विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.10 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk सदस्यः:V(g) 2 25211 417796 417780 2026-07-11T05:03:37Z EmausBot 3495 [[सदस्यः:G(x)]] को दोहरे पुननिर्देशित ठीक किया। 417796 wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यः:G(x)]] 95d6euwz5uasoehai0z4cdinzeslj5p सौभाग्यरत्नाकरः 0 165510 417795 417782 2026-07-10T14:02:54Z Shubha 190 417795 wikitext text/x-wiki {{header | title = सौभाग्यरत्नाकरः | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> प्. १) श्रीगणेशाय नमः ।। ओं अथ ।। प्रारंभे सरणे भंगे यन्मदस्यंदबिंदवः ।। कारणानि प्रपंचस्य तं वंदे वारणाननं ।। १ ।। सच्चिदानंदनाथांघ्रिसरोरुहयुगं भजे ।। यत्कटाक्षक्षणोत्क्षेपा छिवोहं पंच कृत्यकृत् ।। २ ।। प्रकाशरूपा प्रथमे प्रयाणे मृतवर्षिणी ।। प्रतिप्रयाणे चामंतः पदव्यां चित्कलां भजे ।। ३ ।। आलोक्य सर्वतंत्राणि याम्यदीन्यशेषतः ।। ज्ञात्वा गुरुमुखात्तेषां रहस्यार्थांश्च तत्वतः ।। ४ ।। सच्चिदानंदनाथांघ्रि सरोज द्वय षट्पदः ।। श्रीविद्यानंदनाथोहं वीतरागो विविक्तधीः ।। ५ ।। विचरन्मेदिनीमेतां विद्वद्भिर्विमलात्मभिः ।। प्रयागे प्रार्थितः प्रीत्यै तेषां लोक हिताय च ।। ६ ।। पंचश्रोतः पयोगाधं तन्मंत्रमणिसंकुलं ।। समस्तयोगिनीचक्रं प्रवाललतिकोज्वले ।। ७ ।। नित्यामंडलपूर्णेंदु ज्योत्स्नाजालविजृंभितं ।। नवचक्र महाद्वीपं न्यासजालांतरंगकं ।। ८ ।। श्रीनाथपादुकापोतं चतुर्वर्गफलामृतं ।। प्रकाशयामि सौभाग्यरत्नाकरमति स्फुटं ।। ९ ।। श्रीविद्यायाः सभेदाया नित्य नैमित्तिकार्चनं ।। प्. १ब्) काम्यार्चनं च दीक्षांग भूतं प्राच्यादि साधनं ।। १० ।। दीक्षाभेदः पुरश्चर्या तत्कर्मनियमादिकं ।। काम्यहोमविधिश्चैव सौम्यक्रूरविभेदतः ।। ११ ।। समस्तव्यस्तविद्याया जपात्काम्यफलोदयः ।। सदाचारादिकं चैव लिख्यते रत्नवारिधौ ।। १२ ।। तत्र श्रीमान्साधको रजनीतूर्ययामे विबुध्यावश्यकं कृत्वा हस्तौ पादौ प्रक्षाल्य धौते वाससी परिधायाचम्य स्वासने समुपविश्य पूजामूर्त्तेर्निर्म्माल्यमपकृष्य पूर्वदिनपूजावशिष्टपुष्पादिना वक्ष्यमाणसमस्तप्रकटेत्यादिसमष्टिविद्यया त्रिभिरभ्यर्च ब्रह्मरंध्रस्थश्वेतसहस्रदलकमलकर्णिकायां सिंहासने समुपविष्टं वामांगगतया देव्या रक्तवस्त्राभरणमाल्यानुलेपभूषितं चन्द्रकांतनिभं त्रिनेत्रं ज्ञानमुद्रापुस्तकवराभयकरं शांतं सुप्रसन्नं शिवरूपिणं श्रीगुरुं ध्यात्वा तच्चरणारविंदयुगलविगलदमृतधाराभिः स्वदेहं परिप्लुतं विभाव्य प्रणवत्रितारसूच्चार्य वक्ष्यमाणश्रीगुरुपादुकाविद्यांते श्री-अमुकानंदनाथ प्. २) श्रीपादुकां पूजयामि इति मानसैरूपचारैः संपूज्य ।। स्तोत्रं पठेत् ।। तद्यथा ।। स्तुवीत पंचभिः श्लोकैस्तं नित्यं सर्वसिद्धय ।। प्रातः प्रबोधसमये जपात् सुदिवसो भवेत् ।। १ ।। नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।। विद्यावतारसंसिध्यै स्वीकृतानेकविग्रह ।। २ ।। नवाय नवरूपाय परमार्थप्रकाशिने ।। सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ।। ३ ।। स्वतंत्राय दयाकॢप्तविग्रहाय शिवात्मने ।। परतंत्राय भक्तानां भव्यानां भव्यरूपिणे ।। ४ ।। विवेकीनां विवेकाय विमर्शाय विमर्शिनाः ।। प्रकाशाना प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ।। ५ ।। पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्ययधः ।। सदा मच्चित्तरूपेण विधेहि भवदासनं ।। ६ ।। त्वत्प्रसादादहं देव कृतकृत्योस्मि सर्वदा ।। मायामृत्यु माहापाशाद्विमुक्तोस्मि शिवोस्मिहं ।। ७ ।। इति प्रणम्य ।। प्रातरारभ्य सायांतं सायांदिप्रारं ततः ।। यत्करोमि जगंन्नाथ तदस्तु तव पूजनं ।। ८ ।। इति समर्प्य ।। हृन्मंत्रेण स्वहृदि लयं भावयेत् ।। इति गुरुध्यानं विधाय ।। प्. २ब्) स्वमूलाधारे चतुरस्रवेष्टितं वादिसांतवर्णचतुष्टय युक्त चतुर्दल पंकजं पीतवर्णं ध्यात्वा तत्कर्णिकायां सोमसूर्याग्निमयमकथादि त्रिरेखं कुलशृंगाटं त्रिकोणं विभाव्य तन्मध्ये कोटिसूर्यं प्रतीकाशं चंद्रकोटि सुसीतलं जपाकुसुमप्रभं सत्वरजतमोगुणाक्रांतं कामाख्यं बिंदुं विभाव्य तदूर्ध्वं कुंडलनीं शक्तिं चिद्रूपामष्टत्रिंशत्कलायुक्त पंचाशद्वर्ण विग्रह श्रीविद्या स्वरूपिणीं तडित्कोटिप्रभा दीप्तां बिसतंतु तनीयसीं प्रसुप्त भुजगीमिव सार्ध त्रिवलयेन स्थितां स्वछादंडाहतां कृत्वोत्थाप्यगुरूपदिष्टविधिना सुषुम्णा मार्गेण मूलाधार स्वाधिष्ठानमणिपूरकानाहत विशुद्धाज्ञाख्य षट्चक्र भेदनक्रमेण ब्रह्मरंध्रस्थित सहस्रदलकमलं प्रापयय ततः स्रवदमृतधारया रक्तवर्णया वर्णमयया कुण्डलिनीं तां संतर्प्य पुनः सुधा स्रोत स्वरूपिणीमकुला मृतप्लवेन सुषुम्णांतर्गत तत्तदाधार तत्तधातु तत्तद्वर्ण तत्तदधि प्. ३) देवता प्लावयंतीमाज्ञा विशुध्यादि क्रमेण मूलाधारं नीत्वा तथैव स्थापयेदित्यारोहावरोह क्रमेण परां शक्तिं कुण्डलिनीं ध्यात्वा ।। विद्या कूट त्रयं ध्यायेत् ।। तत्र मूलाधारे वह्निमंडलं दश कलात्मकं विभाव्य तत्र मूल विद्यायाः प्रथमं कूटं वाग्भवाख्यं स्फुरत्तडिल्लता भासुरमनाहत पर्यंतं प्राप्त नादशिखं विभाव्य अनाहते सूर्यमंडलं द्वादशकलात्मकं ध्यात्वा । तन्मध्ये मूलविद्यायांः कामराजाख्यं द्वितीय कूटमुघद्दिनकरसंकाशमाज्ञापर्यंतं प्राप्त नादशिखं अध ऊर्ध्वं प्रसृत रस्मिकं ध्यात्वा । आज्ञाचक्रे सोममंडलं षोडशकलात्मकं ध्यात्वा तन्मध्ये मूलविद्यायाः शक्त्याख्यं तृतीय कूटं पूर्णचंद्रनिभं ब्रह्मरंध्रपर्यंतं प्राप्तनादशिखं अध ऊर्ध्वं प्रसुत रश्मिकं ध्यात्वा । ततो मूलाधारादि ब्रह्मरंध्रांतं मूलविद्यांमुद्यद्दिनकर प्. ३ब्) सहस्रभासुरां तेजो दंडमयीं अखंडां ध्यात्वा । तत्तेजसा व्याप्तं स्वदेहं परिचिंत्य तत्तेजसा परिणतां श्रीपरदेवतां हृदय कमले ध्यात्वा मानसैरुपचारैः पूजयित्वा । मूलविद्यया प्राणायाम त्रयं मूलविद्यायाः वक्ष्यमाण ऋष्यादिकरषडंगन्यासांश्च कृत्वा मूल विद्यां यथाशक्तिं जपित्वा जपित्वा जपं समर्प्य ।। प्रातर्नमामि जगतां जनन्याश्चरणांबुजं ।। श्रीमत्त्रिपुरसुंदर्या नमिताया हरादिभिः ।। १ ।। प्रातःस्त्रिपुरसुंदर्या नमामि चरणांबुजं ।। हरिर्हरो विरिंचिश्च सृष्ट्यादीन् कुरुते यया ।। २ ।। प्रातस्त्रिपुरसुंदर्या नमामि पद पंकजं ।। यप्ताद्यमंबुशिरशि भाति गंगा महेशितुः ।। ३ ।। प्रातः पाशांकुशशरचाप हस्तां नमाम्यहं ।। उद्यदादित्य संकाशां श्रीमत्त्रिपुरसुंदरी ।। ४ ।। प्रातर्नमामि पादाब्जं ययेदं भासते जगत् ।। तस्यास्त्रिपुरसुंदर्या यत्प्रसादान्निवर्त्तते ।। ५ ।। यः श्लोक पंचकमिदं प्रातर्नित्यं पठेन्नरः ।। तस्मै दद्यादात्म पदं श्रीमत्त्रिपुरसुंदरी ।। ६ ।। इति स्तुत्वा प्रणम्य तस्यै निज कृत्यं निवेदयेत् ।। प्. ४) तद्यथा ।। इति समर्प्य स्वकर्मानुष्टानार्थं देव्याज्ञां प्रार्थयेत् ।। तद्यथा ।। त्रैलोक्य चैतन्य मयीश्वरेशि श्रीसुंदरित्वच्चरणाज्ञयैव ।। प्रातःसमुत्थाय तव प्रियार्थं संसारयात्रामनुवर्त इष्ये ।। १ ।। संसारयात्रा मनुवर्तमानं त्वदाज्ञया श्रीत्रिपुरे परेशि ।। स्पर्द्धा तिरस्कार कलि प्रमाद भयानिमामाभि भवंतु मातः ।। २ ।। जानामि धर्मं न च मे प्रवृत्तिर्जानामि धर्मं न च मे निवृतिः ।। त्वया हृषीकेशि हृदि स्थिताहं यथा नियुक्तोस्मि तथा करोमि ।। ३ ।। इति देव्याज्ञां प्रार्थ्य० स्वगुरूपदिष्टमार्गेण नादानुसंधान पूर्वकं निरस्त समस्तोपाधिना केनापि चिद्विलासेन प्रवर्त्तमानोस्मिति विभाव्य स्वकर्मानुष्ठानाय गुरूपदेशेन ज्ञातं सहज सिद्धमजपाजपं तत्तद्देवताभ्यः समर्पयेत् ।। तद्यथा ।। अर्घ पूर्वेद्युर होरात्रोच्चरितमुछ्वासनिश्वासात्मकं षट्शताधिकमेकविंशति सहस्रसंख्याकमजपाजपं मूलाधार स्वाधिष्ठान मणिपूरका नाहत विशुध्याज्ञाख्या प्. ४ब्) ब्रह्मरंध्रेषु चतुर्दल षट्दल दशदल द्वादशदल षोडशदल द्विदल सहस्रदलेषु स्वर्णविद्रुम नीलपिंगलधूम्रविद्युत्कर्पूर वणेषु स्थितेभ्यो गणपति ब्रह्मविष्णुरुद्र जीवात्म परमात्म श्रीगुरुपादुकाभ्यो यथा भागशः समर्पयिष्यामीति कृतांजलिः संकल्प्य समर्पयेत् ।। तद्यथा ।। ओं ऐं हीं श्रीं मूलाधारस्थायगणपतये अजपा जपानां षट्शतानि समर्पयामि नमः ।। ४ ।। (मणिपूरक चक्रस्थाय विष्णवे अ) स्वाधिष्ठान चक्रस्थाय ब्रह्मणे अजपाजपानां षसहस्त्राणि समर्पयामि नमः ।। ४ ।। मणिपूरकत्रस्थाय विष्णवे अजपाजपानां षट्सहस्राणि समर्पयामि नमः ।। ४ ।। अनाहत चक्रस्थाय रुद्राय अजपाजपानां षट्सहस्राणि समर्पयामि नमः ।। ४ ।। विशुद्ध चक्रस्थाय जीवात्मने अजपाजपानां सहस्रं समर्पयामि नमः । आज्ञाचक्रस्थाय परमात्मने अजपा जपानां सहस्रं समर्पयामि नमः ।। (इति समर्पयेत् ।। एतावत्कर्तुम) प्. ५) सहस्रदल कमलकर्णिका मध्यस्थायै श्रीगुरु पादुकायै अजपाजपानां सहस्रं समर्पयामि नमः ।। इति समर्पयेत् ।। एतावत्कर्तुम शक्तश्चेत् ।। ४ ।। मया पूर्वेद्युरहोरात्रोच्चरितमुछ्वास निश्वासात्मकं षट्शताधिकमेक विंशति सहस्रसंख्याकमजपाजपं ब्रह्मरंध्रस्थ सहस्रदलकमल कर्णिका मध्ये वर्तिन्यै श्रीगुरुपादुकायै समर्पयामि नमः ।। इति गुरव एव समर्पयेत् ।। इत्यजपाजंपं समर्प्य ।। ओं ।। अद्य सूर्योदयमारभ्याहोरात्रेणोछ्वासमिश्वासात्मकं षट्शताधिकमेक- विंशति सहस्रसंख्याकमजपाजपमहं करिष्ये ।। इति कृतांजलिमुटः संकल्प्य ।। अजपा मंत्रेण प्राणायामत्रयं कृत्वा ।। शिरसि ४ हंसाय ऋषये नमः ।। मुखे ४ अव्यक्ता गायत्री छंदसे नमः ।। हृदि ४ परमहंसाय देवतायै नमः ।। मूलाधारे ४ हं बीजाय नमः ।। पादयोः ४ सः शक्तये नमः ।। नाभौ ४ सोहं कीलकाय नमः ।। प्. ५ब्) हृदये ४ ओंकाराय तत्वाय नमः ।। मूर्द्ध्नि ४ नभसे स्थानाय नमः ।। सर्वांगे ४ हैमाय वर्णाय नमः ।। कंठे ४ उदात्ताय स्वराय नमः ।। इति विन्यस्य । मम मोक्षार्थे जपे विनियोगः ।। इति कृतांजलिर्वदेत् ।। ततः अंगुष्ठयोः ओं ३ ह्सां सूर्यात्मने स्वाहा हृदयाय नमः ।। तर्ज्जन्योः ४ ह्सी सोमात्मने स्वाहा सिरसे स्वाहा ।। मध्यमयोः ४ ह्सूं निरंजनात्मने स्वाहा । शिखायै वषट् ।। अनामिकयो० ४ ह्सें निराभासात्मने स्वाहा कवचाय हुं ।। कनिष्ठिकयोः ४ ह्सौं अनंततनुः सूक्ष्म प्रचोदयात्मने स्वाहा नेत्रत्रयाय वौषट् ।। करतल करपृष्ठयोः ४ ह्सः अव्यक्त बोधात्मने स्वाहा अस्त्राय फट् ।। इति करयोर्विन्यस्य । हृदयादि षडंगेष्वप्येतानेव मंत्रान्विन्यस्य ।। ध्यानं कुर्यात् ।। तद्यथा ।। घां मूर्ध्हानं यस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ।। दिग्मिं श्रोत्रे यस्य पादौ क्षितिं च ध्यातव्योसौ सर्वभूतांतरात्मा ।। १ ।। आत्मा न भग्नीषोमाख्य पक्षयुक्तं शिवात्मकं ।। हकारेण बहिर्यांतं विशंतं च सकारतः ।। २ ।। प्. ६) हंसः सोहमिति स्मृत्वा सोहं व्यंजन हीनतः ।। पक्षान् संहृत्य चात्मानमंडरूपं विभावयेत् ।। ३ ।। इति विराट् स्वरूपं स्वात्मानं ध्यात्वा । तदनुसंधायी प्राणवायोर्निर्गंमप्रवेशात्मकं अजपा मंत्रं ।। हंसः पदं पंचविंशतिवारं जपित्वा समर्प्य गुरुनाथाय ।। ४ ।। ओं समुद्रे मेखले देवि पर्वतस्तनमंडले ।। विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।। ५ ।। धारणं पोशणं त्वत्तो भूतानां देवि सर्वदा ।। तेन सत्येन मां पाहि पापान्मोचय धारिणि ।। प्रातःकृत्यमकृत्वा तु यो देवि भक्तितो यजेत् ।। निष्पला तस्य पूजास्याछौचहीना यथा क्रिया ।। इति भूमिं प्रार्थ्य ।। श्वाप्लानुसारेण तस्यां पादं निधायोत्थाय पदे अस्त्रमुच्चरन् गृहाद्बहिर्निर्गत्यग्रामद्बहि नै-ऋत्यां याम्यां वा दिशिशक्षेप मात्रांभूवमतीत्य । दूरे गत्वामलमूत्रोत्सर्गा शौचाचमनादिवं यथा विधिं विधाया निषिद्ध दिनेषु विहित काष्ठेन ४ क्लीं कामदेवाय सर्वजन प्रियाय नम इति मंत्रेणं दंतान्विशोध्य जिह्वामुल्लिख्य दंतकाष्ठं प्रक्षाल्य पुरतः प्. ६ब्) शुद्धदेशे परित्यज्य वक्ष्यमाण चतुर्ल्लक्ष्मी विद्याभिर्मुखं प्रक्षाल्याचम्य तिलकुशकुसुमगंधाक्षतास्त्राभिमंत्रितशंकुनाशुचिस्थानादुद्धृत मृदगोमय धौतवस्त्राण्यादाय नद्यादौ गत्वा अस्त्राभिमंत्रित वारिणातीरं प्रक्ष्याल्य तत्रास्त्राभिमंत्रितं कुशादिकं निधायोद्धृत जलेन तीर्थाद्बहिः कटि शौच सुगंधामलकाद्युद्वर्त्तनामलापकर्षण स्नानं मृद्गोमयादिभिः स्वशाखोक्त विधिना वैदिक स्नानं च विधाय नाभि मात्रे जले स्थित्वा ।। ४ ।। ओं अद्येत्यादि श्रीपरदेवता प्रीत्यर्थं तांत्रिक विधिना स्नानमहं करिष्ये । इति संकल्प । मूलविद्यया प्राणायामत्रयं कृत्वा मूलविद्याया ऋष्यादि करषडंगन्यासांश्च विधाय स्वपुरतो हस्तमात्रं चतुरस्रं तीर्थं परिकल्प्य ।। ४ ।। ओं ब्रह्माडोदर तीर्थानि करैः स्पृष्टानि ते रवे ।। तेन सत्येन देवेश तीर्थं देहि दिवाकर ।। १ ।। इति सूर्यात्तिर्थं प्रार्थ्य ।। क्रोंमित्यंकुशमुद्रया सूर्यमंडलं भित्वा ।। ४ ।। गंगे च यमुने चैव गोदावरि सरस्वति ।। नर्मदा सिंधु कावेरि जलेस्मिन् संनिधं कुरु ।। १ ।। प्. ७) इति सूर्ययमंडलात्तीर्थमाकृष्य तज्जले पुरः कल्पित तीर्थ मंडले मूल विद्यया संयोज्य पुनः पुनः सूर्यमंडलाद्देव ।। ओं ऐं ह्रीं श्रीं ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः सर्वानंद मयि तीर्थ शक्ते एहि एहि स्वाहा ।। इति तीर्थ शक्तिमावाह्य तस्मिन् तीर्थ मंडल मध्ये तां ध्यायेत् ।। तद्यथा ।। सर्वानंदमयीमशेष दुरितध्वंसां मृगांक प्रभां त्र्यक्षां चोर्ध्व करद्वयेन दधतीं पाशं सृणिं च क्रमात् ।। दोर्भ्यां चामृत पूर्ण हेमकलशं मुक्ताक्षमालावरे गंगासिंधु सरिद्वयादि सहितां श्रीतीर्थ शक्तिं भजे ।। १ ।। दक्षाद्यूर्ध्वयोराद्ये मध्यस्थाभ्यां कलशं दक्षाद्यधःस्थयोरन्ये इत्यायुधध्यानं ।। इति ध्यात्वा तद्विद्यया गंधादि पंचोपचारैर्जलमयैस्तां संपूज्य ।। ४ ।। ओं नमो भगवति अंबो अंबालिके अंबिके महामालिनि एत्येहि भगवति अशेष तीर्थालवाले ह्रीं श्रीं शिवजटाधिरूढे गंगे गंगांबिके स्वाहा ।। इति मंत्रेण सप्तधाभिमंत्र्य ह्रींकारेण जलमालोड्यवमिति धेनुमुद्रया मृती कृत्य मूल विद्यायाः प्रथम कूटमुच्चार्य आत्मतत्वांत्मने नमः मिः । द्वितीय कूटं विद्या तत्वात्मने नमः । प्. ७ब्) तृतीय कूटं शिव तत्वात्मने नमः । इति तत्व त्रयं जले विन्यस्य तत्र श्रीचक्रं विभाव्य हृदय कमलाद्देवीमावाह्य षडंग न्यासेन सकलीकृत्य तासां वर्णानांस्तर्पयित्वा मूलविद्यया योनिमुद्रया तज्जलमष्टधाभिमंत्र्य तस्मि जले देवता मंत्रस्मरण पूर्वकं त्रिर्निमज्योन्मज्य कुंभमुद्रया मू * विद्यया स्वशिरसि त्रिरभिषिंच्याचम्य मूलविद्यया देवीं त्रिःसंतर्प्य देवीं विसृज्य वक्ष्यमाण प्रकारेण तत्वैराचम्यतीरमागत्य धौते वाससी परिधायाचम्य तीर्थ मृत्तिकादिनोर्ध्वपुड्रं विधाय सकुंकुमेन चंदनेन त्रिपुड्रं विधाय वैदिक संध्यां निर्वत्य - तांत्रिक संध्यां कुर्यात् ।। साचतुर्विध्य ।। प्रातर्मध्याह्न सायाह्न मध्यरात्रिभेदात् ।। तथा चोक्तं त्रिपुरार्णवे ।। संध्यां ।। चतुर्विधा ज्ञेया बालाकौमार यौवना ।। प्रौढा च निष्कूला चेति संध्या देवि प्रकीर्त्तिता ।। १ ।। प्रातःकाले महादेवी विद्यावागीश्वरी मता ।। कामेश्वरी च मध्याह्ने सायाह्ने त्रिपुर भैर भैरवी ।। मध्य रात्रे महादेवि ज्ञेया त्रिपुर सुंदरि ।। २ ।। इति ।। प्. ८) तत्र विधिवदाचम्य मूलविद्यया शिखां बध्वा तथैव प्राणायामत्रयं कृत्वा मूलविद्यया ऋष्यादि करषडंग न्यासान् विधाय स्वपुतो धेनुमुद्रया जलममृतीकृत्य मूलविद्ययाष्टवारमभिमंत्र्य तेन जलेन कुशैरकारादि क्षकारांतैः सबिंदुभिर्मातृकाक्षरैः प्रत्यक्षरं स्वशिरः प्रोक्ष्यमूलविद्यया च त्रिःसंप्रोक्ष्य सूर्यमंडले देवीं यथोक्त रूपां ध्यात्वा दक्षिण हस्तेन जलमादाय । लं वं रं यं हं इति पांचक भौतिकैर्मंत्रैः सप्तवारमभिमंत्र्य मूलविद्यया च त्रिरभिमंत्र्य तज्जल बिंदुभिर्वामांगुष्ठानामिकाभ्यां मूलविद्यया स्वशिरस्त्रिःप्रोक्ष्यावशिष्ट जलं वामहस्ते निधाय तेजो रूपं तज्जलमिडया कृष्य स्वदेहांत स्थितं सकल कलुषं प्रक्षाल्य तज्जलं कृष्णवर्णं पिगलया बहिर्निर्गतंमत्वातज्जलं पुनर्दक्षिणहस्ते कृत्वा स्ववामभागे ४ वलद्वज्रशिलां ध्यात्वा ।। ४ ।। ओं श्लीं पशु हं फट् इति पाशुपतास्त्र मंत्रेण तस्यां शिलांयामास्फाल्य हस्तौ प्रक्षाल्य प्. ८ब्) मूलविद्यया दक्षिणहस्ते जलमादाय प्रवहन्नाड्या सहस्रदल कमल गत परमामृतेनैकीभूतं विभाव्य राजदंतविवरान्नेत्रमार्गेण निर्गमयय तज्जलं वामके निधाय तेन जलेन ४ अमृत मालि स्वाहा इति मंत्रेण कुशैः स्वशिरः त्रिःप्रोक्ष्यः ।। ४ ।। प्रथम कूटमुच्चार्य आत्मतत्वं शोधयामि स्वाहा ।। ४ ।। द्वितीय कूटमुच्चार्य विद्यातत्वं शोधयामि स्वाहा ।। ४ ।। तृतीय कूटमुच्चार्य शिवतत्वं शोधयामि स्वाहा ।। इति त्रिराचम्य पुनरेतद्वैपरित्येनं त्रिराचम्य ।। तद्यथा ।। ४ ।। तृतीय कूटमुच्चार्य शिवतत्वं शोधयामि ।। ४ ।। द्वितीय कूटं विद्यातत्वं शो० । प्रथम कूटं आत्मतत्वं शो० ।। पुनः । समस्त विद्यामुच्चार्य सर्वतत्वं शोधयामि स्वाहा ।। इति त्रिधा ।। एवं नवधा जल प्राशनेन त्रिराचम्य ।। ४ ।। मूलविद्यया श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजयामि इति गंधपुष्पाक्षतैस्त्रिः संपूज्य ।। जलमंजलि नादायोत्थाय ४ प्रथम कूटमुच्चार्य वागीश्वरी विप्रहे द्वितीय कूटमुच्चार्य कामेश्वरी धीमही । तृतीय कूटमुच्चार्य तन्नः शक्तिः प्रचोदयात् ।। श्रीमहात्रिपुरसुंदरी श्रीपादुकायै एषोर्घः स्वाहा ।। प्. ९) इति त्रिरर्घ्यं दत्वा ।। ४ ।। ह्रां ह्रीं हंसः श्रीसूर्यं पूजयामि नमः इति सूर्यं त्रिः सपूज्य ।। ४ ।। ह्रां ह्रीं हं सः श्रीसूर्य एषतेऽर्घः स्वाहा इति सूर्याभिमुखमर्घमंजलि त्रयं दत्वा ।। ४ ।। मूलविद्यया श्रीमहात्रिपुरसुंदरी श्रीपादुकां तर्पयामि नमः इति महादेवीं त्रिःसंतर्प्य ।। ४ ।। ह्रां ह्रीं हं सः श्रीसूर्यं तर्पयामि नमः इति त्रिः सं * र्प्य ।। मूलाधारे प्रथमकूटं तडित्कोटि समप्रभं मूलादि ब्रह्मरंध्रांतं संचित्य तत्तेजः सुषुम्णा वर्त्मना ब्रह्मरंध्रं नीत्वा वहन्नासाध्वना आकाशस्थ वह्निमंडले समावाह्य तत्तेजसोद्भूतां वागेश्वरीं ध्यायेत् ।। तद्यथा ।। पीतां पीतांवरां पीत स्रग्विभूषानुलेपनां ।। तडित्कोटि प्रभाभासां बालामक्षस्रगुज्वलां ।। १ ।। पुस्तकाढ्य करां भोजां वहि पीठ निषेदुषीं ।। वाग्भवीं वाग्भवोद्भूतां त्र्यक्षणां सस्मितां स्मरेत् ।। २ ।। इत्याकाशस्थ वह्निमंडले ध्यात्वा ।। ४ ।। प्रथ * कूटमुचार्य त्रिपुरा वागीश्वरी श्रीपादुकां पूजयामि इति गंधपुष्पाक्षतैः स्त्रिः संपूज्य पुनर्वक्ष्यमाण वाग्भव गायत्रीं उच्चार्य त्रिपुरा वागीश्वरी श्रीपादुकायै प्. ९ब्) अर्घ्यं कल्पयामि स्वाहा इति त्रिरर्घांजलिमुक्षिप्य ।। पुनः प्रथ * कूटमुच्चर्य त्रिपुरा वागीश्वरी श्रीपादुकां तर्पयामि नमः इति त्रिः संतर्प्य ।। श्रीगुरु प्रणम्य ।। पूर्ववत् प्राणायाम ऋष्यादि करषडंगं न्यासां विधाय मातृकान्यासस्थानेषु प्रणवत्रितार मूलविद्यादि न नित्या विद्या हंसः । अं नमः ।। ३ ।। इत्यादिना मातृकां विन्यस्य । पूर्वोक्तां तुरीय गायत्रीं यथाशक्तिं जपित्वा वाग्भव कूट गायत्रीं जपेत् ।। सा यथा ।। ऐं त्रिपुरे देवि विद्महे वागीश्वरी धीमहि ।। तन्नो मुक्तिः प्रचोदयात् ।। इति वाग्भवगायत्रीं जपेत् यथा शक्तिं ।। ततो मूलविद्यां प्रातरित्थं जपेत् ।। तद्यथा ।। तत्र प्रातर्मूलाधारगते कमले वह्निमंडले ।। वाग्बीजरूपां नित्यां तां विद्युत्पटल भासुरा ।। १ ।। पुष्पबाणेक्षु को दंड पाशांकुश लसत्करां ।। स्वेछागृहीत वपुषीं युग नित्याक्षरात्मिकां ।। २ ।। घटिका वरणोपेतां परितः प्रांजली नथ ।। ज्ञानमुद्रा वरकरान् वाग्भवोपास्ति तत्परां ।। नवनाथान् स्मरेन् मूल पंकजे योनि मंडले ।। दक्षाधः करभारभ्य दक्षोर्ध्व कर पर्यंटतं आयुध ध्यानं ।। प्. १०) इत्थं संध्या चतुष्टयेपि ।। इति ध्यात्वा ।। प्रणव त्रिताराद्यामूलविद्यादि न नित्या विद्या हं सः अं आं इं ईं उं ऊं ऋ ॠं ह्रीं श्रीप्रकाशानंदनाथ रूपिणी श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजयामि ।। ४ ।। मूलविद्यामुच्चार्य प्राग्वत् दिन नित्या विद्या हं सः ऌं एं ऐं ओं औं अं अः ह्रीं श्रीं विमर्शानंदनाथरूपिणि श्रीपादुकां पू० ।। ४ ।। मू० दिः विहंसः कं खं गं घं ऽऽनं ह्रीं श्रीं आनंदानंदनाथ रू० पादुकां ।। ४ ।। मूलं दि० हं सः चं० ४ ह्रीं श्रीं श्रीज्ञानानदनाथ रूपि० पादुकां पू० ।। ४ ।। मू० दि० हं सः ।। टं ४ ह्रीं श्रीं श्रीसत्यानंदनाथरू० पादुकां पू० । मू० दि० हं सः तं ४ ह्रीं श्रीं श्रीपूर्णानंदनाथरू० पादु० ।। ४ ।। मूलं दि० ह सः पं ४ ह्रीं श्रीं स्वभावानंदनाथरू० पा० ।। ४ ।। मूलं दि० हं सः यं ४ ह्रीं श्रीं प्रतिभानंदनाथरू० पा० ।। ४ ।। मू० दि० हं सः षं ४ ह्रीं श्रीं सुभगानंदनाथ रूपि० पा० पूजयामि ।। इति नवनाथात्मकत्वेन मूलविद्यां जपेत् ।। ततस्तद्दिन नित्या विद्यां यथाशक्तिं जपित्वा ।। इति काल नित्या जपः ।। ततो मूलादि ब्रह्मरंध्रांतं मूलविद्यामुद्यत्सूर्य सहस्र समप्रभां प्. १०ब्) ध्यायन् मूलविद्यामष्टोत्तरशतं जपित्वा बहिराकाशस्थाग्नि मंडले पूर्योक्तरूपां वाग्भवेश्वरीं ध्यायन् प्रातर्वाग्भव कूटमष्टोत्तर शतं जपेत् ।। ततः प्राणायाम त्रयं ऋष्यादि करषडंगन्यासांश्च विधाय कृतं जपं देव्यै निवेद्य प्रणम्य स्तुत्वा सूर्यमंडलाद्वह्निमंदलाच्च मूलदेवीं वाग्भवेश्वरीं च स्वहृदये मूलाधारे च विसृज्य गुरुं प्रणमेदिति ।। इति प्रातः संध्याविधिः ।। अत्र कर्म कालेषु गुरुध्यानमुक्तं रुद्रयामले ।। दीक्षाकाले यथारूपं स्वस्यानुग्रह कर्मणि ।। दृष्टं तं तेन भावेन ध्यायन्नाह्निकमाचरेत् ।। इति गुरोरिति शेषः ।। एतद्गुरुध्यानं प्रातःस्मरणाति रिक्तकालेषु ज्ञेयं ।। प्रातः संध्येयमीशानि सर्वकर्मसु सर्वदा ।। कर्तव्या मंत्रिणा नित्यं मंत्रसिद्धिः समृद्धये ।। १ ।। प्रातः संध्यां परित्यज्य कर्म कुर्वन् ब्रजत्यधः ।। प्रातः संध्यां परित्यज्य देवता पूजनं चरेत् ।। अशुद्धः सुदुराचारः सर्वकर्म बहिःकृतः ।। ३ ।। प्रातः संध्यां परित्यज्य देव पूजादिकं चरेत् ।। प्. ११) मोहात् कृत्वा महेशानि नारकी जायते नरः ।। ४ ।। प्रातः संध्यां परित्यज्य होमं वा तर्पणं शिवे ।। कुर्वन्न कारणं विप्रस्त्यजन् श्वानो भवे धृवं ।। ५ ।। पिशाचो जायते देवि अपि वेदांत पारगः ।। संध्यानामपि सर्वासां प्रातः संध्या गरीयसी ।। ६ ।। तस्मात् तां न त्यजेद्विप्रस्त्यजन्नरकमाप्नुयात् ।। इति त्रिपुरार्णववचनादि यंमवश्यं कर्तव्येति शिवशासनं ।। अथ घटिका पारायण त्वेन षष्टि जपं कुर्यात् ।। स च पंचभिर्दिवसैर्मातृकायाः षडावृत्ति रूपः ।। तथा च तत्र राज पटले ।। ४ ।। आरभ्य भानोरुदयमेकशो घटिका क्रमात् ।। एकैकं मातृका वर्णाः पंचाशत् परिवृत्तितः ।। १ ।। दिवसैः पंचभिस्तस्याः षडावृत्तिरुदीरितेति ।। तस्या मातृकायाः ।। अयमर्थः ।। चतुर्युगेष्वपि तत्तद्युग प्रथम दिने सूर्योदय काले अकार उदयति ।। ततो द्वितीय घटिकादि पंचाशत् घटिका पर्यंतासु घटिकासु । अकारादि क्षकारांता वर्णा विसर्ग स्वर रहिताः स्वस्व घटिकोदय काले समुद्यंति ।। तत एक पंचाशत् घटिकामारभ्य शिष्ट दशघटिकासु अकारादि ऌकारांतः प्. ११ब्) दशवर्णाः स्वस्व घटिकोदय काले समुद्यंति ।। इत्थं द्वितीय दिवसे सूर्योदय काले एकार उदेति ।। ततः स्वस्व घटिकोदय काले एकाराद्या एकोन चत्वारिंशद्वर्णा अकाराद्या विंशति वर्णाश्च समुद्यंति ।। २ ।। तृतीय दिवसे सूर्योदय काले चकार उदेति ।। ततः स्वस्व घटिकोदय काले छकारादि क्षकारांता अकारादि णकारांता एकोन षष्टिवर्णाः समुद्यंति ।। ३ ।। चतुर्थ दिवसे सूर्योदयकाले तकार उदेति ।। तत स्वस्व घटिकोदय कालेथ कारादि क्षकारांता अकारादि मकारांता एकोन षष्ठि वर्णाः समुद्यंति ।। ४ ।। पंचम दिवसे सूर्योदय काले यकार उदेति ।। ततः स्वस्व घटिकोदय काले रकारादि क्षकारांताः अकारादि क्षकारांताश्चैकोन षष्ठिवर्णा समुद्यंति ।। एवं पंचभिर्दिवसैर्मातृकायाः षडावृत्तिर्भवति ।। एवं क्रमेणैभिर्वर्णैर्घटिका पारायणाख्यः षष्ठि जपः कार्यः ।। तत्प्रकारः प्रदर्शते ।। ततः तत्र अकारादि क्षांताः पंचाशद्वर्णा विसर्गरहिता प्. १२अ) दश दक्षश भूत्वा पंचवर्गाः अं एं चं तं यं तामानो भवंति नै० षष्ठि जपः कार्यस्त प्रकारस्तु ।। ४ ।। मूलं दिन नित्या विद्या हंसः अं ।। ४ ।। मूलं दिन नित्या विद्याहंसः आं ।। एवं क्षांतान् पंचाशद्वर्णानावृत्य पुनारादि वर्गमावर्तयेत् ।। एवं षष्ठिरावृत्तयो मूल विद्याया भवंति ।। द्वितीय दिने ४ मूलं दिन नित्या विद्या हंसः । एं एवं पुनस्तथा जप्ता ऐं । एवं क्षातान् चतुरो वर्गाना वृर्त्य० पुनराद्य द्वितीयवर्गावावर्तयेत् ।। एवं षष्ठिरावृत्तयः ।। तृतीय दिने ४ मूलं - दिन नित्या विद्याहंसः चं । एवं क्षां तांस्त्रिन्वर्गा नावर्त्य० पुनराद्यांस्त्रीनावर्त्तयेत् ।। एवं षष्ठिरावृत्तयो मूलविद्याया भवंति ।। चतुर्थ दिने ४ मूलं तद्दिन नित्या विद्या हंसः यं । एवं क्षातं वर्गं वर्तयित्वा - पुनरकाराद्यान् क्षांतात् पंचाशद्वर्णानावर्तयेत् ।। एवं० ततः षष्ठे दिने पुनरकारादित आरभ्योक्तरीत्या घटिका पारायण जप मनवरतं कुर्यात् ।। अत्राधुनावर्तमान समयो साधकैर्ज्योतिःशास्त्रोक्त प्रकारेणाहर्गणेन कलियुगस्य प्. १२ब्) गत दिनादि ज्ञात्वा स्वक्रमारंभ दिनपर्यंतं गणयित्वा पंचभिराहृत्योर्वरित दिनेनोदयाक्षरं ज्ञात्वा यस्मिन् दिने उदयाक्षर मकारो भवति तस्मिन् दिने प्रारभ्य घटिका पारा * णं प्रोक्त क्रमेण कार्यमिति घटिका पारायण जपः प्रातरेव कार्यः ।। तंत्रराजोक्त्या काल त्रयेपि कार्यः ।। अथ माध्यंदिन संध्या ।। तत्र प्राणायामादि सूर्य तर्पणां तं प्रातः संध्यावदेव विद्याय बीज संध्यां कुर्यात् ।। सायथा ।। तत्र मध्याह्ने अनाहत चक्रे मूलविद्यायाः कामराजकूटं रक्तवर्णं ध्यायन् तत्तेजः सुषुम्णा मार्गेण वहन्नारा पुटाध्वना निःसार्यय सूर्यमण्डले समावाह्य तद्भुता कामैश्वरीं ध्यायेत् ।। तद्यथा ।। रक्तां सुरक्तंबर भूषणाढ्यां पाशांकुशाभीत्ति वरां दधानां ।। शुचिस्मिता मद्भूतयौवनाढ्यां कामेश्वरीं संस्मत त्रिनेत्रां ।। १ ।। इति ध्यात्वा ४ कामराकूटमूच्चार्य श्रीत्रिपुराकामेश्वरी श्रीपादुकां पुर्तयामि इति त्रिःसंपूज्य - पुनः ४ कामराजकूट प्. १३अ) गायत्रीमुच्चार्य श्रीत्रिपुरा कामेश्वरि श्रीपादुकायै अर्घ्यं कल्पयामि स्वाहेति त्रिरर्घ्यां जलिमुत्क्षिप्य पुनः कामराज कूटमुच्चार्य श्रीत्रिपुराकामेश्वरि श्रीपादुकां तर्पयामि नमः इति त्रिःसंतर्प्य ।। प्राणायामादि पुरःसरं पूर्ववन्मातृकां विन्यस्य पूर्ववत्तूरीय वीद्या गायत्रीं जपित्वा कामराजकूट गायत्रीं जपेत् ।। सायथा ।। क्लीं त्रिपुरे देवी विद्महे कामेश्वरी धीमहि ।। तन्नः क्लिन्ना प्रचोदयात् ।। इति कामराज कूट गायत्रीं यथा शक्तिं जपित्वा ।। षट्त्रिंशत्तत्वात्मकत्वेन मूलविद्यां जपेत् ।। तद्यथा ।। ततस्तत्र ।। मध्याह्ने हृदयांभोजकर्णिके सूर्यमंडले ।। कामराजात्मिकां देवीमलक्तकसमारूणां ।। १ ।। प्रसूनबाणपुड्रेक्षुचापपाशांकुशान्वितां ।। परितः स्वत्म मुख्याभिः षट्त्रिशत्तत्वशक्तिभिः ।। २ ।। रक्तमाल्यांबरालेपभूषाभिः परिवारितां ।। युगनित्याक्षरमयीं घटिकावरणां स्मरेत् ।। ३ ।। पुष्पबाणेक्षुकोदंड धराः शोणवपुर्धराः ।। हृत्पंक च ताः कामराजोपास्ति परायणाः ।। ४ ।। प्. १३ब्) इति देविं ध्यात्वा ।। ४ मूलविद्यां दिननित्या विद्यां हंसः पदं चोच्चार्य अं शिवतत्वरूपिणी श्रीमहात्रिपुरसुंदरीपादुकां पूजयामि ।। १६ ।। ४ मूलं - दिन० हं सः । कं शक्तितत्वरूपिणी श्रीमहात्रिपुरसुंदरीपादुकां पूजयामि ।। १६ ।। मू० दि० हं सः खं सदाशिवतत्वरूपिणी० ।। १६ ।। मूल० दि० हं सः गं इश्वरतत्वरूपिणी० ।। १६ ।। ४ मू० दी० हंसः घं शुद्धविद्या * त्वरूपिणी० ।। १६ ।। ४ मू० दी० ऽऽनं० मायातत्वरूपिणी० ।। १६ ।। मू० दि० हं सः चं कलातत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः छं विद्यातत्वरूपिणी० ।। १६ ।। ४ मू० दि० जं रागतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः झं कालतत्वरूपिणी ।। १६ ।। ४ मू० दि० हं सः ञ नियतितत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः टं पुरुषतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हंसः ठं प्रकृतितत्वरूपिणी० ।। १६ ।। ४ मू० दि० हंसः डं अहंकारतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः ढं बुद्धितत्वरूपिणी० ।। १६ ।। ४ मू० दि. हं सः णं मनस्तत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः तं श्रोत्रतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः थं त्वक् तत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः दं चक्षुस्तत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः धं जिह्वातत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः नं घ्राणतत्वरूपिणी० ।। १६ ।। प्. १४अ) ४ मू० दि० हं सः पं वाक् तत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः फं पाणितत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः बं पादतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः भं पायुतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः मं उपस्थतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः यं शब्दतत्त्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः रं स्पर्शतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः लं रूपतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः वं रसतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः शं गंधतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः षं आकाशतत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः सं वायुस्तत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः हं तेजःस्तवरूपिणी० ।। १६ ।। ४ मू० दि० हं सः लं अप् तत्वरूपिणी० ।। १६ ।। ४ मू० दि० हं सः क्षं पृथ्वीतत्वरूपिणी० श्रीमहात्रिपुरसुंदरीपादुकां ।। इति षट्त्रिंशत्तत्वयोगेन मूलविद्यां जपित्वा ।। ततः कालनित्या विद्यामष्टोत्तरशतं जपित्वा प्राग्व० मूलविद्यामष्टोत्तरशतवारं जपित्वा । हृदयकमले कामराजकूटं बालार्क कोटि प्रभं हृदयादि ब्रह्मरंध्रपर्यंतं हृदयादि मूलाधारांतं च व्यांत्यरश्मि प्. १४ब्) कदंबकं ध्यायन् कामराजकूटमष्टोत्तरशतवारं जपित्वा । प्राणायामादिपूर्वकं जपं समर्प्य स्तुत्वा प्रणम्य० मूलदेवीं कामेश्वरीं च प्राग्वत् हृदये विसृजेदिति ।। इति मध्याह्नसंध्याविधिः ।। अथ सायंसंध्याविधिः ।। तत्र प्राणायामादिसूर्यतर्पणांतं प्राग्वत् विधाय । बीजसंध्यां कुर्यात् ।। सायथा ।। सायमाज्ञाचक्रे हक्षाब्जे चंद्रमंडले मूलविद्यायास्तृतीय कूटं शुद्धस्पटिकसंकाशं ब्रह्मरंध्रस्थपूर्णेंदु मंडलपर्यंतं ध्यात्वा वहन्नासापुटेनाकाशस्थ सोममंडले समावाह्य तदुद्भूतां देवीं वृद्धां ध्यायेत् ।। तद्यथा ।। शुक्लां शुक्लांबरालेप स्रग्विभूषाविभूषितां ।। जटाजूटधरां नेत्र त्रयोद्भासि मुखांबुजां ।। १ ।। इषत् स्फुटित दंष्ट्रां च भैरवीरूपमास्थितां ।। जरापलित संकीर्णां लंबमान पयोधरां ।। २ ।। पाशांकुशौ पुस्तकं च स्फटिकाक्ष स्रजं करैः । दधानां शक्ति बीजोत्थां पूर्णेंदोर्मंडले स्थितां ।। ३ ।। ध्यायेदाद्यां परांशक्तिं शक्तिमद्भिर्निषेवितां ।। प्. १५अ) भोगमोक्ष प्रदां शांता मनंताममृतेश्वरी ।। ४ ।। वामाद्यूर्द्धयोराद्ये तदाद्यधस्थयोरन्ये इत्यायुध ध्यानं ।। इति ध्यात्वा ।। मूलविद्यास्तृतीयं कूटमुचार्य त्रिपुरामृतेश्वरी श्रीपादुकां पूजयामि इति गंधादिभिः संपूज्य वक्ष्यमाण तार्तीय कूट गायत्रीमुच्चार्य त्रिपुरामृतेश्वरी श्रीपादुकायै अर्घ्यं कल्पयामि स्वाहेति त्रिरर्घ्यं दत्वा पुनस्तार्तीय कूटमुच्चार्य त्रिपुरामृतेश्वरी श्रीपादुकां तर्पयामि नमः ।। इति त्रिः संतर्प्य प्राणायामादिपूर्वकां मातृका विन्यस्य तुरीय विद्या गायत्रीं प्राग्वज्जपित्वा शक्तिकूटगायत्रीं जपेत् ।। सायथा ।। सौः त्रिपुरे देवि विद्महे शाक्तेश्वरी धीमहि । तन्नो मृता प्रचोदयात् ।। इति शक्ति गायत्रीमष्टाविंशवारं जपित्वा ।। सायाह्ने षोडशनित्यात्मकत्वेन मूलविद्यां जपेत् ।। तद्यथा ।। तत्र - सायमाज्ञा सरोजस्ये चंद्रे चंद्र समद्युतिं ।। शक्ति बीजात्मिकां चापबाणपाशांकुशान्वितां ।। १ ।। युग नित्याक्षरां देवीं घटिका वरणां परां ।। प्. १५ब्) चितयित्वा भगवतीं नित्याभिः परिवारितां ।। २ ।। पुस्तकं चाक्षसुत्रं च दधानाः स्मेरवक्त्रकाः ।। नित्याः षोडश चाज्ञायां सायंकाले तु संस्मरेत् ।। ३ ।। इति देवी ध्याता ।। ४ ।। मूलं दिननित्या विद्या - हंसः अं कामेश्वरी नित्याविद्यामुच्चार्य अं कामेश्वरी नित्यारूपिणी श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजया नमः ।। ४ ।। मू० दि० हं सः आं भगमालिनी विद्यामुच्चार्य आं भगमालिनी नित्यास्वरूपिणी श्री० ।। १६ ।। ४ मूलं० दिन० हं सः रं नित्यक्लिन्ना विद्यामुच्चार्य इं नित्यक्लिन्ना नित्यास्वरूपिणी० श्री ।। १६ ।। ४ मू० दि० हं सः ई भेरुंडा विद्यामुच्चार्य ईं भेरुंडा नित्यास्वरूपिणी श्री० ।। १६ ।। ४ मुं० दि० हं सः उं वह्निवासिनी विद्यामुच्चार्य उं वह्निवासिनी नित्यास्वरूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः ऊं महावज्ररी विद्यामुचार्य ऊं महावज्रेश्वरी नित्यास्वरूपिणी० ।। १६ ।। ४ मु० दि० हं सः ऋं शिवदूती विद्यामुच्चार्य ऋं शिवदूती नित्यारूपिणी श्री० ।। १६ ।। मू० दि० हं सः ॠ त्वरिता विद्यामुर्च्चार्य ॠं त्वरिता नित्यारूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः ऌं कुलसुंदरीविद्यामुच्चार्य ऌ कुलसुंदरीनित्यारूपिणी श्री० ।। १६ ।। प्. १६अ) ४ मू० दि० हं सः ॡं नित्यानित्याविद्यामुच्चार्य ॡं नित्यानित्यारूपिणी० ।। १६ ।। ४ मू० दि० हं सः एं नीलपताका विद्यामुच्चार्य एं नीलपताका नित्यारूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः ऐं विजयानित्या विद्यामुच्चार्य ऐं विजयानित्यारूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः ओं सर्वमंगला नित्याविद्यामुच्चार्य ओं सर्वमंगला नित्यारूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः औं ज्वालामालिनी नित्याविद्यामुच्चार्य औं ज्वालामालिनीत्यारूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः अं चित्रा नित्याविद्यमुच्चार्य अं चित्रा नित्यारूपिणी श्री० ।। १६ ।। ४ मू० दि० हं सः अः मूल पंचदशीमुच्चार्य अः (चित्रा नित्याविद्यामुच्चार्य) श्रीमहात्रिपुरसुंदरी नित्यारूपिणी श्री० ।। १६ ।। इति षोडशनित्यात्मकत्वेन मूलविद्यां जपित्वा पूर्ववत् कालनित्या विद्यां मूलविद्यां च जपित्वा भ्रूमध्यादि ब्रह्मरंध्रांतं तृतीय कूटं शरच्चंद्रकोटि निभं ध्यायन्नष्टोत्तरशवारं तार्तीय कूटं जपेत् ।। ततः प्राणायाम पूर्वकं जपं समर्प्य स्तुत्वा देवीं प्रणम्य सूर्यमंडलाच्चंद्रमंडलाच्च मूल प्. १६ब्) देवीममृतेश्वरीं हृदि भ्रूमध्ये च विसृज्येदिति ।। सायं संध्या विधिः ।। अथ तुरीयसंध्याविधिः ।। ततोर्धरात्रे तुरीय संध्यामुपासीत् ।। सायथा ।। अर्कमंडले देवी ध्यानं विना प्राणायामाद्याचमनपर्यंतं पूर्ववद्विधाय सहस्रार कमले तुरीयकूटं मूलविद्या त्रयोदशाक्षररूपं पद्मराग समप्रभं ध्यात्वा वहन्नासापुटेन तारकमंडलाद्बहिः परमाकाशे समावाह्य तदुद्भूतां भगवतीं यथोक्त रूपा ध्यायन् ।। ४ ।। तुरीयकूटमुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजयामि इति त्रिःसंपूज्य । यथोक्तरूपां ध्यायन् तुरीयकूटमुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपादुकायै अर्घ्यं कल्पयामि स्वाहेति त्रिरर्घ्यं दत्वा पुनस्तुरीय कूटमुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपादुकां तर्पयामि इति त्रिः संतर्प्य प्राणायामादि पूर्वकं पूर्वोक्तां तुरीयगायत्रीं यथाशक्तिं जपित्वा कालनित्या विद्यां मूलविद्यामष्टोत्तरशतवारं तरीयबीजं चाष्टोत्तरशतवारं जपित्वा प्राणायामादि पूर्वकं जपं समर्प्य० देवीं स्तुत्वा परमाकाशात् सहस्रदलकमलकर्णिकायामुद्वास्य कांमकलारूपमात्मानं ध्यायेदिति तुरीयसंध्याविधिः ।। एतत्संध्याचतुष्टयमेतद्विद्योपासका नामावस्यकं ।। प्. १७अ) वाह्य शक्तौ ध्यानरूपमप्यर्द्धरात्रसंध्योपासनं कार्यमिति ।। अकृतं द्वितीय दिने प्रायश्चित्तार्थमष्टोत्तरशतं मूलविद्यां जपित्वा पुनः कर्मकर्तुमधिकारी भवतीति शिवशासनं ।। स्नानसंध्यार्चनालोपे अष्टोत्तरशतमिति तंत्रराज वचनात् ।। जपेन्मूल विद्यामिति शेष ।। अत्र ।। संध्यालोपोन कर्तव्यः शंभोराजैवमेव हि ।। दीक्षितः संध्यया हीनो न विद्याफलमश्नुत । इति वचनात् संध्या चतुष्टयं साधकैरवश्यं कर्तव्यमिति संक्षेपः ।। अत्र प्रमादाद्यदि संध्यालोपो भवति । तदात्वन्य संध्यासमये प्रोक्त प्रायश्चित पूर्वकं पूर्वसंध्या क्रियां विघाय तत्कालसंध्यां कुर्यात् ।। उक्तं च त्रिपुरार्णवे ।। संध्याहीनोन्य संध्यायां पूर्वसध्या क्रियामथ ।। विधायोत्तरसंध्यायाः क्रियां कुर्यात् समाहित इति ।। १ ।। श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।। कृते सौभाग्यरत्नाब्धौ तरंगः प्रथमोगमत् ।। १ ।। इति श्रीसच्चिदानंदनाथ चरणारविंद द्वद्वांते वसिना श्री श्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकर प्रथमस्तरंगः ।। १ ।। प्. १७ब्) इत्थं संध्यां विधाव प्रकृतेः प्रातःसंध्यानंतरंपित्रारितर्पयां निर्वर्त्यतां त्रिकतर्पणं कुर्यात् । तत्र प्राणायाम त्रयं ऋष्यादिन्यासपूर्वकं स्वपुरतो जले पूर्ववत्तीर्थमावात्ववमिति । धेनुमुद्रया अमृतीकृत्य मूलेनाष्टवारमभिमंत्र्य तत्र श्रीचक्रं विभाव्य तन्मध्ये वक्ष्यमाण प्रकारेण पीठपूजा पुरःसरं देवीमावाह्य षोडशोपचारैर्जले देवीं संपूज्य वक्ष्यमाणविधिनांगावरण देवताः संपूज्य पुनर्मूलेन देवीं संपूज्य० ४ मूलविद्यामुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपादुकां तर्पयामि नमः ।। इत्येष्टोत्तरशतं तदर्द्धमष्टाविंशतिवारं वा यथाशक्ति तत्तीर्थजलैः परदेवता मुखकमले परमामृत बुध्या संतर्प्यावरण देवताः यथा क्रमं पूजोक्त मंत्रैः पूजयामीति स्थाने तर्पयामीत्यंतैरेकैकांजलिना तर्पयेत् ।। तदशक्तौ बटुकादि चतुष्टयं षडंग युवती गुरुपंक्ति त्रयं सप्तदश नित्याभिः सहितां चतुरस्र वृत्तो येत त्रिकोणमंडलमध्यस्थां सायुध त्रिकोणावरण शक्तियुतां मूलदेवीं तर्पयेत् ।। प्. १८अ) तत्राप्यशक्तौ संस्कृते जले देवीं ध्यात्वा संपूज्य देवीमेव तर्पयेदिति तर्पसाविधिः ।। अथैवं कृत प्रातः संध्यावंदनादि क्रियः स्वगुरूपदिष्टविधिना षट्त्रिंशदुत्तरसप्तशताधिकविंशति सहस्रसंख्याभिर्युगाक्षरदिनाक्षरोत्थ कालनिया विद्याभिः सहमूलविद्यायाः नाम पारायण जपं कुर्यात् ।। कालनित्या विद्यास्तु तंत्रराजोक्ता उद्ध्रियंते ।। तत्र अकारादिक्षांताः षट्त्रिंशत्तत्ववर्णाः षोडशनित्याभिः षोडशस्वरैः प्रत्येकं संयोजिताः षट्सत्यत्युत्तरपंचशतसंख्याकाः पूर्णमंडलाख्या वर्णाः भवंति ।। एते वर्णाः कालनित्या विद्यानां प्रागुक्तसंख्या नामेकैको वर्णः षट्त्रिंशत् षट्त्रिंशत् विद्यानामादि वर्णा इति सर्वे वर्णा वाग्भवाख्या भवंति ।। प्रागुक्त षट्त्रिंशत् तत्व वर्णास्तु सर्वासां विद्यानां माकारेण कृतसंधिकाः पुनः पुनक्रमेण कामराजाख्या द्वितीय वर्णा भवंति ।। ईकारस्तु सर्वासां विद्यानां शक्ति कूटाख्यस्तृतीय वर्णा भवंति ।। अथैताः विद्याः क्रमेण प्. १८ब्) पारायण जपपरिपाद्यैव प्रदर्श्यंते ।। तत्रादौ साधको विविक्ते देशे नद्यादि तीरे एकांते स्वगृहे वा स्वासनमास्तीर्य ।। ४ ।। ह्रीं आधारशक्ति कमलासनाय नमः ।। इत्यासनं संपूज्य ।। तत्र प्राऽऽन्मुखः स्वस्तिकाद्यासनेनोपविश्य गुरुगणपति स्वेष्ट देवताः प्रणम्य प्राणायाम त्रय पूर्वकं संक्षेपतो भूतशुद्धिं प्राणप्रतिष्ठां मातृकान्यासं च कृत्वा मस्तक दक्षबाहु मूलादि षट्त्रिंशत् स्थानेषु प्रतिस्थानं षोडशदलपद्मं विभाव्यतेष्वकारादि क्षकारांतान् षट्त्रिंशतत्ववर्णाः प्रत्येकं षोडशस्वरसंयुक्तान् विभाव्य मध्ये तत्प्रथमाक्षरं विन्यस्य पूर्वादि दलेषुत्तत्तदक्षर विकृत षोडशवर्णांस्तदादिकान् विन्यसेदित्येवं पूर्णमंडलवर्णान् विन्यस्य पुनस्तदिन नित्या विद्यया सहित मूलविद्यया प्राणाया त्रयं कृत्वा शिरसि ४ दक्षिणा मूर्त्तये नमः ।। मुखे ४ पंक्तये छंदसे नमः । हृदये ४ कालनित्यारूपिण्यै श्रीमाहात्रिपुरसुंदर्यै देवतायै नमः ।। इति ऋष्यादिकं विन्यस्य मम मोक्षार्थे नाम पारायण जपे विनियोगः ।। इति कृतांजलिरुक्ता ।। प्. १९अ) तत्तद्दिननिया विद्याक्षरैस्त्रिभिः कूटैः द्दिरावृत्या यथाविधि करषडंगन्यासं वक्ष्यमाण चतुरासन न्यासंः वाग्देवताष्टक न्यासं च विधाय ध्यायेत् तद्यथा ।। रक्तां रक्तांबरा रक्त स्रग्विभूषानुलेपनां ।। पाशांकुशेक्षु को दंड प्रसून विशिखां स्मरेत् ।। १ ।। इति कालनित्यां हृदये ध्यात्वा वक्ष्यमाण विधिना हृदये श्रीचक्रं कालचक्र मध्यगतं विभाव्य० । तत्र देवीं सांगावरणां कालं नित्याभिश्च परिवृत्तां ध्यात्वा - मानसैरुपचारैः संपूज्य पारायण जपमारभेत् तत्रादौ अंगविद्या जपः ।। तत्र ।। ४ मूलं तद्दिन नित्या विद्या अ- ह्सौः हं सः । ४ मू० तद्दिननित्या विद्या आ-ह्सौः हं सः । ४ मू० तद्दि० इ- ह्सौः हं सः । ४ मू० तद्दि० इ-ह्सौः हं सः ।। ४ मू० तद्दि० उ-ह्सौः हं सः । ४ मू० तद्दि० ऊ-ह्सौः हं सः । ४ मूलं० तद्दि० ऋ-ह्सौः हं सः । ४ मू० तद्दि० ॠ-ह्सौः हं सः एवं ४ मू० क्षं ह्सौः हं सः इत्यंतं एकपंचाशद्विद्याभिः सहमूलविद्यां जपित्वा० ततः केवल मूलविद्या त्रिर्जपित्वा ।। ४ ऐं वदवदवाग्वादिनि ऐं क्लिं क्लिंन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं कुरु २ ह्सौः प्. १९ब्) इति दीपिनी विद्यामेकवारं जपित्वा ।। ततो वक्ष्यमाण गुरुपादुका विद्यामप्येकवारं जपित्वा पुनश्चत्वारिंशद्विद्याभिः सहमलविद्यां जपेत् ।। तद्यथा ।। तत्र ओं ३ मू० आ क्षा ह सा ई हं सः । ४ मू० ई ला ह सा ई हं सः ।। ४ मू० ऊ हा ह सां ई हं सः ।। ४ मू० ॠ सा ह ई हं सः । ४ मू० ऌ षा ह सा इ हं सः ।। ४ मू० ऐ शा ह सा ई हं सः ।। ४ मू० औ वा ह सा ई हं सः । ४ मू० अः ला ह सा ई हं सः ।। इत्यष्टधा जपित्वा ।। पुनः ।। ४ मू० आ क्षा ई हं सः ।। ४ मू० आ क्षा ई हं सः ।। ४ मू० ई ल्ला ई हं सः ।। ४ मू० इ ल्ला ई हं सः ।। ४ मू० ऊ हा ई हं संः ।। मू० उ हा ई हं सः ।। मू० ऋ सा ई हं सः ।। ४ ऋत्या ई हं सः ।। ४ मू० ॡ षा ई हं सः ।। ४ मू० ल्पृ षा ई हं सः ।। ४ मू० ऐ शा ई हं सः ।। ४ मू० ए शा ई हं सः ।। ४ मू० औ वा ई हं सः ४ मू० ओ वा ई हं सः ।। ४ मू० अः ला ई हं सः ।। ४४ मू० अं ला ई हं सः ।। इति षोडशधा जपित्वा ।। ४ मू० अ का ई हं सः ।। ४ मू० इ चा ई चा इ हं सः ।। ४ मू० उ य ई हं सः ।। ४ मू० ऋ ता ई हं सः ।। ४ मू० ऌ पा ई हं सः ।। ४ मू० ए या ई हं सः ४ मू० ओ षा ई हं सः ।। ४ मू० अं ला ई हं सः ।। इत्यष्टधा जपित्वा ४ मू० आ क्षा ई हं सः ।। ४ प्. २०अ) मू० ई ला ई हं सः ।। ४ मू० ऊ हा ई हं सः ।। ४ मू० ॠ सा ई हं सः ।। ४ मू० ऌ षा ई हं सः ।। ४ मू० ऐ शा ई हं सः ।। ४ मू० औ वा ई हं सः ।। ४ मू० अः ला ई हं सः ।। इत्यष्टधा जपित्वा ।। ततः षोडशावांतर युगभिन्ने महायुगे यदेव युगं भविष्यति तदक्षरमारभ्य सर्वाभिर्युगनित्या विद्याभिः सह मूलं जपेत् ।। ततः उक्तांगविद्या जप पूर्वकं० पश्चात् कालनित्या विद्याभिः सह मूलविद्यां जपेत् ।। अयमंगविद्या जपो वर्गद्वयस्याप्यादौ प्रत्यहं कार्यः ।। ततः प्रथम दिने ।। ४ मूलविद्यामूच्चार्य अ आ ई हं सः ।। ४ मू० अ का ई हं सः ।। ४ मू० अ खा ई हं सः ।। ४ मू० अ गा ई हं सः ।। ४ मू० अ घा ई हं सः ।। ४ मू० अ ऽऽना ई हं सः ।। ४ मू० अ चा ई हं सः ।। ४ मू० अ छा ई हं सः ।। ४ मू० अ जा ई हं सः ।। ४ मू० अ झा ई हं सः ।। मू० अ भा ई हं सः ।। ४ मू० अ टा ई हं सः ।। ४ मू० अ ठा ई हं सः ।। ४ मू० अ डा ई हं सः ।। ४ मू० अ ढा ई हं सः ।। ४ मू० अ णा ई हं सः ।। ४ मू० अ ता ई हं सः ।। ४ मू० अ था ई हं सः ।। ४ मू० अ दा ई हं सः ।। ४ मू० अ धा ई हं सः ।। ४ मू० अ ना ई हं सः ।। ४ मू० अ पा ई हं सः ।। ४ मू० अ फा ई हं सः ।। ४ मू० अ बा ई हं सः ।। ४ प्. २०ब्) मू० अ भा ई हं सः ।। ४ मू० अ मा ई हं सः ।। ४ मू० अ या ई हं सः ।। ४ मू० अ रा ई हं सः ।। ४ मू० अ ला ई हं सः ।। ४ मू० अ वा ई हं सः ।। ४ मू० अ शा ई हं सः ।। ४ मू० अ षा ई हं सः ।। ४ मू० अ सा ई हं सः ।। ४ मू० अ हा ई हं सः ।। ४ मू० अ ला ई हं सः ।। ४ मू० अ क्षा ई हं सः ।। इति जपित्वा ।। पुनरेवं चतुस्तार मूलपूर्वकं जपेत् ।। तद्यथा ।। ४ मू० आ आ ई हं सः ।। ४ मू० आ का ई हं सः ।। ४ मू० आ सा ई हंसः ।। ४ मू० आ गा ई हं सः ।। इत्यादि ।। ४ मू० आ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। पुनः ।। ४ मू० इं आ ई हं सः ।। ४ मू० इ का ईं हं सः ।। ४ मू० इ खा ई हं सः इत्यादि० ४ मू० इ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० ई आ ई हं सः ।। ४ मू० ई का ई हं सः ।। इयादि ४ मू० ई क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० उ आ ई हं सः ।। ४ मू० उ का ई हं सः इत्यादि० ४ मू० उ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० ऊ आ ई हं सः ।। ४ मू० ऊ का ई हं सः इत्यादि० ४ मू० ऊ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० ऋ आ ई हं सः ।। ४ मू० ऋ का ई हं सः ।। इत्यादि ४ मू० ४ ऋ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० ॠ आ ई हं सः ।। ४ प्. २१अ) मू० ॠ का ई हं सः ।। इत्यादि० ४ मू० ॠ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० ऌ आ ई हं सः ।। ४ मू० ऌ का ई हं सः ।। इत्यादि ऌ क्षा ई हं सः ।। इत्यंतं जपि० ४ मू० ॡ आ ई हं सः ।। ४ मू० ॡ का ई हं सः इत्यादि० ॡ क्षा ई हं सः ।। इत्यंतं ज० ४ मू० ए आ ई हं सः ।। ४ मू० ए का ई हं सः इत्यादि ४ मू० एक्षा ई हंसः इत्यंतं ज० ४ मू० ऐ आ ई हं सः ।। ४ मू० ऐ का ई हं सः इत्यादि ४ ऐ क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ मू० ओ आ ई हं सः ।। ४ मू० ओ का ई हं सः इत्यादि० ४ मू० ओ क्षा ई हं सः ।। इत्यंतं जपित्वा मू० औ आ ई० इत्यादि० ४ मू० औ क्षा ई० ।। ४ मू० अं आ ई हं सः ।। ४ मू० अं का ई हं सः इत्यादि० ४ मू० अं क्षा ई हं सः ।। इत्यंतं जपित्वा ४ मू० अः आ ई हं सः ४ मू० अः का ई हं सः इत्या अः क्षा ई हं सः ।। इत्यंतं जपित्वा ।। एवं जपेत् ।। एवं षट्सप्तत्युतरपंचशत संख्याको जप भवति मूलविद्यायाः ।। अत्र पारायणे प्रथमं तद्दिन युगाक्षारात् षोडशस्वर भिन्नादुत्पन्न षट्सप्तत्युत्तर पंचशतविद्याभिः सहमूल विद्यां जपित्वा ।। पश्चात् तद्दिनाक्षर जनित विद्याभिस्तावत्संख्याताभिः सह प्रोक्त क्रमेण मूलविद्यां जपेत् ।। प्. २१ब्) युगाक्षर दिनाक्षरे तु तत्तद्दिन