विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.48.0-wmf.4 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk विष्णुपुराणम्/चतुर्थांशः/अध्यायः १२ 0 7113 419954 332977 2026-11-11T05:50:29Z Visasank 9788 419954 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-चतुर्थांशः}} <poem>॥ अथ द्वादशोऽध्यायः ॥ (यदुपुत्रक्रोष्टृवंशकथनम्) श्रीपराशर उवाच क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥१॥ ततश्च स्वातिः, ततो रुशङ्कू, रुशङ्कोश्चित्ररथः ॥२॥ तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशः चक्रवर्ती अभवत् ॥३॥ तस्य च शतसहस्रं पत्नीनामभवत् ॥४॥ दशलक्षसंख्याश्च पुत्राः ॥५॥ तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट् पुत्राः प्रधानाः ॥६॥ पृथुश्रवसश्च पुत्रः पृथुतमः ॥७॥ तस्मादुशना यो वाजिमेधानां शतमाजहार ॥८॥ तस्य च शितपुर्नाम पुत्रोऽभवत् ॥९॥ तस्यापि रुक्मकवचस्ततः परवृत् ॥१०॥ परावृतो रुक्मेषु-पृथु-ज्यामघ-वलित-हरित-संज्ञास्तस्य पञ्चात्मजा बभूवुः ॥११॥ तस्यायमद्यापि ज्यामघस्य श्लोको गीयते ॥१२॥ भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः । तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ॥१३॥ अपुत्रा तस्य सा पत्नी शैव्या नाम तथाप्यसौ । अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत ॥१४॥ स त्वेकदा प्रभूतरथतुरगगजसम्मर्दातिदारुणे महाहवे युद्ध्यमानः सकलमेव अरिचक्रमजयत् ॥१५॥ तच्च अरिचक्रम् अपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रति विद्रुतम् ॥१६॥ तस्मिंश्च विद्रुतेऽतित्रासलोलायतलोचनयुगलं “त्राहि त्राहि मां ताताम्ब भ्रतः” इत्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥१७॥ तद्दर्शनाच्च तस्यामनुरागानुगतान्तरात्मा स नृपोऽचिन्तयत् ॥१८॥ “साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिना अपत्यकारणं कन्यारत्नम् उपपादितम् ॥१९॥ तदेतत्समुद्वहामि” इति ॥२०॥ “अथवैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥२१॥ तयैव देव्या शैव्ययाहमनुज्ञातः समुद्वहामि” इति ॥२२॥ अथैनां रथमारोप्य स्वनगरमगच्छत् ॥२३॥ विजयिनं च राजानम् अशेषपौरभृत्यपरिजनामात्यसमेता शैव्या द्रष्टुम् अधिष्ठनद्वारमागता ॥२४॥ सा चावलोक्य राज्ञः सव्यपार्श्ववर्त्तिनीं कन्याम् ईषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥२५॥ “अतिचपलचित्तात्र स्यन्दने केयमारोपिता” इति ॥२६॥ असावपि अनालोचितोत्तरवचनः अतिभयात् तामाह “स्नुषा ममेयम्” इति ॥२७॥ अथैनं शैव्योवाच ॥२८॥ नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत् तव । स्नुषासम्बन्धता ह्येषा कतमेन सुतेन ते ॥२९॥ श्रीपराशर उवाच इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तपरिहारार्थम् इदमवनीपतिराह ॥३०॥ “यस्ते जनिष्यत आत्मजः तस्येयमनागतस्यैव भार्या निरूपिता” इत्याकर्ण्य उद्भूतमृदुहासा तथेत्याह ॥३१॥ प्रविवेश च राज्ञा सहाधिष्ठानम् ॥३२॥ अनन्तरं च अतिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मलाभगुणाद्वयसः परिणामम् उपगतापि शैव्या स्वल्पैरेवाहोभिः गर्भमवाप ॥३३॥ कालेन च कुमारमजीजनत् ॥३४॥ तस्य च विदर्भ इति पिता नाम चक्रे ॥३५॥ स च तां स्नुषामुपयेमे ॥३६॥ तस्यां चासौ क्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥३७॥ पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनत् यो नारदादवाप्तज्ञानवान् अभवत् ॥३८॥ रोमपादाद्बभ्रुः, बभ्रोर्धृतिः, धृतेः कैशिकः, कैशिकस्यापि चेदिः पुत्रोऽभवत् यस्य सन्ततौ चैद्या भूपालाः ॥३९॥ क्रथस्य स्नषापुत्रस्य कुन्तिरभवत् ॥४०॥ कुन्तेर्धृष्टिर्धृष्टेर्निधृतिर्निधृतेर्दशार्हस्ततश्च व्योमा, तस्यापि जीमूतस्ततश्च विकृतिस्ततश्च भीभरथः, तस्मान्नवरथस्तस्यापि दशरथस्ततश्च शकुनिः, तत्तनयः करम्भिः करम्भेर्देवरातोऽभवत् ॥४१॥ तस्माद्देवक्षत्रस्तस्यापि मधुर्मधोः कुमारवंशः कुमारवंशादनुरनोः पुरुमित्रः पृथिवीपतिरभवत् ॥४२॥ ततश्चांशुस्तस्माच्च सत्वतः ॥४३॥ सत्वतादेते सात्वताः ॥४४॥ इत्येतां ज्यामघस्य सन्ततिं सम्यक् श्रद्धासमन्वितः श्रुत्वा पुमान् मैत्रेय स्वपापैः प्रमुच्यते ॥४५॥ ॥ इति श्रीविष्णुपुराणे चतुर्थेंऽशे द्वादशोऽध्यायः ॥ </poem> [[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]] lu72lgcvpolc61itfza6i6etwetuodo सदस्यः:V(g) 2 25211 419828 419056 2026-11-11T00:21:14Z EmausBot 3495 [[सदस्यः:G(x)]] को दोहरे पुननिर्देशित ठीक किया। 419828 wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यः:G(x)]] 95d6euwz5uasoehai0z4cdinzeslj5p पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१० 104 104854 420037 267888 2026-11-11T11:49:28Z Geeta g hegde 6704 420037 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३७८|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude> {{Block center|{{bold|<poem>यो ज्येष्ठो विनिकुति लोभादातॄन्यवीयसः। सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥ २१३ ।।</poem>}}}} {{gap}}यो ज्येष्ठ इति ॥ यो ज्येष्ठो भ्राता लोभात्कनीयसो भ्रातृन्वञ्चयेत्स ज्येष्टभ्रातृ- पूजाशून्यः सोद्धारभागरहितश्च राजदण्ड्यश्च स्यात् ॥ २१३ ॥ {{Block center|{{bold|<poem>सर्व एव विकर्मस्था नाहन्ति भ्रातरो धनम् । न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥२१४ ।।</poem>}}}} {{gap}}सर्व एवेति ॥ अपतिता अपि ये भ्रातरो छूतवेश्यासेवादिविकर्मासक्तास्ते रिक्थं नार्हन्ति । नच कनिष्टेभ्योऽननुकल्प्य ज्येष्ठः साधारणधनादात्मार्थमसाधारणधनं कुर्यात् ॥ २१४॥ {{Block center|{{bold|<poem>भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह । न पुत्रभागं विषमं पिता दद्यात्कथंचन ॥ २१५ ॥</poem>}}}} {{gap}}भ्रातृणामिति ॥ भ्रातृणां पित्रा सहावस्थितानामविभक्तानां यदि सह धनार्ज- नार्थमुत्थानं भवेत्तदा विभागकाले न कस्यचित्पुनस्याधिकं पिता कदाचिद्दद्यात् २१५|| {{Block center|{{bold|<poem>ऊर्व विभागाजातस्तु पित्र्यमेव हरेद्धनम् । संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥ २१६ ॥</poem>}}}} {{gap}}ऊर्ध्वमिति ॥ यदा जीवतैव पित्रा पुत्राणामिच्छया विभागः कृतस्तदा विभागा- दूर्व जातः पुत्रः पितरि मृते पितृऋक्थमेव गृह्णीयात्।ये कृतविभागाः पित्रासह पुनर्मिश्रीकृतधनास्तैः सहासौ पितरि मृते विभजेत् ॥ २१६ ॥ {{Block center|{{bold|<poem>अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥ २१७॥</poem>}}}} {{gap}}अनपत्यस्येति ॥ अनपत्यस्य पुत्रस्य धनं माता गृहीयात्पूर्व 'पिता हरेदपुत्रस्य रिक्थम्' इत्युक्तत्वात् , इह माता हरेदित्यादि याज्ञवल्क्येन 'पितरौं' इत्येकशेष- करणात्, विष्णुना च -'अपुत्रस्य धनं पल्यभिगामि तदभावे दुहितृगामि तदभावे पितृगामि' इत्येकशेषस्यैव कृतत्वात् , मातापितरौ विभज्य गृह्णीयाताम् । मातरि मृतायां पदीपितृभ्रातृभ्रातृजाभावे पितुर्माता धनं गृह्णीयात् ॥ २१७ ॥ {{Block center|{{bold|<poem>ऋणे धने च सर्वसिन्प्रविभक्ते यथाविधि । पश्चादृश्येत यत्किचित्तत्सर्वं समतां नयेत् ॥ २१८ ॥</poem>}}}} {{gap}}ऋण इति ॥ ऋणे पित्रादिधार्यमाणे धने च तदीये सर्वस्मिन्यथाशास्त्रं विभत्ते सति पश्चाद्यत्किंचित्पैतृकं ऋण धनं वा विभागकालेऽज्ञातमुपलभ्येत तत्सर्वं समं कृत्वा विभजनीयं, नतु शोध्यं ग्राह्यं नवा ज्येष्ठस्योद्धारो देयः ॥ २१८॥ .<noinclude></noinclude> i3hnzllvip5nl76a3cjcojfv30637yq पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४११ 104 104855 420038 267889 2026-11-11T11:54:35Z Geeta g hegde 6704 420038 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ९]|center=मन्वथमुक्तावलासवालता ।{{gap}}|right=३७९}}</noinclude> {{Block center|{{bold|<poem>वस्त्रं पत्रमलंकारं कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ २१९ ॥</poem>}}}} {{gap}}वस्त्रमिति ॥ वस्त्रं वाहनमाभरणमविभागकाले ययेनोपभुक्तं तत्तस्यैव न विभा- ज्यम् । एतच्च नातिन्यूनाधिकमूल्यविषयम् । यत्तु बहुमूल्यमाभरणादिकं तद्विभा- ज्यमेव । तद्विषयमेव "विक्रीय वस्त्राभरणम्' इति बृहस्पतेर्विभागवचनम् । कृतान्न- मोदनसक्त्वादि तन्न विभजनीयम् । तत्रातिप्रचुरतरमूल्यं सक्त्वादि तावन्मात्रमू- ल्यधनेन 'कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते' इति बृहस्पतिवचनाद्विभजनी- अमेव । उढ़क कूपादिगतं सर्वैरुपभोग्यमविभजनीयम् । स्त्रियो दास्याद्या यास्तुल्य- भागा न भवन्ति ता न विभाज्याः । किंतु तुल्यं कर्म कारयितव्याः । योगक्षेमं मन्त्रिपुरोहितादि योगक्षेमहेतुत्वात् । प्रचारो गवादीनां प्रचारमार्गः एतत्सर्व मन्वादयोऽविभाज्यमाहुः ॥ २१९ ॥ {{Block center|{{bold|<poem>अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः। क्रमशः क्षेत्रजादीनां द्यूतधर्म निबोधत ॥ २२० ।</poem>}}}} {{gap}}अयमिति ॥ एष दायभागः पुत्राणां क्षेत्रजादीनां क्रमेण विभागकरणप्रकारो युप्माकमुक्तः । इदानी द्यूतव्यवस्थां शृणुत ॥ २२० ॥ {{Block center|{{bold|<poem>द्यूतं समाह्वयं चैव राजा राष्ट्रानिवारयेत् । राजान्तकरणावेतौ द्वौ. दोषौ पृथिवीक्षिताम् ॥ २२१ ॥</poem>}}}} {{gap}}द्यूतमिति ॥ द्यूतसमाह्वयौ वक्ष्यमाणलक्षणौ राजा स्वराष्ट्रान्निवर्तयेत् । यस्मा- देतौ द्वौ दोषौ राज्ञां राज्यविनाशकारिणौ ॥ २२१ ॥ {{Block center|{{bold|<poem>प्रकाशमेतत्तास्कर्य यद्देवनसमाह्वयौ । तयोनित्यं प्रतीपाते नृपतिर्यनवान्भवेत् ॥ २२२ ॥</poem>}}}} {{gap}}प्रकाशमिति ॥ प्रकटमेतञ्चौर्यं यद्द्यूतसमाह्वयौ, तस्मात्तन्निवारणे राजा नित्यं यत्नयुक्तः स्यात् ॥ २२२ ॥ {{Block center|{{bold|<poem>अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥ २२३ ॥</poem>}}}} {{gap}}अप्राणिभिरिति ॥ अक्षशलाकादिभिरप्राणैर्यत्क्रियते तल्लोके द्यूतं कथ्यते । यः पुनः प्राणिभिर्मेपकुक्कुटादिभिः पणपूर्वकं क्रियते स समायो ज्ञेयः । लोकप्रसिद्ध- योरप्यनयोर्लक्षणकथनं परिहारार्थम् ॥ २२३ ॥ {{Block center|{{bold|<poem>द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा । तान्सर्वान्धातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः॥ २२४ ॥</poem>}}}} {{gap}}पूतमिति ॥ द्यूतसमाह्वयौ यः कुर्याद्यो वा सभिकः कारयेत्तेषामपराधापेक्षया राजा हस्तच्छेदादि वधं कुर्यात् । यज्ञोपवीतादिद्विजचिह्नधारिणः शूद्रान्हन्यात् २२४<noinclude></noinclude> pifdqdbw5nerwvlpol8385b3g1vce1z पृष्ठम्:Smriti mukta phalam.pdf/६५० 104 166653 419673 2026-11-10T11:59:16Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६१०|'''अस्थिसंचयने वारादिदोषः ।'''|}} {{rule}} “ पुनर्दाहावखिलैश्चितैरेग्निश्चितैः पुनः । निवापो न पुनर्दाहो लोष्टचित्यां न चोभयम् ॥
“ केचिन्निवापमिच्छंति ह्युभय... नवीन पृष्ठं निर्मीत अस्ती 419673 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६१०|'''अस्थिसंचयने वारादिदोषः ।'''|}} {{rule}} “ पुनर्दाहावखिलैश्चितैरेग्निश्चितैः पुनः । निवापो न पुनर्दाहो लोष्टचित्यां न चोभयम् ॥
“ केचिन्निवापमिच्छंति ह्युभयत्राविरोधि तत्” इति । अयमर्थः । अनाहिताग्नेः आहिताग्नेरन्या-
हिताग्निपत्नीनां च पलाशमूले वा कुंभं निधायेत्येवमंतमेव कर्तव्यम् । कण्वादि तदंगत्वात्क्रियत्
एव । हविर्यज्ञयाजिनो निवपनांतं सोमयाजिनः पुनर्वेदनांतं कर्तव्यम् । महाग्निश्चितः काटकाग्नि-
५ चितश्च लोष्टचयनांतमिति ।
'''अस्थिसंचयने वारादिदोषः ।''' अस्थिसंचयने वारनक्षत्रनिषेधो '''यमेनोक्तः—'''
“ आरैभौमार्कवारेषु तिथियुग्मेषु वर्जयेत् । वर्जयेदेकपादक्षे द्विपादक्षेऽस्थिसंचयम् ॥
“ प्रदातुर्जन्मनक्षत्रे त्रिपादक्षे विशेषतः ” ॥
'''स्मृतिरत्ने—'''“नंदायां भार्गवेऽर्के च चतुर्दश्यां त्रिजन्मसु । बार्हस्पत्ये तथा श्रेष्ठे पुष्ये हस्ते तथैव च ॥
१० “ नास्थिसंचयनं कुर्यात्कुलक्षयकरं हि तत् ॥
“ फल्गुनीद्वयमाषाढद्वयं प्रोष्ठपदद्वयम् । षड्भ्योऽन्यत्र तु नक्षत्रे ह्यस्थिसंचयनं भवेत् ” ॥ इति ।
'''गार्ग्यः—'''
“ भद्रे त्रिपदनक्षत्रे भृग्वंगारबृहस्पतौ । दहनं मरणं चास्थिचयनं त्रिगुणं भवेत् ” ॥
'''स्मृत्यंतरे—'''
१५ “ गुरुशुक्रारशन्यर्के नंदायां च त्रिजन्मसु । उत्तराहस्तचित्रासु पुष्ये नैवास्थिसंचयः ” ॥ इति ।
'''श्रीधरीये—'''
“ अस्थिसंचयनं कार्यं जन्मत्रयविवर्जितम् । पूर्णायां च विशेषेण नंदायां च विवर्जयेत् ” ॥ इति ।
प्रतिपत्वष्ठीैकादश्यो नंदाः ।
'''आत्रेयः—'''“ कालेऽल्पदोषे कुर्वीत त्याज्यं दोषाधिके शुभम् ” इति । '''श्रीधरीये च—'''
२० “ दिवसं गुणदोषाभ्यां संप्रुक्तं हि परस्परम् । केवलं गुणयोगो हि देवानापि दुर्लभः ” ॥
'''हारीतः—'''
“ कुर्वीत सर्वकर्माणि ब्राह्मणानामनुज्ञया । ब्राह्मणैरभ्यनुज्ञानात् दोषो नश्येदसंशयम् ” ॥ इति ।
'''गार्ग्यः—'''
“ शुक्रादिशुभवाराश्च नंदाश्चैव चतुर्दशी । उत्तरात्रयरोहिण्यः पूर्णचंद्रश्च जन्म च ॥
२५ “ एतेष्वपि च कर्तव्यं मातापित्रोर्विशेषतः । अन्येषां नातिदोषः स्यात् प्रत्यक्षमरणे नृणाम्”॥इति।
'''स्मृत्यंतरे—'''
“ जन्मत्रयं संचयने श्राद्धे च दहने गुरोः। नैव दोषावहं प्रोक्तं अन्येषामपि सर्वदा ” ॥ इति ।
प्रत्यक्षं तु मातापितृव्यतिरिक्तविषये शौक्रं वर्ज्यमेव । “ शौके पित्रोर्न दोषाय ” इति पित्रोरेवा-
वर्जनीयत्वस्मरणात् । “सर्वदा शुक्रवारस्तु वर्जनीयः प्रयत्नतः ” इति स्मरणाच्च ।
३० '''श्मशानाग्न्यनुगतौ प्रायश्चित्तम् ।''' श्मशानाग्न्यनुगतिप्रायश्चित्तमाह '''संग्रहकारः—'''
“नष्टे शावानले भस्म संस्पृष्ट्वाऽरणिमन्थनम् । लौकिकाग्न्याहुतिः स्मार्ते सर्वचित्तं द्वयोःसंमम्”॥ इति ।
आहिताग्नेर्मंथिताग्निरनाहिताग्नेर्लौकिकाग्निः । उभयत्र सर्वप्रायश्चित्तं सममित्यर्थः ।
अत्र विशेषमाह '''बौधायनः—'''“ अथ यद्युपनयनाग्निर्र्विवाहाग्निर्जातकर्माग्निः श्मशानाग्निरा
चतुर्थीवा पंचमाद्वा दशाहादास्थिसंचयनादुद्वासि तस्य ‘ अपहता असुरा ’ इति प्रोक्ष्य क्षिप्रं भस्म-
{{rule}} १ ग-ति । २ ग-तः । ३ ग-हे । ४ ग-धतः । ५ ग-म्यनाहिता । ६ खग-भौमार्कंमन्दू ।
७ ग-द्राथ । ८ क्ष-शौक्रियम् । ९ क्ष-ष्ट्वावारणिधंननम् । १० क्ष-द्विद्वा ।<noinclude></noinclude> dr1yx0w1v14oagvoeru84snd6myv5bh पृष्ठम्:Smriti mukta phalam.pdf/६५१ 104 166654 419674 2026-11-10T12:00:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''श्मशानाग्न्यनुगतौ प्रायश्चित्तम् ।'''|६११}} {{rule}} समारोपणं ‘ अयं ते योनिर्ऋत्वियः ’ इति समिधि समारोप्य लौकिकाग्निमाहृत्य समिधमादधाति
आजुह्वान “ उद्बुध्यस्... नवीन पृष्ठं निर्मीत अस्ती 419674 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''श्मशानाग्न्यनुगतौ प्रायश्चित्तम् ।'''|६११}} {{rule}} समारोपणं ‘ अयं ते योनिर्ऋत्वियः ’ इति समिधि समारोप्य लौकिकाग्निमाहृत्य समिधमादधाति
आजुह्वान “ उद्बुध्यस्वाग्ने ” इति द्वाभ्यां संपरिस्तीर्यान्वाधाग्ने पंचहोता ब्राह्मण एकहोता च
मनस्वती मिंदा च महाव्याहृतिभिर्व्याहृतयश्च प्रायश्चित्तं जुहुयादिति ” ।
सूत्रमिदं व्याख्यातं '''पितृमेधसारकृता—'''“ यदि श्मशानाग्निरनुगतः स्यात्ततः संकल्प्य अपहता
असुरा इति तद्भस्म प्रोक्ष्य ‘अयं ते योनिर्ऋत्विय’ इति समिधि समारोप्य लौकिकाग्निं प्रतिष्ठाप्य ५
आजुह्वान ‘ उद्बुध्यस्वेति ’ द्वाभ्यां तां समिधमाधाय परिस्तीर्याज्यं दर्वों च संस्कृत्य परिषिच्य
‘ अयाश्चाग्निर्ह्येतिति ’ द्वाभ्यां ‘ ब्राह्मण एकहोता ’ इत्यनुवाकेन च प्रतिवाक्यचतुष्टयं ‘मनोज्योति-
र्जुषतां’ ‘ यन्म आत्मन ’ इति द्वाभ्यां ‘ भूरग्नये चेति ’ चतुर्व्याहृतिभिश्च हुत्वाऽग्निं परिषिच्य
ततः कर्म प्रतिपद्यत ” इति ।
'''कारिका च—'''“ उपायनाग्नौ च विवाहवह्नौ शावानले सूतकपावके च । १०
“ शांतेपहत्यापह्तेति मंत्रात् शंनोदेव्याद्भिरवोक्ष्य भस्म ॥
“ तद्भस्म चारोप्य संमिध्ययंत आजुह्व उद्बुध्य सचोद्वयेन ।
“ लौक्यानले तां समिधं निधाय परिस्तराज्योत्पवनानि कृत्वा ॥
“ अयाश्च पंच होता च ब्राह्मण एकहोता दश । मनस्वती च मिंदा च महाव्याहृतयस्तथा ॥
“ वारुणस्तंतुमन्त्यश्च हुत्वा तंत्रं प्रयोजयेत् ” ॥ इति । १५
यद्यस्थिप्रवाहहृतं प्रतिकृतिदाहो वा तत्रास्थ्यभावात्कथं संचय इत्यपेक्षायामुक्तं '''संग्रहे—'''
“ अस्थिसंचयनात्पूर्वं प्रवाहेण हतं यदि । अस्थिप्रतिकृतिं कृत्वा तद्देशान्मुद्रमाहरेत् ॥
“अस्थिवत्संचयेद्विद्वान्कोष्ठं वा भस्म वा ततः । प्रमाणमस्थिवत्कृत्वा तन्मंत्रं तु जपेद्बुधः”॥ इति ।
'''स्मृत्यंतरे च—'''
“जले प्रवाहे कूले वा तीरे वाऽथ सरिद्वृते । जलौघे वाऽस्थिनाशे तु तन्मंत्रं तु जपेद्बुधः”॥ इति । २०
'''विज्ञानेश्वरीये—'''“ अस्थिसंचयने योगो देवानां परिकीर्तितः ।
“ प्रेतीभूतं तयोद्दिश्य यः शुचिर्न करोति चेत् । देवतानां तु यजनं तं शपेत्यथ देवताः ” ॥ इति ।
देवताश्चात्र श्मशानवासिनः । तत्र पूर्वदग्धाः “ श्मशानवासिनो देवाः शवानां परिकीर्तिता ”
इत्यंगिरःस्मरणात् । अतः तान् देवान् चिरमृतं प्रेतं चोद्दिश्यापूपादिभिः पूजाकार्येत्युक्तं भवति ।
प्रेतीभूतमित्युक्तेः सपिंडीकरणात् प्रागेव संचयः कार्य इति सिद्धम् । २५
'''प्रभूतबलिः ।''' दशमेऽन्हि प्रेतस्य महती क्षुद्भवति । तन्निवृत्तिः प्रभूतेन बलिना भवति ।
स च दशमदिनपिंडोदकदानात्पूर्वं कार्यः
“ तिलोदके च पिंडे च प्रदत्ते दशमेऽहनि । अश्मनोत्थापनं कृत्वा ततः प्रेतं विसर्जयेत् ” ॥ इति
पिंडदानादननंतरमेव अश्मोत्थापनस्मरणात् । दशमे क्षुत्परिक्षयः “ दशमेन तु पिंडेन तृप्तिः
प्रेतस्य जायते” इति स्मरणात् । भुक्तभोजनवत्तृप्यस्य बलिदानायोगादित्याहुः । '''अखंडादर्शे तु—''' ३०
“अन्नोदकपिंडबलिप्रदानात्प्रेततृप्तिः । प्रेततृप्त्या संततिवृद्धिर्भवति ” इति । प्रत्यहं यत्पिंडोदकदानं
दशमाहे यच्च प्रभूतबलिदानं ताभ्यां प्रेतस्य तृप्तिर्भवतीत्यर्थः । एवं च प्रभूतबलिदानेनापि प्रेतस्य
तृप्तेः पिंडोदकदानप्रभूतबलिदानयोः पौर्वापर्यं अनियम इति केचित् ।
{{rule}} १ क्ष-ती । २ क-तीक्ष्ण्य ।<noinclude></noinclude> rc7whesilnntfjwjq4p57qv8uy4zmiq पृष्ठम्:Smriti mukta phalam.pdf/६५२ 104 166655 419675 2026-11-10T12:01:12Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६१२|'''अन्तर्दशाहे दर्शादिसंभवे ।'''|}} {{rule}} यत्तु कैश्चिदुच्यते—‘‘ मंदारगुरुवारेषु दशाहे समुपस्थिते । बलिं प्रभूतं दद्याच्चेत्कुलक्षयकरं
भवेत् ” ॥ इति तन्मा... नवीन पृष्ठं निर्मीत अस्ती 419675 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६१२|'''अन्तर्दशाहे दर्शादिसंभवे ।'''|}} {{rule}} यत्तु कैश्चिदुच्यते—‘‘ मंदारगुरुवारेषु दशाहे समुपस्थिते । बलिं प्रभूतं दद्याच्चेत्कुलक्षयकरं
भवेत् ” ॥ इति तन्मातापितृव्यतिरिक्तविषयमित्येके । पितृमेधसारे विशेषः—“नात्र वारादिदोष-
चिंतावलेः क्षुन्निवृत्त्यर्थत्वाद्दशाह एव तद्भावात्तत्पूर्वं प्रभूतबलिप्रदानस्य निरर्थकत्वात्पिंडोदकदानाद्-
दोषात् स्मृतिष्वनिषेधाच्च सर्वेषां दशाहे एव प्रभूतबलिर्देयः । प्रेतस्य क्षुन्निवृत्त्या कुलं वर्धते ।
५ अतः प्रत्यक्षविषये शुक्रादिवासरेऽपि पिण्डोदकदानवत् सर्वेषां दशाहे प्रभूतबलिर्देय एव । ‘वैधे
कर्मणि तु प्राप्ते कालदोषं न चिंतयेत् ’ इति वसिष्ठस्मरणात् ॥ इति । यत्तु कीलवापेऽभिहितम्
“ आरवारे च सौरे च गुरुवारे च भार्गवे । पाषाणस्थापनोत्थानं संचयश्च कुलक्षयः ” ॥ इति
तन्मातापितृव्यतिरिक्तविषयमिति । अतिक्रांतोर्ध्वदैहिकविषयं च
“ पाषाणस्थापने श्रेष्ठा मन्दार्कगुरुवासराः । उत्थापने न शौकीया मातापित्रोगुरोः शुभाः ॥
१० “ परोक्षे सूक्ष्मतः पश्येत्प्रत्यक्षे न विचारयेत् ” इति ॥ स्मरणात् ।
'''अन्तर्दशाहे दर्शादिसंभवे ।''' यदा दशाहमध्ये दर्शापातः तदा दर्श एवोत्तरतंत्रं पिण्डोदक-
दानादिरूपं समापयेत् । तदाह '''ऋष्यशृंगः—'''
“ आशौचमंतरा दर्शो यदि स्यात्सर्ववर्णिनः । समाप्तिं प्रेततंत्रस्य कुर्युरित्याह गौतमः ” ॥
'''पैठीनसिरपि—'''
१५ “ आद्यंतावेव कर्तव्याः प्रेतपिंडोदकक्रियाः । द्विरंदवे तु कुर्वाणः पुनःशावं समश्नुते ” ॥ इति ।
'''भविष्यत्पुराणे च—'''
“ प्रवृत्ताशौचतंत्रस्तु यदि दर्श प्रपद्यते । समाप्य चोदकं पिंडं स्नानमात्रं समाचरेत् ” ॥ इति ।
एतत्सूर्यसंक्रांतेरप्युपलक्षणम् । तथा च '''श्रीधरीये—'''
“ त्यजेत्संक्रमणं भानोः मध्यतः प्रेतकार्यतः । नो चेत्कर्तृनाशः स्याद्दर्शश्चेत्तत्कुलक्षयः ” ॥ इति ।
२० '''स्मृतिरत्ने—'''
“ दर्शः संक्रमणं वापि दशाहांतर्यदा भवेत् । तावदेवोत्तरं तंत्रं समाप्यमिति निश्चयः ” ॥ इति ।
'''स्मृत्यन्तरे च—'''
“ दशाहमध्ये दर्शश्चेत्तत्र सर्व समापयेत् । द्विचन्द्रदर्शने दोषो महानित्यवधार्यताम् ॥
“ चंद्रद्वये यदाऽज्ञानात्प्रेतकर्म समापयेत् । नोपतिष्ठति तत्सर्वं दातुः कुलविनाशनम् ” ॥ इति ।
२५ '''अन्यत्रापि—'''
“ चंद्रद्वये बलिर्नैव देयः प्रेतस्य तृप्तये । यदि दद्यात् द्विचन्द्रे तत् दातुः कुलविनाशनम् ” ॥ इति ।
'''पद्धतौ—'''
“ अंतर्दशाहे संप्राप्ते दर्शे पिंडान्समापयेत् । अस्थिसंचयनं तत्र दर्शात्पूर्वं विधीयते ” ॥ इति ।
'''स्मृत्यंतरे च—'''
३० “ अथोर्ध्वं कृष्णपक्षस्य दशम्यां संस्थिते सति । तदानीं संचयेदस्थ्नां न चतुर्थेऽन्हि संचयः ॥
“ त्रयोदशी कलामात्रातियो यस्य मृतिर्भवेत् । नातिक्रम्य सिनीवालीं कुर्यात्पिंडोदकक्रियाम् ” ॥
चतुर्दशीयुक्तामावास्यादिने चतुर्दशीसमयमरणेऽपि अमावास्यायां दाहसंचयोदकादि समापनीयम् ।
'''तदुक्तम्—'''
“ चतुर्दशीक्षणमृतिस्तदा दर्शो भवेद्यदि । पिण्डोदकं दशाहाश्रं तस्मिन्नेव दिने क्षिपेत् ” ॥ इति ।
{{rule}}<noinclude></noinclude> cm1lv6145hrcwz7dfxx6of209l462db पृष्ठम्:Smriti mukta phalam.pdf/६५३ 104 166656 419676 2026-11-10T12:01:59Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''संक्रमदर्शं ।'''|६१३}} {{rule}} '''स्मृत्यंतरे च—'''
“उदयं याति चादित्ये पर्वमिश्रां चतुर्दशीम् । संप्राप्य संस्थिते विप्रे कृष्णपक्षस्य तं दहेत् ॥
“अमायां वा मृ... नवीन पृष्ठं निर्मीत अस्ती 419676 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''संक्रमदर्शं ।'''|६१३}} {{rule}} '''स्मृत्यंतरे च—'''
“उदयं याति चादित्ये पर्वमिश्रां चतुर्दशीम् । संप्राप्य संस्थिते विप्रे कृष्णपक्षस्य तं दहेत् ॥
“अमायां वा मृतिर्यस्य तस्यां संस्कारकल्पना । तस्यां संचयनं कुर्यात् शेषं चैव यथायथम्”॥ इति ।
'''स्मृतिरत्ने—'''
“ चतुर्दशीमृतः कश्चित्सतः प्राप्नोत्यमातिथिः । पिंडोदकं दशाहांतं तस्मिन्नेवाहनि क्षिपेत् ” ॥ इति । ५
'''स्मृत्यंतरेऽपि—'''
“ इंदुक्षये यदा मृत्युः स्त्रिया वा पुरुषस्य वा । उदकं पिंडदानं च तदा सर्वं समापयेत् ” ॥ इति ।
'''प्रचेताः—'''
“ प्रथमेऽह्न्यमावास्या तत्रोदकबलिं हरेत् । अथवा तत्प्रभृत्येष्व जलं पिंडांस्तु दापयेत् ” ॥ इति ।
दर्शमरणे तदुत्तरदिनमारभ्य वा पिंडोदकदानं कुर्यात् । दर्शसंक्रमयोर्दुष्टत्वादिति व्याख्यातारः । १०
अन्ये तु अंतर्दशाहे यदा कदाचिद्दर्शसंभवे उदकादि समापनीयं तदुत्तरदिनमारभ्य वा कार्य-
मिति व्याचक्षते । तदयुक्तम् । ‘प्रथमेऽह्न्यमावास्या’ इति प्रकृतत्वादमावास्यामरणविषयस्यैव
विकल्पस्य प्रतीतेः ‘प्रथमेऽह्न्यञ्जलित्रयम्’ इत्यादिना प्रथमदिनप्रभृति अविशेषेण उदकदानादि-
विधानाद्दशाविः पूर्वमेवारभ्य दर्शादौ समापनीयम् । तत्रालस्यादिनारब्धे सति दर्शसंक्रान्त्यनंतर-
दिनमारभ्य दिनत्रयेणैकेन वा दिनेन समापनीयमित्याहुः । दर्शसंक्रमयोस्तु संचयनं कृत्वैव १५
समापनीयम् । तथा '''कात्यायनः—'''
“प्रथमेऽह्नि तृतीये वा यदा दर्शो भवेत्तदा । अस्थिसंचयनं कुर्यादिति विष्णुस्मृतौ स्मृतम्”॥ इति ।
दशाहमध्ये संक्रांतिरित्यादिभिः संक्रमणस्यापि त्याज्यत्वस्मरणेन दर्शंतुल्ययोगक्षेमत्वात्
संक्रमणेऽप्येवमेव ग्राह्यम् । दशाहमध्ये तयोर्योगपद्ये दर्शे समापयेत् “ प्राप्ते दर्शे संक्रमे च दर्श
एव समापयेत् ” इति स्मरणात् । '''संग्रहेऽपि—''' २०
“ यदि संक्रमदर्शौ तु दशाहाभ्यंतरे यदा । मातापित्रोर्विनाऽन्येषां दर्शेनैव समापयेत् ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ अमायां च मृतिर्यस्य तद्दिने दहनं भवेत् । चंद्रस्य दर्शनात्पूर्वं दर्शे पिंडान्समापयेत् ॥
“अमायां च मृतं देहं प्रथमायां दहेद्यदि । उदकं पिंडदानं च सदशाहं समापयेत् ” ॥ यत्तु—
“अमायां मरणं यस्य तस्य पिंडोदकक्रिया । आ दशाहात्प्रतिदिनं कारयेत्स्मृतिशासनात्”॥ इति २५
तदपि प्रथमाह्नाभिप्रायं अन्यथा पूर्वोक्तवचनविरोधापत्तेः । '''उशना अपि—'''
“द्विचन्द्रदर्शनं यावद्वलिपिंडक्रिया भवेत् । द्विचंद्रदर्शने दोषो महानित्यवधार्यताम् ” ॥ इति ।
'''अखंडादर्श—'''
“ अष्टमांशे चतुर्दश्याः क्षीणो भवति चंद्रमाः । अमावास्याष्टमांशे च पुनः क्षीणो भवेद्गणः ” ॥
तेन अमावास्याष्टमाशात्प्रागेव पिंडोदकापकर्षः कार्यः । अन्यथा द्विचंद्रत्वप्रसंगात् । दिनद्वयेऽ- ३०
प्यमावास्यासद्भावे मध्यान्हव्यापिन्यां तस्यां श्राद्धदिने वा अष्टमांशान्नाकर्त्तव्यः । संक्रांतावपि
तत्समयात्पूर्वं मध्यान्हे वा समापनीयम् । अनाथविषयेऽपि '''स्मृत्यंतरे—'''
“ चंद्रक्षये मृतोऽनाथो दग्धश्चेदुदकार्थिनः । संचयोदकदानानि तस्मिन्नह्नि समापयेत् ” ॥ इति ।
एतानि वचनानि मातापितृव्यतिरिक्तविषयाणि ।
{{rule}} १ क्ष-वास्या । २ ग-वा; क्ष-वर्ज । ३ क्ष-स्यैव । ४ ग-कीलो । ५ ग-अस्मिन् ।
७८-९<noinclude></noinclude> grkc725t330uy1d48gue3yw2ht52fmn पृष्ठम्:Smriti mukta phalam.pdf/६५४ 104 166657 419677 2026-11-10T12:02:49Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६१४|'''मातापितृविषये ।'''|}} {{rule}} '''दशाहमध्ये दर्शादिसंभवे मातापितृविषये—'''
“ मातापितृविषये तु पितुर्मातुर्गुरोर्मृतौ । पिण्डं दद्यात् दशाहान्तं इतरेषां समापय... नवीन पृष्ठं निर्मीत अस्ती 419677 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६१४|'''मातापितृविषये ।'''|}} {{rule}} '''दशाहमध्ये दर्शादिसंभवे मातापितृविषये—'''
“ मातापितृविषये तु पितुर्मातुर्गुरोर्मृतौ । पिण्डं दद्यात् दशाहान्तं इतरेषां समापयेत् ” ॥
'''श्रीधरीयेऽपि—'''“ द्विचन्द्रदर्शने दोषो मातापित्रोर्न विद्यते ” । '''श्लोकगौतमः—'''
“ अंतर्दशाहे दर्शश्चेत्तत्र सर्वं समापयेत् । पित्रोस्तु यावदाशौचं दद्यात्पिंडान् जलाञ्जलीन्” ॥ इति ।
५ '''यमोऽपि—'''
“अर्वाग्दशाहात्पित्रोस्तु कुहूर्यदि तदा भवेत् । द्विचंद्रदोषो नास्त्यत्र कर्तव्या तु क्रिया सुतैः”॥ इति ।
'''स्मृतिरत्ने—'''
“ दशाहाभ्यन्तरे पित्रोः सिनीवाली यदा भवेत् । अतीत्यैव च कर्तव्यं पुत्रेणान्येन नेष्यते ” ॥
'''बृहस्पतिः—'''
१० “ अन्तर्दशाहे दर्शश्चेत्पितुर्मातुर्गुरोर्मृतौ । पिण्डं दद्यात् दशाहान्तमितरेषां समापयेत् ” ॥
'''श्रीधरीये—'''
“ द्विचन्द्रदर्शने दोषो मातापित्रोर्न विद्यते । मध्ये पिंडं समाप्तिश्चेत्कुलक्षयक्री भवेत् ” ॥
'''अन्यत्रापि—'''
“ दशाहमध्ये संक्रांतिर्दर्शो वाऽथ भवेद्यदि । तोयं पिंडं समाप्यैव तद्दिने नौरसैतरैः ॥
१५ “ बलिर्द्विचन्द्रदृष्टश्चेच्छिनस्ति शवदाहकम् । चंद्रद्वयेऽपि कर्तव्या मातापित्रोर्बलिक्रिया ” ॥
'''वरदराजीये—'''“ दर्शे प्रेतदिनेषु सत्यपि तथा दद्याद्दशाहं सुतः ” इति । '''स्मृत्यंतरे—'''
“ अंतर्दशाहे दर्शश्चेत्पिंडनिर्वपणादिकम् । सपिंडो वर्जयेत्पुत्रः कुर्यात्पिंडोदकक्रियाम् ” ॥ इति
'''संग्रहे—'''
“ अंतर्दशाहे दर्शश्चेच्छिष्टं पिंडोदकादिकम् । मातापित्रोर्विनाऽन्येषां दर्श एव समापयेत् ” ॥
२० '''अन्यदपि—'''
“ दशाहाभ्यंतरे दर्शः संक्रमो वा भवेद्यदि । मातापित्रोर्दशाहांतं यथाविधि समापयेत् ” ॥
'''विन्वादर्शे—'''“ आशौचमध्ये विधुसंक्षयश्चेत् दद्युर्दशाहं तिलवारिपिंडम् ।
“ पुत्रीसुतो दत्तक औरसश्च शेषाः सुतास्तत्र समापयेयुः ” ॥ इति ।
'''मातापितृविषये विशेषो गालवेनोक्तः—'''
२५ “ पित्रोराशौचमध्ये तु यदि दर्शः समापयेत । तावदेवोत्तरं तंत्रं पर्यवस्येत्र्यहात्परम् ” ॥ इति ।
पित्रोराशौचमध्ये तु त्रिरात्रात् परम् यदि दर्शः समापतेत् तदैवोत्तरं तंत्रदर्श समापयेत्
नार्वाक् दर्शापात इत्यर्थः । '''स्मृतिरत्ने कालादर्शोऽपि—'''
“ दर्शो दशाहमध्ये स्यादूर्ध्वं तंत्रं समापयेत् । त्रिरात्रादुत्तरं पित्रोर्मृताविति विनिश्चयः ” ॥ इति ।
तथा “ दशाहमध्ये दर्शश्चेत्तत्र सर्वं समापयेत् । अस्थिसंचयनादूर्ध्वं पित्रोरपि समापयेत्”॥ इति ।
३० अत्र '''चंद्रिकास्मृतिरत्नमाधवीयादिषु प्रौढनिबंधनेषु व्यवस्था कृता—'''मातापितृव्यति-
रिक्तविषये यदा कदा वा दर्शापाते ऊर्ध्वतंत्रं समापयेत् । मातापितृविषये तु त्रिरात्रादुत्तरं दर्शापाते
ऊर्ध्वतंत्रं समापयेत् “ पित्रोस्तु यावदाशौचं दद्यात्पिंडं जलांजलीन् ” इत्यादीनि दशाहसमापन-
प्रतिपादकवचनानि त्रिरात्रात् पूर्वं दर्शापाते वेदितव्यानि । व्यहात्परमिति गालवादिभिर्विशेषि-
तत्वादिति । अत्र चंद्रिकादौ औरसादि सर्वपुत्रसाधारण्येन अविशेषेण व्यवस्थोक्ता । अन्यैस्तु
३५ '''पितृमेधसारकृदादिभिर्नवीनैर्यवस्थान्तरमुक्तम् ।''' पर्यवस्येद्ध्यहात्परमित्यादीनि मातापितृविषयेऽपि
{{rule}}<noinclude></noinclude> b2mt3abxs809zaqvb0kyc8djvx1iofv पृष्ठम्:Smriti mukta phalam.pdf/६५५ 104 166658 419678 2026-11-10T12:03:42Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पुत्रव्यतिरिक्तकर्तृविषये ।'''|६१५}} {{rule}} त्रिरात्रादुत्तरं दर्शसंभवे समाप्तिप्रतिपादकानि गालवादिवचनानि दत्तौरसपुत्रिकापुत्रव्यतिरिक्त-
गौणपुत्रकर्त... नवीन पृष्ठं निर्मीत अस्ती 419678 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पुत्रव्यतिरिक्तकर्तृविषये ।'''|६१५}} {{rule}} त्रिरात्रादुत्तरं दर्शसंभवे समाप्तिप्रतिपादकानि गालवादिवचनानि दत्तौरसपुत्रिकापुत्रव्यतिरिक्त-
गौणपुत्रकर्तृकोदकसमाप्तिपराणि ।
“तोयं पिंडं समाप्येत्तद्दिने नौरसैतरैः” “शेषाः स्तुः तास्तत्र समापयेयुः” इत्यादिभिरूद्गृहमध्ये दर्श-
संभवे तेषामपि पिंडोदकसमापने प्राप्ते “पर्यवस्येत् त्र्यहात्परम्” इत्यादीनि तद्विषयाण्येवावतिष्ठंते ।
एवं च “ द्विचन्द्रदर्शने दोषो मातापित्रोर्न विद्यते । मध्ये पिंडसमाप्तिश्चेत्कुलक्षयकरी भवेत् ॥ ५
“ पित्रोस्तु यावदाशौचं दद्यात्पिंडं जलांजलीन् ” ॥ इत्यादीनि त्रिरात्रादर्वाग्विधयाणीति
संकोचोऽपि न कर्तव्यः । तेन दशाहमध्ये त्रिरात्रादर्वागूर्ध्वं वा दर्शसंक्रमणसंभवे पुत्रव्यतिरिक्तस्य
कर्तुः ज्ञातीनां च दर्शसंक्रमणयोरेव समापनेम् । दत्तौरसपुत्रिकापुत्रव्यतिरिक्तपुत्राणां त्रिरात्रादूर्ध्वं
दर्शादौ सति समापनं त्रिरात्रादर्वाक् दर्शापाते तु तेषां न समापनम् । दत्तौरसपुत्रिकापुत्राणां
तु यदाकदाचिद्दर्शादौ सति न तत्र समापनं किंतु दशाह एव पिंडोदकादिसमापनमिति यथो- १०
चितमिह द्रष्टव्यम् । ज्ञातीनां पुत्रेण सह समापनमुक्तं रत्नावल्याम्—
“संक्रांतिर्वाऽथ दर्शो वा मध्ये चेत् ज्ञातिभिः सुतः। उदकं पिंडदानं च दशाहांते समापयेत्”॥ इति ।
तथाऽन्यदपि—
“ कर्ता यद्वा समाप्नोति तदानीं तु सपिंडकाः । ज्ञातिभिस्तत्समाप्तिश्चेन्मध्ये तेषां कुलक्षयः”॥ इति ।
सपिंडकाः समाप्नुयुरिति शेषः । १५
पुत्रव्यतिरिक्तकर्तृविषये ज्ञातीनां समापनमाह शंकः—“प्रथमेऽह्न्यनारभ्य कर्त्रा सह तिलोदकम् ।
“ यदि पश्चाच्च कर्तारस्तेऽन्तर्दर्श तु संक्रमे । कुर्युर्नान्तर्गते दर्शे संक्रमे दशमेऽहनि ” ॥ इति ।
अयमर्थः—प्रथमेऽह्न्यनारभ्य कुर्वता कर्त्रा सह यदा ज्ञातयः क्रियारंभं न कुर्वंति यदा च कर्तारः
दर्शादूर्ध्वं क्रियारंभं कुर्वंति तत्र उभयत्र ज्ञातयः अंतर्दशाहे दर्शे संक्रमे वा समापनं कुर्युः ।
दर्शादूर्ध्वमारभ्य कुर्वता कर्त्रा सह न दशमेऽहनीति स्मृत्यंतरे— २०
“ प्रथमेऽहनि कर्त्रा ये न कुर्वन्ति तिलोदकम् । तैर्ज्ञातिभिश्च दर्शादौ समाप्येत्तौरसैतरैः ”॥
औरसैतरैः कर्तृभिः सह ज्ञातीनां समापनमित्यर्थः । संग्रहेऽपि—
“ दशाहमध्ये संक्रांतौ प्रेतकर्म समापनम् । सहैव ज्ञातिभिः कुर्यादौरसाऽन्यैश्च कर्तृभिः”॥ इति ।
प्रेतकर्मसमापनमित्युक्तत्वादेकोत्तरवृद्धिश्राद्धं नवश्राद्धमपि दर्शे अपकृष्य समापनीयमिति केचित् ।
अन्ये तु “ तोयं पिंडं समाप्येतत्तद्दिने नौरसैतरैः ” इत्यादिभिः पिंडोदकयोरेवापकर्षणस्मरणा- २५
न्नास्ति नवश्राद्धापकर्षः । तत्तद्दिनेष्वेकादशे वा दिने नवश्राद्धानि कर्तव्यानि । एकोत्तरवृद्धि-
श्राद्धानि तु अपकृष्य समापनीयानि ।
“ श्राद्धमेकोत्तरं वृध्या कर्तव्यं तु दिने दिने । अवसानाञ्जलीनां तु द्विगुणं प्रत्यहं परे ” ॥ इति
पिंडोदकोपक्रमावसानविशिष्टत्वासंनियोगाशिष्टन्यायाच्चेत्याहुः । शिष्टाचारादिह व्यवस्था । किंच
“ प्रथमेऽहनि कर्त्रा ये न कुर्वति तिलोदकम् । तैर्ज्ञातिभिश्च दर्शादौ समाप्येत्तौरसैतरैः ” ॥ इति ३०
कर्तृभिः सह ज्ञातीनां समापनमित्यर्थश्च ज्ञायते ।
पाषाणोत्थापनम् । पाषाणोत्थापनं दशाह एव कुर्यादित्याह शंखः—
“ आदौ मध्ये तथाऽन्ते य उदकादि समापयेत् । स एव दशमे कुर्यात्पाषाणोत्थापनादिकम् ” ॥
षट्त्रिंशन्मते—
“ प्रेतकार्याणि सर्वाणि मध्ये यदि समापयेत् । तथापि दशमेऽह्नेव पाषाणोत्थापनं स्मृतम्”॥ इति । ३५
{{rule}}<noinclude></noinclude> 8qhf3du3xdt9ltyaz7nsbltpbt5vi0n पृष्ठम्:Smriti mukta phalam.pdf/६५६ 104 166659 419679 2026-11-10T12:04:33Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६१६|'''पाषाणोत्थापनम् ।'''|}} {{rule}} '''प्रचेताः—'''
“ उदकं पिंडदानं च प्रतिकृष्य समापयेत् । उत्थापनं दशाहे स्यादन्यथा कुलनाशनम् ” ॥ इति ।
उत्थापनं भूतबलेरप्युपलक्... नवीन पृष्ठं निर्मीत अस्ती 419679 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६१६|'''पाषाणोत्थापनम् ।'''|}} {{rule}} '''प्रचेताः—'''
“ उदकं पिंडदानं च प्रतिकृष्य समापयेत् । उत्थापनं दशाहे स्यादन्यथा कुलनाशनम् ” ॥ इति ।
उत्थापनं भूतबलेरप्युपलक्षणम् । यदाह '''संग्रहकारः—'''
“ दशाहमध्ये त्वथ दर्श आगते समापिते कर्मणि पारलौकिके ।
५ “ उत्थापनं भूतबलिर्दशाहे मध्ये कृतं चेत्कुलनाशहेतुः ” ॥ इति । '''स्मृत्यंतरे—'''
“ अंतर्दशाहे दर्शश्चेत्पिंडशेषं समापयेत् । उत्थापनं शांतिहोमं दशमेऽह्नि समाचरेत् ” ॥ इति ।
'''जाबालिः—'''
“ अंतर्दशाहे दर्श वा संक्रमे वा समाप्य तु । वपनं शांतिहोमं च दशाहांते समाचरेत् ॥
“ तस्मात्सर्वप्रयत्नेन दशाहे वपनं विदुः ” इति । ज्ञातीनामपि वपनमाह '''प्रचेताः—'''
१० “ ज्ञातयः सप्तमादर्वाक्कनिष्ठा दशमेऽहनि । वापयेयुश्च ते सर्वे कर्तृभिः सह सर्वदा ” ॥ इति ।
शांतिहोमकाले वपनमाहापस्तंबः ( )—“नापितकर्माणि च कारयंत एव प्रथमोऽलंकारः” इति ।
अंतर्दशाहे समापने केशवपनपूर्वकमेवोदकं देयम् । “प्रदद्युर्जातयः सर्वे क्षौरं कृत्वा तिलोदकम्” इति
स्मरणात् । “ वपनं कृत्वा स्नात्वैकवस्त्रा जलांजलीन् दद्युः ” इति प्रचेतःस्मरणात् ।
“ अकृत्वा वपनं मूढः प्रेतकर्म प्रवर्तते । उदकं पिंडदानं च श्राद्धं चैव च निष्फलम् ” ॥ इति
१५ स्मरणाच्च । एवं चांतर्दशाहसमापने ज्ञातीनां प्रथमदिने कंठादुपरि वपनाकरणे तर्पणात्पूर्वं कर्तव्य-
मेव । दशमदिनेऽपि शांतिहोमकाले शेषवपनं सर्वांगवपनं कार्यम् । बालादेः संस्कारादिप्रेतकृत्यं
बालाद्याशौचनिरूपणे सविस्तरं प्रतिपादितम् । अन्तर्दशाहागतपुत्रविषये । '''पारस्करः—'''
“ पुत्रस्यासंनिधाने यः पिंडदाने प्रवर्तते । तत्संनिधौ प्रवृत्तोऽपि संत्याज्यः पिंडदस्ततः ” ॥ इति ।
अत्र पिंडशब्दः नवश्राद्धैकोत्तरवृद्धिश्राद्धोपलक्षकः । तथा च '''स्मृत्यंतरेऽपि—'''
२० “ मुख्यकर्त्रागमेऽन्यस्तु प्रवृत्तोऽपि क्रियां त्यजेत् । ततस्तु कर्म कुर्वीत संस्कर्ता विसृजेत्ततः ॥
“ पुनस्तिलोदकं पिंडं नग्नप्रच्छादनं तथा । नवश्राद्धप्रदानादि सर्वं कर्म समाचरेत् ” ॥ इति ।
'''श्रीधरीये—'''
“दशाहकर्मण्यारब्धे संस्कारादौ कनीयसा । ज्येष्ठोऽथ त्वंतरागच्छेत्ततोऽस्य शेषं समापयेत्”॥ इति ।
कनिष्ठेन सोदरेण भिन्नोदरेण वा दाहादिप्रेतकृत्ये आरब्धे संचयात्पूर्वं परं वा आगतो ज्येष्ठः पुत्रः
२५ कनिष्ठकृतस्य प्रेतकृत्यस्य शेषं समापयेदित्यर्थः । तत्र संचयात्पूर्वमागतश्चेदुकृतकेशः संचयनमतीत-
कालोदकपिंडांश्च एकदा कृत्वा तत्तत्कालिकपिंडोदकनवश्राद्धाद्येकोद्दिष्टान्तं स्वकाले कृत्वा
द्वादशाहे सापिंड्यं च कुर्यात् । संचयात्परमागतश्चेदतीतकालापिंडोदकमात्रमेकदा कृत्वा तत्काल-
पिंडोदकाद्येकोद्दिष्टान्तं स्वस्वकाले कृत्वा श्रवणाद्दिनमारभ्य दशाहाशौचमनुष्ठायानंतरमाप्तुप्ताद्य-
मासिकादीन्युक्तकाले कृत्वा त्रिपक्षादौ सापिंड्यं कुर्यात् । न द्वादशाहे । तत्र तस्याशौचसंभवात् ।
३० तथा च '''स्मृत्यंतरे—'''
“ शृणोत्यन्निर्दशं पुत्रः पित्रोस्तु मरणं यदि । मृताहात्प्रेतकार्यं स्यात्तस्य शुद्धिर्दशाहतः ” ॥ इति ।
दशाहमध्ये संचयादूर्ध्वं यदि पितृमरणं शृणोति तद्विषयमिदं दशाहाशौचम् ।
“ पित्रोर्मृतौ चेद्दूरस्थः श्रुत्वा पितृविपर्ययम् । पुत्रः शुध्येद्दशाहेन संचयात्प्राक्तु शेषतः ” ॥ इति
स्मरणात् । अन्येन संस्कारे कृते संचयात्पूर्वमागतः पुत्रः पुनर्दहनादि सर्वं कृत्वा दशाहशेषेण
{{rule}} १ ग-सूतः । २ क्ष-प ।<noinclude></noinclude> 2ytr5b8by1kkyn83m93o0lr5kydvjxf पृष्ठम्:Smriti mukta phalam.pdf/६५७ 104 166660 419680 2026-11-10T12:05:26Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अन्तर्दशाहागतपुत्रविषये ।'''|६१७}} {{rule}} शुध्येत् । कनिष्ठेन कृते दाहे न पुनर्दाहः किं तु संचयादि सर्वं कृत्वा शेषेणैव शुध्येत् ।
तदुक्तं '''स्मृतिरत्ने—'''
“... नवीन पृष्ठं निर्मीत अस्ती 419680 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अन्तर्दशाहागतपुत्रविषये ।'''|६१७}} {{rule}} शुध्येत् । कनिष्ठेन कृते दाहे न पुनर्दाहः किं तु संचयादि सर्वं कृत्वा शेषेणैव शुध्येत् ।
तदुक्तं '''स्मृतिरत्ने—'''
“अन्येन यस्य संस्कारः कृतस्तस्यात्मजः पुनः । कुर्यादेव यथाशास्त्रमन्यथा किल्बिषी भवेत्”॥ इति ।
'''देवलश्च—'''
“ पुनर्दाहनमारभ्य श्राद्धांतं पैतृमेधिकम् । कृत्वांत प्रेतरूपस्य सपिंडीकरणं चरेत् ” ॥ इति । ५
अत्र पुनर्दाहे चिताग्निनाशे तदनुगतप्रायश्चित्तविधिनाग्निमुत्पाद्य पुनर्द्दहनाविधिनास्थ्याऽपि संस्कृत्य
एकादशाहे एकोद्दिष्टं द्वादशाहे सपिंडीकरणं च कुर्यादित्यर्थः । '''स्मृत्यंतरे च—'''
“ मंत्रवत्संस्कृतस्यापि ह्यसमानोदकस्य तु । अस्थिसंचयनादर्वाक्पुनर्दाहो विधीयते ॥
“ अस्थिसंचयनादूर्ध्वमसमानोदकस्य तु । पुनर्दाहं विना तत्र पिंडदानोदकक्रिया ” ॥ इति ।
'''अन्यत्रापि—''' १०
“ अस्थिसंचयनादर्वागागतो यदि पुत्रकः । ततस्तु कर्म कुर्वीत संस्कर्ता विसृजेत्तदा ॥
“ विसृष्टो भोजयित्वाऽन्ते ब्राह्मणांश्च विशुध्यति ” ॥ इति । कर्म पुनर्वेदनादिकर्म । अंते
संस्कर्तुः स्वाशौचांते विसृष्टः शुद्ध्यर्थं ब्राह्मणान्भोजयेदित्यर्थः । अथान्द्येन संस्कारे संचयने च
कृते संचयनात्परमागतेन पुत्रेण दाह्यादि न कार्यम् । अतीतपिंडोदकदानं नग्नप्रच्छादनादिकं
अवशिष्टदिनप्रेतकृत्यं चेत्युक्तं भवति । अन्येन कृते दाहे संचयात्पूर्वमागताऽपि पुत्रव्यतिरिक्त- १५
मुख्यकर्ता पुनर्दाहं न कुर्यात् । संचयनोदकायेव कुर्यात् ।
“ पुनर्दाहक्रियाः सर्वा मातापित्रोर्विशेषतः । इतरेषां तु सर्वेषां पुनर्दाहस्तु नेष्यते ” ॥ इति
पराशरस्मरणात् ।
'''असपिण्डाद्विवाहकानां मुख्यकर्तृसमागमे विधिः ।''' असपिंडश्चेद्वाहकत्र्ता तस्य संचयनात्पूर्वं
मुख्यकर्तृसमागमे सत्यनन्तरमाशौचमुदकदानं च नास्ति । संचयनात्परं मुख्यकर्तृदर्शने प्रेतान्नभोजने २०
च दशाहाशौचमुदकदानं च कार्यम् । पक्षिण्याशौचिनस्तु असपिंडदाहे संचयात्पूर्वं मुख्यकर्तृदर्शने
त्रिरात्रमाशौचम् । संचयनानन्तरं तद्दर्शने दशरात्रमाशौचमुदकदानं चास्ति । समानोदकादिषु
त्रिरात्राशौचिषु सपिंडेषु वा दहनं कर्तृषु सत्सु संचयनात्पूर्वं परं वा मुख्यकर्तृदर्शने दशाहामाशौच-
मुदकदानं च भवति । अन्यत्सर्वं निवर्तते । अत्र संवादाद्वचनानि । '''मनुः ( ५।१०१–१०२ )—'''
“ असपिंडं द्विजं प्रेतं विप्रो निर्हृत्य बंधुवत् । अनश्नन्नन्नमद्भिैव न चेत्तस्मिन्गृहे वसेन् ॥ २५
“ यद्यन्नमत्त्यघवतः स दशाहेन शुध्यति”॥ इति । '''शंखः—'''“त्र्यहं योनिबंधूनामाशीचं दहनादिषु”
आशौचमुदकस्याप्युपलक्षणम् । यावदाशौचमुदकमिति संस्कर्तुरुदकस्मरणात् । '''स्मृत्यंतरे च—'''
“अज्ञातिं च नरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् । ज्ञातीनां दर्शनाच्छुद्धिः संचिते दशरात्रकम् ”॥ इति ।
'''मांडव्यः—'''
“ शावे च सूतके चैव त्र्यहादुदकदायिनः । शवदाहं तु कुर्याच्चेद्दशाहांता भवेत् क्रिया ” ॥ ३०
'''भरद्वाजः—'''
“ यः समानोदकं प्रेतं वहेद्वाऽथ दहेत्तु वा । तस्याशौचं दशाहं स्यादन्येषां च त्र्यहं विदुः ” ॥
अन्येषां योनिबंधूनामित्यर्थः ।
{{rule}}<noinclude></noinclude> oyyfmygoe67mqoiu2otc19zhuzqu681 पृष्ठम्:Smriti mukta phalam.pdf/६५८ 104 166661 419681 2026-11-10T12:06:14Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६१८|'''दशमदिनागते मुख्यकर्त्तरि ।'''|}} {{rule}} '''गृह्यपरिशिष्टे—'''
“असगोत्रः सगोत्रो वा यदि स्त्री वा यदि पुमान् । प्रथमेऽहनि यः कर्ता स दशाहं समापयेत्”॥ इति
दशाह... नवीन पृष्ठं निर्मीत अस्ती 419681 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६१८|'''दशमदिनागते मुख्यकर्त्तरि ।'''|}} {{rule}} '''गृह्यपरिशिष्टे—'''
“असगोत्रः सगोत्रो वा यदि स्त्री वा यदि पुमान् । प्रथमेऽहनि यः कर्ता स दशाहं समापयेत्”॥ इति
दशाहमध्ये मुख्यकर्त्र्यागतेऽपि दौहित्रः समानोदकादिः सपिंडो वा संस्कर्त्ता दशाहमुदकमात्रं
समापयेत् । पिंडादिकमन्यत् सर्वं विसृजेदित्यर्थः । अतः संस्कर्ती विसृजेत्तत इत्यनेनास्य न
५ विरोधः । तथा च '''पारस्करः—'''
“ पुत्रो भ्राताऽथ शिष्यो वा अन्यो वा ब्राह्मणः सदा । प्रथमेऽहनि यः कर्ता कुर्यादेवाप्रदानतः ॥
“ एतैरारब्धपिंडस्य यद्यागच्छंति वै सुताः । तेऽपि कुर्युस्तु पूर्वोक्तपिंडदानं जलं तथा ” ॥ इति ।
पुत्रः कनिष्ठपुत्रः । अन्यो वा सपिंडः समानोदकादिः । अपां प्रदानं अष्प्रदानम् । आ अप्रदानादाऽ-
प्रदानतः । अभिविधावाकारः । दशमदिने देयोदकदानपर्यन्तमिति यावत् । पूर्वोक्तपिंडदानं संस्कर्ती
१० पूर्वदत्तानां पिंडानां दानं तथा जलं तिलत्रारिति । एतदुक्तं भवति । कनिष्ठपुत्रभ्रात्रादिः संस्कर्ता
स्वस्वाशौचपर्यन्तं मुख्यकर्त्र्यागमेऽप्युदकदानमात्रं दद्यात् । अंतरासमागतो मुख्यकर्ता तु अतीतदिन-
विहितपिंडोदकान्येकदा दत्वा तात्कालिकानि शेषाणि प्रेतकार्याणि च तत्काले कुर्यादिति ।
ननु “तेऽपि कुर्युस्तु पूर्वोक्तपिंडदानं जलं तथा ” इति पारस्करवचनस्य ‘ज्येष्ठोऽथ वांतरा
गच्छेत् सोऽस्य शेषं समापयेत् ’ इति श्रीधरीयवचनेन विरोध इति चेन्नैवम् । श्रीधरीयवचन-
१५ प्राप्तातीतपिंडोदकदाननिषेधस्य आर्थिकत्वेन दौर्बल्यांतेऽपि कुर्युरीति पिंडोदकदानस्य कंठोक्त-
त्वेन प्राबल्यात् ।
“ उत्तरीयशिलापात्रद्रव्यकर्तृविपर्यये । पूर्वदत्तोञ्जलीन्पिंडान्पुनरित्याह गौतमः”॥ इति
कर्तृविपर्यये दत्तपिंडोदकानां पुनर्विधानाच्च । यत्तु '''शातातपः—'''
“ अन्यगोत्रोऽप्यसंबंधः प्रेतस्याग्निं ददाति यः । उदकं पिंडदानं च स दशाहं समापयेत् ” ॥ इति ।
२० तस्यार्थः—दशाहनिर्वर्तनीयं पंचसप्ततिसंख्याकं उदकं पिंडदशकं च मुख्यकर्त्रभावे स्वाशौचान्ते
समापयेदिति । यद्वा प्रेतान्नभोजने सति दशाहेन उदकादि समापयेदिति । अत एव स्मृत्यन्तरम्—
“ असपिंडो यदि दहेत् द्वितीये त्वस्थिसंचयः । एकोद्दिष्टं तृतीयेऽन्हि मरणात्तु विधीयते” ॥ इति ।
अस्थिसंचयग्रहणं तिलोदकादेरप्युपलक्षणम् । एतच्च प्रेतान्नभोजनरहितासपिंडविषयम्
“ यः प्रमीतमलं कुर्याद्दहेद्वाथ दहेत् द्विजम् । स शुद्ध्येत्येककालेन कालशेषं बहिर्वसेत् ॥
२५ “ ग्रामे वसन् दिनाच्छुध्येत् त्र्यहात्प्रेतगृहे वसन् । निर्हृत्य यो मृतान्नं च भुंक्ते स तु दशाहतः”॥ इति
स्मरणात्—‘ ग्रामे वसन् दिनाच्छुध्येत् ’ इत्येतदहनानंतरं मुख्यकर्तृसमागमे सति संचयनादि-
प्रेतक्रियाया अकरणे वेदितव्यम् । मुख्यकर्तुरभावे प्रेतक्रियाया करणे तृतीयदिनविहितैकोद्दिष्टेन
शुद्धिः । “ एकोद्दिष्टांत एव स्यात्संस्कर्तुः शुद्धता त्वघात् ” इति बोधायनेन संस्कर्तुरेकोद्दिष्टां-
तेनैव शुद्धिरमरणात् । प्रेतान्नभोजनेन तु दशाहतः शुद्धिः क्रिया चेति ज्ञेयम् ।
३० '''दशमदिनागतमुख्यकर्तृविषयः ।''' कनिष्ठादिना संस्कारादिनवदिनपर्यन्तप्रेतकृत्ये कृते
सति दशमदिनेवागते मुख्यकर्ता उत्केशो नवभिर्दिवसैर्देयांस्तिलोदकपिंडानेकदैव दत्वा प्रभूतबलिं
दत्वा तत्कालोदकं दशमपिंडं च दत्वा सर्वांगवपनं शेषवपनं वा कृत्वा शांतिहोमं परिसमापयेत् ।
ततः श्रवणदिनमारभ्य दशाहाशौचस्य सत्त्वेऽपि मरणदिनमारभ्य एकादशदिने आद्यश्राद्धं कृत्वा
आशौचांनंतरमुक्तकाले आवृत्ताद्यश्राद्धादीनि कृत्वा त्रिपक्षे सपिंडनं कुर्यात् ।
{{rule}} १ क-दिने दिवगतो ।<noinclude></noinclude> lon7wto37nv5qd2s5vsm89aiaqtd054 पृष्ठम्:Smriti mukta phalam.pdf/६५९ 104 166662 419682 2026-11-10T13:19:44Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''एकादशेऽन्हि अपराह्नादायनपुत्रविषये ।'''|६१९}} {{rule}} तथा च '''स्मृत्यंतरम्—'''
“ नवभिर्दिवसैर्देयान्नवपिंडान्समागतः । दशमं पिंडमुत्सृज्य रात्रिशेषेण शुध्यति... नवीन पृष्ठं निर्मीत अस्ती 419682 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''एकादशेऽन्हि अपराह्नादायनपुत्रविषये ।'''|६१९}} {{rule}} तथा च '''स्मृत्यंतरम्—'''
“ नवभिर्दिवसैर्देयान्नवपिंडान्समागतः । दशमं पिंडमुत्सृज्य रात्रिशेषेण शुध्यति ” ॥ इति ।
दशमदिने समागतो मुख्यकर्त्ता नवभिर्दिवसैर्देयान्नवपिंडान् दत्वा दशमं च पिंडं दत्वा रात्रि-
शेषेण पुत्रव्यतिरिक्तकर्त्ता विशुध्यतीति । पुत्रोऽपि आशौचस्य सत्त्वेऽपि एकोद्दिष्टाधिकारी भव-
तीत्यर्थः । यदाह '''शंखः—''' ५
“ आद्यश्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिःशुद्धः पुनरेव सः ” ॥ इति ।
रात्रिशेषेण शुध्यतीत्यन्यथा कैश्चिद्व्याख्यातम् । रात्रिशेषेण शुद्धिस्मरणादिदं संचयात्प्रागागतज्येष्ठ-
पुत्रविषयं ‘संचयात्प्राक्तु शेषतः ’ इति दशाहशेषेण तस्यैव शुद्धिस्मरणादिति । तदसाधु । संचया-
त्प्रागागतज्येष्ठपुत्रविषयत्वरूपविशेषस्य तत्राप्रतीतेः । संचयात्पूर्वं परं वा दशमदिने आगतमुख्य-
कर्तृमात्रस्याविशेषेण पिंडोदकसमापनप्रतीतेः । ‘ रात्रिशेषेण शुध्यतीति ’ एतस्य च दशमदिना- १०
गतस्य मुख्यकर्तुः पुत्रव्यतिरिक्तस्य
“ विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ” ॥ इति
दशमदिनोत्तरकालमाशौचाभावेन मुख्यर्थत्वसंभवात्पुत्रस्य श्रवणादिदशाहाशौचसत्वेऽपि दशाह-
पिंडोदकसमापनेन एकोद्दिष्टार्थे शुद्धिप्रतिपादनपरत्वेनाप्युपपत्तेः । अतः सर्वोऽपि दशमदिनागतो
मुख्यकर्ता स्वोचितं प्रेतकर्म तस्मिन्नहनि कृत्वा मरणाद्येकादशदिने आद्यैकोद्दिष्टमाशौचापगमा- १५
नंतरं विहितकालेषु आवृत्ताद्यमासिकादीनि च कुर्यात् । ननु
“ श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत् । पुत्रः शुध्येद्दशाहेन संचयात् प्राक् तु शेषतः ” ॥
इत्यादिना संचयात्परं मृतिश्रवणे पुत्रस्य दशाहाशौचविधानाद्यावदाशौचं पिंडोदकविधानाच्च
दशमदिनश्रवणे तदादिदशाहोदकदानप्रसंगः । ततश्च ‘नवभिर्दिवसैर्द्दद्यात् ’ इति दशाहे पिंडसमा-
पनवचनं पुत्रव्यतिरिक्तमुख्यकर्तृविषयं वा अकृतास्थिसंचयनविषयं वा स्यात् २०
“ सपिंडीकरणात्पूर्वमस्थिसंचयनं भवेत् । एकादशाहे मासांते वाऽस्थिसंचयनं भवेत् ” ॥
इत्यादिभिः सपिंडीकरणात्पूर्वमस्थिसंचयनस्य विहितत्वादिति चेन्न
“शृणोत्यन्निर्दशं पुत्रः पित्रोस्तु मरणं यदि । मृताहात्प्रेतकार्यं स्यात्तस्य शुद्धिर्दशाहतः”॥ इति वचनेन
अंतर्दशाहश्रवणे तदादिदशदिनाशौचस्य सत्त्वेऽपि मृतदिनादिदशाहत एव प्रेतकार्यसमापनस्य
कंठतः प्रतिपादनात् । अपवादभूतेन “ यावदाशौचं प्रेतस्योदकम् ” इति ( १९।१३ ) विष्णु- २५
वचनस्य दशाहांतशवगादिविषयांतरसंभवादुत्सर्गस्य बाधनात् ।
'''एकादशेऽह्नि अपराह्नात्पूर्वमागतपुत्रविषये । पैठीनसिः—'''
“दशरात्रे व्यतीते तु पित्रोश्चेदौर्ध्वदेहिकम् । पुत्रः कुर्यात्तदाशौचं दशरात्रमिति स्मृतम् ” ॥ इति ।
अत्र '''पितृमेधसारकृत्—'''“ कृते दशाहकृत्ये श्रुतैकादशाहे त्वागतः पुत्रः उत्केशः एकोद्दिष्टं कृत्वा
दशाहतिलोदकं दद्यात् । अकृते दशाहकृत्येऽनिर्दशाहे पित्रोर्मृतिश्रुतौ श्रुताहादिदशाहांतमुदकादि ३०
कृत्वा एकादशाहे एकोद्दिष्टं कृत्वा त्रिपक्षे सपिंडनं कुर्यात् ” इति । अकृते दशाहकृत्ये
दशदिनरात्रावागतोऽपि
“शुक्रवारेऽप्यतिक्रांते मातापित्रोस्तथैव च । संध्यारात्र्योस्तथा क्षौरं प्रेतकार्यं च नाचरेत्”॥ इति ।
“ दिवाैव तर्पणं कुर्यान्नापराह्णे तु संचयः” इति दाहदिनव्यतिरिक्तदिने रात्रौ उदकदानादिनिषेधा-
त्तत उत्तरं दशाहकृत्यं परिसमाप्य एकादशाहे आद्यश्राद्धं कुर्यात् । ३५
{{rule}}<noinclude></noinclude> 29u33lvcfugzf2zeh4tkcywg5lhxrkj पृष्ठम्:Smriti mukta phalam.pdf/६६० 104 166663 419683 2026-11-10T13:20:46Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६२०|'''कनिष्ठादिकृतसापिंड्यस्य ज्येष्ठेन पुनःकरणम् ।'''|}} {{rule}} अयमत्र '''पितृमेधसारकृतोऽभिमतः पैठीनसिवचनार्थनिष्कर्षः—'''अन्येन सपिंडादिना कृते
दहनादिदशाहक... नवीन पृष्ठं निर्मीत अस्ती 419683 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६२०|'''कनिष्ठादिकृतसापिंड्यस्य ज्येष्ठेन पुनःकरणम् ।'''|}} {{rule}} अयमत्र '''पितृमेधसारकृतोऽभिमतः पैठीनसिवचनार्थनिष्कर्षः—'''अन्येन सपिंडादिना कृते
दहनादिदशाहकृत्ये संचयात् प्रागेकादशाहे पितृमृतिं श्रुत्वा समागतः पुत्रः पुनर्दहनादि सर्वं
तदा कृत्वा एकोद्दिष्टं च कृत्वा तदारभ्य दशरात्राशौचानुष्ठानमुदकं च कुर्यात् । संचयनात्परमे-
कादशाहे आगतः वृषोत्सर्जनपूर्वकाद्यैकोद्दिष्टं कृत्वा तदारभ्याशौचमुदकमात्रं च कुर्यात् ।
५ कनिष्ठेन तु दशाहकृत्ये कृते संचयात्पूर्वं परं वा आगतो ज्येष्ठपुत्रः
“प्रेतकृत्ये तु निर्वृत्ते पुत्र एकादशेऽहनि । आगते तद्दिने त्वंत्यं पिंडोदकसमापनात्” ॥ इति वचनेन
वृषोत्सर्जनमेकोद्दिष्टं च कृत्वा तत् आरभ्य दशाहाशौचानुष्ठानमुदकमात्रं च कुर्यान्न पिंडदानम् ।
“ मुख्यकर्ता विदेशस्थः काले काले श्रुतो यदि । तिलवारि प्रकुर्वीत पिंडदानं विवर्जयेत् ” ॥ इति
स्मरणात् । काले एकोद्दिष्टकाले एकादशाह इति यावत् । अकाले एकादशाहानंतरकाल इत्यर्थः ।
१० अत्र सर्वत्र त्रिपक्षादौ सपिंडीकरणम् । अकृते दशाहकृत्ये आगतदिनमारभ्य दशाहकृत्यं
परिसमाप्य एकादशाहे एकोद्दिष्टं त्रिपक्षादौ सापिंड्यं कुर्यादिति । अन्ये तु पैठीनसिवचन-
मन्यथा व्याचक्षते—दशरात्रे व्यतीते एकादशदिने पित्रोर्मृतिश्रवणे पुत्रः तदा तस्मिन्नेवाहनि
और्ध्वदेहिकं वपनपूर्वकं परिसमाप्य एकोद्दिष्टं कृत्वा एकादशाहामारभ्याशौचमात्रमनुतिष्ठेन्न
तिलोदकमिति । तन्मंदं “ कनीयसा कर्मसमाप्तिं चेच्छ्राद्धात्पुरो ज्येष्ठसमागतिश्चेत् ।
१५ “ तस्मिन्दिने श्राद्धमेकं समाप्य पश्चाद्दशाहात्तु तिलोदकं च ॥
“ कृतक्रियेऽपि पितरि दशाहं सूतकी भवेत् । दद्यात्तिलोदकं पुत्रः सपिंडीकरणं पुनः ॥
“ मुख्यकर्ता विदेशस्थः काले काले श्रुतो यदि ” इत्यादिभिः षट्त्रिंशन्मतादिवचनैरेकोद्दिष्टा-
नंतरमप्युदकदानविधानात् ।
“ कनिष्ठादिकृतसापिंड्यस्य ज्येष्ठेन पुनःकरणम् । यद्येकोद्दिष्टान्तं पुत्रोऽन्यो वा
२० कुर्यात् विदेशस्थः पुत्रः श्रुत्वा वपनं कृत्वा दशाहमुदकमात्रं दद्यात् । सपिंडीकरणं चान्यकृतं
कनिष्ठकृतं वा पुनः कुर्यात् । अत्र '''गार्ग्यः—'''
“ कृतक्रियेऽपि पितरि दशाहं सूतकी भवेत् । दद्यात् तिलोदकं पुत्रः सपिंडीकरणं पुनः ” ॥
'''वृद्धशातातपः—'''
“ अग्रजो वाऽनुजो वाऽपि पित्रोरवगतो मृतिम् । वापयित्वाऽथ केशादीन्सचैलमवगाहयेत् ॥
२५ “ आ दशाहं ब्रह्मचारी दत्वा चैव तिलोदकम् । सपिंडीकरणं कुर्यादन्येन च कृतं यदि ” ॥ इति ।
अग्रजस्तिलोदकं दशाहं दत्वा अन्यकृतमपि सपिंडीकरणमेकादशाहे पुनः कुर्यात् । अनुजस्तु
दशाहं तिलोदकमात्रं दद्यादित्यर्थः । '''माधवीये—'''
“ देशांतरे स्थितः पुत्रः श्रुत्वा पितृविपर्ययम् । कृत्वा तु वपनं दत्वा दशाहांतं तिलोदकम् ॥
“ सपिंडीकरणश्राद्धं कुर्यादेकादशेऽहनि ” ॥ इति । एकोद्दिष्टस्य पूर्वमन्येन कृतत्वादेका-
३० दशाहे पुनस्तस्य विधानाभावात्तत्र सपिंडीकरणमेव कुर्यात् । न पुनः षोडशश्राद्धानीत्यर्थः ।
एतच्च एकादशाहे सपिंडनं पुनःकरणविषयम् । अन्यथा त्रिपक्षादावेव कुर्यात् । षट्त्रिंशन्मते—
“ आगतो ज्येष्ठपुत्रस्तु प्रेतकृत्ये समापिते । एकादशेऽह्नि सापिंड्यमुक्तकालव्यतिक्रमे ” ॥ इति
प्रेतकृत्ये सपिंडीकरणांतकृत्य इत्यर्थः । '''चंद्रिकायाम्—'''
“ ज्येष्ठेन वा कनिष्ठेन सपिंडीकरणे कृते । देशांतरगतानां तु पुत्राणांहि कथं भवेत् ॥
३५ “ श्रुत्वा तु वपनं कृत्वा दशाहांतं तिलोदकम् । ततः सपिंडीकरणं कुर्यादेकादशेऽहनि ।
{{rule}} १ क्ष-मतं । २ ग-पिण्डदानं ।<noinclude></noinclude> 9w3z0qtno0ydt28d0xtpi1sf2db2xcd पृष्ठम्:Smriti mukta phalam.pdf/६६१ 104 166664 419684 2026-11-10T13:21:44Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''वत्सरांते मातापितृमृतिश्रवणम् ।'''|६२१}} {{rule}} “ द्वादशाहेन कर्तव्यामिति शातातपोऽब्रवीत् ” । सर्वज्येष्ठः पुनः कुर्यादित्यर्थः । '''शातातपः—'''
