विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.48.0-wmf.1
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
विष्णुपुराणम्/चतुर्थांशः/अध्यायः ७
0
7107
418867
203147
2026-10-28T00:32:46Z
Visasank
9788
418867
wikitext
text/x-wiki
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
<poem>
॥ अथ सप्तमोऽध्यायः ॥
(जह्नोः वंशकथनम्)
श्रीपराशर उवाच
तस्यापि आयुः धीमानम् अमावसुः विश्वावसुः श्रुतायुः शतायुः अयुतायुः इति संज्ञाः षट् पुत्रा अभवन् ॥१॥
तथा अमावसोः भीमनामा पुत्रोऽभवत् ॥२॥
भीमस्य काञ्चनः, काञ्चनात् सुहोत्रः तस्यापि जह्नुः ॥३॥
योऽसौ यज्ञवाटमखिलं गङ्गाम्भसाप्लावितम् आलोक्य, क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्य, अखिलामेव गङ्गामपिबत् ॥४॥
अथैनं देवर्षयः प्रसादयामासुः ॥५॥
दुहितृत्वे चास्य गङ्गाम् अनयन् ॥६॥
जह्नोश्च सुमन्तः नाम पुत्रोऽभवत् ॥७॥
तस्यापि अजकः, ततो बलाकाश्वः, तस्मात् कुशः, तस्यापि कुशाम्ब-कुशनाभा-अधूर्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥८॥
तेषां कुशाम्बः “शक्रतुल्यो मे पुत्रो भवेत्” इति तपश्चकार ॥९॥
तं च उग्रतपसम् अवलोक्य, “मा भवतु अन्योऽस्मत्तुल्यवीर्य” इति आत्मनैव अस्य इन्द्रः पुत्रत्वम् अगच्छत् ॥१०॥
स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥११॥
गाधिश्च सत्यवतीं कन्यामजनयत् ॥१२॥
तां च भार्गव ऋचीको वव्रे ॥१३॥
गाधिरपि अतिरोषणाय अतिवृद्धाय ब्राह्मणाय दातुम् अनिच्छन् एकतः श्यामकर्णानाम् इन्दुवर्चसाम् अनिलरंहसाम् अश्वानां सहस्रं कन्याशुल्कम् अयाचत ॥१४॥
तेनापि ऋषिणा वरुणसकाशात् उपलभ्य अश्वतीर्थोत्पन्नं तादृशाश्वसहस्रं दत्तम् ॥१५॥
ततः ताम् ऋचीकः कन्याम् उपयेमे ॥१६॥
ऋचीकश्च तस्याः चरुम् अपत्यार्थं चकार ॥१७॥
तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरुमपरं साधयामास ॥१८॥
“एष चरुः भवत्या, अयमपरः चरुः त्वन्मात्रा सम्यगुपयोज्य” इत्युक्त्वा वनं जगाम ॥१९॥
उपयोगकाले च तां माता सत्यवतीमाह ॥२०॥
“पुत्रि, सर्व एव आत्मपुत्रम् अतिगुणम् अभिलषति, न आत्म-जाया-भ्रातृ-गुणेषु अतीव आदृतो भवतीति ॥२१॥
अतोऽर्हसि ममात्मीयं चरुं दातुं मदीयं चरुम् आत्मना उपयोक्तुम् ॥२२॥
मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं, कियद्वा ब्राह्मणस्य बलवीर्यसम्पदा” इत्युक्ता सा स्वचरुं मात्रे दत्तवती ॥२३॥
अथ वनादागत्य सत्यवतीम् ऋषिरपश्यत् ॥२४॥
आह चैनाम् “अतिपापे, किमिदमकार्यं भवत्या कृतमतिरौद्रं ते वपुर्लक्ष्यते ॥२५॥
नूनं त्वया त्वन्मातृसात्कृतः चरुः उपयुक्तो न युक्तमेतत् ॥२६॥
मया हि तत्र चरौ सकलैश्वर्यवीर्यशौर्यबलसम्पद् आरोपिता त्वदीयचरौ अपि अखिलशान्तिज्ञानतितिक्षादिब्राह्मणगुणसम्पत् ॥२७॥
तच्च विपरीतं कुर्वत्याः तव अतिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति, तस्याश्च उपशमरुचिः ब्राह्मणाचार” इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥२८॥
प्रणिपत्य चैनमाह ॥२९॥
“भगवन् मया एतदज्ञानादनुष्ठितं, प्रसादं मे कुरु, मैवंविधः पुत्रो भवतु, काममेवंविधः पौत्रो भवतु” इत्युक्ते मुनिरप्याह ॥३०॥
“एवमस्तु” इति ॥३१॥
अनन्तरञ्च सा जमदग्निम् अजीजनत् ॥३२॥
तन्माता च विश्वामित्रं जनयामास ॥३३॥
सत्यवत्यपि कौशिकी नाम नदी अभवत् ॥३४॥
जमदग्निः इक्ष्वाकुवंशोद्भवस्य रेणोः तनयां रेणुकाम् उपयेमे ॥३५॥
तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतः सकललोकगुरोः नारायणस्यांशं जमदग्निः अजीजनत् ॥३६॥
विश्वामित्रपुत्रस्तु भार्गव एव शुनश्शेपो देवैर्दत्तः, ततश्च देवरातनामाभवत् ॥३७॥
ततश्च अन्ये मधुच्छन्दो धनञ्जयकृतदेवाष्टक-कच्छप-हारीतकाख्याः विश्वामित्रपुत्राः बभूवुः ॥३८॥
तेषां च बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यानि अभवन् ॥३९॥
॥ इति श्रीविष्णुमहापुराणे चतुर्थांशो सप्तमोऽध्यायः ॥
</poem>
[[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]
8k0rno06ch319fhjx19qgclb6qoco47
गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १
0
7272
418866
417988
2026-10-27T16:51:52Z
अनुनाद सिंह
1115
418866
wikitext
text/x-wiki
{{header
| title = [[../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः १
| previous =
| next = [[गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः २|अध्यायः २]]
| notes =
}}
<poem>