नित्या विद्यायाः प्रथमाक्षरं द्वितीयाक्षरं च बोद्धव्यं ।। युगाक्षरोत्थ विद्या जपे विशेषस्तु० यस्मिन् युगे यत्स्वरयुतं युगाक्षरं भवति तत्स्वरमारभ्य प्रतिस्वरं षट्त्रिंशत् क्रमेण तद्विसर्गांतिमविद्या पर्यंतं जपित्वा पुनस्तदक्षरस्य प्रथम स्वरमारभ्य आरब्ध स्वरस्य पूर्वस्वरांत विद्यावधिपजेत् ।। तदा मूलविद्यायाः षट्सप्तत्युत्तर पंचशतसंख्या को जपो भवति ।। अत्र युगस्तु षट्त्रिंशद्दिनात्मको भवति ।। प्रागुक्त पूर्णमंडलं वर्णेषु षट्सप्तत्युत्तर पंचशत संक्याकेष्वेकैकाक्षरस्यैकैकयुगं प्रतियुगाक्षरत्वं च भवति ।। एतत्सर्वं गुरुमुखात्सम्यग्विज्ञाय पारायण जपः कार्यः ।। दिननित्या विद्या क्रमश्च गुरुमुखादेवावगंतव्य इति ।। एवं द्विपंचाशदुत्तरैकादशशतसंख्या को जपो भवंति मूल विद्यायाः ।। अंगविद्या जपस्त्वेकैक वर्गादावेक नवति संख्याकस्तेन वर्गद्वयादौ जपोद्व्यशीत्युत्तर शतसंक्याको भवंति । केवल मूलं विद्या प्. २२अ) जपोपि वा २ चतुष्टयंस्त्रिरावृत्या द्वादशधा भवति ।। संभूय० सट्चत्वारिंशदुत्तरत्रिशताधिक सहस्रसंख्या को जपो भवति मूलविद्यायाः ।। एवमुक्तसंख्याकं जपमुक्तविधिना कृत्वा पुनः केवलां मूलविद्यां त्रिर्जपित्वा प्रागुक्त दीपिनी विद्यां गुरुपादुका विद्यां च स कृत् स कृज्जपित्वा ।। ४ ड र ल क स हैं ह स क ल र डीं स ह क ल र डौः नमः ।। इत्युत्तीर्ण विद्यां सकृज्जपित्वा ।। ४ मम सकल मनोरथान् साधय साधय तुभ्यं नमः ।। इति प्रार्थनीय विद्यां सकृत्कृतांजलिर्जपेत् ।। इति वर्गद्वयस्याप्यंते बोद्धव्यं ।। इथं पारायण जपं कृत्वा० इदं स्तोत्रं पठेत् ।। तद्यथा ।। ओं ३ क्ष्मांब्वग्नीरण खार्केदुयष्टृप्राययुगस्वरैः ।। मातृभैरवगां वंदे देवीं त्रिपुरभैरवीं ।। १ ।। कादिवर्गाष्टकाकार समस्ताक्षरविग्रहां ।। अष्टशक्त्यावृतां देवीं वंदे त्रिपुरभैरवीं ।। २ ।। स्वरषोडशकानां तु षट्त्रिंशद्भिः परापरैः ।। षट्त्रिंशत्तत्वगां वंदे देवीं त्रिपुरभैरवी ।। ४ ।। षट्त्रिंशतत्वं संस्थाप्य शिवचंद्र कलास्वपि ।। प्. २२ब्) कादि तत्वांतरां वंदे देवीं त्रिपुरभैरवीं ।। ४ ।। आ ई माया द्वयोपाधि विचित्रेंदु कलावतीं ।। सर्वात्मिकां परां वंदे देवीं त्रिपुरभैरवीं ।। ५ ।। षडध्वपिंडयोनिच्छां मंडल त्रय कुंडलीं ।। लिंग त्रयातिगां वंदे देवीं त्रिपुरभैरवीं ।। ६ ।। स्वयंभूहृदयां वाण भ्रूकामांतस्थितेतरां ।। प्राप्त प्रत्यक् चितिं वंदे दीं त्रिपुरभैरवीं ।। ७ ।। अक्षरांतर्गताशेष नामरूप क्रियां परां ।। शक्तिं विश्वेश्वरीं वंदे देवीं त्रिपुरभैरवीं ।। ८ ।। वर्गातं पठितव्यं स्यात् स्तोत्रमेतमाहितैः ।। इति कृत्वा ।। दिननित्या युक्त मूलविद्याया प्राणायाम त्रयं कृत्वा प्राग्वदृष्यादि न्यास तद्दिन नित्या विद्याया प्राग्वत् करषडंगं न्यासं च कृत्वा कृतं जपं देव्यै समर्पयेदिति ।। १ ।। एवं द्वितीय दिने प्राग्वदासन पूजाद्यंग विद्या जपांतं विधाय० ४ मू० क आ ई हं सः ।। ४ ।। मू० क का ई हं सः ।। ४ मू० क खा ई हं सः ।। इत्यादि० ४ मू० क क्षा ई हं सः ।। इत्यंतं जपित्वा ।। ४ का आ ई हं सः ।। ४ मू० का का ई हं सः ।। ४ मू० का खा ई हं सः इत्यादि ४ मू० का क्षा ई हंसः ।। प्. २३अ) इत्यंतं जपित्वा ।। ४ मू० कि आ ई हं सः ।। ४ मू० कि का ई हं सः ।। इत्यादि० ४ मू० कि क्षा ई हं सः ।। इत्यंतं जपित्वा ।। एवं की आ ई हं सः ।। की का ई० इत्यादि की क्षा ई इत्यंतं ज० । ४ मू० कु आ ई हं सः । कु का ई इत्यादि० कु क्षा ई० इत्यंतं जपित्वा ।। ४ मू० कू आ ई इत्यादि० ४ मू० कू क्षा ई० इत्यंतं ज० ४ मू० कृ आ ई० इत्यादि० ४ मू० कृ० क्षा इं० इत्यंतं ज० ।। एवं सर्वत्र ।। ४ मू० श आ ई हं सः इत्यादि० ४ मू० शः क्षा ई हं सः क्षा ई हं सः इत्यंतं ५७६ ।। ज० ३१ ।। द्वात्रिंशत्तमे दिने ।। ४ मू० ष आ ई हं सः इत्यादि० ४ मू० ष क्षा ई हं सः इत्यंतं ५७६ ।। ज० ।। ३२ ।। त्रयस्त्रिंशत्तमे दिने ।। ४ मू० स आ ई हं सः इत्यादि० ४ मू० सः क्षा ई हं सः इत्यंतं ५७६ ।। ज० ३३ ।। चतुस्त्रिंशत्तमे दिने ।। ४ मू० ह आ ई हं सः इत्यादि० ४ मू० हः क्षा ई हं सः इत्यंतं ५७६ ।। ज० ३४ ।। पंचमस्त्रिंशत्तमे दिने ।। ४ मू० ल आ ई हं सः इत्यादि० ४ मू० लः क्षा ई हं सः इत्यंतं ५७६ ।। ज० ३५ ।। षट्त्रिंशत्तमे दिने ।। ४ मू० क्ष आ ई हं सः इत्यादि० ४ मू० क्षः क्षा ई हं सः इत्यंतं ५७६ ।। जपित्वा ।। प्राग्वत् ।। जपेत् ।। प्. २३ब्) अत्र षट्त्रिंशद्दिनेषु च प्रागुक्तपरिपाद्या प्रत्यहं षट्चत्वारिंशदुत्तरत्रयोदशशतसंख्यं यथा भवति तथा जपं कृत्वा वर्गद्वयस्याप्यंते स्तोत्र पाठं च कुर्यात् ।। अत्र पारायणे पर्याय भेदः पंचधा भवंति ।। तथा च तंत्रराजे ।। दिनतो वारतः पक्षान् मासात् षट्त्रिंशता दिनैः ।। जपंतोवारमेकं तु विद्यानित्यात्मिकास्तुताः ।। १ ।। आयुरारोग्यमैश्वर्यं विजयं वांछितं क्रमात् ।। लभंते ललितायाभिः संप्रदायवती भवेत् ।। २ ।। एकस्मिन् दिवसे त्वेक वारावृत्तौ विधिस्त्वयं ।। मध्याह्ने तु समारभ्य मध्यरात्रे समापयेत् ।। ३ ।। वारेषु चैकदा जापे प्रथमे रविवारके ।। वशिन्याः प्रथमं वर्गं कामेश्वर्या द्वितीयकं ।। ४ ।। जप्त्वा वर्गद्वयं मंत्री सोमवारादि षट्स्वपि ।। दिनेषु मोदिनी वर्गादेकैकं प्रजपेत् सुधीः ।। ५ ।। पक्षेपि चैकदा जापे प्रथमादि तिथिष्वपि ।। पंक्ति द्वयोत्था विद्यास्तु प्रजपेत् प्रतिवासरं ।। ६ ।। पंचमी दशमी पंचदशीषु तिथिषु क्रमात् ।। पूर्णासु प्रजपेद्विद्याश्चतुःपंक्ति भवाः सुधीः ।। ७ ।। प्. २४अ) मासे प्रतिदिनं विद्वानेकैकां योनिमेव तु ।। पूर्णासुद्दिद्वियोन्युत्था जपेत् षट् स्वपिताः क्रमात् ।। ८ ।। षट्त्रिंशत्सुदिनेष्वेवमेकैकां योनिमेव तु ।। जपेत् प्रतिदिनं विद्वानेवं पूर्णा भवंतित्ताः ।। ९ ।। नैताभिः सदृशी कापि विद्यालोकेषु विद्यते ।। तस्मादाभिरुपायैस्तैः साधयेत् सर्वमीप्सितं ।। १० ।। यद्यन्निजेप्सितं तत्तदुष्करं सुकरं भवेत् ।। जपतर्पण होमार्चासेकैः संतर्पये स्थिरः ।। ११ ।। पंचाशद्वारमावत्यी विद्या भक्ति समन्वितः ।। मुच्यते निगडैः कृछ्रैर्वैरिरोधैः सुदारुणैः ।। १२ ।। शतवारं समावर्त्य विद्याविविध वैभवाः ।। लभते तनयान् वध्या अपि सर्वगुणान्वितान् ।। १३ ।। अध्यर्द्धशतवारं तु विद्याश्र्यावर्त्यभक्तितः ।। गुणरूपादिसंपन्नां भार्यां विंदत्य यत्नतः ।। १४ ।। तावदावर्त्य कन्या वा पतिं सर्वगुणान्वितं ।। लभते पुत्र पौत्राद्यैरेधते संपदन्विता ।। १५ ।। द्विशतं ताः समावर्त्य दारिद्र्यान्मुच्यते ध्रुवं ।। त्रिशतैर्भूमि सस्थाढ्यश्चतुर्भिश्च शतैर्धनी ।। १६ ।। पंचभिस्तु शतैर्भूपो भवेत् षड्भिः शतैर्नृपः ।। प्. २४ब्) सप्तभिस्तु शतैस्तस्य न मुंचत्यन्वयं रमा ।। १७ ।। अष्टभिस्तु शतैस्तासां नृपाः सर्वेस्य किंकराः ।। नवभिस्तु शतैरेवं कंदर्पोवनिताजने ।। १८ ।। एवं नवशतं जप्त्वा सर्वान्कामानवाप्नुयात् ।। समस्तभजनं तासामुक्त सर्वार्थ सिद्धिदं ।। १९ ।। इति ।। अथैतेषां विषमपदव्याख्या ।। दिनत इत्यादि० भवेदित्यंतः सार्द्धद्वय श्लोकः स्पष्टार्थः ।। एकवारावृत्तौ षट्त्रिंशदुत्तर सप्तशताधिक विंशति सहस्रसंख्याभिः कालनित्या विद्याभिः सहमूलविद्यायास्तावत्संख्या जपे चोक्तविधिना प्रत्यहं क्रियमाणे इत्यर्थः ।। वारेषु रविवारादि शनिवारां तेषु सुप्तसु वशिन्यादीनां वर्गास्त्वग्रे न्यास प्रकरणे स्फुटी करीष्यामः ।। वर्गः पंक्तिर्योनिरिति पर्यायः ।। सेकः अभिषेकः स्थिरः निश्चल भक्तिमान् पंचाशदित्यादिभिः श्लौकैः प्रपंचितः काम्य जपः केवल कालनित्या विद्यानामेव । अन्येपि काम्यप्रयोगावहवः व्यतिते त्वत्र ग्रंथगौरवभयान्नास्माभिर्लिखिताः प्. २५अ) गुरुतः शास्त्रतः अबोद्धव्याः ।। अथ कालचक्ररचना प्रकारः ।। ततः ।। प्रथमतः क्वचिद्बिंदुं कृत्वा तं परितः षडंगुलमानेन वृत्तं कृत्वा तद्बहिरप्येकैकांगुलांतराल मानतः षोडश वृत्तानि इति प्रथम कृत वृत्तेन सहसप्तदशवृत्तानि निष्पाद्यतानि वृत्तानि षट्त्रिंशद्रेखाभिर्विभज्य षोडषषोडशकोष्ठयुक्ताः षट्त्रिंशद् वीथीर्निष्पाद्यता सुखाग्रवीथ्यां सर्वबाह्यस्थ कोष्ठमारभ्य प्रवेशगत्या अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः ।। इति विलिख्य ।। ततः प्रादक्षिण्य क्रमप्राप्तद्वितीय वीथ्यां तथैव बाह्य कोष्ठमारभ्य क का कि की कु कू कृ कॄ कॢ कॣ के कै को कौ कं कः ।। तृतीय विथ्यां ।। ख खा खि खी खु खू खृ खॄ खॢ खॣ खे खै खो खौ खं खाः ।। चतुर्थ विथ्यां ।। ग गा गि गी गु गू गृ गॄ गॢ गॣ गे गै गो गौ गं गः ।। पंचम वीथ्यां ।। घ घा घि घी घु घू घृ घॄ घॢ घॣ घे घै घं घः ।। षष्ठ विथ्यां ।। ऽऽन ऽऽना ऽऽनि ऽऽनी ऽऽनु ऽऽनू ऽऽनृ ऽऽनॄ ऽऽनॢ ऽऽनॣ ऽऽने ऽऽनै ऽऽनो ऽऽनौ ऽऽनं ऽऽनः ।। सप्तम वीथ्यां ।। चवर्गः ।। एवं सर्वत्रं ।। वीथ्यां न्यसेत् ।। १९ ।। प्. २५ब्) छ वर्ग अष्टमविथ्यां ।। नवमवीथ्यां जवर्गः ।। दशमवीथ्यां झवर्गः ।। एकादशविथ्यां ञवर्गः ।। द्वादशवीथ्यां टवर्गः ।। १३वी० ठ वर्गः ।। १४ वीथ्यां डवर्गः ।। १५ वीथ्यां ढवर्गः ।। १६ वीथ्यां णवर्गः ।। १७ वीथ्यां तवर्गः ।। १८ वीथ्यां थवर्गः ।। १९ वीथ्यां दवर्गः ।। २० वीथ्यां धवर्गः २१ वीथ्यां न वर्गः ।। २२ वीथ्यां पवर्गः ।। २३ वीथ्यां फवर्गः ।। २४ वीथ्यां बवर्गः ।। २५ भ वर्गः ।। २६ मवर्गः ।। २७ वीथ्यां यवर्गः ।। २८ वीथ्यां रवर्गः ।। २९ वीथ्यां लवर्गः ।। ३० ववर्गः ।। ३१ वीथ्यां शवर्गः ।। ३२ वीथ्यां षवर्गः ।। ३३ वीथ्यां सवर्गः ।। ३४ वीथ्यां ह वर्गः ।। ३५ वीथ्यां लवर्गः ।। ३६ वीथ्यां क्षवर्गः ।। एवं षट्त्रिंशद्विथीषु षट्सप्तत्युत्तर पंचशतसंख्यांकान् पूर्णमंडलवर्णानालिख्यं कर्णिकायां ।। आ ई हंसः इति वर्णचतुष्टयं विलिख्य सर्वबाह्य वृत्ताद्बहिर्वृत्तत्रयं निष्पाद्यसकेसरमष्टदलकमलविख्यत बहिश्चतुरस्रं कुर्यात् ।। अत्र वर्णविन्यासे मध्यस्थ देवताभि मुखाः सर्वे वर्णा यथा भवंति तथा लेख्याः ।। इति कालचक्ररचना प्रकारः ।। एतच्चक्रस्य प्. २६अ) षत्सप्तत्युत्तरपंचशतं भेदाः संति तत्सर्वं तत्र देव्याः पूजन प्रकारं तत्फलानि च गुरुतः शास्त्रतःश्च बोद्धव्यं ।। ग्रंथ गौरव भयादत्र न लिखितमिति ।। एवं पारायण जपं विधाय ततो गुरु दिक्पति ग्रहान् प्रणम्य शुद्धोदक पूर्णपात्रमादाय हृदिस्वेष्ट देवता स्मरन् मूलमंत्र स्तोत्रं वा जपन् मौनी स्वपद मात्र दृष्टिः स्वगृहं गत्वा द्वारि स्थित्वा ज्ञाताज्ञातं स्वपापं स्मरन् प्रणवमुच्चार्य ।। ४ देवत्वं प्राकृतं चित्तं पापाकांतमभून्ममा ।। तन्निःसारय चित्तान्मे पापं फट् फट् फट् ते नमः सूर्यः सोमो यमः कालो महाभूतानि पंच च ।। एते शुभाशुभस्येह कर्मणो नवसाक्षिणः ।। २ ।। इति पठित्वा० । हूं फट् इति क्रोध दृष्टया पार्श्वद्वयमूर्ध्व मध्यश्चावलोक्य सुमना भूत्वा गृहांतः प्रविश्य हस्तौ पादौ प्रक्षाल्याचम्य गृहांगणे सुसमे गोमयोपलिप्ते भूप्रदेशे सिंदूरादिना कृत कृत्त मंडलांतः स्वासनमास्तीर्य ।। ४ ओं ह्रीं आधारशक्ति कमलासनाय नम । इत्यासनं संपूज्य । तत्र प्राऽऽन्मुख उपविश्य वक्ष्यमाण मार्त्तण्डभैरव प्. २६ब्) मंत्रेण प्राणायाम त्रयं कृत्वा- शिरशि ४ देवभागा ऋषये नमः ।। मुखे ४ देवी गायत्री छंदसे नमः ।। हृदये ४ श्रीमार्त्तंडभैरवाय देवतायै नमः ।। इति विन्यस्य मम सर्वाभीष्टसिद्धये सूर्यार्घ्यदाने विनियोगः ।। इति कृतांजलिर्वदेत् ।। ततः ओं घ्रां ह्यां ध्रां हृदयाय नमः ।। ओं ध्रीं ह्यरीं ध्रीं शिरसे स्वाहा ।। ओं ध्रुं ह्यरूं ध्रुं शिखायै वषट् ।। ओं ध्रैं ह्यरैं ध्वैं कवचाय हूं ।। ओं ध्रौं ह्यरौं ध्रौं नेत्रत्रयाय वौषट् ।। ओं ध्रः ह्यरः ध्रः अस्त्राय फट् ।। इत्यंगमत्रानंगुष्ठादि कनिष्ठांतं करयोर्विन्यस्य हृदयादिष्वपि न्यसेत् ।। ततो ध्यानं ।। हेमांभोजप्रवालप्रतिमनिजरुचिंचारुखट्वांगपद्मे चक्रं शक्तिं च पाशं सृणिमपि रुचिरामक्षमालां कपालं ।। हस्तांभोजैर्दधानं त्रिनयनविलसद्वेदवक्त्रांभिरामं मार्त्तंडं वल्लभांकं मणिमयमुकुटं हारदीप्तं भजामः ।। १ ।। दक्षाद्युर्ध्वयोराद्ये तदाद्यधस्थयोरन्ये तदाद्यधस्थयोरपरे तदाद्यधस्थयोरितरे । इत्यायुध ध्यानं ।। इति स्वैक्येन ध्यात्वा मनसा पूजयित्वा प्. २७अ) ताम्रादि पात्रे सिंदूरकुंकुमादिना त्रिकोणवृत्त कर्णिकंसकेसरमष्टदलकमलं निर्माय तद्बहिर्वृत्तं चतुद्वारोपेतं चतुरस्रं च कृत्वा तद्बहिवृत्तत्रयं भ्रामयेदिति पूजामंडलं कृत्वा तत्र सूर्यमंत्रेण पुष्पं दत्वा वक्ष्यमाणविधिना सामान्यार्घ्यं विधाय तेनैव द्वादशधाभिमंत्र्यतेनोदकेन मंडलं स्वात्मानं पूजोपकरणानि चाभ्युक्ष्य ।। तत्र ।। ओं मं मंडूकाय नमः ।। एवं - कालाग्निरुद्राय नमः ।। मूल प्रकृत्यै नमः ।। आधारशक्तये-कूर्माय-अनंताय-वराहाय-पृथिव्यै- क्षीरसमुद्रायन-श्वेतद्विपाय-कल्पवाटिकायै-मणिमंडपाय नमः रत्नवेदिकायै-रत्नसिंहासनाय नमः इत्युपर्युपरिसंपूज्य । चतुरस्रे पूर्वादि चतुर्दिक्षु मध्ये च । ओं प्रं प्रभूताय नमः ।। विमलाय न० साराय न० समाराध्याय० मध्ये-परमसुखाय- तत्र ।। आग्नेयादि कोणेषु ।। ओं धं धर्माय-ज्ञानाय-वैराग्याय-ऐश्वर्याय-ततः स्वाग्रादिचतुर्दिक्षु- ओं अं अधर्माय नमः ।। अज्ञानाय-अवैराग्याय- प्. २७ब्) अनैश्वर्याय-मध्ये-अनंताय-पद्माय-आनंदकंदाय-संविन्नालाय- पकृतिमयपत्रेभ्यो-विकारमयकेसरेभ्यो-पंचाशद्वर्णबीजाढ्य सर्वतत्वरूपायै कर्णिकायै नमः ।। संसत्वाय- रं रजसे- तं तमसे- आं आत्मने- अं अंतरात्मने- पं परमात्मने ।। ह्रीं ज्ञानात्मने- मं वह्नि मंडलाय- उं सोममंडलाय- अं अर्कमंडलाय- ततोष्ठदलकेरेषु-मध्ये च ।। रांदीप्तायै- रीं सूक्ष्मायै- रू जयायै- रें भद्रायै- रैं विभूत्यै- रों विमलायै- रौं अमोघायै- रं विद्यूतायै- मध्ये रः सर्वतो मुख्यै० ।। इति पीठशक्तीः संपूज्य- ओं ब्रह्मविष्णुशिवात्मकाय सौराय योगपीठाय नमः ।। इति पीठं संपूज्य- तत्कर्णिकायां पूर्वादि चतुर्दिक्षु- ओं उं उषायै नमः । ओं प्रंपज्ञायै० ओं प्रंम्रभायै० ओं संध्यायै० इति चतुशक्तिः संपूज्य० मार्त्तंडभैरव मंत्रमुच्चार्य० श्रीमार्त्तंडभैरव मूर्त्ति कल्पयामीति मध्ये मूर्ति० परिकल्प्य पुनर्मंत्रमुच्चार्य० मार्त्तंडभैरव मूर्त्तये नमः इति मूर्ति संपूज्य कराभ्यां पुष्पांजलिमादाय प्. २८अ) हृदयकमले देवं तेजोरूपं ध्यात्वा सुषुम्णामार्गेण वहन्नासा पुटाध्वना तत्तेजः करस्थ पुष्पांजलावानीय सूर्यमंत्रमूच्चार्य भगवन् सूर्य इहागछागछति तस्यां मूर्तौ पुष्पांजलि क्षेपेण तत्तेजः (करस्थ पुष्पां) समावाह्य यथोक्त रूपं देवं ध्यात्वा पूर्वोक्त षडंगन्यासेन सकलीकृत्य प्राणप्रतिष्ठां विधाय । पद्मबिंब मुद्रे प्रदर्श्य सूर्य मंत्रमुच्चार्य श्रीमार्तंडभैरव एतत्ते आसनं नमः ।। एवं एषते अर्घ्यः स्वाहा मुर्द्ध्नि ।। एतत्ते पाद्यं नमः पादयोः ।। एतत्ते आचमनीयं सुधेति मुखे ।। एषते मधुपर्कः । सुधेति मुखे ।। एतत्ते आचमनीयं सुधेति मुखे ।। एवं स्नानं नमः ।। आचमनीयं सुधेति मुखे ।। वाससा नमः ।। आचमनीयं सुधा मुखे ।। उपवीतं नमः आचम० सुधा मुखे ।। अलंकारो नमः गंधो नमः पुष्पाणि वौषट् इति पुष्पांतानुपचारान् दत्वा ।। अथावरण पूजां कुर्यात् ।। सायथा ।। कर्णिकायां पूर्वादि चतुर्दिक्षु ओं १ ह्यरं सूर्याय नमः ।। ओं २ ह्यरी भास्कराय नमः । ओं ३ ह्यरं भानवे नमः । ओं ३ ह्यरें रवये नमः ।। प्. २८ब्) तत आग्नेयादि चतुर्दिक्षु- ओं ३ ह्यरौं दिवाकराय नमः ।। इति पंचमूर्तीः संपूज्य अष्टदलकेसरेषु । आग्नेये ।। ओं ध्रां ह्यरां ध्रां हृदयाय नमः ।। नैर्-ऋत्ये ओं ध्रीं ह्यरीं ध्रीं शिरसे नमः । वायव्ये ।। ओं ध्रुं ह्यरूं ध्रूं शिखायै नमः ।। इशान्ये । ओं ध्रै ह्यरैं ध्रैं कवचाय नमः पूर्वादि चतुर्दिक्षु । ओं ध्रः ह्यरः ध्रः अस्त्राय नमः ।। देवाग्रे ।। ओं ध्रौ ह्यरौं ध्रौं नेत्रत्रयाय नमः ।। ततोष्ट दलेषु ।। देवाग्रदलमारभ्य- ओं सों सोमाय नमः ।। ओं मं मंगलाय नमः ।। ओं बुं बुधाय नमः ।। ओं बृं बृहस्पतये नमः ।। ओं शुं शुकाय नमः ।। ओं शं शनैश्चराय नमः ।। ओं रां राहवे नमः ।। ओं कें केतवे नमः । तद्बाह्ये दिक्पालांस्तदा युधाअनि च पूजयेत् ।। ओं लं इंद्राय नमः । एवं रं अग्नये नमः ।। ट यमाय नमः । क्षं नै-ऋतये नमः । वं वरुणाय नमः ।। यं वायवे नमः ।। सं सोमाय नमः ।। हं ईशानाय नमः ।। ईंद्रेशानयोर्मध्ये - निर्-ऋति वरुणयोर्मध्ये च ।। आं ब्रह्मणे । ह्री अनंताय० ततो दिक्पालानां पार्श्वेषु० वं वज्राय न० शं शंक्त्यै- दं दंडाय न० खं खड्गाय० पां पाशाय० अं अकुशाय न० गं गादायै नमः त्रिं त्रिशूलाय नमः पं पद्माय नमः चंक्राय नमः इत्थमावरणानि संपूज्य ।। धूपदीपनैवेद्यादीनि दत्वा स्वपुरतो प्. २९अ) वृत्ताकारं मंडलं निर्माय-मार्त्तंडभैरवार्घमंडलाय नमः इति मंडलं संपूज्य ।। प्रस्थमात्र जलग्राहिताम्राद्यन्यतममस्त्रक्षालितं पात्रं साधारं तत्र निधाय - सूर्यमंडलत्वेन ध्यायन् सूर्यमंत्रं जपन शुद्धोदकैः संपूर्य कुशतिलश्यामाककुंकुमचंदनरोचनाकरवीरपुष्पाणि निक्षिप्य कुशैराछाद्य- ध्रिं ह्यरौ ध्रिं ३ इति सूर्यमंत्र अष्टोत्तरशतवारं जप्त्वा पात्रं स्पृशन् जपित्वा मार्त्तंडभैरवं ध्यायन् जानुभ्यामवनींगतः करांभ्यां तत्पात्रमामस्तकमुत्थाप्य-ध्रिं ह्यरौं ध्रिं श्रीमार्त्तंडभैरवाय प्रकाशशक्ति सहिताय द्वादश कलात्मने सग्रहराशिनक्षत्रतिथिवारयोगकरण परिवृत्तसन संस्थिताय श्रीसूर्यायार्घं समर्पयामि स्वाहेति मंत्रेणार्घ्यं दत्वा महामुद्रया स्वदृष्टि पथमाछाद्यमार्त्तंडभैरवं तदर्घामृत परिप्लुतं विभावन् पूर्वोक्त सूर्यमंत्रेण पुष्पांजलिं दत्वा प्राणायामादि पूर्वकं सूमंत्रं यथाशक्तिं जपित्वा प्राणायामादि पूर्वकं जपं समर्प्य स्तुत्वा प्रणम्य प्. २९ब्) क्षमस्वेति मार्त्तंडभैरवं खे विसृज्य इशान्ये तेजश्चंडाय नम इति निर्माल्यं क्षिपेत् ।। इति सूर्यार्घ्य दान विधिः ।। अयं मुख्य कल्पः ।। तदशक्तौ सूर्यमंडल एव व्योम्नि सावरणं मार्त्तंडभैरवं ध्यायन् यथोक्त विधिना अर्घं दद्यादिति मध्यमः कलपः ।। केवल मंत्र मात्रेण अर्घ्यदानं दत्वा यत्कल्यः ।। एवं पूजाया पूर्वं सूर्यार्घ्य दानमावस्यकमिति ।। ततः शि * पूजां कृत्वा मंडपद्वार पूजां कूर्वीत ।। तत्र पार्थिवं सर्वसिद्धिदमित्युक्तेः पार्थिवलिंगपूजनं प्रशस्तं ।। तत्पूजन प्रकारस्तु गोमयोपलिप्तेशु चौदेशे प्राक् सूर्य पूजोक्त विधिना स्वासनं संपूज्य तत्रोदऽऽन्मुख उपविश्याद्येत्यादि तिथ्युल्लेखनांते श्रीपरदेवतार्चनाधिकारार्थं पार्थिवलिंग पूजमहं करिष्ये । इति संकल्प्य ।। ओं सर्वाधारधरे देवि त्वद्रूपामृतिकामिमां ।। गृहिष्यामि प्रसन्ना त्वं लिंगार्थ भव सुप्रभे ।। १ ।। इति भूमिं प्रार्थ्यं - ओं हराय नमः । इति शुचिच्छानात् शुभ्रां सुस्निगधांमृदमादाय- संशोध्य ओं महेश्वराय नमः इति संघट्टनं प्. ३०अ) विधाय० स्वपुरतः ओं शूलपाणये नमः इति पीठादौ संच्छाप्य० पुष्पांजलिमादाय हृदि तेजोरूपं देवं ध्यात्वा वहन्नासाध्वना बहिर्निःसार्यकरस्थ पुष्पांजलौ तत्तेजः संयोज्य ओं पिनाक धृक् इहा गछागछेति तस्मिन् लिंगे पुष्पांजलि क्षेपेणावाह्य० ओं शूलपाणे । इह तिष्ठ तिष्ठेति संस्थाप्य ओं पशुपतय नम इति शुद्धे जलैः स्नापयित्वा ओं शिवाय नम इति गंधपुष्पाणि निवेद्य वेद्यादामावर्त्तेन स्वाग्रमारभ्य- ओं शर्वाय क्षिति मूर्तय नमः ।। ओं भवाय जल मूर्त्तय नमः ।। ओं रुद्राय अग्नि मूर्त्तय नमः ।। ओं उग्राय वायुमूर्त्तय नमः ।। ओं भीमाय आकाशमूर्त्तय नमः ।। ओं पशुपते यजमान मूर्त्तय नमः ।। ओं महादेवाय सोममूर्त्तय नमः ।। ओं ईशानाय सूर्यमूर्त्तय नमः ।। इति संपूज्य० प्रणालिकायां ओं ह्रीं उमायै नमः ।। इति पूजयेत् ।। ततः सांगाय सपरिवाराय श्रीशिवाय नमः ।। इति त्रि० संपूज्य० ओं शिवाय नम इति त्रिर्धूपादि तांबुलां तानुपचारान् दत्वा ।। ओं सर्वज्ञज्ञानविज्ञान प्रदानैक महात्मने ।। प्. ३०ब्) नमस्ते देव देवेश सर्वभूत हितेरत ।। १ ।। अनंत कीर्ति संपन्न अनेकासन संस्थित ।। अनंत कांति संप्रोग परमेश नमोस्तुते ।। २ ।। परापरपरातीत उत्पत्तिस्थितिका । सर्वार्थ साधनोपाय विश्वेश्वर नमोस्तुते ।। ३ ।। स्वभाव निर्मला भोग सर्वव्याधि विनाशन । योगि योगि महायोगि योगेश्वर नमो * स्ते ।। ४ ।। कृत्वा लिंग प्रतिष्ठां तु स्तवमेनमुदीरयेत् ।। लिंग स्तवं महापुन्यं यः शुणोति सदा नर ।। ५ ।। नोत्पद्यते च संसारे स्थानं प्राप्नोति शाश्वतं ।। तस्मात्सर्वप्रयत्नेन शृणुयाल्लिंगसंस्तवं ।। ६ ।। पाप कंचुक निर्मुक्तः प्राप्नोति परमं पदं ।। इति स्तुत्वा एकाग्रमनाऽमंत्रं पठेत् ।। अंगहिनं क्रियाहीनं विधिहीनं महेश्वर ।। पूजितोसि मया देव तत्क्षमस्व म्रमात् कृतं ।। १ ।। यद्यप्युपहःतैरपास्तैर्भावदूषितैः ।। केश किटपविद्धैश्च पूजितोसि मया प्रभो ।। २ ।। अन्यत्रासक्त चित्तेन क्रियाहिनेन वा प्रभो ।। मनोवाक्काय दुष्टेन पूजितोसि त्रिलोचन ।। ३ ।। यच्चोपहत पात्रेण कृतमर्घादिकं मया ।। तामसे न च भावेन तत्क्षमस्व मम प्रभो ।। ४ ।। प्. ३१अ) मंत्रेणाक्षर हीनेन पुष्पेन विफलेन च ।। पूजितोसि महादेव तत्सर्वं क्षम्यतां मम ।। ५ ।। व्रतं संपूर्णतां यातु फलं चाक्षययमस्तु मे ।। इति पठीत्वा प्रदक्षिणा नमस्कारैः सम्यक् परितोष्य श्रीमहादेव क्षमस्वेति स्वात्मनि संहारमुद्रया विसृज्य निर्माल्यमादाये० ४ चंडेश्वराय नम इति इशानकोणे निक्षिप्य तत् लिंगं निर्माल्यपुष्पार्चादिकं च जलध्ये नद्यादौ विसृजेत् । अत्र पार्थिव लिंग पूजायां पार्थिव लिंगं यथा यथा बृहत्तथा तथा फलंकं बाहुल्यं० यथा यथा सूक्ष्मं तथा तथा फलमल्पं ।। सूक्ष्मेपि पलत्रयान्यूनं न कर्यमिति पार्थिव लिंग पूजन प्रकारः ।। अथ द्वारपूजा ।। तत्र स्वर्ण प्राकारस्य पूर्वद्वारेणांतः प्रविश्य प्रादक्षिणेन मंडपस्य पश्चिमद्वारं गत्वा तदारभ्य मणिमंडपं प्रदक्षिणीकृत्य पश्चिमद्वारेणांतं प्रविश्य साधकः पूजयेद्देवीमिति क्रमस्ते नैव क्रमेण द्वारपूजनमिति ।। यागमंडपस्य प्राकारासंभवे मंडपस्य द्वाराग्रस्तदसंभवे प्. ३१ब्) यागमंडपस्य पश्चिमे द्वारे मंडपासंभवगोमयोपलिप्तायाः यागभूमेः पश्चिमे भागे क्वापि स्थित्वा सामान्यार्घं विद्यायैवं कल्पयित्वा क्रमेण पूजये ।। तद्यथा ।। कोटि कोटि योजन विस्तीर्ण सुधार्णव चतुष्टयांतर्गतं कोटियोजन विस्तरां यामं महाद्भूतं नवरत्न मयं द्वीपं सहस्रादित्य तेजसं तन्मध्य तृतीयांशे मदनोन्मादनं नाम नानापुष्पलताकुलं कदंबकान् न गर्भं नंदनोद्यानं तन्मध्य तृतीयांशे कोटि सूर्य प्रतीकाशं ज्वलत् स्वर्ण प्राकार वेष्टितं नाना सुरभिशालित्तोरणद्वार नानारत्नमंडितं परितः सेवार्थ मायातेंद्रादि देवगण समाकुलं माणिक्यमयं श्रीमंडतं ध्यात्वा सामान्यार्घोदकेनाभ्युक्ष्य पुष्पादिभिः क्रमेण पूजयेत् ।। तद्यथा ।। ४ सुधार्णव चतुष्टयाय नमः ।। ४ अं ५१ नवखंड विराजिताय नवरत्न द्विपाय नमः ।। ४ नंदनोद्यनाय नमः ।। ४ स्वर्ण प्राकाराय नमः ।। तद्वारस्य दक्षिणोत्तर शाखयोरुपर्यधश्च ४ गं गणेशाय नमः ।। ४ क्षें क्षेत्रपालाय नमः ।। ४ द्वां द्वार श्रियै नमः ।। ४ देहल्यै नमः ।। इति संपूज्य ।। प्. ३२अ) प्राकारांतः प्रविश्य प्रदक्षिण कमेणेंद्रादि दशदिक्पालान् स्वस्वदिशि संपूज्य मणिमंडपस्य पश्चिमद्वारं गत्वा सामान्यार्घं वक्ष्यमाणविधिना संस्थाप्य तेनोदकेनास्त्रमंत्रेण तोरणद्वारमभ्युक्ष्य सामान्यार्घ करणाशक्तौ ताम्रादि पात्रस्थ जलं मूलेनाष्टवारमभिमंत्र्यधेनुमुद्रायामृतीकृत्य तेनोदकेन वा प्रोक्षयेत् ।। ततः ४ कदंबकाननाय ।। तद्दक्षिणे ४ कामदेवरतिभ्यां ।। तदुत्तरे ४ वसंत प्रीतीभ्यां नमः ।। इति संपूज्य ।। ४ श्रीरत्नमंडपाय नमः ।। इति मंडपां संपूज्यतोरणद्वारस्य पश्चिमभागे द्वाराभिमुखमुपविष्टां वाराहीं वक्षमानरूपां ध्यात्वा । तद्विप्रया तां संपूज्य तद्वारमस्त्रेणाभ्युक्ष्यद्वारस्योर्ध्व शाखायां दक्षिणे ४ मां महालक्ष्म्यै नमः ।। वामे ४ सं सरस्वत्यै नमः ।। मध्ये ४ दुं दुर्गायै नमः ।। ४ द्वां द्वारश्रियै नमः ।। द्वारस्य दक्षिणवाम शाखयोरधोधः क्रमेण ४ शं शंखनिधिवसुधाराभ्यां नमः ।। ४ पं पद्मनिधवसुमतीभ्यां नमः ।। ४ गं गणपतये नमः ।। ४ क्षें क्षेत्रपालाय नमः ।। ४ मां माया शक्त्यै नमः ।। ४ प्. ३२ब्) चिं चिछक्त्यै नमः ।। ४ गं गंगायै नमः ।। ४ यं यमुनायै नमः ।। ४ धं धात्रे० ४ विं विधात्रे० दहल्यां० दें देहल्यै० द्वाराग्रे ४ वं वरुणाय नमः इति पश्चिमद्वारं संपूज्य ।। तत्रोत्तर द्वारं गत्वा० तथैवाभ्युक्ष्य तस्योर्ध्व शाखायां दक्षिणवामपार्श्वे योः प्राग्वन महालक्ष्मीरत्यस्वत्यौ संपूज्य मध्ये ४ बं बटुकाय नमः ।। ४ द्वां द्वारश्रियै० पुनः पूर्ववत् शंखनिध्यादि देहल्यं तं संपूज्य द्वाराग्रे ४ सों सोमाय नमः ।। इति संपूज्य ।। ततः पूर्वद्वारं गत्वा तथैवाभ्युक्ष्य तस्योर्ध्वशाखायां दक्षिणवामपार्श्वयोः प्राग्वन्महालक्ष्मी * रस्वत्यौ संपूज्य० मध्ये० ४ क्षें क्षेत्रपालाय नमः ।। ४ द्वां द्वारश्रियै नमः ।। पुनः प्राग्वछंखनिध्यादि देहल्यं तं संपूज्य० द्वाराग्रे ४ लं इंद्राय नमः । ततो दक्षिणद्वारं गत्वार्घोदकेनाभ्युक्ष्य तदूर्ध्व शाखायां दक्षिणवामपार्श्वयोः प्राग्वन्महालक्ष्मी सरस्वत्यौ संपूज्य० मध्ये० ४ ग्लैं गणनाथाय नमः । ४ द्वां द्वारश्रियै नमः ।। इति संपूज्य । द्वारशाखयोः प्राग्वछंस्वनिध्यादि देहल्यं तं संपूज्य द्वाराग्रे ४ टं यमाय० ततः पुनः प्. ३३अ) पश्चिमद्वारं गत्वा वामपादपरःसरं तत्तोरणांतः प्रविश्य ।। ४ रत्नसोपान पंक्तये नमः इति सोपानपंक्तिं संपूज्य० तामारुह्य मंडपस्य पश्चिमद्वारादि चतुर्द्वारेषु पंचस्थ देवताः संपूजयेत् ।। तत्र प्रथमंरस्कारणीं ।। श्यामवर्णां मदाघूर्णा रक्तनेत्रत्रयान्वितां ।। कृष्णांबरां गदां खड्गं दधतीं च भुजद्वये ।। १ ।। दोर्भ्यो मनोहराभ्यां च खर्जूरी कुभधारिणीं ।। नीलं तुरंगमारुढां प्रौढां पीनघनस्तनी ।। २ ।। मुक्तकेशीं विवसनां सर्वालंकारभूषितां ।। स्वयोनिदर्शनान्मुह्य सशुवर्गान्ननुस्मरेत् ।। ३ ।। कृष्णांबरामिति कृष्णवर्ण प्रछदपटां । विवसनामधोवस्त्र रहितां । खर्जूरी कुंभधारिणी खर्जूर सभरित कुंभ धारिणीमित्यर्थः ।। दक्षाद्यूर्ध्वयोराघे अथस्थयोः कुंभमिति ध्यात्वा पश्चिमद्वाराग्रे किंचिद्बहिः ४ ऐं नमो भगवति माहेश्वरि पशुजन मनश्चक्षुस्तिरस्करणं कुरु कुरु स्वाहा ।। तिरस्करणी देवी श्रीपादुकां० ।। इति संपूज्य मंचस्थ देवताः पूजयेत् ।। तत्पूजा क्रम उड्डीश मते ।। सरस्वतीं रमां चैव पश्चिमे परिपूजयेत् ।। प्. ३३ब्) मायां दुर्गां दक्षिणे तु पूजयेत् परमेश्वरि ।। १ ।। भद्रकालीं ततः स्वस्तिं पूर्वे च परिकल्पयेत् ।। स्वाहां शुभंकरीं गौरीं यक्षे च परिपूजयेत् ।। २ ।। वागीशीं लोकधात्रीं च दक्ष पश्चिमद्वारके ।। एतामंच स्थिताः पूज्या यथानुक्रमयोगतः ।। ३ ।। इति ।। अथैतासां पूजा यथा ।। पश्चिमद्वारस्य वामभागे ।। ४ सां सरस्वतीश्री० दक्षिणभागे ४ मां महालक्ष्मीशी० ततो दक्षिणद्वारि । वामभागे ४ मां मायाश्री० दक्षणभागे ४ दुं दुर्गाश्री० ततः पूर्वद्वारि ।। वामे ४ भद्रकालीश्री० दक्षे ४ स्वं स्वस्तिश्री० तत उत्तरद्वारे० वामे ४ स्वां स्वाहाश्री० दक्षे० ४ शुं शुभंकरीश्री० द्वाराग्रे० ४ गौ गौरीश्री० पुनर्दक्षिणद्वारं गत्वा तद्वाराग्रे ४ लों लोकधात्रीश्री० ततः पश्चिमद्वारं गत्वा द्वाराग्रे० ४ वां वागीश्वरीश्री० इति संपूज ।। पालितं बहुरिंद्राद्यैः परमैश्वर्य शोभितं ।। प्रपद्ये पश्चिमद्वारं भवान्यामंदिरं महत् ।। १ ।। इति ध्यात्वा ४ पश्चिमद्वाराय मंडपाय नम इति मंडपं संपूज्य० तालत्रय पूर्वकं तद्वारमुरघाटय प्. ३४अ) सिद्धार्थाक्षतभस्मकुशकुसुमानि नाराचास्त्रप्रयोगेण ४ अपक्रांमं तु भूतानि पि शाचाः प्रेत गुह्यकाः ।। ये चात्र निवसंत्यन्ये देवताभूविसंस्थिताः ।। १ ।। अपसर्पंतु ये भूता ये भूता भूवि संस्थिताः ।। ये भूता विघ्नकर्त्तारस्ते नस्यंतु शिवाज्ञया ।। २ ।। इत्यंते अस्त्रमुच्चरणूमंदपांतः प्रक्षिप्य तस्मिन्निर्गछतां विघ्नसंधानां स्ववामांगसंकोचेन मार्गं दत्वा त्रिविध विघ्नानुत्सारयेत् ।। तद्यथा ।। ४ र्या खंडकारिणो भूत्वा भूमौ ये चांतरिगाः ।। दिवि लोके स्थिता ये च ते नश्यंतु शिवाज्ञया ।। १ ।। इत्यंते अस्त्र मुच्चरन् वामपार्ष्णिघातत्रयेण भौमानूर्ध्वोर्ध्व तालत्रयेणांतरिक्षगान् तीक्ष्णदृष्ट्यवलोकनेन दिव्यान् विघ्नानुत्सार्य० वामपादपुरःसरं मंडपांतः प्रविदिति द्वारपूजा ।। अत्र प्रतिद्वार गमना संभवे पश्चि * द्वार एव स्थित्वा तत्तद्वाराणि कल्पयित्वा पूजयेत् ।। अथ यथाक्रमं द्वार देवतानां ध्यानं लिख्यते ।। पद्मद्वय वरामीति भास्वत्यागि चतुष्टयां ।। पद्मवर्णां त्यजेत्पद्मां पद्मांक्षीं पद्मवासिनीं ।। १ ।। प्. ३४ब्) अक्षस्रक् पुस्तकधरा पूर्णचंद्र समद्यूतिः ।। विश्वविद्या मयी देवी भारती भास्वतां मयि ।। २ ।। शंखचकांकिंतकरा कुमारी कुटिलालता ।। मृगेंद्रवाहना देवी दुर्गा दुर्गाणि हंतु मे ।। ३ ।। तप्तकार्त्र स्वराभासा दिव्यरत्नविभूषिता ।। द्वार श्रीरूर्ध्व पद्मस्था वराभय करांबुजा ।। ४ ।। मुक्ता माणिक्य संकाशौ किंचित् स्मित मुखांबुजौ । अन्योन्या लिंगन परौ शंखपंकजधारिणौ ।। ५ ।। विगलद्रत्न वर्षाभ्यां शंखाभ्यामूर्ध्नि लांछितौ ।। शंखासन समासीनौ विश्वसंकल्पकल्पकौ ।। ६ ।। तुंदिलं कंबुक निधिं वसुधारां घनस्तनीं ।। वामतः पंकज निधिं प्रियया सहितं यजेत् ।। ७ ।। सिंदूभौ भुजाश्लिष्टौ रत्नपद्मोत्पलान्वितौ ।। निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूद्ध्नि लांछितौ ।। ८ ।। पद्मासनसमासीनौ विश्वसंकल्प कल्पकौ ।। तुंदिलं पंकज निधिं तन्वीं वसुमतीमपि ।। ९ ।। पलाशपाटलछायं रमणीयं रति प्रियं ।। पुंड्रेक्षु ४ चाप पुष्पेषु मंतं वदे मनोभवं ।। १० ।। प्रपद्ये प्रीति दयितं पूर्णेंदु सदृशं विभुं ।। वसंतं नंदनोद्याने वसंतं ततोत्स्ववं ।। ११ ।। पाशांकुश फलांभोज पाणि पाटल तुंदिलं ।। प्. ३५अ) वीरं विघ्नेश्वरं वंदे गजवक्रं त्रिलोचनं ।। १२ ।। कपालशूलौ बिभ्राणं कृपालुं कृष्णविग्रहं ।। तीक्ष्णं त्र्यक्षं समर्चामि क्षेत्रेशं क्षत विद्विषं ।। १३ ।। वराभय करां सौम्यां सोमकोटिसमप्रभां ।। भजे गंगां महादेव्याः पाद्योदक तरंगिणीं ।। १४ ।। वाम पादार्घसंभूतां परदेव्यास्तरंगिणीं ।। वराभयकरां वंदे कालिंदिं कालविग्रहां ।। १५ ।। भत्तारं जगतां वदे शंखं चक्रं गदांबुजं ।। विभ्राणं गरुडा रूढं धातारं कृष्णविग्रहं ।। १६ ।। रक्तं रक्तारविंदस्थं वराभयकमंडलुं । हंसारूढविधातारं वदेऽक्ष स्रक् समन्वितं ।। १७ ।। सिंहारूढां श्यामलांगीं खड्गखेटकधारिणीं ।। अधस्थां देहलीं वंदे पश्चिमास्यासुरक्षिणीं ।। १८ ।। पाशाभयधरं वंदे पूर्णेंदु सदृशछवीं ।। वरुणं मकरारूढं द्वारेश्रीपारदैवते ।। १९ ।। कर कलित कपालः कुंडली दंडपाणिस्तरुण तिमिर नीलोव्यालयज्ञोपवीती ।। क्रम समय सपर्या विघ्नविध्वंस हेतुर्जयति बटुकनाथः सिद्धिदः साधकानां ।। २० ।। धूम्रवर्णो गदाहस्तः कुबेरो नरवाहनः ।। सौम्य द्वाराधिपः पायात्परदेव्या धनेश्वरः ।। २१ ।। प्. ३५ब्) व्यालव्यग्रजटाधरं त्रिनयनं नीलांजनाद्रि प्रभं दोर्दडात्त गदा कपालमरुणस्रग्वस्त्रगंधोज्वलं ।। घंटाघुर्घुरमेखलाध्वनिमिलद्धूंकारभीमं विभुं वंदेहंसितसर्पकुमंडलधरं तं क्षेत्रपालं सदा ।। २२ ।। सितो गजास्यः परशुं दंतंपाशं त्रिशूलकं ।। भुजैश्चतुभिर्बिभ्राणो मूषकोपरिसंस्थितः ।। २३ ।। पूर्वद्वाराधिपः शक्रः परदेव्या (धनेश्वरः ।।) सुपीतकः ।। वज्रहस्तः सहस्राक्षः पायादैरावतः स्थितः ।। २४ ।। गणेशश्यामवर्णं च चतुर्बाहुं दिगंबरं ।। वामदक्षोर्ध्व बाहुभ्यां पाशांकुंश धरं तथा ।। २५ ।। दक्षिणाधः करेणैव मधुपूर्णं कपालकं ।। दधानं वामहस्तेन देव्यामदनमंदिरं ।। २६ ।। स्पृशन्वामांग संस्थाया रक्ताया दक्ष पाणिना ।। आत्मयोनौन्यस्तलिंगं पद्मं वामेन पाणिना ।। २७ ।। दधत्याः शुंडया योनिं जिघ्रन् ध्यात्वा प्रपूजयेत् ।। नीलांजन चयप्रख्यं यमं महिष वाहनं ।। २८ ।। दंडमंडितदोर्दंडं दक्षद्वाराधिपं भजे ।। अथ मंचस्थ देवता ध्यानं ।। प्. ३६अ) अक्षस्रक् पुस्तकाभीतीर्दधानां बहुभिर्वरं ।। त्रिलोचनां स्मरेद् देवीं सर्वशुक्लां सरस्वतीं ।। २९ ।। पद्मद्वय वराभीति भास्वत्पाणि चतुष्टयां ।। निर्दग्ध हेम गौरांगीं महालक्ष्मीं त्रिलोचना ।। ३० ।। वरांकुशौ पाशमभीति शुलौकरैर्दन्यंभवभावमूलं ।। घनाघनौघ प्रभदेह कांतिं मायां त्रिनेत्रां मनिशं स्मरामि ।। ३१ ।। शंखचक्रधनुर्बाणा च धारयंती त्रिलोचनां ।। दूर्वादलनिभां वंदे दूर्गां दूर्गार्ति नाशिनीं ।। ३२ ।। कपालं खेटकं खड्गं त्रिशूलं बिभ्रतीं करैः ।। भिन्नांजन चयप्रख्यां भद्रकालीं नमाम्यहं ।। ३३ ।। शक्ति स्वस्तिक मुद्राभी हस्तां चंद्र समप्रभां ।। त्रिनेत्रां संस्मरेद्देवीं स्वस्तिं स्वस्ति करीं परां ।। ३४ ।। रक्तोत्पल द्वंद्व वराभयानिकरैर्बहंतीं स्मितशोभिवक्त्रीं ।। रक्तां त्रिनेत्रामरुणांबराढ्यां स्वाहां भजे देवगणाभिवंद्यां ।। ३५ ।। शालि कल्पलताशार्ऽऽन बाणपाणि चतुष्टया । ज्वलत्कांचन वर्णाभा शुभं कुर्याछुभंकरी ।। ३६ ।। पाशांकुश वराभीतीर्बिभ्रत्तीमरुणप्रभां ।। प्. ३६ब्) त्रिनेत्रां मातरं वंदे गौरीं रक्तांबरो ज्वलां ।। ३७ ।। नाघुसलवराभीतिर्बिभ्रतीं कांचनप्रभां ।। मातरं दिव्यरत्नांगीं लोकधात्री नमाम्यहं ।। ३८ ।। श्वेतां श्वेतांबरां श्वेत भूषणस्रग्विलेपनां ।। पद्मद्वय वरादर्श करां वागीश्वरीं भजे ।। ३९ ।। इति श्रीपरदेवताया मंडपद्वाराधि देवतानां ध्यानं ।। इत्थं द्वार देवताः ध्यायन् पूजयेदिति ।। श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे द्वितीयस्तरंगः ।। २ ।। ततो मंडपांतः प्रविश्य वस्त्रेण द्वारमाछाद्य घंटावादन पूर्वकं पंचगव्यार्घतोयाभ्यामस्त्रमंत्रेण मंडपांतः प्रोक्ष्य नानावर्णरजश्चित्रैः पुष्पमालावितानाद्यैर्मंडपमलंकृत्य लाक्षासिंदूरादिभिर्भित्तिस्तंभादिकमरुणीकृत्य वेदी परितश्चि स्थायिनः प्रदीपान् प्रज्वाल्य कालागुर्वादिभिर्धूपयित्वा तदभावे तादृशं ध्यात्वा ततो मंडपस्य । नैर्-ऋति कोणे ।। ४ वास्तु पुरु शांय नमः ।। ४ वास्त्वधीश्वराय ब्रह्मणे नमः ।। प्. ३७अ) ईशान भागे ।। ४ कुलनाथ पादुकां पूजयामि ।। ४ रक्तवर्ण द्वारौ दशशक्ति सहित श्रीदीपनाथ पादुकां पू० । इति दीपनाथं संपूज्य ।। अस्मिन् क्षेत्रे दीपनाथ निर्विघ्नं सिद्धिहेतवे ।। श्रीचक्रक्रमपूजार्थमनुज्ञां दीयतां ममी ।। १ ।। इति दीपनाथाज्ञां प्रार्थ्य ।। ततः पश्चिमादि द्वारचतुष्टये मध्ये च ।। दूतर्यंबा श्रीपादुकां पूजयामि ।। ४ (पूर्वोक्त विपरी)तकृत् ।। फलकायां पटेभित्तौ स्थापयेत्त कदाचन ।। स्थापितं यदि मोहेन लोभेनाज्ञानतोपि वा ।। कुलंवित्तमपत्यं च निर्मूलयति सर्वथेति ।। तथा लक्षसागरे ।। वंगेथ सीसके लोहेन कर्त्तव्यं कदाचनेति ।। श्रीचक्रस्थ पीठमानं द्रव्यप्रमाणं चाह ।। कूल मूलावतारे ।। अग्निरंगुलविस्तारं प्राक् प्रत्यक् दक्षिणोत्तरां । पल प्रमाणं कर्तव्यमर्चा पिठं मनोहरं ।। यवार्द्धाच्चं प्रकुर्वीत चतुरस्रं समंततः ।। तस्मिन् पीठे च निर्माणं श्रीचक्रस्य तु कारयेत् ।। इति ।। लक्ष सागरे ।। (अग्निरंगुलं हेमस्य रजतस्य तथैव च ।। ताम्रस्य पूर्वसंख्यैव माणिक्यादौ यथेछया ।।) प्. ३७ब्) सुंदर्यंबाश्री० ।। ४ सुमुख्यंबाश्री० ४ विरूपांबाश्री० ४ विमलांबाश्री० ४ अंतर्यंबाश्री० ४ बदर्यंबाश्री० ४ पुरंदर्यंबाश्री० इति द्वारस्य वामदक्षिणयोर्द्वंद्वं सपूज्य ।। मध्ये ४ पुष्पमर्दिन्यंबाश्री० इति पूजयेत् ।। ततः तीक्ष्णदंष्ट्रमहाकाय कल्पांतदेहनोपमः ।। भैरवाय नमस्तुभ्यं मनुज्ञां दातु मर्हसि ।। १ ।। इति पठित्वा भैरवाज्ञामादाया अः पूडिति पूज्या वेदीं गत्वा ।। सिरसि ४ मेरुपृष्ठये ऋषये नमः ।। मुखे ४ सुतलायछंदसे नमः ।। हृदये ४ पृथिव्यै देवतायै नम इति विन्यस्य पृथिवी प्रार्थने विनियोगाः ।। इति कृतांजलिरुक्वा ४ पृथ्वी त्वया धृता लोका देवित्वं विष्णुना धृता ।। त्वं च धारय मां देवि पवित्रं कुरु चासनं ।। १ ।। इति पृथिवीं प्रार्थ्य ।। जपस्थानं मूलमंत्रेण वीक्ष्यास्त्रेण प्रोक्ष्यास्त्रेणैव कुशैः त्रिःसंताड्य कवच मंत्रेणाभ्युक्ष्य वक्ष्यमासाण पीठपूजा क्रमेण ४ मं मंडूकाय नमः ।। इत्यादि कालाग्नि रुद्रादि वेदिकांतं संपूज्य ।। तस्यां वेदिकायां यथोक्तमासनस्वासनस्थाने आस्तीर्य तदस्त्रेण प्रोक्ष्या ४ ह्रीं आधारशक्ति कमलासनाय नमः ।। प्. ३८अ) इत्यासनं संपूज्य तस्यासनस्याग्नेंयादि कोणेषु ४ गं गणपतये नमः ।। ४ दुं दुर्गायै नमः ।। ४ सं सरस्वत्यै नमः ।। ४ क्षें क्षेत्रपालाय नमः । इति संपूज्य तत्र प्राऽऽन्मुखः पद्माद्यासनेनोपविश्य रक्तगंधांबर स्रगाभरणभूषितस्तांबूला पूरित मुखः कर्पूरमृगनाभिसुवासितांबरोस्यांगः प्रमुदित चित्तः शिवोहमिति विभावयन् स्वशिरसि पूर्वोक्तं मातृकाबुजं ध्यात्वा गुरूपदेश विधिना स्वपुरतः समं भूतले निर्मित सौधादिस्थंडिले सिंदूरादिना वक्ष्यमाणं श्रीचक्रमुद्धरेत् ।। अथवा स्वर्णादि पट्टे निर्मितं वक्ष्यमाण विधिना प्रतिष्ठितं चंदनादि पीठे पुरतः संस्थाप्य वक्ष्यमाण समष्टि योगिनी मंत्रेण पुष्पांजलिं क्षिपेत् ।। तत्प्रतिष्ठ प्रकारस्तु श्रीतंत्रराजे ।। चक्रे देव्यां तथा शिष्ये प्रतिष्ठा त्रिविधोच्यते ।। सा च तत्वविदा कार्य संप्रदायानुरोधिना ।। १ ।। चक्रे पूजा चक्रे । देव्या देवि मूर्तौ । तत्वविदा प्रतिष्ठा विधिज्ञेन पूर्णाभिषिक्तेन गुरुतः प्रासानुज्ञेन । तदुक्तं तंत्रराजे ।। गुर्वनुज्ञामृते मोहाल्लोभाद्वा कुरुते यदि ।। प्. ३८ब्) स पुत्रदारो निधनं प्राप्नुवंन्निरयं व्रजेत् ।। २ ।। तस्मात् पूर्णाभिषेकेने प्रात्यानुज्ञः समाचरेत् ।। इति ।। एवं विधेन क्रियमाणायां प्रतिष्ठायां कालविशेषस्तत्रैव । स्थिरे शुभग्रहोपेतेऽनुकूले गुणशालिनि । मूहूर्त्ते कारयेद्यद्वा पूर्णायां वा शुभोदये ।। १ ।। अक्षरत्रय संपात दिने पूर्णा दिन त्रये ।। प्रोक्तेषु पंच स्वन्येषु सर्वदा वा शुभोदये ।। २ ।। पूर्णायां पौर्णमास्यां । अक्षरत्रय संपात दिने एकस्यैवाक्षरस्य दिनाक्षरत्वेनोदयाक्षरत्वेन च स्थितिर्यस्मिन् दिने ।। अन्येषु पंचपर्वसु गुरोर्जन्मदिन विद्या प्राप्ति दिन स्वजन्मदिन दर्श गुरुमरणदिनेष्विति ।। पूर्णायां विशेषमाह ।। यद्वेति ।। पूर्वोक्त लक्षणयुतदिनासिद्धौ पूर्णायामेव स्वात्मनः श्वासस्य शुभोदये पक्षांतरमाह । सर्वदा वा शुभोदय इति ।। तत्र तत्व विदा कृतात्म साक्षांत्कारेण प्रोक्त तिथिवारादिकं सर्वमनवेक्ष्य स्वात्मनः श्वासस्य शुभोदय एवेत्यर्थः ।। कुर्यादि अयं पक्षः सिद्धविषयः ।। नान्यैः कार्यः । कुर्यात् प्रतिष्ठां सिद्धात्मानत्वन्योज्ञानगर्वित इति तत्रैवोक्त त्वात् ।। प्. ३९अ) तत्रापि संप्रदायानुरोधिना विदित तत्वनपि नित्यनैमितिकोपास्ति निरतेन ।। तत्रादौ श्रीचक्राधिकरणानि० श्रीरुद्रयामले । ततः कुंकुमसिंदूरैः कार्यं यंत्रं तु योगिना ।। सौवर्णो रजते ताम्रे स्फाटिके वै द्रुमे तथा ।। चक्रे यथोक्त विधिना पूज्या देवी नरोत्तमैरिति ।। तथा च तंत्रराजे ।। रत्ने हेमनिरूपे वा ताम्रे दृषदि च क्रमात् ।। कृत्वा चक्रस्य निर्माणं स्थापयेत् पूजयेदपि ।। लक्ष्मींकांतं यशः पुत्र धनारोग्यादि सिद्धये ।। दृषदिगंडकीशिलायां ।। गंडकी भव पाषाणे स्वर्णे रजत ताम्रयोरिति दक्षिणामूर्त्ति संहिता वचनात् ।। अथ धातु विशेषे पूजाकाल संख्या विशेषमाह ।। रत्नसागरे ।। यावज्जीवं सुवर्णे स्याद्रूप्ये द्वाविंशतिः प्रिये । ताम्रे द्वादशकं वर्षं तदर्द्ध भूर्जपत्रके ।। इति ।। सारसंग्रहे ।। ताम्रे द्वाद * कं वर्षं स्फाटिकादौ तु सर्वदा ।। तेषां मध्ये स्फाटिकं तु सर्वसिद्धिप्रदं भवेत् ।। श्रीचक्रमिति शेषः । अथाद्धिकरण विशेषे फलविशेषमाह ।। लक्षसागरे ।। भूमौ सिंदूररजसा रचितं सर्वकामदं ।। प्. ३९ब्) सुवर्ण रचितं यंत्रं सर्वराज वंशंकरं ।। रजतेन कृतं यंत्रंमायोरारोग्य कामदं ।। ताम्रे तु रचितं यंत्रं सर्वैश्वर्य प्रदं मतं ।। यंत्रं हि स्फाटिके देवि मनोभिलषित प्रदं ।। माणिक्य लिखितं यंत्रं राज्यदं मुक्तिदं यतं ।। गोमेद रचितं यंत्रं सर्वैश्वर्य प्रदं मतं ।। कॢप्तं मरकतैर्ययंत्रं सर्वशत्रुविनाशनं ।। लोह त्रयोद्भवं यंत्रं सर्वसिद्धिकरं मतं ।। श्रीदेव्युवाच ।। लोह त्रयोद्भवं यंत्रं कथं कार्यं महेश्वर ।। तन्मे वदस्व कृपया यद्यहं तव वल्लभा ।। श्री ईश्वर उवाच ।। भागा दश सुवर्णस्य रजतस्य च षोडश ।। ताम्रस्य रविभागेन पीठं कुर्यान्मनोहरं ।। तस्मिन् पीठे तु निर्माणं श्रीचक्रस्य तु कारयेत् ।। शांतिदं पुष्टिदं प्रोक्तं सर्वशत्रु निवर्हणं ।। आयुरारोग्यजनकं कांतिदं पुष्टिदं मतमिति ।। अथ चक्रस्य प्रस्तारभेदेन त्रैविध्यं तत्रैव ।। त्रैविध्यं श्रुणु चक्रस्य भूप्रस्तारोर्ध्व मेरुकं ।। पातालवासिनां देवि प्रस्तारो निम्न रेखकः ।। ऊर्ध्वरेखं महेशानि मर्त्यलोक निवासिनां ।। स्वर्गलोकाधिवासिनां यंत्रराट् मेरु संज्ञकः ।। प्. ४०अ) भूपुरं तु समारभ्य बैंदवांतं महेश्वरि ।। क्रमात् समुन्नतं सर्वं मेरुरूपं मयोदितं ।। समोर्ध्वरेखं नवकमूर्ध्वरेखं प्रकीर्तितं ।। निम्नरेखासमायोगाद्भूप्रस्तारो प्रस्तारो मयोदितः ।। यंत्रराज स्वरूपं ते मया स्नेहात् प्रकाशितं ।। गोपनीयं त्वया भद्रे स्वगुह्यमिव संततमि ।। अथै तत्प्रस्तार त्रयस्य फलानि प्रस्तारांतरं च तंत्रराजे ।। चतुरस्रं समारभ्य नवचक्राण्यनुक्रमात् ।। उन्नतोन्नतमा मध्याच्चक्रं स्यान्निधनं धनं ।। त्रित्रिक्रमादुन्नत्तं तदप्रजत्वं श्रियं लभेत् ।। एकद्वित्रिक्रमोन्नामं श्रियै कीर्त्ये च कल्पते ।। नवानि समरूपाणि सर्वाभीष्टार्थसिद्धये ।। तथा कुलमुलावतारे ।। उछ्रितं क्रमशो देवि वित्तप्राप्तिस्ततोमृतिः ।। भूचक्रं षोडशारं चाप्यष्टारं च समं भवेत् ।। शेषमुन्नतमीशानि चार्थाप्त्य प्रजदं भवेत् ।। चतुरस्रं समं देवि षोडशारादि बिंदुकं ।। मिथः समुन्नतं देवि श्रियै कीर्त्यै च कल्पते ।। चतुरस्रं समारभ्य बिंद्वतं समरेखकं ।। तथा श्रीः कीर्तिरारोग्यममृतायोपकल्पते ।। इति ।। प्. ४०ब्) अथ श्रीचक्राधिकरणे निषिद्ध धातून् अन्यानि निषिद्धाधिकरणानि चाह ।। तंत्रराजे ।। सीसकास्यादिषु पुनः पूर्वोक्तविपरीतकृत् ।। फलकायां पटे भित्तौ स्थापयेत्त कदाचन ।। स्थापितं यदि मोहेन लोभेनाज्ञानतोपि वा ।। कुलंवित्तमपत्यं च निर्मूलयति सर्वथेति ।। तथा लक्षसागरे ।। वंगेथसीसके लोहेन कर्तव्यं कदाचनेति ।। श्रीचक्रस्य पीठमानं द्रव्यप्रमाणं चाह ।। कुलमूलावतारे ।। अग्निरंगुलविस्तारं प्राक् प्रत्यक दक्षिणोत्तरं ।। पलप्रमाणं कर्त्तव्यमर्चापिठं मनोहरं ।। यवार्द्धाच्चं प्रकुर्वीत चतुरस्रं समंततः ।। तस्मिन् पीठे च निर्माणं श्रीचक्रस्य तु कारयेत् ।। प्. ४१अ) सौत्रामणितंत्रे ।। रजुरेखा भवेल्लक्ष्मी वक्ररेखा दरिद्रता ।। अग्निरंगुलविस्तारो यवार्द्धेनोछ्रिति भवेत् ।। इति ।। लक्षसागरे ।। अग्निरंगुलं हेमस्य रजतस्य तथैव च ।। ताम्रस्य पूर्वसंख्यैव माणिदौ यथेछया ।। प्. ४१ब्) अग्निरंगुलविस्तारमिति हेमस्येति च दिव्यत्वात् ।। त्र्यंगुलविस्तारायामित्यर्थः ।। पलं विंशत्युत्तरत्रिशतगुंजापरिमितं ।। आदि पदेन पुष्पनीलादयो रत्नविशेषा उच्यते ।। त्र्यंगुलविस्तारस्तु मानांतरांगुलमानेन ।। वेदिकापीठशिबिका रथादीनां विधिः पुनः । मानांतरागुलेनैव भवेन्नान्येन केनचदिति ।। महाकपिलपंचरात्रवचनात् ।। श्रीचक्राधिकरणस्य पीठशब्द वाच्यत्वात् पीठशब्द प्रतिपादक वचनानि तु प्रागेव लिखितानि ।। मानांतरांगुल लक्षणं कपिल पंचरात्र एव ।। विन्यस्तैस्तिर्ययगष्टाभिर्यवैर्मानांतरांगुलं ।। शालिभिर्वा ऋजुन्यस्तैस्त्रिभिर्मानांतरं भवेदिति ।। अथैतत्प्रतिष्ठाप्रकारः ।। तत्र तंत्रराजे ।। क्षौद्राज्य दुग्धैः प्रथमं नारिकेलांभसा ततः ।। अभिषेच्याथ तोयेन क्वथितेनाक्षरौषधैः ।। आवाह्याभ्यर्चतल्लग्ने चक्रे संस्थाप्य पूजयेत् ।। नित्यात्तत्वाप्ति कालोत्थ विद्ययाभ्यर्च्यताः क्रमात् ।। स्पृशन् जपेत् कराग्रेण श्रीचक्रं पूजयेदपि ।। एवं दिनत्रयं कृत्वा ततो नित्यक्रमं भजेत् ।। गंधैः पुष्पैर्नवैर्धूपै दीपैर्नैवेद्य तर्पणैः ।। प्. ४२अ) त्रिरात्रं पूजयेद्देवीं योगिभीः समं * * * ।। एवं देवी प्रतिष्ठायां क्रमः सान्निध्य कारकं इति ।। अथैतत्प्रयोगः ।। तत्र यथोक्त मानेन निर्मितं चक्रं स्वर्णादि धातु निर्मितं चेदम्लरसेन शुद्धं प्रक्षालितं वेदोक्त विविधिना कृताग्न्यत्तारणं क्वचित्पात्रे संस्थाप्य तत्राग्ने दीक्षाप्रकरणे वक्ष्यमाण शुभमासपक्षर्क्ष तिथिवारकरणमूहूर्त्त विशिष्टे साधकस्य चंद्रताराद्युनुकूले दिवसे स्थिरलग्ने मध्वाज्य दुग्धनारिकेलजलैः पृथक् पृथगभिषिच्य सुगंध सलिलेनाप्यभिषिंच पंचाशदक्षरौषधि क्वाथजलेनाप्यभिषिंच्य पुनः सुगंधजलैः प्रक्षाल्य पूर्ववत् द्वारपूजादि पीठपूजांतं कृत्वा तस्मिन् पीठे तच्चक्रं संस्थाप्य तथैव पीठ मंत्रांतं संपूज्य तस्मिंश्चक्रे देवीमावाह्य तद्दिन नित्या विद्यया विघा तृतीयकूटेन मूलविद्यया च प्रत्येकं त्रित्रिवारमभ्यर्च्य यथोक्त विधिनांगावरण पूजां विधाय पूवोक्त षट्त्रिंशदुत्तर सत्यशताधिकविंशति सहस्रसंख्याभिः कालनित्या विद्याभिश्चक्रं स्पृशन् अभिमंत्र्य पुनः श्रीचक्र पूजा क्रमेण संपूज्य धूपदीपादि नानाविधभोज्यैर्देवीं शक्तिसामयिकांश्च तथैव संपूज्य संतर्प्य प्रणम्य विसृजेत् । प्. ४२ब्) दिनत्रयं देवीं न विसृजेत् ।। प्रत्यहं त्रिसंध्यं क्रमार्चनं च कुर्यात् । इति प्रतिष्ठिते चक्रे नित्यार्चनादि कुर्यादिति । मूर्त्ति प्रतिष्ठायामप्येष एव विधिर्ज्ञेयः ।। तत्र स्थिरायां विसर्जनं नास्तीति विशेषः ।। इति चक्रराजं समुधृत्य स्ववामाग्रे वक्षमाणविधिना सर्वभूत बलिं दत्वा बलि स्थानादूत्तरतः पक्षिराजं ध्यायेत् तद्यथा ।। अष्टापदं पक्षति मूल राज द्वज्रांकुरं हाटक पक्ष कूंटं ।। हेमागमंगीकृत पद्मरागं चंचूपुटोल्लासि मुखारविंदं ।। १ ।। सूर्यानलेंदुद्युतिराजमानं नेत्रत्रयोल्लासितपद्मरागं ।। नीलाश्मदीप्ताखिलरोमसंघं शीतांशुखंडोज्वलितोत्तमांगं रविप्रा हि द्वंद्वबद्धोत्तमकपिशजटाभार संचारिगंगा- भंगाक्रांतोत्तमांगात्क्रमगलितपृषत् संगहाराभिरामं ।। अग्रोघन्नागवंधक्रमघटितफटाग्रंथिपंचांगुलोद्यत् पुछस्थग्रथिंबाहूद्भवभुजगयुगोल्लासिमालाभिरामं ।। ३ ।। कक्षासंबद्धवैश्या हि पदयुगललसच्चंद्रतीव्रांशुलीला प्. ४३अ) घंटाटोपाकुलाशादेशकपतिकुलं वैरिसंघैकपालं ।। पाशाकारांसलोलद्वृषलकुलभंवासीविषाधीशभोग स्फूर्जत् फूत्कारघोरं खुरपुटनिकरक्षण सर्वं सहांतं ।। ४ ।। भक्षयंतं पक्षिरूपं भक्तानां वैरि संचयं ।। शलभं साल्वं रूपं च ध्यायेदेकाग्रमानसः ।। ५ ।। इति शलभरूपं शिवं ध्यात्वा ४ ओं ऐ ह्री श्रीं ओं न्नमो भगवते शलभ साल्वाय पक्षिराजाय मम शत्रुन्नाशय नाशय घे घे हूं फट् स्वाहा ।। श्रीशलभ रूद्र श्रीपादुकां पूजयामि ।। शलभस्य वामभागै शलभ सदृशीमेव शलभीं ध्यात्वा ।। ४ ओं नमो भगवति शलभिशाल्वि पक्षिराज्ञि मम शत्रुन्नाशय नाशय घे घे हूं फट् स्वाहा श्रीशलभी देवी श्रीपादुकां पूजयामीति शलभ मिथुनं संपूज्य ।। चक्रस्य पूर्वदिशि । कल्पांतार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयंतं रक्ताक्षं पिंगकेशरिपु कुलभयदं भीमदंष्ट्राट्टहासं ।। चक्रं शंखं गदाब्जे पृथुतरमुसलं चापपाशांकुशान् स्वैर्बिभ्राणं दोर्भिराद्यं मनसि मुररिपुं भावयेच्चक्रसंज्ञं ।। दक्षाद्यूर्धयोराद्ये प्. ४३ब्) तदाद्यधःस्थयोरन्ये तदाद्यधस्थयोरपरे तदा द्यधः स्थयोरित्तरे इत्यायुध ध्यानं ।। इति श्रीसुदर्शनं ध्यात्वा ।। ४ ओं सहस्रार हूं फट् श्री सुदर्शनाय नमः ।। इति संपूज्य ।। तदक्षिणस्यां दिशि सजलघनसमानं भीमदंष्ट्रं त्रिनेत्रं भुजगधरमघोरं रक्तवस्त्रांगरागं ।। परशुडमरुखड्गान् वेटकंबाणचापौ त्रिशिखनरकपाले बिभ्रतं भावयामि ।। १ ।। दक्षाद्यूर्ध्वयोराद्ये तदाद्यधःस्थयोरन्ये तदाद्यधःस्थयोरपरे तदाद्यधःस्थयोरितरे इत्याद्युध्यध्यानं ।। इत्यघोर रूपं रुद्रं ध्यात्वा ।। ४ ह्रीं स्फुर २ प्रस्फुर २ घोरघोरत्तरतनुरूप चट २ प्रचट २ कह २ वम २ बंध २ घातय २ हूं फट् अघोररुद्राय नमः ।। इत्यघोर रुद्रं संपूज्य ।। पश्चिमे ।। सौवर्णांबुजमध्यगां त्रिनयनां सौदामिनी संन्निभां शंखं चक्रवराभया निदधतीमिंदोः कला विभ्रतीं ।। ग्रैवेयांगदहारकुंडलधरामाखंडलाद्यैः स्तुतां ध्यायेद् विंध्यनिवासिनीं शशिमुखीं पार्श्वस्थ पंचाननां ।। १ ।। वामोर्ध्वकरमारभ्य वामाधः करांतमायुध ध्यानं ।। प्. ४४अ) इति श्रीदुर्गा ध्यात्वा ।। ४ उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं ।। यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ।। अत्र वक्ष्यमाण समये विद्याश्च स्मरेत् । श्रीदुर्गायै नम इति संपूज्य ।। ४ स्वदक्षिण भागे गंधपुष्पादि पूजापकरणं निधाय । ४ हां हीं हूं फट् इति मंत्रं स्मरन्नारा च मुद्रया दिव्यदृष्ट्या च पुष्पादिकं विलोक्य वामभागस्थं जलपूर्ण कुंभं ४ आं इति वामहस्तेन स्पृष्ट्वा ४ छ्रौं इति दक्षिण कराग्रेण कुंभस्थ जलं स्पृष्ट्वा ४ रं इति दीपशिखां स्पृशेत् । ततः करं प्राक्षाल्य वामे ४ ऐं गुं गुरुभ्यो नमः । दक्षिणे ४ गं गणपतये नमः । अग्रे ४ श्रीपरदेवतायै नमः इति कृतांजलिः प्रणम्य मूद्ध्नि संघट मुद्रां विधाय ।। ४ हस्रौं हसक्षमलवयरां हंसक्षमलवयरूं हसक्षमलवयरीं हैस्रां हसक्षमलवयरूं श्रीपरपावक सर्वाराध्य सर्वमूर्द्ध पुरनाथ सर्वगुरु स्वयं गुरु श्रीगुरुनाथ रहसक्षमलवयरूं हस्रौं हंस क्षमलवयरीं हसक्षमलवयरूं हसक्षमलवयरां श्रीशंभु प्. ४४ब्) गुरु हस्रौं ४८ श्री अमुकानंदनाथ अमुकी देव्यंबा श्रीपादुकां पूजयामिति स्वशिरसि श्रीगुरु पादुकां विन्यस्य पुनरनया एव विद्यया गंधाक्षत कुसुमैः संपूज्य गंधादि पंचमुद्राः प्रदर्शय नमोस्तु गुरुवे इत्यादिना नमस्कार मुद्रया प्रणम्य ।। ४ अं आं सौः इति करशुद्धि विद्यया सुगंध द्रव्यमर्द्दनेन करौ सुरभी कृत्य ४ हस्रैं इति मंत्रेण सुगंधपुष्पाण्यादाय मर्दयित्वा वामकरेण ४ रौं निर्मूष्य आघ्राय ४ ओं हौः ते सर्वे विलयं यातु ये मां हिंसंति हिंसकाः ।। मृत्युरोग भय क्लेशाः पतंतु रिपु मस्तके ।। इति पठित्वा नारा च मुद्रया तत्पुष्पमुत्तरस्यां दिशि दूरे क्षिपेत् ।। ततः पुनः करशुद्धि विद्यया करावन्योन्य मर्दनेन संशोध्य । मध्यमयाः ४ अं नम अनामिकयोः ४ आं नमः कनिष्ठिकयोः ४ सौः नमः ।। अंगुष्ठयोः ४ अं नमः तर्जन्योः ४ आं नमः करतलकाष्ठयोः । ४ सौः नमः । इति विन्यस्य । ४ ऐं क्लीं सौः नमस्त्रिपुरसुंदरि मां रक्ष रक्ष इति मंत्रेण मूर्द्धादि चरणां तंत्रिर्व्यापकं विन्यस्य प्. ४५अ) पुनरेतदुच्चार्य ऊर्ध्वोर्ध्व तालत्रयं तर्जन्यगुष्ठोत्थ शब्दैर्द्दश दिग्बंधनं त्रिशूलाकारयोर्व्यत्यस्तयोः करयोः स्वमूर्द्धानं परितस्त्रिर्भ्रामणेन बहिप्राकार त्रयं च कृत्वा मूलविद्यया प्राणायामत्रयं कृत्वा प्रणवद्वादशावृत्या नाडी शुद्धिं विधाय भूतशुद्धि कुर्यात् ।। तद्यथा पादादि जानुपर्यंतं पृथ्वी स्थानं चतुरस्रं वज्रलांछितं पीतवर्णं ब्रह्मदैवत्यं निवृत्ति कलाधिष्ठितं लं बीजयुक्तं चिंतयेत्वा ।। जान्वादि नाभिपर्यंतं अपां स्थानमर्द्धचंद्राकारं शुक्लवर्णं शृंगद्वयेपि पद्मलंछितं विष्णुदैवत्यं प्रतिष्ठा कलाधिष्ठितं वं बीजयुक्तं ध्यात्वा नाभ्यादिकंठपर्यंतं वह्निमंडलं स्वस्तिकोपेतं त्रिकोणाकारं रक्तवर्णं रुद्रदैवत्यं विद्या कलाधिष्ठितं रं बीजयुक्तं ध्यात्वा कंठादि भ्रूमध्यपर्यंतं वायुमंडलं षट्कोणाकारं षट्बिंदुलांछितं वृत्तोपेतं कृष्णवर्णं इश्वरदैवत्यं शांतिकलाधिष्ठितं यं बीजयुक्तं विचित्यभ्रूमध्यादि ब्रह्मरंध्रपर्यंतं आकाश स्थानं वृत्ताकारं ध्वजलांछितं धूम्रवर्णं सदाशिवदैवत्यं शांत्यतीते कलाधिष्ठितं हं बीजयुक्तं ध्यात्वा ।। प्. ४५ब्) तत्र पंचभूत मये देहे । धर्मकंदसमुद्भूतं ज्ञाननालकमैश्वर्याष्टदलोपेतं परं वैराग्य कर्णिकं स्वहृदयारविंदं विभ्याव्य तत्कर्णिकायां जीवात्मानमाराग्रमात्रं प्रदीप कलिकाभासुरमनादिमलसंछन्नं परचिद्रूपं संचिंत्य योनि मुद्रां बध्वा प्रागुक्त रूपेण मूला धारात्कुंडलिनीमुत्थाप्य सुषुम्णा वर्त्मना मुलाधारा घनाहतांत चक्रस्थ वर्णवर्णाधि देवताग्र संतीं हृदय कमलमानीयतया कवलीकृतं जीवात्मानं ध्यायन्सुषुम्णा वर्त्मना विशुध्यादि चक्रस्थ वर्णवर्णाधि देवताग्रसंती ब्रह्मरंध्रं नीत्वा तत्र स्थित सहस्रदल कमलकर्णिका मध्यवर्त्तिनी परमात्मज्योतिषि सर्ववर्णवर्णाधिदेवता कदंबकं जीवात्मानं ४ हंसः इति मंत्रेण संयोज्य अस्त्रेण रक्षा कृत्वा कुंडलिनीं स्वस्थानमानियतत्व संहारं कुर्यात् ।। तद्यथा ।। तत्र पृथिवी स्थाने पादेंद्रिय गमन क्रियागंतव्य गंधघ्राण पृथिवी ब्रह्मनिवृत्ति समान वायुन् संस्मृत्य ४ ओं ह्रां ब्रह्मणे पृथिव्यधिपतये निवृत्ति कलात्मने हूं फट् स्वाहा ।। प्. ४६अ) इति मंत्रेण तान्सर्वान् कुंडलिनी द्वारा अपां मध्ये संहरेत् ।। ततोऽपां स्थाने हस्तादान दातव्यरसरसना जल विष्णु प्रतिष्ठोदानान्संचिंत्य ४ ओं ह्रीं विष्णवे जलाधिपतये प्रतिष्ठा कलात्मने हूं फट् स्वाहा ।। इति मंत्रेण तान् सर्वान् कुंडलिनी द्वारा वह्नि तत्वे संहरेत् ।। ततो वह्नि स्थाने पायु विसर्गविसर्जनीय रूपचक्षुर्वह्नि रुद्र विद्या व्यानान्संस्मृत्य ४ ओं ह्रूं रुद्राय तेजोधिपतये विद्या कलात्मने हूं फट् स्वाहा । इति मंत्रेण तान सर्वान् वायुमंडले संहरेत् ।। ततो वायु स्थाने उपस्थानंदू? तद्विषय स्पर्शस्पृष्टव्य वायवीश्वर शोंत्य पानान्संस्मृत्य ४ ओं ह्रैं ईश्वराय वायवधिपतये शांति कलात्मने हूं फट् स्वाहा ।। इति मंत्रेण तान् सर्वान् आकाश स्थाने संहरेत् । तत आकाशे स्थाने वाग्वदन वक्तव्य शब्द श्रोत्राकांश सदाशिव शांत्यतीत् प्राणान् संस्मृत्य ४ ओं ह्रौं सदाशिवायाकाशाधिपतये शांत्यतीत कलात्मने हूं फट् स्वाहा ।। इति मंत्रेण प्. ४६ब्) तान् सर्वान् कुंडलि संहृत्यतां बिंदुशक्तौ बिंदुशक्तिं नादशक्तौ नादशक्तिं परशक्तौ प्रणवेन संहृत्य । ४ ओं ह्रीं हूं फट् स्वाहा । इति तां परशक्ति पूर्वोक्त परमात्मनि संयोज्य-पृथिव्यादीनि भूतानि क्रमेण स्वस्वकारेणो एवं पंचमहाभूतानि परे तत्वे एकी भूतानि विचिंत्य ।। केवल शरीरे वामकुक्षौ पापपुरुषं संचिंतयेत् ।। तद्यथा ।। वामकुक्षि स्थितं पाप पुरुषं कज्जल प्रभं । ब्रह्महत्या शिरःस्कंधं स्वर्णस्तेय भूजद्वयं ।। सुरापान हृदायुक्तं गुरुतल्प कटिद्वयं ।। तत्संसर्ग पदद्वंद्वमंगप्रत्यंगपातकं ।। उपपातकरोमाण रक्तश्मश्रुविलोचनं ।। खड्गचर्मधरं क्रुद्धं कुक्षौपापं विचिंयेतत् ।। इति पापपुरुष विचिंत्यं वामनासारंध्रे सायं बीजेन द्वात्रिंशद्वारमावर्तनेन सहवायुमायूर्यनाभिस्थ षट्कोणाकारे वायुमंडले संयोज्य तत्रयमिति वायुबीजं कृष्णवर्णं संचित्य कुंभकेन यं बीजं चतुःषष्ठिवारमावर्त्तयन् प्. ४७अ) तदुस्थितेन महावायुना सहपापपुरुषं स्वशरीरं संशोष्ययं वायुबीजं षोडशवारमावर्त्तन् तं वायुं दक्षिणनासया चिरेच्य ।। रमिति बीजेन ३२ आवर्त्तनेन दक्षिण नासया वायुमापूर्य मूलाधारे संयोज्य तत्रस्थ वह्निमंडले रं वह्निबीजं रक्तवर्णं विचिंत्य कुंभकेन रमिति बीजं ६४ वारमावर्तयंस्तदुत्थितेन महावह्निना सहपापपुरुषं स्वदेहं दग्ध्वा पापपुरुष भस्मना सह रं वह्नि बीजं १६ वारमावर्तयन् तं वायुं वामनासया विरेच्य ।। पुनर्वामनासया ३२ आवृत्तेन वं बीजेन सहवायुमापूर्य ब्रह्मरंध्रे संयोज्य तत्र स्थित चिच्चंद्रमंडले वमित्य मृतबीजं शुक्लवर्णं संचित्य कुंभकेन ६४ आवर्तयन् वं बीजं तन्निःसृतामृतधारया स्वदेह भस्म संषिच्य वं बीजं षोडशवारं आवर्त्तयन् तं वायुं दक्षिणनासया वीरेच्य ।। पुनर्दक्षिण नासया लं बीजेन ३२ आवर्त्तनेन सहवायुमापूर्य मूलाधारस्थ पार्थिवमंडले संयोज्य तत्रक्तमिति पृथ्वी बीजं पीतवर्णं संचिंत्य कुंभकेन लं बीजं ६४ वारमावर्तयन् तदुद्भूतेन तेजसाऽमृत प्लावितं भस्मघनीकृत्य लं बीजं १६ मावर्तयन् वामनासया तं वायुं विरेच्य ।। प्. ४७ब्) पुनर्वामनासया ह्रीं बीजेन ३२ वृत्तेन सहवायुमापूर्य मूलाधारस्थ बींदुमध्ये मायाबीजं स्फुरत् बालार्क वर्णं संचित्य कुंभकेन मायाबीजं ६४ मावर्तयन् तेन करचरणाद्यवयव समेतं स्वदेहं निष्पन्नं विभाव्य मायाबीजं १६ मावर्त्तयन् तं वायुं दक्षिणनासया विरेचयेदिति स्थूलशरीरं निष्पाद्य सूक्ष्मशरीरं निष्पादयेत् ।। तद्यथा ।। तत्र पूर्वोक्तसहस्रारकमलःस्थपरमात्मनः सकाशात्सकल जगत् सिसृक्षाविजृंभित परब्रह्मेछारूपिणीं परशक्तिं ४ ओं ह्री नमः इति परमात्मनः सकाशात् स्वस्थानमानीय ततो नादशक्तिं ततो बिंदुशक्तिं प्रणवेन सृष्ट्वाबिंदु शकेः सकाशात्सकल जगत् सृष्टि हेतुभूतां कुंडलिनीं प्रणवेन निःसार्य ततः ४ ओं ह्रौं सदाशिवायाकाशाधिपतये शांत्यतीत कलात्मने नम इति प्राणशांत्यतीत सदाशिवाकाश श्रोत्रशब्द वक्तव्य वदनवाच आकाशस्थाने स्थापयेत् ।। तत आकाशमंडलान् ४ ओं ह्रैं ईश्वराय वायवधिपतये शांति प्. ४८अ) कलात्मने नम इति मंत्रेणापानशांति ईश्वर वायुस्पृष्टव्य स्पर्श तद्विषयानंदोपस्थान्वायु स्थाने स्थापयेत् ।। ततः ४ ओं ह्रूं रुद्राय तेजोधिपतये विद्या कलात्मने नम इति मंत्रेण व्यान विद्या रुद्र तेजश्चक्षूरूपविसर्जनीय विसर्गपायूनऽग्निस्थाने स्थापयेत् ।। ततः ४ ओं ह्रीं विष्णुवे जलाधिपये प्रतिष्ठा कलात्मने नम इति मंत्रेणोदान प्रतिष्ठा विष्णु जलरसनारसदातव्यादानहस्तानपां स्थाने स्थापयेत् ।। ततः ४ ओं ह्रां ब्रह्मणे पृथिव्यधिपतये निवृत्ति कलात्मने नम इति मंत्रेण समान निवृत्ति ब्रह्म पृथिवी घ्राण गंतव्य गमन किया पादेंद्रियाणि पृथिवी स्थाने स्थापयेत् ।। ततः प्रणवेन कुंडलिनीं स्वस्थाने स्थापयित्वा नादशक्ति बिंदुशक्ति परसक्तीनां प्रणवेन स्वदेहे व्याप्तिं विभाव्य ब्रह्मरंध्रस्थ परमात्मनः सकाशात् कुडलिन्या जीवात्मानं संहृतवर्णवर्णाधिदेवता सहितमाज्ञादि चक्रेषु तत्तद्वर्णवर्णाधिदेवताः स्थापयन् हृदयकमलमानीय सोहमिति मंत्रेण प्. ४८ब्) हृदय कमले जीवात्मानं स्थापयित्वा कुंडलिनीं सुषुम्णामार्गेण मणिपूरकादि चक्रेषु तत्तद्वर्णवर्णाधिदेवताः स्थापयन् मूलाधारं नीत्वा तत्र तां स्थापयेत् ।। ततः स्वशरीरं निरस्त सकल कलुषं तेजोरूपं देवताराधनयोग्यं विभाव्य इति भूति शुद्धिः । भूतिशुद्धिविहीतेनुकृत्वा पुजाभिचारवत् ।। विपरीत फलं दद्यादभक्त्या चार्चनं तथा ।। प्राणप्रतिष्ठां कुर्यात् ।। सा यथा ।। शिरसि ४ ब्रह्मविष्णुशिवेभ्यो ऋषिभ्यो नमः ।। मुखे । ४ ऋग्यजुः सामभ्यश्छंदोभ्यो नमः ।। हृदये ४ परा प्राण शक्त्यै देवतायै नमः ।। गुह्ये ४ आं बीजाय नमः । पादयोः ४ ह्रीं शक्तये नमः ।। नाभौ ४ क्रों कीलकाय नमः ।। इति विन्यस्य मम प्राणप्रतिष्ठार्थे विनियोग इति कृतांजलिर्वदेत् ।। ४ ओं आं ह्रीं क्रों अकं ४ आकाश वायवग्नि सलिल पृथिव्यात्मने आं हृदयाय नमः ।। ४ ओं आं ह्रीं क्रों इं चं ४ शब्दस्पर्शरूपरसगंधात्मनें ई शिरसे स्वाहा ।। ४ ओं आं ह्रीं क्रों उं टं ४ श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊं शिखायै वषट् ।। प्. ४९अ) ४ ओं आं ह्रीं क्रों एं तं ४ वाक्पाणिपादपायु उपस्थात्मने ऐं कवचाय हुं ।। ४ ओं आं ह्रीं क्रों ओं पं ४ वचनादानगमनविसर्गानंदात्मने ओं नेत्रत्रयाय वौषट् ।। ४ ओं आं ह्रीं क्रों अं यं ९ मनोबुद्ध्यहंकार चित्तित्तात्मने अः अस्त्राय फट् ।। इति मंत्रानंगुष्ठादित लां तं विन्यस्य हृदयादि षडंगेष्वप्येतान् विन्यस्य ।। ततो नाभ्यादि पादद्वयांतं ४ आं नमः । हृदयादि नाभ्यंतं ४ ह्री नमः । मूर्द्धादि हृदयांतं ४ क्रों नमः । ततो हृदय कमल मध्ये ४ यं त्वगात्मने नमः । पूर्वदले ४ रं असृगात्मने नमः । पश्चिमदले ४ लं मांसात्मने नमः । आग्नेयदले ४ वं मेदात्मने नमः । वायव्यदले ४ शं आस्थ्यात्मने नमः । ईशानदले ४ षं मज्जात्मने नमः । नैर्-ऋतिदले सं ४ शुक्रात्मने नमः । उत्तरदले ४ हं प्राणात्मने नमः । दक्षिणदले ४ लं जीवात्मने नमः । पुनः कर्णिकायां । ४ क्षं परमात्मने नः ।। इति विन्यसेत् । ततो ध्यानं । रक्ताध्विपोतारुण पद्मसंस्थां पाशांकुशा विक्षुशरासबाणान् ।। प्. ४९ब्) शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवीं ।। १ ।। इति ध्यात्वा हृदि हस्तं निधाय ।। ४ ओं आं ह्रीं क्रों यं रं लं वं शं षं सं हों हं सः सोहं मम प्राणा इह प्राणाः ४ ओं आं १४ मम जीव इ स्थितः ४ ओं आं १४ मम सर्वेंद्रिणि ४ ओं आं १४ मम वाऽऽन्मनश्चक्षुःश्रोत्रघ्राणप्राणाः इहैवागत्य सुखं चिरं तिष्ठंतु स्वाहा ।। इति प्राणप्रतिष्ठां त्रिर्जपित्वा निजवपुर्ज्योतिर्मयं ध्यायेदिति प्राणप्रतिष्ठाविधिः ।। ओं इति मंत्रं १६ जपेत् हृदयै हस्तं निधाय ।। श्री विद्यानंदनाथेन शिवायोः प्रिय सूनुना ।। कृते सौभाग्य रत्नाब्धौ तरंगोऽगात्तृतीयकः ।। १ ।। इति श्रीसच्चिदानंदनाथचरणारविंद द्वंद्वांते वासिना श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे तृतीयस्तरंगः ।। ३ ।। अथ मातृकान्यासः ।। स चात्र विद्यायां शुद्धक कलामूर्ति प्रपंचयाग भेदाच्चतुर्विधः ।। शुद्धादयोप्यस्यां विद्यायां त्रयोदश विधाः ।। शुद्धो बिंदुयुतो प्. ५०अ) विसर्गयुक्तो विंदुविसर्गयुक्तो हृल्लेखाद्मो लक्ष्म्याद्यः कामबीजाद्यो मायाश्री कामबीजाद्यो बाला संपुटितः परा संपुटितः श्रीविद्यान्वितोहंसादिक परमहंसादिकश्चेति ।। कला युक्तोपि द्विविधः ।। तारोक्षकलां न्यासस्तेजस्त्रितयोत्थ कला मातृका न्यासश्चेति ।। मूर्तिन्यासोपि द्विविधः ।। केशवादि श्रीकंठादि भेदात् ।। चतुर्थः प्रपंचयागः ।। तत्रादौ मातृका वर्णैः प्राणायाम त्रयं कृत्वा न्यासं समारभेत् । तत्र स्वरै पूरकः पंचवर्गैः कुंभकः यादिभिरेचकः । इति मातृका प्राणायामः इत्थं प्राणायाम त्रयं कृत्वा न्यासं कुर्यात् तत्राथ प्रथमं शुद्ध मातृका न्यासः ।। ओं अस्य श्रीशुद्ध मातृका न्यासस्य ब्रह्मा ऋषिः गायत्री छंदः श्रीमातृका सरस्वती देवता हलो बीजानि स्वराः शक्तयः अव्यक्तं कीलकं । मम श्रीविद्यांगत्वे न्यासे विनियोगः ।। इति कृतांजलिः । ऋष्यादिकं स्मृत्वा मूर्द्धादिषु विन्यसेत् ।। तद्यथा ।। शिरसि ४ ब्रह्मणे ऋषये नमः ।। मुखे ४ गायत्री छंदसे नमः । प्. ५०ब्) हृदये ४ श्रीमातृका सरस्वत्यै देवतायै नमः । गुह्ये ४ हल्व्यो वीजेभ्यो नमः । पादयोः ४ स्वरेभ्यः शक्तिभ्यो नमः । नाभौ ४ अव्यक्ताय कीलकाय नमः ।। इति विन्यस्य ।। म श्रीविद्यांगत्वे न्यासे विनियोग इति सर्वांगे व्याप्य कृतांजलिर्वदेत् ।। ततः दक्ष करतले अ नमः । तत्पृष्ठे आ नमः ।। दक्षकरभे इ नमः । दक्षिणांगुष्ठमारभ्य वामांगुष्ठावधि दश स्वंगुलिषु ईकाराद्योकारांतान् १० विन्यस्य वाम करभं तत्पृष्ठतत्तलेषु औकारादि विसर्गांतं न्यसेत् ।। अयं संहार न्यासः ।। दक्ष करतलादि वामकरतलांतं सविसर्गान् स्वरान्न्यसेत् ।। अयं सृष्टिन्यासः ।। वाम कनिष्ठादित्तलांतमष्टौ स्वरान् ऌकारादीन् बिंदुविसर्ग सहितान् विन्यस्य दक्षकरतलादि तत्कनिष्ठांतमकारादि ऋकारांता नष्टौ स्वरान् बिंदु विसर्ग युक्तान्न्यसेदिति स्थिति न्यासः ।। इति मातृका स्वरान्विन्यस्य तकारादीन् शांतान् वामकनिष्ठा मूलादि प्. ५१अ) तदंगुष्ठाग्र पर्यंतेषु पंचदश स्थानेषु विन्यस्य दक्षांगुष्ठादि तत्कनिष्ठाग्रांतेषु कादिणांतान् विन्यस्य करद्वयेप्यंगुष्टादि कनिष्ठातं युगपदेवषादि क्षांतान् पचवर्णान् व्यापकत्वेन न्यसेत् ।। इति मातृकाक्षरैः करशुद्धिं विधाय ।। ओं ऐं ह्री श्रीं अं कं खं गं घं ऽऽनं आं हृदयाय नमः ।। ४ इं चं ४ ईं शिरसे स्वाहा ।। ४ उं टं ४ ऊं शिखायै वषट् ।। ४ एं तं ४ ऐं कवचाय हुं ।। ४ ओं पं ४ औं नेत्रत्रयाय वौषट् ।। ४ अं यं ९ अः अस्त्राय फट् ।। इति षडंग मंत्रानंगुष्ठादि तलांतं करयोर्विन्यस्य हृदयादि षडंगेष्वपि न्यसेत् ।। ततो ध्यानं ।। तत्र प्रथमं सूक्ष्मं रूपां ध्यात्वांतर्मातृकां न्यसेत् ।। तद्यथा ।। व्योमेंद्दौरसनार्णकर्णिकमचां द्वंद्वैः स्फुरत्केसरं पत्रांतर्गतपंचवर्गयशल्लार्णादि त्रिवर्गं क्रमात् ।। आशास्वश्रिषुलांतलांगलि युजाक्षोणी पुरेणावृत्तं वर्णाब्जं शिरसि स्थितं विषगदंप्रध्वंसिमृंजयं ।। १ ।। इति ब्रह्मरंध्रे वर्णारविंदं ध्यात्वा ।। मूलाधारध्वनि श्रुत्वा प्रबुद्धा शक्तिकुंडली ।। प्. ५१ब्) ज्वलत्यावकसंकाशा सूक्ष्मतेजः स्वरूपिणी ।। मूलाधारा छिरः पद्मं स्पृशंती विद्यूदाकृतिः ।। तया स्पृष्ट शिरः पद्मादमृतौघ स्वरूपिणः ।। निर्गतान् मातृका वर्णान् सुषुम्णा वर्तमना तनुं ।। व्यापयित्वा स्थितान् सर्वानेवं ध्यात्वा प्रविन्यसेत् ।। इति सूक्ष्मरूपां ध्यात्वा न्यसेत् ।। तत्र विशुद्धौ षोडशदलकमलमूर्ध्व मुखं ध्यात्वा तद्दलेषु प्रागादि प्रादक्षिण्येन ४ अं नमः ।। ४ आं नमः । एवं षोडश स्वरान्न्यसेत् । ततो हृदये । अनाद्वतचक्रं द्वादशं दलकमलं ध्यात्वा तथैव ककारादि ठकारांतान् द्वादशवर्णान् प्रणवत्रितारादि नमोंतान् प्रादक्षिण्येन न्यसेत् ।। ततो नाभौ मणिपूरकं चक्रं दशदलकमलं ध्यात्वा तद्दलेषु डकारादि फकारातांन् दशवर्णान् पूर्ववन्यसेत् ।। ततो लिंग मूले स्वाधिष्ठान चक्रं षट्दल कमलं ध्यात्वा तदलेषु प्राग्वत् बकारादिलकारांतान् षट्वर्णान्न्यसेत् ।। ततो मूलाधारे चतुर्दलकमलं ध्यात्वा तद्दलेषु वकारादि सकारांतान् चतुरो वर्णान् पूर्वन्न्यशेत् ।। ततो प्. ५२अ) भ्रूमध्ये आज्ञाचक्रं द्विदलकमलं ध्यात्वा तद्वलयोर्हक्षौ पूर्ववन्यसेत् ।। इत्यंतर्मातृकां न्यासं विधाय बर्हिर्मातृका न्यासं कुर्यात् ।। इति अंतर्मातृकान्यासः ।। बहिर्न्यासो यथा ।। तत्र ध्यानं ।। तद्यथा ।। पंचाशद्वर्णभेदैर्विहितवदनदोः पाद युक्कुक्षिवक्षोदेहं शाभास्वत्कपर्दाकलितशशिकलामींदुकुंदावब्दतां ।। अक्षस्रक्कुंभचिंतालिखितवरकरां त्र्यक्षणां पद्मसंस्थामछा कल्पामवतुछस्तनजघनभरां भारतीं तां नमामि ।। १ ।। दक्षोर्ध्वकरमारभ्य दक्षाधः करपर्यंतं आयुधध्यानं ।। चिंता लिखितं पुस्तकं । इति प्रागुक्ते वर्णारविंदे ध्यात्वा न्यसेत् ।। तत्रादौ ।। ह्सौंः अं आं इत्यादि समस्तमातृकामुच्चार्य ह्सौः नमः । इति मूर्द्धादि पादांतं त्रिर्व्यापकं विन्यस्य । ओं ऐं ह्रीं श्रीं इत्येतानि न्यासादौ सर्वत्र ज्ञेयानि । शिरसि ४ अं नमः । मुखवृत्ते ४ आं नमः । दक्षनेत्रे ४ इं नमः । वामनेत्रे ४ ईं नमः । दक्षकर्णे ४ उं नमः । वामकर्णे ४ ऊं नमः । दक्षनासायां ४ ऋं नमः । वामनासायां ४ ॠ नमः । दक्षकपोले ४ प्. ५२ब्) ऌं नमः । वाम कपोले ॡं नमः । उत्तरोष्टे ४ एं नमः । अधरोष्टे ४ ऐं नमः । ऊर्ध्व दंतं पऽऽन्तौ । ४ ओं नमः । अधो दंतपंक्तौ ४ औं नमः । शिरसि ४ अं नमः । जिह्वांयां ४ अः नमः । दक्षबाहु मूले ४ कं नमः । दक्षकफोणौ खं नमः । दक्षमणिबंधे ४ गं नमः । दक्षांगुलि मूले ४ घं नमः । दक्षांगुल्यग्रे । ४ उंः नमः । एवं वामबाहु मूलकफोणौ मणिबंधांगुलि मूलाग्रेषु च वर्गे न्यसेत् ।। (दक्ष वामपार्श्वपृष्ठनाभिजठरे) ततो दक्षोरूमूल जानुगुल्फांगुलि मूलाग्रेषु ट वर्गं न्यसेत् । ततः वामोरुमूल जानुगुल्फांगुलि मूलाग्रेषु त वर्गं न्यसेत् ।। दक्ष वाम दक्ष वाम पार्श्वे पृष्ठनाभिजठरेषु प वर्गं न्यसेत् । ततो हृदय दक्षांस ककुद्वामांसेषु य वर्गं न्यसेत् । ततो हृदादि पाणि द्वये हृदादि पादद्वये हृदादि नाभौ हृदादि ब्रह्मरंध्रे श वर्गं न्यसेत् । इति शुद्ध मातृकां न्यासः । शुद्धं बिंदुयुतं विसर्गसहितं हृल्लेखया लंकृतं बालासंपुटितं तथैव परया श्रीविद्यया लंकृतं ।। आरोहादवरोहतः शतमयं न्यासं पुनर्हंसयोर्योजानाति स एव सर्वजगतां सृष्टिस्थिति ध्वंसकृत् ।। १ ।। अत्र शुद्धत्वेपि बिंदुयुक्तत्वं वर्णानां वीर्ययोजनार्थमिति संप्रदायः ।। प्. ५३अ) अथ बिंदुयुक्तमातृकान्यासः । तत्र ऋष्यादिकं प्राग्वत् ।। ध्याने परं विशेषः । तद्यथा । अक्षस्रजं हरिणपोतमुदग्रटंकं विद्यां करैरवितर दधतीं त्रिनेत्रां ।। अर्द्धेदुमौलिमरुणामरविंदवासां वर्णेश्वरीं प्रणमतः स्तनभार नम्रां ।। १ ।। दक्षाधः करमारभ्य वामाधः करपर्यंतमायुध ध्यानं । विद्यां पुस्तकं । टंकं आयुध विशेषः । इति वर्णारविंदे ध्यात्वा न्यसेत् ।। तद्यथा । हृदयादि ब्रह्मरंध्रांतं ४ क्षं नमः । हृदयादिनाभ्यंतं ४ लं नमः । इत्यादि । शिरसि ४ अं नमः इत्यंतं संहार क्रमेण तत्तत्स्त्थानेषु न्यसेत् । इति बिंदुमातृकां न्यासः ।। अथ विसर्गमातृकान्यासः । तत्र ऋष्यादि ध्यानांतं शुद्धमातृकावदेवे । न्यासे वर्णेषु विसर्गान्वितत्वं विशेषः । इति विसर्गमातृकां न्यासः । अबिंदुविसर्गमातृकां न्यासः । तत्रापि ऋष्यादिकं शुद्धमातृकावदेव । ध्याने परं विशेषः । तथा सिंदूरकांममिताभरणं त्रिनेत्रं विद्याक्षसूत्रमृगपोतवरां दधानं ।। पार्श्व स्थितां भगवतीमपि कांचनाभां ध्यायेत् करांब्ज धृतपुस्तक वर्णमालां ।। १ ।। वामाधः करमारभ्य प्. ५३ब्) वामोर्ध्व करपर्यंतं आयुध ध्यानं शिवस्य । शक्तेस्तु वामादि कर द्वये । इति ध्यात्वा न्यसेत् ।। तद्यथा । दक्षिणगुल्फे ४ डंः नमः । अंगुलिमूले ४ ढंः नमः । इत्यादि प्रणव त्रितारादि ४ क्षंः नमः । इत्यंतं शुद्धमातृका स्थानेष्वेव विन्यस्य ।। ४ अंः नमः । इत्यादि ४ ठंः नमः । इत्यंतं मूर्द्धादि दक्षिण जान्वंतं शुद्धमातृकास्थानेष्वेव न्यसेत् । इति स्थिति रूपो बिंदुविसर्गमातृकान्यासः । अहृल्लेखादिमातृकान्यासः । तत्र शक्ति ऋषिः गायत्री छंदः । हृल्लेखा स्वरूपिणी मातृका सरस्वती देवता ।। इति ऋष्यादिकं स्मृत्वा विन्यस्य । ४ अं कं ४ आं ह्रां हृदयाय नमः । ४ इं चं ४ ईं ह्रीं शिरसे स्वा * । ४ उं टं ४ ऊं ह्रुं शिखायै वषट् । ४ एं तं ४ ऐं ह्रैं कवचाय हुं ।। ४ ओं पं ४ औं ह्रौं नेत्रत्रयाय वौषट् । ४ अं यं ९ अः ह्रः अस्त्राय फट् । इति करषडंगं न्यासः । ततो ध्यानं । उद्यत्कोटि दिवाकर प्रतिभटोत्तुंगो रूपीनस्तनी बद्धार्द्धेंदु किरीटहार रसनामंजीर संशोभीता ।। बिभ्राणा करपंकजैर्जपवटिं पाशांकुशौ पुस्तकं दिश्यानो जगदीश्वरी त्रिनयना पद्मे निषणा सुखं ।। १ ।। प्. ५४अ) दक्षाधः करमारभ्य वामाधः करपर्यंतं आयुध ध्यानं ।। इति वर्णारविंदे ध्यात्वा ४ ह्रीं अं नमः । इत्यादि क्षाकारांतान् वर्णान् शुद्धमातृकां स्थानेषु न्यसेत् ।। इति हृल्लेखा मातृकान्यासः । अथ श्रीं बीजादिमातृकांन्यासः । तत्र ब्रुगु ऋषिः गायत्री छंदः मातृमयी लक्ष्मीर्देवतान्यासे विनियोगः । इति ऋष्यादिकं स्मृत्वा यथाविधि विन्यस्य ४ अं कं ४ आं श्रां हृदयाय नमः इत्यादि षडदीर्घ युक्त श्रीबीजांतैः षड्वर्गैः करषंडंगं न्यासं विधाय ध्यायेत् । विद्युद्दामसमप्रभां हिमगिरि प्रख्यैश्चतुर्भिर्गेजैः शुंडा दंड समुद्धृतामृते घटैरासिच्यमानामिमां ।। बिभ्राणां करपंकजैर्जपवटीं पद्मद्वयं पुस्तकं भास्वद्रत्न समुज्वलां कुचनतां ध्यायेज्जगत्स्वामिनीं ।। १ ।। दक्षाधः करमारभ्य वामाधः करपर्यंतमायुध ध्यानं ।। इति ध्यात्वा ४ श्रीं अं नमः । इत्यादि क्षांतान् वर्णान् शुद्धमातृकास्थाने न्यसेत् । इति श्रीबिजादि मातृकान्यासः । अथ कामबीजादिमातृकान्यासः । तत्र संमोहन प्. ५४ब्) ऋषिः गायत्री छंदः मातृकामयी संमोहिनी देवता न्यासे विनियोगः । इति विन्यस्य । षट्दीर्घयुक्त कामबीजांतैः षड्वर्गैः प्राग्वत् करषडंगन्यासं विधाय ध्यायेत् । बालार्ककोटि रुचिरां स्फटिकाक्षमालां को दंडमिथुजनितं स्मर पंच बाणान् ।। विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां ध्यायेत् समस्त जननीं नवचंद्रचूडां ।। १ ।। वामाधः करमाभ्य दक्षाधः करपर्यंतमायुध ध्यानं । चकारा दक्षमाला पुस्तकयोर्व्यत्ययो बोधव्यः । इति ध्वात्वा ४ क्लीं अं नमः । ४ क्लीं आं नमः । एवं क्षांतं मातृकास्थानेषु न्यसेत् । इति काम बीजादि मातृकान्यासः ।। अथ त्रिबीजादिमातृकान्यासः । तत्र महासंमोहन ऋषिः गायत्रीछंदः मातृकामयी महासंमोहिनी देवता न्यासे विनियोगः । इति विन्यस्य द्विरुक्त त्रिबीजांतैः षड्वर्गैः प्राग्वत् करषडंगन्यासं विधाय ध्यायेत् ।। ध्याये यमक्षवलयेक्षुशरासपाश- पद्मद्वययांकुशशरान्नव पुस्तकं च ।। आबिभ्रतीं निजकरैररुणांकुचार्तां संमोहिनीं त्रिनयनां नवचंद्रचूडां ।। १ ।। प्. ५५अ) वामाधः करमारभ्य दक्षाधः करपर्यंतमायुध ध्यानं ।। अत्रापि चकारात् पूर्ववद्व्यत्ययो बोधव्यः ।। इति ध्यात्वा ।। ४ ह्रीं श्रीं क्लीं अं नमः । ४ ह्रीं श्रीं क्लीं आं नमः । इत्यादि क्षांतां न्यसेत् ।। इति त्रिबीजादि मातृकान्यासः । अथ बालां संपुटितमातृकान्यासः । तत्र दक्षिणामूर्ति ऋषिः गायत्री छंदः बालारूपिणी मातृका सरस्वती देवता । इति ऋष्यादिकं स्मृत्वा विन्यस्य करांगन्यासं कुर्यात् ।। तद्यथा ।। ४ अं कं ४ आं ऐ हृदयाय नमः । ४ इं चं ४ ईं क्लीं सिरसे स्वाहा । ४ उं टं ४ ऊं सौः शिखायै वषट् । ४ एं तं ४ ऐं सौः कवचाय हुं । ४ ओं पं ४ औं क्लीं नेत्रत्रयाय वौषट् । ४ अं यं ९ अः ऐं अस्त्राय फट् । इति करांगन्यासं विधाय ध्यात् । तद्यथा । मुक्तासेखरकुंडलांगदमणि ग्रैवेयहारोर्मिकां विद्योतद्वलयादिकं कण कटी सूत्र स्फुरन्नूपुरां । माणिक्योदर बंधुरस्तनभरां मिदोः कलां बिभ्रतीं पाशं सांकुश पुस्तकाक्षवलयान् दक्षोर्ध्व बाहोदितः ।। १ ।। प्. ५५ब्) पुर्णेंदु प्रतिमप्रसन्नवदनां नेत्रत्रयोद्भासिता- मिंदुक्षीरवलक्षगात्र विलसन्माल्यानुलेपांबरां ।। पंचाशल्लिपि जृंभिताखिल जगद्वाग्देवता देवतां मूलाधार समुहतां भगवतीं वर्णांबुजे चिंतयेत् ।। २ ।। इति वर्णारविं ध्यात्वा न्यसेत् ।। तद्यथा । ४ ऐं क्लीं सौः अं सौः क्लीं ऐं नमः । ४ ऐं क्लीं सौः आं सौः क्लीं ऐं नमः एवं क्षातान् वर्णान् बालासंपुटितान् शुद्धमातृकास्थानेषु विन्यसेत् ।। इति बालासंपुटितमातृकान्यासः ।। अथ परासंपुटितमातृकान्यासः । तत्र ब्रह्मा ऋषिः गायत्रीछंदः परारूपिणी मातृका सरस्वती देवता न्यासे विनियोः । ४ अं कं ४ आं सां हृदयाय नमः । ४ इं चं ४ ईं सीं शि से स्वा० ४ उं टं ४ ऊं संखायै वषट् । एवं करषडंगं कृत्वा ध्यायेत् । तद्यथा । अकलंकशशांकाभां त्र्यक्षां चंद्रकलावती । मुद्रा पुस्तक सद्बाहुं प्रणमामि परांकलां ।। १ ।। इति वरविंदे ध्यात्वा न्यसेत् । तद्यथा ४ सौः अं सौः नम ४ सौः आं सौः नमः । एवं क्षांतं मातृकास्थानेषु न्यसेत् ।। प्. ५६अ) इति परासंपुटितमातृकान्यासः । अथ श्रीविद्यायुक्तमातृकान्यासः । तत्र दक्षिणामूर्ति ऋषिः गायत्री छंदः श्रीमातृका सुंदरी देवता । इति ऋष्यादिकं स्मृत्वा विन्यस्य करांगन्यासं कुर्यात् ।। तद्यथा । ओं ऐं ह्रीं श्रीं अं कं ४ प्रथमकुटमूच्चार्य आं हृदयाय नमः । ४ द्वितीयकूतं ईं शिरसे स्वाहा । ४ उं टं ४ तृतीयकूटं ऊ शिखायै वट् । ४ एं तं ४ प्रथम कूटं ऐं कवचाय हुं । ४ ओं पं द्वितीयकूटं औं नेत्रत्रयाय वौषट् । ४ अं यं ९ तृतीयकूटं अः अस्त्राय फट् । ततो ध्यानं । आरकाभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटंकरम्यां हस्तांभोजैः सपाशांकुशमदनधनुः सायकैर्विःस्फुरंतीं ।। आपिनातुंगवक्षोरुहतटविलुठत्तारहारोज्वलांगी ध्यायेदंभोरुहस्थामरुणनिवसानामीश्वरीमीश्वराणां ।। १ ।। वामाद्यूर्ध्वयोराद्य तदाद्यधःस्तयोरन्य इत्यायुध ध्यानं । इति वर्णारविंदे ध्यात्वा न्यसेत् ।। तद्यथा । ४ मूलविद्यामुच्चार्य अं नमः । एवं प्रणव त्रितार श्रीद्यादिनमोंतान् आकारादि प्. ५६ब्) क्षकारातान् वर्णान् मातृकास्थानेषु न्यसेत् ।। इति श्रीविद्यामातृकान्यासः । अथ हंसमातृकान्यासः । तत्र ब्रह्मा ऋषिः गायत्री छंदः हरगौरी ४ स्वरूपिणी मातृकासरस्वती देवता ।। इति ऋष्यादिकं स्मृत्वा विन्यस्य करांगन्यासं कुर्यात् । ४ अं कं ४ आं हां सां हृदयाय । ४ इं चं ४ ईं हीं सं शिरसे । ४ उं टं ४ ऊं हूं सूं शिखायै वषट् । ४ एं तं ४ ऐं हैं सैं कवचाय हुं । ४ ओं पं ४ औं हौं सौं नेत्रत्र० । ४ अं यं ९ अः हः सः अस्त्राय फट् इति विन्यस्य ततो ध्यानं ।। उद्यद्भानु स्फुरित तडिदाकारमर्द्धांबिकेशं पाशाभीति वरद परशुन् संदधानं कराब्जैः ।। दिव्यो कल्पैर्नवमणिमयैः शोभितं विश्वमूलं सौम्याग्नेयं वपुरवतुनश्चंद्रचूडं त्रिनेत्रं । १ । वामोर्ध्वादि दक्षोर्ध्व करपर्यंतमायुध ध्यानं । इति ध्यात्वान्यसेत् ।। ४ हं सः अं नमः । एवं क्षां तं मातृकास्थानेषुन्यसेत् ।। इति हंसमातृकान्यासः । अथ परमहंसमातृकान्यासः । तत्र परमहंस ऋषिः गायत्री छंदः परमात्मस्वरूपिणी मातृका सरस्वती देवता । इति ऋष्यादिकं स्मृत्वा विन्य करांगन्यासं कुर्यात् ।। ४ प्. ५७अ) ओं अं कं ४ आं ओं हृदयाय० ४ ओं इं चं ४ ईं ओं शिरसे स्वाहा ।। ४ ओं उं टं ४ ऊ ओं शिखायै वषट् । ४ ओं एं तं ४ ऐं ओं कवचाय हुं ।। ४ ओं ओं पं ४ औं ओं नेत्रत्र० ४ ओं अं यं ९ अः ओं अस्त्राय फ० इति विन्यस्य । ततो ध्यानं । श्रीमत्परात्ममनुजृभितवर्णरूपां मानैरगम्य पदवी परिचीयमानं ।। विद्याक्षसूत्रकलशान् दधतीं च मुद्रां ध्यायेत् समस्त जननीं शिवदां त्रिनेत्रां ।। १ ।। वामाद्यधः करयोराद्ये तदाद्यूर्ध्वयोरन्ये इत्यायुध ध्यानं । मुद्रां ज्ञानमुद्रां । इति ध्यात्वान्यसेत् । ४ सोहं क्षं नमः ४ सोहं लं नमः एवमकारांतान्वर्णान् पूर्ववत् संहाररीत्यान्यसेत् । इति परमहंसमातृकान्यासः । इति त्रयोदशविधन्यासः । अथ प्रणवोत्थकलामातृकान्यासः । तत्र प्रजापति ऋषिः गायत्रीछंदः कलामयी मातृकासरस्वती देवता इति ऋष्यादिकं स्मृत्वा न्यसेत् । मम श्रीविद्यांगत्वे न्यासे विनियोगः । ततः करांगन्यासं कुयात् ।। ४ अं ओं आं हृदयाय० ४ इं ओं ईं शिरसे० एवं करांगन्यासं कुर्यात् ततो ध्यानं ।। प्. ५७ब्) हस्तैः पद्मं रथांगं गुणमथहरिणं पुस्तकं वर्णमालां टंकं शुभ्रं कपालंदरममृतलसद्धेमकुंभं वहंतां ।। मुक्ताविद्यूत्पयोदस्फुटिकनवजपाबंधुरैः पंचवक्रै- स्त्र्यक्षैर्वक्षोजन म्रां सकलशशि निभां शारदां तां नमामि ।। १ ।। वामाद्यधः करयोराद्ये तदाद्यूर्ध्वयोरपरे तदाद्यूर्ध्वयोरितरे तदाद्यूर्ध्वयोरन्ये । इत्यायुध ध्यानं ।। दरः शंखः गुणः पाश इति वर्णारविंदे ध्यात्वा न्यसेत् । तद्यथा । ओं ऐं ह्रीं श्रीं ओं अं निवृतिकलायै नमः । ४ ओं आं प्रतिष्टाकलायै नः । ४ ओं इं विद्याकलायै० ४ ओं ईं शांतिकलायै नमः । ४ उं इंधिका कलायै० ४ ओं ऊं दीपिकाकलायै नमः ४ ओं ऋ रेचिका कलायै नम० ४ ओं ॠं मोचिका कलायै० ४ ओं ऌं पराकलायै० ४ ओं ॡं सूक्ष्मा कलायै० ४ ओं एं सूक्ष्मामृताकलायै० ४ ओं ऐं ज्ञानामृताकलायै नमः । ४ ओं ओं आप्यायिनी कलायै० ४ ओं औ व्यापिनी कलायै० ४ ओं अं व्योमरूपिणी कलायै० ४ ओं अः अनंताकलायै० ४ विष्णुर्योनिमिति जपेत् ४ अं १६ भुक्तिमुक्तिप्रदा नादजा अनंतकलाभ्यो नम इति मुखे व्यापकं ।। ४ ओं कं प्. ५८अ) सृष्टिकलायै० ४ ओं खं ऋद्धिकलायै० ४ ओं गं स्मृतिकला० ओं घं मेधाकलायै० ४ ओं ऽऽनं कांतिकलायै० ४ ओं चं लक्ष्मीक० ४ ओं छं द्यूतिक० ४ ओं जं स्थिराक० ४ ओं झं स्थिति० ४ ओं ञं सिद्धिकलायै० ४ हं सः शुद्धिषदिति जपेत्० सृष्टि प्रदाकार प्रभव ब्रह्मकलाभ्यो नमः । इति भुजयोर्व्यापकं ।। ४ ओं टं जराक० ४ ओं ठं पालिनी क० ४ ओं डं शांतिक० ४ ओं ढं ऐश्वर्या क० ४ ओं णं रतिक० ४ ओं तं कामिका क० ४ ओं थं वरदाक० ४ ओं दं ह्रादिनी क० ४ ओं धं प्रीतिक० ४ ओं नं दीर्घाक० ४ प्रतद्विष्णुस्तवते इति जपेत् ।। ४ टं ५ तं ५ स्थिति प्रदोकार प्रभव विष्णुकलाभ्यो नम इति पादयोर्व्यापकं न्यसेत् । ४ ओं पं तीक्ष्णा क० ४ आं फं रौद्री क० ४ ओं बं भयाक० ४ ओं भं निद्राकला० ४ ओं मं तंद्रा कला० ४ ओं यं क्षुधाक० ४ ओं रं क्रोधिनी क० ४ ओं लं क्रिया क० ४ ओं वं उत्का कला० ४ ओं शं मृत्युरूपाक० ४ त्र्यंबंकं यजामहेरेति जपेत् ।। ४ पं ५ यं ५ संहृति प्रदमकार प्रभव रूद्र कलाभ्यो नम इति हृदयादि मध्ये व्यापकं न्यसेत् ।। ४ प्. ५८ब्) ओं षं पीता कला० ४ ओं सं श्वेता क० ४ ओं हं अरुणा कला० ४ ओं लं असिता कला० ४ ओं क्षं अनंता कला० ४ तत्सवितुरिति जपित्वा । ४ षं ५ तिरोधान प्रदबिंदु प्रभवेशान कलाभ्यो नम इति सर्वांगे व्यापकं ।। इति शुद्धमातृकास्थानेषु न्यसेत् ।। इति प्रणव कलामातृकान्यासः ।। अत्र नादात्मनः सदाशिवात्संभूताः स्वरजाः कलाः श्वेताः ।। अक्षस्रक्पुस्तकपाशकपालकराध्येयाः ।। क च वर्ग कला अकाराद्ब्रह्मणोद्भूताः पीताः । अक्षस्रक् पंकजाभयकमंडलुकराध्येयाः ।। टवर्गजाः उकाराद्विष्णोरुत्पन्नाः श्यामाः । अभयशंखचक्रवरहस्ताध्येयाः । प या वर्गजाः मकाराद्रुद्रादुत्पन्नाः शरच्चंद्र निभाः । अभय शुलकपालः वरहस्ताः ध्येयाः ।। षादि पंचवर्णजा ईश्वराद्बिंदोरुत्पन्नारक्ताः । अभय हरिण टंकवर हस्ताये याः ।। इति तारोत्थ कला मातृकाध्येयान्यस्तव्याश्च ।। अथाष्टत्रिंशत्कलामातृकान्यासः । तत्र सोमसूर्याग्नय ऋषयः अनुष्टुप् त्रिष्टुप् त्रिष्टुप् पंक्तयः छंदांसि । प्. ५९अ) अष्टत्रिंशत्कलारुपिणीमातृकादेवता । श्रीविद्यांगत्वे न्यासे विनियोगः । इति ऋष्यादिकं स्मृत्वा विन्यस्य ।। ४ स्वरैर्हृत् । ४ पंचवर्गैः शिरः । ४ यादिभिः शिखा पुनः । ४ स्वरैः कवचं । ४ पंचवर्गैर्नेत्रं । ४ यादि भिरस्त्रं । इति करषडंगन्यासंविधाय ध्यायेत् ।। तद्यथा ।। चंद्रसूर्याग्निसंकाश वक्त्रदेहपदद्वयां ।। सुधाढ्य कलशं पद्मं स्वस्तिकं च वरंकरैः ।। १ ।। दधानां चिंतयेद्देवीं पद्मस्थां परमेश्वरीं ।। त्रिनेत्रां रक्तवसनां दिव्याभरणभूषितां ।। २ ।। इति ध्यात्वा न्यासं कुर्यात् ।। तत्र । ४ अं अमृताकलायै नमः । ४ आं मानदाक० ४ इं पूषाक० ४ ईं तुष्टिक० ४ उं पुष्टिकला० ४ ऊं रति कला० ४ ऋधृतिक० ४ ॠं शशिनी कला० ४ ऌं चंद्रिका कला० ४ ॡं कांतिक० ४ एं ज्योत्स्ना कला० ४ ऐं श्रीकला० ४ ओं प्रीतिक० ४ औं अं गदाक० औं अं पूर्णा कला० ४ अः पूर्णामृताकलायै नमः ।। इति षोडशकलांः षोडशस्थानेषु न्यसेत् ।। ततः ।। ४ कं भं तपिनी कलायै नमः ।। ४ खं बं तापिनी क० ४ गं फं धूम्राक० ४ घं पं प्. ५९ब्) मरीचीक० ४ ऽऽनं नं ज्वालिनीक० ४ चं धं रुचिक० ४ छं दं सुषुम्णाक० ४ जं थं भोगदाक० ४ झं तं विश्वाकला० ४ ञं णं बोधिनीक० ४ टं ढं धारिणीक० ४ ठं डं क्षमा० क० इति दक्षिणबाहु मूलादि दक्षिणजान्वंतं मातृकास्थानेषु न्यसेत् ।। ततः । ४ यं धूम्रार्चि कलायै नमः ।। ४ रं उष्माक० ४ लं ज्वलिनीक० वं ज्यालिनीक० ४ शं विस्फुलिगिनीक० ४ षं सुश्रीक० ४ संसुरूपाकला० ४ हं कपिलाकला० ४ लं हव्यवाहक० ४ क्षं कव्यवाहकलायै नमः । इति दक्षिणगुल्फादि वामपादांतं मूर्द्धसर्वांगे च न्यसेत् ।। एताः श्वेतपीतारुणावराभयकराः सर्वाभरणभूषितायुवतयोध्येयाः ।। इत्यष्टत्रिंशत्कलाः मातृकाऽष्टत्रिंशत् स्थानेषु न्यसेत् ।। श्रीविद्यानंदनाथेन शिवयोः प्रिय सूनुना ।। कृते सौभाग्यरत्नाब्धौ तरंगोऽगाच्चतुर्थकः ।। १ ।। इति श्रीसच्चिदानंदनाथे चरणारविंदद्वंद्वांते वासिना श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे चतुर्थस्तरंगः ।। ४ ।। अथ मूर्तिमातृकान्यासः । तत्रादौ केशवादिमातृकान्यासः प्. ६०अ) तत्र ओं साध्यनारायण ऋषिर्गायत्रीछंदः श्रीलक्ष्मीनारायणो देवता । मम श्रीविद्यांगत्वे न्यासे विनियोगः ।। इति ऋष्यादिकं स्मृत्वा विन्यस्य करषडंगन्यासं कुर्यात् ।। तद्यथा । ओं ऐं ह्रीं श्रीं ओं श्रीं ओं नमो नारायणाय हंसः सोहं अं कं ४ आं ह्रिं हं सः सोहं ओं नमो नारायणाय क्रुद्धोल्काय स्वाहा श्रां देव्यै हृदयाय नमः । १ ओं ऐं ह्रीं श्रीं ओं श्रीं ओं नमो नारायणाय हं सः सोहं इं चं ४ ईं ह्रीं हंसः सोहं ओं नमो नारायणाय महोल्काय स्वाहा श्रीं पद्मिन्यै सिरसे स्वाहा ।। २ ।। ४ ओं १३ उं टं ४ र्-उं ह्रीं १२ वीरोल्काय स्वाहा श्रुं विष्णुपत्न्यै शिखायै वषट् ः ।। ४ ओं १३ एं तं ४ ऐं ह्रीं १२ विद्युदुल्काय स्वाहा श्रैं वरदायै कवचाय हुं ।। ४ ओं १३ ओं पं ४ औं ह्रीं १२ सहस्रोल्काय स्वाहा श्रौ कमलरूपायै नेत्रत्रयाय वौषट् ।। ५ ।। ४ ओं १३ अं यं ९ अः ह्रीं १२ अनतोल्काय स्वाहा श्रः शूलिन्यै अस्त्राय फट् ।। ६ ।। इति षडंगमंत्रानंगुष्ठादितलांतं करयोर्विन्यस्य हृदयादि सडंगेष्वपि न्यसेत् ।। ततो ध्यानं ।। विद्यारविंदमुकुरामृत कुंभपद्म कौमोदकीदरसुदर्शन शोभिहस्तं ।। प्. ६०ब्) सौदामिनीमूदिरकांति विभाति लक्ष्मी- नारायणात्मकमखंडितमात्ममूर्तेः ।। १ ।। वपुरिति शेषः ।। वामाधः करमारभ्य दक्षाधः करपर्यंतं आयुध ध्यानं ।। मुकरो दर्पणः । इति ध्यात्वा न्यसेत् ।। तद्यथा । ओं ऐं ह्रीं श्रीं ह्रीं श्रीं क्लीं अं क्लीं श्रीं ह्रीं केशवाय कीर्त्यै नमः ।। ४ ह्रीं श्रीं क्लीं आं क्लीं श्रीं ह्रीं नारायणाय कांत्यै नमः ।। ७ इं ३ माधवाय तुष्ट्यै नमः ।। ७ ईं ३ गोवींदाय पुष्टे यें० । ७ उं ३ विष्णवे धृत्यै नमः ।। ७ ऊं ३ मधूसूदनाय शांत्यै न० ७ ऋं ३ त्रिविक्रमाय क्रियायै नमः ।। ७ ॠं ३ वामनाय दयायै नमः ।। ७ ॡं ३ श्रीधराय मेधायै नमः । ७ ॡं ३ हृषीकेशाय हर्षायै० । ७ एं ३ पद्मनाभाय श्रद्धायै० । ७ ऐं ३ दामोदराय लज्जायै० । ७ ओं ३ वासुदेवाय लक्ष्म्यै० । ७ औं ३ संकर्षणाय सरस्वत्यै० । ७ अं ३ प्रद्युम्नाय प्रीत्यै० । ७ अः ३ अनिरुद्धाय रत्यै० ।। ७ कं ३ चक्रिणे जयायै० । ७ खं ३ गदिने दुर्गायै० ७ गं ३ शार्ऽऽनिणे प्रभायै नमः । ७ घं ३ खड्गिने सत्यायै० । ७ ऽऽनं ३ शंखिने चंडायै० । ७ चं ३ हलिने बाण्यै० । ७ प्. ६१अ) छं ३ मुसलिने विलासिन्यै नमः । ७ जं ३ शूलिने विजयायै० । ७ सं ३ पाशिने विरजायै नमः । ७ ञं ३ अंकुशिने विश्वायै । ७ टं ३ मुकुंदाय विनदायै नमः । ७ ठं ३ नंदजाय सुनंदायै० । ७ डं ३ नंदिने स्मृत्यै० । ७ ढं ३ नराय ऋध्यै० । ७ णं ३ नरकाजते समृध्यै० । ७ तं ३ हरये शुध्यै नमः । ७ थं ३ कृष्णाय भुक्त्यै० । ७ दं ३ सत्यावबुध्यै० । ७ धं ३ सत्वताय मत्यै० । ७ नं ३ शौरये क्षमायै० । ७ पं ३ शूरावरमायै० । ७ फं ३ जनार्दनाय उमायै० । ७ बं ३ भूधराय क्लेदिन्यै० । ७ भं ३ विश्वमूर्त्तये क्लिन्नायै० । ७ मं ३ वैकुंठाय वसुदायै० । ७ यं ३ त्वगात्मने पुरुषोत्तमाय वसुधायै० । ७ रं ३ असृगात्मने बलिने परायै० । ७ लं ३ मांसात्मने बलानुजाय परायणायै० । ७ वं ३ मेदात्मने बालाय सूक्ष्मायै० । ७ शं ३ अस्थात्मने वृषघ्नाय संध्यायै० । ७ षं ३ मज्जात्मने वृषाय प्रज्ञायै० । ७ संशुक्रात्मने हंसाय प्रभायै० । ७ हं ३ प्राणात्मने वराहाय निशायै० । ७ लं ३ शक्त्यात्मने विमलाय अमोघायै० । ७ क्षं ३ परमात्मने नृसिंहा विद्युतायै नमः ।। एता मूर्त्ति शक्तयो मातृकास्थानेषु न्यस्तव्याः ।। केशवाद्या इमे शामाश्चक्रशंखलसत्कराः ।। शक्तयस्तु प्रियां केषु निषणाः सस्मिता ननाः ।। प्. ६१ब्) विद्युद्दाम समानांग्यः पंकजाभय वाहवः । इति ध्येयाः ।। इति केशवादि मातृकान्यासः ।। अथ श्रीकंठादि मातृकान्यासः । तत्र दक्षिणामूर्ति ऋषिर्गायत्री छंदः श्री अर्धनारीश्वरी देवता । श्रीविद्यांगत्वे न्यासे विनियोगः । इति ऋष्यादिकं स्मृत्वा विन्यस्य करषडंगं न्यासं कुर्यात् । तद्यथा । ४ अं कं ४ आं हस्रां हृदयाय० ४ इं चं ४ ईं हस्रीं शिरसे० ४ उं टं ४ ऊं हस्रूं शिखायै० ४ एं तं ४ ऐं हस्रैं कवचाय० ४ ओं पं ४ औं हस्रौं नेत्रत्रयाय वौ० ४ अयं ९ अः हस्रः अस्त्राय फट् ।। इति षडंगमंत्रानंगुष्ठादि तलांतं विन्यस्य हृदयायदिष्वपि षडंगेषु विन्यसेत् ।। ततो ध्यानं ।। बधूककांचननिभं रुचिराक्षमालां पाशांकुशौ च वरदं निज बाहुदंडैः ।। बिभ्राणमिंदुशकलाभरणं त्रिनेत्र- मर्द्धांबिकेशमनिशं वपुराश्रयामः ।। १ ।। दक्षाधः करमारभ्य दक्षोर्ध्वकरपर्यंतमायुध ध्यानं ।। इति ध्यात्वा न्यसेत् ।। तद्यथा ।। ४ हस्रौः अं श्रीकंथेशाय पूर्णोदर्यै नमः । ४ हस्रौः आं अनंतेशाय विरजायै० ४ हस्रौः प्. ६२अ) इं सूक्ष्मेशायशाल्प्रल्यै० ४ हस्रौः ईं त्रिमूर्तीशाय लोलाक्ष्यै० ४ हस्रौः उं अमरेशाय वर्त्तुलाक्ष्यै० ४ हस्रौः ऊं अर्घीशाय दीर्घघोणायै० ४ हस्रौः ऋंभार भूतीशाय दीर्घमुख्यै० ४ हस्रोः ॠं अतिथीशा गोमुख्यै० ४ हस्रौः ऌंस्थाण्वीशाशाय दीर्घजिह्वायै० ४ हस्रौः ॡं हरेशाय कुंडोदयै नमं० ४ हस्रौः ऐं सिंटीशाय ऊर्ध्वकेश्यै० ४ हस्रौः ऐं भौतिकेशाय विकृतमुख्यै० ४ हस्रौः ओं सद्योजातेशाय ज्वालामुख्यै० ४ हस्रौः औं अनुग्रहेशाय उल्कामुख्यै नमः० ४ हस्रौः अं अक्रूरेशाय श्रीमुख्यै० ४ हस्रौः अः महासेनेशाय विद्यामुख्यै० ४ हस्रौः कं क्रोधीशाय महाकाल्यै० ४ हस्रौः खं चंडेशाय सरस्वत्यै० ४ हस्रौः गं पंचांतकेशाय सर्वसिद्धिगौर्यै० ४ हस्रौः घं शिवोत्तमेशाय त्रैलोक्य विद्यायै० ४ हस्रौः ऽऽनं एकरुद्रेशाय मंत्रशक्त्यै० ४ हस्रौः चं कूर्मेशाय आत्मशक्त्यै० ४ हस्रौः छं एकनेत्रेशाय भूतमात्रे० ४ हस्रौः जं चतुराननेशाय लंबोदर्यै० ४ हस्रौः झं अजेशाय द्राविण्यै० ४ हस्रौः ञं सर्वेशाय नागर्यै० ४ हस्रौः टं सोमेशाय प्. ६२ब्) खेचर्यै० ४ हस्रौः ठं लांगलीशाय मंजर्यै० ४ हस्रौः डं दारुकेशाय रूपिण्यै० ४ हस्रौः ढं अर्द्धनारीश्वराय वीरिण्यै० ४ हस्रौः णं उमाकांतेशाय काकोदर्यै० ४ हस्रौः तं आषाढीशाय पूतनायै० ४ हस्रौः थं दंडीशाय भद्रकाल्यै० ४ हस्रौः दं अत्रीशाय योगिन्यै न० ४ हस्रौः धं मीनेशाय शंखिन्यै० ४ हस्रौः नं मेषेशाय गर्जिन्यै० ४ हस्रौः पं लोहितेशाय कालरात्र्यै० ४ हस्रौः फं शिखीशाय कूर्दिनै० ४ हस्रौः बं छगलंडेशाय कपर्दिन्यै० ४ हस्रौः भं द्विरंडेशाय वज्रायै० ४ हसौः मं महाकालेशाय जयायै० ४ हस्रौः यं त्वगात्मने वालीशाय सुमुख्यै० ४ हस्रौः रं असृगात्मने भुजंगेशाय रेवत्यै० ४ हस्रौः लं मांसांत्मने पिनाकीशाय माधव्यै० ४ हस्रौः वं मेदात्मने खड्गीशाय वारुण्यै० ४ हस्रौः शं अस्थात्मने बकेशाय वायव्यै० ४ हस्रौः षं मज्जात्मने श्वेतेशाय रक्षाविदारिण्यै० ४ हस्रौः संशुक्रात्मने भृग्वीशाय सहजायै० ४ हस्रौः हं प्राणात्मने लकुलीशाय महालक्ष्मै० ४ हस्रौः लं शक्त्यात्मने शिवेशाय व्यापिन्य० ४ प्. ६३अ) हस्रौः क्षं परमात्मने संवर्तेशाय महामायायै नमः ।। इति मातृकास्थानेषु न्यसेत् ।। अत्र रुद्राः स्मृता रक्ता धृतशूलकपालकाः । शक्तयो रुद्रपीठस्थाः सिंदूरारुणविग्रहाः ।। १ ।। रक्तोत्पल कपालाभ्यामलंकृतकरांबुजाः ।। इति मूर्ति शक्तीनां ध्यानं ।। इति श्रीकंठमातृकान्यासः ।। अथ प्रपंचयागमातृकान्यासः ।। तत्र प्रथमं महागणपति मंत्र ऋष्यादि करषडंगन्यासपूर्वकमष्टधा जपित्वा ततो गणपति बीजं तथैव न्यासध्यानपूर्वकं चतुश्चत्वारिंशद्वारं जपित्वा ततो न्यासपूर्वकं गणपत्यर्घमेकवारमावर्त्य पुनर्गणपतिमालामंत्रं चतुर्वारमावर्त्य ततो ऋष्यादिन्यासध्यानपूर्वकं पूर्वोक्तां शुद्धमातृकां त्रिवारं विन्यस्य ततः सत्यग्रहा विन्यस्य ततः प्रपंचयाग मंत्रस्य ऋष्यादि करषडंगन्यासा विन्यस्य ध्यानपूर्वकं प्रपंचयागमातृकां संहारसृष्टिमार्गेण न्यसेत् ।। इति ऋमः । तत्र महागणपति मंत्रस्य गणक ऋषिः निवृत् गायत्रीछंदः श्रीमहागणपतिर्देवता प्रपंचयागांगत्वै जपे विनियोगः । इति ऋष्यादिकं स्मृत्वा विन्यस्ये करषडंगन्यासं कुर्यात् ।। तद्यथा ४ ओं गां हृदयाय० ४ श्रीं गीं शिरसे० ४ ह्रीं गूं शिखायै० ४ क्लीं गैं कव० ४४ ग्लौं गौं नेत्र० ४ गं गः अस्त्राय फट् इति मंत्रैः करांगंन्यासं कृत्वा ध्यानं कुर्यात् । तद्यथा ।। प्. ६३ब्) हस्तींद्राननमिंदुचूडमरुणछायं त्रिनेत्रं रसा- दाश्लिष्टं प्रिययासपद्मकरयो स्वांकस्थयासंततं ।। बीजापूर गदाधनुस्त्रिशिखयुक् चक्राब्ज पाशोसल ब्रीह्य ग्रहस्व विषाण रत्नकलशान् हस्तैर्बहंतं भजे ।। १ ।। गंडभित्ति गलद्दान पूरलाल समानसान् ।। द्विरेफान् कर्णतालाभ्यां वारयंतं मुहुर्मुहुः ।। २ ।। कराग्रधृतमाणिक्य कुंभवक्त्रविनिसृतैः । रत्नवर्षैः प्रीणयंतं साधकान्मदविह्वलं ।। ३ ।। माणिक्य मुकुटोपेतं रत्नाभरणभूषितं । युगपत्सेवितं देवैरसुरैश्च मुहुर्मुहुः ।। ४ ।। वामधः करमारभ्य दथाधः करपर्यंतमायुध ध्यानं । रत्नकलशं शुंडाग्रे त्रिशिखं त्रिशूलं । इति महागणपतिं सांगावरणं ध्यात्वा । ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतयो वर वरद सर्वजनंमेव शमानय स्वाहा । इति । मंत्रमष्टधा जपित्वा । गणपति बीजस्य गणक ऋषिः निवृत् छंदः विघ्नेश्वरो देवता प्रपंचयागांगत्वे बीज जपे विनियोगः इति ऋष्यादिकं प्. ६४अ) स्मृत्वा विन्यस्य ४ गां ४ गीं इत्यादिना करषडंगन्यासं विधाय । ध्यानं । सिंदूराभं त्रिनेत्रं पृथुतर जठरं हस्तपद्मैर्धधानं दंतंपांशांकुशेष्टानुरुकर विलसद्बीजपूराभिरामं ।। बालेंदुद्योति मौलिं करिपति वदनं दान पूरार्द्ध गंडं भोगींद्रा बद्धभूषं भजत गणपतिं रक्तं वस्त्रांगरागं ।। १ ।। वामाधः करमारभ्य दक्षाधः करपर्यंतं आयुध ध्यानां । इष्टोवरः । उरुकरः शुंडादंडः । इति ध्यात्वा गणपतिं बीजं चतुःश्चत्वारि शब्दारं जपित्वा ।। ४ ओं गणांनां नमः शिरसि । अलिके ४ त्वा नमः वदने ४ गणपतिं नमः दक्षकर्णे । हवामहे नमः वामकर्णे । ४ कविं नमः आस्ये । ४ कवीनां नमः गले ४ मुपमश्रवस्तमं नमः अंसयोः ४ ज्येष्टराजं नमः हृदि ४ ब्रह्मणां नमः नाभौ ४ ब्रह्मणः नमः गुह्ये ४ पते नमः दक्षजानौ ४ आ नमः वामजानौ । ४ नः नमः दक्षौरौ ४ शृ रावन् नमः वामोरौ । ४ ऊतिभिर्नमः पृष्टे ४ सीद नमः ककुदि ४ सादनं नमः ।। इति विन्यस्य ।। प्. ६४ब्) ओं गणानांत्वा गणपतिं हवामहे कविं कवीनांमुपमश्रवस्तमं ।। जेष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वनूतिभिः सीद सादनं ।। १ ।। इति ऋचं एकवारं जपित्वा ।। गणपति मालामंत्रं जपेत् ।। ह्रीं क्रों ओं नमः सर्वविघ्नाधिपाय सर्वार्थ सिद्धिदाय सर्वदुःखप्रशमनाय ऐह्ये हि भगवन् सर्वान् वांदय २ स्तंभय २ ह्रीं गंगां नमः स्वाहा क्रों ह्रीं इति मालामंत्रं चतुरा वृत्तिर्जपित्वा ततः पूर्वोक्तां शुद्धमातृकां ऋष्यादि करषडंगन्यासध्यानपूर्वकं वारत्रयं शुद्धमातृकास्थाने विन्यस्य ।। मुखे ४ अं १५ आदित्याय नमः । दक्षिनबाहू मूलाद्यग्रांतं ४ यं ३ सोमाय नमः । वामबाहू मूलाद्यग्रांतं ४ कं ४ भौमाय नमः । दक्षिणोरुमूलादिपादाग्रांतं ४ चं ४ शुक्राय नमः । वामौरुमूलादिपादाग्रांतं ४ टं ४ बुधाय नमः । जठरे ४ तं ४ बृहस्पतये नमः । हृदये ४ पं ४ शनैश्चरा नमः । इति सत्यग्रहान् विन्यस्य ।। ततः प्रपंचयाग मंत्रस्य ब्रह्मा ऋषिः गायत्रीछंदः सकलपदार्थानुगतपरिपूर्णस्वप्रकाश प्. ६५अ) सच्चिदानंद परं ज्योतिः परमात्मा देवता श्रीविद्यांगत्वे प्रपंचयाग मातृकान्यासे विनियोगः । इति ऋष्यादिकं स्मृत्वा विन्यस्य । ४ ओं ह्रीं अं कं ४ आं स्वाहा हृदयाय० ४ ओं ह्रीं इं चं ४ ईं सोहं सिरसे स्वाहा । ४ ओं ह्रीं उं टं ४ ऊ हंसः शिखायै वषट् ४ ओं ह्रीं एं तं ४ ऐं ह्रीं कवचाय हुं । ४ ओं ह्रीं ओं पं ४ औं नेत्रत्रयाय वौषट् । ४ ओं ह्रीं अं यं ९ अः हरिहरास्त्राय फट् इति करषडंगन्यासं विधाय ध्यानं कुर्यात् । तद्यथा ।। तारादि पंचमनुभिः परिचीयमानं मानैरगम्यमनिशं जगदेक मूलं ।। सच्चित्समस्तगमनेश्वरमच्युतं तं- त्तेजः परं भजत सांद्र सुधांबुराशिं ।। १ ।। इति सकल प्रपंचातिरिक्तः सर्वसाक्षी निरतिशयानंद चिद्विलासा विना भूतः परिपूर्ण सच्चिदानंदोहमिति स्वात्मानं ध्यात्वा श्रीपरदेवता परात्मनि वह्नौ त्तत्तत्स्थानयुक्तान्वर्णान् जुहोमि० इति धिया स्वस्मिन् वर्णान् जुहुयात् ।। तद्यथा ।। ४ ओं ह्रीं क्षं हं सः सोहं स्वाहा । ४ ओं ह्रीं लं हं सः सोहं स्वाहा । ४ ओं ह्रीं हं हंसः सोहं स्वाहा । इत्यादि ४ ।। प्. ६५ब्) ओं ह्रीं अं हंसः सोहं स्वाहा० इत्यादि ४ ओं ह्रीं क्षंः हंसः सोहं स्वाहा इत्यंतं मातृकास्थानेषु विन्यसेत् ।। इति प्रपंचयागमातृकान्यासः ।। अथ भूतलिपिन्यासः । तत्र श्रीभूतलिपि मंत्रस्य । दक्षिणामूर्ति ऋषिः गायत्रीछंदः भूतलिपि सरस्वती देवताः श्रीविद्यांगत्वे भूतलिपिन्यासे विनियोगः । इति ऋष्यादिकं स्मृत्वा विन्यस्य ४ हं यं रं वं लं हृदयाय नमः । ४ ऽऽनं कं खं यं गं शिरसे स्वाहा । ४ ञं चं छं झं जं शिखायै वषट् । ४ णं टं ठं ढं डं कवचाय हुं । ४ नं तं थं धं दं नेत्रत्रयाय वौषट् । ४ मं पं फं भं बं अस्त्राय फट् इति मंत्रैः करषडंगं न्यासं विधाय ध्यायेत् । तद्यथा । चिद्बीजं बिंदुनादाह्व शिखं विश्वंभरा क्षरैः ।। शाखा समूहैः सकल दिशासु सुविभृंभितं ।। १ ।। जलवर्ण दलव्रातेनाछादित जगत्रयं ।। कृशानुवर्णांकुरैश्च संदीत्यं सुरभूतहं ।। २ ।। रत्नांकुरैरिवशुभं पवनाक्षर शोभितैः ।। कुसुमैर्दीपयंतं च स्वकीय तनु स छ्रियं ।। ३ ।। वियदक्षर सद्रूपैः फलैरानतमुत्तमं ।। प्. ६६अ) सर्वभूताश्रयं नित्यं परामृत मधु द्रवैः ।। ४ । सिंचिंतं परमेशानीं देवीं वागीश्वरीं शुभां ।। निगमागम संकॢप्त समुन्नति सुशोभितं ।। ५ ।। शिवशक्त्यात्मक छाया समाश्रित जगत्त्रयं ।। यमाश्रित्य मुनींद्रौद्याः वांछितार्थान् प्रपेदिरे ।। ६ ।। एवं भूतार्ण वृक्षस्य मूले त्वक्षर पंकजे ।। वागीश्वरीं स्मरेन्नित्यं सकलेष्ट फलप्रदां ।। ७ ।। कुंदाभासामुरु कुच घटां शोभि चंद्रार्ध मौलिं हस्तांभोजैर्वरजपवटीं पुस्तकं पुंकपालं ।। बिभ्राणां तां मधुमदल सद्विह्वला युग्म नेत्रां देवीं ध्यायेल्लिपि मयतनुं यौवन् प्राप्तशोभां ।। ८ ।। दक्षाधः करमारभ्य वामाधः करपर्यंतं आयुध ध्यानं ।। इति ध्यात्वा न्यसेत् ।। तत्र प्रथमं संहारन्यासः ।। संहारं च तथा सृष्टिं स्थिति न्यासं समाचरेत् ।। इति कुलार्णवे ।। तत्र गले । ओं ऐं ह्रीं श्रीं ऌं नमः । हृदि ४ ऋं नमः । ४ नाभौ० उं नमः । स्वाधिष्ठाने ४ इं नमः । मुलाधारे ४ अं नमः । द्वादशांते ४ औ नमः । शक्त्यां ४ ओं नमः । नादे ४ ऐं नमः । बिंदौ ४ एं नमः लंबिकायां ।। नामांतरं चोर कूपे ।। ४ प्. ६६ब्) लं नमः । वामकर्णे । ४ वं नमः । दक्षकर्णे ।। ४ रं मुखे । ४ यं मूर्द्ध्नि ४ हं न० । दक्षमणि बंधे । ४ गं० । अंगुलिमूले ४ घं न० । कूर्परे ४ खं० । बाहुमूले । ४ कं० । अंगुल्यग्रे ४ ऽऽनं न० । वाममणिबंधे ४ जं० । अंगुलिमूले ४ झं० । कूर्परे ४ छं० । बाहुमूले ४ चं० । अंगुल्यग्रे ४ ञं० । दक्षपादगुल्फे ४ डं नमः । अंगुलिमूले ४ ढं० । जानुनि ४ ठं । उरु मूले ४ टं० । अंगुल्यग्रे ४ णं० । वामगुल्फे ४ दं० । अंगुलिमूले ४ धं० । भानुनि ४ थं० । ऊरुमूले ४ तं० । पादाग्रे ४ नं० । पृष्टे ४ बं० । नाभौ ४ भं० । वामपार्श्वे ४ फं० । दक्षे ४ पं० । उदरे ४ मं० । भ्रूमध्ये ४ सं० । हृदये ४ षं० । गुह्ये ४ शं० । इति संहार न्यासः ।। अथ सृष्टिन्यासः । तत्र मूलाधारे ४ अः नमः । एवं स्वाधिष्ठाने ४ इः नमः । नाभौ ४ उः । हृदि ४ ऋः । गले ४ ऌः । बिंदौ ४ एः । नादे ४ ऐः नम शक्त्यां ४ ओः । द्वादशांते ४ औः । मूर्द्ध्नि ४ हः नमः । मुखे ४ यः नमः । दक्षकर्णे ४ रः नमः । वामे ४ वः नः । चूडाधः ४ लः । दक्षकरांगुल्यग्रे ४ ऽऽनः नमः । बाहुमूले ४ कः । मध्ये ४ खः । अंगुलिमूले ४ घः । मणिबंधे ४ गः । वामकरांगुल्यग्रे ४ ञः । प्. ६७अ) बाहुमूले ४ चः । मध्ये ४ छः । अंगुलिमूले ४ सः । मणिबंधे ४ जः । दक्षपादाग्रे ४ णः । उरुमुले ४ टः । जानुनि ४ ठः । अंगुलिमूले ४ ढः । गुल्फे ४ डः । वामपादाग्रे ४ नः । उरुमूले ४ तः ।। जानुनि ४ थः । अंगुलिमूले ४ धः । गुल्फे ४ दः । उदरे ४ मः । दक्षपार्श्वे ४ पः । वामे ४ फः । नाभौ ४ भः । पृष्ठे ४ बः । मूलाधारे ४ शः । हृदि ४ षः भ्रूमध्ये ४ सः नमः । इति सृष्टिन्यासः ।। अथ स्थितिन्यासः ।। तत्र मूलाधारे ४ अंः नमः । एवं स्वाधिष्ठाने ४ इः नमः ।। हृदि ४ ऋंः । गले ४ ऌंः । नाभौ ४ उंः । बिंदौ ४ एंः । नादे ४ एंः । द्वादशांते ४ औंः । शक्त्यां ४ ओंः ब्रह्मरंध्रे ४ हंः । मुखे ४ यंः । वामकर्णे ४ वंः । चूडाधः ४ लंः । दक्षकर्णे ४ रंः । दक्षकरांगुल्यग्रे ४ ऽऽनंः । बाहुमूले ४ कंः । अंगुलिमूले ४ घंः । मणिबंधे ४ गंः । कूर्परे ४ खं । वामकरांगुल्यग्रे ४ ञंः । वामबाहुमूले ४ चंः । अंगुलिमूले ४ झंः । मणिबंधे ४ जंः । मध्ये ४ छंः । दक्षपादांगुल्यग्रे ४ णंः । दक्षोरुमूले ४ टंः । अंगुलिमूले ४ ढंः । गुल्फे ४ डंः । जानुनि ४ ठंः । वामपादांगुल्यग्रे ४ नंः । वामोरुमूले ४ तंः । प्. ६७ब्) अंगुलिमूले ४ धंः । गुल्फे ४ दंः । जानुनि ४ थंः । उदरे ४ मंः । दक्षपार्श्वे ४ पंः । नाभौ ४ भंः । पृष्ठे ४ बंः । वामपार्श्वे ४ फंः । हृदि ४ षंः । भ्रूमध्ये ४ संः । गुह्ये ४ शंः नमः ।। इति स्थितिन्यासः ।। इति भूतलिपिमातृकान्यासः ।। अथ षट्त्रिंशत्तत्वं न्यासः ।। तत्र जान्वादिपादपर्यंतं ४ क्षं पृथिवी तत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः । नाभ्यादिजान्वंतं ४ लं अप् तत्वात्मने श्री० । कंठादिनाभ्यंतं ४ हं तेजस्तत्वात्मने श्री० ।। भ्रूमध्यादिकंठांतं ४ संवायुस्तत्वात्मने श्री० । मूर्द्धादि भ्रूमध्यांतं ४ षं आकाशतत्वात्मने श्री० पुनर्जाचादिपादांतं ४ शं गंधतत्वात्मने श्री० । नाभ्यादिजान्वंतं ४ वं रसतत्वात्मने श्री० । कंठादिनाभ्यंतं ४ लं रुपतत्वात्मने श्री० । भ्रूमध्यादिकंठांतं ४ रं स्पर्शतत्वात्मने श्री० । मूर्द्धादिभ्रूमध्यांतं ४ यं शब्दतत्वात्मने श्री० । गुह्ये ४ मं उपस्थतत्वात्मने श्री० गुदे ४ भं पायुतत्वात्मने श्री० प्. ६८अ) पादयोः ४ बं पादतत्वात्मने श्री० पाण्योः ४ फं पाणितत्वात्मने श्री० । मुखे ४ पं वाक् तत्वात्मने श्री० । नासिकयोः ४ नं घ्राणतत्वात्मने श्री० । जिह्वायां ४ धं जिह्वातत्वात्मने श्री० चक्षुषोः । दं चक्षुस्तत्वात्मने श्री० । सर्वांगे ४ थं त्वक् तत्वात्मने श्री० । श्रोत्रयोः । ४ तं श्रोत्रतत्वात्मने श्री० । मनसि ४ णं मनस्तत्वात्मने श्री० । हृदि ४ ढं बुद्धितत्वात्मने श्री हृदि ४ डं अहंकारतत्वात्मने श्री० । सर्वांगे ४ ठं प्रकृतितत्वा श्री० सर्वांगे ४ टं पुरुषतत्वात्मने श्री० सर्वांगे ४ ञं निर्याततत्वात्मने श्री० सर्वांगे ४ झंकालतत्वात्मने श्री० । हृदि ४ जं रागतत्वात्मने श्री० हृदि ४ छं विद्यातत्वात्मने श्री० । हृदि ४ च कलातत्वात्मने श्री० । हृदि ४ ऽऽनं मायातत्वात्मने श्री० । हृदि ४ घं शुद्धविद्यातत्वात्मने श्री० । मुखे ४ गं ईश्वरतत्वात्मने श्री० । शिरसि ४ खं सदाशिवतत्वात्मने श्री० । मूलाधारे ४ कं शक्तितत्वात्मने श्री० ब्रह्मरंध्रे ४ अं शिवतत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः ।। इति षट्त्रिंशत्तत्वन्यासः ।। श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।। कृते सौभाग्यरत्नाब्धौ तरंगः पंचमोमंगंत् ।। १ ।। प्. ६८ब्) इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वांते वासिना श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे पंचमस्तरंगः ।। ५ ।। अथ मूलमंत्रन्यासः स चास्यां विद्यायां त्रिविधः । षोढा श्रीचक्रकरशुध्यादि भेदात् । षोढान्यासोपि द्विविधः । पूर्वोत्तर भेदात् । उत्तरोपि त्रिविधः । महाषोढान्यासो बीजषोढान्यासो मालिन्यादि षोढान्यासश्चेति । तत्र पूर्वषोढान्यासः सर्वाम्नायविषयः । उत्तर षोढान्यासस्तूर्ध्वाम्नायविषयः । श्रीचक्रन्यासोपि त्रिविधः । संहारसृष्टिस्थितिभेदात् । करशुध्यादिन्यासोपि बहुतरः । रतिकाम पंचाशत्त्रिपुरादिनां न्यास विशेषाणां तत्रैवादि पदेन संगृहीतत्वात् । तत्रादौ पूर्वषोढान्यासः । तत्र दक्षिणामूर्ति ऋषिः । गायत्री छंदः । श्रीमातृका गणेशग्रहनक्षत्रयोगिनीराशि पीठमातृकारूपिणी श्रीत्रिपुरसुंदरी देवता । श्रीविद्यांगत्वेन्यासे विनियोगः । इति ऋष्यादिकं स्मृत्य विन्यस्य करषंडगन्यासं कुर्यात् । तद्यथा- ओं ऐं ह्रीं श्रीं अं कं ४ आं ऐं हृदयाय नमः । ४ प्. ६९अ) इं चं ४ ईं क्लीं शिरसे स्वाहा । ४ उं टं ४ ऊं सौः शिखायै वषट् । ४ एं तं ४ ऐं ऐं कवचाय हुं । ४ ओं पं ४ औं क्लीं नेत्रत्रयाय वौषट् । ४ अं यं ९ अः सौः अस्त्राय फट् । इति मंत्रानंगुष्ठादितलांतं करयोर्विन्यस्य हृदयादिष्वेपि षडंगेषु विन्यसेत् । ततो ध्यानं उद्यत्सूर्यसहस्राभां पीनोन्नतपयोधरां ।। रक्तमाल्यांबरालेपां रक्तभूषणभूषितां ।। १ ।। पाशांकुशधनुर्बाणभास्वत्पाणिचतुष्टयां ।। लसन्नेत्रत्रयां स्वर्णमुकुटोद्भासिचंद्रिकां ।। २ ।। गणेशग्रहनक्षत्रयोगिनी राशिरूपिणीं ।। देवीं पीठमयीं ध्यायेन्मातृकासुंदरीं करपरां ।। ३ ।। वामाद्यूर्ध्वयोराद्ये इत्यायुधध्यानं । इति समष्टिरूपेण परमानंदघनां ध्यात्वा अस्य श्रीगणेशन्यासस्य गणक ऋः निचृद्गायत्री छंदः श्रीगणेशो देवता न्यासे विनियोगः । ओं गां शक्त्यानंदाय हृ० श्रीं गीं मुखेंद्राय शिरः । ह्रीं गुं राजचंद्राय शिखा । क्लीं गैं मदोत्कटाय कवचाय हुं । ग्लौं गौं प्रमोदाय नेत्र । गं गः सर्वमंत्रात्मने आमोदाय अस्त्राय० इति षंडंगं विन्यस्य गणेशादि रूपं ध्यायेत् । प्. ६९ब्) तद्यथा ।। तरुणादित्यसंकाशान् गजवक्त्रांस्त्रिलोचनान् ।। पाशांकुशवराभीति करान् शक्ति समन्वितान् ।। १ ।। तास्तु सिंदूरवर्णाभाः सर्वालंकार शोभिताः ।। एकहस्त धृतां भोजा इतरा लिंगित प्रियां ।। २ ।। वामोर्ध्व करमारभ्य इति आयुध ध्यानं ।। शक्तीनां वामकरे कमलं दक्षिणकरेण प्रियालिंगनमिति ध्यात्वा न्यसेत् । तद्यथा । ओं ऐं ह्रीं श्रीं गं अं विघ्नेश्वराय श्रीयै नमः । ४ गं आं विघ्नराजाय ह्रियै नमः । ४ गं इं विनायकाय तुष्ट्यै न० । ४ गं ईं शिवोत्तमाय शांत्यै० । ४ गं उं विघ्नकृते पुष्ट्यै० । ४ गं ऊं विघ्नहर्त्रे सरस्वत्यै० । ४ गं ऋं विघ्नराजायरत्यै० । ४ गं ॠं गणनायकाय मेधायै० । ४ गं ऌं एकदंताय कांत्यै० । ४ गं ॡं द्विदंताय कामिन्यै० । ४ गं एं गजवक्त्राय मोहिन्यै० । ४ गं ऐं निरंजनाय जटायै० । ४ गं ओं कपर्दिने तीव्रायै० । ४ गं औं दीर्घवक्त्राय ज्वालिन्यै० । ४ गं अं शंकुकर्णाय नंदायै० । ४ गं अः वृषभध्वजाय सुरसायै० । ४ गं कं गणनाथाय कामरुपिण्यै० । ४ गं खं गजेंद्राय उग्रायै० । ४ गं गं शूर्पकर्णाय जयिन्यै० । ४ गं घं त्रिनेत्राय सत्यायै० । ४ गंडं लंबोदराय विघ्नेश्यै० । ४ प्. ७०अ) गं चं महानादाय सुरुपिष्पै० । ४ गं छं चतुर्मूर्त्तय कामदायै० न० । ४ गं जं सदाशिवाय मदविह्वलायै० । ४ गं झं आमोदाय विकटायै० । ४ गं ञं चतुर्मुखाय धूम्रायै० । ४ गं टं सुमुखाय भूत्यै० । ४ गं ठं प्रमोदाय भूम्यै० । ४ गं डं एकपादाय सत्यै० । ४ गं ढं द्विजिह्वाय परमायै० । ४ गं णं शूराय मनुष्यै० । ४ गं तं वीराय मकरध्वजायै० । ४ गं थं षण्मुखाय विकर्णायै० । ४ गं दं वरदाय भृकुट्यै० । ४ गंधं वामदेवाय लज्जायै० । ४ गं नं वक्रतुंडाय दीर्घघोणाये० ४ गं पं द्विरंडाय धनुर्धरायै० । ४ गं फं सेनान्ये यामिन्यै न० । ४ गं बं ग्रामण्ये रात्र्यै० । ४ गं भं मत्ताय चंद्रिकायै० । ४ गं मं विमत्ताय शशिप्रभायै० । ४ गं यं मत्तवाहनाय लोलायै० । ४ गं षं वृषकेतवे शिवायै० । ४ गं सं भक्षप्रियाय दुर्गायै० । ४ गं हं मेघनादाय कालिकायै० । ४ गं लं गणपतये कालजिह्वायै० । ४ गं क्षं गणेशाय विघ्नहारिण्यै नमः । इति मातृकास्थानेषु न्यसेत् । इति गणेशन्यासः ।। अथ ग्रहन्यासः ।। तत्र ध्यानं ।। रक्तं स्वेतं तथा रक्तं श्यामं पीतं च पांडुरं ।। प्. ७०ब्) धूम्रकृष्ण्यं कृष्णधूम्रं धुम्रधूम्रं विचिंतयेत् ।। १ ।। रवि मुख्यान् कामरूपान् सर्वाभरणभूषितान् ।। वामोरू न्यस्त हस्तांश्च दक्षहस्त वरप्रदान् ।। २ ।। शक्तयोपि तथा ध्येया वराभय करांबुजाः ।। स्वस्वप्रियांकनिलयाः सर्वाभरणभूषिताः ।। ३ ।। इति ध्यात्वा न्यसेत् ।। हृदयाधस्तात् । ओं ऐं ह्रीं श्रीं अं १५ रक्तवर्णसूर्याय रक्तवर्णरेणुकांबायै नमः । भ्रूमध्ये ४ यं ३ स्वेतवर्णचंद्राय श्वेतामृतांबायै० । नेत्रत्रये । ४ कं० ४ रक्तवर्णमंगलाय रक्तवर्णधामांबायै० । हृदयस्थोपरि । ४ चं० ४ श्यामाय बुध्याय श्यामज्ञानरूपांबायै० । कंठे ४ तं० ४ पीताय बृहस्पतये पीतशांकर्ययंबायै० । हृदि ४ टं० ४ पांडुराय शुक्राय पांडुज्ञानरुपांबायै० । नाभौ ४ पं ४ धूम्रकृष्णाय शनैश्चराय धूम्रकृष्णशक्त्यांबायै० ।। मुखे ४ शं ३ कृष्णधूम्राय राहवे कृष्णधूम्र कृष्णांबांयै० । पादयोः ४ लं क्षं धूम्र धूम्राय केतवे धूम्रांबायै नमः । इति ग्रहन्यासः । अथ नक्षत्रन्यासः । तत्र ध्यानं । ज्वलत्कालाग्निसंकाशा वरदाभयपाणयः ।। नतिपाण्योश्विनीमुख्याः सर्वाभरणभूषिताः ।। १ ।। दक्षाधः करयोर्वराभये ऊर्ध्वयोर्नतिमुद्रे० । इत्यायुध ध्यानं ।। प्. ७१अ) इति ध्यात्वा न्यसेत् । तद्यथा । ललाटे ४ अं आं अश्विन्यै नम० । दक्षनेत्रे ४ इं भरण्यै० । वामनेत्रे ४ ईं उं ऊं कृत्तिकायै० । दक्षणकणे ४ ऋं ॠं ऌं ॡं रोहिण्यै० । वामकर्णे ४ एं मृगशिरसे० । दक्षनासायां ४ ऐं आर्द्रायै० । वामनासायां ४ ओं औं पुनर्वसवे० । कंठे ४ कं पुष्पायै० । दक्षस्कंधं ४ खं गं आश्लेषायै० । वामस्कंधे ४ घं ऽऽनं मघायै० । दक्षकफोणौ ४ चं पूर्वफाल्गुन्यै० । वामकफोणौ ४ छं जं उत्तराफाल्गुन्यै० । दक्षमणिबंधे ४ झ ञं हस्तायै० । वाममणिबंधे ४ टं ठं चित्रायै० । दक्षस्तने ४ डं स्वात्यै० । वामहस्तेये ४ ढं णं विशाखायै० ।। नाभौ ४ तं थं दं अनुराधायै न० ।। दक्षकट्यां ४ धं ज्येष्ठायै० । वामकट्यां ४ नं पं फं मूलायै नमः ।। दक्षोरौ ४ बं पूर्वाषाढायै० । वामोरौ ४ उत्तराषाढायै० । दक्षजानुनि ४ मं श्रवणायै० । वामजानुनि ४ यं रं धनिष्ठायै० । दक्षजंघायां ४ शतभिषायै न० । वामजंघायां ४ वं शं पूर्वभाद्रपदायै० । दक्षपादे ४ षं शं हं उत्तराभाद्रपदायै० । वामपादे ४ लं क्षं अं अः । प्. ७१ब्) रेवत्यै नमः ।। इति नक्षत्रन्यासः । अथ महायोगिनीन्यासः ।। तत्र विशुद्धौ षोडशदलकमलकर्णिकायां त्वक् धातु देवतां डाकिनीं ध्यायेत् ।। तद्यथा ।। रक्तां रक्त त्रिनेत्रां पशुजनभयकृछूलखट्वांगहस्तां वामे खेटं दधानां चषकमपि सुरापूरितं चैकवक्त्रां ।। अत्युग्रासुग्रदंष्ट्रामरि कुलमथिनीं पायसान्ने प्रसक्तां कंठस्थानेऽमृताद्यैः परिवृतवपुषं भावयेज्जकिनीं तां ।। १ ।। दक्षोर्ध्वाधः शूलखट्वांगे वामोर्ध्वाधः खेट चषके इत्यायुध ध्यानं ।। इति ध्यात्वा न्यसेत् ।। ४ डां डीं डूं डैं डौं डः डमलवयरंयूं डाकिनि मां रक्ष रक्ष मम त्वग् धातुं रक्ष रक्ष सर्वसत्ववशंकरि देवि आगछ आगछ इमां पूजां गृह्ण गृह्ण ऐं घोरे देवि ह्रीं सः परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसे हें श्रीमहात्रिपुरसुंदरि देवि वरदे विच्चे अं १५ विशुद्ध पीठस्थे विशुद्ध डाकिनि विशुद्धनाथ देवयुग्म श्रीपादुकां पूजयामि नमः ।। इति मनसा कर्णिकायां विन्यस्य तदग्रादि परितस्तदावरणाक्षर शक्तीर्न्यसेत् ।। प्. ७२अ) तद्यथा ।। ४ अं अमृतायै नमः आं आकर्षिण्यै० ४ इं इंद्राविण्यै० । ४ ईं इशान्यै नमः ४ उं उमायै० । ऊर्ध्वकेशिन्यै० । ४ ऋं ऋद्धिदायै० । ४ ॡं ऋषायै० । ४ ऌं ऌकारायै० । ४ ॡं ऌषायै न० । ४ एं एकपादायै० । ४ ऐं ऐश्वर्यात्मिकायै० । ४ ओं ओंकारात्मिकायै० । ४ औं औषधात्मिकायै० । ४ अं अंबिकायै० । ४ अः अक्षरात्मिकायै नमः ।। इति प्रादक्षिण्येन न्यसेत् ।। एताः शक्तयो डाकिनी वध्येयाः ।। ततोऽनाहते द्वादशदलकमलकर्णिकायां रक्तधातु देवतां राकिनीं सावरणां ध्यात्वानस्येत् ।। तद्यथा ।। श्यामां शूलाब्जहस्तां डमरुकसहितां तीक्ष्णचक्रं वहंतीं द्व्यास्यां रक्त त्रिनेत्रां भृकुटिवलिलसद्दष्टदंतप्रभाभिः ।। दीप्तास्यां देवदेवीं हृदयकमलगां रक्तधात्वैक नाथां शुद्धान्नेषु प्रसक्तां मधुमदमुदितां चिंतयेद्राकिणीं तां ।। दक्षाधः करमारभ्य दक्षोर्ध्व करपर्यंतमायुधध्यानं ।। इति ध्यात्वा तन्मन्त्रं कर्णिकायां न्यसेत् ।। तद्यथा ।। ४ रां रीं रूं रैं रौं रंः । रमलवरयूं राकिणि मां रक्ष रक्ष मम रक्त धातूं रक्ष रक्ष सर्वसत्व प्. ७२ब्) वशंकरि देवि आगछ २ इमां पूजां गृह्ण २ ऐं घोरे देवि ह्रीं सः परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे कं ११ अनाहत पाठस्थे अनाहत राकिणि अनाहत नाथदेव युग्म श्रीपादुकां पूजयामि नमः ।। इति मनसा संपूज्य कर्णिकायां विन्यस्य० दलेषु परितस्तदावरणाक्षर देवता न्यसेत् ।। तद्यथा ।। ४ कंकालरात्र्यै नमः ।। ४ खं खार्तंतायै० । ४ गं गायत्र्यै नमः । ४ घं घंटाधारिणयै न० । ४ ऽऽनं ऽऽनार्णात्मिकायै० ४ चं चामुंडायै० । ४ छं छायायै० । ४ जं जयायै० । झं झंकारिण्यै० । ४ ञं ञांर्णात्मिकायै० । ४ टं टंकहस्तायै० । ४ ठं ठंकारिण्यै० डं डंः ।। इति द्वादशदलेषु विन्यस्यैता राकिनीव ध्येयाः ।। ततो मणिपूरे दशदलकमल मांसधातु देवतां लाकिनीं सावरणां ध्यात्वा न्यसेत् तद्यथा ।। कृष्णां देवीं त्रिवक्त्रां त्रिनयन लसितां दंष्ट्रियीमुग्ररूपां वज्रं शक्तिं च दंडाभयवरददरान् दक्षवामेर्दधानां ।। ध्यात्वा नाभिस्थ पद्मे दशदल विलसत्कर्णिके लाकिनीं तां मांसस्थां गौडभक्तोत्सुक हृदयवतीं विन्यसेत् साधकेंद्रः ।। १ ।। प्. ७३अ) दक्षाद्यूर्ध्वयोराद्ये तदाद्मधःस्थयोरन्ये तदाद्यधःस्थयोरपरे इत्यायुध ध्यानं ।। इति ध्यात्वा न्यसेत् ।। ४ लां लीं लूं लैं लौं लः लमलवरयूं लकिनी मां रक्ष २ मम मांसधातुं रक्ष २ सर्वसत्ववशंकरि देवि आगछ २ इमां पूजां गृह्ण गृह्ण ऐं घोरे देवि ह्रीं सः परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे डं । ९ मणिपूरक पीठस्थे मणिपूर कलाकिनिमपूरकनाथ देवयुग्म श्रीपादुकां पूजयामि नमः ।। इति कर्णिकायां मनसा संपूज्य विन्यस्य परितस्तदा वरणाक्षर देवता न्यसेत् ।। ४ डं डामर्षे नमः । ४ ढं ढं कारिण्यै० । ४ णं णकारिण्यै० ।। ४ तं तामस्यै नमः ।। थं स्थानदेव्यै० । ४ दं दाक्षायिण्यै न० । ४ धं धात्र्यै० । ४ नं नंदायै० । ४ पं पार्वत्यै नमः । फं फट्कारिण्यै नमः ।। इति न्यसेत् ।। एता लकिनीवत् ध्येयाः ।। ततः स्वाधिष्ठाने षट्दलकमल कर्णिकायां मेदो धातु देवतां काकिनीं सावरणां ध्यात्वा न्यसेत् । तद्यथा ।। स्वाधिष्ठानाख्य पद्मे रसदललसिते वेदवक्त्रां त्रिनेत्रां पीतांभां धारयंती त्रिशिखगुणकपाला भयान् पात्तगर्वां ।। प्. ७३ब्) मेदो धातु प्रतिष्ठामलिमदमुदितां बंधिनीत्यादिवीतां दध्यन्ने सक्तचित्तामभिमत फलदां काकिनीं भावयेत् तां ।। १ ।। दक्षोर्ध्व करमारभ्य दक्षाधः करपर्यंतंमायुध ध्यानं ।। इति ध्यात्वा न्यसेत् ।। ४ कां कीं कूं कैं कौं कः कमलवरयूं काकिनि मां रक्ष २ मम मेदो धातुं रक्ष २ सर्वसत्ववशंकरि देवि आगछ २ इमां पूज्यां गृह्ण २ ऐं घोरे देवि ह्रीं सः परमघोरे हं घोररूपे एह्येहि नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरि देवि वरदे विच्चे बं ५ स्वाधिष्ठान पीठस्थे स्वाधिष्ठान काकिनि स्वाधिष्ठाननाथ देव युग्म श्रीपादुकां पूजयामि नम ।। इति कर्णिकायां मनसा संपूज्य विन्यस्य परितस्तद्दलेषु परिवाराक्षर देवता न्यसेत् ।। ४ बं बंधिन्यै नमः । ४ भं भद्रकाल्यै० । ४ मं महामायायै न० । ४ यं यशस्विन्यै० । ४ रं रमायै० । ४ लं लंबोष्ठ्यै० । ४ इति विन्यस्यैताः काकिनीवत् ध्येयाः ।। ततो मूलाधारे चतुर्दलकमलकर्णिकायां अस्थिधातु देवतां साकिनीं ध्यात्वा न्यसेत् ।। तद्यथा ।। देवीं ज्योतिः स्वरूपां त्रिनयन विलसत्पंचवक्त्रां सुदंष्ट्रां हस्तांभोजेक्षा चापं सृणिमपि दधतीं पुस्तकं ज्ञानमुद्रां ।। प्. ७४अ) मूलाधारस्थ पद्मे निखिल पशु जनोन्मादिनीमस्थिसंस्थां मुद्गात्रे प्रीतियुक्तां मधुमदमुदितां चिंतयेत् साकिनीं तां ।। १ ।। वामाद्यूर्ध्वयोराद्ये तदाद्यधस्थयोरन्ये इत्यायुध ध्यानं ।। अत्रेक्षु चापग्रहणात्तत्रैव पुष्पबाणानपि ध्यायेत् ।। धनुर्बाणयोरत्यंत साहचर्यात् ।। इति ध्यात्वा तत्कर्णिकायां न्यसेत् ।। ४ सां सीं व्यूं सैं सौ सः स्मल्वरयूं साकिनी मां रक्ष २ ममास्थि धातुं रक्ष २ सर्वसत्ववशंकरि देवि आगछ २ इमां पूजा गृह्ण २ ऐं घोरे देवि ह्रीं सः परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे वं ३ मूलाधारपीठस्थे मूलाधारसाकिनि मूलाधारनाथ देवयुग्म श्रीपादुकां पूजयामि नमः ।। इति तत्कर्णिकायां मनसा संपूज्य विन्यस्य तद्दलेषु परितस्तत्परिवाराक्षर देवता न्यसेत् ४ व वरदायै नमः । ४ शं शशिन्यै नमः । ४ षं षंढायै० । ४ सं सरस्वत्यै नमः ।। इति विन्यस्यैताः साकिनीवत् ध्येयाः ।। प्. ७४ब्) ततो भ्रूमध्ये आज्ञाचक्रे मज्जाधातु देवतां हाकिनीं ध्यात्वा न्यसेत् ।। तद्यथा ।। भ्रूमध्ये बिंदुपद्मे द्विदलसुलसिते शुक्लवर्णां कराब्जै- र्बिभ्राणां ज्ञानमुद्रां डमरुकसहितामक्षमालां कपालं ।। षड्वक्त्रां मज्जसंस्थां त्रिनयनलसितां हंसवत्यादि युक्तां हारिद्रान्ने सक्तचित्तां सकलसुरनुतां हाकिनीं भावयेत् तां ।। १ ।। दक्षाद्यूर्ध्वयोराद्ये तदाद्यद्यधस्थयोरन्ये इत्यायुध ध्यानं ।। इति ध्यात्वा न्यसेत् ।। ४ हां हीं हूं हैं हौं हः । हमलवरयूं हाकिनि मां रक्ष २ मम मज्जाधातुं रक्ष २ सर्वसत्ववशंकरि देवि आगछ २ इमां पूजां गृह्ण २ ऐं घोरे देवि ह्रीं सः परमघोरे हूं घोररूपे एत्येहि नमश्चामुंडे डरलकसहैं श्रीमहात्रिपुरसुंदरिदेवि वरदे विच्चे हं क्षं आज्ञापीठस्थे आज्ञाहाकिनि आज्ञानाथ देवयुग्म श्रीपादुकां पूजयामि नमः ।। इति तद्दलकर्णिकायां मनसा संपूज्य विन्यस्य तद्दलयोः । ४ हं हंसवत्यै नमः । ४ क्षं क्षमावत्यै० ।। इति विन्यस्य हाकिनीवत् ध्येयाः ।। ततो ब्रह्मरंध्रे सहस्रदल प्. ७५अ) कमलकर्णिकायां शुक्रधातु देवतां सावरणां याकिनीं ध्यात्वा न्यसेत् ।। मुंडव्योमस्थ पद्मे सकलदलयुते याकिनी भैरवीं तां पक्षिण्यांख्यां समस्तायुधलसितकरां सर्ववर्णां समष्टीं ।। डादीनां सर्ववक्त्रां सकलसुखकरीं सर्वधातु स्वरूपां सर्वान्ने सक्तचितां परशिवरसिकां भावयेत् सर्वरूपां ।। १ ।। इति ध्यात्वा तन्मंत्रं कर्णिकायां न्यसेत् ।। ४ यां यीं यूं यैं यौं यः यमलवरयूं याकिनि मां रक्ष २ ममशुक्रादि सर्वधातुन् रक्ष २ सर्वसत्ववशंकरि देवि आगछ २ इमां पूजां गृह्ण २ ऐं घोरे देवि ह्रीं सः परमघोरे हूं घोररूपे एह्येहि नमश्चामुंडे डरलकसहें श्रीमहात्रिपुरसुंदरि देवि वरदे विच्चे आदिक्षांतं ५१ ब्रह्मरंध्रपीठस्थे ब्रह्मरंध्र याकिनि ब्रह्मरंध्रनाथ देव श्रीपादुकां पूजयामि नमः । इति तत्कर्णिकायां मनसा संपूज्य विन्यस्य परितः पंचाशद्वर्णदेवताः न्यसेत् ।। तद्यथा ।। ४ अं अमृतायै नमः ।। ४ आं आकर्षण्यै नमः । ४ इं इंद्राण्यै नमः । ४ ईं ईशान्यै नमः ।। ४ उं उमायै नमः ।। ४ प्. ७५ब्) ऊं ऊर्ध्वकेश्यै नमः ।। ४ ऋं ऋद्धिदायै नमः ।। ४ ॠ ॠषायै नमः ।। ४ ऌं ऌकारायै नमः ।। ४ ॡं ॡषायै नमः ।। ४ एं एकपादायै नमः ।। ४ ऐं ऐश्वर्यात्मिकायै नमः ।। ४ ओं ओंकारात्मिकायै नमः ।। ४ औं औंषधात्मिकायै नमः ।। ४ अं अंबिकायै नमः ।। ४ अः अक्षरात्मिकायै नमः ।। ४ कं कालरात्र्यै नमः ।। ४ स खं खातीतायै नमः ।। ४ गं गायत्र्यै नमः ।। ४ घं घटाधारिण्यै नमः ।। ४ ऽऽनं ऽऽनार्णात्मिकायै नमः ।। ४ चं चामुंडायै नमः ।। ४ छं छायायै नमः ।। ४ जं जयायै नमः ।। ४ झं झंकारिण्यै नमः ।। ४ ञं ञार्णात्मिकायै नमः ।। ४ टं टंकहस्तायै नमः ।। ४ ठं ठंकारिण्यै नमः ।। ४ डं डामर्यै नमः ।। ४ ढं ढंकारिण्यै नमः ।। ४ णं णकारिण्यै नमः ।। ४ तं तामस्यै नमः ।। ४ थं स्थानदेव्यै नमः ।। ४ दं दाक्षायण्यै नमः ।। ४ धं धात्र्यै नमः ।। ४ नं नंदायै नमः ।। ४ पं पार्वत्यै० । ४ फं फट्कारिण्यै नमः । ४ बं बंधिन्यै० । ४ भं भद्रकाल्यै० । ४ मं महामायायै० । ४ यं यशश्विन्यै० । ४ रं रमायै नमः । ४ लंव लंबोष्ठ्यै० । ४ वं वरदायै० । ४ शं शशिन्यै नम० । ४ षं षंढायै० । ४ प्. ७६अ) सं सरस्वत्यै० । ४ हं हंसवत्यै० । ४ क्षं क्षमावत्यै नमः ।। इति महायोगिनीन्यासः ।। इति विन्यस्य ।। अथ राशिन्यासं कुर्यात् ।। तत्र ध्यानं ।। रक्तं श्वेतं हरिद्वर्णं पांडुंचित्रं सितं स्मरेत् ।। पिशंगपिंगलौबभ्रूकर्पूरारुणधूमकान् ।। १ ।। स्व स्वनामसमाकारास्तुलाकुंभौ समा कृती इति ध्यात्वा न्यसेत् ।। दक्षिण गुल्फे ४ अं आं इं ईं मेषाय नमः । ४ दक्षिणजानुनि ४ उं ऊं वृषाय नमः । दक्षवृषणे ४ ऋं ॠं ऌं ॡं मिथुनाय न० । दक्षकुक्षौ ४ एं ऐं कर्कटाय नमः । दक्षस्कंधे ४ ओं औं सिंहाय नमः । दक्षशिरोभागे ४ अं अः शः षं सं हं कन्याराशये नमः ।। ४ वामशिरोभागे ४ कं ४ तुलाराशये न० । ४ वामस्कंधे ४ चं ४ वृश्चिकराशये नमः । वामकुक्षौ ४ टं ४ धनुषे नमः । वामवृषणे ४ तं ४ मकराय नमः । वामजानुनि ४ पं ४ कुंभाय नमः । वामगुल्फे ४ यं रं लं वं लं क्षं मीनाय नमः ।। इति राशिन्यासः ।। अथ पीठन्यासः ।। तत्र ध्यान ।। सितासितारुणश्यामहरित्पीतान्यनुक्रमात् ।। पुनः पुन क्रमाद्देवि पंचाशत् स्थान संचये ।। १ ।। प्. ७६ब्) पीठानि संस्मरेद्विद्वान् सर्वकामार्थसिद्धये ।। इति ध्यात्वा न्यसेत् ।। ४ अं कामरूपपीठाय नमः ।। ४ आं वाराणसीपीठाय नमः ।। ४ इं नेपालपीठाय नमः । ४ ईं पौंड्रवर्द्धन पीठाय नमः ।। ४ उं पुरस्थिरपीठाय नमः ।। ४ ऊं कान्यकुब्जापीठाय नमः ।। ४ ऋं पूर्णगिरिपीठाय नमः । ४ ॠ अर्बुदपीठाय नमः । ४ ऌं आम्रातकेश्वरपीठाय नमः । ४ ऌ एकाम्रपीठाय नम ४ एं त्रिस्रोतःपीठाय० । ४ ऐं कामकोटपीठाय नम० । ४ ओं कैलासपीठाय नम० । ४ औ भृगुनरपीठाय० । ४ अं केदारपीठाय० । ४ अः चंद्रपुरपीठाय० । ४ कं श्रीपुरपीठाय० । ४ खं ओंकारपीठाय० । ४ गं जालंधरपीठाय नम० । ४ घं मालवपीठाय नम० । ४ ऽऽनं कुलांतकपीठाय नमः ।। ४ चं देवीकोटपीठाय० । ४ छं गोकर्णपीठाय० । ४ जं मरुतेश्वर पीठाय० । ४ झं अट्टहासपीठाय० । ४ ञं विरजपीठाय० । ४ टं राजगृहपीठाय० । ४ ठं महापथपीठाय० । ४ डं कोलगिरिपीठाय नम० । ४ ढं एलापुरपीठाय० । ४ णं कालेश्वरपीठाय० ४ तं जयंतिकापीठाय० । ४ थं उज्जयिनीपीठाय न० । ४ प्. ७७अ) दं चरित्रपुरपीठाय० । ४ धं क्षीरिकपीठाय० । ४ नं हस्तिनापुरपीठाय० । ४ पं उड्डीशपीठाय० । ४ फं प्रयागपीठाय० । ४ बं षष्ठीशपीठाय नम० । ४ भं मायापुरपीठाय न० । ४ मं जलेश्वरपीठाय० । ४ यं मलयगिरिपीठाय० । ४ रं हिरण्यपुरपीठाय० । ४ हं महालक्ष्मीपुरपीठाय० । ४ लं उड्यानपीठाय० ४ क्षं छायाछत्रपीठाय नमः ।। इति पीठन्यासः । एते पीठाः समुद्दिष्टामातृकारूपमास्थिताः । शुद्धमातृकास्थानेषु न्यसनीयाः । इति पूर्वषोढान्यासः । ज्ञानार्णवे । षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः ।। एवं योन्यस्त गात्रस्तु सपूज्यः सर्वयोगिभिः । १ ।। नास्त्यस्य पूजो लोकेषु पितृमातृमुखोजनः । स एव पूज्यं सर्वेषां सः स्वयं परमेश्वरः । २ ।। षोढान्यासविहीनं यं प्रणमेदेषः पार्वति । सोचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ।। ३ ।। षोढान्यासैर्न्यस्तमंत्री यदि कुर्यान् नमस्क्रियां ।। अपरीहार्यतः पूज्ये पित्रादौ विदधीततां ।। ४ ।। निजेष्ठ देवता बुध्या न तु मानुष बुद्धितः । क्रुद्धो भूत्वा न मेद्यंसोऽचिरान्मृत्युमवाप्नुयात् ।। ५ ।। प्. ७७ब्) श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।। कृते सौभाग्यरत्नाब्धावत्षष्ठतरंगकः ।। १ ।। इति श्रीसच्चिदानंदनाथचरणारविंद द्वंद्वांते वासिना श्री श्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे षष्ठस्तरंगः ।। ६ ।। अथ योगपीठन्यासः ।। १ ।। श्रीविद्यया प्राणायाम त्रयं कृत्वा योगपीठन्यासं कुर्यात् ।। तत्र प्राणायामविधिस्तु विहित पद्मासनो मूलाधारार्पित चित्तवृतिर्मूलविद्यां स्मरन् ईडया वायुमापूर्ये मूलाधारं प्रापययांगुष्ठानामीकनिष्ठाभिर्नासापुटौ विधृत्य तं वायुं कुंभयित्वा कुंभकसमये देवीं स्मरन् मूलविद्यां यथाशक्तिं जपित्वा पिंगलया शनैःशनैस्तं वायुं रेचयेदित्येकः प्राणायामः । पुनस्तथैव पिंगलया वायुमापूर्य तथैव कुंभयित्वा तथैव रेचयेदित्यन्यः । एवं वैपरित्येन विशंतिवारं षोडशद्वादशड्भिर्या यथाशक्ति जपादौ जपांते च प्राणायामाः कार्यः ।। अत्र सर्वत्र प्राणायामे नैव सर्वेषां कर्माधिकारः । प्राणायामैर्विना यद्य कृतं कर्मतन्निरर्थकं । प्. ७८अ) अतो यत्नेन कर्त्तव्याः प्राणायामाः शुभार्थिभिः ।। १ ।। इत्यगस्त्य वचनेनाकरणे निंदा श्रुतेरावश्यकोयमिति प्राणायामविधिः । इत्थं प्राणायामं विधाय मूलविद्याया ऋष्यादि न्यासान् कुर्यात् । तद्यथा । शिरशि ओं ऐं ह्रीं श्रीं दक्षिणामूर्तये ऋषये नमः । मुखे ४ पंक्ति छंदसे नमः । हृदये ४ श्रीत्रिपुरसुंदर्ययै देवतायै नमः । गुह्ये ४ ऐं बीजाय नमः । पादयोः ४ सौः शक्तये नमः । नाभौ ४ क्लीं कीलकाय नमः । इति विन्यस्य । ४ मम चतुर्विधपुरुषार्थ सिद्धये न्यासादौ विनियोगः । इति कृतांजलिर्वदेत् । ततः अंगुष्ठयोः । ४ ऐं हृदयाय नमः । तर्ज्जन्योः ४ क्लीं शिरसे स्वाहा । मध्यमयोः ४ सौः शिखायै वषट् । अनामिकयोः ४ ऐं कवचाय हुं । कनिष्ठिकयोः ४ क्लीं नेत्रत्रयाय वौषट् । करतल करपृष्ठयोः ४ सौः अस्त्राय फट् इति तदुपरि पूर्वादि दिक्षु ।। ४ आं आत्मने न० । ४ अं अंतरात्मने० । ४ पं परमात्मने० । ४ ह्रीं ज्ञानात्मने० । कर्णिकायाश्चतुर्दिक्षु मध्ये च ४ ज्ञां ज्ञानतत्वात्मने० ४ मां मायातत्वात्मने० । ४ कं कलातत्वात्मने० । ४ प्. ७८ब्) विं विद्यातत्वात्मने० । ४ पं परतत्वात्मने० । इति पश्चिमादि प्रादक्षिण्येन विन्यस्य ।। ततः केसरेषु । पूर्वाद्यष्ट दिक्षु मध्ये च प्रादक्षिण्येन श्रीचक्राधारपीठस्य नवशक्तीर्न्यसेत् ।। तद्यथा ।। ४ दूतर्यंबा श्रीपा० ४ सुंदर्यंबा श्रीपा० । ४ सुमुख्यंबा० । ४ विरूपांबा० । ४ विमलांबा ४ अंतर्यंबा० । ४ बदर्यंबा० । ४ पुरंदर्यंबा० । मध्ये कर्णिकायां ।। ४ पुष्पमर्दिन्यंबाश्री० । ४ एता वराभयधारिण्यो रक्तवर्णाध्येयाः । इति नवशक्तिर्विन्यस्य ।। ४ क्लीं सर्वशक्ति कमलासनाय नमः ।। इति व्यापकं विन्यस्य तन्मध्ये श्रीचक्रं विभाव्य ।। ४ समस्त-प्रकट-गुप्त-गुप्ततर- संप्रदाय-कुलकौल-निगर्भ-रहस्य-परापररहस्य-परापराति-रहस्य- योगिनीचक्रे श्रीपादुकाभ्यो नमः । इति सर्वांगे व्यापकं विन्यस्या ४ प्रथमकूटमुच्चार्य शरीरात्मने नमः । द्वितीय कूटमुच्चार्य ४ बुध्यात्मने नमः । तृतीय कूटमुच्चार्य ४ प्राणात्मने इति व्यापकत्वेन सर्वांगे विन्यस्य हृदय त्रिकोणस्याग्र कोणे ४ ऐं मूलविद्याया वाग्भवकूटमुच्चार्य चतुरस्रपीतवर्णाय कामरूपपीठाय नमः । प्. ७९अ) आग्नेय कोणे ४ क्लीं कामराजकूटमुच्चार्य अर्धचंद्रनिभश्वेतवर्णाय जालंधरपीठाय नमः ।। ईशानकोणे ४ सौः तार्तीय कूटमुच्चार्य षट्बिंदुलांछित वृत्तधूम्रवर्णाय पूर्णगिरिपीठाय नमः । तन्मध्यस्थबिंदौ ४ तुरीय विद्यामुच्चार्य महोज्यान पीठाय नमः ।। इति पीठचतुष्टयं विन्यस्य । मध्यस्य बिंदुचक्रे ४ हीरण्मय सहस्रदलकमलाय नमः ।। इति विन्यस्य ।। दक्षांस पृष्ठदक्ष कर्णपृष्ठ दक्ष ललाटभाग दक्षनेत्र भागदक्ष चिबुक भाग हृदय त्रिकोणेषु वक्ष्यमाण षडासनानि विन्यस्य ४ अं कं ३६ शिवशक्त्यादि पृथिव्यात्मने षट्त्रिंशत्तत्वरूपाय श्रीमहात्रिपुरसुंदर्याः योगपीठाय नमः । इति सर्वांगे व्यापकं न्यसेत् ।। ततो मूलविद्यामुच्चार्य श्रीमन्महात्रिपुरसुंदरी श्रीपादुकां पू० । प्रति षट्त्रिंशत्तत्वात्मके निजदेहमये महायोगपीठे निजेष्ठ देवतां हृदिन्यसेत् ।। इति देहमये पीठे चिंतयेत् परदेवतां ।। इति योगपीठ देवता न्यासः ।। अथ श्रीचक्रन्यासः ।। तत्र मूलविद्याया एव ऋष्यादिकरषडंगन्यासान् कृत्वा ध्यानं कुर्यात् ।। प्. ७९ब्) तद्यथा ।। शरं चिंतयेदादौ निजं श्रीचक्ररूपकं ।। त्वगाद्याकार निर्मुक्तं ज्वलत्कालाग्नि संन्निभं ।। १ ।। इति स्वशरीरं श्रीचक्ररूपं ध्यात्वा न्यसेत् ।। तद्यथा ।। दक्षपादांगुष्ठे ओं ऐं ह्रीं श्रीं लं इंद्राय नमः ।। दक्षजानुनि ४ रं अग्नये नमः दक्षिणपार्श्वे ४ टं यमाय० । दक्षिणांसे ४ क्षं निर्-ऋतये० । वामांसे ४ वं वरुणाय० । वामपार्श्वे ४ यं वायवे नमः । वामजानुनि ४ सं सोमाय नम० । वामपादांगुष्ठे ४ हं ईशानाय० । ब्रह्मरंध्रे ४ आं ब्रह्मणे० । मूलाधारे ४ ह्रीं अनंताय नमः । वामजानुनि ४ गं गणेशाय नमः ।। वामांसे ४ क्षें क्षेत्रपालाय० । दक्षजानुनि ४ बं बटुकाय न दक्षांसे ४ यां योगिनीभ्यो नमः । ४ अं आं सौः त्रैलोक्यमोहन चक्राय नमः ।। इति सर्वांगे व्यापकत्वेन विन्यस्य ४ बाह्य चतुरस्ररेखायै नमः । इति च व्यापकं विन्यस्य । दक्षांस पृष्ठे ४ अणिमासिध्यै नमः ।। दक्षिणकराग्रे ४ लघिमासिध्यै नमः । दक्षिणस्फिचि ४ महिमासिध्यै० । दक्षिणपादाग्रे ४ ईशित्व सिध्यै० । वामपादाग्रे ४ वशित्वसिध्यै० । वामस्फिचिप्राकाम्यसिध्यै० । वामकराग्रे ४ भुक्तिसिध्यै० । वामांसपृष्ठे ४ इच्छासिध्यै० । पृष्ठवंशे ४ प्राप्तिसिध्यै नम० । चूडाधः ४ सर्वकामसिध्यै० । इति दशसिद्धिर्विन्यस्य ।। ४ प्. ८०अ) चतुरस्रमध्यरेखायै नमः । इति व्यापकं कृत्वा । पादांगुष्ठद्वये । ४ आं ब्राह्मै नमः । दक्षिणपार्श्वे ४ ईं माहेश्वर्यै नमः । मूर्द्ध्नि ४ ऊं कौमार्यै नमः ।। वामपार्श्वे ४ ॠ वैष्णव्यै नमः । वामजानुनि । ४ ॡं वाराह्यै० । दक्षजानुनि० । ४ ऐं इंद्राण्यै० । दक्षिणांसे ४ औं चामुंडायै० । वामांसे ४ अः महालक्ष्म्यै० । ततः । ४ अं तश्चतुरस्ररेखायै नमः ।। इति व्यापकं कृत्वा । पादांगुष्ठद्वये । ४ द्रां सर्वसंक्षोभिण्यै मुद्रायै० । दक्षपार्श्वे ४ द्रीं सर्वविद्राविण्यै मुद्रा० । मूर्द्ध्नि ४ क्लीं सर्वाकर्षिण्यै मुद्रा० । वामपार्श्वे ४ ब्लूं सर्ववश्यायै मु० । वामजानुनि ४ सः सर्वोन्मादिन्यै मु० । दक्षजानुनि ४ क्रों सर्वमाहांकुशायै मुद्रा० ।। दक्षांसे ४ हस्रैं हस्क्लीं हस्रौः सर्वत्रिखंडायै मु० ।। वामांसे ४ हस्रौं सर्वबीजमुद्रायै० । मूर्द्ध्नि ४ हख्फ्रें सर्वखेचर्यै मु० ।। पादांगुष्ठद्वये ४ ऐं योनिमुद्रायै नमः । इति विन्यस्य । हृदये ४ अं आं सौः । त्रिपुरा चक्रेश्वर्यै नमः । तस्या दक्षिणे ४ अणिमा सिध्यै० । तस्या वामे ४ द्रां सर्वसंक्षोभिणी मुद्रायै० । इति विन्यस्य । ४ एताः प्रकटयोगिन्यस्त्रैलोक्यमोहन चक्रे समुद्राः स सिद्धयः प्. ८०ब्) सायुधाः स वाहनाः स परिवाराः सर्वोपचारैः संपूजिताः संतुष्टाः संतु नमः । इति व्यापकं न्यसेत् । द्रामिति सर्वसंक्षोभिणी मुद्रां प्रदर्शयेत् ।। इति प्रथमावरणन्यासः ।। ततः । ४ ऐं क्लीं सौः सर्वाशापरिपूरकं चक्राय नमः ।। इति व्यापकं विन्यस्य । ततः षोडशदलकमल चक्राय नमः । इति व्यापकं विन्यस्य ।। दक्षिण कर्ण पृष्ठे ४ अं कामाकर्षिणी नित्याकलायै नमः । दक्षिणांसे ४ आं बुध्याकर्षिणी नित्याकलायै० । दक्षिणकूर्परे ४ इं अहंकाराकर्षिणी नित्या कलायै० । दक्षिण करपृष्ठे ४ ईं शब्दाकर्षिणीनित्याकलायै० । दक्षिणोरौ ४ उं स्पर्शाकर्षिणी नित्याकलायै० । दक्षिण जानुनि ४ ऊं रूपाकर्षिणी नित्याकलायै दक्षगुल्फे ४ ऋं रसाकर्षिणी नित्याकलायै० । दक्षिणपादाग्रे ४ ऋं गंधाकर्षिणी नित्याकलायै० । वामपादाग्रे ४ ऌं चित्ताकर्षिणी नित्याकलायै० । वामगुल्फे ४ ॡं धैर्याकर्षिणी नित्याकलायै० । वामजानुनि ४ एं स्मृत्याकर्षिणी नित्याकलायै० । वामोरौ ४ ऐं नामानाकर्षिणीनिकलायै० । वामकरपृष्ठे ४ ओं बीजाकर्षिणी नित्याकलायै० । वामकूर्परे ४ औं आत्माकर्षिणी नित्याकलायै० । प्. ८१अ) वामांसे ४ अं अमृताकर्षिणी नित्याकलायै० । वामकर्णपृष्ठे ४ अः शरीराकर्षिणी नित्याकलायै० । हृदये ४ ऐं क्लीं सौः त्रिपुरेश्वरी चक्रेश्वर्यै नमः ।। तस्याः दक्षे ४ लघिमा सिध्यै नमः । तस्या वामे । ४ द्रीं विद्राविणी मुद्रायै नमः । इति विन्यस्य । ४ एताः गुप्तयोगिन्यः सर्वाशापरिपूरक चक्रे समुद्राः ससिद्धयः सायुधाः स वाहनाः स परिवाराः सर्वोपचारैः संपूजिताः संतुष्टात्यंतु नमः इति व्यापकं न्यसेत् । द्रीमिति सर्वविद्राविणी मुद्रां प्रदर्शयेत् । इति द्वितीयावरणन्यासः ।। ततः ४ ह्रीं क्लीं सौः सर्वसंक्षोभणचक्राय नमः । तते अष्टदलकमलाय नमः । इति व्यापकं विन्यस्य । दक्षशंखे ४ कं ४ अनंगकुसुमायै नमः । दक्षजत्रुणि ४ चं ४ अनंगमेखलायै० । दक्षिणोरौ ४ टं ४ अनंगमदनायै० । दक्षिणगुल्फे ४ तं अनंगमदनातुरायै० । वामगुल्फे ४ पं ४ अनंगरेखायै० । वामोरौ ४ यं ३ अनंगवेगिन्यै न० । वामजत्रुणि ४ शं ३ अनंगां कुशायै० । वामशंखे ४ लं क्षं अनंगमालिन्यै नमः । हृदये ४ ह्रीं क्लीं सौः त्रिपुरसुंदरी चक्रेश्वर्यै नमः । प्. ८१ब्) तस्याः दक्षिणे ४ महिमासिध्यै नमः । तस्या वामे ४ क्लीं आकर्षिणी मुद्रायै नमः ।। इति विन्यस्य ।। ४ एताः गुप्ततरयोगिन्यः सर्वसंक्षोभणे चक्रे समुद्रा इत्यादि व्यापकं कुर्यात् क्लीमित्या कर्षिणी मुद्रां दर्शयेत् ।। इति तृतीयावरणन्यासः ।। ततः ४ हैं हकलीं हसौः सर्वसौभाग्यदायकचक्राय नम इति व्यापकं विन्यस्य । लला दक्षपार्श्वे ४ कं सर्वसंक्षोभिणीशक्त्यै नमः । दक्ष कपोले ४ खं सर्वविद्राविणी शक्त्यै० । दक्षांसे ४ गं सर्वाकर्षिणी शक्त्यै० । दक्षपार्श्वे ४ घं सर्वाह्लादीनी शक्त्यै० । दक्षोरौ ४ ऽऽनं सर्वसंमोहिनी शक्त्यै० । दक्षजंघायां ४ चं सर्वस्तंभिनी शक्त्यै० । वामजंघायां ४ छं सर्वजंभिनी शक्त्यै० । वामोरौ ४ जं सर्ववशंकरिणी शक्त्यै० । वामपार्श्वे ४ झं सर्वरंजिनी शक्त्यै० । वामांत्ये ४ ञं सर्वोन्मादानकारिणीशक्त्यै० । वामकपोले ४ टं सर्वार्थसाधिनी शक्त्यै० । ललाट वामपार्श्वे ४ ठं सर्वसंपत्प्रपूरिणी शक्त्यै० । ललाटे ४ डं सर्वमंत्रमयीशक्त्यै० । चूडाधः ४ ढं सर्वद्वंद्वक्षयंकरी शक्त्यै नमः । इति विन्यस्य । हृदये ४ हैं ह क्लीं हसौः त्रिपुरवासिनी चक्रेश्वर्यै नमः ।। तस्या दक्षे ४ ईशित्वशिध्यै नमः । तस्या वामे । ब्लूं सर्ववस्य मुद्रायै नमः । इति विन्यस्य ४ एताः संप्रदाययोगिन्यः प्. ८२अ) सर्वसौभाग्यदायके चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् । ब्लूं इति सर्ववश्यमुद्रां प्रदर्शयेत् ।। इति चतुर्थावरणन्यासः । ततः ४ हसैं हस्क्लीं हसौः सर्वार्थसाधक चक्राय नम इति व्यापकं विन्यस्य । ततो बहिर्दशार चक्राय नम इति व्यापकं विन्यस्य । दक्षनेत्रे ४ णं सर्वसिद्धिप्रदादेव्यै नमः ।। नासामूले ४ तं सर्वसंपत्प्रदादेव्यै० । वामनेत्रे ४ थं सर्वप्रियंकरी देव्यै० । वामकुक्षेरुपरि ४ दं सर्वमंगलकारिणी देव्यै० । वामकुक्षेरधः । ४ धं सर्वकामप्रदादेव्यै० । वामजानुनि ४ नं सर्वदुःखविमोचिनी देव्यै० । दक्षजानुनि ४ पं सर्वमृत्युप्रशमनी देव्यै० । गुदे ४ फं सर्वविघ्नविनाशिनी देव्यै० दक्षकुक्षेरधः ४ बं सर्वांगसुंदरी देव्यै० । दक्षकुक्षेरुपरि । ४ भं सर्वसौभाग्यदायिनी देव्यै नमः । इति विन्यस्य० हृदये ४ हसैं ह्स्क्लीं हसौः त्रिपुराश्रीचक्रेश्वर्यै नमः ।। तस्या दक्षे ४ वशित्व शिध्यै नमः । तस्या वामे । ४ सः सर्वोन्मादिनी मुद्रायै नमः । इति विन्यस्य ।। ४ एताः कुलकौल योगिन्यः सर्वार्थसाधके चक्रे समुद्रा इत्यादि ४ व्यापकं कुर्यात् । सः सर्वोन्मादिनिमुद्रां प्रद० । इति पंचमावरणन्यासः ।। ततः । ४ ह्रीं क्लीं ब्ले सर्वरक्षाकर चक्राय नमः ।। ततोंतर्दशारचक्राय नमः इति व्यापकं विन्यस्य ।। प्. ८२ब्) दक्षनासापुटे ४ मं सर्वज्ञा देव्यै नमः । दक्षसृक्किणि ४ यं सर्वशक्तिदेव्यैः । दक्षस्तने ४ रं सर्वैश्वर्य प्रदा देव्यै० । दक्षमुष्के ४ लं सर्वज्ञानमयी देव्यै० । सीवन्यां ४ वं सर्वव्याधिविनाशिनी देव्यै० वाममुष्के ४ शं सर्वाधारस्वरूपा देव्यै० । वामस्तने ४ षं सर्वपापहरा देव्यै० । वाम सृक्किणि ४ सं सर्वानंदमयी देव्यै० वामनासापुटे ४ हं सर्वरक्षास्वरूपिणी देव्यै० । नासाग्रे ४ क्षं सर्वस्थित फलप्रदादेव्यै नमः । इति विन्यस्य । हृदये ४ ह्रीं क्लीं ब्लें त्रिपुरा मालिनीचक्रेश्वर्यै नमः । तस्या दक्षिणे । ४ प्राकाम्य सिध्यै नमः । तस्या वामे क्रों महांकुशा मुद्रायै० । इति विन्यस्य । ४ एताः निगर्भयोगिन्यः सर्वरक्षाकरे चक्रे समुद्रा इत्यादि व्यापकं कुर्यात् ।। क्रों इत्यंकुश मुद्रां प्रदर्शयेदिति षष्ठावरणन्यासः ।। ततः ४ ह्रीं श्रीं सौः सर्वरोगहरचक्राय नमः ततोऽष्टारचक्राय नमः इति व्यापकं विन्यस्य ।। चिबुक दक्षपार्श्वे ४ अं आं १४ ब्लूं वशिनी वाग्देवतायै नमः । कंठ दक्षभागे ४ कं ४ ब्लूं ह्रीं कामेश्वरी वागदेवतायै० । हृदय दक्षपार्श्वे ४ अं आं १४ ब्लूं वशिनी वाग्देवतायै नमः । नाभेर्दक्षपार्श्वे ४ टं ४ यलूं विमला वाग्देवतायै० । नाभेर्वामपार्श्वे ४ तं ४ ज्म्रीं अरुणावाग्देवतायै० । प्. ८३अ) हृदयं वामपाश्वे ४ पं ४ हसलव्यूं जयिनी वाग्देवतायै० । कंठ वामभागे ४ यं ३ झमरयीं सर्वेश्वरी वाग्देवतायै० । चिबुक वामभागे ४ शंक्ष्म्रीं कौलिनी वाग्देवतायै नमः । इति विन्यस्य । हृदये ४ ह्रीं श्रीं सौः त्रिपुरा सिद्धाचक्रेश्वर्यै० । तस्या दक्षे । ४ भुक्ति सिध्यै० । तस्या वामे ४ हसख्फ्रं खेचरीमुद्रायै नमः । इति विन्यस्य । ४ एता रहस्य योगिन्यः सर्वरोग हरे चक्रे समुद्रा इत्यादिव्यापकं कुर्यात् हसख्फ्रें इति खेचरी मुद्रां प्रदर्शयेदिति सप्तमावरण न्यासः ।। ततः अंतरालचक्राय नमः । इति व्यापकं विन्यस्य । हृदय त्रिकोणस्य बहिर्दक्ष वाम वामदक्षेषु ४ द्रां द्रीं क्लीं ब्लूं सः । यां रां लां वां सां जंभनेभ्यः कामेश्वर कामेरी बाणेभ्यो नमः । हृदयस्याग्नेये ।। ४ धं थं मोहनाभ्यां कामेश्वर कामेश्वरी चापाभ्यां नमः । हृदयस्य ईशानभागे । ४ आ ह्रीं वशीकरणाभ्यां कामेश्वर कामेश्वरी पाशाभ्यां नमः । हृदय नैर्-ऋत्ये । ४ क्रों क्रों स्तंभनाभ्यां कामेश्वर कामेश्वर्यं कुशाभ्यां नमः । हृदय वायव्ये । इति विन्यस्य । ४ हस्रैं हस्लीं हस्रौः सर्वसिद्धिप्रदचक्राय नमः । ४ त्रिकोणचक्राय नमः इति व्यापकं विन्यस्य । त्रिकोणस्याग्रकोणे ४ प्रथकूटमुच्चार्य अग्निचक्रे कामगिरिपीठे मित्रीशनाथात्मिके जगृद्दशाधिष्ठायके इछाशक्त्यात्मक रुद्रात्मशक्ति श्रीकामेश्वरी देव्यै नमः । प्. ८३ब्) त्रिकोणस्य वामकोणे ४ द्वितीकूटं उच्चार्य सूर्यचक्रे जालंधरपीठे षष्ठीशनाथात्मिके स्वप्नदशाधिष्ठायके ज्ञानशक्त्यात्मक विष्णवात्मशक्ति श्रीवज्रेश्वरी देव्यै नमः ।। दक्षकोणे ४ तृतीयकूटमुच्चार्य सोमचक्रे पूर्णगिरिपीठे उड्डीशनाथात्मिके सुषुप्तिदशाधिष्ठायके क्रियाशक्त्यात्मक ब्रह्मात्मशक्ति श्रीभगमालिनी देव्यै नमः । इति विन्यस्य । हृदये ४ हस्रैं हसकलरीं हस्रौः त्रिपुरांबिका चक्रेश्वर्यै नमः । तस्यादक्षे ४ इछा सिध्यै नमः । तस्या वामे ४ हसौं सर्वबीज मुद्रायै नमः । इति विन्यस्य ४ एताः परापररहस्य योगिन्यः सर्वसिद्धि प्रदे चक्रे समुद्रा इत्यादि व्यापकं कुर्यात् हसौं इति बीजमुद्रां प्रदर्शयेदिति अष्टावरणन्यासः ।। ततः ४ तुरीयविद्यामुच्चार्य सर्वानंदमयचक्राय नमः । बिंदुचक्राय नमः । इति व्यापकं विन्यस्य । हृदय त्रिकोणमध्यस्य बिंदुमध्ये ४ तुरीय विद्यामुच्चार्य ब्रह्मचक्रे महोड्याणपीठे श्रीचर्यानाथात्मिके तुर्यतुर्ययातीत दशाधिष्ठायके परब्रह्मात्म शक्ति श्रीमहात्रिपुरसुंदर्यै देव्यै नमः । प्. ८४अ) हृदय एव ४ मूलपंचदशीमुच्चार्य श्रीमहात्रिपुरसुंदरी चक्रेश्वर्यै नमः । तस्या दक्षे ४ प्राप्ति सिध्यै नमः । तस्या वामे । ४ ऐं योनिमुद्रायै नमः । इति विन्यस्य ४ एषा परापराति रहस्य योगिनीः सर्वानंदमये महाचक्रे परब्रह्म स्वरूपिणी परामृतशक्तिः सर्वमत्रेश्वरी सर्वविद्येश्वरी सर्वपीठेश्वरी सर्ववीरेश्वरी सर्वयोगेश्वरि सर्ववागिश्वरि सर्वसिद्धेश्वरी सकल जगदुत्पत्ति मातृका सचक्रा सदेवता समुद्रा ससिद्धिः सायुधा सासना सवाहना सपरिवारा सालंकारा सर्वोपचारैः श्रीमहात्रिपुरसुंदरी परया चापरया परापरया च सपर्यया पूजिताः संतुष्टास्तु नमः । इति व्यापकं विन्यस्य । पुनर्हृदय एव मुलमुच्चार्य समस्तचक्रेश्वरी श्रीमहात्रिपुरसुंदर्यै देव्यै नमः । तस्या दक्षे ४ सर्वकामसिध्यै नमः । तस्या वामे । ४ हस्रैं हसकल्मी हस्रौः त्रिखंडा मुद्रायै नमः । प्. ८४ब्) इति हृदय एव विन्यस्य ऐं योनिमुद्रां प्रदर्शयेत् । हृदय त्रिकोण एवाग्रादि वामावर्त्तेन प्रवत्रितारादि चतुर्थी नमों तत्तत्तन्नित्या नामां तत्तत्तन्नित्या विद्यया नित्याषोडशकं विन्यस्य हृदय त्रिकोणस्य पृष्ठभागे रेखात्रयं विभाव्य तत्र पूजा प्रकरणे वक्ष्यमाणं गुरुपंक्ति त्रयं न्यसेत् । ततो हृदय त्रिकोणस्याष्ट कोणस्य चांतरालेषु पूजा प्रकरणे वक्ष्यमाण प्रकारेण षडंग युवतिर्विन्यस्य बिंदुचक्रमध्ये वक्ष्यमाण प्रकारेण पंचपंचक देवताः विन्यस्य दक्षांसपृष्ठ तत्कर्ण पृष्ठ तछंख तद्भाल तद्दक्षिनासापुटचिबुक हृदयावधि च षट्दर्शण देवता विन्यस्य बिंदुचक्र एव वक्ष्यमाण प्रकारेण चतुःसमय देवताः विन्यस्य तुरीय विद्यया सर्वांगे व्यापकं विन्य * ततो मूलविद्यामुच्चार्य महोड्यानपीठनिलय सर्वचक्रेश्वरी ध्यात पंच श्रीपंचकोश पंचकल्पलता पंचकामदुघा पंचरत्न वृंदमंडितासन संस्थित सर्वदर्शनशेवित षडंग युवतीस्तुत चतुःसमय देवता पूजित महासौभाग्य जनन महामोक्षप्रद शून्याशून्य विवर्जित सशक्ति सच्चिदानंद परब्रह्म श्रीमन्महात्रिपुरसुंदरी श्रीपादुकायै नम प्. ८५अ) इति मूर्द्धादि पादपर्यंतं त्रिर्व्यापकं न्यसेत् । ततो ब्रह्मरंध्रे स्वगुरुपादुका विन्यस्य मूलाधारे स्वगुरु कृत स्वनाम विन्यस्य तत्रैव महाकामकला ध्यानं कुर्यात् ।। इति संहार श्रीचक्रन्यासः ।। अथ सृष्टि श्रीचक्रन्यासः ।। तत्र शिरसि ४ त्रिकोणं विभाव्य । ओं ऐं ह्रीं श्रीं तुरीयविद्यामुच्चार्य । सर्वानंदमय महाचक्राय नमः । बिंदुचक्राय नमः ।। इति व्यापकं विन्यस्य । तत्र शिरस्त्रिकोणस्थ महाबिंदौ तुरीयविद्यामुच्चार्य ब्रह्मचक्रे श्रीमहोड्याणपीठे इत्यादि पूर्ववद्विन्यस्य । भ्रूमध्ये मूलविद्याच्चार्य प्राग्वत् तामेव चक्रेश्वरीं विन्यस्य तद्दक्षिण वामपार्श्वयोः प्राप्ति सिद्धिं सर्वकामसिद्धिं योनिमुद्रां त्रिखंडा मुद्रां प्राग्वत् विन्यस्य ४ एषा परापराति रहस्य योगिनीः सर्वानंदमये महाचक्रे इत्यादि प्राग्वत् व्यापकं विन्यसेत् ऐं योनि मुद्रां द० इति बिंदुचक्रन्यासः ।। ततः शिरस्त्रिकोणस्य पृष्ठभागे रेखात्रयं विभाव्य तत्र पूजा प्रकरणं वक्षमाण गुरुपंक्ति त्रयं न्यस्येत् । ततो मातृकायाः षोडशस्वरन्यासस्थानेषु प्रणव त्रितारादि चतुर्थी नमों तत्तत्तन्नित्या नामांत प्. ८५ब्) तया तत्तन्नित्या विद्यया नित्या षोडशकं विन्यस्य ४ हस्रैं हसकलरीं हस्रौः सर्वसिद्धिप्रदचक्राय नमः । अंतरालचक्राय नमः ।। इति व्यापकं विन्यस्य । त्रिकोणाष्टकोणयोरंतरालबुध्या प्रागुक्ता आयुध देवत्य न्यसेत् । तद्यथा ।। दक्षनेत्रे । ४ द्रां द्रीं क्लीं ब्लूं सः जंभनेभ्यः कामेश्वर