“ श्रवणाहे न कु... नवीन पृष्ठं निर्मीत अस्ती 419684 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''वत्सरांते मातापितृमृतिश्रवणम् ।'''|६२१}} {{rule}} “ द्वादशाहेन कर्तव्यामिति शातातपोऽब्रवीत् ” । सर्वज्येष्ठः पुनः कुर्यादित्यर्थः । '''शातातपः—'''
“ श्रवणाहे न कुर्वीत भोजनं मैथुनं तथा । दशाहांतेऽनुजः कुर्यात्पार्वणश्राद्धमादरात् ॥
“ ज्येष्ठः सपिंडीकरणं पुनः कुर्यात् कृतं यदा ” ॥ इति । अन्येन कृते एकोद्दिष्टान्तकृत्ये अनंतर-
मागतोऽनुजः दशाहमुदकं दत्वा दशाहांते एकादशाहे अग्रजासंनिधाने पार्वणं सपिंडीकरणं
कुर्यात् । तत्कृतमपि सापिंड्यमग्रजः पुनः कुर्यादित्यर्थः । '''स्मृत्यंतरे—''' ५
“ कृते श्राद्धे ज्येष्ठपुत्र आगच्छेत्तु कथं भवेत् । तिलोदकं तु निर्वर्त्य त्रिपक्षे तु सपिंडनम् ॥
“ कनिष्ठेनैव विधिवत् सपिंडीकरणे कृते । ज्येष्ठेनापि च कर्तव्यं सपिंडीकरणं पुनः ॥
“विभक्तो वाऽविभक्तो वा मातापित्रोः सपिंडनम् । कथंचिदनुजः कुर्याद्भूयः कुर्यात्तदग्रजः”॥ इति ।
ज्ञात्यादिना सापिण्ड्यान्ते कृते ज्येष्ठासंनिधाने सर्वे विभक्ताः पुत्राः एकादशाहे सापिंड्यं पुनः
कुर्युः । पश्चादागतो ज्येष्ठोऽपि पुनः कुर्यात् इत्याह '''बृहस्पतिः—''' १०
“ सपिण्डीकरणं पित्रोः पितृयज्ञविधानतः । पुत्राः सर्वे पृथक्कुर्युर्यदा ज्येष्ठो न कारयेत् ।
“ अग्रजेन कृतं कर्म नानुजेन पुनः कृति ” इति । सर्वे ज्येष्ठसंनिधाने विभक्ता अपि पृथक् न
कुर्युः । ज्येष्ठ एक एव कनिष्ठानुमत्या संपृक्तद्रव्येण सापिंड्यं पुनः कुर्यात्
“ नवश्राद्धं सपिंडत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ” ॥ इति
स्मरणात् । अविभक्तविषये तु अन्यकृते सपिंडीकरणे सर्वज्येष्ठासंनिधाने विद्यमानेषु ज्येष्ठ १५
एव पुनः कुर्यान्न सर्वे । ज्येष्ठोऽपि श्रुत्वा पुनः कुर्यात्
“ ज्येष्ठे संनिहिते वार्ते वर्तमाने क्रियांतरे । पित्रोः पुत्रेण कर्तव्यं द्वितीयेनानुजेन वा ॥
“ सर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत् ॥
“ ज्येष्ठः सपिंडीकरणं पुनः कुर्यात्कृतं यदा ” ॥ इत्यादिसमरणात् ।
'''वत्सरान्ते मातापितृमृतिश्रवणम् । स्मृत्यंतरम्—''' २०
“ पितरि प्रोषिते प्रेते पुत्रः कुर्यात्क्रियादिकम् । संवत्सरेऽप्यतीतेऽपि दशरात्रं यथाविधि ” ॥ इति ।
'''पुराणे—'''
“पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत्”॥ इति ।
'''विज्ञानेश्वरीये च ( पृ. १७९ पं. १२–१३ )—'''
“महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना । अतीतेऽब्देऽपि कर्तव्यं प्रेतकार्यं दशाहतः ” ॥ इति । २५
'''स्मृत्यर्थसारे च—'''“मातापितृमरणे दूरदेशेऽपि वत्सरादूर्ध्वमपि पुत्रः श्रुत्वा श्रवणादिनादि स्वजात्युक्त-
दशाहाद्याशौचं कुर्यात् । अतीतवत्सरप्रेतस्य प्रथमवत्सरविहितसोदकुंभानुमासिककेशधारणादीनां
द्वितीयवत्सरे कर्तव्यताविधानादर्शनात्तानि न कार्याणि । मृतमासे मृततिथौ वाऽऽब्दिकश्राद्धमेव ।
मृतमासाद्यज्ञाने तत्तत्काले कार्यम् । अनतीतवत्सरप्रेतकृत्ये त्वाब्दिकपर्यन्तं स्वे स्वे काले शिष्टानि
ऊर्ध्वभावीनि सोदकुंभानुमासिकानि कृत्वा मृतमासतिथावाब्दिकं कुर्यात् । ३०
“ अस्थ्नापलाशवृंतैर्वा दग्ध्वा तु विधिपूर्वकम् । एकादशे द्वादशे वा मासिकानि सपिंडनम् ॥
“कृत्वा तु पुनरावृत्त्या मासिकानि तु तद्दिने । यावदाब्दिकपर्यंतमिति शातातपोऽब्रवीत् ”॥ इति ।
'''शतकेऽपि—'''
“ दशरात्रं सदा पित्रोः परोक्षमरणश्रुतौ । त्र्यहं मातृसपत्न्यास्तु दशाहं वत्सरादधः ॥
“ कृतौर्ध्वदैहिकेऽप्यब्दे दिनं तस्यास्त्र्यहं तयोः ” ॥ इति । ३५
{{rule}} ७९-१०<noinclude></noinclude> 9qsvcywwt6zruy3mq142vdtfrxbus9q पृष्ठम्:Smriti mukta phalam.pdf/६६२ 104 166665 419685 2026-11-10T13:22:49Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६२२|'''सपत्नीमातुरौरसपुत्रासंनिधाने ।'''|}} {{rule}} शतककृतैवैतत् व्याख्यातम्—वत्सरमध्ये तत्परं वा मातापित्रोरसंनिधानमरणे सर्वेषामपि पुत्राणां
दशाहमाशौचम् । स... नवीन पृष्ठं निर्मीत अस्ती 419685 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६२२|'''सपत्नीमातुरौरसपुत्रासंनिधाने ।'''|}} {{rule}} शतककृतैवैतत् व्याख्यातम्—वत्सरमध्ये तत्परं वा मातापित्रोरसंनिधानमरणे सर्वेषामपि पुत्राणां
दशाहमाशौचम् । सपत्नीमातुस्तु असमक्षश्रुतौ श्रुतायां वर्षात्परं त्र्यहमेव । तत्पूर्वं तु दशाहम् ।
अत्र विशेषः । ज्येष्ठेन कृते और्ध्वदेहिके अब्दे चातिक्रांते तस्याः सपत्नीमातुः परोक्षमरणश्रवणे
दिनम् । तयोर्मातापित्रोस्तच्छ्रुतौ कनिष्ठस्य त्र्यहम् ।
५ “पितरि प्रोषिते प्रेते पुत्रो देशांतरं गतः । कृतक्रिये त्रिरात्रं स्याद्दशाहमकृतक्रिये ” ॥ इति वत्सरा-
दूर्ध्वश्रवणे कृतक्रिये त्रिरात्रविधिः कनिष्ठविषय एव । ज्येष्ठस्य तु
“ कृतक्रियेऽपि पितरि दशाहं सूतकी भवेत् । दद्यात्तिलोदकं पिंडं सपिंडीकरणं पुनः ” ॥ इति
दशाहविधानात् कृतस्यापि सपिंडीकरणस्य पुनःकरणाविधानसामर्थ्याज्ज्येष्ठविषयत्वमस्यावगम्यते ।
तथा च '''पैठीनसिः—'''
१० “ प्रोषितभ्रातृमरणे दत्तपिंडोदकक्रिये । त्रिरात्रं सूतकं तत्र दशाहं पुत्रभार्ययोः ” ॥ इति ।
कृतक्रियेऽपि पितरि भर्तरि च ज्येष्ठपुत्रभार्ययोर्दशाहमित्यर्थः । एवं च वत्सरादूर्ध्वं पितृमृतिश्रवणे
ज्येष्ठपुत्रः दशाहमाशौचमुदकं चानुष्ठाय कृतमपि सपिंडीकरणं पुनः कुर्यात् । कनिष्ठपुत्रस्तु
कृतक्रिये त्रिरात्रमाशौचं उदकमात्रं च कुर्यादिति ।
अत्र केचिदाहुः—“संवत्सरे व्यतीतेऽपि दशरात्रं यथाविधि” इत्यादीनि वत्सरादूर्ध्वं श्रवणे दशाह-
१५ प्रतिपादकवचनानि अकृतक्रियपितृविषयाणि । ‘ कृतक्रिये त्रिरात्रं स्यात् ’ इति वचनं वत्सरादूर्ध्वं
पितृमरणश्रवणे कृतक्रिये पितरि ज्येष्ठादीनां सर्वेषामपि पुत्राणामविशेषेण त्रिरात्राशौचोदकदान-
प्रतिपादनपरम् । “कृतक्रियेऽपि पितरि दशाहं सूतकी भवेत् । अग्रजो वाऽनुजो वाऽपि” इत्यादीनि
कृतक्रियविषये दशाहाशौचप्रतिपादकानि वत्सरात्पूर्वं पितृमरणश्रवणविषयाणि ।
यच्चोक्तम्—“सपिंडीकरणं पुनः” इति पुनःकरणविधानसामर्थ्येन कृतक्रियेऽपि पितरीति
२० दशाहाशौचज्येष्ठपुत्रविषयत्वमवगम्यत इति तदपि न । अन्येन कृतक्रियपितृविषये पुत्रमात्रस्य पुनः-
सपिंडीकरणविधानाेपपत्तेः। सामर्थ्याभावेन ज्येष्ठैकविषयत्वाप्रतीतेः। एवं च वत्सरादूर्ध्वं कृतक्रिय-
पितृमरणश्रवणे ज्येष्ठपुत्रोऽपि त्रिरात्राशौचमुदकं चानुष्ठाय चतुर्थदिने सापिंड्यं कुर्यात् । वत्सरात्
पूर्वं मृतिश्रवणे सर्वेऽपि पुत्रा दशाहाशौचमुदकं च कुर्युः । ज्येष्ठपुत्रस्तु कृतमपि सापिंड्यं एका-
दशाहे पुनः कुर्यादिति यथोचितमत्र द्रष्टव्यम् ।
२५ '''सपत्नीमातृविषये ।''' सपत्नीमातुर्वर्षात्पूर्वं मृतिश्रवणे सर्वेऽपि पुत्रा दशाहामाशौचमुदकं
च कुर्युः । वर्षात्परं श्रुतिश्रवणे त्र्यहम् । तथा '''वरदराजीये—'''
“ प्रागब्दाज्जननीसमं विशतु तत्प्रेतोदकादिक्रियाम् ।
“तस्मात्परि गौणमातुमरणं श्रुत्वा सद्गावं त्र्यहम्”॥इति । '''विज्ञानेश्वरीये च (पृ. १७९ पं. १५–१६)—'''
“ पितृपत्न्यामतीतायां मातृवच्च द्विजोत्तमः । संवत्सरेऽप्यतीतेऽपि त्रिरात्रमशुचिर्भवेत् ” ॥ इति ।
३० '''सपत्नीमातुरौरसपुत्रासंनिधाने भिन्नोदरेण कृते दाहादौ तदागतौरसपुत्रः स्वकनिष्ठकृते याव-
द्दत्तावदेव कुर्यात् ।'''
“ बह्वीनामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण पुत्रिणीर्मनुरब्रवीत् ” ॥ इति
तेन तस्याः पुत्रित्वाभिधानात् । '''संग्रहेऽपि—'''
“ भिन्नोदरकृते कृत्य एकाहाये त्वागतौरसः । स्वकनिष्ठकृते यावत्तावदेवान्वरेत्तदा”॥ इति ।
३५ सपिंडीकरणं भिन्नोदरज्येष्ठकृतमपि कनिष्ठोऽप्यौरसः पुनः कुर्यात् स्वकनिष्ठकृते यावदित्युक्तत्वात् ।
{{rule}}<noinclude></noinclude> 3j4ipfg3mo242ted4zceuk2qfzqo9nx पृष्ठम्:Smriti mukta phalam.pdf/६६३ 104 166666 419686 2026-11-10T13:23:40Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''प्रोषितभ्रातृ, अपुत्रसपिण्डविषये ।'''|६२३}} {{rule}} '''प्रोषितभ्रातृविषये ।'''
'''भ्रातृविषये पैठीनसिः—'''
“ प्रोषितभ्रातृमरणे दत्तपिंडोदकक्रिये । त्रिरात्रं सू... नवीन पृष्ठं निर्मीत अस्ती 419686 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''प्रोषितभ्रातृ, अपुत्रसपिण्डविषये ।'''|६२३}} {{rule}} '''प्रोषितभ्रातृविषये ।'''
'''भ्रातृविषये पैठीनसिः—'''
“ प्रोषितभ्रातृमरणे दत्तपिंडोदकक्रिये । त्रिरात्रं सूतकं तत्र दशाहं पुत्रभार्ययोः ” ॥ इति ।
'''अत्र विशेषमाह गालवः—'''
“कृतोदके तु षण्मासात्पक्षिण्याशौचमिष्यते । अर्धं च त्रिदिनं ग्राह्यं अकृतोदके दशाहिकम्”॥ इति । ५
षण्मासादूर्ध्वं भ्रातुर्धं पक्षिणीत्यर्थः । तथा च '''स्मृत्यंतरे—'''
“ भ्रातुर्देशांतरमृती षण्मासाद्वत्सरादधः । दशरात्रं त्रिरात्रं स्याद्दशाहं दाहकस्य तु ” ॥ इति ।
दाहकस्य भ्रातुः । '''अन्यत्रापि—'''
“ देशांतरमृतिर्यत्र त्वनुजाग्रजयोः श्रुता । षण्मासाद्वत्सरादर्वाग्दशाहं त्र्यहमाचरेत् ” ॥ इति ।
ज्ञात्यादिविषये ‘ मासत्रये त्रिरात्रं स्यात् ’ इत्युक्तमाशौचमुदकं च ज्ञेयम् । १०
'''अपुत्रसपिण्डमरणविषये ।''' अपुत्रस्य सपिंडस्याकृतसंस्कारस्यैकादशाहात्परं मरण-
श्रवणे पुनर्दहनं कृत्वा यावत् स्वाशौचं उदकं च पिंडं च दत्वा आशौचान्तेएकोद्दिष्टं परदिने
सापिंड्यं च कुर्यात् । अब्दात्परं श्रवणे एकाहेन पुनर्दहनपिंडोदकानि समाप्य द्वितीये श्राद्धं
तृतीये सपिंडनं च कुर्यात्
“ अतीतेऽब्दे तु संस्कारे एकाहात्पिंडमर्पयेत् । श्राद्धं दद्यात् द्वितीयेऽह्नि तृतीयेऽह्नि सपिंडनम्”॥ इति १५
स्मरणात्—
'''कृतप्रेतकृत्यविषये पिण्डनिषेधः ।''' कृतप्रेतकृत्यस्य सपिंडस्य मरणश्रवणे उदकमात्रं
दद्यात् । न तु पिंडान् । ‘एकोद्दिष्टसापिंड्ये च कुर्यात् । कृतैकोद्दिष्टस्य सपिंडादेर्मरणश्रवणे उदकं
सापिंड्यं च कुर्यात् । अन्येन कृतमपि सपिंडीकरणं सपिंडदौहित्रादिः पुनः कुर्यात् । कनिष्ठादिना
निर्वृत्तपिंडोदकादिदशाहकृत्यस्य पित्रोरेकादशदिनादौ मरणश्रवणे ज्येष्ठादिर्मुख्यकर्ता यावत्स्वा- २०
शौचमुदकमात्रं दद्यात् । न तु कनिष्ठादिकृतपिंडादिदशाहकृत्यं पुनः कुर्यात्
“ मुख्यकर्ता विदेशस्थः काले काले श्रुतो यदि । तिलवारि प्रकुर्वीत पिंडदानं विसर्जयेत् ॥
“ कृतक्रियेऽपि पितरि दशाहं सूतकी भवेत् । दद्यात्तिलोदकं पुत्रः सपिंडीकरणं पुनः ” ॥ इत्यादि-
पूर्वोदाहृतवचनैरुदकमात्रस्य पुनर्विधानात् पिंडदानस्य च निषेधात् ।
ननु “मुख्यकर्ता विदेशस्थो मातापित्रोर्मृतौ यदि । संवत्सरे व्यतीतेऽपि कुर्यात्प्रेतक्रियां तदा”॥ इति २५
वचनात् दाहादि सर्वं मुख्यकर्त्री कर्तव्यमिति चेन्न । अन्यकृतस्यात्र पुनःकर्तव्यत्वाप्रतीतेः ।
चिरकालातिक्रमेऽपि पित्रोर्दशाहोदकक्रियाविधिपरत्वात्
“ देशान्तरस्थौ पितरौ मृतौ चेदन्योऽपि कुर्यादखिलं च पित्र्यम् ।
“ दाहं विना तानि पुनस्तु पित्रोज्येष्ठस्तु कुर्यादनुजैः सपिण्डम् ” इति वचनात्त्दाह-
व्यतिरिक्तं सर्वं पुनःकरणीयमिति चेन्न । अस्यातिक्रांतविषयत्वाप्रतीतेर्दशाहमध्यागतमुख्यकर्तृ- ३०
विषयत्वेन चरितार्थत्वात् । तथा च '''स्मृत्यंतरे—'''
“ मुख्यकर्त्रागमेऽन्यस्तु प्रवृत्तोऽपि क्रियां त्यजेत् । ततस्तु कर्म कुर्वीत संस्कर्ता विसृजेत्ततः ॥
“ पुनस्तिलोदकं पिंडं नग्नप्रच्छादनं तथा । नवश्राद्धप्रदानानि सर्वं कर्म समाचरेत् ” ॥ इति ।
'''पारस्करोऽपि—'''
“ एतैरारब्धपिंडस्य यद्यागच्छंति वै सुताः । तेऽपि कुर्युस्तु पूर्वोक्तपिंडदानं जलं तथा” ॥ इति । ३५
{{rule}} १ गक्ष-अधश्चेत् । २ ख-स्य । ३ क्ष-यत् ।<noinclude></noinclude> 18ryrfsqflfy4tr3j53tu81zedpqkj6 पृष्ठम्:Smriti mukta phalam.pdf/६६४ 104 166667 419687 2026-11-10T13:24:44Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६२४|'''ज्येष्ठ आगते ।'''|}} {{rule}} अतो दशाहमध्ये मुख्यकर्त्र्यागमे वचनबलाद्दाहव्यतिरिक्तं पूर्वकृतं सर्वं कृतं तेन पुनः कार्यम् ।
संचयनं तु न पुनः कार्यम् । कृतेन... नवीन पृष्ठं निर्मीत अस्ती 419687 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६२४|'''ज्येष्ठ आगते ।'''|}} {{rule}} अतो दशाहमध्ये मुख्यकर्त्र्यागमे वचनबलाद्दाहव्यतिरिक्तं पूर्वकृतं सर्वं कृतं तेन पुनः कार्यम् ।
संचयनं तु न पुनः कार्यम् । कृतेनैवास्थिसंचयनेन उत्तिष्ठ प्रेत प्रेहीत्यादिमंत्रार्थसिद्धेः पुनःकर-
णस्य निरर्थकत्वात् । पिण्डादिवत्तस्य पुनःकरणे वचनाभावाच्च । दशाहमध्ये कनीयसा कृतस्यापि
पिण्डोदकव्यतिरिक्तलग्नप्रच्छादनादेर्न पुनःकरणम्
५ “दशाहकर्मण्यारब्धे संस्कारादौ कनीयसा । ज्येष्ठोऽथ त्वंतरागच्छेत्सोऽस्य शेषं समापयेत् ” ॥ इति
स्मरणात् । दशाहनंतरमागतेन तु मुख्यकर्त्रा पिंडदानादि वर्ज्यमुदकमात्रं यावदाशौचं देयम् ।
एकोद्दिष्टादिकमूर्ध्वकृत्यं च तेन कार्यम् । तथा पितृमेधसारे—“प्रारब्धे केनचित्प्रेतकृत्ये मुख्यकर्ता-
न्तरागतो दाहं विना सर्वं कुर्यात् । कृतं नास्थिसंचयनं पूर्वप्रवृत्तश्चोदकमात्रं अन्योऽपि दद्यात् ।
यद्येकोद्दिष्टान्तं पुत्रोऽन्यो वा कुर्याद्विदेशस्थः पुत्रः श्रुत्वा वपनं कृत्वा दशाहमुदकमात्रं दद्यात् ।
१० ज्येष्ठः कृतमपि सापिंड्यमेकादशाह एव पुनः कुर्यात् ” इति । स्मृत्यंतरे—
“ कनिष्ठेन कृतं सर्वं श्राद्धांतं च यथाक्रमम् । ज्येष्ठपुत्रः समायातः तद्दिनानि दशाहातः ॥
“ पाषाणस्थापनं पिंडं विनैवोदकमाचरेत् ” ॥ इति ।
विश्वादर्शे —“ यः कुर्यात्प्रथमेऽह्नि संस्कृतविधिं ज्ञातेस्तदन्यस्य वा ।
“ श्राद्धांतं सकलं स एव चरतु ज्ञात्यादिकेऽप्यागतेः ।
१५ “ज्येष्ठासंनिधितः कनीयसि पितुः कुर्वाण एव क्रियाः ।
“ श्रुत्वोपस्थित एव चेदथ चरेज्ज्यायांस्तदूर्ध्वक्रियाः ॥
“ यत्पित्रोर्मरणादिकं दशदिने तस्मिन् गते ज्यायसः । पश्चात्तच्छ्रवणप्रभृत्युपरताशौचप्रवृत्तावपि ॥
“ ज्यायानेव तदूर्ध्वमाचरतु तच्छ्राद्धादिमिश्रांतकं । तत्तत्कर्मणि शुद्धिस्मस्मृदसौ तात्कालिकीं
देवलः ” ॥ इति । मिश्रं सपिंडीकरणम् । उक्तेषु सर्वेषु वचनेषु दशमदिनादूर्ध्वं कृत-
२० दशाहकृत्यस्य पित्रादेर्मरणश्रवणे पिण्डदानादेर्विधानादुदकदानमात्रमेकोद्दिष्टादूर्ध्वकृत्यं चेति
बहुस्मृतिसंमतम् । शतकव्याख्यानादौ तु देशांतरस्थो पितरौ मृतौ चेदिति वचनमन्यथा
व्याख्यातम् । पुत्रव्यतिरिक्तेनान्येन सपिंडादिना दाहादिसापिंड्यान्तकृत्ये कृते अनंतरमागतः
पुत्रः दाहं संचयनं च विना पाषाणस्थापनं नग्नप्रच्छादनं प्रेतशब्दनवश्राद्धैकोत्तरवृद्धिश्राद्धवास-
उदकतिलोदकपिंडबलिप्रदानषोडशसपिंडादीनि पुनश्च कुर्यात्
२५ ‘दाहं विना तानि पुनश्च सर्वम् ’ इत्यविशेषेणाभिधानात् ।
“ कृतक्रियेऽपि पितरि दशाहं सूतकी भवेत् । दद्यात्तिलोदकं पिंडं सपिंडीकरणं पुनः ” ॥ इति
पुनःपिण्डदानस्य विधानाच्च अनुजैः कृते सपिण्डीकरणान्तकृत्ये ज्येष्ठपुत्रः उदकमात्रं
सपिण्डनं च पुनः कुर्यात् । न तु सपिंडादीनि । कनिष्ठकृतदशाहकृत्यादिविषये उदकदान-
सपिंडीकरणव्यतिरिक्तं पिंडादिकं न कर्तव्यमिति । अत्रैवार्थे
३० “ मुख्यकर्ता विदेशस्थः काले काले श्रुतो यदि । तिलवारि प्रकुर्वीत पिण्डदानं विवर्जयेत् ” ॥
‘ कृतक्रियेऽपि पितरि ’ इत्यादीनि पूर्वोक्तानि वचनानि योजितानि । स्मृत्यंतरे च—
“न शिला न मृदा स्नानं न प्रेतं न च वासकम् । नग्नं पिंडं न दातव्यं दर्भस्तंबे तिलोदकम्”॥ इति ।
प्रेतं प्रेतशब्दोच्चारणम् । वासकं वास उदकम् । नग्नं नग्नप्रच्छादनम् । दर्भस्तंबे तिलोदकं न कार्यम् ।
दर्भस्तंबास्तरणरहितस्थले कर्तव्यमित्यर्थः । तथा चंद्रिकायाम्—
३५ “ ज्येष्ठेन वा कनिष्ठेन सपिंडीकरणे कृते । देशांतरगतानां तु पिंडदानं कथं भवेत् ॥
{{rule}} १ खग-आदशाहं ।<noinclude></noinclude> 3f5150ev1unblkfwjvggza82hrfty8c पृष्ठम्:Smriti mukta phalam.pdf/६६५ 104 166668 419688 2026-11-10T13:27:58Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''दायभागागते ।'''|६२५}} {{rule}} “ श्रुत्वा तु वपनं कृत्वा दशाहांतं तिलोदकम् । ततः सपिंडीकरणं कुर्यादेकादशेऽहनि ” ॥ इति ।
पिंडदानं सपिंडीकरणं ज्येष्ठेन पितुः सपिं... नवीन पृष्ठं निर्मीत अस्ती 419688 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''दायभागागते ।'''|६२५}} {{rule}} “ श्रुत्वा तु वपनं कृत्वा दशाहांतं तिलोदकम् । ततः सपिंडीकरणं कुर्यादेकादशेऽहनि ” ॥ इति ।
पिंडदानं सपिंडीकरणं ज्येष्ठेन पितुः सपिंडीकरणांतप्रेतकृत्ये कृते कनिष्ठः पितृमृतिं श्रुत्वा दशाहांतं
तिलोदकं दद्यात् । कनिष्ठकृते तु तस्मिन् ज्येष्ठः श्रुत्वा वपनं कृत्वा दशाहांतं तिलोदकमात्रं
दद्यात् । न तु पिंडान् । तत एकादशाहे सपिंडीकरणमेव कुर्यात् । न त्वेकोद्दिष्टमित्यर्थः ।
एवं स्मृत्यर्थविप्रतिपत्तौ शिष्टाचाराद्व्यवस्था । ५
अयमत्र निष्कर्षः—अन्येन संस्कारादौ कृते अंतर्दशाहे संचयात्पूर्वमागतः पुत्रः पुनर्दाह-
विधिनाऽस्थ्यादि दग्ध्वा शिरोवपनं कारयित्वा संचयननग्नप्रच्छादनातीतदिनकृतवास उदक-
तिलोदकपिंडदानैकोत्तरवृद्धिनवश्राद्धानि तदानीमेव पुनः कृत्वा तात्कालिकमुदकपिंडाद्येकोद्दिष्टातं
तत्तत्काले कृत्वा स्वकाले पंचदश श्राद्धानि सपिंडीकरणं च कुर्यात् । संस्कर्ता तु यावत्स्वा-
शौचमाशौचांत्यदिने वा दशाहशेषे देयं तिलोदकमात्रं दत्वा आत्मशुद्ध्यर्थं ब्राह्मणान्भोजयेत् । १०
संचयात्परमागतश्चेद्दशाहसंचयनवर्ज्यं नग्नप्रच्छादनातीतपिंडोदकनवश्राद्धादि कृत्वा तात्कालिको-
दकाद्येकोद्दिष्टातं कृत्वा श्रवणदिनमारभ्य दशाहाशौचमनुष्ठायावृत्ताद्यमासिकादीनि उक्तकाले
कृत्वा त्रिपक्षादौ सापिंड्यं कुर्यात् । संस्कर्ता तु पूर्ववदेव कुर्यात् । कनिष्ठेन तु दाहादिप्रेतकृत्ये
कृते संचयनात्पूर्वं परं वा आगतो ज्येष्ठपुत्रः अतीतकाली नोदकपिंडमात्रमेकदा दत्वा
तात्कालिकोदकाद्येकोद्दिष्टातं कुर्यात् । संचयनात्पूर्वमागतश्चेत् द्वादशाहेसापिंड्यं कुर्यात् । १५
तत्परमागतश्चेच्छ्रवणदिनमारभ्य दशाहाशौचमनुष्ठाय त्रिपक्षादौ सापिंड्यं कुर्यात् । संस्कर्ता
कनिष्ठस्तु पक्षद्वयेऽपि तिलवारिमात्रं दशाहांतं कुर्यात् । कनिष्ठेन कृते दशाहकृत्ये दशमदिन-
रात्रावेकादशाहे वाऽपराह्णात्पूर्वमागता ज्येष्ठपुत्रः सर्वांगवपनं कृत्वा वृषोत्सर्जनाद्येकोद्दिष्टं च कृत्वा
तदारभ्य दशाहाशौचमनुष्ठाय उदकमात्रं च दत्वा त्रिपक्षादौ सापिंड्यं कुर्यात् । कनिष्ठेनासंपूर्णे
तु दशाहकृत्ये गतदिनमारभ्य दशाहकृत्यं सर्वं परिसमाप्य एकादशे एकोद्दिष्टं त्रिपक्षादौ २०
सापिंड्यं कुर्यात् । अन्येन सपिंडादिना दशाहकृत्ये कृते संचयात्पूर्वं दशमदिनरात्रौ एकादशदिने वा
समागतः पुत्रः पुनर्हदनवपनाद्येकोद्दिष्टान्तान्येकादशाहे कृत्वा दशाहाशौचानंतरं उक्तकाले आवृत्ताद्य-
मासिकादीनि कृत्वा त्रिपक्षादौ सापिंड्यं च कुर्यात् । संचयात्परमागतश्चेद्वपनं कारयित्वा
वृषोत्सर्जनाद्येकोद्दिष्टं च कृत्वा दशाहाशौचमुदकमात्रं चानुष्ठाय त्रिपक्षादौ सापिंड्यं कुर्यात् ।
अपुत्रस्य कृतसंस्कारस्य अंतर्दशाहे संचयात्पूर्वं परं वा समागतो दायभाग मुख्यकर्ता अतीत- २५
कालीनोदकपिंडमात्रमेकदा पुनर्द्दत्वा तात्कालिकोदकपिंडदानसंचयननवश्राद्धानि सपिंडीकरणां-
तानि उक्तकाले कुर्यात् । अत्र संचयनात्पूर्वमागतस्य मुख्यकर्तुः दहनव्यतिरिक्तस्य नग्नप्रच्छादनादेः
कृतस्य पुनःकरणमस्तीति केचित् । अत्र पक्षद्वयेऽपि संस्कर्ता दशाहांते तद्देयं तिलोदकमात्रं
स्वाशौचांते कृत्वा शुद्ध्यर्थं ब्राह्मणभोजनं कारयेत् । स च दायभागेकादशाहे आगतः अन्येन दशाह-
कृत्ये कृते तात्कालिकैकोद्दिष्टं वृषोत्सर्गपूर्वकं कृत्वा अत्याशौचविधिना आशौचमुदकं चानुष्ठाय ३०
त्रिपक्षादौ सापिंड्यं कुर्यात् । अत्रापि संचयात्पूर्वमागतविषये नग्नप्रच्छादनादि पूर्वमेवैकोद्दिष्टमिति
केचित् । अकृते तु दशाहकृते दाहव्यतिरिक्तं सर्वं तदैव कृत्वा तात्कालिकवृषोत्सर्गैकोद्दिष्टे च
कृत्वा स्वाशौचमनुष्ठाय उक्तकाले सापिंड्यं कुर्यात् । अकृतेऽप्यस्थिसंचयने यत्र पुनर्दाहाभावः
तद्विषये संनिहिते पूर्वचितिदेशे तं समीक्ष्यांतर्दशाह आगतो मुख्यकर्ता तत्संचयनमंत्राञ्छ्रोतोऽप-
हतास्थिन्यायेन पठेत् । यद्येकोद्दिष्टान्तं पुत्रोऽन्यो वा कुर्याद्विदेशस्थः पुत्रः श्रुत्वा वपनं कृत्वा दशाह- ३५
{{rule}}<noinclude></noinclude> 3rzxiovllkh2w760stre5wf3etnqnhh पृष्ठम्:Smriti mukta phalam.pdf/६६६ 104 166669 419689 2026-11-10T13:28:48Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६२६|'''पुनर्दाहविधिः ।'''|}} {{rule}} मुदकमात्रं दद्यात्सपिंडीकरणं चान्यकृतं कनिष्ठकृतं वा एकादशाहे पुनः कुर्यात् । संचयात्परमागत-
श्चेत् वपनं कारयित्वा वृषोत्सर... नवीन पृष्ठं निर्मीत अस्ती 419689 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६२६|'''पुनर्दाहविधिः ।'''|}} {{rule}} मुदकमात्रं दद्यात्सपिंडीकरणं चान्यकृतं कनिष्ठकृतं वा एकादशाहे पुनः कुर्यात् । संचयात्परमागत-
श्चेत् वपनं कारयित्वा वृषोत्सर्जनाद्येकोद्दिष्टं च कृत्वा दशाहाशौचमुदकदानं चानुष्ठाय त्रिपक्षादौ
सपिण्डनं कुर्यात् । अग्रजासंनिधाने अनुजः सपिंडीकरणं कुर्यात् । अग्रजः कृतमपि पुनः
कुर्यात् । अग्रजासंनिधाने विभक्ताः कनिष्ठाः पृथक्कुर्युः । अग्रजोऽपि पुनः कुर्यात् । अविभक्ताब्धे
५ द्वियमानेषु ज्येष्ठः कुर्यात् । सर्वज्येष्ठः पुनः कुर्यात् । वत्सरा नंतरं मातृपितृमरणश्रावणे पुत्रवत्
दशाहं सपत्नीमातुर्दाहे कृतक्रिये पितरि पुत्राणां त्रिरात्रं अकृतक्रिये तु दशरात्रं कृतक्रिये ज्येष्ठस्य
दशरात्रं कनिष्ठानां दशरात्रमिति केचित् । पत्न्या भर्तृमरणश्रवणेऽपि पुत्रवद्दशाहं सपत्नीमातुर्दाहादि-
कृत्ये भिन्नोदरेण कृते अंतर्दशाहागतौरसपुत्रः स्वकनिष्ठकृते यावद्विहितं तावदेव कुर्यात् ।
सपत्नीमातुः वर्षात्पूर्वं मृतिश्रवणे दशाहामाशौचमुदकं च वर्षात्परं तु श्रवणं त्र्यहं भिन्नोदरज्येष्ठ-
१० कृतं सपिंडीकरणं च औरसः पुनः कुर्यात् । भ्रातुर्देशांतरमरणश्रवणे षण्मासात्पूर्वं दशरात्रं
ततः परं त्रिरात्रं कृतोदके तु तस्मिन्षण्मासात्पूर्वं त्रिरात्रं ततः पक्षिणी उदकं च वर्षात्परं तु श्रवणे
दाहकस्य तु भ्रातुर्दशाहं कनिष्ठादिना कृतक्रियस्य पित्रादेरेकादशदिनादौ मरणश्रवणे मुख्यकर्तु-
रुदकमात्रमेव अतीतप्रेतकृत्ये कार्यं न पिंडादिकं सर्वमिति केचित् कनिष्ठकृतपिंडादेर्निर्वृत्तिः
दहनसंचयव्यतिरिक्तस्यान्यकृतस्य प्रेतकृत्यस्य पुनः करणमस्तीत्याहुः ।
१५ '''पुनर्दाहविधिः । अथ पुनर्दाहविषयः । अपरार्के—'''
“मंत्रवत्संस्कृतस्यापि असमानोदकस्य तु । अर्वाग्दशदिनादूर्ध्वं पुनर्दाहो विधीयते”॥ दशदिनादर्वा-
गसमानोदकस्येत्यन्वयः । '''शातातपः—'''
“ एकोद्दिष्टं सुतः कुर्यान्मृतस्यैकादशेऽहनि । तत्र श्राद्धं न कुर्याच्चेत्पुनः संस्कारमर्हति ” ॥ इति ।
'''बृहस्पतिः—'''
२० “ एकादशेऽन्हि यच्छ्राद्धमेकोद्दिष्टं समाचरेत् । यदि कौर्यान्न कुर्वीत पुनः संस्कारमर्हति ” ॥ इति ।
'''वसिष्ठः—'''
“यत्कृतं प्रेतमुद्दिश्य नवश्राद्धादिकं क्वचित् । अकृतं तद्विजानीयादेकोद्दिष्टं विना कृतम्”॥ इति ।
एतत्सर्वमकृतास्थिसंचयनविषयम् । तथा च '''स्मृत्यंतरे—'''
“ मन्त्रवत्संस्कृतस्यापि ह्यसमानोदकस्य तु । अस्थिसंचयनादर्वाक्पुनर्दाहो विधीयते ॥
२५ “ अस्थिसंचयनादूर्ध्वमसमानोदकस्य तु । पुनर्दाहं विना तत्र पिंडदानोदकक्रिया ” ॥ इति ।
'''संग्रहेऽपि—'''
“ मंत्रवतसंस्कृतस्यापि ह्यकृतास्थिचयनस्य तु । आद्यश्राद्धस्य विच्छेदे पुनर्दाहो विधीयते ”॥ इति ।
निमित्तांतरमुक्तं '''स्मृत्यंतरे—'''
“ अमन्त्रपूर्वं दग्धानांमङ्गवैकल्यशेषिणाम् । चण्डालादिहतानां च पुनर्द्दहनमाचरेत् ”॥ इति ।
३० आदिशब्दान्नासिदंष्ट्रिखेच्छ्यादयो गृह्यन्ते । '''नारदश्च—'''
“ मंत्रं विना तु यद्दग्धं प्रेतं तस्य पुनःक्रिया । मन्त्रसंस्कारयुक्तस्य न कुर्यात् दहनं पुनः” ॥
न कुर्यादित्येतत्कृतास्थिसंचयनविषयम् । '''पितृमेधसारे—'''“ विधिवत्संस्कारेऽप्यनस्थिसंचये
यद्युदकक्रिया विच्छिद्येतैकोद्दिष्टं वा तदा पुनर्दाहः । यद्यस्थिसंचयः कृतः स्यान्न पुनर्दाहः ।
अन्यत्सर्वं कुर्यात् । तयांगदाहवैकल्येऽपि पुनर्दाहः । यदि गृह्याग्निनाऽप्यमंत्रवद्दाहोऽन्याग्निना वा
{{rule}} १ क्ष-त्रि । २ क्ष-नौ । ३ क्ष-कु । ४ क-ह्यसमानोदकस्य ।<noinclude></noinclude> 3f8loc6jfvzy2haofi3h3pyda51czdc पृष्ठम्:Smriti mukta phalam.pdf/६६७ 104 166670 419690 2026-11-10T13:29:38Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''तंत्रप्रविष्टस्य तंत्रमार्गेण संस्कारः ।'''|६२७}} {{rule}} विधिवत्पुनर्दाहोऽस्थीन्याहृत्य कार्य इति । अस्थिसंचयने कृते उदकक्रियाया एकोद्दिष्टस्य च
स्वस्वका... नवीन पृष्ठं निर्मीत अस्ती 419690 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''तंत्रप्रविष्टस्य तंत्रमार्गेण संस्कारः ।'''|६२७}} {{rule}} विधिवत्पुनर्दाहोऽस्थीन्याहृत्य कार्य इति । अस्थिसंचयने कृते उदकक्रियाया एकोद्दिष्टस्य च
स्वस्वकाले अकरणेऽपि न पुनर्दाह इत्यर्थः । तथा '''सुधीलोचने—'''“ अनाहिताग्नेर्दाहस्य कुंभ-
निधानांतत्वादुत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन्निति मंत्रार्थसिद्धेर्विधिवत्कृतस्य पुनर्दाहा-
योगाच्च अनस्थिसंचय एव पुनर्दाहः । अत एव कृतेऽस्थिसंचये त्र्यहात्प्रेतक्रिया स्मर्यते—
“अस्थिसंचयनादूर्ध्वं विच्छिन्ने तर्पणादिके । आरब्धे यदि पित्रोश्च पुनः संक्षिप्यते त्र्यहात् ”॥ इति । ५
गृह्याग्निना अमंत्रवद्दाहे पूर्वोदाहृतवचनेन अयथाकृतमकृतमिति न्यायेन च पुनर्दाहः सिद्धः ।
औपासनेनाहिताग्निं दहेदिति नियमात् “ अनौपास्येन यो दग्धः तं दहेद्वह्निना पुनः ” ॥ इति
वचनाच्च लौकिकाग्निना विधिवद्दाहेऽपि तस्याकिंचित्करत्वात् सत्यौपासने तेन पुनर्दाहः कार्यः ।
असति तस्मिन्विधिवदग्निं संधाय पुनर्दाहः कार्यः । “ अथ यथाहिताग्निरन्यत्र प्रेयाद् दीप्यमाने-
हूयमानैरग्निभिरासरिन्यावदेवास्याग्निभिः समागमयेरन्ना संस्कारादग्निं जुहुयात् । अग्निसंरक्षणार्थम् ” १०
इति बोधायनापस्तंबादिभिर्दाहांतमग्निसंरक्षणस्मरणेन पुनर्दाहसिद्धेः । ‘ शरीरदायादाहाय
वाऽग्नयो भवंति ’ इति श्रुतेर्विनियोगांतराभावाच्च स्वाध्यायाग्नित्यागस्य चोपपातकत्वोक्तेश्च
तेनैव दाहः कर्तव्यः । यच्चान्यद्वक्तव्यं तदग्निनिरूपणावसरे प्रतिपादितमधस्तात् । “अनात्मीयेन
शास्त्रेण यो दग्धस्तं च शाखतः ” इति वचनं
“ अलव्धात्मीयसूत्रस्य श्राद्धांतं परसूत्रतः । कुर्यात् सपिंडीकरणं स्वसूत्रेणैव नान्यतः ” ॥ इति १५
भरद्वाजादिबहुस्मृतिविरोधादुपेक्ष्यमिति पूर्वमेवोक्तम् ।
'''तंत्रप्रविष्टस्य तंत्रमार्गेण पुनः संस्कार उक्तः आगमे—'''
“ सर्वेषामेव वर्णानामाशीचांतं यथाक्रमम् । अन्त्येष्टिं विधिवत्कुर्युः तत्पुत्राश्चौरसादयः ”॥ इति ।
'''तत्रैव—'''
“वैदिकं तु पुरा कृत्वा पश्चाच्छैवं समाचरेत् । ये मृता दीक्षितास्तेषां श्राद्धद्वयमुदाहृतम् ॥ २०
“ पूर्वं तु वैदिकं श्राद्धं कुर्यात्तांत्रं ततः परम् ” ॥ इति । आहिताग्नेरमंत्रवद्दाहाभावे पुत्रा-
दीनामाशीचमुदकादिकं च नास्ति । किं तु पुनर्दाहसमय एव तेषामाशौचमुदकादिः च उक्तं
'''चंद्रिकायाम्—'''
“ आहिताग्नेस्तु विधिवद्दाहांतं नास्ति चेत्तदा । आशौचग्रहणं नास्ति दाहाद्याशीचमिष्यते”॥ इति ।
दाहाद्याशौचं पुनर्दाहाद्याशीचम् । तच्च दशाहम् । तथा '''पारस्करः—''' २५
“ आहिताग्नेस्तु दहनाद्दशाहाशीचमिष्यते । अनाहिताग्नेर्मरणात्पुनर्दाहो यदा भवेत् ” ॥
'''पैठीनसिः—'''“ आहिताग्निश्चेत्प्रवसन्म्रियते पुनःसंस्कारं कृत्वा शाववच्छौचमिष्यते ” ॥ इति ।
'''स्मृत्यंतरेऽपि—'''
“ दशाहांतं सपिंडानां मृतौ प्रेतक्रिया भवेत् । पुनर्दाहे त्रिरात्रं स्याद् यद्युः पित्रोर्दशाहतः ”॥ इति ।
अनाहिताग्नेः पुनःसंस्कारे सपिंडानां त्रिरात्रम् । यद्युः आहिताग्नेः पुनःसंस्कारे सपिंडानां दशाहं ३०
पित्रोश्च पुनःसंस्कारे पुत्राणां दशाहतः क्रियेत्यर्थः । '''स्मृत्यर्थसारेऽपि—'''“ आहिताग्नेर्विधिदहना-
भावे आशौचग्रहणं नास्त्येव । पुनःसंस्कारे दाहाद्याशौचमपि पूर्णम् । यावद्विधिना न संस्कारः
तावत्पुत्रादीनां मुख्यकर्तॄणां संध्यादिकर्मलोपो नास्ति । शुभं कर्म न कर्तव्यम् । मुख्यकर्त्रसंभवे
शेषदिनाच्छुद्धिः । अतीते सूतके पुनःसंस्कारश्चेत् तदितरज्ञातीनां शुभं कर्म च कर्तव्यम् ।
{{rule}} १ क-त्र्यब्दे; क्ष-अब्दे । २ क-हरणं । ३ क-दशाहा ।<noinclude></noinclude> of7rty4evr9vy2sgk6wxajdvir0d3g1 पृष्ठम्:Smriti mukta phalam.pdf/६६८ 104 166671 419691 2026-11-10T13:30:53Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६२८|'''आहिताग्न्याहिताग्न्योः । दाहमंतरेणाप्याशौचम् ।'''|}} {{rule}} अनाहिताग्नेर्विधिदहनाभावे तदानीमाशौचग्रहणं कृताकृतं दशाहानंतरमरणश्रवणे दाहात्पूर्वं
त्र... नवीन पृष्ठं निर्मीत अस्ती 419691 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६२८|'''आहिताग्न्याहिताग्न्योः । दाहमंतरेणाप्याशौचम् ।'''|}} {{rule}} अनाहिताग्नेर्विधिदहनाभावे तदानीमाशौचग्रहणं कृताकृतं दशाहानंतरमरणश्रवणे दाहात्पूर्वं
त्र्यहाद्याशौचं नास्ति । पुनःसंस्कारः सूतकंमध्ये चेच्छेषदिनाच्छुद्धिः । अतीते सूतके पुनः
संस्कारश्चेत्पूर्वमग़ृहीताशौचस्य पुत्रस्य पत्न्याश्च दशाहामाशौचम् । गृहीताशौचयोः पुत्रपत्न्योस्त्रि-
रात्रम् । पत्न्योः पुनःसंस्कारे पत्युश्चैवं सपत्न्योर्मिथश्चैवं गृहीताशौचानां कृतोदकानां सपिंडानां
५ पुनराशौचं नास्ति । अकृतोदकानां पुनरेकाहमिति । '''चंद्रिकायाम्—'''
“ विदेशस्थो गृही यावद्विधिना नैव संस्कृतः । पुत्रादीनां तु संध्यादि कर्मलोपो न विद्यते ” ॥ इति ।
यत्तु—
“ अकृत्वा प्रेतकार्याणि नित्यनैमित्तिकान्यपि । न कुर्याद्यावदाशौचं यावत्प्रेतस्य मोक्षणम् ” ॥ इति
तत् नित्यनैमित्तिकशुभकर्मव्यतिरिक्तविषयम्
१० “ अकृते ज्ञातिसंस्कारे न कुर्यादात्मनः शुभम् । कुर्यादेव शुभं कर्म मुख्यसंस्कर्तृसंभवे ” ॥ इति
स्मरणात् । दाहमंतरेणाप्याशौचाचरणमुक्तं '''स्मृत्यंतरे—'''
“ पुत्रः पित्रोस्तु संस्कारं प्रमादान्न करोति चेत् । ज्ञातीनां दशरात्रं स्यात्तदूर्ध्वं सूतकं न हि ॥
“ नित्यकर्माणि कुर्वीत स्मृत्युक्तानि तथैव च ” । इति । अन्यच्च—
“ वंशजानामसंस्कारे सूतकं तु कथं भवेत् । दशाहात्परतः शुद्धिर्ज्ञातीनां च विशेषतः ” ॥ इति ।
१५ एतत् द्वयं दत्ततिलोदकज्ञातिविषयम् । पुत्रविषये '''वसिष्ठः—'''
“ प्रमीतपितृकः पित्रोरौर्ध्वदेहिकमाचरेत् । यदि कर्तुमशक्तश्चेद्दशाशौचनियमान्वितः ॥
“ आदशाहादथोर्ध्वं वा यद्वा कार्यक्षमस्तदा । त्रिरात्रं समतिक्रम्य श्राद्धं कुर्याद्यथाविधि ॥
“ दाहकस्य तदाशौचमितरेषां न विद्यते ” ॥ इति । इतरेषां दत्तोदकसपिंडानामित्यर्थः ।
गृहीताशौचानां अदत्तोदकानां सपिंडानामुदकदाननिबंधनमाशौचमुक्तं '''स्मृत्यंतरे—'''
२० “ पूर्वगृहीताशौचानां पुनर्द्दहने त्वघम् । तस्मिन्नुदकदातॄणामाशौचं मनुरब्रवीत् ” ॥ इति ।
“मरणादिगृहीतस्य त्रिरात्राच्छुद्धिरिष्यते” इति पुत्रस्य त्रिरात्राशौचविधानात् ज्ञातीनामेकरात्रमिति
न्यायतः सिद्धमिति व्याख्यातारः । कृते तु मन्त्रसंस्कारे आरब्धे चोदके कर्त्रा दैवादसमापिते
सति तदानीं ज्ञातिभिरुदकाशौचयोर्गृहीतयोः पुनर्द्दहनसमये ज्ञातीनामाशीचं नास्ति । पुनस्तर्पण-
मात्रमस्तीति केचित् । '''पारस्करः—'''“ आशौचे वर्तमाने तु तच्छेषेण विशुध्यति ॥
२५ “ गते त्वाशौचदिवसे पुनर्दाहो यदा भवेत् । मरणादिगृहीतस्य त्रिरात्राच्छुद्धिरिष्यते ॥
“ अगृहीतस्य पुत्रस्य संपूर्णाशौचमेव हि ” ॥ इति ।
'''संग्रहे—'''“ आशौचांतः कीकसादेः प्रदाहे शेषाच्छुद्धिस्तद्बहिborderत्र्यहम् ।
“ पुत्रस्यापि प्रागघस्य ग्रहश्चेन्नो चेत्तस्याप्यत्र पूर्णामाहुः ” ॥ इति । कीकसर्मास्थ । आदिशब्देन
पर्णादिप्रकृतिर्गृह्यते । तथा
३० “ अस्थ्ना पलाशवृन्तैर्वा दग्ध्वा तु प्रतिरूपकम् । पित्रोर्दशाहमाशौचमन्येषां तु त्रिरात्रकम् ”॥ इति ।
अन्यच्च—“नरं पर्णमयं दग्ध्वा त्रिरात्रमशुचिर्भवेत् । मातापित्रोर्दशाहं स्यादस्थिदाहे तथैव च”॥ इति ।
“ संस्कृताग्नौ दहेत्पश्चाद्दशरात्रं तु सूतकम् । इतरेषां त्रिरात्रं स्यात् ज्ञातीनामपि सूतकम्”॥ इति ।
'''देवलः—'''
“ दग्ध्वास्थि पित्रोः पुत्रस्तु दशाहमशुचिर्भवेत् । तयोः प्रतिकृतिं दग्ध्वा शाववच्छौचमिष्यते”॥
{{rule}} १ क-वृन्ते ।<noinclude></noinclude> c252nxwe0wlnzbkyl4b5qu9eopbfu5g पृष्ठम्:Smriti mukta phalam.pdf/६६९ 104 166672 419692 2026-11-10T13:31:51Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अनेकसपिण्डपुनर्दाहविधिः ।'''|६२९}} {{rule}} शाववद्दशाहाशौचमित्यर्थः । पुत्रस्य दशाहविधानं अगृहीताशौचविषयम् । गृहीताशौचस्य पुत्रस्य
मरणादिगृहीतस्य ‘त्रिरात... नवीन पृष्ठं निर्मीत अस्ती 419692 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अनेकसपिण्डपुनर्दाहविधिः ।'''|६२९}} {{rule}} शाववद्दशाहाशौचमित्यर्थः । पुत्रस्य दशाहविधानं अगृहीताशौचविषयम् । गृहीताशौचस्य पुत्रस्य
मरणादिगृहीतस्य ‘त्रिरात्राच्छुद्धिरिष्यते’ इति त्रिरात्रस्मरणात् । '''स्मृत्यंतरे—'''
“ दग्ध्वाऽस्थि पित्रोः पुत्रस्तु दशाहं सूतकी भवेत् । तयोः प्रतिकृतिं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ” ॥
अस्थिदाहे पुत्रस्य दशाहविधानमगृहीताशौचविषयम् । प्रतिकृतिदाहे त्रिरात्रविधानं गृहीता-
शौचविषयम् । अन्ये तु पुत्रस्य गृहीताशौचस्यास्थिदाहे दशाहं प्रतिकृतिदाहे त्रिरात्रमिति ५
व्याचक्षते । '''पुराणेऽपि—'''
“ अस्थ्नाभावे पलाशोत्थैः पर्णैः कार्यं शरीरकम् । एवं पूर्णमयं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ” ॥
'''षडशीतौ—'''
“ अंतर्दशाहे दाहे तु शेषतः शुचयोऽखिलाः । बहिर्दशाहदाहे तु दाहादित्रिदिनं मतम् ॥
“ प्रागाशौचग्रहाभावे ज्ञातीनां त्रिदिनं समम् । प्राग्ग्रहे तु त्र्यहं कर्तुरन्येषां तु न विद्यते ॥ १०
“ कर्ता च तनयः पूर्वे ग्रहे पूर्णं तथोदितम्” इति । अयमत्र निष्कर्षः—आहिताग्नेः पुनर्दाहाद्येव पुत्रस्य
सपिंडानां चाशौचग्रहणमुदकदानादि प्रेतकृत्यं च भवति । दाहात्पूर्वं नास्त्येव । अनाहिताग्नेस्तु
पुनर्दाहात्पूर्वमाशौचग्रहणमुदकदानं च विकल्पितम् । दशाहमध्ये आहिताग्न्यनाहिताग्न्योः पुनः
संस्कारे सति संस्कारदिनादूर्ध्वं दशरात्रावशिष्टमेवाशौचमुदकादिकं च भवति । न पुनर्दाहादि-
दशाहम् । यदि दशाहात्परं पुनर्दाहः स्यात्तत्रा हिताग्नेः पुनर्दाहादिदशाहमाशौचमुदकं च पुत्रस्य १५
सपिंडानां च समानम् । अनाहिताग्नेस्तु पुनर्दाहे पूर्वमग़ृहीताशौचस्य पुत्रस्य दशाहामाशौचं
उदकादिक्रिया च भवति । गृहीताशौचस्य पुत्रस्यास्थिदाहे प्रतिकृतिदाहे च त्रिरात्रमाशौच-
मुदकक्रिया च अगृहीताशौचानां सपिंडानामस्थिदाहे प्रतिकृतिदाहे च त्रिरात्राशौचमुदकं च
भवति । गृहीताशौचानामदत्तोदकानां सपिंडानामुदकदाननिमित्तमेकाहमाशौचं दत्तोदकानां तु
न पुनराशौचोदकदाने भवतः । कर्ता पश्चादुदकसमापने क्रियमाणे पूर्वमग़ृहीताशौचानां अदत्तो- २०
दकानां सपिंडानामुदकदानमात्रं भवति । नाशीचमिति केचित् । अन्ये तु दशाहार्दूर्ध्वमस्थिदाहे
अगृहीताशौचानां सपिंडानां दशाहं गृहीताशौचानां त्रिरात्रं प्रतिकृतिदाहे अगृहीताशौचानां
त्रिरात्रम् । गृहीताशौचानां नाशीचं अस्थिदाहे पुत्राणां गृहीताशौचानामगृहीताशौचानां च
दशरात्रमित्याहुः । तथा च '''संग्रहकारः—'''
“ यज्वान्यज्वपुनर्दाहे शिष्टाहं यद्यघाद्रहिः । दशाहं त्र्यहमाशौचं पूर्णं प्राग्ग्रहेदधामहः ॥ २५
“ अस्थिदाहे प्रतिकृतिदाहे तु त्र्यहमित्यघम् । सपिंडानां सुतानां तु दशरात्रमिहेष्यते ” ॥ इति
“ भ्रातुर्देशांतरमृती षण्मासाद्वत्सरादधः । दशरात्रं त्रिरात्रं स्याद्दशाहं दाहकस्य तत् ” ॥ इति
दाहकस्य भ्रातुः दशाहाशीचविधानात् द्वादशाहे सापिंड्यम् ।
'''अनेक सपिण्डपुनर्दाहविधिः । संग्रहकारः—'''
“ मृतानां तु सपिंडानां काले बहुतिये गतौ । तान्सर्वान्सह संस्कुर्यात् त्रिरात्रेण यथाविधि ॥ ३०
“एकोद्दिष्टं चतुर्थेऽन्हि तेषां पिंडं पृथक् पृथक् । सपिंडीकरणं तेषां सहैव पृथगेव वा ” ॥ इति ।
संघातमृतानां कालभेदेन वा मृतानां सपिंडानां एकचित्यां समानतंत्रेण पुनःसंस्कारः कार्यः ।
सापिण्ड्यं तु उद्देश्यभेदे पृथक् कुर्यात् । अन्यथा सह कुर्यादित्यर्थः । एतच्च पितृव्यतिरिक्त-
विषयम् । त्रिरात्रेण समापनविधानात्पित्रोः सपिंडानां च देशांतरमरणश्रवणे पूर्वं पित्रोः सापिंड्यांतं
कृत्वा अनंतरमन्येषां पुनर्दाहारंभं क्रमेण कुर्यात् । ३५
{{rule}} १ ग-र्वा । २ ग-नां । ३ ग-मगृ । ४ क्ष-दत्तो ।
८०-११<noinclude></noinclude> 1ijmoxfw59co03g6e0ea0v6swhzaxn7 पृष्ठम्:Smriti mukta phalam.pdf/६७० 104 166673 419693 2026-11-10T13:33:14Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६३०|'''दुर्मृतपुनःसंस्कारः ।'''|}} {{rule}} '''स्मृतिचंद्रिकायाम्—'''
“ यद्येककर्तृकं श्राद्धमनेकं चैकवासरे । दैवं पित्र्यं च तंत्रं स्यान्निमित्तं प्रतिपूरुषम् ” ॥... नवीन पृष्ठं निर्मीत अस्ती 419693 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६३०|'''दुर्मृतपुनःसंस्कारः ।'''|}} {{rule}} '''स्मृतिचंद्रिकायाम्—'''
“ यद्येककर्तृकं श्राद्धमनेकं चैकवासरे । दैवं पित्र्यं च तंत्रं स्यान्निमित्तं प्रतिपूरुषम् ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ बहूनामेकवंश्यानामेको यदि च दाहकः । एकस्मिन्दिवसे कुर्यादेकतंत्रमिहेष्यते ” ॥ इति ।
५ तथा—
“ भिन्नकाले मृता ये च वंश्याः पूर्वमसंस्कृताः । एकस्मिन्नन्हि चैतेषां सह संस्कारमाचरेत् ” ॥
पूर्वमसंस्कृताः अनुपनीताः ।
'''दुर्मृतपुनःसंस्कारः ।''' संघातदुर्मृतपुनःसंस्कारविषये '''स्मृत्यंतरे—'''
“ दुर्मृतानां च वंश्यानां काले बहुतिये गते । तान्सर्वान्सह संकुर्यादेकचित्यां पुनः सुधीः ” ॥ इति ।
१० '''दुर्मृतस्य पुनःसंस्कारकालमाह देवलः—'''
“ ये मृताः पापमार्गेण तेषां संवत्सरात्परम् । नारायणबलिं कृत्वा कुर्यात्तत्रौर्ध्वदेहिकम् ॥
“अब्दान्ते वाथ षण्मासे पुनः कृत्वा तु संस्कृतिम् । त्रिरात्रमशुचिर्भूत्वा श्राद्धं कुर्याच्चतुर्दिने”॥ इति ।
एतत् दुर्मृतपुनर्दाहे त्रिरात्रविधानं मातापितृविषयम् । अन्येषां दुर्मृतानां पुनर्दाहे एकरात्रम् ।
तदाह '''गर्गः—'''
१५ “ वर्षातीतपुनर्दाहे एकाहात्पिंडमर्पयेत् । श्राद्धं दद्याद्द्वितीयेऽन्हि तृतीयेऽन्हि सपिंडनम् ॥
“नास्थिसंचयनं कुर्यान्न च चर्म्माधिरोहणम् । पुत्रादीनां तु कर्तव्यं पुनः संस्कारकर्मणि ”॥ '''संग्रहे—'''
“ असंस्कारे कुलीनस्य पुनरन्यस्य चेन्मृतिः । यस्य स्यात्तस्य संस्कारायेकोद्दिष्टातमाचरेत् ॥
“ ततः पूर्वं मृतस्यात्र कुर्याद्वै संस्क्रियादिकम् । सपिंडीकरणं तत्र पूर्वशेषं तु कारयेत् ॥
“ दुर्मृतस्य क्रियाहीनकाले पुंसवनं चरेत् । पित्रोराब्दिककालस्तु यदा वाऽपि भवेत्तदा ॥
२० “तयोस्तदेव कुर्वीत नान्येषां पुरतो भवेत्” ॥ इति । दुर्मृतिमध्ये मृतस्यैकोद्दिष्टातं कृत्वा दुर्मृतस्य
सपिंडनं कृत्वा पश्चादेतस्य सपिंडनं कुर्यात् । संस्कारात्पूर्वं पुंसवनं पित्रोराब्दिकं च कर्तव्य-
मित्यर्थः । दुर्मृतिलक्षणं पुनःसंस्कारकालस्तत्प्रायश्चित्तं च दुर्मृताशौचनिरूपणे प्रतिपादितम् ।
'''प्रोषितस्य द्वादशाब्दादूर्ध्वं संस्कारविधिः ।'''
यस्य प्रोषितस्य वृत्तान्तो न श्रूयते तस्य द्वादशाब्दादूर्ध्वं प्रतिकृतिदाहपूर्वकं विधिवदौर्ध्वदेहिकं
२५ कुर्यात् । प्रतिकृतिस्वरूपमधस्तात्प्रतिपादितम् । अत्र '''बृहस्पतिः—'''
“ यस्य न श्रूयते वार्ता यावद्द्वादशवत्सरम् । कुशपुत्रकदाहेन तस्य स्यादवधारणम् ” ॥ इति ।
तच्च नारायणबलिपूर्वकं कर्तव्यम् । '''स्मृत्यंतरे—'''
“ द्वादशाब्दात्परं तेषां तृतीयादब्दतोऽपि वा । नारायणबलिं कृत्वा कुशदेहेऽथ संस्कृतिम् ” ॥
कुर्यादिति शेषः । त्र्यहादेव सा क्रिया कार्या । “ नरं पर्णमयं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ” ॥ इति
३० स्मरणात् । पितृविषये विशेषमाह '''जातूकर्णः—'''
“ पितरि प्रोषिते यस्य न वार्ता नैव चागतिः । ऊर्ध्वं पंचदशाद्वर्षात्कृत्वा तत्प्रतिरूपकम् ॥
“ कुर्यात्तस्य च संस्कारं यथोक्तविधिना ततः । तदानीमेव सर्वाणि प्रेतकार्याणि संचरेत् ” ॥ इति ॥
प्रतिरूपकं पलाशवृंतादिनिर्मितप्रतिकृतिः । यथोक्तविधिना दशरात्रं पिंडोदकदानादिविधिपरशास्त्र-
क्रमेण तदानीमेव पंचदशसु वर्षेषु गतेषु षोडशे वर्षे उक्तकाल एव प्रेतकार्याणि कुर्यात् । न
३५ कालविलंबः कार्य इति केचिद्व्याचक्षते ।
{{rule}} १ क-संस्कृता-उपनता । २ ग-गार्ग्यः । ३ ग-पत्रक ।<noinclude></noinclude> 25asbudtp07lqgpkk3x0xtit9xqkd06 पृष्ठम्:Smriti mukta phalam.pdf/६७१ 104 166674 419694 2026-11-10T13:34:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''मासाद्यज्ञाने ।'''|६३१}} {{rule}} तथा च '''स्मृत्यन्तरम्—'''
“ पितरि प्रोषिते प्रेते पुत्रः कुर्यात्क्रियादिकम् । संवत्सरे व्यतीतेऽपि दशरात्रं यथाविधि” ॥ इति ।
त... नवीन पृष्ठं निर्मीत अस्ती 419694 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''मासाद्यज्ञाने ।'''|६३१}} {{rule}} तथा च '''स्मृत्यन्तरम्—'''
“ पितरि प्रोषिते प्रेते पुत्रः कुर्यात्क्रियादिकम् । संवत्सरे व्यतीतेऽपि दशरात्रं यथाविधि” ॥ इति ।
तथा च—“ अतीतेऽब्देऽपि कर्तव्यं प्रेतकार्यं दशाहतः ” इति । पितृमेधसारेऽपि—“पित्रोस्तु
पंचदशादूर्ध्वं दशाहाद्विधिवदौर्ध्वदेहिकं कुर्यात् ’ इति । अन्ये तु
“ कुर्यात्तस्य च संस्कारं यथोक्तविधिना ततः । तदानीमेव सर्वाणि प्रेतकार्याणि संचरेत् ” ॥ इति ५
जातुकर्णिवचनमन्यथा व्याकुर्वते । यथोक्तविधिना पितृमेधविधिना प्रतिकृतिसंस्कारं कुर्यात् ।
सर्वाणि प्रेतकार्याणि नग्नप्रच्छादनादीनि प्रभूतबलिपाषाणोत्थापनान्तानि तदानीमेव तस्मिन्नेव
दिने संचरेत् । कुर्यादिति ‘संवत्सरे व्यतीतेऽपि दशरात्रं यथाविधि’ इत्यादिवचनं अनाकर्णित-
वार्ताव्यतिरिक्तपितृमृतिविषयं तस्मिन्नेव दिने सर्वाणि प्रेतकार्याणि कुर्यादित्येतत्पितृव्यतिरिक्त-
विषयेऽपि समानमिति वदन्ति तदयुक्तं ‘कृतक्रिये त्रिरात्रं स्याद्दशाहमकृतक्रिये ’ इत्यादिशाह- १०
प्रतिपादकपूर्वोक्तवचनविरोधात् । अतः पितृविषये दशाहं इतरविषये त्रिरात्रमित्येव युक्तम् ।
पितृविषयेऽपि नारायणबलिपूर्वं और्ध्वदेहिकं कार्यम् । कालादर्शे—
“ अनाकर्णितवार्तस्य प्रोषितस्य पितुः सुतः । ऊर्ध्वं पंचदशाद्वर्षादौर्ध्वदैहिकमाचरेत् ॥
“ अन्येषां द्वादशाद्वन्दात्पूर्वमुक्तैव या तिथिः ”॥ इति । अनाकर्णितवार्तस्य अश्रुतकुशल-
वार्त्तस्य प्रोषितस्य देशांतरगतस्य पितुः और्ध्वदेहिकं सुतः पंचदशाद्वर्षादूर्ध्वं पंचदशसंवत्सरेषु १५
गतेषु कुर्यात् । अन्येषां पितृव्यतिरिक्तानां पितृव्यभ्रातृपुत्रादीनां द्वादशाब्दादूर्ध्वं पैतृमेधिकमा-
चरेत् । पूर्वमुक्तैव या तिथिरिति प्रोषितस्य प्रत्याब्दिकश्राद्धे या तिथिः पूर्वमुक्ता पैतृमेधिका-
नुष्ठानेऽपि तस्य सैव ग्राह्येत्यर्थः ।
'''मासाद्यज्ञाने विधिः । तथा च कालादर्शे—'''
“ मासाज्ञाने दिनज्ञाने कार्यमाषाढमाधयोः । मृताहे तद्दिनाज्ञाने मासाज्ञाने तु तत्कुहूः ॥ २०
“ कृष्णा चैकादशी ग्राह्या त्वज्ञाने ह्युभयोरपि । प्रवासमासदिवसौ ग्राह्यावेकैकशस्तयोः ॥
“ अज्ञानेनंतरो न्यायः सर्वाज्ञानं यदा भवेत् । श्रवणाहे तदा कुर्यात्तन्मासेंदुक्षयेऽपि वा ” ॥ इति ।
यदा मरणमासो न ज्ञातः मरणदिनं तु ज्ञातं तदा आषाढे माघमासि वा मृताहे प्रत्याब्दिकं
कुर्यात् । तदाह '''बृहस्पतिः—'''
“ यदा मासो न विज्ञातो विज्ञातं दिनमेव तु । तदा ह्याषाढके मासि माघे वा तद्दिनं भवेत् ”॥ इति । २५
'''भविष्यत्पुराणे तु—'''
“दिनमेव विजानाति मासं नैव तु यो नरः । मार्गशीर्षेऽथ वा भाद्रे माघे वाऽथ समाचरेत् ” ॥ इति ।
'''आश्वलायनः—'''
“ मासे त्वज्ञायमाने तु माघः कार्यों मनीषिभिः । पक्षे त्वज्ञायमाने तु दैवे पित्र्ये सितासितौ” ॥ इति ।
यदा मासो विज्ञातः मरणदिनं तु न ज्ञातं तदा तत्कुहूः तन्माससंबंधिन्यमावास्या वा कृष्णैकादशी ३०
वा ग्राह्या । तदाह '''बृहस्पतिः—'''
“ अज्ञातौ हि मृताहश्चेत्प्रोषिते संस्थिते सति । मासश्चेत्प्रतिविज्ञातः तद्दर्शं स्यात्तदाऽब्दिकम्” ॥ इति
'''स्मृत्यंतरे—'''
“ प्रत्यब्दं प्रतिमासं च मृतेऽहनि तु या क्रिया । तदहर्विस्मृतिप्राप्तौ दर्श वा श्रवणेऽपि वा ”॥ इति ।
अत्र श्रवणनक्षत्रविधानं क्षत्रियविषयं ‘ नक्षत्रे क्षत्रियाणां स्यात् ’ इत्याश्वलायनस्मरणात् । ३५
{{rule}} १ क्ष-ना । २ ग-त्ता । ३ ग-प ।<noinclude></noinclude> 61euegs3dg5rdqgtfph2mfik4ml3274 पृष्ठम्:Smriti mukta phalam.pdf/६७२ 104 166675 419695 2026-11-10T13:35:02Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६३२|'''कृतौर्ध्वदेहिकस्य पुनरागमने ।'''|}} {{rule}} मरीचिरपि—“ श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि । एकादश्यां तु कर्तव्यं कृष्णपक्षे मृतेऽ-
हनि ” ॥ इति । म... नवीन पृष्ठं निर्मीत अस्ती 419695 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६३२|'''कृतौर्ध्वदेहिकस्य पुनरागमने ।'''|}} {{rule}} मरीचिरपि—“ श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि । एकादश्यां तु कर्तव्यं कृष्णपक्षे मृतेऽ-
हनि ” ॥ इति । मृतेऽहनि यत् कर्तव्यं तत्कृष्णैकादश्यां कर्तव्यमित्यर्थः । उभयोर्मरणमासदिनयो-
रप्यज्ञाने प्रवासमासदिवसौ ग्राह्यौ । तदाह '''बृहस्पतिः—'''
“ दिनमासौ न विज्ञातौ मरणस्य यदा पुनः । प्रवासमासदिवसौ ग्राह्यौ पूर्वोक्तया दिशा ” ॥ इति ।
५ पूर्वोक्तयेति तयोरेकैकशः अज्ञाने अनन्तरोक्तन्यायः स्वीकार्यः । अयमर्थः—यदा प्रवासमासो
न विज्ञातः दिवसस्तु ज्ञातः तदाषाढादौ मृताहे कार्यम् । यदा प्रवासमासो विज्ञातः दिवसस्तु न
विज्ञातः तदा प्रवासभाससंबंधिनि दर्शे तत्कृष्णैकादश्यां वा कुर्यात् । यदा सर्वाज्ञानं भवेन्मरण-
मासो मरणदिवसः प्रवासमासः प्रवासदिवसश्च न ज्ञातो भवेत् तदा मरणश्रवणदिने कुर्यात् ।
तत्रासंभवे श्रवणमाससंबंधिनि दर्शे कुर्यात् तथा '''प्रचेताः—'''“ अपरिज्ञाते अमावास्यायां श्रवण-
१० दिने वा ” इति । स एव—“ अपरिज्ञातेमृताहे श्रवणतिथौ तिथिविस्मरणे तन्मासवर्तिन्याममा-
वास्यायां सांवत्सरिकं कुर्यात् । श्रवणतिथिमरणे मासास्मरणे च मार्गशीर्षे माघे वा तस्यामेव
तिथौ कुर्यात् । यत्र श्रवणमपि नास्ति अनाकर्णितवार्तस्य द्वादशाब्दात्पंचदशाब्दाद्वापरं क्रियमाणे
दाहादिप्रेतकृत्ये तद्विषये उक्तं चंद्रिकायाम्—
“मासस्थितिवि प्रस्थानदिनं वा श्रवणे न चेत् । यस्मिन्दिने तु संस्कारः क्षयाहस्तद्दिनं भवेत्”॥ इति ।
१५ सर्वाज्ञाने संस्कारकालीनमासपक्षतिथयो ग्राह्या इत्यर्थः । तत्राषाढादीनामन्यतममासो ग्राह्यः ।
तिथिश्चामावास्या कृष्णैकादशी च पूर्वोक्ता ग्राह्या । कृष्णाष्टम्यामपि दहनं प्रत्याब्दिकं च
कार्यमित्याह '''पराशरः—'''
“ देशान्तरगतो विप्रः प्रवासात्कालकारितात् । देहनाशमनुप्राप्तस्तिथिर्न ज्ञायते यदि ॥
“कृष्णाष्टमी त्वमावास्या कृष्णा चैकादशी च या । उदकं पिंडदानं च तत्र श्राद्धं च कारयेत्”॥ इति ।
२० तीर्थयात्रादिना केनचिन्निमित्तेन देशांतरगतस्य विप्रस्य चिरकालं बहुदेशपर्यटनादि संपादितायास-
बाहुल्याद्यत्र क्वापि देहनाशो भवति । अत एव तन्मरणतिथिर्न ज्ञायते मरणवार्ता यदाकदाचि-
च्छ्रुता भवति । तत्र तदीयाशौचस्वीकारो दहनतिलोदकपिंडदानोपक्रमादिकं चेत्येतदुभयं
कृष्णाष्टम्यादितिथिषु तिसृष्विच्छया कस्यांचिचित्तिथौ कर्तव्यम् । तस्यामेव तिथौ प्रत्याब्दिकं
च कर्तव्यम् । द्वादशाहकृत्यं च दशाब्दादूर्ध्वं क्रियमाणेऽप्येता एव तिथय इत्यर्थः ।
२५ '''कृतौर्ध्वदैहिकस्य पुनरागमने''' पंचदशाब्दं द्वादशाब्दं वा वार्तानाकणर्ने मरणनिश्चया-
दौर्ध्वदैहिके कृते जीवन्यदि समागच्छेत्तदा कर्तव्यमाह '''वृद्धमनुः—'''
“ जीवन्यदि समागच्छेद्धृतकुंभे नियोज्य तम् । उद्धृत्य स्नापयित्वाऽस्य जातकर्मादि कारयेत् ॥
“ द्वादशाहं व्रतं च स्यात्त्रिरात्रमथवाऽस्य तु । स्नात्वोद्वहेत तां भार्यामन्यां वा तदभावतः ॥
“ अग्नीनाधाय विधिवद्वात्यस्तोमेन योजयेत् ॥
३० “ तथैन्द्राग्नेन पशुना गिरि गत्वा च तत्र तु । इष्टिमायुष्मतीं कुर्याद्दीक्षितांश्च क्रतूनस्ततः ” ॥ इति ।
जातकमांदीत्यादिशब्देन नामकरणान्नप्राशनचौलानि गृह्यंते । व्रतं ब्रह्मचर्यं स्नानं समावर्तनं
आयुष्मतीष्टिः ‘ अग्नय आयुष्मते पुरोडाशमष्टकपालम् ’ इत्याम्नायते ।
'''पितृमेधसारे—'''“ यदि प्रेतकृत्यसंस्कृतः कश्चिदागच्छेत्तं घृतपूर्णकुंभे त्रिरात्रमेकरात्रं वा
निधाय शुभे लग्ने समुत्थाप्य जातकर्मार्यावैर्विधिवत्संस्कृत्य मेखलाजिनदण्डभिक्षाचर्याव्रतवर्ज्यं
{{rule}} १ ग-र्ण । २ ग-हं न । ३ ख-ष्टद्वा । ग-याजयेत् ।<noinclude></noinclude> 8uccpox3dtwbamn6c48jobvidlo5txt पृष्ठम्:Smriti mukta phalam.pdf/६७३ 104 166676 419696 2026-11-10T13:35:45Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पुनःसंस्कारकालः ।'''|६३३}} {{rule}} यथावदुपनैतः कस्मिंश्चिद्गिरौ द्वादशाहं त्र्यहं वा नियत उपोष्यागत्य पूर्वभार्या तदभावेऽन्या-
मुद्वहेत् । अथास्मत्प्रचरणाऽ... नवीन पृष्ठं निर्मीत अस्ती 419696 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पुनःसंस्कारकालः ।'''|६३३}} {{rule}} यथावदुपनैतः कस्मिंश्चिद्गिरौ द्वादशाहं त्र्यहं वा नियत उपोष्यागत्य पूर्वभार्या तदभावेऽन्या-
मुद्वहेत् । अथास्मत्प्रचरणाऽनाहिताग्निमायुष्मत्येष्ट्या आहिताग्निं संस्कुर्यात् ” इति ।
'''गृह्यपरिशिष्टे—'''
“ य एवाहिताग्नेः पुरोडाशास्त एवानाहिताग्नेश्चरवः ” इति । '''कालादर्शेऽपि—'''
“ यद्यागच्छेत्पुमान्जीवन्पैतृमेधिकसंस्कृतः । घृतकुंभे स्थापयित्वा तमुत्थाप्य शुभक्षणे ॥ ५
“ संस्कृतं जातकमाद्यैरुपनीतं विधानतः । द्वादशाहं त्रिरात्रं वा विहितोपपोषणव्रतम् ॥
“गिरावगत्य पूर्वां वा तदभावेऽपरां स्त्रियम् । उद्वह्य तं च संस्कुर्याच्चरुणाऽयुष्मतेन च” ॥ इति ।
आयुष्मदग्निदेवताकेन चरुणा अनाहिताग्निं संस्कुर्यादित्यर्थः । '''स्मृत्यंतरेऽपि—'''
“ घृतकुंभे निधायाैने त्र्यहमेकाहमेव वा । समुत्थाप्य शुभे लग्ने जातकमीदि कारयेत् ” ॥ इति ।
'''आपस्तंबः—'''“ यद्येतस्मिन्कृते पुनरागच्छेद्वृतकुंभादुन्मग्नस्य जातकर्मप्रभृति द्वादशरात्रव्रतं १०
चरित्वा तयैव जाययाग्निमाधाय पूर्वभुक्ताया भार्याया पाणिग्रहणं विधीयते अग्न्याधेयं कुर्वन्ति
व्रात्यपशुना वा यजेत गिरि वा गत्वा अग्नये कामायेष्टिं निर्वपेद्दीक्षितैः ऋतुभिर्यजेत ” इति ।
'''शौनकः—'''
“ दहनादिसपिंड्यंते कृते सत्यागते पुनः । यज्ञकाष्ठान्मथित्वाऽग्निं कृत्वा चाग्निमुखं तथा ॥
“ विष्णूर्योनिमिति द्वाभ्यां चरुं हुत्वा यथाविधि । हुत्वा पुरुषसूक्तेन स्रुवेणाज्येन प्रत्यृचम् ॥ १५
“ आश्वलायनगृहोक्तं कृत्वा पुंसवनादिकम् । विवाहमपि कुर्वीत पूर्वया भार्यया सह ॥
“आधानं पूर्ववत्कृत्वा सायं प्रातह्रुतं तथा । सदर्शपूर्णमासाभ्यामिष्ट्वा विष्णुं सदा स्मरेत्”॥ इति ।
'''आश्वलायनः—'''“ उपेतपूर्वस्य कृताकृतं के शवपनं मेधाजननं चानिरुक्तं परिदानं कालश्च
तत्संवितूर्वृणीमह इति सावित्री ” इति । '''बोधायनः—'''
“ वपनं मेखलादंडौ भैक्षाचर्यव्रतानि च । निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ” ॥ इति । २०
'''पुनःसंस्कारः पुनरुपनयनम् । पुनर्विवाहविषये स्मृत्यंतरम्—'''
“ न दानं नैव वरणं न प्रतिग्रहणं तथा । त्रिरात्रं च व्रतं न स्यात्पुनरुद्वाहकर्मणि ” ॥ इति ।
एकस्मिन्नेव दिने शेषहोमांतं कर्तव्यमित्यर्थः ।
'''पुनःसंस्कारकालः । नारदः—'''“ मृत्यनंतरतो नृणां बलिर्दातुं न शक्यते ।
“यैः कैश्चित्कारणैर्विद्वान्दद्यात्तत्र बलिं क्रमात् । प्रोष्ठपन्मासि माघे वा बलिं दद्याद्यथोदितम्”॥ इति । २५
'''स्मृत्यंतरे तु—'''
“ अकालमरणे मुक्त्वा षाण्मासात्कुंभकार्मुकौ । कन्याकुलीरप्राप्तेऽर्के पुनःसंस्कार इष्यते” ॥ इति ।
अकालमरणं दुर्मरणम् । '''अन्यत्रापि—'''
“ आषाढप्रोष्ठपान्माधौमार्गशीर्षा विशेषतः । चत्वार ईरिता मासाः पुनःसंस्कारकर्मणि ”॥ इति ।
'''चापमासस्य निषेधमाह गार्ग्यः—''' ३०
“ रवौ चापगते नृणां पुनःसंस्कारकर्म चेत् । पितरो नरकं यान्ति कर्ता तु क्षयमश्रुते ” ॥ इति ।
'''अन्यच्च—'''
“ दुष्टेष्वेतेषु मासेषु पुनःसंस्कारकर्म चेत् । आत्मस्त्रीपुत्रवित्तानां हानिर्भवति हि ध्रुवम् ” ॥ इति
एतेषु कर्कटकन्याकुंभमासव्यातिरिक्तमासेष्वित्यर्थः । '''नक्षत्रादीन्याह गार्ग्यः—'''
{{rule}} १ ग-दश । २ ग-सह भार्यया । ३ ग-पा । ४ क्ष-पान् ।<noinclude></noinclude> sijjpcx3ffo7so4bg16kyycm36bdezk पृष्ठम्:Smriti mukta phalam.pdf/६७४ 104 166677 419697 2026-11-10T13:37:07Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६३४|'''अतीतपिंडोदकास्थिसंचयनादौ ।'''|}} {{rule}} “ अनुराधे च मूले च श्रविष्ठावारुणे तथा । हस्ते च त्वाष्ट्रनक्षत्रे पुनःसंस्कारमाचरेत् ॥
“ कुजवारे च सौरे च जविवारे... नवीन पृष्ठं निर्मीत अस्ती 419697 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६३४|'''अतीतपिंडोदकास्थिसंचयनादौ ।'''|}} {{rule}} “ अनुराधे च मूले च श्रविष्ठावारुणे तथा । हस्ते च त्वाष्ट्रनक्षत्रे पुनःसंस्कारमाचरेत् ॥
“ कुजवारे च सौरे च जविवारे च भार्गवे । नंदायां चैव भद्रायां रिक्तायां पर्वणोस्तथा ॥
