विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.48.0-wmf.3
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
सदस्यः:V(g)
2
25211
418908
418889
2026-11-04T16:14:44Z
EmausBot
3495
[[सदस्यः:G(x)]] को दोहरे पुननिर्देशित ठीक किया।
418908
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)]]
95d6euwz5uasoehai0z4cdinzeslj5p
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०२
104
104847
418905
267881
2026-11-04T14:05:41Z
Geeta g hegde
6704
418905
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३६८|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude>
{{gap}}औरस इति ॥औरसादयो वक्ष्यमाणाः षड्रिक्थभाजो बान्धवाश्च भवन्ति॥१५९॥
{{Block center|{{bold|<poem>कानीनश्च सहोढच क्रीतः पौनर्भवस्तथा ।
खयं दत्तश्च शौद्रश्च षडदायादवान्धवाः॥ १६०॥</poem>}}}}
कानीनश्चेति ॥ कानीनादयो वक्ष्यमाणलक्षणाः पङ्गोत्ररिक्थहरा न भवन्ति
बान्धवाश्च भवन्तीति व्याख्यातम् ॥ १६० ॥
{{gap}}औरसेन सह क्षेत्रजादीनां पाठात्तुल्यत्वाशङ्कायां तन्निरासार्थमाह-
{{Block center|{{bold|<poem>यादृशं फलमानोति कुप्लवैः संतरञ्जलम् ।
तादृशं फलमानोति कुपुत्रैः संतरंस्तमः ॥ १६१ ॥</poem>}}}}
यादृशामिति ॥ तृणादिनिर्मितकुत्सितोडुपादिभिरुदकं तरन्यथाविधं फलं प्राप्नो-
ति तथाविधमेव कुपुत्रे. क्षेत्रादिभिः पारलोकिकं दुःखं दुरुत्तरं प्रामोति । अनेन
क्षेत्रजादीनां मुख्यौरसपुत्रवत्संपूर्णकार्यकरणक्षमत्वं न भवतीति दर्शितम् ॥१६२॥
{{Block center|{{bold|<poem>यद्यकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ ।
यस्य यत्पैतृकं रिक्थं स तद्गृहीत नेतरः ॥ १६२ ॥</poem>}}}}
{{gap}}यदीति ॥ 'अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी
पिण्डदाता च धर्मतः॥' इति याज्ञवल्क्योक्तविषये, यदा क्षेत्रिकस्य पितुः क्षेत्रजान-
न्तरमौरसः पुनो भवति तदा ताबौरसक्षेत्रजावेकरिक्थिनावेकस्य पितुर्यद्यपि
रिक्थाहौं भवतस्तथापि यद्यस्य जनकसंबन्धि तदेव स गृह्णीयान्न क्षेत्रजः क्षेत्रिक-
पितुः । यत्तु वक्ष्यति-'षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभज-
न्दायम्' इति तत्पुत्रबहुलस्य । यत्तु याज्ञवल्क्येनोभयसंबन्धि रिक्थहरत्वमुक्तं
तत्क्षेत्रिकपितुरौरसपुत्राभावे बोद्धव्यम् । मेधातिथिगोविन्दराजौ तु औरसमनियु-
क्तापुत्रं च विषयीकृत्येमं श्लोकं व्याचक्षाते । तन्न । अनियुक्तापुत्रस्याक्षेत्रजत्वात्।
'अनियुक्तासुतश्च' इत्यनेन तस्य रिक्थग्रहणनिषेधात् 'योकरिक्थिनौ' इत्य-
नन्वयाच्च ॥ १६२ ॥
{{Block center|{{bold|<poem>एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः।
शेषाणामानृशंस्थार्थं प्रदद्यात्तु प्रजीवनम् ॥ १६३ ॥</poem>}}}}
{{gap}}एक इति ॥ व्याध्यादिना प्रथमौरसपुत्राभावे क्षेत्रजादिषु कृतेषु पश्चादौषधा-
दिना विगतव्याधेरौरस उत्पन्ने सतीदमुच्यते । औरस एवैकः पुत्रः पितृधनस्वामी।
शेषाणां क्षेत्रजन्यतिरिक्तानां तस्य षष्ठांशादेर्वक्ष्यमाणत्वात्पापसंबन्धपरिहारार्थ
ग्रासाच्छादनं दद्यात् ॥ १६३ ।।