अध्याय का आरम्भ मङ्गलाचरण से होता है और फिर काव्यात्मक रूप से बताया जाता है कि श्रीकृष्ण विभिन्न दर्शकों को अनेक रूपों में प्रकट होते हैं। इसके बाद नैमिषारण्य की कथा-भूमि में शौनक आदि ब्रह्मचारी ऋषि चारों पुरुषार्थों की सिद्धि का उपाय, विशेषतः हरि में अचल भक्ति और त्रिविध कर्म की पूर्णता पूछते हैं। वे सिद्धाश्रम में सूतजी के पास जाकर जानना चाहते हैं कि विष्णु कैसे प्रसन्न होते हैं और मोक्ष देने वाला निर्णायक ज्ञान क्या है। सूतजी नमस्कार-क्रम का औचित्य बताते हैं—विष्णु ही परम तत्त्व हैं; श्री, वायु और भारती अधीन होते हुए भी पूज्य आधार हैं; और व्यासजी को अंत में कर्ता तथा हरि-समान कार्य-रूप से प्रणाम किया जाता है। संकीर्ण मतवाद और गलत उपासना से सावधान कर, वायु-चिह्न को स्वतंत्र देवता नहीं बल्कि हरि के आश्रय-चिह्न के रूप में समझाते हैं। फिर गुणों के आधार पर पुराणों का वर्गीकरण कर भागवत, विष्णु और गरुड़ पुराण को कलियुग में विशेष सात्त्विक व हितकारी बताकर आगे आने वाले प्रेतकल्प के संस्कार, परलोक-स्थितियों और मोक्षाभ्यास की भूमिका बाँधते हैं।
'''अथ गारुडे ब्रह्मकाण्डस्तृतीय आरभ्यते ।'''
'''ओं मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः ।
'''मृत्युर्भोजपतेर्विधातृविहित स्तत्त्वं परं योगिनां वृष्णीनां च पतिः सदैव शुशुभे रङ्गेऽच्युतः साग्रजः ॥ ३,१.१ ॥
'''नमो नारायणायेति तस्मै वै मूलरूपिणे ।
'''नमस्कृत्य प्रवक्ष्यामि नारायणकथामिमाम् ॥ ३,१.२ ॥'''
श्रीगणेश को नमस्कार, श्रीलक्ष्मी-नृसिंह को नमस्कार, श्रीदत्तात्रेय को नमस्कार, श्रीवेदव्यास को नमस्कार, श्रीहयग्रीव को नमस्कार। ॐ—रंगभूमि में अग्रज सहित अच्युत (कृष्ण) ऐसे शोभित हुए: मल्लों के लिए वज्र, मनुष्यों के लिए नरश्रेष्ठ, स्त्रियों के लिए साकार कामदेव, गोपों के लिए स्वजन, दुष्टों के लिए दण्डदाता, राजाओं के लिए शासक, माता-पिता के लिए शिशु, भोजपति कंस के लिए मृत्यु, योगियों के लिए परम तत्त्व, और वृष्णियों के लिए स्वामी ,मूलरूप परमेश्वर नारायण को नमस्कार। प्रणाम करके अब मैं यह नारायण-कथा कहूँगा।
'''शौनकाद्या महात्मानो ह्यृषयो ब्रह्मवादिनः ।
'''नैमिषाख्ये महापुण्ये तपस्तेपुर्महत्तरम् ॥ ३,१.३ ॥
'''जितेन्द्रिया जिताहाराः संतः सत्यपरायणाः ।
यजन्तः परया भक्त्या विष्णुमाद्यं जगद्गुरुम् ॥ ३,१.४ ॥
'''गृणन्तः परमं ब्रह्म जगच्चक्षुर्महौजसः ।
'''सर्वशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिष कानने ॥ ३,१.५ ॥
'''यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परम् ।
'''केचित्परमया भक्त्या नारायणमपूजयन् ॥ ३,१.६ ॥
एकदा तु महात्मानः समाजं चक्रुरुत्तमाः ।
धर्मार्थकाममोक्षाणामुपायं ज्ञातुमिच्छवः ॥ ३,१.७ ॥
षद्विंशतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शङ्क्यते ॥ ३,१.८ ॥
मुनयो भावितात्मानो मिलितास्ते महोजसः ।
लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥ ३,१.९ ॥
कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी ।
केन सिध्येत्तु सकलं कर्म त्रिविधमात्मनः ॥ ३,१.१० ॥
इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः ।
सांज लिर्वाक्यमाह स्म विनयावनतः सुधीः ॥ ३,१.११ ॥
शौनक उवाच ।
आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः ।
स एतदखिलं वेत्ति व्यासशिष्यो यतीश्वरः ॥ ३,१.१२ ॥
तस्मात्तमेव पृच्छाम इत्येवं शौनको मुनिः ।
अथ ते ऋषयो जग्मुः पुण्यं सिद्धाश्रमं ततः ॥ ३,१.१३ ॥
पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः ।
ऋषय ऊचुः ।
वयं त्वतिथयः प्राप्तास्त्वातिथेयोसि सुव्रत ॥ ३,१.१४ ॥
स्नानदानोपचारेण पूजयित्वा यथाविधि ।
केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥ ३,१.१५ ॥
मुक्तिसाधनभूतं च ब्रूहि तत्त्वविनिर्णयम् ।
सूत उवाच ।
शृणुध्वमृषयः सर्वे हरिं तत्त्वविनिर्णयम् ॥ ३,१.१६ ॥
नत्वा विष्णुं श्रियं वायुं भारतीं शेषसंज्ञकम् ।
द्वैपायनं गुरुं कृष्णं प्रवक्ष्यामि यथामति ॥ ३,१.१७ ॥
नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ ३,१.१८ ॥
शौनक उवाच ।
किमर्थं नमनं विष्णोर्ग्रन्थादौ मुनिसत्तम ।
कर्तव्यं ब्रूहि मे ब्रह्मन्कृपया मम सुव्रत ॥ ३,१.१९ ॥
ततः श्रियं ततो वायुं भारतीं च ततः परम् ।
अन्ते व्यासं किमर्थं च त्वं नमस्कृतवानसि ।
सूतसूत महाभाग ब्रूहि कारणमत्र च ॥ ३,१.२० ॥
सूत उवाच ।
आदौ वन्द्यः सर्ववेदैकवेद्यो वेदे शास्त्रे सेतिहासे पुराणे ।
सत्तां प्रायो विष्णुरेवैक एव प्रकाशतेऽतो नम्य एको हरिर्हि ॥ ३,१.२१ ॥
सर्वत्र मुख्यस्त्वधिकोन्यतोपि स एव नम्यो न च शङ्कराद्याः ।
नमन्ति येऽविनयाच्छङ्करं तु विनायकं चण्डिकां रेणुकां च ॥ ३,१.२२ ॥
तथा सूर्यं भैरवं मातारश्व तथा वाणीं गिरिजां वै श्रियं च ।
सर्वेपि ते वैष्णवा नैव लोके न तद्भक्ता वेति चार्या वदन्ति ॥ ३,१.२३ ॥
न पार्थिक्यान्नमनं कार्यमेव प्रीणन्ति नैता देवताः पूजनेन ।
पूजां गृहीत्वा देवताश्चैव सर्वाः किञ्चिद्दत्वा फलदानेन तांश्च ॥ ३,१.२४ ॥
संतर्प्य तुष्टैः स्वमनोनु सारात्तैः कारितां काम्यपूजां तथैव ।
निवेदयित्वा परदेवतायां विष्णौ हरौ श्रीपुरुषादिवन्द्ये ॥ ३,१.२५ ॥
इहापरत्रापि सुखेतराणि दास्यन्ति पश्चादधरं वै तमश्च ।
अतो ह्येते नैव पूज्या न नम्या मोक्षेच्छुभिर्ब्राह्मणाद्यैर्द्विजेन्द्र ॥ ३,१.२६ ॥
