्भावभावितः [8।6] इत्यनेनैव गतार्थं स्यात् अन्यथा तद्व्यर्थं भवेदित्यत आह -- सदेति। अन्तकालस्मरणमेव तत्प्राप्तिसाधनम्। न च तदकस्माद्भवति अतः तदुपायत्वेन सदा तद्भावभावितत्वमुच्यत इत्यर्थः। कथमित्यतो यथाऽयं तदुपायः स्यात् तथा व्याचष्टे -- भाव इति। तथाऽभिधानादिति स्याद्भावोऽन्तर्गतं मन इत्येवरूपादभिधानादित्यर्थः। वासितत्वं संस्कृतत्वम्। तस्मिन् भावस्तद्भावस्तेन भावित इति मनोधर्मेणात्मोपचर्यते।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.7।।यस्मादेवं पूर्वस्मरणाभ्यासजनिताऽन्त्या भावनैव तदानीं परावशस्य देहान्तरप्राप्तौ कारणम् तस्मान्मद्विषयकार्यभावनोत्पत्त्यर्थं सर्वेषु कालेषु पूर्वमेवादरेण मां सगुणमीश्वरमनुस्मर चिन्तय। यद्यन्तःकरणाशुद्धिवशान्न शक्नोषि सततमनुस्मर्तुं ततोऽन्तःकरणशुद्धये युध्य च। अन्तःकरणशुद्ध्यर्थं युद्धादिकं स्वधर्मं कुरु। युध्येति युध्यस्वेत्यर्थः। एवंच नित्यनैमित्तिककर्मानुष्ठानेनाशुद्धिक्षयान्मयि भगवति वासुदेवेऽर्पिते संकल्पाध्यवसायलक्षणे मनोबुद्धी येन त्वया स त्वमीदृशः सर्वदा मच्चिन्तनपरः सन्मामेवैष्यसि प्राप्यस्यसि। असंशयो नात्र संशयो विद्यते। इदं च सगुणब्रह्मचिन्तनमुपासकानामुक्तं तेषामन्त्यभावनासापेक्षत्वात्। निर्गुणब्रह्मज्ञानिनां तु ज्ञानसमकालमेवाज्ञाननिवृत्तिलक्षणाया मुक्तेः सिद्धत्वान्नास्त्यन्त्यभावनापेक्षेति द्रष्टव्यम्।

'''पुरुषोत्तमव्याख्या'''

।।8.7।।अतः सदा त्वं मद्भावयुक्तो भवेत्याह -- तस्मादिति। तस्मात् पूर्वोक्तात् कारणात् सर्वेषु कालेषु लौकिकवैदिकक्रियायोग्येषु मय्यर्पितं मनश्चाञ्चल्यदोषनिवारणार्थं बुद्धिरन्यत्र व्यवसायदोषनिवारणार्थं येन तादृशः सन् मामनुस्मर चिन्तय। अनुस्मरणेन मया कृपया सर्वदा त्वं स्मर्यसे तस्मात्सर्वदा मत्स्मरणं फलरूपं भविष्यतीति भावो व्यञ्जितः। युद्ध्य च युध्यस्व सद्भावनया मदाज्ञया युद्धमपि कुर्वित्यर्थः। एवमनुस्मरणेन असंशयः सन्देहरहितः सन् मामेव एष्यसीत्यर्थः। असंशयः अत्र च सन्देहो नास्तीति भावः।

'''वल्लभाचार्यव्याख्या'''

।।8.7।।यत एवं तस्मात्त्वमपि सर्वकालेषु मामनुस्मरश्रीकृष्णः शरणं मम इति। एवं योगेन स्वकर्मकरणमपि तव श्रेय इत्याह -- युद्ध्य चेति। तथा मय्यर्पितमनोबुद्धिरत्रमनोबुद्धिः इत्युक्त्या सङ्कल्पव्यवसायावपि मय्येव विधेयाविति द्योतनाय। एवं च मामेव प्राप्स्यसि नाक्षरादिकमत्र न संशयः।

'''आनन्दगिरिव्याख्या'''

।।8.7।।सततभावना प्रतिनियतफलप्राप्तिनिमित्तान्त्यप्रत्ययहेतुरित्यङ्गीकृत्यानन्तरश्लोकमवतारयति -- तस्मादिति। विशेषणत्रयवतो भगवदनुस्मरणस्य भगवत्प्राप्तिहेतुत्वं तस्मादित्युच्यते। सर्वेषु कालेष्वादरनैरन्तर्याभ्यां सहेति यावत्। भगवदनुस्मरणे विशेषणत्रयसाहित्यं यथाशास्त्रमिति द्योत्यते। भगवदनुसंधानं कर्तव्यमुक्त्वा तेन सह स्वधर्ममपि कुरु युद्धमित्युपदिशता भगवता समुच्चयो ज्ञानकर्मणोरङ्गीकृतो भातीत्याशङ्क्याह -- मयीति। मनोबुद्धिगोचरं क्रियाकारकफलजातं सकलमपि ब्रह्मैवेति भावयन्युध्यस्वेति ब्रुवता क्रियादिकलापस्य ब्रह्मातिरिक्तस्याभावाभिलापान्नात्र समुच्चयो विवक्षित इत्यर्थः। उक्तरीत्या स्वधर्ममनुवर्तमानस्य प्रयोजनमाह -- मामेवेति। उक्तसाधनवशात्फलप्राप्तौ प्रतिबन्धाभावं सूचयति -- असंशय इति।

'''धनपतिव्याख्या'''

।।8.7।।यस्मादेवं सदाभ्यस्ता भावनान्तकालेऽपि सैवोद्भूता स्वविषयप्राप्तिकरी तस्मात् सर्वेषु कालेषु आदरनैरन्तर्याभ्यां मां सगुणं निर्गुणं वा यथाशास्त्रमनुस्मर यध्य च युध्यस्व स्ववर्णधर्मयुद्धं च कुरु।न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे। न हरति न च हन्ति किंचिदुच्चैः सितमनसं तमवेहि विषणुभक्तम् इति विष्णुपुराणे निजवर्णधर्मतोऽजलनं विष्णुभक्तलक्षणमुक्तम्। भगवता च युध्य चेत्युक्तं तेनोपासनाकर्मसमुच्चयः। मयि अर्पिते मनोबुद्धी यस्य तव स त्वमेतादृशः सन्मामेवैष्यसि आगमिष्यसि अत्र संशयो न विद्यते।

'''नीलकण्ठव्याख्या'''

।।8.7।।यस्मादेवं तस्मात्सर्वेषु कालेषु मामनुस्मर अन्तकाले मत्स्मृत्या मद्भावप्राप्त्यर्थं। युध्यचेति चकारात्कर्मोपास्त्योः समुच्चयोऽवगम्यते। ज्ञानकर्मसमुच्चयकर्तरीव तदुभयानुष्ठातर्येकस्मिन्नेवाधिकारिणि कर्तृत्वाकर्तृत्वप्रत्ययकृतविरोधाभावात्। मयि अर्पिते मदेकनिष्ठतां नीते मनोबुद्धी येन स मय्यर्पितमनोबुद्धिस्त्वं असंशयं मामेवैष्यसि प्राप्स्यसि। अन्तकाले स्मरणेनेति शेषः।

'''श्रीधरस्वामिव्याख्या'''

।।8.7।। तस्मादिति। यस्मात्पूर्ववासनैवान्तकाले स्मृतिहेतुः नहि तदा विवशस्य स्मरणोद्यमः संभवति तस्मात्सर्वदा मामनुस्मरानुचिन्तय। संततस्मरणं च चित्तशुद्धिं विना न भवति अतो युध्य च युध्यस्व। चित्तशुद्ध्यर्थं युद्धादिकं स्वधर्मं चानुतिष्ठेत्यर्थः। एवं मय्यर्पितं मनः संकल्पात्मकं बुद्धिश्च व्यवसायात्मिका येन त्वया स त्वं मामेव प्राप्स्यसि। असंशयः संशयोऽत्र नास्ति।

'''वेङ्कटनाथव्याख्या'''

।।8.7।।एवमन्तिमप्रत्ययाधीने फले अन्तिमप्रत्यये चानवरतभावनाधीने भवताऽपि तथाविधभावना तदनुग्राहकं कर्म च कर्तव्यमित्युच्यतेतस्मात् इति श्लोकेन।सर्वेषु कालेषु इत्यनेन स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते [छां.उ.8।15।1] प्रायणान्तमोङ्कारमभिध्यायति [प्रश्नो.5।1] इत्यादिः श्रुतिश्चानुस्मृतेत्यभिप्रायेणआप्रायणादित्युक्तम्। सूत्रं चआप्रायणात्तत्रापि हि दृष्टम् [ब्र.सू.4।1।12] इति। प्रतिमासं प्रतिपक्षमनुस्मरणेऽप्याप्रायणादिति वक्तुं शक्यमिति तद्व्युदासाभिप्रायेण बहुवचनमित्याहअहरहरिति।तं पूर्वापररात्रेषु युञ्जानः इत्यादिविहितैकाग्रतानुरूपसात्त्विककालेष्वित्युक्तं भवति। तथा च सूत्रं -- यत्रैकाग्रता तत्राविशेषात् [ब्र.सू.4।1।11] इति।युध्य च इति विहितस्य युद्धस्य अत्रफलवत्सन्निधावफलं तदङ्गम् इत्यादिन्यायादनुस्मृत्यङ्गत्वं सिद्धम् तच्च युद्धमत्र प्रस्तुतत्वादुपलक्षणतयोक्तम् ततश्च प्रमाणसिद्धं यथास्ववर्णाश्रमकर्मावश्यं कर्तव्यमित्युक्तं भवतीत्यभिप्रायेणाहअहरहरनुस्मृतिकरं युद्धादिकमिति।वर्णाश्रमानुबन्धीत्युपलक्ष्यसङ्ग्राहकाकारः। चोदितमित्यने शमादिविधेश्चोदितव्यतिरिक्तविषयत्वं सूचितम्। नित्यनैमित्तिकशब्देन फलाभिसन्धिपूर्वकर्मव्युदासः।मय्यर्पितमनोबुद्धिः इत्यस्य उक्तार्थानुवादरूपत्वं दर्शयति -- एवमिति।उपायेन कर्मादिरूपेणेत्यर्थः। अनुस्मरणमेवात्र मनसोऽर्पणम् बुद्धेरर्पणं तु फलप्रदत्वाध्यवसायः। प्रकरणसिद्धावान्तरव्यापारकथनंअन्तकाले च मामेव स्मरन्निति। यद्वाअत्रोपायेनेति कर्मानुगृहीतानुस्मृतिरेवोच्यते तत्फलं मय्यर्पितमनोबुद्धिः इति। तस्यैवार्थः -- अन्तकाले च मामेव स्मरन्निति। पूर्वोत्तरानुवृत्ताधिकारित्रयसाधारण्यायाह -- यथाभिलषितप्रकारं मामिति।निस्संशयेषु सर्वेषु नित्यं वसति वै हरिः। ससंशयान् हेतुबलान्नाध्यावसति माधवः [म.भा.12।349।71] इत्यादिवत्असंशयः इत्यस्यार्जुनविशेषणत्वेऽपि फलितमाह -- नात्र संशय इति।अ मा नो ना प्रतिषेधे इति वचनादकारो वाऽत्र पृथगनुसन्धेयः। एतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सास्ति [छां.उ.3।14।4],इत्यादिकमत्रानु सन्धेयम्।

<poem>
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८- ८॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.8।। --,अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूते एकस्मिन् तुल्यप्रत्ययावृत्तिलक्षणः विलक्षणप्रत्ययानन्तरितः अभ्यासः स,चाभ्यासो योगः तेन युक्तं तत्रैव व्यापृतं योगिनः चेतः तेन चेतसा नान्यगामिना न अन्यत्र विषयान्तरे गन्तुं शीलम् अस्येति नान्यगामि तेन नान्यगामिना परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले भवं याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योपदेशम् अनुध्यायन् इत्येतत्।।किं विशिष्टं च पुरुषं याति इति उच्यते --,

'''माध्वभाष्यम्'''

।।8.8।।सदा तद्भावभावितत्वं स्पष्टयति -- अभ्यासेति। अभ्यास एव योगोऽभ्यासयोगः। दिव्यं पुरुषं पुरिशयं पूर्णं च स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम् [बृ.उ.2।5।18] इति श्रुतेः। दिव्यं सृष्ट्यादिक्रीडायुक्तम्। दिवु क्रीडा -- [धा.पा.4।1] इति धातोः।

'''रामानुजभाष्यम्'''

।।8.8।।अहरहः अभ्यासयोगाभ्यां युक्ततया नान्यगामिना चेतसा अन्तकाले परमं पुरुषं दिव्यं मां वक्ष्यमाणप्रकारं चिन्तयन् माम् एव याति आदिभरतमृगत्वप्राप्तिवत् ऐश्वर्यविशिष्टतया मत्समानाकारो भवति।अभ्यासो नित्यनैमित्तिकाविरुद्वेषु सर्वेषु कालेषु मनसा उपास्यसंशीलनम् योगः तु अहरहः योगकाले अनुष्ठीयमानं यथोक्तलक्षणम् उपासनम्।

'''अभिनवगुप्तव्याख्या'''

।।8.8।।अभ्यासेति। अनुचिन्तयन् इति -- शरीरभेदानन्तरं निवृत्तकलेवरकृतव्यथः पश्चाद्भगवन्तं चिन्तयन्निति।

'''जयतीर्थव्याख्या'''

।।8.8।।कुतोऽयमर्थः इत्यत उत्तरत्रैवमेव व्याख्यानादिति भावेनाह -- सदेति। द्वन्द्वादिशङ्काव्युदासार्थमाह -- अभ्यास एवेति। अभ्यासातिरिक्तस्य योगत्य प्रकृतोपयोगिनोऽभावादिति भावः।पुरुषश्चाधिदैवतम् [8।4] इति प्रकृतो हिरण्यगर्भोऽत्रोच्यत इति प्रतीतिनिरासार्थमाह दिव्यमिति। दिव्यत्वेन विशेषणात् ईश्वर एवायमित्यथः।पृ़ पालनपूरणयोः [धा.पा.3।4] इत्यतःविदिपूरोश्च इति कुषन्प्रत्ययविधानात् पूर्णं चेति सिध्यति। सर्वासु पूर्षु वर्तमान इति स्वरूपानुवादेन पुरुष इति विधेयम्। तस्य व्याख्यानं पुरिशय इत्यादि। आवरणमन्तर्व्याप्तिः। संवरणं बहिराच्छादनम्। ननु दिवि भवो दिव्यः स च सूर्यमण्डलस्थत्वाद्धिरण्यगर्भोऽपि भवतीति कश्चित् (शं.) अत आह -- दिव्यमिति। औणादिको यक्प्रत्ययः। परममिति विशेषणादिति भावः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.8।।तदेवं सप्तानामपि प्रश्नानामुत्तरमुक्त्वा प्रयाणकाले भगवदनुस्मरणस्य भगवत्प्राप्तिलक्षणं फलं विवरीतुमारभते -- अभ्यासः सजातीयप्रत्ययप्रवाहो मयि विजातीयप्रत्ययानन्तरितः षष्ठे प्राग्व्याख्यातः स एव योगः समाधिस्तेन युक्तं तत्रैव व्यापृतमात्माकारवृत्तीतरवृत्तिशून्यं यच्चेतस्तेन चेतसाऽभ्यासपाटवेन नान्यगामिना नान्यत्र विषयान्तरे निरोधप्रयत्नं विनापि गन्तुं शीलमस्येति परमं निरतिशयं पुरुषं पूर्णं दिव्यं दिवि द्योतनात्मन्यादित्ये भवंयश्चासावादित्ये इति श्रुतेः याति गच्छति। (यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ मुण्डकोपनिषद ३.२.८ ॥) हे,पार्थ अनुचिन्तयन् शास्त्राचार्योपदेशमनुध्यायन्।

'''पुरुषोत्तमव्याख्या'''

।।8.8।।अथ तव तु मत्प्राप्तिर्निस्सन्दिग्धा साक्षान्मयोपदिष्टत्वात् किन्तु मदाज्ञाव्यतिरेकेणापि येऽनन्यभावेन स्मरन्ति तेऽपि मां प्राप्नुवन्तीत्याह -- अभ्यासेति। हे पार्थ मद्भक्त अभ्यासो भगवत्सङ्गानुशीलनं स एव योग उपायः तद्युक्तेन नान्यगामिना अन्यत्रोत्तमत्वज्ञानजचाञ्चल्यदोषरहितेन चेतसा दिव्यं क्री़डात्मकं परमं पुरुषं पुरुषोत्तमभावं निर्जितचेतसा अनुचिन्तयन् भगवत्कृतस्मरणानन्तरं चिन्तयन् स्मरन् हे पार्थ तमेव याति प्राप्नोतीत्यर्थः। पार्थेति सम्बोधनेन पृथासम्बन्धान्मत्कृतस्मरणानन्तरस्मरणेन यथा त्वं मामाप्नोषीति बोध्यते।

'''वल्लभाचार्यव्याख्या'''

।।8.8 -- 8.9।।एवं सप्तप्रश्नानामुत्तरं निरूप्य प्रयाणकाले योगिनां ज्ञानिनां भक्तानां च तत्तत्स्वरूपप्राप्त्यात्मकं फलमाह -- अभ्यासयोगेति। नान्यगामिना विषयाद्यगामिना(अक्षराद्यगामिना)ऽनुचिन्तयन्परमं पुरुषं नारायणं दिव्यं सूर्यस्थं याति तमेव विशिनष्टि --,कविमिति। यो योगी सर्गमर्यादाधिदेवं परमात्मानं अणोरणीयांसं समनुस्मरेत् अणोर्जीवादप्यणुतरम्अण्वीं जीवकलां ध्यायेत् इति वाक्यात्। आदित्यवर्णं स्वप्रकाशस्वरूपं तदन्तर्वर्त्तिरूपं वायुरूपं पुरुषसूक्तप्रतिपाद्यस्वरूपं वा तमसः प्रकृतेः परस्तात्परतरम्।

'''आनन्दगिरिव्याख्या'''

।।8.8।।इतश्च पूर्वश्लोकोक्तार्थानुष्ठायी भगवन्तमन्तकाले प्राप्नोतीत्याह -- किञ्चेति। अभ्यासं विभजते -- मयीति। नहि चित्तसमर्पणस्य विषयभूतं भगवतोऽर्थान्तरं वस्तु सदस्तीति मन्वानो विशनष्टि -- चित्तेति। अन्तरालकालेऽपि विजातीयप्रत्ययेषु विच्छिद्य विच्छिद्य जायमानेष्वपि सजातीयप्रत्ययावृत्तिरयोगिनोऽपि स्यादित्याशङ्क्याह -- विलक्षणेति। अभ्यासाख्येन योगेन युक्तत्वं चेतसो विवृणोति -- तत्रैवेति। तृतीयया परामृष्टोऽभ्यासयोगः सप्तम्यापि परामृश्यते। ननु (तु) प्राकृतानां चेतस्तथेत्याशङ्क्य विशिनष्टि -- योगिन इति।,तच्चेच्चेतो विषयान्तरं परामृशेन्न तर्हि परमपुरुषार्थप्राप्तिहेतुः स्यादित्याशङ्क्याह -- नान्यगामिनेति। प्रामादिकं विषयान्तरपारवश्यमभ्यनुज्ञातुं ताच्छील्यप्रत्ययस्तेन तात्पर्यादपरामृष्टार्थान्तरेण परमपुरुषनिष्ठेनेत्यर्थः। तदेव पुरुषस्य निरतिशयत्वं यदपरामृष्टाखिलानर्थत्वमनतिशयानन्दत्वं तच्च प्रागेव व्याख्यातं नेह व्याख्यानमपेक्षते।यश्चासावादित्ये इत्यादिश्रुतिमनुसृत्याह -- दिवीति। तत्र विशेषतोऽभिव्यक्तिरेव भवनम्। पूर्वोक्तेन चेतसा यथोक्तं पुरुषमनुचिन्तयन्याति तमेवेति संबन्धः। अनुचिन्तयन्नित्यत्रानुशब्दार्थं व्याचष्टे -- शास्त्रेति। चिन्तयन्निति व्याकरोति -- ध्यायन्निति।

'''धनपतिव्याख्या'''

।।8.8।।किंच चित्तादिसमर्पणविषयभूते एकस्मिन्मयि वासुदेवे विजातीयप्रत्ययानन्तरितः सजातीयप्रत्ययावृत्तिलक्षणोऽभ्यासः सचासौ योगः समाधिस्तेन युक्तं तत्रैव व्यापृतम्। प्रत्ययावृत्तिव्यापाराविष्टमितियावत्। तेन योगिनश्चेतसाऽनन्यगामिना नान्यस्मिन्विषये गन्तुं शीलमस्य तेन अभ्यासयोगादनन्यगामितां तत्फलभूतां प्राप्तेनेत्याशयः। परमं निरतिशयं पुरुषं पूर्ण दिव्यं द्योतमाने सूर्ये भवं यथा शास्त्राचार्योपदेशमनुध्यायन् याति गच्छिति मत्प्राप्त्यर्थं मय्यभ्यासयोगयुक्तेनानन्यगामिना चेतसा परमं दिव्यं पुरुषं वासुदेवं मामनुचिन्तय मच्चिन्तनं हि तव सलभमिति ध्वनयन्नाह -- हे पार्थेति।

'''नीलकण्ठव्याख्या'''

।।8.8।।एतदेव श्लोकत्रयेण विवृणोति -- अभ्यासेति। अभ्यासयोगयुक्तेनतत्र स्थितौ यत्नोऽभ्यासः इति सूत्रितोभ्यासः तत्र ध्येये वस्तुनि चित्तस्य स्थिरीकरणार्थो यतः। सच विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहीकरणरूपः सोऽत्राभ्यासः। तत्र भाव्यो विषयः सिद्धः विष्णुप्रतिमादिर्विराडादिर्वा। असिद्धस्तु मानसप्रतिमादिः। तत्रासिद्धे मनसः प्रतिमाकारतासंपादने तत्र स्थैर्यसंपादने चेति विषयभेदाद्विगुणो यत्नः कर्तव्यो भवति। सिद्धे तु चित्तस्थिरीकरणार्थ एक एव यत्नः। तत्र यथा स्वतः स्वच्छः स्फटिको जपाकुसुमोपरागाल्लोहितः स्फटिक इति तत्र लौहित्याध्यासः तत्प्राबल्यात्तत्रैव स्फटिकधीप्रमोषे पद्मरागत्वाध्यासः पद्मरागेऽपि चन्द्रिकायामिन्द्रनीलत्वाध्यासस्तत्रैव तदानीमेव किंचिद्दूरस्थे निहीनोपलत्वाध्यास इत्युत्तरोत्तराध्यासक्रमेण शुद्ध एक एव स्फटिकः पञ्चविधो भवति। एवं स्वतःशुद्धं चैतन्यं मायोपरागात्तदेवेश्वरः मायाप्राबल्ये तस्यैवेश्वरत्वांशप्रमोषे तत्रैव सूत्रात्माध्यासः सूत्रेऽप्यज्ञानदार्ढ्याद्विराडध्यासः ततएव विराडेकदेशेषु शरीरादिषु आत्मत्वभ्रमः तत्र यथा घटान्तर्गतः प्रदीपो घटमात्रं भासयति घटच्छिद्राद्बहिर्गतः किंचित्स्वप्रभया संसृष्टं विषयमवभासयति सर्वात्मना घटाद्बहिर्गतस्तु कृत्स्नं भवनोदरवर्ति पदार्थजातं प्रकाशयति तद्वद्देहान्तर्गता चितिर्देहमात्रं भासयति देहच्छिद्राच्चक्षुरादेर्बहिर्गता सती तत्संनिकृष्टं कंचिद्विषंय रूपादिकमवभासयति सर्वात्मना गुरूक्तयुक्त्या देहकृतपरिच्छेदाभिमाने त्यक्ते त्वपरिच्छिन्ना सती कृत्स्नं विराडात्मानमवभासयति। यथोक्तं बाह्यग्रन्थेष्वपिमणिहुतवहतारासोमसूर्यादयोऽपि क्षितिविषयमिहाल्पं बाह्यमुद्योतयन्ति। सहजलयसमुत्थं द्योतयेज्ज्योतिरन्तस्त्रिभुवनमपि सूक्ष्मस्थूलभेदक्रमेण। इति। सहजलयसमुत्थं सहजः स्वाभाविको देहकृतपरिच्छेदाभिमानस्तस्य लयमात्रादेव उत्थितं क्रमेण संकल्पक्रमेण सदीक्षणमात्राभिनिर्वृत्तत्वात्सर्वस्य प्राक्संकल्पादसत्त्वात्। तथा च श्रुतिःस यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति इति।दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः इत्यक्षपादसूत्राच्च। दोषा रागादयः। तदेवं प्रकाशमाने विराजिअहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः इति शास्त्रप्रामाण्यादुपासकेन गृहीतोऽहंग्रहो यद्यपि वस्तुतत्त्वापेक्षया भ्रान्तिरूपस्तथापि स्वाभाविकाद्देहाहंग्रहात्सत्यरूपः यथा स्फटिके हीनोपलत्वग्रहापेक्षया इन्द्रनीलत्वग्रहस्तद्वत्। यथाच स्फटिके प्रणिधीयमानं चक्षुरुत्तरोत्तरपाटवविवृद्धान्विद्रनीलत्वं बाधित्वा पद्मरागत्वं तद्बाधेन लोहितस्फटिकत्वं तद्बाधेन शुद्धत्वं चावगच्छति एवं गुरूक्तयुक्त्या प्रत्यगात्मनि प्रणिधीयमानं मनोऽस्य बाह्यं बाह्यं रूपमपोह्य आन्तरे आन्तरे अवतिष्ठते। चरमं विशुद्धं रूपं प्राप्य तु स्वयमेव विलीयते। यथोक्तंयेन त्यजसि तत्त्यज इति। येन,मनसा त्यजसि विराडादिभावं तदपि मनस्त्यजेत्यर्थः। तदेवं व्यवहारापेक्षया सिद्धेषु विराट्सूत्रान्तर्यामिषु मनसः स्थिरीकरणार्थो यत्नोऽभ्यासस्तत्फलभूतो योगः समाधिर्ध्येयवस्तुन्येव चेतसः स्थैर्यं तेन गुणेन युक्तं यच्चेतस्तेन। नान्यगामिना अनन्यगामिना। नैकधेतिवत्समासः। तेन चेतसा परमं सर्वोत्कृष्टं पुरुषं निरस्ताशेषदोषम्।यत्सर्वेषां पुरस्तात्सर्वान्पाप्मन औषत्तस्मात्पुरुषः इति निर्वचनात्। दिव्यं द्योतमानमनुचिन्तयन्नहमेव भगवान्सर्वात्मा वासुदेव इति सततमाचार्योपदेशमनुध्यायन् तमेव नदीसमुद्रन्यायेन याति हे पार्थ। तथा च श्रुतिःयथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्पुण्यपापे विधूय परात्परं पुरुषमुपैति दिव्यम् इति। परात्सूत्रात् परमन्तर्यामिणम्।

'''श्रीधरस्वामिव्याख्या'''

।।8.8।।संततस्मरणस्य चाभ्यासोऽन्तरङ्गसाधनमिति दर्शयन्नाह -- अभ्यासेति। अभ्यासः सजातीयप्रत्ययप्रवाहः स एव योग उपायस्तेन युक्तेनैकाग्रेण अतएव नान्यं विषयं गन्तुं शीलं यस्य तेन चेतसा दिव्यं द्योतनात्मकं परमं पुरुषं परमेश्वरमनुचिन्तयन् हे पार्थ तमेव यातीति।

'''वेङ्कटनाथव्याख्या'''

।।8.8।।अन्तिमप्रत्ययप्रसङ्गात्तद्धेतुतयाअनुस्मर [8।7] इत्युपासनं प्रस्तुतम् तत्प्रकारभेदोऽनन्तरप्रघट्टकार्थ इत्यभिप्रायेणाहएवमिति। गतिभेदोऽपि वक्ष्यमाणोऽनेनोपलक्षणीयः।अभ्यास -- इत्यादिश्लोकत्रयार्थमाहतत्रेति। योगशब्दस्य सम्बन्धमात्रपरत्वे नैरर्थक्यादत्र ध्यानपरत्वं वक्तुं युक्तं तत्पुरुषाच्च द्वन्द्वस्योभयपदार्थप्रधानत्वात्परिग्राह्यत्वमस्तीति तदाह -- अभ्यासयोगाभ्यामिति।नान्यगामिना इत्येतन्नैकादिशब्दवत् अनन्यगामिनेत्यर्थः। अन्यत्र विषयान्तरे गन्तुं शीलं नास्येति नान्यगामि। अभ्यासयोगशब्देन प्राचीनचिन्तनस्योक्तत्वात्अनुचिन्तयन् इत्येतदन्तिमस्मृतिपरमिति प्रदर्शनायअन्तकाल इत्युक्तम्। चिन्तनस्य ध्यानस्य च पुरुष एवात्र कर्म स च परमशब्देन विशेषितत्वादीश्वर एवेत्यभिप्रायेणमामित्यादि पदद्वयम्।दिव्यम् इत्यस्य सूर्यमण्डले स्थितमितिशङ्करोक्तं निर्मूलम्आदित्यवर्णं तमसः परस्तात् [8।9] इति वक्ष्यमाणविरुद्धं चेत्यभिप्रायेणाह -- वक्ष्यमाणप्रकारमिति। अनन्तरश्लोकद्वयेनेति शेषः। कथमैश्वर्यार्थिनोऽनपेक्षितपरमपुरुषप्राप्तिः फलतयोच्यते इत्यत्राह -- आदिभरतेति। अन्तकाले स्मर्यमाणभोगप्रदानोपयुक्ताकारविशिष्टपरमपुरुषसमानैश्वर्यप्राप्तिरिह परमपुरुषप्राप्तिः। तत्साम्यापत्तिरेव हि तत्प्राप्तितयायं यम् [8।6] इति श्लोकेनोदाहृतेति भावः।आरम्भणसंशीलनं पुनः पुनरभ्यासः इति वाक्यकारवचनानुरोधेनाभ्यासशब्दार्थमाह -- अभ्यास इति। पुनःपुनरिति वचनान्मध्येऽवश्यम्भाविभिः कैश्चिद्व्यवधानं सूचितमित्यभिप्रायेणोक्तंनित्यनैमित्तिकाविरुद्धेष्विति।सर्वेषु कालेष्विति न केवलं योगकाले तदातनस्य शीलनस्य योगशब्देनोपात्तत्वादिति भावः। आरम्भणमालम्बनम् तच्चात्रोपास्यशब्देन व्याख्यातम्। योगशब्देनात्राङ्गिस्वरूपमुच्यत इत्यभिप्रायेणाह -- योगस्त्विति।यथोक्तमिति अत्यर्थप्रियविशदतमप्रत्यक्षतापन्नमित्यर्थः।

<poem>
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥८- ९॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.9।। --,कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनम् अनुशासितारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्मादपि अणीयांसं सूक्ष्मतरम् अनुस्मरेत् अनुचिन्तयेत् यः कश्चित् सर्वस्य कर्मफलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभक्तारम् अचिन्त्यरूपं न अस्य रूपं नियतं विद्यमानमपि केनचित् चिन्तयितुं शक्यते इति अचिन्त्यरूपः तम् आदित्यवर्णम् आदित्यस्येव नित्यचैतन्यप्रकाशो वर्णो यस्य तम् आदित्यवर्णम् तमसः परस्तात् अज्ञानलक्षणात् मोहान्धकारात् परं तम् अनुचिन्तयत् याति इति पूर्वेण संबन्धः।।किञ्च --,

'''माध्वभाष्यम्'''

।।8.9।।ध्येयमाह -- कविभिति। कविं सर्वज्ञम् यः सर्वज्ञः [मुं.उ.1।9] इति श्रुतेः।त्वं कविः सर्ववेदनात् इति च ब्राह्मे। धातारं धारणपोषणकर्तारम्डुधाञ् धारणपोषणयोः [धा.पा.3।10] इति धातोः। धाता विधाता परमोत सन्दृक् इति च श्रुतिः।ब्रह्मा स्थाणुः इत्यारभ्यतस्य प्रसादादिच्छन्ति (ते तत्प्रसादाद्गच्छन्ति) तदादिष्टफलां गतिम् [म.भा.12।334।3539] इति च मोक्षधर्मे। तमसोऽव्यक्तात्परतः स्थितम्। तपसः परस्तादित्यव्यक्तं वै तमः परस्ताद्धि सततः इति पिप्पलादशाखायाम् मत्युर्वाव तमो मृत्युर्वा मृत्युर्वै तमो ज्योतिरमृतम् [बृ.उ.1।3।28] इति श्रुतेः।

'''रामानुजभाष्यम्'''

।।8.9।।कविं सर्वज्ञं पुराणं पुरातनम् अनुशासितारं विश्वस्य प्रशासितारम् अणोः अणीयांसं जीवाद् अपि सूक्ष्मतरं सर्वस्य धातारं सर्वस्य स्रष्टारम् अचिन्त्यरूपं सकलेतरविसजातीयस्वरूपम् आदित्यवर्णं तमसः परस्तात् अप्राकृतस्वासाधारणदिव्यरूपम् तम् एवंभूतम् अहरहः अभ्यस्यमानभक्तियुक्तयोगबलेन आरूढसंस्कारतया अचलेन मनसा प्रयाणकाले भ्रुवोः मध्ये प्राणम् आवेश्य संस्थाप्य तत्र भ्रुवोर्मध्ये दिव्यं पुरुषं यः अनुस्मरेत् स तम् एव उपैति तद्भावं याति तत्समानैश्वर्यो भवति इत्यर्थः।अथ कैवल्यार्थिनां स्मरणप्रकारम् आह --

'''अभिनवगुप्तव्याख्या'''

।।8.9 -- 8.10।।कविमिति। प्रयाणेति। एवम् अनुस्मरेदिति। आदित्येति। आदित्यवर्णत्वं वासुदेवतत्त्वस्य [न] परिच्छेदकम्। आकृतिकल्पनादि (N विकल्पनादि) विभ्रान्तिमयमोहतमसः अतीतत्त्वात् रवित्वेनोपमानमित्याशयः। भ्रुवोर्मध्ये इति प्राग्वत्।

'''जयतीर्थव्याख्या'''

।।8.9।।उत्तरश्लोकगतविशेषणबलाच्च परमात्मैवायमिति भावेन तत्तात्पर्यमाह -- ध्येयमिति। आह विशिनष्टीत्यर्थः। ननु कवित्वमन्येषामप्यस्ति तत्कथं भगवतो विशेषणं इत्यत आह -- कविमिति। परमेश्वरस्य सार्वज्ञे प्रमिते भवेदिदं व्याख्यानम् तदेव कुतः इत्यत आह -- य इति। सर्वज्ञः कविशब्दार्थ इत्येतत्कुतः इत्यत आह -- त्वमिति। अन्येषां तुसर्वे विमोहितधियः इत्यादिना सार्वज्ञाभावः प्रमितः। ननु धाता विरिञ्चोऽपि प्रसिद्धः तत्कथमेतद्भगवतो विशेषणं इत्यत आह -- धातारमिति। कुतोऽयमर्थः। इत्यत आह -- डुधाञिति। तृचः कर्तृवाचित्वं प्रसिद्धमेव। परमेश्वरस्य धातृत्वसद्भावे किं प्रमाणं इत्यत आह -- धातेति। विधाता कर्ता। परमा सन्दृक् परमज्ञानरूपः।सर्वस्य धातारं इत्येतत् भगवत एव नान्येषामित्यत्र प्रमाणमाह -- ब्रह्मेति। तेन भगवताऽऽदिष्टं दत्तं फलं सुखं यस्यां सा तथोक्ता। मोक्षधर्मे कथितमिति शेषः। तमसः परस्तादित्येतत् आदित्यादिसाधारणं इत्यतो द्वेधा सप्रमाणकं व्याचष्टे -- तमस इति। स्थितमिति शेषोक्तिः। अप्राकृतविग्रहमित्यर्थः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.9।।पुनरपि तमेवानुचिन्तयितव्यं गन्तव्यं च पुरुषं विशिनष्टि -- कविं क्रान्तदर्शिनं तेनातीताऽनागताद्यशेषवस्तुदर्शित्वेन सर्वज्ञं पुराणं चिरन्तनम्। सर्वकारणत्वादनादिमिति यावत्। अनुशासितारं सर्वस्य जगतो नियन्तारं अणोरणीयांसं सूक्ष्मादप्याकाशादेः सूक्ष्मतरं तदुपादानत्वात्। सर्वस्य कर्मफलजातस्य धातारं विचित्रतया प्राणिभयो विभक्तारंफलमत उपपत्तेः इति न्यायात्। न चिन्तयितुं शक्यमपरिमितमहित्वेन रूपं यस्य तम् आदित्यस्येव सकलजगदवभासको वर्णः प्रकाशो यस्य तम् सर्वस्य जगतोऽवभासकमिति यावत्। अतएव तमसः परस्तात्तमसो मोहान्धकारादज्ञानलक्षणात्परस्तात् प्रकाशरूपत्वेन तमोविरोधिनमिति यावत्। अनुस्मरेच्चिन्तयेद्यः कश्चिदपि स तं यातीति पूर्वेणैव संबन्धः। स तं परं पुरुषमुपैति दिव्यमिति परेण वा संबन्धः।

'''पुरुषोत्तमव्याख्या'''

।।8.9।।चिन्तनीयस्वरूपधर्मानाह द्वाभ्याम् -- कविमिति। कविं शब्दार्थरसिकं स्वगुणानुवर्णनश्रवणानन्दसंसूचितानुग्रहम् पुराणं अनादिसिद्धं सर्वदैकरसम् अनुशासितारं भावादिधर्मनियन्तारम् अणोरणीयांसं अणोः सूक्ष्मात् अणीयांसं सूक्ष्मम्। अयं भावः -- सूक्ष्माज्जीवात् सूक्ष्मं जीवभावभावनयोग्यस्वरूपप्राकट्येन तद्वृदि बहिस्तद्दृष्ट्यादिस्थितियोग्यम्। सर्वस्य स्वक्रीडायोग्यस्य भावादिरूपाक्षरादिरूपपदार्थस्य धातारं पोषकम्। अचिन्त्यरूपं अलौकिकक्रीडाद्यपरिमेयमहिमानम्। आदित्यवर्णं रसात्मकतापतेजसा सर्वप्रकाशकम्। तमसः परस्तात् प्रकृतेः परस्ताद्वर्त्तमानम्। अत्रायं भावः -- भावात्मकप्राप्तभक्तस्वरूपं प्रकटितलीलास्वरूपात् सर्वदा रसात्मकत्वेन वर्तमानमेवं पुरुषं पुरुषोत्तमम्।

'''वल्लभाचार्यव्याख्या'''

।।8.8 -- 8.9।।एवं सप्तप्रश्नानामुत्तरं निरूप्य प्रयाणकाले योगिनां ज्ञानिनां भक्तानां च तत्तत्स्वरूपप्राप्त्यात्मकं फलमाह -- अभ्यासयोगेति। नान्यगामिना विषयाद्यगामिना(अक्षराद्यगामिना)ऽनुचिन्तयन्परमं पुरुषं नारायणं दिव्यं सूर्यस्थं याति तमेव विशिनष्टि -- कविमिति। यो योगी सर्गमर्यादाधिदेवं परमात्मानं अणोरणीयांसं समनुस्मरेत् अणोर्जीवादप्यणुतरम्अण्वीं जीवकलां ध्यायेत् इति वाक्यात्। आदित्यवर्णं स्वप्रकाशस्वरूपं तदन्तर्वर्त्तिरूपं वायुरूपं पुरुषसूक्तप्रतिपाद्यस्वरूपं वा तमसः प्रकृतेः परस्तात्परतरम्।

'''आनन्दगिरिव्याख्या'''

।।8.9।।पुरुषमनुचिन्तयन्निति संबन्धः। चकारात्कया वा नाड्योत्क्रामन्नित्यनुकृष्यते तत्र ध्यानद्वारा प्राप्यस्य पुरुषस्य विशेषणानि दर्शयति -- उच्यत इति। क्रान्तदर्शित्वमतीतादेरशेषस्य वस्तुनो दर्शनशालित्वम्। तेन निष्पन्नमर्थमाह -- सर्वज्ञमिति। चिरंतनमादिमतः सर्वस्य कारणत्वादनादिमित्यर्थः। सूक्ष्ममाकाशादि ततः सूक्ष्मतरं तदुपादानत्वादित्यर्थः। यो यथोक्तमनुचिन्तयेत्स तमेवानुचिन्तयन्यातीति पूर्वेणैव संबन्ध इति योजना। ननु विशिष्टजात्यादिमतो यथोक्तमनुचिन्तनं फलवद्भवति न त्वस्मदादीनामित्याशङ्क्याह -- यः कश्चिदिति।फलमत उपपत्तेः इति न्यायेनाह -- सर्वस्येति।एतदप्रमेयं ध्रुवं इति श्रुतिमाश्रित्याह -- अचिन्त्यरूपमिति। नहि परस्य किंचिदपि रूपादि वस्तुतोऽस्ति अरूपवदेव हीति न्यायात् कल्पितमपि नास्मदादिभिः शक्यते चिन्तयितुमित्याह -- नास्येति। मूलकारणादज्ञानात्तत्कार्याच्च पुरस्तादुपरिष्टाद्व्यवस्थितं परमार्थतो ज्ञानतत्कार्यास्पृष्टमित्याह -- तमस इति।

'''धनपतिव्याख्या'''

।।8.9।।किंविशिष्टं च पुरुषं चिन्तयन्यातीत्यत आह। कविं क्रान्तदर्शिनं तेनातीतादिवस्तुज्ञानात्सर्वज्ञं पुराणं सर्वस्य कार्यकारणस्य हेतुत्वेनानादित्वाच्चिरन्तनम्। अनुशासितारमन्तर्यामिरुपेण नियन्तरं अणोरणीयांसं अणोः सूक्ष्मादाकाशादेरप्यणायांसमतिशयेन सूक्ष्मं योऽनुचिन्तयेत् स तमेवानुचिन्तयन्तातीति पूर्वेण संबन्धः। य इत्यस्य यः कश्चिदित्यर्थः। एतेन ननु विशिष्टजात्यादिमतो यथोक्तचिन्तरं सफलं भवति नास्मदादेर्यस्य कस्यचिदिति शङ्का निरस्ता। सर्वस्य कर्मफलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभज्य दातारम्। सहि सर्वाध्यक्षः देवगन्धर्वयक्षरक्षः पितृपिशाचभूतजराजुजाण्डस्वेदजोद्भिज्जादिलक्षणस्य द्युवियत्पृथिव्यादित्यचन्द्रग्रहनक्षत्रविचित्रस्य विविधप्राण्युपभोग्योग्यस्थानसाधनसंभन्धिनोऽत्यन्तकुशलशिल्पिभिरपि मनसाप्यचिन्तयनिर्माणस्य जगतः सृष्टिस्थितसंहारान्विदधद्देशकालविशेषाभिज्ञतया कर्मिणां कर्मानुरुपं फलं संपादयति। ननु कर्मण एवाचिन्त्यप्रभावात्सर्वैश्च फलहेतुत्वेनाभ्युपगमात् तत्तत्फलप्राप्तिरभ्युपगन्तव्या एवंच कृतं फलप्रदानायेश्चराधिकल्पनयेति चेन्न। प्रत्यक्षविनाशिनोऽभावरुपात्मकर्मणो भावरुपस्य फलस्य प्राप्त्यसंभवात्। ननु कर्म विनश्यत्स्वकालमेव स्वानुरुपं फलमर्जयित्वा विनश्यति। तत्फलमुपात्तमपि भोक्तुरयोग्यत्वाद्वा कर्मान्तरप्रतिबन्धाद्वा भोक्का न भुज्यते भोक्तुर्योग्यताप्राप्त्या प्रतिबन्धापगमे वा,तेन भोक्ष्यते इति चेन्न। नहि स्वर्घ आत्मानं लभतामित्यधिकारिणः कामयन्ते किंतु स्वर्गो भोग्योऽस्माकं भवत्वित्यतो यादृशमदिकारिणा काम्यते तादृशस्य फलत्वमिति भोगयस्य फलत्वेन प्राग्भोक्तृसंबन्धात् कामयन्ते किंतु स्वर्गो भोग्योऽस्माकं भवित्वित्यतो यादृशमधिकारिणा काम्यते तादृशस्य फलत्वमिति भोग्यस्य फलत्वेन प्राग्नोक्तृसंबन्धात् भोग्यत्वासिद्य्धा फलत्वानुपत्तेः। यत्कालं हि यत्सुखं दुःखं वा आत्मना भुज्यते तस्यैव लोके फलत्वं प्रसिद्धम्। किंच स्वर्गनरकौ तीव्रतमे सुखदुःके इति तद्विषयेणामुभवेन भोगापरनान्मावश्यं भवितव्यम्। तस्मादनुभवयोग्योरननुभूयमानत्वेनाननुभूयमानशशशृङ्गवन्नस्तित्वं निश्चीयते। ननु कर्मजन्यादपूर्वात्फलमुत्पत्स्यत इति चेन्न। चेतनाऽप्रवर्तितस्य काष्ठलोष्टसमस्याचेतनस्य चेतनप्रवृत्तिंविना फलोत्पत्त्यर्थं प्रवृत्त्यनुपपत्तेः तत्सत्त्वे प्रमाणभावाच्चार्थपत्तिः प्रमाणमितिचेन्न। ईश्वरसिद्धेरर्थापत्तिक्षयात्स वा एष महाजन आत्मान्नादो वसुदानः इत्येवंजातीयकया श्रुत्यापीश्वर एव कर्मफलहेतुरिति निश्चीयते। ननुस्वर्गकामो यजेत इत्येवमादिषु वाक्येषु धर्मस्य फलदातृत्वं श्रुयते विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इत्यवपद्येत तथा कल्पियतव्यः। नचानुत्पाद्य किमप्यपूर्वं कर्म विनश्यत्कालान्तरितं फलं दातुं श्क्नोतीत्यतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलक्य वा पूर्वास्था वाऽपूर्वं नामास्तीति तर्क्यते। उपपद्यते चायमर्थ उक्तेन प्रकारेण ईश्वरः फलं तदातीत्यनुपपन्नमविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेर्वैषम्यनैर्घृण्यप्रसङ्गाच्चानुष्ठानवैयर्थ्यापत्तेश्च। तस्माद्धर्मादेव फलमिति चेदुच्यते।एष ह्येव साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते। एष ह्येवासाधुकर्म कारयति तं यमेभ्यो लोकेभ्य अधो निनीषते इत्यादिश्रुतिषु धर्माधर्मयोः कारयितृत्वेनेश्वरस्य हेतुत्वं फलदातृत्वं च व्यपदिश्यते। विचित्रकार्यानुपपत्त्यादयोऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते। तथा चेश्वरसिद्धेः कर्मणो वेत्यादि न परिकल्प्यम्।सर्वगकामो यजेत इत्यादिश्रुतिरपि ईश्वरकारणवादिश्रुत्यनुरोधेन व्याख्येया। तथाच व्याससूत्राणिफलमत उपपत्तेःश्रुतत्वाच्च धर्मे जैमिनिरतएवपूर्वं तु बादरायणो हेतुव्यपदेशात्। फलमत ईश्वारत्मकर्मभिराराधिताद्भवितुमर्हति। कुतः उपपत्तेः। न केवलमुपपत्तेरेवेश्वरं फलहेतुं कल्पयामः किं तर्हि श्रुतत्वादपीश्वरं फलहेतुं मन्यामहे। तथाहि श्रुतिर्भवतिसवा एष इत्याद्या। सिद्धान्तेनोपक्रम्य पूर्वपक्षं गृह्णाति। चैमिनिराचार्यः फलस्य दातारं धर्म्यं मन्यते। अतएव हेतोः श्रुतेरुपपत्तेश्च बादरायणस्तु आचार्यः पूर्वोक्तमेवेश्वरं फलहेतुं मन्यते। केवलात्कर्मणोऽपूर्वाद्वा केवलात्फलमित्ययं पक्षस्तुशब्देन व्यावर्तते। नहि मृत्पिण्डदण्डादयोऽचेतनाश्चेतनकुम्भकाराद्यनधिष्ठिताः कुम्भाद्यारम्भाय प्रभवन्तो दृष्टाः। कल्पना च दृष्टानुसारिण्येव युक्ता। तस्मादचेचनाधिष्ठितात्केवलादचेतनात्कर्मणस्तथाभूतादपूर्वाद्वा फलमित्यनुपपन्नमु। ननुकर्मादि चेतनाधिष्ठिमचेतनत्वान्मृदादिवत् इत्यनुमानेन सिद्धस्य कर्मादेर्जीववचैतन्याधिष्ठितत्वस्य शुभस्य कर्मणः सुखमितरस्य दुःखं ज्योतिष्ठोमात्स्वर्ग इत्यादिसाक्षात्कारवदधिष्ठितत्वमस्माभिः साध्यते इति सिद्धासाधनस्याभावात्। किंच देवपूजात्मको यागो देवतां न प्रसादयन् फलं प्रसूते इत्यपि दृष्टविरुद्धम्। राजसेवात्मकमाराधनं राजानं प्रसाद्य फलाय कल्पत इति लोके दृष्टत्वात्। तस्माद्दृष्टानुगुण्याय यागादिभिः दानपरिचरणप्रणामाऋजलिकरणस्तुतिमयीभिरतिश्रद्धागर्भाभिर्भक्तिभिश्चेश्वरप्रसक्तिरुत्पाद्यते। तथाचेश्वरप्रसाददेव स्थायिनः (कर्मणः) फलोत्पत्तेः कृतमपूर्वेण। एवमशुबेनापि कर्मणेस्वरविरोषनं श्रुतिस्मृतिप्रसिद्धं ततः स्थायिनोऽनिष्टफलोत्पत्तिः यथा राजा साधुकारिणमनुगृह्णाति पापकारिणं निगृह्णाति तेन च द्विष्टो रक्तो वा न भवति तथेश्वरोऽपि। ननु प्रधानराधनेऽङ्गाराधनानामुपयोगः स्वाभ्याराधनइव तदमात्यतत्प्रणयिजनाराधनानामिवेति सर्वं समानम्। तस्माद्दृष्टाविरोधेनेश्वराराधनात्फलं नत्वपूर्वत्कर्मणो वा केवलात्। हेतुव्यपदेशः श्रौतः स्मार्तश्च व्याख्यातः। अचिन्त्यरुपंअरुपवदेव हि तत्प्रधानत्वात्प्रकाशवच्चावैयर्थ्यं आह च चिन्मात्रम् इत सूत्रोक्तप्रकारेण वस्तुतः परमेश्वरस्य किंचिदपि रुपं नास्ति। अरुपवदेव हि रुपादिरहितमेव हि ब्रह्मावधारयितव्यं न रुपादिम्त। कस्मात्तत्प्रधानत्वात्।अस्थूलमनण्वह्नस्वमदीर्घमशब्दमरुपमव्ययंतदेतब्रह्मापूर्वमनपरमबाह्यमयमात्मा ब्रह्म सर्वामुभूः इत्येवमादिनां वाक्यानां निराकारब्रह्मप्रधानत्वात्।अस्मथूलमनण्ह्नस्वमदीर्घमशब्दमरुपमव्ययंतदेतद्ब्रह्मापूर्वमनपरमबाह्यमयमात्मा ब्रह्म सर्वामुभूः इत्येवमीदीनां वाक्यानां निराकारब्रह्मप्रधानत्वात्। तस्मादेवंजातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्मावधारयितव्यम्। यद्याकाररहितं ब्रह्म तर्ह्याकारवद्विषयाणां श्रुतीनां का गतिरित्यत आह। प्रकाशवच्च। यथा सौरादिप्रकाशो वियद्य्वाप्यावतिष्ठमानोऽङ्गुल्याद्युपाधिसंबन्धादृजुवक्रादिभावमापन्ने सूर्यादौ तद्भावमिव प्रतिपद्यते तथा ब्रह्मापि पृथिव्याद्युपाधिसंबन्धात्तदाकारतामिव प्रतिपद्यते। तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते। अत आकारवद्विषयाणां श्रुतीनावत्रैयर्थ्यम्। आहच श्रुतिश्चैतन्यमात्रं विलक्षणरुपान्तररहतिं निर्विशेषं ब्रह्मस यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्त्रो रसघन एवैवं वा अरे ब्रह्मणश्चैतन्यमेव तु नरिन्तरं स्वरुपं लतु चैतन्यादन्यदन्तर्बहिर्वा। दर्शयति च श्रुतिः पर प्रतिषेधेन ब्रह्णो निर्विशेषत्वंअथात आदेशो नेतिनेतीतिअन्यदेव तद्विदितादथो अविदितादधियतो वाचो निवर्तन्ते अप्राप्य मनसा मह इत्येवमाद्या। बाष्कलिना च बाध्यः पृष्टः सन्नवचनेनैव ब्रह्म प्रोवाचेति श्रुयते।सहोवाचाधीहि भो इति सह तूष्णींबभूव तं ह द्वितीये वा तृतीये वाऽवचन उवाच ब्रूमः खलु त्वं तु न,विजानास्युपशान्तोऽयमात्मा इति। अपिच स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते।ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्रुते। अनादि मत्परंब्रह्म न सत्तन्नासदुच्यते।माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद्। सर्वभूतगुणैर्युक्तं नैव मां ज्ञातुमर्हसि इति। एवं च न वास्तवं परमात्मनि रुपादिकं किचिदस्ति। उपासनार्थं विद्यमानमपि परमेश्वरस्य काल्पनिकं रुपं न केनचिच्चिन्तयुतुं शक्यत इत्यचिन्त्यरुपं स्वयंप्रकाशस्यादित्यस्येव नित्यचैतन्यस्वप्रकाशरुपो वर्णो यस्य तं तमसोऽज्ञानलक्षणान्मोहान्धकारात्परस्तादुपरिष्टाद्य्ववस्थितम्। परमति यावत्। परमार्थतो मूलाज्ञानतत्कार्यास्पृष्टमित्यर्थः।

'''नीलकण्ठव्याख्या'''

।।8.9।।तदेवमुपासनायाः स्वरूपमुक्त्वोपासस्य स्वरूपमाह -- कविमिति। कविं क्रान्तदर्शिनं सर्वज्ञम्। पुराणं चिरन्तनं। अनुशासितारं जगतोन्तर्यामिणम्। अणोः सूक्ष्मादप्याकाशादेरणीयांसं सूक्ष्मतरं योऽनुस्मरेदनुचिन्तयेत्। सर्वस्य कर्मफलस्य धातारं विभागेन प्रदातारम्। अचिन्त्यरूपं नास्य रूपं विद्यमानमपि केनचिच्चिन्तयितुं शक्यम्। आदित्यवर्णं आदित्यस्येव नित्यप्रकाशरूपो वर्णो दीप्यमानता यस्य तं आदित्यवर्णम्। सर्वजगदवभासकमित्यर्थः। तमसः देहेन्द्रियादावनात्मनि आत्माभिमानरूपाऽविद्यातः परस्तात्पराचीनम्। सति देहाभिमाने न प्रकाशते योगयुक्त्या त्यक्ते तु तस्मिन् स्वयमेव प्रकाशत इत्यर्थः।

'''श्रीधरस्वामिव्याख्या'''

।।8.9।।पुनरप्यनुचिन्तनाय पुरुषं विशिनष्टि -- कविमिति द्वाभ्याम्। कविं सर्वज्ञं सर्वविद्यानिर्मातारं पुराणमनादिसिद्धं अनुशासितारं नियन्तारं अणोः सूक्ष्मादप्यणीयांसमतिसूक्ष्मम् आकाशकालदिग्भ्योऽप्यतिसूक्ष्मतरं सर्वस्य धातारं पोषकं अपरिमितमहित्वादचिन्त्यरूपम् मलीमसयोर्मनोबुद्ध्योरगोचरं आदित्यवत्स्वपरप्रकाशात्मको वर्णः स्वरूपं यस्य तं तमसः प्रकृतेः परस्ताद्वर्तमानंवेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णं तमसः परस्तात् इति श्रुतिः।

'''वेङ्कटनाथव्याख्या'''

।।8.9।।क्रान्तदर्शी हि कविरित्युच्यते अत्र तु कविशब्दः ईश्वरविषयत्वात् सर्वदर्शित्वपर इत्यभिप्रायेणाह -- सर्वज्ञमिति। पुराणशब्देनानादित्वं विवक्षितमित्यभिप्रायेणोक्तंपुरातनमिति। अनुपूर्वः शासिर्विविच्य ज्ञापनार्थ इत्येतावन्मात्रपरत्वव्युदासायविश्वस्य प्रशासितारमित्युक्तम्। ईश्वरस्य सतोऽनुशासनमाज्ञापनभेवेति भावः। अनुशासनं कस्यत्याकाङ्क्षायांसर्वस्य धातारम् इत्यत्र सर्वस्येति पदमाकर्षणीयम् विशेषनिर्देशाभावाद्वा सर्वविषयत्वमित्यभिप्रायेण -- विश्वस्येत्युक्तम्। एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः [बृ.उ.3।उक्तप्रकास्येश्वरस्वरूपस्य सामान्यतो दृष्टैस्तर्कैरसम्भवनीयतां केचिदभिमन्येरन्निति तन्निरासपरम्।अचिन्त्यरूपम् इतिपदमित्यभिप्रायेणाहसकलेतरविसजातीयस्वरूपमिति। वर्णयोगस्य स्वरूपेणाघटनात् प्रमाणसिद्धविलक्षणविग्रहद्वारा तद्योगमाहअप्राकृतेति। येन सूर्यस्तपति तेजसेद्धः [य.तै.ब्रा.3।12।9।7] यस्यादित्यो भामुपयुज्य भाति तस्य भासा सर्वमिदं विभाति [मुं.उ.2।2।10] (तं)तद्देवा ज्योतिषां ज्योतिः [बृ.उ.4।4।16] इत्यादिषु निरतिशयदीप्तियोगः सिद्धः। आदित्यवर्णं तमसः परस्तात् [य.सं.31।18श्वे.उ.3।8] इति श्रुतिखण्डस्यात्र निबन्धः तम आसीत् [ऋक्सं.8।7।17।3यजुः2।7।9] तमसस्तन्महिनाजायतैकं [यजुः2।4।9] यदा तमः [श्वे.उ.4।18] इत्यादिश्रुत्यन्तरोपलक्षणार्थः। तेनतमसः इति सर्वकारणभूततमोद्रव्यविवक्षा।तमसः परस्तात् इत्यनेन फलितमप्राकृतत्वम् तत एव चाकर्माधीनत्वं नित्यत्वं निरवद्यत्वमित्यादि सूचितम्। एतच्छ्लोकच्छायश्च मानवः श्लोकः -- प्रशासितारं सर्वेषामणीयांसम -- [णोरपि] -- णीयसाम्। रुक्माभं स्वप्नधीगम्यं विद्या (त्तं)त्तु पुरुषं परम् -- [मनुः12।122] इति। अनुकूलानां हितरमणीयत्वाद्याकारेण हिरण्यवर्णत्वरुक्माभत्वादिव्यपदेशः। प्रतिकूलदुष्प्रेक्षत्वप्रकाशातिरेकादिविवक्षया आदित्यवर्णत्वाद्युक्तिः।दिवि सूर्यसहस्रस्य [11।12] इत्यादि च वक्ष्यति। एतेनादित्यशब्दस्य नित्यचैतन्यप्रकाशपरत्वं तमश्शब्दस्य चाज्ञानविषयत्वं परोक्तं (शं.) निरस्तम्।,श्लोकद्वयस्यान्वयं दर्शयति -- तमेवम्भूतमित्यादिना।भक्त्या युक्तो योगबलेन इति पृथङ्निर्देशात् परोक्तप्राणजयबलादिपृथगर्थताप्रतीतिः स्यादिति तदपाकरणाय विशिष्टैकार्थतां दर्शयितुंभक्तियुक्तयोगबलेनेत्युक्तम्। मनसोऽचलत्वे हेतुरिदम् तस्य चावान्तरव्यापारः योग्यपर्याययुक्तशब्देन विवक्षित इत्याहआरूढसंस्कारतयेति।आवेश्य इत्यनेन योगप्रकरणेषूक्तं निश्चलावस्थापनं विवक्षितमित्याहसंस्थाप्येति। अत्र पुरुषध्यानस्यापि भ्रूमध्यमेव देशः देशान्तरानभिधानाद्योगप्रकरणान्तरेषूपदेशाच्च तत्सिद्धेरिति विभाव्योक्तंतत्र भ्रूमध्य इति। तमेवम्भूतं दिव्यं पुरुषम् इत्यन्वयः।तं तमेवैति [8।6] इत्यवधारणदर्शनात्स तं परं पुरुषम् इत्यत्रापितं इतीतरव्यवच्छेदपरमित्यभिप्रायेणाहस तमेवोपैतीति।यः प्रयाति स मद्भावं याति [8।5] इति प्रक्रान्तप्रकार एवात्र विवक्षित इति दर्शयतितद्भावं यातीति। भावप्रधानोऽत्र निर्देश इति भावः। तत्र तादात्म्यादिभ्रमं व्युदस्यतितत्समानैश्वर्यो भवतीत्यर्थ इति। परमसाम्यापत्तिव्यवच्छेदाय समानैश्वर्य इत्युक्तम्। एतेनकविम् इत्यादिभिः सर्वज्ञत्वादयो गुणाः ऐश्वर्यप्रदत्वार्थमनुसन्धेयतयोक्ताः न तु प्राप्यत्वार्थमिति फलितम्। एवमन्तिमकालस्मर्तव्यतया निर्दिष्ट एवाकारः प्रागपि ध्येयतयोक्त इति मन्तव्यम्। एवमुत्तरत्रापि।

<poem>
प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् ॥८- १०॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.10।। --,प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन भक्त्या युक्तः भजनं भक्तिः तया युक्तः योगबलेन चैव योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितचित्तस्थैर्यलक्षणं योगबलं तेन च युक्तः इत्यर्थः पूर्वं हृदयपुण्डरीके वशीकृत्य चित्तं ततः ऊर्ध्वगामिन्या नाड्या भूमिजयक्रमेण भ्रुवोः मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यक् अप्रमत्तः सन् सः एवं विद्वान् योगी,कविं पुराणम् इत्यादिलक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं द्योतनात्मकम्।।पुनरपि वक्ष्यमाणेन उपायेन प्रतिपित्सितस्य ब्रह्मणो वेदविद्वदनादिविशेषणविशेष्यस्य अभिधानं करोति भगवान् --,

'''माध्वभाष्यम्'''

।।8.10।।वायुजयादियोगयुक्तानां मृतिकाले कर्तव्यमाह विशेषतः -- प्रयाणकाल इति। वायुजयादिरहितानामपि ज्ञानभक्तिवैराग्यादिसम्पूर्णानां भवत्येव मुक्तिः। तद्वतां त्वीषज्ज्ञानाद्यसम्पूर्णनामपि निपुणानां तद्बलात्कथञ्चिद्भवतीति विशेषः। उक्तं च भागवते [3।5।4546।]पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये। वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसा त्वापुरकुण्ठधिष्ण्यम्। तथाऽपरे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम्। त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते इति।ये तु तद्भाविता लोका (केह्ये) एकान्तित्वं समाश्रिताः। एतदभ्यधिकं तेषां तत्तेजः प्रविशन्त्युत [मा.भा.12।334।44] इति च मोक्षधर्मे।सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः। नियमेन तथापीरजयादियुतयोगिनाम्। वश्यत्वान्मनसस्त्वीषत्पूर्वमप्याप्यते ध्रुवम् इति च व्यासयोगे।

'''रामानुजभाष्यम्'''

।।8.10।।कविं सर्वज्ञं पुराणं पुरातनम् अनुशासितारं विश्वस्य प्रशासितारम् अणोः अणीयांसं जीवाद् अपि सूक्ष्मतरं सर्वस्य धातारं सर्वस्य स्रष्टारम् अचिन्त्यरूपं सकलेतरविसजातीयस्वरूपम् आदित्यवर्णं तमसः परस्तात् अप्राकृतस्वासाधारणदिव्यरूपम् तम् एवंभूतम् अहरहः अभ्यस्यमानभक्तियुक्तयोगबलेन आरूढसंस्कारतया अचलेन मनसा प्रयाणकाले भ्रुवोः मध्ये प्राणम् आवेश्य संस्थाप्य तत्र भ्रुवोर्मध्ये दिव्यं पुरुषं यः अनुस्मरेत् स तम् एव उपैति तद्भावं याति तत्समानैश्वर्यो भवति इत्यर्थः।अथ कैवल्यार्थिनां स्मरणप्रकारम् आह --

'''अभिनवगुप्तव्याख्या'''

।।8.9 -- 8.10।।कविमिति। प्रयाणेति। एवम् अनुस्मरेदिति। आदित्येति। आदित्यवर्णत्वं वासुदेवतत्त्वस्य [न] परिच्छेदकम्। आकृतिकल्पनादि (N विकल्पनादि) विभ्रान्तिमयमोहतमसः अतीतत्त्वात् रवित्वेनोपमानमित्याशयः। भ्रुवोर्मध्ये इति प्राग्वत्।

'''जयतीर्थव्याख्या'''

।।8.10।।उत्तरश्लोकोक्तं सर्वं सर्वोच्चिक्रमिषुसाधारणमिति प्रतीतिनिरासार्थमाह -- वायुजयादीति। साधका द्विविधाः भक्त्यादिप्रधाना वायुजयादिप्रधानाश्चेत्यतो विशेषणं विशेषत इति। अनेन भक्त्यादीनां साधारण्यमाह। ननु चअनुस्मरेद्यः सतं परं पुरुषमुपैति [श्लो.910] इत्यन्वयादेकस्य वाक्यस्य कथं भिन्नविषयत्वम् उच्यते -- एकस्मिन्नपि वाक्ये योगबलेनैवभ्रुवोर्मध्ये प्राणमावेश्य इत्येतन्न सर्वविषयमित्येतावन्मात्रमत्र प्रतिपाद्यते। यथा प्रातरुत्थाय इति श्रुतौन भृशं वदेत् इत्यादिकं किञ्चित्साधारणं कि़ञ्चिदसाधारणम्। कुतोऽस्यासाधारण्यं कल्प्यते इत्यत आह -- वायुजयादीति। अतो न तत्सर्वसाधारणमिति शेषः। तर्हि को विशेषोऽन्येषां येन वायुजयादिक्लेशमधिकमनुभवन्ति इत्यत आह -- तद्वतां त्विति। निपुणानां वायुजयादौ। कथञ्चिदल्पेत्यर्थः।,किञ्चिच्छीघ्रं चेत्यपि ग्राह्यम्। अत्र प्रमाणान्याह -- उक्तमिति। यथा यथार्थं बोधम्। धिष्ण्यं मन्दिरम्। इन्द्रियं त्वां विशन्त्येव न तु त इवाञ्जसा। तद्भावितास्तेन भगवता वासिताः। एतन्मुक्तिलक्षणं फलम्। तेजो नारायणाख्यम्। ईरः समीरः। ध्रुवं ब्रह्माप्यते तैः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.10।।कदा तदाऽनुस्मरणे प्रयत्नातिरेकोऽभ्यर्थते तदाह -- प्रयाणकालेऽन्तकाले अचलेन एकाग्रेण मनसा तं पुरुषं योऽनुस्मरेदित्यनुवर्तते। कीदृशः। भक्त्या परमेश्वरविषयेण परमेण प्रेम्णा युक्तः। योगस्य समाधेर्बलेन तज्जनितसंस्कारसमूहेन व्युत्थानसंस्कारविरोधिना च युक्तम्। एवं प्रथमं हृदयपुण्डरीके वशीकृत्य तत ऊर्ध्वगामिन्या सुषुम्नया ना़ड्या गुरूपदिष्टमार्गेण भूमिजयक्रमेण भ्रुवोर्मध्ये आज्ञाचक्रे प्राणमावेश्य स्थापयित्वा सम्यगप्रमत्तो ब्रह्मरन्ध्रादुत्क्रम्य स एवमुपासकस्तंकविं पुराणमनुशासितारम् इत्यादिलक्षणं परं पुरुषं दिव्यं द्योतनात्मकमुपैति प्रतिपद्यते।

'''पुरुषोत्तमव्याख्या'''

।।8.10।।प्रयाणकाले अन्तकाले मनसा निश्चलेन मनसा सर्वकामरहितेन च पुनः योगबलेनैव संयोगात्मकभावेनैव भ्रुवोर्मध्ये भाग्यस्थाने सन्तं विद्यमानं योऽनुस्मरेद्भगवत्कृतस्मरणानन्तरं स्वार्थप्रकटज्ञानेन स्मरेत् स तस्मिन्नेव प्राणमावेश्य सम्यक् भावात्मकस्वरूपप्राप्त्या परं पुरुषं पुरुषोत्तमं दिव्यं क्रीडात्मकं उपैति समीपे दास्येन प्राप्नोतीत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.10।।ध्यानप्रकारं कालं चाह -- प्रयाणकाल इति। भ्रुवोर्मध्ये प्राणमावेश्येति। स तं परं पुरुषमुपैति तत्समाकारः सामीप्यरूपमाप्नोति।

'''आनन्दगिरिव्याख्या'''

।।8.10।।इतश्च भगवदनुस्मरणं सफलत्वादनुष्ठेयमित्याह -- किञ्चेति। कदा तदनुस्मरणे प्रयत्नातिरेकोऽभ्यर्थ्यते तत्राह -- प्रयाणकाल इति। कथं तदनुस्मरणमित्युपकरणकलापप्रेक्ष्यमाणं प्रत्याह -- मनसेति। योऽनुस्मरेत्स किमुपैति तत्राह -- स तमिति। मरणकाले क्लेशबाहुल्येऽपि प्राचीनाभ्यासप्रसादासादितबुद्धिवैभवो भगवन्तमनुस्मरन्यथास्मृतमेव देहाभिमानविगमानन्तरमुपागच्छतीत्यर्थः। भगवदनुस्मरणस्य साधनं मनसैवानुद्रष्टव्यमिति श्रुत्युपदिष्टमाचष्टे -- मनसेति। तस्य चञ्चलत्वान्न स्थैर्यमीश्वरे सिध्यति तत्कथं तेन तदनुस्मरणमित्याशङ्क्याह -- अचलेनेति। ईश्वरानुस्मरणे प्रयत्नेन प्रवर्तितं विषयविमुखं तस्मिन्नेवानुस्मरणयोग्यपौनःपुन्येन प्रवृत्त्या निश्चलीकृतं ततश्चलनविकलं तेनेति व्याचष्टे -- अचलेनेति। संप्रत्यनुस्मरणाधिकारिणं विशिनष्टि -- भक्त्येति। परमेश्वरे परेण प्रेम्णा सहितो विषयान्तरविमुखोऽनुस्मर्तव्य इत्यर्थः। योगबलमेव स्फोरयति -- समाधिजेति। योगः समाधिश्चित्तस्य विषयान्तरवृत्तिनिरोधेन परस्मिन्नेव स्थापनं तस्य बलं संस्कारप्रचयो ध्येयैकाग्र्यकरणं तेन तत्रैव स्थैर्यमित्यर्थः। चकारसूचितमन्वयमन्वाचष्टे -- तेन चेति। यत्तु कया नाड्योत्क्रामन्यातीति। तत्राह -- पूर्वमिति। चित्तं हि स्वभावतो विषयेषु व्यापृतं तेभ्यो विमुखीकृत्य हृदये पुण्डरीकाकारे परमात्मस्थाने यत्नतः स्थापनीयम्।अथ यदिदमस्मिन्ब्रह्मपुरे इत्यादिश्रुतेस्तत्र चित्तं वशीकृत्यादावनन्तरं कर्तव्यमुपदिशति -- तत इति। इडापिङ्गले दक्षिणोत्तरे नाड्यौ हृदयान्निःसृते निरुध्य तस्मादेव हृदयाग्रादूर्ध्वगमनशीलया सुषुम्नया नाड्या हार्दं प्राणमानीय कण्ठावलम्बितस्तनसदृशं मांसखण्डं प्रापय्य तेनाध्वना भ्रुवोर्मध्ये तमावेश्याप्रमादवान्ब्रह्मरन्ध्राद्विनिष्क्रम्य कविं पुराणमित्यादिविशेषणं परमपुरुषमुपगच्छतीत्यर्थः। भूमिजयक्रमेणेत्यत्र भूम्यादीनां पञ्चानां भूतानां जयो वशीकरणं तस्य तस्य भूतस्य स्वाधीनचेष्टावैशिष्ट्यं तद्द्वारेणेत्येतदुच्यते। स तमित्यादि व्याचष्टे -- स एवमिति।

'''धनपतिव्याख्या'''

।।8.10।।कदा तदाऽनुस्मरणे प्रयत्नातिरेकोऽभ्यर्थते तदाह -- प्रयाणकालेऽन्तकाले अचलेन एकाग्रेण मनसा तं पुरुषं योऽनुस्मरेदित्यनुवर्तते। कीदृशः। भक्त्या परमेस्वरविषयेण परमेण प्रेम्णा युक्तः। योगस्य साधिर्बलेन तज्जनितसंस्कारसमूहेन व्युत्थानसंस्कारविरोधिना च युक्तम्। एवं प्रथमं हृदयपुण्डरीके वशीकृत्य तत ऊर्ध्वगामिन्या सुषुम्नया नाङ्या गुरुपदिष्टमार्गेण भूमिजयक्रमेण भ्रुवोर्मध्ये आज्ञाचके प्राणमावेश्य स्थापयित्वा सभ्यगप्रमत्तो ब्रह्मरन्ध्रा समाधिजसंस्कारजनितं चित्तस्थैर्यलक्षणं तेन च युक्तः पूर्वं हृदयपुण्डरीके चित्तं वशीकृत्य तत ऊर्ध्वगामिन्या नाङ्या भूमिजय क्रमेण भ्रुवोर्मध्ये प्राणमावेश्य स्थापयित्वा सभ्यगप्रमत्तः सन् स एवंविद्वान् यः कर्वि पुराणमित्यादिलक्षणः तं परं पुरुषमुपैति प्रतिपद्यते।

'''नीलकण्ठव्याख्या'''

।।8.10।।उपासनायाः फलमाह -- प्रयाणेति। प्रयाणकाले मनसाऽचलेन वृत्त्यन्तरवर्जितेन भक्त्या भगवति वासुदेवे आराध्यत्वबुद्ध्या युक्तो योगबलेन योगो मनःप्राणेन्द्रियक्रियानिरोधो हृदयपुण्डरीके तेषां वशीकरणमित्यर्थः। तस्यैव बलेन च युक्तो भूमिकाजयक्रमेण प्रागेव मूलाधारादिब्रह्मरन्ध्रान्तस्थानेषु आरोहावरोहक्रमेण संचारितपवनोऽन्तकाले भ्रुवोर्मध्ये आज्ञाचक्रे प्राणमावेश्य सुषुम्नया नाड्या मूलाधारादुत्थापनपूर्वकं सम्यक् निवेश्य स्थापयित्वा। स्थापनप्रयोजनं तु अन्यविस्मरणपूर्वकं दिव्यपुरुषचिन्तनम्। तच्च भ्रूमध्यादुपर्युन्नीयमाने वायौ मनो मूर्च्छामापद्यत इति तस्यामवस्थायां न भवतीत्यन्त्यप्रत्ययस्तत्रैव संपाद्यस्ततोऽर्चिरादिमार्गपर्वणा अमानवस्य पुरुषस्य स्थानविशेषप्रापकस्य प्राप्यस्थानस्य च तस्मिन्नेव स्मरणं कर्तव्यम्। तद्वासनावासितं मनो भ्रूमध्याद्योगिना ऊर्ध्वया नाड्या उत्क्षिप्ते प्राणे मुक्तेषुवद्ब्रह्माण्डखर्परं भित्त्वा प्रचलिते सति लब्धवृत्तिकं भूत्वा पूर्वसंस्कारप्राबल्याद्योगमाहात्म्याच्च दिव्योपाध्युपेतमर्चिरादिपर्वदेवताभिरभिपूज्यमानमुत्तरोत्तरं स्थानं प्रत्यतिवाह्यमानममानवेन च पुरुषेण संगच्छमानं तेन च यथाभिलषितं स्थानं प्रापितमात्मानं पश्यति। तदिदमुक्तं भ्रुवोर्मध्ये सम्यक् प्राणमावेश्येति। स एवं कृत्वा योगी कविं पुराणमित्युक्तलक्षणं परं पुरुषं हिरण्यगर्भाख्यं सर्वस्य भूतजातस्य जनयितारं नारायणादिशब्दप्रतिपाद्यमुपैति समीपे प्राप्नोति। तल्लोकं प्राप्नोतीत्यर्थः। नहि पौराणिकानामिव वैदिकानां मते ब्रह्मविष्णुरुद्रलोकानामुपर्युपरि कल्पनास्ति किंतर्हि सर्वे हिरण्यगर्भलोकाख्ये सत्यलोके एवान्तर्भवन्ति।पराहि सोपासनकर्मोर्जितिर्हिरण्यगर्भप्राप्यता इति बृहदारण्यके तद्भाष्यादौ च स्पष्टम्।

'''श्रीधरस्वामिव्याख्या'''

।।8.10।।सप्रपञ्चप्रकृतिं भित्त्वा यस्तिष्ठति एवंभूतं पुरुषमन्तकाले भक्तियुक्तो निश्चलेन विक्षेपरहितेन मनसा योऽनुस्मरेत्। मनोनैश्चल्ये हेतुः योगबलेन सम्यक्सुषुम्नामार्गेण भ्रुवोर्मध्ये प्राणमावेश्येति। स तं परं पुरुषं परात्मस्वरूपं दिव्यं द्योतनात्मकं प्राप्नोति।

'''वेङ्कटनाथव्याख्या'''

।। 8.10 क्रान्तदर्शी हि कविरित्युच्यते अत्र तु कविशब्दः ईश्वरविषयत्वात् सर्वदर्शित्वपर इत्यभिप्रायेणाह -- सर्वज्ञमिति। पुराणशब्देनानादित्वं विवक्षितमित्यभिप्रायेणोक्तंपुरातनमिति। अनुपूर्वः शासिर्विविच्य ज्ञापनार्थ इत्येतावन्मात्रपरत्वव्युदासायविश्वस्य प्रशासितारमित्युक्तम्। ईश्वरस्य सतोऽनुशासनमाज्ञापनभेवेति भावः। अनुशासनं कस्यत्याकाङ्क्षायांसर्वस्य धातारम् इत्यत्र सर्वस्येति पदमाकर्षणीयम् विशेषनिर्देशाभावाद्वा सर्वविषयत्वमित्यभिप्रायेण -- विश्वस्येत्युक्तम्। एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः [बृ.उ.3।उक्तप्रकास्येश्वरस्वरूपस्य सामान्यतो दृष्टैस्तर्कैरसम्भवनीयतां केचिदभिमन्येरन्निति तन्निरासपरम्।अचिन्त्यरूपम् इतिपदमित्यभिप्रायेणाहसकलेतरविसजातीयस्वरूपमिति। वर्णयोगस्य स्वरूपेणाघटनात् प्रमाणसिद्धविलक्षणविग्रहद्वारा तद्योगमाहअप्राकृतेति। येन सूर्यस्तपति तेजसेद्धः [य.तै.ब्रा.3।12।9।7] यस्यादित्यो भामुपयुज्य भाति तस्य भासा सर्वमिदं विभाति [मुं.उ.2।2।10] (तं)तद्देवा ज्योतिषां ज्योतिः [बृ.उ.4।4।16] इत्यादिषु निरतिशयदीप्तियोगः सिद्धः। आदित्यवर्णं तमसः परस्तात् [य.सं.31।18श्वे.उ.3।8] इति श्रुतिखण्डस्यात्र निबन्धः तम आसीत् [ऋक्सं.8।7।17।3यजुः2।7।9] तमसस्तन्महिनाजायतैकं [यजुः2।4।9] यदा तमः [श्वे.उ.4।18] इत्यादिश्रुत्यन्तरोपलक्षणार्थः। तेनतमसः इति सर्वकारणभूततमोद्रव्यविवक्षा।तमसः परस्तात् इत्यनेन फलितमप्राकृतत्वम् तत एव चाकर्माधीनत्वं नित्यत्वं निरवद्यत्वमित्यादि सूचितम्। एतच्छ्लोकच्छायश्च मानवः श्लोकः -- प्रशासितारं सर्वेषामणीयांसम -- [णोरपि] -- णीयसाम्। रुक्माभं स्वप्नधीगम्यं विद्या (त्तं)त्तु पुरुषं परम् -- [मनुः12।122] इति। अनुकूलानां हितरमणीयत्वाद्याकारेण हिरण्यवर्णत्वरुक्माभत्वादिव्यपदेशः। प्रतिकूलदुष्प्रेक्षत्वप्रकाशातिरेकादिविवक्षया आदित्यवर्णत्वाद्युक्तिः।दिवि सूर्यसहस्रस्य [11।12] इत्यादि च वक्ष्यति। एतेनादित्यशब्दस्य नित्यचैतन्यप्रकाशपरत्वं तमश्शब्दस्य चाज्ञानविषयत्वं परोक्तं (शं.) निरस्तम्। श्लोकद्वयस्यान्वयं दर्शयति -- तमेवम्भूतमित्यादिना।भक्त्या युक्तो योगबलेन इति पृथङ्निर्देशात् परोक्तप्राणजयबलादिपृथगर्थताप्रतीतिः स्यादिति तदपाकरणाय विशिष्टैकार्थतां दर्शयितुंभक्तियुक्तयोगबलेनेत्युक्तम्। मनसोऽचलत्वे हेतुरिदम् तस्य चावान्तरव्यापारः योग्यपर्याययुक्तशब्देन विवक्षित इत्याहआरूढसंस्कारतयेति।आवेश्य इत्यनेन योगप्रकरणेषूक्तं निश्चलावस्थापनं विवक्षितमित्याहसंस्थाप्येति। अत्र पुरुषध्यानस्यापि भ्रूमध्यमेव देशः देशान्तरानभिधानाद्योगप्रकरणान्तरेषूपदेशाच्च तत्सिद्धेरिति विभाव्योक्तंतत्र भ्रूमध्य इति। तमेवम्भूतं दिव्यं पुरुषम् इत्यन्वयः।तं तमेवैति [8।6] इत्यवधारणदर्शनात्स तं परं पुरुषम् इत्यत्रापितं इतीतरव्यवच्छेदपरमित्यभिप्रायेणाहस तमेवोपैतीति।यः प्रयाति स मद्भावं याति [8।5] इति प्रक्रान्तप्रकार एवात्र विवक्षित इति दर्शयतितद्भावं यातीति। भावप्रधानोऽत्र निर्देश इति भावः। तत्र तादात्म्यादिभ्रमं व्युदस्यतितत्समानैश्वर्यो भवतीत्यर्थ इति। परमसाम्यापत्तिव्यवच्छेदाय समानैश्वर्य इत्युक्तम्। एतेनकविम् इत्यादिभिः सर्वज्ञत्वादयो गुणाः ऐश्वर्यप्रदत्वार्थमनुसन्धेयतयोक्ताः न तु प्राप्यत्वार्थमिति फलितम्। एवमन्तिमकालस्मर्तव्यतया निर्दिष्ट एवाकारः प्रागपि ध्येयतयोक्त इति मन्तव्यम्। एवमुत्तरत्रापि।,

<poem>
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण प्रवक्ष्ये ॥८- ११॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.11।। -- यत् अक्षरं न क्षरतीति अक्षरम् अविनाशि वेदविदः वेदार्थज्ञाः वदन्ति तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति (बृ0 उ0 3।8।8) इति श्रुतेः सर्वविशेषनिवर्तकत्वेन अभिवदन्ति अस्थूलमनणु (बृ0 उ0 3।8।8) इत्यादि। किञ्च -- विशन्ति प्रविशन्ति सम्यग्दर्शनप्राप्तौ सत्यां यत् यतयः यतनशीलाः संन्यासिनः वीतरागाः वीतः विगतः रागः येभ्यः ते वीतरागाः। यच्च अक्षरमिच्छन्तः -- ज्ञातुम् इति वाक्यशेषः -- ब्रह्मचर्यं गुरौ चरन्ति आचरन्ति तत् ते पदं तत् अक्षराख्यं पदं पदनीयं ते तव संग्रहेण संग्रहः संक्षेपः तेन संक्षेपेण प्रवक्ष्ये कथयिष्यामि।।स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति। तस्मै स होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः इत्युपक्रम्य यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत (प्र0 उ0 5।1।2।5।। -- स सामभिरुन्नीयते ब्रह्मलोकम् इत्यादिना वचनेन अन्यत्र धर्मादन्यत्राधर्मात् इति च उपक्रम्य सर्वे वेदा यत्पदमामनन्ति। तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् (क0 उ0 1।2।14.15) इत्यादिभिश्च वचनैः परस्य ब्रह्मणो वाचकरूपेण प्रतिमावत् प्रतीकरूपेण वा परब्रह्मप्रतिपत्तिसाधनत्वेन मन्दमध्यमबुद्धीनां विवक्षितस्य ओंकारस्य उपासनं कालान्तरे मुक्तिफलम् उक्तं यत् तदेव इहापि कविं पुराणमनुशासितारम् (गीता 8।9) यदक्षरं वेदविदो वदन्ति (गीता 8।11) इति च उपन्यस्तस्य परस्य ब्रह्मणः पूर्वोक्तरूपेण प्रतिपत्त्युपायभूतस्य ओंकारस्य कालान्तरमुक्तिफलम् उपासनं योगधारणासहितं वक्तव्यम् प्रसक्तानुप्रसक्तं च यत्किञ्चित् इत्येवमर्थः उत्तरो ग्रन्थ आरभ्यते --

'''माध्वभाष्यम्'''

।।8.11।।तदेव ध्येयं प्रपञ्चयति -- यदक्षरमित्यादिना। प्राप्यते मुमुक्षुभिरिति पदम्। पद गतौ [4।63] इति धातोः। तद्विष्णोः परमं पदम् [ऋक्सं.1।2।6।5कठो.3।9] इति श्रुतेश्च।गीयसे पदमित्येव मुनिभिः पद्यसे यतः इति वचनान्नारदीये।

'''रामानुजभाष्यम्'''

।।8.11।।यद् अक्षरम् अस्थूलत्वादिगुणकं वेदविदो वदन्ति वीतरागाः च यतयो यद् अक्षरं विशन्ति यद् अक्षरं प्राप्तुम् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये।पद्यते गम्यते अनेन इति पदं तद् निखिलवेदान्तवेद्यं मत्स्वरूपम् अक्षरं यथा उपास्यं तथा संक्षेपेण प्रवक्ष्यामि इत्यर्थः।

'''अभिनवगुप्तव्याख्या'''

।।8.11।।यदक्षरमिति। सम्यक् गृह्यते निश्चीयते अनेनेति संग्रहः उपायः। तेन उपायेन तत् (S उपायेनैतत) पदमभिधास्ये उपायमत्र सतताभ्यासाय वक्ष्ये।

'''जयतीर्थव्याख्या'''

।।8.11।।क्रममुक्त्यर्थं ओङकारोपासनमुच्यत इत्यन्यथाव्याख्यानमपाकर्तुमाह -- तदेवेति। वायुजययुतानां मरणकाले कर्तव्यमेवमामनुस्मरन् [8।13] इत्यादिविरोधादिति भावः। ननु पदत्वं शब्दस्यैवोंकारस्य सम्भवति न विष्णोरित्यत आह -- प्राप्यत इति। कर्मण्यकारप्रत्ययः। पदं स्वरूपमिति प्रयोगप्रदर्शनम्।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.11।।इदानीं येनकेनचिदभिधानेन ध्यानकाले भगवदनुस्मरणे प्राप्तेसर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सग्रहेण ब्रवीम्योमित्येतत् इत्यादिश्रुतिप्रतिपादितत्वेन प्रणवेनैवाभिधानेन तदनुस्मरणं कर्तव्यं नान्येन मन्त्रादिनेति नियन्तुमुपक्रमते -- यदक्षरमविनाशि ओंकाराख्यं ब्रह्म वेदविदो वदन्तिएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम् इत्यादिवचनैः सर्वविशेषनिवर्तनेन प्रतिपादयन्ति। न केवलं प्रमाणकुशलैरेव प्रतिपन्नं किंतु मुक्तोपसृप्यतया तैरप्यनुभूतमित्याह -- विशन्ति स्वरूपतया सम्यग्दर्शनेन यदक्षरं यतयो यत्नशीलाः संन्यासिनो वीतरागा निस्पृहाः। न केवलं सिद्धैरनुभूतं साधकानामपि सर्वोऽपि प्रयासस्तदर्थ इत्याह -- यदिच्छन्तो ज्ञातुं नैष्ठिका ब्रह्मचारिणो ब्रह्मचर्यं गुरुकुलवासादि तपश्चरन्ति यावज्जीवं तदक्षराख्यं पदं पदनीयं ते तुभ्यं संग्रहेण संक्षेपेणाहं प्रवक्ष्ये प्रकर्षेण कथयिष्यामि यथा तव बोधो भवति तथा। अतस्तदक्षरं कथं मया ज्ञेयमित्याकुलो माभूरित्यभिप्रायः। अत्र च परस्य ब्रह्मणो वाचकरूपेण प्रतिमावत्प्रतीकरूपेण चयः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तमधिगच्छति इत्यादिवचनैर्मन्दमध्यमबुद्धीनां क्रममुक्तिफलकमुपासनमुक्तं तदेवेहापि विवक्षितं भगवता। अतो योगधारणासहितमोंकारोपासनं तत्फलं स्वस्वरूपं ततोऽपुनरावृत्तिस्तन्मार्गश्चेत्यर्थजातमुच्यते यावदध्यायसमाप्ति।

'''पुरुषोत्तमव्याख्या'''

।।8.11।।ननु भक्तियुक्ता अपि तदेव प्राप्नुवन्ति योगयुक्ता अपि च तदा तयोः को विशेषः इत्याकाङ्क्षायां तयोः प्राप्यरूपमाह -- यदक्षरमिति। वेदविदो वेदान्तज्ञा यदक्षरं वदन्ति यत् वीतरागो विरागिणो यतयः सर्वत्यागादिप्रयत्नवन्तो विशन्ति यत्रैक्यं प्राप्नुवन्ति यदिच्छन्तो यत्स्वरूपज्ञानेन प्राप्तीच्छवः ब्रह्मचर्यमिन्द्रियनिग्रहं गुरुकुले चरन्ति तत्पदं तेषां प्राप्यं ते तुभ्यं सङ्ग्रहेण सङ्क्षेपेण ज्ञानार्थं प्रवक्ष्ये कथयिष्यामीत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.11।।इयं त्वधियज्ञप्राप्तिरुक्तयोगिनस्त्रिधोक्ता अक्षरब्रह्मात्मचिन्तकानां ज्ञानिनां तु स एव च लभ्यो भवतीति प्रतिजानंस्तदुपासकानाह -- यदक्षरमिति। वेदविदो ब्राह्मणाः एतद्वै तदक्षरं गार्गि इत्यभिवदन्ति [बृ.उ.3।8।8]। प्रायो वेदविदां वादोऽक्षरपर्यवसायीति गम्यते। यतयो वीतरागाः परमहंसाः यत् विशन्ति एकत्वमाप्नुवन्तीति सन्न्यासिनां प्राप्यतयोक्तम्।यदिच्छन्तो ब्रह्मचर्यं चरन्ति इति ब्रह्मचारिणां तदक्षरस्वरूपं मत्पदस्वरूपत्वात्पदम्चैद्ये च सात्त्वतपतेश्चरणं प्रविष्टे इति वाक्यात्अन्तर्याम्यवतारादिरूपे पादत्वमस्य हि इति निबन्धाच्चरणरूपमेतत् ते सङ्ग्रहेण प्रवक्ष्ये तेषां गम्यमिति वक्ष्यामीत्यर्थः।

'''आनन्दगिरिव्याख्या'''

।।8.11।।येन केनचिन्मन्त्रादिना ध्यानकाले भगवदनुस्मरणे प्राप्ते सत्यभिधानत्वे नियन्तुं स्मर्तव्यत्वेन प्रकृतपरमपुरुषस्य त्रैविद्यवृद्धप्रसिद्ध्या प्रामाणिकत्वमाह -- पुनरपीति। उपायो वक्ष्यमाण ओङ्कारः। अविषये प्रतीचि ब्रह्मणि वेदार्थविदामपि कथं वचनमित्याशङ्क्याविषयत्वमत्यक्त्वैवेति मत्वा श्रुतिमुदाहरति -- तद्वेति। तथापि तस्मिन्नविषये सर्वविशेषशून्ये वचनमनुचितमित्याशङ्क्याह -- सर्वेति। न केवलं विद्वदनुभवसिद्धं यथोक्तं ब्रह्म किंतु मुक्तोपसृप्यतया मुक्तानामपि प्रसिद्धमित्याह -- किञ्चेति। केषां पुनः संन्यासित्वं तदाह -- वीतरागा इति। ज्ञानार्थं ब्रह्मचर्यविधानादपि ब्रह्म ज्ञेयत्वेन प्रसिद्धमित्याह -- यच्चेति। कथं तर्हि यथोक्तं ब्रह्म मम ज्ञातुं शक्यमित्याकुलितचेतसमर्जुनं प्रत्याह -- तत्ते पदमिति।

'''धनपतिव्याख्या'''

।।8.11।।इदानीं येन केचचिन्मन्त्रादिना ध्यानकाले भगवदनुस्मरणे प्राप्तेस यो ह वैतद्भगवन्मुष्येष्वाप्रायणं तमोंकारमभिध्यायीत कतमं वा स तेन लोकं जयति तस्मै सहोवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः इत्युपक्रम्ययः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीतप्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्।अन्यत्र धर्मादन्यत्राधर्मात्इतचोपक्रम्यसर्वे वेदा यत्पदभामन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् इत्यादिवचनैः परस्य ब्रह्मणो वाचरुपेण प्रतिभावत्प्रतीकरुपेण च परब्रह्मप्राप्तिसाधनत्वेन मन्दमध्यमबुद्धीनां विवक्षितस्योंकारोपासनस्य परस्य ब्रह्मणो वाचकरुपेण प्रतिभावत्प्रतीकरुपेण च परब्रह्मप्राप्तिसाधनत्वेन मन्दमध्यमबुद्धीनां विवक्षितस्योकारोपासनस्य कालान्तरमुक्तफलं यदुक्तं तदेवेहापीत्योंकारेण भगवान्स्मर्तव्य इत्याशयेनाह -- यदित्यादिना। यदक्षरं न क्षरतीत्यक्षरं अविनाशि वेदविदो वेदार्थज्ञा वदन्ति।तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति इति श्रुतेः।अस्थूलमनण्वह्नस्वमदीर्घम्अशब्दमस्पर्शमरुपमव्ययम् इत्यादिना सर्वविशेषनिवृत्तत्वेनाभिवदनतीत्यर्थः। न केवलमाभिवदन्त्येवापि तु सभ्यग्दर्शनप्राप्तौ यतयो यत्नशीलाः संन्यासिनो वीतः अपगतो राग इत उपलक्षणं रागादिर्येभ्यस्ते वीतरागाः। रागस्यैवोपादानं तु द्वेषादीनां मूलभूतो रागग एवेत्यभिप्रायेण। यद्विशन्ति प्रविशन्ति सभ्यग्ज्ञानप्राप्तौ सत्यां यदिच्छन्तो ज्ञातुमिति शेषः। ब्रह्मचर्यं गुरौ चरन्तितदेतद्वेदानुवचनेन ब्राह्मणा विविदिषन्ति इतिश्रुतेः तत्पदं ते संक्षेपेण प्रवक्ष्ये कथयिष्यामि।

'''नीलकण्ठव्याख्या'''

।।8.11।।भ्रुवोर्मध्ये प्राणमावेश्येत्युक्तं तत्किं कृत्वा कर्तव्यं तत्कृत्वा च किं कर्तव्यमित्येतद्वयं वदिष्यंस्तत्र प्रतीकत्वेन चिन्त्यं प्रणवं तावद्वाच्यवाचकयोरभेदविवक्षया स्तौति -- यदक्षरं प्रणवाख्यं वाचकं वेदविदो वेदादौ वदन्ति। यद्वा यदक्षरं ब्रह्म तद्वाच्यंएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम् इत्येवंलक्षणं वा वेदविद उपनिषद्विदो वदन्ति यच्च यतयो विशन्ति ब्रह्मप्रतीकत्वेन शरणीकुर्वन्ति पक्षे सम्यग्दर्शने सति सरित्सागरन्यायेन यत्प्रविशन्ति यतयः। यत् अक्षरमिच्छन्तो ब्रह्मचर्यं चरन्तीति पक्षद्वयेऽपि समानम्। तत्ते पदं वर्णत्रयात्मकं पदनीयं वा स्थानं विष्णोः परमं पदं संग्रहेण प्रवक्ष्ये। अयं च वाच्यवाचकयोरभेदः श्रुतिच्छायया गम्यते।अन्यत्र धर्मादन्यत्राधर्मात् इति सर्वधर्मातीतं ब्रह्म प्रकृत्यसर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्। इत्योंकारेणोपसंहारात्। तत्फलं च प्रतीकभावात्। ओंकारं प्रतीकत्वेन प्रकल्प्य तद्वारा शुद्धं शबलं वा ब्रह्म प्रतिपत्तव्यम्। तथा च श्रुत्यन्तरेएतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः इत्युपक्रम्यतस्मादेवंविद्वानेतेनैवायतनेनैकतरमन्वेति इति दृष्टम्। आयतनं शालग्रामवत्प्रतीकं तेन।

'''श्रीधरस्वामिव्याख्या'''

।।8.11।।केवलादभ्यासयोगादपि प्रणवाधारमभ्यासमन्तरङ्गं विधित्सुः प्रतिजानीते -- यदक्षरमिति। यदक्षरं वेदान्तज्ञा वदन्तिएतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इति श्रुतेः। वीतो रागो येभ्यस्ते वीतरागा यतयः प्रयत्नवन्तो यद्विशन्ति। यच्च ज्ञातुमिच्छन्तो गुरुकुले ब्रह्मचर्यं चरन्ति। तत्ते तुभ्यं पदं पद्यते गम्यत इति पदं प्राप्यं संग्रहरेण संक्षेपेण प्रवक्ष्ये। तत्प्राप्त्युपायं कथयिष्यामीत्यर्थः।

'''वेङ्कटनाथव्याख्या'''

।।8.11।।अथ मन्दप्रयोजनोक्तपरव्याख्यातिक्षेपाययदक्षरम् इत्यादिश्लोकत्रयस्यार्थमाह -- अथेति। स्मरणशब्दोऽत्रोपासनस्यान्तिमप्रत्ययस्य च सङ्ग्राहकः उभयोरपि स्मृतिविशेषत्वात्। नावेदविन्मनुते तं बृहन्तम् [यजुःका.3।55।7] इत्युक्तप्रमाणान्तरागोचरत्वपरेणवेदविदो वदन्ति इत्यनेन सूचितंवेदोक्तप्रकारकथनम् -- अस्थूलत्वादिगुणकमिति। अस्थूलमनण्वह्रस्वम् [बृ.उ.3।8।8] इत्यादिश्रुतिरिह विवक्षिता।ब्रह्मचर्यं ऊर्ध्वरेतस्त्वादिकम्। यद्वा अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत् ৷৷. अथ यत्सत्रायणमित्याचक्षते ৷৷. अथ यन्मौनमित्याचक्षते ৷৷. अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् [छां.उ.8।5।123] इति श्रुतेः ब्रह्मप्राप्त्यर्था या काचिदपि चर्या ब्रह्मचर्यम्। वीतरागा यतय एव यदिच्छन्तो ब्रह्मचर्यं चरन्ति [कठो.2।15] इत्यत्रापि कर्तारः। एतेन फलोपाययोः प्रदर्शनम्। पदशब्दस्यात्र रूढार्थानुपपत्तेरुपपन्नं योगमाह -- पद्यत इति। अत्र पदशब्देन ज्ञानविषयत्वमुखेन उपास्यत्वादिकमभिप्रेतमित्याह -- गम्यते चेतसेति। यत्तच्छब्दाभिप्रेतां प्रसिद्धिमाह -- तन्निखिलेति। अक्षरशब्दस्यात्र विकारादिदोषरहितपरमात्मविषयत्वात्मत्स्वरूपमित्युक्तम्। स्वासाधारणं रूपमित्यर्थः। अक्षररूपपरमात्मोपासनमत्राक्षरस्वरूपजीवात्मप्राप्त्यर्थम्।

<poem>
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥८- १२॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.12।। --,सर्वद्वाराणि सर्वाणि च तानि द्वाराणि च सर्वद्वाराणि उपलब्धौ तानि सर्वाणि संयम्य संयमनं कृत्वा मनः हृदि हृदयपुण्डरीके निरुध्य निरोधं कृत्वा निष्प्रचारमापाद्य तत्र वशीकृतेन मनसा हृदयात् ऊर्ध्वगामिन्या नाड्या ऊर्ध्वमारुह्य मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः प्रवृत्तः योगधारणां धारयितुम्।।तत्रैव च धारयन् --,

'''माध्वभाष्यम्'''

।।8.12 -- 8.13।।ब्रह्मनाडीं विना यद्यन्यत्र गच्छति तर्हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्यनिर्गच्छंश्चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि इत्यादिवचनात् व्यासयोगे मोक्षधर्मे च। हृदि नारायणे।ह्रियते त्वया जगद्यस्माद्धृदित्येवं प्रभाषसे इति पाद्मे। नहि मूर्धनि प्राणे स्थिते हृदि मनसः स्थितिः सम्भवति।यत्र प्राणो मनस्तत्र तत्र जीवः परस्तथा इति व्यासयोगे। योगधारणामास्थितः योगभरण एवाभियुक्त इत्यर्थः।

'''रामानुजभाष्यम्'''

।।8.12।।सर्वाणि श्रोत्रादीनि इन्द्रियाणि ज्ञानद्वारभूतानि संयम्य स्वव्यापारेभ्यो विनिवर्त्य हृदयकमलनिविष्टे मयि अक्षरे मनो निरुध्य योगाख्यां धारणां आस्थितः मयि एव निश्चलां स्थितिम् आस्थितः।ओम् इति एकाक्षरं ब्रह्म मद्वाचकं व्याहरन् वाच्यं माम् अनुस्मरन् आत्मनः प्राणं मूर्ध्न्याधाय देहं त्यजन् यः प्रयाति स याति परमां गतिं प्रकृतिवियुक्तं मत्समानाकारम् अपुनरावृत्तिम् आत्मानं प्राप्नोति इत्यर्थःयः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्। (गीता 8।2021) इति अनन्तरम् एव वक्ष्यते। एवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश्च स्वप्राप्यानुगुणः भगवदुपासनप्रकार उक्तः। अथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिकारं च आह --

'''अभिनवगुप्तव्याख्या'''

।।8.12 -- 8.14।।सर्वद्वाराणीत्यादि योगिन इत्यन्तम्। द्वाराणि इन्द्रियाणि। हृदि इति -- अनेन विषयसंगाभाव उच्यते न तु विष्ठास्थानाधिष्ठानम्। आत्मनः प्राणम् आत्मसारथिम् इच्छाशक्त्यात्मनि मूर्ध्नि सकलतत्त्वातीते धारयन् इति कायनियमः। ओमिति जपन् इति वाङ्नियमः। मामनुस्मरन्निति चेतसोऽनन्यगामिता (S चेतसाऽनन्यगामिता)। यः प्रयादि -- दिनाद्दिनम् (N दिनंदिनं) अपुनरावृत्तये गच्छति। तथा च देहं त्यजन् कथं मे (SN omit मे) पुनरिदं सकलापत्स्थानं शरीरं मा भूयात् इत्येवं यो मामनन्यचेताः स्मरति सततमेव याति जानाति (S omits जानाति) स मद्भावम् मत्स्वरूपम्। न (N नन्वत्र) मुनेः परब्रह्माद्वैतपदोपक्षेपविरोधी उत्क्रान्तौ ( तत् क्रान्तौ K (n) विरोधीति उत्क्रान्तौ भरः) भरः। तथाचोक्तम् -- व्यापिन्यां शिवसत्तायाम् उत्क्रान्तिर्नाम निष्फला।अव्यापिनि शिवे नाम नोत्क्रान्तिः शिवदायिनी।।इति।।यदि वा सतताभ्यासोऽपि यैर्न कृतः तथापि कुतश्चित् स्वतन्त्रेश्वरेच्छादेर्निमित्तादन्त्ये (S omits स्वतन्त्र -- ) एव क्षणे यदा तादृग्भावो जायते तदा अयमुत्क्रान्तिलक्षण उपायः संस्कारान्तरप्रतिबन्धक उक्तः। अत एव,यदक्षरं वेदविदो वदन्ति इत्यादिना अभिधास्ये इत्यन्तेन प्रतिज्ञा कृता क्षणमात्रस्यापि भगवदनुचिन्तनस्य,(S चिन्तनमयस्य) सकलसंस्कारविध्वंसनलक्षणाम् अद्भुतवृत्तिं प्रतिपादयितुम्। यदाहुराचार्यवर्याः,(S omits यदाहु -- इति) -- निमेषमपि यद्येकं क्षीणदोषे करिष्यसि।पदं चित्ते तदा शंभो किं न संपादयिष्यसि।।(स्तवचिन्तामणिः श्लो 114) इति।अत एव प्रयाणकाले स्मरणेन विना खण्डना [ दृष्टा ] इति येषां शङ्का तान् वीतशङ्कान् कर्तुमुक्तम्,अनन्यचेताः सततम् इति अन्यत्र फलादौ साध्ये यस्य न चेत इत्यर्थः। तस्याहं सुलभ इति। तस्य,(S omit तस्य) न किंचित् प्रयाणकालौचित्यपर्येषाम् तीर्थसेवा उत्तरायणम् आयतनसंश्रयः(N आवर्तनसंश्रयः) सत्त्वविशुद्धिः (SK -- विवृद्धिः) सचिन्तकत्वम् (N सचित्तकत्वम्) विषुवदादिपुण्यकालः दिनम् अकृत्रिमपवित्रभूपरिग्रहः स्नेहमलविहीनदेहता शुद्धवस्त्रादिपरिग्रहः (SN omit परि -- ) इत्यादिक्लेशोभ्यर्थनीय इत्यर्थः यत्प्रागुक्तम् -- तीर्थ श्वपचगृहे वा इत्यादि।

'''जयतीर्थव्याख्या'''

।।8.12 -- 8.13।।ननुमनो निरुध्य इत्यनेनैव सर्वेन्द्रियसंयमनं लब्धम् तत्किं पुनरुच्यते मैवम् वायुसञ्चरणद्वाराणां नाडीनामत्र ग्रहणात्। तन्नियमनं किमर्थं इत्यत आह -- ब्रह्मेति। इति हेतौ। इत्युक्तमिति शेषः। अत्र प्रमाणमाह -- निर्गच्छन्निति। सूर्यं गच्छति। मोक्षधर्मे चायमेवार्थ उक्त इति शेषः। हृदीत्यस्य प्रसिद्धार्थतानिरासार्थमाह -- हृदीति। हरतेः क्विप् च [अष्टा.3।2।76] इति क्विप् प्रसिद्धार्थ एव किं न स्यात् इत्यत आह -- नहीति। कुतो न सम्भवति इत्यत आह -- यत्रेति। आदौ हृदि निरुध्येत्यध्याहारो दोषः। मरणवेलायामखण्डस्मृतिर्वक्तव्या तत्कथं धारणोच्यते इत्यत आह -- योगेति।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.12।।तत्र प्रवक्ष्य इत प्रतिज्ञातमर्थं सोपकरणमाह द्वाभ्याम् -- सर्वाणीन्द्रियद्वाराणि संयम्य स्वस्वविषयेभ्यः प्रत्याहृत्य विषयदोषदर्शनाभ्यासात्तत्तद्विमुखतामापादितैः श्रोत्रादिभिः शब्दादिविषयग्रहणमकुर्वन्। बाह्येन्द्रिनिरोधेऽपि मनसः प्रचारः स्यादित्यत आह -- मनो हृदि निरुध्य च अभ्यासवैराग्याभ्यां षष्ठे व्याख्याताभ्यां हृदयदेशे मनो निरुध्य निर्वृत्तिकतामापाद्य च। अन्तरपि विषयचिन्ताकुर्वन्नित्यर्थः। एवं बहिरन्तरुपलब्धिद्वाराणि सर्वाणि संनिरुध्य क्रियाद्वारं प्राणमपि सर्वतो निगृह्य भूमिजयक्रमेण मूर्ध्न्याधाय भ्रुवोर्मध्ये तदुपरि च गुरूपदिष्टमार्गेणावेश्यात्मनो योगधारणामात्मविषयसमाधिरूपां धारणामास्थितः। आत्मन इति देवतादिव्यावृत्त्यर्थम्।

'''पुरुषोत्तमव्याख्या'''

।।8.12।।प्रतिज्ञातस्वरूपमाह द्वाभ्याम् -- सर्वद्वाराणीति। सर्वाणि इन्द्रियद्वाराणि संयम्य वशीकृत्य लौकिकविषयान्मनोनिरुन्धनं कृत्वा मनश्च विकल्पादिधर्मत्यागेन हृदि निरुद्ध्य मूर्ध्नि भ्रुवोर्मध्ये भाग्यस्थाने प्राणमाधाय आत्मनो योगधारणामास्थित आश्रितः सन्।

'''वल्लभाचार्यव्याख्या'''

।।8.12 -- 8.13।।तत्प्राप्तौ साङ्गमुपायमाह -- सर्वद्वाराणीति द्वाभ्याम्। ब्रह्मवादे ममैव नामरूपात्मकत्वादिति योगी मां ँ़इत्येकाक्षररूपमनुस्मरन् तथा व्याहरन्नन्तकाले परमामेतां पदत्वेन निर्दिष्टां गतिं याति।

'''आनन्दगिरिव्याख्या'''

।।8.12।।वक्ष्यमाणेनोपायेनेत्युक्तं व्यक्तीकुर्वन्नोंकारद्वारा ब्रह्मोपासनं श्रुत्युक्तमनुक्रामति -- स यो हेति। सत्यकामेनाभिध्यानफलं जिज्ञासुना भगवन्निति पिप्पलादः संबोध्याभिमुखीक्रियते। निपातौ तु प्रसिद्धमर्थमेव द्योतयन्तावभिध्यानस्य फलत्वेन कर्तव्यत्वमावेदयतः। मनुष्येषु मध्ये स योऽधिकृतो मनुष्यस्तत्प्रसिद्धमभिध्यानं यथा सिध्यति तथा सर्ववेदसारभूतमोङ्कारमाभिमुख्येन ध्यायीत। तच्चाभिध्यानमाप्रयाणादिति न्यायेन मरणान्तमनुष्ठेयम्। स चैवमनुतिष्ठन्प्रकृतेनाभिध्यायेन लोकानां जेतव्यानां बहुत्वात्कतमं लोकं जयतीति प्रश्नं पृष्टवते सत्यकामाय पिप्पलादनामा किलाचार्यः प्रतिवचनं प्रोवाच। तत्र प्रथममभिध्येयमोंकारं परापरब्रह्मत्वेन महीकरोति -- एतद्वा इति। त्रिमात्रेणाकारोकारमकारात्मकेनेति यावत्। योऽभिध्यायीत तमेव यथाभिध्यातं पुरुषमधिगच्छतीत्यादिवचनेनोपासनमोंकारस्योक्तमित्यर्थः। प्रश्नश्रुतिवत्कठवल्ली च तत्रैवार्थे प्रवृत्तेत्याह -- अन्यत्रेति। अव्यवधानेनोपनिषदां व्यवधानेन च कर्मश्रुतीनां परस्मिन्नात्मनि पर्यवसानं दर्शयति -- सर्व इति। तपसामपि सर्वेषां चित्तशुद्धिद्वारा तत्रैव पर्यवसानमित्याह -- तपांसीति। तस्यैव च ज्ञानार्थमष्टाङ्गं ब्रह्मचर्यं तत्र तत्र विहितमित्याह -- यदिच्छन्त इति। तस्य पदनीयस्य ब्रह्मणः संक्षेपेण कथनमोंकारद्वारकमिति कथयति -- ओमित्येतदिति। उदाहृतवचनानां तात्पर्यं दर्शयति -- परस्येति। तस्य वाचकरूपेण वा तस्यैव प्रतीकरूपेण वा विवक्षितस्योपासनं यथोक्तैर्वचनैरुक्तमिति संबन्धः। ननु परस्मिन्ब्रह्मणि तत्त्वमस्यादिवाक्यादेवं प्रतिपत्तिरधिकारिणो भविष्यति किमित्युपासनमोङ्कारस्योपन्यस्यते तत्राह -- परेति। यद्यपि विशिष्टस्याधिकारिणो विनैवोपासनमुपनिषद्भ्यो ब्रह्मणि प्रतिपत्तिरुत्पद्यते तथापि मन्दानां मध्यमानां च तद्धीहेतुत्वेनोङ्कारो विवक्षितस्तच्चोपासनं ब्रह्मदृष्ट्या श्रुतिभिरुपदिष्टमित्यर्थः। तस्य क्रममुक्तिफलत्वादनुष्ठेयत्वं सूचयति -- कालान्तरेति। भवत्येवं श्रुतीनां प्रवृत्तिस्तावता प्रकृते किमायातमित्याशङ्क्याह -- उक्तं यदिति। तदेवेहापि वक्तव्यमित्युत्तरेण संबन्धः। उपासनमेवोपास्योपन्यासद्वारा स्फोरयति -- कविमित्यादिना। पूर्वोक्तरूपेणेत्यभिधानत्वेन प्रतीकत्वेन चेत्यर्थः। श्रौतस्योपासनस्यानूद्यमानस्य सोपस्करत्वं संगिरते -- योगेति। तर्हि कथम् -- अनन्यचेताः सततम् इत्यादि वक्ष्यते तत्राह -- प्रसक्तेति। ओंकारोपासनं प्रसक्तं तदनन्तरं तत्फलमनुप्रसक्तं तद्द्वारा चापुनरावृत्त्यादि वक्तव्यकोटिनिविष्टमित्यर्थः। उक्तेऽर्थे समनन्तरग्रन्थमुत्थापयति -- इत्येवमर्थ इति। श्रोत्रादीनां कुत्र द्वारत्वं तत्राह -- उपलब्धाविति। तेषां संयमनं विषयेषु प्रवृत्तानां दोषदर्शनद्वारा तेभ्यो वैमुख्यापादनम्। कोऽयं मनसो हृदये निरोधस्तत्राह -- निष्प्रचारमिति। मनसो विषयाकारवृत्तिं निरुध्य हृदि वशीकृतस्य कार्यं दर्शयति -- तत्रेति। ऊर्ध्वमित्यत्रापि हृदयादिति संबध्यते। सर्वाण्युपलब्धिद्वाराणि श्रोत्रादीनि संनिरुध्य वायुमपि सर्वतो निगृह्य हृदयमानीय ततो निर्गतया सुषुम्नया कण्ठभ्रूमध्यललाटक्रमेण प्राणं मूर्धन्याधाय योगधारणामारूढो ब्रह्म व्याहरन्मां च तदर्थमनुस्मरन्परमां गतिं यातीति संबन्धः।

'''धनपतिव्याख्या'''

।।8.12।।सर्वाणि च शब्दादिविषयोपलब्धौ द्वाराणि श्रोत्रादीनीन्द्रियाणि संयम्य तत्तद्विषयेभ्यः संयमनं प्रत्याहरणं कत्वा हृदि हृत्कमले मनो निरुध्य तत्तद्विषयस्मरणान्निरोधनं च कृत्वा। निष्प्रचारमापाद्येतियावत्। तत्र वशीकृतेन मनसा हृद्यादूर्ध्यगामिन्या नाड्योर्ध्वं भूमिकाजयक्रमेणारुह्यात्मनः स्वस्य प्राणं मूर्धन्याधाय संस्थाप्य योगधारणां धारयितुमास्थितः प्रवृत्तः सन् आत्मनो योगधारणामिति वान्वयः।

'''नीलकण्ठव्याख्या'''

।।8.12।।भ्रुवोर्मध्ये कथं प्राणमावेशयेदित्यत आह -- सर्वेति। सर्वाणि शब्दादिविषयग्रहणद्वाराणीन्द्रियाणि संयम्य निगृह्य तथा हृदि मनोऽपि निरुध्य तेषां कञ्चुकभूतं प्राणं मूर्धन्यनाड्या सुषुम्नाख्यया मूर्ध्नि भ्रुवोर्मध्ये आधाय कथं योगधारणां योगशास्त्रोक्तां धारणां मनसो देशविशेषनिबन्धिनीं आस्थितः अनुतिष्ठन्सन्।

'''श्रीधरस्वामिव्याख्या'''

।।8.12।।प्रतिज्ञातमुपायं साङ्गमाह -- सर्वेति द्वाभ्याम्। सर्वाणीन्द्रियद्वाराणि संयम्य प्रत्याहृत्य। चक्षुरादिभिर्बाह्यविषयग्रहणमकुर्वन्नित्यर्थः। मनश्च हृदि निरुध्य। बाह्यविषयस्मरणमकुर्वन्नित्यर्थः। मूर्ध्नि भ्रूवोर्मध्ये प्राणमाधाय योगस्य धारणां स्थैर्यमास्थित आश्रितवान्सन्।

'''वेङ्कटनाथव्याख्या'''

।।8.12।।सर्वद्वाराणि संयम्य इत्यत्र नवद्वारप्रतीतिनिरासाय प्रत्याहारविषयताद्योतनाय चाहसर्वाणि श्रोत्रादीनीति। द्वारानुबन्धरहितस्पर्शनादीन्द्रियाणां कथं द्वारशब्दार्थतेत्यत्रोक्तंज्ञानद्वारभूतानीति। संयमनमत्र शब्दादिविषयौन्मुख्यनिवर्तनमित्यभिप्रायेणाहस्वव्यापारेभ्यो विनिवर्त्येति।मनो हृदि निरुध्य च इत्यत्र हृन्मात्रस्य ध्येयतानुपपन्नेत्यत्रोक्तंहृदयकमलनिविष्टे मय्यक्षर इति। हृच्छब्दोऽत्र तत्रत्यपुरुषलक्षकः अन्यथामामनुस्मरन् इत्यनन्तरोक्तिर्न घटेतेति भावः। अर्थक्रमेण बलवता दुर्बलस्य पाठक्रमस्य बाधमभिप्रेत्यमनो हृदि निरुध्य इत्यस्यानन्तरन्आस्थितो योगधारणाम् इत्यादिकं व्याख्यातम्। प्रत्याहारानन्तरपठितधारणाव्यवच्छेदायाहयोगाख्यां धारणामिति। षष्ठी समासात्समानाधिकरणसमासस्य ग्राह्यत्वं निषादस्थपतिन्यायसिद्धम्।स्थपतिर्निषादः स्यात् शब्दसामर्थ्यात् [पू.मी.6।1।51] इति। धारणाशब्दाधिक्याभिप्रेतमाहमय्येव निश्चलां स्थितिमिति। प्रणवस्य ब्रह्मप्रतिपादकत्वात्ब्रह्म इति व्यपदेश इत्यभिप्रायेणमद्वाचकमित्युक्तम्। मन्त्रस्यार्थविशेषप्रकाशनमुखेनोपकारकत्वमप्यत्र ब्रह्मशब्देन प्रतिपादनाद्विवक्षितमित्यभिप्रायेणवाच्यं मामनुस्मरन्नित्युक्तम्। प्रणवस्य भगवद्वाचकत्वं योगाङ्गत्वादिकं च श्रुतिस्मृत्यादिसिद्धम्। यथा कठवल्ल्यां [2।15] सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् इति।अत्र नाम्ना नामिनो निर्देशः। तथा प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्ल्क्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् [मुं.उ.2।2।4] इति। तथा आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्। ध्याननिर्मथनाभ्यासा(द्देवं पश्येन्निगू)त्पश्येद्ब्रह्माग्निगूढवत् [ध्यानबिंदू.22] इति। तथा ओमित्येवं ध्यायथात्मानम् [मुं.उ.2।26] इति। तथा यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः। यथा पादोदरस्त्वचा विनि[र्मुच्यत]र्मुक्त एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम्। स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते [प्रश्नो.5।5] इति। तथा वह्नेर्यथा योनिगतस्य मूर्तिर्न दृश्यते नैव च लिङ्गनाशः। स भूय एवेन्धनयोनिगृह्यस्तद्वोभयं वै प्रणवेन देहे।।स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम्। ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् [श्वे.उ.1।1314] इति। अत्रैव श्लोकेविष्णुं पश्येद्धृदि स्थितम् [शं.स्मृ.7।16] इति योगयाज्ञवल्क्यपाठः। तथाकांस्यघण्टानिनादस्तु यथा लीयति शान्तये। ओङ्कारस्तु तथा योज्यः शान्तये शान्तिमिच्छता। यस्मिन् स लीयते शब्दस्तत्परं ब्रह्म गीयते [ ] इति। तथाओं खं ब्रह्म खं पुराणम् [बृ.उ.5।1।1] इति। ओमित्येतदक्षरमादौ ৷৷. ब्रह्मास्य पादाश्चत्वारो वेदाश्चतुष्पादिदमक्षरं [परं ब्रह्म] पूर्वाऽस्य मात्रा पृथिव्यकारः इत्यारभ्य प्रथमा रक्तपीता महद्ब्रह्मदैवत्या द्वितीया विद्युमती कृष्णा विष्णुदेवत्या तृतीया शुभाशुभा शुक्ला रुद्रदैवत्या याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा विद्युमती सर्ववर्णा पुरुषदैवत्या [अ.शिखो.1] इति च। अत्र अर्धमात्राधिदैवतभूतः पुरुष एवावतीर्णावस्थो द्वितीयमात्रादैवत्वेन विष्णुरिति चोक्तः। तथा ओमिति ब्रह्म ओमितीदं सर्वम् [तै.उ.1।8।1] इति ओङ्कार एवेदं सर्वम् [छां.उ.2।23।3] इति। तथा हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः। हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः। तस्योत्तरतः शिरो दक्षिणतः पादो य उत्तरतः स ओङ्कार य ओङ्कारः स प्रणवो यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तः योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं यत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म [अ.शिरउ.3] इति। अत्र प्रकरणादिवशात् प्रतर्दनविद्यावदन्तरितं शासनमनुसन्धेयम्।मुमुक्षोरुत्क्रमणप्रकरणे च प्रणवः श्रूयते अथ यत्रैतव स्माच्छरीरादुत्क्रामति अथैतैरेव रंश्मिभिरूर्ध्वमाक्रमते सूओमिति वा होद्वामीयते स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छति एतद्वै खलु लोकस्य द्वारं विदुषां प्रपदनं निरोधोऽविदुषा। तदेव श्लोकः -- शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति [छां.उ.8।6।5] इति। महाभारते च महेश्वरे वचनम्ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् [ह.वं.वि.प.133।10] इति। आह च भगवान्या वल्क्यः -- देवतायाः परायाश्च ह्यालम्बः प्रणवः स्मृतः। कश्चिदाराधनाकामो विष्णोर्भक्त्या करोति वै।।तदाराधनसान्निध्ये प्रतिमां व्यञ्जिकां यथा। धातुद्रव्यादिपाषाणैः कृत्वा भावं निवेशयेत्।।श्रद्धाभक्त्यादराद्यैश्च तस्य देवः प्रसीदति। ओङ्कारेण तथा चात्मा ह्युपास्ते स प्रसीदति। [ ]सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।।मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्। ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्। यः प्रयाति त्यजन् देहं स याति परमां गतिम्।।य एतं प्रणवेनाद्यमक्षरं प्रतिपद्यते। ततोऽक्षरेण वेदेन वेद्यं ब्रह्माधिगच्छति।।एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्। एतदालम्बनं ज्ञात्वा ब्रह्मभूयाय कल्पते।।अदृष्टविग्रहो देवो भावग्राह्यो निरामयः। तस्योङ्कारः स्मृतं नाम तेनाहूतः प्रसीदति।।तस्मादोमिति पूर्वं तु कृत्वा युञ्जीत तत्परः। ब्रह्मोङ्कारविधानेन तत्त्वेन प्रतिपद्यते इति। अत्रसर्वद्वाराणि इत्यादिश्लोकयोर्भगवद्वाक्यतया प्रसिद्धयोरुदाहरणात्माम् इति निर्देशस्तद्विषयः। पुनश्चात्र हैरण्यगर्भादिसिद्धान्तेषु प्रणवार्थं प्रपञ्च्यान्तेऽप्याह -- त्रिरात्मा त्रिस्वभावश्च तथा त्रिव्यूह एव च। पञ्चरात्रे तथा ह्येष भगवद्वाचकः स्मृतः। बलं वीर्यं तथा तेजस्त्रिरात्मेति च संज्ञितः। ज्ञानैश्वर्ये तथा शक्तिस्त्रिस्वभाव इति स्मृतः।।सङ्कर्षणोऽथ प्रद्युम्नो ह्यनिरुद्धस्तथैव च। त्रिव्यूह इति निर्दिष्ट ओङ्कारो विष्णुरव्ययः।।भगवद्वाचकः प्रोक्तः प्रकृतेर्वाचकस्तथा। व्यक्ताव्यक्तो वासुदेवः प्रभवः प्रलयस्तथा।।इति। यच्चात्र हैरण्यगर्भकापिलावान्तरतपस्सनत्कुमारब्रह्मिष्ठपाशुपताख्येषु सिद्धान्तेष्वर्थभेदवर्णनं तदपि तत्तदर्थविशेषान्तरितपरमपुरुषपर्यवसानमभिप्रेत्येति मन्तव्यम्। अत एव हि विष्णुप्रतिपादकतयाऽन्तकाले स्मर्तव्यत्वेनोपसंह्रियते -- ओङ्कारं विपुलमचिन्त्यमप्रमेयं सूक्ष्माख्यं ध्रुवमचरं च यत्पुराणम्। तद्विष्णोः पदमपि पद्मजप्रसूतं देहान्ते मम मनसि स्थितिं करोतु इति। प्रणवेनैवात्र भगवदर्चनमुच्यते -- तल्लिङ्गैरर्चयेन्मन्त्रैः सर्वान् देवान् समाहितः। नमस्कारेण पुष्पाणि विन्यसेत्तु यथाक्रमम्।।आवाहनादिकं कर्म यन्न सूक्तं मया त्विह। तत्सर्वं प्रणवेनैव कर्तव्यं चक्रपाणये।।दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा। अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम्।।विष्णुर्ब्रह्मा च रुद्रश्च विष्णुरेव दिवाकरः। तस्मात्पूज्यतमं नान्यमहं मन्ये जनार्दनात् इति। तथा परमपुरुषसाक्षात्कारकारणतया चात्र प्रणवोपासनप्रकार उच्यते।ओम्भूर्भुवस्सुवर्महर्जनस्तपस्सत्यम् इति वैदिकम्।एतदुच्चार्य वै ब्रह्म परे व्योम्नि नियोजयेत्। हृदयेऽग्निश्च वायुश्च जीवो यः समुदाहृतः।।ओङ्कारं पद्मनाले तु उद्धृत्योपरि योजयेत्। आप्राणाच्छून्यभूतात्तु चेतोङ्गं जीवसंज्ञितम्।।जायते तु यतस्तस्मात्पुनस्तत्र निवेशयेत्। घण्टाशब्दवदोङ्कारमुपासीत समाहितः।।पुरुषं निर्मलं शुभ्रं पश्येद्वै नात्र संशयः इति। योगानुशासनसूत्रं चक्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः [ब्र.सू.1।24]तस्य वाचकः प्रणवः [ब्र.सू.1।27] इति। अतः प्रणवस्य भगवद्वाचकत्वं समाध्युत्क्रमणाद्यवस्थासु तेनैव भगवदनुस्मरणं च सिद्धम्।शतं चैका च हृदयस्य ना़ड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्ङ्ङन्या उत्क्रमणे भवन्ति [छां.उ.8।6।6] ऊर्ध्वमेकः स्थितस्तेषां यो भित्वा सूर्यमण्डलम्। ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् [या.स्मृ.3।137] इत्यादिश्रुतिस्मृत्यनुसारान्मुमुक्षोरुत्क्रणौपयिकमिदं मूर्ध्नि प्राणाधानम्।त्यजन् यः प्रयातीति त्यक्त्वा यः प्रयातीत्यर्थः। आत्मार्थिनो ह्यात्मा गन्तव्यः तत्रापुनरावृत्तित्वमात्रात्परमगतित्वोक्तिरित्यभिप्रायेणाह -- प्रकृतीति। ईदृशस्यात्मनः परमगतिशब्देन व्यपदेशो न केवलं प्रकरणवशात् किन्त्वस्मिन्नेवाध्याये तद्विषय एवायं प्रयोगोऽप्यस्तीत्याह -- यः स सर्वेष्विति।

<poem>
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥८- १३॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.13।। --,ओमिति एकाक्षरं ब्रह्म ब्रह्मणः अभिधानभूतम् ओंकारं व्याहरन् उच्चारयन् तदर्थभूतं माम् ईश्वरम् अनुस्मरन् अनुचिन्तयन् यः,प्रयाति म्रियते सः त्यजन् परित्यजन् देहं शरीरम् -- त्यजन् देहम् इति प्रयाणविशेषणार्थम् देहत्यागेन प्रयाणम् आत्मनः न स्वरूपनाशेनेत्यर्थः -- सः एवं याति गच्छति परमां प्रकृष्टां गतिम्।।किञ्च --,

'''माध्वभाष्यम्'''

।।8.12 -- 8.13।।ब्रह्मनाडीं विना यद्यन्यत्र गच्छति तर्हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्यनिर्गच्छंश्चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि इत्यादिवचनात् व्यासयोगे मोक्षधर्मे च। हृदि नारायणे।ह्रियते त्वया जगद्यस्माद्धृदित्येवं प्रभाषसे इति पाद्मे। नहि मूर्धनि प्राणे स्थिते हृदि मनसः स्थितिः सम्भवति।यत्र प्राणो मनस्तत्र तत्र जीवः परस्तथा इति व्यासयोगे। योगधारणामास्थितः योगभरण एवाभियुक्त इत्यर्थः।

'''रामानुजभाष्यम्'''

।।8.13।।सर्वाणि श्रोत्रादीनि इन्द्रियाणि ज्ञानद्वारभूतानि संयम्य स्वव्यापारेभ्यो विनिवर्त्य हृदयकमलनिविष्टे मयि अक्षरे मनो निरुध्य योगाख्यां धारणां आस्थितः मयि एव निश्चलां स्थितिम् आस्थितः।ओम् इति एकाक्षरं ब्रह्म मद्वाचकं व्याहरन् वाच्यं माम् अनुस्मरन् आत्मनः प्राणं मूर्ध्न्याधाय देहं त्यजन् यः प्रयाति स याति परमां गतिं प्रकृतिवियुक्तं मत्समानाकारम् अपुनरावृत्तिम् आत्मानं प्राप्नोति इत्यर्थःयः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्। (गीता 8।2021) इति अनन्तरम् एव वक्ष्यते। एवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश्च स्वप्राप्यानुगुणः भगवदुपासनप्रकार उक्तः। अथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिकारं च आह --

'''अभिनवगुप्तव्याख्या'''

।।8.12 -- 8.14।।सर्वद्वाराणीत्यादि योगिन इत्यन्तम्। द्वाराणि इन्द्रियाणि। हृदि इति -- अनेन विषयसंगाभाव उच्यते न तु विष्ठास्थानाधिष्ठानम्। आत्मनः प्राणम् आत्मसारथिम् इच्छाशक्त्यात्मनि मूर्ध्नि सकलतत्त्वातीते धारयन् इति कायनियमः। ओमिति जपन् इति वाङ्नियमः। मामनुस्मरन्निति चेतसोऽनन्यगामिता (S चेतसाऽनन्यगामिता)। यः प्रयादि -- दिनाद्दिनम् (N दिनंदिनं) अपुनरावृत्तये गच्छति। तथा च देहं त्यजन् कथं मे (SN omit मे) पुनरिदं सकलापत्स्थानं शरीरं मा भूयात् इत्येवं यो मामनन्यचेताः स्मरति सततमेव याति जानाति (S omits जानाति) स मद्भावम् मत्स्वरूपम्। न (N नन्वत्र) मुनेः परब्रह्माद्वैतपदोपक्षेपविरोधी उत्क्रान्तौ ( तत् क्रान्तौ K (n) विरोधीति उत्क्रान्तौ भरः) भरः। तथाचोक्तम् -- व्यापिन्यां शिवसत्तायाम् उत्क्रान्तिर्नाम निष्फला।अव्यापिनि शिवे नाम नोत्क्रान्तिः शिवदायिनी।।इति।।यदि वा सतताभ्यासोऽपि यैर्न कृतः तथापि कुतश्चित् स्वतन्त्रेश्वरेच्छादेर्निमित्तादन्त्ये (S omits स्वतन्त्र -- ) एव क्षणे यदा तादृग्भावो जायते तदा अयमुत्क्रान्तिलक्षण उपायः संस्कारान्तरप्रतिबन्धक उक्तः। अत एव,यदक्षरं वेदविदो वदन्ति इत्यादिना अभिधास्ये इत्यन्तेन प्रतिज्ञा कृता क्षणमात्रस्यापि भगवदनुचिन्तनस्य,(S चिन्तनमयस्य) सकलसंस्कारविध्वंसनलक्षणाम् अद्भुतवृत्तिं प्रतिपादयितुम्। यदाहुराचार्यवर्याः,(S omits यदाहु -- इति) -- निमेषमपि यद्येकं क्षीणदोषे करिष्यसि।पदं चित्ते तदा शंभो किं न संपादयिष्यसि।।(स्तवचिन्तामणिः श्लो 114) इति।अत एव प्रयाणकाले स्मरणेन विना खण्डना [ दृष्टा ] इति येषां शङ्का तान् वीतशङ्कान् कर्तुमुक्तम्,अनन्यचेताः सततम् इति अन्यत्र फलादौ साध्ये यस्य न चेत इत्यर्थः। तस्याहं सुलभ इति। तस्य,(S omit तस्य) न किंचित् प्रयाणकालौचित्यपर्येषाम् तीर्थसेवा उत्तरायणम् आयतनसंश्रयः(N आवर्तनसंश्रयः) सत्त्वविशुद्धिः (SK -- विवृद्धिः) सचिन्तकत्वम् (N सचित्तकत्वम्) विषुवदादिपुण्यकालः दिनम् अकृत्रिमपवित्रभूपरिग्रहः स्नेहमलविहीनदेहता शुद्धवस्त्रादिपरिग्रहः (SN omit परि -- ) इत्यादिक्लेशोभ्यर्थनीय इत्यर्थः यत्प्रागुक्तम् -- तीर्थ श्वपचगृहे वा इत्यादि।

'''जयतीर्थव्याख्या'''

।।8.12 -- 8.13।।ननुमनो निरुध्य इत्यनेनैव सर्वेन्द्रियसंयमनं लब्धम् तत्किं पुनरुच्यते मैवम् वायुसञ्चरणद्वाराणां नाडीनामत्र ग्रहणात्। तन्नियमनं किमर्थं इत्यत आह -- ब्रह्मेति। इति हेतौ। इत्युक्तमिति शेषः। अत्र प्रमाणमाह -- निर्गच्छन्निति। सूर्यं गच्छति। मोक्षधर्मे चायमेवार्थ उक्त इति शेषः। हृदीत्यस्य प्रसिद्धार्थतानिरासार्थमाह -- हृदीति। हरतेः क्विप् च [अष्टा.3।2।76] इति क्विप् प्रसिद्धार्थ एव किं न स्यात् इत्यत आह -- नहीति। कुतो न सम्भवति इत्यत आह -- यत्रेति। आदौ हृदि निरुध्येत्यध्याहारो दोषः। मरणवेलायामखण्डस्मृतिर्वक्तव्या तत्कथं धारणोच्यते इत्यत आह -- योगेति।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.13।।ओमित्येकमक्षरं ब्रह्मवाचकत्वात्प्रतिमावद्ब्रह्मप्रतीकत्वाद्वा ब्रह्म व्याहरन्नुच्चरन्। ओमिति व्याहरन्नित्येतावतैव निर्वाहे एकाक्षरमित्यनायासकथनेन स्तुत्यर्थम्। ओमिति व्याहरन्नेकाक्षरमेकमद्वितीयमक्षरमविनाशि सर्वव्यापकं ब्रह्म मां ओमित्यस्यार्थं स्मरन्निति वा। तेन प्रणवं जपंस्तदभिधेयभूतं च मां चिन्तयन्मूर्धन्यया नाड्या देहं त्यजन् यः प्रयाति स याति देवयानमार्गेण ब्रह्मलोकं गत्वा तद्भोगान्ते परमां प्रकृष्टां गतिं मद्रूपाम्। अत्र पतञ्जलिनातीव्रसंवेगानामासन्नः समाधिलाभः इत्युक्त्वाईश्वरप्रणिधानाद्वा इत्युक्तम्। प्रणिधानं च व्याख्यातंतस्य वाचकः प्रणवः तज्जपस्तदर्थभावनम् इति।समाधिसिद्धिरीश्वरप्रणिधानात् इति च। इहतु साक्षादेव ततः परमगतिलाभ इत्युक्तम्। तस्मादविरोधायोमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्नात्मनो योगधारणामास्थित इति व्याख्येयम्। विचित्रफलत्वोपपत्तेर्वा न विरोधः।

'''पुरुषोत्तमव्याख्या'''

।।8.13।।ओमिति। एकाक्षरं शक्तिद्वयसम्बद्धपुरुषवद्वर्णत्रयात्मकमेकं यदक्षरं ब्रह्मवाचकत्वात्तत्सरूपत्वाद्वा ब्रह्मात्मकं व्याहरन्नुच्चारयन् मामेवंरूपं प्रकटमनुस्मरन् यो देहं त्यजन् प्रयाति प्रकर्षेण भावात्मतया गच्छति स परमां परो मीयते यया यत्र वा तां गतिं अक्षरात्मिकां याति प्राप्नोतीत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.12 -- 8.13।।तत्प्राप्तौ साङ्गमुपायमाह -- सर्वद्वाराणीति द्वाभ्याम्। ब्रह्मवादे ममैव नामरूपात्मकत्वादिति योगी मां ँ़इत्येकाक्षररूपमनुस्मरन् तथा व्याहरन्नन्तकाले परमामेतां पदत्वेन निर्दिष्टां गतिं याति।

'''आनन्दगिरिव्याख्या'''

।।8.13।।यथोक्तयोगधारणार्थं प्रवृत्तो मूर्धनि प्राणमाधाय धारयन्किं कुर्यादित्याशङ्क्यानन्तरश्लोकमवतारयति -- तत्रैवेति। एकं च तदक्षरं चेत्येकाक्षरमोमित्येवंरूपं तत्कथं ब्रह्मेति विशिष्यते तत्राह -- ब्रह्मण इति। यः प्रयातीति मरणमुक्त्वा त्यजन्देहमिति ब्रुवता पुनरुक्तिराश्रिता स्यादित्याशङ्क्य विशेषणार्थं विवृणोति -- देहेति। एवमोंकारमुच्चारयन्नर्थं चाभिध्यायन्ध्याननिष्ठः स पुमानित्यर्थः। परमामिति गतिविशेषणं क्रममुक्तिविवक्षया द्रष्टव्यम्।

'''धनपतिव्याख्या'''

।।8.13।।ओमिति। एकं च तदक्षरं ब्रह्म ब्रह्मणोऽभिधानभूतम्। अभिधायकमितियावत्। ऊँकारं व्याहरन्नुच्चारयन् तदभिधेयं परमात्मानं मामनुस्मरन्ननुचिन्तयन्। यत्तु ओमितिव्याहरन् एकाक्षरं एकमक्षरं एकमद्वितीयमक्षरमविनाशि सर्वव्यापकं ब्रह्म मां ओमित्यस्यार्थं स्मरन्नितिकेचित्। यत्तु ओमितिव्याहरन् एकाक्षरं एकमक्षरं एकमद्वितीयमक्षरमावैनासि सर्वव्यापकं ब्रह्म मां ओमित्यस्यार्थं स्मरन्नितिकेचित्। तन्न।एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः इत्युपक्रम्ययः पुनरेतं त्रिमात्रेणोमित्येतेनैवाचरेण परं पुरुषभिध्यायीत इतिश्रुत्यननुसरणेन तद्विस्मरणस्य स्पष्टवात्। श्रुतिस्थत्रिमात्रशब्दस्यैकशब्देन व्याख्यानं भगवता क्रियते। श्रुतौ त्रिमात्रेणेत्यस्य प्रथममकारेणाभिध्यायीत तत उकारेण ततो मकारेणेति भ्रमो मामूदित्येतद्तम्। ओमिति त्रिमात्रमेकमेवाक्षरं व्याहरन् नतु मात्राभेदेनाक्षरत्रयं पृथक्पृथग्व्याहारन्नित्यर्थः। किंच रुढिर्योगमपहन्तीति न्यायात् अक्षरशब्द ओंकारेणैव संबध्यते तस्य वर्णे रुढत्वात्। योगाश्रयणं तु रुढ्यसंभवे। तस्मात् श्रुत्यनुसारि व्यवहितान्वयरहितं रुढिपरित्यागदोषाग्रस्तं सर्वज्ञानां भाष्यकृतां व्याख्यानमेव प्रयाणकाल आत्मनो देहत्यागमात्रं प्रयाणं नतु स्वरुपनाशेनेत्यर्थः। देहं त्यजन्यः प्रयाति स परमां उत्कृष्टामबाध्यां गतिं स्थानं मोक्षाख्यं ब्रह्मलोकप्राप्तिक्रमेण याति अधिगच्छति।

'''नीलकण्ठव्याख्या'''

।।8.13।।मूर्ध्नि प्राणमाधाय किं कुर्यादत आह -- ओंकाररूपं एकाक्षरं एकं च तदक्षरं च वर्णो ब्रह्म च तद्व्याहरनुच्चरन् मां च ब्रह्मभूतमनुस्मरन् यो हि देवदत्तं स्मृत्वा तन्नाम व्याहरति तस्मै देवदत्तोऽभिमुखो भवत्येवं ब्रह्मणो नामोच्चारणेन संनिहिततरं व्यापकं ब्रह्म साधकस्य संनिधीयते। संनिहिते च ब्रह्मणि यो देहं त्यजन् म्रियमाणः प्रयाति ऊर्ध्वनाड्या उत्क्रामति स परमां गतिं संनिकृष्टब्रह्मरूपां याति। ब्रह्मैव प्रकृत्य श्रूयतेएषास्य परमा गतिरेषास्य परमा संपदेषोऽस्य परम आनन्दः इति। तामेव गतिं शुद्धं ब्रह्मैव प्राप्नोति ब्रह्मलोकप्राप्तिद्वारा।

'''श्रीधरस्वामिव्याख्या'''

।।8.13।। ओमिति। ओमित्येकं यदक्षरं तदेव ब्रह्मवाचकत्वाद्वा प्रतिमादिवद्ब्रह्मप्रतीकत्वाद्वा ब्रह्म तद्व्याहरन्नुच्चारयन् तद्वाच्यं च मामनुस्मरन्नेव देहं त्यजन्यः प्रकर्षेण याति अर्चिरादिमार्गेण स परमां श्रेष्ठां मद्गतिं याति प्राप्नोति।

'''वेङ्कटनाथव्याख्या'''

।। 8.13 सर्वद्वाराणि संयम्य इत्यत्र नवद्वारप्रतीतिनिरासाय प्रत्याहारविषयताद्योतनाय चाहसर्वाणि श्रोत्रादीनीति। द्वारानुबन्धरहितस्पर्शनादीन्द्रियाणां कथं द्वारशब्दार्थतेत्यत्रोक्तंज्ञानद्वारभूतानीति। संयमनमत्र शब्दादिविषयौन्मुख्यनिवर्तनमित्यभिप्रायेणाहस्वव्यापारेभ्यो विनिवर्त्येति।मनो हृदि निरुध्य च इत्यत्र हृन्मात्रस्य ध्येयतानुपपन्नेत्यत्रोक्तंहृदयकमलनिविष्टे मय्यक्षर इति। हृच्छब्दोऽत्र तत्रत्यपुरुषलक्षकः अन्यथामामनुस्मरन् इत्यनन्तरोक्तिर्न घटेतेति भावः। अर्थक्रमेण बलवता दुर्बलस्य पाठक्रमस्य बाधमभिप्रेत्यमनो हृदि निरुध्य इत्यस्यानन्तरन्आस्थितो योगधारणाम् इत्यादिकं व्याख्यातम्। प्रत्याहारानन्तरपठितधारणाव्यवच्छेदायाहयोगाख्यां धारणामिति। षष्ठी समासात्समानाधिकरणसमासस्य ग्राह्यत्वं निषादस्थपतिन्यायसिद्धम्।स्थपतिर्निषादः स्यात् शब्दसामर्थ्यात् [पू.मी.6।1।51] इति। धारणाशब्दाधिक्याभिप्रेतमाहमय्येव निश्चलां स्थितिमिति। प्रणवस्य ब्रह्मप्रतिपादकत्वात्ब्रह्म इति व्यपदेश इत्यभिप्रायेणमद्वाचकमित्युक्तम्। मन्त्रस्यार्थविशेषप्रकाशनमुखेनोपकारकत्वमप्यत्र ब्रह्मशब्देन प्रतिपादनाद्विवक्षितमित्यभिप्रायेणवाच्यं मामनुस्मरन्नित्युक्तम्। प्रणवस्य भगवद्वाचकत्वं योगाङ्गत्वादिकं च श्रुतिस्मृत्यादिसिद्धम्। यथा कठवल्ल्यां [2।15] सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् इति।अत्र नाम्ना नामिनो निर्देशः। तथा प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्ल्क्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् [मुं.उ.2।2।4] इति। तथा आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्। ध्याननिर्मथनाभ्यासा(द्देवं पश्येन्निगू)त्पश्येद्ब्रह्माग्निगूढवत् [ध्यानबिंदू.22] इति। तथा ओमित्येवं ध्यायथात्मानम् [मुं.उ.2।26] इति। तथा यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः। यथा पादोदरस्त्वचा विनि[र्मुच्यत]र्मुक्त एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम्। स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते [प्रश्नो.5।5] इति। तथा वह्नेर्यथा योनिगतस्य मूर्तिर्न दृश्यते नैव च लिङ्गनाशः। स भूय एवेन्धनयोनिगृह्यस्तद्वोभयं वै प्रणवेन देहे।।स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम्। ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् [श्वे.उ.1।1314] इति। अत्रैव श्लोकेविष्णुं पश्येद्धृदि स्थितम् [शं.स्मृ.7।16] इति योगयाज्ञवल्क्यपाठः। तथाकांस्यघण्टानिनादस्तु यथा लीयति शान्तये। ओङ्कारस्तु तथा योज्यः शान्तये शान्तिमिच्छता। यस्मिन् स लीयते शब्दस्तत्परं ब्रह्म गीयते [ ] इति। तथाओं खं ब्रह्म खं पुराणम् [बृ.उ.5।1।1] इति। ओमित्येतदक्षरमादौ ৷৷. ब्रह्मास्य पादाश्चत्वारो वेदाश्चतुष्पादिदमक्षरं [परं ब्रह्म] पूर्वाऽस्य मात्रा पृथिव्यकारः इत्यारभ्य प्रथमा रक्तपीता महद्ब्रह्मदैवत्या द्वितीया विद्युमती कृष्णा विष्णुदेवत्या तृतीया शुभाशुभा शुक्ला रुद्रदैवत्या याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा विद्युमती सर्ववर्णा पुरुषदैवत्या [अ.शिखो.1] इति च। अत्र अर्धमात्राधिदैवतभूतः पुरुष एवावतीर्णावस्थो द्वितीयमात्रादैवत्वेन विष्णुरिति चोक्तः। तथा ओमिति ब्रह्म ओमितीदं सर्वम् [तै.उ.1।8।1] इति ओङ्कार एवेदं सर्वम् [छां.उ.2।23।3] इति। तथा हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः। हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः। तस्योत्तरतः शिरो दक्षिणतः पादो य उत्तरतः स ओङ्कार य ओङ्कारः स प्रणवो यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तः योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं यत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म [अ.शिरउ.3] इति। अत्र प्रकरणादिवशात् प्रतर्दनविद्यावदन्तरितं शासनमनुसन्धेयम्।मुमुक्षोरुत्क्रमणप्रकरणे च प्रणवः श्रूयते अथ यत्रैतव स्माच्छरीरादुत्क्रामति अथैतैरेव रंश्मिभिरूर्ध्वमाक्रमते सूओमिति वा होद्वामीयते स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छति एतद्वै खलु लोकस्य द्वारं विदुषां प्रपदनं निरोधोऽविदुषा। तदेव श्लोकः -- शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति [छां.उ.8।6।5] इति। महाभारते च महेश्वरे वचनम्ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् [ह.वं.वि.प.133।10] इति। आह च भगवान्या वल्क्यः -- देवतायाः परायाश्च ह्यालम्बः प्रणवः स्मृतः। कश्चिदाराधनाकामो विष्णोर्भक्त्या करोति वै।।तदाराधनसान्निध्ये प्रतिमां व्यञ्जिकां यथा। धातुद्रव्यादिपाषाणैः कृत्वा भावं निवेशयेत्।।श्रद्धाभक्त्यादराद्यैश्च तस्य देवः प्रसीदति। ओङ्कारेण तथा चात्मा ह्युपास्ते स प्रसीदति। [ ]सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।।मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्। ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्। यः प्रयाति त्यजन् देहं स याति परमां गतिम्।।य एतं प्रणवेनाद्यमक्षरं प्रतिपद्यते। ततोऽक्षरेण वेदेन वेद्यं ब्रह्माधिगच्छति।।एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्। एतदालम्बनं ज्ञात्वा ब्रह्मभूयाय कल्पते।।अदृष्टविग्रहो देवो भावग्राह्यो निरामयः। तस्योङ्कारः स्मृतं नाम तेनाहूतः प्रसीदति।।तस्मादोमिति पूर्वं तु कृत्वा युञ्जीत तत्परः। ब्रह्मोङ्कारविधानेन तत्त्वेन प्रतिपद्यते इति। अत्रसर्वद्वाराणि इत्यादिश्लोकयोर्भगवद्वाक्यतया प्रसिद्धयोरुदाहरणात्माम् इति निर्देशस्तद्विषयः। पुनश्चात्र हैरण्यगर्भादिसिद्धान्तेषु प्रणवार्थं प्रपञ्च्यान्तेऽप्याह -- त्रिरात्मा त्रिस्वभावश्च तथा त्रिव्यूह एव च। पञ्चरात्रे तथा ह्येष भगवद्वाचकः स्मृतः। बलं वीर्यं तथा तेजस्त्रिरात्मेति च संज्ञितः। ज्ञानैश्वर्ये तथा शक्तिस्त्रिस्वभाव इति स्मृतः।।सङ्कर्षणोऽथ प्रद्युम्नो ह्यनिरुद्धस्तथैव च। त्रिव्यूह इति निर्दिष्ट ओङ्कारो विष्णुरव्ययः।।भगवद्वाचकः प्रोक्तः प्रकृतेर्वाचकस्तथा। व्यक्ताव्यक्तो वासुदेवः प्रभवः प्रलयस्तथा।।इति। यच्चात्र हैरण्यगर्भकापिलावान्तरतपस्सनत्कुमारब्रह्मिष्ठपाशुपताख्येषु सिद्धान्तेष्वर्थभेदवर्णनं तदपि तत्तदर्थविशेषान्तरितपरमपुरुषपर्यवसानमभिप्रेत्येति मन्तव्यम्। अत एव हि विष्णुप्रतिपादकतयाऽन्तकाले स्मर्तव्यत्वेनोपसंह्रियते -- ओङ्कारं विपुलमचिन्त्यमप्रमेयं सूक्ष्माख्यं ध्रुवमचरं च यत्पुराणम्। तद्विष्णोः पदमपि पद्मजप्रसूतं देहान्ते मम मनसि स्थितिं करोतु इति। प्रणवेनैवात्र भगवदर्चनमुच्यते -- तल्लिङ्गैरर्चयेन्मन्त्रैः सर्वान् देवान् समाहितः। नमस्कारेण पुष्पाणि विन्यसेत्तु यथाक्रमम्।।आवाहनादिकं कर्म यन्न सूक्तं मया त्विह। तत्सर्वं प्रणवेनैव कर्तव्यं चक्रपाणये।।दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा। अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम्।।विष्णुर्ब्रह्मा च रुद्रश्च विष्णुरेव दिवाकरः। तस्मात्पूज्यतमं नान्यमहं मन्ये जनार्दनात् इति। तथा परमपुरुषसाक्षात्कारकारणतया चात्र प्रणवोपासनप्रकार उच्यते।ओम्भूर्भुवस्सुवर्महर्जनस्तपस्सत्यम् इति वैदिकम्।एतदुच्चार्य वै ब्रह्म परे व्योम्नि नियोजयेत्। हृदयेऽग्निश्च वायुश्च जीवो यः समुदाहृतः।।ओङ्कारं पद्मनाले तु उद्धृत्योपरि योजयेत्। आप्राणाच्छून्यभूतात्तु चेतोङ्गं जीवसंज्ञितम्।।जायते तु यतस्तस्मात्पुनस्तत्र निवेशयेत्। घण्टाशब्दवदोङ्कारमुपासीत समाहितः।।पुरुषं निर्मलं शुभ्रं पश्येद्वै नात्र संशयः इति। योगानुशासनसूत्रं चक्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः [ब्र.सू.1।24]तस्य वाचकः प्रणवः [ब्र.सू.1।27] इति। अतः प्रणवस्य भगवद्वाचकत्वं समाध्युत्क्रमणाद्यवस्थासु तेनैव भगवदनुस्मरणं च सिद्धम्।शतं चैका च हृदयस्य ना़ड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्ङ्ङन्या उत्क्रमणे भवन्ति [छां.उ.8।6।6] ऊर्ध्वमेकः स्थितस्तेषां यो भित्वा सूर्यमण्डलम्। ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् [या.स्मृ.3।137] इत्यादिश्रुतिस्मृत्यनुसारान्मुमुक्षोरुत्क्रणौपयिकमिदं मूर्ध्नि प्राणाधानम्।त्यजन् यः प्रयातीति त्यक्त्वा यः प्रयातीत्यर्थः। आत्मार्थिनो ह्यात्मा गन्तव्यः तत्रापुनरावृत्तित्वमात्रात्परमगतित्वोक्तिरित्यभिप्रायेणाह -- प्रकृतीति। ईदृशस्यात्मनः परमगतिशब्देन व्यपदेशो न केवलं प्रकरणवशात् किन्त्वस्मिन्नेवाध्याये तद्विषय एवायं प्रयोगोऽप्यस्तीत्याह -- यः स सर्वेष्विति। ,

<poem>
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥८- १४॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.14।। --,अनन्यचेताः न अन्यविषये चेतः यस्य सोऽयम् अनन्यचेताः योगी सततं सर्वदा यः मां परमेश्वरं स्मरति नित्यशः। सततम् इति नैरन्तर्यम् उच्यते नित्यशः इति दीर्घकालत्वम् उच्यते। न षण्मासं संवत्सरं वा किं तर्हि यावज्जीवं नैरन्तर्येण यः मां स्मरतीत्यर्थः। तस्य योगिनः अहं सुलभः सुखेन लभ्यः हे पार्थ नित्ययुक्तस्य सदा समाहितचित्तस्य योगिनः। यतः एवम् अतः अनन्यचेताः सन् मयि सदा समाहितः भवेत्।।तव सौलभ्येन किं स्यात् इत्युच्यते श्रृणु तत् मम सौलभ्येन यत् भवति --,

'''माध्वभाष्यम्'''

।।8.14।।नित्ययुक्तस्य नित्योपायवतः। योगिनः परिपूर्णयोगस्य।

'''रामानुजभाष्यम्'''

।।8.14।।नित्यशो माम् उद्योगप्रभृति सततं सर्वकालम् अनन्यचेताः यः स्मरति अत्यर्थं मत्प्रियत्वेन मत्स्मृत्या विना आत्मधारणम् अलभमानो निरतिशयप्रियां स्मृतिं यः करोति तस्य नित्ययुक्तस्य नित्ययोगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहम् एव प्राप्यः न मद्भाव ऐश्वर्यादिकः।सुप्रापश्च तद्वियोगम् असहमानः अहम् एव तं वृणे मत्प्राप्त्यनुगुणोपासनविपाकं तद्विरोधिनिरसनम् अत्यर्थं मत्प्रियत्वादिकं च अहम् एव ददामि इत्यर्थः।यमेवैष वृणुते तेन लभ्यः (मु0 3।2।3) इति हि श्रूयते वक्ष्यते च।तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता।। (गीता 10।1011) इति।अतः परम् अध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश्च अपुनरावृत्तिम् ऐश्वर्यार्थिनः पुनरावृत्तिं च आह --

'''अभिनवगुप्तव्याख्या'''

।।8.12 -- 8.14।।सर्वद्वाराणीत्यादि योगिन इत्यन्तम्। द्वाराणि इन्द्रियाणि। हृदि इति -- अनेन विषयसंगाभाव उच्यते न तु विष्ठास्थानाधिष्ठानम्। आत्मनः प्राणम् आत्मसारथिम् इच्छाशक्त्यात्मनि मूर्ध्नि सकलतत्त्वातीते धारयन् इति कायनियमः। ओमिति जपन् इति वाङ्नियमः। मामनुस्मरन्निति चेतसोऽनन्यगामिता (S चेतसाऽनन्यगामिता)। यः प्रयादि -- दिनाद्दिनम् (N दिनंदिनं) अपुनरावृत्तये गच्छति। तथा च देहं त्यजन् कथं मे (SN omit मे) पुनरिदं सकलापत्स्थानं शरीरं मा भूयात् इत्येवं यो मामनन्यचेताः स्मरति सततमेव याति जानाति (S omits जानाति) स मद्भावम् मत्स्वरूपम्। न (N नन्वत्र) मुनेः परब्रह्माद्वैतपदोपक्षेपविरोधी उत्क्रान्तौ ( तत् क्रान्तौ K (n) विरोधीति उत्क्रान्तौ भरः) भरः। तथाचोक्तम् -- व्यापिन्यां शिवसत्तायाम् उत्क्रान्तिर्नाम निष्फला।अव्यापिनि शिवे नाम नोत्क्रान्तिः शिवदायिनी।।इति।।यदि वा सतताभ्यासोऽपि यैर्न कृतः तथापि कुतश्चित् स्वतन्त्रेश्वरेच्छादेर्निमित्तादन्त्ये (S omits स्वतन्त्र -- ) एव क्षणे यदा तादृग्भावो जायते तदा अयमुत्क्रान्तिलक्षण उपायः संस्कारान्तरप्रतिबन्धक उक्तः। अत एव,यदक्षरं वेदविदो वदन्ति इत्यादिना अभिधास्ये इत्यन्तेन प्रतिज्ञा कृता क्षणमात्रस्यापि भगवदनुचिन्तनस्य,(S चिन्तनमयस्य) सकलसंस्कारविध्वंसनलक्षणाम् अद्भुतवृत्तिं प्रतिपादयितुम्। यदाहुराचार्यवर्याः,(S omits यदाहु -- इति) -- निमेषमपि यद्येकं क्षीणदोषे करिष्यसि।पदं चित्ते तदा शंभो किं न संपादयिष्यसि।।(स्तवचिन्तामणिः श्लो 114) इति।अत एव प्रयाणकाले स्मरणेन विना खण्डना [ दृष्टा ] इति येषां शङ्का तान् वीतशङ्कान् कर्तुमुक्तम्,अनन्यचेताः सततम् इति अन्यत्र फलादौ साध्ये यस्य न चेत इत्यर्थः। तस्याहं सुलभ इति। तस्य,(S omit तस्य) न किंचित् प्रयाणकालौचित्यपर्येषाम् तीर्थसेवा उत्तरायणम् आयतनसंश्रयः(N आवर्तनसंश्रयः) सत्त्वविशुद्धिः (SK -- विवृद्धिः) सचिन्तकत्वम् (N सचित्तकत्वम्) विषुवदादिपुण्यकालः दिनम् अकृत्रिमपवित्रभूपरिग्रहः स्नेहमलविहीनदेहता शुद्धवस्त्रादिपरिग्रहः (SN omit परि -- ) इत्यादिक्लेशोभ्यर्थनीय इत्यर्थः यत्प्रागुक्तम् -- तीर्थ श्वपचगृहे वा इत्यादि।

'''जयतीर्थव्याख्या'''

।।8.14।।नित्ययुक्तस्य योगिन इत्येतयोरेकार्थतानिरासार्थमाह -- नित्येति। नित्योपायवत्त्वेन सम्पूर्णयोगस्येत्यर्थः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.14।।य एवं वायुनिरोधवैधुर्येण भ्रुवोर्मध्ये प्राणमावेश्य मूर्धन्यया नाड्या देहं त्यक्तुं स्वेच्छया न शक्नोति किंतु कर्मक्षयेणैव परवशो देहं त्यजति तस्य किं स्यादिति तदाह -- न विद्यते मदन्यविषये चेतो यस्य सोऽनन्यचेताः सततं निरन्तरं नित्यशो,यावज्जीवं यो मां स्मरति तस्य स्ववशतया परवशतया वा देहं त्यजतोऽपि नित्ययुक्तस्य सततसमाहितचित्तस्य योगिनः सुलभः सुखेन लभ्योऽहं परमेश्वरः इतरेषामतिदुर्लभोऽपि हे पार्थ तवाहमतिसुलभो मा भैषीरित्यभिप्रायः। अत्र तस्येति षष्ठी शेषे संबन्धसामान्ये कर्तरिन लोका -- इत्यादिना निषेधात्। अत्र चानन्यचेतस्त्वेन सत्कारोऽत्यादरः सततमिति नैरन्तर्यं नित्यश इति दीर्घकालत्वं स्मरणस्योक्तम्। तेनस तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः इति पातञ्जलं मतमनुसृतं भवति। तत्र स इत्यभ्यास उक्तोऽपि स्मरणपर्यवसायी। तेन यावज्जीवं प्रतिक्षणं विक्षेपान्तरशून्यतया भगवदनुचिन्तनमेव परमगतिहेतुर्मूर्धन्यया नाड्या तु स्वेच्छया प्राणोत्क्रमणं भवतु न वेति नातीवाग्रहः।

'''पुरुषोत्तमव्याख्या'''

।।8.14।।एवं योगयुक्तानां स्वांशाक्षरात्मकगतिस्वरूपमुक्त्वा भक्तियुक्तस्य स्वप्राप्तिमाह -- अनन्य इति। सततं निरन्तरमव्यवच्छिन्नतया न अन्यस्िमँल्लौकिकालौकिकविषये चेतो यस्य तादृशो यो मां नित्यशः प्रत्यहं,स्मरति तस्य नित्ययुक्तस्य मम नित्यं सम्मतस्य योगिनः सकाशादहं सुलभः सुखेन लभ्यः प्राप्यः। पार्थेति सम्बोधनेन यथा त्वन्मातृस्मरणबलेन तव सुलभो जातस्तथेति व्यञ्जितम्।

'''वल्लभाचार्यव्याख्या'''

।।8.14।।एवं परमात्मचिन्तकानां त्रिधा प्राप्तिमुक्त्वा स्वचिन्तकस्य भक्तस्य स्वप्राप्तिमाह -- अनन्येति। नान्यस्मिन्पुत्रदारादिके (किन्तु अक्षरादिके स्वरूपे) चेतो यस्य तथा मां भगवन्तं लीलापुरुषोत्तमं नित्यशः स्मरति सततं तस्य नित्ययुक्तस्य मदनुरक्तस्य योगिनो मत्सम्बन्धतो वाऽहं निरुपममहिमा वासुदेवः पुरुषोत्तमो भगवान्सुलभो़ऽस्मि।

'''आनन्दगिरिव्याख्या'''

।।8.14।।ननु वायुनिरोधविधुराणामुदीरितया रीत्या स्वेच्छाप्रयुक्तोत्क्रमणासंभवाद्दुर्लभा परमा गतिरापतेदिति तत्राह -- किञ्चेति। इतश्च भगवदनुस्मरणे प्रयतितव्यमित्यर्थः। सततं नित्यश इति विशेषणयोरपुनरुक्तत्वमाह -- सततमित्यादिना। उक्तमेवापौनरुक्त्यं व्यक्तीकरोति -- नेत्यादिना। जितासुरिच्छया देहं त्यजति तदितरस्तु कर्मक्षयेणैवेति विशेषं विवक्षयन्नाह -- यत इति। अनन्यचेतसं समाहितचेतसं प्रतीश्वरस्य सौलभ्यमेवमित्युच्यते।

'''धनपतिव्याख्या'''

।।8.14।।किंचान्तकाले मत्स्मरणं मत्प्राप्तिकरं न सर्वस्य सुलभं किंतु योगी मां वासुदेवमनन्यचेता नान्यस्मिन्विषये चेतो,यस्य सः। अनेनात्यादार उक्तः सततं सर्वदेति नैरन्तर्यमक्तं नित्यश इति दीर्घकालत्वम्। तथाचात्यादरेण यावज्जीवं नतु षण्मासं वत्सरं वा नैरन्तर्येण यो मां परमेश्वरं स्मरति तस्य योगिनो नित्ययुक्तस्य सदा समाहितचित्तस्याहं सुलभः सुखेनानायासेन लभ्योऽन्तकालेऽनायासलब्धमत्स्मरणेनेति। यत एवमतोऽनन्येचेताः सन्मयि समाहितो भवेदित्याशयः। पार्थेति संबोधयन् तव तूकतासाधनसौलभ्येन मत्प्राप्तिः सलभेति सूचयति।

'''नीलकण्ठव्याख्या'''

।।8.14।।इयं मतिरतीव दुर्लभेति मामंस्था इत्याह -- अनन्येति। नास्ति अन्यत्र चेतो यस्यासौ अनन्यचेता इत्यनेन स्मरणे आदर उच्यते। सततमिति नैरन्तर्यम्। यो मां स्मरति नित्यश इति दीर्घकालत्वम्। यावज्जीवं स्मरतीत्यर्थः। तस्याहं सुलभः पार्थ नित्ययुक्तस्य नित्ये योगिनामावश्यके युक्ताहारविहारादौ यमनियमादौ च युक्तस्यावहितस्य योगिनः। योगमनुतिष्ठतः।

'''श्रीधरस्वामिव्याख्या'''

।।8.14।।एवं चान्तकाले धारणया मत्प्राप्तिर्नित्याभ्यासवशत एव भवति नान्यस्येति पूर्वोक्तमेवानुस्मारयति -- अनन्येति। नास्त्यन्यस्मिंश्चेतो यस्य तथाभूतः सन् यो मां सततं निरन्तरं नित्यशः प्रतिदिनं स्मरति तस्य नित्ययुक्तस्य समाहितस्याहं सुखेन लभ्योऽस्मि नान्यस्य।

'''वेङ्कटनाथव्याख्या'''

।।8.14।।सङ्गत्यर्थमनुवदति -- एवमिति। अध्यायारम्भगतप्रश्नोत्तरयोस्तत्प्रसञ्जके पूर्वाध्यायान्ते चायं क्रमो न विवक्षितः अधियज्ञान्तिमप्रत्यययोः साधारण्येन प्रतिपादने तात्पर्यात्। इह तु प्रतिनियतार्थोपदेशरूपत्वादुत्तरोत्तरं उत्कृष्टताप्रदर्शनायैश्वर्याक्षरयाथात्म्यं भगवच्चरणार्थिनः क्रमेणोक्तमिति भावः। अत्र चएवम् इति निर्देशात्स्वप्राष्यानुगुणं इति निर्देशाच्च प्रकरणस्याधिकारित्रयविषयत्वव्यवस्थापकहेतवः प्रदर्शिताः। तथाहि -- एवमत्र कश्चिच्छङ्क्येत -- ननुते ब्रह्म तद्विदुः [7।29]किं तद्ब्रह्म [8।1]अक्षरं ब्रह्म परमम् [8।3] इति ब्रह्मशब्दस्य साक्षाद्ब्रह्मविषयत्वे को बाधः तस्यैव च सर्वात्मत्वादध्यात्मशब्देनापि तद्गतं सर्वं ग्रहीतुमुचितम्भूतभावोद्भवकरो विसर्गः [8।3] इत्यपि जगत्सृष्टिग्रहणं युक्तं देवतोद्देशेन द्रव्यत्यागो वा स चात्र निवृत्तिलक्षणो यज्ञःअधिभूतं क्षरो भावः [8।4] इति च अधिभवतीति व्युत्पत्तेः प्राणिजातम्। पुरुषश्च अधिदैवतमिति परब्रह्मावस्थाविशेषः समष्टिपुरुषादिर्वा अधियज्ञः सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवतायज्ञो वै विष्णुः [श.ब्रा.1।3।1] इति श्रुतेःअन्तकाले च [8।5] इत्यादि श्लोकत्रयमपि मुमुक्षोरेवान्तिमप्रत्ययमधिकृत्योक्तम् प्रश्नप्रतिवचनश्लोकानां पूर्वाध्याये प्रस्तुताधिकारित्रयज्ञातव्योपादेयपरत्वेऽप्युपरितनाःश्लोकाः प्रधानतया सुदुर्लभत्वेन निर्दिष्टज्ञानिपरा युक्ताः अन्यथामामेव स्मरन् [8।5]मामेवैष्यसि [8।7] इत्यादेर्बाधात् अत एवप्रयाणकाले च कथम् [8।2]अन्तकाले च माम् [8।5] इति श्लोकयोरधिकारित्रयपरत्वेऽपि तद्विवरणेऽत्र तदैकार्थ्यं ग्राह्यमित्यपि निरस्तम्। तत्रापि चाधिकारित्रयपरत्वं न प्रतीयते नचैश्वर्यार्थिनः परमपुरुषविषयान्तिमप्रत्ययसापेक्षतायां प्रमाणं पश्यामः एवमुत्तरेष्वपि श्लोकेष्वेक एवाधिकारी तद्वेद्यं चैकमेव पुनः पुनरनूद्य विशेषतो विशदीक्रियते नच पुनरुक्तिदोषः अभ्यासस्य ज्ञानिप्राधान्यलिङ्गत्वात्संसिद्धिं परमां गताः [8।15]स याति परमां गतिं [8।13]तमाहुः परमां गतिम् [8।21] इत्यमीषामैकार्थ्यं च प्रतीतं त्वपरित्याज्यम् न च परमगन्तव्यातिरिक्ता परमसंसिद्धिः।तमाहुः परमां गतिम् [8।21] इति परोक्षनिर्देशश्चपुरुषः स परः पार्थ [8।22] इतिवत्स्यात्परमं पुरुषं दिव्यं [8।8]स तं परं पुरुषमुपैति दिव्यं [8।10]पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया [8।22] इत्यमीषां भिन्नार्थत्वकल्पनं चायुक्तम् परैरपि च सर्वैः प्रायश एवमैककण्ठ्येन व्याख्यातम् -- इति। अत्रैवं परिहारक्रमः -- अधियज्ञोऽहमेव इतिवत्अहमेव ब्रह्म इत्यनुक्तेरध्यात्मादिवदत्र ब्रह्मशब्दार्थस्याप्यर्थान्तरत्वं तावत्प्रतीतम् नच ब्रह्मशब्दादक्षरशब्दस्य परमात्मनि रूढ्यतिशयः येन ततस्तद्व्याख्यानं स्यात्।एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तम् [12।1] इत्यादिषु च परमात्मनोऽन्यदेवोपास्यत्वमक्षरशब्देन प्रतीयतेद्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च। क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते।।अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् [वि.पु.1।22।5556] इत्यादिषु चाक्षरपरब्रह्मशब्दौ परिशुद्धात्मविषयौ शारीरकभाष्ये समर्थितौ अतोऽत्रकिं तद्ब्रह्म [8।1] इत्युक्तेऽहमेव ब्रह्मेत्यव्याख्यानात्स्वेतरविषयब्रह्मशब्दः परमशब्दविशेषिताक्षरशब्दानुगुण्याच्च प्रकृतेरीश्वराच्चान्यस्मिन्परिशुद्धात्मन्युपचाराद्वर्तते पश्चाच्चायमेवअव्यक्तोऽक्षर इत्युक्तः [8।21] इति वक्ष्यते न चासौ श्लोकः परमात्मपर इति शङ्कनीयम्ये चाप्यक्षरमव्यक्तं [12।1]ये त्वक्षरमनिर्देश्यं [12।3]क्षरश्चाक्षर एव च [15।16] इत्यादिष्विवात्रापि अक्षरशब्दस्य भगवद्व्यतिरिक्तविषयत्वप्रतीतेः संसिद्धिशब्दश्च परमगतिशब्दनिर्दिष्टप्राप्यविलक्षणां समीचीनां सिद्धिं स्वरसत उपसर्गशक्त्या व्यनक्ति अतएव स्वभावादिशब्दा अधिकारित्रयज्ञातव्योपादेयवस्तुविशेषपरा उक्ताः। एवं स्ववाक्य पर्यालोचनया पूर्वाध्यायप्रकृतपरामर्शेन च प्रश्नप्रतिवचनवाक्यानामधिकारित्रयविषयत्वे सिद्धे तदनन्तराणामपि ग्रन्थानां यथासम्भवं सर्वविषयत्वं युक्तम्। प्रक्रान्ते चाधिकारित्रये यद्वृत्तत्रयेणानूद्यमाने कैवल्यभगवत्प्राप्तिकामयोरनन्तरं स्पष्टमभिधानात्अभ्यास[8।8] इत्यादिकं परिशेषादैश्वर्यार्थिविषयम् यच्चैश्वर्यार्थिनां परमपुरुषविषयान्तिमप्रत्ययसापेक्षतायां प्रमाणं नास्तीति तदपि न श्रीमद्भागवते पुराणे ध्रुवचरिते तद्दृष्टेः -- भक्तिं हरौ भगवति प्रवहन् इत्यादिना। अतो यथोक्त एवार्थः। यद्यपि ब्रह्मपुरुषपरगत्यादिशब्दैरिह सर्वत्र परमात्मभजनतत्प्राप्त्यादिरेव प्रतीयते तथापि तावतैवाधिकारिविषयत्वं वक्तुं न युज्यते पूर्वत्र प्रयाणकाले भ्रूमध्ये प्राणावेशस्य तत्रैव परमात्मध्यानस्य च विहितत्वात् अनन्तरं च हृदि ध्यानस्य मूर्ध्नि प्राणावेशस्य च तत्काल एव विधानात् तदिदं द्वयं परस्परविरुद्धं किं कालभेदाद्व्यवस्थाप्येताधिकारिभेदाद्वा तत्र न तावत्कालभेदः श्रुतः प्रत्युत कालैक्यमेव श्रूयते अतः परिशेषात्सिद्धोऽधिकारिभेदः। किञ्च शतं चैका च [छां.उ.8।6।6] इत्यादिभिर्मूर्धन्यनाड्या निष्क्रमणं मोक्षहेतुः अन्याभिर्निष्क्रमणं फलान्तरहेतुरित्यवगते प्रयाणकाले भ्रूमध्ये मूर्ध्नि च प्राणावेशस्योत्क्रमणशेषतया तत्तद्देशगतनाड्योत्क्रमणे प्रतीते सिद्धस्तदधिकारिभेदः। पूर्वत्र चाध्यायेचतुर्विधा भजन्ते माम् [7।16] इत्यादावयमधिकारिभेदः प्रस्तुतः तदन्ते चजरामरणमोक्षाय [7।29]साधिभूताधिदैवं माम् [7।30] इति श्लोकयोर्यच्छब्दावृत्त्याधिकारिभेदप्रतीतिर्भाष्ये प्रतिपादिता सा चात्रापि स्फुटाअणोरणीयांसमनुस्मरेद्यः [8।9]यः प्रयाति त्यजन् देहं [8।13]यो मां स्मरति नित्यशः इति। एतदखिलमभिप्रेत्योक्तंएवमैश्वर्यार्थिन इत्यादि।उक्तश्चास्याधिकारीअनन्यचेताः इत्युच्यत इति परोक्तं निराकुर्वन्अनन्यचेताः इति श्लोकस्यार्थमाह -- अथेति।नित्यशः इत्यनेनात्मानुभवादिफलान्तरव्यवधाननैरपेक्ष्यं विवक्षितमित्याह -- उद्योगप्रभृतीति। अन्यथासततम् इत्यनेन पुनरुक्तिः सङ्कोचक्लेशो वा स्यादित्यभिप्रायेणाह -- सततं सर्वकालमिति। अनन्यचेतश्शब्देनाभिप्रेतं स्मृतेर्भक्तिरूपापन्नत्वं दर्शयति -- अत्यर्थेति। अनन्यचेतस्त्वादेव च स्मरणस्याच्छिद्रत्वम्। उत्कण्ठनेऽपि च स्मरतिः प्रयुज्यते -- भ्रातरौ स्मरतां वीरौ [वा.रा.2।13] इत्यादिषु।नित्ययुक्तस्य योगिनः इत्युक्तानुवादः फलस्याव्यवहितत्वद्योतनाय। अत्र अहंशब्देनेश्वरस्य प्रत्यगर्थोऽभिप्रेतः। तेन तद्विशेषणभूताक्षरादिफलप्राप्तिव्यवच्छेदो विवक्षित इत्यभिप्रायेणाह -- अहमेवेति। तदेव विवृणोति -- न मद्भाव इति। भगवत्प्राप्तेः फलान्तरेभ्योऽतिशयितफलत्वात्तत्प्राप्तौ प्रयासातिरेकसम्भावनाव्यवच्छेदाय सुलभपदमित्यभिप्रायेणाह -- सुप्रापश्चेति। अकृच्छ्रेण प्राप्य इत्यर्थः।ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल् [अष्टा.3।3।126] इत्यनुशिष्यते। आश्रितवत्सलस्येश्वरस्य सौलभ्यं रागप्राप्तमित्याह -- तद्वियोगमिति। उक्तस्यातिवादमात्रत्वशङ्काव्युदासाय श्रुतिमूलतामाह -- यमेवेति। अत्र वरणशब्देन किमुच्यते न तावच्छेषत्वशरीरत्वाद्याकारेण स्वीकारः तस्य नित्यसिद्धत्वात् न च तद्विपरीतः विरुद्धत्वादेव नच प्राप्तिप्रदानंतेन लभ्यः इत्यनेन पौनरुक्त्यप्रसङ्गात् नचान्योऽत्र प्रकारः असम्भवादित्यत्राह -- मत्प्राप्त्यनुगुणेति। विपाकोऽत्र ध्रुवानुस्मृतिरूपत्वदर्शनसमानाधिकारत्वादिरूपः। तद्विरोधिनो दुष्कृतरजस्तमोरागद्वेषमोहादयः।अत्यर्थमत्प्रियत्वं निरतिशयभक्तित्वम्। आदिशब्देन परमपदपर्यन्तासत्तिपर्यन्तं यन्मध्येऽपेक्षितं तत्सर्वं विवक्षितम्।अहमेवेति परमकारुणिकस्य ममैवायं भर इत्यभिप्रायः।तस्याहं सुलभः इत्यादेरुक्तार्थपरत्वस्थिरीकरणायास्यैवार्थस्य वक्ष्यमाणं विस्तरगुदाहृतश्रुत्युपबृंहणरूपं दर्शयति -- वक्ष्यते चेति।,

<poem>
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥८- १५॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.15।। --,माम् उपेत्य माम् ईश्वरम् उपेत्य मद्भावमापद्य पुनर्जन्म पुनरुत्पत्तिं नाप्नुवन्ति न प्राप्नुवन्ति। किं विशिष्टं पुनर्जन्म न प्राप्नुवन्ति इति तद्विशेषणमाह -- दुःखालयं दुःखानाम् आध्यात्मिकादीनां आलयम् आश्रयम् आलीयन्ते यस्मिन् दुःखानि इति दुःखालयं जन्म। न केवलं दुःखालयम् अशाश्वतम् अनवस्थितस्वरूपं च। नाप्नुवन्ति ईदृशं पुनर्जन्म महात्मानः यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः। ये पुनः मां न प्राप्नुवन्ति ते पुनः आवर्तन्ते।।किं पुनः त्वत्तः अन्यत् प्राप्ताः पुनरावर्तन्ते इति उच्यते --,

'''माध्वभाष्यम्'''

।।8.15।।तत्प्राप्तिं स्तौति -- मामिति। परमां सिद्धिं गता इति हि तत्र हेतुः।

'''रामानुजभाष्यम्'''

।।8.15।।मां प्राप्य पुनः निखिलदुःखालयम् अस्थिरं जन्म न प्राप्नुवन्ति यत एते महात्मानः महामनसो यथावस्थितमत्स्वरूपज्ञानाः अत्यर्थमत्प्रियत्वेन मया विना आत्मधारणम् अलभमाना मयि आसक्तमनसो मदाश्रयाः माम् उपास्य परमसंसिद्धिरूपं मां प्राप्ताः।ऐश्वर्यगतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनरावृत्तौ अपुनरावृत्तौ च हेतुम् अनन्तरम् आह --

'''अभिनवगुप्तव्याख्या'''

।।8.15।।ननु मद्भावं याति इत्युक्तम्। तत्किं (SN तत्र किम्) प्राप्तेऽपि पुनरावृत्तिरस्ति इत्यशंक्याह -- मामुपेत्येति। अन्यतस्तु सर्वत एव पुनरावृत्तिरस्ति इति ( omits अन्यतस्तु -- इति) समनन्तरश्लोकेन प्रतिपादयिष्यते। मां तु प्राप्य न पुनर्योगिनः जन्मादित्रासमाप्नुवन्ति ( N प्राप्नुवन्ति NK (n) add न स पुनरावर्तते इति श्रुतेः। यं प्राप्य न निवर्तन्ते इत्यग्रेऽपि) ।

'''जयतीर्थव्याख्या'''

।।8.15।।स याति परमां गतिम् [8।13]तस्याहं सुलभः [8।14] इति द्वेधावचनात् परमगतिर्भगवल्लाभश्च पृथगिति न मन्तव्यम् भगवत्प्राप्तेरेवोत्तरत्र स्तुतेः अन्यथोभयस्तुतिप्रसङ्गादित्यभिप्रायेणाह -- तत्प्राप्तिमिति। तर्हि कथंमामुपेत्य इत्युक्त्वासंसिद्धिं परमां गताः इति पृथगुक्तिः इत्यत आह -- परमामिति। ये मामुपेतास्ते परमां सिद्धिं मोक्षलक्षणां हि गताः। न च मुक्तानां निर्बीजं जन्म सम्भवतीत्येवं तत्र स्वयम्प्राप्तानां जन्माभावे हेतुरयमुच्यते। न तु भगवत्प्राप्तेरन्या परमसंसिद्धिप्राप्तिरित्यर्थः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.15।।भगवन्तं प्राप्ताः पुनरावर्तन्ते न वेति संदेहे नावर्तन्त इत्याह -- मामीश्वरं प्राप्य पुनर्जन्म मनुष्यादिदेहसंबन्धम्। कीदृशम्। दुःखालयं गर्भवासयोनिद्वारनिर्गमनाद्यनेकदुःखस्थानं अशाश्वतमस्थिरं दृष्नष्टप्रायं नाप्नुवन्ति। पुनर्नावर्तन्त इत्यर्थः। यतो महात्मानः रजस्तमोमलरहितान्तःकरणाः शुद्धसत्त्वाः समुत्पन्नसम्यग्दर्शना मल्लोकभोगान्ते परमां सर्वोत्कृष्टां संसिद्धिं मुक्तिं गतास्ते। अत्र मां प्राप्य सिद्धिं गता इति वदतोपासकानां क्रममुक्तिर्दर्शिता।

'''पुरुषोत्तमव्याख्या'''

।।8.15।।नन्वेवमेव तत्तद्देवोपासकास्तत्तत्सायुज्यं प्राप्नुवन्तीति तत्तच्छास्त्रेषु निगद्यत इति भवत्प्राप्तौ को विशेषः इत्याकाङ्क्षायां स्वप्राप्तेर्विशेषमाह -- मामुपेत्येति। महात्मानो महात्मका भक्ता परमां संसिद्धिं भावरूपां गताः सन्तो मामेकं पुरुषोत्तममुपेत्य समीपे प्राप्य पुनः दुःखालयं संसारात्मकं अशाश्वतमनित्यं लौकिकं जन्म न प्राप्नुवन्तीत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.15।।स्वप्राप्तावपुनरावृत्तिं सदाचारेण दर्शयति -- मामिति। परमपुरुषं अन्तर्यामिणमक्षरं परं पुरुषोत्तमं मां प्राप्य पुनर्जन्म न प्राप्नुवन्ति महात्मानः किन्तु परमां सिद्धिं मुक्तिं निर्गुणां गताः।

'''आनन्दगिरिव्याख्या'''

।।8.15।।किं त्वां प्राप्तास्त्वय्येवावतिष्ठन्ते किं वा पुनरावर्तन्ते चन्द्रलोकादिवेति संदेहात्पृच्छति -- तवेति। तत्रोत्तरश्लोकेन निश्चयं दर्शयति -- उच्यत इति। ईश्वरोपगमनं न सामीप्यमात्रमिति व्याचष्टे -- मद्भावमिति। पुनर्जन्मनोऽनिष्टत्वं प्रश्नद्वारा स्पष्टयति -- किमित्यादिना। महात्मत्वं प्रकृष्टसत्त्ववैशिष्ट्यम्।,यतयस्तस्मिन्नेवेश्वरे समुत्पन्नसम्यग्दर्शिनो भूत्वेति शेषः। भगवन्तमुपगतानामपुनरावृत्तौ ततो विमुखानामनुपजातसम्यग्धियां पुनरावृत्तिरर्थसिद्धेत्याह -- ये पुनरिति।

'''धनपतिव्याख्या'''

।।8.15।।किं त्वां प्राप्ताश्चन्द्रलोकादिव पुनरावर्तन्ते उत नेति संदिहानं प्रत्याह -- मामिति। मामीश्वरमुपेत्य मद्भावं मत्सारुप्यादिकमापद्य पुनर्जन्म पुररुत्पत्तिं पुनरावृत्तिमितियावत्। किंविशिष्टं पुनर्जन्म न प्राप्तनुवन्तीति तद्विशेषणमाह। दुःखालयं दुःखानामाध्यात्मिकाधिकाधिभौतिकाधिदैविकानामालयमालीयन्ते दुःखान्यस्मिन्निति दुःखालयम्। दुःखाश्रयमिति यावत्। तत्राध्यात्मिकं द्विविधं शारीरं मानसं च। वातपित्तश्लेष्मणां वैषम्यनिमित्तं शारीरं कामक्रोधलोभमोहभयोर्ष्याविषयविशेषादर्शनादिनिबन्धनं मानसं। सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं मनुष्यपशुमृगपक्षिसरीसृपस्थावरनिमित्तामाधिभौतिकं यक्षराक्षसविनायकग्रहाद्यावेशनिबन्धनमाधिदैविकं। आधिभौतिकमादिदैविकं च दुःखं बाह्योपायसाध्यं पुनर्जन्मनो दुःखानां चालयं स्थानमिति। अस्मिन्पक्षेमामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते इति वक्ष्यमाणाननुरोधो विशेष्याध्याहारापत्त्यादि दोषश्चातपतत्यत आचार्यौरयं पक्ष उपेक्षतिः। गर्भवासयोनिद्वारनिर्गमनादिदुःखानां दुःखत्रयेष्वन्तर्भावो बोध्यः। न केवलं दुःखालयं अशाश्वतं अशश्वद्भवमनवस्थितरुपं चेदृशं पुनर्जन्म नाप्नुवन्ति। यतः महात्मानः विशुद्धचित्ताः तस्मिन्परमेश्वरे समुत्पन्नसम्यग्दर्शनाः संसिद्धिं परमां प्रकृष्टां मोक्षाभिधां गताः प्राप्ताः परमां सिद्धिं मोक्षं गता अगता अपि पत्यासन्नत्वात्गता एव। यथा ब्रह्मलोकगतान्प्रकृत्य स्मर्यतेब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्।। इति। प्रतिसंचरे ब्रह्मप्रलये। परस्य चतुर्मुखस्यान्ते नाशे इत्यन्ये। अस्मिन्पक्षे आब्रह्मभवनादित्यत्तरश्लोकवि रोधोमुख्यार्थपरित्यागश्च बोध्यः।

'''नीलकण्ठव्याख्या'''

।।8.15।।त्वल्लाभेऽपि किं स्यादत आह -- मामिति। मामुपेत्य पुनर्द्वितीयवारं जन्म नाप्नुवन्ति। यज्जन्म दुःखानामालयभूतं मूढदृष्ट्या किंचित्सुखालयत्वेऽप्यशाश्वतं नश्वरम्। तुच्छमित्यर्थः। के नाप्नुवन्ति। महात्मानो योगेन जितचित्ताः। अतएव परमां संसिद्धिं मोक्षं गताः। अगता अपि प्रत्यासन्नत्वाद्गता एव। तथा ब्रह्मलोकगतान्प्रकृत्य स्मर्यतेब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् इति। प्रतिसंचरे ब्राह्मे प्रलये। परस्य चतुर्मुखस्य अन्ते नाशे।

'''श्रीधरस्वामिव्याख्या'''

।।8.15।।यद्यप्येवं त्वं सुलभोऽसि ततः किमत आह -- मामिति। उक्तलक्षणा महात्मानो मद्भक्ता मां प्राप्य पुनर्दुःखाश्रयमनित्यं च जन्म न प्राप्नुवन्ति। यतस्ते परमां सम्यक्सिद्धिं मोक्षमेव प्राप्ताः पुनर्जन्म दुःखानां चालयं स्थानं ते मामुपेत्य न प्राप्नुवन्तीति वा।

'''वेङ्कटनाथव्याख्या'''

।।8.15।।इतः पूर्वं त्रयाणामधिकारिणां केचन वेद्योपादेयभेदाः प्रतिपादिताः अतः परमधिकारौपयिकतयाऽवश्यवेद्यस्य फलस्य स्थिरास्थिरत्वलक्षणविशेषं दर्शयतीत्याह -- अतः परमिति। अत्र ज्ञानिनस्तावदपुनरावृत्तिरुच्यतेमामुपेत्य इति श्लोकेन। दुःखानन्त्यस्य सर्वप्रमाणसिद्धत्वाद्दुःखशब्दस्य निर्विशेषणस्य सङ्कोचायोगात् -- निखिलेत्युक्तम्। जन्मनश्चाशाश्वतशब्दनिर्दिष्टमस्थिरत्वं,जन्माविनाभूतदेहभोगाद्यस्थिरत्वरूपमिह विवक्षितम् जन्मशब्दो वाऽत्र जनिमच्छरीरपरः।महात्मानः इति स्तुतिमात्रादपि माहात्म्यस्यात्र संसिद्धिहेतुत्वमुचितमित्यभिप्रायेणाह -- यत इति। महामनस्त्वं ज्ञानिनां प्राक्प्रपञ्चितमिहानूदितं दर्शयतियथावस्थितेत्यादिना। अभिलषितस्य फलस्य सिद्धिव्यपदेशौचित्यात् परमशब्दस्वारस्याच्चपरमसंसिद्धिरूपं मामित्युक्तम्। परमसंसिद्धिरूपं परमपुरुषार्थरूपमित्यर्थः। समीचीना सिद्धिः संसिद्धिः।

<poem>
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥८- १६॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.16।। --,आ ब्रह्मभुवनात् भवन्ति अस्मिन् भूतानि इति भुवनम् ब्रह्मणो भुवनं ब्रह्मभुवनम् ब्रह्मलोक इत्यर्थः आ ब्रह्मभुवनात् सह ब्रह्मभुवनेन लोकाः सर्वे पुनरावर्तिनः पुनरावर्तनस्वभावाः हे अर्जुन। माम् एकम् उपेत्य तु कौन्तेय पुनर्जन्म पुनरुत्पत्तिः न विद्यते।।ब्रह्मलोकसहिताः लोकाः कस्मात् पुनरावर्तिनः कालपरिच्छिन्नत्वात्। कथम् --,

'''माध्वभाष्यम्'''

।।8.16।।महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः। तच्चोक्तं नारायणगोपालकल्पेआ मेरुब्रह्मसदनादा जनान्न जनिर्भुवि। तथाप्यभावः सर्वत्र प्राप्यैव वसुदेवजम् इति।

'''रामानुजभाष्यम्'''

।।8.16।।ब्रह्मलोकपर्यन्ताः ब्रह्माण्डोदरवर्तिनः सर्वे लोकाः भोगैश्वर्यालयाः पुनरावर्तिनः विनाशिनः। अत ऐश्वर्यगतिं प्राप्तानां प्राप्यस्थानविनाशाद् विनाशित्वम् अवर्जनीयम्। मां सर्वज्ञं सत्यसंकल्पं निखिलजगदुत्पत्तिस्थितिलयलीलं परमकारुणिकं सदा एकरूपं प्राप्तानां विनाशप्रसङ्गाभावात् तेषां पुनर्जन्म न विद्यते।ब्रह्मलोकपर्यन्तानां लोकानां तदन्तर्वर्तिनां च परमपुरुषसंकल्पकृताम् उत्पत्तिविनाशकालव्यवस्थाम् आह --

'''अभिनवगुप्तव्याख्या'''

।।8.16।।आ ब्रह्मेति। ब्रह्मलोकप्राप्तानामपि (S -- काप्तानामपि) पुनरावृत्तिरस्ति इति सर्वैर्व्याख्यातम्। एतद्भ्युपगमे च तदुपरितनलोकगतिर्मुक्तिः इत्यभिहितं स्यात्। तच्च न हृदयङ्गममिति संशयमहामोहकलुषीकृतान्तर्दृशामस्माकं प्रतिभाति। इयमागमाधिगत व्याख्यावर्तिः (S व्याख्यावृत्तिः) -- आब्रह्म यावत् ब्रह्मपदं प्राप्तं तावत् यस्मात् कस्माच्चित् तिर्यगूर्ध्वादधस्ताद् भुवनात् पुनरावर्तन्ते चक्रवत् स्थानान्तरमविरतं भ्राम्यन्तो विपरिवर्तन्ते इति।

'''जयतीर्थव्याख्या'''

।।8.16।।आब्रह्मभुवनाल्लोकाः पुनरावर्तिनः इति सत्यलोकसहितानां पुनरावृत्तिरुच्यत इत्येतदपव्याख्यानमिति भावेनाह -- महामेरुस्थेति। परतः स्थितानाम्। एवं जनलोकमारभ्येत्यपि ग्राह्यम्। कुत एतत् इत्यतः श्लोकमागमेनैव व्याचष्टे -- तच्चेति। पृथिवीसम्बन्धिनां तदसम्बन्धिनां लोकानां ग्रहणायोभयोपादानम्। परतः स्थितानाम्। यद्यपीति शेषः। अभावो जनेः लभ्यत इति शेषः। अनेनैव व्याख्यातं भवति। महामेरुस्थब्रह्मसदनं जनलोकं चारभ्य न पुनरावृत्तिः। अतो मामुपेत्य पुनर्जन्मेति किमुच्यते इति चेत् सत्यम् आ ब्रह्मभुवनात् एवमाजनाच्चार्वाग्भवा एव लोकाः पुनरावर्तिनः। परे न पुनरावर्तिन इति यावत्। तथापि नोक्तमयुक्तम् यतस्तेषु लोकेषु स्थितं मामुपेत्यावस्थितस्य पुनर्जन्म न विद्यत इति। अन्यथा मामुपेत्य पुनर्जन्मेत्युक्तत्वात् उत्तरार्धवैयर्थ्यं च।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.16।।भगवन्तमुपागतानां सम्यग्दर्शिनामपुनरावृत्तौ कथितायां ततो विमुखानामसम्यग्दर्शिनां पुनरावृत्तिरर्थसिद्धेत्याह -- आब्रह्मभुवनात् भवन्त्यत्र भूतानीति भुवनं लोकः। अभिविधावाकारः। ब्रह्मलोकेन सह सर्वेऽपि लोका मद्विमुखानामसम्यग्दर्शिनां भोगभूमयः पुनरावर्तिनः पुनरावर्तनशीलाः। ब्रह्मभवनादिति पाठे भवनं वासस्थानमिति स एवार्थः। हे अर्जुन स्वतःप्रसिद्धमहापौरुष। किं तद्वदेव त्वां प्राप्तानामपि पुनरावृत्तिर्नेत्याह -- मामीश्वरमेकमुपेत्य तु। तुशब्दो लोकान्तरवैलक्षण्यद्योतनार्थोऽवधारणार्थो वा। मामेव प्राप्य निर्वृतानां हे कौन्तेय मातृतोऽपि प्रसिद्धमहानुभाव पुनर्जन्म न विद्यते। पुनरावृत्तिर्नास्तीत्यर्थः। अत्रार्जुन कौन्तेयेति संबोधनद्वयेन स्वरूपतः कारणतश्च शुद्धिर्ज्ञानसंपत्तये सूचिता। अत्रेयं व्यवस्था -- ये क्रममुक्तिफलाभिरुपासनाभिर्ब्रह्मलोकं प्राप्तास्तेषामेव तत्रोत्पन्नसम्यग्दर्शनानां ब्रह्मणा सह मोक्षः। येतु पञ्चाग्निविद्यादिभिरतत्क्रतवोऽपि तत्र गतास्तेषामवश्यंभावि पुनर्जन्म। अतएव क्रममुक्त्यभिप्रायेणब्रह्मलोकमभिसंपद्यते नच पुनरावर्ततेअनावृत्तिः शब्दात् इति श्रुतिसूत्रयोरुपपत्तिः। इतरत्र तेषामिह न पुनरावृत्तिःइमं मानवमावर्तं नावर्तन्ते इतिइहेमम् इतिच विशेषणाद्गमनाधिकरणकल्पादन्यत्र पुनरावृत्तिः प्रतीयते।

'''पुरुषोत्तमव्याख्या'''

।।8.16।।अथान्येषां पुनर्जन्म भवतीत्यर्थः -- आब्रह्मेति। आब्रह्मभुवनात् ब्रह्मभुवनमभिव्याप्य सर्वे लोकाः पुनरावर्तिनः सर्वे पुनर्जन्मभाजो भवन्ति। मां तु उपेत्य कौन्तेय परमस्निग्ध परं जन्म न विद्यते न स्यादित्यर्थः। तुशब्देन मन्मार्गे प्रवृत्तस्य अत एव शङ्का न भवतीति ज्ञापितम्।

'''वल्लभाचार्यव्याख्या'''

।।8.16।।अनेवम्भूतानामभक्तानां संसारे पुनरावृत्तिं वदन् स्वप्राप्तानां तदभावमाह -- आब्रह्मेत्यादिना। हे अर्जुन अन्ये लोकाः ब्रह्मभुवनमभिव्याप्य निर्दिष्टा जनाः सर्वे एवेह पुनरावर्त्तनशीलाः सन्ति धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ इत्यपि वचनात्। मामुपेत्य तु तथाभूतं पुनर्जन्म तेषां न विद्यते नैष्कर्म्यगम्यत्वात्। निश्चयार्थं पुनः कथनम्।

'''आनन्दगिरिव्याख्या'''

।।8.16।।अपाम सोमममृता अभूम इति श्रुतेः स्वर्गादिगतानामपि समानैवानावृत्तिरित्याशङ्क्यते -- किं पुनरिति। अर्थवादश्रुतौ कर्मिणाममृतत्वस्यापेक्षिकत्वं विवक्षित्वा परिहरति -- उच्यत इति। एतेन भूरादिलोकचतुष्टयं प्रविष्टानां पुनरावृत्तावपि जनआदिलोकत्रयं प्राप्तानामपुनरावृत्तिरिति विभागोक्तिरप्रामाणिकत्वादेव हेयेत्यवधेयम्। तर्हि तद्वदेवेश्वरं प्राप्तानामपि पुनरावृत्तिः शङ्क्यते नेत्याह -- मामिति। यावत्संपातश्रुतिवदीश्वरं प्राप्तानां निवृत्ताविद्यानां पुनरावृत्तिरप्रामाणिकीत्यर्थः। यस्य स्वाभाविकी वंशप्रयुक्ता च शुद्धिस्तस्यैवोक्तेऽर्थे बुद्धिरुदेतीति मत्वा संबुद्धिद्वयम्।

'''धनपतिव्याख्या'''

।।8.16।।ये पुनर्मा न प्राप्नुवन्ति ब्रह्मलोकादिकं प्राप्ता अपि पुनरावर्तन्ते इत्याह -- आब्रह्मभुवनादिति। ब्रह्मलोकसहिताः सर्वे लोकाः पुरनावर्तिनः पुनरवानर्तनस्वभावाः मामीश्वरमेकमुपेत्य तु पुनर्जन्म पुनरुत्पत्तिः। पुनरावृत्तिरिति यावत्। न विद्यते। अर्जुन कौन्तेयेति संबोधनद्वयेन साक्षान्मद्भक्ताः मामुपेत्य न निवर्तन्ते इत्यत्र तु नास्ति संशयः। ब्रह्मलोकं गता अपि ये अश्वमेधादिकर्मणा विगतापापत्वातस्वच्छतामापन्नास्तत्र गतास्ते पुनरावर्तन्ते। ये तु मत्संबन्धिहिरण्यगर्भाद्युपासकास्ते तत्रोत्पन्नसम्यग्दर्शनाः न पुनरावर्तन्ते इति व्यवस्थां सूचयति।

'''नीलकण्ठव्याख्या'''

।।8.16।।त्वदलाभेऽपि किं स्यादत आह -- आब्रह्मेति। आब्रह्मभुवनाद्ब्रह्मलोकमभिव्याप्य। ब्रह्मलोकेन सहैवेत्यर्थः। लोकाः पुनरावर्तिनः पुनरावृत्तिस्वभावाः। हे अर्जुन शेषं स्पष्टम्। अत्रेयं व्यवस्था। ये क्रममुक्तिफलाभिर्दहरादिविद्याभिर्ब्रह्मलोकं गतास्ते तत्रैव ज्ञानं प्राप्य ब्रह्मणा सह मुच्यन्ते। येतु पञ्चाग्निविद्याभिर्ब्रह्मलोकं गतास्तेऽनुपासितपरमेश्वराः पुनरावर्तन्त इति।

'''श्रीधरस्वामिव्याख्या'''

।।8.16।।एतदेव सर्वेष्वपि लोकेषु पुनरावृर्त्तिं दर्शयन्निर्धारयति -- आब्रह्मेति। ब्रह्मणो भुवनं वासस्थानं ब्रह्मलोकस्तमभिव्याप्य सर्वे लोकाः पुनरावर्तनशीलाः ब्रह्मलोकस्यापि विनाशित्वात्तत्प्राप्तानामनुत्पन्नज्ञानानामवश्यंभावि पुनर्जन्म। य एवं क्रममुक्तिफलाभिरुपासनाभिर्ब्रह्मलोकं प्राप्तास्तेषामेव तत्रोत्पन्नज्ञानानां ब्रह्मणा सह मोक्षो नान्येषाम्। तथाचब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्। परस्यान्ते ब्रह्मणः परमायुषोऽन्ते कृतात्मानो ब्रह्मभावापादितमनोवृत्तयः कर्मद्वारेण येषां ब्रह्मलोकप्राप्तिस्तेषां न मोक्ष इति परिनिष्ठितिः। मामुपेत्य वर्तमानानां तु पुनर्जन्म नास्त्येवेत्यर्थः।

'''वेङ्कटनाथव्याख्या'''

।।8.16।।अप्रसक्तस्य प्रतिषेधायोगात् प्रतिषेध्यस्य प्रसङ्गिनश्च आसन्नवर्तिन उपादातुमुचितत्वान्नश्वरफलभूतैश्वर्यार्थिनां जन्ममात्रं तन्निषेधमुखेन सूचितम् अतस्तत्रापि हेतुरेव केवलं वक्तव्य इत्यभिप्रायेणाह -- ऐश्वर्यगतिमिति।मामुपेत्य तु इति भगवतः प्रतियोगीकरणादाङोऽत्राभिविधिपरत्वाभिप्रायेणाहब्रह्मलोकेति। प्रकृत्याख्यभगवन्मायामहोदधौ ब्रह्माण्डैरपि यदा बुद्बुदायितं तदा कैव कथा तदन्तर्वर्तिनां लोकानामित्यभिप्रायेणब्रह्माण्डोदरवर्तिन इत्युक्तम्। तेन परमाकाशव्यवच्छेदसिद्धिश्च। ऐश्वर्यानित्यताप्रतिपादनपरत्वायोक्तंभोगैश्वर्यालया इति। भुवनशब्दसमभिव्याहृतस्य लोकशब्दस्य जनविषयत्वायोगाल्लोकस्व गमनाभावेन पुनरावृत्तेरप्यभावात् पुनरावृत्तिशब्देन प्रवाहतोऽपि विनाशमात्रं लक्ष्यत इत्याहविनाशिन इति। पुनरावृत्तिशब्दस्याजहल्लक्षणावृत्तेस्तल्लोकगतपुरुषपुनरावृत्तिरेव वा द्वारम्। फलितमाहअत इति।माम् इत्यत्र तुशब्देन द्योतितानपुनरावृत्तिहेतुविशेषान् दर्शयतिमां सर्वज्ञमित्यादिना। असर्वज्ञमसत्यसङ्कल्पं कार्यकोटिघटितं (तमनिर्गुणं) निर्घृणं रजस्तमोमूलरागद्वेषादिनानाविकारशालिनं कञ्चन क्षुद्रदैवतं प्राप्तानां हि तदन्येन तेनैव वा पुनरावृत्तिः स्यादिति विशेषणानां तात्पर्यम्।