“ न कुर्यात्पुनःसंस्कारं कुर्याच्चेत्कुलनाशनम् ” ॥ इति ।
'''नृसिंहश्च—'''
५ “कन्यां कुंभगते सूर्ये कृष्णपक्षे विशेषतः । पंचम्याः परतः श्रेष्ठा आ पंचम्याः सितेऽपि च”॥इति ।
'''बृहस्पतिः—'''
“ कृष्णपक्षः शुभः प्रोक्तः पंचम्यापरतस्तथा । अंत्यत्रिविभागः शस्तः स्याद्विशेषात्प्रेतकर्मणि ॥
“ आद्यभागे च कर्तव्यं सितपक्षे च संकटे ” ॥ इति । संकटो विहितकालालाभः ॥
'''स्मृत्यंतरे—'''
१० “ अब्दादुपरि संस्कार उत्तरायणमिष्यते । सर्वदा कृष्णपक्षः स्यात्पुनःसंस्कारकर्मणि ” ॥ इति ।
'''गार्ग्यः—'''
“ चित्रा श्रविष्ठा हस्तश्च स्वाती श्रवणमश्वयुक् । मघा मैत्रं च तिष्यं च वारुणं सोमदैवतम् ॥
“ एकादशैताः कथिताः प्रशस्ताः प्रेतकर्मणि । प्रेताधिपाधिदेवत्वाद्वरणी कैश्चिदिष्यते ॥
“ ज्येष्ठा च मंगलाभावात् संकटेपु तयोः क्रिया ” ॥ इति ।
१५ '''श्रीधरीये—'''“ भरणी यमदैवत्वात्प्रशस्ता प्रेतकर्मणि । अमंगलसमग्रत्वाज्ज्येष्ठाऽप्यत्र विधीयते ॥
“ नंदायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु । कुर्वतः प्रेतकार्याणि कुलक्षयकराणि तु ” ॥
'''वसिष्ठश्च—'''
“ आग्नेयमार्द्रां सार्पं च त्रयः पूर्वाश्च नैरृतम् । ज्येष्ठा च भरणी चैव निंदितास्तत्त्वदर्शिभिः ॥
“ एतत्सर्वमतिक्रांते तत्काले न तु दोषकृत् ” ॥ इति । '''पद्धतौ—'''
२० “ नंदां भद्रां कलितिथिमिलापुत्रशुकार्यावारांन्नक्षत्रं च त्रिपदममराचार्यशुक्रेन्दुलग्नम् ॥
“त्यक्त्वा पापग्रहबलवशात्प्रेतकार्याणि सर्वाण्याहुर्दोषो न हि बहुमतः प्राप्तकाले मृतस्य ”॥ इति ।
कलितिथिः चतुर्दशी । इलापुत्रः भौमः । आर्यः बृहस्पतिः ।
'''तत्रैव—'''“ नक्षत्राण्यमृतान्याहुरास्थिताः शुभैर्ग्रहैः । शुक्रवीक्षितराश्यादि किंचित्सर्वं विगर्हितम् ” ॥
“ सर्वदा शुक्रवारगुरुवारश्च गर्हितः ” । इति अतीतपिंडोदकास्थिसंचयनादौ प्रातिस्विकनिषेधोऽपि
२५ तत्र तत्रोक्तः । '''स्मृत्यंतरे—'''
“ प्रत्यक्षस्मरणे पित्रोर्न पश्येत्तिथिवारभम् । परोक्षे सूक्ष्मतः पश्येत्स्वजन्मतिथिवारभम् ॥
“ अन्येषां नातिदोषः स्यात्प्रत्यक्षमरणे नृणाम् ” ॥ इति । '''अन्यत्रापि—'''
“ जन्मत्रयं संचयने श्राद्धे च दहने पितुः । नैव दोषावहं प्रोक्तमन्येषामपि सर्वदा ” ॥ इति ।
अन्येषां पितृव्यतिरिक्तानामपि तत्काले दहनादिप्रेतकृत्येषु न दोष इत्यर्थः । यदि कालातिक्रमे
३० प्रेतकृत्यं चिकीर्षेत्तत्र तिथिवारादिकं सूक्ष्मतः पश्येत् । तदाह '''गार्ग्यः—'''
“ प्राप्तकालमतिक्रम्य कुर्याद्यदि बलिक्रियाम् । तस्यैव वारनक्षत्रतिथिरार्यंशकादयः ” ॥ इति ।
'''संग्रहेऽपि—'''
“ अधिमासे हरेः सुप्तौ मौञ्ज्ये च गुरुशुक्रयोः । नातीतपितृमेधः स्यात् गंगां गोदावरीं विना ” ॥
{{rule}}<noinclude></noinclude> ezl92ivcp6ldqrgychmwle59xyntz3l पृष्ठम्:Smriti mukta phalam.pdf/६७५ 104 166678 419698 2026-11-10T13:38:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''दशाहमध्ये ज्ञातिमरणे ।'''|६३५}} {{rule}} '''अन्यच्च—'''
“सुरासुरगुरौमौढे कृष्णस्वापे मलिम्लुचे । नातीतपितृमेधः स्यात्तत्काले न तु दोषकृत्” ॥ कृष्णस्वाप
इति कन्... नवीन पृष्ठं निर्मीत अस्ती 419698 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''दशाहमध्ये ज्ञातिमरणे ।'''|६३५}} {{rule}} '''अन्यच्च—'''
“सुरासुरगुरौमौढे कृष्णस्वापे मलिम्लुचे । नातीतपितृमेधः स्यात्तत्काले न तु दोषकृत्” ॥ कृष्णस्वाप
इति कन्याकर्कटव्यतिरिक्तविषयम् । “ कन्या कुलीरे प्राप्तेऽर्के पुनःसंस्कार इष्यते ” इति
शृंगग्राहितया तत्रातीतप्रेतकार्यविधानात् ।
सर्वोऽपि निषेधस्त्रिपक्षादूर्ध्वविषयः । '''संग्रहकारः—''' ५
“अर्वाक् त्रिपक्षात् प्रेतस्य पुनर्द्दहनकर्मणि । न कालनियमो ज्ञेयो न मौढ्यं गुरुशुक्रयोः ” ॥ इति ।
ततश्च त्रिपक्षादर्वाक्पुनर्द्दहनकर्म मृतिश्रवणदिने कार्यमिति सिद्धम् । यत्तु '''स्मृत्यन्तरवचनम्—'''
“ प्रेतस्य वत्सरादर्वाग्यदा संस्कारमिच्छति । न कालनियमो ज्ञेयो न मौढ्यं गुरुशुक्रयोः” ॥ इति ।
अत्र संस्कारशब्दः सपिण्डीकरणविषयः न पुनःसंस्कारवाचीति व्याख्यातारः ।
'''स्मृतिसंग्रहे—'''“पुनर्दाहे दिनं शोध्यमाशौचात्परतो बुधैः । नन्दात्रयोदशी शुक्रशनिवारौ च वर्जयेत् ॥ १०
“ पातान्त्यपरिघान् घोरान् विष्टिं चैव विवर्जयेत् ” ॥ इति ।
पुनः संस्कारादौ विहितकालातिक्रमे प्रायश्चित्तमुक्तं '''स्मृत्यन्तरे—'''
“संस्काराणां तु सर्वेषां काले यद्यतिपत्यते । प्राजापत्यं चरेन्मासे ततोऽप्येवं प्रकल्पयेत्”॥ इति ।
मासद्वये प्राजापत्यद्वयम् । एवं मासत्रयादौ कल्प्यम् । मासाभ्यन्तरेऽपि प्राजापत्यं कर्तव्यम् ।
तथा '''स्मृत्यर्थसारे—'''“निमित्तश्राद्धे हीने संस्कारकालातिक्रमे च प्राजापत्यं कुर्यात् ” इति । १५
'''दशाहमध्ये ज्ञातिमरणे संस्कर्तुर्विशेषः ।''' दशाहमध्ये पुनर्ज्ञातिमरणे संस्कर्तुर्विशेषमाह
'''नारदः—'''
“ अन्तर्दशाहे चेत्कर्तुः पुनः प्रेतस्य संस्कृतिः । तस्माच्छुद्धिः पूर्वशेषादेकोद्दिष्टं यथोदितम् ” ॥ इति
अंतर्दशाहे चेत्कर्तुरिति स्मरणात् त्र्यहाद्याशौचमध्ये दशाहाशौचिदाहे पूर्वेण न समाप्तिरिति गम्यते ।
'''हारीतोऽपि—''' २०
“ दाहकार्यद्वयं स्याच्चेत्कर्तुरैक्ये विशेषतः । तोयं पिंडं समाप्येत पूर्वेणैव द्वितीयकम् ” ॥ इति ।
'''स्मृत्यंतरेऽपि—'''
“ अंतर्दशाहे तत्कर्तुः पुनः प्रेतस्य कर्माणि । पूर्वेणैव समाप्तिः स्यादेकोद्दिष्टं यथोदितम् ” ॥ इति ।
तच्चैकादशदिने एकोद्दिष्टमित्यर्थः । '''अन्यत्रापि—'''
“ कर्ता दशाहे प्रेतस्य शवदाहं चरेत्पुनः । पूर्वेण शुद्धिः स्यादेव पित्रोरन्यत्र तद्भवेत् ” ॥ इति । २५
तथा चॉंगिराः—
“ दाहकस्त्वथ दशाहात्तु शवदाहं चरेद्यदि । पूर्वेणैव विशुद्धिः स्यात्पित्रोस्तद्द्विसाद्भवेत् ” ॥
'''संग्रहे च—'''
“पित्रान्यान्यतरान्नेकान्दग्ध्वा पूर्वाघतः शुचिः । पितरौ च दहेत्तत्र दशाहाच्छुद्धिरिष्यते ” ॥ इति ।
'''दक्षः—'''“ मृताशौचनिमित्ते द्वे दहनं मरणं तथा । ज्ञातीनां मरणादेव दहनाद्दाहकस्य तु ॥ ३०
“ अन्यं दग्ध्वा दशाहांतः शुद्धिः पूर्वाघशेषतः ” ॥ इति ।
'''संवर्तः—'''
“ पूर्वकर्ता दशाह तु पितरौ चेद्दहेत्पुनः । पूर्वेण शुद्धिर्नैव स्यात्पित्रोस्तद्दिवसाद्भवेत् ” ॥ इति ।
एवं च ज्ञात्यधमध्ये ज्ञातिदाहे कृते सति दाहकस्य दाहादिदशाहेन उदकपिंडदानसमाप्तिः ।
{{rule}} १ क्ष-कर्कटविषयम् । २ क-कु पुनः । ३ खग-अतिर्दशाहे ।<noinclude></noinclude> 00vzf57xcbq9ap8mn6xe2sl2kx6070k पृष्ठम्:Smriti mukta phalam.pdf/६७६ 104 166679 419699 2026-11-10T13:39:02Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६३६|'''अन्तर्दशाहे मातापितृमरणसंनिपाते ।'''|}} {{rule}} दाहादिदशाहमाशौचं च । दाहकव्यतिरिक्तसपिंडानां पूर्वाघशेषत एव शुद्धिरुदकसमाप्तिश्च ।
दाहकस्य पुनर्ज्ञात्... नवीन पृष्ठं निर्मीत अस्ती 419699 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६३६|'''अन्तर्दशाहे मातापितृमरणसंनिपाते ।'''|}} {{rule}} दाहादिदशाहमाशौचं च । दाहकव्यतिरिक्तसपिंडानां पूर्वाघशेषत एव शुद्धिरुदकसमाप्तिश्च ।
दाहकस्य पुनर्ज्ञात्यंतरदाहे पूर्वदाहादिदशाहशेषेण एव शुद्धिः । दशमदिने तदन्त्ययामे वा दाहे सति
‘ अहःशेषे द्वाभ्यां प्रभाते तिसृभिः ” इति स्मरणात् पूर्वदशाहानंतरं द्वित्रिदिनाशौचस्य
सत्त्वेन तदाशौचान्ते उदकादिसमाप्तिः । “ अशौचान्ते ततः सम्यक् पिंडदानं समाप्यते ” इति
५ मरीचिस्मरणात् । एकोद्दिष्टं तत्तदेकादशाहे ‘ एकोद्दिष्टमशुद्धोऽपि ’ इति स्मरणात् । सपिंडी-
करणं तु त्रिपक्षे कार्यम् । दशाहात्पूर्वमृत्तौ दाहकस्य सपिंडस्य द्वादशदिने आशौचाभावेऽपि
आद्यश्राद्धपर्यन्तस्य एककर्मत्वात् पश्चान्मृतैकोद्दिष्टात्पूर्वं पूर्वमृतस्य द्वादशाहे सपिंड्यं न कार्यम् ।
पित्रोस्तु दाहे दाहकस्यान्येषामपि पुत्राणां पितृमरणादिदशाहेनैव शुद्धिरुदकदानादिसमाप्तिश्च
न पूर्वदाहकदशाहशेषेणेति । दीपिकायां तु—
१० “ जनकस्य जनन्याश्च भार्याया भर्तुरेव च । पुत्रस्य दुहितुश्चैव जनने मरणेऽपि च ॥
“ स्वकालेनैव शुद्धिः स्यात् शेषं न्यायो न विद्यते ” ॥ इति । ज्ञात्यघमध्ये पुत्रजनने
पित्रोर्दशाहत एव शुद्धिः । भार्यादिमरणे तत्प्रतियोगिनामपि स्वकालत एव शुद्धिः । न पूर्व-
शेषेणेत्यर्थः ।
'''अन्तर्दशाहे मातापितृमरणसंनिपाते ।''' मातापितृमरणयोरन्यदिनात् पूर्वं अन्त्यदिने
१५ वा मिथः संनिपाते विशेषमाह '''शंखः—'''
“ मातर्यग्रे प्रमीतायामशुद्धे म्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ” ॥
मात्राशौचमध्ये पितृमरणे सति पितृदशाहेन शुद्धिः पित्राशौचमध्ये मात्राशौचसंनिपाते पूर्वा-
शौचानन्तरं मात्राशौचं पक्षिणीमात्रमुदकादिकं च कुर्यादित्यर्थः । तथा च '''स्मृत्यंतरे—'''
“ मात्राशौचस्य मध्ये तु पिता च म्रियते यदि । पितृमरणमारभ्य पुत्राणां दशरात्रकम् ॥
२० “ पित्राशौचस्य मध्ये तु यदि माता प्रमीयते । दशाहात्पैतृकादूर्ध्वं मात्रर्थं पक्षिणी भवेत् ” ॥ इति ।
मातर्यग्रे प्रमीतायां तदाशौचमध्ये यदि पिता म्रियेत तदा पितृमरणदिनमारभ्य दशाहत एव
उदकदानादिप्रेतकृत्ये पिण्ड्यं निर्वर्त्य पितृमरणाद्येकादशदिने आद्यश्राद्धं कुर्यात् । पित्राशौचमध्ये
मातृमरणाद्येकादशदिने मातृराद्यश्राद्धं अशुद्धोऽपि कुर्यात्
“ आद्यश्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिश्शुद्धः पुनरेव सः ” ॥ इति
२५ देवलस्मरणात् । पितर्यग्रे मृते सति तदाशौचमध्ये यदि माता म्रियते तदा
“जनकस्य मृतेर्मध्ये जननी मरणं यदि । पित्राशौचं समाप्तिः स्यान्मात्राशौचं तु पक्षिणीम्”॥ इति
पित्राशौचांत्यदिन एव मातुरपि पिंडोदकसमाप्तिस्मरणात् । पित्राशौचमध्ये मातुरपि दशाहकृत्यं
परिसमाप्य पितुरेकादशदिने आद्यश्राद्धं निर्वर्त्य पित्राशौचानंतरमपि मातुः पक्षिण्याशौचमनु-
ष्ठाय मातृमरणाद्येकादशदिने तस्या आद्यश्राद्धं कुर्यात् । ननु
३० “ आशौचांते ततः सम्यक्पिंडदानं समाप्यते । ततः श्राद्धं प्रदातव्यं सर्ववर्णेष्वयं विधिः”॥ इति
मरीचिस्मरणात् । तथा “ आशौचापगमे एकोद्दिष्टम् ” इति विष्णुवचनाच्च मातुः पक्षिण्या-
शौचानंतरदिने एकोद्दिष्टं कर्तव्यमिति चेन्न “ एकोद्दिष्टं यथोदितम् ” इति स्मरणात् ।
तथा च माधवीयकालादर्शौ ततः आशौचानंतरमेकादशेऽहनि ब्राह्मण एकोद्दिष्टश्राद्धं कुर्या-
दिति मरीच्यादिवचनार्थोऽभिहितः । तथा च '''पैठीनसिः—'''
३५ “एकादशेऽन्हि यच्छ्राद्धं तत्सामान्यमुदाहृतम् । चतुर्णामपि वर्णानां सूतकं तु पृथक्पृथक्”॥ इति ।
{{rule}} १ ग-पुनः । २ कखग-शङ्ख । ३ ग-दर्शटीकादौ ।<noinclude></noinclude> mq9s61h5cz5warqwpbuq7awg1z16cgk पृष्ठम्:Smriti mukta phalam.pdf/६७७ 104 166680 419700 2026-11-10T13:39:55Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अनुमरणे सापिण्ड्यकालः ।'''|६३७}} {{rule}} '''याज्ञवल्क्यश्च—'''
“ मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ” ॥ इति ।
अतः पित... नवीन पृष्ठं निर्मीत अस्ती 419700 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अनुमरणे सापिण्ड्यकालः ।'''|६३७}} {{rule}} '''याज्ञवल्क्यश्च—'''
“ मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ” ॥ इति ।
अतः पितृमृतिदशाहमध्ये मातृमरणे पितृदशाहानंतरं पक्षिण्याशौचमनुष्ठाय मातृमरणाद्येकादशाहे
मातुरेकोद्दिष्टमिति निर्णयः । पूर्वमृतयोः पित्रोः त्रिपक्षे सपिण्डीकरणविधिः । सपिंडीकरणं तु
पूर्वमृतयोर्द्वयोरपि त्रिपक्षे कार्यम् । तथा च द्वादशाहे सापिंड्यं निषेधति '''लौगाक्षिः—''' ५
“ पितर्युपरते पुत्रो मातुः श्राद्धं निवर्तयेत् । मातुर्यपि च वृत्तायां पितुः श्राद्धं निवर्तयेत् ” ॥
मात्राशौचमध्ये पितरि मृते मातुः श्राद्धं सपिंडीकरणं द्वादशाहे न कुर्यात् । पितुस्तु तद्द्वादशाहे कुर्यात् ।
“ मातुर्दशाहमध्ये तु पिता यस्य प्रमीयते । पैतृकं तु यथाकालं पितुः सर्वं समापयेत् ॥
“ततो मातुस्त्रिपक्षादौ शेषं कर्म समाचरेत्” इति स्मरणात् । तथा पितृदशाहमध्ये मातृमृतौ पितुः
सापिण्ड्यं निवर्तयेत् । द्वादशाहे न कुर्यात् । किंतु त्रिपक्ष एव मातुः सापिंड्यं पक्षिण्याशौचाप- १०
गमे द्वादशाहे कुर्यादित्यर्थः । '''देवलोऽपि—'''
“ एकामरणे पित्रोरन्यस्यान्यदिने मृतौ । सपिंडनं त्रिपक्षे स्यादनुयानमृतिं विना ” ॥ इति ।
पित्रोरेकस्यामे मृतौ अन्यस्यान्यदिने मृतौ पूर्वमृतस्य पूर्वमृताया वा सापिंड्यं त्रिपक्षे कुर्यात् ।
अनुयानमृतिं विना अनुमरणं विनेत्यर्थः ।
'''अनुमरणे सापिण्ड्यकालः ।''' अनुमरणे तु पतिर्मरणदिनादुत्तरदिनमरणे तद्द्वादशाह एव १५
सापिंड्यं कुर्यात् । तथा च '''कालादर्शे—'''
“ पित्रोः संघातमरणे मातुरन्यत्र वा दिने । अनुयानमृतौ श्राद्धं यथाकालं समाचरेत् ” ॥ इति ।
दिनांतरे मातुरनुमरणे द्वादशाहं सापिंड्यं कुर्यादित्यर्थः । '''पितृमेधसारेऽपि—'''“ संघातनुमृत्यborder-
रन्यत्र न पित्रोस्तंत्रतः कुर्यान्नान्यैः सह वा पित्राशौचे माता मात्राशौचे पिता वा संस्थितः
सन्मृतिः पूर्वं स्यात्तत्सापिंड्यं त्रिपक्ष एवेति देवल” इति । तयैवैकाग्रमरणे पित्रोरिति देवलवचनं २०
तेन व्याख्यातम् । पित्रोरन्यतरदशाहमध्येऽन्यतरमृतौ पूर्वमृतस्य पूर्वमृताया वा सपिण्डनं त्रिपक्ष
एव भवति । अनुमरणे तु पितुर्द्दशाहे सहैवेत्यर्थः । इति ।
'''दम्पत्योः सहमृतौ क्रमः ।''' यदि दंपत्योः सह मृतिः स्यात्प्राक्दाहाद्वाऽन्यतरमृतिः
स्यात्तदा सहैव दाहादिक्रियाः कुर्यात् । यदाह '''हारीतः—'''
“दंपत्योः सह मृत्यौ तु सह दाहादिकाः क्रियाः। प्राग्दाहादग्निनाशे च तदूर्ध्वं तु पृथक् क्रिया”॥ इति । २५
'''त्रिकांडी च—'''
“ मृते भर्तरि दाहात्प्राक् तत्पत्नी च मृता यदि । पत्न्यां वा प्राक् प्रमीतायां दाहादर्वाक्पतिर्मृतः ॥
“ तत्र तंत्रेण दाहः स्यात् तन्मंत्रे द्वित्वमूहयेत् ” ॥ '''पुलस्त्यः—'''
“ दुर्मृतः सुप्ततो वापि पिताग्रे यद्यसंस्कृतः । कालांतरे मृता माता तस्या दाहादिकाः क्रियाः ॥
“ पत्या सहैकचित्यां तु दहेदौपासनाग्निभौ ” ॥ इति । '''स्मृत्यंतरेऽपि—''' ३०
“दम्पत्योः सह मृत्यौ तु पितृमेधक्रिया सह । कुंडमेकं पृथक्पिंडे जलांजलिशिला मता ” ॥ इति ।
'''संग्रहेऽपि—'''
“ एककाले मृतौ पित्रोः पितृमेधक्रिया सह । उदकं पिंडदानं च श्राद्धं कुर्यात्पृथक् पृथक् ॥
“ सपिंडीकरणं चैव सहैव पृथगेव वा । एकगर्त जले दद्याच्छ्राद्धं चैकदिने द्वयोः ॥
{{rule}} १ क्ष-कुर्यात् । २ क-मातु । ३ क-पितृ । ४ कख-पितृ ।
८१-१२<noinclude></noinclude> 24myvs8w8tbgizwrdp75h8gd7scoknv पृष्ठम्:Smriti mukta phalam.pdf/६७८ 104 166681 419701 2026-11-10T13:40:58Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६३८|'''संघातमरणे दाहादिक्रमः ।'''|}} {{rule}} “ सह चर्माधिरोहश्च शांतिहोमं समाचरेत् । तंत्रेण श्रवणं कुर्यात् श्राद्धं कुर्यात्पृथक् पृथक् ॥
“ तत्र द्वयोर्निमित्त... नवीन पृष्ठं निर्मीत अस्ती 419701 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६३८|'''संघातमरणे दाहादिक्रमः ।'''|}} {{rule}} “ सह चर्माधिरोहश्च शांतिहोमं समाचरेत् । तंत्रेण श्रवणं कुर्यात् श्राद्धं कुर्यात्पृथक् पृथक् ॥
“ तत्र द्वयोर्निमित्तौ द्वौ ब्राह्मणावितरैः सह ” ॥ इति ।
'''स्मृत्यर्थसारेऽपि—'''“ दंपत्योः सह संस्कारो मृतावनुमृतावापि ।
“ उदकादिसपिंडांतं प्रेतकार्याणि यान्यपि । कुर्यात्समानतंत्रेण सांवत्सरिकमेव च ” ॥ इति ।
५ '''संग्रहे च''' सांवत्सरिकस्य समानतंत्रत्वस्मरणमापद्विषयम् । तदग्रे वक्ष्यते । '''अन्यत्रापि—'''
“ प्रदक्षिणमुपस्थानं चरूकार्यं चितिस्तथा । संचयस्तर्पणं गर्तः सपिंडीकरणं सह ” ॥ इति ।
'''संग्रहे च—'''
“ पित्रा सहैव मातुश्च मात्रा सह पितुस्तथा । सापिंड्यं तनयैः कार्यं निमित्तार्थं पृथग्भवेत् ” ॥ इति ।
तथा—
१० “ समानपिंडयोगानां सपिंडीकरणं सह । तंत्रेण पितृवर्गस्य निमित्तं प्रतिपूरुषम् ” ॥ इति
बहुस्मृतिसंमतत्वात्सपिंडीकरणमपि सहैव कर्तव्यम् । अतः पृथगेवेत्येवनादरणीयम् । निमित्तो-
द्देशेन क्रियमाणं प्रेतैकप्रयोजनैर्निमित्तभोजनं पृथग्भवति । एतच्चोपलक्षणम् । क्षुत्तृष्णानिवर्तकं
जलांजलिपैंडप्रदानसोदकुंभश्राद्धनवश्राद्धैकोत्तरवृद्धिश्राद्धषोडशश्राद्धवृषोत्सर्गादिकं प्रेततृप्तिकरं
प्रेतहोमार्घ्यभोजनपिण्डदानदक्षिणादिकं च पृथक् कर्तव्यम् । तंत्रोपकारकं चितिकुंडशांतिहोम-
१५ पाकावैश्वदेवपितृविष्णुवरणादिकं पृथक् न कर्तव्यम् । तथा '''चांगिराः—'''
“ दंपत्योः सह मृत्यौ तु सह स्याद्दहनक्रिया । पृथक्पिंडोदकादीनि यथाविधि समाचरेत् ॥
“ चरुकुंडचिताशांतिसंचयान् तंत्रतश्चरेत् । अग्निं श्रवणहोमौ चेल्युपस्थानं च तंत्रतः ” ॥ इति ।
'''पितृमेधसारेऽपि—'''“ हिरण्यकलशनग्नप्रच्छादनवासस्तिलोदकपिंडैकोनावृद्धिनवश्राद्धसोदकुंभ-
वृषोत्सर्गषोडशश्राद्धानीति पृथक्पृथग्भवन्ति । चरुकुंडं चितिः कुंडमस्थिसंचयने शांतिहोमश्च
२० तंत्रम् । एकोद्दिष्टसपिंडीकरणादिषु निमित्तवरणहोमौ पृथग्भवतः । पाकहौमवैश्वदेवतादि तंत्रम्” इति ।
'''यमः—'''“अस्थिसंचयनादर्वाग्भर्तुः पत्नी मृता यदि । तस्मिन्नेवानले दह्या यदि चाग्निर्न शाम्यति ॥
“उदकादि सपिंडयंतं तयोः कार्यं सहैव तु । शांतेऽग्नौ पुनरेवास्याः पृथक् चित्यादि कारयेत्”॥ इति ।
पितामहपितामह्योर्मरणेऽपि सह संस्कारादिकमाह '''संवर्तः—'''
“ पितामहो यस्य मृतः चिरकालमसंस्कृतः । पितामही च प्रमीता तयोर्दाहादिकं सह ” ॥ इति ।
२५ हिरण्यशकलनिधानादिकं सर्वं पितुः पूर्वं कृत्वा प्राङ्मृताया अपि मातुः पश्चात् कुर्यात् ।
तथा च '''कार्ष्णाजिनिः—'''
“ पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषितेऽपि वा । पितुः पूर्वं सुतः कुर्यादन्यत्रासत्तियोगतः”॥ इति ।
अत्रसंनिग्रहणं दाहाद्युपलक्षणम् । तत्पूर्वकत्वाच्छ्राद्धस्य अन्यत्रासत्तियोगतः पितृभ्यामन्यत्र
ज्ञात्यादिषु आसत्तियोगतः प्रत्यासत्तिक्रमात्कुर्यादित्यर्थः ।
३० '''पितृव्यतिरिक्तानां संघातमरणे दाहादिक्रमः । अत्र ऋष्यशृंगश्च—'''
“ भवेद्यदि सपिंडानां युगपन्मरणं तदा । संबंधासक्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेत् ” ॥ इति ।
'''स्मृतिरत्नेऽपि—'''
“ सकृन्म्रियंते बहवः कर्ता चैकस्तथैव च । अंतरंगक्रमेणैषामुदकादि समाचरेत् ” ॥ इति ।
{{rule}} १ क्ष-निमित्तं पृथगेव वा । २ ग-नं । ३ कग-कार्य । ४ कग-दह्यात् । ५ क्षखग-श्राद्ध ।<noinclude></noinclude> pmjp4reqsw9wu4fz4i0xijsv3otuh0d पृष्ठम्:Smriti mukta phalam.pdf/६७९ 104 166682 419702 2026-11-10T13:41:56Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''मरणानुक्रमापरिज्ञाने ।'''|६३९}} {{rule}} '''कालादर्शे—'''
“ पत्नीभ्रातृसुतादीनां सपिंडानां यदि क्रमात् । संघातमरणं तत्र तत्क्रमाच्छ्राद्धमाचरेत् ॥
“युगपन्मरण... नवीन पृष्ठं निर्मीत अस्ती 419702 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''मरणानुक्रमापरिज्ञाने ।'''|६३९}} {{rule}} '''कालादर्शे—'''
“ पत्नीभ्रातृसुतादीनां सपिंडानां यदि क्रमात् । संघातमरणं तत्र तत्क्रमाच्छ्राद्धमाचरेत् ॥
“युगपन्मरणं तत्र संबंधासत्तियोगतः ”॥ इति । आदिशब्देन पुत्रपौत्रभ्रातृपुत्रस्नुषास्वसॄणां ग्रहणम् ।
पत्न्यादीनां मध्ये बहूनां द्वयोर्वा एकस्मिन्दिने संघातमरणं यदि स्यात् तत्र तत्क्रमान्मरणक्रमा-
द्दाहादिकं कुर्यात् । ५
“कृत्वा पूर्वमृतस्यादौ द्वितीयस्य ततः पुनः । तृतीयस्य ततः कुर्यात् संनिपाते स्वयं क्रमः”॥ इति
ऋष्यशृंगस्मरणात् ।
पत्न्यादीनां सपिंडानां युगपन्मरणं यदि स्यात्तत्र संबंधस्यासत्तिवशात्क्रमेण श्राद्धं कुर्यात् ।
पत्नीपतिलक्षणसंबंधस्यासन्नत्वात्पत्न्याः प्रथमं कुर्यात् । अनंतरमुभयप्रतियोगिकसंबन्धभाजः
पुत्रस्य अनंतरं पितृव्यवहितसंबंधभाजः पौत्रस्य तदनंतरं भ्रातुः । अत्र पौत्रभ्रात्रोर्यद्यपि पितृव्यवधानं १०
समानं तथापि पौत्रस्य स्वशरीरावयवान्वयस्य विद्यमानत्वाद्भ्रातुतोऽपि प्रत्यासत्तिः । ततो भ्रातृ-
पुत्रस्य ततः पुत्रद्वारा संबंधभाजः स्नुषायाः । तदनुगोत्रान्तरप्रवेशेन व्यवधानभाजः स्वसुः । एवं च
एकस्मिन्दिने क्रमेणैतेषां संघातमरणे म्रुतिक्रमेण दाहादिकाः क्रियाः पृथक्कुर्यात् । युगपन्मरणे तु
उक्तसंबंधक्रमेण दाहादिकं पृथक्कुर्यादिति कालादर्शटीकायां व्याख्यातम् । स्मृतिरत्ने मरणानु-
क्रमपरिज्ञाने म्रुतिक्रमेण तदपरिज्ञाने संबंधासत्तिक्रमेणेति व्यवस्था दर्शिता । तथा च तत्रैव— १५
“ अंतरंगक्रमेणैषामुदकादि समाचरेत् । मरणं क्रमशो दृष्ट्वा मरणानुक्रमेण तु ॥
“ समानमिदमुद्दिष्टमन्येषामग्रजं विना । अन्येषामग्रजस्यापि समवायेऽग्रजः प्रभुः ॥
“ अग्रजस्यापि पित्रोश्च संपाते पितरौ प्रभू ” ॥ इति ।
म्रुतिक्रमापरिज्ञाने संबंधासत्त्यपरिज्ञाने च वयोधिकसपिंडादेर्द्दाहादिक्रियाः प्रथमतः कार्याः
“ यद्येककाले पुरतः संस्कार्यास्तु वयोऽधिकाः । बहुत्वेऽप्येवमेव स्यादुदकं च दिने दिने ” ॥ इति २०
स्मरणात् । अनेन पुरतः संस्कारविधानात् मातापितृव्यतिरिक्तानां सर्वेषां दाहादिकृत्यं सपिंडी-
करणं च सर्वं पृथक्पृथगेवेत्युक्तं भवति । तथा च '''देवलः—'''
“ पित्रोरुपरतौ पुत्रः श्राद्धं कुर्यात् द्वयोरपि । अनुवृतौ च नान्येषां संघातमरणेऽपि च ” ॥ इति ।
पित्रोर्मरणे अनुमरणविषये संघातमरणे च दाहादिकं सहैव कुर्यात् । अन्येषां संघातमरणे सह न
कुर्यादित्यर्थः । अन्ये तु ज्ञात्यादिसंघातमृतिविषये सहैव दाहादिक्रियां वदन्तः स्मृत्यंतर- २५
मुदाहरन्ति—
“मृतानामेकवंश्यानामेको यदि च दाहकः । एकस्मिन् दिवसे कुर्यादेकचित्यां समाहितः”॥ इति ।
'''अन्यच्च—'''
“ एककाले गतासूनां बहूनामथवा द्वयोः । एककुण्डे शिलाभेदे तेषां पिण्डं पृथक् पृथक् ॥
“ सपिण्डीकरणं तेषां सहैव पृथगेव वा । निमित्तार्थं पृथक्कुर्यादन्यत्सर्वं सह क्रिया ” ॥ इति । ३०
सहसापिण्ड्यमेकोद्देश्यत्वविषयम्
“ समानपिण्डयोगानां सपिण्डीकरणं सह । निमित्तपिण्डमेकैकं दत्वा तैः संसृजेत्क्रमात् ” ॥ इति
स्मरणात् । पितृमेधसारे—“यद्यनेकेषामेकदिने मृतिः स्यात्पत्नीपुत्रपौत्रभ्रातृ तत्पुत्रस्नुषास्वसॄणां
संख्याक्रमाद्दाहादिक्रियाः पृथक् पृथक् कुर्यादन्येषां म्रुतिक्रमात् ” इति ।
{{rule}} १ क्ष-भुः ।<noinclude></noinclude> q5oenbe8z709u6qgeyffcrtqyxdlz03 पृष्ठम्:Smriti mukta phalam.pdf/६८० 104 166683 419703 2026-11-10T13:42:56Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६४०|'''पित्रोः संघातमरणे ।'''|}} {{rule}} '''तत्रैव—'''
“पत्न्यादीनामन्येषां च संघातमरणे पत्न्यादिपूर्वमन्येषामुभयेषामपि पितृपूर्वं पित्रोर्मृताब्दे पत्न्यादि-
... नवीन पृष्ठं निर्मीत अस्ती 419703 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६४०|'''पित्रोः संघातमरणे ।'''|}} {{rule}} '''तत्रैव—'''
“पत्न्यादीनामन्येषां च संघातमरणे पत्न्यादिपूर्वमन्येषामुभयेषामपि पितृपूर्वं पित्रोर्मृताब्दे पत्न्यादि-
सापिण्ड्यं त्रिपक्षे ” इति । '''लोकाक्षिः—''' “ पित्रोर्द्धयोर्दशाह एव सापिण्ड्यमन्येषामेकोद्दिष्टान्तं
कृत्वा तत्तद्वत्सरान्ते मासिकैः सह सापिण्ड्यं कुर्यात् इति भृगुः ” । पत्न्यादीनां तद्व्यति-
५ रिक्तानां च मृतौ पूर्वोक्तन्यायेन पत्न्यादीनां पूर्वं कृत्वा तद्व्यतिरिक्तानां पश्चान्मृतिक्रमेण कुर्यात् ।
पित्रोः पत्न्यादीनां तद्व्यतिरिक्तानां च संघातमरणे पितृपूर्वं पत्न्यादीनां कुर्यात् । ‘ पितृपूर्वं सुतः
कुर्यादन्यत्रासत्तियोगतः ’ इति । लोकाक्षिः—‘ पत्नीपुत्रस्नुषापौत्रभ्रातृ तत्पुत्रका अपि ।
“ पितरौ च यदैकस्मिन्म्रियेरन् वासरे तदा । आद्यमेकादशे कुर्यात् त्रिपक्षे तु सपिण्डनम्” ॥ इति ।
अत्र व्यवस्थामाह '''वृद्धहारीतः—'''
१० “संघातमरणे पित्रोर्द्वादशाहे सपिण्डनम् । कुर्यात्पुत्रस्तदन्येषां त्रिपक्षे कारयेद्बुधः”॥ अन्येषां पत्न्या-
दीनामित्यर्थः । तेषामेव मातापितृमृतिवत्सरमध्ये त्रिपक्षादौ सापिण्ड्यं विदधाति '''ऋष्यशृङ्गः—'''
“ पत्न्याः पुत्रस्य तत्पुत्रभ्रात्रोस्तत्तनयस्य च । स्नुषास्वस्रोश्च पित्रोश्च संघातमरणं यदि ॥
“ अर्वाग्द्विमात्मातृपूर्व सापिण्ड्यमनाचरेत् ” ॥ इति । '''भृगुरपि—'''
“माता भ्राता च तत्पुत्रः पत्नी पुत्रः स्नुषा स्वसा । एषां मृतौ चरेच्छ्राद्धमन्येषां न पुनः पितुः”॥ इति ।
१५ पितृमृताब्दे एषामेव श्राद्धं सपिंडीकरणं कुर्यात् । नान्येषामित्यर्थः । ऋष्यशृङ्गोक्तपत्न्यादिसप्त-
व्यतिरिक्तानां पित्रोर्मृताब्दे पितृभ्यां सहैकदिने वा मृतानां दाहाद्येकोद्दिष्टातं तत्तत्काले मृतिक्रमा-
त्कृत्वा तत्तद्वत्सरांतदिने मासिकैः सह सापिंडचं कुर्यात् । अत्र '''भृगुः—'''
“ पित्रोर्मृताब्दे श्राद्धांतं कृत्वाऽन्येषां यथाविधि । मासिकैः सह सापिंडचं वत्सरांते समाचरेत् ” ॥
वत्सरांत इति नियमात्ततोऽर्वाक् न मासिकाद्यनुष्ठानम् । '''कालादर्शे—'''
२० “ पत्न्यादीनां च पित्रोश्च संघातमरणं यदि । अर्वाक्संवत्सरात्पित्रोः सापिंड्यं न समाचरेत् ॥
“ संघातमरणेऽन्येषां पित्रोश्च दहनादिकम् । कृत्वा संवत्सस्यांते कुर्वीत सह पिंडनम् ” ॥ इति ।
तथा '''देवलः—'''
“ महागुरुनिपाते तु प्रेतकार्यं यथाविधि । कुर्यात्संवत्सरादर्वाङ् नैकोद्दिष्टं न पार्वणम् ” ॥
पित्रोर्मृतौ संवत्सरादर्वाक्पत्न्यादिव्यतिरिक्तानां प्रेतकार्यं दाहाद्येकोद्दिष्टान्ताः पूर्वाः क्रियाः
२५ यथाविधि कुर्यात् । एकोद्दिष्टमासिकानि पार्वणं सपिंडीकरणं च न कुर्यादित्यर्थः । एतदेवाभि-
प्रेत्य '''स्मृत्यंतरे—'''
“ पितरौ प्रमीतौ यस्य देहस्तस्याशुचिर्भवेत् । न दैवं नापि पित्र्यं च यावत्पूर्णो न वत्सरः ” ॥
'''लौकाक्षिरपि—'''
“ अन्येषां प्रेतकार्याणि महागुरुनिपातने । कुर्यात्संवत्सरादर्वाक् श्राद्धमेकं तु वर्जयेत् ” ॥ श्राद्धं
३० मासिकं सपिंडीकरणम् । ननु
“ पत्नी चैव सुतो भ्राता स्नुषा चैव विपद्यते । तत्र श्राद्धानि कुर्वीत न पित्रोर्मृतयोरपि ” ॥ इति
जाबालिस्मरणात् पत्न्यादीनामपि सापिंड्यनिषेध इति चेन्न । द्वादशाहे तन्निषेधपरत्वात्संवत्सरा-
दर्वाङ्निषेधपरत्वे त्रिपक्षे तु सपिंडनमिति लौकाक्ष्यादिवचनविरोधापत्तिः । अतः पत्न्यादीनां
पित्रोर्मृताब्दे पितृसपिंडनानंतरमरणे तत्तद्द्वादशाहे सपिंडीकरणम् । पत्न्यादीनां पित्रोश्च संघात-
{{rule}} १ कखग-पूर्वं सापिण्ड्यमाचरेत् । २ ग-स्य ।<noinclude></noinclude> 6zwsjv2rxzxlnmnyevdsukj5fks6qqq पृष्ठम्:Smriti mukta phalam.pdf/६८१ 104 166684 419704 2026-11-10T13:43:54Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अनुमरणविधिः ।'''|६४१}} {{rule}} मरणे पत्न्यादीनां त्रिपक्षे । पित्रोस्तु द्वादशाहे । अन्येषां पित्रोर्मृताब्दे मरणे तत्तद्वत्सरांते मासिकानि
सपिंडीकरणं चेति... नवीन पृष्ठं निर्मीत अस्ती 419704 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अनुमरणविधिः ।'''|६४१}} {{rule}} मरणे पत्न्यादीनां त्रिपक्षे । पित्रोस्तु द्वादशाहे । अन्येषां पित्रोर्मृताब्दे मरणे तत्तद्वत्सरांते मासिकानि
सपिंडीकरणं चेति निर्णयः ।
'''अनुमरणविधिः । अनुमरणविषये विष्णुः—'''
“ भर्तरि प्रेते ब्रह्मचर्यं तदन्वारोहणं वा ” इति ॥ स्मृत्यंतरे च—
“ साध्वीनामेव नारीणामग्निप्रपतनादृते । नान्यो धर्मोऽस्ति विज्ञेयो मृते भर्तरि कर्हिचित् ”॥ इति । ५
'''हारीतोऽपि—'''
“मातुतः पितृतश्चैव यत्र चैषा प्रदीयते । कुलत्रयं पुनात्येषा भर्तारं याऽनुगच्छति”॥ स्मृत्यंतरे—
“ सार्तवा सूतिका वाऽपि भर्त्रनुमरणोत्सुका । सद्यः शुद्धिमवाप्नोति भर्तुः पापापहारिणी ” ॥
'''अन्यच्च—'''
“बालापत्या तु या नारी सूतिका वा रजस्वला । सर्वासामपि च स्त्रीणां एष साधारणो विधिः”॥ इति । १०
'''यत्त्वौर्ववचनम्'''
“बालापत्याश्च गर्भिण्यो ह्यदृष्टार्तव एव च । रजस्वला राजसुते नारोहंति चितां शुभे”॥ इति । यदपि
“बालापत्या तु या नारी भर्त्रा सह न सा व्रजेत् । रजस्वला न गच्छेत्तु गर्भं तु गर्भिणी इति ”॥
अत्र पितृमेधसारकृता व्यवस्थापितं षोडशीग्रहणाग्रहणवत् विधिनिषेधदर्शनात् यद्यपि तुल्य-
विकल्पः प्राप्नोति तथापि भर्त्रनुमरणोत्सुकेति वचनात् पुत्रक्षेत्रधनधान्यादिमनस्कायाः पातिव्रत्य- १५
धर्महीनायाः संसारदुःखबन्धुवियोगाद्युपाधितो विषण्णाया वा प्रतिषेधो द्रष्टव्यः इति ।
अन्ये तु भर्त्रनुमरणोत्सुका “ नमस्कृत्य चितारूढं भर्तारं तु प्रसन्नधीः” “आरुह्य पत्नी
निधनं गता चेदेकां चितिं निर्मलधीः स्वभर्त्रा ” इत्यादिवचनेषूपात्तेर्मरणोत्सुका प्रसन्नधीर्निर्मलधी-
रित्यादिपदैर्देहादिवियोगकलंकरहिताया एवानुमरणाधिकारप्रतिपादनात् बालापत्या रजस्वलेत्यादि-
विशेषणोपादानवैय्यर्थ्यप्रसंगाच्च पितृमेधसारोक्तं न युक्तं निषेधवचनं तु भिन्नचित्या- २०
रोहणविषयं तच्च क्षत्रियादिविषयम् । तथा च क्षत्रियादिस्त्रीणां रजस्वलादीनामनुमरणनिषेधः
“ रजस्वला राजसुता ” इति राजसुतां प्रत्येव तन्निषेधादित्याहुः ।
अपरे तु बालापत्यारजस्वलादेः सामान्येन विधानात्प्रतिषेधाच्च रजस्वलायाः तुल्य-
विकल्पः । भिन्नचित्यारोहणविषयत्वे प्रमाणाभावाद्रजस्वला राजसुता इति राजसुतासंबोधन-
मात्रेण विषयविशेषात्प्रतीतेरित्याहुः । गर्भिण्यास्तु निषेध एव । ततश्च गर्भिणीं बिना बालापत्या २५
सूतिका रजस्वला दृष्टार्तवाश्च ब्राह्मण्य एकचित्यारोहणं कुर्युः । सूतिका रजस्वला च तत्तदुक्त-
शुद्धिप्रकारेण शुद्धाः कुर्यात् । यत्तु चंद्रिकायामुक्तम्—
“ भर्त्तारमनुगच्छन्त्या रज उत्पद्यते यदि । तैलद्रोण्यां विनिक्षिप्य लवणे वा मृतं पतिम् ॥
“ त्रिरात्राह्वनं कुर्युर्बांधवास्तु तया सह । श्राद्धं चैकदिने कुर्यात् द्वयोरपि हि निर्णयः”॥ इति ।
तद्बांधवा इत्यभिधानादपत्यहीनसंस्कर्तृविषयमित्येके । अपरे तु— ३०
“ भर्त्तारमनुगच्छन्ती पत्नी चेत्सार्तवा यदि । तैलद्रोण्यां विनिक्षिप्य लवणे वा मृतं पतिम् ॥
“ चतुर्थेऽहनि संस्कुर्यात्पुत्रादिस्तं सहैतया । शवः पर्युषितस्तस्य प्रायश्चित्तं तदा भवेत् ” ॥
अस्मिन्पक्षेऽप्यर्घं भर्तुर्दशाहेनापि गच्छन्तीति पुत्रवत्त्वेऽपि चतुर्थेऽहनि पित्रोः संस्कारविधानात्सम्-
विकल्प इत्याहुः । स्मृत्यंतरे—
“ मृतं पतिमनुव्रज्य पत्नी चेत् ज्वलनं गता । न तत्र पक्षिणी कार्या पैतृकादेव शुध्यति ॥
{{rule}}<noinclude></noinclude> d58tptbpg7qfn2f89okv3v3l2oqj3vb पृष्ठम्:Smriti mukta phalam.pdf/६८२ 104 166685 419705 2026-11-10T13:44:44Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६४२|'''एकचित्यारोहणक्रमः ।'''|}} {{rule}} “ सार्तवा सूतिका चैव भर्त्रानुमरणोत्सुका । पूर्ववस्त्रं परित्यज्य शवकर्माणि कारयेत् ॥
“ सपत्न्योरनुगच्छन्त्योरेका यदि र... नवीन पृष्ठं निर्मीत अस्ती 419705 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६४२|'''एकचित्यारोहणक्रमः ।'''|}} {{rule}} “ सार्तवा सूतिका चैव भर्त्रानुमरणोत्सुका । पूर्ववस्त्रं परित्यज्य शवकर्माणि कारयेत् ॥
“ सपत्न्योरनुगच्छन्त्योरेका यदि रजस्वला । चतुर्थेऽह्नि सहैवाभ्यां तस्य दाहो विधीयते ॥
“ एकचित्यां समारूढा यदि भार्या दिनान्तरे । भर्तुर्मृताहे कर्तव्यमभिन्नं मनुरब्रवीत् ” ॥ इति ।
'''वसिष्ठः—'''
५ “ दह्यमानं तु भर्तारं या नारी त्वनुगच्छति । मरणादि भवेच्छ्राद्धं दहनादि तयोर्न तु ॥
“ भर्त्रा सहैव शुद्धिः स्याच्छ्राद्धं चैकदिने भवेत् ” ॥ यत्तु
“ या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत् । सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत्”॥ इति
यदपि— “ मृतानुगमनं नास्ति ब्राह्मण्या अनुशासनात् ” इत्यादि तत्सर्वमपि ब्राह्मण्या अनुगमन-
निषेधप्रतिपादकवचनं पृथक्चित्यारोहणविषयम् । “ पृथक् चितिं समारुह्य न विप्रा गंतुमर्हति ”
१० इति विशेषस्मरणात् । तथा च
'''हारीतः—'''
“भर्त्रा सहानुमरणमा चंडालं विधीयते । पृथक् चितिर्वा राजादेर्न विप्रायाः पृथक् चितिः”॥ इति ।
क्षत्रियादीनां पृथक्चित्यारोहणं देशांतरविषयम् । संनिधौ तु एकचित्यारोहणमेव
“ देशांतरमृते पत्त्यौ साध्वी तत्पादुकाद्वयम् । निधायोरसि संश्रद्धा प्रविशेज्जातवेदसम् ” ॥ इति
१५ स्मरणात् । इदं च मुमुक्षुविषये त्याज्यमेव । तथा च श्रुतिः—“तस्मादुहैनो न प्रागायुषः स्वः कामी
प्रेयात् ” इति । अस्यार्थो विज्ञानेश्वरेणाभिहितः —“ स्वर्गफलोद्देशेनायुषः
प्रागायुःक्षयो न कर्तव्यो मोक्षार्थिना इति । अतः मोक्षमनिच्छन्त्या स्वर्गार्थिन्या अनुगमनं
युक्तम् । इतरकाम्यानुष्ठानवत् ” इति । सर्वमेतत्स्त्रीधर्मनिरूपणे सविस्तरमधस्तात्प्रतिपादितम् ।
'''एकचित्यारोहणक्रमः ।''' एकचित्यारोहणप्रकारस्तु '''हेमाद्रावुक्तः—'''
२० “ अथानुमरणे पत्नी स्नात्वा भर्त्रा सहैव तु । पञ्चस्तूरीयमासाद्य सिग्व्रातैरुपवीज्य च ॥
“ नमस्कृत्य चितारूढं भर्तारं तु प्रसन्नधीः । प्रदक्षिणं परीत्याथ भर्तुर्दक्षिणमाविशेत् ॥
“ इयं नारीति मंत्रेण शाययेन्मातरं सुतः । ऊहेन वा दहेदूर्ध्वमास्नानात्पतिना समम् ॥
“ यद्वा पत्नी तु संकल्प्य प्रयोगे त्वखिले कृते । दह्यमाने पतौ मंत्राञ्जपेदध्वर्युणा सह ॥
“ पावकं प्रविशेत्तत्र भर्तुश्चोर्ध्वं पृथग्विधिः । उभयोः सह संकल्पः कुंडमेकं पृथक् शिला ॥
२५ “ वासस्तिलोदकं पिंडं नग्नप्रच्छादनं नवम् । षोडशं च वृषोत्सर्गः सोदकुंभं पृथक् पृथक् ॥
“ सहचर्माधिरोहश्च सपिंडीकरणं तथा । निमित्तहोमवरणे श्राद्धमेकोत्तरं पृथक् ॥
“ वैश्वदेवं च पाकश्च होमोऽन्वाहार्यैः सहेष्यते ” इति ॥
'''स्मृत्यंतरे च—'''“ आरुह्य पत्नी निधनं गता चेदेकां चितिं निर्मलधीः स्वभर्त्रा ।
“दशाहहोमं श्रपणं च तंत्रात्पिंडोदकादीन्पृथगेव कुर्यात् ” ॥ '''पितृमेधसारे—'''“ स्नात्वा शक्तितो
३० दत्वा ब्राह्मणैरभ्यनुज्ञाता प्रीता पथस्तूरीयमासाद्य सिग्व्रातैरुपवीज्य चितिगतं भर्तारं प्रदक्षिणीकृत्य
प्रणम्य चितिमारुह्य भर्तुर्दक्षिणपार्श्वे शयीतात्र कर्ता पत्नीमुपनिपातयति इयं नारीति सनानमत
ऊर्ध्वं सद्यः पापं निर्धूय दंपती विहरत ” ॥ इति । '''स्मृतिरत्ने—'''
“ अनुयाने मृतौ पित्रोरेकशय्याचितिस्तथा । प्रत्येकंमङ्गलेभेदे नग्नप्रच्छादनादिकम् ।
“ एकमेवाग्निशानं स्यादेकग्रावा तिलांजलिः ” ॥ इति । एकस्यां शिलायां तिलोदकमित्यर्थः ।
३५ तिलाञ्जल्यर्था शिला द्वयोरेकेति यावत् । कुंडमेकं पृथक् शिलेत्यनेनास्य विकल्पः ।
{{rule}} १ स-द्वयोः; ग-व्ययोः ।<noinclude></noinclude> i3e5c8wusedch9w45fy1rx287gw0y9h पृष्ठम्:Smriti mukta phalam.pdf/६८३ 104 166686 419706 2026-11-10T13:45:40Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अन्येद्युः ।'''|६४३}} {{rule}} '''तत्रैव—'''
“ अस्थिसंचयनं चैव नवश्राद्धं पृथक् पृथक् । वृषोत्सर्जनभेदश्च मासिकानां पृथक् क्रिया ॥
“ सपिंडीकरणं चैवं सुतः सर्वं सम... नवीन पृष्ठं निर्मीत अस्ती 419706 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अन्येद्युः ।'''|६४३}} {{rule}} '''तत्रैव—'''
“ अस्थिसंचयनं चैव नवश्राद्धं पृथक् पृथक् । वृषोत्सर्जनभेदश्च मासिकानां पृथक् क्रिया ॥
“ सपिंडीकरणं चैवं सुतः सर्वं समाचरेत् ” ॥
'''स्मृत्यंतरे—'''“ सहैव भर्त्रा मरणं स्त्रियाश्चेत्सह कुर्यात्पितृमेधकृत्यम् ॥
“ पिंडोदकादीन्पृथगेव कुर्यात्पिंडस्य संयोजनमत्र भर्त्रा ॥ ५
“ मृते भर्तरि या पूर्वं परेऽहन्यनुगच्छति । तस्याः पतिदिने श्राद्धं शालभेदं न कारयेत् ॥
“ अग्निकार्ये न भेदोऽस्ति अस्थिसंचयने तथा । एकगर्तं जलं दद्यात्पिंडांश्चैकदिने द्वयोः ॥
“ एकोद्दिष्टं पृथक्कुर्यात्सपिंडीकरणं सह । तत्र द्वयोर्निमित्तौ द्वौ ब्राह्मणावितरैः सह ” ॥
'''देवलः—'''“ परेद्युरनुथाने तु मरणाद्युक्रमेण तु । दहनादिसपिंड्यंतं श्राद्धं कुर्याद्यथाविधि ” ॥
'''क्रियाकल्पकारिकायाम्—'''“ पतिव्रता त्वन्यदिनेऽनुगच्छेद्या स्त्री पतिं चित्यधिरोहणेन । १०
“ दशाहके भर्तुरधस्य शुद्धिः श्राद्धद्वयं स्यात्तुयुगोककाले ॥
“ मृते भर्तरि पूर्वेद्युःपरेद्युरनुगच्छति । तस्याः पतिदिने श्राद्धं मृताहस्तु यथातिथि ” ॥
'''स्मृत्यंतरे—'''“अस्थिसंचयनं चैकं नवश्राद्धं पृथक्पृथक् । वृषोत्सर्जनभेदश्च मासिकानां पृथक्क्रिया ॥
“ उपस्थानं तदेकं स्यात्परं तस्याः पृथक् क्रिया । पृथक् श्राद्धं तयोः कुर्यात् गोदानं च पृथक् पृथक् ॥
“ सपिण्डीकरणे प्राप्ते सर्वं तद्दिवसे चरेत् ॥ १५
“ बहुपत्नीकपक्षे तु मन्त्रावृत्तिः पुनः पुनः । विभज्य पिण्डं दद्यात्तु गार्ग्यस्य वचनं यथा ”॥ इति ।
'''अन्यत्रापि—'''“ दिनान्तरे यानि सहैव भर्तुः कुर्यान्मृताहे सति कर्म कार्यम् ।
“ हिरण्यशल्काः पृथगेव कार्याः पात्राणि भेदद्वयभाञ्जि कुर्यात् ” ॥ इति । '''अन्यत्रापि—'''
“ अन्येद्युरप्यनुगतौ शुद्धिः पतिदशाहतः । सहास्थिसंचितिः चैव काले श्राद्धद्वयं भवेत् ॥
“पृथक् पिंडोदकादि स्यात्पत्न्या पिंडस्य योजनम् । तच्च पिंडं द्विधा कृत्वा पितृपिंडेपु योजयेत् ”॥ २०
'''वसिष्ठः—'''
“ अनुयाने च पत्या च सपिंडीकरणं सह । अंतर्धाय तृणं मध्ये भर्तुः श्वशुरयोरपि ॥
“ स्त्रीपिंडं भर्तृपिंडेन संयोज्ये च पुनः सुतः । पितामहादिभिः सार्धं पितृपिंडं तु योजयेत् ” ॥
'''यमः—'''
“ पत्या चैकेन कर्तव्यं सपिंडीकरणं स्त्रियाः । सा मृतापि हि तेनैक्यं गता मंत्राहुतिकृतैः ” ॥ २५
'''शातातपः—'''
“ या मृता सुभगा नार्थं सा तेन सह पिंडताम् । अर्हति स्वर्गवासेऽपि यावद्वा भूतसंप्लवम् ” ॥
'''यत्तु सुमन्तुवचनम्—'''
“ चित्यधिरोहणकाले तु षोडशानि पृथक्पृथक् । सपिंडीकरणं तस्या नैव भर्तुः कृते सति ” ॥ इति
तस्त्रियाः पृथक्सपिंडीकरणनिषेधपरम् । '''देवलः—''' ३०
“ तद्दिने वा परदिने भर्तारमनुगच्छति । नवश्राद्धं षोडशं च सपिंडीकरणं तथा ॥
“ यथाकाले तु कर्त्तव्यं प्रतिसंवत्सरं तथा ” ॥ इति । यथाकाले भर्तुर्विहिते काले कर्तव्यम् ।
स्त्रिया अपि कर्तव्यमित्यर्थः । यत्तु गौतमवचनं
“ एकचित्यां समारूढौ दंपती निधनं गतौ । मासिकानि नवश्राद्धं सपिंडीकरणं पृथक् ” ॥ इति
{{rule}} १ ग-कं । २ क-काम । ३ क-शवदाहके; ग-तो । ४ ग-सु ।<noinclude></noinclude> c3xrc5tfunzd3cm9xqvea23ddk6cuju पृष्ठम्:Smriti mukta phalam.pdf/६८४ 104 166687 419707 2026-11-10T13:46:54Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६४४|'''गर्भिणीसंस्कारः ।'''|}} {{rule}} '''यदपि व्याघ्रवचनं—'''
“ पतिव्रता तु या नारी भर्तारमनुगच्छति । पिंडदानोदकं श्राद्धं सपिंडीकरणं पृथक् ” ॥ इति
एतादृशं वचनं निम... नवीन पृष्ठं निर्मीत अस्ती 419707 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६४४|'''गर्भिणीसंस्कारः ।'''|}} {{rule}} '''यदपि व्याघ्रवचनं—'''
“ पतिव्रता तु या नारी भर्तारमनुगच्छति । पिंडदानोदकं श्राद्धं सपिंडीकरणं पृथक् ” ॥ इति
एतादृशं वचनं निमित्तभेदप्रतिपादनपरम् । अन्यथा सपिंडीकरणं चैकं तत्र द्वयोर्निमित्तौ द्वौ
ब्राह्मणावितरैः सह सपिंडीकरणं सहेत्यादिपूर्वोक्तबहुस्मृतिविरोधप्रसंगात् । दुर्मरणाद्युपाधिवशेन
५ काष्ठवदमंत्रकदाहेनानुसृतिः कार्या । दाहमात्रंतंत्रेण “ नानुरोहेत्पतिव्रता ” इति स्मरणात् ।
तथा च '''कल्पकारिकायाम्—'''
“ पत्युर्वेदाग्निसंस्कारे पत्न्या अनुगमो मतः । अन्यथा त्वात्मघातः स्यादिति वेदविदो विदुः”॥ इति ।
चितिभ्रष्टायाः प्रायश्चित्तमुक्तं '''स्मृत्यंतरे—'''
“चितिभ्रष्टा यदा नारी मोहाच्चलति वा तदा । प्राजापत्यं भवेत्कृच्छ्रं शुद्धा भवति नान्यथा”॥ इति ।
१० '''अथ गर्भिणीसंस्कारः । अत्र बोधायनः—'''“ अथ गर्भिण्यंतर्वत्नी म्रियेतात ऊर्ध्वं
म्रियेत श्मशानं नीत्वा दहनदेशं जोषयेत्तु सम्यक् चितामपरेण सव्येन प्रेताया उदरं विलिखेत् ।
‘हिरण्यगर्भः समवर्तताग्र’ इत्यनुलेखनदृष्टं कुमारमनुमंत्रयते ‘जीवतु मम पुत्रो दीर्घायुत्वाय वर्चस’
इति । अथ बालं संस्नापयेयुर्हिरण्यमंतर्धाय जीवंतं ग्राममानयंती ‘यस्ते स्तनः शशय’ इति स्तनं
प्रदाय तस्मिन्नुदरे आज्यानि जुहोति । ‘शतायुधाय शतवीर्याय’ इति पंचभिः ‘प्रयासाय स्वाहा-
१५ यासाय स्वाहेत्यनुवाकेन प्राणाय स्वाहा व्यानाय स्वाहा इत्यनुवाकेन पूष्णे स्वाहा पूष्णे
शिरसे स्वाहा ’ इत्यनुवाकेन सूच्या जठरम्त्रणं कुर्यात् । प्रेतां चितिमध्यारोप्य विधिना दाहयेत् ।
अष्टौ धेनुर्भूमिं धेनुमिति च दद्यादिति । '''संग्रहे—'''
“ षण्मासादूर्ध्वमासूते म्रियते यदि गर्भिणी । चितैः पश्चान्निधायैनां सव्योदरमथालिखेत् ॥
“ हिरण्यगर्भमंत्रेण समुल्लिख्य तमुद्धरेत् ॥
२० “ मृतश्चेदुद्धृतो गर्भो घृताक्तं निस्सनेद्भुवि । जीवेच्चेज्जीवतु मम पुत्र इत्यनुमंत्रयेत् ॥
“ अंतर्धाय हिरण्यं तमभिषिच्य जलैः शिशुम् । ग्रामं गत्वा शिशोर्द्दद्याद्यस्ते स्तन इति स्तनम् ॥
“ सुरक्षितं कुंभारं तं कृत्वा गत्वा शवादिकम् । शतायुधाय इत्याज्यानि जुहुयादुदरे ततः ॥
“ प्रयासाय स्वाहेति हुत्वा च प्राणायेत्यनुवाकतः । पूष्णे स्वाहेति हुत्वा च संधायोदरमत्रणम् ॥
“ चितिमारोप्य तां प्रेतां शेषं पूर्ववदाचरेत् ” ॥ इति ।
२५ '''शौनकः—'''“गर्भिणीमरणे प्राप्ते गोमूत्रेण जलैः सह । आपोहिष्ठामिरद्भिश्चैः प्रोक्ष्य भर्त्ता समाहितः ॥
“ प्रेतां श्मशाने नीत्वाथोल्लिख्येत्सव्योदरे ततः । पुत्रमादाय जीवंत्य्यान्स्तनं दत्वा सुताय तु ॥
“ यस्ते स्तन इत्येतया ग्रामं नीत्वा निधाय च । उदरं चाव्रणं कुर्यात्तृषदाज्येन पूर्वं च ॥
“ मृद्द्रस्मकुशगोमूत्रैरापोहिष्ठादिभिस्त्रिभिः । स्नात्वाऽऽच्छाद्यैव वासांसि पितृमेधेन दाहयेत् ।
“ मृतो यदि तु पुत्रः स्याद्याहृत्य निखनेत्ततः ” ॥ इति । '''चंद्रिकायाम्—'''
३० “ मृता चेद्गर्भिणी नारी तस्याः संस्कार उच्यते । बोधायनभरद्वाजशौनकाद्यैर्योदितः ॥
“ संकल्प्य पितृमेधे तु कृत्वा दारुचितेः क्रियाम् । पश्चाद्दारुचितेः प्रेतां दक्षिणे वाऽथ गर्भिणी ॥
“ निधाय वाऽन्तंराणि कृत्वा दर्व्यादिमार्जनम् । हिरण्यगर्भमंत्रेण विलिखेदसिनोदरम् ॥
“ आगमंदर्र्शनाद्वामे मृतः स्याच्चरणे क्षिपेत् । दृष्ट्वा जीवतु मम पुत्र इति जीवन्तमभिमंत्रयेत् ॥
“ अंतर्धाय हिरण्यं तदभिषिच्य जलैः पुनः । नीत्वा ग्रामं शिशोर्द्दद्याद्यस्ते स्तन इति स्तनम् ॥
{{rule}} १ ग-णोरि । २ ग-अष्टकाधेनुं नीलधेनुं भूमि- ।<noinclude></noinclude> dq8xqxmwpqenndl9d7p89smio24lzz8 पृष्ठम्:Smriti mukta phalam.pdf/६८५ 104 166688 419708 2026-11-10T13:48:34Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''दशाहान्तरकृत्यम् ।'''|६४५}} {{rule}} “ सुरक्षितं कुमारं तं कृत्वा गत्वा शवान्तिकम् । शतायुधाय स्योनेतिः पंचभिरुदरे घृतम् ॥
“यजुर्भिस्तु प्रयासाय स्वाहेति द्वा... नवीन पृष्ठं निर्मीत अस्ती 419708 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''दशाहान्तरकृत्यम् ।'''|६४५}} {{rule}} “ सुरक्षितं कुमारं तं कृत्वा गत्वा शवान्तिकम् । शतायुधाय स्योनेतिः पंचभिरुदरे घृतम् ॥
“यजुर्भिस्तु प्रयासाय स्वाहेति द्वादशाहुतीः । प्राणायेत्यादिभिः पंच चक्षुषेत्यादि पंचभिः”॥ इति ।
'''दशाहानन्तरकृत्यम् ।''' अथ दशाहानंतरकृत्यम् । तत्र '''संवर्तः—'''
“ आशौचे निर्गते कुर्याद्गृहमार्जनलेपने । वाससा अलमाप्लुत्य शुध्येत्पुण्याहवाचनैः ” ॥
आप्लुतिश्चैकादशाहे संगवे कार्या । ‘ अथाते संगवे स्नायात् ’ इति स्मरणात् ॥ ५
'''वसिष्ठः—'''“ आशौचांते तु कर्तव्यं ब्राह्मणैरभिषेचनम् ॥
“ ऋग्भिर्यजुर्भिश्छंदोभिरब्भिङ्गैः पावमानिकैः । आशिषं च गृहीत्वाथ श्राद्धकर्म समाचरेत् ” ॥
'''व्यासः—'''
“ संपूज्य गंधपुष्पाद्यैः ब्राह्मणान्स्वस्ति वाचयेत् । धर्मकर्मणि संकल्पे संग्रामेऽद्भुतदर्शने ॥
“ यज्ञार्थेऽपि प्रतिष्ठादौ सर्वसंस्कारकर्मसु । शुद्धिकामस्तुष्टिकामः श्रेयस्कामश्च नित्यशः ” ॥ इति । १०
'''अथ वृषोत्सर्गः । चंद्रिकायाम्—'''
“ उत्सृजेत् वृषभं नीलं लोहितं कृष्णमेव वा । मृतौ न पश्येन्नरकं गोघाती ब्रह्महा ह्यपि ॥
“ पुत्रो वा भ्रातृपुत्रो वा मृतस्यैकादशेऽहनि । उत्सृज्येत वृषभं नीलं यथावर्णमसंभवे ॥
“ प्रेतत्वात्प्रतिमुच्यंते महापातकिनो नराः ” ॥ '''व्यासः—'''
“ एकादशेऽन्हि संप्राप्ते प्रेतस्य स्वर्गसाधनम् । वृषमेकं समुत्सृज्य श्राद्धे विप्रांस्तु भोजयेत् ” ॥ १५
'''काश्यपः—'''“ नीलं वाऽप्यथ वा कृष्णं मृतस्यैकादशेऽहनि ।
“ वृषं पापविशुद्ध्यर्थं रुद्राणामनुशासनात् । होमकर्मसमायुक्तं रुद्रप्रीतिकरं त्यजेत् ॥
“ एकादशेऽन्हि संप्राप्ते यस्य नोत्सृज्यते वृषः । प्रेतत्वान्न विमुच्येत दत्तैः श्राद्धशतैरपि ॥
“ विप्रो वा क्षत्रियो वाऽपि वैश्यः शूद्रोऽपि वा तथा । वृषहीनो मृतो याति रौरवं तमसावृतम् ॥
“ सप्तजन्मकृतं पापं यद्बाल्ये यच्च वार्धके । तत्क्षणादेव नश्येत वृषोत्सर्गे पितुः कृते ॥ २०
“ पितृनुद्दिश्य रुद्राय होमकर्मसमन्वितम् । उत्सर्गमात्रे रुद्रस्य लोकं यात्यत्र मानवः ” ॥
'''स्मृतिरत्ने—'''
“ एकादशेऽन्हि संप्राप्ते स्नात्वा पुण्याहवाचनम् । कृत्वा चरेद्वृषोत्सर्गं कुर्याच्छ्राद्धं ततः परम् ॥
“ शूलं चक्रमयान्यद्वा लांछनं कारयेत्ततः । यस्य देवस्य यो भक्तस्तस्य चिन्हं समालिखेत् ” ॥
'''हेमाद्रौ—'''“ स्वस्वेष्टदेवताचिन्हं पश्चिमदक्षिणपादमूले तप्तेनायसेन विलिखेत् ” ॥ इति । २५
'''बोधायनः—'''“अथ वृषोत्सर्जनम् । तच्च द्विविधं काम्यं नैमित्तिकमिति । नैमित्तिकमेकादशाहिकमिति ।
काम्यं कार्त्तिक्यां वैशाख्यां ग्रहणे संक्रमे वा ” इति । '''स्मृत्यर्थसारे—'''“सर्पिंडीकरणात्प्रागेवोक्त-
काले नैमित्तिकवृषोत्सर्गस्तत्र न मासादिदोषः ” इति । '''स्मृत्यंतरे च—'''
“ एकादशाहे षण्मासे त्रिपक्षेऽब्दे तथैव च । वृषोत्सर्गं तु कुर्वीत परस्तादुक्तकालिकः ”॥ इति
कालश्च '''पद्धतावुक्तः—'''“ पूर्वभागेऽथवा मध्ये दिनस्य वृषमुत्सृजेत् । ३०
“ कार्त्तिक्यां पौर्णमास्यां वा वैशाख्या वाऽपि वा वृषम् । उत्सृजेल्लक्षणैर्युक्तं देवर्षिपितृतृप्तये ” ॥
'''आश्वलायनपरिशिष्टे—'''“ अथ वृषोत्सर्गः । कार्त्तिक्यां पौर्णमास्यां वैशाख्यां वा
जीववत्सायाः पयस्विन्याः पुत्रं द्विहायनमेकहायनं वा नीलं बभ्रुं पिंगलं वा”॥ इति ।
{{rule}} १ क्ष-स्मृतम् । २ खग-चामेत् ।
८२-१३<noinclude></noinclude> j7yc83etv8uhidv8y51zpsdtpqmol4r पृष्ठम्:Smriti mukta phalam.pdf/६८६ 104 166689 419709 2026-11-10T13:49:29Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६४६|'''वृषोत्सर्गः ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“ उत्सृजेद् वृषभं नीलं पौर्णमास्यां तु वत्सकम् । कार्त्तिक्यामाश्वयुज्यां वा वैशाख्यां प्रातरेव तु ॥
“ एकादशा... नवीन पृष्ठं निर्मीत अस्ती 419709 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६४६|'''वृषोत्सर्गः ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“ उत्सृजेद् वृषभं नीलं पौर्णमास्यां तु वत्सकम् । कार्त्तिक्यामाश्वयुज्यां वा वैशाख्यां प्रातरेव तु ॥
“ एकादशाहादन्यत्र प्रोक्तकालेषु यत्नतः । वृषोत्सर्गे तदा शुक्रबाल्यमौढ्यं न दोषकृत् ” ॥ तथा—
“प्रेतस्य वत्सरादर्वाग्यदा संस्कारमिच्छति । न कालनियमो ज्ञेयो न मौढ्यं गुरुशुक्रयोः ” ॥ इति ।
५ '''यत्तु—'''
“ पतिपुत्रवती नारी म्रियते चोभयाग्रतः । वृषं नैवोत्सृजेत्पुत्रो यावत्स्वपितृजीवितम् ” ॥ इति
तत्केवलवृषोत्सर्गनिषेधपरम् । अत एव '''जाबालिः—'''
“ पतिव्रता सुशीला च पुत्रिणी सुभगा मृता । नोत्सृजेद् वृषमेकं तु सह गामुत्सृजेद्वृपम् ॥
“ पुत्रादन्यो यदा तस्याः श्राद्धकर्ता भवेद्यदि । तदैव वृषमुत्सृज्य पश्चाच्छ्राद्धं समाचरेत् ” ॥ इति ।
१० अत एव '''स्मृत्यंतरम्—'''
“ या नारी भर्तृसुतयोरग्रे तु प्रमिति गता । तस्या अपि वृषोत्सर्गः कर्तव्यस्तु यथाविधि ॥
“ अपुत्रा तु यदा नारी म्रियते भर्तुरग्रतः । वृषोत्सर्गा न कर्तव्यः एका गौर्दीयते तदा ” ॥
'''अन्यत्रापि—'''
“ पतिपुत्रवती नारी मृता चेज्जीवभर्तृका । पातिव्रत्येन तल्लोकं वृषहीना न गच्छति ॥
१५ “ जीवभर्त्रास्तु कर्तव्यं संकल्पश्राद्धमेव हि । पत्न्यर्थं च वृषोत्सर्गं कुर्यादायुःक्षयो भवेत् ” ॥
जीवभर्त्र्याः अपुत्राया इति शेषः । '''लोकाक्षिः—'''
“ न स्त्रियाश्च वृषोत्सर्गः भर्ता कुर्यात्कदाचन । वृषं रुद्रान्वसूंस्त्यक्त्वा सपिंडीकरणावधि”॥ इति ।
वृषं रुद्रार्थब्राह्मणभोजनं वस्वर्थब्राह्मणभोजनं च त्यक्त्वा अन्यत्सर्वं सपिंडीकरणावधि कुर्या-
दित्यर्थः । अनुमृतिविषये तु
२० “ पितुरूर्ध्वविधिं सम्यक् कृत्वा मातुस्तु पुत्रकः । वृषमुत्सृज्य पश्चाद्धि पित्रा सह सपिंडनम्”॥ इति ।
प्रेतत्वविमोचकवृषोत्सर्गे नांदीश्राद्धनिषेधमाह '''शातातपः—'''
“ स्वर्गकामो वृषोत्सर्गं नांदीमुखविधानतः । श्राद्धं कुर्यात्तदन्यस्तु न कुर्यात्प्रेतमोचकः ” ॥ इति ।
'''विज्ञानेश्वरः—'''
“एकादशेऽन्हि संप्राप्ते यस्य नोत्सृज्यते वृषः । पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि ”॥ इति ।
२५ '''स्मृत्यंतरे—'''
“ वृषहीनो मृतो याति रौरवं तमसा वृतम् । उत्सर्गमात्रे रुद्रस्य लोकं यात्यत्र मानवः ” ॥
'''बृहस्पतिः—'''“ कांक्षंति पितरः पुत्रा नरके पातभीरवः ।
“गयां यास्यति यः कश्चित्सोऽस्मान् संतारयिष्यति । करिष्यति वृषोत्सर्गमिष्टापूर्तं तथैव च”॥ इति ।
'''पितृगाथा च—'''
३० “ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ” ॥
नीलवृषलक्षणमुक्तं '''स्मृतिरत्ने—'''
“ लोहितो यस्तु वर्णेन मुखे पृष्ठे च पांडरः । श्वेतः खुरविषाणाभ्यां स वृषो नील उच्यते ” ॥
अत्र वृषालाभे '''प्रचेताः—'''
“ विहिते च वृषोत्सर्गे त्वलाभे शक्त्यसंभवे । प्रेतत्वस्य विमोकार्थं रुद्रानैकादशाशयेत् ” ॥
{{rule}} १ क्ष-पदि । २ क्ष-कर्ता । ३ ग-पुच्छे ।<noinclude></noinclude> kb4yskmojv428oo35gav1buq06tc1af पृष्ठम्:Smriti mukta phalam.pdf/६८७ 104 166690 419710 2026-11-10T13:50:19Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''एकोद्दिष्टम् ।'''|६४७}} {{rule}} '''बौधायनश्च''' “तासां पयसि पायसं श्रपयित्वा पृथगेकादश ब्राह्मणान्भोजयेत्” इति ।
'''व्यासोऽपि—'''
“ एकादशभ्यो विप्रेभ्यो दद्यादेक... नवीन पृष्ठं निर्मीत अस्ती 419710 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''एकोद्दिष्टम् ।'''|६४७}} {{rule}} '''बौधायनश्च''' “तासां पयसि पायसं श्रपयित्वा पृथगेकादश ब्राह्मणान्भोजयेत्” इति ।
'''व्यासोऽपि—'''
“ एकादशभ्यो विप्रेभ्यो दद्यादेकादशेऽहनि । रुद्रानुद्दिश्य कर्तव्यं रुद्रप्रीतिकरं हि तत् ” ॥
'''शातातपः—'''
“ एकादशसु विप्रेषु रुद्रानुद्दिश्य भोजयेत् । प्रेतत्वस्य विमोकार्थं मधुक्षीरघृताशनैः ” ॥ इति । ५
'''स्मृत्यंतरे तु—'''
“ प्रेतत्वस्य विमोक्षार्थं रुद्रान्वा विधिरूपतः । ब्राह्मणान्भोजयेद्धष्टौ हिरण्येनौदनेन वा ” ॥ इति
'''अथैकोद्दिष्टम् । तत्र याज्ञवल्क्यः—'''
“ मृतेऽहनि तु कर्तव्यं प्रतिमासं च वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ” ॥ इति ।
'''पैठीनसिरपि—'''“ एकादशेऽन्हि यच्छ्राद्धं तत्सामान्यमुदाहृतम् ” इति । १०
'''बृहन्मनुः—'''“ एकादशेऽन्हि कर्तव्यमेकोद्दिष्टं सदा द्विजैः ” । '''व्याघ्रः—'''
“ एकादशेऽन्हि संप्राप्ते श्राद्धं दद्याद्यथाविधि । कुर्यादेवात्र वारादितिथिभान्यनिरीक्ष्य वै ” ॥
'''स्मृत्यंतरे—'''“एकादशेऽहनि श्राद्धं कुर्यादविचारयन् ” । इति क्षत्रियादीनामप्याद्यश्राद्धमेका-
दशेऽह्न्येवेति माधवीयादौ व्यवस्थापितम् । '''चंद्रिकायां तु—'''
“ आशौचांते ततः सम्यक् पिंडदानं समापयेत् । तत्र श्राद्धं प्रदातव्यं सर्ववर्णेष्वयं विधिः ” ॥ १५
'''वसिष्ठसंहितायां च—'''“ अथातः संप्रवक्ष्यामि श्राद्धं गार्ग्यमतेन वै ।
“एकादशेऽन्हि विप्राणां नृपाणां षोडशेऽहनि । वैश्यानां विंशतिदिने शूद्राणां मासि पूरिते ” ॥ इति ।
'''अगस्त्यः—'''“ एकादशेऽन्हि संप्राप्ते द्विजानामुक्तमं विदुः । एकोद्दिष्टं प्रकुर्वीत भूपतिर्द्वादशात्परे ॥
“ षोडशाहात्परे वैश्यः शूद्रस्त्रिंशद्दिनात्परे ” ॥ इति । सर्वेष्वेषु वचनेषु ब्राह्मणानामेका-
दशदिने एकोद्दिष्टविधानात् तेषामेकादशदिन एवैकोद्दिष्टं क्षत्रियाणां तु विकल्पः । २०
'''अत्राहिताग्नेर्विशेषो जातूकर्ण्योक्तः—'''
“ ऊर्ध्वं त्रिपक्षाद्यच्छ्राद्धं मृतेऽह्न्येव कीर्तितम् । अतस्तु कारयेद्दाहादाहिताग्नेर्द्विजन्मनः ” ॥
त्रिपक्षादर्वाक् यत् प्रेतकर्म तद्दाहदिवसादारभ्याहिताग्नेः कार्यम् । त्रिपक्षादूर्ध्वं यच्छ्राद्धं तन्मरण-
दिवस एव कार्यमित्यर्थः । अतः दशाहकृत्यमेकोद्दिष्टमूनमासिकं च दाहदिनादि कुर्यात् । द्वितीय-
मासिकं च दाहदिने कुर्यात् । '''कालादर्शेऽपि—''' २५
“ त्रिपक्षात् पूर्वतः साग्नेर्भवेत्संस्कारवासरे । ऊर्ध्वं मृतदिनेऽनाग्नेः सर्वाण्येव मृताहतः ” ॥
पूर्वतः पूर्वत्र कर्तव्यं संस्कारवासरे दाहदिनादि भवेदित्यर्थः ।
'''व्यासः—'''“ सूतकांते नरः कुर्यादेकोद्दिष्टद्वयं बुधः । सूतके पतिते चापि स्वतंत्रं नातिलंघयेत् ” ॥
एकोद्दिष्टद्वयमिति महैकोद्दिष्टमावृत्त्यर्थं च तद्द्वयं सूतकांते एकादशाहे कुर्यात् । मध्ये सूतकांतरा-
पातेऽपि स्वतंत्रं महैकोद्दिष्टं नातिलंघयेत्तदैव कुर्यादित्यर्थः । अत एवाह '''विष्णुः—''' ३०
“ आद्यश्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि ” इति । तदाह '''बृहस्पतिः—'''
“ एकादशाहे यच्छ्राद्धमेकोद्दिष्टं समाचरेत् । यदि कार्यं न कुर्वीत पुनःसंस्कारमर्हति ” ॥ इति ।
अत एव च तत्राकरणे पुनःसंस्कारमाह । एतच्चास्थिसंचयाभावविषयम् । कृते त्वस्थिसंचयने
पुनःपिंडोदकमात्रमधस्तात्प्रतिपादितम् । आवृत्त्यर्थं तु आशौचसंनिपाते रोगादिना आद्यस्य विघ्ने
सति द्वादशाहादि कालांतरे कार्यम् । ३५