तथैव सर्वाश्रमिभिश्च नित्यं महाविपत्तावपि विप्रवर्याः ।
श्रीकाम्य या ये तु भजन्ति नित्यं श्रीब्रह्मरुद्रेद्रयमादिदेवान् ॥ ३,१.२७ ॥
इहेव भुञ्जन्ति महच्च दुः खं महापदः कुष्ठभगन्दरादीन् ।
नमन्ति येऽवैष्णवान्ब्रह्मरुद्रवायु प्रतीकान्नैव ते विष्णुभक्ताः ॥ ३,१.२८ ॥
अभिप्रायं त्वत्र वक्ष्ये मुनीन्द्राः परं गोप्यं हृदि धार्यं हि तद्धि ।
वायोः प्रतीकं पूज्यमेवेह विप्रा न ब्रह्मरुद्रादिप्रतीकमेव ॥ ३,१.२९ ॥
पूजाकाले देवदेवस्य विष्णोर्वायोः प्रतीकं योग्यभागे निधाय ।
अन्तर्गतं तस्य वायोर्हरिं च लक्ष्मीपतिं पूजयित्वा हि सम्यक् ॥ ३,१.३० ॥
पश्चाद्वायोः सुप्रतीकं च सम्यङ्निर्माल्यशेषेण हरेः समर्चयेत् ।
पृथक्च स्रग्धूपविलेपनादिपूजां प्रकुर्वन्ति च ये विमूढः ॥ ३,१.३१ ॥
तेषां दुः खमिह लोके परत्र भविष्यते नात्र विचार्यमस्ति ।
प्रायश्चित्तं स्वस्ति विप्राः कथञ्चित्तत्कुर्वन्तु स्मरणं नाम विष्णोः ॥ ३,१.३२ ॥
पाषण्डरुद्रादिकसं प्रतिष्ठितान्हरेर्वायोः शङ्करस्य प्रतीकान् ।
नमन्ति ये फलबुद्ध्या विभूढास्तेषां फलं शाश्वतं दुः खमेव ॥ ३,१.३३ ॥
वायोः प्रतीकं यदि विप्रवर्यैः प्रतिष्ठितं चेन्नमनं हि कार्यम् ।
नैवेद्यशेषेण हरेश्च विष्णोः पूजा कृता चेन्न हि दोषलेशः ॥ ३,१.३४ ॥
गुरुर्हि मुख्यो हनुमज्जनिर्महान्रामाङ्घ्रिभक्तो हनुमान्सदैव ।
एवं विदित्वा परमं हरिं च पुत्रं पुनर्मुख्यदेवस्य वायोः ॥ ३,१.३५ ॥
नमस्कारो नान्यथा विप्रवर्या आधीयतां हृदि सर्वै रहस्यमम् ।
ये वैष्णवा वैष्ण वदासभृत्याः सर्वेपि ते सर्वदा विष्णुमेव ॥ ३,१.३६ ।
नमन्ति ये वै प्रतिपादयन्ति तथैव पुण्यानि च सात्त्विकानि ।
नमन्ति ये वासुदेवं हरिं च सम्यक्स्वशक्त्या प्रतिपादयन्ति ॥ ३,१.३७ ॥
प्रवृत्तिमार्गेण न पूजयन्ति ह्यापत्काले परदैवं तदन्यम् ।
ते वैष्णवा वैष्णवदासभृत्या अन्ये च सर्वेऽवैष्णवमात्रकाः स्मृताः ॥ ३,१.३८।।
उपक्रमैरुपसंहारस्य लिङ्गैर्हरिं गुरुं ह्यन्तरेणैव यान्ति ।
तानेवाहुः सत्पुराणानि विप्राः कलौ युगे नाभ्यसूयन्ति सर्वे ॥ ३,१.३९ ॥
यतो हितान्ये प्रतिपादयन्ति प्रवृत्तिधर्मान्स्वस्ववर्णानुरूपान् ।
अतो ह्यसूयन्ति सदा विमूढाः कलौ हि विप्राः प्रचुरा हि तेपि ॥ ३,१.४० ॥
न चास्ति विष्णोः सदृशं च दैवतं न चास्ति वायोः सदृशो गुरुश्च ।
न चास्ति तीर्थं सदृशं विष्णुपद्याः न विष्णुभक्तेन समोस्ति भक्तः ॥ ३,१.४१ ॥
अन्यानि विष्णोः प्रतिपादकानि सर्वाणि ते सात्त्विकानीति चाहुः ।
श्राव्याणि तान्येव मनुष्यलोके श्राव्याणि नान्यानि च दुःखदानि ॥ ३,१.४२ ॥
कलौ युगे सर्व पुराणमध्ये त्रीण्येव मुख्यानि हरिप्रियाणि ।
मुख्यं पुराणं हि कलौ नृणां च श्रेयस्करं भागवतं पुराणम् ॥ ३,१.४३ ॥
पूर्वं हि सृष्टिः प्रतिपाद्यते त्र यतो ह्यतो भागवतं परं स्मृतम् ।
यस्मिन्पुराणे कथयन्ति सृष्टिं ह्यादौ विष्णोर्ब्रह्मरुद्रादिकानाम् ॥ ३,१.४४ ॥
नानार्थमेवं कथयन्ति विप्र नीचोच्चरूपं ज्ञानमाहुर्महान्तः ।
तेनैव सिद्धं प्रवदन्ति सर्वं ह्यतः परं भागवतं पुराणम् ॥ ३,१.४५ ॥
ततः परं विष्णुपुराणमाहुस्ततः परं गारुडसंज्ञकं च ।
त्रीण्येव मुख्या नि कलौ नृणां तु तथा विशेषो गारुडे किञ्चिदस्ति ॥ ३,१.४६ ॥
शृणुध्वं वै तं विशेषं च विप्रास्त्र्यंशैर्युक्तं गारुडाख्यं पुराणम् ।
आद्यांशं वै कर्मकाण्डं वदन्ति द्वितीयांशं धर्मकाण्डं तमाहुः ॥ ३,१.४७ ॥
तृतीयांशं ब्रह्मकाण्डं वदन्ति तेषां मध्ये त्वन्तिमोयं वरिष्ठः ।
तृतीयांशश्रवणात्पुण्यमाहुस्तुल्यं पुण्यं भागवतस्य विप्राः ॥ ३,१.४८ ॥
तृतीयांशे पठिते वेदतुल्यं फलं भवेन्नात्र विचार्यमस्ति ।
तृतीयांशश्रवणादेव विप्राः फलं प्रोक्तं पठतोप्यर्थमेवम् ॥ ३,१.४९ ॥
तृतीयांशश्रवणादर्थतश्च पुण्यं चाहुः पठतो वै दशांशम् ।
ततो वरं मत्स्यपुराणमाहुस्ततो वरं कूर्मपूराणमाहुः ॥ ३,१.५० ॥
तथैव वै वायुपुराणमाहुस्त्रीण्येव चाहुः सात्त्विकानीति लोके ।
तत्रापि किञ्चिद्वेदितव्यं भवेच्च पुराणषट्के सत्त्वरूपे मुनीन्द्राः ॥ ३,१.५१ ॥
सत्त्वाधमे मात्स्यकौर्मे तथाहुर्वायु चाहुः सात्त्विकं मध्यमं च ।
विष्णोः पुराणं भागवतं पुराणं सत्त्वोत्तमं गारुडं चाहुरार्याः ॥ ३,१.५२ ॥
स्कान्दं पाद्मं वामनं वै वराहं तथाग्रेयं भविष्यं पर्वसृष्टौ ।
एतान्याहू राजसानीति विप्रास्तत्रैकदेशः सात्त्विकस्तामसश्च ॥ ३,१.५३ ॥
रजः प्राचुर्याद्राजसानीति च हुः श्राव्याणि नैतानि मुमुक्षुभिः सदा ।
तेषां मध्ये सात्त्विकांशाश्च संति तेषां श्रुतेर्गारुडीयं फलं च ॥ ३,१.५४ ॥
ब्रह्माण्डलैङ्ग्ये ब्रह्मवैवर्तकं वै मार्कंण्डेयं ब्राह्ममादित्यकं च ।
एतान्या हुस्तामसानीति विप्रास्तत्रैकदेशः सात्त्विको राजसश्च ॥ ३,१.५५ ॥
श्राव्याणि नैतानि मनुष्यलोके तत्त्वेच्छुभिस्तामसानीत्यतो हि ।
तेषु स्थिताः सात्त्विकांशा मुनीन्द्रास्तेषां श्रुतिर्गारुडैकाङ्घ्रितुल्या ॥ ३,१.५६ ॥
अल्पान्युपपुराणानि वदन्त्यष्टादशानि च ।