<poem>
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥८- १७॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.17।। --,सहस्रयुगपर्यन्तं सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्य अह्नः तत् अहः सहस्रयुगपर्यन्तम् ब्रह्मणः प्रजापतेः विराजः विदुः रात्रिम् अपि युगसहस्रान्तां अहःपरिमाणामेव। के विदुरित्याह -- ते अहोरात्रविदः कालसंख्याविदो जनाः इत्यर्थः। यतः एवं कालपरिच्छिन्नाः ते अतः पुनरावर्तिनो लोकाः।।प्रजापतेः अहनि यत् भवति रात्रौ च तत् उच्यते --

'''माध्वभाष्यम्'''

।।8.17 -- 8.19।।मां प्राप्य न पुनरावृत्तिरिति स्थापयितुं अव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति -- सहस्रयुगेत्यादिना। सहस्रशब्दोऽत्रानेकवाची। ब्रह्मपरम्। सा विश्वरूपस्य रजनी इति श्रुतिः। द्विपरार्धप्रलय एवात्र विवक्षितः।अव्यक्ताद्व्यक्तयः सर्वाः [8।18] इत्युक्तेः। उक्तं च महाकौर्मेअनेकयुगपर्यन्तं महाविष्णोस्तथा निशा। रात्र्यादौ लीयते सर्वमहरादौ तु जायते इति च।यः स सर्वेषु भूतेषु [8।20] इति वाक्यशेषाच्च।

'''रामानुजभाष्यम्'''

।।8.17।।ये मनुष्यादिचतुर्मुखान्तानां मत्संकल्पकृताहोरात्रव्यवस्थाविदो जनाः ते ब्रह्मणः चतुर्मुखस्य यत् अहः चतुर्युगसहस्रावसानं विदुः रात्रिं च तथारूपाम्।

'''अभिनवगुप्तव्याख्या'''

।।8.17 -- 8.19।।ननु क एवं जानाति यत् सर्वभुवनेभ्यः पुनरावृत्तिः। ब्रह्मादय एव ही तावत् चिरतरस्थायिनः श्रूयन्ते। ते एव (SN अत एव तावत्) कथं पुनरावर्त्तिनः पुनरावर्त्तित्वे हि तेऽपि स्युः प्रभवाप्ययधर्माणाः इत्या[शङ्कया ] ह -- सहस्रेत्यादि आगम इत्यन्तम्। ये खलु दीर्घदृश्वानः (N अदीर्घ -- ) ते ब्रह्मणोऽपि रात्रिं दिवं [ च ] पश्यन्ति प्रलयोदयतया। तथा च अहरहस्त एव विबुध्य निजां निजामेव चेष्टामनुरुध्यन्ते ( -- मवरुध्यन्ते) प्रतिरात्रि च तेषामेव निवृत्तपरिस्पन्दानां (S -- परिस्पन्दिनाम्) शक्तिमात्रत्वेनावस्थानम् (N -- त्वेनोपस्थानम्)। एवं सृष्टौ प्रलये च पुनः पुनर्भावः (K (n) -- र्भवः)। नान्येऽन्ये उपसृज्यन्ते अपि तु त एव जीवाः। कालकृतस्तु चिरक्षिप्रप्रत्ययात्मा विशेषः। एष च परिच्छेदः प्रजापतीनामप्यस्ति। ततश्च तेऽपि प्रभवाप्ययधर्माण एवेति,स्थितम्।

'''जयतीर्थव्याख्या'''

।।8.17 -- 8.19।।उत्तरप्रकरणस्यासङ्गतिमाशङ्क्याह -- मां प्राप्येति। अवस्थितानामिति शेषः। प्रतिज्ञामात्रेण हि तदुक्तं अव्यक्तसामर्थ्यस्यात्र कथनात् कथमात्मेत्युच्यते इत्यत उक्तम् -- अव्यक्ताख्येति। प्रलयादीति तत्कारणत्वमात्मनः। सृष्टिप्रलययोरिदम्पूर्वत्वाभावज्ञापनाय गीतामुल्लङ्घ्योक्तम्। अत्र सहस्रशब्दो,दशशतवाचीतिप्रतीतिनिरासायाह -- सहस्रेति। बहुशब्दपर्यायोऽयं न तु प्रसिद्धार्थः। विरिञ्चाहोरात्रयोः प्रसिद्धस्य सहस्रचतुर्युगपर्यन्तत्वात् कथमेतत् इत्यत आह -- ब्रह्मेति। तथा च द्विपरार्धप्रलयस्यादिसृष्टेश्चात्र विवक्षितत्वात् उक्तं युक्तम्। ननु परस्य ब्रह्मणो नित्यत्वादहोरात्रे न स्तः। तत्कथं तत्परमेतत् इत्यत आह -- सेति। सा निर्व्यापारावस्था परिपूर्णरूपस्यापि हरेः रजनीत्यर्थः। अनेनाहरपि सिद्धम्। भवेदेतद्यद्यत्र द्विपरार्धप्रलयस्यादिसृष्टेश्च विवक्षेत्यत्र प्रमाणं स्यादित्यत आह -- द्विपरार्धेति। एवमादिसृष्टिश्चेत्यपि ग्राह्यम्। न ह्यवान्तरसृष्टिप्रलययोः सर्वकार्योत्पत्तिविनाशाविति भावः। आगमान्तरसम्मतेश्चैवमित्याह -- उक्तं चेति। इतोऽप्येवमित्याह -- य इति। न ह्यवान्तरप्रलये सर्वेषामाकाशादीनां भूतानां नाशः नापि विरिञ्चस्य पञ्चभूतनाशेऽपि अविनाशित्वमिति भावः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.17।।ब्रह्मलोकसहिताः सर्वे लोकाः पुनरावर्तिनः कस्मात्कालपरिच्छिन्नत्वादित्याह -- मनुष्यपरिमाणेन सहस्रयुगपर्यन्त सहस्रं युगानि चतुर्युगानि पर्यन्तोऽवसानं यस्य तत्।चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते इति हि पौराणिकं वचनम्। तादृशं ब्रह्मणः प्रजापतेरहर्दिनं तत् ये विदुः। तथा रात्रिं युगसहस्रान्तां चतुर्युगसहस्रपर्यन्तां ये विदुरिति वर्तते। तेऽहोरात्रविदस्त एवाहोरात्रविदो योगिनो जनाः। ये तु चन्द्रार्कगत्यैव विदुस्ते नाहोरात्रविदः स्वल्पदर्शित्वादित्यभिप्रायः।

'''पुरुषोत्तमव्याख्या'''

।।8.17।।ननु ब्रह्मलोकगतास्तेन सह मुच्यन्तेब्रह्मणा सह मुच्यन्ते इत्यादिभ्यस्तेऽपि पुनरावृत्तिरहिता भवन्त्येवेत्याशङ्क्य तेषां तदभावमाह -- सहस्रेति। सहस्रयुगपर्यन्तं चतुर्युगसहस्रं पर्यन्तोऽवसानं यस्य तत् ब्रह्मणो यदहर्दिनं तद्ये विदुर्जानन्ति युगसहस्रान्तां चतुर्युगसहस्रं अन्तो यस्यास्तादृशीं रात्रिं ये विदुस्ते अहोरात्रविदः। तत्र कालगणने मनुष्याणां यद्वर्षं तद्देवानामहोरात्रः तादृगहोरात्रगणितद्वादशवर्षसहस्रेण चतुर्युगं तच्च तद् ब्रह्मणो दिनं तावत्येव रात्रिस्तद्गणनक्रमेण वर्षशतं तत् ब्रह्मणः परमायुरित्युच्यते तदवसाने तत्सहितमुक्तानामक्षरप्राप्तिः परम्परया भवति।

'''वल्लभाचार्यव्याख्या'''

।।8.17।।ननु कथमेवमुच्यतेआब्रह्मभुवनात् इति सत्यं ब्रह्मणोऽपि कालप्रमितत्वादित्याह -- सहस्रमिति।,अत्र चतुःपदं योजनीयंचतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते इति वाक्यात्। तथा चैवं मानेन ब्रह्मणो द्विपरार्द्धपर्यंते लय इत्युक्तम्।

'''आनन्दगिरिव्याख्या'''

।।8.17।।ब्रह्मलोकसहितानां पुनरावृत्तौ हेतुं प्रश्नद्वारा दर्शयति -- ब्रह्मेति। उक्तमेव हेतुमाकाङ्क्षापूर्वकमुत्तरश्लोकेन साधयति -- कथमित्यादिना। यथोक्ताहोरात्रावयवमासर्त्वयनसंवत्सरावयवशतसंख्यायुरवच्छिन्नत्वात्प्रजापतेस्तदन्तर्वर्तिनामपि लोकानां यथायोग्यकालपरिच्छिन्नत्वेन पुनरावृत्तिरित्यभिप्रेत्य व्याचष्टे -- सहस्रेत्यादिना। अक्षरार्थमुक्त्वा तात्पर्यार्थमाह -- यत इति।

'''धनपतिव्याख्या'''

।।8.17।।ब्रह्मलोकसहति लोगाः पुनरावर्तिन इत्युक्तं तेषां कालपरिच्छिन्नत्वादिति हेतुनोपपादयति। संहस्त्रं युगानि पर्यन्तं पर्यवासनं यस्याह्नस्तदहः सहस्त्रयुगपर्यन्तम्। युगशब्दोऽत्र चतुर्युगपरः।चतुर्युगसहस्त्रं तु ब्राह्मणो दिनमुच्यते इति पुराणोक्तेः। चतुर्युगपरिमाणं तु मनुष्याणां यद्वर्ष तदेव देवानामहोरात्रं तादृशैरहोरात्रैः पक्षादिक्रमेण द्वादशभिर्वर्षसहस्त्रैश्चतुर्युगं भवति। तत्र वर्ष चतुः सहस्त्रं कृतयुगं त्रिसहस्त्रंत्रैता द्विसहस्त्रं द्वापरं एकसहस्त्रं कलिः अष्टशतं कृतयुगस्य पूर्वोत्तरसंध्ये एवमग्रेपि युगऋभेण षट्चतुर्द्विशतसंख्याकसंध्याक्रमो बोध्यः। सहस्त्रयुगपर्यन्तं ब्रह्मणः प्रजापतेर्विराजोऽहर्दिनं विदुः। रात्रिमपि सहस्त्रयुगमन्तो यस्यास्तामहः परिमाणामेव विदुः। के वदुरित्याह। तेऽरोरात्राविदो ब्रह्मणो दिनरात्रिकालसंख्याविदो जनाः नतु मनुष्यदिनरात्रिकालविद इत्यर्थः। यतएवं यथोक्ताहोरात्रावयवमासर्त्वयनसंवत्सरावयवशतसंख्यायुरवच्छिन्नः प्रजापतिस्तदन्तर्वर्तिलोका अपि यथायोग्यकालपरिच्छिन्ना अतो ब्रह्मलोकसहिताः सर्वे लोकाः पुनरावर्तिन इत्याशयः।

'''नीलकण्ठव्याख्या'''

।।8.17।।आवृत्तिभाजां कालपरिच्छेदमाह -- सहस्रेति। युगशब्दोऽत्र चतुर्युगपर्यायः।चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते इति पुराणान्तरदर्शनात् सहस्रं चतुर्युगानि पर्यन्तोऽवसानं यस्य। चतुर्युगसहस्रं ब्रह्मणो दिनं रात्रिरपि तावतीत्याह -- रात्रिमिति। अत्रापि चतुर्युगसहस्राणां अन्तो भवति तां चतुर्युगसहस्रान्ताम्। ते प्रसिद्धा अहोरात्रविदो जना विदुः।

'''श्रीधरस्वामिव्याख्या'''

।।8.17।।ननु चतपस्विनो दानशीला वीतरागास्तितिक्षवः। त्रिलोक्या उपरि स्थानं लभन्ते शोकवर्जितम् इत्यादिपुराणवाक्यैस्त्रिलोक्याः सकाशान्महर्लोकादीनामुत्कृष्टत्वं गम्यते। विनाशित्वे च सर्वेषामवैशिष्ट्ये कथमसौ विशेषः स्यादित्याशङ्क्य बहुकल्पकालावस्थायित्वनिमित्तोऽसौ विशेष इत्याशयेन स्वमानेन शतवर्षायुषो ब्रह्मणोऽहन्यहनि त्रिलोक्या उत्पत्तिर्निशिनिशि च लयो भवतीति दर्शयिष्यन् ब्रह्मणोऽहोरात्रयोः प्रमाणमाह -- सहस्रेति। सहस्रं युगानि पर्यन्तोऽवसानं यस्य तद्ब्रह्मणो यदहस्तद्ये विदुः युगसहस्रमन्तो यस्यास्तां रात्रिं च योगबलेन ये विदुस्त एव सर्वज्ञजना अहोरात्रविदः। येषां तु केवलं चन्द्रार्कगत्यैव ज्ञानं ते तथाहोरात्रविदो न भवन्ति अल्पदर्शित्वात्। युगशब्देनात्र चतुर्युगमभिप्रेतम्चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते इति विष्णुपुराणोक्तेः। ब्रह्मण इति च महर्लोकादिवासिनामप्युपलक्षणार्थम्। तत्रायं कालगणनाप्रकारः। मनुष्याणां यद्वर्षं तद्देवानामहोरात्रं। तादृशैरहोरात्रैः पक्षमासादिकल्पनया द्वादशभिर्वर्षसहस्रैश्चतुर्युगं भवति। चतुर्युगसहस्रं च ब्रह्मणो दिनम्। तावत्परिमाणैव रात्रिः। तादृशैश्चाहोरात्रैः पक्षमासादिक्रमेण वर्षशतं ब्रह्मणः परमायुरिति।

'''वेङ्कटनाथव्याख्या'''

।।8.17।।सहस्र -- इत्यादिश्लोकत्रयस्य पिण्डितार्थमाह -- ब्रह्मलोकपर्यन्तानामिति। हिरण्यगर्भादिस्वातन्त्र्यसिद्धसत्यलोकादिस्थैर्यशङ्काव्युदासायाहपरमपुरुषसङ्कल्पकृतामिति। ईश्वरस्वातन्त्र्यमेव ह्यन्यूनानतिरिक्तदिनरात्र्यादिविचित्रव्यवस्थायां कारणम्। तथा चोच्यतेकालस्य च हि मृत्योश्च [म.भा.5।68।13]कालचक्रं जगच्चक्रं [म.भा.5।68।12] इत्यादिभिः। एवमेवोक्तमन्यत्रततो युगसहस्रान्ते संहरिष्ये जगत्पुनः। कृत्वा मत्स्थानि भूतानि चराणि स्थावराणि च इत्यादि। यत्तु मानवेतद्ये युगसहस्रं तु (तद्वे युगसहस्रांतं) ब्राह्मं पुण्यमहर्विदुः। रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः [1।73] इति तत्र य इत्येव पाठाद्यथाक्रममन्वयः। इह तुसहस्र -- इतिश्लोकेयत् इत्यस्याहश्शब्देनैव ह्यन्वयो घटते ततश्चते इत्यस्यये इति पदमपेक्षितम् तत्रापिये विदुस्तेऽहोरात्रविदो जनाः इत्यन्वये प्रसङ्गरहिताहोरात्रवेदिव्युत्पादनरूपं स्तुतिपरं वाक्यं प्रस्तुतासङ्गतं स्यात् ततश्चयेऽहोरात्रविदो जनास्त एवं विदुः इत्यन्वयः। एवं कालव्यवस्थायां प्रामाणिकत्वप्रतिपादनपरोऽत्र स्वीकार्य इत्यभिप्रायेणाहये मनुष्यादीति। अनूद्यमानमहोरात्रवेदित्वं यथाप्रसिद्धि सर्वविषयमेव भवितुमर्हति तेन चतुर्मुखस्यापि मनुष्यादितुल्यता द्योतिता स्यादित्यभिप्रायेणमनुष्यादीत्यादिकमुक्तम्। ब्रह्मशब्दस्यात्र परमात्मविषयत्वभ्रमव्युदासायचतुर्मुखशब्दः। तस्यैव हि सहस्रयुगप्रतिनियताहोरजनीविभागः प्रसिद्ध इति भावः।सविशेषणौ विधिनिषेधौ विशेषणमुपसङ्कामतः इति न्यायात्येऽहोरात्रविदो जनाः इत्यहोरात्रवेदतांशस्यानूदितत्त्वाच्च सहस्रयुगपर्यन्ततावेदनमेवात्र विधेयमित्यभिप्रायेणतच्चतुर्युगसहस्रावसानं विदुरित्युक्तम्। सहस्रयुगानि पर्यन्तं यस्य तत्सहस्रयुगपर्यन्तम्। युगशब्दश्चात्र प्रमाणान्तरानुसाराच्चतुर्युगपरः।,अस्त्वेवं चतुर्मुखस्याहोरात्रव्यवस्था ततः किं प्रस्तुतस्य इत्यत्रोत्तरम् -- अव्यक्तात् इति श्लोकः। तस्यार्थमाह -- तत्रेति।अयमभिप्रायः -- अत्र व्यक्तिशब्दस्तावन्न महदादिविषयः चतुर्मुखात्प्रागेव तदुत्पत्तेः। अतश्चतुर्मुखसृज्यमात्रविषय एवासौ। व्यज्यन्त इति व्यक्तयः। तत्रापि सत्यलोकादेः प्रतिकल्पं प्रलयाभावात् त्रैलोक्यान्तर्वर्त्तिदेहेन्द्रियादिवस्तुमात्रविषयत्वमेव स्वीकार्यम्। तेषां चोत्पत्तिः ब्रह्मशरीरादेव। ततश्चात्राव्यक्तशब्दोऽपि न मूलाव्यक्तविषयः अपितु तदुपादानकब्रह्मशरीरपरः। शरीरे चाव्यक्तशब्दप्रयोगः सूत्रेऽप्युपपादितःसूक्ष्मं तु तदर्हत्वात् [ब्र.सू.1।4।2] इति।एवंविधसृष्टिप्रलयकारणविशेषं तदनुच्छेदाच्च सृष्टिप्रलयसन्तानानुच्छेदं अकृताभ्यागमकृतविप्रणाशप्रसङ्गपरिहारमुक्तस्यार्थस्य सर्वेष्वपि कल्पेषु अभिव्याप्तिं यथापूर्वकल्पनं चभूतग्रामः इति श्लोकः प्रतिपादयतीत्यभिप्रायेणाह -- स एवायमिति। भूतशब्दोऽत्राचिद्विशिष्टक्षेत्रज्ञपरः। सृज्यत्वसंहार्यत्वहेतुभूतमवशत्वं कर्मनिबन्धनमेव हीत्यभिप्रायेणकर्मवश्य इत्युक्तम्।अहरागमे इति पदंभूत्वा इत्यत्रापि अनुवर्तनीयमित्यभिप्रायेणअहरागमे भूत्वेत्यन्वय उक्तः। इदं च नैमित्तिकप्रलयप्रतिपादनं श्रुत्यादिप्रसिद्धप्राकृतप्रलयस्याप्युपलक्षणम्। तथा सति [तेन] सत्यलोकविनाशसिद्धिःआब्रह्मभुवनाल्लोकाः [8।16] इति ह्युपक्रान्तमित्यभिप्रायेणाह -- तथेति। यद्वा रात्र्यागमशब्द एव ब्रह्मणोऽन्तिमरात्र्यागममपि शक्त्या संगृह्णातीति भावः। तदेतत्सूचितंवर्षशतावसानरूपयुगसहस्रान्त इति। तथा चान्यत्र स्मर्यते -- निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् इति। एवमहरागमशब्दोऽपि प्रथममहः संगृह्णाति। पृथिव्यादितत्त्वानामेव विलये तदारब्धानां ब्रह्मलोकब्रह्मशरीरब्रह्माण्डादीनां का कथेत्यभिप्रायेण -- पृथिवीत्यादिश्रुतिरुदाहृता। तमोवस्थाचिद्द्रव्यस्यैकीभावो हि परस्मिन्नेव देवे श्रूयते। अत्रापिअहं कृत्स्नस्य जगतः प्रभवः प्रलयः [7।6] इत्यादिकं ह्युच्यत इत्यभिप्रायेणमय्येवेत्युक्तम्। एवं यो ब्रह्माणं विदधाति पूर्वम् [श्वे.उ.6।18]एको ह वै नारायण आसीन्न ब्रह्मा नेशानः [महो.1।1] इति क्रमेण पुनर्ब्रह्मादिसृष्टिः पुनश्च तत्प्रलय इत्यादिकमपि भाव्यम्। ईदृशसृष्टिप्रलयप्रतिपादनस्य प्रकृतोपयोगं दर्शयति -- एवमिति। सर्वेषु सृष्टिप्रलयप्रकरणेष्विदमेव तात्पर्यं भाव्यम्।मद्व्यतिरिक्तस्य कृत्स्नस्येत्यनेनअहं कृत्स्नस्य [7।6] इति प्रागुक्तं स्मारितम्। उक्तं च मोक्षधर्मेऽपिनित्यं हि (च) नास्ति जगति भूतं स्थावरजङ्गमम्। ऋते तमेकं पुरुषं वासुदेवं सनातनम् [म.भा.12।339।32] इति।

<poem>
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥८- १८॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.18।। --,अव्यक्तात् अव्यक्तं प्रजापतेः स्वापावस्था तस्मात् अव्यक्तात् व्यक्तयः व्यज्यन्त इति व्यक्तयः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः प्रभवन्ति अभिव्यज्यन्ते अह्नः आगमः अहरागमः तस्मिन् अहरागमे काले ब्रह्मणः प्रबोधकाले। तथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते सर्वाः व्यक्तयः तत्रैव पूर्वोक्ते अव्यक्तसंज्ञके।।अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थम् बन्धमोक्षशास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् अविद्यादिक्लेशमूलकर्माशयवशाच्च अवशः भूतग्रामः भूत्वा भूत्वा प्रलीयते इत्यतः संसारे वैराग्यप्रदर्शनार्थं च इदमाह --,

'''माध्वभाष्यम्'''

।।8.17 -- 8.19।।मां प्राप्य न पुनरावृत्तिरिति स्थापयितुं अव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति -- सहस्रयुगेत्यादिना। सहस्रशब्दोऽत्रानेकवाची। ब्रह्मपरम्। सा विश्वरूपस्य रजनी इति श्रुतिः। द्विपरार्धप्रलय एवात्र विवक्षितः।अव्यक्ताद्व्यक्तयः सर्वाः [8।18] इत्युक्तेः। उक्तं च महाकौर्मेअनेकयुगपर्यन्तं महाविष्णोस्तथा निशा। रात्र्यादौ लीयते सर्वमहरादौ तु जायते इति च।यः स सर्वेषु भूतेषु [8।20] इति वाक्यशेषाच्च।

'''रामानुजभाष्यम्'''

।।8.18।।तत्र ब्रह्मणः अहरागमसमये त्रैलोक्यान्तर्वर्तिन्यो देहेन्द्रियभोग्यभोगस्थानरूपा व्यक्तयः चतुर्मुखदेहावस्थाद् अव्यक्तात् प्रभवन्ति। तत्र एव अव्यक्तावस्थाविशेषे चतुर्मुखदेहे रात्र्यागमसमये प्रलीयन्ते।

'''अभिनवगुप्तव्याख्या'''

।।8.17 -- 8.19।।ननु क एवं जानाति यत् सर्वभुवनेभ्यः पुनरावृत्तिः। ब्रह्मादय एव ही तावत् चिरतरस्थायिनः श्रूयन्ते। ते एव (SN अत एव तावत्) कथं पुनरावर्त्तिनः पुनरावर्त्तित्वे हि तेऽपि स्युः प्रभवाप्ययधर्माणाः इत्या[शङ्कया ] ह -- सहस्रेत्यादि आगम इत्यन्तम्। ये खलु दीर्घदृश्वानः (N अदीर्घ -- ) ते ब्रह्मणोऽपि रात्रिं दिवं [ च ] पश्यन्ति प्रलयोदयतया। तथा च अहरहस्त एव विबुध्य निजां निजामेव चेष्टामनुरुध्यन्ते ( -- मवरुध्यन्ते) प्रतिरात्रि च तेषामेव निवृत्तपरिस्पन्दानां (S -- परिस्पन्दिनाम्) शक्तिमात्रत्वेनावस्थानम् (N -- त्वेनोपस्थानम्)। एवं सृष्टौ प्रलये च पुनः पुनर्भावः (K (n) -- र्भवः)। नान्येऽन्ये उपसृज्यन्ते अपि तु त एव जीवाः। कालकृतस्तु चिरक्षिप्रप्रत्ययात्मा विशेषः। एष च परिच्छेदः प्रजापतीनामप्यस्ति। ततश्च तेऽपि प्रभवाप्ययधर्माण एवेति स्थितम्।

'''जयतीर्थव्याख्या'''

।।8.17 -- 8.19।।उत्तरप्रकरणस्यासङ्गतिमाशङ्क्याह -- मां प्राप्येति। अवस्थितानामिति शेषः। प्रतिज्ञामात्रेण हि तदुक्तं अव्यक्तसामर्थ्यस्यात्र कथनात् कथमात्मेत्युच्यते इत्यत उक्तम् -- अव्यक्ताख्येति। प्रलयादीति तत्कारणत्वमात्मनः। सृष्टिप्रलययोरिदम्पूर्वत्वाभावज्ञापनाय गीतामुल्लङ्घ्योक्तम्। अत्र सहस्रशब्दो दशशतवाचीतिप्रतीतिनिरासायाह -- सहस्रेति। बहुशब्दपर्यायोऽयं न तु प्रसिद्धार्थः। विरिञ्चाहोरात्रयोः प्रसिद्धस्य सहस्रचतुर्युगपर्यन्तत्वात् कथमेतत् इत्यत आह -- ब्रह्मेति। तथा च द्विपरार्धप्रलयस्यादिसृष्टेश्चात्र विवक्षितत्वात् उक्तं युक्तम्। ननु परस्य ब्रह्मणो नित्यत्वादहोरात्रे न स्तः। तत्कथं तत्परमेतत् इत्यत आह -- सेति। सा निर्व्यापारावस्था परिपूर्णरूपस्यापि हरेः रजनीत्यर्थः। अनेनाहरपि सिद्धम्। भवेदेतद्यद्यत्र द्विपरार्धप्रलयस्यादिसृष्टेश्च विवक्षेत्यत्र प्रमाणं स्यादित्यत आह -- द्विपरार्धेति। एवमादिसृष्टिश्चेत्यपि ग्राह्यम्। न ह्यवान्तरसृष्टिप्रलययोः सर्वकार्योत्पत्तिविनाशाविति भावः। आगमान्तरसम्मतेश्चैवमित्याह -- उक्तं चेति। इतोऽप्येवमित्याह -- य इति। न ह्यवान्तरप्रलये सर्वेषामाकाशादीनां भूतानां नाशः नापि विरिञ्चस्य पञ्चभूतनाशेऽपि अविनाशित्वमिति भावः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.18।।यथोक्तैरहोरात्रैः पक्षमासादिगणनया पूर्णं वर्षशतं प्रजापतेः परमायुरिति कालपरिच्छिन्नत्वेनानित्योऽसौ। तेन तल्लोकात्पुनरावृत्तिर्युक्तैव। ये तु ततोऽर्वाचीनास्तेषां तदहर्मात्रपरिच्छिन्नत्वात्तत्तल्लोकेभ्यः पुनरावृत्तिरिति किमु वक्तव्यमित्याह -- अत्र दैनंदिनसृष्टिप्रलययोरेव वक्तुमुपक्रान्तत्वात्तत्र चाकाशादीनां सत्त्वादव्यक्तशब्देनाव्याकृतावस्था नोच्यते किंतु प्रजापतेः स्वापावस्थैव। स्वापावस्थः प्रजापतिरिति यावत्। अहरागमे प्रजापतेः प्रबोधसमयेऽव्यक्तात्तत्स्वापावस्थारूपाद्व्यक्तयः शरीरविषयादिरूपा भोगभूमयः प्रभवन्ति व्यवहारक्षमतयाऽभिव्यज्यन्ते। रात्र्यागमे तस्य स्वापकाले पूर्वोक्ताः सर्वा अपि व्यक्तयः प्रलीयन्ते तिरोभवन्ति यत आविर्भूतास्तत्रैवाव्यक्तसंज्ञके कारणे प्रागुक्ते स्वापावस्थे प्रजापतौ।

'''पुरुषोत्तमव्याख्या'''

।।8.18।।पुनस्तत्प्रकटसमये तत्सहितानामागमनमित्याह -- अव्यक्तादिति। अव्यक्तादक्षराद्भगवच्चरणरूपात् व्यक्तयः स्थावरजङ्गमादयः सर्वाः देवादिकीटतृणादयः अहरागमे ब्रह्मदिनोद्गमे प्रभवन्ति उत्पद्यन्ते। तत्रैवाव्यक्तसंज्ञके अक्षरे रात्र्यागमे रात्र्युद्गमे प्रलीयन्ते लीना भवन्तीति तद्विदो जनास्तत्र प्रविशन्तीत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.18।।परं समष्टिभूतस्याह। पुनरागमे व्यष्टिभूतानां व्यक्तिप्रभवो नैमित्तिकश्च रात्र्यागमे लयस्तमाह -- अव्यक्ताद्व्यक्तय इति। अक्षरात्मकात्तत उद्भूतात् परमेष्ठिपुरुषात् समष्टिमूलभूतात्तत्प्रकृत्यन्वितात् दैवेच्छया निराकाराणां चेतनानां जीवानां ब्रह्मण्यनुशयितानां व्यक्तयो व्यष्टयो देहाद्या योनयो लोकाश्च प्रभवन्ति आविर्भवन्ति। तिरोभावात्मकं लयमाह। रात्र्यागमे तथाभूते तस्मिन्नेवाव्यक्तसंज्ञके प्रलीयन्ते तिरोभवन्ति।

'''आनन्दगिरिव्याख्या'''

।।8.18।।यतः प्रजापतेरहस्तद्युगसहस्रपरिमितं या च तस्य रात्रिः सापि तथेति कालविदामभिप्रायमनुसृत्य ब्राह्मस्याहोरात्रस्य कालपरिमाणं दर्शयित्वा तत्रैव विभज्य कार्यं कथयति -- प्रजापतेरिति। अव्यक्तमव्याकृतमिति शङ्कां वारयति -- अव्यक्तमित्यादिना। जातिप्रतियोगिभूता व्यक्तीर्व्यावर्तयति -- स्थावरेति। असदुत्पत्तिप्रसक्तिं प्रत्यादिशति -- अभिव्यज्यन्त इति। पूर्वोक्तमव्यक्तसंज्ञकं स्वापावस्थं ब्रह्म प्रजापतिशब्दितं तस्मिन्निति यावत्।

'''धनपतिव्याख्या'''

।।8.18।।प्रजापतेरहोरात्रे यद्भवति तदाह -- अवक्तादिति। अत्राव्यक्तशब्देन नाव्याकृतं गृह्यते दैनंदिनसृष्टिप्रलययोः पस्तुतत्वात्तत्र चाकाशोदेरुत्पत्तिनाशानुक्तेस्तस्मादव्यक्तं प्रजापतेः स्वापावस्था तस्माद्य्वज्यन्त इति व्यक्तयश्चराचरलक्षणा निखिलाः प्रजा भवन्ति आविर्भवन्ति नत्वसन्त्य उत्पद्यन्ते प्रलीयन्ते इत्यनुरोधात्। युक्तियुक्तत्वाच्च सत्कार्यावादस्तावद्युक्तियुक्तो नत्वसत्कार्यवादः। तथाहि कारणव्यापारात्प्रागपि सत्कार्यं कारणव्यापारेण तर्हि किं साध्यत इतिचेत्पूर्वं सत एव कार्यस्याविर्भाव इति ब्रूमः। यत्तु भृत्पिण्टादिध्वंसानन्तरं घटाद्युत्पत्तिर्दृश्यते न तत्र प्रध्वंसः कारणमपितु भाव एव मृदाद्यवयवरुपः। अन्यथाऽभावस्य सर्वत्र सुलभत्वेन सर्वत्र सर्वदा कार्योत्पत्तिः प्रसज्येत। कारणव्यापारादसत्कार्यवादे तु असतः कार्यस्य सत्त्वं केनापि कर्तुमशक्यम्। नहि शिल्पिलक्षेणापि सिकताभ्यस्तैलं प्रसज्येत। कारणव्यापारदसत्कार्यवादे तु असतः कार्यस्य सत्त्वं केनापि कर्तुमशक्यम्। नहि शिल्पिलक्षेणापि सिकताभ्यस्तैलं कुड्यादेरङकुरमुत्पादयुतुं शक्यम्। किंच कार्येण संबद्धं ह्युपादानकारणं कार्यस्य जनकं संबन्धश्चा सतः कार्यस्य कारणेन न संभवति। ननु मास्तु संबन्धोऽसंबद्धमेव कारणैः कार्यं कस्मान्न जन्यते तथाचासदेव कार्यमुत्पत्स्यत इतिचेन्न। तथात्वेऽसंबद्धत्वाविशेषेण सर्वस्य कार्यजातस्य सर्वस्मात्कारणादुत्पत्तिप्रसङ्गात्। नन्वसंबद्धमपि सत्कारणं तदेव करोति यत्कारणं यत्र शक्तं शक्तिश्च कार्यदर्शनादवगम्यते।,अतो नाव्यवस्थेति चेत्सा शक्तिः कारणश्रया सर्वत्र उत शक्यमात्रे। आद्ये तदवस्थैवाव्यवस्था। न द्वितीयः। असत्कार्यवादिनस्तव मते शक्यस्य कार्यस्यासत्त्वात्। ननु शक्तिभेद एवैतादृशो यतः यत्किंचिदेव कार्यमुत्पादयेत् न स्रवमितिचेत्। स शक्तिविशेषः किं कार्यसंबद्धः कार्यमुत्पादयति उतासंबद्धः। नाद्यः। असता संबन्धायोगात्। न द्वितीयः। अव्यस्थातादवस्थ्यादित्यन्यत्र विस्तरः। ब्रह्मणोऽह्नः आगमे तस्य प्रबोधकालेऽव्यक्ताद्य्वक्तयो भवन्ति तथा रात्र्यागमे ब्रह्मणः स्वापकाले सर्वा व्यक्तयोऽव्यक्तसंज्ञिके पूर्वोक्ते प्रलीयन्ते।

'''नीलकण्ठव्याख्या'''

।।8.18।।किं ब्रह्मणोऽह्नि जायते किंवा रात्रावित्यत आह -- अव्यक्तादिति। अत्र दैनंदिनसृष्टिप्रलययोः प्रकृतत्वादव्यक्तशब्देन नाव्याकृतं वियदादिकारणमिह ग्राह्यम्। तदा आकाशादीनां सत्त्वात्। किं तर्हि प्रजापतेः स्वापावस्थैवेहाव्यक्तशब्दार्थः। अयं भावः -- प्रजापतेः स्वापकाले तत्कल्पितः स्थावरजगंमप्रपञ्चः सर्वोऽपि तदीयेऽज्ञानेऽव्याकृताख्ये लीयते रात्र्यागमे। तथा दिवसागमे पुनस्तत एव यथापूर्वमाविर्भवति। एवं दृष्टिसृष्टिन्यायेनास्मत्कल्पितोऽप्ययं वियदादिप्रपञ्चोऽस्मत्सुषुप्तौ लीयते अस्मत्प्रबोधे यथापूर्वं प्रादुर्भवतीति।

'''श्रीधरस्वामिव्याख्या'''

।।8.18।। ततः किमत आह -- अव्यक्तादिति। कार्यस्याव्यक्तं रूपं कारणात्मकं तस्मादव्यक्तात्कारणरूपाद्व्यज्यन्तेऽभिव्यज्यन्त इति व्यक्तयश्चराचराणि भूतानि प्रादुर्भवन्ति। कदा। अहरागमे ब्रह्मणो दिनस्योपक्रमे। तथा रात्रेरागमे ब्रह्मशयने तस्मिन्नेवाव्यक्तसंज्ञके कारणरूपे प्रलयं यान्ति। यद्वा तेऽहोरात्रविद इत्येतन्न विधीयते किंतु ते प्रसिद्धा अहोरात्रविदो जना यद्ब्रह्मणोऽहविंदुस्तस्याह्न आगमे अव्यक्ताद्व्यक्तयः प्रभवन्ति यां च रात्रिं विदुस्तस्या,रात्रेरागमे प्रलीयन्त इति द्वयोरन्वयः।

'''वेङ्कटनाथव्याख्या'''

।। 8.18 सहस्र -- इत्यादिश्लोकत्रयस्य पिण्डितार्थमाह -- ब्रह्मलोकपर्यन्तानामिति। हिरण्यगर्भादिस्वातन्त्र्यसिद्धसत्यलोकादिस्थैर्यशङ्काव्युदासायाहपरमपुरुषसङ्कल्पकृतामिति। ईश्वरस्वातन्त्र्यमेव ह्यन्यूनानतिरिक्तदिनरात्र्यादिविचित्रव्यवस्थायां कारणम्। तथा चोच्यतेकालस्य च हि मृत्योश्च [म.भा.5।68।13]कालचक्रं जगच्चक्रं [म.भा.5।68।12] इत्यादिभिः। एवमेवोक्तमन्यत्रततो युगसहस्रान्ते संहरिष्ये जगत्पुनः। कृत्वा मत्स्थानि भूतानि चराणि स्थावराणि च इत्यादि। यत्तु मानवेतद्ये युगसहस्रं तु (तद्वे युगसहस्रांतं) ब्राह्मं पुण्यमहर्विदुः। रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः [1।73] इति तत्र य इत्येव पाठाद्यथाक्रममन्वयः। इह तुसहस्र -- इतिश्लोकेयत् इत्यस्याहश्शब्देनैव ह्यन्वयो घटते ततश्चते इत्यस्यये इति पदमपेक्षितम् तत्रापिये विदुस्तेऽहोरात्रविदो जनाः इत्यन्वये प्रसङ्गरहिताहोरात्रवेदिव्युत्पादनरूपं स्तुतिपरं वाक्यं प्रस्तुतासङ्गतं स्यात् ततश्चयेऽहोरात्रविदो जनास्त एवं विदुः इत्यन्वयः। एवं कालव्यवस्थायां प्रामाणिकत्वप्रतिपादनपरोऽत्र स्वीकार्य इत्यभिप्रायेणाहये मनुष्यादीति। अनूद्यमानमहोरात्रवेदित्वं यथाप्रसिद्धि सर्वविषयमेव भवितुमर्हति तेन चतुर्मुखस्यापि मनुष्यादितुल्यता द्योतिता स्यादित्यभिप्रायेणमनुष्यादीत्यादिकमुक्तम्। ब्रह्मशब्दस्यात्र परमात्मविषयत्वभ्रमव्युदासायचतुर्मुखशब्दः। तस्यैव हि सहस्रयुगप्रतिनियताहोरजनीविभागः प्रसिद्ध इति भावः।सविशेषणौ विधिनिषेधौ विशेषणमुपसङ्कामतः इति न्यायात्येऽहोरात्रविदो जनाः इत्यहोरात्रवेदतांशस्यानूदितत्त्वाच्च सहस्रयुगपर्यन्ततावेदनमेवात्र विधेयमित्यभिप्रायेणतच्चतुर्युगसहस्रावसानं विदुरित्युक्तम्। सहस्रयुगानि पर्यन्तं यस्य तत्सहस्रयुगपर्यन्तम्। युगशब्दश्चात्र प्रमाणान्तरानुसाराच्चतुर्युगपरः। अस्त्वेवं चतुर्मुखस्याहोरात्रव्यवस्था ततः किं प्रस्तुतस्य इत्यत्रोत्तरम् -- अव्यक्तात् इति श्लोकः। तस्यार्थमाह -- तत्रेति।अयमभिप्रायः -- अत्र व्यक्तिशब्दस्तावन्न महदादिविषयः चतुर्मुखात्प्रागेव तदुत्पत्तेः। अतश्चतुर्मुखसृज्यमात्रविषय एवासौ। व्यज्यन्त इति व्यक्तयः। तत्रापि सत्यलोकादेः प्रतिकल्पं प्रलयाभावात् त्रैलोक्यान्तर्वर्त्तिदेहेन्द्रियादिवस्तुमात्रविषयत्वमेव स्वीकार्यम्। तेषां चोत्पत्तिः ब्रह्मशरीरादेव। ततश्चात्राव्यक्तशब्दोऽपि न मूलाव्यक्तविषयः अपितु तदुपादानकब्रह्मशरीरपरः। शरीरे चाव्यक्तशब्दप्रयोगः सूत्रेऽप्युपपादितःसूक्ष्मं तु तदर्हत्वात् [ब्र.सू.1।4।2] इति।एवंविधसृष्टिप्रलयकारणविशेषं तदनुच्छेदाच्च सृष्टिप्रलयसन्तानानुच्छेदं अकृताभ्यागमकृतविप्रणाशप्रसङ्गपरिहारमुक्तस्यार्थस्य सर्वेष्वपि कल्पेषु अभिव्याप्तिं यथापूर्वकल्पनं चभूतग्रामः इति श्लोकः प्रतिपादयतीत्यभिप्रायेणाह -- स एवायमिति। भूतशब्दोऽत्राचिद्विशिष्टक्षेत्रज्ञपरः। सृज्यत्वसंहार्यत्वहेतुभूतमवशत्वं कर्मनिबन्धनमेव हीत्यभिप्रायेणकर्मवश्य इत्युक्तम्।अहरागमे इति पदंभूत्वा इत्यत्रापि अनुवर्तनीयमित्यभिप्रायेणअहरागमे भूत्वेत्यन्वय उक्तः। इदं च नैमित्तिकप्रलयप्रतिपादनं श्रुत्यादिप्रसिद्धप्राकृतप्रलयस्याप्युपलक्षणम्। तथा सति [तेन] सत्यलोकविनाशसिद्धिःआब्रह्मभुवनाल्लोकाः [8।16] इति ह्युपक्रान्तमित्यभिप्रायेणाह -- तथेति। यद्वा रात्र्यागमशब्द एव ब्रह्मणोऽन्तिमरात्र्यागममपि शक्त्या संगृह्णातीति भावः। तदेतत्सूचितंवर्षशतावसानरूपयुगसहस्रान्त इति। तथा चान्यत्र स्मर्यते -- निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् इति। एवमहरागमशब्दोऽपि प्रथममहः संगृह्णाति। पृथिव्यादितत्त्वानामेव विलये तदारब्धानां ब्रह्मलोकब्रह्मशरीरब्रह्माण्डादीनां का कथेत्यभिप्रायेण -- पृथिवीत्यादिश्रुतिरुदाहृता। तमोवस्थाचिद्द्रव्यस्यैकीभावो हि परस्मिन्नेव देवे श्रूयते। अत्रापिअहं कृत्स्नस्य जगतः प्रभवः प्रलयः [7।6] इत्यादिकं ह्युच्यत इत्यभिप्रायेणमय्येवेत्युक्तम्। एवं यो ब्रह्माणं विदधाति पूर्वम् [श्वे.उ.6।18]एको ह वै नारायण आसीन्न ब्रह्मा नेशानः [महो.1।1] इति क्रमेण पुनर्ब्रह्मादिसृष्टिः पुनश्च तत्प्रलय इत्यादिकमपि भाव्यम्। ईदृशसृष्टिप्रलयप्रतिपादनस्य प्रकृतोपयोगं दर्शयति -- एवमिति। सर्वेषु सृष्टिप्रलयप्रकरणेष्विदमेव तात्पर्यं भाव्यम्।मद्व्यतिरिक्तस्य कृत्स्नस्येत्यनेनअहं कृत्स्नस्य [7।6] इति प्रागुक्तं स्मारितम्। उक्तं च मोक्षधर्मेऽपिनित्यं हि (च) नास्ति जगति भूतं स्थावरजङ्गमम्। ऋते तमेकं पुरुषं वासुदेवं सनातनम् [म.भा.12।339।32] इति।

<poem>
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥८- १९॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.19।। --,भूतग्रामः भूतसमुदायः स्थावरजङ्गमलक्षणः यः पूर्वस्मिन् कल्पे आसीत् स एव अयं नान्यः। भूत्वा भूत्वा अहरागमे प्रलीयते पुनः पुनः रात्र्यागमे अह्नः क्षये अवशः अस्वतन्त्र एव हे पार्थ प्रभवति जायते अवश एव अहरागमे।।यत् उपन्यस्तम् अक्षरम् तस्य प्राप्त्युपायो निर्दिष्टः ओमित्येकाक्षरं ब्रह्म (गीता 8।13) इत्यादिना। अथ इदानीम् अक्षरस्यैव स्वरूपनिर्दिदिक्षया इदम् उच्यते अनेन योगमार्गेण इदं गन्तव्यमिति --,

'''माध्वभाष्यम्'''

।।8.17 -- 8.19।।मां प्राप्य न पुनरावृत्तिरिति स्थापयितुं अव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति -- सहस्रयुगेत्यादिना। सहस्रशब्दोऽत्रानेकवाची। ब्रह्मपरम्। सा विश्वरूपस्य रजनी इति श्रुतिः। द्विपरार्धप्रलय एवात्र विवक्षितः।अव्यक्ताद्व्यक्तयः सर्वाः [8।18] इत्युक्तेः। उक्तं च महाकौर्मेअनेकयुगपर्यन्तं महाविष्णोस्तथा निशा। रात्र्यादौ लीयते सर्वमहरादौ तु जायते इति च।यः स सर्वेषु भूतेषु [8।20] इति वाक्यशेषाच्च।

'''रामानुजभाष्यम्'''

।।8.19।।स एव अयं कर्मवश्यो भूतग्रामः अहरागमे भूत्वा भूत्वा रात्र्यागमे प्रलीयते पुनः अपि अहरागमे प्रभवति। तथा वर्षशतावसानरूपयुगसहस्रान्ते ब्रह्मलोकपर्य्यन्ता लोकाः ब्रह्मा च पृथिवी अप्सु प्रलीयते आपः तेजसि लीयन्ते इत्यादिक्रमेण अव्यक्ताक्षरतमःपर्यन्तं मयि एव प्रलीयन्ते।एवं मद्व्यतिरिक्तस्य कृत्स्नस्य कालव्यवस्थया मत्त उत्पत्तेः मयि प्रलयात् च उत्पत्तिविनाशयोगित्वम् अवर्जनीयम् इति ऐश्वर्यगतिं प्राप्तानां पुनरावृत्तिः अपरिहार्या। माम् उपेतानां तु न पुनरावृत्तिप्रसङ्गः।अथ कैवल्यप्राप्तानाम् अपि पुनरावृत्तिः न विद्यते इति आह --

'''अभिनवगुप्तव्याख्या'''

।।8.17 -- 8.19।।ननु क एवं जानाति यत् सर्वभुवनेभ्यः पुनरावृत्तिः। ब्रह्मादय एव ही तावत् चिरतरस्थायिनः श्रूयन्ते। ते एव (SN अत एव तावत्) कथं पुनरावर्त्तिनः पुनरावर्त्तित्वे हि तेऽपि स्युः प्रभवाप्ययधर्माणाः इत्या[शङ्कया ] ह -- सहस्रेत्यादि आगम इत्यन्तम्। ये खलु दीर्घदृश्वानः (N अदीर्घ -- ) ते ब्रह्मणोऽपि रात्रिं दिवं [ च ] पश्यन्ति प्रलयोदयतया। तथा च अहरहस्त एव विबुध्य निजां निजामेव चेष्टामनुरुध्यन्ते ( -- मवरुध्यन्ते) प्रतिरात्रि च तेषामेव निवृत्तपरिस्पन्दानां (S -- परिस्पन्दिनाम्) शक्तिमात्रत्वेनावस्थानम् (N -- त्वेनोपस्थानम्)। एवं सृष्टौ प्रलये च पुनः पुनर्भावः (K (n) -- र्भवः)। नान्येऽन्ये उपसृज्यन्ते अपि तु त एव जीवाः। कालकृतस्तु चिरक्षिप्रप्रत्ययात्मा विशेषः। एष च परिच्छेदः प्रजापतीनामप्यस्ति। ततश्च तेऽपि प्रभवाप्ययधर्माण एवेति स्थितम्।

'''जयतीर्थव्याख्या'''

।।8.17 -- 8.19।।उत्तरप्रकरणस्यासङ्गतिमाशङ्क्याह -- मां प्राप्येति। अवस्थितानामिति शेषः। प्रतिज्ञामात्रेण हि तदुक्तं अव्यक्तसामर्थ्यस्यात्र कथनात् कथमात्मेत्युच्यते इत्यत उक्तम् -- अव्यक्ताख्येति। प्रलयादीति तत्कारणत्वमात्मनः। सृष्टिप्रलययोरिदम्पूर्वत्वाभावज्ञापनाय गीतामुल्लङ्घ्योक्तम्। अत्र सहस्रशब्दो दशशतवाचीतिप्रतीतिनिरासायाह -- सहस्रेति। बहुशब्दपर्यायोऽयं न तु प्रसिद्धार्थः। विरिञ्चाहोरात्रयोः प्रसिद्धस्य सहस्रचतुर्युगपर्यन्तत्वात् कथमेतत् इत्यत आह -- ब्रह्मेति। तथा च द्विपरार्धप्रलयस्यादिसृष्टेश्चात्र विवक्षितत्वात् उक्तं युक्तम्। ननु परस्य ब्रह्मणो नित्यत्वादहोरात्रे न स्तः। तत्कथं तत्परमेतत् इत्यत आह -- सेति। सा निर्व्यापारावस्था परिपूर्णरूपस्यापि हरेः रजनीत्यर्थः। अनेनाहरपि सिद्धम्। भवेदेतद्यद्यत्र द्विपरार्धप्रलयस्यादिसृष्टेश्च विवक्षेत्यत्र प्रमाणं स्यादित्यत आह -- द्विपरार्धेति। एवमादिसृष्टिश्चेत्यपि ग्राह्यम्। न ह्यवान्तरसृष्टिप्रलययोः सर्वकार्योत्पत्तिविनाशाविति भावः। आगमान्तरसम्मतेश्चैवमित्याह -- उक्तं चेति। इतोऽप्येवमित्याह -- य इति। न ह्यवान्तरप्रलये सर्वेषामाकाशादीनां भूतानां नाशः नापि विरिञ्चस्य पञ्चभूतनाशेऽपि अविनाशित्वमिति भावः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.19।।एवमाशुविनाशित्वेऽपि संसारस्य न निवृत्तिः क्लेशकर्मादिभिरवशतया पुनःपुनः प्रादुर्भावात्प्रादुर्भूतस्य च पुनः क्लेशादिवशेनैव तिरोभावात् संसारे विपरिवर्तमानानां सर्वेषामपि प्राणिनामस्वातन्त्र्यादवशानामेव जन्ममरणादिदुःखप्रबन्धसंबन्धादलमनेन संसारेणेति वैराग्योत्पत्त्यर्थं समाननामरूपत्वेन च पुनःपुनः प्रादुर्भावात्कृतनाशाकृताभ्यागमपरिहारार्थं वाह -- भूतग्रामो भूतसमुदायः स्थावरजङ्गमलक्षणो यः पूर्वस्मिन्कल्पे स्थितः स एवायमेतस्मिन्कल्पे जायमानोऽपि नतु प्रतिकल्पमन्योन्यश्च। असत्कार्यवादानभ्युपगमात्।सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवं च पृथिवीं चान्तरिक्षमथो स्वः इति श्रुतेःसमाननामरूपत्वादावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च इति न्यायाच्च। अवश इत्यविद्याकामकर्मादिपरतन्त्रः। हे पार्थ स्पष्टमितरत्।

'''पुरुषोत्तमव्याख्या'''

।।8.19।।तत्र प्रलीनाश्च पुनरुत्पद्यन्त इत्याह -- भूतग्राम इति। स एव पूर्वोक्त एवायं परिदृश्यमानो मत्सम्बन्धरहितो भूतग्रामश्चराचरसमूहो भूत्वा भूत्वा उत्पद्योत्पद्य रात्र्यागमे दिवसावसाने अवशः परवशः सन् प्रलीयते। हे पार्थेति सावधानः श्रृण्वित्यर्थः। तथैव अहरागमे दिनागमेऽवश एव प्रभवति उत्पद्यत इत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.19।।उत्पत्तिः प्रलयश्चापि तेषामेव व्यष्टीनां न त्वन्येषां नूतनानां मुक्तानां वेति निरूपयति -- भूतग्राम इति। यः पूर्वोक्तः स एवायं अवशः प्रकृतिगुणाधीनः।

'''आनन्दगिरिव्याख्या'''

।।8.19।।ननु प्रबोधकाले ब्रह्मणो यो भूतग्रामो भूत्वा तस्यैव स्वापकाले विलीयते तस्मादन्यो भूयो ब्रह्मणोऽहरागमे भूत्वा पुना रात्र्यागमे परवशो विनश्यति तदेवं प्रत्यवान्तरकल्पं भूतग्रामविभागो भवेदित्याशङ्क्यानन्तरश्लोकतात्पर्यमाह -- अकृतेति। प्रतिकल्पं प्राणिनिकायस्य भिन्नत्वे सत्यकृताभ्यागमादिदोषप्रसङ्गात्तत्परिहारार्थं भूतग्रामस्य प्रतिकल्पमैक्यमास्थेयमित्यर्थः। यदि स्थावरजङ्गमलक्षणप्राणिनिकायस्य प्रतिकल्पमन्यथात्वं तदेकस्य बन्धमोक्षान्वयिनोऽभावात्काण्डद्वयात्मनो बन्धमोक्षार्थस्य शास्त्रस्य प्रवृत्तिरफला प्रसज्येतातस्तत्साफल्यार्थमपि प्रतिकल्पं प्राणिवर्गस्य नवीनत्वानुपपत्तिरित्याह -- बन्धेति। कथं पुनर्भूतसमुदायोऽस्वतन्त्रः सन्नवशो भूत्वा प्रविलीयते तत्राह -- अविद्यादीति। आदिशब्देनास्मितारागद्वेषाभिनिवेशा गृह्यन्ते। यथोक्तं क्लेशपञ्चकं मूलं प्रतिलभ्य धर्माधर्मात्मककर्मराशिरुद्भवति तद्वशादेवास्वतन्त्रो भूतसमुदायो जन्मविनाशावनुभवतीत्यर्थः। प्राणिनिकायस्य जन्मनाशाभ्यासोक्तेरर्थमाह -- इत्यत इति। संसारे विपरिवर्तमानानां प्राणिनामस्वातन्त्र्यादवशानामेव जन्ममरणप्रबन्धादलमनेन संसारेणेति वैतृष्ण्यं तस्मिन्प्रदर्शनीयं तदर्थं चेद भूतानामहोरात्रमावृत्तिवचनमित्यर्थः। समनन्तरवाक्यमिदमा परामृश्यते। रात्र्यागमे प्रलयमनुभवतोऽहरागमे च प्रभवं प्रतिपद्यमानस्य प्राणिवर्गस्य तुल्यं पारवश्यमित्याशयवानाह -- अह्न इति।

'''धनपतिव्याख्या'''

।।8.19।।पूर्वकल्पीया एव प्रजा रात्र्यागमे अव्यक्ते प्रलीना अहरागमेऽव्यक्तादाविर्भवन्ति नतु ता विनष्टा अन्या एवास्मिन्कल्पे उत्पद्यन्ते इतीममर्थं स्फुटमाह -- भूतग्राम इति। भूतसमुदायश्चराचरलक्षणो यः पूर्वस्मिन्कल्पे आसीत्स एवायं नान्यः अहरागमे पुनःपुनर्भूत्वा रात्र्यागमे पुनःपुनर्लीयते पुनरहागमे प्रभवति प्रादुर्भवति। अवशो विद्यादिपरतन्त्रः। पार्थेति संबोधयन् कुन्तिभोजसंबन्धेन यथा पृथैव कुन्ती संपन्ना नतु पृथान्यैव स्थितान्यैव कुन्ती जातेति ध्वनयति। अयमाशयः -- प्रतिकल्पं भूतग्रामस्याभिनवत्वेऽकृताभ्यागमकृतविप्रणाशदोषो बन्धमोक्षान्वयिन एकस्याभावात्। बन्धमोक्षार्थस्य शास्त्रस्य प्रवृत्तिनिष्फलता चापतति तन्निरासार्थ भूतग्रामस्य प्रतिकल्पमैक्यमभ्युपेयम्। अविद्यास्मितारागद्वेषाभिनिवेशक्लेशमूलधर्माधर्माशयशाच्चावशो भूतग्रामो भूत्वा भूत्वा प्रलीयत इत्यतोऽलमनेन संसारेणेति विरक्तो भूत्वा ज्ञानेन संसारोपरमं संपादयेदिति।

'''नीलकण्ठव्याख्या'''

।।8.19।।कृतहानाकृताभ्यागमदोषापमुक्तये बन्धमोक्षशास्त्रप्रवृत्तिसाफल्याय च अविद्यादिवशादवशोऽयं भूतग्रामः पुनःपुनर्भूत्वा पुनः पुनः प्रलीयत इत्याह वैराग्योत्पादनार्थम् -- भूतग्राम इति। अहरागमे भूत्वा भूत्वा रात्र्यागमे प्रलीयत इति योजना। स एव भूत्वा प्रलीयते नान्योऽभिनवो भवतीत्यर्थः। कुतः यतोऽवशः अविद्याकामकर्माधीनस्तस्मात्सर्वानर्थबीजभूताया अविद्याया विद्यया उच्छेदे जन्ममरणप्रवाहविच्छेदायावश्यं यतितव्यमित्यर्थः।

'''श्रीधरस्वामिव्याख्या'''

।।8.19।।तत्र च कृतनाशाकृताभ्यागमशङ्कां वारयन्वैराग्यार्थं सृष्टिप्रलयप्रवाहस्याविच्छेदं दर्शयति -- भूतेति। भूतानां चराचरप्राणिनां ग्रामः समूहो यः प्रागासीत्स एवायमहरागमे भूत्वा रात्रेरागमे प्रलीयते। प्रलीय पुनरप्यहरागमेऽवशः कर्मादिपरतन्त्रः प्रभवति। नान्य इत्यर्थः।

'''वेङ्कटनाथव्याख्या'''

।। 8.19 सहस्र -- इत्यादिश्लोकत्रयस्य पिण्डितार्थमाह -- ब्रह्मलोकपर्यन्तानामिति। हिरण्यगर्भादिस्वातन्त्र्यसिद्धसत्यलोकादिस्थैर्यशङ्काव्युदासायाहपरमपुरुषसङ्कल्पकृतामिति। ईश्वरस्वातन्त्र्यमेव ह्यन्यूनानतिरिक्तदिनरात्र्यादिविचित्रव्यवस्थायां कारणम्। तथा चोच्यतेकालस्य च हि मृत्योश्च [म.भा.5।68।13]कालचक्रं जगच्चक्रं [म.भा.5।68।12] इत्यादिभिः। एवमेवोक्तमन्यत्रततो युगसहस्रान्ते संहरिष्ये जगत्पुनः। कृत्वा मत्स्थानि भूतानि चराणि स्थावराणि च इत्यादि। यत्तु मानवेतद्ये युगसहस्रं तु (तद्वे युगसहस्रांतं) ब्राह्मं पुण्यमहर्विदुः। रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः [1।73] इति तत्र य इत्येव पाठाद्यथाक्रममन्वयः। इह तुसहस्र -- इतिश्लोकेयत् इत्यस्याहश्शब्देनैव ह्यन्वयो घटते ततश्चते इत्यस्यये इति पदमपेक्षितम् तत्रापिये विदुस्तेऽहोरात्रविदो जनाः इत्यन्वये प्रसङ्गरहिताहोरात्रवेदिव्युत्पादनरूपं स्तुतिपरं वाक्यं प्रस्तुतासङ्गतं स्यात् ततश्चयेऽहोरात्रविदो जनास्त एवं विदुः इत्यन्वयः। एवं कालव्यवस्थायां प्रामाणिकत्वप्रतिपादनपरोऽत्र स्वीकार्य इत्यभिप्रायेणाहये मनुष्यादीति। अनूद्यमानमहोरात्रवेदित्वं यथाप्रसिद्धि सर्वविषयमेव भवितुमर्हति तेन चतुर्मुखस्यापि मनुष्यादितुल्यता द्योतिता स्यादित्यभिप्रायेणमनुष्यादीत्यादिकमुक्तम्। ब्रह्मशब्दस्यात्र परमात्मविषयत्वभ्रमव्युदासायचतुर्मुखशब्दः। तस्यैव हि सहस्रयुगप्रतिनियताहोरजनीविभागः प्रसिद्ध इति भावः।सविशेषणौ विधिनिषेधौ विशेषणमुपसङ्कामतः इति न्यायात्येऽहोरात्रविदो जनाः इत्यहोरात्रवेदतांशस्यानूदितत्त्वाच्च सहस्रयुगपर्यन्ततावेदनमेवात्र विधेयमित्यभिप्रायेणतच्चतुर्युगसहस्रावसानं विदुरित्युक्तम्। सहस्रयुगानि पर्यन्तं यस्य तत्सहस्रयुगपर्यन्तम्। युगशब्दश्चात्र प्रमाणान्तरानुसाराच्चतुर्युगपरः। अस्त्वेवं चतुर्मुखस्याहोरात्रव्यवस्था ततः किं प्रस्तुतस्य इत्यत्रोत्तरम् -- अव्यक्तात् इति श्लोकः। तस्यार्थमाह -- तत्रेति।अयमभिप्रायः -- अत्र व्यक्तिशब्दस्तावन्न महदादिविषयः चतुर्मुखात्प्रागेव तदुत्पत्तेः। अतश्चतुर्मुखसृज्यमात्रविषय एवासौ। व्यज्यन्त इति व्यक्तयः। तत्रापि सत्यलोकादेः प्रतिकल्पं प्रलयाभावात् त्रैलोक्यान्तर्वर्त्तिदेहेन्द्रियादिवस्तुमात्रविषयत्वमेव स्वीकार्यम्। तेषां चोत्पत्तिः ब्रह्मशरीरादेव। ततश्चात्राव्यक्तशब्दोऽपि न मूलाव्यक्तविषयः अपितु तदुपादानकब्रह्मशरीरपरः। शरीरे चाव्यक्तशब्दप्रयोगः सूत्रेऽप्युपपादितःसूक्ष्मं तु तदर्हत्वात् [ब्र.सू.1।4।2] इति।एवंविधसृष्टिप्रलयकारणविशेषं तदनुच्छेदाच्च सृष्टिप्रलयसन्तानानुच्छेदं अकृताभ्यागमकृतविप्रणाशप्रसङ्गपरिहारमुक्तस्यार्थस्य सर्वेष्वपि कल्पेषु अभिव्याप्तिं यथापूर्वकल्पनं चभूतग्रामः इति श्लोकः प्रतिपादयतीत्यभिप्रायेणाह -- स एवायमिति। भूतशब्दोऽत्राचिद्विशिष्टक्षेत्रज्ञपरः। सृज्यत्वसंहार्यत्वहेतुभूतमवशत्वं कर्मनिबन्धनमेव हीत्यभिप्रायेणकर्मवश्य इत्युक्तम्।अहरागमे इति पदंभूत्वा इत्यत्रापि अनुवर्तनीयमित्यभिप्रायेणअहरागमे भूत्वेत्यन्वय उक्तः। इदं च नैमित्तिकप्रलयप्रतिपादनं श्रुत्यादिप्रसिद्धप्राकृतप्रलयस्याप्युपलक्षणम्। तथा सति [तेन] सत्यलोकविनाशसिद्धिःआब्रह्मभुवनाल्लोकाः [8।16] इति ह्युपक्रान्तमित्यभिप्रायेणाह -- तथेति। यद्वा रात्र्यागमशब्द एव ब्रह्मणोऽन्तिमरात्र्यागममपि शक्त्या संगृह्णातीति भावः। तदेतत्सूचितंवर्षशतावसानरूपयुगसहस्रान्त इति। तथा चान्यत्र स्मर्यते -- निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् इति। एवमहरागमशब्दोऽपि प्रथममहः संगृह्णाति। पृथिव्यादितत्त्वानामेव विलये तदारब्धानां ब्रह्मलोकब्रह्मशरीरब्रह्माण्डादीनां का कथेत्यभिप्रायेण -- पृथिवीत्यादिश्रुतिरुदाहृता। तमोवस्थाचिद्द्रव्यस्यैकीभावो हि परस्मिन्नेव देवे श्रूयते। अत्रापिअहं कृत्स्नस्य जगतः प्रभवः प्रलयः [7।6] इत्यादिकं ह्युच्यत इत्यभिप्रायेणमय्येवेत्युक्तम्। एवं यो ब्रह्माणं विदधाति पूर्वम् [श्वे.उ.6।18]एको ह वै नारायण आसीन्न ब्रह्मा नेशानः [महो.1।1] इति क्रमेण पुनर्ब्रह्मादिसृष्टिः पुनश्च तत्प्रलय इत्यादिकमपि भाव्यम्। ईदृशसृष्टिप्रलयप्रतिपादनस्य प्रकृतोपयोगं दर्शयति -- एवमिति। सर्वेषु सृष्टिप्रलयप्रकरणेष्विदमेव तात्पर्यं भाव्यम्।मद्व्यतिरिक्तस्य कृत्स्नस्येत्यनेनअहं कृत्स्नस्य [7।6] इति प्रागुक्तं स्मारितम्। उक्तं च मोक्षधर्मेऽपिनित्यं हि (च) नास्ति जगति भूतं स्थावरजङ्गमम्। ऋते तमेकं पुरुषं वासुदेवं सनातनम् [म.भा.12।339।32] इति।

<poem>
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥८- २०॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.20।। --,परः व्यतिरिक्तः भिन्नः कुतः तस्मात् पूर्वोक्तात्। तुशब्दः अक्षरस्य विवक्षितस्य अव्यक्तात् वैलक्षण्यविशेषणार्थः। भावः अक्षराख्यं परं ब्रह्म। व्यतिरिक्तत्वे सत्यपि सालक्षण्यप्रसङ्गोऽस्तीति तद्विनिवृत्त्यर्थम् आह -- अन्यः इति। अन्यः विलक्षणः।,स च अव्यक्तः अनिन्द्रियगोचरः। परस्तस्मात् इत्युक्तम् कस्मात् पुनः परः पूर्वोक्तात् भूतग्रामबीजभूतात् अविद्यालक्षणात् अव्यक्तात्। अन्यः विलक्षणः भावः इत्यभिप्रायः। सनातनः चिरन्तनः यः सः भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति।।

'''माध्वभाष्यम्'''

।।8.20 -- 8.21।।अव्यक्तो भगवान्यं प्राप्य न निवर्तन्ते इतिमामुपेत्य [8।15] इत्यस्य परामर्शात्।अव्यक्तं परमं विष्णुं इति प्रयोगाच्च गारुडे। धाम स्वरूपं तेजस्स्वरूपंतेजस्स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते इत्यभिधानात्।

'''रामानुजभाष्यम्'''

।।8.20।।तस्माद् अव्यक्ताद् अचेतनप्रकृतिरूपात् पुरुषार्थतया पर उत्कृष्टो भावः अन्यो ज्ञानैकाकारतया तस्माद् विसजातीयः अव्यक्तः केनचित् प्रमाणेन न व्यज्यत इति अव्यक्तः स्वसंवेद्यसाधारणाकार इत्यर्थः। सनातनः उत्पत्तिविनाशानर्हतया नित्यः। यः सर्वेषु वियदादिषु भूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितो अपि न विनश्यति।

'''अभिनवगुप्तव्याख्या'''

।।8.20 -- 8.22।।सर्वतो लोकेभ्यः पुनरावत्तिः न तु मां परमेश्वरं (S K omit परमेश्वरम्) प्राप्य इति स्फुटयति -- पर इत्यादि प्रतिष्ठितमित्यन्तम्। उक्तप्रकारं कालसंकलनाविवर्जितं तु वासुदेवतत्त्वम्। व्यक्तम् सर्वानुगतम् तत्त्वेऽपि अव्यक्तम् दुष्प्रापत्वात्। तच्च भक्तिलभ्यमित्यावेदितं प्राक्। तत्रस्थं च एतद्विश्वं यत्खलु अविनाशिरूपं ( स्वरूपम्) सदा तथाभूतम्। तत्र कः पुनःशब्दस्य आवृत्तिशब्दस्य चार्थः स हि मध्ये तत्स्वभावविच्छेदापेक्षः। न च सदातनविश्वोत्तीर्णविश्वाव्यतिरिक्त -- विश्वप्रतिष्ठात्मक (SNK (n) विश्वनिष्ठात्मक -- ) परबोधस्वातन्त्र्यस्वभावस्य श्रीपरमेश्वरस्य तद्भावप्राप्तिः (N -- प्राप्तस्य) [ संभवति ] येन स्वभावविच्छेदः कोऽपि कदाप्यस्ति [इति कल्प्येत]। अतो युक्तमुक्ततम् मामुपेत्य तु (VIII 16) इति।

'''जयतीर्थव्याख्या'''

।।8.20 -- 8.21।।इदानीमव्यक्ताख्यात्मेति यदुक्तं तत्साधयितुमाह -- अव्यक्त इति।मामुपेत्य [8।1516] इत्युक्तार्थस्ययं प्राप्य न निवर्तन्ते इत्यव्यक्तविषयतया परामर्शात्। न केवलमव्यक्तशब्दो युक्तिबलात् भगवति नीयते। किन्तु वाचकस्य तस्येत्याह -- अव्यक्तमिति। कथं तर्हि भगवता व्यक्तस्य स्वस्थानत्वमुच्यते इत्यत आह -- धामेति।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.20।।एवमवशानामुत्पत्तिविनाशप्रदर्शनेनआब्रह्मभुवनाल्लोकाः पुनरावर्तिनः इत्येतद्व्याख्यातं अधुनामामुपेत्य पुनर्जन्म न विद्यते इत्येतद्व्यांचष्टे द्वाभ्याम् -- तस्माच्चराचरस्थूलप्रपञ्चकारणभूताद्धिरण्यगर्भाख्यादव्यक्तात्परो व्यतिरिक्तः श्रेष्ठो वा,तस्यापि कारणभूतः। व्यतिरेकेऽपि सालक्षण्यं स्यादिति नेत्याह -- अन्योऽत्यन्तविलक्षणः।न तस्य प्रतिमा अस्ति इति श्रुतेः। अव्यक्तो रूपादिहीनतया चक्षुराद्यगोचरो भावः कल्पितेषु सर्वेषु कार्येषु सद्रूपेणानुगतः। अतएव सनातनो नित्यः। तुशब्दो हेयादनित्यादव्यक्तादुपादेयत्वं नित्यस्याव्यक्तस्य वैलक्षण्यं सूचयति। एतादृशो यो भावः हिरण्यगर्भ इव सर्वेषु भूतेषु नश्यत्स्वपि न विनश्यति उत्पद्यमानेष्वपि नोत्पद्यत इत्यर्थः। हिरण्यगर्भस्य तु कार्यस्य भूताभिमानित्वात्तदुत्पत्तिविनाशाभ्यां युक्तावेवोत्पत्तिविनाशौ नतु तदनभिमानिनोऽकार्यस्य परमेश्वरस्येति भावः।

'''पुरुषोत्तमव्याख्या'''

।।8.20।।एवं तेषां पुनरुद्गममुक्त्वा स्वप्राप्तौ तदभावाय स्वस्थानस्वरूपमाह -- परस्तस्मादिति। तुशब्देन पूर्वस्य परत्वं व्यावर्त्तयति तस्मात्पूर्वोत्पत्तिकारणात्मकादन्यो भावः अव्यक्तः तस्यापि मूलभूत इत्यर्थः। अव्यक्तात्सनातनः अनादिसिद्धः परः सर्वोत्तम इत्यर्थः। तत्स्वरूपमाह -- यः सर्वेषु भूतेषु नश्यत्सु सत्सु न विनश्यति न विकारमाप्नोतीत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.20।।व्यक्तिसम्बन्धाद्व्यक्तसंज्ञको जीव आब्रह्मपर्यन्त उक्तः। तस्मात्क्षरादन्योऽव्यक्तः व्यक्तिरहितः परो गुणातीतश्च सनानतः व्यक्तिमत्सु सर्वेषु नश्यत्सु न नश्यति अनुच्छित्तिधर्मत्वात्।

'''आनन्दगिरिव्याख्या'''

।।8.20।।अक्षरं ब्रह्म परममित्युपक्रम्य तदनुपयुक्तं किमिदमन्यदुक्तमित्याशङ्क्य वृत्तमनूद्यानन्तरग्रन्थसंगतिमाह -- यदुपन्यस्तमिति। अक्षरस्वरूपे निर्दिदिक्षिते तस्मिन्पूर्वोक्तयोगमार्गस्य कथमुपयोगः स्यादित्याशङ्क्य तत्प्राप्त्युपायत्वेनेत्याह -- अनेनेति। गन्तव्यमिति योगमार्गोक्तिरुपयुक्तेति शेषः। पूर्वोक्तादव्यक्तादिति संबन्धः। परशब्दस्य व्यतिरिक्तविषयत्वे तुशब्देन वैलक्षण्यमुक्त्वा पुनरन्यशब्दप्रयोगात्पौनरुक्त्यमित्याशङ्क्याह -- व्यतिरिक्तत्व इति। तुना द्योतितं वैलक्षण्यमन्यशब्देन प्रकटितम्। यतो भिन्नेष्वपि भावभेदेषु सालक्षण्यमालक्ष्यते ततश्चाव्यक्ताद्भिन्नत्वेऽपि ब्रह्मणस्तेन सादृश्यमाशङ्कते तन्निवृत्त्यर्थमन्यपदमित्यर्थः। यद्वा परशब्दस्य प्रकृष्टवाचिनो भावविशेषणार्थत्वे पुनरुक्तिशङ्कैव नास्तीति द्रष्टव्यम्। अनादिभावस्याक्षरस्याविनाशित्वमर्थसिद्धं समर्थयते -- यः स भाव इति। सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति स तु विनाशहेत्वभावान्न,विन(नं)ष्टुमर्हतीत्यर्थः।

'''धनपतिव्याख्या'''

।।8.20।।अक्षरं ब्रह्म परममित्युपक्रम्योमित्येकाक्षरं ब्रह्मेत्यादिना तत्प्राप्त्युपाय उपदिष्टः अथेदानीमक्षरस्य प्राप्यस्य स्वरुपमाह -- पर इत्यादिना। तस्मात्त्वव्यक्ताद्भूतग्रामबीजभूताविद्यालक्षणात्परो व्यक्तिरिक्तो भिन्नः। अव्यक्तात् हिरण्यगर्भादिति वा। अस्मिन्पक्षेमहतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इति श्रुत्या हरिण्यगर्भान्महानात्मेत्यनेन प्रतिपादितात्पत्वमव्यक्तशब्दप्रतिपादिताया मूलप्रकृतेरुक्तं तदनुरोधेनात्रापि हिरण्यगर्भात्परस्य मूलप्रकृतिबोधकस्याव्यक्तशब्दस्य ग्रहणः प्राप्तोतीति। इमं पक्षं विहायाचार्यैरव्यक्तात्पुरुषः परः इति श्रुतिरनुसृता। तुशब्दः संसारबीजभूतान्मूलप्रकृतिशब्दावाच्यादव्यक्तान्मोक्षाख्यस्य सकलप्रपञ्चशून्यस्य परमानन्दैकघनस्य परमात्मनोऽव्यक्तस्याक्षरस्य वैलक्षण्यद्योतनार्थः। भावः सत्तास्वरुपः अक्षराख्यं परं ब्रह्म। स्वरूपो व्यतिरिक्तत्वेऽपि लक्षणैक्यव्यावृत्त्यर्थं तुना द्योतितमर्थं तद्वाचकेनाप्याहान्य इति। विलक्षण इत्यर्थः। यद्वा परशब्दस्य प्रकृष्टवाचिनो भावे विशेषणार्थत्वेन पुनरुक्तिशंङ्कैव नास्तीत्येके। आचार्यैस्तु निकृष्टात्प्रकृष्टस्य विलक्षणत्वव्यतिरिक्तत्वध्रौव्याक्तुशब्दयोरुभयोरपि वैयथर्यमभिप्रेत्य सुगमत्वाद्वायं पक्षस्त्यक्तः। वैलक्षण्यं स्फुटयति। सनातनः चिरंतनः यः सर्वेषु भूतेषु हिरण्यगरभादिषु विनयश्यत्सु न विनश्यति स भावः परमात्मेत्यर्थः। तथाच सनातन्तवे सति अनश्वरत्वं परमात्मलक्षणं नाव्यक्त इति भावः।

'''नीलकण्ठव्याख्या'''

।।8.20।।एवं ब्रह्मभुवनान्तानामावृत्तिं व्याख्याय यत्प्राप्तानामावृत्तिर्नास्ति तदक्षरं परमं ब्रह्मेत्युपक्रान्तं वस्तु लक्षयति -- परस्तस्मादिति त्रिभिः। पर इति। तस्मादव्यक्ताद्भूतग्रामबीजभूतादविद्यालक्षणादनृतात् अन्योऽत्यन्तविलक्षणो भावः सत्ता। तुशब्दात्पराभिमतं सत्तासामान्यं वारयति। तस्य सामान्यादिभ्यो व्यावृत्तत्वात्। अस्य च सर्वानुगतत्वात्। सनातनो नित्यैकरूपः। उपाधिमान् हि उपाधिविक्रियया नित्यं विक्रियत इव भाति। अयं त्वनुपाधित्वान्नित्यैकरूप एव यः स भावः सर्वेषु भूतेषु वियदादिषु नश्यत्सु न विनश्यति केवलसत्तारूपत्वात्। एतेन तस्य कालत्रयाबाध्यत्वं नित्यत्वं चोक्तम्।

'''श्रीधरस्वामिव्याख्या'''

।।8.20।। लोकानामनित्यत्वं प्रपञ्चय परमेश्वरस्वरूपस्य नित्यत्वं प्रपञ्चयति -- पर इति द्वाभ्याम्। तस्माच्चराचरकारणभूतादव्यक्तात्परः तस्यापि कारणभूतो योऽन्यस्तद्विलक्षणोऽव्यक्तश्चक्षुराद्यगोचरो भावः सनातनोऽनादिः स तु सर्वेषु कार्यकारणलक्षणेषु भूतेषु नश्यत्स्वपि न विनश्यति।

'''वेङ्कटनाथव्याख्या'''

।।8.20।।परः इत्यादिश्लोकद्वयस्यार्थमाह -- अथेति।अयमभिप्रायः -- भगवन्तं प्राप्तानां पुनरावृत्तिः प्रागेवोक्ता अव्यक्तात्परत्वेन निर्दिष्टोऽक्षरश्च जीव एव भवितुमर्हतिअपरेयमितस्त्वन्याम् [7।5] इत्यादिप्रत्यभिज्ञानात् वक्तव्या च कैवल्यार्थिनामवरोहाभावादपुनरावृत्तिः। अत एव तत्परमेवेदं श्लोकद्वयम् -- इति। अव्यक्तस्यैव पूर्वप्रकृतत्वात् अत्रापिअव्यक्तात् इत्येव परभेदः। तस्य चापेक्षया परशब्दान्यशब्दाभ्यामप्यन्वयः। तत्र च पौनरुक्त्यव्युदासायोत्कृष्टत्वाभिधानमुखेन पुरुषार्थरूपत्वपरः परशब्दः। तत एव च स्वरूपभेदस्य सिद्धत्वादन्यशब्दः प्रकारान्यत्वपरः। अतः स च प्रकारभेदश्चेतनत्वरूप एव प्रमाणसिद्ध इत्यभिप्रायेणाह -- तस्मादिति। भावशब्दोऽत्र पदार्थमात्रवाची।व्यक्तः इति पदच्छेदो न युक्तःअव्यक्तोऽक्षरः इत्यत्रैवाभिधानात् दुर्ग्रहे च जीवे व्यक्तशब्दप्रयोगानुपपत्तेरित्यभिप्रायेणाह -- केनचिदिति। ननु जीवस्याव्यक्तत्वमयुक्तं प्रत्यक्षानुमानागमैर्यथासम्भवं तद्व्यक्तेः अन्यथा खपुष्पत्वप्रसङ्गादित्यत्राह -- स्वसंवेद्येति। प्रमाणान्तराणि हि साधारण्येन तत्प्रतिपादकानीति भावः। नित्यत्वे द्वितीयाध्यायोक्तहेतुस्मरणंउत्पत्तिविनाशानर्हतयेति। भूतशब्दोऽत्र महाभूतपरः तद्विनाशेऽप्यात्मस्थितवचनेन नित्यत्वस्यानायासादलभात्। तत्र सर्वशब्दाभिप्रायवशादेव सकारणत्वं सकार्यत्वं च सिद्धमित्यभिप्रायेणाहवियदादिष्विति। प्रसक्तो हि नाशो जीवे निषेध्यः प्रसङ्गश्चात्र नश्यत्पदार्थानुप्रवेशवशात् यथा तिलेषु दह्यमानेषु तदनुप्रविष्टं तैलमपि दह्यते ततश्च सर्वेषु भूतेषु नश्यत्स्वित्यस्यैव सामर्थ्यलब्धमुक्तंतत्र तत्र स्थितोऽपीतियः स सर्वेषु [मम इति सम्बन्धमात्रविधानस्य प्रागेव सिद्धेः स्थानस्य च स्थानिसापेक्षत्वनियमात् य आत्मनि तिष्ठन् [श.प.ब्रा.14।6।5।30] इत्याद्युक्तमधिष्ठेयं स्थानपर्यायं धामशब्देन विवक्षितमित्याहनियमनस्थानमिति। अत्र किमपरं नियमनस्थानं यद्व्यवच्छेदाय परमशब्दः इत्यत्राहअचेतनेति। अत्र परमधामत्वव्यपदेशात्परिशुद्धात्मविषयत्वं सिद्धम् ततश्चाशुद्धो जीवोऽप्यपर एव विवक्षित इत्याहतत्संसृष्टेति। यदि मुक्तोऽपि परमात्मपरतन्त्रः तर्हि स्वतन्त्रेण परमात्मना पुनरपि संसारगर्ते प्रक्षिप्येतेत्यत्राहतच्चेति।अयं भावः -- अविद्यादिर्हि संसारकारणम् न तु पारतन्त्र्यं अविद्यादेश्च प्रक्षयादीश्वरकारुण्यादीनां च स्वाभाविकत्वान्न मुक्तस्य संसारगन्ध इत्यर्थः। यद्वा न केवलं भगवत्प्राप्तिरेव अपुनरावृत्तिरूपा किन्तु परिशुद्धजीवप्राप्तिरपि अवरोहणाभावात्तथेति भावः।नियमनस्थानं इत्यस्याश्रितविशेषणोपादानारुचेराहअथ वेति। अस्तु धामशब्दस्तेजःपयार्यः प्रकाशवाची तस्य कथमत्रान्वयः इत्यत्राहप्रकाशश्चेति। विशेषणफलितं दर्शयति -- प्रकृतिसंसृष्टादिति। प्रकाशपक्षे -- तत् परमं धाम मम -- मच्छेषभूतम् -- इति वाक्यार्थः। यद्यपिअपरेयम् [7।5] इत्यादिना प्रागेव स्वशेषत्वमुक्तम् तथापि समष्टिचेतनमात्रविषयत्वं तत्र प्रतीयते इह तु मुक्तस्यापि स्वशेषत्वमुच्यत इत्यपौनरुक्त्यम्।

<poem>
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥८- २१॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.21।। --,योऽसौ अव्यक्तः अक्षरः इत्युक्तः तमेव अक्षरसंज्ञकम् अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम्। यं परं भावं प्राप्य गत्वा न निवर्तन्ते संसाराय तत् धाम स्थानं परमं प्रकृष्टं मम विष्णोः परमं पदमित्यर्थः।।तल्लब्धेः उपायः उच्यते --,

'''माध्वभाष्यम्'''

।।8.20 -- 8.21।।अव्यक्तो भगवान्यं प्राप्य न निवर्तन्ते इतिमामुपेत्य [8।15] इत्यस्य परामर्शात्।अव्यक्तं परमं विष्णुं इति प्रयोगाच्च गारुडे। धाम स्वरूपं तेजस्स्वरूपंतेजस्स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते इत्यभिधानात्।

'''रामानुजभाष्यम्'''

।।8.21।।सः अव्यक्तः अक्षर इति उक्तःये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। (गीता 12।3)कूटस्थोऽक्षर उच्यते।। (गीता 15।16) इत्यादिषु तं वेदविदः परमां गतिम् आहुः अयम् एवयः प्रयाति त्यजन् देहं स याति परमां गतिम्।। इत्यत्र परमगतिशब्दनिर्दिष्टः अक्षरः प्रकृतिसंसर्गवियुक्तस्वरूपेण अवस्थित आत्मा इत्यर्थः।यम् एवंभूतं स्वरूपेणावस्थितम् प्राप्य न निवर्तन्ते तद् मम परमं धाम परमं नियमनस्थानम्। अचेतनप्रकृतिः एकं नियमनस्थानम् तत्संसृष्टरूपा जीवप्रकृतिः द्वितीयं नियमनस्थानम् अचित्संसर्गवियुक्तं स्वरूपेणावस्थितं मुक्तस्वरूपं परमं नियमनस्थानम् इत्यर्थः। तत् च अपुनरावृत्तिरूपम्।अथवा प्रकाशवाची धामशब्दः प्रकाशः च इह ज्ञानम् अभिप्रेतं प्रकृतिसंसृष्टात् परिच्छिन्नज्ञानरूपाद् आत्मनः अपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परं धाम।ज्ञानिनः प्राप्यं तु तस्माद् अत्यन्तविभक्तम् इत्याह --

'''अभिनवगुप्तव्याख्या'''

।।8.20 -- 8.22।।सर्वतो लोकेभ्यः पुनरावत्तिः न तु मां परमेश्वरं (S K omit परमेश्वरम्) प्राप्य इति स्फुटयति -- पर इत्यादि प्रतिष्ठितमित्यन्तम्। उक्तप्रकारं कालसंकलनाविवर्जितं तु वासुदेवतत्त्वम्। व्यक्तम् सर्वानुगतम् तत्त्वेऽपि अव्यक्तम् दुष्प्रापत्वात्। तच्च भक्तिलभ्यमित्यावेदितं प्राक्। तत्रस्थं च एतद्विश्वं यत्खलु अविनाशिरूपं ( स्वरूपम्) सदा तथाभूतम्। तत्र कः पुनःशब्दस्य आवृत्तिशब्दस्य चार्थः स हि मध्ये तत्स्वभावविच्छेदापेक्षः। न च सदातनविश्वोत्तीर्णविश्वाव्यतिरिक्त -- विश्वप्रतिष्ठात्मक (SNK (n) विश्वनिष्ठात्मक -- ) परबोधस्वातन्त्र्यस्वभावस्य श्रीपरमेश्वरस्य तद्भावप्राप्तिः (N -- प्राप्तस्य) [ संभवति ] येन स्वभावविच्छेदः कोऽपि कदाप्यस्ति [इति कल्प्येत]। अतो युक्तमुक्ततम् मामुपेत्य तु (VIII 16) इति।

'''जयतीर्थव्याख्या'''

।।8.20 -- 8.21।।इदानीमव्यक्ताख्यात्मेति यदुक्तं तत्साधयितुमाह -- अव्यक्त इति।मामुपेत्य [8।1516] इत्युक्तार्थस्ययं प्राप्य न निवर्तन्ते इत्यव्यक्तविषयतया परामर्शात्। न केवलमव्यक्तशब्दो युक्तिबलात् भगवति नीयते। किन्तु वाचकस्य तस्येत्याह -- अव्यक्तमिति। कथं तर्हि भगवता व्यक्तस्य स्वस्थानत्वमुच्यते इत्यत आह -- धामेति।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.21।।यो भाव इहाव्यक्त इत्यक्षर इति चोक्तोऽन्यत्रापि श्रुतिषु स्मृतिषु च तं भावमाहुः श्रुतयः स्मृतयश्चपुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इत्याद्याः। परमामुत्पत्तिविनाशशून्यस्वप्रकाशपरमानन्दरूपां गतिं पुरुषार्थविश्रान्तिम्। यं भावं प्राप्य न पुनः निवर्तन्ते संसाराय तद्धाम स्वरूपं मम विष्णोः परमं सर्वोत्कृष्टम्। मम धामेति राहोः शिर इतिवद्भेदकल्पनया षष्ठी। अतोऽहमेव परमा गतिरित्यर्थः।

'''पुरुषोत्तमव्याख्या'''

।।8.21।।एवमव्यक्तपरस्वरूपमुक्त्वा ज्ञानार्थं विशिनष्टि -- अव्यक्त इति। अव्यक्तः अप्रकटः ज्ञातुभशक्यो यो भावः स अक्षरः न क्षरति न चलति मच्चरणांशरूप इत्युक्तः तमक्षरं वेदादिविदः परमां परस्य अनुमेयां गतिमाहुः। ननु ते तस्य परमगतित्वं कुतो वदन्ति। इत्याशङ्क्याह -- यं प्राप्य न निवर्तन्ते इति। यत्स्थानं प्राप्य न निवर्तन्ते पुनर्जन्मानो न भवन्ति अतस्तथा वदन्तीत्यर्थः। तथात्वं तस्य स्वसम्बन्धादित्याह -- तदिति। तदक्षरात्मकं मम परममुत्कृष्टं धाम गृहमित्यर्थः। मद्गृहत्वात् पुनरावृत्तिर्न भवतीति भावः।

'''वल्लभाचार्यव्याख्या'''

।।8.21।।तथापि सोऽव्यक्तोऽक्षर इत्युक्तः। न चाव्यक्तशब्देन जीवः प्रकृतिर्वाऽभिधेयायं प्राप्य न निवर्त्तन्ते इत्युक्तत्वात् जीवादौ तथात्वासम्भवात् तथा सति नित्यमुक्तत्वापत्त्या शास्त्रसाधनादिवैफल्यापत्तेश्च। अतएव ज्ञानमार्गीयाणां तत्प्राप्तिरेव मुक्तिरिति तदाह -- तमाहुः परमां गतिमिति। मम पुरुषोत्तमस्याधिष्ठानभूतं च तदित्याह -- परमं मम धामेति वैकुण्ठभुवनं तेजश्च प्रकाशात्मकम्सत्यं ज्ञानमनन्तं यद्ब्रह्म ज्योतिः सनातनम्। ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः। ददृशुर्ब्रह्मणो लोकं इत्यादिवाक्यात् ततो भूतप्रकृतिवियुक्तात्मा गुणातिगो द्युभ्वाद्यायतनोऽनन्तरूपोऽगणितानन्दः सर्वधर्माश्रयः पुरुषप्रकृतिको ब्रह्मपदवाच्योऽक्षरोऽध्यात्मरूपं पुरुषोत्तमस्य धामतदाहुरक्षरं ब्रह्म सर्वकारणकारणम्। विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः। इति वाक्यात्। सोऽयं ससाधनज्ञानलभ्यः अहं तु न तथाऽहैतुकभक्तिलभ्यत्वादित्याह।

'''आनन्दगिरिव्याख्या'''

।।8.21।।यथोक्तेऽव्यक्ते भावे श्रुतिसंमतिमाह -- अव्यक्त इति। तस्य परमगतित्वं साधयति -- यं प्राप्येति। योऽसावव्यक्तो भावोऽत्र दर्शितः सयेनाक्षरं पुरुषं वेद सत्यम् इत्यादिश्रुतावक्षर इत्युक्तस्तं वाक्षरं भावं परमां गतिंपुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इत्याद्याः श्रुतयो वदन्तीत्याह -- योऽसाविति। परमपुरुषस्य परमगतित्वमुक्तं व्यनक्ति -- यं भावमिति।तद्विष्णोः परमं पदम् इति श्रुतिमत्र संवादयति -- तद्धामेति।

'''धनपतिव्याख्या'''

।।8.21।।योऽसौ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनणुएतस्य वाऽक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः। एतस्मिन्नु खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्चपुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इत्यादिश्रुतयस्तमेवाक्षरसंज्ञकं अव्यक्तं भावे परमां प्रकृष्टां गतिं प्राप्यमाहुः। यं प्राप्यं भावं प्राप्य गत्वा पुनः संसाराय न निवर्तन्ते। जन्ममरणादिरुपां संसृतिं न प्राप्नुवन्ति। मम विषणोः परब्रह्मणः तत्परमं सर्वोत्कृष्टं धाम स्थानंतद्विष्णोः परमं पदम् इति श्रुतेः। श्रुतावत्र च राहोः शिर इतिवदभेदेऽपि भेदकल्पनया षष्ठी। अतोऽहमेव मोक्षाख्यं परमं स्थानमित्यर्थः।

'''नीलकण्ठव्याख्या'''

।।8.21।।अव्यक्तो न व्यज्यत इति दृश्यत्वं निरस्तम्। अक्षरोऽश्नुते व्याप्नोतीति त्रिविधपरिच्छेदशून्यत्वमुक्तम्। तं भावं परमां गतिम्। ब्रह्मलोकान्ता गतिरपरमा। कार्यत्वात्। इयं तु परमा। कार्यकराणातीतत्वात्। आहुःएषास्य परमा गतिः इत्यादयः श्रुतयः। यं भावं प्राप्य न निवर्तन्ते पुनः संसारे न पतन्ति तदिति विधेयापेक्षं क्लीबत्वम्। स एव मम विष्णोः परममुपाध्यस्पृष्टं धाम प्रकाशःतद्विष्णोः परमं पदम् इति श्रुतिप्रसिद्धं निष्कलं ब्रह्म।

'''श्रीधरस्वामिव्याख्या'''

।।8.21।।अविनाशे प्रमाणं दर्शयन्नाह -- अव्यक्त इति। यो भावः अव्यक्तोऽतीन्द्रियोऽक्षरः प्रवेशनाशशून्य इतितथाऽक्षरात्संभवतीह विश्वम् इत्यादिश्रुतिष्वक्षर इत्युक्तः तं परमां गतिं गम्यं पुरुषार्थमाहुःपुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इत्यादिश्रुतयः। परमगतित्वमेवाह -- यं प्राप्य न निवर्तन्त इति। तच्च ममैव धाम स्वरूपम्। ममैवेत्युपचारे षष्ठी राहोः शिर इतिवत्। अतोऽहमेव परमा गतिरित्यर्थः।

'''वेङ्कटनाथव्याख्या'''

।। 8.21 परः इत्यादिश्लोकद्वयस्यार्थमाह -- अथेति।अयमभिप्रायः -- भगवन्तं प्राप्तानां पुनरावृत्तिः प्रागेवोक्ता अव्यक्तात्परत्वेन निर्दिष्टोऽक्षरश्च जीव एव भवितुमर्हतिअपरेयमितस्त्वन्याम् [7।5] इत्यादिप्रत्यभिज्ञानात् वक्तव्या च कैवल्यार्थिनामवरोहाभावादपुनरावृत्तिः। अत एव तत्परमेवेदं श्लोकद्वयम् -- इति। अव्यक्तस्यैव पूर्वप्रकृतत्वात् अत्रापिअव्यक्तात् इत्येव परभेदः। तस्य चापेक्षया परशब्दान्यशब्दाभ्यामप्यन्वयः। तत्र च पौनरुक्त्यव्युदासायोत्कृष्टत्वाभिधानमुखेन पुरुषार्थरूपत्वपरः परशब्दः। तत एव च स्वरूपभेदस्य सिद्धत्वादन्यशब्दः प्रकारान्यत्वपरः। अतः स च प्रकारभेदश्चेतनत्वरूप एव प्रमाणसिद्ध इत्यभिप्रायेणाह -- तस्मादिति। भावशब्दोऽत्र पदार्थमात्रवाची।व्यक्तः इति पदच्छेदो न युक्तःअव्यक्तोऽक्षरः इत्यत्रैवाभिधानात् दुर्ग्रहे च जीवे व्यक्तशब्दप्रयोगानुपपत्तेरित्यभिप्रायेणाह -- केनचिदिति। ननु जीवस्याव्यक्तत्वमयुक्तं प्रत्यक्षानुमानागमैर्यथासम्भवं तद्व्यक्तेः अन्यथा खपुष्पत्वप्रसङ्गादित्यत्राह -- स्वसंवेद्येति। प्रमाणान्तराणि हि साधारण्येन तत्प्रतिपादकानीति भावः। नित्यत्वे द्वितीयाध्यायोक्तहेतुस्मरणंउत्पत्तिविनाशानर्हतयेति। भूतशब्दोऽत्र महाभूतपरः तद्विनाशेऽप्यात्मस्थितवचनेन नित्यत्वस्यानायासादलभात्। तत्र सर्वशब्दाभिप्रायवशादेव सकारणत्वं सकार्यत्वं च सिद्धमित्यभिप्रायेणाहवियदादिष्विति। प्रसक्तो हि नाशो जीवे निषेध्यः प्रसङ्गश्चात्र नश्यत्पदार्थानुप्रवेशवशात् यथा तिलेषु दह्यमानेषु तदनुप्रविष्टं तैलमपि दह्यते ततश्च सर्वेषु भूतेषु नश्यत्स्वित्यस्यैव सामर्थ्यलब्धमुक्तंतत्र तत्र स्थितोऽपीतियः स सर्वेषु [मम इति सम्बन्धमात्रविधानस्य प्रागेव सिद्धेः स्थानस्य च स्थानिसापेक्षत्वनियमात् य आत्मनि तिष्ठन् [श.प.ब्रा.14।6।5।30] इत्याद्युक्तमधिष्ठेयं स्थानपर्यायं धामशब्देन विवक्षितमित्याहनियमनस्थानमिति। अत्र किमपरं नियमनस्थानं यद्व्यवच्छेदाय परमशब्दः इत्यत्राहअचेतनेति। अत्र परमधामत्वव्यपदेशात्परिशुद्धात्मविषयत्वं सिद्धम् ततश्चाशुद्धो जीवोऽप्यपर एव विवक्षित इत्याहतत्संसृष्टेति। यदि मुक्तोऽपि परमात्मपरतन्त्रः तर्हि स्वतन्त्रेण परमात्मना पुनरपि संसारगर्ते प्रक्षिप्येतेत्यत्राहतच्चेति।अयं भावः -- अविद्यादिर्हि संसारकारणम् न तु पारतन्त्र्यं अविद्यादेश्च प्रक्षयादीश्वरकारुण्यादीनां च स्वाभाविकत्वान्न मुक्तस्य संसारगन्ध इत्यर्थः। यद्वा न केवलं भगवत्प्राप्तिरेव अपुनरावृत्तिरूपा किन्तु परिशुद्धजीवप्राप्तिरपि अवरोहणाभावात्तथेति भावः।नियमनस्थानं इत्यस्याश्रितविशेषणोपादानारुचेराहअथ वेति। अस्तु धामशब्दस्तेजःपयार्यः प्रकाशवाची तस्य कथमत्रान्वयः इत्यत्राहप्रकाशश्चेति। विशेषणफलितं दर्शयति -- प्रकृतिसंसृष्टादिति। प्रकाशपक्षे -- तत् परमं धाम मम -- मच्छेषभूतम् -- इति वाक्यार्थः। यद्यपिअपरेयम् [7।5] इत्यादिना प्रागेव स्वशेषत्वमुक्तम् तथापि समष्टिचेतनमात्रविषयत्वं तत्र प्रतीयते इह तु मुक्तस्यापि स्वशेषत्वमुच्यत इत्यपौनरुक्त्यम्।

<poem>
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥८- २२॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.22।। --,पुरुषः पुरि शयनात् पूर्णत्वाद्वा स परः पार्थ परः निरतिशयः यस्मात् पुरुषात् न परं किञ्चित्। सः भक्त्या लभ्यस्तु ज्ञानलक्षणया अनन्यया आत्मविषयया। यस्य पुरुषस्य अन्तःस्थानि मध्यस्थानि भूतानि कार्यभूतानि कार्यं हि कारणस्य अन्तर्वर्ति भवति। येन पुरुषेण सर्वं इदं जगत् ततं व्याप्तम् आकाशेनेव घटादि।।प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमुक्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इति यत्र काले इत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते आवृत्तिमार्गोपन्यासः इतरमार्गस्तुत्यर्थः --,

'''माध्वभाष्यम्'''

।।8.22।।परमसाधनमाह -- पुरुष इति।

'''रामानुजभाष्यम्'''

।।8.22।।मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव।। (गीता 7।7)मामेभ्यः परमव्ययम् (गीता 7।13) इत्यादिना निर्दिष्टस्य यस्यान्तःस्थानि सर्वाणि भूतानि येन च परेण पुरुषेण सर्वम् इदं ततं स परपुरुषो अनन्यचेताः सततम् (गीता 8।14) इति अनन्यया भक्त्या लभ्यः।अथ आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च साधारणीम् अर्चिरादिकां गतिम् आह द्वयोः अपि अर्चिरादिका गतिः श्रुतौ श्रुता सा च अपुनरावृत्तिलक्षणा।यथा पञ्चाग्निविद्यायांतद्य इत्थं विदुः ये चेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहः (छा0 उ0 5।10।1) इत्यादौ अर्चिरादिकया गत्या गतस्य परब्रह्मप्राप्तिः अपुनरावृत्तिः च उक्तास एनान्ब्रह्म गमयतिएतेन प्रतिपद्यमाना इमं मानवमावर्त्तं नावर्तन्ते (छा0 उ0 4।15।5) इति।न च प्रजापतिवाक्यादौ श्रुतिपरविद्याङ्गभूतात्मप्राप्तिविषया इयम्तद्य इत्थं विदुः इति गतिश्रुतिःये चेमेऽरण्ये श्रद्धां तप इत्युपासते (छा0 उ0 5।10।1) इति परविद्यायाः पृथक्श्रुतिवैयर्थ्यात्।पञ्चाग्निविद्यायां चइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति (छा0 उ0 5।9।1) इतिरमणीयचरणाः कपूयचरणाः (छा0 उ0 5।10।7) इति पुण्यपापहेतुको मनुष्यादिभावो अपाम् एव भूतान्तरसंसृष्टानाम् आत्मनस्तु यत्परिष्वङ्गमात्रम् इति चिदचितोर्विवेकम् अभिधायतद्य इत्थं विदुः तेऽर्चिषमभिसंभवन्ति (छा0 उ0 5।10।1)इमं मानवमावर्त्तं नावर्तन्ते (छा0 उ0 4।15।5) इति विविक्ते चिदचिद्वस्तुनि त्याज्यतया प्राप्यतया चतद्य इत्थं विदुस्तेऽर्चिरादिना गच्छन्ति न च पुनरावर्तन्ते इति उक्तम् इति गम्यते।आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य चस एनान्ब्रह्म गमयति (छा0 उ0 4।15।5) इति ब्रह्मप्राप्तिवचनात् अचिद्वियुक्तम् आत्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसम् इत्यनुसंधेयम्।तत्क्रतुन्यायाच्च परशेषतैकरसत्वं चय आत्मनि तिष्ठन्यस्यात्मा शरीरम् (श0 ब्रा0 14।6।5।5।30) इत्यादिश्रुतिसिद्धम्।

'''अभिनवगुप्तव्याख्या'''

।।8.20 -- 8.22।।सर्वतो लोकेभ्यः पुनरावत्तिः न तु मां परमेश्वरं (S K omit परमेश्वरम्) प्राप्य इति स्फुटयति -- पर इत्यादि प्रतिष्ठितमित्यन्तम्। उक्तप्रकारं कालसंकलनाविवर्जितं तु वासुदेवतत्त्वम्। व्यक्तम् सर्वानुगतम् तत्त्वेऽपि अव्यक्तम् दुष्प्रापत्वात्। तच्च भक्तिलभ्यमित्यावेदितं प्राक्। तत्रस्थं च एतद्विश्वं यत्खलु अविनाशिरूपं ( स्वरूपम्) सदा तथाभूतम्। तत्र कः पुनःशब्दस्य आवृत्तिशब्दस्य चार्थः स हि मध्ये तत्स्वभावविच्छेदापेक्षः। न च सदातनविश्वोत्तीर्णविश्वाव्यतिरिक्त -- विश्वप्रतिष्ठात्मक (SNK (n) विश्वनिष्ठात्मक -- ) परबोधस्वातन्त्र्यस्वभावस्य श्रीपरमेश्वरस्य तद्भावप्राप्तिः (N -- प्राप्तस्य) [ संभवति ] येन स्वभावविच्छेदः कोऽपि कदाप्यस्ति [इति कल्प्येत]। अतो युक्तमुक्ततम् मामुपेत्य तु (VIII 16) इति।

'''जयतीर्थव्याख्या'''

।।8.22।।भक्त्या युक्तः [8।10] इति भक्तेर्भगवत्प्राप्तिसाधनत्वस्योक्तत्वात् पुनरुक्तमुत्तरं वाक्यमित्यत आह -- परमेति। अन्यैः साधनैः सहोक्तत्वेन तत्साम्यशङ्कायां साधनेषु भक्तेः परमत्वमनेनाह। तच्च पुनर्वचनेनैव द्योत्यमिति भावः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.22।।इदानीम्अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः इति प्रागुक्तं भक्तियोगमेव तत्प्राप्त्युपायमाह -- स परो निरतिशयः पुरुषः परमात्माहमेव। अनन्यया न विद्यतेऽन्यो विषयो यस्यां तया प्रेमलक्षणया भक्त्यैव लभ्यो नान्यथा। स क इत्यपेक्षायामाह -- यस्य पुरुषस्यान्तःस्थान्यन्तर्वतीनि भूतानि सर्वाणि कार्याणि। कारणान्तर्वर्तित्वात्कार्यस्य। अतएव येन पुरुषेण सर्वमिदं कार्यजातं ततं व्याप्तम्यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्।वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वयच्च किंचिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितःसपर्यगाच्छुक्रम् इत्यादिश्रुतिभ्यश्च।

'''पुरुषोत्तमव्याख्या'''

।।8.22।।ननु यद्धामगता न निवर्तन्ते स त्वं कथं प्राप्यः इत्याकाङ्क्षायामाह -- पुरुष इति। हे पार्थ मद्भक्त सोऽहं परः पुरुषोत्तमः अनन्यया ऐहिकपारलौकिकयोर्मच्छरणैकरूपया मदितरज्ञानरहितया भक्त्या स्नेहेन लभ्यः प्राप्यः। स कीदृशः इत्यत आह -- यस्येति। यस्य अन्तस्स्थानि भूतानि चराचराणि रमणकारणात्मकानि यस्य मध्ये स्वरूपे तिष्ठन्ति येन इदं परिदृश्यमानं सर्वं जगत् ततं व्याप्तम्। अत्रायं भावः -- लौकिकाः सर्वे क्रीडोपयुक्ता न भवन्ति आचरणस्थितत्वात् अतस्ते ज्ञानादिना मद्धाम प्राप्यं लीनास्तत्रैव,मुक्ता भवन्तीत्यर्थः। येन क्रीडार्थमाविर्भूतेन तदधिष्ठानत्वादिदं मयि जगत् व्याप्तं सत् ततं विस्तृतं विभातीति भावः।

'''वल्लभाचार्यव्याख्या'''

।।8.22।।पुरुषः स पर इति। अनेनाक्षरात्परस्य स्वस्य पूर्णानन्दस्य निर्हेतुकभक्तिलभ्यत्वमुक्तम्। तेन न ज्ञानमार्गीयाणां पुरुषोत्तमप्राप्तिरिति सिद्धम्। परस्य लक्षणमाह -- यस्यान्तस्स्थानि भूतानि इति साक्षराणि। एतच्च स्पष्टं मृद्भक्षणप्रसङ्गेश्रीगोकुलेश्वरेयेन सर्वमिदं ततं [18।46] इति माहात्म्यं परिच्छिन्नमेव व्यापकमिति दामोदरलीलायां इदं सर्वंअक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तं इत्यादिसूत्रभाष्ये [ब्र.सू.3।3।33] प्रपञ्चितम्। यत्तु (रामानुजाचार्यैः) कैश्चिदुक्तंभूम्यादिप्रकृतिर्जीवभूता च भगवतो धाम इति तद्युक्तमुक्तम्। तस्माज्जीवभूतस्य च तद्धामत्वं श्रूयतेऽपि यस्य पृथिवी शरीरं [बृ.उ.3।7।3] यस्यात्मा शरीरं [श.ब्रा.14।6।5।5] इति। न त्वक्षरत्वं तदा(सदा)जीवभूतस्य सम्भवति ज्ञानोत्तरं तत्त्वसिद्धेः। तस्माज्जीवातीतः सर्वकारणकारणभूतोऽक्षरोऽपि पृथगित्यवोचाम। यत उक्तं भागवते तृतीये [3941]आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः। दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत्। लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः। तदाहुरक्षरं ब्रह्म सर्वकारणकारणम्। विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः।। इति तस्याक्षरस्यांशः पुरुषस्तु समष्टिव्यष्ट्यभिमानी वैराजः स जीवलोके जीवभूत इति व्यपदिश्यते। पुरुषोत्तमस्तु एतत्ित्रयान्य इति स्वयमेव वक्ष्यति। स च सर्वसाधनफलात्मजीवलोकोत्तरसानन्दस्वरूपो नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन [कठो.2।22] किन्तु यमेवैष वृणुते तेन लभ्यः [कठो.2।22] इति श्रुतेः स्वानुगृहीतभक्तिलभ्य इति प्रतिभाति। तथैवाग्रे प्रदर्शयिष्यामः।

'''आनन्दगिरिव्याख्या'''

।।8.22।।नन्वव्यक्तादतिरिक्तस्य तद्विलक्षणस्य परमपुरुषस्य प्राप्तौ कश्चिदसाधारणो हेतुरेषितव्यो यस्मिन्प्रेक्षापूर्वकारी तत्प्रेक्षया प्रवृत्तो निर्वृणोति तत्राह -- तल्लब्धेरिति। परस्य पुरुषस्य सर्वकारणत्वं सर्वव्यापकत्वं च विशेषणद्वयमुदाहरति -- यस्येति। निरतिशयत्वं विशदयति -- यस्मादिति। तुशब्दोऽवधारणार्थः। भक्तिर्भजनम् सेवा प्रदक्षिणप्रणामादिलक्षणा तां व्यावर्तयति -- ज्ञानेति। उक्ताया भक्तेर्विषयतो वैशिष्ट्यमाह -- अनन्ययेति। कोऽसौ पुरुषो यद्विषया भक्तिस्तत्प्राप्तौ पर्याप्तेत्याशङ्क्योत्तरार्धं व्याचष्टे -- यस्येति। कथंभूतानां तदन्तःस्थत्वं तत्राह -- कार्यं हीति।स पर्यगात् इति श्रुतिमाश्रित्याह -- येनेति।

'''धनपतिव्याख्या'''

।।8.22।।तत्प्राप्तेव्याभिचारि साधनमाह। स परः पुरुषः सर्वोत्तमः पुरिशयनात्पूर्णत्वाद्वा पुरुषः। अनन्यया न विद्यतेऽन्यो विषयो यस्यां तया। आत्मविषययेति यावत्। भक्त्या ज्ञानलक्षणयोत्तमभक्त्या। तदुक्तंसर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः। भूतानि भगवत्यामन्येष भागवत्तोत्तमः।।ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेम मैत्री दयोपेक्षाः यः करोति स मध्यमः।।अर्चायामेव हरये पूजा यः श्रद्धयेहते। न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः इति।वासुदेवः सर्वमिति स महात्मा सुदुर्लभः।यो वै अन्यां देवतामुपास्ते अहमन्योऽसावन्य इति न स वेदेति तस्मात्सः परः पुरुष अहमेव न तदभिन्नात्मनः किंचित्पृथगस्ति इत्यनन्यया भक्तया लभ्यः लब्धुं शक्यः। ननु सतु सदैव प्राप्त इत्याशङ्क्य द्विविधो हि लाभोऽलब्धलाभो लब्धलाभस्चेति। तत्रालब्धस्य ग्रामदे राजसेवादिना लाभ आद्यः। लब्धस्यैव ग्रैवेयकादेराप्तवाक्याल्लाभो द्वितीयः। तत्रान्त्यलाभोऽत्राभिप्रेत इत्याशयेन शङ्कामङ्गीकरोति। यस्य परस्य पुरुषस्यान्तर्मध्ये स्थानि स्थितानि भूतानि सर्वाणि कार्यजातानि भूतानि यस्मिन्नधिष्ठाने कल्पितानीत्यर्थः। कल्पितं ह्यधिष्ठास्यान्तर्भवति न व्यतिरिक्तं येन पुरुषेणेदं सर्व जगत्ततं सत्तास्फूर्तिभ्यां व्याप्तं त्वमपि मत्प्राप्त्यव्यभिचारिसाधिनभूतां भक्तिं यत्नेन संपादय नतु पृथानतयोऽहं मम तु भक्तिं विनैवेश्वरलाभो भविष्यतीति विश्रम्भाश्रयणं कुर्विति ध्वनयन् संबोधयति -- हे पार्थेति। मद्विषयानन्या भक्तिस्तवानायासलभ्येति सूचनार्थ वा संबोधनम्।

'''नीलकण्ठव्याख्या'''

।।8.22।।एवं ज्ञेयं प्रत्यगभिन्नं ब्रह्मोक्त्वा जगत्कारणमुपासनीयमितोऽन्यदित्याह -- पुरुष इति। तुशब्दः पूर्ववैलक्षण्यद्योतनार्थः। हे पार्थ योयं भक्त्या आराधनेन। उपासनेनेतियावत्। कीदृश्या। अनन्यया नास्त्यन्यो यस्यां सा तया उपास्योपासकभेदमन्तरेणाहंग्रहरूपयेत्यर्थः। तया भक्त्या यो लभ्यः स परः पूर्वोक्तादव्यावृत्ताननुगतादक्षरादन्यः कारणात्मेति यावत्। लभ्यत्वादेवास्यान्यत्वमपि। नह्यात्मा च लभ्यश्चेति युज्यते। अस्य कारणत्वमेवाह -- यस्येति। यस्य पुरुषस्यान्तःस्थानि बीजे द्रुम इव सर्वाणि वियदादीनि स्थावरजंगमानि च येन च इदं सर्वं ततं व्याप्तमुपादानत्वात् स भक्त्या लभ्यत इति योजना।

'''श्रीधरस्वामिव्याख्या'''

।।8.22।। तत्प्राप्तौ च भक्तिरन्तरङ्गोपाय इत्युक्तमेवाह -- पुरुष इति। स चाहं परः पुरुषोऽनन्यया न विद्यते अन्यः शरणत्वेन यस्यास्तया एकान्तभक्त्यैव लभ्यो नान्यथा। परत्वमेवाह। यस्य कारणभूतस्यान्तर्मध्ये भूतानि स्थितानि। येन च कारणभूतेन सर्वमिदं जगत्ततं व्याप्तम्।

'''वेङ्कटनाथव्याख्या'''

।।8.22।।पुरुषः सः इति श्लोके तुशब्देनार्थान्तरद्योतनात्अनन्यया भक्त्या इत्यस्य सामर्थ्यात्पुरुषशब्दस्य परमात्मनि पुरिशयत्वपूर्णत्वपूर्वसद्भावपुरुदानादिभिर्निमित्तैः सहस्रशीर्षा पुरुषः [ऋक्सं.8।4।17।8यजुस्सं.31।1] इत्यादिप्रयोगप्राचुर्यात्परशब्देन विशेषणाच्च पूर्वोक्तात्फलादधिकफलोपदेशार्थोऽयं श्लोक इत्यभिप्रायेणाह -- ज्ञानिन इति।विभक्तं विवेचकैरिति शेषः। विलक्षणमिति वाऽर्थः। गगनाद्यन्तस्थितावपि गगनादेः परत्वाभावात्तत्सिद्ध्यर्थंयस्य इत्यादिप्रसिद्धवन्निर्देशोऽत्र पूर्वोक्तपरत्वपर इति दर्शयति -- मत्त इति। अनुवादपुरोवादयोरैकार्थ्यमिति भावः। यस्मात्परं नापरम् इत्यारभ्य तेनेदं पूर्णं पुरुषेण सर्वम् [श्वे.उ.3।9] इति श्रुतिस्मारणाययेन च परेण पुरुषेणेत्युक्तम्। भक्तेरनन्यत्वं कीदृशं इत्यत्राह -- अनन्यचेता इति।

<poem>
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥८- २३॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.23।। -- यत्र काले प्रयाताः इति व्यवहितेन संबन्धः। यत्र यस्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां चैव। योगिनः इति योगिनः कर्मिणश्च उच्यन्ते कर्मिणस्तु गुणतः -- कर्मयोगेन योगिनाम् (गीता 3।3) इति विशेषणात् -- योगिनः। यत्र काले प्रयाताः मृताः योगिनः अनावृत्तिं यान्ति यत्र काले च प्रयाताः आवृत्तिं यान्ति तं कालं वक्ष्यामि भरतर्षभ।।तं कालमाह --,

'''माध्वभाष्यम्'''

।।8.23।।यत्कालाद्यभिमानिदेवता गता आवृत्त्यनावृत्ती गच्छन्ति ता आह -- यत्रेत्यादिना। काल इत्युपलक्षणं अग्न्यादेरपि वक्ष्यमाणत्वात्।

'''रामानुजभाष्यम्'''

।।8.23।।अत्र कालशब्दो मार्गस्य अहःप्रभृतिसंवत्सरान्तकालाभिमानिदेवताभूयस्तया मार्गोपलक्षणार्थः यस्मिन् मार्गे प्रयाता योगिनो अनावृत्तिं पुण्यकर्माणः च आवृत्तिं यान्ति तं मार्गं वक्ष्यामि इत्यर्थः।

'''अभिनवगुप्तव्याख्या'''

।।8.23।।एवं च सतताभ्यासेन येषां क्लेशं विनैव भगवदाप्तिः तेषां वृत्तमुक्तम्। इदानीम् (NK (n) इदानीं पुनः) उत्क्रान्त्या येऽपवर्गं भोगं चेच्छन्ति तेषां कश्चिद्विशेष उच्यते -- यत्रेति। अनावृत्तिः मोक्षः। आवृत्तिः भोगाय।

'''जयतीर्थव्याख्या'''

।।8.23।।यस्मिन् काले मृताः आवृत्त्यनावृत्ती यान्ति तत्प्रतिपादनार्थमुत्तरो ग्रन्थ इत्यन्यथाप्रतीतिनिरासार्थमाह -- यदिति। याश्च ताः कालाभिमानिन्यश्चेति विग्रहः। देवता गता इति तदधिष्ठितमार्गाभ्यां गता इत्यर्थः काल इत्युक्तत्वात्। कथमादिपदप्रक्षेपेण व्याख्यानं इत्यत आह -- काल इति। कुतः इत्यत आह -- अग्न्यादेरिति। अग्निर्ज्योतिर्धूमानाम्।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.23।।सगुणब्रह्मोपासकास्तत्पदं प्राप्य न निवर्तन्ते किंतु क्रमेण मुच्यन्ते। तत्र तल्लोकभोगात्प्रागनुत्पन्नसम्यग्दर्शनानां तेषां मार्गापेक्षा विद्यते नतु सम्यग्दर्शिनामिव तदनपेक्षेत्युपासकानां तल्लोकप्राप्तये देवयानमार्ग उपदिश्यते। पितृयाणमार्गोपन्यासस्तु तस्य स्तुतये -- प्राणोत्क्रमणानन्तरं यत्र यस्मिन्काले कालाभिमानिदेवतोपलक्षिते मार्गे प्रयाता योगिनो ध्यायिनः कर्मिणश्य अनावृत्तिमावृत्तिं च यान्ति देवयाने पथि प्रयाता ध्यायिनोऽनावृत्तिं यान्ति। पितृयाणे पथि प्रयाताश्च कर्मिण आवृत्तिं यान्ति। यद्यपि देवयानेऽपि पथि प्रयाताः पुनरावर्तन्त इत्युक्तंआब्रह्मभुवनाल्लोकाः पुनरावर्तिनः इत्यत्र तथापि पितृयाणे पथि गता आवर्तन्त एव न केऽपि तत्र क्रममुक्तिभाजः। देवयाने पथि गतास्तु यद्यपि केचिदावर्तन्ते प्रतीकोपासकास्तडिल्लोकपर्यन्तं गता हिरण्यगर्भपर्यन्तममानवपुरुषनीता अपि पञ्चाग्निविद्याद्युपासका अतत्क्रतवो भोगान्ते निवर्तन्त एव तथापि दहराद्युपासकाः क्रमेण मुच्यन्ते भोगान्त इति न सर्व एवावर्तन्ते। अतएव पितृयाणः पन्था नियमेनावृत्तिफलत्वान्निकृष्टः। अयं तु देवयानः पन्था अनावृत्तिफलत्वादतिप्रशस्त इति स्तुतिरुपपद्यते। केषांचिदावृत्तावप्यनावृत्तिफलत्वस्यानपायात्। तं देवयानं पितृयाणं च कालं कालाभिमानिदेवतोपलक्षितं मार्गं वक्ष्यामि हे भरतर्षभ अत्र कालशब्दस्य मुख्यार्थत्वे अग्निर्ज्योतिर्धूमशब्दानामनुपपत्तिर्गतिसृतिशब्दयोश्चेति तदनुरोधेनैकस्मिन्कालपद एव लक्षणाश्रिता कालाभिमानिदेवतानां मार्गद्वयेऽपि बाहुल्यात् अग्निधूमयोस्तदितरयोः सतोरप्यग्निहोत्रशब्दवदेकदेशेनाप्युपलक्षणं कालशब्देन। अन्यथा प्रातरग्निदेवताया अभावात्तत्प्रख्यं चान्यशास्त्रमित्यनेन तस्य नामधेयता न स्यात्। आम्रवणमिति च लौकिकों दृष्टान्तः।

'''पुरुषोत्तमव्याख्या'''

।।8.23।।नन्वितो गता य आवर्तन्ते निवर्तन्ते वा ये तेऽत्र कथं ज्ञेयाः इत्याशङ्क्याह -- यत्रेति। यत्र काले यस्मिन् काले प्रयाता योगिनः अनावृत्तिं यान्ति प्राप्नुवन्ति च पुनः यस्मिन् काले प्रयाता आवृत्तिमेव प्राप्नुवन्ति हे भरतर्षभ ज्ञानयोग्यकुलोत्पन्न तं कालं वक्ष्यामि कथयामीत्यर्थः।,

'''वल्लभाचार्यव्याख्या'''

।।8.23।।अथ कदा केन मार्गेण गता नावर्त्तन्ते केन वा गताश्चावर्त्तन्ते इत्यपेक्षायामाह -- यत्रेति। अत्र कालशब्दोऽपि चाहःप्रभृतिसंवत्सरान्तकालाभिमानिदेवताभिरातिवाहिकीभिर्द्वारा मार्गोपलक्षणार्थः। तथा चायमर्थः -- कालाभिमानिदेवोपलक्षिते यत्र काले मार्गे च प्रयाताः प्राणतो वियोगिनो वा सन्तो भगवन्महिमज्ञानिनः भक्ता अर्थार्थिनश्च यथाक्रममनावृत्तिमावृत्तिं च यान्ति तं वक्ष्यामि। यद्यप्यग्निज्योतिषोः कालाभिमानित्वं स्वतो न सम्भवति तथापि सायम्प्रातः कालाभिमानित्वेन तथोक्तिः सम्भवति। अतएव मंत्रे -- अग्निश्च मामन्युश्च,[म.ना.31।3] इति रात्रौ सूर्यश्च मामन्युश्च इति दिवा निरूप्यते।

'''आनन्दगिरिव्याख्या'''

।।8.23।।ननु ज्ञानायत्ता परमपुरुषप्राप्तिरुक्ता। न च ज्ञानं मार्गमपेक्ष्य फलाय कल्पते विदुषो गत्युत्क्रान्तिनिषेधश्रुतेस्तथाच मार्गोक्तिरयुक्तेत्याशङ्क्य सगुणशरणानां तदुपदेशोऽर्थवानित्यभिप्रेत्याह -- प्रकृतानामिति। वक्तव्य इति यत्र काल इत्याद्युच्यत इति संबन्धः। स चेद्वक्तव्यस्तर्हि किमित्यध्यात्मादिभावेन सविशेषं ब्रह्म ध्यायतां फलाप्तये मूर्धन्यनाडीसंबद्धे देवयाने पथ्युपास्यत्वाय वक्तव्ये कालो निर्दिश्यते तत्राह -- विवक्षितेति। सोऽर्थो मार्गस्तदुक्तिशेषत्वेन कालोक्तिरित्यर्थः। पितृयाणमार्गोपन्यासस्तर्हि किमिति क्रियते तत्राह -- आवृत्तीमिति। मार्गान्तरस्यावृत्तिफलत्वादस्य चानावृत्तिफलत्वात्तदपेक्षया महीयानयमिति स्तुतिर्विवक्षितेति भावः। योगिन इति ध्यायिनां कर्मिणां च तन्त्रेणाभिधानमित्याह -- योगिन इति। कथं कर्मिषु योगिशब्दो वर्ततामित्याशङ्क्यानुष्ठानगुणयोगादित्याह -- कर्मिणस्त्विति। गुणतो योगिन इति संबन्धः। तत्रैव वाक्योपक्रमस्यानुकूल्यमाह -- कर्मयोगेने(णे)ति। अवशिष्टान्यक्षराणि व्याचक्षाणो वाक्यार्थमाह -- यत्रेति। योगिनो ध्यायिनोऽत्र विवक्षिताः आवृत्तावधिकृता योगिनः कर्मिण इति विभागः। कालप्राधान्येन मार्गद्वयोपन्यासमुपक्रम्य तमेव प्रधानीकृत्य देवयानं पन्थानमवतारयति -- तं कालमिति।

'''धनपतिव्याख्या'''

।।8.23।।यद्यपीहैवात्मसाक्षात्कारवतांन तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते इति श्रुत्या गत्युत्क्रान्तिनिषेधाद्वक्ष्यमाणमार्गोपदेशस्तदर्थ नोपयज्यते तथापि प्रणवावेशितबुद्धीना प्रकृतानां योगिनां सगुणोपासकानां क्रममुक्तिभाजां केन क्रमेण ब्रह्मप्राप्तिरित्याकाङ्क्षायामुत्तरमार्गे निरुपिव्ये उत्तरमार्गेण गता न निवर्तन्ते गतास्तु पुररावृत्तिभाज इत वक्तव्यस्तुत्यर्थे पितृयाणमार्गोपदेशः। यत्रेति। यत्र काले प्रयाता मृता योगिनो ध्यानयोगिन उपासका अनावृत्तिमपुनरावृत्तिं यान्ति कर्मयोगिनश्चावृत्तिं पुनरावृत्तिं यान्ति तं कालं वक्ष्यामि कर्मिणः योगित्वमनुष्ठानयोगात्कर्मयोगेन योगिनामित्युक्तत्वात् योगिन इत्यनेन प्रक्रान्ता ओमित्येकाक्षरमित्यादिक्तो ग्राह्यास्तेन पञ्चाग्निविद्योपासकानां देवयानमार्गेण ब्रह्मलोकं गतानामपि ततो निवृत्तौ न क्षतिः। कर्मयोगिनोऽप्यपासनासमुच्चितकर्मयोगिनो ग्राह्याः। भरतर्षभेति संबोधयन् भरता अपि निष्कामकर्मयोगसमुच्चितेनेपास नेनात्रैव साक्षात्कारं लब्ध्वा साक्षान्मुक्तिं देवयानमार्गेण गत्वा क्रमेण वा प्राप्तास्त्वं तु तेभ्यः श्रेष्ठस्तथैव भवितुं योग्योऽसीति सूचयति।

'''नीलकण्ठव्याख्या'''

।।8.23।।पूर्वोक्तानामोंकारद्वारा सगुणब्रह्मविदां क्रममुक्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इत्यत आह -- यत्रेति। आवृत्तिमार्गोपन्यासोऽनावृत्तिमार्गस्तुत्यर्थः। योगिन इति। योगिनः कर्मिणश्चोच्यन्ते तेषां यथायोगं मार्गद्वयविभागः। शेषं स्पष्टम्।

'''श्रीधरस्वामिव्याख्या'''

।।8.23।।तदेवं परमेश्वरोपासकाः तत्पदं प्राप्य न निवर्तन्ते अन्ये त्वावर्तन्त इत्युक्तम्। तत्र केन मार्गेण गता नावर्तन्ते केन वा गताश्चावर्तन्त इत्यपेक्षायामाह -- यत्रेति। यत्र यस्मिन्काले प्रयाता योगिनोऽनावृत्तिं यान्ति यस्मिंश्च काले प्रयाता आवृत्तिं यान्ति तं कालं वक्ष्यामीत्यन्वयः। अत्र च रश्म्यनुसारी अतश्चायनेऽपि दक्षिण इति सूचितन्यायेनोत्तरायणादिकालविशेषस्मरणस्य विवक्षितत्वात्कालशब्देन कालाभिमानिनीभिरातिवाहिकीभिर्देवताभिः प्राप्यो मार्ग उपलक्ष्यते अतोऽयमर्थः -- यस्मिन्कालाभिमानिदेवतोपलक्षिते मार्गे प्रयाता योगिन उपासकाः कर्मिणश्च यथाक्रममनावृत्तिमावृत्तिं च यान्ति तं कालाभिमानिदेवतोपलक्षितं मार्गं कथयिष्यामीति। अग्निज्योतिषोः कालाभिमानित्वाभावेऽपि भूयसामहरादिशब्दोक्तानां कालाभिमानित्वात्तत्साहचर्यादाम्रवनमित्यादिवत्कालशब्देनोपलक्षणमविरुद्धम्।

'''वेङ्कटनाथव्याख्या'''

।।8.23।।यत्र काले तु इत्यादेःयोगयुक्तो भवार्जुन [8।27] इत्यन्तस्य तात्पर्यमाह -- अथेति। अत्र धूमादिमार्गकथनं हेयत्वार्थम् अर्चिरादिमार्गोपदेशस्तु तदनुसन्धानार्थ एवेति तत्रैव तात्पर्यमिति भावः। ननु परमपुरुषार्थनिष्ठस्यैव ह्यर्चिरादिगतिः तत्कथमत्र साधारण्यमुच्यते इत्यत्राह -- द्वयोरपीति। आत्मनिष्ठस्याप्यपुनरावृत्तेः पूर्वोक्तत्वात्तस्याप्यर्चिरादिकैव गतिरिति दर्शयितुमाह -- सा चेति। साधारण्यापुनरावृत्त्योः श्रुतिमेव दर्शयति -- यथेति। अङ्गिफलमेवाङ्गेऽपि व्यपदिश्यत इत्याशङ्क्य परिहरति -- नचेति। हेतुमाह -- ये चेति। यद्यप्यङ्गिफलमेवाङ्गेऽपि निर्देष्टुं युक्तम् तथाप्यङ्गिना सहाङ्गस्य तुल्यवत्पृथङ्निर्दिष्टस्य तत्फलनिर्देशो न युक्त इति भावः। एतेन प्रथमषट्कोदितप्रत्यगात्मवेदनादत्रत्याक्षरयाथात्म्यानुसन्धानस्य भेदोऽपि दर्शितः।तद्य इत्थं विदुः इत्यस्य प्रत्यगात्मनिष्ठविषयत्वं कथं इत्यत्राह -- पञ्चाग्निविद्यायां चेति। आपः पुरुषवचसो भवन्ति [छां.उ.5।9।14] इति त्रिवृत्कृतानामभिधीयमानत्वाद्भूतान्तरसंसर्गसिद्धिः।अपामेवेत्यात्मस्वरूपपरिणामव्युदासायोक्तम्। एवंविधशरीरसम्बन्धमात्रस्याप्यौपाधिकत्वप्रदर्शनायाहपुण्यपापहेतुक इति। रमणीयचरणा रमणीयां योनिं ৷৷. कपूयचरणाः कपूयां योनिम् इत्यादिवचनान्न केवलाचिद्विषयमिदं प्रकरणम्। तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते इत्युक्तयद्वृत्तद्वयस्य तेऽर्चिषम् इत्येकेन तद्वृत्तेन प्रतिनिर्देशादुभयोर्गतिरविशिष्टेति ज्ञापनाय तद्य इत्थं विदुः तेऽर्चिषम् इति व्यवहितमुपात्तम्। इत्थंशब्दानूदितं प्रस्तुताकारविशेषं दर्शयति -- विविक्ते इति। ,ननुतत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति [छां.उ.4।15।6] इत्यर्चिरादिना गतस्य ब्रह्मप्राप्तिः श्रूयते तत्कथं केवलात्मोपासकस्य ब्रह्मप्रापकार्चिरादिगतिप्राप्तिः इत्यत्राह -- आत्मयाथात्म्येति। अयं पञ्चाग्निविद्यानिष्ठो न केवलात्मोपासकः अपितु ब्रह्मात्मकस्वात्मानुसन्धायीति भावः। अन्यथा तत्क्रतुन्यायविरोध इत्यभिप्रायेणाह -- तत्क्रतुन्यायाच्चेति। चकार इतरेतरयोगे। यथावस्थितात्मानुसन्धानस्य परशेषतैकरसत्वानुसन्धानरूपत्वे प्रमाणमाह -- य आत्मनीति। आदिशब्देन पतिं विश्वस्य [तै.ना.6।11।3] करणाधिपाधिपः [श्वे.उ.6।9] इत्यादिवाक्यशतं गृह्यते। अत्र शारीरकभाष्यादिविरोधो मन्दैराशङ्कितः इह तावच्छ्रुतिसूत्रभाष्यादिष्वन्यत्र च पञ्चाग्निविदः परमात्मात्मकस्वात्मानुसन्धातृत्वमर्चिरादिगतिश्चाविशेषेणोच्यते। तस्याश्च ब्रह्मगमयितृत्वस्य श्रुत्यादिष्विह चतत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः इति सिद्धत्वात् पञ्चाग्निविदोऽपि परमात्मप्राप्तिरस्त्येवेति स्वीकर्तव्यम्। तत्र प्राप्तौ ज्ञानिनां परमात्मात्मकस्वात्मानुसन्धानस्य स्वविशिष्टो भोग्यः अक्षरयाथात्म्यनिष्ठानां तु स्वस्वरूपमेव पूर्वं भोग्यम् वस्वादिपदप्राप्तिपूर्वकब्रह्मप्राप्तिसाधनमधुविद्यादिन्यायादन्ततो ब्रह्मप्राप्तिः ईदृशपर्वक्रमप्रतिनियमश्च प्राचीनापेक्षाभेदात् स च प्राचीनकर्मविशेषात्चतुर्विधा भजन्ते माम् [7।16] इति प्रागेव दर्शितः।न चात्र जिज्ञासोरन्य एवात्मयाथात्म्यविदिति भाष्यते जिज्ञासुवेद्यतयोक्तस्वभावविसर्गयोरत्र च पञ्चाग्निविद्योदाहरणात् मध्ये च कैवल्यार्थिन एव मूर्धन्यनाड्या निष्क्रमणमनावृत्तिश्चोक्ता आत्मयाथात्म्याक्षरयाथात्म्यशब्दयोश्चात्र न भिन्नार्थत्वम् तस्योपासने किञ्चिदस्ति विशेषः अक्षरयाथात्म्यविदः -- परमात्मशरीरभूतस्वात्मोपासकाः ज्ञानिनस्तु स्वात्मशरीरकपरमात्मोपासका इत्ययमेव विशेषः तद्य इत्थं विदुर्ये चेमेऽरण्ये [छां.उ.5।10।1] इति विभागनिर्देशाभिप्रेत इति भाष्यादिषूक्तः। सारे तुउभयेऽपि हि परिपूर्णं ब्रह्मोपासते मुखभेदेन स्वात्मशरीरकं ब्रह्म केचन ब्रह्मात्मकस्वात्मानमितरे [वे.सा.4।3।14] इति। अत एव सप्तमे प्रक्रान्तो जिज्ञासुः परमात्मप्राप्तिकामज्ञानिव्यतिरिक्तत्वात् अब्रह्मात्मकस्वात्मानुसन्धायीति न भ्रमितव्यम्। तस्य चोदारकोटिमात्रे निवेशः स्वात्मानुभवविलम्बिविमुखज्ञानिव्यतिरेकात्।अर्चिरादिगतिनिषेधस्तु ब्रह्मात्मकस्वात्मानुसन्धानरहितस्वात्मोपासनविषयः। इदमपि भाष्यादिषु व्यक्तमेवोक्तंतस्मादचिन्मिश्रं केवलं वा चिद्वस्तु ब्रह्मदृष्ट्या तद्वियोगेन च य उपासते न तान्नयति अपितु परं ब्रह्मोपासीनान् आत्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानातिवाहिको गुणो नयति [ब्र.सू.भा.4।3।15] इत्यादिभिः। यत्पुनरुच्यते ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः। सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् [म.भा.12।341।35] इति तत्रापि आत्ममात्रानुभवसुखस्य स्थिरत्वादेव च्यवनधर्मत्वमुच्यते न तावता पुनः संसारप्रसङ्गःइन्द्रलोकात्परिभ्रष्टो मम लोकपरायणः। प्रमुक्तः सर्वसंसारैर्मम लोकं च गच्छति [वा.पु.139।98] प्रच्युतो वा एषोऽस्माल्लोकादसतो देवलोकम् [यजुः6।1।1।5] इत्यादिष्विवोत्तरोत्तरातिशयितपदप्राप्तावपि पूर्वपदभ्रंशमात्राच्च्यवनधर्मत्ववाचो युक्तेरविरोधात् परिमितसुखानुभवविलम्बनेन तदानीं निरतिशयसुखानुभवाद्भ्रष्टत्वेनापि निन्दोपपत्तेश्च। उपासनदशानुभूते परमात्मनि फलदशायां किञ्चित्कालमनुभवविच्छेदाद्वा प्राप्तभ्रंशलक्षणं च्यवनधर्मत्वम्।प्रतिबुद्धस्तु मोक्षभाक् [म.भा.12।341।35] इति चाव्यवहितमोक्षभाक्त्वं प्रतिबुद्धस्योच्यते न तावतान्यस्य मोक्षाभावःभुक्त्वा च भोगान्विपुलांस्त्वमन्ते मत्प्रसादतः। ममानुस्मरणं प्राप्य मम लोकमवाप्स्यसि [वि.पु.5।19।26] इतिवदविरोधात्।यथा च मुमुक्षोरेव कस्यचिन्मध्ये ब्रह्मकायनिषेवणसुखमुच्यते तथात्रापि स्थानविशेषे स्वात्मानुभवविलम्बः। यथा चअथवा नेच्छते तत्र ब्रह्मकायनिषेवणम्। उत्क्रामति च मार्गस्थः शीतीभूतो निरामयः इत्यादिना ब्रह्मकायनिषेवणसङ्गात् मुक्तस्य देवयानेन मार्गेण परमाकाशगमनमुच्यते तद्वदिहापि स्वात्मानुभवस्थानात्प्रच्युतस्य परमव्योमाधिरोहः स्यात् अर्चिरादिगतिश्चास्यावान्तरफलानुभवात्पश्चाद्वा गतिमध्ये वा। दक्षिणायनमृतस्य चन्द्रमसः सायुज्यवद्विश्रममात्ररूपोऽयमवान्तरफलानुभव इत्युभयधापि न विरोधः। एतेन पश्चादेवास्याप्रतीकालम्बनत्वमित्यपि निरस्तं मधुविद्यावदेव प्रथममपि तदुपपत्तेः। स्मरन्ति च स्वात्मानुभवस्थानं मुक्तिस्थानादर्वाचीनंयोगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम्। एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये। तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः [वि.पु.1।6।38] इति। अमृतस्थानवर्तिनां च मुक्तत्वव्यपदेशो जरामरणादिविरहात्पुनर्जन्महेतुभूतपुण्यपापविगमाच्च।अस्ति च परित्यक्तस्थूलदेहानामपि तत्तदुपासनाविशेषाधीनमपवर्गादर्वाचीनं फलम्। तच्च प्रकृतिलयादिशब्देन साङ्ख्याः पठन्तिधर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण। ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः।।वैराग्यात्प्रकृतिलयः संसारो भवति राजसाद्रागात्। ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः।।[सां.स.का.44।45],इति।विपर्ययादिष्यते बन्धः इत्यत्र च वाचस्पतिना व्याख्यातं -- विपर्ययात् -- अतत्त्वंज्ञानात् इष्यते बन्धः स च त्रिविधः प्राकृतिको वैकृतिको दाक्षायणिकश्चेति। तत्र प्रकृतावात्मज्ञानाद्ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः। यः पुराणे प्रकृतिलयान् प्रकृत्योच्यते -- पूर्णं वर्षसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः इति। वैकारिको बन्धः तेषाम् ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीरुपासते पुरुषबुद्ध्या तान् प्रतीदमुच्यते यथा -- दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः। भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः।।बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः। ते खल्वमी विदेहा येषां वैकृतिको बन्धः।। इति।एवमव्यक्तादितत्त्वचिन्तकानामिव प्रत्यगात्मतत्त्वचिन्तकानामपि तदुचितदेशकालं ततोऽनिश्चितमतिशयितं फलमुपपद्यते। अत एव भूमविद्यायां प्रत्यगात्ममात्रोपासकस्याप्यतिवादित्वमुक्तम्। ब्रह्मात्मकस्वात्मानुसन्धाने तु ब्रह्मप्राप्तौ विश्रमादपुनरावृत्तिरिति विशेषः। अत एवाक्षरानुभवस्यान्तवत्त्वे तदर्थिनां कथमैश्वर्याधिकारणोऽधिकार्यन्तरत्वमित्यपि निरस्तम् बाह्यान्तरभोक्तव्यविभागादावृत्त्यनावृत्तियोग्यताभेदाच्च तद्भेदोपपत्तेः। विलम्बाक्षमाणां पुनरियं निष्ठा -- सर्वधर्मांश्च सन्त्यज्य सर्वलोकांश्च साक्षरान्। लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो।। इति।कैवल्यं भगवन्तं च मन्त्रोऽयं साधयिष्यति [बृ.हा.स्मृ.3।40] इत्यादिष्वपि कैवल्यशब्देनात्ममात्रानुभवसुखं तदपेक्षिभिः प्राप्यमुच्यते। एतच्चान्तरायकोटिनिविष्टत्वादादितः सावधाना ज्ञानिनः परिहरन्ति। केचित्तु ब्रह्मानुभववैमुख्येन नित्यमात्मानुभवसुखमिच्छन्ति न तत्र भाष्यकारादिसम्प्रदायं प्रमाणं युक्तिं वा पश्यामः निश्शेषकर्मक्षये स्वाभाविकरूपाविर्भावेन ब्रह्मानुभवावश्यम्भावात् कर्मशेषयोगे तु संसारप्रसङ्गाच्च जरामरणादिहेतुभूतसर्वकर्मविनाशादसंसारः तावन्मात्रेण च मुक्तत्वव्यपदेशः। ब्रह्मानुभवप्रतिबन्धककर्मणस्त्वविनाशात्तदुभयाभाव इति चेत् -- अस्त्वेवम् एतत्कर्म परस्तादपि न नङ्क्ष्यतीत्यत्र न नियामकमस्ति -- इत्येषा दिक्।। -- परप्राप्त्यादिरहितनित्यकैवल्यकल्पना। सूत्रभाष्यश्रुतिस्मृत्याद्य बाधेन न सिध्यति।अतोऽधिकारिभेदेन ह्यवस्थाभेदमाश्रिताः। अन्यामपि गतिं प्राञ्चः प्रतीचीं प्रत्यपादयन्।।तत्रावृत्तिपरप्राप्तिवैरूप्यादेरयोगतः। अस्मदुक्तं श्रुतिस्मृत्योरनपायं रसायनम्।।ननु -- अर्चिरादिगतिमाहेति कथमुच्यतेयत्र काले इति कालविशेषो ह्युपक्रम्यत इत्यत्राहअत्र कालशब्द इति। शारीरके दक्षिणायनादिमृतस्यापि मोक्ष उक्तः अतश्चायनेऽपि हि दक्षिणे [ब्र.सू.4।2।20] इति। अत्र चशुक्लकृष्णे गती ह्येते [8।26] इत्यनन्तरमेवोच्यते अन्यथाअग्निर्ज्योतिः इत्यादिना च विरुध्येतनैते सृती पार्थ जानन् [8।27] इति च मार्गवाचिना शब्देनोपसंह्रियत इति भावः।यत्र काले प्रयाता इति व्यवहितेन सम्बन्धं दर्शयन् योगिनामावृत्तिः कथमिति च शङ्कां परिहरन्यत्र काले इति श्लोकस्य वाक्यार्थमाह -- यस्मिन्निति। अत्र योगिनः ज्ञानिनः पुण्यकर्मसम्बन्धिनश्च।सरूपाणामेकशेष एकविभक्तौ [अष्टा.1।2।64]। यद्वा पुण्यकर्माण इत्यध्याहृतम्। तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्नआपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्मासेभ्यः संवत्सरम् [छां.उ.5।10।12] इत्यादिश्रुत्यनुसारेणोक्तंसंवत्सरादीनां प्रदर्शनमिति। एतद्वैशद्यमर्चिरादिपादे। तत्रैवं सङ्गृहीतं वरदगुरुभिःअर्चिरहस्िसतपक्षानुदगयनाब्दमरुदर्केन्दून्। अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः [त.सा.102] इति।अग्निर्ज्योतिः इति अग्निरूपज्योतिरित्यर्थः। तेन देवयानपथमपर्वस्थार्चिर्विवक्षा। अत एवाग्निज्योतिषोर्भिन्नदेवतात्वं कालाभिमानिदेवतात्वं च वदन्तः प्रत्युक्ताः।

<poem>
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥८- २४॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.24।। -- अग्निः कालाभिमानिनी देवता। तथा ज्योतिरपि देवतैव कालाभिमानिनी। अथवा अग्निज्योतिषी यथा श्रुते एव देवते। भूयसा तु निर्देशो यत्र काले (गीता 8।23) तं कालम् (गीता 8।23) इति आम्रवणवत्। तथा अहः देवता अहरभिमानिनी अहः शुक्लः शुक्लपक्षदेवता षण्मासा उत्तरायणम् तत्रापि देवतैव मार्गभूता इति स्थितः अन्यत्र अयं न्यायः। तत्र तस्मिन् मार्गे प्रयाताः मृताः गच्छन्ति ब्रह्म ब्रह्मविदो ब्रह्मोपासकाः ब्रह्मोपासनपरा जनाः। क्रमेण इति वाक्यशेषः। न हि सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिः आगतिर्वा क्वचित् अस्ति न तस्य प्राणा उत्क्रामन्ति इति श्रुतेः। ब्रह्मसंलीनप्राणा एव ते ब्रह्ममया ब्रह्मभूता एव ते।

'''माध्वभाष्यम्'''

।।8.24।।ज्योतिरर्चिः। तेऽर्चिषमभिसम्भवन्ति [बृ.उ.6।2।15] इति हि श्रुतिः। तथा च नारदीये -- अग्निं प्राप्य ततश्चार्चिस्ततश्चाप्यहरादिकम् इति। अभिमानिदेवताश्चाग्न्यादयः। कथमन्यथाअह्न आपूर्यमाणपक्षं [छा.उ.5।1।1] इति युज्यते।दिवादेदेवताभिस्तु पूजितो ब्रह्म याति हि इति ब्राह्मे। मासाभिमानिभ्यो अयनाभिमानी च पृथक्। तच्चोक्तं गारुडे -- पूजितस्त्वयनेनासौ मासाः परिवृतेन हि इति। अहरभिजिता शुक्लं पौर्णमास्यायनं विषुवा सह तच्चोक्तं ब्रह्मवैवर्ते -- साह्ना मध्यन्दिनेनाथ शुक्लेन च सपूर्णिमा। सविष्वा चायनेनासौ पूजितः केशवं व्रजेत्। इति।

'''रामानुजभाष्यम्'''

।।8.24।।अग्निः ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् इति संवत्सरादीनां प्रदर्शनम्।

'''अभिनवगुप्तव्याख्या'''

।।8.24 -- 8.25।।अग्निरिति। धूमेति। उत्तरेण ऊर्ध्वेन अयनं षाण्मासिकम्। तच्च प्रकाशादिधर्मकत्वात् दहनादिकैः शब्दैरुपचर्यते। अतो विपरीतं विपर्ययेण। तत्र चन्द्रमसो भोग्यांशानुप्रवेशात् भोगायावृत्तिः।

'''जयतीर्थव्याख्या'''

।।8.24।।ज्योतिश्शब्दस्यानेकार्थत्वाद्विवक्षितमर्थमाह -- ज्योतिरिति। अभिसम्भवन्ति प्राप्नुवन्ति। श्रुतिपुराणयोरह्नः प्रागर्चिषः प्राप्तेरुक्तेस्तत्समाख्यानादित्यर्थः। प्रातीतिक एवार्थः किं न स्यात् कुतोऽभिमानिदेवताग्रहणम् इत्यत आह -- अभिमानीति। आदिशब्दसमर्थनेन सह समुच्चयार्थश्चशब्दः। अन्यथा मरणकालपरिग्रहे इति श्रुतिः। उपलक्षणमेतत्अहः शुक्लः इति गीताऽपि। अहोरात्रव्यतिरिक्तपक्षाभावादिति भावः। समाख्यानाच्चैवमित्याह -- दिवादीति। किञ्चषण्मासा उत्तरायणम्षण्मासा दक्षिणायनम् [8।25] इत्येदपि अभिमानिदेवतां गमयति। मांसातिरिक्तायनाभावादभिमानिनां तु पृथक्त्वेन पृथगुक्तिसम्भवादिति भावेनाह -- मासेति। अनेन षण्मासा एवायनमिति व्याख्यानं च निरस्तं भवति पुराणविरोधात्। अत्रानुक्तमपि किञ्चिदध्याहरति -- अहरिति। सहस्थितं यातीत्यप्यत्र द्रष्टव्यमिति भावः। एतदप्यभिमानिदेवतापरिग्रहसमर्थनार्थम्। प्राधान्यादेरविवक्षितत्वात् साह्नेत्युक्तम्। सपूर्णिमासपूर्णिमेनसुपां सुलुक् [अष्टा.7।1।39] इत्यादेः। विषुशब्दस्योवङ्यणादेशविकल्पछान्दसः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.24।।तत्रोपासकानां देवयानं पन्थानमाह -- अग्निर्ज्योतिरित्यर्चिरभिमानिनी देवता लक्ष्यते। अहरित्यहरभिमानिनी। शुक्लपक्ष इत शुक्लपक्षाभिमानिनी। षण्मासा उत्तरायणमिति उत्तरायणरूपषण्मासाभिमानिनी देवतैव लक्ष्यते।आतिवाहिकास्तल्लिङ्गात् इति न्यायात्। एतच्चान्यासामपि श्रुत्युक्तानां देवतानामुपलक्षणार्थम्। तथाच श्रुतिःतेऽर्चिरभिसंभवन्त्यर्चिषोहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इति। अत्र श्रुत्यन्तरानुसारात्संवत्सरानन्तरं देवलोकदेवता ततो वायुदेवता तत आदित्य इत्याकरे निर्णीतम्। एवं विद्युतोऽनन्तरं वरुणेन्द्रप्रजापतयस्तावता मार्गपरिपूर्तिः। तत्रार्चिरहःशुक्लपक्षोत्तरायणदेवता इहोक्ताः। संवत्सरो देवलोको वायुरादित्यश्चन्द्रमा विद्युद्वरुण इंन्द्रः प्रजापतिश्चेत्यनुक्ता अपि द्रष्टव्याः। तत्र देवयानमार्गे प्रयाता गच्छन्ति ब्रह्मकार्योपाधिकंकार्यं बादरिरस्य गत्युपपत्तेः इति न्यायात्। निरुपाधिकं तु ब्रह्म तद्द्वारैव क्रममुक्तिफलत्वात्। ब्रह्मविदः सगुणब्रह्मोपासका जनाः अत्रएतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इति श्रुताविममिति विशेषणात्कल्पान्तरे केचिदावर्तन्त इति प्रतीयते। अतएवात्र भगवतोदासितं श्रौतमार्गकथनेनैव व्याख्यानात्।

'''पुरुषोत्तमव्याख्या'''

।।8.24।।तत्र पूर्वमनावृत्तिज्ञापककालस्वरूपमाह -- अग्निरिति। अग्निर्ज्योतिः। तापयुक्तज्योतिर्युक्तः अहः दिवसः। शुक्लः शुक्लपक्षः। षण्मासा उत्तरायणं प्राप्य भवन्ति। तत्र तस्मिन् काले प्रयाता ब्रह्मविदो जना भक्ताः। ब्रह्म भगवत्स्वरूपमनावृत्त्यात्मकं गच्छन्ति। अत्रायं भावः आयुर्भोगपूर्णतया कालवशेनोत्तरायणादिविशिष्टकालमृताः सर्व एव न तत् प्राप्नुवन्ति किन्तु भगवद्भक्ता भीष्मवत् तत्काल आगते भगवन्निष्ठैकतया ये प्राणांस्त्यक्त्वा यातास्ते प्राप्नुवन्तीत्यर्थः। एतज्ज्ञापनायैव ब्रह्मविद इत्युक्तम्। एतदेव तज्ज्ञापकमित्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.24।।तत्रानावृत्तिमार्गमाह -- अग्निरिति। निष्कामानामग्निहोत्रिणां अग्निरित्यादिसंवत्सरदेवलोकाधिदेवतानामुपलक्षणार्थं निष्कामाग्निहोत्रगम्यतदीयज्योतिःकाले शुक्ले उत्तरायणे प्रयाता मृताः मार्गे वा तत्र प्रयाता ब्रह्माक्षरं भगवन्महिमभूतं क्रममुक्तिप्रकारेण गच्छन्ति। श्रीपुरुषोत्तमतत्त्वज्ञानिनस्तु तदा सद्योमुक्तिप्रकारेण प्रयाता भगवन्तमुपासीना भवन्तीति द्वितीयस्कन्धे निरूप्यतेयादृशी भावना यस्य तादृशं तस्य तत्फलम्। हरिरेकाक्षरतया भावुकानामिदं फलम्। हरिं रसात्मकतया भावुकानां परं फलम्। तल्लीलामध्यपातित्वं तत्समीपनिवासतः। एते तु ब्रह्म तदक्षरं प्राप्नुवंति तथा च श्रुतौ तेऽर्चिषमभिसंविशन्ति। अर्चिषोऽहरहरापूर्यमाणपक्षं आपूर्यमाणपक्षवान् षण्मासानुदगादित्यं प्रैति मासेभ्यो देवलोकं इत्यादि।

'''आनन्दगिरिव्याख्या'''

।।8.24।।यथोपक्रमं व्याख्याय यथाश्रुतं व्याख्याति -- अथवेति। कथं तर्हि देवतानामतिनेत्रीणां ग्रहणे कालप्राधान्येन निर्देशः श्लिष्यते तत्राह -- भूयसां त्विति। मार्गद्वयेऽपि कालाद्यभिमानिन्यो देवताः कालशब्देनोच्यन्ते। कालाभिमानिनीनां भूयस्त्वात्कालशब्देन सर्वासां देवतानामुपलक्षणत्वं विवक्षित्वा कालकथनमित्यर्थः। यथाम्राणां भूयस्त्वाद्विद्यमानेष्वपि द्रुमान्तरेषु आम्रैरेव वनं निर्दिश्यते तद्वदित्युदाहरणमाह -- आम्रेति। ननु मार्गचिह्नानां भोगभूमीनां वा तत्तच्छब्दैरुपादानसंभवे किमिति देवताग्रहणमित्याशङ्क्यातिवाहिकास्तल्लिङ्गादिति न्यायेनोत्तरमाह -- इति स्थित इति। तेषामग्न्यादीनां समीपमिति सामीप्ये तत्रेति सप्तमी। ब्रह्म कार्योपाधिकं परं वा ब्रह्म परंपरया मुक्त्यालम्बनम्। अतएव क्रमेणेत्युक्तम्। निर्गुणमप्रपञ्चं ब्रह्मास्मीति विद्यावतो व्यवच्छिनत्ति -- ब्रह्मोपासनेति। ननु ब्रह्मशब्दस्य मुख्यार्थत्वार्थं परब्रह्मविदामेवेयं गतिरुच्यते न बादर्यधिकरणविरोधादित्याह -- नहीति।

'''धनपतिव्याख्या'''

।।8.24।।तं कालं वक्ष्यामीति प्रतिज्ञानुरोधेनाग्निः कालाभिमानिनी देवता एवं ज्योतिरपि कालाभिमानिनी देवतैव। अथवाग्निरदेवता ज्योतिर्ज्योतिर्देवतेति यथाश्रुते एव देवते। ननु यत्र काले तं कालं वक्ष्यामीति कथं युज्यते इति चेत् कालाभिमानिनीनां देवतानां मार्गद्वेयेऽपि भूयसां वक्तव्यत्वेन कालशब्देन सर्वासां देवतानामुपलक्ष्यत्वं विवक्षित्वा तथा निर्देशः। यथाऽन्येषां गन्तृ़णां सत्वेऽपि छत्रिणां भूयस्त्वे छत्रिणो यान्तीति निर्देशः। यथावा वृक्षान्तराणां सत्वेऽप्याम्राणां भूयस्त्वादम्रैरेव वनमिति निर्दिश्यते तद्वत्। एतेन कालाभिमानिदेवतापलक्षितं मार्गै वक्ष्यामि। कालशब्दस्य मुख्यार्थत्वेऽग्निज्योतिर्धूमशब्दानामनुपपत्तिः गतिसृतिशब्दयोश्चेति प्रत्युक्तम्। यतोऽत्र किं यस्मिन्मार्गे जनाः सुखेन गच्छन्ति तं मार्गे वक्ष्यामीति प्रतिज्ञाय यथा कश्चिदुपदिशति आदौ गिरिस्ततो न्यग्राधस्ततो नदीति तथा मार्गोपदेश उत यत्र सुखेन नगरं ग्रामं वा गच्छन्ति तं वक्ष्यामीति प्रतिज्ञाय कश्चिदुपदिशति आदौ वृषयानं ततोऽश्वयानं ततो नरयानं ततः पादयानमिति तद्वन्। आद्येआतिवाहाकास्तलिङ्गात्इत्यधिकरणविरोधः। द्वितीये उक्तरीत्याग्न्यादिशब्दानां सम्यगुपपत्त्या लक्षणावैयर्थ्य श्रुतावतिवाहिका इतिन्यायेनार्चिरादीनामतिवाहिकत्वस्थापनादप्यग्न्यादीनामतिवाहिकत्वेन ग्राह्यत्वावश्यकत्वेन तं कालं वक्ष्यामीति प्रतिज्ञावक्येऽपि कालाभिमानिन्यो देवता वक्ष्यामीत्यर्थस्यैव सभ्यवत्वं च। यथागमनाधिकरणए पृथिवीप्रदेशेऽस्मिन्मार्गे एते गच्छन्तीति व्यवहारस्तथा योगगमनाधिकारणरुपासु कालाभिमानिनीष्वग्नयादिषु देवतासु इति न वक्ष्यमाणगतिसृतिश्बदयोरनुपपत्तिः। यद्वा भाष्येऽपि कालशब्देन कालाभिमानिदेवतोपलक्षितं मार्गे वक्ष्यामीति व्याख्याय यथाकथंचिदविरोधः संपाद्यः। एतच्चान्यासामपि श्रुत्युक्तानां देवतानामुपलक्षणार्थम्। तथाच श्रुतिःतेऽर्चषमभिसंभवन्त्यर्चिषोहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षात् यान् षडुदङ्डेति मासांस्तान्मासेभ्यः संवात्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एतान्ब्रह्म गमयत्येष ब्रह्मपथो देवपथ इमं मानवमावर्ते नावर्तन्ते इति। अत्र श्रुतावपि श्रुत्यन्तरानुसारेण संवत्सरोद्दवलोकं देवलोकाद्वायुं वायोरादित्यमिति विद्युतोऽनन्तरं च विद्युतो वरुणं वरुणाद्विन्द्रमिन्द्रात्प्रजापतिमिति बोध्यम्। तत्र तस्मिन्देवयाने प्रयाता मृता ब्रह्मविदः क्रमेण ब्रह्म गच्छन्ति। ब्रह्मविद इति ब्रह्मपासका ग्राह्या नतु सभ्यग्दर्शननिष्ठाः सद्योमुक्तिभाजः।न तस्य प्राणा उत्क्रामन्ति इत्यादिश्रुत्या तेषां गतिमागतिं च प्रतिषिध्य ब्रह्मसंलीनप्राणात्वब्रह्मभूतत्वप्रतिपादनात्। तथाच भगवतो व्यावस्य सूत्रम्कार्य वादरिरस्य गत्युपपत्तेः इत। स एतान्ब्रह्म गमयतीत्यत्र विचकित्स्यते किं कार्यमपरं ब्रह्म गमयति आहोस्वित्परमेवाऽविकृतं मुख्यं ब्रह्मेति। कुतः संशयः। ब्रह्मशब्दप्रयोगात् गतिश्रुतेश्च। तत्र कार्यमेव सगुणमपरं ब्रह्म नयत्येतानमानवः पुरुष इति बादरिराचार्यो मन्यते। कुतः गत्युपपत्तेरस्य हि कार्यस्य ब्रह्मणोन्तव्यत्वमुपपद्यते प्रदेशवत्त्वात् नतु परस्मिन्ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वावकल्पते सर्वगत्वात् प्रत्यगात्मत्वाच्च गन्तृ़णामिति।

'''नीलकण्ठव्याख्या'''

।।8.24।।तत्रोपासकानां देवयानं पन्थानमाह -- अग्निरिति। अग्निर्ज्योतिरित्यर्चिरभिमानिनी देवता लक्ष्यते। एवमहरित्यहरभिमानिनी। एवं शुक्लपक्षस्य षष्ठमाससंमितोत्तरायणस्य चाभिमानिन्यौ देवते एव। एतच्चान्यासामप्युपलक्षणम्। तत्र प्रयाता उत्क्रान्ता ब्रह्मकार्यं ब्रह्मतद्वारा परं च गच्छन्ति। ब्रह्मविदो ब्रह्मोपासका जनाः।

'''श्रीधरस्वामिव्याख्या'''

।।8.24।।तत्रानावृत्तिमार्गमाह -- अग्निरिति। अग्निज्योतिःशब्दाभ्यांतेऽर्चिषमभिसंभवन्ति इति श्रुत्युक्तार्चिरभिमानिनी देवतोपलक्ष्यते। अहरिति दिवसाभिमानिनी। शुक्ल इति शुक्लपक्षाभिमानिनी। उत्तरायणरूपाः षण्मासा इत्युत्तरायणाभिमानिनी। एतच्चान्यासामपि श्रुत्युक्तानां संवत्सरदेवलोकादिदेवतानामुपलक्षणार्थम्। एवंभूतो यो मार्गस्तत्र प्रयाता गता भगवदुपासका जनाः ब्रह्म प्राप्नुवन्ति। यतस्ते ब्रह्मविदः। तथाच श्रुतिःतेऽर्चिषमभिसंभवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकम् इति। नहि सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिर्वा क्वचिदस्तिन तस्य प्राणा उत्क्रामन्ति इति श्रुतेः।

'''वेङ्कटनाथव्याख्या'''

।। 8.24 यत्र काले तु इत्यादेःयोगयुक्तो भवार्जुन [8।27] इत्यन्तस्य तात्पर्यमाह -- अथेति। अत्र धूमादिमार्गकथनं हेयत्वार्थम् अर्चिरादिमार्गोपदेशस्तु तदनुसन्धानार्थ एवेति तत्रैव तात्पर्यमिति भावः। ननु परमपुरुषार्थनिष्ठस्यैव ह्यर्चिरादिगतिः तत्कथमत्र साधारण्यमुच्यते इत्यत्राह -- द्वयोरपीति। आत्मनिष्ठस्याप्यपुनरावृत्तेः पूर्वोक्तत्वात्तस्याप्यर्चिरादिकैव गतिरिति दर्शयितुमाह -- सा चेति। साधारण्यापुनरावृत्त्योः श्रुतिमेव दर्शयति -- यथेति। अङ्गिफलमेवाङ्गेऽपि व्यपदिश्यत इत्याशङ्क्य परिहरति -- नचेति। हेतुमाह -- ये चेति। यद्यप्यङ्गिफलमेवाङ्गेऽपि निर्देष्टुं युक्तम् तथाप्यङ्गिना सहाङ्गस्य तुल्यवत्पृथङ्निर्दिष्टस्य तत्फलनिर्देशो न युक्त इति भावः। एतेन प्रथमषट्कोदितप्रत्यगात्मवेदनादत्रत्याक्षरयाथात्म्यानुसन्धानस्य भेदोऽपि दर्शितः।तद्य इत्थं विदुः इत्यस्य प्रत्यगात्मनिष्ठविषयत्वं कथं इत्यत्राह -- पञ्चाग्निविद्यायां चेति। आपः पुरुषवचसो भवन्ति [छां.उ.5।9।14] इति त्रिवृत्कृतानामभिधीयमानत्वाद्भूतान्तरसंसर्गसिद्धिः।अपामेवेत्यात्मस्वरूपपरिणामव्युदासायोक्तम्। एवंविधशरीरसम्बन्धमात्रस्याप्यौपाधिकत्वप्रदर्शनायाहपुण्यपापहेतुक इति। रमणीयचरणा रमणीयां योनिं ৷৷. कपूयचरणाः कपूयां योनिम् इत्यादिवचनान्न केवलाचिद्विषयमिदं प्रकरणम्। तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते इत्युक्तयद्वृत्तद्वयस्य तेऽर्चिषम् इत्येकेन तद्वृत्तेन प्रतिनिर्देशादुभयोर्गतिरविशिष्टेति ज्ञापनाय तद्य इत्थं विदुः तेऽर्चिषम् इति व्यवहितमुपात्तम्। इत्थंशब्दानूदितं प्रस्तुताकारविशेषं दर्शयति -- विविक्ते इति। ननुतत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति [छां.उ.4।15।6] इत्यर्चिरादिना गतस्य ब्रह्मप्राप्तिः श्रूयते तत्कथं केवलात्मोपासकस्य ब्रह्मप्रापकार्चिरादिगतिप्राप्तिः इत्यत्राह -- आत्मयाथात्म्येति। अयं पञ्चाग्निविद्यानिष्ठो न केवलात्मोपासकः अपितु ब्रह्मात्मकस्वात्मानुसन्धायीति भावः। अन्यथा तत्क्रतुन्यायविरोध इत्यभिप्रायेणाह -- तत्क्रतुन्यायाच्चेति। चकार इतरेतरयोगे। यथावस्थितात्मानुसन्धानस्य परशेषतैकरसत्वानुसन्धानरूपत्वे प्रमाणमाह -- य आत्मनीति। आदिशब्देन पतिं विश्वस्य [तै.ना.6।11।3] करणाधिपाधिपः [श्वे.उ.6।9] इत्यादिवाक्यशतं गृह्यते। अत्र शारीरकभाष्यादिविरोधो मन्दैराशङ्कितः इह तावच्छ्रुतिसूत्रभाष्यादिष्वन्यत्र च पञ्चाग्निविदः परमात्मात्मकस्वात्मानुसन्धातृत्वमर्चिरादिगतिश्चाविशेषेणोच्यते। तस्याश्च ब्रह्मगमयितृत्वस्य श्रुत्यादिष्विह चतत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः इति सिद्धत्वात् पञ्चाग्निविदोऽपि परमात्मप्राप्तिरस्त्येवेति स्वीकर्तव्यम्। तत्र प्राप्तौ ज्ञानिनां परमात्मात्मकस्वात्मानुसन्धानस्य स्वविशिष्टो भोग्यः अक्षरयाथात्म्यनिष्ठानां तु स्वस्वरूपमेव पूर्वं भोग्यम् वस्वादिपदप्राप्तिपूर्वकब्रह्मप्राप्तिसाधनमधुविद्यादिन्यायादन्ततो ब्रह्मप्राप्तिः ईदृशपर्वक्रमप्रतिनियमश्च प्राचीनापेक्षाभेदात् स च प्राचीनकर्मविशेषात्चतुर्विधा भजन्ते माम् [7।16] इति प्रागेव दर्शितः।न चात्र जिज्ञासोरन्य एवात्मयाथात्म्यविदिति भाष्यते जिज्ञासुवेद्यतयोक्तस्वभावविसर्गयोरत्र च पञ्चाग्निविद्योदाहरणात् मध्ये च कैवल्यार्थिन एव मूर्धन्यनाड्या निष्क्रमणमनावृत्तिश्चोक्ता आत्मयाथात्म्याक्षरयाथात्म्यशब्दयोश्चात्र न भिन्नार्थत्वम् तस्योपासने किञ्चिदस्ति विशेषः अक्षरयाथात्म्यविदः -- परमात्मशरीरभूतस्वात्मोपासकाः ज्ञानिनस्तु स्वात्मशरीरकपरमात्मोपासका इत्ययमेव विशेषः तद्य इत्थं विदुर्ये चेमेऽरण्ये [छां.उ.5।10।1] इति विभागनिर्देशाभिप्रेत इति भाष्यादिषूक्तः। सारे तुउभयेऽपि हि परिपूर्णं ब्रह्मोपासते मुखभेदेन स्वात्मशरीरकं ब्रह्म केचन ब्रह्मात्मकस्वात्मानमितरे [वे.सा.4।3।14] इति। अत एव सप्तमे प्रक्रान्तो जिज्ञासुः परमात्मप्राप्तिकामज्ञानिव्यतिरिक्तत्वात् अब्रह्मात्मकस्वात्मानुसन्धायीति न भ्रमितव्यम्। तस्य चोदारकोटिमात्रे निवेशः स्वात्मानुभवविलम्बिविमुखज्ञानिव्यतिरेकात्।अर्चिरादिगतिनिषेधस्तु ब्रह्मात्मकस्वात्मानुसन्धानरहितस्वात्मोपासनविषयः। इदमपि भाष्यादिषु व्यक्तमेवोक्तंतस्मादचिन्मिश्रं केवलं वा चिद्वस्तु ब्रह्मदृष्ट्या तद्वियोगेन च य उपासते न तान्नयति अपितु परं ब्रह्मोपासीनान् आत्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानातिवाहिको गुणो नयति [ब्र.सू.भा.4।3।15] इत्यादिभिः। यत्पुनरुच्यते ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः। सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् [म.भा.12।341।35] इति तत्रापि आत्ममात्रानुभवसुखस्य स्थिरत्वादेव च्यवनधर्मत्वमुच्यते न तावता पुनः संसारप्रसङ्गःइन्द्रलोकात्परिभ्रष्टो मम लोकपरायणः। प्रमुक्तः सर्वसंसारैर्मम लोकं च गच्छति [वा.पु.139।98] प्रच्युतो वा एषोऽस्माल्लोकादसतो देवलोकम् [यजुः6।1।1।5] इत्यादिष्विवोत्तरोत्तरातिशयितपदप्राप्तावपि पूर्वपदभ्रंशमात्राच्च्यवनधर्मत्ववाचो युक्तेरविरोधात् परिमितसुखानुभवविलम्बनेन तदानीं निरतिशयसुखानुभवाद्भ्रष्टत्वेनापि निन्दोपपत्तेश्च। उपासनदशानुभूते परमात्मनि फलदशायां किञ्चित्कालमनुभवविच्छेदाद्वा प्राप्तभ्रंशलक्षणं च्यवनधर्मत्वम्।प्रतिबुद्धस्तु मोक्षभाक् [म.भा.12।341।35] इति चाव्यवहितमोक्षभाक्त्वं प्रतिबुद्धस्योच्यते न तावतान्यस्य मोक्षाभावःभुक्त्वा च भोगान्विपुलांस्त्वमन्ते मत्प्रसादतः। ममानुस्मरणं प्राप्य मम लोकमवाप्स्यसि [वि.पु.5।19।26] इतिवदविरोधात्।यथा च मुमुक्षोरेव कस्यचिन्मध्ये ब्रह्मकायनिषेवणसुखमुच्यते तथात्रापि स्थानविशेषे स्वात्मानुभवविलम्बः। यथा चअथवा नेच्छते तत्र ब्रह्मकायनिषेवणम्। उत्क्रामति च मार्गस्थः शीतीभूतो निरामयः इत्यादिना ब्रह्मकायनिषेवणसङ्गात् मुक्तस्य देवयानेन मार्गेण परमाकाशगमनमुच्यते तद्वदिहापि स्वात्मानुभवस्थानात्प्रच्युतस्य परमव्योमाधिरोहः स्यात् अर्चिरादिगतिश्चास्यावान्तरफलानुभवात्पश्चाद्वा गतिमध्ये वा। दक्षिणायनमृतस्य चन्द्रमसः सायुज्यवद्विश्रममात्ररूपोऽयमवान्तरफलानुभव इत्युभयधापि न विरोधः। एतेन पश्चादेवास्याप्रतीकालम्बनत्वमित्यपि निरस्तं मधुविद्यावदेव प्रथममपि तदुपपत्तेः। स्मरन्ति च स्वात्मानुभवस्थानं मुक्तिस्थानादर्वाचीनंयोगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम्। एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये। तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः [वि.पु.1।6।38] इति। अमृतस्थानवर्तिनां च मुक्तत्वव्यपदेशो जरामरणादिविरहात्पुनर्जन्महेतुभूतपुण्यपापविगमाच्च।अस्ति च परित्यक्तस्थूलदेहानामपि तत्तदुपासनाविशेषाधीनमपवर्गादर्वाचीनं फलम्। तच्च प्रकृतिलयादिशब्देन साङ्ख्याः पठन्तिधर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण। ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः।।वैराग्यात्प्रकृतिलयः संसारो भवति राजसाद्रागात्। ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः।।[सां.स.का.44।45] इति।विपर्ययादिष्यते बन्धः इत्यत्र च वाचस्पतिना व्याख्यातं -- विपर्ययात् -- अतत्त्वंज्ञानात् इष्यते बन्धः स च त्रिविधः प्राकृतिको वैकृतिको दाक्षायणिकश्चेति। तत्र प्रकृतावात्मज्ञानाद्ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः। यः पुराणे प्रकृतिलयान् प्रकृत्योच्यते -- पूर्णं वर्षसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः इति। वैकारिको बन्धः तेषाम् ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीरुपासते पुरुषबुद्ध्या तान् प्रतीदमुच्यते यथा -- दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः। भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः।।बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः। ते खल्वमी विदेहा येषां वैकृतिको बन्धः।। इति।एवमव्यक्तादितत्त्वचिन्तकानामिव प्रत्यगात्मतत्त्वचिन्तकानामपि तदुचितदेशकालं ततोऽनिश्चितमतिशयितं फलमुपपद्यते। अत एव भूमविद्यायां प्रत्यगात्ममात्रोपासकस्याप्यतिवादित्वमुक्तम्। ब्रह्मात्मकस्वात्मानुसन्धाने तु ब्रह्मप्राप्तौ विश्रमादपुनरावृत्तिरिति विशेषः। अत एवाक्षरानुभवस्यान्तवत्त्वे तदर्थिनां कथमैश्वर्याधिकारणोऽधिकार्यन्तरत्वमित्यपि निरस्तम् बाह्यान्तरभोक्तव्यविभागादावृत्त्यनावृत्तियोग्यताभेदाच्च तद्भेदोपपत्तेः। विलम्बाक्षमाणां पुनरियं निष्ठा -- सर्वधर्मांश्च सन्त्यज्य सर्वलोकांश्च साक्षरान्। लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो।। इति।कैवल्यं भगवन्तं च मन्त्रोऽयं साधयिष्यति [बृ.हा.स्मृ.3।40] इत्यादिष्वपि कैवल्यशब्देनात्ममात्रानुभवसुखं तदपेक्षिभिः प्राप्यमुच्यते। एतच्चान्तरायकोटिनिविष्टत्वादादितः सावधाना ज्ञानिनः परिहरन्ति। केचित्तु ब्रह्मानुभववैमुख्येन नित्यमात्मानुभवसुखमिच्छन्ति न तत्र भाष्यकारादिसम्प्रदायं प्रमाणं युक्तिं वा पश्यामः निश्शेषकर्मक्षये स्वाभाविकरूपाविर्भावेन ब्रह्मानुभवावश्यम्भावात् कर्मशेषयोगे तु संसारप्रसङ्गाच्च जरामरणादिहेतुभूतसर्वकर्मविनाशादसंसारः तावन्मात्रेण च मुक्तत्वव्यपदेशः। ब्रह्मानुभवप्रतिबन्धककर्मणस्त्वविनाशात्तदुभयाभाव इति चेत् -- अस्त्वेवम् एतत्कर्म परस्तादपि न नङ्क्ष्यतीत्यत्र न नियामकमस्ति -- इत्येषा दिक्।। -- परप्राप्त्यादिरहितनित्यकैवल्यकल्पना। सूत्रभाष्यश्रुतिस्मृत्याद्य बाधेन न सिध्यति।अतोऽधिकारिभेदेन ह्यवस्थाभेदमाश्रिताः। अन्यामपि गतिं प्राञ्चः प्रतीचीं प्रत्यपादयन्।।तत्रावृत्तिपरप्राप्तिवैरूप्यादेरयोगतः। अस्मदुक्तं श्रुतिस्मृत्योरनपायं रसायनम्।।ननु -- अर्चिरादिगतिमाहेति कथमुच्यतेयत्र काले इति कालविशेषो ह्युपक्रम्यत इत्यत्राहअत्र कालशब्द इति। शारीरके दक्षिणायनादिमृतस्यापि मोक्ष उक्तः अतश्चायनेऽपि हि दक्षिणे [ब्र.सू.4।2।20] इति। अत्र चशुक्लकृष्णे गती ह्येते [8।26] इत्यनन्तरमेवोच्यते अन्यथाअग्निर्ज्योतिः इत्यादिना च विरुध्येतनैते सृती पार्थ जानन् [8।27] इति च मार्गवाचिना शब्देनोपसंह्रियत इति भावः।यत्र काले प्रयाता इति व्यवहितेन सम्बन्धं दर्शयन् योगिनामावृत्तिः कथमिति च शङ्कां परिहरन्यत्र काले इति श्लोकस्य वाक्यार्थमाह -- यस्मिन्निति। अत्र योगिनः ज्ञानिनः पुण्यकर्मसम्बन्धिनश्च।सरूपाणामेकशेष एकविभक्तौ [अष्टा.1।2।64]। यद्वा पुण्यकर्माण इत्यध्याहृतम्। तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्नआपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्मासेभ्यः संवत्सरम् [छां.उ.5।10।12] इत्यादिश्रुत्यनुसारेणोक्तंसंवत्सरादीनां प्रदर्शनमिति। एतद्वैशद्यमर्चिरादिपादे। तत्रैवं सङ्गृहीतं वरदगुरुभिःअर्चिरहस्िसतपक्षानुदगयनाब्दमरुदर्केन्दून्। अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः [त.सा.102] इति।अग्निर्ज्योतिः इति अग्निरूपज्योतिरित्यर्थः। तेन देवयानपथमपर्वस्थार्चिर्विवक्षा। अत एवाग्निज्योतिषोर्भिन्नदेवतात्वं कालाभिमानिदेवतात्वं च वदन्तः प्रत्युक्ताः।

<poem>
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥८- २५॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.25।। --,धूमो रात्रिः धूमाभिमानिनी रात्र्यभिमानिनी च देवता। तथा कृष्णः कृष्णपक्षदेवता। षण्मासा दक्षिणायनम् इति च पूर्ववत् देवतैव। तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम् इष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयात् इह पुनः निवर्तते।।

'''रामानुजभाष्यम्'''

।।8.25।।एतत् च धूमादिमार्गस्थपितृलोकादेः प्रदर्शनम्। अत्र योगिशब्द पुण्यकर्मसम्बन्धिविषयः।

'''अभिनवगुप्तव्याख्या'''

।।8.24 -- 8.25।।अग्निरिति। धूमेति। उत्तरेण ऊर्ध्वेन अयनं षाण्मासिकम्। तच्च प्रकाशादिधर्मकत्वात् दहनादिकैः शब्दैरुपचर्यते। अतो विपरीतं विपर्ययेण। तत्र चन्द्रमसो भोग्यांशानुप्रवेशात् भोगायावृत्तिः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.25।।देवयानमार्गस्तुत्यर्थं पितृयाणमार्गमाह -- अत्रापि धूम इति धूमाभिमानिनी देवता रात्रिरिति रात्र्यभिमानिनी कृष्ण,इति कृष्णपक्षाभिमानिनी षण्मासा दक्षिणायमिति दक्षिणायनाभिमानिनी लक्ष्यते। एतदप्यन्यासां श्रुत्युक्तानामुपलक्षणम्। तथाहि श्रुतिःते धूमममिसंभवन्ति धूमाद्रात्रिं रात्रेपरपक्षमपरक्षाद्यान्षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति तस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते इति। तत्र धूमरात्रिकृष्णपक्षदक्षिणायनदेवता इहोक्ताः। पितृलोक आकाशश्चन्द्रमा इत्यनुक्ता अपि द्रष्टव्याः। तत्र तस्मिन्पथि प्रयाताश्चान्द्रमसं ज्योतिः फलं योगी कर्मयोगीष्टापूर्तदत्तकारी प्राप्य यावत्संपातमुषित्वा निवर्तते। संपतत्यनेनेति संपातः कर्म। तस्मादेतस्मादावृत्तिमार्गादनावृत्तिमार्गः श्रेयानित्यर्थः।

'''पुरुषोत्तमव्याख्या'''

।।8.25।।आवृत्तिकालरूपमाह -- धूम इति। धूमस्तापरूपाग्न्यात्मकप्रतिबन्धरूपः रात्रिर्निशा कृष्णः पक्षः एवं षण्मासा दक्षिणायनम्। तत्र योगी सकामः प्रयातः सन् चान्द्रमसं स्वर्गादिसुखं शीतलात्मकं प्राप्य सुखभोगं कृत्वा निवर्तते पुनर्जन्म प्राप्नोतीत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.25।।आवृत्तिमार्गमाह सकामाग्निहोत्रिणाम्। रात्रौ कृष्णे दक्षिणायने मृतः। धूम इत्यादि धूममार्गपितृलोकादेः प्रदर्शनम्। अत्रापि श्रुतिः -- ते धूममभिसंवशिन्ति इत्यादिः तेन भगवदर्पणात्मककर्मरूपनिवृत्त्या सात्विक्या भगवदुपासनातः क्रममुक्तिः सात्विकी। काम्यकर्मभिः पुनर्भवहेतुभिश्चन्द्रलोकं प्राप्य सुखभोगानन्तरमावृत्ती राजसी। निषिद्धकर्मभिस्तु नरकभोगानन्तरमावृत्तिस्तामसी। क्षुद्रकर्मणां तु जन्तूनामत्रैव पुनः पुनर्जन्मवतामुत्क्रान्तिगत्या गतय इत्यवगन्तव्यम्।

'''आनन्दगिरिव्याख्या'''

।।8.25।।प्रकृतं देवयानं पन्थानं स्तोतुं पितृयाणमुपन्यस्यति -- धूम इति। अत्रापि मार्गचिह्नानि भोगभूमीश्च व्यवच्छिद्यातिवाहिकदेवताविषयत्वं धूमादिपदानां विभजते -- धूमेत्यादिना। तत्रेति सप्तमी पूर्ववदेव सामीप्यार्था इष्टादीत्यादिशब्देन पूर्तदत्ते गृह्येते। कृतात्ययेऽनुशयवानिति न्यायं सूचयति -- तत्क्षयादिति।

'''धनपतिव्याख्या'''

।।8.25।।देवयानस्तुतये पितृयाणमुपन्यस्यति -- धूम इति। धूमादिशब्दैस्तत्तदभिमानिन्यो देवता आतिवाहिकाः पूर्ववद्वह्याः नतु मार्गचिन्हानि भोगभूमयो वा। तत्र प्रयाता इत विभक्तिं विपरिणभ्यानुषज्जते। तस्मिन्मार्गे मृत इत्यर्थः। योगी इष्टापूर्तदत्तकारी कर्मयोगी चन्द्रमसि चन्द्रे भवं चान्द्रमसं ज्योतिः फलं प्राप्त भुक्त्वा तत्क्षयात्पुनर्निवर्तते। एतदप्यन्यासां श्रुत्युक्तानामुपलणार्थम्। तथाच श्रुतिःते धूमभिसंभवन्ति धूमादात्रिं रात्रेपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासांस्तानेते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशं आकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति तस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तते इति। तथाच पुनःपुनरावृत्तिलक्षणदस्मान्मार्गात्पूर्वोक्तोऽपुनरावृत्तिलक्षणो मार्गो ज्यायानित्यभिप्रायः।

'''नीलकण्ठव्याख्या'''

।।8.25।।एतेन च धूमो रात्रिरित्येषोऽपि धूमादिमार्गः कर्मिणामपक्वयोगिनां चोचित आवृत्तिफलश्च व्याख्यातः।

'''श्रीधरस्वामिव्याख्या'''

।।8.25।।आवृत्तिमार्गमाह -- धूम इति। धूमाभिमानिनी देवता। रात्र्यादिशब्दैश्च पूर्ववदेव रात्रिकृष्णपक्षदक्षिणायनरूपषण्मासाभिमानिन्यस्तिस्रो देवता उपलक्ष्यन्ते। एताभिर्देवताभिरुपलक्षितो मार्गस्तत्र प्रयातः कर्मयोगी चान्द्रमसं ज्योतिस्तदुपलक्षितं स्वर्गलोकं प्राप्य तत्रेष्टापूर्तकर्मफलं भुक्त्धा पुनरावर्तते। अत्रापि श्रुतिःते धूममभिसंभवन्ति धूमाद्रात्रिं रात्रेपरपक्षमपरपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति इत्यादिः। तदेवं निवृत्तिकर्मसहितोपासनया क्रममुक्तिः काम्यकर्मभिश्च स्वर्गभोगानन्तरमावृत्तिः निषिद्धकर्मभिस्तु नरकभोगानन्तरमावृत्तिः क्षुद्रकर्मणां जन्तूनां त्वत्रैव पुनः पुनर्जन्मेति द्रष्टव्यम्।

'''वेङ्कटनाथव्याख्या'''

।।8.25।।पितृलोकादेरित्यादिशब्देन आकाशचन्द्रग्रहणम्। योगिनो धूमादिमार्गः पुनरावृत्तिश्च कथमुच्यते इत्यत्राहअत्र योगिशब्द इति। अत्र योगशब्द उपायमात्रवाची यद्वा सम्बन्धमात्रवाची धूमादिसामर्थ्यात्तु पुण्यकर्मस्वरूपसम्बन्धिविशेषसिद्धिरिति भावः। अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति [छां.उ.5।10।13] इत्यादिका श्रुतिरत्रोपबृंहिता।

<poem>
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥८- २६॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.26।। --,शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे ज्ञानप्रकाशकत्वात् शुक्ला तदभावात् कृष्णा एते शुक्लकृष्णे हि गती जगतः इति अधिकृतानां ज्ञानकर्मणोः न जगतः सर्वस्यैव एते गती संभवतः शाश्वते नित्ये संसारस्य नित्यत्वात् मते अभिप्रेते। तत्र एकया शुक्लया याति अनावृत्तिम् अन्यया इतरया आवर्तते पुनः भूयः।।

'''रामानुजभाष्यम्'''

।।8.26।।शुक्ला गतिः अर्चिरादिका कृष्णा च धूमादिका। शुक्लया अनावृत्तिं यान्ति कृष्णया तु पुनः आवर्तन्ते। एते शुक्लकृष्णे गती ज्ञानिनां विविधानां पुण्यकर्मणां च श्रुतौ शाश्वते मते।तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषमभिसंभवन्ति। (छा0 उ0 5।10।1)अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति (छा0 उ0 5।10।3) इति।

'''अभिनवगुप्तव्याख्या'''

।।8.26।।शुक्लकृष्णे इति। अनयोर्गर्त्योर्मध्यादाद्यया अनावृत्ितः मोक्षः अन्यया भोगः।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.26।।उक्तौ मार्गावुपसंहरति -- शुक्ला अर्चिरादिगतिर्ज्ञानप्रकाशमयत्वात्। कृष्णा धूमादिगतिर्ज्ञानहीनत्वेन तमोमयत्वात्। ते एते शुक्लकृष्णे गती मार्गौ हि प्रसिद्धे सगुणविद्याकर्माधिकारिणोः जगतः सर्वस्यापि शास्त्रज्ञस्य शाश्वते अनादी मते संसारस्यानादि त्वात्। तयोरेकया शुक्लया यात्यनावृत्तिं कश्चित् अन्यया कृष्णया पुनरावर्तते सर्वोऽपि।

'''पुरुषोत्तमव्याख्या'''

।।8.26।।एवं कालस्वरूपद्वयमुक्त्वोपसंहरति -- शुक्ल इति। शुक्लकृष्णे पूर्वोक्ता शुक्ला इतरा कृष्णा एते गती ज्ञानप्रकाशकगमनात्मके जगतस्तत्तदधिकारिणः शाश्वते सनातने अनादी मते मन्मत इत्यर्थः। एकया पूर्वोक्तया अनावृत्तिं याति अन्यया कृष्णया पुनः वर्तते आवर्त्तते। अनेन प्रकारेण गमनादिना स्वरूपमत्रैव ज्ञेयमित्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.26।।उक्तं मार्गद्वयमुपसंहरति -- शुक्लकृष्णे इति। शुक्लाऽर्चिरादिगतिः कृष्णा च धूमादिगतिः। उभयोः प्रकाशतमोमयत्वाद्भेदः।

'''आनन्दगिरिव्याख्या'''

।।8.26।।आरोहावरोहयोरभ्यासवाचिना पुनःशब्देन संसारस्यानादित्वं सूच्यते। रात्र्यादौ मृतानां ब्रह्मविदामब्रह्मप्राप्तिशङ्कानिवृत्त्यर्थमभिमानिदेवताग्रहणाय मार्गयोर्नित्यत्वमाह -- शुक्लेति।,ज्ञानप्रकाशकत्वाद्विद्याप्राप्यत्वादर्चिरादिप्रकाशोपलक्षितत्वाच्च शुक्ला देवयानाख्या गतिस्तदभावाज्ज्ञानप्रकाशकत्वाभावाद्धूमाद्यप्रकाशोपलक्षितत्वादविद्याप्राप्यत्वाच्च कृष्णा पितृयाणलक्षणा गतिस्तयोर्गत्योः श्रुतिस्मृतिप्रसिद्ध्यर्थो हिशब्दः। जगच्छब्दस्य ज्ञानकर्माधिकृतविषयत्वेन संकोचे हेतुमाह -- न जगत इति। अन्यथा ज्ञानकर्मोपदेशानर्थक्यादित्यर्थः। तयोर्नित्यत्वे हेतुमाह -- संसारस्येति। मार्गयोर्यावत्संसारभावित्वे फलितमाह -- तत्रेति। क्रममुक्तिरनावृत्तिः। भूयो भोक्तव्यकर्मक्षये शेषकर्मवशादित्यर्थः।

'''धनपतिव्याख्या'''

।।8.26।।शुक्ला ज्ञानप्रकाशहेतुत्वात्तदभावात्कृष्णा। एते शुक्लकृष्णे गती मार्गो जगतः उपासनायां कर्मणि चाधिकृतस्य,शाश्वते नित्ये अनादिरुपे मते अभिप्रेते संसारस्यानादित्वात्। तत्रैकया शुक्लया गत्या अनावृत्तिं याति अन्यया कृष्णया गत्या पुनर्भूयः आवर्तते।

'''नीलकण्ठव्याख्या'''

।।8.26।।उक्तौ मार्गावुपसंहरति -- शुक्लेति। शुक्ला ज्ञानहेतुत्वादर्चिरादिगतिः तदभावात्कृष्णा धूमादिगतिः। एकया शुक्लया। अन्यया कृष्णया।

'''श्रीधरस्वामिव्याख्या'''

।।8.26।। उक्तौ मार्गावुपसंहरति -- शुक्लेति। शुक्लाऽर्चिरादिगतिः प्रकाशमयत्वात् कृष्णा धूमादिगतिस्तमोमयत्वात्। एते गती मार्गौ ज्ञानकर्माधिकारिणो जगतः शाश्वतेऽनादी संमते संसारस्यानादित्वात्। तयोरेकया शुक्लया निवृत्तिं मोक्षं याति। अन्यथा कृष्णया तु पुनरावर्तते।

'''वेङ्कटनाथव्याख्या'''

।।8.26।।उक्तमार्गद्वये श्रुतिप्रसिद्धिः प्रदर्श्यते -- शुक्लकृष्णे इति श्लोकेन। अत्र शुक्लपक्षकृष्णपक्षान्वयाद्वा शुद्ध्यशुद्धिविवक्षया वा अभिमन्तृस्वरूपस्याभिमन्तव्ये आरोपादेर्वा गत्योः शुक्लकृष्णशब्दोपचारः। अत्राधिकृतवर्गद्वयविषयजगच्छब्दाभिप्रेतप्रदर्शनंज्ञानिनां विविधानां पुण्यकर्मणां चेति। इष्टापूर्ते,दत्तमित्युपासते इत्युक्ततत्तत्कर्मनिष्ठभेदानिप्रायेण विविधशब्दः। हिशब्देन श्रुतिप्रसिद्धिर्द्योतितेतिश्रुतावित्युक्तम्। शाश्वतत्वं प्रवाहरूपेणानाद्यनन्तत्वं व्यवस्थितत्वम्।

<poem>
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥८- २७॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.27।। --,न एते यथोक्ते सृती मार्गौ पार्थ जानन् संसाराय एका अन्या मोक्षाय इति योगी न मुह्यति कश्चन कश्चिदपि। तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भव अर्जुन।।शृणु तस्य योगस्य माहात्म्यम् --,

'''माध्वभाष्यम्'''

।।8.27।।एते सृती सोपाये ज्ञात्वाऽनुष्ठाय न मुह्यति। तच्चाह स्कान्दे -- सृती ज्ञात्वा च सोपाये अनुष्ठाय च साधनम्। न कश्चिन्मोहमाप्नोति न चान्या तत्र वै गतिः इति।

'''रामानुजभाष्यम्'''

।।8.27।।एतौ मार्गौ जानन् योगी प्रयाणकाले कश्चन न मुह्यति अपि तु स्वेन एव देवयानेन पथा याति। तस्माद् अहरहः अर्चिरादिगतिचिन्तनाख्ययोगयुक्तो भव।अथ अध्यायद्वयोदितशास्त्रार्थवेदनफलम् आह --

'''अभिनवगुप्तव्याख्या'''

।।8.27।।नैते इति। एते सृति यो वैत्ति आभ्यन्तरेण क्रमेण योगाभ्यासस्वीकृतेनेत्यर्थः। एतच्च वितत्य प्रकाश्यमानं ग्रन्थं विस्तारयतीत्यलम्। तस्मादिति -- सर्वे ये काला आभ्यन्तराः (N अभ्यन्तराः) तद्विषयं योगमभ्यस्येः (K अभ्यसेत्)। अस्मद्गुरवस्तु आहुः -- सर्वानुग्राहकतया मध्ये आभ्यन्तरकालकृतमुत्क्रान्तिभेदमभिधाय (S omits आभ्यन्तर -- ) प्रकृतमेव बाह्यकालविषयं (S omits बाह्यकालविषयं) मुख्यं (N मुख्यप्रमेयं) प्रमेयमुपसंहृतम् तस्मात्सर्वेषु कालेषु इत्यादिना।

'''जयतीर्थव्याख्या'''

।।8.27।।नैते सृती पार्थ इति मार्गज्ञानमात्रेण मोहाभावोऽभिधीयत इति प्रतीतिनिरासार्थमाह -- एते इति। अनुष्ठायोपायमिति शेषः। कुत एतत् योगीत्युक्तत्वात् पुराणसंवादाच्चेत्याह -- तच्चेति। मोहो भगवद्विस्मृतिरूपः। अन्या भगवत्प्राप्तेः। भाष्ये पुराणे चानुष्ठायेत्याकारस्थाने क्वचिदीकारो लेखकदोषेण पतितः। मूलपुस्तकेष्वदर्शनात्।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.27।।गतेरुपास्यत्वाय तद्विज्ञानं स्तौति -- एते सृती मार्गौ हे पार्थ जानन् क्रममोक्षायैका पुनः संसारायापरेति निश्चिन्वन् योगी ध्याननिष्ठो न मुह्यति। केवलं कर्म धूमादिमार्गप्रापकं कर्तव्यत्वेन न प्रत्येति कश्चन कश्चिदपि। तस्माद्योगस्यापुनरावृत्तिफलत्वात्सर्वेषु कालेषु योगयुक्तः समाहितचित्तो भवापुनरावृत्तये हे अर्जुन।

'''पुरुषोत्तमव्याख्या'''

।।8.27।।एतज्ज्ञानफलं वदन्नुपसंहरति -- नैते इति। एते सृती मार्गौ हे पार्थ मद्भक्त जानन् कश्चन योगी मत्सम्बन्धियोगं विना केवलयोगी भूत्वा न मुह्यति न मोहं प्राप्नोति। सकामो भूत्वा केवलयोगाद्यासक्तो न भवतीत्यर्थः। यत एतज्ज्ञानिनो मोहो न भवति तस्मात् मदुक्तज्ञानयुक्तः सर्वत्र मोहरहितः सर्वेषु कालेषु लौकिकालौकिकेषु पूर्वोक्तेषु वा अर्जुन मोक्षजातीयनामयुक्त योगयुक्तो मद्योगयुक्तो भवेत्यर्थः।

'''वल्लभाचार्यव्याख्या'''

।।8.27।।मार्गज्ञानफलं दर्शयन् योगे उक्तरूपे निवेशयति -- नैत इति। योगी कश्चन न मुह्यति तस्मात्किंबहुना त्वं सर्वेषु कालेषु योगी भव न प्राणप्रयाणकाल एव योगस्य सर्वदापेक्षणादिति भावः।

'''आनन्दगिरिव्याख्या'''

।।8.27।।गतेरुपास्यत्वाय तद्विज्ञानं स्तौति -- नैते इति। योगस्य मोहापोहकत्वे फलितमाह -- तस्मादिति। ज्ञानप्रकारमनुवदति -- संसारायेति। मोक्षाय क्रममुक्त्यर्थमित्यर्थः। योगी ध्याननिष्ठो गतिमपि ध्यायन्नैव मुह्यति केवलं कर्म दक्षिणमार्गप्रापकं कर्तव्यत्वेन प्रत्येतीत्यर्थः। योगस्यापुनरावृत्तिफलत्वे नित्यकर्तव्यत्वं सिद्धमित्युपसंहरति -- तस्मादिति।

'''धनपतिव्याख्या'''

।।8.27।।एते सृती मार्गौ जानन् पुनरावृत्तिलक्षणसंसारायैका अपुनरावृत्तिलक्षणमोक्षायान्येति निश्चयवान्योगी ध्यानयोगी कश्चिदपि न मुह्यति। तस्मात्त्वमपि गतिद्वयं ज्ञात्वा मोहरहितः सर्वेषु कालेषु योगयुक्तः समाहितो भव। हे अर्जुन पूर्वार्धे पार्थेति संबोधनस्य मार्गद्वयज्ञाता योगाभ्यासेन क्रमेण मुच्यते नतु मातुर्गर्भे पुनरायातीत्यभिप्रायः। उत्तरार्धेऽर्जुनेति संबोधनस्य तु सर्वेषु कालेषु समाधानेनैव स्वस्वरुपं शुद्धं परं ब्रह्मावाप्स्यसीति।

'''नीलकण्ठव्याख्या'''

।।8.27।।एते सृती मार्गौ आवृत्त्यनावृत्तिफले जानन् योगी न मुह्यति। योगभ्रष्टोऽयतिरल्पप्रयत्नश्च योगी न भवति कश्चन कोऽपि। यस्मादेवं तस्मात्सर्वेष्वित्यादि स्पष्टम्।

'''श्रीधरस्वामिव्याख्या'''

।।8.27।। मार्गज्ञानफलं दर्शयन् भक्तियोगमुपसंहरति -- नैते इति। एते सृती मार्गौ हे पार्थ मोक्षसंसारप्रापकौ जानन्कश्चिदपि योगी न मुह्यति। सुखबुद्ध्या स्वर्गादिफलं न कामयते किंतु परमेश्वरनिष्ठ एव भवतीत्यर्थः। स्पष्टमन्यत्।

'''वेङ्कटनाथव्याख्या'''

।।8.27।।नैती सृती इति श्लोकेन यद्यपि मार्गचिन्तनमप्युपासनवत्परमपुरुषप्रीत्यर्थमेव तथापि मार्गज्ञानं हि गन्तुरव्याकुलगमनार्थमिति लोके सिद्धम् अत्रापि तथोपकारः सम्भवन्न परित्याज्यः तत्प्रसादादेव हि तत्सिद्धिरपीत्यभिप्रायेणाहएताविति।कश्चनेति कश्चिदपीत्यर्थः।न मुह्यतितत्प्रकाशितद्वारः [ब्र.सू.4।2।17] इत्यादिप्रकारेण स्पष्टमार्गो भवतीत्यर्थः। मार्गद्वयज्ञानं हेयमार्गप्रहाणार्थमित्यभिप्रायेणाहअपित्विति। गतिज्ञानस्य फलमुपदिश्य तस्मादिति हेतुतया परामृश्य साक्षाद्योगविधानस्यासङ्गतत्वाद्योगशब्दोऽत्र ध्यानमात्रविषयः। तच्च ध्यानं प्रस्तुतगतिचिन्तनरूपमेव भवितुमर्हतीत्यभिप्रायेणाह -- तस्मादिति।

<poem>
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत् पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥८- २८॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः

'''शाङ्करभाष्यम्'''

।।8.28।। --,वेदेषु सम्यगधीतेषु यज्ञेषु च साद्गुण्येन अनुष्ठितेषु तपःसु च सुतप्तेषु दानेषु च सम्यग्दत्तेषु यद् एतेषु यत् पुण्यफलं प्रदिष्टं शास्त्रेण अत्येति अतीत्य गच्छति तत् सर्वं फलजातम् इदं विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तम् अर्थं सम्यक् अवधार्य अनुष्ठाय योगी परम् उत्कृष्टम् ऐश्वरं स्थानम् उपैति च प्रतिपद्यते आद्यम् आदौ भवम् कारणं ब्रह्म इत्यर्थः।।इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य,श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्येअष्टमोऽध्यायः।।

'''रामानुजभाष्यम्'''

।।8.28।।ऋग्यजुःसामाथर्वरूपवेदाभ्यासयज्ञतपोदानप्रभृतिषु सर्वेषु पुण्येषु यत् फलं निर्दिष्टम् इदम् अध्यायद्वयोदितं भगवन्माहात्म्यं विदित्वा तत् सर्वम् अत्येति एतद्वेदनसुखातिरेकेण तत् सर्वं तृणवत् मन्यते। योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यम् परम् आद्यं स्थानम् उपैति। ,

'''अभिनवगुप्तव्याख्या'''

।।8.28।।वेदेष्विति। अत्येति अभिभवति सर्वकर्मसंस्काराणां भगवत्स्मृत्या विफलीकरणात्। सर्वकर्मपरिक्षये च असौ सुखेनैव विन्दति परं शिवमिति।

'''मधुसूदनसरस्वतीव्याख्या'''

।।8.28।।पुनः श्रद्धावृद्ध्यर्थं योगं स्तौति -- वेदेषु दर्भपवित्रपाणित्वप्राङ्मुखत्वगुर्वधीनत्वादिभिः सम्यगधीतेषु यज्ञेष्वङगोपाङ्गसाहित्येन श्रद्धया सम्यगनुष्ठितेषु तपस्सु शास्त्रोक्तेषु मनोबुद्ध्याद्यैकाग्र्येण श्रद्धया सुतप्तेषु दानेषु तुलापुरुषादिषु देशे काले पात्रे च श्रद्धया सम्यग्दत्तेषु यत्पुण्यफलं पुण्यस्य धर्मस्य फलं स्वर्गस्वाराज्यादि प्रदिष्टं शास्त्रेण अत्येत्यतिक्रामति तत्सर्वं इदं पूर्वोक्तसप्तप्रश्ननिरूपणद्वारेणोक्तं विदित्वा सम्यगनुष्ठानपर्यन्तमवधार्यानुष्ठाय च योगी ध्याननिष्ठः न केवलं तदतिक्रामति परं सर्वोत्कृष्टमैश्वरं स्थानमाद्यं सर्वकारणं उपैति च प्रतिपद्यते च। सर्वकारणं ब्रह्मैव प्राप्नोतीत्यर्थः। तदनेनाध्यायेन ध्येयत्वेन तत्पदार्थो व्याख्यातः।