{{rule}} १ खग-च्छ । २ ग-वीनां । ३ क्ष-साम्नेः ।<noinclude></noinclude> as7lxifdubd9arj8znlfrirv7rg16az पृष्ठम्:Smriti mukta phalam.pdf/६८८ 104 166691 419711 2026-11-10T13:51:20Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६४८|'''एकोद्दिष्टस्वरूपम् ।'''|}} {{rule}} तथा च '''व्यासः—'''
“ एकादशाहे त्वाद्यस्य संकटं तु यदा भवेत् । द्वादशाहेऽपि कर्तव्यं त्रयोविंशाद्दिनेऽपि वा ” ॥ इति ।
'''चंद्... नवीन पृष्ठं निर्मीत अस्ती 419711 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६४८|'''एकोद्दिष्टस्वरूपम् ।'''|}} {{rule}} तथा च '''व्यासः—'''
“ एकादशाहे त्वाद्यस्य संकटं तु यदा भवेत् । द्वादशाहेऽपि कर्तव्यं त्रयोविंशाद्दिनेऽपि वा ” ॥ इति ।
'''चंद्रिकायाम्—'''
“ आशौचनिर्गमात्कार्यमाद्यमेकादशेऽहनि । त्रयोविंशदिने वाऽपि सप्तविंशद्दिनेऽपि वा ” ॥
५ '''स्मृत्यर्थसारे—'''“आद्यश्राद्धस्य विघ्ने तु भार्गववारनंदाचतुर्दशी त्रिजन्मानि त्यक्त्वा ऊनमासिका-
त्पूर्वमनुष्ठेयम् ” इति । '''बृहन्मनुः—'''
“ एकादशेऽन्हि संप्राप्ते यदि चन्द्रस्तु रोहिणीम् । आश्रयेदुत्तराख्यां वा कुर्यात्तत् द्वादशेऽहनि ” ॥
'''स्मृत्यंतरे—'''“ एकादशाहे यदि शुक्रवारो रोहिण्यथाप्यर्यमतारका वा ।
“ भवेच्च कृतोदकपिंडदानं श्राद्धं प्रकुर्यादपरेद्युरेव ” इति । एवं च एकादशाहे आवृत्ताष-
१० विघ्ने सति द्वादशाहादावुक्तकाले तत्कृत्वोनमासिकादीनि पंचदश कृत्वा सापिंड्यं कुर्यात् ।
'''पितृमेधसारे—'''“ सर्ववर्णानां मृताहादेकादशेऽन्हि मध्यान्हे एकोद्दिष्टं कुर्यात् । साग्नेः संस्काराहा-
देकादशाहे त्र्यहस्तर्पणे चतुर्थेऽह्न्येकोद्दिष्टं पंचमे सापिंड्यं एकादशाहे तर्पणे द्वितीयेऽह्न्येकोद्दिष्टं
तृतीये सापिंड्यं दशाहाभ्यंतरमनेकेषां मरणे तत्तन्मृताहादेकादशाहतिथिविभेदेऽपि संघातनुमृत्यborder-
पत्न्या भर्त्रैकादशाह एव सहश्राद्धं कुर्यात् । अत्र संवादवचनानि पूर्वमेवोक्तानि । '''स्मृत्यंतरे—'''
१५ “ एकादशाहे संप्राप्ते त्रीणि कर्माणि कारयेत् । नवश्राद्धं तु पूर्वाह्णे हेम्ना वासेन वा भवेत् ॥
“ प्रेतत्वस्य विमोकार्थं वृषभं विसृजेत्ततः । स्नात्वा मध्यान्हवेलायां विप्रानैकादशार्चयेत् ॥
“ अशक्तश्चैकविप्रं वा श्रोत्रियं गुणशालिनम् । आमंत्र्य विप्रमाहूय दद्यादभ्यंजनादिकम् ॥
“ पादप्रक्षालनं कुर्यात्कुंडे वा मंडले शुभे । गोत्रं नाम च निर्द्दिश्यासनादीनि कल्पयेत् ” ॥
'''देवलः—'''
२० “पूर्वाह्णे दैविकं कार्यं अपराण्हे तु पैतृकम् । एकोद्दिष्टं तु मध्यान्हे प्रातर्वृद्धिनिमित्तिकम्” ॥ इति ।
अत्र '''व्यासः—'''
“ आद्यमासिकमेकेच्छुर्नैके ब्राह्मणान् स हीयते । तदेकादशधा भित्वा विप्रेष्वग्रावथापि वा ” ॥
तदाह '''सत्यव्रतः—'''“ एकादशेऽन्हि प्रेतार्थ ब्राह्मणानेकादशामंत्र्य मध्यान्हे नानाभक्ष्यान्नरस-
विन्यासैराशयित्वा विधिवत्पिंडदानवासोहिरण्यदास्यैप्पाच्छत्रोदकुम्भदक्षिणा गुणवति विप्रे पात्रे
२५ दद्याच्छय्यां च । तस्य स्वस्त्ययनादिधर्माः प्रवर्त्तते” इति । एवं च दशब्राह्मणांन्प्रेतत्वविमोकार्थं गुण-
वंतमेकमाद्यश्राद्धं निमित्तार्थं भोजयित्वा गुणवति तस्मिन्दक्षिणां दद्यात् । अशक्तौ एकं वा भोजयेत् ।
तथा च '''अत्रिः—'''
“ प्रेतार्थं सूतकांते तु ब्राह्मणान्भोजयेद्दश । आद्यश्राद्धनिमित्तं तु एकमेकादशेऽहनि ॥
“ वस्त्रालंकारशय्यादि पितुर्यद्दाहनादिकम् । गंधमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे प्रदापयेत् ॥
“ अशक्त एकं संभोज्य शक्त्या दद्याच्च दक्षिणाम् ” ॥ इति ।
३० '''एकोद्दिष्टस्वरूपनिरूपणम् । एकोद्दिष्टस्वरूपमाह याज्ञवल्क्यः—'''
“ एकोद्दिष्टं दैवहीनमेकार्यैकपवित्रकम् । आवाहनौग्नौकरणरहितं ह्यपसव्यकत् ॥
“उत्तिष्ठतामित्यस्यस्थाने विप्रविसर्जने । अभिरम्यतामिति वदेत् ब्रूयुस्तेऽभिरताः स्म ह”॥ इति ।
एक उद्दिष्टो यस्मिञ्छ्राद्धे तदेकोद्दिष्टमिति कर्मनामधेयम् । दैवहीनं विश्वेदेवैहरहितम् । एकार्घ्य-
पात्रं एकदर्भपवित्रं च आवाहनेनाग्नौकरणेन होमेन च समर्त्रकेण रहितं अपसव्यवत् प्राचीनावीत-
{{rule}} १ ग-एकाह । २ ग-रण्यदाम्पु । ३ क्ष-ब्राह्मणे । ४ ग-विप्र ।<noinclude></noinclude> 4tb2pmwquq3lpoiczxf214pqo0fp6jz पृष्ठम्:Smriti mukta phalam.pdf/६८९ 104 166692 419712 2026-11-10T13:52:24Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अग्नौकरणादि ।'''|६४९}} {{rule}} ब्रह्मसूत्रवदक्षय्योदकस्थाने उत्तिष्ठतामिति वदेद्विप्रविसर्जने अभिरम्यतामिति ब्रूयात् । ते च
अभिरतास्महे इति ब्रूयुरित्यर्... नवीन पृष्ठं निर्मीत अस्ती 419712 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अग्नौकरणादि ।'''|६४९}} {{rule}} ब्रह्मसूत्रवदक्षय्योदकस्थाने उत्तिष्ठतामिति वदेद्विप्रविसर्जने अभिरम्यतामिति ब्रूयात् । ते च
अभिरतास्महे इति ब्रूयुरित्यर्थः । '''पराशरः—'''
“ आवाहनक्रियादेवनियोगरहितं हि यत् । एकोऽर्ध्यस्तत्र दातव्यस्तथैकं पवित्रकम् ॥
“ प्रेताय पिंडो दातव्यो भुक्तवत्सु द्विजातिषु । प्रश्नश्च तत्राभिरतिर्यजमानद्विजन्मनाम् ” ॥ इति ।
'''पद्धतौ—''' ५
“ एकमुद्दिश्य यच्छ्राद्धं एकोद्दिष्टं प्रकीर्त्यते । एकादशेऽन्हि मध्यान्हे तत्कर्तव्यं विधाय च ॥
“पिंडमेकं प्रदातव्यमाऽऽशौचं च प्रदानतः । एकादशेऽह्नि कुर्वीत दानं होमादिकं तपः ”॥ इति ।
'''स्मृत्यंतरे—'''
“ आद्यश्राद्धं निमित्तं तु एकमेकादशेऽहनि । प्रेतार्थं सूतकान्ते तु ब्राह्मणांभोजयेद्दश ॥
“अशक्त एकं संभोज्य शक्त्या दद्याच्च दक्षिणाम् । हिरण्यं मेदिनीं गां च वस्त्राणि विविधानि च॥ १०
“ यद्यदिष्टतमं लोके गंधांश्च कुसुमानि च । शय्याप्युपानहौ छत्रं यद्भुक्तं मृत्युकालतः ॥
“ यदिष्टं जीवितस्य स्यात्तद् दद्यात्तस्य यत्नतः । तं विसृज्य द्विजं भुक्तं स्नायादनवलोकितः ॥
“ श्राद्धं कुर्याद्यथाकालं सपिंडीकरणं तथा ” ॥ इति । '''बोधायनः—'''“ अथैकोद्दिष्टेषु
नाग्नौकरणं नाभिborder-श्रमणं न पूर्वं न दैवं न धूपं न दीपं न स्वधा न नमस्कारौ”॥ इति '''रत्नावल्यां—'''
“ अनुज्ञाद्विगुणौ दर्भौ जपादिश्वस्तिवाचनम् । पितृशब्दः ससंबंधः शर्मशब्दस्तथैव च ॥ १५
“ पात्राालंभोपपात्रं च उल्मूखोल्लेखनादिकम् । पितृप्रश्नः सविकिरः शेषप्रश्नस्तथैव च ॥
“ प्रदक्षिणं विसर्गश्च सीमांतगमनं तथा । अष्टादशपदार्थांश्च प्रेतश्राद्धे विवर्जयेत् ” ॥ इति ।
'''स्मृत्यर्थसारे—'''
“ श्रोत्रियं वेदविद्विप्रं अहुरेव नियोजयेत् । तस्यैव श्मश्रुकर्माणि स्नानमभ्यज्य कारयेत् ॥
“ एकोद्दिष्टे भवेदेक उद्दिश्यो ब्राह्मणस्तथा । अर्घ्यपात्रं भवेदेकं पाणावेकाहुतिर्भवेत् ॥ २०
“ एकपिंडो भवेत्तस्मिंस्तदहरेव निमंत्रणम् । दैवं धूपं तथा दीपं स्वधाशब्दं च वर्जयेत् ” ॥ इति ।
तदहरेव तस्मिन्नेवाहनि निमंत्रणं कुर्यात् । '''स्मृत्यन्तरे—'''
“ प्रेतकार्येषु सर्वत्र सद्य एव निमंत्रणम् । पितृकार्येषु सर्वेषु पूर्वेद्युः स्यान्निमंत्रणम् ”॥ इति स्मृतेः ।
पाणावेकाहुतिरिति पाणिहोमविधानादावाहनाग्नौकरणरहितमिति । अग्नौ होमनिषेधः । तथा
'''चाश्वलायनीयकारिका—''' २५
“ चरुमुद्धृत्याज्यसिक्तमन्नं मेक्षणदारुणा । हस्तेऽवदानमात्रेण तूष्णीं हुत्वाऽऽहुतिद्वयम् ” ॥ इति ।
प्रेतार्थविप्रहस्ते तूष्णीं जुहुयात् । पित्रर्थविप्रहस्ते तु समंत्रकमेव पितृयज्ञाहुति पाणौ जुहुयान्मंत्र-
पूर्वकमिति वृद्धमनुस्मरणात्तत्रैकोद्दिष्टे पाणौ हुतमन्नं न प्राश्नीयात् । किंतु लौकिकाग्नौ प्रक्षिपेत् ।
तथा '''पारिजाते—'''
“ हस्ते हुतं तु नाश्नीयादूर्ध्वं भुक्तानुमासिकम् । अग्नौ प्रक्षेपणं कार्यं सपिंडीप्रेतकर्मसु ” ॥ इति । ३०
अत्र बोधायनेन तु विशेषेण लौकिकेन होम उक्तः—“अथैकोद्दिष्टेष्वदित एव प्राचीनावीतं कृत्वा
दक्षिणाप्रत्यक्प्रवणे स्थंडिलं कृत्वाऽग्निरुल्लोख्याग्निं प्रतिष्ठापयति तत्रैवार्थेनं पृच्छति करिष्यामीति
कुरुष्वेति इतरः प्राहान्यनुज्ञातो दर्व्यामुपस्तीर्य सर्वस्मात्सकृदवदायाभिघार्य दक्षिणतो भस्ममिश्रां-
गारान्निरूह्य तेषु जुहुयात् । प्रेतायामुष्मै यमाय च स्वाहेति तद्भुतमहुतं च भवति” इति ।
{{rule}} १ ग-पनं । २ कख-म्मु । ३ ग-न्ये । ४ खग-धर्मेण ।<noinclude></noinclude> 8utovelu5gek31hodchoico5mgtkv3q पृष्ठम्:Smriti mukta phalam.pdf/६९० 104 166693 419713 2026-11-10T13:53:56Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६५०|'''आवृत्ताद्यमासिकम् ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“एकादशेऽह्नि मध्यान्हे एकोद्दिष्टं कृतं च यत् । प्रेतस्य च यमस्यापि द्वयोः प्रीतिकरं भवेत्”॥ इति ।
एकोद... नवीन पृष्ठं निर्मीत अस्ती 419713 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६५०|'''आवृत्ताद्यमासिकम् ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“एकादशेऽह्नि मध्यान्हे एकोद्दिष्टं कृतं च यत् । प्रेतस्य च यमस्यापि द्वयोः प्रीतिकरं भवेत्”॥ इति ।
एकोद्दिष्टप्रयोगस्तु स्वस्वगृह्योक्तप्रकारो द्रष्टव्यः । आपस्तंबादिभिरनुक्ते प्रयोगे तु बोधायनोक्त
आश्रयणीयः ।
५ “ स्वसूत्रेऽविद्यमाने तु परसूत्रेण वर्तते । बोधायनमतं कृत्वा स्वसूत्रफलभाग्भवेत् ” ॥ इति
नियमात् । अत्र नूतनभांडेपु पाकमाह '''वैखानसः—'''“ सूतकप्रेतयोर्वापयित्वा मृन्मयानि भांडानि
पुराणानि त्यक्त्वा नवानि परिगृह्य पाचायित्वा श्राद्धं कुर्यात् ” इति । अर्ध्यादिसत्कारे भोजने
च प्रेतार्थब्राह्मणः प्रत्यङ्मुखो निवेशनीयः । तथा '''गौतमः—'''“दक्षिणाग्रेषु दर्भेषु प्रेतार्थमेकं विप्रं
प्रत्यङ्मुखमासादयेत्” इति । '''वैखानसः—'''“तिलदर्भान्विते विष्टरे प्रत्यङ्मुखमासादयेदेकोद्दिष्टः”
१० इति । '''सुंदरराजीये—'''“ प्राङ्मुखौ विश्वेदेवावुदङ्मुखौ प्रागंतान्पितॄन्प्रेतं प्रत्यङ्मुखमासादयेत् ”
इति । ‘प्रत्यङ्मुखमनिमित्तं निवेश्य’ इति सरण्याद्यौ च दर्शनात् प्रत्यङ्मुखत्वमेव तस्य सिद्धम् ।
“ एकोद्दिष्टे तु यद्भोक्तुर्भोक्तव्यं शिष्टभोजनम् । चंद्रसूर्योपरागे वा शिष्टमन्नं च वर्जयेत् ” ॥
इत्यादिना एकोद्दिष्टान्निषेधात् नात्र शेषाभ्यनुज्ञा कार्या । '''मनुः—'''
“ असपिंडीक्रियाकर्म द्विजातेः संस्थितस्य तु । अद्वैवं भोजयेच्छ्राद्धं पिंडमेकं च निर्वपेत् ” ॥ इति ।
१५ असपिंडक्रियाकर्म सपिंडीकरणात्प्राक् श्राद्धकर्मेति यावत् । तदेकोद्दिष्टविधिना कृत्वा एकं पिंडं च
दत्वा तदप्सु विसर्जयेत् । '''पितृमेधसारे—'''“ भुक्तशिष्टमन्नं पिंडं सर्वाणि दर्भहोमपात्राणि चाप्सु
प्रक्षिप्य स्नात्वा गृहेमेत्य पुण्याहं वाचयेत् ” इति । '''बोधायनः—'''
“एकोद्दिष्टान्त एव स्यात्संस्कर्तुः शुद्धता त्वथात् । पिंडोदकप्रदानेन पुण्याहोक्त्या विशुध्यति”॥ इति ।
अत्र तु ब्राह्मणालाभे लौकिकाग्निं प्रतिष्ठाप्य दक्षिणामुखो यमाय सोमं सुनुतेति ऋचा घृतमिश्रेण
२० पायसेन माससंमिता द्वात्रिंशदाहुतीर्हस्तेन जुहुयात् ” ।
'''आवृत्ताद्यमासिकम्'''
एवमिदमाद्यस्वतंत्रैकोद्दिष्टं ब्राह्मणेऽग्नौ वा कृत्वा पुनरपि ब्राह्मणे कर्तव्यम् । तथा च '''स्मृत्यंतरे—'''
“ एकादशेऽह्नि संप्राप्ते विप्राभावे कथं भवेत् ॥
“ पायसं घृतसंमिश्रं हस्तेन माससंमितम् । यमाय सोममित्येव द्वात्रिंशज्जुहुयाच्चरुम् ॥
२५ “ अध्वर्युर्वाग्यतो भूत्वा प्रसव्यं दक्षिणामुखः । श्राद्धसिद्धिंमवाप्नोति नात्र कार्या विचारणा”॥ इति ।
'''काश्यपः—'''
“ एकोद्दिष्टे तु संप्राप्ते विप्राभावे कथं भवेत् । आवाह्य सुसमिद्धेऽग्नौ पायसं जुहुयाद्धविः ॥
“ पौरुषेण तु सूक्तेन त्वावृत्या ग्राससंमितम् । अभ्यर्च्य गंधवस्त्राद्यैरुदकुंभं च दक्षिणाम् ॥
“ ततः स्नात्वा पुनश्चाथं कुर्यात्तु ब्राह्मणो बुधः ” ॥ इति । परितोऽग्निं गन्धादिभिरभ्यर्च्य दक्षिणा-
३० मुदकुंभं चाग्निसमीपे निधाय तानि ब्राह्मणेभ्यो दद्यादित्यर्थः । '''चंद्रिकायां तु—'''
“ एकोद्दिष्टे तु संप्राप्ते विप्राभावे कथं भवेत् । उदीरतामितिमंत्रेण जुहुयाद्घृतपायसम् ॥
“ स्वगृह्योक्तविधानेन सूक्तेन पुरुषस्य च” ॥ इति । ‘उदीरतामवर उत्परास’ इत्यादीनामष्टानांमृचां
चतुरावृत्त्या द्वात्रिंशदाहुतयो भवंति । पुरुषसूक्तस्य षोडशर्चस्य द्विरावृत्त्या तथा भवंति । यथा-
स्वकुलाचारमिह मंत्रव्यवस्था । अत्र पिंडदानमुक्तं '''श्रीधरीये—'''
३५ “ एकोद्दिष्टे तु संप्राप्ते विप्राभावे हुते सति । पिंडमेकं प्रदातव्यं आशौचं चाप्रदानतः ” ॥ इति ।
{{rule}}<noinclude></noinclude> tn5g5xdfnhse8jiswwn67h31v3u4wqn पृष्ठम्:Smriti mukta phalam.pdf/६९१ 104 166694 419714 2026-11-10T13:54:43Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अर्वाक्संवत्सरात्सपिण्डीकृते ।'''|६५१}} {{rule}} अत्र '''गोभिलैः—'''“ ब्राह्मणं भोजयेदाद्ये होमः कार्योऽथ वाऽनले । पुनश्च भोजयेद्विप्रं द्विरावृत्तिर्भवेदिति ” ॥<br... नवीन पृष्ठं निर्मीत अस्ती 419714 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अर्वाक्संवत्सरात्सपिण्डीकृते ।'''|६५१}} {{rule}} अत्र '''गोभिलैः—'''“ ब्राह्मणं भोजयेदाद्ये होमः कार्योऽथ वाऽनले । पुनश्च भोजयेद्विप्रं द्विरावृत्तिर्भवेदिति ” ॥
'''व्यासोऽपि—'''“ सूतकांते नरः कुर्यात् एकोद्दिष्टद्वयं बुधः ।
“ ब्राह्मणं भोजयेदाद्ये होमः कार्योऽथवाऽनले । पुनश्च भोजयेद्विप्रं आवृत्तिद्वयसिद्धये ” ॥ इति ।
'''कालादर्शेऽपि—'''“ आद्यश्राद्धं द्विजेऽग्नौ वा कुर्यात्पुनरपि द्विजः ” ॥ इति ।
ननु ‘सापिंड्यात्प्राक्मासिकानि स्वस्वकाले कृतानि तु । न पुनस्तानि वै कुर्यात्कृतानि पुनश्चरेत्’॥ इति ५
गर्गस्मरणात्कथमाद्यैकोद्दिष्टस्यावृत्तिरिति चेन्न तद्वचनस्य द्वादशाहव्यतिरिक्तकाले कर्तव्यसापिंड्य-
विषयत्वात् । ननु द्वादशाहे सापिंड्येऽपि तस्य पूर्वभावित्वे न सद्घोषस्तदवस्थ इति चेन्न । तस्य
सर्वदा सापिंड्यात्पूर्वभावित्वेऽपि
“ अर्वाक्संवत्सराद्यस्य सपिंडीकरणं कृतम् । षोडशानां द्विरावृत्तिं कुर्यादित्याह गौतमः” ॥
इत्याद्यावृत्तिस्मरणात् । १०
“ एकादशे कृतानां तु मासिकानां पुनः कृतिः । सूतिकांते पुनः कुर्यादेकोद्दिष्टद्वयं बुधः ॥
“ पुनश्च भोजयेद्विप्रं द्विरावृत्तिर्भवेत् इति ॥
“ सपिंडीकरणश्राद्धं द्वादशाहे यदा भवेत् । तदापकृष्य रुद्राहे श्राद्धान्येव तु षोडश ” ॥
इत्यादिस्मरणात् । आर्थिकात् कण्ठोक्तस्य बलीयस्त्वाच्च । यत्तु
“ आवृत्तिरन्यमास्यानां द्वादशाहे सपिंडने । तथा नावत्र्तयेदाद्यं मले त्वावृत्तिरिष्यते ” ॥ इति १५
तस्यायमर्थः । द्वादशाहसपिंडने अन्यमास्यानां ऊनमासिकादिपंचदशमासिकानां पुनः सपिंड्या-
नंतरं स्वे स्वे काले यथावृत्तिः क्रियते तथा आद्यमेकोद्दिष्टं सापिंड्यानंतरं नावर्तयेत् । किंतु मल-
मासमृतिश्चेत् द्वादशाहसापिंड्यानंतरं शुद्धमासे मृततिथौ तदावर्तयेदिति । तच्चाग्रे वक्ष्यते ।
यदपि जाबालिवचनं—“ श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने ” इति ।
यच्चान्यत्— “ नैकश्राद्धद्वयं कुर्यात् समानेऽहनि कस्यचित् ” इति तदेकोद्दिष्टव्यतिरिक्तविषयम् । २०
तस्य एकस्मिन्दिने आवृत्तिविधानात् । द्वादशाहेतरकाले सापिंड्ये अथैकोद्दिष्टमेकमेव न तु
द्वयमिति त्रिपक्षादौ सापिंड्ये स्वकाले कृतस्य ऊनमासिकादेर्न पुनःकरणम्
“सापिंड्यात् प्राक् मासिकानि स्वस्वकाले कृतानि तु । न पुनस्तानि वै कुर्यात्कृतानि पुनश्चरेत्”॥ इति
गर्गस्मरणात् ।
“ अर्वाग्ब्दाद्यत्र यत्र सपिंडीकरणं कृतम् । तदूर्ध्वमासिकानां तु यथाकालमनुष्ठितिः ” ॥ इति २५
कार्ष्णाजिनिस्मरणात् ।
“ वत्सरांते तु सापिंड्यं यश्चिकीर्षति स द्विजः । मासिकानि यथाकालं कुर्यादेव यथाविधि ॥
“ त्रिपक्षाद्येषु कालेषु सापिंड्यं यश्चिकीर्षति । अब्दावशिष्टमास्यानामपकर्षस्तदा भवेत् ॥
“ अपकृष्य कृतानां च यथाकालं पुनः कृतिः ” ॥ इति स्मृतिरत्ने अभिधानाच्च ।
यत्तु “द्वादशाहे कृतानां तु यथाकालं पुनः कृतिः” इति तस्यार्थः । द्वादशाहे कृतानामूनमासिका- ३०
दीनां पुनः कृतिरिति । एवं च द्वादशाहे सापिंड्ये आद्यश्राद्धादिषोडशमासिकानामप्यावृत्तिः ।
आद्यस्य तु एकादशाह एवावृत्तिः । इतरेषां तु एकादशाहे द्वादशाहे वा कृतानामूनमासिकादीनां
स्वस्वकाले पुनः करणम् । त्रिपक्षे तु सापिंड्ये ऊनद्वितीययोः स्वस्वकाले कृतयोः न पुनः
करणम् । तदुत्तरभाविनी तु मासिकानि अपकृष्य कृत्वा सपिंडीकरणात् परपि स्वस्वकाले पुनः
{{rule}} १ कखग-गौतमः । २ क-होमः कार्योऽथ वाऽनले ।<noinclude></noinclude> g5yvm0bxcc2ljjdylmwbiplcn4oncwa पृष्ठम्:Smriti mukta phalam.pdf/६९२ 104 166695 419715 2026-11-10T13:55:29Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६५२|'''षोडशश्राद्धानि ।'''|}} {{rule}} कुर्यात् । एवं त्रिमासादौ सापिंड्येऽपि तत्पूर्वकृतानां नावृतिः । तदुत्तरभाविनामेव पुनःकरणम् ।
एवं वत्सरांतसपिंडीकरणे आद्य... नवीन पृष्ठं निर्मीत अस्ती 419715 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६५२|'''षोडशश्राद्धानि ।'''|}} {{rule}} कुर्यात् । एवं त्रिमासादौ सापिंड्येऽपि तत्पूर्वकृतानां नावृतिः । तदुत्तरभाविनामेव पुनःकरणम् ।
एवं वत्सरांतसपिंडीकरणे आद्यश्राद्धादीनां षोडशानामपि मासिकानां स्वस्वकाले कृतानां न पुनः
कृतिः । एतदेवाभिप्रेत्य '''गालवः—'''
“त्रिपक्षादिषु कालेषु सापिंड्यं यश्चिकीर्षति । शिष्टानां मासिकानां च यथाकालं पुनः क्रिया”॥ इति ।
५ '''गोभिलः—'''
“ यस्य संवत्सरादर्वाग् विहिता तु सपिंडता । विधिवत्तानि कुर्वीत पुनः श्राद्धानि षोडश ” ॥
'''अंगिराः—'''
“ यस्य संवत्सरादर्वाक्सपिंडीकरणं कृतम् । मास्यानि सोदकुंभं च देयं तस्यापि वत्सरम् ” ॥
'''विज्ञानेश्वरीये—'''
१० “श्राद्धानि षोडशाकृत्वा न तु कुर्यात्सपिंडता । श्राद्धानि षोडशापाय विदधीत सपिंडनम्”॥ इति ।
“प्रेतसंस्कारकार्याणि यानि श्राद्धानि षोडश । यथाकाले तु कार्याणि नान्यथा मुच्यते तु सः”॥ इति ।
'''स्मृत्यंतरेऽपि—'''
“ यदा संवत्सरादर्वाक्सापिंड्यं कर्तुमिष्यते । आवर्ते षोडशादीनां तदा कर्तव्यमेव हि ” ॥
'''संग्रहे—'''
१५ “स्वकाले तानि कुर्वीत सपिंडीकरणादधः । सापिंड्येऽब्दादधस्तानि कुर्यात्काले स्वके पुनः”॥ इति ।
'''पैठीनसिः—'''“ अर्वाक्सपिंडीकरणात्कुर्याच्छ्राद्धानि षोडश ” । इति ॥
'''षोडशश्राद्धानि । षोडशश्राद्धान्याह विज्ञानेश्वरः—'''
“एकादशे त्रिपक्षे च षण्मासे मासिकाब्दिके । षोडशैतानि श्राद्धानि संस्मृतानि मनीषिभिः”॥ इति ।
एकादशाहे विहितमाद्यश्राद्धम् । एतच्च ऊनमासिकस्याप्युपलक्षकम् । षण्मासे ऊनषण्मासे विहित-
२० मूनषण्मासिकम् । मासिकं प्रतिमासं विहितम् । आब्दिकशब्दः ऊनाब्दिकपरः । तथा च
'''जातुकर्णिः—'''
“द्वादशप्रतिमास्यानि आद्यषाण्मासिके तथा । त्रैपक्षिकाब्दिक चेति श्राद्धान्येतानि षोडश”॥ इति ।
आद्यषण्मासिकाब्दिकशब्दा ऊनमासिकोनषाण्मासिकोनाब्दिकपराः । एकादशेऽन्हिकैनाद्येन सह
द्वादश प्रतिमास्यानि । '''गालवः—'''
२५ “ ऊनषाण्मासिकं षष्ठे मास्यूने तूनमासिकम् । त्रैपक्षिकं त्रिपक्षे स्यादूनाब्दं द्वादशे तथा”॥ इति ।
'''कालादर्शे—'''
“ एकादशेऽन्हि मास्यूने आद्ये षष्ठे तथांतिमे । प्रतिमासं मृतेऽन्द्याब्दं स्युस्त्रिपक्षं च षोडश ” ॥
एकादशेऽन्हि मरणादेकादशेऽन्हि । अब्दशब्दसमभिव्यहारादंतिमशब्देन संवत्सरांत इमो मास उच्यते ।
आद्ये मास्यूने षष्ठे मास्यूने संवत्सरांतिमे मासि द्वादशे मासि ऊने अब्दमिति “कालाध्वनोरत्यंत-
३० संयोगः ” इति द्वितीया संवत्सरपूर्तिपर्यन्तम् । प्रतिमासं मासे मासे मृतेऽहनि मरणदिने त्रिपक्षे
च मरणदिनतृतीयपक्षे च षोडशमासिकार्यानि श्राद्धानि स्युः । एतेषु षोडशेषु कालेषु
षोडशमासिकानि कार्याणीत्यर्थः । स्मृत्यंतरे—“एकादशे भवेदाद्यं मास्यूने ह्यूनमासिकम् ।
“ त्रैपक्षिकं त्रिपक्षे स्यादूनषाण्मासिकं तथा । प्रतिमासं मृताहेषु ऊनाब्दं चेति षोडशम् ” ॥
{{rule}} १ ग-र्तनं । २ क्ष-तुसूनमासे ।<noinclude></noinclude> l0y3mw8e4vbbg0a0dtzrbrodns06bqm पृष्ठम्:Smriti mukta phalam.pdf/६९३ 104 166696 419716 2026-11-10T13:56:58Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अपकृष्य कार्याणि ।'''|६५३}} {{rule}} '''बृहस्पतिः—'''
“ द्वादशाहे यदा कुर्यात्सपिंडीकरणं सुतः । मध्यान्हे चैव सर्वाणि कुर्याच्छ्राद्धानि षोडश ॥
“ सपिंडीकरणात्पू... नवीन पृष्ठं निर्मीत अस्ती 419716 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अपकृष्य कार्याणि ।'''|६५३}} {{rule}} '''बृहस्पतिः—'''
“ द्वादशाहे यदा कुर्यात्सपिंडीकरणं सुतः । मध्यान्हे चैव सर्वाणि कुर्याच्छ्राद्धानि षोडश ॥
“ सपिंडीकरणात्पूर्वं मासिकेषु कृतेषु च । अपकृष्यैकोद्दिष्टेन पिंडमेकं विधीयते ” ॥
एकमिति प्रतिमासिकमेकैकमित्यर्थः । तथा च '''स्मृत्यंतरे—'''
“ मासिकानां तु सापिंड्यात् पूर्वं तु युगपत्कृतौ । प्रत्येकं पिंडदानं स्यादग्नौ प्रेताहुतिः सकृत् ” ॥ ५
पंचदशावदानं कृत्वा एकां प्रेताहुतिं कुर्यादित्यर्थः । '''पैठीनसिः—'''
“ षाण्मासिकाब्दिकाश्राद्धे स्यातां पूर्वेद्युरेव ते । मासिकानि मृताहे स्युर्दिवसे द्वादशेऽपि वा ॥
“ त्रिपक्षादौ तु सापिंड्ये मासिकानि मृताहनि ” ॥ त्रिपक्षादौ सापिंड्ये तत्पूर्वमृतातिथौ
तदुत्तरमासिकान्यपकृष्य कृत्वा सापिंड्यं कुर्यान्न त्वेकादशाहे द्वादशाहे वा । द्वादशाहे सापिंड्ये
तस्मिन्नेव दिने मध्यान्हे पंचदश श्राद्धानि कृत्वा अनंतरं सपिंडीकरणं कुर्यात् । संवत्सरांत- १०
सापिंड्ये तत्तन्मासमृततिथौ तत्तन्मासिकानि कुर्यात् । ऊनमासिकादीनि च मृततिथेः पूर्वं
यथोक्तकाले कुर्यादित्यर्थः । द्वादश इत्येकादशदिनस्याप्युपलक्षणम् ।
“ नवश्राद्धं च तत्रैव षोडशश्राद्धमेव च । न कृतं चेत् परे कुर्यात् सपिंडीकरणाहनि ” ॥ इति
स्मरणादेकादशदिने षोडशश्राद्धाकरणे द्वादशदिने कुर्यादित्यर्थः । यत्तु—
“ एकोद्दिष्टं नवश्राद्धं श्राद्धान्यपि च षोडश । एकस्मिन्दिवसे कुर्यादेकोद्दिष्टं तु निष्फलम्”॥ इति १५
द्वादशाहसपिंडीकरणे एकोद्दिष्टादीन्येकादशाहे कुर्यात् । अन्यथा एकोद्दिष्टं निष्फलमिति ।
तथा च '''प्रचेताः—'''
“ षोडशानीह सर्वाणि कुर्यादेकादशाहनि । सपिंडीकरणं चापि कुर्याद्वा द्वादशेऽहनि ” ॥ इति ।
'''गौतमोऽपि—'''
“ देशकालादिवैषम्यन्मृत्युरोगादिशंकया । एकादशेऽन्हि कार्याणि ह्यपकृष्यापि षोडश ”॥ इति । २०
'''गालवोऽपि—'''“एकचित्यां समारूढौ दंपती निधनं गतौ ।
“ एकोद्दिष्टं षोडशं च भर्तुरेकादशेऽहनि । द्वादशाहे तु संप्राप्ते पिंडमेकं द्वयोः क्षिपेत् ” ॥ इति ।
'''स्मृतिरत्नेऽपि—'''
“ एकादशेऽन्हि कुर्वाणः पूर्वाह्णे सर्वमाचरेत् । अपराण्हे तु सापिंड्यं कुर्यादित्याह शालेकः ॥
“ अन्यस्मिंस्तु दिने कुर्वन्पूर्वपूर्वदिने चरेत् । अथवा यदि तत्रापि सर्वं चैकदिने भवेत् ”॥ इति । २५
अन्यस्मिन्निति द्वादशाहादौ सापिंड्यं कुर्वन् ततः पूर्वदिने षोडशश्राद्धं कुर्यादित्यर्थः ।
“ एकादशे कृतानां तु मासिकानां पुनः कृतिः । सपिंडीकरणश्राद्धं द्वादशाहे यदा भवेत् ॥
“तदापकृष्य रुद्राहे श्राद्धान्येव तु षोडश ” ॥ इत्यादि बहुस्मृतिसंमतत्वात् शिष्टाचाराच्च द्वादशाहे
सपिंडीकरणे एकादशे वा द्वादशे वाऽहनि षोडशश्राद्धकरणं युज्यते । यत्तु संग्रहवचनम्—
“ एकोद्दिष्टस्य दिवसे सपिंडीकरणं विना । श्राद्धं कुर्यात्पितृक्रोधात्क्षयमाप्नोति संततिः ”॥ इति ३०
अत्र सांगं सपिंडीकरणं गृह्यते । षोडशश्राद्धं सपिंडीकरणं नवश्राद्धं च विना एकोद्दिष्टदिने कर्तव्यं
श्राद्धांतरमंतरितं स्वदेयं च श्राद्धं तत्र न कुर्यादित्यर्थः । एतच्चैकोद्दिष्टदिने सापिंडीकरणमाहिताग्नि-
विषयम् । तदग्रे वक्ष्यते । यत्तु जाबालिवचनं—“श्राद्धं कृत्वा तु तस्यैव पुनःश्राद्धं न तद्दिने” इति
यदपि दक्षवचनम्—“नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कस्यचित् ” इति तदेकोद्दिष्टषोडश-
{{rule}} १ क-शाण्डिलः; ख-शङ्खः । २ क्ष-त्व ।
८३-१४<noinclude></noinclude> oiie948vwfpy1tgzfjkoyc71jmd5ax2 पृष्ठम्:Smriti mukta phalam.pdf/६९४ 104 166697 419717 2026-11-10T13:57:46Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६५४|'''अन्तरितमासिकानि ।'''|}} {{rule}} श्राद्धव्यतिरिक्तविषयम् । तयोस्तत्र विधानादुद्देश्यैक्येऽपि नवश्राद्धैकोद्दिष्टश्राद्धसमुच्चयवदेकोद्दिष्ट-
द्वयवच्च... नवीन पृष्ठं निर्मीत अस्ती 419717 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६५४|'''अन्तरितमासिकानि ।'''|}} {{rule}} श्राद्धव्यतिरिक्तविषयम् । तयोस्तत्र विधानादुद्देश्यैक्येऽपि नवश्राद्धैकोद्दिष्टश्राद्धसमुच्चयवदेकोद्दिष्ट-
द्वयवच्च न दोषः । तदेवमेकादशाहे द्वादशाहे वा मासिकानि सर्वाण्यपकृष्य कृत्वा द्वादशाहे
सापिंड्यं कुर्यात् । सापिंड्योत्तरकालभावीनि स्वस्वकाले पुनश्च कुर्यात् ।
'''आशौचाद्यन्तरितमासिकादिविषयम् ।''' आशौचाद्यंतरितं मासिकमुत्तरमासिकाह एव
५ तंत्रतः कुर्यात् । न पृथक् । पाकोहोमादिः पिंडदानं तु पृथगेव । '''कालादर्शे—'''
“ आपद्याद्यकृतं यत्तु कुर्यादूर्ध्वं मृताहतः । न पृथक् पाकहौमादिः पिण्डदानं पृथक्पृथक्” ॥ इति ।
आदिशब्देनाशौचोपसंग्रहः । आपद्दिनाद्यकृतमंतरितं यन्मासिकं तदूर्ध्वमृताहतः उत्तरमासमृत-
दिने कुर्यादित्यर्थः । उत्तरमासमृततिथौ विधानादंतरितमासिकमूनमासिकदिने न कार्यम् । ऊन-
दिनमतिक्रम्य मृततिथावेव कार्यम् । '''ऋष्यशृंगोऽपि—'''
१० “एकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायते । मासेऽन्यस्मिंस्तिथौ तस्यां कुर्यादंतरितं च तत्”॥इति ।
कालादर्शटीकायामिदं व्याख्यातम्—एकोद्दिष्टपदमुभयविधमासिकोपलक्षणम् । अंतरितं तदुत्तर-
माससंबंधि च मासिकमुत्तरमृताहे कुर्यादिति । एतच्चाद्यश्राद्धव्यतिरिक्तविषयम् । आद्यश्राद्धांतराये
तु अकृतसंचयस्य दहनदिदशमदिनपर्यतं प्रेतकार्याणि पुनरप्येकाहे न कर्तव्यानि । कृत-
संचयस्य दहनसंचयव्यतिरिक्तनवश्राद्धादि पुनः कर्तव्यमिति पूर्वमेवोक्तम् । '''कण्वः—'''
१५ “ नवश्राद्धं मासिकं च यद्यदंतरितं भवेत् । तदुत्तरत्र सातंत्यादनुष्ठेयं प्रचक्षते ” ॥ इति ।
माधवीये चंद्रिकायां च विशेषोऽभिहितः—अंतरितं मासिकमुत्तरमासतिथौ सांतत्येण
कर्तव्यमित्येतत्सूतकव्यतिरिक्तनिमित्तांतरेण विघ्ने समुत्पन्ने सपिंडीकरणात्पूर्वं प्रतिमासं मृताहे
विहितैकोद्दिष्टमासिकश्राद्धविषयम् । आशौचनिमित्तविघ्ने तु एकोद्दिष्टमासिकश्राद्धमपि सूतका-
नंतरमेव ‘तान्येव तु पुनः कुर्यात्’ इति विहितोनमासिकश्राद्धं च सूतकेनांतारितं सूतकानंतरमेव ।
२० सूतकव्यतिरिक्तनिमित्तांत्तरेण विघ्ने सति उत्तरमासमृततिथौ कर्तव्यम् । यत्तु '''स्मृत्यंतरम्—'''
“ तदहश्चेत्प्रदुष्येत केनचित्सूतकादिना । सूतकानंतरं कुर्यात्पुनस्तदहरेव वा ” ॥ इति ।
अत्र श्राद्धाह्ने सूतकेन दुष्टे सति सूतकानंतरं कुर्यादिति पक्षः । पुनस्तदहरेव वेति पक्षस्तु आदि-
शब्दोक्तनिमित्तांतरेण दुष्टमासिश्राद्धविषयः । तथा '''षट्त्रिंशन्मतम्—'''
“ मासिकाब्दे तु संप्राप्ते ह्यंतरामृतसूतके । वदंति शुद्धौ तत्कार्यं दर्शे वापि विचक्षणाः ” ॥ इति ।
२५ एतदुक्तं भवति—आशौचानंतरकालो मुख्यकालः संनिकृष्टत्वाच्छ्रेष्ठः । दर्शकालस्तु मुख्यकालप्रत्या-
सत्यभावात्ततो जघन्य इति । दर्शग्रहणं शुक्लकृष्णैकादश्योरुपलक्षणार्थम् । अत एव '''मरीचिः—'''
“श्राद्धविघ्ने समुत्पन्ने न विज्ञाते मृतेऽहनि । एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ” ॥
देवस्वामिनाऽप्येवं विषयव्यवस्था कृता—‘एकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायत’ इत्यादिवचनं
सूतकाशौचव्यतिरिक्तनिमित्तांत्ततस्तदहर्विधाते सूतकाशौचविपाते तु सूतकानंतरं कुर्याद्वदंति
३० शुद्धौ तत्कार्यमित्यावगंतव्यमिति । अन्ये तु उत्तरमासमृततिथौ कर्तव्यताप्रतिपादकवचनमेकोद्दिष्ट-
मासिकविषयं सूतकानंतरदिने दर्शादौ वा कर्तव्यताप्रतिपादकवचनं सपिंडीकरणानंतरभाव्यनु-
मासिकविषयमित्याहुः । यथोचितमिह द्रष्टव्यम् ।
'''आशौचाद्यन्तरितोनमासिकविधिः ।''' ऊनमासिकान्यतिक्रांतानि ‘मासिकाब्दे तु संप्राप्ते’
इति षट्त्रिंशन्मतवचनानुसारेण परमासे दर्शादौ कार्याणीति केचिदाहुः ।
{{rule}} १ क्ष-पि । २ क्ष-श्राद्धविषयम् । ३ क्ष-न्तानु । ४ ग-न्तरे ।<noinclude></noinclude> k8czkbqvlgyd3lo0gjq6oeyznhpkkwt पृष्ठम्:Smriti mukta phalam.pdf/६९५ 104 166698 419718 2026-11-10T13:58:41Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''ऊनमासिककालः । ऊनमासिकवर्ज्यकालः ।'''|६५५}} {{rule}} '''अपरे तु—'''
“ त्रैपक्षिकोनषाण्मास्ये ऊनाब्दिकमथाचरेत् । एतेषामेव काले तु न पुनःकरणं भवेत् ॥
“ ऊनानां नापकर... नवीन पृष्ठं निर्मीत अस्ती 419718 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''ऊनमासिककालः । ऊनमासिकवर्ज्यकालः ।'''|६५५}} {{rule}} '''अपरे तु—'''
“ त्रैपक्षिकोनषाण्मास्ये ऊनाब्दिकमथाचरेत् । एतेषामेव काले तु न पुनःकरणं भवेत् ॥
“ ऊनानां नापकर्षः स्यात्पुनरप्यपकर्षणे । उत्कर्षश्चापि न भवेत्प्रमादादंतरितेषु तु ” । इति वचनमात्रमुदा-
हरंत ऊनानां स्वस्वकाले अकृतानामुत्कर्षो नास्ति किंतु लोप एवेत्याहुः । ऊनान्यूनेषु कुर्वीतेतिवचन-
मपि व्याकुर्वते । द्वित्रिदिनैरूनेषु कालेषु ऊनानि कुर्यात् । अंतरितमूनमूनांतरे योजयेदिति नार्थ इति । ५
'''ऊनमासिककालः । ऊनानां कालमाह गालवः—'''
“ऊनषाण्मासिकं षष्ठे मासार्थे तूनमासिकम् । त्रैपक्षिकं त्रिपक्षे स्यादूनाब्दं द्वादशे तथा ” ॥ इति ।
'''स एव—'''
“ त्रिभिर्वा दिवसैरून एकेन द्वितयेन वा । आद्यादिषु च मासेषु कुर्यादूनानि वै द्विजः”॥ इति ।
'''गौतमश्च—''' १०
“एकद्वित्रिदिनैरूने त्रिभागेनोन एव वा । श्राद्धान्यूनाब्दिकादीनि कुर्यादित्याह गौतमः” ॥ इति ।
'''कार्ष्णाजिनिः—'''
“ ऊनान्यूनेषु मासेषु विषमेषु दिनेषु च । त्रैपक्षिकं त्रिपक्षे स्यान्मृताहेष्वितराणि तु ” ॥ इति ।
'''भविष्यत्पुराणे—'''
“षष्ठे षाण्मासिकं कार्यं द्वादशे मासि चाब्दिकम् । त्रैपक्षिकं भवेद्दत्ते त्रिपक्षे विषमे दिने”॥ इति । १५
वृत्ते प्रवृत्त इत्यर्थः । '''पितृमेधसारे—'''“प्रथमषष्ठद्वादशमासेषु द्वित्रिदिनैरूनेषूनमासिकानि कुर्यात् ।
त्रिभागशेषेष्वित्येके । द्वादशाहे वाऽर्धमासे वा ऊनमासिकमित्यपरे ” इति ।
'''कालादर्शे—'''“ त्रिभिर्द्वाभ्यामुतैकेन मास्यूनेषूनमासिकम् । ऊनषाण्मासमुनाब्दमन्नेनैव समाचरेत् ॥
“ त्रिभागशेषमासे तु कुर्यादिति हि केचन । त्रैपक्षिकं त्रिपक्षे तु प्रवृत्ते विषमे दिने ॥
“मासिकान्यपि चोनानि चाष्टाविंशतिमे दिने”॥ इति । अन्नेनैवेति अन्नेनैव मासिकानि कुर्यात् नामेन । २०
“ श्राद्धविघ्ने द्विजातीनामामान्नं प्रकीर्तितम् । अमावास्यादिनियतं माससांवत्सराहते ” ॥ इति
हारीतस्मरणात् । मासं मासिकं सांवत्सरं मृताहे प्रत्याब्दिकम् । '''पद्धतौ—'''
“ सप्तविंशदिनादूर्ध्वं त्र्यहःसूनमासिकम् । चत्वारिंशद्दिनादूर्ध्वं पंचाहःसु त्रिपक्षिकम् ॥
“ तथा दशसु षाण्मासं सप्तत्यतिशतात्परम् । ऊर्ध्वं पंचदशाहःसु चत्वारिंशच्छतत्रयात् ॥
“ ऊनाब्दिकं प्रकुर्वीत तथा चाब्दिकमाचरेत् ” ॥ २५
'''ऊनमासिकवर्ज्यकालः । अत्र वर्ज्यमाह गार्ग्यः—'''
“नंदायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे । ऊनश्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ” ॥
'''मरीचिः—'''“द्विपुष्करेषु नंदासु सीनिवाल्यां भृगोर्दिने । चतुर्दश्यां च नोनानि कृत्तिकासु त्रिपुष्करे”॥
इति । त्रिपुष्करं नाम—
“यद्वा भद्रातिथीनां स्यात्पापवारेण संयुतिः । खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः ”॥ ३०
द्वयोर्मेलने द्विपुष्करम् । द्वितीयासप्तमीद्वादशीनां भद्रातिथीनां पुनर्वसूत्तरफल्गुनीविशाखो-
त्तराषाढापूर्वभाद्रपदनक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम् ।
“ भद्रा त्रिपादनक्षत्रं भानुभौमार्किवासराः । त्रिपुष्करा इति ख्यातास्तत्र नूनं न कारयेत् ” ॥ इति
स्मरणात् । द्वयोर्मेलनं द्विपुष्करम् । प्रतिपत्यष्ठ्येकादश्यो नंदाः । '''कालादर्शे—'''
“त्रिपुष्करे च नंदासु दर्श भार्गववासरे । चतुर्दश्यां न कुर्वीत ऊनानि त्रीणि वह्निभे ” ॥ इति । ३५
वह्निभं कृत्तिकानक्षत्रम् । '''स्मृत्यंतरे—'''
{{rule}} १ ग-प्र । २ खग-स्यात् । ३ क्ष-मेषे ।<noinclude></noinclude> 7jbq1oxaoh1y3bcy07niuo01belz925 पृष्ठम्:Smriti mukta phalam.pdf/६९६ 104 166699 419719 2026-11-10T13:59:28Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६५६|'''वत्सरान्तसापिण्ड्ये ।'''|}} {{rule}} “ आग्नेयमैन्द्रं सार्पं च तिस्रः पूर्वेति नैर्ऋतम् । यद्येषूनत्रयं कुर्याज्ज्येष्ठपुत्रो विनश्यति ” ॥ इति ।
'''वत्सरांतस... नवीन पृष्ठं निर्मीत अस्ती 419719 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६५६|'''वत्सरान्तसापिण्ड्ये ।'''|}} {{rule}} “ आग्नेयमैन्द्रं सार्पं च तिस्रः पूर्वेति नैर्ऋतम् । यद्येषूनत्रयं कुर्याज्ज्येष्ठपुत्रो विनश्यति ” ॥ इति ।
'''वत्सरांतसापिण्ड्ये अत्यब्दसापिण्ड्ये च निर्णयः ।'''
वत्सरांतसापिण्ड्ये उपाधिवशात्प्रागकृतान्यूनादीनि सर्वाणि मासिकानि द्वादशमासिकाह्ने
ऊनाब्दिकाहे वा आब्दिकात्पूर्वदिने सपिंडीकरणाहे वा कुर्यात् । एवं पित्रोः पत्न्यादिव्यति-
५ रिक्तानां च संघातमरणे एकोद्दिष्टातकृत्यव्यतिरेकेण मासिकसापिंड्यादिनिषेधाद्वत्सरांते सापिंड्य-
विधानाच्चाब्दिकात्पूर्वं सपिंड्याहे मासिकानि कुर्यात् । अत्यब्दसापिण्ड्ये कृतान्यकृतानि च
मासिकादीनि कृष्णैकादश्यां दर्श मृताहे सपिंडीकरणाहे वा कुर्यात्
“ श्राद्धानि षोडशापाद्य विदधीत सपिंडताम् ” इति लोकाक्षिवचनात्
“ कृतेषु मासिकेष्वेधु सपिंडीकरणं विना । संवत्सरे व्यतीते तु पुनस्तानि समाचरेत् ” ॥ इति
१० शंखस्मरणाच्च । मासिकानां सपिंडीकरणांगत्वात्स्वकाले सपिंडीकरणाकरणे कालान्तरे तत्करणे
कृतैरप्यंगभूतैर्मासिकैः सह सापिंड्यं कुर्यात् । तथा च '''कात्यायनः—'''
“ प्रधानस्याक्रियायां तु सांगं तत्क्रियते पुनः । तदंगस्याक्रियायां तु नाववृत्तिर्नैव तत्क्रिया ” ॥ इति ।
ननु तर्हि प्रधानभूतसापिंड्यमात्रानुष्ठानेन कृतं मासिकानुष्ठानमिति चेन्मैवम्
“ यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश । पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि ” ॥ इति
१५ तदकरणे प्रत्यवायस्मरणात् । कालं विदधाति '''गर्गः—'''
“ कृष्णपक्षे तु पंचम्यामष्टम्यां दर्श एव वा । एकादश्यां तु कर्तव्यं स्वकालाकरणे सति ” ॥ इति ।
वत्सरांतसापिंड्येऽत्यब्दसापिंड्ये च मासिकानामावृत्तिर्नास्ति । किं तु सपिंडीकरणात्पूर्वं सकृदेव
कुर्याद्यस्य संवत्सरादर्वाक्सपिंडीकरणमित्यादिभिर्वत्सरात्प्रागेव सपिंडीकरणे तदूर्ध्वमासिकानां पुनः-
करणविधानाद्विज्ञानेश्वरेण तु वत्सरादर्वाक्सपिंड्येऽपि मासिकानां पुनःकरणं नांगीकृतम् । तथा हि
२० यदा प्राक् संवत्सरात्सपिंडीकरणं तदा षोडशश्राद्धानि कृत्वा सपिंडीकरणं कार्यमिति वा सपिंडी-
करणं कृत्वा स्वकालेषु वा तानि कर्तव्यानीति संशयः । उभयथावचनदर्शनात्
“श्राद्धानि षोडशाकृत्वा न तु कुर्यात्सपिंडताम् । श्राद्धानि षोडशापाद्य विदधीत सपिंडताम् ” ॥ इति ।
तथा—
“ यस्य संवत्सरादर्वाक्सपिंडीकरणं भवेत् । मासिकं सोदकुंभं च देयं तस्यापि वत्सरम् ” ॥ इति ।
२५ तत्र सपिंडीकरणं कृत्वा स्वकाल एव तानि कर्तव्यानीति प्रथमः कल्पः । अप्राप्तकालत्वेन प्राग-
नधिकारात् । यदपि वचनं षोडशश्राद्धानि कृत्वैव सपिंडीकरणं संवत्सरात्प्रागपि कर्तव्यमिति
सोऽयमापत्कल्पः । एतद्विज्ञानेश्वरेणोक्तम्—
“ यदा संवत्सरादर्वाक्सपिंडीकर्तुमिच्छति । आवर्तनं षोडशानां तदा कर्तव्यमेव हि ” ॥
इत्यादिपूर्वोक्तबहुस्मृतिविरोधात् शिष्टाचारीविरोधाच्चोपेक्षणीयम् ।
३० '''शुभांगमे मासिकापकर्षणम् ।''' सपिंडीकरणात्पूर्वं कृतान्यपि मासिकानि शुभांगमे तत्पूर्वमेव
तदुत्तरभावीनि पुनरपकृष्य कुर्यात् । न स्वकाले पुनः कुर्यात् । यदाह '''शाट्यायनिः—'''
“ सपिंडीकरणादर्वागपकृष्य कृतान्यपि । पुनरप्यपकृष्यंते वृद्ध्युत्तरनिषेधनात् ॥
“ जन्मत्रयेनापकर्षो न नंदासु भृगोर्दिने । न भानुभौमदिवसे न दोषोऽस्ति मृतेऽहनि ” ॥ इति ।
मृतेऽहनि जन्मत्रयादावपि अपकर्षदोषो नास्तीत्यर्थः । '''स एव—'''
“ प्रेतश्राद्धानि शिष्टानि सपिंडीकरणं तथा । अपकृष्यापि कुर्वीत कर्ता नांदीमुखे द्विजः ” ॥ इति ।
{{rule}} १ क्ष-रूपाब्दि । २ क्ष-त्काले । ३ क्ष-+करणं ।<noinclude></noinclude> majuh3cnsotxl4pq2zefjjm8n8esefu पृष्ठम्:Smriti mukta phalam.pdf/६९७ 104 166700 419720 2026-11-10T14:00:44Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''शुभागमे कार्याणि ।'''|६५७}} {{rule}} '''कालादर्शे—'''“वृद्धौ तान्यपकृष्यापि कुर्यात्तन्मृतिवासरे ” इति । वृद्धिः शुभं तत्तस्मिन्नुपस्थिते
आगामिमासिकान्यपकृष्य... नवीन पृष्ठं निर्मीत अस्ती 419720 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''शुभागमे कार्याणि ।'''|६५७}} {{rule}} '''कालादर्शे—'''“वृद्धौ तान्यपकृष्यापि कुर्यात्तन्मृतिवासरे ” इति । वृद्धिः शुभं तत्तस्मिन्नुपस्थिते
आगामिमासिकान्यपकृष्य वृद्धेः पूर्वं मरणदिने कुर्यादित्यर्थः । '''कात्यायनः—'''
“ निर्वर्त्य वृद्धितंत्रं तु मासिकानि न तंत्रयेत् । अयातयामं मरणं न भवेत्पुनरप्यनु ” ॥
अयातयामं नवम् ।
“ प्रेतसंस्कारकार्याणि यानि श्राद्धानि षोडश । यथाकाले तु कार्याणि नान्यथा मुच्यते ततः”॥ ५
इत्यादीनि वचनानि द्वादशाहादौ सापिंड्यार्थमपकृष्टमासिकानां स्वे स्वे काले पुनः-
करणपराणि त्रिपक्षादौ सापिंड्ये उत्सवार्थमपकृष्टानां न पुनःकरणं उत्सवार्थान्येव सापिंड्या-
र्थानि च भवंतीति च वचनादावृत्तिर्बाध्यते । सपिंडीकरणात्परं तु शुभागमे सापिंड्यार्थमप-
कृष्टानां शुभार्थं पुनरप्यपकर्षः । न स्वकाले पुनःकरणमिति ज्ञेयम् । मातापितृविषये तु शुभा-
गमे अपकृष्य पुनः कृतान्यपि मासिकानि पुनः स्वकाले त्रिरावृत्त्या पुत्रः कुर्यात् । १०
तथा च '''विश्वादर्शे—'''
“ शुभकर्म न कुर्वीत मासिकान्यसमाप्य तु । समाप्य च पुनः कुर्यात्पित्रोः सांवत्सरं ततः ॥
“ मृतस्य तृप्तये कुर्यात् द्वित्रिरावृत्तिभेदतः । द्वित्रिरावृत्तिदोषोऽत्र नास्ति मासिककर्मणि ” ॥ इति ।
अत्र मातापितृविषये “ निर्वर्त्य वृद्धितंत्रं तु मासिकानि न तंत्रयेत् ” इति निषेधो नास्तीत्यर्थः ।
'''शिवस्वामिमतेऽपि—'''“ न मासिकश्राद्धविधिः पुनः स्यात् नांदीमुखानांतरमुक्तकाले । १५
“ समाप्य पित्रोस्तु पुनश्च कुर्यात् सांवत्सरं मासिककर्मकाले ॥
“ प्राप्तेऽव्हण्ये मासिकं कर्म चेष्टं कुर्यात्पूर्वं शोभने शोभनात्तु ।
“ पश्चात्पित्रोः शेषकार्याणि कुर्यान्मासि श्राद्धान्यब्दपूर्तेर्न चान्यः ” ॥ इति । '''पारिजातेऽपि—'''
“मासिकान्यसमाप्यैव नांदीश्राद्धं न कारयेत् । समाप्य च पुनः काले पित्रोर्मासिकमाचरेत् ” ॥ इति ।
'''स्मृत्यंतरे—''' २०
“ शुभागमेऽपकृष्टानां न पुनः कृतिरिष्यते । द्वित्रिरावृत्तिदोषस्तु मातापित्रोर्न विद्यते ” ॥
'''अन्यत्रापि—'''
“ व्रतसीमंतचौलेषु विवाहे च द्वितीयके । अलभ्ययोगयज्ञेषु प्राप्तेषु यदि मध्यतः ॥
“ अपकृष्य तदा कुर्यान्मासिकानि मृतेऽहनि । मासिकानि पुनः कुर्यात्पित्रोरेव विचक्षणः ” ॥ इति ।
'''तथा—''' २५
“ अपकृष्य यदा कुर्यान्मासिकानि शुभागमे । तदा मृतेऽन्हि कर्तव्यं शुभात्पूर्वदिनेऽपि वा”॥ इति ।
'''प्रयोगपारिजाते तु—'''
“ ऊनानां नापकर्षः स्यात्पुनरप्यपकर्षणे । उत्कर्षश्चापि न भवेत्प्रमादांतरितस्य तु ॥
“ मासिकान्यवशिष्टानि मातापित्रोः परस्य वा । वृद्धिपूर्वदिने कुर्यात्पित्रोः काले पुनः कृतिः”॥ इति ।
'''हेमाद्रौ—''' ३०
“ जातके नामकरणे तथान्नप्राशनेऽपि च । आद्यर्तौ दयितानां च मासिकं नापकर्षयेत् ” ॥ इति ।
एतच्च ज्ञातिविषयम्—
“ गर्भादिप्राशनांतानि प्राप्तकालं न लंघयेत् । ज्ञातीनां प्रेतकार्यं तु कुर्वन्नपि च कारयेत् ” ॥ इति
स्मरणात् ।
{{rule}} १ क्ष-रांततः ।<noinclude></noinclude> 3wtgkxu65zs1osu19lfnqhi1wcxlk4s पृष्ठम्:Smriti mukta phalam.pdf/६९८ 104 166701 419721 2026-11-10T14:02:29Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६५८|'''मासिकानां पार्वणैकोद्दिष्टव्यवस्था ।'''|}} {{rule}} गर्भादिव्यतिरिक्तविषये तु '''चतुर्विंशतिमते—'''
“ भ्राता वा भ्रातृपुत्रो वा सपिंडः शिष्य एव वा । सपिंडीकरण... नवीन पृष्ठं निर्मीत अस्ती 419721 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६५८|'''मासिकानां पार्वणैकोद्दिष्टव्यवस्था ।'''|}} {{rule}} गर्भादिव्यतिरिक्तविषये तु '''चतुर्विंशतिमते—'''
“ भ्राता वा भ्रातृपुत्रो वा सपिंडः शिष्य एव वा । सपिंडीकरणं कृत्वा कुर्यादभ्युदयं ततः ” ॥ इति ।
मातापितृमातृवर्गाणां त्वभ्युदयोद्देश्यत्वे प्रेतकार्यं पूर्वमेव कर्तव्यम्
“ पित्र्यादीनां प्रमीतानां त्रयाणां तु सपिंडनम् । कृत्वा तु मंगलं कुर्यान्नितरेषां कथंचन ” ॥ इति
५ स्मृतेः । एवं च जातकर्मादिव्यतिरिक्तपुंसवनाद्यावश्यकशुभागमे मुख्यकर्तुर्मासिकापकर्षः स्वकाले
नास्ति पुनःकरणम् । मातापित्रोस्तु पुनःकरणमिति निर्णयः ।
शुभागममंतरेण मासिकापकर्षे दोषमाह '''गार्ग्यायणिः—'''
“ अंतरेणैव यो वृद्धिं प्रेतश्राद्धानि कर्षति । स श्राद्धी नरके घोरे पितृभिः सह मज्जति ” ॥ इति ।
अनेन मासिकोत्सवयोः कर्तुरेकस्यैव शुभागममंतरेण मासिकापकर्षे प्रत्यवायविधानात्
१० “ अपकृष्यापि कुर्वीत कर्ता नांदीमुखे द्विजः ” ॥ इति
“ नांदीश्राद्धे तु संप्राप्ते मासिकान्यकृतानि तु । शुभकर्तैवापकृष्य कुर्यान्नान्य इति स्थितिः” ॥ इति
“ मासिकानि यथाकालं कुर्वाणस्य यथाविधि । यदि वृद्धिरुत्तस्था भूयः शिष्टमप्यपकर्षतः ” ॥ इति
च कर्तुरेवाभ्युदये मासिकापकर्षविधानात् “ निर्वर्त्य वृद्धितंत्रं तु मासिकानि न तन्त्रयेत् ” इति
वृद्धितन्त्रमासिकयोरेककर्तृकत्वस्मरणाच्च य एव मासिककर्ता स एवोत्सवकर्ता चेत्तदा मासिका-
१५ पकर्षः । न तु भ्रात्रादेः पुंसवनादिशुभागमे मासिकापकर्षः । यत्त्विदं वचनं
“ नांदीमुखे देवतात्वं येषां पितृगणस्य तु । मासिकान्यपकृष्यैव कृत्वा तेषां शुभं भवेत्”॥ इति ।
अत्र बहुवचनं द्वादशविधपुत्राभिप्रायं येषामौरसादीनां संस्कर्तॄणां पितृगणस्य नांदीश्राद्धे देवतात्वं
तेषां शुभागमे मासिकापकर्ष इत्यर्थः । तथा हि '''पितृमेधसारे—'''“ तच्चैतदेके भ्रात्राद्युत्सवेऽ-
प्यपकृष्य कुर्वते । तन्न तथा कुर्यात् । मासिककर्तुरेवोत्सवे मासिकापकर्षवचनात्समानकर्तृकत्व-
२० स्मरणाच्च कर्तुरेवाभ्युदये मासिकापकर्षः ” इति ।
'''मासिकानां पार्वणैकोद्दिष्टविधानव्यवस्था ।''' मासिकानि सपिंडीकरणात् प्रागेकोद्दिष्टविधानेनै
कुर्यात् । सपिंडनात्परमनुमासिकानि यो यथा प्रत्याब्दिकश्राद्धं करोति पार्वणमेकोद्दिष्टं वा स
तथा कुर्यात् । यदाह '''पैठीनसिः—'''
“ सपिंडीकरणादर्वाक् कुर्वन् श्राद्धानि षोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥
२५ “सपिंडीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स्वतान्यपि ” ॥ इति ।
'''स्मृतिरत्नेऽपि—'''
“ यस्य संवत्सरादर्वाक्सपिंडीकरणं कृतम् । प्रतिमासं तथा तस्य प्रतिसंवत्सरं तथा ” ॥ इति ।
'''प्रत्याब्दिके पार्वणविधिः । प्रत्याब्दिके पार्वणविधानमाह जमदग्निः—'''
“ आपाद्य सह पिंडत्वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनि” ॥ इति ।
३० '''शातातपोऽपि—'''
“सपिंडीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं विद्वान् शाकलेयोदितो विधिः ” ॥ इति ।
त्रिपुरुषोद्देशेन क्रियमाणं पार्वणम् ।
“ एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्तितम् । त्रीनूद्दिश्य तु यत्तद्धि पार्वणं मुनयो विदुः ” ॥ इति
कण्वस्मरणात् ।
{{rule}} १ क्ष-पु । २ क्ष-पित्रा । ३ कखग-शात्यायनिः । ४ क्ष-कृत्ये । ५ क्ष-पितॄणां ।<noinclude></noinclude> j6w893jra0ueklxci2ha9h7d7ryh677 पृष्ठम्:Smriti mukta phalam.pdf/६९९ 104 166702 419722 2026-11-10T14:03:15Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''प्रत्याब्दिके पार्वणविधिः ।'''|६५९}} {{rule}} '''जातूकर्णिः—'''“अत ऊर्ध्वं न कर्तव्यमेकोद्दिष्टं कदाचन । सपिंडीकरणांतं च तत्प्रोक्तमिति मुद्गलः ॥
“ प्रेतत्वान्न... नवीन पृष्ठं निर्मीत अस्ती 419722 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''प्रत्याब्दिके पार्वणविधिः ।'''|६५९}} {{rule}} '''जातूकर्णिः—'''“अत ऊर्ध्वं न कर्तव्यमेकोद्दिष्टं कदाचन । सपिंडीकरणांतं च तत्प्रोक्तमिति मुद्गलः ॥
“ प्रेतत्वान्नचैवमुत्तीर्णः प्राप्तः पितृगणं तु सः । च्यवते पितृलोकात्तु पृथक्पिंडेन योजितः ॥
“ सपिंडीकरणादूर्ध्वं पृथक्त्वं नोपपद्यते । पृथक्त्वे तु कृते पश्चात्पुनः कार्या सपिंडता ”॥ इति ।
'''स एव—'''
“ पितुः पितृगणस्थस्य कुर्यात्पार्वणवत्सुतः । प्रत्यब्दं प्रतिमासं च विधिर्ज्ञेयः सनातनः”॥ इति । ५
पितृगणस्थस्य सपिंडीकृतस्येत्यर्थः । '''कार्ष्णाजिनिरपि—'''
“ अत ऊर्ध्वं न कर्तव्यमेकोद्दिष्टं कदाचन । सपिंडीकरणांतं च प्रेतस्यैतदमंगलम् ” ॥ इति ।
'''यमः—'''
“ यः सपिंडीकृतं प्रेतं पृथक्पिंडेन योजयेत् । विधिघ्नस्तेन भवति पितृहा चोपजायते ” ॥ इति ।
'''माधवीये—''' १०
“ प्रदानं यत्र यत्रैषां सपिंडीकरणात्परम् । तत्र पार्वणवच्छ्राद्धं एकोद्दिष्टं त्यजेद्बुधः ” ॥ इति ।
'''मनुरपि—'''
“ आ सपिंडक्रियाकर्म द्विजातेः संस्थितस्य तु । अद्वैवं भोजयेच्छ्राद्धं पिंडमेकं च निर्वपेत् ॥
“ सहपिंडक्रियायां तु क्रियायामस्य धर्मतः । अनयैवावृता कार्यं पिंडं निर्वापणं सुतैः ” ॥ इति ।
असपिंडक्रियाकर्म सपिंडीकरणात्प्राक्श्राद्धकर्म अद्वैवमेकोद्दिष्टविधानेनेति यावत् । सहपिंडक्रियायां १५
सपिंडीकरणे कृते अनयैवावृता उक्तेन मासिकश्राद्धप्रकारेण पार्वणविधानेनेत्यर्थः । '''स्मृतिरत्नेऽपि—'''
“ एकोद्दिष्टे तु कर्तव्यं प्रतिमासं मृतेऽहनि । सपिंडीकरणादूर्ध्वं मातापित्रोस्तु पार्वणम् ॥
“ यत्र यत्र प्रदातव्यं सपिंडीकरणात्परम् । तत्र पार्वणवच्छ्राद्धं कार्यमभ्युदयादृते ” ॥ इति ।
एवमादीन्यन्यान्यपि वचनान्यूनमासिकेष्वान्दिके प्रत्याब्दिके च पार्वणप्रतिपादकानि संति ।
याज्ञवल्क्यस्तु मासिकाब्दिकप्रत्याब्दिकेषु एकोद्दिष्टविधानमाह — २०
“ मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ” ॥ इति ।
एकोद्दिष्टपदं पूर्वस्मादिहानुवर्तते । तथा च '''विज्ञानेश्वरेण''' व्याख्यातम्—
“ मृतेऽहनि प्रतिमासं यावत्संवत्सरमेकोद्दिष्टं कार्यं सपिंडीकरणादूर्ध्वं प्रतिसंवत्सरं एकोद्दिष्टं कार्यम् ।
आद्यं सर्वैकोद्दिष्टं प्रकृतिभूतमेकोद्दिष्टमेकादशेऽहनि कार्यम्” इति । स्मृत्यंतरमपि तेनोदाहृतम्—
“वर्षे वर्षे तु कर्तव्या मातापित्रोस्तु सक्रिया । अद्वैवं भोजयेच्छ्राद्धं पिंडमेकं च निर्वपेत् ”॥ इति । २५
'''यमोऽप्याह—'''
“ सपिंडीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः । मातापित्रोः पृथक्कार्यमेकोद्दिष्टं कृतेऽहनि ” ॥ इति ।
'''व्यासस्तु पार्वणं प्रतिषेधति—'''
“ एकोद्दिष्टं परित्यज्य पार्वणं कुरुते तु यः । अकृतं तद्विजानीयाद्द्रवेच्च पितृघातकः ” ॥ इति ।
एवमेकोद्दिष्टविधिवचनानि बहूनि सन्ति । इत्येवं वचनविप्रतिपत्तौ मतांतरनिरासपूर्वकं व्यवस्थापितं ३०
'''विज्ञानेश्वरेण''' तथा हि “ दाक्षिणात्या व्यवस्थामारुः—‘औरसक्षेत्र-
जाभ्यां मातापित्रोः क्षयाहे पार्वणमेव कर्तव्यम् । दत्तादिभिरेकोद्दिष्टम् ’ इति जातूकर्ण्यवचनात् ।
“ प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ । कुर्यातां इतरे कुर्पुरेकोद्दिष्टं सुतादयः ” ॥ इति
तदसत् । न ह्यत्र क्षयाहवचनमस्ति अपि । तु प्रत्यब्दमिति सन्ति । च क्षयाहव्यतिरिक्तानि प्रत्यब्द-
श्राद्धानि अक्षय्यतृतीयावैशाखीप्रभृतिषु । अतो न क्षयाहविषयपार्वणैकोद्दिष्टव्यवस्थापना । ३५
{{rule}} १ क्ष-स्त । २ पृ. ७७ पं. २०-३३, पृ. ७८ पं. १-९ ।<noinclude></noinclude> 6ztaw2ug8aiiszv09upbclp9a1il8vy पृष्ठम्:Smriti mukta phalam.pdf/७०० 104 166703 419723 2026-11-10T14:04:02Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६६०|'''पितामहादीनां पार्वणविधिः ।'''|}} {{rule}} तथा च—“एकोद्दिष्टं हि कर्तव्यमौरसेन मृतेऽहनि । सपिंडीकरणादूर्ध्वं मातापित्रोर्न पार्वणम् ” ॥ इति
पैठीनसिना “औरसे... नवीन पृष्ठं निर्मीत अस्ती 419723 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६६०|'''पितामहादीनां पार्वणविधिः ।'''|}} {{rule}} तथा च—“एकोद्दिष्टं हि कर्तव्यमौरसेन मृतेऽहनि । सपिंडीकरणादूर्ध्वं मातापित्रोर्न पार्वणम् ” ॥ इति
पैठीनसिना “औरसेनाप्येकोद्दिष्टमेव कर्तव्यम् ” इत्युक्तम् । उदीच्याः पुनरेवं व्यवस्थापयन्ति
अमावास्यायां भाद्रपदकृष्णपक्षे मृताहे पार्वणमन्यत्र मृताहे एकोद्दिष्टमेवेति
“ अमायां वा क्षयो यस्य प्रेतपक्षेऽथ वा पुनः । पार्वणं तत्र कर्तव्यं नैकोद्दिष्टं कदाचन ” ॥ इति
५ स्मरणात् । एतदपि नाद्रियंते वृद्धाः । अनिश्चितमूलेनानेन वचनेन निश्चितमूलानां बहूनां क्षयाहमात्र-
पार्वणविषयाणां वचनानाममावास्याप्रेतपक्षामृताहविषयत्वेन संकोचस्यायुक्तत्वात् । सामान्यवच-
नानर्थक्याच्च । अतोऽत्र पाक्षिकैकोद्दिष्टनिवृत्तिफलतया ‘अमायां वा क्षयो यस्य’ इति नियमविधानं
युक्तम् । न चैकोद्दिष्टविधिवचनानां मातापितृक्षयाहविषयत्वेनातिसंकोचस्यायुक्तत्वात् सामान्य-
वचनानर्थक्याच्च पार्वणवचनानां च तदन्यक्षयाहविषयत्वेन व्यवस्था युक्ता । उभयत्रापि माता-
१० पितृसुतशब्दस्य विद्यमानत्वात् ।
“ मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृतेऽहनि । कुर्वीत दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनि ”॥ इति ।
यदपि कैश्चिदुच्यते मातापित्रोः क्षयाहे साग्निः पार्वणं कुर्यान्निरग्निरेकोद्दिष्टम्
“ वर्षे वर्षे सुतः कुर्यात्पार्वणं योऽग्निमान् द्विजः । पित्रोरनग्निमान् धीर एकोद्दिष्टं मृतेऽहनि”॥ इति
सुमंतुस्मरणादिति तदपि संप्रतिपक्षत्वादुपेक्षणीयम्
१५ “ बह्वग्रयस्तु ये विप्रा ये चैकाग्नय एव वा । तेषां सपिंडनादूर्ध्वमेकोद्दिष्टं न पार्वणम् ” ॥ इति
स्मरणात्तत्रैव निर्णयः । संन्यासिनां क्षयाहे सुतेन पार्वणमेव कर्तव्यम् । तच्चाग्रे वक्ष्यते ।
अमावास्यायां क्षयाहे च पार्वणमेव । ‘अमायां वा क्षयो यस्य’ इत्यादिवचनस्योक्तरीत्या
नियमपरत्वादन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोर्त्रीहियववद्वृहद्रथंतरवद्विकल्प एव । तत्र वंशसमाचार-
व्यवस्थायां न विकल्पः । अव्यवस्थायां सत्यां ऐच्छिको विकल्प” इति । अयं विज्ञानेश्वरोक्त-
२० प्रकारः । अन्यैस्तु व्यवस्थापितम्—एकोद्दिष्टवचनानि बोधायनीयविषयाणि
“ वर्षे वर्षे तु कर्तव्या मातापित्रोस्तु सत्क्रिया । अद्वैवं भोजयेच्छ्राद्धं पिंडमेकं च निर्वपेत् ”॥ इति
बोधायनस्मरणात्पार्वणवचनानि तदितरविषयाणीति सामान्येन प्रवृत्तानामुभयविधवचनानामेवं
व्यवस्था प्रमाणं वेत्युक्तम् । अपरैः अत्र शिष्टाचारबाहुल्यादनुमासिकाब्दिकप्रत्याब्दिकेषु पित्रोः
पार्वणमेव । सपिंडीकरणात्प्राक्तनेषु एकोद्दिष्टमेवेति निर्णयः । अत एव सुमंतुः—
२५ “ कर्तव्यं पार्वणं राजन्नेकोद्दिष्टं कथंचन ।
“ सुबहून्यत्र वाक्यानि मुनिगीतानि चक्षते । अल्पेतराणि राजेंद्र एकोद्दिष्टं प्रचक्षते ” ॥ इति ।
अत्र पार्वणपक्षे सुबहूनि बहुतरराणि वाक्यानि प्रचक्षते धर्मशास्त्रज्ञाः । अल्पेतराणि कतिपयानि
वाक्यान्येव एकोद्दिष्टं प्रचक्षत इत्यर्थः । तेनैकोद्दिष्टं परित्यज्य पार्वणपक्ष एव परिग्राह्य इत्याह
स एव—
३० “ तस्माद्वचनसामर्थ्यात्सपिंडीकरणात्परम् । मासिकाब्दिकवृद्ध्यादि कुर्यात्पार्वणधर्मतः ” ॥ इति ।
'''पितामहादीनां पार्वणविधिः ।''' एवं सपिंडीकरणात्परं पौत्रादयश्च पार्वणं कुर्युः
“ पुत्रः पौत्रः प्रपौत्रश्च दौहित्रो दुहिता स्नुषा । दंपती च क्रमादेते श्राद्धं कुर्युः त्रिपुरुषम्”॥ इति
स्मरणात् । अपुत्रपितृव्यादीनामपि पार्वणमेव
“ अपुत्रस्य पितृव्यस्य भ्रातुश्चैवाग्रजन्मनः । मातामहस्य तत्पत्न्याः श्राद्धं पितृवदाचरेत् ”॥ इति
३५ स्मरणात् ।
{{rule}} १ पृ. ७८ पं. १–१८ ।<noinclude></noinclude> k74wk5py1zjr0mkmyhvn1uj7mhmtbag पृष्ठम्:Smriti mukta phalam.pdf/७०१ 104 166704 419724 2026-11-10T14:04:49Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''संबंधिबांधवादीनाम् ।'''|६६१}} {{rule}} तथा '''चंद्रिकायाम्—'''“पितृमात्रग्रजादीनां पार्वणेन पुनः क्रिया” इति । पार्वणविधानेन मासिकानां
पुनःकरणमित्यर्थः । '''स्मृ... नवीन पृष्ठं निर्मीत अस्ती 419724 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''संबंधिबांधवादीनाम् ।'''|६६१}} {{rule}} तथा '''चंद्रिकायाम्—'''“पितृमात्रग्रजादीनां पार्वणेन पुनः क्रिया” इति । पार्वणविधानेन मासिकानां
पुनःकरणमित्यर्थः । '''स्मृत्यंतरे च—'''“पत्न्यग्रजपितृव्याणां पितृवत्कल्प इष्यते ।
“स्त्रीश्राद्धे वृणुयात् भर्ता पत्नीमातृपितामहीः । पितृव्याग्रजयोः श्राद्धे तत्तत्पितृपितामहान्”॥इति ।
भगिन्यादीनां सापिण्ड्यात्परमेकोद्दिष्टविधानेन मासिकादिः । उक्तव्यतिरिक्तानामेकोद्दिष्टमाह
'''कात्यायनः—'''“ संबंधिबांधवादीनामेकोद्दिष्टं तु सर्वदा ” इति । '''गार्ग्योऽपि—''' ५
“अपुत्रा ये मृताः केचित्स्त्रियो वा पुरुषास्तथा । तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्”॥ इति ।
स्त्रियो भगिन्यादयः । पुरुषाः कनिष्ठभ्रात्रादयः । तथा च '''सुमंतुः—'''
“ सपिंडीकरणादूर्ध्वं यत्र यत्र प्रदीयते । भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुल्याय च ॥
“ मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् ” इति । '''शातातपः—'''