विष्णुधर्मोतरं चैव तन्त्रं भागवतं तथा ॥ ३,१.५७ ॥
तत्त्वसारं नारसिंहं वायुप्रोक्तं तथैव च ।
तथा हंसपुराणं च षडेतानि मुनीश्वराः ॥ ३,१.५८ ॥
सात्त्विकान्येव जानीध्वं प्रायशो नात्र संशयः ।
एतेषां श्रवणादेव गारुडार्धफलं श्रुतम् ॥ ३,१.५९ ॥
भविष्योत्तरनामानं बृहन्नारदमेव च ।
यमनारदसंवादं लघुनारदमेव च ॥ ३,१.६० ॥
विनायकपुराणं च बृहद्ब्रह्माण्डमेव च ।
एतानि राजसान्याहुः श्रवणाद्भुक्तरुत्तमा ॥ ३,१.६१ ॥
गारुडात्पादतुल्यं च फलं चाहुर्मनीषिणः ।
पुराणं भागवतं शैवं नन्दिप्रोक्तं तथैव च ॥ ३,१.६२ ॥
पाशुपत्यं रैणुकं च भैरवं च तथैव च ।
एतानि तामसान्याहुर्हरितत्त्वार्थवेदिनः ॥ ३,१.६३ ॥
एतेषां श्रवणाद्विप्रागारुडाङ्घ्यर्ध्मेव च ।
सर्वेष्वपि पुराणेषु श्रेष्ठं भागवतं स्मृतम् ॥ ३,१.६४ ॥
वेदैस्तुल्य सम पाठे श्रवणे च तदर्धकम् ।
अर्थतः श्रवणे चास्य पुण्यं दशगुणं स्मृतम् ॥ ३,१.६५ ॥
वक्तुः स्याद्द्विगुणं पुण्यं व्याख्यातुश्च तथाधिकम् ।
अनन्तवेदैःसाम्यमाहुर्महान्तः भारान्महत्त्वाद्भारतस्यापि विप्राः ॥ ३,१.६६ ॥
वेदोभ्योस्य त्वर्थतश्चाधिकत्वं वदन्ति बै विष्णुरहस्यवेदिनः ॥ ३,१.६७ ॥
तत्र श्रेष्ठां गीतिकामाहुरार्यास्तथैव विष्णोर्नामसाहस्रक च ।
तयोस्तत्र श्रवणाद्भारतस्य दशाधिकं फलमाहुर्महान्तः ॥ ३,१.६८ ॥
दैत्याः सर्व विप्रकुलेषु भूत्वा कृते युगे भारते षट्सहस्र्याम् ।
निष्कास्य कांश्चिन्नवनिर्मितानां निवेशनं तत्र कुर्वन्ति नित्यम् ॥ ३,१.६९ ॥
मत्वा हरिं भगवान्व्यासरूपी चक्रे तदा भागवतं पुराणम् ।
तथा समाख्याय च वैष्णवं तत्ततः परं गारुडाख्यं स चक्रे ॥ ३,१.७० ॥
अतो हि गारुडं मुख्यं पुराणं शास्त्रसंमतम् ।
गारुडेन समं नास्ति विष्णुधर्मप्रदर्शने ॥ ३,१.७१ ॥
यथा सुराणां प्रवरो जनार्दनो यथायुधानां प्रवरः सुदर्शनम् ।
यथाश्वमेधः प्रवरः क्रतूनां छिन्नेषु भक्तेषु तथैव रुद्रः ॥ ३,१.७२ ॥
नदीषु गङ्गा जलजेषु पद्ममच्छिन्नभक्तेषु तथैव वायुः ।
तथा पुराणेषु च गारुडं च मुख्यं तदाहुर्हरितत्त्वदर्शने ॥ ३,१.७३ ॥
गारुडाख्यपुराणे तु प्रतिपाद्यो हरिः स्मृतः ।
अतो हरिर्नमस्कार्यो गम्यो योग्यो हरिः स्मृतः ॥ ३,१.७४ ॥
भाग्यात्मकत्वाच्छ्रीदेव्या नमनं नदनु स्मृतम् ।
परो नरोत्तमो वा स साधकेशोपि च स्मृतः ॥ ३,१.७५ ॥
अतो नम्यो वायुरपि पुराणादौ द्विजोत्तमाः ।
भारती वाक्यरूपत्वान्नम्या वायोरनन्तरम् ॥ ३,१.७६ ॥
उपसाधको नरः प्रोक्तो यतोतस्तदनन्तरम् ।
नम्य इत्यच्यते सद्भिस्तारतम्येन सर्वदा ॥ ३,१.७७ ॥
अतो व्यासं नमस्कुर्याद्ग्रन्थकर्तृत्वहेतुतः ।
शौनक उवाच ।
व्यासस्य नमनं ह्यन्ते कथं कार्यं महात्मनः ॥ ३,१.७८ ॥
अन्ते च वन्दने तस्य कारणं ब्रूहि सुव्रत ।
सूत उवाच ।
विष्णोरनन्तरं व्यासनमनं मुख्यमेव हि ॥ ३,१.७९ ॥
हरिरेव यतो व्यासो वाच्यचक्रस्वरूपकः ।
व्यासो नैव समत्वेन प्रोक्तो भगवतो हरेः ॥ ३,१.८० ॥
तत्रापि कारणं वक्ष्ये सादरेण मुनीश्वराः ।
व्यासस्तु कश्चन ऋषिः पुराणे तामसे स्मृतः ॥ ३,१.८१ ॥
इति ज्ञाना वलंबेन दैत्या दैत्यानुगैः समाः ।
प्रविशन्ति ह्यन्धतम इति त्वन्ते नमस्कृतः ॥ ३,१.८२ ॥
यदिदं परमं गोप्यं हृदि धार्यं न संशयः ।
पराणां नम्यमेवोक्तं प्रतिपाद्यं यतोत्र हि ॥ ३,१.८३ ॥
समासव्यासभावाद्धि पराणां तत्प्रतीयते ।
वास्तवं तं न जानीयुरुपजीव्यो यतो हरिः ॥ ३,१.८४ ॥
हरिर्व्यासस्त्वेक एव व्यासस्तु हरिवत्स्मृतः ।
उपजीव्यतदीशत्वे तयोरेव न संशयः ॥ ३,१.८५ ॥
ईशकोटिप्रविष्टत्वाच्छ्रियः स्वामित्वमीरितम् ।
त्रयाणामुपजीव्यत्वात्सेव्यत्वात्स्वामिता स्मृताः ॥ ३,१.८६ ॥
वाय्वादीनां त्रयाणां च सेव्यत्वात्सेव्यता स्मृता ।
भूभारहरणे विष्णोः प्रधानाङ्गं हि मारुतिः ॥ ३,१.८७ ॥
वाक्यरूपा भारती तु द्वितीयाङ्गं हि सा स्मृता ।
तृतीयाङ्ग हरेः शेषो न नम्याः साम्यतो हरेः ॥ ३,१.८८ ॥
प्रतिपाद्या मुख्यतया नम्या एव समीरिताः ।
अवान्तराश्च वाय्वाद्या न नम्यास्तेन ते स्मृताः ॥ ३,१.८९ ॥
भीष्मद्रोणादिनामानि भीमादिष्वेव मुख्यतः ।
वाचकानि यतो नित्यं तन्नम्यास्ते मुनीश्वराः ॥ ३,१.९० ॥
पराणामेव नम्यत्वं प्रतिपाद्यत्वमेव हि ।
एतत्सर्वं मयाख्यातं किमन्यच्छ्रोतुमिच्छथ ॥ ३,१.९१ ॥
इति श्रीगारुडे महापुराणे सूतशौनकसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे सात्त्विकादिपुराणविभागनम्यानम्यदेवविभागादिविषयनिरूपणं नाम प्रथमोऽध्यायः
</poem>
[[वर्गः:ब्रह्मकाण्डः]]
rwajw9cl26hcnfv5djutjtg21djnoqo
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१
104
45717
418871
105055
2026-10-28T04:38:17Z
NehalDaveND
1075
/* Proofread */
418871
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="NehalDaveND" /></noinclude>आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः २२
श्रीविद्यारण्यविरचितः श्रीमच्छंकरदिग्विजयः ।
अद्वैतराज्यलक्ष्मीटीकान्तर्गतविशेषविभागटिप्पणीभिस्तथा
धनपतिसूरिकृतडिण्डिमाख्यटीकया च समेतः ।