'''पुरुषोत्तमव्याख्या'''

।।8.28।।एवमष्टप्रश्नोत्तरमुक्त्वैतज्ज्ञानयुक्तयोगिनः सर्वकालप्राप्तिमुक्त्वोपसंहरति -- वेदेष्विति। वेदेषु अध्ययनादिभिः यज्ञेषु यज्ञानुष्ठानादिभिः तपस्सु परमसन्तापेन क्लेशसहनादिभिः दानेषु तुलापुरुषादिभिर्यत्पुण्यफलं प्रदिष्टम् उक्तमिति यावत् तत्सर्वं फलमिदं समस्ताध्यायार्थं विदित्वा अभ्येति प्राप्नोति ततोऽधिकमपि योगी मद्योगयुक्तः सन् परं मत्सेवारूपं आद्यं सकलकारणरूपं मच्चरणात्मकम् (स्थानं) उपैति मत्समीपे प्राप्नोतीति भावः।भक्तैः शुद्धात्मभक्त्यैव संयोगः पुरुषोत्तमे।प्राप्यते कृष्णदेवेन तदुक्तमिह चाष्टमे।।1।।महापुरुषसंयोगो जीवानां तु यथा भवेत्।कृपया कृष्णदेवेन पार्थायोक्तं तदष्टमे।।2।।इति श्रीभगवद्गीतामृततरङ्गिण्यामष्टमोऽध्यायः।।8।।

'''वल्लभाचार्यव्याख्या'''

।।8.28।।एवं मनस्समाधानार्थं वैराग्यार्थं महापुरुषचिन्तनयोग उक्तः तत्फलमाह -- वेदेष्विति। सर्ववेदादिषु यत्पुण्यफलं प्रदिष्टमैहिकमथ पारलौकिकं अन्नाद्यपशुपुत्रस्वाराज्यादिरूपं तदप्यत्येति। तत्र वैराग्ये जाते तदतिक्राम्यति न पुनर्वाञ्छति योगी तत्सर्वमिदं अष्टमाध्याये अष्टप्रश्नार्थनिर्णयेनोक्तं सत्वं विदित्वा विज्ञाय परमुत्कृष्टमाद्यं जगन्मूलभूतं स्थानं भगवद्धाम प्राप्नोति।चतुर्विधानां भगवद्योगिनां तत्पृथक् फलम्। यथाधिकारमत्रोक्तं भगवद्योगवेदिना।।1।।

'''आनन्दगिरिव्याख्या'''

।।8.28।।श्रद्धाविवृद्ध्यर्थं योगं स्तौति -- शृण्विति। पवित्रपाणित्वप्राङ्मुखत्वादिसाहित्यमध्ययनस्य सम्यक्त्वम्। अङ्गोपाङ्गोपेतत्वमनुष्ठानस्य साद्गुण्यम्। तपसां सुतप्तत्वं मनोबुद्ध्याद्यैकाग्र्यपूर्वकत्वम्। दानस्य च सम्यक्त्वं देशकालपात्रानुगुणत्वम्। इदं विदित्वेत्यत्रेदंशब्दार्थमेव स्फुटयति -- सप्तेति। यद्यपिकिं तद्ब्रह्म इत्यादौअधियज्ञः कथं कोऽत्र इत्यत्र प्रश्नद्वयं प्रतिभासानुसारेण कैश्चिदुक्तं तथापि प्रतिवचनालोचनायां द्वित्वप्रतीत्यभावात्प्रकारभेदविवक्षया चशब्दद्वयस्य प्रतिनियतत्वान्न सप्तेति विरुध्यते। न चेदं वेदनमापातिकं किंत्वनुष्ठानपर्यन्तमित्याह -- सम्यगिति। प्रकृतो ध्याननिष्ठो योगीत्युच्यते। ऐश्वर्यं विष्णोः परमं पदं तदेव तिष्ठत्यस्मिन्नशेषमिति स्थानं योगानुष्ठानादशेषफलातिशायिमोक्षलक्षणं फलं क्रमेण लब्धुं शक्यमिति भावः। तदनेन सप्तप्रश्नप्रतिवचनेन योगमार्गं दर्शयता ध्येयत्वेन तत्पदार्थो व्याख्यातः।इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दगिरिकृत0अष्टमोऽध्यायः।।8।।

'''धनपतिव्याख्या'''

।।8.28।।श्रद्धाविवृद्य्धर्थै योगस्य माहात्म्यं श्रावयति। वेदेषु सम्यगधीतेषु। अध्ययनस्य सम्यवक्त्वं च पवित्रपाणित्वप्राङ्युरवत्वगर्वधीनत्वब्रह्मचर्यपालनत्वादिसाहित्यम् यज्ञेषु श्रद्धयाङोपाङ्गसाहि तपस्सु शास्त्रेक्तेषु मनोबुद्य्धाद्यैकाग्र्येण श्रद्धया सुप्तप्तेषु दानेषु तुलापुरुषादिषु देशे काले पात्रे च श्रद्धया सभ्यग्दत्तेषु यत्पुण्यफलं पुण्यस्य धर्मस्य फलं स्वर्गस्वाराज्यादि प्रदिष्टं शास्त्रेण अतेयत्यतिक्रामति तत्सर्वं इदं पूर्वोक्तसप्तप्रश्ननिरुपणद्वारेणोक्तं विदित्वा सभ्यगनुष्ठानपर्यन्तमवधार्यानुष्ठानाय च योगी ध्याननिष्ठः न केवलं तदतिक्रामति परं सर्वोत्कृष्टमैश्वरं स्थानमाद्यं सर्वकारणं उपैति च प्रतिपद्यते च। सर्वकारणं ब्रह्मैव प्राप्नोतीत्यर्थः। तदनेनाध्यायेन ध्येत्वेन तत्पादार्थो व्याख्यातः।इति श्रीमत्परहंसपरिव्राजकाचार्यश्राविश्वेश्वरसलस्वतीपादशिष्यमधुसूदनसरस्वतीविरतचितायां श्रीभगवद्गीतागूढार्थदीपिकायां अक्षरपरब्रह्मयोगो नाम अष्ठमोऽध्यायः।।8।।

'''नीलकण्ठव्याख्या'''

।।8.28।।पुनः श्रद्धाभिवृद्धये योगं स्तौति -- वेदेष्विति। वेदेषु सम्यगधीतेषु यज्ञेषु तपःसु च सम्यगनुष्ठितेषु दानेषु च सम्यग्दत्तेषु यत्पुण्यं तत्फलं चेति पुण्यफलं सर्वेषु समुच्चितेषु यत्प्रदिष्टं शास्त्रेषु तत्सर्वं योगी अत्येत्यतिक्रामति कार्यब्रह्मलोकं प्राप्नोतीत्यर्थः। किंकृत्वा इदं पूर्वोक्तमुपासनं विदित्वा ज्ञात्वानुष्ठाय च। ततश्च किमित्यत आह -- यत्स्थानं निर्विशेषं ब्रह्मोपैति प्राप्नोति च क्रमेणेत्यर्थः। आद्यं न तु केनचिन्निर्भितम्।,तदनेनाध्यायेन ध्येयस्तत्पदार्थो व्याख्यातः। अग्रिमेऽध्याये ज्ञेयं ब्रह्म व्याख्यास्यति।

'''श्रीधरस्वामिव्याख्या'''

।।8.28।।अध्यायार्थमष्टप्रश्नार्थनिर्णयं सफलमुपसंहरति -- वेदेष्विति। वेदेष्वध्ययनादिभिः यज्ञेष्वनुष्ठानादिभिः तपःसु कायशोषणादिभिः दानेषु सत्पात्रार्पणादिभिः यत्पुण्यफलमुपदिष्टं शास्त्रेषु तत्सर्वमत्येति ततोऽपि श्रेष्ठं योगैश्वर्यं प्राप्नोति। किं कृत्वा। इदमष्टप्रश्नार्थनिर्णयेनोक्तं तत्त्वं विदित्वा ततश्च योगी ज्ञानी भूत्वा परमुत्कृष्टमाद्यं जगन्मूलभूतस्थानं विष्णोः परमं पदं प्राप्नोति।

'''वेङ्कटनाथव्याख्या'''

।।8.28।।इदं विदित्वा इति सामान्यतो निर्देशादविशेषाच्चैकप्रकरणभूताध्यायद्वयार्थो गृह्यत इत्यभिप्रायेणाह -- अथेति।वेदेषु इत्यपि यज्ञादिवत्फलकारणतयोपादानम् न तु प्रतिपादकतया तदा यज्ञादिफलव्यतिरिक्तविषयतया सङ्कोचनीयत्वापातात्। वेदाभ्यासस्य च दुरितक्षयादिफलप्रदत्वं श्रुत्यादिसिद्धम्। यज्ञादिफलानां प्रतिपादकतयोपादाने च प्रस्तुताध्यायद्वयार्थस्यापि वेदार्थत्वात्ततोऽपि सङ्कोचः स्यात्। तदेतत्सर्वमभिप्रेत्य -- वेदाभ्यासेत्युक्तम्।दाने च इति चकारस्यानुक्तसमुच्चायकत्वप्रदर्शनायप्रभृतिशब्दः।पुण्यफलम् इत्यत्र पुण्यशब्देन फलविशेषणतया यज्ञादीनामेव सामान्यतो निर्देशः फलस्य श्लाघ्यताप्रदर्शनार्थ इत्यभिप्रायेण यज्ञादिविशेष्यतयापुण्येष्वित्युक्तम्।अध्यायद्वयोदितं भगवन्माहात्म्यमिति -- सप्तमारम्भे हि भगवन्माहात्म्यं प्रक्रान्तम् तदनुबन्धादन्यत्सर्वमुक्तमिति भावः।परं स्थानमुपैति इति योगानुष्ठानसाध्यस्य साक्षात्फलस्य पृथगुच्यमानत्वात्तद्विषयत्वे पौनरुक्त्यादधिकपुण्यफलप्राप्तिविवक्षायां लक्षितलक्षणापातात्। संसारनिवृत्तिमात्रपरत्वेऽपि पुण्यफलशब्देन पापफलस्यापि लक्षयितव्यत्वात्तत्सर्वमत्येति इत्येतत्तद्विवेकमूलविरक्त्यभिप्रायम्। अतिशयितफलवेदनं हिमनःप्रीतिरनायासात् इत्यादिन्यायेन फलान्तरवैतृष्ण्यहेतुरित्यभिप्रायेणाह -- एतद्वेदनेति। भगवन्माहात्म्यज्ञानस्य परस्थानप्राप्तिहेतुत्वे प्रागुक्तज्ञानविशेषरूपद्वारप्रदर्शनंयोगी इत्यनेन क्रियत इत्यभिप्रायेण -- ज्ञानी च भूत्वेत्युक्तम्। परत्वं देशकालयोगादिभिः आदित्यवर्णं तमसः परस्तात् [यजुस्सं.31।18श्वे.उ.3।8] तदक्षरे परमे व्योमन् [तै.ना.6।1।2]दिव्यं स्थानमजरं चाप्रमेयम् [म.भा.15।5।27]एते वै निरयास्तात स्थानस्य परमात्मनः [म.भा.12।196।31] इत्यादेः। आद्यमनादिमित्यर्थः।आदौ भवं कारणं ब्रह्म इति [शां.भा.] परोक्तं तु स्थानशब्दवैघट्यादयुक्तम्।इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायामष्टमोऽध्यायः।।8।।

<poem>
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥८॥
</poem>
tpfy8vpmo7oy3rpfvz4ke9eknx4s9md
सदस्यः:V(g)
2
25211
417780
417763
2026-07-08T03:43:04Z
EmausBot
3495
स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना।
417780
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]]
9vhg30k1e6nvvz0wv8aqv2lym7zg53g
सौभाग्यरत्नाकरः
0
165510
417781
2026-07-08T10:28:23Z
Shubha
190
{{header | title = सौभाग्यरत्नाकरः | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> प्. १) श्रीगणेशाय नमः || ओं अथ || प्रारंभे सरणे भंगे यन्मदस्यंदबिंदवः || कारणानि प्रपंच... नवीन पृष्ठं निर्मीत अस्ती
417781
wikitext
text/x-wiki
{{header
| title = सौभाग्यरत्नाकरः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =

<poem>
प्. १)
श्रीगणेशाय नमः ||
ओं अथ ||
प्रारंभे सरणे भंगे यन्मदस्यंदबिंदवः ||
कारणानि प्रपंचस्य तं वंदे वारणाननं || १ ||
सच्चिदानंदनाथांघ्रिसरोरुहयुगं भजे ||
यत्कटाक्षक्षणोत्क्षेपा छिवोहं पंच कृत्यकृत् || २ ||
प्रकाशरूपा प्रथमे प्रयाणे मृतवर्षिणी ||
प्रतिप्रयाणे चामंतः पदव्यां चित्कलां भजे || ३ ||
आलोक्य सर्वतंत्राणि याम्यदीन्यशेषतः ||
ज्ञात्वा गुरुमुखात्तेषां रहस्यार्थांश्च तत्वतः || ४ ||
सच्चिदानंदनाथांघ्रि सरोज द्वय षट्पदः ||
श्रीविद्यानंदनाथोहं वीतरागो विविक्तधीः || ५ ||
विचरन्मेदिनीमेतां विद्वद्भिर्विमलात्मभिः ||
प्रयागे प्रार्थितः प्रीत्यै तेषां लोक हिताय च || ६ ||
पंचश्रोतः पयोगाधं तन्मंत्रमणिसंकुलं ||
समस्तयोगिनीचक्रं प्रवाललतिकोज्वले || ७ ||
नित्यामंडलपूर्णेंदु ज्योत्स्नाजालविजृंभितं ||
नवचक्र महाद्वीपं न्यासजालांतरंगकं || ८ ||
श्रीनाथपादुकापोतं चतुर्वर्गफलामृतं ||
प्रकाशयामि सौभाग्यरत्नाकरमति स्फुटं || ९ ||
श्रीविद्यायाः सभेदाया नित्य नैमित्तिकार्चनं ||
प्. १ब्)
काम्यार्चनं च दीक्षांग भूतं प्राच्यादि साधनं || १० ||
दीक्षाभेदः पुरश्चर्या तत्कर्मनियमादिकं ||
काम्यहोमविधिश्चैव सौम्यक्रूरविभेदतः || ११ ||
समस्तव्यस्तविद्याया जपात्काम्यफलोदयः ||
सदाचारादिकं चैव लिख्यते रत्नवारिधौ || १२ ||
तत्र श्रीमान्साधको रजनीतूर्ययामे विबुध्यावश्यकं कृत्वा हस्तौ पादौ
प्रक्षाल्य धौते वाससी परिधायाचम्य स्वासने समुपविश्य
पूजामूर्त्तेर्निर्म्माल्यमपकृष्य पूर्वदिनपूजावशिष्टपुष्पादिना
वक्ष्यमाणसमस्तप्रकटेत्यादिसमष्टिविद्यया त्रिभिरभ्यर्च
ब्रह्मरंध्रस्थश्वेतसहस्रदलकमलकर्णिकायां सिंहासने
समुपविष्टं वामांगगतया देव्या
रक्तवस्त्राभरणमाल्यानुलेपभूषितं चन्द्रकांतनिभं त्रिनेत्रं
ज्ञानमुद्रापुस्तकवराभयकरं शांतं सुप्रसन्नं शिवरूपिणं
श्रीगुरुं ध्यात्वा तच्चरणारविंदयुगलविगलदमृतधाराभिः स्वदेहं
परिप्लुतं विभाव्य प्रणवत्रितारसूच्चार्य
वक्ष्यमाणश्रीगुरुपादुकाविद्यांते श्री-अमुकानंदनाथ
प्. २)
श्रीपादुकां पूजयामि इति मानसैरूपचारैः संपूज्य || स्तोत्रं पठेत् ||
तद्यथा ||
स्तुवीत पंचभिः श्लोकैस्तं नित्यं सर्वसिद्धय ||
प्रातः प्रबोधसमये जपात् सुदिवसो भवेत् || १ ||
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ||
विद्यावतारसंसिध्यै स्वीकृतानेकविग्रह || २ ||
नवाय नवरूपाय परमार्थप्रकाशिने ||
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते || ३ ||
स्वतंत्राय दयाकॢप्तविग्रहाय शिवात्मने ||
परतंत्राय भक्तानां भव्यानां भव्यरूपिणे || ४ ||
विवेकीनां विवेकाय विमर्शाय विमर्शिनाः ||
प्रकाशाना प्रकाशाय ज्ञानिनां ज्ञानरूपिणे || ५ ||
पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्ययधः ||
सदा मच्चित्तरूपेण विधेहि भवदासनं || ६ ||
त्वत्प्रसादादहं देव कृतकृत्योस्मि सर्वदा ||
मायामृत्यु माहापाशाद्विमुक्तोस्मि शिवोस्मिहं || ७ ||
इति प्रणम्य ||
प्रातरारभ्य सायांतं सायांदिप्रारं ततः ||
यत्करोमि जगंन्नाथ तदस्तु तव पूजनं || ८ ||
इति समर्प्य ||
हृन्मंत्रेण स्वहृदि लयं भावयेत् || इति गुरुध्यानं विधाय ||
प्. २ब्)
स्वमूलाधारे चतुरस्रवेष्टितं वादिसांतवर्णचतुष्टय युक्त चतुर्दल
पंकजं पीतवर्णं ध्यात्वा तत्कर्णिकायां सोमसूर्याग्निमयमकथादि
त्रिरेखं कुलशृंगाटं त्रिकोणं विभाव्य तन्मध्ये कोटिसूर्यं
प्रतीकाशं चंद्रकोटि सुसीतलं जपाकुसुमप्रभं
सत्वरजतमोगुणाक्रांतं कामाख्यं बिंदुं विभाव्य तदूर्ध्वं
कुंडलनीं शक्तिं चिद्रूपामष्टत्रिंशत्कलायुक्त पंचाशद्वर्ण विग्रह
श्रीविद्या स्वरूपिणीं तडित्कोटिप्रभा दीप्तां बिसतंतु तनीयसीं प्रसुप्त
भुजगीमिव सार्ध त्रिवलयेन स्थितां स्वछादंडाहतां
कृत्वोत्थाप्यगुरूपदिष्टविधिना सुषुम्णा मार्गेण मूलाधार
स्वाधिष्ठानमणिपूरकानाहत विशुद्धाज्ञाख्य षट्चक्र भेदनक्रमेण
ब्रह्मरंध्रस्थित सहस्रदलकमलं प्रापयय ततः स्रवदमृतधारया
रक्तवर्णया वर्णमयया कुण्डलिनीं तां संतर्प्य पुनः सुधा स्रोत
स्वरूपिणीमकुला मृतप्लवेन सुषुम्णांतर्गत तत्तदाधार तत्तधातु
तत्तद्वर्ण तत्तदधि
प्. ३)
देवता प्लावयंतीमाज्ञा विशुध्यादि क्रमेण मूलाधारं नीत्वा तथैव
स्थापयेदित्यारोहावरोह क्रमेण परां शक्तिं कुण्डलिनीं ध्यात्वा ||
विद्या कूट त्रयं ध्यायेत् ||
तत्र मूलाधारे वह्निमंडलं दश कलात्मकं विभाव्य तत्र मूल
विद्यायाः प्रथमं कूटं वाग्भवाख्यं स्फुरत्तडिल्लता
भासुरमनाहत पर्यंतं प्राप्त नादशिखं विभाव्य अनाहते
सूर्यमंडलं द्वादशकलात्मकं ध्यात्वा | तन्मध्ये मूलविद्यायांः
कामराजाख्यं द्वितीय कूटमुघद्दिनकरसंकाशमाज्ञापर्यंतं
प्राप्त नादशिखं अध ऊर्ध्वं प्रसृत रस्मिकं ध्यात्वा | आज्ञाचक्रे
सोममंडलं षोडशकलात्मकं ध्यात्वा तन्मध्ये मूलविद्यायाः
शक्त्याख्यं तृतीय कूटं पूर्णचंद्रनिभं ब्रह्मरंध्रपर्यंतं
प्राप्तनादशिखं अध ऊर्ध्वं प्रसुत रश्मिकं ध्यात्वा | ततो
मूलाधारादि ब्रह्मरंध्रांतं मूलविद्यांमुद्यद्दिनकर
प्. ३ब्)
सहस्रभासुरां तेजो दंडमयीं अखंडां ध्यात्वा | तत्तेजसा व्याप्तं
स्वदेहं परिचिंत्य तत्तेजसा परिणतां श्रीपरदेवतां हृदय कमले
ध्यात्वा मानसैरुपचारैः पूजयित्वा | मूलविद्यया प्राणायाम त्रयं
मूलविद्यायाः वक्ष्यमाण ऋष्यादिकरषडंगन्यासांश्च कृत्वा मूल
विद्यां यथाशक्तिं जपित्वा जपित्वा जपं समर्प्य ||
प्रातर्नमामि जगतां जनन्याश्चरणांबुजं ||
श्रीमत्त्रिपुरसुंदर्या नमिताया हरादिभिः || १ ||
प्रातःस्त्रिपुरसुंदर्या नमामि चरणांबुजं ||
हरिर्हरो विरिंचिश्च सृष्ट्यादीन् कुरुते यया || २ ||
प्रातस्त्रिपुरसुंदर्या नमामि पद पंकजं ||
यप्ताद्यमंबुशिरशि भाति गंगा महेशितुः || ३ ||
प्रातः पाशांकुशशरचाप हस्तां नमाम्यहं ||
उद्यदादित्य संकाशां श्रीमत्त्रिपुरसुंदरी || ४ ||
प्रातर्नमामि पादाब्जं ययेदं भासते जगत् ||
तस्यास्त्रिपुरसुंदर्या यत्प्रसादान्निवर्त्तते || ५ ||
यः श्लोक पंचकमिदं प्रातर्नित्यं पठेन्नरः ||
तस्मै दद्यादात्म पदं श्रीमत्त्रिपुरसुंदरी || ६ ||
इति स्तुत्वा प्रणम्य तस्यै निज कृत्यं निवेदयेत् ||
प्. ४)
तद्यथा ||
इति समर्प्य स्वकर्मानुष्टानार्थं देव्याज्ञां प्रार्थयेत् ||
तद्यथा ||
त्रैलोक्य चैतन्य मयीश्वरेशि श्रीसुंदरित्वच्चरणाज्ञयैव ||
प्रातःसमुत्थाय तव प्रियार्थं संसारयात्रामनुवर्त इष्ये || १ ||
संसारयात्रा मनुवर्तमानं त्वदाज्ञया श्रीत्रिपुरे परेशि ||
स्पर्द्धा तिरस्कार कलि प्रमाद भयानिमामाभि भवंतु मातः || २ ||
जानामि धर्मं न च मे प्रवृत्तिर्जानामि धर्मं न च मे निवृतिः ||
त्वया हृषीकेशि हृदि स्थिताहं यथा नियुक्तोस्मि तथा करोमि || ३ ||
इति देव्याज्ञां प्रार्थ्य० स्वगुरूपदिष्टमार्गेण नादानुसंधान
पूर्वकं निरस्त समस्तोपाधिना केनापि चिद्विलासेन प्रवर्त्तमानोस्मिति
विभाव्य स्वकर्मानुष्ठानाय गुरूपदेशेन ज्ञातं सहज
सिद्धमजपाजपं तत्तद्देवताभ्यः समर्पयेत् ||
तद्यथा ||
अर्घ पूर्वेद्युर
होरात्रोच्चरितमुछ्वासनिश्वासात्मकं षट्शताधिकमेकविंशति
सहस्रसंख्याकमजपाजपं मूलाधार स्वाधिष्ठान मणिपूरका
नाहत विशुध्याज्ञाख्या
प्. ४ब्)
ब्रह्मरंध्रेषु चतुर्दल षट्दल दशदल द्वादशदल षोडशदल द्विदल
सहस्रदलेषु स्वर्णविद्रुम नीलपिंगलधूम्रविद्युत्कर्पूर वणेषु स्थितेभ्यो
गणपति ब्रह्मविष्णुरुद्र जीवात्म परमात्म श्रीगुरुपादुकाभ्यो यथा
भागशः समर्पयिष्यामीति कृतांजलिः संकल्प्य समर्पयेत् ||
तद्यथा ||
ओं ऐं हीं श्रीं मूलाधारस्थायगणपतये अजपा जपानां षट्शतानि
समर्पयामि नमः || ४ ||
(मणिपूरक चक्रस्थाय विष्णवे अ)
स्वाधिष्ठान चक्रस्थाय ब्रह्मणे अजपाजपानां षसहस्त्राणि समर्पयामि
नमः || ४ ||
मणिपूरकत्रस्थाय विष्णवे अजपाजपानां षट्सहस्राणि समर्पयामि
नमः || ४ ||
अनाहत चक्रस्थाय रुद्राय अजपाजपानां षट्सहस्राणि समर्पयामि नमः
|| ४ ||
विशुद्ध चक्रस्थाय जीवात्मने अजपाजपानां सहस्रं समर्पयामि नमः |
आज्ञाचक्रस्थाय परमात्मने अजपा जपानां सहस्रं समर्पयामि नमः ||
(इति समर्पयेत् || एतावत्कर्तुम)
प्. ५)
सहस्रदल कमलकर्णिका मध्यस्थायै श्रीगुरु पादुकायै अजपाजपानां
सहस्रं समर्पयामि नमः || इति समर्पयेत् ||
एतावत्कर्तुम शक्तश्चेत् || ४ ||
मया पूर्वेद्युरहोरात्रोच्चरितमुछ्वास निश्वासात्मकं षट्शताधिकमेक
विंशति सहस्रसंख्याकमजपाजपं ब्रह्मरंध्रस्थ सहस्रदलकमल
कर्णिका मध्ये वर्तिन्यै श्रीगुरुपादुकायै समर्पयामि नमः || इति गुरव एव
समर्पयेत् ||
इत्यजपाजंपं समर्प्य || ओं ||
अद्य
सूर्योदयमारभ्याहोरात्रेणोछ्वासमिश्वासात्मकं षट्शताधिकमेक-
विंशति सहस्रसंख्याकमजपाजपमहं करिष्ये || इति कृतांजलिमुटः
संकल्प्य ||
अजपा मंत्रेण प्राणायामत्रयं कृत्वा || शिरसि ४ हंसाय ऋषये नमः ||
मुखे ४ अव्यक्ता गायत्री छंदसे नमः || हृदि ४ परमहंसाय देवतायै
नमः || मूलाधारे ४ हं बीजाय नमः || पादयोः ४ सः शक्तये नमः ||
नाभौ ४ सोहं कीलकाय नमः ||
प्. ५ब्)
हृदये ४ ओंकाराय तत्वाय नमः || मूर्द्ध्नि ४ नभसे स्थानाय नमः ||
सर्वांगे ४ हैमाय वर्णाय नमः || कंठे ४ उदात्ताय स्वराय नमः ||
इति विन्यस्य | मम मोक्षार्थे जपे विनियोगः || इति कृतांजलिर्वदेत् ||
ततः अंगुष्ठयोः ओं ३ ह्सां सूर्यात्मने स्वाहा हृदयाय नमः ||
तर्ज्जन्योः ४ ह्सी सोमात्मने स्वाहा सिरसे स्वाहा ||
मध्यमयोः ४ ह्सूं निरंजनात्मने स्वाहा | शिखायै वषट् ||
अनामिकयो० ४ ह्सें निराभासात्मने स्वाहा कवचाय हुं ||
कनिष्ठिकयोः ४ ह्सौं अनंततनुः सूक्ष्म प्रचोदयात्मने स्वाहा
नेत्रत्रयाय वौषट् ||
करतल करपृष्ठयोः ४ ह्सः अव्यक्त बोधात्मने स्वाहा अस्त्राय फट् ||
इति करयोर्विन्यस्य |
हृदयादि षडंगेष्वप्येतानेव मंत्रान्विन्यस्य ||
ध्यानं कुर्यात् || तद्यथा ||
घां मूर्ध्हानं यस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च
नेत्रे ||
दिग्मिं श्रोत्रे यस्य पादौ क्षितिं च ध्यातव्योसौ सर्वभूतांतरात्मा || १ ||
आत्मा न भग्नीषोमाख्य पक्षयुक्तं शिवात्मकं ||
हकारेण बहिर्यांतं विशंतं च सकारतः || २ ||
प्. ६)
हंसः सोहमिति स्मृत्वा सोहं व्यंजन हीनतः ||
पक्षान् संहृत्य चात्मानमंडरूपं विभावयेत् || ३ ||
इति विराट् स्वरूपं स्वात्मानं ध्यात्वा | तदनुसंधायी
प्राणवायोर्निर्गंमप्रवेशात्मकं अजपा मंत्रं ||
हंसः पदं पंचविंशतिवारं जपित्वा समर्प्य गुरुनाथाय || ४ ||
ओं समुद्रे मेखले देवि पर्वतस्तनमंडले ||
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे || ५ ||
धारणं पोशणं त्वत्तो भूतानां देवि सर्वदा ||
तेन सत्येन मां पाहि पापान्मोचय धारिणि ||
प्रातःकृत्यमकृत्वा तु यो देवि भक्तितो यजेत् ||
निष्पला तस्य पूजास्याछौचहीना यथा क्रिया ||
इति भूमिं प्रार्थ्य ||
श्वाप्लानुसारेण तस्यां पादं निधायोत्थाय पदे अस्त्रमुच्चरन्
गृहाद्बहिर्निर्गत्यग्रामद्बहि नै-ऋत्यां याम्यां वा दिशिशक्षेप
मात्रांभूवमतीत्य | दूरे गत्वामलमूत्रोत्सर्गा शौचाचमनादिवं
यथा विधिं विधाया निषिद्ध दिनेषु विहित काष्ठेन ४ क्लीं कामदेवाय
सर्वजन प्रियाय नम इति मंत्रेणं दंतान्विशोध्य जिह्वामुल्लिख्य
दंतकाष्ठं प्रक्षाल्य पुरतः
प्. ६ब्)
शुद्धदेशे परित्यज्य वक्ष्यमाण चतुर्ल्लक्ष्मी विद्याभिर्मुखं
प्रक्षाल्याचम्य
तिलकुशकुसुमगंधाक्षतास्त्राभिमंत्रितशंकुनाशुचिस्थानादुद्धृत
मृदगोमय धौतवस्त्राण्यादाय नद्यादौ गत्वा अस्त्राभिमंत्रित
वारिणातीरं प्रक्ष्याल्य तत्रास्त्राभिमंत्रितं कुशादिकं निधायोद्धृत
जलेन तीर्थाद्बहिः कटि शौच सुगंधामलकाद्युद्वर्त्तनामलापकर्षण
स्नानं मृद्गोमयादिभिः स्वशाखोक्त विधिना वैदिक स्नानं च विधाय
नाभि मात्रे जले स्थित्वा || ४ ||
ओं अद्येत्यादि श्रीपरदेवता प्रीत्यर्थं तांत्रिक विधिना स्नानमहं करिष्ये |
इति संकल्प | मूलविद्यया प्राणायामत्रयं कृत्वा मूलविद्याया ऋष्यादि
करषडंगन्यासांश्च विधाय स्वपुरतो हस्तमात्रं चतुरस्रं तीर्थं
परिकल्प्य || ४ ||
ओं ब्रह्माडोदर तीर्थानि करैः स्पृष्टानि ते रवे ||
तेन सत्येन देवेश तीर्थं देहि दिवाकर || १ ||
इति सूर्यात्तिर्थं प्रार्थ्य ||
क्रोंमित्यंकुशमुद्रया सूर्यमंडलं भित्वा || ४ ||
गंगे च यमुने चैव गोदावरि सरस्वति ||
नर्मदा सिंधु कावेरि जलेस्मिन् संनिधं कुरु || १ ||
प्. ७)
इति सूर्ययमंडलात्तीर्थमाकृष्य तज्जले पुरः कल्पित तीर्थ मंडले मूल
विद्यया संयोज्य पुनः पुनः सूर्यमंडलाद्देव ||
ओं ऐं ह्रीं श्रीं ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः सर्वानंद मयि
तीर्थ शक्ते एहि एहि स्वाहा ||
इति तीर्थ शक्तिमावाह्य तस्मिन् तीर्थ मंडल मध्ये तां ध्यायेत् || तद्यथा ||
सर्वानंदमयीमशेष दुरितध्वंसां मृगांक प्रभां
त्र्यक्षां चोर्ध्व करद्वयेन दधतीं पाशं सृणिं च क्रमात् ||
दोर्भ्यां चामृत पूर्ण हेमकलशं मुक्ताक्षमालावरे
गंगासिंधु सरिद्वयादि सहितां श्रीतीर्थ शक्तिं भजे || १ ||
दक्षाद्यूर्ध्वयोराद्ये मध्यस्थाभ्यां कलशं दक्षाद्यधःस्थयोरन्ये
इत्यायुधध्यानं ||
इति ध्यात्वा तद्विद्यया गंधादि पंचोपचारैर्जलमयैस्तां संपूज्य || ४ ||
ओं नमो भगवति अंबो अंबालिके अंबिके महामालिनि एत्येहि भगवति अशेष
तीर्थालवाले ह्रीं श्रीं शिवजटाधिरूढे गंगे गंगांबिके स्वाहा ||
इति मंत्रेण सप्तधाभिमंत्र्य ह्रींकारेण जलमालोड्यवमिति धेनुमुद्रया
मृती कृत्य मूल विद्यायाः प्रथम कूटमुच्चार्य आत्मतत्वांत्मने नमः
मिः | द्वितीय कूटं विद्या तत्वात्मने नमः |
प्. ७ब्)
तृतीय कूटं शिव तत्वात्मने नमः |
इति तत्व त्रयं जले विन्यस्य तत्र श्रीचक्रं विभाव्य हृदय
कमलाद्देवीमावाह्य षडंग न्यासेन सकलीकृत्य तासां
वर्णानांस्तर्पयित्वा मूलविद्यया योनिमुद्रया तज्जलमष्टधाभिमंत्र्य
तस्मि जले देवता मंत्रस्मरण पूर्वकं त्रिर्निमज्योन्मज्य कुंभमुद्रया
मू * विद्यया स्वशिरसि त्रिरभिषिंच्याचम्य मूलविद्यया देवीं त्रिःसंतर्प्य
देवीं विसृज्य वक्ष्यमाण प्रकारेण तत्वैराचम्यतीरमागत्य धौते वाससी
परिधायाचम्य तीर्थ मृत्तिकादिनोर्ध्वपुड्रं विधाय सकुंकुमेन
चंदनेन त्रिपुड्रं विधाय वैदिक संध्यां निर्वत्य - तांत्रिक संध्यां
कुर्यात् ||
साचतुर्विध्य ||
प्रातर्मध्याह्न सायाह्न मध्यरात्रिभेदात् || तथा चोक्तं त्रिपुरार्णवे ||
संध्यां ||
चतुर्विधा ज्ञेया बालाकौमार यौवना ||
प्रौढा च निष्कूला चेति संध्या देवि प्रकीर्त्तिता || १ ||
प्रातःकाले महादेवी विद्यावागीश्वरी मता ||
कामेश्वरी च मध्याह्ने सायाह्ने त्रिपुर भैर भैरवी ||
मध्य रात्रे महादेवि ज्ञेया त्रिपुर सुंदरि || २ || इति ||
प्. ८)
तत्र विधिवदाचम्य मूलविद्यया शिखां बध्वा तथैव प्राणायामत्रयं
कृत्वा मूलविद्यया ऋष्यादि करषडंग न्यासान् विधाय स्वपुतो
धेनुमुद्रया जलममृतीकृत्य मूलविद्ययाष्टवारमभिमंत्र्य तेन जलेन
कुशैरकारादि क्षकारांतैः सबिंदुभिर्मातृकाक्षरैः प्रत्यक्षरं
स्वशिरः प्रोक्ष्यमूलविद्यया च त्रिःसंप्रोक्ष्य सूर्यमंडले देवीं
यथोक्त रूपां ध्यात्वा दक्षिण हस्तेन जलमादाय | लं वं रं यं हं
इति पांचक भौतिकैर्मंत्रैः सप्तवारमभिमंत्र्य मूलविद्यया च
त्रिरभिमंत्र्य तज्जल बिंदुभिर्वामांगुष्ठानामिकाभ्यां मूलविद्यया
स्वशिरस्त्रिःप्रोक्ष्यावशिष्ट जलं वामहस्ते निधाय तेजो रूपं तज्जलमिडया
कृष्य स्वदेहांत स्थितं सकल कलुषं प्रक्षाल्य तज्जलं कृष्णवर्णं
पिगलया बहिर्निर्गतंमत्वातज्जलं पुनर्दक्षिणहस्ते कृत्वा स्ववामभागे ४
वलद्वज्रशिलां ध्यात्वा || ४ || ओं श्लीं पशु हं फट् इति पाशुपतास्त्र
मंत्रेण तस्यां शिलांयामास्फाल्य हस्तौ प्रक्षाल्य
प्. ८ब्)
मूलविद्यया दक्षिणहस्ते जलमादाय प्रवहन्नाड्या सहस्रदल कमल गत
परमामृतेनैकीभूतं विभाव्य राजदंतविवरान्नेत्रमार्गेण निर्गमयय
तज्जलं वामके निधाय तेन जलेन ४ अमृत मालि स्वाहा इति मंत्रेण कुशैः
स्वशिरः त्रिःप्रोक्ष्यः || ४ ||
प्रथम कूटमुच्चार्य आत्मतत्वं शोधयामि स्वाहा || ४ ||
द्वितीय कूटमुच्चार्य विद्यातत्वं शोधयामि स्वाहा || ४ ||
तृतीय कूटमुच्चार्य शिवतत्वं शोधयामि स्वाहा ||
इति त्रिराचम्य पुनरेतद्वैपरित्येनं त्रिराचम्य || तद्यथा || ४ ||
तृतीय कूटमुच्चार्य शिवतत्वं शोधयामि || ४ ||
द्वितीय कूटं विद्यातत्वं शो० | प्रथम कूटं आत्मतत्वं शो० || पुनः |
समस्त विद्यामुच्चार्य सर्वतत्वं शोधयामि स्वाहा || इति त्रिधा ||
एवं नवधा जल प्राशनेन त्रिराचम्य || ४ ||
मूलविद्यया श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजयामि इति
गंधपुष्पाक्षतैस्त्रिः संपूज्य ||
जलमंजलि नादायोत्थाय ४ प्रथम कूटमुच्चार्य वागीश्वरी विप्रहे द्वितीय
कूटमुच्चार्य कामेश्वरी धीमही | तृतीय कूटमुच्चार्य तन्नः शक्तिः
प्रचोदयात् ||
श्रीमहात्रिपुरसुंदरी श्रीपादुकायै एषोर्घः स्वाहा ||
प्. ९)
इति त्रिरर्घ्यं दत्वा || ४ ||
ह्रां ह्रीं हंसः श्रीसूर्यं पूजयामि नमः इति सूर्यं त्रिः सपूज्य || ४ ||
ह्रां ह्रीं हं सः श्रीसूर्य एषतेऽर्घः स्वाहा इति
सूर्याभिमुखमर्घमंजलि त्रयं दत्वा || ४ ||
मूलविद्यया श्रीमहात्रिपुरसुंदरी श्रीपादुकां तर्पयामि नमः इति
महादेवीं त्रिःसंतर्प्य || ४ ||
ह्रां ह्रीं हं सः श्रीसूर्यं तर्पयामि नमः इति त्रिः सं * र्प्य ||
मूलाधारे प्रथमकूटं तडित्कोटि समप्रभं मूलादि
ब्रह्मरंध्रांतं संचित्य तत्तेजः सुषुम्णा वर्त्मना ब्रह्मरंध्रं
नीत्वा वहन्नासाध्वना आकाशस्थ वह्निमंडले समावाह्य
तत्तेजसोद्भूतां वागेश्वरीं ध्यायेत् || तद्यथा ||
पीतां पीतांवरां पीत स्रग्विभूषानुलेपनां ||
तडित्कोटि प्रभाभासां बालामक्षस्रगुज्वलां || १ ||
पुस्तकाढ्य करां भोजां वहि पीठ निषेदुषीं ||
वाग्भवीं वाग्भवोद्भूतां त्र्यक्षणां सस्मितां स्मरेत् || २ ||
इत्याकाशस्थ वह्निमंडले ध्यात्वा || ४ || प्रथ * कूटमुचार्य त्रिपुरा
वागीश्वरी श्रीपादुकां पूजयामि इति गंधपुष्पाक्षतैः स्त्रिः संपूज्य
पुनर्वक्ष्यमाण वाग्भव गायत्रीं उच्चार्य त्रिपुरा वागीश्वरी
श्रीपादुकायै
प्. ९ब्)
अर्घ्यं कल्पयामि स्वाहा इति त्रिरर्घांजलिमुक्षिप्य ||
पुनः प्रथ * कूटमुच्चर्य त्रिपुरा वागीश्वरी श्रीपादुकां तर्पयामि
नमः इति त्रिः संतर्प्य || श्रीगुरु प्रणम्य ||
पूर्ववत् प्राणायाम ऋष्यादि करषडंगं न्यासां विधाय
मातृकान्यासस्थानेषु प्रणवत्रितार मूलविद्यादि न नित्या विद्या हंसः |
अं नमः || ३ ||
इत्यादिना मातृकां विन्यस्य | पूर्वोक्तां तुरीय गायत्रीं यथाशक्तिं
जपित्वा वाग्भव कूट गायत्रीं जपेत् || सा यथा ||
ऐं त्रिपुरे देवि विद्महे वागीश्वरी धीमहि || तन्नो मुक्तिः प्रचोदयात् ||
इति वाग्भवगायत्रीं जपेत् यथा शक्तिं || ततो मूलविद्यां प्रातरित्थं जपेत्
|| तद्यथा ||
तत्र प्रातर्मूलाधारगते कमले वह्निमंडले ||
वाग्बीजरूपां नित्यां तां विद्युत्पटल भासुरा || १ ||
पुष्पबाणेक्षु को दंड पाशांकुश लसत्करां ||
स्वेछागृहीत वपुषीं युग नित्याक्षरात्मिकां || २ ||
घटिका वरणोपेतां परितः प्रांजली नथ ||
ज्ञानमुद्रा वरकरान् वाग्भवोपास्ति तत्परां ||
नवनाथान् स्मरेन् मूल पंकजे योनि मंडले ||
दक्षाधः करभारभ्य दक्षोर्ध्व कर पर्यंटतं आयुध ध्यानं ||
प्. १०)
इत्थं संध्या चतुष्टयेपि || इति ध्यात्वा ||
प्रणव त्रिताराद्यामूलविद्यादि न नित्या विद्या हं सः अं आं इं ईं उं
ऊं ऋ ॠं ह्रीं श्रीप्रकाशानंदनाथ रूपिणी श्रीमहात्रिपुरसुंदरी
श्रीपादुकां पूजयामि || ४ ||
मूलविद्यामुच्चार्य प्राग्वत् दिन नित्या विद्या हं सः ऌं एं ऐं ओं औं
अं अः ह्रीं श्रीं विमर्शानंदनाथरूपिणि श्रीपादुकां पू० || ४ ||
मू० दिः विहंसः कं खं गं घं ऽऽनं ह्रीं श्रीं
आनंदानंदनाथ रू० पादुकां || ४ ||
मूलं दि० हं सः चं० ४ ह्रीं श्रीं श्रीज्ञानानदनाथ रूपि०
पादुकां पू० || ४ || मू० दि० हं सः || टं ४ ह्रीं श्रीं
श्रीसत्यानंदनाथरू० पादुकां पू० | मू० दि० हं सः तं ४ ह्रीं श्रीं
श्रीपूर्णानंदनाथरू० पादु० || ४ ||
मूलं दि० ह सः पं ४ ह्रीं श्रीं स्वभावानंदनाथरू० पा० || ४ ||
मूलं दि० हं सः यं ४ ह्रीं श्रीं प्रतिभानंदनाथरू० पा० || ४ ||
मू० दि० हं सः षं ४ ह्रीं श्रीं सुभगानंदनाथ रूपि० पा०
पूजयामि ||
इति नवनाथात्मकत्वेन मूलविद्यां जपेत् ||
ततस्तद्दिन नित्या विद्यां यथाशक्तिं जपित्वा || इति काल नित्या जपः ||
ततो मूलादि ब्रह्मरंध्रांतं मूलविद्यामुद्यत्सूर्य सहस्र
समप्रभां
प्. १०ब्)
ध्यायन् मूलविद्यामष्टोत्तरशतं जपित्वा बहिराकाशस्थाग्नि मंडले
पूर्योक्तरूपां वाग्भवेश्वरीं ध्यायन् प्रातर्वाग्भव कूटमष्टोत्तर
शतं जपेत् ||
ततः प्राणायाम त्रयं ऋष्यादि करषडंगन्यासांश्च विधाय कृतं
जपं देव्यै निवेद्य प्रणम्य स्तुत्वा सूर्यमंडलाद्वह्निमंदलाच्च
मूलदेवीं वाग्भवेश्वरीं च स्वहृदये मूलाधारे च विसृज्य गुरुं
प्रणमेदिति ||
इति प्रातः संध्याविधिः ||
अत्र कर्म कालेषु गुरुध्यानमुक्तं रुद्रयामले ||
दीक्षाकाले यथारूपं स्वस्यानुग्रह कर्मणि ||
दृष्टं तं तेन भावेन ध्यायन्नाह्निकमाचरेत् ||
इति गुरोरिति शेषः ||
एतद्गुरुध्यानं प्रातःस्मरणाति रिक्तकालेषु ज्ञेयं ||
प्रातः संध्येयमीशानि सर्वकर्मसु सर्वदा ||
कर्तव्या मंत्रिणा नित्यं मंत्रसिद्धिः समृद्धये || १ ||
प्रातः संध्यां परित्यज्य कर्म कुर्वन् ब्रजत्यधः ||
प्रातः संध्यां परित्यज्य देवता पूजनं चरेत् ||
अशुद्धः सुदुराचारः सर्वकर्म बहिःकृतः || ३ ||
प्रातः संध्यां परित्यज्य देव पूजादिकं चरेत् ||
प्. ११)
मोहात् कृत्वा महेशानि नारकी जायते नरः || ४ ||
प्रातः संध्यां परित्यज्य होमं वा तर्पणं शिवे ||
कुर्वन्न कारणं विप्रस्त्यजन् श्वानो भवे धृवं || ५ ||
पिशाचो जायते देवि अपि वेदांत पारगः ||
संध्यानामपि सर्वासां प्रातः संध्या गरीयसी || ६ ||
तस्मात् तां न त्यजेद्विप्रस्त्यजन्नरकमाप्नुयात् ||
इति त्रिपुरार्णववचनादि यंमवश्यं कर्तव्येति शिवशासनं ||
अथ घटिका पारायण त्वेन षष्टि जपं कुर्यात् ||
स च पंचभिर्दिवसैर्मातृकायाः षडावृत्ति रूपः || तथा च तत्र राज पटले
|| ४ ||
आरभ्य भानोरुदयमेकशो घटिका क्रमात् ||
एकैकं मातृका वर्णाः पंचाशत् परिवृत्तितः || १ ||
दिवसैः पंचभिस्तस्याः षडावृत्तिरुदीरितेति ||
तस्या मातृकायाः || अयमर्थः ||
चतुर्युगेष्वपि तत्तद्युग प्रथम दिने सूर्योदय काले अकार उदयति ||
ततो द्वितीय घटिकादि पंचाशत् घटिका पर्यंतासु घटिकासु | अकारादि
क्षकारांता वर्णा विसर्ग स्वर रहिताः स्वस्व घटिकोदय काले समुद्यंति ||
तत एक पंचाशत् घटिकामारभ्य शिष्ट दशघटिकासु अकारादि
ऌकारांतः
प्. ११ब्)
दशवर्णाः स्वस्व घटिकोदय काले समुद्यंति ||
इत्थं द्वितीय दिवसे सूर्योदय काले एकार उदेति ||
ततः स्वस्व घटिकोदय काले एकाराद्या एकोन चत्वारिंशद्वर्णा अकाराद्या
विंशति वर्णाश्च समुद्यंति || २ ||
तृतीय दिवसे सूर्योदय काले चकार उदेति ||
ततः स्वस्व घटिकोदय काले छकारादि क्षकारांता अकारादि णकारांता
एकोन षष्टिवर्णाः समुद्यंति || ३ ||
चतुर्थ दिवसे सूर्योदयकाले तकार उदेति ||
तत स्वस्व घटिकोदय कालेथ कारादि क्षकारांता अकारादि मकारांता
एकोन षष्ठि वर्णाः समुद्यंति || ४ ||
पंचम दिवसे सूर्योदय काले यकार उदेति ||
ततः स्वस्व घटिकोदय काले रकारादि क्षकारांताः अकारादि
क्षकारांताश्चैकोन षष्ठिवर्णा समुद्यंति ||
एवं पंचभिर्दिवसैर्मातृकायाः षडावृत्तिर्भवति ||
एवं क्रमेणैभिर्वर्णैर्घटिका पारायणाख्यः षष्ठि जपः कार्यः ||
तत्प्रकारः प्रदर्शते ||
ततः तत्र अकारादि क्षांताः पंचाशद्वर्णा विसर्गरहिता
प्. १२अ)
दश दक्षश भूत्वा पंचवर्गाः अं एं चं तं यं तामानो भवंति
नै० षष्ठि जपः कार्यस्त प्रकारस्तु || ४ ||
मूलं दिन नित्या विद्या हंसः अं || ४ ||
मूलं दिन नित्या विद्याहंसः आं ||
एवं क्षांतान् पंचाशद्वर्णानावृत्य पुनारादि वर्गमावर्तयेत् ||
एवं षष्ठिरावृत्तयो मूल विद्याया भवंति ||
द्वितीय दिने ४ मूलं दिन नित्या विद्या हंसः |
एं एवं पुनस्तथा जप्ता ऐं | एवं क्षातान् चतुरो वर्गाना वृर्त्य०
पुनराद्य द्वितीयवर्गावावर्तयेत् || एवं षष्ठिरावृत्तयः ||
तृतीय दिने ४ मूलं - दिन नित्या विद्याहंसः चं |
एवं क्षां तांस्त्रिन्वर्गा नावर्त्य० पुनराद्यांस्त्रीनावर्त्तयेत् ||
एवं षष्ठिरावृत्तयो मूलविद्याया भवंति ||
चतुर्थ दिने ४ मूलं तद्दिन नित्या विद्या हंसः यं | एवं क्षातं वर्गं
वर्तयित्वा - पुनरकाराद्यान् क्षांतात् पंचाशद्वर्णानावर्तयेत् ||
एवं० ततः षष्ठे दिने पुनरकारादित आरभ्योक्तरीत्या घटिका पारायण
जप मनवरतं कुर्यात् ||
अत्राधुनावर्तमान समयो साधकैर्ज्योतिःशास्त्रोक्त प्रकारेणाहर्गणेन
कलियुगस्य
प्. १२ब्)
गत दिनादि ज्ञात्वा स्वक्रमारंभ दिनपर्यंतं गणयित्वा
पंचभिराहृत्योर्वरित दिनेनोदयाक्षरं ज्ञात्वा यस्मिन् दिने उदयाक्षर
मकारो भवति तस्मिन् दिने प्रारभ्य घटिका पारा * णं प्रोक्त क्रमेण
कार्यमिति घटिका पारायण जपः प्रातरेव कार्यः ||
तंत्रराजोक्त्या काल त्रयेपि कार्यः ||
अथ माध्यंदिन संध्या ||
तत्र प्राणायामादि सूर्य तर्पणां तं प्रातः संध्यावदेव विद्याय बीज
संध्यां कुर्यात् ||
सायथा ||
तत्र मध्याह्ने अनाहत चक्रे मूलविद्यायाः कामराजकूटं रक्तवर्णं
ध्यायन् तत्तेजः सुषुम्णा मार्गेण वहन्नारा पुटाध्वना निःसार्यय
सूर्यमण्डले समावाह्य तद्भुता कामैश्वरीं ध्यायेत् ||
तद्यथा ||
रक्तां सुरक्तंबर भूषणाढ्यां
पाशांकुशाभीत्ति वरां दधानां ||
शुचिस्मिता मद्भूतयौवनाढ्यां
कामेश्वरीं संस्मत त्रिनेत्रां || १ ||
इति ध्यात्वा ४ कामराकूटमूच्चार्य श्रीत्रिपुराकामेश्वरी श्रीपादुकां
पुर्तयामि इति त्रिःसंपूज्य - पुनः ४ कामराजकूट
प्. १३अ)
गायत्रीमुच्चार्य श्रीत्रिपुरा कामेश्वरि श्रीपादुकायै अर्घ्यं कल्पयामि
स्वाहेति त्रिरर्घ्यां जलिमुत्क्षिप्य पुनः कामराज कूटमुच्चार्य
श्रीत्रिपुराकामेश्वरि श्रीपादुकां तर्पयामि नमः इति त्रिःसंतर्प्य ||
प्राणायामादि पुरःसरं पूर्ववन्मातृकां विन्यस्य पूर्ववत्तूरीय
वीद्या गायत्रीं जपित्वा कामराजकूट गायत्रीं जपेत् ||
सायथा || क्लीं त्रिपुरे देवी विद्महे कामेश्वरी धीमहि || तन्नः क्लिन्ना
प्रचोदयात् ||
इति कामराज कूट गायत्रीं यथा शक्तिं जपित्वा ||
षट्त्रिंशत्तत्वात्मकत्वेन मूलविद्यां जपेत् ||
तद्यथा || ततस्तत्र ||
मध्याह्ने हृदयांभोजकर्णिके सूर्यमंडले ||
कामराजात्मिकां देवीमलक्तकसमारूणां || १ ||
प्रसूनबाणपुड्रेक्षुचापपाशांकुशान्वितां ||
परितः स्वत्म मुख्याभिः षट्त्रिशत्तत्वशक्तिभिः || २ ||
रक्तमाल्यांबरालेपभूषाभिः परिवारितां ||
युगनित्याक्षरमयीं घटिकावरणां स्मरेत् || ३ ||
पुष्पबाणेक्षुकोदंड धराः शोणवपुर्धराः ||
हृत्पंक च ताः कामराजोपास्ति परायणाः || ४ ||
प्. १३ब्)
इति देविं ध्यात्वा ||
४ मूलविद्यां दिननित्या विद्यां हंसः पदं चोच्चार्य अं शिवतत्वरूपिणी
श्रीमहात्रिपुरसुंदरीपादुकां पूजयामि || १६ ||
४ मूलं - दिन० हं सः | कं शक्तितत्वरूपिणी
श्रीमहात्रिपुरसुंदरीपादुकां पूजयामि || १६ || मू० दि० हं सः खं
सदाशिवतत्वरूपिणी० || १६ || मूल० दि० हं सः गं इश्वरतत्वरूपिणी० || १६ || ४
मू० दी० हंसः घं शुद्धविद्या * त्वरूपिणी० || १६ || ४ मू० दी० ऽऽनं०
मायातत्वरूपिणी० || १६ || मू० दि० हं सः चं कलातत्वरूपिणी० || १६ || ४ मू०
दि० हं सः छं विद्यातत्वरूपिणी० || १६ || ४ मू० दि० जं रागतत्वरूपिणी० ||
१६ || ४ मू० दि० हं सः झं कालतत्वरूपिणी || १६ || ४ मू० दि० हं सः ञ
नियतितत्वरूपिणी० || १६ || ४ मू० दि० हं सः टं पुरुषतत्वरूपिणी० || १६ || ४
मू० दि० हंसः ठं प्रकृतितत्वरूपिणी० || १६ || ४ मू० दि० हंसः डं
अहंकारतत्वरूपिणी० || १६ || ४ मू० दि० हं सः ढं बुद्धितत्वरूपिणी० || १६
|| ४ मू० दि. हं सः णं मनस्तत्वरूपिणी० || १६ || ४ मू० दि० हं सः तं
श्रोत्रतत्वरूपिणी० || १६ || ४ मू० दि० हं सः थं त्वक् तत्वरूपिणी० || १६ || ४
मू० दि० हं सः दं चक्षुस्तत्वरूपिणी० || १६ || ४ मू० दि० हं सः धं
जिह्वातत्वरूपिणी० || १६ || ४ मू० दि० हं सः नं घ्राणतत्वरूपिणी० || १६ ||
प्. १४अ)
४ मू० दि० हं सः पं वाक् तत्वरूपिणी० || १६ || ४ मू० दि० हं सः फं
पाणितत्वरूपिणी० || १६ || ४ मू० दि० हं सः बं पादतत्वरूपिणी० || १६ || ४
मू० दि० हं सः भं पायुतत्वरूपिणी० || १६ || ४ मू० दि० हं सः मं
उपस्थतत्वरूपिणी० || १६ || ४ मू० दि० हं सः यं शब्दतत्त्वरूपिणी० || १६ || ४
मू० दि० हं सः रं स्पर्शतत्वरूपिणी० || १६ || ४ मू० दि० हं सः लं
रूपतत्वरूपिणी० || १६ || ४ मू० दि० हं सः वं रसतत्वरूपिणी० || १६ || ४ मू०
दि० हं सः शं गंधतत्वरूपिणी० || १६ || ४ मू० दि० हं सः षं
आकाशतत्वरूपिणी० || १६ || ४ मू० दि० हं सः सं वायुस्तत्वरूपिणी० || १६ || ४
मू० दि० हं सः हं तेजःस्तवरूपिणी० || १६ || ४ मू० दि० हं सः लं अप्
तत्वरूपिणी० || १६ || ४ मू० दि० हं सः क्षं पृथ्वीतत्वरूपिणी०
श्रीमहात्रिपुरसुंदरीपादुकां || इति षट्त्रिंशत्तत्वयोगेन मूलविद्यां
जपित्वा || ततः कालनित्या विद्यामष्टोत्तरशतं जपित्वा प्राग्व०
मूलविद्यामष्टोत्तरशतवारं जपित्वा | हृदयकमले कामराजकूटं
बालार्क कोटि प्रभं हृदयादि ब्रह्मरंध्रपर्यंतं हृदयादि
मूलाधारांतं च व्यांत्यरश्मि
प्. १४ब्)
कदंबकं ध्यायन् कामराजकूटमष्टोत्तरशतवारं जपित्वा |
प्राणायामादिपूर्वकं जपं समर्प्य स्तुत्वा प्रणम्य० मूलदेवीं
कामेश्वरीं च प्राग्वत् हृदये विसृजेदिति || इति मध्याह्नसंध्याविधिः ||
अथ सायंसंध्याविधिः ||
तत्र प्राणायामादिसूर्यतर्पणांतं प्राग्वत् विधाय |
बीजसंध्यां कुर्यात् || सायथा ||
सायमाज्ञाचक्रे हक्षाब्जे चंद्रमंडले मूलविद्यायास्तृतीय कूटं
शुद्धस्पटिकसंकाशं ब्रह्मरंध्रस्थपूर्णेंदु मंडलपर्यंतं
ध्यात्वा वहन्नासापुटेनाकाशस्थ सोममंडले समावाह्य तदुद्भूतां
देवीं वृद्धां ध्यायेत् || तद्यथा ||
शुक्लां शुक्लांबरालेप स्रग्विभूषाविभूषितां ||
जटाजूटधरां नेत्र त्रयोद्भासि मुखांबुजां || १ ||
इषत् स्फुटित दंष्ट्रां च भैरवीरूपमास्थितां ||
जरापलित संकीर्णां लंबमान पयोधरां || २ ||
पाशांकुशौ पुस्तकं च स्फटिकाक्ष स्रजं करैः |
दधानां शक्ति बीजोत्थां पूर्णेंदोर्मंडले स्थितां || ३ ||
ध्यायेदाद्यां परांशक्तिं शक्तिमद्भिर्निषेवितां ||
प्. १५अ)
भोगमोक्ष प्रदां शांता मनंताममृतेश्वरी || ४ ||
वामाद्यूर्द्धयोराद्ये तदाद्यधस्थयोरन्ये इत्यायुध ध्यानं || इति
ध्यात्वा ||
मूलविद्यास्तृतीयं कूटमुचार्य त्रिपुरामृतेश्वरी श्रीपादुकां पूजयामि
इति गंधादिभिः संपूज्य वक्ष्यमाण तार्तीय कूट गायत्रीमुच्चार्य
त्रिपुरामृतेश्वरी श्रीपादुकायै अर्घ्यं कल्पयामि स्वाहेति त्रिरर्घ्यं दत्वा
पुनस्तार्तीय कूटमुच्चार्य त्रिपुरामृतेश्वरी श्रीपादुकां तर्पयामि नमः ||
इति त्रिः संतर्प्य प्राणायामादिपूर्वकां मातृका विन्यस्य तुरीय विद्या
गायत्रीं प्राग्वज्जपित्वा शक्तिकूटगायत्रीं जपेत् ||
सायथा ||
सौः त्रिपुरे देवि विद्महे शाक्तेश्वरी धीमहि | तन्नो मृता प्रचोदयात् || इति शक्ति
गायत्रीमष्टाविंशवारं जपित्वा || सायाह्ने षोडशनित्यात्मकत्वेन
मूलविद्यां जपेत् || तद्यथा ||
तत्र -
सायमाज्ञा सरोजस्ये चंद्रे चंद्र समद्युतिं ||
शक्ति बीजात्मिकां चापबाणपाशांकुशान्वितां || १ ||
युग नित्याक्षरां देवीं घटिका वरणां परां ||
प्. १५ब्)
चितयित्वा भगवतीं नित्याभिः परिवारितां || २ ||
पुस्तकं चाक्षसुत्रं च दधानाः स्मेरवक्त्रकाः ||
नित्याः षोडश चाज्ञायां सायंकाले तु संस्मरेत् || ३ ||
इति देवी ध्याता || ४ ||
मूलं दिननित्या विद्या - हंसः अं कामेश्वरी नित्याविद्यामुच्चार्य अं
कामेश्वरी नित्यारूपिणी श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजया
नमः || ४ || मू० दि० हं सः आं भगमालिनी विद्यामुच्चार्य आं
भगमालिनी नित्यास्वरूपिणी श्री० || १६ || ४ मूलं० दिन० हं सः रं
नित्यक्लिन्ना विद्यामुच्चार्य इं नित्यक्लिन्ना नित्यास्वरूपिणी० श्री || १६ || ४ मू०
दि० हं सः ई भेरुंडा विद्यामुच्चार्य ईं भेरुंडा नित्यास्वरूपिणी श्री०
|| १६ || ४ मुं० दि० हं सः उं वह्निवासिनी विद्यामुच्चार्य उं वह्निवासिनी
नित्यास्वरूपिणी श्री० || १६ || ४ मू० दि० हं सः ऊं महावज्ररी विद्यामुचार्य
ऊं महावज्रेश्वरी नित्यास्वरूपिणी० || १६ || ४ मु० दि० हं सः ऋं शिवदूती
विद्यामुच्चार्य ऋं शिवदूती नित्यारूपिणी श्री० || १६ || मू० दि० हं सः ॠ
त्वरिता विद्यामुर्च्चार्य ॠं त्वरिता नित्यारूपिणी श्री० || १६ || ४ मू० दि० हं सः
ऌं कुलसुंदरीविद्यामुच्चार्य ऌ कुलसुंदरीनित्यारूपिणी श्री० || १६ ||
प्. १६अ)
४ मू० दि० हं सः ॡं नित्यानित्याविद्यामुच्चार्य ॡं नित्यानित्यारूपिणी० || १६
|| ४ मू० दि० हं सः एं नीलपताका विद्यामुच्चार्य एं नीलपताका
नित्यारूपिणी श्री० || १६ || ४ मू० दि० हं सः ऐं विजयानित्या विद्यामुच्चार्य
ऐं विजयानित्यारूपिणी श्री० || १६ || ४ मू० दि० हं सः ओं सर्वमंगला
नित्याविद्यामुच्चार्य ओं सर्वमंगला नित्यारूपिणी श्री० || १६ || ४ मू० दि० हं
सः औं ज्वालामालिनी नित्याविद्यामुच्चार्य औं ज्वालामालिनीत्यारूपिणी श्री०
|| १६ || ४ मू० दि० हं सः अं चित्रा नित्याविद्यमुच्चार्य अं चित्रा नित्यारूपिणी
श्री० || १६ || ४ मू० दि० हं सः अः मूल पंचदशीमुच्चार्य अः (चित्रा
नित्याविद्यामुच्चार्य) श्रीमहात्रिपुरसुंदरी नित्यारूपिणी श्री० || १६ ||
इति षोडशनित्यात्मकत्वेन मूलविद्यां जपित्वा पूर्ववत् कालनित्या विद्यां
मूलविद्यां च जपित्वा भ्रूमध्यादि ब्रह्मरंध्रांतं तृतीय कूटं
शरच्चंद्रकोटि निभं ध्यायन्नष्टोत्तरशवारं तार्तीय कूटं जपेत् ||
ततः प्राणायाम पूर्वकं जपं समर्प्य स्तुत्वा देवीं प्रणम्य
सूर्यमंडलाच्चंद्रमंडलाच्च मूल
प्. १६ब्)
देवीममृतेश्वरीं हृदि भ्रूमध्ये च विसृज्येदिति ||
सायं संध्या विधिः ||
अथ तुरीयसंध्याविधिः ||
ततोर्धरात्रे तुरीय संध्यामुपासीत् || सायथा ||
अर्कमंडले देवी ध्यानं विना प्राणायामाद्याचमनपर्यंतं
पूर्ववद्विधाय सहस्रार कमले तुरीयकूटं मूलविद्या
त्रयोदशाक्षररूपं पद्मराग समप्रभं ध्यात्वा वहन्नासापुटेन
तारकमंडलाद्बहिः परमाकाशे समावाह्य तदुद्भूतां भगवतीं
यथोक्त रूपा ध्यायन् || ४ ||
तुरीयकूटमुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजयामि इति
त्रिःसंपूज्य | यथोक्तरूपां ध्यायन् तुरीयकूटमुच्चार्य
श्रीमहात्रिपुरसुंदरी श्रीपादुकायै अर्घ्यं कल्पयामि स्वाहेति त्रिरर्घ्यं
दत्वा पुनस्तुरीय कूटमुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपादुकां
तर्पयामि इति त्रिः संतर्प्य प्राणायामादि पूर्वकं पूर्वोक्तां
तुरीयगायत्रीं यथाशक्तिं जपित्वा कालनित्या विद्यां
मूलविद्यामष्टोत्तरशतवारं तरीयबीजं चाष्टोत्तरशतवारं जपित्वा
प्राणायामादि पूर्वकं जपं समर्प्य० देवीं स्तुत्वा परमाकाशात्
सहस्रदलकमलकर्णिकायामुद्वास्य कांमकलारूपमात्मानं ध्यायेदिति
तुरीयसंध्याविधिः ||
एतत्संध्याचतुष्टयमेतद्विद्योपासका नामावस्यकं ||
प्. १७अ)
वाह्य शक्तौ ध्यानरूपमप्यर्द्धरात्रसंध्योपासनं कार्यमिति ||
अकृतं द्वितीय दिने प्रायश्चित्तार्थमष्टोत्तरशतं मूलविद्यां जपित्वा
पुनः कर्मकर्तुमधिकारी भवतीति शिवशासनं || स्नानसंध्यार्चनालोपे
अष्टोत्तरशतमिति तंत्रराज वचनात् || जपेन्मूल विद्यामिति शेष ||
अत्र || संध्यालोपोन कर्तव्यः शंभोराजैवमेव हि || दीक्षितः संध्यया
हीनो न विद्याफलमश्नुत | इति वचनात् संध्या चतुष्टयं
साधकैरवश्यं कर्तव्यमिति संक्षेपः || अत्र प्रमादाद्यदि संध्यालोपो
भवति | तदात्वन्य संध्यासमये प्रोक्त प्रायश्चित पूर्वकं
पूर्वसंध्या क्रियां विघाय तत्कालसंध्यां कुर्यात् || उक्तं च
त्रिपुरार्णवे ||
संध्याहीनोन्य संध्यायां पूर्वसध्या क्रियामथ ||
विधायोत्तरसंध्यायाः क्रियां कुर्यात् समाहित इति || १ ||
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ||
कृते सौभाग्यरत्नाब्धौ तरंगः प्रथमोगमत् || १ ||
इति श्रीसच्चिदानंदनाथ चरणारविंद द्वद्वांते वसिना श्री
श्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकर प्रथमस्तरंगः || १ ||
प्. १७ब्)
इत्थं संध्यां विधाव प्रकृतेः प्रातःसंध्यानंतरंपित्रारितर्पयां
निर्वर्त्यतां त्रिकतर्पणं कुर्यात् | तत्र प्राणायाम
त्रयं ऋष्यादिन्यासपूर्वकं स्वपुरतो जले पूर्ववत्तीर्थमावात्ववमिति |
धेनुमुद्रया अमृतीकृत्य मूलेनाष्टवारमभिमंत्र्य तत्र श्रीचक्रं
विभाव्य तन्मध्ये वक्ष्यमाण प्रकारेण पीठपूजा पुरःसरं
देवीमावाह्य षोडशोपचारैर्जले देवीं संपूज्य
वक्ष्यमाणविधिनांगावरण देवताः संपूज्य पुनर्मूलेन देवीं
संपूज्य० ४ मूलविद्यामुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपादुकां
तर्पयामि नमः ||
इत्येष्टोत्तरशतं तदर्द्धमष्टाविंशतिवारं वा यथाशक्ति तत्तीर्थजलैः
परदेवता मुखकमले परमामृत बुध्या संतर्प्यावरण देवताः यथा
क्रमं पूजोक्त मंत्रैः पूजयामीति स्थाने
तर्पयामीत्यंतैरेकैकांजलिना तर्पयेत् || तदशक्तौ बटुकादि
चतुष्टयं षडंग युवती गुरुपंक्ति त्रयं सप्तदश नित्याभिः सहितां
चतुरस्र वृत्तो येत त्रिकोणमंडलमध्यस्थां सायुध त्रिकोणावरण
शक्तियुतां मूलदेवीं तर्पयेत् ||
प्. १८अ)
तत्राप्यशक्तौ संस्कृते जले देवीं ध्यात्वा संपूज्य देवीमेव तर्पयेदिति
तर्पसाविधिः || अथैवं कृत प्रातः संध्यावंदनादि क्रियः
स्वगुरूपदिष्टविधिना षट्त्रिंशदुत्तरसप्तशताधिकविंशति
सहस्रसंख्याभिर्युगाक्षरदिनाक्षरोत्थ कालनिया विद्याभिः
सहमूलविद्यायाः नाम पारायण जपं कुर्यात् ||
कालनित्या विद्यास्तु तंत्रराजोक्ता उद्ध्रियंते ||
तत्र
अकारादिक्षांताः षट्त्रिंशत्तत्ववर्णाः षोडशनित्याभिः षोडशस्वरैः
प्रत्येकं संयोजिताः षट्सत्यत्युत्तरपंचशतसंख्याकाः
पूर्णमंडलाख्या वर्णाः भवंति || एते वर्णाः कालनित्या विद्यानां
प्रागुक्तसंख्या नामेकैको वर्णः षट्त्रिंशत् षट्त्रिंशत् विद्यानामादि
वर्णा इति सर्वे वर्णा वाग्भवाख्या भवंति || प्रागुक्त षट्त्रिंशत् तत्व
वर्णास्तु सर्वासां विद्यानां माकारेण कृतसंधिकाः पुनः पुनक्रमेण
कामराजाख्या द्वितीय वर्णा भवंति || ईकारस्तु सर्वासां विद्यानां शक्ति
कूटाख्यस्तृतीय वर्णा भवंति || अथैताः विद्याः क्रमेण
प्. १८ब्)
पारायण जपपरिपाद्यैव प्रदर्श्यंते ||
तत्रादौ साधको विविक्ते देशे नद्यादि तीरे एकांते स्वगृहे वा स्वासनमास्तीर्य
|| ४ || ह्रीं आधारशक्ति कमलासनाय नमः || इत्यासनं संपूज्य ||
तत्र प्राऽऽन्मुखः स्वस्तिकाद्यासनेनोपविश्य गुरुगणपति स्वेष्ट देवताः
प्रणम्य प्राणायाम त्रय पूर्वकं संक्षेपतो भूतशुद्धिं
प्राणप्रतिष्ठां मातृकान्यासं च कृत्वा मस्तक दक्षबाहु
मूलादि षट्त्रिंशत् स्थानेषु प्रतिस्थानं षोडशदलपद्मं
विभाव्यतेष्वकारादि क्षकारांतान् षट्त्रिंशतत्ववर्णाः
प्रत्येकं षोडशस्वरसंयुक्तान् विभाव्य मध्ये तत्प्रथमाक्षरं विन्यस्य
पूर्वादि दलेषुत्तत्तदक्षर विकृत षोडशवर्णांस्तदादिकान् विन्यसेदित्येवं
पूर्णमंडलवर्णान् विन्यस्य पुनस्तदिन नित्या विद्यया सहित मूलविद्यया
प्राणाया त्रयं कृत्वा शिरसि ४ दक्षिणा मूर्त्तये नमः || मुखे ४ पंक्तये
छंदसे नमः | हृदये ४ कालनित्यारूपिण्यै श्रीमाहात्रिपुरसुंदर्यै
देवतायै नमः || इति ऋष्यादिकं विन्यस्य मम मोक्षार्थे नाम पारायण
जपे विनियोगः || इति कृतांजलिरुक्ता ||
प्. १९अ)
तत्तद्दिननिया विद्याक्षरैस्त्रिभिः कूटैः द्दिरावृत्या यथाविधि
करषडंगन्यासं वक्ष्यमाण चतुरासन न्यासंः वाग्देवताष्टक
न्यासं च विधाय ध्यायेत् तद्यथा ||
रक्तां रक्तांबरा रक्त स्रग्विभूषानुलेपनां ||
पाशांकुशेक्षु को दंड प्रसून विशिखां स्मरेत् || १ ||
इति कालनित्यां हृदये ध्यात्वा वक्ष्यमाण विधिना हृदये श्रीचक्रं
कालचक्र मध्यगतं विभाव्य० | तत्र देवीं सांगावरणां कालं
नित्याभिश्च परिवृत्तां ध्यात्वा - मानसैरुपचारैः संपूज्य पारायण
जपमारभेत् तत्रादौ अंगविद्या जपः || तत्र || ४ मूलं तद्दिन नित्या विद्या अ-
ह्सौः हं सः | ४ मू० तद्दिननित्या विद्या आ-ह्सौः हं सः | ४ मू० तद्दि० इ-
ह्सौः हं सः | ४ मू० तद्दि० इ-ह्सौः हं सः || ४ मू० तद्दि० उ-ह्सौः हं सः |
४ मू० तद्दि० ऊ-ह्सौः हं सः | ४ मूलं० तद्दि० ऋ-ह्सौः हं सः | ४
मू० तद्दि० ॠ-ह्सौः हं सः एवं ४ मू० क्षं ह्सौः हं सः इत्यंतं
एकपंचाशद्विद्याभिः सहमूलविद्यां जपित्वा० ततः केवल मूलविद्या
त्रिर्जपित्वा || ४ ऐं वदवदवाग्वादिनि ऐं क्लिं क्लिंन्ने क्लेदिनि क्लेदय
महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं कुरु २ ह्सौः
प्. १९ब्)
इति दीपिनी विद्यामेकवारं जपित्वा || ततो वक्ष्यमाण गुरुपादुका
विद्यामप्येकवारं जपित्वा पुनश्चत्वारिंशद्विद्याभिः सहमलविद्यां
जपेत् || तद्यथा || तत्र
ओं ३ मू० आ क्षा ह सा ई हं सः | ४ मू० ई ला ह सा ई हं सः || ४ मू० ऊ हा
ह सां ई हं सः || ४ मू० ॠ सा ह ई हं सः | ४ मू० ऌ षा ह सा इ हं सः ||
४ मू० ऐ शा ह सा ई हं सः || ४ मू० औ वा ह सा ई हं सः | ४ मू० अः ला ह
सा ई हं सः || इत्यष्टधा जपित्वा || पुनः || ४ मू० आ क्षा ई हं सः || ४
मू० आ क्षा ई हं सः || ४ मू० ई ल्ला ई हं सः || ४ मू० इ ल्ला ई हं सः || ४
मू० ऊ हा ई हं संः || मू० उ हा ई हं सः || मू० ऋ सा ई हं सः || ४ ऋत्या
ई हं सः || ४ मू० ॡ षा ई हं सः || ४ मू० ल्पृ षा ई हं सः || ४ मू० ऐ शा
ई हं सः || ४ मू० ए शा ई हं सः || ४ मू० औ वा ई हं सः ४ मू० ओ वा ई
हं सः || ४ मू० अः ला ई हं सः || ४४ मू० अं ला ई हं सः || इति षोडशधा
जपित्वा || ४ मू० अ का ई हं सः || ४ मू० इ चा ई चा इ हं सः || ४ मू० उ य ई
हं सः || ४ मू० ऋ ता ई हं सः || ४ मू० ऌ पा ई हं सः || ४ मू० ए या ई हं
सः ४ मू० ओ षा ई हं सः || ४ मू० अं ला ई हं सः || इत्यष्टधा जपित्वा ४
मू० आ क्षा ई हं सः || ४
प्. २०अ)
मू० ई ला ई हं सः || ४ मू० ऊ हा ई हं सः || ४ मू० ॠ सा ई हं सः || ४
मू० ऌ षा ई हं सः || ४ मू० ऐ शा ई हं सः || ४ मू० औ वा ई हं सः || ४
मू० अः ला ई हं सः || इत्यष्टधा जपित्वा || ततः षोडशावांतर युगभिन्ने
महायुगे यदेव युगं भविष्यति तदक्षरमारभ्य सर्वाभिर्युगनित्या
विद्याभिः सह मूलं जपेत् || ततः उक्तांगविद्या जप पूर्वकं० पश्चात्
कालनित्या विद्याभिः सह मूलविद्यां जपेत् || अयमंगविद्या जपो
वर्गद्वयस्याप्यादौ प्रत्यहं कार्यः || ततः प्रथम दिने || ४
मूलविद्यामूच्चार्य अ आ ई हं सः || ४ मू० अ का ई हं सः || ४ मू० अ खा ई
हं सः || ४ मू० अ गा ई हं सः || ४ मू० अ घा ई हं सः || ४ मू० अ ऽऽना ई
हं सः || ४ मू० अ चा ई हं सः || ४ मू० अ छा ई हं सः || ४ मू० अ जा ई हं
सः || ४ मू० अ झा ई हं सः || मू० अ भा ई हं सः || ४ मू० अ टा ई हं सः ||
४ मू० अ ठा ई हं सः || ४ मू० अ डा ई हं सः || ४ मू० अ ढा ई हं सः || ४
मू० अ णा ई हं सः || ४ मू० अ ता ई हं सः || ४ मू० अ था ई हं सः || ४ मू०
अ दा ई हं सः || ४ मू० अ धा ई हं सः || ४ मू० अ ना ई हं सः || ४ मू० अ पा
ई हं सः || ४ मू० अ फा ई हं सः || ४ मू० अ बा ई हं सः || ४
प्. २०ब्)
मू० अ भा ई हं सः || ४ मू० अ मा ई हं सः || ४ मू० अ या ई हं सः || ४
मू० अ रा ई हं सः || ४ मू० अ ला ई हं सः || ४ मू० अ वा ई हं सः || ४ मू० अ
शा ई हं सः || ४ मू० अ षा ई हं सः || ४ मू० अ सा ई हं सः || ४ मू० अ हा ई
हं सः || ४ मू० अ ला ई हं सः || ४ मू० अ क्षा ई हं सः || इति जपित्वा ||
पुनरेवं चतुस्तार मूलपूर्वकं जपेत् || तद्यथा ||
४ मू० आ आ ई हं सः || ४ मू० आ का ई हं सः || ४ मू० आ सा ई हंसः || ४
मू० आ गा ई हं सः || इत्यादि || ४ मू० आ क्षा ई हं सः || इत्यंतं जपित्वा ||
पुनः || ४ मू० इं आ ई हं सः || ४ मू० इ का ईं हं सः || ४ मू० इ खा ई हं
सः इत्यादि० ४ मू० इ क्षा ई हं सः || इत्यंतं जपित्वा || ४ मू० ई आ ई हं सः ||
४ मू० ई का ई हं सः || इयादि ४ मू० ई क्षा ई हं सः || इत्यंतं जपित्वा || ४
मू० उ आ ई हं सः || ४ मू० उ का ई हं सः इत्यादि० ४ मू० उ क्षा ई हं सः ||
इत्यंतं जपित्वा || ४ मू० ऊ आ ई हं सः || ४ मू० ऊ का ई हं सः इत्यादि० ४
मू० ऊ क्षा ई हं सः || इत्यंतं जपित्वा || ४ मू० ऋ आ ई हं सः || ४ मू० ऋ
का ई हं सः || इत्यादि ४ मू० ४ ऋ क्षा ई हं सः || इत्यंतं जपित्वा || ४ मू० ॠ
आ ई हं सः || ४
प्. २१अ)
मू० ॠ का ई हं सः || इत्यादि० ४ मू० ॠ क्षा ई हं सः || इत्यंतं जपित्वा || ४
मू० ऌ आ ई हं सः || ४ मू० ऌ का ई हं सः || इत्यादि ऌ क्षा ई हं सः ||
इत्यंतं जपि० ४ मू० ॡ आ ई हं सः || ४ मू० ॡ का ई हं सः इत्यादि० ॡ
क्षा ई हं सः || इत्यंतं ज० ४ मू० ए आ ई हं सः || ४ मू० ए का ई हं सः
इत्यादि ४ मू० एक्षा ई हंसः इत्यंतं ज० ४ मू० ऐ आ ई हं सः || ४
मू० ऐ का ई हं सः इत्यादि ४ ऐ क्षा ई हं सः || इत्यंतं जपित्वा || ४ मू० ओ आ
ई हं सः || ४ मू० ओ का ई हं सः इत्यादि० ४ मू० ओ क्षा ई हं सः || इत्यंतं
जपित्वा मू० औ आ ई० इत्यादि० ४ मू० औ क्षा ई० || ४ मू० अं आ ई हं सः || ४
मू० अं का ई हं सः इत्यादि० ४ मू० अं क्षा ई हं सः || इत्यंतं जपित्वा ४
मू० अः आ ई हं सः ४ मू० अः का ई हं सः इत्या अः क्षा ई हं सः ||
इत्यंतं जपित्वा || एवं जपेत् || एवं षट्सप्तत्युतरपंचशत संख्याको जप
भवति मूलविद्यायाः ||
अत्र पारायणे प्रथमं तद्दिन युगाक्षारात् षोडशस्वर
भिन्नादुत्पन्न षट्सप्तत्युत्तर पंचशतविद्याभिः सहमूल विद्यां जपित्वा
|| पश्चात् तद्दिनाक्षर जनित विद्याभिस्तावत्संख्याताभिः सह प्रोक्त क्रमेण
मूलविद्यां जपेत् ||
प्. २१ब्)
युगाक्षर दिनाक्षरे तु तत्तद्दिन नित्या विद्यायाः प्रथमाक्षरं
द्वितीयाक्षरं च बोद्धव्यं || युगाक्षरोत्थ विद्या जपे विशेषस्तु० यस्मिन्
युगे यत्स्वरयुतं युगाक्षरं भवति तत्स्वरमारभ्य प्रतिस्वरं षट्त्रिंशत्
क्रमेण तद्विसर्गांतिमविद्या पर्यंतं जपित्वा पुनस्तदक्षरस्य प्रथम
स्वरमारभ्य आरब्ध स्वरस्य पूर्वस्वरांत विद्यावधिपजेत् || तदा
मूलविद्यायाः षट्सप्तत्युत्तर पंचशतसंख्या को जपो भवति || अत्र युगस्तु
षट्त्रिंशद्दिनात्मको भवति || प्रागुक्त पूर्णमंडलं
वर्णेषु षट्सप्तत्युत्तर पंचशत संक्याकेष्वेकैकाक्षरस्यैकैकयुगं
प्रतियुगाक्षरत्वं च भवति || एतत्सर्वं गुरुमुखात्सम्यग्विज्ञाय
पारायण जपः कार्यः || दिननित्या विद्या क्रमश्च
गुरुमुखादेवावगंतव्य इति || एवं द्विपंचाशदुत्तरैकादशशतसंख्या
को जपो भवंति मूल विद्यायाः || अंगविद्या जपस्त्वेकैक वर्गादावेक नवति
संख्याकस्तेन वर्गद्वयादौ जपोद्व्यशीत्युत्तर शतसंक्याको भवंति |
केवल मूलं विद्या
प्. २२अ)
जपोपि वा २ चतुष्टयंस्त्रिरावृत्या द्वादशधा भवति || संभूय०
सट्चत्वारिंशदुत्तरत्रिशताधिक सहस्रसंख्या को जपो भवति
मूलविद्यायाः || एवमुक्तसंख्याकं जपमुक्तविधिना कृत्वा पुनः
केवलां मूलविद्यां त्रिर्जपित्वा प्रागुक्त दीपिनी विद्यां गुरुपादुका
विद्यां च स कृत् स कृज्जपित्वा || ४ ड र ल क स हैं ह स क ल र डीं स ह क ल
र डौः नमः ||
इत्युत्तीर्ण विद्यां सकृज्जपित्वा || ४ मम सकल मनोरथान् साधय साधय
तुभ्यं नमः || इति प्रार्थनीय विद्यां सकृत्कृतांजलिर्जपेत् || इति
वर्गद्वयस्याप्यंते बोद्धव्यं || इथं पारायण जपं कृत्वा० इदं
स्तोत्रं पठेत् || तद्यथा ||
ओं ३ क्ष्मांब्वग्नीरण खार्केदुयष्टृप्राययुगस्वरैः ||
मातृभैरवगां वंदे देवीं त्रिपुरभैरवीं || १ ||
कादिवर्गाष्टकाकार समस्ताक्षरविग्रहां ||
अष्टशक्त्यावृतां देवीं वंदे त्रिपुरभैरवीं || २ ||
स्वरषोडशकानां तु षट्त्रिंशद्भिः परापरैः ||
षट्त्रिंशत्तत्वगां वंदे देवीं त्रिपुरभैरवी || ४ ||
षट्त्रिंशतत्वं संस्थाप्य शिवचंद्र कलास्वपि ||
प्. २२ब्)
कादि तत्वांतरां वंदे देवीं त्रिपुरभैरवीं || ४ ||
आ ई माया द्वयोपाधि विचित्रेंदु कलावतीं ||
सर्वात्मिकां परां वंदे देवीं त्रिपुरभैरवीं || ५ ||
षडध्वपिंडयोनिच्छां मंडल त्रय कुंडलीं ||
लिंग त्रयातिगां वंदे देवीं त्रिपुरभैरवीं || ६ ||
स्वयंभूहृदयां वाण भ्रूकामांतस्थितेतरां ||
प्राप्त प्रत्यक् चितिं वंदे दीं त्रिपुरभैरवीं || ७ ||
अक्षरांतर्गताशेष नामरूप क्रियां परां ||
शक्तिं विश्वेश्वरीं वंदे देवीं त्रिपुरभैरवीं || ८ ||
वर्गातं पठितव्यं स्यात् स्तोत्रमेतमाहितैः ||
इति कृत्वा || दिननित्या युक्त मूलविद्याया प्राणायाम त्रयं कृत्वा
प्राग्वदृष्यादि न्यास तद्दिन नित्या विद्याया प्राग्वत् करषडंगं न्यासं
च कृत्वा कृतं जपं देव्यै समर्पयेदिति || १ ||
एवं द्वितीय दिने प्राग्वदासन पूजाद्यंग विद्या जपांतं विधाय० ४
मू० क आ ई हं सः || ४ || मू० क का ई हं सः || ४ मू० क खा ई हं सः ||
इत्यादि० ४ मू० क क्षा ई हं सः || इत्यंतं जपित्वा || ४ का आ ई हं सः || ४
मू० का का ई हं सः || ४ मू० का खा ई हं सः इत्यादि ४ मू० का क्षा ई
हंसः ||
प्. २३अ)
इत्यंतं जपित्वा || ४ मू० कि आ ई हं सः || ४ मू० कि का ई हं सः || इत्यादि० ४
मू० कि क्षा ई हं सः || इत्यंतं जपित्वा || एवं की आ ई हं सः || की का ई०
इत्यादि की क्षा ई इत्यंतं ज० | ४ मू० कु आ ई हं सः | कु का ई इत्यादि० कु क्षा
ई० इत्यंतं जपित्वा || ४ मू० कू आ ई इत्यादि० ४ मू० कू क्षा ई० इत्यंतं ज० ४
मू० कृ आ ई० इत्यादि० ४ मू० कृ० क्षा इं० इत्यंतं ज० || एवं सर्वत्र || ४ मू०
श आ ई हं सः इत्यादि० ४ मू० शः क्षा ई हं सः क्षा ई हं सः इत्यंतं
५७६ || ज० ३१ || द्वात्रिंशत्तमे दिने || ४ मू० ष आ ई हं सः इत्यादि० ४ मू० ष
क्षा ई हं सः इत्यंतं ५७६ || ज० || ३२ || त्रयस्त्रिंशत्तमे दिने || ४ मू० स आ ई
हं सः इत्यादि० ४ मू० सः क्षा ई हं सः इत्यंतं ५७६ || ज० ३३ ||
चतुस्त्रिंशत्तमे दिने || ४ मू० ह आ ई हं सः इत्यादि० ४ मू० हः क्षा ई हं
सः इत्यंतं ५७६ || ज० ३४ || पंचमस्त्रिंशत्तमे दिने || ४ मू० ल आ ई हं सः
इत्यादि० ४ मू० लः क्षा ई हं सः इत्यंतं ५७६ || ज० ३५ || षट्त्रिंशत्तमे दिने ||
४ मू० क्ष आ ई हं सः इत्यादि० ४ मू० क्षः क्षा ई हं सः इत्यंतं ५७६ ||
जपित्वा || प्राग्वत् || जपेत् ||
प्. २३ब्)
अत्र षट्त्रिंशद्दिनेषु च प्रागुक्तपरिपाद्या
प्रत्यहं षट्चत्वारिंशदुत्तरत्रयोदशशतसंख्यं यथा भवति तथा
जपं कृत्वा वर्गद्वयस्याप्यंते स्तोत्र पाठं च कुर्यात् || अत्र पारायणे
पर्याय भेदः पंचधा भवंति || तथा च तंत्रराजे ||
दिनतो वारतः पक्षान् मासात् षट्त्रिंशता दिनैः ||
जपंतोवारमेकं तु विद्यानित्यात्मिकास्तुताः || १ ||
आयुरारोग्यमैश्वर्यं विजयं वांछितं क्रमात् ||
लभंते ललितायाभिः संप्रदायवती भवेत् || २ ||
एकस्मिन् दिवसे त्वेक वारावृत्तौ विधिस्त्वयं ||
मध्याह्ने तु समारभ्य मध्यरात्रे समापयेत् || ३ ||
वारेषु चैकदा जापे प्रथमे रविवारके ||
वशिन्याः प्रथमं वर्गं कामेश्वर्या द्वितीयकं || ४ ||
जप्त्वा वर्गद्वयं मंत्री सोमवारादि षट्स्वपि ||
दिनेषु मोदिनी वर्गादेकैकं प्रजपेत् सुधीः || ५ ||
पक्षेपि चैकदा जापे प्रथमादि तिथिष्वपि ||
पंक्ति द्वयोत्था विद्यास्तु प्रजपेत् प्रतिवासरं || ६ ||
पंचमी दशमी पंचदशीषु तिथिषु क्रमात् ||
पूर्णासु प्रजपेद्विद्याश्चतुःपंक्ति भवाः सुधीः || ७ ||
प्. २४अ)
मासे प्रतिदिनं विद्वानेकैकां योनिमेव तु ||
पूर्णासुद्दिद्वियोन्युत्था जपेत् षट् स्वपिताः क्रमात् || ८ ||
षट्त्रिंशत्सुदिनेष्वेवमेकैकां योनिमेव तु ||
जपेत् प्रतिदिनं विद्वानेवं पूर्णा भवंतित्ताः || ९ ||
नैताभिः सदृशी कापि विद्यालोकेषु विद्यते ||
तस्मादाभिरुपायैस्तैः साधयेत् सर्वमीप्सितं || १० ||
यद्यन्निजेप्सितं तत्तदुष्करं सुकरं भवेत् ||
जपतर्पण होमार्चासेकैः संतर्पये स्थिरः || ११ ||
पंचाशद्वारमावत्यी विद्या भक्ति समन्वितः ||
मुच्यते निगडैः कृछ्रैर्वैरिरोधैः सुदारुणैः || १२ ||
शतवारं समावर्त्य विद्याविविध वैभवाः ||
लभते तनयान् वध्या अपि सर्वगुणान्वितान् || १३ ||
अध्यर्द्धशतवारं तु विद्याश्र्यावर्त्यभक्तितः ||
गुणरूपादिसंपन्नां भार्यां विंदत्य यत्नतः || १४ ||
तावदावर्त्य कन्या वा पतिं सर्वगुणान्वितं ||
लभते पुत्र पौत्राद्यैरेधते संपदन्विता || १५ ||
द्विशतं ताः समावर्त्य दारिद्र्यान्मुच्यते ध्रुवं ||
त्रिशतैर्भूमि सस्थाढ्यश्चतुर्भिश्च शतैर्धनी || १६ ||
पंचभिस्तु शतैर्भूपो भवेत् षड्भिः शतैर्नृपः ||
प्. २४ब्)
सप्तभिस्तु शतैस्तस्य न मुंचत्यन्वयं रमा || १७ ||
अष्टभिस्तु शतैस्तासां नृपाः सर्वेस्य किंकराः ||
नवभिस्तु शतैरेवं कंदर्पोवनिताजने || १८ ||
एवं नवशतं जप्त्वा सर्वान्कामानवाप्नुयात् ||
समस्तभजनं तासामुक्त सर्वार्थ सिद्धिदं || १९ ||
इति || अथैतेषां विषमपदव्याख्या || दिनत इत्यादि० भवेदित्यंतः
सार्द्धद्वय श्लोकः स्पष्टार्थः || एकवारावृत्तौ षट्त्रिंशदुत्तर
सप्तशताधिक विंशति सहस्रसंख्याभिः कालनित्या विद्याभिः
सहमूलविद्यायास्तावत्संख्या जपे चोक्तविधिना प्रत्यहं क्रियमाणे
इत्यर्थः || वारेषु रविवारादि शनिवारां तेषु सुप्तसु वशिन्यादीनां
वर्गास्त्वग्रे न्यास प्रकरणे स्फुटी करीष्यामः || वर्गः पंक्तिर्योनिरिति
पर्यायः || सेकः अभिषेकः स्थिरः निश्चल भक्तिमान् पंचाशदित्यादिभिः
श्लौकैः प्रपंचितः काम्य जपः केवल कालनित्या विद्यानामेव | अन्येपि
काम्यप्रयोगावहवः व्यतिते त्वत्र ग्रंथगौरवभयान्नास्माभिर्लिखिताः
प्. २५अ)
गुरुतः शास्त्रतः अबोद्धव्याः ||
अथ कालचक्ररचना प्रकारः ||
ततः || प्रथमतः क्वचिद्बिंदुं कृत्वा तं परितः षडंगुलमानेन वृत्तं
कृत्वा तद्बहिरप्येकैकांगुलांतराल मानतः षोडश वृत्तानि इति प्रथम
कृत वृत्तेन सहसप्तदशवृत्तानि निष्पाद्यतानि
वृत्तानि षट्त्रिंशद्रेखाभिर्विभज्य षोडषषोडशकोष्ठयुक्ताः षट्त्रिंशद्
वीथीर्निष्पाद्यता सुखाग्रवीथ्यां सर्वबाह्यस्थ कोष्ठमारभ्य
प्रवेशगत्या अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः || इति विलिख्य || ततः
प्रादक्षिण्य क्रमप्राप्तद्वितीय वीथ्यां तथैव बाह्य कोष्ठमारभ्य क
का कि की कु कू कृ कॄ कॢ कॣ के कै को कौ कं कः || तृतीय विथ्यां ||
ख खा खि खी खु खू खृ खॄ खॢ खॣ खे खै खो खौ खं खाः ||
चतुर्थ विथ्यां || ग गा गि गी गु गू गृ गॄ गॢ गॣ गे गै गो गौ गं गः ||
पंचम वीथ्यां || घ घा घि घी घु घू घृ घॄ घॢ घॣ घे घै घं
घः || षष्ठ विथ्यां || ऽऽन ऽऽना ऽऽनि ऽऽनी ऽऽनु ऽऽनू ऽऽनृ ऽऽनॄ ऽऽनॢ ऽऽनॣ ऽऽने ऽऽनै ऽऽनो
ऽऽनौ ऽऽनं ऽऽनः || सप्तम वीथ्यां || चवर्गः || एवं सर्वत्रं || वीथ्यां न्यसेत्
|| १९ ||
प्. २५ब्)
छ वर्ग अष्टमविथ्यां || नवमवीथ्यां जवर्गः || दशमवीथ्यां
झवर्गः || एकादशविथ्यां ञवर्गः || द्वादशवीथ्यां टवर्गः ||
१३वी० ठ वर्गः || १४ वीथ्यां डवर्गः || १५ वीथ्यां ढवर्गः || १६
वीथ्यां णवर्गः || १७ वीथ्यां तवर्गः || १८ वीथ्यां थवर्गः || १९
वीथ्यां दवर्गः || २० वीथ्यां धवर्गः २१ वीथ्यां न वर्गः || २२
वीथ्यां पवर्गः || २३ वीथ्यां फवर्गः || २४ वीथ्यां बवर्गः || २५ भ
वर्गः || २६ मवर्गः || २७ वीथ्यां यवर्गः || २८ वीथ्यां रवर्गः || २९
वीथ्यां लवर्गः || ३० ववर्गः || ३१ वीथ्यां शवर्गः || ३२ वीथ्यां षवर्गः
|| ३३ वीथ्यां सवर्गः || ३४ वीथ्यां ह वर्गः || ३५ वीथ्यां लवर्गः || ३६
वीथ्यां क्षवर्गः || एवं षट्त्रिंशद्विथीषु षट्सप्तत्युत्तर
पंचशतसंख्यांकान् पूर्णमंडलवर्णानालिख्यं कर्णिकायां || आ
ई हंसः इति वर्णचतुष्टयं विलिख्य सर्वबाह्य वृत्ताद्बहिर्वृत्तत्रयं
निष्पाद्यसकेसरमष्टदलकमलविख्यत बहिश्चतुरस्रं कुर्यात् || अत्र
वर्णविन्यासे मध्यस्थ देवताभि मुखाः सर्वे वर्णा यथा भवंति तथा
लेख्याः ||
इति कालचक्ररचना प्रकारः ||
एतच्चक्रस्य
प्. २६अ)
षत्सप्तत्युत्तरपंचशतं भेदाः संति तत्सर्वं तत्र देव्याः पूजन
प्रकारं तत्फलानि च गुरुतः शास्त्रतःश्च बोद्धव्यं || ग्रंथ गौरव
भयादत्र न लिखितमिति || एवं पारायण जपं विधाय ततो गुरु दिक्पति ग्रहान्
प्रणम्य शुद्धोदक पूर्णपात्रमादाय हृदिस्वेष्ट देवता स्मरन्
मूलमंत्र स्तोत्रं वा जपन् मौनी स्वपद मात्र दृष्टिः स्वगृहं गत्वा
द्वारि स्थित्वा ज्ञाताज्ञातं स्वपापं स्मरन् प्रणवमुच्चार्य || ४ देवत्वं
प्राकृतं चित्तं पापाकांतमभून्ममा || तन्निःसारय चित्तान्मे पापं
फट् फट् फट् ते नमः सूर्यः सोमो यमः कालो महाभूतानि पंच च ||
एते शुभाशुभस्येह कर्मणो नवसाक्षिणः || २ ||
इति पठित्वा० | हूं फट् इति क्रोध दृष्टया पार्श्वद्वयमूर्ध्व
मध्यश्चावलोक्य सुमना भूत्वा गृहांतः प्रविश्य हस्तौ पादौ
प्रक्षाल्याचम्य गृहांगणे सुसमे गोमयोपलिप्ते भूप्रदेशे सिंदूरादिना
कृत कृत्त मंडलांतः स्वासनमास्तीर्य || ४ ओं ह्रीं आधारशक्ति
कमलासनाय नम | इत्यासनं संपूज्य | तत्र प्राऽऽन्मुख उपविश्य
वक्ष्यमाण मार्त्तण्डभैरव
प्. २६ब्)
मंत्रेण प्राणायाम त्रयं कृत्वा- शिरशि ४ देवभागा ऋषये नमः ||
मुखे ४ देवी गायत्री छंदसे नमः || हृदये ४ श्रीमार्त्तंडभैरवाय
देवतायै नमः || इति विन्यस्य मम सर्वाभीष्टसिद्धये सूर्यार्घ्यदाने
विनियोगः || इति कृतांजलिर्वदेत् ||
ततः ओं घ्रां ह्यां ध्रां हृदयाय नमः || ओं ध्रीं ह्यरीं ध्रीं शिरसे
स्वाहा || ओं ध्रुं ह्यरूं ध्रुं शिखायै वषट् || ओं ध्रैं ह्यरैं ध्वैं
कवचाय हूं || ओं ध्रौं ह्यरौं ध्रौं नेत्रत्रयाय वौषट् || ओं ध्रः ह्यरः
ध्रः अस्त्राय फट् || इत्यंगमत्रानंगुष्ठादि कनिष्ठांतं करयोर्विन्यस्य
हृदयादिष्वपि न्यसेत् || ततो ध्यानं ||
हेमांभोजप्रवालप्रतिमनिजरुचिंचारुखट्वांगपद्मे
चक्रं शक्तिं च पाशं सृणिमपि रुचिरामक्षमालां कपालं ||
हस्तांभोजैर्दधानं त्रिनयनविलसद्वेदवक्त्रांभिरामं
मार्त्तंडं वल्लभांकं मणिमयमुकुटं हारदीप्तं भजामः || १ ||
दक्षाद्युर्ध्वयोराद्ये तदाद्यधस्थयोरन्ये
तदाद्यधस्थयोरपरे तदाद्यधस्थयोरितरे |
इत्यायुध ध्यानं || इति स्वैक्येन ध्यात्वा मनसा पूजयित्वा
प्. २७अ)
ताम्रादि पात्रे सिंदूरकुंकुमादिना त्रिकोणवृत्त
कर्णिकंसकेसरमष्टदलकमलं निर्माय तद्बहिर्वृत्तं चतुद्वारोपेतं
चतुरस्रं च कृत्वा तद्बहिवृत्तत्रयं भ्रामयेदिति पूजामंडलं कृत्वा
तत्र सूर्यमंत्रेण पुष्पं दत्वा वक्ष्यमाणविधिना सामान्यार्घ्यं
विधाय तेनैव द्वादशधाभिमंत्र्यतेनोदकेन मंडलं स्वात्मानं
पूजोपकरणानि चाभ्युक्ष्य ||
तत्र || ओं मं मंडूकाय नमः || एवं - कालाग्निरुद्राय नमः || मूल
प्रकृत्यै नमः || आधारशक्तये-कूर्माय-अनंताय-वराहाय-पृथिव्यै-
क्षीरसमुद्रायन-श्वेतद्विपाय-कल्पवाटिकायै-मणिमंडपाय नमः
रत्नवेदिकायै-रत्नसिंहासनाय नमः इत्युपर्युपरिसंपूज्य | चतुरस्रे
पूर्वादि चतुर्दिक्षु मध्ये च | ओं प्रं प्रभूताय नमः || विमलाय न०
साराय न० समाराध्याय० मध्ये-परमसुखाय- तत्र || आग्नेयादि कोणेषु
|| ओं धं धर्माय-ज्ञानाय-वैराग्याय-ऐश्वर्याय-ततः
स्वाग्रादिचतुर्दिक्षु- ओं अं अधर्माय नमः ||
अज्ञानाय-अवैराग्याय-
प्. २७ब्)
अनैश्वर्याय-मध्ये-अनंताय-पद्माय-आनंदकंदाय-संविन्नालाय-
पकृतिमयपत्रेभ्यो-विकारमयकेसरेभ्यो-पंचाशद्वर्णबीजाढ्य
सर्वतत्वरूपायै कर्णिकायै नमः || संसत्वाय- रं रजसे- तं तमसे- आं
आत्मने- अं अंतरात्मने- पं परमात्मने ||
ह्रीं ज्ञानात्मने- मं वह्नि मंडलाय- उं सोममंडलाय- अं
अर्कमंडलाय- ततोष्ठदलकेरेषु-मध्ये च || रांदीप्तायै- रीं
सूक्ष्मायै- रू जयायै- रें भद्रायै- रैं विभूत्यै- रों विमलायै- रौं
अमोघायै- रं विद्यूतायै- मध्ये रः सर्वतो मुख्यै० || इति पीठशक्तीः
संपूज्य- ओं ब्रह्मविष्णुशिवात्मकाय सौराय योगपीठाय नमः || इति
पीठं संपूज्य- तत्कर्णिकायां पूर्वादि चतुर्दिक्षु- ओं उं उषायै नमः |
ओं प्रंपज्ञायै० ओं प्रंम्रभायै० ओं संध्यायै० इति चतुशक्तिः संपूज्य०
मार्त्तंडभैरव मंत्रमुच्चार्य० श्रीमार्त्तंडभैरव मूर्त्ति
कल्पयामीति मध्ये मूर्ति० परिकल्प्य पुनर्मंत्रमुच्चार्य०
मार्त्तंडभैरव मूर्त्तये नमः इति मूर्ति संपूज्य कराभ्यां
पुष्पांजलिमादाय
प्. २८अ)
हृदयकमले देवं तेजोरूपं ध्यात्वा सुषुम्णामार्गेण वहन्नासा
पुटाध्वना तत्तेजः करस्थ पुष्पांजलावानीय सूर्यमंत्रमूच्चार्य
भगवन् सूर्य इहागछागछति तस्यां मूर्तौ पुष्पांजलि क्षेपेण तत्तेजः
(करस्थ पुष्पां) समावाह्य यथोक्त रूपं देवं ध्यात्वा
पूर्वोक्त षडंगन्यासेन सकलीकृत्य प्राणप्रतिष्ठां विधाय | पद्मबिंब
मुद्रे प्रदर्श्य सूर्य मंत्रमुच्चार्य श्रीमार्तंडभैरव एतत्ते आसनं
नमः || एवं एषते अर्घ्यः स्वाहा मुर्द्ध्नि || एतत्ते पाद्यं नमः पादयोः ||
एतत्ते आचमनीयं सुधेति मुखे || एषते मधुपर्कः | सुधेति मुखे || एतत्ते
आचमनीयं सुधेति मुखे || एवं स्नानं नमः || आचमनीयं सुधेति मुखे
|| वाससा नमः || आचमनीयं सुधा मुखे || उपवीतं नमः आचम० सुधा
मुखे || अलंकारो नमः गंधो नमः पुष्पाणि वौषट् इति
पुष्पांतानुपचारान् दत्वा || अथावरण पूजां कुर्यात् || सायथा ||
कर्णिकायां पूर्वादि चतुर्दिक्षु ओं १ ह्यरं सूर्याय नमः || ओं २ ह्यरी
भास्कराय नमः | ओं ३ ह्यरं भानवे नमः | ओं ३ ह्यरें रवये नमः ||
प्. २८ब्)
तत आग्नेयादि चतुर्दिक्षु- ओं ३ ह्यरौं दिवाकराय नमः || इति पंचमूर्तीः
संपूज्य अष्टदलकेसरेषु | आग्नेये || ओं ध्रां ह्यरां ध्रां हृदयाय
नमः || नैर्-ऋत्ये ओं ध्रीं ह्यरीं ध्रीं शिरसे नमः | वायव्ये || ओं ध्रुं
ह्यरूं ध्रूं शिखायै नमः || इशान्ये | ओं ध्रै ह्यरैं ध्रैं कवचाय
नमः पूर्वादि चतुर्दिक्षु | ओं ध्रः ह्यरः ध्रः अस्त्राय नमः || देवाग्रे || ओं
ध्रौ ह्यरौं ध्रौं नेत्रत्रयाय नमः || ततोष्ट दलेषु ||
देवाग्रदलमारभ्य- ओं सों सोमाय नमः || ओं मं मंगलाय नमः || ओं
बुं बुधाय नमः || ओं बृं बृहस्पतये नमः || ओं शुं शुकाय नमः || ओं
शं शनैश्चराय नमः || ओं रां राहवे नमः || ओं कें केतवे नमः |
तद्बाह्ये दिक्पालांस्तदा युधाअनि च पूजयेत् || ओं लं इंद्राय नमः | एवं
रं अग्नये नमः || ट यमाय नमः | क्षं नै-ऋतये नमः | वं वरुणाय
नमः || यं वायवे नमः || सं सोमाय नमः || हं ईशानाय नमः ||
ईंद्रेशानयोर्मध्ये - निर्-ऋति वरुणयोर्मध्ये च || आं ब्रह्मणे | ह्री
अनंताय० ततो दिक्पालानां पार्श्वेषु० वं वज्राय न० शं शंक्त्यै- दं
दंडाय न० खं खड्गाय० पां पाशाय० अं अकुशाय न० गं गादायै
नमः त्रिं त्रिशूलाय नमः पं पद्माय नमः चंक्राय नमः
इत्थमावरणानि संपूज्य || धूपदीपनैवेद्यादीनि दत्वा स्वपुरतो
प्. २९अ)
वृत्ताकारं मंडलं निर्माय-मार्त्तंडभैरवार्घमंडलाय नमः
इति मंडलं संपूज्य || प्रस्थमात्र
जलग्राहिताम्राद्यन्यतममस्त्रक्षालितं पात्रं साधारं तत्र निधाय -
सूर्यमंडलत्वेन ध्यायन् सूर्यमंत्रं जपन शुद्धोदकैः संपूर्य
कुशतिलश्यामाककुंकुमचंदनरोचनाकरवीरपुष्पाणि निक्षिप्य
कुशैराछाद्य- ध्रिं ह्यरौ ध्रिं ३ इति सूर्यमंत्र अष्टोत्तरशतवारं
जप्त्वा पात्रं स्पृशन् जपित्वा मार्त्तंडभैरवं ध्यायन्
जानुभ्यामवनींगतः करांभ्यां तत्पात्रमामस्तकमुत्थाप्य-ध्रिं
ह्यरौं ध्रिं श्रीमार्त्तंडभैरवाय प्रकाशशक्ति सहिताय द्वादश
कलात्मने सग्रहराशिनक्षत्रतिथिवारयोगकरण परिवृत्तसन संस्थिताय
श्रीसूर्यायार्घं समर्पयामि स्वाहेति मंत्रेणार्घ्यं दत्वा
महामुद्रया स्वदृष्टि पथमाछाद्यमार्त्तंडभैरवं तदर्घामृत
परिप्लुतं विभावन् पूर्वोक्त सूर्यमंत्रेण पुष्पांजलिं दत्वा
प्राणायामादि पूर्वकं सूमंत्रं यथाशक्तिं जपित्वा प्राणायामादि
पूर्वकं जपं समर्प्य स्तुत्वा प्रणम्य
प्. २९ब्)
क्षमस्वेति मार्त्तंडभैरवं खे विसृज्य इशान्ये तेजश्चंडाय नम इति
निर्माल्यं क्षिपेत् ||
इति सूर्यार्घ्य दान विधिः ||
अयं मुख्य कल्पः ||
तदशक्तौ सूर्यमंडल एव व्योम्नि सावरणं मार्त्तंडभैरवं
ध्यायन् यथोक्त विधिना अर्घं दद्यादिति मध्यमः कलपः || केवल मंत्र
मात्रेण अर्घ्यदानं दत्वा यत्कल्यः || एवं पूजाया पूर्वं सूर्यार्घ्य
दानमावस्यकमिति ||
ततः शि * पूजां कृत्वा मंडपद्वार पूजां कूर्वीत || तत्र पार्थिवं
सर्वसिद्धिदमित्युक्तेः पार्थिवलिंगपूजनं प्रशस्तं || तत्पूजन प्रकारस्तु
गोमयोपलिप्तेशु चौदेशे प्राक् सूर्य पूजोक्त विधिना स्वासनं संपूज्य
तत्रोदऽऽन्मुख उपविश्याद्येत्यादि तिथ्युल्लेखनांते
श्रीपरदेवतार्चनाधिकारार्थं पार्थिवलिंग पूजमहं करिष्ये | इति
संकल्प्य ||
ओं सर्वाधारधरे देवि त्वद्रूपामृतिकामिमां ||
गृहिष्यामि प्रसन्ना त्वं लिंगार्थ भव सुप्रभे || १ ||
इति भूमिं प्रार्थ्यं - ओं हराय नमः | इति शुचिच्छानात् शुभ्रां
सुस्निगधांमृदमादाय- संशोध्य ओं महेश्वराय नमः इति
संघट्टनं
प्. ३०अ)
विधाय० स्वपुरतः ओं शूलपाणये नमः इति पीठादौ संच्छाप्य०
पुष्पांजलिमादाय हृदि तेजोरूपं देवं ध्यात्वा वहन्नासाध्वना
बहिर्निःसार्यकरस्थ पुष्पांजलौ तत्तेजः संयोज्य ओं पिनाक धृक् इहा
गछागछेति तस्मिन् लिंगे पुष्पांजलि क्षेपेणावाह्य० ओं शूलपाणे | इह तिष्ठ
तिष्ठेति संस्थाप्य ओं पशुपतय नम इति शुद्धे जलैः स्नापयित्वा ओं शिवाय
नम इति गंधपुष्पाणि निवेद्य वेद्यादामावर्त्तेन स्वाग्रमारभ्य- ओं
शर्वाय क्षिति मूर्तय नमः || ओं भवाय जल मूर्त्तय नमः || ओं रुद्राय अग्नि
मूर्त्तय नमः || ओं उग्राय वायुमूर्त्तय नमः || ओं भीमाय
आकाशमूर्त्तय नमः || ओं पशुपते यजमान मूर्त्तय नमः ||
ओं महादेवाय सोममूर्त्तय नमः || ओं ईशानाय सूर्यमूर्त्तय नमः || इति
संपूज्य० प्रणालिकायां ओं ह्रीं उमायै नमः || इति पूजयेत् || ततः
सांगाय सपरिवाराय श्रीशिवाय नमः || इति त्रि० संपूज्य० ओं शिवाय नम
इति त्रिर्धूपादि तांबुलां तानुपचारान् दत्वा ||
ओं सर्वज्ञज्ञानविज्ञान प्रदानैक महात्मने ||
प्. ३०ब्)
नमस्ते देव देवेश सर्वभूत हितेरत || १ ||
अनंत कीर्ति संपन्न अनेकासन संस्थित ||
अनंत कांति संप्रोग परमेश नमोस्तुते || २ ||
परापरपरातीत उत्पत्तिस्थितिका |
सर्वार्थ साधनोपाय विश्वेश्वर नमोस्तुते || ३ ||
स्वभाव निर्मला भोग सर्वव्याधि विनाशन |
योगि योगि महायोगि योगेश्वर नमो * स्ते || ४ ||
कृत्वा लिंग प्रतिष्ठां तु स्तवमेनमुदीरयेत् ||
लिंग स्तवं महापुन्यं यः शुणोति सदा नर || ५ ||
नोत्पद्यते च संसारे स्थानं प्राप्नोति शाश्वतं ||
तस्मात्सर्वप्रयत्नेन शृणुयाल्लिंगसंस्तवं || ६ ||
पाप कंचुक निर्मुक्तः प्राप्नोति परमं पदं ||
इति स्तुत्वा एकाग्रमनाऽमंत्रं पठेत् ||
अंगहिनं क्रियाहीनं विधिहीनं महेश्वर ||
पूजितोसि मया देव तत्क्षमस्व म्रमात् कृतं || १ ||
यद्यप्युपहःतैरपास्तैर्भावदूषितैः ||
केश किटपविद्धैश्च पूजितोसि मया प्रभो || २ ||
अन्यत्रासक्त चित्तेन क्रियाहिनेन वा प्रभो ||
मनोवाक्काय दुष्टेन पूजितोसि त्रिलोचन || ३ ||
यच्चोपहत पात्रेण कृतमर्घादिकं मया ||
तामसे न च भावेन तत्क्षमस्व मम प्रभो || ४ ||
प्. ३१अ)
मंत्रेणाक्षर हीनेन पुष्पेन विफलेन च ||
पूजितोसि महादेव तत्सर्वं क्षम्यतां मम || ५ ||
व्रतं संपूर्णतां यातु फलं चाक्षययमस्तु मे ||
इति पठीत्वा प्रदक्षिणा नमस्कारैः सम्यक् परितोष्य श्रीमहादेव क्षमस्वेति
स्वात्मनि संहारमुद्रया विसृज्य निर्माल्यमादाये० ४ चंडेश्वराय नम इति
इशानकोणे निक्षिप्य तत् लिंगं निर्माल्यपुष्पार्चादिकं च जलध्ये नद्यादौ
विसृजेत् | अत्र पार्थिव लिंग पूजायां पार्थिव लिंगं यथा यथा बृहत्तथा
तथा फलंकं बाहुल्यं० यथा यथा सूक्ष्मं तथा तथा फलमल्पं ||
सूक्ष्मेपि पलत्रयान्यूनं न कर्यमिति पार्थिव लिंग पूजन प्रकारः ||
अथ द्वारपूजा ||
तत्र स्वर्ण प्राकारस्य पूर्वद्वारेणांतः प्रविश्य प्रादक्षिणेन
मंडपस्य पश्चिमद्वारं गत्वा तदारभ्य मणिमंडपं
प्रदक्षिणीकृत्य पश्चिमद्वारेणांतं प्रविश्य साधकः पूजयेद्देवीमिति
क्रमस्ते नैव क्रमेण द्वारपूजनमिति || यागमंडपस्य प्राकारासंभवे
मंडपस्य द्वाराग्रस्तदसंभवे
प्. ३१ब्)
यागमंडपस्य पश्चिमे द्वारे मंडपासंभवगोमयोपलिप्तायाः
यागभूमेः पश्चिमे भागे क्वापि स्थित्वा सामान्यार्घं विद्यायैवं
कल्पयित्वा क्रमेण पूजये || तद्यथा ||
कोटि कोटि योजन विस्तीर्ण सुधार्णव चतुष्टयांतर्गतं कोटियोजन विस्तरां
यामं महाद्भूतं नवरत्न मयं द्वीपं सहस्रादित्य तेजसं तन्मध्य
तृतीयांशे मदनोन्मादनं नाम नानापुष्पलताकुलं कदंबकान् न
गर्भं नंदनोद्यानं तन्मध्य तृतीयांशे कोटि सूर्य प्रतीकाशं ज्वलत्
स्वर्ण प्राकार वेष्टितं नाना सुरभिशालित्तोरणद्वार नानारत्नमंडितं
परितः सेवार्थ मायातेंद्रादि देवगण समाकुलं माणिक्यमयं
श्रीमंडतं ध्यात्वा सामान्यार्घोदकेनाभ्युक्ष्य पुष्पादिभिः क्रमेण
पूजयेत् || तद्यथा || ४ सुधार्णव चतुष्टयाय नमः || ४ अं ५१ नवखंड
विराजिताय नवरत्न द्विपाय नमः || ४ नंदनोद्यनाय नमः || ४ स्वर्ण
प्राकाराय नमः || तद्वारस्य दक्षिणोत्तर शाखयोरुपर्यधश्च ४ गं
गणेशाय नमः || ४ क्षें क्षेत्रपालाय नमः || ४ द्वां द्वार श्रियै नमः ||
४ देहल्यै नमः || इति संपूज्य ||
प्. ३२अ)
प्राकारांतः प्रविश्य प्रदक्षिण कमेणेंद्रादि दशदिक्पालान् स्वस्वदिशि
संपूज्य मणिमंडपस्य पश्चिमद्वारं गत्वा सामान्यार्घं
वक्ष्यमाणविधिना संस्थाप्य तेनोदकेनास्त्रमंत्रेण
तोरणद्वारमभ्युक्ष्य सामान्यार्घ करणाशक्तौ ताम्रादि पात्रस्थ जलं
मूलेनाष्टवारमभिमंत्र्यधेनुमुद्रायामृतीकृत्य तेनोदकेन वा
प्रोक्षयेत् ||
ततः ४ कदंबकाननाय || तद्दक्षिणे ४ कामदेवरतिभ्यां ||
तदुत्तरे ४ वसंत प्रीतीभ्यां नमः || इति संपूज्य || ४ श्रीरत्नमंडपाय
नमः || इति मंडपां संपूज्यतोरणद्वारस्य पश्चिमभागे
द्वाराभिमुखमुपविष्टां वाराहीं वक्षमानरूपां ध्यात्वा |
तद्विप्रया तां संपूज्य तद्वारमस्त्रेणाभ्युक्ष्यद्वारस्योर्ध्व
शाखायां दक्षिणे ४ मां महालक्ष्म्यै नमः || वामे ४ सं सरस्वत्यै
नमः || मध्ये ४ दुं दुर्गायै नमः || ४ द्वां द्वारश्रियै नमः || द्वारस्य
दक्षिणवाम शाखयोरधोधः क्रमेण ४ शं
शंखनिधिवसुधाराभ्यां नमः || ४ पं पद्मनिधवसुमतीभ्यां
नमः || ४ गं गणपतये नमः || ४ क्षें क्षेत्रपालाय नमः || ४ मां
माया शक्त्यै नमः || ४
प्. ३२ब्)
चिं चिछक्त्यै नमः || ४ गं गंगायै नमः || ४ यं यमुनायै नमः || ४
धं धात्रे० ४ विं विधात्रे० दहल्यां० दें देहल्यै० द्वाराग्रे ४ वं
वरुणाय नमः इति पश्चिमद्वारं संपूज्य || तत्रोत्तर द्वारं गत्वा०
तथैवाभ्युक्ष्य तस्योर्ध्व शाखायां दक्षिणवामपार्श्वे योः प्राग्वन
महालक्ष्मीरत्यस्वत्यौ संपूज्य मध्ये ४ बं बटुकाय नमः || ४ द्वां
द्वारश्रियै० पुनः पूर्ववत् शंखनिध्यादि देहल्यं तं संपूज्य
द्वाराग्रे ४ सों सोमाय नमः || इति संपूज्य ||
ततः पूर्वद्वारं गत्वा तथैवाभ्युक्ष्य तस्योर्ध्वशाखायां
दक्षिणवामपार्श्वयोः प्राग्वन्महालक्ष्मी * रस्वत्यौ संपूज्य० मध्ये० ४
क्षें क्षेत्रपालाय नमः || ४ द्वां द्वारश्रियै नमः || पुनः
प्राग्वछंखनिध्यादि देहल्यं तं संपूज्य० द्वाराग्रे ४ लं इंद्राय
नमः | ततो दक्षिणद्वारं गत्वार्घोदकेनाभ्युक्ष्य तदूर्ध्व शाखायां
दक्षिणवामपार्श्वयोः प्राग्वन्महालक्ष्मी सरस्वत्यौ संपूज्य० मध्ये०
४ ग्लैं गणनाथाय नमः | ४ द्वां द्वारश्रियै नमः || इति संपूज्य |
द्वारशाखयोः प्राग्वछंस्वनिध्यादि देहल्यं तं संपूज्य द्वाराग्रे
४ टं यमाय० ततः पुनः
प्. ३३अ)
पश्चिमद्वारं गत्वा वामपादपरःसरं तत्तोरणांतः प्रविश्य || ४
रत्नसोपान पंक्तये नमः इति सोपानपंक्तिं संपूज्य० तामारुह्य
मंडपस्य पश्चिमद्वारादि चतुर्द्वारेषु पंचस्थ देवताः संपूजयेत् ||
तत्र प्रथमंरस्कारणीं ||
श्यामवर्णां मदाघूर्णा रक्तनेत्रत्रयान्वितां ||
कृष्णांबरां गदां खड्गं दधतीं च भुजद्वये || १ ||
दोर्भ्यो मनोहराभ्यां च खर्जूरी कुभधारिणीं ||
नीलं तुरंगमारुढां प्रौढां पीनघनस्तनी || २ ||
मुक्तकेशीं विवसनां सर्वालंकारभूषितां ||
स्वयोनिदर्शनान्मुह्य सशुवर्गान्ननुस्मरेत् || ३ ||
कृष्णांबरामिति कृष्णवर्ण प्रछदपटां |
विवसनामधोवस्त्र रहितां | खर्जूरी कुंभधारिणी खर्जूर सभरित
कुंभ धारिणीमित्यर्थः || दक्षाद्यूर्ध्वयोराघे अथस्थयोः कुंभमिति
ध्यात्वा पश्चिमद्वाराग्रे किंचिद्बहिः ४ ऐं नमो भगवति माहेश्वरि
पशुजन मनश्चक्षुस्तिरस्करणं कुरु कुरु स्वाहा || तिरस्करणी देवी
श्रीपादुकां० || इति संपूज्य मंचस्थ देवताः पूजयेत् || तत्पूजा क्रम
उड्डीश मते ||
सरस्वतीं रमां चैव पश्चिमे परिपूजयेत् ||
प्. ३३ब्)
मायां दुर्गां दक्षिणे तु पूजयेत् परमेश्वरि || १ ||
भद्रकालीं ततः स्वस्तिं पूर्वे च परिकल्पयेत् ||
स्वाहां शुभंकरीं गौरीं यक्षे च परिपूजयेत् || २ ||
वागीशीं लोकधात्रीं च दक्ष पश्चिमद्वारके ||
एतामंच स्थिताः पूज्या यथानुक्रमयोगतः || ३ ||
इति || अथैतासां पूजा यथा || पश्चिमद्वारस्य वामभागे || ४ सां
सरस्वतीश्री० दक्षिणभागे ४ मां महालक्ष्मीशी० ततो दक्षिणद्वारि |
वामभागे ४ मां मायाश्री० दक्षणभागे ४ दुं दुर्गाश्री० ततः
पूर्वद्वारि || वामे ४ भद्रकालीश्री० दक्षे ४ स्वं स्वस्तिश्री० तत उत्तरद्वारे०
वामे ४ स्वां स्वाहाश्री० दक्षे० ४ शुं शुभंकरीश्री० द्वाराग्रे० ४ गौ
गौरीश्री० पुनर्दक्षिणद्वारं गत्वा तद्वाराग्रे ४ लों लोकधात्रीश्री० ततः
पश्चिमद्वारं गत्वा द्वाराग्रे० ४ वां वागीश्वरीश्री० इति संपूज ||
पालितं बहुरिंद्राद्यैः परमैश्वर्य शोभितं ||
प्रपद्ये पश्चिमद्वारं भवान्यामंदिरं महत् || १ ||
इति ध्यात्वा ४ पश्चिमद्वाराय मंडपाय नम इति मंडपं संपूज्य०
तालत्रय पूर्वकं तद्वारमुरघाटय
प्. ३४अ)
सिद्धार्थाक्षतभस्मकुशकुसुमानि नाराचास्त्रप्रयोगेण ४
अपक्रांमं तु भूतानि पि शाचाः प्रेत गुह्यकाः ||
ये चात्र निवसंत्यन्ये देवताभूविसंस्थिताः || १ ||
अपसर्पंतु ये भूता ये भूता भूवि संस्थिताः ||
ये भूता विघ्नकर्त्तारस्ते नस्यंतु शिवाज्ञया || २ ||
इत्यंते अस्त्रमुच्चरणूमंदपांतः प्रक्षिप्य तस्मिन्निर्गछतां
विघ्नसंधानां स्ववामांगसंकोचेन मार्गं दत्वा त्रिविध
विघ्नानुत्सारयेत् || तद्यथा || ४
र्या खंडकारिणो भूत्वा भूमौ ये चांतरिगाः ||
दिवि लोके स्थिता ये च ते नश्यंतु शिवाज्ञया || १ ||
इत्यंते अस्त्र मुच्चरन् वामपार्ष्णिघातत्रयेण भौमानूर्ध्वोर्ध्व
तालत्रयेणांतरिक्षगान् तीक्ष्णदृष्ट्यवलोकनेन दिव्यान् विघ्नानुत्सार्य०
वामपादपुरःसरं मंडपांतः प्रविदिति द्वारपूजा || अत्र प्रतिद्वार
गमना संभवे पश्चि * द्वार एव स्थित्वा तत्तद्वाराणि कल्पयित्वा पूजयेत् ||
अथ यथाक्रमं द्वार देवतानां ध्यानं लिख्यते ||
पद्मद्वय वरामीति भास्वत्यागि चतुष्टयां ||
पद्मवर्णां त्यजेत्पद्मां पद्मांक्षीं पद्मवासिनीं || १ ||
प्. ३४ब्)
अक्षस्रक् पुस्तकधरा पूर्णचंद्र समद्यूतिः ||
विश्वविद्या मयी देवी भारती भास्वतां मयि || २ ||
शंखचकांकिंतकरा कुमारी कुटिलालता ||
मृगेंद्रवाहना देवी दुर्गा दुर्गाणि हंतु मे || ३ ||
तप्तकार्त्र स्वराभासा दिव्यरत्नविभूषिता ||
द्वार श्रीरूर्ध्व पद्मस्था वराभय करांबुजा || ४ ||
मुक्ता माणिक्य संकाशौ किंचित् स्मित मुखांबुजौ |
अन्योन्या लिंगन परौ शंखपंकजधारिणौ || ५ ||
विगलद्रत्न वर्षाभ्यां शंखाभ्यामूर्ध्नि लांछितौ ||
शंखासन समासीनौ विश्वसंकल्पकल्पकौ || ६ ||
तुंदिलं कंबुक निधिं वसुधारां घनस्तनीं ||
वामतः पंकज निधिं प्रियया सहितं यजेत् || ७ ||
सिंदूभौ भुजाश्लिष्टौ रत्नपद्मोत्पलान्वितौ ||
निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूद्ध्नि लांछितौ || ८ ||
पद्मासनसमासीनौ विश्वसंकल्प कल्पकौ ||
तुंदिलं पंकज निधिं तन्वीं वसुमतीमपि || ९ ||
पलाशपाटलछायं रमणीयं रति प्रियं ||
पुंड्रेक्षु ४ चाप पुष्पेषु मंतं वदे मनोभवं || १० ||
प्रपद्ये प्रीति दयितं पूर्णेंदु सदृशं विभुं ||
वसंतं नंदनोद्याने वसंतं ततोत्स्ववं || ११ ||
पाशांकुश फलांभोज पाणि पाटल तुंदिलं ||
प्. ३५अ)
वीरं विघ्नेश्वरं वंदे गजवक्रं त्रिलोचनं || १२ ||
कपालशूलौ बिभ्राणं कृपालुं कृष्णविग्रहं ||
तीक्ष्णं त्र्यक्षं समर्चामि क्षेत्रेशं क्षत विद्विषं || १३ ||
वराभय करां सौम्यां सोमकोटिसमप्रभां ||
भजे गंगां महादेव्याः पाद्योदक तरंगिणीं || १४ ||
वाम पादार्घसंभूतां परदेव्यास्तरंगिणीं ||
वराभयकरां वंदे कालिंदिं कालविग्रहां || १५ ||
भत्तारं जगतां वदे शंखं चक्रं गदांबुजं ||
विभ्राणं गरुडा रूढं धातारं कृष्णविग्रहं || १६ ||
रक्तं रक्तारविंदस्थं वराभयकमंडलुं |
हंसारूढविधातारं वदेऽक्ष स्रक् समन्वितं || १७ ||
सिंहारूढां श्यामलांगीं खड्गखेटकधारिणीं ||
अधस्थां देहलीं वंदे पश्चिमास्यासुरक्षिणीं || १८ ||
पाशाभयधरं वंदे पूर्णेंदु सदृशछवीं ||
वरुणं मकरारूढं द्वारेश्रीपारदैवते || १९ ||
कर कलित कपालः कुंडली दंडपाणिस्तरुण तिमिर नीलोव्यालयज्ञोपवीती ||
क्रम समय सपर्या विघ्नविध्वंस हेतुर्जयति बटुकनाथः सिद्धिदः
साधकानां || २० ||
धूम्रवर्णो गदाहस्तः कुबेरो नरवाहनः ||
सौम्य द्वाराधिपः पायात्परदेव्या धनेश्वरः || २१ ||
प्. ३५ब्)
व्यालव्यग्रजटाधरं त्रिनयनं नीलांजनाद्रि प्रभं दोर्दडात्त गदा
कपालमरुणस्रग्वस्त्रगंधोज्वलं ||
घंटाघुर्घुरमेखलाध्वनिमिलद्धूंकारभीमं विभुं
वंदेहंसितसर्पकुमंडलधरं तं क्षेत्रपालं सदा || २२ ||
सितो गजास्यः परशुं दंतंपाशं त्रिशूलकं ||
भुजैश्चतुभिर्बिभ्राणो मूषकोपरिसंस्थितः || २३ ||
पूर्वद्वाराधिपः शक्रः परदेव्या (धनेश्वरः ||) सुपीतकः ||
वज्रहस्तः सहस्राक्षः पायादैरावतः स्थितः || २४ ||
गणेशश्यामवर्णं च चतुर्बाहुं दिगंबरं ||
वामदक्षोर्ध्व बाहुभ्यां पाशांकुंश धरं तथा || २५ ||
दक्षिणाधः करेणैव मधुपूर्णं कपालकं ||
दधानं वामहस्तेन देव्यामदनमंदिरं || २६ ||
स्पृशन्वामांग संस्थाया रक्ताया दक्ष पाणिना ||
आत्मयोनौन्यस्तलिंगं पद्मं वामेन पाणिना || २७ ||
दधत्याः शुंडया योनिं जिघ्रन् ध्यात्वा प्रपूजयेत् ||
नीलांजन चयप्रख्यं यमं महिष वाहनं || २८ ||
दंडमंडितदोर्दंडं दक्षद्वाराधिपं भजे ||
अथ मंचस्थ देवता ध्यानं ||
प्. ३६अ)
अक्षस्रक् पुस्तकाभीतीर्दधानां बहुभिर्वरं ||
त्रिलोचनां स्मरेद् देवीं सर्वशुक्लां सरस्वतीं || २९ ||
पद्मद्वय वराभीति भास्वत्पाणि चतुष्टयां ||
निर्दग्ध हेम गौरांगीं महालक्ष्मीं त्रिलोचना || ३० ||
वरांकुशौ पाशमभीति शुलौकरैर्दन्यंभवभावमूलं ||
घनाघनौघ प्रभदेह कांतिं मायां त्रिनेत्रां मनिशं स्मरामि || ३१

शंखचक्रधनुर्बाणा च धारयंती त्रिलोचनां ||
दूर्वादलनिभां वंदे दूर्गां दूर्गार्ति नाशिनीं || ३२ ||
कपालं खेटकं खड्गं त्रिशूलं बिभ्रतीं करैः ||
भिन्नांजन चयप्रख्यां भद्रकालीं नमाम्यहं || ३३ ||
शक्ति स्वस्तिक मुद्राभी हस्तां चंद्र समप्रभां ||
त्रिनेत्रां संस्मरेद्देवीं स्वस्तिं स्वस्ति करीं परां || ३४ ||
रक्तोत्पल द्वंद्व वराभयानिकरैर्बहंतीं स्मितशोभिवक्त्रीं ||
रक्तां त्रिनेत्रामरुणांबराढ्यां स्वाहां भजे देवगणाभिवंद्यां ||
३५ ||
शालि कल्पलताशार्ऽऽन बाणपाणि चतुष्टया |
ज्वलत्कांचन वर्णाभा शुभं कुर्याछुभंकरी || ३६ ||
पाशांकुश वराभीतीर्बिभ्रत्तीमरुणप्रभां ||
प्. ३६ब्)
त्रिनेत्रां मातरं वंदे गौरीं रक्तांबरो ज्वलां || ३७ ||
नाघुसलवराभीतिर्बिभ्रतीं कांचनप्रभां ||
मातरं दिव्यरत्नांगीं लोकधात्री नमाम्यहं || ३८ ||
श्वेतां श्वेतांबरां श्वेत भूषणस्रग्विलेपनां ||
पद्मद्वय वरादर्श करां वागीश्वरीं भजे || ३९ ||
इति श्रीपरदेवताया मंडपद्वाराधि देवतानां ध्यानं ||
इत्थं द्वार देवताः ध्यायन् पूजयेदिति ||
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना श्रीश्रीविद्यानंदनाथेन
विरचिते सौभाग्यरत्नाकरे द्वितीयस्तरंगः || २ ||
ततो मंडपांतः प्रविश्य वस्त्रेण द्वारमाछाद्य घंटावादन
पूर्वकं पंचगव्यार्घतोयाभ्यामस्त्रमंत्रेण मंडपांतः प्रोक्ष्य
नानावर्णरजश्चित्रैः पुष्पमालावितानाद्यैर्मंडपमलंकृत्य
लाक्षासिंदूरादिभिर्भित्तिस्तंभादिकमरुणीकृत्य वेदी परितश्चि स्थायिनः
प्रदीपान् प्रज्वाल्य कालागुर्वादिभिर्धूपयित्वा तदभावे तादृशं ध्यात्वा
ततो मंडपस्य | नैर्-ऋति कोणे || ४ वास्तु पुरु शांय नमः || ४
वास्त्वधीश्वराय ब्रह्मणे नमः ||
प्. ३७अ)
ईशान भागे || ४ कुलनाथ पादुकां पूजयामि || ४ रक्तवर्ण द्वारौ
दशशक्ति सहित श्रीदीपनाथ पादुकां पू० | इति दीपनाथं संपूज्य ||
अस्मिन् क्षेत्रे दीपनाथ निर्विघ्नं सिद्धिहेतवे ||
श्रीचक्रक्रमपूजार्थमनुज्ञां दीयतां ममी || १ ||
इति दीपनाथाज्ञां प्रार्थ्य || ततः पश्चिमादि द्वारचतुष्टये मध्ये च ||
दूतर्यंबा श्रीपादुकां पूजयामि || ४ (पूर्वोक्त विपरी)तकृत् ||
फलकायां पटेभित्तौ स्थापयेत्त कदाचन ||
स्थापितं यदि मोहेन लोभेनाज्ञानतोपि वा ||
कुलंवित्तमपत्यं च निर्मूलयति सर्वथेति || तथा लक्षसागरे || वंगेथ
सीसके लोहेन कर्त्तव्यं कदाचनेति || श्रीचक्रस्थ पीठमानं
द्रव्यप्रमाणं चाह || कूल मूलावतारे ||
अग्निरंगुलविस्तारं प्राक् प्रत्यक् दक्षिणोत्तरां |
पल प्रमाणं कर्तव्यमर्चा पिठं मनोहरं ||
यवार्द्धाच्चं प्रकुर्वीत चतुरस्रं समंततः ||
तस्मिन् पीठे च निर्माणं श्रीचक्रस्य तु कारयेत् || इति ||
लक्ष सागरे ||
(अग्निरंगुलं हेमस्य रजतस्य तथैव च ||
ताम्रस्य पूर्वसंख्यैव माणिक्यादौ यथेछया ||)
प्. ३७ब्)
सुंदर्यंबाश्री० || ४ सुमुख्यंबाश्री० ४ विरूपांबाश्री० ४
विमलांबाश्री० ४ अंतर्यंबाश्री० ४ बदर्यंबाश्री० ४
पुरंदर्यंबाश्री० इति द्वारस्य वामदक्षिणयोर्द्वंद्वं सपूज्य || मध्ये
४ पुष्पमर्दिन्यंबाश्री० इति पूजयेत् ||
ततः तीक्ष्णदंष्ट्रमहाकाय कल्पांतदेहनोपमः ||
भैरवाय नमस्तुभ्यं मनुज्ञां दातु मर्हसि || १ ||
इति पठित्वा भैरवाज्ञामादाया अः पूडिति पूज्या वेदीं गत्वा || सिरसि ४
मेरुपृष्ठये ऋषये नमः || मुखे ४ सुतलायछंदसे नमः || हृदये ४
पृथिव्यै देवतायै नम इति विन्यस्य पृथिवी प्रार्थने विनियोगाः || इति
कृतांजलिरुक्वा ४
पृथ्वी त्वया धृता लोका देवित्वं विष्णुना धृता ||
त्वं च धारय मां देवि पवित्रं कुरु चासनं || १ ||
इति पृथिवीं प्रार्थ्य ||
जपस्थानं मूलमंत्रेण वीक्ष्यास्त्रेण प्रोक्ष्यास्त्रेणैव कुशैः
त्रिःसंताड्य कवच मंत्रेणाभ्युक्ष्य वक्ष्यमासाण पीठपूजा क्रमेण
४ मं मंडूकाय नमः || इत्यादि कालाग्नि रुद्रादि वेदिकांतं संपूज्य ||
तस्यां वेदिकायां यथोक्तमासनस्वासनस्थाने आस्तीर्य तदस्त्रेण प्रोक्ष्या
४ ह्रीं आधारशक्ति कमलासनाय नमः ||
प्. ३८अ)
इत्यासनं संपूज्य तस्यासनस्याग्नेंयादि कोणेषु ४ गं गणपतये नमः ||
४
दुं दुर्गायै नमः || ४ सं सरस्वत्यै नमः || ४ क्षें क्षेत्रपालाय नमः |
इति संपूज्य तत्र प्राऽऽन्मुखः पद्माद्यासनेनोपविश्य रक्तगंधांबर
स्रगाभरणभूषितस्तांबूला पूरित मुखः
कर्पूरमृगनाभिसुवासितांबरोस्यांगः प्रमुदित चित्तः शिवोहमिति
विभावयन् स्वशिरसि पूर्वोक्तं मातृकाबुजं ध्यात्वा गुरूपदेश विधिना
स्वपुरतः समं भूतले निर्मित सौधादिस्थंडिले सिंदूरादिना
वक्ष्यमाणं श्रीचक्रमुद्धरेत् || अथवा स्वर्णादि पट्टे निर्मितं
वक्ष्यमाण विधिना प्रतिष्ठितं चंदनादि पीठे पुरतः संस्थाप्य
वक्ष्यमाण समष्टि योगिनी मंत्रेण पुष्पांजलिं क्षिपेत् || तत्प्रतिष्ठ
प्रकारस्तु श्रीतंत्रराजे ||
चक्रे देव्यां तथा शिष्ये प्रतिष्ठा त्रिविधोच्यते ||
सा च तत्वविदा कार्य संप्रदायानुरोधिना || १ ||
चक्रे पूजा चक्रे | देव्या देवि मूर्तौ | तत्वविदा प्रतिष्ठा विधिज्ञेन
पूर्णाभिषिक्तेन गुरुतः प्रासानुज्ञेन | तदुक्तं तंत्रराजे ||
गुर्वनुज्ञामृते मोहाल्लोभाद्वा कुरुते यदि ||
प्. ३८ब्)
स पुत्रदारो निधनं प्राप्नुवंन्निरयं व्रजेत् || २ ||
तस्मात् पूर्णाभिषेकेने प्रात्यानुज्ञः समाचरेत् || इति ||
एवं विधेन क्रियमाणायां प्रतिष्ठायां कालविशेषस्तत्रैव |
स्थिरे शुभग्रहोपेतेऽनुकूले गुणशालिनि |
मूहूर्त्ते कारयेद्यद्वा पूर्णायां वा शुभोदये || १ ||
अक्षरत्रय संपात दिने पूर्णा दिन त्रये ||
प्रोक्तेषु पंच स्वन्येषु सर्वदा वा शुभोदये || २ ||
पूर्णायां पौर्णमास्यां |
अक्षरत्रय संपात दिने एकस्यैवाक्षरस्य दिनाक्षरत्वेनोदयाक्षरत्वेन च
स्थितिर्यस्मिन् दिने ||
अन्येषु पंचपर्वसु गुरोर्जन्मदिन विद्या प्राप्ति दिन स्वजन्मदिन दर्श
गुरुमरणदिनेष्विति || पूर्णायां विशेषमाह || यद्वेति || पूर्वोक्त
लक्षणयुतदिनासिद्धौ पूर्णायामेव स्वात्मनः श्वासस्य शुभोदये
पक्षांतरमाह | सर्वदा वा शुभोदय इति || तत्र तत्व विदा कृतात्म
साक्षांत्कारेण प्रोक्त तिथिवारादिकं सर्वमनवेक्ष्य स्वात्मनः श्वासस्य
शुभोदय एवेत्यर्थः || कुर्यादि अयं पक्षः सिद्धविषयः || नान्यैः कार्यः |
कुर्यात् प्रतिष्ठां सिद्धात्मानत्वन्योज्ञानगर्वित इति तत्रैवोक्त त्वात् ||
प्. ३९अ)
तत्रापि संप्रदायानुरोधिना विदित तत्वनपि नित्यनैमितिकोपास्ति निरतेन ||
तत्रादौ श्रीचक्राधिकरणानि० श्रीरुद्रयामले |
ततः कुंकुमसिंदूरैः कार्यं यंत्रं तु योगिना ||
सौवर्णो रजते ताम्रे स्फाटिके वै द्रुमे तथा ||
चक्रे यथोक्त विधिना पूज्या देवी नरोत्तमैरिति || तथा च तंत्रराजे ||
रत्ने हेमनिरूपे वा ताम्रे दृषदि च क्रमात् ||
कृत्वा चक्रस्य निर्माणं स्थापयेत् पूजयेदपि ||
लक्ष्मींकांतं यशः पुत्र धनारोग्यादि सिद्धये ||
दृषदिगंडकीशिलायां ||
गंडकी भव पाषाणे स्वर्णे रजत ताम्रयोरिति दक्षिणामूर्त्ति संहिता
वचनात् || अथ धातु विशेषे पूजाकाल संख्या विशेषमाह || रत्नसागरे ||
यावज्जीवं सुवर्णे स्याद्रूप्ये द्वाविंशतिः प्रिये |
ताम्रे द्वादशकं वर्षं तदर्द्ध भूर्जपत्रके ||
इति || सारसंग्रहे ||
ताम्रे द्वाद * कं वर्षं स्फाटिकादौ तु सर्वदा ||
तेषां मध्ये स्फाटिकं तु सर्वसिद्धिप्रदं भवेत् ||
श्रीचक्रमिति शेषः | अथाद्धिकरण विशेषे फलविशेषमाह || लक्षसागरे ||
भूमौ सिंदूररजसा रचितं सर्वकामदं ||
प्. ३९ब्)
सुवर्ण रचितं यंत्रं सर्वराज वंशंकरं ||
रजतेन कृतं यंत्रंमायोरारोग्य कामदं ||
ताम्रे तु रचितं यंत्रं सर्वैश्वर्य प्रदं मतं ||
यंत्रं हि स्फाटिके देवि मनोभिलषित प्रदं ||
माणिक्य लिखितं यंत्रं राज्यदं मुक्तिदं यतं ||
गोमेद रचितं यंत्रं सर्वैश्वर्य प्रदं मतं ||
कॢप्तं मरकतैर्ययंत्रं सर्वशत्रुविनाशनं ||
लोह त्रयोद्भवं यंत्रं सर्वसिद्धिकरं मतं ||
श्रीदेव्युवाच ||
लोह त्रयोद्भवं यंत्रं कथं कार्यं महेश्वर ||
तन्मे वदस्व कृपया यद्यहं तव वल्लभा ||
श्री ईश्वर उवाच ||
भागा दश सुवर्णस्य रजतस्य च षोडश ||
ताम्रस्य रविभागेन पीठं कुर्यान्मनोहरं ||
तस्मिन् पीठे तु निर्माणं श्रीचक्रस्य तु कारयेत् ||
शांतिदं पुष्टिदं प्रोक्तं सर्वशत्रु निवर्हणं ||
आयुरारोग्यजनकं कांतिदं पुष्टिदं मतमिति ||
अथ चक्रस्य प्रस्तारभेदेन त्रैविध्यं तत्रैव ||
त्रैविध्यं श्रुणु चक्रस्य भूप्रस्तारोर्ध्व मेरुकं ||
पातालवासिनां देवि प्रस्तारो निम्न रेखकः ||
ऊर्ध्वरेखं महेशानि मर्त्यलोक निवासिनां ||
स्वर्गलोकाधिवासिनां यंत्रराट् मेरु संज्ञकः ||
प्. ४०अ)
भूपुरं तु समारभ्य बैंदवांतं महेश्वरि ||
क्रमात् समुन्नतं सर्वं मेरुरूपं मयोदितं ||
समोर्ध्वरेखं नवकमूर्ध्वरेखं प्रकीर्तितं ||
निम्नरेखासमायोगाद्भूप्रस्तारो प्रस्तारो मयोदितः ||
यंत्रराज स्वरूपं ते मया स्नेहात् प्रकाशितं ||
गोपनीयं त्वया भद्रे स्वगुह्यमिव संततमि ||
अथै तत्प्रस्तार त्रयस्य फलानि प्रस्तारांतरं च तंत्रराजे ||
चतुरस्रं समारभ्य नवचक्राण्यनुक्रमात् ||
उन्नतोन्नतमा मध्याच्चक्रं स्यान्निधनं धनं ||
त्रित्रिक्रमादुन्नत्तं तदप्रजत्वं श्रियं लभेत् ||
एकद्वित्रिक्रमोन्नामं श्रियै कीर्त्ये च कल्पते ||
नवानि समरूपाणि सर्वाभीष्टार्थसिद्धये ||
तथा कुलमुलावतारे ||
उछ्रितं क्रमशो देवि वित्तप्राप्तिस्ततोमृतिः ||
भूचक्रं षोडशारं चाप्यष्टारं च समं भवेत् ||
शेषमुन्नतमीशानि चार्थाप्त्य प्रजदं भवेत् ||
चतुरस्रं समं देवि षोडशारादि बिंदुकं ||
मिथः समुन्नतं देवि श्रियै कीर्त्यै च कल्पते ||
चतुरस्रं समारभ्य बिंद्वतं समरेखकं ||
तथा श्रीः कीर्तिरारोग्यममृतायोपकल्पते || इति ||
प्. ४०ब्)
अथ श्रीचक्राधिकरणे निषिद्ध धातून् अन्यानि निषिद्धाधिकरणानि चाह ||
तंत्रराजे ||
सीसकास्यादिषु पुनः पूर्वोक्तविपरीतकृत् ||
फलकायां पटे भित्तौ स्थापयेत्त कदाचन ||
स्थापितं यदि मोहेन लोभेनाज्ञानतोपि वा ||
कुलंवित्तमपत्यं च निर्मूलयति सर्वथेति ||
तथा लक्षसागरे ||
वंगेथसीसके लोहेन कर्तव्यं कदाचनेति ||
श्रीचक्रस्य पीठमानं द्रव्यप्रमाणं चाह ||
कुलमूलावतारे ||
अग्निरंगुलविस्तारं प्राक् प्रत्यक दक्षिणोत्तरं ||
पलप्रमाणं कर्त्तव्यमर्चापिठं मनोहरं ||
यवार्द्धाच्चं प्रकुर्वीत चतुरस्रं समंततः ||
तस्मिन् पीठे च निर्माणं श्रीचक्रस्य तु कारयेत् ||
प्. ४१अ)
सौत्रामणितंत्रे ||
रजुरेखा भवेल्लक्ष्मी वक्ररेखा दरिद्रता ||
अग्निरंगुलविस्तारो यवार्द्धेनोछ्रिति भवेत् || इति ||
लक्षसागरे ||
अग्निरंगुलं हेमस्य रजतस्य तथैव च ||
ताम्रस्य पूर्वसंख्यैव माणिदौ यथेछया ||
प्. ४१ब्)
अग्निरंगुलविस्तारमिति हेमस्येति च दिव्यत्वात् || त्र्यंगुलविस्तारायामित्यर्थः ||
पलं विंशत्युत्तरत्रिशतगुंजापरिमितं || आदि पदेन पुष्पनीलादयो
रत्नविशेषा उच्यते || त्र्यंगुलविस्तारस्तु मानांतरांगुलमानेन ||
वेदिकापीठशिबिका रथादीनां विधिः पुनः | मानांतरागुलेनैव
भवेन्नान्येन केनचदिति || महाकपिलपंचरात्रवचनात् ||
श्रीचक्राधिकरणस्य पीठशब्द वाच्यत्वात् पीठशब्द प्रतिपादक वचनानि
तु प्रागेव लिखितानि || मानांतरांगुल लक्षणं कपिल पंचरात्र एव ||
विन्यस्तैस्तिर्ययगष्टाभिर्यवैर्मानांतरांगुलं ||
शालिभिर्वा ऋजुन्यस्तैस्त्रिभिर्मानांतरं भवेदिति ||
अथैतत्प्रतिष्ठाप्रकारः ||
तत्र तंत्रराजे ||
क्षौद्राज्य दुग्धैः प्रथमं नारिकेलांभसा ततः ||
अभिषेच्याथ तोयेन क्वथितेनाक्षरौषधैः ||
आवाह्याभ्यर्चतल्लग्ने चक्रे संस्थाप्य पूजयेत् ||
नित्यात्तत्वाप्ति कालोत्थ विद्ययाभ्यर्च्यताः क्रमात् ||
स्पृशन् जपेत् कराग्रेण श्रीचक्रं पूजयेदपि ||
एवं दिनत्रयं कृत्वा ततो नित्यक्रमं भजेत् ||
गंधैः पुष्पैर्नवैर्धूपै दीपैर्नैवेद्य तर्पणैः ||
प्. ४२अ)
त्रिरात्रं पूजयेद्देवीं योगिभीः समं * * * ||
एवं देवी प्रतिष्ठायां क्रमः सान्निध्य कारकं इति ||
अथैतत्प्रयोगः ||
तत्र यथोक्त मानेन निर्मितं चक्रं स्वर्णादि धातु निर्मितं चेदम्लरसेन
शुद्धं प्रक्षालितं वेदोक्त विविधिना कृताग्न्यत्तारणं क्वचित्पात्रे
संस्थाप्य तत्राग्ने दीक्षाप्रकरणे वक्ष्यमाण शुभमासपक्षर्क्ष
तिथिवारकरणमूहूर्त्त विशिष्टे साधकस्य चंद्रताराद्युनुकूले दिवसे
स्थिरलग्ने मध्वाज्य दुग्धनारिकेलजलैः पृथक् पृथगभिषिच्य सुगंध
सलिलेनाप्यभिषिंच पंचाशदक्षरौषधि क्वाथजलेनाप्यभिषिंच्य पुनः
सुगंधजलैः प्रक्षाल्य पूर्ववत् द्वारपूजादि पीठपूजांतं कृत्वा
तस्मिन् पीठे तच्चक्रं संस्थाप्य तथैव पीठ मंत्रांतं संपूज्य
तस्मिंश्चक्रे देवीमावाह्य तद्दिन नित्या विद्यया विघा तृतीयकूटेन
मूलविद्यया च प्रत्येकं त्रित्रिवारमभ्यर्च्य यथोक्त विधिनांगावरण
पूजां विधाय पूवोक्त षट्त्रिंशदुत्तर सत्यशताधिकविंशति
सहस्रसंख्याभिः कालनित्या विद्याभिश्चक्रं स्पृशन् अभिमंत्र्य पुनः
श्रीचक्र पूजा क्रमेण संपूज्य धूपदीपादि नानाविधभोज्यैर्देवीं
शक्तिसामयिकांश्च तथैव संपूज्य संतर्प्य प्रणम्य विसृजेत् |
प्. ४२ब्)
दिनत्रयं देवीं न विसृजेत् || प्रत्यहं त्रिसंध्यं क्रमार्चनं च कुर्यात् | इति
प्रतिष्ठिते चक्रे नित्यार्चनादि कुर्यादिति | मूर्त्ति प्रतिष्ठायामप्येष एव
विधिर्ज्ञेयः || तत्र स्थिरायां विसर्जनं नास्तीति विशेषः || इति चक्रराजं
समुधृत्य स्ववामाग्रे वक्षमाणविधिना सर्वभूत बलिं दत्वा बलि
स्थानादूत्तरतः पक्षिराजं ध्यायेत् तद्यथा ||
अष्टापदं पक्षति मूल राज
द्वज्रांकुरं हाटक पक्ष कूंटं ||
हेमागमंगीकृत पद्मरागं
चंचूपुटोल्लासि मुखारविंदं || १ ||
सूर्यानलेंदुद्युतिराजमानं नेत्रत्रयोल्लासितपद्मरागं ||
नीलाश्मदीप्ताखिलरोमसंघं शीतांशुखंडोज्वलितोत्तमांगं
रविप्रा हि द्वंद्वबद्धोत्तमकपिशजटाभार संचारिगंगा-
भंगाक्रांतोत्तमांगात्क्रमगलितपृषत् संगहाराभिरामं ||
अग्रोघन्नागवंधक्रमघटितफटाग्रंथिपंचांगुलोद्यत्
पुछस्थग्रथिंबाहूद्भवभुजगयुगोल्लासिमालाभिरामं || ३ ||
कक्षासंबद्धवैश्या हि पदयुगललसच्चंद्रतीव्रांशुलीला
प्. ४३अ)
घंटाटोपाकुलाशादेशकपतिकुलं वैरिसंघैकपालं ||
पाशाकारांसलोलद्वृषलकुलभंवासीविषाधीशभोग
स्फूर्जत् फूत्कारघोरं खुरपुटनिकरक्षण सर्वं सहांतं || ४ ||
भक्षयंतं पक्षिरूपं भक्तानां वैरि संचयं ||
शलभं साल्वं रूपं च ध्यायेदेकाग्रमानसः || ५ ||
इति शलभरूपं शिवं ध्यात्वा ४ ओं ऐ ह्री श्रीं ओं न्नमो भगवते शलभ
साल्वाय पक्षिराजाय मम शत्रुन्नाशय नाशय घे घे हूं फट् स्वाहा ||
श्रीशलभ रूद्र श्रीपादुकां पूजयामि || शलभस्य वामभागै शलभ
सदृशीमेव शलभीं ध्यात्वा || ४ ओं नमो भगवति शलभिशाल्वि पक्षिराज्ञि
मम शत्रुन्नाशय नाशय घे घे हूं फट् स्वाहा श्रीशलभी देवी
श्रीपादुकां पूजयामीति शलभ मिथुनं संपूज्य || चक्रस्य पूर्वदिशि |
कल्पांतार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयंतं
रक्ताक्षं पिंगकेशरिपु कुलभयदं भीमदंष्ट्राट्टहासं ||
चक्रं शंखं गदाब्जे पृथुतरमुसलं चापपाशांकुशान्
स्वैर्बिभ्राणं दोर्भिराद्यं मनसि मुररिपुं भावयेच्चक्रसंज्ञं ||
दक्षाद्यूर्धयोराद्ये
प्. ४३ब्)
तदाद्यधःस्थयोरन्ये तदाद्यधस्थयोरपरे तदा द्यधः स्थयोरित्तरे
इत्यायुध ध्यानं || इति श्रीसुदर्शनं ध्यात्वा ||
४ ओं सहस्रार हूं फट् श्री सुदर्शनाय नमः || इति संपूज्य ||
तदक्षिणस्यां दिशि
सजलघनसमानं भीमदंष्ट्रं त्रिनेत्रं
भुजगधरमघोरं रक्तवस्त्रांगरागं ||
परशुडमरुखड्गान् वेटकंबाणचापौ
त्रिशिखनरकपाले बिभ्रतं भावयामि || १ ||
दक्षाद्यूर्ध्वयोराद्ये तदाद्यधःस्थयोरन्ये तदाद्यधःस्थयोरपरे
तदाद्यधःस्थयोरितरे इत्याद्युध्यध्यानं || इत्यघोर रूपं रुद्रं
ध्यात्वा || ४ ह्रीं स्फुर २ प्रस्फुर २ घोरघोरत्तरतनुरूप चट २ प्रचट २
कह २ वम २ बंध २ घातय २ हूं फट् अघोररुद्राय नमः ||
इत्यघोर रुद्रं संपूज्य || पश्चिमे ||
सौवर्णांबुजमध्यगां त्रिनयनां सौदामिनी संन्निभां
शंखं चक्रवराभया निदधतीमिंदोः कला विभ्रतीं ||
ग्रैवेयांगदहारकुंडलधरामाखंडलाद्यैः स्तुतां
ध्यायेद् विंध्यनिवासिनीं शशिमुखीं पार्श्वस्थ पंचाननां || १ ||
वामोर्ध्वकरमारभ्य वामाधः करांतमायुध ध्यानं ||
प्. ४४अ)
इति श्रीदुर्गा ध्यात्वा || ४
उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं || यदि शक्यमशक्यं वा
तन्मे भगवति शमय स्वाहा || अत्र वक्ष्यमाण समये विद्याश्च स्मरेत् |
श्रीदुर्गायै नम इति संपूज्य || ४ स्वदक्षिण भागे गंधपुष्पादि
पूजापकरणं निधाय | ४ हां हीं हूं फट् इति मंत्रं स्मरन्नारा च
मुद्रया दिव्यदृष्ट्या च पुष्पादिकं विलोक्य वामभागस्थं जलपूर्ण
कुंभं ४ आं इति वामहस्तेन स्पृष्ट्वा ४ छ्रौं इति दक्षिण कराग्रेण
कुंभस्थ जलं स्पृष्ट्वा ४ रं इति दीपशिखां स्पृशेत् | ततः करं
प्राक्षाल्य वामे ४ ऐं गुं गुरुभ्यो नमः | दक्षिणे ४ गं गणपतये नमः |
अग्रे ४ श्रीपरदेवतायै नमः इति कृतांजलिः प्रणम्य मूद्ध्नि संघट
मुद्रां विधाय || ४ हस्रौं हसक्षमलवयरां हंसक्षमलवयरूं
हसक्षमलवयरीं हैस्रां हसक्षमलवयरूं श्रीपरपावक सर्वाराध्य
सर्वमूर्द्ध पुरनाथ सर्वगुरु स्वयं गुरु श्रीगुरुनाथ
रहसक्षमलवयरूं हस्रौं हंस क्षमलवयरीं हसक्षमलवयरूं
हसक्षमलवयरां श्रीशंभु
प्. ४४ब्)
गुरु हस्रौं ४८ श्री अमुकानंदनाथ अमुकी देव्यंबा श्रीपादुकां
पूजयामिति स्वशिरसि श्रीगुरु पादुकां विन्यस्य पुनरनया एव विद्यया
गंधाक्षत कुसुमैः संपूज्य गंधादि पंचमुद्राः प्रदर्शय नमोस्तु
गुरुवे इत्यादिना नमस्कार मुद्रया प्रणम्य || ४ अं आं सौः इति करशुद्धि
विद्यया सुगंध द्रव्यमर्द्दनेन करौ सुरभी कृत्य ४ हस्रैं इति मंत्रेण
सुगंधपुष्पाण्यादाय मर्दयित्वा वामकरेण ४ रौं निर्मूष्य आघ्राय ४
ओं हौः ते सर्वे विलयं यातु ये मां हिंसंति हिंसकाः ||
मृत्युरोग भय क्लेशाः पतंतु रिपु मस्तके ||
इति पठित्वा नारा च मुद्रया तत्पुष्पमुत्तरस्यां दिशि दूरे क्षिपेत् ||
ततः पुनः करशुद्धि विद्यया करावन्योन्य मर्दनेन संशोध्य |
मध्यमयाः ४ अं नम अनामिकयोः ४ आं नमः कनिष्ठिकयोः ४ सौः
नमः || अंगुष्ठयोः ४ अं नमः तर्जन्योः ४ आं नमः करतलकाष्ठयोः |
४ सौः नमः | इति विन्यस्य | ४ ऐं क्लीं सौः नमस्त्रिपुरसुंदरि मां रक्ष
रक्ष इति मंत्रेण मूर्द्धादि चरणां तंत्रिर्व्यापकं विन्यस्य
प्. ४५अ)
पुनरेतदुच्चार्य ऊर्ध्वोर्ध्व तालत्रयं तर्जन्यगुष्ठोत्थ शब्दैर्द्दश
दिग्बंधनं त्रिशूलाकारयोर्व्यत्यस्तयोः करयोः स्वमूर्द्धानं
परितस्त्रिर्भ्रामणेन बहिप्राकार त्रयं च कृत्वा मूलविद्यया
प्राणायामत्रयं कृत्वा प्रणवद्वादशावृत्या नाडी शुद्धिं विधाय
भूतशुद्धि कुर्यात् || तद्यथा पादादि जानुपर्यंतं पृथ्वी स्थानं
चतुरस्रं वज्रलांछितं पीतवर्णं ब्रह्मदैवत्यं निवृत्ति कलाधिष्ठितं
लं बीजयुक्तं चिंतयेत्वा || जान्वादि नाभिपर्यंतं अपां
स्थानमर्द्धचंद्राकारं शुक्लवर्णं शृंगद्वयेपि पद्मलंछितं
विष्णुदैवत्यं प्रतिष्ठा कलाधिष्ठितं वं बीजयुक्तं ध्यात्वा
नाभ्यादिकंठपर्यंतं वह्निमंडलं स्वस्तिकोपेतं त्रिकोणाकारं
रक्तवर्णं रुद्रदैवत्यं विद्या कलाधिष्ठितं रं बीजयुक्तं ध्यात्वा
कंठादि भ्रूमध्यपर्यंतं
वायुमंडलं षट्कोणाकारं षट्बिंदुलांछितं वृत्तोपेतं
कृष्णवर्णं इश्वरदैवत्यं शांतिकलाधिष्ठितं यं बीजयुक्तं
विचित्यभ्रूमध्यादि ब्रह्मरंध्रपर्यंतं आकाश स्थानं वृत्ताकारं
ध्वजलांछितं धूम्रवर्णं सदाशिवदैवत्यं शांत्यतीते
कलाधिष्ठितं हं बीजयुक्तं ध्यात्वा ||
प्. ४५ब्)
तत्र पंचभूत मये देहे | धर्मकंदसमुद्भूतं
ज्ञाननालकमैश्वर्याष्टदलोपेतं परं वैराग्य कर्णिकं
स्वहृदयारविंदं विभ्याव्य तत्कर्णिकायां जीवात्मानमाराग्रमात्रं
प्रदीप कलिकाभासुरमनादिमलसंछन्नं परचिद्रूपं संचिंत्य योनि
मुद्रां बध्वा प्रागुक्त रूपेण मूला धारात्कुंडलिनीमुत्थाप्य
सुषुम्णा वर्त्मना मुलाधारा घनाहतांत चक्रस्थ वर्णवर्णाधि
देवताग्र संतीं हृदय कमलमानीयतया कवलीकृतं जीवात्मानं
ध्यायन्सुषुम्णा वर्त्मना विशुध्यादि चक्रस्थ वर्णवर्णाधि
देवताग्रसंती ब्रह्मरंध्रं नीत्वा तत्र स्थित सहस्रदल कमलकर्णिका
मध्यवर्त्तिनी परमात्मज्योतिषि सर्ववर्णवर्णाधिदेवता कदंबकं
जीवात्मानं ४ हंसः इति मंत्रेण संयोज्य अस्त्रेण रक्षा कृत्वा
कुंडलिनीं स्वस्थानमानियतत्व संहारं कुर्यात् || तद्यथा ||
तत्र पृथिवी स्थाने पादेंद्रिय गमन क्रियागंतव्य गंधघ्राण पृथिवी
ब्रह्मनिवृत्ति समान वायुन् संस्मृत्य ४ ओं ह्रां ब्रह्मणे पृथिव्यधिपतये
निवृत्ति कलात्मने हूं फट् स्वाहा ||
प्. ४६अ)
इति मंत्रेण तान्सर्वान् कुंडलिनी द्वारा अपां मध्ये संहरेत् || ततोऽपां
स्थाने हस्तादान दातव्यरसरसना जल विष्णु प्रतिष्ठोदानान्संचिंत्य ४ ओं
ह्रीं विष्णवे जलाधिपतये प्रतिष्ठा कलात्मने हूं फट् स्वाहा || इति
मंत्रेण तान् सर्वान् कुंडलिनी द्वारा वह्नि तत्वे संहरेत् || ततो वह्नि स्थाने
पायु विसर्गविसर्जनीय रूपचक्षुर्वह्नि रुद्र विद्या व्यानान्संस्मृत्य ४ ओं
ह्रूं रुद्राय तेजोधिपतये विद्या कलात्मने हूं फट् स्वाहा | इति मंत्रेण
तान सर्वान् वायुमंडले संहरेत् || ततो वायु स्थाने उपस्थानंदू?
तद्विषय स्पर्शस्पृष्टव्य वायवीश्वर शोंत्य पानान्संस्मृत्य ४ ओं ह्रैं
ईश्वराय वायवधिपतये शांति कलात्मने हूं फट् स्वाहा || इति मंत्रेण
तान् सर्वान् आकाश स्थाने संहरेत् | तत आकाशे स्थाने वाग्वदन वक्तव्य
शब्द श्रोत्राकांश सदाशिव शांत्यतीत् प्राणान् संस्मृत्य ४ ओं ह्रौं
सदाशिवायाकाशाधिपतये शांत्यतीत कलात्मने हूं फट् स्वाहा || इति
मंत्रेण
प्. ४६ब्)
तान् सर्वान् कुंडलि संहृत्यतां बिंदुशक्तौ बिंदुशक्तिं नादशक्तौ
नादशक्तिं परशक्तौ प्रणवेन संहृत्य | ४ ओं ह्रीं हूं फट् स्वाहा |
इति तां परशक्ति पूर्वोक्त परमात्मनि संयोज्य-पृथिव्यादीनि भूतानि
क्रमेण स्वस्वकारेणो एवं पंचमहाभूतानि परे तत्वे एकी भूतानि
विचिंत्य || केवल शरीरे वामकुक्षौ पापपुरुषं संचिंतयेत् || तद्यथा ||
वामकुक्षि स्थितं पाप पुरुषं कज्जल प्रभं |
ब्रह्महत्या शिरःस्कंधं स्वर्णस्तेय भूजद्वयं ||
सुरापान हृदायुक्तं गुरुतल्प कटिद्वयं ||
तत्संसर्ग पदद्वंद्वमंगप्रत्यंगपातकं ||
उपपातकरोमाण रक्तश्मश्रुविलोचनं ||
खड्गचर्मधरं क्रुद्धं कुक्षौपापं विचिंयेतत् ||
इति पापपुरुष विचिंत्यं वामनासारंध्रे सायं बीजेन
द्वात्रिंशद्वारमावर्तनेन सहवायुमायूर्यनाभिस्थ षट्कोणाकारे
वायुमंडले संयोज्य तत्रयमिति वायुबीजं कृष्णवर्णं संचित्य
कुंभकेन यं बीजं चतुःषष्ठिवारमावर्त्तयन्
प्. ४७अ)
तदुस्थितेन महावायुना सहपापपुरुषं स्वशरीरं संशोष्ययं
वायुबीजं षोडशवारमावर्त्तन् तं वायुं दक्षिणनासया चिरेच्य ||
रमिति बीजेन ३२ आवर्त्तनेन दक्षिण नासया वायुमापूर्य मूलाधारे
संयोज्य तत्रस्थ वह्निमंडले रं वह्निबीजं रक्तवर्णं विचिंत्य
कुंभकेन रमिति बीजं ६४ वारमावर्तयंस्तदुत्थितेन महावह्निना
सहपापपुरुषं स्वदेहं दग्ध्वा पापपुरुष भस्मना सह रं वह्नि
बीजं १६ वारमावर्तयन् तं वायुं वामनासया विरेच्य ||
पुनर्वामनासया ३२ आवृत्तेन वं बीजेन सहवायुमापूर्य ब्रह्मरंध्रे
संयोज्य तत्र स्थित चिच्चंद्रमंडले वमित्य मृतबीजं शुक्लवर्णं
संचित्य कुंभकेन ६४ आवर्तयन् वं बीजं तन्निःसृतामृतधारया स्वदेह
भस्म संषिच्य वं बीजं षोडशवारं आवर्त्तयन् तं वायुं
दक्षिणनासया वीरेच्य || पुनर्दक्षिण नासया लं बीजेन ३२ आवर्त्तनेन
सहवायुमापूर्य मूलाधारस्थ पार्थिवमंडले संयोज्य तत्रक्तमिति
पृथ्वी बीजं पीतवर्णं संचिंत्य कुंभकेन लं बीजं ६४
वारमावर्तयन् तदुद्भूतेन तेजसाऽमृत प्लावितं भस्मघनीकृत्य लं
बीजं १६ मावर्तयन् वामनासया तं वायुं विरेच्य ||
प्. ४७ब्)
पुनर्वामनासया ह्रीं बीजेन ३२ वृत्तेन सहवायुमापूर्य मूलाधारस्थ
बींदुमध्ये मायाबीजं स्फुरत् बालार्क वर्णं संचित्य कुंभकेन
मायाबीजं ६४ मावर्तयन् तेन करचरणाद्यवयव समेतं स्वदेहं
निष्पन्नं विभाव्य मायाबीजं १६ मावर्त्तयन् तं वायुं दक्षिणनासया
विरेचयेदिति स्थूलशरीरं निष्पाद्य सूक्ष्मशरीरं निष्पादयेत् || तद्यथा ||
तत्र पूर्वोक्तसहस्रारकमलःस्थपरमात्मनः सकाशात्सकल जगत्
सिसृक्षाविजृंभित परब्रह्मेछारूपिणीं परशक्तिं ४ ओं ह्री नमः इति
परमात्मनः सकाशात् स्वस्थानमानीय ततो नादशक्तिं ततो बिंदुशक्तिं
प्रणवेन सृष्ट्वाबिंदु शकेः सकाशात्सकल जगत् सृष्टि हेतुभूतां
कुंडलिनीं प्रणवेन निःसार्य ततः ४ ओं ह्रौं सदाशिवायाकाशाधिपतये
शांत्यतीत कलात्मने नम इति प्राणशांत्यतीत सदाशिवाकाश श्रोत्रशब्द
वक्तव्य वदनवाच आकाशस्थाने स्थापयेत् || तत आकाशमंडलान् ४ ओं ह्रैं
ईश्वराय वायवधिपतये शांति
प्. ४८अ)
कलात्मने नम इति मंत्रेणापानशांति ईश्वर वायुस्पृष्टव्य स्पर्श
तद्विषयानंदोपस्थान्वायु स्थाने स्थापयेत् || ततः ४ ओं ह्रूं रुद्राय
तेजोधिपतये विद्या कलात्मने नम इति मंत्रेण व्यान विद्या रुद्र
तेजश्चक्षूरूपविसर्जनीय विसर्गपायूनऽग्निस्थाने स्थापयेत् || ततः ४ ओं
ह्रीं विष्णुवे जलाधिपये प्रतिष्ठा कलात्मने नम इति मंत्रेणोदान
प्रतिष्ठा विष्णु जलरसनारसदातव्यादानहस्तानपां स्थाने स्थापयेत् ||
ततः ४ ओं ह्रां ब्रह्मणे पृथिव्यधिपतये निवृत्ति कलात्मने नम इति मंत्रेण
समान निवृत्ति ब्रह्म पृथिवी घ्राण गंतव्य गमन किया पादेंद्रियाणि
पृथिवी स्थाने स्थापयेत् || ततः प्रणवेन कुंडलिनीं स्वस्थाने स्थापयित्वा
नादशक्ति बिंदुशक्ति परसक्तीनां प्रणवेन स्वदेहे व्याप्तिं विभाव्य
ब्रह्मरंध्रस्थ परमात्मनः सकाशात् कुडलिन्या जीवात्मानं
संहृतवर्णवर्णाधिदेवता सहितमाज्ञादि चक्रेषु
तत्तद्वर्णवर्णाधिदेवताः स्थापयन् हृदयकमलमानीय सोहमिति मंत्रेण
प्. ४८ब्)
हृदय कमले जीवात्मानं स्थापयित्वा कुंडलिनीं सुषुम्णामार्गेण
मणिपूरकादि चक्रेषु तत्तद्वर्णवर्णाधिदेवताः स्थापयन् मूलाधारं
नीत्वा तत्र तां स्थापयेत् || ततः स्वशरीरं निरस्त सकल कलुषं तेजोरूपं
देवताराधनयोग्यं विभाव्य इति भूति शुद्धिः |
भूतिशुद्धिविहीतेनुकृत्वा पुजाभिचारवत् ||
विपरीत फलं दद्यादभक्त्या चार्चनं तथा ||
प्राणप्रतिष्ठां कुर्यात् || सा यथा || शिरसि ४ ब्रह्मविष्णुशिवेभ्यो ऋषिभ्यो
नमः || मुखे | ४ ऋग्यजुः सामभ्यश्छंदोभ्यो नमः || हृदये ४ परा प्राण
शक्त्यै देवतायै नमः || गुह्ये ४ आं बीजाय नमः | पादयोः ४ ह्रीं शक्तये
नमः || नाभौ ४ क्रों कीलकाय नमः || इति विन्यस्य मम प्राणप्रतिष्ठार्थे
विनियोग इति कृतांजलिर्वदेत् || ४ ओं आं ह्रीं क्रों अकं ४ आकाश वायवग्नि सलिल
पृथिव्यात्मने आं हृदयाय नमः || ४ ओं आं ह्रीं क्रों इं चं ४
शब्दस्पर्शरूपरसगंधात्मनें ई शिरसे स्वाहा || ४ ओं आं ह्रीं क्रों
उं टं ४ श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊं शिखायै वषट् ||
प्. ४९अ)
४ ओं आं ह्रीं क्रों एं तं ४ वाक्पाणिपादपायु उपस्थात्मने ऐं कवचाय
हुं || ४ ओं आं ह्रीं क्रों ओं पं ४ वचनादानगमनविसर्गानंदात्मने ओं
नेत्रत्रयाय वौषट् || ४ ओं आं ह्रीं क्रों अं यं ९ मनोबुद्ध्यहंकार
चित्तित्तात्मने अः अस्त्राय फट् || इति मंत्रानंगुष्ठादित लां तं विन्यस्य
हृदयादि षडंगेष्वप्येतान् विन्यस्य || ततो नाभ्यादि पादद्वयांतं ४ आं
नमः | हृदयादि नाभ्यंतं ४ ह्री नमः | मूर्द्धादि हृदयांतं ४ क्रों
नमः | ततो हृदय कमल मध्ये ४ यं त्वगात्मने नमः | पूर्वदले ४ रं
असृगात्मने नमः | पश्चिमदले ४ लं मांसात्मने नमः | आग्नेयदले ४ वं
मेदात्मने नमः | वायव्यदले ४ शं आस्थ्यात्मने नमः | ईशानदले ४ षं
मज्जात्मने नमः | नैर्-ऋतिदले सं ४ शुक्रात्मने नमः | उत्तरदले ४ हं
प्राणात्मने नमः | दक्षिणदले ४ लं जीवात्मने नमः | पुनः कर्णिकायां |
४ क्षं परमात्मने नः || इति विन्यसेत् | ततो ध्यानं |
रक्ताध्विपोतारुण पद्मसंस्थां पाशांकुशा विक्षुशरासबाणान् ||
प्. ४९ब्)
शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवीं || १ ||
इति ध्यात्वा हृदि हस्तं निधाय || ४ ओं आं ह्रीं क्रों यं रं लं वं
शं षं सं हों हं सः सोहं मम प्राणा इह प्राणाः ४ ओं आं १४
मम जीव इ स्थितः ४ ओं आं १४ मम सर्वेंद्रिणि ४ ओं आं १४ मम
वाऽऽन्मनश्चक्षुःश्रोत्रघ्राणप्राणाः इहैवागत्य सुखं चिरं तिष्ठंतु
स्वाहा || इति प्राणप्रतिष्ठां त्रिर्जपित्वा निजवपुर्ज्योतिर्मयं ध्यायेदिति
प्राणप्रतिष्ठाविधिः || ओं इति मंत्रं १६ जपेत् हृदयै हस्तं निधाय ||
श्री विद्यानंदनाथेन शिवायोः प्रिय सूनुना ||
कृते सौभाग्य रत्नाब्धौ तरंगोऽगात्तृतीयकः || १ ||
इति श्रीसच्चिदानंदनाथचरणारविंद द्वंद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे तृतीयस्तरंगः || ३ ||
अथ मातृकान्यासः ||
स चात्र विद्यायां शुद्धक कलामूर्ति प्रपंचयाग भेदाच्चतुर्विधः ||
शुद्धादयोप्यस्यां विद्यायां त्रयोदश विधाः || शुद्धो बिंदुयुतो
प्. ५०अ)
विसर्गयुक्तो विंदुविसर्गयुक्तो हृल्लेखाद्मो लक्ष्म्याद्यः कामबीजाद्यो
मायाश्री कामबीजाद्यो बाला संपुटितः परा संपुटितः
श्रीविद्यान्वितोहंसादिक परमहंसादिकश्चेति || कला युक्तोपि द्विविधः ||
तारोक्षकलां न्यासस्तेजस्त्रितयोत्थ कला मातृका न्यासश्चेति || मूर्तिन्यासोपि
द्विविधः || केशवादि श्रीकंठादि भेदात् || चतुर्थः प्रपंचयागः ||
तत्रादौ मातृका वर्णैः प्राणायाम त्रयं कृत्वा न्यासं समारभेत् | तत्र
स्वरै पूरकः पंचवर्गैः कुंभकः यादिभिरेचकः | इति मातृका
प्राणायामः इत्थं प्राणायाम त्रयं कृत्वा न्यासं कुर्यात् तत्राथ
प्रथमं शुद्ध मातृका न्यासः ||
ओं अस्य श्रीशुद्ध मातृका न्यासस्य ब्रह्मा ऋषिः गायत्री छंदः
श्रीमातृका सरस्वती देवता हलो बीजानि स्वराः शक्तयः अव्यक्तं कीलकं |
मम श्रीविद्यांगत्वे न्यासे विनियोगः || इति कृतांजलिः | ऋष्यादिकं स्मृत्वा
मूर्द्धादिषु विन्यसेत् || तद्यथा || शिरसि ४ ब्रह्मणे ऋषये नमः || मुखे ४
गायत्री छंदसे नमः |
प्. ५०ब्)
हृदये ४ श्रीमातृका सरस्वत्यै देवतायै नमः | गुह्ये ४ हल्व्यो वीजेभ्यो
नमः | पादयोः ४ स्वरेभ्यः शक्तिभ्यो नमः | नाभौ ४ अव्यक्ताय कीलकाय
नमः || इति विन्यस्य || म श्रीविद्यांगत्वे न्यासे विनियोग इति सर्वांगे व्याप्य
कृतांजलिर्वदेत् || ततः दक्ष करतले अ नमः | तत्पृष्ठे आ नमः || दक्षकरभे
इ नमः | दक्षिणांगुष्ठमारभ्य वामांगुष्ठावधि दश स्वंगुलिषु
ईकाराद्योकारांतान् १० विन्यस्य वाम करभं तत्पृष्ठतत्तलेषु औकारादि
विसर्गांतं न्यसेत् || अयं संहार न्यासः || दक्ष करतलादि
वामकरतलांतं सविसर्गान् स्वरान्न्यसेत् || अयं सृष्टिन्यासः || वाम
कनिष्ठादित्तलांतमष्टौ स्वरान् ऌकारादीन् बिंदुविसर्ग सहितान् विन्यस्य
दक्षकरतलादि तत्कनिष्ठांतमकारादि ऋकारांता नष्टौ स्वरान् बिंदु
विसर्ग युक्तान्न्यसेदिति स्थिति न्यासः || इति मातृका स्वरान्विन्यस्य तकारादीन्
शांतान् वामकनिष्ठा मूलादि
प्. ५१अ)
तदंगुष्ठाग्र पर्यंतेषु पंचदश स्थानेषु विन्यस्य दक्षांगुष्ठादि
तत्कनिष्ठाग्रांतेषु कादिणांतान् विन्यस्य करद्वयेप्यंगुष्टादि
कनिष्ठातं युगपदेवषादि क्षांतान् पचवर्णान् व्यापकत्वेन न्यसेत् || इति
मातृकाक्षरैः करशुद्धिं विधाय || ओं ऐं ह्री श्रीं अं कं खं गं
घं ऽऽनं आं हृदयाय नमः || ४ इं चं ४ ईं शिरसे स्वाहा || ४ उं टं ४
ऊं शिखायै वषट् || ४ एं तं ४ ऐं कवचाय हुं || ४ ओं पं ४ औं
नेत्रत्रयाय वौषट् || ४ अं यं ९ अः अस्त्राय फट् || इति षडंग
मंत्रानंगुष्ठादि तलांतं करयोर्विन्यस्य हृदयादि षडंगेष्वपि न्यसेत्
|| ततो ध्यानं ||
तत्र प्रथमं सूक्ष्मं रूपां ध्यात्वांतर्मातृकां न्यसेत् || तद्यथा ||
व्योमेंद्दौरसनार्णकर्णिकमचां द्वंद्वैः स्फुरत्केसरं
पत्रांतर्गतपंचवर्गयशल्लार्णादि त्रिवर्गं क्रमात् ||
आशास्वश्रिषुलांतलांगलि युजाक्षोणी पुरेणावृत्तं
वर्णाब्जं शिरसि स्थितं विषगदंप्रध्वंसिमृंजयं || १ ||
इति ब्रह्मरंध्रे वर्णारविंदं ध्यात्वा ||
मूलाधारध्वनि श्रुत्वा प्रबुद्धा शक्तिकुंडली ||
प्. ५१ब्)
ज्वलत्यावकसंकाशा सूक्ष्मतेजः स्वरूपिणी ||
मूलाधारा छिरः पद्मं स्पृशंती विद्यूदाकृतिः ||
तया स्पृष्ट शिरः पद्मादमृतौघ स्वरूपिणः ||
निर्गतान् मातृका वर्णान् सुषुम्णा वर्तमना तनुं ||
व्यापयित्वा स्थितान् सर्वानेवं ध्यात्वा प्रविन्यसेत् ||
इति सूक्ष्मरूपां ध्यात्वा न्यसेत् ||
तत्र विशुद्धौ षोडशदलकमलमूर्ध्व मुखं ध्यात्वा तद्दलेषु प्रागादि
प्रादक्षिण्येन ४ अं नमः || ४ आं नमः | एवं षोडश स्वरान्न्यसेत् | ततो
हृदये | अनाद्वतचक्रं द्वादशं दलकमलं ध्यात्वा तथैव
ककारादि ठकारांतान् द्वादशवर्णान् प्रणवत्रितारादि नमोंतान्
प्रादक्षिण्येन न्यसेत् || ततो नाभौ मणिपूरकं चक्रं दशदलकमलं
ध्यात्वा तद्दलेषु डकारादि फकारातांन् दशवर्णान् पूर्ववन्यसेत् || ततो
लिंग मूले स्वाधिष्ठान चक्रं षट्दल कमलं ध्यात्वा तदलेषु प्राग्वत्
बकारादिलकारांतान् षट्वर्णान्न्यसेत् || ततो मूलाधारे चतुर्दलकमलं
ध्यात्वा तद्दलेषु वकारादि सकारांतान् चतुरो वर्णान् पूर्वन्न्यशेत् ||
ततो
प्. ५२अ)
भ्रूमध्ये आज्ञाचक्रं द्विदलकमलं ध्यात्वा तद्वलयोर्हक्षौ
पूर्ववन्यसेत् || इत्यंतर्मातृकां न्यासं विधाय बर्हिर्मातृका न्यासं
कुर्यात् || इति अंतर्मातृकान्यासः || बहिर्न्यासो यथा || तत्र ध्यानं || तद्यथा

पंचाशद्वर्णभेदैर्विहितवदनदोः पाद युक्कुक्षिवक्षोदेहं
शाभास्वत्कपर्दाकलितशशिकलामींदुकुंदावब्दतां ||
अक्षस्रक्कुंभचिंतालिखितवरकरां त्र्यक्षणां पद्मसंस्थामछा
कल्पामवतुछस्तनजघनभरां भारतीं तां नमामि || १ ||
दक्षोर्ध्वकरमारभ्य दक्षाधः करपर्यंतं आयुधध्यानं ||
चिंता लिखितं पुस्तकं | इति प्रागुक्ते वर्णारविंदे ध्यात्वा न्यसेत् || तत्रादौ ||
ह्सौंः अं आं इत्यादि समस्तमातृकामुच्चार्य ह्सौः नमः | इति मूर्द्धादि
पादांतं त्रिर्व्यापकं विन्यस्य | ओं ऐं ह्रीं श्रीं इत्येतानि न्यासादौ
सर्वत्र ज्ञेयानि | शिरसि ४ अं नमः | मुखवृत्ते ४ आं नमः | दक्षनेत्रे ४ इं
नमः | वामनेत्रे ४ ईं नमः | दक्षकर्णे ४ उं नमः | वामकर्णे ४ ऊं
नमः | दक्षनासायां ४ ऋं नमः | वामनासायां ४ ॠ नमः |
दक्षकपोले ४
प्. ५२ब्)
ऌं नमः | वाम कपोले ॡं नमः | उत्तरोष्टे ४ एं नमः | अधरोष्टे ४ ऐं
नमः | ऊर्ध्व दंतं पऽऽन्तौ | ४ ओं नमः | अधो दंतपंक्तौ ४ औं नमः |
शिरसि ४ अं नमः | जिह्वांयां ४ अः नमः | दक्षबाहु मूले ४ कं नमः |
दक्षकफोणौ खं नमः | दक्षमणिबंधे ४ गं नमः | दक्षांगुलि
मूले ४ घं नमः | दक्षांगुल्यग्रे | ४ उंः नमः | एवं वामबाहु
मूलकफोणौ मणिबंधांगुलि मूलाग्रेषु च वर्गे न्यसेत् || (दक्ष
वामपार्श्वपृष्ठनाभिजठरे) ततो दक्षोरूमूल जानुगुल्फांगुलि
मूलाग्रेषु ट वर्गं न्यसेत् | ततः वामोरुमूल जानुगुल्फांगुलि मूलाग्रेषु
त वर्गं न्यसेत् || दक्ष वाम दक्ष वाम पार्श्वे पृष्ठनाभिजठरेषु प
वर्गं न्यसेत् | ततो हृदय दक्षांस ककुद्वामांसेषु य वर्गं न्यसेत् | ततो
हृदादि पाणि द्वये हृदादि पादद्वये हृदादि नाभौ हृदादि ब्रह्मरंध्रे श
वर्गं न्यसेत् | इति शुद्ध मातृकां न्यासः | शुद्धं बिंदुयुतं
विसर्गसहितं हृल्लेखया लंकृतं बालासंपुटितं तथैव परया
श्रीविद्यया लंकृतं || आरोहादवरोहतः शतमयं न्यासं
पुनर्हंसयोर्योजानाति स एव सर्वजगतां सृष्टिस्थिति ध्वंसकृत् || १ ||
अत्र शुद्धत्वेपि बिंदुयुक्तत्वं वर्णानां वीर्ययोजनार्थमिति संप्रदायः