बाणेभ्यो नमः ।। वामने यां रां लां वां सां जंभनेभ्यः कामेश्वरी बाणेभ्यो नमः । दक्षभ्रुवि ४ धं मोहनाय कामेश्वर चापाय नमः । वामभ्रुवि ४ थं मोहनाय कामेश्वरी चापा नमः । दक्ष कर्णे ४ आं वशीकरणाय कामेश्वर पाशाय नमः । वामकर्णे ४ ह्रीं वशीकरणाय कामेश्वरी पाशाय नमः ।। दक्षनासायां ४ क्रों स्तंभनाय कामेश्वरां कुशाय नमः । वामनासायां ४ क्रों स्तंभनाय कामेश्वर्यं कुशाय नमः । इत्यायुध देवताः विन्यस्य त्रिकोणस्य कोणत्रये पूर्वोक्त कामेश्वर्यादि देवी त्रयं प्राग्वद्विन्यस्य । हृदये प्राग्वत् त्रिपुरांबिका चक्रेश्वरीं विन्यस्य तद्वक्ष वामयोरिछासिद्धिं बीजमुद्रां च विन्यस्य ४ एताः परापर रहस्य योगिन्यः सर्वसिद्धिप्रदे चक्रे समुद्रा इत्यादि व्यापक कुर्यात् । २ ततः ४ ह्रीं श्रीं सौः सर्वरोग हर चक्राय नमः । अष्टारचक्राय नमः ।। इति व्यापकं विन्यस्य । प्. ८६अ) शिरःपुरोभागमारभ्य मुंडमाला क्रमेणष्टसु स्थानेषु पूर्वोक्त वशिन्यादि वाग्वे देवताष्टकं विन्यस्य ।। मणिपूरक चक्रे पूर्वोक्तां त्रिपुरा सिद्धा चक्रेश्वरी विन्यस्य तदक्ष वामयोर्भुक्ति सिद्धिं खेचरी मुद्रां च विन्यस्य । ४ एताः रहस्य योगिन्यः सर्वरोग हरे चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् । २ ततः ४ ह्रीं क्लीं ब्लें सर्वरक्षाकर चक्राय नमः । इति व्यापकं विन्यस्य । दक्षनेत्र मूल तदपांग दक्षश्रोत्र तत्पृष्ठ चूडा कूपस्य दक्षपार्श्व वामपार्श्व वामश्रोत्रपृष्ठ वामश्रोत्र वामापांग वामनेत्र मूलेषु दसुस्थानेषु प्रागुक्त सर्वज्ञादि दशशक्तिर्विन्यस्य । स्वाधिष्ठाने चक्रे पूर्वोक्तां । त्रिपुरमालिनीं चक्रेश्वरीं विन्यस्य तदक्ष वामयोः प्राक्राम्य सिद्धिं महांकुशा मुद्रां च प्राग्वद्विन्यस्य ४ एतानि गर्भ योगिन्यः सर्वरक्षाकरे चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् ४ ततः ४ हसैं हस्क्लीं हसौः इति व्यापकं विन्यस्य । कंठे विशुद्धि चक्रे षोडश दलेषु एकस्मिन्नेकाशक्तिः त्रये दलेप्येकाशक्तिः इत्येवं क्रमे सप्तमी शक्ति पर्यंतं विन्यस्यावशिष्टदलत्रये शेषशक्ति प्. ८६ब्) त्रयं न्यसेदिति प्रादक्षिण्येन सर्वसिद्धि प्रदादि दशशक्तीर्विन्यस्य । मूलाधारे त्रिपुराचक्रेश्वरीं प्राग्वद्विन्यस्य तदक्ष वामयोर्वशित्व सिद्धिमुन्मादिनी मुद्रां च प्राग्वद्विन्यस्य ४ एताः कुलकौलयोगिन्यः सर्वार्थ साधक चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् । ४ हैं हक्लीं हसौः सर्वसौभाग्यदायक चक्राय नमः । इति व्यापकं विन्यस्य । हृदय अनाहत चक्रे द्वादशदलकमले दशदलेषु सर्वसंक्षोभण्यादि दशशक्तिर्विन्यस्यांतिमदल द्वये प्रतिदलं शक्ति द्वयं शक्ति द्वयमिति शिष्टशक्ति चतुष्टयं न्यसेदिति चतुर्दशशक्तिर्विन्यस्य । ऊतद्वये पूर्वोक्तां त्रिपुरवासिनीं चक्रेश्वरीं प्राग्वद्विन्यस्य तद्दक्षवामयोरीशित्वसिद्धिं वश्यमुद्रां च प्राग्वद्विन्यस्य ४ एताः संप्रदाय योगिन्यः सर्वसौभाग्यदायक चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् ।। ४ ततः ह्रीं क्लीं सौः सर्वसंक्षोभण चक्राय नमः इति व्यापकं विन्यस्य । पृष्ठवंश वामपार्श्वोदरयोर्मध्ये उदर दक्षिण पार्श्वेषु (र्मध्य दक्षिण पार्श्वपृष्ठवंशयोर्मध्ये) चतुष्ट स्थानेषु पूर्वोक्तानंग कुसुमाद्याश्चतुःशाक्तीर्विन्यस्य पृष्ठवामपार्श्वयोर्मध्ये वामपार्श्वोदरयोर्मध्य उदर दक्षिण पार्श्वयोर्मध्ये दक्षिणपार्श्व प्. ८७अ) पृष्ठवंशयोर्मध्ये च स्थानचतुष्टये अनंगरेखादि चतुःशक्तीर्विन्यस्य । जानुद्वये पूर्वोक्तां त्रिपुरसुंदरीं चक्रेश्वरीं पूर्ववद्विन्यस्य तद्दक्षवामपार्श्वयोर्महिमासिद्धिं आकर्षणी मुद्रां च विन्यस्य ४ एताः गुप्ततर योगिन्यः सर्वसंक्षोभकरे चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् ।। ९ ततः ४ ऐं क्लीं सौः सर्वाशापरिपूरकचक्राय नमः इति व्यापकं विन्यस्य । स्वाधिष्ठाने षट्दलकमले स्वाग्रादि प्रादक्षिण्येन पंचसु दलेषु प्रतिदलं शक्ति त्रयमंतिमदले त्वेकां शक्तिमिति कामाकर्षिण्यादि षोडशशक्तीर्विन्यस्य । जंघयोः पूर्वोक्तां त्रिपुरेश्वरीं विन्य * तद्दक्ष वामयोर्लघिमासिद्धिं द्राविणी मुद्रां च विन्यस्य ४ एताः गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्रा इत्यादि व्यापकं न्यसेत् । ८ । ततः ४ अं आं सौः त्रैलोक्य मोहचक्रायः । इति व्यापकं विन्यस्य । अंतश्चतुरस्र रेखायै नम इति व्यापकं विन्यस्य ।। मूलाधारे चतुर्दल कमलस्य दलचतुष्टये तदंतराल चतुष्टये च पूर्वदलेशानांतरालयोर्मध्ये पश्चिमदले नैर्-ऋत्यंतरालयोर्मध्ये च पूर्वोक्त सर्वसंक्षोभण्यादि मुद्रादशकं न्यसेत् । प्. ८७ब्) ततः ४ चतुरस्र मध्यरेखायै नम इति व्यापकं विन्यस्य । दक्षजंघायां दिग्विदि क्रमेण पूर्वोक्ता ब्राह्म्याद्यष्टशक्तीर्न्यसेत् । ततः ४ बाह्य चतुरस्ररेखायै नम इति व्यापकं विन्यस्य । वामजंघायां दिग्विदि क्रमेण पूर्वोक्ताणिमादि सिध्यष्टकं विन्यस्य । दक्षपादे प्राप्ति सिद्धिं वामपादे सर्वकामसिद्धिं च विन्यस्य । पादद्वये प्राग्वत् त्रिपुरा चक्रेश्वरीं विन्यस्य तद्दक्षवामयोरणिमासिद्धिं सर्वसंक्षोभिणी मुद्रां च विन्यस्य ४ एताः प्रकट योगिन्यः त्रैलोक्य मोहने चक्रे समुद्रा इत्यादि व्यापकं विन्यस्य सरश्मिक श्रीमहात्रिपुरसुंदर्य भेदेन स्वात्मानं ध्यायेत् ।। इति सृष्टि श्रीचक्रन्यासः ।। अथ स्थिति श्रीचक्रन्यासः ।। स च विद्याचक्र चक्रेश्वरीत्यंग त्रयात्मकः । तत्र प्रथमं संप्रदायात् पूर्ववत् करशुद्धि विद्यया अं आं सौः करशुद्धिं विधाय तथैवतां विन्यस्य तथैव ह्रीं क्लीं सौः आत्मरक्षां कृत्वा न्यासमारभेत् । तत्रादौ त्रिर्विध मूलविद्यान्यासः । स यथा ।। मूर्द्ध्नि ४ प्रथमकूटं नमः । गुह्ये ४ द्वितीय कूटं नमः ।। हृदये ४ तृतीय कूटं नमः । दक्षनेत्रे ४ प्रथम कू० । वामनेत्रे ४ द्वितीय कू० । भाले ४ तृतीय कू० । दक्षकर्णे ४ प्र० कू० । प्. ८८अ) वामकर्णे ४ द्वि० कू० । मुखे ४ तृ० कु० । दक्षांसे ४ प्र० कू० । वामांसे ४ द्वि० । कू० । पृष्ठे ४ तृती० । कू० । दक्षजानुनि ४ प्र० । कू० । वामजानुनि ४ द्विती० । कू० । नाभौ ४ तृ० कू० । नमः । इति मूलविद्या कूटन्यासः ।। मूर्द्ध्नि ४ कं नमः । गुह्यै ४ एं नमः । हृदये ४ ईं दक्षनेत्रे लं० । ४ वामनेत्रे ४ ह्रीं नमः । भालनेत्रे ४ हं नमः ।। दक्षकर्णे ४ सं नमः वामकर्णे ४ कं नमः । मुखे ४ हं नमः । दक्षभुजे ४ लं नमः । वामभुजे ४ ह्रीं नमः । पृष्ठे ४ सं नमः । दक्षजानुनि ४ कं नमः । वामजानुनी ४ लं नमः । नाभौ ४ ह्रीं नमः । इत्यक्षरन्यासः । समस्त मूलविद्यां प्रणवतारादि नमोंतां मूर्द्धादि नाभ्यंत पंचदश पूर्वोक्तेषु प्रत्येकं २ न्यसेदिति त्रिविधः । पादयोः ४ अं आं सौः नमः । जंघयोः ४ ऐं क्लीं सौः नमः । जन्वोः ४ ह्रीं क्ली सौः नमः । उर्वोः ४ हैं हस्क्लीं हसौः नमः । स्पिच्योः ४ हसैं हस्क्लीं हसौः नमः । लिंगाग्रे ४ ह्रीं क्लीं ब्लें नमः । मूलाधारे ४ ह्रीं श्रीं सौः । नमः । इति मूर्तिविद्यां विन्यस्य । २ हं क्ली २ अनाहते वा हस्रैं हस्क्लीं हस्रौः नम इत्या वाहनी वीद्यां विन्य * । ४ हसकलरडैं हसकलरडीं हसकलरडौः नमः । ब्रह्मरंध्रे । ततो ४ मूलविद्याया मूर्द्धादि पादांतं पादादि हृदयांतं च व्यापकं न्यसेत् ।। ततो मूलाधारे ४ ऐं क्लीं सौः । प्. ८८ब्) सर्वाशापरिपूरक चक्राय नमः स्वाधि ४ ष्ठाने । ४ ह्रीं क्लीं सौः । सर्वसंक्षोभणचक्राय नमः ।। मणिपूरके ४ ४ है हक्लीं हसौः सर्वसौभाग्यदायक चक्राय नमः ।। अनाहते ४ हसैं हस्क्लीं हसौः सर्वार्थसाधक चक्राय नमः ।। विशुद्धिचक्रे ४ ह्रीं क्लीं ब्लें सर्वरक्षारचक्राय नमः । लंबिकाग्रे ४ ह्रीं श्रीं सौः सर्वरोगहरचक्राय नमः । आज्ञाया ४ हस्रैं हस्क्लीं हस्रौः सर्वसिद्धिप्रद चक्राय नमः । बिंदौ ४ मूल पंचदशाक्षरीमुच्चार्य सर्वानंदमय श्रीमहाचक्राय नमः ।। इति नवचक्राणि विन्यस्य नवचक्रेश्वरी न्यासं कुर्यात् ।। तत्र मूलाधाराधः प्राक् न्यस्तत्रैलोक्य मोहनचक्रे ४ अं आं सौः त्रिपुराचक्रेश्वर्यै नमः । मूलाधारस्थ सर्वाशापरिपूरकचक्रे ४ ऐं क्लीं सौः त्रिपुरेश्वरी चक्रेश्वर्यै नमः । स्वाधिष्ठान स्थित सर्वसंक्षोभण चक्रे ४ ह्रीं क्लीं सौः । त्रिपुरसुंदरी चक्रेश्वर्यै नमः । मणिपूर स्थित सर्वसौभाग्यदायक चक्रे ४ है हक्लीं हसौः । त्रिपुरवासिनी चक्रेश्वर्यै नमः ।। अनाहतस्थ सर्वार्थसाधकचक्रे ४ हसौं हस्क्लीं हसौः त्रिपुरा श्रीचक्रेश्वर्यै नमः । विशुद्धि स्थित सर्वरक्षाकर चक्रे ४ ह्रीं क्लीं ब्लें त्रिपुरमालिनीचक्रेश्वर्यै नमः ।। प्. ८९अ) लंबिकाग्र स्थित सर्वरोगहर चक्रे ४ ह्रीं श्रीं सौः त्रिपुरा सिद्धा चक्रेश्वर्यै नमः ।। आज्ञा चक्रस्थ सर्वसिद्धि प्रदचक्रे ४ हस्रैं हसकलरीं हस्रौः त्रिपुरांबिका चक्रेश्वर्यै नमः । महाबिंदुस्थ बिंदुचक्रे ४ मुल पंचदशाक्षरीमुच्चार्य महात्रिपुरसुंदरी महाचक्रेश्वरी श्रीपादुकायै नमः ।। इति विन्य तत्तच्चक्रं परस्परसंलग्नं तत्तच्चक्रेश्वर्यधिष्ठितं सम्यक् ध्यात्वा पुनः करशुद्धि विधाय त्रिपुरसुंदर्यात्म रक्षां कृत्वा पूर्वोक्त षडंगं विन्यस्य ४ वाग्भवं मूलाधारे ४ कामराजं हृदये ४ तृतीयं भ्रूमध्ये ४ तुरीय विद्यां ब्रह्मरंध्रे च विन्यस्य ४ समस्त प्रकट गुप्त गुप्ततर संप्रदाय कुलकौलनिगर्भरहस्य परापर रहस्य परापराति रहस्य श्रीचक्र योगिनी श्रीपादुकाभ्यो नम इति स्वशरीरं श्रीचक्ररूपं ध्यायन् । व्यापकं कुर्यात् ।। इति श्री स्थिति श्रीचक्रन्यासः ।। अथ श्रीचक्रन्यासफलं ।। तत्र रुद्रयामले ।। य एवं विन्यसेद्देहे साधक स्थिर मानसः । विमुच्य मानुषं भावं ससद्यः शिवतां व्रजेत् ।। १ ।। त्रिकालं धारयेद् यस्तु तस्य सर्वांगसंगतं ।। सततं भासते देवि समस्तं योगिनी पदं ।। २ ।। प्. ८९ब्) धरणी क्षेत्रतां याति यावद् द्वादशयोजनं ।। एतत्ते कथितं भद्रे न्यासं त्रैलोक्य दुर्लभं ।। ३ ।। शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् । भ्रष्टेभ्यः साधकेभ्यो वा बांधवेभ्यो न दर्शयेत् ।। ४ ।। दत्तं चेत्सिद्धि हानिः स्यादित्याज्ञा शांकरी मता ।। मंत्राः पराऽऽन्मुखायांति क्रुद्धा भवति सुंदरी ।। ५ ।। अशुभं च भवेत् तस्य तस्माद्यत्नेन गोपयेत् ।। इति त्रिविध श्रीचक्रन्यासः ।। श्रीविद्यानंदनाथेन शिवयों प्रियसूनुना ।। कृते सौभाग्यरत्नाब्धौ तरंगः सप्तमो गमत् ।। १ ।। इति श्रीसच्चिदानंदनाथाचरणारंविंदद्वद्वांते वाशिना श्रीश्रीविद्यानंदनाथेनविरचिते सौभाग्यरत्नाकरे सप्तमस्तरंगः ।। ७ ।। अथ करशुद्ध्यादिन्यासः ।। तत्र प्रथमं प्रागुक्त प्रथम चक्रेश्वरी विद्यया प्राग्वत् करयोः स्थिति क्रमेण मध्यमादितलांतं विन्यस्यासनं न्यासं कुर्यात् ।। स च द्विविधः ।। चतुरासन न्यासः षडासन न्यासश्चेति ।। तत्रादौ चतुरासनन्यासः ।। सयथा ।। पादयोः ४ ह्रीं क्लीं सौः त्रिपुरसुंदरी देव्यात्मासनाय नमः । प्. ९०अ) जंघयोः ४ हैं हक्लीं हसौः त्रिपुरावासिनी सर्वचक्रासनाय नमः ।। जान्वोः ४ हसैं हसकलीं हसौः त्रिपुरा सर्वमंत्रासनाय नमः ।। मूलाधारे ४ ह्रीं क्लीं ब्लें त्रिपुरमालिनी साध्यसिद्धासनाय नमः ।। इति चतुरासनन्यासः ।। अथ षडासनन्यासः ।। तत्र पादयोः । ४ अं आं सौः त्रिपुरासुधार्णवासनाय नमः । जान्वोः । ४ एं क्लीं सौः त्रिपुरेश्वरी योतांबुजासनाय नमः ।। ऊर्वोः । ४ ह्रीं क्लीं सौः त्रिपुरसुंदरी देव्यात्मासनाय नमः ।। स्फिच्योः ।। ४ हैं हक्लीं हसौः त्रिपुरवासिनी सर्वचक्रासनाय नमः ।। गुदे ४ हसैं हस्क्लीं हसौः त्रिपुरा श्रीसर्वमंत्रासनाय नमः ।। मूलाधारे ४ ह्रीं क्लीं ब्लें त्रिपुरमालिनी साध्यसिद्धासनाय नमः । इति षडासनन्यासः । अथ षडंगन्यासः ।। स च त्रिविधः । रक्षाषडंगन्यासो मूलविद्या षडंगन्यासः षडंग युवतीन्यासश्चेति ।। तत्रादौ रक्षाषडंगन्यासः ।। स यथा ।। ४ एं क्लीं सौः नमस्त्रिपुरसुंदरी मां रक्ष रक्ष हृदयाय नमः । एवं षडंगेषु तत्तन्मुद्रया सहतत्तन्मंत्रेण सह न्यसेत् ।। अथ मूल षडंगन्यासः । स च मूल कूटत्रयस्य द्विरावृत्या षडंगस्थानेषु प्राग्वन्यासो ज्ञेयः ।। प्. ९०ब्) षोडशार्णो पासकैस्तु आद्यबीज पंचकेन हृदयं । तदुत्तर बीज त्रयेण शिरः । तदूर्ध्वगत कूटत्रयेण शिखादि नेत्रांतमंगत्रयं ।। अंतिम बीजपंचकेनास्त्रमिति मूल षडंगन्यासः कार्यः ।। अथ षडंगयुवतीन्यासः ।। स च द्विविधः । बालामूल विद्ययोर्योग भेदात् ।। तत्रादौ बालायोगन्यासः । तत्र ४ एं सर्वज्ञायै हृदयाय नमः । ४ क्लीं नित्यतृप्तायै शिरसे स्वाहा ।। ४ सौः अनादिबोधायै शिखायै वषट् । ४ एं स्वतंत्रायै कवचाय हुं ।। ४ क्लीं नित्यमलुप्तायै नेत्रत्रयाय वौषट् षट् ।। ४ सौः अंनंतायै अस्त्राय फट् । अथ मूल षडंग युवतीन्यासः ।। तत्र ४ प्रथमकूटं श्रीमहात्रिपुरसुंदरि सर्वज्ञता शक्तिधाम्ने हृदयाय नमः । ४ द्वितीय कूटं श्रीमहात्रिपुरसुंदरि नित्यतृप्ति शक्तिधाम्ने शिरसे स्वाहा ।। ४ तृतीय कूटं श्रीमहात्रिपुरसुंदरि अनादि बोध शक्ति धाम्ने शिखायै वषट् । ४ पुनराद्यं कूटं श्रीमहात्रिपुरसुंदरी स्वतंत्रशक्तिधाम्ने कवचाय हं ।। ४ द्वितीय कूटं । श्रीमहात्रिपुरसुंदरि नित्यमलुप्त शक्तिधाम्ने नेत्रत्रयाय वौषट् ४ तृतीय कूटं श्रीमहात्रिपुरसुंदरि अनंतशक्ति धाम्ने अस्त्राय फट् ।। प्. ९१अ) इति षडंग युवतीन्यासः ।। अथ कामकलापारंपर्यन्यासः ।। तत्र प्रथमं प्राग्वत् स्वशिरसि गुरु पादुकां ध्यात्वा संपूज्य प्रणम्य दक्षांसे ४ प्रथम कूटं हंसः प्रकाशचरणाभ्यां नमः ।। वामांसे ४ द्वितीय कूटं सोहं विमर्श चरणाभ्यां नमः । हृदये ४ तृतीय कूटं हंसः सोहं प्रकाशविमर्शचरणाभ्यां नमः ।। मूर्द्ध्नि ४ तुरीय विद्यामुच्चार्य हंसः शिवः सोहं निर्वाण चरणाभ्यां नमः ।। इति कृतांजलिश्चरण चतुष्टयं प्रणम्य ।। कामकलापारंपर्यन्यासस्य । ४ कामेश्वर ऋषिः ४ पंक्तिछंदः ४ परसंवित्कला श्रीमहात्रिपुरसुंदरी देवता० श्रीपरदेवता प्रसाद सिध्यर्थे विनियोगः । इति ऋष्यादिकं स्मृत्वा विन्यस्य । ४ आमित्यादि षट्दीर्घस्वरैः करषडंगन्यासं कृत्वा प्रणवसंपुटितया कामकलारूपया श्रीमूलविद्यव्यापकं विन्यस्य ध्यानं कुर्यात् ।। तद्यथा ।। प्रकाश मध्य स्थित विश्वरूपां वराभये संदधतीं त्रिनेत्रां ।। सिंदूर वार्णामति कोमलांगीं मायामयीं तत्वमयीमुपासे ।। १ ।। इति ध्यात्वा मूलादि ब्रह्मरंध्रांतं श्रीमूल पंचदशाक्षरी प्रागुक्त रूपां ध्यात्वा तस्या एकैकाक्षरलयेन तुर्यस्वर रूपामंतिमकलां प्. ९१ब्) ब्रह्मरंध्रगतामवशेषयेत् । ततस्तामेव पंचदशाक्षर गर्भां स्वात्मानुभवरूप सच्चिदानंदरूपिणीं तुर्यस्वरत्वेन परिणतां कामकलां नाभौ ध्यायन्न्यसेत् ।। तत्र नाभौ ४ ईं नमः । इत्यंगुष्ठ तर्जनी मध्यमा नामाभिर्न्यसेत् । ततो नाभेर्वामपार्श्वे ४ सच्चिदानंद परमसंवित् ईं नमः । नाभेर्दक्षे ४ सच्चिदानंद परमसंवित् ईं नमः । इत्येतद्वयं मध्यमानामांगुष्ठैर्न्यसेत् ।। ततश्चरण चतुष्टयं न्यासः । तत्र शिरसि त्रिकोणस्याग्रकोणे ४ ईं प्रथम कूटं हंसः प्रकाशचरणाभ्यां नमः । वामकोणे ४ ईं द्वितीय कूटं सोहं विमर्शचरणाभ्यां नमः । दक्षणे कोणे ४ तृतीय कूटं हंसः सोहं प्रकाशविमर्श चरणाभ्यां नमः । मध्ये ४ तुर्यविद्यामुच्चार्य हंसः शिवः सोहं निर्वाणचरणाभ्यां नमः ।। इति चरण चतुष्टयं शिवशक्त्यात्मक दक्षिणवामकर धृतसंघट मुद्रया विन्य ततस्त्रिकोण पृष्ठरेखायां ४ सकलानंदनाथ श्रीपादुकां पूजयामि नमः । ४ निष्कलांनंदनाथ श्रीपादुकां पूजयामि नमः । ४ नवात्मानंदनाथ श्रीपादुकां पूजयामि ४ अकूरानंदनाथ श्रीपादुकां पू० । इति गुरु चतुष्टयं पंक्ति क्रमेण स्वदक्षिणादि वामांतं विन्यस्य । शिरस्त्रिकोण मध्ये ४ ईं परमसंवित्कला श्रीमहात्रिपुरसुंदरी श्रीपादुकां पू० । मुखमंडले ४ ईं सपरार्द्ध कलानंदनाथोर्ध्व बिंदुवक्राय नमः । प्. ९२अ) स्तनद्वये ४ ईं सपरार्द्ध कलानंदनाथाधो बिंदुद्वयस्तनाय नमः ।। इत्येतद्वयमंगुष्ठमध्यमानामिकाभिर्विन्यस्य । योनिस्थाने ४ ईं सपरार्द्ध कलानंदनाथ व्यंजितरेखा योनये नमः ।। इति योनिमुद्रयान्यसेत् ।। ततः प्रागुक्त ऋष्यान्यासान् षडंग कर ऋष्यादि क्रमेण वैपरीत्येन प्रथमं षडंगन्यासः पश्चात् करन्यासः पश्चादृष्यादिरिति विन्यस्य पूरोक्त भगवती रूपं स्वात्मानं ध्यात्वा यथाशक्ति वामकला विद्यां जपेदिति कामकला पारंपर्य न्यासः । अथांतः कामकलान्यासः ।। स च परापश्यंती मध्यमा वैखरी भेदाच्चतुर्विधः । तत्रादौ परान्यासः । स यथा ।। ब्रह्मरंध्रे अरुणाधो मुख सहस्रदलकमलकर्णिकायामरुणं पूर्णचंद्रमंडलं विभाव्य तन्मध्ये उद्यदादित्य संकाशं स्वशिखा मूलाग्रं शृंगाटं ध्यात्वा तदंतर्गतमकथादि क्रमेण समस्ताक्षरमयमकुलासनं वाग्भवं ध्यात्वा तन्मध्ये हक्ष पाश्वमादि वर्णकदंबकं दीप्तमवर्ण रूपमनुत्तर मनत्कंतरहात्मकं विचिंत्य तन्मध्यादुद्यंतीं बिसतंतु निभांसितां हार्द्ध कला रूपिणीमकुल कुंडलिनीं मूल शृंगाटक प्. ९२ब्) मध्य पर्यंतमछिन्नां महाकामकलाममृतकुंडलिनीं ध्यात्वा मुलाधारे चतुर्दल कमल कर्णिकायामपि वह्नि मंडले त्रिकोणस्याग्रकोणाग्रं पूर्ववत् शृगाटं ध्यात्वा तदंतः पूर्ववद्वाग्भवं कुलासनं विभाव्य तत्र पूर्वोक्त मनत्कं विविंत्य तन्मध्यादुघंतीं सपरार्द्ध कलामयीमग्निकुंडलिनीं कामकलां ज्वलदग्निनिभां मध्यमार्गं प्रविश्य ग्रंथि संचयं भित्वा तद कुल पदावध्यूर्द्धं प्राप्तां ध्यात्वा अकुलां बुधि मध्यगत दंडाकारतरदंडलींगेन प्रवेशयित्वा तयोरमृतानल कुंडलिंन्योर्योनिलिंगरूपयोर्मथनसंभवैर्निरंतरनिबिडस्रवदरुणा- मृतपूरैरात्मानं सिक्तं ध्यात्वा पूरयित्वा तयोः सामरस्यादेकनादरूपिणीं परांशक्ति आत्मानं च भावयेत् ।। इति परान्यासः ।। तरल क्षणं तु भैरवयामले ।। तरस्थंतरमध्यस्थंतरस्थतरमध्यगं ।। तरंतरंडमध्यस्थं योजानाति सकैलिकः ।। १ ।। शीर्षपाणि चरणैर्विवर्जितं ह्यक्षरं भवरुजापहं परं ।। यस्य हृत्कुहरगं सुवर्तत्ते तेन मृत्युरपि भस्मसात्कृतः ।। २ ।। प्. ९३अ) शैवं चैव तथा शाक्तं सामरस्यं तु मध्यमं ।। एकीभूतं यदा काले तदा तद्वर्णमुत्तमं ।। ३ ।। शून्यात्प्रसरमुत्पन्नं प्रसरोत्थमकालकं ।। अकालात्तत्वमुत्पन्नं विश्वं यत् पंचधा स्थितं ।। ४ ।। ध्यान स्थान विहीनो यो रूपोच्चारविवर्जितः ।। अनाहतो नदत्यंतर्मुखान्मुख पदे स्थितः ।। ५ ।। धाम त्रयाद्विरहितो योगेशीनां मुखे स्थितः । सत्यं तु कथितं ताभिः स्वयं मुच्चरते तु सः ।। ६ ।। शून्या छंभुस्ततः शक्तिः शक्तेर्धाम त्रयात्मकं ।। प्रभवेच्च ततः सर्वमादिवर्णकदंबकं ।। ७ ।। अनुत्तरं तदेवोक्तं सद्यः कौलिक सिद्धिदं ।। तरहं च तदेवस्याच्चंद्रमास्कर मध्यगं ।। ८ ।। तकारः सोमधामस्याद्यो रेफः स तु भास्करः । दंडवद्रमते वह्निरेकीभूतं तदात्मक ।। ९ ।। इति ।। अथ पश्यंती न्यासः ।। तत्र प्रागुक्ताकुलपद्मे ब्रह्मरंध्रे ब्रह्मरसभरितमाद्यवर्ण कदंबकं ध्यात्वा तत्सामरस्यादेकादशरूपं पश्यंती रसभरितं स्मृत्वा न्यसेत् ।। तत्र शिरसि स्वाभिमुखाग्रं त्रिकोणं विभाव्य तस्य अग्रादि वामावर्तेन वामरेखाग्रादि दक्षिणरेखाग्रपर्यंतं त्रिकं पंचकं ।। प्. ९३ब्) इति क्रमेण वामाद्येकादश कलान्यसेत् ।। तद्यथा ।। ४ वामायै नमः ।। ४ ज्येष्ठायै नमः । ४ रौद्र्यै नमः ।। इति वामरेखायां ।। ४ अंबिकायै नमः । ४ इछायै नमः । ४ ज्ञानायै नमः । ४ क्रियायै नमः ।। ४ शांतायै नमः । इति पृष्ठरेखायां ।। ४ अकारात्मिकायै नमः । हकारात्मिकायै नमः । अहरसात्मिकायै नमः । इति दक्षिणरेखायां न्यसेत् । इति पश्यती न्यासः । अथ मध्यमा न्यासः ।। स च द्विविधः । सूक्ष्मस्थूल भेदात् ।। तत्र ब्रह्मरंध्रे ४ अनत्कात्मने अविकृतनादाय नमः ।। ललाटे ४ अकारात्मने शून्यनादाय नमः ।। आज्ञाचक्रे ४ अं बिंदुद्वयात्मन स्पर्शनादाय नमः ।। लंबिकाग्रे ४ षट्कोणात्मने नादनादाय नमः ।। विशुद्धौ ४ अर्द्धचंद्रात्मने ध्वनिनादाय नमः ।। हृदये ४ वृत्तात्मने बिंदुनादाय नमः ।। नाभौ मणिपुरके ४ एकारात्मने शक्तिनादाय नमः ।। स्वाधिष्ठाने ४ इंद्वात्मने बीजनादाय नमः ।। मूलाधारे ४ हंसात्मने अक्षरनादाय नमः ।। इति सूक्ष्ममध्यमा न्यासः । अथ स्थूलमध्यमा न्यासः ।। तत्र बह्मरंध्रे ४ अं इं उं ऋं ऌं नमः । ललाटे ४ एं ऐं ओं औं नमः । भ्रूमध्ये ४ हं यं रं वं लं नमः । लंबिकाग्रे ४ ऽऽनं ञं णं नं मं नमः । प्. ९४अ) विशुद्धौ ४ कं चं टं तं पं नमः । हृदि ४ खं छं ठं थं फं नमः । नाभौ ४ घं झं ढं धं भं नमः । स्वाधिष्ठाने ४ गं जं डं दं बं नमः । मूलाधारे ४ शं षं सं नमः । इति मध्यमा न्यासः । अथ वैखरी न्यासः । तत्र षडाधारं गुणत्रयेण त्रिधाविभज्य त्रिबीज संगतं कुर्यात् ।। तद्यथा ।। यथोक्त रूपाणि मूलाधाराद्याज्ञांतानि षट्चक्राणि ध्यात्वा । तत्र वसबलाब्जयोर्मूलविद्यायावाग्भवं विद्युत्प्रभं विचिंत्य तद्दलेषु स्वाग्रादि प्रादक्षिण्येन तद्वर्णान् शिवशक्ति योगेन न्यसेत् ।। तद्यथा ।। ४ वहसैं नमः ।। ४ श है सं नमः ४ ष है सं नमः । ४ स ह सैं नमः । इति मूलाधारे ।। ततः ४ ब ह सैं नमः । ४ भहसैं नमः ४ म ह सैं नमः । ४ य ह सैं नमः ।। ४ र ह सैं नमः । ४ ल ह सैं नमः ।। इति स्वाधिष्ठाने ।। ततो ड फ कटाब्जयोः कामराजकूटं रक्तवर्णं ध्यात्वा तद्बलेषु तद्वर्णान् पूर्ववत् न्यसेत् ।। तद्यथा ।। मणिपूरे दशदलेषु पूर्वादि प्रादक्षिण्येन ४ डहसैं नमः । ४ ढ ह सीं नमः । ४ ण ह सीं नमः । ४ त ह सीं नमः ।। ४ थ ह सीं नमः । ४ द ह सीं नमः । ४ ध ह सीं नमः । ४ न ह सीं नमः । ४ प ह सीं नमः । ४ फ ह सीं नमः इति मणिपूरे प्. ९४ब्) ततो अनाहते द्वादशदलेषु स्वाग्रादि प्रादक्षिण्येन ४ क ह सीं नमः । ४ ख ह सीं नमः ।। ४ ग ह सीं नमः ।। ४ घ ह सीं नमः । ४ ऽऽन ह सीं नमः । ४ च ह सीं नमः । ४ छ ह सीं नमः । ४ ज ह सीं नमः । ४ झ ह सीं नमः । ४ ञ ह सीं नमः । ४ ट ह सीं नमः । ४ ठ ह सीं नमः । ततो अवर्ग हक्षाब्जयोस्तार्तीय कूटं शुक्लवर्ण ध्यात्वा तद्बलेषु न्यसेत् ।। तद्यथा ।। ४ अ ह सौः नमः । ४ आ ह सौः नमः । ४ इ ह सौं नमः । ४ ई ह सौः । ४ उ ह सौः नमः । ४ ऊ ह सौः नमः । ४ ऋ ह सौः नमः । ४ ॠ ह सौः नमः । ४ ऌ ह सौः नमः । ४ ॡ ह सौः नमः ।। ४ ए ह सौः नमः । ४ ऐ ह सौः नमः । ४ ओ ह सौः नमः । ४ औ ह सौः नमः ।। ४ अं ह सौः नमः । ४ अः ह सौः नमः । इति विशुद्धौ ततो भ्रूमध्ये आज्ञाब्जस्य दक्षवामदलयोः ४ ह ह सौः नमः । ४ क्ष ह सौः नमः ।। इति वैख * न्यासं विधायांतः सुधासिक्तं पद्मराग प्रभं वर्ण कदंबकं ध्यायेत् ।। इति वैखरी न्यासः ।। अथ अंतकामकाला न्यासः ।। ४ हस्रैं ह स क्लीं हस्रौः इति पंचकूट विद्यया त्रिखंडामुद्रां बध्वा विन्यस्य चित्सुधा वृष्टिसेकादुज्वलितप्रभान् वर्णान् ध्यात्वा षडाधारेष्वेतैरंतस्तमोदहन् इत्यावाह्य कामकलारूपां देवीमात्मनि भावयेत् ।। प्. ९५अ) इत्यंतः कामकला न्यासः । अथ बहिः कामकला न्यासः ।। तत्र कामकला मू * भूतस्य सबिंदुतुर्यस्वरस्यादि बिंदु देवी रूपस्यात्मनः केशनेत्रकर्णनासिकाद्यवयवसमेतं वक्त्रं परिकललय तस्याधो बिंदुद्वय बाहु चतुष्टयाद्यवयव समेतं स्तनद्वयं ध्यात्वा तस्य हार्द्धकलां पादद्वयाद्यं वयवसमेतं योनि विचिंत्य ४ वाग्भव कूटमूच्चार्य ईंकारस्योर्ध्व बिंद्वात्मने श्रीमहात्रिपुरसुंदर्याः केशाद्यवयव सहित (स्तन द्वयाय नमः) वक्त्राय नमः ।। ४ कामराजकूटमुच्चार्य ईंकारस्योधो बिंदुद्वयात्मने श्रीमहात्रिपुरसुंदर्याः बाहुचतुष्टयाद्यवयव सहित स्तन द्वयाय नमः । ४ तार्तीय कूटमुच्चार्य ईंकारस्य हार्धकलात्मने श्रीमहात्रिपुरसुंदर्याः पादद्वयाद्यवयव सहित योनये नमः ।। ४ इति मूर्द्धादि कंठपर्यंतं कंथादि नाभ्यंतं नाभ्यादि पादाग्रपर्यंतं च व्यापकत्वेन विन्यसे ४ मूलविद्यामुच्चार्य समस्त कामकलात्मक श्रीमहात्रिपुरसुंदर्याः सर्वावयवेभ्यो नमः । प्. ९५ब्) इति सर्वांगे व्यापकं कृत्वा ।। नासां ललाटं चक्षुषी कर्णौ वदनं च मुखबिंदौ ।। भुज चतुष्टयं वक्षो हृदयं स्तन बिदौ ।। चरण द्वयं योनि बिंदौ ध्यात्वा समष्टि कामकला भूत परमाक्षर मय सर्वावयव संपूर्णां परमसौंदर्यवतीं कामेश्वरांक निलयां सर्वाभरणसंपन्नां देवीं स्वात्मानं ध्यायेत् ।। इति बहिः कामकला न्यासः ।। अथायुधन्यासः ।। तत्र स्वदक्षाधः करे ४ द्रां द्रीं क्लीं ब्लूं सः यां रां लां वां सां जंभनेभ्यः कामेश्वर कामेश्वरी बाणेभ्यो नमः । स्ववामाधः करे ४ धं थं मोहनाभ्यां कामेश्वर कामेश्वरी चापाभ्यां नमः । स्ववामोर्ध्व हस्ते ४ आं ह्रीं वशी * रणाभ्यां कामेश्वर कामेश्वरी पाशाभ्यां नमः । स्वदक्षोर्ध्व हस्ते ४ क्रों क्रों स्तंभनाभ्यां कामेश्वर कामेश्वर्यं कुशाभ्यां नमः ।। इत्ययं न्यासस्तत्तन्मुद्रया कार्यः ।। इत्यायुधन्यासः ।। अथाभूषणन्यासः । तत्र तत्तदंग भूषणधिया मातृका वर्णान्वक्ष्यमाण स्थानेषु न्यसेत् ।। तद्यथा ।। शिरसि ४ अं नमः । ललाटे ४ आं नमः । दक्षभ्रुवि ४ इं नमः । वामभ्रुवि ४ ईं नमः । प्. ९६अ) दक्षकर्णे ४ उं वामकर्णे ४ ऊं दक्षनेत्रे ४ ऋं वामनेत्रे ४ ॠं नासायां ४ ऌं ।। दक्षगंडे ४ ॡं वामगंडे ४ एं ओष्ठे ४ ऐं अधरे ४ ओं ऊर्ध्वदते ४ औं अधोदंते ४ अं जिह्वायां ४ अः चिबुके ४ कं गले ४ खं ।। कंठे ४ गं दक्षपार्श्वे ४ घं वामपार्श्वे ४ ऽऽनं दक्षस्तने ४ चं वामस्तने ४ छं दक्षांसे ४ जं वामांसे ४ झं दक्षकूर्पर ४ ञं वामकूर्परे ४ टं करतलयोः । ४ ठं करपृष्ठयोः । ४ ऽऽनं (दक्षस्तने ४ चं । वामस्तने) नाभौ ४ ढं । लिंगे ४ णं दक्षोरौ ४ तंः वामोरौ ४ थं दक्षजानुनि ४ दं वामजानुनि ४ धं दक्षं जंघायां ४ नं वामजंघायां ४ पं दक्षस्फिचि ४ फं वामस्फिचि ४ बं दक्षपादतले ४ भं वामपादतले ४ मं दक्षपादांगुष्ठे ४ यं वामपादांगुष्ठे ४ रं कट्या ४ लं ग्रैवेयके ४ वं वलये ४ शं गुदे ४ लं हृदि ४ क्षं दक्षकुंडले ४ षं वामकुंडले ४ संमुकुटे ४ हं नमः ।। इत्याभूषणन्यासः ।। अथ कामरति न्यासः ।। तत्र ध्यानं कुर्यात् ।। अथ कामान् स्मरेद् देवि दाडिमी कुसुमोपमान् ।। वामांकशक्ति सहितान् पुष्पबाणेक्षु कामुकान् ।। १ ।। शक्तयः कुंकुम निभाः सर्वाभरणभूषिताः ।। नीलोत्पल कराध्येयस्त्रैलोक्याकर्षण क्षमाः ।। २ ।। प्. ९६ब्) इति ध्यात्वा न्यसेत् ।। तद्यथा ।। ४ अस्याः कामरति मातृकायाः ब्रह्मा ऋषिः गायत्रीछंदः परमात्मा देवता न्यासे विनियोगः ।। बालया षडगं विधाय ।। ४ अं कामाय रत्यै नमः । ४ क्लीं आं कामदाय प्रीत्यै नम ४ इं कांताय कामिन्यै नमः । ४ ईं कांतिमते मोहिन्यै नम० । ४ उं कामगाय कमलायै । ४ ऊं कामचाराय विलासिन्यै० । ४ ऋं कामिने कल्पलतायै० । ४ ॠं कामुकाय श्यामायै० । ४ ऌं कामवर्द्धनाय शुचिस्मितायै० । ४ ॡं वामाय विस्मिताक्ष्यै० । ४ एं रामाय विशालाक्ष्यै० । ४ ऐं रमणाय लेलिहानायै० । ४ ओं रतिनाथाय दिगंबरायै० । ४ औं रतिप्रियाय वामायै० । ४ अं रात्रिनाथाय कुब्जिकायै० । ४ अः रमाकांताय कांतायै० । ४ कं रममाणाय नित्यायै० । ४ खं निशाचराय कल्पायै० । ४ गं नंदकाय भोगिन्यै० । ४ घं नंदनाय कामदायै० । ४ ऽऽनं नंदिने सुलोचनायै० । ४ चं नंदयित्रे सुलापिन्यै० । ४ छं पं च बाणाय मर्दिन्यै० । ४ जं रतिसखाय कलह प्रियायै० । ४ झं पुष्पधन्वने वराक्ष्यै० । ४ ञं महाधनुषे सुमुख्यै० । ४ टं भ्रामणाय नलिन्यै नमः । ४ ठं भ्रमणाय जयिन्यै० । ४ डं भ्रममाणाय पालिन्यै० । ४ ढं भ्रमाय शिवायै० । ४ णं भ्राताय मुग्धायै० । ४ तं भ्रामकाय रमायै० । ४ थं भृंगाय भ्रमायै० । ४ प्. ९७अ) दं भ्रांतचाराय लोलायैः । ४ धं भ्रमं वहाय चंचलायै० । ४ नं मोहनाय दीर्घजिह्वायै० । ४ पं मोहकाय रतिप्रियायै नमः । ४ फं मोहाय लोलाक्ष्यै नमः । ४ बं मोहवर्द्धनाय भृंगिण्यै० । ४ भं मदनाय पाटलायै० । ४ मं मन्मथाय मदनायै० । ४ यं मातंगाय मालायै नमः । ४ रं भृंगनायकाय हंसिन्यै० । ४ लं गायकाय विश्वतो मुख्यै० । ४ वं गीतिज्ञाय जगदानंदिन्यै० । ४ शं नर्तकाय रमण्यै० । ४ षं खेलकाय कांत्यै० । ४ सं उन्मत्ताय कलकंठ्यै० । ४ हं मत्तकाय वृकोदर्यै० । ४ लं विलासिने मेघशामायै० । ४ क्षं लोभवर्द्धनाय झषोत्तमायै नमः ।। इत्येक पंचाशन्मिथुनानि मातृका स्थानेषु न्यसेत् ।। इति कामरति न्यासः ।। अथ पंचाशत्त्रिपुरा न्यासः । तत्र ४ अं कामिनी त्रिपुरायै नमः । ४ ओं मोदिनी त्रिपुरायै नमः । ४ इं मदना त्रि० । ४ ईं उन्मादिनी त्रि० । ४ उं द्राविणी त्रि० । ४ ऊं खेचरी त्रि० । ४ ऋं घंटिका त्रि० । ४ ॠं कलावती त्रि० । ४ ऌं क्लेदिनी त्रि० । ४ ॡं शिवदूती त्रि० । ४ एं सुभगा त्रि० । ४ ऐं भगा त्रि० । ४ ओं विद्येशी त्रि० । ४ औं महालक्ष्मी त्रि० । ४ अं कौलिनी त्रि० । ४ अः सुखेश्वरी त्रि० । ४ प्. ९७ब्) कं कुलमालिनी त्रि० । ४ खं व्यापिनी त्रि० । ४ गं भगानंदा त्रि० । ४ घं वागीश्वरी त्रि० । ४ ऽऽनं वषट्कारी त्रि० । ४ चं पिंगला त्रि० । ४ छं भगसर्पिणी त्रि० । ४ जं सुंदरी त्रि० । ४ सं नीलपताका त्रि० । ४ ञं त्रिपुरा त्रि० । ४ टं सिद्धेश्वरी त्रि० । ४ ठं अमोघा त्रि० । ४ डं रत्नमालिनी त्रि० । ४ ढं मंगला त्रि० । ४ णं भगमालिनि त्रि० । ४ तं नित्या त्रि० । ४ थ रौद्री त्रि० । ४ दं व्योमेश्वरी त्रि० । ४ धं अंबिका त्रि० । ४ नं अट्टहासा त्रि० । ४ पं आप्यायिनी त्रि० । ४ फं वज्रेश्वरी त्रि० । ४ बं क्षोभिणी त्रि० । ४ भं शांभवी त्रि० । ४ मं स्तंभिनी त्रि० । ४ यं अनामा त्रि० । ४ रं रक्ता त्रि० । ४ लं शुक्ला त्रि० । ४ वं अपराजिता त्रि० । ४ शं संवर्त्तका त्रि० । ४ षं विमला त्रि० । ४ सं घोरा त्रि० । ४ हं अघोरा त्रि० । ४ लं बिंदुभैरवी त्रि० । ४ क्षं सर्वाकर्षणी त्रिपुरायै नमः ।। इत्येता मातृका स्थानेषु न्यस्तव्याः ।। इति पंचाशत्रिपुरान्यासः ।। अथ षोडश कामकलान्यासः ।। तत्र दक्ष पादे ४ क्लीं अं सिद्धाकलायै नमः । दक्षजंघायां ४ क्लीं आं प्रीतिकलायै० । दक्षजानुनि ४ क्लीं इं रतिकलायै० । दक्षोरौ ४ क्लीं ईं धृतिकलायै० । दक्षवक्षसि ४ क्लीं उं कांतिकलायै० । दक्षबाहुमूले ४ क्लीं ऊं मनोरमा कलायै० । मुखदक्षे ४ क्लीं ऋं मनोहरा कलायै० । दक्षमूर्द्ध्नि ४ क्लीं ॠं मनोभवा कलायै० । वामशिरोभागे ४ क्लीं ऌं मदनोन्मादिनी कलायै० । प्. ९८अ) मुखवामे ४ क्लीं ॡं मोहिनी कलायै० । वामबाहुमूले ४ क्लीं ए दीपिनी कलायै० । वामवक्षसि ४ क्लीं ऐं शोषिणी कलायै० । वामोरौ ४ क्लीं ओं वशंकरी कलायै० । वामजानुनि ४ क्लीं औं रंजिनी कलायै० । वामजंघायां ४ क्लीं अं सुभगा कलायै० । वामपादे ४ क्लीं अः प्रियदर्शनी कलायै नमः । इति विन्यस्य एताः शुक्लवर्णाः सोत्पलकराध्येयाः ।। इति षोडश कामकला न्यासः ।। अथ षोडशसोमकलान्यासः । तत्र पृष्ठदक्षभागे ४ सं अं पूषाकलायै नमः ।। दक्षांसपृष्ठे ४ सां आं वशाकलायै० । दक्षग्री पृष्ठे ४ सिं इं सुमना कलायै० । दक्षकर्णे ४ सीं ईं रतिकलायै नमः ।। दक्षनेत्रे ४ सु उं प्रीतिकलायै० । दक्षनासायां ४ सूं ऊं धृतिकलायै० । दक्षललाटे ४ सृं ऋं ऋद्धिकलायै० । दक्षमूर्द्ध्नि ४ सृं ॠं सौम्या कलायै० । वाममूर्द्धनि ४ स्तृं ऌं मरीचिकलायै० । वामललाटे ४ सॄं ॡं अंशुमालिनी कलायै० ।। वामनासायां ४ सें ऐं अंगिरा कलायै० । वामनेत्रे ४ सैं ऐं शशिनी कलायै० । वामकर्णे ४ सों ओं छायाकलायै० । वामग्रीवायै पृष्टे ४ सौं औं संपूर्णमंडला कलायै० । वामांसपृष्ठे ४ सं अं तुष्टि कलायै० । पृष्टवामभागे सः अः अमृताकलायै नमः ।। एताः शुभ्राः सोत्पला कराध्येयाः इति शोडश सोमकला न्यासः ।। प्. ९८ब्) अथ वशिन्यादि वाग्देवताष्टकं न्यासः ।। तत्र शिरसि ४ अं आं १४ व्लू वशिनीवाग्देवतायै नमः ।। ललाटे ४ कं ४ कलह्रीं कामेश्वरी वाग्देवतायै० ।। भ्रूमध्ये ४ च० ४ न्व्लीं मोदिनी वाग्देवतायै० । कंठे ४ टं० ४ प्लूं विमलावाग्देवतायै० । हृदये ४ तं० ४ ज्म्रीं अरुणा वाग्देवतायै न० ।। नाभौ ४ पं ४ हसल्व्यूं जयिनी वाग्देवतायै० । मूलाधारे ४ यं ३ समरयूं सर्वेश्वरी वाग्देवतायै० ।। मूलाधारादि पाद द्वयांतं ४ शं ५ क्ष्म्रीं कौलिनी वाग्देवतायै नमः ।। इति वाग्देवतान्यासः ।। अथ चतुःपीठन्यासः ।। तत्र मूलाधारे ४ प्रथमकूटमुच्चार्य अग्निचक्रे कामगिरीपीठे मित्रीशनाथात्मिके जागृद्वशाधिष्ठायके इछाशक्त्यात्मक रुद्रात्मशक्ति श्रीकामेश्वरी देव्यै नमः ।। हृदये ४ द्वितीयकूटमुच्चार्य सूर्यचक्रे जालंधरपीठे षष्ठीशनाथात्मके स्वप्नदशाधिष्ठायके ज्ञानशक्त्यात्मक विष्णवात्मक शक्ति श्रीवज्रेश्वरी देव्यै नमः । भ्रूमध्ये ४ तृतीयकूटमुच्चार्य सोमचक्रे पूर्णगिरिपीठे उड्डीशनाथात्मके सुषुप्ति दशाधिष्ठायके क्रियाशक्त्यात्मक ब्रह्मात्मशक्ति श्रीभगमालिनी देव्यै नमः । ब्रह्मरंध्रे ४ तुर्यविद्यामुच्चार्य ब्रह्मचक्रे उड्याणपीठे श्रीचर्यानाथात्मके तुर्यतीतदशाधिष्ठायके प्. ९९अ) परब्रह्मात्मशक्ति श्रीमहात्रिपुरसुंदरी देव्यै नमः ।। इति चतुःपीठन्यासः ।। अथ कामेश्वर्यादि न्यासः । तत्र वामपादांगुष्ठादि नाभिपर्यंतं ४ ऐं प्रथमकूटे कामेश्वर्यै नमः । नाभेः कंठपर्यंतं ४ क्लीं द्वितीकूटं वज्रेश्वर्यै नमः । कंठात् शिरः पर्यंतं ४ सौः तृतीयकूटं भगमालिन्यै नमः ।। इति वामभागे विन्यस्य दक्षपादांगुष्ठान्नाभिपर्यंतं ४ हसैं आत्मतत्वाधिपतये ब्रह्मणे नमः । नाभेः कंठपर्यंतं ४ हस्क्लीं विद्यातत्वाधिपतये विष्णवे नमः । कंठादि शिरोंतं ४ हसौः शिवतत्वाधिपतये रुद्राय नमः ।। इति तत्वदेवतान्यासः । अथ चतुस्तत्वन्यासः ।। नाभ्यादि पादांतं प्रथमकूटं ४ आत्मतत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः ।। कंठादि नाभ्यंतं ४ द्वितीय कूटं विद्यातत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः । मूर्द्धादि कंठांतं ४ तृतीयकूटं शिवतत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः । मूर्द्धादि पादपर्यंतं ४ तुरीयविद्यामुच्चार्य ४ सर्वतत्वात्मने श्रीमहात्रिपुरसुंदर्यै नमः । इति व्यापकं कुर्यात् । इति चतुस्तत्वन्यासः ।। अथ मूलविद्यान्यासः मूलाधारे ।। ४ प्रथमकूटं । हृदि ४ द्वितीयकूटं नमः ।। भ्रूमध्ये ४ तृतीयकूटं नमः ।। ब्रह्मरंध्रे ४ प्. ९९ब्) तरीयविद्यां च विन्यस्य प्राग्वत्समस्तविद्यां व्यापकत्वेन न्यसेत् ।। इति मूलविद्यान्यासः । स च बालया एव कर्त्तव्यः । तद्यथा ।। वामकर्णे ऐं नमः । दक्षकर्णे ४ क्लीं नमः । चिबुके ४ सौः नमः । एवं वामशंखे दक्षसंखे मुखे च द्वितीया योनिः । वामदक्षनेत्रयोर्नासायां च तृतीया वामदक्षांस हृदयेषु चतुर्थी । वामदक्षकूर्पर नाभिषु पंचमी । वामदक्षजानु लिंगेषु षष्ठी । वामदक्षपादगुदेषु सप्तमी । वामदक्षपार्श्ववक्षसी अष्टमी । वामदक्षस्तन कंठेषु नवमी । इति बहिर्नवयोनिन्यासः ।। अथांतर्नवयोनिन्यासः ।। तत्र मूलाधारादि षट्चक्रललाट सीमंत ब्रह्मरंध्रेषु नवस्थानेषु चतुरस्र वेष्टितानवयोनीः परिपकल्प्यता सुस्वाग्राद्यप्रादक्षिण्य क्रमेण प्रागुक्तबीजत्रयं मनसा ध्याय न्यस्येत् ।। इत्यंतर्नवयोनिन्यासः । अशृखलान्यासः । तत्र शिखायां ४ प्रथमकूटं नमः । एवं चिबुके ४ द्वितीयं । मुखे ४ तृतीयं । पुनर्मुखे ४ प्रथमं । कंठे ४ द्वितीयं । चिबुके ४ तृतीयं । पुनश्चुबुके ४ प्रथमं । हृदये ४ द्वितीयं । कंठे ४ तृतीयं कुटं । पुनः कंठे ४ प्रथमकूटं । नाभौ ४ द्वितीयं । हृदये ४ तृतीयं । पुनर्हृदयें ४ प्रथमं । स्वाधिष्ठाने ४ द्वितीयं । नाभौ ४ तृतीयं । पुनर्नाभौ ४ प्रथमं । प्. १००अ) मूलाधारे ४ द्वीतीयं । स्वाधिष्ठाने तृतीयं । पुनस्वाधिष्ठाने ४ प्रथमं । उर्वो ४ द्वितीयं । मूलाधारे ४ तृतीयं ।। इति शृखलान्यासः । अप्रकटादि न्यासः । तत्र च मूलाधारे ४ अं आं सौंः त्रैलोक्यमोहनचक्रस्थाभ्यः प्रकटयोगिनीभ्यो नमः । स्वाधिष्ठाने ४ ऐं क्लीं सौः सर्वाशापरिपूरक चक्रस्थाभ्यो गुप्तयोगिभ्यो नमः । मणिपूरके ४ ज्ञीं क्लीं सौः सर्वसंक्षोभ प चक्रस्थाभ्यो गुप्ततरयोगिनीभ्यो नमः । हृदये ४ हैं हकली हसौः सर्वसौभाग्यदायक चक्रस्थाभ्यः संप्रदाययोगिनीभ्यो नमः । विशुद्धौ ४ हंसै हसकलीं हसौः सर्वाथसाधक चक्रस्थाभ्यः कुलकौलयोगिभ्यो नमः । आज्ञायां ४ ह्रीं क्लीं ब्लें रर्व रक्षाकरचक्रस्थाभ्योनिगर्भयोगिनीभ्यो नमः । ललाटे ४ ह्रीं श्रीं सौः सर्वरोगहर चक्रस्थाभ्यो रहस्ययोगिनीभ्यो नमः । शिरसि ४ हसैं हसकलरीं हस्रौः सर्वसिद्धिप्रदचक्रस्थाभ्यः परापर रहस्य योगिनीभ्यो नमः । ब्रह्मरंध्रे ४ मूलपंचदशीमुच्चार्य सर्वानंदमय चक्रस्थाभ्यः परापराति रहस्य योगिनीभ्यो नमः । इति विन्यस्य ४ समस्त प्रकटेत्यादि योगिनी समष्टि विद्यया सर्वांगे व्यापकं विन्यसेत् इति प्रकटादि न्यासः । प्. १००ब्) अथ अमठन्यासः । तत्र शिरसि ४ ओं सरस्वत्यै नमः । ललाटे ४ ह्रीं पार्वत्यै नः । दक्षनेत्रे ४ अं सवित्रे नमः । वामनेत्रे ४ अं अग्नय नमः । मुखवृत्ते ४ ठं चद्रमसे नमः । मुखे ४ श्रीं श्रियै नमः । कपोलयोः ४ स्वां हां दंतिने नमः । इत्यमठन्यासः । अथैतन्न्यासफलं ।। त्रिकालं यस्त्रिवारं वा पंचवारं च सप्तधा ।। कुर्याद्वा दशधा वाथ श्रुणु तस्य फलं शिवे ।। १ ।। कांतिर्मेधा यश सौख्यं सुखं श्रीस्तस्य जायत इति ।। श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।। कृते सौभाग्य रत्नाब्धौ तरंगोगमदष्टमः ।। १ ।। इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वांते वासिना श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरेऽष्टमस्तरंगः ।। २ ।। अथ फणान्यासः । आधारे चतुर्दलकमलकर्णिकायां स्वराब्जं अवर्गांकितं चिंतयित्वा तत्र कुंडलिनीं च फणान्वितां विचिंत्य तेषु फणेषु ४ प्रथमकूटं पंचवर्णं मनसा विन्यस्य ।। ततोऽ अनाहते द्वादशदलकमलकर्णिकायां तथैवाब्जं क वर्गांकितं प्. १०१अ) विभाव्य तत्र तां ऋतुफणान्वितां विचिंत्य तेषु फण रत्नेषु ४ द्वितीय कूटार्णान् विन्यस्य । ततो हक्षाब्जे तथैवाब्जं थ वर्गांकितं विचित्य तत्र तां वेद पूनान्वितां ध्यात्वा ४ तत्र शक्तिकूटार्णान्विन्यस्य । ततः सहस्रदलकमलकर्णिकायां वर्णारविंदं ध्यात्वा तत्र तां पंचदश फणान्वितां विचिंत्य तत्र मूलार्णान्विन्यसेदिति फणान्यासः ।। अथ सर्वसंमोहनन्यासः । शिरसि ४ ऐं क्लीं सौः ह्रीं श्रीं नादनादाय नमः । ललाटे ४ ह्रीं श्रीं क्लीं हसकलरीं शून्य नादाय नमः । भ्रूमध्ये ४ ह्रीं श्रीं क ए इल्ह्रीं अविकृतनादाय नमः । नासायां ४ ह्रीं श्रीं हसौं सकलह्रीं स्पर्शनादाय नमः ।। मुखे ४ ह्सीं ह्रीं श्रीं ध्वनिनादाय नमः । हृदि ४ अं आं सौं ऐं ह्सौं ह्रीं श्रीं नादनादाय नमः । जठरे ४ ईहसकल्ह्रीं क ए इल् ह्रीं ऐं क्लीं सौं ह्रीं श्रीं बिंदुनादाय नमः । नाभौ ४ ईह सकल हीं श्रीं विकृतिनादाय नमः । मूले ४ ह्सौं सौं सकल ह्रीं ह्रीं श्रीं बीजनादाय नमः ।। मूलाधारे ४ ओं हं सः ह्रीं श्रीं अक्षरनादाय नमः । ४ मूलेन सर्वशरीरे व्यापकं न्यसेदिति सर्वसंमोहनन्यासः ।। अथ गुह्य षोढान्यासः ।। तद्यथा ।। शंकर उवाच ।। कलौ मंत्रान सिध्यंति विना येन तदुच्यते ।। प्. १०१ब्) अनेन मंत्रतंत्राणि सिध्यंति झटति ध्रुवं ।। १ ।। पूर्वसा संततो बीजं कृतं रावण राक्षसैः ।। न्यासांश्चापि क्रमादेषां साधनानां क्रमादपि ।। २ ।। किंतु विद्या महाविद्या गणेश मनवस्तथा ।। हयग्रीवमनुश्चैव बीजमुक्तं महीतले ।। ३ ।। ओं अस्य श्रीगुह्य षोढा श्रीमहाचक्रेश्वरी न्यासस्य दक्षिणामूर्ति ऋषिः अनुष्टूप्छंदः । श्रीमहात्रिपुरसुंदरी देवता ।। सांख्यायन गोत्रं । ऐं बीजं । ह्रीं शक्तिः । क्लीं कीलकं । श्रीगुरुदेवता प्रसाद सिध्यर्थे गुह्य षोढान्यासे विनियोगः । ४ ऐं मध्यमाभ्यां नमः । ४ ह्रीं अनामिकाभ्यां नमः । ४ श्रीं कनिष्ठिकाभ्यां नमः । ४ ऐं अंगुष्ठाभ्यां । ४ ह्रीं तर्जनीभ्यां । ४ श्रीं करतलकरपृष्ठाभ्यां । एवं हृदयादि शडंगं विधाय ।। ४ ऐं ह्रीं श्रीं ह्स्रैं हसकलीं ह्सौंः त्रिपुरायै नमः । इति शिखायां ।। ४ ऐं क्लीं सौः बालात्रिपुरायै नमः मुखे ।। ४ ऐं शारदा त्रिपुरायै नमः कंठे ।। ४ क्ष्रौं श्रीं क्ष्रौ सिद्धेश्वर्यै नमः । ललाटे ।। ४ हस्रौं हस्रक्लीं ह्स्रौः त्रिपुरासिद्धायै नमः भ्रूमध्ये ।। ४ ह्स्रौं ह्स्क्लीं ह्स्रौः त्रिपुरा परमेश्वर्यै नमो गले ।। ४ प्. १०२अ) कामराजविद्या १५ राजराजेश्वर्यै नमो हृदये ।। ४ नफक्ष्मलवयूं मालिनी त्रिपुरायै नमो हृदयोपरि ।। ४ लोपामुद्रा विद्या १५ देवीत्रिपुरसुंदर्यै नमो गुदोपरि ।। ४ हसरीं हसरीं शृं सुखदा त्रिपुरायै नमो मेढ्रे ।। ४ क्लीं कामेश्वर्यै नमो गुह्ये ।। ४ ह्रीं त्रिपुर भुवनेश्वर्यै नमो सर्वांगे ।। ४ हं सः निर्वाणसुंदर्यै नमो नासारंध्रे ।। ४ ह्रीं ह्स्रौं श्रौं हरिप्रिया परमार्यै नमो ब्रह्मरंध्रे ।। ४ ऐं १५ पंचदशी नक्षत्रं वल्लभायै नमो ललाटे ।। ४ कामराजकूटं क्लीं रतिप्रियायै नमो श्रोत्रयोः ।। ४ ह्रीं श्रीं क्लीं शक्रं प्रियायै नमो घ्राणे ।। ४ शक्ति कूं सौं शंभुप्रियायै नमः ओष्ठो । ४ लोपामुद्राद्य कूटं ऐं प्राणेश्वर्यै नमः दंतपंक्त्योः ।। ४ ऐं ह्रीं श्रीं सौः जीवेश्वर्यै नमः रसनायां ।। ४ ह्रीं श्रीं ब्रह्माण्यै नमः कूर्परयोः ।। ४ हंसः ओं ऐं ह्रीं श्रीं ह्रीं हूं सोहं परमात्मस्वरूपायै नमः पृष्ठे ।। ओं ३ ओं सृं हृं सौः पृथ्वीरूपायै नमः सर्वांगे ।। ४ षोडशीमूच्चार्य ह्रीं हृल्लेखायै नमः हृदये ।। ओं ३ सौंः क्ली ३ भृगुप्रियायै नमस्तन्योः ।। ४ क्रोधरूपायै नमः कुक्षौ ।। ४ श्रीं ह्रीं ऐं सः । विताका देव्यै नमः लिंगे ।। ४ ह्रीं क्लीं भुवनेश्वर्यै नमः । शीर्षादि पादपर्यंतं ।। ४ प्. १०२ब्) ऐं वाग्भैरव्यै नमः मूलाधारे ।। ४ क्लीं कामरूपायै नम हृदयाधः ।। ४ सौंः शक्तिटायै नमः अलके ।। ओं ३ समस्त मूलविद्यामुच्चार्य श्रीमन्महात्रिपुरसुंदर्यै नमः सर्वांगे व्यापकं ।। पुनः पूर्ववत्करषडंगानि कुर्यात् ।। इमं न्यासं महेशानि यः करोति दिवानिशं ।। स तु सिद्धिमवाप्नोति मोक्षस्तस्य विनिश्चितं ।। १ ।। न जरा न च मृत्युश्च न च राजभयादिकं ।। य इमं न्यसति न्यासं स मुक्तो नात्रसंशया ।। २ ।। द्वात्रिंशच्च महाविद्या उक्तस्थानेषु विन्यसेत् ।। महाचक्रेश्वरी न्यासो देवानांमपि दु * र्भः ।। ३ ।। इति गुह्य षोढा महाचक्रेश्वरी न्यासः ।। ततो गणेशपंचमी दुर्गाबटुक क्षेत्रपालान्नपूर्णा अश्वारूढा बाला कालसंकर्पण्यादि स्मरेत् ।। तद्यथा ।। ओं वक्रतुंडाय हूं ।। १ ।। ओं ह्रीं नमो भगवति वाराह्यघोरे स्वप्नं दद स्वाहा ।। २ ।। ऐं ह्रीं क्लीं चामुंडायै विच्चे ।। ३ ।। ओं ऐं क्लां क्लीं क्लूं ह्रां ह्रीं र्ह्रूं सः बां आपदुद्धारणाय अजामल बद्धाय लोकेश्वराय स्वर्णाकर्षण भैरवाय मम दारिद्र विद्वेषणाय ओं श्रीं महाभैरवाय नमः ।। ४ ओं क्षेत्रपालाय स्वाहा ।। ह्रीं सौः श्रीं क्लीं ओं नमो भगवति प्. १०३अ) अंन्नपूर्णे ममाभिलषितं अन्नं देहि स्वाहा ।। ६ ।। ओं ह्रीं फ्रें फ्रें सर्ववशंकरि स्वाहा ।। ७ ।। ऐं क्लीं सौः ।। ८ ।। ख्फ्रें महाचंडयोगेश्वरी ।। ९ ।। इति मंत्र नवकं स्मृत्वा ।। मूल वाग्भवमुच्चार्यंतः स्थितं विषयं बहिर्भावयन् पूरयेत् । कामराजेन उपसंहरन्सभावयन् कुंभयेत् शक्ति बीजेन रेचयेत् ।। इति प्राणानायम्य लिंगन्यासं कुर्यात् ।। स यथा ।। ४ ऐं स्वयंभू लिंगाय नमो मूलाधारे ।। ४ ईं बाणलिंगाय नमो हृदये ।। ४ औः इतरलिंगाय नमो भ्रूमध्ये ।। ४ ऐं ईं औः परलिंगाय नमो ब्रह्मरंध्रे ।। कनक पाटलसितं तत्समष्टि रूपं तेजो विचित्यनासामार्गेण स्वकरांजलै संक्रम्ययय । अं आं सौः । इति बीज मंत्रयं मध्यमादि तलांतं विन्यस्य करशुद्धिविधाय ऐं नाभ्नेरापादं क्लीं हृदोनाभिपर्यंतं ।। सौः शिरसो हृत्पर्यंतां ऐं क्लीं सौः । त्रिर्व्याकं सर्वांगे च ।। ह्रीं क्लीं सौः त्रिपुरसुंदरि ममात्मानं रक्ष रक्ष हृदये इत्यात्मरक्षा न्यासः ।। ततः मूलाधारे दशदलमंडलं विभाव्यक ५ वह्निमंडलाय नमः ।। हृदये द्वादशदले ह ६ सूर्यमंडलाय नमः ।। भ्रूमध्ये षोडशदलं विभावा स० ४ सोंममंडलाय नमः ।। प्. १०३ब्) ब्रह्मरंध्रे क १५ परमंडलाय नमः । क० ५ करमूले । ह ६ करमध्ये । स ४ कराग्रे ।। एवं वामे करे । क० ५ मूलाधारे । हृदि ह ६ । स० ४ बिंदौ भ्रूमध्ये ।। क १३ ब्रह्मरंध्रे ।। द्वादशांतेंदु विलसत् पीयूषेणात्मनस्तनुं ।। संप्लाव्य तन्मयो भूत्वा न्यसेत् पश्चात्र वासनं ।। १ ।। अथ मू * विद्यानवासनन्यासः ।। अं आं सौः त्रिपुरा मृतार्णवासनाय नमः पादयोः ।। ऐं क्लीं सौः त्रिपुरेश्वरी पोतांबुजासनाय नमो जानुनि ।। ह्रीं क्लीं सौः त्रिपुरसुंदरी देव्यासनाय नम ऊरौ ।। हैं हक्लीं ह्सौः । त्रिपुरवासिनी सर्वचक्रासनाय नमो जंघने ।। ह्सौ ह्स्क्लीं हसौः त्रिपुरा श्रीसर्वमंत्रासनाय नमो गुदे ।। ह्रीं क्लीं ब्लें त्रिपुरमालिनी साध्य सिद्धासनाय नमो लिंगे ।। ह्रीं श्रीं सौः त्रिपुरा सिद्धे सिद्धोद्धतासनाय नमो ४ नाभौ ।। ह्स्रैं ह्स्क्लीं ह्स्रौः त्रिपुरांबपर्यकपीठासनाय नमो हृदये ।। हसकलरडैं हसलरंडी हसकलरडौः । त्रिपुरभैरवी सदाशिव महाप्रेत पद्मासनाय नमो ब्रह्मरंध्रे ।। इति नवासनन्यासः ।। अथ महाशक्तिन्यासः ।। तत्र प्रथमं जगछून्याकारं निरालंबं ध्यात्वा ४ हूं पृथिव्यै नमः । प्. १०४अ) इति स्वासनाधः पृथिवीं संपूज्य । स्वासनं वामहस्तेन स्पृशेत् । भुवनेश्वरी बीजं सप्तवारं जपित्वा ।। ओं ३ जयायै नमः । ४ विजयायै ४ । जयंत्यै नमः । ४ अजितायै० । ४ अपराजितायै नम० । ४ संगमायै० । ४ रंभायै० । इति स्वासने सप्तसक्तीः संपूज्य मूलविद्यया प्राणायाम त्रयं कृत्वा ।। अस्य श्रीमहाशक्ति न्यासस्य ४ परमशिव ऋषिः ४ अति जगती छंदः ४ श्रीपराशक्तिर्देवता ४ ऐं बीजं ४ श्रीं शक्तिः ४ सौः कीलकं श्रीविद्यांगत्वेन महाशक्ति न्यासे विनियोगः । इति ऋष्यादिकं स्मृत्वा यथा विधि विन्यस्य त्रितारै द्विरावृत्या करषडंग न्यासं विधाय न्यासं कुर्यात् ।। तत्र योनौ । ओं ३ ह्लां ह्लीं ह्लं नमः ललाटे ४ सां सीं सूं नमः कर्णयोः । ४ ह्रां ह्रीं ह्रूं नमः । ध्वजमूले । ४ द्रां द्रीं द्रूं नमः चिबुकाग्रै । ४ सौः श्रीं सौः नमः ब्रह्मरंध्रे । ४ ऐं ईं सौः अं नमः । इति विन्यस्य अकारादि क्षकारांतानां सर्वेषां वर्णानां मूलभूतमकारं सर्वेषु वर्णेषु दुग्धस्थ सर्पिवत्सूक्ष्मरूपेण स्थितं विभावयन् तन्मयानन्य वर्णान्वक्ष्यमाणेषु स्थानेषु न्यसेत् ।। प्. १०४ब्) ब्रह्मरंध्रे ऐं ई सौः ञं नमः तत्र तालु ४ ऐं ईं सौः आं नमः । नासाग्रे ४ ऐं ई सौः ईं नमः । पश्चिम लिंगे शीवन्यां मूलाधारगतज्योतिर्लिंगे ।। ४ ऐं ईं सौः ईं नमः । गुदे ४ । ३ उं नमः । ४ पृष्ठ मध्ये ४ । ३ ऊं नमः ।। कटि संधौ ४ । ३ ऋं नमः । वृषणांते ४ । ३ ॠं नमः । पृष्ठमध्ये ४ । ३ ऌं नमः । लंबिकास्थाने ४ । ३ ॡं नमः । सर्वांगे ४ । ३ एं नमः । पुनर्बिंदूपरिगतत्रिरेखायां योनौ न्यास भावनया सर्वांगे ४ । ३ ऐं नमः । इति विन्यस्य ।। योनिरित्युच्यते शक्तिरेषा ब्रह्मांड भेदिनी ।। लयं चित्ता लये देहे रेतौ बिंदुरिति स्मृतः ।। १ ।। द्वासप्तति सहस्रेषु नाडिभेदेषु पंजरे ।। व्याप्यमाना महाशक्तिः कामिनीनां ऋतुक्रमे ।। २ ।। नाडिचक्रागतं रक्तं योनिमार्गे निपातयेत् ।। पुष्पी भूते भगे पुष्पं मासपक्षादिषु क्रमात् ।। ३ ।। ऐंकारोपि स्वयं योनिर्नात्रकार्याविचारणा ।। न्यस्तं चाप्यत्र देवेश त्रैलोक्यं स चराचरं ।। ४ ।। इत्यंतः श्लोक समुदाय स्यार्थ चिंतयन् महाकाम कलायां ऌयं भावयित्वा । ब्रह्मदंडे ४ । ३ ओं नमः । नादमध्ये ४ । ३ औं नमः । नादांते ४ । ३ अं नमः । कंठे ४ । अः नमः । प्. १०५अ) हृदि ४ । ३ कं नमः । मस्तके ४ । ३ खं नमः ।। जंघयोः ४ । ३ गं नमः । स्तनयोः ४ । ३ घं नमः । नासिकांते ४ । ३ ऽऽनं नमः । आज्ञायां ४ । ३ चं नमः । वामकुक्षौ ४ । ३ छं नमः । दक्षकुक्षौ ४ । ३ जं नमः । ऊरुमूले ४ । ३ झं नमः । दंतपक्तौ ४ । ३ ञं नमः । जिह्वाग्रे ४ । ३ टं नमः । मुखे ४ । ३ ठं नमः । कक्षयोः । ४ । ३ ड नमः । अस्थिसंधिषु ४ । ३ ढं नमः । चित्ते ४ । ३ णं नमः । नाभौ ४ । ३ तं नमः । ललाटे ४ । ३ थं नमः । कर्णरंध्रयोः ४ । ३ दं नमः । कपोलमूलयोः ४ । ३ धं नमः । नयनयोः । ४ । ३ नं नमः । श्वेतसहस्रदलकमले ४ । ३ पं नमः । हृत्पद्मे ४ । ३ फं नमः । स्कंधयोः ४ । ३ बं नमः । भ्रूद्वये ४ । ३ भं नमः । हनुमूले ४ । ३ मं नमः । तालुमूले ४ । ३ यं नमः । लिंगगुदयोर्मध्ये ४ । ३ रं नमः । जिह्वायां ४ । ३ लं नमः । सर्वांगे ४ । ३ वं नमः । वामादि दक्षिणशिरः पर्यंतमापादतलवेष्टकत्वेन ४ । ३ शं नमः । तालुमूले ४ । ३ षं नमः । सर्वांगे ४ । ३ सं नमः । ब्रह्मरंध्रे ४ । ३ हं नमः । हस्तपादयोः सर्वांगुलिषु ओं ऐं ह्रीं श्रीं ऐं ईं सौः क्षं नमः ।। प्रागुक्तमूलाधारस्थित कुंडलिन्यां ओं ऐं ह्रीं श्रीं ऐं ईं सौः ओं नमः ।। इति विन्यस्य । ओं ऐं ह्रीं श्रीं ऐं ईं सौः समस्तमातृकामुच्चरन् प्. १०५ब्) तां कुंडलिनीं सुषुम्णा वर्त्मना षत्चक्रभेदक्रमेण ब्रह्मरंध्रं नीत्वा तत्रस्था कुलसहस्रदलकमलकर्णिका मध्य स्थित परमात्मनि शिवे विलीनां विभाव्य ओं ऐं ह्रीं श्रीं ऐं ईं सौः । रक्ष रक्ष शूर्लिन हि त्रैलोक्यानंददायिनी ।। रक्ष मां त्रिपुरे देवी रक्ष मां त्रिपुरेश्वरि ।। १ ।। रक्ष रक्ष महादेवि अस्मदीयमिदं वपुः ।। ४ ऐं ह्रीं श्रीं हस्फ्रें हसौः हस्रौः हस्फ्रें श्रीं ह्रीं ऐं श्रीसमयिनि मदिरानंदसुंदरि समस्तसुरासुरवंदिते भुजंअगभूपालमालालंकृतचरणकमले विकटदंतघंटारोपनिवारिणि मदीयं शरीरं रक्ष रक्ष परमेश्वरि हूं फट् स्वाहा ।। ओं भूः स्वाहा । ओं भुवः स्वाहा । ओं स्वः स्वाहा । ओं भूर्भुवः स्वः स्वाहा । नरांत्रमालाभरणभूषिते महाकौलिनि महाब्रह्मवादिनि महाधनोन्मादनकारिणि महाभोगप्रदे अस्मदीयं शरिरं वज्रमयं कुरु कुरु दुर्जनान् हन हन दुष्टमहीपालान् भक्षय भक्षय परचक्रं भंजय भंजय जयंकरि गगनगामिनि त्रैलोक्यस्वामिनि यमलवरयूं रमलवरयूं लमलवरयूं वमलवरयूं शमलवरयूं प्. १०६अ) श्रीभैरवि प्रसादय स्वाहा ।। कुलांगनाकुलं सर्वं मदीयं त्रिपुरेश्वरि ।। देवी रक्षतु दिव्यांगी दिव्यात्मा भोगदायिनी ।। १ ।। रक्ष रक्ष महादेवि शरीरं परमेश्वरि ।। मदीयं मदिरानंदे आपादतलमस्तकं ।। २ ।। त्रिपुराख्या महादेवी भुक्तिमुक्तिफलप्रदा ।। न गुरोः सदृशं वस्तु न देवः शंकरोपमः ।। ३ ।। न च कौलात्परो योगो न विद्या त्रैपुरी समा । दर्शनेषु समस्तेषु पाखंदेषु विशेषतः ।। ४ ।। जयन्ति कुलशक्तिर्महीतलपातालनिवासिनी कुलकौल विभेदिनी ।। सकलजनमन आनंदकारिणि करोतु मम चिंतितं कार्यं शतमेकं पुनातु परमेश्वरी मदनमंडलालंबिनी सप्तकोटिसहस्राणां मंत्राणां परमेश्वरि ।। इति मंत्रं सकृज्जपित्वा ।। ४ ओं ऐं नमो भगवति त्रिकोणे त्रिधावर्त्ते महालिंगालंकृते त्रैलोक्योत्पत्ति स्थिति प्रलयकारिणि सहलह्रीं कंदर्पानंददायिनि सहह्रीं ।। ब्रह्मदंडरेखे सह ह्रौं चित्स्वरूपे पाशांकुशालंकृते वद वद वाग्वादिनि श्रीं भ्रष्टमहीपालराज्यप्रदे ऐं वरदाश्रित हस्ते समस्तजनानंदकारिणि क्लीं क्लीं कामराजबिजाश्रये द्रां द्रीं क्लीं ब्लूं सः क्षोभय २ क्षोभिणी हसौः हसः हसौः मथ २ अभय प्रदायिनि चतुर्भुजे त्रिनेत्रे प्रेतासनोच्चारिणि महाकपालमालालंकृते प्. १०६ब्) चंद्रकृतशेखरे त्रिपुरे भुक्तिमुक्तिफलप्रदे ओं ऐं ओं नमः सिद्धं अकारादि ५१ क्षमित्यादि विलोमेन अकारांतं ५१ द्धंसिमः न ओं ऐं ओं सर्वबीजमातः श्रीसमयिनि मम मनोरथं देहि २ स्वाहा ।। एवं जपित्वा एं ईं सौः श्रीमंत्रराजाय नमः ।। इति त्रैपुरमंत्रस्य पूजां विधाय त्रिपुराद्य महानाम्ना त्रये दशमहाविद्याः पूजयत् ।। तद्यथा ।। ओं ३ ऐं शौः सहलह्रीं शह्रौं ऐं सहह्रीं सहह्रं कामत्रिपुरायै नमः । ओं ३ ऐं ह्रीं क्लीं हसौः त्रिपुरभैरव्यै नमः ।। ओं ३ ऐं ह्रीं सः वाक् त्रिपुरायै नमः । ओं ३ ऐं ह्रीं श्रीं सौः महालक्ष्म्यै त्रिपुरायै नमः ।। ओं ३ ऐं ह्रीं सौः वह्नि त्रिपुरायै नमः । ओं ३ ऐं क्लीं मोहिन्यै त्रिपुरायै नमः । ओं ३ ऐं क्लीं ब्लूं स्त्रीं भ्रामरी त्रिपुरायै नमः । ओं ३ ऐं ह्रीं श्रीं फ्रें हसौः त्रैलोक्या स्वामिन्यै त्रिपुरायै नमः । ओं ३ ऐं डां डीं डूं डैं डौं डः हंस्यै त्रिपुरायै नमः । ४ ऐं ऐं सौः कौलिकायै त्रिपुरायै नमः ।। ४ ऐं ऐं सौः चंडिकायै त्रिपुरायै नमः । ४ ऐं ऐं सौः तालुमध्येमायै त्रिपुरायै नमः । ४ ऐं ऐं सौः कपालांकुर वासिन्यै त्रिपुरायै ठः ठः नमः १३ यथाशक्ति जपित्वा रक्तपुष्पैः स्वसिरसि ऐं ईं सौः आत्मदेहाय नमः ।। प्. १०७अ) इति गंधाक्षतैश्च सप्तधा संपूज्य धूपदीपौ निवेद्य तस्मिन् त्रैपुरे देहे ऐं ईं सौः इति वनिता क्षोभकरीं महाकामकलां ध्यायेत् ।। ततः शोलकशंन्यासानुसंधानेन पठेत् ।। तत्र ।। शक्ति रुद्र मयं देहं मदीयं त्रिपुरे कुरु ।। देहि मे देव देवेशि नित्यं नित्यमभीप्सितं ।। १ ।। मस्तकं मंगला देवी ललाटं कुलसुंदरी ।। नैत्रयुग्मं महाकाली कर्णौ रक्षतु कुंडली ।। २ ।। कपाली कर्णगर्भं तु कपोलौ कमलावती ।। दंतान् रक्षतु चामुंडा चिबुकं मेरुवासिनी ।। ३ ।। भ्रूमध्यं कंठदेशं च रक्षेन् मे भुवनेश्वरी ।। जिह्वां सरस्वती रक्षेत् तालुकं तालुवासिनी ।। ४ ।। स्थातु मे कपिला स्कंधे स्कंधांते कुलमालिनी ।। कुक्षौ विनायकी स्थातु जयानंदा स्तनद्वये ।। ५ ।। कंठकूंपे महालक्ष्मीर्हृदय चंडभैरवी ।। ब्रह्माणी नाभिदेशे तु स्थातु ज्वालावली गुदे ।। ६ ।। लिंगे लिंगप्रभा चैव मुंडिनी मेदमंडले ।। नाडीचक्रे माहावेगा उद्भटा दक्षिणे करे ।। ७ ।। वामहस्ते महामाया विद्या हस्तांगुलिषु च ।। वैष्णवी वामपादे च स्थातु चक्रायुधान्विता ।। ८ ।। प्. १०७ब्) तथा दक्षिणपादांते एकपादा सुरेश्वरी ।। पादांगुलेषु कौबेरी रोमकूपे महोद्भवा ।। ९ ।। मंडली नखमूलेषु वाराही मेदमंडले ।। जलंधरी जलस्थाने कामाक्षी काममध्यगा ।। १० ।। उद्भटा नाभिलिंगाते नासाग्रे पूर्णपीठगा ।। पृष्ठवंशे जया देवी अस्थिसंधिषु चर्चिका ।। ११ ।। चर्मधारी त्वचायां तु स्थातु नित्यं महायशाः ।। रक्तमध्ये मनोंते च स्थातु मे हंसिनी शुभा ।। १२ ।। महेश्वरी च कौमारी द्वे चैते स्थातु चांगयोः ।। वामदक्षिणयोश्चैव धीराली कटिसंधिषु ।। १३ ।। देवी रक्षतु मे गात्रं मस्तकं कुलकामिनी ।। पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। १४ ।। पंचभुतेषु भूतेशी सदारक्षतु मे कुलं ।। राज्ये रक्षतु मे चैंद्री प्रजां चैव प्रजावती ।। १५ ।। माया ददातु मे नित्यं धनं धान्यं यशस्तथा ।। रणे राजकुले चैव शत्रुमध्ये महावने ।। १६ ।। रक्तनेत्रा महादेवी करोतु मम चिंतितं ।। समयासमयं रक्षेद्विद्यां विद्या कुलागमे ।। १७ ।। साधकानां जगंनाथा भुक्तिमुक्तिफलप्रदा ।। प्राणा करोतु मे सिद्धिं त्रैलोक्य विजया सुखं ।। १८ ।। प्. १०८अ) घंटाली या महाविद्या सा मे यछतु मंगलं ।। सप्तकोटि सहस्राणां मंत्राणां नायका तु या ।। १९ ।। सा मे सुरेश्वरी देवी ससिद्धिं च प्रयछतु ।। उल्कामुखी मुखे स्थातु मार्जारी देह संधिषु ।। २० ।। भद्रकालि तु या विद्या सा मे स्थातु शिखामय ।। त्रिकोणं च त्रिधावर्तं त्रैपुरं चक्रमुत्तमं ।। २१ ।। मस्तके स्थातु मे नित्यं तस्यांते बहुरूपिणी ।। पूर्वोक्ता त्रैपुरी शक्तिः स्थातु मे मन्मथोत्थिता ।। २२ ।। क्षोभयंती ज * त्सर्वं मदिरानंद विह्वला ।। निवासं कुरु मे देहे सांप्रतं दिव्ययोगिनी ।। २३ ।। एह्ये हि त्वं महादेवी सिद्धियोगिनि मे कुले ।। शत्रुणां घातनार्थाय जंतुनां भोगदायिनी ।। २४ ।। महायौगिनि देहेस्मिन् सर्वदा निलयं कुरु ।। माहेंद्री च शिखा स्थातु योनिमध्ये गणेश्वरी ।। २५ ।। प्रेतासना सुविख्याता करोतु कुशलं मम ।। डाकीनी पूर्वभागे च मम सौख्यं प्रयछतु ।। २६ ।। साकि पश्चिमांगेषु दक्षिणे चापि राक्षसी ।। वामभागे महामाया करोतु कुशलं मम ।। २७ ।। सा स्मदीयं शिरः स्थातु सदा तिष्ठतु भैरवी ।। या विशाला विशालाक्षी निर्मला मलवर्जिता ।। २८ ।। प्. १०८ब्) सा योगिनी महायोगा स्थातु श्रीमस्तके मम ।। या कालकल्पिता काली कालरात्रीति कथ्यते ।। सा योगिनी माहायोगा स्थातु श्रीमस्तके मम ।। २९ ।। या निशाचरराजन्य पूजिता च निशाचरी ।। सा योगिनी ।। ३० ।। या चोर्ध्वकेशिका नाम्नी मुक्तकेशी महाभया ।। सा योगिनी० ।। ३१ ।। या वीरेति समाख्याता वीराणां जयदायिनी ।। सा योगिनी ।। ३२ ।। या मालिनि समाख्याता नासाग्रे बिंदुमालिनी ।। सा योगिनी० ।। ३३ ।। या कंकाल करालांगी चंडकंकाल कुंडला ।। सा योगिनी० ।। ३४ ।। प्रचंडा च विरूपाक्षी विरूपा विश्वरूपिणी ।। सा योगिनी० ।। ३५ ।। खड्वांगी कथ्यते या च रौद्री रुद्रेण पूजीता ।। सा योगिनी० ।। ३६ ।। कलियोगि प्रसिद्धा च या लोके श्रूयते कलौ ।। सा० ।। ३७ ।। प्रेताक्षी कथ्यते या च फेत्कारोत्कट गर्जिताः ।। सा० ।। ३८ ।। धुम्राक्षी या समाख्याता शास्त्रेस्मिन् योगिनी मते ।। सा० ।। ३९ ।। घोररुपा महादेवी कथ्यते या कुलागमे ।। सा० ।। ४० ।। विश्वरूपा विशेषेण करोति च जगत्त्रयं ।। सा० ।। ४१ ।। भयंकरी समादिष्टा या चोक्ता वै कुलागमे ।। सा० ।। ४२ ।। प्. १०९अ) कपालमालिका प्रौक्ता या देवी मुंडधारिणी ।। सा० ।। ४३ ।। भीषणा भैरवी नाम या देवी भीमविक्रमा ।। सा० ।। ४४ ।। न्यग्रोधवासिनी या च कथ्यते च सुरार्चिता ।। सा० ।। ४५ ।। भैरवी भीषया च भैरवाष्टक वंदिता ।। सा० ।। ४६ ।। प्रोच्यते दीर्घलंबोष्ठी महामया महाबला ।। सा० ।। ४७ ।। खड्वांगी या महाशक्तिः संसारार्णवत्तारिणी ।। सा० ।। ४८ ।। या समस्तेषु मंत्रेषु प्रोच्यते मंत्रवादिनी ।। सा० ।। ४९ ।। कालघ्नी कथ्यते या च युगांते परमेश्वरी ।। सा० ।। ५० ।। ग्राहिणीति समाख्याता सुरासुर महोरगैः ।। सा० ।। ५१ ।। चक्रिणी गद्यते या च एकपादा त्रिलोचना ।। सा० ।। ५२ ।। या विश्वबाहुका देवी विश्वनाथप्रिया सदा ।। सा० ।। ५३ ।। दर्शनेषु समस्तेषु विदिता भुवनेश्वरी ।। सा० ।। ५४ ।। कंटकोछेदनार्थाय शास्त्रे या कंटकी स्मृता ।। सा० ।। ५५ ।। कीलकी कथ्यते या च सप्तहस्ता महाबला ।। सा० ।। ५६ ।। संग्रामे या महादेवी महामारीति कथ्यते ।। सा० ।। ५७ ।। यमदूतीति विख्याता या सुरासुरपूजिता ।। सा० ।। ५८ ।। प्. १०९ब्) करालिनीति या देवी महामया महाबला ।। सा० ।। ५९ ।। ललितांबा महाराजी सर्वं चक्रैक नायका ।। सा० ।। ६० ।। नासाग्रे कौलिनी स्थातु मदनाक्षी तथा मुखे ।। व्योमजंघे कपाले च तालुके चापि हारिणी ।। ६१ ।। द्राविणी क्षोभिणी चैव स्तंभिनी मोहिनी तथा ।। रौद्रकर्मा महाघंटा डामरि त्वरिता मति ।। ६२ ।। देवी रक्षतु मे गात्रं मस्तकं कुलनायकी ।। भूमिरापस्तथा तेजो वायुराकाशमेव च ।। ६३ ।। पंचभूतेषु भूतेशी सदारक्षतु मे कुलं ।। राज्यं ददातु मे चैंद्री प्रजां चैव प्रजावती ।। ६४ ।। माया ददातु मे नित्यं धनं धान्यं यशस्तथा ।। रणे राजकुले चैव शत्रुमध्ये महाब * ।। ६५ ।। रक्तनेत्रा महादेवी करोतु मम चिंतितं ।। समयासमयं रक्षेद्विद्या विद्या कुलागमे ।। ६६ ।। साधकानां जगन्नाथ भुक्तिमुक्तिफलप्रदा ।। द्विजटी त्रिजटी प्रोक्ता कंदली दविताखिला ।। ६७ ।। गायत्री चांबिका तारा पार्वति कमला प्रभा ।। मादिनी मदनोद्भावा मंदारी मदनातुरा ।। ६८ ।। भीषणाभीषणी नाम प्रेतसिद्धा बिभीषणा ।। क्षुधात्तृष्ठा तथा निद्रा कांतिर्वृधिस्तथा द्युतिः ।। ६९ ।। प् ११०अ) संध्याधृत्ती रत्तिः क्षांतिर्ह्यनिशं परिपठ्यते ।। सुरनाथेति विख्याता नगरे नरदेवता ।। ७० ।। ग्रा * देवी ह्यधिष्ठात्री पीठे पीठेश्वरीं विदुः ।। कावेरी नर्मदा चैव गंगेति यमुनोच्यते ।। ७१ ।। गोदावरी महापुण्या प्रोच्यते चाप्यरुंधतीं ।। त्रैलोक्येपि महादेवी स्त्री नाम्नी या प्रकाशिता ।। ७२ ।। सा देवी रूपलक्षे तु स्थातु श्रीहृदये मम ।। सुवर्ण रेखिनी प्रोक्ता विद्या सा प्रोच्यते किल ।। ७३ ।। निर्मूलिनि भुजंगानां सा करोतु सुखं मम ।। कुरु कुल्लेति विख्याता पक्षिराज मुखोद्भवा ।। ७४ ।। या विद्या सा महारूपा जिह्वाग्रे स्थातु मे सदा ।। ओंकारिणीति विख्याता देहे स्थातु सदा मम ।। ७५ ।। विघ्नापहारिणी नाम कलिरूपविदारिणी ।। भेतंडा स्थातु मे कंठे तोतला स्थातु मस्तके ।। ७६ ।। यथा सुबलरेखापि मूले स्थातु सदा मम ।। जांगली विषनाशाय वाचां सिद्धिं करोतु मे ।। ७७ ।। सर्वसिद्धिकरी विद्या भुक्तिमुक्तिफलप्रदा ।। अहं ब्रह्मा अहं विष्णुरहं देवो महेश्वरः ।। सर्वभूतनिवासोहं लोकेश्री शक्तिचिंतकंः ।। ७८ ।। शक्तिन्यासेन पूतेन शरीरेण सुरासुराः ।। प्. ११०ब्) प्रदत्ता देशमात्रेण आज्ञां कुर्वंतु मे सदा ।। ७९ ।। यत्किंचिद्योगिनीरूपं त्रैलोक्ये चापि शंकर ।। तत्सर्वं तिष्ठते देहे शक्तिन्यासे उपासिते ।। ८० ।। कामिनी कुरुते चापि या न्यासं शक्तिनिर्मितं ।। तां देवीं दिव्यरुपस्थां संसारे त्रिपुरां विदुः ।। ८१ ।। नमोस्तु ते जन्मातर्नमोस्तु भुवनेश्वरी ।। नमो भोगप्रदे देवि नमो देवि महेश्वरि ।। ८२ ।। प्रकटागोपिता सर्वा निर्वाणा भैरवी शिवा ।। संभ्रमा विजया हंसा शुभा सा जलदेवता ।। ८३ ।। यक्षिणी चूडा कन्या च तथा चाकाशगामिनी ।। भूचरी चरिता कुंभिः सर्वागम निवाशिनी ।। ८४ ।। रंगिनी देवमैत्री च प्रसिद्धा मदिरालिका ।। पूजिता सर्वसिध्यर्थं शास्त्रेऽस्मिन्योगिनी मते ।। ८५ ।। स्थायिनी कथ्यते सद्भिः सा नंदा वनवासिनी ।। चतुषष्ठ्या श्रयादेवी योगिन्यो येन चिंतिताः ।। ८६ ।। आधारे लीयमानासु स योगी योगविद्भवेत् ।। ललाटे मंडला स्थातु विरजा स्थातु मस्तके ।। ८७ ।। यकाक्षी दक्षिणे स्कंधे वामे चैव त्रिलोचना ।। जयंती स्थातु मे कुक्षौ कट्यां कंदर्प कुंडली ।। ८८ ।। मालिनी लिंग संधौ च हृदि स्थातु समाधिनी ।। प्. १११अ) अंबिका पृष्ठवंशे च पार्श्वयो स्थातु मेदिनी ।। ८९ ।। दिग्गजांती नराग्रे च नागेंद्री नखसंधिषु ।। व्याघ्री चक्री च जंघायां स्थातु पादले मही ।। ९० ।। अमृता शंखिनी रंध्रे लोचने च विलासिनी ।। कालिंदी मूलजिह्वां च रक्तं रक्षतु रक्तिनी ।। ९१ ।। लांगली जांगलं रक्षेदस्थिनी चास्थिसंधिषु ।। मज्जिनी देहमज्जां तु शुक्रं शुक्रेश्वरी तथा ।। ९२ ।। त्वं च रक्षतु वेताली मम रोग प्रनाशिनी ।। उद्भटा कुरुते शांतिं सदैव मम विग्रहे ।। ९३ ।। पादापादतले स्थातु पथि रक्षतु पंथिनी ।। चौराग्नि राजसर्पेभ्यो भय रक्षतु भैरवी ।। ९४ ।। दुष्टानां दृष्टिबंधं तु करोतु बंधिनी सदा ।। चापेटीनी मया विद्या मंगलं मे करोतु सा ।। ९५ ।। मर्कटीघंटकर्णी च हनुमंती च रावणी ।। घुर्घुरी कीर्ति विख्याता वंदे विद्या चतुष्टयं ।। ९६ ।। चेटका ज्ञानदा विद्या कौमारी चरणांवली ।। विघ्नराजस्तुता नाम चतुष्टासंतानरूपिणी ।। ९७ ।। मूलाकाश स्थिता हंसी पातकी दलनोद्धता ।। दशैता मंत्रविद्यास्तु तिष्ठंतु मम मस्तके ।। ९८ ।। शुभामेग्रतः स्थातु लोहिता स्थातु दक्षिणे ।। प्. १११ब्) वामांगे रतिकाले च पश्चिमे स्थातु शृंखला ।। ९९ ।। शिखायां शंखिनी रक्षेद्वस्त्रे वस्त्रवती शुभा ।। कवचे कवचांगी च नेत्रे नेत्र कृतोत्सवा ।। १०० ।। तिष्ठंति योगिनीरूपास्त्रैलोक्ये स चराचरे ।। योगिन्यो या स्तुताः सर्वां गेहं कुर्वंतु मे वपुः ।। १०१ ।। पुत्राणां च तथा देयं भक्तानां च विशेषतः ।। शक्तिन्यासमिदं देयं न देवं यस्य कस्यचित् ।। १०२ ।। मनुष्याणां महीलोके चिंतितार्थफलप्रदं ।। यः करोति मम न्यासं षोढान्यासादिकं प्रभो ।। १०३ ।। स जीवन् शक्तिरूपो वै त्रैलोक्योन्मूलनक्षमः ।। शक्तिन्यास कृते जीवे यः कश्चिछेदको भवेत् ।। १०४ ।। कर्मणा मनसा वाचा तस्य तापो भविष्यति ।। शक्तिन्यासमिदं प्रोक्तं तुभ्यं शंकर मे प्रियं ।। १०५ ।। येन देह नियुक्तेन शक्तितुल्यो नरो भवेत् ।। कुपितः कुरुते योगी त्रैलोक्यस्यापि पातनं ।। १०६ ।। शक्तिन्यासयुतो वीरो नमस्कारेण शंकर ।। स्फोटनं कुरुते साक्षात् पाषाण प्रतिमादिषु ।। १०७ ।। इति शक्ति न्यासः ।। अथ श्रीषोडशार्णामूलविद्यान्यासः ।। तत्र मंत्रवर्णेभ्योऽमृतं स्रवंतीं तेनामृतेन निजशरीरमाप्लावयंती दीपाकारां ब्रह्मरंध्रस्थां महासौभाग्यदां श्रीविद्यां ध्यात्वा प्. ११२अ) दक्ष हस्तस्य मध्यमानामिकाभ्यां ब्रह्मरंध्रे प्रणव त्रितारादि नमोंतां मूलविद्यां न्यसेत् ।। १ ।। पुनस्तामुच्चार्य वामहस्तेन सौभाग्यदंडिणीं मुद्रां बध्वा वामकर्णप्रदेशे भ्रामयित्वा महत्सौभाग्यं मे देहि परसौभाग्यं दंडयामीति वामांगदेशे मूर्द्धादि पादांतं विद्यां तथैव न्यसेत् ।। २ ।। वामे मुष्टिं दृढं बद्ध्वा तर्जनीं प्रविसारयेत् ।। भ्रामयेद्वामकर्णातं मुद्रा सौभाग्य दंडिनी ।। १ ।। तथैव पुनस्तामुच्चार्य मम शत्रून्निगृह्णामीति मत्वा रिपु जिह्वाग्रहां मुद्रां दर्शयन् पादमूले न्यसेत् ।। ३ ।। अंगुष्ठगर्भितं मुष्टिं बध्नीयाद्वामपाणिना ।। रिपु जिह्वाग्रहाख्येयं मुद्रोक्ता शत्रुनाशिनी ।। १ ।। तथैव तामुच्चार्य त्रैलोक्यस्याहं कर्त्तेति ध्यायंस्त्रिखंडा मुद्रया ललाटे तिलकत्वेन न्यसेत् ।। ४ ।। तथैव तामुच्चार्य वदने वेष्टनत्वेन विन्यसेत् ।। ५ ।। तथैव तां उ० । दक्षिणकर्णादि वामकर्णांतं वेष्टनत्वेन मुखे विन्यसेत् ।। ६ ।। पुनस्तथैव तां उ० ।। कंठादि मुखांतं विन्यसेत् ।। ७ ।। पुनस्तथैव तां उ० ।। प्. ११२ब्) प्रणवसंपुटितामापादतलं ।। ८ ।। मस्तकात् पादादि हृदयांतं च विन्यस्य ।। ९ ।। योनिमुद्रां बध्वा मूलविद्यया मुखे क्षिप्त्वा ।। १० ।। तथैव प्रणमेत् ।। ११।। इति श्रीविद्यापूर्णजगद्वशीकरन्यासः ।। अ * संमोहनन्यासः ।। तत्र श्रीषोडशार्णां स्मरन् देवी कांत्या त्रैलोक्यमरुणवर्णं ध्यायत्रनामिकां मूर्द्धानं परितो भ्रमयित्वा विन्यस्य ।। १ ।। श्रीषोडशार्णां तारादि नमोंतामंगुष्ठानामिकाभ्यां ब्रह्मरंध्रे विन्यस्य ।। २ ।। मणिबंध द्वये पृथक् । विन्यस्य ।। ४ ।। ललाटे च अनामिकेन विन्यसेत् ।। ५ ।। इति संमोहनन्यासः ।। अथ श्रीषोडशार्णा वर्णैः संहारन्यासः ।। तत्र पादयोः ४ प्रथम बीजं नमः ।। जंघयोः ४ द्वितीयं नमः ।। जान्वोः ४ तृतीयं नमः ।। कटयोः ४ चतुर्थं नमः ।। लिंगे ४ पंचमं नमः । पृष्ठे ४ षष्ठं नमः । नाभौ ४ सप्तमं० । पार्श्वयोः ४ अष्टमं ।। स्तनयोः ४ नवमं ।। अंसयोः ४ दशमं ।। कर्णयोः ४ एकादशं ।। ब्रह्मरंध्रे ४ द्वादशं ।। वदनें ४ त्रयोदशं ।। लिंगे ४ चतुर्दशं । कर्णशष्कुल्यों समिपे ४ पंचदशं । कर्णवेष्टनयोः ४ षोडशं बीजं नमः ।। प्. ११३अ) इति षोडशार्णैः संहारन्यासः ।। अथ षोडशार्णैः सृष्टिन्यासः ।। तत्र ब्रह्मरंध्रे । ४ प्रथमं बीजं नमः ।। ललाटे ४ द्वितीयं । नेत्रयोः ४ तृतीयं । कर्णयोः ४ चतुर्थं । घ्राणयोः ४ पंचमं । ओष्ठयोः ४ षष्ठं । दंतातरयोः ४ सप्तमं । दंतोर्ध्वे ४ अष्टमं ।। जिह्वायां ४ नवमं । मुखांतरे ४ दशमं । पृष्ठे ४ एकादशं । सर्वांगे ४ द्वादशं । हृदये ४ त्रयोदशं । स्तनयोः ४ चतुर्दशं । कुक्षौ ४ पंचदशं । लिंगे ४ षोडशं बीजं नमः । इति वर्णान्विन्यस्य समस्त सोडशार्णाविद्ययाव्यापकं विन्यसेत् ।। इति सृष्टिन्यासः ।। अथ स्थितिन्यासस्तद्वर्णैः ।। तत्र करद्वयांगुष्ठयोः ४ प्रथमं बीजं नमः । एवं तर्जन्योः ४ द्वितीयं । मध्यमयोः ४ तृतीयं । अनामिकयोः ४ चतुर्थं । कनिष्ठयोः ४ पंचमं । ब्रह्मरंध्रे ४ षष्ठं । मुखे ४ सप्तमं । हृदि ४ अष्टमं । नाभ्यादि पादांतं ४ नवमं ।। कंठादिनांभ्यंतं ४ दशमं । ब्रह्मरंध्रादि कंठातं ४ येकादशं ।। पादांगुष्ठयोः ४ द्वादशं । तर्जन्योः ४ त्रयोदशं ।। तन्मध्यमयोः ४ चतुर्दशं । तदनामयोः ४ पंचदशं । तत् कनिष्ठयोः ४ षोडशबीजं नमः ।। इति स्थितिन्यासः ।। अथ श्रीषोडशार्णायांः पंचविधवर्णन्यासः ।। प्. ११३ब्) त्र शिरसि ४ प्रथमं बीजं नमः ।। एवं मुखे ४ द्वितीयं नमः ।। दक्षनेत्रे ४ तृतीयं । वामनेत्रे ४ चतुर्थं । दक्षकर्णे ४ पंचमं । वामकर्णे ४ षष्ठं । दक्षनासापुटे ४ सप्तमं । वामनासापुटे ४ अष्टमं । दक्षगंडे ४ नवमं । वामगंडे ४ दशमं । ओष्ठे ४ एकादशं । अधरे ४ द्वादशं । मुखाभ्यंतरे ४ त्रयोदशं । ऊर्ध्वदंते ४ चतुर्दशं । अधो दंते ४ पंचदशं । वदने ४ षोडशं बीजं नमः ।। इत्येकः प्रकारः ।। तत्र सिरसि ४ प्रथमं बीजं नमः । सीमंते ४ द्वितीयं । भाले ४ तृतीयं । भ्रूद्वये ४ चतुर्थं । नासायां । ४ पंचमं । वदने ४ षष्ठं । दक्षबाहुमूले ४ सप्तमं । तन्मध्यसंधौ ४ अष्टमं । तन्मणिबंधे ४ नवमं । तदंगुलिमूले ४ दशमं । तद्दग्रे ४ एकादशं । वामबाहुमूले ४ द्वादशमं ।। तन्मध्ये ४ त्रयोदशं । तन्मणिबंधे ४ चतुर्दशं । तदंगुलिमूले ४ पंचदशं । तदग्रे ४ षोडशं बीजं नमः ।। इति द्वितीयः प्रकारः । ततः । शिरसि ४ प्रथमं । एवं ललाटे ४ द्वितीयं । दक्षनेत्रे ४ तृतीयं । वामने * ४ चतुर्थं । मुखे ४ पंचमं । जिह्वाग्रे ४ षष्ठं । दक्षोरुमूले ४ सप्तमं । जानुनि ४ अष्टमं ।। तद्गुल्फे ४ नवमं । तदंगुलि मूले ४ दशमं । तदंगुल्यग्रे ४ एकादशं ।। वामोरुमूले ४ प्. ११४अ) द्वादशं । तज्जानुनि ४ त्रयोदशं । तद्गुल्फे ४ चतुर्दशं । तदंगुलिमूले ४ पंचदशं । तदंगुल्यग्रे षोडशं बीजं नमः ।। इति तृतीय प्रकारः ।। तत्र शिरसि ४ प्रथमं । मुखवृत्ते द्वितीयं । दक्षनेत्रे ४ तृतीयं । वामे ४ चतुर्थं । दक्षकर्णे ४ पंचमं । वामकर्णे ४ षष्ठं । दक्षघ्राणे ४ सप्तमं । वामघ्राणे ४ अष्टमं । दक्षगंडे ४ नवमं । वामगंडे ४ दशमं । ओष्ठे ४ एकादशं । अधरे ४ द्वादशं । ऊर्ध्व दंते ४ त्रयोदशं । अधोदंते चतुर्दशं । मूर्ध्नि ४ पंचदशं । जिह्वायां ४ षोडशं नमः ।। इति चतुर्थ प्रकारः ।। अथ ललाटे ४ प्रथमं । गले ४ द्वितीयं । हृदि ४ तृतीयं । नाभौ ४ चतुर्थं । मूलाधारे ४ पंचमं । ब्रह्मरंध्रे ४ षष्ठं । हृदि ४ सप्तमं । मूलाधारे ४ अष्टमं । पुनर्मूलाधारे नवमं ।। हृदि ४ दशमं । ब्रह्मरंध्रे ४ एकादशं । दक्षकरतले ४ द्वादशं । कामकरतले ४ त्रयोदशं । दक्षपादे चतुर्दशं । वामपादे ४ पंचदशं । हृदये ४ सोडशं नमः ।। इति पंचम प्रकारः ।। ईथं न्यासं विधाये प्रणवसंपुटितां श्रीषोडशार्णां सर्वांगे व्यापकत्वेन विन्यस्य पुनस्तथा विद्यां तां विद्यां हृदये न्यसेत् ।। एते न्यासाः षोडशार्णोपासकैरेव कार्यः । प्. ११४ब्) नान्यैरिति गुरुशासनं ।। इति करशुध्यादयो न्यासाः ।। श्रीविद्यानंदनाथेन शिवयोः प्रिय सूनुना ।। कृते सौभाग्यरत्नाब्धौ तरंगो नवमो गमत् ।। १ ।। इति श्रीसच्चितानंदनाथचरणारबिंदद्वद्वांते वासिना श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे नवमस्तरंगः ।। ९ ।। अथोर्ध्वाम्नाय न्यासः ।। स च त्रिविधाः ।। महाषोढान्यासः । शंचरणादि षोडशमूलविद्या षडाधारमूलविद्यान्यासः । षडन्वयशांभवन्यासश्चेति ।। तत्र पराप्रासादेनोर्ध्वाम्नाय दीक्षितानां महाषोढान्यासमात्रे अधिकारः ।। चरणादि विद्यादीक्षितानां तदादि न्यासेष्वेवाधिकारः । न तु माहाषोढान्यासे । उभयविध दीक्षितानां सर्वत्रैवाधिकार इति ।। तत्रादौ महाषोढान्यासः । तत्र अस्य श्रीमहाषोढान्यासस्य ब्रह्मा ऋषिः जगतीछंदः । श्रीमदर्द्धनारो देवता श्रीविद्यांगत्वेन न्यासे विनियोगः । इति ऋष्यादिकं स्मृत्व्यमूर्द्धादिषु विन्यस्य । अंगं न्यासं कुर्यात् । अंगन्यासा तु प्. ११५अ) अंगुली देहवक्त्रात्मकः ।। तत्रादावंगुलिन्यासः । तत्रांगुष्ठयोः । ओं ऐं ह्रीं श्रीं हसौः शौंः हों ईशानाय नमः ।। तर्जन्योः । ४ । २ हें तत्पुरुषाय नमः । मध्यमयोः ४ । २ हुं अघोराय नमः । अनामिकयोः ४ । २ हीं वामदेवाय नमः । कनिष्ठिकयोः ४ । २ हं सद्योजाताय नमः ।। १ ।। मूर्ध्नि ४ । २ हों ईशानाय नमः । मुखे ४ । २ हें तत्पुरुषाय नमः । हृदये ४ । २ हुं अघोराय नमः । गुह्ये ४ । २ हिं वामदेवाय नमः । पादयोः ४ । २ हं सद्योजाताय नमः ।। २ ।। मूर्ध्नि ४ । २ हों ईशानाय ऊर्ध्ववक्त्राय नमः । मुखे ४ । २ हें तत्पुरुषाय पूर्ववक्त्राय नमः । दक्षकर्णे ४ । २ हूं अघोराय दक्षीणवक्त्राय० । वामकर्णे ४ । २ हीं वामदेवायोत्तरवक्त्राय नमः । चोरकूपे ४ । २ हं सद्योजाताय पश्चिमवक्त्राय नमः । इति अंगन्यासः ।। अयं पंचवक्त्रन्यासः क्रमेणांगुष्ठादि पंचांगुलिभिरेकैकांगुलिनेकैकवक्त्रे न्यस्तव्याः ।। इति अंगन्यासं । विद्याय ततो हसां हसीमित्यादिभिः करशडंगन्यासं कृत्वा वक्ष्यमाणरूपं देवं हृदये ध्यात्वा न्यसेत् ।। तत्रादौ प्रपंचन्यासः । तद्यथा । ओं ऐं ह्रीं श्रीं हसौंः शौंः अं प्रपंचरूपायै श्रियै नमः । एवं सर्वत्र ।। ६ ।। आं द्वीपरूपायै मायायै० । ६ इं जलधिरूपायै कमलायै० । ६ प्. ११५ब्) ईं गिरिरूपायै विष्णुवल्लभायै० । ६ उं पत्तनरूपायै पद्मधारिण्यै नमः । ६ ऊं पीठरूपायै समुद्रतनयायैः० । ६ ऋं क्षेत्ररूपायै लोकमात्रे० । ६ ॠं च न रूपायै कमलवासिन्यै नमः ।। ६ ऌं आश्रमरूपायै इंदिरायै० । ६ ॡं गुहारूपायै मायायै० । ६ एं नदीरूपायै रमायै० । ६ ऐं चत्वररूपायै पद्मायै० । ६ ओं उद्भिज्जरूपायै नारायणप्रियायै० । ६ औं स्वेदजरूपायै सिद्धलक्ष्म्यै० । ६ अं अंडजरूपायै राजलक्ष्म्यै० । ६ अः जरायुजरूपायै महालक्ष्म्यै नमः । ६ कं लवरूपायै आर्यायै० । ६ खं त्रुटिरूपायै उमायै० । ६ गं कलारूपायै चंडिकायै० । ६ घं काष्ठारूपायै दुर्गायै० । ६ ऽऽनं निमेषरूपायै शिवायै० । ६ चं श्वासरूपायै अपर्णायै० । ६ छं घटिकारूपायै अंबिकायै० । ६ जं मूहूर्त्तरूपायै सत्यै० । ६ झं प्रहररूपायै ईश्वर्यै० । ६ ञं दिनरूपायै शांभव्यै० । ६ टं संध्यारूपायै ईशान्यै० । ६ ठं रात्रिरूपायै पार्वत्यै० । ६ डं तिथिरूपायै सर्वमंगला० । ६ ढं वाररूपायै दाक्षायण्यै० । ६ णं नक्षत्ररूपायै हैमवत्यै० । ६ तं योगरूपायै महामायायै० । ६ थं करणरूपायै माहेश्वयै० । ६ दं पक्षरूपायै मृडान्यै० । ६ प्. ११६अ) धं मासरूपायै रुद्राण्यै० । ६ नं राशिरूपायै शर्वाण्यै० । ६ पं ऋतुरूपायै परमेश्वर्यै न० । ६ फं अयनरूपायै काल्यै० । ६ बं संवत्सररूपायै कात्यायिन्यै० । ६ भं युगरूपायै गौर्ययै० । ६ मं प्रलयरूपायै भवान्यै० । ६ यं पंचभूतरूपायै ब्राह्मै० । ६ रं पंचतन्मात्ररूपायै वागीश्वर्यै० । ६ लं पंचकर्मेंद्रियरूपायै वाण्यै० । ६ वं पंचज्ञानेंद्रियरूपायै सावित्र्यै० । ६ शं पंचप्राणरूपायै सरस्वत्यै० । ६ षं गुणत्रयरूपायै गायत्र्यै० । ६ सं अंतःकरणचतुष्टयरूपायै वाक्प्रद्दायै० । ६ हं अवस्थात्रयरूपायै शारदायै० । ६ लं सप्तधातुरूपायै भारत्यै० । ६ ओं ऐं ह्रीं श्रीं हसौंः शौंः क्षं दोषत्रयरूपायै विद्यात्मिकायै नमः ।। इत्येकपंचाशछक्तिर्मातृकास्थाने विन्यस्य ततः ओं ऐं ह्रीं श्रीं हसौंः शौंः अकारादि क्षकांरांतां मातृकामुच्चार्य सकलप्रपंचाधिदेवतायै श्रीपरांबा देव्यै नमः । शौंः हसौंः श्री ह्रीं ऐं ओं सर्वांगे व्यापकं कुर्यात् ।। इति प्रपंचन्यासः ।। अथ भुवनन्यासः ।। तत्र पादयोः ओं ऐं ह्रीं श्रीं हसौः शौंः अं आं इं अतललोकनिलये शतकोटि गुह्याख्ययोगिनीमूलदेवता युताधारशक्त्यंबा देव्यै नमः ।। पादयोः ६ ईं उं ऊं वितललोकलोकनिलयशतकोटिगुह्यतरानंतयोगिनी मू० । प्. ११६ब्) जंघयोः ६ ऋं ॠं ऌं सुतललोकनिलयशतकोटि अतिगुह्याचिंत्ययोगिनि मू० । ६ जान्वोः ६ ॡं ऐं ऐं महातललोकनिलयशतकोटिमहागुह्य स्वतंत्रयोगिनी मू० । ऊर्वोः ६ ओं औं तलातललोकनिलयशतकोटिपरमगुह्येछायोगिनी मू० । स्फिच्योः । ६ अं अः रसातललोकनिलयशतकोटिरहस्य ज्ञा * योगिनी मू० । मूलाधारे ६ कं खं गं घं ऽऽनं पाताललोकनिलये शतकोटिरहस्यतरक्रियायोगिनी मू० । स्वाधिष्ठाने ६ चं० ४ भूर्लोकनिलयशतकोटि अतिरहस्य डाकिनी योगिनी मू० । मणिपूरके ६ टं० ४ भुवर्लोकनिलयशतकोटि महारस्य राकिनी योगिनी मू० । अनाहते ६ तं० ४ स्वर्लोकनिलयशतकोटिपरमरहस्य लाकिनी योगिनी मू० । विशुद्धौ ६ पं० ४ महर्लोकनिलयशतकोटिगुप्ततर काकिनी योगिनी मू० । आज्ञायां ६ यं० ३ जनलोकनिलयशतकोटिगुप्ततरसाकिनी योगिनी मू० । ललाटे ६ शं० ३ तपोलोकनिलयशतकोटि अतिगुप्तहाकिनी योगिनी मू० । ब्रह्मरंध्रे ६ लं क्षं सत्यलोकनिलल्ये प्. ११७अ) शतकोटिमहागुप्तयाकिनी योगिनी मूलदेवता युताधारशक्त्यंबा देव्यै नमः ।। इति विन्यस्य । ६ समस्तमातृकामूच्चार्य सकलभुवनाधिरूपायै श्रीपरांबा देव्यै नमः शौंः हसौंः श्रीं ह्रीं ऐं ओं इति व्यापकं कुर्यात् ।। इति श्रीभुवन्यासः ।। अथ मूर्तिन्यासः ।। तत्र शिरसि ओं ऐं ह्रीं हसौंः शौंः अंकेशवायाक्षरशक्त्यै नमः । शिरसि । मुखे ६ आं नारायणायाद्या शक्त्यै० । दक्षिणासे ६ इं माधवायेष्टदायै० । वामांसे ६ ईं गोविंदाय शांतायै० । दक्षपार्श्वे ६ उं विष्णवे उग्रायै० । वामपार्श्वे ६ ऊं मधुसूदनायोर्ध्व नयनायै० । दक्षकट्यां ६ ऋं त्रिविक्रमाय ऋध्यै० । वामकट्यां ६ ॠं वामनाय रूपिण्यै० । दक्षोरौ ६ ऌं श्रीधराय लुप्तायै नमः । वामोरौ ६ ॡऋ हृषिकेशाय लूनदोषायै० । दक्षजानुनि ६ एं पद्मनाभायैक नायिकायै० । वामजानुनि ६ ऐं दामोदरायै कारिण्यै० । दक्षजंघायां ६ ओं वासुदेवायौघवत्यै० वामजंघायां ६ औं संकर्षणायौर्वकायै० । दक्षपादे ६ अं प्रद्युम्नायांजनप्रभायै० । वामपादे अः अनिरुद्धायास्थिमालाधरायै० । दक्षपादाग्राद्यू *? मूलपर्यंतं ६ कं भवायकरभद्रायै० ।। प्. ११७ब्) वामपादाग्राद्यूरू मूलपर्यंतं ६ खं बं शर्वाय खगबलायै० । दक्षपार्श्वे ६ गं फं रुद्राय गरिमादिफलप्रदायै० । वामपार्श्वे ६ घं पं पशुपतये घोरपादायै० । दक्षदोर्मूले ६ ऽऽनं नं उग्राय पंक्तिनासायै० । वामदोर्मूले ६ चं धं महादेवाय चंद्रार्धधारिण्यै० । कंठे ६ छं दं भीमाय छंदोमययै० । वदने ६ जं थं ईशानाय जगत्स्थानायै० । दक्षकर्णे ६ झं तं तत्पुरुषाय झंकृत्यै० । वामकर्णे ६ ञं णं अघोराय ज्ञानदायै नमः । भाले ६ टं ढं सद्योजाताय टंकढक्वधरायै० । शिरसि ६ ठं डं वामदेवाय ठं प्रकृति डामर्यै० । मूलाधारे ६ मयं ब्रह्मणे यक्षिण्यै० । स्वाधिष्ठाने ६ रं प्रजापतये रंजिन्यै० मणिपूरके । ६ लं वेधसे लक्ष्म्यै० । अनाहते ६ वं परमेष्ठिने वज्रिण्यै० । विशुद्धौ ६ शं पितामहा यशशिधरायै० । आज्ञायां ६ षं विधात्त्रे षडाधारालयायै० । अर्द्धेंदौ ६ सं विरिंचये सर्वनायिकायै० । भालांते ६ हं स्रष्ट्रे हसिताननायै० । नादे ६ लं चतुराननाय ललितायै० । नादांते ६ क्षं हिरंण्यगर्भाय क्षमायै नमः इति विन्यस्य । ओं ऐं ह्रीं श्रीं हसौंः सहौंः सकलमातृकामुच्चार्य सकलत्रिमूर्त्यात्मिकायै प्. ११८अ) श्रीपरांबा देव्यै नमः शौंः हसौंः श्रीं ह्रीं ऐं ओं इति व्यापकं कुर्यात् ।। इति मूर्तिन्यासः ।। अथ मंत्रन्यासः ।। तत्र मूलाधारे ओं ऐं ह्रीं श्रीं हसौंः शौंः अं आं इं एकलक्षकोटिभेदप्रणवाद्येकाक्षरात्मिकाखिलमंत्राधिदेवतायै सकलफलप्रदायै एककूटेश्वर्यंबा देव्यै नमः । स्वाधिष्ठाने ६ ईं उं ऊं द्विलक्षकोटिभेद हंसादि द्व्यक्षरात्मकाखिलमंत्राधिदेवतायै सकलफलप्रदायैं त्रिकूटेश्वर्यंबा देव्यै नमः । अनाहते ६ ॡं एं ऐं चतुर्लक्षकोटिभेद चंद्रादि चतुरक्षरात्मकाखिलमंत्राधिदेवतायै चतुःकूटेश्वर्यंबा देव्यै नमः ।। विशुद्धौ ६ ओं औं अं अः पंचलक्षकोटिभेद सूर्यादि पंचाक्षरात्मिकाखिल० पंचकूटेश्व० । आज्ञायां ६ कं खं गं षट्लक्षकोटिभेद स्कंदादि षडक्षरात्मकाखिल० षट्कूटेश्व० । इं बिदौ ६ घं ऽऽन चं सप्तलक्षकोटिभेदगणपत्यादि सप्ताक्षरात्मकाखिल० सप्तकूटेश्व० । अर्द्धेंदौ ६ छं जं सं अष्टलक्षकोटिभेद बटुकाद्यष्टाक्षरात्मकाखिल० अष्टकूटेश्व० । रोधिन्यां ६ ञं टं ठं नवलक्षकोटिभेद ब्रह्मादि नवाक्षरात्मकाखिल० नवकूटेश्व० । प्. ११८ब्) नादे ६ डं ढं णं दशलक्षकोटिभेद विष्णवादि दशाक्षरात्मकाखिल० दशकूटे० । नादांते ६ तं थं दं एकादशलक्षकोटिभेद रुद्राद्येकादशाक्षरात्मकाखिल० एकादशकूटेश्व० । शक्तौ ६ धं नं पं द्वादशलक्षकोटिभेदवाण्यादिद्वादशाक्षरात्मकाखिल० द्वादशकूटेश्व० । व्यापिकायां ६ फं ब मं त्रयोदशलक्षकोटिभेद लक्ष्म्यादि त्रयोदशाक्षरात्मकाखिल० त्रयोदशकूटेश्व० । समनास्थाने ६ मं यं र.ं चतुर्दशलक्षकोटिभेदगौर्यादि चतुर्दशाक्षरात्मकाखि० चतुर्दशकूटेश्व० । उन्मन्यां ६ लं वं शं पंचदशलक्षकोटिभेद दुर्गादिपंचदशाक्षरात्मकाखिल० पंचदशकूटेश्व० । ध्रुवमंडले ६ षं सं हं लं क्षं षोडशलक्षकोटिभेद त्रिपुरादिषोडशाक्षरात्मकाखिलमंत्राधिदेवतायै सकलफलप्रदायै षोडशकूटेश्वर्यंबा देव्यै नमः । ततः ओं ऐं ह्रीं श्रीं हसौंः शौंः कलमातृकामुर्च्चार्य सकलमंत्राधिदेवतायै श्रीपरांबा देव्यै नमं शौंः ह्सौंः श्रीं ह्रीं ऐं ओं इति व्यापकं कुर्यात् ।। इति मंत्रन्यासः । अथ दैवतन्यासः ।। तत्र दक्षपादे ओं ऐं ह्रीं श्रीं हसौंः शौंः अं आं प्. ११९अ) सहस्रकोटि ऋषिकुलसेवितायै निवृत्यंबा देव्यै नमः ।। वामपादे ६ इं ईं सहस्रकोटियोगिनी कुलसेवितायै प्रतिष्ठांबा देव्यै० । दक्षगुल्फे ६ उं ऊं सहस्रकोटितपस्विकुलसेवितायै विद्यांबा देव्यै० । वामगुल्फे ६ ऋं ॠं सहस्रकोटिशांतकुलसेवितायै शांत्यंबा देव्यै नमः । दक्षजंघायां ६ ऌं ॡं सहस्रकोटिमुनिकुलसेवितायै शात्यतीतांबां देव्यै० । वामजंघायां ६ ऐं ऐं सहस्रकोटिदैवतकुलसेवितायै हृल्लेखांबा देव्यै० । दक्षजानुनि ६ ओं औं सहस्रकोटिराक्षसकुलसेवितायै गगनांबा देव्यै० । वामजानुनि ६ अं अः सहस्रकोटि विद्याधरकुलसेवितायै रक्तांबा देव्यै० । दक्षोरौ ६ कं खं सहस्रकोटिसिद्धकुलसेवितायै महोछुष्मांबा देव्यै० । वामोरौ ६ गं घं सहस्रकोटिसाध्यकुलसेवितायै करालिकांबा देव्यै० । दक्षोरुमूले ६ ऽऽनं चं सहस्रकोटि अप्सरः कुलसेवितायै जयांबा देव्यै० । वामे ६ छं जं सहस्रकोटिगंधर्वकुलसेवितायै विजयांबा देव्यै० । दक्षपार्श्वे ६ झं ञं सहस्रकोटिगुह्यकुलसेवितायै अजितांबा देव्यै० । वामपार्श्वे ६ टं ठं सहस्रकोटि यक्षकुलसेवितायै अपराजितापरांबा देव्यै० । दक्षस्तने प्. ११९ब्) ६ डं ढं सहस्रकोटिकिंन्नरकुलसेवितायै वामांबा देव्यै० । वामस्तने ६ णं तं सहस्रकोटिपन्नगकुलसेवितायै ज्येष्ठांबा० । दक्षदोर्मूले ६ थं दं सहस्रकोटिपितृकुलसेवितायै रौद्र्यंबा दे० । वामदोर्मूले ६ ध नं सहस्रकोटिगणेश्वरकुलसेवितायै मायांबा० । दक्षभुजे ६ पं फं सहस्रकोटिभैरवकुलसेवितायै कुंडलिन्यंबा० । वामभुजे ६ बं भं सहस्रकोटिबटुककुलसेवितायै काल्यंबा० । दक्षांसे ६ मं यं सहस्रकोटिक्षेत्रेशकुलसेवितायै कालरात्र्येंबा० । वामांसे ६ रं लं सहस्रकोटिप्रथमकुलसेवितायै भगवत्यंबा० । दक्षकर्णे ६ वं शं सहस्रकोटि ब्रह्मकुलसेवितायै सर्वेश्वर्यंबा० । वामकर्णे ६ षं सं सहस्रकोटिविष्णुकुलसेवितायै सर्वज्ञांबा० । भाले ६ हं लं सहस्रकोटिरुद्रकुलसेवितायै सर्वकर्त्र्यंबा दे० । ब्रह्मरंध्रे ६ क्षं सहस्रकोटिचराचरकुलसेवितायै कुलशक्त्यंबा देव्यै नमः । ततः ६ सकलमातृकामुच्चार्य समस्तदैवताधिरूपायै श्रींपरांबा देव्यै नमः शौंः हसौंः श्री ह्रीं ऐं ओं इति व्यापकं कुर्यात् ।। इति दैवतन्यासः ।। अथ मातृकान्यासः ।। प्. १२०अ) तत्र मूलाधारे ओं ऐं ह्रीं श्रीं हसौंः शौंः कं० ४ अनंतकोटिभूचरीकुलसहितायै आं क्षां मंगलांबा देव्यै० । आं क्षां ब्रह्माण्यंबा देव्यै अनंतकोटिभूतकुलसहिताय अं क्षं मंगलनाथाय अं क्षं असितांगभैरवाय नमः ।। स्वाधिष्ठाने ६ चं० ४ अनंतकोटिखेचरीकुलसहितायै ईं लां चर्चिकांबा देव्यै ईं लां माहेश्वर्यंबा देव्यै अनंतकोटिवेतालकुलसहिताय इं लं चर्चिकनाथाय इं लं रु रु भैरवाय नमः । मणिपूरके ६ टं० ४ अनंतकोटिपातालचरीकुलसहितायै ऊं हां योगेश्वर्यंबा देव्यै ऊं हां कौमार्यंबा देव्यै अनंतकोटिपिशाचकुलसहिताय उं हं योगेश्वरनाथाय उं हं चंडभैरवाय नमः ।। अनाहते ६ तं० ४ अनंतकोटिदिक्चरी कुलसहितायै ॠं सांहरसिद्धांबा देयवै ॠं सां वैष्णव्यंबा देव्यै अनंतकोटि दिकचरकुलसहिताय ऋं सं हरसिद्धनाथाय ऋं सं क्रोधभैरवाय नमः । विशुद्धौ ६ पं० ४ अनंतकोटि सहचरी कुलसहितायै ऌं षां भट्टिन्यंबा देव्यै ॡ षां वाराह्यंबा देव्यै अनंतकोटिब्रह्मराक्षसकुलसहिताय ऌं षं भट्टिनाथाय ऌं षं उन्मत्ते प्. १२०ब्) भैरवाय नमः ।। आज्ञायां ६ यं ३ अनंतकोटिगिरिचरीकुलसहितायै ऐं शां किलि किलांबा देव्यै ऐ शां इंद्रांण्यंबा देव्यै अनंतकोटिचेटककुलसहिताय एं शं किलि किलनाथाय एं शं कपालभैरवाय नमः ।। भाले ६ शं ३ अनंतकोटिवनचरीकुलसहितायै औं वां कालरात्र्यंबा देव्यै औं वा चामुडांबा देव्यै अनंतकोटि प्रेतकुलसहिताय ओं वं कालरात्रिनाथाय ओं वं भाषणभैरवाय नमः । ब्रह्मरंध्रे ६ लं क्षं अनंतकोटिजलचरीकुलसहितायै अः लां भीषणांबा देव्यै अः लां महालक्ष्म्यंबा देव्यै अनंतकोटिकूष्माडकुलसहिताय अं लं भीषणनाथाय अं लं संहारभैरवाय नमः ।। ततः ओं ऐं ह्रीं श्रीं हसौंः शौंः अं आं ५१ समस्तमातृका भैरवादि देवतायै श्रीपरांबा देव्यै नमः शौंः हसौंः श्रीं ह्रीं ऐं ओं इति व्यापकं कुर्यात् ।। इति मातृकान्यासः ।। इति महाषोढान्यासः ।। प्रपंचो भुवनो मुर्तिन्मंत्रः दैवत मातरः ।। महाषोढाहुयो न्यास सर्वन्यासो तमोतमः ।। ततः पूर्वोक्तैः हसां हसीं इत्यादिभिः करषडंगन्यासं विधाय देवं ध्यायेत् तद्यथा ।। प्. १२१अ) अमृतार्णव मध्योद्यत्स्वर्ण द्वीपे मनोरमे ।। कल्पवृक्षवनांतस्थै नवमाणिक्यमंडपे ।। १ ।। नवरत्नमय श्रीमत्सींहासनगतांबुजे ।। त्रिकोणांतः समासीनं चंद्रसूर्यशतप्रभं ।। २ ।। अर्द्धाबिका समायुक्तं प्रविभक्तविभूषणं ।। कोटिकंदर्पलावण्यं सदाषोडशवार्षिकं ।। ३ ।। मंदस्मित मुखो भोजं त्रिनेत्रं चंद्रशेखरं । दिव्यांबर स्रगालेपं दिव्याभरणभूषितं ।। ४ ।। पानपात्रं च चिन्मुद्रां त्रिशूलं पुस्तकं करैः ।। विद्यां संसदि बिभ्राणं सदानंदमुखे क्षणं ।। ५ ।। महाषोढोदिता शेष देवतागणसेवितं ।। एवं चित्तांबुजे ध्यायेदर्द्धनारीश्वरं शिवं ।। ६ ।। पुं रूपं वा स्मरेद् देवि स्त्रीरूपं वा विचिंतयेत् ।। अथवा निष्कलं ध्यायेत् सच्चिदानंदलक्षणं ।। ७ ।। सर्वन्तेजो मयं ध्यायेत् स चराचर विग्रहं ।। इति स्वाभेदेन ध्यात्वा योनिलिंगधेनुकपालज्ञानत्रिशूलपुस्तकवनमाला नमस्कार महामुद्रा इति दशमुद्रा विरच्य शिरसि श्रीगुरुं ध्यायेत् ।। यथा ।। सहस्रदलपंकजे सकलसीतरश्मिप्रभं प्. १२१ब्) वराभयकरांबुजं विमलगंधपुष्पांबरं ।। प्रसन्नवदने क्षणं सकलदेवतारूपिणं स्मरे छिरशि संततं तदभिधानपुर्वं गुरुं ।। १ ।। इति श्रीगुरु ध्यात्वा ।। तद्विद्यया तत्पादुकां शिरसि विन्यस्य प्रणम्य स्वगुरुकृतं स्वनाम स्वमूलाधारे स्मृत्वा शिवरूपं स्वात्मानं ध्यायेत् ।। अथ महाषोढान्यासफलं ।। श्रीकुलार्णवे ।। एवं न्यासे कृते देवि साक्षात् परशिवो भवेत् ।। मंत्री न चात्रसंदेहो निग्रहानुग्रहे क्षमः ।। १ ।। महाषोढा ह्वयंन्यासं यः करोति दिने दिने ।। देवाः सर्वे नमस्यंति तंत्रमामि न संशयाः ।। २ ।। महाषोढा ह्वयंन्यासं यत्र मंत्री न्यसेत् ततः ।। दिव्यक्षेत्रं समुद्दिष्टं समताद्दशयोजनं ।। ३ ।। कृत्वान्यासमिमं देवि यत्र गछति मानवः ।। तत्र श्रीर्विजयो लाभः समान्यः पुरुषः प्रियो ।। ४ ।। महाषोढा कृतन्यासस्त्वदीक्षायाभि वंदते ।। समासान् मृत्युमाप्नोति यदि शता शिवः स्वयं ।। ५ ।। वज्रपंजरनामानमेनं न्यासं करोति यः ।। दिव्यांतरिक्षभूशैल्य जलारण्यनिवासिनः ।। ६ ।। उद्दंडभूतवेताल देवरक्षोग्रहादयः ।। भयग्रस्तेन मनसा नेक्षंते साधकं प्रिये ।। ७ ।। प्. १२२अ) महाषोढा ह्वयं न्यासं ब्रह्मविष्णु शिवादयः ।। देवा सर्वे प्रकुर्वंति ऋषयश्च मुनीश्वराः ।। ८ ।। बहुनोक्तेन किं देवि सुशिष्याय प्रकाशयेत् ।। अक्षयां लभते सिद्धिं रहसि न्यासमाचरेत् ।। ९ ।। अस्मात् परतरः साक्षाद् देवता भाव सिद्धिदः ।। लोके नास्ति न संदेहो सत्यं सत्यं न संशयः ।। १० ।। उर्ध्वाम्नाय प्रवेशश्च पराप्राप्तादचिंतनं ।। महाषोढा परिज्ञानं नाल्पस्य तपसः फलं ।। ११ ।। इत्थं महाषोढा न्यासं विधाय चरणादि दीक्षायुक्तश्चेत् तद्विषयकं न्यासं कुर्यात् ।। तत्रादौ बिश्रां चरणन्यासन्तत्र शिरसि ओं ऐं ह्रीं श्रीं हं सः शिवः हसौंः सोहं तुरीय विद्यामुच्चार्य सच्चिदानंदज्योतिरहं ।। ओं ऐं ह्रीं श्रीं हं सः शिवः हसौंः सोहं तुरीय विद्यामुच्चार्य सच्चिदानंदज्योतिरहमेव ।। ओं ऐं ह्रीं श्रीं हं सः शिवः हसौंः सोहं तुरीय विद्यामुच्चार्य सच्चिदानंदज्योतिरहमेवास्मि ।। इति चरचरण त्रयं संघट्टमुद्रया विन्यस्य क्षणं विश्रम्य ।। अथ शंभुचारणन्यास कुर्यात् ।। तत्र शिरसि ओं ऐं ह्रीं श्रीं ओं योहमस्मि ब्रह्मौ वाहमस्मि सोहं स्वछप्रकाश प्. १२२ब्) परिपूर्णपरापर महाप्रकाशपरिपूर्णानंदनाथ श्रीपादुकां पूजयामि नमः ।। इति संघट्टमुद्रया विन्यस्य स्वात्मानं सकलप्रपंचोत्तीर्णं संविदेक स्वभावं सच्चिदानंदमयं विचित्य पंचांबान्यासं कुर्यात् ।। तद्यथा ।। तत्र शिरसि ओं ऐं ह्रीं श्रीं आदिनाथव्योमातीतांबा श्रीपादुकां पू० ।। ४ अनादिनाथव्योमेश्वर्यंबाश्री ।। ४ अनामयनाथव्योमगांबाश्री० ।। ४ अनंतानंदनाथव्योमचारिण्यंबाश्री० ।। ४ चिदाभासानंदनाथव्योमस्थांबाश्री० ।। ४ इति पंचांबान्यासः ।। अथ नवाकाशनाथन्यासः ।। तत्र शिरसि ४ हं उन्मनाकाशानंदनाथश्री० ।। ४ सं समथाकाशानंदनाथश्री० ।। ४ क्षं व्यापकाकाशानंदनाथश्री० ।। ४ मं शक्त्याकाशानंदनाथश्री० ।। ४ लं ध्वन्याकाशानंदनाथश्री० ।। ४ वं ध्वनिमात्राकाशानंदनाथश्री० ।। ४ रं अनाहताकाशानंद * थश्री० ।। ४ यं इंद्वाकाशानंदनाथश्री० ।। ४ ऊं बिंद्वाकाशानंदनाथश्री० ।। ४ हसक्षमलवरयूं समस्ताकाशानंदनाथश्री० ।। इति नवाकाशनाथन्यासः ।। अथात्मानंदादि नवनाथन्यासः ।। त्तत्र शिरसि ४ आत्मानंदनाथश्री० । ४ परमात्मानंदनाथश्री० । प्. १२३अ) ४ (चिदानंदनाथश्री० । ४) शांभवानंदनाथश्री० । ४ चिन्मुद्रानंदनाथश्री० । ४ वाग्भवानंदनाथश्री० । ४ लीलानंदनाथश्री० । ४ संभ्रमानंदनाथश्री० । ४ चिदानंदनाथश्री० । ४ प्रसन्नविश्वानंदनाथश्री० । ४ आत्रोर्ध्वाम्नाये पंचाबा दिव्यौघाः । नवाकाशनाथाः सिद्धौघः । आत्मानंदनाथादयो मानवौघाः ।। इति गुरुपंक्तिन्यासः ।। संघट्टमुद्रया शिरस्येव न्यसनीयाः ।। अथ स्वपारंपर्यन्यासः ।। तत्र ओं ऐं ह्रीं श्रीं हीं श्रीं यज्ञेश्वरानंदनाथ सौः संविदानंदनाथ श्रीपादुकां पूजयामि नमः । ६ स्वात्मानंदनाथ सौः सच्चिदानंदनाथश्री० । ६ चिदानंदनाथ सौः संविदानंदनाथश्री० । ६ ब्रह्मानंदनाथ सौः सच्चिदानंदनाथश्री० । ६ पूर्णानंदनाथ सौः संविदानंदनाथश्री० । ६ ततः स्वगुरुपादुकां प्राग्वत् न्यसेत् ।। इति स्वपारंपर्यन्यासः ।। अथ षोडशमूलविद्यान्यासः ।। तत्र शिरसि ४ स्वछप्रकाशपरिपूर्णपरापर महासिद्धविद्याकुलयोगिनी ह्रीं कुलयोगिनी पंचविंशार्णामूलविद्या श्रीपादुकां पूजयामि । ४ हसौंः आत्मानं बोधय प्. १२३ब्) बोधय शौंः एकादशाक्षरी प्रासादे परांबा मूलविद्या श्री ४ ऐं ब्लूं क्लिन्ने क्लेदिनि महामदद्रवे क्लीं क्लेदय क्लेदय क्लां क्लीं मोहय मोहय क्लीं नमः स्वाहा त्रयश्त्रिंशदक्षरा अतिरहस्य योगिनी मूलविद्याश्री० ।। ४ हं सः स्वछानंद परमहंसपरमात्मे स्वाहा सह क्ष्रौं एकविंशदक्षरा शांभवी मूलविद्याश्री० ।। ४ ह्रीं नित्यस्फुरत्ता चैतन्यानंदमयी महाबिंदु व्यापक मातृस्वरूपिणी ऐं ह्रीं श्रीं ईं ३० । ४ त्रिंशदक्षरा चिद्धृल्लेखा मूलविद्याश्री० । ४ ऐं ह्रीं श्रीं स्वछप्रकाशात्मिके ह्रीं कुलमहामालिनि ऐं कुलगर्भमातृके ह्रीं लं समयविमले श्रीं समयविमलामूलविद्याश्री० । ४ हं सः नित्यप्रकाशात्मिके कुलकुंडलिनि आज्ञासिद्धि महाभैरवि आत्मानं बोधय बोधय अंबे भगवति ह्रीं हूं परबोधिनि मूलविद्याश्री० ।। ४ ओं मोक्षं कुरु कुलपंचाक्षरी मूलविद्याश्री० ।। ४ लोपामुद्रा पंचदशाक्षरीमुच्चार्य चैतन्यत्रिपुरा मूलविद्याश्री० ।। ४ ऐं शुद्धसूक्ष्मनिराकार निर्विकल्प परब्रह्मस्वरूपिणि क्लीं परानंदशक्ति सौः शांभवानंदनाथ अनुत्तरकौलिनी प्. १२४अ) मूलविद्याश्री० ।। ४ हं सः सोहं स्वछानंदपरहंस परमात्मने स्वाहा गुरूत्तम विमर्शिनी मूलविद्याश्री० ।। ४ अनामाख्या व्योमातीतनाथपरापरव्योमातीतव्योमेश्वरी अंबा अनामाख्यमूलविद्याश्री० ।। ४ ऐं इं ईं ऊं संकेतसारामूलविद्याश्री० ।। ४ ह्रीं भगवति विच्चै वाग्वादिनि ह्रीं क्लीं महाह्रद महामातंगिनि ऐं क्लिन्ने ब्लूं स्त्रीं अनुत्तर वाग्वादिनि मूलविद्याश्री० ।। ४ हस्रैं ख्फ्रें हस्क्लें हस्रौः अनुत्तरशांकरी मूलविद्याश्री० ।। ४ तुरीयविद्यामुच्चार्य सर्वानंदमये महाचक्रे बैदवे परब्रह्मस्वरूपिणी परामृतशक्तिः सर्वमंत्रेश्वरी सर्वविद्येश्वरी सर्वपीठेश्वरी सर्वविरेश्वरी सर्वयोगेश्वरी सर्ववागीश्वरी सर्वसिद्धेश्वरी सकलजगदुत्पत्तिमातृकाः सचक्राः सदेवताः समुद्राः ससिद्धाः सायुधाः सवाहनाः सपरिवाराः सशक्तिकाः सालंकाराः सर्वोपचारैः संपूजिताः संतु शून्याशून्यविवर्जितशक्ति श्रीमहात्रिपुरसुंदरी मूलविद्या श्रीपादुकां पूजयामि १६ इति चरणादि षोडशविद्यांताः संघट्टमुद्रया शिरस्येव न्यसेत् । संघट्टमुद्रा तु शिवशक्त्यात्मक प्. १२४ब्) दक्षिणवामकरयोः पृथक् पृथक् कनिष्ठारहितांगुलिचतुष्ठयाग्र योगरुपा युगपदधोमुखं शिरसि निहिता भवति । इति षोडसमूलविद्यान्यासः ।। अथ षडाधारविद्यान्यसः ।। तत्र मूलाधारे ४ हं सः स्वानंदविभूत्यै स्वाहा मूलाधारविद्याश्री पा० । इत्यादि १ ।। स्वाधिष्ठाने ४ सोहं परमहंसविभूत्यै स्वाहा स्वाधिष्ठानविद्याश्रीपा० ।। २ ।। मणिपूरके ४ हं सः सोहं स्वछानंदपरमहंसपरमात्मने स्वाहा मणिपूरकविद्याश्री० ।। ३ ।। अनाहते ४ हं सः स्वात्मानं बोधय बोधय स्वाहा परात्मानंदनाथ अनाहतविद्याश्री० ।। ४ ।। विशुद्धौ ४ सोहं परमात्मानं बोधय स्वाहा २ स्वात्मानंदनाथविशुद्धविद्याश्री० ।। ५ ।। आज्ञायां ४ हं सः सोहं स्वाछानंदनाथ चित्प्रकाशामृत हेतवे स्वाहा आज्ञाविद्या श्रीपादुकां पूजयामि ।। ६ ।। इति षडाधारमंत्रान् त्तत्तच्चक्रे मनसा विन्यस्य पुनः संघट्टमुद्रया शंभुचरणमात्रं विन्यस्य स्वात्मानं शिवरूपं ध्यायेत् ।। इति चरणादिन्यासः ।। श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।। कृते सौभाग्यरत्नाब्धौ तरंगो दशमोगंमत् ।। १ ।। १२५अ) इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वाते वासिना श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे दशमस्तरंगः ।। १० ।। अथ षडन्वयशांभवदीक्षायुक्तश्चेत्तत्तंत्रोक्त न्यासान् कुर्यात् ।। तद्यथा ।। ओं ऐं ह्रीं श्रीं हस्फ्रें हसौः हसक्षमलवंरयूं सहक्षमलवरयीं श्री-अमुकानंदनाथ हसौः हस्फ्रें श्रीं ह्रीं ऐं ओं श्रीपादुकां पूजयामि० ।। इति शांभवतंत्रोक्त गुरुपादुका विद्यया श्रीगुरुपादुकां शिरसि संघटमुद्रया विन्यस्य ध्यात्वा गधादिभिः संपूज्य ।। ६ दक्षिणांसे ऐं ह्रीं श्री हस्फ्रें हसौः ग्लौं हसौः हस्फ्रें श्रीं ह्रीं ऐं हेरंबाय नमः ।। वामांसे ऐं ह्रीं श्रीं हस्फ्रें हसौः उं हसौः हस्फ्रें श्रीं ह्रीं ऐं दुर्गायै नमः ।। दक्षोरौ ५ बं ५ बटुकभैरवाये नमः ।। वामोरौ ५ सं ५ सरस्वत्यै नमः ।। हृदये ५ ह्रीं हुं हं क्षं ज्वालामुखभैरवाज्ञया मांसावृद्रक्ष रक्ष हूं स्वाहा ५ क्षेत्रपालाय नमः ।। मुखे ५ पं ५ परमात्मने नमः ।। इति विन्यस्य पूजयित्वा बाह्य ५ ओं नमो भगवति नीलवज्रासने मम शरीर रक्ष रक्ष हूं फट् स्वाहा ५ आत्मासनाय नमः । इति स्वासनं पूज्य ।। प्. १२५ब्) दक्षवामहस्तौ शिवशक्त्यात्मकौ ध्यात्वा सहस्रः फः अस्त्राय