{{Block center|{{bold|<poem>षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् ।
औरैसो विभजन्दायं पित्र्यं पञ्चममेव वा ॥ १६४ ॥</poem>}}}}<noinclude></noinclude>
6lwnvkcrqrj8nr6wu026i2ztk1i6jnh
418906
418905
2026-11-04T14:06:37Z
Geeta g hegde
6704
418906
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३६८|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude>
{{gap}}औरस इति ॥औरसादयो वक्ष्यमाणाः षड्रिक्थभाजो बान्धवाश्च भवन्ति॥१५९॥
{{Block center|{{bold|<poem>कानीनश्च सहोढच क्रीतः पौनर्भवस्तथा ।
खयं दत्तश्च शौद्रश्च षडदायादवान्धवाः॥ १६०॥</poem>}}}}
{{gap}}कानीनश्चेति ॥ कानीनादयो वक्ष्यमाणलक्षणाः पङ्गोत्ररिक्थहरा न भवन्ति
बान्धवाश्च भवन्तीति व्याख्यातम् ॥ १६० ॥
{{gap}}औरसेन सह क्षेत्रजादीनां पाठात्तुल्यत्वाशङ्कायां तन्निरासार्थमाह-
{{Block center|{{bold|<poem>यादृशं फलमानोति कुप्लवैः संतरञ्जलम् ।
तादृशं फलमानोति कुपुत्रैः संतरंस्तमः ॥ १६१ ॥</poem>}}}}
यादृशामिति ॥ तृणादिनिर्मितकुत्सितोडुपादिभिरुदकं तरन्यथाविधं फलं प्राप्नो-
ति तथाविधमेव कुपुत्रे. क्षेत्रादिभिः पारलोकिकं दुःखं दुरुत्तरं प्रामोति । अनेन
क्षेत्रजादीनां मुख्यौरसपुत्रवत्संपूर्णकार्यकरणक्षमत्वं न भवतीति दर्शितम् ॥१६२॥
{{Block center|{{bold|<poem>यद्यकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ ।
यस्य यत्पैतृकं रिक्थं स तद्गृहीत नेतरः ॥ १६२ ॥</poem>}}}}
{{gap}}यदीति ॥ 'अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी
पिण्डदाता च धर्मतः॥' इति याज्ञवल्क्योक्तविषये, यदा क्षेत्रिकस्य पितुः क्षेत्रजान-
न्तरमौरसः पुनो भवति तदा ताबौरसक्षेत्रजावेकरिक्थिनावेकस्य पितुर्यद्यपि
रिक्थाहौं भवतस्तथापि यद्यस्य जनकसंबन्धि तदेव स गृह्णीयान्न क्षेत्रजः क्षेत्रिक-
पितुः । यत्तु वक्ष्यति-'षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभज-
न्दायम्' इति तत्पुत्रबहुलस्य । यत्तु याज्ञवल्क्येनोभयसंबन्धि रिक्थहरत्वमुक्तं
तत्क्षेत्रिकपितुरौरसपुत्राभावे बोद्धव्यम् । मेधातिथिगोविन्दराजौ तु औरसमनियु-
क्तापुत्रं च विषयीकृत्येमं श्लोकं व्याचक्षाते । तन्न । अनियुक्तापुत्रस्याक्षेत्रजत्वात्।
'अनियुक्तासुतश्च' इत्यनेन तस्य रिक्थग्रहणनिषेधात् 'योकरिक्थिनौ' इत्य-
नन्वयाच्च ॥ १६२ ॥
{{Block center|{{bold|<poem>एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः।
शेषाणामानृशंस्थार्थं प्रदद्यात्तु प्रजीवनम् ॥ १६३ ॥</poem>}}}}
{{gap}}एक इति ॥ व्याध्यादिना प्रथमौरसपुत्राभावे क्षेत्रजादिषु कृतेषु पश्चादौषधा-
दिना विगतव्याधेरौरस उत्पन्ने सतीदमुच्यते । औरस एवैकः पुत्रः पितृधनस्वामी।
शेषाणां क्षेत्रजन्यतिरिक्तानां तस्य षष्ठांशादेर्वक्ष्यमाणत्वात्पापसंबन्धपरिहारार्थ
ग्रासाच्छादनं दद्यात् ॥ १६३ ।।
{{Block center|{{bold|<poem>षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् ।
औरैसो विभजन्दायं पित्र्यं पञ्चममेव वा ॥ १६४ ॥</poem>}}}}<noinclude></noinclude>
nhtebm1gwtxmhw842fvi3irv8jjjzdb