प्. ५३अ)
अथ बिंदुयुक्तमातृकान्यासः |
तत्र ऋष्यादिकं प्राग्वत् || ध्याने परं विशेषः | तद्यथा |
अक्षस्रजं हरिणपोतमुदग्रटंकं
विद्यां करैरवितर दधतीं त्रिनेत्रां ||
अर्द्धेदुमौलिमरुणामरविंदवासां
वर्णेश्वरीं प्रणमतः स्तनभार नम्रां || १ ||
दक्षाधः करमारभ्य वामाधः करपर्यंतमायुध ध्यानं |
विद्यां पुस्तकं | टंकं आयुध विशेषः | इति वर्णारविंदे ध्यात्वा न्यसेत्
|| तद्यथा | हृदयादि ब्रह्मरंध्रांतं ४ क्षं नमः |
हृदयादिनाभ्यंतं ४ लं नमः | इत्यादि | शिरसि ४ अं नमः इत्यंतं
संहार क्रमेण तत्तत्स्त्थानेषु न्यसेत् | इति बिंदुमातृकां न्यासः ||
अथ विसर्गमातृकान्यासः |
तत्र ऋष्यादि ध्यानांतं शुद्धमातृकावदेवे | न्यासे वर्णेषु
विसर्गान्वितत्वं विशेषः | इति विसर्गमातृकां न्यासः |
अबिंदुविसर्गमातृकां न्यासः |
तत्रापि ऋष्यादिकं शुद्धमातृकावदेव | ध्याने परं विशेषः |
तथा सिंदूरकांममिताभरणं त्रिनेत्रं
विद्याक्षसूत्रमृगपोतवरां दधानं ||
पार्श्व स्थितां भगवतीमपि कांचनाभां
ध्यायेत् करांब्ज धृतपुस्तक वर्णमालां || १ ||
वामाधः करमारभ्य
प्. ५३ब्)
वामोर्ध्व करपर्यंतं आयुध ध्यानं शिवस्य |
शक्तेस्तु वामादि कर द्वये | इति ध्यात्वा न्यसेत् || तद्यथा |
दक्षिणगुल्फे ४ डंः नमः | अंगुलिमूले ४ ढंः नमः | इत्यादि प्रणव
त्रितारादि ४ क्षंः नमः | इत्यंतं शुद्धमातृका स्थानेष्वेव विन्यस्य || ४
अंः नमः | इत्यादि ४ ठंः नमः | इत्यंतं मूर्द्धादि दक्षिण
जान्वंतं शुद्धमातृकास्थानेष्वेव न्यसेत् | इति स्थिति रूपो
बिंदुविसर्गमातृकान्यासः |
अहृल्लेखादिमातृकान्यासः |
तत्र शक्ति ऋषिः गायत्री छंदः | हृल्लेखा स्वरूपिणी मातृका सरस्वती
देवता || इति ऋष्यादिकं स्मृत्वा विन्यस्य | ४ अं कं ४ आं ह्रां हृदयाय
नमः | ४ इं चं ४ ईं ह्रीं शिरसे स्वा * | ४ उं टं ४ ऊं ह्रुं शिखायै
वषट् | ४ एं तं ४ ऐं ह्रैं कवचाय हुं || ४ ओं पं ४ औं ह्रौं
नेत्रत्रयाय वौषट् | ४ अं यं ९ अः ह्रः अस्त्राय फट् | इति करषडंगं
न्यासः | ततो ध्यानं |
उद्यत्कोटि दिवाकर प्रतिभटोत्तुंगो रूपीनस्तनी
बद्धार्द्धेंदु किरीटहार रसनामंजीर संशोभीता ||
बिभ्राणा करपंकजैर्जपवटिं पाशांकुशौ पुस्तकं
दिश्यानो जगदीश्वरी त्रिनयना पद्मे निषणा सुखं || १ ||
प्. ५४अ)
दक्षाधः करमारभ्य वामाधः करपर्यंतं आयुध ध्यानं ||
इति वर्णारविंदे ध्यात्वा ४ ह्रीं अं नमः | इत्यादि क्षाकारांतान् वर्णान्
शुद्धमातृकां स्थानेषु न्यसेत् || इति हृल्लेखा मातृकान्यासः |
अथ श्रीं बीजादिमातृकांन्यासः |
तत्र ब्रुगु ऋषिः गायत्री छंदः मातृमयी लक्ष्मीर्देवतान्यासे विनियोगः |
इति ऋष्यादिकं स्मृत्वा यथाविधि विन्यस्य ४ अं कं ४ आं श्रां हृदयाय
नमः इत्यादि षडदीर्घ युक्त श्रीबीजांतैः षड्वर्गैः करषंडंगं
न्यासं विधाय ध्यायेत् |
विद्युद्दामसमप्रभां हिमगिरि प्रख्यैश्चतुर्भिर्गेजैः
शुंडा दंड समुद्धृतामृते घटैरासिच्यमानामिमां ||
बिभ्राणां करपंकजैर्जपवटीं पद्मद्वयं पुस्तकं
भास्वद्रत्न समुज्वलां कुचनतां ध्यायेज्जगत्स्वामिनीं || १ ||
दक्षाधः करमारभ्य वामाधः करपर्यंतमायुध ध्यानं || इति
ध्यात्वा ४ श्रीं अं नमः | इत्यादि क्षांतान् वर्णान् शुद्धमातृकास्थाने
न्यसेत् | इति श्रीबिजादि मातृकान्यासः |
अथ कामबीजादिमातृकान्यासः |
तत्र संमोहन
प्. ५४ब्)
ऋषिः गायत्री छंदः मातृकामयी संमोहिनी देवता न्यासे विनियोगः | इति
विन्यस्य |
षट्दीर्घयुक्त कामबीजांतैः षड्वर्गैः प्राग्वत् करषडंगन्यासं
विधाय ध्यायेत् |
बालार्ककोटि रुचिरां स्फटिकाक्षमालां
को दंडमिथुजनितं स्मर पंच बाणान् ||
विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां
ध्यायेत् समस्त जननीं नवचंद्रचूडां || १ ||
वामाधः करमाभ्य दक्षाधः करपर्यंतमायुध ध्यानं |
चकारा दक्षमाला पुस्तकयोर्व्यत्ययो बोधव्यः | इति ध्वात्वा ४ क्लीं अं
नमः | ४ क्लीं आं नमः | एवं क्षांतं मातृकास्थानेषु न्यसेत् | इति काम
बीजादि मातृकान्यासः ||
अथ त्रिबीजादिमातृकान्यासः |
तत्र महासंमोहन ऋषिः गायत्रीछंदः मातृकामयी महासंमोहिनी
देवता न्यासे विनियोगः | इति विन्यस्य द्विरुक्त त्रिबीजांतैः षड्वर्गैः प्राग्वत्
करषडंगन्यासं विधाय ध्यायेत् ||
ध्याये यमक्षवलयेक्षुशरासपाश-
पद्मद्वययांकुशशरान्नव पुस्तकं च ||
आबिभ्रतीं निजकरैररुणांकुचार्तां
संमोहिनीं त्रिनयनां नवचंद्रचूडां || १ ||
प्. ५५अ)
वामाधः करमारभ्य दक्षाधः करपर्यंतमायुध ध्यानं || अत्रापि
चकारात् पूर्ववद्व्यत्ययो बोधव्यः || इति ध्यात्वा || ४ ह्रीं श्रीं क्लीं अं
नमः | ४ ह्रीं श्रीं क्लीं आं नमः | इत्यादि क्षांतां न्यसेत् || इति त्रिबीजादि
मातृकान्यासः |
अथ बालां संपुटितमातृकान्यासः |
तत्र दक्षिणामूर्ति ऋषिः गायत्री छंदः बालारूपिणी मातृका सरस्वती
देवता | इति ऋष्यादिकं स्मृत्वा विन्यस्य करांगन्यासं कुर्यात् || तद्यथा || ४
अं कं ४ आं ऐ हृदयाय नमः | ४ इं चं ४ ईं क्लीं सिरसे स्वाहा | ४
उं टं ४ ऊं सौः शिखायै वषट् | ४ एं तं ४ ऐं सौः कवचाय हुं | ४
ओं पं ४ औं क्लीं नेत्रत्रयाय वौषट् | ४ अं यं ९ अः ऐं अस्त्राय फट् | इति
करांगन्यासं विधाय ध्यात् | तद्यथा |
मुक्तासेखरकुंडलांगदमणि ग्रैवेयहारोर्मिकां
विद्योतद्वलयादिकं कण कटी सूत्र स्फुरन्नूपुरां |
माणिक्योदर बंधुरस्तनभरां मिदोः कलां बिभ्रतीं
पाशं सांकुश पुस्तकाक्षवलयान् दक्षोर्ध्व बाहोदितः || १ ||
प्. ५५ब्)
पुर्णेंदु प्रतिमप्रसन्नवदनां नेत्रत्रयोद्भासिता-
मिंदुक्षीरवलक्षगात्र विलसन्माल्यानुलेपांबरां ||
पंचाशल्लिपि जृंभिताखिल जगद्वाग्देवता देवतां
मूलाधार समुहतां भगवतीं वर्णांबुजे चिंतयेत् || २ ||
इति वर्णारविं ध्यात्वा न्यसेत् || तद्यथा | ४ ऐं क्लीं सौः अं सौः क्लीं ऐं
नमः | ४ ऐं क्लीं सौः आं सौः क्लीं ऐं नमः एवं क्षातान् वर्णान्
बालासंपुटितान् शुद्धमातृकास्थानेषु विन्यसेत् || इति
बालासंपुटितमातृकान्यासः ||
अथ परासंपुटितमातृकान्यासः |
तत्र ब्रह्मा ऋषिः गायत्रीछंदः परारूपिणी मातृका सरस्वती देवता
न्यासे विनियोः | ४ अं कं ४ आं सां हृदयाय नमः | ४ इं चं ४ ईं सीं शि
से स्वा० ४ उं टं ४ ऊं संखायै वषट् | एवं करषडंगं कृत्वा
ध्यायेत् | तद्यथा |
अकलंकशशांकाभां त्र्यक्षां चंद्रकलावती |
मुद्रा पुस्तक सद्बाहुं प्रणमामि परांकलां || १ ||
इति वरविंदे ध्यात्वा न्यसेत् | तद्यथा ४ सौः अं सौः नम ४ सौः आं सौः
नमः | एवं क्षांतं मातृकास्थानेषु न्यसेत् ||
प्. ५६अ)
इति परासंपुटितमातृकान्यासः |
अथ श्रीविद्यायुक्तमातृकान्यासः |
तत्र दक्षिणामूर्ति ऋषिः गायत्री छंदः श्रीमातृका सुंदरी देवता |
इति ऋष्यादिकं स्मृत्वा विन्यस्य करांगन्यासं कुर्यात् || तद्यथा | ओं ऐं
ह्रीं श्रीं अं कं ४ प्रथमकुटमूच्चार्य आं हृदयाय नमः | ४
द्वितीयकूतं ईं शिरसे स्वाहा | ४ उं टं ४ तृतीयकूटं ऊ शिखायै वट् | ४
एं तं ४ प्रथम कूटं ऐं कवचाय हुं | ४ ओं पं द्वितीयकूटं औं
नेत्रत्रयाय वौषट् | ४ अं यं ९ तृतीयकूटं अः अस्त्राय फट् | ततो ध्यानं |
आरकाभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटंकरम्यां
हस्तांभोजैः सपाशांकुशमदनधनुः सायकैर्विःस्फुरंतीं ||
आपिनातुंगवक्षोरुहतटविलुठत्तारहारोज्वलांगी
ध्यायेदंभोरुहस्थामरुणनिवसानामीश्वरीमीश्वराणां || १ ||
वामाद्यूर्ध्वयोराद्य तदाद्यधःस्तयोरन्य इत्यायुध ध्यानं | इति
वर्णारविंदे ध्यात्वा न्यसेत् || तद्यथा | ४ मूलविद्यामुच्चार्य अं नमः |
एवं प्रणव त्रितार श्रीद्यादिनमोंतान् आकारादि
प्. ५६ब्)
क्षकारातान् वर्णान् मातृकास्थानेषु न्यसेत् || इति श्रीविद्यामातृकान्यासः |
अथ हंसमातृकान्यासः |
तत्र ब्रह्मा ऋषिः गायत्री छंदः हरगौरी ४ स्वरूपिणी मातृकासरस्वती
देवता || इति ऋष्यादिकं स्मृत्वा विन्यस्य करांगन्यासं कुर्यात् | ४ अं कं ४
आं हां सां हृदयाय | ४ इं चं ४ ईं हीं सं शिरसे | ४ उं टं ४ ऊं
हूं सूं शिखायै वषट् | ४ एं तं ४ ऐं हैं सैं कवचाय हुं | ४ ओं
पं ४ औं हौं सौं नेत्रत्र० | ४ अं यं ९ अः हः सः अस्त्राय फट् इति विन्यस्य
ततो ध्यानं ||
उद्यद्भानु स्फुरित तडिदाकारमर्द्धांबिकेशं
पाशाभीति वरद परशुन् संदधानं कराब्जैः ||
दिव्यो कल्पैर्नवमणिमयैः शोभितं विश्वमूलं
सौम्याग्नेयं वपुरवतुनश्चंद्रचूडं त्रिनेत्रं | १ |
वामोर्ध्वादि दक्षोर्ध्व करपर्यंतमायुध ध्यानं | इति ध्यात्वान्यसेत् || ४
हं सः अं नमः | एवं क्षां तं मातृकास्थानेषुन्यसेत् || इति
हंसमातृकान्यासः |
अथ परमहंसमातृकान्यासः |
तत्र परमहंस ऋषिः गायत्री छंदः परमात्मस्वरूपिणी मातृका
सरस्वती देवता | इति ऋष्यादिकं स्मृत्वा विन्य करांगन्यासं कुर्यात् || ४
प्. ५७अ)
ओं अं कं ४ आं ओं हृदयाय० ४ ओं इं चं ४ ईं ओं शिरसे स्वाहा || ४ ओं उं टं
४ ऊ ओं शिखायै वषट् | ४ ओं एं तं ४ ऐं ओं कवचाय हुं || ४ ओं ओं पं ४ औं ओं
नेत्रत्र० ४ ओं अं यं ९ अः ओं अस्त्राय फ० इति विन्यस्य | ततो ध्यानं |
श्रीमत्परात्ममनुजृभितवर्णरूपां
मानैरगम्य पदवी परिचीयमानं ||
विद्याक्षसूत्रकलशान् दधतीं च मुद्रां
ध्यायेत् समस्त जननीं शिवदां त्रिनेत्रां || १ ||
वामाद्यधः करयोराद्ये तदाद्यूर्ध्वयोरन्ये इत्यायुध ध्यानं |
मुद्रां ज्ञानमुद्रां | इति ध्यात्वान्यसेत् | ४ सोहं क्षं नमः ४ सोहं
लं नमः एवमकारांतान्वर्णान् पूर्ववत् संहाररीत्यान्यसेत् | इति
परमहंसमातृकान्यासः | इति त्रयोदशविधन्यासः |
अथ प्रणवोत्थकलामातृकान्यासः |
तत्र प्रजापति ऋषिः गायत्रीछंदः कलामयी मातृकासरस्वती देवता
इति ऋष्यादिकं स्मृत्वा न्यसेत् | मम श्रीविद्यांगत्वे न्यासे विनियोगः | ततः
करांगन्यासं कुयात् || ४ अं ओं आं हृदयाय० ४ इं ओं ईं शिरसे० एवं
करांगन्यासं कुर्यात् ततो ध्यानं ||
प्. ५७ब्)
हस्तैः पद्मं रथांगं गुणमथहरिणं पुस्तकं वर्णमालां
टंकं शुभ्रं कपालंदरममृतलसद्धेमकुंभं वहंतां ||
मुक्ताविद्यूत्पयोदस्फुटिकनवजपाबंधुरैः पंचवक्रै-
स्त्र्यक्षैर्वक्षोजन म्रां सकलशशि निभां शारदां तां नमामि || १ ||
वामाद्यधः करयोराद्ये तदाद्यूर्ध्वयोरपरे तदाद्यूर्ध्वयोरितरे
तदाद्यूर्ध्वयोरन्ये | इत्यायुध ध्यानं || दरः शंखः गुणः पाश इति
वर्णारविंदे ध्यात्वा न्यसेत् | तद्यथा | ओं ऐं ह्रीं श्रीं ओं अं
निवृतिकलायै नमः | ४ ओं आं प्रतिष्टाकलायै नः | ४ ओं इं विद्याकलायै० ४
ओं ईं शांतिकलायै नमः | ४ उं इंधिका कलायै० ४ ओं ऊं
दीपिकाकलायै नमः ४ ओं ऋ रेचिका कलायै नम० ४ ओं ॠं मोचिका कलायै० ४
ओं ऌं पराकलायै० ४ ओं ॡं सूक्ष्मा कलायै० ४ ओं एं
सूक्ष्मामृताकलायै० ४ ओं ऐं ज्ञानामृताकलायै नमः | ४ ओं ओं
आप्यायिनी कलायै० ४ ओं औ व्यापिनी कलायै० ४ ओं अं व्योमरूपिणी कलायै० ४
ओं अः अनंताकलायै० ४ विष्णुर्योनिमिति जपेत् ४ अं १६ भुक्तिमुक्तिप्रदा नादजा
अनंतकलाभ्यो नम इति मुखे व्यापकं || ४ ओं कं
प्. ५८अ)
सृष्टिकलायै० ४ ओं खं ऋद्धिकलायै० ४ ओं गं स्मृतिकला० ओं घं
मेधाकलायै० ४ ओं ऽऽनं कांतिकलायै० ४ ओं चं लक्ष्मीक० ४ ओं छं
द्यूतिक० ४ ओं जं स्थिराक० ४ ओं झं स्थिति० ४ ओं ञं सिद्धिकलायै० ४ हं
सः शुद्धिषदिति जपेत्० सृष्टि प्रदाकार प्रभव ब्रह्मकलाभ्यो नमः | इति
भुजयोर्व्यापकं || ४ ओं टं जराक० ४ ओं ठं पालिनी क० ४ ओं डं
शांतिक० ४ ओं ढं ऐश्वर्या क० ४ ओं णं रतिक० ४ ओं तं कामिका क० ४
ओं थं वरदाक० ४ ओं दं ह्रादिनी क० ४ ओं धं प्रीतिक० ४ ओं नं
दीर्घाक० ४ प्रतद्विष्णुस्तवते इति जपेत् || ४ टं ५ तं ५ स्थिति प्रदोकार प्रभव
विष्णुकलाभ्यो नम इति पादयोर्व्यापकं न्यसेत् | ४ ओं पं तीक्ष्णा क० ४ आं
फं रौद्री क० ४ ओं बं भयाक० ४ ओं भं निद्राकला० ४ ओं मं तंद्रा
कला० ४ ओं यं क्षुधाक० ४ ओं रं क्रोधिनी क० ४ ओं लं क्रिया क० ४ ओं
वं उत्का कला० ४ ओं शं मृत्युरूपाक० ४ त्र्यंबंकं यजामहेरेति जपेत् ||
४ पं ५ यं ५ संहृति प्रदमकार प्रभव रूद्र कलाभ्यो नम इति हृदयादि
मध्ये व्यापकं न्यसेत् || ४
प्. ५८ब्)
ओं षं पीता कला० ४ ओं सं श्वेता क० ४ ओं हं अरुणा कला० ४ ओं लं
असिता कला० ४ ओं क्षं अनंता कला० ४ तत्सवितुरिति जपित्वा | ४ षं ५ तिरोधान
प्रदबिंदु प्रभवेशान कलाभ्यो नम इति सर्वांगे व्यापकं || इति
शुद्धमातृकास्थानेषु न्यसेत् || इति प्रणव कलामातृकान्यासः ||
अत्र नादात्मनः सदाशिवात्संभूताः स्वरजाः कलाः श्वेताः ||
अक्षस्रक्पुस्तकपाशकपालकराध्येयाः || क च वर्ग कला
अकाराद्ब्रह्मणोद्भूताः पीताः | अक्षस्रक्
पंकजाभयकमंडलुकराध्येयाः || टवर्गजाः उकाराद्विष्णोरुत्पन्नाः
श्यामाः | अभयशंखचक्रवरहस्ताध्येयाः | प या वर्गजाः
मकाराद्रुद्रादुत्पन्नाः शरच्चंद्र निभाः | अभय शुलकपालः
वरहस्ताः ध्येयाः || षादि पंचवर्णजा ईश्वराद्बिंदोरुत्पन्नारक्ताः |
अभय हरिण टंकवर हस्ताये याः || इति तारोत्थ कला
मातृकाध्येयान्यस्तव्याश्च ||
अथाष्टत्रिंशत्कलामातृकान्यासः |
तत्र सोमसूर्याग्नय ऋषयः अनुष्टुप् त्रिष्टुप् त्रिष्टुप् पंक्तयः छंदांसि |
प्. ५९अ)
अष्टत्रिंशत्कलारुपिणीमातृकादेवता | श्रीविद्यांगत्वे न्यासे विनियोगः |
इति ऋष्यादिकं स्मृत्वा विन्यस्य || ४ स्वरैर्हृत् | ४ पंचवर्गैः शिरः | ४ यादिभिः
शिखा पुनः | ४ स्वरैः कवचं | ४ पंचवर्गैर्नेत्रं | ४ यादि भिरस्त्रं | इति
करषडंगन्यासंविधाय ध्यायेत् || तद्यथा ||
चंद्रसूर्याग्निसंकाश वक्त्रदेहपदद्वयां ||
सुधाढ्य कलशं पद्मं स्वस्तिकं च वरंकरैः || १ ||
दधानां चिंतयेद्देवीं पद्मस्थां परमेश्वरीं ||
त्रिनेत्रां रक्तवसनां दिव्याभरणभूषितां || २ ||
इति ध्यात्वा न्यासं कुर्यात् || तत्र | ४ अं अमृताकलायै नमः | ४ आं
मानदाक० ४ इं पूषाक० ४ ईं तुष्टिक० ४ उं पुष्टिकला० ४ ऊं रति कला०
४ ऋधृतिक० ४ ॠं शशिनी कला० ४ ऌं चंद्रिका कला० ४ ॡं कांतिक० ४ एं
ज्योत्स्ना कला० ४ ऐं श्रीकला० ४ ओं प्रीतिक० ४ औं अं गदाक० औं अं पूर्णा
कला० ४ अः पूर्णामृताकलायै नमः || इति षोडशकलांः षोडशस्थानेषु
न्यसेत् || ततः || ४ कं भं तपिनी कलायै नमः || ४ खं बं तापिनी क० ४ गं
फं धूम्राक० ४ घं पं
प्. ५९ब्)
मरीचीक० ४ ऽऽनं नं ज्वालिनीक० ४ चं धं रुचिक० ४ छं दं सुषुम्णाक०
४ जं थं भोगदाक० ४ झं तं विश्वाकला० ४ ञं णं बोधिनीक०
४ टं ढं धारिणीक० ४ ठं डं क्षमा० क० इति दक्षिणबाहु मूलादि
दक्षिणजान्वंतं मातृकास्थानेषु न्यसेत् || ततः | ४ यं धूम्रार्चि कलायै
नमः || ४ रं उष्माक० ४ लं ज्वलिनीक० वं ज्यालिनीक० ४ शं विस्फुलिगिनीक०
४ षं सुश्रीक० ४ संसुरूपाकला० ४ हं कपिलाकला० ४ लं हव्यवाहक० ४
क्षं कव्यवाहकलायै नमः | इति दक्षिणगुल्फादि वामपादांतं
मूर्द्धसर्वांगे च न्यसेत् || एताः श्वेतपीतारुणावराभयकराः
सर्वाभरणभूषितायुवतयोध्येयाः ||
इत्यष्टत्रिंशत्कलाः मातृकाऽष्टत्रिंशत् स्थानेषु न्यसेत् ||
श्रीविद्यानंदनाथेन शिवयोः प्रिय सूनुना || कृते सौभाग्यरत्नाब्धौ
तरंगोऽगाच्चतुर्थकः || १ ||
इति श्रीसच्चिदानंदनाथे चरणारविंदद्वंद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे चतुर्थस्तरंगः || ४ ||
अथ मूर्तिमातृकान्यासः |
तत्रादौ केशवादिमातृकान्यासः
प्. ६०अ)
तत्र ओं साध्यनारायण ऋषिर्गायत्रीछंदः श्रीलक्ष्मीनारायणो देवता |
मम श्रीविद्यांगत्वे न्यासे विनियोगः || इति ऋष्यादिकं स्मृत्वा विन्यस्य
करषडंगन्यासं कुर्यात् || तद्यथा | ओं ऐं ह्रीं श्रीं ओं श्रीं ओं
नमो नारायणाय हंसः सोहं अं कं ४ आं ह्रिं हं सः सोहं ओं
नमो नारायणाय क्रुद्धोल्काय स्वाहा श्रां देव्यै हृदयाय नमः | १ ओं
ऐं ह्रीं श्रीं ओं श्रीं ओं नमो नारायणाय हं सः सोहं इं चं ४
ईं ह्रीं हंसः सोहं ओं नमो नारायणाय महोल्काय स्वाहा श्रीं
पद्मिन्यै सिरसे स्वाहा || २ ||
४ ओं १३ उं टं ४ र्-उं ह्रीं १२ वीरोल्काय स्वाहा श्रुं विष्णुपत्न्यै शिखायै
वषट् ः || ४ ओं १३ एं तं ४ ऐं ह्रीं १२ विद्युदुल्काय स्वाहा श्रैं वरदायै
कवचाय हुं || ४ ओं १३ ओं पं ४ औं ह्रीं १२ सहस्रोल्काय स्वाहा श्रौ
कमलरूपायै नेत्रत्रयाय वौषट् || ५ ||
४ ओं १३ अं यं ९ अः ह्रीं १२ अनतोल्काय स्वाहा श्रः शूलिन्यै अस्त्राय फट् || ६ ||
इति षडंगमंत्रानंगुष्ठादितलांतं करयोर्विन्यस्य हृदयादि
सडंगेष्वपि न्यसेत् || ततो ध्यानं ||
विद्यारविंदमुकुरामृत कुंभपद्म
कौमोदकीदरसुदर्शन शोभिहस्तं ||
प्. ६०ब्)
सौदामिनीमूदिरकांति विभाति लक्ष्मी-
नारायणात्मकमखंडितमात्ममूर्तेः || १ ||
वपुरिति शेषः || वामाधः करमारभ्य दक्षाधः करपर्यंतं आयुध
ध्यानं || मुकरो दर्पणः | इति ध्यात्वा न्यसेत् || तद्यथा |
ओं ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं अं क्लीं श्रीं ह्रीं केशवाय कीर्त्यै
नमः || ४ ह्रीं श्रीं क्लीं आं क्लीं श्रीं ह्रीं नारायणाय कांत्यै
नमः || ७ इं ३ माधवाय तुष्ट्यै नमः || ७ ईं ३ गोवींदाय पुष्टे यें० | ७
उं ३ विष्णवे धृत्यै नमः || ७ ऊं ३ मधूसूदनाय शांत्यै न० ७ ऋं ३
त्रिविक्रमाय क्रियायै नमः || ७ ॠं ३ वामनाय दयायै नमः || ७ ॡं ३
श्रीधराय मेधायै नमः | ७ ॡं ३ हृषीकेशाय हर्षायै० | ७ एं ३
पद्मनाभाय श्रद्धायै० | ७ ऐं ३ दामोदराय लज्जायै० | ७ ओं ३ वासुदेवाय
लक्ष्म्यै० | ७
औं ३ संकर्षणाय सरस्वत्यै० | ७ अं ३ प्रद्युम्नाय प्रीत्यै० | ७ अः ३
अनिरुद्धाय रत्यै० || ७ कं ३ चक्रिणे जयायै० | ७ खं ३ गदिने दुर्गायै० ७ गं
३ शार्ऽऽनिणे प्रभायै नमः | ७ घं ३ खड्गिने सत्यायै० | ७ ऽऽनं ३ शंखिने
चंडायै० | ७ चं ३ हलिने बाण्यै० | ७
प्. ६१अ)
छं ३ मुसलिने विलासिन्यै नमः | ७ जं ३ शूलिने विजयायै० | ७ सं ३ पाशिने
विरजायै नमः | ७ ञं ३ अंकुशिने विश्वायै | ७ टं ३ मुकुंदाय विनदायै
नमः | ७ ठं ३ नंदजाय सुनंदायै० | ७ डं ३ नंदिने स्मृत्यै० | ७ ढं
३ नराय ऋध्यै० | ७ णं ३ नरकाजते समृध्यै० | ७ तं ३ हरये शुध्यै नमः
| ७ थं ३ कृष्णाय भुक्त्यै० | ७ दं ३ सत्यावबुध्यै० | ७ धं ३ सत्वताय
मत्यै० | ७ नं ३ शौरये क्षमायै० | ७ पं ३ शूरावरमायै० | ७ फं ३
जनार्दनाय उमायै० | ७ बं ३ भूधराय क्लेदिन्यै० | ७ भं ३ विश्वमूर्त्तये
क्लिन्नायै० | ७ मं ३ वैकुंठाय वसुदायै० | ७ यं ३ त्वगात्मने
पुरुषोत्तमाय वसुधायै० | ७ रं ३ असृगात्मने बलिने परायै० | ७ लं ३
मांसात्मने बलानुजाय परायणायै० | ७ वं ३ मेदात्मने बालाय
सूक्ष्मायै० | ७ शं ३ अस्थात्मने वृषघ्नाय संध्यायै० | ७ षं ३
मज्जात्मने वृषाय प्रज्ञायै० | ७ संशुक्रात्मने हंसाय प्रभायै० | ७
हं ३ प्राणात्मने वराहाय निशायै० | ७ लं ३ शक्त्यात्मने विमलाय
अमोघायै० | ७ क्षं ३ परमात्मने नृसिंहा विद्युतायै नमः || एता मूर्त्ति
शक्तयो मातृकास्थानेषु न्यस्तव्याः ||
केशवाद्या इमे शामाश्चक्रशंखलसत्कराः ||
शक्तयस्तु प्रियां केषु निषणाः सस्मिता ननाः ||
प्. ६१ब्)
विद्युद्दाम समानांग्यः पंकजाभय वाहवः | इति ध्येयाः ||
इति केशवादि मातृकान्यासः ||
अथ श्रीकंठादि मातृकान्यासः |
तत्र दक्षिणामूर्ति ऋषिर्गायत्री छंदः श्री अर्धनारीश्वरी देवता |
श्रीविद्यांगत्वे न्यासे विनियोगः | इति ऋष्यादिकं स्मृत्वा विन्यस्य
करषडंगं न्यासं कुर्यात् | तद्यथा | ४ अं कं ४ आं हस्रां हृदयाय०
४ इं चं ४ ईं हस्रीं शिरसे० ४ उं टं ४ ऊं हस्रूं शिखायै० ४ एं तं ४
ऐं हस्रैं कवचाय० ४ ओं पं ४ औं हस्रौं नेत्रत्रयाय वौ० ४ अयं ९ अः
हस्रः अस्त्राय फट् || इति षडंगमंत्रानंगुष्ठादि तलांतं विन्यस्य
हृदयायदिष्वपि षडंगेषु विन्यसेत् || ततो ध्यानं ||
बधूककांचननिभं रुचिराक्षमालां
पाशांकुशौ च वरदं निज बाहुदंडैः ||
बिभ्राणमिंदुशकलाभरणं त्रिनेत्र-
मर्द्धांबिकेशमनिशं वपुराश्रयामः || १ ||
दक्षाधः करमारभ्य दक्षोर्ध्वकरपर्यंतमायुध ध्यानं || इति
ध्यात्वा न्यसेत् || तद्यथा ||
४ हस्रौः अं श्रीकंथेशाय पूर्णोदर्यै नमः | ४ हस्रौः आं अनंतेशाय
विरजायै० ४ हस्रौः
प्. ६२अ)
इं सूक्ष्मेशायशाल्प्रल्यै० ४ हस्रौः ईं त्रिमूर्तीशाय लोलाक्ष्यै० ४ हस्रौः
उं अमरेशाय वर्त्तुलाक्ष्यै० ४ हस्रौः ऊं अर्घीशाय दीर्घघोणायै० ४
हस्रौः ऋंभार भूतीशाय दीर्घमुख्यै० ४ हस्रोः ॠं अतिथीशा
गोमुख्यै० ४ हस्रौः ऌंस्थाण्वीशाशाय दीर्घजिह्वायै० ४ हस्रौः ॡं
हरेशाय कुंडोदयै नमं० ४ हस्रौः ऐं सिंटीशाय ऊर्ध्वकेश्यै० ४
हस्रौः ऐं भौतिकेशाय विकृतमुख्यै० ४ हस्रौः ओं सद्योजातेशाय
ज्वालामुख्यै० ४ हस्रौः औं अनुग्रहेशाय उल्कामुख्यै नमः० ४ हस्रौः अं
अक्रूरेशाय श्रीमुख्यै० ४ हस्रौः अः महासेनेशाय विद्यामुख्यै० ४ हस्रौः
कं क्रोधीशाय महाकाल्यै० ४ हस्रौः खं चंडेशाय सरस्वत्यै० ४
हस्रौः गं पंचांतकेशाय सर्वसिद्धिगौर्यै० ४ हस्रौः घं
शिवोत्तमेशाय त्रैलोक्य विद्यायै० ४ हस्रौः ऽऽनं एकरुद्रेशाय
मंत्रशक्त्यै० ४ हस्रौः चं कूर्मेशाय आत्मशक्त्यै० ४ हस्रौः छं
एकनेत्रेशाय भूतमात्रे० ४ हस्रौः जं चतुराननेशाय लंबोदर्यै० ४
हस्रौः झं अजेशाय द्राविण्यै० ४ हस्रौः ञं सर्वेशाय नागर्यै० ४
हस्रौः टं सोमेशाय
प्. ६२ब्)
खेचर्यै० ४ हस्रौः ठं लांगलीशाय मंजर्यै० ४ हस्रौः डं
दारुकेशाय रूपिण्यै० ४ हस्रौः ढं अर्द्धनारीश्वराय वीरिण्यै० ४ हस्रौः
णं उमाकांतेशाय काकोदर्यै० ४ हस्रौः तं आषाढीशाय पूतनायै० ४
हस्रौः थं दंडीशाय भद्रकाल्यै० ४ हस्रौः दं अत्रीशाय योगिन्यै न० ४
हस्रौः धं मीनेशाय शंखिन्यै० ४ हस्रौः नं मेषेशाय गर्जिन्यै० ४
हस्रौः पं लोहितेशाय कालरात्र्यै० ४ हस्रौः फं शिखीशाय कूर्दिनै० ४
हस्रौः बं छगलंडेशाय कपर्दिन्यै० ४ हस्रौः भं द्विरंडेशाय
वज्रायै० ४ हसौः मं महाकालेशाय जयायै० ४ हस्रौः यं त्वगात्मने
वालीशाय सुमुख्यै० ४ हस्रौः रं असृगात्मने भुजंगेशाय रेवत्यै० ४
हस्रौः लं मांसांत्मने पिनाकीशाय माधव्यै० ४ हस्रौः वं
मेदात्मने खड्गीशाय वारुण्यै० ४ हस्रौः शं अस्थात्मने बकेशाय
वायव्यै० ४ हस्रौः षं मज्जात्मने श्वेतेशाय रक्षाविदारिण्यै० ४ हस्रौः
संशुक्रात्मने भृग्वीशाय सहजायै० ४ हस्रौः हं प्राणात्मने
लकुलीशाय महालक्ष्मै० ४ हस्रौः लं शक्त्यात्मने शिवेशाय व्यापिन्य० ४
प्. ६३अ)
हस्रौः क्षं परमात्मने संवर्तेशाय महामायायै नमः || इति
मातृकास्थानेषु न्यसेत् ||
अत्र रुद्राः स्मृता रक्ता धृतशूलकपालकाः |
शक्तयो रुद्रपीठस्थाः सिंदूरारुणविग्रहाः || १ ||
रक्तोत्पल कपालाभ्यामलंकृतकरांबुजाः ||
इति मूर्ति शक्तीनां ध्यानं || इति श्रीकंठमातृकान्यासः ||
अथ प्रपंचयागमातृकान्यासः ||
तत्र प्रथमं महागणपति मंत्र ऋष्यादि
करषडंगन्यासपूर्वकमष्टधा जपित्वा ततो गणपति बीजं तथैव
न्यासध्यानपूर्वकं चतुश्चत्वारिंशद्वारं जपित्वा ततो न्यासपूर्वकं
गणपत्यर्घमेकवारमावर्त्य पुनर्गणपतिमालामंत्रं
चतुर्वारमावर्त्य ततो ऋष्यादिन्यासध्यानपूर्वकं पूर्वोक्तां
शुद्धमातृकां त्रिवारं विन्यस्य ततः सत्यग्रहा विन्यस्य ततः
प्रपंचयाग मंत्रस्य ऋष्यादि करषडंगन्यासा विन्यस्य
ध्यानपूर्वकं प्रपंचयागमातृकां संहारसृष्टिमार्गेण न्यसेत् ||
इति ऋमः | तत्र महागणपति मंत्रस्य गणक ऋषिः निवृत् गायत्रीछंदः
श्रीमहागणपतिर्देवता प्रपंचयागांगत्वै जपे विनियोगः | इति ऋष्यादिकं
स्मृत्वा विन्यस्ये करषडंगन्यासं कुर्यात् || तद्यथा
४ ओं गां हृदयाय० ४ श्रीं गीं शिरसे० ४ ह्रीं गूं शिखायै० ४ क्लीं
गैं कव० ४४ ग्लौं गौं नेत्र० ४ गं गः अस्त्राय फट् इति मंत्रैः
करांगंन्यासं कृत्वा ध्यानं कुर्यात् | तद्यथा ||
प्. ६३ब्)
हस्तींद्राननमिंदुचूडमरुणछायं त्रिनेत्रं रसा-
दाश्लिष्टं प्रिययासपद्मकरयो स्वांकस्थयासंततं ||
बीजापूर गदाधनुस्त्रिशिखयुक् चक्राब्ज पाशोसल
ब्रीह्य ग्रहस्व विषाण रत्नकलशान् हस्तैर्बहंतं भजे || १ ||
गंडभित्ति गलद्दान पूरलाल समानसान् ||
द्विरेफान् कर्णतालाभ्यां वारयंतं मुहुर्मुहुः || २ ||
कराग्रधृतमाणिक्य कुंभवक्त्रविनिसृतैः |
रत्नवर्षैः प्रीणयंतं साधकान्मदविह्वलं || ३ ||
माणिक्य मुकुटोपेतं रत्नाभरणभूषितं |
युगपत्सेवितं देवैरसुरैश्च मुहुर्मुहुः || ४ ||
वामधः करमारभ्य दथाधः करपर्यंतमायुध ध्यानं |
रत्नकलशं शुंडाग्रे त्रिशिखं त्रिशूलं | इति महागणपतिं
सांगावरणं ध्यात्वा | ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतयो वर
वरद सर्वजनंमेव शमानय स्वाहा | इति | मंत्रमष्टधा जपित्वा |
गणपति बीजस्य गणक ऋषिः निवृत् छंदः विघ्नेश्वरो देवता
प्रपंचयागांगत्वे बीज जपे विनियोगः इति ऋष्यादिकं
प्. ६४अ)
स्मृत्वा विन्यस्य ४ गां ४ गीं इत्यादिना करषडंगन्यासं विधाय |
ध्यानं |
सिंदूराभं त्रिनेत्रं पृथुतर जठरं हस्तपद्मैर्धधानं
दंतंपांशांकुशेष्टानुरुकर विलसद्बीजपूराभिरामं ||
बालेंदुद्योति मौलिं करिपति वदनं दान पूरार्द्ध गंडं
भोगींद्रा बद्धभूषं भजत गणपतिं रक्तं वस्त्रांगरागं || १ ||
वामाधः करमारभ्य दक्षाधः करपर्यंतं आयुध ध्यानां |
इष्टोवरः | उरुकरः शुंडादंडः | इति ध्यात्वा गणपतिं बीजं
चतुःश्चत्वारि शब्दारं जपित्वा || ४ ओं गणांनां नमः शिरसि | अलिके ४ त्वा
नमः वदने ४ गणपतिं नमः दक्षकर्णे | हवामहे नमः वामकर्णे | ४
कविं नमः आस्ये | ४ कवीनां नमः गले ४ मुपमश्रवस्तमं नमः
अंसयोः ४ ज्येष्टराजं नमः हृदि ४ ब्रह्मणां नमः नाभौ ४ ब्रह्मणः
नमः गुह्ये ४ पते नमः दक्षजानौ ४ आ नमः वामजानौ | ४ नः नमः
दक्षौरौ ४ शृ रावन् नमः वामोरौ | ४ ऊतिभिर्नमः पृष्टे ४ सीद नमः
ककुदि ४ सादनं नमः || इति विन्यस्य ||
प्. ६४ब्)
ओं गणानांत्वा गणपतिं हवामहे कविं कवीनांमुपमश्रवस्तमं ||
जेष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वनूतिभिः सीद सादनं || १

इति ऋचं एकवारं जपित्वा || गणपति मालामंत्रं जपेत् || ह्रीं क्रों ओं
नमः सर्वविघ्नाधिपाय सर्वार्थ सिद्धिदाय सर्वदुःखप्रशमनाय ऐह्ये
हि भगवन् सर्वान् वांदय २ स्तंभय २ ह्रीं गंगां नमः स्वाहा क्रों
ह्रीं इति मालामंत्रं चतुरा वृत्तिर्जपित्वा ततः पूर्वोक्तां
शुद्धमातृकां ऋष्यादि करषडंगन्यासध्यानपूर्वकं वारत्रयं
शुद्धमातृकास्थाने विन्यस्य || मुखे ४ अं १५ आदित्याय नमः | दक्षिनबाहू
मूलाद्यग्रांतं ४ यं ३ सोमाय नमः | वामबाहू मूलाद्यग्रांतं ४
कं ४ भौमाय नमः | दक्षिणोरुमूलादिपादाग्रांतं ४ चं ४ शुक्राय
नमः | वामौरुमूलादिपादाग्रांतं ४ टं ४ बुधाय नमः | जठरे ४ तं
४ बृहस्पतये नमः | हृदये ४ पं ४ शनैश्चरा नमः | इति सत्यग्रहान् विन्यस्य
|| ततः प्रपंचयाग मंत्रस्य ब्रह्मा ऋषिः गायत्रीछंदः
सकलपदार्थानुगतपरिपूर्णस्वप्रकाश
प्. ६५अ)
सच्चिदानंद परं ज्योतिः परमात्मा देवता श्रीविद्यांगत्वे प्रपंचयाग
मातृकान्यासे विनियोगः | इति ऋष्यादिकं स्मृत्वा विन्यस्य | ४ ओं ह्रीं अं कं ४
आं स्वाहा हृदयाय० ४ ओं ह्रीं इं चं ४ ईं सोहं सिरसे स्वाहा | ४ ओं ह्रीं
उं टं ४ ऊ हंसः शिखायै वषट् ४ ओं ह्रीं एं तं ४ ऐं ह्रीं कवचाय
हुं | ४ ओं ह्रीं ओं पं ४ औं नेत्रत्रयाय वौषट् | ४ ओं ह्रीं अं यं ९ अः
हरिहरास्त्राय फट् इति करषडंगन्यासं विधाय ध्यानं कुर्यात् |
तद्यथा ||
तारादि पंचमनुभिः परिचीयमानं
मानैरगम्यमनिशं जगदेक मूलं ||
सच्चित्समस्तगमनेश्वरमच्युतं तं-
त्तेजः परं भजत सांद्र सुधांबुराशिं || १ ||
इति सकल प्रपंचातिरिक्तः सर्वसाक्षी निरतिशयानंद चिद्विलासा विना भूतः
परिपूर्ण सच्चिदानंदोहमिति स्वात्मानं ध्यात्वा श्रीपरदेवता परात्मनि
वह्नौ त्तत्तत्स्थानयुक्तान्वर्णान् जुहोमि० इति धिया स्वस्मिन् वर्णान् जुहुयात् ||
तद्यथा ||
४ ओं ह्रीं क्षं हं सः सोहं स्वाहा | ४ ओं ह्रीं लं हं सः सोहं स्वाहा |
४ ओं ह्रीं हं हंसः सोहं स्वाहा | इत्यादि ४ ||
प्. ६५ब्)
ओं ह्रीं अं हंसः सोहं स्वाहा० इत्यादि ४ ओं ह्रीं क्षंः हंसः सोहं
स्वाहा इत्यंतं मातृकास्थानेषु विन्यसेत् || इति प्रपंचयागमातृकान्यासः

अथ भूतलिपिन्यासः |
तत्र श्रीभूतलिपि मंत्रस्य | दक्षिणामूर्ति ऋषिः गायत्रीछंदः भूतलिपि
सरस्वती देवताः श्रीविद्यांगत्वे भूतलिपिन्यासे विनियोगः | इति ऋष्यादिकं
स्मृत्वा विन्यस्य ४ हं यं रं वं लं हृदयाय नमः | ४ ऽऽनं कं खं
यं गं शिरसे स्वाहा | ४ ञं चं छं झं जं शिखायै वषट् |
४ णं टं ठं ढं डं कवचाय हुं | ४ नं तं थं धं दं
नेत्रत्रयाय वौषट् | ४ मं पं फं भं बं अस्त्राय फट् इति मंत्रैः
करषडंगं न्यासं विधाय ध्यायेत् | तद्यथा |
चिद्बीजं बिंदुनादाह्व शिखं विश्वंभरा क्षरैः ||
शाखा समूहैः सकल दिशासु सुविभृंभितं || १ ||
जलवर्ण दलव्रातेनाछादित जगत्रयं ||
कृशानुवर्णांकुरैश्च संदीत्यं सुरभूतहं || २ ||
रत्नांकुरैरिवशुभं पवनाक्षर शोभितैः ||
कुसुमैर्दीपयंतं च स्वकीय तनु स छ्रियं || ३ ||
वियदक्षर सद्रूपैः फलैरानतमुत्तमं ||
प्. ६६अ)
सर्वभूताश्रयं नित्यं परामृत मधु द्रवैः || ४ |
सिंचिंतं परमेशानीं देवीं वागीश्वरीं शुभां ||
निगमागम संकॢप्त समुन्नति सुशोभितं || ५ ||
शिवशक्त्यात्मक छाया समाश्रित जगत्त्रयं ||
यमाश्रित्य मुनींद्रौद्याः वांछितार्थान् प्रपेदिरे || ६ ||
एवं भूतार्ण वृक्षस्य मूले त्वक्षर पंकजे ||
वागीश्वरीं स्मरेन्नित्यं सकलेष्ट फलप्रदां || ७ ||
कुंदाभासामुरु कुच घटां शोभि चंद्रार्ध मौलिं
हस्तांभोजैर्वरजपवटीं पुस्तकं पुंकपालं ||
बिभ्राणां तां मधुमदल सद्विह्वला युग्म नेत्रां
देवीं ध्यायेल्लिपि मयतनुं यौवन् प्राप्तशोभां || ८ ||
दक्षाधः करमारभ्य वामाधः करपर्यंतं आयुध ध्यानं || इति
ध्यात्वा न्यसेत् || तत्र प्रथमं संहारन्यासः ||
संहारं च तथा सृष्टिं स्थिति न्यासं समाचरेत् || इति कुलार्णवे ||
तत्र गले | ओं ऐं ह्रीं श्रीं ऌं नमः | हृदि ४ ऋं नमः | ४ नाभौ० उं
नमः | स्वाधिष्ठाने ४ इं नमः | मुलाधारे ४ अं नमः | द्वादशांते ४ औ
नमः | शक्त्यां ४ ओं नमः | नादे ४ ऐं नमः | बिंदौ ४ एं नमः
लंबिकायां || नामांतरं चोर कूपे || ४
प्. ६६ब्)
लं नमः | वामकर्णे | ४ वं नमः | दक्षकर्णे || ४ रं मुखे | ४ यं
मूर्द्ध्नि ४ हं न० | दक्षमणि बंधे | ४ गं० | अंगुलिमूले ४ घं न० |
कूर्परे ४ खं० | बाहुमूले | ४ कं० | अंगुल्यग्रे ४ ऽऽनं न० |
वाममणिबंधे ४ जं० | अंगुलिमूले ४ झं० | कूर्परे ४ छं० | बाहुमूले
४ चं० | अंगुल्यग्रे ४ ञं० | दक्षपादगुल्फे ४ डं नमः | अंगुलिमूले
४ ढं० | जानुनि ४ ठं | उरु मूले ४ टं० | अंगुल्यग्रे ४ णं० | वामगुल्फे ४
दं० | अंगुलिमूले ४ धं० | भानुनि ४ थं० | ऊरुमूले ४ तं० | पादाग्रे ४
नं० | पृष्टे ४ बं० | नाभौ ४ भं० | वामपार्श्वे ४ फं० | दक्षे ४ पं० |
उदरे ४ मं० | भ्रूमध्ये ४ सं० | हृदये ४ षं० | गुह्ये ४ शं० | इति संहार
न्यासः ||
अथ सृष्टिन्यासः |
तत्र मूलाधारे ४ अः नमः | एवं स्वाधिष्ठाने ४ इः नमः | नाभौ ४ उः |
हृदि ४ ऋः | गले ४ ऌः | बिंदौ ४ एः | नादे ४ ऐः नम शक्त्यां ४ ओः |
द्वादशांते ४ औः | मूर्द्ध्नि ४ हः नमः | मुखे ४ यः नमः | दक्षकर्णे ४
रः नमः | वामे ४ वः नः | चूडाधः ४ लः | दक्षकरांगुल्यग्रे ४ ऽऽनः
नमः | बाहुमूले ४ कः | मध्ये ४ खः | अंगुलिमूले ४ घः | मणिबंधे ४
गः | वामकरांगुल्यग्रे ४ ञः |
प्. ६७अ)
बाहुमूले ४ चः | मध्ये ४ छः | अंगुलिमूले ४ सः | मणिबंधे ४ जः |
दक्षपादाग्रे ४ णः | उरुमुले ४ टः | जानुनि ४ ठः | अंगुलिमूले ४ ढः |
गुल्फे ४ डः | वामपादाग्रे ४ नः | उरुमूले ४ तः || जानुनि ४ थः | अंगुलिमूले
४ धः | गुल्फे ४ दः | उदरे ४ मः | दक्षपार्श्वे ४ पः | वामे ४ फः | नाभौ ४
भः | पृष्ठे ४ बः | मूलाधारे ४ शः | हृदि ४ षः भ्रूमध्ये ४ सः नमः |
इति सृष्टिन्यासः ||
अथ स्थितिन्यासः ||
तत्र मूलाधारे ४ अंः नमः | एवं स्वाधिष्ठाने ४ इः नमः || हृदि ४ ऋंः |
गले ४ ऌंः | नाभौ ४ उंः | बिंदौ ४ एंः | नादे ४ एंः | द्वादशांते ४
औंः | शक्त्यां ४ ओंः ब्रह्मरंध्रे ४ हंः | मुखे ४ यंः | वामकर्णे ४
वंः | चूडाधः ४ लंः | दक्षकर्णे ४ रंः | दक्षकरांगुल्यग्रे ४ ऽऽनंः |
बाहुमूले ४ कंः | अंगुलिमूले ४ घंः | मणिबंधे ४ गंः | कूर्परे ४
खं | वामकरांगुल्यग्रे ४ ञंः | वामबाहुमूले ४ चंः | अंगुलिमूले ४
झंः | मणिबंधे ४ जंः | मध्ये ४ छंः | दक्षपादांगुल्यग्रे ४ णंः |
दक्षोरुमूले ४ टंः | अंगुलिमूले ४ ढंः | गुल्फे ४ डंः | जानुनि ४ ठंः
| वामपादांगुल्यग्रे ४ नंः | वामोरुमूले ४ तंः |
प्. ६७ब्)
अंगुलिमूले ४ धंः | गुल्फे ४ दंः | जानुनि ४ थंः | उदरे ४ मंः |
दक्षपार्श्वे ४ पंः | नाभौ ४ भंः | पृष्ठे ४ बंः | वामपार्श्वे ४
फंः | हृदि ४ षंः | भ्रूमध्ये ४ संः | गुह्ये ४ शंः नमः || इति
स्थितिन्यासः || इति भूतलिपिमातृकान्यासः ||
अथ षट्त्रिंशत्तत्वं न्यासः ||
तत्र जान्वादिपादपर्यंतं ४ क्षं पृथिवी तत्वात्मने
श्रीमहात्रिपुरसुंदर्यै नमः | नाभ्यादिजान्वंतं ४ लं अप् तत्वात्मने
श्री० | कंठादिनाभ्यंतं ४ हं तेजस्तत्वात्मने श्री० ||
भ्रूमध्यादिकंठांतं ४ संवायुस्तत्वात्मने श्री० | मूर्द्धादि
भ्रूमध्यांतं ४ षं आकाशतत्वात्मने श्री० पुनर्जाचादिपादांतं ४
शं गंधतत्वात्मने श्री० | नाभ्यादिजान्वंतं ४ वं रसतत्वात्मने श्री०
| कंठादिनाभ्यंतं ४ लं रुपतत्वात्मने श्री० |
भ्रूमध्यादिकंठांतं ४ रं स्पर्शतत्वात्मने श्री० |
मूर्द्धादिभ्रूमध्यांतं ४ यं शब्दतत्वात्मने श्री० | गुह्ये ४ मं
उपस्थतत्वात्मने श्री० गुदे ४ भं पायुतत्वात्मने श्री०
प्. ६८अ)
पादयोः ४ बं पादतत्वात्मने श्री० पाण्योः ४ फं पाणितत्वात्मने श्री० |
मुखे ४ पं वाक् तत्वात्मने श्री० | नासिकयोः ४ नं घ्राणतत्वात्मने श्री० |
जिह्वायां ४ धं जिह्वातत्वात्मने श्री० चक्षुषोः | दं चक्षुस्तत्वात्मने
श्री० | सर्वांगे ४ थं त्वक् तत्वात्मने श्री० | श्रोत्रयोः | ४ तं
श्रोत्रतत्वात्मने श्री० | मनसि ४ णं मनस्तत्वात्मने श्री० | हृदि ४ ढं
बुद्धितत्वात्मने श्री हृदि ४ डं अहंकारतत्वात्मने श्री० | सर्वांगे ४ ठं
प्रकृतितत्वा श्री० सर्वांगे ४ टं पुरुषतत्वात्मने श्री० सर्वांगे ४ ञं
निर्याततत्वात्मने श्री० सर्वांगे ४ झंकालतत्वात्मने श्री० | हृदि ४ जं
रागतत्वात्मने श्री० हृदि ४ छं विद्यातत्वात्मने श्री० | हृदि ४ च
कलातत्वात्मने श्री० | हृदि ४ ऽऽनं मायातत्वात्मने श्री० | हृदि ४ घं
शुद्धविद्यातत्वात्मने श्री० | मुखे ४ गं ईश्वरतत्वात्मने श्री० | शिरसि ४
खं सदाशिवतत्वात्मने श्री० | मूलाधारे ४ कं शक्तितत्वात्मने श्री०
ब्रह्मरंध्रे ४ अं शिवतत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः ||
इति षट्त्रिंशत्तत्वन्यासः ||
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ||
कृते सौभाग्यरत्नाब्धौ तरंगः पंचमोमंगंत् || १ ||
प्. ६८ब्)
इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे पंचमस्तरंगः || ५ ||
अथ मूलमंत्रन्यासः
स चास्यां विद्यायां त्रिविधः | षोढा श्रीचक्रकरशुध्यादि भेदात्
| षोढान्यासोपि द्विविधः | पूर्वोत्तर भेदात् | उत्तरोपि त्रिविधः |
महाषोढान्यासो बीजषोढान्यासो मालिन्यादि षोढान्यासश्चेति |
तत्र पूर्वषोढान्यासः सर्वाम्नायविषयः |
उत्तर षोढान्यासस्तूर्ध्वाम्नायविषयः | श्रीचक्रन्यासोपि त्रिविधः |
संहारसृष्टिस्थितिभेदात् | करशुध्यादिन्यासोपि बहुतरः | रतिकाम
पंचाशत्त्रिपुरादिनां न्यास विशेषाणां तत्रैवादि पदेन संगृहीतत्वात् |
तत्रादौ पूर्वषोढान्यासः | तत्र दक्षिणामूर्ति ऋषिः | गायत्री छंदः |
श्रीमातृका गणेशग्रहनक्षत्रयोगिनीराशि पीठमातृकारूपिणी
श्रीत्रिपुरसुंदरी देवता | श्रीविद्यांगत्वेन्यासे विनियोगः | इति ऋष्यादिकं
स्मृत्य विन्यस्य करषंडगन्यासं कुर्यात् | तद्यथा-
ओं ऐं ह्रीं श्रीं अं कं ४ आं ऐं हृदयाय नमः | ४
प्. ६९अ)
इं चं ४ ईं क्लीं शिरसे स्वाहा | ४ उं टं ४ ऊं सौः शिखायै वषट् | ४
एं तं ४ ऐं ऐं कवचाय हुं | ४ ओं पं ४ औं क्लीं नेत्रत्रयाय वौषट् | ४
अं यं ९ अः सौः अस्त्राय फट् | इति मंत्रानंगुष्ठादितलांतं
करयोर्विन्यस्य हृदयादिष्वेपि षडंगेषु विन्यसेत् | ततो ध्यानं
उद्यत्सूर्यसहस्राभां पीनोन्नतपयोधरां ||
रक्तमाल्यांबरालेपां रक्तभूषणभूषितां || १ ||
पाशांकुशधनुर्बाणभास्वत्पाणिचतुष्टयां ||
लसन्नेत्रत्रयां स्वर्णमुकुटोद्भासिचंद्रिकां || २ ||
गणेशग्रहनक्षत्रयोगिनी राशिरूपिणीं ||
देवीं पीठमयीं ध्यायेन्मातृकासुंदरीं करपरां || ३ ||
वामाद्यूर्ध्वयोराद्ये इत्यायुधध्यानं |
इति समष्टिरूपेण परमानंदघनां ध्यात्वा अस्य श्रीगणेशन्यासस्य
गणक ऋः निचृद्गायत्री छंदः श्रीगणेशो देवता न्यासे विनियोगः | ओं गां
शक्त्यानंदाय हृ० श्रीं गीं मुखेंद्राय शिरः | ह्रीं गुं
राजचंद्राय शिखा | क्लीं गैं मदोत्कटाय कवचाय हुं | ग्लौं गौं
प्रमोदाय नेत्र | गं गः सर्वमंत्रात्मने आमोदाय अस्त्राय०
इति षंडंगं विन्यस्य गणेशादि रूपं ध्यायेत् |
प्. ६९ब्)
तद्यथा ||
तरुणादित्यसंकाशान् गजवक्त्रांस्त्रिलोचनान् ||
पाशांकुशवराभीति करान् शक्ति समन्वितान् || १ ||
तास्तु सिंदूरवर्णाभाः सर्वालंकार शोभिताः ||
एकहस्त धृतां भोजा इतरा लिंगित प्रियां || २ ||
वामोर्ध्व करमारभ्य इति आयुध ध्यानं ||
शक्तीनां वामकरे कमलं दक्षिणकरेण प्रियालिंगनमिति ध्यात्वा न्यसेत् |
तद्यथा | ओं ऐं ह्रीं श्रीं गं अं विघ्नेश्वराय श्रीयै नमः | ४
गं आं विघ्नराजाय ह्रियै नमः | ४ गं इं विनायकाय तुष्ट्यै न० | ४ गं
ईं शिवोत्तमाय शांत्यै० | ४ गं उं विघ्नकृते पुष्ट्यै० | ४ गं ऊं
विघ्नहर्त्रे सरस्वत्यै० | ४ गं ऋं विघ्नराजायरत्यै० | ४ गं ॠं
गणनायकाय मेधायै० | ४ गं ऌं एकदंताय कांत्यै० | ४ गं ॡं
द्विदंताय कामिन्यै० | ४ गं एं गजवक्त्राय मोहिन्यै० | ४ गं ऐं
निरंजनाय जटायै० | ४ गं ओं कपर्दिने तीव्रायै० | ४ गं औं
दीर्घवक्त्राय ज्वालिन्यै० | ४ गं अं शंकुकर्णाय नंदायै० | ४ गं अः
वृषभध्वजाय सुरसायै० | ४ गं कं गणनाथाय कामरुपिण्यै० | ४ गं
खं गजेंद्राय उग्रायै० | ४ गं गं शूर्पकर्णाय जयिन्यै० | ४ गं घं
त्रिनेत्राय सत्यायै० | ४ गंडं लंबोदराय विघ्नेश्यै० | ४
प्. ७०अ)
गं चं महानादाय सुरुपिष्पै० | ४ गं छं चतुर्मूर्त्तय कामदायै० न०
| ४ गं जं सदाशिवाय मदविह्वलायै० | ४ गं झं आमोदाय विकटायै० | ४
गं ञं चतुर्मुखाय धूम्रायै० | ४ गं टं सुमुखाय भूत्यै० | ४
गं ठं प्रमोदाय भूम्यै० | ४ गं डं एकपादाय सत्यै० | ४ गं ढं
द्विजिह्वाय परमायै० | ४ गं णं शूराय मनुष्यै० | ४ गं तं वीराय
मकरध्वजायै० | ४ गं थं षण्मुखाय विकर्णायै० | ४ गं दं वरदाय
भृकुट्यै० | ४ गंधं वामदेवाय लज्जायै० | ४ गं नं वक्रतुंडाय
दीर्घघोणाये० ४ गं पं द्विरंडाय धनुर्धरायै० | ४ गं फं सेनान्ये
यामिन्यै न० | ४ गं बं ग्रामण्ये रात्र्यै० | ४ गं भं मत्ताय
चंद्रिकायै० | ४ गं मं विमत्ताय शशिप्रभायै० | ४ गं यं
मत्तवाहनाय लोलायै० | ४ गं षं वृषकेतवे शिवायै० | ४ गं सं
भक्षप्रियाय दुर्गायै० | ४ गं हं मेघनादाय कालिकायै० | ४ गं लं
गणपतये कालजिह्वायै० | ४ गं क्षं गणेशाय विघ्नहारिण्यै नमः | इति
मातृकास्थानेषु न्यसेत् | इति गणेशन्यासः ||
अथ ग्रहन्यासः ||
तत्र ध्यानं ||
रक्तं स्वेतं तथा रक्तं श्यामं पीतं च पांडुरं ||
प्. ७०ब्)
धूम्रकृष्ण्यं कृष्णधूम्रं धुम्रधूम्रं विचिंतयेत् || १ ||
रवि मुख्यान् कामरूपान् सर्वाभरणभूषितान् ||
वामोरू न्यस्त हस्तांश्च दक्षहस्त वरप्रदान् || २ ||
शक्तयोपि तथा ध्येया वराभय करांबुजाः ||
स्वस्वप्रियांकनिलयाः सर्वाभरणभूषिताः || ३ ||
इति ध्यात्वा न्यसेत् ||
हृदयाधस्तात् |
ओं ऐं ह्रीं श्रीं अं १५ रक्तवर्णसूर्याय रक्तवर्णरेणुकांबायै नमः |
भ्रूमध्ये ४ यं ३ स्वेतवर्णचंद्राय श्वेतामृतांबायै० | नेत्रत्रये | ४
कं० ४ रक्तवर्णमंगलाय रक्तवर्णधामांबायै० | हृदयस्थोपरि | ४
चं० ४ श्यामाय बुध्याय श्यामज्ञानरूपांबायै० | कंठे ४ तं० ४
पीताय बृहस्पतये पीतशांकर्ययंबायै० | हृदि ४ टं० ४ पांडुराय
शुक्राय पांडुज्ञानरुपांबायै० | नाभौ ४ पं ४ धूम्रकृष्णाय
शनैश्चराय धूम्रकृष्णशक्त्यांबायै० || मुखे ४ शं ३
कृष्णधूम्राय राहवे कृष्णधूम्र कृष्णांबांयै० | पादयोः ४ लं
क्षं धूम्र धूम्राय केतवे धूम्रांबायै नमः | इति ग्रहन्यासः |
अथ नक्षत्रन्यासः |
तत्र ध्यानं |
ज्वलत्कालाग्निसंकाशा वरदाभयपाणयः ||
नतिपाण्योश्विनीमुख्याः सर्वाभरणभूषिताः || १ ||
दक्षाधः करयोर्वराभये ऊर्ध्वयोर्नतिमुद्रे० | इत्यायुध ध्यानं ||
प्. ७१अ)
इति ध्यात्वा न्यसेत् | तद्यथा | ललाटे ४ अं आं अश्विन्यै नम० | दक्षनेत्रे ४ इं
भरण्यै० | वामनेत्रे ४ ईं उं ऊं कृत्तिकायै० | दक्षणकणे ४ ऋं ॠं ऌं
ॡं रोहिण्यै० | वामकर्णे ४ एं मृगशिरसे० | दक्षनासायां ४ ऐं
आर्द्रायै० | वामनासायां ४ ओं औं पुनर्वसवे० | कंठे ४ कं पुष्पायै०
| दक्षस्कंधं ४ खं गं आश्लेषायै० | वामस्कंधे ४ घं ऽऽनं
मघायै० | दक्षकफोणौ ४ चं पूर्वफाल्गुन्यै० | वामकफोणौ ४ छं
जं उत्तराफाल्गुन्यै० | दक्षमणिबंधे ४ झ ञं हस्तायै० |
वाममणिबंधे ४ टं ठं चित्रायै० | दक्षस्तने ४ डं स्वात्यै० |
वामहस्तेये ४ ढं णं विशाखायै० || नाभौ ४ तं थं दं अनुराधायै
न० || दक्षकट्यां ४ धं ज्येष्ठायै० | वामकट्यां ४ नं पं फं
मूलायै नमः || दक्षोरौ ४ बं पूर्वाषाढायै० | वामोरौ ४
उत्तराषाढायै० | दक्षजानुनि ४ मं श्रवणायै० | वामजानुनि ४ यं रं
धनिष्ठायै० | दक्षजंघायां ४ शतभिषायै न० | वामजंघायां ४
वं शं पूर्वभाद्रपदायै० | दक्षपादे ४ षं शं हं
उत्तराभाद्रपदायै० | वामपादे ४ लं क्षं अं अः |
प्. ७१ब्)
रेवत्यै नमः || इति नक्षत्रन्यासः |
अथ महायोगिनीन्यासः ||
तत्र विशुद्धौ षोडशदलकमलकर्णिकायां त्वक् धातु देवतां डाकिनीं
ध्यायेत् || तद्यथा ||
रक्तां रक्त त्रिनेत्रां पशुजनभयकृछूलखट्वांगहस्तां
वामे खेटं दधानां चषकमपि सुरापूरितं चैकवक्त्रां ||
अत्युग्रासुग्रदंष्ट्रामरि कुलमथिनीं पायसान्ने प्रसक्तां
कंठस्थानेऽमृताद्यैः परिवृतवपुषं भावयेज्जकिनीं तां || १ ||
दक्षोर्ध्वाधः शूलखट्वांगे वामोर्ध्वाधः खेट चषके इत्यायुध
ध्यानं || इति ध्यात्वा न्यसेत् ||
४ डां डीं डूं डैं डौं डः डमलवयरंयूं डाकिनि मां रक्ष
रक्ष मम त्वग् धातुं रक्ष रक्ष सर्वसत्ववशंकरि देवि आगछ आगछ
इमां पूजां गृह्ण गृह्ण ऐं घोरे देवि ह्रीं सः परमघोरे हूं
घोररूपे एह्येहि नमश्चामुंडे डरलकसे हें श्रीमहात्रिपुरसुंदरि देवि
वरदे विच्चे अं १५ विशुद्ध पीठस्थे विशुद्ध डाकिनि विशुद्धनाथ
देवयुग्म श्रीपादुकां पूजयामि नमः || इति मनसा कर्णिकायां विन्यस्य
तदग्रादि परितस्तदावरणाक्षर शक्तीर्न्यसेत् ||
प्. ७२अ)
तद्यथा || ४ अं अमृतायै नमः आं आकर्षिण्यै० ४ इं इंद्राविण्यै० | ४ ईं
इशान्यै नमः ४ उं उमायै० | ऊर्ध्वकेशिन्यै० | ४ ऋं ऋद्धिदायै० | ४
ॡं ऋषायै० | ४ ऌं ऌकारायै० | ४ ॡं ऌषायै न० | ४ एं एकपादायै० | ४
ऐं ऐश्वर्यात्मिकायै० | ४ ओं ओंकारात्मिकायै० | ४
औं औषधात्मिकायै० | ४ अं अंबिकायै० | ४ अः अक्षरात्मिकायै नमः || इति
प्रादक्षिण्येन न्यसेत् || एताः शक्तयो डाकिनी वध्येयाः || ततोऽनाहते
द्वादशदलकमलकर्णिकायां रक्तधातु देवतां राकिनीं सावरणां
ध्यात्वानस्येत् || तद्यथा ||
श्यामां शूलाब्जहस्तां डमरुकसहितां तीक्ष्णचक्रं वहंतीं
द्व्यास्यां रक्त त्रिनेत्रां भृकुटिवलिलसद्दष्टदंतप्रभाभिः ||
दीप्तास्यां देवदेवीं हृदयकमलगां रक्तधात्वैक नाथां
शुद्धान्नेषु प्रसक्तां मधुमदमुदितां चिंतयेद्राकिणीं तां ||
दक्षाधः करमारभ्य दक्षोर्ध्व करपर्यंतमायुधध्यानं ||
इति ध्यात्वा तन्मन्त्रं कर्णिकायां न्यसेत् || तद्यथा ||
४ रां रीं रूं रैं रौं रंः | रमलवरयूं राकिणि मां रक्ष रक्ष
मम रक्त धातूं रक्ष रक्ष सर्वसत्व
प्. ७२ब्)
वशंकरि देवि आगछ २ इमां पूजां गृह्ण २ ऐं घोरे देवि ह्रीं सः
परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसहैं
श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे कं ११ अनाहत पाठस्थे अनाहत
राकिणि अनाहत नाथदेव युग्म श्रीपादुकां पूजयामि नमः || इति मनसा
संपूज्य कर्णिकायां विन्यस्य० दलेषु परितस्तदावरणाक्षर देवता न्यसेत् ||
तद्यथा ||
४ कंकालरात्र्यै नमः || ४ खं खार्तंतायै० | ४ गं गायत्र्यै नमः | ४
घं घंटाधारिणयै न० | ४ ऽऽनं ऽऽनार्णात्मिकायै० ४ चं चामुंडायै०
| ४ छं छायायै० | ४ जं जयायै० | झं झंकारिण्यै० | ४ ञं
ञांर्णात्मिकायै० | ४ टं टंकहस्तायै० |
४ ठं ठंकारिण्यै० डं डंः || इति द्वादशदलेषु विन्यस्यैता राकिनीव
ध्येयाः || ततो मणिपूरे दशदलकमल मांसधातु देवतां लाकिनीं
सावरणां ध्यात्वा न्यसेत् तद्यथा ||
कृष्णां देवीं त्रिवक्त्रां त्रिनयन लसितां दंष्ट्रियीमुग्ररूपां
वज्रं शक्तिं च दंडाभयवरददरान् दक्षवामेर्दधानां ||
ध्यात्वा नाभिस्थ पद्मे दशदल विलसत्कर्णिके लाकिनीं तां
मांसस्थां गौडभक्तोत्सुक हृदयवतीं विन्यसेत् साधकेंद्रः || १ ||
प्. ७३अ)
दक्षाद्यूर्ध्वयोराद्ये तदाद्मधःस्थयोरन्ये तदाद्यधःस्थयोरपरे
इत्यायुध ध्यानं || इति ध्यात्वा न्यसेत् ||
४ लां लीं लूं लैं लौं लः लमलवरयूं लकिनी मां रक्ष २ मम
मांसधातुं रक्ष २ सर्वसत्ववशंकरि देवि आगछ २ इमां पूजां
गृह्ण गृह्ण ऐं घोरे देवि ह्रीं सः परमघोरे हूं घोररूपे एह्येहि
नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे डं |
९ मणिपूरक पीठस्थे मणिपूर कलाकिनिमपूरकनाथ देवयुग्म
श्रीपादुकां पूजयामि नमः || इति कर्णिकायां मनसा संपूज्य विन्यस्य
परितस्तदा वरणाक्षर देवता न्यसेत् || ४ डं डामर्षे नमः | ४ ढं ढं
कारिण्यै० | ४ णं णकारिण्यै० || ४
तं तामस्यै नमः || थं स्थानदेव्यै० | ४ दं दाक्षायिण्यै न० | ४ धं
धात्र्यै० | ४ नं नंदायै० | ४ पं पार्वत्यै नमः | फं फट्कारिण्यै
नमः || इति न्यसेत् ||
एता लकिनीवत् ध्येयाः || ततः स्वाधिष्ठाने षट्दलकमल कर्णिकायां मेदो
धातु देवतां काकिनीं सावरणां ध्यात्वा न्यसेत् | तद्यथा ||
स्वाधिष्ठानाख्य पद्मे रसदललसिते वेदवक्त्रां त्रिनेत्रां
पीतांभां धारयंती त्रिशिखगुणकपाला भयान् पात्तगर्वां ||
प्. ७३ब्)
मेदो धातु प्रतिष्ठामलिमदमुदितां बंधिनीत्यादिवीतां
दध्यन्ने सक्तचित्तामभिमत फलदां काकिनीं भावयेत् तां || १ ||
दक्षोर्ध्व करमारभ्य दक्षाधः करपर्यंतंमायुध ध्यानं || इति
ध्यात्वा न्यसेत् || ४ कां कीं कूं कैं कौं कः कमलवरयूं काकिनि
मां रक्ष २ मम मेदो धातुं रक्ष २ सर्वसत्ववशंकरि देवि आगछ २
इमां पूज्यां गृह्ण २ ऐं घोरे देवि ह्रीं सः परमघोरे हं घोररूपे
एह्येहि नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरि देवि वरदे विच्चे
बं ५ स्वाधिष्ठान पीठस्थे स्वाधिष्ठान काकिनि स्वाधिष्ठाननाथ देव
युग्म श्रीपादुकां पूजयामि नम || इति कर्णिकायां मनसा संपूज्य
विन्यस्य परितस्तद्दलेषु परिवाराक्षर देवता न्यसेत् || ४ बं बंधिन्यै नमः |
४ भं भद्रकाल्यै० | ४ मं महामायायै न० | ४ यं यशस्विन्यै० | ४ रं
रमायै० | ४ लं लंबोष्ठ्यै० | ४ इति विन्यस्यैताः काकिनीवत् ध्येयाः ||
ततो मूलाधारे चतुर्दलकमलकर्णिकायां अस्थिधातु देवतां साकिनीं
ध्यात्वा न्यसेत् || तद्यथा ||
देवीं ज्योतिः स्वरूपां त्रिनयन विलसत्पंचवक्त्रां सुदंष्ट्रां
हस्तांभोजेक्षा चापं सृणिमपि दधतीं पुस्तकं ज्ञानमुद्रां ||
प्. ७४अ)
मूलाधारस्थ पद्मे निखिल पशु जनोन्मादिनीमस्थिसंस्थां
मुद्गात्रे प्रीतियुक्तां मधुमदमुदितां चिंतयेत् साकिनीं तां || १ ||
वामाद्यूर्ध्वयोराद्ये तदाद्यधस्थयोरन्ये इत्यायुध ध्यानं || अत्रेक्षु
चापग्रहणात्तत्रैव पुष्पबाणानपि ध्यायेत् || धनुर्बाणयोरत्यंत
साहचर्यात् || इति ध्यात्वा तत्कर्णिकायां न्यसेत् || ४ सां सीं व्यूं सैं सौ
सः स्मल्वरयूं साकिनी मां रक्ष २ ममास्थि धातुं रक्ष २
सर्वसत्ववशंकरि देवि आगछ २ इमां पूजा गृह्ण २ ऐं घोरे देवि ह्रीं
सः परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसहैं
श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे वं ३ मूलाधारपीठस्थे
मूलाधारसाकिनि मूलाधारनाथ देवयुग्म श्रीपादुकां पूजयामि
नमः || इति तत्कर्णिकायां मनसा संपूज्य विन्यस्य तद्दलेषु
परितस्तत्परिवाराक्षर देवता न्यसेत् ४ व वरदायै नमः | ४ शं शशिन्यै
नमः | ४ षं षंढायै० | ४ सं सरस्वत्यै नमः || इति विन्यस्यैताः
साकिनीवत् ध्येयाः ||
प्. ७४ब्)
ततो भ्रूमध्ये आज्ञाचक्रे मज्जाधातु देवतां हाकिनीं ध्यात्वा न्यसेत् ||
तद्यथा ||
भ्रूमध्ये बिंदुपद्मे द्विदलसुलसिते शुक्लवर्णां कराब्जै-
र्बिभ्राणां ज्ञानमुद्रां डमरुकसहितामक्षमालां कपालं ||
षड्वक्त्रां मज्जसंस्थां त्रिनयनलसितां हंसवत्यादि युक्तां
हारिद्रान्ने सक्तचित्तां सकलसुरनुतां हाकिनीं भावयेत् तां || १ ||
दक्षाद्यूर्ध्वयोराद्ये तदाद्यद्यधस्थयोरन्ये इत्यायुध ध्यानं || इति
ध्यात्वा न्यसेत् || ४ हां हीं हूं हैं हौं हः | हमलवरयूं हाकिनि
मां रक्ष २ मम मज्जाधातुं रक्ष २ सर्वसत्ववशंकरि देवि आगछ २
इमां पूजां गृह्ण २ ऐं घोरे देवि ह्रीं सः परमघोरे हूं घोररूपे
एत्येहि नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे
हं क्षं आज्ञापीठस्थे आज्ञाहाकिनि आज्ञानाथ देवयुग्म
श्रीपादुकां पूजयामि नमः || इति तद्दलकर्णिकायां मनसा संपूज्य
विन्यस्य तद्दलयोः | ४ हं हंसवत्यै नमः | ४ क्षं क्षमावत्यै० || इति
विन्यस्य हाकिनीवत् ध्येयाः || ततो ब्रह्मरंध्रे सहस्रदल
प्. ७५अ)
कमलकर्णिकायां शुक्रधातु देवतां सावरणां याकिनीं ध्यात्वा
न्यसेत् ||
मुंडव्योमस्थ पद्मे सकलदलयुते याकिनी भैरवीं तां
पक्षिण्यांख्यां समस्तायुधलसितकरां सर्ववर्णां समष्टीं ||
डादीनां सर्ववक्त्रां सकलसुखकरीं सर्वधातु स्वरूपां
सर्वान्ने सक्तचितां परशिवरसिकां भावयेत् सर्वरूपां || १ ||
इति ध्यात्वा तन्मंत्रं कर्णिकायां न्यसेत् || ४ यां यीं यूं यैं यौं
यः यमलवरयूं याकिनि मां रक्ष २ ममशुक्रादि सर्वधातुन् रक्ष २
सर्वसत्ववशंकरि देवि आगछ २ इमां पूजां गृह्ण २ ऐं घोरे देवि ह्रीं
सः परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसहें
श्रीमहात्रिपुरसुंदरि देवि वरदे विच्चे आदिक्षांतं ५१
ब्रह्मरंध्रपीठस्थे ब्रह्मरंध्र याकिनि ब्रह्मरंध्रनाथ देव
श्रीपादुकां पूजयामि नमः | इति तत्कर्णिकायां मनसा संपूज्य विन्यस्य
परितः पंचाशद्वर्णदेवताः न्यसेत् || तद्यथा ||
४ अं अमृतायै नमः || ४ आं आकर्षण्यै नमः | ४ इं इंद्राण्यै नमः | ४
ईं ईशान्यै नमः || ४ उं उमायै नमः || ४
प्. ७५ब्)
ऊं ऊर्ध्वकेश्यै नमः || ४ ऋं ऋद्धिदायै नमः || ४ ॠ ॠषायै नमः || ४
ऌं ऌकारायै नमः || ४ ॡं ॡषायै नमः || ४ एं एकपादायै नमः || ४
ऐं ऐश्वर्यात्मिकायै नमः || ४ ओं ओंकारात्मिकायै नमः || ४ औं
औंषधात्मिकायै नमः || ४ अं अंबिकायै नमः || ४ अः अक्षरात्मिकायै
नमः || ४ कं कालरात्र्यै नमः || ४ स खं खातीतायै नमः || ४ गं
गायत्र्यै नमः || ४ घं घटाधारिण्यै नमः || ४ ऽऽनं ऽऽनार्णात्मिकायै
नमः || ४ चं चामुंडायै नमः || ४ छं छायायै नमः || ४ जं जयायै
नमः || ४ झं झंकारिण्यै नमः || ४ ञं ञार्णात्मिकायै नमः ||
४ टं टंकहस्तायै नमः || ४ ठं ठंकारिण्यै नमः || ४ डं डामर्यै
नमः || ४ ढं ढंकारिण्यै नमः || ४ णं णकारिण्यै नमः || ४ तं
तामस्यै नमः || ४ थं स्थानदेव्यै नमः || ४ दं दाक्षायण्यै नमः || ४
धं धात्र्यै नमः || ४ नं नंदायै नमः || ४ पं पार्वत्यै० | ४ फं
फट्कारिण्यै नमः | ४ बं बंधिन्यै० | ४ भं भद्रकाल्यै० | ४ मं
महामायायै० | ४ यं यशश्विन्यै० | ४ रं रमायै नमः | ४ लंव
लंबोष्ठ्यै० | ४ वं वरदायै० | ४ शं शशिन्यै नम० | ४ षं षंढायै० |
४
प्. ७६अ)
सं सरस्वत्यै० | ४ हं हंसवत्यै० | ४ क्षं क्षमावत्यै नमः || इति
महायोगिनीन्यासः || इति विन्यस्य ||
अथ राशिन्यासं कुर्यात् ||
तत्र ध्यानं ||
रक्तं श्वेतं हरिद्वर्णं पांडुंचित्रं सितं स्मरेत् ||
पिशंगपिंगलौबभ्रूकर्पूरारुणधूमकान् || १ ||
स्व स्वनामसमाकारास्तुलाकुंभौ समा कृती इति ध्यात्वा न्यसेत् || दक्षिण
गुल्फे ४ अं आं इं ईं मेषाय नमः | ४ दक्षिणजानुनि ४ उं ऊं वृषाय
नमः | दक्षवृषणे ४ ऋं ॠं ऌं ॡं मिथुनाय न० | दक्षकुक्षौ ४ एं
ऐं कर्कटाय नमः | दक्षस्कंधे ४ ओं औं सिंहाय नमः |
दक्षशिरोभागे ४ अं अः शः षं सं हं कन्याराशये नमः || ४
वामशिरोभागे ४ कं ४ तुलाराशये न० | ४ वामस्कंधे ४ चं ४
वृश्चिकराशये नमः | वामकुक्षौ ४ टं ४ धनुषे नमः | वामवृषणे ४
तं ४ मकराय नमः | वामजानुनि ४ पं ४ कुंभाय नमः | वामगुल्फे ४
यं रं लं वं लं क्षं मीनाय नमः || इति राशिन्यासः ||
अथ पीठन्यासः ||
तत्र ध्यान ||
सितासितारुणश्यामहरित्पीतान्यनुक्रमात् ||
पुनः पुन क्रमाद्देवि पंचाशत् स्थान संचये || १ ||
प्. ७६ब्)
पीठानि संस्मरेद्विद्वान् सर्वकामार्थसिद्धये || इति ध्यात्वा न्यसेत् ||
४ अं कामरूपपीठाय नमः || ४ आं वाराणसीपीठाय नमः || ४ इं
नेपालपीठाय नमः | ४ ईं पौंड्रवर्द्धन पीठाय नमः || ४ उं
पुरस्थिरपीठाय नमः || ४ ऊं कान्यकुब्जापीठाय नमः || ४ ऋं
पूर्णगिरिपीठाय नमः | ४ ॠ अर्बुदपीठाय नमः | ४ ऌं
आम्रातकेश्वरपीठाय नमः | ४ ऌ एकाम्रपीठाय नम ४ एं
त्रिस्रोतःपीठाय० | ४ ऐं कामकोटपीठाय नम० | ४ ओं कैलासपीठाय
नम० | ४ औ भृगुनरपीठाय० | ४ अं केदारपीठाय० | ४ अः
चंद्रपुरपीठाय० | ४ कं श्रीपुरपीठाय० | ४ खं ओंकारपीठाय० | ४
गं जालंधरपीठाय नम० | ४ घं मालवपीठाय नम० | ४ ऽऽनं
कुलांतकपीठाय नमः || ४ चं देवीकोटपीठाय० | ४ छं
गोकर्णपीठाय० | ४ जं मरुतेश्वर पीठाय० | ४ झं अट्टहासपीठाय० | ४
ञं विरजपीठाय० | ४ टं राजगृहपीठाय० | ४ ठं महापथपीठाय० |
४ डं कोलगिरिपीठाय नम० | ४ ढं एलापुरपीठाय० | ४ णं
कालेश्वरपीठाय० ४ तं जयंतिकापीठाय० | ४ थं उज्जयिनीपीठाय न० | ४
प्. ७७अ)
दं चरित्रपुरपीठाय० | ४ धं क्षीरिकपीठाय० | ४ नं हस्तिनापुरपीठाय०
| ४ पं उड्डीशपीठाय० | ४ फं प्रयागपीठाय० | ४ बं षष्ठीशपीठाय
नम० | ४ भं मायापुरपीठाय न० | ४ मं जलेश्वरपीठाय० | ४ यं
मलयगिरिपीठाय० | ४ रं हिरण्यपुरपीठाय० | ४ हं
महालक्ष्मीपुरपीठाय० | ४ लं उड्यानपीठाय० ४ क्षं
छायाछत्रपीठाय नमः || इति पीठन्यासः |
एते पीठाः समुद्दिष्टामातृकारूपमास्थिताः |
शुद्धमातृकास्थानेषु न्यसनीयाः | इति पूर्वषोढान्यासः | ज्ञानार्णवे |
षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः ||
एवं योन्यस्त गात्रस्तु सपूज्यः सर्वयोगिभिः | १ ||
नास्त्यस्य पूजो लोकेषु पितृमातृमुखोजनः |
स एव पूज्यं सर्वेषां सः स्वयं परमेश्वरः | २ ||
षोढान्यासविहीनं यं प्रणमेदेषः पार्वति |
सोचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते || ३ ||
षोढान्यासैर्न्यस्तमंत्री यदि कुर्यान् नमस्क्रियां ||
अपरीहार्यतः पूज्ये पित्रादौ विदधीततां || ४ ||
निजेष्ठ देवता बुध्या न तु मानुष बुद्धितः |
क्रुद्धो भूत्वा न मेद्यंसोऽचिरान्मृत्युमवाप्नुयात् || ५ ||
प्. ७७ब्)
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ||
कृते सौभाग्यरत्नाब्धावत्षष्ठतरंगकः || १ ||
इति श्रीसच्चिदानंदनाथचरणारविंद द्वंद्वांते वासिना श्री
श्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे षष्ठस्तरंगः || ६ ||
अथ योगपीठन्यासः || १ ||
श्रीविद्यया प्राणायाम त्रयं कृत्वा योगपीठन्यासं कुर्यात् || तत्र
प्राणायामविधिस्तु विहित पद्मासनो मूलाधारार्पित चित्तवृतिर्मूलविद्यां
स्मरन् ईडया वायुमापूर्ये मूलाधारं
प्रापययांगुष्ठानामीकनिष्ठाभिर्नासापुटौ विधृत्य तं वायुं
कुंभयित्वा कुंभकसमये देवीं स्मरन् मूलविद्यां यथाशक्तिं
जपित्वा पिंगलया शनैःशनैस्तं वायुं रेचयेदित्येकः प्राणायामः |
पुनस्तथैव पिंगलया वायुमापूर्य तथैव कुंभयित्वा तथैव
रेचयेदित्यन्यः | एवं वैपरित्येन विशंतिवारं षोडशद्वादशड्भिर्या
यथाशक्ति जपादौ जपांते च प्राणायामाः कार्यः || अत्र सर्वत्र
प्राणायामे नैव सर्वेषां कर्माधिकारः |
प्राणायामैर्विना यद्य कृतं कर्मतन्निरर्थकं |
प्. ७८अ)
अतो यत्नेन कर्त्तव्याः प्राणायामाः शुभार्थिभिः || १ ||
इत्यगस्त्य वचनेनाकरणे निंदा श्रुतेरावश्यकोयमिति प्राणायामविधिः |
इत्थं प्राणायामं विधाय मूलविद्याया ऋष्यादि न्यासान् कुर्यात् |
तद्यथा | शिरशि ओं ऐं ह्रीं श्रीं दक्षिणामूर्तये ऋषये नमः | मुखे ४
पंक्ति छंदसे नमः | हृदये ४ श्रीत्रिपुरसुंदर्ययै देवतायै नमः | गुह्ये
४ ऐं बीजाय नमः | पादयोः ४ सौः शक्तये नमः | नाभौ ४ क्लीं कीलकाय
नमः | इति विन्यस्य | ४ मम चतुर्विधपुरुषार्थ सिद्धये न्यासादौ विनियोगः |
इति कृतांजलिर्वदेत् | ततः अंगुष्ठयोः | ४ ऐं हृदयाय नमः | तर्ज्जन्योः ४
क्लीं शिरसे स्वाहा | मध्यमयोः ४ सौः शिखायै वषट् | अनामिकयोः ४ ऐं
कवचाय हुं | कनिष्ठिकयोः ४ क्लीं नेत्रत्रयाय वौषट् | करतल
करपृष्ठयोः ४ सौः अस्त्राय फट् इति तदुपरि पूर्वादि दिक्षु || ४ आं आत्मने न०
| ४ अं अंतरात्मने० | ४ पं परमात्मने० | ४ ह्रीं ज्ञानात्मने० |
कर्णिकायाश्चतुर्दिक्षु मध्ये च ४ ज्ञां ज्ञानतत्वात्मने० ४ मां
मायातत्वात्मने० | ४ कं कलातत्वात्मने० | ४
प्. ७८ब्)
विं विद्यातत्वात्मने० | ४ पं परतत्वात्मने० | इति पश्चिमादि प्रादक्षिण्येन
विन्यस्य || ततः केसरेषु | पूर्वाद्यष्ट दिक्षु मध्ये च प्रादक्षिण्येन
श्रीचक्राधारपीठस्य नवशक्तीर्न्यसेत् || तद्यथा || ४ दूतर्यंबा श्रीपा० ४
सुंदर्यंबा श्रीपा० | ४ सुमुख्यंबा० | ४ विरूपांबा० | ४ विमलांबा ४
अंतर्यंबा० | ४ बदर्यंबा० | ४ पुरंदर्यंबा० | मध्ये कर्णिकायां || ४
पुष्पमर्दिन्यंबाश्री० | ४ एता वराभयधारिण्यो रक्तवर्णाध्येयाः | इति
नवशक्तिर्विन्यस्य || ४ क्लीं सर्वशक्ति कमलासनाय नमः || इति व्यापकं
विन्यस्य तन्मध्ये श्रीचक्रं विभाव्य || ४ समस्त-प्रकट-गुप्त-गुप्ततर-
संप्रदाय-कुलकौल-निगर्भ-रहस्य-परापररहस्य-परापराति-रहस्य-
योगिनीचक्रे श्रीपादुकाभ्यो नमः | इति सर्वांगे व्यापकं विन्यस्या ४
प्रथमकूटमुच्चार्य शरीरात्मने नमः | द्वितीय कूटमुच्चार्य ४
बुध्यात्मने नमः | तृतीय कूटमुच्चार्य ४ प्राणात्मने इति व्यापकत्वेन
सर्वांगे विन्यस्य हृदय त्रिकोणस्याग्र कोणे ४ ऐं मूलविद्याया
वाग्भवकूटमुच्चार्य चतुरस्रपीतवर्णाय कामरूपपीठाय नमः |
प्. ७९अ)
आग्नेय कोणे ४ क्लीं कामराजकूटमुच्चार्य अर्धचंद्रनिभश्वेतवर्णाय
जालंधरपीठाय नमः || ईशानकोणे ४ सौः तार्तीय
कूटमुच्चार्य षट्बिंदुलांछित वृत्तधूम्रवर्णाय पूर्णगिरिपीठाय
नमः | तन्मध्यस्थबिंदौ ४ तुरीय विद्यामुच्चार्य महोज्यान पीठाय
नमः || इति पीठचतुष्टयं विन्यस्य | मध्यस्य बिंदुचक्रे ४ हीरण्मय
सहस्रदलकमलाय नमः || इति विन्यस्य || दक्षांस पृष्ठदक्ष कर्णपृष्ठ
दक्ष ललाटभाग दक्षनेत्र भागदक्ष चिबुक भाग हृदय त्रिकोणेषु
वक्ष्यमाण षडासनानि विन्यस्य ४ अं कं ३६ शिवशक्त्यादि
पृथिव्यात्मने षट्त्रिंशत्तत्वरूपाय श्रीमहात्रिपुरसुंदर्याः
योगपीठाय नमः | इति सर्वांगे व्यापकं न्यसेत् || ततो मूलविद्यामुच्चार्य
श्रीमन्महात्रिपुरसुंदरी श्रीपादुकां पू० | प्रति षट्त्रिंशत्तत्वात्मके
निजदेहमये महायोगपीठे निजेष्ठ देवतां हृदिन्यसेत् || इति देहमये पीठे
चिंतयेत् परदेवतां || इति योगपीठ देवता न्यासः ||
अथ श्रीचक्रन्यासः ||
तत्र मूलविद्याया एव ऋष्यादिकरषडंगन्यासान् कृत्वा ध्यानं कुर्यात् ||
प्. ७९ब्)
तद्यथा ||
शरं चिंतयेदादौ निजं श्रीचक्ररूपकं ||
त्वगाद्याकार निर्मुक्तं ज्वलत्कालाग्नि संन्निभं || १ ||
इति स्वशरीरं श्रीचक्ररूपं ध्यात्वा न्यसेत् || तद्यथा || दक्षपादांगुष्ठे
ओं ऐं ह्रीं श्रीं लं इंद्राय नमः || दक्षजानुनि ४ रं अग्नये नमः
दक्षिणपार्श्वे ४ टं यमाय० | दक्षिणांसे ४ क्षं निर्-ऋतये० | वामांसे ४
वं वरुणाय० | वामपार्श्वे ४ यं वायवे नमः | वामजानुनि ४ सं
सोमाय नम० | वामपादांगुष्ठे ४ हं ईशानाय० | ब्रह्मरंध्रे ४ आं
ब्रह्मणे० | मूलाधारे ४ ह्रीं अनंताय नमः | वामजानुनि ४ गं
गणेशाय नमः || वामांसे ४ क्षें क्षेत्रपालाय० | दक्षजानुनि ४ बं
बटुकाय न दक्षांसे ४ यां योगिनीभ्यो नमः | ४ अं आं सौः
त्रैलोक्यमोहन चक्राय नमः || इति सर्वांगे व्यापकत्वेन विन्यस्य ४ बाह्य
चतुरस्ररेखायै नमः | इति च व्यापकं विन्यस्य | दक्षांस पृष्ठे ४
अणिमासिध्यै नमः || दक्षिणकराग्रे ४ लघिमासिध्यै नमः | दक्षिणस्फिचि ४
महिमासिध्यै० | दक्षिणपादाग्रे ४ ईशित्व सिध्यै० | वामपादाग्रे ४
वशित्वसिध्यै० | वामस्फिचिप्राकाम्यसिध्यै० | वामकराग्रे ४ भुक्तिसिध्यै० |
वामांसपृष्ठे ४ इच्छासिध्यै० | पृष्ठवंशे ४ प्राप्तिसिध्यै नम० |
चूडाधः ४ सर्वकामसिध्यै० | इति दशसिद्धिर्विन्यस्य || ४
प्. ८०अ)
चतुरस्रमध्यरेखायै नमः | इति व्यापकं कृत्वा | पादांगुष्ठद्वये | ४
आं ब्राह्मै नमः | दक्षिणपार्श्वे ४ ईं माहेश्वर्यै नमः | मूर्द्ध्नि ४
ऊं कौमार्यै नमः || वामपार्श्वे ४ ॠ वैष्णव्यै नमः | वामजानुनि | ४
ॡं वाराह्यै० | दक्षजानुनि० | ४ ऐं इंद्राण्यै० | दक्षिणांसे ४ औं
चामुंडायै० | वामांसे ४ अः महालक्ष्म्यै० | ततः | ४ अं
तश्चतुरस्ररेखायै नमः || इति व्यापकं कृत्वा | पादांगुष्ठद्वये | ४
द्रां सर्वसंक्षोभिण्यै मुद्रायै० | दक्षपार्श्वे ४ द्रीं सर्वविद्राविण्यै
मुद्रा० | मूर्द्ध्नि ४ क्लीं सर्वाकर्षिण्यै मुद्रा० | वामपार्श्वे ४ ब्लूं
सर्ववश्यायै मु० | वामजानुनि ४ सः सर्वोन्मादिन्यै मु० | दक्षजानुनि ४ क्रों
सर्वमाहांकुशायै मुद्रा० || दक्षांसे ४ हस्रैं हस्क्लीं हस्रौः
सर्वत्रिखंडायै मु० || वामांसे ४ हस्रौं सर्वबीजमुद्रायै० | मूर्द्ध्नि ४
हख्फ्रें सर्वखेचर्यै मु० || पादांगुष्ठद्वये ४ ऐं योनिमुद्रायै नमः |
इति विन्यस्य |
हृदये ४ अं आं सौः | त्रिपुरा चक्रेश्वर्यै नमः | तस्या दक्षिणे ४ अणिमा
सिध्यै० | तस्या वामे ४ द्रां सर्वसंक्षोभिणी मुद्रायै० | इति विन्यस्य |
४ एताः प्रकटयोगिन्यस्त्रैलोक्यमोहन चक्रे समुद्राः स सिद्धयः
प्. ८०ब्)
सायुधाः स वाहनाः स परिवाराः सर्वोपचारैः संपूजिताः संतुष्टाः
संतु नमः | इति व्यापकं न्यसेत् | द्रामिति सर्वसंक्षोभिणी मुद्रां
प्रदर्शयेत् || इति प्रथमावरणन्यासः ||
ततः | ४ ऐं क्लीं सौः सर्वाशापरिपूरकं चक्राय नमः || इति व्यापकं
विन्यस्य | ततः षोडशदलकमल चक्राय नमः | इति व्यापकं विन्यस्य ||
दक्षिण कर्ण पृष्ठे ४ अं कामाकर्षिणी नित्याकलायै नमः | दक्षिणांसे ४
आं बुध्याकर्षिणी नित्याकलायै० | दक्षिणकूर्परे ४ इं अहंकाराकर्षिणी
नित्या कलायै० | दक्षिण करपृष्ठे ४ ईं शब्दाकर्षिणीनित्याकलायै० |
दक्षिणोरौ ४ उं स्पर्शाकर्षिणी नित्याकलायै० | दक्षिण जानुनि ४ ऊं
रूपाकर्षिणी नित्याकलायै दक्षगुल्फे ४ ऋं रसाकर्षिणी नित्याकलायै० |
दक्षिणपादाग्रे ४ ऋं गंधाकर्षिणी नित्याकलायै० | वामपादाग्रे ४ ऌं
चित्ताकर्षिणी नित्याकलायै० | वामगुल्फे ४ ॡं धैर्याकर्षिणी नित्याकलायै० |
वामजानुनि ४ एं स्मृत्याकर्षिणी नित्याकलायै० | वामोरौ ४ ऐं
नामानाकर्षिणीनिकलायै० | वामकरपृष्ठे ४ ओं बीजाकर्षिणी नित्याकलायै० |
वामकूर्परे ४ औं आत्माकर्षिणी नित्याकलायै० |
प्. ८१अ)
वामांसे ४ अं अमृताकर्षिणी नित्याकलायै० | वामकर्णपृष्ठे ४ अः
शरीराकर्षिणी नित्याकलायै० | हृदये ४ ऐं क्लीं सौः त्रिपुरेश्वरी चक्रेश्वर्यै
नमः || तस्याः दक्षे ४ लघिमा सिध्यै नमः | तस्या वामे | ४ द्रीं विद्राविणी
मुद्रायै नमः | इति विन्यस्य | ४ एताः गुप्तयोगिन्यः सर्वाशापरिपूरक चक्रे
समुद्राः ससिद्धयः सायुधाः स वाहनाः स परिवाराः सर्वोपचारैः
संपूजिताः संतुष्टात्यंतु नमः इति व्यापकं न्यसेत् | द्रीमिति
सर्वविद्राविणी मुद्रां प्रदर्शयेत् | इति द्वितीयावरणन्यासः ||
ततः ४ ह्रीं क्लीं सौः सर्वसंक्षोभणचक्राय नमः | तते
अष्टदलकमलाय नमः | इति व्यापकं विन्यस्य | दक्षशंखे ४ कं ४
अनंगकुसुमायै नमः | दक्षजत्रुणि ४ चं ४ अनंगमेखलायै० | दक्षिणोरौ
४ टं ४ अनंगमदनायै० | दक्षिणगुल्फे ४ तं अनंगमदनातुरायै० |
वामगुल्फे ४ पं ४ अनंगरेखायै० | वामोरौ ४ यं ३ अनंगवेगिन्यै न० |
वामजत्रुणि ४ शं ३ अनंगां कुशायै० | वामशंखे ४ लं क्षं
अनंगमालिन्यै नमः | हृदये ४ ह्रीं क्लीं सौः त्रिपुरसुंदरी चक्रेश्वर्यै
नमः |
प्. ८१ब्)
तस्याः दक्षिणे ४ महिमासिध्यै नमः | तस्या वामे ४ क्लीं आकर्षिणी
मुद्रायै नमः || इति विन्यस्य || ४ एताः गुप्ततरयोगिन्यः सर्वसंक्षोभणे चक्रे
समुद्रा इत्यादि व्यापकं कुर्यात् क्लीमित्या कर्षिणी मुद्रां दर्शयेत् || इति
तृतीयावरणन्यासः ||
ततः ४ हैं हकलीं हसौः सर्वसौभाग्यदायकचक्राय नम इति व्यापकं
विन्यस्य | लला दक्षपार्श्वे ४ कं सर्वसंक्षोभिणीशक्त्यै नमः | दक्ष
कपोले ४ खं सर्वविद्राविणी शक्त्यै० | दक्षांसे ४ गं सर्वाकर्षिणी शक्त्यै०
| दक्षपार्श्वे ४ घं सर्वाह्लादीनी शक्त्यै० | दक्षोरौ ४ ऽऽनं सर्वसंमोहिनी
शक्त्यै० | दक्षजंघायां ४ चं सर्वस्तंभिनी शक्त्यै० |
वामजंघायां ४ छं सर्वजंभिनी शक्त्यै० | वामोरौ ४ जं
सर्ववशंकरिणी शक्त्यै० | वामपार्श्वे ४ झं सर्वरंजिनी शक्त्यै० |
वामांत्ये ४ ञं सर्वोन्मादानकारिणीशक्त्यै० | वामकपोले ४ टं
सर्वार्थसाधिनी शक्त्यै० | ललाट वामपार्श्वे ४ ठं सर्वसंपत्प्रपूरिणी
शक्त्यै० | ललाटे ४ डं सर्वमंत्रमयीशक्त्यै० | चूडाधः ४ ढं
सर्वद्वंद्वक्षयंकरी शक्त्यै नमः | इति विन्यस्य | हृदये ४ हैं ह क्लीं
हसौः त्रिपुरवासिनी चक्रेश्वर्यै नमः || तस्या दक्षे ४ ईशित्वशिध्यै नमः |
तस्या वामे | ब्लूं सर्ववस्य मुद्रायै नमः | इति विन्यस्य ४ एताः
संप्रदाययोगिन्यः
प्. ८२अ)
सर्वसौभाग्यदायके चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् | ब्लूं इति
सर्ववश्यमुद्रां प्रदर्शयेत् || इति चतुर्थावरणन्यासः |
ततः ४ हसैं हस्क्लीं हसौः सर्वार्थसाधक चक्राय नम इति व्यापकं
विन्यस्य | ततो बहिर्दशार चक्राय नम इति व्यापकं विन्यस्य | दक्षनेत्रे
४ णं सर्वसिद्धिप्रदादेव्यै नमः || नासामूले ४ तं
सर्वसंपत्प्रदादेव्यै० | वामनेत्रे ४ थं सर्वप्रियंकरी देव्यै० |
वामकुक्षेरुपरि ४ दं सर्वमंगलकारिणी देव्यै० | वामकुक्षेरधः | ४
धं सर्वकामप्रदादेव्यै० | वामजानुनि ४ नं सर्वदुःखविमोचिनी देव्यै० |
दक्षजानुनि ४ पं सर्वमृत्युप्रशमनी देव्यै० | गुदे ४ फं
सर्वविघ्नविनाशिनी देव्यै० दक्षकुक्षेरधः ४ बं सर्वांगसुंदरी देव्यै०
| दक्षकुक्षेरुपरि | ४ भं सर्वसौभाग्यदायिनी देव्यै नमः | इति विन्यस्य०
हृदये ४ हसैं ह्स्क्लीं हसौः त्रिपुराश्रीचक्रेश्वर्यै नमः || तस्या दक्षे ४
वशित्व शिध्यै नमः | तस्या वामे | ४ सः सर्वोन्मादिनी मुद्रायै नमः | इति
विन्यस्य || ४ एताः कुलकौल योगिन्यः सर्वार्थसाधके चक्रे समुद्रा इत्यादि ४
व्यापकं कुर्यात् | सः सर्वोन्मादिनिमुद्रां प्रद० | इति
पंचमावरणन्यासः ||
ततः | ४ ह्रीं क्लीं ब्ले सर्वरक्षाकर चक्राय नमः || ततोंतर्दशारचक्राय
नमः इति व्यापकं विन्यस्य ||
प्. ८२ब्)
दक्षनासापुटे ४ मं सर्वज्ञा देव्यै नमः | दक्षसृक्किणि ४ यं
सर्वशक्तिदेव्यैः | दक्षस्तने ४ रं सर्वैश्वर्य प्रदा देव्यै० | दक्षमुष्के ४
लं सर्वज्ञानमयी देव्यै० | सीवन्यां ४ वं सर्वव्याधिविनाशिनी देव्यै०
वाममुष्के ४ शं सर्वाधारस्वरूपा देव्यै० | वामस्तने ४ षं
सर्वपापहरा देव्यै० | वाम सृक्किणि ४ सं सर्वानंदमयी देव्यै०
वामनासापुटे ४ हं सर्वरक्षास्वरूपिणी देव्यै० | नासाग्रे ४ क्षं
सर्वस्थित फलप्रदादेव्यै नमः | इति विन्यस्य | हृदये ४ ह्रीं क्लीं ब्लें
त्रिपुरा मालिनीचक्रेश्वर्यै नमः | तस्या दक्षिणे | ४ प्राकाम्य सिध्यै नमः |
तस्या वामे क्रों महांकुशा मुद्रायै० | इति विन्यस्य | ४ एताः
निगर्भयोगिन्यः सर्वरक्षाकरे चक्रे समुद्रा इत्यादि व्यापकं कुर्यात् || क्रों
इत्यंकुश मुद्रां प्रदर्शयेदिति षष्ठावरणन्यासः ||
ततः ४ ह्रीं श्रीं सौः सर्वरोगहरचक्राय नमः ततोऽष्टारचक्राय नमः
इति व्यापकं विन्यस्य || चिबुक दक्षपार्श्वे ४ अं आं १४ ब्लूं वशिनी
वाग्देवतायै नमः | कंठ दक्षभागे ४ कं ४ ब्लूं ह्रीं कामेश्वरी
वागदेवतायै० | हृदय दक्षपार्श्वे ४ अं आं १४ ब्लूं वशिनी वाग्देवतायै
नमः | नाभेर्दक्षपार्श्वे ४ टं ४ यलूं विमला वाग्देवतायै० |
नाभेर्वामपार्श्वे ४ तं ४ ज्म्रीं अरुणावाग्देवतायै० |
प्. ८३अ)
हृदयं वामपाश्वे ४ पं ४ हसलव्यूं जयिनी वाग्देवतायै० | कंठ
वामभागे ४ यं ३ झमरयीं सर्वेश्वरी वाग्देवतायै० | चिबुक वामभागे
४ शंक्ष्म्रीं कौलिनी वाग्देवतायै नमः | इति विन्यस्य | हृदये ४ ह्रीं श्रीं
सौः त्रिपुरा सिद्धाचक्रेश्वर्यै० | तस्या दक्षे | ४ भुक्ति सिध्यै० | तस्या वामे ४
हसख्फ्रं खेचरीमुद्रायै नमः | इति विन्यस्य |
४ एता रहस्य योगिन्यः सर्वरोग हरे चक्रे समुद्रा इत्यादिव्यापकं कुर्यात्
हसख्फ्रें इति खेचरी मुद्रां प्रदर्शयेदिति सप्तमावरण न्यासः ||
ततः अंतरालचक्राय नमः | इति व्यापकं विन्यस्य | हृदय त्रिकोणस्य
बहिर्दक्ष वाम वामदक्षेषु ४ द्रां द्रीं क्लीं ब्लूं सः | यां रां लां
वां सां जंभनेभ्यः कामेश्वर कामेरी बाणेभ्यो नमः |
हृदयस्याग्नेये || ४ धं थं मोहनाभ्यां कामेश्वर कामेश्वरी
चापाभ्यां नमः | हृदयस्य ईशानभागे | ४ आ ह्रीं वशीकरणाभ्यां
कामेश्वर कामेश्वरी पाशाभ्यां नमः | हृदय नैर्-ऋत्ये | ४ क्रों क्रों
स्तंभनाभ्यां कामेश्वर कामेश्वर्यं कुशाभ्यां नमः | हृदय
वायव्ये | इति विन्यस्य | ४ हस्रैं हस्लीं हस्रौः सर्वसिद्धिप्रदचक्राय नमः | ४
त्रिकोणचक्राय नमः इति व्यापकं विन्यस्य | त्रिकोणस्याग्रकोणे ४
प्रथकूटमुच्चार्य अग्निचक्रे कामगिरिपीठे मित्रीशनाथात्मिके
जगृद्दशाधिष्ठायके इछाशक्त्यात्मक रुद्रात्मशक्ति श्रीकामेश्वरी देव्यै
नमः |
प्. ८३ब्)
त्रिकोणस्य वामकोणे ४ द्वितीकूटं उच्चार्य सूर्यचक्रे
जालंधरपीठे षष्ठीशनाथात्मिके स्वप्नदशाधिष्ठायके
ज्ञानशक्त्यात्मक विष्णवात्मशक्ति श्रीवज्रेश्वरी देव्यै नमः ||
दक्षकोणे ४ तृतीयकूटमुच्चार्य सोमचक्रे पूर्णगिरिपीठे
उड्डीशनाथात्मिके सुषुप्तिदशाधिष्ठायके क्रियाशक्त्यात्मक
ब्रह्मात्मशक्ति श्रीभगमालिनी देव्यै नमः | इति विन्यस्य | हृदये ४ हस्रैं
हसकलरीं हस्रौः त्रिपुरांबिका चक्रेश्वर्यै नमः | तस्यादक्षे ४ इछा
सिध्यै नमः | तस्या वामे ४ हसौं सर्वबीज मुद्रायै नमः | इति विन्यस्य ४
एताः परापररहस्य योगिन्यः सर्वसिद्धि प्रदे चक्रे समुद्रा इत्यादि व्यापकं
कुर्यात् हसौं इति बीजमुद्रां प्रदर्शयेदिति अष्टावरणन्यासः ||
ततः ४ तुरीयविद्यामुच्चार्य सर्वानंदमयचक्राय नमः | बिंदुचक्राय
नमः | इति व्यापकं विन्यस्य | हृदय त्रिकोणमध्यस्य बिंदुमध्ये ४ तुरीय
विद्यामुच्चार्य ब्रह्मचक्रे महोड्याणपीठे श्रीचर्यानाथात्मिके
तुर्यतुर्ययातीत दशाधिष्ठायके परब्रह्मात्म शक्ति
श्रीमहात्रिपुरसुंदर्यै देव्यै नमः |
प्. ८४अ)
हृदय एव ४ मूलपंचदशीमुच्चार्य श्रीमहात्रिपुरसुंदरी चक्रेश्वर्यै
नमः | तस्या दक्षे ४ प्राप्ति सिध्यै नमः | तस्या वामे | ४ ऐं योनिमुद्रायै
नमः | इति विन्यस्य ४ एषा परापराति रहस्य योगिनीः सर्वानंदमये
महाचक्रे परब्रह्म स्वरूपिणी परामृतशक्तिः सर्वमत्रेश्वरी
सर्वविद्येश्वरी सर्वपीठेश्वरी सर्ववीरेश्वरी सर्वयोगेश्वरि सर्ववागिश्वरि
सर्वसिद्धेश्वरी सकल जगदुत्पत्ति मातृका सचक्रा सदेवता समुद्रा ससिद्धिः
सायुधा सासना सवाहना सपरिवारा सालंकारा सर्वोपचारैः
श्रीमहात्रिपुरसुंदरी परया चापरया परापरया च सपर्यया पूजिताः
संतुष्टास्तु नमः | इति व्यापकं विन्यस्य |
पुनर्हृदय एव मुलमुच्चार्य समस्तचक्रेश्वरी श्रीमहात्रिपुरसुंदर्यै
देव्यै नमः | तस्या दक्षे ४ सर्वकामसिध्यै नमः | तस्या वामे | ४ हस्रैं
हसकल्मी हस्रौः त्रिखंडा मुद्रायै नमः |
प्. ८४ब्)
इति हृदय एव विन्यस्य ऐं योनिमुद्रां प्रदर्शयेत् | हृदय त्रिकोण एवाग्रादि
वामावर्त्तेन प्रवत्रितारादि चतुर्थी नमों तत्तत्तन्नित्या नामां
तत्तत्तन्नित्या विद्यया नित्याषोडशकं विन्यस्य हृदय त्रिकोणस्य पृष्ठभागे
रेखात्रयं विभाव्य तत्र पूजा प्रकरणे वक्ष्यमाणं गुरुपंक्ति त्रयं
न्यसेत् | ततो हृदय त्रिकोणस्याष्ट कोणस्य चांतरालेषु पूजा प्रकरणे
वक्ष्यमाण प्रकारेण षडंग युवतिर्विन्यस्य बिंदुचक्रमध्ये
वक्ष्यमाण प्रकारेण पंचपंचक देवताः विन्यस्य दक्षांसपृष्ठ
तत्कर्ण पृष्ठ तछंख तद्भाल तद्दक्षिनासापुटचिबुक हृदयावधि
च षट्दर्शण देवता विन्यस्य बिंदुचक्र एव वक्ष्यमाण प्रकारेण
चतुःसमय देवताः विन्यस्य तुरीय विद्यया सर्वांगे व्यापकं विन्य * ततो
मूलविद्यामुच्चार्य महोड्यानपीठनिलय सर्वचक्रेश्वरी ध्यात पंच
श्रीपंचकोश पंचकल्पलता पंचकामदुघा पंचरत्न
वृंदमंडितासन संस्थित सर्वदर्शनशेवित षडंग युवतीस्तुत
चतुःसमय देवता पूजित महासौभाग्य जनन महामोक्षप्रद
शून्याशून्य विवर्जित सशक्ति सच्चिदानंद परब्रह्म
श्रीमन्महात्रिपुरसुंदरी श्रीपादुकायै नम
प्. ८५अ)
इति मूर्द्धादि पादपर्यंतं त्रिर्व्यापकं न्यसेत् | ततो ब्रह्मरंध्रे
स्वगुरुपादुका विन्यस्य मूलाधारे स्वगुरु कृत स्वनाम विन्यस्य तत्रैव
महाकामकला ध्यानं कुर्यात् || इति संहार श्रीचक्रन्यासः ||
अथ सृष्टि श्रीचक्रन्यासः ||
तत्र शिरसि ४ त्रिकोणं विभाव्य | ओं ऐं ह्रीं श्रीं तुरीयविद्यामुच्चार्य |
सर्वानंदमय महाचक्राय नमः | बिंदुचक्राय नमः || इति व्यापकं
विन्यस्य |
तत्र शिरस्त्रिकोणस्थ महाबिंदौ तुरीयविद्यामुच्चार्य ब्रह्मचक्रे
श्रीमहोड्याणपीठे इत्यादि पूर्ववद्विन्यस्य | भ्रूमध्ये मूलविद्याच्चार्य
प्राग्वत् तामेव चक्रेश्वरीं विन्यस्य तद्दक्षिण वामपार्श्वयोः प्राप्ति
सिद्धिं सर्वकामसिद्धिं योनिमुद्रां त्रिखंडा मुद्रां प्राग्वत् विन्यस्य ४
एषा परापराति रहस्य योगिनीः सर्वानंदमये महाचक्रे इत्यादि प्राग्वत्
व्यापकं विन्यसेत् ऐं योनि मुद्रां द० इति बिंदुचक्रन्यासः ||
ततः शिरस्त्रिकोणस्य पृष्ठभागे रेखात्रयं विभाव्य तत्र पूजा
प्रकरणं वक्षमाण गुरुपंक्ति त्रयं न्यस्येत् | ततो
मातृकायाः षोडशस्वरन्यासस्थानेषु प्रणव त्रितारादि चतुर्थी नमों
तत्तत्तन्नित्या नामांत
प्. ८५ब्)
तया तत्तन्नित्या विद्यया नित्या षोडशकं विन्यस्य ४ हस्रैं हसकलरीं
हस्रौः सर्वसिद्धिप्रदचक्राय नमः | अंतरालचक्राय नमः || इति व्यापकं
विन्यस्य | त्रिकोणाष्टकोणयोरंतरालबुध्या प्रागुक्ता आयुध देवत्य न्यसेत् |
तद्यथा || दक्षनेत्रे | ४ द्रां द्रीं क्लीं ब्लूं सः जंभनेभ्यः
कामेश्वर बाणेभ्यो नमः || वामने यां रां लां वां सां
जंभनेभ्यः कामेश्वरी बाणेभ्यो नमः | दक्षभ्रुवि ४ धं मोहनाय
कामेश्वर चापाय नमः | वामभ्रुवि ४ थं मोहनाय कामेश्वरी चापा
नमः | दक्ष कर्णे ४ आं वशीकरणाय कामेश्वर पाशाय नमः |
वामकर्णे ४ ह्रीं वशीकरणाय कामेश्वरी पाशाय नमः ||
दक्षनासायां ४ क्रों स्तंभनाय कामेश्वरां कुशाय नमः |
वामनासायां ४ क्रों स्तंभनाय कामेश्वर्यं कुशाय नमः |
इत्यायुध देवताः विन्यस्य त्रिकोणस्य कोणत्रये पूर्वोक्त कामेश्वर्यादि देवी
त्रयं प्राग्वद्विन्यस्य | हृदये प्राग्वत् त्रिपुरांबिका चक्रेश्वरीं विन्यस्य
तद्वक्ष वामयोरिछासिद्धिं बीजमुद्रां च विन्यस्य ४ एताः परापर रहस्य
योगिन्यः सर्वसिद्धिप्रदे चक्रे समुद्रा इत्यादि व्यापक कुर्यात् | २ ततः ४ ह्रीं
श्रीं सौः सर्वरोग हर चक्राय नमः | अष्टारचक्राय नमः || इति व्यापकं
विन्यस्य |
प्. ८६अ)
शिरःपुरोभागमारभ्य मुंडमाला क्रमेणष्टसु स्थानेषु पूर्वोक्त
वशिन्यादि वाग्वे देवताष्टकं विन्यस्य || मणिपूरक चक्रे पूर्वोक्तां
त्रिपुरा सिद्धा चक्रेश्वरी विन्यस्य तदक्ष वामयोर्भुक्ति सिद्धिं खेचरी
मुद्रां च विन्यस्य | ४ एताः रहस्य योगिन्यः सर्वरोग हरे चक्रे समुद्रा इत्यादि
व्यापकं न्यसेत् | २
ततः ४ ह्रीं क्लीं ब्लें सर्वरक्षाकर चक्राय नमः | इति व्यापकं विन्यस्य |
दक्षनेत्र मूल तदपांग दक्षश्रोत्र तत्पृष्ठ चूडा कूपस्य
दक्षपार्श्व वामपार्श्व वामश्रोत्रपृष्ठ वामश्रोत्र वामापांग
वामनेत्र मूलेषु दसुस्थानेषु प्रागुक्त सर्वज्ञादि दशशक्तिर्विन्यस्य |
स्वाधिष्ठाने चक्रे पूर्वोक्तां | त्रिपुरमालिनीं चक्रेश्वरीं विन्यस्य तदक्ष
वामयोः प्राक्राम्य सिद्धिं महांकुशा मुद्रां च प्राग्वद्विन्यस्य ४
एतानि गर्भ योगिन्यः सर्वरक्षाकरे चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् ४
ततः ४ हसैं हस्क्लीं हसौः इति व्यापकं विन्यस्य | कंठे विशुद्धि
चक्रे षोडश दलेषु एकस्मिन्नेकाशक्तिः त्रये दलेप्येकाशक्तिः इत्येवं क्रमे
सप्तमी शक्ति पर्यंतं विन्यस्यावशिष्टदलत्रये शेषशक्ति
प्. ८६ब्)
त्रयं न्यसेदिति प्रादक्षिण्येन सर्वसिद्धि प्रदादि दशशक्तीर्विन्यस्य |
मूलाधारे त्रिपुराचक्रेश्वरीं प्राग्वद्विन्यस्य तदक्ष वामयोर्वशित्व
सिद्धिमुन्मादिनी मुद्रां च प्राग्वद्विन्यस्य ४ एताः कुलकौलयोगिन्यः
सर्वार्थ साधक चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् | ४ हैं हक्लीं हसौः
सर्वसौभाग्यदायक चक्राय नमः | इति व्यापकं विन्यस्य |
हृदय अनाहत चक्रे द्वादशदलकमले दशदलेषु सर्वसंक्षोभण्यादि
दशशक्तिर्विन्यस्यांतिमदल द्वये प्रतिदलं शक्ति द्वयं शक्ति द्वयमिति
शिष्टशक्ति चतुष्टयं न्यसेदिति चतुर्दशशक्तिर्विन्यस्य | ऊतद्वये पूर्वोक्तां
त्रिपुरवासिनीं चक्रेश्वरीं प्राग्वद्विन्यस्य तद्दक्षवामयोरीशित्वसिद्धिं
वश्यमुद्रां च प्राग्वद्विन्यस्य ४ एताः संप्रदाय योगिन्यः
सर्वसौभाग्यदायक चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् || ४ ततः ह्रीं
क्लीं सौः सर्वसंक्षोभण चक्राय नमः इति व्यापकं विन्यस्य |
पृष्ठवंश वामपार्श्वोदरयोर्मध्ये उदर दक्षिण पार्श्वेषु (र्मध्य
दक्षिण पार्श्वपृष्ठवंशयोर्मध्ये) चतुष्ट स्थानेषु पूर्वोक्तानंग
कुसुमाद्याश्चतुःशाक्तीर्विन्यस्य पृष्ठवामपार्श्वयोर्मध्ये
वामपार्श्वोदरयोर्मध्य उदर दक्षिण पार्श्वयोर्मध्ये दक्षिणपार्श्व
प्. ८७अ)
पृष्ठवंशयोर्मध्ये च स्थानचतुष्टये अनंगरेखादि चतुःशक्तीर्विन्यस्य
| जानुद्वये पूर्वोक्तां त्रिपुरसुंदरीं चक्रेश्वरीं पूर्ववद्विन्यस्य
तद्दक्षवामपार्श्वयोर्महिमासिद्धिं आकर्षणी मुद्रां च विन्यस्य ४ एताः
गुप्ततर योगिन्यः सर्वसंक्षोभकरे चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् || ९
ततः ४ ऐं क्लीं सौः सर्वाशापरिपूरकचक्राय नमः इति व्यापकं विन्यस्य
| स्वाधिष्ठाने षट्दलकमले स्वाग्रादि प्रादक्षिण्येन पंचसु दलेषु
प्रतिदलं शक्ति त्रयमंतिमदले त्वेकां शक्तिमिति
कामाकर्षिण्यादि षोडशशक्तीर्विन्यस्य | जंघयोः पूर्वोक्तां
त्रिपुरेश्वरीं विन्य * तद्दक्ष वामयोर्लघिमासिद्धिं द्राविणी मुद्रां च
विन्यस्य ४ एताः गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्रा इत्यादि
व्यापकं न्यसेत् | ८ | ततः ४ अं आं सौः त्रैलोक्य मोहचक्रायः | इति व्यापकं
विन्यस्य | अंतश्चतुरस्र रेखायै नम इति व्यापकं विन्यस्य || मूलाधारे
चतुर्दल कमलस्य दलचतुष्टये तदंतराल चतुष्टये च
पूर्वदलेशानांतरालयोर्मध्ये पश्चिमदले नैर्-ऋत्यंतरालयोर्मध्ये च
पूर्वोक्त सर्वसंक्षोभण्यादि मुद्रादशकं न्यसेत् |
प्. ८७ब्)
ततः ४ चतुरस्र मध्यरेखायै नम इति व्यापकं विन्यस्य | दक्षजंघायां
दिग्विदि क्रमेण पूर्वोक्ता ब्राह्म्याद्यष्टशक्तीर्न्यसेत् | ततः ४ बाह्य
चतुरस्ररेखायै नम इति व्यापकं विन्यस्य | वामजंघायां दिग्विदि
क्रमेण पूर्वोक्ताणिमादि सिध्यष्टकं विन्यस्य | दक्षपादे प्राप्ति सिद्धिं
वामपादे सर्वकामसिद्धिं च विन्यस्य | पादद्वये प्राग्वत् त्रिपुरा
चक्रेश्वरीं विन्यस्य तद्दक्षवामयोरणिमासिद्धिं सर्वसंक्षोभिणी
मुद्रां च विन्यस्य ४ एताः प्रकट योगिन्यः त्रैलोक्य मोहने चक्रे समुद्रा
इत्यादि व्यापकं विन्यस्य सरश्मिक श्रीमहात्रिपुरसुंदर्य भेदेन
स्वात्मानं ध्यायेत् || इति सृष्टि श्रीचक्रन्यासः ||
अथ स्थिति श्रीचक्रन्यासः ||
स च विद्याचक्र चक्रेश्वरीत्यंग त्रयात्मकः | तत्र प्रथमं संप्रदायात्
पूर्ववत् करशुद्धि विद्यया अं आं सौः करशुद्धिं विधाय तथैवतां
विन्यस्य तथैव ह्रीं क्लीं सौः आत्मरक्षां कृत्वा न्यासमारभेत् | तत्रादौ
त्रिर्विध मूलविद्यान्यासः | स यथा || मूर्द्ध्नि ४ प्रथमकूटं नमः |
गुह्ये ४ द्वितीय कूटं नमः || हृदये ४ तृतीय कूटं नमः | दक्षनेत्रे ४
प्रथम कू० | वामनेत्रे ४ द्वितीय कू० | भाले ४ तृतीय कू० | दक्षकर्णे ४ प्र०
कू० |
प्. ८८अ)
वामकर्णे ४ द्वि० कू० | मुखे ४ तृ० कु० | दक्षांसे ४ प्र० कू० | वामांसे ४
द्वि० | कू० | पृष्ठे ४ तृती० | कू० | दक्षजानुनि ४ प्र० | कू० | वामजानुनि ४ द्विती०
| कू० | नाभौ ४ तृ० कू० | नमः | इति मूलविद्या कूटन्यासः || मूर्द्ध्नि ४
कं नमः | गुह्यै ४ एं नमः | हृदये ४ ईं दक्षनेत्रे लं० | ४ वामनेत्रे ४
ह्रीं नमः | भालनेत्रे ४ हं नमः || दक्षकर्णे ४ सं नमः वामकर्णे ४
कं नमः | मुखे ४ हं नमः | दक्षभुजे ४ लं नमः | वामभुजे ४ ह्रीं
नमः | पृष्ठे ४ सं नमः | दक्षजानुनि ४ कं नमः | वामजानुनी ४ लं
नमः | नाभौ ४ ह्रीं नमः | इत्यक्षरन्यासः | समस्त मूलविद्यां
प्रणवतारादि नमोंतां मूर्द्धादि नाभ्यंत पंचदश पूर्वोक्तेषु
प्रत्येकं २ न्यसेदिति त्रिविधः | पादयोः ४ अं आं सौः नमः | जंघयोः ४
ऐं क्लीं सौः नमः | जन्वोः ४ ह्रीं क्ली सौः नमः | उर्वोः ४ हैं हस्क्लीं
हसौः नमः | स्पिच्योः ४ हसैं हस्क्लीं हसौः नमः | लिंगाग्रे ४ ह्रीं क्लीं
ब्लें नमः | मूलाधारे ४ ह्रीं श्रीं सौः | नमः | इति मूर्तिविद्यां विन्यस्य
| २ हं क्ली २ अनाहते वा हस्रैं हस्क्लीं हस्रौः नम इत्या वाहनी वीद्यां
विन्य * | ४ हसकलरडैं हसकलरडीं हसकलरडौः नमः |
ब्रह्मरंध्रे |
ततो ४ मूलविद्याया मूर्द्धादि पादांतं पादादि हृदयांतं च
व्यापकं न्यसेत् || ततो मूलाधारे ४ ऐं क्लीं सौः |
प्. ८८ब्)
सर्वाशापरिपूरक चक्राय नमः स्वाधि ४ ष्ठाने | ४ ह्रीं क्लीं सौः |
सर्वसंक्षोभणचक्राय नमः || मणिपूरके ४ ४ है हक्लीं हसौः
सर्वसौभाग्यदायक चक्राय नमः || अनाहते ४ हसैं हस्क्लीं हसौः
सर्वार्थसाधक चक्राय नमः || विशुद्धिचक्रे ४ ह्रीं क्लीं ब्लें
सर्वरक्षारचक्राय नमः | लंबिकाग्रे ४ ह्रीं श्रीं सौः
सर्वरोगहरचक्राय नमः | आज्ञाया ४ हस्रैं हस्क्लीं हस्रौः
सर्वसिद्धिप्रद चक्राय नमः | बिंदौ ४ मूल पंचदशाक्षरीमुच्चार्य
सर्वानंदमय श्रीमहाचक्राय नमः || इति नवचक्राणि विन्यस्य
नवचक्रेश्वरी न्यासं कुर्यात् ||
तत्र मूलाधाराधः प्राक् न्यस्तत्रैलोक्य मोहनचक्रे ४ अं आं सौः
त्रिपुराचक्रेश्वर्यै नमः | मूलाधारस्थ सर्वाशापरिपूरकचक्रे ४ ऐं
क्लीं सौः त्रिपुरेश्वरी चक्रेश्वर्यै नमः | स्वाधिष्ठान स्थित
सर्वसंक्षोभण चक्रे ४ ह्रीं क्लीं सौः | त्रिपुरसुंदरी चक्रेश्वर्यै नमः |
मणिपूर स्थित सर्वसौभाग्यदायक चक्रे ४ है हक्लीं हसौः | त्रिपुरवासिनी
चक्रेश्वर्यै नमः || अनाहतस्थ सर्वार्थसाधकचक्रे ४ हसौं हस्क्लीं
हसौः त्रिपुरा श्रीचक्रेश्वर्यै नमः | विशुद्धि स्थित सर्वरक्षाकर चक्रे ४
ह्रीं क्लीं ब्लें त्रिपुरमालिनीचक्रेश्वर्यै नमः ||
प्. ८९अ)
लंबिकाग्र स्थित सर्वरोगहर चक्रे ४ ह्रीं श्रीं सौः त्रिपुरा सिद्धा
चक्रेश्वर्यै नमः || आज्ञा चक्रस्थ सर्वसिद्धि प्रदचक्रे ४ हस्रैं
हसकलरीं हस्रौः त्रिपुरांबिका चक्रेश्वर्यै नमः | महाबिंदुस्थ
बिंदुचक्रे ४ मुल पंचदशाक्षरीमुच्चार्य महात्रिपुरसुंदरी
महाचक्रेश्वरी श्रीपादुकायै नमः || इति विन्य तत्तच्चक्रं
परस्परसंलग्नं तत्तच्चक्रेश्वर्यधिष्ठितं सम्यक् ध्यात्वा पुनः
करशुद्धि विधाय त्रिपुरसुंदर्यात्म रक्षां कृत्वा पूर्वोक्त षडंगं
विन्यस्य ४ वाग्भवं मूलाधारे ४ कामराजं हृदये ४ तृतीयं भ्रूमध्ये
४ तुरीय विद्यां ब्रह्मरंध्रे च विन्यस्य ४ समस्त प्रकट गुप्त गुप्ततर
संप्रदाय कुलकौलनिगर्भरहस्य परापर रहस्य परापराति रहस्य
श्रीचक्र योगिनी श्रीपादुकाभ्यो नम इति स्वशरीरं श्रीचक्ररूपं ध्यायन् |
व्यापकं कुर्यात् || इति श्री स्थिति श्रीचक्रन्यासः ||
अथ श्रीचक्रन्यासफलं ||
तत्र रुद्रयामले ||
य एवं विन्यसेद्देहे साधक स्थिर मानसः |
विमुच्य मानुषं भावं ससद्यः शिवतां व्रजेत् || १ ||
त्रिकालं धारयेद् यस्तु तस्य सर्वांगसंगतं ||
सततं भासते देवि समस्तं योगिनी पदं || २ ||
प्. ८९ब्)
धरणी क्षेत्रतां याति यावद् द्वादशयोजनं ||
एतत्ते कथितं भद्रे न्यासं त्रैलोक्य दुर्लभं || ३ ||
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् |
भ्रष्टेभ्यः साधकेभ्यो वा बांधवेभ्यो न दर्शयेत् || ४ ||
दत्तं चेत्सिद्धि हानिः स्यादित्याज्ञा शांकरी मता ||
मंत्राः पराऽऽन्मुखायांति क्रुद्धा भवति सुंदरी || ५ ||
अशुभं च भवेत् तस्य तस्माद्यत्नेन गोपयेत् ||
इति त्रिविध श्रीचक्रन्यासः ||
श्रीविद्यानंदनाथेन शिवयों प्रियसूनुना ||
कृते सौभाग्यरत्नाब्धौ तरंगः सप्तमो गमत् || १ ||
इति श्रीसच्चिदानंदनाथाचरणारंविंदद्वद्वांते वाशिना
श्रीश्रीविद्यानंदनाथेनविरचिते सौभाग्यरत्नाकरे सप्तमस्तरंगः || ७ ||
अथ करशुद्ध्यादिन्यासः ||
तत्र प्रथमं प्रागुक्त प्रथम चक्रेश्वरी विद्यया प्राग्वत् करयोः स्थिति
क्रमेण मध्यमादितलांतं विन्यस्यासनं न्यासं कुर्यात् || स च द्विविधः
|| चतुरासन न्यासः षडासन न्यासश्चेति || तत्रादौ चतुरासनन्यासः ||
सयथा || पादयोः ४ ह्रीं क्लीं सौः त्रिपुरसुंदरी देव्यात्मासनाय नमः |
प्. ९०अ)
जंघयोः ४ हैं हक्लीं हसौः त्रिपुरावासिनी सर्वचक्रासनाय नमः ||
जान्वोः ४ हसैं हसकलीं हसौः त्रिपुरा सर्वमंत्रासनाय नमः ||
मूलाधारे ४ ह्रीं क्लीं ब्लें त्रिपुरमालिनी साध्यसिद्धासनाय नमः || इति
चतुरासनन्यासः ||
अथ षडासनन्यासः ||
तत्र पादयोः | ४ अं आं सौः त्रिपुरासुधार्णवासनाय नमः | जान्वोः | ४ एं क्लीं
सौः त्रिपुरेश्वरी योतांबुजासनाय नमः || ऊर्वोः | ४ ह्रीं क्लीं सौः
त्रिपुरसुंदरी देव्यात्मासनाय नमः || स्फिच्योः || ४ हैं हक्लीं हसौः
त्रिपुरवासिनी सर्वचक्रासनाय नमः || गुदे ४ हसैं हस्क्लीं हसौः त्रिपुरा
श्रीसर्वमंत्रासनाय नमः || मूलाधारे ४ ह्रीं क्लीं ब्लें त्रिपुरमालिनी
साध्यसिद्धासनाय नमः | इति षडासनन्यासः |
अथ षडंगन्यासः ||
स च त्रिविधः | रक्षाषडंगन्यासो मूलविद्या षडंगन्यासः षडंग
युवतीन्यासश्चेति || तत्रादौ रक्षाषडंगन्यासः || स यथा || ४ एं क्लीं सौः
नमस्त्रिपुरसुंदरी मां रक्ष रक्ष हृदयाय नमः | एवं षडंगेषु
तत्तन्मुद्रया सहतत्तन्मंत्रेण सह न्यसेत् ||
अथ मूल षडंगन्यासः |
स च मूल कूटत्रयस्य द्विरावृत्या षडंगस्थानेषु प्राग्वन्यासो ज्ञेयः ||
प्. ९०ब्)
षोडशार्णो पासकैस्तु आद्यबीज पंचकेन हृदयं | तदुत्तर बीज त्रयेण
शिरः | तदूर्ध्वगत कूटत्रयेण शिखादि नेत्रांतमंगत्रयं || अंतिम
बीजपंचकेनास्त्रमिति मूल षडंगन्यासः कार्यः ||
अथ षडंगयुवतीन्यासः ||
स च द्विविधः | बालामूल विद्ययोर्योग भेदात् || तत्रादौ बालायोगन्यासः |
तत्र ४ एं सर्वज्ञायै हृदयाय नमः | ४ क्लीं नित्यतृप्तायै शिरसे स्वाहा || ४
सौः अनादिबोधायै शिखायै वषट् | ४ एं स्वतंत्रायै कवचाय हुं || ४ क्लीं
नित्यमलुप्तायै नेत्रत्रयाय वौषट् षट् || ४ सौः अंनंतायै अस्त्राय फट् |
अथ मूल षडंग युवतीन्यासः ||
तत्र ४ प्रथमकूटं श्रीमहात्रिपुरसुंदरि सर्वज्ञता शक्तिधाम्ने
हृदयाय नमः | ४ द्वितीय कूटं श्रीमहात्रिपुरसुंदरि नित्यतृप्ति
शक्तिधाम्ने शिरसे स्वाहा || ४ तृतीय कूटं श्रीमहात्रिपुरसुंदरि अनादि
बोध शक्ति धाम्ने शिखायै वषट् | ४ पुनराद्यं कूटं
श्रीमहात्रिपुरसुंदरी स्वतंत्रशक्तिधाम्ने कवचाय हं || ४ द्वितीय
कूटं | श्रीमहात्रिपुरसुंदरि नित्यमलुप्त शक्तिधाम्ने नेत्रत्रयाय वौषट् ४
तृतीय कूटं श्रीमहात्रिपुरसुंदरि अनंतशक्ति धाम्ने अस्त्राय फट् ||
प्. ९१अ)
इति षडंग युवतीन्यासः ||
अथ कामकलापारंपर्यन्यासः ||
तत्र प्रथमं प्राग्वत् स्वशिरसि गुरु पादुकां ध्यात्वा संपूज्य प्रणम्य
दक्षांसे ४ प्रथम कूटं हंसः प्रकाशचरणाभ्यां नमः ||
वामांसे ४ द्वितीय कूटं सोहं विमर्श चरणाभ्यां नमः | हृदये ४
तृतीय कूटं हंसः सोहं प्रकाशविमर्शचरणाभ्यां नमः ||
मूर्द्ध्नि ४ तुरीय विद्यामुच्चार्य हंसः शिवः सोहं निर्वाण
चरणाभ्यां नमः || इति कृतांजलिश्चरण चतुष्टयं प्रणम्य ||
कामकलापारंपर्यन्यासस्य | ४ कामेश्वर ऋषिः ४ पंक्तिछंदः ४
परसंवित्कला श्रीमहात्रिपुरसुंदरी देवता० श्रीपरदेवता प्रसाद
सिध्यर्थे विनियोगः | इति ऋष्यादिकं स्मृत्वा विन्यस्य | ४
आमित्यादि षट्दीर्घस्वरैः करषडंगन्यासं कृत्वा प्रणवसंपुटितया
कामकलारूपया श्रीमूलविद्यव्यापकं विन्यस्य ध्यानं कुर्यात् ||
तद्यथा ||
प्रकाश मध्य स्थित विश्वरूपां
वराभये संदधतीं त्रिनेत्रां ||
सिंदूर वार्णामति कोमलांगीं
मायामयीं तत्वमयीमुपासे || १ ||
इति ध्यात्वा मूलादि ब्रह्मरंध्रांतं श्रीमूल पंचदशाक्षरी प्रागुक्त
रूपां ध्यात्वा तस्या एकैकाक्षरलयेन तुर्यस्वर रूपामंतिमकलां
प्. ९१ब्)
ब्रह्मरंध्रगतामवशेषयेत् | ततस्तामेव पंचदशाक्षर गर्भां
स्वात्मानुभवरूप सच्चिदानंदरूपिणीं तुर्यस्वरत्वेन परिणतां
कामकलां नाभौ ध्यायन्न्यसेत् || तत्र नाभौ ४ ईं नमः | इत्यंगुष्ठ
तर्जनी मध्यमा नामाभिर्न्यसेत् | ततो नाभेर्वामपार्श्वे ४ सच्चिदानंद
परमसंवित् ईं नमः | नाभेर्दक्षे ४ सच्चिदानंद परमसंवित् ईं नमः |
इत्येतद्वयं मध्यमानामांगुष्ठैर्न्यसेत् || ततश्चरण चतुष्टयं
न्यासः | तत्र शिरसि त्रिकोणस्याग्रकोणे ४ ईं प्रथम कूटं हंसः
प्रकाशचरणाभ्यां नमः | वामकोणे ४ ईं द्वितीय कूटं सोहं
विमर्शचरणाभ्यां नमः | दक्षणे कोणे ४ तृतीय कूटं हंसः सोहं
प्रकाशविमर्श चरणाभ्यां नमः | मध्ये ४ तुर्यविद्यामुच्चार्य हंसः
शिवः सोहं निर्वाणचरणाभ्यां नमः || इति चरण चतुष्टयं
शिवशक्त्यात्मक दक्षिणवामकर धृतसंघट मुद्रया विन्य ततस्त्रिकोण
पृष्ठरेखायां ४ सकलानंदनाथ श्रीपादुकां पूजयामि नमः | ४
निष्कलांनंदनाथ श्रीपादुकां पूजयामि नमः | ४
नवात्मानंदनाथ श्रीपादुकां पूजयामि ४ अकूरानंदनाथ
श्रीपादुकां पू० | इति गुरु चतुष्टयं पंक्ति क्रमेण स्वदक्षिणादि
वामांतं विन्यस्य | शिरस्त्रिकोण मध्ये ४ ईं परमसंवित्कला
श्रीमहात्रिपुरसुंदरी श्रीपादुकां पू० | मुखमंडले ४ ईं सपरार्द्ध
कलानंदनाथोर्ध्व बिंदुवक्राय नमः |
प्. ९२अ)
स्तनद्वये ४ ईं सपरार्द्ध कलानंदनाथाधो बिंदुद्वयस्तनाय नमः ||
इत्येतद्वयमंगुष्ठमध्यमानामिकाभिर्विन्यस्य | योनिस्थाने ४ ईं
सपरार्द्ध कलानंदनाथ व्यंजितरेखा योनये नमः || इति
योनिमुद्रयान्यसेत् ||
ततः प्रागुक्त ऋष्यान्यासान् षडंग कर ऋष्यादि क्रमेण वैपरीत्येन
प्रथमं षडंगन्यासः पश्चात् करन्यासः पश्चादृष्यादिरिति विन्यस्य
पूरोक्त भगवती रूपं स्वात्मानं ध्यात्वा यथाशक्ति वामकला विद्यां
जपेदिति कामकला पारंपर्य न्यासः |
अथांतः कामकलान्यासः ||
स च परापश्यंती मध्यमा वैखरी भेदाच्चतुर्विधः | तत्रादौ
परान्यासः | स यथा || ब्रह्मरंध्रे अरुणाधो मुख
सहस्रदलकमलकर्णिकायामरुणं पूर्णचंद्रमंडलं विभाव्य
तन्मध्ये उद्यदादित्य संकाशं स्वशिखा मूलाग्रं शृंगाटं
ध्यात्वा तदंतर्गतमकथादि क्रमेण समस्ताक्षरमयमकुलासनं
वाग्भवं ध्यात्वा तन्मध्ये हक्ष पाश्वमादि वर्णकदंबकं
दीप्तमवर्ण रूपमनुत्तर मनत्कंतरहात्मकं विचिंत्य
तन्मध्यादुद्यंतीं बिसतंतु निभांसितां हार्द्ध कला रूपिणीमकुल
कुंडलिनीं मूल शृंगाटक
प्. ९२ब्)
मध्य पर्यंतमछिन्नां महाकामकलाममृतकुंडलिनीं ध्यात्वा
मुलाधारे चतुर्दल कमल कर्णिकायामपि वह्नि मंडले
त्रिकोणस्याग्रकोणाग्रं पूर्ववत् शृगाटं ध्यात्वा तदंतः
पूर्ववद्वाग्भवं कुलासनं विभाव्य तत्र पूर्वोक्त मनत्कं विविंत्य
तन्मध्यादुघंतीं सपरार्द्ध कलामयीमग्निकुंडलिनीं कामकलां
ज्वलदग्निनिभां मध्यमार्गं प्रविश्य ग्रंथि संचयं भित्वा तद कुल
पदावध्यूर्द्धं प्राप्तां ध्यात्वा अकुलां बुधि मध्यगत
दंडाकारतरदंडलींगेन प्रवेशयित्वा तयोरमृतानल
कुंडलिंन्योर्योनिलिंगरूपयोर्मथनसंभवैर्निरंतरनिबिडस्रवदरुणा-
मृतपूरैरात्मानं सिक्तं ध्यात्वा पूरयित्वा तयोः
सामरस्यादेकनादरूपिणीं परांशक्ति आत्मानं च भावयेत् || इति
परान्यासः || तरल क्षणं तु भैरवयामले ||
तरस्थंतरमध्यस्थंतरस्थतरमध्यगं ||
तरंतरंडमध्यस्थं योजानाति सकैलिकः || १ ||
शीर्षपाणि चरणैर्विवर्जितं ह्यक्षरं भवरुजापहं परं ||
यस्य हृत्कुहरगं सुवर्तत्ते तेन मृत्युरपि भस्मसात्कृतः || २ ||
प्. ९३अ)
शैवं चैव तथा शाक्तं सामरस्यं तु मध्यमं ||
एकीभूतं यदा काले तदा तद्वर्णमुत्तमं || ३ ||
शून्यात्प्रसरमुत्पन्नं प्रसरोत्थमकालकं ||
अकालात्तत्वमुत्पन्नं विश्वं यत् पंचधा स्थितं || ४ ||
ध्यान स्थान विहीनो यो रूपोच्चारविवर्जितः ||
अनाहतो नदत्यंतर्मुखान्मुख पदे स्थितः || ५ ||
धाम त्रयाद्विरहितो योगेशीनां मुखे स्थितः |
सत्यं तु कथितं ताभिः स्वयं मुच्चरते तु सः || ६ ||
शून्या छंभुस्ततः शक्तिः शक्तेर्धाम त्रयात्मकं ||
प्रभवेच्च ततः सर्वमादिवर्णकदंबकं || ७ ||
अनुत्तरं तदेवोक्तं सद्यः कौलिक सिद्धिदं ||
तरहं च तदेवस्याच्चंद्रमास्कर मध्यगं || ८ ||
तकारः सोमधामस्याद्यो रेफः स तु भास्करः |
दंडवद्रमते वह्निरेकीभूतं तदात्मक || ९ || इति ||
अथ पश्यंती न्यासः ||
तत्र प्रागुक्ताकुलपद्मे ब्रह्मरंध्रे ब्रह्मरसभरितमाद्यवर्ण
कदंबकं ध्यात्वा तत्सामरस्यादेकादशरूपं पश्यंती रसभरितं
स्मृत्वा न्यसेत् ||
तत्र शिरसि स्वाभिमुखाग्रं त्रिकोणं विभाव्य तस्य अग्रादि वामावर्तेन
वामरेखाग्रादि दक्षिणरेखाग्रपर्यंतं त्रिकं पंचकं ||
प्. ९३ब्)
इति क्रमेण वामाद्येकादश कलान्यसेत् || तद्यथा || ४ वामायै नमः || ४
ज्येष्ठायै नमः | ४ रौद्र्यै नमः || इति वामरेखायां || ४ अंबिकायै नमः |
४ इछायै नमः | ४ ज्ञानायै नमः | ४ क्रियायै नमः || ४ शांतायै नमः |
इति पृष्ठरेखायां || ४ अकारात्मिकायै नमः | हकारात्मिकायै नमः |
अहरसात्मिकायै नमः | इति दक्षिणरेखायां न्यसेत् | इति पश्यती न्यासः |
अथ मध्यमा न्यासः ||
स च द्विविधः | सूक्ष्मस्थूल भेदात् || तत्र ब्रह्मरंध्रे ४ अनत्कात्मने
अविकृतनादाय नमः || ललाटे ४ अकारात्मने शून्यनादाय नमः ||
आज्ञाचक्रे ४ अं बिंदुद्वयात्मन स्पर्शनादाय नमः || लंबिकाग्रे
४ षट्कोणात्मने नादनादाय नमः || विशुद्धौ ४ अर्द्धचंद्रात्मने
ध्वनिनादाय नमः || हृदये ४ वृत्तात्मने बिंदुनादाय नमः || नाभौ
मणिपुरके ४ एकारात्मने शक्तिनादाय नमः || स्वाधिष्ठाने ४ इंद्वात्मने
बीजनादाय नमः || मूलाधारे ४ हंसात्मने अक्षरनादाय नमः || इति
सूक्ष्ममध्यमा न्यासः |
अथ स्थूलमध्यमा न्यासः ||
तत्र बह्मरंध्रे ४ अं इं उं ऋं ऌं नमः | ललाटे ४ एं ऐं ओं औं
नमः | भ्रूमध्ये ४ हं यं रं वं लं नमः | लंबिकाग्रे ४ ऽऽनं ञं
णं नं मं नमः |
प्. ९४अ)
विशुद्धौ ४ कं चं टं तं पं नमः | हृदि ४ खं छं ठं थं फं
नमः | नाभौ ४ घं झं ढं धं भं नमः | स्वाधिष्ठाने ४ गं
जं डं दं बं नमः | मूलाधारे ४ शं षं सं नमः | इति मध्यमा
न्यासः |
अथ वैखरी न्यासः |
तत्र षडाधारं गुणत्रयेण त्रिधाविभज्य त्रिबीज संगतं कुर्यात् ||
तद्यथा || यथोक्त रूपाणि मूलाधाराद्याज्ञांतानि षट्चक्राणि ध्यात्वा |
तत्र वसबलाब्जयोर्मूलविद्यायावाग्भवं विद्युत्प्रभं विचिंत्य तद्दलेषु
स्वाग्रादि प्रादक्षिण्येन तद्वर्णान् शिवशक्ति योगेन न्यसेत् || तद्यथा || ४
वहसैं नमः || ४ श है सं नमः ४ ष है सं नमः | ४ स ह सैं नमः | इति
मूलाधारे ||
ततः ४ ब ह सैं नमः | ४ भहसैं नमः ४ म ह सैं नमः | ४ य ह सैं नमः ||
४ र ह सैं नमः | ४ ल ह सैं नमः || इति स्वाधिष्ठाने ||
ततो ड फ कटाब्जयोः कामराजकूटं रक्तवर्णं ध्यात्वा तद्बलेषु
तद्वर्णान् पूर्ववत् न्यसेत् || तद्यथा ||
मणिपूरे दशदलेषु पूर्वादि प्रादक्षिण्येन ४ डहसैं नमः | ४ ढ ह सीं
नमः | ४ ण ह सीं नमः | ४ त ह सीं नमः || ४ थ ह सीं नमः | ४ द ह सीं
नमः | ४ ध ह सीं नमः | ४ न ह सीं नमः | ४ प ह सीं नमः | ४ फ ह सीं
नमः इति मणिपूरे
प्. ९४ब्)
ततो अनाहते द्वादशदलेषु स्वाग्रादि प्रादक्षिण्येन ४ क ह सीं नमः | ४ ख ह
सीं नमः || ४ ग ह सीं नमः || ४ घ ह सीं नमः | ४ ऽऽन ह सीं नमः | ४ च ह सीं
नमः | ४ छ ह सीं नमः | ४ ज ह सीं नमः | ४ झ ह सीं नमः | ४ ञ ह सीं
नमः | ४ ट ह सीं नमः | ४ ठ ह सीं नमः | ततो अवर्ग हक्षाब्जयोस्तार्तीय
कूटं शुक्लवर्ण ध्यात्वा तद्बलेषु न्यसेत् || तद्यथा || ४ अ ह सौः नमः | ४
आ ह सौः नमः | ४ इ ह सौं नमः | ४ ई ह सौः | ४ उ ह सौः नमः | ४ ऊ ह
सौः नमः | ४ ऋ ह सौः नमः | ४ ॠ ह सौः नमः | ४ ऌ ह सौः नमः | ४ ॡ ह
सौः नमः || ४ ए ह सौः नमः | ४ ऐ ह सौः नमः | ४ ओ ह सौः नमः | ४ औ ह
सौः नमः || ४ अं ह सौः नमः | ४ अः ह सौः नमः | इति विशुद्धौ ततो
भ्रूमध्ये आज्ञाब्जस्य दक्षवामदलयोः ४ ह ह सौः नमः | ४ क्ष ह सौः
नमः || इति वैख * न्यासं विधायांतः सुधासिक्तं पद्मराग प्रभं
वर्ण कदंबकं ध्यायेत् || इति वैखरी न्यासः ||
अथ अंतकामकाला न्यासः ||
४ हस्रैं ह स क्लीं हस्रौः इति पंचकूट विद्यया त्रिखंडामुद्रां बध्वा
विन्यस्य चित्सुधा वृष्टिसेकादुज्वलितप्रभान् वर्णान्
ध्यात्वा षडाधारेष्वेतैरंतस्तमोदहन् इत्यावाह्य कामकलारूपां
देवीमात्मनि भावयेत् ||
प्. ९५अ)
इत्यंतः कामकला न्यासः |
अथ बहिः कामकला न्यासः ||
तत्र कामकला मू * भूतस्य सबिंदुतुर्यस्वरस्यादि बिंदु देवी
रूपस्यात्मनः केशनेत्रकर्णनासिकाद्यवयवसमेतं वक्त्रं परिकललय
तस्याधो बिंदुद्वय बाहु चतुष्टयाद्यवयव समेतं स्तनद्वयं ध्यात्वा
तस्य हार्द्धकलां पादद्वयाद्यं वयवसमेतं योनि विचिंत्य ४ वाग्भव
कूटमूच्चार्य ईंकारस्योर्ध्व बिंद्वात्मने श्रीमहात्रिपुरसुंदर्याः
केशाद्यवयव सहित (स्तन द्वयाय नमः) वक्त्राय नमः || ४
कामराजकूटमुच्चार्य ईंकारस्योधो बिंदुद्वयात्मने
श्रीमहात्रिपुरसुंदर्याः बाहुचतुष्टयाद्यवयव सहित स्तन द्वयाय नमः
| ४ तार्तीय कूटमुच्चार्य ईंकारस्य हार्धकलात्मने
श्रीमहात्रिपुरसुंदर्याः पादद्वयाद्यवयव सहित योनये नमः || ४ इति
मूर्द्धादि कंठपर्यंतं कंथादि नाभ्यंतं नाभ्यादि
पादाग्रपर्यंतं च व्यापकत्वेन विन्यसे ४ मूलविद्यामुच्चार्य समस्त
कामकलात्मक श्रीमहात्रिपुरसुंदर्याः सर्वावयवेभ्यो नमः |
प्. ९५ब्)
इति सर्वांगे व्यापकं कृत्वा ||
नासां ललाटं चक्षुषी कर्णौ वदनं च मुखबिंदौ || भुज चतुष्टयं
वक्षो हृदयं स्तन बिदौ || चरण द्वयं योनि बिंदौ ध्यात्वा समष्टि
कामकला भूत परमाक्षर मय सर्वावयव संपूर्णां
परमसौंदर्यवतीं कामेश्वरांक निलयां सर्वाभरणसंपन्नां
देवीं स्वात्मानं ध्यायेत् || इति बहिः कामकला न्यासः ||
अथायुधन्यासः ||
तत्र स्वदक्षाधः करे ४ द्रां द्रीं क्लीं ब्लूं सः यां रां लां वां सां
जंभनेभ्यः कामेश्वर कामेश्वरी बाणेभ्यो नमः | स्ववामाधः करे ४
धं थं मोहनाभ्यां कामेश्वर कामेश्वरी चापाभ्यां नमः |
स्ववामोर्ध्व हस्ते ४ आं ह्रीं वशी * रणाभ्यां कामेश्वर कामेश्वरी
पाशाभ्यां नमः | स्वदक्षोर्ध्व हस्ते ४ क्रों क्रों स्तंभनाभ्यां
कामेश्वर कामेश्वर्यं कुशाभ्यां नमः || इत्ययं न्यासस्तत्तन्मुद्रया
कार्यः || इत्यायुधन्यासः ||
अथाभूषणन्यासः |
तत्र तत्तदंग भूषणधिया मातृका वर्णान्वक्ष्यमाण स्थानेषु न्यसेत् ||
तद्यथा || शिरसि ४ अं नमः | ललाटे ४ आं नमः | दक्षभ्रुवि ४ इं नमः |
वामभ्रुवि ४ ईं नमः |
प्. ९६अ)
दक्षकर्णे ४ उं वामकर्णे ४ ऊं दक्षनेत्रे ४ ऋं वामनेत्रे ४ ॠं
नासायां ४ ऌं || दक्षगंडे ४ ॡं वामगंडे ४ एं ओष्ठे ४ ऐं अधरे ४
ओं ऊर्ध्वदते ४ औं अधोदंते ४ अं जिह्वायां ४ अः चिबुके ४ कं गले ४ खं
|| कंठे ४ गं दक्षपार्श्वे ४ घं वामपार्श्वे ४ ऽऽनं दक्षस्तने ४ चं
वामस्तने ४ छं दक्षांसे ४ जं वामांसे ४ झं दक्षकूर्पर ४ ञं
वामकूर्परे ४ टं करतलयोः | ४ ठं करपृष्ठयोः | ४ ऽऽनं (दक्षस्तने ४
चं | वामस्तने) नाभौ ४ ढं | लिंगे ४ णं दक्षोरौ ४ तंः वामोरौ ४
थं दक्षजानुनि ४ दं वामजानुनि ४ धं दक्षं जंघायां ४ नं
वामजंघायां ४ पं दक्षस्फिचि ४ फं वामस्फिचि ४ बं दक्षपादतले ४
भं वामपादतले ४ मं दक्षपादांगुष्ठे ४ यं वामपादांगुष्ठे ४
रं कट्या ४ लं ग्रैवेयके ४ वं वलये ४ शं गुदे ४ लं हृदि ४ क्षं
दक्षकुंडले ४ षं वामकुंडले ४ संमुकुटे ४ हं नमः ||
इत्याभूषणन्यासः ||
अथ कामरति न्यासः ||
तत्र ध्यानं कुर्यात् ||
अथ कामान् स्मरेद् देवि दाडिमी कुसुमोपमान् ||
वामांकशक्ति सहितान् पुष्पबाणेक्षु कामुकान् || १ ||
शक्तयः कुंकुम निभाः सर्वाभरणभूषिताः ||
नीलोत्पल कराध्येयस्त्रैलोक्याकर्षण क्षमाः || २ ||
प्. ९६ब्)
इति ध्यात्वा न्यसेत् || तद्यथा ||
४ अस्याः कामरति मातृकायाः ब्रह्मा ऋषिः गायत्रीछंदः परमात्मा
देवता न्यासे विनियोगः ||
बालया षडगं विधाय || ४ अं कामाय रत्यै नमः | ४ क्लीं आं
कामदाय प्रीत्यै नम ४ इं कांताय कामिन्यै नमः | ४ ईं कांतिमते मोहिन्यै
नम० | ४ उं कामगाय कमलायै | ४ ऊं कामचाराय विलासिन्यै० | ४ ऋं कामिने
कल्पलतायै० | ४ ॠं कामुकाय श्यामायै० | ४ ऌं कामवर्द्धनाय
शुचिस्मितायै० | ४ ॡं वामाय विस्मिताक्ष्यै० | ४ एं रामाय विशालाक्ष्यै० | ४
ऐं रमणाय लेलिहानायै० | ४ ओं रतिनाथाय दिगंबरायै० | ४ औं
रतिप्रियाय वामायै० | ४ अं रात्रिनाथाय कुब्जिकायै० | ४ अः रमाकांताय
कांतायै० | ४ कं रममाणाय नित्यायै० | ४ खं निशाचराय कल्पायै० | ४
गं नंदकाय भोगिन्यै० | ४ घं नंदनाय कामदायै० | ४ ऽऽनं नंदिने
सुलोचनायै० | ४ चं नंदयित्रे सुलापिन्यै० | ४ छं पं च बाणाय मर्दिन्यै०
| ४ जं रतिसखाय कलह प्रियायै० | ४ झं पुष्पधन्वने वराक्ष्यै० | ४ ञं
महाधनुषे सुमुख्यै० | ४ टं भ्रामणाय नलिन्यै नमः | ४ ठं
भ्रमणाय जयिन्यै० | ४ डं भ्रममाणाय पालिन्यै० | ४ ढं भ्रमाय
शिवायै० | ४ णं भ्राताय मुग्धायै० | ४ तं भ्रामकाय रमायै० | ४ थं
भृंगाय भ्रमायै० | ४
प्. ९७अ)
दं भ्रांतचाराय लोलायैः | ४ धं भ्रमं वहाय चंचलायै० | ४ नं
मोहनाय दीर्घजिह्वायै० | ४ पं मोहकाय रतिप्रियायै नमः | ४ फं
मोहाय लोलाक्ष्यै नमः | ४ बं मोहवर्द्धनाय भृंगिण्यै० | ४ भं
मदनाय पाटलायै० | ४ मं मन्मथाय मदनायै० | ४ यं मातंगाय
मालायै नमः | ४ रं भृंगनायकाय हंसिन्यै० | ४ लं गायकाय विश्वतो
मुख्यै० | ४ वं गीतिज्ञाय जगदानंदिन्यै० | ४ शं नर्तकाय रमण्यै० |
४ षं खेलकाय कांत्यै० | ४ सं उन्मत्ताय कलकंठ्यै० | ४ हं मत्तकाय
वृकोदर्यै० | ४ लं विलासिने मेघशामायै० | ४ क्षं लोभवर्द्धनाय
झषोत्तमायै नमः || इत्येक पंचाशन्मिथुनानि मातृका स्थानेषु न्यसेत् || इति
कामरति न्यासः ||
अथ पंचाशत्त्रिपुरा न्यासः |
तत्र ४ अं कामिनी त्रिपुरायै नमः | ४ ओं मोदिनी त्रिपुरायै नमः | ४ इं मदना
त्रि० | ४ ईं उन्मादिनी त्रि० | ४ उं द्राविणी त्रि० | ४ ऊं खेचरी त्रि० | ४ ऋं
घंटिका त्रि० | ४ ॠं कलावती त्रि० | ४ ऌं क्लेदिनी त्रि० | ४ ॡं शिवदूती त्रि० | ४
एं सुभगा त्रि० | ४ ऐं भगा त्रि० | ४ ओं विद्येशी त्रि० | ४ औं महालक्ष्मी त्रि० | ४
अं कौलिनी त्रि० | ४ अः सुखेश्वरी त्रि० | ४
प्. ९७ब्)
कं कुलमालिनी त्रि० | ४ खं व्यापिनी त्रि० | ४ गं भगानंदा त्रि० | ४ घं
वागीश्वरी त्रि० | ४ ऽऽनं वषट्कारी त्रि० | ४ चं पिंगला त्रि० | ४ छं
भगसर्पिणी त्रि० | ४ जं सुंदरी त्रि० | ४ सं नीलपताका त्रि० | ४ ञं त्रिपुरा त्रि० |
४ टं सिद्धेश्वरी त्रि० | ४ ठं अमोघा त्रि० | ४ डं रत्नमालिनी त्रि० | ४ ढं
मंगला त्रि० | ४ णं भगमालिनि त्रि० | ४ तं नित्या त्रि० | ४ थ रौद्री त्रि० | ४ दं
व्योमेश्वरी त्रि० | ४ धं अंबिका त्रि० | ४ नं अट्टहासा त्रि० | ४ पं आप्यायिनी
त्रि० | ४ फं वज्रेश्वरी त्रि० | ४ बं क्षोभिणी त्रि० | ४ भं शांभवी त्रि० | ४
मं स्तंभिनी त्रि० | ४ यं अनामा त्रि० | ४ रं रक्ता त्रि० | ४ लं शुक्ला त्रि० | ४
वं अपराजिता त्रि० | ४ शं संवर्त्तका त्रि० | ४ षं विमला त्रि० | ४ सं घोरा त्रि०
| ४ हं अघोरा त्रि० | ४ लं बिंदुभैरवी त्रि० | ४ क्षं सर्वाकर्षणी त्रिपुरायै
नमः || इत्येता मातृका स्थानेषु न्यस्तव्याः || इति पंचाशत्रिपुरान्यासः ||
अथ षोडश कामकलान्यासः ||
तत्र दक्ष पादे ४ क्लीं अं सिद्धाकलायै नमः | दक्षजंघायां ४ क्लीं
आं प्रीतिकलायै० | दक्षजानुनि ४ क्लीं इं रतिकलायै० | दक्षोरौ ४ क्लीं ईं
धृतिकलायै० | दक्षवक्षसि ४ क्लीं उं कांतिकलायै० | दक्षबाहुमूले ४
क्लीं ऊं मनोरमा कलायै० | मुखदक्षे ४ क्लीं ऋं मनोहरा कलायै० |
दक्षमूर्द्ध्नि ४ क्लीं ॠं मनोभवा कलायै० | वामशिरोभागे ४ क्लीं ऌं
मदनोन्मादिनी कलायै० |
प्. ९८अ)
मुखवामे ४ क्लीं ॡं मोहिनी कलायै० | वामबाहुमूले ४ क्लीं ए दीपिनी
कलायै० | वामवक्षसि ४ क्लीं ऐं शोषिणी कलायै० | वामोरौ ४ क्लीं ओं
वशंकरी कलायै० | वामजानुनि ४ क्लीं औं रंजिनी कलायै० |
वामजंघायां ४ क्लीं अं सुभगा कलायै० | वामपादे ४ क्लीं अः
प्रियदर्शनी कलायै नमः | इति विन्यस्य एताः शुक्लवर्णाः
सोत्पलकराध्येयाः || इति षोडश कामकला न्यासः ||
अथ षोडशसोमकलान्यासः |
तत्र पृष्ठदक्षभागे ४ सं अं पूषाकलायै नमः || दक्षांसपृष्ठे ४
सां आं वशाकलायै० | दक्षग्री पृष्ठे ४ सिं इं सुमना कलायै० |
दक्षकर्णे ४ सीं ईं रतिकलायै नमः || दक्षनेत्रे ४ सु उं प्रीतिकलायै० |
दक्षनासायां ४ सूं ऊं धृतिकलायै० | दक्षललाटे ४
सृं ऋं ऋद्धिकलायै० | दक्षमूर्द्ध्नि ४ सृं ॠं सौम्या कलायै० |
वाममूर्द्धनि ४ स्तृं ऌं मरीचिकलायै० | वामललाटे ४ सॄं ॡं
अंशुमालिनी कलायै० || वामनासायां ४ सें ऐं अंगिरा कलायै० |
वामनेत्रे ४ सैं ऐं शशिनी कलायै० | वामकर्णे ४ सों ओं छायाकलायै० |
वामग्रीवायै पृष्टे ४ सौं औं संपूर्णमंडला कलायै० |
वामांसपृष्ठे ४ सं अं तुष्टि कलायै० | पृष्टवामभागे सः अः
अमृताकलायै नमः || एताः शुभ्राः सोत्पला कराध्येयाः इति शोडश
सोमकला न्यासः ||
प्. ९८ब्)
अथ वशिन्यादि वाग्देवताष्टकं न्यासः ||
तत्र शिरसि ४ अं आं १४ व्लू वशिनीवाग्देवतायै नमः || ललाटे ४ कं ४
कलह्रीं कामेश्वरी वाग्देवतायै० || भ्रूमध्ये ४ च० ४ न्व्लीं मोदिनी
वाग्देवतायै० | कंठे ४ टं० ४ प्लूं विमलावाग्देवतायै० | हृदये ४ तं० ४
ज्म्रीं अरुणा वाग्देवतायै न० || नाभौ ४ पं ४ हसल्व्यूं जयिनी
वाग्देवतायै० | मूलाधारे ४ यं ३ समरयूं सर्वेश्वरी वाग्देवतायै० ||
मूलाधारादि पाद द्वयांतं ४ शं ५ क्ष्म्रीं कौलिनी वाग्देवतायै
नमः || इति वाग्देवतान्यासः ||
अथ चतुःपीठन्यासः ||
तत्र मूलाधारे ४ प्रथमकूटमुच्चार्य अग्निचक्रे कामगिरीपीठे
मित्रीशनाथात्मिके जागृद्वशाधिष्ठायके इछाशक्त्यात्मक रुद्रात्मशक्ति
श्रीकामेश्वरी देव्यै नमः || हृदये ४ द्वितीयकूटमुच्चार्य सूर्यचक्रे
जालंधरपीठे षष्ठीशनाथात्मके स्वप्नदशाधिष्ठायके
ज्ञानशक्त्यात्मक विष्णवात्मक शक्ति श्रीवज्रेश्वरी देव्यै नमः |
भ्रूमध्ये ४ तृतीयकूटमुच्चार्य सोमचक्रे पूर्णगिरिपीठे
उड्डीशनाथात्मके सुषुप्ति दशाधिष्ठायके क्रियाशक्त्यात्मक
ब्रह्मात्मशक्ति श्रीभगमालिनी देव्यै नमः | ब्रह्मरंध्रे ४
तुर्यविद्यामुच्चार्य ब्रह्मचक्रे उड्याणपीठे श्रीचर्यानाथात्मके
तुर्यतीतदशाधिष्ठायके
प्. ९९अ)
परब्रह्मात्मशक्ति श्रीमहात्रिपुरसुंदरी देव्यै नमः || इति
चतुःपीठन्यासः ||
अथ कामेश्वर्यादि न्यासः |
तत्र वामपादांगुष्ठादि नाभिपर्यंतं ४ ऐं प्रथमकूटे
कामेश्वर्यै नमः | नाभेः कंठपर्यंतं ४ क्लीं द्वितीकूटं
वज्रेश्वर्यै नमः | कंठात् शिरः पर्यंतं ४ सौः तृतीयकूटं
भगमालिन्यै नमः || इति वामभागे विन्यस्य
दक्षपादांगुष्ठान्नाभिपर्यंतं ४ हसैं आत्मतत्वाधिपतये ब्रह्मणे
नमः | नाभेः कंठपर्यंतं ४ हस्क्लीं विद्यातत्वाधिपतये विष्णवे
नमः | कंठादि शिरोंतं ४ हसौः शिवतत्वाधिपतये रुद्राय नमः || इति
तत्वदेवतान्यासः |
अथ चतुस्तत्वन्यासः ||
नाभ्यादि पादांतं प्रथमकूटं ४ आत्मतत्वात्मने
श्रीमहात्रिपुरसुंदर्यै नमः || कंठादि नाभ्यंतं ४ द्वितीय कूटं
विद्यातत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः | मूर्द्धादि कंठांतं ४
तृतीयकूटं शिवतत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः | मूर्द्धादि
पादपर्यंतं ४ तुरीयविद्यामुच्चार्य ४ सर्वतत्वात्मने
श्रीमहात्रिपुरसुंदर्यै नमः | इति व्यापकं कुर्यात् | इति चतुस्तत्वन्यासः ||
अथ मूलविद्यान्यासः मूलाधारे ||
४ प्रथमकूटं | हृदि ४ द्वितीयकूटं नमः || भ्रूमध्ये ४ तृतीयकूटं
नमः || ब्रह्मरंध्रे ४
प्. ९९ब्)
तरीयविद्यां च विन्यस्य प्राग्वत्समस्तविद्यां व्यापकत्वेन न्यसेत् || इति
मूलविद्यान्यासः | स च बालया एव कर्त्तव्यः | तद्यथा || वामकर्णे ऐं
नमः | दक्षकर्णे ४ क्लीं नमः | चिबुके ४ सौः नमः | एवं वामशंखे
दक्षसंखे मुखे च द्वितीया योनिः | वामदक्षनेत्रयोर्नासायां च तृतीया
वामदक्षांस हृदयेषु चतुर्थी | वामदक्षकूर्पर नाभिषु पंचमी |
वामदक्षजानु लिंगेषु षष्ठी | वामदक्षपादगुदेषु सप्तमी |
वामदक्षपार्श्ववक्षसी अष्टमी | वामदक्षस्तन कंठेषु नवमी | इति
बहिर्नवयोनिन्यासः ||
अथांतर्नवयोनिन्यासः ||
तत्र मूलाधारादि षट्चक्रललाट सीमंत ब्रह्मरंध्रेषु नवस्थानेषु
चतुरस्र वेष्टितानवयोनीः परिपकल्प्यता सुस्वाग्राद्यप्रादक्षिण्य क्रमेण
प्रागुक्तबीजत्रयं मनसा ध्याय न्यस्येत् || इत्यंतर्नवयोनिन्यासः |
अशृखलान्यासः | तत्र शिखायां ४ प्रथमकूटं नमः | एवं चिबुके ४
द्वितीयं | मुखे ४ तृतीयं | पुनर्मुखे ४ प्रथमं | कंठे ४ द्वितीयं |
चिबुके ४ तृतीयं | पुनश्चुबुके ४ प्रथमं | हृदये ४ द्वितीयं | कंठे ४
तृतीयं कुटं | पुनः कंठे ४ प्रथमकूटं | नाभौ ४ द्वितीयं | हृदये ४
तृतीयं | पुनर्हृदयें ४ प्रथमं | स्वाधिष्ठाने ४ द्वितीयं | नाभौ ४
तृतीयं | पुनर्नाभौ ४ प्रथमं |
प्. १००अ)
मूलाधारे ४ द्वीतीयं | स्वाधिष्ठाने तृतीयं | पुनस्वाधिष्ठाने ४
प्रथमं | उर्वो ४ द्वितीयं | मूलाधारे ४ तृतीयं || इति शृखलान्यासः |
अप्रकटादि न्यासः |
तत्र च मूलाधारे ४ अं आं सौंः त्रैलोक्यमोहनचक्रस्थाभ्यः
प्रकटयोगिनीभ्यो नमः | स्वाधिष्ठाने ४ ऐं क्लीं सौः सर्वाशापरिपूरक
चक्रस्थाभ्यो गुप्तयोगिभ्यो नमः | मणिपूरके ४ ज्ञीं क्लीं सौः
सर्वसंक्षोभ प चक्रस्थाभ्यो गुप्ततरयोगिनीभ्यो नमः | हृदये ४ हैं
हकली हसौः सर्वसौभाग्यदायक चक्रस्थाभ्यः संप्रदाययोगिनीभ्यो
नमः | विशुद्धौ ४ हंसै हसकलीं हसौः सर्वाथसाधक चक्रस्थाभ्यः
कुलकौलयोगिभ्यो नमः | आज्ञायां ४ ह्रीं क्लीं ब्लें रर्व
रक्षाकरचक्रस्थाभ्योनिगर्भयोगिनीभ्यो नमः | ललाटे ४ ह्रीं श्रीं सौः
सर्वरोगहर चक्रस्थाभ्यो रहस्ययोगिनीभ्यो नमः | शिरसि ४ हसैं
हसकलरीं हस्रौः सर्वसिद्धिप्रदचक्रस्थाभ्यः परापर रहस्य योगिनीभ्यो
नमः | ब्रह्मरंध्रे ४ मूलपंचदशीमुच्चार्य सर्वानंदमय
चक्रस्थाभ्यः परापराति रहस्य योगिनीभ्यो नमः | इति विन्यस्य ४ समस्त
प्रकटेत्यादि योगिनी समष्टि विद्यया सर्वांगे व्यापकं विन्यसेत् इति प्रकटादि
न्यासः |
प्. १००ब्)
अथ अमठन्यासः |
तत्र शिरसि ४ ओं सरस्वत्यै नमः | ललाटे ४ ह्रीं पार्वत्यै नः | दक्षनेत्रे ४ अं
सवित्रे नमः | वामनेत्रे ४ अं अग्नय नमः | मुखवृत्ते ४ ठं चद्रमसे
नमः | मुखे ४ श्रीं श्रियै नमः | कपोलयोः ४ स्वां हां दंतिने नमः |
इत्यमठन्यासः |
अथैतन्न्यासफलं ||
त्रिकालं यस्त्रिवारं वा पंचवारं च सप्तधा ||
कुर्याद्वा दशधा वाथ श्रुणु तस्य फलं शिवे || १ ||
कांतिर्मेधा यश सौख्यं सुखं श्रीस्तस्य जायत इति ||
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ||
कृते सौभाग्य रत्नाब्धौ तरंगोगमदष्टमः || १ ||
इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरेऽष्टमस्तरंगः || २ ||
अथ फणान्यासः |
आधारे चतुर्दलकमलकर्णिकायां स्वराब्जं अवर्गांकितं चिंतयित्वा तत्र
कुंडलिनीं च फणान्वितां विचिंत्य तेषु फणेषु ४ प्रथमकूटं
पंचवर्णं मनसा विन्यस्य ||
ततोऽ अनाहते द्वादशदलकमलकर्णिकायां तथैवाब्जं क वर्गांकितं
प्. १०१अ)
विभाव्य तत्र तां ऋतुफणान्वितां विचिंत्य तेषु फण रत्नेषु ४ द्वितीय
कूटार्णान् विन्यस्य | ततो हक्षाब्जे तथैवाब्जं थ वर्गांकितं विचित्य तत्र
तां वेद पूनान्वितां ध्यात्वा ४ तत्र शक्तिकूटार्णान्विन्यस्य | ततः
सहस्रदलकमलकर्णिकायां वर्णारविंदं ध्यात्वा तत्र तां पंचदश
फणान्वितां विचिंत्य तत्र मूलार्णान्विन्यसेदिति फणान्यासः ||
अथ सर्वसंमोहनन्यासः |
शिरसि ४ ऐं क्लीं सौः ह्रीं श्रीं नादनादाय नमः | ललाटे ४ ह्रीं श्रीं
क्लीं हसकलरीं शून्य नादाय नमः | भ्रूमध्ये ४ ह्रीं श्रीं क ए
इल्ह्रीं अविकृतनादाय नमः | नासायां ४ ह्रीं श्रीं हसौं सकलह्रीं
स्पर्शनादाय नमः || मुखे ४ ह्सीं ह्रीं श्रीं ध्वनिनादाय नमः | हृदि ४
अं आं सौं ऐं ह्सौं ह्रीं श्रीं नादनादाय नमः | जठरे ४
ईहसकल्ह्रीं क ए इल् ह्रीं ऐं क्लीं सौं ह्रीं श्रीं बिंदुनादाय नमः |
नाभौ ४ ईह सकल हीं श्रीं विकृतिनादाय नमः | मूले ४ ह्सौं सौं सकल
ह्रीं ह्रीं श्रीं बीजनादाय नमः || मूलाधारे ४ ओं हं सः ह्रीं श्रीं
अक्षरनादाय नमः | ४ मूलेन सर्वशरीरे व्यापकं न्यसेदिति
सर्वसंमोहनन्यासः ||
अथ गुह्य षोढान्यासः ||
तद्यथा ||
शंकर उवाच ||
कलौ मंत्रान सिध्यंति विना येन तदुच्यते ||
प्. १०१ब्)
अनेन मंत्रतंत्राणि सिध्यंति झटति ध्रुवं || १ ||
पूर्वसा संततो बीजं कृतं रावण राक्षसैः ||
न्यासांश्चापि क्रमादेषां साधनानां क्रमादपि || २ ||
किंतु विद्या महाविद्या गणेश मनवस्तथा ||
हयग्रीवमनुश्चैव बीजमुक्तं महीतले || ३ ||
ओं अस्य श्रीगुह्य षोढा श्रीमहाचक्रेश्वरी न्यासस्य दक्षिणामूर्ति ऋषिः
अनुष्टूप्छंदः | श्रीमहात्रिपुरसुंदरी देवता || सांख्यायन गोत्रं |
ऐं बीजं | ह्रीं शक्तिः | क्लीं कीलकं | श्रीगुरुदेवता प्रसाद सिध्यर्थे
गुह्य षोढान्यासे विनियोगः |
४ ऐं मध्यमाभ्यां नमः | ४ ह्रीं अनामिकाभ्यां नमः | ४ श्रीं
कनिष्ठिकाभ्यां नमः | ४ ऐं अंगुष्ठाभ्यां | ४ ह्रीं तर्जनीभ्यां | ४
श्रीं करतलकरपृष्ठाभ्यां | एवं हृदयादि शडंगं विधाय || ४ ऐं
ह्रीं श्रीं ह्स्रैं हसकलीं ह्सौंः त्रिपुरायै नमः | इति शिखायां || ४ ऐं
क्लीं सौः बालात्रिपुरायै नमः मुखे || ४ ऐं शारदा त्रिपुरायै नमः
कंठे || ४ क्ष्रौं श्रीं क्ष्रौ सिद्धेश्वर्यै नमः | ललाटे || ४ हस्रौं
हस्रक्लीं ह्स्रौः त्रिपुरासिद्धायै नमः भ्रूमध्ये || ४ ह्स्रौं ह्स्क्लीं ह्स्रौः
त्रिपुरा परमेश्वर्यै नमो गले || ४
प्. १०२अ)
कामराजविद्या १५ राजराजेश्वर्यै नमो हृदये || ४ नफक्ष्मलवयूं मालिनी
त्रिपुरायै नमो हृदयोपरि || ४ लोपामुद्रा विद्या १५ देवीत्रिपुरसुंदर्यै नमो
गुदोपरि || ४ हसरीं हसरीं शृं सुखदा त्रिपुरायै नमो मेढ्रे || ४ क्लीं
कामेश्वर्यै नमो गुह्ये || ४ ह्रीं त्रिपुर भुवनेश्वर्यै नमो सर्वांगे || ४ हं
सः निर्वाणसुंदर्यै नमो नासारंध्रे || ४ ह्रीं ह्स्रौं श्रौं हरिप्रिया
परमार्यै नमो ब्रह्मरंध्रे || ४ ऐं १५ पंचदशी नक्षत्रं वल्लभायै
नमो ललाटे || ४ कामराजकूटं क्लीं रतिप्रियायै नमो श्रोत्रयोः || ४ ह्रीं
श्रीं क्लीं शक्रं प्रियायै नमो घ्राणे || ४ शक्ति कूं सौं
शंभुप्रियायै नमः ओष्ठो | ४ लोपामुद्राद्य कूटं ऐं प्राणेश्वर्यै
नमः दंतपंक्त्योः || ४ ऐं ह्रीं श्रीं सौः जीवेश्वर्यै नमः रसनायां
|| ४ ह्रीं श्रीं ब्रह्माण्यै नमः कूर्परयोः || ४ हंसः ओं ऐं ह्रीं श्रीं
ह्रीं हूं सोहं परमात्मस्वरूपायै नमः पृष्ठे || ओं ३ ओं सृं हृं
सौः पृथ्वीरूपायै नमः सर्वांगे || ४ षोडशीमूच्चार्य ह्रीं हृल्लेखायै
नमः हृदये || ओं ३ सौंः क्ली ३ भृगुप्रियायै नमस्तन्योः || ४ क्रोधरूपायै
नमः कुक्षौ || ४ श्रीं ह्रीं ऐं सः | विताका देव्यै नमः लिंगे || ४ ह्रीं
क्लीं भुवनेश्वर्यै नमः | शीर्षादि पादपर्यंतं || ४
प्. १०२ब्)
ऐं वाग्भैरव्यै नमः मूलाधारे || ४ क्लीं कामरूपायै नम
हृदयाधः || ४ सौंः शक्तिटायै नमः अलके || ओं ३ समस्त
मूलविद्यामुच्चार्य श्रीमन्महात्रिपुरसुंदर्यै नमः सर्वांगे व्यापकं
|| पुनः पूर्ववत्करषडंगानि कुर्यात् ||
इमं न्यासं महेशानि यः करोति दिवानिशं ||
स तु सिद्धिमवाप्नोति मोक्षस्तस्य विनिश्चितं || १ ||
न जरा न च मृत्युश्च न च राजभयादिकं ||
य इमं न्यसति न्यासं स मुक्तो नात्रसंशया || २ ||
द्वात्रिंशच्च महाविद्या उक्तस्थानेषु विन्यसेत् ||
महाचक्रेश्वरी न्यासो देवानांमपि दु * र्भः || ३ ||
इति गुह्य षोढा महाचक्रेश्वरी न्यासः ||
ततो गणेशपंचमी दुर्गाबटुक क्षेत्रपालान्नपूर्णा अश्वारूढा बाला
कालसंकर्पण्यादि स्मरेत् || तद्यथा || ओं वक्रतुंडाय हूं || १ || ओं ह्रीं
नमो भगवति वाराह्यघोरे स्वप्नं दद स्वाहा || २ || ऐं ह्रीं क्लीं
चामुंडायै विच्चे || ३ || ओं ऐं क्लां क्लीं क्लूं ह्रां ह्रीं र्ह्रूं सः
बां आपदुद्धारणाय अजामल बद्धाय लोकेश्वराय स्वर्णाकर्षण
भैरवाय मम दारिद्र विद्वेषणाय ओं श्रीं महाभैरवाय नमः || ४ ओं
क्षेत्रपालाय स्वाहा || ह्रीं सौः श्रीं क्लीं ओं नमो भगवति
प्. १०३अ)
अंन्नपूर्णे ममाभिलषितं अन्नं देहि स्वाहा || ६ || ओं ह्रीं फ्रें फ्रें
सर्ववशंकरि स्वाहा || ७ || ऐं क्लीं सौः || ८ || ख्फ्रें महाचंडयोगेश्वरी
|| ९ || इति मंत्र नवकं स्मृत्वा || मूल वाग्भवमुच्चार्यंतः स्थितं
विषयं बहिर्भावयन् पूरयेत् | कामराजेन उपसंहरन्सभावयन्
कुंभयेत् शक्ति बीजेन रेचयेत् || इति प्राणानायम्य लिंगन्यासं कुर्यात् || स
यथा || ४ ऐं स्वयंभू लिंगाय नमो मूलाधारे || ४ ईं बाणलिंगाय
नमो हृदये || ४ औः इतरलिंगाय नमो भ्रूमध्ये || ४ ऐं ईं औः
परलिंगाय नमो ब्रह्मरंध्रे || कनक पाटलसितं तत्समष्टि रूपं तेजो
विचित्यनासामार्गेण स्वकरांजलै संक्रम्ययय | अं आं सौः | इति बीज
मंत्रयं मध्यमादि तलांतं विन्यस्य करशुद्धिविधाय ऐं
नाभ्नेरापादं क्लीं हृदोनाभिपर्यंतं || सौः शिरसो हृत्पर्यंतां ऐं
क्लीं सौः | त्रिर्व्याकं सर्वांगे च || ह्रीं क्लीं सौः त्रिपुरसुंदरि
ममात्मानं रक्ष रक्ष हृदये इत्यात्मरक्षा न्यासः ||
ततः मूलाधारे दशदलमंडलं विभाव्यक ५ वह्निमंडलाय नमः ||
हृदये द्वादशदले ह ६ सूर्यमंडलाय नमः || भ्रूमध्ये षोडशदलं
विभावा स० ४ सोंममंडलाय नमः ||
प्. १०३ब्)
ब्रह्मरंध्रे क १५ परमंडलाय नमः | क० ५ करमूले | ह ६ करमध्ये |
स ४ कराग्रे || एवं वामे करे | क० ५ मूलाधारे | हृदि ह ६ | स० ४ बिंदौ
भ्रूमध्ये || क १३ ब्रह्मरंध्रे ||
द्वादशांतेंदु विलसत् पीयूषेणात्मनस्तनुं ||
संप्लाव्य तन्मयो भूत्वा न्यसेत् पश्चात्र वासनं || १ ||
अथ मू * विद्यानवासनन्यासः ||
अं आं सौः त्रिपुरा मृतार्णवासनाय नमः पादयोः || ऐं क्लीं सौः
त्रिपुरेश्वरी पोतांबुजासनाय नमो जानुनि || ह्रीं क्लीं सौः त्रिपुरसुंदरी
देव्यासनाय नम ऊरौ || हैं हक्लीं ह्सौः | त्रिपुरवासिनी सर्वचक्रासनाय
नमो जंघने || ह्सौ ह्स्क्लीं हसौः त्रिपुरा श्रीसर्वमंत्रासनाय नमो गुदे ||
ह्रीं क्लीं ब्लें त्रिपुरमालिनी साध्य सिद्धासनाय नमो लिंगे || ह्रीं श्रीं
सौः त्रिपुरा सिद्धे सिद्धोद्धतासनाय नमो ४ नाभौ || ह्स्रैं ह्स्क्लीं ह्स्रौः
त्रिपुरांबपर्यकपीठासनाय नमो हृदये || हसकलरडैं हसलरंडी
हसकलरडौः | त्रिपुरभैरवी सदाशिव महाप्रेत पद्मासनाय नमो
ब्रह्मरंध्रे || इति नवासनन्यासः ||
अथ महाशक्तिन्यासः ||
तत्र प्रथमं जगछून्याकारं निरालंबं ध्यात्वा ४ हूं पृथिव्यै
नमः |
प्. १०४अ)
इति स्वासनाधः पृथिवीं संपूज्य | स्वासनं वामहस्तेन स्पृशेत् |
भुवनेश्वरी बीजं सप्तवारं जपित्वा || ओं ३ जयायै नमः | ४ विजयायै ४ |
जयंत्यै नमः | ४ अजितायै० | ४ अपराजितायै नम० | ४ संगमायै० | ४
रंभायै० | इति स्वासने सप्तसक्तीः संपूज्य मूलविद्यया प्राणायाम
त्रयं कृत्वा || अस्य श्रीमहाशक्ति न्यासस्य ४ परमशिव ऋषिः ४ अति जगती
छंदः ४ श्रीपराशक्तिर्देवता ४ ऐं बीजं ४ श्रीं शक्तिः ४ सौः कीलकं
श्रीविद्यांगत्वेन महाशक्ति न्यासे विनियोगः | इति ऋष्यादिकं स्मृत्वा यथा
विधि विन्यस्य त्रितारै द्विरावृत्या करषडंग न्यासं विधाय न्यासं
कुर्यात् || तत्र योनौ | ओं ३ ह्लां ह्लीं ह्लं नमः ललाटे ४ सां सीं सूं
नमः कर्णयोः | ४ ह्रां ह्रीं ह्रूं नमः | ध्वजमूले | ४ द्रां द्रीं
द्रूं नमः चिबुकाग्रै | ४ सौः श्रीं सौः नमः ब्रह्मरंध्रे | ४ ऐं ईं
सौः अं नमः | इति विन्यस्य अकारादि क्षकारांतानां सर्वेषां वर्णानां
मूलभूतमकारं सर्वेषु वर्णेषु दुग्धस्थ सर्पिवत्सूक्ष्मरूपेण स्थितं
विभावयन् तन्मयानन्य वर्णान्वक्ष्यमाणेषु स्थानेषु न्यसेत् ||
प्. १०४ब्)
ब्रह्मरंध्रे ऐं ई सौः ञं नमः तत्र तालु ४ ऐं ईं सौः आं नमः |
नासाग्रे ४ ऐं ई सौः ईं नमः | पश्चिम लिंगे शीवन्यां
मूलाधारगतज्योतिर्लिंगे || ४ ऐं ईं सौः ईं नमः | गुदे ४ | ३ उं नमः | ४
पृष्ठ मध्ये ४ | ३ ऊं नमः || कटि संधौ ४ | ३ ऋं नमः | वृषणांते ४ | ३
ॠं नमः | पृष्ठमध्ये ४ | ३ ऌं नमः | लंबिकास्थाने ४ | ३ ॡं नमः |
सर्वांगे ४ | ३ एं नमः | पुनर्बिंदूपरिगतत्रिरेखायां योनौ न्यास
भावनया सर्वांगे ४ | ३ ऐं नमः | इति विन्यस्य ||
योनिरित्युच्यते शक्तिरेषा ब्रह्मांड भेदिनी ||
लयं चित्ता लये देहे रेतौ बिंदुरिति स्मृतः || १ ||
द्वासप्तति सहस्रेषु नाडिभेदेषु पंजरे ||
व्याप्यमाना महाशक्तिः कामिनीनां ऋतुक्रमे || २ ||
नाडिचक्रागतं रक्तं योनिमार्गे निपातयेत् ||
पुष्पी भूते भगे पुष्पं मासपक्षादिषु क्रमात् || ३ ||
ऐंकारोपि स्वयं योनिर्नात्रकार्याविचारणा ||
न्यस्तं चाप्यत्र देवेश त्रैलोक्यं स चराचरं || ४ ||
इत्यंतः श्लोक समुदाय स्यार्थ चिंतयन् महाकाम कलायां ऌयं
भावयित्वा | ब्रह्मदंडे ४ | ३ ओं नमः | नादमध्ये ४ | ३ औं नमः |
नादांते ४ | ३ अं नमः | कंठे ४ | अः नमः |
प्. १०५अ)
हृदि ४ | ३ कं नमः | मस्तके ४ | ३ खं नमः || जंघयोः ४ | ३ गं नमः |
स्तनयोः ४ | ३ घं नमः | नासिकांते ४ | ३ ऽऽनं नमः | आज्ञायां ४ | ३ चं
नमः | वामकुक्षौ ४ | ३ छं नमः | दक्षकुक्षौ ४ | ३ जं नमः | ऊरुमूले
४ | ३ झं नमः | दंतपक्तौ ४ | ३ ञं नमः | जिह्वाग्रे ४ | ३ टं नमः |
मुखे ४ | ३ ठं नमः | कक्षयोः | ४ | ३ ड नमः | अस्थिसंधिषु ४ | ३ ढं
नमः | चित्ते ४ | ३ णं नमः | नाभौ ४ | ३ तं नमः | ललाटे ४ | ३ थं नमः |
कर्णरंध्रयोः ४ | ३ दं नमः | कपोलमूलयोः ४ | ३ धं नमः | नयनयोः
| ४ | ३ नं नमः | श्वेतसहस्रदलकमले ४ | ३ पं नमः | हृत्पद्मे ४ | ३ फं
नमः | स्कंधयोः ४ | ३ बं नमः | भ्रूद्वये ४ | ३ भं नमः | हनुमूले ४
| ३ मं नमः | तालुमूले ४ | ३ यं नमः | लिंगगुदयोर्मध्ये ४ | ३ रं नमः
| जिह्वायां ४ | ३ लं नमः | सर्वांगे ४ | ३ वं नमः | वामादि दक्षिणशिरः
पर्यंतमापादतलवेष्टकत्वेन ४ | ३ शं नमः | तालुमूले ४ | ३ षं नमः |
सर्वांगे ४ | ३ सं नमः | ब्रह्मरंध्रे ४ | ३ हं नमः | हस्तपादयोः
सर्वांगुलिषु ओं ऐं ह्रीं श्रीं ऐं ईं सौः क्षं नमः ||
प्रागुक्तमूलाधारस्थित कुंडलिन्यां ओं ऐं ह्रीं श्रीं ऐं ईं सौः
ओं नमः || इति विन्यस्य | ओं ऐं ह्रीं श्रीं ऐं ईं सौः
समस्तमातृकामुच्चरन्
प्. १०५ब्)
तां कुंडलिनीं सुषुम्णा वर्त्मना षत्चक्रभेदक्रमेण ब्रह्मरंध्रं
नीत्वा तत्रस्था कुलसहस्रदलकमलकर्णिका मध्य स्थित परमात्मनि शिवे
विलीनां विभाव्य ओं ऐं ह्रीं श्रीं ऐं ईं सौः |
रक्ष रक्ष शूर्लिन हि त्रैलोक्यानंददायिनी ||
रक्ष मां त्रिपुरे देवी रक्ष मां त्रिपुरेश्वरि || १ ||
रक्ष रक्ष महादेवि अस्मदीयमिदं वपुः ||
४ ऐं ह्रीं श्रीं हस्फ्रें हसौः हस्रौः हस्फ्रें श्रीं ह्रीं ऐं
श्रीसमयिनि मदिरानंदसुंदरि समस्तसुरासुरवंदिते
भुजंअगभूपालमालालंकृतचरणकमले विकटदंतघंटारोपनिवारिणि
मदीयं शरीरं रक्ष रक्ष परमेश्वरि हूं फट् स्वाहा || ओं भूः
स्वाहा | ओं भुवः स्वाहा | ओं स्वः स्वाहा | ओं भूर्भुवः स्वः स्वाहा |
नरांत्रमालाभरणभूषिते महाकौलिनि महाब्रह्मवादिनि
महाधनोन्मादनकारिणि महाभोगप्रदे अस्मदीयं शरिरं वज्रमयं
कुरु कुरु दुर्जनान् हन हन दुष्टमहीपालान् भक्षय भक्षय परचक्रं
भंजय भंजय जयंकरि गगनगामिनि त्रैलोक्यस्वामिनि यमलवरयूं
रमलवरयूं लमलवरयूं वमलवरयूं शमलवरयूं
प्. १०६अ)
श्रीभैरवि प्रसादय स्वाहा ||
कुलांगनाकुलं सर्वं मदीयं त्रिपुरेश्वरि ||
देवी रक्षतु दिव्यांगी दिव्यात्मा भोगदायिनी || १ ||
रक्ष रक्ष महादेवि शरीरं परमेश्वरि ||
मदीयं मदिरानंदे आपादतलमस्तकं || २ ||
त्रिपुराख्या महादेवी भुक्तिमुक्तिफलप्रदा ||
न गुरोः सदृशं वस्तु न देवः शंकरोपमः || ३ ||
न च कौलात्परो योगो न विद्या त्रैपुरी समा |
दर्शनेषु समस्तेषु पाखंदेषु विशेषतः || ४ ||
जयन्ति कुलशक्तिर्महीतलपातालनिवासिनी कुलकौल विभेदिनी ||
सकलजनमन आनंदकारिणि करोतु मम चिंतितं कार्यं शतमेकं पुनातु
परमेश्वरी मदनमंडलालंबिनी सप्तकोटिसहस्राणां मंत्राणां
परमेश्वरि || इति मंत्रं सकृज्जपित्वा ||
४ ओं ऐं नमो भगवति त्रिकोणे त्रिधावर्त्ते महालिंगालंकृते त्रैलोक्योत्पत्ति
स्थिति प्रलयकारिणि सहलह्रीं कंदर्पानंददायिनि सहह्रीं ||
ब्रह्मदंडरेखे सह ह्रौं चित्स्वरूपे पाशांकुशालंकृते वद वद
वाग्वादिनि श्रीं भ्रष्टमहीपालराज्यप्रदे ऐं वरदाश्रित हस्ते
समस्तजनानंदकारिणि क्लीं क्लीं कामराजबिजाश्रये द्रां द्रीं क्लीं
ब्लूं सः क्षोभय २ क्षोभिणी हसौः हसः हसौः मथ २ अभय प्रदायिनि
चतुर्भुजे त्रिनेत्रे प्रेतासनोच्चारिणि महाकपालमालालंकृते
प्. १०६ब्)
चंद्रकृतशेखरे त्रिपुरे भुक्तिमुक्तिफलप्रदे ओं ऐं ओं नमः सिद्धं
अकारादि ५१ क्षमित्यादि विलोमेन अकारांतं ५१ द्धंसिमः न
ओं ऐं ओं सर्वबीजमातः श्रीसमयिनि मम मनोरथं देहि २ स्वाहा || एवं
जपित्वा एं ईं सौः श्रीमंत्रराजाय नमः || इति त्रैपुरमंत्रस्य पूजां
विधाय त्रिपुराद्य महानाम्ना त्रये दशमहाविद्याः पूजयत् || तद्यथा ||
ओं ३ ऐं शौः सहलह्रीं शह्रौं ऐं सहह्रीं सहह्रं कामत्रिपुरायै
नमः | ओं ३ ऐं ह्रीं क्लीं हसौः त्रिपुरभैरव्यै नमः || ओं ३ ऐं ह्रीं सः
वाक् त्रिपुरायै नमः | ओं ३ ऐं ह्रीं श्रीं सौः महालक्ष्म्यै त्रिपुरायै
नमः || ओं ३ ऐं ह्रीं सौः वह्नि त्रिपुरायै नमः | ओं ३ ऐं क्लीं मोहिन्यै
त्रिपुरायै नमः | ओं ३ ऐं क्लीं ब्लूं स्त्रीं भ्रामरी त्रिपुरायै नमः | ओं
३ ऐं ह्रीं श्रीं फ्रें हसौः त्रैलोक्या स्वामिन्यै त्रिपुरायै नमः | ओं ३
ऐं डां डीं डूं डैं डौं डः हंस्यै त्रिपुरायै नमः | ४ ऐं ऐं
सौः कौलिकायै त्रिपुरायै नमः || ४ ऐं ऐं सौः चंडिकायै त्रिपुरायै नमः
| ४ ऐं ऐं सौः तालुमध्येमायै त्रिपुरायै नमः | ४ ऐं ऐं सौः
कपालांकुर वासिन्यै त्रिपुरायै ठः ठः नमः १३ यथाशक्ति जपित्वा
रक्तपुष्पैः स्वसिरसि ऐं ईं सौः आत्मदेहाय नमः ||
प्. १०७अ)
इति गंधाक्षतैश्च सप्तधा संपूज्य धूपदीपौ निवेद्य तस्मिन् त्रैपुरे देहे
ऐं ईं सौः इति वनिता क्षोभकरीं महाकामकलां ध्यायेत् || ततः
शोलकशंन्यासानुसंधानेन पठेत् || तत्र ||
शक्ति रुद्र मयं देहं मदीयं त्रिपुरे कुरु ||
देहि मे देव देवेशि नित्यं नित्यमभीप्सितं || १ ||
मस्तकं मंगला देवी ललाटं कुलसुंदरी ||
नैत्रयुग्मं महाकाली कर्णौ रक्षतु कुंडली || २ ||
कपाली कर्णगर्भं तु कपोलौ कमलावती ||
दंतान् रक्षतु चामुंडा चिबुकं मेरुवासिनी || ३ ||
भ्रूमध्यं कंठदेशं च रक्षेन् मे भुवनेश्वरी ||
जिह्वां सरस्वती रक्षेत् तालुकं तालुवासिनी || ४ ||
स्थातु मे कपिला स्कंधे स्कंधांते कुलमालिनी ||
कुक्षौ विनायकी स्थातु जयानंदा स्तनद्वये || ५ ||
कंठकूंपे महालक्ष्मीर्हृदय चंडभैरवी ||
ब्रह्माणी नाभिदेशे तु स्थातु ज्वालावली गुदे || ६ ||
लिंगे लिंगप्रभा चैव मुंडिनी मेदमंडले ||
नाडीचक्रे माहावेगा उद्भटा दक्षिणे करे || ७ ||
वामहस्ते महामाया विद्या हस्तांगुलिषु च ||
वैष्णवी वामपादे च स्थातु चक्रायुधान्विता || ८ ||
प्. १०७ब्)
तथा दक्षिणपादांते एकपादा सुरेश्वरी ||
पादांगुलेषु कौबेरी रोमकूपे महोद्भवा || ९ ||
मंडली नखमूलेषु वाराही मेदमंडले ||
जलंधरी जलस्थाने कामाक्षी काममध्यगा || १० ||
उद्भटा नाभिलिंगाते नासाग्रे पूर्णपीठगा ||
पृष्ठवंशे जया देवी अस्थिसंधिषु चर्चिका || ११ ||
चर्मधारी त्वचायां तु स्थातु नित्यं महायशाः ||
रक्तमध्ये मनोंते च स्थातु मे हंसिनी शुभा || १२ ||
महेश्वरी च कौमारी द्वे चैते स्थातु चांगयोः ||
वामदक्षिणयोश्चैव धीराली कटिसंधिषु || १३ ||
देवी रक्षतु मे गात्रं मस्तकं कुलकामिनी ||
पृथिव्यापस्तथा तेजो वायुराकाशमेव च || १४ ||
पंचभुतेषु भूतेशी सदारक्षतु मे कुलं ||
राज्ये रक्षतु मे चैंद्री प्रजां चैव प्रजावती || १५ ||
माया ददातु मे नित्यं धनं धान्यं यशस्तथा ||
रणे राजकुले चैव शत्रुमध्ये महावने || १६ ||
रक्तनेत्रा महादेवी करोतु मम चिंतितं ||
समयासमयं रक्षेद्विद्यां विद्या कुलागमे || १७ ||
साधकानां जगंनाथा भुक्तिमुक्तिफलप्रदा ||
प्राणा करोतु मे सिद्धिं त्रैलोक्य विजया सुखं || १८ ||
प्. १०८अ)
घंटाली या महाविद्या सा मे यछतु मंगलं ||
सप्तकोटि सहस्राणां मंत्राणां नायका तु या || १९ ||
सा मे सुरेश्वरी देवी ससिद्धिं च प्रयछतु ||
उल्कामुखी मुखे स्थातु मार्जारी देह संधिषु || २० ||
भद्रकालि तु या विद्या सा मे स्थातु शिखामय ||
त्रिकोणं च त्रिधावर्तं त्रैपुरं चक्रमुत्तमं || २१ ||
मस्तके स्थातु मे नित्यं तस्यांते बहुरूपिणी ||
पूर्वोक्ता त्रैपुरी शक्तिः स्थातु मे मन्मथोत्थिता || २२ ||
क्षोभयंती ज * त्सर्वं मदिरानंद विह्वला ||
निवासं कुरु मे देहे सांप्रतं दिव्ययोगिनी || २३ ||
एह्ये हि त्वं महादेवी सिद्धियोगिनि मे कुले ||
शत्रुणां घातनार्थाय जंतुनां भोगदायिनी || २४ ||
महायौगिनि देहेस्मिन् सर्वदा निलयं कुरु ||
माहेंद्री च शिखा स्थातु योनिमध्ये गणेश्वरी || २५ ||
प्रेतासना सुविख्याता करोतु कुशलं मम ||
डाकीनी पूर्वभागे च मम सौख्यं प्रयछतु || २६ ||
साकि पश्चिमांगेषु दक्षिणे चापि राक्षसी ||
वामभागे महामाया करोतु कुशलं मम || २७ ||
सा स्मदीयं शिरः स्थातु सदा तिष्ठतु भैरवी ||
या विशाला विशालाक्षी निर्मला मलवर्जिता || २८ ||
प्. १०८ब्)
सा योगिनी महायोगा स्थातु श्रीमस्तके मम ||
या कालकल्पिता काली कालरात्रीति कथ्यते ||
सा योगिनी माहायोगा स्थातु श्रीमस्तके मम || २९ ||
या निशाचरराजन्य पूजिता च निशाचरी ||
सा योगिनी || ३० ||
या चोर्ध्वकेशिका नाम्नी मुक्तकेशी महाभया ||
सा योगिनी० || ३१ ||
या वीरेति समाख्याता वीराणां जयदायिनी ||
सा योगिनी || ३२ ||
या मालिनि समाख्याता नासाग्रे बिंदुमालिनी ||
सा योगिनी० || ३३ ||
या कंकाल करालांगी चंडकंकाल कुंडला ||
सा योगिनी० || ३४ ||
प्रचंडा च विरूपाक्षी विरूपा विश्वरूपिणी ||
सा योगिनी० || ३५ ||
खड्वांगी कथ्यते या च रौद्री रुद्रेण पूजीता ||
सा योगिनी० || ३६ ||
कलियोगि प्रसिद्धा च या लोके श्रूयते कलौ ||
सा० || ३७ ||
प्रेताक्षी कथ्यते या च फेत्कारोत्कट गर्जिताः ||
सा० || ३८ ||
धुम्राक्षी या समाख्याता शास्त्रेस्मिन् योगिनी मते ||
सा० || ३९ ||
घोररुपा महादेवी कथ्यते या कुलागमे ||
सा० || ४० ||
विश्वरूपा विशेषेण करोति च जगत्त्रयं ||
सा० || ४१ ||
भयंकरी समादिष्टा या चोक्ता वै कुलागमे ||
सा० || ४२ ||
प्. १०९अ)
कपालमालिका प्रौक्ता या देवी मुंडधारिणी ||
सा० || ४३ ||
भीषणा भैरवी नाम या देवी भीमविक्रमा ||
सा० || ४४ ||
न्यग्रोधवासिनी या च कथ्यते च सुरार्चिता ||
सा० || ४५ ||
भैरवी भीषया च भैरवाष्टक वंदिता ||
सा० || ४६ ||
प्रोच्यते दीर्घलंबोष्ठी महामया महाबला ||
सा० || ४७ ||
खड्वांगी या महाशक्तिः संसारार्णवत्तारिणी ||
सा० || ४८ ||
या समस्तेषु मंत्रेषु प्रोच्यते मंत्रवादिनी ||
सा० || ४९ ||
कालघ्नी कथ्यते या च युगांते परमेश्वरी ||
सा० || ५० ||
ग्राहिणीति समाख्याता सुरासुर महोरगैः ||
सा० || ५१ ||
चक्रिणी गद्यते या च एकपादा त्रिलोचना ||
सा० || ५२ ||
या विश्वबाहुका देवी विश्वनाथप्रिया सदा ||
सा० || ५३ ||
दर्शनेषु समस्तेषु विदिता भुवनेश्वरी ||
सा० || ५४ ||
कंटकोछेदनार्थाय शास्त्रे या कंटकी स्मृता ||
सा० || ५५ ||
कीलकी कथ्यते या च सप्तहस्ता महाबला ||
सा० || ५६ ||
संग्रामे या महादेवी महामारीति कथ्यते ||
सा० || ५७ ||
यमदूतीति विख्याता या सुरासुरपूजिता ||
सा० || ५८ ||
प्. १०९ब्)
करालिनीति या देवी महामया महाबला ||
सा० || ५९ ||
ललितांबा महाराजी सर्वं चक्रैक नायका ||
सा० || ६० ||
नासाग्रे कौलिनी स्थातु मदनाक्षी तथा मुखे ||
व्योमजंघे कपाले च तालुके चापि हारिणी || ६१ ||
द्राविणी क्षोभिणी चैव स्तंभिनी मोहिनी तथा ||
रौद्रकर्मा महाघंटा डामरि त्वरिता मति || ६२ ||
देवी रक्षतु मे गात्रं मस्तकं कुलनायकी ||
भूमिरापस्तथा तेजो वायुराकाशमेव च || ६३ ||
पंचभूतेषु भूतेशी सदारक्षतु मे कुलं ||
राज्यं ददातु मे चैंद्री प्रजां चैव प्रजावती || ६४ ||
माया ददातु मे नित्यं धनं धान्यं यशस्तथा ||
रणे राजकुले चैव शत्रुमध्ये महाब * || ६५ ||
रक्तनेत्रा महादेवी करोतु मम चिंतितं ||
समयासमयं रक्षेद्विद्या विद्या कुलागमे || ६६ ||
साधकानां जगन्नाथ भुक्तिमुक्तिफलप्रदा ||
द्विजटी त्रिजटी प्रोक्ता कंदली दविताखिला || ६७ ||
गायत्री चांबिका तारा पार्वति कमला प्रभा ||
मादिनी मदनोद्भावा मंदारी मदनातुरा || ६८ ||
भीषणाभीषणी नाम प्रेतसिद्धा बिभीषणा ||
क्षुधात्तृष्ठा तथा निद्रा कांतिर्वृधिस्तथा द्युतिः || ६९ ||
प् ११०अ)
संध्याधृत्ती रत्तिः क्षांतिर्ह्यनिशं परिपठ्यते ||
सुरनाथेति विख्याता नगरे नरदेवता || ७० ||
ग्रा * देवी ह्यधिष्ठात्री पीठे पीठेश्वरीं विदुः ||
कावेरी नर्मदा चैव गंगेति यमुनोच्यते || ७१ ||
गोदावरी महापुण्या प्रोच्यते चाप्यरुंधतीं ||
त्रैलोक्येपि महादेवी स्त्री नाम्नी या प्रकाशिता || ७२ ||
सा देवी रूपलक्षे तु स्थातु श्रीहृदये मम ||
सुवर्ण रेखिनी प्रोक्ता विद्या सा प्रोच्यते किल || ७३ ||
निर्मूलिनि भुजंगानां सा करोतु सुखं मम ||
कुरु कुल्लेति विख्याता पक्षिराज मुखोद्भवा || ७४ ||
या विद्या सा महारूपा जिह्वाग्रे स्थातु मे सदा ||
ओंकारिणीति विख्याता देहे स्थातु सदा मम || ७५ ||
विघ्नापहारिणी नाम कलिरूपविदारिणी ||
भेतंडा स्थातु मे कंठे तोतला स्थातु मस्तके || ७६ ||
यथा सुबलरेखापि मूले स्थातु सदा मम ||
जांगली विषनाशाय वाचां सिद्धिं करोतु मे || ७७ ||
सर्वसिद्धिकरी विद्या भुक्तिमुक्तिफलप्रदा ||
अहं ब्रह्मा अहं विष्णुरहं देवो महेश्वरः ||
सर्वभूतनिवासोहं लोकेश्री शक्तिचिंतकंः || ७८ ||
शक्तिन्यासेन पूतेन शरीरेण सुरासुराः ||
प्. ११०ब्)
प्रदत्ता देशमात्रेण आज्ञां कुर्वंतु मे सदा || ७९ ||
यत्किंचिद्योगिनीरूपं त्रैलोक्ये चापि शंकर ||
तत्सर्वं तिष्ठते देहे शक्तिन्यासे उपासिते || ८० ||
कामिनी कुरुते चापि या न्यासं शक्तिनिर्मितं ||
तां देवीं दिव्यरुपस्थां संसारे त्रिपुरां विदुः || ८१ ||
नमोस्तु ते जन्मातर्नमोस्तु भुवनेश्वरी ||
नमो भोगप्रदे देवि नमो देवि महेश्वरि || ८२ ||
प्रकटागोपिता सर्वा निर्वाणा भैरवी शिवा ||
संभ्रमा विजया हंसा शुभा सा जलदेवता || ८३ ||
यक्षिणी चूडा कन्या च तथा चाकाशगामिनी ||
भूचरी चरिता कुंभिः सर्वागम निवाशिनी || ८४ ||
रंगिनी देवमैत्री च प्रसिद्धा मदिरालिका ||
पूजिता सर्वसिध्यर्थं शास्त्रेऽस्मिन्योगिनी मते || ८५ ||
स्थायिनी कथ्यते सद्भिः सा नंदा वनवासिनी ||
चतुषष्ठ्या श्रयादेवी योगिन्यो येन चिंतिताः || ८६ ||
आधारे लीयमानासु स योगी योगविद्भवेत् ||
ललाटे मंडला स्थातु विरजा स्थातु मस्तके || ८७ ||
यकाक्षी दक्षिणे स्कंधे वामे चैव त्रिलोचना ||
जयंती स्थातु मे कुक्षौ कट्यां कंदर्प कुंडली || ८८ ||
मालिनी लिंग संधौ च हृदि स्थातु समाधिनी ||
प्. १११अ)
अंबिका पृष्ठवंशे च पार्श्वयो स्थातु मेदिनी || ८९ ||
दिग्गजांती नराग्रे च नागेंद्री नखसंधिषु ||
व्याघ्री चक्री च जंघायां स्थातु पादले मही || ९० ||
अमृता शंखिनी रंध्रे लोचने च विलासिनी ||
कालिंदी मूलजिह्वां च रक्तं रक्षतु रक्तिनी || ९१ ||
लांगली जांगलं रक्षेदस्थिनी चास्थिसंधिषु ||
मज्जिनी देहमज्जां तु शुक्रं शुक्रेश्वरी तथा || ९२ ||
त्वं च रक्षतु वेताली मम रोग प्रनाशिनी ||
उद्भटा कुरुते शांतिं सदैव मम विग्रहे || ९३ ||
पादापादतले स्थातु पथि रक्षतु पंथिनी ||
चौराग्नि राजसर्पेभ्यो भय रक्षतु भैरवी || ९४ ||
दुष्टानां दृष्टिबंधं तु करोतु बंधिनी सदा ||
चापेटीनी मया विद्या मंगलं मे करोतु सा || ९५ ||
मर्कटीघंटकर्णी च हनुमंती च रावणी ||
घुर्घुरी कीर्ति विख्याता वंदे विद्या चतुष्टयं || ९६ ||
चेटका ज्ञानदा विद्या कौमारी चरणांवली ||
विघ्नराजस्तुता नाम चतुष्टासंतानरूपिणी || ९७ ||
मूलाकाश स्थिता हंसी पातकी दलनोद्धता ||
दशैता मंत्रविद्यास्तु तिष्ठंतु मम मस्तके || ९८ ||
शुभामेग्रतः स्थातु लोहिता स्थातु दक्षिणे ||
प्. १११ब्)
वामांगे रतिकाले च पश्चिमे स्थातु शृंखला || ९९ ||
शिखायां शंखिनी रक्षेद्वस्त्रे वस्त्रवती शुभा ||
कवचे कवचांगी च नेत्रे नेत्र कृतोत्सवा || १०० ||
तिष्ठंति योगिनीरूपास्त्रैलोक्ये स चराचरे ||
योगिन्यो या स्तुताः सर्वां गेहं कुर्वंतु मे वपुः || १०१ ||
पुत्राणां च तथा देयं भक्तानां च विशेषतः ||
शक्तिन्यासमिदं देयं न देवं यस्य कस्यचित् || १०२ ||
मनुष्याणां महीलोके चिंतितार्थफलप्रदं ||
यः करोति मम न्यासं षोढान्यासादिकं प्रभो || १०३ ||
स जीवन् शक्तिरूपो वै त्रैलोक्योन्मूलनक्षमः ||
शक्तिन्यास कृते जीवे यः कश्चिछेदको भवेत् || १०४ ||
कर्मणा मनसा वाचा तस्य तापो भविष्यति ||
शक्तिन्यासमिदं प्रोक्तं तुभ्यं शंकर मे प्रियं || १०५ ||
येन देह नियुक्तेन शक्तितुल्यो नरो भवेत् ||
कुपितः कुरुते योगी त्रैलोक्यस्यापि पातनं || १०६ ||
शक्तिन्यासयुतो वीरो नमस्कारेण शंकर ||
स्फोटनं कुरुते साक्षात् पाषाण प्रतिमादिषु || १०७ ||
इति शक्ति न्यासः ||
अथ श्रीषोडशार्णामूलविद्यान्यासः ||
तत्र मंत्रवर्णेभ्योऽमृतं स्रवंतीं तेनामृतेन निजशरीरमाप्लावयंती
दीपाकारां ब्रह्मरंध्रस्थां महासौभाग्यदां श्रीविद्यां ध्यात्वा
प्. ११२अ)
दक्ष हस्तस्य मध्यमानामिकाभ्यां ब्रह्मरंध्रे प्रणव त्रितारादि
नमोंतां मूलविद्यां न्यसेत् || १ ||
पुनस्तामुच्चार्य वामहस्तेन सौभाग्यदंडिणीं मुद्रां बध्वा
वामकर्णप्रदेशे भ्रामयित्वा महत्सौभाग्यं मे देहि परसौभाग्यं
दंडयामीति वामांगदेशे मूर्द्धादि पादांतं विद्यां तथैव न्यसेत्
|| २ ||
वामे मुष्टिं दृढं बद्ध्वा तर्जनीं प्रविसारयेत् ||
भ्रामयेद्वामकर्णातं मुद्रा सौभाग्य दंडिनी || १ ||
तथैव पुनस्तामुच्चार्य मम शत्रून्निगृह्णामीति मत्वा रिपु जिह्वाग्रहां
मुद्रां दर्शयन् पादमूले न्यसेत् || ३ ||
अंगुष्ठगर्भितं मुष्टिं बध्नीयाद्वामपाणिना ||
रिपु जिह्वाग्रहाख्येयं मुद्रोक्ता शत्रुनाशिनी || १ ||
तथैव तामुच्चार्य त्रैलोक्यस्याहं कर्त्तेति ध्यायंस्त्रिखंडा मुद्रया
ललाटे तिलकत्वेन न्यसेत् || ४ || तथैव तामुच्चार्य वदने वेष्टनत्वेन विन्यसेत् || ५
|| तथैव तां उ० | दक्षिणकर्णादि वामकर्णांतं वेष्टनत्वेन मुखे
विन्यसेत् || ६ || पुनस्तथैव तां उ० || कंठादि मुखांतं विन्यसेत् || ७ ||
पुनस्तथैव तां उ० ||
प्. ११२ब्)
प्रणवसंपुटितामापादतलं || ८ || मस्तकात् पादादि हृदयांतं च
विन्यस्य || ९ || योनिमुद्रां बध्वा मूलविद्यया मुखे क्षिप्त्वा || १० || तथैव
प्रणमेत् || ११|| इति श्रीविद्यापूर्णजगद्वशीकरन्यासः ||
अ * संमोहनन्यासः ||
तत्र श्रीषोडशार्णां स्मरन् देवी कांत्या त्रैलोक्यमरुणवर्णं
ध्यायत्रनामिकां मूर्द्धानं परितो भ्रमयित्वा विन्यस्य || १ ||
श्रीषोडशार्णां तारादि नमोंतामंगुष्ठानामिकाभ्यां
ब्रह्मरंध्रे विन्यस्य || २ || मणिबंध द्वये पृथक् | विन्यस्य || ४ || ललाटे च
अनामिकेन विन्यसेत् || ५ || इति संमोहनन्यासः ||
अथ श्रीषोडशार्णा वर्णैः संहारन्यासः ||
तत्र पादयोः ४ प्रथम बीजं नमः || जंघयोः ४ द्वितीयं नमः || जान्वोः
४ तृतीयं नमः || कटयोः ४ चतुर्थं नमः || लिंगे ४ पंचमं नमः |
पृष्ठे ४ षष्ठं नमः | नाभौ ४ सप्तमं० | पार्श्वयोः ४ अष्टमं ||
स्तनयोः ४ नवमं || अंसयोः ४ दशमं || कर्णयोः ४ एकादशं ||
ब्रह्मरंध्रे ४ द्वादशं || वदनें ४ त्रयोदशं || लिंगे ४ चतुर्दशं |
कर्णशष्कुल्यों समिपे ४ पंचदशं | कर्णवेष्टनयोः ४ षोडशं बीजं
नमः ||
प्. ११३अ)
इति षोडशार्णैः संहारन्यासः ||
अथ षोडशार्णैः सृष्टिन्यासः ||
तत्र ब्रह्मरंध्रे | ४ प्रथमं बीजं नमः || ललाटे ४ द्वितीयं | नेत्रयोः ४
तृतीयं | कर्णयोः ४ चतुर्थं | घ्राणयोः ४ पंचमं | ओष्ठयोः
४ षष्ठं | दंतातरयोः ४ सप्तमं | दंतोर्ध्वे ४ अष्टमं || जिह्वायां ४
नवमं | मुखांतरे ४ दशमं | पृष्ठे ४ एकादशं | सर्वांगे ४
द्वादशं | हृदये ४ त्रयोदशं | स्तनयोः ४ चतुर्दशं | कुक्षौ ४
पंचदशं | लिंगे ४ षोडशं बीजं नमः | इति वर्णान्विन्यस्य समस्त
सोडशार्णाविद्ययाव्यापकं विन्यसेत् || इति सृष्टिन्यासः ||
अथ स्थितिन्यासस्तद्वर्णैः ||
तत्र करद्वयांगुष्ठयोः ४ प्रथमं बीजं नमः | एवं तर्जन्योः ४
द्वितीयं | मध्यमयोः ४ तृतीयं | अनामिकयोः ४ चतुर्थं | कनिष्ठयोः ४
पंचमं | ब्रह्मरंध्रे ४ षष्ठं | मुखे ४ सप्तमं | हृदि ४ अष्टमं |
नाभ्यादि पादांतं ४ नवमं || कंठादिनांभ्यंतं ४ दशमं |
ब्रह्मरंध्रादि कंठातं ४ येकादशं || पादांगुष्ठयोः ४ द्वादशं