एतत्पुस्तकमानन्दाश्रमस्थपण्डितैः संशोधितम् ।
महादेव चिमणाजी आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
शालिवाहनशकाब्दाः १८१२ ॥
ख्रिस्ताब्दाः १८९१ ॥
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )
मूल्यं रूपकषट्कम् । रु० ६<noinclude><references/></noinclude>
pukegi1qefk2e328unz65zguavscfoe
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३
104
45718
418873
105056
2026-10-28T04:52:40Z
NehalDaveND
1075
/* Proofread */
418873
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="NehalDaveND" /></noinclude>आदर्शपुस्तकोलेखपत्रिका ।
अस्य शंकरदिग्विजयंस्य पुस्तकानि यैः परहितैकतानतया संस्करणार्थ
मदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते ।
(क.) इति संज्ञितम् - मूलं डिण्डिमाख्यटीकासमेतं 'गणपतकृष्णाजी' इत्येतस्य मुद्रणालये मुद्रितं, आनन्दाश्रमस्थम् । मुद्रणकालः शके १७८६ ॥
(ख.) इति संज्ञितम् - मूलं डिण्डिमाख्यटीकासमेतञ्चतुर्दशसर्गपर्यन्तमपूर्णं,
दक्षिणापथवर्तिविद्यालयग्रन्थसंग्रहगृहस्थं 'डॉक्टर' इत्युपपदधारिभिर्भाण्डारकरोपाह्वै रामकृष्ण गोपाल इत्येतैर्दत्तम्। पत्राणि २०८। एकपत्रस्थपङ्किसंख्या २८ । एकपङ्क्तिस्थानामक्षराणां संख्या ४९ । लेखनकालस्तु चत्वारिंशत्संवत्सरमित इत्यनुमीयते ।
(ग.) इति संज्ञितम्-मूलं डिण्डिमाख्यटीकासमेतं ‘रानडे' इत्युपाख्यानां पुण्यपत्तननिवासिनां रा. रा. ‘बंडुनाना' इत्येतेषाम् । पत्राणि २७२। पङ्कय: ३२ । अक्षराणि ३९ । लेखनकालः शके १७५७ ।
(घ.) इति संज्ञितम्-मूलं डिण्डिमाख्यटीकासमेतं रन्नागिरीनिवासिनां
* आठल्ये' इत्युपाह्वानां रा. रा. 'वासुदेव हरी'इत्येतेषाम् । पत्राणि १९३। पङ्कयः ३४। अक्षराणि ४१ । लेखनकालत्रिंशत्संवत्सरांमत इत्यनुमीयते । अद्वैतराज्यलक्ष्मीटौकायाः पुस्तकं वे० शा० रा.रा. ‘साठे' इत्युपादैः पुण्यपत्तननिवासिभिर्नारायणशास्त्रिभिः केवलं परहितैकपरायणमनीषयैव प्रदत्तम् । तदन्तर्गतविशेषविभानां टिप्पण्यप्यत्र सङ्कलिताऽति ।
समाप्तमिदं सूचीपत्रकम् ।<noinclude><references/></noinclude>
0xzbe0p9wkecfohpbgocqhbph45zdk5
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४
104
45719
418874
105057
2026-10-28T04:58:34Z
NehalDaveND
1075
/* Proofread */
418874
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="NehalDaveND" /></noinclude>{| class="wikitable"
|-
! [ सर्गानुक्रमः ] !! [ विषयानुक्रमः ] !! [ पृष्ठाङ्काः ]
|-
| १ || उपोद्घातः । || १
|-
| २ || आचार्यजन्मादिकथनम् । || २९
|-
| ३ || देवावताराः । || ६२
|-
| ४ || कौमारचरितवर्णनम् । || ९१
|-
| ५ || संन्यासग्रहणम् । || १४०
|-
| ६ || आत्मविद्याप्रतिष्ठा । || २१४
|-
| ७ || व्यासदर्शनादिचरितवर्णनम् । || २५८
|-
| ८ || श्रीमदाचार्यमण्डनमिश्रसंवादः । || २९५
|-
| ९ || श्रीमदाचार्यसरस्वतीसंवादः । || ३४३
|-
| १० || राजदेहप्रवेशादिकथनम् । || ३७४
|-
| ११ || उग्रभैरवपराजयः । || ४१५
|-
| १२ || हस्तामलकादीनां शिष्यत्वेन ग्रहणम् । || ४३४
|-
| १३ || ब्रह्मविद्याप्रचारः । || ४६४
|-
| १४ || पद्मपादतीर्थयात्रावर्णनम् । || ४८४
|-
| १५ || आचार्यकृतदिग्विजयवर्णनम् । || ५२९
|-
| १६ || श्रीमदाचार्याणां शारदापीठवासवर्णनम् । || ६००
|}<noinclude><references/></noinclude>
69slwolmvzao7w5iwr2l0i2dydj4juz
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५
104
45720
418875
105058
2026-10-28T05:02:10Z
NehalDaveND
1075
/* Proofread */
418875
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="NehalDaveND" /></noinclude>॥ श्रीः ॥
श्रीविद्यारण्यविरचितः ।
श्रीमच्छंकरदिग्विजयः ।
अद्वैतराज्यलक्ष्मीटीकान्तर्गताविशेषविभागटिप्पणीभिस्तथा
धनपतिसूरिकृतडिण्डिमाख्यटीकया च समेतः ।
प्रथमः सगोः ।
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।।
प्राचीनशंकरजये सारः संगृह्यते स्फुटम् ॥ १ ॥
-------------------------------------------------
श्रीमद्विष्णुमजभिवन्द्यचवरणं गोपादिकारावितं
वन्दे पूर्णसितास्रसौम्यवदनं संसारतापापहम् ॥
सत्यं ज्ञानमनन्तमाद्यविधुरं गोभारसंहारकं
सर्वात्मानमपस्तसर्वममलं विश्वेश्वरं शंकरम् ॥ १ ॥
नुमः श्रीबालगोपालतीर्थान्व्यासमुखान्मुनीन् ।
विन्नहर्तृन्गणेशादीन्पण्डितांश्च विमत्सरान् ॥ २ ॥
व्याख्यानरहितस्यास्य व्याख्यानं डिण्डिमाभिधम् ।
क्रियते स्वीयबोधाय प्रमादः क्षम्यतां बुधैः ॥ ३ ॥
निखिलानर्थनिवृत्तिपूर्वकपरमानन्दाविर्भावलक्षणपरमपुरुषार्थानन्यसाधनाद्वैतज्ञांनाव
जयपर्यवसत्रं श्रीमच्छंकराचार्यविजयमाविष्कतुं ग्रन्थमारभमाणः श्रीमन्माधवाचार्य
स्तस्य निर्विन्नपरिसमाप्त्यादिसिद्धयेऽविगीतशिष्टाचारानुमितश्रुतिप्रमितकर्तव्यताकं वि
षयप्रयोजनसूचकं मङ्गलमाचरंश्चिकीर्षितं प्रतिजानीते ।
