विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.48.0-wmf.1 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk विष्णुपुराणम्/चतुर्थांशः/अध्यायः ९ 0 7109 418890 203151 2026-11-01T14:36:58Z Visasank 9788 418890 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-चतुर्थांशः}} <poem> ॥ अथ नवमोऽध्यायः ॥ (रजेः क्षत्रवृद्धस्य च वंशकथनम्) श्रीपराशर उवाच रजेस्तु पञ्च पुत्रशतानि अतुलबलपराक्रमसाराणि आसन् ॥१॥ देवासुरसंग्रामारम्भे च परस्परवधेप्सवो देवाश्चासुराश्च ब्रह्माणमुपेत्य पप्रच्छुः ॥२॥ “भगवन् अस्माकमत्र विरोधे कतरः पक्षो जेता भविष्यति” इति ॥३॥ अथाह भगवान् ॥४॥ “येषामर्थे रजिरात्तायुधो योत्स्याति तत्पक्षो जेता” इति ॥५॥ अथ दैत्यैरुपेत्य रजिः आत्मसाहाय्यदानाय अभ्यर्थितः प्राह ॥६॥ “योत्स्येऽहं भवतामर्थे यद्यहममरजयाद्भवतामिन्द्रो भविष्यामि” इत्याकर्ण्यैतत् तैरभिहितम् ॥७॥ “न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामोऽस्माकमिन्द्रः प्रह्लादस्तदर्थमेवायमुद्यम” इत्युक्त्वा गतेष्वसुरेषु, देवैरपि असौ अवनीपतिः एवमेव उक्तः, तेनापि च तथैवोक्ते देवैः “इन्द्रस्त्वं भविष्यसि” इति समन्वीप्सितम् ॥८॥ रजिनापि देवसैन्यसहायेनानेकैर्महास्त्रैस्तदशेषमहासुरबलं निषूदितम् ॥९॥ अथ जितारातिपक्षश्च देवेन्द्रो रजिचरणयुगलमात्मनः शिरसा निपीड्याह ॥१०॥ “भयत्राणात् अन्नदानात् भवान् अस्मत्पिता अशेषलोकानामुत्तमोत्तमो भवान् यस्याहं पुत्रस्त्रिलोकेन्द्रः” ॥११॥ स चापि राजा प्रहस्याह ॥१२॥ “एवमस्त्वेवमस्तु, अनतिक्रमणीया हि वैरिपक्षादपि अनेकविधचाटुवाक्यगर्भा प्रणतिः” इत्युक्त्वा स्वपुरं जगाम ॥१३॥ शतक्रतुरपीन्द्रत्वं चकार ॥१४॥ स्वर्याते तु रजौ नारदर्षिचोदिता रजिपुत्राः शतक्रतुमात्मपितृपुत्रं समाचाराद्राज्यं याचितवन्तः ॥१५॥ अप्रदानेन च विजित्येन्द्रम् अतिबलिनः स्वयमिन्द्रत्वं चक्रुः ॥१६॥ ततश्च बहुतिथे काले ह्यतीते बृहस्पतिमेकान्ते दृष्ट्वा अपहृतत्रैलोक्ययज्ञभागः शतक्रतुरुवाच ॥१७॥ “बदरीफलमात्रमपि अर्हसि ममाप्यायनाय पुरोडाशखण्डं दातुम्” इत्युक्तो बृहस्पतिरुवाच ॥१८॥ “यद्येवं त्वयाहं पूर्वमेव चोदितः स्यां तन्मया त्वदर्थं किमकर्तव्यमिति अल्पैरेवाहोभिः त्वां निजं पदं प्रापयिष्यामि” इत्यभिधाय तेषामनुदिनाभिचारिकं बुद्धिमोहाय शक्रस्य तेजोऽभिवृद्धये जुहाव ॥१९॥ ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्विषो धर्मत्यागिनो वेदवादपराङ्मुखा बभूवुः ॥२०॥ ततस्तान् अपेतधर्माचारान् इन्द्रो जघान ॥२१॥ पुरोहिताप्यायिततेजाश्च शक्रो दिवमाक्रामत् ॥२२॥ एतदिन्द्रस्य स्वपदच्यवनारोहणं श्रुत्वा पुरुषः स्वपदभ्रशं दौरात्म्यं च नाप्नोति ॥२३॥ रम्भस्त्वनपत्योऽभवत् ॥२४॥ क्षत्रवृद्धसुतः प्रतिक्षत्रोऽभवत् ॥२५॥ तत्पुत्रः सञ्जयः, तस्यापि जयः, तस्यापि विजयः, तस्माच्च जज्ञे कृतः ॥२६॥ तस्य च हर्यधनो, हर्यधनसुतः सहदेवः, तस्माददीनः, तस्य जयसेनः, ततश्च संस्कृतिः, तत्पुत्रः क्षत्रधर्मा इत्येते क्षत्रवृद्धस्य वंश्याः ॥२७॥ ततो नहुषवंशं वक्ष्यामि ॥२८॥ ॥ इति श्रीविष्णुमाहापुराणे चतुर्थांशे नवमोऽध्याय ॥ </poem> [[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]] m9nob4w7d6h8g1pq47760tqkhd83b20 विष्णुपुराणम्/चतुर्थांशः/अध्यायः १० 0 7110 418891 203107 2026-11-01T15:03:47Z Visasank 9788 418891 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-चतुर्थांशः}} <poem> ॥ अथ दशमोऽध्यायः ॥ (नहुषवंशवर्णनम्, ययातेरुपाख्यानञ्च) श्रीपराशर उवाच यति-ययाति-संयाति-आयाति-वियाति-कृतिसंज्ञा नहुषस्य षट् पुत्रा महाबलपराक्रमा बभूवुः ॥१॥ यतिस्तु राज्यं नैच्छत् ॥२॥ ययातिस्तु भूभृदभवत् ॥३॥ उशनसश्च दुहितरं देवयानीं वार्षपर्वणीं च शर्मिष्ठामुपयेमे ॥४॥ अत्रानुवंशश्लोको भवति ॥५॥ यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥६॥ काव्यशापाच्चाकालेनैव ययातिर्जरामवाप ॥७॥ प्रसन्नशुक्रवचनाच्च स्वजरां सङ्क्रामयितुं ज्येष्ठं पुत्रं यदुमुवाच ॥८॥ “वत्स त्वन्मातामहशापादियमकालेनैव जरा ममोपस्थिता तामहं तस्यैवानुग्रहाद्भवतः सञ्चारायामि ॥९॥ एकं वर्षसहस्रमतृप्तोऽस्मि विषयेषु त्वद्वयसा विषयानहं भोक्तुमिच्छामि ॥१०॥ नात्र भवता प्रत्याख्यानं कर्तव्यम्” इत्युक्तः स यदुर्नैच्छत्तां जरामादातुम् ॥११॥ तं च पिता शशाप “त्वत्प्रसूतिर्न राज्यार्हा भविष्यति” इति ॥१२॥ अनन्तरञ्च तुर्वसुं द्रुह्युमनुं च पृथिवीपतिर्जराग्रहणार्थं स्वयौवनप्रदानाय चाभ्यर्थयामास ॥१३॥ तैरप्येककैकेन प्रत्याख्यातस्ताञ्छशाप ॥१४॥ अथ शर्मिष्ठातनयमशेषकनीयांसं पूरुं तथैवाह ॥१५॥ स चातिप्रवणमतिः सबहुमानं पितरं प्रणम्य “महाप्रसादोऽयमस्माकम्” इत्युदारमभिधाय जरां जग्राह ॥१६॥ स्वकीयं च यौवनं स्वपित्रे ददौ ॥१७॥ सोऽपि पौरवं यौवनमासाद्य धर्माविरोधेन यथाकामं यथाकालोपपन्नं यथोत्साहं विषयांश्चचार ॥१८॥ सम्यक् च प्रजापालनमकरोत् ॥१९॥ विश्वाच्या देवयान्या च सहोपभोगं भुक्त्वा कामानामन्तं प्राप्स्यामीत्यनुदिनम् उन्मनस्को बभूव ॥२०॥ अनुदिनं चोपभोगतः कामानतिरम्यान् मेने ॥२१॥ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥२३॥ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्याप्तं तस्मात् तृष्णां परित्यजेत् ॥२४॥ यदा न कुरुते भावं सर्वभूतेषु पापकम् । समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥२५॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । तां तृष्णां सन्त्यजेत् प्राज्ञः सुखेनैवाभिपूर्यते ॥२६॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । धनाशा जीविताशा च जीर्यतोऽपि न जीर्यतः ॥२७॥ पूर्णां वर्षसहस्रं मे विषयासक्तचेतसः । तथाप्यनुदिनं तृष्णा मम तेषूपजायते ॥२८॥ तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् । निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैस्सह ॥२९॥ श्रीपराशर उवाच पूरोस्सकाशादादाय जरां दत्त्वा च यौवनम् । राज्येऽभिषिच्य पूरुञ्च प्रययौ तपसे वनम् ॥३०॥ दिशि दक्षिणपूर्वस्यां तुर्वसुं च समादिशत् । प्रतीच्यां च तथा द्रुह्युं दक्षिणायां ततो यदुम् ॥३१॥ उदीच्याञ्च तथैवानुं कृत्वा मण्डलिनो नृपान् । सर्वपृथ्वीपतिं पूरुं सोऽभिषिच्य वनं ययौ ॥१८॥ ॥ इति श्रीविष्णुपुराणे चतुर्थेंशे दशमोऽध्यायः ॥१०॥ </poem> [[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]] q93iixuv5wdkx1yefmgc4i4t8jswlvq 418892 418891 2026-11-01T15:04:56Z Visasank 9788 418892 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-चतुर्थांशः}} <poem> ॥ अथ दशमोऽध्यायः ॥ (नहुषवंशवर्णनम्, ययातेरुपाख्यानञ्च) श्रीपराशर उवाच यति-ययाति-संयाति-आयाति-वियाति-कृतिसंज्ञा नहुषस्य षट् पुत्रा महाबलपराक्रमा बभूवुः ॥१॥ यतिस्तु राज्यं नैच्छत् ॥२॥ ययातिस्तु भूभृदभवत् ॥३॥ उशनसश्च दुहितरं देवयानीं वार्षपर्वणीं च शर्मिष्ठामुपयेमे ॥४॥ अत्रानुवंशश्लोको भवति ॥५॥ यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥६॥ काव्यशापाच्चाकालेनैव ययातिर्जरामवाप ॥७॥ प्रसन्नशुक्रवचनाच्च स्वजरां सङ्क्रामयितुं ज्येष्ठं पुत्रं यदुमुवाच ॥८॥ “वत्स त्वन्मातामहशापादियमकालेनैव जरा ममोपस्थिता तामहं तस्यैवानुग्रहाद्भवतः सञ्चारायामि ॥९॥ एकं वर्षसहस्रमतृप्तोऽस्मि विषयेषु त्वद्वयसा विषयानहं भोक्तुमिच्छामि ॥१०॥ नात्र भवता प्रत्याख्यानं कर्तव्यम्” इत्युक्तः स यदुर्नैच्छत्तां जरामादातुम् ॥११॥ तं च पिता शशाप “त्वत्प्रसूतिर्न राज्यार्हा भविष्यति” इति ॥१२॥ अनन्तरञ्च तुर्वसुं द्रुह्युमनुं च पृथिवीपतिर्जराग्रहणार्थं स्वयौवनप्रदानाय चाभ्यर्थयामास ॥१३॥ तैरप्येककैकेन प्रत्याख्यातस्ताञ्छशाप ॥१४॥ अथ शर्मिष्ठातनयमशेषकनीयांसं पूरुं तथैवाह ॥१५॥ स चातिप्रवणमतिः सबहुमानं पितरं प्रणम्य “महाप्रसादोऽयमस्माकम्” इत्युदारमभिधाय जरां जग्राह ॥१६॥ स्वकीयं च यौवनं स्वपित्रे ददौ ॥१७॥ सोऽपि पौरवं यौवनमासाद्य धर्माविरोधेन यथाकामं यथाकालोपपन्नं यथोत्साहं विषयांश्चचार ॥१८॥ सम्यक् च प्रजापालनमकरोत् ॥१९॥ विश्वाच्या देवयान्या च सहोपभोगं भुक्त्वा कामानामन्तं प्राप्स्यामीत्यनुदिनम् उन्मनस्को बभूव ॥२०॥ अनुदिनं चोपभोगतः कामानतिरम्यान् मेने ॥२१॥ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥२३॥ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्याप्तं तस्मात् तृष्णां परित्यजेत् ॥२४॥ यदा न कुरुते भावं सर्वभूतेषु पापकम् । समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥२५॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । तां तृष्णां सन्त्यजेत् प्राज्ञः सुखेनैवाभिपूर्यते ॥२६॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । धनाशा जीविताशा च जीर्यतोऽपि न जीर्यतः ॥२७॥ पूर्णां वर्षसहस्रं मे विषयासक्तचेतसः । तथाप्यनुदिनं तृष्णा मम तेषूपजायते ॥२८॥ तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् । निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैस्सह ॥२९॥ श्रीपराशर उवाच पूरोस्सकाशादादाय जरां दत्त्वा च यौवनम् । राज्येऽभिषिच्य पूरुञ्च प्रययौ तपसे वनम् ॥३०॥ दिशि दक्षिणपूर्वस्यां तुर्वसुं च समादिशत् । प्रतीच्यां च तथा द्रुह्युं दक्षिणायां ततो यदुम् ॥३१॥ उदीच्याञ्च तथैवानुं कृत्वा मण्डलिनो नृपान् । सर्वपृथ्वीपतिं पूरुं सोऽभिषिच्य वनं ययौ ॥३२॥ ॥ इति श्रीविष्णुपुराणे चतुर्थेंशे दशमोऽध्यायः ॥१०॥ </poem> [[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]] otah0lcyfhhgm2iovjzjsu71qesbej6