तर्जन्योः ४ त्रयोदशं || तन्मध्यमयोः ४ चतुर्दशं | तदनामयोः ४
पंचदशं | तत् कनिष्ठयोः ४ षोडशबीजं नमः || इति स्थितिन्यासः ||
अथ श्रीषोडशार्णायांः पंचविधवर्णन्यासः ||
प्. ११३ब्)
त्र शिरसि ४ प्रथमं बीजं नमः || एवं मुखे ४ द्वितीयं नमः || दक्षनेत्रे
४ तृतीयं | वामनेत्रे ४ चतुर्थं | दक्षकर्णे ४ पंचमं | वामकर्णे
४ षष्ठं | दक्षनासापुटे ४ सप्तमं | वामनासापुटे ४ अष्टमं |
दक्षगंडे ४ नवमं | वामगंडे ४ दशमं | ओष्ठे ४ एकादशं | अधरे
४ द्वादशं | मुखाभ्यंतरे ४ त्रयोदशं | ऊर्ध्वदंते ४ चतुर्दशं | अधो
दंते ४ पंचदशं | वदने ४ षोडशं बीजं नमः || इत्येकः प्रकारः ||
तत्र सिरसि ४ प्रथमं बीजं नमः | सीमंते ४ द्वितीयं | भाले ४ तृतीयं |
भ्रूद्वये ४ चतुर्थं | नासायां | ४ पंचमं | वदने ४ षष्ठं |
दक्षबाहुमूले ४ सप्तमं | तन्मध्यसंधौ ४ अष्टमं | तन्मणिबंधे ४
नवमं | तदंगुलिमूले ४ दशमं | तद्दग्रे ४ एकादशं | वामबाहुमूले
४ द्वादशमं || तन्मध्ये ४ त्रयोदशं | तन्मणिबंधे ४ चतुर्दशं |
तदंगुलिमूले ४ पंचदशं | तदग्रे ४ षोडशं बीजं नमः || इति द्वितीयः
प्रकारः | ततः | शिरसि ४ प्रथमं | एवं ललाटे ४ द्वितीयं | दक्षनेत्रे ४
तृतीयं | वामने * ४ चतुर्थं | मुखे ४ पंचमं | जिह्वाग्रे ४ षष्ठं |
दक्षोरुमूले ४ सप्तमं | जानुनि ४ अष्टमं || तद्गुल्फे ४ नवमं | तदंगुलि
मूले ४ दशमं | तदंगुल्यग्रे ४ एकादशं || वामोरुमूले ४
प्. ११४अ)
द्वादशं | तज्जानुनि ४ त्रयोदशं | तद्गुल्फे ४ चतुर्दशं | तदंगुलिमूले ४
पंचदशं | तदंगुल्यग्रे षोडशं बीजं नमः || इति तृतीय प्रकारः ||
तत्र शिरसि ४ प्रथमं | मुखवृत्ते द्वितीयं | दक्षनेत्रे ४ तृतीयं | वामे ४
चतुर्थं | दक्षकर्णे ४ पंचमं | वामकर्णे ४ षष्ठं | दक्षघ्राणे ४
सप्तमं | वामघ्राणे ४ अष्टमं | दक्षगंडे ४ नवमं | वामगंडे ४
दशमं | ओष्ठे ४ एकादशं | अधरे ४ द्वादशं | ऊर्ध्व दंते ४
त्रयोदशं | अधोदंते चतुर्दशं | मूर्ध्नि ४ पंचदशं | जिह्वायां
४ षोडशं नमः || इति चतुर्थ प्रकारः ||
अथ ललाटे ४ प्रथमं | गले ४ द्वितीयं | हृदि ४ तृतीयं | नाभौ ४ चतुर्थं |
मूलाधारे ४ पंचमं | ब्रह्मरंध्रे ४ षष्ठं | हृदि ४ सप्तमं |
मूलाधारे ४ अष्टमं | पुनर्मूलाधारे नवमं || हृदि ४ दशमं |
ब्रह्मरंध्रे ४ एकादशं | दक्षकरतले ४ द्वादशं | कामकरतले ४
त्रयोदशं | दक्षपादे चतुर्दशं | वामपादे ४ पंचदशं | हृदये ४
सोडशं नमः || इति पंचम प्रकारः ||
ईथं न्यासं विधाये प्रणवसंपुटितां श्रीषोडशार्णां सर्वांगे
व्यापकत्वेन विन्यस्य पुनस्तथा विद्यां तां विद्यां हृदये न्यसेत् || एते
न्यासाः षोडशार्णोपासकैरेव कार्यः |
प्. ११४ब्)
नान्यैरिति गुरुशासनं || इति करशुध्यादयो न्यासाः ||
श्रीविद्यानंदनाथेन शिवयोः प्रिय सूनुना ||
कृते सौभाग्यरत्नाब्धौ तरंगो नवमो गमत् || १ ||
इति श्रीसच्चितानंदनाथचरणारबिंदद्वद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे नवमस्तरंगः || ९ ||
अथोर्ध्वाम्नाय न्यासः ||
स च त्रिविधाः || महाषोढान्यासः |
शंचरणादि षोडशमूलविद्या षडाधारमूलविद्यान्यासः
| षडन्वयशांभवन्यासश्चेति ||
तत्र पराप्रासादेनोर्ध्वाम्नाय दीक्षितानां महाषोढान्यासमात्रे
अधिकारः || चरणादि विद्यादीक्षितानां तदादि न्यासेष्वेवाधिकारः | न तु
माहाषोढान्यासे | उभयविध दीक्षितानां सर्वत्रैवाधिकार इति ||
तत्रादौ महाषोढान्यासः |
तत्र अस्य श्रीमहाषोढान्यासस्य ब्रह्मा ऋषिः जगतीछंदः |
श्रीमदर्द्धनारो देवता श्रीविद्यांगत्वेन न्यासे विनियोगः | इति ऋष्यादिकं
स्मृत्व्यमूर्द्धादिषु विन्यस्य | अंगं न्यासं कुर्यात् | अंगन्यासा तु
प्. ११५अ)
अंगुली देहवक्त्रात्मकः ||
तत्रादावंगुलिन्यासः |
तत्रांगुष्ठयोः | ओं ऐं ह्रीं श्रीं हसौः शौंः हों ईशानाय नमः ||
तर्जन्योः | ४ | २ हें तत्पुरुषाय नमः | मध्यमयोः ४ | २ हुं अघोराय नमः
| अनामिकयोः ४ | २ हीं वामदेवाय नमः | कनिष्ठिकयोः ४ | २ हं
सद्योजाताय नमः || १ ||
मूर्ध्नि ४ | २ हों ईशानाय नमः | मुखे ४ | २ हें तत्पुरुषाय नमः |
हृदये ४ | २ हुं अघोराय नमः | गुह्ये ४ | २ हिं वामदेवाय नमः | पादयोः
४ | २ हं सद्योजाताय नमः || २ ||
मूर्ध्नि ४ | २ हों ईशानाय ऊर्ध्ववक्त्राय नमः | मुखे ४ | २ हें
तत्पुरुषाय पूर्ववक्त्राय नमः | दक्षकर्णे ४ | २ हूं अघोराय
दक्षीणवक्त्राय० | वामकर्णे ४ | २ हीं वामदेवायोत्तरवक्त्राय नमः |
चोरकूपे ४ | २ हं सद्योजाताय पश्चिमवक्त्राय नमः | इति अंगन्यासः ||
अयं पंचवक्त्रन्यासः क्रमेणांगुष्ठादि
पंचांगुलिभिरेकैकांगुलिनेकैकवक्त्रे न्यस्तव्याः || इति अंगन्यासं |
विद्याय ततो हसां हसीमित्यादिभिः करशडंगन्यासं कृत्वा
वक्ष्यमाणरूपं देवं हृदये ध्यात्वा न्यसेत् ||
तत्रादौ प्रपंचन्यासः |
तद्यथा | ओं ऐं ह्रीं श्रीं हसौंः शौंः अं प्रपंचरूपायै श्रियै
नमः | एवं सर्वत्र || ६ ||
आं द्वीपरूपायै मायायै० | ६ इं जलधिरूपायै कमलायै० | ६
प्. ११५ब्)
ईं गिरिरूपायै विष्णुवल्लभायै० | ६ उं पत्तनरूपायै पद्मधारिण्यै
नमः | ६ ऊं पीठरूपायै समुद्रतनयायैः० | ६ ऋं क्षेत्ररूपायै
लोकमात्रे० | ६ ॠं च न रूपायै कमलवासिन्यै नमः || ६ ऌं
आश्रमरूपायै इंदिरायै० | ६ ॡं गुहारूपायै मायायै० | ६ एं
नदीरूपायै रमायै० | ६ ऐं चत्वररूपायै पद्मायै० | ६ ओं उद्भिज्जरूपायै
नारायणप्रियायै० | ६ औं स्वेदजरूपायै सिद्धलक्ष्म्यै० | ६ अं
अंडजरूपायै राजलक्ष्म्यै० | ६ अः जरायुजरूपायै महालक्ष्म्यै नमः | ६
कं लवरूपायै आर्यायै० | ६ खं त्रुटिरूपायै उमायै० | ६ गं
कलारूपायै चंडिकायै० | ६ घं काष्ठारूपायै दुर्गायै० | ६ ऽऽनं
निमेषरूपायै शिवायै० | ६ चं श्वासरूपायै अपर्णायै० | ६ छं
घटिकारूपायै अंबिकायै० | ६ जं मूहूर्त्तरूपायै सत्यै० | ६ झं
प्रहररूपायै ईश्वर्यै० | ६ ञं दिनरूपायै शांभव्यै० | ६ टं
संध्यारूपायै ईशान्यै० | ६ ठं रात्रिरूपायै पार्वत्यै० | ६ डं
तिथिरूपायै सर्वमंगला० | ६ ढं वाररूपायै दाक्षायण्यै० | ६ णं
नक्षत्ररूपायै हैमवत्यै० | ६ तं योगरूपायै महामायायै० | ६ थं
करणरूपायै माहेश्वयै० | ६ दं पक्षरूपायै मृडान्यै० | ६
प्. ११६अ)
धं मासरूपायै रुद्राण्यै० | ६ नं राशिरूपायै शर्वाण्यै० | ६
पं ऋतुरूपायै परमेश्वर्यै न० | ६ फं अयनरूपायै काल्यै० | ६ बं
संवत्सररूपायै कात्यायिन्यै० | ६ भं युगरूपायै गौर्ययै० | ६ मं
प्रलयरूपायै भवान्यै० | ६ यं पंचभूतरूपायै ब्राह्मै० | ६ रं
पंचतन्मात्ररूपायै वागीश्वर्यै० | ६ लं पंचकर्मेंद्रियरूपायै
वाण्यै० | ६ वं पंचज्ञानेंद्रियरूपायै सावित्र्यै० | ६ शं
पंचप्राणरूपायै सरस्वत्यै० | ६ षं गुणत्रयरूपायै गायत्र्यै० | ६ सं
अंतःकरणचतुष्टयरूपायै वाक्प्रद्दायै० | ६ हं अवस्थात्रयरूपायै
शारदायै० | ६ लं सप्तधातुरूपायै भारत्यै० | ६ ओं ऐं ह्रीं श्रीं
हसौंः शौंः क्षं दोषत्रयरूपायै विद्यात्मिकायै नमः ||
इत्येकपंचाशछक्तिर्मातृकास्थाने विन्यस्य
ततः ओं ऐं ह्रीं श्रीं हसौंः शौंः अकारादि क्षकांरांतां
मातृकामुच्चार्य सकलप्रपंचाधिदेवतायै श्रीपरांबा देव्यै नमः |
शौंः हसौंः श्री ह्रीं ऐं ओं सर्वांगे व्यापकं कुर्यात् || इति
प्रपंचन्यासः ||
अथ भुवनन्यासः ||
तत्र पादयोः ओं ऐं ह्रीं श्रीं हसौः शौंः अं आं इं अतललोकनिलये
शतकोटि गुह्याख्ययोगिनीमूलदेवता युताधारशक्त्यंबा देव्यै नमः ||
पादयोः ६ ईं उं ऊं वितललोकलोकनिलयशतकोटिगुह्यतरानंतयोगिनी मू० |
प्. ११६ब्)
जंघयोः ६ ऋं ॠं ऌं सुतललोकनिलयशतकोटि अतिगुह्याचिंत्ययोगिनि मू० | ६
जान्वोः ६ ॡं ऐं ऐं महातललोकनिलयशतकोटिमहागुह्य स्वतंत्रयोगिनी
मू० | ऊर्वोः ६ ओं औं तलातललोकनिलयशतकोटिपरमगुह्येछायोगिनी मू० |
स्फिच्योः | ६ अं अः रसातललोकनिलयशतकोटिरहस्य ज्ञा * योगिनी मू० |
मूलाधारे ६ कं खं गं घं ऽऽनं पाताललोकनिलये
शतकोटिरहस्यतरक्रियायोगिनी मू० | स्वाधिष्ठाने ६ चं० ४
भूर्लोकनिलयशतकोटि अतिरहस्य डाकिनी योगिनी मू० | मणिपूरके ६ टं० ४
भुवर्लोकनिलयशतकोटि महारस्य राकिनी योगिनी मू० | अनाहते ६ तं० ४
स्वर्लोकनिलयशतकोटिपरमरहस्य लाकिनी योगिनी मू० | विशुद्धौ ६ पं० ४
महर्लोकनिलयशतकोटिगुप्ततर काकिनी योगिनी मू० | आज्ञायां ६ यं० ३
जनलोकनिलयशतकोटिगुप्ततरसाकिनी योगिनी मू० | ललाटे ६ शं० ३
तपोलोकनिलयशतकोटि अतिगुप्तहाकिनी योगिनी मू० | ब्रह्मरंध्रे ६ लं क्षं
सत्यलोकनिलल्ये
प्. ११७अ)
शतकोटिमहागुप्तयाकिनी योगिनी मूलदेवता युताधारशक्त्यंबा देव्यै
नमः || इति विन्यस्य |
६ समस्तमातृकामूच्चार्य सकलभुवनाधिरूपायै श्रीपरांबा देव्यै
नमः शौंः हसौंः श्रीं ह्रीं ऐं ओं इति व्यापकं कुर्यात् || इति
श्रीभुवन्यासः ||
अथ मूर्तिन्यासः ||
तत्र शिरसि ओं ऐं ह्रीं हसौंः शौंः अंकेशवायाक्षरशक्त्यै नमः |
शिरसि | मुखे ६ आं नारायणायाद्या शक्त्यै० | दक्षिणासे ६ इं
माधवायेष्टदायै० | वामांसे ६ ईं गोविंदाय शांतायै० |
दक्षपार्श्वे ६ उं विष्णवे उग्रायै० | वामपार्श्वे ६ ऊं
मधुसूदनायोर्ध्व नयनायै० | दक्षकट्यां ६ ऋं त्रिविक्रमाय ऋध्यै० |
वामकट्यां ६ ॠं वामनाय रूपिण्यै० | दक्षोरौ ६ ऌं श्रीधराय
लुप्तायै नमः | वामोरौ ६ ॡऋ हृषिकेशाय लूनदोषायै० | दक्षजानुनि ६ एं
पद्मनाभायैक नायिकायै० | वामजानुनि ६ ऐं दामोदरायै कारिण्यै० |
दक्षजंघायां ६ ओं वासुदेवायौघवत्यै० वामजंघायां ६ औं
संकर्षणायौर्वकायै० | दक्षपादे ६ अं प्रद्युम्नायांजनप्रभायै० |
वामपादे अः अनिरुद्धायास्थिमालाधरायै० | दक्षपादाग्राद्यू *?
मूलपर्यंतं ६ कं भवायकरभद्रायै० ||
प्. ११७ब्)
वामपादाग्राद्यूरू मूलपर्यंतं ६ खं बं शर्वाय खगबलायै० |
दक्षपार्श्वे ६ गं फं रुद्राय गरिमादिफलप्रदायै० | वामपार्श्वे ६
घं पं पशुपतये घोरपादायै० | दक्षदोर्मूले ६ ऽऽनं नं उग्राय
पंक्तिनासायै० | वामदोर्मूले ६ चं धं महादेवाय
चंद्रार्धधारिण्यै० | कंठे ६ छं दं भीमाय छंदोमययै० | वदने ६
जं थं ईशानाय जगत्स्थानायै० | दक्षकर्णे ६ झं तं तत्पुरुषाय
झंकृत्यै० | वामकर्णे ६ ञं णं अघोराय ज्ञानदायै नमः | भाले
६ टं ढं सद्योजाताय टंकढक्वधरायै० | शिरसि ६ ठं डं
वामदेवाय ठं प्रकृति डामर्यै० | मूलाधारे ६ मयं ब्रह्मणे
यक्षिण्यै० | स्वाधिष्ठाने ६ रं प्रजापतये रंजिन्यै० मणिपूरके | ६ लं
वेधसे लक्ष्म्यै० | अनाहते ६ वं परमेष्ठिने वज्रिण्यै० | विशुद्धौ ६ शं
पितामहा यशशिधरायै० | आज्ञायां ६ षं विधात्त्रे षडाधारालयायै०
| अर्द्धेंदौ ६ सं विरिंचये सर्वनायिकायै० | भालांते ६ हं स्रष्ट्रे
हसिताननायै० | नादे ६ लं चतुराननाय ललितायै० | नादांते ६ क्षं
हिरंण्यगर्भाय क्षमायै नमः इति विन्यस्य | ओं ऐं ह्रीं श्रीं हसौंः
सहौंः सकलमातृकामुच्चार्य सकलत्रिमूर्त्यात्मिकायै
प्. ११८अ)
श्रीपरांबा देव्यै नमः शौंः हसौंः श्रीं ह्रीं ऐं ओं इति व्यापकं
कुर्यात् || इति मूर्तिन्यासः ||
अथ मंत्रन्यासः ||
तत्र मूलाधारे ओं ऐं ह्रीं श्रीं हसौंः शौंः अं आं इं
एकलक्षकोटिभेदप्रणवाद्येकाक्षरात्मिकाखिलमंत्राधिदेवतायै
सकलफलप्रदायै एककूटेश्वर्यंबा देव्यै नमः | स्वाधिष्ठाने ६ ईं उं
ऊं द्विलक्षकोटिभेद हंसादि द्व्यक्षरात्मकाखिलमंत्राधिदेवतायै
सकलफलप्रदायैं त्रिकूटेश्वर्यंबा देव्यै नमः | अनाहते ६ ॡं एं ऐं
चतुर्लक्षकोटिभेद चंद्रादि चतुरक्षरात्मकाखिलमंत्राधिदेवतायै
चतुःकूटेश्वर्यंबा देव्यै नमः || विशुद्धौ ६ ओं औं अं अः
पंचलक्षकोटिभेद सूर्यादि पंचाक्षरात्मिकाखिल० पंचकूटेश्व० |
आज्ञायां ६ कं खं गं षट्लक्षकोटिभेद
स्कंदादि षडक्षरात्मकाखिल० षट्कूटेश्व० | इं बिदौ ६ घं ऽऽन चं
सप्तलक्षकोटिभेदगणपत्यादि सप्ताक्षरात्मकाखिल० सप्तकूटेश्व० |
अर्द्धेंदौ ६ छं जं सं अष्टलक्षकोटिभेद
बटुकाद्यष्टाक्षरात्मकाखिल० अष्टकूटेश्व० | रोधिन्यां ६
ञं टं ठं नवलक्षकोटिभेद ब्रह्मादि नवाक्षरात्मकाखिल०
नवकूटेश्व० |
प्. ११८ब्)
नादे ६ डं ढं णं दशलक्षकोटिभेद विष्णवादि
दशाक्षरात्मकाखिल० दशकूटे० | नादांते ६ तं थं दं
एकादशलक्षकोटिभेद रुद्राद्येकादशाक्षरात्मकाखिल० एकादशकूटेश्व०
| शक्तौ ६ धं नं पं
द्वादशलक्षकोटिभेदवाण्यादिद्वादशाक्षरात्मकाखिल०
द्वादशकूटेश्व० | व्यापिकायां ६ फं ब मं त्रयोदशलक्षकोटिभेद
लक्ष्म्यादि त्रयोदशाक्षरात्मकाखिल० त्रयोदशकूटेश्व० | समनास्थाने ६
मं यं र.ं चतुर्दशलक्षकोटिभेदगौर्यादि चतुर्दशाक्षरात्मकाखि०
चतुर्दशकूटेश्व० | उन्मन्यां ६ लं वं शं पंचदशलक्षकोटिभेद
दुर्गादिपंचदशाक्षरात्मकाखिल० पंचदशकूटेश्व० | ध्रुवमंडले
६ षं सं हं लं क्षं षोडशलक्षकोटिभेद
त्रिपुरादिषोडशाक्षरात्मकाखिलमंत्राधिदेवतायै
सकलफलप्रदायै षोडशकूटेश्वर्यंबा देव्यै नमः |
ततः ओं ऐं ह्रीं श्रीं हसौंः शौंः कलमातृकामुर्च्चार्य
सकलमंत्राधिदेवतायै श्रीपरांबा देव्यै नमं शौंः ह्सौंः श्रीं
ह्रीं ऐं ओं इति व्यापकं कुर्यात् || इति मंत्रन्यासः |
अथ दैवतन्यासः ||
तत्र दक्षपादे ओं ऐं ह्रीं श्रीं हसौंः शौंः अं आं
प्. ११९अ)
सहस्रकोटि ऋषिकुलसेवितायै निवृत्यंबा देव्यै नमः || वामपादे ६ इं ईं
सहस्रकोटियोगिनी कुलसेवितायै प्रतिष्ठांबा देव्यै० | दक्षगुल्फे ६ उं ऊं
सहस्रकोटितपस्विकुलसेवितायै विद्यांबा देव्यै० | वामगुल्फे ६ ऋं ॠं
सहस्रकोटिशांतकुलसेवितायै शांत्यंबा देव्यै नमः | दक्षजंघायां
६ ऌं ॡं सहस्रकोटिमुनिकुलसेवितायै शात्यतीतांबां देव्यै० |
वामजंघायां ६ ऐं ऐं सहस्रकोटिदैवतकुलसेवितायै हृल्लेखांबा
देव्यै० | दक्षजानुनि ६ ओं औं सहस्रकोटिराक्षसकुलसेवितायै गगनांबा
देव्यै० | वामजानुनि ६ अं अः सहस्रकोटि विद्याधरकुलसेवितायै रक्तांबा
देव्यै० | दक्षोरौ ६ कं खं सहस्रकोटिसिद्धकुलसेवितायै महोछुष्मांबा
देव्यै० | वामोरौ ६ गं घं सहस्रकोटिसाध्यकुलसेवितायै करालिकांबा
देव्यै० | दक्षोरुमूले ६ ऽऽनं चं सहस्रकोटि अप्सरः कुलसेवितायै जयांबा
देव्यै० | वामे ६ छं जं सहस्रकोटिगंधर्वकुलसेवितायै विजयांबा
देव्यै० | दक्षपार्श्वे ६ झं ञं सहस्रकोटिगुह्यकुलसेवितायै अजितांबा
देव्यै० | वामपार्श्वे ६ टं ठं सहस्रकोटि यक्षकुलसेवितायै
अपराजितापरांबा देव्यै० | दक्षस्तने
प्. ११९ब्)
६ डं ढं सहस्रकोटिकिंन्नरकुलसेवितायै वामांबा देव्यै० | वामस्तने ६
णं तं सहस्रकोटिपन्नगकुलसेवितायै ज्येष्ठांबा० | दक्षदोर्मूले ६ थं
दं सहस्रकोटिपितृकुलसेवितायै रौद्र्यंबा दे० | वामदोर्मूले ६ ध नं
सहस्रकोटिगणेश्वरकुलसेवितायै मायांबा० | दक्षभुजे ६ पं फं
सहस्रकोटिभैरवकुलसेवितायै कुंडलिन्यंबा० | वामभुजे ६ बं भं
सहस्रकोटिबटुककुलसेवितायै काल्यंबा० | दक्षांसे ६ मं यं
सहस्रकोटिक्षेत्रेशकुलसेवितायै कालरात्र्येंबा० | वामांसे ६ रं लं
सहस्रकोटिप्रथमकुलसेवितायै भगवत्यंबा० | दक्षकर्णे ६ वं शं
सहस्रकोटि ब्रह्मकुलसेवितायै सर्वेश्वर्यंबा० | वामकर्णे ६ षं सं
सहस्रकोटिविष्णुकुलसेवितायै सर्वज्ञांबा० | भाले ६ हं लं
सहस्रकोटिरुद्रकुलसेवितायै सर्वकर्त्र्यंबा दे० | ब्रह्मरंध्रे ६ क्षं
सहस्रकोटिचराचरकुलसेवितायै कुलशक्त्यंबा देव्यै नमः |
ततः ६ सकलमातृकामुच्चार्य समस्तदैवताधिरूपायै श्रींपरांबा
देव्यै नमः शौंः हसौंः श्री ह्रीं ऐं ओं इति व्यापकं कुर्यात् || इति
दैवतन्यासः ||
अथ मातृकान्यासः ||
प्. १२०अ)
तत्र मूलाधारे ओं ऐं ह्रीं श्रीं हसौंः शौंः कं० ४
अनंतकोटिभूचरीकुलसहितायै आं क्षां मंगलांबा देव्यै० | आं
क्षां ब्रह्माण्यंबा देव्यै अनंतकोटिभूतकुलसहिताय अं क्षं
मंगलनाथाय अं क्षं असितांगभैरवाय नमः || स्वाधिष्ठाने ६ चं०
४ अनंतकोटिखेचरीकुलसहितायै ईं लां चर्चिकांबा देव्यै ईं लां
माहेश्वर्यंबा देव्यै अनंतकोटिवेतालकुलसहिताय इं लं चर्चिकनाथाय
इं लं रु रु भैरवाय नमः | मणिपूरके ६ टं० ४
अनंतकोटिपातालचरीकुलसहितायै ऊं हां योगेश्वर्यंबा देव्यै ऊं
हां कौमार्यंबा देव्यै अनंतकोटिपिशाचकुलसहिताय उं हं
योगेश्वरनाथाय उं हं चंडभैरवाय नमः || अनाहते ६ तं० ४
अनंतकोटिदिक्चरी कुलसहितायै ॠं सांहरसिद्धांबा देयवै ॠं सां
वैष्णव्यंबा देव्यै अनंतकोटि दिकचरकुलसहिताय ऋं सं
हरसिद्धनाथाय ऋं सं क्रोधभैरवाय नमः | विशुद्धौ ६ पं० ४
अनंतकोटि सहचरी कुलसहितायै ऌं षां भट्टिन्यंबा देव्यै ॡ षां
वाराह्यंबा देव्यै अनंतकोटिब्रह्मराक्षसकुलसहिताय ऌं षं
भट्टिनाथाय ऌं षं उन्मत्ते
प्. १२०ब्)
भैरवाय नमः || आज्ञायां ६ यं ३ अनंतकोटिगिरिचरीकुलसहितायै ऐं
शां किलि किलांबा देव्यै ऐ शां इंद्रांण्यंबा देव्यै
अनंतकोटिचेटककुलसहिताय एं शं किलि किलनाथाय एं शं
कपालभैरवाय नमः || भाले ६ शं ३ अनंतकोटिवनचरीकुलसहितायै औं
वां कालरात्र्यंबा देव्यै औं वा चामुडांबा देव्यै अनंतकोटि
प्रेतकुलसहिताय ओं वं कालरात्रिनाथाय ओं वं भाषणभैरवाय
नमः | ब्रह्मरंध्रे ६ लं क्षं अनंतकोटिजलचरीकुलसहितायै अः लां
भीषणांबा देव्यै अः लां महालक्ष्म्यंबा देव्यै
अनंतकोटिकूष्माडकुलसहिताय अं लं भीषणनाथाय अं लं
संहारभैरवाय नमः ||
ततः ओं ऐं ह्रीं श्रीं हसौंः शौंः अं आं ५१ समस्तमातृका
भैरवादि देवतायै श्रीपरांबा देव्यै नमः शौंः हसौंः श्रीं ह्रीं
ऐं ओं इति व्यापकं कुर्यात् || इति मातृकान्यासः ||
इति महाषोढान्यासः ||
प्रपंचो भुवनो मुर्तिन्मंत्रः दैवत मातरः ||
महाषोढाहुयो न्यास सर्वन्यासो तमोतमः ||
ततः पूर्वोक्तैः हसां हसीं इत्यादिभिः करषडंगन्यासं विधाय
देवं ध्यायेत् तद्यथा ||
प्. १२१अ) अमृतार्णव मध्योद्यत्स्वर्ण द्वीपे मनोरमे ||
कल्पवृक्षवनांतस्थै नवमाणिक्यमंडपे || १ ||
नवरत्नमय श्रीमत्सींहासनगतांबुजे ||
त्रिकोणांतः समासीनं चंद्रसूर्यशतप्रभं || २ ||
अर्द्धाबिका समायुक्तं प्रविभक्तविभूषणं ||
कोटिकंदर्पलावण्यं सदाषोडशवार्षिकं || ३ ||
मंदस्मित मुखो भोजं त्रिनेत्रं चंद्रशेखरं |
दिव्यांबर स्रगालेपं दिव्याभरणभूषितं || ४ ||
पानपात्रं च चिन्मुद्रां त्रिशूलं पुस्तकं करैः ||
विद्यां संसदि बिभ्राणं सदानंदमुखे क्षणं || ५ ||
महाषोढोदिता शेष देवतागणसेवितं ||
एवं चित्तांबुजे ध्यायेदर्द्धनारीश्वरं शिवं || ६ ||
पुं रूपं वा स्मरेद् देवि स्त्रीरूपं वा विचिंतयेत् ||
अथवा निष्कलं ध्यायेत् सच्चिदानंदलक्षणं || ७ ||
सर्वन्तेजो मयं ध्यायेत् स चराचर विग्रहं ||
इति स्वाभेदेन ध्यात्वा योनिलिंगधेनुकपालज्ञानत्रिशूलपुस्तकवनमाला
नमस्कार महामुद्रा इति दशमुद्रा विरच्य शिरसि श्रीगुरुं ध्यायेत् || यथा ||
सहस्रदलपंकजे सकलसीतरश्मिप्रभं
प्. १२१ब्)
वराभयकरांबुजं विमलगंधपुष्पांबरं ||
प्रसन्नवदने क्षणं सकलदेवतारूपिणं
स्मरे छिरशि संततं तदभिधानपुर्वं गुरुं || १ ||
इति श्रीगुरु ध्यात्वा ||
तद्विद्यया तत्पादुकां शिरसि विन्यस्य प्रणम्य स्वगुरुकृतं स्वनाम
स्वमूलाधारे स्मृत्वा शिवरूपं स्वात्मानं ध्यायेत् ||
अथ महाषोढान्यासफलं ||
श्रीकुलार्णवे ||
एवं न्यासे कृते देवि साक्षात् परशिवो भवेत् ||
मंत्री न चात्रसंदेहो निग्रहानुग्रहे क्षमः || १ ||
महाषोढा ह्वयंन्यासं यः करोति दिने दिने ||
देवाः सर्वे नमस्यंति तंत्रमामि न संशयाः || २ ||
महाषोढा ह्वयंन्यासं यत्र मंत्री न्यसेत् ततः ||
दिव्यक्षेत्रं समुद्दिष्टं समताद्दशयोजनं || ३ ||
कृत्वान्यासमिमं देवि यत्र गछति मानवः ||
तत्र श्रीर्विजयो लाभः समान्यः पुरुषः प्रियो || ४ ||
महाषोढा कृतन्यासस्त्वदीक्षायाभि वंदते ||
समासान् मृत्युमाप्नोति यदि शता शिवः स्वयं || ५ ||
वज्रपंजरनामानमेनं न्यासं करोति यः ||
दिव्यांतरिक्षभूशैल्य जलारण्यनिवासिनः || ६ ||
उद्दंडभूतवेताल देवरक्षोग्रहादयः ||
भयग्रस्तेन मनसा नेक्षंते साधकं प्रिये || ७ ||
प्. १२२अ)
महाषोढा ह्वयं न्यासं ब्रह्मविष्णु शिवादयः ||
देवा सर्वे प्रकुर्वंति ऋषयश्च मुनीश्वराः || ८ ||
बहुनोक्तेन किं देवि सुशिष्याय प्रकाशयेत् ||
अक्षयां लभते सिद्धिं रहसि न्यासमाचरेत् || ९ ||
अस्मात् परतरः साक्षाद् देवता भाव सिद्धिदः ||
लोके नास्ति न संदेहो सत्यं सत्यं न संशयः || १० ||
उर्ध्वाम्नाय प्रवेशश्च पराप्राप्तादचिंतनं ||
महाषोढा परिज्ञानं नाल्पस्य तपसः फलं || ११ ||
इत्थं महाषोढा न्यासं विधाय चरणादि दीक्षायुक्तश्चेत् तद्विषयकं
न्यासं कुर्यात् || तत्रादौ बिश्रां चरणन्यासन्तत्र शिरसि ओं ऐं ह्रीं श्रीं
हं सः शिवः हसौंः सोहं तुरीय विद्यामुच्चार्य सच्चिदानंदज्योतिरहं
|| ओं ऐं ह्रीं श्रीं हं सः शिवः हसौंः सोहं तुरीय विद्यामुच्चार्य
सच्चिदानंदज्योतिरहमेव || ओं ऐं ह्रीं श्रीं हं सः शिवः हसौंः
सोहं तुरीय विद्यामुच्चार्य सच्चिदानंदज्योतिरहमेवास्मि || इति चरचरण
त्रयं संघट्टमुद्रया विन्यस्य क्षणं विश्रम्य ||
अथ शंभुचारणन्यास कुर्यात् ||
तत्र शिरसि ओं ऐं ह्रीं श्रीं ओं योहमस्मि ब्रह्मौ वाहमस्मि सोहं
स्वछप्रकाश
प्. १२२ब्)
परिपूर्णपरापर महाप्रकाशपरिपूर्णानंदनाथ श्रीपादुकां
पूजयामि नमः || इति संघट्टमुद्रया विन्यस्य स्वात्मानं
सकलप्रपंचोत्तीर्णं संविदेक स्वभावं सच्चिदानंदमयं विचित्य
पंचांबान्यासं कुर्यात् || तद्यथा ||
तत्र शिरसि ओं ऐं ह्रीं श्रीं आदिनाथव्योमातीतांबा श्रीपादुकां पू० ||
४ अनादिनाथव्योमेश्वर्यंबाश्री || ४ अनामयनाथव्योमगांबाश्री० || ४
अनंतानंदनाथव्योमचारिण्यंबाश्री० || ४
चिदाभासानंदनाथव्योमस्थांबाश्री० || ४ इति पंचांबान्यासः ||
अथ नवाकाशनाथन्यासः ||
तत्र शिरसि ४ हं उन्मनाकाशानंदनाथश्री० || ४ सं
समथाकाशानंदनाथश्री० || ४ क्षं व्यापकाकाशानंदनाथश्री० || ४
मं शक्त्याकाशानंदनाथश्री० || ४ लं ध्वन्याकाशानंदनाथश्री० ||
४ वं ध्वनिमात्राकाशानंदनाथश्री० || ४ रं अनाहताकाशानंद *
थश्री० || ४ यं इंद्वाकाशानंदनाथश्री० || ४ ऊं
बिंद्वाकाशानंदनाथश्री० || ४ हसक्षमलवरयूं
समस्ताकाशानंदनाथश्री० || इति नवाकाशनाथन्यासः ||
अथात्मानंदादि नवनाथन्यासः ||
त्तत्र शिरसि ४ आत्मानंदनाथश्री० | ४ परमात्मानंदनाथश्री० |
प्. १२३अ)
४ (चिदानंदनाथश्री० | ४) शांभवानंदनाथश्री० | ४
चिन्मुद्रानंदनाथश्री० | ४ वाग्भवानंदनाथश्री० | ४
लीलानंदनाथश्री० | ४ संभ्रमानंदनाथश्री० | ४ चिदानंदनाथश्री० |
४ प्रसन्नविश्वानंदनाथश्री० | ४ आत्रोर्ध्वाम्नाये पंचाबा दिव्यौघाः |
नवाकाशनाथाः सिद्धौघः | आत्मानंदनाथादयो मानवौघाः || इति
गुरुपंक्तिन्यासः ||
संघट्टमुद्रया शिरस्येव न्यसनीयाः ||
अथ स्वपारंपर्यन्यासः ||
तत्र ओं ऐं ह्रीं श्रीं हीं श्रीं यज्ञेश्वरानंदनाथ सौः
संविदानंदनाथ श्रीपादुकां पूजयामि नमः | ६ स्वात्मानंदनाथ
सौः सच्चिदानंदनाथश्री० | ६ चिदानंदनाथ सौः
संविदानंदनाथश्री० | ६ ब्रह्मानंदनाथ सौः सच्चिदानंदनाथश्री०
| ६ पूर्णानंदनाथ सौः संविदानंदनाथश्री० | ६
ततः स्वगुरुपादुकां प्राग्वत् न्यसेत् || इति स्वपारंपर्यन्यासः ||
अथ षोडशमूलविद्यान्यासः ||
तत्र शिरसि ४ स्वछप्रकाशपरिपूर्णपरापर महासिद्धविद्याकुलयोगिनी ह्रीं
कुलयोगिनी पंचविंशार्णामूलविद्या श्रीपादुकां पूजयामि | ४ हसौंः
आत्मानं बोधय
प्. १२३ब्)
बोधय शौंः एकादशाक्षरी प्रासादे परांबा मूलविद्या श्री ४ ऐं
ब्लूं क्लिन्ने क्लेदिनि महामदद्रवे क्लीं क्लेदय क्लेदय क्लां क्लीं मोहय
मोहय क्लीं नमः स्वाहा त्रयश्त्रिंशदक्षरा अतिरहस्य योगिनी
मूलविद्याश्री० || ४ हं सः स्वछानंद परमहंसपरमात्मे स्वाहा सह
क्ष्रौं एकविंशदक्षरा शांभवी मूलविद्याश्री० || ४ ह्रीं नित्यस्फुरत्ता
चैतन्यानंदमयी महाबिंदु व्यापक मातृस्वरूपिणी ऐं ह्रीं श्रीं ईं
३० | ४ त्रिंशदक्षरा चिद्धृल्लेखा मूलविद्याश्री० | ४ ऐं ह्रीं श्रीं
स्वछप्रकाशात्मिके ह्रीं कुलमहामालिनि ऐं कुलगर्भमातृके ह्रीं लं
समयविमले श्रीं समयविमलामूलविद्याश्री० | ४ हं सः
नित्यप्रकाशात्मिके कुलकुंडलिनि आज्ञासिद्धि महाभैरवि आत्मानं बोधय
बोधय अंबे भगवति ह्रीं हूं परबोधिनि मूलविद्याश्री० || ४ ओं मोक्षं
कुरु कुलपंचाक्षरी मूलविद्याश्री० || ४ लोपामुद्रा
पंचदशाक्षरीमुच्चार्य चैतन्यत्रिपुरा मूलविद्याश्री० || ४
ऐं शुद्धसूक्ष्मनिराकार निर्विकल्प परब्रह्मस्वरूपिणि क्लीं
परानंदशक्ति सौः शांभवानंदनाथ अनुत्तरकौलिनी
प्. १२४अ)
मूलविद्याश्री० || ४ हं सः सोहं स्वछानंदपरहंस परमात्मने
स्वाहा गुरूत्तम विमर्शिनी मूलविद्याश्री० || ४ अनामाख्या
व्योमातीतनाथपरापरव्योमातीतव्योमेश्वरी अंबा
अनामाख्यमूलविद्याश्री० || ४ ऐं इं ईं ऊं संकेतसारामूलविद्याश्री०
|| ४ ह्रीं भगवति विच्चै वाग्वादिनि ह्रीं क्लीं महाह्रद महामातंगिनि ऐं
क्लिन्ने ब्लूं स्त्रीं अनुत्तर वाग्वादिनि मूलविद्याश्री० || ४ हस्रैं ख्फ्रें
हस्क्लें हस्रौः अनुत्तरशांकरी मूलविद्याश्री० || ४ तुरीयविद्यामुच्चार्य
सर्वानंदमये महाचक्रे बैदवे परब्रह्मस्वरूपिणी परामृतशक्तिः
सर्वमंत्रेश्वरी सर्वविद्येश्वरी सर्वपीठेश्वरी सर्वविरेश्वरी
सर्वयोगेश्वरी सर्ववागीश्वरी सर्वसिद्धेश्वरी सकलजगदुत्पत्तिमातृकाः
सचक्राः सदेवताः समुद्राः ससिद्धाः सायुधाः सवाहनाः सपरिवाराः
सशक्तिकाः सालंकाराः सर्वोपचारैः संपूजिताः संतु
शून्याशून्यविवर्जितशक्ति श्रीमहात्रिपुरसुंदरी मूलविद्या श्रीपादुकां
पूजयामि १६ इति चरणादि षोडशविद्यांताः संघट्टमुद्रया शिरस्येव
न्यसेत् | संघट्टमुद्रा तु शिवशक्त्यात्मक
प्. १२४ब्)
दक्षिणवामकरयोः पृथक् पृथक् कनिष्ठारहितांगुलिचतुष्ठयाग्र
योगरुपा युगपदधोमुखं शिरसि निहिता भवति |
इति षोडसमूलविद्यान्यासः ||
अथ षडाधारविद्यान्यसः ||
तत्र मूलाधारे ४ हं सः स्वानंदविभूत्यै स्वाहा मूलाधारविद्याश्री
पा० | इत्यादि १ || स्वाधिष्ठाने ४ सोहं परमहंसविभूत्यै स्वाहा
स्वाधिष्ठानविद्याश्रीपा० || २ || मणिपूरके ४ हं सः सोहं
स्वछानंदपरमहंसपरमात्मने स्वाहा मणिपूरकविद्याश्री० || ३ ||
अनाहते ४ हं सः स्वात्मानं बोधय बोधय स्वाहा परात्मानंदनाथ
अनाहतविद्याश्री० || ४ || विशुद्धौ ४ सोहं परमात्मानं बोधय स्वाहा २
स्वात्मानंदनाथविशुद्धविद्याश्री० || ५ || आज्ञायां ४ हं सः सोहं
स्वाछानंदनाथ चित्प्रकाशामृत हेतवे स्वाहा आज्ञाविद्या श्रीपादुकां
पूजयामि || ६ || इति षडाधारमंत्रान् त्तत्तच्चक्रे मनसा विन्यस्य पुनः
संघट्टमुद्रया शंभुचरणमात्रं विन्यस्य स्वात्मानं शिवरूपं
ध्यायेत् || इति चरणादिन्यासः ||
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ||
कृते सौभाग्यरत्नाब्धौ तरंगो दशमोगंमत् || १ ||
१२५अ)
इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वाते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे दशमस्तरंगः || १० ||
अथ षडन्वयशांभवदीक्षायुक्तश्चेत्तत्तंत्रोक्त न्यासान् कुर्यात् || तद्यथा

ओं ऐं ह्रीं श्रीं हस्फ्रें हसौः हसक्षमलवंरयूं
सहक्षमलवरयीं श्री-अमुकानंदनाथ हसौः हस्फ्रें श्रीं ह्रीं ऐं
ओं श्रीपादुकां पूजयामि० || इति शांभवतंत्रोक्त गुरुपादुका विद्यया
श्रीगुरुपादुकां शिरसि संघटमुद्रया विन्यस्य ध्यात्वा गधादिभिः
संपूज्य || ६ दक्षिणांसे ऐं ह्रीं श्री हस्फ्रें हसौः ग्लौं हसौः
हस्फ्रें श्रीं ह्रीं ऐं हेरंबाय नमः || वामांसे ऐं ह्रीं श्रीं
हस्फ्रें हसौः उं हसौः हस्फ्रें श्रीं ह्रीं ऐं दुर्गायै नमः ||
दक्षोरौ ५ बं ५ बटुकभैरवाये नमः || वामोरौ ५ सं ५ सरस्वत्यै नमः ||
हृदये ५ ह्रीं हुं हं क्षं ज्वालामुखभैरवाज्ञया मांसावृद्रक्ष
रक्ष हूं स्वाहा ५ क्षेत्रपालाय नमः || मुखे ५ पं ५ परमात्मने नमः
|| इति विन्यस्य पूजयित्वा बाह्य ५ ओं नमो भगवति नीलवज्रासने मम शरीर
रक्ष रक्ष हूं फट् स्वाहा ५ आत्मासनाय नमः | इति स्वासनं पूज्य ||
प्. १२५ब्)
दक्षवामहस्तौ शिवशक्त्यात्मकौ ध्यात्वा सहस्रः फः अस्त्राय फट् इति
मंत्रेण तालत्रयं दशदिग्बंधनमग्निप्राकारं न्व कृत्वा कनिष्ठयोः
५ ग्लूं गगनरत्नाय ग्लूं ५ नमः || अनामयोः ५ स्लूं स्वर्गरत्नाय स्लूं
५ नमः || मध्यमयोः ५ म्लूं मर्त्यरत्नाय म्लूं ५ नमः || तर्जन्योः ५
प्लूं पातालरत्नाय प्लूं ५ नमः || अंगुष्ठयोः ५ न्लूं नागरत्नाय
न्लूं ५ नमः || करतल करपृष्ठयोः ५ ग्लूं स्लूं म्लूं प्लूं न्लूं
पंचरत्नाय ५ नमः || इति पंचरत्नन्यासः ||
ततः ५ सहस्रौं ऐं फें ५ इति परमेश्वर परमेश्वरी विद्याभ्यां
करयोर्व्यापकं कृत्वा मूर्द्धादि पादांतं सर्वांगव्यापकं कुर्यात् ||
ततः ५ सहस्रां फां ५ हृदयाय नमः || ५ सहस्रीं फीं शिरसे स्वाहा || ५
सहस्रुं फूं ५ शिखायै वषट् || ५ सहस्रैं फैं ५ कवचाय हुं || ५
सहस्रौं फौं ५ नेत्रत्रयाय वौषट् || ५ सहस्र फः ५ अस्त्राय फट् || इति
कनिष्ठादितलांतं करयोर्विन्यस्य हृदयादिषु च न्यसेत् ||
अथ वक्त्रन्यासः ||
तत्र चूडाधः ५ शस्त्रौं फां ५ पश्चिमवक्त्राय नमः || वामकर्णे ५
श्स्रीं फीं ५ उत्तरवक्त्राय नमः | दक्षकर्णे ५ श्स्रुं फूं ५
दक्षिणवक्त्रायः || मुखे ५ श्स्रैं फैं पूर्ववक्त्राय नमः |
प्. १२६अ)
शिरसि ५ श्स्रौं फौं ५ ऊर्ध्ववक्त्राय नमः | ब्रह्मरंध्रे ५ सहस्रः
फः ५ परवक्त्राय नमः || इति त्र्यंगन्यासः ||
अथ बीजषोढान्यासः ||
तत्र कलिमूले ५ स्जूं ५ नमः | ब्रह्मरंधे ५ ह्रूं ह्रं ५ ह्रूं ५ नमः |
भाले ५ रखटसहघरयूं ५ नमः | दक्षशंखे ५ सहक्षरयूं ५ नमः
वामशंखे ५ क्ष्रूं ओं नमः | दक्षभ्रुवि ५ श्फ्रें ५ नमः |
वामभ्रुवि ५ श्रूं ५ नमः | भ्रुवोर्मध्ये ५ स्रूं ५ नमः | जिह्वायां ५
श्रीं ५ नमः | तालुनि ५ क्षर क्ष्रूं ५ नमः | दक्षकर्णे ५ फटः ५ नमः |
वामकर्णे ५ श्रं ५ नमः | चोरकूपे ५ लमयरूं ५ नमः | गलकांडे ५
हस्रुं ५ नमः | कंठगर्त्ते ५ डरयूं ५ नमः | दक्षस्तनो ५ जू य रू औं
५ नमः | वामस्तनोपरि ५ डयरूं ५ नमः | दक्षस्तन मंडले ५ हसैं ५
नमः || वामस्तनमंडले ५ जूं नमः | दक्षकक्षे ५ स क ल्रीं ५ नमः |
वामकक्षे ५ ऐं नमः | नाभौ ५ हसौं ५ नमः | दक्षपाणितले ५ फः ५
नमः | वामपाणितले ५ फ्रें ५ नमः | लिंगाग्रे ५ श्रीं ५ नमः |
लिंगमूले ह्रौं ५ नमः | मेदसि ५ भ्रें ५ नमः | दक्षांसे ५ फ्रें ५
नमः | वामांसे ५ सहक्षमलवयंरूं ५ नमः | ब्रह्मसूत्रे ५ हं ५
नमः | पायौं ५ ह स फ र यूं ५ नमः | गुददक्षिणे ५ ह स फ रूं ५
नमः | गुदवामे ५ हस्रौं ५ नमः | पायुमार्गे ५ ह्रौं ५ नमः |
प्. १२६ब्)
दक्षजानुचक्रे ५ क्रां ५ नमः | वामजानुचक्रे ५ रूं ५ नमः |
दक्षजंघायां ५ डहु औं ५ नमः | वामजंघायां ५ सहरस्रूं ५
नमः | दक्षगुल्फे ५ ब्रं ५ नमः | वामगुल्फे ५ यरं ५ नमः |
दक्षगुल्फाधः ५ ह्रक्ष फट् ५ नमः | वामगुल्फाधः ५ अं ५ नमः |
दक्षयमद्वारे ५ नफयरीं ५ नमः | यमद्वारमिति
पादांगुष्ठाभ्यंतरस्थ निम्नप्रदेशः || वामयमद्वारे ५ जसक्षह्रौं
५ नमः | दक्षपादतले || हस्रूं ५ नमः | वामपादतले ५ हर फट् ५ नमः |
पृष्ठवंशे ५ चलमहीं ५ नमः | दक्षपार्श्वे ५ जसहसजूं ५ नमः |
वामपार्श्वे ५ क्षं ५ नमः | दक्षकूर्परे ५ ह्रः फट् ५ नमः |
वामकूर्परे ५ शीं ५ नमः | दक्षमणिबंधे ५ ग स म य न लूं ५ नमः
| वाममणिबंधे ५ लवरयहसूं ५ नमः | दक्षांसे ५ हस्फ्रें ५ नमः |
वामांसे ५ क्ष फट् क्ष रूं ५ नमः | दक्षचिबुके ५ फ्रें ५ नमः |
वामचिबुके ५ क्ष्म्यरूं ५ नमः | दक्षनेत्रे ५ ह र फट् फ्रीं ५ नमः |
वामनेत्रे क्ष्रौं ५ नमः | नासाग्रें ५ ह यूं ५ नमः |
दक्षतर्जन्यंगुष्ठसंधौ ५ ह्रीं ५ नमः | वामतर्जन्यंगुष्ठसंधौ
५ ह स क ल ह्रीं ५ नमः | दक्षानामिकायां ५ ह्रीं ५ नमः |
वामानामिकायां ५ स क ल्ह्रीं ५ नमः | इति विन्यस्य मूर्द्धादि पादांतं
पादादि मूर्द्धांतं च व्यापकं त्वेन पंचप्रणवपुटि-
प्. १२७अ)
तैरकारादिक्षकारांतेर्मातृकाक्षरैः सकृन्यसेत् || इति बीजषोढान्यासः ||
अथ मालिन्यादिषोढान्यासः ||
तत्र प्रथमो मालिनी न्यासः || शिखायां ५ नं नादिन्यै ५ नमः पश्चिमोस्ये
५ ऋ निवृत्यै ५ नमः | उत्तरास्ये ५ ॠं प्रतिष्ठायै ५ नमः दक्षिणासे ५ ऌं
विद्यायै ५ नमः | पूर्वास्ये ५ ॡं शांत्यै ५ नमः | ऊर्ध्वास्ये ५ थं
ग्रंसिन्यै ५ नमः | नेत्रयोः ५ धं प्रियदर्शिन्यै ५ नमः | नासायां ५ ईं
गुह्यशक्त्यै ५ नमः | उर्ध्वनेत्रे ५ चं चामुंडायै ५ नमः | वदने ५ वं
वैज्रिण्यै ५ नमः | दक्षोर्ध्वदंतपंक्तौ ५ कं कराल्यै ५ नमः |
वामोर्ध्वदंतपंक्तौ ५ खं कपालिन्यै ५ नमः | ऊर्ध्वशूले ५ गं
शिवायै ५ नमः | अधः शूले ५ घं घोषायै ५ नमः | दंष्ट्रायां ५
वं वीरायै ५ नमः | जिह्वायां ५ इं मायायै ५ नमः | वाचि ५ अं
वागीश्वर्यै ५ नमः | कर्णयोः ५ णं नारायण्यै ५ नमः | दक्षकर्णबिले ५
उ मोहिन्यै ५ नमः | वामकर्णबिले ५ ऊं प्रज्ञायै ५ नमः | कंठे वं ५
शिखिवाहिन्यै ५ नमः | दक्षांसे ५ भं भीषण्यै ५ नमः | वामांसे ५
यं वायुवेगायै ५ नमः | दक्षभुभे ५ ऽऽनं भीमायै ५ नमः | वामजे
५ टं विनायक्यै ५ नमः | दक्षपाणौ ५ ठं पूर्णायै ५ नमः |
वामपाणौ ५ लं शक्त्यै ५ नमः | दक्षकरांगुष्ठे ५ झं झंकार्यै ५
नमः | वामकरांगुष्ठे ५ ञं कूर्दिन्यै ५ नमः |
प्. १२७ब्)
दक्षकर शूलदंडे ५ ढं कालिकायै ५ नमः | वामकर शूलदंडे ५
रं दीपिन्यै ५ नमः | शूलाग्रे ५ जं जयंत्यै ५ नमः | हृदये ५ पं
पावन्यै ५ नमः | उदरे ५ बं लंबिन्यै ५ नमः | नाभौ ५ क्षं संहारिणै
५ नमः | दक्षस्तने ५ छं छागल्यै ५ नमः | वामस्तने ५ लं पूतनायै ५
नमाः | दक्षस्तनोपरि ५ आं आमोदायै ५ नमः | वामस्तनोपरि ५ सं
परमशक्त्यै ५ नमः | प्राणे ५ हं अंबायै ५ नमः | चित्ते ५ अः इछाशक्त्यै ५
नमः | नितंबद्वये ५ मं महाकाल्यै ५ नमः | गुह्ये ५ शं पुष्पास्त्रायै ५
नमः | शुक्रे ५ अं सूक्ष्मायै ५ नमः | ऊरुद्वये ५ तं तारायै ५ नमः |
दक्षजानुनि ५ एं ज्ञानशक्त्यै ५ नमः | वामजानुनि ५ ऐं क्रियाशक्त्यै ५
नमः | दक्षजंघायां ५ ओं गायत्र्यै ५ नमः | वामजंघायां ५ औं
सावित्र्यै ५ नमः | दक्षपादे ५ दं वहन्यै ५ नमः | वामपादे ५ फं
फट्कार्यै ५ नमः | ऐं ह्रीं श्रीं हस्फ्रें हसौः नं फां ह्रां ह्रीं
मालिनीं सर्वांगेषु पूजयामि ५ नमः | इति सर्वांगे व्यापकं कुर्यात् | इति
मालिनी न्यासः ||
अथ शब्दराशिन्यासः ||
स तु प्रागुक्त श्रीकंठादि न्यास एव तत्र प्रीक्ततार्तीय बीजमपहाय पच-
प्. १२८अ)
प्रणवसंपुटितः कार्यः | तत्र ऐं ह्रीं श्रीं हस्फ्रें हसौः अं
श्रीकंठेशाय पूर्णोदर्यै हसौः हस्फ्रें श्रीं ह्रीं ऐं नम इत्यादि ||
इति शब्दराशिन्यासः ||
अथ त्रिविद्यान्यासः ||
नाभौ ऐं ह्रीं श्रीं हस्फ्रें हसौः ऐं ह्रीं अघोरे ह्रीं सः हसौ
हस्फ्रें श्रीं ह्रीं ऐं नमः | हृदये ५ परमघोरे हूं घोररूपे हसौः
घोरमुखि भीषणे वम वम पिब रहः हें रुरु रर ह्रीं ह्रूं फ्रें
हसौः ५ नमः | भ्रुमध्ये | ५ स्फ्रं ५ नमः | इति त्रिविद्यान्यासः ||
अथ अघोरिकाष्टकन्यासः ||
तत्र शिरसि ५ ऐं ह्रीं घोरे ह्रीं सः अघोरायै ५ नमः | भाले ५ परमघोरे
हूं परमघोरायै ५ नमः | भ्रुमध्ये ५ घोररूपे हसौ घोररूपायै ५
नमः | मुखे ५ घोरमुखि सः घोरमुख्यै ५ नमः | कंठे ५ भीमे सः
भीमायै ५ नमः | हृदये ५ भीषणे सः भीषणायै ५ नमः | उदरे ५
वमसः वमन्यै ५ नमः | नाभौ ५ पिबसः पिबन्यै ५ नमः |
इत्यघोरिकाष्टकं न्यासः ||
अथ द्वादशांगन्यासः ||
तत्र पादयोः ५ श्रें सिध्यै ५ नमः | जान्वोः श्रें ऋध्यै ५ नमः | ऊर्वोः ५
श्रें द्युत्यै ५ नमः | गुह्ये ५ श्रें लक्ष्म्यै ५ नमः | नाभौ ५ श्रें
कांत्यै ५ नमः | हृदये ५ शिवायै ५ नमः | कंठे ५ श्रे सुमुखायै ५
नमः | मुखे ५ श्रें मालिन्यै ५ नमः | कर्णयोः ५ श्रें नंदायै ५ नमः |
नेत्रयोः ५ श्रें हयवेगायै ५ नमः | भाले ५ श्रें महामुखै ५ नमः |
शिरसि ५ श्रें विश्वेशायै ५ नमः | इति द्वादशांगन्यासः ||
प्. १२८ब्)
अथ षडंगन्यासः ||
तत्र हृदि ५ श्रां सर्वज्ञतायै ५ हृदयाय नमः | ५ श्रीं अमृततेजो
ज्वालामिलिनि ५ नित्य तृत्यायै ५ शिरसे स्वाहा || ५ श्रूं वेदवेदिनि अनादिबोधायै
५ शिखायै वषट् || ५ श्रैं वह्निवज्रधराय स्वाहा स्वतंत्रतायै ५ कवचाय
हूं || ५ श्रौं नित्यमलुत्यशक्तये ५ नेत्रत्रयाय वौषट् || ५ श्रः
अनंतशक्तियुक्ताय पाशुपतास्त्राय हूं फट् ५ अस्त्राय फट् || इति
शडंगन्यासः ||
स्तत्तन्मुद्रया कार्यः || इति मालिन्यादिषोढान्यासः ||
अथ पंचमहारत्नन्यासः ||
तत्र आज्ञाचक्रे ५ ग्लूं गगनरत्न गगनपीठ गगनलोकगर्भगामिनी
गगननाथगगनांबा गगनेश्वरि चतुःषष्ठिलक्षकोटियोगिन्यंबा ग्लूं ५
श्रीपादुकां पूजयामि नमः | विशुद्धिचक्रे ५ स्लूं स्वर्गरत्न स्वर्गपीठ
स्वर्गलोकगर्भगामिनि स्वर्गनाथस्वर्गांबा स्वर्गेश्वरी
द्वात्रिंशल्लक्षकोटियोगिन्यंबा स्लूं ५ श्रीपादुकां पूजयामि नमः |
(विशुद्धिचक्रे ५ स्लूं स्वर्गरत्नस्वर्गपीठ स्वर्गलोक) अनाहतचक्रे ५ म्लूं
मर्त्यरत्न मर्त्यपीठ मर्त्यलोक गर्भगामिनि मर्त्यनाथमर्त्यांबा
मत्येश्वरी षोडशलक्षकोटि-
प्. १२९अ)
योगिन्यंबा म्लूं ५ श्रीपादुकां पूजयामि नमः | मणिपूरके चक्रे ५
प्लूं पातालरत्न पातालपीठ पाताललोक गर्भगामिनि पातालांबा
पातलेश्वरी अष्टलक्षकोटियोगिन्यंबा प्लूं ५ श्रीपादुकां पूजयामि
नमः || स्वाधिष्ठाने चक्रे ५ न्लूं नागरत्न नागपीठ नागलोक
गर्भगामिनि नागनाथ नागांबा नागेश्वरी तुर्लक्षकोटियोन्यंबा न्लूं ५
श्रीपादुकां पूजयामि नमः | इति पंचमहारत्नन्यासः ||
अथ परादित्रिविधन्यासः ||
तत्र अंगुष्ठयोः ५ ऐं परायै ऐं ५ नमः | तर्जन्योः ५ ह्रं इछायै ह्रूं ५
नमः | मध्यमयोः | ५ ऐं ज्ञानायै ऐं ५ नमः | अनामयोः | ५ श्रीं
क्रियायै श्रीं ५ नमः | कनिष्ठयोः | ५ ह्रीं कुंडलिन्यै ह्रीं ५ नमः |
करतले करपृष्ठयोः ५ फ्रें मातृकायै फ्रें ५ नमः | इति करन्यासः |
अथ हृदयादि षडंगेष्वेभिरेव मंत्रैः सजातिभिर्न्यसेत् ||
ततः पश्चिमवक्त्रे | ५ ऐं परायै ऐं ५ नमः | उत्तरवक्त्रे ५ ह्रूं इछायै
ह्रूं ५ नमः | दक्षिणवक्त्रे ५ ऐं ज्ञानायै ऐं ५ नमः | पूववक्त्रे ५
श्रीं क्रियायै श्रीं ५ नमः | उध्ववक्त्रे ५ ह्रीं कुंडलिन्यै ह्रीं ५ नमः |
परवक्त्रे ५ फ्रें मातृकायै फ्रें ५ नमः | इति परादि त्रिविधन्यासः ||
प्. १२९ब्)
अथ गुरुपारंपर्यन्यासः ||
तत्र शिरसि ५ हसक्षमलवरयूं सहक्षमलवरयीं श्री-अमुकानंदनाथ
५ श्रीपा० || इति संघट्टमुद्रया स्वगुरुपादुकां विन्यस्य | ब्रह्मरंध्रे ५
अः हं सः सोहं अः शौं सौः ज्योतिः परांबानिर्वाणानंदनाथ सौः
शौं अः सोहं सः अः ५ निर्वाणचरण श्रीपा० | इति संघट्टमुद्रयैव
न्यसेत् ||
ब्रह्मरंध्रे ५ हसक्षमलवरयूं (सहक्षमलवरयीं श्री-
अमुकानंदनाथ ५) श्रीपरपावक श्रीपा० | इति संघट्टमुद्रयान्यसेत् |
तत्रैव ५ ओं ह्रीं कामदुघे अमोघे वरदे विच्चे स्फुर स्फुर श्रीं श्रीं ५
कुलकामधेनु श्रीपा० | ततस्तत्रैव दक्षभागे ५ हस्लौं शुक्लनति महापीठ
महाप्रकाशानंदनाथ हस्रौं ५ शुक्लचरण श्रीपा० | वामभागे ५
सह्रौं रक्तविद्यामहापीठ रक्तपुष्पमहापीठ रक्तमंडलमहापीठ
रक्तचरुकमहापीठ रक्तदीपमहापीठ रक्तमुद्रामहापीठ
रक्तनतिमहापीठ महाप्रकाशिनी परांबा श्रौं ५ रक्तचरण श्रीपा० |
ब्रह्मरंध्रमध्ये ५ हस्रौं श्रौं मिश्रविद्यामहापीठ
मिश्रपुष्पमहापीठ मिश्रमंडलमहापीठ मिश्रचरुकमहापीठ
मिश्रमंत्रमहापीठ मिश्रदीपमहापीठ मिश्रमुद्रामहापीठ
मिश्रनतिमहापीठ
प्. १३०अ)
महाप्रकाश महाप्रकाशिनी सामरस्यानंदनाथ मिश्रपाद श्रौं
हस्रौं ५ मिश्रचरणश्रीपादुकां पूजयामि || इति संघट्टमुद्रया न्यसेत् ||
इति चरणत्रयं न्यासः ||
अथ दिव्यौघादिगुरुपंक्तित्रयन्यासः ||
तत्र शिरसि ५ लं ब्रह्ममहाप्रेतपद्मासनाय नमः लं ५ ब्रह्म
श्रीपादुका० | तत्रैव ५ वं विष्णुमहाप्रेतपद्मासनाय नमः | वं ५ विष्णु
श्री० | ५ रं रुद्रमहाप्रेतपद्मासनाय नमः | रं ५ रुद्र श्रीपा० | ५ यं
ईश्वरमहाप्रेतपद्मासनाय नमः यं ५ ईश्वर श्रीपा० | ५ हं
सदाशिवमहाप्रेतपद्मासनाय नमः हं ५ सदाशिव श्री० | सं
हेमगर्भमहाप्रेतपद्मासनाय नमः सं ५ हेमगर्भ श्री० | ५ ऐं
परायै ऐं ५ परांबा श्री० | ५ ह्रूं इछायै ह्रूं इछांबा श्री० | ५ ऐं
ज्ञानायै ऐं ५ ज्ञानांबा श्रीपा० | ५ श्रीक्रियायै श्रीं ५ क्रियांबा
श्रीपा० | ५ ह्रीं कुंडलिन्यै ह्रीं ५ कुंडलिन्यंबा श्रीपा० | ५ फ्रें
मातृकायै फ्रें ५ मातृकांबा श्रीपा० | इति दिव्यौघाः ||
अथ सिद्धौघः |
५ आं आदिनाथानंद आदिपरांबा आं ५ श्रीपा० || ५ अं
अचिंत्यानंदनाथ अचिंत्यपरांबा अं ५ श्रीपा० | ५ अं
अव्यक्तानंदनाथ अव्यक्तापरांबा अं ५ श्रीपा० | ५ कुं
कुलेश्वरानंदनाथ कुलेश्वरी परांबा कुं ५ श्रीपा० | इति सिद्धौघाः ||
अथ मानवौघः ||
५ चं चर्यातूष्णीशानंदनाथसिद्धापरांबा सिंटीशापरांबा ५
श्रीपा० | ५ चिंचिणी-
प्. १३०ब्)
मित्रीशानंदनाथ कुब्जिकापरांबा ५ श्री० | ५ गगनानंदनाथ
वाटुलीलावली पराबा ५ श्री० | ५ चंद्रगर्भानंदनाथ बलिभागी
परांबा ५ श्री० | ५ मुक्तानंदनाथ महिलापराबा ५ श्री० | ५ |
ललितानंदनाथ शंखापरांबा करुणापरांबा ५ श्री० | ५ ऐं
श्रीकंठानंदनाथ श्रीकंठापरांबा ५ श्री० || ५
परेश्वरानंदनाथ परेंश्वरी परांबा ५ श्री० || ५ कुमारानंदनाथ
सहजापरांबारत्नादेवीपरांबा ५ श्री० | ५ रत्नानंदनाथ ज्ञानादेवी
परांबा ५ श्री० || ५ ब्रह्मानंदनाथनादिनी परांबा ५ श्री० || ५
अजेशानंदनाथ महिलापरांबा ५ श्री० || ५ प्रतिष्ठानंदनाथ
सहजापरांबा ५ श्री० || ५ शिवानंदनाथ प्रतिभापरांबा श्री० || ५
चिदानंदनाथ सहजापरांबा ५ श्री० || ५ श्रीकंठानंदनाथ
विद्याशक्तिपरांबा ५ श्री० || ५ शिवानंदनाथ सहजापरांबा ५ श्री० || ५
सोमानंदनाथ सहजापरांबा ५ श्री० || ५ संविदानंदनाथ
सहजापरांबा ५ श्री० || ५ विबुधानंदनाथ विबुधापरांबा ५ श्री० ||
५ भैरवानंदनाथ भैरवीपरांबा ५ श्री० || ५ आनंदानंदनाथ
आनंदापरांबा ५ श्री० || ५ कामेश्वरानंदनाथ कामेश्वरी परांबा ५
श्री० || ५ कमलानंदनाथ सहजापरांबा श्री० || इति गुरुपंक्तित्रयं
ब्रह्मरंध्र एव संघट्टमुद्रया विन्यस्य पुनः शांभवप्रकरणोक्त
गुरुपादुका-
प्. १३१अ)
विद्यया स्वगुरुपादुकां विन्यस्य स्वगुरु कृत स्वनाममूलाधारे स्मरेदिति
गुरुक्रम्यन्यासः ||
अथ षडन्वयमंत्रन्यासः ||
आज्ञायां ५ श्रौं ऐं फ्रें श्रीपरमेश्वरानंदनाथ परेश्वरी
परांबा ५ श्री० || विशुद्धौ ५ ह्स्रूं? ऐं कुब्जि फ्रें
श्रीविच्चेश्वरानंदनाथ विच्चेश्वरीपरां ५ श्री० || अनाहते ५ ह्स्फ्रें ऐं
कुब्जिकायै ह्स्फ्रें विच्चे हंसेश्वरानंदनाथ हंसेश्वरीपरांबा ५ श्री०
|| स्वाधिष्ठाने ५ ह्रां ह्रूं ह्रीं ह्स्रां ह्स्रां ह्स्रूं ह्स्रीं क्ष्रां
क्ष्रूं क्ष्रीं किणि किणि ह्स्फ्रां ह्स्फ्रां ह्स्प्रूं ह्स्प्रीं विच्चे ह्रौं
हससह्स्प्रें हसक्षमलवयरूं औं हसक्षमलवयरीं
हसक्षमलवयरूं हसक्षमलवयरीं ऐं ह्स्रीं ह्स्रूं ह्स्रां ह्रीं
ह्रूं ह्रां ऐं नित्ये भगवति ह्स्फ्रें कुलेश्वरी ह्रां ह्रूं ह्रीं ह्लां
ह्रीं ह्रूं ह्यैं हौ ऽऽन ञ ण न मे क्ष्रां क्ष्रूं क्ष्रीं क्ष्रः क्ष्रं
श्रीं फट् ह्स्रौं फ्रें अघोरमुखी कुब्जिकायै छ्रां छ्रूं छ्रीं घोरे
अघोरे यं रं लं व हं सं किणि किणि महाकिणि विच्चे
संवर्त्तेश्वरानंदनाथ संवर्त्तेश्वरी परांबा ५ श्रीपा० || मणिपूरके
५ हृ स ब्रूं ऐं रिंगटि पिंगटि कंटपि विच्चे द्विपेश्वरानंदनाथ
द्वीपेश्वरीपरांबा ५ श्री० || मूलाधारे ५ हसक्षमलवरयूं नमो
भगवति ह्स्फ्रें कुब्जिकायै ह्रां ह्रूं ह्रीं ऽऽन ञ ण न मे अघोरमुखि
छ्रां छ्रीं किणि किणि विणि विणि विच्चे नवात्मेश्वरानंदनाथ
नवात्मेश्वरीपरांबा ५ श्री० || इति षडन्वयमंत्रन्यासः ||
ततः परेश्वर परेश्वरीमूल-
प्. १३१ब्)
विद्यया व्यापकं न्यासं कृत्वा देवं हृदये ध्यायेत् || तद्यथा ||
सहस्रसूर्यसंकाशो महादीप्तिघरो गुरुः ||
षडन्वयेश्वरः श्रीमान् परशंभु रजो व्ययः ||
षडानन स्फुरन्नेत्र त्रय षट्क समन्वितः ||
द्वीपिचर्मकटिस्फार मुंडमालाविभुषणः ||
नरास्थिरल पारिजातपुष्पमालासमावृत्तः ||
ब्रह्मनाभिक गतांगुष्ठो दंष्ट्राविस्तृतलापनः ||
विचित्राभरणैर्युक्तः सर्ववि पशुपाश हृत् ||
शूलासीषु शक्तिसृणि वरधारी महातनुः ||
कपालफल चापारिणशाभयकरांबुजः |
देवावृतः पितृवने क्रिडाकृन्मारसोत्तरे ||
एवं परेश्वरीं ध्यायेत् स्तनभारविराजितां ||
मानसं शांभवं ज्ञात्वा जपेद्विद्यामनन्यधीः ||
दक्षोर्ध्वकरमारभ्य दक्षाधः करपर्यंतं वामोर्ध्वकर
मर्मभ्यं वामाधः करपर्यंतं आयुध ध्यानं || इति ध्यात्वाभि
संपूज्य मूलविद्या द्वयं पुनः || समभ्यस्य समर्प्याथ चरण द्वितयं
स्मरेदिति स्वैक्येन ध्यात्वा मानसैः पूजयित्वा पंचप्रणव संपुटितं
परेश्वरबीजं यथाशक्ति जपित्वा तथैव परेश्वरी मंत्रं जपित्वा देवाय
जपं समर्प्य षडन्वय शांभवाधिदेवतां ललितां स्वात्मानं
ध्यायेत् ||
श्रीविद्यानंदनाथेन शिवयोः प्रिय सूनुना ||
कृते सौभाग्यरत्नाब्धौ तरंगो रुद्र संख्यकः || ११ ||
इति श्रीसच्चिदानंदनाथचरणारविंदद्वद्वातेवासिना
श्रीश्रीविद्यानंदनाथेन कृते सौभाग्यरन्ताकरे एकादशस्तरंगः ||
प्. १३२अ)
इति न्यासं कृत्वा षडन्वय शांभवरश्मिस्मरणं कुर्यात् || तत्र
प्रथमं मानसपरेश्वर क्रमः |
तत्र आज्ञाचक्रे ५ हिरण्यगर्भं षडाननं स्वर्णवर्णं शवासनं
ध्यात्वा तस्य नाभि ५ प्रकर्णिकायां श्स्रौं इति परेश्वरकूटं
बालार्कवर्णं ध्यात्वा तदुद्भवं ध्यानोक्तरूपं परेश्वरं
देवमात्मानं ध्यात्वा तं सर्वगुरुस्वरूपं सशवासनं परेश्वरं
ब्रह्मरंध्रे संचित्यमूलाधारे वाग्भवोत्थां परेश्वरीं
ध्यानोक्तरूपां पंचदशफणायुक्ता हींद्रस्य मध्यफणा स्थितां
ध्यात्वा पुनस्तां तेजोरुपां ब्रह्मरंध्रपर्यंतं ध्यात्वा तेन तेजसा
सावय विकृत्य परेश्वरेण संयोज्य न्यासोक्तेनैकीकृतेन मंत्रेण देवं देवी
मानसैरुपचारैः पूजयेत् || ततस्तं परितः शिरसि षट्कोणं विभाव्य तस्य
कोणेषु ईषानादि वायव्यां तेषु चतुष्कादि क्रमेण प्रादक्षिण्येन
द्वात्रिंशद्रश्मयो मिथुनरूपाः पूज्याः ||
तत्रैशानकोणे ||
प्रथमं मिथुनचतुष्करंक्तवर्णं ध्यात्वा ऐं ह्रीं श्रीं ह्स्फ्रें
ह्स्रौः ऐं परानंदनाथ परापरांबा ऐं ह्सौः ह्स्फ्रें श्रीं ह्रीं
ऐं श्रीपादुकां पूजयामि नमः || ५ ऐं भानंदनाथ भापरांबा
ऐं ५ श्रीपा० | ५ ऐं चिदानंदनाथ चित्परांबा ऐं ५ श्री० | ५ ऐं
महामायानंदनाथ महामायापरांबा ऐं ५ श्री० || इति चतुष्के ||
अथ पूर्वकोणे ||
मिथुनपंचकं शुक्लवर्णं ध्यात्वा ५
प्. १३२ब्)
ह्रं इछानंदनाथेछापरांबा ह्रूं ५ श्री० | ५ ह्रूं
सृष्ट्यानंदनाथसृष्टिपरांबा श्री० || ह्रूं स्थित्यानंदनाथस्थितिपरा
ह्रूं ५ श्री० | ५ ह्रूं निरोधानंदनाथ निरोधापरांबा ह्रूं ५ श्री० | ५
ह्रूं मुक्त्यानंदनाथ मुक्तिपरांबा ह्रूं ५ श्री० | ५
अथाग्नेयकोणे ||
मिथुनचतुष्कं धूम्रवर्णं ध्यात्वा ५ ऐं
ज्ञानानंदनाथज्ञानापराबा ऐं ५ श्री० | ५ ऐं सत्यानंदनाथ
सतीपरांबा ऐं ५ श्री० | ५ ऐं असत्यानंदनाथ असतीपरांबा ऐं ५ श्री० |
५ ऐं सदसत्यानंदनाथ सदसतीपरांबा ऐं ५ श्री० |
अथ नैर्-ऋतिकोणे |
मिथुन सप्तकं कृष्णवर्णं ध्यात्वा ५ श्रीक्रियानंदनाथ
क्रियापरांबा श्री ५ श्री पा० | ५ श्रीं अत्मवत्यांदनाथ
आत्मवतीपरांबा श्रीं ५ श्री० | ५ श्रीं इंद्रियानंदनाथ
इंद्रियापरांबा श्रीं ५ श्री० | ५ श्रीं गोचरानंदनाथ गोंचरीपराबा
श्रीं ५ श्री० | ५ श्रीं लोकमुखानंदनाथ लोकमुख्यापरांबा श्रीं ५
श्री० | ५ श्रीं वेदांनंदनाथ वेदापरांबा श्री ५ श्री० | ५
संविदानंदनाथ संवित्परांबा श्रीं ५ श्री० |
ततः पश्चिमकोणे मिथुनचतुष्कं पीतवर्णं ध्यात्वा ५ ह्रीं
कुंडल्यानंदनाथ कुंडलीपरांबा ह्रीं ५ श्री० | ५ ह्रीं
सुषुम्णानंदनथ सुषुम्णापरांबा ह्रीं ५ श्री० | ५ ह्रीं
प्राणसूत्रानंदनाथ प्राणसूत्रापरांबा ह्रीइं ५ श्री० | ५ ह्रीं
स्यंदानंदनाथ स्यंदापरांबा ह्रीं ५ श्री० |
ततो वायव्यकोणे
प्. १३३अ)
मिथुनाष्टकं पितवर्णं ध्यात्वा ५ फ्रें मातृकानंदनाथ
मातृकापरांबा फ्रें ५ श्री० | ५ फ्रें शब्दानंदनाथ शब्दापरांबा
फ्रें ५ श्री० | ५ फ्रें वर्णानंदनाथ वर्णापरांबा फ्रें ५ श्री० | ५
फ्रें स्वरोद्भवानंदनाथ स्वरोद्भवापरांबा फ्रें ५ श्री० | ५ फ्रें
वर्णजानंदनाथ वर्णजापरांबा फ्रें ५ श्री० | ५ फ्रें
वर्गजानंदनाथ वर्गजापरांबा फ्रें ५ श्री० | ५ फ्रें
संयोगानंदनाथ संयोगापरांबा फ्रें ५ श्री० | ५ फ्रें
मंत्रविग्रहानंदनाथ मंत्रविग्रहापरांबा फ्रें ५ श्री० | इति
रश्मिक्रमं संपूज्य विन्यस्य पुनर्देवदेव्यौ पूजयेदिति
मानसपरेश्वरक्रमः ||
अथ नाभसविच्चेश्वरक्रमः ||
तत्र विशुद्धिचक्रे ह्स्रां इति विच्चेश्वरबीजं शुद्धस्फटिकसंकाशं
ध्यात्वा तदुद्भवं देवमात्मानं ||
शुद्धस्फटिकसंकाशं षट्चक्रे द्वादशांघ्रिकं ||
भैरवाभं शूलचक्रांकुशपाशं शरान्वरं ||
दक्षे च वामके तद्वछंखध्वजा हि नृमुखं ||
चापाभये च बिभ्राणं तद्वतीं च कुलेश्वरीं ||
दक्षोर्ध्व वामोर्ध्व क्रमेणायुधक्रमः ||
इति सदाशिव प्रेतासनस्थं विच्चेश्वररूपमात्मानं ध्यात्वा ५ ह्स्रां ५
हृदयाय नमः | ५ ह्स्रीं शिरसे स्वाहा || एवं षट् दीर्घयुक्तबीजेन
करषडंगचक्रन्यासं प्राग्वद्विधाय मूलाधारे
प्. १३३ब्)
देवी मंत्रस्यांतिमं फेमिति बीजं शुद्धस्फटिकसंकाशं ध्यात्वा
तदुद्भूतां देवी विच्चेश्वर सदृशीं ध्यात्वा षट्दीर्घयुक्त फेमिति बीजेन
पंचप्रणवसंपुटितेन प्राग्वत् करषडंगवक्त्रन्यासान् कृत्वा
विच्चेश्वरीं तेजोरूपां मूलादि ब्रह्मरंध्रांतं ध्यात्वा विशुद्धौ
विश्राम्य पुनः सावयवां तां विच्चेश्वरेण संयोज्य देवदेवी
रूपमात्मानं ध्यायन् पंचप्रणवसपुटित बीजद्वयेन पुनः प्राग्वत्
अंगन्यासं कृत्वा पूर्वोक्तविद्यया देवदेव्यौ मानसौपचारैः संपूज्य
पुनर्ब्रह्मरंध्रे ध्यात्वा मानसं पूजयित्वा देवं परितः षट्कोणं
विभाव्य तस्य पूर्वादि
ईशानांतकोणेषु षट्क षट्कक्रमेण षट्त्रिंशद्रश्मि मिथुनानि न्यसेत् ||
तत्र पूर्वकोणे मिथुनषट्कं शुक्लवर्णं ध्यात्वा ५ हं
हृदयानंदनाथकौलीनीपरांबा हं ५ श्री० | ५ धं धरानंदनाथ
धात्रीपरांबा धं ५ श्री० | ५ भां भावानंदनाथ विच्चेश्वरी
परांबा भां ५ श्री० | ५ भं भवानंदनाथयोगिनीपरांबा भं ५
श्री० | ५ मं महानंदनाथ ब्रह्मधारापरांबा मं ५ श्री० | ५ सं
सर्वानंदनाथ शांभवीपरांबा सं ५ श्री० ||
अथाग्नेयकोणे द्वितीय षट्कं
प्. १३४अ)
रक्तं ध्यात्वा ५ इंद्रवानंदनाथं कालिकापरांबा इं ५ श्री० || ५ वं
वसानंदनाथ दुष्टचंडालीपरांबा वं ५ श्री० || ५ मों
मोहानंदनाथ घोरेशीपरांबा मों ५ श्री० || ५ मं
मनोभवानंदनाथ हेलापरांबा मं ५ श्री० || ५ सें सेकानंदनाथ
महारक्तापरांबा सें ५ श्री० || ज्ञां ज्ञानानन्दनाथ
कुब्जिकापरांबा ज्ञां ५ श्री० ||
अथ नैर्-ऋतिकोणे मिथुनषट्कं श्यामवर्णं ध्यात्वा ५ खें
खेटानंदनाथ डाकिनीपरांबा खें ५ श्री० | ५ ज्वां ज्वालानंदनाथ
राकिनीपरांबा ज्वां ५ श्री० | ५ मं महांकुशानंदनाथ
लाकिनीपरांबा मं ५ श्री० | ५ श्रीं श्रियोज्वलानंदनाथ
काकिनीपरांबा श्रीं ५ श्री० | ५ तें तेजीशानंदनाथ साकिनीपरांबा
तें ५ श्री० | ५ मूं मूर्द्धानंदनाथ हाकिनीपरांबा मूं ५ श्री० ||
ततः पश्चिमकोणे धूम्रवर्णं मिथुनषट्कं ध्यात्वा |
५ वां वायव्यानंदनाथ पद्मापरांबा वां ५ श्री० | ५ कुं
कुलानंदनाथ सिंहापरांबा कुं ५ श्री० | सं संहारानंदनाथ
कुलेश्वरीपरांबा सं ५ श्री० | ५ विं विश्वंभरानंदनाथ
क्रमापरांबा विं ५ श्री० | ५ कुं कुटिलानंदनाथ कूर्मपरांबा कुं ५
श्री० | ५ गां गालवानंद कलिनीपरांबा गां ५ श्री० ||
ततो वायव्यकोणे मिथुनषट्कं अरुणवर्णं ध्यात्वा || ५
प्. १३४ब्)
व्यों व्योमानंदनाथ व्योमापरांबा व्यों ५ श्री० | ५ श्वं
श्वसनानंदनाथ नादापरांबा श्वं ५ श्री० | ५ खें
खेचरानंदनाथ महिमापरांबा खें ५ श्री० | ५ बां
बाहुलानंदनाथ महामायापरांबा बां ५ श्री० | ५ ज्ञां
ज्ञानानंदनाथ कुंटलीपरांबा ज्ञां ५ श्री० | ५ विं
विश्वानंदनाथ कुलेश्वरीपरांबा विं ५ श्री० ||
तत ईशानकोणे मिथुनषट्कं स्फटिकवर्ण ध्यात्वा ||
५ आं आज्ञानंदनाथ सिद्धापरांबा आं ५ श्री० | ५ मं
मदनानंदनाथ द्वीपिकापरांबा मं ५ श्री० | ५ यं यशानंदनाथ
रेचिकापरांबा यं ५ श्री० | ५ शं शंखानंदनाथ मोचिकापरांबा
शं ५ श्री० | ५ पं परानंदनाथ परापरांबा पं ५ श्री० | ५ वं
वरानंदनाथ चितिपरांबा वं ५ श्री० || इति रश्मिक्रमं विन्यस्य देवदेव्यै
| तदेक विद्मया पुनर्विन्यस्य मानसं संपूज्य वायव्यक्रममारभेत् || इति
नाभस विच्चेश्वर क्रमः ||
अथ वायव्यहंसेश्वर क्रमः ||
तत्र अनाहतचक्रे ह्स्फ्रं इति हंसेश्वर बीजं धूम्रवर्णं विचिंत्य
तदुद्भवं देवं धूम्रवर्णं षण्मुखं द्वादशबाहुं हेमपात्र
शूलचक्रांकुशबाणवरान् शंखध्वजसर्पनृशिरश्चापा भयानि च
दक्षवामयोरूध्वादि क्रमेण विभ्राणं
प्. १३५अ)
द्वादशपादं भैरवरूपमीश्वर प्रेतासनस्थं हंसेश्वरं
तन्मयमात्मानं च ध्यात्वा ५ ह्स्फ्रा ५ हृदयाय नमः | इत्यादि षट्
दीर्घभाजा हंसेश्वर बीजेन करषडंगवक्त्रन्यासान् विधाय
देवीमंत्रस्य ह्स्रूमिति षष्ठं बीजं मूलाधारे धूम्रवर्णं ध्यात्वा
तदुद्भवां धूम्रवर्णां हंसेश्वरीं हंसेश्वरसमानरूपां
ध्यात्वा देवी विद्या षष्ठबीजेन प्राग्वत् अंगन्यासं विधाय हृदये
देवदेव्यौ ध्यात्वा मानसैरुपचारैः पूजयित्वा शिरः पीठं पूजार्थं
चरणद्वयमध्यस्य ब्रह्मरंध्रे यथोक्त रूपौ ध्यात्वा तयोरेकविद्यया
संपूज्य शिरसि षट्कोणं विभाव्य तस्याग्नेयकोणे प्रथमचतुष्कं
पीतवर्णं ध्यात्वा ५ लमयरूं खगेश्वरानंदनाथ भद्रापरांबा
लमयरूं ५ श्री० | ५ लमयरूं कूर्मानंदनाथ माधविकापरांबा
लमयरूं ५ श्री० || ५ लमयरूं मेषानंदनाथ कोशापरांबा
लमयरूं ५ श्री० || ५ लमयरूं मानानंदनाथ मल्लिकापरांबा
लमयरूं ५ श्री० |
अथ नैर्-ऋत्ये पंचकं श्यामवर्णं ध्यात्वा ५ वमयरूं
ज्ञानानंदनाथ विमलापरांबा ५ वमयरूं ५ श्री० | ५ वमयरूं
महानंदनाथ शाबरीपरांबा वमयरूं ५ श्री० | ५ वमयरूं
प्. १३५ब्)
तीव्रानंदनाथ लीलापरांबा वमयरूं ५ श्री० | ५ वमयरूं
प्रियानंदनाथ कुमुदापरां वमयरूं ५ श्री० | ५ वमयरूं
कौलिकानंदनाथ मेनकापरांबा वमयरूं ५ श्री० ||
ततः पश्चिमकोणे मिथुनषट्कं रक्तवर्णं ध्यात्वा ५
रमययूं डामरानंदनाथ डाकिनीपरांबा रमरयूं ५ श्री० | ५
रमरयूं रामानंदनाथ राकिनीपरांबा रमरयूं ५ श्री० | ५
रमरयूं लामरानंदनाथ लाकिनीपरांबा रमरयूं ५ श्री० | ५
रमरयूं कामरानंदनाथ काकिनीपरांबा रमरयूं ५ श्री० | ५
रमरयूं सामरानंदनाथ साकिनीपरांबा रमरयूं ५ श्री० | ५
रमरयूं हामरानंदनाथ हाकिनीपरांबा रमरयूं ५ श्री० ||
ततः वायव्यकोणे तुरीयं मिथुनचतुष्कं धूम्रवर्णं ध्यात्वा ५
यमयरूं कूरंगीशानंदनाथ कुलापरांबा यमयरूं ५ श्री० | ५
यमयरूं मदघ्नीशानंदनाथ कुब्जिकापरांबा यमयरूं ५ श्री० |
अथ ईशानकोणे मिथुनपंचकं शुक्लवर्ण ध्यात्वा ५ हमयरूं
हृदीशानंदनाथ कमलापरांबा हमयरूं ५ श्री० | ५ हमयरूं
सिरसानंदनाथ कुलदीपिकापरांबा हमयरूं ५ श्री० || ५ हमयरूं
शिखीशानंदनाथ बर्बरापरांबा हमयरूं ५ श्री० ||
प्. १३६अ)
५ हमयरूं वर्मानंदनाथ बहूरूपापरांबा हमयरूं ५ श्री० ||
हमयरूं अस्त्रानंदनाथ महत्तरीपरांबा हमयरूं ५ श्री० ||
ततः पूर्वे कोणे मिथुनत्रटांबालार्कवर्णं ध्यात्वा ५ समयरूं
परगुर्वानंदनाथ मंगलापरांबा समयरूं ५ श्री० || समयरूं
पराधिकारगुर्वानंदनाथ कौशलापरांबा समयरूं ५ श्री० ||
समयरूं पूंज्यगुर्वानंदनाथ समानापरांबा समयरूं ५ श्री० ||
इति वायव्यक्रमरश्मीन्विन्यस्य पुनरेक विद्यया देवदेव्यौ विन्यस्य संपूज्य
स्वाधिष्ठाने तैजस क्रममारभेत् || इति वायव्य हंसेश्वरक्रमः ||
ननु अनाहतचक्रे वायव्य हंसेश्वरक्रममभिधायक्रम प्राप्तं
मणिपूरकचक्रं विहाय स्वाधिष्ठानचक्रेऽतैजससंवर्तेश्वर रश्मि
स्मरणं कुर्यादिति यदुक्तं तत्कमुपपन्नमिति चेत् || सत्यं ||
अनाहतचक्रानंतरं मणिपूरकचक्रमेव क्रमप्राप्तं भवति ||
महीं मूलाधारेकमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने इति
स्वाधिष्ठानचक्रमेव वह्निस्थानत्वेन प्रतिपाद्यान्यत्रापि तव
स्वाधिष्ठाने हुतवहमधिष्ठाय
प्. १३६ब्)
निरतं तमीडे संवर्तं जननिमहंती तां च समयामिति
सौंदर्यलहर्यां श्रीशंकराचार्यैः षडन्वय शांभवक्रम कथनेपि
समाम्नातत्वात् || भूतक्रमेण चक्रक्रमे बाधित इति ||
अथ तैजससंवर्तेश्वरक्रम ||
तत्र स्वाधिष्ठानं चक्रे संवर्तेश्वरमंत्रस्य क्ष्रामिति सप्तमं बीजं
बालार्कनिभं ध्यात्वा तदुद्भवं भिन्नांजनप्रभं पंच * क्त्रं
पंचदशनेत्रं दशचरणं दशभुजं भूचक्रधवजवर
ब्रह्मकपालानि पारिजातपुष्पजपमालापुस्तकाभयटंकांश्च
दक्षिणवामकरेषु दक्षोर्ध्ववामोर्ध्वादिक्रमतो दधानं
दंष्ट्राकरालं वेषविसेषायबद्धोर्ध्वकेशं षोडशवर्षीयं
रत्नसर्पास्थिभूषणं सर्वालंकारशोभितं पंचवक्त्रे रुद्रप्रेतासने
एकपादेन स्थितं तस्य वह्निस्वरूपनाभिपद्मप्राप्तपादांगुलीयकं
मुंडमालायुक्तं आंत्रनिबंद्धशवकरसंघातरचितमेखलं देवं
स्वात्मानं ध्यात्वा || करतलयोः ५ हं व्योमानंदनाथरजनीपरांबा
हं ५ श्री० || करपृष्ठयोः | ५ सं संविदानंदनाथ चितिपरांबा सं ५
श्री० || अंगुष्ठयोः ५ क्षं अहंकारानंदनाथ क्रोधिनीपरांबा क्षं ५
श्री० || तर्जन्योः ५ मं बुध्यानंदनाथ कुलवागीश्वरीपरांबा मं ५
श्री० || मध्यमयोः ५ लं ऋध्यानंदनाथ मातृकापरांबा लं ५ श्री० ||
अनामिकयोः ५ वं अमृतानंदनाथ देवद्रवीपरांबा वं ५ श्री० ||
कनिष्ठिकयोः ५ यं अचलानंदनाथ चलांपरांबा यं ५ श्री० ||
करतलयोः ५ रं दीप्तानंदनाथ ज्वालिनीपरांबा रं ५ श्री० ||
करपृष्ठयोः ५ ऊं प्रकृतीशानंदनाथ प्रकृतिपरांबा ऊं ५ श्री० || इति
करन्यासः ||
अथ षडंगन्यासः ||
तत्र ५ हं सं विशुद्धानंदनाथ शंखिनीपराबा हं सः ५
प्. १३७अ)
हृदयाय नमः || ५ क्षं मं प्राणानंदनाथ योगेश्वरीपरांबा मं
क्षं ५ शिरसे स्वाहा || ५ लं वं ज्ञानानंदनाथ बिदुंपरांबा वं
लं ५ शिखायै वषट् || यं रं व्यापकानंदनाथ इंधिकापरांबा रं
यं ५ कवचाय हुं || ५ ऊं सुरानंदनाथ प्रीतवतीपरांबा ऊं ५
नेत्रत्रयाय वौषट् || ५ अं अघोरानंदनाथ अघोरेश्वरीपरांबा अं ५
अस्त्राय फट् || इति षडंगन्यासः ||
अथ वक्त्रन्यासः ||
तत्र पश्चिमवक्त्रे ५ हं सं ५ कालवक्त्रानंदनाथ कालरात्रीपरांबा
सं हं ५ श्री० || उत्तरवक्त्रे ५ क्षं मं रौद्रवक्त्रानंदनाथ
संहारिणीपरांबा मं क्षं ५ श्री० || दक्षिणवक्त्रे ५ लं वं
विश्वविग्रहानंदनाथ दहनीपरांबा वं लं ५ श्री० || पूर्ववक्त्रे ५ यं
रं प्रकाशानंदनाथ ज्योतिःपरांबा रं यं ५ श्री० || उर्ध्ववक्त्रे ५
ऊं हर्षानंदनाथ अमृतवाहिनीपरांबा ऊं ५ श्री० || परवक्त्रे ५ अं
अमरानंदनाथ चितिपरांबा अं ५ श्री० || इति वक्त्रन्यासः || इति शैवं
न्यासं विधायशाक्तन्यासं कुर्यात् ||
मूलाधारस्थ योनिमध्ये | ह्स्फेमिति चतुर्थं प्रणवं रक्तवर्णं विचिंत्य
तत्प्रभापटलसमुद्भूतां देवीं रक्तवर्णां हास्ययुक्त षड्वक्त्रां
द्वादशभुजां दश * क्त्रां विंशंतिभुजां वा विशंतिवक्त्रां
चत्वारिंशद्भुजां वा शतवक्त्रां द्विशतभुजां वा प्रतिवक्त्रं
स्फुरदादित्य सकाशलोचनत्रय भूषितां
शूलकपालबाणचापखट्वांगांकुशपाशशंखचक्रगदारत्न-खड्ग
डिंडिमडमरुवज्रघंटात्रिखंडशक्तिशल्पकुंत
सर्पजपमालाख्यान्यायुधानि यथायथं दधानां संवर्त्तेश्वरीं
स्वाभेदेन ध्यात्वा ||
प्. १३७ब्)
कनिष्ठयोः ||
५ ऐं नित्ये भगवति ह्स्फ्रें कुलेश्वरी० ५ नमः || अनामयोः || ५ ह्रां ह्रूं
ह्रीं ह्वां ह्वीं ह्रूं ह्यै हौं ऽऽन ञ न ण मे ५ नमः || मध्यमयोः ५
क्ष्रां क्ष्रूं क्ष्रीं क्ष्रः श्रीं फट् ह्स्रौं फ्रें ५ नमः || तर्जन्योः ५
अघोरमुखी कुब्जिकायै ५ नमः || अंगुष्ठयोः ५ ख्त्रां छ्रूं छ्रीं घोरे
अघोरे ५ नमः || करतलकरपृष्ठयोः ५ यं रं लं वं हं सं किणि किणि
महाकिणि किणि विच्चे० || नमः || इति करन्यासः ||
अथ तैरेवमंत्रैः षडंगन्यासः पुनरेतैरेव मंत्रैः
पश्चिमादिवक्त्रन्यासः ||
अथ दशवक्त्रन्यासः ||
तत्र पश्चिमवक्त्रे ५ ऐं नित्ये भगवति ५ नमः | उत्तरवक्त्रे ५ ह्स्फें कुलेश्वरी
५ नमः || दक्षिणे ५ ह्रां ह्रूं ह्रीं ह्लां ह्वीं ह्रूं ह्यैं हौं ५
नमः || पूर्ववक्त्रे ५ ऽऽन ञ ण न मे ५ नमः || वायव्ये ५ क्ष्रां क्ष्रूं
क्ष्रीं क्ष्रः क्ष्रं श्रीं फट् ह्स्रौं फ्रें ५ नमः || नैर्-ऋतिवक्त्रे ५
अघोरमुखी कुब्जिकायै ५ नमः | ईशानवक्त्रे ५ छ्रां छ्रूं छ्रीं ५ नमः
|| आग्नेये ५ घोरे अघोरे ५ नमः || उर्ध्ववक्त्रे ५ यं रं लं वं हं सं ५
नमः || परवक्त्रे ५ किणि किणि महाकिणि विच्चे ५ नमः ||
अथ विशंतिवक्त्रन्यासः ||
तत्र पश्चिमाद्यवक्त्रे ५ ऐं नित्ये ५ नमः | द्वितीयवक्त्रे ५ भगवति ५ नमः ||
उत्तराद्यवक्त्रे ५ ह्स्फ्रे ५ नमः || द्वितीय ५ कुलेश्वरी ५ नमः ||
दक्षिणाद्यवक्त्रे ५ ह्रां ह्रूं ह्रीं ह्लां ५ नमः || द्वितीय ५ ह्वीं ह्रूं
ह्यैं हौं ५ नमः || पूर्वाद्यवक्त्रे ५ ऽऽन ञ ण ५ नमः | द्वितीय ५ नमे ५
नमः || वायव्याद्यवक्त्रे ५ क्ष्रां क्ष्रुं क्ष्रीं क्ष्रः क्ष्रं श्रीं ५ नमः
|| द्वितीये ५ फट् ह्स्रौं फ्रें ५ नमः | नैर्-ऋत्याद्यवक्त्रे ५ अघोरमुखि ५
नमः | द्वितीये ५ कुब्जिकायै ५ नमः ||
प्. १३८अ)
ईशाव्रवक्त्रे ५ छ्रां छ्रूं ५ नमः || द्वितीये ५ छ्रीं ५ नमः ||
आग्नेयाद्यवक्त्रे ५ घोरे ५ नमः || द्वितीये ५ अघोर ५ नमः || ऊर्ध्वाद्यवक्त्रे ५
यं रं लं ५ नमः || द्वितीये ५ वं हं सं ५ नमः || पराद्यवक्त्रे ५ किणि
किणि नमः || द्वितीये ५ महाकिणि विच्चे ५ नमः || इति विंशतिवक्त्रन्यासः ||
अथ शतवक्त्रन्यासः ||
तत्र दशवक्त्रोक्तन्यासपदान्येव दशवक्त्रन्यासस्थानेषु दश कृत्वः
पुनन्यसेदिति शतवक्त्रन्यासः ||
अथ मूलादिब्रह्मरंध्रांतं तत्तेजोरूपां संवर्त्तेश्वरीं ध्यात्वा
पूर्ववद्देवेन सह संयोज्वशिरः पीठे मानसोपचारैः संपूज्य ततस्तं
परितः शिरसि षट्कोणं विभाव्य तस्य नैर्-ऋत्यकोणे रश्मिमिथुनपंचकं
पीतवर्णं ध्यात्वा ५ सह्लां ५ परापरानंदनाथखेचरी परांबा स
ह्लां ५ श्रीपादुकां० || ५ स ह्लां परानंदनाथो छुष्मापरांबा ५ श्री०
|| ५ सह्लां परमानंदनाथ गुह्यकाली परांबा स ह्लां ५ श्री० || ५ स
ह्लां अपरानंदनाथ संवर्त्तापरांबा स ह्लां ५ श्री० || ५ स ह्लां
चिदानंदनाथ नीलकुब्जिकापरांबा स ह्लां ५ श्री० ||
ततः पश्चिमकोणे मिथुन न पंचकं कृष्णवर्णं ध्यात्वा ||
स ह्रीं अघोरानंदनाथ गंधापरांबा श्वीं ५ श्री० || ५
श्वीं डामराघोरानंदनाथ रसापरांबा श्वीं ५ श्री० || ५ श्वीं
ललितानंदनाथ रूपापरांबा श्वीं ५ श्री० || ५ श्वीं स्वस्थानंदनाथ
स्पर्शापराबांबा श्वीं ५ श्री० || ५
प्. १३८ब्)
ततो वायव्यकोणे मिथुनषट्कं कृष्णवर्णं ध्यात्वा ५ श्रूं
आनंदानंदनाथ कृष्ण डाकिनीपरांबा श्रूं ५ श्री० || ५ श्रूं
अरण्यानंदनाथ रक्तडाकिनीपरांबा श्रूं ५ श्री० || श्रूं
प्रभ्वानंदनाथ चक्रडाकिनीपरांबा श्रूं ५ श्री० || ५ श्रूं
योगानंदनाथ पद्मडाकिनीपरांबा श्रूं ५ श्री० || ५ श्रूं
अतीतानंदनाथ कुब्जडाकिनीपरांबा श्रूं ५ श्री० || ५ श्रूं
पादानंदनाथ प्रचंडडाकिनीपरांबा श्रूं ५ श्री० || अथैशानकोणे
मिथुनचतुष्करक्तवर्णं ध्यात्वा ५ श्यैं योगेश्वरानंदनाथ
चंडीपरांबा श्यैं ५ श्री० || ५ श्यै पीठेश्वरानंदनाथ
कौलिनीपरांबा श्यैं ५ श्री० || ५ श्यैं कुलकौलेश्वरानंदनाथ
पावनीपरांबा श्यैं ५ श्री० || ५ श्यैं अजकुब्जेश्वरानंदनाथ
महासमयापरांबा सह्यैं ५ श्री० ||
अथ पूर्वकोणे मिथुनपंचकं शुक्लवर्णं ध्यात्वा ५ शौं
श्रीकंठानंदनाथ कामांपरांबा शौं ५ श्री० || ५ शौं
अनंतानंदनाथ चर्चिकापरांबा शौं ५ श्री० || ५ शौं
शंकरानंदनाथ ज्वालापरांबा शौं ५ श्री० || ५ शौं
पिंगलानंदनाथ करालीपरांबा शौं ५ श्री० || ५ शौं
सदानंदनाथ कुब्जिकापरांबा शौं ५ श्री० ||
प्. १३९अ)
अथाग्नेयकोणे मिथुनषट्कं स्फटिकवर्ण ध्यात्वा
५ श्रः कालगुर्वानंदनाथपरापरांबा श्रः ५ श्री० || ५ श्रः
सिद्धगुर्वानंदनाथ शांत्यतीतापरांबा श्रः ५ श्री० || ५ श्रः
रत्नगुर्वानंदनाथ शांतिपरांबा श्रः ५ श्री० || ५ श्रः
शिवगुर्वानंदनाथ विद्यापरांबा श्रः ५ श्री० || ५
मैनाकगुर्वानंदनाथ प्रतिष्ठापराबा श्रः ५ श्री० || ५ श्रः
समयगुर्वानंदनाथ निवृत्तिपरांबा श्रः ५ श्री० || इति रश्मिक्रमं
विन्यस्य पुनर्देवदेव्यौ मध्ये तदेक विद्यया संपूज्याप्यक्रमद्वीपेश्वर
रश्मि स्मरणं कुर्यात् ||
तं मणिपूरकचक्रे हसब्रूं इति द्विपेश्वर कूटं शुक्लवर्णं ध्यात्वा
तदुद्भवं देवं श्यामवर्णं द्वादशभुजं वा
बाणचापशुलचक्रखड्वांकुशवरान्
खट्वांगपरशुगदापाशाभयानि दक्षिणवामबाहुभिर्दधानं
बाहुद्वयेन गजचर्म च बिभ्राणं विष्णुमहाप्रेतासनस्थं
दंष्ट्राकरालं भयानकाभरणं द्वीपेश्वरं स्वाभेदेन ध्यायेत् ||
अत्र बाणचापावेकहस्ते वरशब्दोकुश विशेषणं द्वादशभुजत्वादिति ||
अथ अंगन्यासः ||
तद्यथा || कनिष्ठयोः ५ ह्स्व्रां हृदयाय नमः || अनामिकयोः ५ ह्स्व्रां
शिरसे स्वाहा ||
प्. १३९ब्)
मध्यमयोः ५ ह्स्व्रूं ५ शिखायै वषट् | तर्जन्योः ५ ह्स्व्रैं ५ कवचाय हुं
|| अंगुष्ठयोः ५ ह्स्व्रौं ५ नेत्रत्रयाय वौषट् || करतलकरपृष्ठयोः ५
ह्स्व्रंः ५ अस्त्राय फट् || इति करन्यासः ||
अथैतैरेवमंत्रैर्हृदयादिषडंगन्यासः ||
पुनः पश्चिमवक्त्रे ५ ह्स्व्रां ५ नमः इत्यादि वक्त्रषट्केपि प्राग्वन्यसेत् ||
ततो मूलाधारे देवीमंत्रस्य चतुर्थमक्षरं टिकारं शुक्लवर्णं
विभाव्यतदुद्भूतां देवी श्यामवर्णां विष्णुशवासनस्थां
अष्टभुजां शंखचक्रगदापद्मशूलपाशवराभयानिदथतां
द्वीपेश्वरीं स्वाभेदेन ध्यात्वा कनिष्ठयोः ५ टां ५ हृदयाय नमः ||
इत्यादि तलांतं प्राग्वत् षट्दीर्घयुक्त टकारेण करन्यासं कृत्वा हृदयादि
षडंगेष्वपि टां टीं | इत्यादि षड्भिः षडंगन्यासं विद्याय
तथैवक्त्रन्यासं च कृत्वा मूलाधारादि ब्रह्मरंध्रांतं तेजोरूपां
देवीं ध्यायंस्तत्तेजोमणि पूरके स्थिरीकृत्य सावयवा देवीं देवेन
सहसंयोज्य देवदेवीरूपमात्मानं ध्यायन् युगपत् ५ ह्स्व्रां टां इत्यादि
प्राग्वत्करषडंगवक्त्रन्यासान् कृत्वा ब्रह्मरंध्रें पुनर्देवदेव्यौ
ध्यात्वा
प्. १४०अ)
सिरशि तं परितः षट्कोणं विभाव्य तस्य पश्चिमकोणे रश्मि
मिथुनचतुष्कं पीतवर्णं ध्यात्वा ५ लं सत्यानंदनाथ निवृत्तिपरांबा
लं ५ श्री० || लं वामानंदनाथ श्रीपरांबा लं ५ श्री० || ५ लं
अघोरानंदनाथ पद्मापरांबा लं ५ श्री० || ५ लं
पुरुषानंदनाथांबिका परांबा लं ५ श्री० ||
ततः वायव्यकोणे रश्मिमिथुनचतुष्कं श्यामवर्णं ध्यात्वा ५ वं
अनंतानंदनाथ निवृत्तिपरांबा वं ५ श्री० || ५ वं अनाथानंदनाथ
प्रतिष्ठापरांबा वं ५ श्री० || ५ वं अनाश्रितानंदनाथ विद्यापरांबा
वं श्री० || ५ वं अचिंत्यानंदनाथ शातिपरांबा वं ५ श्री० ||
तत ईशानकोणे मिथुनषट्क रक्तवर्णं ध्यात्वा ५ रं
खेचरानंदनाथामापरांबा ५ श्री० || ५ रं तीव्रानंदनाथ
गंगापरांबा रं ५ श्री० || ५ रं मणिवहानंदनाथ सरस्वतीपरांबा
रं ५ श्री० || ५ रं ज्वालेश्वरानंदनाथ यमुनापरांबा रं ५ श्री० || ५
रं अंबुवाहानंदनाथ कमलापरांबा रं ५ श्री० || ५ रं
तेजीशानंदनाथ पार्वतीपरांबा रं ५ श्री० ||
ततः पूर्वकोणे मिथुनचतुष्कं कृष्णवर्णं ध्यात्वा ५ यं
विद्यावागीश्वरानंदनाथ चित्रापरांबा यं ५ श्री० || ५ यं
चतुर्विधेश्वरानंदनाथ कमलापरांबा यं ५ श्री० || ५ यं
उमागंगेश्वरानंदनाथ मन्मथवेगापरांबा यं ५ श्री० || ५
प्. १४०ब्)
यं श्रीकृष्णेश्वरानंदनाथ रसापरांबा यं ५ श्री० ||
ततः आग्नेयकोणे मिथुनपंचकं शुक्लवर्णं ध्यात्वा ५ हं
श्रीकंठानंदनाथ लयापरांबा हं ५ श्री० || ५ हं
अनंतानंदनाथ वसंतापरांबा हं ५ श्री० || ५ हं
शंकरानंदनाथ रत्नमेखलापरांबा हं ५ श्री० || ५ हं
पिंगलानंदनाथ यशोवतीपरांबा हं ५ श्री० || ५ हं
सदाख्यानंदनाथ हंसापरांबा हं ५ श्री० ||
ततो नै-ऋत्यकोणे मिथुनत्रयं रक्तवर्णं ध्यात्वा ५ सं
परदिव्यौघानंदनाथ वामापरांबा सं ५ श्री० || ५ सं
परदिव्यौघानंदनाथ ज्येष्ठापरांबा सं ५ श्री० || ५ सं
पीठौघानंदनाथ रौद्रीपरांबा सं ५ श्री० ||
ततः मध्ये देव देव्योरेक विद्ययातौ मानसैरुपचारैः संपूज्य तन्मयं
स्वात्मानं ध्यायेदित्याप्यद्वीपेश्वर क्रमः ||
अथ पार्थिवनवात्मेश्वर क्रमः ||
तत्र मूलाधारे हसक्षमलवरयूं इति नवात्मेश्वर कूटं रक्तवर्णं
ध्यात्वा तदुद्भवं देवं भिन्नांजन च यं प्रभं पंचवक्त्रं
त्रिनेत्रं दशचरणं दशभुजं शूलचक्रध्वजवर ब्रह्मकपालानि
पारिजातपुष्प जपमाला पुस्तकाभय टंकांश्च दक्षवामयोर्दधानं
दंष्ट्राकरालं वेष विशेषायबद्धोर्ध्वकेशं षोडशवार्षिकं
रत्नसर्पास्थि भूषणं ब्रह्मप्रेतासनस्थं नवात्मेश्वरं स्वाभेदेन
ध्यात्वा तद्बीजाक्षरैस्त्र्यंगन्यासं कुर्यात् || तद्यथा ||
प्. १४१अ)
कनिष्ठयोः | ५ हं सं हृदयाय नमः || अनामयोः | क्षं मं ५ शिरसे
स्वाहा || मध्यमयोः ५ लं वं ५ शिखायै वषट् || तर्जन्योः ५ रं यं ५
कवचाय हुं || अगुष्ठयोः ५ ऊ ५ नेत्राय वौषट् || करतलकरपृष्ठयोः ५ अं
५ अस्त्राय फट् || इति करन्यासः ||
एतैरेवमंत्रैः प्राग्वत् षडंगवक्त्रन्यासौ कुर्यात् ||
ततो देवीमंत्रस्य सप्तमं बीजं ह्स्फ्रेमिति चतुर्थ प्रणवात्मकं कूटं
मूलाधारे रक्तवर्णं ध्यात्वा तदुद्भूतां देवीं नीलवर्णां
कुब्जरूपां पश्चिमोत्तरदक्षिणपूर्वेशानोर्ध्वगत पीतशुक्लकृष्ण
कृष्णशुक्लरक्तवर्ण षड्वक्त्रां द्वादशभुजां
शूलचक्रवज्रांकुशशरकर्त्तरीः स पंकजनीलोत्पलं
समुंडखट्वांगं घटांपुस्तकं धनुः कपालं च दक्षवामेषु
करेषुरेदनां प्रतिमुखं दंष्ट्राकरालां सर्पास्थि रत्नभूषितां
मुंडमालाधरां रौद्ररूपामष्टाविंशति वर्षीयां
बद्धोर्ध्वकेशीं व्याघ्रचर्मपरीधानां सिंहचर्मोत्तरीयां
दिव्यांभरणभूषितां महाट्टहासां ब्रह्मप्रेतासनस्थां देवीं
स्वाभेदेन ध्यात्वा कनिष्ठयोः ५ ह्स्फ्रां नमो भगवती कमलायै
हसफ्रां ५ हृदयाय नमः || अनामिकयोः ५ ह्स्फ्रीं कुब्जिकायै
कुलदीपिकायै ह्स्फ्रीं ५ सिरसे स्वाहा || मध्यमयोः ५ ह्स्फ्रूं ह्रां ह्रूं
ह्रीं बर्बरायै ह्स्फ्रूं ५ शिखायै वषट् || तर्जन्योः ५ ह्स्फ्रैं ऽऽन ञ ण न
मे
प्. १४१ब्)
अघोरमुखी बहुरूपायै ह्स्फ्रैं ५ कवचाय हुं || अंगुष्ठयोः ५ ह्स्फ्रौं
छ्रां छ्रुं छ्रीं महातारायै ह्स्फ्रौं ५ नेत्राय वौषट् ||
करतलपृष्ठयोः ५ ह्स्फ्रः किणि किणि विणि विणि विच्चे ह्स्फ्रः ५ अस्त्राय फट् ||
एवं प्राग्वत् षडंगवक्त्रन्यासौ कृत्वा देवीं तेजोरूपां मूलादि
ब्रह्मरंध्रांतं ध्यात्वा देवेन संयोज्य देवदेवीरूपमात्मानं
ध्यायन् पंचप्रणवपुटितैर्हसक्षमलवरयां ह्स्फ्रां
इत्यादि षट्दीर्घजनितैर्बीजद्वयस्य षड्भिर्मंत्रैः
करषडंगवक्त्रन्यासान्विधाय मूलाधारे देवदेव्यौ ध्यात्वा ५ शिरः
पीठे चरणद्वयमध्येपि पुनर्देवदेव्यौ ध्यात्वा तौ परितः षट्कोणं
विभाव्य तस्य वायव्यकोणे मिथुनचतुष्कं पीतवर्णं ध्यात्वा ५
लमयरूं ओड्याणमहापीठ उड्डेश्वरानंदनाथ उड्डेश्वरीपरांबा
लमयरूं ५ श्री० || वमयरूं जालंधरमहापीठ जालेश्वरानंदनाथ
जालेश्वरीपरांबा वमयरूं ५ श्री० || ५ रमयरूं पूर्णगिरिमाहापीठ
पूर्णेश्वरानंदनाथ पूर्णेश्वरीपरांबा रमयरूं ५ श्री० || ५
यमयरूं कामरूपमहापीठ कामेश्वरानंदनाथ
कामेश्वरीपरांबा यमयरूं ५ श्री० ||
तत ईशानकोणे मिथुनपंचकं श्याम ध्यात्वा ५ ग्लूं
श्रीकंठानंदनाथ गगनापरांबा ग्लूं ५ श्री० || ५ स्लूं
अनंतानदनाथ
प्. १४२अ)
स्वर्गापरांबा स्लूं ५ श्री० || ५ म्लूं शंकरानंदनाथ
मर्त्यापरांबा म्लु ५ श्री० || ५ प्लूं पिंगलानंदनाथ पातालपरांबा
प्लूं ५ श्री० || ५ न्लूं सद्योजातानंदनाथ नागापरांबा न्लूं ५ श्री० ||
अथ पूर्वकोणे मिथुनषट्कं कृष्णवर्णं ध्यात्वा ५ डमयरूं
आनंदानंदनाथ डाकिनीपरांबा डमयरूं ५ श्री० || ५ रमयरूं
आवल्यानंदनाथ राकिनीपरांबा रमयरूं ५ श्री० || ५ लमयरूं
प्रज्ञानंदनाथ लाकिनीपरांबा लमयरूं ५ श्री० || ५ कमयरूं
योगानंदनाथ काकिनीपरांबा कमयरूं ५ श्री० || ५ समयरूं
अतीतानंदनाथ साकिनीपरांबा समयरूं ५ श्री० || ५ हमयरूं
पादानंदनाथ हाकिनीपरांबा हमयरूं ५ श्री० ||
ततोग्निकोणे मिथुनचतुष्कं रक्तवर्णं ध्यात्वा ५ लं
आधारारीशानंदनाथ रक्तापरांबा लं ५ श्री० || ५ वं
चक्रीशानंदनाथ चंडीपरांबा वं ५ श्री० || रं
कुरंगीशानंदनाथ करालापरांबा रं ५ श्री० || ५ यं
मदंघ्रीशानंदनाथ महोछुष्मापरांबा यं ५ श्री० ||
ततो नैर्-ऋतिकोणे मिथुनपंचकं कृष्णवर्णं ध्यात्वा ५ गं
विमलानंदनाथ मातंगीपरांबा गं ५ श्री० || सं
सर्वज्ञविमलानंदनाथ पुलिंदीपरांबा सं ५ श्री० || ५ मं
योगविमलानंदनाथ शबरीपरांबा मं ५ श्री० || ५ पं
सिद्धिविमलानंदनाथ
प्. १४२ब्)
चंपकपरांबा पं ५ श्री० || ५ नं समयाविमलानंदनाथ
कुलाकिकापरांबा नं ५ श्री० ||
ततः पश्चिमकोणे मिथुनचतुष्कं सूर्यप्रभं ध्यात्वा ५ लमयरूं
मित्रीशानंदनाथ कुब्जिकापरांबा लमयरूं ५ श्री० || वमयरूं
उड्डीशानंदनाथ लघ्वीपरांबा वमयरूं ५ श्री० || ५
रमयरूं षष्ठीशानंदनाथ कुलेश्वरीपरांबा रमयरूं ५ श्री० || ५
यमयरूं चर्यानंदनाथ कुब्जेश्वरीपरांबा यमयरूं ५ श्री० ||
इति षडन्वय शांभवरश्मिक्रमः ||
अत्र षडन्वयरश्मयः सर्वे वराभयकरा मदाघूणितलोचनाध्येयाः ||
ततो मध्ये देवदेव्यौरेकविद्यया तौ मानसैरुपचारैः संपूज्य
तदात्मानंमात्मानं ध्यात्वा षडन्वय शांभवाधिदेवता
श्रीमहात्रिपुरसुंदरीरूंपं निजवपुर्ज्योतिमयं ध्यायेदिति
शांभवाख्योर्ध्वाम्नाय न्यासः ||
श्रीविद्यानंदनाथेन शिवयोः प्रिये सूनुना ||
कृते सौभाग्यरत्नाब्धौ तरंगो || १२ || द्वादशोगमत् || १ ||
इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे द्वादशस्तरंगः || १२

प्. १४३अ)
इत्थं षष्ठ्युत्तरत्रिशत शांभवरश्मीन्विन्यस्य
मूलाधाराद्याज्ञापर्यंतेंषु पृथिव्यादि मानसांतेषु षट्सु चक्रेषु
शांभवादिभ्यः सारतरायाः श्रीविद्यायाः षष्ठ्युत्तरं त्रिशतं
रश्मीन्मनसा भावयन् न्यसेत् ||
तत्र मूलाधारे पार्थिवचक्रे मूलविद्यां तेजोरूपां विभाव्य
पुनर्मूलादि ब्रह्मरंध्रांतं तथैव ध्यात्वा ब्रह्मरंध्रे
चरणद्वयमध्ये लयं | नीत्वा चरणद्वय सामरस्यरूपनिर्वाण
चरणोद्भवानंद तेजोमयी ध्यानोक्तरूपां श्रीमहात्रिपुरसुंदरी
ध्यात्वा आज्ञाचक्रं समानीय तत्र मानसदेवता परेश्वर
परेश्वरीरूपत्वेन ध्यात्वा पंचतारसंपुटित मूलविद्यामुच्चार्य
परेश्वरपरेश्वरीरूप श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजयामीति
मंत्रेण मानसैरूपचारैः संपूज्य पुनस्तन्मिथुनमेव सकामेश्वर
श्रीमहात्रिपुरसुंदरीरूपेण ध्यात्वा केवलमूलविद्यया संपूज्य पुनः
कंठविशुद्धिचक्रमानीय तत्र तद्देवतात्मकत्वेन ध्यात्वा
पूर्ववत्संपूज्यानाहत चक्रं नीत्वा तत्रापि त्तद्देवतारूपेण ध्यात्वा
मानसैरुपचारैः संपूज्य ||
प्. १४३ब्)
ध्यात्वा मानसैरुपचारैः संपूज्य ||
ततः स्वाधिष्ठानचक्रं नित्वा तत्रापि तथैव ध्यात्वा संपूज्य
पुनर्मणिपूरकचक्रं नीत्वा तत्रापि तथैव ध्यात्वा संपूज्य ततो
मूलाधारचक्रं नीत्वा तत्रापि तथैव ध्यात्वा संपूज्य
पार्थिवचक्राधिदेवतायाः
श्रीमहात्रिपुरसुंदर्याःस्तनुसंभवाः षट्पंचाशद्देवताः
पार्थिवचक्रे मनसा भावयन्न्यसेत् || तद्यथा ||
मूलाधारे चतुरस्रं पीतवर्णं लं बीजयुक्तं अष्टवज्रोपेतं
पृथिवीमंडलं ध्यात्वा तत्र षट्पंचाशद्दलमंडितं सरोरुहं
विचिंत्य तन्मध्ये देवीं ध्यायन् पूर्वदलादि
प्रादक्षिण्येनोद्वाममणिभूषितान् मूलदेवीवर्णान्
चतुर्भुजांस्त्रिपुरसुंदर्यादि चर्यानाथां तांन् षट्पंचाद्रश्मीन्
भावयन्न्यसेत् || ओं ऐं ह्रीं श्रीं त्रिपुरसुंदरी श्रीपादुकां पूजयामि
नमः || ४ त्रिपुरसुंदर श्री० || ४ हृदयदेवी श्री० || ४ हृदयदेव श्री० || ४
शिरोदेवी श्री० || ४ शिरोदेव श्री० || ४ शिखादेवी श्री० || ४ शिखादेव श्री० ||
४ कवचदेवी श्री० || ४ कवचदेव श्री० || ४ नेत्रदेवी श्री० || ४ नेत्रदेव श्री० ||
४ अस्त्रदेवी श्री० || ४ अस्त्रदेव श्री० || ४
प्. १४४अ)
४ कामेश्वरी श्री० || ४ कामेश्वर श्री० || ४ भगमालिनी श्री० || ४ भगमाली
श्री० || ४ नित्यक्लिन्ना श्री० || ४ नित्यक्लिन्न श्री० || ४ भेरुंडा श्री० || ४ भेरुंड
श्री० || ४ वह्निवासिनी श्री० || ४ वह्निवासी श्री० || ४ महावज्रेश्वरी श्री० || ४
महावज्रेश्वर श्री० || ४ शिवदूती श्री० || ४ शिवदूत श्री० || ४ त्वरिता श्री० || ४
त्वरित श्री० || ४ कुलसुंदरी श्री० || ४ सर्वमंगल श्री० || ४ ज्वालामालिनी श्री० ||
४ जालामाली श्री० || ४ चित्रा श्री० || ४ चित्र श्री० || ४ महानित्या श्री० || ४ महानित्य
श्री० || ४ परेश्वरी श्री० || ४ परेश्वर श्री० || ४ मित्रीशमयी श्री० || ४
मित्रीशमय श्री० || ४ षष्ठीशमयी श्री० || ४ षष्ठीशमय श्री० || ४
उड्डीशमयी श्री० || ४ उड्डीशमय श्री० || ४ चर्यानाथमयी श्री० || ४
चर्यानाथमय श्री० || इति पार्थिवरश्मीन्मनसा विस्य मणिपूरकचक्रे
जलमंडलं शुक्लवर्णं अर्द्धचंद्राकारं वं बीजयुक्तं
पद्मलांछितं ध्यात्वा तन्मध्ये द्विपंचाशद्दलमंडितं पद्मं
विभाव्य तत्कर्णिकायां श्रीमहात्रिपुरसुंदरी ध्यायन्
जलचक्रेश्वर्यास्तस्या
देहोद्भूतास्तत्समानरूपाश्चतुर्भुजालोपामुद्रामययादि महेश्वरां ता
द्विपंचाशद्देवता पूर्वदलादि प्रादक्षिण्येन मनसा न्यसेत् || तद्यथा || ४
लोपामुद्रामयी श्री० || ४ लोपामुद्रामय श्री० || ४ अगस्त्यमयी श्री० ||
प्. १४४ब्)
४ अगस्त्यमय श्री० || ४ कालतापनमयी श्री० || ४ कालतापनमय श्री० || ४
धर्माचार्यमयी श्री० || ४ धर्माचार्यमय श्री० || ४ मुक्तकेशीश्वरमयी
श्री० || ४ मुक्तकेशीश्वरमय श्री० || ४ दीपकलानाथमयी श्री० || ४
दीपकलानाथमय श्री० || ४ विष्णुदेवमयी श्री० || ४ विष्णुदेवमय श्री० || ४
प्रभाकरदेवमयी श्री० || ४ प्रभाकरदेवमय श्री० || ४ तेजोदेवमयी श्री० ||
४ तेजोदेवमय श्री० || ४ मनोजदेवमयी श्री० || ४ मनोजदेवमय श्री० || ४
कल्याणदेवमयी श्री० || ४ कल्याणदेवमय श्री० || ४ श्री० || ४ रत्नदेवमयी
श्री० || ४ रत्नदेवमय श्री० || ४ वासुदेवमयी श्री० || ४ वासुदेवमय श्री० || ४
श्रीरामानंदमयी श्री० || ४ श्रीरामानंदमय श्री० || ४ अणिमासिद्धि श्री०
|| ४ अणिमासिद्ध श्री० || ४ लघिमासिद्धि श्री० || ४ लघिमासीद्ध श्री० || ४
महिमासिद्धि श्री० || ४ महिमासिद्ध श्री० || ४ ईशत्वसिद्धि श्री० || ४ ईशित्वसिध
श्री० || ४ वशित्वसिद्धि श्री० || ४ वशित्वसिद्ध श्री० || ४ प्राकाम्यसिद्धि श्री० || ४
प्राकाम्यसिद्ध श्री० || ४ भुक्तिसिद्धि श्री० || ४ भुक्तिसिद्ध श्री० || ४ इछा * द्धि
श्री० || ४ इच्छासिद्ध श्री० || ४ प्राप्तिसिद्धि श्री० || ४ प्राप्तिसिद्ध श्री० ||
प्. १४५अ)
४ सर्वकामसिद्धि श्री० || ४ सर्वकामसिद्ध श्री० || ४ ब्राह्मी श्री० || ४ ब्राह्म
श्री० || ४ माहेश्वरी श्री० || ४ माहेश्वर श्री० || इति जलरश्मिक्रमः ||
अथ स्वाधिष्ठानचक्रे वह्निचक्रं त्रिकोणं स्वस्तिकलांछितं रं बीजयुक्तं
कालाग्निकोटिसदृशं विभाव्य तन्मध्ये द्वाषष्ठिदलमंडितं सरोरुहं
ध्यात्वा तत्कर्णिकायां यथोक्तरूपां देवीं विभाव्यतां परितः
पूर्वादि प्रादक्षिण्येन दलेषु तदंगत्यं भवाः
कौमार्यादिबीजाकर्षणपर्यंताद्वाषष्ठिदेवताः न्यसेत् || तद्यथा || ४
कौमारी श्री० || ४ कौमार श्री० || ४ वैष्णवी श्री० || ४ वैष्णव श्री० || ४ वाराही
श्री० || ४ वाराह श्री० || ४ माहेंद्री श्री० || ४ माहेंद्र श्री० || ४ चामुंडा
श्री० || ४ चामुंड श्री० || ४ महालक्ष्मी श्री० || ४ महालक्ष्म श्री० || ४
सर्वसंक्षोभिणी श्री० || ४ सर्वसंक्षोभण श्री० || ४ सर्वविद्राविणी श्री० || ४
सर्वविद्रावण श्री० || ४ सर्वाकर्षिणी श्री० || ४ सर्वाकर्षण श्री० || ४
सर्ववशीकरणी श्री० || ४ सर्ववशीकरण श्री० || ४ सर्वोन्मोदिनी श्री० || ४
सर्वोन्मादन श्री० || ४ सर्वमहांकुशा श्री० || ४ सर्वमाहांकुश श्री० ||
४ सर्वखेचरी श्री० || ४ सर्वखेचर श्री० || ४ सर्वबीजा श्री० ||
प्. १४५ब्)
४ सर्वबीज श्री० || ४ सर्वयोनि श्री० || ४ सर्वयोनि श्री० || ४ सर्वत्रिखंडा श्री० || ४
सर्वत्रिखंड श्री० || ४ त्रैलोक्यमोहनचक्रस्वामिनी श्री० || ४
त्रैलोक्यमोहनचक्रस्वामी श्री० || ४ प्रकटयोगिनी श्री० || ४ प्रकटयोगी श्री० || ४
कामाकर्षिणी श्री० || ४ कामाकर्षण श्री० || ४ बुध्याकर्षिणी श्री० || ४
बुध्याकर्षण श्री० || ४ अहंकाराकर्षिणी श्री० || ४ अहंकाराकर्षण श्री० ||
४ शब्दाकर्षिणी श्री० || ४ शब्दाकर्षण श्री० || ४ स्पर्शाकर्षिणी श्री० || ४
स्पर्शाकर्षण श्री० || ४ रूपाकर्षिणी श्री० || ४ रूपाकर्षण श्री० || ४
रसाकर्षिणी श्री० || ४ रसाकर्षण श्री० || ४ गंधाकर्षिणी श्री० || ४
गंधाकर्षण श्री० || ४ चित्ताकर्षिणी श्री० || ४ चित्ताकर्षण श्री० || ४
धैर्याकर्षिणी श्री० || ४ धैर्याकर्षण श्री० || ४ स्मृत्याकर्षिणी श्री० || ४
स्मृत्याकर्षण श्री० || ४ नामाकर्षिणी श्री० || ४ नामाकर्षण श्री० || ४
बीजाकर्षिणी श्री० || ४ बिजाकर्षण श्री० || ४ || इति वह्निचक्रे द्वाषष्ठि
रश्मिक्रम न्यासः ||
ततो ऽनाहते वायुचक्रं कृष्णवर्ण षट्कोणाकारं बीजाधिष्ठीतं
ध्यात्वा तन्मधे चतुःपंचाशद्दलमंडितं कमलं विचित्य
तत्कर्णिकायां देवीं ध्यात्वा तां परितः पूर्वादि प्रादक्षिण्येन देवी
समानरूपा आत्माकर्षिण्यादि
प्. १४६अ)
सर्वसंपत्तिपूरणपर्यंताः चतुःपंचाशदेवताः न्यसेत् || तद्यथा || ४
आत्माकर्षिणी श्री० || ४ आत्माकर्षण श्री० || ४ अमृताकर्षिणी श्री० || ४
अमृताकर्षण श्री० || ४ शरीराकर्षिणी श्री० || ४ शरीराकर्षण श्री० || ४
सर्वाशापरिपूरकचक्रस्वामिनी श्री० || ४ सर्वाशापरिपूरकचक्रस्वामी श्री०
|| ४ गुप्तयोगिनी श्री० || ४ गुप्तयोगी श्री० || ४ अनंगकुसुमा श्री० || ४
अनंगकुसुम श्री० || ४ अनंगमेखला श्री० || ४ अनंगमेखल श्री० || ४
अनंगमदना श्री० || ४ अनंगमदन श्री० || ४ अनंगांकुशा श्री० || ४
अनंगांकुश श्री० || ४ अनंगमालिनी श्री० || ४ अनंगमाली श्री० || ४
सर्वसंक्षोभणचक्रस्वामिनी श्री० || ४ सर्वसंक्षोभणचक्रस्वामी श्री० || ४
गुप्ततरयोगिनी श्री० || ४ गुप्ततरयोगी श्री० || ४ सर्वसंक्षोभिणी श्री० || ४
सर्वसंक्षोभण श्री० || ४ सर्वविद्राविणी श्री० || ४ सर्वविद्रावण श्री० || ४
सर्वाकर्षिणी श्री० || ४ सर्वाकर्षण श्री० || ४ सर्वाह्लादिनी श्री० || ४ सर्वाह्लादी
श्री० || ४ सर्वसंमोहनी श्री० || ४ सर्वसंमोहन श्री० || ४ सर्वस्तंभिनी श्री०
|| ४ सर्वस्तंभ श्री० || ४ सर्वजंभिनी श्री० || ४ सर्वजंभन श्री० || ४ श्री० || ४
सर्ववशंकरी श्री० || ४ सर्ववशंकर श्री० || ४ सर्वरंजनी श्री० || ४
सर्वसंपत्तिपुरणी श्री० || ४
प्. १४६ब्)
सर्वसंपत्तिपुरण श्री० || इति वायुचक्रे चतुःपंचाशद्रश्मिन्यासः ||
अथ विशुद्धिचक्रे कंठदेशे वृत्ताकारं स्वछं हं बीजाधिष्ठितं
आकाशमंडलं विचिंत्य तन्मध्ये द्वासप्ततिदलं कमलं विभाव्य
तत्कर्णिकायां प्राग्वद्देवीं ध्यात्वा तद्दलेषु प्रागादिपरितः
सर्वमंत्रमययादि कौलिपर्यंताः द्वासप्ततिदेवताः मूलदेव्याकाराः
ध्यायन्न्यसेत् || तद्यथा || ४ सर्वमंत्रमयी श्री० || ४ सर्वमंत्रमय श्री० || ४
सर्वद्वंद्वक्षयंकरी श्री० || ४ सर्वद्वंद्वक्षयंकर श्री० || ४
सर्वसौभाग्यदायक चक्रस्वामिनी श्री० || ४ सर्वसौभाग्यदायकचक्रस्वामी
श्री० || ४ संप्रदाययोगिनी श्री० || ४ संप्रदाययोगी श्री० || ४ सर्वसिद्धिप्रदा
श्री० || ४ सर्वसिद्धिप्रद श्री० || ४ सर्वसंपत्प्रदा श्री० || ४ सर्वसंपत्प्रदा
श्री० || ४ सर्वसंपत्प्रद श्री० || ४ सर्वप्रियंकरी श्री० || ४ सर्वप्रियंकर श्री०
|| ४ सर्वमंगलकारिणी श्री० || ४ सर्वमंगलकारी श्री० || ४ सर्वकामप्रदा
श्री० || ४ सर्वकामप्रद श्री० || सर्वदुःखं विमोचन श्री० || ४
सर्वमृत्युप्रशमनी श्री० || ४ सर्वमृत्युप्रशमन श्री० || सर्वविघ्ननिवारिणी
श्री० || ४ सर्वविघ्ननिवारण श्री० || ४
प्. १४७अ)
सर्वांगसुंदरी श्री० || ४ सर्वांगसुंदर श्री० || ४ सर्वसौभाग्यदायिनी
श्री० || ४ सर्वसौभाग्यदायी श्री० || ४ सर्वार्थसाधकचक्रस्वामिनी श्री० || ४
सवार्थसाधकचक्रस्वामी श्री० || ४ कुलोत्तीर्णयोगिनी श्री० || ४ कुलोत्तीर्णयोगी
श्री० || ४ सर्वज्ञा श्री० || ४ सर्वज्ञ श्री० || ४ सर्वशक्ति श्री० || ४ सर्वशक्त श्री०
|| ४ सर्वैश्वर्यप्रदा श्री० || ४ सर्वैश्वर्यप्रद श्री० || ४ सर्वज्ञानम्यी श्री० ||
४ सर्वज्ञानमय श्री० || ४ सर्वव्याधिविनाशिनी श्री० || ४ सर्वव्याधिविनाशन
श्री० || ४ सर्वाधारस्वरूपा श्री० || ४ सर्वाधारस्वरूप श्री० || ४
सर्वपापहरा श्री० || ४ सर्वपापहर श्री० || ४ सर्वानंदमयी श्री० || ४
सर्वानंदमय श्री० || ४ सर्वरक्षास्वरूपिणी श्री० || ४ सर्वरक्षास्वरूपी
श्री० || ४ सर्वेप्सितफलप्रदा श्री० || ४ सर्वेप्सितफलप्रद श्री० || ४ सर्वरक्षाकर
चक्रस्वामिनी श्री० || ४ सर्वरक्षाकर चक्रस्वामी श्री० || ४ निगर्भयोगिनी श्री० ||
४ निगर्भयोगी श्री० || ४ वशिनी श्री० || ४ वशी श्री० || ४ कामेश्वरी श्री० || ४
कामेश्वर श्री० || ४ मोदिनी श्री० || ४ मोदी श्री० || ४ विमला श्री० || ४ विमल श्री० ||
४ अरुणा श्री० || ४ अरुण श्री० || ४ जयिनी श्री० || ४ जयी श्री० || ४
प्. १४७ब्)
सर्वेश्वरी श्री० || ४ सर्वेश्वर श्री० || ४ कौलिनी श्री० || ४ कौली श्री० ||
इत्याकाशचक्रे द्वासप्ततिरश्मिन्यासः ||
ततो भ्रूमध्ये मानसं चक्रबिंदुरूपं तडित्कोटि समप्रभं ध्यात्वा
तत्र चतुःषष्ठिदलमंडितं कमलं ध्यात्वा तत्कर्णिकायां
श्रीपरदेवतां परितस्तद्दलेषु प्रागादिप्रादक्षिण्येन
तवंगसंभूतास्तत्समाकाराः सर्वरोगहरचक्रस्वामिन्यादि
महामहाशयांताः चतुःषष्ठिदेवताः न्यसेत् || तद्यथा ||
४ सर्वरोगहरचक्रस्वामिनी श्री० || ४ सर्वरोगहरचक्रस्वामी श्री० || ४
रहस्ययोगिनी श्री० || ४ रहस्ययोगी श्री० || ४ बाणिणी श्री० || ४ बाणी श्री० || ४
चापिनी श्री० || ४ चापी श्री० || ४ पाशिनी श्री० || ४ पाशी श्री० || ४ अंकुशिनी श्री० ||
४ अंकुशी श्री० || ४ महाकामेश्वरी श्री० || ४ महाकामेश्वर श्री० || ४
महावज्रेश्वरी श्री० || ४ महावज्रेश्वर श्री० || ४ महाभगमालिनी श्री० || ४
महाभगमाली श्री० || ४ महात्रिपुरसुंदरी श्री० || ४ महात्रिपुरसुंदर
श्री० || ४ सर्वसिद्धिप्रदचक्रस्वामिनी श्री० || ४ सर्वसिद्धिप्रदचक्रस्वामी श्री० ||
४ अतिरहस्ययोगिनी श्री० || ४ अतिरहस्ययोगी श्री० || ४ श्रीश्रीमहाभट्टारिका श्री०
|| ४ श्रीश्रीमहाभट्टारक श्री० || ४ सर्वांनंदमयचक्रस्वामिनी श्री० || ४
सर्वांनंदमयचक्रस्वामी श्री० || ४ परापररहस्ययोगिनी श्री० || ४
परापररहस्ययोगी श्री० ||
प्. १४८अ)
४ त्रिपुरा श्री० || ४ त्रिपुर श्री० || ४ त्रिपुरेश्वरी श्री० || ४ त्रिपुरेश्वर श्री० || ४
त्रिपुरसुंदरी श्री० || ४ त्रिपुरसुंदर श्री० || ४ त्रिपुरवासिनी श्री० || ४ त्रिपुरवासी
श्री० || ४ त्रिपुराश्री श्री० || ४ त्रिपुरश्री श्री० || ४ त्रिपुरश्री श्री० || ४ त्रिपुरमालिनी
श्री० || ४ त्रिपुरमाली श्री० || ४ त्रिपुरासिद्धा श्री० || ४ त्रिपुरसिद्ध श्री० || ४
त्रिपुरांबा श्री० || ४ त्रिपुरांब श्री० || ४ महात्रिपुरसुंदरी श्री० || ४
महात्रिपुरसुंदर श्री० || ४ महामहामहेश्वरी श्री० || ४
महामहामहेश्वर श्री० || ४ महामहाराज्ञी श्री० || ४ महामहाराज श्री०
|| ४ महामहाशक्ति श्री० || ४ महामहाशक्त श्री० || ४ महामहागुप्ता श्री० ||
४ महामहागुप्त श्री० || ४ महामहानंदा श्री० || ४ महामहानंद श्री०
|| ४ महामहास्कंदा श्री० || ४ महामहास्कंद श्री० || ४ महामहाशया
श्री० || ४ महामहाशय श्री० || इति आज्ञायां चतुःषष्ठिरश्मिन्यासः ||
इत्थ षष्ठ्युत्तरं त्रिशतं मयूखजालं विन्यस्य तेषां
सर्वेषामुपरिद्वादशांते च चरणद्वयं न्यसेत् || तत्र ब्रह्मरंध्रस्थ
सहस्रदलकमलकर्णिकांयां श्रीपरदेवतां ध्यात्वा तस्यामेव
श्रीश्रीमन्महाश्रीचक्रनगररसाम्राज्ञी
प्. १४८ब्)
रक्त श्रीपादुकां पूजयामि नम इति ब्राह्मरंध्रस्य दक्षिणभागे
विन्यस्य वामभागे ४ श्रीश्रीमन्महाश्रीचक्रनगरसम्राटशुक्ल
श्रीपादुकां पूजयामि नम इति पादांबुजयुगं न्यसेत् || इति
श्रीश्रीविद्यासंभवषष्ठ्युत्तरत्रिशतरश्मिक्रम न्यासः ||
अत्र न्यासे सप्ताक्षर्यंते नमोंतता || मानसपूजायां तु
सप्ताक्षरीमात्रमेव अत्र केचित् || न्यासे प्रोक्तरश्मीनां तत्तन्नामचतुर्थी
नमोंततेत्याहुः || यथा गुरूपदेशं कार्यंमिति || एवं रश्मिक्रमं
कुर्वन्साधके विजितेंद्रियेः || धनधान्यायुरारोग्यभोगमोक्षफलं भवेत्
|| १ ||
अथ ऋष्यादिकरषडंगन्यासान्विधाय शिवोहमिति भावयन् वक्ष्यमाण
संक्षोभणादि नवमुद्राः पाशादिचतुर्मुद्राश्च बध्वा
सर्वावयवभावेन कामकलारूपमात्मानं ध्यात्वा
शक्त्युत्थापनमुद्रां बध्वा प्रातःस्मरण प्रोक्तप्रकारेण
मूलाधारात्कुंडलिनीं सुमुत्थाप्य तथैव षट्चक्रभेदन क्रमेण
ध्यायन्नंतर्यांगं विधायतेत्तेजसापरिणतां श्रीपरदेवतां
हृदयकमलगतसिंहासने श्रीचक्रराजे कामेश्वरां कस्थां
सर्वावरणयुक्तां त्रिखंडा
प्. १४९अ)
मुद्रामुद्रितकरो ध्यायेत् ||
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ||
कृते सौभाग्यरत्नाब्धौ तरंगो त्रयोदशः ||
इति श्रीसच्चिदानंदनाथचरणारबिंदद्वंद्वांतेवाशि
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे त्रयोदशस्तरंगः ||
ततो ध्यानं ||
तत्र श्रीवामकेश्वरतंत्रे ||
उद्यच्चंद्रोदयक्षुब्धरक्तपीयुषवारिधेः ||
मध्ये हेममयीं भूमिं स्मरेन्माणिक्यमंडितां || १ ||
तन्मध्ये नंदनोद्यानं मदनोन्मादनं महत ||
त्रिसाभ्युदितपूर्णेंदुज्योस्नाजालविराजितं || २ ||
सदासह वसंतेन कामशो देवेन रक्षितं ||
कदंबचूतपुन्नागनागकेसर चंपकैः || ३ ||
बकुलैः पारिजातैश्च सर्वर्त्तु कुसुमोज्वलैः ||
झंकारमुखरैर्भृंगै कूजद्भिः कोकिलैः शुकैः || ४ ||
नानावर्णैरथान्यैश्च द्विजसंघैर्निषेवितं ||
शखीकारंडहंसाद्यैर्नानापक्षिमिंरावृतं || ५ ||
नानापुष्पलताकीर्णैर्मिंत्तं वृक्षखंडकैः ||
पर्यंतदीर्घिकोत्फल्लकमलोत्पलसंभवैः || ६ ||
रजोभिधूसरैः सम्यक् सेवितं मलयानिलैः ||
ध्यात्वैवं नंदनोद्यानं ततदः प्रांगणं स्मरेत् || ७ ||
शुद्धकांचनसंकाशं वसुधाभिरलंकृतं ||
प्. १४९ब्)
प्रांगणं चिंतयित्वेस्थं सुरसिद्ध निषेवितं || ८ ||
तन्मध्ये मंडपं ध्यायेद् व्याप्तब्रह्माण्डमंडलं ||
सहस्रादित्यसंकाशं चतुरस्रं सुशोभनं || ९ ||
रत्नतेजः प्रभापुंज पिंजरीकृत दिऽऽन्मुखं ||
मध्यस्तंभविनिर्मुक्तं कोणस्तंभसमन्वितं || १० ||
महामाणिक्यवैडुर्यरत्नकांचनभूषितं ||
मुक्तादामवितानाढ्यं रत्नसोपानमंडितं || ११ ||
मंदवायुसमाक्रांतं गंधधूपतरंगितं ||
रत्नचामरघंटादि विमाने रुपशोभितं || १२ ||
जातीचंपकपुन्नागकेतकी मल्लिकादिभिः ||
रक्तोत्पलसितांभोजमाधवीभिः सुपुष्पकैः || १३ ||
बद्धाभिश्चित्रमालाभिः सर्वत्र समलंकृतं ||
तीर्यगूर्ध्वलसद्रत्नपुतली कोटिमंडितं || १४ ||
नानारत्नादिभिर्दिव्यैर्निर्मितं विश्वकर्मणा ||
तन्मध्ये विपुलां ध्यायेद्वेदिकां शतयोजनां || १५ ||
सहस्रादित्यसंकाशां कोटिमाणिक्यमंडितां ||
चतुर्द्वारसमोपेतां माणिक्यद्वारतोरणां || १६ ||
प्रदीपैः पूर्णकुंभैश्च सर्वतः समलंकृतं ||
हैमीभिः पालिकाभिश्च सांकुराभिरलंकृतां || १७ ||
रत्नपीठस्थितैर्दिव्यैरागमैः परिशोभितां ||
प्. १५०अ)
तदंतरांतरा प्रोद्यन्मणिदर्पणमंगलां || १८ ||
मधुरोद्गारविविधगांधर्वस्तोत्र बृंहितां ||
शृंगाररससनद्धैर्नवयौवनलंपटैः || १९ ||
अमरीनिकरैर्नानामणिभूषणभूषितैः ||
वीणावेणुमृदंगादि वादनेन च नृत्यकैः || २० ||
प्रीणयद्भिर्महादेवीं परीतां परितः सदा ||
रत्नसिंहासनं तस्या वेद्यामध्ये स्मरेछुभं || २१ ||
विरंचि विष्णुरुद्रेशरुपपादचतुष्टयं ||
सदाशिवमयं साक्षात्तस्मिन्परशिवात्मकं || २२ ||
पुष्पपर्यंकमाश्चर्यं तत्र श्रीचक्रनायकं ||
तन्मध्ययोनिमध्यस्थे श्रीमदोद्यापीठके || २३ ||
पर्यंकबंधविलसत्स्वस्तिकासनशालिनी ||
ध्यायेत्परशिवांकस्थां पद्ममध्योब्जलाकृतिं || २४ ||
ततो ध्यानं प्रवक्ष्यामि त्रिदत्रौः सेवनीयकं ||
ततः पद्मनिभां देवी बालार्ककिरणारुणां || २५ ||
जपाकुसुमसंकाशां दाडिमी कुसुमोपमां ||
पद्मरागप्रतीकाशां कुंकुमोदक सन्निभां || २६ ||
स्फुरन्मुकुटमाणिक्य किकिणीजालमंडितां ||
कालालिकुलसंकाशकुटिलालकपल्लवां || २७ ||
प्रत्यग्रारुणसंकाश वदनांभोजमंडलां ||
किंचिदर्द्धेदु कुटिलललाटमृदुपट्टिकां || २८ ||
प्. १५०ब्)
पिनाकधनुषाकार भ्रूलतां परमेश्वरीं ||
आनंदमुदितोल्लोललीलांदोलितलोचनां || २९ ||
स्फुरन्मयूखसंघातविलसद्धेमकुंडलां ||
सुगंडमंडलाभोगजितेंद्वमृतमंडलां || ३० ||
विश्वकर्मादिनिर्माणसूत्रसुस्पष्टनासिकां ||
ताम्रविद्रुमबिंबाभ रक्तोष्ठी अमृतोपमां || ३१ ||
दाडिमीबीजवज्राभ दंतपंक्तिविराजितां ||
स्मितमाधुर्य विजितमाधुर्यरससागरां || ३२ ||
अनौपम्यगुणोपेत चिबुकोदेशशोभितां ||
कंबुग्रीवां महादेवीं मृणालललितैर्भुजैः || ३३ ||
मणिकंकणकेयूर भारखिन्नैः प्रशोभितां ||
रक्तोत्पलदलाकार रक्तसुकुमार करांबुजां || ३४ ||
करांबुजनखज्योतिर्वितानितनभस्तलां ||
मुक्ताहारलतोपेत समुन्नतपयोधरां || ३५ ||
त्रिवली वलनायुक्त मध्यदेश सुशोभितां ||
लावण्यसरिदावर्त्तीकारनाभिविभूषितां || ३६ ||
अनर्घ्यरत्नघटितकांचीयुतनितंबिनी ||
नितंबबिंबद्विरदरोमराजिवरांकुशां || ३७ ||
कदली ललितस्तंबसुकुमारोतमीश्वरीं ||
लावण्यकदलीतुल्य जंघायुगुलमंडितां || ३८ ||
गूढगुल्फपदद्वंद्वप्रपदाजिताकछपां ||
प्. १५१अ)
ब्रह्मविष्णुशिरोरत्ननिघृष्ठचरणांबुजां || ३९ ||
तनु दीर्घांगुलीभास्वन्नखचंद्रविराजितां ||
शीतांशुशकाशसतकांतिसंतानहासिनी || ४० ||
लौहित्यजितसिंदूर जपादाडिमरागिणीं ||
रक्तवस्त्रपरीधानां पाशांकुशकरोद्यतां || ४१ ||
रक्तपुष्पनिविष्टां च रक्ताभरणमंडितां ||
चतुर्भुजां त्रिनेत्रां च पंचबाणधनुधरां || ४२ ||
कर्पूरशाकलोन्मिश्रतांबूलापूरिताननां ||
महामृगमदोदामकुंकुमारुणविग्रहां || ४३ ||
सर्वशृंगारवेषाढ्यां सर्वालंकारभूषितां ||
जगदाह्लादजननीं जगद्रंजनकारिणी || ४४ ||
जगदाकर्षणकरी जगत्कारणरूपिणीं ||
सर्वमंत्रमयीं देवीं सर्वसौभाग्यसुंदरीं || ४५ ||
इति स्वैक्येन ध्यात्वा मूलविद्यया स्वशिरसिपुष्पांजलि दत्वा
पुनर्हृदयकमले यथोक्तरूपां भगवतीं सांगा वरणां ध्यात्वा
वक्ष्यमाणप्रकारेण पीठपूजादिपूर्वकं सांगा सावरणां देवीं
मानसैरुपचारैः संपूज्य नैवेद्यं दत्वा भोजनावसरेत वैश्वदेवं
कुर्यात् ||
प्. १५१ब्)
तत्र मूलाधारे आत्मांतरात्मापरमात्मज्ञानात्मेत्यात्मचतुष्टयं
कॢप्तं चतुरस्रं कुंडल्यग्निसमुज्वलं कुंडं ध्यात्वा तत्र
श्रीपरदेवतां ध्यात्वा तन्मुखे मूलविद्यांते आहं तां जुहोमि स्वाहा ||
इत्यादि अहंतां सप्तकैशून्य कामक्रोधलोभमोहमदमात्सर्याणि
सुषुम्णास्रुग्युक्तमनःस्रुवेण प्रत्येकं हुत्वा पुनः हृदयकमले
भुक्तवतीं देवीं ध्यात्वा उत्तरापोतानादि
सर्वोपचारैराराध्यमूलविद्यां यथाशक्तिं जपित्वा
प्राणायामादिपूर्वकं वक्ष्यमाणविधिना जपं समर्प्य श्रीगुरुं
प्रणम्य स्वदेहं गंधादिभिरलंकृत्य अर्घ्यादिपात्र स्थापनं कुर्यात् ||
तत्र स्ववामाग्रे वक्ष्यमाणविशेषार्घमंडलवन्मंडविरच्य तथैव
संपूज्य तत्र वक्ष्यमाणविधिना प्रक्षालितमाधारं संस्थाप्यत
तथैव संपूज्य सुवर्णादिरचितं कजशधूपवासितं हुं हुं
ब्रह्मांड चषकाय स्वाहेति वामकरेण प्रक्षालितं ऐं संदीपनि
ज्वालामालिनी ह्रीं इति संदीपनी विद्यया योनिमुद्रया संदीपितं
कवचेनावगुंठितं ओं नमः | ह्रीं नमः | ह्रं क्ष्रुं नमः | हं नमः | सः
नमः |
प्. १५२अ)
इति विन्यस्त पंचमंत्रं ४ श्रीमहात्रिपुरसुंदर्याः महाकलशं
स्थापयामीति तत्र कलशं संस्थाप्यत् तत्र
वक्ष्यमाणविशेषार्घपात्रवत्पूर्यकलांतं प्रपूज्य तत्र वक्ष्यमाण
विधिनैव कर्पूरादि सुवासिता पर्युषित पारिस्रुतपयंः समापूर्य
तत्राब्जादिकं निक्षिप्य तन्मध्ये विशेषार्घो वक्ष्यमाणं मंडलं
विभाव्य वक्ष्यमाणविधिना सोमकलांतं संपूज्य तच्चतुरस्रं परितः ४
हृ सू ख फ्रें पथिक देवताभ्यो हूं फट् स्वाहा नमः | ४ हसखफ्रें
आचंडालिनी ह्रं फट् स्वाहा नमः | हसखफ्रें क्रोधचंडालिनि हुं
फट् स्वाहा नमः | ४ हसखफ्रें दृष्टिचंडालिनी हुं फट् स्वाहा नमः ||
४ हसखफ्रें स्पर्श चं० | ४ हसखफ्रें सृष्टि चं० | ४ हसखफ्रें घट
चं० | ४ हसखफ्रें तपनवेध चं० | ४ हसखफ्रें निर्दय चं० | ४
हसखफ्रें सर्वजनदृष्टिस्पर्शदोष चं० | ४ हसखफ्रें पशुपाशा चं०
| इति स्वाग्रादि प्रादक्षिण्येण संपूजयेदिति दशदोषांन्निरस्य || ४ कां कीं
कूं कैं कौं कः विकारशोषिणि अस्य विकारान् हनहन स्वाहा इति हेतु
मध्ये संपूज्य ||
स्वादिष्टयादिभिः पूर्वं ऋग्भिः पंचभिरायतः ||
विष्णुर्योनिं त्रयेणैव त्रिभिष्ट्वादि त्रयेण चं ||
प्. १५२ब्)
इमं मे च इति द्वाभ्यां तामंदेत्येकया तथा ||
श्रीणामेकेति चैकेन शुत्रशापं विमोचयेत् ||
इति कुलार्णव वचनात् ||
उक्तं पंचदशमंत्रैः सकृत्सत्कृदभिमंत्रयेत् || मंत्रा ऋग्वेदे यथा ||
स्वादिष्ठयामदिष्ठया पवस्व सोमधारया || इंद्राय पातवे सुतः || इत्यादि
इदोत्वेन आशसः || इत्यंतं वर्गं पठित्वा || विष्णुर्योनिकल्पयतु
त्वष्टारूपाणि पिंशतु ||
असिंचतुप्रजापतिर्धाता गर्भं दद्यातु ते ||
गर्भं धेहिसिनी वालि गर्भं धेहि सरस्वति ||
गर्भं ते अश्विनौ देवा वाधत्तां पुष्कर स्रजा ||
हिरण्मयी अरणी यन्निंर्यथतो अश्विना ||
तं ते गर्भं हवामहे दशमे मासि सूतव || ३ ||
त्रिभिष्ट्वं देवसवितुर्वर्षिष्ठैसोमधामभिः | अग्ने दक्षैः पुनी हिनः |
पुनंतु मां देवजनाः पुनं तु वसवो धिया ||
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ||
प्रप्याय स्वप्रस्यंदस्वसोमविश्वेभिरं शुभिः | देवेभ्यः त्तमं हविः ||
इमं मे गंगे यमुने सरस्वति शुतुद्रि स्तोमं सचतापरुष्ण्या ||
असिक्न्यमरुद्दृधे वितस्तयार्जीकीये श्रुणुह्यासुषोमया ||
सितासिते सरिते यत्र संगथे तत्राप्लुतासो दिवमुत्पतंति ||
प्. १५३अ)
ये वै तन्व १ विसृजंति धीरास्तेजनासो अमृतत्वं भजंते ||
ता मंदसानामनुषोदुरोण आधत्तंरयीं सहवीरं च चस्यवे ||
कृतं तीर्थं सुप्रपाणं शुभस्यती स्थाणुं पथेष्ठामवदुर्मतिं
हतं || ३ ||
श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सुनया भृतं ||
आ निम्रुचः शकदेको अपाभरत् किंस्वित् पुत्रेभ्यः पितरा उपावतु ||
इत्यभिमंत्र्य ४ ह्वां ह्वीं ह्वू ह्वै ह्वौ ह्वः मृते अमृतोद्भवे अमृतेश्वरी
अमृतवर्षिणि अमृतस्वरूपिणि अमृतं स्रावयशुक्रशापात्सुधां मोचय
मोचय मोचिकायै नमः | ओं जूं सः स्वाहा इति विद्यया अष्टवारं
अभिमंत्र्य ४ सिद्धायै नमः | ४ रक्तायै नमः | ४ शुक्लायै० | ४ उत्पलायै० | इति
चतुरस्तस्य चतुर्दिक्षु प्रादक्षिण्येन स्वाग्रादितः संपूज्य तन्मध्ये
त्रिकोणं विशेषार्घे वक्ष्यमाणरूपं विभाव्य ४ हसक्षमलवरयूं
आनंदभैरवाय वौषट् || आनंदभैरव श्रीपादुकां पूजयामि
तर्पयामि नमः || एवं सर्वत्र ४ हसक्षमलवरयूं सुरानंदे भैरवाय
वौषट् सुरानंदनाथ श्री० | ४ सहक्षमलवरयीं सुरानंदभैरव्यै
वषट् सुरानंदभैरवी श्री० || ४ हसक्षमलवरयूं
प्. १५३ब्)
अमृतानंदभैरवाये वौषट् अमृतभैरव श्री० | ४ सहक्षमलवरयीं
अमृतभैरव्यै वट् अमृतभैरवी श्री० || ४ हसक्षमलवरयूं
तरुणानंदभैरवाय वौषट् तरुणानंदभैरव श्री० | ४
सहक्षमलवरयीं तरणानंदभैरव्यै वट् तरणानंदभैरवी श्री० || ४
हसक्षमलवरयूं उन्मतानंदभैरवाय वौषट् उन्मतानंदभैरव
श्री० ४ सहक्षमलवरयीं उन्मत्तानंदभैरव्यै वट् उन्मत्तानंदभैरवी
श्री० | ४ हसक्षमलवरयूं ज्ञानांनंदभैरवाय वौषट्
ज्ञानानंदभैरव श्री० | ४ सहक्षमलरयीं
ज्ञानानंदज्ञानानंदभैरव्यै वषट् ज्ञानानंदभैरवी श्री० | ४
हसक्षमलवरयूं मुक्त्यानंदभैरवाय वौषट् मुक्त्यानंदभैरव
श्री० | ४ सहक्षमलरयीं मुक्त्यानंदभैरव्यै वषट् मुक्त्यानंदभैरवी
श्री० | ४ हसक्षमलवरयूं परमानंदभैरवाय वौषट्
परमानंदभैरव श्री० | ४ सहक्षमलवरयीं परमानंदभैरव्यै
वषट् परमानंदभैरवी श्री० | ४ हसक्षमलवरयूं
कालभैरवानंदाय वौषट् कालभैरवानंद श्री० | ४ सहक्षमलवरयीं
कालभैरव्यै वषट् कालभैरवी पादुका पू० तर्प० नमः | इति भैरवमिथुन
नवकं मध्ये अष्टदिक्षु च संपूज्य संतर्प्य मूलविद्यया
प्. १५४अ)
विक्षणमुद्रया संवीक्ष्य अस्रमंत्रेण प्रोक्ष्य अस्रमंत्रेण कुशैस्त्रिः
संताडयकवचमंत्रेण अभ्युक्ष्य आघ्राय वामनासारंध्रेण प्रविश्य
ब्रह्मरंध्रं गत्वा तत्रस्थ चिच्चंद्रमंडलमध्यगत
परमामृतवारिधौ मिलित्वा तन्मयेन राजदंतविवरान्नेत्रमार्गेण
विनिर्गतं जलं विभाव्यसंरोधनमुद्रया संरुध्यकवचमंत्रेण
अवगुंठनमुद्रया अवगुंठ्य वमिति धेनुमुद्रया अमृतीकृत्य
परमीकरणमुद्रया परमामृतीकृत्य तत्र देवीं ध्यात्वा
गंधपुष्पादिभिः संपूज्य मूलविद्यामष्टवारमभिमंत्र्य ४ नमो
भगवती ग्रासे (महे)श्वरि वारुणी जलमूर्त्तय ऊर्ध्वबिंदुग्राहिणि
महालक्ष्मीश्वरी परमधाम्नि परमाकाशभासुरि सोमसूर्याग्निभक्षणि
आगछ विश विश स्वभोगद्रव्यं गृह्ण गृह्ण स्वाहा | इति तत्कलशाद्बिंदुं
वामांगुष्ठानामिकाभ्यां धृतद्वितीयखंडे नादायोर्ध्वमुत्क्षिप्येत्
ततः कलशवदनं पात्रांतरेण आछादद्य उद्धरणपात्रमादाय
वामकरे निधाय ४ अमोघायै नमः || ४ सूक्ष्मायै नमः || ४ आनंदायै
नमः | ४ शांत्यै नमः | इति शक्तिचतुष्टयं करस्थमात्रोपरिसंपूज्य
कुंभस्याछादनपात्रस्योपरिस्थापयेदिति
प्. १५४ब्)
कलशस्थापनं | विधाय ततः कलशदक्षिणभागे शुद्धोदकेन
चतुरस्रवृत्तत्रिकोणात्मकं मंडलं चंदनालिप्तभूमौ
वहन्नासाकारोर्ध्वपुटाभ्यां कराभ्यां त्रितारमुच्चरन् निर्माय प्रणव
त्रितारादि नमोंत्तया मूलविद्यया त्रिकोणमध्यं संपूज्य कूटत्रयेण
त्रिषु कोणेषु स्वाग्रादि प्रादक्षिण्येन संपूज्य चतुरस्रे अग्नीश निर्-ऋति
वायुकोणेषु हृदयाद्यंग चतुष्टयं मध्ये नेत्रं
प्रागादिचतुर्दिक्ष्वस्त्रमिति षडंगमंत्रैः संपूज्य तत्र मूलेन
क्षालितमाधारं संस्थाप्य ४ प्रथमकुटमुच्चार्य मं वह्निमंडलाय
धर्मप्रददशकलात्मने श्रीपरदेवतायाः सामान्यार्घाधाराय नम इति
संपूज्य तत्र वक्ष्यमाणप्रकारेण वह्नेर्दशकलाः पूजयित्वा तत्रास्त्रेण
क्षालितं शंखं निधाय ४ द्वितीयकूटं अर्कमण्डलायार्थप्रद
द्वादशकलात्मने श्रीपरदेवतायाः सामान्यार्घ्य पात्राय नम इति
संपूज्य तत्र वक्ष्यमाणप्रकारेण सूर्यस्य द्वादशकलाः
संपूज्यगंधादि सुवासितशुद्धतोयेन प्रणवत्रितारमूलविद्यांते विलोम
मातृकामुच्चरन् तत्पात्रमापूर्य
प्. १५५अ)
४ तृतीयकूटं ओं उं सोममंडलाय कामप्रद षोडशकलात्मने
परदेवतायाः सामान्यार्घामृताय नमः || इति जलं संपूज्य तत्र
वक्ष्यमाणप्रकारेण सोमस्य षोडशकलाः संपूज्य तत्र
प्राग्वत्सवितृमंडलात्तीर्थमावाह्य कलशामृतबिंदुं दत्वा तत्र मूलेन
गंध * ष्पादिकं निक्षिप्य प्राग्वत् षडंगैः संपूज्य ४
हसक्षमलवरयूं सहक्षमलवरयीं इति नवात्मकमिथुनमंत्रेण
त्रिरभिमंत्र्य ह्सौं वरणाय नमः | शौं वारुणि देव्यै नम इति
वरुणमिथुनमंत्रे च त्रिरभिमंत्र्य मूलेनाष्टधाभिमंत्र्य
धेनुयोनिमुद्रे प्रदर्शयेदिति सामान्यार्घं विधाय तत्समीपे
सामान्यार्घ जलेन यक्षकर्दमादि गंधमिश्रितेन भुमिं विलिख्य तत्र
वहछ्वासोर्ध्यपुट हस्ताभ्यां चतुरस्र वृत्त षट्कोणात्मं मंडलं
विधाय तन्मंडलं शंखमुद्रामुद्रित वामकरेण अवष्टभ्य तन्मध्य
त्रिकोणमध्ये सबिंदुतुर्य स्वररूपां कामकलां विलिख्य ४
श्रीपरदेवतायाः विशेषार्घाधारमंडलाय नमः | इति मंडलं
संपूज्य ४ नमोंत मूलेन त्रिकोणमध्यं संपूज्य त्रिकोणाग्रकोणे ४
प्. १५५ब्)
प्रथमकूटं नमः | वामे ४ द्वितीयं नमः | दक्षिणे ४ तृतीयं नमः | इति
त्रिकोणं प्रादक्षिण्येन संपूज्य षट्कोणेषु प्रादक्षिण्येन स्वाग्रमारभ्य
मूलकूट त्रयस्य द्विरावृत्या पूज्ययित्वा चतुरस्रे प्राग्वत् षडंगानि
संपूज्य चतुरस्रे स्वाग्रादि चतुर्दिक्षुमध्ये च प्रादक्षिण्येन ४ ग्लूं
गगनरत्नाय नमः | ४ स्लूं स्वर्गरत्नाय नमः | ४ म्लूं मर्त्यरत्नाय
नमः | ४ प्लूं पातालरत्नाय नमः | ४ न्लूं नागरत्नाय नमः | इति
पंचरत्नानि संपूज्य पुनः षट्कोणेषु स्वाग्रादि प्रादक्षिण्येन न्यासोक्त
सुधार्णवासनाय नमः पोतांबुजासनाय नमः | आत्मासनाय० |
सर्वचक्रासनाय० | सर्वमंत्रासना० | साध्यसिद्धासनाय० | ५ संपूज्य
चतुरस्रवृत्त षट्कोण त्रिकोणेषु ४ कामरूपपीठा नमः | ४
जालंधरपीठाय नमः | ४ पूर्णगिरिपीठाय नमः | ४ उड्याणपीठाय
नमः | इति पीठचतुष्टयं संपूज्य |
शांभवदीक्षावांश्चेत् चतुरस्रे स्वाग्रादि चतुर्दिक्षुमध्ये च
पंचप्रणवपुटितैः प्रणवपंचकैः पूजयेत् | तद्यथा || ऐं ह्रिं श्रीं
ह्स्फ्रें ह्सौः ऐं ह्सौं ह्स्फें श्रीं ह्रीं ऐं नमः || एवं ५ ह्रीं ५ नमः
५ श्रीं ५ नमः ५ ह्स्फें ५ नमः ह्सौंः ५ नमः || इति संपूजयेत | ततः ४
मूलं सर्वशक्तिमयी श्रीपरदेवतायाः
पीठचतुष्टयात्मकार्घमंडलाय नमः |
प्. १५६अ)
इति समस्तमंडलं संपूज्य तत्र मूलेन क्षालितमाधारं गृहीत्वा ४
श्रीपरदेवताया विशेषार्घाघारंस्थापयामीति मंडलोपरिसंस्थाप्य ४
प्रथमकूटमुच्चार्य मं वह्निमंडलाय धर्मप्रद दशकलात्मने
श्रीपरदेवताया विषार्घपात्राधाराय नमः || इत्याधारं संपूज्य
तदुपरिस्वाग्रादि प्रादक्षिण्येन वह्नेर्दशकलाः समावाह्यतासां
प्राणप्रतिष्ठां कुर्यात् ||
तत्र पूर्वोक्त प्राणप्राणप्रतिष्ठा मंत्रे मम पदस्थाने धुम्रार्चिरादि
नामिति पदं निक्षिप्य प्राणप्रतिष्ठामंत्रं धारं स्पृशन् पठेदिति
प्राणप्रतिष्ठाविधाय ४ यं धुम्रार्चिषे नमः | ४ रं उष्मायै नमः |
४ लं ज्वलिन्यै० | ४ वं ज्वालिन्यै० | ४ शं विस्फुलिंगिन्यै० | ४ षं सुश्रियै न० |
४ सं सुरूपायै० | ४ हं कपिलायै० | ४ लं हव्यवाहायै० | ४ क्षं
कव्यवाहायै नमः || इति ताः संपूज्य स्वर्णादि रचितं
पात्रमस्त्रेणप्रक्षाल्य श्रीपरदेवतायाविशेषार्घपात्रं
संस्थापयामीति तत्र संस्थाप्य ४ द्वितीयकूटमुच्चार्य अं
अर्कमंडलायार्थ प्रद द्वादशकलात्मने श्रीपरदेवतायाः विशेषार्घ
पात्राय नम इति पात्रमध्ये
प्. १५६ब्)
संपूज्य तत्र पूर्वोक्तं मंडलं विभाव्य पूर्ववत्पंचरत्नानि
संपूज्य तथैव पंचप्रणवैरभ्यर्च्य तत्र सूर्यस्य द्वादशकलाः
समावाह्य प्राग्वत्तन्नाम पुरःसरं तासां प्राणप्रतिष्ठां विधाय
वृत्ताकारेण प्रादक्षिप्येन ताः पूजयेत् || तद्यथा || ४ कं भं तपिन्यै
नमः || ४ खं बं तापिन्यै० | ४ गं फं धूम्रायै० | ४ छं पं
मरिच्यै० | ४ ऽऽनं नं ज्वालिन्यै० | ४ चं धं रुव्यै० | ४ छं दं
सुषुम्णायै० | ४ जं षं भोगदायै० | ४ झं तं विश्वायै० | ४ ञं णं
बोधिन्यै० | ४ टं ढं धारिण्यै० | ४ ठं डं क्षमायै० || इति संपूज्य
कलशस्थं जलं उद्धरणपात्रेणोधृत्य मूलविद्यांते
विलोममातृकामुच्चार्य तत्पात्रमापूर्य तत्रापि अब्जादिकं निक्षिप्य ऐं इति
अंगुष्ठानामिकाभ्यां पुष्पेण तत्पात्रस्थं जलमालोड्य तत्पुष्पं
निरस्य क्लीमिति चंदनागुरुकर्पूरचोरकुंकुमरोचना जडामांसी
शिलारसात्मकगंधाष्टकपंकलोलितं चंदनादि पंकलोलितं वा
पुष्पं निक्षिप्यसौरितिगालिनिमुद्रया निरीक्ष्य ४ तृतीय कूटं उं
सोममंडलाय कामप्रदषोडशकलात्मने श्रीपरदेवताया
विशेषार्घामृताय नमः | इति पात्रस्थ हेतुमध्ये
प्. १५७अ)
संपूज्य तत्र पूर्वोक्तं मंडलं विभाव्य पूर्ववत् पंचरत्नांतं
संपूज्य शांभवदीक्षायुक्तस्थैस्तथैव पंचप्रणवैः पूजयेत् ||
ततस्तत्र सोमस्य षोडशकलासमावाह्य प्राग्वतन्नाम पुरःसरं तासां
प्राणप्रतिष्ठां विधाय वृत्ताकारेण स्वाग्रादि प्रादक्षिण्येन ताः पूजयेत्
|| तद्यथा ४ अं अमृतायै नमः | ४ आं मानदायै० | ४ इं पूषायै० | ४ ईं
तुष्ट्यै० | ४ उं पुष्प्यै न० | ४ ऊं रत्यै नम० | ४ ऋं धृत्यै० | ४ ॠं शशिन्यै०
| ४ ॡं चंद्रिकायै० | ४ ॡं कांत्यै० | ४ एं ज्योत्स्नायै० | ४ ऐं श्रियै० | ४ ओं
प्रीत्यै० | ४ औं अंगदायै० | ४ अं पूर्णायै न० | ४ अः पूर्णामृतायै० | इति
संपूज्य पूर्वपूजितमंदलमध्यत्रिकोणमकथादि त्रिरेखं विभाव्ये
तत्कोणत्रये मुलविद्यायाः कूटत्रयं मध्यस्य बिंदौ कामकलां
तत्पार्श्वयोः सबिंदुंहक्षौ तत्पृष्ठे लकारं तत्पार्श्वेयोर्हंसवर्णौ
विभाव्यपुष्पाक्षतगर्भितां योनिमुद्राबध्वा गुरुपदिष्टप्रकारेण
मुलाधारात्कुंडलिनीमुत्थाप्य षट्च्क्रभेदनक्रमेण सुषुम्णावर्त्मना
ब्रह्मरंध्रस्थ चिच्चंद्रमंडलं नीत्वा तत्र स्थित परमशिवे संयोज्य
तयोः शिवशक्त्यौः सामरस्य सुखानुभवगलितामृतधारां
प्. १५७ब्)
संचित्य राजदंतविवरान्तयनवर्त्मना निःसृतां योनिमुद्रोल्लसितेन
करेणानीय ४ मूलविद्यांते
ब्रह्मांडखंडसंभूतमशेषरससंभृतं ||
आपूरितं महापात्रं पीयूषरसमावहे || १ ||
ऐं प्लुं झ्रौं जूं सः अमृते अमृतोद्भवे अमृतेश्वरी अमृतवर्षिणी अमृतं
स्रावय स्रावय स्वाहा इति तस्मिन्नर्घामृते पुष्पाक्षतप्रक्षेपेण
तदमृतधारां संयोज्यवमिति धेनुमुद्रां प्रदर्श्य ओं ह्रीं हं सः
सोहं स्वाहा इत्यात्माष्टाक्षरं मंत्रेणत्रिरभिमंत्र्य पुनरुच्चार्य
आत्मशक्ति श्रीपादुकां पूजयामिति हेतुमध्ये संपूज्य पुनः प्रणवेन
त्रिरभिमंत्र्य पुनः प्रणवमुच्चार्य परं निष्क शांभवी श्री० | इति
हेतुमध्ये संपूज्य पुनः हं सः इति मंत्रेण त्रिरभिमंत्र्य हं सः
अजपाशक्ति श्री० | इति संपूज्यमातृकया प्रत्यक्षरं बिंदुरहितया
त्रिरभिमंत्र्य पुनस्तामुच्चार्य मातृका सरस्वती श्री० | इति हेतु मध्ये
संपूज्य मूलतार्तीयकूटेन दशधाभिमव्यपुनस्तार्तीय कूटमुच्चार्य
त्रिपुरामृतेश्वरी श्री० | इति हेतुमध्य संपूज्य | ४ हसहक्षमलवरयूं
सहक्षमलवरयीं इत्यानंदभैरवमिथुनविद्याभ्यां त्रिरभिमंत्र्य
हसक्षमलवरयूं आनंदभैरवाय वौषट्
प्. १५८अ)
आनंदभैरव श्रीपादुकां पूजयामि तर्पयामी नम इति त्रिः संतर्प्य ४
सहक्षमलवरयीं सुधादेव्यै वट् सुधादेवी श्री० | इति त्रिः संपूज्य
संतर्प्य ह्सौं वरुणाय नमः | शौं वरुणा देव्यै नमः | इति
वरुणमिथुनविद्याभ्यां त्रिरभिमंत्र्य ४ पुनः पृथगुच्चार्य वरुण श्री० |
वारुणीदेवी श्रीपादुकां पूजयामीति संपूज्य संतर्प्य ततो बालया
वक्षमाणनित्या षोडशमंत्रैश्च सकृत्सकृदभिमंत्र्य | तद्दिन नित्या
विद्यया तत्तिथि नित्याविद्यया च पृथक् त्रिस्त्रिरभिमंत्र्य पराप्रासाद
प्रासादपरमंत्राभ्यां उर्ध्वाम्नाय दिक्षितश्चेत् ह्सौंः शौंः इति
मंत्राभ्यां त्रिरभिमंत्र्य ततश्चरणदिंदीक्षीतश्चेत् चरणकुलयोगिनी
विद्याभ्यां त्रिस्त्रिरभिमंत्र्य ततः सौः इत्यनुतरपराविद्ययादीक्षितश्चेत्
तया त्रिरभिमंत्र्य पूर्णाभिषिक्तश्चेत् कामकलाविद्यया
त्रिरभिमंत्र्य षडन्वय शांभवदीक्षा युक्तश्चेत्
तद्विद्याभिस्त्रिस्त्रिरभिमंत्र्यतते विक्ष्यमाण पांचभौतिक
मंत्रैस्त्रिस्त्रिरभिमंत्र्य सृष्ट्यादि दशकला हेतुमध्ये समावाह्य
प्राग्वतन्नामपुरःसरं तासां प्राणप्रतिष्ठां विधाय ओं हं सः
शुचि षद्वसुरंतरिक्ष
प्. १५८ब्)
सद्धोतां वेदिषदतिथिर्दुरोणसत् || नृषद्वरसदृतसव्योमसदज्बागोजा ऋतजा
अद्रिजा ऋतं बृहत् || अनया ऋचा सकृदभिमंत्र्यपुनरुच्चार्य ब्रह्मणे नम इति
हेतुमध्ये संपूज्यकं सृष्ट्यै नम इत्यादि प्रागुक्तकला
मातृकान्यासोक्तप्रकारेण कचवर्गकलाः संपूज्य ततः टतवर्गोत्थ जरादि
दशकलाः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय ||
प्रतद्विष्णुस्तवते वीर्येण मृगो न भीमः कुचरोगिरिष्ठाः || यस्योरुषु त्रिषु
विक्रमणेष्वधिक्षियंति भुवनानि विश्वा || अनया ऋचा सकृदभिमंत्र्य
पुनरुच्चार्य विष्णुवे नम इति संपूज्य टं जरायै नम इत्यादिताः संपूज्य
पयवर्गोत्थ कलास्तीक्ष्णाद्याः समावाह्य || प्राग्वत् तासां
प्राणप्रतिष्ठां विधाय ||
त्र्यंबकं यजामहे सुगंधिपुष्टिवर्द्धनं ||
उर्वारुकमिव बंधनान्मृत्योमृक्षीय मामृतात् ||
इत्यभिमंत्र्य पुनरुच्चार्य रुद्राय नम इति संपूज्य पं तीक्ष्णायै नम
इत्यादिभिः संपूज्य पुनः षकारादि क्षकारांत पंचवर्णोत्थाः पीतादि
पंचकलाः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय
गायत्र्याभिमंत्र्य पुनरुच्चार्य इश्वराय नम इति संपूज्य षं पीतायै
नम
प्. १५९अ)
इत्यादिताः संपूज्य ततः स्वरोत्थानि निवृत्यादि षोडशकलाः समावाह्य
प्राग्वत् तासां प्राणप्रतिष्ठां विधाय || विष्णुर्योनिं कल्पयस्विति
मंत्रस्य त्वष्टा गर्भकर्ता ऋषिः अनुष्टूप्छंदः श्रीविष्णुर्देवता
श्रीसदाशि * पूजार्थे जपे विनियोगः || विष्णुर्योनिं कल्पयतु त्वत्वष्टारूपाणि
पिंशत् || आसिंचतु प्रजापतिर्धाता गर्भं दधातु ते || इत्यभिमंत्र्य
पुनरुच्चार्य सदाशिवाय नम इति हेतुमध्ये सकृत्संपूज्य अं निवृत्यै नम
इत्यादिताः संपूज्य मातृकया द्विरभिमंत्र्य पुनरभिमंत्र्य मातृका
सरस्वती श्री० इति संपूज्य ||
ऐं अखंडै करसानंदकरे परसुधात्मनि ||
स्वछंदस्फुरणामत्र निधे ह्यकुलरूपिणि ||
इत्यनेन त्रिरभिमंत्र्य ||
क्लीं अकुलस्थामृताकारे सिद्धिज्ञानकरे परे ||
अमृतत्वं निधे ह्यस्मिन् वस्तुनि क्लिन्नरूपिणि || १ ||
इति च त्रिरभिमंत्र्य सौः त्वद्रूपेणैकरस्य त्वं दवार्घ्ये तत्स्वरूपिणि ||
भूत्वा परामृताकारामयि च स्फुरणं कुरु || इति च त्रिरभिमंत्र्य || ऐं प्लुं
जूं सः अमृते अमृतोद्भवे अमृतेश्वरी अमृतवर्षिणी अमृतं स्रावय स्रावय
स्वाहा || इति अमृतेश्वरी
प्. १५९ब्)
विद्यया चतुर्वारमभिमंत्र्य | पुनस्तामुच्चार्य अमृतेश्वरी श्री० | इति
सकृत्संपूज्य ततः ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय
महाक्षोभं कुरु कुरु क्ली सौः मोक्षं कुरु कुरु सौः ह्सौः || इति दीपनी
विद्यया पंचवारमभिमंत्र्य ततस्तत्र मूलविद्यामष्टधा जपित्वा
तन्मध्ये चतुरस्रं पश्चिमद्वारं विचिंत्य तद्वारपार्श्वयोः
कुलबटुकनाथ तद्वल्लभां वा श्री० || कुलगणपतिनाथ तद्वल्लभां वा
श्री० || इति दक्षिणवामयोः संपूज्य तदंतः प्राग्वत् षडासनानि संपूज्य
तन्मध्यत्रिकोणमध्यस्थ बिंदुमध्ये कामकलायां
वक्ष्यमाणप्रकारेण देवीमावाह्य ध्यात्वा षडंगन्यासयोगेन
सकलीकृत्य गंधादिभिः संपूज्य वक्ष्यमाण विधिना देव्यंगे
लयांगं संपूज्य तिथि
नित्याषोडशनित्यागुरुपंक्तित्रयं षडंगयुवतीश्च संपूज्य
वक्ष्यमाण समष्टि योगिनी मंत्रेण त्रिः सकृद्वा पुष्पांजलिं दत्वा
धूपदीपौ निवेद्य योनि धेनु महायोगिनि त्रिशिखापद्मसंक्षोभ
द्रावणाकर्षवश्योन्मादमहांकुश खेचरी बीजयोनि
पाशांकुशधनुर्बाणाख्या अष्टादशमुद्राः प्रदर्श नमस्कार
मुद्रया प्रणमेत् ||
प्. १६०अ)
अत्र एतावत् कतुमशक्तश्चेत् अभिमंत्रण पूजनयोरन्यतमं कुर्यात् | तत्रापि
असक्तश्चेत् आत्माष्टाक्षरपूजां तं कृत्वा आनंदभैरवमिथुनं
संपूज्य संतर्प्य सृष्ट्यादि कलापूजामारभ्य शेषं
प्राग्वत्समापयेदिति ||
विशेषार्घस्थपनविधिः ||
ततस्तत्परतस्तेनैव विधिना श्रीपात्राख्यं पात्रांतरं स्थापयेत् तेन
मूलदेव्यतिरिक्तावरणदेवतास्तर्पयेत् || पूजासमर्प्यादिकं
मूलदेव्यास्तर्पणं च विशेषार्घेणैव || तत्र अनंगकुसुमादि
पर्यंतमावरण त्रयं पूजा समर्पणमर्घदानं च सामान्यार्घ
जलैरेव कुर्यात् || इति श्रीपात्रस्थापनविधिः |
ततस्तदनुक्रमेणैव तदधः पंक्याकारेण पाद्याचमनीय
मधुपर्कार्थं पात्रत्रयं सामान्यार्घविधिनैव स्थापयेत् ||
तदशक्तौ त्रिकोणमंडल त्रये साधारं प्रात्र त्रयं निधाय तत्र पात्र
द्वयं शुद्धजलेनापूर्य तृतीयं मधुपर्कद्रवेणापूर्य तेषु
विशेषार्घजलं किंचिदत्वा मूलविद्यया पृथक् पृथक् अष्टवार
अभिमंत्रयेत् || मधुपर्के तु काश्यपात्रं प्रशस्तं || ताम्रवर्जमन्यतरं
प्. १६०ब्)
वा पात्रांतरेणाछादितं कुर्यात् ||
गंधपुष्पाक्षतकुशाग्रतिलसर्षपदूर्वाः सामान्यार्घे निक्षिपेत् ||
पाद्यपात्रे श्यामाकतंदुलदूर्वाकमुलापराजितापुष्पोशीररोचनाख्य
द्रव्याष्टकं निक्षिपेत् || आचमनीय पात्रे जातीफललवंगकं कोलचूर्णानि
निक्षिपेत् || उक्त द्रव्यालाभे तत्तद्वस्तु भावनया तदुलन्निक्षिपेत् ||
मधुपर्कपात्रे दधिमधुघृतानि निक्षिप्युविशेषार्घ बिंदुना संस्कुर्यात् ||
दध्याद्यलाभे जनेनैव तद्भावनया पूरयेत् ||
ततः स्वदक्षिणाग्रे पाद्यादि पात्रविधानेनैव पुनराचमनीय पात्रं
प्रोक्षणी पात्रं च स्थापयेत् || अत्राप्यशक्तौ पाद्यादि त्रयमेकस्मिन्नेव
पात्रे दद्यात् ||
ततः गुरुमुखादवगत विनियोग विधौ पात्र चतुष्टयं सामान्यार्घ
विधिना प्रोक्षणीपात्रात् परतः स्थापयेत् || तेषां नामानि तु गुरुपात्रं
शक्तिपात्रं बटूकपात्रं आत्मपात्रं चेति | गुरुपादुका विद्यया
गुरुपात्रं | बालविद्यया शक्तिपात्रं || बटूकपात्रं तन्मंत्रेण
आत्मपात्रमात्माष्टाक्षरमंत्रेण चेति तत्तन्मंत्रे
ततत्पात्रमष्टधाभिमंत्रयेत् | ततः प्रोक्षणीपात्रोदकेन
प्. १६१अ)
पात्रांतरोद्धृतेन ओं ऐं ह्रीं श्रीं ऐं प्रथमकूटमुच्चार्य
आत्मतत्वात्मने नमः | ४ क्लीं द्वितीयं विद्यातत्वात्मने नमः || ४ सौः
तृतीयं शिवतत्वात्मने नमः | ततः ४ ऐं क्लीं सौः समस्तमुच्चार्य
सर्वतत्वात्मने नमः || इति स्वात्मानं प्रोक्ष्य पुनर्मुलेन यागभूमिं
यागोपकरणानि च श्रीचक्रं प्रोक्ष्यसवं वस्तुषु धेनुमुद्रां प्रदर्शयेत्
|| इति अर्घ्यादि स्थापनविधिः ||
अत्र श्रीपात्रस्थापनाशक्तौ विशेषार्घेणैव प्रोक्त पूजादिकं कुर्यादिति ||
अथात्मपूजा ||
तत्र स्वपुरतस्त्रिकोणमंडले साध्यारं पात्रं संस्थाप्य
कलशोदकेनापूर्य विशेषार्घबिंदुं दत्वा स्वदेहं चंदनादि
रक्तोपचारैरलंकृत्यात्मानमिष्टदेवतारूपं ध्यायन् गुरुगणपति
परदेवताः प्रणम्य मूलाधारादि ब्रह्मरंध्रांतं बिसतंतुं
तनीयंसी चंद्रकोटि प्रभाद्रवां कुंडलीनीं मनोलय पर्यंतं
ध्यात्वा परमानंदनिर्भरस्तदात्मकत्वेन मूलविद्यामपि मूलादि
ब्रह्मरंध्रांतं तेजोमयीं विभाव्य तत्तेजसापरितं
स्वेष्टदेवतारूपं स्वदेहं भावयन्नात्मपूजां कुर्यात् | (ततस्तत्र
सोमस्य षोडशकलासमावाह्य प्राग्वतन्नामपुरःसरं तासां प्राण) ||
प्. १६१ब्)
तद्यथा ||
तत्र प्रागुक्त योगपीठन्यास प्रकरणोक्त प्रकारेण स्वदेहं सिंहासनत्वेन
परिकल्प्य प्रथमं शिरसि प्रणव त्रिताराढ्यां श्रीगुरुपादुका
विद्यामुच्चार्य श्री-अमुकानंदनाथ श्रीपादुकां पूजयामि तर्पयामि
नम इति संपूज्य संतर्प्य मूलाधारे गं गणपति श्रीपादुकां पू० || त०
| नम इति संपूज्य संतर्प्य प्रागुक्त योगपीठन्यासक्रमेण
मंडूकाद्यान्मूलाधारादिन् तत्स्थानेषु प्रणव त्रितार चतुर्थ्यं
ततत्तन्नामभिर्नमोंतैः सिंहासनां तं संपूज्य दक्षिणां
सवामां सवामोरु दक्षिणोरु सर्वांगेषु वक्ष्यमाण पंचप्रेतासनं
संपूज्य दक्षिणांसादि स्थानेषु धर्मादि चतुष्टयं मुखादि स्थानेषु
अधर्मादि चतुष्टयं च तथैव संपूज्य पुनर्हृदय कमल एव माया विद्ये
संपूज्य मध्ये पंचदशफणान्वितमनंतं ध्यात्वा
तन्मध्यफणायामष्टदलकमलं कामेश्वरी पीठं ध्यात्वा
नंतपद्मादि परतत्वांतं संपूज्य तत्केसरेषु प्रागादि प्रादक्षिण्येन ४
मोहिनी श्री० | ४ क्षोभिणी श्री० | ४ वशिनी श्री० | ४ स्तंभिनी श्री० | ४ आकर्षणी
श्री० | ४ द्रावणी श्री० | ४ आह्लादनी श्री० |
प्. १६२अ)
४ क्लिन्ना श्री० | ४ इति संपूज्य मध्ये ४ क्लेदिनी श्रीपादुकां पूजयामि इति
संपूज्य क्लीं सर्वशक्ति कमलासनाय नम इति योगपीठत्वेन पुष्पांजलिना
समस्तं देहं संपूज्य तन्मध्यकर्णिकायां श्रीचक्रं विभाव्य ४
समस्तप्रकटेत्यादि योगिनी समष्टि विद्यया त्रिः समस्तं देहं संपूज्य
प्रागुक्त योगपीठन्यासक्रमेण षडासन पर्यंतं प्राक् न्यस्तस्थानेषु
संपूज्य दक्षिणां सपृष्ठदक्ष कर्णपृष्ठदक्ष शंखदक्ष
ललाटदक्ष नेत्रदक्ष नासापुटदक्ष चुबुकहृदय त्रिकोण तन्मध्येषु ४
नादशक्ति श्री० | ४ बिंदुशक्ति श्री० | ४ कलाशक्ति श्री० | ४ ज्येष्ठाशक्ति श्री० | ४
रौद्रीशक्ति श्री० | ४ वामाशक्ति श्री० | ४ विषघ्निशक्ति श्री० | ४ दूतशक्ति श्री० |
४ सर्वां नंदाशक्ति श्री० | इति संपूज्य ||
अं कं ३६ इत्यादि शिवशक्ति सदाशिवेत्यादि न्यासोक्त समष्टि पीठमंत्रेण
सर्वांगं संपूज्य हृदयकमले यथोक्तरूपां भगवतीं ध्यायन्
तत्तेजसा व्याप्तं स्वदेहं श्रीभगवतीरूपं विचिंत्य मूलमुच्चार्य
श्रीमहात्रिपुरसुंदरी श्रीपा० | त० | नम
प्. १६२ब्)
इति शिरसि त्रिःपुष्पांजलिभिः संपूज्य पुरःस्थापित पात्रोदबिंदुंभिः
संतर्प्य पुनः प्राग्वन्मुलेन शिरोहृदयगुह्यपादद्वय सर्वांगेषु
पंचपुष्पांजलिभिः संपूज्य संतर्प्य हृदय त्रिकोणे शिरस्त्रिकोणे वा
वक्ष्यमाणप्रकारेण लयांगतिथि नित्याषोडश नित्यागुरुपंक्ति
त्रय षडंगयुवतीस्तत्तत्स्थानेषु वक्ष्यमाणप्रकारेण संपूज्य
संतर्प्य हृदय त्रिकोण पूजायां संहार श्रीचक्रोक्तन्यासप्रकारेण
नवावरणशक्तिः पूजयेत् || शिरस्त्रिकोण पूजाचेत् सृष्टि श्रीचक्रन्यासक्रमेण
नवावरणशक्तीश्चक्रेश्वरीश्च पूजयित्वा तर्पयेत् || एतावत्
कर्तुमशक्तौ षडंगयुवतीपूजांते समस्तप्रकटेत्यादि समष्टि विद्यया
त्रिः संपूज्य संतर्प्य चतुःसमयचतुराम्नाय षट् दर्शनदेवताश्च
वक्ष्यमाण श्रीचक्रपूजाक्रमेण पूजयेत् || उर्ध्वाम्नाय
दीक्षितश्चेन्महाषाढान्यासोक्तरूपं स्वात्मानं ध्यात्वा तद्विद्यया
वक्ष्यमाणप्रकारेण त्रिःसंपूज्य शक्तश्चेन्माहाषोढोक्त
देवतास्तन्यासस्थानेष्वेव संपूज्य संतर्प्य शिरसि परापादस्य गुरुपंक्ति
त्रयं पूजयेत् ||
प्. १६३अ)
ततश्चरणदिक्षितश्चेत् प्रागुक्तचरणादि विद्याभिस्तन्यासस्थानेषु संपूज्य
तर्पयेत् ||
ततः पूर्णाभिषिक्तश्चेद्वक्ष्यमाणप्रकारेण
शिरसिकामकलापारंपर्येण संपूज्य संतर्प्यशांवदीक्षायुक्तश्चेत्
तन्मिथुनषट्कं तद्गुरुक्रमं तद्रश्मिक्रमं च प्रागुक्तन्यासस्थानेषु
संपूज्य तर्पयेत् | अत्र सर्वत्रात्मपूजायां विस्ताराशक्तौ
तत्तन्मूलदेवतास्तत्तद्गुरुक्रमं च संपूज्य संतर्पयेदिति संक्षेपः ||
ततः पूर्ववत् पुष्पांजलि पंचकं स्वदेहे समस्तकादिषु प्रागुक्तस्थानेषु
विधायधूपदीपौ निदेद्य अंतर्हवनं कुर्यात् ||
तत्र मूलाधारे त्र्यस्रं कुंडं विभाव्य तन्मध्यस्थ कालाग्निमेव
कामाग्निं वासनारूपे साधन प्रज्वलितं प्राणादि पंचवायुभिः
संरांक्षितं कुंडलिनीरूप परदेवताधिष्ठितं चिदग्निमंडलं
विभाव्य प्रणव त्रितारादि मूलविद्यांते धर्माधर्म हवि दीप्ते आत्माग्नौ
मनसा स्रुच | सुषुम्णावर्त्मना नित्यमक्ष वृत्तिर्जुहोम्यहं इदं जुहोमि
स्वाहा || इति पुण्यपापकृत्याकृत्य संकल्पविकल्प धर्मात्मकं हविः
सप्तकं सप्ताहुत्या हुत्वा
प्. १६३ब्)
ततः प्रणवत्रितारादि मूलविद्यांते प्रकाशामर्श
हस्ताभ्यामवलंव्योन्मनी सुचं | धर्माधर्मकलास्तेहं पूर्णवह्नौ
जुहोम्यहं अधर्मं जुहोमि स्वाहेति पूर्णाहुति हुत्वा निरस्तनिखिलप्रपंचो
निष्कलब्रह्मरूपः साधकः कियत् क्षण तिष्ठेत् ||
ततो देवीरूपमात्मानं ध्यात्वा श्रीगुरुपादुकां प्रणम्य शिरसि
अन्नपूर्णां ध्यात्वा तन्मंत्रेण वक्ष्यमाण पूजाप्रकारेण तां
संपूज्य संतर्प्य पूजाशिष्टं तत्पात्रस्थमुदकं गुरुपादुका
मूलविद्याभ्यां कुंडल्यात्मक श्रीपरदेवता मुखे जुहोमीति धिया
प्राश्य श्रीपरदेवतारूपमात्मानं ध्यायन्प्राणायाम | ऋष्यादि
करषडंगं न्यासपूर्वकं मूलविद्यामष्टोत्तरशतवारं जपित्वा
पुनः प्राणायामपूर्वकं जपं समर्प्य स्तुत्वा प्रणमेदिति आत्मपूजा ||
|| श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ||
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
gco4o35apyx5iccsv9c34hphbscd3b0
417782
417781
2026-07-08T11:46:33Z
Shubha
190
417782
wikitext
text/x-wiki
{{header
| title = सौभाग्यरत्नाकरः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =

<poem>
प्. १)
श्रीगणेशाय नमः ।।
ओं अथ ।।
प्रारंभे सरणे भंगे यन्मदस्यंदबिंदवः ।।
कारणानि प्रपंचस्य तं वंदे वारणाननं ।। १ ।।
सच्चिदानंदनाथांघ्रिसरोरुहयुगं भजे ।।
यत्कटाक्षक्षणोत्क्षेपा छिवोहं पंच कृत्यकृत् ।। २ ।।
प्रकाशरूपा प्रथमे प्रयाणे मृतवर्षिणी ।।
प्रतिप्रयाणे चामंतः पदव्यां चित्कलां भजे ।। ३ ।।
आलोक्य सर्वतंत्राणि याम्यदीन्यशेषतः ।।
ज्ञात्वा गुरुमुखात्तेषां रहस्यार्थांश्च तत्वतः ।। ४ ।।
सच्चिदानंदनाथांघ्रि सरोज द्वय षट्पदः ।।
श्रीविद्यानंदनाथोहं वीतरागो विविक्तधीः ।। ५ ।।
विचरन्मेदिनीमेतां विद्वद्भिर्विमलात्मभिः ।।
प्रयागे प्रार्थितः प्रीत्यै तेषां लोक हिताय च ।। ६ ।।
पंचश्रोतः पयोगाधं तन्मंत्रमणिसंकुलं ।।
समस्तयोगिनीचक्रं प्रवाललतिकोज्वले ।। ७ ।।
नित्यामंडलपूर्णेंदु ज्योत्स्नाजालविजृंभितं ।।
नवचक्र महाद्वीपं न्यासजालांतरंगकं ।। ८ ।।
श्रीनाथपादुकापोतं चतुर्वर्गफलामृतं ।।
प्रकाशयामि सौभाग्यरत्नाकरमति स्फुटं ।। ९ ।।
श्रीविद्यायाः सभेदाया नित्य नैमित्तिकार्चनं ।।
प्. १ब्)
काम्यार्चनं च दीक्षांग भूतं प्राच्यादि साधनं ।। १० ।।
दीक्षाभेदः पुरश्चर्या तत्कर्मनियमादिकं ।।
काम्यहोमविधिश्चैव सौम्यक्रूरविभेदतः ।। ११ ।।
समस्तव्यस्तविद्याया जपात्काम्यफलोदयः ।।
सदाचारादिकं चैव लिख्यते रत्नवारिधौ ।। १२ ।।
तत्र श्रीमान्साधको रजनीतूर्ययामे विबुध्यावश्यकं कृत्वा हस्तौ पादौ
प्रक्षाल्य धौते वाससी परिधायाचम्य स्वासने समुपविश्य
पूजामूर्त्तेर्निर्म्माल्यमपकृष्य पूर्वदिनपूजावशिष्टपुष्पादिना
वक्ष्यमाणसमस्तप्रकटेत्यादिसमष्टिविद्यया त्रिभिरभ्यर्च
ब्रह्मरंध्रस्थश्वेतसहस्रदलकमलकर्णिकायां सिंहासने
समुपविष्टं वामांगगतया देव्या
रक्तवस्त्राभरणमाल्यानुलेपभूषितं चन्द्रकांतनिभं त्रिनेत्रं
ज्ञानमुद्रापुस्तकवराभयकरं शांतं सुप्रसन्नं शिवरूपिणं
श्रीगुरुं ध्यात्वा तच्चरणारविंदयुगलविगलदमृतधाराभिः स्वदेहं
परिप्लुतं विभाव्य प्रणवत्रितारसूच्चार्य
वक्ष्यमाणश्रीगुरुपादुकाविद्यांते श्री-अमुकानंदनाथ
प्. २)
श्रीपादुकां पूजयामि इति मानसैरूपचारैः संपूज्य ।। स्तोत्रं पठेत् ।।
तद्यथा ।।
स्तुवीत पंचभिः श्लोकैस्तं नित्यं सर्वसिद्धय ।।
प्रातः प्रबोधसमये जपात् सुदिवसो भवेत् ।। १ ।।
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।।
विद्यावतारसंसिध्यै स्वीकृतानेकविग्रह ।। २ ।।
नवाय नवरूपाय परमार्थप्रकाशिने ।।
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ।। ३ ।।
स्वतंत्राय दयाकॢप्तविग्रहाय शिवात्मने ।।
परतंत्राय भक्तानां भव्यानां भव्यरूपिणे ।। ४ ।।
विवेकीनां विवेकाय विमर्शाय विमर्शिनाः ।।
प्रकाशाना प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ।। ५ ।।
पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्ययधः ।।
सदा मच्चित्तरूपेण विधेहि भवदासनं ।। ६ ।।
त्वत्प्रसादादहं देव कृतकृत्योस्मि सर्वदा ।।
मायामृत्यु माहापाशाद्विमुक्तोस्मि शिवोस्मिहं ।। ७ ।।
इति प्रणम्य ।।
प्रातरारभ्य सायांतं सायांदिप्रारं ततः ।।
यत्करोमि जगंन्नाथ तदस्तु तव पूजनं ।। ८ ।।
इति समर्प्य ।।
हृन्मंत्रेण स्वहृदि लयं भावयेत् ।। इति गुरुध्यानं विधाय ।।
प्. २ब्)
स्वमूलाधारे चतुरस्रवेष्टितं वादिसांतवर्णचतुष्टय युक्त चतुर्दल
पंकजं पीतवर्णं ध्यात्वा तत्कर्णिकायां सोमसूर्याग्निमयमकथादि
त्रिरेखं कुलशृंगाटं त्रिकोणं विभाव्य तन्मध्ये कोटिसूर्यं
प्रतीकाशं चंद्रकोटि सुसीतलं जपाकुसुमप्रभं
सत्वरजतमोगुणाक्रांतं कामाख्यं बिंदुं विभाव्य तदूर्ध्वं
कुंडलनीं शक्तिं चिद्रूपामष्टत्रिंशत्कलायुक्त पंचाशद्वर्ण विग्रह
श्रीविद्या स्वरूपिणीं तडित्कोटिप्रभा दीप्तां बिसतंतु तनीयसीं प्रसुप्त
भुजगीमिव सार्ध त्रिवलयेन स्थितां स्वछादंडाहतां
कृत्वोत्थाप्यगुरूपदिष्टविधिना सुषुम्णा मार्गेण मूलाधार
स्वाधिष्ठानमणिपूरकानाहत विशुद्धाज्ञाख्य षट्चक्र भेदनक्रमेण
ब्रह्मरंध्रस्थित सहस्रदलकमलं प्रापयय ततः स्रवदमृतधारया
रक्तवर्णया वर्णमयया कुण्डलिनीं तां संतर्प्य पुनः सुधा स्रोत
स्वरूपिणीमकुला मृतप्लवेन सुषुम्णांतर्गत तत्तदाधार तत्तधातु
तत्तद्वर्ण तत्तदधि
प्. ३)
देवता प्लावयंतीमाज्ञा विशुध्यादि क्रमेण मूलाधारं नीत्वा तथैव
स्थापयेदित्यारोहावरोह क्रमेण परां शक्तिं कुण्डलिनीं ध्यात्वा ।।
विद्या कूट त्रयं ध्यायेत् ।।
तत्र मूलाधारे वह्निमंडलं दश कलात्मकं विभाव्य तत्र मूल
विद्यायाः प्रथमं कूटं वाग्भवाख्यं स्फुरत्तडिल्लता
भासुरमनाहत पर्यंतं प्राप्त नादशिखं विभाव्य अनाहते
सूर्यमंडलं द्वादशकलात्मकं ध्यात्वा । तन्मध्ये मूलविद्यायांः
कामराजाख्यं द्वितीय कूटमुघद्दिनकरसंकाशमाज्ञापर्यंतं
प्राप्त नादशिखं अध ऊर्ध्वं प्रसृत रस्मिकं ध्यात्वा । आज्ञाचक्रे
सोममंडलं षोडशकलात्मकं ध्यात्वा तन्मध्ये मूलविद्यायाः
शक्त्याख्यं तृतीय कूटं पूर्णचंद्रनिभं ब्रह्मरंध्रपर्यंतं
प्राप्तनादशिखं अध ऊर्ध्वं प्रसुत रश्मिकं ध्यात्वा । ततो
मूलाधारादि ब्रह्मरंध्रांतं मूलविद्यांमुद्यद्दिनकर
प्. ३ब्)
सहस्रभासुरां तेजो दंडमयीं अखंडां ध्यात्वा । तत्तेजसा व्याप्तं
स्वदेहं परिचिंत्य तत्तेजसा परिणतां श्रीपरदेवतां हृदय कमले
ध्यात्वा मानसैरुपचारैः पूजयित्वा । मूलविद्यया प्राणायाम त्रयं
मूलविद्यायाः वक्ष्यमाण ऋष्यादिकरषडंगन्यासांश्च कृत्वा मूल
विद्यां यथाशक्तिं जपित्वा जपित्वा जपं समर्प्य ।।
प्रातर्नमामि जगतां जनन्याश्चरणांबुजं ।।
श्रीमत्त्रिपुरसुंदर्या नमिताया हरादिभिः ।। १ ।।
प्रातःस्त्रिपुरसुंदर्या नमामि चरणांबुजं ।।
हरिर्हरो विरिंचिश्च सृष्ट्यादीन् कुरुते यया ।। २ ।।
प्रातस्त्रिपुरसुंदर्या नमामि पद पंकजं ।।
यप्ताद्यमंबुशिरशि भाति गंगा महेशितुः ।। ३ ।।
प्रातः पाशांकुशशरचाप हस्तां नमाम्यहं ।।
उद्यदादित्य संकाशां श्रीमत्त्रिपुरसुंदरी ।। ४ ।।
प्रातर्नमामि पादाब्जं ययेदं भासते जगत् ।।
तस्यास्त्रिपुरसुंदर्या यत्प्रसादान्निवर्त्तते ।। ५ ।।
यः श्लोक पंचकमिदं प्रातर्नित्यं पठेन्नरः ।।
तस्मै दद्यादात्म पदं श्रीमत्त्रिपुरसुंदरी ।। ६ ।।
इति स्तुत्वा प्रणम्य तस्यै निज कृत्यं निवेदयेत् ।।
प्. ४)
तद्यथा ।।
इति समर्प्य स्वकर्मानुष्टानार्थं देव्याज्ञां प्रार्थयेत् ।।
तद्यथा ।।
त्रैलोक्य चैतन्य मयीश्वरेशि श्रीसुंदरित्वच्चरणाज्ञयैव ।।
प्रातःसमुत्थाय तव प्रियार्थं संसारयात्रामनुवर्त इष्ये ।। १ ।।
संसारयात्रा मनुवर्तमानं त्वदाज्ञया श्रीत्रिपुरे परेशि ।।
स्पर्द्धा तिरस्कार कलि प्रमाद भयानिमामाभि भवंतु मातः ।। २ ।।
जानामि धर्मं न च मे प्रवृत्तिर्जानामि धर्मं न च मे निवृतिः ।।
त्वया हृषीकेशि हृदि स्थिताहं यथा नियुक्तोस्मि तथा करोमि ।। ३ ।।
इति देव्याज्ञां प्रार्थ्य० स्वगुरूपदिष्टमार्गेण नादानुसंधान
पूर्वकं निरस्त समस्तोपाधिना केनापि चिद्विलासेन प्रवर्त्तमानोस्मिति
विभाव्य स्वकर्मानुष्ठानाय गुरूपदेशेन ज्ञातं सहज
सिद्धमजपाजपं तत्तद्देवताभ्यः समर्पयेत् ।।
तद्यथा ।।
अर्घ पूर्वेद्युर
होरात्रोच्चरितमुछ्वासनिश्वासात्मकं षट्शताधिकमेकविंशति
सहस्रसंख्याकमजपाजपं मूलाधार स्वाधिष्ठान मणिपूरका
नाहत विशुध्याज्ञाख्या
प्. ४ब्)
ब्रह्मरंध्रेषु चतुर्दल षट्दल दशदल द्वादशदल षोडशदल द्विदल
सहस्रदलेषु स्वर्णविद्रुम नीलपिंगलधूम्रविद्युत्कर्पूर वणेषु स्थितेभ्यो
गणपति ब्रह्मविष्णुरुद्र जीवात्म परमात्म श्रीगुरुपादुकाभ्यो यथा
भागशः समर्पयिष्यामीति कृतांजलिः संकल्प्य समर्पयेत् ।।
तद्यथा ।।
ओं ऐं हीं श्रीं मूलाधारस्थायगणपतये अजपा जपानां षट्शतानि
समर्पयामि नमः ।। ४ ।।
(मणिपूरक चक्रस्थाय विष्णवे अ)
स्वाधिष्ठान चक्रस्थाय ब्रह्मणे अजपाजपानां षसहस्त्राणि समर्पयामि
नमः ।। ४ ।।
मणिपूरकत्रस्थाय विष्णवे अजपाजपानां षट्सहस्राणि समर्पयामि
नमः ।। ४ ।।
अनाहत चक्रस्थाय रुद्राय अजपाजपानां षट्सहस्राणि समर्पयामि नमः
।। ४ ।।
विशुद्ध चक्रस्थाय जीवात्मने अजपाजपानां सहस्रं समर्पयामि नमः ।
आज्ञाचक्रस्थाय परमात्मने अजपा जपानां सहस्रं समर्पयामि नमः ।।
(इति समर्पयेत् ।। एतावत्कर्तुम)
प्. ५)
सहस्रदल कमलकर्णिका मध्यस्थायै श्रीगुरु पादुकायै अजपाजपानां
सहस्रं समर्पयामि नमः ।। इति समर्पयेत् ।।
एतावत्कर्तुम शक्तश्चेत् ।। ४ ।।
मया पूर्वेद्युरहोरात्रोच्चरितमुछ्वास निश्वासात्मकं षट्शताधिकमेक
विंशति सहस्रसंख्याकमजपाजपं ब्रह्मरंध्रस्थ सहस्रदलकमल
कर्णिका मध्ये वर्तिन्यै श्रीगुरुपादुकायै समर्पयामि नमः ।। इति गुरव एव
समर्पयेत् ।।
इत्यजपाजंपं समर्प्य ।। ओं ।।
अद्य
सूर्योदयमारभ्याहोरात्रेणोछ्वासमिश्वासात्मकं षट्शताधिकमेक-
विंशति सहस्रसंख्याकमजपाजपमहं करिष्ये ।। इति कृतांजलिमुटः
संकल्प्य ।।
अजपा मंत्रेण प्राणायामत्रयं कृत्वा ।। शिरसि ४ हंसाय ऋषये नमः ।।
मुखे ४ अव्यक्ता गायत्री छंदसे नमः ।। हृदि ४ परमहंसाय देवतायै
नमः ।। मूलाधारे ४ हं बीजाय नमः ।। पादयोः ४ सः शक्तये नमः ।।
नाभौ ४ सोहं कीलकाय नमः ।।
प्. ५ब्)
हृदये ४ ओंकाराय तत्वाय नमः ।। मूर्द्ध्नि ४ नभसे स्थानाय नमः ।।
सर्वांगे ४ हैमाय वर्णाय नमः ।। कंठे ४ उदात्ताय स्वराय नमः ।।
इति विन्यस्य । मम मोक्षार्थे जपे विनियोगः ।। इति कृतांजलिर्वदेत् ।।
ततः अंगुष्ठयोः ओं ३ ह्सां सूर्यात्मने स्वाहा हृदयाय नमः ।।
तर्ज्जन्योः ४ ह्सी सोमात्मने स्वाहा सिरसे स्वाहा ।।
मध्यमयोः ४ ह्सूं निरंजनात्मने स्वाहा । शिखायै वषट् ।।
अनामिकयो० ४ ह्सें निराभासात्मने स्वाहा कवचाय हुं ।।
कनिष्ठिकयोः ४ ह्सौं अनंततनुः सूक्ष्म प्रचोदयात्मने स्वाहा
नेत्रत्रयाय वौषट् ।।
करतल करपृष्ठयोः ४ ह्सः अव्यक्त बोधात्मने स्वाहा अस्त्राय फट् ।।
इति करयोर्विन्यस्य ।
हृदयादि षडंगेष्वप्येतानेव मंत्रान्विन्यस्य ।।
ध्यानं कुर्यात् ।। तद्यथा ।।
घां मूर्ध्हानं यस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च
नेत्रे ।।
दिग्मिं श्रोत्रे यस्य पादौ क्षितिं च ध्यातव्योसौ सर्वभूतांतरात्मा ।। १ ।।
आत्मा न भग्नीषोमाख्य पक्षयुक्तं शिवात्मकं ।।
हकारेण बहिर्यांतं विशंतं च सकारतः ।। २ ।।
प्. ६)
हंसः सोहमिति स्मृत्वा सोहं व्यंजन हीनतः ।।
पक्षान् संहृत्य चात्मानमंडरूपं विभावयेत् ।। ३ ।।
इति विराट् स्वरूपं स्वात्मानं ध्यात्वा । तदनुसंधायी
प्राणवायोर्निर्गंमप्रवेशात्मकं अजपा मंत्रं ।।
हंसः पदं पंचविंशतिवारं जपित्वा समर्प्य गुरुनाथाय ।। ४ ।।
ओं समुद्रे मेखले देवि पर्वतस्तनमंडले ।।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।। ५ ।।
धारणं पोशणं त्वत्तो भूतानां देवि सर्वदा ।।
तेन सत्येन मां पाहि पापान्मोचय धारिणि ।।
प्रातःकृत्यमकृत्वा तु यो देवि भक्तितो यजेत् ।।
निष्पला तस्य पूजास्याछौचहीना यथा क्रिया ।।
इति भूमिं प्रार्थ्य ।।
श्वाप्लानुसारेण तस्यां पादं निधायोत्थाय पदे अस्त्रमुच्चरन्
गृहाद्बहिर्निर्गत्यग्रामद्बहि नै-ऋत्यां याम्यां वा दिशिशक्षेप
मात्रांभूवमतीत्य । दूरे गत्वामलमूत्रोत्सर्गा शौचाचमनादिवं
यथा विधिं विधाया निषिद्ध दिनेषु विहित काष्ठेन ४ क्लीं कामदेवाय
सर्वजन प्रियाय नम इति मंत्रेणं दंतान्विशोध्य जिह्वामुल्लिख्य
दंतकाष्ठं प्रक्षाल्य पुरतः
प्. ६ब्)
शुद्धदेशे परित्यज्य वक्ष्यमाण चतुर्ल्लक्ष्मी विद्याभिर्मुखं
प्रक्षाल्याचम्य
तिलकुशकुसुमगंधाक्षतास्त्राभिमंत्रितशंकुनाशुचिस्थानादुद्धृत
मृदगोमय धौतवस्त्राण्यादाय नद्यादौ गत्वा अस्त्राभिमंत्रित
वारिणातीरं प्रक्ष्याल्य तत्रास्त्राभिमंत्रितं कुशादिकं निधायोद्धृत
जलेन तीर्थाद्बहिः कटि शौच सुगंधामलकाद्युद्वर्त्तनामलापकर्षण
स्नानं मृद्गोमयादिभिः स्वशाखोक्त विधिना वैदिक स्नानं च विधाय
नाभि मात्रे जले स्थित्वा ।। ४ ।।
ओं अद्येत्यादि श्रीपरदेवता प्रीत्यर्थं तांत्रिक विधिना स्नानमहं करिष्ये ।
इति संकल्प । मूलविद्यया प्राणायामत्रयं कृत्वा मूलविद्याया ऋष्यादि
करषडंगन्यासांश्च विधाय स्वपुरतो हस्तमात्रं चतुरस्रं तीर्थं
परिकल्प्य ।। ४ ।।
ओं ब्रह्माडोदर तीर्थानि करैः स्पृष्टानि ते रवे ।।
तेन सत्येन देवेश तीर्थं देहि दिवाकर ।। १ ।।
इति सूर्यात्तिर्थं प्रार्थ्य ।।
क्रोंमित्यंकुशमुद्रया सूर्यमंडलं भित्वा ।। ४ ।।
गंगे च यमुने चैव गोदावरि सरस्वति ।।
नर्मदा सिंधु कावेरि जलेस्मिन् संनिधं कुरु ।। १ ।।
प्. ७)
इति सूर्ययमंडलात्तीर्थमाकृष्य तज्जले पुरः कल्पित तीर्थ मंडले मूल
विद्यया संयोज्य पुनः पुनः सूर्यमंडलाद्देव ।।
ओं ऐं ह्रीं श्रीं ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः सर्वानंद मयि
तीर्थ शक्ते एहि एहि स्वाहा ।।
इति तीर्थ शक्तिमावाह्य तस्मिन् तीर्थ मंडल मध्ये तां ध्यायेत् ।। तद्यथा ।।
सर्वानंदमयीमशेष दुरितध्वंसां मृगांक प्रभां
त्र्यक्षां चोर्ध्व करद्वयेन दधतीं पाशं सृणिं च क्रमात् ।।
दोर्भ्यां चामृत पूर्ण हेमकलशं मुक्ताक्षमालावरे
गंगासिंधु सरिद्वयादि सहितां श्रीतीर्थ शक्तिं भजे ।। १ ।।
दक्षाद्यूर्ध्वयोराद्ये मध्यस्थाभ्यां कलशं दक्षाद्यधःस्थयोरन्ये
इत्यायुधध्यानं ।।
इति ध्यात्वा तद्विद्यया गंधादि पंचोपचारैर्जलमयैस्तां संपूज्य ।। ४ ।।
ओं नमो भगवति अंबो अंबालिके अंबिके महामालिनि एत्येहि भगवति अशेष
तीर्थालवाले ह्रीं श्रीं शिवजटाधिरूढे गंगे गंगांबिके स्वाहा ।।
इति मंत्रेण सप्तधाभिमंत्र्य ह्रींकारेण जलमालोड्यवमिति धेनुमुद्रया
मृती कृत्य मूल विद्यायाः प्रथम कूटमुच्चार्य आत्मतत्वांत्मने नमः
मिः । द्वितीय कूटं विद्या तत्वात्मने नमः ।
प्. ७ब्)
तृतीय कूटं शिव तत्वात्मने नमः ।
इति तत्व त्रयं जले विन्यस्य तत्र श्रीचक्रं विभाव्य हृदय
कमलाद्देवीमावाह्य षडंग न्यासेन सकलीकृत्य तासां
वर्णानांस्तर्पयित्वा मूलविद्यया योनिमुद्रया तज्जलमष्टधाभिमंत्र्य
तस्मि जले देवता मंत्रस्मरण पूर्वकं त्रिर्निमज्योन्मज्य कुंभमुद्रया
मू * विद्यया स्वशिरसि त्रिरभिषिंच्याचम्य मूलविद्यया देवीं त्रिःसंतर्प्य
देवीं विसृज्य वक्ष्यमाण प्रकारेण तत्वैराचम्यतीरमागत्य धौते वाससी
परिधायाचम्य तीर्थ मृत्तिकादिनोर्ध्वपुड्रं विधाय सकुंकुमेन
चंदनेन त्रिपुड्रं विधाय वैदिक संध्यां निर्वत्य - तांत्रिक संध्यां
कुर्यात् ।।
साचतुर्विध्य ।।
प्रातर्मध्याह्न सायाह्न मध्यरात्रिभेदात् ।। तथा चोक्तं त्रिपुरार्णवे ।।
संध्यां ।।
चतुर्विधा ज्ञेया बालाकौमार यौवना ।।
प्रौढा च निष्कूला चेति संध्या देवि प्रकीर्त्तिता ।। १ ।।
प्रातःकाले महादेवी विद्यावागीश्वरी मता ।।
कामेश्वरी च मध्याह्ने सायाह्ने त्रिपुर भैर भैरवी ।।
मध्य रात्रे महादेवि ज्ञेया त्रिपुर सुंदरि ।। २ ।। इति ।।
प्. ८)
तत्र विधिवदाचम्य मूलविद्यया शिखां बध्वा तथैव प्राणायामत्रयं
कृत्वा मूलविद्यया ऋष्यादि करषडंग न्यासान् विधाय स्वपुतो
धेनुमुद्रया जलममृतीकृत्य मूलविद्ययाष्टवारमभिमंत्र्य तेन जलेन
कुशैरकारादि क्षकारांतैः सबिंदुभिर्मातृकाक्षरैः प्रत्यक्षरं
स्वशिरः प्रोक्ष्यमूलविद्यया च त्रिःसंप्रोक्ष्य सूर्यमंडले देवीं
यथोक्त रूपां ध्यात्वा दक्षिण हस्तेन जलमादाय । लं वं रं यं हं
इति पांचक भौतिकैर्मंत्रैः सप्तवारमभिमंत्र्य मूलविद्यया च
त्रिरभिमंत्र्य तज्जल बिंदुभिर्वामांगुष्ठानामिकाभ्यां मूलविद्यया
स्वशिरस्त्रिःप्रोक्ष्यावशिष्ट जलं वामहस्ते निधाय तेजो रूपं तज्जलमिडया
कृष्य स्वदेहांत स्थितं सकल कलुषं प्रक्षाल्य तज्जलं कृष्णवर्णं
पिगलया बहिर्निर्गतंमत्वातज्जलं पुनर्दक्षिणहस्ते कृत्वा स्ववामभागे ४
वलद्वज्रशिलां ध्यात्वा ।। ४ ।। ओं श्लीं पशु हं फट् इति पाशुपतास्त्र
मंत्रेण तस्यां शिलांयामास्फाल्य हस्तौ प्रक्षाल्य
प्. ८ब्)
मूलविद्यया दक्षिणहस्ते जलमादाय प्रवहन्नाड्या सहस्रदल कमल गत
परमामृतेनैकीभूतं विभाव्य राजदंतविवरान्नेत्रमार्गेण निर्गमयय
तज्जलं वामके निधाय तेन जलेन ४ अमृत मालि स्वाहा इति मंत्रेण कुशैः
स्वशिरः त्रिःप्रोक्ष्यः ।। ४ ।।
प्रथम कूटमुच्चार्य आत्मतत्वं शोधयामि स्वाहा ।। ४ ।।
द्वितीय कूटमुच्चार्य विद्यातत्वं शोधयामि स्वाहा ।। ४ ।।
तृतीय कूटमुच्चार्य शिवतत्वं शोधयामि स्वाहा ।।
इति त्रिराचम्य पुनरेतद्वैपरित्येनं त्रिराचम्य ।। तद्यथा ।। ४ ।।
तृतीय कूटमुच्चार्य शिवतत्वं शोधयामि ।। ४ ।।
द्वितीय कूटं विद्यातत्वं शो० । प्रथम कूटं आत्मतत्वं शो० ।। पुनः ।
समस्त विद्यामुच्चार्य सर्वतत्वं शोधयामि स्वाहा ।। इति त्रिधा ।।
एवं नवधा जल प्राशनेन त्रिराचम्य ।। ४ ।।
मूलविद्यया श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजयामि इति
गंधपुष्पाक्षतैस्त्रिः संपूज्य ।।
जलमंजलि नादायोत्थाय ४ प्रथम कूटमुच्चार्य वागीश्वरी विप्रहे द्वितीय
कूटमुच्चार्य कामेश्वरी धीमही । तृतीय कूटमुच्चार्य तन्नः शक्तिः
प्रचोदयात् ।।
श्रीमहात्रिपुरसुंदरी श्रीपादुकायै एषोर्घः स्वाहा ।।
प्. ९)
इति त्रिरर्घ्यं दत्वा ।। ४ ।।
ह्रां ह्रीं हंसः श्रीसूर्यं पूजयामि नमः इति सूर्यं त्रिः सपूज्य ।। ४ ।।
ह्रां ह्रीं हं सः श्रीसूर्य एषतेऽर्घः स्वाहा इति
सूर्याभिमुखमर्घमंजलि त्रयं दत्वा ।। ४ ।।
मूलविद्यया श्रीमहात्रिपुरसुंदरी श्रीपादुकां तर्पयामि नमः इति
महादेवीं त्रिःसंतर्प्य ।। ४ ।।
ह्रां ह्रीं हं सः श्रीसूर्यं तर्पयामि नमः इति त्रिः सं * र्प्य ।।
मूलाधारे प्रथमकूटं तडित्कोटि समप्रभं मूलादि
ब्रह्मरंध्रांतं संचित्य तत्तेजः सुषुम्णा वर्त्मना ब्रह्मरंध्रं
नीत्वा वहन्नासाध्वना आकाशस्थ वह्निमंडले समावाह्य
तत्तेजसोद्भूतां वागेश्वरीं ध्यायेत् ।। तद्यथा ।।
पीतां पीतांवरां पीत स्रग्विभूषानुलेपनां ।।
तडित्कोटि प्रभाभासां बालामक्षस्रगुज्वलां ।। १ ।।
पुस्तकाढ्य करां भोजां वहि पीठ निषेदुषीं ।।
वाग्भवीं वाग्भवोद्भूतां त्र्यक्षणां सस्मितां स्मरेत् ।। २ ।।
इत्याकाशस्थ वह्निमंडले ध्यात्वा ।। ४ ।। प्रथ * कूटमुचार्य त्रिपुरा
वागीश्वरी श्रीपादुकां पूजयामि इति गंधपुष्पाक्षतैः स्त्रिः संपूज्य
पुनर्वक्ष्यमाण वाग्भव गायत्रीं उच्चार्य त्रिपुरा वागीश्वरी
श्रीपादुकायै
प्. ९ब्)
अर्घ्यं कल्पयामि स्वाहा इति त्रिरर्घांजलिमुक्षिप्य ।।
पुनः प्रथ * कूटमुच्चर्य त्रिपुरा वागीश्वरी श्रीपादुकां तर्पयामि
नमः इति त्रिः संतर्प्य ।। श्रीगुरु प्रणम्य ।।
पूर्ववत् प्राणायाम ऋष्यादि करषडंगं न्यासां विधाय
मातृकान्यासस्थानेषु प्रणवत्रितार मूलविद्यादि न नित्या विद्या हंसः ।
अं नमः ।। ३ ।।
इत्यादिना मातृकां विन्यस्य । पूर्वोक्तां तुरीय गायत्रीं यथाशक्तिं
जपित्वा वाग्भव कूट गायत्रीं जपेत् ।। सा यथा ।।
ऐं त्रिपुरे देवि विद्महे वागीश्वरी धीमहि ।। तन्नो मुक्तिः प्रचोदयात् ।।
इति वाग्भवगायत्रीं जपेत् यथा शक्तिं ।। ततो मूलविद्यां प्रातरित्थं जपेत्
।। तद्यथा ।।
तत्र प्रातर्मूलाधारगते कमले वह्निमंडले ।।
वाग्बीजरूपां नित्यां तां विद्युत्पटल भासुरा ।। १ ।।
पुष्पबाणेक्षु को दंड पाशांकुश लसत्करां ।।
स्वेछागृहीत वपुषीं युग नित्याक्षरात्मिकां ।। २ ।।
घटिका वरणोपेतां परितः प्रांजली नथ ।।
ज्ञानमुद्रा वरकरान् वाग्भवोपास्ति तत्परां ।।
नवनाथान् स्मरेन् मूल पंकजे योनि मंडले ।।
दक्षाधः करभारभ्य दक्षोर्ध्व कर पर्यंटतं आयुध ध्यानं ।।
प्. १०)
इत्थं संध्या चतुष्टयेपि ।। इति ध्यात्वा ।।
प्रणव त्रिताराद्यामूलविद्यादि न नित्या विद्या हं सः अं आं इं ईं उं
ऊं ऋ ॠं ह्रीं श्रीप्रकाशानंदनाथ रूपिणी श्रीमहात्रिपुरसुंदरी
श्रीपादुकां पूजयामि ।। ४ ।।
मूलविद्यामुच्चार्य प्राग्वत् दिन नित्या विद्या हं सः ऌं एं ऐं ओं औं
अं अः ह्रीं श्रीं विमर्शानंदनाथरूपिणि श्रीपादुकां पू० ।। ४ ।।
मू० दिः विहंसः कं खं गं घं ऽऽनं ह्रीं श्रीं
आनंदानंदनाथ रू० पादुकां ।। ४ ।।
मूलं दि० हं सः चं० ४ ह्रीं श्रीं श्रीज्ञानानदनाथ रूपि०
पादुकां पू० ।। ४ ।। मू० दि० हं सः ।। टं ४ ह्रीं श्रीं
श्रीसत्यानंदनाथरू० पादुकां पू० । मू० दि० हं सः तं ४ ह्रीं श्रीं
श्रीपूर्णानंदनाथरू० पादु० ।। ४ ।।
मूलं दि० ह सः पं ४ ह्रीं श्रीं स्वभावानंदनाथरू० पा० ।। ४ ।।
मूलं दि० हं सः यं ४ ह्रीं श्रीं प्रतिभानंदनाथरू० पा० ।। ४ ।।
मू० दि० हं सः षं ४ ह्रीं श्रीं सुभगानंदनाथ रूपि० पा०
पूजयामि ।।
इति नवनाथात्मकत्वेन मूलविद्यां जपेत् ।।
ततस्तद्दिन नित्या विद्यां यथाशक्तिं जपित्वा ।। इति काल नित्या जपः ।।
ततो मूलादि ब्रह्मरंध्रांतं मूलविद्यामुद्यत्सूर्य सहस्र
समप्रभां
प्. १०ब्)
ध्यायन् मूलविद्यामष्टोत्तरशतं जपित्वा बहिराकाशस्थाग्नि मंडले
पूर्योक्तरूपां वाग्भवेश्वरीं ध्यायन् प्रातर्वाग्भव कूटमष्टोत्तर
शतं जपेत् ।।
ततः प्राणायाम त्रयं ऋष्यादि करषडंगन्यासांश्च विधाय कृतं
जपं देव्यै निवेद्य प्रणम्य स्तुत्वा सूर्यमंडलाद्वह्निमंदलाच्च
मूलदेवीं वाग्भवेश्वरीं च स्वहृदये मूलाधारे च विसृज्य गुरुं
प्रणमेदिति ।।
इति प्रातः संध्याविधिः ।।
अत्र कर्म कालेषु गुरुध्यानमुक्तं रुद्रयामले ।।
दीक्षाकाले यथारूपं स्वस्यानुग्रह कर्मणि ।।
दृष्टं तं तेन भावेन ध्यायन्नाह्निकमाचरेत् ।।
इति गुरोरिति शेषः ।।
एतद्गुरुध्यानं प्रातःस्मरणाति रिक्तकालेषु ज्ञेयं ।।
प्रातः संध्येयमीशानि सर्वकर्मसु सर्वदा ।।
कर्तव्या मंत्रिणा नित्यं मंत्रसिद्धिः समृद्धये ।। १ ।।
प्रातः संध्यां परित्यज्य कर्म कुर्वन् ब्रजत्यधः ।।
प्रातः संध्यां परित्यज्य देवता पूजनं चरेत् ।।
अशुद्धः सुदुराचारः सर्वकर्म बहिःकृतः ।। ३ ।।
प्रातः संध्यां परित्यज्य देव पूजादिकं चरेत् ।।
प्. ११)
मोहात् कृत्वा महेशानि नारकी जायते नरः ।। ४ ।।
प्रातः संध्यां परित्यज्य होमं वा तर्पणं शिवे ।।
कुर्वन्न कारणं विप्रस्त्यजन् श्वानो भवे धृवं ।। ५ ।।
पिशाचो जायते देवि अपि वेदांत पारगः ।।
संध्यानामपि सर्वासां प्रातः संध्या गरीयसी ।। ६ ।।
तस्मात् तां न त्यजेद्विप्रस्त्यजन्नरकमाप्नुयात् ।।
इति त्रिपुरार्णववचनादि यंमवश्यं कर्तव्येति शिवशासनं ।।
अथ घटिका पारायण त्वेन षष्टि जपं कुर्यात् ।।
स च पंचभिर्दिवसैर्मातृकायाः षडावृत्ति रूपः ।। तथा च तत्र राज पटले
।। ४ ।।
आरभ्य भानोरुदयमेकशो घटिका क्रमात् ।।
एकैकं मातृका वर्णाः पंचाशत् परिवृत्तितः ।। १ ।।
दिवसैः पंचभिस्तस्याः षडावृत्तिरुदीरितेति ।।
तस्या मातृकायाः ।। अयमर्थः ।।
चतुर्युगेष्वपि तत्तद्युग प्रथम दिने सूर्योदय काले अकार उदयति ।।
ततो द्वितीय घटिकादि पंचाशत् घटिका पर्यंतासु घटिकासु । अकारादि
क्षकारांता वर्णा विसर्ग स्वर रहिताः स्वस्व घटिकोदय काले समुद्यंति ।।
तत एक पंचाशत् घटिकामारभ्य शिष्ट दशघटिकासु अकारादि
ऌकारांतः
प्. ११ब्)
दशवर्णाः स्वस्व घटिकोदय काले समुद्यंति ।।
इत्थं द्वितीय दिवसे सूर्योदय काले एकार उदेति ।।
ततः स्वस्व घटिकोदय काले एकाराद्या एकोन चत्वारिंशद्वर्णा अकाराद्या
विंशति वर्णाश्च समुद्यंति ।। २ ।।
तृतीय दिवसे सूर्योदय काले चकार उदेति ।।
ततः स्वस्व घटिकोदय काले छकारादि क्षकारांता अकारादि णकारांता
एकोन षष्टिवर्णाः समुद्यंति ।। ३ ।।
चतुर्थ दिवसे सूर्योदयकाले तकार उदेति ।।
तत स्वस्व घटिकोदय कालेथ कारादि क्षकारांता अकारादि मकारांता
एकोन षष्ठि वर्णाः समुद्यंति ।। ४ ।।
पंचम दिवसे सूर्योदय काले यकार उदेति ।।
ततः स्वस्व घटिकोदय काले रकारादि क्षकारांताः अकारादि
क्षकारांताश्चैकोन षष्ठिवर्णा समुद्यंति ।।
एवं पंचभिर्दिवसैर्मातृकायाः षडावृत्तिर्भवति ।।
एवं क्रमेणैभिर्वर्णैर्घटिका पारायणाख्यः षष्ठि जपः कार्यः ।।
तत्प्रकारः प्रदर्शते ।।
ततः तत्र अकारादि क्षांताः पंचाशद्वर्णा विसर्गरहिता
प्. १२अ)
दश दक्षश भूत्वा पंचवर्गाः अं एं चं तं यं तामानो भवंति
नै० षष्ठि जपः कार्यस्त प्रकारस्तु ।। ४ ।।
मूलं दिन नित्या विद्या हंसः अं ।। ४ ।।
मूलं दिन नित्या विद्याहंसः आं ।।
एवं क्षांतान् पंचाशद्वर्णानावृत्य पुनारादि वर्गमावर्तयेत् ।।
एवं षष्ठिरावृत्तयो मूल विद्याया भवंति ।।
द्वितीय दिने ४ मूलं दिन नित्या विद्या हंसः ।
एं एवं पुनस्तथा जप्ता ऐं । एवं क्षातान् चतुरो वर्गाना वृर्त्य०
पुनराद्य द्वितीयवर्गावावर्तयेत् ।। एवं षष्ठिरावृत्तयः ।।
तृतीय दिने ४ मूलं - दिन नित्या विद्याहंसः चं ।
एवं क्षां तांस्त्रिन्वर्गा नावर्त्य० पुनराद्यांस्त्रीनावर्त्तयेत् ।।
एवं षष्ठिरावृत्तयो मूलविद्याया भवंति ।।
चतुर्थ दिने ४ मूलं तद्दिन नित्या विद्या हंसः यं । एवं क्षातं वर्गं
वर्तयित्वा - पुनरकाराद्यान् क्षांतात् पंचाशद्वर्णानावर्तयेत् ।।
एवं० ततः षष्ठे दिने पुनरकारादित आरभ्योक्तरीत्या घटिका पारायण
जप मनवरतं कुर्यात् ।।
अत्राधुनावर्तमान समयो साधकैर्ज्योतिःशास्त्रोक्त प्रकारेणाहर्गणेन
कलियुगस्य
प्. १२ब्)
गत दिनादि ज्ञात्वा स्वक्रमारंभ दिनपर्यंतं गणयित्वा
पंचभिराहृत्योर्वरित दिनेनोदयाक्षरं ज्ञात्वा यस्मिन् दिने उदयाक्षर
मकारो भवति तस्मिन् दिने प्रारभ्य घटिका पारा * णं प्रोक्त क्रमेण
कार्यमिति घटिका पारायण जपः प्रातरेव कार्यः ।।
तंत्रराजोक्त्या काल त्रयेपि कार्यः ।।
अथ माध्यंदिन संध्या ।।
तत्र प्राणायामादि सूर्य तर्पणां तं प्रातः संध्यावदेव विद्याय बीज
संध्यां कुर्यात् ।।
सायथा ।।
तत्र मध्याह्ने अनाहत चक्रे मूलविद्यायाः कामराजकूटं रक्तवर्णं
ध्यायन् तत्तेजः सुषुम्णा मार्गेण वहन्नारा पुटाध्वना निःसार्यय
सूर्यमण्डले समावाह्य तद्भुता कामैश्वरीं ध्यायेत् ।।
तद्यथा ।।
रक्तां सुरक्तंबर भूषणाढ्यां
पाशांकुशाभीत्ति वरां दधानां ।।
शुचिस्मिता मद्भूतयौवनाढ्यां
कामेश्वरीं संस्मत त्रिनेत्रां ।। १ ।।
इति ध्यात्वा ४ कामराकूटमूच्चार्य श्रीत्रिपुराकामेश्वरी श्रीपादुकां
पुर्तयामि इति त्रिःसंपूज्य - पुनः ४ कामराजकूट
प्. १३अ)
गायत्रीमुच्चार्य श्रीत्रिपुरा कामेश्वरि श्रीपादुकायै अर्घ्यं कल्पयामि
स्वाहेति त्रिरर्घ्यां जलिमुत्क्षिप्य पुनः कामराज कूटमुच्चार्य
श्रीत्रिपुराकामेश्वरि श्रीपादुकां तर्पयामि नमः इति त्रिःसंतर्प्य ।।
प्राणायामादि पुरःसरं पूर्ववन्मातृकां विन्यस्य पूर्ववत्तूरीय
वीद्या गायत्रीं जपित्वा कामराजकूट गायत्रीं जपेत् ।।
सायथा ।। क्लीं त्रिपुरे देवी विद्महे कामेश्वरी धीमहि ।। तन्नः क्लिन्ना
प्रचोदयात् ।।
इति कामराज कूट गायत्रीं यथा शक्तिं जपित्वा ।।
षट्त्रिंशत्तत्वात्मकत्वेन मूलविद्यां जपेत् ।।
तद्यथा ।। ततस्तत्र ।।
मध्याह्ने हृदयांभोजकर्णिके सूर्यमंडले ।।
कामराजात्मिकां देवीमलक्तकसमारूणां ।। १ ।।
प्रसूनबाणपुड्रेक्षुचापपाशांकुशान्वितां ।।
परितः स्वत्म मुख्याभिः षट्त्रिशत्तत्वशक्तिभिः ।। २ ।।
रक्तमाल्यांबरालेपभूषाभिः परिवारितां ।।
युगनित्याक्षरमयीं घटिकावरणां स्मरेत् ।। ३ ।।
पुष्पबाणेक्षुकोदंड धराः शोणवपुर्धराः ।।
हृत्पंक च ताः कामराजोपास्ति परायणाः ।। ४ ।।
प्. १३ब्)
इति देविं ध्यात्वा ।।
४ मूलविद्यां दिननित्या विद्यां हंसः पदं चोच्चार्य अं शिवतत्वरूपिणी
श्रीमहात्रिपुरसुंदरीपादुकां पूजयामि ।। १६ ।।
४ मूलं - दिन० हं सः । कं शक्तितत्वरूपिणी
श्रीमहात्रिपुरसुंदरीपादुकां पूजयामि ।। १६ ।। मू० दि० हं सः खं
सदाशिवतत्वरूपिणी० ।। १६ ।। मूल० दि० हं सः गं इश्वरतत्वरूपिणी० ।। १६ ।। ४
मू० दी० हंसः घं शुद्धविद्या * त्वरूपिणी० ।। १६ ।। ४ मू० दी० ऽऽनं०
मायातत्वरूपिणी० ।। १६ ।। मू० दि० हं सः चं कलातत्वरूपिणी० ।। १६ ।। ४ मू०
दि० हं सः छं विद्यातत्वरूपिणी० ।। १६ ।। ४ मू० दि० जं रागतत्वरूपिणी० ।।
१६ ।। ४ मू० दि० हं सः झं कालतत्वरूपिणी ।। १६ ।। ४ मू० दि० हं सः ञ
नियतितत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः टं पुरुषतत्वरूपिणी० ।। १६ ।। ४
मू० दि० हंसः ठं प्रकृतितत्वरूपिणी० ।। १६ ।। ४ मू० दि० हंसः डं
अहंकारतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः ढं बुद्धितत्वरूपिणी० ।। १६
।। ४ मू० दि. हं सः णं मनस्तत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः तं
श्रोत्रतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः थं त्वक् तत्वरूपिणी० ।। १६ ।। ४
मू० दि० हं सः दं चक्षुस्तत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः धं
जिह्वातत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः नं घ्राणतत्वरूपिणी० ।। १६ ।।
प्. १४अ)
४ मू० दि० हं सः पं वाक् तत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः फं
पाणितत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः बं पादतत्वरूपिणी० ।। १६ ।। ४
मू० दि० हं सः भं पायुतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः मं
उपस्थतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः यं शब्दतत्त्वरूपिणी० ।। १६ ।। ४
मू० दि० हं सः रं स्पर्शतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः लं
रूपतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः वं रसतत्वरूपिणी० ।। १६ ।। ४ मू०
दि० हं सः शं गंधतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः षं
आकाशतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः सं वायुस्तत्वरूपिणी० ।। १६ ।। ४
मू० दि० हं सः हं तेजःस्तवरूपिणी० ।। १६ ।। ४ मू० दि० हं सः लं अप्
तत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः क्षं पृथ्वीतत्वरूपिणी०
श्रीमहात्रिपुरसुंदरीपादुकां ।। इति षट्त्रिंशत्तत्वयोगेन मूलविद्यां
जपित्वा ।। ततः कालनित्या विद्यामष्टोत्तरशतं जपित्वा प्राग्व०
मूलविद्यामष्टोत्तरशतवारं जपित्वा । हृदयकमले कामराजकूटं
बालार्क कोटि प्रभं हृदयादि ब्रह्मरंध्रपर्यंतं हृदयादि
मूलाधारांतं च व्यांत्यरश्मि
प्. १४ब्)
कदंबकं ध्यायन् कामराजकूटमष्टोत्तरशतवारं जपित्वा ।
प्राणायामादिपूर्वकं जपं समर्प्य स्तुत्वा प्रणम्य० मूलदेवीं
कामेश्वरीं च प्राग्वत् हृदये विसृजेदिति ।। इति मध्याह्नसंध्याविधिः ।।
अथ सायंसंध्याविधिः ।।
तत्र प्राणायामादिसूर्यतर्पणांतं प्राग्वत् विधाय ।
बीजसंध्यां कुर्यात् ।। सायथा ।।
सायमाज्ञाचक्रे हक्षाब्जे चंद्रमंडले मूलविद्यायास्तृतीय कूटं
शुद्धस्पटिकसंकाशं ब्रह्मरंध्रस्थपूर्णेंदु मंडलपर्यंतं
ध्यात्वा वहन्नासापुटेनाकाशस्थ सोममंडले समावाह्य तदुद्भूतां
देवीं वृद्धां ध्यायेत् ।। तद्यथा ।।
शुक्लां शुक्लांबरालेप स्रग्विभूषाविभूषितां ।।
जटाजूटधरां नेत्र त्रयोद्भासि मुखांबुजां ।। १ ।।
इषत् स्फुटित दंष्ट्रां च भैरवीरूपमास्थितां ।।
जरापलित संकीर्णां लंबमान पयोधरां ।। २ ।।
पाशांकुशौ पुस्तकं च स्फटिकाक्ष स्रजं करैः ।
दधानां शक्ति बीजोत्थां पूर्णेंदोर्मंडले स्थितां ।। ३ ।।
ध्यायेदाद्यां परांशक्तिं शक्तिमद्भिर्निषेवितां ।।
प्. १५अ)
भोगमोक्ष प्रदां शांता मनंताममृतेश्वरी ।। ४ ।।
वामाद्यूर्द्धयोराद्ये तदाद्यधस्थयोरन्ये इत्यायुध ध्यानं ।। इति
ध्यात्वा ।।
मूलविद्यास्तृतीयं कूटमुचार्य त्रिपुरामृतेश्वरी श्रीपादुकां पूजयामि
इति गंधादिभिः संपूज्य वक्ष्यमाण तार्तीय कूट गायत्रीमुच्चार्य
त्रिपुरामृतेश्वरी श्रीपादुकायै अर्घ्यं कल्पयामि स्वाहेति त्रिरर्घ्यं दत्वा
पुनस्तार्तीय कूटमुच्चार्य त्रिपुरामृतेश्वरी श्रीपादुकां तर्पयामि नमः ।।
इति त्रिः संतर्प्य प्राणायामादिपूर्वकां मातृका विन्यस्य तुरीय विद्या
गायत्रीं प्राग्वज्जपित्वा शक्तिकूटगायत्रीं जपेत् ।।
सायथा ।।
सौः त्रिपुरे देवि विद्महे शाक्तेश्वरी धीमहि । तन्नो मृता प्रचोदयात् ।। इति शक्ति
गायत्रीमष्टाविंशवारं जपित्वा ।। सायाह्ने षोडशनित्यात्मकत्वेन
मूलविद्यां जपेत् ।। तद्यथा ।।
तत्र -
सायमाज्ञा सरोजस्ये चंद्रे चंद्र समद्युतिं ।।
शक्ति बीजात्मिकां चापबाणपाशांकुशान्वितां ।। १ ।।
युग नित्याक्षरां देवीं घटिका वरणां परां ।।
प्. १५ब्)
चितयित्वा भगवतीं नित्याभिः परिवारितां ।। २ ।।
पुस्तकं चाक्षसुत्रं च दधानाः स्मेरवक्त्रकाः ।।
नित्याः षोडश चाज्ञायां सायंकाले तु संस्मरेत् ।। ३ ।।
इति देवी ध्याता ।। ४ ।।
मूलं दिननित्या विद्या - हंसः अं कामेश्वरी नित्याविद्यामुच्चार्य अं
कामेश्वरी नित्यारूपिणी श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजया
नमः ।। ४ ।। मू० दि० हं सः आं भगमालिनी विद्यामुच्चार्य आं
भगमालिनी नित्यास्वरूपिणी श्री० ।। १६ ।। ४ मूलं० दिन० हं सः रं
नित्यक्लिन्ना विद्यामुच्चार्य इं नित्यक्लिन्ना नित्यास्वरूपिणी० श्री ।। १६ ।। ४ मू०
दि० हं सः ई भेरुंडा विद्यामुच्चार्य ईं भेरुंडा नित्यास्वरूपिणी श्री०
।। १६ ।। ४ मुं० दि० हं सः उं वह्निवासिनी विद्यामुच्चार्य उं वह्निवासिनी
नित्यास्वरूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः ऊं महावज्ररी विद्यामुचार्य
ऊं महावज्रेश्वरी नित्यास्वरूपिणी० ।। १६ ।। ४ मु० दि० हं सः ऋं शिवदूती
विद्यामुच्चार्य ऋं शिवदूती नित्यारूपिणी श्री० ।। १६ ।। मू० दि० हं सः ॠ
त्वरिता विद्यामुर्च्चार्य ॠं त्वरिता नित्यारूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः
ऌं कुलसुंदरीविद्यामुच्चार्य ऌ कुलसुंदरीनित्यारूपिणी श्री० ।। १६ ।।
प्. १६अ)
४ मू० दि० हं सः ॡं नित्यानित्याविद्यामुच्चार्य ॡं नित्यानित्यारूपिणी० ।। १६
।। ४ मू० दि० हं सः एं नीलपताका विद्यामुच्चार्य एं नीलपताका
नित्यारूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः ऐं विजयानित्या विद्यामुच्चार्य
ऐं विजयानित्यारूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः ओं सर्वमंगला
नित्याविद्यामुच्चार्य ओं सर्वमंगला नित्यारूपिणी श्री० ।। १६ ।। ४ मू० दि० हं
सः औं ज्वालामालिनी नित्याविद्यामुच्चार्य औं ज्वालामालिनीत्यारूपिणी श्री०
।। १६ ।। ४ मू० दि० हं सः अं चित्रा नित्याविद्यमुच्चार्य अं चित्रा नित्यारूपिणी
श्री० ।। १६ ।। ४ मू० दि० हं सः अः मूल पंचदशीमुच्चार्य अः (चित्रा
नित्याविद्यामुच्चार्य) श्रीमहात्रिपुरसुंदरी नित्यारूपिणी श्री० ।। १६ ।।
इति षोडशनित्यात्मकत्वेन मूलविद्यां जपित्वा पूर्ववत् कालनित्या विद्यां
मूलविद्यां च जपित्वा भ्रूमध्यादि ब्रह्मरंध्रांतं तृतीय कूटं
शरच्चंद्रकोटि निभं ध्यायन्नष्टोत्तरशवारं तार्तीय कूटं जपेत् ।।
ततः प्राणायाम पूर्वकं जपं समर्प्य स्तुत्वा देवीं प्रणम्य
सूर्यमंडलाच्चंद्रमंडलाच्च मूल
प्. १६ब्)
देवीममृतेश्वरीं हृदि भ्रूमध्ये च विसृज्येदिति ।।
सायं संध्या विधिः ।।
अथ तुरीयसंध्याविधिः ।।
ततोर्धरात्रे तुरीय संध्यामुपासीत् ।। सायथा ।।
अर्कमंडले देवी ध्यानं विना प्राणायामाद्याचमनपर्यंतं
पूर्ववद्विधाय सहस्रार कमले तुरीयकूटं मूलविद्या
त्रयोदशाक्षररूपं पद्मराग समप्रभं ध्यात्वा वहन्नासापुटेन
तारकमंडलाद्बहिः परमाकाशे समावाह्य तदुद्भूतां भगवतीं
यथोक्त रूपा ध्यायन् ।। ४ ।।
तुरीयकूटमुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजयामि इति
त्रिःसंपूज्य । यथोक्तरूपां ध्यायन् तुरीयकूटमुच्चार्य
श्रीमहात्रिपुरसुंदरी श्रीपादुकायै अर्घ्यं कल्पयामि स्वाहेति त्रिरर्घ्यं
दत्वा पुनस्तुरीय कूटमुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपादुकां
तर्पयामि इति त्रिः संतर्प्य प्राणायामादि पूर्वकं पूर्वोक्तां
तुरीयगायत्रीं यथाशक्तिं जपित्वा कालनित्या विद्यां
मूलविद्यामष्टोत्तरशतवारं तरीयबीजं चाष्टोत्तरशतवारं जपित्वा
प्राणायामादि पूर्वकं जपं समर्प्य० देवीं स्तुत्वा परमाकाशात्
सहस्रदलकमलकर्णिकायामुद्वास्य कांमकलारूपमात्मानं ध्यायेदिति
तुरीयसंध्याविधिः ।।
एतत्संध्याचतुष्टयमेतद्विद्योपासका नामावस्यकं ।।
प्. १७अ)
वाह्य शक्तौ ध्यानरूपमप्यर्द्धरात्रसंध्योपासनं कार्यमिति ।।
अकृतं द्वितीय दिने प्रायश्चित्तार्थमष्टोत्तरशतं मूलविद्यां जपित्वा
पुनः कर्मकर्तुमधिकारी भवतीति शिवशासनं ।। स्नानसंध्यार्चनालोपे
अष्टोत्तरशतमिति तंत्रराज वचनात् ।। जपेन्मूल विद्यामिति शेष ।।
अत्र ।। संध्यालोपोन कर्तव्यः शंभोराजैवमेव हि ।। दीक्षितः संध्यया
हीनो न विद्याफलमश्नुत । इति वचनात् संध्या चतुष्टयं
साधकैरवश्यं कर्तव्यमिति संक्षेपः ।। अत्र प्रमादाद्यदि संध्यालोपो
भवति । तदात्वन्य संध्यासमये प्रोक्त प्रायश्चित पूर्वकं
पूर्वसंध्या क्रियां विघाय तत्कालसंध्यां कुर्यात् ।। उक्तं च
त्रिपुरार्णवे ।।
संध्याहीनोन्य संध्यायां पूर्वसध्या क्रियामथ ।।
विधायोत्तरसंध्यायाः क्रियां कुर्यात् समाहित इति ।। १ ।।
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।।
कृते सौभाग्यरत्नाब्धौ तरंगः प्रथमोगमत् ।। १ ।।
इति श्रीसच्चिदानंदनाथ चरणारविंद द्वद्वांते वसिना श्री
श्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकर प्रथमस्तरंगः ।। १ ।।
प्. १७ब्)
इत्थं संध्यां विधाव प्रकृतेः प्रातःसंध्यानंतरंपित्रारितर्पयां
निर्वर्त्यतां त्रिकतर्पणं कुर्यात् । तत्र प्राणायाम
त्रयं ऋष्यादिन्यासपूर्वकं स्वपुरतो जले पूर्ववत्तीर्थमावात्ववमिति ।
धेनुमुद्रया अमृतीकृत्य मूलेनाष्टवारमभिमंत्र्य तत्र श्रीचक्रं
विभाव्य तन्मध्ये वक्ष्यमाण प्रकारेण पीठपूजा पुरःसरं
देवीमावाह्य षोडशोपचारैर्जले देवीं संपूज्य
वक्ष्यमाणविधिनांगावरण देवताः संपूज्य पुनर्मूलेन देवीं
संपूज्य० ४ मूलविद्यामुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपादुकां
तर्पयामि नमः ।।
इत्येष्टोत्तरशतं तदर्द्धमष्टाविंशतिवारं वा यथाशक्ति तत्तीर्थजलैः
परदेवता मुखकमले परमामृत बुध्या संतर्प्यावरण देवताः यथा
क्रमं पूजोक्त मंत्रैः पूजयामीति स्थाने
तर्पयामीत्यंतैरेकैकांजलिना तर्पयेत् ।। तदशक्तौ बटुकादि
चतुष्टयं षडंग युवती गुरुपंक्ति त्रयं सप्तदश नित्याभिः सहितां
चतुरस्र वृत्तो येत त्रिकोणमंडलमध्यस्थां सायुध त्रिकोणावरण
शक्तियुतां मूलदेवीं तर्पयेत् ।।
प्. १८अ)
तत्राप्यशक्तौ संस्कृते जले देवीं ध्यात्वा संपूज्य देवीमेव तर्पयेदिति
तर्पसाविधिः ।। अथैवं कृत प्रातः संध्यावंदनादि क्रियः
स्वगुरूपदिष्टविधिना षट्त्रिंशदुत्तरसप्तशताधिकविंशति
सहस्रसंख्याभिर्युगाक्षरदिनाक्षरोत्थ कालनिया विद्याभिः
सहमूलविद्यायाः नाम पारायण जपं कुर्यात् ।।
कालनित्या विद्यास्तु तंत्रराजोक्ता उद्ध्रियंते ।।
तत्र
अकारादिक्षांताः षट्त्रिंशत्तत्ववर्णाः षोडशनित्याभिः षोडशस्वरैः
प्रत्येकं संयोजिताः षट्सत्यत्युत्तरपंचशतसंख्याकाः
पूर्णमंडलाख्या वर्णाः भवंति ।। एते वर्णाः कालनित्या विद्यानां
प्रागुक्तसंख्या नामेकैको वर्णः षट्त्रिंशत् षट्त्रिंशत् विद्यानामादि
वर्णा इति सर्वे वर्णा वाग्भवाख्या भवंति ।। प्रागुक्त षट्त्रिंशत् तत्व
वर्णास्तु सर्वासां विद्यानां माकारेण कृतसंधिकाः पुनः पुनक्रमेण
कामराजाख्या द्वितीय वर्णा भवंति ।। ईकारस्तु सर्वासां विद्यानां शक्ति
कूटाख्यस्तृतीय वर्णा भवंति ।। अथैताः विद्याः क्रमेण
प्. १८ब्)
पारायण जपपरिपाद्यैव प्रदर्श्यंते ।।
तत्रादौ साधको विविक्ते देशे नद्यादि तीरे एकांते स्वगृहे वा स्वासनमास्तीर्य
।। ४ ।। ह्रीं आधारशक्ति कमलासनाय नमः ।। इत्यासनं संपूज्य ।।
तत्र प्राऽऽन्मुखः स्वस्तिकाद्यासनेनोपविश्य गुरुगणपति स्वेष्ट देवताः
प्रणम्य प्राणायाम त्रय पूर्वकं संक्षेपतो भूतशुद्धिं
प्राणप्रतिष्ठां मातृकान्यासं च कृत्वा मस्तक दक्षबाहु
मूलादि षट्त्रिंशत् स्थानेषु प्रतिस्थानं षोडशदलपद्मं
विभाव्यतेष्वकारादि क्षकारांतान् षट्त्रिंशतत्ववर्णाः
प्रत्येकं षोडशस्वरसंयुक्तान् विभाव्य मध्ये तत्प्रथमाक्षरं विन्यस्य
पूर्वादि दलेषुत्तत्तदक्षर विकृत षोडशवर्णांस्तदादिकान् विन्यसेदित्येवं
पूर्णमंडलवर्णान् विन्यस्य पुनस्तदिन नित्या विद्यया सहित मूलविद्यया
प्राणाया त्रयं कृत्वा शिरसि ४ दक्षिणा मूर्त्तये नमः ।। मुखे ४ पंक्तये
छंदसे नमः । हृदये ४ कालनित्यारूपिण्यै श्रीमाहात्रिपुरसुंदर्यै
देवतायै नमः ।। इति ऋष्यादिकं विन्यस्य मम मोक्षार्थे नाम पारायण
जपे विनियोगः ।। इति कृतांजलिरुक्ता ।।
प्. १९अ)
तत्तद्दिननिया विद्याक्षरैस्त्रिभिः कूटैः द्दिरावृत्या यथाविधि
करषडंगन्यासं वक्ष्यमाण चतुरासन न्यासंः वाग्देवताष्टक
न्यासं च विधाय ध्यायेत् तद्यथा ।।
रक्तां रक्तांबरा रक्त स्रग्विभूषानुलेपनां ।।
पाशांकुशेक्षु को दंड प्रसून विशिखां स्मरेत् ।। १ ।।
इति कालनित्यां हृदये ध्यात्वा वक्ष्यमाण विधिना हृदये श्रीचक्रं
कालचक्र मध्यगतं विभाव्य० । तत्र देवीं सांगावरणां कालं
नित्याभिश्च परिवृत्तां ध्यात्वा - मानसैरुपचारैः संपूज्य पारायण
जपमारभेत् तत्रादौ अंगविद्या जपः ।। तत्र ।। ४ मूलं तद्दिन नित्या विद्या अ-
ह्सौः हं सः । ४ मू० तद्दिननित्या विद्या आ-ह्सौः हं सः । ४ मू० तद्दि० इ-
ह्सौः हं सः । ४ मू० तद्दि० इ-ह्सौः हं सः ।। ४ मू० तद्दि० उ-ह्सौः हं सः ।
४ मू० तद्दि० ऊ-ह्सौः हं सः । ४ मूलं० तद्दि० ऋ-ह्सौः हं सः । ४
मू० तद्दि० ॠ-ह्सौः हं सः एवं ४ मू० क्षं ह्सौः हं सः इत्यंतं
एकपंचाशद्विद्याभिः सहमूलविद्यां जपित्वा० ततः केवल मूलविद्या
त्रिर्जपित्वा ।। ४ ऐं वदवदवाग्वादिनि ऐं क्लिं क्लिंन्ने क्लेदिनि क्लेदय
महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं कुरु २ ह्सौः
प्. १९ब्)
इति दीपिनी विद्यामेकवारं जपित्वा ।। ततो वक्ष्यमाण गुरुपादुका
विद्यामप्येकवारं जपित्वा पुनश्चत्वारिंशद्विद्याभिः सहमलविद्यां
जपेत् ।। तद्यथा ।। तत्र
ओं ३ मू० आ क्षा ह सा ई हं सः । ४ मू० ई ला ह सा ई हं सः ।। ४ मू० ऊ हा
ह सां ई हं सः ।। ४ मू० ॠ सा ह ई हं सः । ४ मू० ऌ षा ह सा इ हं सः ।।
४ मू० ऐ शा ह सा ई हं सः ।। ४ मू० औ वा ह सा ई हं सः । ४ मू० अः ला ह
सा ई हं सः ।। इत्यष्टधा जपित्वा ।। पुनः ।। ४ मू० आ क्षा ई हं सः ।। ४
मू० आ क्षा ई हं सः ।। ४ मू० ई ल्ला ई हं सः ।। ४ मू० इ ल्ला ई हं सः ।। ४
मू० ऊ हा ई हं संः ।। मू० उ हा ई हं सः ।। मू० ऋ सा ई हं सः ।। ४ ऋत्या
ई हं सः ।। ४ मू० ॡ षा ई हं सः ।। ४ मू० ल्पृ षा ई हं सः ।। ४ मू० ऐ शा
ई हं सः ।। ४ मू० ए शा ई हं सः ।। ४ मू० औ वा ई हं सः ४ मू० ओ वा ई
हं सः ।। ४ मू० अः ला ई हं सः ।। ४४ मू० अं ला ई हं सः ।। इति षोडशधा
जपित्वा ।। ४ मू० अ का ई हं सः ।। ४ मू० इ चा ई चा इ हं सः ।। ४ मू० उ य ई
हं सः ।। ४ मू० ऋ ता ई हं सः ।। ४ मू० ऌ पा ई हं सः ।। ४ मू० ए या ई हं
सः ४ मू० ओ षा ई हं सः ।। ४ मू० अं ला ई हं सः ।। इत्यष्टधा जपित्वा ४
मू० आ क्षा ई हं सः ।। ४
प्. २०अ)
मू० ई ला ई हं सः ।। ४ मू० ऊ हा ई हं सः ।। ४ मू० ॠ सा ई हं सः ।। ४
मू० ऌ षा ई हं सः ।। ४ मू० ऐ शा ई हं सः ।। ४ मू० औ वा ई हं सः ।। ४
मू० अः ला ई हं सः ।। इत्यष्टधा जपित्वा ।। ततः षोडशावांतर युगभिन्ने
महायुगे यदेव युगं भविष्यति तदक्षरमारभ्य सर्वाभिर्युगनित्या
विद्याभिः सह मूलं जपेत् ।। ततः उक्तांगविद्या जप पूर्वकं० पश्चात्
कालनित्या विद्याभिः सह मूलविद्यां जपेत् ।। अयमंगविद्या जपो
वर्गद्वयस्याप्यादौ प्रत्यहं कार्यः ।। ततः प्रथम दिने ।। ४
मूलविद्यामूच्चार्य अ आ ई हं सः ।। ४ मू० अ का ई हं सः ।। ४ मू० अ खा ई
हं सः ।। ४ मू० अ गा ई हं सः ।। ४ मू० अ घा ई हं सः ।। ४ मू० अ ऽऽना ई
हं सः ।। ४ मू० अ चा ई हं सः ।। ४ मू० अ छा ई हं सः ।। ४ मू० अ जा ई हं
सः ।। ४ मू० अ झा ई हं सः ।। मू० अ भा ई हं सः ।। ४ मू० अ टा ई हं सः ।।
४ मू० अ ठा ई हं सः ।। ४ मू० अ डा ई हं सः ।। ४ मू० अ ढा ई हं सः ।। ४
मू० अ णा ई हं सः ।। ४ मू० अ ता ई हं सः ।। ४ मू० अ था ई हं सः ।। ४ मू०
अ दा ई हं सः ।। ४ मू० अ धा ई हं सः ।। ४ मू० अ ना ई हं सः ।। ४ मू० अ पा
ई हं सः ।। ४ मू० अ फा ई हं सः ।। ४ मू० अ बा ई हं सः ।। ४
प्. २०ब्)
मू० अ भा ई हं सः ।। ४ मू० अ मा ई हं सः ।। ४ मू० अ या ई हं सः ।। ४
मू० अ रा ई हं सः ।। ४ मू० अ ला ई हं सः ।। ४ मू० अ वा ई हं सः ।। ४ मू० अ
शा ई हं सः ।। ४ मू० अ षा ई हं सः ।। ४ मू० अ सा ई हं सः ।। ४ मू० अ हा ई
हं सः ।। ४ मू० अ ला ई हं सः ।। ४ मू० अ क्षा ई हं सः ।। इति जपित्वा ।।
पुनरेवं चतुस्तार मूलपूर्वकं जपेत् ।। तद्यथा ।।
४ मू० आ आ ई हं सः ।। ४ मू० आ का ई हं सः ।। ४ मू० आ सा ई हंसः ।। ४
मू० आ गा ई हं सः ।। इत्यादि ।। ४ मू० आ क्षा ई हं सः ।। इत्यंतं जपित्वा ।।
पुनः ।। ४ मू० इं आ ई हं सः ।। ४ मू० इ का ईं हं सः ।। ४ मू० इ खा ई हं
सः इत्यादि० ४ मू० इ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० ई आ ई हं सः ।।
४ मू० ई का ई हं सः ।। इयादि ४ मू० ई क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४
मू० उ आ ई हं सः ।। ४ मू० उ का ई हं सः इत्यादि० ४ मू० उ क्षा ई हं सः ।।
इत्यंतं जपित्वा ।। ४ मू० ऊ आ ई हं सः ।। ४ मू० ऊ का ई हं सः इत्यादि० ४
मू० ऊ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० ऋ आ ई हं सः ।। ४ मू० ऋ
का ई हं सः ।। इत्यादि ४ मू० ४ ऋ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० ॠ
आ ई हं सः ।। ४
प्. २१अ)
मू० ॠ का ई हं सः ।। इत्यादि० ४ मू० ॠ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४
मू० ऌ आ ई हं सः ।। ४ मू० ऌ का ई हं सः ।। इत्यादि ऌ क्षा ई हं सः ।।
इत्यंतं जपि० ४ मू० ॡ आ ई हं सः ।। ४ मू० ॡ का ई हं सः इत्यादि० ॡ
क्षा ई हं सः ।। इत्यंतं ज० ४ मू० ए आ ई हं सः ।। ४ मू० ए का ई हं सः
इत्यादि ४ मू० एक्षा ई हंसः इत्यंतं ज० ४ मू० ऐ आ ई हं सः ।। ४
मू० ऐ का ई हं सः इत्यादि ४ ऐ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० ओ आ
ई हं सः ।। ४ मू० ओ का ई हं सः इत्यादि० ४ मू० ओ क्षा ई हं सः ।। इत्यंतं
जपित्वा मू० औ आ ई० इत्यादि० ४ मू० औ क्षा ई० ।। ४ मू० अं आ ई हं सः ।। ४
मू० अं का ई हं सः इत्यादि० ४ मू० अं क्षा ई हं सः ।। इत्यंतं जपित्वा ४
मू० अः आ ई हं सः ४ मू० अः का ई हं सः इत्या अः क्षा ई हं सः ।।
इत्यंतं जपित्वा ।। एवं जपेत् ।। एवं षट्सप्तत्युतरपंचशत संख्याको जप
भवति मूलविद्यायाः ।।
अत्र पारायणे प्रथमं तद्दिन युगाक्षारात् षोडशस्वर
भिन्नादुत्पन्न षट्सप्तत्युत्तर पंचशतविद्याभिः सहमूल विद्यां जपित्वा
।। पश्चात् तद्दिनाक्षर जनित विद्याभिस्तावत्संख्याताभिः सह प्रोक्त क्रमेण
मूलविद्यां जपेत् ।।
प्. २१ब्)
युगाक्षर दिनाक्षरे तु तत्तद्दिन नित्या विद्यायाः प्रथमाक्षरं
द्वितीयाक्षरं च बोद्धव्यं ।। युगाक्षरोत्थ विद्या जपे विशेषस्तु० यस्मिन्
युगे यत्स्वरयुतं युगाक्षरं भवति तत्स्वरमारभ्य प्रतिस्वरं षट्त्रिंशत्
क्रमेण तद्विसर्गांतिमविद्या पर्यंतं जपित्वा पुनस्तदक्षरस्य प्रथम
स्वरमारभ्य आरब्ध स्वरस्य पूर्वस्वरांत विद्यावधिपजेत् ।। तदा
मूलविद्यायाः षट्सप्तत्युत्तर पंचशतसंख्या को जपो भवति ।। अत्र युगस्तु
षट्त्रिंशद्दिनात्मको भवति ।। प्रागुक्त पूर्णमंडलं
वर्णेषु षट्सप्तत्युत्तर पंचशत संक्याकेष्वेकैकाक्षरस्यैकैकयुगं
प्रतियुगाक्षरत्वं च भवति ।। एतत्सर्वं गुरुमुखात्सम्यग्विज्ञाय
पारायण जपः कार्यः ।। दिननित्या विद्या क्रमश्च
गुरुमुखादेवावगंतव्य इति ।। एवं द्विपंचाशदुत्तरैकादशशतसंख्या
को जपो भवंति मूल विद्यायाः ।। अंगविद्या जपस्त्वेकैक वर्गादावेक नवति
संख्याकस्तेन वर्गद्वयादौ जपोद्व्यशीत्युत्तर शतसंक्याको भवंति ।
केवल मूलं विद्या
प्. २२अ)
जपोपि वा २ चतुष्टयंस्त्रिरावृत्या द्वादशधा भवति ।। संभूय०
सट्चत्वारिंशदुत्तरत्रिशताधिक सहस्रसंख्या को जपो भवति
मूलविद्यायाः ।। एवमुक्तसंख्याकं जपमुक्तविधिना कृत्वा पुनः
केवलां मूलविद्यां त्रिर्जपित्वा प्रागुक्त दीपिनी विद्यां गुरुपादुका
विद्यां च स कृत् स कृज्जपित्वा ।। ४ ड र ल क स हैं ह स क ल र डीं स ह क ल
र डौः नमः ।।
इत्युत्तीर्ण विद्यां सकृज्जपित्वा ।। ४ मम सकल मनोरथान् साधय साधय
तुभ्यं नमः ।। इति प्रार्थनीय विद्यां सकृत्कृतांजलिर्जपेत् ।। इति
वर्गद्वयस्याप्यंते बोद्धव्यं ।। इथं पारायण जपं कृत्वा० इदं
स्तोत्रं पठेत् ।। तद्यथा ।।
ओं ३ क्ष्मांब्वग्नीरण खार्केदुयष्टृप्राययुगस्वरैः ।।
मातृभैरवगां वंदे देवीं त्रिपुरभैरवीं ।। १ ।।
कादिवर्गाष्टकाकार समस्ताक्षरविग्रहां ।।
अष्टशक्त्यावृतां देवीं वंदे त्रिपुरभैरवीं ।। २ ।।
स्वरषोडशकानां तु षट्त्रिंशद्भिः परापरैः ।।
षट्त्रिंशत्तत्वगां वंदे देवीं त्रिपुरभैरवी ।। ४ ।।
षट्त्रिंशतत्वं संस्थाप्य शिवचंद्र कलास्वपि ।।
प्. २२ब्)
कादि तत्वांतरां वंदे देवीं त्रिपुरभैरवीं ।। ४ ।।
आ ई माया द्वयोपाधि विचित्रेंदु कलावतीं ।।
सर्वात्मिकां परां वंदे देवीं त्रिपुरभैरवीं ।। ५ ।।
षडध्वपिंडयोनिच्छां मंडल त्रय कुंडलीं ।।
लिंग त्रयातिगां वंदे देवीं त्रिपुरभैरवीं ।। ६ ।।
स्वयंभूहृदयां वाण भ्रूकामांतस्थितेतरां ।।
प्राप्त प्रत्यक् चितिं वंदे दीं त्रिपुरभैरवीं ।। ७ ।।
अक्षरांतर्गताशेष नामरूप क्रियां परां ।।
शक्तिं विश्वेश्वरीं वंदे देवीं त्रिपुरभैरवीं ।। ८ ।।
वर्गातं पठितव्यं स्यात् स्तोत्रमेतमाहितैः ।।
इति कृत्वा ।। दिननित्या युक्त मूलविद्याया प्राणायाम त्रयं कृत्वा
प्राग्वदृष्यादि न्यास तद्दिन नित्या विद्याया प्राग्वत् करषडंगं न्यासं
च कृत्वा कृतं जपं देव्यै समर्पयेदिति ।। १ ।।
एवं द्वितीय दिने प्राग्वदासन पूजाद्यंग विद्या जपांतं विधाय० ४
मू० क आ ई हं सः ।। ४ ।। मू० क का ई हं सः ।। ४ मू० क खा ई हं सः ।।
इत्यादि० ४ मू० क क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ का आ ई हं सः ।। ४
मू० का का ई हं सः ।। ४ मू० का खा ई हं सः इत्यादि ४ मू० का क्षा ई
हंसः ।।
प्. २३अ)
इत्यंतं जपित्वा ।। ४ मू० कि आ ई हं सः ।। ४ मू० कि का ई हं सः ।। इत्यादि० ४
मू० कि क्षा ई हं सः ।। इत्यंतं जपित्वा ।। एवं की आ ई हं सः ।। की का ई०
इत्यादि की क्षा ई इत्यंतं ज० । ४ मू० कु आ ई हं सः । कु का ई इत्यादि० कु क्षा
ई० इत्यंतं जपित्वा ।। ४ मू० कू आ ई इत्यादि० ४ मू० कू क्षा ई० इत्यंतं ज० ४
मू० कृ आ ई० इत्यादि० ४ मू० कृ० क्षा इं० इत्यंतं ज० ।। एवं सर्वत्र ।। ४ मू०
श आ ई हं सः इत्यादि० ४ मू० शः क्षा ई हं सः क्षा ई हं सः इत्यंतं
५७६ ।। ज० ३१ ।। द्वात्रिंशत्तमे दिने ।। ४ मू० ष आ ई हं सः इत्यादि० ४ मू० ष
क्षा ई हं सः इत्यंतं ५७६ ।। ज० ।। ३२ ।। त्रयस्त्रिंशत्तमे दिने ।। ४ मू० स आ ई
हं सः इत्यादि० ४ मू० सः क्षा ई हं सः इत्यंतं ५७६ ।। ज० ३३ ।।
चतुस्त्रिंशत्तमे दिने ।। ४ मू० ह आ ई हं सः इत्यादि० ४ मू० हः क्षा ई हं
सः इत्यंतं ५७६ ।। ज० ३४ ।। पंचमस्त्रिंशत्तमे दिने ।। ४ मू० ल आ ई हं सः
इत्यादि० ४ मू० लः क्षा ई हं सः इत्यंतं ५७६ ।। ज० ३५ ।। षट्त्रिंशत्तमे दिने ।।
४ मू० क्ष आ ई हं सः इत्यादि० ४ मू० क्षः क्षा ई हं सः इत्यंतं ५७६ ।।
जपित्वा ।। प्राग्वत् ।। जपेत् ।।
प्. २३ब्)
अत्र षट्त्रिंशद्दिनेषु च प्रागुक्तपरिपाद्या
प्रत्यहं षट्चत्वारिंशदुत्तरत्रयोदशशतसंख्यं यथा भवति तथा
जपं कृत्वा वर्गद्वयस्याप्यंते स्तोत्र पाठं च कुर्यात् ।। अत्र पारायणे
पर्याय भेदः पंचधा भवंति ।। तथा च तंत्रराजे ।।
दिनतो वारतः पक्षान् मासात् षट्त्रिंशता दिनैः ।।
जपंतोवारमेकं तु विद्यानित्यात्मिकास्तुताः ।। १ ।।
आयुरारोग्यमैश्वर्यं विजयं वांछितं क्रमात् ।।
लभंते ललितायाभिः संप्रदायवती भवेत् ।। २ ।।
एकस्मिन् दिवसे त्वेक वारावृत्तौ विधिस्त्वयं ।।
मध्याह्ने तु समारभ्य मध्यरात्रे समापयेत् ।। ३ ।।
वारेषु चैकदा जापे प्रथमे रविवारके ।।
वशिन्याः प्रथमं वर्गं कामेश्वर्या द्वितीयकं ।। ४ ।।
जप्त्वा वर्गद्वयं मंत्री सोमवारादि षट्स्वपि ।।
दिनेषु मोदिनी वर्गादेकैकं प्रजपेत् सुधीः ।। ५ ।।
पक्षेपि चैकदा जापे प्रथमादि तिथिष्वपि ।।
पंक्ति द्वयोत्था विद्यास्तु प्रजपेत् प्रतिवासरं ।। ६ ।।
पंचमी दशमी पंचदशीषु तिथिषु क्रमात् ।।
पूर्णासु प्रजपेद्विद्याश्चतुःपंक्ति भवाः सुधीः ।। ७ ।।
प्. २४अ)
मासे प्रतिदिनं विद्वानेकैकां योनिमेव तु ।।
पूर्णासुद्दिद्वियोन्युत्था जपेत् षट् स्वपिताः क्रमात् ।। ८ ।।
षट्त्रिंशत्सुदिनेष्वेवमेकैकां योनिमेव तु ।।
जपेत् प्रतिदिनं विद्वानेवं पूर्णा भवंतित्ताः ।। ९ ।।
नैताभिः सदृशी कापि विद्यालोकेषु विद्यते ।।
तस्मादाभिरुपायैस्तैः साधयेत् सर्वमीप्सितं ।। १० ।।
यद्यन्निजेप्सितं तत्तदुष्करं सुकरं भवेत् ।।
जपतर्पण होमार्चासेकैः संतर्पये स्थिरः ।। ११ ।।
पंचाशद्वारमावत्यी विद्या भक्ति समन्वितः ।।
मुच्यते निगडैः कृछ्रैर्वैरिरोधैः सुदारुणैः ।। १२ ।।
शतवारं समावर्त्य विद्याविविध वैभवाः ।।
लभते तनयान् वध्या अपि सर्वगुणान्वितान् ।। १३ ।।
अध्यर्द्धशतवारं तु विद्याश्र्यावर्त्यभक्तितः ।।
गुणरूपादिसंपन्नां भार्यां विंदत्य यत्नतः ।। १४ ।।
तावदावर्त्य कन्या वा पतिं सर्वगुणान्वितं ।।
लभते पुत्र पौत्राद्यैरेधते संपदन्विता ।। १५ ।।
द्विशतं ताः समावर्त्य दारिद्र्यान्मुच्यते ध्रुवं ।।
त्रिशतैर्भूमि सस्थाढ्यश्चतुर्भिश्च शतैर्धनी ।। १६ ।।
पंचभिस्तु शतैर्भूपो भवेत् षड्भिः शतैर्नृपः ।।
प्. २४ब्)
सप्तभिस्तु शतैस्तस्य न मुंचत्यन्वयं रमा ।। १७ ।।
अष्टभिस्तु शतैस्तासां नृपाः सर्वेस्य किंकराः ।।
नवभिस्तु शतैरेवं कंदर्पोवनिताजने ।। १८ ।।
एवं नवशतं जप्त्वा सर्वान्कामानवाप्नुयात् ।।
समस्तभजनं तासामुक्त सर्वार्थ सिद्धिदं ।। १९ ।।
इति ।। अथैतेषां विषमपदव्याख्या ।। दिनत इत्यादि० भवेदित्यंतः
सार्द्धद्वय श्लोकः स्पष्टार्थः ।। एकवारावृत्तौ षट्त्रिंशदुत्तर
सप्तशताधिक विंशति सहस्रसंख्याभिः कालनित्या विद्याभिः
सहमूलविद्यायास्तावत्संख्या जपे चोक्तविधिना प्रत्यहं क्रियमाणे
इत्यर्थः ।। वारेषु रविवारादि शनिवारां तेषु सुप्तसु वशिन्यादीनां
वर्गास्त्वग्रे न्यास प्रकरणे स्फुटी करीष्यामः ।। वर्गः पंक्तिर्योनिरिति
पर्यायः ।। सेकः अभिषेकः स्थिरः निश्चल भक्तिमान् पंचाशदित्यादिभिः
श्लौकैः प्रपंचितः काम्य जपः केवल कालनित्या विद्यानामेव । अन्येपि
काम्यप्रयोगावहवः व्यतिते त्वत्र ग्रंथगौरवभयान्नास्माभिर्लिखिताः
प्. २५अ)
गुरुतः शास्त्रतः अबोद्धव्याः ।।
अथ कालचक्ररचना प्रकारः ।।
ततः ।। प्रथमतः क्वचिद्बिंदुं कृत्वा तं परितः षडंगुलमानेन वृत्तं
कृत्वा तद्बहिरप्येकैकांगुलांतराल मानतः षोडश वृत्तानि इति प्रथम
कृत वृत्तेन सहसप्तदशवृत्तानि निष्पाद्यतानि
वृत्तानि षट्त्रिंशद्रेखाभिर्विभज्य षोडषषोडशकोष्ठयुक्ताः षट्त्रिंशद्
वीथीर्निष्पाद्यता सुखाग्रवीथ्यां सर्वबाह्यस्थ कोष्ठमारभ्य
प्रवेशगत्या अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः ।। इति विलिख्य ।। ततः
प्रादक्षिण्य क्रमप्राप्तद्वितीय वीथ्यां तथैव बाह्य कोष्ठमारभ्य क
का कि की कु कू कृ कॄ कॢ कॣ के कै को कौ कं कः ।। तृतीय विथ्यां ।।
ख खा खि खी खु खू खृ खॄ खॢ खॣ खे खै खो खौ खं खाः ।।
चतुर्थ विथ्यां ।। ग गा गि गी गु गू गृ गॄ गॢ गॣ गे गै गो गौ गं गः ।।
पंचम वीथ्यां ।। घ घा घि घी घु घू घृ घॄ घॢ घॣ घे घै घं
घः ।। षष्ठ विथ्यां ।। ऽऽन ऽऽना ऽऽनि ऽऽनी ऽऽनु ऽऽनू ऽऽनृ ऽऽनॄ ऽऽनॢ ऽऽनॣ ऽऽने ऽऽनै ऽऽनो
ऽऽनौ ऽऽनं ऽऽनः ।। सप्तम वीथ्यां ।। चवर्गः ।। एवं सर्वत्रं ।। वीथ्यां न्यसेत्
।। १९ ।।
प्. २५ब्)
छ वर्ग अष्टमविथ्यां ।। नवमवीथ्यां जवर्गः ।। दशमवीथ्यां
झवर्गः ।। एकादशविथ्यां ञवर्गः ।। द्वादशवीथ्यां टवर्गः ।।
१३वी० ठ वर्गः ।। १४ वीथ्यां डवर्गः ।। १५ वीथ्यां ढवर्गः ।। १६
वीथ्यां णवर्गः ।। १७ वीथ्यां तवर्गः ।। १८ वीथ्यां थवर्गः ।। १९
वीथ्यां दवर्गः ।। २० वीथ्यां धवर्गः २१ वीथ्यां न वर्गः ।। २२
वीथ्यां पवर्गः ।। २३ वीथ्यां फवर्गः ।। २४ वीथ्यां बवर्गः ।। २५ भ
वर्गः ।। २६ मवर्गः ।। २७ वीथ्यां यवर्गः ।। २८ वीथ्यां रवर्गः ।। २९
वीथ्यां लवर्गः ।। ३० ववर्गः ।। ३१ वीथ्यां शवर्गः ।। ३२ वीथ्यां षवर्गः
।। ३३ वीथ्यां सवर्गः ।। ३४ वीथ्यां ह वर्गः ।। ३५ वीथ्यां लवर्गः ।। ३६
वीथ्यां क्षवर्गः ।। एवं षट्त्रिंशद्विथीषु षट्सप्तत्युत्तर
पंचशतसंख्यांकान् पूर्णमंडलवर्णानालिख्यं कर्णिकायां ।। आ
ई हंसः इति वर्णचतुष्टयं विलिख्य सर्वबाह्य वृत्ताद्बहिर्वृत्तत्रयं
निष्पाद्यसकेसरमष्टदलकमलविख्यत बहिश्चतुरस्रं कुर्यात् ।। अत्र
वर्णविन्यासे मध्यस्थ देवताभि मुखाः सर्वे वर्णा यथा भवंति तथा
लेख्याः ।।
इति कालचक्ररचना प्रकारः ।।
एतच्चक्रस्य
प्. २६अ)
षत्सप्तत्युत्तरपंचशतं भेदाः संति तत्सर्वं तत्र देव्याः पूजन
प्रकारं तत्फलानि च गुरुतः शास्त्रतःश्च बोद्धव्यं ।। ग्रंथ गौरव
भयादत्र न लिखितमिति ।। एवं पारायण जपं विधाय ततो गुरु दिक्पति ग्रहान्
प्रणम्य शुद्धोदक पूर्णपात्रमादाय हृदिस्वेष्ट देवता स्मरन्
मूलमंत्र स्तोत्रं वा जपन् मौनी स्वपद मात्र दृष्टिः स्वगृहं गत्वा
द्वारि स्थित्वा ज्ञाताज्ञातं स्वपापं स्मरन् प्रणवमुच्चार्य ।। ४ देवत्वं
प्राकृतं चित्तं पापाकांतमभून्ममा ।। तन्निःसारय चित्तान्मे पापं
फट् फट् फट् ते नमः सूर्यः सोमो यमः कालो महाभूतानि पंच च ।।
एते शुभाशुभस्येह कर्मणो नवसाक्षिणः ।। २ ।।
इति पठित्वा० । हूं फट् इति क्रोध दृष्टया पार्श्वद्वयमूर्ध्व
मध्यश्चावलोक्य सुमना भूत्वा गृहांतः प्रविश्य हस्तौ पादौ
प्रक्षाल्याचम्य गृहांगणे सुसमे गोमयोपलिप्ते भूप्रदेशे सिंदूरादिना
कृत कृत्त मंडलांतः स्वासनमास्तीर्य ।। ४ ओं ह्रीं आधारशक्ति
कमलासनाय नम । इत्यासनं संपूज्य । तत्र प्राऽऽन्मुख उपविश्य
वक्ष्यमाण मार्त्तण्डभैरव
प्. २६ब्)
मंत्रेण प्राणायाम त्रयं कृत्वा- शिरशि ४ देवभागा ऋषये नमः ।।
मुखे ४ देवी गायत्री छंदसे नमः ।। हृदये ४ श्रीमार्त्तंडभैरवाय
देवतायै नमः ।। इति विन्यस्य मम सर्वाभीष्टसिद्धये सूर्यार्घ्यदाने
विनियोगः ।। इति कृतांजलिर्वदेत् ।।
ततः ओं घ्रां ह्यां ध्रां हृदयाय नमः ।। ओं ध्रीं ह्यरीं ध्रीं शिरसे
स्वाहा ।। ओं ध्रुं ह्यरूं ध्रुं शिखायै वषट् ।। ओं ध्रैं ह्यरैं ध्वैं
कवचाय हूं ।। ओं ध्रौं ह्यरौं ध्रौं नेत्रत्रयाय वौषट् ।। ओं ध्रः ह्यरः
ध्रः अस्त्राय फट् ।। इत्यंगमत्रानंगुष्ठादि कनिष्ठांतं करयोर्विन्यस्य
हृदयादिष्वपि न्यसेत् ।। ततो ध्यानं ।।
हेमांभोजप्रवालप्रतिमनिजरुचिंचारुखट्वांगपद्मे
चक्रं शक्तिं च पाशं सृणिमपि रुचिरामक्षमालां कपालं ।।
हस्तांभोजैर्दधानं त्रिनयनविलसद्वेदवक्त्रांभिरामं
मार्त्तंडं वल्लभांकं मणिमयमुकुटं हारदीप्तं भजामः ।। १ ।।
दक्षाद्युर्ध्वयोराद्ये तदाद्यधस्थयोरन्ये
तदाद्यधस्थयोरपरे तदाद्यधस्थयोरितरे ।
इत्यायुध ध्यानं ।। इति स्वैक्येन ध्यात्वा मनसा पूजयित्वा
प्. २७अ)
ताम्रादि पात्रे सिंदूरकुंकुमादिना त्रिकोणवृत्त
कर्णिकंसकेसरमष्टदलकमलं निर्माय तद्बहिर्वृत्तं चतुद्वारोपेतं
चतुरस्रं च कृत्वा तद्बहिवृत्तत्रयं भ्रामयेदिति पूजामंडलं कृत्वा
तत्र सूर्यमंत्रेण पुष्पं दत्वा वक्ष्यमाणविधिना सामान्यार्घ्यं
विधाय तेनैव द्वादशधाभिमंत्र्यतेनोदकेन मंडलं स्वात्मानं
पूजोपकरणानि चाभ्युक्ष्य ।।
तत्र ।। ओं मं मंडूकाय नमः ।। एवं - कालाग्निरुद्राय नमः ।। मूल
प्रकृत्यै नमः ।। आधारशक्तये-कूर्माय-अनंताय-वराहाय-पृथिव्यै-
क्षीरसमुद्रायन-श्वेतद्विपाय-कल्पवाटिकायै-मणिमंडपाय नमः
रत्नवेदिकायै-रत्नसिंहासनाय नमः इत्युपर्युपरिसंपूज्य । चतुरस्रे
पूर्वादि चतुर्दिक्षु मध्ये च । ओं प्रं प्रभूताय नमः ।। विमलाय न०
साराय न० समाराध्याय० मध्ये-परमसुखाय- तत्र ।। आग्नेयादि कोणेषु
।। ओं धं धर्माय-ज्ञानाय-वैराग्याय-ऐश्वर्याय-ततः
स्वाग्रादिचतुर्दिक्षु- ओं अं अधर्माय नमः ।।
अज्ञानाय-अवैराग्याय-
प्. २७ब्)
अनैश्वर्याय-मध्ये-अनंताय-पद्माय-आनंदकंदाय-संविन्नालाय-
पकृतिमयपत्रेभ्यो-विकारमयकेसरेभ्यो-पंचाशद्वर्णबीजाढ्य
सर्वतत्वरूपायै कर्णिकायै नमः ।। संसत्वाय- रं रजसे- तं तमसे- आं
आत्मने- अं अंतरात्मने- पं परमात्मने ।।
ह्रीं ज्ञानात्मने- मं वह्नि मंडलाय- उं सोममंडलाय- अं
अर्कमंडलाय- ततोष्ठदलकेरेषु-मध्ये च ।। रांदीप्तायै- रीं
सूक्ष्मायै- रू जयायै- रें भद्रायै- रैं विभूत्यै- रों विमलायै- रौं
अमोघायै- रं विद्यूतायै- मध्ये रः सर्वतो मुख्यै० ।। इति पीठशक्तीः
संपूज्य- ओं ब्रह्मविष्णुशिवात्मकाय सौराय योगपीठाय नमः ।। इति
पीठं संपूज्य- तत्कर्णिकायां पूर्वादि चतुर्दिक्षु- ओं उं उषायै नमः ।
ओं प्रंपज्ञायै० ओं प्रंम्रभायै० ओं संध्यायै० इति चतुशक्तिः संपूज्य०
मार्त्तंडभैरव मंत्रमुच्चार्य० श्रीमार्त्तंडभैरव मूर्त्ति
कल्पयामीति मध्ये मूर्ति० परिकल्प्य पुनर्मंत्रमुच्चार्य०
मार्त्तंडभैरव मूर्त्तये नमः इति मूर्ति संपूज्य कराभ्यां
पुष्पांजलिमादाय
प्. २८अ)
हृदयकमले देवं तेजोरूपं ध्यात्वा सुषुम्णामार्गेण वहन्नासा
पुटाध्वना तत्तेजः करस्थ पुष्पांजलावानीय सूर्यमंत्रमूच्चार्य
भगवन् सूर्य इहागछागछति तस्यां मूर्तौ पुष्पांजलि क्षेपेण तत्तेजः
(करस्थ पुष्पां) समावाह्य यथोक्त रूपं देवं ध्यात्वा
पूर्वोक्त षडंगन्यासेन सकलीकृत्य प्राणप्रतिष्ठां विधाय । पद्मबिंब
मुद्रे प्रदर्श्य सूर्य मंत्रमुच्चार्य श्रीमार्तंडभैरव एतत्ते आसनं
नमः ।। एवं एषते अर्घ्यः स्वाहा मुर्द्ध्नि ।। एतत्ते पाद्यं नमः पादयोः ।।
एतत्ते आचमनीयं सुधेति मुखे ।। एषते मधुपर्कः । सुधेति मुखे ।। एतत्ते
आचमनीयं सुधेति मुखे ।। एवं स्नानं नमः ।। आचमनीयं सुधेति मुखे
।। वाससा नमः ।। आचमनीयं सुधा मुखे ।। उपवीतं नमः आचम० सुधा
मुखे ।। अलंकारो नमः गंधो नमः पुष्पाणि वौषट् इति
पुष्पांतानुपचारान् दत्वा ।। अथावरण पूजां कुर्यात् ।। सायथा ।।
कर्णिकायां पूर्वादि चतुर्दिक्षु ओं १ ह्यरं सूर्याय नमः ।। ओं २ ह्यरी
भास्कराय नमः । ओं ३ ह्यरं भानवे नमः । ओं ३ ह्यरें रवये नमः ।।
प्. २८ब्)
तत आग्नेयादि चतुर्दिक्षु- ओं ३ ह्यरौं दिवाकराय नमः ।। इति पंचमूर्तीः
संपूज्य अष्टदलकेसरेषु । आग्नेये ।। ओं ध्रां ह्यरां ध्रां हृदयाय
नमः ।। नैर्-ऋत्ये ओं ध्रीं ह्यरीं ध्रीं शिरसे नमः । वायव्ये ।। ओं ध्रुं
ह्यरूं ध्रूं शिखायै नमः ।। इशान्ये । ओं ध्रै ह्यरैं ध्रैं कवचाय
नमः पूर्वादि चतुर्दिक्षु । ओं ध्रः ह्यरः ध्रः अस्त्राय नमः ।। देवाग्रे ।। ओं
ध्रौ ह्यरौं ध्रौं नेत्रत्रयाय नमः ।। ततोष्ट दलेषु ।।
देवाग्रदलमारभ्य- ओं सों सोमाय नमः ।। ओं मं मंगलाय नमः ।। ओं
बुं बुधाय नमः ।। ओं बृं बृहस्पतये नमः ।। ओं शुं शुकाय नमः ।। ओं
शं शनैश्चराय नमः ।। ओं रां राहवे नमः ।। ओं कें केतवे नमः ।
तद्बाह्ये दिक्पालांस्तदा युधाअनि च पूजयेत् ।। ओं लं इंद्राय नमः । एवं
रं अग्नये नमः ।। ट यमाय नमः । क्षं नै-ऋतये नमः । वं वरुणाय
नमः ।। यं वायवे नमः ।। सं सोमाय नमः ।। हं ईशानाय नमः ।।
ईंद्रेशानयोर्मध्ये - निर्-ऋति वरुणयोर्मध्ये च ।। आं ब्रह्मणे । ह्री
अनंताय० ततो दिक्पालानां पार्श्वेषु० वं वज्राय न० शं शंक्त्यै- दं
दंडाय न० खं खड्गाय० पां पाशाय० अं अकुशाय न० गं गादायै
नमः त्रिं त्रिशूलाय नमः पं पद्माय नमः चंक्राय नमः
इत्थमावरणानि संपूज्य ।। धूपदीपनैवेद्यादीनि दत्वा स्वपुरतो
प्. २९अ)
वृत्ताकारं मंडलं निर्माय-मार्त्तंडभैरवार्घमंडलाय नमः
इति मंडलं संपूज्य ।। प्रस्थमात्र
जलग्राहिताम्राद्यन्यतममस्त्रक्षालितं पात्रं साधारं तत्र निधाय -
सूर्यमंडलत्वेन ध्यायन् सूर्यमंत्रं जपन शुद्धोदकैः संपूर्य
कुशतिलश्यामाककुंकुमचंदनरोचनाकरवीरपुष्पाणि निक्षिप्य
कुशैराछाद्य- ध्रिं ह्यरौ ध्रिं ३ इति सूर्यमंत्र अष्टोत्तरशतवारं
जप्त्वा पात्रं स्पृशन् जपित्वा मार्त्तंडभैरवं ध्यायन्
जानुभ्यामवनींगतः करांभ्यां तत्पात्रमामस्तकमुत्थाप्य-ध्रिं
ह्यरौं ध्रिं श्रीमार्त्तंडभैरवाय प्रकाशशक्ति सहिताय द्वादश
कलात्मने सग्रहराशिनक्षत्रतिथिवारयोगकरण परिवृत्तसन संस्थिताय
श्रीसूर्यायार्घं समर्पयामि स्वाहेति मंत्रेणार्घ्यं दत्वा
महामुद्रया स्वदृष्टि पथमाछाद्यमार्त्तंडभैरवं तदर्घामृत
परिप्लुतं विभावन् पूर्वोक्त सूर्यमंत्रेण पुष्पांजलिं दत्वा
प्राणायामादि पूर्वकं सूमंत्रं यथाशक्तिं जपित्वा प्राणायामादि
पूर्वकं जपं समर्प्य स्तुत्वा प्रणम्य
प्. २९ब्)
क्षमस्वेति मार्त्तंडभैरवं खे विसृज्य इशान्ये तेजश्चंडाय नम इति
निर्माल्यं क्षिपेत् ।।
इति सूर्यार्घ्य दान विधिः ।।
अयं मुख्य कल्पः ।।
तदशक्तौ सूर्यमंडल एव व्योम्नि सावरणं मार्त्तंडभैरवं
ध्यायन् यथोक्त विधिना अर्घं दद्यादिति मध्यमः कलपः ।। केवल मंत्र
मात्रेण अर्घ्यदानं दत्वा यत्कल्यः ।। एवं पूजाया पूर्वं सूर्यार्घ्य
दानमावस्यकमिति ।।
ततः शि * पूजां कृत्वा मंडपद्वार पूजां कूर्वीत ।। तत्र पार्थिवं
सर्वसिद्धिदमित्युक्तेः पार्थिवलिंगपूजनं प्रशस्तं ।। तत्पूजन प्रकारस्तु
गोमयोपलिप्तेशु चौदेशे प्राक् सूर्य पूजोक्त विधिना स्वासनं संपूज्य
तत्रोदऽऽन्मुख उपविश्याद्येत्यादि तिथ्युल्लेखनांते
श्रीपरदेवतार्चनाधिकारार्थं पार्थिवलिंग पूजमहं करिष्ये । इति
संकल्प्य ।।
ओं सर्वाधारधरे देवि त्वद्रूपामृतिकामिमां ।।
गृहिष्यामि प्रसन्ना त्वं लिंगार्थ भव सुप्रभे ।। १ ।।
इति भूमिं प्रार्थ्यं - ओं हराय नमः । इति शुचिच्छानात् शुभ्रां
सुस्निगधांमृदमादाय- संशोध्य ओं महेश्वराय नमः इति
संघट्टनं
प्. ३०अ)
विधाय० स्वपुरतः ओं शूलपाणये नमः इति पीठादौ संच्छाप्य०
पुष्पांजलिमादाय हृदि तेजोरूपं देवं ध्यात्वा वहन्नासाध्वना
बहिर्निःसार्यकरस्थ पुष्पांजलौ तत्तेजः संयोज्य ओं पिनाक धृक् इहा
गछागछेति तस्मिन् लिंगे पुष्पांजलि क्षेपेणावाह्य० ओं शूलपाणे । इह तिष्ठ
तिष्ठेति संस्थाप्य ओं पशुपतय नम इति शुद्धे जलैः स्नापयित्वा ओं शिवाय
नम इति गंधपुष्पाणि निवेद्य वेद्यादामावर्त्तेन स्वाग्रमारभ्य- ओं
शर्वाय क्षिति मूर्तय नमः ।। ओं भवाय जल मूर्त्तय नमः ।। ओं रुद्राय अग्नि
मूर्त्तय नमः ।। ओं उग्राय वायुमूर्त्तय नमः ।। ओं भीमाय
आकाशमूर्त्तय नमः ।। ओं पशुपते यजमान मूर्त्तय नमः ।।
ओं महादेवाय सोममूर्त्तय नमः ।। ओं ईशानाय सूर्यमूर्त्तय नमः ।। इति
संपूज्य० प्रणालिकायां ओं ह्रीं उमायै नमः ।। इति पूजयेत् ।। ततः
सांगाय सपरिवाराय श्रीशिवाय नमः ।। इति त्रि० संपूज्य० ओं शिवाय नम
इति त्रिर्धूपादि तांबुलां तानुपचारान् दत्वा ।।
ओं सर्वज्ञज्ञानविज्ञान प्रदानैक महात्मने ।।
प्. ३०ब्)
नमस्ते देव देवेश सर्वभूत हितेरत ।। १ ।।
अनंत कीर्ति संपन्न अनेकासन संस्थित ।।
अनंत कांति संप्रोग परमेश नमोस्तुते ।। २ ।।
परापरपरातीत उत्पत्तिस्थितिका ।
सर्वार्थ साधनोपाय विश्वेश्वर नमोस्तुते ।। ३ ।।
स्वभाव निर्मला भोग सर्वव्याधि विनाशन ।
योगि योगि महायोगि योगेश्वर नमो * स्ते ।। ४ ।।
कृत्वा लिंग प्रतिष्ठां तु स्तवमेनमुदीरयेत् ।।
लिंग स्तवं महापुन्यं यः शुणोति सदा नर ।। ५ ।।
नोत्पद्यते च संसारे स्थानं प्राप्नोति शाश्वतं ।।
तस्मात्सर्वप्रयत्नेन शृणुयाल्लिंगसंस्तवं ।। ६ ।।
पाप कंचुक निर्मुक्तः प्राप्नोति परमं पदं ।।
इति स्तुत्वा एकाग्रमनाऽमंत्रं पठेत् ।।
अंगहिनं क्रियाहीनं विधिहीनं महेश्वर ।।
पूजितोसि मया देव तत्क्षमस्व म्रमात् कृतं ।। १ ।।
यद्यप्युपहःतैरपास्तैर्भावदूषितैः ।।
केश किटपविद्धैश्च पूजितोसि मया प्रभो ।। २ ।।
अन्यत्रासक्त चित्तेन क्रियाहिनेन वा प्रभो ।।
मनोवाक्काय दुष्टेन पूजितोसि त्रिलोचन ।। ३ ।।
यच्चोपहत पात्रेण कृतमर्घादिकं मया ।।
तामसे न च भावेन तत्क्षमस्व मम प्रभो ।। ४ ।।
प्. ३१अ)
मंत्रेणाक्षर हीनेन पुष्पेन विफलेन च ।।
पूजितोसि महादेव तत्सर्वं क्षम्यतां मम ।। ५ ।।
व्रतं संपूर्णतां यातु फलं चाक्षययमस्तु मे ।।
इति पठीत्वा प्रदक्षिणा नमस्कारैः सम्यक् परितोष्य श्रीमहादेव क्षमस्वेति
स्वात्मनि संहारमुद्रया विसृज्य निर्माल्यमादाये० ४ चंडेश्वराय नम इति
इशानकोणे निक्षिप्य तत् लिंगं निर्माल्यपुष्पार्चादिकं च जलध्ये नद्यादौ
विसृजेत् । अत्र पार्थिव लिंग पूजायां पार्थिव लिंगं यथा यथा बृहत्तथा
तथा फलंकं बाहुल्यं० यथा यथा सूक्ष्मं तथा तथा फलमल्पं ।।
सूक्ष्मेपि पलत्रयान्यूनं न कर्यमिति पार्थिव लिंग पूजन प्रकारः ।।
अथ द्वारपूजा ।।
तत्र स्वर्ण प्राकारस्य पूर्वद्वारेणांतः प्रविश्य प्रादक्षिणेन
मंडपस्य पश्चिमद्वारं गत्वा तदारभ्य मणिमंडपं
प्रदक्षिणीकृत्य पश्चिमद्वारेणांतं प्रविश्य साधकः पूजयेद्देवीमिति
क्रमस्ते नैव क्रमेण द्वारपूजनमिति ।। यागमंडपस्य प्राकारासंभवे
मंडपस्य द्वाराग्रस्तदसंभवे
प्. ३१ब्)
यागमंडपस्य पश्चिमे द्वारे मंडपासंभवगोमयोपलिप्तायाः
यागभूमेः पश्चिमे भागे क्वापि स्थित्वा सामान्यार्घं विद्यायैवं
कल्पयित्वा क्रमेण पूजये ।। तद्यथा ।।
कोटि कोटि योजन विस्तीर्ण सुधार्णव चतुष्टयांतर्गतं कोटियोजन विस्तरां
यामं महाद्भूतं नवरत्न मयं द्वीपं सहस्रादित्य तेजसं तन्मध्य
तृतीयांशे मदनोन्मादनं नाम नानापुष्पलताकुलं कदंबकान् न
गर्भं नंदनोद्यानं तन्मध्य तृतीयांशे कोटि सूर्य प्रतीकाशं ज्वलत्
स्वर्ण प्राकार वेष्टितं नाना सुरभिशालित्तोरणद्वार नानारत्नमंडितं
परितः सेवार्थ मायातेंद्रादि देवगण समाकुलं माणिक्यमयं
श्रीमंडतं ध्यात्वा सामान्यार्घोदकेनाभ्युक्ष्य पुष्पादिभिः क्रमेण
पूजयेत् ।। तद्यथा ।। ४ सुधार्णव चतुष्टयाय नमः ।। ४ अं ५१ नवखंड
विराजिताय नवरत्न द्विपाय नमः ।। ४ नंदनोद्यनाय नमः ।। ४ स्वर्ण
प्राकाराय नमः ।। तद्वारस्य दक्षिणोत्तर शाखयोरुपर्यधश्च ४ गं
गणेशाय नमः ।। ४ क्षें क्षेत्रपालाय नमः ।। ४ द्वां द्वार श्रियै नमः ।।
४ देहल्यै नमः ।। इति संपूज्य ।।
प्. ३२अ)
प्राकारांतः प्रविश्य प्रदक्षिण कमेणेंद्रादि दशदिक्पालान् स्वस्वदिशि
संपूज्य मणिमंडपस्य पश्चिमद्वारं गत्वा सामान्यार्घं
वक्ष्यमाणविधिना संस्थाप्य तेनोदकेनास्त्रमंत्रेण
तोरणद्वारमभ्युक्ष्य सामान्यार्घ करणाशक्तौ ताम्रादि पात्रस्थ जलं
मूलेनाष्टवारमभिमंत्र्यधेनुमुद्रायामृतीकृत्य तेनोदकेन वा
प्रोक्षयेत् ।।
ततः ४ कदंबकाननाय ।। तद्दक्षिणे ४ कामदेवरतिभ्यां ।।
तदुत्तरे ४ वसंत प्रीतीभ्यां नमः ।। इति संपूज्य ।। ४ श्रीरत्नमंडपाय
नमः ।। इति मंडपां संपूज्यतोरणद्वारस्य पश्चिमभागे
द्वाराभिमुखमुपविष्टां वाराहीं वक्षमानरूपां ध्यात्वा ।
तद्विप्रया तां संपूज्य तद्वारमस्त्रेणाभ्युक्ष्यद्वारस्योर्ध्व
शाखायां दक्षिणे ४ मां महालक्ष्म्यै नमः ।। वामे ४ सं सरस्वत्यै
नमः ।। मध्ये ४ दुं दुर्गायै नमः ।। ४ द्वां द्वारश्रियै नमः ।। द्वारस्य
दक्षिणवाम शाखयोरधोधः क्रमेण ४ शं
शंखनिधिवसुधाराभ्यां नमः ।। ४ पं पद्मनिधवसुमतीभ्यां
नमः ।। ४ गं गणपतये नमः ।। ४ क्षें क्षेत्रपालाय नमः ।। ४ मां
माया शक्त्यै नमः ।। ४
प्. ३२ब्)
चिं चिछक्त्यै नमः ।। ४ गं गंगायै नमः ।। ४ यं यमुनायै नमः ।। ४
धं धात्रे० ४ विं विधात्रे० दहल्यां० दें देहल्यै० द्वाराग्रे ४ वं
वरुणाय नमः इति पश्चिमद्वारं संपूज्य ।। तत्रोत्तर द्वारं गत्वा०
तथैवाभ्युक्ष्य तस्योर्ध्व शाखायां दक्षिणवामपार्श्वे योः प्राग्वन
महालक्ष्मीरत्यस्वत्यौ संपूज्य मध्ये ४ बं बटुकाय नमः ।। ४ द्वां
द्वारश्रियै० पुनः पूर्ववत् शंखनिध्यादि देहल्यं तं संपूज्य
द्वाराग्रे ४ सों सोमाय नमः ।। इति संपूज्य ।।
ततः पूर्वद्वारं गत्वा तथैवाभ्युक्ष्य तस्योर्ध्वशाखायां
दक्षिणवामपार्श्वयोः प्राग्वन्महालक्ष्मी * रस्वत्यौ संपूज्य० मध्ये० ४
क्षें क्षेत्रपालाय नमः ।। ४ द्वां द्वारश्रियै नमः ।। पुनः
प्राग्वछंखनिध्यादि देहल्यं तं संपूज्य० द्वाराग्रे ४ लं इंद्राय
नमः । ततो दक्षिणद्वारं गत्वार्घोदकेनाभ्युक्ष्य तदूर्ध्व शाखायां
दक्षिणवामपार्श्वयोः प्राग्वन्महालक्ष्मी सरस्वत्यौ संपूज्य० मध्ये०
४ ग्लैं गणनाथाय नमः । ४ द्वां द्वारश्रियै नमः ।। इति संपूज्य ।
द्वारशाखयोः प्राग्वछंस्वनिध्यादि देहल्यं तं संपूज्य द्वाराग्रे
४ टं यमाय० ततः पुनः
प्. ३३अ)
पश्चिमद्वारं गत्वा वामपादपरःसरं तत्तोरणांतः प्रविश्य ।। ४
रत्नसोपान पंक्तये नमः इति सोपानपंक्तिं संपूज्य० तामारुह्य
मंडपस्य पश्चिमद्वारादि चतुर्द्वारेषु पंचस्थ देवताः संपूजयेत् ।।
तत्र प्रथमंरस्कारणीं ।।
श्यामवर्णां मदाघूर्णा रक्तनेत्रत्रयान्वितां ।।
कृष्णांबरां गदां खड्गं दधतीं च भुजद्वये ।। १ ।।
दोर्भ्यो मनोहराभ्यां च खर्जूरी कुभधारिणीं ।।
नीलं तुरंगमारुढां प्रौढां पीनघनस्तनी ।। २ ।।
मुक्तकेशीं विवसनां सर्वालंकारभूषितां ।।
स्वयोनिदर्शनान्मुह्य सशुवर्गान्ननुस्मरेत् ।। ३ ।।
कृष्णांबरामिति कृष्णवर्ण प्रछदपटां ।
विवसनामधोवस्त्र रहितां । खर्जूरी कुंभधारिणी खर्जूर सभरित
कुंभ धारिणीमित्यर्थः ।। दक्षाद्यूर्ध्वयोराघे अथस्थयोः कुंभमिति
ध्यात्वा पश्चिमद्वाराग्रे किंचिद्बहिः ४ ऐं नमो भगवति माहेश्वरि
पशुजन मनश्चक्षुस्तिरस्करणं कुरु कुरु स्वाहा ।। तिरस्करणी देवी
श्रीपादुकां० ।। इति संपूज्य मंचस्थ देवताः पूजयेत् ।। तत्पूजा क्रम
उड्डीश मते ।।
सरस्वतीं रमां चैव पश्चिमे परिपूजयेत् ।।
प्. ३३ब्)
मायां दुर्गां दक्षिणे तु पूजयेत् परमेश्वरि ।। १ ।।
भद्रकालीं ततः स्वस्तिं पूर्वे च परिकल्पयेत् ।।
स्वाहां शुभंकरीं गौरीं यक्षे च परिपूजयेत् ।। २ ।।
वागीशीं लोकधात्रीं च दक्ष पश्चिमद्वारके ।।
एतामंच स्थिताः पूज्या यथानुक्रमयोगतः ।। ३ ।।
इति ।। अथैतासां पूजा यथा ।। पश्चिमद्वारस्य वामभागे ।। ४ सां
सरस्वतीश्री० दक्षिणभागे ४ मां महालक्ष्मीशी० ततो दक्षिणद्वारि ।
वामभागे ४ मां मायाश्री० दक्षणभागे ४ दुं दुर्गाश्री० ततः
पूर्वद्वारि ।। वामे ४ भद्रकालीश्री० दक्षे ४ स्वं स्वस्तिश्री० तत उत्तरद्वारे०
वामे ४ स्वां स्वाहाश्री० दक्षे० ४ शुं शुभंकरीश्री० द्वाराग्रे० ४ गौ
गौरीश्री० पुनर्दक्षिणद्वारं गत्वा तद्वाराग्रे ४ लों लोकधात्रीश्री० ततः
पश्चिमद्वारं गत्वा द्वाराग्रे० ४ वां वागीश्वरीश्री० इति संपूज ।।
पालितं बहुरिंद्राद्यैः परमैश्वर्य शोभितं ।।
प्रपद्ये पश्चिमद्वारं भवान्यामंदिरं महत् ।। १ ।।
इति ध्यात्वा ४ पश्चिमद्वाराय मंडपाय नम इति मंडपं संपूज्य०
तालत्रय पूर्वकं तद्वारमुरघाटय
प्. ३४अ)
सिद्धार्थाक्षतभस्मकुशकुसुमानि नाराचास्त्रप्रयोगेण ४
अपक्रांमं तु भूतानि पि शाचाः प्रेत गुह्यकाः ।।
ये चात्र निवसंत्यन्ये देवताभूविसंस्थिताः ।। १ ।।
अपसर्पंतु ये भूता ये भूता भूवि संस्थिताः ।।
ये भूता विघ्नकर्त्तारस्ते नस्यंतु शिवाज्ञया ।। २ ।।
इत्यंते अस्त्रमुच्चरणूमंदपांतः प्रक्षिप्य तस्मिन्निर्गछतां
विघ्नसंधानां स्ववामांगसंकोचेन मार्गं दत्वा त्रिविध
विघ्नानुत्सारयेत् ।। तद्यथा ।। ४
र्या खंडकारिणो भूत्वा भूमौ ये चांतरिगाः ।।
दिवि लोके स्थिता ये च ते नश्यंतु शिवाज्ञया ।। १ ।।
इत्यंते अस्त्र मुच्चरन् वामपार्ष्णिघातत्रयेण भौमानूर्ध्वोर्ध्व
तालत्रयेणांतरिक्षगान् तीक्ष्णदृष्ट्यवलोकनेन दिव्यान् विघ्नानुत्सार्य०
वामपादपुरःसरं मंडपांतः प्रविदिति द्वारपूजा ।। अत्र प्रतिद्वार
गमना संभवे पश्चि * द्वार एव स्थित्वा तत्तद्वाराणि कल्पयित्वा पूजयेत् ।।
अथ यथाक्रमं द्वार देवतानां ध्यानं लिख्यते ।।
पद्मद्वय वरामीति भास्वत्यागि चतुष्टयां ।।
पद्मवर्णां त्यजेत्पद्मां पद्मांक्षीं पद्मवासिनीं ।। १ ।।
प्. ३४ब्)
अक्षस्रक् पुस्तकधरा पूर्णचंद्र समद्यूतिः ।।
विश्वविद्या मयी देवी भारती भास्वतां मयि ।। २ ।।
शंखचकांकिंतकरा कुमारी कुटिलालता ।।
मृगेंद्रवाहना देवी दुर्गा दुर्गाणि हंतु मे ।। ३ ।।
तप्तकार्त्र स्वराभासा दिव्यरत्नविभूषिता ।।
द्वार श्रीरूर्ध्व पद्मस्था वराभय करांबुजा ।। ४ ।।
मुक्ता माणिक्य संकाशौ किंचित् स्मित मुखांबुजौ ।
अन्योन्या लिंगन परौ शंखपंकजधारिणौ ।। ५ ।।
विगलद्रत्न वर्षाभ्यां शंखाभ्यामूर्ध्नि लांछितौ ।।
शंखासन समासीनौ विश्वसंकल्पकल्पकौ ।। ६ ।।
तुंदिलं कंबुक निधिं वसुधारां घनस्तनीं ।।
वामतः पंकज निधिं प्रियया सहितं यजेत् ।। ७ ।।
सिंदूभौ भुजाश्लिष्टौ रत्नपद्मोत्पलान्वितौ ।।
निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूद्ध्नि लांछितौ ।। ८ ।।
पद्मासनसमासीनौ विश्वसंकल्प कल्पकौ ।।
तुंदिलं पंकज निधिं तन्वीं वसुमतीमपि ।। ९ ।।
पलाशपाटलछायं रमणीयं रति प्रियं ।।
पुंड्रेक्षु ४ चाप पुष्पेषु मंतं वदे मनोभवं ।। १० ।।
प्रपद्ये प्रीति दयितं पूर्णेंदु सदृशं विभुं ।।
वसंतं नंदनोद्याने वसंतं ततोत्स्ववं ।। ११ ।।
पाशांकुश फलांभोज पाणि पाटल तुंदिलं ।।
प्. ३५अ)
वीरं विघ्नेश्वरं वंदे गजवक्रं त्रिलोचनं ।। १२ ।।
कपालशूलौ बिभ्राणं कृपालुं कृष्णविग्रहं ।।
तीक्ष्णं त्र्यक्षं समर्चामि क्षेत्रेशं क्षत विद्विषं ।। १३ ।।
वराभय करां सौम्यां सोमकोटिसमप्रभां ।।
भजे गंगां महादेव्याः पाद्योदक तरंगिणीं ।। १४ ।।
वाम पादार्घसंभूतां परदेव्यास्तरंगिणीं ।।
वराभयकरां वंदे कालिंदिं कालविग्रहां ।। १५ ।।
भत्तारं जगतां वदे शंखं चक्रं गदांबुजं ।।
विभ्राणं गरुडा रूढं धातारं कृष्णविग्रहं ।। १६ ।।
रक्तं रक्तारविंदस्थं वराभयकमंडलुं ।
हंसारूढविधातारं वदेऽक्ष स्रक् समन्वितं ।। १७ ।।
सिंहारूढां श्यामलांगीं खड्गखेटकधारिणीं ।।
अधस्थां देहलीं वंदे पश्चिमास्यासुरक्षिणीं ।। १८ ।।
पाशाभयधरं वंदे पूर्णेंदु सदृशछवीं ।।
वरुणं मकरारूढं द्वारेश्रीपारदैवते ।। १९ ।।
कर कलित कपालः कुंडली दंडपाणिस्तरुण तिमिर नीलोव्यालयज्ञोपवीती ।।
क्रम समय सपर्या विघ्नविध्वंस हेतुर्जयति बटुकनाथः सिद्धिदः
साधकानां ।। २० ।।
धूम्रवर्णो गदाहस्तः कुबेरो नरवाहनः ।।
सौम्य द्वाराधिपः पायात्परदेव्या धनेश्वरः ।। २१ ।।
प्. ३५ब्)
व्यालव्यग्रजटाधरं त्रिनयनं नीलांजनाद्रि प्रभं दोर्दडात्त गदा
कपालमरुणस्रग्वस्त्रगंधोज्वलं ।।
घंटाघुर्घुरमेखलाध्वनिमिलद्धूंकारभीमं विभुं
वंदेहंसितसर्पकुमंडलधरं तं क्षेत्रपालं सदा ।। २२ ।।
सितो गजास्यः परशुं दंतंपाशं त्रिशूलकं ।।
भुजैश्चतुभिर्बिभ्राणो मूषकोपरिसंस्थितः ।। २३ ।।
पूर्वद्वाराधिपः शक्रः परदेव्या (धनेश्वरः ।।) सुपीतकः ।।
वज्रहस्तः सहस्राक्षः पायादैरावतः स्थितः ।। २४ ।।
गणेशश्यामवर्णं च चतुर्बाहुं दिगंबरं ।।
वामदक्षोर्ध्व बाहुभ्यां पाशांकुंश धरं तथा ।। २५ ।।
दक्षिणाधः करेणैव मधुपूर्णं कपालकं ।।
दधानं वामहस्तेन देव्यामदनमंदिरं ।। २६ ।।
स्पृशन्वामांग संस्थाया रक्ताया दक्ष पाणिना ।।
आत्मयोनौन्यस्तलिंगं पद्मं वामेन पाणिना ।। २७ ।।
दधत्याः शुंडया योनिं जिघ्रन् ध्यात्वा प्रपूजयेत् ।।
नीलांजन चयप्रख्यं यमं महिष वाहनं ।। २८ ।।
दंडमंडितदोर्दंडं दक्षद्वाराधिपं भजे ।।
अथ मंचस्थ देवता ध्यानं ।।
प्. ३६अ)
अक्षस्रक् पुस्तकाभीतीर्दधानां बहुभिर्वरं ।।
त्रिलोचनां स्मरेद् देवीं सर्वशुक्लां सरस्वतीं ।। २९ ।।
पद्मद्वय वराभीति भास्वत्पाणि चतुष्टयां ।।
निर्दग्ध हेम गौरांगीं महालक्ष्मीं त्रिलोचना ।। ३० ।।
वरांकुशौ पाशमभीति शुलौकरैर्दन्यंभवभावमूलं ।।
घनाघनौघ प्रभदेह कांतिं मायां त्रिनेत्रां मनिशं स्मरामि ।। ३१

शंखचक्रधनुर्बाणा च धारयंती त्रिलोचनां ।।
दूर्वादलनिभां वंदे दूर्गां दूर्गार्ति नाशिनीं ।। ३२ ।।
कपालं खेटकं खड्गं त्रिशूलं बिभ्रतीं करैः ।।
भिन्नांजन चयप्रख्यां भद्रकालीं नमाम्यहं ।। ३३ ।।
शक्ति स्वस्तिक मुद्राभी हस्तां चंद्र समप्रभां ।।
त्रिनेत्रां संस्मरेद्देवीं स्वस्तिं स्वस्ति करीं परां ।। ३४ ।।
रक्तोत्पल द्वंद्व वराभयानिकरैर्बहंतीं स्मितशोभिवक्त्रीं ।।
रक्तां त्रिनेत्रामरुणांबराढ्यां स्वाहां भजे देवगणाभिवंद्यां ।।
३५ ।।
शालि कल्पलताशार्ऽऽन बाणपाणि चतुष्टया ।
ज्वलत्कांचन वर्णाभा शुभं कुर्याछुभंकरी ।। ३६ ।।
पाशांकुश वराभीतीर्बिभ्रत्तीमरुणप्रभां ।।
प्. ३६ब्)
त्रिनेत्रां मातरं वंदे गौरीं रक्तांबरो ज्वलां ।। ३७ ।।
नाघुसलवराभीतिर्बिभ्रतीं कांचनप्रभां ।।
मातरं दिव्यरत्नांगीं लोकधात्री नमाम्यहं ।। ३८ ।।
श्वेतां श्वेतांबरां श्वेत भूषणस्रग्विलेपनां ।।
पद्मद्वय वरादर्श करां वागीश्वरीं भजे ।। ३९ ।।
इति श्रीपरदेवताया मंडपद्वाराधि देवतानां ध्यानं ।।
इत्थं द्वार देवताः ध्यायन् पूजयेदिति ।।
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना श्रीश्रीविद्यानंदनाथेन
विरचिते सौभाग्यरत्नाकरे द्वितीयस्तरंगः ।। २ ।।
ततो मंडपांतः प्रविश्य वस्त्रेण द्वारमाछाद्य घंटावादन
पूर्वकं पंचगव्यार्घतोयाभ्यामस्त्रमंत्रेण मंडपांतः प्रोक्ष्य
नानावर्णरजश्चित्रैः पुष्पमालावितानाद्यैर्मंडपमलंकृत्य
लाक्षासिंदूरादिभिर्भित्तिस्तंभादिकमरुणीकृत्य वेदी परितश्चि स्थायिनः
प्रदीपान् प्रज्वाल्य कालागुर्वादिभिर्धूपयित्वा तदभावे तादृशं ध्यात्वा
ततो मंडपस्य । नैर्-ऋति कोणे ।। ४ वास्तु पुरु शांय नमः ।। ४
वास्त्वधीश्वराय ब्रह्मणे नमः ।।
प्. ३७अ)
ईशान भागे ।। ४ कुलनाथ पादुकां पूजयामि ।। ४ रक्तवर्ण द्वारौ
दशशक्ति सहित श्रीदीपनाथ पादुकां पू० । इति दीपनाथं संपूज्य ।।
अस्मिन् क्षेत्रे दीपनाथ निर्विघ्नं सिद्धिहेतवे ।।
श्रीचक्रक्रमपूजार्थमनुज्ञां दीयतां ममी ।। १ ।।
इति दीपनाथाज्ञां प्रार्थ्य ।। ततः पश्चिमादि द्वारचतुष्टये मध्ये च ।।
दूतर्यंबा श्रीपादुकां पूजयामि ।। ४ (पूर्वोक्त विपरी)तकृत् ।।
फलकायां पटेभित्तौ स्थापयेत्त कदाचन ।।
स्थापितं यदि मोहेन लोभेनाज्ञानतोपि वा ।।
कुलंवित्तमपत्यं च निर्मूलयति सर्वथेति ।। तथा लक्षसागरे ।। वंगेथ
सीसके लोहेन कर्त्तव्यं कदाचनेति ।। श्रीचक्रस्थ पीठमानं
द्रव्यप्रमाणं चाह ।। कूल मूलावतारे ।।
अग्निरंगुलविस्तारं प्राक् प्रत्यक् दक्षिणोत्तरां ।
पल प्रमाणं कर्तव्यमर्चा पिठं मनोहरं ।।
यवार्द्धाच्चं प्रकुर्वीत चतुरस्रं समंततः ।।
तस्मिन् पीठे च निर्माणं श्रीचक्रस्य तु कारयेत् ।। इति ।।
लक्ष सागरे ।।
(अग्निरंगुलं हेमस्य रजतस्य तथैव च ।।
ताम्रस्य पूर्वसंख्यैव माणिक्यादौ यथेछया ।।)
प्. ३७ब्)
सुंदर्यंबाश्री० ।। ४ सुमुख्यंबाश्री० ४ विरूपांबाश्री० ४
विमलांबाश्री० ४ अंतर्यंबाश्री० ४ बदर्यंबाश्री० ४
पुरंदर्यंबाश्री० इति द्वारस्य वामदक्षिणयोर्द्वंद्वं सपूज्य ।। मध्ये
४ पुष्पमर्दिन्यंबाश्री० इति पूजयेत् ।।
ततः तीक्ष्णदंष्ट्रमहाकाय कल्पांतदेहनोपमः ।।
भैरवाय नमस्तुभ्यं मनुज्ञां दातु मर्हसि ।। १ ।।
इति पठित्वा भैरवाज्ञामादाया अः पूडिति पूज्या वेदीं गत्वा ।। सिरसि ४
मेरुपृष्ठये ऋषये नमः ।। मुखे ४ सुतलायछंदसे नमः ।। हृदये ४
पृथिव्यै देवतायै नम इति विन्यस्य पृथिवी प्रार्थने विनियोगाः ।। इति
कृतांजलिरुक्वा ४
पृथ्वी त्वया धृता लोका देवित्वं विष्णुना धृता ।।
त्वं च धारय मां देवि पवित्रं कुरु चासनं ।। १ ।।
इति पृथिवीं प्रार्थ्य ।।
जपस्थानं मूलमंत्रेण वीक्ष्यास्त्रेण प्रोक्ष्यास्त्रेणैव कुशैः
त्रिःसंताड्य कवच मंत्रेणाभ्युक्ष्य वक्ष्यमासाण पीठपूजा क्रमेण
४ मं मंडूकाय नमः ।। इत्यादि कालाग्नि रुद्रादि वेदिकांतं संपूज्य ।।
तस्यां वेदिकायां यथोक्तमासनस्वासनस्थाने आस्तीर्य तदस्त्रेण प्रोक्ष्या
४ ह्रीं आधारशक्ति कमलासनाय नमः ।।
प्. ३८अ)
इत्यासनं संपूज्य तस्यासनस्याग्नेंयादि कोणेषु ४ गं गणपतये नमः ।।
४
दुं दुर्गायै नमः ।। ४ सं सरस्वत्यै नमः ।। ४ क्षें क्षेत्रपालाय नमः ।
इति संपूज्य तत्र प्राऽऽन्मुखः पद्माद्यासनेनोपविश्य रक्तगंधांबर
स्रगाभरणभूषितस्तांबूला पूरित मुखः
कर्पूरमृगनाभिसुवासितांबरोस्यांगः प्रमुदित चित्तः शिवोहमिति
विभावयन् स्वशिरसि पूर्वोक्तं मातृकाबुजं ध्यात्वा गुरूपदेश विधिना
स्वपुरतः समं भूतले निर्मित सौधादिस्थंडिले सिंदूरादिना
वक्ष्यमाणं श्रीचक्रमुद्धरेत् ।। अथवा स्वर्णादि पट्टे निर्मितं
वक्ष्यमाण विधिना प्रतिष्ठितं चंदनादि पीठे पुरतः संस्थाप्य
वक्ष्यमाण समष्टि योगिनी मंत्रेण पुष्पांजलिं क्षिपेत् ।। तत्प्रतिष्ठ
प्रकारस्तु श्रीतंत्रराजे ।।
चक्रे देव्यां तथा शिष्ये प्रतिष्ठा त्रिविधोच्यते ।।
सा च तत्वविदा कार्य संप्रदायानुरोधिना ।। १ ।।
चक्रे पूजा चक्रे । देव्या देवि मूर्तौ । तत्वविदा प्रतिष्ठा विधिज्ञेन
पूर्णाभिषिक्तेन गुरुतः प्रासानुज्ञेन । तदुक्तं तंत्रराजे ।।
गुर्वनुज्ञामृते मोहाल्लोभाद्वा कुरुते यदि ।।
प्. ३८ब्)
स पुत्रदारो निधनं प्राप्नुवंन्निरयं व्रजेत् ।। २ ।।
तस्मात् पूर्णाभिषेकेने प्रात्यानुज्ञः समाचरेत् ।। इति ।।
एवं विधेन क्रियमाणायां प्रतिष्ठायां कालविशेषस्तत्रैव ।
स्थिरे शुभग्रहोपेतेऽनुकूले गुणशालिनि ।
मूहूर्त्ते कारयेद्यद्वा पूर्णायां वा शुभोदये ।। १ ।।
अक्षरत्रय संपात दिने पूर्णा दिन त्रये ।।
प्रोक्तेषु पंच स्वन्येषु सर्वदा वा शुभोदये ।। २ ।।
पूर्णायां पौर्णमास्यां ।
अक्षरत्रय संपात दिने एकस्यैवाक्षरस्य दिनाक्षरत्वेनोदयाक्षरत्वेन च
स्थितिर्यस्मिन् दिने ।।
अन्येषु पंचपर्वसु गुरोर्जन्मदिन विद्या प्राप्ति दिन स्वजन्मदिन दर्श
गुरुमरणदिनेष्विति ।। पूर्णायां विशेषमाह ।। यद्वेति ।। पूर्वोक्त
लक्षणयुतदिनासिद्धौ पूर्णायामेव स्वात्मनः श्वासस्य शुभोदये
पक्षांतरमाह । सर्वदा वा शुभोदय इति ।। तत्र तत्व विदा कृतात्म
साक्षांत्कारेण प्रोक्त तिथिवारादिकं सर्वमनवेक्ष्य स्वात्मनः श्वासस्य
शुभोदय एवेत्यर्थः ।। कुर्यादि अयं पक्षः सिद्धविषयः ।। नान्यैः कार्यः ।
कुर्यात् प्रतिष्ठां सिद्धात्मानत्वन्योज्ञानगर्वित इति तत्रैवोक्त त्वात् ।।
प्. ३९अ)
तत्रापि संप्रदायानुरोधिना विदित तत्वनपि नित्यनैमितिकोपास्ति निरतेन ।।
तत्रादौ श्रीचक्राधिकरणानि० श्रीरुद्रयामले ।
ततः कुंकुमसिंदूरैः कार्यं यंत्रं तु योगिना ।।
सौवर्णो रजते ताम्रे स्फाटिके वै द्रुमे तथा ।।
चक्रे यथोक्त विधिना पूज्या देवी नरोत्तमैरिति ।। तथा च तंत्रराजे ।।
रत्ने हेमनिरूपे वा ताम्रे दृषदि च क्रमात् ।।
कृत्वा चक्रस्य निर्माणं स्थापयेत् पूजयेदपि ।।
लक्ष्मींकांतं यशः पुत्र धनारोग्यादि सिद्धये ।।
दृषदिगंडकीशिलायां ।।
गंडकी भव पाषाणे स्वर्णे रजत ताम्रयोरिति दक्षिणामूर्त्ति संहिता
वचनात् ।। अथ धातु विशेषे पूजाकाल संख्या विशेषमाह ।। रत्नसागरे ।।
यावज्जीवं सुवर्णे स्याद्रूप्ये द्वाविंशतिः प्रिये ।
ताम्रे द्वादशकं वर्षं तदर्द्ध भूर्जपत्रके ।।
इति ।। सारसंग्रहे ।।
ताम्रे द्वाद * कं वर्षं स्फाटिकादौ तु सर्वदा ।।
तेषां मध्ये स्फाटिकं तु सर्वसिद्धिप्रदं भवेत् ।।
श्रीचक्रमिति शेषः । अथाद्धिकरण विशेषे फलविशेषमाह ।। लक्षसागरे ।।
भूमौ सिंदूररजसा रचितं सर्वकामदं ।।
प्. ३९ब्)
सुवर्ण रचितं यंत्रं सर्वराज वंशंकरं ।।
रजतेन कृतं यंत्रंमायोरारोग्य कामदं ।।
ताम्रे तु रचितं यंत्रं सर्वैश्वर्य प्रदं मतं ।।
यंत्रं हि स्फाटिके देवि मनोभिलषित प्रदं ।।
माणिक्य लिखितं यंत्रं राज्यदं मुक्तिदं यतं ।।
गोमेद रचितं यंत्रं सर्वैश्वर्य प्रदं मतं ।।
कॢप्तं मरकतैर्ययंत्रं सर्वशत्रुविनाशनं ।।
लोह त्रयोद्भवं यंत्रं सर्वसिद्धिकरं मतं ।।
श्रीदेव्युवाच ।।
लोह त्रयोद्भवं यंत्रं कथं कार्यं महेश्वर ।।
तन्मे वदस्व कृपया यद्यहं तव वल्लभा ।।
श्री ईश्वर उवाच ।।
भागा दश सुवर्णस्य रजतस्य च षोडश ।।
ताम्रस्य रविभागेन पीठं कुर्यान्मनोहरं ।।
तस्मिन् पीठे तु निर्माणं श्रीचक्रस्य तु कारयेत् ।।
शांतिदं पुष्टिदं प्रोक्तं सर्वशत्रु निवर्हणं ।।
आयुरारोग्यजनकं कांतिदं पुष्टिदं मतमिति ।।
अथ चक्रस्य प्रस्तारभेदेन त्रैविध्यं तत्रैव ।।
त्रैविध्यं श्रुणु चक्रस्य भूप्रस्तारोर्ध्व मेरुकं ।।
पातालवासिनां देवि प्रस्तारो निम्न रेखकः ।।
ऊर्ध्वरेखं महेशानि मर्त्यलोक निवासिनां ।।
स्वर्गलोकाधिवासिनां यंत्रराट् मेरु संज्ञकः ।।
प्. ४०अ)
भूपुरं तु समारभ्य बैंदवांतं महेश्वरि ।।
क्रमात् समुन्नतं सर्वं मेरुरूपं मयोदितं ।।
समोर्ध्वरेखं नवकमूर्ध्वरेखं प्रकीर्तितं ।।
निम्नरेखासमायोगाद्भूप्रस्तारो प्रस्तारो मयोदितः ।।
यंत्रराज स्वरूपं ते मया स्नेहात् प्रकाशितं ।।
गोपनीयं त्वया भद्रे स्वगुह्यमिव संततमि ।।
अथै तत्प्रस्तार त्रयस्य फलानि प्रस्तारांतरं च तंत्रराजे ।।
चतुरस्रं समारभ्य नवचक्राण्यनुक्रमात् ।।
उन्नतोन्नतमा मध्याच्चक्रं स्यान्निधनं धनं ।।
त्रित्रिक्रमादुन्नत्तं तदप्रजत्वं श्रियं लभेत् ।।
एकद्वित्रिक्रमोन्नामं श्रियै कीर्त्ये च कल्पते ।।
नवानि समरूपाणि सर्वाभीष्टार्थसिद्धये ।।
तथा कुलमुलावतारे ।।
उछ्रितं क्रमशो देवि वित्तप्राप्तिस्ततोमृतिः ।।
भूचक्रं षोडशारं चाप्यष्टारं च समं भवेत् ।।
शेषमुन्नतमीशानि चार्थाप्त्य प्रजदं भवेत् ।।
चतुरस्रं समं देवि षोडशारादि बिंदुकं ।।
मिथः समुन्नतं देवि श्रियै कीर्त्यै च कल्पते ।।
चतुरस्रं समारभ्य बिंद्वतं समरेखकं ।।
तथा श्रीः कीर्तिरारोग्यममृतायोपकल्पते ।। इति ।।
प्. ४०ब्)
अथ श्रीचक्राधिकरणे निषिद्ध धातून् अन्यानि निषिद्धाधिकरणानि चाह ।।
तंत्रराजे ।।
सीसकास्यादिषु पुनः पूर्वोक्तविपरीतकृत् ।।
फलकायां पटे भित्तौ स्थापयेत्त कदाचन ।।
स्थापितं यदि मोहेन लोभेनाज्ञानतोपि वा ।।
कुलंवित्तमपत्यं च निर्मूलयति सर्वथेति ।।
तथा लक्षसागरे ।।
वंगेथसीसके लोहेन कर्तव्यं कदाचनेति ।।
श्रीचक्रस्य पीठमानं द्रव्यप्रमाणं चाह ।।
कुलमूलावतारे ।।
अग्निरंगुलविस्तारं प्राक् प्रत्यक दक्षिणोत्तरं ।।
पलप्रमाणं कर्त्तव्यमर्चापिठं मनोहरं ।।
यवार्द्धाच्चं प्रकुर्वीत चतुरस्रं समंततः ।।
तस्मिन् पीठे च निर्माणं श्रीचक्रस्य तु कारयेत् ।।
प्. ४१अ)
सौत्रामणितंत्रे ।।
रजुरेखा भवेल्लक्ष्मी वक्ररेखा दरिद्रता ।।
अग्निरंगुलविस्तारो यवार्द्धेनोछ्रिति भवेत् ।। इति ।।
लक्षसागरे ।।
अग्निरंगुलं हेमस्य रजतस्य तथैव च ।।
ताम्रस्य पूर्वसंख्यैव माणिदौ यथेछया ।।
प्. ४१ब्)
अग्निरंगुलविस्तारमिति हेमस्येति च दिव्यत्वात् ।। त्र्यंगुलविस्तारायामित्यर्थः ।।
पलं विंशत्युत्तरत्रिशतगुंजापरिमितं ।। आदि पदेन पुष्पनीलादयो
रत्नविशेषा उच्यते ।। त्र्यंगुलविस्तारस्तु मानांतरांगुलमानेन ।।
वेदिकापीठशिबिका रथादीनां विधिः पुनः । मानांतरागुलेनैव
भवेन्नान्येन केनचदिति ।। महाकपिलपंचरात्रवचनात् ।।
श्रीचक्राधिकरणस्य पीठशब्द वाच्यत्वात् पीठशब्द प्रतिपादक वचनानि
तु प्रागेव लिखितानि ।। मानांतरांगुल लक्षणं कपिल पंचरात्र एव ।।
विन्यस्तैस्तिर्ययगष्टाभिर्यवैर्मानांतरांगुलं ।।
शालिभिर्वा ऋजुन्यस्तैस्त्रिभिर्मानांतरं भवेदिति ।।
अथैतत्प्रतिष्ठाप्रकारः ।।
तत्र तंत्रराजे ।।
क्षौद्राज्य दुग्धैः प्रथमं नारिकेलांभसा ततः ।।
अभिषेच्याथ तोयेन क्वथितेनाक्षरौषधैः ।।
आवाह्याभ्यर्चतल्लग्ने चक्रे संस्थाप्य पूजयेत् ।।
नित्यात्तत्वाप्ति कालोत्थ विद्ययाभ्यर्च्यताः क्रमात् ।।
स्पृशन् जपेत् कराग्रेण श्रीचक्रं पूजयेदपि ।।
एवं दिनत्रयं कृत्वा ततो नित्यक्रमं भजेत् ।।
गंधैः पुष्पैर्नवैर्धूपै दीपैर्नैवेद्य तर्पणैः ।।
प्. ४२अ)
त्रिरात्रं पूजयेद्देवीं योगिभीः समं * * * ।।
एवं देवी प्रतिष्ठायां क्रमः सान्निध्य कारकं इति ।।
अथैतत्प्रयोगः ।।
तत्र यथोक्त मानेन निर्मितं चक्रं स्वर्णादि धातु निर्मितं चेदम्लरसेन
शुद्धं प्रक्षालितं वेदोक्त विविधिना कृताग्न्यत्तारणं क्वचित्पात्रे
संस्थाप्य तत्राग्ने दीक्षाप्रकरणे वक्ष्यमाण शुभमासपक्षर्क्ष
तिथिवारकरणमूहूर्त्त विशिष्टे साधकस्य चंद्रताराद्युनुकूले दिवसे
स्थिरलग्ने मध्वाज्य दुग्धनारिकेलजलैः पृथक् पृथगभिषिच्य सुगंध
सलिलेनाप्यभिषिंच पंचाशदक्षरौषधि क्वाथजलेनाप्यभिषिंच्य पुनः
सुगंधजलैः प्रक्षाल्य पूर्ववत् द्वारपूजादि पीठपूजांतं कृत्वा
तस्मिन् पीठे तच्चक्रं संस्थाप्य तथैव पीठ मंत्रांतं संपूज्य
तस्मिंश्चक्रे देवीमावाह्य तद्दिन नित्या विद्यया विघा तृतीयकूटेन
मूलविद्यया च प्रत्येकं त्रित्रिवारमभ्यर्च्य यथोक्त विधिनांगावरण
पूजां विधाय पूवोक्त षट्त्रिंशदुत्तर सत्यशताधिकविंशति
सहस्रसंख्याभिः कालनित्या विद्याभिश्चक्रं स्पृशन् अभिमंत्र्य पुनः
श्रीचक्र पूजा क्रमेण संपूज्य धूपदीपादि नानाविधभोज्यैर्देवीं
शक्तिसामयिकांश्च तथैव संपूज्य संतर्प्य प्रणम्य विसृजेत् ।
प्. ४२ब्)
दिनत्रयं देवीं न विसृजेत् ।। प्रत्यहं त्रिसंध्यं क्रमार्चनं च कुर्यात् । इति
प्रतिष्ठिते चक्रे नित्यार्चनादि कुर्यादिति । मूर्त्ति प्रतिष्ठायामप्येष एव
विधिर्ज्ञेयः ।। तत्र स्थिरायां विसर्जनं नास्तीति विशेषः ।। इति चक्रराजं
समुधृत्य स्ववामाग्रे वक्षमाणविधिना सर्वभूत बलिं दत्वा बलि
स्थानादूत्तरतः पक्षिराजं ध्यायेत् तद्यथा ।।
अष्टापदं पक्षति मूल राज
द्वज्रांकुरं हाटक पक्ष कूंटं ।।
हेमागमंगीकृत पद्मरागं
चंचूपुटोल्लासि मुखारविंदं ।। १ ।।
सूर्यानलेंदुद्युतिराजमानं नेत्रत्रयोल्लासितपद्मरागं ।।
नीलाश्मदीप्ताखिलरोमसंघं शीतांशुखंडोज्वलितोत्तमांगं
रविप्रा हि द्वंद्वबद्धोत्तमकपिशजटाभार संचारिगंगा-
भंगाक्रांतोत्तमांगात्क्रमगलितपृषत् संगहाराभिरामं ।।
अग्रोघन्नागवंधक्रमघटितफटाग्रंथिपंचांगुलोद्यत्
पुछस्थग्रथिंबाहूद्भवभुजगयुगोल्लासिमालाभिरामं ।। ३ ।।
कक्षासंबद्धवैश्या हि पदयुगललसच्चंद्रतीव्रांशुलीला
प्. ४३अ)
घंटाटोपाकुलाशादेशकपतिकुलं वैरिसंघैकपालं ।।
पाशाकारांसलोलद्वृषलकुलभंवासीविषाधीशभोग
स्फूर्जत् फूत्कारघोरं खुरपुटनिकरक्षण सर्वं सहांतं ।। ४ ।।
भक्षयंतं पक्षिरूपं भक्तानां वैरि संचयं ।।
शलभं साल्वं रूपं च ध्यायेदेकाग्रमानसः ।। ५ ।।
इति शलभरूपं शिवं ध्यात्वा ४ ओं ऐ ह्री श्रीं ओं न्नमो भगवते शलभ
साल्वाय पक्षिराजाय मम शत्रुन्नाशय नाशय घे घे हूं फट् स्वाहा ।।
श्रीशलभ रूद्र श्रीपादुकां पूजयामि ।। शलभस्य वामभागै शलभ
सदृशीमेव शलभीं ध्यात्वा ।। ४ ओं नमो भगवति शलभिशाल्वि पक्षिराज्ञि
मम शत्रुन्नाशय नाशय घे घे हूं फट् स्वाहा श्रीशलभी देवी
श्रीपादुकां पूजयामीति शलभ मिथुनं संपूज्य ।। चक्रस्य पूर्वदिशि ।
कल्पांतार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयंतं
रक्ताक्षं पिंगकेशरिपु कुलभयदं भीमदंष्ट्राट्टहासं ।।
चक्रं शंखं गदाब्जे पृथुतरमुसलं चापपाशांकुशान्
स्वैर्बिभ्राणं दोर्भिराद्यं मनसि मुररिपुं भावयेच्चक्रसंज्ञं ।।
दक्षाद्यूर्धयोराद्ये
प्. ४३ब्)
तदाद्यधःस्थयोरन्ये तदाद्यधस्थयोरपरे तदा द्यधः स्थयोरित्तरे
इत्यायुध ध्यानं ।। इति श्रीसुदर्शनं ध्यात्वा ।।
४ ओं सहस्रार हूं फट् श्री सुदर्शनाय नमः ।। इति संपूज्य ।।
तदक्षिणस्यां दिशि
सजलघनसमानं भीमदंष्ट्रं त्रिनेत्रं
भुजगधरमघोरं रक्तवस्त्रांगरागं ।।
परशुडमरुखड्गान् वेटकंबाणचापौ
त्रिशिखनरकपाले बिभ्रतं भावयामि ।। १ ।।
दक्षाद्यूर्ध्वयोराद्ये तदाद्यधःस्थयोरन्ये तदाद्यधःस्थयोरपरे
तदाद्यधःस्थयोरितरे इत्याद्युध्यध्यानं ।। इत्यघोर रूपं रुद्रं
ध्यात्वा ।। ४ ह्रीं स्फुर २ प्रस्फुर २ घोरघोरत्तरतनुरूप चट २ प्रचट २
कह २ वम २ बंध २ घातय २ हूं फट् अघोररुद्राय नमः ।।
इत्यघोर रुद्रं संपूज्य ।। पश्चिमे ।।
सौवर्णांबुजमध्यगां त्रिनयनां सौदामिनी संन्निभां
शंखं चक्रवराभया निदधतीमिंदोः कला विभ्रतीं ।।
ग्रैवेयांगदहारकुंडलधरामाखंडलाद्यैः स्तुतां
ध्यायेद् विंध्यनिवासिनीं शशिमुखीं पार्श्वस्थ पंचाननां ।। १ ।।
वामोर्ध्वकरमारभ्य वामाधः करांतमायुध ध्यानं ।।
प्. ४४अ)
इति श्रीदुर्गा ध्यात्वा ।। ४
उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं ।। यदि शक्यमशक्यं वा
तन्मे भगवति शमय स्वाहा ।। अत्र वक्ष्यमाण समये विद्याश्च स्मरेत् ।
श्रीदुर्गायै नम इति संपूज्य ।। ४ स्वदक्षिण भागे गंधपुष्पादि
पूजापकरणं निधाय । ४ हां हीं हूं फट् इति मंत्रं स्मरन्नारा च
मुद्रया दिव्यदृष्ट्या च पुष्पादिकं विलोक्य वामभागस्थं जलपूर्ण
कुंभं ४ आं इति वामहस्तेन स्पृष्ट्वा ४ छ्रौं इति दक्षिण कराग्रेण
कुंभस्थ जलं स्पृष्ट्वा ४ रं इति दीपशिखां स्पृशेत् । ततः करं
प्राक्षाल्य वामे ४ ऐं गुं गुरुभ्यो नमः । दक्षिणे ४ गं गणपतये नमः ।
अग्रे ४ श्रीपरदेवतायै नमः इति कृतांजलिः प्रणम्य मूद्ध्नि संघट
मुद्रां विधाय ।। ४ हस्रौं हसक्षमलवयरां हंसक्षमलवयरूं
हसक्षमलवयरीं हैस्रां हसक्षमलवयरूं श्रीपरपावक सर्वाराध्य
सर्वमूर्द्ध पुरनाथ सर्वगुरु स्वयं गुरु श्रीगुरुनाथ
रहसक्षमलवयरूं हस्रौं हंस क्षमलवयरीं हसक्षमलवयरूं
हसक्षमलवयरां श्रीशंभु
प्. ४४ब्)
गुरु हस्रौं ४८ श्री अमुकानंदनाथ अमुकी देव्यंबा श्रीपादुकां
पूजयामिति स्वशिरसि श्रीगुरु पादुकां विन्यस्य पुनरनया एव विद्यया
गंधाक्षत कुसुमैः संपूज्य गंधादि पंचमुद्राः प्रदर्शय नमोस्तु
गुरुवे इत्यादिना नमस्कार मुद्रया प्रणम्य ।। ४ अं आं सौः इति करशुद्धि
विद्यया सुगंध द्रव्यमर्द्दनेन करौ सुरभी कृत्य ४ हस्रैं इति मंत्रेण
सुगंधपुष्पाण्यादाय मर्दयित्वा वामकरेण ४ रौं निर्मूष्य आघ्राय ४
ओं हौः ते सर्वे विलयं यातु ये मां हिंसंति हिंसकाः ।।
मृत्युरोग भय क्लेशाः पतंतु रिपु मस्तके ।।
इति पठित्वा नारा च मुद्रया तत्पुष्पमुत्तरस्यां दिशि दूरे क्षिपेत् ।।
ततः पुनः करशुद्धि विद्यया करावन्योन्य मर्दनेन संशोध्य ।
मध्यमयाः ४ अं नम अनामिकयोः ४ आं नमः कनिष्ठिकयोः ४ सौः
नमः ।। अंगुष्ठयोः ४ अं नमः तर्जन्योः ४ आं नमः करतलकाष्ठयोः ।
४ सौः नमः । इति विन्यस्य । ४ ऐं क्लीं सौः नमस्त्रिपुरसुंदरि मां रक्ष
रक्ष इति मंत्रेण मूर्द्धादि चरणां तंत्रिर्व्यापकं विन्यस्य
प्. ४५अ)
पुनरेतदुच्चार्य ऊर्ध्वोर्ध्व तालत्रयं तर्जन्यगुष्ठोत्थ शब्दैर्द्दश
दिग्बंधनं त्रिशूलाकारयोर्व्यत्यस्तयोः करयोः स्वमूर्द्धानं
परितस्त्रिर्भ्रामणेन बहिप्राकार त्रयं च कृत्वा मूलविद्यया
प्राणायामत्रयं कृत्वा प्रणवद्वादशावृत्या नाडी शुद्धिं विधाय
भूतशुद्धि कुर्यात् ।। तद्यथा पादादि जानुपर्यंतं पृथ्वी स्थानं
चतुरस्रं वज्रलांछितं पीतवर्णं ब्रह्मदैवत्यं निवृत्ति कलाधिष्ठितं
लं बीजयुक्तं चिंतयेत्वा ।। जान्वादि नाभिपर्यंतं अपां
स्थानमर्द्धचंद्राकारं शुक्लवर्णं शृंगद्वयेपि पद्मलंछितं
विष्णुदैवत्यं प्रतिष्ठा कलाधिष्ठितं वं बीजयुक्तं ध्यात्वा
नाभ्यादिकंठपर्यंतं वह्निमंडलं स्वस्तिकोपेतं त्रिकोणाकारं
रक्तवर्णं रुद्रदैवत्यं विद्या कलाधिष्ठितं रं बीजयुक्तं ध्यात्वा
कंठादि भ्रूमध्यपर्यंतं
वायुमंडलं षट्कोणाकारं षट्बिंदुलांछितं वृत्तोपेतं
कृष्णवर्णं इश्वरदैवत्यं शांतिकलाधिष्ठितं यं बीजयुक्तं
विचित्यभ्रूमध्यादि ब्रह्मरंध्रपर्यंतं आकाश स्थानं वृत्ताकारं
ध्वजलांछितं धूम्रवर्णं सदाशिवदैवत्यं शांत्यतीते
कलाधिष्ठितं हं बीजयुक्तं ध्यात्वा ।।
प्. ४५ब्)
तत्र पंचभूत मये देहे । धर्मकंदसमुद्भूतं
ज्ञाननालकमैश्वर्याष्टदलोपेतं परं वैराग्य कर्णिकं
स्वहृदयारविंदं विभ्याव्य तत्कर्णिकायां जीवात्मानमाराग्रमात्रं
प्रदीप कलिकाभासुरमनादिमलसंछन्नं परचिद्रूपं संचिंत्य योनि
मुद्रां बध्वा प्रागुक्त रूपेण मूला धारात्कुंडलिनीमुत्थाप्य
सुषुम्णा वर्त्मना मुलाधारा घनाहतांत चक्रस्थ वर्णवर्णाधि
देवताग्र संतीं हृदय कमलमानीयतया कवलीकृतं जीवात्मानं
ध्यायन्सुषुम्णा वर्त्मना विशुध्यादि चक्रस्थ वर्णवर्णाधि
देवताग्रसंती ब्रह्मरंध्रं नीत्वा तत्र स्थित सहस्रदल कमलकर्णिका
मध्यवर्त्तिनी परमात्मज्योतिषि सर्ववर्णवर्णाधिदेवता कदंबकं
जीवात्मानं ४ हंसः इति मंत्रेण संयोज्य अस्त्रेण रक्षा कृत्वा
कुंडलिनीं स्वस्थानमानियतत्व संहारं कुर्यात् ।। तद्यथा ।।
तत्र पृथिवी स्थाने पादेंद्रिय गमन क्रियागंतव्य गंधघ्राण पृथिवी
ब्रह्मनिवृत्ति समान वायुन् संस्मृत्य ४ ओं ह्रां ब्रह्मणे पृथिव्यधिपतये
निवृत्ति कलात्मने हूं फट् स्वाहा ।।
प्. ४६अ)
इति मंत्रेण तान्सर्वान् कुंडलिनी द्वारा अपां मध्ये संहरेत् ।। ततोऽपां
स्थाने हस्तादान दातव्यरसरसना जल विष्णु प्रतिष्ठोदानान्संचिंत्य ४ ओं
ह्रीं विष्णवे जलाधिपतये प्रतिष्ठा कलात्मने हूं फट् स्वाहा ।। इति
मंत्रेण तान् सर्वान् कुंडलिनी द्वारा वह्नि तत्वे संहरेत् ।। ततो वह्नि स्थाने
पायु विसर्गविसर्जनीय रूपचक्षुर्वह्नि रुद्र विद्या व्यानान्संस्मृत्य ४ ओं
ह्रूं रुद्राय तेजोधिपतये विद्या कलात्मने हूं फट् स्वाहा । इति मंत्रेण
तान सर्वान् वायुमंडले संहरेत् ।। ततो वायु स्थाने उपस्थानंदू?
तद्विषय स्पर्शस्पृष्टव्य वायवीश्वर शोंत्य पानान्संस्मृत्य ४ ओं ह्रैं
ईश्वराय वायवधिपतये शांति कलात्मने हूं फट् स्वाहा ।। इति मंत्रेण
तान् सर्वान् आकाश स्थाने संहरेत् । तत आकाशे स्थाने वाग्वदन वक्तव्य
शब्द श्रोत्राकांश सदाशिव शांत्यतीत् प्राणान् संस्मृत्य ४ ओं ह्रौं
सदाशिवायाकाशाधिपतये शांत्यतीत कलात्मने हूं फट् स्वाहा ।। इति
मंत्रेण
प्. ४६ब्)
तान् सर्वान् कुंडलि संहृत्यतां बिंदुशक्तौ बिंदुशक्तिं नादशक्तौ
नादशक्तिं परशक्तौ प्रणवेन संहृत्य । ४ ओं ह्रीं हूं फट् स्वाहा ।
इति तां परशक्ति पूर्वोक्त परमात्मनि संयोज्य-पृथिव्यादीनि भूतानि
क्रमेण स्वस्वकारेणो एवं पंचमहाभूतानि परे तत्वे एकी भूतानि
विचिंत्य ।। केवल शरीरे वामकुक्षौ पापपुरुषं संचिंतयेत् ।। तद्यथा ।।
वामकुक्षि स्थितं पाप पुरुषं कज्जल प्रभं ।
ब्रह्महत्या शिरःस्कंधं स्वर्णस्तेय भूजद्वयं ।।
सुरापान हृदायुक्तं गुरुतल्प कटिद्वयं ।।
तत्संसर्ग पदद्वंद्वमंगप्रत्यंगपातकं ।।
उपपातकरोमाण रक्तश्मश्रुविलोचनं ।।
खड्गचर्मधरं क्रुद्धं कुक्षौपापं विचिंयेतत् ।।
इति पापपुरुष विचिंत्यं वामनासारंध्रे सायं बीजेन
द्वात्रिंशद्वारमावर्तनेन सहवायुमायूर्यनाभिस्थ षट्कोणाकारे
वायुमंडले संयोज्य तत्रयमिति वायुबीजं कृष्णवर्णं संचित्य
कुंभकेन यं बीजं चतुःषष्ठिवारमावर्त्तयन्
प्. ४७अ)
तदुस्थितेन महावायुना सहपापपुरुषं स्वशरीरं संशोष्ययं
वायुबीजं षोडशवारमावर्त्तन् तं वायुं दक्षिणनासया चिरेच्य ।।
रमिति बीजेन ३२ आवर्त्तनेन दक्षिण नासया वायुमापूर्य मूलाधारे
संयोज्य तत्रस्थ वह्निमंडले रं वह्निबीजं रक्तवर्णं विचिंत्य
कुंभकेन रमिति बीजं ६४ वारमावर्तयंस्तदुत्थितेन महावह्निना
सहपापपुरुषं स्वदेहं दग्ध्वा पापपुरुष भस्मना सह रं वह्नि
बीजं १६ वारमावर्तयन् तं वायुं वामनासया विरेच्य ।।
पुनर्वामनासया ३२ आवृत्तेन वं बीजेन सहवायुमापूर्य ब्रह्मरंध्रे
संयोज्य तत्र स्थित चिच्चंद्रमंडले वमित्य मृतबीजं शुक्लवर्णं
संचित्य कुंभकेन ६४ आवर्तयन् वं बीजं तन्निःसृतामृतधारया स्वदेह
भस्म संषिच्य वं बीजं षोडशवारं आवर्त्तयन् तं वायुं
दक्षिणनासया वीरेच्य ।। पुनर्दक्षिण नासया लं बीजेन ३२ आवर्त्तनेन
सहवायुमापूर्य मूलाधारस्थ पार्थिवमंडले संयोज्य तत्रक्तमिति
पृथ्वी बीजं पीतवर्णं संचिंत्य कुंभकेन लं बीजं ६४
वारमावर्तयन् तदुद्भूतेन तेजसाऽमृत प्लावितं भस्मघनीकृत्य लं
बीजं १६ मावर्तयन् वामनासया तं वायुं विरेच्य ।।
प्. ४७ब्)
पुनर्वामनासया ह्रीं बीजेन ३२ वृत्तेन सहवायुमापूर्य मूलाधारस्थ
बींदुमध्ये मायाबीजं स्फुरत् बालार्क वर्णं संचित्य कुंभकेन
मायाबीजं ६४ मावर्तयन् तेन करचरणाद्यवयव समेतं स्वदेहं
निष्पन्नं विभाव्य मायाबीजं १६ मावर्त्तयन् तं वायुं दक्षिणनासया
विरेचयेदिति स्थूलशरीरं निष्पाद्य सूक्ष्मशरीरं निष्पादयेत् ।। तद्यथा ।।
तत्र पूर्वोक्तसहस्रारकमलःस्थपरमात्मनः सकाशात्सकल जगत्
सिसृक्षाविजृंभित परब्रह्मेछारूपिणीं परशक्तिं ४ ओं ह्री नमः इति
परमात्मनः सकाशात् स्वस्थानमानीय ततो नादशक्तिं ततो बिंदुशक्तिं
प्रणवेन सृष्ट्वाबिंदु शकेः सकाशात्सकल जगत् सृष्टि हेतुभूतां
कुंडलिनीं प्रणवेन निःसार्य ततः ४ ओं ह्रौं सदाशिवायाकाशाधिपतये
शांत्यतीत कलात्मने नम इति प्राणशांत्यतीत सदाशिवाकाश श्रोत्रशब्द
वक्तव्य वदनवाच आकाशस्थाने स्थापयेत् ।। तत आकाशमंडलान् ४ ओं ह्रैं
ईश्वराय वायवधिपतये शांति
प्. ४८अ)
कलात्मने नम इति मंत्रेणापानशांति ईश्वर वायुस्पृष्टव्य स्पर्श
तद्विषयानंदोपस्थान्वायु स्थाने स्थापयेत् ।। ततः ४ ओं ह्रूं रुद्राय
तेजोधिपतये विद्या कलात्मने नम इति मंत्रेण व्यान विद्या रुद्र
तेजश्चक्षूरूपविसर्जनीय विसर्गपायूनऽग्निस्थाने स्थापयेत् ।। ततः ४ ओं
ह्रीं विष्णुवे जलाधिपये प्रतिष्ठा कलात्मने नम इति मंत्रेणोदान
प्रतिष्ठा विष्णु जलरसनारसदातव्यादानहस्तानपां स्थाने स्थापयेत् ।।
ततः ४ ओं ह्रां ब्रह्मणे पृथिव्यधिपतये निवृत्ति कलात्मने नम इति मंत्रेण
समान निवृत्ति ब्रह्म पृथिवी घ्राण गंतव्य गमन किया पादेंद्रियाणि
पृथिवी स्थाने स्थापयेत् ।। ततः प्रणवेन कुंडलिनीं स्वस्थाने स्थापयित्वा
नादशक्ति बिंदुशक्ति परसक्तीनां प्रणवेन स्वदेहे व्याप्तिं विभाव्य
ब्रह्मरंध्रस्थ परमात्मनः सकाशात् कुडलिन्या जीवात्मानं
संहृतवर्णवर्णाधिदेवता सहितमाज्ञादि चक्रेषु
तत्तद्वर्णवर्णाधिदेवताः स्थापयन् हृदयकमलमानीय सोहमिति मंत्रेण
प्. ४८ब्)
हृदय कमले जीवात्मानं स्थापयित्वा कुंडलिनीं सुषुम्णामार्गेण
मणिपूरकादि चक्रेषु तत्तद्वर्णवर्णाधिदेवताः स्थापयन् मूलाधारं
नीत्वा तत्र तां स्थापयेत् ।। ततः स्वशरीरं निरस्त सकल कलुषं तेजोरूपं
देवताराधनयोग्यं विभाव्य इति भूति शुद्धिः ।
भूतिशुद्धिविहीतेनुकृत्वा पुजाभिचारवत् ।।
विपरीत फलं दद्यादभक्त्या चार्चनं तथा ।।
प्राणप्रतिष्ठां कुर्यात् ।। सा यथा ।। शिरसि ४ ब्रह्मविष्णुशिवेभ्यो ऋषिभ्यो
नमः ।। मुखे । ४ ऋग्यजुः सामभ्यश्छंदोभ्यो नमः ।। हृदये ४ परा प्राण
शक्त्यै देवतायै नमः ।। गुह्ये ४ आं बीजाय नमः । पादयोः ४ ह्रीं शक्तये
नमः ।। नाभौ ४ क्रों कीलकाय नमः ।। इति विन्यस्य मम प्राणप्रतिष्ठार्थे
विनियोग इति कृतांजलिर्वदेत् ।। ४ ओं आं ह्रीं क्रों अकं ४ आकाश वायवग्नि सलिल
पृथिव्यात्मने आं हृदयाय नमः ।। ४ ओं आं ह्रीं क्रों इं चं ४
शब्दस्पर्शरूपरसगंधात्मनें ई शिरसे स्वाहा ।। ४ ओं आं ह्रीं क्रों
उं टं ४ श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊं शिखायै वषट् ।।
प्. ४९अ)
४ ओं आं ह्रीं क्रों एं तं ४ वाक्पाणिपादपायु उपस्थात्मने ऐं कवचाय
हुं ।। ४ ओं आं ह्रीं क्रों ओं पं ४ वचनादानगमनविसर्गानंदात्मने ओं
नेत्रत्रयाय वौषट् ।। ४ ओं आं ह्रीं क्रों अं यं ९ मनोबुद्ध्यहंकार
चित्तित्तात्मने अः अस्त्राय फट् ।। इति मंत्रानंगुष्ठादित लां तं विन्यस्य
हृदयादि षडंगेष्वप्येतान् विन्यस्य ।। ततो नाभ्यादि पादद्वयांतं ४ आं
नमः । हृदयादि नाभ्यंतं ४ ह्री नमः । मूर्द्धादि हृदयांतं ४ क्रों
नमः । ततो हृदय कमल मध्ये ४ यं त्वगात्मने नमः । पूर्वदले ४ रं
असृगात्मने नमः । पश्चिमदले ४ लं मांसात्मने नमः । आग्नेयदले ४ वं
मेदात्मने नमः । वायव्यदले ४ शं आस्थ्यात्मने नमः । ईशानदले ४ षं
मज्जात्मने नमः । नैर्-ऋतिदले सं ४ शुक्रात्मने नमः । उत्तरदले ४ हं
प्राणात्मने नमः । दक्षिणदले ४ लं जीवात्मने नमः । पुनः कर्णिकायां ।
४ क्षं परमात्मने नः ।। इति विन्यसेत् । ततो ध्यानं ।
रक्ताध्विपोतारुण पद्मसंस्थां पाशांकुशा विक्षुशरासबाणान् ।।
प्. ४९ब्)
शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवीं ।। १ ।।
इति ध्यात्वा हृदि हस्तं निधाय ।। ४ ओं आं ह्रीं क्रों यं रं लं वं
शं षं सं हों हं सः सोहं मम प्राणा इह प्राणाः ४ ओं आं १४
मम जीव इ स्थितः ४ ओं आं १४ मम सर्वेंद्रिणि ४ ओं आं १४ मम
वाऽऽन्मनश्चक्षुःश्रोत्रघ्राणप्राणाः इहैवागत्य सुखं चिरं तिष्ठंतु
स्वाहा ।। इति प्राणप्रतिष्ठां त्रिर्जपित्वा निजवपुर्ज्योतिर्मयं ध्यायेदिति
प्राणप्रतिष्ठाविधिः ।। ओं इति मंत्रं १६ जपेत् हृदयै हस्तं निधाय ।।
श्री विद्यानंदनाथेन शिवायोः प्रिय सूनुना ।।
कृते सौभाग्य रत्नाब्धौ तरंगोऽगात्तृतीयकः ।। १ ।।
इति श्रीसच्चिदानंदनाथचरणारविंद द्वंद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे तृतीयस्तरंगः ।। ३ ।।
अथ मातृकान्यासः ।।
स चात्र विद्यायां शुद्धक कलामूर्ति प्रपंचयाग भेदाच्चतुर्विधः ।।
शुद्धादयोप्यस्यां विद्यायां त्रयोदश विधाः ।। शुद्धो बिंदुयुतो
प्. ५०अ)
विसर्गयुक्तो विंदुविसर्गयुक्तो हृल्लेखाद्मो लक्ष्म्याद्यः कामबीजाद्यो
मायाश्री कामबीजाद्यो बाला संपुटितः परा संपुटितः
श्रीविद्यान्वितोहंसादिक परमहंसादिकश्चेति ।। कला युक्तोपि द्विविधः ।।
तारोक्षकलां न्यासस्तेजस्त्रितयोत्थ कला मातृका न्यासश्चेति ।। मूर्तिन्यासोपि
द्विविधः ।। केशवादि श्रीकंठादि भेदात् ।। चतुर्थः प्रपंचयागः ।।
तत्रादौ मातृका वर्णैः प्राणायाम त्रयं कृत्वा न्यासं समारभेत् । तत्र
स्वरै पूरकः पंचवर्गैः कुंभकः यादिभिरेचकः । इति मातृका
प्राणायामः इत्थं प्राणायाम त्रयं कृत्वा न्यासं कुर्यात् तत्राथ
प्रथमं शुद्ध मातृका न्यासः ।।
ओं अस्य श्रीशुद्ध मातृका न्यासस्य ब्रह्मा ऋषिः गायत्री छंदः
श्रीमातृका सरस्वती देवता हलो बीजानि स्वराः शक्तयः अव्यक्तं कीलकं ।
मम श्रीविद्यांगत्वे न्यासे विनियोगः ।। इति कृतांजलिः । ऋष्यादिकं स्मृत्वा
मूर्द्धादिषु विन्यसेत् ।। तद्यथा ।। शिरसि ४ ब्रह्मणे ऋषये नमः ।। मुखे ४
गायत्री छंदसे नमः ।
प्. ५०ब्)
हृदये ४ श्रीमातृका सरस्वत्यै देवतायै नमः । गुह्ये ४ हल्व्यो वीजेभ्यो
नमः । पादयोः ४ स्वरेभ्यः शक्तिभ्यो नमः । नाभौ ४ अव्यक्ताय कीलकाय
नमः ।। इति विन्यस्य ।। म श्रीविद्यांगत्वे न्यासे विनियोग इति सर्वांगे व्याप्य
कृतांजलिर्वदेत् ।। ततः दक्ष करतले अ नमः । तत्पृष्ठे आ नमः ।। दक्षकरभे
इ नमः । दक्षिणांगुष्ठमारभ्य वामांगुष्ठावधि दश स्वंगुलिषु
ईकाराद्योकारांतान् १० विन्यस्य वाम करभं तत्पृष्ठतत्तलेषु औकारादि
विसर्गांतं न्यसेत् ।। अयं संहार न्यासः ।। दक्ष करतलादि
वामकरतलांतं सविसर्गान् स्वरान्न्यसेत् ।। अयं सृष्टिन्यासः ।। वाम
कनिष्ठादित्तलांतमष्टौ स्वरान् ऌकारादीन् बिंदुविसर्ग सहितान् विन्यस्य
दक्षकरतलादि तत्कनिष्ठांतमकारादि ऋकारांता नष्टौ स्वरान् बिंदु
विसर्ग युक्तान्न्यसेदिति स्थिति न्यासः ।। इति मातृका स्वरान्विन्यस्य तकारादीन्
शांतान् वामकनिष्ठा मूलादि
प्. ५१अ)
तदंगुष्ठाग्र पर्यंतेषु पंचदश स्थानेषु विन्यस्य दक्षांगुष्ठादि
तत्कनिष्ठाग्रांतेषु कादिणांतान् विन्यस्य करद्वयेप्यंगुष्टादि
कनिष्ठातं युगपदेवषादि क्षांतान् पचवर्णान् व्यापकत्वेन न्यसेत् ।। इति
मातृकाक्षरैः करशुद्धिं विधाय ।। ओं ऐं ह्री श्रीं अं कं खं गं
घं ऽऽनं आं हृदयाय नमः ।। ४ इं चं ४ ईं शिरसे स्वाहा ।। ४ उं टं ४
ऊं शिखायै वषट् ।। ४ एं तं ४ ऐं कवचाय हुं ।। ४ ओं पं ४ औं
नेत्रत्रयाय वौषट् ।। ४ अं यं ९ अः अस्त्राय फट् ।। इति षडंग
मंत्रानंगुष्ठादि तलांतं करयोर्विन्यस्य हृदयादि षडंगेष्वपि न्यसेत्
।। ततो ध्यानं ।।
तत्र प्रथमं सूक्ष्मं रूपां ध्यात्वांतर्मातृकां न्यसेत् ।। तद्यथा ।।
व्योमेंद्दौरसनार्णकर्णिकमचां द्वंद्वैः स्फुरत्केसरं
पत्रांतर्गतपंचवर्गयशल्लार्णादि त्रिवर्गं क्रमात् ।।
आशास्वश्रिषुलांतलांगलि युजाक्षोणी पुरेणावृत्तं
वर्णाब्जं शिरसि स्थितं विषगदंप्रध्वंसिमृंजयं ।। १ ।।
इति ब्रह्मरंध्रे वर्णारविंदं ध्यात्वा ।।
मूलाधारध्वनि श्रुत्वा प्रबुद्धा शक्तिकुंडली ।।
प्. ५१ब्)
ज्वलत्यावकसंकाशा सूक्ष्मतेजः स्वरूपिणी ।।
मूलाधारा छिरः पद्मं स्पृशंती विद्यूदाकृतिः ।।
तया स्पृष्ट शिरः पद्मादमृतौघ स्वरूपिणः ।।
निर्गतान् मातृका वर्णान् सुषुम्णा वर्तमना तनुं ।।
व्यापयित्वा स्थितान् सर्वानेवं ध्यात्वा प्रविन्यसेत् ।।
इति सूक्ष्मरूपां ध्यात्वा न्यसेत् ।।
तत्र विशुद्धौ षोडशदलकमलमूर्ध्व मुखं ध्यात्वा तद्दलेषु प्रागादि
प्रादक्षिण्येन ४ अं नमः ।। ४ आं नमः । एवं षोडश स्वरान्न्यसेत् । ततो
हृदये । अनाद्वतचक्रं द्वादशं दलकमलं ध्यात्वा तथैव
ककारादि ठकारांतान् द्वादशवर्णान् प्रणवत्रितारादि नमोंतान्
प्रादक्षिण्येन न्यसेत् ।। ततो नाभौ मणिपूरकं चक्रं दशदलकमलं
ध्यात्वा तद्दलेषु डकारादि फकारातांन् दशवर्णान् पूर्ववन्यसेत् ।। ततो
लिंग मूले स्वाधिष्ठान चक्रं षट्दल कमलं ध्यात्वा तदलेषु प्राग्वत्
बकारादिलकारांतान् षट्वर्णान्न्यसेत् ।। ततो मूलाधारे चतुर्दलकमलं
ध्यात्वा तद्दलेषु वकारादि सकारांतान् चतुरो वर्णान् पूर्वन्न्यशेत् ।।
ततो
प्. ५२अ)
भ्रूमध्ये आज्ञाचक्रं द्विदलकमलं ध्यात्वा तद्वलयोर्हक्षौ
पूर्ववन्यसेत् ।। इत्यंतर्मातृकां न्यासं विधाय बर्हिर्मातृका न्यासं
कुर्यात् ।। इति अंतर्मातृकान्यासः ।। बहिर्न्यासो यथा ।। तत्र ध्यानं ।। तद्यथा

पंचाशद्वर्णभेदैर्विहितवदनदोः पाद युक्कुक्षिवक्षोदेहं
शाभास्वत्कपर्दाकलितशशिकलामींदुकुंदावब्दतां ।।
अक्षस्रक्कुंभचिंतालिखितवरकरां त्र्यक्षणां पद्मसंस्थामछा
कल्पामवतुछस्तनजघनभरां भारतीं तां नमामि ।। १ ।।
दक्षोर्ध्वकरमारभ्य दक्षाधः करपर्यंतं आयुधध्यानं ।।
चिंता लिखितं पुस्तकं । इति प्रागुक्ते वर्णारविंदे ध्यात्वा न्यसेत् ।। तत्रादौ ।।
ह्सौंः अं आं इत्यादि समस्तमातृकामुच्चार्य ह्सौः नमः । इति मूर्द्धादि
पादांतं त्रिर्व्यापकं विन्यस्य । ओं ऐं ह्रीं श्रीं इत्येतानि न्यासादौ
सर्वत्र ज्ञेयानि । शिरसि ४ अं नमः । मुखवृत्ते ४ आं नमः । दक्षनेत्रे ४ इं
नमः । वामनेत्रे ४ ईं नमः । दक्षकर्णे ४ उं नमः । वामकर्णे ४ ऊं
नमः । दक्षनासायां ४ ऋं नमः । वामनासायां ४ ॠ नमः ।
दक्षकपोले ४
प्. ५२ब्)
ऌं नमः । वाम कपोले ॡं नमः । उत्तरोष्टे ४ एं नमः । अधरोष्टे ४ ऐं
नमः । ऊर्ध्व दंतं पऽऽन्तौ । ४ ओं नमः । अधो दंतपंक्तौ ४ औं नमः ।
शिरसि ४ अं नमः । जिह्वांयां ४ अः नमः । दक्षबाहु मूले ४ कं नमः ।
दक्षकफोणौ खं नमः । दक्षमणिबंधे ४ गं नमः । दक्षांगुलि
मूले ४ घं नमः । दक्षांगुल्यग्रे । ४ उंः नमः । एवं वामबाहु
मूलकफोणौ मणिबंधांगुलि मूलाग्रेषु च वर्गे न्यसेत् ।। (दक्ष
वामपार्श्वपृष्ठनाभिजठरे) ततो दक्षोरूमूल जानुगुल्फांगुलि
मूलाग्रेषु ट वर्गं न्यसेत् । ततः वामोरुमूल जानुगुल्फांगुलि मूलाग्रेषु
त वर्गं न्यसेत् ।। दक्ष वाम दक्ष वाम पार्श्वे पृष्ठनाभिजठरेषु प
वर्गं न्यसेत् । ततो हृदय दक्षांस ककुद्वामांसेषु य वर्गं न्यसेत् । ततो
हृदादि पाणि द्वये हृदादि पादद्वये हृदादि नाभौ हृदादि ब्रह्मरंध्रे श
वर्गं न्यसेत् । इति शुद्ध मातृकां न्यासः । शुद्धं बिंदुयुतं
विसर्गसहितं हृल्लेखया लंकृतं बालासंपुटितं तथैव परया
श्रीविद्यया लंकृतं ।। आरोहादवरोहतः शतमयं न्यासं
पुनर्हंसयोर्योजानाति स एव सर्वजगतां सृष्टिस्थिति ध्वंसकृत् ।। १ ।।
अत्र शुद्धत्वेपि बिंदुयुक्तत्वं वर्णानां वीर्ययोजनार्थमिति संप्रदायः

प्. ५३अ)
अथ बिंदुयुक्तमातृकान्यासः ।
तत्र ऋष्यादिकं प्राग्वत् ।। ध्याने परं विशेषः । तद्यथा ।
अक्षस्रजं हरिणपोतमुदग्रटंकं
विद्यां करैरवितर दधतीं त्रिनेत्रां ।।
अर्द्धेदुमौलिमरुणामरविंदवासां
वर्णेश्वरीं प्रणमतः स्तनभार नम्रां ।। १ ।।
दक्षाधः करमारभ्य वामाधः करपर्यंतमायुध ध्यानं ।
विद्यां पुस्तकं । टंकं आयुध विशेषः । इति वर्णारविंदे ध्यात्वा न्यसेत्
।। तद्यथा । हृदयादि ब्रह्मरंध्रांतं ४ क्षं नमः ।
हृदयादिनाभ्यंतं ४ लं नमः । इत्यादि । शिरसि ४ अं नमः इत्यंतं
संहार क्रमेण तत्तत्स्त्थानेषु न्यसेत् । इति बिंदुमातृकां न्यासः ।।
अथ विसर्गमातृकान्यासः ।
तत्र ऋष्यादि ध्यानांतं शुद्धमातृकावदेवे । न्यासे वर्णेषु
विसर्गान्वितत्वं विशेषः । इति विसर्गमातृकां न्यासः ।
अबिंदुविसर्गमातृकां न्यासः ।
तत्रापि ऋष्यादिकं शुद्धमातृकावदेव । ध्याने परं विशेषः ।
तथा सिंदूरकांममिताभरणं त्रिनेत्रं
विद्याक्षसूत्रमृगपोतवरां दधानं ।।
पार्श्व स्थितां भगवतीमपि कांचनाभां
ध्यायेत् करांब्ज धृतपुस्तक वर्णमालां ।। १ ।।
वामाधः करमारभ्य
प्. ५३ब्)
वामोर्ध्व करपर्यंतं आयुध ध्यानं शिवस्य ।
शक्तेस्तु वामादि कर द्वये । इति ध्यात्वा न्यसेत् ।। तद्यथा ।
दक्षिणगुल्फे ४ डंः नमः । अंगुलिमूले ४ ढंः नमः । इत्यादि प्रणव
त्रितारादि ४ क्षंः नमः । इत्यंतं शुद्धमातृका स्थानेष्वेव विन्यस्य ।। ४
अंः नमः । इत्यादि ४ ठंः नमः । इत्यंतं मूर्द्धादि दक्षिण
जान्वंतं शुद्धमातृकास्थानेष्वेव न्यसेत् । इति स्थिति रूपो
बिंदुविसर्गमातृकान्यासः ।
अहृल्लेखादिमातृकान्यासः ।
तत्र शक्ति ऋषिः गायत्री छंदः । हृल्लेखा स्वरूपिणी मातृका सरस्वती
देवता ।। इति ऋष्यादिकं स्मृत्वा विन्यस्य । ४ अं कं ४ आं ह्रां हृदयाय
नमः । ४ इं चं ४ ईं ह्रीं शिरसे स्वा * । ४ उं टं ४ ऊं ह्रुं शिखायै
वषट् । ४ एं तं ४ ऐं ह्रैं कवचाय हुं ।। ४ ओं पं ४ औं ह्रौं
नेत्रत्रयाय वौषट् । ४ अं यं ९ अः ह्रः अस्त्राय फट् । इति करषडंगं
न्यासः । ततो ध्यानं ।
उद्यत्कोटि दिवाकर प्रतिभटोत्तुंगो रूपीनस्तनी
बद्धार्द्धेंदु किरीटहार रसनामंजीर संशोभीता ।।
बिभ्राणा करपंकजैर्जपवटिं पाशांकुशौ पुस्तकं
दिश्यानो जगदीश्वरी त्रिनयना पद्मे निषणा सुखं ।। १ ।।
प्. ५४अ)
दक्षाधः करमारभ्य वामाधः करपर्यंतं आयुध ध्यानं ।।
इति वर्णारविंदे ध्यात्वा ४ ह्रीं अं नमः । इत्यादि क्षाकारांतान् वर्णान्
शुद्धमातृकां स्थानेषु न्यसेत् ।। इति हृल्लेखा मातृकान्यासः ।
अथ श्रीं बीजादिमातृकांन्यासः ।
तत्र ब्रुगु ऋषिः गायत्री छंदः मातृमयी लक्ष्मीर्देवतान्यासे विनियोगः ।
इति ऋष्यादिकं स्मृत्वा यथाविधि विन्यस्य ४ अं कं ४ आं श्रां हृदयाय
नमः इत्यादि षडदीर्घ युक्त श्रीबीजांतैः षड्वर्गैः करषंडंगं
न्यासं विधाय ध्यायेत् ।
विद्युद्दामसमप्रभां हिमगिरि प्रख्यैश्चतुर्भिर्गेजैः
शुंडा दंड समुद्धृतामृते घटैरासिच्यमानामिमां ।।
बिभ्राणां करपंकजैर्जपवटीं पद्मद्वयं पुस्तकं
भास्वद्रत्न समुज्वलां कुचनतां ध्यायेज्जगत्स्वामिनीं ।। १ ।।
दक्षाधः करमारभ्य वामाधः करपर्यंतमायुध ध्यानं ।। इति
ध्यात्वा ४ श्रीं अं नमः । इत्यादि क्षांतान् वर्णान् शुद्धमातृकास्थाने
न्यसेत् । इति श्रीबिजादि मातृकान्यासः ।
अथ कामबीजादिमातृकान्यासः ।
तत्र संमोहन
प्. ५४ब्)
ऋषिः गायत्री छंदः मातृकामयी संमोहिनी देवता न्यासे विनियोगः । इति
विन्यस्य ।
षट्दीर्घयुक्त कामबीजांतैः षड्वर्गैः प्राग्वत् करषडंगन्यासं
विधाय ध्यायेत् ।
बालार्ककोटि रुचिरां स्फटिकाक्षमालां
को दंडमिथुजनितं स्मर पंच बाणान् ।।
विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां
ध्यायेत् समस्त जननीं नवचंद्रचूडां ।। १ ।।
वामाधः करमाभ्य दक्षाधः करपर्यंतमायुध ध्यानं ।
चकारा दक्षमाला पुस्तकयोर्व्यत्ययो बोधव्यः । इति ध्वात्वा ४ क्लीं अं
नमः । ४ क्लीं आं नमः । एवं क्षांतं मातृकास्थानेषु न्यसेत् । इति काम
बीजादि मातृकान्यासः ।।
अथ त्रिबीजादिमातृकान्यासः ।
तत्र महासंमोहन ऋषिः गायत्रीछंदः मातृकामयी महासंमोहिनी
देवता न्यासे विनियोगः । इति विन्यस्य द्विरुक्त त्रिबीजांतैः षड्वर्गैः प्राग्वत्
करषडंगन्यासं विधाय ध्यायेत् ।।
ध्याये यमक्षवलयेक्षुशरासपाश-
पद्मद्वययांकुशशरान्नव पुस्तकं च ।।
आबिभ्रतीं निजकरैररुणांकुचार्तां
संमोहिनीं त्रिनयनां नवचंद्रचूडां ।। १ ।।
प्. ५५अ)
वामाधः करमारभ्य दक्षाधः करपर्यंतमायुध ध्यानं ।। अत्रापि
चकारात् पूर्ववद्व्यत्ययो बोधव्यः ।। इति ध्यात्वा ।। ४ ह्रीं श्रीं क्लीं अं
नमः । ४ ह्रीं श्रीं क्लीं आं नमः । इत्यादि क्षांतां न्यसेत् ।। इति त्रिबीजादि
मातृकान्यासः ।
अथ बालां संपुटितमातृकान्यासः ।
तत्र दक्षिणामूर्ति ऋषिः गायत्री छंदः बालारूपिणी मातृका सरस्वती
देवता । इति ऋष्यादिकं स्मृत्वा विन्यस्य करांगन्यासं कुर्यात् ।। तद्यथा ।। ४
अं कं ४ आं ऐ हृदयाय नमः । ४ इं चं ४ ईं क्लीं सिरसे स्वाहा । ४
उं टं ४ ऊं सौः शिखायै वषट् । ४ एं तं ४ ऐं सौः कवचाय हुं । ४
ओं पं ४ औं क्लीं नेत्रत्रयाय वौषट् । ४ अं यं ९ अः ऐं अस्त्राय फट् । इति
करांगन्यासं विधाय ध्यात् । तद्यथा ।
मुक्तासेखरकुंडलांगदमणि ग्रैवेयहारोर्मिकां
विद्योतद्वलयादिकं कण कटी सूत्र स्फुरन्नूपुरां ।
माणिक्योदर बंधुरस्तनभरां मिदोः कलां बिभ्रतीं
पाशं सांकुश पुस्तकाक्षवलयान् दक्षोर्ध्व बाहोदितः ।। १ ।।
प्. ५५ब्)
पुर्णेंदु प्रतिमप्रसन्नवदनां नेत्रत्रयोद्भासिता-
मिंदुक्षीरवलक्षगात्र विलसन्माल्यानुलेपांबरां ।।
पंचाशल्लिपि जृंभिताखिल जगद्वाग्देवता देवतां
मूलाधार समुहतां भगवतीं वर्णांबुजे चिंतयेत् ।। २ ।।
इति वर्णारविं ध्यात्वा न्यसेत् ।। तद्यथा । ४ ऐं क्लीं सौः अं सौः क्लीं ऐं
नमः । ४ ऐं क्लीं सौः आं सौः क्लीं ऐं नमः एवं क्षातान् वर्णान्
बालासंपुटितान् शुद्धमातृकास्थानेषु विन्यसेत् ।। इति
बालासंपुटितमातृकान्यासः ।।
अथ परासंपुटितमातृकान्यासः ।
तत्र ब्रह्मा ऋषिः गायत्रीछंदः परारूपिणी मातृका सरस्वती देवता
न्यासे विनियोः । ४ अं कं ४ आं सां हृदयाय नमः । ४ इं चं ४ ईं सीं शि
से स्वा० ४ उं टं ४ ऊं संखायै वषट् । एवं करषडंगं कृत्वा
ध्यायेत् । तद्यथा ।
अकलंकशशांकाभां त्र्यक्षां चंद्रकलावती ।
मुद्रा पुस्तक सद्बाहुं प्रणमामि परांकलां ।। १ ।।
इति वरविंदे ध्यात्वा न्यसेत् । तद्यथा ४ सौः अं सौः नम ४ सौः आं सौः
नमः । एवं क्षांतं मातृकास्थानेषु न्यसेत् ।।
प्. ५६अ)
इति परासंपुटितमातृकान्यासः ।
अथ श्रीविद्यायुक्तमातृकान्यासः ।
तत्र दक्षिणामूर्ति ऋषिः गायत्री छंदः श्रीमातृका सुंदरी देवता ।
इति ऋष्यादिकं स्मृत्वा विन्यस्य करांगन्यासं कुर्यात् ।। तद्यथा । ओं ऐं
ह्रीं श्रीं अं कं ४ प्रथमकुटमूच्चार्य आं हृदयाय नमः । ४
द्वितीयकूतं ईं शिरसे स्वाहा । ४ उं टं ४ तृतीयकूटं ऊ शिखायै वट् । ४
एं तं ४ प्रथम कूटं ऐं कवचाय हुं । ४ ओं पं द्वितीयकूटं औं
नेत्रत्रयाय वौषट् । ४ अं यं ९ तृतीयकूटं अः अस्त्राय फट् । ततो ध्यानं ।
आरकाभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटंकरम्यां
हस्तांभोजैः सपाशांकुशमदनधनुः सायकैर्विःस्फुरंतीं ।।
आपिनातुंगवक्षोरुहतटविलुठत्तारहारोज्वलांगी
ध्यायेदंभोरुहस्थामरुणनिवसानामीश्वरीमीश्वराणां ।। १ ।।
वामाद्यूर्ध्वयोराद्य तदाद्यधःस्तयोरन्य इत्यायुध ध्यानं । इति
वर्णारविंदे ध्यात्वा न्यसेत् ।। तद्यथा । ४ मूलविद्यामुच्चार्य अं नमः ।
एवं प्रणव त्रितार श्रीद्यादिनमोंतान् आकारादि
प्. ५६ब्)
क्षकारातान् वर्णान् मातृकास्थानेषु न्यसेत् ।। इति श्रीविद्यामातृकान्यासः ।
अथ हंसमातृकान्यासः ।
तत्र ब्रह्मा ऋषिः गायत्री छंदः हरगौरी ४ स्वरूपिणी मातृकासरस्वती
देवता ।। इति ऋष्यादिकं स्मृत्वा विन्यस्य करांगन्यासं कुर्यात् । ४ अं कं ४
आं हां सां हृदयाय । ४ इं चं ४ ईं हीं सं शिरसे । ४ उं टं ४ ऊं
हूं सूं शिखायै वषट् । ४ एं तं ४ ऐं हैं सैं कवचाय हुं । ४ ओं
पं ४ औं हौं सौं नेत्रत्र० । ४ अं यं ९ अः हः सः अस्त्राय फट् इति विन्यस्य
ततो ध्यानं ।।
उद्यद्भानु स्फुरित तडिदाकारमर्द्धांबिकेशं
पाशाभीति वरद परशुन् संदधानं कराब्जैः ।।
दिव्यो कल्पैर्नवमणिमयैः शोभितं विश्वमूलं
सौम्याग्नेयं वपुरवतुनश्चंद्रचूडं त्रिनेत्रं । १ ।
वामोर्ध्वादि दक्षोर्ध्व करपर्यंतमायुध ध्यानं । इति ध्यात्वान्यसेत् ।। ४
हं सः अं नमः । एवं क्षां तं मातृकास्थानेषुन्यसेत् ।। इति
हंसमातृकान्यासः ।
अथ परमहंसमातृकान्यासः ।
तत्र परमहंस ऋषिः गायत्री छंदः परमात्मस्वरूपिणी मातृका
सरस्वती देवता । इति ऋष्यादिकं स्मृत्वा विन्य करांगन्यासं कुर्यात् ।। ४
प्. ५७अ)
ओं अं कं ४ आं ओं हृदयाय० ४ ओं इं चं ४ ईं ओं शिरसे स्वाहा ।। ४ ओं उं टं
४ ऊ ओं शिखायै वषट् । ४ ओं एं तं ४ ऐं ओं कवचाय हुं ।। ४ ओं ओं पं ४ औं ओं
नेत्रत्र० ४ ओं अं यं ९ अः ओं अस्त्राय फ० इति विन्यस्य । ततो ध्यानं ।
श्रीमत्परात्ममनुजृभितवर्णरूपां
मानैरगम्य पदवी परिचीयमानं ।।
विद्याक्षसूत्रकलशान् दधतीं च मुद्रां
ध्यायेत् समस्त जननीं शिवदां त्रिनेत्रां ।। १ ।।
वामाद्यधः करयोराद्ये तदाद्यूर्ध्वयोरन्ये इत्यायुध ध्यानं ।
मुद्रां ज्ञानमुद्रां । इति ध्यात्वान्यसेत् । ४ सोहं क्षं नमः ४ सोहं
लं नमः एवमकारांतान्वर्णान् पूर्ववत् संहाररीत्यान्यसेत् । इति
परमहंसमातृकान्यासः । इति त्रयोदशविधन्यासः ।
अथ प्रणवोत्थकलामातृकान्यासः ।
तत्र प्रजापति ऋषिः गायत्रीछंदः कलामयी मातृकासरस्वती देवता
इति ऋष्यादिकं स्मृत्वा न्यसेत् । मम श्रीविद्यांगत्वे न्यासे विनियोगः । ततः
करांगन्यासं कुयात् ।। ४ अं ओं आं हृदयाय० ४ इं ओं ईं शिरसे० एवं
करांगन्यासं कुर्यात् ततो ध्यानं ।।
प्. ५७ब्)
हस्तैः पद्मं रथांगं गुणमथहरिणं पुस्तकं वर्णमालां
टंकं शुभ्रं कपालंदरममृतलसद्धेमकुंभं वहंतां ।।
मुक्ताविद्यूत्पयोदस्फुटिकनवजपाबंधुरैः पंचवक्रै-
स्त्र्यक्षैर्वक्षोजन म्रां सकलशशि निभां शारदां तां नमामि ।। १ ।।
वामाद्यधः करयोराद्ये तदाद्यूर्ध्वयोरपरे तदाद्यूर्ध्वयोरितरे
तदाद्यूर्ध्वयोरन्ये । इत्यायुध ध्यानं ।। दरः शंखः गुणः पाश इति
वर्णारविंदे ध्यात्वा न्यसेत् । तद्यथा । ओं ऐं ह्रीं श्रीं ओं अं
निवृतिकलायै नमः । ४ ओं आं प्रतिष्टाकलायै नः । ४ ओं इं विद्याकलायै० ४
ओं ईं शांतिकलायै नमः । ४ उं इंधिका कलायै० ४ ओं ऊं
दीपिकाकलायै नमः ४ ओं ऋ रेचिका कलायै नम० ४ ओं ॠं मोचिका कलायै० ४
ओं ऌं पराकलायै० ४ ओं ॡं सूक्ष्मा कलायै० ४ ओं एं
सूक्ष्मामृताकलायै० ४ ओं ऐं ज्ञानामृताकलायै नमः । ४ ओं ओं
आप्यायिनी कलायै० ४ ओं औ व्यापिनी कलायै० ४ ओं अं व्योमरूपिणी कलायै० ४
ओं अः अनंताकलायै० ४ विष्णुर्योनिमिति जपेत् ४ अं १६ भुक्तिमुक्तिप्रदा नादजा
अनंतकलाभ्यो नम इति मुखे व्यापकं ।। ४ ओं कं
प्. ५८अ)
सृष्टिकलायै० ४ ओं खं ऋद्धिकलायै० ४ ओं गं स्मृतिकला० ओं घं
मेधाकलायै० ४ ओं ऽऽनं कांतिकलायै० ४ ओं चं लक्ष्मीक० ४ ओं छं
द्यूतिक० ४ ओं जं स्थिराक० ४ ओं झं स्थिति० ४ ओं ञं सिद्धिकलायै० ४ हं
सः शुद्धिषदिति जपेत्० सृष्टि प्रदाकार प्रभव ब्रह्मकलाभ्यो नमः । इति
भुजयोर्व्यापकं ।। ४ ओं टं जराक० ४ ओं ठं पालिनी क० ४ ओं डं
शांतिक० ४ ओं ढं ऐश्वर्या क० ४ ओं णं रतिक० ४ ओं तं कामिका क० ४
ओं थं वरदाक० ४ ओं दं ह्रादिनी क० ४ ओं धं प्रीतिक० ४ ओं नं
दीर्घाक० ४ प्रतद्विष्णुस्तवते इति जपेत् ।। ४ टं ५ तं ५ स्थिति प्रदोकार प्रभव
विष्णुकलाभ्यो नम इति पादयोर्व्यापकं न्यसेत् । ४ ओं पं तीक्ष्णा क० ४ आं
फं रौद्री क० ४ ओं बं भयाक० ४ ओं भं निद्राकला० ४ ओं मं तंद्रा
कला० ४ ओं यं क्षुधाक० ४ ओं रं क्रोधिनी क० ४ ओं लं क्रिया क० ४ ओं
वं उत्का कला० ४ ओं शं मृत्युरूपाक० ४ त्र्यंबंकं यजामहेरेति जपेत् ।।
४ पं ५ यं ५ संहृति प्रदमकार प्रभव रूद्र कलाभ्यो नम इति हृदयादि
मध्ये व्यापकं न्यसेत् ।। ४
प्. ५८ब्)
ओं षं पीता कला० ४ ओं सं श्वेता क० ४ ओं हं अरुणा कला० ४ ओं लं
असिता कला० ४ ओं क्षं अनंता कला० ४ तत्सवितुरिति जपित्वा । ४ षं ५ तिरोधान
प्रदबिंदु प्रभवेशान कलाभ्यो नम इति सर्वांगे व्यापकं ।। इति
शुद्धमातृकास्थानेषु न्यसेत् ।। इति प्रणव कलामातृकान्यासः ।।
अत्र नादात्मनः सदाशिवात्संभूताः स्वरजाः कलाः श्वेताः ।।
अक्षस्रक्पुस्तकपाशकपालकराध्येयाः ।। क च वर्ग कला
अकाराद्ब्रह्मणोद्भूताः पीताः । अक्षस्रक्
पंकजाभयकमंडलुकराध्येयाः ।। टवर्गजाः उकाराद्विष्णोरुत्पन्नाः
श्यामाः । अभयशंखचक्रवरहस्ताध्येयाः । प या वर्गजाः
मकाराद्रुद्रादुत्पन्नाः शरच्चंद्र निभाः । अभय शुलकपालः
वरहस्ताः ध्येयाः ।। षादि पंचवर्णजा ईश्वराद्बिंदोरुत्पन्नारक्ताः ।
अभय हरिण टंकवर हस्ताये याः ।। इति तारोत्थ कला
मातृकाध्येयान्यस्तव्याश्च ।।
अथाष्टत्रिंशत्कलामातृकान्यासः ।
तत्र सोमसूर्याग्नय ऋषयः अनुष्टुप् त्रिष्टुप् त्रिष्टुप् पंक्तयः छंदांसि ।
प्. ५९अ)
अष्टत्रिंशत्कलारुपिणीमातृकादेवता । श्रीविद्यांगत्वे न्यासे विनियोगः ।
इति ऋष्यादिकं स्मृत्वा विन्यस्य ।। ४ स्वरैर्हृत् । ४ पंचवर्गैः शिरः । ४ यादिभिः
शिखा पुनः । ४ स्वरैः कवचं । ४ पंचवर्गैर्नेत्रं । ४ यादि भिरस्त्रं । इति
करषडंगन्यासंविधाय ध्यायेत् ।। तद्यथा ।।
चंद्रसूर्याग्निसंकाश वक्त्रदेहपदद्वयां ।।
सुधाढ्य कलशं पद्मं स्वस्तिकं च वरंकरैः ।। १ ।।
दधानां चिंतयेद्देवीं पद्मस्थां परमेश्वरीं ।।
त्रिनेत्रां रक्तवसनां दिव्याभरणभूषितां ।। २ ।।
इति ध्यात्वा न्यासं कुर्यात् ।। तत्र । ४ अं अमृताकलायै नमः । ४ आं
मानदाक० ४ इं पूषाक० ४ ईं तुष्टिक० ४ उं पुष्टिकला० ४ ऊं रति कला०
४ ऋधृतिक० ४ ॠं शशिनी कला० ४ ऌं चंद्रिका कला० ४ ॡं कांतिक० ४ एं
ज्योत्स्ना कला० ४ ऐं श्रीकला० ४ ओं प्रीतिक० ४ औं अं गदाक० औं अं पूर्णा
कला० ४ अः पूर्णामृताकलायै नमः ।। इति षोडशकलांः षोडशस्थानेषु
न्यसेत् ।। ततः ।। ४ कं भं तपिनी कलायै नमः ।। ४ खं बं तापिनी क० ४ गं
फं धूम्राक० ४ घं पं
प्. ५९ब्)
मरीचीक० ४ ऽऽनं नं ज्वालिनीक० ४ चं धं रुचिक० ४ छं दं सुषुम्णाक०
४ जं थं भोगदाक० ४ झं तं विश्वाकला० ४ ञं णं बोधिनीक०
४ टं ढं धारिणीक० ४ ठं डं क्षमा० क० इति दक्षिणबाहु मूलादि
दक्षिणजान्वंतं मातृकास्थानेषु न्यसेत् ।। ततः । ४ यं धूम्रार्चि कलायै
नमः ।। ४ रं उष्माक० ४ लं ज्वलिनीक० वं ज्यालिनीक० ४ शं विस्फुलिगिनीक०
४ षं सुश्रीक० ४ संसुरूपाकला० ४ हं कपिलाकला० ४ लं हव्यवाहक० ४
क्षं कव्यवाहकलायै नमः । इति दक्षिणगुल्फादि वामपादांतं
मूर्द्धसर्वांगे च न्यसेत् ।। एताः श्वेतपीतारुणावराभयकराः
सर्वाभरणभूषितायुवतयोध्येयाः ।।
इत्यष्टत्रिंशत्कलाः मातृकाऽष्टत्रिंशत् स्थानेषु न्यसेत् ।।
श्रीविद्यानंदनाथेन शिवयोः प्रिय सूनुना ।। कृते सौभाग्यरत्नाब्धौ
तरंगोऽगाच्चतुर्थकः ।। १ ।।
इति श्रीसच्चिदानंदनाथे चरणारविंदद्वंद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे चतुर्थस्तरंगः ।। ४ ।।
अथ मूर्तिमातृकान्यासः ।
तत्रादौ केशवादिमातृकान्यासः
प्. ६०अ)
तत्र ओं साध्यनारायण ऋषिर्गायत्रीछंदः श्रीलक्ष्मीनारायणो देवता ।
मम श्रीविद्यांगत्वे न्यासे विनियोगः ।। इति ऋष्यादिकं स्मृत्वा विन्यस्य
करषडंगन्यासं कुर्यात् ।। तद्यथा । ओं ऐं ह्रीं श्रीं ओं श्रीं ओं
नमो नारायणाय हंसः सोहं अं कं ४ आं ह्रिं हं सः सोहं ओं
नमो नारायणाय क्रुद्धोल्काय स्वाहा श्रां देव्यै हृदयाय नमः । १ ओं
ऐं ह्रीं श्रीं ओं श्रीं ओं नमो नारायणाय हं सः सोहं इं चं ४
ईं ह्रीं हंसः सोहं ओं नमो नारायणाय महोल्काय स्वाहा श्रीं
पद्मिन्यै सिरसे स्वाहा ।। २ ।।
४ ओं १३ उं टं ४ र्-उं ह्रीं १२ वीरोल्काय स्वाहा श्रुं विष्णुपत्न्यै शिखायै
वषट् ः ।। ४ ओं १३ एं तं ४ ऐं ह्रीं १२ विद्युदुल्काय स्वाहा श्रैं वरदायै
कवचाय हुं ।। ४ ओं १३ ओं पं ४ औं ह्रीं १२ सहस्रोल्काय स्वाहा श्रौ
कमलरूपायै नेत्रत्रयाय वौषट् ।। ५ ।।
४ ओं १३ अं यं ९ अः ह्रीं १२ अनतोल्काय स्वाहा श्रः शूलिन्यै अस्त्राय फट् ।। ६ ।।
इति षडंगमंत्रानंगुष्ठादितलांतं करयोर्विन्यस्य हृदयादि
सडंगेष्वपि न्यसेत् ।। ततो ध्यानं ।।
विद्यारविंदमुकुरामृत कुंभपद्म
कौमोदकीदरसुदर्शन शोभिहस्तं ।।
प्. ६०ब्)
सौदामिनीमूदिरकांति विभाति लक्ष्मी-
नारायणात्मकमखंडितमात्ममूर्तेः ।। १ ।।
वपुरिति शेषः ।। वामाधः करमारभ्य दक्षाधः करपर्यंतं आयुध
ध्यानं ।। मुकरो दर्पणः । इति ध्यात्वा न्यसेत् ।। तद्यथा ।
ओं ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं अं क्लीं श्रीं ह्रीं केशवाय कीर्त्यै
नमः ।। ४ ह्रीं श्रीं क्लीं आं क्लीं श्रीं ह्रीं नारायणाय कांत्यै
नमः ।। ७ इं ३ माधवाय तुष्ट्यै नमः ।। ७ ईं ३ गोवींदाय पुष्टे यें० । ७
उं ३ विष्णवे धृत्यै नमः ।। ७ ऊं ३ मधूसूदनाय शांत्यै न० ७ ऋं ३
त्रिविक्रमाय क्रियायै नमः ।। ७ ॠं ३ वामनाय दयायै नमः ।। ७ ॡं ३
श्रीधराय मेधायै नमः । ७ ॡं ३ हृषीकेशाय हर्षायै० । ७ एं ३
पद्मनाभाय श्रद्धायै० । ७ ऐं ३ दामोदराय लज्जायै० । ७ ओं ३ वासुदेवाय
लक्ष्म्यै० । ७
औं ३ संकर्षणाय सरस्वत्यै० । ७ अं ३ प्रद्युम्नाय प्रीत्यै० । ७ अः ३
अनिरुद्धाय रत्यै० ।। ७ कं ३ चक्रिणे जयायै० । ७ खं ३ गदिने दुर्गायै० ७ गं
३ शार्ऽऽनिणे प्रभायै नमः । ७ घं ३ खड्गिने सत्यायै० । ७ ऽऽनं ३ शंखिने
चंडायै० । ७ चं ३ हलिने बाण्यै० । ७
प्. ६१अ)
छं ३ मुसलिने विलासिन्यै नमः । ७ जं ३ शूलिने विजयायै० । ७ सं ३ पाशिने
विरजायै नमः । ७ ञं ३ अंकुशिने विश्वायै । ७ टं ३ मुकुंदाय विनदायै
नमः । ७ ठं ३ नंदजाय सुनंदायै० । ७ डं ३ नंदिने स्मृत्यै० । ७ ढं
३ नराय ऋध्यै० । ७ णं ३ नरकाजते समृध्यै० । ७ तं ३ हरये शुध्यै नमः
। ७ थं ३ कृष्णाय भुक्त्यै० । ७ दं ३ सत्यावबुध्यै० । ७ धं ३ सत्वताय
मत्यै० । ७ नं ३ शौरये क्षमायै० । ७ पं ३ शूरावरमायै० । ७ फं ३
जनार्दनाय उमायै० । ७ बं ३ भूधराय क्लेदिन्यै० । ७ भं ३ विश्वमूर्त्तये
क्लिन्नायै० । ७ मं ३ वैकुंठाय वसुदायै० । ७ यं ३ त्वगात्मने
पुरुषोत्तमाय वसुधायै० । ७ रं ३ असृगात्मने बलिने परायै० । ७ लं ३
मांसात्मने बलानुजाय परायणायै० । ७ वं ३ मेदात्मने बालाय
सूक्ष्मायै० । ७ शं ३ अस्थात्मने वृषघ्नाय संध्यायै० । ७ षं ३
मज्जात्मने वृषाय प्रज्ञायै० । ७ संशुक्रात्मने हंसाय प्रभायै० । ७
हं ३ प्राणात्मने वराहाय निशायै० । ७ लं ३ शक्त्यात्मने विमलाय
अमोघायै० । ७ क्षं ३ परमात्मने नृसिंहा विद्युतायै नमः ।। एता मूर्त्ति
शक्तयो मातृकास्थानेषु न्यस्तव्याः ।।
केशवाद्या इमे शामाश्चक्रशंखलसत्कराः ।।
शक्तयस्तु प्रियां केषु निषणाः सस्मिता ननाः ।।
प्. ६१ब्)
विद्युद्दाम समानांग्यः पंकजाभय वाहवः । इति ध्येयाः ।।
इति केशवादि मातृकान्यासः ।।
अथ श्रीकंठादि मातृकान्यासः ।
तत्र दक्षिणामूर्ति ऋषिर्गायत्री छंदः श्री अर्धनारीश्वरी देवता ।
श्रीविद्यांगत्वे न्यासे विनियोगः । इति ऋष्यादिकं स्मृत्वा विन्यस्य
करषडंगं न्यासं कुर्यात् । तद्यथा । ४ अं कं ४ आं हस्रां हृदयाय०
४ इं चं ४ ईं हस्रीं शिरसे० ४ उं टं ४ ऊं हस्रूं शिखायै० ४ एं तं ४
ऐं हस्रैं कवचाय० ४ ओं पं ४ औं हस्रौं नेत्रत्रयाय वौ० ४ अयं ९ अः
हस्रः अस्त्राय फट् ।। इति षडंगमंत्रानंगुष्ठादि तलांतं विन्यस्य
हृदयायदिष्वपि षडंगेषु विन्यसेत् ।। ततो ध्यानं ।।
बधूककांचननिभं रुचिराक्षमालां
पाशांकुशौ च वरदं निज बाहुदंडैः ।।
बिभ्राणमिंदुशकलाभरणं त्रिनेत्र-
मर्द्धांबिकेशमनिशं वपुराश्रयामः ।। १ ।।
दक्षाधः करमारभ्य दक्षोर्ध्वकरपर्यंतमायुध ध्यानं ।। इति
ध्यात्वा न्यसेत् ।। तद्यथा ।।
४ हस्रौः अं श्रीकंथेशाय पूर्णोदर्यै नमः । ४ हस्रौः आं अनंतेशाय
विरजायै० ४ हस्रौः
प्. ६२अ)
इं सूक्ष्मेशायशाल्प्रल्यै० ४ हस्रौः ईं त्रिमूर्तीशाय लोलाक्ष्यै० ४ हस्रौः
उं अमरेशाय वर्त्तुलाक्ष्यै० ४ हस्रौः ऊं अर्घीशाय दीर्घघोणायै० ४
हस्रौः ऋंभार भूतीशाय दीर्घमुख्यै० ४ हस्रोः ॠं अतिथीशा
गोमुख्यै० ४ हस्रौः ऌंस्थाण्वीशाशाय दीर्घजिह्वायै० ४ हस्रौः ॡं
हरेशाय कुंडोदयै नमं० ४ हस्रौः ऐं सिंटीशाय ऊर्ध्वकेश्यै० ४
हस्रौः ऐं भौतिकेशाय विकृतमुख्यै० ४ हस्रौः ओं सद्योजातेशाय
ज्वालामुख्यै० ४ हस्रौः औं अनुग्रहेशाय उल्कामुख्यै नमः० ४ हस्रौः अं
अक्रूरेशाय श्रीमुख्यै० ४ हस्रौः अः महासेनेशाय विद्यामुख्यै० ४ हस्रौः
कं क्रोधीशाय महाकाल्यै० ४ हस्रौः खं चंडेशाय सरस्वत्यै० ४
हस्रौः गं पंचांतकेशाय सर्वसिद्धिगौर्यै० ४ हस्रौः घं
शिवोत्तमेशाय त्रैलोक्य विद्यायै० ४ हस्रौः ऽऽनं एकरुद्रेशाय
मंत्रशक्त्यै० ४ हस्रौः चं कूर्मेशाय आत्मशक्त्यै० ४ हस्रौः छं
एकनेत्रेशाय भूतमात्रे० ४ हस्रौः जं चतुराननेशाय लंबोदर्यै० ४
हस्रौः झं अजेशाय द्राविण्यै० ४ हस्रौः ञं सर्वेशाय नागर्यै० ४
हस्रौः टं सोमेशाय
प्. ६२ब्)
खेचर्यै० ४ हस्रौः ठं लांगलीशाय मंजर्यै० ४ हस्रौः डं
दारुकेशाय रूपिण्यै० ४ हस्रौः ढं अर्द्धनारीश्वराय वीरिण्यै० ४ हस्रौः
णं उमाकांतेशाय काकोदर्यै० ४ हस्रौः तं आषाढीशाय पूतनायै० ४
हस्रौः थं दंडीशाय भद्रकाल्यै० ४ हस्रौः दं अत्रीशाय योगिन्यै न० ४
हस्रौः धं मीनेशाय शंखिन्यै० ४ हस्रौः नं मेषेशाय गर्जिन्यै० ४
हस्रौः पं लोहितेशाय कालरात्र्यै० ४ हस्रौः फं शिखीशाय कूर्दिनै० ४
हस्रौः बं छगलंडेशाय कपर्दिन्यै० ४ हस्रौः भं द्विरंडेशाय
वज्रायै० ४ हसौः मं महाकालेशाय जयायै० ४ हस्रौः यं त्वगात्मने
वालीशाय सुमुख्यै० ४ हस्रौः रं असृगात्मने भुजंगेशाय रेवत्यै० ४
हस्रौः लं मांसांत्मने पिनाकीशाय माधव्यै० ४ हस्रौः वं
मेदात्मने खड्गीशाय वारुण्यै० ४ हस्रौः शं अस्थात्मने बकेशाय
वायव्यै० ४ हस्रौः षं मज्जात्मने श्वेतेशाय रक्षाविदारिण्यै० ४ हस्रौः
संशुक्रात्मने भृग्वीशाय सहजायै० ४ हस्रौः हं प्राणात्मने
लकुलीशाय महालक्ष्मै० ४ हस्रौः लं शक्त्यात्मने शिवेशाय व्यापिन्य० ४
प्. ६३अ)
हस्रौः क्षं परमात्मने संवर्तेशाय महामायायै नमः ।। इति
मातृकास्थानेषु न्यसेत् ।।
अत्र रुद्राः स्मृता रक्ता धृतशूलकपालकाः ।
शक्तयो रुद्रपीठस्थाः सिंदूरारुणविग्रहाः ।। १ ।।
रक्तोत्पल कपालाभ्यामलंकृतकरांबुजाः ।।
इति मूर्ति शक्तीनां ध्यानं ।। इति श्रीकंठमातृकान्यासः ।।
अथ प्रपंचयागमातृकान्यासः ।।
तत्र प्रथमं महागणपति मंत्र ऋष्यादि
करषडंगन्यासपूर्वकमष्टधा जपित्वा ततो गणपति बीजं तथैव
न्यासध्यानपूर्वकं चतुश्चत्वारिंशद्वारं जपित्वा ततो न्यासपूर्वकं
गणपत्यर्घमेकवारमावर्त्य पुनर्गणपतिमालामंत्रं
चतुर्वारमावर्त्य ततो ऋष्यादिन्यासध्यानपूर्वकं पूर्वोक्तां
शुद्धमातृकां त्रिवारं विन्यस्य ततः सत्यग्रहा विन्यस्य ततः
प्रपंचयाग मंत्रस्य ऋष्यादि करषडंगन्यासा विन्यस्य
ध्यानपूर्वकं प्रपंचयागमातृकां संहारसृष्टिमार्गेण न्यसेत् ।।
इति ऋमः । तत्र महागणपति मंत्रस्य गणक ऋषिः निवृत् गायत्रीछंदः
श्रीमहागणपतिर्देवता प्रपंचयागांगत्वै जपे विनियोगः । इति ऋष्यादिकं
स्मृत्वा विन्यस्ये करषडंगन्यासं कुर्यात् ।। तद्यथा
४ ओं गां हृदयाय० ४ श्रीं गीं शिरसे० ४ ह्रीं गूं शिखायै० ४ क्लीं
गैं कव० ४४ ग्लौं गौं नेत्र० ४ गं गः अस्त्राय फट् इति मंत्रैः
करांगंन्यासं कृत्वा ध्यानं कुर्यात् । तद्यथा ।।
प्. ६३ब्)
हस्तींद्राननमिंदुचूडमरुणछायं त्रिनेत्रं रसा-
दाश्लिष्टं प्रिययासपद्मकरयो स्वांकस्थयासंततं ।।
बीजापूर गदाधनुस्त्रिशिखयुक् चक्राब्ज पाशोसल
ब्रीह्य ग्रहस्व विषाण रत्नकलशान् हस्तैर्बहंतं भजे ।। १ ।।
गंडभित्ति गलद्दान पूरलाल समानसान् ।।
द्विरेफान् कर्णतालाभ्यां वारयंतं मुहुर्मुहुः ।। २ ।।
कराग्रधृतमाणिक्य कुंभवक्त्रविनिसृतैः ।
रत्नवर्षैः प्रीणयंतं साधकान्मदविह्वलं ।। ३ ।।
माणिक्य मुकुटोपेतं रत्नाभरणभूषितं ।
युगपत्सेवितं देवैरसुरैश्च मुहुर्मुहुः ।। ४ ।।
वामधः करमारभ्य दथाधः करपर्यंतमायुध ध्यानं ।
रत्नकलशं शुंडाग्रे त्रिशिखं त्रिशूलं । इति महागणपतिं
सांगावरणं ध्यात्वा । ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतयो वर
वरद सर्वजनंमेव शमानय स्वाहा । इति । मंत्रमष्टधा जपित्वा ।
गणपति बीजस्य गणक ऋषिः निवृत् छंदः विघ्नेश्वरो देवता
प्रपंचयागांगत्वे बीज जपे विनियोगः इति ऋष्यादिकं
प्. ६४अ)
स्मृत्वा विन्यस्य ४ गां ४ गीं इत्यादिना करषडंगन्यासं विधाय ।
ध्यानं ।
सिंदूराभं त्रिनेत्रं पृथुतर जठरं हस्तपद्मैर्धधानं
दंतंपांशांकुशेष्टानुरुकर विलसद्बीजपूराभिरामं ।।
बालेंदुद्योति मौलिं करिपति वदनं दान पूरार्द्ध गंडं
भोगींद्रा बद्धभूषं भजत गणपतिं रक्तं वस्त्रांगरागं ।। १ ।।
वामाधः करमारभ्य दक्षाधः करपर्यंतं आयुध ध्यानां ।
इष्टोवरः । उरुकरः शुंडादंडः । इति ध्यात्वा गणपतिं बीजं
चतुःश्चत्वारि शब्दारं जपित्वा ।। ४ ओं गणांनां नमः शिरसि । अलिके ४ त्वा
नमः वदने ४ गणपतिं नमः दक्षकर्णे । हवामहे नमः वामकर्णे । ४
कविं नमः आस्ये । ४ कवीनां नमः गले ४ मुपमश्रवस्तमं नमः
अंसयोः ४ ज्येष्टराजं नमः हृदि ४ ब्रह्मणां नमः नाभौ ४ ब्रह्मणः
नमः गुह्ये ४ पते नमः दक्षजानौ ४ आ नमः वामजानौ । ४ नः नमः
दक्षौरौ ४ शृ रावन् नमः वामोरौ । ४ ऊतिभिर्नमः पृष्टे ४ सीद नमः
ककुदि ४ सादनं नमः ।। इति विन्यस्य ।।
प्. ६४ब्)
ओं गणानांत्वा गणपतिं हवामहे कविं कवीनांमुपमश्रवस्तमं ।।
जेष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वनूतिभिः सीद सादनं ।। १