“ अनाद्यगर्भो न ज्येष्ठो भ्राता सद्भिर्निगद्यते । ऋते सपिंडनात्तस्य नैव पार्वणमाचरेत् ” ॥ १०
'''वृद्धगार्ग्यः—'''
“ मातुः सहोदरो यश्च मातुः सहभवा च या । तयोश्च नैव कुर्वीत पार्वणं पिंडनादृते ” ॥ इति ।
पिंडनात्सपिंडनात् । '''कालादर्शे—'''
“ गुरोर्रज्येष्ठभ्रातुश्च मित्रस्य स्वामिनः स्वसुः । पुत्रस्य मातुलस्यापि नैव कुर्यात् पार्वणम्”॥ इति ।
'''पराशरः—''' १५
“पितुर्गतस्य देवत्वमौरसस्य त्रिपुरुषम् । सर्वत्रानकगोत्राणामेकस्यैव मृतेऽहनि ” ॥ '''विज्ञानेश्वरेणेदं'''
व्याख्यातम्—“ देवत्वं गतस्य सपिंडीकृतस्य पितुः सर्वत्र औरसेन पार्वणं कार्यम् । अनेकगोत्राणां
भिन्नगोत्राणां मातुलादीनां क्षयेऽहनि यच्छ्राद्धं तदेकस्यैव एकोद्दिष्टमेव ” इति । '''स्मृत्यंतरेऽपि—'''
“ मातुलाद्यनुपुत्राणामेकोद्दिष्टं । स्वसुर्गुरोः । मित्रस्य स्वामिनश्चैव बंधुसंबंधिनां तथा ” ॥ इति ।
'''चंद्रिकायाम्—''' २०
“ पत्नीभ्रातृसुतादीनां सपिंडीकरणात्परम् । एकोद्दिष्टविधानेन मासिकानां पुनः क्रिया ”॥ इति ।
अत्र पत्न्या एकोद्दिष्टविधानात् “पत्न्यग्रजपितृव्याणां पितृवत्कल्प इष्यते ।
“स्त्रीश्राद्धे वृणुयाद्भर्ता पत्नीमातृपितामहीः । दंपती च क्रमादेते श्राद्धं कुर्युस्त्रिपुरुषम् ” ॥ इत्यादिना
पार्वणविधानाच्च यथाशिष्टाचारमिह व्यवस्था द्रष्टव्या । सापिण्ड्यात्परमेकोद्दिष्टे देववरणनियमः
'''स्मृत्यंतरे—''' २५
“ एकोद्दिष्टं यत्र यत्र सपिंडीकरणात्परम् । दैवयुक्तं तु तत्कार्यं दैवहीनं न तद्भवेत् ।
“ सपिंडीकरणादूर्ध्वं दैवहीनं करोति यः । मातापितृगुरुघ्नः स्यादात्मघाती च जायते ॥
“ विप्रलुंपंति रक्षांसि श्राद्धमा रक्षवर्जितम् । तत्पालनाय विहिता विश्वेदेवाः स्वयंभुवा” ॥ इति ।
'''स्मृत्यर्थसारे तु''' “ नवमिश्रपुराणानि त्रिविधान्येकोद्दिष्टानि । सर्वैकोद्दिष्टेषु दैवं नास्ति ” ।
नवादिस্বরূপमाह '''प्रजापतिः—'''“ नवश्राद्धं दशाहांतं मिश्रं संवत्सरावधि । ३०
“ एकादशाहमारभ्य कार्यमेकस्य तृप्तये । अब्दादुपरि यच्छ्राद्धं पुराणं तत्प्रकीर्तितम् ” ॥ इति ।
'''माधवीये तु''' “एकोद्दिष्टं त्रिविधं नवं नवमिश्रं पुराणं च ” इति । अत्र प्रथमाहाद्येकादशाहान्तं
विषमदिनेषु षट्सु विहितं नवश्राद्धं नवम् । षण्णवश्राद्धानामुपरिकर्तव्यं मासिकं नवमिश्रम् ।
तथाऽऽश्वलायनः—“नवमिश्रं षडुत्तरम्” इति । मासिकानामुपरि कर्तव्यं प्रत्याब्दिकादि पुराणम् ।
{{rule}} १ ग-द्धः । २ ग-प्रेतस्य ।
८४-१५<noinclude></noinclude> 1i30t2z5xy8fi504qb2gs133rd0h1wk पृष्ठम्:Smriti mukta phalam.pdf/७०२ 104 166705 419725 2026-11-10T14:05:53Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६६२|'''शस्त्रादिहतानामेकोद्दिष्टम् ।'''|}} {{rule}} अत एव हारीतेन प्रायश्चित्तकाण्डे नवश्राद्धं मासिकयोः प्रायश्चित्तमभिधाय उत्तरकालीनं श्राद्धं
पुराणशब्देन व... नवीन पृष्ठं निर्मीत अस्ती 419725 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६६२|'''शस्त्रादिहतानामेकोद्दिष्टम् ।'''|}} {{rule}} अत एव हारीतेन प्रायश्चित्तकाण्डे नवश्राद्धं मासिकयोः प्रायश्चित्तमभिधाय उत्तरकालीनं श्राद्धं
पुराणशब्देन व्यवहृत्य प्रायश्चित्तमभिहितम् ।
“ चांद्रायणं नवश्राद्धे प्राजापत्यं तुRowमासिके । एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयते ” ॥ इति ।
चंद्रिकायाम् “ एतेषु सर्वेषु एकोद्दिष्टेषु आद्यंते च दैवं नास्तीति शिष्टाचारादिह व्यवस्था ” ।
५ '''शस्त्रादिहतानां महालयचतुर्दश्यामेकोद्दिष्टम् ।'''
अत्र विशेषः स्मृत्यंतरे दर्शितः—
“ प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टविधानतः । दैवयुक्तं तु तच्छ्राद्धं पितॄणामक्षयं भवेत् ” ॥
प्रेतपक्षः भाद्रपदकृष्णपक्षः । तत्रैकोद्दिष्टविधानमाह '''सुमंतुः—'''
“ समत्वमागतस्यापि पितुः शस्त्रहतस्य तु । एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालये ” ॥ इति ।
१० समत्वमागतस्य सपिंडीकृतस्येत्यर्थः । शत्रेति विषाद्यपमृत्युपलक्षणम् । तदाह '''मरीचिः—'''
“विषशस्त्रश्वापदाग्नितिर्यग्ब्राह्मणघातिनाम् । चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता” ॥ इति ।
'''स्मृत्यंतरे—'''
“ प्रेतपक्षे चतुर्दश्यां एकोद्दिष्टविधानतः । दैवयुक्तं तु तच्छ्राद्धं पितॄणामक्षयं भवेत् ” ॥
'''प्रचेता अपि—'''
१५ “ वृक्षारोहणलोहाद्यैर्विषुद्देश्विविधादिभिः । नखिदंष्ट्रिविपन्नानामेषां शस्ता चतुर्दशी ॥
“ तच्छ्राद्धं दैवहीनं चेत्पुत्रदारधनक्षयः ” ॥ इति । यस्य पिता पितामहोऽपि शस्त्रादिना हतः तेन
द्वयोरपि चतुर्दश्यामेकोद्दिष्टश्राद्धं कार्यम् । तथा स्मृत्यंतरम्—“एकस्मिन्द्वयोर्वैकोद्दिष्टविधिः” इति ।
अयमर्थः । एकस्मिन्पितरि शस्त्रादिना हते द्वयोश्च हतयोः पुत्रेण तयोः प्रत्येकमेकोद्दिष्टश्राद्धं
कार्यम् । '''अन्यत्रापि—'''
२० “ मृते शस्त्रादिनै कस्मिन् द्वयोर्वापि महालये । एकोद्दिष्टं विधातव्यं चतुर्दश्यां सदैव तत् ” ॥ इति ।
यस्य पितृपितामहप्रपितामहास्त्रयोऽपि शस्त्रहतास्तेन चतुर्दश्यां पार्वणेनैव विधिना श्राद्धं कार्यम् ।
एकस्मिन् द्वयोर्वा एकोद्दिष्टविधिरिति विशेषोपादानादिति चंद्रिकाकारापरार्कयोर्मतम् । त्रिष्वपि
पित्रादिषु शस्त्रहतेषु त्रयाणामपि पृथगेकोद्दिष्टं कार्यमिति देवस्वामिमतम् । अत्र त्रयाणां
शस्त्रहतत्वे पार्वणश्राद्धस्य साक्षाद्विधायकवचनाभावादेकस्मिन् द्वयोर्वेत्यस्योपलक्षणार्थत्वेनाप्युप-
२५ पत्तेरेकोद्दिष्टत्रयमेव कार्यमिति देवस्वामिमतं युक्तमिति माधवीये व्यवस्थापितम् । “शस्त्रहतस्य
पितुर्महालये चतुर्दश्यामेकोद्दिष्टश्राद्धे कृतेऽपि दिनादनंतरं पितामहादितृप्त्यर्थं पार्वणविधिना महा-
लयश्राद्धं कर्तव्यम् । एकोद्दिष्टश्राद्धे पितामहादितृप्तेरभावात् ‘तस्मिंस्तांस्तत्र विधिना तर्पयेत्पायसेन तु’
इति पितामहादेरपि तर्पणीयत्वस्मरणात्तत्तृप्तये दिनांतरे पार्वणश्राद्धं कार्यमेवेति चंद्रिका-
माधवीयादौ निर्णीतम् । शस्त्रादिहतानामपि मृताहादौ यच्छ्राद्धं तत्पार्वणविधानेनैव कर्तव्यम् ।
३० तथा च '''गर्गः—'''
“ चतुर्दश्यां तु यच्छ्राद्धं सपिंडीकरणात्परम् । एकोद्दिष्टविधानेन कुर्याच्छ्राद्धं तदौरसः ” ॥
'''कालादर्शे—'''“ न तत्संन्यासिनां कुर्यात् पार्वणं द्वादशेऽहनि ” इति । तत्सपिंडीकरणं न ।
किंतु पार्वणमित्यर्थः । '''शातातपः—'''
“ एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसंस्क्रियाम् । न कुर्यात्पार्वणादन्यत् तत्कार्यं शस्त्रघातिनः ॥
३५ शस्त्रघातिनो यदाऽपरपक्षिकश्राद्धं चतुर्दश्यां क्रियते तत्रैवैकोद्दिष्टविधानं नान्यदेत्यर्थः ।
{{rule}} १ खग-जल ।<noinclude></noinclude> 8ha0gxzir05durydhow5ahbb1f7jkdk पृष्ठम्:Smriti mukta phalam.pdf/७०३ 104 166706 419726 2026-11-10T14:07:08Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''संन्यासिविषये पार्वणव्यवस्था ।'''|६६३}} {{rule}} '''संन्यासिविषये पार्वणव्यवस्था—'''
संन्यासिनां नवश्राद्धानि एकोद्दिष्टं सपिंडीकरणं च नास्ति । एकादशेऽन्हि द्व... नवीन पृष्ठं निर्मीत अस्ती 419726 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''संन्यासिविषये पार्वणव्यवस्था ।'''|६६३}} {{rule}} '''संन्यासिविषये पार्वणव्यवस्था—'''
संन्यासिनां नवश्राद्धानि एकोद्दिष्टं सपिंडीकरणं च नास्ति । एकादशेऽन्हि द्वादशेऽन्हि
वा पार्वणमेव सुतेन कर्तव्यं क्षयाहे दर्शमहालयादावपि पार्वणं कर्तव्यम् । तथा '''प्रचेताः—'''
“ एकोद्दिष्टं यतेर्नास्ति त्रिदंडग्रहणादिह । सपिंडीकरणाभावात्पार्वणं तस्य सर्वदा ” ॥ इति ।
'''सुमंतुरपि—''' ५
“ दंडग्रहणमात्रेण नैव प्रेतो भवेद्यतिः । अतः सुतेन कर्तव्यं पार्वणं तस्य सर्वदा ” ॥ इति ।
'''वृद्धवसिष्ठः—'''
“ यतीनां तु न संसर्गः कर्तव्योऽत्र सुतैः सदा । त्रिदंडग्रहणादेव प्रेतत्वं नोपपद्यते ” ॥ इति ।
संसर्गः पिंडसंसर्गः । सपिंडीकरणमिति यावत् । '''प्रजापतिरपि—'''
“ सपिंडीकरणं न स्याद्यतीनां चैव सर्वदा । अह्न्येकादशे प्राप्ते कुर्यात्तेषां तु पार्वणम् ” ॥ इति । १०
'''उशना अपि—'''
“ एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा । अह्न्येकादशे प्राप्ते पार्वणश्राद्धमाचरेत् ” ॥ इति ।
'''यमः—'''“ सपिण्डीकरणं नैव कुर्याद्वैरसः सुतः ।
“ एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा । अह्न्येकादशे प्राप्ते पार्वणश्राद्धमचरेत् ” ॥ इति ।
'''वसिष्ठः—''' १५
“चतुर्विधानां भिक्षूणां ज्ञातिबंधुसुतादिभिः । द्वादशेऽहनि कर्तव्यं तेषां श्राद्धं तु पार्वणम्”॥ इति ।
'''पुलस्त्यः—'''
“ कुटीचको बहूदकश्च हंसः परमहंसकः । चतुर्विधानां भिक्षूणां एकदंडित्रिदंडिनाम् ॥
“ षोडशानि नवश्राद्धं सपिंडीकरणं न च । एकादशेऽहनि प्राप्ते यदि वा द्वादशेऽहनि ॥
“पार्वणेन विधानेन श्राद्धं कुर्यात्सौरसः” ॥ इति । '''कालादर्शे—'''“ न तत्संन्यासिनां कुर्यात्पार्वणं २०
द्वादशेऽहनि ” इति । तत् सपिण्डीकरणं न । किंतु पार्वणमित्यर्थः ।
'''शातातपः—'''
“एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसंस्क्रियाम् । न कुर्यात् पार्वणादन्यद्ब्रह्मभूताय भिक्षवे” ॥ इति ।
प्रेतसंस्क्रिया दहनम् । '''ब्रह्मांडपुराणे—'''
“त्रयाणामाश्रमाणां च कुर्याद्दाहादिकाः क्रियाः । यतेः किंचिन्न कर्तव्यं यच्चान्येषां करोति तत् ॥ २५
“ एकादशे द्वादशे वा पार्वणश्राद्धमाचरेत् । प्रत्यब्दे दार्शिकश्राद्धे तीर्थे चैव महालये ” ॥ इति ।
वसुरुद्रादित्यस्वरूपाः पित्रादयः “ वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ” इति
'''याज्ञवल्क्यस्मरणात् । आश्वलायनश्च—'''
“ देवपूर्वं तु यच्छ्राद्धमक्षय्यं तत्फलं भवेत् । देवपूर्वास्तु पितरो वसुरुद्रादयः स्मृताः ” ॥ इति ।
हरिब्रह्मामहेश्वरात्मकाः पित्रादयो दर्शिताः '''नंदिपुराणे महेश्वरेण—''' ३०
“ विष्णुः पिताऽस्य जगतो दिव्यो यज्ञः सदैव च । ब्रह्मा पितामहो ज्ञेयो ह्यहं च प्रपितामहः ॥
“ उद्दिश्य विष्णुपर्यैरिष्टः पितरस्तैस्तु तर्पिताः । ब्रह्मासमिष्टः प्रीणाति पुंसः सर्वान्पिता महान् ॥
“प्रपितामहान्समुद्दिश्य त्विष्टोऽहं यैर्महामुने । न यांति नरके घोरे तेषां वै प्रपितामहाः”॥ इति ।
'''वराहपुराणे पितॄन्प्रति यमः—'''
“ ब्रह्मा विष्णुश्च रुद्रश्च भवतामादिपूरुषाः । आदित्या वसवो रुद्राः भवतां मूर्त्तयस्त्विमे” ॥ इति । ३५
{{rule}}<noinclude></noinclude> j7m1t2pj9utdwgd7htl5p3s6tvfr7di पृष्ठम्:Smriti mukta phalam.pdf/७०४ 104 166707 419727 2026-11-10T14:08:02Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६६४|'''सपिण्डीकरणविधिः ।'''|}} {{rule}} अत्र ब्रह्माविष्णुमहेश्वरस्थाने केचिदात्मांतरात्मपरमात्मेति त्रिपुरुषोद्देशं कुर्वन्ति । तथा च '''पाद्मे—'''
“ अंतरात्मा भव... नवीन पृष्ठं निर्मीत अस्ती 419727 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६६४|'''सपिण्डीकरणविधिः ।'''|}} {{rule}} अत्र ब्रह्माविष्णुमहेश्वरस्थाने केचिदात्मांतरात्मपरमात्मेति त्रिपुरुषोद्देशं कुर्वन्ति । तथा च '''पाद्मे—'''
“ अंतरात्मा भवेद्विष्णुः परमात्मा महेश्वरः । सर्वेषामपि भूतानामात्मा ब्रह्मा चतुर्मुखः ” ॥ इति ।
विश्वदेवविषये '''शंखः—'''
“ पुरूरवार्द्रवौ चैव पार्वणे सुरसत्तमौ । नैमित्तिके कालकामावेवं सर्वत्र कीर्तयेत् ” ॥ इति ।
५ नैमित्तिकं सपिंडीकरणादिसंस्कारं गृह्योक्तप्रकारेण प्राचीनावीती पार्वणं कुर्यात् । यत्तु वचनं—
“ एकादशे द्वादशेऽन्हि नारायणबलिक्रिया । प्रतिसंवत्सरं चैव मृततिथ्यादिकं भवेत् ” ॥ इति
तच्छिष्यकर्तृकविषयम् । पुत्रकर्तृकत्वेऽपि विकल्प इत्यन्ये । ‘मृततिथ्यादिदं भवेत्’ इति विशेष-
स्मरणात् । अन्यत्रामावास्यादौ पार्वणमेव । '''सुमंतुस्तु—'''
“ कुटीचके तु दर्शादौ पार्वणश्राद्धमाचरेत् । नारायणबलिं चैव पार्वणं तु बहूदके ॥
१० “ हंसे मृते सुतः कुर्यात् पार्वणं पितृयज्ञवत् । नारायणबलिं चैव तथा परमहंसके ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ वृत्ते पितरि संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः”॥ इति ।
संन्यासात्पूर्वं स येभ्य एव पित्रादिभ्यः करोति तस्मिन्मृते तत्पुत्रोऽपि तेभ्य एव दद्यादित्यर्थः ।
तथा '''पारिजाते—'''
१५ “ चंडालादिहते ताते पतिते संगवर्जिते । व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ ” ॥ इति ।
संगवर्जितः संन्यासी अस्य च प्रेतत्वाभावात्केशधारणब्रह्मचर्यादिनियमो नास्ति । वत्सरांते पार्वण-
मेवेति निर्णयः ।
'''सपिंडीकरणविधिः । अथ सपिंडीकरणम् ।''' तस्य कालमाहा'''श्वलायनः'''
“अथ सपिंडीकरणं संवत्सरे पूर्णे द्वादशाहे वा” इति । '''कात्यायनः—'''“अथ सपिंडीकरणं संवत्सरे
२० पूर्णे त्रिपक्षे वा यदहर्वृद्धिरापद्यते ” इति । '''बोधायनश्च—''' “ संवत्सरे सपिंडीकरणं एकादशे
मासि षष्ठे चतुर्थे द्वादशेऽन्हि वा ” इति । खण्डान्तरेऽपि '''स एव'''
“ अथ संवत्सरे पूर्णे सपिंडीकरणं त्रिपक्षके तृतीये मासि षष्ठे वैकादशे वा मासि द्वादशाहे”॥ इति ।
'''गृह्यपरिशिष्टेऽपि—'''“ अथ संवत्सरे सपिंडीकरणम् ” इति । '''कात्यायनस्मृतौ च—'''
“ ततः संवत्सरे पूर्णे सपिंडीकरणं भवेत् । द्वादशाहे त्रिपक्षे वा यदा वा वृद्धिरापतेत् ” ॥ इति ।
२५ यदा वत्सराते तु सपिंडीकरणं तदा
“प्रेतसंस्कारकार्याणि यानि श्राद्धानि षोडश । यथाकाले तु कार्याणि नान्यथा मुच्यते ततः ” ॥ इति
हारीतस्मरणात् तत्तत्काले एकोद्दिष्टविधानेन मासिकानि कृत्वा सोदकुंभश्राद्धान्यनुष्ठाय
ऊनाब्दिकात्परमाब्दिकात्पूर्वदिने तत्कुर्यात् । संवत्सरान्ते सपिंडीकरणमनाहिताग्नेर्मुख्यम्
“सपिंडीकरणं कुर्याद्यजमानस्त्वनग्निमान् । अनाहिताग्नेः प्रेतस्य पूर्णेऽब्दे भरतर्षभ”॥ इति भविष्य-
३० पुराणवचनात् । “वत्सरांते ततः प्रेतः पितृत्वमुपपद्यते” इति बोधायनस्मरणाच्च संवत्सरे पूर्ण
इत्यभिधानात् । द्वित्रिदिनैरूनेन कर्तव्यं संवत्सरस्य तदा अपूर्णत्वात् । न चात्र वारादिदोषः
“ सपिंडीकरणं कुर्याद्वत्सराते यदा पुनः । ऊनाब्दिकात्परं कुर्यादाब्दिकात्पूर्ववासरे ॥
“ वत्सरांते यदा कुर्यात्सपिंडीकरणं सुतः । तदा तु तिथिवारादीन्कुर्यादेवाविचारयन् ” ॥ इति
स्मरणात् ।
{{rule}} १ क्ष-ध्रुवश्चैव । २ क्ष-काम्य (म) काम्यौ ।<noinclude></noinclude> 5wyhi2s8tkem2f2g9u5ncjgsnx4r4lb पृष्ठम्:Smriti mukta phalam.pdf/७०५ 104 166708 419728 2026-11-10T14:08:53Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''न तत्र वारादिदोषः ।'''|६६५}} {{rule}} आब्दिकात्पूर्ववासरे सपिंडीकरणासंभवे आब्दिकदिनेऽपि कुर्यात् । तदा न पृथगाब्दिकं कुर्यात्
“ सापिंड्यं यदि वर्धेत मृतमासे म... नवीन पृष्ठं निर्मीत अस्ती 419728 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''न तत्र वारादिदोषः ।'''|६६५}} {{rule}} आब्दिकात्पूर्ववासरे सपिंडीकरणासंभवे आब्दिकदिनेऽपि कुर्यात् । तदा न पृथगाब्दिकं कुर्यात्
“ सापिंड्यं यदि वर्धेत मृतमासे मृतेऽहनि । कुर्वीत विधिवत्पुत्रः तदेव प्रथमाब्दिकम् ” ॥ इति
स्मरणात् । द्वादशाहे सपिंडीकरणं षोडशश्राद्धपूर्वकं कर्तव्यम् । तदेव प्रशस्तम् । ‘संवत्सरप्रतिमा
वै द्वादशरात्रयः ’ इति श्रुतेः —
“ आनंत्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् । अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते” ॥ इति ५
स्मरणात् । एकपुत्रस्य द्वादशाह एव मुख्यः । ‘कः संवत्सरं जीविष्यति’ इति
श्रुतेः ।
“ एकपुत्रोऽग्निमांश्चैव कुर्वीत द्वादशेऽहनि । सपिंडीकरणश्राद्धं तयोरेक इति स्थितिः ॥
“ सपिंडीकरणं पित्रोः कुर्यादेको हि यः सुतः । अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते ” ॥
इत्यादि स्मरणाच्च । न चात्र वारादिदोषः । तथा च सायणीये— १०
“ श्राद्धं सपिंडनं कुर्यात्तिथिवारं न चिंतयेत् । वर्षांते द्वादशाहे वा सपिंडीकरणं यदि ” ॥ इति ।
मातापितृव्यतिरिक्तविषये स्मृत्यंतरम्—
“ द्वादशेऽहनि संप्राप्ते यदि शुक्रदिनं भवेत् । मातापितृभ्यामन्यस्य नैव कुर्यात्सपिंडनम् ” ॥
अन्यत्रापि—
“ नांगारे च चतुर्दश्यां भृगुवारे गुरोर्दिने । सपिंडीकरणं कुर्यात्कुलक्षयकरं भवेत् ॥ १५
“ श्वोभूते तन्तु कुर्वीत सापिंड्यं षोडशेऽथ वा । त्रयोविंशदिने वाऽपि त्रिपक्षादावनंतरे ” ॥ इति ।
द्वादशाहे सपिंडीकरणासंभवे त्रिपक्षादिषु वारादिकं परीक्ष्य कुर्यात् । तदुक्तं स्मृतिरत्ने—
“ एकादशातीतेदिने वर्षति वापि यश्चरेत् । संलग्नग्रहताborder-रादि बलं न प्रतिशोधयेत् ॥
“ त्रिपक्षादिषु कालेषु सपिंडीकरणं यदि । तत्र प्रशस्तं नक्षत्रं प्रविशोध्य समाचरेत् ” ॥
हारीतः— २०
“ एकादशे द्वादशे वा यदि न स्यात्सपिंडनम् । उत्तरोत्तरकालेषु यथासंभवमाचरेत् ” ॥ इति ।
ते चांगिरसा दर्शिताः—
“द्वादशाहे त्रिपक्षे च तृतीये मासि षष्ठके । एकादशे वा मास्यूब्दे वृद्धौ कुर्यात्सपिण्डताम्”॥ इति ।
पद्धतौ च—“ अथ द्वादशाहे तृतीये चतुर्थे षष्ठे वा एकादशे मासि सपिण्डीकरणम् ” ॥ इति ।
कालादर्शेऽपि—“ एकादशे द्वादशेऽब्दि त्रिपक्षे वा त्रिमासिके । २५
“ षष्ठे वैकादशे वाऽब्दे संपूर्णे वा शुभागमे । सपिंडीकरणस्येत्थमष्टौ कालाः प्रकीर्तिताः ”॥ इति ।
अष्टौ काला इत्युपलक्षणम् । तथा च स्मृतिरत्ने—
“ एकादशे द्वादशेऽन्हि त्रयोदशेदिनेऽथ वा । त्रिपक्षे वा त्रिमासे वा षष्ठे वैकादशेऽपि वा ॥
“ संवत्सरांतेऽपि वा कुर्यात्त्रयोदशेदिनेऽपि वा । वृद्धिपूर्वदिने वेति दशकालाः सपिंडने”॥ इति ।
गर्गश्च— ३०
“ अथवा त्वकृतं यत्तु द्वादशाहे सपिंडनम् । त्रयोदशादिने कुर्यात्त्रयोविंशाद्दिनेऽथ वा”॥ इति ।
श्रीधरीये—
“ एकादशाहमारभ्य वा यद्वा षोडशात् दिनात् । सपिंडीकरणं कार्यं ततः सप्तदशेऽहनि”॥ इति ।
बृहस्पतिः—“द्वादशाहादिकालेषु सपिंडीकरणं न चेत् । तदा प्रशस्तनक्षत्रे त्रिपक्षादिषु कारयेत्”॥
{{rule}} १ ग-दित्व । २ ग-दा । ३ ग- विशाद्दिने ।<noinclude></noinclude> kgvv9iapemb43glgzd1md6g0wljq66g पृष्ठम्:Smriti mukta phalam.pdf/७०६ 104 166709 419729 2026-11-10T14:10:27Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६६६|'''प्रमादादकृते । वत्सरात्यये ।'''|}} {{rule}} '''व्यासः—'''“ प्रमादादकृते तस्मिन् द्वादशैकादशेऽहनि । त्रयोविंशदिने वापि त्रिपक्षाद्युत्तरेषु वा ॥
“ तत्र प्रशस्त... नवीन पृष्ठं निर्मीत अस्ती 419729 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६६६|'''प्रमादादकृते । वत्सरात्यये ।'''|}} {{rule}} '''व्यासः—'''“ प्रमादादकृते तस्मिन् द्वादशैकादशेऽहनि । त्रयोविंशदिने वापि त्रिपक्षाद्युत्तरेषु वा ॥
“ तत्र प्रशस्तनक्षत्रं परिशोध्य समाचरेत् ।
“ त्रिपदक्षं विना जन्म भानुभौमशनैश्चरात् । शुक्रवारं तदंशं च विनाऽन्यत्र समाचरेत् ” ॥ इति ।
'''शंखः—'''“चतुर्दश्यां तु यत्पूर्वं सपिंडीकरणं स्मृतम् । एकोद्दिष्टविधानेन तत्कार्यं शस्त्रघातिनः” ॥
५ यदेतत् सपिंडीकरणं तच्छस्त्रहतस्य एकोद्दिष्टं चतुर्दश्यां कार्यं न सपिंडीकरणमित्यर्थः ।
'''स्मृतिरत्ने—'''
“ सपिंडीकरणे त्रीणि ऋक्षाण्याहुर्मनीषिणः । प्राजापत्यं तथा रौद्रं नक्षत्रं त्विन्द्रदैवतम् ” ॥
'''ऋष्यशृंगः—'''
“सपिंडीकरणं येन प्रमादाद्वाकृतं तदा । अनुराधार्द्रहस्तेषु रोहिण्यां वा समाचरेत् ”॥ '''गालवश्च—'''
१० “ सपिंडीकरणश्राद्धमुक्तकाले न चेत्कृतम् । रौद्रे हस्ते च रोहिण्यां मैत्रभे वा समाचरेत् ”॥ इति ।
'''वत्सरातिक्रमे सपिण्डीकरणप्रकारः ।''' संवत्सरात्यये तु पुनः षोडशश्राद्धानुष्ठानपूर्वकं कर्तव्यम् ।
“ कृतेऽपि षोडशश्राद्धे सपिंडीकरणं विना । संवत्सरे व्यतीते तु पुनः षोडशमर्हति ” ॥ इति
स्मरणात् । अत्र कालमाह '''बृहस्पतिः—'''
“ अकृते प्राप्तकाले तु श्राद्धकालोऽत्र वक्ष्यते । कन्याकुंभगते भानौ कृष्णपक्षे विधीयते ” ॥ इति ।
१५ '''गर्गश्च—'''
“ कृष्णपक्षे तु पंचम्यामष्टम्यां दर्श एव च । एकादश्यां च कर्तव्यं स्वकालाकरणे सति”॥ इति ।
'''स्मृतिरत्ने—'''
“ अमायां च क्षयाहे च प्रेतपक्षे तथैव च । सपिंडीकरणं कुर्यात्तिथिवारान्न शोधयेत् ”॥ इति ।
'''श्रीधरीये—'''
२० “ कन्याकुंभगते सहस्रकिरणे तामिस्रपक्षे भृगोर्वारंक्षोद्यमंगनातनययोर्जन्मत्रयं चात्मनः ॥
“ हित्वानांदकरीं चतुर्दशीतिथिं श्राद्धं विदध्यात्सुतान्नाष्ट्र्काश्वेश्वरमीरमंत्रिमखमित्राख्येंदुविष्ण्वम्बुषु”॥
'''नृसिंहः—'''
“ कन्याकुंभगते सूर्ये कृष्णपक्षे विशेषतः । पंचम्याः परतः श्रेष्ठ आपंचम्याःसितेऽपि च ” ॥
'''बृहस्पतिः—'''
२५ “अंत्यत्रिभागः शस्तः स्यात्कृष्णपक्षे सपिंडने । आद्यभागे च कर्तव्यं सिते पक्षे च संकटे” ॥ इति ।
“प्रेतस्य वत्सरादर्वाग्यदा संस्कारमिच्छति । न कालनियमो ज्ञेयो न मौढ्यं गुरुशुक्रयोः”॥ इति
वत्सरादर्वागेव कालदोषाभावविधानादर्थाद्वत्सरात्परमधिमासमौढ्याद्यदोषाश्च परिहार्याः ।
'''वर्णभेदेन सापिण्ड्यकालनियमः । वर्णभेदेन कालव्यवस्थामाह वृद्धमनुः—'''
“ द्वादशेऽह्नि विप्राणामाशौचांते तु भूभृताम् । वैश्यानां च त्रिपक्षाद्वाप्यथवा स्यात्सपिंडनम् ॥
३० “ शूद्राणां द्वादशाहे तु कर्ता तत्कालतः शुचिः ” ॥ इति । अथवा स्यादिति विप्रक्षत्रियविशां
त्रिपक्षादिषु कालेषु वा सपिंडनमित्यर्थः । '''विष्णुश्च—'''“ मंत्रवर्जं हि शूद्राणां
द्वादशाहे सपिंडनम् ” इति । एतत् सच्छूद्रविषयम् । अत एव '''प्रजापतिः—'''
“शूद्राणां द्वादशाहे वा आशौचांतेऽथ वा भवेत् । कुर्यादाशौचमध्येऽपि सच्छूद्राणां सपिंडनम्”॥ इति ।
{{rule}} १ ख-नि; ग-श । २ ग-पावधि ।<noinclude></noinclude> iy9gl7blw6nqfdzu0plxc2uqrlx8yv6 पृष्ठम्:Smriti mukta phalam.pdf/७०७ 104 166710 419730 2026-11-10T14:11:37Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''वर्णभेदेन सापिण्ड्यकालः ।'''|६६७}} {{rule}} सच्छूद्रलक्षणमाह '''व्याघ्रपाद्—'''
“ संस्कृतायां तु शूद्रायां ब्रह्मबीजसमुद्भवः । स्वकर्मनिरतश्चैव सच्छूद्रः स प्रक... नवीन पृष्ठं निर्मीत अस्ती 419730 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''वर्णभेदेन सापिण्ड्यकालः ।'''|६६७}} {{rule}} सच्छूद्रलक्षणमाह '''व्याघ्रपाद्—'''
“ संस्कृतायां तु शूद्रायां ब्रह्मबीजसमुद्भवः । स्वकर्मनिरतश्चैव सच्छूद्रः स प्रकीर्तितः ” ॥ इति ।
संस्कृतायां ब्राह्मणेन विधिवद्वूढायामित्यर्थः । असवर्णविवाहस्य कलौ निषेधाद्युगांतरविषयम् ।
शूद्राणां द्वादशाहे सपिंडनम् । '''आपस्तंबश्च—'''
“ शूद्राणां हीनजातीनामा शौचांते सपिंडनम् । पक्वान्नेन न कर्तव्यमामेन श्राद्धमाचरेत् ” ॥ ५
'''कात्यायनः—'''
“ सर्वेषामेव वर्णानामा शौचांते सपिंडनम् । न पक्वं भोजयेद्विप्रान् सच्छूद्रोऽपि कदाचन ।
“ भोजने त्वक्षतां पापं तस्यापि प्रभवेत्सतताम् ” ॥ इति । सतां शूद्रान्नभोक्तॄणां शूद्रस्य चेत्यर्थः ।
एवं च ब्राह्मणानां महागुरुपितृविषये त्रयोदशदिने सापिंड्यम्
“ उत्पाद्य पुत्रं संborder-स्कृत्य वेदमध्याप्य यः पिता । कुर्याद्वृत्तिं मृते तस्मिन् द्वादशाहं महागुरौ”॥ इत्यादि- १०
द्वादशाहाशौचविधानात् ।
'''दर्शापाते एकादशाहे आहिताग्निकर्तृकसापिण्ड्यम् ।''' “ यत्तु द्वादशाहे वैकादशाहे
वा ” इति बोधायनादिभिरेकादशाहे सपिंडीकरणमुक्तं तदेकादशाहे दर्शापाते सत्याहिताग्नि-
कर्तृकविषयम् । तथा च '''हारीतः—'''
“या तु पूर्वममावास्या मृताहाद्दशमी भवेत् । सपिंडीकरणं तस्यां कुर्यादेव सुतोऽग्निमान्”॥ इति । १५
'''वृद्धवसिष्ठोऽपि—'''
“ प्रथमा स्यादमावास्या मृताहात् दशमेऽहनि । सपिंडीकरणं तत्र कुर्यादेव सुतोऽग्निमान्”॥ इति ।
मृताहादिति मर्यादायां पंचमी मृताहादूर्ध्वदिनमारभ्येत्यर्थः । ‘या तु पूर्वममावास्या’ इति विशेषण-
सामर्थ्यादेकादशदिने प्राथमिकदर्शापाते सपिंडनं न द्वितीयादाविति कैश्चिद्व्याख्यातम् ।
माधवीयादौ विशेषणानभिधानाद्विवाक्ये लाघवानादरात् तदपेक्ष्यम् । अत एव '''कार्ष्णाजिनिः—''' २०
“ सपिंडीकरणं कुर्यात्पूर्वच्चाग्निमान्सुतः । परतो दशरात्राच्चेत्कुहूरब्दोपरीतरः” ॥ इति ।
दशरात्रात्परतः कुहूर्चेत् एकादशेऽन्हि अमावास्या चेदित्यर्थः । इतरः अनग्निः । एवं च एकादशा-
न्ह्याममावास्यागमे मध्यान्हे आद्यमासिकादि अपराण्हे सपिंडीकरणमपराण्हे सायान्हे वा पिंड-
पितृयज्ञ इति विवेकः । सपिंडीकरणं विना पिंडपितृयज्ञासिद्धेरेकादशदिन एव सपिंडनं कुर्यात् ।
तथा '''स्मृत्यंतरे—''' २५
“ सपिंडनं विना पुत्रः पितृयज्ञं न चाश्रयेत् । न पार्वणं नाभ्युदयं कुर्वन्न लभते फलम्”॥ इति ।
'''गालवः—'''
“ सपिंडीकरणात्प्रेते पैतृकं पदमास्थिते । आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्तते ” ॥
'''जाबालिः—'''
“सपिंडीकरणं कुर्यात्पूर्वदर्शेऽग्निमान्सुतः । परतो दशरात्रस्य पूर्णेऽब्दे तु तथापरः ॥ ३०
“ नासपिंड्याम्रिमान्विप्रः पितृयज्ञं समाचरेत् । पापी स्यादसपिंडी तु पितृहा चोपजायते”॥ इति ।
'''व्यासोऽपि—'''
“ अतीते दशरात्रे तु पूर्वामासाग्मिकस्य तु । तत्रैव च सपिंडत्वं कृत्वा पार्वणमाचरेत् ” ॥
पार्वणं पिंडपितृयज्ञः । एकादशदिने एकाग्निना सपिंडीकरणं न कर्तव्यम् ।
{{rule}} १ क्ष-विप्राता ।<noinclude></noinclude> gmglw8ndh17vklmq2xkboue3z0tax83 पृष्ठम्:Smriti mukta phalam.pdf/७०८ 104 166711 419731 2026-11-10T14:12:28Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६६८|'''साग्निमत्त्वानग्निमत्त्वभेदात् ।'''|}} {{rule}} “ क्वचिद्दिपक्षत्रितयेनैकोद्दिष्टस्य वासरे । सपिंडीकरणं कुर्यादन्येषामिति रोमशः” इति स्मरणात् ।
क्वचित्... नवीन पृष्ठं निर्मीत अस्ती 419731 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६६८|'''साग्निमत्त्वानग्निमत्त्वभेदात् ।'''|}} {{rule}} “ क्वचिद्दिपक्षत्रितयेनैकोद्दिष्टस्य वासरे । सपिंडीकरणं कुर्यादन्येषामिति रोमशः” इति स्मरणात् ।
क्वचित्क्वचिदपि अन्येषामनाहिताग्नीनामित्यर्थः । आपदि तु न दोषः
“ एकादशदिनेऽप्येतान्येकोद्दिष्टानि षोडश । सपिंडीकरणं चापि कुर्याद्यापदि नान्यथा ” ॥ इति
स्मरणात् ।
५ एवं चानापदि एकाग्निना द्वादशाहादिष्वेव सपिंडीकरणं कार्यम् । आहिताग्निना एकादशदिने दर्शा-
गमे सति तत्रैव सपिंडीकरणं कर्तव्यम् । आपदि तु तत्रासंभवे द्वादशाहादौ सपिंडीकरणं कार्यम् ।
तथा च '''कर्मप्रदीपिकायाम्—'''
“ अनंतरममावास्या दशरात्रस्य या भवेत् । सपिंडीकरणं तस्यां कुर्याद्दिवाग्निमान्सुतः ॥
“ अभावे द्वादशाहादौ सपिण्डीकरणं स्मृतम् ” ।
१० दर्शनागमे तु साग्निborder-र्द्वादशाहे सपिंडनं कुर्यात् । तदुक्तं '''भविष्यत्पुराणे—'''
“ यजमानोऽग्निमान् राजन् प्रेतश्चानग्निमान् भवेत् । द्वादशाहे भवेत् कार्यं सपिंडीकरणं सुतैः”॥ इति ।
'''गोभिलः—'''
“ साग्निकस्तु यदा कर्ता प्रेतश्चानग्निमान्भवेत् । द्वादशाहे तदा कार्यं सपिंडीकरणं सुतैः” ॥ इति ।
पितुरग्निमत्त्वेऽपि पुत्रस्याग्निमत्त्वं पितुर्विधुर्यादिना अग्न्याधानासंभवे वेदितव्यम् । तच्च यजमान-
१५ प्रकरणे निरूपितम् । प्रेतश्चाग्निमान्भवेदिति कैश्चित्पठितं तन्माधवीयादिविरोधादुपेक्ष्यम् । तथाहि
तत्र कर्तुः साग्नित्वे वचनद्वयमिदमुदाहृत्य उभयोः साग्नित्वे वचनान्तरमुदाहृतं तच्च वक्ष्यते ।
'''कात्यायनः—'''
“ एकादशाहं निर्वर्त्य पूर्वं दर्शाद्यथाविधि । प्रकुर्वीताग्निमान्विप्रो मातापित्रोः सपिंडनम् ” ॥ इति ।
'''पैठीनसिः—'''
२० “ सपिंडीकरणं पुत्रः पितुः कुर्यात्त योऽग्निमान् । अनग्नेस्तु विजानीयादेकोद्दिष्टात्परेऽहनि ”॥ इति
प्रेतस्य साग्निकत्वे कर्तुरनग्निकत्वे तृतीये पक्षे सपिंडीकरणं कार्यम् । तदाह '''सुमंतुः—'''
“ प्रेतश्चेदाहिताग्निः स्यात्कर्ताऽनग्निर्यदा भवेत् । सपिंडीकरणं तस्य कुर्यात्पक्षे तृतीयके”॥ इति ।
अत्र विशेषः । द्वादशाहेऽपि विहितम् । '''भविष्यत्पुराणे—'''
“ अनग्निस्तु यदा वीर भवेत्कुर्यात्तदा गृही । प्रेतश्चेदग्निमांस्तत्र द्वादशाहे सपिंडनम् ” ॥ इति ।
२५ उभयोः साग्निकत्वे द्वादशाहे सपिंडी कार्या । तदुक्तं '''विज्ञानेश्वरीये—'''
“साग्निकस्तु यदा कर्ता प्रेतश्चाप्यग्निमान्भवेत् । द्वादशाहे तदा कार्यं सपिंडीकरणं पितुः”॥ इति ।
उभयोरग्नित्वे द्वादशाहादयः काला विकल्प्यंते । तदुक्तं '''भविष्यत्पुराणे—'''
“ सपिंडीकरणं कुर्याद्यजमानस्त्वनग्निमान् । अनाहिताग्नेः प्रेतस्य पूर्णेऽब्दे भरतर्षभ ॥
“ द्वादशेऽहनि षष्ठे वा त्रिपक्षे वा त्रिमासि वा । एकादशेऽपि वा मासि मंगळं स्यादुपस्थितम् ”॥ इति
३० '''कालादर्शे—'''
“ साग्नौ कर्तुर्युभावादौ प्रेते सान्नावनांतरः । अनग्नेस्तु द्वितीयायाः सप्त काळा उदीरिताः”॥ इति ।
कर्तरि पुत्रे साग्नौ आहिताग्नौ सति
“एकादशे द्वादशे च त्रिपक्षे वा त्रिमासिके । षष्ठे वैकादशे वाऽब्दे संपूर्णे वा शुभागमे ”॥ इति उक्तेष्वष्टसु
कालेषु मध्ये आद्यौ एकादशाहो द्वादशाहश्चेति द्वौ कालौ स्याताम् । एकादशाहे दर्शागमे सत्येकादशाह
३५ अन्यथा द्वादशाहः । अनग्नौ कर्तरि आहिताग्नौ प्रेते सत्यनंतरः कालः त्रिपक्षः । अनाहिताग्नेस्तु
द्वितीयांद्वादशाहायाः सप्त काला इत्यर्थः । सप्तकाला इति पूर्वोक्तत्रयोदशाहादिकालानामपुलक्षणम् ।
{{rule}} १ ख-साग्नित्वे । २ ग- + या<noinclude></noinclude> obo0zu4hshhlpq278dxjiixd08veo7d पृष्ठम्:Smriti mukta phalam.pdf/७०९ 104 166712 419732 2026-11-10T14:13:21Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सापिण्ड्यकरणे शुभानधिकारः ।'''|६६९}} {{rule}} साग्निः कर्ता चेत् द्वादशाह एव सापिंड्यं कुर्यान्नान्यत्र । अनग्निः कर्ता चेत्साग्नौ प्रेते त्रिपक्ष-
द्वादशाहयो... नवीन पृष्ठं निर्मीत अस्ती 419732 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सापिण्ड्यकरणे शुभानधिकारः ।'''|६६९}} {{rule}} साग्निः कर्ता चेत् द्वादशाह एव सापिंड्यं कुर्यान्नान्यत्र । अनग्निः कर्ता चेत्साग्नौ प्रेते त्रिपक्ष-
द्वादशाहयोरेव नान्यत्र । अनग्नौ तु प्रेते अनग्निः कर्ता द्वादशादिषूक्तेषु कालेष्वेव नान्यत्रेति
कर्तृनियमोऽभिप्रेतः । द्वादशाहे यदि कुर्यात्साग्निरेवेत्येवंविधः कालनियमो नाभिप्रेतः ।
“ द्वादशाहादिकालेषु सपिंडीकरणेऽन्विते । साग्न्यनग्नित्वविधयः कर्तुरेव नियामकः” ॥ इति
स्मरणात् । एवं सत्यपि नियमे दैवात् द्वादशाहे त्रिपक्षे वा सापिंड्ये अकृते सति न तस्य लोपः । ५
किंतु तदुत्तरकाले कर्तव्यम् । तदुक्तं '''कालादर्शे—'''
“ प्रमादादकृते तस्मिन् त्रिपक्षे द्वादशेऽह्नि वा । उत्तरोत्तरकालेषु यथा संभवमाचरेत् ” ॥ इति ।
उत्तरोत्तरकालेषु यत्र संभवति तत्र कुर्यादित्यर्थः । '''प्रचेताः—'''
“एकादशेऽन्हि कुर्वीत साग्निकस्तु सपिंडनम् । द्वादशाहादिकालेषु साग्निकोऽनग्निकोऽपि वा”॥ इति ।
'''गोभिलः—''' १०
“ द्वादशाहादिकालेषु प्रमादादननुष्ठितम् । सपिंडीकरणं कुर्यात्कालेषूत्तरभाविषु ” ॥ इति ।
'''पितृमेधसारे—'''“ साग्निः कर्ता द्वादशाह एव सापिंड्यं कुर्यात् । तद्दिना पिंडपितृयज्ञासिद्धेः
पुत्रोऽग्निः पिता चेत्साग्निश्चेत्त्रिपक्ष एव सापिंड्यं कुर्यात् । तयोर्द्वादशाहादौ प्रमादादकृते कालेषू-
त्तरभाविषु सापिंड्यं कुर्यात् ” इति । तयोराहिताग्न्यनाहिग्न्योरित्यर्थः ।
'''सापिण्ड्याकरणे शुभानधिकारः—'''सपिंडीकरणकर्तुः शुभागमे सपिंडीकरणं कृत्वैव १५
शुभकर्म कर्तव्यम् । तदाह '''शाट्यायनिः—'''
“ प्रेतश्राद्धानि शिष्टानि सपिंडीकरणं तथा । अपकृष्यापि कुर्वीत कर्ता नांदीमुखे द्विजः ॥
“ सपिंडीकरणश्राद्धमकृत्वा शुभकर्मकृत् । ध्रुवमाप्नोति नरकं सपिंडानां मृतौ क्रमात् ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ सपिंडीकरणात्पूर्वं शोभनं न विधीयते । यदि चेत्तत्कृतं कर्म कर्तृनाशाय कल्पते ” ॥ २०
'''चतुर्विंशतिमते—'''
“भ्राता वा भ्रातृपुत्रो वा सपिंडः सोदकोऽपि वा । सपिंडीकरणं कृत्वा कुर्यादभ्युदयं ततः”॥ इति ।
'''गौतमः—'''
“ अग्रजो वाऽनुजो वाऽपि सपिंडः सोदकोऽपि वा । सपिंडीकरणं कुर्यात्पुत्रो वा वृद्ध्युपस्थितौ ॥
“ सपिंडीकरणं हित्वा वृद्धिश्राद्धमुपक्रमेत् । अयातयाममरणं भवेत्तस्य न संशयः ” ॥ इति । २५
मुख्यकर्तुरेवायं दोषः । नेतरेषाम् “ कुर्यादेव शुभं कर्म मुख्यकर्तृश्च संनिधौ ” इति स्मरणात् ।
'''सापिण्ड्याधिकारिनिरूपणम् ।'''
सपिंडीकरणे अधिकारी निरूपितः '''स्मृत्यन्तरे—'''
“ औरसो दत्तको वापि सपिंडीकरणं चरेत् । परित्यज्यैव जीवन्तं पुत्रं नान्यैस्तु कारयेत् ॥
“ अथ शिष्यब्रह्मचारिबंधुभृत्यपुरोहितैः । कारयीत दशाहांतं सपिंडीकरणं विना ॥ ३०
“ सपिंडीकरणं श्राद्धं पुत्रैः कार्यं प्रयत्नतः ” ॥ '''प्रजापतिः—'''
“ दाहाद्यैकादशाहान्तं गौणपुत्रः समाचरेत् । पित्रोः सपिंडीकरणं प्रकुर्यादौरसः सुतः ॥
“ भ्राता वा भ्रातृपुत्रो वा सपिंडः शिष्य एव वा । सपिंडीकरणं कुर्यात् पुत्रहीनस्य सर्वदा ॥
“ अथवा प्रेतभूतस्य पत्नी कुर्यादमंत्रकम् । ऋत्विजा कारयेत् यद्वा सपिंडीकरणं तथा ॥
{{rule}} १ क्ष-पि । २ क्ष-पि भवेदिति । ३ क-शिष्य एव वा । ४ क्ष-सीमन्त ।
८५-१६<noinclude></noinclude> jj5i5t1zfk6b1t4l09gt07yxzqscmi2 पृष्ठम्:Smriti mukta phalam.pdf/७१० 104 166713 419733 2026-11-10T14:14:26Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६७०|'''सापिंड्याधिकारिणः ।'''|}} {{rule}} “ऋत्विगादिर्यदा कुर्यात् होमं श्राद्धक्रियां क्वचित् । उपवीत्येव कुर्वीत कर्तुः स्यादपसव्यकम्”॥ इति ।
आदिशब्देन सगोत्र... नवीन पृष्ठं निर्मीत अस्ती 419733 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६७०|'''सापिंड्याधिकारिणः ।'''|}} {{rule}} “ऋत्विगादिर्यदा कुर्यात् होमं श्राद्धक्रियां क्वचित् । उपवीत्येव कुर्वीत कर्तुः स्यादपसव्यकम्”॥ इति ।
आदिशब्देन सगोत्रादि गृह्यते । '''विष्णुः—'''
“ ज्येष्ठो वाऽप्यनुजो वापि सपिंडः शिष्य एव वा । यत्तु संनिहितस्तस्य त्वधिकारः सपिंडने”॥इति ।
'''शंखश्च—'''
५ “ अपुत्रायाः पतिर्दद्यात्सपुत्राया न तु क्वचित् । पत्युः पिंडं तथा भार्या भर्तृभार्ये परस्परम् ” ॥ इति ।
'''लोकाक्षिः—'''
“ सर्वाभावे स्वयं पत्न्यः स्वभर्तॄणाममंत्रकम् । सपिंडीकरणं कुर्युस्ततः पार्वणमेव च ” ॥ इति ।
पार्वणं दर्शमहालयादि । सर्वाभावे स्वयं पत्न्यः इत्येतदासुरदिविवाहोढाविषयम् । ब्राह्मादि-
विवाहोढा तु पुत्रपौत्राभावे स्वयं कुर्यात् । तथा '''माधवीये—'''
“ पुत्रः कुर्यात्पितुः श्राद्धं पत्नी तु तदसंनिधौ । धनहार्यथ दौहित्रः ततो भ्राता च तत्सुतः ” ॥ इति ।
१० '''शंखोऽपि—'''
“ पितुः पुत्रेण कर्तव्यं पौत्रेणापि सपिंडनम् । तदभावे तु पत्नी स्यात्पत्न्याभावे तु सोदरः ” ॥ इति ।
पत्न्याभावे तु सोदर इत्ययं क्रमः पत्न्या दायहरत्वे द्रष्टव्यः
“ अपुत्रा शयनं भर्तुः पालयंती व्रते स्थिता । पत्न्येव दद्यात्तत्पिंडं कृत्स्नमंशं लभेत च ” ॥ इति
'''वृद्धमनुस्मरणात् ।''' अन्यथा यो दायहरः स तत्कुर्यात् । अत एवा'''पस्तंबः—'''“ यश्चार्थहरः स
१५ पिंडदायी ” इति । सर्वमेतदधस्तान्निरूपितम् ।
'''विवाहाद्यनंतरम् ।'''
“ विवाहोपनयादूर्ध्वं वर्षं वर्षार्धमेव वा । न कुर्यात्पिंडनिर्वार्पं न कुर्यात्करकाणि च ” ॥ इति
पिंडनिर्वापनिषेधः सपिंडिव्यतिरिक्तविषयः ।
“ मौंजीबंधाद्विवाहाच्च वर्षं वर्षार्धमेव वा । पिंडांस्तत्पिंडा नो दद्युः सपिंडीकरणादृते ” ॥ इति
२० '''कार्ष्णाजिनिस्मरणात् । कालादर्शे—'''
“ मौंजीबंधाद्वत्सरात् पूर्वं वत्सरं पाणिपीडनात् । पिंडनिर्वापकरणविहीनं श्राद्धमाचरेत् ॥
“ नैमित्तिकमहालप्रत्याब्दिकादृते ” इति । नैमित्तिकं सपिंडीकरणम् । '''स्मृत्यंतरेऽपि—'''
“ महालये गयाश्राद्धे मातापित्रोर्मृतेऽहनि । द्वादशाहेऽपि कुर्वीत पिंडनिर्वापणं सुतः ” ॥ इति ।
यत्तु '''स्मृत्यंतरे—'''
२५ “ अपुत्रस्य प्रेतस्य नैव कुर्यात्सपिंडनम् । आशौचमुदकं पिंडमेकोद्दिष्टं न पार्वणम् ” ॥ इति ।
यद्यपि वचनांतरम्—
“ अपुत्रा ये मृताः केचित्स्त्रियो वा पुरुषोऽपि वा । तेषां सपिंडनाभावादेकोद्दिष्टं न पार्वणम् ” ॥ इति
तत्पुत्रोत्पादनप्रशंसापरमिति कालादर्शमाधवीयादौ व्याख्यातम् । तथा च पूर्वोक्तशंखादि-
वचनान्युपपन्नानि भवंति । '''पैठीनसिरपि—'''“ अपुत्रायां मृतायां तु पतिः कुर्यात्सपिंडनम्” इति ।
३० '''सुमंतुरपि—'''
“अपुत्रे संस्थिते कर्ता न भवेच्छ्राद्धकर्मणि । तत्र पत्न्यपि कुर्वीत सापिंड्यं पार्वणं तथा”॥ इति ।
'''अपुत्रगृहस्थब्रह्मचारिणोः सापिण्ड्यम् ।'''
तथा चापुत्रस्य गृहस्थस्य ब्रह्मचारिणश्च सापिंड्यमाह '''यमः—'''
“ अष्टमात् द्वादशादूर्ध्वं गृहस्थब्रह्मचारिणोः । सपिंडीकरणं कुर्यान्न प्रागिति यमोदितम् ” ॥ इति ।
{{rule}} १ क-दुपवीतकम् । २ कग-गया :
<noinclude></noinclude> eiqtd2yk94szgyts25n5zfi4y16ikkx पृष्ठम्:Smriti mukta phalam.pdf/७११ 104 166714 419734 2026-11-10T14:15:16Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पतितादीनाम् ।'''|६७१}} {{rule}} अष्टमादिति ‘अष्टमे वर्षे ब्राह्मणमुपनयेत्’ इत्याश्वलायनोक्तत्वात्ततः पूर्वमुपनयनाभावेन
विवाहस्याभाव इत्यभिप्रायेण उक्तम् ।... नवीन पृष्ठं निर्मीत अस्ती 419734 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पतितादीनाम् ।'''|६७१}} {{rule}} अष्टमादिति ‘अष्टमे वर्षे ब्राह्मणमुपनयेत्’ इत्याश्वलायनोक्तत्वात्ततः पूर्वमुपनयनाभावेन
विवाहस्याभाव इत्यभिप्रायेण उक्तम् । ‘गर्भाष्टमेषु ब्राह्मणमुपनयीत’ इत्यापस्तंबादि वचनानुसारेण
गर्भाष्टमादौ कृतोपनयनस्य एकदेशाध्ययनानंतरं कृतविवाहस्याष्टमात्रादपि सापिंड्यं कार्यम् ।
तथा च '''स्मृत्यर्थसारे—'''“ वयोवस्थाविशेषमनादृत्य सर्वत्र पुरुषाणां स्त्रीणां च विवाहादूर्ध्वं
सपिंडीकरणं कार्यमेव ” इति । '''स्मृत्यंतरे—''' ५
“ ऊनद्विवत्सरादर्वाग्गूढायाः खननं ततः । उत्थाप्य संदहेत्तस्याः सापिंड्यांतं समाचरेत् ॥
“ द्वादशाब्दादधश्चोर्ध्वं कन्यकायाः सपिंडनम् । स्वाम्यभावाद्धि नास्त्येव नारायणबलिं चरेत् ” ॥
एवमंसंपूर्णाद्वादशवर्षाणां ब्रह्मचारिणो नारायणबलिरेव कार्यः । निषिद्धसपिंडानां तद्विधानात् ।
'''पतितादीनां सापिण्ड्यनिषेधः । तथा च वृद्धवसिष्ठः—'''
“ सपिंडीकरणं नैव मृतानां ब्रह्मचारिणाम् । क्लीबानां पतितानां च वृद्धस्त्रीणां तथैव च ॥ १०
“ नैष्ठिकानां यतीनां च श्राद्धं नारायणार्पणम् । उपकुर्वाणकस्यैव सपिंडीकरणं विदुः ” ॥ इति ।
नारायणार्पणं नारायणबलिः । '''स्मृत्यंतरे—'''
“ अपूर्णद्वादशाब्दानां मृतानां ब्रह्मचारिणाम् । दाहादिषोडशांतं तु निर्वर्त्यैव यथाविधि ॥
“ द्वादशेऽहनि संप्राप्ते नैव कुर्यात्सपिंडनम् । नारायणं समुद्दिश्य विप्रानष्टौ तु भोजयेत् ॥
“ एकोद्दिष्टविधानेन श्राद्धं वा कारयेत् द्विजः ”॥ इति । अस्य प्रत्याब्दिकादिश्राद्धमपि नास्ति । १५
“ नासपिंडीकृते प्रेते पितृकार्यं प्रवर्तते ” इति स्मरणात्—
'''व्युत्क्रममृतसापिण्ड्यविधिः ।''' अपुत्रायाः पत्न्याः पतिः सापिंड्यं कुर्यात् “ अपुत्राया
मृतायास्तु पतिः कुर्यात्सपिंडनम् ” इति स्मृतेः । ननु “ व्युत्क्रमेण प्रमीतानां नैव कार्या
सपिंडता ” इति निषेधात् पत्न्याः कथं भर्ता सपिंडीकरणं कुर्यादिति चेन्न तस्य मातापितृभर्तृ-
पत्नीव्यतिरिक्तविषयत्वात् । तथा च '''स्कांदे—''' २०
“अक्रमेण मृतानां नै सपिंडीकृतिरिष्यते । यदि माता यदि पिता भर्ता नैष विधिः स्मृतः ”॥ इति ।
यदि माता व्युत्क्रममृता यदि पिता व्युत्क्रममृतः यदि भर्त्ता वा व्युत्क्रममृतः तदा एष निषेधो
न किंतु विधिः स्मृतः । सपिंडीकरणविधिरैव मन्वादिभिः स्मृतः इत्यर्थः ।
तथा च '''मनुः—'''“ ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
“पिता यस्य तु वृत्त स्याज्जीवेच्चापि पितामहः । पितुः स्वनाम संकीर्त्य कीर्तयेत्प्रपितामहम् ”॥ २५
इति । जीवेच्चापि पितामह इत्यस्यापि पूर्वेषामेव निर्वपेदित्यन्वयः । कथं निर्वपेद इत्याह ‘ पितुः
स्वनाम संकीर्त्य ’ इति । एवं च ध्रियमाणे पितरि जीवत्पितृकर्तृकवृद्ध्यादिषु श्राद्धेषु पितुः
सापिंड्ये च पितुः पितृभ्यः पितुः पितामहेभ्यः पितुः प्रपितामहेभ्यः पितृभ्यः इति वा । पितामहे
ध्रियमाणे पितामहस्य पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः पितामहेभ्यः पितृपितामहप्रपितामहेभ्य
इति वा कीर्तयेदित्यर्थः । '''सुमंतुश्च—''' ३०
“ त्रयाणामपि पिंडानामेकेनापि सपिंडने । पितृत्वमश्नुते प्रेत इति धर्मव्यवस्थितिः ” ॥ इति ।
'''ब्राह्मेऽपि—'''
“ मृते पितरि यस्याथ विद्यते च पितामहः । तेन देयास्त्रयः पिंडाः प्रपितामहपूर्वकाः ॥
“ तेभ्यश्च पैतृकः पिंडो नियोक्तव्यश्च पूर्ववत् ” ॥
{{rule}} १ क्ष-एवं संपूर्ण । २ ग-तु ।<noinclude></noinclude> 8w3pq6515vf3gie6ro1hf5n6nn2ew19 पृष्ठम्:Smriti mukta phalam.pdf/७१२ 104 166715 419735 2026-11-10T14:16:08Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६७२|'''व्युत्क्रममृतानाम् ।'''|}} {{rule}} '''कात्यायनः—'''“व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ” इति । असौ व्युत्क्रममृतो जीवद्दशायां
येभ्यो ददाति तेभ्य एव तत्... नवीन पृष्ठं निर्मीत अस्ती 419735 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६७२|'''व्युत्क्रममृतानाम् ।'''|}} {{rule}} '''कात्यायनः—'''“व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ” इति । असौ व्युत्क्रममृतो जीवद्दशायां
येभ्यो ददाति तेभ्य एव तत्सपिंडीकरणे व्युत्क्रममृतपितृको ददातीत्यर्थः ।
यत्तु '''विष्णुवचनम्—'''“ यस्य पिता प्रेतः स्यात्स पितृपिंडं निधाय पितामहान्
द्वाभ्यां पराभ्यां दद्यात् ” इति । तस्यायमर्थः—पितामहे ध्रियमाणे प्रेते च पितरि पितुरे कं
५ पिंडमेकोद्दिष्टविधानेन विधाय पितुर्यः पितामहः ततः पराभ्यां द्वाभ्यां दद्यात् । पितुः पिता-
महस्त्वात्मनः प्रपितामहः संप्रदानभूत एवेति प्रपितामहाय ततः पराभ्यां द्वाभ्यां च दद्यादिति ।
तथा '''विज्ञानेश्वरे—'''
“ चतुर्णां निर्वपेत्पिंडान्पूर्वे तेषु समापयेत् । ततः प्रभृति वै प्रेतः पितृसामान्यमश्नुते ” ॥ इति ।
एवं च व्युत्क्रममृतस्य पितुः सपिंडीकरणं तत्पितृपितामहप्रपितामहेष्वन्यतमस्य जीवने द्वयोर्वा
१० जीवनेऽपि प्रेतोद्देशेन जीवव्यतिरिक्तत्रिपुरुषोद्देशेन पार्वणैकोद्दिष्टसमुच्चयात्मकं सपिण्डीकरणं
कर्तव्यम् । तथा च '''कालादर्शे—'''
“पितुर्मृतस्य सापिंड्यं मृतयोरूर्ध्वयोर्द्वयोः । एकस्मिन्वा द्वयोर्वाऽपि जीवतः सुत आचरेत्”॥ इति ।
एकस्मिन् द्वयोर्वेत्यभिधानात्पितामहादिषु त्रिषु जीवत्सु न सापिंड्यं ‘पिता यस्य तु वृत्त स्याज्जीवे-
च्चापि पितामहः’ इति ‘त्रयाणामपि पिंडानामेकेनापि सपिंडनम्’ इति पूर्वोक्तमन्वादिवचनैर्द्वयोरेकस्य
१५ वा जीवने सापिंड्यप्रतिपादनात् । वत्सरांते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय च
ब्राह्मणान्भोजयेत् ‘त्रिषु पिंडः प्रवर्तते’ इति पितुः पित्रादीनां त्रयाणां श्राद्धे पिंडदानस्मरणात् ।
तेषु त्रिषु जीवत्सु तद्योगाच्च । तथा च '''दक्षः—'''
“ पितामहं च जीवंतमतिक्रम्य तदा सुतः । अतिक्रम्य द्वयं वापि सपिंडीकरणं चरेत् ”॥ इति ।
तथा पिंडपितृयज्ञं प्रकृत्याह '''सुमंतुः—'''
२० “ येभ्य एव पिता दद्यात्तेभ्यः कुर्यात् साग्निकः । पितामहेऽप्येवमेव कुर्याज्जीवति साग्निकः”॥ इति ।
यत्तु—“ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । पूर्वेषु त्रिषु दातव्यं जीवेच्चेत्रितयं यदि” ॥ इति ।
तज्जीवत्पितृकश्राद्धविषयमिति व्याख्यातारः । यच्च—
“ जीवमानेऽपि पितरि पूर्वेषामेव निर्वपेत् । विप्रवद्वापितं श्राद्धे स्वकं पितरमाशयेत् ॥
“ उभौ यस्य व्यतीतौ तु जीवेच्च प्रपितामहः । द्वौ पिंडौ निर्वपेत्तत्र भोजयेत्प्रपितामहम् ” ॥ इति
२५ पिंडद्वयमुक्तं तज्जीवत्पित्रादिमरणविषयं ततश्च ‘पूर्वेषामेव निर्वपेत् ’ ‘ चतुरो निर्वपेत्पिंडान्
त्रिभिः पिंडैर्नियोजयेत् ’ इति मन्वादिवचनविरोधादुपेक्ष्यमित्याहुः । यच्च
“ सपितुः पितृकृत्येषु ह्यधिकारो न विद्यते । न जीवंतमतिक्रम्य किंचित् दद्यादिति श्रुतिः”॥ इति
तत् “पित्र्येष्ट्यां पितृयज्ञे च वृद्धौ मातृमृतेऽहनि । विप्रसंपादितांधेषु सोऽपि श्राद्धं समाचरेत् ॥
“ पितुर्या देवताः प्रोक्तास्ता एवात्रापि देवताः । षडन्ते जीवतः पितुः ” इति जीवत्पितृकस्य
३० श्राद्धविधानात् तद्व्यतिरिक्तदर्शादिश्राद्धविषयम् । तथा च '''लोकाक्षिः—'''
“ अमांश्राद्धं गयाश्राद्धं श्राद्धं चापरपाक्षिकम् । न जीवपितृकः कुर्यात्तिलैः कृष्णैश्च तर्पणम्”॥इति ।
ततः पितुः व्युत्क्रममरणे जीवव्यतिरिक्तानां त्रयाणां वरणं तेषां पिंडदानं तत्पिंडैः सह प्रेतपिंडसंसर्ग
इति निर्णयः ।
{{rule}} १ ग-परं ।<noinclude></noinclude> iswxcrgn50gqqfinjx7tqwn96xzwlzs पृष्ठम्:Smriti mukta phalam.pdf/७१३ 104 166716 419736 2026-11-10T14:16:54Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''क्रमसापिण्ड्यम् ।'''|६७३}} {{rule}} ननु—“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिंडभागिनः” इति स्मरणात् । प्रपितामहात्परेषां
पिंडभाक्त्वमनुपपन्नमिति चेन्मैवम्... नवीन पृष्ठं निर्मीत अस्ती 419736 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''क्रमसापिण्ड्यम् ।'''|६७३}} {{rule}} ननु—“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिंडभागिनः” इति स्मरणात् । प्रपितामहात्परेषां
पिंडभाक्त्वमनुपपन्नमिति चेन्मैवम् । पित्रादिजीवने तेषां पिंडभाक्तवात्पूर्वपूर्वाश्रये क्रमेणोत्तरोत्तरस्य
लेपभाक्त्वात् । अन्यथा व्युत्क्रममरणाभावे पितुः सपिंडीकरणे लेपभाजश्चतुर्थस्य पिंडभाक्त्वं न
स्यात्ततश्च ‘त्रिभिः पिंडैस्तु संसृजेत् ’ इत्यादिबहुस्मृतिव्याकोपप्रसंगः । एवं मातरि मृतायां
पितामह्यादिष्वन्यतमस्यये मातुः सापिंड्यं कर्तव्यम् । तथा च '''ब्रह्मा—''' ५
“मातर्यपि च वृत्तायां विद्यते च पितामही । प्रपितामहिपूर्वं तु कार्यस्तत्राप्ययं विधिः स्मृतः”॥ इति ।
भर्तुर्व्युत्क्रममरणेऽपि पत्नीसपिंडनं कुर्यात्
“ व्युत्क्रमेण मृतानां च सपिंडीकृतिरिष्यते । यदि माता यदि पिता भर्त्ता चैष विधिः ” ॥ इति
स्मरणाद्भार्यामरणेऽपि पतिः कुर्यात्
“अपुत्राया मृतायास्तु पतिः कुर्यात्सपिंडनम् । श्वश्रूवादिभिः सहैवास्याः सपिंडीकरणं भवेत् ” ॥ इति १०
स्मरणात् । अतः व्युत्क्रममरणे पुत्रः पत्नी पतिश्च अन्नेन सापिंड्यं कुर्यात् । तद्व्यतिरिक्तानां
व्युत्क्रममरणे सापिंड्यं न कुर्यात् । आमेन हेम्ना वा कुर्यात् । तदाह '''गोभिलः—'''
“अनुक्तकालेष्वपितुर्व्युत्क्रमेण मृतावपि । आमेन वाऽपि सापिंड्यं हेम्ना वाऽपि प्रकल्पयेत्” ॥ इति
सपिंडीकरणस्य द्वादशाहादयो वत्सरांराः काला उक्ताः । तेषु प्रमादादकृते सपिंडीकरणे व्युत्क्रम-
मृतावपि पुत्रव्यतिरिक्तः कर्त्ता आमेन हेम्ना वा कुर्यादित्यर्थः । '''स्मृत्यन्तरे—''' १५
“ व्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिंडता । अथवाऽऽमेन कर्तव्या हेम्ना वा तदसम्भवे ॥
“ गृहादाहृत्य पक्वान्नं पिंडं दद्यात्तिलैः सह । पिंडं दत्वा यथान्यायं पिंडं संयोजनं चरेत् ” ॥
यथान्यायं जीवंतमतिक्रम्य । अत्र सपिंडीकरणमात्रस्यामाद्विविधानेऽपि तन्नांतरीकतया
श्राद्धांतं पिंडमिति केचित् । अन्ये तु व्युत्क्रममृतौ सपिंडीकरणमात्रस्यामादिविधानात्तत्पूर्ववर्ति-
श्राद्धानां सत्यां शक्तौ नामादिनियम इत्याहुः । एवं च मातापितृव्यतिरिक्तव्युत्क्रममृतौ २०
सापिंडननिषेधः पाक्षिकः । पक्षे आमेन हेम्ना वा विधानादेवं विहितामश्राद्धाभिप्रायेण
“ ज्येष्ठो वाऽप्यनुजो वाऽपि कुर्याद्भ्रातुः सपिंडनम् । न पुत्रस्य पिता कुर्यान्नानुजस्य तथाऽग्रजः ॥
“ यदि स्नेहेन कुर्वीतां सपिंडीकरणं विना । अन्यभावे पिता माता ज्येष्ठो वाऽपि सपिंडनम् ॥
“ कुर्याज्जीवंतमाक्रम्य पिंडभागं नियोजयेत् । सर्वाभावे पिता वाऽपि कुर्याद्भ्राताऽथ वाऽग्रजः ”
इत्यादीनि व्युत्क्रमसापिंड्यप्रतिपादकानि द्रष्टव्यानि । २५
'''क्रमसापिण्ड्यनिरूपणम् ।''' अत्र व्युत्क्रममृतानां मातापितृभर्तृपत्नीनामन्नेन सापिंड्ये कृते
इतरेषामामेन हेम्ना वा कृतेऽपि तदंतर्हिते मरणे तत्सापिंडनांतरमेतेषां पुनरन्येन सपिंडीकरणं
विदधाति '''काश्यपः—'''
“ व्युत्क्रमेण प्रमीतानां सपिंडीकृतिरिष्यते । अंतर्हिते मृते पश्चात्पुनः कुर्यात्सपिंडनम् ”॥ इति ।
'''दक्षश्च—''' ३०
“ पितामहं च जीवंतमतिक्रम्य यदा सुतः । अतिक्रम्य द्वयं वाऽपि सपिंडीकरणं चरेत् ॥
“ तयोरापन्नयोः काले पुनः कुर्यात्सपिंडनम् ” ॥
'''वसिष्ठश्च—'''“ व्युत्क्रमेणापि सापिंड्यं कर्तव्यमृषिसंमतम् ।
“ततोऽप्यूर्ध्वं तु सापिंड्ये कृतेऽस्य पुनराचरेत् । भ्राता वा भ्रातृपुत्रो वा सपिंडः शिष्य एव वा ।
{{rule}} १ ग-सिद्ध ।<noinclude></noinclude> 5nagv6bk337ltzxv7y1pap62j9nu9j6 पृष्ठम्:Smriti mukta phalam.pdf/७१४ 104 166717 419737 2026-11-10T14:17:42Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६७४|'''पतितैः सह सापिण्ड्यनिषेधः ।'''|}} {{rule}} “ अथवा प्रेतभूतस्य पत्नी कुर्यादमंत्रकम् । ऋत्विजा कारयेद्यद्वा सपिंडीकरणं पुनः ” ॥ इति ।
अत्र अमंत्रकविधानं मंत्र... नवीन पृष्ठं निर्मीत अस्ती 419737 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६७४|'''पतितैः सह सापिण्ड्यनिषेधः ।'''|}} {{rule}} “ अथवा प्रेतभूतस्य पत्नी कुर्यादमंत्रकम् । ऋत्विजा कारयेद्यद्वा सपिंडीकरणं पुनः ” ॥ इति ।
अत्र अमंत्रकविधानं मंत्रोच्चारणाशक्तपत्नीविषयमिति अधस्तान्निरूपितम् ।
'''पतितैः सह सापिण्ड्यनिषेधः । पतितैः साह सापिंड्यनिषेधमाह शातातपः—'''
“ क्लीबैर्न पतितैश्चैव दुष्टाभिस्त्रीभिरेव च । सपिंडीकरणं कुर्यादेकोद्दिष्टं समाचरेत् ” ॥
५ पतितमतिक्रम्य तदूर्ध्वगतैः सापिंड्यं कृत्वा अनुमासिकादावेकोद्दिष्टं समाचरेदित्यर्थः ।
'''पारिजाते च—'''“पितुर्न नाम निर्देश्यं महापातकदोषिणः । आवाहनादिकार्येषु किंतु तत्परभाविनाम् ॥
“ पितामहपुरोगाणां त्रयाणां नाम निर्दिशेत् । पितामहेऽपि दुष्टेborder-श्चेत्प्रपितामहपूर्वकः ॥
“ निर्देश्यास्त्याख्यो मर्त्यास्तस्मिन्नपि विगर्हिते । प्रपितामहपित्राद्यास्त्वख्यो वाच्या यथाक्रमम् ॥
“ दुष्टश्चेन्मध्यमः कश्चित्तद्वर्ज्यान् पूर्वपश्चिमान् । त्रीनेव निर्दिशेन्मर्त्यान्कि त्वत्रैतद्विशिष्यते ॥
१० “ चण्डालादिहते ताते पतिते संगवर्जिते । व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ ” ॥ इति ।
'''स्मृत्यंतरे च—'''
“ वृद्धे पितरि संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः”॥ इति ।
तथा “येभ्यो ददाति पित्रादिस्तेभ्यः पित्रादिजीवने । दद्यात्तथा सुतः ताते पतिते व्युत्क्रमान्मृते”॥ इति
पितृव्यतिरिक्तस्य पतितस्य सपिंडनं नास्ति ।
१५ “ सपिंडीकरणं नैव मृतानां ब्रह्मचारिणाम् । क्लीबानां पतितानां च दुष्टस्त्रीणां तथैव च ।
“ नैष्ठिकानां यतीनां च श्राद्धं नारायणार्पणम् ” ॥ इति '''वृद्धवसिष्ठस्मरणात् ।'''
'''सपिण्डीकरणप्रकारः । सपिंडीकरणे इतिकर्तव्यतामाह याज्ञवल्क्यः—'''
“ गंधोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥
“ ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ” ॥ इति । '''विज्ञानेश्वरेणास्यार्थोऽभिहितः—'''
२० “ गंधोदकतिलैर्युक्तं पात्रचतुष्टयं अर्घ्यार्थं अर्घ्यसिद्ध्यर्थं कुर्यात् । तिलैर्युक्तं पात्र-
चतुष्टयं वदता पितृवर्गे चत्वारो ब्राह्मणा दर्शिताः । वैश्वदेवे द्वौ स्थितास्तावेव तत्र प्रेतपात्रोदकं
किंचिदवशिष्टं त्रिधा विभज्य पितृपात्रेषु सेचयेत् । ‘ये समाना’ इति द्वाभ्यां शेषं विश्वेदेवावाहनादि-
विसर्जनांतं पूर्ववत् पार्वणवदेवाचरेत् । प्रेतार्घ्यपात्रावशिष्टेनोदकेन प्रेतस्थानब्राह्मणहस्ते अर्घ्यं
दत्वा शेषमेकोद्दिष्टवत्समापयेत् । ‘पित्र्येषु त्रिषु पार्वणम्’ इति । '''कात्यायनः—'''“ चत्वारि पात्राणि
२५ सतिलगंधोदकैः पूरयित्वा त्रिभिः पितृपात्रेष्वाborder-सिंचति ‘ये समाना’ इति द्वाभ्यां एतेन पिंडा
व्याख्याता ” इति । '''विष्णुः—'''वत्सरांते प्रेताय तत्पित्रे तत्पितामहाय च ब्राह्मणान् देवपूर्वं
भोजयेत् ” इति । '''गालवश्च—'''
“ सपिंडीकरणं कुर्यात्पितुः प्रेतत्वमुक्तये । विश्वान् देवान्नियोज्यादौ कामकौकसंज्ञकान् ॥
“ प्रेतं पितामहादींश्च मंत्रैरर्घ्यादिभिः श्रयेत् । अनुसंधीयते पूर्वः परो विच्छिद्यते ततः ” ॥ इति ।
३० उक्तेष्वेतेषु प्रथमतः विश्वेदेववरणं ततः प्रेतवरणं ततः पितृपितामहप्रपितामहवरणमिति क्रमः
प्रतीयते । क्रमान्तरं तु स्मृत्यन्तरेऽभिहितम्
“ श्राद्धद्वयमुपक्रम्य सपिण्डीकरणं भवेत् । पार्वणं तत्र पूर्वं स्यादेकोद्दिष्टं तथा चरेत् ” ॥
'''तथा—'''
“ सपिंडीकरणश्राद्धे दैवं पूर्वं नियोजयेत् । पितॄन् नियोजयेत्पश्चात्ततः प्रेतं विनिर्दिशेत् ” ॥ इति ।
{{rule}} १ क्ष-ब्द । २ ग-कालकामुक । ३ ग-पितामहादि ।<noinclude></noinclude> h6j3eri8yd546ijzta4vz9d3y13tund पृष्ठम्:Smriti mukta phalam.pdf/७१५ 104 166718 419738 2026-11-10T14:18:44Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सपिण्डीकरणविधिः ।'''|६७५}} {{rule}} '''चंद्रिकायामपि—'''
“ कामकालौ विश्वेदेवे निर्दिष्टौ तु सपिंडने । पितामहादीन्निर्द्दिश्य पितुरुच्चारणं ततः ” ॥ इति ।
'''बृहद्व... नवीन पृष्ठं निर्मीत अस्ती 419738 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सपिण्डीकरणविधिः ।'''|६७५}} {{rule}} '''चंद्रिकायामपि—'''
“ कामकालौ विश्वेदेवे निर्दिष्टौ तु सपिंडने । पितामहादीन्निर्द्दिश्य पितुरुच्चारणं ततः ” ॥ इति ।
'''बृहद्विष्णुः—'''
“ पितुर्मरणमारभ्य द्वादशे दिवसे चरेत् । प्रेतभावविनिर्मोक्षद्वारा प्रेतस्य वै पितुः ॥