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०३
104
104848
418907
267882
2026-11-04T14:11:11Z
Geeta g hegde
6704
418907
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Siddharth Kamath A" /></noinclude>
{{gap}}पष्टमिति ॥ औरसः पुत्रः पितृसंबन्धि दायं विभजन, क्षेत्रजस्य षष्ठमशं पञ्चमं
वा दद्यात् । निर्गुणसगुणापेक्षश्चायं विकल्पः ॥ १६४ ॥
{{Block center|{{bold|<poem>औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ।
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ १६५ ॥</poem>}}}}
{{gap}}औरसेति ॥ औरसक्षेत्रजौ पुनावुक्तप्रकारेण पितृधनहरौ स्याताम् । अन्ये
पुनर्दश दत्तकादयः पुत्रा गोत्रभाजो भवन्ति, 'पूर्वाभावे परः परः' इत्येवं क्रमेण
धनांशहराश्च ॥ १६५ ॥
{{Block center|{{bold|<poem>वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् ।
तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् ॥ १६६ ॥</poem>}}}}
{{gap}}स्वक्षेत्र इति ॥ स्वभार्यायां कन्यावस्थायामेव कृतविवाहसंस्कारायां यं स्वयमु-
त्पादयेत्तं पुत्रमौरसं मुख्यं विद्यात् । 'सवर्णायां संस्कृतायामुत्पादितमौरसपुत्रं
विद्यात्' इति बौधायनदर्शनात्सजातीयायामेव स्वयमुत्पादित औरसो ज्ञेयः॥१६६
{{Block center|{{bold|<poem>यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा।
खधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः॥ १६७ ॥</poem>}}}}
{{gap}}य इति ॥ यो मृतस्य नपुंसकस्य प्रसवविरोधिव्याध्युपेतस्य वा भार्यायां घृतात-
त्वादिनियोगधर्मेण गुरुनियुक्तायां जातःस क्षेत्रजः पुत्रो मन्वादिभिः स्मृतः॥१६७॥
{{Block center|{{bold|<poem>माता पिता वा दद्यातां यमद्भिः पुत्रमापदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः॥ १६८॥</poem>}}}}
{{gap}}मातेति ॥ 'शुक्रशोणितसंभदः पुरुषो मातापितृनिमित्तकस्तस्य प्रदानविक्रयप-
रित्यागेषु मातापितरौ प्रभवतः' इति वसिष्टस्मरणान्माता पिता वा परस्परानुज्ञया
यं पुत्रं परिग्रहीतुः समानजातीयं तस्यैव पुत्राभावनिमित्तायामापदि प्रीतियुक्तं न
तु भयादिना उदकपूर्व दद्यात्स दधिमाख्यः पुत्रो विज्ञेयः ॥ १६८ ॥
{{Block center|{{bold|<poem>सदृशं तु प्रकुर्याद्यं गुणदोपविचक्षणम् ।
पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥ १६९ ॥</poem>}}}}
{{gap}}सदृशमिति ॥ यं पुनः समानजातीय पित्रोः पारलौकिकश्राद्धादिकरणाकर-
णाभ्यां गुणदोषौ भवत इत्येवमादिशं, पुत्रगुणैश्च मातापित्रोराराधनादियुक्तं पुत्रं
कुर्यात्स कृत्रिमाख्यः पुत्रो वाच्यः ॥ १६९ ॥
{{Block center|{{bold|<poem>उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः।
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः॥ १७० ॥</poem>}}}}
{{gap}}उत्पद्यत इति ॥ यस्य गृहेऽवस्थितायां भार्यायां पुत्र उत्पद्यते, सजातीयोऽयं
भवतीति ज्ञानेऽपि कस्मात्पुरुषविशेषाजातोऽसादिति न ज्ञायते स गृहे.
ऽप्रकाशमुत्पन्नस्तस्य पुत्रः स्याद्यदीयायां भार्यायां जातः ॥ १७० ॥<noinclude></noinclude>
k33w0yekppaef0j2mqs00odi67ofc77