फट् इति मंत्रेण तालत्रयं दशदिग्बंधनमग्निप्राकारं न्व कृत्वा कनिष्ठयोः ५ ग्लूं गगनरत्नाय ग्लूं ५ नमः ।। अनामयोः ५ स्लूं स्वर्गरत्नाय स्लूं ५ नमः ।। मध्यमयोः ५ म्लूं मर्त्यरत्नाय म्लूं ५ नमः ।। तर्जन्योः ५ प्लूं पातालरत्नाय प्लूं ५ नमः ।। अंगुष्ठयोः ५ न्लूं नागरत्नाय न्लूं ५ नमः ।। करतल करपृष्ठयोः ५ ग्लूं स्लूं म्लूं प्लूं न्लूं पंचरत्नाय ५ नमः ।। इति पंचरत्नन्यासः ।। ततः ५ सहस्रौं ऐं फें ५ इति परमेश्वर परमेश्वरी विद्याभ्यां करयोर्व्यापकं कृत्वा मूर्द्धादि पादांतं सर्वांगव्यापकं कुर्यात् ।। ततः ५ सहस्रां फां ५ हृदयाय नमः ।। ५ सहस्रीं फीं शिरसे स्वाहा ।। ५ सहस्रुं फूं ५ शिखायै वषट् ।। ५ सहस्रैं फैं ५ कवचाय हुं ।। ५ सहस्रौं फौं ५ नेत्रत्रयाय वौषट् ।। ५ सहस्र फः ५ अस्त्राय फट् ।। इति कनिष्ठादितलांतं करयोर्विन्यस्य हृदयादिषु च न्यसेत् ।। अथ वक्त्रन्यासः ।। तत्र चूडाधः ५ शस्त्रौं फां ५ पश्चिमवक्त्राय नमः ।। वामकर्णे ५ श्स्रीं फीं ५ उत्तरवक्त्राय नमः । दक्षकर्णे ५ श्स्रुं फूं ५ दक्षिणवक्त्रायः ।। मुखे ५ श्स्रैं फैं पूर्ववक्त्राय नमः । प्. १२६अ) शिरसि ५ श्स्रौं फौं ५ ऊर्ध्ववक्त्राय नमः । ब्रह्मरंध्रे ५ सहस्रः फः ५ परवक्त्राय नमः ।। इति त्र्यंगन्यासः ।। अथ बीजषोढान्यासः ।। तत्र कलिमूले ५ स्जूं ५ नमः । ब्रह्मरंधे ५ ह्रूं ह्रं ५ ह्रूं ५ नमः । भाले ५ रखटसहघरयूं ५ नमः । दक्षशंखे ५ सहक्षरयूं ५ नमः वामशंखे ५ क्ष्रूं ओं नमः । दक्षभ्रुवि ५ श्फ्रें ५ नमः । वामभ्रुवि ५ श्रूं ५ नमः । भ्रुवोर्मध्ये ५ स्रूं ५ नमः । जिह्वायां ५ श्रीं ५ नमः । तालुनि ५ क्षर क्ष्रूं ५ नमः । दक्षकर्णे ५ फटः ५ नमः । वामकर्णे ५ श्रं ५ नमः । चोरकूपे ५ लमयरूं ५ नमः । गलकांडे ५ हस्रुं ५ नमः । कंठगर्त्ते ५ डरयूं ५ नमः । दक्षस्तनो ५ जू य रू औं ५ नमः । वामस्तनोपरि ५ डयरूं ५ नमः । दक्षस्तन मंडले ५ हसैं ५ नमः ।। वामस्तनमंडले ५ जूं नमः । दक्षकक्षे ५ स क ल्रीं ५ नमः । वामकक्षे ५ ऐं नमः । नाभौ ५ हसौं ५ नमः । दक्षपाणितले ५ फः ५ नमः । वामपाणितले ५ फ्रें ५ नमः । लिंगाग्रे ५ श्रीं ५ नमः । लिंगमूले ह्रौं ५ नमः । मेदसि ५ भ्रें ५ नमः । दक्षांसे ५ फ्रें ५ नमः । वामांसे ५ सहक्षमलवयंरूं ५ नमः । ब्रह्मसूत्रे ५ हं ५ नमः । पायौं ५ ह स फ र यूं ५ नमः । गुददक्षिणे ५ ह स फ रूं ५ नमः । गुदवामे ५ हस्रौं ५ नमः । पायुमार्गे ५ ह्रौं ५ नमः । प्. १२६ब्) दक्षजानुचक्रे ५ क्रां ५ नमः । वामजानुचक्रे ५ रूं ५ नमः । दक्षजंघायां ५ डहु औं ५ नमः । वामजंघायां ५ सहरस्रूं ५ नमः । दक्षगुल्फे ५ ब्रं ५ नमः । वामगुल्फे ५ यरं ५ नमः । दक्षगुल्फाधः ५ ह्रक्ष फट् ५ नमः । वामगुल्फाधः ५ अं ५ नमः । दक्षयमद्वारे ५ नफयरीं ५ नमः । यमद्वारमिति पादांगुष्ठाभ्यंतरस्थ निम्नप्रदेशः ।। वामयमद्वारे ५ जसक्षह्रौं ५ नमः । दक्षपादतले ।। हस्रूं ५ नमः । वामपादतले ५ हर फट् ५ नमः । पृष्ठवंशे ५ चलमहीं ५ नमः । दक्षपार्श्वे ५ जसहसजूं ५ नमः । वामपार्श्वे ५ क्षं ५ नमः । दक्षकूर्परे ५ ह्रः फट् ५ नमः । वामकूर्परे ५ शीं ५ नमः । दक्षमणिबंधे ५ ग स म य न लूं ५ नमः । वाममणिबंधे ५ लवरयहसूं ५ नमः । दक्षांसे ५ हस्फ्रें ५ नमः । वामांसे ५ क्ष फट् क्ष रूं ५ नमः । दक्षचिबुके ५ फ्रें ५ नमः । वामचिबुके ५ क्ष्म्यरूं ५ नमः । दक्षनेत्रे ५ ह र फट् फ्रीं ५ नमः । वामनेत्रे क्ष्रौं ५ नमः । नासाग्रें ५ ह यूं ५ नमः । दक्षतर्जन्यंगुष्ठसंधौ ५ ह्रीं ५ नमः । वामतर्जन्यंगुष्ठसंधौ ५ ह स क ल ह्रीं ५ नमः । दक्षानामिकायां ५ ह्रीं ५ नमः । वामानामिकायां ५ स क ल्ह्रीं ५ नमः । इति विन्यस्य मूर्द्धादि पादांतं पादादि मूर्द्धांतं च व्यापकं त्वेन पंचप्रणवपुटि- प्. १२७अ) तैरकारादिक्षकारांतेर्मातृकाक्षरैः सकृन्यसेत् ।। इति बीजषोढान्यासः ।। अथ मालिन्यादिषोढान्यासः ।। तत्र प्रथमो मालिनी न्यासः ।। शिखायां ५ नं नादिन्यै ५ नमः पश्चिमोस्ये ५ ऋ निवृत्यै ५ नमः । उत्तरास्ये ५ ॠं प्रतिष्ठायै ५ नमः दक्षिणासे ५ ऌं विद्यायै ५ नमः । पूर्वास्ये ५ ॡं शांत्यै ५ नमः । ऊर्ध्वास्ये ५ थं ग्रंसिन्यै ५ नमः । नेत्रयोः ५ धं प्रियदर्शिन्यै ५ नमः । नासायां ५ ईं गुह्यशक्त्यै ५ नमः । उर्ध्वनेत्रे ५ चं चामुंडायै ५ नमः । वदने ५ वं वैज्रिण्यै ५ नमः । दक्षोर्ध्वदंतपंक्तौ ५ कं कराल्यै ५ नमः । वामोर्ध्वदंतपंक्तौ ५ खं कपालिन्यै ५ नमः । ऊर्ध्वशूले ५ गं शिवायै ५ नमः । अधः शूले ५ घं घोषायै ५ नमः । दंष्ट्रायां ५ वं वीरायै ५ नमः । जिह्वायां ५ इं मायायै ५ नमः । वाचि ५ अं वागीश्वर्यै ५ नमः । कर्णयोः ५ णं नारायण्यै ५ नमः । दक्षकर्णबिले ५ उ मोहिन्यै ५ नमः । वामकर्णबिले ५ ऊं प्रज्ञायै ५ नमः । कंठे वं ५ शिखिवाहिन्यै ५ नमः । दक्षांसे ५ भं भीषण्यै ५ नमः । वामांसे ५ यं वायुवेगायै ५ नमः । दक्षभुभे ५ ऽऽनं भीमायै ५ नमः । वामजे ५ टं विनायक्यै ५ नमः । दक्षपाणौ ५ ठं पूर्णायै ५ नमः । वामपाणौ ५ लं शक्त्यै ५ नमः । दक्षकरांगुष्ठे ५ झं झंकार्यै ५ नमः । वामकरांगुष्ठे ५ ञं कूर्दिन्यै ५ नमः । प्. १२७ब्) दक्षकर शूलदंडे ५ ढं कालिकायै ५ नमः । वामकर शूलदंडे ५ रं दीपिन्यै ५ नमः । शूलाग्रे ५ जं जयंत्यै ५ नमः । हृदये ५ पं पावन्यै ५ नमः । उदरे ५ बं लंबिन्यै ५ नमः । नाभौ ५ क्षं संहारिणै ५ नमः । दक्षस्तने ५ छं छागल्यै ५ नमः । वामस्तने ५ लं पूतनायै ५ नमाः । दक्षस्तनोपरि ५ आं आमोदायै ५ नमः । वामस्तनोपरि ५ सं परमशक्त्यै ५ नमः । प्राणे ५ हं अंबायै ५ नमः । चित्ते ५ अः इछाशक्त्यै ५ नमः । नितंबद्वये ५ मं महाकाल्यै ५ नमः । गुह्ये ५ शं पुष्पास्त्रायै ५ नमः । शुक्रे ५ अं सूक्ष्मायै ५ नमः । ऊरुद्वये ५ तं तारायै ५ नमः । दक्षजानुनि ५ एं ज्ञानशक्त्यै ५ नमः । वामजानुनि ५ ऐं क्रियाशक्त्यै ५ नमः । दक्षजंघायां ५ ओं गायत्र्यै ५ नमः । वामजंघायां ५ औं सावित्र्यै ५ नमः । दक्षपादे ५ दं वहन्यै ५ नमः । वामपादे ५ फं फट्कार्यै ५ नमः । ऐं ह्रीं श्रीं हस्फ्रें हसौः नं फां ह्रां ह्रीं मालिनीं सर्वांगेषु पूजयामि ५ नमः । इति सर्वांगे व्यापकं कुर्यात् । इति मालिनी न्यासः ।। अथ शब्दराशिन्यासः ।। स तु प्रागुक्त श्रीकंठादि न्यास एव तत्र प्रीक्ततार्तीय बीजमपहाय पच- प्. १२८अ) प्रणवसंपुटितः कार्यः । तत्र ऐं ह्रीं श्रीं हस्फ्रें हसौः अं श्रीकंठेशाय पूर्णोदर्यै हसौः हस्फ्रें श्रीं ह्रीं ऐं नम इत्यादि ।। इति शब्दराशिन्यासः ।। अथ त्रिविद्यान्यासः ।। नाभौ ऐं ह्रीं श्रीं हस्फ्रें हसौः ऐं ह्रीं अघोरे ह्रीं सः हसौ हस्फ्रें श्रीं ह्रीं ऐं नमः । हृदये ५ परमघोरे हूं घोररूपे हसौः घोरमुखि भीषणे वम वम पिब रहः हें रुरु रर ह्रीं ह्रूं फ्रें हसौः ५ नमः । भ्रुमध्ये । ५ स्फ्रं ५ नमः । इति त्रिविद्यान्यासः ।। अथ अघोरिकाष्टकन्यासः ।। तत्र शिरसि ५ ऐं ह्रीं घोरे ह्रीं सः अघोरायै ५ नमः । भाले ५ परमघोरे हूं परमघोरायै ५ नमः । भ्रुमध्ये ५ घोररूपे हसौ घोररूपायै ५ नमः । मुखे ५ घोरमुखि सः घोरमुख्यै ५ नमः । कंठे ५ भीमे सः भीमायै ५ नमः । हृदये ५ भीषणे सः भीषणायै ५ नमः । उदरे ५ वमसः वमन्यै ५ नमः । नाभौ ५ पिबसः पिबन्यै ५ नमः । इत्यघोरिकाष्टकं न्यासः ।। अथ द्वादशांगन्यासः ।। तत्र पादयोः ५ श्रें सिध्यै ५ नमः । जान्वोः श्रें ऋध्यै ५ नमः । ऊर्वोः ५ श्रें द्युत्यै ५ नमः । गुह्ये ५ श्रें लक्ष्म्यै ५ नमः । नाभौ ५ श्रें कांत्यै ५ नमः । हृदये ५ शिवायै ५ नमः । कंठे ५ श्रे सुमुखायै ५ नमः । मुखे ५ श्रें मालिन्यै ५ नमः । कर्णयोः ५ श्रें नंदायै ५ नमः । नेत्रयोः ५ श्रें हयवेगायै ५ नमः । भाले ५ श्रें महामुखै ५ नमः । शिरसि ५ श्रें विश्वेशायै ५ नमः । इति द्वादशांगन्यासः ।। प्. १२८ब्) अथ षडंगन्यासः ।। तत्र हृदि ५ श्रां सर्वज्ञतायै ५ हृदयाय नमः । ५ श्रीं अमृततेजो ज्वालामिलिनि ५ नित्य तृत्यायै ५ शिरसे स्वाहा ।। ५ श्रूं वेदवेदिनि अनादिबोधायै ५ शिखायै वषट् ।। ५ श्रैं वह्निवज्रधराय स्वाहा स्वतंत्रतायै ५ कवचाय हूं ।। ५ श्रौं नित्यमलुत्यशक्तये ५ नेत्रत्रयाय वौषट् ।। ५ श्रः अनंतशक्तियुक्ताय पाशुपतास्त्राय हूं फट् ५ अस्त्राय फट् ।। इति शडंगन्यासः ।। स्तत्तन्मुद्रया कार्यः ।। इति मालिन्यादिषोढान्यासः ।। अथ पंचमहारत्नन्यासः ।। तत्र आज्ञाचक्रे ५ ग्लूं गगनरत्न गगनपीठ गगनलोकगर्भगामिनी गगननाथगगनांबा गगनेश्वरि चतुःषष्ठिलक्षकोटियोगिन्यंबा ग्लूं ५ श्रीपादुकां पूजयामि नमः । विशुद्धिचक्रे ५ स्लूं स्वर्गरत्न स्वर्गपीठ स्वर्गलोकगर्भगामिनि स्वर्गनाथस्वर्गांबा स्वर्गेश्वरी द्वात्रिंशल्लक्षकोटियोगिन्यंबा स्लूं ५ श्रीपादुकां पूजयामि नमः । (विशुद्धिचक्रे ५ स्लूं स्वर्गरत्नस्वर्गपीठ स्वर्गलोक) अनाहतचक्रे ५ म्लूं मर्त्यरत्न मर्त्यपीठ मर्त्यलोक गर्भगामिनि मर्त्यनाथमर्त्यांबा मत्येश्वरी षोडशलक्षकोटि- प्. १२९अ) योगिन्यंबा म्लूं ५ श्रीपादुकां पूजयामि नमः । मणिपूरके चक्रे ५ प्लूं पातालरत्न पातालपीठ पाताललोक गर्भगामिनि पातालांबा पातलेश्वरी अष्टलक्षकोटियोगिन्यंबा प्लूं ५ श्रीपादुकां पूजयामि नमः ।। स्वाधिष्ठाने चक्रे ५ न्लूं नागरत्न नागपीठ नागलोक गर्भगामिनि नागनाथ नागांबा नागेश्वरी तुर्लक्षकोटियोन्यंबा न्लूं ५ श्रीपादुकां पूजयामि नमः । इति पंचमहारत्नन्यासः ।। अथ परादित्रिविधन्यासः ।। तत्र अंगुष्ठयोः ५ ऐं परायै ऐं ५ नमः । तर्जन्योः ५ ह्रं इछायै ह्रूं ५ नमः । मध्यमयोः । ५ ऐं ज्ञानायै ऐं ५ नमः । अनामयोः । ५ श्रीं क्रियायै श्रीं ५ नमः । कनिष्ठयोः । ५ ह्रीं कुंडलिन्यै ह्रीं ५ नमः । करतले करपृष्ठयोः ५ फ्रें मातृकायै फ्रें ५ नमः । इति करन्यासः । अथ हृदयादि षडंगेष्वेभिरेव मंत्रैः सजातिभिर्न्यसेत् ।। ततः पश्चिमवक्त्रे । ५ ऐं परायै ऐं ५ नमः । उत्तरवक्त्रे ५ ह्रूं इछायै ह्रूं ५ नमः । दक्षिणवक्त्रे ५ ऐं ज्ञानायै ऐं ५ नमः । पूववक्त्रे ५ श्रीं क्रियायै श्रीं ५ नमः । उध्ववक्त्रे ५ ह्रीं कुंडलिन्यै ह्रीं ५ नमः । परवक्त्रे ५ फ्रें मातृकायै फ्रें ५ नमः । इति परादि त्रिविधन्यासः ।। प्. १२९ब्) अथ गुरुपारंपर्यन्यासः ।। तत्र शिरसि ५ हसक्षमलवरयूं सहक्षमलवरयीं श्री-अमुकानंदनाथ ५ श्रीपा० ।। इति संघट्टमुद्रया स्वगुरुपादुकां विन्यस्य । ब्रह्मरंध्रे ५ अः हं सः सोहं अः शौं सौः ज्योतिः परांबानिर्वाणानंदनाथ सौः शौं अः सोहं सः अः ५ निर्वाणचरण श्रीपा० । इति संघट्टमुद्रयैव न्यसेत् ।। ब्रह्मरंध्रे ५ हसक्षमलवरयूं (सहक्षमलवरयीं श्री- अमुकानंदनाथ ५) श्रीपरपावक श्रीपा० । इति संघट्टमुद्रयान्यसेत् । तत्रैव ५ ओं ह्रीं कामदुघे अमोघे वरदे विच्चे स्फुर स्फुर श्रीं श्रीं ५ कुलकामधेनु श्रीपा० । ततस्तत्रैव दक्षभागे ५ हस्लौं शुक्लनति महापीठ महाप्रकाशानंदनाथ हस्रौं ५ शुक्लचरण श्रीपा० । वामभागे ५ सह्रौं रक्तविद्यामहापीठ रक्तपुष्पमहापीठ रक्तमंडलमहापीठ रक्तचरुकमहापीठ रक्तदीपमहापीठ रक्तमुद्रामहापीठ रक्तनतिमहापीठ महाप्रकाशिनी परांबा श्रौं ५ रक्तचरण श्रीपा० । ब्रह्मरंध्रमध्ये ५ हस्रौं श्रौं मिश्रविद्यामहापीठ मिश्रपुष्पमहापीठ मिश्रमंडलमहापीठ मिश्रचरुकमहापीठ मिश्रमंत्रमहापीठ मिश्रदीपमहापीठ मिश्रमुद्रामहापीठ मिश्रनतिमहापीठ प्. १३०अ) महाप्रकाश महाप्रकाशिनी सामरस्यानंदनाथ मिश्रपाद श्रौं हस्रौं ५ मिश्रचरणश्रीपादुकां पूजयामि ।। इति संघट्टमुद्रया न्यसेत् ।। इति चरणत्रयं न्यासः ।। अथ दिव्यौघादिगुरुपंक्तित्रयन्यासः ।। तत्र शिरसि ५ लं ब्रह्ममहाप्रेतपद्मासनाय नमः लं ५ ब्रह्म श्रीपादुका० । तत्रैव ५ वं विष्णुमहाप्रेतपद्मासनाय नमः । वं ५ विष्णु श्री० । ५ रं रुद्रमहाप्रेतपद्मासनाय नमः । रं ५ रुद्र श्रीपा० । ५ यं ईश्वरमहाप्रेतपद्मासनाय नमः यं ५ ईश्वर श्रीपा० । ५ हं सदाशिवमहाप्रेतपद्मासनाय नमः हं ५ सदाशिव श्री० । सं हेमगर्भमहाप्रेतपद्मासनाय नमः सं ५ हेमगर्भ श्री० । ५ ऐं परायै ऐं ५ परांबा श्री० । ५ ह्रूं इछायै ह्रूं इछांबा श्री० । ५ ऐं ज्ञानायै ऐं ५ ज्ञानांबा श्रीपा० । ५ श्रीक्रियायै श्रीं ५ क्रियांबा श्रीपा० । ५ ह्रीं कुंडलिन्यै ह्रीं ५ कुंडलिन्यंबा श्रीपा० । ५ फ्रें मातृकायै फ्रें ५ मातृकांबा श्रीपा० । इति दिव्यौघाः ।। अथ सिद्धौघः । ५ आं आदिनाथानंद आदिपरांबा आं ५ श्रीपा० ।। ५ अं अचिंत्यानंदनाथ अचिंत्यपरांबा अं ५ श्रीपा० । ५ अं अव्यक्तानंदनाथ अव्यक्तापरांबा अं ५ श्रीपा० । ५ कुं कुलेश्वरानंदनाथ कुलेश्वरी परांबा कुं ५ श्रीपा० । इति सिद्धौघाः ।। अथ मानवौघः ।। ५ चं चर्यातूष्णीशानंदनाथसिद्धापरांबा सिंटीशापरांबा ५ श्रीपा० । ५ चिंचिणी- प्. १३०ब्) मित्रीशानंदनाथ कुब्जिकापरांबा ५ श्री० । ५ गगनानंदनाथ वाटुलीलावली पराबा ५ श्री० । ५ चंद्रगर्भानंदनाथ बलिभागी परांबा ५ श्री० । ५ मुक्तानंदनाथ महिलापराबा ५ श्री० । ५ । ललितानंदनाथ शंखापरांबा करुणापरांबा ५ श्री० । ५ ऐं श्रीकंठानंदनाथ श्रीकंठापरांबा ५ श्री० ।। ५ परेश्वरानंदनाथ परेंश्वरी परांबा ५ श्री० ।। ५ कुमारानंदनाथ सहजापरांबारत्नादेवीपरांबा ५ श्री० । ५ रत्नानंदनाथ ज्ञानादेवी परांबा ५ श्री० ।। ५ ब्रह्मानंदनाथनादिनी परांबा ५ श्री० ।। ५ अजेशानंदनाथ महिलापरांबा ५ श्री० ।। ५ प्रतिष्ठानंदनाथ सहजापरांबा ५ श्री० ।। ५ शिवानंदनाथ प्रतिभापरांबा श्री० ।। ५ चिदानंदनाथ सहजापरांबा ५ श्री० ।। ५ श्रीकंठानंदनाथ विद्याशक्तिपरांबा ५ श्री० ।। ५ शिवानंदनाथ सहजापरांबा ५ श्री० ।। ५ सोमानंदनाथ सहजापरांबा ५ श्री० ।। ५ संविदानंदनाथ सहजापरांबा ५ श्री० ।। ५ विबुधानंदनाथ विबुधापरांबा ५ श्री० ।। ५ भैरवानंदनाथ भैरवीपरांबा ५ श्री० ।। ५ आनंदानंदनाथ आनंदापरांबा ५ श्री० ।। ५ कामेश्वरानंदनाथ कामेश्वरी परांबा ५ श्री० ।। ५ कमलानंदनाथ सहजापरांबा श्री० ।। इति गुरुपंक्तित्रयं ब्रह्मरंध्र एव संघट्टमुद्रया विन्यस्य पुनः शांभवप्रकरणोक्त गुरुपादुका- प्. १३१अ) विद्यया स्वगुरुपादुकां विन्यस्य स्वगुरु कृत स्वनाममूलाधारे स्मरेदिति गुरुक्रम्यन्यासः ।। अथ षडन्वयमंत्रन्यासः ।। आज्ञायां ५ श्रौं ऐं फ्रें श्रीपरमेश्वरानंदनाथ परेश्वरी परांबा ५ श्री० ।। विशुद्धौ ५ ह्स्रूं? ऐं कुब्जि फ्रें श्रीविच्चेश्वरानंदनाथ विच्चेश्वरीपरां ५ श्री० ।। अनाहते ५ ह्स्फ्रें ऐं कुब्जिकायै ह्स्फ्रें विच्चे हंसेश्वरानंदनाथ हंसेश्वरीपरांबा ५ श्री० ।। स्वाधिष्ठाने ५ ह्रां ह्रूं ह्रीं ह्स्रां ह्स्रां ह्स्रूं ह्स्रीं क्ष्रां क्ष्रूं क्ष्रीं किणि किणि ह्स्फ्रां ह्स्फ्रां ह्स्प्रूं ह्स्प्रीं विच्चे ह्रौं हससह्स्प्रें हसक्षमलवयरूं औं हसक्षमलवयरीं हसक्षमलवयरूं हसक्षमलवयरीं ऐं ह्स्रीं ह्स्रूं ह्स्रां ह्रीं ह्रूं ह्रां ऐं नित्ये भगवति ह्स्फ्रें कुलेश्वरी ह्रां ह्रूं ह्रीं ह्लां ह्रीं ह्रूं ह्यैं हौ ऽऽन ञ ण न मे क्ष्रां क्ष्रूं क्ष्रीं क्ष्रः क्ष्रं श्रीं फट् ह्स्रौं फ्रें अघोरमुखी कुब्जिकायै छ्रां छ्रूं छ्रीं घोरे अघोरे यं रं लं व हं सं किणि किणि महाकिणि विच्चे संवर्त्तेश्वरानंदनाथ संवर्त्तेश्वरी परांबा ५ श्रीपा० ।। मणिपूरके ५ हृ स ब्रूं ऐं रिंगटि पिंगटि कंटपि विच्चे द्विपेश्वरानंदनाथ द्वीपेश्वरीपरांबा ५ श्री० ।। मूलाधारे ५ हसक्षमलवरयूं नमो भगवति ह्स्फ्रें कुब्जिकायै ह्रां ह्रूं ह्रीं ऽऽन ञ ण न मे अघोरमुखि छ्रां छ्रीं किणि किणि विणि विणि विच्चे नवात्मेश्वरानंदनाथ नवात्मेश्वरीपरांबा ५ श्री० ।। इति षडन्वयमंत्रन्यासः ।। ततः परेश्वर परेश्वरीमूल- प्. १३१ब्) विद्यया व्यापकं न्यासं कृत्वा देवं हृदये ध्यायेत् ।। तद्यथा ।। सहस्रसूर्यसंकाशो महादीप्तिघरो गुरुः ।। षडन्वयेश्वरः श्रीमान् परशंभु रजो व्ययः ।। षडानन स्फुरन्नेत्र त्रय षट्क समन्वितः ।। द्वीपिचर्मकटिस्फार मुंडमालाविभुषणः ।। नरास्थिरल पारिजातपुष्पमालासमावृत्तः ।। ब्रह्मनाभिक गतांगुष्ठो दंष्ट्राविस्तृतलापनः ।। विचित्राभरणैर्युक्तः सर्ववि पशुपाश हृत् ।। शूलासीषु शक्तिसृणि वरधारी महातनुः ।। कपालफल चापारिणशाभयकरांबुजः । देवावृतः पितृवने क्रिडाकृन्मारसोत्तरे ।। एवं परेश्वरीं ध्यायेत् स्तनभारविराजितां ।। मानसं शांभवं ज्ञात्वा जपेद्विद्यामनन्यधीः ।। दक्षोर्ध्वकरमारभ्य दक्षाधः करपर्यंतं वामोर्ध्वकर मर्मभ्यं वामाधः करपर्यंतं आयुध ध्यानं ।। इति ध्यात्वाभि संपूज्य मूलविद्या द्वयं पुनः ।। समभ्यस्य समर्प्याथ चरण द्वितयं स्मरेदिति स्वैक्येन ध्यात्वा मानसैः पूजयित्वा पंचप्रणव संपुटितं परेश्वरबीजं यथाशक्ति जपित्वा तथैव परेश्वरी मंत्रं जपित्वा देवाय जपं समर्प्य षडन्वय शांभवाधिदेवतां ललितां स्वात्मानं ध्यायेत् ।। श्रीविद्यानंदनाथेन शिवयोः प्रिय सूनुना ।। कृते सौभाग्यरत्नाब्धौ तरंगो रुद्र संख्यकः ।। ११ ।। इति श्रीसच्चिदानंदनाथचरणारविंदद्वद्वातेवासिना श्रीश्रीविद्यानंदनाथेन कृते सौभाग्यरन्ताकरे एकादशस्तरंगः ।। प्. १३२अ) इति न्यासं कृत्वा षडन्वय शांभवरश्मिस्मरणं कुर्यात् ।। तत्र प्रथमं मानसपरेश्वर क्रमः । तत्र आज्ञाचक्रे ५ हिरण्यगर्भं षडाननं स्वर्णवर्णं शवासनं ध्यात्वा तस्य नाभि ५ प्रकर्णिकायां श्स्रौं इति परेश्वरकूटं बालार्कवर्णं ध्यात्वा तदुद्भवं ध्यानोक्तरूपं परेश्वरं देवमात्मानं ध्यात्वा तं सर्वगुरुस्वरूपं सशवासनं परेश्वरं ब्रह्मरंध्रे संचित्यमूलाधारे वाग्भवोत्थां परेश्वरीं ध्यानोक्तरूपां पंचदशफणायुक्ता हींद्रस्य मध्यफणा स्थितां ध्यात्वा पुनस्तां तेजोरुपां ब्रह्मरंध्रपर्यंतं ध्यात्वा तेन तेजसा सावय विकृत्य परेश्वरेण संयोज्य न्यासोक्तेनैकीकृतेन मंत्रेण देवं देवी मानसैरुपचारैः पूजयेत् ।। ततस्तं परितः शिरसि षट्कोणं विभाव्य तस्य कोणेषु ईषानादि वायव्यां तेषु चतुष्कादि क्रमेण प्रादक्षिण्येन द्वात्रिंशद्रश्मयो मिथुनरूपाः पूज्याः ।। तत्रैशानकोणे ।। प्रथमं मिथुनचतुष्करंक्तवर्णं ध्यात्वा ऐं ह्रीं श्रीं ह्स्फ्रें ह्स्रौः ऐं परानंदनाथ परापरांबा ऐं ह्सौः ह्स्फ्रें श्रीं ह्रीं ऐं श्रीपादुकां पूजयामि नमः ।। ५ ऐं भानंदनाथ भापरांबा ऐं ५ श्रीपा० । ५ ऐं चिदानंदनाथ चित्परांबा ऐं ५ श्री० । ५ ऐं महामायानंदनाथ महामायापरांबा ऐं ५ श्री० ।। इति चतुष्के ।। अथ पूर्वकोणे ।। मिथुनपंचकं शुक्लवर्णं ध्यात्वा ५ प्. १३२ब्) ह्रं इछानंदनाथेछापरांबा ह्रूं ५ श्री० । ५ ह्रूं सृष्ट्यानंदनाथसृष्टिपरांबा श्री० ।। ह्रूं स्थित्यानंदनाथस्थितिपरा ह्रूं ५ श्री० । ५ ह्रूं निरोधानंदनाथ निरोधापरांबा ह्रूं ५ श्री० । ५ ह्रूं मुक्त्यानंदनाथ मुक्तिपरांबा ह्रूं ५ श्री० । ५ अथाग्नेयकोणे ।। मिथुनचतुष्कं धूम्रवर्णं ध्यात्वा ५ ऐं ज्ञानानंदनाथज्ञानापराबा ऐं ५ श्री० । ५ ऐं सत्यानंदनाथ सतीपरांबा ऐं ५ श्री० । ५ ऐं असत्यानंदनाथ असतीपरांबा ऐं ५ श्री० । ५ ऐं सदसत्यानंदनाथ सदसतीपरांबा ऐं ५ श्री० । अथ नैर्-ऋतिकोणे । मिथुन सप्तकं कृष्णवर्णं ध्यात्वा ५ श्रीक्रियानंदनाथ क्रियापरांबा श्री ५ श्री पा० । ५ श्रीं अत्मवत्यांदनाथ आत्मवतीपरांबा श्रीं ५ श्री० । ५ श्रीं इंद्रियानंदनाथ इंद्रियापरांबा श्रीं ५ श्री० । ५ श्रीं गोचरानंदनाथ गोंचरीपराबा श्रीं ५ श्री० । ५ श्रीं लोकमुखानंदनाथ लोकमुख्यापरांबा श्रीं ५ श्री० । ५ श्रीं वेदांनंदनाथ वेदापरांबा श्री ५ श्री० । ५ संविदानंदनाथ संवित्परांबा श्रीं ५ श्री० । ततः पश्चिमकोणे मिथुनचतुष्कं पीतवर्णं ध्यात्वा ५ ह्रीं कुंडल्यानंदनाथ कुंडलीपरांबा ह्रीं ५ श्री० । ५ ह्रीं सुषुम्णानंदनथ सुषुम्णापरांबा ह्रीं ५ श्री० । ५ ह्रीं प्राणसूत्रानंदनाथ प्राणसूत्रापरांबा ह्रीइं ५ श्री० । ५ ह्रीं स्यंदानंदनाथ स्यंदापरांबा ह्रीं ५ श्री० । ततो वायव्यकोणे प्. १३३अ) मिथुनाष्टकं पितवर्णं ध्यात्वा ५ फ्रें मातृकानंदनाथ मातृकापरांबा फ्रें ५ श्री० । ५ फ्रें शब्दानंदनाथ शब्दापरांबा फ्रें ५ श्री० । ५ फ्रें वर्णानंदनाथ वर्णापरांबा फ्रें ५ श्री० । ५ फ्रें स्वरोद्भवानंदनाथ स्वरोद्भवापरांबा फ्रें ५ श्री० । ५ फ्रें वर्णजानंदनाथ वर्णजापरांबा फ्रें ५ श्री० । ५ फ्रें वर्गजानंदनाथ वर्गजापरांबा फ्रें ५ श्री० । ५ फ्रें संयोगानंदनाथ संयोगापरांबा फ्रें ५ श्री० । ५ फ्रें मंत्रविग्रहानंदनाथ मंत्रविग्रहापरांबा फ्रें ५ श्री० । इति रश्मिक्रमं संपूज्य विन्यस्य पुनर्देवदेव्यौ पूजयेदिति मानसपरेश्वरक्रमः ।। अथ नाभसविच्चेश्वरक्रमः ।। तत्र विशुद्धिचक्रे ह्स्रां इति विच्चेश्वरबीजं शुद्धस्फटिकसंकाशं ध्यात्वा तदुद्भवं देवमात्मानं ।। शुद्धस्फटिकसंकाशं षट्चक्रे द्वादशांघ्रिकं ।। भैरवाभं शूलचक्रांकुशपाशं शरान्वरं ।। दक्षे च वामके तद्वछंखध्वजा हि नृमुखं ।। चापाभये च बिभ्राणं तद्वतीं च कुलेश्वरीं ।। दक्षोर्ध्व वामोर्ध्व क्रमेणायुधक्रमः ।। इति सदाशिव प्रेतासनस्थं विच्चेश्वररूपमात्मानं ध्यात्वा ५ ह्स्रां ५ हृदयाय नमः । ५ ह्स्रीं शिरसे स्वाहा ।। एवं षट् दीर्घयुक्तबीजेन करषडंगचक्रन्यासं प्राग्वद्विधाय मूलाधारे प्. १३३ब्) देवी मंत्रस्यांतिमं फेमिति बीजं शुद्धस्फटिकसंकाशं ध्यात्वा तदुद्भूतां देवी विच्चेश्वर सदृशीं ध्यात्वा षट्दीर्घयुक्त फेमिति बीजेन पंचप्रणवसंपुटितेन प्राग्वत् करषडंगवक्त्रन्यासान् कृत्वा विच्चेश्वरीं तेजोरूपां मूलादि ब्रह्मरंध्रांतं ध्यात्वा विशुद्धौ विश्राम्य पुनः सावयवां तां विच्चेश्वरेण संयोज्य देवदेवी रूपमात्मानं ध्यायन् पंचप्रणवसपुटित बीजद्वयेन पुनः प्राग्वत् अंगन्यासं कृत्वा पूर्वोक्तविद्यया देवदेव्यौ मानसौपचारैः संपूज्य पुनर्ब्रह्मरंध्रे ध्यात्वा मानसं पूजयित्वा देवं परितः षट्कोणं विभाव्य तस्य पूर्वादि ईशानांतकोणेषु षट्क षट्कक्रमेण षट्त्रिंशद्रश्मि मिथुनानि न्यसेत् ।। तत्र पूर्वकोणे मिथुनषट्कं शुक्लवर्णं ध्यात्वा ५ हं हृदयानंदनाथकौलीनीपरांबा हं ५ श्री० । ५ धं धरानंदनाथ धात्रीपरांबा धं ५ श्री० । ५ भां भावानंदनाथ विच्चेश्वरी परांबा भां ५ श्री० । ५ भं भवानंदनाथयोगिनीपरांबा भं ५ श्री० । ५ मं महानंदनाथ ब्रह्मधारापरांबा मं ५ श्री० । ५ सं सर्वानंदनाथ शांभवीपरांबा सं ५ श्री० ।। अथाग्नेयकोणे द्वितीय षट्कं प्. १३४अ) रक्तं ध्यात्वा ५ इंद्रवानंदनाथं कालिकापरांबा इं ५ श्री० ।। ५ वं वसानंदनाथ दुष्टचंडालीपरांबा वं ५ श्री० ।। ५ मों मोहानंदनाथ घोरेशीपरांबा मों ५ श्री० ।। ५ मं मनोभवानंदनाथ हेलापरांबा मं ५ श्री० ।। ५ सें सेकानंदनाथ महारक्तापरांबा सें ५ श्री० ।। ज्ञां ज्ञानानन्दनाथ कुब्जिकापरांबा ज्ञां ५ श्री० ।। अथ नैर्-ऋतिकोणे मिथुनषट्कं श्यामवर्णं ध्यात्वा ५ खें खेटानंदनाथ डाकिनीपरांबा खें ५ श्री० । ५ ज्वां ज्वालानंदनाथ राकिनीपरांबा ज्वां ५ श्री० । ५ मं महांकुशानंदनाथ लाकिनीपरांबा मं ५ श्री० । ५ श्रीं श्रियोज्वलानंदनाथ काकिनीपरांबा श्रीं ५ श्री० । ५ तें तेजीशानंदनाथ साकिनीपरांबा तें ५ श्री० । ५ मूं मूर्द्धानंदनाथ हाकिनीपरांबा मूं ५ श्री० ।। ततः पश्चिमकोणे धूम्रवर्णं मिथुनषट्कं ध्यात्वा । ५ वां वायव्यानंदनाथ पद्मापरांबा वां ५ श्री० । ५ कुं कुलानंदनाथ सिंहापरांबा कुं ५ श्री० । सं संहारानंदनाथ कुलेश्वरीपरांबा सं ५ श्री० । ५ विं विश्वंभरानंदनाथ क्रमापरांबा विं ५ श्री० । ५ कुं कुटिलानंदनाथ कूर्मपरांबा कुं ५ श्री० । ५ गां गालवानंद कलिनीपरांबा गां ५ श्री० ।। ततो वायव्यकोणे मिथुनषट्कं अरुणवर्णं ध्यात्वा ।। ५ प्. १३४ब्) व्यों व्योमानंदनाथ व्योमापरांबा व्यों ५ श्री० । ५ श्वं श्वसनानंदनाथ नादापरांबा श्वं ५ श्री० । ५ खें खेचरानंदनाथ महिमापरांबा खें ५ श्री० । ५ बां बाहुलानंदनाथ महामायापरांबा बां ५ श्री० । ५ ज्ञां ज्ञानानंदनाथ कुंटलीपरांबा ज्ञां ५ श्री० । ५ विं विश्वानंदनाथ कुलेश्वरीपरांबा विं ५ श्री० ।। तत ईशानकोणे मिथुनषट्कं स्फटिकवर्ण ध्यात्वा ।। ५ आं आज्ञानंदनाथ सिद्धापरांबा आं ५ श्री० । ५ मं मदनानंदनाथ द्वीपिकापरांबा मं ५ श्री० । ५ यं यशानंदनाथ रेचिकापरांबा यं ५ श्री० । ५ शं शंखानंदनाथ मोचिकापरांबा शं ५ श्री० । ५ पं परानंदनाथ परापरांबा पं ५ श्री० । ५ वं वरानंदनाथ चितिपरांबा वं ५ श्री० ।। इति रश्मिक्रमं विन्यस्य देवदेव्यै । तदेक विद्मया पुनर्विन्यस्य मानसं संपूज्य वायव्यक्रममारभेत् ।। इति नाभस विच्चेश्वर क्रमः ।। अथ वायव्यहंसेश्वर क्रमः ।। तत्र अनाहतचक्रे ह्स्फ्रं इति हंसेश्वर बीजं धूम्रवर्णं विचिंत्य तदुद्भवं देवं धूम्रवर्णं षण्मुखं द्वादशबाहुं हेमपात्र शूलचक्रांकुशबाणवरान् शंखध्वजसर्पनृशिरश्चापा भयानि च दक्षवामयोरूध्वादि क्रमेण विभ्राणं प्. १३५अ) द्वादशपादं भैरवरूपमीश्वर प्रेतासनस्थं हंसेश्वरं तन्मयमात्मानं च ध्यात्वा ५ ह्स्फ्रा ५ हृदयाय नमः । इत्यादि षट् दीर्घभाजा हंसेश्वर बीजेन करषडंगवक्त्रन्यासान् विधाय देवीमंत्रस्य ह्स्रूमिति षष्ठं बीजं मूलाधारे धूम्रवर्णं ध्यात्वा तदुद्भवां धूम्रवर्णां हंसेश्वरीं हंसेश्वरसमानरूपां ध्यात्वा देवी विद्या षष्ठबीजेन प्राग्वत् अंगन्यासं विधाय हृदये देवदेव्यौ ध्यात्वा मानसैरुपचारैः पूजयित्वा शिरः पीठं पूजार्थं चरणद्वयमध्यस्य ब्रह्मरंध्रे यथोक्त रूपौ ध्यात्वा तयोरेकविद्यया संपूज्य शिरसि षट्कोणं विभाव्य तस्याग्नेयकोणे प्रथमचतुष्कं पीतवर्णं ध्यात्वा ५ लमयरूं खगेश्वरानंदनाथ भद्रापरांबा लमयरूं ५ श्री० । ५ लमयरूं कूर्मानंदनाथ माधविकापरांबा लमयरूं ५ श्री० ।। ५ लमयरूं मेषानंदनाथ कोशापरांबा लमयरूं ५ श्री० ।। ५ लमयरूं मानानंदनाथ मल्लिकापरांबा लमयरूं ५ श्री० । अथ नैर्-ऋत्ये पंचकं श्यामवर्णं ध्यात्वा ५ वमयरूं ज्ञानानंदनाथ विमलापरांबा ५ वमयरूं ५ श्री० । ५ वमयरूं महानंदनाथ शाबरीपरांबा वमयरूं ५ श्री० । ५ वमयरूं प्. १३५ब्) तीव्रानंदनाथ लीलापरांबा वमयरूं ५ श्री० । ५ वमयरूं प्रियानंदनाथ कुमुदापरां वमयरूं ५ श्री० । ५ वमयरूं कौलिकानंदनाथ मेनकापरांबा वमयरूं ५ श्री० ।। ततः पश्चिमकोणे मिथुनषट्कं रक्तवर्णं ध्यात्वा ५ रमययूं डामरानंदनाथ डाकिनीपरांबा रमरयूं ५ श्री० । ५ रमरयूं रामानंदनाथ राकिनीपरांबा रमरयूं ५ श्री० । ५ रमरयूं लामरानंदनाथ लाकिनीपरांबा रमरयूं ५ श्री० । ५ रमरयूं कामरानंदनाथ काकिनीपरांबा रमरयूं ५ श्री० । ५ रमरयूं सामरानंदनाथ साकिनीपरांबा रमरयूं ५ श्री० । ५ रमरयूं हामरानंदनाथ हाकिनीपरांबा रमरयूं ५ श्री० ।। ततः वायव्यकोणे तुरीयं मिथुनचतुष्कं धूम्रवर्णं ध्यात्वा ५ यमयरूं कूरंगीशानंदनाथ कुलापरांबा यमयरूं ५ श्री० । ५ यमयरूं मदघ्नीशानंदनाथ कुब्जिकापरांबा यमयरूं ५ श्री० । अथ ईशानकोणे मिथुनपंचकं शुक्लवर्ण ध्यात्वा ५ हमयरूं हृदीशानंदनाथ कमलापरांबा हमयरूं ५ श्री० । ५ हमयरूं सिरसानंदनाथ कुलदीपिकापरांबा हमयरूं ५ श्री० ।। ५ हमयरूं शिखीशानंदनाथ बर्बरापरांबा हमयरूं ५ श्री० ।। प्. १३६अ) ५ हमयरूं वर्मानंदनाथ बहूरूपापरांबा हमयरूं ५ श्री० ।। हमयरूं अस्त्रानंदनाथ महत्तरीपरांबा हमयरूं ५ श्री० ।। ततः पूर्वे कोणे मिथुनत्रटांबालार्कवर्णं ध्यात्वा ५ समयरूं परगुर्वानंदनाथ मंगलापरांबा समयरूं ५ श्री० ।। समयरूं पराधिकारगुर्वानंदनाथ कौशलापरांबा समयरूं ५ श्री० ।। समयरूं पूंज्यगुर्वानंदनाथ समानापरांबा समयरूं ५ श्री० ।। इति वायव्यक्रमरश्मीन्विन्यस्य पुनरेक विद्यया देवदेव्यौ विन्यस्य संपूज्य स्वाधिष्ठाने तैजस क्रममारभेत् ।। इति वायव्य हंसेश्वरक्रमः ।। ननु अनाहतचक्रे वायव्य हंसेश्वरक्रममभिधायक्रम प्राप्तं मणिपूरकचक्रं विहाय स्वाधिष्ठानचक्रेऽतैजससंवर्तेश्वर रश्मि स्मरणं कुर्यादिति यदुक्तं तत्कमुपपन्नमिति चेत् ।। सत्यं ।। अनाहतचक्रानंतरं मणिपूरकचक्रमेव क्रमप्राप्तं भवति ।। महीं मूलाधारेकमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने इति स्वाधिष्ठानचक्रमेव वह्निस्थानत्वेन प्रतिपाद्यान्यत्रापि तव स्वाधिष्ठाने हुतवहमधिष्ठाय प्. १३६ब्) निरतं तमीडे संवर्तं जननिमहंती तां च समयामिति सौंदर्यलहर्यां श्रीशंकराचार्यैः षडन्वय शांभवक्रम कथनेपि समाम्नातत्वात् ।। भूतक्रमेण चक्रक्रमे बाधित इति ।। अथ तैजससंवर्तेश्वरक्रम ।। तत्र स्वाधिष्ठानं चक्रे संवर्तेश्वरमंत्रस्य क्ष्रामिति सप्तमं बीजं बालार्कनिभं ध्यात्वा तदुद्भवं भिन्नांजनप्रभं पंच * क्त्रं पंचदशनेत्रं दशचरणं दशभुजं भूचक्रधवजवर ब्रह्मकपालानि पारिजातपुष्पजपमालापुस्तकाभयटंकांश्च दक्षिणवामकरेषु दक्षोर्ध्ववामोर्ध्वादिक्रमतो दधानं दंष्ट्राकरालं वेषविसेषायबद्धोर्ध्वकेशं षोडशवर्षीयं रत्नसर्पास्थिभूषणं सर्वालंकारशोभितं पंचवक्त्रे रुद्रप्रेतासने एकपादेन स्थितं तस्य वह्निस्वरूपनाभिपद्मप्राप्तपादांगुलीयकं मुंडमालायुक्तं आंत्रनिबंद्धशवकरसंघातरचितमेखलं देवं स्वात्मानं ध्यात्वा ।। करतलयोः ५ हं व्योमानंदनाथरजनीपरांबा हं ५ श्री० ।। करपृष्ठयोः । ५ सं संविदानंदनाथ चितिपरांबा सं ५ श्री० ।। अंगुष्ठयोः ५ क्षं अहंकारानंदनाथ क्रोधिनीपरांबा क्षं ५ श्री० ।। तर्जन्योः ५ मं बुध्यानंदनाथ कुलवागीश्वरीपरांबा मं ५ श्री० ।। मध्यमयोः ५ लं ऋध्यानंदनाथ मातृकापरांबा लं ५ श्री० ।। अनामिकयोः ५ वं अमृतानंदनाथ देवद्रवीपरांबा वं ५ श्री० ।। कनिष्ठिकयोः ५ यं अचलानंदनाथ चलांपरांबा यं ५ श्री० ।। करतलयोः ५ रं दीप्तानंदनाथ ज्वालिनीपरांबा रं ५ श्री० ।। करपृष्ठयोः ५ ऊं प्रकृतीशानंदनाथ प्रकृतिपरांबा ऊं ५ श्री० ।। इति करन्यासः ।। अथ षडंगन्यासः ।। तत्र ५ हं सं विशुद्धानंदनाथ शंखिनीपराबा हं सः ५ प्. १३७अ) हृदयाय नमः ।। ५ क्षं मं प्राणानंदनाथ योगेश्वरीपरांबा मं क्षं ५ शिरसे स्वाहा ।। ५ लं वं ज्ञानानंदनाथ बिदुंपरांबा वं लं ५ शिखायै वषट् ।। यं रं व्यापकानंदनाथ इंधिकापरांबा रं यं ५ कवचाय हुं ।। ५ ऊं सुरानंदनाथ प्रीतवतीपरांबा ऊं ५ नेत्रत्रयाय वौषट् ।। ५ अं अघोरानंदनाथ अघोरेश्वरीपरांबा अं ५ अस्त्राय फट् ।। इति षडंगन्यासः ।। अथ वक्त्रन्यासः ।। तत्र पश्चिमवक्त्रे ५ हं सं ५ कालवक्त्रानंदनाथ कालरात्रीपरांबा सं हं ५ श्री० ।। उत्तरवक्त्रे ५ क्षं मं रौद्रवक्त्रानंदनाथ संहारिणीपरांबा मं क्षं ५ श्री० ।। दक्षिणवक्त्रे ५ लं वं विश्वविग्रहानंदनाथ दहनीपरांबा वं लं ५ श्री० ।। पूर्ववक्त्रे ५ यं रं प्रकाशानंदनाथ ज्योतिःपरांबा रं यं ५ श्री० ।। उर्ध्ववक्त्रे ५ ऊं हर्षानंदनाथ अमृतवाहिनीपरांबा ऊं ५ श्री० ।। परवक्त्रे ५ अं अमरानंदनाथ चितिपरांबा अं ५ श्री० ।। इति वक्त्रन्यासः ।। इति शैवं न्यासं विधायशाक्तन्यासं कुर्यात् ।। मूलाधारस्थ योनिमध्ये । ह्स्फेमिति चतुर्थं प्रणवं रक्तवर्णं विचिंत्य तत्प्रभापटलसमुद्भूतां देवीं रक्तवर्णां हास्ययुक्त षड्वक्त्रां द्वादशभुजां दश * क्त्रां विंशंतिभुजां वा विशंतिवक्त्रां चत्वारिंशद्भुजां वा शतवक्त्रां द्विशतभुजां वा प्रतिवक्त्रं स्फुरदादित्य सकाशलोचनत्रय भूषितां शूलकपालबाणचापखट्वांगांकुशपाशशंखचक्रगदारत्न-खड्ग डिंडिमडमरुवज्रघंटात्रिखंडशक्तिशल्पकुंत सर्पजपमालाख्यान्यायुधानि यथायथं दधानां संवर्त्तेश्वरीं स्वाभेदेन ध्यात्वा ।। प्. १३७ब्) कनिष्ठयोः ।। ५ ऐं नित्ये भगवति ह्स्फ्रें कुलेश्वरी० ५ नमः ।। अनामयोः ।। ५ ह्रां ह्रूं ह्रीं ह्वां ह्वीं ह्रूं ह्यै हौं ऽऽन ञ न ण मे ५ नमः ।। मध्यमयोः ५ क्ष्रां क्ष्रूं क्ष्रीं क्ष्रः श्रीं फट् ह्स्रौं फ्रें ५ नमः ।। तर्जन्योः ५ अघोरमुखी कुब्जिकायै ५ नमः ।। अंगुष्ठयोः ५ ख्त्रां छ्रूं छ्रीं घोरे अघोरे ५ नमः ।। करतलकरपृष्ठयोः ५ यं रं लं वं हं सं किणि किणि महाकिणि किणि विच्चे० ।। नमः ।। इति करन्यासः ।। अथ तैरेवमंत्रैः षडंगन्यासः पुनरेतैरेव मंत्रैः पश्चिमादिवक्त्रन्यासः ।। अथ दशवक्त्रन्यासः ।। तत्र पश्चिमवक्त्रे ५ ऐं नित्ये भगवति ५ नमः । उत्तरवक्त्रे ५ ह्स्फें कुलेश्वरी ५ नमः ।। दक्षिणे ५ ह्रां ह्रूं ह्रीं ह्लां ह्वीं ह्रूं ह्यैं हौं ५ नमः ।। पूर्ववक्त्रे ५ ऽऽन ञ ण न मे ५ नमः ।। वायव्ये ५ क्ष्रां क्ष्रूं क्ष्रीं क्ष्रः क्ष्रं श्रीं फट् ह्स्रौं फ्रें ५ नमः ।। नैर्-ऋतिवक्त्रे ५ अघोरमुखी कुब्जिकायै ५ नमः । ईशानवक्त्रे ५ छ्रां छ्रूं छ्रीं ५ नमः ।। आग्नेये ५ घोरे अघोरे ५ नमः ।। उर्ध्ववक्त्रे ५ यं रं लं वं हं सं ५ नमः ।। परवक्त्रे ५ किणि किणि महाकिणि विच्चे ५ नमः ।। अथ विशंतिवक्त्रन्यासः ।। तत्र पश्चिमाद्यवक्त्रे ५ ऐं नित्ये ५ नमः । द्वितीयवक्त्रे ५ भगवति ५ नमः ।। उत्तराद्यवक्त्रे ५ ह्स्फ्रे ५ नमः ।। द्वितीय ५ कुलेश्वरी ५ नमः ।। दक्षिणाद्यवक्त्रे ५ ह्रां ह्रूं ह्रीं ह्लां ५ नमः ।। द्वितीय ५ ह्वीं ह्रूं ह्यैं हौं ५ नमः ।। पूर्वाद्यवक्त्रे ५ ऽऽन ञ ण ५ नमः । द्वितीय ५ नमे ५ नमः ।। वायव्याद्यवक्त्रे ५ क्ष्रां क्ष्रुं क्ष्रीं क्ष्रः क्ष्रं श्रीं ५ नमः ।। द्वितीये ५ फट् ह्स्रौं फ्रें ५ नमः । नैर्-ऋत्याद्यवक्त्रे ५ अघोरमुखि ५ नमः । द्वितीये ५ कुब्जिकायै ५ नमः ।। प्. १३८अ) ईशाव्रवक्त्रे ५ छ्रां छ्रूं ५ नमः ।। द्वितीये ५ छ्रीं ५ नमः ।। आग्नेयाद्यवक्त्रे ५ घोरे ५ नमः ।। द्वितीये ५ अघोर ५ नमः ।। ऊर्ध्वाद्यवक्त्रे ५ यं रं लं ५ नमः ।। द्वितीये ५ वं हं सं ५ नमः ।। पराद्यवक्त्रे ५ किणि किणि नमः ।। द्वितीये ५ महाकिणि विच्चे ५ नमः ।। इति विंशतिवक्त्रन्यासः ।। अथ शतवक्त्रन्यासः ।। तत्र दशवक्त्रोक्तन्यासपदान्येव दशवक्त्रन्यासस्थानेषु दश कृत्वः पुनन्यसेदिति शतवक्त्रन्यासः ।। अथ मूलादिब्रह्मरंध्रांतं तत्तेजोरूपां संवर्त्तेश्वरीं ध्यात्वा पूर्ववद्देवेन सह संयोज्वशिरः पीठे मानसोपचारैः संपूज्य ततस्तं परितः शिरसि षट्कोणं विभाव्य तस्य नैर्-ऋत्यकोणे रश्मिमिथुनपंचकं पीतवर्णं ध्यात्वा ५ सह्लां ५ परापरानंदनाथखेचरी परांबा स ह्लां ५ श्रीपादुकां० ।। ५ स ह्लां परानंदनाथो छुष्मापरांबा ५ श्री० ।। ५ सह्लां परमानंदनाथ गुह्यकाली परांबा स ह्लां ५ श्री० ।। ५ स ह्लां अपरानंदनाथ संवर्त्तापरांबा स ह्लां ५ श्री० ।। ५ स ह्लां चिदानंदनाथ नीलकुब्जिकापरांबा स ह्लां ५ श्री० ।। ततः पश्चिमकोणे मिथुन न पंचकं कृष्णवर्णं ध्यात्वा ।। स ह्रीं अघोरानंदनाथ गंधापरांबा श्वीं ५ श्री० ।। ५ श्वीं डामराघोरानंदनाथ रसापरांबा श्वीं ५ श्री० ।। ५ श्वीं ललितानंदनाथ रूपापरांबा श्वीं ५ श्री० ।। ५ श्वीं स्वस्थानंदनाथ स्पर्शापराबांबा श्वीं ५ श्री० ।। ५ प्. १३८ब्) ततो वायव्यकोणे मिथुनषट्कं कृष्णवर्णं ध्यात्वा ५ श्रूं आनंदानंदनाथ कृष्ण डाकिनीपरांबा श्रूं ५ श्री० ।। ५ श्रूं अरण्यानंदनाथ रक्तडाकिनीपरांबा श्रूं ५ श्री० ।। श्रूं प्रभ्वानंदनाथ चक्रडाकिनीपरांबा श्रूं ५ श्री० ।। ५ श्रूं योगानंदनाथ पद्मडाकिनीपरांबा श्रूं ५ श्री० ।। ५ श्रूं अतीतानंदनाथ कुब्जडाकिनीपरांबा श्रूं ५ श्री० ।। ५ श्रूं पादानंदनाथ प्रचंडडाकिनीपरांबा श्रूं ५ श्री० ।। अथैशानकोणे मिथुनचतुष्करक्तवर्णं ध्यात्वा ५ श्यैं योगेश्वरानंदनाथ चंडीपरांबा श्यैं ५ श्री० ।। ५ श्यै पीठेश्वरानंदनाथ कौलिनीपरांबा श्यैं ५ श्री० ।। ५ श्यैं कुलकौलेश्वरानंदनाथ पावनीपरांबा श्यैं ५ श्री० ।। ५ श्यैं अजकुब्जेश्वरानंदनाथ महासमयापरांबा सह्यैं ५ श्री० ।। अथ पूर्वकोणे मिथुनपंचकं शुक्लवर्णं ध्यात्वा ५ शौं श्रीकंठानंदनाथ कामांपरांबा शौं ५ श्री० ।। ५ शौं अनंतानंदनाथ चर्चिकापरांबा शौं ५ श्री० ।। ५ शौं शंकरानंदनाथ ज्वालापरांबा शौं ५ श्री० ।। ५ शौं पिंगलानंदनाथ करालीपरांबा शौं ५ श्री० ।। ५ शौं सदानंदनाथ कुब्जिकापरांबा शौं ५ श्री० ।। प्. १३९अ) अथाग्नेयकोणे मिथुनषट्कं स्फटिकवर्ण ध्यात्वा ५ श्रः कालगुर्वानंदनाथपरापरांबा श्रः ५ श्री० ।। ५ श्रः सिद्धगुर्वानंदनाथ शांत्यतीतापरांबा श्रः ५ श्री० ।। ५ श्रः रत्नगुर्वानंदनाथ शांतिपरांबा श्रः ५ श्री० ।। ५ श्रः शिवगुर्वानंदनाथ विद्यापरांबा श्रः ५ श्री० ।। ५ मैनाकगुर्वानंदनाथ प्रतिष्ठापराबा श्रः ५ श्री० ।। ५ श्रः समयगुर्वानंदनाथ निवृत्तिपरांबा श्रः ५ श्री० ।। इति रश्मिक्रमं विन्यस्य पुनर्देवदेव्यौ मध्ये तदेक विद्यया संपूज्याप्यक्रमद्वीपेश्वर रश्मि स्मरणं कुर्यात् ।। तं मणिपूरकचक्रे हसब्रूं इति द्विपेश्वर कूटं शुक्लवर्णं ध्यात्वा तदुद्भवं देवं श्यामवर्णं द्वादशभुजं वा बाणचापशुलचक्रखड्वांकुशवरान् खट्वांगपरशुगदापाशाभयानि दक्षिणवामबाहुभिर्दधानं बाहुद्वयेन गजचर्म च बिभ्राणं विष्णुमहाप्रेतासनस्थं दंष्ट्राकरालं भयानकाभरणं द्वीपेश्वरं स्वाभेदेन ध्यायेत् ।। अत्र बाणचापावेकहस्ते वरशब्दोकुश विशेषणं द्वादशभुजत्वादिति ।। अथ अंगन्यासः ।। तद्यथा ।। कनिष्ठयोः ५ ह्स्व्रां हृदयाय नमः ।। अनामिकयोः ५ ह्स्व्रां शिरसे स्वाहा ।। प्. १३९ब्) मध्यमयोः ५ ह्स्व्रूं ५ शिखायै वषट् । तर्जन्योः ५ ह्स्व्रैं ५ कवचाय हुं ।। अंगुष्ठयोः ५ ह्स्व्रौं ५ नेत्रत्रयाय वौषट् ।। करतलकरपृष्ठयोः ५ ह्स्व्रंः ५ अस्त्राय फट् ।। इति करन्यासः ।। अथैतैरेवमंत्रैर्हृदयादिषडंगन्यासः ।। पुनः पश्चिमवक्त्रे ५ ह्स्व्रां ५ नमः इत्यादि वक्त्रषट्केपि प्राग्वन्यसेत् ।। ततो मूलाधारे देवीमंत्रस्य चतुर्थमक्षरं टिकारं शुक्लवर्णं विभाव्यतदुद्भूतां देवी श्यामवर्णां विष्णुशवासनस्थां अष्टभुजां शंखचक्रगदापद्मशूलपाशवराभयानिदथतां द्वीपेश्वरीं स्वाभेदेन ध्यात्वा कनिष्ठयोः ५ टां ५ हृदयाय नमः ।। इत्यादि तलांतं प्राग्वत् षट्दीर्घयुक्त टकारेण करन्यासं कृत्वा हृदयादि षडंगेष्वपि टां टीं । इत्यादि षड्भिः षडंगन्यासं विद्याय तथैवक्त्रन्यासं च कृत्वा मूलाधारादि ब्रह्मरंध्रांतं तेजोरूपां देवीं ध्यायंस्तत्तेजोमणि पूरके स्थिरीकृत्य सावयवा देवीं देवेन सहसंयोज्य देवदेवीरूपमात्मानं ध्यायन् युगपत् ५ ह्स्व्रां टां इत्यादि प्राग्वत्करषडंगवक्त्रन्यासान् कृत्वा ब्रह्मरंध्रें पुनर्देवदेव्यौ ध्यात्वा प्. १४०अ) सिरशि तं परितः षट्कोणं विभाव्य तस्य पश्चिमकोणे रश्मि मिथुनचतुष्कं पीतवर्णं ध्यात्वा ५ लं सत्यानंदनाथ निवृत्तिपरांबा लं ५ श्री० ।। लं वामानंदनाथ श्रीपरांबा लं ५ श्री० ।। ५ लं अघोरानंदनाथ पद्मापरांबा लं ५ श्री० ।। ५ लं पुरुषानंदनाथांबिका परांबा लं ५ श्री० ।। ततः वायव्यकोणे रश्मिमिथुनचतुष्कं श्यामवर्णं ध्यात्वा ५ वं अनंतानंदनाथ निवृत्तिपरांबा वं ५ श्री० ।। ५ वं अनाथानंदनाथ प्रतिष्ठापरांबा वं ५ श्री० ।। ५ वं अनाश्रितानंदनाथ विद्यापरांबा वं श्री० ।। ५ वं अचिंत्यानंदनाथ शातिपरांबा वं ५ श्री० ।। तत ईशानकोणे मिथुनषट्क रक्तवर्णं ध्यात्वा ५ रं खेचरानंदनाथामापरांबा ५ श्री० ।। ५ रं तीव्रानंदनाथ गंगापरांबा रं ५ श्री० ।। ५ रं मणिवहानंदनाथ सरस्वतीपरांबा रं ५ श्री० ।। ५ रं ज्वालेश्वरानंदनाथ यमुनापरांबा रं ५ श्री० ।। ५ रं अंबुवाहानंदनाथ कमलापरांबा रं ५ श्री० ।। ५ रं तेजीशानंदनाथ पार्वतीपरांबा रं ५ श्री० ।। ततः पूर्वकोणे मिथुनचतुष्कं कृष्णवर्णं ध्यात्वा ५ यं विद्यावागीश्वरानंदनाथ चित्रापरांबा यं ५ श्री० ।। ५ यं चतुर्विधेश्वरानंदनाथ कमलापरांबा यं ५ श्री० ।। ५ यं उमागंगेश्वरानंदनाथ मन्मथवेगापरांबा यं ५ श्री० ।। ५ प्. १४०ब्) यं श्रीकृष्णेश्वरानंदनाथ रसापरांबा यं ५ श्री० ।। ततः आग्नेयकोणे मिथुनपंचकं शुक्लवर्णं ध्यात्वा ५ हं श्रीकंठानंदनाथ लयापरांबा हं ५ श्री० ।। ५ हं अनंतानंदनाथ वसंतापरांबा हं ५ श्री० ।। ५ हं शंकरानंदनाथ रत्नमेखलापरांबा हं ५ श्री० ।। ५ हं पिंगलानंदनाथ यशोवतीपरांबा हं ५ श्री० ।। ५ हं सदाख्यानंदनाथ हंसापरांबा हं ५ श्री० ।। ततो नै-ऋत्यकोणे मिथुनत्रयं रक्तवर्णं ध्यात्वा ५ सं परदिव्यौघानंदनाथ वामापरांबा सं ५ श्री० ।। ५ सं परदिव्यौघानंदनाथ ज्येष्ठापरांबा सं ५ श्री० ।। ५ सं पीठौघानंदनाथ रौद्रीपरांबा सं ५ श्री० ।। ततः मध्ये देव देव्योरेक विद्ययातौ मानसैरुपचारैः संपूज्य तन्मयं स्वात्मानं ध्यायेदित्याप्यद्वीपेश्वर क्रमः ।। अथ पार्थिवनवात्मेश्वर क्रमः ।। तत्र मूलाधारे हसक्षमलवरयूं इति नवात्मेश्वर कूटं रक्तवर्णं ध्यात्वा तदुद्भवं देवं भिन्नांजन च यं प्रभं पंचवक्त्रं त्रिनेत्रं दशचरणं दशभुजं शूलचक्रध्वजवर ब्रह्मकपालानि पारिजातपुष्प जपमाला पुस्तकाभय टंकांश्च दक्षवामयोर्दधानं दंष्ट्राकरालं वेष विशेषायबद्धोर्ध्वकेशं षोडशवार्षिकं रत्नसर्पास्थि भूषणं ब्रह्मप्रेतासनस्थं नवात्मेश्वरं स्वाभेदेन ध्यात्वा तद्बीजाक्षरैस्त्र्यंगन्यासं कुर्यात् ।। तद्यथा ।। प्. १४१अ) कनिष्ठयोः । ५ हं सं हृदयाय नमः ।। अनामयोः । क्षं मं ५ शिरसे स्वाहा ।। मध्यमयोः ५ लं वं ५ शिखायै वषट् ।। तर्जन्योः ५ रं यं ५ कवचाय हुं ।। अगुष्ठयोः ५ ऊ ५ नेत्राय वौषट् ।। करतलकरपृष्ठयोः ५ अं ५ अस्त्राय फट् ।। इति करन्यासः ।। एतैरेवमंत्रैः प्राग्वत् षडंगवक्त्रन्यासौ कुर्यात् ।। ततो देवीमंत्रस्य सप्तमं बीजं ह्स्फ्रेमिति चतुर्थ प्रणवात्मकं कूटं मूलाधारे रक्तवर्णं ध्यात्वा तदुद्भूतां देवीं नीलवर्णां कुब्जरूपां पश्चिमोत्तरदक्षिणपूर्वेशानोर्ध्वगत पीतशुक्लकृष्ण कृष्णशुक्लरक्तवर्ण षड्वक्त्रां द्वादशभुजां शूलचक्रवज्रांकुशशरकर्त्तरीः स पंकजनीलोत्पलं समुंडखट्वांगं घटांपुस्तकं धनुः कपालं च दक्षवामेषु करेषुरेदनां प्रतिमुखं दंष्ट्राकरालां सर्पास्थि रत्नभूषितां मुंडमालाधरां रौद्ररूपामष्टाविंशति वर्षीयां बद्धोर्ध्वकेशीं व्याघ्रचर्मपरीधानां सिंहचर्मोत्तरीयां दिव्यांभरणभूषितां महाट्टहासां ब्रह्मप्रेतासनस्थां देवीं स्वाभेदेन ध्यात्वा कनिष्ठयोः ५ ह्स्फ्रां नमो भगवती कमलायै हसफ्रां ५ हृदयाय नमः ।। अनामिकयोः ५ ह्स्फ्रीं कुब्जिकायै कुलदीपिकायै ह्स्फ्रीं ५ सिरसे स्वाहा ।। मध्यमयोः ५ ह्स्फ्रूं ह्रां ह्रूं ह्रीं बर्बरायै ह्स्फ्रूं ५ शिखायै वषट् ।। तर्जन्योः ५ ह्स्फ्रैं ऽऽन ञ ण न मे प्. १४१ब्) अघोरमुखी बहुरूपायै ह्स्फ्रैं ५ कवचाय हुं ।। अंगुष्ठयोः ५ ह्स्फ्रौं छ्रां छ्रुं छ्रीं महातारायै ह्स्फ्रौं ५ नेत्राय वौषट् ।। करतलपृष्ठयोः ५ ह्स्फ्रः किणि किणि विणि विणि विच्चे ह्स्फ्रः ५ अस्त्राय फट् ।। एवं प्राग्वत् षडंगवक्त्रन्यासौ कृत्वा देवीं तेजोरूपां मूलादि ब्रह्मरंध्रांतं ध्यात्वा देवेन संयोज्य देवदेवीरूपमात्मानं ध्यायन् पंचप्रणवपुटितैर्हसक्षमलवरयां ह्स्फ्रां इत्यादि षट्दीर्घजनितैर्बीजद्वयस्य षड्भिर्मंत्रैः करषडंगवक्त्रन्यासान्विधाय मूलाधारे देवदेव्यौ ध्यात्वा ५ शिरः पीठे चरणद्वयमध्येपि पुनर्देवदेव्यौ ध्यात्वा तौ परितः षट्कोणं विभाव्य तस्य वायव्यकोणे मिथुनचतुष्कं पीतवर्णं ध्यात्वा ५ लमयरूं ओड्याणमहापीठ उड्डेश्वरानंदनाथ उड्डेश्वरीपरांबा लमयरूं ५ श्री० ।। वमयरूं जालंधरमहापीठ जालेश्वरानंदनाथ जालेश्वरीपरांबा वमयरूं ५ श्री० ।। ५ रमयरूं पूर्णगिरिमाहापीठ पूर्णेश्वरानंदनाथ पूर्णेश्वरीपरांबा रमयरूं ५ श्री० ।। ५ यमयरूं कामरूपमहापीठ कामेश्वरानंदनाथ कामेश्वरीपरांबा यमयरूं ५ श्री० ।। तत ईशानकोणे मिथुनपंचकं श्याम ध्यात्वा ५ ग्लूं श्रीकंठानंदनाथ गगनापरांबा ग्लूं ५ श्री० ।। ५ स्लूं अनंतानदनाथ प्. १४२अ) स्वर्गापरांबा स्लूं ५ श्री० ।। ५ म्लूं शंकरानंदनाथ मर्त्यापरांबा म्लु ५ श्री० ।। ५ प्लूं पिंगलानंदनाथ पातालपरांबा प्लूं ५ श्री० ।। ५ न्लूं सद्योजातानंदनाथ नागापरांबा न्लूं ५ श्री० ।। अथ पूर्वकोणे मिथुनषट्कं कृष्णवर्णं ध्यात्वा ५ डमयरूं आनंदानंदनाथ डाकिनीपरांबा डमयरूं ५ श्री० ।। ५ रमयरूं आवल्यानंदनाथ राकिनीपरांबा रमयरूं ५ श्री० ।। ५ लमयरूं प्रज्ञानंदनाथ लाकिनीपरांबा लमयरूं ५ श्री० ।। ५ कमयरूं योगानंदनाथ काकिनीपरांबा कमयरूं ५ श्री० ।। ५ समयरूं अतीतानंदनाथ साकिनीपरांबा समयरूं ५ श्री० ।। ५ हमयरूं पादानंदनाथ हाकिनीपरांबा हमयरूं ५ श्री० ।। ततोग्निकोणे मिथुनचतुष्कं रक्तवर्णं ध्यात्वा ५ लं आधारारीशानंदनाथ रक्तापरांबा लं ५ श्री० ।। ५ वं चक्रीशानंदनाथ चंडीपरांबा वं ५ श्री० ।। रं कुरंगीशानंदनाथ करालापरांबा रं ५ श्री० ।। ५ यं मदंघ्रीशानंदनाथ महोछुष्मापरांबा यं ५ श्री० ।। ततो नैर्-ऋतिकोणे मिथुनपंचकं कृष्णवर्णं ध्यात्वा ५ गं विमलानंदनाथ मातंगीपरांबा गं ५ श्री० ।। सं सर्वज्ञविमलानंदनाथ पुलिंदीपरांबा सं ५ श्री० ।। ५ मं योगविमलानंदनाथ शबरीपरांबा मं ५ श्री० ।। ५ पं सिद्धिविमलानंदनाथ प्. १४२ब्) चंपकपरांबा पं ५ श्री० ।। ५ नं समयाविमलानंदनाथ कुलाकिकापरांबा नं ५ श्री० ।। ततः पश्चिमकोणे मिथुनचतुष्कं सूर्यप्रभं ध्यात्वा ५ लमयरूं मित्रीशानंदनाथ कुब्जिकापरांबा लमयरूं ५ श्री० ।। वमयरूं उड्डीशानंदनाथ लघ्वीपरांबा वमयरूं ५ श्री० ।। ५ रमयरूं षष्ठीशानंदनाथ कुलेश्वरीपरांबा रमयरूं ५ श्री० ।। ५ यमयरूं चर्यानंदनाथ कुब्जेश्वरीपरांबा यमयरूं ५ श्री० ।। इति षडन्वय शांभवरश्मिक्रमः ।। अत्र षडन्वयरश्मयः सर्वे वराभयकरा मदाघूणितलोचनाध्येयाः ।। ततो मध्ये देवदेव्यौरेकविद्यया तौ मानसैरुपचारैः संपूज्य तदात्मानंमात्मानं ध्यात्वा षडन्वय शांभवाधिदेवता श्रीमहात्रिपुरसुंदरीरूंपं निजवपुर्ज्योतिमयं ध्यायेदिति शांभवाख्योर्ध्वाम्नाय न्यासः ।। श्रीविद्यानंदनाथेन शिवयोः प्रिये सूनुना ।। कृते सौभाग्यरत्नाब्धौ तरंगो ।। १२ ।। द्वादशोगमत् ।। १ ।। इति श्रीसच्चिदानंदनाथचरणारविंदद्वंद्वांते वासिना श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे द्वादशस्तरंगः ।। १२ ।। प्. १४३अ) इत्थं षष्ठ्युत्तरत्रिशत शांभवरश्मीन्विन्यस्य मूलाधाराद्याज्ञापर्यंतेंषु पृथिव्यादि मानसांतेषु षट्सु चक्रेषु शांभवादिभ्यः सारतरायाः श्रीविद्यायाः षष्ठ्युत्तरं त्रिशतं रश्मीन्मनसा भावयन् न्यसेत् ।। तत्र मूलाधारे पार्थिवचक्रे मूलविद्यां तेजोरूपां विभाव्य पुनर्मूलादि ब्रह्मरंध्रांतं तथैव ध्यात्वा ब्रह्मरंध्रे चरणद्वयमध्ये लयं । नीत्वा चरणद्वय सामरस्यरूपनिर्वाण चरणोद्भवानंद तेजोमयी ध्यानोक्तरूपां श्रीमहात्रिपुरसुंदरी ध्यात्वा आज्ञाचक्रं समानीय तत्र मानसदेवता परेश्वर परेश्वरीरूपत्वेन ध्यात्वा पंचतारसंपुटित मूलविद्यामुच्चार्य परेश्वरपरेश्वरीरूप श्रीमहात्रिपुरसुंदरी श्रीपादुकां पूजयामीति मंत्रेण मानसैरूपचारैः संपूज्य पुनस्तन्मिथुनमेव सकामेश्वर श्रीमहात्रिपुरसुंदरीरूपेण ध्यात्वा केवलमूलविद्यया संपूज्य पुनः कंठविशुद्धिचक्रमानीय तत्र तद्देवतात्मकत्वेन ध्यात्वा पूर्ववत्संपूज्यानाहत चक्रं नीत्वा तत्रापि त्तद्देवतारूपेण ध्यात्वा मानसैरुपचारैः संपूज्य ।। प्. १४३ब्) ध्यात्वा मानसैरुपचारैः संपूज्य ।। ततः स्वाधिष्ठानचक्रं नित्वा तत्रापि तथैव ध्यात्वा संपूज्य पुनर्मणिपूरकचक्रं नीत्वा तत्रापि तथैव ध्यात्वा संपूज्य ततो मूलाधारचक्रं नीत्वा तत्रापि तथैव ध्यात्वा संपूज्य पार्थिवचक्राधिदेवतायाः श्रीमहात्रिपुरसुंदर्याःस्तनुसंभवाः षट्पंचाशद्देवताः पार्थिवचक्रे मनसा भावयन्न्यसेत् ।। तद्यथा ।। मूलाधारे चतुरस्रं पीतवर्णं लं बीजयुक्तं अष्टवज्रोपेतं पृथिवीमंडलं ध्यात्वा तत्र षट्पंचाशद्दलमंडितं सरोरुहं विचिंत्य तन्मध्ये देवीं ध्यायन् पूर्वदलादि प्रादक्षिण्येनोद्वाममणिभूषितान् मूलदेवीवर्णान् चतुर्भुजांस्त्रिपुरसुंदर्यादि चर्यानाथां तांन् षट्पंचाद्रश्मीन् भावयन्न्यसेत् ।। ओं ऐं ह्रीं श्रीं त्रिपुरसुंदरी श्रीपादुकां पूजयामि नमः ।। ४ त्रिपुरसुंदर श्री० ।। ४ हृदयदेवी श्री० ।। ४ हृदयदेव श्री० ।। ४ शिरोदेवी