“ पितामहादिभिः सार्धं सापिंड्यस्य प्रसिद्धये । समानोदकभावस्य सिद्ध्यर्थं च पितुः सुतः ॥ ५
“ एषां पितामहादीनां विधिना पार्वणेन तु । स्वपितुः प्रेतभूतस्य एकोद्दिष्टविधानतः ” ॥
इत्थं च पार्वणात्मकैकोद्दिष्टात्मकमुभयरूपकम् ।
“ पितामहादीन्निर्द्दिश्य पितुरुच्चारणं ततः । संबंधगोत्रनामानि वस्त्राद्यर्हत्यं च कीर्तयेत् ॥
“ दद्यात्कृसरतांबूलं गंधाद्यभ्यंजनादिकम् । ततः स्नातान् समाहूय स्नातस्तानुपवेश्य च ॥
“दर्भे विप्रकरे दत्वा वृणुयाद्देवपूर्वकम् । सपिंडीकरणादर्वागborder-ऋजुदर्भैः पितुः क्रियाः ॥ १०
“ परतो द्विगुणैरेव दैवकर्म सदृग्दर्भिः । पित्रे ह्येकपवित्रौ द्वौ दर्भौ दैवकर्माणि ॥
“ द्वौ निमंत्रयते दर्भौ विश्वेदेवार्थमादितः । कामकालौ वैश्वदेवे देवते हि प्रकीर्तिते ॥
“ पितामहादिसंबंधांश्चयवरान्श्रोत्रियान्द्विजान् । प्रेतस्थाने त्वेकविप्रं यद्वा पैतामहादिषु ॥
‘ एवं वा प्रेतमेकं वा दैवेऽप्येकं निमंत्रयेत् । पितामहादीनभ्यर्च्य ततः प्रेतं समर्च्चयेत् ॥
“ सपिंडीकरणश्राद्धं पितृपूर्वमुदीरितम् । प्रेतपूर्वं वदंत्येके तदसांप्रतमिरितम् ॥ १५
“ वैश्वदेवार्थनं कृत्वानन्तरं प्रेतपूजनम् । पार्वणस्य हि तंत्रस्य मध्ये तंत्रांतरं भवेत् ॥
“ पार्वणैकोद्दिष्टयोश्च पार्वणं पूर्वभागभवेत् ॥
“ पादान्प्रक्षालयेद्दर्भैस्तिलानोप्यावटत्रये । देवार्थानामुत्तरे तु पित्रर्थानां तु मध्यमे ॥
“ दक्षिणे तु निमित्तस्य पादप्रक्षालनक्रमः ।
“ कुंडानि निखनेच्छ्राद्धे येन केनापि शंकुना । आयसेन खनेद्यस्तु निराशाः पितरो गताः ॥ २०
“ श्राद्धस्य चैककुंडं स्याद्गजपादसुसंमितम् । सापिंड्येषु त्रिकुंडं स्याद्वृत्ताकारं तु दक्षिणे ॥
“ त्रिकोणं मध्यमं कुंडमुत्तरं चतुरश्रकम् । आयामस्तस्य विस्तारस्तदर्धं खननं भवेत् ॥
“ न्यूनातिरिक्तं तु यः कुर्याद्भवेत्स पितृघातकः ।
“ पादान् वा जानु वा जंघमपि वा चरणद्वयम् । कूर्परांतं करौ सम्यक् क्षालयेत् प्रथमं बुधः ॥
“ आचांतान्विश्वदेवार्थान् प्राङ्मुखानुपवेशयेत् । आसनेषु च कॄप्तेषु ततः पैतामहान्द्विजान् ॥ २५
“ उदङ्मुखानाभिवेश्यैव ततः प्रेतार्थमुत्तमम् । प्रत्यङ्मुखं निवेश्यैनं सर्वं पित्र्यवदाचरेत् ॥
“ एकोद्दिष्टनिषेधं तु यद्यदावाहनादिकम् । तत्सपिंडीकृतौ प्रेते सर्वं पित्र्यवदाचरेत् ॥
“ करिष्ये पिंडसंयोगमिति पृष्ट्वा तदाज्ञया । दक्षिणाग्रेषु दर्भेषु अर्घ्यपात्रचतुष्टयम् ॥
“ सादयेत्प्रथमं तत्र पित्र्यं पैतामहं ततः । प्रपितामहदैवत्यं ततः प्रेतार्थमुत्तमम् ॥
“ पात्रेषु त्रिषुborder-दर्भान्कूर्चानंतर्धाय तिलोदकम् । शं न इत्यादिभिर्मंत्रैर्निंनयेत्तेषु च क्रमात् ॥ ३०
“ प्रेतशब्दं पितृस्थाने यथालिंगं स्त्रिया अपि । पित्रर्घ्यं पितृहस्तेषु दत्वा प्रेतार्थमुत्तमम् ॥
“ प्रेतविप्रकरे दत्वा या दिव्या इति मंत्रतः । देवपूर्वं तु गंधाद्यैर्विप्राणां पूजनं परम् ॥
“ प्रेतोद्दिष्टे विशेषेण दद्यादाच्छादनादिकम् । अग्नौकरणहोमं च यथाशास्त्रं समाचरेत् ॥
“ यथेष्टं भोजयेद्विप्रानन्नव्यंजनसंयुतम् । रक्षोघ्नाञ्छावयेन्मंत्रान्वैष्णवान्पैतृकानपि ॥
{{rule}} १ ग-र्दींश्च । २ ग-ग्रं तु । ३ ग-भोजनम् । ४ क-पितॄंश्चैव । ५ ग-विद्धं । ६ ग-मन्तिमम् ।<noinclude></noinclude> pbuy6dwqm4f3frgv6yic2dujfzru51q पृष्ठम्:Smriti mukta phalam.pdf/७१६ 104 166719 419739 2026-11-10T14:19:35Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६७६|'''तृप्तिप्रश्नादि ।'''|}} {{rule}} “ तृप्ताः स्थेति च पृष्टास्ते तृप्ताः स्मो ब्रुवते द्विजाः । अन्नं तु विकिरेद्भूमौ दद्यादाचमनं ततः ॥
“ होमभोजनशेषाभ्यां पिंड... नवीन पृष्ठं निर्मीत अस्ती 419739 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६७६|'''तृप्तिप्रश्नादि ।'''|}} {{rule}} “ तृप्ताः स्थेति च पृष्टास्ते तृप्ताः स्मो ब्रुवते द्विजाः । अन्नं तु विकिरेद्भूमौ दद्यादाचमनं ततः ॥
“ होमभोजनशेषाभ्यां पिंडांकृत्वा तिलान्वितान् । पितामहादिपिंडांस्त्रीन्द्यात्तु पितृयज्ञवत् ॥
“ प्रेताय दक्षिणे दद्यात्पिंडं चोभययोदकम् । ये समाना इति द्वाभ्यां पितृपिंडेषु योजयेत् ॥
“ पिंडसंयोजनादूर्ध्वं प्रेतत्वस्य निवृत्तितः । मार्जनादिषु कृत्येषु चतुर्थं विनिवर्तयेत् ॥
५ “ अभ्यर्थयेत् द्विजांस्तेऽपि प्रतिब्रूयुर्यथोचितम् । अन्नशेषमनुज्ञाप्य नमस्कृत्य निवर्तयेत् ” ॥ इति
'''स्मृतिरत्ने—'''“इति बोधायनः प्राह सपिंडीकरणं ब्रुवन् । अर्घ्योपस्थानमात्रं तु प्रेतपूर्वं महामुनिः ॥
“ आवाहनादावन्यत्र पितृपूर्वत्वमूचिवान् । प्रेतपूर्वत्वशाखानामयमन्यो व्यवस्थितः ॥
“ एकं प्रेतस्य हि त्रीणि पितॄणां चैकमेव वा । इत्यापस्तंबवाक्यं च न विरोधीति दृश्यते ॥
“ भुंजानानाभिमुख्येन पुण्यसूक्तानि कीर्तयेत् । तद्भिश्रवणं नाम तदप्यत्रोचिवान्मुनिः ” ॥ इति ।
१० पुण्यसूक्तानि पुरुषसूक्तादीनि । पितृसूक्तमत्र वर्जयेत्
“ नांदीमुखे गयाश्राद्धे नित्यश्राद्धे च मासिके । सपिंडीकरणश्राद्धे न जपेत्पितृसूक्तकम् ” इति ।
स्मृतेः । '''याज्ञवल्क्यः—'''“ द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा ” ॥
'''स्मृतिसारसमुच्चये तु—'''
“ पूर्वं निमंत्र्य देवे द्वौ त्रीन् विप्रान्पितृकर्मणि । दैवे पित्र्येऽपि वैकैकं सपिंडीकरणं विना”॥ इति
ततश्च ‘द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ’ इत्यादौ एकैकवचनं सापिंड्यव्यतिरिक्तपार्वण
विषयम् । '''सायणीये—'''
“ सपिंडीकरणेऽवश्यं विष्णुमभ्यर्चयेत् द्विजे । सप्तकं तु तदा स्यातां विना विष्णुः कथं तथा” ॥
इति । विष्णुवरणाभावे सापिंड्यस्य सप्तकत्वस्यातिर्भज्येतेत्यर्थः । '''तत्रैव—'''
“ इति वै देवलः प्राह शाण्डिल्यश्च महामुनिः । यत्किंचित्पार्वणश्राद्धं तत्र सर्वत्र वै द्विजे ॥
२० “ पूजयेद्विष्णुमित्येवं श्राद्धं सिध्यति नान्यथा ” ॥ इति ।
एवं विष्णुवरणाभावे दोषमाह '''मनुः—'''
“ दैवाद्यंतं भवेच्छ्राद्धं पित्राद्यंतं न तद्भवेत् । पित्राद्यंतं तदीहानः श्राद्धमाप्नोति निष्फलम्”॥ इति
'''चंद्रिकायाम्—'''
“ स्वधाशब्दं धूपदीपौ नमः शब्दं प्रयोजयेत् । नैवं प्रेते नमः शब्द उपतिष्ठपदं भवेत् ॥
२५ “ विप्राणांमथवाग्नौ वा जुहुयादाहुतिद्वयम् । निरूह्य वह्नेरंगारान्प्रेतस्य च यमस्य च ॥
“ स्वाहेति जुहुयादन्नमुक्तैतद्गोत्रनामनी । प्रेतहस्तेऽपि वा हुत्वा भोजयेच्च यथाक्रमम् ॥
“ संबुध्यानिर्दिशेन्नाम पित्रादीनामसाविति । यज्ञशर्मन्निमं पिंडमुपतिष्ठेति चांततः ॥
“ पिंडं चतुर्थं प्रेताय दद्याद्दक्षिणहस्ततः । प्रेतपात्रस्थमुदकं पित्राद्यर्थेष्वथानयेत् ॥
“ समानो मंत्र इत्याभ्यामृग्भ्यां चैव यथाक्रमम् । मधुत्रयेण चादाय प्रेतपिंडं त्रिधा कृतम् ॥
३० “ संगच्छध्वमिति द्वाभ्यां पितृपिंडेषु योजयेत् । ये समाना इति द्वाभ्यां पिंडोपस्थानमिष्यते ॥
“ पिंडसंयोजनादूर्ध्वं प्रेतत्वस्य निवृत्तितः । मार्जनादिषु सर्वत्र चतुर्थो विनिवर्तते ॥
“ केवलः पितृशब्दस्तु पितृसामान्यवाचकः । पितामहादिसंबंधं तत्तन्मंत्रादिपूजयेत् ” ॥
'''बोधायनः—'''“ मधुत्रयेण संगच्छध्वं समानो मंत्र इति त्रिभिर्द्वाभ्यां वा अर्घ्यसंसर्गः संगच्छध्वं
{{rule}} १ ग-तस्यो ।<noinclude></noinclude> qtl1ef7k3syz4wcuoajum3ipjx9sfbr पृष्ठम्:Smriti mukta phalam.pdf/७१७ 104 166720 419740 2026-11-10T14:20:24Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''संसर्जनविधिः ।'''|६७७}} {{rule}} समानो मंत्र इति द्वाभ्यां पिंडसंसर्गः” इति । '''आश्वलायनः—'''“समानो मन्त्रः समानीव इति द्वाभ्या-
मर्घ्यसंसर्गो मधुमती त्रिः संगच्... नवीन पृष्ठं निर्मीत अस्ती 419740 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''संसर्जनविधिः ।'''|६७७}} {{rule}} समानो मंत्र इति द्वाभ्यां पिंडसंसर्गः” इति । '''आश्वलायनः—'''“समानो मन्त्रः समानीव इति द्वाभ्या-
मर्घ्यसंसर्गो मधुमती त्रिः संगच्छध्वं समानो मन्त्र इति त्रिभिः पिण्डसंसर्गः” इति । '''गौतमः—'''“ये
समाना इत्यर्घ्यसंसर्गो ये सजाता इति पिंडसंसर्गः ” इति । '''वैखानसः—'''“समानो मन्त्रः समानीव
इति द्वाभ्यामर्घ्यसंसर्गः संगच्छध्वं समानो मन्त्र इति द्वाभ्यां पिण्डसंसर्गः” इति । '''शातातपः—'''
“ निर्वपेच्चतुरः पिंडाञ्छ्रद्धया पितृनामतः । पिंडांन्दत्वा पितॄणां तु पश्चात्प्रेतस्य पार्श्वतः ॥ ५
“तं च पिंडं त्रिधा कृत्वा आनुपूर्व्यात्तु सत्तमः । निदध्यात् त्रिषु पिंडेषु एष संसर्जने विधिः”॥इति ।
संसृज्यमानपिंडाभिप्रायेण चतुरः पिंडा्नित्युक्तम् । यथास्वसूत्रं पिंडसंख्या द्रष्टव्या । “द्वेधा
दक्षिणाग्रान् ” इत्यादिना आपस्तंबेन पितृमातृवर्गयोरुभयोरपि पिंडदानविधानादापस्तंबिनः प्रेत-
पिंडेन सह सप्तपिंडान्दद्युः । तथा '''पितृमेधसारे—'''“ हुतशेषमिश्रैर्भैस्तैलमुक्तैः सप्तपिण्डाननु-
मरणेऽष्टौ पिण्डाननेकसापिण्ड्ये तावतो निमित्तपिण्डान् कृत्वोच्छिष्टसन्निधावग्रे दक्षिणतस्त्रेधा १०
दक्षिणाग्रान् दर्भान् संस्तीर्य दक्षिणामुखः सव्यं जान्वाच्य तेषु मध्यमदर्भेषु मार्जयन्तां मम पितुः
पितरः पश्चिमदर्भेषु मार्जयन्तां मम पितुर्मातर इत्याभिर्दक्षिणापवर्गं मार्जयेत् । अत्र पूर्वं मातृमृतौ
मार्जयन्तां मम मातर इति मार्जयित्वा मार्जनक्रमेण एतत्ते पितुस्ततेत्यादिभिः षट् पिण्डान् दत्वा
ये च त्वामनु यांश्च त्वामन्विति प्रतिपिण्डं दर्भमूलेषु लेपं निमृज्य मार्जयतां मम प्रेतः मार्जयतां
मम प्रेतेत्यपो दत्वा अमुकगोत्रामुकशर्मन् प्रेतैतं पिण्डमुपतिष्ठेति प्रेतपिण्डं प्रदाय अमुकगोत्रे १५
अमुकनाम्नि प्रेते इति स्त्रियाः ब्राह्मणैरभ्यनुज्ञातः समानो मन्त्रः समानीव इति द्वाभ्यां प्रेतार्घ्यं
पित्राद्यर्घ्यपात्रेषु निनीय तूष्णीं प्रेतपिण्डमादाय त्रेधा विभज्य तद्भागत्रयं पित्रादिपिण्डानां पुरस्ता-
न्निधाय वैतरणीगोदानं कृत्वाऽनुज्ञातो मधुमतीभिः सङ्गच्छध्वं समानो मन्त्रः समानीव इति
चतुर्भिस्तत्पिण्डैःसह त्रयं हस्ताभ्यां युगपत्संसृजेत्। एवं प्रेतपिण्डं पित्रादिपिण्डैः संसृज्य ये समाना
ये सजाता इति द्वाभ्यां पिण्डानुपस्थाय संसृष्टेनार्घ्योदकेन मन्त्रानूहेन पूर्ववन्मार्जयेत्” इति ॥ २०
“ सव्यंजनैः सप्तपिंडाननुमरणेऽष्टौ पिंडान्नद्युः ” इति । अत्र '''याज्ञवल्क्यः—'''
“ सर्वमन्नं समादाय सतिलं दक्षिणामुखः । उच्छिष्टसंनिधौ पिंborder-डांन्दद्यात् वै पितृयज्ञवत् ” ॥ इति ।
सर्वमन्नमिति पायसापूपफलादीत्यर्थः । '''बोधायनः—'''“ सर्वोपकरणैर्यथोपपादनं संपूज्याक्षय्यं
वाचयित्वा स्वधां वाचयित्वोत्थाप्योपसंगृह्य प्रसाद्य प्रदक्षिणीकृत्यानुव्रज्य ययेतमेत्य दक्षिणेनाग्निं
दर्भान्संस्तीर्य तेष्वन्नशेषैः पिंडान् ददाति नोच्छिष्टं परिसमूहृत्यत्र पिंडांन्ददाति ” इति । २५
'''आपस्तंबः—'''“ भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य द्वेधा दक्षिणाग्रान्दर्भान्संस्तीर्येत्यादि ” ॥
'''आश्वलायनः—'''“ भुक्तवत्स्वनाचांतेषु पिण्डं निदध्यात् । आचान्तेष्वित्येके ” इति ।
'''जमदग्निः—'''“ नदी वैतरणी नाम दुर्गन्धरुधिरावहा । कृष्णतोयवहा वेगिन्यस्थिकेशतरङ्गिणी ॥
“ दत्ता गौर्येन सापिंड्ये स तां तरति नेतरः । अकृते तत्र पच्यन्ते प्रायश्चित्ते तु पापिनः ॥
“ विभक्तं प्रेतपिंडं तु पितृपिंडेषु योजयेत् । तृचेन मधुवातेति संगच्छध्वं तृचेन तु ” ॥ इति । ३०
'''स्मृत्यर्थसारे—'''
“ सपिंडीकरणेष््वेतान्पिंडानप्स्वेव निक्षिपेत् । अन्यथा करणे तेषां पितृदेवा रुदंति हि ” ॥
'''आश्वलायनोऽपि—'''
“ पत्न्यां रजस्वलायां च व्याधितायामथापि वा । प्रक्षिपेन्मध्यमं पिंडं जले गन्यथवानले ॥
{{rule}} x क्ष-+ अत्र याज्ञवल्क्यः । १ क्ष-तं । २ ग-त्रि ।
८६-१७<noinclude></noinclude> 23x5j3qovoojxwrv3o1wicgvg4sgklq पृष्ठम्:Smriti mukta phalam.pdf/७१८ 104 166721 419741 2026-11-10T14:21:16Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६७८|'''मातृसापिण्ड्यविधिः ।'''|}} {{rule}} “ पतितायां च वा पत्न्यां मृतायां च तथा द्विजः । सपिण्डीकरणे चैव मध्यं पिण्डं तथाऽऽचरेत् ॥
“ वृद्धिश्राद्धे सपिण्ड्यां च प्... नवीन पृष्ठं निर्मीत अस्ती 419741 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६७८|'''मातृसापिण्ड्यविधिः ।'''|}} {{rule}} “ पतितायां च वा पत्न्यां मृतायां च तथा द्विजः । सपिण्डीकरणे चैव मध्यं पिण्डं तथाऽऽचरेत् ॥
“ वृद्धिश्राद्धे सपिण्ड्यां च प्रेतश्राद्धेऽनुमासिके । संवत्सरविमोके च न कुर्यात्तिलतर्पणम् ॥
“नवश्राद्धानि मिश्राणि सपिंडीकरणं तथा । कृत्वा तु विधिवत्स्नायान्नैव स्नायान्मृतेऽहनि”॥ इति ।
मिश्राणि सपिंडीकरणात्पूर्वभावीनि षोडशश्राद्धानीति व्याख्यातारः ।
५ '''मातृसापिण्ड्यविधिः । मातृः सपिंडीकरणमाह शंखः—'''
“ मातुः सपिंडीकरणं कथं कार्यं भवेत्सुतैः । पितामह्यादिभिः सार्थं सपिंडीकरणं स्मृतम् ”॥ इति ।
'''विज्ञानेश्वरोऽपि—'''
“पितामह्यादिभिः सार्द्धं सपिंडीकरणं सुतः । मातुः कुर्वीत पित्राद्यैः पितुः कुर्याद्यथाविधि”॥ इति ।
मातुः पितामह्यादिभिः सार्धमिति संबंधः । '''काश्यपः—'''
१० “योजयेन्मातुरर्घ्यं च ऋग्भ्यां मात्रादिषु त्रिषु । एवं त्रिधा कृतं पिंडं त्रिषु पिंडेषु योजयेत्”॥ इति ।
मात्रादिषु पितामह्यादिषु । प्रमीतपितृकस्य विकल्पमाह '''यमः—'''
“ जीवत्पिता पितामह्या मातुः कुर्यात्सपिंडताम् । प्रमीतपितृकः पित्रा पितामह्याऽथ वा सुतः ”॥
'''लोकाक्षिरपि—'''
“ पितामह्यादिभिः सार्धं मातरं तु सपिंडयेत् । पितरि ध्रियमाणे तु तेन वोपरते सति ” ॥ इति ।
१५ '''अन्वारोहणे तु भर्त्रैव सापिंड्यं नियतम् । तदाह शातातपः—'''
“ मृता याऽनुगता नाथं सा तेन सह पिंडताम् । अर्हति स्वर्गवासेऽपि यावदाभूतसंप्लवम् ” ॥ इति ।
'''यमः—'''
“ पत्या चैकेन कर्तव्यं सपिंडीकरणं स्त्रियाः । सा मृताऽपि हि तेनैक्यं गता मंत्राहुतिव्रतैः”॥ इति ।
अत्रैकशब्दः पितामह्यादिविकल्प व्यावृत्त्यर्थः । '''षट्त्रिंशन्मतेऽपि—'''
२० “ मातुः सपिंडीकरणं पत्या सार्धं विधीयते । यस्मात्पतिव्रतानां तु सैव संततिरिष्यते ”॥ इति ।
'''शंखश्च—'''“ अन्वारोहे तु भर्त्रैव मातुः सह सपिंडनम् ” । '''स्मृतिसारसमुच्चये—'''
“ पत्युरनुयाने तु मरणात्क्रमशस्तनु । दहनादिसपिंड्यांतं सह कुर्याद्यथाविधि ॥
“ पिंडं दत्वा स्वधां तस्या भर्तृपात्रे निनीय तु । मंत्रेणैव तु तत्पात्रं पितृपात्रेषु सेचयेत् ॥
“ भर्तृपिंडेन संसृज्य पितृपिंडैस्तु संसृजेत् ” ॥ इति ॥
२५ '''विश्वादर्शे—'''“स्त्रीपिंडे पतिपिंडगे तदनु तं पित्रादिभिर्मिश्रयेत्” इति । चंद्रिकायां विशेषोऽभिहितः—
“ दशाष्टादशतान्विप्रान्निमंत्र्य द्वादशेऽहनि । द्विधास्तृतेषु दर्भेषु त्वर्घ्यपात्रं प्रकल्पयेत् ॥
“ पित्रादेश्च पुनश्चैव मात्रादेस्तदनंतरम् । पित्रर्घ्यपात्रमुदकं क्रमात्पैतामहादिषु ॥
“ ये समाना इति द्वाभ्यां मंत्राभ्यां योजयेत्क्रमात् । योजयेन्मातुरर्घ्यं च ऋग्भ्यां मात्रादिषु त्रिषु ॥
“ एवं त्रिधा कृतं पिंडं पिंडेषु त्रिषु योजयेत् । पित्रोः संघातमरणे त्वनुयानविधिः स्मृतः ”॥ इति ।
३० एतत् “ दैवं पित्र्यं च तंत्रं स्यान्निमित्तं प्रतिपूरुषम् । पिंडं दत्वा स्वधां तस्या भर्तृपात्रे निनीय च”॥
इत्यादि वचनविरोधाच्छिष्टाचाराभावाच्चानादरणीयम् ।
'''गालवः—'''“ एकाचित्यां समारूढौ दंपती निधनं गतौ । एकोद्दिष्टं षोडशं च भर्तुरेकादशेऽहनि ॥
“ द्वादशेऽहनि संप्राप्ते पिंडमेकं द्वयोः क्षिपेत् । पितृपिंडेन संयोज्य मातृपिंडं पुनस्त्रिधा ॥
“ पितामहादिपिंडेषु विभज्य विनियोजयेत् ” ॥ इति । '''वसिष्ठस्तु—'''
३५ “ अनुयाने तु पतिना सपिंडीकरणं सह । अंतर्धाय तृणं मध्ये भर्तुः श्वशुरयोरपि ” ॥ इति ।
{{rule}} १ क्ष-मातामहादिक ।<noinclude></noinclude> da5ogbxurcqjzp89ocpzr595klo8uxf पृष्ठम्:Smriti mukta phalam.pdf/७१९ 104 166722 419742 2026-11-10T14:22:13Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''बहुपत्नीकपक्षे ।'''|६७९}} {{rule}} '''यमोऽपि—'''“ तूष्णीं दंपतिपिंडाभ्यां कुशैंरंतरयेत्पितॄन् ।
“श्वशुरस्यागतो यस्माच्छिरः प्रच्छादनक्रिया । पुत्रैर्दर्भेण सा... नवीन पृष्ठं निर्मीत अस्ती 419742 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''बहुपत्नीकपक्षे ।'''|६७९}} {{rule}} '''यमोऽपि—'''“ तूष्णीं दंपतिपिंडाभ्यां कुशैंरंतरयेत्पितॄन् ।
“श्वशुरस्यागतो यस्माच्छिरः प्रच्छादनक्रिया । पुत्रैर्दर्भेण सा कार्या मातुरभ्युदयार्थिभिः”॥ इति ।
बहुपत्न्यनुमरणे तु “ निमित्तपिण्डमेकैकं दत्वा तैः संसृजेत्क्रमात् ” इति स्मरणात् प्रति-
पत्त्येकैकं पिंडं दत्वा ज्येष्ठक्रमाद्विभज्य मंत्रावृत्त्या संसृजेत् ।
“ बहुपत्नीकपक्षे तु मंत्रावृत्तिः पुनःपुनः । विभज्य पिंडं दद्यात्तु गार्ग्यस्य वचनं तथा ” ॥ इति ५
स्मरणात् । मातापित्रोः सहमरणेऽपि मातृपिंडं पितृपिंडेन संयोज्य तं पिंडं त्रिधा विभज्य पिता-
महादिपिंडेषु त्रिषु संसृजेत्
“ पित्रोः संघातमरणे त्वनुयानविधिः स्मृतः । द्वयोरेवान्वया कुर्यादिति प्राह पितामहः ” ॥ इति
स्मरणात् । तथा '''स्मृत्यर्थसारे—'''“ अनुमरणे सहमरणे च तस्या अर्घ्यपिंडौ पत्युरर्घ्यपिंडाभ्यां
पूर्वं संसृज्य पश्चादर्घ्यपिंडौ त्रिधा विभज्य पित्राद्यर्घ्यपिंडैः पूर्ववत्संसृजेत् ” इति विवेकः । एवं च १०
पितुः सपिंडीकरणे प्रेतार्घ्यपिंडं त्रिधा विभज्य पित्राद्यर्घ्यपिंडैः संसृजेत् । मातुः सपिंडीकरणे प्रेतार्घ्यं
पित्राद्यर्घ्यैः संसृज्य प्रेतपिंडं पितामह्यादिपिंडैः संसृजेत् । प्रमीतपितृकस्तु पित्रादिपिंडैः पितामह्यादि-
पिंडैर्वा संसृजेत् । पितामह्यादिपिंडसंसर्गः शिष्टाचारानुगुणः । अनुमरणे सहमरणे च तस्या
अर्घ्यपिंडौ पत्युरर्घ्यपिंडाभ्यां संसृज्य त्रिधा विभज्य पित्राद्यर्घ्यपिंडैः संसृजेदिति विवेकः । तथा च
“ पितामह्यादिभिः सार्धं सपिंडीकरणं स्मृतम् ” इति पूर्वोक्तशंखादिवचनानि तत्तत्सपिंड्यसंसर्गा- १५
भिप्रायाणि । न तु श्राद्धदेवताप्रतिपादनपराणि । श्राद्धदेवतास्तु सर्वत्र पित्रादय एव भोजनीयाः ।
तथा '''विज्ञानेश्वरः—'''
“ सपिंडीकरणश्राद्धं देवपूर्वं नियोजयेत् । पितॄनेवाशयत्तत्र पुनः प्रेतं च निर्दिशेत् ” ॥ इति ।
'''स्मृत्यंतरे च—'''
“मातुः पितुश्च सापिंड्ये पित्रादीनेव भोजयेत् । पितामह्यादिभिः सार्धं मातुः कुर्यान्मृतेऽहनि”॥ इति । २०
'''अन्यत्रापि—'''
“सापिंड्ये ह्युभयत्रापि पितरश्चैव देवताः । स्त्रीणामर्घ्यं तु पित्रादौ नयेत्पिंडान् स्त्रियादिषु”॥इति । पित्रा-
दीनां भोजनविधानानेपामेवार्घ्यसद्भावात्स्त्रीमृतौ प्रेतार्घ्यं पित्राद्यर्घ्यैः संसृजेत् । पितामह्यादेर्भोजना-
भावेऽपि पिंडदानविधानात्स्त्रीपिंडं पितामह्यादिपिंडेष्वेव योजयेदित्यर्थः । तथा च '''स्मृत्यंतरे—'''
“स्त्रीमृताहे स्त्रियो भोज्याः पितरस्त्रीसपिंडने । पित्रांदेरेव होमः स्यात्पिंडदानं तु वर्गयोः ”॥ इति । २५
पितरः जीवत्पितृकस्य पितामहादयस्त्रयः प्रमीतपितृकस्य पित्रादयस्त्रयः श्राद्धदेवताः । तेषां भोजनं
होमश्च होममंत्रेषु चोहोऽस्ति । पिंडदानं तु पित्रादीनां पितामह्यादीनां तिसृणां चेत्यर्थः । '''रुद्रस्कंदे च—'''
“ स्त्रीणां सापिंड्ये भर्तुः पित्रादिभ्यः पिंडं दद्यात् । तथैव तेषां स्त्रीभ्यः ” इति । अतः पिता-
महादीनां भोजनाभावे पिंडदानसद्भावात्पितामह्यादिपिंडेर्मातृपिंडसंयोगो युज्यते । तथा च
'''पितृमेधसारे—'''“ पुंसः स्त्रिया वा सापिंड्ये पित्रादीनेव वृणुयात्पुंसः पिंडं पित्रादिपिंडैः संसृजे- ३०
त्स्त्रियाः पिंडं श्वश्रूवादिपिंडैरेवानुसूतौ पत्या ” इति । अत्र '''केचिदाहुः—'''“ पितामह्यादिभिः सार्धं
सपिंडीकरणं स्मृतम् ” इति शंखादिवचनानि मातृसापिंड्ये पितामह्यादिभोजनपराणि न तु
पिंडसंसर्गमात्राभिप्रायाणि ‘ पितॄनेवाशयेत्तत्र ’ इत्यादीनि त्वनुमृतिविषयाणि । अनुयाने पित्रादि-
पिंडेष्वेव तत्पिंडसंयोगविधानाद्भोजनमपि तेषां तत्र युज्यत इति ।
{{rule}}<noinclude></noinclude> 03rbqrfzb5aciniysc55unq5vba9z1w पृष्ठम्:Smriti mukta phalam.pdf/७२० 104 166723 419743 2026-11-10T14:23:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६८०|'''पक्षान्तराणि ।'''|}} {{rule}} अपरे पुनराहुः—
“ सपिंडीकरणं पित्रोः पितृयज्ञविधानतः ” इति स्मरणात्पिंडपितृयज्ञे पिंडत्रयविधानात्
“तिलपुंकेन चान्नेन पिंडा... नवीन पृष्ठं निर्मीत अस्ती 419743 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६८०|'''पक्षान्तराणि ।'''|}} {{rule}} अपरे पुनराहुः—
“ सपिंडीकरणं पित्रोः पितृयज्ञविधानतः ” इति स्मरणात्पिंडपितृयज्ञे पिंडत्रयविधानात्
“तिलपुंकेन चान्नेन पिंडांस्त्रीनेव पुत्रकः । पितॄनुद्दिश्य दर्भेषु कुर्यादुच्छिष्टसंनिधौ”॥ इति
स्मरणात्कात्यायनाश्वलायनादिभिश्च पिंडपितृयज्ञप्रकारेण पार्वणपिंडविधानात्तत्र पित्रादीनां
५ भोजने पितामह्यादीनां पिंडदानस्यानौचित्यात्पिंडपितृयज्ञविधानेनानुष्ठातॄणां मातृसापिंड्ये पिता-
मह्यादीनामेव भोजनम् । पितामह्यादिपिंडैरेव मातृपिंडसंसर्गः । “ पितामह्यादिभिः सार्धं सपिंडी-
करणं स्मृतम् ” इत्यादीनि च पिंडत्रयवतां पितामह्यादिभोजनपिंडदानतत्संसर्गपराणि ‘ पितृ-
नेवाशयेत्तत्र ’ इत्यादीनि तु पिंडषट्कवतां पित्रादिभोजनपराणि । ‘ पितामह्यादिभिः सार्धम् ’ इति
वचनात्पितामह्यादिभिः सह पिंडसंसर्ग इति । यथाकुलाचारमिह व्यवस्था
१० “ यत्र शास्त्रगतिर्भिन्ना सर्वकर्मसु भारत । उदितेऽनुदिते चैव होमभेदो यथा भवेत् ॥
“ तस्मात् कुलक्रमायातमाचारं त्वाचरेद्बुधः । स गरीयान्महाबाहो सर्वशास्त्रोदितादपि ” ॥ इति
सुमंतुस्मरणात् । पुत्रिकासुतो मातृसपिंडनं मातामहादिभिः सह कुर्यात् । तथा च बोधायनः—
“ आदिशेत्प्रथमे पिंडे मातरं पुत्रिकासुतः । द्वितीये पितरं तस्यास्तृतीये च पितामहः ” ॥ इति ।
व्याघ्रः—
१५ “मातुः प्रथमतः पिंडं निर्वपेत्पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः”॥ इति ।
सुमंतुरपि—
“ पिता पितामहे योज्यः पूर्णे संवत्सरे सुतैः । माता मातामहे तद्वदित्याह भगवान्प्रचेतः”॥ इति ।
उशना अपि—
“ पितुः पितामहे यद्वत्पूर्णे संवत्सरे सुतैः । मातुर्मातामहे तद्वदेषा कार्या सपिंडता ” ॥ इति ।
२० व्याघ्रः—
“ पत्या सहैकता तावत् यावत्पुत्रोऽनुजायते । पुत्रिकासुत उत्पन्ने पत्न्येकत्वं निवर्त्तते ” ।
बोधायनः—
“ कोकिलस्य यथा पुत्रा अन्यसंबधजीविनः । पुष्टास्ते स्वकुलं यांति सपुत्रा पुत्रिका तथा ॥
“ मातुर्मातुः पितुर्नित्यं तस्याश्चैव पितुःपितुः। प्रदद्यात्पुत्रिकापुत्रः पिंडदानं स्वयं विधिः”॥ इति ।
२५ एतत्सर्वं ब्राह्मादिविवाहेषु द्रष्टव्यम् । आसुरादिविवाहेषु विकल्पमाह शातातपः—
“तन्मात्रा तत्पितामह्या तच्छ्वश्र्वा वा सपिंडनम् । आसुरादिविवाहेषु वर्णानां योषितां भवेत्”॥ इति ।
तद्गवेधोपितामिति । स्मृत्यंतरे—
“ मातुः सपिंडीकरणं मातामह्यादिभिः स्मृतम् । मातामह्यादिभिर्वाऽपि ह्यासुराद्यागतः सुतः ” ॥
विज्ञानेश्वरः—“ मातामहेन मातुः सापिंड्ये मातामहश्राद्धं पितृश्राद्ध-
३० वन्नित्यमेव । पत्न्या वा पितामह्या वा मातुः सापिंड्ये मातामहश्राद्धमनित्यम् । कृते त्वभ्युदयः ।
अकृते न प्रत्यवायः ” इति । यमश्च—
“ मातुः सपिंडीकरणं पित्रैकेन त्रिभिborder-श्च वा । आसुborder-राद्यागतः पुत्रः पितामह्यादिभिस्तु वा” ॥ इति
पित्रैकेनेत्यनुसृतिविषयम् । तच्चोक्तप्रकारं द्रष्टव्यं चंद्रिकायाम्—
“ पितामह्यादिभिर्धर्म्यविवाहोढास्त्रियाः सुतः । पितृपक्षैर्मातृपक्षैरासुराद्यागतः सुतः ॥
३५ “ विवाहपुत्रभेदेन तद्गोत्रं च व्यवस्थितम् ” इति ।
{{rule}} १ क्ष-पितृयज्ञ । २ खग-व्याघ्रपाद्ः । ३ कखग-योज्या । ४ कखग-भार्गवः । ५ क-वेधाः । ६ क्ष-द्धानां तदभवेद्योषितामिति । ७ ग-ता ।<noinclude></noinclude> 2trah7mbxbpj9tqi88sqi30rwuev2uk पृष्ठम्:Smriti mukta phalam.pdf/७२१ 104 166724 419744 2026-11-10T14:24:33Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''मातुः सापिंड्ये गोत्रनियमः ।'''|६८१}} {{rule}} पितृमेधसारे तु—“ आसुरादिविवाहेऽपि पितामह्यादिभिरेव वचनादाचाराद्विकल्पस्मरणाच्चेति
पितामह्यादिपिंडैरेव मातृ... नवीन पृष्ठं निर्मीत अस्ती 419744 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''मातुः सापिंड्ये गोत्रनियमः ।'''|६८१}} {{rule}} पितृमेधसारे तु—“ आसुरादिविवाहेऽपि पितामह्यादिभिरेव वचनादाचाराद्विकल्पस्मरणाच्चेति
पितामह्यादिपिंडैरेव मातृपिंडं शिष्टाः संयोजयंति । किं चापस्तंबेन—“ दुहितुमते अधिरथं गवां
शतं देयम् ” इति कन्याधिगमार्थद्रव्यदानविधानाद्दक्षिणे निमित्तमाचार्यो विवाह इति द्रव्यार्जन-
निमित्तेषु विवाहस्य परिगणनाद्गौतमेन च ‘ षडित्येक ’ इति पंचमविवाहस्यासुरस्य
धर्म्यत्वस्मरणात् “ पितामह्यादिभिर्धर्म्यविवाहोढास्त्रियाः सुतः ” इति वचनात्पितामह्यादिपिंडैरेव ५
मातृपिंडसंयोगः । “ पितृपक्षैर्मातृपक्षैरासुराद्यागतः सुतः ” इति विकल्पस्मरणेऽपि वैकल्पिकधर्मे-
ष्वाचारस्यैव व्यवस्थापकत्वात्पितृपक्षैः पितामह्यादिभिरेव पिंडसंयोग इत्याहुः ।
'''मातुः सापिण्ड्ये गोत्रनियमः ।''' मातुः सापिंड्ये गोत्रनियममाह '''मार्कंडेयः—'''
“ ब्राह्मादिषु विवाहेषु या तूढा कन्यका भवेत् । भर्तृगोत्रेण कर्त्तव्यास्तस्याः पिंडोदकक्रियाः ॥
“ आसुरादिविवाहेषु पितृगोत्रेण धर्मवित् ” ॥ इति । ब्राह्मादिविवाहाभिप्रायेणाह '''शातातपः—''' १०
“स्वगोत्राद्भ्रश्यते नारी विवाहात्सप्तमे पदे । स्वामिगोत्रेण कर्त्तव्यास्तस्याः पिंडोदकक्रियाः”॥ इति ।
'''बृहस्पतिरपि—'''
पाणिग्रहणका मंत्राः पितृगोत्रापहारकाः । तस्याः स्वभर्तृगोत्रेण देयं पिंडोदकं तथा ” ॥ इति ।
'''मनुः—'''“पितृगोत्रे कुमारीणामूढानां भर्तृगोत्रतः” । इति आसुरादिविवाहाभिप्रायेण '''विज्ञानेश्वरीये—'''
“ पितृगोत्रे समुत्सृज्य न कुर्याद्भर्तृगोत्रतः । जन्मन्यपि विपत्तौ च नारीणां पैतृकं कुलम्”॥ इति । १५
'''लोकाक्षिः—'''“मातामहस्य गोत्रेण मातुः पिंडोदकक्रियाम् । कुर्वीत पुत्रिकापुत्र एवमाह प्रजापतिः”॥
'''कालादर्शे—'''“ विवाहपुत्रभेदेन तद्गोत्रं च व्यवस्थितम् ” इति ।
ब्राह्मादिविवाहभेदेन औरसपुत्रिकापुत्रभेदेन च तद्गोत्रं स्त्रीगोत्रव्यवस्थितम् । ब्राह्मादिविवाहचतुष्टयो-
ढायाः स्त्रियाः भर्तृगोत्रेणोर्ध्वदैहिकं कार्यम् । आसुरादिविवाहचतुष्टयोढायाः स्त्रियाः पितृगोत्रेण २०
औरसपुत्रो भर्तृगोत्रेण पुत्रिकापुत्रो मातामहगोत्रेण कुर्यादित्यर्थः । एतच्च
“ अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति” ॥
इति वसिष्ठोक्तप्रकारेण दाने मातामहगोत्रत्वम्
“ अपुत्रोऽहं प्रदास्यामि तुभ्यं कन्यां भवानपि । पुत्रार्थी चेदिहोत्पन्नः स नौ पुत्रो भवेदिति ।
कात्यायनोक्तप्रकारेण ऊढाया मातुः मातामहगोत्रेण पितृगोत्रेण वा कुर्यात् । एवं पुत्रिकापुत्रस्यापि २५
मातामहसंबंधे तद्गोत्रत्वमुभयसंबंधे गोत्रविकल्यश्च सिद्धः । तथा '''कालादर्शे—'''
“ कुर्यान्मातामहश्राद्धं नियमात्पुत्रिकासुतः । उभयोरपि संबंधे कुर्यात्स उभयोरपि ” ॥
'''वृद्धहारीतश्च'''
“मातामहपितृभ्यां च प्रदद्यात्पुत्रिकासुतः । उभयोरपि संबंधे यस्मादुभयगोत्रताम् ” ॥ इति
दत्तस्य प्रतिगृहीतृगोत्रमेव । ३०
“ गोत्रांतरप्रविष्ठानां दायमाशौचमेव च । ज्ञातित्वं च निवर्त्तन्ते तत्कुले सर्वमिष्यते ” ॥
इति स्मरणात् । यत्तु पैठीनसिवचनं “अथ दत्तककृतकृत्रिमपुत्रिकापुत्रक्षेत्रजाः परिग्रहेणार्षेण जाता
द्यामुष्यायणा भवंतीति ” तदुपनयनानंतरं गोत्रांतरे यो दत्तस्तद्विषयमित्यधस्तान्निरूपितम् ।
{{rule}} १ ग-न्ता ।<noinclude></noinclude> jhx5aabiqrhilh845iitg0ac0r9nytr पृष्ठम्:Smriti mukta phalam.pdf/७२२ 104 166725 419745 2026-11-10T14:25:28Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६८२|'''अनेकभर्तृकायाः । अपुत्रायाः ।'''|}} {{rule}} धारापूर्वं दत्ताया विवाहात्पूर्वं मृताया भर्तृगोत्रेण पितृगोत्रेण वा क्रिया कार्या
“ दत्ताऽनूढा च या कन्या संस... नवीन पृष्ठं निर्मीत अस्ती 419745 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६८२|'''अनेकभर्तृकायाः । अपुत्रायाः ।'''|}} {{rule}} धारापूर्वं दत्ताया विवाहात्पूर्वं मृताया भर्तृगोत्रेण पितृगोत्रेण वा क्रिया कार्या
“ दत्ताऽनूढा च या कन्या संस्कार्या भर्तृगोत्रतः ” इति ।
“ स्वगोत्राद्भ्रश्यते नारी विवाहात्सप्तमे पदे ” इति उभयथा स्मरणात् ।
अनेकभर्तृकाया आद्यभर्तृगोत्रेण कर्तव्यम् । तदाह '''ऋष्यशृंगः—'''
५ “ स्त्रीणामाद्यस्य वै भर्तुर्यद्गोत्रं तेन निर्वपेत् । यदि त्वक्षतयोनिः स्यात् पतिमन्यं समाश्रिता ” ॥
“ तद्गोत्रेण तदा देयं पिण्डं श्राद्धं तथोदकम् ।
'''स्मृत्यंतरे—'''
“ गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमिष्यते । यस्मादाह श्रुतिः सर्वाः प्रजाः काश्यपसंभवाः ॥
“ पित्रादीनां यदा नाम पुत्रैर्न ज्ञायते तदा । पृथिवीषत्पिता वाच्यस्तत्पिताborder-ह्यांतरिक्षसत् ॥
१० “ अभिधानापरिज्ञाने द्विविषत्प्रपितामहः ” ॥ इति ।
राजविशोः पुरोहितगोत्रेण कार्यम् । तथा च '''कात्यायनः—'''
“ पुरोहितस्य गोत्रेण कार्या राजविशोः क्रियाः । दद्यात्पिंडोदके श्राद्धं तुष्टिं शूद्रस्य नामतः ”॥ इति ।
तच्च नाम शूद्रस्य दासांतमित्याह '''बोधायनः'''
“शर्मांतं ब्राह्मणस्योक्तं वर्मांतं क्षत्रियस्य तु । पोषांतं चैव वैश्यस्य दासांतं शूद्रजन्मनः ” ॥ इति ।
१५ '''सपिंडीकरणं स्वसूत्रैणेव कार्यम्'''
“ अलब्ध्वात्मीयसूत्रस्य श्राद्धांतं परसूत्रतः । कुर्यात्सपिंडीकरणं स्वसूत्रेणैव नान्यथा ” इति
'''भरद्वाजस्मरणात् ।'''
अपुत्रायाः पत्न्याः सापिंड्ये भर्त्ता स्वपित्रादीन्भोजयित्वा स्वमात्रादिपिंडैः सह तत्पिंडं योजयेत्
“ स्त्रीमृताहे स्त्रियो भोज्याः पितरस्त्रीसपिंडने । पित्रांदेरेव होमः स्यात्पिंडदानं तु वर्गयोः ॥
२० “ अपुत्रायां मृतायां तु पतिः कुर्यात्सपिंडनम् । श्वश्रूवादिभिः सहैवास्याः सपिंडीकरणं भवेत् ॥
“ पत्न्याः कुर्यादपुत्रायाः पतिर्मात्रादिभिः सह ” ॥ इति स्मरणात् । पत्नीमृताहश्राद्धे तु
पत्नीमातृपितामहीर्भोजयेत्
“ स्त्रीश्राद्धे वृणुयादर्चा पत्नीमातृपितामहीः । पितृव्याग्रजयोः श्राद्धे तत्तत्पितृपितामहान् ” ॥
इति स्मरणात् । '''स्मृतिरत्ने—'''
२५ “ अभर्तुर्योषितः पिंडं भर्तृपिंडेन योजयेत् । यदि जीवति भर्त्ता तु श्वश्रूवादिषु नियोजयेत् ॥
“ पत्यौ जीवति संसर्गं स्त्रीपिंडेषु स्त्रिया भवेत् । मृते भर्त्तरि पत्न्यौ च सर्वत्रेति विनिर्णयः ॥
“ अनपत्या यदा नारी पतिपिंडेन योजयेत् । यद्वा पुत्रवती नारी पितामह्यादिभिः सह ॥ ” इति ।
'''संग्रहेऽपि—'''“ मृतप्रियायाश्च तथैव लोके पठंति संतः पतिपिंडयोगम् ।
“ जीवप्रियायाश्च तथैव पिंडं श्वश्रूवादिपिंडैः सह संसृजेद्धि ” ॥ इति । पतिपिण्डं संसृष्टं
३० पुनस्त्रेधा कृत्वा तत्रैकमंशमवस्थाप्यावशिष्टमंशद्वयं पितृपितामहपिंडाभ्यां योजयेदिति पूर्वसंग्रहे ।
एवं च भोजनं होमश्च पतिपितृपितामहानाम् । पित्रोः सपिंडीकरणं ज्येष्ठेनैव कार्यम्
“ सर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत् ॥
“ सपिंडीकरणं पित्रोर्न कार्यमखिलैः सुतैः । एकेनापि कृते सम्यक्पुत्रत्वगुणसंभवात् ॥
{{rule}} १ ग-हौ । २ स्त्र-न्त्यां ।<noinclude></noinclude> ia63qf2k6vc40l1u5nuru2zwsumo4m4 पृष्ठम्:Smriti mukta phalam.pdf/७२३ 104 166726 419746 2026-11-10T14:29:29Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६८२|'''अनेकभर्तृकायाः । अपुत्रायाः ।'''|}} {{rule}} धारापूर्वं दत्ताया विवाहात्पूर्वं मृताया भर्तृगोत्रेण पितृगोत्रेण वा क्रिया कार्या
“ दत्ताऽनूढा च या कन्या संस... नवीन पृष्ठं निर्मीत अस्ती 419746 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६८२|'''अनेकभर्तृकायाः । अपुत्रायाः ।'''|}} {{rule}} धारापूर्वं दत्ताया विवाहात्पूर्वं मृताया भर्तृगोत्रेण पितृगोत्रेण वा क्रिया कार्या
“ दत्ताऽनूढा च या कन्या संस्कार्या भर्तृगोत्रतः ” इति ।
“ स्वगोत्राद्भ्रश्यते नारी विवाहात्सप्तमे पदे ” इति उभयथा स्मरणात् ।
अनेकभर्तृकाया आद्यभर्तृगोत्रेण कर्तव्यम् । तदाह '''ऋष्यशृंगः—'''
५ “ स्त्रीणामाद्यस्य वै भर्तुर्यद्गोत्रं तेन निर्वपेत् । यदि त्वक्षतयोनिः स्यात् पतिमन्यं समाश्रिता ” ॥
“ तद्गोत्रेण तदा देयं पिण्डं श्राद्धं तथोदकम् ।
'''स्मृत्यंतरे—'''
“ गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमिष्यते । यस्मादाह श्रुतिः सर्वाः प्रजाः काश्यपसंभवाः ॥
“ पित्रादीनां यदा नाम पुत्रैर्न ज्ञायते तदा । पृथिवीषत्पिता वाच्यस्तत्पिताborder-ह्यांतरिक्षसत् ॥
१० “ अभिधानापरिज्ञाने द्विविषत्प्रपितामहः ” ॥ इति ।
राजविशोः पुरोहितगोत्रेण कार्यम् । तथा च '''कात्यायनः—'''
“ पुरोहितस्य गोत्रेण कार्या राजविशोः क्रियाः । दद्यात्पिंडोदके श्राद्धं तुष्टिं शूद्रस्य नामतः ”॥ इति ।
तच्च नाम शूद्रस्य दासांतमित्याह '''बोधायनः'''
“शर्मांतं ब्राह्मणस्योक्तं वर्मांतं क्षत्रियस्य तु । पोषांतं चैव वैश्यस्य दासांतं शूद्रजन्मनः ” ॥ इति ।
१५ '''सपिंडीकरणं स्वसूत्रैणेव कार्यम्'''
“ अलब्ध्वात्मीयसूत्रस्य श्राद्धांतं परसूत्रतः । कुर्यात्सपिंडीकरणं स्वसूत्रेणैव नान्यथा ” इति
'''भरद्वाजस्मरणात् ।'''
अपुत्रायाः पत्न्याः सापिंड्ये भर्त्ता स्वपित्रादीन्भोजयित्वा स्वमात्रादिपिंडैः सह तत्पिंडं योजयेत्
“ स्त्रीमृताहे स्त्रियो भोज्याः पितरस्त्रीसपिंडने । पित्रांदेरेव होमः स्यात्पिंडदानं तु वर्गयोः ॥
२० “ अपुत्रायां मृतायां तु पतिः कुर्यात्सपिंडनम् । श्वश्रूवादिभिः सहैवास्याः सपिंडीकरणं भवेत् ॥
“ पत्न्याः कुर्यादपुत्रायाः पतिर्मात्रादिभिः सह ” ॥ इति स्मरणात् । पत्नीमृताहश्राद्धे तु
पत्नीमातृपितामहीर्भोजयेत्
“ स्त्रीश्राद्धे वृणुयादर्चा पत्नीमातृपितामहीः । पितृव्याग्रजयोः श्राद्धे तत्तत्पितृपितामहान् ” ॥
इति स्मरणात् । '''स्मृतिरत्ने—'''
२५ “ अभर्तुर्योषितः पिंडं भर्तृपिंडेन योजयेत् । यदि जीवति भर्त्ता तु श्वश्रूवादिषु नियोजयेत् ॥
“ पत्यौ जीवति संसर्गं स्त्रीपिंडेषु स्त्रिया भवेत् । मृते भर्त्तरि पत्न्यौ च सर्वत्रेति विनिर्णयः ॥
“ अनपत्या यदा नारी पतिपिंडेन योजयेत् । यद्वा पुत्रवती नारी पितामह्यादिभिः सह ॥ ” इति ।
'''संग्रहेऽपि—'''“ मृतप्रियायाश्च तथैव लोके पठंति संतः पतिपिंडयोगम् ।
“ जीवप्रियायाश्च तथैव पिंडं श्वश्रूवादिपिंडैः सह संसृजेद्धि ” ॥ इति । पतिपिण्डं संसृष्टं
३० पुनस्त्रेधा कृत्वा तत्रैकमंशमवस्थाप्यावशिष्टमंशद्वयं पितृपितामहपिंडाभ्यां योजयेदिति पूर्वसंग्रहे ।
एवं च भोजनं होमश्च पतिपितृपितामहानाम् । पित्रोः सपिंडीकरणं ज्येष्ठेनैव कार्यम्
“ सर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत् ॥
“ सपिंडीकरणं पित्रोर्न कार्यमखिलैः सुतैः । एकेनापि कृते सम्यक्पुत्रत्वगुणसंभवात् ॥
{{rule}} १ ग-हौ । २ स्त्र-न्त्यां ।<noinclude></noinclude> ia63qf2k6vc40l1u5nuru2zwsumo4m4 419747 419746 2026-11-10T14:30:53Z Myauthworks 10864 419747 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''बहुपुत्रसद्भाव पुनः सपिण्डीकरणप्रकारः ।'''|६८३}} {{rule}} “ ज्येष्ठपुत्रस्य सद्भावे कनिष्ठः कुरुते क्रियाम् । प्रेतत्त्वान्न विमुच्येत पितृत्वं च न गच्छति ॥
“ ज्येष्ठपुत्रे तु दूरस्थे कनिष्ठश्च यथोदितम् । कुर्यात् पित्रोस्तु संस्कारं सपिंडीकरणं न तु ॥
“ यवीयसा कृतं कर्म प्रेतशब्दं विहाय तु । तदग्रजेन कर्तव्यं सपिंडीकरणं पुनः ॥
“ नवश्राद्धं सपिंडत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ” ॥
इत्यादिवचनान्यत्रावगंतव्यानि । स्मृत्यन्तरे तु— ५
“ मासिकं सोदकुम्भं च सपिण्डीकरणं तथा । पृथग्विभक्ताः कुर्वीरन् मिलित्वा वा ह्यशक्तितः”॥
एतच्चाधस्तात्प्रतिपादितम् । ज्येष्ठस्यापत्नीकत्वे कनिष्ठ एव सपिंडनं कुर्यात् । तस्यैव साग्निकत्वात् ।
तथा '''पैठीनसिः—'''
“ सपिंडीकरणं पुत्रः पितुः कुर्यात्त योऽग्निमान् । अनग्नेस्तु क्रिया नान्या एकोद्दिष्टादृते क्वचित् ” ॥
'''स्मृत्यंतरे च—'''
“ यद्यग्निदूरतो विप्रः सापिंड्ये समुपस्थिते । भ्रातृभिः कारयेच्छ्राद्धं साग्निकैर्विधिवत्ततः ॥ १०
“ औपासनाग्नौ दूरस्थे समीपे भ्रातरि स्थिते । यद्यग्नौ जुहुयाद्वापि पाणौ वा स हि पातकी ॥
“ज्येष्ठपुत्रोऽग्निमान्न स्यात्कनिष्ठस्त्वग्निमान्यदि । कनिष्ठ एव कुर्वीत सपिंडीकरणं पितुः”॥ इति ।
उद्वाहानंतरं पुनःसपिंडीकरणं कर्तव्यम्—
“ज्यायस्यनग्नावन्त्यस्तु साग्निः पित्रोः सपिंडनम् । कुर्यात् त्यक्त्वा प्रेतशब्दं सत्यग्नावग्रजः पुनः”॥इति ।
'''पुनःसपिंडीकरणप्रकारश्चंद्रिकायामभिहितः''' १५
“ यवीयसा कृते श्राद्धे प्रेतशब्दं विहाय च । तदग्रजेन कर्तव्यं सपिंडीकरणं पुनः ॥
“ सपिंडीकरणं नाम पुनः पार्वणवद्भवेत् । अर्घ्यसंयोजनं कुर्यात्पिंडसंयोजनं तथा ॥
“ प्रेतत्वात्तु विनिर्मुक्तः पुनस्तेन न निर्दिशेत् । प्रेतशब्दं विना सर्वं कार्यमित्याह गौतमः”॥ इति ।
'''हेमाद्रौ तु''' “ सपिंडीकरणं नाम पुनः पार्वणधर्मवत् ।
“ पितृशब्देन कर्तव्यं प्रेतशब्दं विहाय च । अर्घ्यसंयोजनं नास्ति पिंडसंयोजनं तथा ॥ २०
“ एकादशेऽन्हि कर्तव्यं सपिंडीकरणं पुनः । द्वादशाहे न कर्तव्यमिति शातातपोऽब्रवीत् ॥
“ यः सपिंडीकृतं प्रेतं पुनः पिंडेन योजयेत् । विधिघ्नस्तेन भवति पितृहा चोपजायते ” इति ॥
एवं चार्घ्यपिंडसंयोगतदभावयोर्विकल्पः । अत्र केचिदाहुः पुनः पिंडसंयोगनिषेधश्रवणात्
“ सपिंडीकरणे वृत्ते पृथक्त्वं नोपपद्यते । पृथक्त्वे तु कृते पश्चात्पुनः पित्रोः सपिंडनम् ” ॥ इति
एकोद्दिष्टनिषेधस्मरणाच्च पुनः पार्वणधर्मवदिति पार्वणधर्ममात्रस्मरणाच्च पुनःसपिंडीकरणं पार्वण- २५
विधानेन कर्तव्यमिति । अत्र पुनःसपिंडीकरणे ततः पूर्वं न मासिकानि पुनः कर्तव्यानि सपिंडी-
करणमात्रस्य पुनःकरणविधानात् “ सपिंडीकरणादूर्ध्वं नैकोद्दिष्टं समाचरेत् ” इति एकोद्दिष्ट-
रूपमासिकनिषेधस्मरणाच्च ।
'''सपिण्डीकरणादावग्निनिर्णयः । अथ सपिंडीकरणादिश्राद्धेष्वग्निनिर्णयः ।'''
तत्र '''याज्ञवल्क्यः—'''“ कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ” । इति । ३०
'''श्रीधरीये—'''“द्वादशाहे त्रिपक्षे वा षण्मासे मासिकाऽऽब्दिके । सपिंडीकरणं कुर्यात्पित्रोरौपासने सुतः”॥
'''विष्णुः—'''“सपिंडीकरणं पित्रोः कुर्यादौपासने सुतः । अभावे लौकिके ह्यग्नौ सर्वं संपादयेद् बुधः”॥इति ।
लौकिकेऽग्नाविति विधुरादिविषयम् ।
{{rule}} १ श-शब्दात् । २ ग-चा ।<noinclude></noinclude> 0hdde17k558kaf0vrqzcej02t2ujue6 पृष्ठम्:Smriti mukta phalam.pdf/७२४ 104 166727 419748 2026-11-10T14:32:28Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६८४|'''अग्निनिर्णयः ।'''|}} {{rule}} तथा च स्मृत्यंतरे—
“ औपासनाग्नौ कर्तव्यं मातापित्रोर्गुरोरपि । अन्येषां लौकिकाग्नौ तु विधुरस्य च लौकिके ॥
“ वटुश्चेत् समिदग्... नवीन पृष्ठं निर्मीत अस्ती 419748 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६८४|'''अग्निनिर्णयः ।'''|}} {{rule}} तथा च स्मृत्यंतरे—
“ औपासनाग्नौ कर्तव्यं मातापित्रोर्गुरोरपि । अन्येषां लौकिकाग्नौ तु विधुरस्य च लौकिके ॥
“ वटुश्चेत् समिदग्नौ वा कुर्यात्पित्रोः सपिंडनम् ” ॥ इति । अन्यत्रापि—
“ कुर्यादौपासने श्राद्धं मातापित्रोर्यथाविधि । अन्येषां लौकिके तद्वद्ब्रह्मचार्यप्यनग्निकः ” ॥ इति ।
५ तथा—
“ सपिंडीकरणं कुर्याद्ब्रह्मावौपासने द्विजः । मातापित्रोर्गुरोश्चैवमितरेषां तु लौकिके ” ॥ इति ।
'''अखंडादर्शे—'''
“ पित्रोः सपिंडीकरणं कुर्यादौपासनाग्निना । इतरेषां सपिंडानां लौकिकाग्नाविति स्थितिः ” ॥ इति ।
'''सायणीये—'''
१० “ सपिंडीकरणं कुर्यात्पित्रोरौपासनेऽनले । तथा मातामहस्यापि मातामह्याश्च निर्णयः ॥
“ तथा सीमंतजातस्य ज्येष्ठस्यापि सपिंडनम् । औपासनाग्नौ कर्तव्यं जनकस्य समो हि सः ॥
“ पितामहस्य तत्पत्न्याः कार्यमौपासनेऽनले ” ॥ इति । '''स्मृत्यंतरे—'''
“ मातुः पित्रोर्मातुलादेर्मरणे तु स्ववह्निना । सापिंड्यं मासिकादींश्च तत्तत्सूत्रेण कारयेत् ॥
“ अपुत्रस्य पितृव्यस्य ज्येष्ठस्याप्यसुतस्य च । सपिंडीकरणं कुर्यात्स्वस्वौपासनवह्निना ” ॥ इति
१५ '''अन्यत्रापि—'''
“मातुः पित्रोर्मासिकादीन् दौहित्रः स्वीयवह्निना । तथा महालयादींश्च कुर्यात्पार्वणतः शुचिः”॥ इति ।
तदेवं मातापित्रोर्मातामहमातामह्योः पितामहपितामह्योर्मातुलस्यापुत्रस्य ज्येष्ठभ्रातुः पितृव्यस्या-
चार्यस्य च स्वौपासने सापिंड्यादिपार्वणश्राद्धं कुर्यादिति स्थितम् ।
यत्तु कैश्चिदुक्तम् पित्रोर्मातामहयोश्च श्राद्धमौपासने इतरेषां श्रोत्रियागारादाहृते लौकिकाग्नौ
२० कर्तव्यमिति तत्पूर्वोक्तस्मृत्यनभिज्ञानविलसितत्वादुपेक्ष्यम् ।
अग्नौकरणं द्विविधम् । कात्यायनाश्वलायनाद्युक्तं पितृयज्ञधर्मकं एकम् । आपस्तंबाद्युक्तं
तद्रहितमन्यत् । तत्स्वरूपं चाग्रे वक्ष्यते । उभयविधमप्यग्नौकरणमनाहिताग्नेरौपासनवत एव ।
आहिताग्नेरप्यर्धाधानेन औपासनवत औपासन एव । सर्वाधानेन औपासनवत्त्वांसंभवे त्वाप-
स्तंबोक्ताग्नौकरणस्य लोपः । न तु वैतानिकाग्नावनुष्ठानम् । ‘श्रोतं वैतानिकाग्निषु’ इत्यभिधा-
२५ नात् । लौकिकाग्नौ देवतादेरिवाग्नेरपि प्रतिनिधिभावादत एव सर्वाधानिनौपासनाभावविषये '''धूर्त-'''
'''स्वामिना भाष्यकारेणोक्तं''' श्राद्धं ऊर्ध्वं होमात्कर्तव्यम् । ब्राह्मणा आहवनीयार्थास्तस्यापि प्रधान-
त्वादिति । तस्यापि होमादूर्ध्वं क्रियमाणस्याप्राशनलक्षणस्य श्राद्धस्यापीत्यर्थः । पितृयज्ञधर्मकाग्नौ-
करणस्य तु सर्वाधानेनौपासनाभावेऽपि न निवृत्तिः । ‘ कर्म स्मार्त्तं विवाहाग्नौ ’ इत्यादिनापदिष्टौ-
पासनाग्न्यभावेऽपि पितृयज्ञवदित्यतिदेशतः प्राप्तदक्षिणाग्नेः संभवद्दक्षिणाग्नावनुष्ठानम् । अनेनैवाभि-
३० प्रायेण '''मार्कण्डेयेनोक्तम्''' “ आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः ” इति । आपस्तंबो-
क्ताग्नौकरणे तु पिंडपितृयज्ञातिदेशाभावान्न दक्षिणाग्निप्राप्तिरिति सर्वाधाने धूर्तस्वाम्युक्ताग्नौकरणा-
भाव एव युक्तः । पूर्वोक्ताभिप्रायेण '''वायुपुराणेऽप्युक्तम्—'''
“आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः। अन्यर्थं लौकिकं वापि जुहुयात्कर्मसिद्धये”॥इति। अस्या-
यमर्थः—अग्नौकरणहोमार्थं गृह्याग्न्यभावे दक्षिणाग्निं लौकिकाग्निं वा आहृत्य होमकर्मसिद्धये जुहुया-
३५ दिति । अत्र दक्षिणाग्निपक्षस्य प्रवासादिना असंभवे लौकिकाग्निपक्षः। तस्योपदेशातिरूपशातिदेशरूप-
{{rule}} १ क-परः, ख-विधुरस्त्रेलौकिकाग्नौ, ग-वटुश्चेल्लौकिकाग्नौ । २ क्ष-औपासना- ३ ग- + न । ४ ग-यज्ञषडित्यति—<noinclude></noinclude> 6yoqxoufjhqytnsyc10dqk3pm749591 पृष्ठम्:Smriti mukta phalam.pdf/७२५ 104 166728 419749 2026-11-10T14:33:20Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अग्न्यभावे ।'''|६८५}} {{rule}} प्रमाणद्वयावगतदक्षिणाग्न्यबाधकत्वेनागत्याश्रयणीयत्वादत एव प्रयत्नतो दक्षिणाग्निमाहृत्येत्युक्तम् ।
दक्षिणाग्न्यसंनिधाने प... नवीन पृष्ठं निर्मीत अस्ती 419749 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अग्न्यभावे ।'''|६८५}} {{rule}} प्रमाणद्वयावगतदक्षिणाग्न्यबाधकत्वेनागत्याश्रयणीयत्वादत एव प्रयत्नतो दक्षिणाग्निमाहृत्येत्युक्तम् ।
दक्षिणाग्न्यसंनिधाने पाणौ वा होमः कर्तव्यः । तथा हि स्मृत्यंतरम्—
“हस्तेऽग्नौकरणं कुर्यादग्नौ वा साग्निको द्विजः” इति । साग्निकः सर्वाधानाहिताग्निर्border-दक्षिणा-
ग्न्यसंनिधाने हस्ते वा लौकिकाग्नौ वा अग्नौकरणं कुर्यादित्यर्थः । अत्रापि प्रवासादिना दक्षिणा-
ग्न्यसंभवे लौकिकाग्न्यादिपक्षै पूर्वोक्तन्यायावगंतव्यौ । लौकिकाग्नेस्तु तादृशविशेषानवगमा- ५
त्पाणिना सह समविकल्प एव । यद्यपि न्यायतोऽग्नेः प्रतिनिधिर्न्यभावः तथापि प्रतिनिधिन्यायेनात्र
दक्षिणाग्न्यादेरुपादानं किंतु गृह्याग्म्यभावेन तत्साध्यकर्मणोऽननुष्ठाने प्राप्ते वचनेन अगृह्या-
ग्न्याद्यावपि गृह्याग्निसाध्यं कर्म विधीयते इति न कश्चिद्दोषः । तथा नारदीये—
“ अग्न्यभावे तु विप्रस्य पाणौ होमो विधीयते । यथाचारं प्रकुर्वीत पाणावग्नौ तु वा द्विजः ”॥ इति ।
यत्तु स्मृत्यंतरे— १०
“ हस्तेऽग्नौकरणं कुर्यात्सर्वाधानी न लौकिके । अर्धाधानी तु गृह्याग्नौ जुहुयात्पितृयज्ञवत्” ॥
अत्र न लौकिक इति विधुरादिविषयम् । तथा स्मृत्यंतरम्—
“साग्निरग्नावानग्निस्तु द्विजपाणावथाप्सु वा । कुर्याद्विप्रो क्रियां नित्यं लौकिकेनेति निश्चितम्”॥ इति ।
अस्यायमर्थः—अग्निमान्पुरुषः औपासानौ दक्षिणाग्नौ लौकिकाग्नौ वा पूर्वोक्तव्यवस्थया
अग्नौकरणं कुर्यात् । भार्याविधुरतया दायात् प्रागस्वीकृतौपासनतया वा योऽग्निरहितः स तु १५
द्विजपाणावप्सु वाग्नौकरणं कुर्यात् । न जातु लौकिकाग्नौ कुर्यादिति ।
यत्तु मनुनेोक्तम्—“अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्” इति तद्ब्रह्मचारिविषयम् ।
तदाह जातुकर्णिः—
“अग्न्यभावे तु विप्रस्य पाणौ दद्यात्तु दक्षिणे । अग्न्यभावः स्मृतस्तावद्यावद्भार्यां न विंदति ”॥ इति ।
“ अन्येषां लौकिके तद्वत् ब्रह्मचार्यप्यनग्निकः ” ॥ इति वचनं सपिंडीकरणविषयम् । तत्पूर्वो- २०
मुक्तमापस्तंभादिविषयं वा । तथा वक्ष्यते वृद्धमनुः—
“कुर्यादनुपनीतोऽपि श्राद्धमेको हि यः सुतः । पितृयज्ञाहृतं पाणौ जुहुयान्मंत्रपूर्वकम्” ॥ इति ।
विद्यमानेऽप्यग्नौ काम्यादिषु चतुर्षु श्राद्धेषु पाणावेव होमः । तदाहुर्गुह्यकाराः—
“ अन्वष्टक्यं च पूर्वेद्युर्मासिमास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥
“ चतुष्व॑थिषु साग्नीनां वह्नौ होमो विधीयते । पित्र्ये ब्राह्मणहस्ते स्यादुत्तरेषु चतुर्ष्वपि ” ॥ इति । २५
अष्टकाश्राद्धदिनादुत्तरदिने क्रियमाणं श्राद्धमन्वष्टक्यं पूर्वदिने सप्तम्यां क्रियमाणं श्राद्धं
पूर्वेद्युरिति पदेनोक्तं मासि मासीत्यनेन मासिश्राद्धमुक्तं पार्वणं त्रिपुरुषोद्देशेन क्रियमाणं
अमावास्यादिश्राद्धं काम्यं फलकामनया क्रियमाणं अभ्युदय इत्यनेन अभ्युदयिकमुक्तम् ।
अष्टम्यमिति पदेनाष्टकाख्यं श्राद्धमुक्तम् । एकमुद्दिश्य क्रियमाणमेकोद्दिष्टम् । एतेषामष्टविधानां
श्राद्धानां आद्येषु चतुर्षु साग्नीनां बह्वग्नीनामेकाग्नीनां च पूर्वोक्तव्यवस्थाऽग्नौ होमो विधीयते । ३०
उत्तरेषु चतुर्षु स होमः पित्र्यब्राह्मणहस्ते स्यादित्यर्थः । आद्येषु चतुर्षु विप्रवासादिना औपासनाग्नौ
औपासनाड्यसंनिधाने द्विजपाणावप्सु वा कर्तव्यम् । तदाहर्विष्णुधर्मोत्तरे मार्कंडेयः—
“ अनाहिताग्निश्चौपसंदेऽग्न्यभावे द्विजेऽप्सु वा ” इति । औपसदो गृह्याग्निः ।
विज्ञानेश्वरे—
“आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः । अनाहिताग्निरौपासने अग्न्यभावे द्विजेप्सु वा”॥ इति ।
{{rule}} १ क्ष-अन्यत्रापि । २ क्ष-स्युरु । ३ खग-पासने ।
८५-१८<noinclude></noinclude> 9u23soilsrm2iiumjmp8tnw8e5cdats पृष्ठम्:Smriti mukta phalam.pdf/७२६ 104 166729 419750 2026-11-10T14:34:14Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६८६|'''आहिताग्न्यानाहिताग्न्योः ।'''|}} {{rule}} अप्स्रग्नौकरणं जलसमीपे श्राद्धकरणे वेदितव्यम् । तदाह '''कात्यायनः—'''
“विष्णुधर्मोत्तरे चाप्सु मार्कंडेयेन यः स्मृ... नवीन पृष्ठं निर्मीत अस्ती 419750 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६८६|'''आहिताग्न्यानाहिताग्न्योः ।'''|}} {{rule}} अप्स्रग्नौकरणं जलसमीपे श्राद्धकरणे वेदितव्यम् । तदाह '''कात्यायनः—'''
“विष्णुधर्मोत्तरे चाप्सु मार्कंडेयेन यः स्मृतः । स यदापां समीपे स्याच्छ्राद्धे ज्ञेयो विधिस्तदा”॥ इति ।
यदा तु पाणिहोमपक्षः तदैकस्यैव विप्रस्य पाणौ होमो न तु सर्वविप्राणामिति '''कात्यायनः—'''
“पित्र्ये यः पङ्क्तिमूर्धन्यस्तस्य पाणावनग्निकः । हुत्वा मंत्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्” ॥ इति ।
'''मनुः—''' ५
“ अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । पर्युक्ष्य दर्भानास्तीर्य यतो ह्यग्निसमो द्विजः” ॥ इति ।
अग्निसमत्वात्पित्र्यं ब्राह्मणं पर्युक्ष्य परिस्तीर्य जुहुयादित्यर्थः । यत्तु '''यमेनोक्तम्—'''
“दैवविप्रकरेऽनग्निः कृत्वाऽग्नौकरणं द्विजः ” इति तत्र विकल्पेन व्यवस्था द्रष्टव्या ।
अत्रापत्नीककर्तृकपाणिहोमे विशेषमाह '''कात्यायनः—'''
“अपत्नीको यदा विप्रः श्राद्धं कुर्वीत पार्वणम् । पित्र्यविप्रैरनुज्ञातो विश्वेदेवेषु हूयते ” ॥ इति । १०
'''वायुपुराणे च—'''
“अभार्यो दैविके कुर्याच्छेषं पित्र्ये निवेदयेत् । न हि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैः”॥ इति ।
विश्वेदेवकरहोमपक्षे हुतशेषं पित्रर्थभोजनपात्रेष्वेव निक्षिपेदित्यर्थः ।
'''स्मृत्यंतरे च—'''“ दैवविप्रकरेऽभार्यः कृत्वाऽग्नौकरणं द्विजः ।
“ शेषयेत्पितृविप्रेभ्यः पिंडार्थं शेषयेत्तथा । अग्नौकरणशेषं तु न दद्याद्दैborder-श्वदैविके ” ॥ इति । १५
'''यमः—'''“अग्नौकरणवत्तत्र होमो दैवकरे भवेत् । पर्युक्ष्य दर्भानास्तीर्य यतो ह्यग्निसमो हि सः ” ॥
यदा दैवविप्रकरे होमस्तदा महालयादौ पितृमातामहश्राद्धार्थं वैश्वदेवविप्रभेदेऽपि सकृदेवाstateनुष्ठेयम् ।
यदा ब्राह्मणकरे होमस्तदा मातामहब्राह्मणकरेऽपि पृथगनुष्ठेयम्
“ वैश्वदेवे यदेकस्मिन्भवेयुर्यद्यपि द्विजाः । तदेकपाणौ होतव्यं स्याद्विधिर्विहितस्तथा ॥
“ मातामहस्य भेदेन कुर्यादिति विनिर्णयः ” ॥ इति स्मरणात् । पाणौ यत्कर्त्तव्यं तदाह २०
'''शौनकः—'''“अनग्निborder-श्चेदार्थं गृहीत्वा भवत्स्वेवाग्नौकरणमिति पूर्वं तथास्त्विति” । अयमर्थः—आद्यं
घृताक्तमन्नं गृहीत्वा भवत्स्वेवाग्नौकरणहोमं करिष्य इति पूर्वं पृष्ट्वा तथास्त्विति तैरनुज्ञातो जुहु-
यादिति । पाणितले हुतस्यान्नस्य विनियोगमाह '''गृह्यपरिशिष्टकारः—'''
“यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥
“ अन्नं पाणितले दत्तं पूर्वमश्नन्त्यबुद्धयः । पितरस्तेन तृप्यंति शेषान्नं न लभंति ते ” ॥ इति । २५
यत्तु '''शौनकवचनम्—'''“ तेषु तद्भुक्तवत्स्वन्नमन्यदन्नं च भोजयेत् ” इति पात्रस्थापितं पाणिहुतं
पूर्वं भुक्तवत्सु ब्राह्मणेष्विति तस्यार्थः । '''कालादर्शेऽपि—'''
“दैवार्थे पाणौ जुहुयाद्भार्योऽन्यो यथार्हतः । पाणौ हुतं यदन्नं तत् पृथङ्नाश्नाति कुत्रचित्”॥ इति ।
अनेनैवाभिप्रायेण '''कात्यायनः—'''
“हस्ते हुतं यदश्नीयात् ब्राह्मणो ज्ञानदुर्बलः । नष्टं भवति तच्छ्राद्धमिति शातातपोऽब्रवीत् ” ॥ इति । ३०
'''पारिजाते तु—'''
“ हस्ते हुतं तु नाश्नीयादन्नं भुक्त्वाऽनुवासिकम् । अग्नौ प्रक्षेपणं कार्यं सपिंडीप्रेतकर्मसु ” ॥ इति ।
{{rule}} १ क्ष-द्याद्धे वैश्व-<noinclude></noinclude> g7e5rvlb5a5yucj36gshxe3qrnlfblu पृष्ठम्:Smriti mukta phalam.pdf/७२७ 104 166730 419751 2026-11-10T14:35:05Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सर्वाधानाधर्धाधानयोः ।'''|६८७}} {{rule}} तदेवमनाहिताग्नेरौपासनवत आहिताग्नेरप्यर्धाधानेनौपासनवत औपासन एव सपिंडीकरणादि-
श्राद्धं कर्तव्यम् । सर्वाधानेनौपासन... नवीन पृष्ठं निर्मीत अस्ती 419751 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सर्वाधानाधर्धाधानयोः ।'''|६८७}} {{rule}} तदेवमनाहिताग्नेरौपासनवत आहिताग्नेरप्यर्धाधानेनौपासनवत औपासन एव सपिंडीकरणादि-
श्राद्धं कर्तव्यम् । सर्वाधानेनौपासनासंभवे त्वापस्तंबोक्ताग्नौकरणस्य लोपः । पितृयज्ञधर्मकाग्नौ-
करणस्य न निवृत्तिः । किंतु दक्षिणाग्नावनुष्ठानम् । दक्षिणाग्न्यसंनिधाने लौकिकाग्नौ पाणौ वा जले वा
होमः कर्तव्यः । एवमनाहिताग्निरप्यौपासनासंनिधाने पितृयज्ञधर्मकाग्नौकरणं लौकिकाग्नौ द्विजेऽप्सु
वा कुर्यात् । दायात्प्रागगृहीताग्निः ब्रह्मचारी विधुरश्च पाणौ कुर्यात् । न लौकिकाग्नौ । काम्यादि- ५
चतुष्टयेऽपि पाणावेव होमः । आपस्तंबोक्तमग्नौकरणं त्वनाहिताग्निरवस्थाविशेषेत् लौकिकाग्नौ कुर्यात् ।
ब्रह्मचारी विधुरश्च लौकिकाग्नौ कुर्यात्
“ औपासनाग्नौ दूरस्थे केचिदिच्छंति उत्तमाः । पाणावेव तु होतव्यमिति नैतत् समंजसम् ॥
“ प्राचीनावीतिना होमः कार्योऽग्नौ द्विजसत्तमाः । तच्छेषं विप्रपात्रेषु विकिरेत्संसरेद्धरिम् ॥
“ अभार्यो दूरभार्यश्च ब्रह्मचारी च लौकिके । अग्नौकरणमेतेषां वन्हावेवोचितं भवेत् ॥ १०
“देशान्तरगते विप्रे प्रमादाल्लुप्यतेऽनलः । असंनिहितभार्योऽपि संदधीतानलं पुनः”॥ इति वचनात् ।
संधाय विसृजेदित्यपरे “अग्निमुखा वै देवा पाणिमुखा वै पितरः” इति अविशेषेण स्मरणादापस्तंबोक्त-
मग्नौकरणमपि विधुरादयः पाणौ वा कुर्युborder-रिति अपरे । तच्च पित्र्यं ब्राह्मणकरे वैश्वदेविकब्राह्मण-
करे वा विकल्पेन भवति । अभार्यकर्तृकं तु वैश्वदेविकब्राह्मणकर एव कर्त्तव्यमिति माधवीयस्मृति-
चंद्रिकायुक्तार्थनिष्कर्षः । सर्वाधानेनौपासनासंभवे आपस्तंबोक्ताग्नौकरणास्यापि न निवृत्तिः । १५
किंतु लौकिकाग्नावनुष्ठानमिति मतांतरमन्यत्सर्वमत्रापि समानम् । पत्न्या रजस्वलायां सत्यामौपासनेन
तामनादृत्य सपिंडीकरणादिश्राद्धं कुर्यात्
“ऋतुमत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः । अन्नेनैवाब्दिकं कुर्याद्धेम्ना वाऽमेन न क्वचित्” ॥ इति
स्मरणात् । प्रत्याब्दिके पत्न्यै मध्यमपिण्डदानविधाने तामनादृत्य श्राद्धं कुर्यात् । किमुत सापिंडे
पत्न्यै पिंडदानाभावात् निषेधाभावाच्च । अग्निविच्छेदे तु २०
“ द्वयोः साधारणो वह्निः सह संस्कारसंस्कृतः ।
“ विशोध्य कार्यं विविधैश्च कृच्छ्रैर्द्रव्यप्रदानं कुरुते यथार्थम् ।