'''प्रणम्येति ।''' परमात्मानं परमेश्वरं प्रणम्य प्राचीनशंकरजये सारो मया माधवेन
संगृह्यते । संग्रहत्वेनास्फुटत्वमाशङ्कयाऽऽह । स्फुटं यथा स्यात्तथेति । परमात्मानं
विशिनाष्टि । श्रीविद्यातीर्थरूपिणम् । अनेन स्वगुरोः श्रीविद्यातीर्थस्येश्वरावतारत्वं
तत एव सर्वज्ञत्वं च सूचितम् । अन्येषामपि परमात्मनि स्वगुरौ च तुल्यभक्त्यैव
निःश्रेयसमाप्तिरित्यपि ध्वनितम् । तथाच श्रुतिः
---------------------------------------------------------
१ घ. 'जादिव'। २ ख. ‘र्णविचन्द्रसौ'। ३ ख. ध. विद्येश्व'। ४ ग. "ज्ञानिवि'। ५ क. श्रीमा
न्मा "। ६ ख. *थैरूपस्ये।<noinclude><references/></noinclude>
l407u9b2jl4lw7s4uh5xkmbbd1jb94j
418876
418875
2026-10-28T05:04:53Z
NehalDaveND
1075
1
418876
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="NehalDaveND" /></noinclude>॥ श्रीः ॥
श्रीविद्यारण्यविरचितः ।
श्रीमच्छंकरदिग्विजयः ।
अद्वैतराज्यलक्ष्मीटीकान्तर्गताविशेषविभागटिप्पणीभिस्तथा
धनपतिसूरिकृतडिण्डिमाख्यटीकया च समेतः ।
प्रथमः सगोः ।
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।।<br>
प्राचीनशंकरजये सारः संगृह्यते स्फुटम् ॥ १ ॥
-------------------------------------------------
श्रीमद्विष्णुमजभिवन्द्यचवरणं गोपादिकारावितं
वन्दे पूर्णसितास्रसौम्यवदनं संसारतापापहम् ॥
सत्यं ज्ञानमनन्तमाद्यविधुरं गोभारसंहारकं
सर्वात्मानमपस्तसर्वममलं विश्वेश्वरं शंकरम् ॥ १ ॥
नुमः श्रीबालगोपालतीर्थान्व्यासमुखान्मुनीन् ।
विन्नहर्तृन्गणेशादीन्पण्डितांश्च विमत्सरान् ॥ २ ॥
व्याख्यानरहितस्यास्य व्याख्यानं डिण्डिमाभिधम् ।
क्रियते स्वीयबोधाय प्रमादः क्षम्यतां बुधैः ॥ ३ ॥
निखिलानर्थनिवृत्तिपूर्वकपरमानन्दाविर्भावलक्षणपरमपुरुषार्थानन्यसाधनाद्वैतज्ञांनाव
जयपर्यवसत्रं श्रीमच्छंकराचार्यविजयमाविष्कतुं ग्रन्थमारभमाणः श्रीमन्माधवाचार्य
स्तस्य निर्विन्नपरिसमाप्त्यादिसिद्धयेऽविगीतशिष्टाचारानुमितश्रुतिप्रमितकर्तव्यताकं वि
षयप्रयोजनसूचकं मङ्गलमाचरंश्चिकीर्षितं प्रतिजानीते ।
'''प्रणम्येति ।''' परमात्मानं परमेश्वरं प्रणम्य प्राचीनशंकरजये सारो मया माधवेन
संगृह्यते । संग्रहत्वेनास्फुटत्वमाशङ्कयाऽऽह । स्फुटं यथा स्यात्तथेति । परमात्मानं
विशिनाष्टि । श्रीविद्यातीर्थरूपिणम् । अनेन स्वगुरोः श्रीविद्यातीर्थस्येश्वरावतारत्वं
तत एव सर्वज्ञत्वं च सूचितम् । अन्येषामपि परमात्मनि स्वगुरौ च तुल्यभक्त्यैव
निःश्रेयसमाप्तिरित्यपि ध्वनितम् । तथाच श्रुतिः
---------------------------------------------------------
१ घ. 'जादिव'। २ ख. ‘र्णविचन्द्रसौ'। ३ ख. ध. विद्येश्व'। ४ ग. "ज्ञानिवि'। ५ क. श्रीमा
न्मा "। ६ ख. *थैरूपस्ये।<noinclude><references/></noinclude>
203jz7gsud7g04kyoun9kyph1xgy7dn
418877
418876
2026-10-28T05:15:59Z
NehalDaveND
1075
1
418877
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="NehalDaveND" /></noinclude>॥ श्रीः ॥
श्रीविद्यारण्यविरचितः ।
श्रीमच्छंकरदिग्विजयः ।
अद्वैतराज्यलक्ष्मीटीकान्तर्गताविशेषविभागटिप्पणीभिस्तथा
धनपतिसूरिकृतडिण्डिमाख्यटीकया च समेतः ।
------------------------------------
प्रथमः सर्गः ।
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।।<br>
प्राचीनशंकरजये सारः संगृह्यते स्फुटम् ॥ १ ॥
-------------------------------------------------
श्रीमद्विष्णुमजभिवन्द्यचवरणं गोपादिकारावितं
वन्दे पूर्णसितास्रसौम्यवदनं संसारतापापहम् ॥
सत्यं ज्ञानमनन्तमाद्यविधुरं गोभारसंहारकं
सर्वात्मानमपस्तसर्वममलं विश्वेश्वरं शंकरम् ॥ १ ॥
नुमः श्रीबालगोपालतीर्थान्व्यासमुखान्मुनीन् ।
विन्नहर्तृन्गणेशादीन्पण्डितांश्च विमत्सरान् ॥ २ ॥
व्याख्यानरहितस्यास्य व्याख्यानं डिण्डिमाभिधम् ।
क्रियते स्वीयबोधाय प्रमादः क्षम्यतां बुधैः ॥ ३ ॥
निखिलानर्थनिवृत्तिपूर्वकपरमानन्दाविर्भावलक्षणपरमपुरुषार्थानन्यसाधनाद्वैतज्ञांनाव
जयपर्यवसत्रं श्रीमच्छंकराचार्यविजयमाविष्कतुं ग्रन्थमारभमाणः श्रीमन्माधवाचार्य
स्तस्य निर्विन्नपरिसमाप्त्यादिसिद्धयेऽविगीतशिष्टाचारानुमितश्रुतिप्रमितकर्तव्यताकं वि
षयप्रयोजनसूचकं मङ्गलमाचरंश्चिकीर्षितं प्रतिजानीते ।
'''प्रणम्येति ।''' परमात्मानं परमेश्वरं प्रणम्य प्राचीनशंकरजये सारो मया माधवेन
संगृह्यते । संग्रहत्वेनास्फुटत्वमाशङ्कयाऽऽह । स्फुटं यथा स्यात्तथेति । परमात्मानं
विशिनाष्टि । श्रीविद्यातीर्थरूपिणम् । अनेन स्वगुरोः श्रीविद्यातीर्थस्येश्वरावतारत्वं
तत एव सर्वज्ञत्वं च सूचितम् । अन्येषामपि परमात्मनि स्वगुरौ च तुल्यभक्त्यैव
निःश्रेयसमाप्तिरित्यपि ध्वनितम् । तथाच श्रुतिः
---------------------------------------------------------
१ घ. 'जादिव'। २ ख. ‘र्णविचन्द्रसौ'। ३ ख. ध. विद्येश्व'। ४ ग. "ज्ञानिवि'। ५ क. श्रीमा