इति ऋचं एकवारं जपित्वा ।। गणपति मालामंत्रं जपेत् ।। ह्रीं क्रों ओं
नमः सर्वविघ्नाधिपाय सर्वार्थ सिद्धिदाय सर्वदुःखप्रशमनाय ऐह्ये
हि भगवन् सर्वान् वांदय २ स्तंभय २ ह्रीं गंगां नमः स्वाहा क्रों
ह्रीं इति मालामंत्रं चतुरा वृत्तिर्जपित्वा ततः पूर्वोक्तां
शुद्धमातृकां ऋष्यादि करषडंगन्यासध्यानपूर्वकं वारत्रयं
शुद्धमातृकास्थाने विन्यस्य ।। मुखे ४ अं १५ आदित्याय नमः । दक्षिनबाहू
मूलाद्यग्रांतं ४ यं ३ सोमाय नमः । वामबाहू मूलाद्यग्रांतं ४
कं ४ भौमाय नमः । दक्षिणोरुमूलादिपादाग्रांतं ४ चं ४ शुक्राय
नमः । वामौरुमूलादिपादाग्रांतं ४ टं ४ बुधाय नमः । जठरे ४ तं
४ बृहस्पतये नमः । हृदये ४ पं ४ शनैश्चरा नमः । इति सत्यग्रहान् विन्यस्य
।। ततः प्रपंचयाग मंत्रस्य ब्रह्मा ऋषिः गायत्रीछंदः
सकलपदार्थानुगतपरिपूर्णस्वप्रकाश
प्. ६५अ)
सच्चिदानंद परं ज्योतिः परमात्मा देवता श्रीविद्यांगत्वे प्रपंचयाग
मातृकान्यासे विनियोगः । इति ऋष्यादिकं स्मृत्वा विन्यस्य । ४ ओं ह्रीं अं कं ४
आं स्वाहा हृदयाय० ४ ओं ह्रीं इं चं ४ ईं सोहं सिरसे स्वाहा । ४ ओं ह्रीं
उं टं ४ ऊ हंसः शिखायै वषट् ४ ओं ह्रीं एं तं ४ ऐं ह्रीं कवचाय
हुं । ४ ओं ह्रीं ओं पं ४ औं नेत्रत्रयाय वौषट् । ४ ओं ह्रीं अं यं ९ अः
हरिहरास्त्राय फट् इति करषडंगन्यासं विधाय ध्यानं कुर्यात् ।
तद्यथा ।।
तारादि पंचमनुभिः परिचीयमानं
मानैरगम्यमनिशं जगदेक मूलं ।।
सच्चित्समस्तगमनेश्वरमच्युतं तं-
त्तेजः परं भजत सांद्र सुधांबुराशिं ।। १ ।।
इति सकल प्रपंचातिरिक्तः सर्वसाक्षी निरतिशयानंद चिद्विलासा विना भूतः
परिपूर्ण सच्चिदानंदोहमिति स्वात्मानं ध्यात्वा श्रीपरदेवता परात्मनि
वह्नौ त्तत्तत्स्थानयुक्तान्वर्णान् जुहोमि० इति धिया स्वस्मिन् वर्णान् जुहुयात् ।।
तद्यथा ।।
४ ओं ह्रीं क्षं हं सः सोहं स्वाहा । ४ ओं ह्रीं लं हं सः सोहं स्वाहा ।
४ ओं ह्रीं हं हंसः सोहं स्वाहा । इत्यादि ४ ।।
प्. ६५ब्)
ओं ह्रीं अं हंसः सोहं स्वाहा० इत्यादि ४ ओं ह्रीं क्षंः हंसः सोहं
स्वाहा इत्यंतं मातृकास्थानेषु विन्यसेत् ।। इति प्रपंचयागमातृकान्यासः

अथ भूतलिपिन्यासः ।
तत्र श्रीभूतलिपि मंत्रस्य । दक्षिणामूर्ति ऋषिः गायत्रीछंदः भूतलिपि
सरस्वती देवताः श्रीविद्यांगत्वे भूतलिपिन्यासे विनियोगः । इति ऋष्यादिकं
स्मृत्वा विन्यस्य ४ हं यं रं वं लं हृदयाय नमः । ४ ऽऽनं कं खं
यं गं शिरसे स्वाहा । ४ ञं चं छं झं जं शिखायै वषट् ।
४ णं टं ठं ढं डं कवचाय हुं । ४ नं तं थं धं दं
नेत्रत्रयाय वौषट् । ४ मं पं फं भं बं अस्त्राय फट् इति मंत्रैः
करषडंगं न्यासं विधाय ध्यायेत् । तद्यथा ।
चिद्बीजं बिंदुनादाह्व शिखं विश्वंभरा क्षरैः ।।
शाखा समूहैः सकल दिशासु सुविभृंभितं ।। १ ।।
जलवर्ण दलव्रातेनाछादित जगत्रयं ।।
कृशानुवर्णांकुरैश्च संदीत्यं सुरभूतहं ।। २ ।।
रत्नांकुरैरिवशुभं पवनाक्षर शोभितैः ।।
कुसुमैर्दीपयंतं च स्वकीय तनु स छ्रियं ।। ३ ।।
वियदक्षर सद्रूपैः फलैरानतमुत्तमं ।।
प्. ६६अ)
सर्वभूताश्रयं नित्यं परामृत मधु द्रवैः ।। ४ ।
सिंचिंतं परमेशानीं देवीं वागीश्वरीं शुभां ।।
निगमागम संकॢप्त समुन्नति सुशोभितं ।। ५ ।।
शिवशक्त्यात्मक छाया समाश्रित जगत्त्रयं ।।
यमाश्रित्य मुनींद्रौद्याः वांछितार्थान् प्रपेदिरे ।। ६ ।।
एवं भूतार्ण वृक्षस्य मूले त्वक्षर पंकजे ।।
वागीश्वरीं स्मरेन्नित्यं सकलेष्ट फलप्रदां ।। ७ ।।
कुंदाभासामुरु कुच घटां शोभि चंद्रार्ध मौलिं
हस्तांभोजैर्वरजपवटीं पुस्तकं पुंकपालं ।।
बिभ्राणां तां मधुमदल सद्विह्वला युग्म नेत्रां
देवीं ध्यायेल्लिपि मयतनुं यौवन् प्राप्तशोभां ।। ८ ।।
दक्षाधः करमारभ्य वामाधः करपर्यंतं आयुध ध्यानं ।। इति
ध्यात्वा न्यसेत् ।। तत्र प्रथमं संहारन्यासः ।।
संहारं च तथा सृष्टिं स्थिति न्यासं समाचरेत् ।। इति कुलार्णवे ।।
तत्र गले । ओं ऐं ह्रीं श्रीं ऌं नमः । हृदि ४ ऋं नमः । ४ नाभौ० उं
नमः । स्वाधिष्ठाने ४ इं नमः । मुलाधारे ४ अं नमः । द्वादशांते ४ औ
नमः । शक्त्यां ४ ओं नमः । नादे ४ ऐं नमः । बिंदौ ४ एं नमः
लंबिकायां ।। नामांतरं चोर कूपे ।। ४
प्. ६६ब्)
लं नमः । वामकर्णे । ४ वं नमः । दक्षकर्णे ।। ४ रं मुखे । ४ यं
मूर्द्ध्नि ४ हं न० । दक्षमणि बंधे । ४ गं० । अंगुलिमूले ४ घं न० ।
कूर्परे ४ खं० । बाहुमूले । ४ कं० । अंगुल्यग्रे ४ ऽऽनं न० ।
वाममणिबंधे ४ जं० । अंगुलिमूले ४ झं० । कूर्परे ४ छं० । बाहुमूले
४ चं० । अंगुल्यग्रे ४ ञं० । दक्षपादगुल्फे ४ डं नमः । अंगुलिमूले
४ ढं० । जानुनि ४ ठं । उरु मूले ४ टं० । अंगुल्यग्रे ४ णं० । वामगुल्फे ४
दं० । अंगुलिमूले ४ धं० । भानुनि ४ थं० । ऊरुमूले ४ तं० । पादाग्रे ४
नं० । पृष्टे ४ बं० । नाभौ ४ भं० । वामपार्श्वे ४ फं० । दक्षे ४ पं० ।
उदरे ४ मं० । भ्रूमध्ये ४ सं० । हृदये ४ षं० । गुह्ये ४ शं० । इति संहार
न्यासः ।।
अथ सृष्टिन्यासः ।
तत्र मूलाधारे ४ अः नमः । एवं स्वाधिष्ठाने ४ इः नमः । नाभौ ४ उः ।
हृदि ४ ऋः । गले ४ ऌः । बिंदौ ४ एः । नादे ४ ऐः नम शक्त्यां ४ ओः ।
द्वादशांते ४ औः । मूर्द्ध्नि ४ हः नमः । मुखे ४ यः नमः । दक्षकर्णे ४
रः नमः । वामे ४ वः नः । चूडाधः ४ लः । दक्षकरांगुल्यग्रे ४ ऽऽनः
नमः । बाहुमूले ४ कः । मध्ये ४ खः । अंगुलिमूले ४ घः । मणिबंधे ४
गः । वामकरांगुल्यग्रे ४ ञः ।
प्. ६७अ)
बाहुमूले ४ चः । मध्ये ४ छः । अंगुलिमूले ४ सः । मणिबंधे ४ जः ।
दक्षपादाग्रे ४ णः । उरुमुले ४ टः । जानुनि ४ ठः । अंगुलिमूले ४ ढः ।
गुल्फे ४ डः । वामपादाग्रे ४ नः । उरुमूले ४ तः ।। जानुनि ४ थः । अंगुलिमूले
४ धः । गुल्फे ४ दः । उदरे ४ मः । दक्षपार्श्वे ४ पः । वामे ४ फः । नाभौ ४
भः । पृष्ठे ४ बः । मूलाधारे ४ शः । हृदि ४ षः भ्रूमध्ये ४ सः नमः ।
इति सृष्टिन्यासः ।।
अथ स्थितिन्यासः ।।
तत्र मूलाधारे ४ अंः नमः । एवं स्वाधिष्ठाने ४ इः नमः ।। हृदि ४ ऋंः ।
गले ४ ऌंः । नाभौ ४ उंः । बिंदौ ४ एंः । नादे ४ एंः । द्वादशांते ४
औंः । शक्त्यां ४ ओंः ब्रह्मरंध्रे ४ हंः । मुखे ४ यंः । वामकर्णे ४
वंः । चूडाधः ४ लंः । दक्षकर्णे ४ रंः । दक्षकरांगुल्यग्रे ४ ऽऽनंः ।
बाहुमूले ४ कंः । अंगुलिमूले ४ घंः । मणिबंधे ४ गंः । कूर्परे ४
खं । वामकरांगुल्यग्रे ४ ञंः । वामबाहुमूले ४ चंः । अंगुलिमूले ४
झंः । मणिबंधे ४ जंः । मध्ये ४ छंः । दक्षपादांगुल्यग्रे ४ णंः ।
दक्षोरुमूले ४ टंः । अंगुलिमूले ४ ढंः । गुल्फे ४ डंः । जानुनि ४ ठंः
। वामपादांगुल्यग्रे ४ नंः । वामोरुमूले ४ तंः ।
प्. ६७ब्)
अंगुलिमूले ४ धंः । गुल्फे ४ दंः । जानुनि ४ थंः । उदरे ४ मंः ।
दक्षपार्श्वे ४ पंः । नाभौ ४ भंः । पृष्ठे ४ बंः । वामपार्श्वे ४
फंः । हृदि ४ षंः । भ्रूमध्ये ४ संः । गुह्ये ४ शंः नमः ।। इति
स्थितिन्यासः ।। इति भूतलिपिमातृकान्यासः ।।
अथ षट्त्रिंशत्तत्वं न्यासः ।।
तत्र जान्वादिपादपर्यंतं ४ क्षं पृथिवी तत्वात्मने
श्रीमहात्रिपुरसुंदर्यै नमः । नाभ्यादिजान्वंतं ४ लं अप् तत्वात्मने
श्री० । कंठादिनाभ्यंतं ४ हं तेजस्तत्वात्मने श्री० ।।
भ्रूमध्यादिकंठांतं ४ संवायुस्तत्वात्मने श्री० । मूर्द्धादि
भ्रूमध्यांतं ४ षं आकाशतत्वात्मने श्री० पुनर्जाचादिपादांतं ४
शं गंधतत्वात्मने श्री० । नाभ्यादिजान्वंतं ४ वं रसतत्वात्मने श्री०
। कंठादिनाभ्यंतं ४ लं रुपतत्वात्मने श्री० ।
भ्रूमध्यादिकंठांतं ४ रं स्पर्शतत्वात्मने श्री० ।
मूर्द्धादिभ्रूमध्यांतं ४ यं शब्दतत्वात्मने श्री० । गुह्ये ४ मं
उपस्थतत्वात्मने श्री० गुदे ४ भं पायुतत्वात्मने श्री०
प्. ६८अ)
पादयोः ४ बं पादतत्वात्मने श्री० पाण्योः ४ फं पाणितत्वात्मने श्री० ।
मुखे ४ पं वाक् तत्वात्मने श्री० । नासिकयोः ४ नं घ्राणतत्वात्मने श्री० ।
जिह्वायां ४ धं जिह्वातत्वात्मने श्री० चक्षुषोः । दं चक्षुस्तत्वात्मने
श्री० । सर्वांगे ४ थं त्वक् तत्वात्मने श्री० । श्रोत्रयोः । ४ तं
श्रोत्रतत्वात्मने श्री० । मनसि ४ णं मनस्तत्वात्मने श्री० । हृदि ४ ढं
बुद्धितत्वात्मने श्री हृदि ४ डं अहंकारतत्वात्मने श्री० । सर्वांगे ४ ठं
प्रकृतितत्वा श्री० सर्वांगे ४ टं पुरुषतत्वात्मने श्री० सर्वांगे ४ ञं
निर्याततत्वात्मने श्री० सर्वांगे ४ झंकालतत्वात्मने श्री० । हृदि ४ जं
रागतत्वात्मने श्री० हृदि ४ छं विद्यातत्वात्मने श्री० । हृदि ४ च
कलातत्वात्मने श्री० । हृदि ४ ऽऽनं मायातत्वात्मने श्री० । हृदि ४ घं
शुद्धविद्यातत्वात्मने श्री० । मुखे ४ गं ईश्वरतत्वात्मने श्री० । शिरसि ४
खं सदाशिवतत्वात्मने श्री० । मूलाधारे ४ कं शक्तितत्वात्मने श्री०
ब्रह्मरंध्रे ४ अं शिवतत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः ।।
इति षट्त्रिंशत्तत्वन्यासः ।।
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।।
कृते सौभाग्यरत्नाब्धौ तरंगः पंचमोमंगंत् ।। १ ।।
प्. ६८ब्)
इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे पंचमस्तरंगः ।। ५ ।।
अथ मूलमंत्रन्यासः
स चास्यां विद्यायां त्रिविधः । षोढा श्रीचक्रकरशुध्यादि भेदात्
। षोढान्यासोपि द्विविधः । पूर्वोत्तर भेदात् । उत्तरोपि त्रिविधः ।
महाषोढान्यासो बीजषोढान्यासो मालिन्यादि षोढान्यासश्चेति ।
तत्र पूर्वषोढान्यासः सर्वाम्नायविषयः ।
उत्तर षोढान्यासस्तूर्ध्वाम्नायविषयः । श्रीचक्रन्यासोपि त्रिविधः ।
संहारसृष्टिस्थितिभेदात् । करशुध्यादिन्यासोपि बहुतरः । रतिकाम
पंचाशत्त्रिपुरादिनां न्यास विशेषाणां तत्रैवादि पदेन संगृहीतत्वात् ।
तत्रादौ पूर्वषोढान्यासः । तत्र दक्षिणामूर्ति ऋषिः । गायत्री छंदः ।
श्रीमातृका गणेशग्रहनक्षत्रयोगिनीराशि पीठमातृकारूपिणी
श्रीत्रिपुरसुंदरी देवता । श्रीविद्यांगत्वेन्यासे विनियोगः । इति ऋष्यादिकं
स्मृत्य विन्यस्य करषंडगन्यासं कुर्यात् । तद्यथा-
ओं ऐं ह्रीं श्रीं अं कं ४ आं ऐं हृदयाय नमः । ४
प्. ६९अ)
इं चं ४ ईं क्लीं शिरसे स्वाहा । ४ उं टं ४ ऊं सौः शिखायै वषट् । ४
एं तं ४ ऐं ऐं कवचाय हुं । ४ ओं पं ४ औं क्लीं नेत्रत्रयाय वौषट् । ४
अं यं ९ अः सौः अस्त्राय फट् । इति मंत्रानंगुष्ठादितलांतं
करयोर्विन्यस्य हृदयादिष्वेपि षडंगेषु विन्यसेत् । ततो ध्यानं
उद्यत्सूर्यसहस्राभां पीनोन्नतपयोधरां ।।
रक्तमाल्यांबरालेपां रक्तभूषणभूषितां ।। १ ।।
पाशांकुशधनुर्बाणभास्वत्पाणिचतुष्टयां ।।
लसन्नेत्रत्रयां स्वर्णमुकुटोद्भासिचंद्रिकां ।। २ ।।
गणेशग्रहनक्षत्रयोगिनी राशिरूपिणीं ।।
देवीं पीठमयीं ध्यायेन्मातृकासुंदरीं करपरां ।। ३ ।।
वामाद्यूर्ध्वयोराद्ये इत्यायुधध्यानं ।
इति समष्टिरूपेण परमानंदघनां ध्यात्वा अस्य श्रीगणेशन्यासस्य
गणक ऋः निचृद्गायत्री छंदः श्रीगणेशो देवता न्यासे विनियोगः । ओं गां
शक्त्यानंदाय हृ० श्रीं गीं मुखेंद्राय शिरः । ह्रीं गुं
राजचंद्राय शिखा । क्लीं गैं मदोत्कटाय कवचाय हुं । ग्लौं गौं
प्रमोदाय नेत्र । गं गः सर्वमंत्रात्मने आमोदाय अस्त्राय०
इति षंडंगं विन्यस्य गणेशादि रूपं ध्यायेत् ।
प्. ६९ब्)
तद्यथा ।।
तरुणादित्यसंकाशान् गजवक्त्रांस्त्रिलोचनान् ।।
पाशांकुशवराभीति करान् शक्ति समन्वितान् ।। १ ।।
तास्तु सिंदूरवर्णाभाः सर्वालंकार शोभिताः ।।
एकहस्त धृतां भोजा इतरा लिंगित प्रियां ।। २ ।।
वामोर्ध्व करमारभ्य इति आयुध ध्यानं ।।
शक्तीनां वामकरे कमलं दक्षिणकरेण प्रियालिंगनमिति ध्यात्वा न्यसेत् ।
तद्यथा । ओं ऐं ह्रीं श्रीं गं अं विघ्नेश्वराय श्रीयै नमः । ४
गं आं विघ्नराजाय ह्रियै नमः । ४ गं इं विनायकाय तुष्ट्यै न० । ४ गं
ईं शिवोत्तमाय शांत्यै० । ४ गं उं विघ्नकृते पुष्ट्यै० । ४ गं ऊं
विघ्नहर्त्रे सरस्वत्यै० । ४ गं ऋं विघ्नराजायरत्यै० । ४ गं ॠं
गणनायकाय मेधायै० । ४ गं ऌं एकदंताय कांत्यै० । ४ गं ॡं
द्विदंताय कामिन्यै० । ४ गं एं गजवक्त्राय मोहिन्यै० । ४ गं ऐं
निरंजनाय जटायै० । ४ गं ओं कपर्दिने तीव्रायै० । ४ गं औं
दीर्घवक्त्राय ज्वालिन्यै० । ४ गं अं शंकुकर्णाय नंदायै० । ४ गं अः
वृषभध्वजाय सुरसायै० । ४ गं कं गणनाथाय कामरुपिण्यै० । ४ गं
खं गजेंद्राय उग्रायै० । ४ गं गं शूर्पकर्णाय जयिन्यै० । ४ गं घं
त्रिनेत्राय सत्यायै० । ४ गंडं लंबोदराय विघ्नेश्यै० । ४
प्. ७०अ)
गं चं महानादाय सुरुपिष्पै० । ४ गं छं चतुर्मूर्त्तय कामदायै० न०
। ४ गं जं सदाशिवाय मदविह्वलायै० । ४ गं झं आमोदाय विकटायै० । ४
गं ञं चतुर्मुखाय धूम्रायै० । ४ गं टं सुमुखाय भूत्यै० । ४
गं ठं प्रमोदाय भूम्यै० । ४ गं डं एकपादाय सत्यै० । ४ गं ढं
द्विजिह्वाय परमायै० । ४ गं णं शूराय मनुष्यै० । ४ गं तं वीराय
मकरध्वजायै० । ४ गं थं षण्मुखाय विकर्णायै० । ४ गं दं वरदाय
भृकुट्यै० । ४ गंधं वामदेवाय लज्जायै० । ४ गं नं वक्रतुंडाय
दीर्घघोणाये० ४ गं पं द्विरंडाय धनुर्धरायै० । ४ गं फं सेनान्ये
यामिन्यै न० । ४ गं बं ग्रामण्ये रात्र्यै० । ४ गं भं मत्ताय
चंद्रिकायै० । ४ गं मं विमत्ताय शशिप्रभायै० । ४ गं यं
मत्तवाहनाय लोलायै० । ४ गं षं वृषकेतवे शिवायै० । ४ गं सं
भक्षप्रियाय दुर्गायै० । ४ गं हं मेघनादाय कालिकायै० । ४ गं लं
गणपतये कालजिह्वायै० । ४ गं क्षं गणेशाय विघ्नहारिण्यै नमः । इति
मातृकास्थानेषु न्यसेत् । इति गणेशन्यासः ।।
अथ ग्रहन्यासः ।।
तत्र ध्यानं ।।
रक्तं स्वेतं तथा रक्तं श्यामं पीतं च पांडुरं ।।
प्. ७०ब्)
धूम्रकृष्ण्यं कृष्णधूम्रं धुम्रधूम्रं विचिंतयेत् ।। १ ।।
रवि मुख्यान् कामरूपान् सर्वाभरणभूषितान् ।।
वामोरू न्यस्त हस्तांश्च दक्षहस्त वरप्रदान् ।। २ ।।
शक्तयोपि तथा ध्येया वराभय करांबुजाः ।।
स्वस्वप्रियांकनिलयाः सर्वाभरणभूषिताः ।। ३ ।।
इति ध्यात्वा न्यसेत् ।।
हृदयाधस्तात् ।
ओं ऐं ह्रीं श्रीं अं १५ रक्तवर्णसूर्याय रक्तवर्णरेणुकांबायै नमः ।
भ्रूमध्ये ४ यं ३ स्वेतवर्णचंद्राय श्वेतामृतांबायै० । नेत्रत्रये । ४
कं० ४ रक्तवर्णमंगलाय रक्तवर्णधामांबायै० । हृदयस्थोपरि । ४
चं० ४ श्यामाय बुध्याय श्यामज्ञानरूपांबायै० । कंठे ४ तं० ४
पीताय बृहस्पतये पीतशांकर्ययंबायै० । हृदि ४ टं० ४ पांडुराय
शुक्राय पांडुज्ञानरुपांबायै० । नाभौ ४ पं ४ धूम्रकृष्णाय
शनैश्चराय धूम्रकृष्णशक्त्यांबायै० ।। मुखे ४ शं ३
कृष्णधूम्राय राहवे कृष्णधूम्र कृष्णांबांयै० । पादयोः ४ लं
क्षं धूम्र धूम्राय केतवे धूम्रांबायै नमः । इति ग्रहन्यासः ।
अथ नक्षत्रन्यासः ।
तत्र ध्यानं ।
ज्वलत्कालाग्निसंकाशा वरदाभयपाणयः ।।
नतिपाण्योश्विनीमुख्याः सर्वाभरणभूषिताः ।। १ ।।
दक्षाधः करयोर्वराभये ऊर्ध्वयोर्नतिमुद्रे० । इत्यायुध ध्यानं ।।
प्. ७१अ)
इति ध्यात्वा न्यसेत् । तद्यथा । ललाटे ४ अं आं अश्विन्यै नम० । दक्षनेत्रे ४ इं
भरण्यै० । वामनेत्रे ४ ईं उं ऊं कृत्तिकायै० । दक्षणकणे ४ ऋं ॠं ऌं
ॡं रोहिण्यै० । वामकर्णे ४ एं मृगशिरसे० । दक्षनासायां ४ ऐं
आर्द्रायै० । वामनासायां ४ ओं औं पुनर्वसवे० । कंठे ४ कं पुष्पायै०
। दक्षस्कंधं ४ खं गं आश्लेषायै० । वामस्कंधे ४ घं ऽऽनं
मघायै० । दक्षकफोणौ ४ चं पूर्वफाल्गुन्यै० । वामकफोणौ ४ छं
जं उत्तराफाल्गुन्यै० । दक्षमणिबंधे ४ झ ञं हस्तायै० ।
वाममणिबंधे ४ टं ठं चित्रायै० । दक्षस्तने ४ डं स्वात्यै० ।
वामहस्तेये ४ ढं णं विशाखायै० ।। नाभौ ४ तं थं दं अनुराधायै
न० ।। दक्षकट्यां ४ धं ज्येष्ठायै० । वामकट्यां ४ नं पं फं
मूलायै नमः ।। दक्षोरौ ४ बं पूर्वाषाढायै० । वामोरौ ४
उत्तराषाढायै० । दक्षजानुनि ४ मं श्रवणायै० । वामजानुनि ४ यं रं
धनिष्ठायै० । दक्षजंघायां ४ शतभिषायै न० । वामजंघायां ४
वं शं पूर्वभाद्रपदायै० । दक्षपादे ४ षं शं हं
उत्तराभाद्रपदायै० । वामपादे ४ लं क्षं अं अः ।
प्. ७१ब्)
रेवत्यै नमः ।। इति नक्षत्रन्यासः ।
अथ महायोगिनीन्यासः ।।
तत्र विशुद्धौ षोडशदलकमलकर्णिकायां त्वक् धातु देवतां डाकिनीं
ध्यायेत् ।। तद्यथा ।।
रक्तां रक्त त्रिनेत्रां पशुजनभयकृछूलखट्वांगहस्तां
वामे खेटं दधानां चषकमपि सुरापूरितं चैकवक्त्रां ।।
अत्युग्रासुग्रदंष्ट्रामरि कुलमथिनीं पायसान्ने प्रसक्तां
कंठस्थानेऽमृताद्यैः परिवृतवपुषं भावयेज्जकिनीं तां ।। १ ।।
दक्षोर्ध्वाधः शूलखट्वांगे वामोर्ध्वाधः खेट चषके इत्यायुध
ध्यानं ।। इति ध्यात्वा न्यसेत् ।।
४ डां डीं डूं डैं डौं डः डमलवयरंयूं डाकिनि मां रक्ष
रक्ष मम त्वग् धातुं रक्ष रक्ष सर्वसत्ववशंकरि देवि आगछ आगछ
इमां पूजां गृह्ण गृह्ण ऐं घोरे देवि ह्रीं सः परमघोरे हूं
घोररूपे एह्येहि नमश्चामुंडे डरलकसे हें श्रीमहात्रिपुरसुंदरि देवि
वरदे विच्चे अं १५ विशुद्ध पीठस्थे विशुद्ध डाकिनि विशुद्धनाथ
देवयुग्म श्रीपादुकां पूजयामि नमः ।। इति मनसा कर्णिकायां विन्यस्य
तदग्रादि परितस्तदावरणाक्षर शक्तीर्न्यसेत् ।।
प्. ७२अ)
तद्यथा ।। ४ अं अमृतायै नमः आं आकर्षिण्यै० ४ इं इंद्राविण्यै० । ४ ईं
इशान्यै नमः ४ उं उमायै० । ऊर्ध्वकेशिन्यै० । ४ ऋं ऋद्धिदायै० । ४
ॡं ऋषायै० । ४ ऌं ऌकारायै० । ४ ॡं ऌषायै न० । ४ एं एकपादायै० । ४
ऐं ऐश्वर्यात्मिकायै० । ४ ओं ओंकारात्मिकायै० । ४
औं औषधात्मिकायै० । ४ अं अंबिकायै० । ४ अः अक्षरात्मिकायै नमः ।। इति
प्रादक्षिण्येन न्यसेत् ।। एताः शक्तयो डाकिनी वध्येयाः ।। ततोऽनाहते
द्वादशदलकमलकर्णिकायां रक्तधातु देवतां राकिनीं सावरणां
ध्यात्वानस्येत् ।। तद्यथा ।।
श्यामां शूलाब्जहस्तां डमरुकसहितां तीक्ष्णचक्रं वहंतीं
द्व्यास्यां रक्त त्रिनेत्रां भृकुटिवलिलसद्दष्टदंतप्रभाभिः ।।
दीप्तास्यां देवदेवीं हृदयकमलगां रक्तधात्वैक नाथां
शुद्धान्नेषु प्रसक्तां मधुमदमुदितां चिंतयेद्राकिणीं तां ।।
दक्षाधः करमारभ्य दक्षोर्ध्व करपर्यंतमायुधध्यानं ।।
इति ध्यात्वा तन्मन्त्रं कर्णिकायां न्यसेत् ।। तद्यथा ।।
४ रां रीं रूं रैं रौं रंः । रमलवरयूं राकिणि मां रक्ष रक्ष
मम रक्त धातूं रक्ष रक्ष सर्वसत्व
प्. ७२ब्)
वशंकरि देवि आगछ २ इमां पूजां गृह्ण २ ऐं घोरे देवि ह्रीं सः
परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसहैं
श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे कं ११ अनाहत पाठस्थे अनाहत
राकिणि अनाहत नाथदेव युग्म श्रीपादुकां पूजयामि नमः ।। इति मनसा
संपूज्य कर्णिकायां विन्यस्य० दलेषु परितस्तदावरणाक्षर देवता न्यसेत् ।।
तद्यथा ।।
४ कंकालरात्र्यै नमः ।। ४ खं खार्तंतायै० । ४ गं गायत्र्यै नमः । ४
घं घंटाधारिणयै न० । ४ ऽऽनं ऽऽनार्णात्मिकायै० ४ चं चामुंडायै०
। ४ छं छायायै० । ४ जं जयायै० । झं झंकारिण्यै० । ४ ञं
ञांर्णात्मिकायै० । ४ टं टंकहस्तायै० ।
४ ठं ठंकारिण्यै० डं डंः ।। इति द्वादशदलेषु विन्यस्यैता राकिनीव
ध्येयाः ।। ततो मणिपूरे दशदलकमल मांसधातु देवतां लाकिनीं
सावरणां ध्यात्वा न्यसेत् तद्यथा ।।
कृष्णां देवीं त्रिवक्त्रां त्रिनयन लसितां दंष्ट्रियीमुग्ररूपां
वज्रं शक्तिं च दंडाभयवरददरान् दक्षवामेर्दधानां ।।
ध्यात्वा नाभिस्थ पद्मे दशदल विलसत्कर्णिके लाकिनीं तां
मांसस्थां गौडभक्तोत्सुक हृदयवतीं विन्यसेत् साधकेंद्रः ।। १ ।।
प्. ७३अ)
दक्षाद्यूर्ध्वयोराद्ये तदाद्मधःस्थयोरन्ये तदाद्यधःस्थयोरपरे
इत्यायुध ध्यानं ।। इति ध्यात्वा न्यसेत् ।।
४ लां लीं लूं लैं लौं लः लमलवरयूं लकिनी मां रक्ष २ मम
मांसधातुं रक्ष २ सर्वसत्ववशंकरि देवि आगछ २ इमां पूजां
गृह्ण गृह्ण ऐं घोरे देवि ह्रीं सः परमघोरे हूं घोररूपे एह्येहि
नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे डं ।
९ मणिपूरक पीठस्थे मणिपूर कलाकिनिमपूरकनाथ देवयुग्म
श्रीपादुकां पूजयामि नमः ।। इति कर्णिकायां मनसा संपूज्य विन्यस्य
परितस्तदा वरणाक्षर देवता न्यसेत् ।। ४ डं डामर्षे नमः । ४ ढं ढं
कारिण्यै० । ४ णं णकारिण्यै० ।। ४
तं तामस्यै नमः ।। थं स्थानदेव्यै० । ४ दं दाक्षायिण्यै न० । ४ धं
धात्र्यै० । ४ नं नंदायै० । ४ पं पार्वत्यै नमः । फं फट्कारिण्यै
नमः ।। इति न्यसेत् ।।
एता लकिनीवत् ध्येयाः ।। ततः स्वाधिष्ठाने षट्दलकमल कर्णिकायां मेदो
धातु देवतां काकिनीं सावरणां ध्यात्वा न्यसेत् । तद्यथा ।।
स्वाधिष्ठानाख्य पद्मे रसदललसिते वेदवक्त्रां त्रिनेत्रां
पीतांभां धारयंती त्रिशिखगुणकपाला भयान् पात्तगर्वां ।।
प्. ७३ब्)
मेदो धातु प्रतिष्ठामलिमदमुदितां बंधिनीत्यादिवीतां
दध्यन्ने सक्तचित्तामभिमत फलदां काकिनीं भावयेत् तां ।। १ ।।
दक्षोर्ध्व करमारभ्य दक्षाधः करपर्यंतंमायुध ध्यानं ।। इति
ध्यात्वा न्यसेत् ।। ४ कां कीं कूं कैं कौं कः कमलवरयूं काकिनि
मां रक्ष २ मम मेदो धातुं रक्ष २ सर्वसत्ववशंकरि देवि आगछ २
इमां पूज्यां गृह्ण २ ऐं घोरे देवि ह्रीं सः परमघोरे हं घोररूपे
एह्येहि नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरि देवि वरदे विच्चे
बं ५ स्वाधिष्ठान पीठस्थे स्वाधिष्ठान काकिनि स्वाधिष्ठाननाथ देव
युग्म श्रीपादुकां पूजयामि नम ।। इति कर्णिकायां मनसा संपूज्य
विन्यस्य परितस्तद्दलेषु परिवाराक्षर देवता न्यसेत् ।। ४ बं बंधिन्यै नमः ।
४ भं भद्रकाल्यै० । ४ मं महामायायै न० । ४ यं यशस्विन्यै० । ४ रं
रमायै० । ४ लं लंबोष्ठ्यै० । ४ इति विन्यस्यैताः काकिनीवत् ध्येयाः ।।
ततो मूलाधारे चतुर्दलकमलकर्णिकायां अस्थिधातु देवतां साकिनीं
ध्यात्वा न्यसेत् ।। तद्यथा ।।
देवीं ज्योतिः स्वरूपां त्रिनयन विलसत्पंचवक्त्रां सुदंष्ट्रां
हस्तांभोजेक्षा चापं सृणिमपि दधतीं पुस्तकं ज्ञानमुद्रां ।।
प्. ७४अ)
मूलाधारस्थ पद्मे निखिल पशु जनोन्मादिनीमस्थिसंस्थां
मुद्गात्रे प्रीतियुक्तां मधुमदमुदितां चिंतयेत् साकिनीं तां ।। १ ।।
वामाद्यूर्ध्वयोराद्ये तदाद्यधस्थयोरन्ये इत्यायुध ध्यानं ।। अत्रेक्षु
चापग्रहणात्तत्रैव पुष्पबाणानपि ध्यायेत् ।। धनुर्बाणयोरत्यंत
साहचर्यात् ।। इति ध्यात्वा तत्कर्णिकायां न्यसेत् ।। ४ सां सीं व्यूं सैं सौ
सः स्मल्वरयूं साकिनी मां रक्ष २ ममास्थि धातुं रक्ष २
सर्वसत्ववशंकरि देवि आगछ २ इमां पूजा गृह्ण २ ऐं घोरे देवि ह्रीं
सः परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसहैं
श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे वं ३ मूलाधारपीठस्थे
मूलाधारसाकिनि मूलाधारनाथ देवयुग्म श्रीपादुकां पूजयामि
नमः ।। इति तत्कर्णिकायां मनसा संपूज्य विन्यस्य तद्दलेषु
परितस्तत्परिवाराक्षर देवता न्यसेत् ४ व वरदायै नमः । ४ शं शशिन्यै
नमः । ४ षं षंढायै० । ४ सं सरस्वत्यै नमः ।। इति विन्यस्यैताः
साकिनीवत् ध्येयाः ।।
प्. ७४ब्)
ततो भ्रूमध्ये आज्ञाचक्रे मज्जाधातु देवतां हाकिनीं ध्यात्वा न्यसेत् ।।
तद्यथा ।।
भ्रूमध्ये बिंदुपद्मे द्विदलसुलसिते शुक्लवर्णां कराब्जै-
र्बिभ्राणां ज्ञानमुद्रां डमरुकसहितामक्षमालां कपालं ।।
षड्वक्त्रां मज्जसंस्थां त्रिनयनलसितां हंसवत्यादि युक्तां
हारिद्रान्ने सक्तचित्तां सकलसुरनुतां हाकिनीं भावयेत् तां ।। १ ।।
दक्षाद्यूर्ध्वयोराद्ये तदाद्यद्यधस्थयोरन्ये इत्यायुध ध्यानं ।। इति
ध्यात्वा न्यसेत् ।। ४ हां हीं हूं हैं हौं हः । हमलवरयूं हाकिनि
मां रक्ष २ मम मज्जाधातुं रक्ष २ सर्वसत्ववशंकरि देवि आगछ २
इमां पूजां गृह्ण २ ऐं घोरे देवि ह्रीं सः परमघोरे हूं घोररूपे
एत्येहि नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे
हं क्षं आज्ञापीठस्थे आज्ञाहाकिनि आज्ञानाथ देवयुग्म
श्रीपादुकां पूजयामि नमः ।। इति तद्दलकर्णिकायां मनसा संपूज्य
विन्यस्य तद्दलयोः । ४ हं हंसवत्यै नमः । ४ क्षं क्षमावत्यै० ।। इति
विन्यस्य हाकिनीवत् ध्येयाः ।। ततो ब्रह्मरंध्रे सहस्रदल
प्. ७५अ)
कमलकर्णिकायां शुक्रधातु देवतां सावरणां याकिनीं ध्यात्वा
न्यसेत् ।।
मुंडव्योमस्थ पद्मे सकलदलयुते याकिनी भैरवीं तां
पक्षिण्यांख्यां समस्तायुधलसितकरां सर्ववर्णां समष्टीं ।।
डादीनां सर्ववक्त्रां सकलसुखकरीं सर्वधातु स्वरूपां
सर्वान्ने सक्तचितां परशिवरसिकां भावयेत् सर्वरूपां ।। १ ।।
इति ध्यात्वा तन्मंत्रं कर्णिकायां न्यसेत् ।। ४ यां यीं यूं यैं यौं
यः यमलवरयूं याकिनि मां रक्ष २ ममशुक्रादि सर्वधातुन् रक्ष २
सर्वसत्ववशंकरि देवि आगछ २ इमां पूजां गृह्ण २ ऐं घोरे देवि ह्रीं
सः परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसहें
श्रीमहात्रिपुरसुंदरि देवि वरदे विच्चे आदिक्षांतं ५१
ब्रह्मरंध्रपीठस्थे ब्रह्मरंध्र याकिनि ब्रह्मरंध्रनाथ देव
श्रीपादुकां पूजयामि नमः । इति तत्कर्णिकायां मनसा संपूज्य विन्यस्य
परितः पंचाशद्वर्णदेवताः न्यसेत् ।। तद्यथा ।।
४ अं अमृतायै नमः ।। ४ आं आकर्षण्यै नमः । ४ इं इंद्राण्यै नमः । ४
ईं ईशान्यै नमः ।। ४ उं उमायै नमः ।। ४
प्. ७५ब्)
ऊं ऊर्ध्वकेश्यै नमः ।। ४ ऋं ऋद्धिदायै नमः ।। ४ ॠ ॠषायै नमः ।। ४
ऌं ऌकारायै नमः ।। ४ ॡं ॡषायै नमः ।। ४ एं एकपादायै नमः ।। ४
ऐं ऐश्वर्यात्मिकायै नमः ।। ४ ओं ओंकारात्मिकायै नमः ।। ४ औं
औंषधात्मिकायै नमः ।। ४ अं अंबिकायै नमः ।। ४ अः अक्षरात्मिकायै
नमः ।। ४ कं कालरात्र्यै नमः ।। ४ स खं खातीतायै नमः ।। ४ गं
गायत्र्यै नमः ।। ४ घं घटाधारिण्यै नमः ।। ४ ऽऽनं ऽऽनार्णात्मिकायै
नमः ।। ४ चं चामुंडायै नमः ।। ४ छं छायायै नमः ।। ४ जं जयायै
नमः ।। ४ झं झंकारिण्यै नमः ।। ४ ञं ञार्णात्मिकायै नमः ।।
४ टं टंकहस्तायै नमः ।। ४ ठं ठंकारिण्यै नमः ।। ४ डं डामर्यै
नमः ।। ४ ढं ढंकारिण्यै नमः ।। ४ णं णकारिण्यै नमः ।। ४ तं
तामस्यै नमः ।। ४ थं स्थानदेव्यै नमः ।। ४ दं दाक्षायण्यै नमः ।। ४
धं धात्र्यै नमः ।। ४ नं नंदायै नमः ।। ४ पं पार्वत्यै० । ४ फं
फट्कारिण्यै नमः । ४ बं बंधिन्यै० । ४ भं भद्रकाल्यै० । ४ मं
महामायायै० । ४ यं यशश्विन्यै० । ४ रं रमायै नमः । ४ लंव
लंबोष्ठ्यै० । ४ वं वरदायै० । ४ शं शशिन्यै नम० । ४ षं षंढायै० ।
४
प्. ७६अ)
सं सरस्वत्यै० । ४ हं हंसवत्यै० । ४ क्षं क्षमावत्यै नमः ।। इति
महायोगिनीन्यासः ।। इति विन्यस्य ।।
अथ राशिन्यासं कुर्यात् ।।
तत्र ध्यानं ।।
रक्तं श्वेतं हरिद्वर्णं पांडुंचित्रं सितं स्मरेत् ।।
पिशंगपिंगलौबभ्रूकर्पूरारुणधूमकान् ।। १ ।।
स्व स्वनामसमाकारास्तुलाकुंभौ समा कृती इति ध्यात्वा न्यसेत् ।। दक्षिण
गुल्फे ४ अं आं इं ईं मेषाय नमः । ४ दक्षिणजानुनि ४ उं ऊं वृषाय
नमः । दक्षवृषणे ४ ऋं ॠं ऌं ॡं मिथुनाय न० । दक्षकुक्षौ ४ एं
ऐं कर्कटाय नमः । दक्षस्कंधे ४ ओं औं सिंहाय नमः ।
दक्षशिरोभागे ४ अं अः शः षं सं हं कन्याराशये नमः ।। ४
वामशिरोभागे ४ कं ४ तुलाराशये न० । ४ वामस्कंधे ४ चं ४
वृश्चिकराशये नमः । वामकुक्षौ ४ टं ४ धनुषे नमः । वामवृषणे ४
तं ४ मकराय नमः । वामजानुनि ४ पं ४ कुंभाय नमः । वामगुल्फे ४
यं रं लं वं लं क्षं मीनाय नमः ।। इति राशिन्यासः ।।
अथ पीठन्यासः ।।
तत्र ध्यान ।।
सितासितारुणश्यामहरित्पीतान्यनुक्रमात् ।।
पुनः पुन क्रमाद्देवि पंचाशत् स्थान संचये ।। १ ।।
प्. ७६ब्)
पीठानि संस्मरेद्विद्वान् सर्वकामार्थसिद्धये ।। इति ध्यात्वा न्यसेत् ।।
४ अं कामरूपपीठाय नमः ।। ४ आं वाराणसीपीठाय नमः ।। ४ इं
नेपालपीठाय नमः । ४ ईं पौंड्रवर्द्धन पीठाय नमः ।। ४ उं
पुरस्थिरपीठाय नमः ।। ४ ऊं कान्यकुब्जापीठाय नमः ।। ४ ऋं
पूर्णगिरिपीठाय नमः । ४ ॠ अर्बुदपीठाय नमः । ४ ऌं
आम्रातकेश्वरपीठाय नमः । ४ ऌ एकाम्रपीठाय नम ४ एं
त्रिस्रोतःपीठाय० । ४ ऐं कामकोटपीठाय नम० । ४ ओं कैलासपीठाय
नम० । ४ औ भृगुनरपीठाय० । ४ अं केदारपीठाय० । ४ अः
चंद्रपुरपीठाय० । ४ कं श्रीपुरपीठाय० । ४ खं ओंकारपीठाय० । ४
गं जालंधरपीठाय नम० । ४ घं मालवपीठाय नम० । ४ ऽऽनं
कुलांतकपीठाय नमः ।। ४ चं देवीकोटपीठाय० । ४ छं
गोकर्णपीठाय० । ४ जं मरुतेश्वर पीठाय० । ४ झं अट्टहासपीठाय० । ४
ञं विरजपीठाय० । ४ टं राजगृहपीठाय० । ४ ठं महापथपीठाय० ।
४ डं कोलगिरिपीठाय नम० । ४ ढं एलापुरपीठाय० । ४ णं
कालेश्वरपीठाय० ४ तं जयंतिकापीठाय० । ४ थं उज्जयिनीपीठाय न० । ४
प्. ७७अ)
दं चरित्रपुरपीठाय० । ४ धं क्षीरिकपीठाय० । ४ नं हस्तिनापुरपीठाय०
। ४ पं उड्डीशपीठाय० । ४ फं प्रयागपीठाय० । ४ बं षष्ठीशपीठाय
नम० । ४ भं मायापुरपीठाय न० । ४ मं जलेश्वरपीठाय० । ४ यं
मलयगिरिपीठाय० । ४ रं हिरण्यपुरपीठाय० । ४ हं
महालक्ष्मीपुरपीठाय० । ४ लं उड्यानपीठाय० ४ क्षं
छायाछत्रपीठाय नमः ।। इति पीठन्यासः ।
एते पीठाः समुद्दिष्टामातृकारूपमास्थिताः ।
शुद्धमातृकास्थानेषु न्यसनीयाः । इति पूर्वषोढान्यासः । ज्ञानार्णवे ।
षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः ।।
एवं योन्यस्त गात्रस्तु सपूज्यः सर्वयोगिभिः । १ ।।
नास्त्यस्य पूजो लोकेषु पितृमातृमुखोजनः ।
स एव पूज्यं सर्वेषां सः स्वयं परमेश्वरः । २ ।।
षोढान्यासविहीनं यं प्रणमेदेषः पार्वति ।
सोचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ।। ३ ।।
षोढान्यासैर्न्यस्तमंत्री यदि कुर्यान् नमस्क्रियां ।।
अपरीहार्यतः पूज्ये पित्रादौ विदधीततां ।। ४ ।।
निजेष्ठ देवता बुध्या न तु मानुष बुद्धितः ।
क्रुद्धो भूत्वा न मेद्यंसोऽचिरान्मृत्युमवाप्नुयात् ।। ५ ।।
प्. ७७ब्)
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।।
कृते सौभाग्यरत्नाब्धावत्षष्ठतरंगकः ।। १ ।।
इति श्रीसच्चिदानंदनाथचरणारविंद द्वंद्वांते वासिना श्री
श्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे षष्ठस्तरंगः ।। ६ ।।
अथ योगपीठन्यासः ।। १ ।।
श्रीविद्यया प्राणायाम त्रयं कृत्वा योगपीठन्यासं कुर्यात् ।। तत्र
प्राणायामविधिस्तु विहित पद्मासनो मूलाधारार्पित चित्तवृतिर्मूलविद्यां
स्मरन् ईडया वायुमापूर्ये मूलाधारं
प्रापययांगुष्ठानामीकनिष्ठाभिर्नासापुटौ विधृत्य तं वायुं
कुंभयित्वा कुंभकसमये देवीं स्मरन् मूलविद्यां यथाशक्तिं
जपित्वा पिंगलया शनैःशनैस्तं वायुं रेचयेदित्येकः प्राणायामः ।
पुनस्तथैव पिंगलया वायुमापूर्य तथैव कुंभयित्वा तथैव
रेचयेदित्यन्यः । एवं वैपरित्येन विशंतिवारं षोडशद्वादशड्भिर्या
यथाशक्ति जपादौ जपांते च प्राणायामाः कार्यः ।। अत्र सर्वत्र
प्राणायामे नैव सर्वेषां कर्माधिकारः ।
प्राणायामैर्विना यद्य कृतं कर्मतन्निरर्थकं ।
प्. ७८अ)
अतो यत्नेन कर्त्तव्याः प्राणायामाः शुभार्थिभिः ।। १ ।।
इत्यगस्त्य वचनेनाकरणे निंदा श्रुतेरावश्यकोयमिति प्राणायामविधिः ।
इत्थं प्राणायामं विधाय मूलविद्याया ऋष्यादि न्यासान् कुर्यात् ।
तद्यथा । शिरशि ओं ऐं ह्रीं श्रीं दक्षिणामूर्तये ऋषये नमः । मुखे ४
पंक्ति छंदसे नमः । हृदये ४ श्रीत्रिपुरसुंदर्ययै देवतायै नमः । गुह्ये
४ ऐं बीजाय नमः । पादयोः ४ सौः शक्तये नमः । नाभौ ४ क्लीं कीलकाय
नमः । इति विन्यस्य । ४ मम चतुर्विधपुरुषार्थ सिद्धये न्यासादौ विनियोगः ।
इति कृतांजलिर्वदेत् । ततः अंगुष्ठयोः । ४ ऐं हृदयाय नमः । तर्ज्जन्योः ४
क्लीं शिरसे स्वाहा । मध्यमयोः ४ सौः शिखायै वषट् । अनामिकयोः ४ ऐं
कवचाय हुं । कनिष्ठिकयोः ४ क्लीं नेत्रत्रयाय वौषट् । करतल
करपृष्ठयोः ४ सौः अस्त्राय फट् इति तदुपरि पूर्वादि दिक्षु ।। ४ आं आत्मने न०
। ४ अं अंतरात्मने० । ४ पं परमात्मने० । ४ ह्रीं ज्ञानात्मने० ।
कर्णिकायाश्चतुर्दिक्षु मध्ये च ४ ज्ञां ज्ञानतत्वात्मने० ४ मां
मायातत्वात्मने० । ४ कं कलातत्वात्मने० । ४
प्. ७८ब्)
विं विद्यातत्वात्मने० । ४ पं परतत्वात्मने० । इति पश्चिमादि प्रादक्षिण्येन
विन्यस्य ।। ततः केसरेषु । पूर्वाद्यष्ट दिक्षु मध्ये च प्रादक्षिण्येन
श्रीचक्राधारपीठस्य नवशक्तीर्न्यसेत् ।। तद्यथा ।। ४ दूतर्यंबा श्रीपा० ४
सुंदर्यंबा श्रीपा० । ४ सुमुख्यंबा० । ४ विरूपांबा० । ४ विमलांबा ४
अंतर्यंबा० । ४ बदर्यंबा० । ४ पुरंदर्यंबा० । मध्ये कर्णिकायां ।। ४
पुष्पमर्दिन्यंबाश्री० । ४ एता वराभयधारिण्यो रक्तवर्णाध्येयाः । इति
नवशक्तिर्विन्यस्य ।। ४ क्लीं सर्वशक्ति कमलासनाय नमः ।। इति व्यापकं
विन्यस्य तन्मध्ये श्रीचक्रं विभाव्य ।। ४ समस्त-प्रकट-गुप्त-गुप्ततर-
संप्रदाय-कुलकौल-निगर्भ-रहस्य-परापररहस्य-परापराति-रहस्य-
योगिनीचक्रे श्रीपादुकाभ्यो नमः । इति सर्वांगे व्यापकं विन्यस्या ४
प्रथमकूटमुच्चार्य शरीरात्मने नमः । द्वितीय कूटमुच्चार्य ४
बुध्यात्मने नमः । तृतीय कूटमुच्चार्य ४ प्राणात्मने इति व्यापकत्वेन
सर्वांगे विन्यस्य हृदय त्रिकोणस्याग्र कोणे ४ ऐं मूलविद्याया
वाग्भवकूटमुच्चार्य चतुरस्रपीतवर्णाय कामरूपपीठाय नमः ।
प्. ७९अ)
आग्नेय कोणे ४ क्लीं कामराजकूटमुच्चार्य अर्धचंद्रनिभश्वेतवर्णाय
जालंधरपीठाय नमः ।। ईशानकोणे ४ सौः तार्तीय
कूटमुच्चार्य षट्बिंदुलांछित वृत्तधूम्रवर्णाय पूर्णगिरिपीठाय
नमः । तन्मध्यस्थबिंदौ ४ तुरीय विद्यामुच्चार्य महोज्यान पीठाय
नमः ।। इति पीठचतुष्टयं विन्यस्य । मध्यस्य बिंदुचक्रे ४ हीरण्मय
सहस्रदलकमलाय नमः ।। इति विन्यस्य ।। दक्षांस पृष्ठदक्ष कर्णपृष्ठ
दक्ष ललाटभाग दक्षनेत्र भागदक्ष चिबुक भाग हृदय त्रिकोणेषु
वक्ष्यमाण षडासनानि विन्यस्य ४ अं कं ३६ शिवशक्त्यादि
पृथिव्यात्मने षट्त्रिंशत्तत्वरूपाय श्रीमहात्रिपुरसुंदर्याः
योगपीठाय नमः । इति सर्वांगे व्यापकं न्यसेत् ।। ततो मूलविद्यामुच्चार्य
श्रीमन्महात्रिपुरसुंदरी श्रीपादुकां पू० । प्रति षट्त्रिंशत्तत्वात्मके
निजदेहमये महायोगपीठे निजेष्ठ देवतां हृदिन्यसेत् ।। इति देहमये पीठे
चिंतयेत् परदेवतां ।। इति योगपीठ देवता न्यासः ।।
अथ श्रीचक्रन्यासः ।।
तत्र मूलविद्याया एव ऋष्यादिकरषडंगन्यासान् कृत्वा ध्यानं कुर्यात् ।।
प्. ७९ब्)
तद्यथा ।।
शरं चिंतयेदादौ निजं श्रीचक्ररूपकं ।।
त्वगाद्याकार निर्मुक्तं ज्वलत्कालाग्नि संन्निभं ।। १ ।।
इति स्वशरीरं श्रीचक्ररूपं ध्यात्वा न्यसेत् ।। तद्यथा ।। दक्षपादांगुष्ठे
ओं ऐं ह्रीं श्रीं लं इंद्राय नमः ।। दक्षजानुनि ४ रं अग्नये नमः
दक्षिणपार्श्वे ४ टं यमाय० । दक्षिणांसे ४ क्षं निर्-ऋतये० । वामांसे ४
वं वरुणाय० । वामपार्श्वे ४ यं वायवे नमः । वामजानुनि ४ सं
सोमाय नम० । वामपादांगुष्ठे ४ हं ईशानाय० । ब्रह्मरंध्रे ४ आं
ब्रह्मणे० । मूलाधारे ४ ह्रीं अनंताय नमः । वामजानुनि ४ गं
गणेशाय नमः ।। वामांसे ४ क्षें क्षेत्रपालाय० । दक्षजानुनि ४ बं
बटुकाय न दक्षांसे ४ यां योगिनीभ्यो नमः । ४ अं आं सौः
त्रैलोक्यमोहन चक्राय नमः ।। इति सर्वांगे व्यापकत्वेन विन्यस्य ४ बाह्य
चतुरस्ररेखायै नमः । इति च व्यापकं विन्यस्य । दक्षांस पृष्ठे ४
अणिमासिध्यै नमः ।। दक्षिणकराग्रे ४ लघिमासिध्यै नमः । दक्षिणस्फिचि ४
महिमासिध्यै० । दक्षिणपादाग्रे ४ ईशित्व सिध्यै० । वामपादाग्रे ४
वशित्वसिध्यै० । वामस्फिचिप्राकाम्यसिध्यै० । वामकराग्रे ४ भुक्तिसिध्यै० ।
वामांसपृष्ठे ४ इच्छासिध्यै० । पृष्ठवंशे ४ प्राप्तिसिध्यै नम० ।
चूडाधः ४ सर्वकामसिध्यै० । इति दशसिद्धिर्विन्यस्य ।। ४
प्. ८०अ)
चतुरस्रमध्यरेखायै नमः । इति व्यापकं कृत्वा । पादांगुष्ठद्वये । ४
आं ब्राह्मै नमः । दक्षिणपार्श्वे ४ ईं माहेश्वर्यै नमः । मूर्द्ध्नि ४
ऊं कौमार्यै नमः ।। वामपार्श्वे ४ ॠ वैष्णव्यै नमः । वामजानुनि । ४
ॡं वाराह्यै० । दक्षजानुनि० । ४ ऐं इंद्राण्यै० । दक्षिणांसे ४ औं
चामुंडायै० । वामांसे ४ अः महालक्ष्म्यै० । ततः । ४ अं
तश्चतुरस्ररेखायै नमः ।। इति व्यापकं कृत्वा । पादांगुष्ठद्वये । ४
द्रां सर्वसंक्षोभिण्यै मुद्रायै० । दक्षपार्श्वे ४ द्रीं सर्वविद्राविण्यै
मुद्रा० । मूर्द्ध्नि ४ क्लीं सर्वाकर्षिण्यै मुद्रा० । वामपार्श्वे ४ ब्लूं
सर्ववश्यायै मु० । वामजानुनि ४ सः सर्वोन्मादिन्यै मु० । दक्षजानुनि ४ क्रों
सर्वमाहांकुशायै मुद्रा० ।। दक्षांसे ४ हस्रैं हस्क्लीं हस्रौः
सर्वत्रिखंडायै मु० ।। वामांसे ४ हस्रौं सर्वबीजमुद्रायै० । मूर्द्ध्नि ४
हख्फ्रें सर्वखेचर्यै मु० ।। पादांगुष्ठद्वये ४ ऐं योनिमुद्रायै नमः ।
इति विन्यस्य ।
हृदये ४ अं आं सौः । त्रिपुरा चक्रेश्वर्यै नमः । तस्या दक्षिणे ४ अणिमा
सिध्यै० । तस्या वामे ४ द्रां सर्वसंक्षोभिणी मुद्रायै० । इति विन्यस्य ।
४ एताः प्रकटयोगिन्यस्त्रैलोक्यमोहन चक्रे समुद्राः स सिद्धयः
प्. ८०ब्)
सायुधाः स वाहनाः स परिवाराः सर्वोपचारैः संपूजिताः संतुष्टाः
संतु नमः । इति व्यापकं न्यसेत् । द्रामिति सर्वसंक्षोभिणी मुद्रां
प्रदर्शयेत् ।। इति प्रथमावरणन्यासः ।।
ततः । ४ ऐं क्लीं सौः सर्वाशापरिपूरकं चक्राय नमः ।। इति व्यापकं
विन्यस्य । ततः षोडशदलकमल चक्राय नमः । इति व्यापकं विन्यस्य ।।
दक्षिण कर्ण पृष्ठे ४ अं कामाकर्षिणी नित्याकलायै नमः । दक्षिणांसे ४
आं बुध्याकर्षिणी नित्याकलायै० । दक्षिणकूर्परे ४ इं अहंकाराकर्षिणी
नित्या कलायै० । दक्षिण करपृष्ठे ४ ईं शब्दाकर्षिणीनित्याकलायै० ।
दक्षिणोरौ ४ उं स्पर्शाकर्षिणी नित्याकलायै० । दक्षिण जानुनि ४ ऊं
रूपाकर्षिणी नित्याकलायै दक्षगुल्फे ४ ऋं रसाकर्षिणी नित्याकलायै० ।
दक्षिणपादाग्रे ४ ऋं गंधाकर्षिणी नित्याकलायै० । वामपादाग्रे ४ ऌं
चित्ताकर्षिणी नित्याकलायै० । वामगुल्फे ४ ॡं धैर्याकर्षिणी नित्याकलायै० ।
वामजानुनि ४ एं स्मृत्याकर्षिणी नित्याकलायै० । वामोरौ ४ ऐं
नामानाकर्षिणीनिकलायै० । वामकरपृष्ठे ४ ओं बीजाकर्षिणी नित्याकलायै० ।
वामकूर्परे ४ औं आत्माकर्षिणी नित्याकलायै० ।
प्. ८१अ)
वामांसे ४ अं अमृताकर्षिणी नित्याकलायै० । वामकर्णपृष्ठे ४ अः
शरीराकर्षिणी नित्याकलायै० । हृदये ४ ऐं क्लीं सौः त्रिपुरेश्वरी चक्रेश्वर्यै
नमः ।। तस्याः दक्षे ४ लघिमा सिध्यै नमः । तस्या वामे । ४ द्रीं विद्राविणी
मुद्रायै नमः । इति विन्यस्य । ४ एताः गुप्तयोगिन्यः सर्वाशापरिपूरक चक्रे
समुद्राः ससिद्धयः सायुधाः स वाहनाः स परिवाराः सर्वोपचारैः
संपूजिताः संतुष्टात्यंतु नमः इति व्यापकं न्यसेत् । द्रीमिति
सर्वविद्राविणी मुद्रां प्रदर्शयेत् । इति द्वितीयावरणन्यासः ।।
ततः ४ ह्रीं क्लीं सौः सर्वसंक्षोभणचक्राय नमः । तते
अष्टदलकमलाय नमः । इति व्यापकं विन्यस्य । दक्षशंखे ४ कं ४
अनंगकुसुमायै नमः । दक्षजत्रुणि ४ चं ४ अनंगमेखलायै० । दक्षिणोरौ
४ टं ४ अनंगमदनायै० । दक्षिणगुल्फे ४ तं अनंगमदनातुरायै० ।
वामगुल्फे ४ पं ४ अनंगरेखायै० । वामोरौ ४ यं ३ अनंगवेगिन्यै न० ।
वामजत्रुणि ४ शं ३ अनंगां कुशायै० । वामशंखे ४ लं क्षं
अनंगमालिन्यै नमः । हृदये ४ ह्रीं क्लीं सौः त्रिपुरसुंदरी चक्रेश्वर्यै
नमः ।
प्. ८१ब्)
तस्याः दक्षिणे ४ महिमासिध्यै नमः । तस्या वामे ४ क्लीं आकर्षिणी
मुद्रायै नमः ।। इति विन्यस्य ।। ४ एताः गुप्ततरयोगिन्यः सर्वसंक्षोभणे चक्रे
समुद्रा इत्यादि व्यापकं कुर्यात् क्लीमित्या कर्षिणी मुद्रां दर्शयेत् ।। इति
तृतीयावरणन्यासः ।।
ततः ४ हैं हकलीं हसौः सर्वसौभाग्यदायकचक्राय नम इति व्यापकं
विन्यस्य । लला दक्षपार्श्वे ४ कं सर्वसंक्षोभिणीशक्त्यै नमः । दक्ष
कपोले ४ खं सर्वविद्राविणी शक्त्यै० । दक्षांसे ४ गं सर्वाकर्षिणी शक्त्यै०
। दक्षपार्श्वे ४ घं सर्वाह्लादीनी शक्त्यै० । दक्षोरौ ४ ऽऽनं सर्वसंमोहिनी
शक्त्यै० । दक्षजंघायां ४ चं सर्वस्तंभिनी शक्त्यै० ।
वामजंघायां ४ छं सर्वजंभिनी शक्त्यै० । वामोरौ ४ जं
सर्ववशंकरिणी शक्त्यै० । वामपार्श्वे ४ झं सर्वरंजिनी शक्त्यै० ।
वामांत्ये ४ ञं सर्वोन्मादानकारिणीशक्त्यै० । वामकपोले ४ टं
सर्वार्थसाधिनी शक्त्यै० । ललाट वामपार्श्वे ४ ठं सर्वसंपत्प्रपूरिणी
शक्त्यै० । ललाटे ४ डं सर्वमंत्रमयीशक्त्यै० । चूडाधः ४ ढं
सर्वद्वंद्वक्षयंकरी शक्त्यै नमः । इति विन्यस्य । हृदये ४ हैं ह क्लीं
हसौः त्रिपुरवासिनी चक्रेश्वर्यै नमः ।। तस्या दक्षे ४ ईशित्वशिध्यै नमः ।
तस्या वामे । ब्लूं सर्ववस्य मुद्रायै नमः । इति विन्यस्य ४ एताः
संप्रदाययोगिन्यः
प्. ८२अ)
सर्वसौभाग्यदायके चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् । ब्लूं इति
सर्ववश्यमुद्रां प्रदर्शयेत् ।। इति चतुर्थावरणन्यासः ।
ततः ४ हसैं हस्क्लीं हसौः सर्वार्थसाधक चक्राय नम इति व्यापकं
विन्यस्य । ततो बहिर्दशार चक्राय नम इति व्यापकं विन्यस्य । दक्षनेत्रे
४ णं सर्वसिद्धिप्रदादेव्यै नमः ।। नासामूले ४ तं
सर्वसंपत्प्रदादेव्यै० । वामनेत्रे ४ थं सर्वप्रियंकरी देव्यै० ।
वामकुक्षेरुपरि ४ दं सर्वमंगलकारिणी देव्यै० । वामकुक्षेरधः । ४
धं सर्वकामप्रदादेव्यै० । वामजानुनि ४ नं सर्वदुःखविमोचिनी देव्यै० ।
दक्षजानुनि ४ पं सर्वमृत्युप्रशमनी देव्यै० । गुदे ४ फं
सर्वविघ्नविनाशिनी देव्यै० दक्षकुक्षेरधः ४ बं सर्वांगसुंदरी देव्यै०
। दक्षकुक्षेरुपरि । ४ भं सर्वसौभाग्यदायिनी देव्यै नमः । इति विन्यस्य०
हृदये ४ हसैं ह्स्क्लीं हसौः त्रिपुराश्रीचक्रेश्वर्यै नमः ।। तस्या दक्षे ४
वशित्व शिध्यै नमः । तस्या वामे । ४ सः सर्वोन्मादिनी मुद्रायै नमः । इति
विन्यस्य ।। ४ एताः कुलकौल योगिन्यः सर्वार्थसाधके चक्रे समुद्रा इत्यादि ४
व्यापकं कुर्यात् । सः सर्वोन्मादिनिमुद्रां प्रद० । इति
पंचमावरणन्यासः ।।
ततः । ४ ह्रीं क्लीं ब्ले सर्वरक्षाकर चक्राय नमः ।। ततोंतर्दशारचक्राय
नमः इति व्यापकं विन्यस्य ।।
प्. ८२ब्)
दक्षनासापुटे ४ मं सर्वज्ञा देव्यै नमः । दक्षसृक्किणि ४ यं
सर्वशक्तिदेव्यैः । दक्षस्तने ४ रं सर्वैश्वर्य प्रदा देव्यै० । दक्षमुष्के ४
लं सर्वज्ञानमयी देव्यै० । सीवन्यां ४ वं सर्वव्याधिविनाशिनी देव्यै०
वाममुष्के ४ शं सर्वाधारस्वरूपा देव्यै० । वामस्तने ४ षं
सर्वपापहरा देव्यै० । वाम सृक्किणि ४ सं सर्वानंदमयी देव्यै०
वामनासापुटे ४ हं सर्वरक्षास्वरूपिणी देव्यै० । नासाग्रे ४ क्षं
सर्वस्थित फलप्रदादेव्यै नमः । इति विन्यस्य । हृदये ४ ह्रीं क्लीं ब्लें
त्रिपुरा मालिनीचक्रेश्वर्यै नमः । तस्या दक्षिणे । ४ प्राकाम्य सिध्यै नमः ।
तस्या वामे क्रों महांकुशा मुद्रायै० । इति विन्यस्य । ४ एताः
निगर्भयोगिन्यः सर्वरक्षाकरे चक्रे समुद्रा इत्यादि व्यापकं कुर्यात् ।। क्रों
इत्यंकुश मुद्रां प्रदर्शयेदिति षष्ठावरणन्यासः ।।
ततः ४ ह्रीं श्रीं सौः सर्वरोगहरचक्राय नमः ततोऽष्टारचक्राय नमः
इति व्यापकं विन्यस्य ।। चिबुक दक्षपार्श्वे ४ अं आं १४ ब्लूं वशिनी
वाग्देवतायै नमः । कंठ दक्षभागे ४ कं ४ ब्लूं ह्रीं कामेश्वरी
वागदेवतायै० । हृदय दक्षपार्श्वे ४ अं आं १४ ब्लूं वशिनी वाग्देवतायै
नमः । नाभेर्दक्षपार्श्वे ४ टं ४ यलूं विमला वाग्देवतायै० ।
नाभेर्वामपार्श्वे ४ तं ४ ज्म्रीं अरुणावाग्देवतायै० ।
प्. ८३अ)
हृदयं वामपाश्वे ४ पं ४ हसलव्यूं जयिनी वाग्देवतायै० । कंठ
वामभागे ४ यं ३ झमरयीं सर्वेश्वरी वाग्देवतायै० । चिबुक वामभागे
४ शंक्ष्म्रीं कौलिनी वाग्देवतायै नमः । इति विन्यस्य । हृदये ४ ह्रीं श्रीं
सौः त्रिपुरा सिद्धाचक्रेश्वर्यै० । तस्या दक्षे । ४ भुक्ति सिध्यै० । तस्या वामे ४
हसख्फ्रं खेचरीमुद्रायै नमः । इति विन्यस्य ।
४ एता रहस्य योगिन्यः सर्वरोग हरे चक्रे समुद्रा इत्यादिव्यापकं कुर्यात्
हसख्फ्रें इति खेचरी मुद्रां प्रदर्शयेदिति सप्तमावरण न्यासः ।।
ततः अंतरालचक्राय नमः । इति व्यापकं विन्यस्य । हृदय त्रिकोणस्य
बहिर्दक्ष वाम वामदक्षेषु ४ द्रां द्रीं क्लीं ब्लूं सः । यां रां लां
वां सां जंभनेभ्यः कामेश्वर कामेरी बाणेभ्यो नमः ।
हृदयस्याग्नेये ।। ४ धं थं मोहनाभ्यां कामेश्वर कामेश्वरी
चापाभ्यां नमः । हृदयस्य ईशानभागे । ४ आ ह्रीं वशीकरणाभ्यां
कामेश्वर कामेश्वरी पाशाभ्यां नमः । हृदय नैर्-ऋत्ये । ४ क्रों क्रों
स्तंभनाभ्यां कामेश्वर कामेश्वर्यं कुशाभ्यां नमः । हृदय
वायव्ये । इति विन्यस्य । ४ हस्रैं हस्लीं हस्रौः सर्वसिद्धिप्रदचक्राय नमः । ४
त्रिकोणचक्राय नमः इति व्यापकं विन्यस्य । त्रिकोणस्याग्रकोणे ४
प्रथकूटमुच्चार्य अग्निचक्रे कामगिरिपीठे मित्रीशनाथात्मिके
जगृद्दशाधिष्ठायके इछाशक्त्यात्मक रुद्रात्मशक्ति श्रीकामेश्वरी देव्यै
नमः ।
प्. ८३ब्)
त्रिकोणस्य वामकोणे ४ द्वितीकूटं उच्चार्य सूर्यचक्रे
जालंधरपीठे षष्ठीशनाथात्मिके स्वप्नदशाधिष्ठायके
ज्ञानशक्त्यात्मक विष्णवात्मशक्ति श्रीवज्रेश्वरी देव्यै नमः ।।
दक्षकोणे ४ तृतीयकूटमुच्चार्य सोमचक्रे पूर्णगिरिपीठे
उड्डीशनाथात्मिके सुषुप्तिदशाधिष्ठायके क्रियाशक्त्यात्मक
ब्रह्मात्मशक्ति श्रीभगमालिनी देव्यै नमः । इति विन्यस्य । हृदये ४ हस्रैं
हसकलरीं हस्रौः त्रिपुरांबिका चक्रेश्वर्यै नमः । तस्यादक्षे ४ इछा
सिध्यै नमः । तस्या वामे ४ हसौं सर्वबीज मुद्रायै नमः । इति विन्यस्य ४
एताः परापररहस्य योगिन्यः सर्वसिद्धि प्रदे चक्रे समुद्रा इत्यादि व्यापकं
कुर्यात् हसौं इति बीजमुद्रां प्रदर्शयेदिति अष्टावरणन्यासः ।।
ततः ४ तुरीयविद्यामुच्चार्य सर्वानंदमयचक्राय नमः । बिंदुचक्राय
नमः । इति व्यापकं विन्यस्य । हृदय त्रिकोणमध्यस्य बिंदुमध्ये ४ तुरीय
विद्यामुच्चार्य ब्रह्मचक्रे महोड्याणपीठे श्रीचर्यानाथात्मिके
तुर्यतुर्ययातीत दशाधिष्ठायके परब्रह्मात्म शक्ति
श्रीमहात्रिपुरसुंदर्यै देव्यै नमः ।
प्. ८४अ)
हृदय एव ४ मूलपंचदशीमुच्चार्य श्रीमहात्रिपुरसुंदरी चक्रेश्वर्यै
नमः । तस्या दक्षे ४ प्राप्ति सिध्यै नमः । तस्या वामे । ४ ऐं योनिमुद्रायै
नमः । इति विन्यस्य ४ एषा परापराति रहस्य योगिनीः सर्वानंदमये
महाचक्रे परब्रह्म स्वरूपिणी परामृतशक्तिः सर्वमत्रेश्वरी
सर्वविद्येश्वरी सर्वपीठेश्वरी सर्ववीरेश्वरी सर्वयोगेश्वरि सर्ववागिश्वरि
सर्वसिद्धेश्वरी सकल जगदुत्पत्ति मातृका सचक्रा सदेवता समुद्रा ससिद्धिः
सायुधा सासना सवाहना सपरिवारा सालंकारा सर्वोपचारैः
श्रीमहात्रिपुरसुंदरी परया चापरया परापरया च सपर्यया पूजिताः
संतुष्टास्तु नमः । इति व्यापकं विन्यस्य ।
पुनर्हृदय एव मुलमुच्चार्य समस्तचक्रेश्वरी श्रीमहात्रिपुरसुंदर्यै
देव्यै नमः । तस्या दक्षे ४ सर्वकामसिध्यै नमः । तस्या वामे । ४ हस्रैं
हसकल्मी हस्रौः त्रिखंडा मुद्रायै नमः ।
प्. ८४ब्)
इति हृदय एव विन्यस्य ऐं योनिमुद्रां प्रदर्शयेत् । हृदय त्रिकोण एवाग्रादि
वामावर्त्तेन प्रवत्रितारादि चतुर्थी नमों तत्तत्तन्नित्या नामां
तत्तत्तन्नित्या विद्यया नित्याषोडशकं विन्यस्य हृदय त्रिकोणस्य पृष्ठभागे
रेखात्रयं विभाव्य तत्र पूजा प्रकरणे वक्ष्यमाणं गुरुपंक्ति त्रयं
न्यसेत् । ततो हृदय त्रिकोणस्याष्ट कोणस्य चांतरालेषु पूजा प्रकरणे
वक्ष्यमाण प्रकारेण षडंग युवतिर्विन्यस्य बिंदुचक्रमध्ये
वक्ष्यमाण प्रकारेण पंचपंचक देवताः विन्यस्य दक्षांसपृष्ठ
तत्कर्ण पृष्ठ तछंख तद्भाल तद्दक्षिनासापुटचिबुक हृदयावधि
च षट्दर्शण देवता विन्यस्य बिंदुचक्र एव वक्ष्यमाण प्रकारेण
चतुःसमय देवताः विन्यस्य तुरीय विद्यया सर्वांगे व्यापकं विन्य * ततो
मूलविद्यामुच्चार्य महोड्यानपीठनिलय सर्वचक्रेश्वरी ध्यात पंच
श्रीपंचकोश पंचकल्पलता पंचकामदुघा पंचरत्न
वृंदमंडितासन संस्थित सर्वदर्शनशेवित षडंग युवतीस्तुत
चतुःसमय देवता पूजित महासौभाग्य जनन महामोक्षप्रद
शून्याशून्य विवर्जित सशक्ति सच्चिदानंद परब्रह्म
श्रीमन्महात्रिपुरसुंदरी श्रीपादुकायै नम
प्. ८५अ)
इति मूर्द्धादि पादपर्यंतं त्रिर्व्यापकं न्यसेत् । ततो ब्रह्मरंध्रे
स्वगुरुपादुका विन्यस्य मूलाधारे स्वगुरु कृत स्वनाम विन्यस्य तत्रैव
महाकामकला ध्यानं कुर्यात् ।। इति संहार श्रीचक्रन्यासः ।।
अथ सृष्टि श्रीचक्रन्यासः ।।
तत्र शिरसि ४ त्रिकोणं विभाव्य । ओं ऐं ह्रीं श्रीं तुरीयविद्यामुच्चार्य ।
सर्वानंदमय महाचक्राय नमः । बिंदुचक्राय नमः ।। इति व्यापकं
विन्यस्य ।
तत्र शिरस्त्रिकोणस्थ महाबिंदौ तुरीयविद्यामुच्चार्य ब्रह्मचक्रे
श्रीमहोड्याणपीठे इत्यादि पूर्ववद्विन्यस्य । भ्रूमध्ये मूलविद्याच्चार्य
प्राग्वत् तामेव चक्रेश्वरीं विन्यस्य तद्दक्षिण वामपार्श्वयोः प्राप्ति
सिद्धिं सर्वकामसिद्धिं योनिमुद्रां त्रिखंडा मुद्रां प्राग्वत् विन्यस्य ४
एषा परापराति रहस्य योगिनीः सर्वानंदमये महाचक्रे इत्यादि प्राग्वत्
व्यापकं विन्यसेत् ऐं योनि मुद्रां द० इति बिंदुचक्रन्यासः ।।
ततः शिरस्त्रिकोणस्य पृष्ठभागे रेखात्रयं विभाव्य तत्र पूजा
प्रकरणं वक्षमाण गुरुपंक्ति त्रयं न्यस्येत् । ततो
मातृकायाः षोडशस्वरन्यासस्थानेषु प्रणव त्रितारादि चतुर्थी नमों
तत्तत्तन्नित्या नामांत
प्. ८५ब्)
तया तत्तन्नित्या विद्यया नित्या षोडशकं विन्यस्य ४ हस्रैं हसकलरीं
हस्रौः सर्वसिद्धिप्रदचक्राय नमः । अंतरालचक्राय नमः ।। इति व्यापकं
विन्यस्य । त्रिकोणाष्टकोणयोरंतरालबुध्या प्रागुक्ता आयुध देवत्य न्यसेत् ।
तद्यथा ।। दक्षनेत्रे । ४ द्रां द्रीं क्लीं ब्लूं सः जंभनेभ्यः
कामेश्वर बाणेभ्यो नमः ।। वामने यां रां लां वां सां
जंभनेभ्यः कामेश्वरी बाणेभ्यो नमः । दक्षभ्रुवि ४ धं मोहनाय
कामेश्वर चापाय नमः । वामभ्रुवि ४ थं मोहनाय कामेश्वरी चापा
नमः । दक्ष कर्णे ४ आं वशीकरणाय कामेश्वर पाशाय नमः ।
वामकर्णे ४ ह्रीं वशीकरणाय कामेश्वरी पाशाय नमः ।।
दक्षनासायां ४ क्रों स्तंभनाय कामेश्वरां कुशाय नमः ।
वामनासायां ४ क्रों स्तंभनाय कामेश्वर्यं कुशाय नमः ।
इत्यायुध देवताः विन्यस्य त्रिकोणस्य कोणत्रये पूर्वोक्त कामेश्वर्यादि देवी
त्रयं प्राग्वद्विन्यस्य । हृदये प्राग्वत् त्रिपुरांबिका चक्रेश्वरीं विन्यस्य
तद्वक्ष वामयोरिछासिद्धिं बीजमुद्रां च विन्यस्य ४ एताः परापर रहस्य
योगिन्यः सर्वसिद्धिप्रदे चक्रे समुद्रा इत्यादि व्यापक कुर्यात् । २ ततः ४ ह्रीं
श्रीं सौः सर्वरोग हर चक्राय नमः । अष्टारचक्राय नमः ।। इति व्यापकं
विन्यस्य ।
प्. ८६अ)
शिरःपुरोभागमारभ्य मुंडमाला क्रमेणष्टसु स्थानेषु पूर्वोक्त
वशिन्यादि वाग्वे देवताष्टकं विन्यस्य ।। मणिपूरक चक्रे पूर्वोक्तां
त्रिपुरा सिद्धा चक्रेश्वरी विन्यस्य तदक्ष वामयोर्भुक्ति सिद्धिं खेचरी
मुद्रां च विन्यस्य । ४ एताः रहस्य योगिन्यः सर्वरोग हरे चक्रे समुद्रा इत्यादि
व्यापकं न्यसेत् । २
ततः ४ ह्रीं क्लीं ब्लें सर्वरक्षाकर चक्राय नमः । इति व्यापकं विन्यस्य ।
दक्षनेत्र मूल तदपांग दक्षश्रोत्र तत्पृष्ठ चूडा कूपस्य
दक्षपार्श्व वामपार्श्व वामश्रोत्रपृष्ठ वामश्रोत्र वामापांग
वामनेत्र मूलेषु दसुस्थानेषु प्रागुक्त सर्वज्ञादि दशशक्तिर्विन्यस्य ।
स्वाधिष्ठाने चक्रे पूर्वोक्तां । त्रिपुरमालिनीं चक्रेश्वरीं विन्यस्य तदक्ष
वामयोः प्राक्राम्य सिद्धिं महांकुशा मुद्रां च प्राग्वद्विन्यस्य ४
एतानि गर्भ योगिन्यः सर्वरक्षाकरे चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् ४
ततः ४ हसैं हस्क्लीं हसौः इति व्यापकं विन्यस्य । कंठे विशुद्धि
चक्रे षोडश दलेषु एकस्मिन्नेकाशक्तिः त्रये दलेप्येकाशक्तिः इत्येवं क्रमे
सप्तमी शक्ति पर्यंतं विन्यस्यावशिष्टदलत्रये शेषशक्ति
प्. ८६ब्)
त्रयं न्यसेदिति प्रादक्षिण्येन सर्वसिद्धि प्रदादि दशशक्तीर्विन्यस्य ।
मूलाधारे त्रिपुराचक्रेश्वरीं प्राग्वद्विन्यस्य तदक्ष वामयोर्वशित्व
सिद्धिमुन्मादिनी मुद्रां च प्राग्वद्विन्यस्य ४ एताः कुलकौलयोगिन्यः
सर्वार्थ साधक चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् । ४ हैं हक्लीं हसौः
सर्वसौभाग्यदायक चक्राय नमः । इति व्यापकं विन्यस्य ।
हृदय अनाहत चक्रे द्वादशदलकमले दशदलेषु सर्वसंक्षोभण्यादि
दशशक्तिर्विन्यस्यांतिमदल द्वये प्रतिदलं शक्ति द्वयं शक्ति द्वयमिति
शिष्टशक्ति चतुष्टयं न्यसेदिति चतुर्दशशक्तिर्विन्यस्य । ऊतद्वये पूर्वोक्तां
त्रिपुरवासिनीं चक्रेश्वरीं प्राग्वद्विन्यस्य तद्दक्षवामयोरीशित्वसिद्धिं
वश्यमुद्रां च प्राग्वद्विन्यस्य ४ एताः संप्रदाय योगिन्यः
सर्वसौभाग्यदायक चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् ।। ४ ततः ह्रीं
क्लीं सौः सर्वसंक्षोभण चक्राय नमः इति व्यापकं विन्यस्य ।
पृष्ठवंश वामपार्श्वोदरयोर्मध्ये उदर दक्षिण पार्श्वेषु (र्मध्य
दक्षिण पार्श्वपृष्ठवंशयोर्मध्ये) चतुष्ट स्थानेषु पूर्वोक्तानंग
कुसुमाद्याश्चतुःशाक्तीर्विन्यस्य पृष्ठवामपार्श्वयोर्मध्ये
वामपार्श्वोदरयोर्मध्य उदर दक्षिण पार्श्वयोर्मध्ये दक्षिणपार्श्व
प्. ८७अ)
पृष्ठवंशयोर्मध्ये च स्थानचतुष्टये अनंगरेखादि चतुःशक्तीर्विन्यस्य
। जानुद्वये पूर्वोक्तां त्रिपुरसुंदरीं चक्रेश्वरीं पूर्ववद्विन्यस्य
तद्दक्षवामपार्श्वयोर्महिमासिद्धिं आकर्षणी मुद्रां च विन्यस्य ४ एताः
गुप्ततर योगिन्यः सर्वसंक्षोभकरे चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् ।। ९
ततः ४ ऐं क्लीं सौः सर्वाशापरिपूरकचक्राय नमः इति व्यापकं विन्यस्य
। स्वाधिष्ठाने षट्दलकमले स्वाग्रादि प्रादक्षिण्येन पंचसु दलेषु
प्रतिदलं शक्ति त्रयमंतिमदले त्वेकां शक्तिमिति
कामाकर्षिण्यादि षोडशशक्तीर्विन्यस्य । जंघयोः पूर्वोक्तां
त्रिपुरेश्वरीं विन्य * तद्दक्ष वामयोर्लघिमासिद्धिं द्राविणी मुद्रां च
विन्यस्य ४ एताः गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्रा इत्यादि
व्यापकं न्यसेत् । ८ । ततः ४ अं आं सौः त्रैलोक्य मोहचक्रायः । इति व्यापकं
विन्यस्य । अंतश्चतुरस्र रेखायै नम इति व्यापकं विन्यस्य ।। मूलाधारे
चतुर्दल कमलस्य दलचतुष्टये तदंतराल चतुष्टये च
पूर्वदलेशानांतरालयोर्मध्ये पश्चिमदले नैर्-ऋत्यंतरालयोर्मध्ये च
पूर्वोक्त सर्वसंक्षोभण्यादि मुद्रादशकं न्यसेत् ।
प्. ८७ब्)
ततः ४ चतुरस्र मध्यरेखायै नम इति व्यापकं विन्यस्य । दक्षजंघायां
दिग्विदि क्रमेण पूर्वोक्ता ब्राह्म्याद्यष्टशक्तीर्न्यसेत् । ततः ४ बाह्य
चतुरस्ररेखायै नम इति व्यापकं विन्यस्य । वामजंघायां दिग्विदि
क्रमेण पूर्वोक्ताणिमादि सिध्यष्टकं विन्यस्य । दक्षपादे प्राप्ति सिद्धिं
वामपादे सर्वकामसिद्धिं च विन्यस्य । पादद्वये प्राग्वत् त्रिपुरा
चक्रेश्वरीं विन्यस्य तद्दक्षवामयोरणिमासिद्धिं सर्वसंक्षोभिणी
मुद्रां च विन्यस्य ४ एताः प्रकट योगिन्यः त्रैलोक्य मोहने चक्रे समुद्रा
इत्यादि व्यापकं विन्यस्य सरश्मिक श्रीमहात्रिपुरसुंदर्य भेदेन
स्वात्मानं ध्यायेत् ।। इति सृष्टि श्रीचक्रन्यासः ।।
अथ स्थिति श्रीचक्रन्यासः ।।
स च विद्याचक्र चक्रेश्वरीत्यंग त्रयात्मकः । तत्र प्रथमं संप्रदायात्
पूर्ववत् करशुद्धि विद्यया अं आं सौः करशुद्धिं विधाय तथैवतां
विन्यस्य तथैव ह्रीं क्लीं सौः आत्मरक्षां कृत्वा न्यासमारभेत् । तत्रादौ
त्रिर्विध मूलविद्यान्यासः । स यथा ।। मूर्द्ध्नि ४ प्रथमकूटं नमः ।
गुह्ये ४ द्वितीय कूटं नमः ।। हृदये ४ तृतीय कूटं नमः । दक्षनेत्रे ४
प्रथम कू० । वामनेत्रे ४ द्वितीय कू० । भाले ४ तृतीय कू० । दक्षकर्णे ४ प्र०
कू० ।
प्. ८८अ)
वामकर्णे ४ द्वि० कू० । मुखे ४ तृ० कु० । दक्षांसे ४ प्र० कू० । वामांसे ४
द्वि० । कू० । पृष्ठे ४ तृती० । कू० । दक्षजानुनि ४ प्र० । कू० । वामजानुनि ४ द्विती०
। कू० । नाभौ ४ तृ० कू० । नमः । इति मूलविद्या कूटन्यासः ।। मूर्द्ध्नि ४
कं नमः । गुह्यै ४ एं नमः । हृदये ४ ईं दक्षनेत्रे लं० । ४ वामनेत्रे ४
ह्रीं नमः । भालनेत्रे ४ हं नमः ।। दक्षकर्णे ४ सं नमः वामकर्णे ४
कं नमः । मुखे ४ हं नमः । दक्षभुजे ४ लं नमः । वामभुजे ४ ह्रीं
नमः । पृष्ठे ४ सं नमः । दक्षजानुनि ४ कं नमः । वामजानुनी ४ लं
नमः । नाभौ ४ ह्रीं नमः । इत्यक्षरन्यासः । समस्त मूलविद्यां
प्रणवतारादि नमोंतां मूर्द्धादि नाभ्यंत पंचदश पूर्वोक्तेषु
प्रत्येकं २ न्यसेदिति त्रिविधः । पादयोः ४ अं आं सौः नमः । जंघयोः ४
ऐं क्लीं सौः नमः । जन्वोः ४ ह्रीं क्ली सौः नमः । उर्वोः ४ हैं हस्क्लीं
हसौः नमः । स्पिच्योः ४ हसैं हस्क्लीं हसौः नमः । लिंगाग्रे ४ ह्रीं क्लीं
ब्लें नमः । मूलाधारे ४ ह्रीं श्रीं सौः । नमः । इति मूर्तिविद्यां विन्यस्य
। २ हं क्ली २ अनाहते वा हस्रैं हस्क्लीं हस्रौः नम इत्या वाहनी वीद्यां
विन्य * । ४ हसकलरडैं हसकलरडीं हसकलरडौः नमः ।
ब्रह्मरंध्रे ।
ततो ४ मूलविद्याया मूर्द्धादि पादांतं पादादि हृदयांतं च
व्यापकं न्यसेत् ।। ततो मूलाधारे ४ ऐं क्लीं सौः ।
प्. ८८ब्)
सर्वाशापरिपूरक चक्राय नमः स्वाधि ४ ष्ठाने । ४ ह्रीं क्लीं सौः ।
सर्वसंक्षोभणचक्राय नमः ।। मणिपूरके ४ ४ है हक्लीं हसौः
सर्वसौभाग्यदायक चक्राय नमः ।। अनाहते ४ हसैं हस्क्लीं हसौः
सर्वार्थसाधक चक्राय नमः ।। विशुद्धिचक्रे ४ ह्रीं क्लीं ब्लें
सर्वरक्षारचक्राय नमः । लंबिकाग्रे ४ ह्रीं श्रीं सौः
सर्वरोगहरचक्राय नमः । आज्ञाया ४ हस्रैं हस्क्लीं हस्रौः
सर्वसिद्धिप्रद चक्राय नमः । बिंदौ ४ मूल पंचदशाक्षरीमुच्चार्य
सर्वानंदमय श्रीमहाचक्राय नमः ।। इति नवचक्राणि विन्यस्य
नवचक्रेश्वरी न्यासं कुर्यात् ।।
तत्र मूलाधाराधः प्राक् न्यस्तत्रैलोक्य मोहनचक्रे ४ अं आं सौः
त्रिपुराचक्रेश्वर्यै नमः । मूलाधारस्थ सर्वाशापरिपूरकचक्रे ४ ऐं
क्लीं सौः त्रिपुरेश्वरी चक्रेश्वर्यै नमः । स्वाधिष्ठान स्थित
सर्वसंक्षोभण चक्रे ४ ह्रीं क्लीं सौः । त्रिपुरसुंदरी चक्रेश्वर्यै नमः ।
मणिपूर स्थित सर्वसौभाग्यदायक चक्रे ४ है हक्लीं हसौः । त्रिपुरवासिनी
चक्रेश्वर्यै नमः ।। अनाहतस्थ सर्वार्थसाधकचक्रे ४ हसौं हस्क्लीं
हसौः त्रिपुरा श्रीचक्रेश्वर्यै नमः । विशुद्धि स्थित सर्वरक्षाकर चक्रे ४
ह्रीं क्लीं ब्लें त्रिपुरमालिनीचक्रेश्वर्यै नमः ।।
प्. ८९अ)
लंबिकाग्र स्थित सर्वरोगहर चक्रे ४ ह्रीं श्रीं सौः त्रिपुरा सिद्धा
चक्रेश्वर्यै नमः ।। आज्ञा चक्रस्थ सर्वसिद्धि प्रदचक्रे ४ हस्रैं
हसकलरीं हस्रौः त्रिपुरांबिका चक्रेश्वर्यै नमः । महाबिंदुस्थ
बिंदुचक्रे ४ मुल पंचदशाक्षरीमुच्चार्य महात्रिपुरसुंदरी
महाचक्रेश्वरी श्रीपादुकायै नमः ।। इति विन्य तत्तच्चक्रं
परस्परसंलग्नं तत्तच्चक्रेश्वर्यधिष्ठितं सम्यक् ध्यात्वा पुनः
करशुद्धि विधाय त्रिपुरसुंदर्यात्म रक्षां कृत्वा पूर्वोक्त षडंगं
विन्यस्य ४ वाग्भवं मूलाधारे ४ कामराजं हृदये ४ तृतीयं भ्रूमध्ये
४ तुरीय विद्यां ब्रह्मरंध्रे च विन्यस्य ४ समस्त प्रकट गुप्त गुप्ततर
संप्रदाय कुलकौलनिगर्भरहस्य परापर रहस्य परापराति रहस्य
श्रीचक्र योगिनी श्रीपादुकाभ्यो नम इति स्वशरीरं श्रीचक्ररूपं ध्यायन् ।
व्यापकं कुर्यात् ।। इति श्री स्थिति श्रीचक्रन्यासः ।।
अथ श्रीचक्रन्यासफलं ।।
तत्र रुद्रयामले ।।
य एवं विन्यसेद्देहे साधक स्थिर मानसः ।
विमुच्य मानुषं भावं ससद्यः शिवतां व्रजेत् ।। १ ।।
त्रिकालं धारयेद् यस्तु तस्य सर्वांगसंगतं ।।
सततं भासते देवि समस्तं योगिनी पदं ।। २ ।।
प्. ८९ब्)
धरणी क्षेत्रतां याति यावद् द्वादशयोजनं ।।
एतत्ते कथितं भद्रे न्यासं त्रैलोक्य दुर्लभं ।। ३ ।।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ।
भ्रष्टेभ्यः साधकेभ्यो वा बांधवेभ्यो न दर्शयेत् ।। ४ ।।
दत्तं चेत्सिद्धि हानिः स्यादित्याज्ञा शांकरी मता ।।
मंत्राः पराऽऽन्मुखायांति क्रुद्धा भवति सुंदरी ।। ५ ।।
अशुभं च भवेत् तस्य तस्माद्यत्नेन गोपयेत् ।।
इति त्रिविध श्रीचक्रन्यासः ।।
श्रीविद्यानंदनाथेन शिवयों प्रियसूनुना ।।
कृते सौभाग्यरत्नाब्धौ तरंगः सप्तमो गमत् ।। १ ।।
इति श्रीसच्चिदानंदनाथाचरणारंविंदद्वद्वांते वाशिना
श्रीश्रीविद्यानंदनाथेनविरचिते सौभाग्यरत्नाकरे सप्तमस्तरंगः ।। ७ ।।
अथ करशुद्ध्यादिन्यासः ।।
तत्र प्रथमं प्रागुक्त प्रथम चक्रेश्वरी विद्यया प्राग्वत् करयोः स्थिति
क्रमेण मध्यमादितलांतं विन्यस्यासनं न्यासं कुर्यात् ।। स च द्विविधः
।। चतुरासन न्यासः षडासन न्यासश्चेति ।। तत्रादौ चतुरासनन्यासः ।।
सयथा ।। पादयोः ४ ह्रीं क्लीं सौः त्रिपुरसुंदरी देव्यात्मासनाय नमः ।
प्. ९०अ)
जंघयोः ४ हैं हक्लीं हसौः त्रिपुरावासिनी सर्वचक्रासनाय नमः ।।
जान्वोः ४ हसैं हसकलीं हसौः त्रिपुरा सर्वमंत्रासनाय नमः ।।
मूलाधारे ४ ह्रीं क्लीं ब्लें त्रिपुरमालिनी साध्यसिद्धासनाय नमः ।। इति
चतुरासनन्यासः ।।
अथ षडासनन्यासः ।।
तत्र पादयोः । ४ अं आं सौः त्रिपुरासुधार्णवासनाय नमः । जान्वोः । ४ एं क्लीं
सौः त्रिपुरेश्वरी योतांबुजासनाय नमः ।। ऊर्वोः । ४ ह्रीं क्लीं सौः
त्रिपुरसुंदरी देव्यात्मासनाय नमः ।। स्फिच्योः ।। ४ हैं हक्लीं हसौः
त्रिपुरवासिनी सर्वचक्रासनाय नमः ।। गुदे ४ हसैं हस्क्लीं हसौः त्रिपुरा
श्रीसर्वमंत्रासनाय नमः ।। मूलाधारे ४ ह्रीं क्लीं ब्लें त्रिपुरमालिनी
साध्यसिद्धासनाय नमः । इति षडासनन्यासः ।
अथ षडंगन्यासः ।।
स च त्रिविधः । रक्षाषडंगन्यासो मूलविद्या षडंगन्यासः षडंग
युवतीन्यासश्चेति ।। तत्रादौ रक्षाषडंगन्यासः ।। स यथा ।। ४ एं क्लीं सौः
नमस्त्रिपुरसुंदरी मां रक्ष रक्ष हृदयाय नमः । एवं षडंगेषु
तत्तन्मुद्रया सहतत्तन्मंत्रेण सह न्यसेत् ।।
अथ मूल षडंगन्यासः ।
स च मूल कूटत्रयस्य द्विरावृत्या षडंगस्थानेषु प्राग्वन्यासो ज्ञेयः ।।
प्. ९०ब्)
षोडशार्णो पासकैस्तु आद्यबीज पंचकेन हृदयं । तदुत्तर बीज त्रयेण
शिरः । तदूर्ध्वगत कूटत्रयेण शिखादि नेत्रांतमंगत्रयं ।। अंतिम
बीजपंचकेनास्त्रमिति मूल षडंगन्यासः कार्यः ।।
अथ षडंगयुवतीन्यासः ।।
स च द्विविधः । बालामूल विद्ययोर्योग भेदात् ।। तत्रादौ बालायोगन्यासः ।
तत्र ४ एं सर्वज्ञायै हृदयाय नमः । ४ क्लीं नित्यतृप्तायै शिरसे स्वाहा ।। ४
सौः अनादिबोधायै शिखायै वषट् । ४ एं स्वतंत्रायै कवचाय हुं ।। ४ क्लीं
नित्यमलुप्तायै नेत्रत्रयाय वौषट् षट् ।। ४ सौः अंनंतायै अस्त्राय फट् ।
अथ मूल षडंग युवतीन्यासः ।।
तत्र ४ प्रथमकूटं श्रीमहात्रिपुरसुंदरि सर्वज्ञता शक्तिधाम्ने
हृदयाय नमः । ४ द्वितीय कूटं श्रीमहात्रिपुरसुंदरि नित्यतृप्ति
शक्तिधाम्ने शिरसे स्वाहा ।। ४ तृतीय कूटं श्रीमहात्रिपुरसुंदरि अनादि
बोध शक्ति धाम्ने शिखायै वषट् । ४ पुनराद्यं कूटं
श्रीमहात्रिपुरसुंदरी स्वतंत्रशक्तिधाम्ने कवचाय हं ।। ४ द्वितीय
कूटं । श्रीमहात्रिपुरसुंदरि नित्यमलुप्त शक्तिधाम्ने नेत्रत्रयाय वौषट् ४
तृतीय कूटं श्रीमहात्रिपुरसुंदरि अनंतशक्ति धाम्ने अस्त्राय फट् ।।
प्. ९१अ)
इति षडंग युवतीन्यासः ।।
अथ कामकलापारंपर्यन्यासः ।।
तत्र प्रथमं प्राग्वत् स्वशिरसि गुरु पादुकां ध्यात्वा संपूज्य प्रणम्य
दक्षांसे ४ प्रथम कूटं हंसः प्रकाशचरणाभ्यां नमः ।।
वामांसे ४ द्वितीय कूटं सोहं विमर्श चरणाभ्यां नमः । हृदये ४
तृतीय कूटं हंसः सोहं प्रकाशविमर्शचरणाभ्यां नमः ।।
मूर्द्ध्नि ४ तुरीय विद्यामुच्चार्य हंसः शिवः सोहं निर्वाण
चरणाभ्यां नमः ।। इति कृतांजलिश्चरण चतुष्टयं प्रणम्य ।।
कामकलापारंपर्यन्यासस्य । ४ कामेश्वर ऋषिः ४ पंक्तिछंदः ४
परसंवित्कला श्रीमहात्रिपुरसुंदरी देवता० श्रीपरदेवता प्रसाद
सिध्यर्थे विनियोगः । इति ऋष्यादिकं स्मृत्वा विन्यस्य । ४
आमित्यादि षट्दीर्घस्वरैः करषडंगन्यासं कृत्वा प्रणवसंपुटितया
कामकलारूपया श्रीमूलविद्यव्यापकं विन्यस्य ध्यानं कुर्यात् ।।
तद्यथा ।।
प्रकाश मध्य स्थित विश्वरूपां
वराभये संदधतीं त्रिनेत्रां ।।
सिंदूर वार्णामति कोमलांगीं
मायामयीं तत्वमयीमुपासे ।। १ ।।
इति ध्यात्वा मूलादि ब्रह्मरंध्रांतं श्रीमूल पंचदशाक्षरी प्रागुक्त
रूपां ध्यात्वा तस्या एकैकाक्षरलयेन तुर्यस्वर रूपामंतिमकलां
प्. ९१ब्)
ब्रह्मरंध्रगतामवशेषयेत् । ततस्तामेव पंचदशाक्षर गर्भां
स्वात्मानुभवरूप सच्चिदानंदरूपिणीं तुर्यस्वरत्वेन परिणतां
कामकलां नाभौ ध्यायन्न्यसेत् ।। तत्र नाभौ ४ ईं नमः । इत्यंगुष्ठ
तर्जनी मध्यमा नामाभिर्न्यसेत् । ततो नाभेर्वामपार्श्वे ४ सच्चिदानंद
परमसंवित् ईं नमः । नाभेर्दक्षे ४ सच्चिदानंद परमसंवित् ईं नमः ।
इत्येतद्वयं मध्यमानामांगुष्ठैर्न्यसेत् ।। ततश्चरण चतुष्टयं
न्यासः । तत्र शिरसि त्रिकोणस्याग्रकोणे ४ ईं प्रथम कूटं हंसः
प्रकाशचरणाभ्यां नमः । वामकोणे ४ ईं द्वितीय कूटं सोहं
विमर्शचरणाभ्यां नमः । दक्षणे कोणे ४ तृतीय कूटं हंसः सोहं
प्रकाशविमर्श चरणाभ्यां नमः । मध्ये ४ तुर्यविद्यामुच्चार्य हंसः
शिवः सोहं निर्वाणचरणाभ्यां नमः ।। इति चरण चतुष्टयं
शिवशक्त्यात्मक दक्षिणवामकर धृतसंघट मुद्रया विन्य ततस्त्रिकोण
पृष्ठरेखायां ४ सकलानंदनाथ श्रीपादुकां पूजयामि नमः । ४
निष्कलांनंदनाथ श्रीपादुकां पूजयामि नमः । ४
नवात्मानंदनाथ श्रीपादुकां पूजयामि ४ अकूरानंदनाथ
श्रीपादुकां पू० । इति गुरु चतुष्टयं पंक्ति क्रमेण स्वदक्षिणादि
वामांतं विन्यस्य । शिरस्त्रिकोण मध्ये ४ ईं परमसंवित्कला
श्रीमहात्रिपुरसुंदरी श्रीपादुकां पू० । मुखमंडले ४ ईं सपरार्द्ध
कलानंदनाथोर्ध्व बिंदुवक्राय नमः ।
प्. ९२अ)
स्तनद्वये ४ ईं सपरार्द्ध कलानंदनाथाधो बिंदुद्वयस्तनाय नमः ।।
इत्येतद्वयमंगुष्ठमध्यमानामिकाभिर्विन्यस्य । योनिस्थाने ४ ईं
सपरार्द्ध कलानंदनाथ व्यंजितरेखा योनये नमः ।। इति
योनिमुद्रयान्यसेत् ।।
ततः प्रागुक्त ऋष्यान्यासान् षडंग कर ऋष्यादि क्रमेण वैपरीत्येन
प्रथमं षडंगन्यासः पश्चात् करन्यासः पश्चादृष्यादिरिति विन्यस्य
पूरोक्त भगवती रूपं स्वात्मानं ध्यात्वा यथाशक्ति वामकला विद्यां
जपेदिति कामकला पारंपर्य न्यासः ।
अथांतः कामकलान्यासः ।।
स च परापश्यंती मध्यमा वैखरी भेदाच्चतुर्विधः । तत्रादौ
परान्यासः । स यथा ।। ब्रह्मरंध्रे अरुणाधो मुख
सहस्रदलकमलकर्णिकायामरुणं पूर्णचंद्रमंडलं विभाव्य
तन्मध्ये उद्यदादित्य संकाशं स्वशिखा मूलाग्रं शृंगाटं
ध्यात्वा तदंतर्गतमकथादि क्रमेण समस्ताक्षरमयमकुलासनं
वाग्भवं ध्यात्वा तन्मध्ये हक्ष पाश्वमादि वर्णकदंबकं
दीप्तमवर्ण रूपमनुत्तर मनत्कंतरहात्मकं विचिंत्य
तन्मध्यादुद्यंतीं बिसतंतु निभांसितां हार्द्ध कला रूपिणीमकुल
कुंडलिनीं मूल शृंगाटक
प्. ९२ब्)
मध्य पर्यंतमछिन्नां महाकामकलाममृतकुंडलिनीं ध्यात्वा
मुलाधारे चतुर्दल कमल कर्णिकायामपि वह्नि मंडले
त्रिकोणस्याग्रकोणाग्रं पूर्ववत् शृगाटं ध्यात्वा तदंतः
पूर्ववद्वाग्भवं कुलासनं विभाव्य तत्र पूर्वोक्त मनत्कं विविंत्य
तन्मध्यादुघंतीं सपरार्द्ध कलामयीमग्निकुंडलिनीं कामकलां
ज्वलदग्निनिभां मध्यमार्गं प्रविश्य ग्रंथि संचयं भित्वा तद कुल
पदावध्यूर्द्धं प्राप्तां ध्यात्वा अकुलां बुधि मध्यगत
दंडाकारतरदंडलींगेन प्रवेशयित्वा तयोरमृतानल
कुंडलिंन्योर्योनिलिंगरूपयोर्मथनसंभवैर्निरंतरनिबिडस्रवदरुणा-
मृतपूरैरात्मानं सिक्तं ध्यात्वा पूरयित्वा तयोः
सामरस्यादेकनादरूपिणीं परांशक्ति आत्मानं च भावयेत् ।। इति
परान्यासः ।। तरल क्षणं तु भैरवयामले ।।
तरस्थंतरमध्यस्थंतरस्थतरमध्यगं ।।
तरंतरंडमध्यस्थं योजानाति सकैलिकः ।। १ ।।
शीर्षपाणि चरणैर्विवर्जितं ह्यक्षरं भवरुजापहं परं ।।
यस्य हृत्कुहरगं सुवर्तत्ते तेन मृत्युरपि भस्मसात्कृतः ।। २ ।।
प्. ९३अ)
शैवं चैव तथा शाक्तं सामरस्यं तु मध्यमं ।।
एकीभूतं यदा काले तदा तद्वर्णमुत्तमं ।। ३ ।।
शून्यात्प्रसरमुत्पन्नं प्रसरोत्थमकालकं ।।
अकालात्तत्वमुत्पन्नं विश्वं यत् पंचधा स्थितं ।। ४ ।।
ध्यान स्थान विहीनो यो रूपोच्चारविवर्जितः ।।
अनाहतो नदत्यंतर्मुखान्मुख पदे स्थितः ।। ५ ।।
धाम त्रयाद्विरहितो योगेशीनां मुखे स्थितः ।
सत्यं तु कथितं ताभिः स्वयं मुच्चरते तु सः ।। ६ ।।
शून्या छंभुस्ततः शक्तिः शक्तेर्धाम त्रयात्मकं ।।
प्रभवेच्च ततः सर्वमादिवर्णकदंबकं ।। ७ ।।
अनुत्तरं तदेवोक्तं सद्यः कौलिक सिद्धिदं ।।
तरहं च तदेवस्याच्चंद्रमास्कर मध्यगं ।। ८ ।।
तकारः सोमधामस्याद्यो रेफः स तु भास्करः ।
दंडवद्रमते वह्निरेकीभूतं तदात्मक ।। ९ ।। इति ।।
अथ पश्यंती न्यासः ।।
तत्र प्रागुक्ताकुलपद्मे ब्रह्मरंध्रे ब्रह्मरसभरितमाद्यवर्ण
कदंबकं ध्यात्वा तत्सामरस्यादेकादशरूपं पश्यंती रसभरितं
स्मृत्वा न्यसेत् ।।
तत्र शिरसि स्वाभिमुखाग्रं त्रिकोणं विभाव्य तस्य अग्रादि वामावर्तेन
वामरेखाग्रादि दक्षिणरेखाग्रपर्यंतं त्रिकं पंचकं ।।
प्. ९३ब्)
इति क्रमेण वामाद्येकादश कलान्यसेत् ।। तद्यथा ।। ४ वामायै नमः ।। ४
ज्येष्ठायै नमः । ४ रौद्र्यै नमः ।। इति वामरेखायां ।। ४ अंबिकायै नमः ।
४ इछायै नमः । ४ ज्ञानायै नमः । ४ क्रियायै नमः ।। ४ शांतायै नमः ।
इति पृष्ठरेखायां ।। ४ अकारात्मिकायै नमः । हकारात्मिकायै नमः ।
अहरसात्मिकायै नमः । इति दक्षिणरेखायां न्यसेत् । इति पश्यती न्यासः ।
अथ मध्यमा न्यासः ।।
स च द्विविधः । सूक्ष्मस्थूल भेदात् ।। तत्र ब्रह्मरंध्रे ४ अनत्कात्मने
अविकृतनादाय नमः ।। ललाटे ४ अकारात्मने शून्यनादाय नमः ।।
आज्ञाचक्रे ४ अं बिंदुद्वयात्मन स्पर्शनादाय नमः ।। लंबिकाग्रे
४ षट्कोणात्मने नादनादाय नमः ।। विशुद्धौ ४ अर्द्धचंद्रात्मने
ध्वनिनादाय नमः ।। हृदये ४ वृत्तात्मने बिंदुनादाय नमः ।। नाभौ
मणिपुरके ४ एकारात्मने शक्तिनादाय नमः ।। स्वाधिष्ठाने ४ इंद्वात्मने
बीजनादाय नमः ।। मूलाधारे ४ हंसात्मने अक्षरनादाय नमः ।। इति
सूक्ष्ममध्यमा न्यासः ।
अथ स्थूलमध्यमा न्यासः ।।
तत्र बह्मरंध्रे ४ अं इं उं ऋं ऌं नमः । ललाटे ४ एं ऐं ओं औं
नमः । भ्रूमध्ये ४ हं यं रं वं लं नमः । लंबिकाग्रे ४ ऽऽनं ञं
णं नं मं नमः ।
प्. ९४अ)
विशुद्धौ ४ कं चं टं तं पं नमः । हृदि ४ खं छं ठं थं फं
नमः । नाभौ ४ घं झं ढं धं भं नमः । स्वाधिष्ठाने ४ गं
जं डं दं बं नमः । मूलाधारे ४ शं षं सं नमः । इति मध्यमा
न्यासः ।
अथ वैखरी न्यासः ।
तत्र षडाधारं गुणत्रयेण त्रिधाविभज्य त्रिबीज संगतं कुर्यात् ।।
तद्यथा ।। यथोक्त रूपाणि मूलाधाराद्याज्ञांतानि षट्चक्राणि ध्यात्वा ।
तत्र वसबलाब्जयोर्मूलविद्यायावाग्भवं विद्युत्प्रभं विचिंत्य तद्दलेषु
स्वाग्रादि प्रादक्षिण्येन तद्वर्णान् शिवशक्ति योगेन न्यसेत् ।। तद्यथा ।। ४
वहसैं नमः ।। ४ श है सं नमः ४ ष है सं नमः । ४ स ह सैं नमः । इति
मूलाधारे ।।
ततः ४ ब ह सैं नमः । ४ भहसैं नमः ४ म ह सैं नमः । ४ य ह सैं नमः ।।
४ र ह सैं नमः । ४ ल ह सैं नमः ।। इति स्वाधिष्ठाने ।।
ततो ड फ कटाब्जयोः कामराजकूटं रक्तवर्णं ध्यात्वा तद्बलेषु
तद्वर्णान् पूर्ववत् न्यसेत् ।। तद्यथा ।।
मणिपूरे दशदलेषु पूर्वादि प्रादक्षिण्येन ४ डहसैं नमः । ४ ढ ह सीं
नमः । ४ ण ह सीं नमः । ४ त ह सीं नमः ।। ४ थ ह सीं नमः । ४ द ह सीं
नमः । ४ ध ह सीं नमः । ४ न ह सीं नमः । ४ प ह सीं नमः । ४ फ ह सीं
नमः इति मणिपूरे
प्. ९४ब्)
ततो अनाहते द्वादशदलेषु स्वाग्रादि प्रादक्षिण्येन ४ क ह सीं नमः । ४ ख ह
सीं नमः ।। ४ ग ह सीं नमः ।। ४ घ ह सीं नमः । ४ ऽऽन ह सीं नमः । ४ च ह सीं
नमः । ४ छ ह सीं नमः । ४ ज ह सीं नमः । ४ झ ह सीं नमः । ४ ञ ह सीं
नमः । ४ ट ह सीं नमः । ४ ठ ह सीं नमः । ततो अवर्ग हक्षाब्जयोस्तार्तीय
कूटं शुक्लवर्ण ध्यात्वा तद्बलेषु न्यसेत् ।। तद्यथा ।। ४ अ ह सौः नमः । ४
आ ह सौः नमः । ४ इ ह सौं नमः । ४ ई ह सौः । ४ उ ह सौः नमः । ४ ऊ ह
सौः नमः । ४ ऋ ह सौः नमः । ४ ॠ ह सौः नमः । ४ ऌ ह सौः नमः । ४ ॡ ह
सौः नमः ।। ४ ए ह सौः नमः । ४ ऐ ह सौः नमः । ४ ओ ह सौः नमः । ४ औ ह
सौः नमः ।। ४ अं ह सौः नमः । ४ अः ह सौः नमः । इति विशुद्धौ ततो
भ्रूमध्ये आज्ञाब्जस्य दक्षवामदलयोः ४ ह ह सौः नमः । ४ क्ष ह सौः
नमः ।। इति वैख * न्यासं विधायांतः सुधासिक्तं पद्मराग प्रभं
वर्ण कदंबकं ध्यायेत् ।। इति वैखरी न्यासः ।।
अथ अंतकामकाला न्यासः ।।
४ हस्रैं ह स क्लीं हस्रौः इति पंचकूट विद्यया त्रिखंडामुद्रां बध्वा
विन्यस्य चित्सुधा वृष्टिसेकादुज्वलितप्रभान् वर्णान्
ध्यात्वा षडाधारेष्वेतैरंतस्तमोदहन् इत्यावाह्य कामकलारूपां
देवीमात्मनि भावयेत् ।।
प्. ९५अ)
इत्यंतः कामकला न्यासः ।
अथ बहिः कामकला न्यासः ।।
तत्र कामकला मू * भूतस्य सबिंदुतुर्यस्वरस्यादि बिंदु देवी
रूपस्यात्मनः केशनेत्रकर्णनासिकाद्यवयवसमेतं वक्त्रं परिकललय
तस्याधो बिंदुद्वय बाहु चतुष्टयाद्यवयव समेतं स्तनद्वयं ध्यात्वा
तस्य हार्द्धकलां पादद्वयाद्यं वयवसमेतं योनि विचिंत्य ४ वाग्भव
कूटमूच्चार्य ईंकारस्योर्ध्व बिंद्वात्मने श्रीमहात्रिपुरसुंदर्याः
केशाद्यवयव सहित (स्तन द्वयाय नमः) वक्त्राय नमः ।। ४
कामराजकूटमुच्चार्य ईंकारस्योधो बिंदुद्वयात्मने
श्रीमहात्रिपुरसुंदर्याः बाहुचतुष्टयाद्यवयव सहित स्तन द्वयाय नमः
। ४ तार्तीय कूटमुच्चार्य ईंकारस्य हार्धकलात्मने
श्रीमहात्रिपुरसुंदर्याः पादद्वयाद्यवयव सहित योनये नमः ।। ४ इति
मूर्द्धादि कंठपर्यंतं कंथादि नाभ्यंतं नाभ्यादि
पादाग्रपर्यंतं च व्यापकत्वेन विन्यसे ४ मूलविद्यामुच्चार्य समस्त
कामकलात्मक श्रीमहात्रिपुरसुंदर्याः सर्वावयवेभ्यो नमः ।
प्. ९५ब्)
इति सर्वांगे व्यापकं कृत्वा ।।
नासां ललाटं चक्षुषी कर्णौ वदनं च मुखबिंदौ ।। भुज चतुष्टयं
वक्षो हृदयं स्तन बिदौ ।। चरण द्वयं योनि बिंदौ ध्यात्वा समष्टि
कामकला भूत परमाक्षर मय सर्वावयव संपूर्णां
परमसौंदर्यवतीं कामेश्वरांक निलयां सर्वाभरणसंपन्नां
देवीं स्वात्मानं ध्यायेत् ।। इति बहिः कामकला न्यासः ।।
अथायुधन्यासः ।।
तत्र स्वदक्षाधः करे ४ द्रां द्रीं क्लीं ब्लूं सः यां रां लां वां सां
जंभनेभ्यः कामेश्वर कामेश्वरी बाणेभ्यो नमः । स्ववामाधः करे ४
धं थं मोहनाभ्यां कामेश्वर कामेश्वरी चापाभ्यां नमः ।
स्ववामोर्ध्व हस्ते ४ आं ह्रीं वशी * रणाभ्यां कामेश्वर कामेश्वरी
पाशाभ्यां नमः । स्वदक्षोर्ध्व हस्ते ४ क्रों क्रों स्तंभनाभ्यां
कामेश्वर कामेश्वर्यं कुशाभ्यां नमः ।। इत्ययं न्यासस्तत्तन्मुद्रया
कार्यः ।। इत्यायुधन्यासः ।।
अथाभूषणन्यासः ।
तत्र तत्तदंग भूषणधिया मातृका वर्णान्वक्ष्यमाण स्थानेषु न्यसेत् ।।
तद्यथा ।। शिरसि ४ अं नमः । ललाटे ४ आं नमः । दक्षभ्रुवि ४ इं नमः ।
वामभ्रुवि ४ ईं नमः ।
प्. ९६अ)
दक्षकर्णे ४ उं वामकर्णे ४ ऊं दक्षनेत्रे ४ ऋं वामनेत्रे ४ ॠं
नासायां ४ ऌं ।। दक्षगंडे ४ ॡं वामगंडे ४ एं ओष्ठे ४ ऐं अधरे ४
ओं ऊर्ध्वदते ४ औं अधोदंते ४ अं जिह्वायां ४ अः चिबुके ४ कं गले ४ खं
।। कंठे ४ गं दक्षपार्श्वे ४ घं वामपार्श्वे ४ ऽऽनं दक्षस्तने ४ चं
वामस्तने ४ छं दक्षांसे ४ जं वामांसे ४ झं दक्षकूर्पर ४ ञं
वामकूर्परे ४ टं करतलयोः । ४ ठं करपृष्ठयोः । ४ ऽऽनं (दक्षस्तने ४
चं । वामस्तने) नाभौ ४ ढं । लिंगे ४ णं दक्षोरौ ४ तंः वामोरौ ४
थं दक्षजानुनि ४ दं वामजानुनि ४ धं दक्षं जंघायां ४ नं
वामजंघायां ४ पं दक्षस्फिचि ४ फं वामस्फिचि ४ बं दक्षपादतले ४
भं वामपादतले ४ मं दक्षपादांगुष्ठे ४ यं वामपादांगुष्ठे ४
रं कट्या ४ लं ग्रैवेयके ४ वं वलये ४ शं गुदे ४ लं हृदि ४ क्षं
दक्षकुंडले ४ षं वामकुंडले ४ संमुकुटे ४ हं नमः ।।
इत्याभूषणन्यासः ।।
अथ कामरति न्यासः ।।
तत्र ध्यानं कुर्यात् ।।
अथ कामान् स्मरेद् देवि दाडिमी कुसुमोपमान् ।।
वामांकशक्ति सहितान् पुष्पबाणेक्षु कामुकान् ।। १ ।।
शक्तयः कुंकुम निभाः सर्वाभरणभूषिताः ।।
नीलोत्पल कराध्येयस्त्रैलोक्याकर्षण क्षमाः ।। २ ।।
प्. ९६ब्)
इति ध्यात्वा न्यसेत् ।। तद्यथा ।।
४ अस्याः कामरति मातृकायाः ब्रह्मा ऋषिः गायत्रीछंदः परमात्मा
देवता न्यासे विनियोगः ।।
बालया षडगं विधाय ।। ४ अं कामाय रत्यै नमः । ४ क्लीं आं
कामदाय प्रीत्यै नम ४ इं कांताय कामिन्यै नमः । ४ ईं कांतिमते मोहिन्यै
नम० । ४ उं कामगाय कमलायै । ४ ऊं कामचाराय विलासिन्यै० । ४ ऋं कामिने
कल्पलतायै० । ४ ॠं कामुकाय श्यामायै० । ४ ऌं कामवर्द्धनाय
शुचिस्मितायै० । ४ ॡं वामाय विस्मिताक्ष्यै० । ४ एं रामाय विशालाक्ष्यै० । ४
ऐं रमणाय लेलिहानायै० । ४ ओं रतिनाथाय दिगंबरायै० । ४ औं
रतिप्रियाय वामायै० । ४ अं रात्रिनाथाय कुब्जिकायै० । ४ अः रमाकांताय
कांतायै० । ४ कं रममाणाय नित्यायै० । ४ खं निशाचराय कल्पायै० । ४
गं नंदकाय भोगिन्यै० । ४ घं नंदनाय कामदायै० । ४ ऽऽनं नंदिने
सुलोचनायै० । ४ चं नंदयित्रे सुलापिन्यै० । ४ छं पं च बाणाय मर्दिन्यै०
। ४ जं रतिसखाय कलह प्रियायै० । ४ झं पुष्पधन्वने वराक्ष्यै० । ४ ञं
महाधनुषे सुमुख्यै० । ४ टं भ्रामणाय नलिन्यै नमः । ४ ठं
भ्रमणाय जयिन्यै० । ४ डं भ्रममाणाय पालिन्यै० । ४ ढं भ्रमाय
शिवायै० । ४ णं भ्राताय मुग्धायै० । ४ तं भ्रामकाय रमायै० । ४ थं
भृंगाय भ्रमायै० । ४
प्. ९७अ)
दं भ्रांतचाराय लोलायैः । ४ धं भ्रमं वहाय चंचलायै० । ४ नं
मोहनाय दीर्घजिह्वायै० । ४ पं मोहकाय रतिप्रियायै नमः । ४ फं
मोहाय लोलाक्ष्यै नमः । ४ बं मोहवर्द्धनाय भृंगिण्यै० । ४ भं
मदनाय पाटलायै० । ४ मं मन्मथाय मदनायै० । ४ यं मातंगाय
मालायै नमः । ४ रं भृंगनायकाय हंसिन्यै० । ४ लं गायकाय विश्वतो
मुख्यै० । ४ वं गीतिज्ञाय जगदानंदिन्यै० । ४ शं नर्तकाय रमण्यै० ।
४ षं खेलकाय कांत्यै० । ४ सं उन्मत्ताय कलकंठ्यै० । ४ हं मत्तकाय
वृकोदर्यै० । ४ लं विलासिने मेघशामायै० । ४ क्षं लोभवर्द्धनाय
झषोत्तमायै नमः ।। इत्येक पंचाशन्मिथुनानि मातृका स्थानेषु न्यसेत् ।। इति
कामरति न्यासः ।।
अथ पंचाशत्त्रिपुरा न्यासः ।
तत्र ४ अं कामिनी त्रिपुरायै नमः । ४ ओं मोदिनी त्रिपुरायै नमः । ४ इं मदना
त्रि० । ४ ईं उन्मादिनी त्रि० । ४ उं द्राविणी त्रि० । ४ ऊं खेचरी त्रि० । ४ ऋं
घंटिका त्रि० । ४ ॠं कलावती त्रि० । ४ ऌं क्लेदिनी त्रि० । ४ ॡं शिवदूती त्रि० । ४
एं सुभगा त्रि० । ४ ऐं भगा त्रि० । ४ ओं विद्येशी त्रि० । ४ औं महालक्ष्मी त्रि० । ४
अं कौलिनी त्रि० । ४ अः सुखेश्वरी त्रि० । ४
प्. ९७ब्)
कं कुलमालिनी त्रि० । ४ खं व्यापिनी त्रि० । ४ गं भगानंदा त्रि० । ४ घं
वागीश्वरी त्रि० । ४ ऽऽनं वषट्कारी त्रि० । ४ चं पिंगला त्रि० । ४ छं
भगसर्पिणी त्रि० । ४ जं सुंदरी त्रि० । ४ सं नीलपताका त्रि० । ४ ञं त्रिपुरा त्रि० ।
४ टं सिद्धेश्वरी त्रि० । ४ ठं अमोघा त्रि० । ४ डं रत्नमालिनी त्रि० । ४ ढं
मंगला त्रि० । ४ णं भगमालिनि त्रि० । ४ तं नित्या त्रि० । ४ थ रौद्री त्रि० । ४ दं
व्योमेश्वरी त्रि० । ४ धं अंबिका त्रि० । ४ नं अट्टहासा त्रि० । ४ पं आप्यायिनी
त्रि० । ४ फं वज्रेश्वरी त्रि० । ४ बं क्षोभिणी त्रि० । ४ भं शांभवी त्रि० । ४
मं स्तंभिनी त्रि० । ४ यं अनामा त्रि० । ४ रं रक्ता त्रि० । ४ लं शुक्ला त्रि० । ४
वं अपराजिता त्रि० । ४ शं संवर्त्तका त्रि० । ४ षं विमला त्रि० । ४ सं घोरा त्रि०
। ४ हं अघोरा त्रि० । ४ लं बिंदुभैरवी त्रि० । ४ क्षं सर्वाकर्षणी त्रिपुरायै
नमः ।। इत्येता मातृका स्थानेषु न्यस्तव्याः ।। इति पंचाशत्रिपुरान्यासः ।।
अथ षोडश कामकलान्यासः ।।
तत्र दक्ष पादे ४ क्लीं अं सिद्धाकलायै नमः । दक्षजंघायां ४ क्लीं
आं प्रीतिकलायै० । दक्षजानुनि ४ क्लीं इं रतिकलायै० । दक्षोरौ ४ क्लीं ईं
धृतिकलायै० । दक्षवक्षसि ४ क्लीं उं कांतिकलायै० । दक्षबाहुमूले ४
क्लीं ऊं मनोरमा कलायै० । मुखदक्षे ४ क्लीं ऋं मनोहरा कलायै० ।
दक्षमूर्द्ध्नि ४ क्लीं ॠं मनोभवा कलायै० । वामशिरोभागे ४ क्लीं ऌं
मदनोन्मादिनी कलायै० ।
प्. ९८अ)
मुखवामे ४ क्लीं ॡं मोहिनी कलायै० । वामबाहुमूले ४ क्लीं ए दीपिनी
कलायै० । वामवक्षसि ४ क्लीं ऐं शोषिणी कलायै० । वामोरौ ४ क्लीं ओं
वशंकरी कलायै० । वामजानुनि ४ क्लीं औं रंजिनी कलायै० ।
वामजंघायां ४ क्लीं अं सुभगा कलायै० । वामपादे ४ क्लीं अः
प्रियदर्शनी कलायै नमः । इति विन्यस्य एताः शुक्लवर्णाः
सोत्पलकराध्येयाः ।। इति षोडश कामकला न्यासः ।।
अथ षोडशसोमकलान्यासः ।
तत्र पृष्ठदक्षभागे ४ सं अं पूषाकलायै नमः ।। दक्षांसपृष्ठे ४
सां आं वशाकलायै० । दक्षग्री पृष्ठे ४ सिं इं सुमना कलायै० ।
दक्षकर्णे ४ सीं ईं रतिकलायै नमः ।। दक्षनेत्रे ४ सु उं प्रीतिकलायै० ।
दक्षनासायां ४ सूं ऊं धृतिकलायै० । दक्षललाटे ४
सृं ऋं ऋद्धिकलायै० । दक्षमूर्द्ध्नि ४ सृं ॠं सौम्या कलायै० ।
वाममूर्द्धनि ४ स्तृं ऌं मरीचिकलायै० । वामललाटे ४ सॄं ॡं
अंशुमालिनी कलायै० ।। वामनासायां ४ सें ऐं अंगिरा कलायै० ।
वामनेत्रे ४ सैं ऐं शशिनी कलायै० । वामकर्णे ४ सों ओं छायाकलायै० ।
वामग्रीवायै पृष्टे ४ सौं औं संपूर्णमंडला कलायै० ।
वामांसपृष्ठे ४ सं अं तुष्टि कलायै० । पृष्टवामभागे सः अः
अमृताकलायै नमः ।। एताः शुभ्राः सोत्पला कराध्येयाः इति शोडश
सोमकला न्यासः ।।
प्. ९८ब्)
अथ वशिन्यादि वाग्देवताष्टकं न्यासः ।।
तत्र शिरसि ४ अं आं १४ व्लू वशिनीवाग्देवतायै नमः ।। ललाटे ४ कं ४
कलह्रीं कामेश्वरी वाग्देवतायै० ।। भ्रूमध्ये ४ च० ४ न्व्लीं मोदिनी
वाग्देवतायै० । कंठे ४ टं० ४ प्लूं विमलावाग्देवतायै० । हृदये ४ तं० ४
ज्म्रीं अरुणा वाग्देवतायै न० ।। नाभौ ४ पं ४ हसल्व्यूं जयिनी
वाग्देवतायै० । मूलाधारे ४ यं ३ समरयूं सर्वेश्वरी वाग्देवतायै० ।।
मूलाधारादि पाद द्वयांतं ४ शं ५ क्ष्म्रीं कौलिनी वाग्देवतायै
नमः ।। इति वाग्देवतान्यासः ।।
अथ चतुःपीठन्यासः ।।
तत्र मूलाधारे ४ प्रथमकूटमुच्चार्य अग्निचक्रे कामगिरीपीठे
मित्रीशनाथात्मिके जागृद्वशाधिष्ठायके इछाशक्त्यात्मक रुद्रात्मशक्ति
श्रीकामेश्वरी देव्यै नमः ।। हृदये ४ द्वितीयकूटमुच्चार्य सूर्यचक्रे
जालंधरपीठे षष्ठीशनाथात्मके स्वप्नदशाधिष्ठायके
ज्ञानशक्त्यात्मक विष्णवात्मक शक्ति श्रीवज्रेश्वरी देव्यै नमः ।
भ्रूमध्ये ४ तृतीयकूटमुच्चार्य सोमचक्रे पूर्णगिरिपीठे
उड्डीशनाथात्मके सुषुप्ति दशाधिष्ठायके क्रियाशक्त्यात्मक
ब्रह्मात्मशक्ति श्रीभगमालिनी देव्यै नमः । ब्रह्मरंध्रे ४
तुर्यविद्यामुच्चार्य ब्रह्मचक्रे उड्याणपीठे श्रीचर्यानाथात्मके
तुर्यतीतदशाधिष्ठायके
प्. ९९अ)
परब्रह्मात्मशक्ति श्रीमहात्रिपुरसुंदरी देव्यै नमः ।। इति
चतुःपीठन्यासः ।।
अथ कामेश्वर्यादि न्यासः ।
तत्र वामपादांगुष्ठादि नाभिपर्यंतं ४ ऐं प्रथमकूटे
कामेश्वर्यै नमः । नाभेः कंठपर्यंतं ४ क्लीं द्वितीकूटं
वज्रेश्वर्यै नमः । कंठात् शिरः पर्यंतं ४ सौः तृतीयकूटं
भगमालिन्यै नमः ।। इति वामभागे विन्यस्य
दक्षपादांगुष्ठान्नाभिपर्यंतं ४ हसैं आत्मतत्वाधिपतये ब्रह्मणे
नमः । नाभेः कंठपर्यंतं ४ हस्क्लीं विद्यातत्वाधिपतये विष्णवे
नमः । कंठादि शिरोंतं ४ हसौः शिवतत्वाधिपतये रुद्राय नमः ।। इति
तत्वदेवतान्यासः ।
अथ चतुस्तत्वन्यासः ।।
नाभ्यादि पादांतं प्रथमकूटं ४ आत्मतत्वात्मने
श्रीमहात्रिपुरसुंदर्यै नमः ।। कंठादि नाभ्यंतं ४ द्वितीय कूटं
विद्यातत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः । मूर्द्धादि कंठांतं ४
तृतीयकूटं शिवतत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः । मूर्द्धादि
पादपर्यंतं ४ तुरीयविद्यामुच्चार्य ४ सर्वतत्वात्मने
श्रीमहात्रिपुरसुंदर्यै नमः । इति व्यापकं कुर्यात् । इति चतुस्तत्वन्यासः ।।
अथ मूलविद्यान्यासः मूलाधारे ।।
४ प्रथमकूटं । हृदि ४ द्वितीयकूटं नमः ।। भ्रूमध्ये ४ तृतीयकूटं
नमः ।। ब्रह्मरंध्रे ४
प्. ९९ब्)
तरीयविद्यां च विन्यस्य प्राग्वत्समस्तविद्यां व्यापकत्वेन न्यसेत् ।। इति
मूलविद्यान्यासः । स च बालया एव कर्त्तव्यः । तद्यथा ।। वामकर्णे ऐं
नमः । दक्षकर्णे ४ क्लीं नमः । चिबुके ४ सौः नमः । एवं वामशंखे
दक्षसंखे मुखे च द्वितीया योनिः । वामदक्षनेत्रयोर्नासायां च तृतीया
वामदक्षांस हृदयेषु चतुर्थी । वामदक्षकूर्पर नाभिषु पंचमी ।
वामदक्षजानु लिंगेषु षष्ठी । वामदक्षपादगुदेषु सप्तमी ।
वामदक्षपार्श्ववक्षसी अष्टमी । वामदक्षस्तन कंठेषु नवमी । इति
बहिर्नवयोनिन्यासः ।।
अथांतर्नवयोनिन्यासः ।।
तत्र मूलाधारादि षट्चक्रललाट सीमंत ब्रह्मरंध्रेषु नवस्थानेषु
चतुरस्र वेष्टितानवयोनीः परिपकल्प्यता सुस्वाग्राद्यप्रादक्षिण्य क्रमेण
प्रागुक्तबीजत्रयं मनसा ध्याय न्यस्येत् ।। इत्यंतर्नवयोनिन्यासः ।
अशृखलान्यासः । तत्र शिखायां ४ प्रथमकूटं नमः । एवं चिबुके ४
द्वितीयं । मुखे ४ तृतीयं । पुनर्मुखे ४ प्रथमं । कंठे ४ द्वितीयं ।
चिबुके ४ तृतीयं । पुनश्चुबुके ४ प्रथमं । हृदये ४ द्वितीयं । कंठे ४
तृतीयं कुटं । पुनः कंठे ४ प्रथमकूटं । नाभौ ४ द्वितीयं । हृदये ४
तृतीयं । पुनर्हृदयें ४ प्रथमं । स्वाधिष्ठाने ४ द्वितीयं । नाभौ ४
तृतीयं । पुनर्नाभौ ४ प्रथमं ।
प्. १००अ)
मूलाधारे ४ द्वीतीयं । स्वाधिष्ठाने तृतीयं । पुनस्वाधिष्ठाने ४
प्रथमं । उर्वो ४ द्वितीयं । मूलाधारे ४ तृतीयं ।। इति शृखलान्यासः ।
अप्रकटादि न्यासः ।
तत्र च मूलाधारे ४ अं आं सौंः त्रैलोक्यमोहनचक्रस्थाभ्यः
प्रकटयोगिनीभ्यो नमः । स्वाधिष्ठाने ४ ऐं क्लीं सौः सर्वाशापरिपूरक
चक्रस्थाभ्यो गुप्तयोगिभ्यो नमः । मणिपूरके ४ ज्ञीं क्लीं सौः
सर्वसंक्षोभ प चक्रस्थाभ्यो गुप्ततरयोगिनीभ्यो नमः । हृदये ४ हैं
हकली हसौः सर्वसौभाग्यदायक चक्रस्थाभ्यः संप्रदाययोगिनीभ्यो
नमः । विशुद्धौ ४ हंसै हसकलीं हसौः सर्वाथसाधक चक्रस्थाभ्यः
कुलकौलयोगिभ्यो नमः । आज्ञायां ४ ह्रीं क्लीं ब्लें रर्व
रक्षाकरचक्रस्थाभ्योनिगर्भयोगिनीभ्यो नमः । ललाटे ४ ह्रीं श्रीं सौः
सर्वरोगहर चक्रस्थाभ्यो रहस्ययोगिनीभ्यो नमः । शिरसि ४ हसैं
हसकलरीं हस्रौः सर्वसिद्धिप्रदचक्रस्थाभ्यः परापर रहस्य योगिनीभ्यो
नमः । ब्रह्मरंध्रे ४ मूलपंचदशीमुच्चार्य सर्वानंदमय
चक्रस्थाभ्यः परापराति रहस्य योगिनीभ्यो नमः । इति विन्यस्य ४ समस्त
प्रकटेत्यादि योगिनी समष्टि विद्यया सर्वांगे व्यापकं विन्यसेत् इति प्रकटादि
न्यासः ।
प्. १००ब्)
अथ अमठन्यासः ।
तत्र शिरसि ४ ओं सरस्वत्यै नमः । ललाटे ४ ह्रीं पार्वत्यै नः । दक्षनेत्रे ४ अं
सवित्रे नमः । वामनेत्रे ४ अं अग्नय नमः । मुखवृत्ते ४ ठं चद्रमसे
नमः । मुखे ४ श्रीं श्रियै नमः । कपोलयोः ४ स्वां हां दंतिने नमः ।
इत्यमठन्यासः ।
अथैतन्न्यासफलं ।।
त्रिकालं यस्त्रिवारं वा पंचवारं च सप्तधा ।।
कुर्याद्वा दशधा वाथ श्रुणु तस्य फलं शिवे ।। १ ।।
कांतिर्मेधा यश सौख्यं सुखं श्रीस्तस्य जायत इति ।।
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।।
कृते सौभाग्य रत्नाब्धौ तरंगोगमदष्टमः ।। १ ।।
इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरेऽष्टमस्तरंगः ।। २ ।।
अथ फणान्यासः ।
आधारे चतुर्दलकमलकर्णिकायां स्वराब्जं अवर्गांकितं चिंतयित्वा तत्र
कुंडलिनीं च फणान्वितां विचिंत्य तेषु फणेषु ४ प्रथमकूटं
पंचवर्णं मनसा विन्यस्य ।।
ततोऽ अनाहते द्वादशदलकमलकर्णिकायां तथैवाब्जं क वर्गांकितं
प्. १०१अ)
विभाव्य तत्र तां ऋतुफणान्वितां विचिंत्य तेषु फण रत्नेषु ४ द्वितीय
कूटार्णान् विन्यस्य । ततो हक्षाब्जे तथैवाब्जं थ वर्गांकितं विचित्य तत्र
तां वेद पूनान्वितां ध्यात्वा ४ तत्र शक्तिकूटार्णान्विन्यस्य । ततः
सहस्रदलकमलकर्णिकायां वर्णारविंदं ध्यात्वा तत्र तां पंचदश
फणान्वितां विचिंत्य तत्र मूलार्णान्विन्यसेदिति फणान्यासः ।।
अथ सर्वसंमोहनन्यासः ।
शिरसि ४ ऐं क्लीं सौः ह्रीं श्रीं नादनादाय नमः । ललाटे ४ ह्रीं श्रीं
क्लीं हसकलरीं शून्य नादाय नमः । भ्रूमध्ये ४ ह्रीं श्रीं क ए
इल्ह्रीं अविकृतनादाय नमः । नासायां ४ ह्रीं श्रीं हसौं सकलह्रीं
स्पर्शनादाय नमः ।। मुखे ४ ह्सीं ह्रीं श्रीं ध्वनिनादाय नमः । हृदि ४
अं आं सौं ऐं ह्सौं ह्रीं श्रीं नादनादाय नमः । जठरे ४
ईहसकल्ह्रीं क ए इल् ह्रीं ऐं क्लीं सौं ह्रीं श्रीं बिंदुनादाय नमः ।
नाभौ ४ ईह सकल हीं श्रीं विकृतिनादाय नमः । मूले ४ ह्सौं सौं सकल
ह्रीं ह्रीं श्रीं बीजनादाय नमः ।। मूलाधारे ४ ओं हं सः ह्रीं श्रीं
अक्षरनादाय नमः । ४ मूलेन सर्वशरीरे व्यापकं न्यसेदिति
सर्वसंमोहनन्यासः ।।
अथ गुह्य षोढान्यासः ।।
तद्यथा ।।
शंकर उवाच ।।
कलौ मंत्रान सिध्यंति विना येन तदुच्यते ।।
प्. १०१ब्)
अनेन मंत्रतंत्राणि सिध्यंति झटति ध्रुवं ।। १ ।।
पूर्वसा संततो बीजं कृतं रावण राक्षसैः ।।
न्यासांश्चापि क्रमादेषां साधनानां क्रमादपि ।। २ ।।
किंतु विद्या महाविद्या गणेश मनवस्तथा ।।
हयग्रीवमनुश्चैव बीजमुक्तं महीतले ।। ३ ।।
ओं अस्य श्रीगुह्य षोढा श्रीमहाचक्रेश्वरी न्यासस्य दक्षिणामूर्ति ऋषिः
अनुष्टूप्छंदः । श्रीमहात्रिपुरसुंदरी देवता ।। सांख्यायन गोत्रं ।
ऐं बीजं । ह्रीं शक्तिः । क्लीं कीलकं । श्रीगुरुदेवता प्रसाद सिध्यर्थे
गुह्य षोढान्यासे विनियोगः ।
४ ऐं मध्यमाभ्यां नमः । ४ ह्रीं अनामिकाभ्यां नमः । ४ श्रीं
कनिष्ठिकाभ्यां नमः । ४ ऐं अंगुष्ठाभ्यां । ४ ह्रीं तर्जनीभ्यां । ४
श्रीं करतलकरपृष्ठाभ्यां । एवं हृदयादि शडंगं विधाय ।। ४ ऐं
ह्रीं श्रीं ह्स्रैं हसकलीं ह्सौंः त्रिपुरायै नमः । इति शिखायां ।। ४ ऐं
क्लीं सौः बालात्रिपुरायै नमः मुखे ।। ४ ऐं शारदा त्रिपुरायै नमः
कंठे ।। ४ क्ष्रौं श्रीं क्ष्रौ सिद्धेश्वर्यै नमः । ललाटे ।। ४ हस्रौं
हस्रक्लीं ह्स्रौः त्रिपुरासिद्धायै नमः भ्रूमध्ये ।। ४ ह्स्रौं ह्स्क्लीं ह्स्रौः
त्रिपुरा परमेश्वर्यै नमो गले ।। ४
प्. १०२अ)
कामराजविद्या १५ राजराजेश्वर्यै नमो हृदये ।। ४ नफक्ष्मलवयूं मालिनी
त्रिपुरायै नमो हृदयोपरि ।। ४ लोपामुद्रा विद्या १५ देवीत्रिपुरसुंदर्यै नमो
गुदोपरि ।। ४ हसरीं हसरीं शृं सुखदा त्रिपुरायै नमो मेढ्रे ।। ४ क्लीं
कामेश्वर्यै नमो गुह्ये ।। ४ ह्रीं त्रिपुर भुवनेश्वर्यै नमो सर्वांगे ।। ४ हं
सः निर्वाणसुंदर्यै नमो नासारंध्रे ।। ४ ह्रीं ह्स्रौं श्रौं हरिप्रिया
परमार्यै नमो ब्रह्मरंध्रे ।। ४ ऐं १५ पंचदशी नक्षत्रं वल्लभायै
नमो ललाटे ।। ४ कामराजकूटं क्लीं रतिप्रियायै नमो श्रोत्रयोः ।। ४ ह्रीं
श्रीं क्लीं शक्रं प्रियायै नमो घ्राणे ।। ४ शक्ति कूं सौं
शंभुप्रियायै नमः ओष्ठो । ४ लोपामुद्राद्य कूटं ऐं प्राणेश्वर्यै
नमः दंतपंक्त्योः ।। ४ ऐं ह्रीं श्रीं सौः जीवेश्वर्यै नमः रसनायां
।। ४ ह्रीं श्रीं ब्रह्माण्यै नमः कूर्परयोः ।। ४ हंसः ओं ऐं ह्रीं श्रीं
ह्रीं हूं सोहं परमात्मस्वरूपायै नमः पृष्ठे ।। ओं ३ ओं सृं हृं
सौः पृथ्वीरूपायै नमः सर्वांगे ।। ४ षोडशीमूच्चार्य ह्रीं हृल्लेखायै
नमः हृदये ।। ओं ३ सौंः क्ली ३ भृगुप्रियायै नमस्तन्योः ।। ४ क्रोधरूपायै
नमः कुक्षौ ।। ४ श्रीं ह्रीं ऐं सः । विताका देव्यै नमः लिंगे ।। ४ ह्रीं
क्लीं भुवनेश्वर्यै नमः । शीर्षादि पादपर्यंतं ।। ४
प्. १०२ब्)
ऐं वाग्भैरव्यै नमः मूलाधारे ।। ४ क्लीं कामरूपायै नम
हृदयाधः ।। ४ सौंः शक्तिटायै नमः अलके ।। ओं ३ समस्त
मूलविद्यामुच्चार्य श्रीमन्महात्रिपुरसुंदर्यै नमः सर्वांगे व्यापकं
।। पुनः पूर्ववत्करषडंगानि कुर्यात् ।।
इमं न्यासं महेशानि यः करोति दिवानिशं ।।
स तु सिद्धिमवाप्नोति मोक्षस्तस्य विनिश्चितं ।। १ ।।
न जरा न च मृत्युश्च न च राजभयादिकं ।।
य इमं न्यसति न्यासं स मुक्तो नात्रसंशया ।। २ ।।
द्वात्रिंशच्च महाविद्या उक्तस्थानेषु विन्यसेत् ।।
महाचक्रेश्वरी न्यासो देवानांमपि दु * र्भः ।। ३ ।।
इति गुह्य षोढा महाचक्रेश्वरी न्यासः ।।
ततो गणेशपंचमी दुर्गाबटुक क्षेत्रपालान्नपूर्णा अश्वारूढा बाला
कालसंकर्पण्यादि स्मरेत् ।। तद्यथा ।। ओं वक्रतुंडाय हूं ।। १ ।। ओं ह्रीं
नमो भगवति वाराह्यघोरे स्वप्नं दद स्वाहा ।। २ ।। ऐं ह्रीं क्लीं
चामुंडायै विच्चे ।। ३ ।। ओं ऐं क्लां क्लीं क्लूं ह्रां ह्रीं र्ह्रूं सः
बां आपदुद्धारणाय अजामल बद्धाय लोकेश्वराय स्वर्णाकर्षण
भैरवाय मम दारिद्र विद्वेषणाय ओं श्रीं महाभैरवाय नमः ।। ४ ओं
क्षेत्रपालाय स्वाहा ।। ह्रीं सौः श्रीं क्लीं ओं नमो भगवति
प्. १०३अ)
अंन्नपूर्णे ममाभिलषितं अन्नं देहि स्वाहा ।। ६ ।। ओं ह्रीं फ्रें फ्रें
सर्ववशंकरि स्वाहा ।। ७ ।। ऐं क्लीं सौः ।। ८ ।। ख्फ्रें महाचंडयोगेश्वरी
।। ९ ।। इति मंत्र नवकं स्मृत्वा ।। मूल वाग्भवमुच्चार्यंतः स्थितं
विषयं बहिर्भावयन् पूरयेत् । कामराजेन उपसंहरन्सभावयन्
कुंभयेत् शक्ति बीजेन रेचयेत् ।। इति प्राणानायम्य लिंगन्यासं कुर्यात् ।। स
यथा ।। ४ ऐं स्वयंभू लिंगाय नमो मूलाधारे ।। ४ ईं बाणलिंगाय
नमो हृदये ।। ४ औः इतरलिंगाय नमो भ्रूमध्ये ।। ४ ऐं ईं औः
परलिंगाय नमो ब्रह्मरंध्रे ।। कनक पाटलसितं तत्समष्टि रूपं तेजो
विचित्यनासामार्गेण स्वकरांजलै संक्रम्ययय । अं आं सौः । इति बीज
मंत्रयं मध्यमादि तलांतं विन्यस्य करशुद्धिविधाय ऐं
नाभ्नेरापादं क्लीं हृदोनाभिपर्यंतं ।। सौः शिरसो हृत्पर्यंतां ऐं
क्लीं सौः । त्रिर्व्याकं सर्वांगे च ।। ह्रीं क्लीं सौः त्रिपुरसुंदरि
ममात्मानं रक्ष रक्ष हृदये इत्यात्मरक्षा न्यासः ।।
ततः मूलाधारे दशदलमंडलं विभाव्यक ५ वह्निमंडलाय नमः ।।
हृदये द्वादशदले ह ६ सूर्यमंडलाय नमः ।। भ्रूमध्ये षोडशदलं
विभावा स० ४ सोंममंडलाय नमः ।।
प्. १०३ब्)
ब्रह्मरंध्रे क १५ परमंडलाय नमः । क० ५ करमूले । ह ६ करमध्ये ।
स ४ कराग्रे ।। एवं वामे करे । क० ५ मूलाधारे । हृदि ह ६ । स० ४ बिंदौ
भ्रूमध्ये ।। क १३ ब्रह्मरंध्रे ।।
द्वादशांतेंदु विलसत् पीयूषेणात्मनस्तनुं ।।
संप्लाव्य तन्मयो भूत्वा न्यसेत् पश्चात्र वासनं ।। १ ।।
अथ मू * विद्यानवासनन्यासः ।।
अं आं सौः त्रिपुरा मृतार्णवासनाय नमः पादयोः ।। ऐं क्लीं सौः
त्रिपुरेश्वरी पोतांबुजासनाय नमो जानुनि ।। ह्रीं क्लीं सौः त्रिपुरसुंदरी
देव्यासनाय नम ऊरौ ।। हैं हक्लीं ह्सौः । त्रिपुरवासिनी सर्वचक्रासनाय
नमो जंघने ।। ह्सौ ह्स्क्लीं हसौः त्रिपुरा श्रीसर्वमंत्रासनाय नमो गुदे ।।
ह्रीं क्लीं ब्लें त्रिपुरमालिनी साध्य सिद्धासनाय नमो लिंगे ।। ह्रीं श्रीं
सौः त्रिपुरा सिद्धे सिद्धोद्धतासनाय नमो ४ नाभौ ।। ह्स्रैं ह्स्क्लीं ह्स्रौः
त्रिपुरांबपर्यकपीठासनाय नमो हृदये ।। हसकलरडैं हसलरंडी
हसकलरडौः । त्रिपुरभैरवी सदाशिव महाप्रेत पद्मासनाय नमो
ब्रह्मरंध्रे ।। इति नवासनन्यासः ।।
अथ महाशक्तिन्यासः ।।
तत्र प्रथमं जगछून्याकारं निरालंबं ध्यात्वा ४ हूं पृथिव्यै
नमः ।
प्. १०४अ)
इति स्वासनाधः पृथिवीं संपूज्य । स्वासनं वामहस्तेन स्पृशेत् ।
भुवनेश्वरी बीजं सप्तवारं जपित्वा ।। ओं ३ जयायै नमः । ४ विजयायै ४ ।
जयंत्यै नमः । ४ अजितायै० । ४ अपराजितायै नम० । ४ संगमायै० । ४
रंभायै० । इति स्वासने सप्तसक्तीः संपूज्य मूलविद्यया प्राणायाम
त्रयं कृत्वा ।। अस्य श्रीमहाशक्ति न्यासस्य ४ परमशिव ऋषिः ४ अति जगती
छंदः ४ श्रीपराशक्तिर्देवता ४ ऐं बीजं ४ श्रीं शक्तिः ४ सौः कीलकं
श्रीविद्यांगत्वेन महाशक्ति न्यासे विनियोगः । इति ऋष्यादिकं स्मृत्वा यथा
विधि विन्यस्य त्रितारै द्विरावृत्या करषडंग न्यासं विधाय न्यासं
कुर्यात् ।। तत्र योनौ । ओं ३ ह्लां ह्लीं ह्लं नमः ललाटे ४ सां सीं सूं
नमः कर्णयोः । ४ ह्रां ह्रीं ह्रूं नमः । ध्वजमूले । ४ द्रां द्रीं
द्रूं नमः चिबुकाग्रै । ४ सौः श्रीं सौः नमः ब्रह्मरंध्रे । ४ ऐं ईं
सौः अं नमः । इति विन्यस्य अकारादि क्षकारांतानां सर्वेषां वर्णानां
मूलभूतमकारं सर्वेषु वर्णेषु दुग्धस्थ सर्पिवत्सूक्ष्मरूपेण स्थितं
विभावयन् तन्मयानन्य वर्णान्वक्ष्यमाणेषु स्थानेषु न्यसेत् ।।
प्. १०४ब्)
ब्रह्मरंध्रे ऐं ई सौः ञं नमः तत्र तालु ४ ऐं ईं सौः आं नमः ।
नासाग्रे ४ ऐं ई सौः ईं नमः । पश्चिम लिंगे शीवन्यां
मूलाधारगतज्योतिर्लिंगे ।। ४ ऐं ईं सौः ईं नमः । गुदे ४ । ३ उं नमः । ४
पृष्ठ मध्ये ४ । ३ ऊं नमः ।। कटि संधौ ४ । ३ ऋं नमः । वृषणांते ४ । ३
ॠं नमः । पृष्ठमध्ये ४ । ३ ऌं नमः । लंबिकास्थाने ४ । ३ ॡं नमः ।
सर्वांगे ४ । ३ एं नमः । पुनर्बिंदूपरिगतत्रिरेखायां योनौ न्यास
भावनया सर्वांगे ४ । ३ ऐं नमः । इति विन्यस्य ।।
योनिरित्युच्यते शक्तिरेषा ब्रह्मांड भेदिनी ।।
लयं चित्ता लये देहे रेतौ बिंदुरिति स्मृतः ।। १ ।।
द्वासप्तति सहस्रेषु नाडिभेदेषु पंजरे ।।
व्याप्यमाना महाशक्तिः कामिनीनां ऋतुक्रमे ।। २ ।।
नाडिचक्रागतं रक्तं योनिमार्गे निपातयेत् ।।
पुष्पी भूते भगे पुष्पं मासपक्षादिषु क्रमात् ।। ३ ।।
ऐंकारोपि स्वयं योनिर्नात्रकार्याविचारणा ।।
न्यस्तं चाप्यत्र देवेश त्रैलोक्यं स चराचरं ।। ४ ।।
इत्यंतः श्लोक समुदाय स्यार्थ चिंतयन् महाकाम कलायां ऌयं
भावयित्वा । ब्रह्मदंडे ४ । ३ ओं नमः । नादमध्ये ४ । ३ औं नमः ।
नादांते ४ । ३ अं नमः । कंठे ४ । अः नमः ।
प्. १०५अ)
हृदि ४ । ३ कं नमः । मस्तके ४ । ३ खं नमः ।। जंघयोः ४ । ३ गं नमः ।
स्तनयोः ४ । ३ घं नमः । नासिकांते ४ । ३ ऽऽनं नमः । आज्ञायां ४ । ३ चं
नमः । वामकुक्षौ ४ । ३ छं नमः । दक्षकुक्षौ ४ । ३ जं नमः । ऊरुमूले
४ । ३ झं नमः । दंतपक्तौ ४ । ३ ञं नमः । जिह्वाग्रे ४ । ३ टं नमः ।
मुखे ४ । ३ ठं नमः । कक्षयोः । ४ । ३ ड नमः । अस्थिसंधिषु ४ । ३ ढं
नमः । चित्ते ४ । ३ णं नमः । नाभौ ४ । ३ तं नमः । ललाटे ४ । ३ थं नमः ।
कर्णरंध्रयोः ४ । ३ दं नमः । कपोलमूलयोः ४ । ३ धं नमः । नयनयोः
। ४ । ३ नं नमः । श्वेतसहस्रदलकमले ४ । ३ पं नमः । हृत्पद्मे ४ । ३ फं
नमः । स्कंधयोः ४ । ३ बं नमः । भ्रूद्वये ४ । ३ भं नमः । हनुमूले ४
। ३ मं नमः । तालुमूले ४ । ३ यं नमः । लिंगगुदयोर्मध्ये ४ । ३ रं नमः
। जिह्वायां ४ । ३ लं नमः । सर्वांगे ४ । ३ वं नमः । वामादि दक्षिणशिरः
पर्यंतमापादतलवेष्टकत्वेन ४ । ३ शं नमः । तालुमूले ४ । ३ षं नमः ।
सर्वांगे ४ । ३ सं नमः । ब्रह्मरंध्रे ४ । ३ हं नमः । हस्तपादयोः
सर्वांगुलिषु ओं ऐं ह्रीं श्रीं ऐं ईं सौः क्षं नमः ।।
प्रागुक्तमूलाधारस्थित कुंडलिन्यां ओं ऐं ह्रीं श्रीं ऐं ईं सौः
ओं नमः ।। इति विन्यस्य । ओं ऐं ह्रीं श्रीं ऐं ईं सौः
समस्तमातृकामुच्चरन्
प्. १०५ब्)
तां कुंडलिनीं सुषुम्णा वर्त्मना षत्चक्रभेदक्रमेण ब्रह्मरंध्रं
नीत्वा तत्रस्था कुलसहस्रदलकमलकर्णिका मध्य स्थित परमात्मनि शिवे
विलीनां विभाव्य ओं ऐं ह्रीं श्रीं ऐं ईं सौः ।
रक्ष रक्ष शूर्लिन हि त्रैलोक्यानंददायिनी ।।
रक्ष मां त्रिपुरे देवी रक्ष मां त्रिपुरेश्वरि ।। १ ।।
रक्ष रक्ष महादेवि अस्मदीयमिदं वपुः ।।
४ ऐं ह्रीं श्रीं हस्फ्रें हसौः हस्रौः हस्फ्रें श्रीं ह्रीं ऐं
श्रीसमयिनि मदिरानंदसुंदरि समस्तसुरासुरवंदिते
भुजंअगभूपालमालालंकृतचरणकमले विकटदंतघंटारोपनिवारिणि
मदीयं शरीरं रक्ष रक्ष परमेश्वरि हूं फट् स्वाहा ।। ओं भूः
स्वाहा । ओं भुवः स्वाहा । ओं स्वः स्वाहा । ओं भूर्भुवः स्वः स्वाहा ।
नरांत्रमालाभरणभूषिते महाकौलिनि महाब्रह्मवादिनि
महाधनोन्मादनकारिणि महाभोगप्रदे अस्मदीयं शरिरं वज्रमयं
कुरु कुरु दुर्जनान् हन हन दुष्टमहीपालान् भक्षय भक्षय परचक्रं
भंजय भंजय जयंकरि गगनगामिनि त्रैलोक्यस्वामिनि यमलवरयूं
रमलवरयूं लमलवरयूं वमलवरयूं शमलवरयूं
प्. १०६अ)
श्रीभैरवि प्रसादय स्वाहा ।।
कुलांगनाकुलं सर्वं मदीयं त्रिपुरेश्वरि ।।
देवी रक्षतु दिव्यांगी दिव्यात्मा भोगदायिनी ।। १ ।।
रक्ष रक्ष महादेवि शरीरं परमेश्वरि ।।
मदीयं मदिरानंदे आपादतलमस्तकं ।। २ ।।
त्रिपुराख्या महादेवी भुक्तिमुक्तिफलप्रदा ।।
न गुरोः सदृशं वस्तु न देवः शंकरोपमः ।। ३ ।।
न च कौलात्परो योगो न विद्या त्रैपुरी समा ।
दर्शनेषु समस्तेषु पाखंदेषु विशेषतः ।। ४ ।।
जयन्ति कुलशक्तिर्महीतलपातालनिवासिनी कुलकौल विभेदिनी ।।
सकलजनमन आनंदकारिणि करोतु मम चिंतितं कार्यं शतमेकं पुनातु
परमेश्वरी मदनमंडलालंबिनी सप्तकोटिसहस्राणां मंत्राणां
परमेश्वरि ।। इति मंत्रं सकृज्जपित्वा ।।
४ ओं ऐं नमो भगवति त्रिकोणे त्रिधावर्त्ते महालिंगालंकृते त्रैलोक्योत्पत्ति
स्थिति प्रलयकारिणि सहलह्रीं कंदर्पानंददायिनि सहह्रीं ।।
ब्रह्मदंडरेखे सह ह्रौं चित्स्वरूपे पाशांकुशालंकृते वद वद
वाग्वादिनि श्रीं भ्रष्टमहीपालराज्यप्रदे ऐं वरदाश्रित हस्ते
समस्तजनानंदकारिणि क्लीं क्लीं कामराजबिजाश्रये द्रां द्रीं क्लीं
ब्लूं सः क्षोभय २ क्षोभिणी हसौः हसः हसौः मथ २ अभय प्रदायिनि
चतुर्भुजे त्रिनेत्रे प्रेतासनोच्चारिणि महाकपालमालालंकृते
प्. १०६ब्)
चंद्रकृतशेखरे त्रिपुरे भुक्तिमुक्तिफलप्रदे ओं ऐं ओं नमः सिद्धं
अकारादि ५१ क्षमित्यादि विलोमेन अकारांतं ५१ द्धंसिमः न
ओं ऐं ओं सर्वबीजमातः श्रीसमयिनि मम मनोरथं देहि २ स्वाहा ।। एवं
जपित्वा एं ईं सौः श्रीमंत्रराजाय नमः ।। इति त्रैपुरमंत्रस्य पूजां
विधाय त्रिपुराद्य महानाम्ना त्रये दशमहाविद्याः पूजयत् ।। तद्यथा ।।
ओं ३ ऐं शौः सहलह्रीं शह्रौं ऐं सहह्रीं सहह्रं कामत्रिपुरायै
नमः । ओं ३ ऐं ह्रीं क्लीं हसौः त्रिपुरभैरव्यै नमः ।। ओं ३ ऐं ह्रीं सः
वाक् त्रिपुरायै नमः । ओं ३ ऐं ह्रीं श्रीं सौः महालक्ष्म्यै त्रिपुरायै
नमः ।। ओं ३ ऐं ह्रीं सौः वह्नि त्रिपुरायै नमः । ओं ३ ऐं क्लीं मोहिन्यै
त्रिपुरायै नमः । ओं ३ ऐं क्लीं ब्लूं स्त्रीं भ्रामरी त्रिपुरायै नमः । ओं
३ ऐं ह्रीं श्रीं फ्रें हसौः त्रैलोक्या स्वामिन्यै त्रिपुरायै नमः । ओं ३
ऐं डां डीं डूं डैं डौं डः हंस्यै त्रिपुरायै नमः । ४ ऐं ऐं
सौः कौलिकायै त्रिपुरायै नमः ।। ४ ऐं ऐं सौः चंडिकायै त्रिपुरायै नमः
। ४ ऐं ऐं सौः तालुमध्येमायै त्रिपुरायै नमः । ४ ऐं ऐं सौः
कपालांकुर वासिन्यै त्रिपुरायै ठः ठः नमः १३ यथाशक्ति जपित्वा
रक्तपुष्पैः स्वसिरसि ऐं ईं सौः आत्मदेहाय नमः ।।
प्. १०७अ)
इति गंधाक्षतैश्च सप्तधा संपूज्य धूपदीपौ निवेद्य तस्मिन् त्रैपुरे देहे
ऐं ईं सौः इति वनिता क्षोभकरीं महाकामकलां ध्यायेत् ।। ततः
शोलकशंन्यासानुसंधानेन पठेत् ।। तत्र ।।
शक्ति रुद्र मयं देहं मदीयं त्रिपुरे कुरु ।।
देहि मे देव देवेशि नित्यं नित्यमभीप्सितं ।। १ ।।
मस्तकं मंगला देवी ललाटं कुलसुंदरी ।।
नैत्रयुग्मं महाकाली कर्णौ रक्षतु कुंडली ।। २ ।।
कपाली कर्णगर्भं तु कपोलौ कमलावती ।।
दंतान् रक्षतु चामुंडा चिबुकं मेरुवासिनी ।। ३ ।।
भ्रूमध्यं कंठदेशं च रक्षेन् मे भुवनेश्वरी ।।
जिह्वां सरस्वती रक्षेत् तालुकं तालुवासिनी ।। ४ ।।
स्थातु मे कपिला स्कंधे स्कंधांते कुलमालिनी ।।
कुक्षौ विनायकी स्थातु जयानंदा स्तनद्वये ।। ५ ।।
कंठकूंपे महालक्ष्मीर्हृदय चंडभैरवी ।।
ब्रह्माणी नाभिदेशे तु स्थातु ज्वालावली गुदे ।। ६ ।।
लिंगे लिंगप्रभा चैव मुंडिनी मेदमंडले ।।
नाडीचक्रे माहावेगा उद्भटा दक्षिणे करे ।। ७ ।।
वामहस्ते महामाया विद्या हस्तांगुलिषु च ।।
वैष्णवी वामपादे च स्थातु चक्रायुधान्विता ।। ८ ।।
प्. १०७ब्)
तथा दक्षिणपादांते एकपादा सुरेश्वरी ।।
पादांगुलेषु कौबेरी रोमकूपे महोद्भवा ।। ९ ।।
मंडली नखमूलेषु वाराही मेदमंडले ।।
जलंधरी जलस्थाने कामाक्षी काममध्यगा ।। १० ।।
उद्भटा नाभिलिंगाते नासाग्रे पूर्णपीठगा ।।
पृष्ठवंशे जया देवी अस्थिसंधिषु चर्चिका ।। ११ ।।
चर्मधारी त्वचायां तु स्थातु नित्यं महायशाः ।।
रक्तमध्ये मनोंते च स्थातु मे हंसिनी शुभा ।। १२ ।।
महेश्वरी च कौमारी द्वे चैते स्थातु चांगयोः ।।
वामदक्षिणयोश्चैव धीराली कटिसंधिषु ।। १३ ।।
देवी रक्षतु मे गात्रं मस्तकं कुलकामिनी ।।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। १४ ।।
पंचभुतेषु भूतेशी सदारक्षतु मे कुलं ।।
राज्ये रक्षतु मे चैंद्री प्रजां चैव प्रजावती ।। १५ ।।
माया ददातु मे नित्यं धनं धान्यं यशस्तथा ।।
रणे राजकुले चैव शत्रुमध्ये महावने ।। १६ ।।
रक्तनेत्रा महादेवी करोतु मम चिंतितं ।।
समयासमयं रक्षेद्विद्यां विद्या कुलागमे ।। १७ ।।
साधकानां जगंनाथा भुक्तिमुक्तिफलप्रदा ।।
प्राणा करोतु मे सिद्धिं त्रैलोक्य विजया सुखं ।। १८ ।।
प्. १०८अ)
घंटाली या महाविद्या सा मे यछतु मंगलं ।।
सप्तकोटि सहस्राणां मंत्राणां नायका तु या ।। १९ ।।
सा मे सुरेश्वरी देवी ससिद्धिं च प्रयछतु ।।
उल्कामुखी मुखे स्थातु मार्जारी देह संधिषु ।। २० ।।
भद्रकालि तु या विद्या सा मे स्थातु शिखामय ।।
त्रिकोणं च त्रिधावर्तं त्रैपुरं चक्रमुत्तमं ।। २१ ।।
मस्तके स्थातु मे नित्यं तस्यांते बहुरूपिणी ।।
पूर्वोक्ता त्रैपुरी शक्तिः स्थातु मे मन्मथोत्थिता ।। २२ ।।
क्षोभयंती ज * त्सर्वं मदिरानंद विह्वला ।।
निवासं कुरु मे देहे सांप्रतं दिव्ययोगिनी ।। २३ ।।
एह्ये हि त्वं महादेवी सिद्धियोगिनि मे कुले ।।
शत्रुणां घातनार्थाय जंतुनां भोगदायिनी ।। २४ ।।
महायौगिनि देहेस्मिन् सर्वदा निलयं कुरु ।।
माहेंद्री च शिखा स्थातु योनिमध्ये गणेश्वरी ।। २५ ।।
प्रेतासना सुविख्याता करोतु कुशलं मम ।।
डाकीनी पूर्वभागे च मम सौख्यं प्रयछतु ।। २६ ।।
साकि पश्चिमांगेषु दक्षिणे चापि राक्षसी ।।
वामभागे महामाया करोतु कुशलं मम ।। २७ ।।
सा स्मदीयं शिरः स्थातु सदा तिष्ठतु भैरवी ।।
या विशाला विशालाक्षी निर्मला मलवर्जिता ।। २८ ।।
प्. १०८ब्)
सा योगिनी महायोगा स्थातु श्रीमस्तके मम ।।
या कालकल्पिता काली कालरात्रीति कथ्यते ।।
सा योगिनी माहायोगा स्थातु श्रीमस्तके मम ।। २९ ।।
या निशाचरराजन्य पूजिता च निशाचरी ।।
सा योगिनी ।। ३० ।।
या चोर्ध्वकेशिका नाम्नी मुक्तकेशी महाभया ।।
सा योगिनी० ।। ३१ ।।
या वीरेति समाख्याता वीराणां जयदायिनी ।।
सा योगिनी ।। ३२ ।।
या मालिनि समाख्याता नासाग्रे बिंदुमालिनी ।।
सा योगिनी० ।। ३३ ।।
या कंकाल करालांगी चंडकंकाल कुंडला ।।
सा योगिनी० ।। ३४ ।।
प्रचंडा च विरूपाक्षी विरूपा विश्वरूपिणी ।।
सा योगिनी० ।। ३५ ।।
खड्वांगी कथ्यते या च रौद्री रुद्रेण पूजीता ।।
सा योगिनी० ।। ३६ ।।
कलियोगि प्रसिद्धा च या लोके श्रूयते कलौ ।।
सा० ।। ३७ ।।
प्रेताक्षी कथ्यते या च फेत्कारोत्कट गर्जिताः ।।
सा० ।। ३८ ।।
धुम्राक्षी या समाख्याता शास्त्रेस्मिन् योगिनी मते ।।
सा० ।। ३९ ।।
घोररुपा महादेवी कथ्यते या कुलागमे ।।
सा० ।। ४० ।।
विश्वरूपा विशेषेण करोति च जगत्त्रयं ।।
सा० ।। ४१ ।।
भयंकरी समादिष्टा या चोक्ता वै कुलागमे ।।
सा० ।। ४२ ।।
प्. १०९अ)
कपालमालिका प्रौक्ता या देवी मुंडधारिणी ।।
सा० ।। ४३ ।।
भीषणा भैरवी नाम या देवी भीमविक्रमा ।।
सा० ।। ४४ ।।
न्यग्रोधवासिनी या च कथ्यते च सुरार्चिता ।।
सा० ।। ४५ ।।
भैरवी भीषया च भैरवाष्टक वंदिता ।।
सा० ।। ४६ ।।
प्रोच्यते दीर्घलंबोष्ठी महामया महाबला ।।
सा० ।। ४७ ।।
खड्वांगी या महाशक्तिः संसारार्णवत्तारिणी ।।
सा० ।। ४८ ।।
या समस्तेषु मंत्रेषु प्रोच्यते मंत्रवादिनी ।।
सा० ।। ४९ ।।
कालघ्नी कथ्यते या च युगांते परमेश्वरी ।।
सा० ।। ५० ।।
ग्राहिणीति समाख्याता सुरासुर महोरगैः ।।
सा० ।। ५१ ।।
चक्रिणी गद्यते या च एकपादा त्रिलोचना ।।
सा० ।। ५२ ।।
या विश्वबाहुका देवी विश्वनाथप्रिया सदा ।।
सा० ।। ५३ ।।
दर्शनेषु समस्तेषु विदिता भुवनेश्वरी ।।
सा० ।। ५४ ।।
कंटकोछेदनार्थाय शास्त्रे या कंटकी स्मृता ।।
सा० ।। ५५ ।।
कीलकी कथ्यते या च सप्तहस्ता महाबला ।।
सा० ।। ५६ ।।
संग्रामे या महादेवी महामारीति कथ्यते ।।
सा० ।। ५७ ।।
यमदूतीति विख्याता या सुरासुरपूजिता ।।
सा० ।। ५८ ।।
प्. १०९ब्)
करालिनीति या देवी महामया महाबला ।।
सा० ।। ५९ ।।
ललितांबा महाराजी सर्वं चक्रैक नायका ।।
सा० ।। ६० ।।
नासाग्रे कौलिनी स्थातु मदनाक्षी तथा मुखे ।।
व्योमजंघे कपाले च तालुके चापि हारिणी ।। ६१ ।।
द्राविणी क्षोभिणी चैव स्तंभिनी मोहिनी तथा ।।
रौद्रकर्मा महाघंटा डामरि त्वरिता मति ।। ६२ ।।
देवी रक्षतु मे गात्रं मस्तकं कुलनायकी ।।
भूमिरापस्तथा तेजो वायुराकाशमेव च ।। ६३ ।।
पंचभूतेषु भूतेशी सदारक्षतु मे कुलं ।।
राज्यं ददातु मे चैंद्री प्रजां चैव प्रजावती ।। ६४ ।।
माया ददातु मे नित्यं धनं धान्यं यशस्तथा ।।
रणे राजकुले चैव शत्रुमध्ये महाब * ।। ६५ ।।
रक्तनेत्रा महादेवी करोतु मम चिंतितं ।।
समयासमयं रक्षेद्विद्या विद्या कुलागमे ।। ६६ ।।
साधकानां जगन्नाथ भुक्तिमुक्तिफलप्रदा ।।
द्विजटी त्रिजटी प्रोक्ता कंदली दविताखिला ।। ६७ ।।
गायत्री चांबिका तारा पार्वति कमला प्रभा ।।
मादिनी मदनोद्भावा मंदारी मदनातुरा ।। ६८ ।।
भीषणाभीषणी नाम प्रेतसिद्धा बिभीषणा ।।
क्षुधात्तृष्ठा तथा निद्रा कांतिर्वृधिस्तथा द्युतिः ।। ६९ ।।
प् ११०अ)
संध्याधृत्ती रत्तिः क्षांतिर्ह्यनिशं परिपठ्यते ।।
सुरनाथेति विख्याता नगरे नरदेवता ।। ७० ।।
ग्रा * देवी ह्यधिष्ठात्री पीठे पीठेश्वरीं विदुः ।।
कावेरी नर्मदा चैव गंगेति यमुनोच्यते ।। ७१ ।।
गोदावरी महापुण्या प्रोच्यते चाप्यरुंधतीं ।।
त्रैलोक्येपि महादेवी स्त्री नाम्नी या प्रकाशिता ।। ७२ ।।
सा देवी रूपलक्षे तु स्थातु श्रीहृदये मम ।।
सुवर्ण रेखिनी प्रोक्ता विद्या सा प्रोच्यते किल ।। ७३ ।।
निर्मूलिनि भुजंगानां सा करोतु सुखं मम ।।
कुरु कुल्लेति विख्याता पक्षिराज मुखोद्भवा ।। ७४ ।।
या विद्या सा महारूपा जिह्वाग्रे स्थातु मे सदा ।।
ओंकारिणीति विख्याता देहे स्थातु सदा मम ।। ७५ ।।
विघ्नापहारिणी नाम कलिरूपविदारिणी ।।
भेतंडा स्थातु मे कंठे तोतला स्थातु मस्तके ।। ७६ ।।
यथा सुबलरेखापि मूले स्थातु सदा मम ।।
जांगली विषनाशाय वाचां सिद्धिं करोतु मे ।। ७७ ।।
सर्वसिद्धिकरी विद्या भुक्तिमुक्तिफलप्रदा ।।
अहं ब्रह्मा अहं विष्णुरहं देवो महेश्वरः ।।
सर्वभूतनिवासोहं लोकेश्री शक्तिचिंतकंः ।। ७८ ।।
शक्तिन्यासेन पूतेन शरीरेण सुरासुराः ।।
प्. ११०ब्)
प्रदत्ता देशमात्रेण आज्ञां कुर्वंतु मे सदा ।। ७९ ।।
यत्किंचिद्योगिनीरूपं त्रैलोक्ये चापि शंकर ।।
तत्सर्वं तिष्ठते देहे शक्तिन्यासे उपासिते ।। ८० ।।
कामिनी कुरुते चापि या न्यासं शक्तिनिर्मितं ।।
तां देवीं दिव्यरुपस्थां संसारे त्रिपुरां विदुः ।। ८१ ।।
नमोस्तु ते जन्मातर्नमोस्तु भुवनेश्वरी ।।
नमो भोगप्रदे देवि नमो देवि महेश्वरि ।। ८२ ।।
प्रकटागोपिता सर्वा निर्वाणा भैरवी शिवा ।।
संभ्रमा विजया हंसा शुभा सा जलदेवता ।। ८३ ।।
यक्षिणी चूडा कन्या च तथा चाकाशगामिनी ।।
भूचरी चरिता कुंभिः सर्वागम निवाशिनी ।। ८४ ।।
रंगिनी देवमैत्री च प्रसिद्धा मदिरालिका ।।
पूजिता सर्वसिध्यर्थं शास्त्रेऽस्मिन्योगिनी मते ।। ८५ ।।
स्थायिनी कथ्यते सद्भिः सा नंदा वनवासिनी ।।
चतुषष्ठ्या श्रयादेवी योगिन्यो येन चिंतिताः ।। ८६ ।।
आधारे लीयमानासु स योगी योगविद्भवेत् ।।
ललाटे मंडला स्थातु विरजा स्थातु मस्तके ।। ८७ ।।
यकाक्षी दक्षिणे स्कंधे वामे चैव त्रिलोचना ।।
जयंती स्थातु मे कुक्षौ कट्यां कंदर्प कुंडली ।। ८८ ।।
मालिनी लिंग संधौ च हृदि स्थातु समाधिनी ।।
प्. १११अ)
अंबिका पृष्ठवंशे च पार्श्वयो स्थातु मेदिनी ।। ८९ ।।
दिग्गजांती नराग्रे च नागेंद्री नखसंधिषु ।।
व्याघ्री चक्री च जंघायां स्थातु पादले मही ।। ९० ।।
अमृता शंखिनी रंध्रे लोचने च विलासिनी ।।
कालिंदी मूलजिह्वां च रक्तं रक्षतु रक्तिनी ।। ९१ ।।
लांगली जांगलं रक्षेदस्थिनी चास्थिसंधिषु ।।
मज्जिनी देहमज्जां तु शुक्रं शुक्रेश्वरी तथा ।। ९२ ।।
त्वं च रक्षतु वेताली मम रोग प्रनाशिनी ।।
उद्भटा कुरुते शांतिं सदैव मम विग्रहे ।। ९३ ।।
पादापादतले स्थातु पथि रक्षतु पंथिनी ।।
चौराग्नि राजसर्पेभ्यो भय रक्षतु भैरवी ।। ९४ ।।
दुष्टानां दृष्टिबंधं तु करोतु बंधिनी सदा ।।
चापेटीनी मया विद्या मंगलं मे करोतु सा ।। ९५ ।।
मर्कटीघंटकर्णी च हनुमंती च रावणी ।।
घुर्घुरी कीर्ति विख्याता वंदे विद्या चतुष्टयं ।। ९६ ।।
चेटका ज्ञानदा विद्या कौमारी चरणांवली ।।
विघ्नराजस्तुता नाम चतुष्टासंतानरूपिणी ।। ९७ ।।
मूलाकाश स्थिता हंसी पातकी दलनोद्धता ।।
दशैता मंत्रविद्यास्तु तिष्ठंतु मम मस्तके ।। ९८ ।।
शुभामेग्रतः स्थातु लोहिता स्थातु दक्षिणे ।।
प्. १११ब्)
वामांगे रतिकाले च पश्चिमे स्थातु शृंखला ।। ९९ ।।
शिखायां शंखिनी रक्षेद्वस्त्रे वस्त्रवती शुभा ।।
कवचे कवचांगी च नेत्रे नेत्र कृतोत्सवा ।। १०० ।।
तिष्ठंति योगिनीरूपास्त्रैलोक्ये स चराचरे ।।
योगिन्यो या स्तुताः सर्वां गेहं कुर्वंतु मे वपुः ।। १०१ ।।
पुत्राणां च तथा देयं भक्तानां च विशेषतः ।।
शक्तिन्यासमिदं देयं न देवं यस्य कस्यचित् ।। १०२ ।।
मनुष्याणां महीलोके चिंतितार्थफलप्रदं ।।
यः करोति मम न्यासं षोढान्यासादिकं प्रभो ।। १०३ ।।
स जीवन् शक्तिरूपो वै त्रैलोक्योन्मूलनक्षमः ।।
शक्तिन्यास कृते जीवे यः कश्चिछेदको भवेत् ।। १०४ ।।
कर्मणा मनसा वाचा तस्य तापो भविष्यति ।।
शक्तिन्यासमिदं प्रोक्तं तुभ्यं शंकर मे प्रियं ।। १०५ ।।
येन देह नियुक्तेन शक्तितुल्यो नरो भवेत् ।।
कुपितः कुरुते योगी त्रैलोक्यस्यापि पातनं ।। १०६ ।।
शक्तिन्यासयुतो वीरो नमस्कारेण शंकर ।।
स्फोटनं कुरुते साक्षात् पाषाण प्रतिमादिषु ।। १०७ ।।
इति शक्ति न्यासः ।।
अथ श्रीषोडशार्णामूलविद्यान्यासः ।।
तत्र मंत्रवर्णेभ्योऽमृतं स्रवंतीं तेनामृतेन निजशरीरमाप्लावयंती
दीपाकारां ब्रह्मरंध्रस्थां महासौभाग्यदां श्रीविद्यां ध्यात्वा
प्. ११२अ)
दक्ष हस्तस्य मध्यमानामिकाभ्यां ब्रह्मरंध्रे प्रणव त्रितारादि
नमोंतां मूलविद्यां न्यसेत् ।। १ ।।
पुनस्तामुच्चार्य वामहस्तेन सौभाग्यदंडिणीं मुद्रां बध्वा
वामकर्णप्रदेशे भ्रामयित्वा महत्सौभाग्यं मे देहि परसौभाग्यं
दंडयामीति वामांगदेशे मूर्द्धादि पादांतं विद्यां तथैव न्यसेत्
।। २ ।।
वामे मुष्टिं दृढं बद्ध्वा तर्जनीं प्रविसारयेत् ।।
भ्रामयेद्वामकर्णातं मुद्रा सौभाग्य दंडिनी ।। १ ।।
तथैव पुनस्तामुच्चार्य मम शत्रून्निगृह्णामीति मत्वा रिपु जिह्वाग्रहां
मुद्रां दर्शयन् पादमूले न्यसेत् ।। ३ ।।
अंगुष्ठगर्भितं मुष्टिं बध्नीयाद्वामपाणिना ।।
रिपु जिह्वाग्रहाख्येयं मुद्रोक्ता शत्रुनाशिनी ।। १ ।।
तथैव तामुच्चार्य त्रैलोक्यस्याहं कर्त्तेति ध्यायंस्त्रिखंडा मुद्रया
ललाटे तिलकत्वेन न्यसेत् ।। ४ ।। तथैव तामुच्चार्य वदने वेष्टनत्वेन विन्यसेत् ।। ५
।। तथैव तां उ० । दक्षिणकर्णादि वामकर्णांतं वेष्टनत्वेन मुखे
विन्यसेत् ।। ६ ।। पुनस्तथैव तां उ० ।। कंठादि मुखांतं विन्यसेत् ।। ७ ।।
पुनस्तथैव तां उ० ।।
प्. ११२ब्)
प्रणवसंपुटितामापादतलं ।। ८ ।। मस्तकात् पादादि हृदयांतं च
विन्यस्य ।। ९ ।। योनिमुद्रां बध्वा मूलविद्यया मुखे क्षिप्त्वा ।। १० ।। तथैव
प्रणमेत् ।। ११।। इति श्रीविद्यापूर्णजगद्वशीकरन्यासः ।।
अ * संमोहनन्यासः ।।
तत्र श्रीषोडशार्णां स्मरन् देवी कांत्या त्रैलोक्यमरुणवर्णं
ध्यायत्रनामिकां मूर्द्धानं परितो भ्रमयित्वा विन्यस्य ।। १ ।।
श्रीषोडशार्णां तारादि नमोंतामंगुष्ठानामिकाभ्यां
ब्रह्मरंध्रे विन्यस्य ।। २ ।। मणिबंध द्वये पृथक् । विन्यस्य ।। ४ ।। ललाटे च
अनामिकेन विन्यसेत् ।। ५ ।। इति संमोहनन्यासः ।।
अथ श्रीषोडशार्णा वर्णैः संहारन्यासः ।।
तत्र पादयोः ४ प्रथम बीजं नमः ।। जंघयोः ४ द्वितीयं नमः ।। जान्वोः
४ तृतीयं नमः ।। कटयोः ४ चतुर्थं नमः ।। लिंगे ४ पंचमं नमः ।
पृष्ठे ४ षष्ठं नमः । नाभौ ४ सप्तमं० । पार्श्वयोः ४ अष्टमं ।।
स्तनयोः ४ नवमं ।। अंसयोः ४ दशमं ।। कर्णयोः ४ एकादशं ।।
ब्रह्मरंध्रे ४ द्वादशं ।। वदनें ४ त्रयोदशं ।। लिंगे ४ चतुर्दशं ।
कर्णशष्कुल्यों समिपे ४ पंचदशं । कर्णवेष्टनयोः ४ षोडशं बीजं
नमः ।।
प्. ११३अ)
इति षोडशार्णैः संहारन्यासः ।।
अथ षोडशार्णैः सृष्टिन्यासः ।।
तत्र ब्रह्मरंध्रे । ४ प्रथमं बीजं नमः ।। ललाटे ४ द्वितीयं । नेत्रयोः ४
तृतीयं । कर्णयोः ४ चतुर्थं । घ्राणयोः ४ पंचमं । ओष्ठयोः
४ षष्ठं । दंतातरयोः ४ सप्तमं । दंतोर्ध्वे ४ अष्टमं ।। जिह्वायां ४
नवमं । मुखांतरे ४ दशमं । पृष्ठे ४ एकादशं । सर्वांगे ४
द्वादशं । हृदये ४ त्रयोदशं । स्तनयोः ४ चतुर्दशं । कुक्षौ ४
पंचदशं । लिंगे ४ षोडशं बीजं नमः । इति वर्णान्विन्यस्य समस्त
सोडशार्णाविद्ययाव्यापकं विन्यसेत् ।। इति सृष्टिन्यासः ।।
अथ स्थितिन्यासस्तद्वर्णैः ।।
तत्र करद्वयांगुष्ठयोः ४ प्रथमं बीजं नमः । एवं तर्जन्योः ४
द्वितीयं । मध्यमयोः ४ तृतीयं । अनामिकयोः ४ चतुर्थं । कनिष्ठयोः ४
पंचमं । ब्रह्मरंध्रे ४ षष्ठं । मुखे ४ सप्तमं । हृदि ४ अष्टमं ।
नाभ्यादि पादांतं ४ नवमं ।। कंठादिनांभ्यंतं ४ दशमं ।
ब्रह्मरंध्रादि कंठातं ४ येकादशं ।। पादांगुष्ठयोः ४ द्वादशं