“अतः परस्तात्सह भार्यया च यतासुरग्नौकरणं वदेत्सः”॥ इत्यादिborder-वचनैः संधाने पत्न्याः सापेक्षत्वा-
वगमात् कालांतरे अग्निं संधाय औपासनाग्नौ सापिंड्यं कुर्यात् । तस्य कालांतरे सावकाशत्वात् ।
“ सावकाशं तु यत्कार्यं न तत्कुर्याद्द्विदूषिते ” इति स्मरणात् । तथा च गृह्यपरिशिष्टे— २५
“ ऋतु मत्स्वपि दारेषु भार्याग्निस्तु भवेद्यदि । सपिंडीकरणश्राद्धं कुर्यादेवाविचारयन् ” ॥ इति ।
स्मृत्यंतरे—
“सपिंडीकरणे प्राप्ते भार्या यदि रजस्वला । सपिंडीकरणं न स्यादग्नावस्रनुगते सति ” ॥ इति ।
अन्यत्रापि—
“ श्राद्धकर्तुर्यदा भार्या आशौचान्ते रजस्वला । श्राद्धशेषं प्रकुर्वीत वर्जयित्वा सपिंडनम् ” ॥ इति । ३०
श्लोकगौतमोऽपि—
“श्राद्धीयेऽहनि संप्राप्ते यस्य भार्या रजस्वला । श्राद्धं तत्र न कर्तव्यं कर्तव्यं पंचमेऽहनि”॥ इति ।
श्राद्धमत्र सपिंडीकरणम् । मृतपत्न्यां रजस्वलायामपि पंचमदिने भर्तृसपिंडीकरणमुक्तं
स्मृत्यंतरे—“सपिंडीकरणे प्राप्ते प्रेतपत्नी रजस्वला । सपिंडीकरणं न स्यात्पंचमेऽहनि कारयेत्”॥ इति।
{{rule}} १ क्ष-गाहिता । २ खग-पैतृके । ३ आश्वला. गृ. सू. ४।८।२ । ४ ग-तत्तद्द्वयं । ५ क्ष-सदा-
सिरायः । ६ क-भार्यायां ।<noinclude></noinclude> enfmzva1g77ucyysb7jix0ly87zfp8t पृष्ठम्:Smriti mukta phalam.pdf/७२८ 104 166731 419752 2026-11-10T14:36:00Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६८८|'''पत्न्यां रजस्वलायाम् ।'''|}} {{rule}} एतदपुत्रे भर्त्तरि प्रेतपत्नीकर्तृकसपिंडनविषयमित्येके।पुत्रादिकर्तृकविषयमपीत्यन्ये।शिष्टाचाराव्यवस्था।
'''तत्रै... नवीन पृष्ठं निर्मीत अस्ती 419752 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६८८|'''पत्न्यां रजस्वलायाम् ।'''|}} {{rule}} एतदपुत्रे भर्त्तरि प्रेतपत्नीकर्तृकसपिंडनविषयमित्येके।पुत्रादिकर्तृकविषयमपीत्यन्ये।शिष्टाचाराव्यवस्था।
'''तत्रैव—'''
“मृते भर्त्तरि या नारी आशौचांते रजस्वला । श्राद्धशेषं प्रकुर्वीत स्नाता सूत्रं विसर्जयेत् ” ॥ इति ।
यत्तु नारदीयवचनम्
५ “ नष्टाग्निर्र्दूरभार्यश्च पार्वणे समुपस्थिते । अग्निं संधाय विधिवच्छ्राद्धं कृत्वा विसर्जयेत् ” ॥
यच्च त्रिकांडीreference-यवचनम्
“यस्य भार्या विदूरस्था पतिता व्याधिताऽपि वा । अनिच्छुः प्रतिकूला वा तस्याः प्रतिनिधिक्रि|या॥इति
“श्राद्धेऽहनि तु संप्राप्ते यस्य भार्या रजस्वला । अग्निं संधाय विधिवच्छ्राद्धं कृत्वा विसर्जयेत्”॥ इति
तन्निरवकाशमृताहश्राद्धविषयम्
१० “ पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः । अन्नेनैवाब्दिकं कुर्याद्धेम्ना वामेन न क्वचित् ॥
“ मृताहं समतिक्रम्य चंडालः कोटिजन्मसु ” ॥ इति लोकाक्ष्यादिस्मरणात् ।
“ आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ।
“अपत्नीकः प्रवासी च यस्य भार्या रजस्वला । सिद्धानेन न कर्तव्यं आमं तस्य विधीयते”॥ इति
कात्यायनादिवचनं सपिंडीकरणाद्व्यतिरिक्तविषयम् ।
१५ “सपिंडीकरणश्राद्धमन्नेनैव समाचरेत् । नैवामेन न हेम्ना वा मातापित्रोर्विशेषतः ” ॥ इति
स्मरणात् । यस्य द्वादशाहे एव सपिंडीकरणं विहितम्
“ सपिंडीकरणं पित्रोः कुर्यादेको हि यः सुतः । अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते ॥
“एकपुत्रोऽग्निमांश्चैव कुर्वीत द्वादशेऽहनि ”॥ इत्यादिना तस्यापि “ यस्य भार्या विदूरस्था ” इति
न्यायेनाग्निसंधानपूर्वकं कर्तव्यम् । एवं वत्सरांते सापिंड्ये पत्न्यां रजस्वलायां पत्न्याः
२० प्रतिनिधिं विधाय
“श्राद्धीयेऽहनि संप्राप्ते यस्य भार्या रजस्वला। अग्निं संधाय विधिवच्छ्राद्धं कृत्वा विसर्जयेत्”॥ इति
न्यायात्तस्य निरवकाशत्वेनाग्निं संधाय सापिंड्यं कुर्यात् । तत्र सापिंड्याकरणे पुनः
षोडशप्रसक्तेः “ कुर्यान्निरवकाशं तु नित्यं नैमित्तिकं तथा ” इति शंखस्मरणात् । तदेवं
पत्न्यां रजस्वलायां औपासने विद्यमाने तामनादृत्य द्वादशाहादौ सपिंडीकरणं कुर्यात् ।
२५ अग्निविच्छेदे त्वेकोद्दिष्टातं स्वकाले कृत्वा पंचदशदिनाद्यावुक्तकाले अग्निं संधाय सापिण्ड्यं
कुर्यात् । एकपुत्रोऽग्निमांश्च कुशादिना पत्न्याः प्रतिनिधिं कृत्वाऽग्निं संधाय द्वादशाहे सपिंडनं
कृत्वा तमग्निं विसर्जयेत् । वत्सरांतसापिंड्यमग्निसंधानपूर्वकं कालांतराभावादद्रजस्वलायामपि
पत्न्यां कुर्यान्मासिकाब्दिकादिकं चाग्निं संधाय स्वकाले कृत्वा तमग्निं विसृजेत् । प्रेतपत्न्यां
रजस्वलायां सापिंड्यं पंचमदिने कुर्यात् । अपुत्रे भर्त्तरि प्रेते यदि पत्नी कुर्यात् तदैव
३० पंचमेऽहनि अन्यश्चेत्कुर्यात् । प्रेतपत्न्यां रजस्वलायामपि स्वकाले कुर्यादित्यपरे । अयमत्र
निष्कर्षः । अनाहिताग्निborder-र्द्वादशाहे त्रिपक्षे वा तृतीये वा मासे षष्ठे वैकादशे वा मासे संवत्सरांते वा
पुंसवनाद्यावश्यकशुभागमे वा सपिंडीकरणं कुर्यात् । द्वादशाहप्रभृतिषु षट्सु दिनेषु सप्तदशदिन-
पर्यंतुषु त्रयोविंशदिने वा कुर्यात् । आहिताग्निश्चेत्कर्त्ता आहिताग्नेरनाहिताग्नेर्वा मृतस्य सापिंड्यं
{{rule}} १ ग-धौ ।<noinclude></noinclude> if37mhetshmg569kdtc5ktcbo03bm81 पृष्ठम्:Smriti mukta phalam.pdf/७२९ 104 166732 419753 2026-11-10T14:37:13Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सर्पिंडीकरणनिर्णयः ।'''|६८९}} {{rule}} द्वादशाह एव कुर्यात् । एकादशदिने दर्शापाते सति एकादशदिने सापिंड्यं कृत्वा पिंडपितृयज्ञं
कुर्यात् । अनग्निः कर्त्ता साग्... नवीन पृष्ठं निर्मीत अस्ती 419753 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सर्पिंडीकरणनिर्णयः ।'''|६८९}} {{rule}} द्वादशाह एव कुर्यात् । एकादशदिने दर्शापाते सति एकादशदिने सापिंड्यं कृत्वा पिंडपितृयज्ञं
कुर्यात् । अनग्निः कर्त्ता साग्नेः प्रेतस्य त्रिपक्षे द्वादशाहे वा कुर्यात् । महागुरुपितृमरणे त्रयोदशदिने
कुर्यात् । साग्निरनग्निश्च द्वादशाहादौ प्रमादादकृतं सापिंड्यमुत्तरभाविषु कालेषु कुर्यात् । द्वादशाह-
सापिंड्ये वत्सरांतसापिंड्ये च न वारादिदोषः । तत्रापि द्वादशाहसापिंड्ये पितृव्यतिरिक्तानां
शुक्रदिनमेकं वर्ज्यम् । वत्सरात्यये तु पुनः षोडशश्राद्धपूर्वकं कन्याकुंभयोरन्यतरमासस्य कृष्ण- ५
पक्षे पंचम्यामष्टम्यामेकादश्यां दर्शे वा कर्तव्यम् । पितामहादिषु त्रिषु जीवत्सु न सापिंड्यं अन्य-
तमात्यये पुत्रः कुर्यात् । एवं मातुः पितुः भर्तुः पत्न्याश्च व्युत्क्रममरणे पत्नी पतिश्च कुर्यात् ।
नान्येषां व्युत्क्रममरणे सापिंड्यं कुर्यात् । आमेन हेम्ना वा कुर्यात्क्रममृतानां मातापितृभर्तृ-
पत्नीनामन्नेन सापिंड्यम् । इतरेषामामेन हेम्ना वा कृतेऽपि तदंतर्हितमरणे तत्सपिंड्यनंतरमेतेषां
पुनरन्नेन सपिंडीकरणं कर्त्तव्यम् । पुंसः स्त्रिया वा सापिंड्ये पित्रादीनामेव वरणम् । वैश्वदेवार्थे १०
द्वौ पितृपितामहप्रपितामहार्थे त्रीन्निमित्तार्थं एकं विष्ण्वर्थमेकमनेन क्रमेण वृणुयाद्दैश्वदेवार्थे पित्रा-
द्यर्थे चाशक्त एकमेकं वा वृणुयात् । पुंसः पिंडं पित्रादिपिंडैः सह संसृजेत् । स्त्रियाः पिंडं
श्वश्रूवादिपिंडैः संसृजेत् । अनपत्यायाः पतिपिंडेनेत्येके । अनुमृतौ सह मृतौ च पतिपिंडेन संसृज्य
पुनस्तत्पित्रादिपिंडैः संसृजेत् । पिंडत्रयवतामाश्वलायनादिसूत्रानुसारिणां स्त्रीसापिंड्ये श्वश्रूवादी-
नामेव वरणं तत्पिंडैरेव संसर्गः । समानपिंडयोगानां कर्मैक्ये तंत्रतः कुर्यात् । निमित्तवरणं १५
पृथक् पृथक् कुर्यात् । मरणक्रमापरिज्ञाने तु ज्येष्ठक्रमेण पिंडसंसर्गं कुर्यात् । पित्रोः
पत्नीपुत्रपौत्रभ्रातृ तत्पुत्रस्नुषाश्वसॄणां च संघातमरणे पित्रोर्द्वादशाहे सपिंडीकरणं पत्न्यादीनां
त्रिपक्षे पित्रोर्मृताब्दे पत्न्यादिव्यतिरिक्तानामन्येषां मरणे पितृवत्सराते तेषां सपिंडीकरणं समानोदक-
दौहित्रादित्रिरात्राशौचिकर्तृकसंस्काराद्द्वादशाहे सपिंडीकरणम् । पक्षिण्याशौचिकर्तृकदाहे तु
चतुर्थदिन एकोद्दिष्टं पंचमे दिने सापिंड्यं कुर्याद्द्व्यहकर्तृके तु चतुर्थेऽन्हि सपिंडनं कुर्यात् । २०
दुर्मृतयोः पित्रोः पुनःसंस्कारे पंचमे दिने सापिंड्यं कुर्यात्
“ ये मृताः पापमार्गेण तेषां संवत्सरात्परम् । नारायणबलिं कृत्वा कुर्यात्तत्रौर्ध्वदेहिकम् ॥
“ अब्दांते वाऽथ षण्मासे पुनः कृत्वा तु संस्कृतिम् । त्रिरात्रमशुचिर्भूत्वा श्राद्धं कृत्वा चतुर्दिने ॥
“ सापिंड्यं पंचमदिने मातापित्रोः समाचरेत् ” ॥ इति स्मरणात् । मातापितृव्यतिरिक्तदुर्मृत-
पुनर्दाहे तृतीयदिने सपिंडनं कुर्यात् । केवलपुनःसंस्कारविषयेऽकृतक्रिययोर्मातापित्रोर्द्वादशेऽह्नि २५
सपिंडनं भ्रातुः पुनःसंस्कारे षण्मासमध्ये द्वादशेऽह्नि सपिंडनं षण्मासात्परं वत्सरात्पूर्वं पंचमदिने
सपिंडनं कुर्यात् । ततः परं तृतीयदिने सपिंडनं कुर्यादन्येषां पुनःसंस्कारे यस्य यावदाशौचं
तस्य तदाशौचानंतरदिने एकोद्दिष्टं तदुत्तरदिने सापिंड्यं च कार्यम् । मातापित्रोर्मातामहमाता-
मह्योर्मातुलस्यापुत्रस्य ज्येष्ठभ्रातुः पितृव्यस्याचार्यस्य च स्वौपासने सापिंड्यं कुर्यात् । आहिताग्नि-
रप्यर्धाधानेनौपासनवानौपासने कुर्यात् । सर्वाधानेन तदसंभवे आपस्तंबोक्ताग्नौकरणस्य ३०
लोपः । लौकिकाग्नाविति मतांतरम् । पितृयज्ञधर्मकस्य तु दक्षिणाग्नौ तदसंभवे लौकिकाग्नौ पाणौ
जले वा होमः । रजस्वलायां पत्न्यामौपासने विद्यमाने सापिंड्यं तदैव कुर्यात् । औपासनविच्छेदे
कालांतरे कुर्यात् । संवत्सरंतसापिंड्यं तु तत्काल एव कुर्यादिति सपिंडीकरणनिर्णयः । इति ।
{{rule|width=80%}} '''वैद्यनाथदीक्षितविरचिते स्मृतिमुक्ताफले श्राद्धकांडे सपिंडीकरणं समाप्तम् ॥'''
{{rule}} १ भ-सापिण्ड्यं ।<noinclude></noinclude> 0zw1c2jzoi4iplrxas0qu6s3bhjeqap पृष्ठम्:Smriti mukta phalam.pdf/७३० 104 166733 419754 2026-11-10T14:38:10Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६९०|'''सोदकुंभश्राद्धम् ।'''|}} {{rule}} “ सपिण्डनात्परेद्युborder-श्च यतो ब्राह्मणतर्पणात् । अष्टौदेवाश्च पितरः कर्तुः कुर्वन्तु संपदः ” ॥
'''अथ सोदकुंभश्राद्धम् । अत्... नवीन पृष्ठं निर्मीत अस्ती 419754 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६९०|'''सोदकुंभश्राद्धम् ।'''|}} {{rule}} “ सपिण्डनात्परेद्युborder-श्च यतो ब्राह्मणतर्पणात् । अष्टौदेवाश्च पितरः कर्तुः कुर्वन्तु संपदः ” ॥
'''अथ सोदकुंभश्राद्धम् । अत्र गौतमः—'''
“अदैवं पार्वणश्राद्धं सोदकुंभमधर्मकम् । कुर्यात्प्रत्याब्दिकश्राद्धं संकल्पविधिनाऽन्वहम् ” ॥ इति ।
अदैवं विश्वेदेवविष्णुरहितं पार्वणं त्रिपुरुषात्मकं सोदकुंभमुदकुंभसहितं अधर्मकं दंतधावनतांबूborder-लादि-
५ वर्जनपुनर्भोजनादिवर्जनरूपकर्तृभोक्तृधर्मरहितं संकल्पविधिना
“ आवाहनाग्नौकरणं स्वधानिनयनं तथा । विकिरं पिंडदानं च संकल्पे पंच वर्जयेत् ”॥ इति
उक्तप्रकारेण आब्दिकश्राद्धात्पूर्वं प्रत्यहं कुर्यादित्यर्थः । एतच्च अर्वाक्संवत्सरात्सपिंडीकरणे ।
ततः परं पार्वणविधानेन कर्तव्यम् । ततः पूर्वमेकोद्दिष्टविधानेन कार्यम् । संवत्सरांतसापिंड्ये तु
एकोद्दिष्टविधानेनैव कार्यम्
१० “कृते सपिंडीकरणे पार्वणं तु विधीयते । सपिंडीकरणादर्वागेकोद्दिष्टं विधीयते” ॥ इति सामान्येन
“ सोदकुंभं च कर्तव्यं नवश्राद्धानि षोडश । एकोद्दिष्टविधानेन सपिंडीकरणादधः ” ॥ इति
विशेषतश्च स्मरणात् । तद्द्वादशदिनमारभ्य कार्यम् । तदुक्तं '''श्रीधरीये'''
“ द्वादशाहप्रभृत्यस्य तृप्तये चान्नसंयुतम् । दद्यादहरहः कुंभं जलपूर्णं तु वत्सरम् ” ॥ इति ।
'''कारिकारत्ने तु'''
१५ “आदाहात् द्वादशाहाद्वा तत्पूर्वाद्वाह्णथापि वा। विप्रायान्नं सोदकुंभं दद्यादन्वहमाब्दिकात्”॥ इति ।
मृतदिवसमेकादशाहं द्वादशाहं वारभ्येत्यर्थः । '''मार्कंडेयः—'''
“ यस्य संवत्सरादर्वाक्सपिंडीकरणं कृतम् । मासिकं सोदकुंभं च देयं तस्यापि वत्सरम् ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ आब्दमंबुघटं दद्यादन्नमाज्येन संयुतम् । संवत्सरे प्रवृद्धे तु प्रतिमासं च मासिकम् ” ॥ इति ।
२० '''कालादर्शेऽपि—'''
“ द्वादशाहत्रिपक्षादौ कृतं यस्य सपिंडनम् । कुर्वीत पार्वणश्राद्धं सोदकुंभमदैवतम् ॥
“ संकल्पेनास्य नियमं प्रत्यहं त्वाब्दिकावधिः ” ॥ इति । '''व्यासः—'''
“ अतिथिं भोजयेद्विद्वान् सोदकुंभविशेषतः । अभ्यागतं भोजयेद्वा नियतं न तु भोजयेत् ॥
“ नियतं भोजयेद्यस्तु लोभान्मोहाद्विमूढधीः । त्रयस्ते नरकं यांति कर्ता भोक्ता तथा पिता ”॥
२५ '''संग्रहे—'''
“कर्तुः सगोत्रिणश्चैव भोक्तॄणां च सगोत्रिणः । न निमन्त्र्याः किल श्राद्धे सोदकुम्भं विनैव तु”॥
स्मृत्यन्तरे भोक्तॄणामुद्दिश्य पितॄणाम् । '''याज्ञवल्क्यः—'''
“ अर्वाक्सपिंडीकरणं यस्य संवत्सराद्भवेत् । तस्याप्यन्नं सोदकुंभं दद्यात्संवत्सरं द्विजः ” ॥ इति ।
अत्र '''विज्ञानेश्वरः—'''“संवत्सरादर्वाग्यस्य सपिंडीकरणं कृतं तस्य कृतेऽपि तस्मि-
३० न्प्रतिदिवसं प्रतिमासं वा यावत्संवत्सरं शक्त्यनुसारेणान्नमुदकुंभसहितं ब्राह्मणाय दद्यात् ” इति ॥
'''पितृमेधसारे—'''“ न द्वादशाहादौ सापिंड्ये सोदकुंभश्राद्धान्याहृत्य दद्याद्विद्यभावात्प्रत्यहमब्दं
तद्विधिवैयर्थ्यापत्तेः मासिकबहिborder-रनुष्ठाने प्रमाणाभावाच्च प्राग्वदाहृत्यकृतान्यब्दसापिंड्येन पुनः कुर्यात् ।
अकृतानि कृत्वा सापिंड्यं कुर्यात् । शक्तविषये द्वादशाहप्रभृत्या संवत्सरात्प्रत्यहमेकं त्रिपुरुषोद्देशेन
अदैवक मधर्मकं सदक्षिणं संकल्पविधिना सोदकुंभश्राद्धं दद्यात् । प्रतिमासं दर्शादौ वा मासिकाहाborder-न्य-
{{rule}} १ क्ष-परि । २ ग--धर्मं । ३ क्ष-विधिषु ।<noinclude></noinclude> dkyw749lz8yj53ekvxuip43eg2gkye9 पृष्ठम्:Smriti mukta phalam.pdf/७३१ 104 166734 419755 2026-11-10T14:38:56Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''प्रेतकार्यं उक्तकाले कर्तव्यमेव ।'''|६९१}} {{rule}} दिने वाऽतीतसोदकुंभश्राद्धान्याहृत्य दद्यात्प्राक्सपिंडीकरणादेकोद्दिष्टवन्न सांवत्सरिकाह्ने तानि
दद्य... नवीन पृष्ठं निर्मीत अस्ती 419755 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''प्रेतकार्यं उक्तकाले कर्तव्यमेव ।'''|६९१}} {{rule}} दिने वाऽतीतसोदकुंभश्राद्धान्याहृत्य दद्यात्प्राक्सपिंडीकरणादेकोद्दिष्टवन्न सांवत्सरिकाह्ने तानि
दद्यात् । कालातीतत्वात्
“अकाले यत्कृतं कर्म कालं प्राप्य पुनः क्रिया । कालातीतं तु यः कुर्यात्कृतं तद्विनिर्दिशेत्” ॥ इति
कात्यायनः । न सांवत्सरिकाह इति
“ प्रेतलोके तु वसतिर्नॄणां वर्षं प्रकीर्तितम् । क्षुत्तृष्णे प्रत्यहं तस्य भवेतां भृगुनंदन”॥ इति ५
स्मरणात् । वर्षांते प्रेतलोके वासं क्षुत्तृष्णे च विहाय स्वकर्मफलं प्राप्तस्य सांवत्सरिकाहस्य
द्वितीयवत्सरादित्वान्न क्षुत्तृष्णाशांत्यर्थं सोदकुंभश्राद्धं निष्प्रयोजनमित्यर्थः । ननु
“ सपिंडीकरणात्प्रेते पैतृकं पदमास्थिते । चतुरो निर्वपेत्पिंडान्पूर्वे तेषु समापयेत् ॥
“ततः प्रभृति वै प्रेतः पितृसामान्यमश्नुते” ॥ इत्यादिभिः कृते सापिंड्ये पितृत्वप्राप्त्यवगमात्
द्वादशाहादौ सापिंड्ये कथं प्रेतलोकवासः । प्रत्यहं तस्य कथं क्षुत्तृष्णे च भवेतामिति चेत्सत्यम् । १०
तस्य प्रेतलोकवासाभावेऽपि प्रथमाब्दिकपूर्वदिनपर्यंतं क्षुत्तृष्णाविनाभूतस्य प्रेतभावस्यात्मन्यहं
ब्राह्मण इत्यादिभाववद्विद्यमानत्वात् । अत एव स्मृत्यंतरम्
“ श्राद्धानि क्रमश्रो लब्ध्वा सपिंडीकरणे कृते । प्रेतभावाद्विनिर्मुक्तः स्वकर्मफलभाग्भवेत्” ॥ इति ।
ततश्च कृतेऽपि सपिंडीकरणे प्रेतभावयुक्तस्य क्षुत्तृष्णाशांत्यर्थमनुष्ठेयम्
“यस्य संवत्सरादर्वाक् सपिंडीकरणं कृतम् । मासिकं सोदकुंभं च देयं तस्यापि वत्सरम्”॥ १५
इत्यादिपूर्वोक्तवचनबलाच्च सोदकुंभश्राद्धं प्रत्यहमाब्दिकपूर्वदिनावधि कार्यमिति सिद्धम् ।
अत्र सोदकुंभश्राद्धेषु यद्यदंतरितं तदुत्तरदिनसोदकुंभश्राद्धेन सह नवश्राद्धमासिकांतरायन्यायेन
समानतंत्रतया कार्यम् । अस्यावश्यककर्तव्यत्वान्मध्ये कर्त्तरि मृतेऽपि पौत्रादिनाऽप्यवशिष्टं सोदकुंभ-
श्राद्धमवशिष्टं मासिकं अनुष्ठेयम्
“प्रेतसंस्कारकार्याणि यानि श्राद्धानि षोडश । यथाकाले तु कार्याणि नान्यथा मुच्यते ततः”॥ इति २०
स्मरणात् । पितृमेधसारकृत्—“ एकोत्तरवृद्धिश्राद्धोदकदानैर्दशभिरहनिस्तत्क्षुत्तृणानिवृत्तिः ।
पिंडैराकारावाप्तिः । एकोद्दिष्टेन पिशाचत्वनिवृत्तिः । सोदकुंभश्राद्धैः प्रेतलोकवासजनितक्षुत्तृष्णा-
शांतिः। वृषोत्सर्जनवश्राद्धैः प्रेतत्वनिवृत्तिः । सपिंडीकरणात्पितृत्वप्राप्तिः । क्षुत्तृष्णाजनितात्यंतदुःखा-
नुभवावस्था प्रेतत्वं वस्त्रादिश्राद्धदेवतासंबंधः पितृत्वप्राप्तिः । अतस्तन्निवृत्तये तत्प्राप्तये च यथा-
कालमविलंबेन प्रेतकार्यं कार्यम् । अन्यथा महान् दोषः । नास्य किंचित्कर्मण्यधिकारः ” इति । २५
जातकेऽपि—
“ मुख्यकर्तुश्च तावत्स्यात्प्रेतत्वमोचनम् । पुत्राणामप्यवं तावन्मुख्यकर्तर्यपि स्थिते ” ॥ इति ।
प्रेतत्वमोचनं सपिंडीकरणम् । अत्र मुख्यकर्त्तुः दशाहात्परमथविधानं सूतिकाया इव
कर्मानर्हत्वमात्राभिप्रायम्
“अकृत्वा प्रेतकार्याणि नित्यनैमित्तिकान्यपि । न कुर्यात्तावदाशौचं यावत्प्रेतत्वमोक्षणम् ”॥ इति ३०
स्मरणात् । मुख्यकर्तृव्यतिरिक्तज्ञातीनां दशाहात्परं कर्मानर्हता नास्ति
“ पुत्रैः पित्रोस्तु संस्कारः प्रमादादकृतो यदि । ज्ञातीनां दशरात्रं स्यात्तदूर्ध्वं सूतकं न हि ॥
“ नित्यकर्माणि कुर्वीत स्मृत्युक्तानि तथैव च ” ॥ इति स्मरणात् । संग्रहे—
“ अकृते प्रेतकार्ये तु न कुर्यादात्मनः शुभम् । कुर्यादेव शुभं कर्म मुख्यकर्तुश्च संनिधौ ” ॥ इति ।
{{rule}} १ ग-ह । २ क्ष-तर ।<noinclude></noinclude> 61mvg8bkwi9o0x1juzmzsrm1exfwnyq पृष्ठम्:Smriti mukta phalam.pdf/७३२ 104 166735 419756 2026-11-10T14:47:00Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६९२|'''न तेषु कालदोषः ।'''|}} {{rule}} यदा पुत्राद्यभावे भ्रात्रादिः करोति तथा '''चतुर्विंशतिमते—'''
“ भ्राता वा भ्रातृपुत्रो वा सपिंडः शिष्य एव वा । सपिंडीकरणं कृत्वा क... नवीन पृष्ठं निर्मीत अस्ती 419756 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६९२|'''न तेषु कालदोषः ।'''|}} {{rule}} यदा पुत्राद्यभावे भ्रात्रादिः करोति तथा '''चतुर्विंशतिमते—'''
“ भ्राता वा भ्रातृपुत्रो वा सपिंडः शिष्य एव वा । सपिंडीकरणं कृत्वा कुर्यादभ्युदयं ततः ” ॥ इति ।
अत्रापवादः स्मृत्यंतरेऽभिहितः
“ गर्भादिप्राशनांतानि प्राप्तकालं न लंघयेत् । ज्ञातीनां प्रेतकार्याणि कुर्वन्नपि च कारयेत् ” ॥ इति ।
५ पुंसवनसीमंतोन्नयनजातकर्मनामकरणात्रप्राशनानि ज्ञातिसापिंड्यात्पूर्वमपि कर्त्ता कुर्यादित्यर्थः ।
मातापितृमातामहमातामहीनां तु सापिंड्यं कृत्वैव गर्भादिप्राशनांतानि कार्याणि
“ पित्रादीनां प्रमीतानां त्रयाणां तु सपिंडनम् । कृत्वा तु मंगलं कुर्यान्नितरेषां कथंचन ” ॥ इति
स्मरणात् । मंगलं पुंसवनाद्यावश्यकं शुभकर्म । तथा च '''शंखः—'''
“सावकाशं तु यत्कार्यं न कुर्यान्मासि दूषिते । कुर्यान्निरवकाशं तु नित्यं नैमित्तिकं तथा”॥ इति ।
१० '''अत्रिश्च—'''
“ मासप्रोक्तेषु कार्येषु मूढत्वं गुरुशुक्रयोः । अधिमासादिदोषाश्च न स्युः कालविधेर्बलात् ”॥
'''ऋष्यशृंगः—'''“ जातकर्मणि जातेष्टिं यथाकालं समाचरेत् ” इति । ऋतुशांतिश्च कालांतरा-
भावात्कर्त्तव्या
“जातके नामकरणे तथाऽन्नप्राशनेऽपि च । आद्यर्त्तौ दयितानां च मासिकं नापकर्षयेत् ” ॥ इति
१५ मासिकापकर्षनिषेधेन तद्विधानात्—
“ यो यदीच्छेद्द्विजन्मत्वमष्टमाब्दं न लंघयेत् । अतिक्रांते तु सावित्र्याः कालऋतुं त्रैविध्यकं ब्रह्मचर्यं
चरेत् ” इत्यादि स्मरणात् पुंसवनादिवत्सपिंडीकरणानंतंरं पित्रोर्मृताब्दे मासिकापकर्षणपूर्वकं
पुत्रादीनां यद्युपनयनं कर्त्तव्यं तथापि “ तमसो वा एष तमः प्रविशति यमविद्वानुप parse-नयते
यश्चाविद्वान् ” इति ब्राह्मborder-णम् । “ तस्मिन्नभिजनविद्यासमुतं समाहितं संस्कर्त्तारमीप्सेत् ” इति
२० स्मरणादन्यकर्तृकत्वसंभवादन्येन कारयितव्यम् । मृतपितृकस्य “अष्टमेऽष्टवर्षं ब्राह्मणमुपनयीत”
इति श्रुतिबलाच्छ्रुतिस्मृत्योर्विरोधे श्रुतेर्बलीयस्त्वाादुपनयनं कर्त्तव्यमेव । तथा च यदनन्यकर्त्तृ-
कमनवकाशं पुंसवनादिकं यत्सपिंडीकरणमासिकापकर्षणपूर्वकं प्रथमाब्देऽपि कर्तव्यम् । यत्तु
कालांतरे कर्तुं शक्यं स्नानविवाहादि तत्तु तत्र न कर्तव्यम् । अनवकाशं यदन्यसाध्यं तत्र
तदन्येन कारयितव्यम् । एतदेवाभिप्रेत्य '''देवलः'''
२५ “ प्रमीतो पितरौ यस्य देहस्तस्याशुचिर्भवेत् । न दैवं नापि पित्र्यं च यावत्पूर्णो न वत्सरः ॥
“ स्नानं चैव महादानं स्वाध्यायाग्निपूजनम् । प्रथमेऽब्दे न कर्तव्यं महागुरुनिपातने ” ॥ इति ।
दैवं देवतास्थापनादि । पित्र्यं अन्येषां सापिंड्यम् । “पित्रोर्मृताब्दे चान्येषां वत्सरांते सपिंडनम्” इति
स्मरणात् ।
एवं च पितृमृताब्दे ज्ञातिसंस्कारे कृते सति अकृत्वाऽपि ज्ञातिसापिंड्यमावश्यकं शुभकर्म
३० कर्तव्यम् । स्नानं समावर्तनम् । महादानं कनकाश्वादिप्रसिद्धम् । स्वाध्याय उपनयनम् । तदर्थत्वा-
दुपनयनस्य ‘उपनयनं विद्यार्थस्य श्रुतिः’ संस्कारः इत्यापस्तंबस्मृतेः ।
“ उपाकर्मेत्यन्ये । अग्निपूजनमग्न्याधानादि । ततश्च वत्सरांते ततः प्रेतः पितृत्वमुपपद्यते”
इति '''बोधायन'''स्मरणात् । “ प्रेतलोके तु वसतिर्नॄणां वर्षं प्रकीर्त्तिता ” इति '''विज्ञानेश्वरे-'''
णोक्तंत्वात् ।
३५ “सपिंडीकरणादूर्ध्वं प्रेतत्वस्य निवृत्तिः । तावद्भस्म न धार्यं स्याद्यावद्वर्षो न पूर्यते ” ॥ इति
लोकाक्षिणा प्रेतत्वानिवृत्तिनिबंधनभस्मधारणनिषेधस्योक्तत्वाच्च । अशुचित्वेन मातापित्रो-
{{rule}}<noinclude></noinclude> konufl1gx96b5ddujpfudje3sb4eqwz पृष्ठम्:Smriti mukta phalam.pdf/७३३ 104 166736 419757 2026-11-10T14:47:43Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पित्रोर्मरणाब्दे दर्शादिश्राद्धनिषेधः ।'''|६९३}} {{rule}} र्द्वादशाहादौ कृते सपिंडीकरणे प्रथमाब्दिकपर्यंतं पुंसवनानवकाशकर्मव्यतिरिक्तशुभकर्म न
कर्तव्यमि... नवीन पृष्ठं निर्मीत अस्ती 419757 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पित्रोर्मरणाब्दे दर्शादिश्राद्धनिषेधः ।'''|६९३}} {{rule}} र्द्वादशाहादौ कृते सपिंडीकरणे प्रथमाब्दिकपर्यंतं पुंसवनानवकाशकर्मव्यतिरिक्तशुभकर्म न
कर्तव्यमित्याहुः । अन्ये त्वाहुः—
“ आनंत्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् । अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते ”॥ इति
व्याघ्रपादवचनेन कुलधर्माणांमानंत्यादित्यनेन द्वादशाहसापिंड्यानंतरं कर्मानुष्ठानप्रतिपादनात्प्रेत-
भावनिवृत्तावपि ५
“प्रेतश्राद्धानि शिष्टानि सपिंडीकरणं तथा । अपकृष्यापि कुर्वीत कर्ता नांदीमुखे द्विजः” ॥ इति ।
नांदीमुखमात्र उपस्थिते मासिकापकर्षविधानान्निषेधाभावाच्च ‘प्रमीतौ पितरौ यस्य’ इति श्लोक-
द्वयोक्तकर्मव्यतिरिक्तानि सर्वाणि शुभकर्माणि विवाहादीन्यपि कर्तव्यानीति शिष्टाचारादिह
व्यवस्था ।
'''पित्रोर्मरणाब्दे दर्शादिश्राद्धनिषेधः ।''' पित्रोर्मृताब्दे दर्शादिश्राद्धनिषेध उक्तः १०
'''षट्त्रिंशन्मते—'''
‘ सपिंडीकरणादूर्ध्वं वर्षं वर्षार्धमेव वा । न कुर्यात्पार्वणश्राद्धमष्टका न विहन्यते” ॥ इति ।
अष्टकाव्यतिरिक्तदर्शमहालयान्वाष्टिकादिश्राद्धं न कार्यमित्यर्थः । तथा च '''स्मृत्यंतरे—'''
“ अमांश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम् । प्रथमाब्दे न कुर्वीत केशानां वपनं तथा ” ॥ इति ।
‘प्रमीतपितृकः कुर्यान्न कुर्यादाब्दिकावधि’ इति पाठांतरम् । '''आश्वलायनस्तु—''' १५
“यन्मास्येवाब्दिकं श्राद्धं यस्य पुत्रो भवेदिह । प्राक् पिंडदानतन्मासि पार्वणं न समाचरेत्”॥इति ।
यस्मिन्मासे प्रथमाब्दिकं तत्राब्दिकात्पूर्वं पार्वणं दर्शादिश्राद्धं न कुर्यादित्यर्थः ।
'''स्मृत्यंतरे—'''
“ सपिंडीकरणादूर्ध्वं षण्मासाभ्यंतरेऽपि च । न कुर्यात्पार्वणश्राद्धमष्टका न विहैन्यते” ॥ इति ।
पार्वणं दर्शादि । अत्र केचिदाहुः—एतानि वचनानि भोजनपर्यंतश्राद्धनिषेधपराणि । २०
संवत्सरात्षण्मासाद्वा अर्वागपि तिलोदकमात्रं कर्तव्यम्
“सपिंडीकरणादूर्ध्वममासंक्रमणादिषु । पुत्रस्तिलोदकं दद्यात्क्षेत्रपिंडांस्तथाचरेत् ” ॥ इति
तिलोदकमात्रविधानादिति । अन्ये तु सपिंडीकरणादूर्ध्वमिति वत्सरांतसापिंड्यपरं तिलोदक-
मिति श्राद्धस्याप्युपलक्षणं तेन संवत्सरात्परं दर्शाश्राद्धादिकं कुर्यादिति व्याचक्षते ।
शतकव्याख्याकारस्तु दर्शादिश्राद्धं सपिंडीकरणात्प्राङ् नास्त्येव २५
“ नासपिंडीकृते प्रेते पितृकार्यं प्रवर्त्तते । सपिंडीकरणं कृत्वा कुर्यात्पित्र्यं शुभानि च” ॥ इति
स्मृतेरिति । एतदपि सपिंडीकरणात्परं दर्शादिश्राद्धविधानं वत्सरांतसापिंड्याभिप्रायम् । अन्यथा
“सपिंडीकरणादूर्ध्वं वर्षं वर्षार्धमेव वा ” इति पूर्वोक्तवचनविरोधः स्यादित्याहुः
“सपिंडीकरणात्प्रेते पैतृकं पदमास्थिते । आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्त्तते ” ॥ इत्यादि-
स्मरणादाहिताग्नेरेकादशदिनादिसापिंड्यानंतरदर्शश्राद्धेन विवादः । अन्येषां शिष्टाचारानुसारेण ३०
व्यवस्था द्रष्टव्या ।
'''एकस्मिन् दिने एककर्तृकैकोद्देश्यकश्राद्धद्वयनिषेधः । एकः कर्त्ता एकस्मिन्दिने श्राद्ध-'''
द्वयमेकोद्देश्यं न कुर्यात् । नैमित्तिकश्राद्धयोः संनिपाते तु तद्द्वयमेकदिने कुर्यात् । तदाह '''दक्षः—'''
“नैकः श्राद्धद्वयं कुर्यात् समानेऽहनि कस्यचित् । न यज्ञं न बलिं नैव देवर्षिपितृतर्पणम्” ॥ इति ।
{{rule}} १ क्ष-वा । २ क्ष-आम । ३ क्ष-पि ।
८८-१९<noinclude></noinclude> m9win44rjfig157qo54j6dvqvaog5nd पृष्ठम्:Smriti mukta phalam.pdf/७३४ 104 166737 419758 2026-11-10T14:48:58Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६९४|'''एकस्मिन्दिने एककर्तृकैकश्राद्धे ।'''|}} {{rule}} '''जाबालिः—'''
“ श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने । नैमित्तिकं तु कर्त्तव्यं निमित्तानुक्तमोद... नवीन पृष्ठं निर्मीत अस्ती 419758 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६९४|'''एकस्मिन्दिने एककर्तृकैकश्राद्धे ।'''|}} {{rule}} '''जाबालिः—'''
“ श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने । नैमित्तिकं तु कर्त्तव्यं निमित्तानुक्तमोदयम् ” ॥ इति ।
'''ऋतुरपि—'''
“ श्राद्धं कृत्वा पुनः श्राद्धं न कुर्यादेकवासरे । यदि नैमित्तिकं न स्यादेकोद्देशं भवेद्यदि ” ॥ इति ।
५ एकदैवत्यं श्राद्धद्वयं नैकदिने कुर्यादित्यस्य निषेधस्य विषयो दर्शितः '''पितृमेधसारे—'''“ नैकश्राद्ध-
द्वयमेकोद्देश्यमेकवासरे कुर्यात् । देवतैक्यात् । तयथा नित्येन दार्शिकस्य सोदकुंभेन मासिकस्य
दार्शिकेन मन्वादियुगादिग्रहणादिश्राद्धानां संनिपाते प्रसंगात् पूर्वसिद्धेरूत्तरदार्शिकादिश्राद्धमेव
कुर्यादनियतस्य बलीयस्त्वात् ” इति ।
“ एकमप्याशयेन्नित्यं पित्रर्थं पांचयाज्ञिके ” इत्युक्तेन नित्यश्राद्धेन सह
१० “ न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः । इंदुक्षये मासि मासि प्रायश्चित्तीयते द्विजः ” ॥
इत्युक्तदर्शश्राद्धस्य सन्निपाते संमेलने तथा सोदकुंभश्राद्धेन सह मासिकस्य संनिपाते दर्शश्राद्धेन
मन्वादियुगादिग्रहणादिश्राद्धानां संनिपाते सत्युत्तरदार्शिकादिश्राद्धेन नानियतेन नियतनित्यश्राद्धादि-
सिद्धेर्न नित्यश्राद्धादिपृथगनुष्ठेयम् । प्रत्यहं क्रियमाणनित्यश्राद्धापेक्षया दर्शश्राद्धमनियतम् । एवं
सोदकुंभात्प्रत्यहं विहितान्यान्मासिमासि मृताहे विहितं मासिकमनियतम् । एवं दर्शश्राद्धं प्रतिमासं
१५ नियतं मन्वादिकं तु क्वचित्कन्चिन्मासे भावादनियतम् । अस्य बलीयस्त्वात्तदेवानुष्ठेयमित्यर्थः । दर्श-
संक्रांतिश्राद्धयोः संनिपाते तु द्वयोस्तुल्यत्वादेकताभेदाभावाच्च दर्शश्राद्धं संक्रांतिश्राद्धं वा अन्य-
तरदनुष्ठेयम् । '''कालादर्शोऽपि—'''
“ नित्यदार्शिकयोः सोदकुंभमासिकयोरपि । दार्शिकस्य युगादेश्च दार्शिकाल्लभ्ययोगयोः ” ॥
दार्शिकस्य मन्वादेः संपाते श्राद्धकर्मणः प्रसंगादितरस्यापि सिद्धेरूत्तरमाचरेदिति । अलभ्ययोग-
२० शब्देन चंद्रसूर्यग्रहाद्योदयादीनामुपसंग्रहः । ग्रहणार्योदयोरमावास्याकालिकत्वादार्शिकेन संपातः ।
'''तत्रैव—'''“ नैकः श्राद्धद्वयं कुर्यादेकस्यैकवासरे । नैमित्तिकं त्वनेकेषां निमित्तानां च संकरे ॥
“ नैमित्तिकानि तुल्यत्वात् दैवतैक्येऽपि कृत्स्नशः ” ॥ इति एकः कर्ता एकदिने एकमेव
पित्रादिकमुद्दिश्य श्राद्धद्वयं न कुर्यात् । नैमित्तिकश्राद्धद्वयं तु कुर्यात् । अनेकेषां निमित्तानां च
सन्निपाते सति बहूनि नैमित्तिकानि श्राद्धानि देवतैक्येऽपि कृत्स्नानि कुर्यात् । निमित्तानां
२५ तुल्यत्वादित्यर्थः । तदाह '''कात्यायनः'''
“ द्वे बहूनि निमित्तानि जायेरन्नेकवासरे । नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात् ” ॥ इति ।
'''देवताभेदे एकस्मिन् दिने श्राद्धद्वयानुष्ठानम् ।''' “नैकः श्राद्धद्वयं कुर्यादेकस्यैकवासरे”
इति उद्देश्यैक्ये श्राद्धद्वयनिषेधाद्देवताभेदे श्राद्धद्वयं कुर्यात् । '''पितृमेधसारे''' तदुदाहृतं तथथा—
“ नित्यदार्शिकाभ्यां सोदकुंभमासिकाब्दिकानां संयोगे आब्दिकेन संक्रांतिमासिकसोदकुंभानां
३० संयोगे सोदकुंभादि पूर्वमनुष्ठेयम् । अनियतत्वात् । ततो दर्शादीति नित्यश्राद्धेन दर्शश्राद्धेन च
सोदकुंभश्राद्धं मासिकं मातुःपितुर्वा क्षयाहश्राद्धं च यदा संयुक्तं तदा श्राद्धद्वयं कुर्यादेव । तत्रा-
नियतनिमित्तं सोदकुंभमासिकाब्दिकादि पूर्वं कृत्वा नित्यदर्शश्राद्धे कुर्यात् । एवं मातुः पितुर्वा
क्षयाहश्राद्धेन संक्रांत्यादिनैमित्तिकश्राद्धसांनिपाते श्राद्धद्वयं कुर्यात् । तत्र संक्रांत्यादीनि अनियत-
{{rule}}<noinclude></noinclude> 9flbh7ghhn0nirmlu1p5ervnm3kaz0e पृष्ठम्:Smriti mukta phalam.pdf/७३५ 104 166738 419759 2026-11-10T14:49:46Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''नित्यनैमित्तिकयोः मातृपित्रोः । सन्निपाते ।'''|६९५}} {{rule}} निमित्तानि पूर्वं कृत्वा आब्दिकं कुर्यादित्यर्थः । एवं च देवताभेदे सति नित्ययोर्नित्यनैमित्तिकयो... नवीन पृष्ठं निर्मीत अस्ती 419759 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''नित्यनैमित्तिकयोः मातृपित्रोः । सन्निपाते ।'''|६९५}} {{rule}} निमित्तानि पूर्वं कृत्वा आब्दिकं कुर्यादित्यर्थः । एवं च देवताभेदे सति नित्ययोर्नित्यनैमित्तिकयोर्वा
संनिपाते श्राद्धद्वयमवश्यं कर्तव्यम् । तत्र चानियतनिमित्तं पूर्वं कर्तव्यम् । तथा च '''कालादर्शकारः—'''
“ नित्यस्य सोदकुंभस्य नित्यमासिकयोरपि । दर्शस्य सोदकुम्भस्य दर्शमासिकयोरपि ॥
“ नित्यस्य चाब्दिकस्यापि दार्शिकाब्दिकयोरपि । युगाद्याब्दिकयोश्चापि मन्वाद्याब्दिकयोरपि ॥
“ प्रत्याब्दिकस्य चालभ्य योगेषु विहितस्य तु । संपाते देवताभेदाच्छ्राद्धयुग्मं समाचरेत् ॥ ५
“ निमित्तानियतिश्चात्र पूर्वानुष्ठानकारणम् ” ॥ इति । एषु द्वंदेषु यस्य श्राद्धस्य निमित्तम-
नियतं तत्पूर्वमनुष्ठेयम् । अनियतनिमित्तस्य बलीयस्त्वात्तेनोदकुंभमासिकाब्दिकादि पूर्वं कृत्वा
नित्यश्राद्धदार्शिकि कुर्यात् । दार्शिकाब्दिकयोः संनिपाते आब्दिकं क्षयाहश्राद्धं पूर्वं कृत्वा दर्शश्राद्धं
कुर्यादितेषु द्वंदेषु पश्चाद्यदुक्तं तत्पूर्वमनुष्ठेयमित्युक्तं भवति । तथा '''स्मृत्यंतरे—'''
“ दर्श क्षयाह आपन्ने श्राद्धं तत्र कथं भवेत् । क्षयाहं तु विनिर्वर्त्य दर्शश्राद्धं समाचरेत् ” ॥ इति । १०
'''आश्वलायनस्तु—'''
“ यन्मास्येवाब्दिकं श्राद्धं यस्य पित्रोर्भवेदिह । प्राक्पिंडदानात्तन्मासि पार्वणं न समाचरेत् ”॥इति
पिंडदानादाब्दिकश्राद्धीयपिंडदानात् प्राक्पार्वणं दर्शादिश्राद्धं न समाचरेदित्यर्थः ।
'''मातृपितृश्राद्धद्वयसंनिपाते विधिः ।''' मातृपितृश्राद्धद्वयसंपाते पितृश्राद्धं पूर्वं कुर्यात् ।
“ मातापित्रोर्मृताहैक्यं कालेनापि भवेद्यदि । पितृश्राद्धं पुरा कृत्वा कुर्यान्मातुरनन्तरम् ” ॥ इति १५
स्मरणात् । तथा च '''कालादर्शे—'''“ पित्रोस्तु पितृपूर्वत्वं सर्वत्र श्राद्धकर्मणि ” इति ।
सर्वत्र सपिंडीकरणांते । तदुत्तरभाविनि प्रत्याब्दिकादौ च '''कार्ष्णाजिनिः—'''
“ पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषितेऽपि वा । पितृपूर्वं सदा कुर्यादन्यत्रासक्तियोगतः”॥ इति ।
अन्यत्र मातापितृव्यतिरिक्तश्राद्धे । '''स्मृत्यंतरे—'''
“ मातापित्रोर्मृताहैक्ये पाकादीन्सह कारयेत् । कुर्यादग्रे पितृश्राद्धं पश्चान्मातुर्यथाविधि”॥ इति । २०
'''सायणीये—'''
“ श्राद्धद्वये च युगपत्प्राप्ते पित्रोर्मृतिऽहनि । एकपाकेन तत्कुर्यादिति स्मृतिकृतो विदुः ” ॥ इति ।
'''हेमाद्रौ—'''
“ मातापित्रोरेकदिने श्राद्धं च प्रकृतं भवेत् । एकपाकेन तत्कुर्याद्वरणादि पृथक् पृथक् ॥
“ नान्‍नादिशेषदोषोऽत्र कालैक्यात्तु पृथग्विधौ । रोहिणांते पितुः कृत्वा वैरिंचे मातुरारभेत्”॥इति । २५
'''आश्वलायनोऽत्र विशेषमाह—'''
“ एकत्रैव दिने श्राद्धद्वयं प्राप्तं यदा तदा । चरेदेव पुरा वर्षात्पित्रोरेकस्तु तत्सुतः ॥
“तावत्पूर्वं मृतस्यादौ कृत्वा स्नात्वा यथाविधि । पश्चात्पश्चान्मृतस्यैव पृथक्पाकैः समाचरेत्”॥ इति ।
एकस्यां तिथौ संघातानुमरणसंबंधव्यतिरिक्तं पित्रोः श्राद्धद्वयं यदा प्राप्तं तदा बहुषु विभक्तेष्वपि
पुत्रेषु सत्सु एको ज्येष्ठ एव पुरा वर्षांन्नवश्राद्धाद्यूनाब्दिकपर्यंतं मरणक्रमेण कुर्यादित्यर्थः । एवं च ३०
वर्षात्पूर्वं कर्तव्यं श्राद्धं पृथक्पाकेन पितृपूर्वं वा मरणक्रमेण वा कुर्यात् । आब्दिकादीनि सह
पाकेन पितृपूर्वमेव कुर्यादिति स्थितम् । मासिकाब्दिकयोर्युगपत्प्राप्तौ तु मातुः पितुर्वा आब्दिकं
प्रथमं कर्तव्यम् । मासिकं तु पृथक्पाकेन पश्चात्कार्यम्
“एकाहे मासिकाब्दौ चेत्पूर्वं प्रत्याब्दिकं भवेत् । पश्चात्तु मासिके कार्यं पृथक्पाकपरिक्रिया ”॥इति
स्मरणात् । ३५
{{rule}} १ क्ष-स्मृत्यर्थसारे ।<noinclude></noinclude> r9fna8wseohg222cvf5tp6cu8lcda3n पृष्ठम्:Smriti mukta phalam.pdf/७३६ 104 166739 419760 2026-11-10T14:50:46Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६९६|'''अनेकborder-श्राद्धसन्निपाते ।'''|}} {{rule}} '''अनेकborder-श्राद्धसन्निपाते विधिः ।''' पित्रोर्ज्ञात्यादेश्च श्राद्धत्रयसंपाते '''आश्वलायनः—'''
“ नैकत्रदिवसे श्राद्धत्... नवीन पृष्ठं निर्मीत अस्ती 419760 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६९६|'''अनेकborder-श्राद्धसन्निपाते ।'''|}} {{rule}} '''अनेकborder-श्राद्धसन्निपाते विधिः ।''' पित्रोर्ज्ञात्यादेश्च श्राद्धत्रयसंपाते '''आश्वलायनः—'''
“ नैकत्रदिवसे श्राद्धत्रयं जात्वपि विद्यते । एकः कुर्यात्तथा प्राप्ते अन्यो भ्राताऽपरं चरेत् ॥
“ भ्रातर्यविद्यमाने तु तत्परेऽन्हि समाचरेत् । पश्चाद्वागतयोस्तावत्पित्रोः पूर्वेऽन्हि शस्यते ॥
“ एवं विमृश्य कर्तव्यं संप्राप्ते धीमता तदा । अन्यथा श्राद्धहंता स्याच्छ्राद्धसंकरकृद्भवेत् ” ॥ इति ।
५ एककर्तृकं श्राद्धत्रयमेकस्मिन्दिवसे न विद्यते । एको भ्राता पित्रोः प्राप्ते श्राद्धे कुर्यात् । अन्यो
भ्राता ज्ञातिश्राद्धं चरेदविद्यमाने तु भ्रातरि मरणक्रमात्पश्चात्प्राप्तं पित्रोः श्राद्धद्वयं पूर्वदिवसे
मृततिथौ कुर्यात् । पूर्वं मृतस्यापि ज्ञात्यादेः श्राद्धं मृततिथेः परदिवसे कुर्यादित्यर्थः । अर्थात्तिथो-
रन्यतरश्राद्धस्य ज्ञात्यादिश्राद्धस्य च संनिपाते श्राद्धद्वयं पितृपूर्वकं तस्यां तिथौ कुर्यादित्युक्तं भवति ।
'''स्मृत्यंतरे—'''
१० “ आब्दिकं प्रथमं कुर्यान्मासिकं तु ततः परम् । दर्शश्राद्धं तृतीयं स्याच्चतुर्थं तु महालयः”॥ इति ।
महालये कारुणिकवरणस्य सत्त्वाद्दर्शमहालयोर्देवताभेदात् पृथक्करणम् ।
'''अनुमरणाब्दिकविषये भृगुः—'''
“ या समारोहणं कुर्याद्भर्तृचित्यां पतिव्रता । तन्मृताहनि संप्राप्ते पृथक्पिंडे नियोजयेत् ” ॥ इति ।
पृथक्पिंडनियोजनं पृथक्श्राद्धकरणम् । तथा च '''स्मृत्यंतरे—'''
१५ “एकचित्यां समारूढौ दंपती निधनं गतौ । पृथक् श्राद्धं तयोः कुर्यादोदनं च पृथक्पृथक् ” ॥ इति ।
'''लोकाक्ष्रिस्तु—'''
“ मृतेऽहनि समासेन पिंडनिर्वापणं पृथक् । नवश्राद्धं तु दंपत्योरन्वारोहण एव तु”॥ इति ।
मृतेऽहनि पिंडनिर्वापणं मृताहश्राद्धं समासेन पाकैborder-क्येन प्रथमं पृथक्कुर्यादित्यर्थः । मातृभिरेकचित्या-
मन्वारोहणे कृते पाकैborder-क्येन प्रथमं पितुः तदनंतरं साक्षान्मातुः ततो ज्येष्ठादिक्रमेण सपत्नी-
२० मातृणां कुर्यात् । तदाह '''भृगुः—'''
“ एककाले गतासूनां बहूनामथवा द्वयोः । तंत्रेण श्रापणं कृत्वा कुर्याच्छ्राद्धं पृथक्पृथक् ॥
“ पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः परम् । तृतीयस्य ततः कुर्यात्संनिपातेष्वयं क्रमः ” ॥ इति ।
'''माधवीये''' व्याख्यातमेतत्—“पूर्वकस्य मुख्यस्य पितुः द्वितीयस्य ततो जघन्यायाः साक्षान्मातुः
तृतीयस्य ततो जघन्यायाः सपत्नीमातुरिति । एवं च “ नैकत्र दिवसे श्राद्धत्रयं जात्वपि विद्यते ” इति
२५ निषेधः मातापितृव्यतिरिक्तश्राद्धसंपातविषयः । “ दंपत्योः सह संस्कारो मृतावनुमृतावपि ।
“ उदकादिसपिंड्यांतंप्रेतकार्याणि यान्यपि । कुर्यात् समानतंत्रेण सांवत्सरिकमेव च ” ॥ इति
संघातानुमरणविषये सांवत्सरिकस्य समानतंत्रत्वस्मरणमापद्विषयम्
“ एकचित्यां समारुह्य मृतयोरेकवह्निभिः । पित्रोः पिंडान्पृथग्दद्यात्पिंडं वाऽप्सु तत्सुतः ” ॥ इति
अग्निसमरणात् । पिंडमित्येकोद्दिष्टाभिप्रायम् । अनापदि तु पृथगेव कार्यम् । अन्यथा “पृथक् श्राद्धं
३० तयोः कुर्यात् ” इति पूर्वोक्तस्मृतिविरोधः स्यात् । एवं च पित्रोः संघातमरणे अनुमरणे च
सपिंडीकरणांतं सह कुर्यात् । तदुत्तरभाविश्राद्धं सर्वपाकैborder-क्येन पृथक्कुर्यादिति निर्णयः ।
'''सपिण्डानां श्राद्धसंनिपाते विधिः ।''' सपिंडानां सह मरणे श्राद्धसंपाते '''ऋष्यशृंगः—'''
“ भवेद्यदि सपिंडानां युगपन्मरणं तथा । संबन्धासत्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेत् ” ॥ इति ।
{{rule}} १ क्ष-पुनः ।<noinclude></noinclude> tsgk10aux6z2ey3nu1w9t9acacnli6j पृष्ठम्:Smriti mukta phalam.pdf/७३७ 104 166740 419761 2026-11-10T14:51:46Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''संपाते मरणक्रमेण ।'''|६९७}} {{rule}} मरणक्रमपरिज्ञाने तु तत्क्रमादेव कुर्यात्
“ पत्नीभ्रातृसुतादीनां सपिंडानां यदि क्रमात् । संघातमरणं तत्र तत्क्रमाच्छ्राद्... नवीन पृष्ठं निर्मीत अस्ती 419761 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''संपाते मरणक्रमेण ।'''|६९७}} {{rule}} मरणक्रमपरिज्ञाने तु तत्क्रमादेव कुर्यात्
“ पत्नीभ्रातृसुतादीनां सपिंडानां यदि क्रमात् । संघातमरणं तत्र तत्क्रमाच्छ्राद्धमाचरेत् ” ॥ इति
स्मरणात् । '''ऋष्यशृंगश्च—'''
“ कृत्वा पूर्वं मृतस्यादौ द्वितीयस्य ततः परम् । पुनस्तृतीयस्य तथा संनिपाते त्वयं क्रमः”॥ इति ।
'''पार्वणैकोद्दिष्टयोः संनिपाते जाबालिः—''' ५
“ यद्येकत्र भवेतां वै एकोद्दिष्टं च पार्वणम् । पार्वणं त्वभिनिर्वर्त्य एकोद्दिष्टं समाचरेत् ”॥ इति ।
“ भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च । मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् ” ॥
इत्यादिभिर्विहितस्यैकोद्दिष्टस्य
“ पुत्रः पौत्रः प्रपौत्रश्च दौहित्रो दुहिता स्नुषा । दंपती च क्रमादेते श्राद्धं कुर्युस्त्रिपूरुषम् ”॥
इत्यादिभिर्विहितस्य पार्वणस्य च संनिपाते पार्वणं कृत्वा तत एकोद्दिष्टं कुर्यादित्यर्थः । आद्यैकोद्दिष्ट- १०
दिवसे कर्ता स्वदेयश्राद्धमागतमंतरितं च न कुर्यात्
‘ एकोद्दिष्टस्य दिवसे सपिंडीकरणं विना । श्राद्धं कुर्यात्पितृक्रोधात्क्षयमाप्नोति संततिः ” ॥ इति
स्मरणात् । एकादशदिने एकोद्दिष्टव्यतिरिक्तश्राद्धांतरं यदि कुर्यात्तदा दोषः । विषयविशेषेण
एकादशाहविहितं सपिण्डीकरणं तत्पूर्वभावि च षोडशश्राद्धमेकोद्दिष्टदिवसे कुर्यादित्यर्थः ।
अत्र केचिदाहुः—“ एकोद्दिष्टांत एव स्यात्संसकर्तुः शुद्धता त्वचात् ” इति संस्कर्तुरेकोद्दिष्टानंतरं १५
शुद्धिस्मरणात्
“कार्ये प्रत्याब्दिके श्राद्धे त्वंतरा मृतसूतके । आशौचानंतरं कार्यमिति वासिष्ठभाषितम्”॥ इत्या-
शौचानंतरमेव तत्करणविधानादेकोद्दिष्टं कृत्वा तस्मिन्नेव दिने कुर्यादिति तदसधु । एकोद्दिष्टस्य
दिवसे सपिण्डीकरणं विनेत्यनेन पूर्वोक्तेन एकोद्दिष्टदिनमात्रे श्राद्धांतरनिषेधप्रतीतेः । यत्तु—
“ एकादशेऽन्हि संप्राप्ते एकोद्दिष्टे च पार्वणे । कृत्वा तु पार्वणश्राद्धमेकोद्दिष्टं समाचरेत् ”॥ इति २०
तदपि ‘एकोद्दिष्टांत एव स्यात्’ इत्युक्ताने कस्मृतिविरोधात् शिष्टाचाराभावाच्चोपेक्ष्यम् । तत एव
'''पितृमेधसारकृत्—'''“ दाहकस्तु स्वदेयं श्राद्धमंतरितं द्वादशाह एव कुर्यात् नैकादशाहे ” ।
तत्र शुद्ध्यभावाभिषेधाच्चेति तेनैव तद्व्याख्यातम्—“अंतरितमागतं च स्वदेयं श्राद्धं द्वादशाहे
एव कुर्यात् । सापिण्डीकरणं तु सावकाशत्वात् त्रयोदशाहादौ कुर्यात् ” इति । यत्तु—
“ द्वादशेऽहनि संप्राप्ते पार्वणे च सपिण्डने । पार्वणं प्रथमं कृत्वा पश्चात्कुर्यात्सपिण्डनम् ”॥ इति २५
एतदेवं व्याचक्षते—पार्वणं प्रथमं पूर्वदिने कृत्वा पश्चात्त्रयोदशदिने सपिण्डनं कुर्यादिति ।
अन्ये त्वाहुः—द्वादशाहे सपिण्डनं कृत्वा त्रयोदशदिनेऽन्हि अंतरितं द्वादशाहप्राप्तं च प्रत्या-
ब्दिकं कर्तव्यम्
“ नासपिण्डीकृते प्रेते पितृकार्यं प्रवर्त्तते । सपिण्डीकरणं कृत्वा कुर्यात्पित्र्यं शुभानि च”॥ इति
स्मरणादिति । स्मृत्यंतरेऽपि— ३०
“ अकृत्वा प्रेतकार्याणि नित्यनैमित्तिकान्यपि । न कुर्यात्तावदाशौचं यावत्प्रेतत्वमोक्षणम्”॥ इति ।
तथा—
“ ग्रहणे तु द्वितीयेऽन्हि रजोगृष्टौ तु पंचमे । त्रयोदशेऽन्हि मृतके जन्मन््येकादशेऽहनि ”॥ इति ।
{{rule}} १ क्ष-एकं । २ ख-तृ ।<noinclude></noinclude> dboqfea1tneq7ykl16pmh5cz7safp24 पृष्ठम्:Smriti mukta phalam.pdf/७३८ 104 166741 419762 2026-11-10T14:52:56Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|६९८|'''नित्यनैमित्तिकयोः संपाते ।'''|}} {{rule}} “ ग्रहणे तु द्वितीयेऽन्हि रजो दृष्टौ तु पंचमे ” इत्यनयोर्विषयोऽग्रे वक्ष्यते । मृतके मरणाशौचे
अंतरितं त्रयोदशेऽन्... नवीन पृष्ठं निर्मीत अस्ती 419762 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|६९८|'''नित्यनैमित्तिकयोः संपाते ।'''|}} {{rule}} “ ग्रहणे तु द्वितीयेऽन्हि रजो दृष्टौ तु पंचमे ” इत्यनयोर्विषयोऽग्रे वक्ष्यते । मृतके मरणाशौचे
अंतरितं त्रयोदशेऽन्हि कुर्यात् । जननाशौचे त्वेकादशे कुर्यादित्यर्थः ।
न च वाच्यं त्रयोदशेऽन्हि मृतके इत्येतन्महागुरुपितृसंस्कर्तृविषयम्
“उत्पाद्य पुत्रं संस्कृत्य वेदमध्याप्य यः पिता । कुर्याद्वृत्तिं च नष्टेऽस्मिन्द्वादशाहं महागुरौ”॥ इति
५ वचनेन तत्र द्वादशाहमाशौचस्मरणादिति । केचित्तु पूर्वापरपर्यालोचनया मृतके च त्रयोदश
इत्यंशस्याप्यंतरितश्राद्धमात्रविषयत्वप्रतीतेः । महागुरुविषये त्रयोदशेऽन्हि सापिंड्ये सत्युक्तन्यायेन
चतुर्दशदिन एवांतरितश्राद्धकरणस्य युक्तत्वाच्च । एवं च द्वादशाहसपिंडीकरणविषयेऽन्तरितं श्राद्ध-
मेकोद्दिष्टदिने सपिंडीकरणदिने वा प्राप्तं च त्रयोदशेऽन्हि कर्तव्यम् । एतदेवाभिप्रेत्य स्मृत्यंतरम्—
“आशौचं द्वादशाहांतं न कुर्याद्देवतार्चनम् । न कुर्यात्पितृकार्याणि दानं होमं जपं तथा”॥ इति ।
१० त्रिपक्षादौ सपिंडीकरणविषये तु अंतरितं श्राद्धं द्वादशाहे कार्यम् । द्वादशाहादिषु सपिंडीकरण-
पर्यंतं तद्दिनेषु च प्राप्तं पित्रोः प्रत्याब्दिकं यथातिथ्येव कर्तव्यम् । ननु—
“ अकृत्वा प्रेतकार्याणि नित्यनैमित्तिकान्यपि । न कुर्यात्तावदाशौचं यावत्प्रेतत्वमोक्षणम् ”॥ इति
सपिण्डीकरणपर्यंतं कर्मानधिकारित्वस्मरणात् कथं तत्र पितृश्राद्धमिति चेन्न । तस्य पितृश्राद्ध-
व्यतिरिक्तकर्मनिषेधपरत्वात् । तथा च स्मृत्यंतरम्
१५ “ नासपिंडीकृतेः पित्रोरन्येषां श्राद्धमाचरेत् । नित्यं नैमित्तिकं काम्यमिष्टापूर्तादिकं च न ॥
“मासिकान्याब्दिकं पित्रोःशुद्धोऽप्यौरसः सुतः । कुर्यादेव तिथिप्राप्तमिति शातातपोऽब्रवीत्”॥ इति ।
आऽसपिण्डीकृतेरित्याभिविधावाकारः । पित्रोः सपिण्डीकरणपर्यंतमन्येषां प्रत्याब्दिकं न कुर्यात् ।
मातापित्रोरन्यतरस्य प्रत्याब्दिकमन्यतरसापिंड्यात्पूर्वं कुर्यादित्यर्थः । एवं च पितृसापिंड्यानंतर-
मन्येषां प्रत्याब्दिकश्राद्धं कर्तव्यमित्यर्थादुक्तं भवति । यत्तु देवलवचनम्
२० “पितरौ प्रमीतौ यस्य देहस्तस्याशुचिर्भवेत् । न दैवं नापि पित्र्यं च यावत्पूर्णो न वत्सरः”॥ इति ।
अत्र पित्र्यशब्देनान्येषां सापिंड्यमुच्यते । “ पित्रोर्मृताब्दे चान्येषां वत्सरांते सपिंडनम् ” इति
स्मरणात् । एतच्चाधस्तान्निरूपितम् । पूर्वपक्षेऽप्येवमेव अनयोः श्लोकयोरर्थ इति तस्मात्पूर्वपक्ष
एव युक्तः । यत्र देवतैक्यं तत्र काम्यानुष्ठानाश्रित्यं च श्राद्धं प्रसंगात्सिद्ध्यति
“ काम्यं तंत्रेण नित्यस्य तंत्रं श्राद्धस्य सिध्यति । स्यादेकत्वं तु निर्देशाद्देवतैक्यं भवेद्यदि ”॥
२५ इति स्मरणात्
तथा च कालदर्शे—“ देवतैक्ये काम्यानुष्ठानाश्रित्यत्वं च सिध्यति ” इति ।
'''आब्दिकनिरूपणम् । अथब्दिकं निरूप्यते । तत्र याज्ञवल्क्यः—'''
“मृतेऽहनि तु कर्तव्यं प्रतिमासं च वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि”॥ इति ।
'''लोकाक्षिः—'''
३० “ श्राद्धं कुर्यादवश्यं तु प्रमीतपितृकः स्वयम् । इंदुक्षये मासि मासि वृद्धौ प्रत्यब्दमेव च”॥ इति ।
'''जातुकर्णिः—'''
“ पितुः पितृगणस्थस्य कुर्यात्पार्वणवत्सुतः । प्रत्यब्दं प्रतिमासं च विधिर्ज्ञेयः सनातनः ” ॥ इति ।
पितृगणस्थस्य कृतसपिंडीकरणस्य पितुः प्रत्यब्दं प्रतिमासामाब्दिकं मासिकं च श्राद्धं पार्वणव-
३५ त्पितृपितामहप्रपितामहात्मकत्रिपुरुषोद्देशेन सुतो मृताहे कुर्यादित्यर्थः ।
{{rule}} १ ख-तृ । २ ग-र्ण्यः ।<noinclude></noinclude> rms7njp8so65e7o9qu7b0utefjw9mt9 पृष्ठम्:Smriti mukta phalam.pdf/७३९ 104 166742 419763 2026-11-10T14:54:40Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''आब्दिकश्राद्धम् । मासनिरूपणम् ।'''|६९९}} {{rule}} '''कात्यायनः—'''
“प्रत्यब्दं यो यथा कुर्यात्पुत्रः पित्रोः सदा द्विजः । तथैव मातुः कर्तव्यं पार्वणं तु विधीयते”॥... नवीन पृष्ठं निर्मीत अस्ती 419763 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''आब्दिकश्राद्धम् । मासनिरूपणम् ।'''|६९९}} {{rule}} '''कात्यायनः—'''
“प्रत्यब्दं यो यथा कुर्यात्पुत्रः पित्रोः सदा द्विजः । तथैव मातुः कर्तव्यं पार्वणं तु विधीयते”॥ इति ।
'''स्मृतिचिंतामणौ—'''
“ मृताहे मासिकं कार्यं त्र्यहोने तूनमासिकम् । आब्दिकं प्रथमं कुर्यान्मृतमासे मृतेऽहनि”॥ इति ।
'''सुधानिधौ—'''
“यस्मिन्मासे मृतिः पक्षे यस्य यस्यां तिथौ भवेत् । तस्यामेव तिथौ कुर्यादाब्दिकं तु विचक्षणः”॥ इति । ५
'''स्मृत्यंतरे—'''
“यस्मिन्मासि मृतिः पूर्वं तस्मिन्मासि च तद्दिने । प्रथमाब्दिकमारभ्य कुर्यादामरणान्तिकम्”॥ इति ।
'''नारदः—'''
“यस्यां तिथौ मृतिः प्राप्ता तस्यामेवाब्दिकं भवेत् । तिथिनक्षत्रवाराणां तिथिरेव बलीयसी ” इति । १०
'''चंद्रिकायाम्—'''
“मासपक्षातिथिसपृष्टे यो यस्मिन्म्रियतेऽहनि । प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः” ॥ इति ।
अत्र सर्वत्र मृताहस्य मासनिरूप्यत्वं प्रतीयते । मासश्च सौरचान्द्रसावनभेदेन त्रिविधो भवति ।
‘ मसी परिमाणे ’ इत्यस्माद्धातोर्निष्पन्नोऽयं मासशब्दः । सूर्यस्य राशिगतिर्यत्र परिमीयते स सौरः ।
यस्येते परिमीयेते यावता कालेन चंद्रवृद्धिक्षयौ स चांद्रो मासः । अहोरात्राणां त्रिंशत्संख्या यत्र १५
परिमीयते स सावनः । तदुक्तं '''ब्रह्मसिद्धांते—'''
“ चांद्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः । एकराशौ रविर्यावत्कालं मासः स भास्वतः”॥ इति ।
शुक्लादिः शुक्लप्रतिपदादिः दर्शातिश्चांद्रः । तथा '''स्मृत्यंतरे—'''
“ मेषादिस्थे सवितरि यो यो दर्शः प्रवर्त्तते । चांद्रमासास्ततस्तदंताश्चैत्राद्या द्वादश स्मृताः”॥ इति ।
'''चंद्रिकायाम्—''' २०
“ दर्शार्द्दर्शंश्चांद्रस्त्रिंशद्दिवसस्तु सावनो मासः । रविसंक्रमाच्चिन्हः सौरो मासो निगद्यते तज्ज्ञैः ” ॥
इति । चांद्रस्तु द्विविधः दर्शातः पौर्णमासान्त इति । तथा च श्रूयते—
“ अमावास्यया हि मासान् संपाद्याह उत्सृजन्ति । अमावास्यया हि मासान् संपश्यन्ति । पौर्ण-
मास्या मासान् संपाद्याह उत्सृजन्ति । पौर्णमास्या हि मासान्संपश्यंति” इति । तत्र प्रथमपक्षे चांद्रः
शुक्लादिदर्शति इत्यादि स्मृतय उदाहार्याः । शिष्टाचारबाहुल्यं च तत्र प्रसिद्धम् । द्वितीयपक्षस्यो- २५
पोद्वलकं स्मृतिलिंगं च । तथाहि महालयप्रकरणे पठ्यते—“आश्वयुक् कृष्णपक्षे तु श्राद्धं कार्यं
दिने दिने ” इति । तत्र यदि दर्शातो मासो विवक्ष्येत तदा भाद्रपदकृष्णपक्ष इत्युच्येत । न
त्वेवमुक्तम् । आश्वयुजमासांतर्गतं त्विहोच्यते । तत्र कृष्णपक्षप्रतिपदादिपूर्णमांतत्वे संभवति ।
तथा जयंतीप्रकरणे स्मर्यते—
“ मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्धरात्रके । भवेत् प्रौष्ठपदे मासि जयंती नाम सा स्मृता”॥ इति । ३०
अत्रापि जयंत्या भाद्रपदांतर्गतत्वं मासस्य पूर्णिमांततां गमयति । यतिधर्मप्रकरणे च स्मर्यते—
“ संधिषु वापयेत् ” इति । तत्र यदि दर्शान्तविवक्षा स्यात् तदा दर्शस्यैव संधित्वात्तत्रैव
वपनं कुर्युः । कुर्वंति च पूर्णमायां तस्माद्दर्शतिलपूर्णमांतत्ववचोर्व्यवस्थितो विकल्पः ।
तथा च '''ब्रह्मसिद्धांते—'''
“अमावास्यापरिच्छिन्नो मासः स्यात् ब्राह्मणस्य तु । संक्रांतिपौर्णमासिभ्यां तथैव नृपवैश्ययोः॥ इति । ३५
{{rule}}<noinclude></noinclude> sgdqoh6a9lm3eentlojjxenvn1w37gg पृष्ठम्:Smriti mukta phalam.pdf/७४० 104 166743 419764 2026-11-10T14:56:00Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७००|'''ऋतुनिर्णयः ।'''|}} {{rule}} '''ज्योतिःशास्त्रे—'''
“ दर्शांतः पूर्णिमांतश्च चांद्रमासो द्विधा मतः । जातिभेदाद्देशभेदात्तौ च मासौ व्यवस्थितौ ॥
“ नर्मदादक्षिण... नवीन पृष्ठं निर्मीत अस्ती 419764 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७००|'''ऋतुनिर्णयः ।'''|}} {{rule}} '''ज्योतिःशास्त्रे—'''
“ दर्शांतः पूर्णिमांतश्च चांद्रमासो द्विधा मतः । जातिभेदाद्देशभेदात्तौ च मासौ व्यवस्थितौ ॥
“ नर्मदादक्षिणे भागे दर्शांतो मास इष्यते । नर्मदोत्तरभागे तु पूर्णिमांत इति स्थितिः” ॥ इति ।
'''चंद्रिकायामपि—'''शुक्लप्रतिपदादिदर्शतिश्चांद्रो मास इत्येतद्दक्षिणापथे द्रष्टव्यं उत्तरापथे तु
५ कृष्णपक्षप्रतिपदादि पौर्णमास्यांतश्चांद्रो मास इति द्रष्टव्यमिति । तदेवं सौरचांद्रसावनभेदेन
मासस्त्रिविधः । तत्र चांद्रो मासो दर्शांतःपूर्णिमांतो वा देशभेदेन जातिभेदेन च व्यवस्थितः ।
नाक्षत्रमपि मासं केचिदिच्छन्ति “ सर्वैर्ऋक्षैः परिवृत्तैस्तु नाक्षत्रो मास इष्यते ” इति '''विष्णुधर्मो-'''
'''त्तरेऽभिधानात् ।'''
'''ऋतुनिर्णयः—'''प्रसंगादृतुर्निर्णयते । ऋतुर्वसंतादिः कालविशेषः । स च षड्विधः “ षड्वा
१० “ऋतव” इति श्रुतेः । यत्तु ‘द्वादशमासाः पंचर्तव’ इति श्रुतं । तत्र हेमंतशिशिरयोरेकीकरणं विवक्षितम् । तथा च बह्वृचब्राह्मणे पठ्यते
“ द्वादशमासाः पंचर्त्तवः हेमंतशिशिरयोः समासेन ” इति । तथा च पंचमप्रयाजानु-
मंत्रणमंत्रः श्रूयते —‘ हेमंतशिशिराटृतूनां प्रीणामि ’ इति । एवं च स्वरूपेण
ऋतवः षोढा भिद्यंते ॥ “ तत्रैborder-ककर्त्तुर्मासद्वयात्मकं द्वंदमुपदधाति । तस्मात् द्वंद्वमृतव ” इत्युप-
१५ धानब्राह्मणे श्रवणात् । कस्मिन् ऋतौ कयोर्मासयोर्द्वंद्वं गृहीतव्यमित्या-
कांक्षायां वसंताद्यृतुषु क्रमेण चैत्रमासादिद्वंद्वं ग्राह्यमिति श्रुतिरेवाह— “ मधुश्च
माधवश्च वासंतिकावृतू । शुक्रश्च शुचिश्च ग्रैष्मावृतू । नभश्च नभस्यश्च वार्षिकावृतू । इषश्चोर्जश्च
शारदावृतू । सहश्च सहस्यश्च हैमंतिकावृतू । तपश्च तपस्यश्च शैशिरावृतू ” ॥ इति । एषु च वाक्येषु
ऋतू इतिद्विवचनमृतुवयवमासाभिप्रायं अन्यथा “ षड् वा ऋतव ” इति श्रूयमाणा षट्संख्या
२० बाध्येत । अवयविनः ऋतोर्वसंतादेरेकात्मकत्वमाधानब्राह्मणे एकवचनेन
व्यवहारादवगंतव्यम् । “ वसंतो वै ब्राह्मणस्यर्तुः । ग्रीष्मो वै राजन्यस्यर्तुः । शरद्वै वैश्यस्यर्तुः ”
इति । संवत्सरोborder-पक्रमरूपत्वेन वसंतस्य प्राधान्यं द्रष्टव्यम् । “ मुखं वा एतदृत्तूनां यद्वसंतः ” इति
श्रुतेः । ते च वसंतादय ऋतवो द्विविधाश्चांद्राः सौराश्च । चैत्रादयश्चांद्रास्ते चोदाहृताः ।
मधुश्च माधवश्चेत्यादिना । न च तत्र चैत्रादयो नोक्ता इति शंकनीयं मध्वादिशब्दादीनां
२५ चैत्रादिपर्यायत्वात् । अत एवाहुः
“ चैत्रो मासो मधुः प्रोक्तो वैशाखो माधवो भवेत् । ज्येष्ठो मासस्तु शुक्रः स्यादाषाढः शुचिरुच्यते ॥
“ नभो मासः श्रावणः स्यान्नभस्यो भाद्र उच्यते । इषश्चाश्वयुजो मासो कार्तिकश्चोर्जसंज्ञकः ॥
“सहो मासो मार्गशीर्षः सहस्यः पुष्यनामकः । माघमासस्तपःप्रोक्तस्तपस्यः फाल्गुनः स्मृतः”॥ इति ।
चांद्रमासानां चैत्रादिसंज्ञा नक्षत्रप्रयुक्ता । यस्मिन्मासे पूर्णिमा चित्रानक्षत्रेण युज्यते स चैत्रः । एवं
३० वैशाखादिषुज्ञेयम् । चित्राविशाखादियोगस्योपलक्षणत्वात्कचिच्चित्रादिप्रत्यासन्नस्वात्यनूराधादि-
योगेऽपि चैत्रवैशाखादिसंज्ञा न विरुध्यते । एतेषां चैत्राद्यात्मकानां वसंतादीनां चंद्रपरिकल्प्य-
त्वाच्चांद्रत्वम् । अत एवाम्नायते —“ चंद्रमाः षड्ढोता । स ऋतून्कल्प-