न्मा "। ६ ख. *थैरूपस्ये।<noinclude><references/></noinclude>
lelqun7cvlr5p62xfi2nhfsk6eu8gjr
418878
418877
2026-10-28T05:52:16Z
NehalDaveND
1075
1
418878
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="NehalDaveND" /></noinclude><center>॥ श्रीः ॥
श्रीविद्यारण्यविरचितः ।
श्रीमच्छंकरदिग्विजयः ।
अद्वैतराज्यलक्ष्मीटीकान्तर्गताविशेषविभागटिप्पणीभिस्तथा धनपतिसूरिकृतडिण्डिमाख्यटीकया च समेतः ।</center>
------------------------------------
<center>प्रथमः सर्गः ।
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।।<br>
प्राचीनशंकरजये सारः संगृह्यते स्फुटम् ॥ १ ॥</center>
-------------------------------------------------
<center>श्रीमद्विष्णुमजभिवन्द्यचवरणं गोपादिकारावितं
वन्दे पूर्णसितास्रसौम्यवदनं संसारतापापहम् ॥
सत्यं ज्ञानमनन्तमाद्यविधुरं गोभारसंहारकं
सर्वात्मानमपस्तसर्वममलं विश्वेश्वरं शंकरम् ॥ १ ॥
नुमः श्रीबालगोपालतीर्थान्व्यासमुखान्मुनीन् ।
विन्नहर्तृन्गणेशादीन्पण्डितांश्च विमत्सरान् ॥ २ ॥
व्याख्यानरहितस्यास्य व्याख्यानं डिण्डिमाभिधम् ।
क्रियते स्वीयबोधाय प्रमादः क्षम्यतां बुधैः ॥ ३ ॥</center>
निखिलानर्थनिवृत्तिपूर्वकपरमानन्दाविर्भावलक्षणपरमपुरुषार्थानन्यसाधनाद्वैतज्ञांनाव
जयपर्यवसत्रं श्रीमच्छंकराचार्यविजयमाविष्कतुं ग्रन्थमारभमाणः श्रीमन्माधवाचार्य
स्तस्य निर्विन्नपरिसमाप्त्यादिसिद्धयेऽविगीतशिष्टाचारानुमितश्रुतिप्रमितकर्तव्यताकं वि
षयप्रयोजनसूचकं मङ्गलमाचरंश्चिकीर्षितं प्रतिजानीते ।
'''प्रणम्येति ।''' परमात्मानं परमेश्वरं प्रणम्य प्राचीनशंकरजये सारो मया माधवेन
संगृह्यते । संग्रहत्वेनास्फुटत्वमाशङ्कयाऽऽह । स्फुटं यथा स्यात्तथेति । परमात्मानं
विशिनाष्टि । श्रीविद्यातीर्थरूपिणम् । अनेन स्वगुरोः श्रीविद्यातीर्थस्येश्वरावतारत्वं
तत एव सर्वज्ञत्वं च सूचितम् । अन्येषामपि परमात्मनि स्वगुरौ च तुल्यभक्त्यैव
निःश्रेयसमाप्तिरित्यपि ध्वनितम् । तथाच श्रुतिः
---------------------------------------------------------
१ घ. 'जादिव'। २ ख. ‘र्णविचन्द्रसौ'। ३ ख. ध. विद्येश्व'। ४ ग. "ज्ञानिवि'। ५ क. श्रीमा
न्मा "। ६ ख. *थैरूपस्ये।<noinclude><references/></noinclude>
jer99akkaijo37ev85mcf4y2agtwoi6
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२
104
45777
418872
105116
2026-10-28T04:40:15Z
NehalDaveND
1075
/* Without text */
418872
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="NehalDaveND" /></noinclude><noinclude><references/></noinclude>
43glhsoewvhf8e2j3cojn6f3e4092ni
चन्द्रवर्णनम्
0
165999
418868
418850
2026-10-28T01:14:32Z
Mohit Dokania
7730
418868
wikitext
text/x-wiki
{{header
| title = चन्द्रवर्णनम्
| author = वाल्मीकिः
| translator =
| section =
| previous =
| next =
| year =
| notes = वाल्मीकिकृते रामायणे सुन्दरकाण्डे पञ्चमे सर्गे
}}
<poem>
ततः स मध्यं गतमंशुमन्तं
ज्योत्स्नावितानं मुहुरुद्वमन्तम् ।
ददर्श धीमान् भुवि भानुमन्तं
गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥५।५।१॥
लोकस्य पापानि विनाशयन्तं
महोदधिं चापि समेधयन्तम् ।
भूतानि सर्वाणि विराजयन्तं
ददर्श शीतांशुमथाभियान्तम् ॥५।५।२॥
या भाति लक्ष्मीर्भुवि मन्दरस्था
यथा प्रदोषेषु च सागरस्था ।
तथैव तोयेषु च पुष्करस्था
रराज सा चारुनिशाकरस्था ॥५।५।३॥
हंसो यथा राजतपञ्जरस्थः
सिंहो यथा मन्दरकन्दरस्थः ।
वीरो यथा गर्वितकुञ्जरस्थश्
चन्द्रोऽपि बभ्राज तथाम्बरस्थः ॥५।५।४॥
स्थितः ककुद्मानिव तीक्ष्णशृङ्गो
महाचलः श्वेत इवोर्ध्वशृङ्गः ।
हस्तीव जाम्बूनदबद्धशृङ्गो
विभाति चन्द्रः परिपूर्णशृङ्गः ॥५।५।५॥
विनष्टशीताम्बुतुषारपङ्को
महाग्रहग्राहविनष्टपङ्कः ।
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को
रराज चन्द्रो भगवाञ्शशाङ्कः ॥५।५।६॥
शिलातलं प्राप्य यथा मृगेन्द्रो
महारणं प्राप्य यथा गजेन्द्रः ।
राज्यं समासाद्य यथा नरेन्द्रस्
तथाप्रकाशो विरराज चन्द्रः ॥५।५।७॥
प्रकाशचन्द्रोदयनष्टदोषः
प्रवृद्धरक्षःपिशिताशदोषः ।
रामाभिरामेरितचित्तदोषः
स्वर्गप्रकाशो भगवान् प्रदोषः ॥५।५।८॥ </poem>
[[वर्गः:रामायणम्-सुन्दरकाण्डम्]]
[[वर्गः:स्तोत्राणि]]
2ol0sxh68f2rh59in41jzqcouinjehh
रावणाय ब्रह्मदत्तः शिवमन्त्रः
0
166001
418869
418859
2026-10-28T01:16:38Z
Mohit Dokania
7730
418869
wikitext
text/x-wiki
{{header
| title = रावणाय ब्रह्मदत्तः शिवमन्त्रः
| author = वाल्मीकिः
| translator =
| section =
| previous =
| next =
| year =
| notes = वाल्मीकिकृते रामायणे उत्तरकाण्डे षड्विंशतौ सर्गे ब्रह्मणा प्राणात्ययभयनाशनार्थं शिवमन्त्रः
}}
<poem>
यदि तुष्टोऽसि मे देव अनुग्राह्यो यदि ह्यहम् ।
यदि मन्त्रेश्वरो देयो दीयतां मम धार्मिक ॥ २५ ॥