श्री० ।। ४ शिरोदेव श्री० ।। ४ शिखादेवी श्री० ।। ४ शिखादेव श्री० ।। ४ कवचदेवी श्री० ।। ४ कवचदेव श्री० ।। ४ नेत्रदेवी श्री० ।। ४ नेत्रदेव श्री० ।। ४ अस्त्रदेवी श्री० ।। ४ अस्त्रदेव श्री० ।। ४ प्. १४४अ) ४ कामेश्वरी श्री० ।। ४ कामेश्वर श्री० ।। ४ भगमालिनी श्री० ।। ४ भगमाली श्री० ।। ४ नित्यक्लिन्ना श्री० ।। ४ नित्यक्लिन्न श्री० ।। ४ भेरुंडा श्री० ।। ४ भेरुंड श्री० ।। ४ वह्निवासिनी श्री० ।। ४ वह्निवासी श्री० ।। ४ महावज्रेश्वरी श्री० ।। ४ महावज्रेश्वर श्री० ।। ४ शिवदूती श्री० ।। ४ शिवदूत श्री० ।। ४ त्वरिता श्री० ।। ४ त्वरित श्री० ।। ४ कुलसुंदरी श्री० ।। ४ सर्वमंगल श्री० ।। ४ ज्वालामालिनी श्री० ।। ४ जालामाली श्री० ।। ४ चित्रा श्री० ।। ४ चित्र श्री० ।। ४ महानित्या श्री० ।। ४ महानित्य श्री० ।। ४ परेश्वरी श्री० ।। ४ परेश्वर श्री० ।। ४ मित्रीशमयी श्री० ।। ४ मित्रीशमय श्री० ।। ४ षष्ठीशमयी श्री० ।। ४ षष्ठीशमय श्री० ।। ४ उड्डीशमयी श्री० ।। ४ उड्डीशमय श्री० ।। ४ चर्यानाथमयी श्री० ।। ४ चर्यानाथमय श्री० ।। इति पार्थिवरश्मीन्मनसा विस्य मणिपूरकचक्रे जलमंडलं शुक्लवर्णं अर्द्धचंद्राकारं वं बीजयुक्तं पद्मलांछितं ध्यात्वा तन्मध्ये द्विपंचाशद्दलमंडितं पद्मं विभाव्य तत्कर्णिकायां श्रीमहात्रिपुरसुंदरी ध्यायन् जलचक्रेश्वर्यास्तस्या देहोद्भूतास्तत्समानरूपाश्चतुर्भुजालोपामुद्रामययादि महेश्वरां ता द्विपंचाशद्देवता पूर्वदलादि प्रादक्षिण्येन मनसा न्यसेत् ।। तद्यथा ।। ४ लोपामुद्रामयी श्री० ।। ४ लोपामुद्रामय श्री० ।। ४ अगस्त्यमयी श्री० ।। प्. १४४ब्) ४ अगस्त्यमय श्री० ।। ४ कालतापनमयी श्री० ।। ४ कालतापनमय श्री० ।। ४ धर्माचार्यमयी श्री० ।। ४ धर्माचार्यमय श्री० ।। ४ मुक्तकेशीश्वरमयी श्री० ।। ४ मुक्तकेशीश्वरमय श्री० ।। ४ दीपकलानाथमयी श्री० ।। ४ दीपकलानाथमय श्री० ।। ४ विष्णुदेवमयी श्री० ।। ४ विष्णुदेवमय श्री० ।। ४ प्रभाकरदेवमयी श्री० ।। ४ प्रभाकरदेवमय श्री० ।। ४ तेजोदेवमयी श्री० ।। ४ तेजोदेवमय श्री० ।। ४ मनोजदेवमयी श्री० ।। ४ मनोजदेवमय श्री० ।। ४ कल्याणदेवमयी श्री० ।। ४ कल्याणदेवमय श्री० ।। ४ श्री० ।। ४ रत्नदेवमयी श्री० ।। ४ रत्नदेवमय श्री० ।। ४ वासुदेवमयी श्री० ।। ४ वासुदेवमय श्री० ।। ४ श्रीरामानंदमयी श्री० ।। ४ श्रीरामानंदमय श्री० ।। ४ अणिमासिद्धि श्री० ।। ४ अणिमासिद्ध श्री० ।। ४ लघिमासिद्धि श्री० ।। ४ लघिमासीद्ध श्री० ।। ४ महिमासिद्धि श्री० ।। ४ महिमासिद्ध श्री० ।। ४ ईशत्वसिद्धि श्री० ।। ४ ईशित्वसिध श्री० ।। ४ वशित्वसिद्धि श्री० ।। ४ वशित्वसिद्ध श्री० ।। ४ प्राकाम्यसिद्धि श्री० ।। ४ प्राकाम्यसिद्ध श्री० ।। ४ भुक्तिसिद्धि श्री० ।। ४ भुक्तिसिद्ध श्री० ।। ४ इछा * द्धि श्री० ।। ४ इच्छासिद्ध श्री० ।। ४ प्राप्तिसिद्धि श्री० ।। ४ प्राप्तिसिद्ध श्री० ।। प्. १४५अ) ४ सर्वकामसिद्धि श्री० ।। ४ सर्वकामसिद्ध श्री० ।। ४ ब्राह्मी श्री० ।। ४ ब्राह्म श्री० ।। ४ माहेश्वरी श्री० ।। ४ माहेश्वर श्री० ।। इति जलरश्मिक्रमः ।। अथ स्वाधिष्ठानचक्रे वह्निचक्रं त्रिकोणं स्वस्तिकलांछितं रं बीजयुक्तं कालाग्निकोटिसदृशं विभाव्य तन्मध्ये द्वाषष्ठिदलमंडितं सरोरुहं ध्यात्वा तत्कर्णिकायां यथोक्तरूपां देवीं विभाव्यतां परितः पूर्वादि प्रादक्षिण्येन दलेषु तदंगत्यं भवाः कौमार्यादिबीजाकर्षणपर्यंताद्वाषष्ठिदेवताः न्यसेत् ।। तद्यथा ।। ४ कौमारी श्री० ।। ४ कौमार श्री० ।। ४ वैष्णवी श्री० ।। ४ वैष्णव श्री० ।। ४ वाराही श्री० ।। ४ वाराह श्री० ।। ४ माहेंद्री श्री० ।। ४ माहेंद्र श्री० ।। ४ चामुंडा श्री० ।। ४ चामुंड श्री० ।। ४ महालक्ष्मी श्री० ।। ४ महालक्ष्म श्री० ।। ४ सर्वसंक्षोभिणी श्री० ।। ४ सर्वसंक्षोभण श्री० ।। ४ सर्वविद्राविणी श्री० ।। ४ सर्वविद्रावण श्री० ।। ४ सर्वाकर्षिणी श्री० ।। ४ सर्वाकर्षण श्री० ।। ४ सर्ववशीकरणी श्री० ।। ४ सर्ववशीकरण श्री० ।। ४ सर्वोन्मोदिनी श्री० ।। ४ सर्वोन्मादन श्री० ।। ४ सर्वमहांकुशा श्री० ।। ४ सर्वमाहांकुश श्री० ।। ४ सर्वखेचरी श्री० ।। ४ सर्वखेचर श्री० ।। ४ सर्वबीजा श्री० ।। प्. १४५ब्) ४ सर्वबीज श्री० ।। ४ सर्वयोनि श्री० ।। ४ सर्वयोनि श्री० ।। ४ सर्वत्रिखंडा श्री० ।। ४ सर्वत्रिखंड श्री० ।। ४ त्रैलोक्यमोहनचक्रस्वामिनी श्री० ।। ४ त्रैलोक्यमोहनचक्रस्वामी श्री० ।। ४ प्रकटयोगिनी श्री० ।। ४ प्रकटयोगी श्री० ।। ४ कामाकर्षिणी श्री० ।। ४ कामाकर्षण श्री० ।। ४ बुध्याकर्षिणी श्री० ।। ४ बुध्याकर्षण श्री० ।। ४ अहंकाराकर्षिणी श्री० ।। ४ अहंकाराकर्षण श्री० ।। ४ शब्दाकर्षिणी श्री० ।। ४ शब्दाकर्षण श्री० ।। ४ स्पर्शाकर्षिणी श्री० ।। ४ स्पर्शाकर्षण श्री० ।। ४ रूपाकर्षिणी श्री० ।। ४ रूपाकर्षण श्री० ।। ४ रसाकर्षिणी श्री० ।। ४ रसाकर्षण श्री० ।। ४ गंधाकर्षिणी श्री० ।। ४ गंधाकर्षण श्री० ।। ४ चित्ताकर्षिणी श्री० ।। ४ चित्ताकर्षण श्री० ।। ४ धैर्याकर्षिणी श्री० ।। ४ धैर्याकर्षण श्री० ।। ४ स्मृत्याकर्षिणी श्री० ।। ४ स्मृत्याकर्षण श्री० ।। ४ नामाकर्षिणी श्री० ।। ४ नामाकर्षण श्री० ।। ४ बीजाकर्षिणी श्री० ।। ४ बिजाकर्षण श्री० ।। ४ ।। इति वह्निचक्रे द्वाषष्ठि रश्मिक्रम न्यासः ।। ततो ऽनाहते वायुचक्रं कृष्णवर्ण षट्कोणाकारं बीजाधिष्ठीतं ध्यात्वा तन्मधे चतुःपंचाशद्दलमंडितं कमलं विचित्य तत्कर्णिकायां देवीं ध्यात्वा तां परितः पूर्वादि प्रादक्षिण्येन देवी समानरूपा आत्माकर्षिण्यादि प्. १४६अ) सर्वसंपत्तिपूरणपर्यंताः चतुःपंचाशदेवताः न्यसेत् ।। तद्यथा ।। ४ आत्माकर्षिणी श्री० ।। ४ आत्माकर्षण श्री० ।। ४ अमृताकर्षिणी श्री० ।। ४ अमृताकर्षण श्री० ।। ४ शरीराकर्षिणी श्री० ।। ४ शरीराकर्षण श्री० ।। ४ सर्वाशापरिपूरकचक्रस्वामिनी श्री० ।। ४ सर्वाशापरिपूरकचक्रस्वामी श्री० ।। ४ गुप्तयोगिनी श्री० ।। ४ गुप्तयोगी श्री० ।। ४ अनंगकुसुमा श्री० ।। ४ अनंगकुसुम श्री० ।। ४ अनंगमेखला श्री० ।। ४ अनंगमेखल श्री० ।। ४ अनंगमदना श्री० ।। ४ अनंगमदन श्री० ।। ४ अनंगांकुशा श्री० ।। ४ अनंगांकुश श्री० ।। ४ अनंगमालिनी श्री० ।। ४ अनंगमाली श्री० ।। ४ सर्वसंक्षोभणचक्रस्वामिनी श्री० ।। ४ सर्वसंक्षोभणचक्रस्वामी श्री० ।। ४ गुप्ततरयोगिनी श्री० ।। ४ गुप्ततरयोगी श्री० ।। ४ सर्वसंक्षोभिणी श्री० ।। ४ सर्वसंक्षोभण श्री० ।। ४ सर्वविद्राविणी श्री० ।। ४ सर्वविद्रावण श्री० ।। ४ सर्वाकर्षिणी श्री० ।। ४ सर्वाकर्षण श्री० ।। ४ सर्वाह्लादिनी श्री० ।। ४ सर्वाह्लादी श्री० ।। ४ सर्वसंमोहनी श्री० ।। ४ सर्वसंमोहन श्री० ।। ४ सर्वस्तंभिनी श्री० ।। ४ सर्वस्तंभ श्री० ।। ४ सर्वजंभिनी श्री० ।। ४ सर्वजंभन श्री० ।। ४ श्री० ।। ४ सर्ववशंकरी श्री० ।। ४ सर्ववशंकर श्री० ।। ४ सर्वरंजनी श्री० ।। ४ सर्वसंपत्तिपुरणी श्री० ।। ४ प्. १४६ब्) सर्वसंपत्तिपुरण श्री० ।। इति वायुचक्रे चतुःपंचाशद्रश्मिन्यासः ।। अथ विशुद्धिचक्रे कंठदेशे वृत्ताकारं स्वछं हं बीजाधिष्ठितं आकाशमंडलं विचिंत्य तन्मध्ये द्वासप्ततिदलं कमलं विभाव्य तत्कर्णिकायां प्राग्वद्देवीं ध्यात्वा तद्दलेषु प्रागादिपरितः सर्वमंत्रमययादि कौलिपर्यंताः द्वासप्ततिदेवताः मूलदेव्याकाराः ध्यायन्न्यसेत् ।। तद्यथा ।। ४ सर्वमंत्रमयी श्री० ।। ४ सर्वमंत्रमय श्री० ।। ४ सर्वद्वंद्वक्षयंकरी श्री० ।। ४ सर्वद्वंद्वक्षयंकर श्री० ।। ४ सर्वसौभाग्यदायक चक्रस्वामिनी श्री० ।। ४ सर्वसौभाग्यदायकचक्रस्वामी श्री० ।। ४ संप्रदाययोगिनी श्री० ।। ४ संप्रदाययोगी श्री० ।। ४ सर्वसिद्धिप्रदा श्री० ।। ४ सर्वसिद्धिप्रद श्री० ।। ४ सर्वसंपत्प्रदा श्री० ।। ४ सर्वसंपत्प्रदा श्री० ।। ४ सर्वसंपत्प्रद श्री० ।। ४ सर्वप्रियंकरी श्री० ।। ४ सर्वप्रियंकर श्री० ।। ४ सर्वमंगलकारिणी श्री० ।। ४ सर्वमंगलकारी श्री० ।। ४ सर्वकामप्रदा श्री० ।। ४ सर्वकामप्रद श्री० ।। सर्वदुःखं विमोचन श्री० ।। ४ सर्वमृत्युप्रशमनी श्री० ।। ४ सर्वमृत्युप्रशमन श्री० ।। सर्वविघ्ननिवारिणी श्री० ।। ४ सर्वविघ्ननिवारण श्री० ।। ४ प्. १४७अ) सर्वांगसुंदरी श्री० ।। ४ सर्वांगसुंदर श्री० ।। ४ सर्वसौभाग्यदायिनी श्री० ।। ४ सर्वसौभाग्यदायी श्री० ।। ४ सर्वार्थसाधकचक्रस्वामिनी श्री० ।। ४ सवार्थसाधकचक्रस्वामी श्री० ।। ४ कुलोत्तीर्णयोगिनी श्री० ।। ४ कुलोत्तीर्णयोगी श्री० ।। ४ सर्वज्ञा श्री० ।। ४ सर्वज्ञ श्री० ।। ४ सर्वशक्ति श्री० ।। ४ सर्वशक्त श्री० ।। ४ सर्वैश्वर्यप्रदा श्री० ।। ४ सर्वैश्वर्यप्रद श्री० ।। ४ सर्वज्ञानम्यी श्री० ।। ४ सर्वज्ञानमय श्री० ।। ४ सर्वव्याधिविनाशिनी श्री० ।। ४ सर्वव्याधिविनाशन श्री० ।। ४ सर्वाधारस्वरूपा श्री० ।। ४ सर्वाधारस्वरूप श्री० ।। ४ सर्वपापहरा श्री० ।। ४ सर्वपापहर श्री० ।। ४ सर्वानंदमयी श्री० ।। ४ सर्वानंदमय श्री० ।। ४ सर्वरक्षास्वरूपिणी श्री० ।। ४ सर्वरक्षास्वरूपी श्री० ।। ४ सर्वेप्सितफलप्रदा श्री० ।। ४ सर्वेप्सितफलप्रद श्री० ।। ४ सर्वरक्षाकर चक्रस्वामिनी श्री० ।। ४ सर्वरक्षाकर चक्रस्वामी श्री० ।। ४ निगर्भयोगिनी श्री० ।। ४ निगर्भयोगी श्री० ।। ४ वशिनी श्री० ।। ४ वशी श्री० ।। ४ कामेश्वरी श्री० ।। ४ कामेश्वर श्री० ।। ४ मोदिनी श्री० ।। ४ मोदी श्री० ।। ४ विमला श्री० ।। ४ विमल श्री० ।। ४ अरुणा श्री० ।। ४ अरुण श्री० ।। ४ जयिनी श्री० ।। ४ जयी श्री० ।। ४ प्. १४७ब्) सर्वेश्वरी श्री० ।। ४ सर्वेश्वर श्री० ।। ४ कौलिनी श्री० ।। ४ कौली श्री० ।। इत्याकाशचक्रे द्वासप्ततिरश्मिन्यासः ।। ततो भ्रूमध्ये मानसं चक्रबिंदुरूपं तडित्कोटि समप्रभं ध्यात्वा तत्र चतुःषष्ठिदलमंडितं कमलं ध्यात्वा तत्कर्णिकायां श्रीपरदेवतां परितस्तद्दलेषु प्रागादिप्रादक्षिण्येन तवंगसंभूतास्तत्समाकाराः सर्वरोगहरचक्रस्वामिन्यादि महामहाशयांताः चतुःषष्ठिदेवताः न्यसेत् ।। तद्यथा ।। ४ सर्वरोगहरचक्रस्वामिनी श्री० ।। ४ सर्वरोगहरचक्रस्वामी श्री० ।। ४ रहस्ययोगिनी श्री० ।। ४ रहस्ययोगी श्री० ।। ४ बाणिणी श्री० ।। ४ बाणी श्री० ।। ४ चापिनी श्री० ।। ४ चापी श्री० ।। ४ पाशिनी श्री० ।। ४ पाशी श्री० ।। ४ अंकुशिनी श्री० ।। ४ अंकुशी श्री० ।। ४ महाकामेश्वरी श्री० ।। ४ महाकामेश्वर श्री० ।। ४ महावज्रेश्वरी श्री० ।। ४ महावज्रेश्वर श्री० ।। ४ महाभगमालिनी श्री० ।। ४ महाभगमाली श्री० ।। ४ महात्रिपुरसुंदरी श्री० ।। ४ महात्रिपुरसुंदर श्री० ।। ४ सर्वसिद्धिप्रदचक्रस्वामिनी श्री० ।। ४ सर्वसिद्धिप्रदचक्रस्वामी श्री० ।। ४ अतिरहस्ययोगिनी श्री० ।। ४ अतिरहस्ययोगी श्री० ।। ४ श्रीश्रीमहाभट्टारिका श्री० ।। ४ श्रीश्रीमहाभट्टारक श्री० ।। ४ सर्वांनंदमयचक्रस्वामिनी श्री० ।। ४ सर्वांनंदमयचक्रस्वामी श्री० ।। ४ परापररहस्ययोगिनी श्री० ।। ४ परापररहस्ययोगी श्री० ।। प्. १४८अ) ४ त्रिपुरा श्री० ।। ४ त्रिपुर श्री० ।। ४ त्रिपुरेश्वरी श्री० ।। ४ त्रिपुरेश्वर श्री० ।। ४ त्रिपुरसुंदरी श्री० ।। ४ त्रिपुरसुंदर श्री० ।। ४ त्रिपुरवासिनी श्री० ।। ४ त्रिपुरवासी श्री० ।। ४ त्रिपुराश्री श्री० ।। ४ त्रिपुरश्री श्री० ।। ४ त्रिपुरश्री श्री० ।। ४ त्रिपुरमालिनी श्री० ।। ४ त्रिपुरमाली श्री० ।। ४ त्रिपुरासिद्धा श्री० ।। ४ त्रिपुरसिद्ध श्री० ।। ४ त्रिपुरांबा श्री० ।। ४ त्रिपुरांब श्री० ।। ४ महात्रिपुरसुंदरी श्री० ।। ४ महात्रिपुरसुंदर श्री० ।। ४ महामहामहेश्वरी श्री० ।। ४ महामहामहेश्वर श्री० ।। ४ महामहाराज्ञी श्री० ।। ४ महामहाराज श्री० ।। ४ महामहाशक्ति श्री० ।। ४ महामहाशक्त श्री० ।। ४ महामहागुप्ता श्री० ।। ४ महामहागुप्त श्री० ।। ४ महामहानंदा श्री० ।। ४ महामहानंद श्री० ।। ४ महामहास्कंदा श्री० ।। ४ महामहास्कंद श्री० ।। ४ महामहाशया श्री० ।। ४ महामहाशय श्री० ।। इति आज्ञायां चतुःषष्ठिरश्मिन्यासः ।। इत्थ षष्ठ्युत्तरं त्रिशतं मयूखजालं विन्यस्य तेषां सर्वेषामुपरिद्वादशांते च चरणद्वयं न्यसेत् ।। तत्र ब्रह्मरंध्रस्थ सहस्रदलकमलकर्णिकांयां श्रीपरदेवतां ध्यात्वा तस्यामेव श्रीश्रीमन्महाश्रीचक्रनगररसाम्राज्ञी प्. १४८ब्) रक्त श्रीपादुकां पूजयामि नम इति ब्राह्मरंध्रस्य दक्षिणभागे विन्यस्य वामभागे ४ श्रीश्रीमन्महाश्रीचक्रनगरसम्राटशुक्ल श्रीपादुकां पूजयामि नम इति पादांबुजयुगं न्यसेत् ।। इति श्रीश्रीविद्यासंभवषष्ठ्युत्तरत्रिशतरश्मिक्रम न्यासः ।। अत्र न्यासे सप्ताक्षर्यंते नमोंतता ।। मानसपूजायां तु सप्ताक्षरीमात्रमेव अत्र केचित् ।। न्यासे प्रोक्तरश्मीनां तत्तन्नामचतुर्थी नमोंततेत्याहुः ।। यथा गुरूपदेशं कार्यंमिति ।। एवं रश्मिक्रमं कुर्वन्साधके विजितेंद्रियेः ।। धनधान्यायुरारोग्यभोगमोक्षफलं भवेत् ।। १ ।। अथ ऋष्यादिकरषडंगन्यासान्विधाय शिवोहमिति भावयन् वक्ष्यमाण संक्षोभणादि नवमुद्राः पाशादिचतुर्मुद्राश्च बध्वा सर्वावयवभावेन कामकलारूपमात्मानं ध्यात्वा शक्त्युत्थापनमुद्रां बध्वा प्रातःस्मरण प्रोक्तप्रकारेण मूलाधारात्कुंडलिनीं सुमुत्थाप्य तथैव षट्चक्रभेदन क्रमेण ध्यायन्नंतर्यांगं विधायतेत्तेजसापरिणतां श्रीपरदेवतां हृदयकमलगतसिंहासने श्रीचक्रराजे कामेश्वरां कस्थां सर्वावरणयुक्तां त्रिखंडा प्. १४९अ) मुद्रामुद्रितकरो ध्यायेत् ।। श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।। कृते सौभाग्यरत्नाब्धौ तरंगो त्रयोदशः ।। इति श्रीसच्चिदानंदनाथचरणारबिंदद्वंद्वांतेवाशि श्रीश्रीविद्यानंदनाथेन विरचिते सौभाग्यरत्नाकरे त्रयोदशस्तरंगः ।। ततो ध्यानं ।। तत्र श्रीवामकेश्वरतंत्रे ।। उद्यच्चंद्रोदयक्षुब्धरक्तपीयुषवारिधेः ।। मध्ये हेममयीं भूमिं स्मरेन्माणिक्यमंडितां ।। १ ।। तन्मध्ये नंदनोद्यानं मदनोन्मादनं महत ।। त्रिसाभ्युदितपूर्णेंदुज्योस्नाजालविराजितं ।। २ ।। सदासह वसंतेन कामशो देवेन रक्षितं ।। कदंबचूतपुन्नागनागकेसर चंपकैः ।। ३ ।। बकुलैः पारिजातैश्च सर्वर्त्तु कुसुमोज्वलैः ।। झंकारमुखरैर्भृंगै कूजद्भिः कोकिलैः शुकैः ।। ४ ।। नानावर्णैरथान्यैश्च द्विजसंघैर्निषेवितं ।। शखीकारंडहंसाद्यैर्नानापक्षिमिंरावृतं ।। ५ ।। नानापुष्पलताकीर्णैर्मिंत्तं वृक्षखंडकैः ।। पर्यंतदीर्घिकोत्फल्लकमलोत्पलसंभवैः ।। ६ ।। रजोभिधूसरैः सम्यक् सेवितं मलयानिलैः ।। ध्यात्वैवं नंदनोद्यानं ततदः प्रांगणं स्मरेत् ।। ७ ।। शुद्धकांचनसंकाशं वसुधाभिरलंकृतं ।। प्. १४९ब्) प्रांगणं चिंतयित्वेस्थं सुरसिद्ध निषेवितं ।। ८ ।। तन्मध्ये मंडपं ध्यायेद् व्याप्तब्रह्माण्डमंडलं ।। सहस्रादित्यसंकाशं चतुरस्रं सुशोभनं ।। ९ ।। रत्नतेजः प्रभापुंज पिंजरीकृत दिऽऽन्मुखं ।। मध्यस्तंभविनिर्मुक्तं कोणस्तंभसमन्वितं ।। १० ।। महामाणिक्यवैडुर्यरत्नकांचनभूषितं ।। मुक्तादामवितानाढ्यं रत्नसोपानमंडितं ।। ११ ।। मंदवायुसमाक्रांतं गंधधूपतरंगितं ।। रत्नचामरघंटादि विमाने रुपशोभितं ।। १२ ।। जातीचंपकपुन्नागकेतकी मल्लिकादिभिः ।। रक्तोत्पलसितांभोजमाधवीभिः सुपुष्पकैः ।। १३ ।। बद्धाभिश्चित्रमालाभिः सर्वत्र समलंकृतं ।। तीर्यगूर्ध्वलसद्रत्नपुतली कोटिमंडितं ।। १४ ।। नानारत्नादिभिर्दिव्यैर्निर्मितं विश्वकर्मणा ।। तन्मध्ये विपुलां ध्यायेद्वेदिकां शतयोजनां ।। १५ ।। सहस्रादित्यसंकाशां कोटिमाणिक्यमंडितां ।। चतुर्द्वारसमोपेतां माणिक्यद्वारतोरणां ।। १६ ।। प्रदीपैः पूर्णकुंभैश्च सर्वतः समलंकृतं ।। हैमीभिः पालिकाभिश्च सांकुराभिरलंकृतां ।। १७ ।। रत्नपीठस्थितैर्दिव्यैरागमैः परिशोभितां ।। प्. १५०अ) तदंतरांतरा प्रोद्यन्मणिदर्पणमंगलां ।। १८ ।। मधुरोद्गारविविधगांधर्वस्तोत्र बृंहितां ।। शृंगाररससनद्धैर्नवयौवनलंपटैः ।। १९ ।। अमरीनिकरैर्नानामणिभूषणभूषितैः ।। वीणावेणुमृदंगादि वादनेन च नृत्यकैः ।। २० ।। प्रीणयद्भिर्महादेवीं परीतां परितः सदा ।। रत्नसिंहासनं तस्या वेद्यामध्ये स्मरेछुभं ।। २१ ।। विरंचि विष्णुरुद्रेशरुपपादचतुष्टयं ।। सदाशिवमयं साक्षात्तस्मिन्परशिवात्मकं ।। २२ ।। पुष्पपर्यंकमाश्चर्यं तत्र श्रीचक्रनायकं ।। तन्मध्ययोनिमध्यस्थे श्रीमदोद्यापीठके ।। २३ ।। पर्यंकबंधविलसत्स्वस्तिकासनशालिनी ।। ध्यायेत्परशिवांकस्थां पद्ममध्योब्जलाकृतिं ।। २४ ।। ततो ध्यानं प्रवक्ष्यामि त्रिदत्रौः सेवनीयकं ।। ततः पद्मनिभां देवी बालार्ककिरणारुणां ।। २५ ।। जपाकुसुमसंकाशां दाडिमी कुसुमोपमां ।। पद्मरागप्रतीकाशां कुंकुमोदक सन्निभां ।। २६ ।। स्फुरन्मुकुटमाणिक्य किकिणीजालमंडितां ।। कालालिकुलसंकाशकुटिलालकपल्लवां ।। २७ ।। प्रत्यग्रारुणसंकाश वदनांभोजमंडलां ।। किंचिदर्द्धेदु कुटिलललाटमृदुपट्टिकां ।। २८ ।। प्. १५०ब्) पिनाकधनुषाकार भ्रूलतां परमेश्वरीं ।। आनंदमुदितोल्लोललीलांदोलितलोचनां ।। २९ ।। स्फुरन्मयूखसंघातविलसद्धेमकुंडलां ।। सुगंडमंडलाभोगजितेंद्वमृतमंडलां ।। ३० ।। विश्वकर्मादिनिर्माणसूत्रसुस्पष्टनासिकां ।। ताम्रविद्रुमबिंबाभ रक्तोष्ठी अमृतोपमां ।। ३१ ।। दाडिमीबीजवज्राभ दंतपंक्तिविराजितां ।। स्मितमाधुर्य विजितमाधुर्यरससागरां ।। ३२ ।। अनौपम्यगुणोपेत चिबुकोदेशशोभितां ।। कंबुग्रीवां महादेवीं मृणालललितैर्भुजैः ।। ३३ ।। मणिकंकणकेयूर भारखिन्नैः प्रशोभितां ।। रक्तोत्पलदलाकार रक्तसुकुमार करांबुजां ।। ३४ ।। करांबुजनखज्योतिर्वितानितनभस्तलां ।। मुक्ताहारलतोपेत समुन्नतपयोधरां ।। ३५ ।। त्रिवली वलनायुक्त मध्यदेश सुशोभितां ।। लावण्यसरिदावर्त्तीकारनाभिविभूषितां ।। ३६ ।। अनर्घ्यरत्नघटितकांचीयुतनितंबिनी ।। नितंबबिंबद्विरदरोमराजिवरांकुशां ।। ३७ ।। कदली ललितस्तंबसुकुमारोतमीश्वरीं ।। लावण्यकदलीतुल्य जंघायुगुलमंडितां ।। ३८ ।। गूढगुल्फपदद्वंद्वप्रपदाजिताकछपां ।। प्. १५१अ) ब्रह्मविष्णुशिरोरत्ननिघृष्ठचरणांबुजां ।। ३९ ।। तनु दीर्घांगुलीभास्वन्नखचंद्रविराजितां ।। शीतांशुशकाशसतकांतिसंतानहासिनी ।। ४० ।। लौहित्यजितसिंदूर जपादाडिमरागिणीं ।। रक्तवस्त्रपरीधानां पाशांकुशकरोद्यतां ।। ४१ ।। रक्तपुष्पनिविष्टां च रक्ताभरणमंडितां ।। चतुर्भुजां त्रिनेत्रां च पंचबाणधनुधरां ।। ४२ ।। कर्पूरशाकलोन्मिश्रतांबूलापूरिताननां ।। महामृगमदोदामकुंकुमारुणविग्रहां ।। ४३ ।। सर्वशृंगारवेषाढ्यां सर्वालंकारभूषितां ।। जगदाह्लादजननीं जगद्रंजनकारिणी ।। ४४ ।। जगदाकर्षणकरी जगत्कारणरूपिणीं ।। सर्वमंत्रमयीं देवीं सर्वसौभाग्यसुंदरीं ।। ४५ ।। इति स्वैक्येन ध्यात्वा मूलविद्यया स्वशिरसिपुष्पांजलि दत्वा पुनर्हृदयकमले यथोक्तरूपां भगवतीं सांगा वरणां ध्यात्वा वक्ष्यमाणप्रकारेण पीठपूजादिपूर्वकं सांगा सावरणां देवीं मानसैरुपचारैः संपूज्य नैवेद्यं दत्वा भोजनावसरेत वैश्वदेवं कुर्यात् ।। प्. १५१ब्) तत्र मूलाधारे आत्मांतरात्मापरमात्मज्ञानात्मेत्यात्मचतुष्टयं कॢप्तं चतुरस्रं कुंडल्यग्निसमुज्वलं कुंडं ध्यात्वा तत्र श्रीपरदेवतां ध्यात्वा तन्मुखे मूलविद्यांते आहं तां जुहोमि स्वाहा ।। इत्यादि अहंतां सप्तकैशून्य कामक्रोधलोभमोहमदमात्सर्याणि सुषुम्णास्रुग्युक्तमनःस्रुवेण प्रत्येकं हुत्वा पुनः हृदयकमले भुक्तवतीं देवीं ध्यात्वा उत्तरापोतानादि सर्वोपचारैराराध्यमूलविद्यां यथाशक्तिं जपित्वा प्राणायामादिपूर्वकं वक्ष्यमाणविधिना जपं समर्प्य श्रीगुरुं प्रणम्य स्वदेहं गंधादिभिरलंकृत्य अर्घ्यादिपात्र स्थापनं कुर्यात् ।। तत्र स्ववामाग्रे वक्ष्यमाणविशेषार्घमंडलवन्मंडविरच्य तथैव संपूज्य तत्र वक्ष्यमाणविधिना प्रक्षालितमाधारं संस्थाप्यत तथैव संपूज्य सुवर्णादिरचितं कजशधूपवासितं हुं हुं ब्रह्मांड चषकाय स्वाहेति वामकरेण प्रक्षालितं ऐं संदीपनि ज्वालामालिनी ह्रीं इति संदीपनी विद्यया योनिमुद्रया संदीपितं कवचेनावगुंठितं ओं नमः । ह्रीं नमः । ह्रं क्ष्रुं नमः । हं नमः । सः नमः । प्. १५२अ) इति विन्यस्त पंचमंत्रं ४ श्रीमहात्रिपुरसुंदर्याः महाकलशं स्थापयामीति तत्र कलशं संस्थाप्यत् तत्र वक्ष्यमाणविशेषार्घपात्रवत्पूर्यकलांतं प्रपूज्य तत्र वक्ष्यमाण विधिनैव कर्पूरादि सुवासिता पर्युषित पारिस्रुतपयंः समापूर्य तत्राब्जादिकं निक्षिप्य तन्मध्ये विशेषार्घो वक्ष्यमाणं मंडलं विभाव्य वक्ष्यमाणविधिना सोमकलांतं संपूज्य तच्चतुरस्रं परितः ४ हृ सू ख फ्रें पथिक देवताभ्यो हूं फट् स्वाहा नमः । ४ हसखफ्रें आचंडालिनी ह्रं फट् स्वाहा नमः । हसखफ्रें क्रोधचंडालिनि हुं फट् स्वाहा नमः । ४ हसखफ्रें दृष्टिचंडालिनी हुं फट् स्वाहा नमः ।। ४ हसखफ्रें स्पर्श चं० । ४ हसखफ्रें सृष्टि चं० । ४ हसखफ्रें घट चं० । ४ हसखफ्रें तपनवेध चं० । ४ हसखफ्रें निर्दय चं० । ४ हसखफ्रें सर्वजनदृष्टिस्पर्शदोष चं० । ४ हसखफ्रें पशुपाशा चं० । इति स्वाग्रादि प्रादक्षिण्येण संपूजयेदिति दशदोषांन्निरस्य ।। ४ कां कीं कूं कैं कौं कः विकारशोषिणि अस्य विकारान् हनहन स्वाहा इति हेतु मध्ये संपूज्य ।। स्वादिष्टयादिभिः पूर्वं ऋग्भिः पंचभिरायतः ।। विष्णुर्योनिं त्रयेणैव त्रिभिष्ट्वादि त्रयेण चं ।। प्. १५२ब्) इमं मे च इति द्वाभ्यां तामंदेत्येकया तथा ।। श्रीणामेकेति चैकेन शुत्रशापं विमोचयेत् ।। इति कुलार्णव वचनात् ।। उक्तं पंचदशमंत्रैः सकृत्सत्कृदभिमंत्रयेत् ।। मंत्रा ऋग्वेदे यथा ।। स्वादिष्ठयामदिष्ठया पवस्व सोमधारया ।। इंद्राय पातवे सुतः ।। इत्यादि इदोत्वेन आशसः ।। इत्यंतं वर्गं पठित्वा ।। विष्णुर्योनिकल्पयतु त्वष्टारूपाणि पिंशतु ।। असिंचतुप्रजापतिर्धाता गर्भं दद्यातु ते ।। गर्भं धेहिसिनी वालि गर्भं धेहि सरस्वति ।। गर्भं ते अश्विनौ देवा वाधत्तां पुष्कर स्रजा ।। हिरण्मयी अरणी यन्निंर्यथतो अश्विना ।। तं ते गर्भं हवामहे दशमे मासि सूतव ।। ३ ।। त्रिभिष्ट्वं देवसवितुर्वर्षिष्ठैसोमधामभिः । अग्ने दक्षैः पुनी हिनः । पुनंतु मां देवजनाः पुनं तु वसवो धिया ।। विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ।। प्रप्याय स्वप्रस्यंदस्वसोमविश्वेभिरं शुभिः । देवेभ्यः त्तमं हविः ।। इमं मे गंगे यमुने सरस्वति शुतुद्रि स्तोमं सचतापरुष्ण्या ।। असिक्न्यमरुद्दृधे वितस्तयार्जीकीये श्रुणुह्यासुषोमया ।। सितासिते सरिते यत्र संगथे तत्राप्लुतासो दिवमुत्पतंति ।। प्. १५३अ) ये वै तन्व १ विसृजंति धीरास्तेजनासो अमृतत्वं भजंते ।। ता मंदसानामनुषोदुरोण आधत्तंरयीं सहवीरं च चस्यवे ।। कृतं तीर्थं सुप्रपाणं शुभस्यती स्थाणुं पथेष्ठामवदुर्मतिं हतं ।। ३ ।। श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सुनया भृतं ।। आ निम्रुचः शकदेको अपाभरत् किंस्वित् पुत्रेभ्यः पितरा उपावतु ।। इत्यभिमंत्र्य ४ ह्वां ह्वीं ह्वू ह्वै ह्वौ ह्वः मृते अमृतोद्भवे अमृतेश्वरी अमृतवर्षिणि अमृतस्वरूपिणि अमृतं स्रावयशुक्रशापात्सुधां मोचय मोचय मोचिकायै नमः । ओं जूं सः स्वाहा इति विद्यया अष्टवारं अभिमंत्र्य ४ सिद्धायै नमः । ४ रक्तायै नमः । ४ शुक्लायै० । ४ उत्पलायै० । इति चतुरस्तस्य चतुर्दिक्षु प्रादक्षिण्येन स्वाग्रादितः संपूज्य तन्मध्ये त्रिकोणं विशेषार्घे वक्ष्यमाणरूपं विभाव्य ४ हसक्षमलवरयूं आनंदभैरवाय वौषट् ।। आनंदभैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।। एवं सर्वत्र ४ हसक्षमलवरयूं सुरानंदे भैरवाय वौषट् सुरानंदनाथ श्री० । ४ सहक्षमलवरयीं सुरानंदभैरव्यै वषट् सुरानंदभैरवी श्री० ।। ४ हसक्षमलवरयूं प्. १५३ब्) अमृतानंदभैरवाये वौषट् अमृतभैरव श्री० । ४ सहक्षमलवरयीं अमृतभैरव्यै वट् अमृतभैरवी श्री० ।। ४ हसक्षमलवरयूं तरुणानंदभैरवाय वौषट् तरुणानंदभैरव श्री० । ४ सहक्षमलवरयीं तरणानंदभैरव्यै वट् तरणानंदभैरवी श्री० ।। ४ हसक्षमलवरयूं उन्मतानंदभैरवाय वौषट् उन्मतानंदभैरव श्री० ४ सहक्षमलवरयीं उन्मत्तानंदभैरव्यै वट् उन्मत्तानंदभैरवी श्री० । ४ हसक्षमलवरयूं ज्ञानांनंदभैरवाय वौषट् ज्ञानानंदभैरव श्री० । ४ सहक्षमलरयीं ज्ञानानंदज्ञानानंदभैरव्यै वषट् ज्ञानानंदभैरवी श्री० । ४ हसक्षमलवरयूं मुक्त्यानंदभैरवाय वौषट् मुक्त्यानंदभैरव श्री० । ४ सहक्षमलरयीं मुक्त्यानंदभैरव्यै वषट् मुक्त्यानंदभैरवी श्री० । ४ हसक्षमलवरयूं परमानंदभैरवाय वौषट् परमानंदभैरव श्री० । ४ सहक्षमलवरयीं परमानंदभैरव्यै वषट् परमानंदभैरवी श्री० । ४ हसक्षमलवरयूं कालभैरवानंदाय वौषट् कालभैरवानंद श्री० । ४ सहक्षमलवरयीं कालभैरव्यै वषट् कालभैरवी पादुका पू० तर्प० नमः । इति भैरवमिथुन नवकं मध्ये अष्टदिक्षु च संपूज्य संतर्प्य मूलविद्यया प्. १५४अ) विक्षणमुद्रया संवीक्ष्य अस्रमंत्रेण प्रोक्ष्य अस्रमंत्रेण कुशैस्त्रिः संताडयकवचमंत्रेण अभ्युक्ष्य आघ्राय वामनासारंध्रेण प्रविश्य ब्रह्मरंध्रं गत्वा तत्रस्थ चिच्चंद्रमंडलमध्यगत परमामृतवारिधौ मिलित्वा तन्मयेन राजदंतविवरान्नेत्रमार्गेण विनिर्गतं जलं विभाव्यसंरोधनमुद्रया संरुध्यकवचमंत्रेण अवगुंठनमुद्रया अवगुंठ्य वमिति धेनुमुद्रया अमृतीकृत्य परमीकरणमुद्रया परमामृतीकृत्य तत्र देवीं ध्यात्वा गंधपुष्पादिभिः संपूज्य मूलविद्यामष्टवारमभिमंत्र्य ४ नमो भगवती ग्रासे (महे)श्वरि वारुणी जलमूर्त्तय ऊर्ध्वबिंदुग्राहिणि महालक्ष्मीश्वरी परमधाम्नि परमाकाशभासुरि सोमसूर्याग्निभक्षणि आगछ विश विश स्वभोगद्रव्यं गृह्ण गृह्ण स्वाहा । इति तत्कलशाद्बिंदुं वामांगुष्ठानामिकाभ्यां धृतद्वितीयखंडे नादायोर्ध्वमुत्क्षिप्येत् ततः कलशवदनं पात्रांतरेण आछादद्य उद्धरणपात्रमादाय वामकरे निधाय ४ अमोघायै नमः ।। ४ सूक्ष्मायै नमः ।। ४ आनंदायै नमः । ४ शांत्यै नमः । इति शक्तिचतुष्टयं करस्थमात्रोपरिसंपूज्य कुंभस्याछादनपात्रस्योपरिस्थापयेदिति प्. १५४ब्) कलशस्थापनं । विधाय ततः कलशदक्षिणभागे शुद्धोदकेन चतुरस्रवृत्तत्रिकोणात्मकं मंडलं चंदनालिप्तभूमौ वहन्नासाकारोर्ध्वपुटाभ्यां कराभ्यां त्रितारमुच्चरन् निर्माय प्रणव त्रितारादि नमोंत्तया मूलविद्यया त्रिकोणमध्यं संपूज्य कूटत्रयेण त्रिषु कोणेषु स्वाग्रादि प्रादक्षिण्येन संपूज्य चतुरस्रे अग्नीश निर्-ऋति वायुकोणेषु हृदयाद्यंग चतुष्टयं मध्ये नेत्रं प्रागादिचतुर्दिक्ष्वस्त्रमिति षडंगमंत्रैः संपूज्य तत्र मूलेन क्षालितमाधारं संस्थाप्य ४ प्रथमकुटमुच्चार्य मं वह्निमंडलाय धर्मप्रददशकलात्मने श्रीपरदेवतायाः सामान्यार्घाधाराय नम इति संपूज्य तत्र वक्ष्यमाणप्रकारेण वह्नेर्दशकलाः पूजयित्वा तत्रास्त्रेण क्षालितं शंखं निधाय ४ द्वितीयकूटं अर्कमण्डलायार्थप्रद द्वादशकलात्मने श्रीपरदेवतायाः सामान्यार्घ्य पात्राय नम इति संपूज्य तत्र वक्ष्यमाणप्रकारेण सूर्यस्य द्वादशकलाः संपूज्यगंधादि सुवासितशुद्धतोयेन प्रणवत्रितारमूलविद्यांते विलोम मातृकामुच्चरन् तत्पात्रमापूर्य प्. १५५अ) ४ तृतीयकूटं ओं उं सोममंडलाय कामप्रद षोडशकलात्मने परदेवतायाः सामान्यार्घामृताय नमः ।। इति जलं संपूज्य तत्र वक्ष्यमाणप्रकारेण सोमस्य षोडशकलाः संपूज्य तत्र प्राग्वत्सवितृमंडलात्तीर्थमावाह्य कलशामृतबिंदुं दत्वा तत्र मूलेन गंध * ष्पादिकं निक्षिप्य प्राग्वत् षडंगैः संपूज्य ४ हसक्षमलवरयूं सहक्षमलवरयीं इति नवात्मकमिथुनमंत्रेण त्रिरभिमंत्र्य ह्सौं वरणाय नमः । शौं वारुणि देव्यै नम इति वरुणमिथुनमंत्रे च त्रिरभिमंत्र्य मूलेनाष्टधाभिमंत्र्य धेनुयोनिमुद्रे प्रदर्शयेदिति सामान्यार्घं विधाय तत्समीपे सामान्यार्घ जलेन यक्षकर्दमादि गंधमिश्रितेन भुमिं विलिख्य तत्र वहछ्वासोर्ध्यपुट हस्ताभ्यां चतुरस्र वृत्त षट्कोणात्मं मंडलं विधाय तन्मंडलं शंखमुद्रामुद्रित वामकरेण अवष्टभ्य तन्मध्य त्रिकोणमध्ये सबिंदुतुर्य स्वररूपां कामकलां विलिख्य ४ श्रीपरदेवतायाः विशेषार्घाधारमंडलाय नमः । इति मंडलं संपूज्य ४ नमोंत मूलेन त्रिकोणमध्यं संपूज्य त्रिकोणाग्रकोणे ४ प्. १५५ब्) प्रथमकूटं नमः । वामे ४ द्वितीयं नमः । दक्षिणे ४ तृतीयं नमः । इति त्रिकोणं प्रादक्षिण्येन संपूज्य षट्कोणेषु प्रादक्षिण्येन स्वाग्रमारभ्य मूलकूट त्रयस्य द्विरावृत्या पूज्ययित्वा चतुरस्रे प्राग्वत् षडंगानि संपूज्य चतुरस्रे स्वाग्रादि चतुर्दिक्षुमध्ये च प्रादक्षिण्येन ४ ग्लूं गगनरत्नाय नमः । ४ स्लूं स्वर्गरत्नाय नमः । ४ म्लूं मर्त्यरत्नाय नमः । ४ प्लूं पातालरत्नाय नमः । ४ न्लूं नागरत्नाय नमः । इति पंचरत्नानि संपूज्य पुनः षट्कोणेषु स्वाग्रादि प्रादक्षिण्येन न्यासोक्त सुधार्णवासनाय नमः पोतांबुजासनाय नमः । आत्मासनाय० । सर्वचक्रासनाय० । सर्वमंत्रासना० । साध्यसिद्धासनाय० । ५ संपूज्य चतुरस्रवृत्त षट्कोण त्रिकोणेषु ४ कामरूपपीठा नमः । ४ जालंधरपीठाय नमः । ४ पूर्णगिरिपीठाय नमः । ४ उड्याणपीठाय नमः । इति पीठचतुष्टयं संपूज्य । शांभवदीक्षावांश्चेत् चतुरस्रे स्वाग्रादि चतुर्दिक्षुमध्ये च पंचप्रणवपुटितैः प्रणवपंचकैः पूजयेत् । तद्यथा ।। ऐं ह्रिं श्रीं ह्स्फ्रें ह्सौः ऐं ह्सौं ह्स्फें श्रीं ह्रीं ऐं नमः ।। एवं ५ ह्रीं ५ नमः ५ श्रीं ५ नमः ५ ह्स्फें ५ नमः ह्सौंः ५ नमः ।। इति संपूजयेत । ततः ४ मूलं सर्वशक्तिमयी श्रीपरदेवतायाः पीठचतुष्टयात्मकार्घमंडलाय नमः । प्. १५६अ) इति समस्तमंडलं संपूज्य तत्र मूलेन क्षालितमाधारं गृहीत्वा ४ श्रीपरदेवताया विशेषार्घाघारंस्थापयामीति मंडलोपरिसंस्थाप्य ४ प्रथमकूटमुच्चार्य मं वह्निमंडलाय धर्मप्रद दशकलात्मने श्रीपरदेवताया विषार्घपात्राधाराय नमः ।। इत्याधारं संपूज्य तदुपरिस्वाग्रादि प्रादक्षिण्येन वह्नेर्दशकलाः समावाह्यतासां प्राणप्रतिष्ठां कुर्यात् ।। तत्र पूर्वोक्त प्राणप्राणप्रतिष्ठा मंत्रे मम पदस्थाने धुम्रार्चिरादि नामिति पदं निक्षिप्य प्राणप्रतिष्ठामंत्रं धारं स्पृशन् पठेदिति प्राणप्रतिष्ठाविधाय ४ यं धुम्रार्चिषे नमः । ४ रं उष्मायै नमः । ४ लं ज्वलिन्यै० । ४ वं ज्वालिन्यै० । ४ शं विस्फुलिंगिन्यै० । ४ षं सुश्रियै न० । ४ सं सुरूपायै० । ४ हं कपिलायै० । ४ लं हव्यवाहायै० । ४ क्षं कव्यवाहायै नमः ।। इति ताः संपूज्य स्वर्णादि रचितं पात्रमस्त्रेणप्रक्षाल्य श्रीपरदेवतायाविशेषार्घपात्रं संस्थापयामीति तत्र संस्थाप्य ४ द्वितीयकूटमुच्चार्य अं अर्कमंडलायार्थ प्रद द्वादशकलात्मने श्रीपरदेवतायाः विशेषार्घ पात्राय नम इति पात्रमध्ये प्. १५६ब्) संपूज्य तत्र पूर्वोक्तं मंडलं विभाव्य पूर्ववत्पंचरत्नानि संपूज्य तथैव पंचप्रणवैरभ्यर्च्य तत्र सूर्यस्य द्वादशकलाः समावाह्य प्राग्वत्तन्नाम पुरःसरं तासां प्राणप्रतिष्ठां विधाय वृत्ताकारेण प्रादक्षिप्येन ताः पूजयेत् ।। तद्यथा ।। ४ कं भं तपिन्यै नमः ।। ४ खं बं तापिन्यै० । ४ गं फं धूम्रायै० । ४ छं पं मरिच्यै० । ४ ऽऽनं नं ज्वालिन्यै० । ४ चं धं रुव्यै० । ४ छं दं सुषुम्णायै० । ४ जं षं भोगदायै० । ४ झं तं विश्वायै० । ४ ञं णं बोधिन्यै० । ४ टं ढं धारिण्यै० । ४ ठं डं क्षमायै० ।। इति संपूज्य कलशस्थं जलं उद्धरणपात्रेणोधृत्य मूलविद्यांते विलोममातृकामुच्चार्य तत्पात्रमापूर्य तत्रापि अब्जादिकं निक्षिप्य ऐं इति अंगुष्ठानामिकाभ्यां पुष्पेण तत्पात्रस्थं जलमालोड्य तत्पुष्पं निरस्य क्लीमिति चंदनागुरुकर्पूरचोरकुंकुमरोचना जडामांसी शिलारसात्मकगंधाष्टकपंकलोलितं चंदनादि पंकलोलितं वा पुष्पं निक्षिप्यसौरितिगालिनिमुद्रया निरीक्ष्य ४ तृतीय कूटं उं सोममंडलाय कामप्रदषोडशकलात्मने श्रीपरदेवताया विशेषार्घामृताय नमः । इति पात्रस्थ हेतुमध्ये प्. १५७अ) संपूज्य तत्र पूर्वोक्तं मंडलं विभाव्य पूर्ववत् पंचरत्नांतं संपूज्य शांभवदीक्षायुक्तस्थैस्तथैव पंचप्रणवैः पूजयेत् ।। ततस्तत्र सोमस्य षोडशकलासमावाह्य प्राग्वतन्नाम पुरःसरं तासां प्राणप्रतिष्ठां विधाय वृत्ताकारेण स्वाग्रादि प्रादक्षिण्येन ताः पूजयेत् ।। तद्यथा ४ अं अमृतायै नमः । ४ आं मानदायै० । ४ इं पूषायै० । ४ ईं तुष्ट्यै० । ४ उं पुष्प्यै न० । ४ ऊं रत्यै नम० । ४ ऋं धृत्यै० । ४ ॠं शशिन्यै० । ४ ॡं चंद्रिकायै० । ४ ॡं कांत्यै० । ४ एं ज्योत्स्नायै० । ४ ऐं श्रियै० । ४ ओं प्रीत्यै० । ४ औं अंगदायै० । ४ अं पूर्णायै न० । ४ अः पूर्णामृतायै० । इति संपूज्य पूर्वपूजितमंदलमध्यत्रिकोणमकथादि त्रिरेखं विभाव्ये तत्कोणत्रये मुलविद्यायाः कूटत्रयं मध्यस्य बिंदौ कामकलां तत्पार्श्वयोः सबिंदुंहक्षौ तत्पृष्ठे लकारं तत्पार्श्वेयोर्हंसवर्णौ विभाव्यपुष्पाक्षतगर्भितां योनिमुद्राबध्वा गुरुपदिष्टप्रकारेण मुलाधारात्कुंडलिनीमुत्थाप्य षट्च्क्रभेदनक्रमेण सुषुम्णावर्त्मना ब्रह्मरंध्रस्थ चिच्चंद्रमंडलं नीत्वा तत्र स्थित परमशिवे संयोज्य तयोः शिवशक्त्यौः सामरस्य सुखानुभवगलितामृतधारां प्. १५७ब्) संचित्य राजदंतविवरान्तयनवर्त्मना निःसृतां योनिमुद्रोल्लसितेन करेणानीय ४ मूलविद्यांते ब्रह्मांडखंडसंभूतमशेषरससंभृतं ।। आपूरितं महापात्रं पीयूषरसमावहे ।। १ ।। ऐं प्लुं झ्रौं जूं सः अमृते अमृतोद्भवे अमृतेश्वरी अमृतवर्षिणी अमृतं स्रावय स्रावय स्वाहा इति तस्मिन्नर्घामृते पुष्पाक्षतप्रक्षेपेण तदमृतधारां संयोज्यवमिति धेनुमुद्रां प्रदर्श्य ओं ह्रीं हं सः सोहं स्वाहा इत्यात्माष्टाक्षरं मंत्रेणत्रिरभिमंत्र्य पुनरुच्चार्य आत्मशक्ति श्रीपादुकां पूजयामिति हेतुमध्ये संपूज्य पुनः प्रणवेन त्रिरभिमंत्र्य पुनः प्रणवमुच्चार्य परं निष्क शांभवी श्री० । इति हेतुमध्ये संपूज्य पुनः हं सः इति मंत्रेण त्रिरभिमंत्र्य हं सः अजपाशक्ति श्री० । इति संपूज्यमातृकया प्रत्यक्षरं बिंदुरहितया त्रिरभिमंत्र्य पुनस्तामुच्चार्य मातृका सरस्वती श्री० । इति हेतु मध्ये संपूज्य मूलतार्तीयकूटेन दशधाभिमव्यपुनस्तार्तीय कूटमुच्चार्य त्रिपुरामृतेश्वरी श्री० । इति हेतुमध्य संपूज्य । ४ हसहक्षमलवरयूं सहक्षमलवरयीं इत्यानंदभैरवमिथुनविद्याभ्यां त्रिरभिमंत्र्य हसक्षमलवरयूं आनंदभैरवाय वौषट् प्. १५८अ) आनंदभैरव श्रीपादुकां पूजयामि तर्पयामी नम इति त्रिः संतर्प्य ४ सहक्षमलवरयीं सुधादेव्यै वट् सुधादेवी श्री० । इति त्रिः संपूज्य संतर्प्य ह्सौं वरुणाय नमः । शौं वरुणा देव्यै नमः । इति वरुणमिथुनविद्याभ्यां त्रिरभिमंत्र्य ४ पुनः पृथगुच्चार्य वरुण श्री० । वारुणीदेवी श्रीपादुकां पूजयामीति संपूज्य संतर्प्य ततो बालया वक्षमाणनित्या षोडशमंत्रैश्च सकृत्सकृदभिमंत्र्य । तद्दिन नित्या विद्यया तत्तिथि नित्याविद्यया च पृथक् त्रिस्त्रिरभिमंत्र्य पराप्रासाद प्रासादपरमंत्राभ्यां उर्ध्वाम्नाय दिक्षितश्चेत् ह्सौंः शौंः इति मंत्राभ्यां त्रिरभिमंत्र्य ततश्चरणदिंदीक्षीतश्चेत् चरणकुलयोगिनी विद्याभ्यां त्रिस्त्रिरभिमंत्र्य ततः सौः इत्यनुतरपराविद्ययादीक्षितश्चेत् तया त्रिरभिमंत्र्य पूर्णाभिषिक्तश्चेत् कामकलाविद्यया त्रिरभिमंत्र्य षडन्वय शांभवदीक्षा युक्तश्चेत् तद्विद्याभिस्त्रिस्त्रिरभिमंत्र्यतते विक्ष्यमाण पांचभौतिक मंत्रैस्त्रिस्त्रिरभिमंत्र्य सृष्ट्यादि दशकला हेतुमध्ये समावाह्य प्राग्वतन्नामपुरःसरं तासां प्राणप्रतिष्ठां विधाय ओं हं सः शुचि षद्वसुरंतरिक्ष प्. १५८ब्) सद्धोतां वेदिषदतिथिर्दुरोणसत् ।। नृषद्वरसदृतसव्योमसदज्बागोजा ऋतजा अद्रिजा ऋतं बृहत् ।। अनया ऋचा सकृदभिमंत्र्यपुनरुच्चार्य ब्रह्मणे नम इति हेतुमध्ये संपूज्यकं सृष्ट्यै नम इत्यादि प्रागुक्तकला मातृकान्यासोक्तप्रकारेण कचवर्गकलाः संपूज्य ततः टतवर्गोत्थ जरादि दशकलाः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय ।। प्रतद्विष्णुस्तवते वीर्येण मृगो न भीमः कुचरोगिरिष्ठाः ।। यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियंति भुवनानि विश्वा ।। अनया ऋचा सकृदभिमंत्र्य पुनरुच्चार्य विष्णुवे नम इति संपूज्य टं जरायै नम इत्यादिताः संपूज्य पयवर्गोत्थ कलास्तीक्ष्णाद्याः समावाह्य ।। प्राग्वत् तासां प्राणप्रतिष्ठां विधाय ।। त्र्यंबकं यजामहे सुगंधिपुष्टिवर्द्धनं ।। उर्वारुकमिव बंधनान्मृत्योमृक्षीय मामृतात् ।। इत्यभिमंत्र्य पुनरुच्चार्य रुद्राय नम इति संपूज्य पं तीक्ष्णायै नम इत्यादिभिः संपूज्य पुनः षकारादि क्षकारांत पंचवर्णोत्थाः पीतादि पंचकलाः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय गायत्र्याभिमंत्र्य पुनरुच्चार्य इश्वराय नम इति संपूज्य षं पीतायै नम प्. १५९अ) इत्यादिताः संपूज्य ततः स्वरोत्थानि निवृत्यादि षोडशकलाः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय ।। विष्णुर्योनिं कल्पयस्विति मंत्रस्य त्वष्टा गर्भकर्ता ऋषिः अनुष्टूप्छंदः श्रीविष्णुर्देवता श्रीसदाशि * पूजार्थे जपे विनियोगः ।। विष्णुर्योनिं कल्पयतु त्वत्वष्टारूपाणि पिंशत् ।। आसिंचतु प्रजापतिर्धाता गर्भं दधातु ते ।। इत्यभिमंत्र्य पुनरुच्चार्य सदाशिवाय नम इति हेतुमध्ये सकृत्संपूज्य अं निवृत्यै नम इत्यादिताः संपूज्य मातृकया द्विरभिमंत्र्य पुनरभिमंत्र्य मातृका सरस्वती श्री० इति संपूज्य ।। ऐं अखंडै करसानंदकरे परसुधात्मनि ।। स्वछंदस्फुरणामत्र निधे ह्यकुलरूपिणि ।। इत्यनेन त्रिरभिमंत्र्य ।। क्लीं अकुलस्थामृताकारे सिद्धिज्ञानकरे परे ।। अमृतत्वं निधे ह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ।। १ ।। इति च त्रिरभिमंत्र्य सौः त्वद्रूपेणैकरस्य त्वं दवार्घ्ये तत्स्वरूपिणि ।। भूत्वा परामृताकारामयि च स्फुरणं कुरु ।। इति च त्रिरभिमंत्र्य ।। ऐं प्लुं जूं सः अमृते अमृतोद्भवे अमृतेश्वरी अमृतवर्षिणी अमृतं स्रावय स्रावय स्वाहा ।। इति अमृतेश्वरी प्. १५९ब्) विद्यया चतुर्वारमभिमंत्र्य । पुनस्तामुच्चार्य अमृतेश्वरी श्री० । इति सकृत्संपूज्य ततः ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु क्ली सौः मोक्षं कुरु कुरु सौः ह्सौः ।। इति दीपनी विद्यया पंचवारमभिमंत्र्य ततस्तत्र मूलविद्यामष्टधा जपित्वा तन्मध्ये चतुरस्रं पश्चिमद्वारं विचिंत्य तद्वारपार्श्वयोः कुलबटुकनाथ तद्वल्लभां वा श्री० ।। कुलगणपतिनाथ तद्वल्लभां वा श्री० ।। इति दक्षिणवामयोः संपूज्य तदंतः प्राग्वत् षडासनानि संपूज्य तन्मध्यत्रिकोणमध्यस्थ बिंदुमध्ये कामकलायां वक्ष्यमाणप्रकारेण देवीमावाह्य ध्यात्वा षडंगन्यासयोगेन सकलीकृत्य गंधादिभिः संपूज्य वक्ष्यमाण विधिना देव्यंगे लयांगं संपूज्य तिथि नित्याषोडशनित्यागुरुपंक्तित्रयं षडंगयुवतीश्च संपूज्य वक्ष्यमाण समष्टि योगिनी मंत्रेण त्रिः सकृद्वा पुष्पांजलिं दत्वा धूपदीपौ निवेद्य योनि धेनु महायोगिनि त्रिशिखापद्मसंक्षोभ द्रावणाकर्षवश्योन्मादमहांकुश खेचरी बीजयोनि पाशांकुशधनुर्बाणाख्या अष्टादशमुद्राः प्रदर्श नमस्कार मुद्रया प्रणमेत् ।। प्. १६०अ) अत्र एतावत् कतुमशक्तश्चेत् अभिमंत्रण पूजनयोरन्यतमं कुर्यात् । तत्रापि असक्तश्चेत् आत्माष्टाक्षरपूजां तं कृत्वा आनंदभैरवमिथुनं संपूज्य संतर्प्य सृष्ट्यादि कलापूजामारभ्य शेषं प्राग्वत्समापयेदिति ।। विशेषार्घस्थपनविधिः ।। ततस्तत्परतस्तेनैव विधिना श्रीपात्राख्यं पात्रांतरं स्थापयेत् तेन मूलदेव्यतिरिक्तावरणदेवतास्तर्पयेत् ।। पूजासमर्प्यादिकं मूलदेव्यास्तर्पणं च विशेषार्घेणैव ।। तत्र अनंगकुसुमादि पर्यंतमावरण त्रयं पूजा समर्पणमर्घदानं च सामान्यार्घ जलैरेव कुर्यात् ।। इति श्रीपात्रस्थापनविधिः । ततस्तदनुक्रमेणैव तदधः पंक्याकारेण पाद्याचमनीय मधुपर्कार्थं पात्रत्रयं सामान्यार्घविधिनैव स्थापयेत् ।। तदशक्तौ त्रिकोणमंडल त्रये साधारं प्रात्र त्रयं निधाय तत्र पात्र द्वयं शुद्धजलेनापूर्य तृतीयं मधुपर्कद्रवेणापूर्य तेषु विशेषार्घजलं किंचिदत्वा मूलविद्यया पृथक् पृथक् अष्टवार अभिमंत्रयेत् ।। मधुपर्के तु काश्यपात्रं प्रशस्तं ।। ताम्रवर्जमन्यतरं प्. १६०ब्) वा पात्रांतरेणाछादितं कुर्यात् ।। गंधपुष्पाक्षतकुशाग्रतिलसर्षपदूर्वाः सामान्यार्घे निक्षिपेत् ।। पाद्यपात्रे श्यामाकतंदुलदूर्वाकमुलापराजितापुष्पोशीररोचनाख्य द्रव्याष्टकं निक्षिपेत् ।। आचमनीय पात्रे जातीफललवंगकं कोलचूर्णानि निक्षिपेत् ।। उक्त द्रव्यालाभे तत्तद्वस्तु भावनया तदुलन्निक्षिपेत् ।। मधुपर्कपात्रे दधिमधुघृतानि निक्षिप्युविशेषार्घ बिंदुना संस्कुर्यात् ।। दध्याद्यलाभे जनेनैव तद्भावनया पूरयेत् ।। ततः स्वदक्षिणाग्रे पाद्यादि पात्रविधानेनैव पुनराचमनीय पात्रं प्रोक्षणी पात्रं च स्थापयेत् ।। अत्राप्यशक्तौ पाद्यादि त्रयमेकस्मिन्नेव पात्रे दद्यात् ।। ततः गुरुमुखादवगत विनियोग विधौ पात्र चतुष्टयं सामान्यार्घ विधिना प्रोक्षणीपात्रात् परतः स्थापयेत् ।। तेषां नामानि तु गुरुपात्रं शक्तिपात्रं बटूकपात्रं आत्मपात्रं चेति । गुरुपादुका विद्यया गुरुपात्रं । बालविद्यया शक्तिपात्रं ।। बटूकपात्रं तन्मंत्रेण आत्मपात्रमात्माष्टाक्षरमंत्रेण चेति तत्तन्मंत्रे ततत्पात्रमष्टधाभिमंत्रयेत् । ततः प्रोक्षणीपात्रोदकेन प्. १६१अ) पात्रांतरोद्धृतेन ओं ऐं ह्रीं श्रीं ऐं प्रथमकूटमुच्चार्य आत्मतत्वात्मने नमः । ४ क्लीं द्वितीयं विद्यातत्वात्मने नमः ।। ४ सौः तृतीयं शिवतत्वात्मने नमः । ततः ४ ऐं क्लीं सौः समस्तमुच्चार्य सर्वतत्वात्मने नमः ।। इति स्वात्मानं प्रोक्ष्य पुनर्मुलेन यागभूमिं यागोपकरणानि च श्रीचक्रं प्रोक्ष्यसवं वस्तुषु धेनुमुद्रां प्रदर्शयेत् ।। इति अर्घ्यादि स्थापनविधिः ।। अत्र श्रीपात्रस्थापनाशक्तौ विशेषार्घेणैव प्रोक्त पूजादिकं कुर्यादिति ।। अथात्मपूजा ।। तत्र स्वपुरतस्त्रिकोणमंडले साध्यारं पात्रं संस्थाप्य कलशोदकेनापूर्य विशेषार्घबिंदुं दत्वा स्वदेहं चंदनादि रक्तोपचारैरलंकृत्यात्मानमिष्टदेवतारूपं ध्यायन् गुरुगणपति परदेवताः प्रणम्य मूलाधारादि ब्रह्मरंध्रांतं बिसतंतुं तनीयंसी चंद्रकोटि प्रभाद्रवां कुंडलीनीं मनोलय पर्यंतं ध्यात्वा परमानंदनिर्भरस्तदात्मकत्वेन मूलविद्यामपि मूलादि ब्रह्मरंध्रांतं तेजोमयीं विभाव्य तत्तेजसापरितं स्वेष्टदेवतारूपं स्वदेहं भावयन्नात्मपूजां कुर्यात् । (ततस्तत्र सोमस्य षोडशकलासमावाह्य प्राग्वतन्नामपुरःसरं तासां प्राण) ।। प्. १६१ब्) तद्यथा ।। तत्र प्रागुक्त योगपीठन्यास प्रकरणोक्त प्रकारेण स्वदेहं सिंहासनत्वेन परिकल्प्य प्रथमं शिरसि प्रणव त्रिताराढ्यां श्रीगुरुपादुका विद्यामुच्चार्य श्री-अमुकानंदनाथ श्रीपादुकां पूजयामि तर्पयामि नम इति संपूज्य संतर्प्य मूलाधारे गं गणपति श्रीपादुकां पू० ।। त० । नम इति संपूज्य संतर्प्य प्रागुक्त योगपीठन्यासक्रमेण मंडूकाद्यान्मूलाधारादिन् तत्स्थानेषु प्रणव त्रितार चतुर्थ्यं ततत्तन्नामभिर्नमोंतैः सिंहासनां तं संपूज्य दक्षिणां सवामां सवामोरु दक्षिणोरु सर्वांगेषु वक्ष्यमाण पंचप्रेतासनं संपूज्य दक्षिणांसादि स्थानेषु धर्मादि चतुष्टयं मुखादि स्थानेषु अधर्मादि चतुष्टयं च तथैव संपूज्य पुनर्हृदय कमल एव माया विद्ये संपूज्य मध्ये पंचदशफणान्वितमनंतं ध्यात्वा तन्मध्यफणायामष्टदलकमलं कामेश्वरी पीठं ध्यात्वा नंतपद्मादि परतत्वांतं संपूज्य तत्केसरेषु प्रागादि प्रादक्षिण्येन ४ मोहिनी श्री० । ४ क्षोभिणी श्री० । ४ वशिनी श्री० । ४ स्तंभिनी श्री० । ४ आकर्षणी श्री० । ४ द्रावणी श्री० । ४ आह्लादनी श्री० । प्. १६२अ) ४ क्लिन्ना श्री० । ४ इति संपूज्य मध्ये ४ क्लेदिनी श्रीपादुकां पूजयामि इति संपूज्य क्लीं सर्वशक्ति कमलासनाय नम इति योगपीठत्वेन पुष्पांजलिना समस्तं देहं संपूज्य तन्मध्यकर्णिकायां श्रीचक्रं विभाव्य ४ समस्तप्रकटेत्यादि योगिनी समष्टि विद्यया त्रिः समस्तं देहं संपूज्य प्रागुक्त योगपीठन्यासक्रमेण षडासन पर्यंतं प्राक् न्यस्तस्थानेषु संपूज्य दक्षिणां सपृष्ठदक्ष कर्णपृष्ठदक्ष शंखदक्ष ललाटदक्ष नेत्रदक्ष नासापुटदक्ष चुबुकहृदय त्रिकोण तन्मध्येषु ४ नादशक्ति श्री० । ४ बिंदुशक्ति श्री० । ४ कलाशक्ति श्री० । ४ ज्येष्ठाशक्ति श्री० । ४ रौद्रीशक्ति श्री० । ४ वामाशक्ति श्री० । ४ विषघ्निशक्ति श्री० । ४ दूतशक्ति श्री० । ४ सर्वां नंदाशक्ति श्री० । इति संपूज्य ।। अं कं ३६ इत्यादि शिवशक्ति सदाशिवेत्यादि न्यासोक्त समष्टि पीठमंत्रेण सर्वांगं संपूज्य हृदयकमले यथोक्तरूपां भगवतीं ध्यायन् तत्तेजसा व्याप्तं स्वदेहं श्रीभगवतीरूपं विचिंत्य मूलमुच्चार्य श्रीमहात्रिपुरसुंदरी श्रीपा० । त० । नम प्. १६२ब्) इति शिरसि त्रिःपुष्पांजलिभिः संपूज्य पुरःस्थापित पात्रोदबिंदुंभिः संतर्प्य पुनः प्राग्वन्मुलेन शिरोहृदयगुह्यपादद्वय सर्वांगेषु पंचपुष्पांजलिभिः संपूज्य संतर्प्य हृदय त्रिकोणे शिरस्त्रिकोणे वा वक्ष्यमाणप्रकारेण लयांगतिथि नित्याषोडश नित्यागुरुपंक्ति त्रय षडंगयुवतीस्तत्तत्स्थानेषु वक्ष्यमाणप्रकारेण संपूज्य संतर्प्य हृदय त्रिकोण पूजायां संहार श्रीचक्रोक्तन्यासप्रकारेण नवावरणशक्तिः पूजयेत् ।। शिरस्त्रिकोण पूजाचेत् सृष्टि श्रीचक्रन्यासक्रमेण नवावरणशक्तीश्चक्रेश्वरीश्च पूजयित्वा तर्पयेत् ।। एतावत् कर्तुमशक्तौ षडंगयुवतीपूजांते समस्तप्रकटेत्यादि समष्टि विद्यया त्रिः संपूज्य संतर्प्य चतुःसमयचतुराम्नाय षट् दर्शनदेवताश्च वक्ष्यमाण श्रीचक्रपूजाक्रमेण पूजयेत् ।। उर्ध्वाम्नाय दीक्षितश्चेन्महाषाढान्यासोक्तरूपं स्वात्मानं ध्यात्वा तद्विद्यया वक्ष्यमाणप्रकारेण त्रिःसंपूज्य शक्तश्चेन्माहाषोढोक्त देवतास्तन्यासस्थानेष्वेव संपूज्य संतर्प्य शिरसि परापादस्य गुरुपंक्ति त्रयं पूजयेत् ।। प्. १६३अ) ततश्चरणदिक्षितश्चेत् प्रागुक्तचरणादि विद्याभिस्तन्यासस्थानेषु संपूज्य तर्पयेत् ।। ततः पूर्णाभिषिक्तश्चेद्वक्ष्यमाणप्रकारेण शिरसिकामकलापारंपर्येण संपूज्य संतर्प्यशांवदीक्षायुक्तश्चेत् तन्मिथुनषट्कं तद्गुरुक्रमं तद्रश्मिक्रमं च प्रागुक्तन्यासस्थानेषु संपूज्य तर्पयेत् । अत्र सर्वत्रात्मपूजायां विस्ताराशक्तौ तत्तन्मूलदेवतास्तत्तद्गुरुक्रमं च संपूज्य संतर्पयेदिति संक्षेपः ।। ततः पूर्ववत् पुष्पांजलि पंचकं स्वदेहे समस्तकादिषु प्रागुक्तस्थानेषु विधायधूपदीपौ निदेद्य अंतर्हवनं कुर्यात् ।। तत्र मूलाधारे त्र्यस्रं कुंडं विभाव्य तन्मध्यस्थ कालाग्निमेव कामाग्निं वासनारूपे साधन प्रज्वलितं प्राणादि पंचवायुभिः संरांक्षितं कुंडलिनीरूप परदेवताधिष्ठितं चिदग्निमंडलं विभाव्य प्रणव त्रितारादि मूलविद्यांते धर्माधर्म हवि दीप्ते आत्माग्नौ मनसा स्रुच । सुषुम्णावर्त्मना नित्यमक्ष वृत्तिर्जुहोम्यहं इदं जुहोमि स्वाहा ।। इति पुण्यपापकृत्याकृत्य संकल्पविकल्प धर्मात्मकं हविः सप्तकं सप्ताहुत्या हुत्वा प्. १६३ब्) ततः प्रणवत्रितारादि मूलविद्यांते प्रकाशामर्श हस्ताभ्यामवलंव्योन्मनी सुचं । धर्माधर्मकलास्तेहं पूर्णवह्नौ जुहोम्यहं अधर्मं जुहोमि स्वाहेति पूर्णाहुति हुत्वा निरस्तनिखिलप्रपंचो निष्कलब्रह्मरूपः साधकः कियत् क्षण तिष्ठेत् ।। ततो देवीरूपमात्मानं ध्यात्वा श्रीगुरुपादुकां प्रणम्य शिरसि अन्नपूर्णां ध्यात्वा तन्मंत्रेण वक्ष्यमाण पूजाप्रकारेण तां संपूज्य संतर्प्य पूजाशिष्टं तत्पात्रस्थमुदकं गुरुपादुका मूलविद्याभ्यां कुंडल्यात्मक श्रीपरदेवता मुखे जुहोमीति धिया प्राश्य श्रीपरदेवतारूपमात्मानं ध्यायन्प्राणायाम । ऋष्यादि करषडंगं न्यासपूर्वकं मूलविद्यामष्टोत्तरशतवारं जपित्वा पुनः प्राणायामपूर्वकं जपं समर्प्य स्तुत्वा प्रणमेदिति आत्मपूजा ।। ।। श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना ।। </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] 60qeieqlprqh77wo71d2z9tkohpvu56