तर्जन्योः ४ त्रयोदशं ।। तन्मध्यमयोः ४ चतुर्दशं । तदनामयोः ४
पंचदशं । तत् कनिष्ठयोः ४ षोडशबीजं नमः ।। इति स्थितिन्यासः ।।
अथ श्रीषोडशार्णायांः पंचविधवर्णन्यासः ।।
प्. ११३ब्)
त्र शिरसि ४ प्रथमं बीजं नमः ।। एवं मुखे ४ द्वितीयं नमः ।। दक्षनेत्रे
४ तृतीयं । वामनेत्रे ४ चतुर्थं । दक्षकर्णे ४ पंचमं । वामकर्णे
४ षष्ठं । दक्षनासापुटे ४ सप्तमं । वामनासापुटे ४ अष्टमं ।
दक्षगंडे ४ नवमं । वामगंडे ४ दशमं । ओष्ठे ४ एकादशं । अधरे
४ द्वादशं । मुखाभ्यंतरे ४ त्रयोदशं । ऊर्ध्वदंते ४ चतुर्दशं । अधो
दंते ४ पंचदशं । वदने ४ षोडशं बीजं नमः ।। इत्येकः प्रकारः ।।
तत्र सिरसि ४ प्रथमं बीजं नमः । सीमंते ४ द्वितीयं । भाले ४ तृतीयं ।
भ्रूद्वये ४ चतुर्थं । नासायां । ४ पंचमं । वदने ४ षष्ठं ।
दक्षबाहुमूले ४ सप्तमं । तन्मध्यसंधौ ४ अष्टमं । तन्मणिबंधे ४
नवमं । तदंगुलिमूले ४ दशमं । तद्दग्रे ४ एकादशं । वामबाहुमूले
४ द्वादशमं ।। तन्मध्ये ४ त्रयोदशं । तन्मणिबंधे ४ चतुर्दशं ।
तदंगुलिमूले ४ पंचदशं । तदग्रे ४ षोडशं बीजं नमः ।। इति द्वितीयः
प्रकारः । ततः । शिरसि ४ प्रथमं । एवं ललाटे ४ द्वितीयं । दक्षनेत्रे ४
तृतीयं । वामने * ४ चतुर्थं । मुखे ४ पंचमं । जिह्वाग्रे ४ षष्ठं ।
दक्षोरुमूले ४ सप्तमं । जानुनि ४ अष्टमं ।। तद्गुल्फे ४ नवमं । तदंगुलि
मूले ४ दशमं । तदंगुल्यग्रे ४ एकादशं ।। वामोरुमूले ४
प्. ११४अ)
द्वादशं । तज्जानुनि ४ त्रयोदशं । तद्गुल्फे ४ चतुर्दशं । तदंगुलिमूले ४
पंचदशं । तदंगुल्यग्रे षोडशं बीजं नमः ।। इति तृतीय प्रकारः ।।
तत्र शिरसि ४ प्रथमं । मुखवृत्ते द्वितीयं । दक्षनेत्रे ४ तृतीयं । वामे ४
चतुर्थं । दक्षकर्णे ४ पंचमं । वामकर्णे ४ षष्ठं । दक्षघ्राणे ४
सप्तमं । वामघ्राणे ४ अष्टमं । दक्षगंडे ४ नवमं । वामगंडे ४
दशमं । ओष्ठे ४ एकादशं । अधरे ४ द्वादशं । ऊर्ध्व दंते ४
त्रयोदशं । अधोदंते चतुर्दशं । मूर्ध्नि ४ पंचदशं । जिह्वायां
४ षोडशं नमः ।। इति चतुर्थ प्रकारः ।।
अथ ललाटे ४ प्रथमं । गले ४ द्वितीयं । हृदि ४ तृतीयं । नाभौ ४ चतुर्थं ।
मूलाधारे ४ पंचमं । ब्रह्मरंध्रे ४ षष्ठं । हृदि ४ सप्तमं ।
मूलाधारे ४ अष्टमं । पुनर्मूलाधारे नवमं ।। हृदि ४ दशमं ।
ब्रह्मरंध्रे ४ एकादशं । दक्षकरतले ४ द्वादशं । कामकरतले ४
त्रयोदशं । दक्षपादे चतुर्दशं । वामपादे ४ पंचदशं । हृदये ४
सोडशं नमः ।। इति पंचम प्रकारः ।।
ईथं न्यासं विधाये प्रणवसंपुटितां श्रीषोडशार्णां सर्वांगे
व्यापकत्वेन विन्यस्य पुनस्तथा विद्यां तां विद्यां हृदये न्यसेत् ।। एते
न्यासाः षोडशार्णोपासकैरेव कार्यः ।
प्. ११४ब्)
नान्यैरिति गुरुशासनं ।। इति करशुध्यादयो न्यासाः ।।
श्रीविद्यानंदनाथेन शिवयोः प्रिय सूनुना ।।
कृते सौभाग्यरत्नाब्धौ तरंगो नवमो गमत् ।। १ ।।
इति श्रीसच्चितानंदनाथचरणारबिंदद्वद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे नवमस्तरंगः ।। ९ ।।
अथोर्ध्वाम्नाय न्यासः ।।
स च त्रिविधाः ।। महाषोढान्यासः ।
शंचरणादि षोडशमूलविद्या षडाधारमूलविद्यान्यासः
। षडन्वयशांभवन्यासश्चेति ।।
तत्र पराप्रासादेनोर्ध्वाम्नाय दीक्षितानां महाषोढान्यासमात्रे
अधिकारः ।। चरणादि विद्यादीक्षितानां तदादि न्यासेष्वेवाधिकारः । न तु
माहाषोढान्यासे । उभयविध दीक्षितानां सर्वत्रैवाधिकार इति ।।
तत्रादौ महाषोढान्यासः ।
तत्र अस्य श्रीमहाषोढान्यासस्य ब्रह्मा ऋषिः जगतीछंदः ।
श्रीमदर्द्धनारो देवता श्रीविद्यांगत्वेन न्यासे विनियोगः । इति ऋष्यादिकं
स्मृत्व्यमूर्द्धादिषु विन्यस्य । अंगं न्यासं कुर्यात् । अंगन्यासा तु
प्. ११५अ)
अंगुली देहवक्त्रात्मकः ।।
तत्रादावंगुलिन्यासः ।
तत्रांगुष्ठयोः । ओं ऐं ह्रीं श्रीं हसौः शौंः हों ईशानाय नमः ।।
तर्जन्योः । ४ । २ हें तत्पुरुषाय नमः । मध्यमयोः ४ । २ हुं अघोराय नमः
। अनामिकयोः ४ । २ हीं वामदेवाय नमः । कनिष्ठिकयोः ४ । २ हं
सद्योजाताय नमः ।। १ ।।
मूर्ध्नि ४ । २ हों ईशानाय नमः । मुखे ४ । २ हें तत्पुरुषाय नमः ।
हृदये ४ । २ हुं अघोराय नमः । गुह्ये ४ । २ हिं वामदेवाय नमः । पादयोः
४ । २ हं सद्योजाताय नमः ।। २ ।।
मूर्ध्नि ४ । २ हों ईशानाय ऊर्ध्ववक्त्राय नमः । मुखे ४ । २ हें
तत्पुरुषाय पूर्ववक्त्राय नमः । दक्षकर्णे ४ । २ हूं अघोराय
दक्षीणवक्त्राय० । वामकर्णे ४ । २ हीं वामदेवायोत्तरवक्त्राय नमः ।
चोरकूपे ४ । २ हं सद्योजाताय पश्चिमवक्त्राय नमः । इति अंगन्यासः ।।
अयं पंचवक्त्रन्यासः क्रमेणांगुष्ठादि
पंचांगुलिभिरेकैकांगुलिनेकैकवक्त्रे न्यस्तव्याः ।। इति अंगन्यासं ।
विद्याय ततो हसां हसीमित्यादिभिः करशडंगन्यासं कृत्वा
वक्ष्यमाणरूपं देवं हृदये ध्यात्वा न्यसेत् ।।
तत्रादौ प्रपंचन्यासः ।
तद्यथा । ओं ऐं ह्रीं श्रीं हसौंः शौंः अं प्रपंचरूपायै श्रियै
नमः । एवं सर्वत्र ।। ६ ।।
आं द्वीपरूपायै मायायै० । ६ इं जलधिरूपायै कमलायै० । ६
प्. ११५ब्)
ईं गिरिरूपायै विष्णुवल्लभायै० । ६ उं पत्तनरूपायै पद्मधारिण्यै
नमः । ६ ऊं पीठरूपायै समुद्रतनयायैः० । ६ ऋं क्षेत्ररूपायै
लोकमात्रे० । ६ ॠं च न रूपायै कमलवासिन्यै नमः ।। ६ ऌं
आश्रमरूपायै इंदिरायै० । ६ ॡं गुहारूपायै मायायै० । ६ एं
नदीरूपायै रमायै० । ६ ऐं चत्वररूपायै पद्मायै० । ६ ओं उद्भिज्जरूपायै
नारायणप्रियायै० । ६ औं स्वेदजरूपायै सिद्धलक्ष्म्यै० । ६ अं
अंडजरूपायै राजलक्ष्म्यै० । ६ अः जरायुजरूपायै महालक्ष्म्यै नमः । ६
कं लवरूपायै आर्यायै० । ६ खं त्रुटिरूपायै उमायै० । ६ गं
कलारूपायै चंडिकायै० । ६ घं काष्ठारूपायै दुर्गायै० । ६ ऽऽनं
निमेषरूपायै शिवायै० । ६ चं श्वासरूपायै अपर्णायै० । ६ छं
घटिकारूपायै अंबिकायै० । ६ जं मूहूर्त्तरूपायै सत्यै० । ६ झं
प्रहररूपायै ईश्वर्यै० । ६ ञं दिनरूपायै शांभव्यै० । ६ टं
संध्यारूपायै ईशान्यै० । ६ ठं रात्रिरूपायै पार्वत्यै० । ६ डं
तिथिरूपायै सर्वमंगला० । ६ ढं वाररूपायै दाक्षायण्यै० । ६ णं
नक्षत्ररूपायै हैमवत्यै० । ६ तं योगरूपायै महामायायै० । ६ थं
करणरूपायै माहेश्वयै० । ६ दं पक्षरूपायै मृडान्यै० । ६
प्. ११६अ)
धं मासरूपायै रुद्राण्यै० । ६ नं राशिरूपायै शर्वाण्यै० । ६
पं ऋतुरूपायै परमेश्वर्यै न० । ६ फं अयनरूपायै काल्यै० । ६ बं
संवत्सररूपायै कात्यायिन्यै० । ६ भं युगरूपायै गौर्ययै० । ६ मं
प्रलयरूपायै भवान्यै० । ६ यं पंचभूतरूपायै ब्राह्मै० । ६ रं
पंचतन्मात्ररूपायै वागीश्वर्यै० । ६ लं पंचकर्मेंद्रियरूपायै
वाण्यै० । ६ वं पंचज्ञानेंद्रियरूपायै सावित्र्यै० । ६ शं
पंचप्राणरूपायै सरस्वत्यै० । ६ षं गुणत्रयरूपायै गायत्र्यै० । ६ सं
अंतःकरणचतुष्टयरूपायै वाक्प्रद्दायै० । ६ हं अवस्थात्रयरूपायै
शारदायै० । ६ लं सप्तधातुरूपायै भारत्यै० । ६ ओं ऐं ह्रीं श्रीं
हसौंः शौंः क्षं दोषत्रयरूपायै विद्यात्मिकायै नमः ।।
इत्येकपंचाशछक्तिर्मातृकास्थाने विन्यस्य
ततः ओं ऐं ह्रीं श्रीं हसौंः शौंः अकारादि क्षकांरांतां
मातृकामुच्चार्य सकलप्रपंचाधिदेवतायै श्रीपरांबा देव्यै नमः ।
शौंः हसौंः श्री ह्रीं ऐं ओं सर्वांगे व्यापकं कुर्यात् ।। इति
प्रपंचन्यासः ।।
अथ भुवनन्यासः ।।
तत्र पादयोः ओं ऐं ह्रीं श्रीं हसौः शौंः अं आं इं अतललोकनिलये
शतकोटि गुह्याख्ययोगिनीमूलदेवता युताधारशक्त्यंबा देव्यै नमः ।।
पादयोः ६ ईं उं ऊं वितललोकलोकनिलयशतकोटिगुह्यतरानंतयोगिनी मू० ।
प्. ११६ब्)
जंघयोः ६ ऋं ॠं ऌं सुतललोकनिलयशतकोटि अतिगुह्याचिंत्ययोगिनि मू० । ६
जान्वोः ६ ॡं ऐं ऐं महातललोकनिलयशतकोटिमहागुह्य स्वतंत्रयोगिनी
मू० । ऊर्वोः ६ ओं औं तलातललोकनिलयशतकोटिपरमगुह्येछायोगिनी मू० ।
स्फिच्योः । ६ अं अः रसातललोकनिलयशतकोटिरहस्य ज्ञा * योगिनी मू० ।
मूलाधारे ६ कं खं गं घं ऽऽनं पाताललोकनिलये
शतकोटिरहस्यतरक्रियायोगिनी मू० । स्वाधिष्ठाने ६ चं० ४
भूर्लोकनिलयशतकोटि अतिरहस्य डाकिनी योगिनी मू० । मणिपूरके ६ टं० ४
भुवर्लोकनिलयशतकोटि महारस्य राकिनी योगिनी मू० । अनाहते ६ तं० ४
स्वर्लोकनिलयशतकोटिपरमरहस्य लाकिनी योगिनी मू० । विशुद्धौ ६ पं० ४
महर्लोकनिलयशतकोटिगुप्ततर काकिनी योगिनी मू० । आज्ञायां ६ यं० ३
जनलोकनिलयशतकोटिगुप्ततरसाकिनी योगिनी मू० । ललाटे ६ शं० ३
तपोलोकनिलयशतकोटि अतिगुप्तहाकिनी योगिनी मू० । ब्रह्मरंध्रे ६ लं क्षं
सत्यलोकनिलल्ये
प्. ११७अ)
शतकोटिमहागुप्तयाकिनी योगिनी मूलदेवता युताधारशक्त्यंबा देव्यै
नमः ।। इति विन्यस्य ।
६ समस्तमातृकामूच्चार्य सकलभुवनाधिरूपायै श्रीपरांबा देव्यै
नमः शौंः हसौंः श्रीं ह्रीं ऐं ओं इति व्यापकं कुर्यात् ।। इति
श्रीभुवन्यासः ।।
अथ मूर्तिन्यासः ।।
तत्र शिरसि ओं ऐं ह्रीं हसौंः शौंः अंकेशवायाक्षरशक्त्यै नमः ।
शिरसि । मुखे ६ आं नारायणायाद्या शक्त्यै० । दक्षिणासे ६ इं
माधवायेष्टदायै० । वामांसे ६ ईं गोविंदाय शांतायै० ।
दक्षपार्श्वे ६ उं विष्णवे उग्रायै० । वामपार्श्वे ६ ऊं
मधुसूदनायोर्ध्व नयनायै० । दक्षकट्यां ६ ऋं त्रिविक्रमाय ऋध्यै० ।
वामकट्यां ६ ॠं वामनाय रूपिण्यै० । दक्षोरौ ६ ऌं श्रीधराय
लुप्तायै नमः । वामोरौ ६ ॡऋ हृषिकेशाय लूनदोषायै० । दक्षजानुनि ६ एं
पद्मनाभायैक नायिकायै० । वामजानुनि ६ ऐं दामोदरायै कारिण्यै० ।
दक्षजंघायां ६ ओं वासुदेवायौघवत्यै० वामजंघायां ६ औं
संकर्षणायौर्वकायै० । दक्षपादे ६ अं प्रद्युम्नायांजनप्रभायै० ।
वामपादे अः अनिरुद्धायास्थिमालाधरायै० । दक्षपादाग्राद्यू *?
मूलपर्यंतं ६ कं भवायकरभद्रायै० ।।
प्. ११७ब्)
वामपादाग्राद्यूरू मूलपर्यंतं ६ खं बं शर्वाय खगबलायै० ।
दक्षपार्श्वे ६ गं फं रुद्राय गरिमादिफलप्रदायै० । वामपार्श्वे ६
घं पं पशुपतये घोरपादायै० । दक्षदोर्मूले ६ ऽऽनं नं उग्राय
पंक्तिनासायै० । वामदोर्मूले ६ चं धं महादेवाय
चंद्रार्धधारिण्यै० । कंठे ६ छं दं भीमाय छंदोमययै० । वदने ६
जं थं ईशानाय जगत्स्थानायै० । दक्षकर्णे ६ झं तं तत्पुरुषाय
झंकृत्यै० । वामकर्णे ६ ञं णं अघोराय ज्ञानदायै नमः । भाले
६ टं ढं सद्योजाताय टंकढक्वधरायै० । शिरसि ६ ठं डं
वामदेवाय ठं प्रकृति डामर्यै० । मूलाधारे ६ मयं ब्रह्मणे
यक्षिण्यै० । स्वाधिष्ठाने ६ रं प्रजापतये रंजिन्यै० मणिपूरके । ६ लं
वेधसे लक्ष्म्यै० । अनाहते ६ वं परमेष्ठिने वज्रिण्यै० । विशुद्धौ ६ शं
पितामहा यशशिधरायै० । आज्ञायां ६ षं विधात्त्रे षडाधारालयायै०
। अर्द्धेंदौ ६ सं विरिंचये सर्वनायिकायै० । भालांते ६ हं स्रष्ट्रे
हसिताननायै० । नादे ६ लं चतुराननाय ललितायै० । नादांते ६ क्षं
हिरंण्यगर्भाय क्षमायै नमः इति विन्यस्य । ओं ऐं ह्रीं श्रीं हसौंः
सहौंः सकलमातृकामुच्चार्य सकलत्रिमूर्त्यात्मिकायै
प्. ११८अ)
श्रीपरांबा देव्यै नमः शौंः हसौंः श्रीं ह्रीं ऐं ओं इति व्यापकं
कुर्यात् ।। इति मूर्तिन्यासः ।।
अथ मंत्रन्यासः ।।
तत्र मूलाधारे ओं ऐं ह्रीं श्रीं हसौंः शौंः अं आं इं
एकलक्षकोटिभेदप्रणवाद्येकाक्षरात्मिकाखिलमंत्राधिदेवतायै
सकलफलप्रदायै एककूटेश्वर्यंबा देव्यै नमः । स्वाधिष्ठाने ६ ईं उं
ऊं द्विलक्षकोटिभेद हंसादि द्व्यक्षरात्मकाखिलमंत्राधिदेवतायै
सकलफलप्रदायैं त्रिकूटेश्वर्यंबा देव्यै नमः । अनाहते ६ ॡं एं ऐं
चतुर्लक्षकोटिभेद चंद्रादि चतुरक्षरात्मकाखिलमंत्राधिदेवतायै
चतुःकूटेश्वर्यंबा देव्यै नमः ।। विशुद्धौ ६ ओं औं अं अः
पंचलक्षकोटिभेद सूर्यादि पंचाक्षरात्मिकाखिल० पंचकूटेश्व० ।
आज्ञायां ६ कं खं गं षट्लक्षकोटिभेद
स्कंदादि षडक्षरात्मकाखिल० षट्कूटेश्व० । इं बिदौ ६ घं ऽऽन चं
सप्तलक्षकोटिभेदगणपत्यादि सप्ताक्षरात्मकाखिल० सप्तकूटेश्व० ।
अर्द्धेंदौ ६ छं जं सं अष्टलक्षकोटिभेद
बटुकाद्यष्टाक्षरात्मकाखिल० अष्टकूटेश्व० । रोधिन्यां ६
ञं टं ठं नवलक्षकोटिभेद ब्रह्मादि नवाक्षरात्मकाखिल०
नवकूटेश्व० ।
प्. ११८ब्)
नादे ६ डं ढं णं दशलक्षकोटिभेद विष्णवादि
दशाक्षरात्मकाखिल० दशकूटे० । नादांते ६ तं थं दं
एकादशलक्षकोटिभेद रुद्राद्येकादशाक्षरात्मकाखिल० एकादशकूटेश्व०
। शक्तौ ६ धं नं पं
द्वादशलक्षकोटिभेदवाण्यादिद्वादशाक्षरात्मकाखिल०
द्वादशकूटेश्व० । व्यापिकायां ६ फं ब मं त्रयोदशलक्षकोटिभेद
लक्ष्म्यादि त्रयोदशाक्षरात्मकाखिल० त्रयोदशकूटेश्व० । समनास्थाने ६
मं यं र.ं चतुर्दशलक्षकोटिभेदगौर्यादि चतुर्दशाक्षरात्मकाखि०
चतुर्दशकूटेश्व० । उन्मन्यां ६ लं वं शं पंचदशलक्षकोटिभेद
दुर्गादिपंचदशाक्षरात्मकाखिल० पंचदशकूटेश्व० । ध्रुवमंडले
६ षं सं हं लं क्षं षोडशलक्षकोटिभेद
त्रिपुरादिषोडशाक्षरात्मकाखिलमंत्राधिदेवतायै
सकलफलप्रदायै षोडशकूटेश्वर्यंबा देव्यै नमः ।
ततः ओं ऐं ह्रीं श्रीं हसौंः शौंः कलमातृकामुर्च्चार्य
सकलमंत्राधिदेवतायै श्रीपरांबा देव्यै नमं शौंः ह्सौंः श्रीं
ह्रीं ऐं ओं इति व्यापकं कुर्यात् ।। इति मंत्रन्यासः ।
अथ दैवतन्यासः ।।
तत्र दक्षपादे ओं ऐं ह्रीं श्रीं हसौंः शौंः अं आं
प्. ११९अ)
सहस्रकोटि ऋषिकुलसेवितायै निवृत्यंबा देव्यै नमः ।। वामपादे ६ इं ईं
सहस्रकोटियोगिनी कुलसेवितायै प्रतिष्ठांबा देव्यै० । दक्षगुल्फे ६ उं ऊं
सहस्रकोटितपस्विकुलसेवितायै विद्यांबा देव्यै० । वामगुल्फे ६ ऋं ॠं
सहस्रकोटिशांतकुलसेवितायै शांत्यंबा देव्यै नमः । दक्षजंघायां
६ ऌं ॡं सहस्रकोटिमुनिकुलसेवितायै शात्यतीतांबां देव्यै० ।
वामजंघायां ६ ऐं ऐं सहस्रकोटिदैवतकुलसेवितायै हृल्लेखांबा
देव्यै० । दक्षजानुनि ६ ओं औं सहस्रकोटिराक्षसकुलसेवितायै गगनांबा
देव्यै० । वामजानुनि ६ अं अः सहस्रकोटि विद्याधरकुलसेवितायै रक्तांबा
देव्यै० । दक्षोरौ ६ कं खं सहस्रकोटिसिद्धकुलसेवितायै महोछुष्मांबा
देव्यै० । वामोरौ ६ गं घं सहस्रकोटिसाध्यकुलसेवितायै करालिकांबा
देव्यै० । दक्षोरुमूले ६ ऽऽनं चं सहस्रकोटि अप्सरः कुलसेवितायै जयांबा
देव्यै० । वामे ६ छं जं सहस्रकोटिगंधर्वकुलसेवितायै विजयांबा
देव्यै० । दक्षपार्श्वे ६ झं ञं सहस्रकोटिगुह्यकुलसेवितायै अजितांबा
देव्यै० । वामपार्श्वे ६ टं ठं सहस्रकोटि यक्षकुलसेवितायै
अपराजितापरांबा देव्यै० । दक्षस्तने
प्. ११९ब्)
६ डं ढं सहस्रकोटिकिंन्नरकुलसेवितायै वामांबा देव्यै० । वामस्तने ६
णं तं सहस्रकोटिपन्नगकुलसेवितायै ज्येष्ठांबा० । दक्षदोर्मूले ६ थं
दं सहस्रकोटिपितृकुलसेवितायै रौद्र्यंबा दे० । वामदोर्मूले ६ ध नं
सहस्रकोटिगणेश्वरकुलसेवितायै मायांबा० । दक्षभुजे ६ पं फं
सहस्रकोटिभैरवकुलसेवितायै कुंडलिन्यंबा० । वामभुजे ६ बं भं
सहस्रकोटिबटुककुलसेवितायै काल्यंबा० । दक्षांसे ६ मं यं
सहस्रकोटिक्षेत्रेशकुलसेवितायै कालरात्र्येंबा० । वामांसे ६ रं लं
सहस्रकोटिप्रथमकुलसेवितायै भगवत्यंबा० । दक्षकर्णे ६ वं शं
सहस्रकोटि ब्रह्मकुलसेवितायै सर्वेश्वर्यंबा० । वामकर्णे ६ षं सं
सहस्रकोटिविष्णुकुलसेवितायै सर्वज्ञांबा० । भाले ६ हं लं
सहस्रकोटिरुद्रकुलसेवितायै सर्वकर्त्र्यंबा दे० । ब्रह्मरंध्रे ६ क्षं
सहस्रकोटिचराचरकुलसेवितायै कुलशक्त्यंबा देव्यै नमः ।
ततः ६ सकलमातृकामुच्चार्य समस्तदैवताधिरूपायै श्रींपरांबा
देव्यै नमः शौंः हसौंः श्री ह्रीं ऐं ओं इति व्यापकं कुर्यात् ।। इति
दैवतन्यासः ।।
अथ मातृकान्यासः ।।
प्. १२०अ)
तत्र मूलाधारे ओं ऐं ह्रीं श्रीं हसौंः शौंः कं० ४
अनंतकोटिभूचरीकुलसहितायै आं क्षां मंगलांबा देव्यै० । आं
क्षां ब्रह्माण्यंबा देव्यै अनंतकोटिभूतकुलसहिताय अं क्षं
मंगलनाथाय अं क्षं असितांगभैरवाय नमः ।। स्वाधिष्ठाने ६ चं०
४ अनंतकोटिखेचरीकुलसहितायै ईं लां चर्चिकांबा देव्यै ईं लां
माहेश्वर्यंबा देव्यै अनंतकोटिवेतालकुलसहिताय इं लं चर्चिकनाथाय
इं लं रु रु भैरवाय नमः । मणिपूरके ६ टं० ४
अनंतकोटिपातालचरीकुलसहितायै ऊं हां योगेश्वर्यंबा देव्यै ऊं
हां कौमार्यंबा देव्यै अनंतकोटिपिशाचकुलसहिताय उं हं
योगेश्वरनाथाय उं हं चंडभैरवाय नमः ।। अनाहते ६ तं० ४
अनंतकोटिदिक्चरी कुलसहितायै ॠं सांहरसिद्धांबा देयवै ॠं सां
वैष्णव्यंबा देव्यै अनंतकोटि दिकचरकुलसहिताय ऋं सं
हरसिद्धनाथाय ऋं सं क्रोधभैरवाय नमः । विशुद्धौ ६ पं० ४
अनंतकोटि सहचरी कुलसहितायै ऌं षां भट्टिन्यंबा देव्यै ॡ षां
वाराह्यंबा देव्यै अनंतकोटिब्रह्मराक्षसकुलसहिताय ऌं षं
भट्टिनाथाय ऌं षं उन्मत्ते
प्. १२०ब्)
भैरवाय नमः ।। आज्ञायां ६ यं ३ अनंतकोटिगिरिचरीकुलसहितायै ऐं
शां किलि किलांबा देव्यै ऐ शां इंद्रांण्यंबा देव्यै
अनंतकोटिचेटककुलसहिताय एं शं किलि किलनाथाय एं शं
कपालभैरवाय नमः ।। भाले ६ शं ३ अनंतकोटिवनचरीकुलसहितायै औं
वां कालरात्र्यंबा देव्यै औं वा चामुडांबा देव्यै अनंतकोटि
प्रेतकुलसहिताय ओं वं कालरात्रिनाथाय ओं वं भाषणभैरवाय
नमः । ब्रह्मरंध्रे ६ लं क्षं अनंतकोटिजलचरीकुलसहितायै अः लां
भीषणांबा देव्यै अः लां महालक्ष्म्यंबा देव्यै
अनंतकोटिकूष्माडकुलसहिताय अं लं भीषणनाथाय अं लं
संहारभैरवाय नमः ।।
ततः ओं ऐं ह्रीं श्रीं हसौंः शौंः अं आं ५१ समस्तमातृका
भैरवादि देवतायै श्रीपरांबा देव्यै नमः शौंः हसौंः श्रीं ह्रीं
ऐं ओं इति व्यापकं कुर्यात् ।। इति मातृकान्यासः ।।
इति महाषोढान्यासः ।।
प्रपंचो भुवनो मुर्तिन्मंत्रः दैवत मातरः ।।
महाषोढाहुयो न्यास सर्वन्यासो तमोतमः ।।
ततः पूर्वोक्तैः हसां हसीं इत्यादिभिः करषडंगन्यासं विधाय
देवं ध्यायेत् तद्यथा ।।
प्. १२१अ) अमृतार्णव मध्योद्यत्स्वर्ण द्वीपे मनोरमे ।।
कल्पवृक्षवनांतस्थै नवमाणिक्यमंडपे ।। १ ।।
नवरत्नमय श्रीमत्सींहासनगतांबुजे ।।
त्रिकोणांतः समासीनं चंद्रसूर्यशतप्रभं ।। २ ।।
अर्द्धाबिका समायुक्तं प्रविभक्तविभूषणं ।।
कोटिकंदर्पलावण्यं सदाषोडशवार्षिकं ।। ३ ।।
मंदस्मित मुखो भोजं त्रिनेत्रं चंद्रशेखरं ।
दिव्यांबर स्रगालेपं दिव्याभरणभूषितं ।। ४ ।।
पानपात्रं च चिन्मुद्रां त्रिशूलं पुस्तकं करैः ।।
विद्यां संसदि बिभ्राणं सदानंदमुखे क्षणं ।। ५ ।।
महाषोढोदिता शेष देवतागणसेवितं ।।
एवं चित्तांबुजे ध्यायेदर्द्धनारीश्वरं शिवं ।। ६ ।।
पुं रूपं वा स्मरेद् देवि स्त्रीरूपं वा विचिंतयेत् ।।
अथवा निष्कलं ध्यायेत् सच्चिदानंदलक्षणं ।। ७ ।।
सर्वन्तेजो मयं ध्यायेत् स चराचर विग्रहं ।।
इति स्वाभेदेन ध्यात्वा योनिलिंगधेनुकपालज्ञानत्रिशूलपुस्तकवनमाला
नमस्कार महामुद्रा इति दशमुद्रा विरच्य शिरसि श्रीगुरुं ध्यायेत् ।। यथा ।।
सहस्रदलपंकजे सकलसीतरश्मिप्रभं
प्. १२१ब्)
वराभयकरांबुजं विमलगंधपुष्पांबरं ।।
प्रसन्नवदने क्षणं सकलदेवतारूपिणं
स्मरे छिरशि संततं तदभिधानपुर्वं गुरुं ।। १ ।।
इति श्रीगुरु ध्यात्वा ।।
तद्विद्यया तत्पादुकां शिरसि विन्यस्य प्रणम्य स्वगुरुकृतं स्वनाम
स्वमूलाधारे स्मृत्वा शिवरूपं स्वात्मानं ध्यायेत् ।।
अथ महाषोढान्यासफलं ।।
श्रीकुलार्णवे ।।
एवं न्यासे कृते देवि साक्षात् परशिवो भवेत् ।।
मंत्री न चात्रसंदेहो निग्रहानुग्रहे क्षमः ।। १ ।।
महाषोढा ह्वयंन्यासं यः करोति दिने दिने ।।
देवाः सर्वे नमस्यंति तंत्रमामि न संशयाः ।। २ ।।
महाषोढा ह्वयंन्यासं यत्र मंत्री न्यसेत् ततः ।।
दिव्यक्षेत्रं समुद्दिष्टं समताद्दशयोजनं ।। ३ ।।
कृत्वान्यासमिमं देवि यत्र गछति मानवः ।।
तत्र श्रीर्विजयो लाभः समान्यः पुरुषः प्रियो ।। ४ ।।
महाषोढा कृतन्यासस्त्वदीक्षायाभि वंदते ।।
समासान् मृत्युमाप्नोति यदि शता शिवः स्वयं ।। ५ ।।
वज्रपंजरनामानमेनं न्यासं करोति यः ।।
दिव्यांतरिक्षभूशैल्य जलारण्यनिवासिनः ।। ६ ।।
उद्दंडभूतवेताल देवरक्षोग्रहादयः ।।
भयग्रस्तेन मनसा नेक्षंते साधकं प्रिये ।। ७ ।।
प्. १२२अ)
महाषोढा ह्वयं न्यासं ब्रह्मविष्णु शिवादयः ।।
देवा सर्वे प्रकुर्वंति ऋषयश्च मुनीश्वराः ।। ८ ।।
बहुनोक्तेन किं देवि सुशिष्याय प्रकाशयेत् ।।
अक्षयां लभते सिद्धिं रहसि न्यासमाचरेत् ।। ९ ।।
अस्मात् परतरः साक्षाद् देवता भाव सिद्धिदः ।।
लोके नास्ति न संदेहो सत्यं सत्यं न संशयः ।। १० ।।
उर्ध्वाम्नाय प्रवेशश्च पराप्राप्तादचिंतनं ।।
महाषोढा परिज्ञानं नाल्पस्य तपसः फलं ।। ११ ।।
इत्थं महाषोढा न्यासं विधाय चरणादि दीक्षायुक्तश्चेत् तद्विषयकं
न्यासं कुर्यात् ।। तत्रादौ बिश्रां चरणन्यासन्तत्र शिरसि ओं ऐं ह्रीं श्रीं
हं सः शिवः हसौंः सोहं तुरीय विद्यामुच्चार्य सच्चिदानंदज्योतिरहं
।। ओं ऐं ह्रीं श्रीं हं सः शिवः हसौंः सोहं तुरीय विद्यामुच्चार्य
सच्चिदानंदज्योतिरहमेव ।। ओं ऐं ह्रीं श्रीं हं सः शिवः हसौंः
सोहं तुरीय विद्यामुच्चार्य सच्चिदानंदज्योतिरहमेवास्मि ।। इति चरचरण
त्रयं संघट्टमुद्रया विन्यस्य क्षणं विश्रम्य ।।
अथ शंभुचारणन्यास कुर्यात् ।।
तत्र शिरसि ओं ऐं ह्रीं श्रीं ओं योहमस्मि ब्रह्मौ वाहमस्मि सोहं
स्वछप्रकाश
प्. १२२ब्)
परिपूर्णपरापर महाप्रकाशपरिपूर्णानंदनाथ श्रीपादुकां
पूजयामि नमः ।। इति संघट्टमुद्रया विन्यस्य स्वात्मानं
सकलप्रपंचोत्तीर्णं संविदेक स्वभावं सच्चिदानंदमयं विचित्य
पंचांबान्यासं कुर्यात् ।। तद्यथा ।।
तत्र शिरसि ओं ऐं ह्रीं श्रीं आदिनाथव्योमातीतांबा श्रीपादुकां पू० ।।
४ अनादिनाथव्योमेश्वर्यंबाश्री ।। ४ अनामयनाथव्योमगांबाश्री० ।। ४
अनंतानंदनाथव्योमचारिण्यंबाश्री० ।। ४
चिदाभासानंदनाथव्योमस्थांबाश्री० ।। ४ इति पंचांबान्यासः ।।
अथ नवाकाशनाथन्यासः ।।
तत्र शिरसि ४ हं उन्मनाकाशानंदनाथश्री० ।। ४ सं
समथाकाशानंदनाथश्री० ।। ४ क्षं व्यापकाकाशानंदनाथश्री० ।। ४
मं शक्त्याकाशानंदनाथश्री० ।। ४ लं ध्वन्याकाशानंदनाथश्री० ।।
४ वं ध्वनिमात्राकाशानंदनाथश्री० ।। ४ रं अनाहताकाशानंद *
थश्री० ।। ४ यं इंद्वाकाशानंदनाथश्री० ।। ४ ऊं
बिंद्वाकाशानंदनाथश्री० ।। ४ हसक्षमलवरयूं
समस्ताकाशानंदनाथश्री० ।। इति नवाकाशनाथन्यासः ।।
अथात्मानंदादि नवनाथन्यासः ।।
त्तत्र शिरसि ४ आत्मानंदनाथश्री० । ४ परमात्मानंदनाथश्री० ।
प्. १२३अ)
४ (चिदानंदनाथश्री० । ४) शांभवानंदनाथश्री० । ४
चिन्मुद्रानंदनाथश्री० । ४ वाग्भवानंदनाथश्री० । ४
लीलानंदनाथश्री० । ४ संभ्रमानंदनाथश्री० । ४ चिदानंदनाथश्री० ।
४ प्रसन्नविश्वानंदनाथश्री० । ४ आत्रोर्ध्वाम्नाये पंचाबा दिव्यौघाः ।
नवाकाशनाथाः सिद्धौघः । आत्मानंदनाथादयो मानवौघाः ।। इति
गुरुपंक्तिन्यासः ।।
संघट्टमुद्रया शिरस्येव न्यसनीयाः ।।
अथ स्वपारंपर्यन्यासः ।।
तत्र ओं ऐं ह्रीं श्रीं हीं श्रीं यज्ञेश्वरानंदनाथ सौः
संविदानंदनाथ श्रीपादुकां पूजयामि नमः । ६ स्वात्मानंदनाथ
सौः सच्चिदानंदनाथश्री० । ६ चिदानंदनाथ सौः
संविदानंदनाथश्री० । ६ ब्रह्मानंदनाथ सौः सच्चिदानंदनाथश्री०
। ६ पूर्णानंदनाथ सौः संविदानंदनाथश्री० । ६
ततः स्वगुरुपादुकां प्राग्वत् न्यसेत् ।। इति स्वपारंपर्यन्यासः ।।
अथ षोडशमूलविद्यान्यासः ।।
तत्र शिरसि ४ स्वछप्रकाशपरिपूर्णपरापर महासिद्धविद्याकुलयोगिनी ह्रीं
कुलयोगिनी पंचविंशार्णामूलविद्या श्रीपादुकां पूजयामि । ४ हसौंः
आत्मानं बोधय
प्. १२३ब्)
बोधय शौंः एकादशाक्षरी प्रासादे परांबा मूलविद्या श्री ४ ऐं
ब्लूं क्लिन्ने क्लेदिनि महामदद्रवे क्लीं क्लेदय क्लेदय क्लां क्लीं मोहय
मोहय क्लीं नमः स्वाहा त्रयश्त्रिंशदक्षरा अतिरहस्य योगिनी
मूलविद्याश्री० ।। ४ हं सः स्वछानंद परमहंसपरमात्मे स्वाहा सह
क्ष्रौं एकविंशदक्षरा शांभवी मूलविद्याश्री० ।। ४ ह्रीं नित्यस्फुरत्ता
चैतन्यानंदमयी महाबिंदु व्यापक मातृस्वरूपिणी ऐं ह्रीं श्रीं ईं
३० । ४ त्रिंशदक्षरा चिद्धृल्लेखा मूलविद्याश्री० । ४ ऐं ह्रीं श्रीं
स्वछप्रकाशात्मिके ह्रीं कुलमहामालिनि ऐं कुलगर्भमातृके ह्रीं लं
समयविमले श्रीं समयविमलामूलविद्याश्री० । ४ हं सः
नित्यप्रकाशात्मिके कुलकुंडलिनि आज्ञासिद्धि महाभैरवि आत्मानं बोधय
बोधय अंबे भगवति ह्रीं हूं परबोधिनि मूलविद्याश्री० ।। ४ ओं मोक्षं
कुरु कुलपंचाक्षरी मूलविद्याश्री० ।। ४ लोपामुद्रा
पंचदशाक्षरीमुच्चार्य चैतन्यत्रिपुरा मूलविद्याश्री० ।। ४
ऐं शुद्धसूक्ष्मनिराकार निर्विकल्प परब्रह्मस्वरूपिणि क्लीं
परानंदशक्ति सौः शांभवानंदनाथ अनुत्तरकौलिनी
प्. १२४अ)
मूलविद्याश्री० ।। ४ हं सः सोहं स्वछानंदपरहंस परमात्मने
स्वाहा गुरूत्तम विमर्शिनी मूलविद्याश्री० ।। ४ अनामाख्या
व्योमातीतनाथपरापरव्योमातीतव्योमेश्वरी अंबा
अनामाख्यमूलविद्याश्री० ।। ४ ऐं इं ईं ऊं संकेतसारामूलविद्याश्री०
।। ४ ह्रीं भगवति विच्चै वाग्वादिनि ह्रीं क्लीं महाह्रद महामातंगिनि ऐं
क्लिन्ने ब्लूं स्त्रीं अनुत्तर वाग्वादिनि मूलविद्याश्री० ।। ४ हस्रैं ख्फ्रें
हस्क्लें हस्रौः अनुत्तरशांकरी मूलविद्याश्री० ।। ४ तुरीयविद्यामुच्चार्य
सर्वानंदमये महाचक्रे बैदवे परब्रह्मस्वरूपिणी परामृतशक्तिः
सर्वमंत्रेश्वरी सर्वविद्येश्वरी सर्वपीठेश्वरी सर्वविरेश्वरी
सर्वयोगेश्वरी सर्ववागीश्वरी सर्वसिद्धेश्वरी सकलजगदुत्पत्तिमातृकाः
सचक्राः सदेवताः समुद्राः ससिद्धाः सायुधाः सवाहनाः सपरिवाराः
सशक्तिकाः सालंकाराः सर्वोपचारैः संपूजिताः संतु
शून्याशून्यविवर्जितशक्ति श्रीमहात्रिपुरसुंदरी मूलविद्या श्रीपादुकां
पूजयामि १६ इति चरणादि षोडशविद्यांताः संघट्टमुद्रया शिरस्येव
न्यसेत् । संघट्टमुद्रा तु शिवशक्त्यात्मक
प्. १२४ब्)
दक्षिणवामकरयोः पृथक् पृथक् कनिष्ठारहितांगुलिचतुष्ठयाग्र
योगरुपा युगपदधोमुखं शिरसि निहिता भवति ।
इति षोडसमूलविद्यान्यासः ।।
अथ षडाधारविद्यान्यसः ।।
तत्र मूलाधारे ४ हं सः स्वानंदविभूत्यै स्वाहा मूलाधारविद्याश्री
पा० । इत्यादि १ ।। स्वाधिष्ठाने ४ सोहं परमहंसविभूत्यै स्वाहा
स्वाधिष्ठानविद्याश्रीपा० ।। २ ।। मणिपूरके ४ हं सः सोहं
स्वछानंदपरमहंसपरमात्मने स्वाहा मणिपूरकविद्याश्री० ।। ३ ।।
अनाहते ४ हं सः स्वात्मानं बोधय बोधय स्वाहा परात्मानंदनाथ
अनाहतविद्याश्री० ।। ४ ।। विशुद्धौ ४ सोहं परमात्मानं बोधय स्वाहा २
स्वात्मानंदनाथविशुद्धविद्याश्री० ।। ५ ।। आज्ञायां ४ हं सः सोहं
स्वाछानंदनाथ चित्प्रकाशामृत हेतवे स्वाहा आज्ञाविद्या श्रीपादुकां
पूजयामि ।। ६ ।। इति षडाधारमंत्रान् त्तत्तच्चक्रे मनसा विन्यस्य पुनः
संघट्टमुद्रया शंभुचरणमात्रं विन्यस्य स्वात्मानं शिवरूपं
ध्यायेत् ।। इति चरणादिन्यासः ।।
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।।
कृते सौभाग्यरत्नाब्धौ तरंगो दशमोगंमत् ।। १ ।।
१२५अ)
इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वाते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे दशमस्तरंगः ।। १० ।।
अथ षडन्वयशांभवदीक्षायुक्तश्चेत्तत्तंत्रोक्त न्यासान् कुर्यात् ।। तद्यथा

ओं ऐं ह्रीं श्रीं हस्फ्रें हसौः हसक्षमलवंरयूं
सहक्षमलवरयीं श्री-अमुकानंदनाथ हसौः हस्फ्रें श्रीं ह्रीं ऐं
ओं श्रीपादुकां पूजयामि० ।। इति शांभवतंत्रोक्त गुरुपादुका विद्यया
श्रीगुरुपादुकां शिरसि संघटमुद्रया विन्यस्य ध्यात्वा गधादिभिः
संपूज्य ।। ६ दक्षिणांसे ऐं ह्रीं श्री हस्फ्रें हसौः ग्लौं हसौः
हस्फ्रें श्रीं ह्रीं ऐं हेरंबाय नमः ।। वामांसे ऐं ह्रीं श्रीं
हस्फ्रें हसौः उं हसौः हस्फ्रें श्रीं ह्रीं ऐं दुर्गायै नमः ।।
दक्षोरौ ५ बं ५ बटुकभैरवाये नमः ।। वामोरौ ५ सं ५ सरस्वत्यै नमः ।।
हृदये ५ ह्रीं हुं हं क्षं ज्वालामुखभैरवाज्ञया मांसावृद्रक्ष
रक्ष हूं स्वाहा ५ क्षेत्रपालाय नमः ।। मुखे ५ पं ५ परमात्मने नमः
।। इति विन्यस्य पूजयित्वा बाह्य ५ ओं नमो भगवति नीलवज्रासने मम शरीर
रक्ष रक्ष हूं फट् स्वाहा ५ आत्मासनाय नमः । इति स्वासनं पूज्य ।।
प्. १२५ब्)
दक्षवामहस्तौ शिवशक्त्यात्मकौ ध्यात्वा सहस्रः फः अस्त्राय फट् इति
मंत्रेण तालत्रयं दशदिग्बंधनमग्निप्राकारं न्व कृत्वा कनिष्ठयोः
५ ग्लूं गगनरत्नाय ग्लूं ५ नमः ।। अनामयोः ५ स्लूं स्वर्गरत्नाय स्लूं
५ नमः ।। मध्यमयोः ५ म्लूं मर्त्यरत्नाय म्लूं ५ नमः ।। तर्जन्योः ५
प्लूं पातालरत्नाय प्लूं ५ नमः ।। अंगुष्ठयोः ५ न्लूं नागरत्नाय
न्लूं ५ नमः ।। करतल करपृष्ठयोः ५ ग्लूं स्लूं म्लूं प्लूं न्लूं
पंचरत्नाय ५ नमः ।। इति पंचरत्नन्यासः ।।
ततः ५ सहस्रौं ऐं फें ५ इति परमेश्वर परमेश्वरी विद्याभ्यां
करयोर्व्यापकं कृत्वा मूर्द्धादि पादांतं सर्वांगव्यापकं कुर्यात् ।।
ततः ५ सहस्रां फां ५ हृदयाय नमः ।। ५ सहस्रीं फीं शिरसे स्वाहा ।। ५
सहस्रुं फूं ५ शिखायै वषट् ।। ५ सहस्रैं फैं ५ कवचाय हुं ।। ५
सहस्रौं फौं ५ नेत्रत्रयाय वौषट् ।। ५ सहस्र फः ५ अस्त्राय फट् ।। इति
कनिष्ठादितलांतं करयोर्विन्यस्य हृदयादिषु च न्यसेत् ।।
अथ वक्त्रन्यासः ।।
तत्र चूडाधः ५ शस्त्रौं फां ५ पश्चिमवक्त्राय नमः ।। वामकर्णे ५
श्स्रीं फीं ५ उत्तरवक्त्राय नमः । दक्षकर्णे ५ श्स्रुं फूं ५
दक्षिणवक्त्रायः ।। मुखे ५ श्स्रैं फैं पूर्ववक्त्राय नमः ।
प्. १२६अ)
शिरसि ५ श्स्रौं फौं ५ ऊर्ध्ववक्त्राय नमः । ब्रह्मरंध्रे ५ सहस्रः
फः ५ परवक्त्राय नमः ।। इति त्र्यंगन्यासः ।।
अथ बीजषोढान्यासः ।।
तत्र कलिमूले ५ स्जूं ५ नमः । ब्रह्मरंधे ५ ह्रूं ह्रं ५ ह्रूं ५ नमः ।
भाले ५ रखटसहघरयूं ५ नमः । दक्षशंखे ५ सहक्षरयूं ५ नमः
वामशंखे ५ क्ष्रूं ओं नमः । दक्षभ्रुवि ५ श्फ्रें ५ नमः ।
वामभ्रुवि ५ श्रूं ५ नमः । भ्रुवोर्मध्ये ५ स्रूं ५ नमः । जिह्वायां ५
श्रीं ५ नमः । तालुनि ५ क्षर क्ष्रूं ५ नमः । दक्षकर्णे ५ फटः ५ नमः ।
वामकर्णे ५ श्रं ५ नमः । चोरकूपे ५ लमयरूं ५ नमः । गलकांडे ५
हस्रुं ५ नमः । कंठगर्त्ते ५ डरयूं ५ नमः । दक्षस्तनो ५ जू य रू औं
५ नमः । वामस्तनोपरि ५ डयरूं ५ नमः । दक्षस्तन मंडले ५ हसैं ५
नमः ।। वामस्तनमंडले ५ जूं नमः । दक्षकक्षे ५ स क ल्रीं ५ नमः ।
वामकक्षे ५ ऐं नमः । नाभौ ५ हसौं ५ नमः । दक्षपाणितले ५ फः ५
नमः । वामपाणितले ५ फ्रें ५ नमः । लिंगाग्रे ५ श्रीं ५ नमः ।
लिंगमूले ह्रौं ५ नमः । मेदसि ५ भ्रें ५ नमः । दक्षांसे ५ फ्रें ५
नमः । वामांसे ५ सहक्षमलवयंरूं ५ नमः । ब्रह्मसूत्रे ५ हं ५
नमः । पायौं ५ ह स फ र यूं ५ नमः । गुददक्षिणे ५ ह स फ रूं ५
नमः । गुदवामे ५ हस्रौं ५ नमः । पायुमार्गे ५ ह्रौं ५ नमः ।
प्. १२६ब्)
दक्षजानुचक्रे ५ क्रां ५ नमः । वामजानुचक्रे ५ रूं ५ नमः ।
दक्षजंघायां ५ डहु औं ५ नमः । वामजंघायां ५ सहरस्रूं ५
नमः । दक्षगुल्फे ५ ब्रं ५ नमः । वामगुल्फे ५ यरं ५ नमः ।
दक्षगुल्फाधः ५ ह्रक्ष फट् ५ नमः । वामगुल्फाधः ५ अं ५ नमः ।
दक्षयमद्वारे ५ नफयरीं ५ नमः । यमद्वारमिति
पादांगुष्ठाभ्यंतरस्थ निम्नप्रदेशः ।। वामयमद्वारे ५ जसक्षह्रौं
५ नमः । दक्षपादतले ।। हस्रूं ५ नमः । वामपादतले ५ हर फट् ५ नमः ।
पृष्ठवंशे ५ चलमहीं ५ नमः । दक्षपार्श्वे ५ जसहसजूं ५ नमः ।
वामपार्श्वे ५ क्षं ५ नमः । दक्षकूर्परे ५ ह्रः फट् ५ नमः ।
वामकूर्परे ५ शीं ५ नमः । दक्षमणिबंधे ५ ग स म य न लूं ५ नमः
। वाममणिबंधे ५ लवरयहसूं ५ नमः । दक्षांसे ५ हस्फ्रें ५ नमः ।
वामांसे ५ क्ष फट् क्ष रूं ५ नमः । दक्षचिबुके ५ फ्रें ५ नमः ।
वामचिबुके ५ क्ष्म्यरूं ५ नमः । दक्षनेत्रे ५ ह र फट् फ्रीं ५ नमः ।
वामनेत्रे क्ष्रौं ५ नमः । नासाग्रें ५ ह यूं ५ नमः ।
दक्षतर्जन्यंगुष्ठसंधौ ५ ह्रीं ५ नमः । वामतर्जन्यंगुष्ठसंधौ
५ ह स क ल ह्रीं ५ नमः । दक्षानामिकायां ५ ह्रीं ५ नमः ।
वामानामिकायां ५ स क ल्ह्रीं ५ नमः । इति विन्यस्य मूर्द्धादि पादांतं
पादादि मूर्द्धांतं च व्यापकं त्वेन पंचप्रणवपुटि-
प्. १२७अ)
तैरकारादिक्षकारांतेर्मातृकाक्षरैः सकृन्यसेत् ।। इति बीजषोढान्यासः ।।
अथ मालिन्यादिषोढान्यासः ।।
तत्र प्रथमो मालिनी न्यासः ।। शिखायां ५ नं नादिन्यै ५ नमः पश्चिमोस्ये
५ ऋ निवृत्यै ५ नमः । उत्तरास्ये ५ ॠं प्रतिष्ठायै ५ नमः दक्षिणासे ५ ऌं
विद्यायै ५ नमः । पूर्वास्ये ५ ॡं शांत्यै ५ नमः । ऊर्ध्वास्ये ५ थं
ग्रंसिन्यै ५ नमः । नेत्रयोः ५ धं प्रियदर्शिन्यै ५ नमः । नासायां ५ ईं
गुह्यशक्त्यै ५ नमः । उर्ध्वनेत्रे ५ चं चामुंडायै ५ नमः । वदने ५ वं
वैज्रिण्यै ५ नमः । दक्षोर्ध्वदंतपंक्तौ ५ कं कराल्यै ५ नमः ।
वामोर्ध्वदंतपंक्तौ ५ खं कपालिन्यै ५ नमः । ऊर्ध्वशूले ५ गं
शिवायै ५ नमः । अधः शूले ५ घं घोषायै ५ नमः । दंष्ट्रायां ५
वं वीरायै ५ नमः । जिह्वायां ५ इं मायायै ५ नमः । वाचि ५ अं
वागीश्वर्यै ५ नमः । कर्णयोः ५ णं नारायण्यै ५ नमः । दक्षकर्णबिले ५
उ मोहिन्यै ५ नमः । वामकर्णबिले ५ ऊं प्रज्ञायै ५ नमः । कंठे वं ५
शिखिवाहिन्यै ५ नमः । दक्षांसे ५ भं भीषण्यै ५ नमः । वामांसे ५
यं वायुवेगायै ५ नमः । दक्षभुभे ५ ऽऽनं भीमायै ५ नमः । वामजे
५ टं विनायक्यै ५ नमः । दक्षपाणौ ५ ठं पूर्णायै ५ नमः ।
वामपाणौ ५ लं शक्त्यै ५ नमः । दक्षकरांगुष्ठे ५ झं झंकार्यै ५
नमः । वामकरांगुष्ठे ५ ञं कूर्दिन्यै ५ नमः ।
प्. १२७ब्)
दक्षकर शूलदंडे ५ ढं कालिकायै ५ नमः । वामकर शूलदंडे ५
रं दीपिन्यै ५ नमः । शूलाग्रे ५ जं जयंत्यै ५ नमः । हृदये ५ पं
पावन्यै ५ नमः । उदरे ५ बं लंबिन्यै ५ नमः । नाभौ ५ क्षं संहारिणै
५ नमः । दक्षस्तने ५ छं छागल्यै ५ नमः । वामस्तने ५ लं पूतनायै ५
नमाः । दक्षस्तनोपरि ५ आं आमोदायै ५ नमः । वामस्तनोपरि ५ सं
परमशक्त्यै ५ नमः । प्राणे ५ हं अंबायै ५ नमः । चित्ते ५ अः इछाशक्त्यै ५
नमः । नितंबद्वये ५ मं महाकाल्यै ५ नमः । गुह्ये ५ शं पुष्पास्त्रायै ५
नमः । शुक्रे ५ अं सूक्ष्मायै ५ नमः । ऊरुद्वये ५ तं तारायै ५ नमः ।
दक्षजानुनि ५ एं ज्ञानशक्त्यै ५ नमः । वामजानुनि ५ ऐं क्रियाशक्त्यै ५
नमः । दक्षजंघायां ५ ओं गायत्र्यै ५ नमः । वामजंघायां ५ औं
सावित्र्यै ५ नमः । दक्षपादे ५ दं वहन्यै ५ नमः । वामपादे ५ फं
फट्कार्यै ५ नमः । ऐं ह्रीं श्रीं हस्फ्रें हसौः नं फां ह्रां ह्रीं
मालिनीं सर्वांगेषु पूजयामि ५ नमः । इति सर्वांगे व्यापकं कुर्यात् । इति
मालिनी न्यासः ।।
अथ शब्दराशिन्यासः ।।
स तु प्रागुक्त श्रीकंठादि न्यास एव तत्र प्रीक्ततार्तीय बीजमपहाय पच-
प्. १२८अ)
प्रणवसंपुटितः कार्यः । तत्र ऐं ह्रीं श्रीं हस्फ्रें हसौः अं
श्रीकंठेशाय पूर्णोदर्यै हसौः हस्फ्रें श्रीं ह्रीं ऐं नम इत्यादि ।।
इति शब्दराशिन्यासः ।।
अथ त्रिविद्यान्यासः ।।
नाभौ ऐं ह्रीं श्रीं हस्फ्रें हसौः ऐं ह्रीं अघोरे ह्रीं सः हसौ
हस्फ्रें श्रीं ह्रीं ऐं नमः । हृदये ५ परमघोरे हूं घोररूपे हसौः
घोरमुखि भीषणे वम वम पिब रहः हें रुरु रर ह्रीं ह्रूं फ्रें
हसौः ५ नमः । भ्रुमध्ये । ५ स्फ्रं ५ नमः । इति त्रिविद्यान्यासः ।।
अथ अघोरिकाष्टकन्यासः ।।
तत्र शिरसि ५ ऐं ह्रीं घोरे ह्रीं सः अघोरायै ५ नमः । भाले ५ परमघोरे
हूं परमघोरायै ५ नमः । भ्रुमध्ये ५ घोररूपे हसौ घोररूपायै ५
नमः । मुखे ५ घोरमुखि सः घोरमुख्यै ५ नमः । कंठे ५ भीमे सः
भीमायै ५ नमः । हृदये ५ भीषणे सः भीषणायै ५ नमः । उदरे ५
वमसः वमन्यै ५ नमः । नाभौ ५ पिबसः पिबन्यै ५ नमः ।
इत्यघोरिकाष्टकं न्यासः ।।
अथ द्वादशांगन्यासः ।।
तत्र पादयोः ५ श्रें सिध्यै ५ नमः । जान्वोः श्रें ऋध्यै ५ नमः । ऊर्वोः ५
श्रें द्युत्यै ५ नमः । गुह्ये ५ श्रें लक्ष्म्यै ५ नमः । नाभौ ५ श्रें
कांत्यै ५ नमः । हृदये ५ शिवायै ५ नमः । कंठे ५ श्रे सुमुखायै ५
नमः । मुखे ५ श्रें मालिन्यै ५ नमः । कर्णयोः ५ श्रें नंदायै ५ नमः ।
नेत्रयोः ५ श्रें हयवेगायै ५ नमः । भाले ५ श्रें महामुखै ५ नमः ।
शिरसि ५ श्रें विश्वेशायै ५ नमः । इति द्वादशांगन्यासः ।।
प्. १२८ब्)
अथ षडंगन्यासः ।।
तत्र हृदि ५ श्रां सर्वज्ञतायै ५ हृदयाय नमः । ५ श्रीं अमृततेजो
ज्वालामिलिनि ५ नित्य तृत्यायै ५ शिरसे स्वाहा ।। ५ श्रूं वेदवेदिनि अनादिबोधायै
५ शिखायै वषट् ।। ५ श्रैं वह्निवज्रधराय स्वाहा स्वतंत्रतायै ५ कवचाय
हूं ।। ५ श्रौं नित्यमलुत्यशक्तये ५ नेत्रत्रयाय वौषट् ।। ५ श्रः
अनंतशक्तियुक्ताय पाशुपतास्त्राय हूं फट् ५ अस्त्राय फट् ।। इति
शडंगन्यासः ।।
स्तत्तन्मुद्रया कार्यः ।। इति मालिन्यादिषोढान्यासः ।।
अथ पंचमहारत्नन्यासः ।।
तत्र आज्ञाचक्रे ५ ग्लूं गगनरत्न गगनपीठ गगनलोकगर्भगामिनी
गगननाथगगनांबा गगनेश्वरि चतुःषष्ठिलक्षकोटियोगिन्यंबा ग्लूं ५
श्रीपादुकां पूजयामि नमः । विशुद्धिचक्रे ५ स्लूं स्वर्गरत्न स्वर्गपीठ
स्वर्गलोकगर्भगामिनि स्वर्गनाथस्वर्गांबा स्वर्गेश्वरी
द्वात्रिंशल्लक्षकोटियोगिन्यंबा स्लूं ५ श्रीपादुकां पूजयामि नमः ।
(विशुद्धिचक्रे ५ स्लूं स्वर्गरत्नस्वर्गपीठ स्वर्गलोक) अनाहतचक्रे ५ म्लूं
मर्त्यरत्न मर्त्यपीठ मर्त्यलोक गर्भगामिनि मर्त्यनाथमर्त्यांबा
मत्येश्वरी षोडशलक्षकोटि-
प्. १२९अ)
योगिन्यंबा म्लूं ५ श्रीपादुकां पूजयामि नमः । मणिपूरके चक्रे ५
प्लूं पातालरत्न पातालपीठ पाताललोक गर्भगामिनि पातालांबा
पातलेश्वरी अष्टलक्षकोटियोगिन्यंबा प्लूं ५ श्रीपादुकां पूजयामि
नमः ।। स्वाधिष्ठाने चक्रे ५ न्लूं नागरत्न नागपीठ नागलोक
गर्भगामिनि नागनाथ नागांबा नागेश्वरी तुर्लक्षकोटियोन्यंबा न्लूं ५
श्रीपादुकां पूजयामि नमः । इति पंचमहारत्नन्यासः ।।
अथ परादित्रिविधन्यासः ।।
तत्र अंगुष्ठयोः ५ ऐं परायै ऐं ५ नमः । तर्जन्योः ५ ह्रं इछायै ह्रूं ५
नमः । मध्यमयोः । ५ ऐं ज्ञानायै ऐं ५ नमः । अनामयोः । ५ श्रीं
क्रियायै श्रीं ५ नमः । कनिष्ठयोः । ५ ह्रीं कुंडलिन्यै ह्रीं ५ नमः ।
करतले करपृष्ठयोः ५ फ्रें मातृकायै फ्रें ५ नमः । इति करन्यासः ।
अथ हृदयादि षडंगेष्वेभिरेव मंत्रैः सजातिभिर्न्यसेत् ।।
ततः पश्चिमवक्त्रे । ५ ऐं परायै ऐं ५ नमः । उत्तरवक्त्रे ५ ह्रूं इछायै
ह्रूं ५ नमः । दक्षिणवक्त्रे ५ ऐं ज्ञानायै ऐं ५ नमः । पूववक्त्रे ५
श्रीं क्रियायै श्रीं ५ नमः । उध्ववक्त्रे ५ ह्रीं कुंडलिन्यै ह्रीं ५ नमः ।
परवक्त्रे ५ फ्रें मातृकायै फ्रें ५ नमः । इति परादि त्रिविधन्यासः ।।
प्. १२९ब्)
अथ गुरुपारंपर्यन्यासः ।।
तत्र शिरसि ५ हसक्षमलवरयूं सहक्षमलवरयीं श्री-अमुकानंदनाथ
५ श्रीपा० ।। इति संघट्टमुद्रया स्वगुरुपादुकां विन्यस्य । ब्रह्मरंध्रे ५
अः हं सः सोहं अः शौं सौः ज्योतिः परांबानिर्वाणानंदनाथ सौः
शौं अः सोहं सः अः ५ निर्वाणचरण श्रीपा० । इति संघट्टमुद्रयैव
न्यसेत् ।।
ब्रह्मरंध्रे ५ हसक्षमलवरयूं (सहक्षमलवरयीं श्री-
अमुकानंदनाथ ५) श्रीपरपावक श्रीपा० । इति संघट्टमुद्रयान्यसेत् ।
तत्रैव ५ ओं ह्रीं कामदुघे अमोघे वरदे विच्चे स्फुर स्फुर श्रीं श्रीं ५
कुलकामधेनु श्रीपा० । ततस्तत्रैव दक्षभागे ५ हस्लौं शुक्लनति महापीठ
महाप्रकाशानंदनाथ हस्रौं ५ शुक्लचरण श्रीपा० । वामभागे ५
सह्रौं रक्तविद्यामहापीठ रक्तपुष्पमहापीठ रक्तमंडलमहापीठ
रक्तचरुकमहापीठ रक्तदीपमहापीठ रक्तमुद्रामहापीठ
रक्तनतिमहापीठ महाप्रकाशिनी परांबा श्रौं ५ रक्तचरण श्रीपा० ।
ब्रह्मरंध्रमध्ये ५ हस्रौं श्रौं मिश्रविद्यामहापीठ
मिश्रपुष्पमहापीठ मिश्रमंडलमहापीठ मिश्रचरुकमहापीठ
मिश्रमंत्रमहापीठ मिश्रदीपमहापीठ मिश्रमुद्रामहापीठ
मिश्रनतिमहापीठ
प्. १३०अ)
महाप्रकाश महाप्रकाशिनी सामरस्यानंदनाथ मिश्रपाद श्रौं
हस्रौं ५ मिश्रचरणश्रीपादुकां पूजयामि ।। इति संघट्टमुद्रया न्यसेत् ।।
इति चरणत्रयं न्यासः ।।
अथ दिव्यौघादिगुरुपंक्तित्रयन्यासः ।।
तत्र शिरसि ५ लं ब्रह्ममहाप्रेतपद्मासनाय नमः लं ५ ब्रह्म
श्रीपादुका० । तत्रैव ५ वं विष्णुमहाप्रेतपद्मासनाय नमः । वं ५ विष्णु
श्री० । ५ रं रुद्रमहाप्रेतपद्मासनाय नमः । रं ५ रुद्र श्रीपा० । ५ यं
ईश्वरमहाप्रेतपद्मासनाय नमः यं ५ ईश्वर श्रीपा० । ५ हं
सदाशिवमहाप्रेतपद्मासनाय नमः हं ५ सदाशिव श्री० । सं
हेमगर्भमहाप्रेतपद्मासनाय नमः सं ५ हेमगर्भ श्री० । ५ ऐं
परायै ऐं ५ परांबा श्री० । ५ ह्रूं इछायै ह्रूं इछांबा श्री० । ५ ऐं
ज्ञानायै ऐं ५ ज्ञानांबा श्रीपा० । ५ श्रीक्रियायै श्रीं ५ क्रियांबा
श्रीपा० । ५ ह्रीं कुंडलिन्यै ह्रीं ५ कुंडलिन्यंबा श्रीपा० । ५ फ्रें
मातृकायै फ्रें ५ मातृकांबा श्रीपा० । इति दिव्यौघाः ।।
अथ सिद्धौघः ।
५ आं आदिनाथानंद आदिपरांबा आं ५ श्रीपा० ।। ५ अं
अचिंत्यानंदनाथ अचिंत्यपरांबा अं ५ श्रीपा० । ५ अं
अव्यक्तानंदनाथ अव्यक्तापरांबा अं ५ श्रीपा० । ५ कुं
कुलेश्वरानंदनाथ कुलेश्वरी परांबा कुं ५ श्रीपा० । इति सिद्धौघाः ।।
अथ मानवौघः ।।
५ चं चर्यातूष्णीशानंदनाथसिद्धापरांबा सिंटीशापरांबा ५
श्रीपा० । ५ चिंचिणी-
प्. १३०ब्)
मित्रीशानंदनाथ कुब्जिकापरांबा ५ श्री० । ५ गगनानंदनाथ
वाटुलीलावली पराबा ५ श्री० । ५ चंद्रगर्भानंदनाथ बलिभागी
परांबा ५ श्री० । ५ मुक्तानंदनाथ महिलापराबा ५ श्री० । ५ ।
ललितानंदनाथ शंखापरांबा करुणापरांबा ५ श्री० । ५ ऐं
श्रीकंठानंदनाथ श्रीकंठापरांबा ५ श्री० ।। ५
परेश्वरानंदनाथ परेंश्वरी परांबा ५ श्री० ।। ५ कुमारानंदनाथ
सहजापरांबारत्नादेवीपरांबा ५ श्री० । ५ रत्नानंदनाथ ज्ञानादेवी
परांबा ५ श्री० ।। ५ ब्रह्मानंदनाथनादिनी परांबा ५ श्री० ।। ५
अजेशानंदनाथ महिलापरांबा ५ श्री० ।। ५ प्रतिष्ठानंदनाथ
सहजापरांबा ५ श्री० ।। ५ शिवानंदनाथ प्रतिभापरांबा श्री० ।। ५
चिदानंदनाथ सहजापरांबा ५ श्री० ।। ५ श्रीकंठानंदनाथ
विद्याशक्तिपरांबा ५ श्री० ।। ५ शिवानंदनाथ सहजापरांबा ५ श्री० ।। ५
सोमानंदनाथ सहजापरांबा ५ श्री० ।। ५ संविदानंदनाथ
सहजापरांबा ५ श्री० ।। ५ विबुधानंदनाथ विबुधापरांबा ५ श्री० ।।
५ भैरवानंदनाथ भैरवीपरांबा ५ श्री० ।। ५ आनंदानंदनाथ
आनंदापरांबा ५ श्री० ।। ५ कामेश्वरानंदनाथ कामेश्वरी परांबा ५
श्री० ।। ५ कमलानंदनाथ सहजापरांबा श्री० ।। इति गुरुपंक्तित्रयं
ब्रह्मरंध्र एव संघट्टमुद्रया विन्यस्य पुनः शांभवप्रकरणोक्त
गुरुपादुका-
प्. १३१अ)
विद्यया स्वगुरुपादुकां विन्यस्य स्वगुरु कृत स्वनाममूलाधारे स्मरेदिति
गुरुक्रम्यन्यासः ।।
अथ षडन्वयमंत्रन्यासः ।।
आज्ञायां ५ श्रौं ऐं फ्रें श्रीपरमेश्वरानंदनाथ परेश्वरी
परांबा ५ श्री० ।। विशुद्धौ ५ ह्स्रूं? ऐं कुब्जि फ्रें
श्रीविच्चेश्वरानंदनाथ विच्चेश्वरीपरां ५ श्री० ।। अनाहते ५ ह्स्फ्रें ऐं
कुब्जिकायै ह्स्फ्रें विच्चे हंसेश्वरानंदनाथ हंसेश्वरीपरांबा ५ श्री०
।। स्वाधिष्ठाने ५ ह्रां ह्रूं ह्रीं ह्स्रां ह्स्रां ह्स्रूं ह्स्रीं क्ष्रां
क्ष्रूं क्ष्रीं किणि किणि ह्स्फ्रां ह्स्फ्रां ह्स्प्रूं ह्स्प्रीं विच्चे ह्रौं
हससह्स्प्रें हसक्षमलवयरूं औं हसक्षमलवयरीं
हसक्षमलवयरूं हसक्षमलवयरीं ऐं ह्स्रीं ह्स्रूं ह्स्रां ह्रीं
ह्रूं ह्रां ऐं नित्ये भगवति ह्स्फ्रें कुलेश्वरी ह्रां ह्रूं ह्रीं ह्लां
ह्रीं ह्रूं ह्यैं हौ ऽऽन ञ ण न मे क्ष्रां क्ष्रूं क्ष्रीं क्ष्रः क्ष्रं
श्रीं फट् ह्स्रौं फ्रें अघोरमुखी कुब्जिकायै छ्रां छ्रूं छ्रीं घोरे
अघोरे यं रं लं व हं सं किणि किणि महाकिणि विच्चे
संवर्त्तेश्वरानंदनाथ संवर्त्तेश्वरी परांबा ५ श्रीपा० ।। मणिपूरके
५ हृ स ब्रूं ऐं रिंगटि पिंगटि कंटपि विच्चे द्विपेश्वरानंदनाथ
द्वीपेश्वरीपरांबा ५ श्री० ।। मूलाधारे ५ हसक्षमलवरयूं नमो
भगवति ह्स्फ्रें कुब्जिकायै ह्रां ह्रूं ह्रीं ऽऽन ञ ण न मे अघोरमुखि
छ्रां छ्रीं किणि किणि विणि विणि विच्चे नवात्मेश्वरानंदनाथ
नवात्मेश्वरीपरांबा ५ श्री० ।। इति षडन्वयमंत्रन्यासः ।।
ततः परेश्वर परेश्वरीमूल-
प्. १३१ब्)
विद्यया व्यापकं न्यासं कृत्वा देवं हृदये ध्यायेत् ।। तद्यथा ।।
सहस्रसूर्यसंकाशो महादीप्तिघरो गुरुः ।।
षडन्वयेश्वरः श्रीमान् परशंभु रजो व्ययः ।।
षडानन स्फुरन्नेत्र त्रय षट्क समन्वितः ।।
द्वीपिचर्मकटिस्फार मुंडमालाविभुषणः ।।
नरास्थिरल पारिजातपुष्पमालासमावृत्तः ।।
ब्रह्मनाभिक गतांगुष्ठो दंष्ट्राविस्तृतलापनः ।।
विचित्राभरणैर्युक्तः सर्ववि पशुपाश हृत् ।।
शूलासीषु शक्तिसृणि वरधारी महातनुः ।।
कपालफल चापारिणशाभयकरांबुजः ।
देवावृतः पितृवने क्रिडाकृन्मारसोत्तरे ।।
एवं परेश्वरीं ध्यायेत् स्तनभारविराजितां ।।
मानसं शांभवं ज्ञात्वा जपेद्विद्यामनन्यधीः ।।
दक्षोर्ध्वकरमारभ्य दक्षाधः करपर्यंतं वामोर्ध्वकर
मर्मभ्यं वामाधः करपर्यंतं आयुध ध्यानं ।। इति ध्यात्वाभि
संपूज्य मूलविद्या द्वयं पुनः ।। समभ्यस्य समर्प्याथ चरण द्वितयं
स्मरेदिति स्वैक्येन ध्यात्वा मानसैः पूजयित्वा पंचप्रणव संपुटितं
परेश्वरबीजं यथाशक्ति जपित्वा तथैव परेश्वरी मंत्रं जपित्वा देवाय
जपं समर्प्य षडन्वय शांभवाधिदेवतां ललितां स्वात्मानं
ध्यायेत् ।।
श्रीविद्यानंदनाथेन शिवयोः प्रिय सूनुना ।।
कृते सौभाग्यरत्नाब्धौ तरंगो रुद्र संख्यकः ।। ११ ।।
इति श्रीसच्चिदानंदनाथचरणारविंदद्वद्वातेवासिना
श्रीश्रीविद्यानंदनाथेन कृते सौभाग्यरन्ताकरे एकादशस्तरंगः ।।
प्. १३२अ)
इति न्यासं कृत्वा षडन्वय शांभवरश्मिस्मरणं कुर्यात् ।। तत्र
प्रथमं मानसपरेश्वर क्रमः ।
तत्र आज्ञाचक्रे ५ हिरण्यगर्भं षडाननं स्वर्णवर्णं शवासनं
ध्यात्वा तस्य नाभि ५ प्रकर्णिकायां श्स्रौं इति परेश्वरकूटं
बालार्कवर्णं ध्यात्वा तदुद्भवं ध्यानोक्तरूपं परेश्वरं
देवमात्मानं ध्यात्वा तं सर्वगुरुस्वरूपं सशवासनं परेश्वरं
ब्रह्मरंध्रे संचित्यमूलाधारे वाग्भवोत्थां परेश्वरीं
ध्यानोक्तरूपां पंचदशफणायुक्ता हींद्रस्य मध्यफणा स्थितां
ध्यात्वा पुनस्तां तेजोरुपां ब्रह्मरंध्रपर्यंतं ध्यात्वा तेन तेजसा
सावय विकृत्य परेश्वरेण संयोज्य न्यासोक्तेनैकीकृतेन मंत्रेण देवं देवी
मानसैरुपचारैः पूजयेत् ।। ततस्तं परितः शिरसि षट्कोणं विभाव्य तस्य
कोणेषु ईषानादि वायव्यां तेषु चतुष्कादि क्रमेण प्रादक्षिण्येन
द्वात्रिंशद्रश्मयो मिथुनरूपाः पूज्याः ।।
तत्रैशानकोणे ।।
प्रथमं मिथुनचतुष्करंक्तवर्णं ध्यात्वा ऐं ह्रीं श्रीं ह्स्फ्रें
ह्स्रौः ऐं परानंदनाथ परापरांबा ऐं ह्सौः ह्स्फ्रें श्रीं ह्रीं
ऐं श्रीपादुकां पूजयामि नमः ।। ५ ऐं भानंदनाथ भापरांबा
ऐं ५ श्रीपा० । ५ ऐं चिदानंदनाथ चित्परांबा ऐं ५ श्री० । ५ ऐं
महामायानंदनाथ महामायापरांबा ऐं ५ श्री० ।। इति चतुष्के ।।
अथ पूर्वकोणे ।।
मिथुनपंचकं शुक्लवर्णं ध्यात्वा ५
प्. १३२ब्)
ह्रं इछानंदनाथेछापरांबा ह्रूं ५ श्री० । ५ ह्रूं
सृष्ट्यानंदनाथसृष्टिपरांबा श्री० ।। ह्रूं स्थित्यानंदनाथस्थितिपरा
ह्रूं ५ श्री० । ५ ह्रूं निरोधानंदनाथ निरोधापरांबा ह्रूं ५ श्री० । ५
ह्रूं मुक्त्यानंदनाथ मुक्तिपरांबा ह्रूं ५ श्री० । ५
अथाग्नेयकोणे ।।
मिथुनचतुष्कं धूम्रवर्णं ध्यात्वा ५ ऐं
ज्ञानानंदनाथज्ञानापराबा ऐं ५ श्री० । ५ ऐं सत्यानंदनाथ
सतीपरांबा ऐं ५ श्री० । ५ ऐं असत्यानंदनाथ असतीपरांबा ऐं ५ श्री० ।
५ ऐं सदसत्यानंदनाथ सदसतीपरांबा ऐं ५ श्री० ।
अथ नैर्-ऋतिकोणे ।
मिथुन सप्तकं कृष्णवर्णं ध्यात्वा ५ श्रीक्रियानंदनाथ
क्रियापरांबा श्री ५ श्री पा० । ५ श्रीं अत्मवत्यांदनाथ
आत्मवतीपरांबा श्रीं ५ श्री० । ५ श्रीं इंद्रियानंदनाथ
इंद्रियापरांबा श्रीं ५ श्री० । ५ श्रीं गोचरानंदनाथ गोंचरीपराबा
श्रीं ५ श्री० । ५ श्रीं लोकमुखानंदनाथ लोकमुख्यापरांबा श्रीं ५
श्री० । ५ श्रीं वेदांनंदनाथ वेदापरांबा श्री ५ श्री० । ५
संविदानंदनाथ संवित्परांबा श्रीं ५ श्री० ।
ततः पश्चिमकोणे मिथुनचतुष्कं पीतवर्णं ध्यात्वा ५ ह्रीं
कुंडल्यानंदनाथ कुंडलीपरांबा ह्रीं ५ श्री० । ५ ह्रीं
सुषुम्णानंदनथ सुषुम्णापरांबा ह्रीं ५ श्री० । ५ ह्रीं
प्राणसूत्रानंदनाथ प्राणसूत्रापरांबा ह्रीइं ५ श्री० । ५ ह्रीं
स्यंदानंदनाथ स्यंदापरांबा ह्रीं ५ श्री० ।
ततो वायव्यकोणे
प्. १३३अ)
मिथुनाष्टकं पितवर्णं ध्यात्वा ५ फ्रें मातृकानंदनाथ
मातृकापरांबा फ्रें ५ श्री० । ५ फ्रें शब्दानंदनाथ शब्दापरांबा
फ्रें ५ श्री० । ५ फ्रें वर्णानंदनाथ वर्णापरांबा फ्रें ५ श्री० । ५
फ्रें स्वरोद्भवानंदनाथ स्वरोद्भवापरांबा फ्रें ५ श्री० । ५ फ्रें
वर्णजानंदनाथ वर्णजापरांबा फ्रें ५ श्री० । ५ फ्रें
वर्गजानंदनाथ वर्गजापरांबा फ्रें ५ श्री० । ५ फ्रें
संयोगानंदनाथ संयोगापरांबा फ्रें ५ श्री० । ५ फ्रें
मंत्रविग्रहानंदनाथ मंत्रविग्रहापरांबा फ्रें ५ श्री० । इति
रश्मिक्रमं संपूज्य विन्यस्य पुनर्देवदेव्यौ पूजयेदिति
मानसपरेश्वरक्रमः ।।
अथ नाभसविच्चेश्वरक्रमः ।।
तत्र विशुद्धिचक्रे ह्स्रां इति विच्चेश्वरबीजं शुद्धस्फटिकसंकाशं
ध्यात्वा तदुद्भवं देवमात्मानं ।।
शुद्धस्फटिकसंकाशं षट्चक्रे द्वादशांघ्रिकं ।।
भैरवाभं शूलचक्रांकुशपाशं शरान्वरं ।।
दक्षे च वामके तद्वछंखध्वजा हि नृमुखं ।।
चापाभये च बिभ्राणं तद्वतीं च कुलेश्वरीं ।।
दक्षोर्ध्व वामोर्ध्व क्रमेणायुधक्रमः ।।
इति सदाशिव प्रेतासनस्थं विच्चेश्वररूपमात्मानं ध्यात्वा ५ ह्स्रां ५
हृदयाय नमः । ५ ह्स्रीं शिरसे स्वाहा ।। एवं षट् दीर्घयुक्तबीजेन
करषडंगचक्रन्यासं प्राग्वद्विधाय मूलाधारे
प्. १३३ब्)
देवी मंत्रस्यांतिमं फेमिति बीजं शुद्धस्फटिकसंकाशं ध्यात्वा
तदुद्भूतां देवी विच्चेश्वर सदृशीं ध्यात्वा षट्दीर्घयुक्त फेमिति बीजेन
पंचप्रणवसंपुटितेन प्राग्वत् करषडंगवक्त्रन्यासान् कृत्वा
विच्चेश्वरीं तेजोरूपां मूलादि ब्रह्मरंध्रांतं ध्यात्वा विशुद्धौ
विश्राम्य पुनः सावयवां तां विच्चेश्वरेण संयोज्य देवदेवी
रूपमात्मानं ध्यायन् पंचप्रणवसपुटित बीजद्वयेन पुनः प्राग्वत्
अंगन्यासं कृत्वा पूर्वोक्तविद्यया देवदेव्यौ मानसौपचारैः संपूज्य
पुनर्ब्रह्मरंध्रे ध्यात्वा मानसं पूजयित्वा देवं परितः षट्कोणं
विभाव्य तस्य पूर्वादि
ईशानांतकोणेषु षट्क षट्कक्रमेण षट्त्रिंशद्रश्मि मिथुनानि न्यसेत् ।।
तत्र पूर्वकोणे मिथुनषट्कं शुक्लवर्णं ध्यात्वा ५ हं
हृदयानंदनाथकौलीनीपरांबा हं ५ श्री० । ५ धं धरानंदनाथ
धात्रीपरांबा धं ५ श्री० । ५ भां भावानंदनाथ विच्चेश्वरी
परांबा भां ५ श्री० । ५ भं भवानंदनाथयोगिनीपरांबा भं ५
श्री० । ५ मं महानंदनाथ ब्रह्मधारापरांबा मं ५ श्री० । ५ सं
सर्वानंदनाथ शांभवीपरांबा सं ५ श्री० ।।
अथाग्नेयकोणे द्वितीय षट्कं
प्. १३४अ)
रक्तं ध्यात्वा ५ इंद्रवानंदनाथं कालिकापरांबा इं ५ श्री० ।। ५ वं
वसानंदनाथ दुष्टचंडालीपरांबा वं ५ श्री० ।। ५ मों
मोहानंदनाथ घोरेशीपरांबा मों ५ श्री० ।। ५ मं
मनोभवानंदनाथ हेलापरांबा मं ५ श्री० ।। ५ सें सेकानंदनाथ
महारक्तापरांबा सें ५ श्री० ।। ज्ञां ज्ञानानन्दनाथ
कुब्जिकापरांबा ज्ञां ५ श्री० ।।
अथ नैर्-ऋतिकोणे मिथुनषट्कं श्यामवर्णं ध्यात्वा ५ खें
खेटानंदनाथ डाकिनीपरांबा खें ५ श्री० । ५ ज्वां ज्वालानंदनाथ
राकिनीपरांबा ज्वां ५ श्री० । ५ मं महांकुशानंदनाथ
लाकिनीपरांबा मं ५ श्री० । ५ श्रीं श्रियोज्वलानंदनाथ
काकिनीपरांबा श्रीं ५ श्री० । ५ तें तेजीशानंदनाथ साकिनीपरांबा
तें ५ श्री० । ५ मूं मूर्द्धानंदनाथ हाकिनीपरांबा मूं ५ श्री० ।।
ततः पश्चिमकोणे धूम्रवर्णं मिथुनषट्कं ध्यात्वा ।
५ वां वायव्यानंदनाथ पद्मापरांबा वां ५ श्री० । ५ कुं
कुलानंदनाथ सिंहापरांबा कुं ५ श्री० । सं संहारानंदनाथ
कुलेश्वरीपरांबा सं ५ श्री० । ५ विं विश्वंभरानंदनाथ
क्रमापरांबा विं ५ श्री० । ५ कुं कुटिलानंदनाथ कूर्मपरांबा कुं ५
श्री० । ५ गां गालवानंद कलिनीपरांबा गां ५ श्री० ।।
ततो वायव्यकोणे मिथुनषट्कं अरुणवर्णं ध्यात्वा ।। ५
प्. १३४ब्)
व्यों व्योमानंदनाथ व्योमापरांबा व्यों ५ श्री० । ५ श्वं
श्वसनानंदनाथ नादापरांबा श्वं ५ श्री० । ५ खें
खेचरानंदनाथ महिमापरांबा खें ५ श्री० । ५ बां
बाहुलानंदनाथ महामायापरांबा बां ५ श्री० । ५ ज्ञां
ज्ञानानंदनाथ कुंटलीपरांबा ज्ञां ५ श्री० । ५ विं
विश्वानंदनाथ कुलेश्वरीपरांबा विं ५ श्री० ।।
तत ईशानकोणे मिथुनषट्कं स्फटिकवर्ण ध्यात्वा ।।
५ आं आज्ञानंदनाथ सिद्धापरांबा आं ५ श्री० । ५ मं
मदनानंदनाथ द्वीपिकापरांबा मं ५ श्री० । ५ यं यशानंदनाथ
रेचिकापरांबा यं ५ श्री० । ५ शं शंखानंदनाथ मोचिकापरांबा
शं ५ श्री० । ५ पं परानंदनाथ परापरांबा पं ५ श्री० । ५ वं
वरानंदनाथ चितिपरांबा वं ५ श्री० ।। इति रश्मिक्रमं विन्यस्य देवदेव्यै
। तदेक विद्मया पुनर्विन्यस्य मानसं संपूज्य वायव्यक्रममारभेत् ।। इति
नाभस विच्चेश्वर क्रमः ।।
अथ वायव्यहंसेश्वर क्रमः ।।
तत्र अनाहतचक्रे ह्स्फ्रं इति हंसेश्वर बीजं धूम्रवर्णं विचिंत्य
तदुद्भवं देवं धूम्रवर्णं षण्मुखं द्वादशबाहुं हेमपात्र
शूलचक्रांकुशबाणवरान् शंखध्वजसर्पनृशिरश्चापा भयानि च
दक्षवामयोरूध्वादि क्रमेण विभ्राणं
प्. १३५अ)
द्वादशपादं भैरवरूपमीश्वर प्रेतासनस्थं हंसेश्वरं
तन्मयमात्मानं च ध्यात्वा ५ ह्स्फ्रा ५ हृदयाय नमः । इत्यादि षट्
दीर्घभाजा हंसेश्वर बीजेन करषडंगवक्त्रन्यासान् विधाय
देवीमंत्रस्य ह्स्रूमिति षष्ठं बीजं मूलाधारे धूम्रवर्णं ध्यात्वा
तदुद्भवां धूम्रवर्णां हंसेश्वरीं हंसेश्वरसमानरूपां
ध्यात्वा देवी विद्या षष्ठबीजेन प्राग्वत् अंगन्यासं विधाय हृदये
देवदेव्यौ ध्यात्वा मानसैरुपचारैः पूजयित्वा शिरः पीठं पूजार्थं
चरणद्वयमध्यस्य ब्रह्मरंध्रे यथोक्त रूपौ ध्यात्वा तयोरेकविद्यया
संपूज्य शिरसि षट्कोणं विभाव्य तस्याग्नेयकोणे प्रथमचतुष्कं
पीतवर्णं ध्यात्वा ५ लमयरूं खगेश्वरानंदनाथ भद्रापरांबा
लमयरूं ५ श्री० । ५ लमयरूं कूर्मानंदनाथ माधविकापरांबा
लमयरूं ५ श्री० ।। ५ लमयरूं मेषानंदनाथ कोशापरांबा
लमयरूं ५ श्री० ।। ५ लमयरूं मानानंदनाथ मल्लिकापरांबा
लमयरूं ५ श्री० ।
अथ नैर्-ऋत्ये पंचकं श्यामवर्णं ध्यात्वा ५ वमयरूं
ज्ञानानंदनाथ विमलापरांबा ५ वमयरूं ५ श्री० । ५ वमयरूं
महानंदनाथ शाबरीपरांबा वमयरूं ५ श्री० । ५ वमयरूं
प्. १३५ब्)
तीव्रानंदनाथ लीलापरांबा वमयरूं ५ श्री० । ५ वमयरूं
प्रियानंदनाथ कुमुदापरां वमयरूं ५ श्री० । ५ वमयरूं
कौलिकानंदनाथ मेनकापरांबा वमयरूं ५ श्री० ।।
ततः पश्चिमकोणे मिथुनषट्कं रक्तवर्णं ध्यात्वा ५
रमययूं डामरानंदनाथ डाकिनीपरांबा रमरयूं ५ श्री० । ५
रमरयूं रामानंदनाथ राकिनीपरांबा रमरयूं ५ श्री० । ५
रमरयूं लामरानंदनाथ लाकिनीपरांबा रमरयूं ५ श्री० । ५
रमरयूं कामरानंदनाथ काकिनीपरांबा रमरयूं ५ श्री० । ५
रमरयूं सामरानंदनाथ साकिनीपरांबा रमरयूं ५ श्री० । ५
रमरयूं हामरानंदनाथ हाकिनीपरांबा रमरयूं ५ श्री० ।।
ततः वायव्यकोणे तुरीयं मिथुनचतुष्कं धूम्रवर्णं ध्यात्वा ५
यमयरूं कूरंगीशानंदनाथ कुलापरांबा यमयरूं ५ श्री० । ५
यमयरूं मदघ्नीशानंदनाथ कुब्जिकापरांबा यमयरूं ५ श्री० ।
अथ ईशानकोणे मिथुनपंचकं शुक्लवर्ण ध्यात्वा ५ हमयरूं
हृदीशानंदनाथ कमलापरांबा हमयरूं ५ श्री० । ५ हमयरूं
सिरसानंदनाथ कुलदीपिकापरांबा हमयरूं ५ श्री० ।। ५ हमयरूं
शिखीशानंदनाथ बर्बरापरांबा हमयरूं ५ श्री० ।।
प्. १३६अ)
५ हमयरूं वर्मानंदनाथ बहूरूपापरांबा हमयरूं ५ श्री० ।।
हमयरूं अस्त्रानंदनाथ महत्तरीपरांबा हमयरूं ५ श्री० ।।
ततः पूर्वे कोणे मिथुनत्रटांबालार्कवर्णं ध्यात्वा ५ समयरूं
परगुर्वानंदनाथ मंगलापरांबा समयरूं ५ श्री० ।। समयरूं
पराधिकारगुर्वानंदनाथ कौशलापरांबा समयरूं ५ श्री० ।।
समयरूं पूंज्यगुर्वानंदनाथ समानापरांबा समयरूं ५ श्री० ।।
इति वायव्यक्रमरश्मीन्विन्यस्य पुनरेक विद्यया देवदेव्यौ विन्यस्य संपूज्य
स्वाधिष्ठाने तैजस क्रममारभेत् ।। इति वायव्य हंसेश्वरक्रमः ।।
ननु अनाहतचक्रे वायव्य हंसेश्वरक्रममभिधायक्रम प्राप्तं
मणिपूरकचक्रं विहाय स्वाधिष्ठानचक्रेऽतैजससंवर्तेश्वर रश्मि
स्मरणं कुर्यादिति यदुक्तं तत्कमुपपन्नमिति चेत् ।। सत्यं ।।
अनाहतचक्रानंतरं मणिपूरकचक्रमेव क्रमप्राप्तं भवति ।।
महीं मूलाधारेकमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने इति
स्वाधिष्ठानचक्रमेव वह्निस्थानत्वेन प्रतिपाद्यान्यत्रापि तव
स्वाधिष्ठाने हुतवहमधिष्ठाय
प्. १३६ब्)
निरतं तमीडे संवर्तं जननिमहंती तां च समयामिति
सौंदर्यलहर्यां श्रीशंकराचार्यैः षडन्वय शांभवक्रम कथनेपि
समाम्नातत्वात् ।। भूतक्रमेण चक्रक्रमे बाधित इति ।।
अथ तैजससंवर्तेश्वरक्रम ।।
तत्र स्वाधिष्ठानं चक्रे संवर्तेश्वरमंत्रस्य क्ष्रामिति सप्तमं बीजं
बालार्कनिभं ध्यात्वा तदुद्भवं भिन्नांजनप्रभं पंच * क्त्रं
पंचदशनेत्रं दशचरणं दशभुजं भूचक्रधवजवर
ब्रह्मकपालानि पारिजातपुष्पजपमालापुस्तकाभयटंकांश्च
दक्षिणवामकरेषु दक्षोर्ध्ववामोर्ध्वादिक्रमतो दधानं
दंष्ट्राकरालं वेषविसेषायबद्धोर्ध्वकेशं षोडशवर्षीयं
रत्नसर्पास्थिभूषणं सर्वालंकारशोभितं पंचवक्त्रे रुद्रप्रेतासने
एकपादेन स्थितं तस्य वह्निस्वरूपनाभिपद्मप्राप्तपादांगुलीयकं
मुंडमालायुक्तं आंत्रनिबंद्धशवकरसंघातरचितमेखलं देवं
स्वात्मानं ध्यात्वा ।। करतलयोः ५ हं व्योमानंदनाथरजनीपरांबा
हं ५ श्री० ।। करपृष्ठयोः । ५ सं संविदानंदनाथ चितिपरांबा सं ५
श्री० ।। अंगुष्ठयोः ५ क्षं अहंकारानंदनाथ क्रोधिनीपरांबा क्षं ५
श्री० ।। तर्जन्योः ५ मं बुध्यानंदनाथ कुलवागीश्वरीपरांबा मं ५
श्री० ।। मध्यमयोः ५ लं ऋध्यानंदनाथ मातृकापरांबा लं ५ श्री० ।।
अनामिकयोः ५ वं अमृतानंदनाथ देवद्रवीपरांबा वं ५ श्री० ।।
कनिष्ठिकयोः ५ यं अचलानंदनाथ चलांपरांबा यं ५ श्री० ।।
करतलयोः ५ रं दीप्तानंदनाथ ज्वालिनीपरांबा रं ५ श्री० ।।
करपृष्ठयोः ५ ऊं प्रकृतीशानंदनाथ प्रकृतिपरांबा ऊं ५ श्री० ।। इति
करन्यासः ।।
अथ षडंगन्यासः ।।
तत्र ५ हं सं विशुद्धानंदनाथ शंखिनीपराबा हं सः ५
प्. १३७अ)
हृदयाय नमः ।। ५ क्षं मं प्राणानंदनाथ योगेश्वरीपरांबा मं
क्षं ५ शिरसे स्वाहा ।। ५ लं वं ज्ञानानंदनाथ बिदुंपरांबा वं
लं ५ शिखायै वषट् ।। यं रं व्यापकानंदनाथ इंधिकापरांबा रं
यं ५ कवचाय हुं ।। ५ ऊं सुरानंदनाथ प्रीतवतीपरांबा ऊं ५
नेत्रत्रयाय वौषट् ।। ५ अं अघोरानंदनाथ अघोरेश्वरीपरांबा अं ५
अस्त्राय फट् ।। इति षडंगन्यासः ।।
अथ वक्त्रन्यासः ।।
तत्र पश्चिमवक्त्रे ५ हं सं ५ कालवक्त्रानंदनाथ कालरात्रीपरांबा
सं हं ५ श्री० ।। उत्तरवक्त्रे ५ क्षं मं रौद्रवक्त्रानंदनाथ
संहारिणीपरांबा मं क्षं ५ श्री० ।। दक्षिणवक्त्रे ५ लं वं
विश्वविग्रहानंदनाथ दहनीपरांबा वं लं ५ श्री० ।। पूर्ववक्त्रे ५ यं
रं प्रकाशानंदनाथ ज्योतिःपरांबा रं यं ५ श्री० ।। उर्ध्ववक्त्रे ५
ऊं हर्षानंदनाथ अमृतवाहिनीपरांबा ऊं ५ श्री० ।। परवक्त्रे ५ अं
अमरानंदनाथ चितिपरांबा अं ५ श्री० ।। इति वक्त्रन्यासः ।। इति शैवं
न्यासं विधायशाक्तन्यासं कुर्यात् ।।
मूलाधारस्थ योनिमध्ये । ह्स्फेमिति चतुर्थं प्रणवं रक्तवर्णं विचिंत्य
तत्प्रभापटलसमुद्भूतां देवीं रक्तवर्णां हास्ययुक्त षड्वक्त्रां
द्वादशभुजां दश * क्त्रां विंशंतिभुजां वा विशंतिवक्त्रां
चत्वारिंशद्भुजां वा शतवक्त्रां द्विशतभुजां वा प्रतिवक्त्रं
स्फुरदादित्य सकाशलोचनत्रय भूषितां
शूलकपालबाणचापखट्वांगांकुशपाशशंखचक्रगदारत्न-खड्ग
डिंडिमडमरुवज्रघंटात्रिखंडशक्तिशल्पकुंत
सर्पजपमालाख्यान्यायुधानि यथायथं दधानां संवर्त्तेश्वरीं
स्वाभेदेन ध्यात्वा ।।
प्. १३७ब्)
कनिष्ठयोः ।।
५ ऐं नित्ये भगवति ह्स्फ्रें कुलेश्वरी० ५ नमः ।। अनामयोः ।। ५ ह्रां ह्रूं
ह्रीं ह्वां ह्वीं ह्रूं ह्यै हौं ऽऽन ञ न ण मे ५ नमः ।। मध्यमयोः ५
क्ष्रां क्ष्रूं क्ष्रीं क्ष्रः श्रीं फट् ह्स्रौं फ्रें ५ नमः ।। तर्जन्योः ५
अघोरमुखी कुब्जिकायै ५ नमः ।। अंगुष्ठयोः ५ ख्त्रां छ्रूं छ्रीं घोरे
अघोरे ५ नमः ।। करतलकरपृष्ठयोः ५ यं रं लं वं हं सं किणि किणि
महाकिणि किणि विच्चे० ।। नमः ।। इति करन्यासः ।।
अथ तैरेवमंत्रैः षडंगन्यासः पुनरेतैरेव मंत्रैः
पश्चिमादिवक्त्रन्यासः ।।
अथ दशवक्त्रन्यासः ।।
तत्र पश्चिमवक्त्रे ५ ऐं नित्ये भगवति ५ नमः । उत्तरवक्त्रे ५ ह्स्फें कुलेश्वरी
५ नमः ।। दक्षिणे ५ ह्रां ह्रूं ह्रीं ह्लां ह्वीं ह्रूं ह्यैं हौं ५
नमः ।। पूर्ववक्त्रे ५ ऽऽन ञ ण न मे ५ नमः ।। वायव्ये ५ क्ष्रां क्ष्रूं
क्ष्रीं क्ष्रः क्ष्रं श्रीं फट् ह्स्रौं फ्रें ५ नमः ।। नैर्-ऋतिवक्त्रे ५
अघोरमुखी कुब्जिकायै ५ नमः । ईशानवक्त्रे ५ छ्रां छ्रूं छ्रीं ५ नमः
।। आग्नेये ५ घोरे अघोरे ५ नमः ।। उर्ध्ववक्त्रे ५ यं रं लं वं हं सं ५
नमः ।। परवक्त्रे ५ किणि किणि महाकिणि विच्चे ५ नमः ।।
अथ विशंतिवक्त्रन्यासः ।।
तत्र पश्चिमाद्यवक्त्रे ५ ऐं नित्ये ५ नमः । द्वितीयवक्त्रे ५ भगवति ५ नमः ।।
उत्तराद्यवक्त्रे ५ ह्स्फ्रे ५ नमः ।। द्वितीय ५ कुलेश्वरी ५ नमः ।।
दक्षिणाद्यवक्त्रे ५ ह्रां ह्रूं ह्रीं ह्लां ५ नमः ।। द्वितीय ५ ह्वीं ह्रूं
ह्यैं हौं ५ नमः ।। पूर्वाद्यवक्त्रे ५ ऽऽन ञ ण ५ नमः । द्वितीय ५ नमे ५
नमः ।। वायव्याद्यवक्त्रे ५ क्ष्रां क्ष्रुं क्ष्रीं क्ष्रः क्ष्रं श्रीं ५ नमः
।। द्वितीये ५ फट् ह्स्रौं फ्रें ५ नमः । नैर्-ऋत्याद्यवक्त्रे ५ अघोरमुखि ५
नमः । द्वितीये ५ कुब्जिकायै ५ नमः ।।
प्. १३८अ)
ईशाव्रवक्त्रे ५ छ्रां छ्रूं ५ नमः ।। द्वितीये ५ छ्रीं ५ नमः ।।
आग्नेयाद्यवक्त्रे ५ घोरे ५ नमः ।। द्वितीये ५ अघोर ५ नमः ।। ऊर्ध्वाद्यवक्त्रे ५
यं रं लं ५ नमः ।। द्वितीये ५ वं हं सं ५ नमः ।। पराद्यवक्त्रे ५ किणि
किणि नमः ।। द्वितीये ५ महाकिणि विच्चे ५ नमः ।। इति विंशतिवक्त्रन्यासः ।।
अथ शतवक्त्रन्यासः ।।
तत्र दशवक्त्रोक्तन्यासपदान्येव दशवक्त्रन्यासस्थानेषु दश कृत्वः
पुनन्यसेदिति शतवक्त्रन्यासः ।।
अथ मूलादिब्रह्मरंध्रांतं तत्तेजोरूपां संवर्त्तेश्वरीं ध्यात्वा
पूर्ववद्देवेन सह संयोज्वशिरः पीठे मानसोपचारैः संपूज्य ततस्तं
परितः शिरसि षट्कोणं विभाव्य तस्य नैर्-ऋत्यकोणे रश्मिमिथुनपंचकं
पीतवर्णं ध्यात्वा ५ सह्लां ५ परापरानंदनाथखेचरी परांबा स
ह्लां ५ श्रीपादुकां० ।। ५ स ह्लां परानंदनाथो छुष्मापरांबा ५ श्री०
।। ५ सह्लां परमानंदनाथ गुह्यकाली परांबा स ह्लां ५ श्री० ।। ५ स
ह्लां अपरानंदनाथ संवर्त्तापरांबा स ह्लां ५ श्री० ।। ५ स ह्लां
चिदानंदनाथ नीलकुब्जिकापरांबा स ह्लां ५ श्री० ।।
ततः पश्चिमकोणे मिथुन न पंचकं कृष्णवर्णं ध्यात्वा ।।
स ह्रीं अघोरानंदनाथ गंधापरांबा श्वीं ५ श्री० ।। ५
श्वीं डामराघोरानंदनाथ रसापरांबा श्वीं ५ श्री० ।। ५ श्वीं
ललितानंदनाथ रूपापरांबा श्वीं ५ श्री० ।। ५ श्वीं स्वस्थानंदनाथ
स्पर्शापराबांबा श्वीं ५ श्री० ।। ५
प्. १३८ब्)
ततो वायव्यकोणे मिथुनषट्कं कृष्णवर्णं ध्यात्वा ५ श्रूं
आनंदानंदनाथ कृष्ण डाकिनीपरांबा श्रूं ५ श्री० ।। ५ श्रूं
अरण्यानंदनाथ रक्तडाकिनीपरांबा श्रूं ५ श्री० ।। श्रूं
प्रभ्वानंदनाथ चक्रडाकिनीपरांबा श्रूं ५ श्री० ।। ५ श्रूं
योगानंदनाथ पद्मडाकिनीपरांबा श्रूं ५ श्री० ।। ५ श्रूं
अतीतानंदनाथ कुब्जडाकिनीपरांबा श्रूं ५ श्री० ।। ५ श्रूं
पादानंदनाथ प्रचंडडाकिनीपरांबा श्रूं ५ श्री० ।। अथैशानकोणे
मिथुनचतुष्करक्तवर्णं ध्यात्वा ५ श्यैं योगेश्वरानंदनाथ
चंडीपरांबा श्यैं ५ श्री० ।। ५ श्यै पीठेश्वरानंदनाथ
कौलिनीपरांबा श्यैं ५ श्री० ।। ५ श्यैं कुलकौलेश्वरानंदनाथ
पावनीपरांबा श्यैं ५ श्री० ।। ५ श्यैं अजकुब्जेश्वरानंदनाथ
महासमयापरांबा सह्यैं ५ श्री० ।।
अथ पूर्वकोणे मिथुनपंचकं शुक्लवर्णं ध्यात्वा ५ शौं
श्रीकंठानंदनाथ कामांपरांबा शौं ५ श्री० ।। ५ शौं
अनंतानंदनाथ चर्चिकापरांबा शौं ५ श्री० ।। ५ शौं
शंकरानंदनाथ ज्वालापरांबा शौं ५ श्री० ।। ५ शौं
पिंगलानंदनाथ करालीपरांबा शौं ५ श्री० ।। ५ शौं
सदानंदनाथ कुब्जिकापरांबा शौं ५ श्री० ।।
प्. १३९अ)
अथाग्नेयकोणे मिथुनषट्कं स्फटिकवर्ण ध्यात्वा
५ श्रः कालगुर्वानंदनाथपरापरांबा श्रः ५ श्री० ।। ५ श्रः
सिद्धगुर्वानंदनाथ शांत्यतीतापरांबा श्रः ५ श्री० ।। ५ श्रः
रत्नगुर्वानंदनाथ शांतिपरांबा श्रः ५ श्री० ।। ५ श्रः
शिवगुर्वानंदनाथ विद्यापरांबा श्रः ५ श्री० ।। ५
मैनाकगुर्वानंदनाथ प्रतिष्ठापराबा श्रः ५ श्री० ।। ५ श्रः
समयगुर्वानंदनाथ निवृत्तिपरांबा श्रः ५ श्री० ।। इति रश्मिक्रमं
विन्यस्य पुनर्देवदेव्यौ मध्ये तदेक विद्यया संपूज्याप्यक्रमद्वीपेश्वर
रश्मि स्मरणं कुर्यात् ।।
तं मणिपूरकचक्रे हसब्रूं इति द्विपेश्वर कूटं शुक्लवर्णं ध्यात्वा
तदुद्भवं देवं श्यामवर्णं द्वादशभुजं वा
बाणचापशुलचक्रखड्वांकुशवरान्
खट्वांगपरशुगदापाशाभयानि दक्षिणवामबाहुभिर्दधानं
बाहुद्वयेन गजचर्म च बिभ्राणं विष्णुमहाप्रेतासनस्थं
दंष्ट्राकरालं भयानकाभरणं द्वीपेश्वरं स्वाभेदेन ध्यायेत् ।।
अत्र बाणचापावेकहस्ते वरशब्दोकुश विशेषणं द्वादशभुजत्वादिति ।।
अथ अंगन्यासः ।।
तद्यथा ।। कनिष्ठयोः ५ ह्स्व्रां हृदयाय नमः ।। अनामिकयोः ५ ह्स्व्रां
शिरसे स्वाहा ।।
प्. १३९ब्)
मध्यमयोः ५ ह्स्व्रूं ५ शिखायै वषट् । तर्जन्योः ५ ह्स्व्रैं ५ कवचाय हुं
।। अंगुष्ठयोः ५ ह्स्व्रौं ५ नेत्रत्रयाय वौषट् ।। करतलकरपृष्ठयोः ५
ह्स्व्रंः ५ अस्त्राय फट् ।। इति करन्यासः ।।
अथैतैरेवमंत्रैर्हृदयादिषडंगन्यासः ।।
पुनः पश्चिमवक्त्रे ५ ह्स्व्रां ५ नमः इत्यादि वक्त्रषट्केपि प्राग्वन्यसेत् ।।
ततो मूलाधारे देवीमंत्रस्य चतुर्थमक्षरं टिकारं शुक्लवर्णं
विभाव्यतदुद्भूतां देवी श्यामवर्णां विष्णुशवासनस्थां
अष्टभुजां शंखचक्रगदापद्मशूलपाशवराभयानिदथतां
द्वीपेश्वरीं स्वाभेदेन ध्यात्वा कनिष्ठयोः ५ टां ५ हृदयाय नमः ।।
इत्यादि तलांतं प्राग्वत् षट्दीर्घयुक्त टकारेण करन्यासं कृत्वा हृदयादि
षडंगेष्वपि टां टीं । इत्यादि षड्भिः षडंगन्यासं विद्याय
तथैवक्त्रन्यासं च कृत्वा मूलाधारादि ब्रह्मरंध्रांतं तेजोरूपां
देवीं ध्यायंस्तत्तेजोमणि पूरके स्थिरीकृत्य सावयवा देवीं देवेन
सहसंयोज्य देवदेवीरूपमात्मानं ध्यायन् युगपत् ५ ह्स्व्रां टां इत्यादि
प्राग्वत्करषडंगवक्त्रन्यासान् कृत्वा ब्रह्मरंध्रें पुनर्देवदेव्यौ
ध्यात्वा
प्. १४०अ)
सिरशि तं परितः षट्कोणं विभाव्य तस्य पश्चिमकोणे रश्मि
मिथुनचतुष्कं पीतवर्णं ध्यात्वा ५ लं सत्यानंदनाथ निवृत्तिपरांबा
लं ५ श्री० ।। लं वामानंदनाथ श्रीपरांबा लं ५ श्री० ।। ५ लं
अघोरानंदनाथ पद्मापरांबा लं ५ श्री० ।। ५ लं
पुरुषानंदनाथांबिका परांबा लं ५ श्री० ।।
ततः वायव्यकोणे रश्मिमिथुनचतुष्कं श्यामवर्णं ध्यात्वा ५ वं
अनंतानंदनाथ निवृत्तिपरांबा वं ५ श्री० ।। ५ वं अनाथानंदनाथ
प्रतिष्ठापरांबा वं ५ श्री० ।। ५ वं अनाश्रितानंदनाथ विद्यापरांबा
वं श्री० ।। ५ वं अचिंत्यानंदनाथ शातिपरांबा वं ५ श्री० ।।
तत ईशानकोणे मिथुनषट्क रक्तवर्णं ध्यात्वा ५ रं
खेचरानंदनाथामापरांबा ५ श्री० ।। ५ रं तीव्रानंदनाथ
गंगापरांबा रं ५ श्री० ।। ५ रं मणिवहानंदनाथ सरस्वतीपरांबा
रं ५ श्री० ।। ५ रं ज्वालेश्वरानंदनाथ यमुनापरांबा रं ५ श्री० ।। ५
रं अंबुवाहानंदनाथ कमलापरांबा रं ५ श्री० ।। ५ रं
तेजीशानंदनाथ पार्वतीपरांबा रं ५ श्री० ।।
ततः पूर्वकोणे मिथुनचतुष्कं कृष्णवर्णं ध्यात्वा ५ यं
विद्यावागीश्वरानंदनाथ चित्रापरांबा यं ५ श्री० ।। ५ यं
चतुर्विधेश्वरानंदनाथ कमलापरांबा यं ५ श्री० ।। ५ यं
उमागंगेश्वरानंदनाथ मन्मथवेगापरांबा यं ५ श्री० ।। ५
प्. १४०ब्)
यं श्रीकृष्णेश्वरानंदनाथ रसापरांबा यं ५ श्री० ।।
ततः आग्नेयकोणे मिथुनपंचकं शुक्लवर्णं ध्यात्वा ५ हं
श्रीकंठानंदनाथ लयापरांबा हं ५ श्री० ।। ५ हं
अनंतानंदनाथ वसंतापरांबा हं ५ श्री० ।। ५ हं
शंकरानंदनाथ रत्नमेखलापरांबा हं ५ श्री० ।। ५ हं
पिंगलानंदनाथ यशोवतीपरांबा हं ५ श्री० ।। ५ हं
सदाख्यानंदनाथ हंसापरांबा हं ५ श्री० ।।
ततो नै-ऋत्यकोणे मिथुनत्रयं रक्तवर्णं ध्यात्वा ५ सं
परदिव्यौघानंदनाथ वामापरांबा सं ५ श्री० ।। ५ सं
परदिव्यौघानंदनाथ ज्येष्ठापरांबा सं ५ श्री० ।। ५ सं
पीठौघानंदनाथ रौद्रीपरांबा सं ५ श्री० ।।
ततः मध्ये देव देव्योरेक विद्ययातौ मानसैरुपचारैः संपूज्य तन्मयं
स्वात्मानं ध्यायेदित्याप्यद्वीपेश्वर क्रमः ।।
अथ पार्थिवनवात्मेश्वर क्रमः ।।
तत्र मूलाधारे हसक्षमलवरयूं इति नवात्मेश्वर कूटं रक्तवर्णं
ध्यात्वा तदुद्भवं देवं भिन्नांजन च यं प्रभं पंचवक्त्रं
त्रिनेत्रं दशचरणं दशभुजं शूलचक्रध्वजवर ब्रह्मकपालानि
पारिजातपुष्प जपमाला पुस्तकाभय टंकांश्च दक्षवामयोर्दधानं
दंष्ट्राकरालं वेष विशेषायबद्धोर्ध्वकेशं षोडशवार्षिकं
रत्नसर्पास्थि भूषणं ब्रह्मप्रेतासनस्थं नवात्मेश्वरं स्वाभेदेन
ध्यात्वा तद्बीजाक्षरैस्त्र्यंगन्यासं कुर्यात् ।। तद्यथा ।।
प्. १४१अ)
कनिष्ठयोः । ५ हं सं हृदयाय नमः ।। अनामयोः । क्षं मं ५ शिरसे
स्वाहा ।। मध्यमयोः ५ लं वं ५ शिखायै वषट् ।। तर्जन्योः ५ रं यं ५
कवचाय हुं ।। अगुष्ठयोः ५ ऊ ५ नेत्राय वौषट् ।। करतलकरपृष्ठयोः ५ अं
५ अस्त्राय फट् ।। इति करन्यासः ।।
एतैरेवमंत्रैः प्राग्वत् षडंगवक्त्रन्यासौ कुर्यात् ।।
ततो देवीमंत्रस्य सप्तमं बीजं ह्स्फ्रेमिति चतुर्थ प्रणवात्मकं कूटं
मूलाधारे रक्तवर्णं ध्यात्वा तदुद्भूतां देवीं नीलवर्णां
कुब्जरूपां पश्चिमोत्तरदक्षिणपूर्वेशानोर्ध्वगत पीतशुक्लकृष्ण
कृष्णशुक्लरक्तवर्ण षड्वक्त्रां द्वादशभुजां
शूलचक्रवज्रांकुशशरकर्त्तरीः स पंकजनीलोत्पलं
समुंडखट्वांगं घटांपुस्तकं धनुः कपालं च दक्षवामेषु
करेषुरेदनां प्रतिमुखं दंष्ट्राकरालां सर्पास्थि रत्नभूषितां
मुंडमालाधरां रौद्ररूपामष्टाविंशति वर्षीयां
बद्धोर्ध्वकेशीं व्याघ्रचर्मपरीधानां सिंहचर्मोत्तरीयां
दिव्यांभरणभूषितां महाट्टहासां ब्रह्मप्रेतासनस्थां देवीं
स्वाभेदेन ध्यात्वा कनिष्ठयोः ५ ह्स्फ्रां नमो भगवती कमलायै
हसफ्रां ५ हृदयाय नमः ।। अनामिकयोः ५ ह्स्फ्रीं कुब्जिकायै
कुलदीपिकायै ह्स्फ्रीं ५ सिरसे स्वाहा ।। मध्यमयोः ५ ह्स्फ्रूं ह्रां ह्रूं
ह्रीं बर्बरायै ह्स्फ्रूं ५ शिखायै वषट् ।। तर्जन्योः ५ ह्स्फ्रैं ऽऽन ञ ण न
मे
प्. १४१ब्)
अघोरमुखी बहुरूपायै ह्स्फ्रैं ५ कवचाय हुं ।। अंगुष्ठयोः ५ ह्स्फ्रौं
छ्रां छ्रुं छ्रीं महातारायै ह्स्फ्रौं ५ नेत्राय वौषट् ।।
करतलपृष्ठयोः ५ ह्स्फ्रः किणि किणि विणि विणि विच्चे ह्स्फ्रः ५ अस्त्राय फट् ।।
एवं प्राग्वत् षडंगवक्त्रन्यासौ कृत्वा देवीं तेजोरूपां मूलादि
ब्रह्मरंध्रांतं ध्यात्वा देवेन संयोज्य देवदेवीरूपमात्मानं
ध्यायन् पंचप्रणवपुटितैर्हसक्षमलवरयां ह्स्फ्रां
इत्यादि षट्दीर्घजनितैर्बीजद्वयस्य षड्भिर्मंत्रैः
करषडंगवक्त्रन्यासान्विधाय मूलाधारे देवदेव्यौ ध्यात्वा ५ शिरः
पीठे चरणद्वयमध्येपि पुनर्देवदेव्यौ ध्यात्वा तौ परितः षट्कोणं
विभाव्य तस्य वायव्यकोणे मिथुनचतुष्कं पीतवर्णं ध्यात्वा ५
लमयरूं ओड्याणमहापीठ उड्डेश्वरानंदनाथ उड्डेश्वरीपरांबा
लमयरूं ५ श्री० ।। वमयरूं जालंधरमहापीठ जालेश्वरानंदनाथ
जालेश्वरीपरांबा वमयरूं ५ श्री० ।। ५ रमयरूं पूर्णगिरिमाहापीठ
पूर्णेश्वरानंदनाथ पूर्णेश्वरीपरांबा रमयरूं ५ श्री० ।। ५
यमयरूं कामरूपमहापीठ कामेश्वरानंदनाथ
कामेश्वरीपरांबा यमयरूं ५ श्री० ।।
तत ईशानकोणे मिथुनपंचकं श्याम ध्यात्वा ५ ग्लूं
श्रीकंठानंदनाथ गगनापरांबा ग्लूं ५ श्री० ।। ५ स्लूं
अनंतानदनाथ
प्. १४२अ)
स्वर्गापरांबा स्लूं ५ श्री० ।। ५ म्लूं शंकरानंदनाथ
मर्त्यापरांबा म्लु ५ श्री० ।। ५ प्लूं पिंगलानंदनाथ पातालपरांबा
प्लूं ५ श्री० ।। ५ न्लूं सद्योजातानंदनाथ नागापरांबा न्लूं ५ श्री० ।।
अथ पूर्वकोणे मिथुनषट्कं कृष्णवर्णं ध्यात्वा ५ डमयरूं
आनंदानंदनाथ डाकिनीपरांबा डमयरूं ५ श्री० ।। ५ रमयरूं
आवल्यानंदनाथ राकिनीपरांबा रमयरूं ५ श्री० ।। ५ लमयरूं
प्रज्ञानंदनाथ लाकिनीपरांबा लमयरूं ५ श्री० ।। ५ कमयरूं
योगानंदनाथ काकिनीपरांबा कमयरूं ५ श्री० ।। ५ समयरूं
अतीतानंदनाथ साकिनीपरांबा समयरूं ५ श्री० ।। ५ हमयरूं
पादानंदनाथ हाकिनीपरांबा हमयरूं ५ श्री० ।।
ततोग्निकोणे मिथुनचतुष्कं रक्तवर्णं ध्यात्वा ५ लं
आधारारीशानंदनाथ रक्तापरांबा लं ५ श्री० ।। ५ वं
चक्रीशानंदनाथ चंडीपरांबा वं ५ श्री० ।। रं
कुरंगीशानंदनाथ करालापरांबा रं ५ श्री० ।। ५ यं
मदंघ्रीशानंदनाथ महोछुष्मापरांबा यं ५ श्री० ।।
ततो नैर्-ऋतिकोणे मिथुनपंचकं कृष्णवर्णं ध्यात्वा ५ गं
विमलानंदनाथ मातंगीपरांबा गं ५ श्री० ।। सं
सर्वज्ञविमलानंदनाथ पुलिंदीपरांबा सं ५ श्री० ।। ५ मं
योगविमलानंदनाथ शबरीपरांबा मं ५ श्री० ।। ५ पं
सिद्धिविमलानंदनाथ
प्. १४२ब्)
चंपकपरांबा पं ५ श्री० ।। ५ नं समयाविमलानंदनाथ
कुलाकिकापरांबा नं ५ श्री० ।।
ततः पश्चिमकोणे मिथुनचतुष्कं सूर्यप्रभं ध्यात्वा ५ लमयरूं
मित्रीशानंदनाथ कुब्जिकापरांबा लमयरूं ५ श्री० ।। वमयरूं
उड्डीशानंदनाथ लघ्वीपरांबा वमयरूं ५ श्री० ।। ५
रमयरूं षष्ठीशानंदनाथ कुलेश्वरीपरांबा रमयरूं ५ श्री० ।। ५
यमयरूं चर्यानंदनाथ कुब्जेश्वरीपरांबा यमयरूं ५ श्री० ।।
इति षडन्वय शांभवरश्मिक्रमः ।।
अत्र षडन्वयरश्मयः सर्वे वराभयकरा मदाघूणितलोचनाध्येयाः ।।
ततो मध्ये देवदेव्यौरेकविद्यया तौ मानसैरुपचारैः संपूज्य
तदात्मानंमात्मानं ध्यात्वा षडन्वय शांभवाधिदेवता
श्रीमहात्रिपुरसुंदरीरूंपं निजवपुर्ज्योतिमयं ध्यायेदिति
शांभवाख्योर्ध्वाम्नाय न्यासः ।।
श्रीविद्यानंदनाथेन शिवयोः प्रिये सूनुना ।।
कृते सौभाग्यरत्नाब्धौ तरंगो ।। १२ ।। द्वादशोगमत् ।। १ ।।
इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वांते वासिना
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे द्वादशस्तरंगः ।। १२

प्. १४३अ)
इत्थं षष्ठ्युत्तरत्रिशत शांभवरश्मीन्विन्यस्य
मूलाधाराद्याज्ञापर्यंतेंषु पृथिव्यादि मानसांतेषु षट्सु चक्रेषु
शांभवादिभ्यः सारतरायाः श्रीविद्यायाः षष्ठ्युत्तरं त्रिशतं
रश्मीन्मनसा भावयन् न्यसेत् ।।
तत्र मूलाधारे पार्थिवचक्रे मूलविद्यां तेजोरूपां विभाव्य
पुनर्मूलादि ब्रह्मरंध्रांतं तथैव ध्यात्वा ब्रह्मरंध्रे
चरणद्वयमध्ये लयं । नीत्वा चरणद्वय सामरस्यरूपनिर्वाण
चरणोद्भवानंद तेजोमयी ध्यानोक्तरूपां श्रीमहात्रिपुरसुंदरी
ध्यात्वा आज्ञाचक्रं समानीय तत्र मानसदेवता परेश्वर
परेश्वरीरूपत्वेन ध्यात्वा पंचतारसंपुटित मूलविद्यामुच्चार्य
परेश्वरपरेश्वरीरूप श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजयामीति
मंत्रेण मानसैरूपचारैः संपूज्य पुनस्तन्मिथुनमेव सकामेश्वर
श्रीमहात्रिपुरसुंदरीरूपेण ध्यात्वा केवलमूलविद्यया संपूज्य पुनः
कंठविशुद्धिचक्रमानीय तत्र तद्देवतात्मकत्वेन ध्यात्वा
पूर्ववत्संपूज्यानाहत चक्रं नीत्वा तत्रापि त्तद्देवतारूपेण ध्यात्वा
मानसैरुपचारैः संपूज्य ।।
प्. १४३ब्)
ध्यात्वा मानसैरुपचारैः संपूज्य ।।
ततः स्वाधिष्ठानचक्रं नित्वा तत्रापि तथैव ध्यात्वा संपूज्य
पुनर्मणिपूरकचक्रं नीत्वा तत्रापि तथैव ध्यात्वा संपूज्य ततो
मूलाधारचक्रं नीत्वा तत्रापि तथैव ध्यात्वा संपूज्य
पार्थिवचक्राधिदेवतायाः
श्रीमहात्रिपुरसुंदर्याःस्तनुसंभवाः षट्पंचाशद्देवताः
पार्थिवचक्रे मनसा भावयन्न्यसेत् ।। तद्यथा ।।
मूलाधारे चतुरस्रं पीतवर्णं लं बीजयुक्तं अष्टवज्रोपेतं
पृथिवीमंडलं ध्यात्वा तत्र षट्पंचाशद्दलमंडितं सरोरुहं
विचिंत्य तन्मध्ये देवीं ध्यायन् पूर्वदलादि
प्रादक्षिण्येनोद्वाममणिभूषितान् मूलदेवीवर्णान्
चतुर्भुजांस्त्रिपुरसुंदर्यादि चर्यानाथां तांन् षट्पंचाद्रश्मीन्
भावयन्न्यसेत् ।। ओं ऐं ह्रीं श्रीं त्रिपुरसुंदरी श्रीपादुकां पूजयामि
नमः ।। ४ त्रिपुरसुंदर श्री० ।। ४ हृदयदेवी श्री० ।। ४ हृदयदेव श्री० ।। ४
शिरोदेवी श्री० ।। ४ शिरोदेव श्री० ।। ४ शिखादेवी श्री० ।। ४ शिखादेव श्री० ।।
४ कवचदेवी श्री० ।। ४ कवचदेव श्री० ।। ४ नेत्रदेवी श्री० ।। ४ नेत्रदेव श्री० ।।
४ अस्त्रदेवी श्री० ।। ४ अस्त्रदेव श्री० ।। ४
प्. १४४अ)
४ कामेश्वरी श्री० ।। ४ कामेश्वर श्री० ।। ४ भगमालिनी श्री० ।। ४ भगमाली
श्री० ।। ४ नित्यक्लिन्ना श्री० ।। ४ नित्यक्लिन्न श्री० ।। ४ भेरुंडा श्री० ।। ४ भेरुंड
श्री० ।। ४ वह्निवासिनी श्री० ।। ४ वह्निवासी श्री० ।। ४ महावज्रेश्वरी श्री० ।। ४
महावज्रेश्वर श्री० ।। ४ शिवदूती श्री० ।। ४ शिवदूत श्री० ।। ४ त्वरिता श्री० ।। ४
त्वरित श्री० ।। ४ कुलसुंदरी श्री० ।। ४ सर्वमंगल श्री० ।। ४ ज्वालामालिनी श्री० ।।
४ जालामाली श्री० ।। ४ चित्रा श्री० ।। ४ चित्र श्री० ।। ४ महानित्या श्री० ।। ४ महानित्य
श्री० ।। ४ परेश्वरी श्री० ।। ४ परेश्वर श्री० ।। ४ मित्रीशमयी श्री० ।। ४
मित्रीशमय श्री० ।। ४ षष्ठीशमयी श्री० ।। ४ षष्ठीशमय श्री० ।। ४
उड्डीशमयी श्री० ।। ४ उड्डीशमय श्री० ।। ४ चर्यानाथमयी श्री० ।। ४
चर्यानाथमय श्री० ।। इति पार्थिवरश्मीन्मनसा विस्य मणिपूरकचक्रे
जलमंडलं शुक्लवर्णं अर्द्धचंद्राकारं वं बीजयुक्तं
पद्मलांछितं ध्यात्वा तन्मध्ये द्विपंचाशद्दलमंडितं पद्मं
विभाव्य तत्कर्णिकायां श्रीमहात्रिपुरसुंदरी ध्यायन्
जलचक्रेश्वर्यास्तस्या
देहोद्भूतास्तत्समानरूपाश्चतुर्भुजालोपामुद्रामययादि महेश्वरां ता
द्विपंचाशद्देवता पूर्वदलादि प्रादक्षिण्येन मनसा न्यसेत् ।। तद्यथा ।। ४
लोपामुद्रामयी श्री० ।। ४ लोपामुद्रामय श्री० ।। ४ अगस्त्यमयी श्री० ।।
प्. १४४ब्)
४ अगस्त्यमय श्री० ।। ४ कालतापनमयी श्री० ।। ४ कालतापनमय श्री० ।। ४
धर्माचार्यमयी श्री० ।। ४ धर्माचार्यमय श्री० ।। ४ मुक्तकेशीश्वरमयी
श्री० ।। ४ मुक्तकेशीश्वरमय श्री० ।। ४ दीपकलानाथमयी श्री० ।। ४
दीपकलानाथमय श्री० ।। ४ विष्णुदेवमयी श्री० ।। ४ विष्णुदेवमय श्री० ।। ४
प्रभाकरदेवमयी श्री० ।। ४ प्रभाकरदेवमय श्री० ।। ४ तेजोदेवमयी श्री० ।।
४ तेजोदेवमय श्री० ।। ४ मनोजदेवमयी श्री० ।। ४ मनोजदेवमय श्री० ।। ४
कल्याणदेवमयी श्री० ।। ४ कल्याणदेवमय श्री० ।। ४ श्री० ।। ४ रत्नदेवमयी
श्री० ।। ४ रत्नदेवमय श्री० ।। ४ वासुदेवमयी श्री० ।। ४ वासुदेवमय श्री० ।। ४
श्रीरामानंदमयी श्री० ।। ४ श्रीरामानंदमय श्री० ।। ४ अणिमासिद्धि श्री०
।। ४ अणिमासिद्ध श्री० ।। ४ लघिमासिद्धि श्री० ।। ४ लघिमासीद्ध श्री० ।। ४
महिमासिद्धि श्री० ।। ४ महिमासिद्ध श्री० ।। ४ ईशत्वसिद्धि श्री० ।। ४ ईशित्वसिध
श्री० ।। ४ वशित्वसिद्धि श्री० ।। ४ वशित्वसिद्ध श्री० ।। ४ प्राकाम्यसिद्धि श्री० ।। ४
प्राकाम्यसिद्ध श्री० ।। ४ भुक्तिसिद्धि श्री० ।। ४ भुक्तिसिद्ध श्री० ।। ४ इछा * द्धि
श्री० ।। ४ इच्छासिद्ध श्री० ।। ४ प्राप्तिसिद्धि श्री० ।। ४ प्राप्तिसिद्ध श्री० ।।
प्. १४५अ)
४ सर्वकामसिद्धि श्री० ।। ४ सर्वकामसिद्ध श्री० ।। ४ ब्राह्मी श्री० ।। ४ ब्राह्म
श्री० ।। ४ माहेश्वरी श्री० ।। ४ माहेश्वर श्री० ।। इति जलरश्मिक्रमः ।।
अथ स्वाधिष्ठानचक्रे वह्निचक्रं त्रिकोणं स्वस्तिकलांछितं रं बीजयुक्तं
कालाग्निकोटिसदृशं विभाव्य तन्मध्ये द्वाषष्ठिदलमंडितं सरोरुहं
ध्यात्वा तत्कर्णिकायां यथोक्तरूपां देवीं विभाव्यतां परितः
पूर्वादि प्रादक्षिण्येन दलेषु तदंगत्यं भवाः
कौमार्यादिबीजाकर्षणपर्यंताद्वाषष्ठिदेवताः न्यसेत् ।। तद्यथा ।। ४
कौमारी श्री० ।। ४ कौमार श्री० ।। ४ वैष्णवी श्री० ।। ४ वैष्णव श्री० ।। ४ वाराही
श्री० ।। ४ वाराह श्री० ।। ४ माहेंद्री श्री० ।। ४ माहेंद्र श्री० ।। ४ चामुंडा
श्री० ।। ४ चामुंड श्री० ।। ४ महालक्ष्मी श्री० ।। ४ महालक्ष्म श्री० ।। ४
सर्वसंक्षोभिणी श्री० ।। ४ सर्वसंक्षोभण श्री० ।। ४ सर्वविद्राविणी श्री० ।। ४
सर्वविद्रावण श्री० ।। ४ सर्वाकर्षिणी श्री० ।। ४ सर्वाकर्षण श्री० ।। ४
सर्ववशीकरणी श्री० ।। ४ सर्ववशीकरण श्री० ।। ४ सर्वोन्मोदिनी श्री० ।। ४
सर्वोन्मादन श्री० ।। ४ सर्वमहांकुशा श्री० ।। ४ सर्वमाहांकुश श्री० ।।
४ सर्वखेचरी श्री० ।। ४ सर्वखेचर श्री० ।। ४ सर्वबीजा श्री० ।।
प्. १४५ब्)
४ सर्वबीज श्री० ।। ४ सर्वयोनि श्री० ।। ४ सर्वयोनि श्री० ।। ४ सर्वत्रिखंडा श्री० ।। ४
सर्वत्रिखंड श्री० ।। ४ त्रैलोक्यमोहनचक्रस्वामिनी श्री० ।। ४
त्रैलोक्यमोहनचक्रस्वामी श्री० ।। ४ प्रकटयोगिनी श्री० ।। ४ प्रकटयोगी श्री० ।। ४
कामाकर्षिणी श्री० ।। ४ कामाकर्षण श्री० ।। ४ बुध्याकर्षिणी श्री० ।। ४
बुध्याकर्षण श्री० ।। ४ अहंकाराकर्षिणी श्री० ।। ४ अहंकाराकर्षण श्री० ।।
४ शब्दाकर्षिणी श्री० ।। ४ शब्दाकर्षण श्री० ।। ४ स्पर्शाकर्षिणी श्री० ।। ४
स्पर्शाकर्षण श्री० ।। ४ रूपाकर्षिणी श्री० ।। ४ रूपाकर्षण श्री० ।। ४
रसाकर्षिणी श्री० ।। ४ रसाकर्षण श्री० ।। ४ गंधाकर्षिणी श्री० ।। ४
गंधाकर्षण श्री० ।। ४ चित्ताकर्षिणी श्री० ।। ४ चित्ताकर्षण श्री० ।। ४
धैर्याकर्षिणी श्री० ।। ४ धैर्याकर्षण श्री० ।। ४ स्मृत्याकर्षिणी श्री० ।। ४
स्मृत्याकर्षण श्री० ।। ४ नामाकर्षिणी श्री० ।। ४ नामाकर्षण श्री० ।। ४
बीजाकर्षिणी श्री० ।। ४ बिजाकर्षण श्री० ।। ४ ।। इति वह्निचक्रे द्वाषष्ठि
रश्मिक्रम न्यासः ।।
ततो ऽनाहते वायुचक्रं कृष्णवर्ण षट्कोणाकारं बीजाधिष्ठीतं
ध्यात्वा तन्मधे चतुःपंचाशद्दलमंडितं कमलं विचित्य
तत्कर्णिकायां देवीं ध्यात्वा तां परितः पूर्वादि प्रादक्षिण्येन देवी
समानरूपा आत्माकर्षिण्यादि
प्. १४६अ)
सर्वसंपत्तिपूरणपर्यंताः चतुःपंचाशदेवताः न्यसेत् ।। तद्यथा ।। ४
आत्माकर्षिणी श्री० ।। ४ आत्माकर्षण श्री० ।। ४ अमृताकर्षिणी श्री० ।। ४
अमृताकर्षण श्री० ।। ४ शरीराकर्षिणी श्री० ।। ४ शरीराकर्षण श्री० ।। ४
सर्वाशापरिपूरकचक्रस्वामिनी श्री० ।। ४ सर्वाशापरिपूरकचक्रस्वामी श्री०
।। ४ गुप्तयोगिनी श्री० ।। ४ गुप्तयोगी श्री० ।। ४ अनंगकुसुमा श्री० ।। ४
अनंगकुसुम श्री० ।। ४ अनंगमेखला श्री० ।। ४ अनंगमेखल श्री० ।। ४
अनंगमदना श्री० ।। ४ अनंगमदन श्री० ।। ४ अनंगांकुशा श्री० ।। ४
अनंगांकुश श्री० ।। ४ अनंगमालिनी श्री० ।। ४ अनंगमाली श्री० ।। ४
सर्वसंक्षोभणचक्रस्वामिनी श्री० ।। ४ सर्वसंक्षोभणचक्रस्वामी श्री० ।। ४
गुप्ततरयोगिनी श्री० ।। ४ गुप्ततरयोगी श्री० ।। ४ सर्वसंक्षोभिणी श्री० ।। ४
सर्वसंक्षोभण श्री० ।। ४ सर्वविद्राविणी श्री० ।। ४ सर्वविद्रावण श्री० ।। ४
सर्वाकर्षिणी श्री० ।। ४ सर्वाकर्षण श्री० ।। ४ सर्वाह्लादिनी श्री० ।। ४ सर्वाह्लादी
श्री० ।। ४ सर्वसंमोहनी श्री० ।। ४ सर्वसंमोहन श्री० ।। ४ सर्वस्तंभिनी श्री०
।। ४ सर्वस्तंभ श्री० ।। ४ सर्वजंभिनी श्री० ।। ४ सर्वजंभन श्री० ।। ४ श्री० ।। ४
सर्ववशंकरी श्री० ।। ४ सर्ववशंकर श्री० ।। ४ सर्वरंजनी श्री० ।। ४
सर्वसंपत्तिपुरणी श्री० ।। ४
प्. १४६ब्)
सर्वसंपत्तिपुरण श्री० ।। इति वायुचक्रे चतुःपंचाशद्रश्मिन्यासः ।।
अथ विशुद्धिचक्रे कंठदेशे वृत्ताकारं स्वछं हं बीजाधिष्ठितं
आकाशमंडलं विचिंत्य तन्मध्ये द्वासप्ततिदलं कमलं विभाव्य
तत्कर्णिकायां प्राग्वद्देवीं ध्यात्वा तद्दलेषु प्रागादिपरितः
सर्वमंत्रमययादि कौलिपर्यंताः द्वासप्ततिदेवताः मूलदेव्याकाराः
ध्यायन्न्यसेत् ।। तद्यथा ।। ४ सर्वमंत्रमयी श्री० ।। ४ सर्वमंत्रमय श्री० ।। ४
सर्वद्वंद्वक्षयंकरी श्री० ।। ४ सर्वद्वंद्वक्षयंकर श्री० ।। ४
सर्वसौभाग्यदायक चक्रस्वामिनी श्री० ।। ४ सर्वसौभाग्यदायकचक्रस्वामी
श्री० ।। ४ संप्रदाययोगिनी श्री० ।। ४ संप्रदाययोगी श्री० ।। ४ सर्वसिद्धिप्रदा
श्री० ।। ४ सर्वसिद्धिप्रद श्री० ।। ४ सर्वसंपत्प्रदा श्री० ।। ४ सर्वसंपत्प्रदा
श्री० ।। ४ सर्वसंपत्प्रद श्री० ।। ४ सर्वप्रियंकरी श्री० ।। ४ सर्वप्रियंकर श्री०
।। ४ सर्वमंगलकारिणी श्री० ।। ४ सर्वमंगलकारी श्री० ।। ४ सर्वकामप्रदा
श्री० ।। ४ सर्वकामप्रद श्री० ।। सर्वदुःखं विमोचन श्री० ।। ४
सर्वमृत्युप्रशमनी श्री० ।। ४ सर्वमृत्युप्रशमन श्री० ।। सर्वविघ्ननिवारिणी
श्री० ।। ४ सर्वविघ्ननिवारण श्री० ।। ४
प्. १४७अ)
सर्वांगसुंदरी श्री० ।। ४ सर्वांगसुंदर श्री० ।। ४ सर्वसौभाग्यदायिनी
श्री० ।। ४ सर्वसौभाग्यदायी श्री० ।। ४ सर्वार्थसाधकचक्रस्वामिनी श्री० ।। ४
सवार्थसाधकचक्रस्वामी श्री० ।। ४ कुलोत्तीर्णयोगिनी श्री० ।। ४ कुलोत्तीर्णयोगी
श्री० ।। ४ सर्वज्ञा श्री० ।। ४ सर्वज्ञ श्री० ।। ४ सर्वशक्ति श्री० ।। ४ सर्वशक्त श्री०
।। ४ सर्वैश्वर्यप्रदा श्री० ।। ४ सर्वैश्वर्यप्रद श्री० ।। ४ सर्वज्ञानम्यी श्री० ।।
४ सर्वज्ञानमय श्री० ।। ४ सर्वव्याधिविनाशिनी श्री० ।। ४ सर्वव्याधिविनाशन
श्री० ।। ४ सर्वाधारस्वरूपा श्री० ।। ४ सर्वाधारस्वरूप श्री० ।। ४
सर्वपापहरा श्री० ।। ४ सर्वपापहर श्री० ।। ४ सर्वानंदमयी श्री० ।। ४
सर्वानंदमय श्री० ।। ४ सर्वरक्षास्वरूपिणी श्री० ।। ४ सर्वरक्षास्वरूपी
श्री० ।। ४ सर्वेप्सितफलप्रदा श्री० ।। ४ सर्वेप्सितफलप्रद श्री० ।। ४ सर्वरक्षाकर
चक्रस्वामिनी श्री० ।। ४ सर्वरक्षाकर चक्रस्वामी श्री० ।। ४ निगर्भयोगिनी श्री० ।।
४ निगर्भयोगी श्री० ।। ४ वशिनी श्री० ।। ४ वशी श्री० ।। ४ कामेश्वरी श्री० ।। ४
कामेश्वर श्री० ।। ४ मोदिनी श्री० ।। ४ मोदी श्री० ।। ४ विमला श्री० ।। ४ विमल श्री० ।।
४ अरुणा श्री० ।। ४ अरुण श्री० ।। ४ जयिनी श्री० ।। ४ जयी श्री० ।। ४
प्. १४७ब्)
सर्वेश्वरी श्री० ।। ४ सर्वेश्वर श्री० ।। ४ कौलिनी श्री० ।। ४ कौली श्री० ।।
इत्याकाशचक्रे द्वासप्ततिरश्मिन्यासः ।।
ततो भ्रूमध्ये मानसं चक्रबिंदुरूपं तडित्कोटि समप्रभं ध्यात्वा
तत्र चतुःषष्ठिदलमंडितं कमलं ध्यात्वा तत्कर्णिकायां
श्रीपरदेवतां परितस्तद्दलेषु प्रागादिप्रादक्षिण्येन
तवंगसंभूतास्तत्समाकाराः सर्वरोगहरचक्रस्वामिन्यादि
महामहाशयांताः चतुःषष्ठिदेवताः न्यसेत् ।। तद्यथा ।।
४ सर्वरोगहरचक्रस्वामिनी श्री० ।। ४ सर्वरोगहरचक्रस्वामी श्री० ।। ४
रहस्ययोगिनी श्री० ।। ४ रहस्ययोगी श्री० ।। ४ बाणिणी श्री० ।। ४ बाणी श्री० ।। ४
चापिनी श्री० ।। ४ चापी श्री० ।। ४ पाशिनी श्री० ।। ४ पाशी श्री० ।। ४ अंकुशिनी श्री० ।।
४ अंकुशी श्री० ।। ४ महाकामेश्वरी श्री० ।। ४ महाकामेश्वर श्री० ।। ४
महावज्रेश्वरी श्री० ।। ४ महावज्रेश्वर श्री० ।। ४ महाभगमालिनी श्री० ।। ४
महाभगमाली श्री० ।। ४ महात्रिपुरसुंदरी श्री० ।। ४ महात्रिपुरसुंदर
श्री० ।। ४ सर्वसिद्धिप्रदचक्रस्वामिनी श्री० ।। ४ सर्वसिद्धिप्रदचक्रस्वामी श्री० ।।
४ अतिरहस्ययोगिनी श्री० ।। ४ अतिरहस्ययोगी श्री० ।। ४ श्रीश्रीमहाभट्टारिका श्री०
।। ४ श्रीश्रीमहाभट्टारक श्री० ।। ४ सर्वांनंदमयचक्रस्वामिनी श्री० ।। ४
सर्वांनंदमयचक्रस्वामी श्री० ।। ४ परापररहस्ययोगिनी श्री० ।। ४
परापररहस्ययोगी श्री० ।।
प्. १४८अ)
४ त्रिपुरा श्री० ।। ४ त्रिपुर श्री० ।। ४ त्रिपुरेश्वरी श्री० ।। ४ त्रिपुरेश्वर श्री० ।। ४
त्रिपुरसुंदरी श्री० ।। ४ त्रिपुरसुंदर श्री० ।। ४ त्रिपुरवासिनी श्री० ।। ४ त्रिपुरवासी
श्री० ।। ४ त्रिपुराश्री श्री० ।। ४ त्रिपुरश्री श्री० ।। ४ त्रिपुरश्री श्री० ।। ४ त्रिपुरमालिनी
श्री० ।। ४ त्रिपुरमाली श्री० ।। ४ त्रिपुरासिद्धा श्री० ।। ४ त्रिपुरसिद्ध श्री० ।। ४
त्रिपुरांबा श्री० ।। ४ त्रिपुरांब श्री० ।। ४ महात्रिपुरसुंदरी श्री० ।। ४
महात्रिपुरसुंदर श्री० ।। ४ महामहामहेश्वरी श्री० ।। ४
महामहामहेश्वर श्री० ।। ४ महामहाराज्ञी श्री० ।। ४ महामहाराज श्री०
।। ४ महामहाशक्ति श्री० ।। ४ महामहाशक्त श्री० ।। ४ महामहागुप्ता श्री० ।।
४ महामहागुप्त श्री० ।। ४ महामहानंदा श्री० ।। ४ महामहानंद श्री०
।। ४ महामहास्कंदा श्री० ।। ४ महामहास्कंद श्री० ।। ४ महामहाशया
श्री० ।। ४ महामहाशय श्री० ।। इति आज्ञायां चतुःषष्ठिरश्मिन्यासः ।।
इत्थ षष्ठ्युत्तरं त्रिशतं मयूखजालं विन्यस्य तेषां
सर्वेषामुपरिद्वादशांते च चरणद्वयं न्यसेत् ।। तत्र ब्रह्मरंध्रस्थ
सहस्रदलकमलकर्णिकांयां श्रीपरदेवतां ध्यात्वा तस्यामेव
श्रीश्रीमन्महाश्रीचक्रनगररसाम्राज्ञी
प्. १४८ब्)
रक्त श्रीपादुकां पूजयामि नम इति ब्राह्मरंध्रस्य दक्षिणभागे
विन्यस्य वामभागे ४ श्रीश्रीमन्महाश्रीचक्रनगरसम्राटशुक्ल
श्रीपादुकां पूजयामि नम इति पादांबुजयुगं न्यसेत् ।। इति
श्रीश्रीविद्यासंभवषष्ठ्युत्तरत्रिशतरश्मिक्रम न्यासः ।।
अत्र न्यासे सप्ताक्षर्यंते नमोंतता ।। मानसपूजायां तु
सप्ताक्षरीमात्रमेव अत्र केचित् ।। न्यासे प्रोक्तरश्मीनां तत्तन्नामचतुर्थी
नमोंततेत्याहुः ।। यथा गुरूपदेशं कार्यंमिति ।। एवं रश्मिक्रमं
कुर्वन्साधके विजितेंद्रियेः ।। धनधान्यायुरारोग्यभोगमोक्षफलं भवेत्
।। १ ।।
अथ ऋष्यादिकरषडंगन्यासान्विधाय शिवोहमिति भावयन् वक्ष्यमाण
संक्षोभणादि नवमुद्राः पाशादिचतुर्मुद्राश्च बध्वा
सर्वावयवभावेन कामकलारूपमात्मानं ध्यात्वा
शक्त्युत्थापनमुद्रां बध्वा प्रातःस्मरण प्रोक्तप्रकारेण
मूलाधारात्कुंडलिनीं सुमुत्थाप्य तथैव षट्चक्रभेदन क्रमेण
ध्यायन्नंतर्यांगं विधायतेत्तेजसापरिणतां श्रीपरदेवतां
हृदयकमलगतसिंहासने श्रीचक्रराजे कामेश्वरां कस्थां
सर्वावरणयुक्तां त्रिखंडा
प्. १४९अ)
मुद्रामुद्रितकरो ध्यायेत् ।।
श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।।
कृते सौभाग्यरत्नाब्धौ तरंगो त्रयोदशः ।।
इति श्रीसच्चिदानंदनाथचरणारबिंदद्वंद्वांतेवाशि
श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे त्रयोदशस्तरंगः ।।
ततो ध्यानं ।।
तत्र श्रीवामकेश्वरतंत्रे ।।
उद्यच्चंद्रोदयक्षुब्धरक्तपीयुषवारिधेः ।।
मध्ये हेममयीं भूमिं स्मरेन्माणिक्यमंडितां ।। १ ।।
तन्मध्ये नंदनोद्यानं मदनोन्मादनं महत ।।
त्रिसाभ्युदितपूर्णेंदुज्योस्नाजालविराजितं ।। २ ।।
सदासह वसंतेन कामशो देवेन रक्षितं ।।
कदंबचूतपुन्नागनागकेसर चंपकैः ।। ३ ।।
बकुलैः पारिजातैश्च सर्वर्त्तु कुसुमोज्वलैः ।।
झंकारमुखरैर्भृंगै कूजद्भिः कोकिलैः शुकैः ।। ४ ।।
नानावर्णैरथान्यैश्च द्विजसंघैर्निषेवितं ।।
शखीकारंडहंसाद्यैर्नानापक्षिमिंरावृतं ।। ५ ।।
नानापुष्पलताकीर्णैर्मिंत्तं वृक्षखंडकैः ।।
पर्यंतदीर्घिकोत्फल्लकमलोत्पलसंभवैः ।। ६ ।।
रजोभिधूसरैः सम्यक् सेवितं मलयानिलैः ।।
ध्यात्वैवं नंदनोद्यानं ततदः प्रांगणं स्मरेत् ।। ७ ।।
शुद्धकांचनसंकाशं वसुधाभिरलंकृतं ।।
प्. १४९ब्)
प्रांगणं चिंतयित्वेस्थं सुरसिद्ध निषेवितं ।। ८ ।।
तन्मध्ये मंडपं ध्यायेद् व्याप्तब्रह्माण्डमंडलं ।।
सहस्रादित्यसंकाशं चतुरस्रं सुशोभनं ।। ९ ।।
रत्नतेजः प्रभापुंज पिंजरीकृत दिऽऽन्मुखं ।।
मध्यस्तंभविनिर्मुक्तं कोणस्तंभसमन्वितं ।। १० ।।
महामाणिक्यवैडुर्यरत्नकांचनभूषितं ।।
मुक्तादामवितानाढ्यं रत्नसोपानमंडितं ।। ११ ।।
मंदवायुसमाक्रांतं गंधधूपतरंगितं ।।
रत्नचामरघंटादि विमाने रुपशोभितं ।। १२ ।।
जातीचंपकपुन्नागकेतकी मल्लिकादिभिः ।।
रक्तोत्पलसितांभोजमाधवीभिः सुपुष्पकैः ।। १३ ।।
बद्धाभिश्चित्रमालाभिः सर्वत्र समलंकृतं ।।
तीर्यगूर्ध्वलसद्रत्नपुतली कोटिमंडितं ।। १४ ।।
नानारत्नादिभिर्दिव्यैर्निर्मितं विश्वकर्मणा ।।
तन्मध्ये विपुलां ध्यायेद्वेदिकां शतयोजनां ।। १५ ।।
सहस्रादित्यसंकाशां कोटिमाणिक्यमंडितां ।।
चतुर्द्वारसमोपेतां माणिक्यद्वारतोरणां ।। १६ ।।
प्रदीपैः पूर्णकुंभैश्च सर्वतः समलंकृतं ।।
हैमीभिः पालिकाभिश्च सांकुराभिरलंकृतां ।। १७ ।।
रत्नपीठस्थितैर्दिव्यैरागमैः परिशोभितां ।।
प्. १५०अ)
तदंतरांतरा प्रोद्यन्मणिदर्पणमंगलां ।। १८ ।।
मधुरोद्गारविविधगांधर्वस्तोत्र बृंहितां ।।
शृंगाररससनद्धैर्नवयौवनलंपटैः ।। १९ ।।
अमरीनिकरैर्नानामणिभूषणभूषितैः ।।
वीणावेणुमृदंगादि वादनेन च नृत्यकैः ।। २० ।।
प्रीणयद्भिर्महादेवीं परीतां परितः सदा ।।
रत्नसिंहासनं तस्या वेद्यामध्ये स्मरेछुभं ।। २१ ।।
विरंचि विष्णुरुद्रेशरुपपादचतुष्टयं ।।
सदाशिवमयं साक्षात्तस्मिन्परशिवात्मकं ।। २२ ।।
पुष्पपर्यंकमाश्चर्यं तत्र श्रीचक्रनायकं ।।
तन्मध्ययोनिमध्यस्थे श्रीमदोद्यापीठके ।। २३ ।।
पर्यंकबंधविलसत्स्वस्तिकासनशालिनी ।।
ध्यायेत्परशिवांकस्थां पद्ममध्योब्जलाकृतिं ।। २४ ।।
ततो ध्यानं प्रवक्ष्यामि त्रिदत्रौः सेवनीयकं ।।
ततः पद्मनिभां देवी बालार्ककिरणारुणां ।। २५ ।।
जपाकुसुमसंकाशां दाडिमी कुसुमोपमां ।।
पद्मरागप्रतीकाशां कुंकुमोदक सन्निभां ।। २६ ।।
स्फुरन्मुकुटमाणिक्य किकिणीजालमंडितां ।।
कालालिकुलसंकाशकुटिलालकपल्लवां ।। २७ ।।
प्रत्यग्रारुणसंकाश वदनांभोजमंडलां ।।
किंचिदर्द्धेदु कुटिलललाटमृदुपट्टिकां ।। २८ ।।
प्. १५०ब्)
पिनाकधनुषाकार भ्रूलतां परमेश्वरीं ।।
आनंदमुदितोल्लोललीलांदोलितलोचनां ।। २९ ।।
स्फुरन्मयूखसंघातविलसद्धेमकुंडलां ।।
सुगंडमंडलाभोगजितेंद्वमृतमंडलां ।। ३० ।।
विश्वकर्मादिनिर्माणसूत्रसुस्पष्टनासिकां ।।
ताम्रविद्रुमबिंबाभ रक्तोष्ठी अमृतोपमां ।। ३१ ।।
दाडिमीबीजवज्राभ दंतपंक्तिविराजितां ।।
स्मितमाधुर्य विजितमाधुर्यरससागरां ।। ३२ ।।
अनौपम्यगुणोपेत चिबुकोदेशशोभितां ।।
कंबुग्रीवां महादेवीं मृणालललितैर्भुजैः ।। ३३ ।।
मणिकंकणकेयूर भारखिन्नैः प्रशोभितां ।।
रक्तोत्पलदलाकार रक्तसुकुमार करांबुजां ।। ३४ ।।
करांबुजनखज्योतिर्वितानितनभस्तलां ।।
मुक्ताहारलतोपेत समुन्नतपयोधरां ।। ३५ ।।
त्रिवली वलनायुक्त मध्यदेश सुशोभितां ।।
लावण्यसरिदावर्त्तीकारनाभिविभूषितां ।। ३६ ।।
अनर्घ्यरत्नघटितकांचीयुतनितंबिनी ।।
नितंबबिंबद्विरदरोमराजिवरांकुशां ।। ३७ ।।
कदली ललितस्तंबसुकुमारोतमीश्वरीं ।।
लावण्यकदलीतुल्य जंघायुगुलमंडितां ।। ३८ ।।
गूढगुल्फपदद्वंद्वप्रपदाजिताकछपां ।।
प्. १५१अ)
ब्रह्मविष्णुशिरोरत्ननिघृष्ठचरणांबुजां ।। ३९ ।।
तनु दीर्घांगुलीभास्वन्नखचंद्रविराजितां ।।
शीतांशुशकाशसतकांतिसंतानहासिनी ।। ४० ।।
लौहित्यजितसिंदूर जपादाडिमरागिणीं ।।
रक्तवस्त्रपरीधानां पाशांकुशकरोद्यतां ।। ४१ ।।
रक्तपुष्पनिविष्टां च रक्ताभरणमंडितां ।।
चतुर्भुजां त्रिनेत्रां च पंचबाणधनुधरां ।। ४२ ।।
कर्पूरशाकलोन्मिश्रतांबूलापूरिताननां ।।
महामृगमदोदामकुंकुमारुणविग्रहां ।। ४३ ।।
सर्वशृंगारवेषाढ्यां सर्वालंकारभूषितां ।।
जगदाह्लादजननीं जगद्रंजनकारिणी ।। ४४ ।।
जगदाकर्षणकरी जगत्कारणरूपिणीं ।।
सर्वमंत्रमयीं देवीं सर्वसौभाग्यसुंदरीं ।। ४५ ।।
इति स्वैक्येन ध्यात्वा मूलविद्यया स्वशिरसिपुष्पांजलि दत्वा
पुनर्हृदयकमले यथोक्तरूपां भगवतीं सांगा वरणां ध्यात्वा
वक्ष्यमाणप्रकारेण पीठपूजादिपूर्वकं सांगा सावरणां देवीं
मानसैरुपचारैः संपूज्य नैवेद्यं दत्वा भोजनावसरेत वैश्वदेवं
कुर्यात् ।।
प्. १५१ब्)
तत्र मूलाधारे आत्मांतरात्मापरमात्मज्ञानात्मेत्यात्मचतुष्टयं
कॢप्तं चतुरस्रं कुंडल्यग्निसमुज्वलं कुंडं ध्यात्वा तत्र
श्रीपरदेवतां ध्यात्वा तन्मुखे मूलविद्यांते आहं तां जुहोमि स्वाहा ।।
इत्यादि अहंतां सप्तकैशून्य कामक्रोधलोभमोहमदमात्सर्याणि
सुषुम्णास्रुग्युक्तमनःस्रुवेण प्रत्येकं हुत्वा पुनः हृदयकमले
भुक्तवतीं देवीं ध्यात्वा उत्तरापोतानादि
सर्वोपचारैराराध्यमूलविद्यां यथाशक्तिं जपित्वा
प्राणायामादिपूर्वकं वक्ष्यमाणविधिना जपं समर्प्य श्रीगुरुं
प्रणम्य स्वदेहं गंधादिभिरलंकृत्य अर्घ्यादिपात्र स्थापनं कुर्यात् ।।
तत्र स्ववामाग्रे वक्ष्यमाणविशेषार्घमंडलवन्मंडविरच्य तथैव
संपूज्य तत्र वक्ष्यमाणविधिना प्रक्षालितमाधारं संस्थाप्यत
तथैव संपूज्य सुवर्णादिरचितं कजशधूपवासितं हुं हुं
ब्रह्मांड चषकाय स्वाहेति वामकरेण प्रक्षालितं ऐं संदीपनि
ज्वालामालिनी ह्रीं इति संदीपनी विद्यया योनिमुद्रया संदीपितं
कवचेनावगुंठितं ओं नमः । ह्रीं नमः । ह्रं क्ष्रुं नमः । हं नमः । सः
नमः ।
प्. १५२अ)
इति विन्यस्त पंचमंत्रं ४ श्रीमहात्रिपुरसुंदर्याः महाकलशं
स्थापयामीति तत्र कलशं संस्थाप्यत् तत्र
वक्ष्यमाणविशेषार्घपात्रवत्पूर्यकलांतं प्रपूज्य तत्र वक्ष्यमाण
विधिनैव कर्पूरादि सुवासिता पर्युषित पारिस्रुतपयंः समापूर्य
तत्राब्जादिकं निक्षिप्य तन्मध्ये विशेषार्घो वक्ष्यमाणं मंडलं
विभाव्य वक्ष्यमाणविधिना सोमकलांतं संपूज्य तच्चतुरस्रं परितः ४
हृ सू ख फ्रें पथिक देवताभ्यो हूं फट् स्वाहा नमः । ४ हसखफ्रें
आचंडालिनी ह्रं फट् स्वाहा नमः । हसखफ्रें क्रोधचंडालिनि हुं
फट् स्वाहा नमः । ४ हसखफ्रें दृष्टिचंडालिनी हुं फट् स्वाहा नमः ।।
४ हसखफ्रें स्पर्श चं० । ४ हसखफ्रें सृष्टि चं० । ४ हसखफ्रें घट
चं० । ४ हसखफ्रें तपनवेध चं० । ४ हसखफ्रें निर्दय चं० । ४
हसखफ्रें सर्वजनदृष्टिस्पर्शदोष चं० । ४ हसखफ्रें पशुपाशा चं०
। इति स्वाग्रादि प्रादक्षिण्येण संपूजयेदिति दशदोषांन्निरस्य ।। ४ कां कीं
कूं कैं कौं कः विकारशोषिणि अस्य विकारान् हनहन स्वाहा इति हेतु
मध्ये संपूज्य ।।
स्वादिष्टयादिभिः पूर्वं ऋग्भिः पंचभिरायतः ।।
विष्णुर्योनिं त्रयेणैव त्रिभिष्ट्वादि त्रयेण चं ।।
प्. १५२ब्)
इमं मे च इति द्वाभ्यां तामंदेत्येकया तथा ।।
श्रीणामेकेति चैकेन शुत्रशापं विमोचयेत् ।।
इति कुलार्णव वचनात् ।।
उक्तं पंचदशमंत्रैः सकृत्सत्कृदभिमंत्रयेत् ।। मंत्रा ऋग्वेदे यथा ।।
स्वादिष्ठयामदिष्ठया पवस्व सोमधारया ।। इंद्राय पातवे सुतः ।। इत्यादि
इदोत्वेन आशसः ।। इत्यंतं वर्गं पठित्वा ।। विष्णुर्योनिकल्पयतु
त्वष्टारूपाणि पिंशतु ।।
असिंचतुप्रजापतिर्धाता गर्भं दद्यातु ते ।।
गर्भं धेहिसिनी वालि गर्भं धेहि सरस्वति ।।
गर्भं ते अश्विनौ देवा वाधत्तां पुष्कर स्रजा ।।
हिरण्मयी अरणी यन्निंर्यथतो अश्विना ।।
तं ते गर्भं हवामहे दशमे मासि सूतव ।। ३ ।।
त्रिभिष्ट्वं देवसवितुर्वर्षिष्ठैसोमधामभिः । अग्ने दक्षैः पुनी हिनः ।
पुनंतु मां देवजनाः पुनं तु वसवो धिया ।।
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ।।
प्रप्याय स्वप्रस्यंदस्वसोमविश्वेभिरं शुभिः । देवेभ्यः त्तमं हविः ।।
इमं मे गंगे यमुने सरस्वति शुतुद्रि स्तोमं सचतापरुष्ण्या ।।
असिक्न्यमरुद्दृधे वितस्तयार्जीकीये श्रुणुह्यासुषोमया ।।
सितासिते सरिते यत्र संगथे तत्राप्लुतासो दिवमुत्पतंति ।।
प्. १५३अ)
ये वै तन्व १ विसृजंति धीरास्तेजनासो अमृतत्वं भजंते ।।
ता मंदसानामनुषोदुरोण आधत्तंरयीं सहवीरं च चस्यवे ।।
कृतं तीर्थं सुप्रपाणं शुभस्यती स्थाणुं पथेष्ठामवदुर्मतिं
हतं ।। ३ ।।
श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सुनया भृतं ।।
आ निम्रुचः शकदेको अपाभरत् किंस्वित् पुत्रेभ्यः पितरा उपावतु ।।
इत्यभिमंत्र्य ४ ह्वां ह्वीं ह्वू ह्वै ह्वौ ह्वः मृते अमृतोद्भवे अमृतेश्वरी
अमृतवर्षिणि अमृतस्वरूपिणि अमृतं स्रावयशुक्रशापात्सुधां मोचय
मोचय मोचिकायै नमः । ओं जूं सः स्वाहा इति विद्यया अष्टवारं
अभिमंत्र्य ४ सिद्धायै नमः । ४ रक्तायै नमः । ४ शुक्लायै० । ४ उत्पलायै० । इति
चतुरस्तस्य चतुर्दिक्षु प्रादक्षिण्येन स्वाग्रादितः संपूज्य तन्मध्ये
त्रिकोणं विशेषार्घे वक्ष्यमाणरूपं विभाव्य ४ हसक्षमलवरयूं
आनंदभैरवाय वौषट् ।। आनंदभैरव श्रीपादुकां पूजयामि
तर्पयामि नमः ।। एवं सर्वत्र ४ हसक्षमलवरयूं सुरानंदे भैरवाय
वौषट् सुरानंदनाथ श्री० । ४ सहक्षमलवरयीं सुरानंदभैरव्यै
वषट् सुरानंदभैरवी श्री० ।। ४ हसक्षमलवरयूं
प्. १५३ब्)
अमृतानंदभैरवाये वौषट् अमृतभैरव श्री० । ४ सहक्षमलवरयीं
अमृतभैरव्यै वट् अमृतभैरवी श्री० ।। ४ हसक्षमलवरयूं
तरुणानंदभैरवाय वौषट् तरुणानंदभैरव श्री० । ४
सहक्षमलवरयीं तरणानंदभैरव्यै वट् तरणानंदभैरवी श्री० ।। ४
हसक्षमलवरयूं उन्मतानंदभैरवाय वौषट् उन्मतानंदभैरव
श्री० ४ सहक्षमलवरयीं उन्मत्तानंदभैरव्यै वट् उन्मत्तानंदभैरवी
श्री० । ४ हसक्षमलवरयूं ज्ञानांनंदभैरवाय वौषट्
ज्ञानानंदभैरव श्री० । ४ सहक्षमलरयीं
ज्ञानानंदज्ञानानंदभैरव्यै वषट् ज्ञानानंदभैरवी श्री० । ४
हसक्षमलवरयूं मुक्त्यानंदभैरवाय वौषट् मुक्त्यानंदभैरव
श्री० । ४ सहक्षमलरयीं मुक्त्यानंदभैरव्यै वषट् मुक्त्यानंदभैरवी
श्री० । ४ हसक्षमलवरयूं परमानंदभैरवाय वौषट्
परमानंदभैरव श्री० । ४ सहक्षमलवरयीं परमानंदभैरव्यै
वषट् परमानंदभैरवी श्री० । ४ हसक्षमलवरयूं
कालभैरवानंदाय वौषट् कालभैरवानंद श्री० । ४ सहक्षमलवरयीं
कालभैरव्यै वषट् कालभैरवी पादुका पू० तर्प० नमः । इति भैरवमिथुन
नवकं मध्ये अष्टदिक्षु च संपूज्य संतर्प्य मूलविद्यया
प्. १५४अ)
विक्षणमुद्रया संवीक्ष्य अस्रमंत्रेण प्रोक्ष्य अस्रमंत्रेण कुशैस्त्रिः
संताडयकवचमंत्रेण अभ्युक्ष्य आघ्राय वामनासारंध्रेण प्रविश्य
ब्रह्मरंध्रं गत्वा तत्रस्थ चिच्चंद्रमंडलमध्यगत
परमामृतवारिधौ मिलित्वा तन्मयेन राजदंतविवरान्नेत्रमार्गेण
विनिर्गतं जलं विभाव्यसंरोधनमुद्रया संरुध्यकवचमंत्रेण
अवगुंठनमुद्रया अवगुंठ्य वमिति धेनुमुद्रया अमृतीकृत्य
परमीकरणमुद्रया परमामृतीकृत्य तत्र देवीं ध्यात्वा
गंधपुष्पादिभिः संपूज्य मूलविद्यामष्टवारमभिमंत्र्य ४ नमो
भगवती ग्रासे (महे)श्वरि वारुणी जलमूर्त्तय ऊर्ध्वबिंदुग्राहिणि
महालक्ष्मीश्वरी परमधाम्नि परमाकाशभासुरि सोमसूर्याग्निभक्षणि
आगछ विश विश स्वभोगद्रव्यं गृह्ण गृह्ण स्वाहा । इति तत्कलशाद्बिंदुं
वामांगुष्ठानामिकाभ्यां धृतद्वितीयखंडे नादायोर्ध्वमुत्क्षिप्येत्
ततः कलशवदनं पात्रांतरेण आछादद्य उद्धरणपात्रमादाय
वामकरे निधाय ४ अमोघायै नमः ।। ४ सूक्ष्मायै नमः ।। ४ आनंदायै
नमः । ४ शांत्यै नमः । इति शक्तिचतुष्टयं करस्थमात्रोपरिसंपूज्य
कुंभस्याछादनपात्रस्योपरिस्थापयेदिति
प्. १५४ब्)
कलशस्थापनं । विधाय ततः कलशदक्षिणभागे शुद्धोदकेन
चतुरस्रवृत्तत्रिकोणात्मकं मंडलं चंदनालिप्तभूमौ
वहन्नासाकारोर्ध्वपुटाभ्यां कराभ्यां त्रितारमुच्चरन् निर्माय प्रणव
त्रितारादि नमोंत्तया मूलविद्यया त्रिकोणमध्यं संपूज्य कूटत्रयेण
त्रिषु कोणेषु स्वाग्रादि प्रादक्षिण्येन संपूज्य चतुरस्रे अग्नीश निर्-ऋति
वायुकोणेषु हृदयाद्यंग चतुष्टयं मध्ये नेत्रं
प्रागादिचतुर्दिक्ष्वस्त्रमिति षडंगमंत्रैः संपूज्य तत्र मूलेन
क्षालितमाधारं संस्थाप्य ४ प्रथमकुटमुच्चार्य मं वह्निमंडलाय
धर्मप्रददशकलात्मने श्रीपरदेवतायाः सामान्यार्घाधाराय नम इति
संपूज्य तत्र वक्ष्यमाणप्रकारेण वह्नेर्दशकलाः पूजयित्वा तत्रास्त्रेण
क्षालितं शंखं निधाय ४ द्वितीयकूटं अर्कमण्डलायार्थप्रद
द्वादशकलात्मने श्रीपरदेवतायाः सामान्यार्घ्य पात्राय नम इति
संपूज्य तत्र वक्ष्यमाणप्रकारेण सूर्यस्य द्वादशकलाः
संपूज्यगंधादि सुवासितशुद्धतोयेन प्रणवत्रितारमूलविद्यांते विलोम
मातृकामुच्चरन् तत्पात्रमापूर्य
प्. १५५अ)
४ तृतीयकूटं ओं उं सोममंडलाय कामप्रद षोडशकलात्मने
परदेवतायाः सामान्यार्घामृताय नमः ।। इति जलं संपूज्य तत्र
वक्ष्यमाणप्रकारेण सोमस्य षोडशकलाः संपूज्य तत्र
प्राग्वत्सवितृमंडलात्तीर्थमावाह्य कलशामृतबिंदुं दत्वा तत्र मूलेन
गंध * ष्पादिकं निक्षिप्य प्राग्वत् षडंगैः संपूज्य ४
हसक्षमलवरयूं सहक्षमलवरयीं इति नवात्मकमिथुनमंत्रेण
त्रिरभिमंत्र्य ह्सौं वरणाय नमः । शौं वारुणि देव्यै नम इति
वरुणमिथुनमंत्रे च त्रिरभिमंत्र्य मूलेनाष्टधाभिमंत्र्य
धेनुयोनिमुद्रे प्रदर्शयेदिति सामान्यार्घं विधाय तत्समीपे
सामान्यार्घ जलेन यक्षकर्दमादि गंधमिश्रितेन भुमिं विलिख्य तत्र
वहछ्वासोर्ध्यपुट हस्ताभ्यां चतुरस्र वृत्त षट्कोणात्मं मंडलं
विधाय तन्मंडलं शंखमुद्रामुद्रित वामकरेण अवष्टभ्य तन्मध्य
त्रिकोणमध्ये सबिंदुतुर्य स्वररूपां कामकलां विलिख्य ४
श्रीपरदेवतायाः विशेषार्घाधारमंडलाय नमः । इति मंडलं
संपूज्य ४ नमोंत मूलेन त्रिकोणमध्यं संपूज्य त्रिकोणाग्रकोणे ४
प्. १५५ब्)
प्रथमकूटं नमः । वामे ४ द्वितीयं नमः । दक्षिणे ४ तृतीयं नमः । इति
त्रिकोणं प्रादक्षिण्येन संपूज्य षट्कोणेषु प्रादक्षिण्येन स्वाग्रमारभ्य
मूलकूट त्रयस्य द्विरावृत्या पूज्ययित्वा चतुरस्रे प्राग्वत् षडंगानि
संपूज्य चतुरस्रे स्वाग्रादि चतुर्दिक्षुमध्ये च प्रादक्षिण्येन ४ ग्लूं
गगनरत्नाय नमः । ४ स्लूं स्वर्गरत्नाय नमः । ४ म्लूं मर्त्यरत्नाय
नमः । ४ प्लूं पातालरत्नाय नमः । ४ न्लूं नागरत्नाय नमः । इति
पंचरत्नानि संपूज्य पुनः षट्कोणेषु स्वाग्रादि प्रादक्षिण्येन न्यासोक्त
सुधार्णवासनाय नमः पोतांबुजासनाय नमः । आत्मासनाय० ।
सर्वचक्रासनाय० । सर्वमंत्रासना० । साध्यसिद्धासनाय० । ५ संपूज्य
चतुरस्रवृत्त षट्कोण त्रिकोणेषु ४ कामरूपपीठा नमः । ४
जालंधरपीठाय नमः । ४ पूर्णगिरिपीठाय नमः । ४ उड्याणपीठाय
नमः । इति पीठचतुष्टयं संपूज्य ।
शांभवदीक्षावांश्चेत् चतुरस्रे स्वाग्रादि चतुर्दिक्षुमध्ये च
पंचप्रणवपुटितैः प्रणवपंचकैः पूजयेत् । तद्यथा ।। ऐं ह्रिं श्रीं
ह्स्फ्रें ह्सौः ऐं ह्सौं ह्स्फें श्रीं ह्रीं ऐं नमः ।। एवं ५ ह्रीं ५ नमः
५ श्रीं ५ नमः ५ ह्स्फें ५ नमः ह्सौंः ५ नमः ।। इति संपूजयेत । ततः ४
मूलं सर्वशक्तिमयी श्रीपरदेवतायाः
पीठचतुष्टयात्मकार्घमंडलाय नमः ।
प्. १५६अ)
इति समस्तमंडलं संपूज्य तत्र मूलेन क्षालितमाधारं गृहीत्वा ४
श्रीपरदेवताया विशेषार्घाघारंस्थापयामीति मंडलोपरिसंस्थाप्य ४
प्रथमकूटमुच्चार्य मं वह्निमंडलाय धर्मप्रद दशकलात्मने
श्रीपरदेवताया विषार्घपात्राधाराय नमः ।। इत्याधारं संपूज्य
तदुपरिस्वाग्रादि प्रादक्षिण्येन वह्नेर्दशकलाः समावाह्यतासां
प्राणप्रतिष्ठां कुर्यात् ।।
तत्र पूर्वोक्त प्राणप्राणप्रतिष्ठा मंत्रे मम पदस्थाने धुम्रार्चिरादि
नामिति पदं निक्षिप्य प्राणप्रतिष्ठामंत्रं धारं स्पृशन् पठेदिति
प्राणप्रतिष्ठाविधाय ४ यं धुम्रार्चिषे नमः । ४ रं उष्मायै नमः ।
४ लं ज्वलिन्यै० । ४ वं ज्वालिन्यै० । ४ शं विस्फुलिंगिन्यै० । ४ षं सुश्रियै न० ।
४ सं सुरूपायै० । ४ हं कपिलायै० । ४ लं हव्यवाहायै० । ४ क्षं
कव्यवाहायै नमः ।। इति ताः संपूज्य स्वर्णादि रचितं
पात्रमस्त्रेणप्रक्षाल्य श्रीपरदेवतायाविशेषार्घपात्रं
संस्थापयामीति तत्र संस्थाप्य ४ द्वितीयकूटमुच्चार्य अं
अर्कमंडलायार्थ प्रद द्वादशकलात्मने श्रीपरदेवतायाः विशेषार्घ
पात्राय नम इति पात्रमध्ये
प्. १५६ब्)
संपूज्य तत्र पूर्वोक्तं मंडलं विभाव्य पूर्ववत्पंचरत्नानि
संपूज्य तथैव पंचप्रणवैरभ्यर्च्य तत्र सूर्यस्य द्वादशकलाः
समावाह्य प्राग्वत्तन्नाम पुरःसरं तासां प्राणप्रतिष्ठां विधाय
वृत्ताकारेण प्रादक्षिप्येन ताः पूजयेत् ।। तद्यथा ।। ४ कं भं तपिन्यै
नमः ।। ४ खं बं तापिन्यै० । ४ गं फं धूम्रायै० । ४ छं पं
मरिच्यै० । ४ ऽऽनं नं ज्वालिन्यै० । ४ चं धं रुव्यै० । ४ छं दं
सुषुम्णायै० । ४ जं षं भोगदायै० । ४ झं तं विश्वायै० । ४ ञं णं
बोधिन्यै० । ४ टं ढं धारिण्यै० । ४ ठं डं क्षमायै० ।। इति संपूज्य
कलशस्थं जलं उद्धरणपात्रेणोधृत्य मूलविद्यांते
विलोममातृकामुच्चार्य तत्पात्रमापूर्य तत्रापि अब्जादिकं निक्षिप्य ऐं इति
अंगुष्ठानामिकाभ्यां पुष्पेण तत्पात्रस्थं जलमालोड्य तत्पुष्पं
निरस्य क्लीमिति चंदनागुरुकर्पूरचोरकुंकुमरोचना जडामांसी
शिलारसात्मकगंधाष्टकपंकलोलितं चंदनादि पंकलोलितं वा
पुष्पं निक्षिप्यसौरितिगालिनिमुद्रया निरीक्ष्य ४ तृतीय कूटं उं
सोममंडलाय कामप्रदषोडशकलात्मने श्रीपरदेवताया
विशेषार्घामृताय नमः । इति पात्रस्थ हेतुमध्ये
प्. १५७अ)
संपूज्य तत्र पूर्वोक्तं मंडलं विभाव्य पूर्ववत् पंचरत्नांतं
संपूज्य शांभवदीक्षायुक्तस्थैस्तथैव पंचप्रणवैः पूजयेत् ।।
ततस्तत्र सोमस्य षोडशकलासमावाह्य प्राग्वतन्नाम पुरःसरं तासां
प्राणप्रतिष्ठां विधाय वृत्ताकारेण स्वाग्रादि प्रादक्षिण्येन ताः पूजयेत्
।। तद्यथा ४ अं अमृतायै नमः । ४ आं मानदायै० । ४ इं पूषायै० । ४ ईं
तुष्ट्यै० । ४ उं पुष्प्यै न० । ४ ऊं रत्यै नम० । ४ ऋं धृत्यै० । ४ ॠं शशिन्यै०
। ४ ॡं चंद्रिकायै० । ४ ॡं कांत्यै० । ४ एं ज्योत्स्नायै० । ४ ऐं श्रियै० । ४ ओं
प्रीत्यै० । ४ औं अंगदायै० । ४ अं पूर्णायै न० । ४ अः पूर्णामृतायै० । इति
संपूज्य पूर्वपूजितमंदलमध्यत्रिकोणमकथादि त्रिरेखं विभाव्ये
तत्कोणत्रये मुलविद्यायाः कूटत्रयं मध्यस्य बिंदौ कामकलां
तत्पार्श्वयोः सबिंदुंहक्षौ तत्पृष्ठे लकारं तत्पार्श्वेयोर्हंसवर्णौ
विभाव्यपुष्पाक्षतगर्भितां योनिमुद्राबध्वा गुरुपदिष्टप्रकारेण
मुलाधारात्कुंडलिनीमुत्थाप्य षट्च्क्रभेदनक्रमेण सुषुम्णावर्त्मना
ब्रह्मरंध्रस्थ चिच्चंद्रमंडलं नीत्वा तत्र स्थित परमशिवे संयोज्य
तयोः शिवशक्त्यौः सामरस्य सुखानुभवगलितामृतधारां
प्. १५७ब्)
संचित्य राजदंतविवरान्तयनवर्त्मना निःसृतां योनिमुद्रोल्लसितेन
करेणानीय ४ मूलविद्यांते
ब्रह्मांडखंडसंभूतमशेषरससंभृतं ।।
आपूरितं महापात्रं पीयूषरसमावहे ।। १ ।।
ऐं प्लुं झ्रौं जूं सः अमृते अमृतोद्भवे अमृतेश्वरी अमृतवर्षिणी अमृतं
स्रावय स्रावय स्वाहा इति तस्मिन्नर्घामृते पुष्पाक्षतप्रक्षेपेण
तदमृतधारां संयोज्यवमिति धेनुमुद्रां प्रदर्श्य ओं ह्रीं हं सः
सोहं स्वाहा इत्यात्माष्टाक्षरं मंत्रेणत्रिरभिमंत्र्य पुनरुच्चार्य
आत्मशक्ति श्रीपादुकां पूजयामिति हेतुमध्ये संपूज्य पुनः प्रणवेन
त्रिरभिमंत्र्य पुनः प्रणवमुच्चार्य परं निष्क शांभवी श्री० । इति
हेतुमध्ये संपूज्य पुनः हं सः इति मंत्रेण त्रिरभिमंत्र्य हं सः
अजपाशक्ति श्री० । इति संपूज्यमातृकया प्रत्यक्षरं बिंदुरहितया
त्रिरभिमंत्र्य पुनस्तामुच्चार्य मातृका सरस्वती श्री० । इति हेतु मध्ये
संपूज्य मूलतार्तीयकूटेन दशधाभिमव्यपुनस्तार्तीय कूटमुच्चार्य
त्रिपुरामृतेश्वरी श्री० । इति हेतुमध्य संपूज्य । ४ हसहक्षमलवरयूं
सहक्षमलवरयीं इत्यानंदभैरवमिथुनविद्याभ्यां त्रिरभिमंत्र्य
हसक्षमलवरयूं आनंदभैरवाय वौषट्
प्. १५८अ)
आनंदभैरव श्रीपादुकां पूजयामि तर्पयामी नम इति त्रिः संतर्प्य ४
सहक्षमलवरयीं सुधादेव्यै वट् सुधादेवी श्री० । इति त्रिः संपूज्य
संतर्प्य ह्सौं वरुणाय नमः । शौं वरुणा देव्यै नमः । इति
वरुणमिथुनविद्याभ्यां त्रिरभिमंत्र्य ४ पुनः पृथगुच्चार्य वरुण श्री० ।
वारुणीदेवी श्रीपादुकां पूजयामीति संपूज्य संतर्प्य ततो बालया
वक्षमाणनित्या षोडशमंत्रैश्च सकृत्सकृदभिमंत्र्य । तद्दिन नित्या
विद्यया तत्तिथि नित्याविद्यया च पृथक् त्रिस्त्रिरभिमंत्र्य पराप्रासाद
प्रासादपरमंत्राभ्यां उर्ध्वाम्नाय दिक्षितश्चेत् ह्सौंः शौंः इति
मंत्राभ्यां त्रिरभिमंत्र्य ततश्चरणदिंदीक्षीतश्चेत् चरणकुलयोगिनी
विद्याभ्यां त्रिस्त्रिरभिमंत्र्य ततः सौः इत्यनुतरपराविद्ययादीक्षितश्चेत्
तया त्रिरभिमंत्र्य पूर्णाभिषिक्तश्चेत् कामकलाविद्यया
त्रिरभिमंत्र्य षडन्वय शांभवदीक्षा युक्तश्चेत्
तद्विद्याभिस्त्रिस्त्रिरभिमंत्र्यतते विक्ष्यमाण पांचभौतिक
मंत्रैस्त्रिस्त्रिरभिमंत्र्य सृष्ट्यादि दशकला हेतुमध्ये समावाह्य
प्राग्वतन्नामपुरःसरं तासां प्राणप्रतिष्ठां विधाय ओं हं सः
शुचि षद्वसुरंतरिक्ष
प्. १५८ब्)
सद्धोतां वेदिषदतिथिर्दुरोणसत् ।। नृषद्वरसदृतसव्योमसदज्बागोजा ऋतजा
अद्रिजा ऋतं बृहत् ।। अनया ऋचा सकृदभिमंत्र्यपुनरुच्चार्य ब्रह्मणे नम इति
हेतुमध्ये संपूज्यकं सृष्ट्यै नम इत्यादि प्रागुक्तकला
मातृकान्यासोक्तप्रकारेण कचवर्गकलाः संपूज्य ततः टतवर्गोत्थ जरादि
दशकलाः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय ।।
प्रतद्विष्णुस्तवते वीर्येण मृगो न भीमः कुचरोगिरिष्ठाः ।। यस्योरुषु त्रिषु
विक्रमणेष्वधिक्षियंति भुवनानि विश्वा ।। अनया ऋचा सकृदभिमंत्र्य
पुनरुच्चार्य विष्णुवे नम इति संपूज्य टं जरायै नम इत्यादिताः संपूज्य
पयवर्गोत्थ कलास्तीक्ष्णाद्याः समावाह्य ।। प्राग्वत् तासां
प्राणप्रतिष्ठां विधाय ।।
त्र्यंबकं यजामहे सुगंधिपुष्टिवर्द्धनं ।।
उर्वारुकमिव बंधनान्मृत्योमृक्षीय मामृतात् ।।
इत्यभिमंत्र्य पुनरुच्चार्य रुद्राय नम इति संपूज्य पं तीक्ष्णायै नम
इत्यादिभिः संपूज्य पुनः षकारादि क्षकारांत पंचवर्णोत्थाः पीतादि
पंचकलाः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय
गायत्र्याभिमंत्र्य पुनरुच्चार्य इश्वराय नम इति संपूज्य षं पीतायै
नम
प्. १५९अ)
इत्यादिताः संपूज्य ततः स्वरोत्थानि निवृत्यादि षोडशकलाः समावाह्य
प्राग्वत् तासां प्राणप्रतिष्ठां विधाय ।। विष्णुर्योनिं कल्पयस्विति
मंत्रस्य त्वष्टा गर्भकर्ता ऋषिः अनुष्टूप्छंदः श्रीविष्णुर्देवता
श्रीसदाशि * पूजार्थे जपे विनियोगः ।। विष्णुर्योनिं कल्पयतु त्वत्वष्टारूपाणि
पिंशत् ।। आसिंचतु प्रजापतिर्धाता गर्भं दधातु ते ।। इत्यभिमंत्र्य
पुनरुच्चार्य सदाशिवाय नम इति हेतुमध्ये सकृत्संपूज्य अं निवृत्यै नम
इत्यादिताः संपूज्य मातृकया द्विरभिमंत्र्य पुनरभिमंत्र्य मातृका
सरस्वती श्री० इति संपूज्य ।।
ऐं अखंडै करसानंदकरे परसुधात्मनि ।।
स्वछंदस्फुरणामत्र निधे ह्यकुलरूपिणि ।।
इत्यनेन त्रिरभिमंत्र्य ।।
क्लीं अकुलस्थामृताकारे सिद्धिज्ञानकरे परे ।।
अमृतत्वं निधे ह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ।। १ ।।
इति च त्रिरभिमंत्र्य सौः त्वद्रूपेणैकरस्य त्वं दवार्घ्ये तत्स्वरूपिणि ।।
भूत्वा परामृताकारामयि च स्फुरणं कुरु ।। इति च त्रिरभिमंत्र्य ।। ऐं प्लुं
जूं सः अमृते अमृतोद्भवे अमृतेश्वरी अमृतवर्षिणी अमृतं स्रावय स्रावय
स्वाहा ।। इति अमृतेश्वरी
प्. १५९ब्)
विद्यया चतुर्वारमभिमंत्र्य । पुनस्तामुच्चार्य अमृतेश्वरी श्री० । इति
सकृत्संपूज्य ततः ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय
महाक्षोभं कुरु कुरु क्ली सौः मोक्षं कुरु कुरु सौः ह्सौः ।। इति दीपनी
विद्यया पंचवारमभिमंत्र्य ततस्तत्र मूलविद्यामष्टधा जपित्वा
तन्मध्ये चतुरस्रं पश्चिमद्वारं विचिंत्य तद्वारपार्श्वयोः
कुलबटुकनाथ तद्वल्लभां वा श्री० ।। कुलगणपतिनाथ तद्वल्लभां वा
श्री० ।। इति दक्षिणवामयोः संपूज्य तदंतः प्राग्वत् षडासनानि संपूज्य
तन्मध्यत्रिकोणमध्यस्थ बिंदुमध्ये कामकलायां
वक्ष्यमाणप्रकारेण देवीमावाह्य ध्यात्वा षडंगन्यासयोगेन
सकलीकृत्य गंधादिभिः संपूज्य वक्ष्यमाण विधिना देव्यंगे
लयांगं संपूज्य तिथि
नित्याषोडशनित्यागुरुपंक्तित्रयं षडंगयुवतीश्च संपूज्य
वक्ष्यमाण समष्टि योगिनी मंत्रेण त्रिः सकृद्वा पुष्पांजलिं दत्वा
धूपदीपौ निवेद्य योनि धेनु महायोगिनि त्रिशिखापद्मसंक्षोभ
द्रावणाकर्षवश्योन्मादमहांकुश खेचरी बीजयोनि
पाशांकुशधनुर्बाणाख्या अष्टादशमुद्राः प्रदर्श नमस्कार
मुद्रया प्रणमेत् ।।
प्. १६०अ)
अत्र एतावत् कतुमशक्तश्चेत् अभिमंत्रण पूजनयोरन्यतमं कुर्यात् । तत्रापि
असक्तश्चेत् आत्माष्टाक्षरपूजां तं कृत्वा आनंदभैरवमिथुनं
संपूज्य संतर्प्य सृष्ट्यादि कलापूजामारभ्य शेषं
प्राग्वत्समापयेदिति ।।
विशेषार्घस्थपनविधिः ।।
ततस्तत्परतस्तेनैव विधिना श्रीपात्राख्यं पात्रांतरं स्थापयेत् तेन
मूलदेव्यतिरिक्तावरणदेवतास्तर्पयेत् ।। पूजासमर्प्यादिकं
मूलदेव्यास्तर्पणं च विशेषार्घेणैव ।। तत्र अनंगकुसुमादि
पर्यंतमावरण त्रयं पूजा समर्पणमर्घदानं च सामान्यार्घ
जलैरेव कुर्यात् ।। इति श्रीपात्रस्थापनविधिः ।
ततस्तदनुक्रमेणैव तदधः पंक्याकारेण पाद्याचमनीय
मधुपर्कार्थं पात्रत्रयं सामान्यार्घविधिनैव स्थापयेत् ।।
तदशक्तौ त्रिकोणमंडल त्रये साधारं प्रात्र त्रयं निधाय तत्र पात्र
द्वयं शुद्धजलेनापूर्य तृतीयं मधुपर्कद्रवेणापूर्य तेषु
विशेषार्घजलं किंचिदत्वा मूलविद्यया पृथक् पृथक् अष्टवार
अभिमंत्रयेत् ।। मधुपर्के तु काश्यपात्रं प्रशस्तं ।। ताम्रवर्जमन्यतरं
प्. १६०ब्)
वा पात्रांतरेणाछादितं कुर्यात् ।।
गंधपुष्पाक्षतकुशाग्रतिलसर्षपदूर्वाः सामान्यार्घे निक्षिपेत् ।।
पाद्यपात्रे श्यामाकतंदुलदूर्वाकमुलापराजितापुष्पोशीररोचनाख्य
द्रव्याष्टकं निक्षिपेत् ।। आचमनीय पात्रे जातीफललवंगकं कोलचूर्णानि
निक्षिपेत् ।। उक्त द्रव्यालाभे तत्तद्वस्तु भावनया तदुलन्निक्षिपेत् ।।
मधुपर्कपात्रे दधिमधुघृतानि निक्षिप्युविशेषार्घ बिंदुना संस्कुर्यात् ।।
दध्याद्यलाभे जनेनैव तद्भावनया पूरयेत् ।।
ततः स्वदक्षिणाग्रे पाद्यादि पात्रविधानेनैव पुनराचमनीय पात्रं
प्रोक्षणी पात्रं च स्थापयेत् ।। अत्राप्यशक्तौ पाद्यादि त्रयमेकस्मिन्नेव
पात्रे दद्यात् ।।
ततः गुरुमुखादवगत विनियोग विधौ पात्र चतुष्टयं सामान्यार्घ
विधिना प्रोक्षणीपात्रात् परतः स्थापयेत् ।। तेषां नामानि तु गुरुपात्रं
शक्तिपात्रं बटूकपात्रं आत्मपात्रं चेति । गुरुपादुका विद्यया
गुरुपात्रं । बालविद्यया शक्तिपात्रं ।। बटूकपात्रं तन्मंत्रेण
आत्मपात्रमात्माष्टाक्षरमंत्रेण चेति तत्तन्मंत्रे
ततत्पात्रमष्टधाभिमंत्रयेत् । ततः प्रोक्षणीपात्रोदकेन
प्. १६१अ)
पात्रांतरोद्धृतेन ओं ऐं ह्रीं श्रीं ऐं प्रथमकूटमुच्चार्य
आत्मतत्वात्मने नमः । ४ क्लीं द्वितीयं विद्यातत्वात्मने नमः ।। ४ सौः
तृतीयं शिवतत्वात्मने नमः । ततः ४ ऐं क्लीं सौः समस्तमुच्चार्य
सर्वतत्वात्मने नमः ।। इति स्वात्मानं प्रोक्ष्य पुनर्मुलेन यागभूमिं
यागोपकरणानि च श्रीचक्रं प्रोक्ष्यसवं वस्तुषु धेनुमुद्रां प्रदर्शयेत्
।। इति अर्घ्यादि स्थापनविधिः ।।
अत्र श्रीपात्रस्थापनाशक्तौ विशेषार्घेणैव प्रोक्त पूजादिकं कुर्यादिति ।।
अथात्मपूजा ।।
तत्र स्वपुरतस्त्रिकोणमंडले साध्यारं पात्रं संस्थाप्य
कलशोदकेनापूर्य विशेषार्घबिंदुं दत्वा स्वदेहं चंदनादि
रक्तोपचारैरलंकृत्यात्मानमिष्टदेवतारूपं ध्यायन् गुरुगणपति
परदेवताः प्रणम्य मूलाधारादि ब्रह्मरंध्रांतं बिसतंतुं
तनीयंसी चंद्रकोटि प्रभाद्रवां कुंडलीनीं मनोलय पर्यंतं
ध्यात्वा परमानंदनिर्भरस्तदात्मकत्वेन मूलविद्यामपि मूलादि
ब्रह्मरंध्रांतं तेजोमयीं विभाव्य तत्तेजसापरितं
स्वेष्टदेवतारूपं स्वदेहं भावयन्नात्मपूजां कुर्यात् । (ततस्तत्र
सोमस्य षोडशकलासमावाह्य प्राग्वतन्नामपुरःसरं तासां प्राण) ।।
प्. १६१ब्)
तद्यथा ।।
तत्र प्रागुक्त योगपीठन्यास प्रकरणोक्त प्रकारेण स्वदेहं सिंहासनत्वेन
परिकल्प्य प्रथमं शिरसि प्रणव त्रिताराढ्यां श्रीगुरुपादुका
विद्यामुच्चार्य श्री-अमुकानंदनाथ श्रीपादुकां पूजयामि तर्पयामि
नम इति संपूज्य संतर्प्य मूलाधारे गं गणपति श्रीपादुकां पू० ।। त०
। नम इति संपूज्य संतर्प्य प्रागुक्त योगपीठन्यासक्रमेण
मंडूकाद्यान्मूलाधारादिन् तत्स्थानेषु प्रणव त्रितार चतुर्थ्यं
ततत्तन्नामभिर्नमोंतैः सिंहासनां तं संपूज्य दक्षिणां
सवामां सवामोरु दक्षिणोरु सर्वांगेषु वक्ष्यमाण पंचप्रेतासनं
संपूज्य दक्षिणांसादि स्थानेषु धर्मादि चतुष्टयं मुखादि स्थानेषु
अधर्मादि चतुष्टयं च तथैव संपूज्य पुनर्हृदय कमल एव माया विद्ये
संपूज्य मध्ये पंचदशफणान्वितमनंतं ध्यात्वा
तन्मध्यफणायामष्टदलकमलं कामेश्वरी पीठं ध्यात्वा
नंतपद्मादि परतत्वांतं संपूज्य तत्केसरेषु प्रागादि प्रादक्षिण्येन ४
मोहिनी श्री० । ४ क्षोभिणी श्री० । ४ वशिनी श्री० । ४ स्तंभिनी श्री० । ४ आकर्षणी
श्री० । ४ द्रावणी श्री० । ४ आह्लादनी श्री० ।
प्. १६२अ)
४ क्लिन्ना श्री० । ४ इति संपूज्य मध्ये ४ क्लेदिनी श्रीपादुकां पूजयामि इति
संपूज्य क्लीं सर्वशक्ति कमलासनाय नम इति योगपीठत्वेन पुष्पांजलिना
समस्तं देहं संपूज्य तन्मध्यकर्णिकायां श्रीचक्रं विभाव्य ४
समस्तप्रकटेत्यादि योगिनी समष्टि विद्यया त्रिः समस्तं देहं संपूज्य
प्रागुक्त योगपीठन्यासक्रमेण षडासन पर्यंतं प्राक् न्यस्तस्थानेषु
संपूज्य दक्षिणां सपृष्ठदक्ष कर्णपृष्ठदक्ष शंखदक्ष
ललाटदक्ष नेत्रदक्ष नासापुटदक्ष चुबुकहृदय त्रिकोण तन्मध्येषु ४
नादशक्ति श्री० । ४ बिंदुशक्ति श्री० । ४ कलाशक्ति श्री० । ४ ज्येष्ठाशक्ति श्री० । ४
रौद्रीशक्ति श्री० । ४ वामाशक्ति श्री० । ४ विषघ्निशक्ति श्री० । ४ दूतशक्ति श्री० ।
४ सर्वां नंदाशक्ति श्री० । इति संपूज्य ।।
अं कं ३६ इत्यादि शिवशक्ति सदाशिवेत्यादि न्यासोक्त समष्टि पीठमंत्रेण
सर्वांगं संपूज्य हृदयकमले यथोक्तरूपां भगवतीं ध्यायन्
तत्तेजसा व्याप्तं स्वदेहं श्रीभगवतीरूपं विचिंत्य मूलमुच्चार्य
श्रीमहात्रिपुरसुंदरी श्रीपा० । त० । नम
प्. १६२ब्)
इति शिरसि त्रिःपुष्पांजलिभिः संपूज्य पुरःस्थापित पात्रोदबिंदुंभिः
संतर्प्य पुनः प्राग्वन्मुलेन शिरोहृदयगुह्यपादद्वय सर्वांगेषु
पंचपुष्पांजलिभिः संपूज्य संतर्प्य हृदय त्रिकोणे शिरस्त्रिकोणे वा
वक्ष्यमाणप्रकारेण लयांगतिथि नित्याषोडश नित्यागुरुपंक्ति
त्रय षडंगयुवतीस्तत्तत्स्थानेषु वक्ष्यमाणप्रकारेण संपूज्य
संतर्प्य हृदय त्रिकोण पूजायां संहार श्रीचक्रोक्तन्यासप्रकारेण
नवावरणशक्तिः पूजयेत् ।। शिरस्त्रिकोण पूजाचेत् सृष्टि श्रीचक्रन्यासक्रमेण
नवावरणशक्तीश्चक्रेश्वरीश्च पूजयित्वा तर्पयेत् ।। एतावत्
कर्तुमशक्तौ षडंगयुवतीपूजांते समस्तप्रकटेत्यादि समष्टि विद्यया
त्रिः संपूज्य संतर्प्य चतुःसमयचतुराम्नाय षट् दर्शनदेवताश्च
वक्ष्यमाण श्रीचक्रपूजाक्रमेण पूजयेत् ।। उर्ध्वाम्नाय
दीक्षितश्चेन्महाषाढान्यासोक्तरूपं स्वात्मानं ध्यात्वा तद्विद्यया
वक्ष्यमाणप्रकारेण त्रिःसंपूज्य शक्तश्चेन्माहाषोढोक्त
देवतास्तन्यासस्थानेष्वेव संपूज्य संतर्प्य शिरसि परापादस्य गुरुपंक्ति
त्रयं पूजयेत् ।।
प्. १६३अ)
ततश्चरणदिक्षितश्चेत् प्रागुक्तचरणादि विद्याभिस्तन्यासस्थानेषु संपूज्य
तर्पयेत् ।।
ततः पूर्णाभिषिक्तश्चेद्वक्ष्यमाणप्रकारेण
शिरसिकामकलापारंपर्येण संपूज्य संतर्प्यशांवदीक्षायुक्तश्चेत्
तन्मिथुनषट्कं तद्गुरुक्रमं तद्रश्मिक्रमं च प्रागुक्तन्यासस्थानेषु
संपूज्य तर्पयेत् । अत्र सर्वत्रात्मपूजायां विस्ताराशक्तौ
तत्तन्मूलदेवतास्तत्तद्गुरुक्रमं च संपूज्य संतर्पयेदिति संक्षेपः ।।
ततः पूर्ववत् पुष्पांजलि पंचकं स्वदेहे समस्तकादिषु प्रागुक्तस्थानेषु
विधायधूपदीपौ निदेद्य अंतर्हवनं कुर्यात् ।।
तत्र मूलाधारे त्र्यस्रं कुंडं विभाव्य तन्मध्यस्थ कालाग्निमेव
कामाग्निं वासनारूपे साधन प्रज्वलितं प्राणादि पंचवायुभिः
संरांक्षितं कुंडलिनीरूप परदेवताधिष्ठितं चिदग्निमंडलं
विभाव्य प्रणव त्रितारादि मूलविद्यांते धर्माधर्म हवि दीप्ते आत्माग्नौ
मनसा स्रुच । सुषुम्णावर्त्मना नित्यमक्ष वृत्तिर्जुहोम्यहं इदं जुहोमि
स्वाहा ।। इति पुण्यपापकृत्याकृत्य संकल्पविकल्प धर्मात्मकं हविः
सप्तकं सप्ताहुत्या हुत्वा
प्. १६३ब्)
ततः प्रणवत्रितारादि मूलविद्यांते प्रकाशामर्श
हस्ताभ्यामवलंव्योन्मनी सुचं । धर्माधर्मकलास्तेहं पूर्णवह्नौ
जुहोम्यहं अधर्मं जुहोमि स्वाहेति पूर्णाहुति हुत्वा निरस्तनिखिलप्रपंचो
निष्कलब्रह्मरूपः साधकः कियत् क्षण तिष्ठेत् ।।
ततो देवीरूपमात्मानं ध्यात्वा श्रीगुरुपादुकां प्रणम्य शिरसि
अन्नपूर्णां ध्यात्वा तन्मंत्रेण वक्ष्यमाण पूजाप्रकारेण तां
संपूज्य संतर्प्य पूजाशिष्टं तत्पात्रस्थमुदकं गुरुपादुका
मूलविद्याभ्यां कुंडल्यात्मक श्रीपरदेवता मुखे जुहोमीति धिया
प्राश्य श्रीपरदेवतारूपमात्मानं ध्यायन्प्राणायाम । ऋष्यादि
करषडंगं न्यासपूर्वकं मूलविद्यामष्टोत्तरशतवारं जपित्वा
पुनः प्राणायामपूर्वकं जपं समर्प्य स्तुत्वा प्रणमेदिति आत्मपूजा ।।
।। श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।।
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
i5wkmrfma9eqtaxc6ohx0ouy2x3li5k