यं जप्त्वाऽहं महाभाग सर्वदेवेषु निर्भयः ।
अमरेषु च सर्वेषु दानवेषु पतत्रिषु ।
त्वत्प्रसादात्तु देवेश न भयं विद्यते मम ॥ २६ ॥
एवमुक्तो दशग्रीवं ब्रह्मा वचनमब्रवीत् ।
प्रणात्यये तु वै दद्मि न नित्यं राक्षसाधिप ॥ २७ ॥
अक्षसूत्रं गृहीत्वा तु जपेन्मन्त्रमिमं शुभम् ।
जप्त्वा तु राक्षसपते त्वमजेयो भविष्यसि ।
अजप्त्वा राक्षसश्रेष्ठ न ते सिद्धिर्भविष्यति ॥ २८ ॥
शृणु मन्त्रं प्रवक्ष्यामि येन राक्षसपुङ्गव ।
मन्त्रस्य कीर्तनादेव प्राप्स्यसे समरे जयम् ॥ २९ ॥
नमस्ते देवदेवेश सुरासुरनमस्कृत ।
भूतभव्यमहादेव हर पिङ्गललोचन ॥ ३० ॥
बालस्त्वं वृद्धरूपी च वैयाघ्रवसनच्छद ।
आरुणेयोऽसि देव त्वं त्रैलोक्यप्रभुरीश्वरः ॥ ३१ ॥
हरो हरितनेमिस्त्वं युगान्तदहनोऽनलः ।
गणेशो लोकशम्भुश्च लोकपालो महाभुजः ॥ ३२ ॥
महादेवो महाशूली महादंष्ट्रो महाभुजः ।
कालश्च कालरूपी च नीलग्रीवो महोदरः ॥ ३३ ॥
वेदान्तगो वेदमयः पशूनांपतिरव्ययः ।
शूलधृच्छूलकेतुश्च नेता गोप्ता हरिः शिवः ॥ ३४ ॥
जटी मुण्डी शिखण्डी च लगुडी च महायशाः ।
भूतेश्वरो गणाध्यक्षः सर्वात्मा सर्वभावनः ॥ ३५ ॥
सर्वदः सर्वहारी च स्रष्टा च गुरुरव्ययः ।
कमण्डलुधरो देवः पिनाकी धूर्जटिस्तथा ॥ ३६ ॥
माननीयोऽर्हणीयश्च ओंकारः सामवेदगः ।
मृत्युश्च मृत्युदूतश्च पारियात्रश्च सुव्रतः ॥ २७ ॥
ब्रह्मचारी गृही योगी वीणापणवतूणवान् ।
अमरो दर्शनीयश्च बालसूर्यनिभस्तथा ॥ ३८ ॥
श्मशानचारी भगवानुमापतिररिन्दमः ।
भगनेत्रः प्रहर्ता च पूषदन्तनिपातनः ॥ ३९ ॥
ज्वरहर्ता पाशहस्तः प्रलयः काल एव च ।
उल्कामुखोऽग्निकेतुश्च मुनिर्दीप्तो विशांपतिः ॥ ४० ॥
उन्मादमोहनकरः समर्थस्त्रिदशोत्तमः ।
वामनो वामदेवश्च प्राग्दक्षिण्यश्च नामतः ॥ ४१ ॥
चक्रहस्तः प्रतिष्टम्भी चमूनां स्तम्भनस्तथा ॥ ४२ ॥
ऋतुरृतुकरः कालो मधुर्मधुरलोचनः ।
वानस्पत्यः शीकरश्च नित्यमाश्रितपूजितः ॥ ४३ ॥
जगद्धाता च कर्ता च पुरुषः शाश्वतो ह्यजः ।
धर्माध्यक्षो विरूपाक्षस्त्रिवर्त्मा भूतभावनः ॥ ४४ ॥
त्रिनेत्रो बहुनेत्रश्च सूर्यायुतसमप्रभः ।
देवदेवोऽभिदेवश्च चन्द्राङ्कितजटस्तथा ॥ ४५ ॥
नर्तको लासकश्चैव पूर्णेन्दुसदृशाननः ।
सुब्रह्मण्यः शरण्यश्च सर्वदेवमयस्तथा ॥ ४६ ॥
सर्वभूतनिवासश्च सर्वबन्धविमोचकः ।
मोहनो वञ्चकश्चैव सर्पधारी वरोत्तमः ॥ ४७ ॥
पुष्पदन्तो विभागश्च मुख्यः सर्वहरस्तथा ।
हरिश्मश्रुर्धनुर्धारी भीमो भीमपराक्रमः ।
भक्ताभीष्टप्रदः स्थाणुः परमात्मा सनातनः ॥ ४८ ॥
मया प्रोक्तमिदं पुण्यं नाम्नामष्टोत्तरं शतम् ।
सर्वपापहरं पुण्यं शरण्यं शरणार्थिनाम्।
जप्यमेतद्दशग्रीव कुर्याच्छत्रुविनाशनम् ॥ ४९ ॥
</poem>
[[वर्गः:रामायणम्/उत्तरकाण्डम्]]
[[वर्गः:शिवस्तोत्राणि]]
46uj5c35jlib0vp00n3ir363byt449a
सनत्कुमारकृतं विष्णुवर्णनम्
0
166003
418870
2026-10-28T03:36:02Z
Mohit Dokania
7730
नवीनं पृष्ठम्
418870
wikitext
text/x-wiki
{{header
| title = सनत्कुमारकृतं विष्णुवर्णनम्
| author = वाल्मीकिः
| translator =
| section =
| previous =
| next =
| year =
| notes = वाल्मीकिकृते रामायणे सप्तत्रिंशदनन्तरं प्रक्षिप्तसर्गेषु तृतीयः
}}
<poem>
सनत्कुमार उवाच।
राक्षसस्य वचः श्रुत्वा स मुनिः प्रत्यभाषत ।
श्रूयतां सर्वमाख्यास्ये तव राक्षसपुङ्गव ॥ ४ ॥
स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ।
तेन सर्वमिदं प्रोतं त्रैलोक्यं सचराचरम् ॥ ५ ॥
स भूमौ दिवि पाताले पर्वतेषु वनेषु च ।
स्थावरेषु च सर्वेषु वनेषु नगरीषु च ॥ ६ ॥
ओंकारश्चैव सत्यं च सावित्री पृथिवी च सः ।
धराधरधरो देवो ह्यनन्त इति विश्रुतः ॥ ७ ॥
अहश्च रात्रिश्च उभे च सन्ध्ये दिवाकरश्चैव यमश्च सोमः ।
स एव कालो ह्यनलश्च वायुः स ब्रह्मरुद्रौ च स एव बालः ॥ ८ ॥
विद्योतति ज्वलति भाति च पाति लोकान्सृजत्ययं संहरति प्रशास्ति ।
क्रीडां करोत्यव्ययलोकनाथो विष्णुः पुराणो भवनाशहेतुः ॥ ९ ॥
अथवा बहुना तेन किमुक्तेन दशानन ।
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ १० ॥
नीलोत्पलदलश्यामः किञ्जल्कारुणवस्त्रकः ।
प्रावृट्काले यथा व्योम्नि सतडित्तोयदस्तथा ॥ ११ ॥
श्रीमान्मेघवपुःश्यामः पङ्कजारुणलोचनः ।
श्रीवत्सेनोरसा युक्तः शशाङ्कतलक्षणः ॥ १२ ॥
तस्य नित्यं शरीरस्था मेघस्येव शतह्रदाः ।
संग्रामरूपिणी लक्ष्मीर्देहमावृत्य तिष्ठति ॥ १३ ॥
न स शक्यः सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १४ ॥
न हि यज्ञफलैस्तात न तपोभिस्तु संचितैः ।
शक्यते भगवान्द्रष्टुं न दानेन न चेज्यया ॥ १५ ॥
तद्भक्तैस्तद्गतप्राणैस्तच्चित्तैस्तत्परायणैः ।
शक्यते भगवान्द्रष्टुं ज्ञाननिर्दग्धकिल्बिषैः ॥ १६ ॥
</poem>
==External Links==
* [https://archive.org/details/valmiki-ramayana-with-govindarajas-commentary-sanskrit/7.Valmiki.Ramayana-Uttara.Kanda/page/%E0%A5%A7%E0%A5%A8%E0%A5%A6/mode/1up Printed text]
94w38esk08yf4586d283kzbr83ubg0b