याति” इति । ननु अस्त्वेवं मध्वादीनां द्वादशानां चांद्रमासानां वसंताद्यृतुत्वं मलमासस्य तु त्रयोश-
दशस्य चांद्रमासस्य कथमृतुषु निर्वाहः । उच्यते । ययोर्मासयोर्मध्ये मलमासो दृश्यते तयोरुत्तर-
३५ स्मिंस्तस्यांतर्भावः ।
{{rule}} १ क्ष-एकस्मिन् ।<noinclude></noinclude> gcnffml7g95i2dy7o3oph804kogr48x पृष्ठम्:Smriti mukta phalam.pdf/७४१ 104 166744 419765 2026-11-10T14:56:48Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अयननिरूपणम् ।'''|७०१}} {{rule}} तथा च—असौ षष्टिदिनात्मकॊ मलिनशुद्धभागद्वयात्मक इति मध्वादिशब्दवाच्यत्वेन उक्ते-
ष्वंतर्भावात् न काऽप्यनुपपत्तिः । सौरे त्वृत... नवीन पृष्ठं निर्मीत अस्ती 419765 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अयननिरूपणम् ।'''|७०१}} {{rule}} तथा च—असौ षष्टिदिनात्मकॊ मलिनशुद्धभागद्वयात्मक इति मध्वादिशब्दवाच्यत्वेन उक्ते-
ष्वंतर्भावात् न काऽप्यनुपपत्तिः । सौरे त्वृतुषु बोधायनेन मीनमेषयोर्मेषवृषभयोर्वा वसंत
इत्यभिधानान्मीनादित्वं मेषादित्वं च वैकल्पिकं वसंतस्यांगीकृतम् ।
'''वृद्धगार्ग्योऽपि—'''“ मीनमेषौ रविर्यावद्वसंतस्तावदिष्यते ” इति । '''वृद्धवसिष्ठः—'''“यावन्मेषवृषौ
भानुर्वसंतस्तावदुच्यते ” इति । '''कालनिर्णये—''' ५
“ वसंताद्यतवो द्वेधा चांद्राः सौराश्च चांद्रगाः । चैत्राद्या अथ मीनाद्या मेषाद्या वा विवस्वतः”॥ इति ।
तदेवं “ वसंते ब्राह्मणोऽग्निमादधीत ग्रीष्मे राजन्य आदधीत शरदि वैश्य आदधीत । वसंते
ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यं वसंते ज्योतिष्टोमेन यजेत ” इत्यादि श्रुतिस्मृति-
पुराणविहितेषु कर्मसु चांद्रः सौरो वा ऋतुः देशाचारानुसारेण विकल्पितो द्रष्टव्यः ।
'''अयननिरूपणम् ॥ अथायनम् ।''' यात्यनेन ऋतुत्रयेण सूर्यो दक्षिणाशामुत्तराशां वेत्यृतु- १०
त्रयमयनम् । तथा च श्रुतिः —“ तस्मादादित्यः षण्मासो दक्षिणेनैति
षडुत्तरेणेति ” । अत्र '''कालनिर्णयकारः—'''“ आदित्यगतिमुपजीव्यसायननिष्यत्तेः सौरमेवैतत् ” ॥
अत एव '''विष्णुधर्मोत्तरे—'''सौरमासमधिकृत्योक्तमृतुत्रयं चायनं स्यादिति । केचित्तु चांद्रमासे-
नायनद्वयमभ्युपगच्छति । मार्गशीर्षमासादिकैस्त्रिभिः ऋतुभिः कल्पितः कालः षण्मासात्मक
उत्तरायणम् । ज्येष्ठमासादिको दक्षिणायनमिति । तत्र प्रमाणं ज्योतिःशास्त्रादौ मृग्यम् । श्रौतस्मार्त- १५
कर्मानुष्ठाने तु मकरकर्कटसंक्रांत्यादिक एवायनाद्वयकाल इति ।
'''संवत्सरनिरूपणम् । अथ संवत्सरः ।''' संवत्सरो नाम अयनावयवयुक्तोऽवयवी काल-
विशेषः । सम्यावसंत्यस्मिन्नयनर्तुमासादय इति व्युत्पत्तेः । स च द्वादशमासात्मकः “द्वादशमासाः
संवत्सर ” इति श्रुतेः । चांद्रसावनसौरमासभेदेन संवत्सरस्त्रिविधः ।
तदुक्तं '''ब्रह्मसिद्धांते—''' २०
“ चांद्रसावनसौराणां मासानां तु प्रभेदतः । चांद्रसावनसौरास्तु त्रिधा संवत्सरा अपि ” ॥ इति ।
तत्र चांद्रः सांवत्सरश्चैत्रशुक्लप्रतिपदादिकः फाल्गुनदर्शान्तः । सौरस्तु मेषादिर्मिनांतः । सावनः
षष्ट्युत्तरशतत्रयाहोरात्रात्मकः । पंचविधोत्मकं संवत्सरस्योक्तमायुर्वेदे—
“सौरबृहस्पतिसावनशशधरनाक्षत्रिकाः क्रमेण स्युः । मातुलपातालातुलविमलवरार्गा वत्सराः पंच”॥
इति । अस्यायमर्थः—गणकप्रसिद्ध्याक्षरसंख्यया मातुलशब्दः पंचषष्ट्यधिकशतत्रयमाचष्टे । २५
तावद्दिवसपरिमितः सौरः संवत्सरः पातालशब्दः एकषष्ट्यधिकशतत्रयमाचष्टे । तावद्दिवसपरिमितः
काल्पे बृहस्पतेः संवत्सरः । अतुलशब्दः षष्ठ्यधिकशतत्रयमाह । तावद्दिवसपरिमितः सावनः
संवत्सरः । विमलशब्दः चतुःपंचाशदधिकशतत्रयमाचष्टे । तावद्दिवसपरिमितः चांद्रसंवत्सरः ।
वरांगशब्दश्चतुर्विंशत्यधिकशतत्रयमाह । तावद्दिवसपरितो नाक्षत्रिकसंवत्सर इति तत्र नाक्षत्रि-
कस्य ज्योतिःशास्त्रप्रसिद्धेः आयुर्दायादावुपयोगः । बार्हस्पत्यस्तु सिंहबृहस्पतिरित्यादिविशेषमुप- ३०
जीव्यगोदावर्यादिस्नानादौ विनियुक्तः सौरः संवत्सरः मेषादिराशिपुरस्कारेण प्रवृत्तेः सांवत्सरिके
श्रादादौ द्रष्टव्यः । तथा च व्रतं '''विष्णुधर्मोत्तरे अभिहितम्—'''
“भगवन् कर्मणा केन तिर्यग्योनौ न जायते । म्लेंछवेशे च पुरुषस्तमाचक्ष्व च वै मुने ”॥
{{rule}} १ ग-धत्वं । २ ग-गोस्तु ।
८९-२०<noinclude></noinclude> cl3tmle5pjq1ebu430nibjj8hpnj19b पृष्ठम्:Smriti mukta phalam.pdf/७४२ 104 166745 419766 2026-11-10T14:57:45Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७०२|'''संवत्सरनिरूपणम् ।'''|}} {{rule}} '''मार्कंडेयः—'''
“मेषसंक्रमणे भानोः सोपवासो नरोत्तमः । पूजयेत् भार्गवं देवं रामं शक्त्या यथाविधि”॥ इत्यारभ्य
“ मीने संक्रमण... नवीन पृष्ठं निर्मीत अस्ती 419766 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७०२|'''संवत्सरनिरूपणम् ।'''|}} {{rule}} '''मार्कंडेयः—'''
“मेषसंक्रमणे भानोः सोपवासो नरोत्तमः । पूजयेत् भार्गवं देवं रामं शक्त्या यथाविधि”॥ इत्यारभ्य
“ मीने संक्रमणे मत्स्यं वासुदेवं च पूजयेत् ” इत्यनेन ग्रंथेन व्रतं विधायांते तदुपसंहृतं
“ कृत्वा व्रतं वत्सरमेतदिष्टं म्लेंच्छेषु तिर्यक्षु च नापि जायते ” इति । षष्ठ्यधिकशतत्रयसंख्याकै-
५ दिनैर्निर्वर्त्ये गवामयनादौ सावनो द्रष्टव्यः । पक्षविशेषे तिथिविशेषे वा प्रतिसंवत्सरं विहितं यत्कर्म
तत्र चान्द्रः संवत्सरो द्रष्टव्यः । तथा च निरूढपशुबंधप्रकरणे श्रूयते—“ तेन संवत्सरे
संवत्सरे यजेत ” इति । '''आपस्तंबः—'''“ सर्वान्लोकान्पशुबंधयाज्यभिजयति तेन यक्ष्यमाणोऽ-
मावास्यायां पौर्णिमास्यां वा ” इति । अत्र चांद्रो वत्सरो ग्राह्यः , चांद्रतिथौ तदनुष्ठानविधानात् ।
“ तद्भायास्तिथयो द्वयोः ” इति अमरसिंहेन चांद्राहोरात्रेण्वेव तिथिशब्दानुशासनात्
१० ‘ पक्षपरिग्रह ’ इत्यस्माद्धातोः चांद्रस्य पंचदशानां कालानां पूरणं अपक्षयो वा यत्र परि-
गृह्यते स पक्ष इति निर्वचनाच्छुक्लपक्षादिपक्षाः पुरस्कारेण प्रवृत्ते कर्मणि चांद्र एव द्रष्टव्यः ।
तथा शुक्लपक्षेऽनंतव्रतं विहितं ‘ नववर्षाणि पंच च ’ इति संवत्सरस्य चानंतव्रतांगत्वं प्रतीयते ।
तत्र चांद्रः संवत्सरः । यत्र “ गुरुता शिष्यता चैव तयोर्वत्सरवासतः । संवत्सरमेतद्व्रतं चरेत् ”
इत्यादौ नियामकं नास्ति । तत्र चांद्रादीनामन्यतम इच्छया ग्रहीतव्यः ।
'''प्रकृतमनुसरामः''' १५
“यस्मिन्मासे मृति पक्षे यस्य यस्यां तिथौ भवेत् । तस्यामेव तिथौ कुर्यादाब्दिकं तु विचक्षणः”॥
इत्यादिभिः पूर्वोक्तवचनैः पक्षतिथिसंबंधेनाब्दिकस्य विधानाच्चांद्रस्याब्दस्य ग्राह्यत्वं प्रतीयते ।
'''अत्र गार्ग्यः'''
“विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः । आब्दिके पितृकार्येऽपि चांद्रो मासः प्रशस्यते”॥ इति।
२० '''चंद्रिकायामिदं व्याख्यातम्—'''यज्ञादौ माससंवत्सरसाध्ययज्ञव्रतप्रायश्चित्तक्रियादौ तत्र मास-
साध्ययज्ञः ‘ मासं वैश्वदेवेन ’ इत्यादिवाक्यैर्विहितः । माससाध्यव्रतानि मासोपवासादीनि मास-
साध्यप्रायश्चित्तक्रियास्तु
“ गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रतः । गायत्रीजाप्यनिरतो मुच्यतेऽसत्प्रतिग्रहात् ” ॥
इत्यादिवाक्यैर्विहिताः संवत्सरसाध्ययज्ञाः गवामयनादयः । संवत्सरसाध्यव्रतानि ‘ संवत्सरमेतद्व्रतं
२५ चरेत् ’ इत्यादि विहितानि संवत्सरसाध्याः प्रायश्चित्तक्रियाः द्वादशवार्षिकाद्या द्रष्टव्याः । आब्दिके
सांवत्सरिकश्राद्धे पितृकार्ये मासिकादौ । अपिशब्दान्माससंवत्सरसाध्ये यज्ञव्यतिरिक्ते सर्वस्मिन्
देवकार्ये चांद्रो मासः प्रशस्यते इति । उक्तं च '''पितामहेन—'''“ दैवे कर्मणि पित्र्ये च मासश्चांद्र-
मसः स्मृतः ” इति । '''आत्रेये—'''
“ अभिषेकेऽपि नाक्षत्रं सावनं वेतनादिषु । पित्र्ये चांद्रमसं शस्तं सौरं स्मार्तेषु कर्मसु ” ॥ इति ।
३० अभिषेके राज्याभिषेके । स्मार्तेषु विवाहादिष्वित्यर्थः । '''लघुहारीतः—'''
“प्रत्यब्दं द्वादशे मासि कार्या पिंडक्रिया सुतैः । क्वचित्त्रयोदशेऽपि स्यादाद्यं मुक्त्वा तु वत्सरम्”॥ इति।
द्वादशे मासि अतीत इति शेषः । अत्र त्रयोदशग्रहणसामर्थ्याच्चांद्रो मास इति ज्ञेयम् । सौर-
वत्सरे त्रयोदशमासासंभवात् । हारीतोऽपि—“असंक्रांतेऽपि कर्तव्यमाब्दिकं प्रथमं द्विजैः ” इति ।
अत्रापि संक्रांतिरहितसौरमासासंभवाच्चांद्र एव गृहीतः । '''वृद्धगार्ग्योऽत्र विशेषमाह—'''
{{rule}} १ ग-ज । २ याज्ञवल्किये प्रा. २९० । ३ ग--ष्वनिन्दितम् ।<noinclude></noinclude> r7li7oabjji407t2368n44c5killf4d पृष्ठम्:Smriti mukta phalam.pdf/७४३ 104 166746 419767 2026-11-10T14:59:26Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''चांद्रसौरमासौ ।'''|७०३}} {{rule}} “ अन्वष्टक्यं च पूर्वेद्युरष्टकामायुगादयः । मन्वादयोऽक्षया पंचम्यादौ चांद्रौ प्रकीर्तितौ ॥
“मासिके चाब्दिक्वे वस्त्रधान्यस... नवीन पृष्ठं निर्मीत अस्ती 419767 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''चांद्रसौरमासौ ।'''|७०३}} {{rule}} “ अन्वष्टक्यं च पूर्वेद्युरष्टकामायुगादयः । मन्वादयोऽक्षया पंचम्यादौ चांद्रौ प्रकीर्तितौ ॥
“मासिके चाब्दिक्वे वस्त्रधान्यस्वर्णादिवृद्धिषु । मृत्योपकल्पनादौ च मासाब्दौ सौरसावनौ” ॥ इति ।
मासिके आब्दिके च मासा द्वौ सौरौ धान्यस्वर्णादिवृद्धिषु मृत्योपकल्पनादौ च मासाब्दौ सावनाविति
द्रष्टव्यावित्याहुः । '''कालादर्शे—'''
“ अष्टकापरपक्षाम‍ावास्यादौ चांद्रमानतः । मासिकाब्दिकवृद्ध्यादौ मासाब्दौ सौरसावनौ” ॥ इति । ५
अपरपक्षो भाद्रपदकृष्णपक्षः । आदिशब्दात्पूर्वेद्युरन्वष्टक्याक्षयतृतीयान्वाद्युगादिपंचम्यादीनामुप-
संग्रहः । वृद्धिः ऋणीकृतसुवर्णादिवृद्धिः । आदिशब्देन भृत्युपकल्पनाद्युपसंग्रहः । '''त्रिकांडी च—'''
“चांद्रो मासः श्रुतिस्मृत्योः कर्मणोर्मासिकाब्दिके । विहाय भृतिवृद्ध्यादौ इतरौ परिकीर्तितौ” ॥ इति ।
मासिकाब्दिकव्यतिरिक्तश्रौतस्मार्तकर्मणोश्चांद्रो मासः । मासिकाब्दिकयोर्भृतिवृद्ध्यादौ च इतरौ
सौरसावनावित्यर्थः । '''स एव—''' १०
“यस्मिन्नावौ स्थिते सूर्ये यो मृतिं प्रतिपद्यते । पुनस्तद्राशिमापन्ने भानावब्दिकमाचरेत् ”॥ इति ।
'''हेमाद्रौ—'''
“यस्मिन्नावौ स्थितौ सूर्ये विपत्तिं याति मानवः । तद्राशावेव कर्तव्यं पितृकार्यं मृतेऽहनि ”॥ इति ।
'''स्मृत्यंतरे—'''
“व्रते चांद्रमासं शस्तं न श्राद्धेषु प्रशस्यते । अस्थिरश्चान्द्रमासः स्यात्स्थिरः सौरोऽत्र कारणम्”॥इति १५
चांद्रो मासोऽधिमाससंभवादस्थिरः । तदसंभवात्सौरः स्थिरः । अत्र सौरपरिग्रहे स्थिरत्वं कारण-
मित्यर्थः । अत्र केचिदमूलं श्लोकमिमं वर्णयंतो व्याचक्षते
“ चांद्रमानविधानेन नामले दिवसे सति । आद्याब्दिकं प्रकुर्वीत सौरेण पुनराब्दिकम् ” ॥ इति ।
सौरमानानुवर्त्यपि चांद्रमानविधानेन मृतदिवसान्नामले दिवसे पंचपंचाशदुत्तरशतत्रयदिवसे
प्रथमाब्दिकं कुर्यात् । द्वितीयाब्दिकं सौरमानेन प्रकुर्वीत । प्रथमाब्दिकस्य चांद्रमानेन कर्तव्यत्व- २०
विधानसामर्थ्यान्मासिकान्यपि तेनैव मानेन कर्त्तव्यानीति । तत्तु “ मासिके चाब्दिक्वे वस्त्रधान्य-
स्वर्णादिवृद्धिषु ” इति पूर्वोक्तवृद्धगार्ग्यादिवचनविरोधादुपेक्ष्यम् । तदेवं मासिकाब्दिकविषये
सौरविधिपराणां चांद्रविधिपराणां तत्तत्प्रशंसापराणां च बहूनां वचनानां सत्त्वात् “ तुल्यबल-
विरोधे विकल्प ” इति गौतमस्मरणादग्निहोत्र्यवद्विकल्पः । स च देशकुलाचारानुरोधेन
व्यवस्थितो विज्ञेयः । तथा च '''मनुः—''' २५
“ येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति ॥
“ सद्भिborder-राचरितं यस्माद्धार्मिकैश्च द्विजातिभिः । तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ” ॥ इति ।
'''सुमंतुरपि—'''“यत्र शास्त्रगतिर्भिन्ना सर्वकर्मसु भारत । उदितेऽनुदिते चैव होमभेदो यथा भवेत् ॥
“ तस्मात्कुलक्रमायातमाचारं त्वाचरेद्बुधः । स गरीयान्महाबाहो सर्वशास्त्रोदितादपि ” ॥ इति ।
सौरमासे तिथिद्वयसंभवे मासिकाब्दिकयोः परा तिथिर्ग्राह्या । यदाह '''बृहस्पतिः—''' ३०
“मासे संवत्सरे चैव तिथिद्वैधं यदा भवेत् । तत्रोत्तरोत्तमा ज्ञेया पूर्वा स्यात्तु मलिम्लुचा”॥ इति ।
मासे मासिके संवत्सरे सांवत्सरिके इत्यर्थः । तथा च '''संवर्त्तः—'''
“ उत्तरे दिवसे कुर्यादाब्दिकं मासिकं तथा । प्रत्याब्दिकं तथा कुर्यात्तच्छ्रेयस्कामो भवेद्यदि ” ॥
{{rule}} १ क्ष-योः क्षयः । २ क्ष-सा । ३ कखग-वृद्धवसिष्ठः ।<noinclude></noinclude> 3koh1qx8j4stt29dyjyxop2zyiace72 पृष्ठम्:Smriti mukta phalam.pdf/७४४ 104 166747 419768 2026-11-10T15:00:21Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७०४|'''तिथिद्वैधे ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“मासे संवत्सरे चैव तिथिद्वैधं यदा भवेत् । तत्रोत्तरा तिथिर्ग्राह्या न पूर्वा तु मलिम्लुचा” ॥ इति ।
'''आपस्तंबः—'''<br... नवीन पृष्ठं निर्मीत अस्ती 419768 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७०४|'''तिथिद्वैधे ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“मासे संवत्सरे चैव तिथिद्वैधं यदा भवेत् । तत्रोत्तरा तिथिर्ग्राह्या न पूर्वा तु मलिम्लुचा” ॥ इति ।
'''आपस्तंबः—'''
“ आब्दिके मासिके चापि पूर्वस्मिन्दिवसे कृते । तदानीं कुलहानिः स्यादुत्तरे गोत्रवर्धनम्”॥ इति ।
५ '''बृहस्पतिः—'''
“ मासिकाब्दिककृत्ये तु तिथिद्वैधं यदा भवेत् । पूर्वत्र दोषजननमुत्तरे भाग्यसाधनम् ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ एकमासि तिथिद्वैधे परत्राब्दिकमासिके । तद्वत्प्रत्याब्दिकं कुर्यादित्याह भगवान्मनुः ॥
“ यदि पूर्वदिने कुर्यात्कुलक्षयकरं भवेत् ” ॥ इति ।
१० '''नारदः—'''“ पितृकार्यं तु सर्वेषामृद्धिभाजनमुत्तरे । दिवसद्वितये प्राप्ते पूर्वत्र तु कुलक्षयः ” ॥ इति ।
तत्र परतियेः संक्रांत्युपरागदुष्टत्वे पूर्वा ग्राह्या । उभयत्र तथात्वे तु परातिथिर्ग्राह्या । यदाह
'''संग्रहकारः—'''“ मास्येकस्मिन् द्वौ तिथी चेत्परा स्यात् पूर्वस्तस्मिन्सूर्यसंक्रांतियुक्ते ।
“ द्वावप्येवं संगत्तौ चेत्परा स्यात्सर्वं चैवं चंद्रसूर्योपरागे ” ॥ इति । स्मृत्यंतरे विशेषोऽभिहितः—
“ यस्मिन्नहनि संक्रांतेः परं मध्यं दिनं भवेत् । आब्दिकं तत्र कुर्वीत अन्यथा ग्राह्यमुत्तरम्”॥ इति ।
१५ उभयत्रापि संक्रांतिदोषे आवर्तनादर्वाग्यदि संक्रांतिस्तदा पूर्वत्र आवर्तनात्परं चेत्परत्रेत्यर्थः । अस्त-
मयात् परं नास्ति संक्रांतिदोष इति केचित् । अर्धरात्रात्परं चेत्संक्रांतिदोषो नास्तीत्यपरे । एतदेव
युक्तम् । उपरागसाहचर्यात् । उपाकर्माणि
“ अर्धरात्रादधस्ताच्चेत्संक्रांत्यां ग्रहणेऽपि वा । न कर्तव्यमुपाकर्म परतश्चेन्न दोषभाक् ” ॥ इति ।
पूर्वापरदिने यत्र याऽधिका सा मता इत्यादि । तथा मास्येकस्मिन् तिथिद्वयेऽपि तुल्यद्वयोरपि
२० तुल्यबलत्वे परिग्राह्यम् । उभयोः कर्मकालस्य दुष्टत्वे यत्र तन्माससंबंधभूयस्त्वं तत्र कुर्यात् ।
तदुक्तं '''संग्रहे—'''
“ सौरमासे तिथिद्वैधे मासिकाब्दिकयोः परा । सा चोपरागसंक्रांतिदुष्टा चेत्पूर्विका मता ॥
“ द्वयोर्दोषेऽर्कसंक्रांतिरर्वागावर्तनाद्यदि । पूर्वापरान्यथा ग्राह्या कर्मकाले द्वयोरपि ॥
“ दुष्टे तन्माससंबंधभूयस्त्वं यत्र सा मता ” ॥ इति ।
२५ '''संक्रमदोषनिर्णयः । हेमाद्रौ—'''
“ रवेरस्तमयात्पूर्वं यदि संक्रमणं भवेत् । सा तिथिः संक्रमाद्दुष्टा परतश्चेन्न दोषभाक् ” ॥
किंच “ सौरमासे तिथिद्वैधे मासिकाब्दिकयोः परा । सा चोपरागसंक्रान्तिर्दुष्टा चेत्पूर्विका मता ॥
“ द्वयोर्दोषेऽर्कसंक्रान्तिरर्वागावर्तनाद्यदि । पूर्वापरान्यथा ग्राह्या कर्मकाले द्वयोर्यदि ॥
“ दुष्टे तन्माससंबन्धभूयस्त्वं यत्र सा मता ” ॥
३० आवर्तनात्पूर्वं चेदेवमावर्तनात्परं चेदेवं कर्मकाले पराह्ने चेदेवमिति वचनैर्दिवा संक्रमण
एव दोषप्रतीतेर्न रात्रौ दिवाक्रमणरहिततिथावेव श्राद्धं कर्तव्यम् ।
{{rule}} १ कखग-यमः । २ ग-त्याज्यं ।<noinclude></noinclude> 7blk7hfllmnv7ymwc6m3lj25sdqd8v1 पृष्ठम्:Smriti mukta phalam.pdf/७४५ 104 166748 419769 2026-11-10T15:01:28Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''संक्रमणे ।'''|७०५}} {{rule}} '''माधवीये—'''
“या तिथिः संक्रमाद्दुष्टा निशीथात्पूर्वमेव तु । आब्दिके मासिके त्याज्या सा तिथिः कव्यकर्मणि ।
“ मास्येकस्मिन् तिथौ पि... नवीन पृष्ठं निर्मीत अस्ती 419769 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''संक्रमणे ।'''|७०५}} {{rule}} '''माधवीये—'''
“या तिथिः संक्रमाद्दुष्टा निशीथात्पूर्वमेव तु । आब्दिके मासिके त्याज्या सा तिथिः कव्यकर्मणि ।
“ मास्येकस्मिन् तिथौ पित्रोर्दिवा संक्रमणे सति । अपराह्नात्परं दोषो न भवेच्छ्राद्धकर्मणि” ॥ इति ।
अखण्डादर्शे—“एकस्मिन् मासे एकस्मिन् दिने तिथौ संक्रमदुष्टायां सत्यामपराह्नात्परं न संक्र-
मदोषः ’ इत्यर्थः । ५
किञ्च—“ उभयोः कर्मकाले च संक्रमो न भवेद्यदि । परत्रैव तु कर्तव्यमाब्दिकं मासिकं तथा ” ॥
'''ब्रह्मयामके विशेषः । ऋषीन् प्रति व्यासः—'''
“ उत्तरे षडशीत्यां च प्रातश्चेदपि संक्रमः । पश्चात्पुण्यतया दोषः सायाह्ने तु न दूष्यति” ॥ इति ।
अयमर्थः—मकरसंक्रांतौ षडशीतिसंक्रांतौ च प्रातःकाले संक्रमेऽपि आवर्तनात्पूर्वं
संक्रम इति दोषाभावशंका न कार्या । किन्तु अनयोः संक्रान्त्योः पश्चादेव पुण्यकालतया १०
“ यदहः पुण्यकालः स्यात्तदहर्दोष इष्यते” इति परिभाषामनुस्मृत्य तदहः प्रत्याब्दिकं न कर्तव्यम् ।
अपि तूत्तरसंक्रांतिः सायाह्ने चेत्तत्र यथोक्तदोषाभावात्तत्रैव कर्तव्यमिति । एवं च प्रकृते चाप-
संक्रान्तेः षडशीतित्वेन पूर्वाह्नसंक्रमेऽपि दोष एव । मकरसंक्रान्ते षडशीतित्वेन पूर्वाह्नसंक्रमेऽपि
दोष एव । मकरसंक्रान्तेः सायनत्वेन दोषाभावात्तत्रैव श्राद्धं कर्तव्यमिति निर्णयः ।
'''सौरतिथ्यलाभे चान्द्रतिथिग्रहणम् ।''' सौरमासे मृततिथ्यभावे चांद्रमासमृततिथिर्ग्राह्या । १५
तदाह '''हारीतः—'''
“सौरे यदि दिनं शून्यं तदा चांद्रविधानतः । पूर्वमासे कृतं चेत्स्यात्पितॄणां तृप्तिकारणम् ” ॥ इति ।
'''पराशरः—'''
“ सौरालाभे ततः पूर्वं कृतं चेत्सफलं भवेत् । उत्तरस्मिन्कृते मासि तच्छ्राद्धमसुरालयम् ” ॥ इति ।
'''संवर्त्तः—''' २०
“ सौरमानविधाने तु मृतमासे तिथिर्न चेत् । पूर्वमासे तदा कुर्यादुत्तरे मासि दुःखदम् ” ॥ इति ।
'''स्मृत्यंतरेऽपि—'''
“ वृश्चिकादित्रिमासेषु मृताहो न भवेद्यदि । पूर्वमासि तिथौ कुर्यान्मासिकं चाब्दिकं तथा”॥ इति ।
'''वसिष्ठोऽपि—'''
“आब्दिकं सौरमासे स्यात्संक्रांतिरहिते तिथौ । सौरमासे यदि तिथिर्न स्याच्चांद्रमसे स्मृता ” ॥ इति । २५
'''पितृमेधसारे—'''“सौरमास्येकस्मिंस्तिथिद्वयसंभवे परस्यामेव श्राद्धं कुर्यात् । तत्र संक्रांत्युपरागदोषे
पूर्वस्यां तत्रैवं चेत्परस्याम् । उभयत्राप्येवं चेत्परस्यां क्वचित्त्सौरे तिथ्यभावे चांद्रे मासि कुर्यात्” इति ।
तस्मिन् चांद्रे क्षयं गते सति तदुत्तरमासतिथिर्ग्राह्या । तदुक्तं '''स्मृत्यंतरे—'''
“ सौरमासे तिथ्यभावे मासिकाब्दिकयोरपि । चांद्रो मासो भवेद्ग्राह्यस्तस्मिंश्चांद्रे क्षयं गते ॥
“तदुत्तरे मासि तिथिर्ग्राह्या पूर्वत्र नेष्यते” ॥ इति । यदा शुक्लप्रतिपदि धनुःसंक्रांतिर्दर्शमध्ये मकर- ३०
संक्रांतिश्च तदा धनुस्थे रवौ दर्शस्यासमाप्त्या न तस्य मार्गशीर्षत्वं मकरस्थे रवौ तत्समाप्त्या तस्य
पौषत्वमेव मार्गशीर्षस्तु लुप्त इत्येवं कदाचित्संभाविते क्षयमासे सति धनुर्मासामावास्या मृततिथि-
स्तदुत्तरमासे ग्राह्येत्यर्थः ।
{{rule}} १ ग-स ।<noinclude></noinclude> hhgevheaov60zqfyiliaq6cc4e522wd पृष्ठम्:Smriti mukta phalam.pdf/७४६ 104 166749 419770 2026-11-10T15:02:18Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७०६|'''आब्दिकप्रत्यवाये परित्यागः ।'''|}} {{rule}} '''आब्दिकपरित्यागे प्रत्यवायः ।''' आब्दिकश्राद्धपरित्यागे प्रत्यवायमाह '''मरीचिः—'''
“ पंडिता ज्ञानिनो मूर्खाः स्त्र... नवीन पृष्ठं निर्मीत अस्ती 419770 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७०६|'''आब्दिकप्रत्यवाये परित्यागः ।'''|}} {{rule}} '''आब्दिकपरित्यागे प्रत्यवायः ।''' आब्दिकश्राद्धपरित्यागे प्रत्यवायमाह '''मरीचिः—'''
“ पंडिता ज्ञानिनो मूर्खाः स्त्रियोऽथ ब्रह्मचारिणः । मृताहं समतिक्रम्य चंडालाः कोटिजन्मसु”॥ इति ।
'''देवलः—'''
“ मृताहं समतिक्रम्य चण्डालः कोटिजन्मसु । अतो विप्रैर्न तत् त्याज्यं प्राणैः कण्ठगतैरपि ” ॥
५ '''भविष्यत्पुराणे प्रभासखंडयोश्च—'''
“मृताहं समतिक्रम्य चण्डालाः कोटिजन्मसु । अतो विप्रैर्न तत् त्याज्यं प्राणैः कण्ठगतैरपि ॥
“ मृतेऽहनि पितुर्यस्तु न कुर्याच्छ्राद्धमादरात् । मातुश्चैव वरारोहे वत्सरांते मृतेऽहनि ॥
“ नाहं तस्य महादेवि पूजां गृह्णामि नो हरिः ” ॥ इति । '''आश्वलायनः—'''
“ मन्वादिभ्यो युगादिस्तु सहस्रगुणतोऽधिकः । युगादेश्चायनद्वन्द्वं चायनात् विषुवद्वयम् ॥
१० “विषुवद्व्रयात् व्यतीपातो व्यतीपातात्तु द्वादशी।द्वादश्याश्च तथा दर्शो दर्शात् पित्रोस्तु वार्षिकम्”॥इति।
'''अन्यत्रापि—'''“ भोजको यस्तु वै श्राद्धं न करोति सगाधिप ।
“ मातापितृभ्यां सततं वर्षे वर्षे मृतेऽहनि । स याति नरकं घोरं तामिस्रं नाम नामतः ” ॥ इति ।
'''कार्ष्णाजिनिः—'''
“ ऊषरे तु यथा क्षिप्तं बीजं न प्रतिरोहति । तथा च तद्भवेत्तेषां यन्न दत्तं मृतेऽहनि ” ॥ इति ।
१५ मृताहे यन्न दत्तमन्यत्र दत्तं निष्फलं भवेत् । अतो मृताहेऽवश्यं दातव्यमित्यभिप्रायः ।
'''तथा—'''“पंडिता ज्ञानिनो वाऽपि मूर्खा योषित एव वा । मृताहं समतिक्रम्य चंडालेष्वभिजायते ॥
“अध्वगश्चातुरश्चैव विहीनश्च धनैस्तथा । आमश्राद्धं प्रकुर्वीत हेम्ना वा द्विजसत्तमः ॥
“ द्रव्याभावे द्विजाभावे अन्नमात्रं तु पाचयेत् । पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः ॥
“ अत्यन्तद्रव्यशून्यश्चेत् शक्त्या दद्यात् गवां तृणम् । स्नात्वा च विधिवद्विप्रः कुर्याद्वा तिलतर्पणम्॥
२० “ अथवा रोदनं कुर्यात् अत्युच्चैर्विजने वने । दरिद्रोऽहं महापापी वदन्निति विचक्षणः ” ॥ इति ।
'''कौर्मेऽपि'''
“ नैमित्तिकं तु कर्तव्यं ग्रहणे चंद्रसूर्ययोः । बांधवानां च मरणे नरकं स्यादतोऽन्यथा ” ॥ इति ।
'''श्राद्धीयतिथ्यादिनिरूपणम् ।''' कर्मकालव्यापिनी तिथिरत्र ग्राह्या । यदाह '''वृद्धयाज्ञवल्क्यः—'''
“कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः । तथा कर्माणि कुर्वीत ह्रासवृद्धीर्न कारणम्”॥ इति ।
२५ '''गार्ग्योऽपि—'''“यो यस्य विहितः कालस्तत्कालव्यापिनी तिथिः”॥ इति। कर्मकालश्च सपिंडीकरणा-
त्पूर्वन्विम्येकोद्दिष्टे तु मध्यान्हः । तदुत्तरभाविनि मासिकादौ अपराह्नस्तथा च '''वृद्धगौतमः—'''
“मध्यान्हव्यापिनी या स्यात्सैकोद्दिष्टे तिथिर्भवेत् । अपराह्नव्यापिनी या स्यात्पार्वणे सा तिथिर्भवेत्”॥
'''व्यासः''' “एकमुद्दिश्य यच्छ्राद्धं दैवहीनं विधीयते । एकोद्दिष्टं तु तत्प्रोक्तं मध्यान्हे तत्प्रकीर्तितम्”॥इति ।
'''कालादर्शोऽपि—'''“ एकोद्दिष्टं तु मध्यान्हे नवश्राद्धादिकं चरेत्” इति । मध्यान्हश्च सप्तमाष्टमनवम-
३० मुहूर्तात्मकः । ते च मुहूर्ताः गांधर्वकुतपरौहिणसंज्ञकाः । तथा चान्हः पंचदशमुहूर्ताः स्मर्यंते—
“ रौद्रः श्वेतश्च मैत्रश्च तथा सारगदः स्मृतः । सावित्रो वैश्वदेवश्च गांधर्वः कुतपस्तथा ॥
“ रौहिणस्तिलकश्चैव विभवो निर्ऋतिस्तथा । शंबरो विजयश्चैव बोधः पंचदश स्मृताः ” ॥ इति ।
एते पंचदश सूर्योदयादारभ्य क्रमाद्दिवा मुहूर्ताः क्रमश्रो निश्यपि । तथा च '''विष्णुधर्मोत्तरे—'''
“ त्रिंशन्मुहूर्ताश्च तथा अहोरात्रेण कीर्तिताः । तत्र पंचदश प्रोक्ता राम रात्रौ दिवा तथा ॥
{{rule}} १ ख-विदः; ग-पालविंदः ।<noinclude></noinclude> 2fu1v1u68jy2g5addjyhx38dovdp4up पृष्ठम्:Smriti mukta phalam.pdf/७४७ 104 166750 419771 2026-11-10T15:03:03Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''श्राद्धीयतिथ्यादि ।'''|७०७}} {{rule}} “ दिवसश्च यथा राम वृद्धिं समधिगच्छति । तदाश्रितमुहूर्तानां तथा वृद्धिः प्रकीर्त्तिता ॥
“ दिनवृद्धियथा राम दोषहानिस्तथा भ... नवीन पृष्ठं निर्मीत अस्ती 419771 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''श्राद्धीयतिथ्यादि ।'''|७०७}} {{rule}} “ दिवसश्च यथा राम वृद्धिं समधिगच्छति । तदाश्रितमुहूर्तानां तथा वृद्धिः प्रकीर्त्तिता ॥
“ दिनवृद्धियथा राम दोषहानिस्तथा भवेत् । तदाश्रितमुहूर्तानां हानिर्ज्ञेया तदा तदा ” ॥ इति ।
यथोक्तनानात्मकात्रिंशन्मुहूर्तोपेतस्य सावनाहोरात्रस्य यदहः पंचदशमुहूर्तात्मकं तस्यान्हो भागा
मतभेदेन पंचधा विकल्प्यंते । द्वेधा त्रेधा चतुर्धा पंचधा पंचदशधा इति पंच मतभेदाः । तत्र
द्वेधा विभागः स्कांदपुराणे दर्शितः—“ आवर्त्तनात्तु पूर्वाह्णो ह्यपराह्नस्ततः परः ” इति । ५
एतदेवाभिप्रेत्य मनुराह—
“ यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते । तथा श्राद्धस्य पूर्वाह्नादपराह्नो विशिष्यते”॥ इति ।
त्रेधा विभागः शातातपेन दर्शितः “ तस्मादहरहः पूर्वाह्ने देवा अशनमभ्यवहरंति । मध्यंदिने
मनुष्या अपराह्ने पितरः ” इति । एतमेव विभागमभिप्रेत्य समाम्नायते ऋग्भिः—“ पूर्वाह्णे
दिवि देव ईयते । यजुर्वेदि तिष्ठति मध्ये अन्हः । सामवेदे नास्तमये महीयते । वेदैborder-रशून्यस्त्रिभिरेति १०
सूर्यः ” इति । श्रुत्यंतरेऽपि—“ पूर्वाह्णो वै देवानां मध्यंदिनो मनुष्याणामपराह्नः पितॄणाम् ”
इति । चतुर्धा विभागमाह गोभिलः
“पूर्वाह्णः प्रहरः पूर्वो मध्यान्हः प्रहरस्ततः । अपराह्नस्तृतीयः स्यात्सायाह्नश्च ततः परम्”॥ इति ।
पंचधाविभागं व्यास आह—“ मुहूर्तत्रितयं प्रातस्तावन्नेव तु संगवः ।
“ मध्यान्हस्त्रिमुहूर्त्तः स्यादापराह्णोऽपि तादृशः । सायान्हस्त्रिमुहूर्त्तस्तु सर्वकर्मबहिष्कृतः ” ॥ इति । १५
वृद्धपराशरः—
“ लेखाप्रभृतिसूर्यस्य मुहूर्तत्रय एव तु । प्रातस्तु संस्मृतः कालो भागश्चान्हः स पंचमः ॥
“ संगवस्त्रिमुहूर्त्तश्च मध्यान्हस्तत्समः स्मृतः । ततस्त्रयो मुहूर्ताश्च अपराह्नोऽभिधीयते ॥
“ पंचमोऽथ दिनांशो यः सायान्ह इति स स्मृतः” ॥ इति ।
साधिष्ठातृदेवताः पंचभागाः समाम्नायंते च— २०
“देवस्य सवितुः प्रातः मित्रस्य संगवः बृहस्पतेर्मध्यंदिनम्। भगस्यापराह्नः वरुणस्य सायम्” ॥ इति ।
पंचदशधा विभागः शंखेन दर्शितः—
“ रौद्रश्चैत्रस्तथा मैत्रस्तथा सालकटः स्मृतः । सावित्रश्च जयंतश्च गांधर्वः कुतपस्तथा ॥
“ रौहिणश्च विरिंचश्च विजयो नैर्र्ऋतस्तथा । महेंद्रो वरुणश्चैव बोधः पंचदश स्मृतः ” ॥ इति ।
अत्र कालनिर्णयकारः—“तत्र पंचधा विभागपक्षस्य बहुश्रुतिस्मृतिसंहृतत्वात्प्रायेणैतमेव २५
पक्षमाश्रित्य विधिनिषेधशास्त्राणि प्रवर्त्तंते । त्रेधा विभागस्तु सोमयागे सवनत्रये उपयुज्यते । यथोक्तेषु
पंचसु कालेषु यानि विहितानि कर्माणि तानि दैवपित्र्यरूपेण राशिद्वयं कृत्वा तयोर्गौणकालाभ्यनुज्ञया
द्वेधा विभागो दर्शितः । चतुर्धा विभागस्तु प्रकरणबलाद्गोभिलस्मृत्युक्तकर्मविशेषेषु द्रष्टव्यः ।
पंचदशधा विभागो मुहूर्तकर्मविशेषोपजीवनेन विधिनिषेधप्रवृत्तेः ज्योतिःशास्त्रे द्रष्टव्यः ” इति ।
कालादर्शो तु— ३०
“ पंचधा पंचदशधा त्रेधा द्वेधा च वासरम् । विभक्तं मुनयः प्राहुस्तत्राद्यौ संमतौ मम ” ॥ इति ।
तत्र तेषु पक्षेषु आद्यौ पंचधा पंचदशधा पक्षौ मम संमतौ इत्यर्थः । यस्तु नवधा विभाग आत्रेयो
प्रदर्शितः
“ प्रातरार्त्तः संगवश्च रुग्णो मध्यान्हसंतपौ । अपराह्नः खनिः सायं नवधा भिद्यते त्वहः ” ॥ इति
तत्रार्त्तरुग्णसंतपखनीनां स्मृतिषु विनियोगादर्शनान्नवधा विभाग उपेक्ष्यः । एवं च सति प्रकृतेषु ३५
{{rule}} १ क-न्वता ।<noinclude></noinclude> p45lqoaxayk0lli3p0reheiprr7d76l पृष्ठम्:Smriti mukta phalam.pdf/७४८ 104 166751 419772 2026-11-10T15:04:00Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७०८|'''आरंभसमाप्तिकालौ ।'''|}} {{rule}} पंचस्वन्यो भागेषु तृतीयो मध्यान्हो भागः एकोद्दिष्टे ग्राह्यः । तत्रैकोद्दिष्टस्योपक्रमे कुतपस्य पूर्वो-
त्तरभागाविच्छ्या... नवीन पृष्ठं निर्मीत अस्ती 419772 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७०८|'''आरंभसमाप्तिकालौ ।'''|}} {{rule}} पंचस्वन्यो भागेषु तृतीयो मध्यान्हो भागः एकोद्दिष्टे ग्राह्यः । तत्रैकोद्दिष्टस्योपक्रमे कुतपस्य पूर्वो-
त्तरभागाविच्छ्या विकल्पितौ । तदाह व्यासः—
“ कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत् । आवर्त्तनसमीपे वा तत्रैव नियतात्मवान्”॥ इति ।
समाप्तिकालमाह श्लोकगौतमः—
५ “ आरभ्य कुतपे श्राद्धं कुर्यादा रौहिणं बुधः । विधिज्ञो विधिमास्थाय रौहिणं तु न लंघयेत् ॥
“ रौहिणं लंघयेद्यस्तु ज्ञानादज्ञानतोऽपि वा । आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ” ॥ इति ।
यद्यपि पार्वणश्राद्धस्यापि कुतपे प्रारंभः समानस्तथापि समापनं तस्य कालांतर एव ।
तदुक्तं मत्स्यपुराणे—
“ अन्हो मुहूर्ता विख्याता दश पंच च सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥
१० “ अष्टमे भास्करो यस्मान्मन्दीभवति सर्वदा । तस्मादनंतफलदस्तत्रारंभो विशिष्यते ॥
“ ऊर्ध्वं मुहूर्त्तात्कुतपायन्मुहूर्त्तचतुष्टयम् । मुहूर्तपंचकं ह्येतत् स्वधाभवनमिष्यते ” ॥ इति । एवं च
रौहिणसमापनप्रतिपादकं यद्वचनमस्ति तत्सर्वमेकोद्दिष्टविषयं वेदितव्यम् । तदेवमेकोद्दिष्टश्राद्धे
मध्यान्हस्य कर्मकालत्वात् “मध्यान्हव्यापिनी या स्यात्सैकोद्दिष्टे तिथिर्भवेत् ” इति स्मरणात्
मुहूर्तव्यापिनी तिथिर्ग्रहीतव्येति स्थितम् । अत्र निर्णतव्यो विषयः षोढा भिद्यते । पूर्वेद्युरेव
१५ मध्यान्हव्यापित्वं परेद्युरेव तद्व्यापित्वं उभयत्र तद्व्यापित्वं उभयत्र तदव्यापित्वं उभयत्र साम्येन
तदेकदेशव्यापित्वं वैषम्येण तदेकदेशव्यापित्वं चेति । तत्र पूर्वेद्युरेव वा परेद्युरेव वा
मध्यान्हव्याप्तिरित्येतयोः पक्षयोर्मध्यान्हव्यापित्वस्यैव निर्णायकत्वान्न कोऽपि संदेहः
“मध्यान्हव्यापिनी या स्यात्तिथिः पूर्वा परापि वा । तत्र कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्”॥ इति
स्मरणात् । उभयत्र तद्व्यापित्वतदव्यापित्वरूपयोः पक्षयोः पूर्वेद्युरेवानुष्ठानम् ।
२० तथा च सति “ अपराह्नस्तथा ज्ञेयः पित्र्येषु तु शुभावहः ।
“ दिनांते पंचनाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः । उदये च तथा पित्र्ये दैवे चैव तु कर्मणि ॥
“ दैवकार्ये तिथिर्ज्ञेया यस्यामभ्युदितो रविः । पितृकार्ये तिथिर्ज्ञेया यस्यामस्तमितो रविः ” ॥
इत्यादीन्यपराह्नसायान्हास्तमयव्यापिविषयाणि पित्र्यसामान्यवचनान्यनुगृहीतानि भवंति । उभ-
यत्र सामान्यनैकदेशव्याप्तौ खर्वादिवाक्यं द्रष्टव्यम् । तच्च पार्वणप्रस्तावे योजयिष्यते । वैषम्ये-
२५ णैकदेशव्याप्तौ तु यदा पूर्वेद्युर्महती तदा महत्त्वानुग्रहात्सामान्यानुग्रहाच्च पूर्वेद्युरेवानुष्ठानम् ।
यदा तु परेद्युरेव महती तदा सामान्यशास्त्रमुपेक्ष्यापि महत्त्वमेवादरणीयम् । यदाह मरीचिः—
“ अपराह्नव्यापिनी चेदाब्दिकस्य यदा तिथिः । महती तत्र तद्विद्धां प्रशंसंति महर्षयः”॥ इति ।
अनेनैव न्यायेनात्रापि परेद्युरेवानुष्ठानं द्रष्टव्यमिति कालनिर्णयादावुक्तोऽयमेकोद्दिष्टनिर्णयः ।
एतच्च “सपिंडीकरणात्पूर्वं दैवहीनं विधीयते” इति सपिंडीकरणात्पूर्वं यदेकोद्दिष्टं तत्रैव माध्यान्ह-
३० व्यापिनी तिथिः । न तु “ अपुत्रस्य पितृव्यस्य भ्रातुश्चैवाग्रजन्मनः ” इत्यादिना सपिंडी-
करणात्परमपि विहिते एकोद्दिष्टश्राद्धे पितॄणामपराह्ने स्यादित्यादिना सपिंडीकरणेन पितृत्वं
प्राप्तस्य सर्वस्याप्यविशेषेणापराह्नविधानादित्याहुः । अत्र कश्चित्संग्रहकारः—
“ग्राह्या वर्तनकालिकीद्विदिवसे यद्येकमत्राधिका शस्ता तत्र समा क्षये यदि तदा पूर्वा तु वृद्धौ परा ।
“वृद्धिक्ष्रासविमुक्तसमापि च परा मध्यान्हयोः सा न चेत्पूर्वैवेति तिथिः सपिंडनकृते प्राङ्मासिके
३५ नित्यशः ” ॥ इति ।
{{rule}} १ क्ष-पूर्वेद्यु ।<noinclude></noinclude> 6qa6p6cchp2qo9cva8pkpkiyr3wf41z पृष्ठम्:Smriti mukta phalam.pdf/७४९ 104 166752 419773 2026-11-10T15:05:31Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पार्वणश्राद्धकालनिर्णयः ।'''|७०९}} {{rule}} '''पार्वणश्राद्धकालनिर्णयः ।''' अथ पार्वणश्राद्धकालस्य निर्णयः । तस्यापराह्नः कर्मकालः ।
तथा च '''शातातपः—'''“ अपराह्णे... नवीन पृष्ठं निर्मीत अस्ती 419773 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पार्वणश्राद्धकालनिर्णयः ।'''|७०९}} {{rule}} '''पार्वणश्राद्धकालनिर्णयः ।''' अथ पार्वणश्राद्धकालस्य निर्णयः । तस्यापराह्नः कर्मकालः ।
तथा च '''शातातपः—'''“ अपराह्णे पितॄणां तु तत्प्रदानं विशिष्यते ” इति ।
'''मनुरपि—'''“ तथा श्राद्धस्य पूर्वाह्णादपराह्नो विशिष्यते ” इति । '''शंखोऽपि—'''
“पूर्वाह्णे दैविकं कृत्यमपराह्ने पितृक्रिया । ग्रहणे निशि वा कार्या न रात्रौ पैतृकं पुनः”॥ इति ।
'''हारितोऽपि—''' ५
“अपराह्नः पितॄणां तु याऽपराह्नानुयायिनी । सा ग्राह्या पितृकार्ये तु न पूर्वाह्नानुयायिनी”॥ इति ।
'''वृद्धमनुरपि—'''
“ यस्यामस्तं रविर्याति पितरस्तामुपासते । तिथिरस्तेभ्यो यतो दत्तो ह्यपराह्नः स्वयंभुवा” ॥ इति ।
'''स्मृत्यंतरे—'''“अपराह्णे तु पैतृकम्” इति । श्रुतिरपि—“अपराह्नः पितॄणाम्” इति । '''कालादर्शे—'''
“ चोदनादपराह्नस्य गजच्छायायोपदेशनात् ” इति श्रुत्या स्मृत्या चापराह्नस्य पार्वण- १०
श्राद्धांगत्वेन विधानात् तथा स्मृत्या गजच्छायायाः पार्वणांगत्वेन विधानात् सा चापराह्ने
भवतीति अपराह्नादर इत्यर्थः । तदुक्तं '''भरद्वाजेन—'''
“वनस्पतिगते सोमे या छाया पूर्वतोमुखी । गजच्छाया हि सा प्रोक्ता पितॄणां दत्तमक्षयम्”॥ इति ।
'''स्मृत्यंतरेऽपि—'''
“द्विगुणा यामनश्छाया दर्शे स्यादपराह्निकी । गजच्छाया हि सा प्रोक्ता पितॄणां तृप्तिकारिणी” ॥ इति । १५
'''देवलः—'''
“ पूर्वाह्णे दैविकं कर्म अपराह्ने तु पैतृकम् । एकोद्दिष्टं तु मध्यान्हे प्रातर्वृद्धिनिमित्तकम् ”॥ इति ।
ननु । सायाह्नव्यापिनः कर्मकालत्वं क्वचित्स्मर्यते—
“दिनांते पंचनाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः । उदये च तथा पित्र्ये दैवे चैव हि कर्माणि”॥ इति ।
मैवम् । यमेन प्रतिषिद्धत्वात् २०
“ सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत् । राक्षसी तामसी वेला गर्हिता सर्वकर्मसु”॥ इति ।
तथाहि पंचनाडीवचनं निर्विषयं स्यादिति केनापि निमित्तेनापराह्नासंभवे गौणकालत्वमभ्यनुज्ञा-
परत्वात् । अत एव '''व्यासः—'''“ स्वकालातिक्रमे कुर्याद्रात्रेः पूर्वं तथा विधिः ” इति ।
'''व्याघ्रपादोऽपि—'''
“ विधिज्ञः श्रद्धयोपेतः सम्यक्पात्रे नियोजकः । रात्रेborder-रन्वत्र कुर्वाणः श्रेयः प्राप्नोत्यनुत्तमम्”॥ इति । २५
ननु सायान्हेऽपि यथाकथंचित्प्रत्यूहः । तदा किं श्राद्धस्य लोप एव किं वा रात्रावपि कर्तुं
शक्यते । तत्र लोप एवेति तावत्प्राप्तः । कुतः? मुख्यकालगौणकालत्वयोरुभयोरपि निषेधात् ।
मुख्यकालत्वं प्रतिषेधति '''मनुः—'''
“ रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा । संध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते”॥ इति ।
न चैवं सति ग्रहणश्राद्धमपि तत्र निषिध्यते इति शंकनीयम् । शातातपेन विशेषितत्वात् ३०
“ रात्रौ श्राद्धं न कुर्वीत राहोरन्यत्र दर्शनात् । सूर्योदयमुहूर्त्तं च संध्ययोरुभयोस्तथा ”॥ इति ।
गौणकालत्वमपि व्यासव्याघ्रपादाभ्यां पर्युदस्तम् । रात्रेः पूर्वं राहोरन्यत्रेति ताभ्यामुक्तत्वात्
{{rule}} १ ग-थि । २ खग-तर्हि ।
९०-२१<noinclude></noinclude> pssskolv5rncagyl8s4b7ip6j2r4lvu पृष्ठम्:Smriti mukta phalam.pdf/७५० 104 166753 419774 2026-11-10T15:06:23Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७१०|'''सायंप्रातर्माध्याह्नादि ।'''|}} {{rule}} तस्मादह्नि श्राद्धासंभवे लोप एवेति प्राप्ते ब्रूमः । न तावद्रात्रौ श्राद्धस्य सर्वात्मना निषेधो वक्तुं
शक्यः । आपस... नवीन पृष्ठं निर्मीत अस्ती 419774 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७१०|'''सायंप्रातर्माध्याह्नादि ।'''|}} {{rule}} तस्मादह्नि श्राद्धासंभवे लोप एवेति प्राप्ते ब्रूमः । न तावद्रात्रौ श्राद्धस्य सर्वात्मना निषेधो वक्तुं
शक्यः । आपस्तंबेन रात्रौ श्राद्धसमाप्त्यभ्युपगमात् । न च नक्तं श्राद्धं कुर्वीतारब्धे चाभोजनमास-
मापनात् । इति । ननु संध्यासमीपे प्रारब्धस्य रात्रौ समाप्तिः प्रसक्ता । तादृशस्तु प्रारंभस्कंदे
न निषिद्धः ।
५ “ उपसंध्यं न कुर्वीत पितृपूजां कथंचन । स काल आसुरः प्रोक्तः श्राद्धं तत्र विसर्जयेत् ” ॥ इति ।
मैवम् । संध्यासामीप्यस्य मुख्यकालत्वस्य निषेधात् । गौणकालत्वं तु पूर्वमभिहितम् । तत्र प्रारब्धस्य
रात्रौ समाप्तिः संभाव्यते । नन्वेवमपि रात्रौ समाप्तिरेवाभ्यनुज्ञायते न त्वारंभ इति चेन्मैवम् ।
आरंभस्यापि समाप्या उपलक्षणीयत्वादाब्दिकश्राद्धपरित्यागे प्रत्यवायबाहुल्यस्मरणात् ।
तथा जाबालिः—
१० “ रात्रावपि च शंसंति श्राद्धं केचन सूरयः । पितॄणां दिनभागित्वात्त्यागे दोष इति स्मृतः ” ॥ इति ।
देवलश्च—
“ पितृकर्माणि सर्वाणि प्रेतकर्माणि यानि च । रात्रावपि च कर्तव्यान्यन्यत्र भुक्त्यादिनाचरेत् ”॥ इति ।
मनुस्तु—
“ पितॄणां तु दिवाभावे यदि रात्रावपीरितम् । पैतृकं कर्म मुनिभिर्ग्राह्यमेतच्च संकटे ॥
१५ “ श्राद्धकर्म निशाकाले कर्तव्यं मनुजैर्भुवि । मध्यपिंडाशनं पत्न्या स्वभुक्तिं च न कारयेत् ॥
“ यथाकथंचित्कर्त्तव्यं नित्यं कर्म विजानता । न प्राप्तस्य विलोपोऽस्ति पैतृकस्य विशेषतः”॥ इति ।
अन्यत्रापि—
“ दिवोदितानि कर्माणि प्रमादादकृतानि वै । यामिन्याः प्रथमे यामे तानि सर्वाणि कारयेत् ” ॥ इति ।
“ दिवा श्राद्धक्रियाया असंभवे रात्रावारंभसमापने कार्ये ” इति कालनिर्णयकृन्मतम् । अन्ये तु
२० रात्रिश्राद्धवचनानि सर्वाणििवारब्धविषयाणि । आपस्तंबेन रात्रिश्राद्धं प्रतिषिध्य तत्समापनमात्रस्य
विधानादित्याहुः । अपरे तु—“ संध्यारात्र्योर्न कर्त्तव्यं श्राद्धं खलु विचक्षणैः ” इत्यादिभिः
रात्रिश्राद्धमात्रस्य निषेधात् दिवारब्धस्यापि श्राद्धस्य रात्रौ समापनं नास्ति । अपरेद्युर्दिborder-वैव
श्राद्धशेषकरणमिति वदंति । तथैव आपस्तंबवचनं हरदत्तेनान्यथा व्याख्यातम् । न च नक्तंश्राद्धं
कुर्वीत श्राद्धकर्मरण्यरब्धे करणविलम्बेन मध्ये यदादित्योऽस्तं वियात्तदा श्राद्धशेषं न कुर्वीत
२५ अपरेद्युर्दिborder-वैव कुर्वीतेति । आरब्धे चाभोजनमासमाप्तेरन्यत्र राहुदर्शनादिति । पूर्वेद्युborder-र्निवेदनप्रभृति
आपिंडनिधानान्मध्ये कर्तुर्भोborder-जनप्रतिषेधः । अन्यत्र राहुदर्शनाद्रिति । न च नक्तमित्यस्यापवादः ।
राहुदर्शने नक्तमपि कुर्वीतेति । केचित्तु—
“ श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि । एकादश्यां तु कर्तव्यं कृष्णपक्षे विधुक्षये ” ॥ इति
मरीचिस्मरणाद्दिवा श्राद्धारंभासंभवे तद्दिने श्राद्धप्रतिनिधीनामन्यतमं कृत्वा तन्मासि
३० कृष्णेकादश्याममावास्यायां वा श्राद्धं कर्तव्यमित्याहुः । यथोचितमत्र ग्राह्यम् ।
ननु “ रात्रेborder-रन्यत्र कुर्वाणः श्रेयः प्राप्नोत्यनुत्तमम् ” इति स्मरणादपराह्णवृन्मुख्यत्वेन वा
सायान्हवद्गौणत्वेन वा प्रातःसंगवावपि कर्मकालौ प्रसज्येयाताम् । नायं दोषः । शिवराघवसंवादे
प्रातःकालस्य निषिद्धत्वात्
“ प्रातःकाले तु न श्राद्धं प्रकुर्वीत द्विजोत्तमः । नैमित्तिकेborder-षु श्राद्धेषु न कालानियमः स्मृतः ” ॥ इति ।
{{rule}}<noinclude></noinclude> d1yb56899g1ckqyuoo61piyt9hv3jbz पृष्ठम्:Smriti mukta phalam.pdf/७५१ 104 166754 419775 2026-11-10T15:07:47Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''कुतपः ।'''|७११}} {{rule}} यद्यपि संगवो न साक्षात्प्रतिषिद्धः तथापि कुतपमुहूर्ते मुख्योपक्रमस्य गांधर्वमुहूर्ते गौणोपक्रम-
स्याभिधाने सति अर्थान्निषेधः परिशि... नवीन पृष्ठं निर्मीत अस्ती 419775 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''कुतपः ।'''|७११}} {{rule}} यद्यपि संगवो न साक्षात्प्रतिषिद्धः तथापि कुतपमुहूर्ते मुख्योपक्रमस्य गांधर्वमुहूर्ते गौणोपक्रम-
स्याभिधाने सति अर्थान्निषेधः परिशिष्यते । तथा शिवराघवसंवाद एव
“ ग्रहादियुतिरिक्तस्य प्रक्रमे कुतपः स्मृतः । कुतपादथवाऽप्यर्वाग्भासनं कुतपे भवेत् ” ॥ इति ।
ग्रहो ग्रहणं आदिशब्देन संक्रान्त्यादिनिमित्तमुच्यते । तस्य च निमित्ताधीनत्वान्न कुतपे नियंतुं
शक्यते । इतरस्य तु सांवत्सरादिकादिरस्ति कृतपनियमः । स च मुख्य उपक्रमकालः कयाचि- ५
त्कार्यवशाच्छ्राद्धस्य सहसा करणीयत्वे सति कुतपादवर्र्वाचीनो गांधर्वोऽप्युपक्रमकालतयाऽभ्य-
नुज्ञायते । कुतपस्य मुख्यत्वमनेकवचनविहितत्वादवगंतव्यम् ।
तत्र कुतपस्वरूपं भविष्यत्पुराणेऽभिहितम्
“प्रविश्य भानुः स्वां छायां शङ्कौश्चवत्र तिष्ठति । स कालः कुतपो नाम मंद्रीभूतस्य संज्ञया” ॥ इति ।
नारदः— १०
“ संत्यज्य सप्तमं भागमष्टमं क्रमते यदा । स कालः कुतपो ज्ञेयो मंदीभूतस्य संज्ञया ” ॥ इति ।
आपस्तंबः—
“ सप्तमात्परतो यस्तु नवमात्पूर्वतः स्थितः । उभयोरपि मध्यस्थः कुतपः समुदाहृतः ” ॥ इति ।
स च कुतपो मुख्यत्वाद्वायुपुराणे प्रशस्यते—
“ दिवसस्याष्टमे भागे मंदीभवति भास्करः । स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ” ॥ इति । १५
कुतपात्पूर्वोक्तयोः गान्धर्वरौहिणयोः गौणोपक्रमकालत्वं सूचयितुं छत्रिन्यायेन मुहूर्तत्रयं
कुतपशब्देन व्याजहार नारदः—
“ मध्यान्हे त्रिमुहूर्तं तु यदा चलति भास्करः । स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ” ॥ इति ।
कुतपे प्रक्रांतस्य सायाह्नादर्वाचीनः सर्वोऽपि मुख्यानुष्ठानकालः । तदुक्तं मत्स्यपुराणे—
“ अन्हो मुहूर्ता विख्याता दश पंच च सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ २०
“ अष्टमे भास्करो यस्मान्मंदीभवति सर्वदा । तस्मादनंतफलदस्तत्रारंभो विशिष्यते ॥
“ ऊर्ध्वं मुहूर्त्तात्कुतपायन्मुहूर्त्तचतुष्टयम् । मुहूर्तपंचकं ह्येतत्स्वधाभवनमिष्यते ” ॥ इति ।
ननु अपराह्नस्यांतिमो भागो निषिद्धः । तथा च यमः—
“ चतुर्थे प्रहरे प्राप्ते यच्छ्राद्धं कुरुते नरः । आसुरं तद्भवेच्छ्राद्धं दाता च नरकं व्रजेत् ” ॥ इति ।
स्मृत्यंतरेऽपि— २५
“ चतुर्थे प्रहरे प्राप्ते यच्छ्राद्धं कुरुते द्विजः । तदन्नं राक्षसो भुंक्ते निराशाः पितरो गताः ” ॥ इति ।
अपराह्नस्यांतिमेन पादन्यूनमुहूर्तेन सह सायान्हश्चतुर्थप्रहरो भवति । सत्यम् । तत्र सायान्ह-
भागकटाक्षेणार्यं निषेधः । न त्वपराह्लभागकटाक्षेण । तामेतां विवक्षां विशदीकर्तुं यमो वचनांतरेण
सायान्हं निराचकार—“ सायान्हस्त्रिमुहूर्त्तः स्याच्छ्राद्धं तत्र न कारयेत् ” ॥ इति ।
ननु अपराह्नस्य मुख्यकालत्वं न प्रतिनियतम् । शुक्लपक्षे व्यभिचारात् । तथा च मार्कंडेयः— ३०
“ शुक्लपक्षे तु पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः । कृष्णपक्षेऽपराह्णे तु रौहिणं तु न लंघयेत् ” ॥ इति ।
नैष दोषः । अत्र शुक्लकृष्णपक्षशब्दयोर्देवपित्र्यपरत्वाद्देवानुद्दिश्य क्रियमाणं श्राद्धं दैवं तत्तु फल-
कामिन उत्साहहेतुतया चित्तप्रसादं जनयतीति शुक्लशब्देनाभिधीयते । पित्र्यं तु पितृमरणादि-
स्मारकत्या चित्तकालुष्यं जनयतीति कृष्णशब्देनाभिधीयते । शुक्लस्य देवस्य कर्मणः पक्षः
{{rule}} १ ग-वे । २ क-रंगु । ३ ग-भ ।<noinclude></noinclude> 67bc9j5hxhi0odub9njvntsop9m0vu4 पृष्ठम्:Smriti mukta phalam.pdf/७५२ 104 166755 419776 2026-11-10T15:08:37Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७१२|'''पूर्वापराह्णव्यापित्वे ।'''|}} {{rule}} शुक्लपक्षः । यदा दैवं श्राद्धं करिष्यामीति बुद्धिस्तदेत्यर्थः । एवमितरत्रापि योजनीयम् । एवं च
सत्यपराह्णेन पार्वणं... नवीन पृष्ठं निर्मीत अस्ती 419776 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७१२|'''पूर्वापराह्णव्यापित्वे ।'''|}} {{rule}} शुक्लपक्षः । यदा दैवं श्राद्धं करिष्यामीति बुद्धिस्तदेत्यर्थः । एवमितरत्रापि योजनीयम् । एवं च
सत्यपराह्णेन पार्वणं श्राद्धं व्यभिचरति । ‘रौहिणं तु न लंघयेत्’ इत्येकोद्दिष्टविषयम् । यथापात-
प्रतीत एवार्थो वचनस्यास्य परिगृह्येत तदा पूर्वोदाहृतं वचनजातं निखिलमपि व्याकुलीभवेदिति
कालनिर्णये व्याख्यातम् । अन्ये त्वाहुः मार्कंडेयवचनमिदं युगादिश्राद्धविषयम् ।
५ तदाह बृहस्पतिः—
“द्वौ शुक्लो द्वौ तथा कृष्णौ युगादीन्मुनयो विदुः। शुक्ले पौर्वाह्णिकी ग्राह्या कृष्णे चैवापराह्णिकी”॥इति ।
तस्मायुगादिश्राद्धं पूर्वपक्षे विहितम् । पूर्वाह्णे संगवात्परं पंचदशनाड्यभ्यंतरे कुर्यात् । अपरपक्षे
विहितमपराह्णे आवर्त्तनात् परं सार्धमुहूर्त्ताभ्यंतरे कुर्याद्रौहिणं तु न लंघयेदित्युकत्वात्तदनेनैव
न्यायेन पूर्वपक्षाविहितश्राद्धस्य सर्वस्यापि पूर्वाह्णे सार्धमुहूर्तः काल इति । तदेवं पार्वणश्राद्धस्य
१० ग्रहणादिश्राद्धवर्जितस्य अपराह्नः कर्मकालः कुतपः प्रारंभकाल इति स्थितम् ।
आब्दिकादौ किंपूर्वविद्धा तिथिर्ग्राह्या उत्तोत्तरविद्धेति विवक्षायां देवस्वामी ब्रूते—
“ यस्मिन्काले यदिहितं कर्मोपक्रमोपसंहारयुक्तं तस्मिन्काले तस्यां तिथौ यस्मिन्नहनि संभावयितुं
शक्यते तदुत्तरं पूर्वं वा ग्रहीतव्यम् ” इति ।
एवं च कुतपापराह्रोभयव्यापिनी तिथिर्ग्राह्येत्युक्तं भवति । यदा तदुभयव्यापिनी न
१५ संभवति तदा केवलापराह्णव्यापिन्यपि ग्रहीतव्या । “ पित्र्यर्थं चापराह्णिकी । अपराह्नः पितॄणां
तु याऽपराह्नानुयायिनी” इत्यादि स्मरणात् । ननु केवलापराह्णव्याप्तित्वेकेवलकुतपव्यापिन्यपि
स्मृत्यंतरे प्रतीयते
“मध्यान्हव्यापिनी या स्यात्तिथिः पूर्वाऽपरापि वा । तत्र कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्”॥इति।
मैवम् । वचनांतरसंवादेनास्यैकोद्दिष्टविषयत्वेनोपपत्तेः । अपराह्नव्याप्तिरपि एकोद्दिष्टन्यायेन षोढा
२० भिद्यते । तत्र पूर्वेद्युरेवापराह्णव्याप्तौ यथोक्तवचनेन
“क्षयाहस्य तिथिर्विप्रा यदि खंडतिथिर्भवेत् । व्याप्तापराह्निकायां तु श्राद्धं कार्यं विजानता ”॥ इति
नारदवचनेन सा ग्राह्या । अपरेद्युरेवापराह्णव्याप्तौ यथोक्तवचनात्प्रारंभकालसंभवाच्च प्रशस्ततरः ।
उभयत्रापराह्णव्यापित्वे बोधायन आह—
“अपराह्नद्वयव्यापिन्यतीतास्य च या तिथिः । क्षये पूर्वा तु कर्तव्या वृद्धौ कार्या तथोत्तरा”॥ इति ।
२५ अतीतस्य मृतस्य अत्र ग्राह्यतिथेः वृद्धिक्षयाभ्यां न निर्णयः । किंतु तदुत्तरतिथिवृद्धिक्षयाभ्यां
कुतः अपराह्नद्वयव्यापित्वाभिधानात्पूर्वेद्युरा मध्यान्हावसानं पूर्वतिथिः प्रवृत्ता । ततोऽपराह्णोप-
क्रममारभ्यापरेद्युरपराह्नावसानपर्यंतत्वे सति मृताहतिथेः अपराह्णव्यापित्वं भवति । तच्च
त्रिमुहूर्तवृद्ध्या संपद्यते । न तु क्षयेण । तथा सति ‘ क्षये पूर्वा तु कर्तव्या ’ इत्येतन्नोपपद्यते ।
उत्तरतिथिगतवृद्धिक्षयस्वीकारे त्विदं वचनमुपपद्यते । यदोत्तरतिथिः सायान्हं प्रविशति तथा
३० तिथिवृद्धिः । तत्रापरेद्युरनुष्ठानं न्याय्यम् । कुतपमारभ्य त्वविशेषमुख्यकालव्यापित्वाथदा उत्तर-
तिथिरपराह्णेऽपि अपक्षीयते कियती क्षीयते तदा मृतातिथिः पूर्वविद्धा कर्तव्या । उत्तरविद्धायास्तस्या
ज्योतिशास्त्रप्रक्रियया अपराह्नव्यापित्वेऽपि पारिभाषिक्या स्मार्तप्रक्रियया तदव्यापित्वात् ।
तथा च स्मर्यते—
“ तिथ्यादौ तु भवेद्यावद्ध्रासो वृद्धिः परेऽहनि । तावद्धासश्च पूर्वेद्युरदृष्टोऽपि स्वकर्मणि”॥ इति
{{rule}}<noinclude></noinclude> lor6u4fqr3smyhei6q0qch3lenv04ti पृष्ठम्:Smriti mukta phalam.pdf/७५३ 104 166756 419777 2026-11-10T15:10:19Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''द्वापराह्नव्यापिन्यां तिथौ ।'''|७१३}} {{rule}} तिथ्याद्यावित्यत्रादिशब्देन नक्षत्रयोगौ गृह्येते । तिथिनक्षत्रयोगेषु क्षीयमाणेषु क्षयो यावद् घटिका-
परिमितो भ... नवीन पृष्ठं निर्मीत अस्ती 419777 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''द्वापराह्नव्यापिन्यां तिथौ ।'''|७१३}} {{rule}} तिथ्याद्यावित्यत्रादिशब्देन नक्षत्रयोगौ गृह्येते । तिथिनक्षत्रयोगेषु क्षीयमाणेषु क्षयो यावद् घटिका-
परिमितो भवति तावद् घटिकापरिमितः क्षयः तेभ्यः पूर्वेषु तिथिनक्षत्रयोगेषु ज्योतिःशास्त्रेऽदृष्टोऽपि
स्मार्तपरिभाषया ग्रहीतव्यः । एवं वृद्धिरपि द्रष्टव्या । तथा सति प्रकृते उत्तरतिथेरपराह्णे यावान्
क्षयः तावान्पूर्वेद्युर्ग्राह्यतिथौ योजनीयः । तथा सत्युत्तरविद्धा मृततिथिः नापराह्णव्यापिनी पूर्वविद्धा
तु तद्व्यापिनीति सैव ग्रहीतव्या भवति । उत्तरतिथेः साम्ये तु देवस्वामिवचनादुत्तरविद्धैव ५
ग्राह्येति तिथिनिर्णयः ।
यदा दिनद्वयेऽप्यपराह्णस्पर्शाभावः तदा पूर्वविद्धा ग्राह्या । तदाह मनुः—
“या द्व्यहव्यापिनी चेत्स्यान्मृताहे तु यदा तिथिः । पूर्वे विद्धैव कर्तव्या त्रिमुहूर्त्ता भवेद्यदि”॥ इति ।
सुमंतुरपि—
“न द्व्यहव्यापिनी चेत्स्यान्मृताहस्य च या तिथिः । पूर्वेऽह्वां निर्वपेत्पिंडान्पितॄणां गिरसभाषितम्”॥ इति । १०
ननु अपराह्णस्पर्शाभाव उभयोः समानः । प्रारंभकाले तु कुतपेऽपरेद्युस्तिथिसद्भावो विशिष्यते ।
तत्र परविद्धैव कुतो न ग्राह्येति चेद्गुणाधिक्यात् पूर्वविद्धैव ग्राह्या । परेद्युः कुतपव्याप्तिरेको
गुणः पूर्वेद्युस्तिथिमूलसंबंधः त्रिमुहूर्त्तमस्तमयव्याप्तिश्चेति गुणद्वयम् ।
तिथिमूलसंबंधस्य प्राशस्त्यं नारदीयपुराणे दर्शितम्—
“ पित्र्ये मूलं तिथेः प्रोक्तं शास्त्रज्ञैः कालकोविदैः । तथैव देवकार्येषु तिथेरंत्यं प्रशस्यते ”॥ इति । १५
सौरपुराणे—“मूलं हि पितृतृप्त्यर्थं तिथेरुक्तं मनीषिभिः ” इति ।
अस्तमयव्याप्तेः प्राशस्त्यमाह मनुः
“ यस्यामस्तं रविर्याति पितरस्तामुपासते । सा पितृभ्यो यतो दत्ता ह्यपराह्नः स्वयंभुवा” ॥ इति ।
व्यासः—
“ अन्वस्तमयवेलायां कलामात्राऽपि या तिथिः । सैव प्रत्याब्दिके श्राद्धे नेतरा पुत्रहानिदा” ॥ इति । २०
न चापराह्णवेलायामविद्यमानतया कर्मकालव्यतिरिक्तायाः तिथेरनुपादेयत्वं शंकनीयम् ।
आद्यापाद्यास्तम्रातेर्विद्यमानत्वात् । अत एव वसिष्ठः—“पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्णा
निगद्यते ” इति । नारदीयपुराणेऽपि—
“पारणे मरणे नॄणां तिथिश्चा तात्कालिकी स्मृता । पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्वा निगद्यते” ॥ इति ।
सुमंतुः— २५
“ उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ । द्विमुहूर्त्तस्त्रिरन्हो या सा तिथिर्हव्यकव्ययोः”॥ इति ।
यथाक्रमं उदये द्विमुहूर्त्ता तिथिर्देवकर्मणि ग्राह्या । सायं त्रिमुहूर्त्ता कव्ये ग्राह्येत्यर्थः । एवं च सति
“ दर्शं च पूर्णमासं च पितुः संवत्सरं दिनम् । पूर्वविद्धामकुर्वाणो नरकं प्रतिपद्यते ”॥ इति
नारदवचनं “ यस्यामस्तं रविर्याति ” इत्यादिपूर्वोक्तमन्वादिवचनजातं च अपराह्नद्वयस्पर्शाभावे
सायं त्रिमुहूर्तव्यापितिथिग्रहणपरं द्रष्टव्यम् । त्रिमुहूर्तव्यापित्वाभावे तु गोभिलः— ३०
“त्रिमुहूर्त्ता न चेद् ग्राह्या परैव कुतपे हि सा । कुर्वीत कुतपे श्राद्धं सायान्हव्यापिनी न च”॥ इति ।
यदा तु दिनद्वयेऽप्यपराह्णैकदेशव्यापिनी तदाऽपि वैषम्येण तद्व्याप्तौ महत्त्वेन निर्णतव्यम् ।
तदाह मरीचिः—
“अपराह्नव्यापिनी चेदाब्दिकस्य यदा तिथिः । महती तत्र तद्विद्धां प्रशंसंति महर्षयः”॥ इति ।
{{rule}} १ क्ष-गो गृह्यते । २ ग-र्णां ।<noinclude></noinclude> gs7ip2i3hl1bo86va35a5l6pwrqhghl पृष्ठम्:Smriti mukta phalam.pdf/७५४ 104 166757 419778 2026-11-10T15:11:26Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७१४|'''विभक्तैः पृथगनुष्ठानम् ।'''|}} {{rule}} साम्येनोभयत्र व्याप्तिश्च ऊर्ध्वतिथिगतैः वृद्धिक्षयसाम्यैस्त्रिधा भिद्यते । तत्र गोभिलः—
“खर्वादैर्वा तथा हिंसा द... नवीन पृष्ठं निर्मीत अस्ती 419778 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७१४|'''विभक्तैः पृथगनुष्ठानम् ।'''|}} {{rule}} साम्येनोभयत्र व्याप्तिश्च ऊर्ध्वतिथिगतैः वृद्धिक्षयसाम्यैस्त्रिधा भिद्यते । तत्र गोभिलः—
“खर्वादैर्वा तथा हिंसा द्विविधं तिथिलक्षणम् । खर्वाद्वार्त्परा कार्या हिंसा स्यात्पूर्वकालिकी ” ॥ इति ।
“ खर्वा वृद्धिक्षयरहिता । अपराह्णद्वये समा दैर्वा ।
वृद्धिपक्षे अपराह्नस्य व्यापिका गृह्यतां तिथिः । क्षये पूर्वोत्तरा वृद्धौ व्याप्तिश्चेदपराह्वयोः ।
“ न ग्राह्या तिथियोग्वृद्धी क्षयादूर्ध्वतिथेस्तु तौ । साम्ये तूर्ध्वतिथिर्ग्राह्या परविद्धैव वृद्धिवत् ” ॥ ५
न द्वये समा हिंसा क्षयपक्षे अपराह्णद्वये पक्षे समेतीह विवक्षितोऽर्थः । उक्तं च कालनिर्णयसंग्रहे—
“ कुतपाद्यपराह्नांतव्याप्तिराब्दिक उत्तमा । तदभावेऽपराह्नस्य व्यापिका गृह्यतां तिथिः ॥
“ क्षये पूर्वोत्तरा वृद्धौ व्याप्तिश्चेदपराह्णयोः । न ग्राह्यातिथियोग्वृद्धिक्षयादूर्ध्वतिथेस्तु तौ ॥
“ साम्ये तूर्ध्वतिथिर्ग्राह्या परविद्धैव वृद्धिवत् । न स्पृशत्यपराह्नौ चेत्पूर्वा स्यात्कुतपोऽन्यथा ॥
१० “ वैषम्येणैकदेशस्य व्याप्तौ ग्राह्या महत्त्वतः । साम्येन चेत्क्षये पूर्वा परा स्याद्वृद्धिसाम्ययोः ॥
“ वृद्धिसाम्यक्षया ग्राह्या तिथिगा नोर्ध्वगा इह ” ॥ इति । षड्धर्मये—
“सायंतन्यपरत्र चेन्मृतातिथिः सैवाब्दिके मासिके । ग्राह्या सा अपराह्णयोर्यदि तदा यत्राधिका सा मता।
“तुल्या चेदुभयेऽपराह्नसमये पूर्वा न चेत्सा द्वयोः । पूर्वेव त्रिमुहूर्त्तगास्तसमये नो चेत्परैवोदिते”॥ इति ।
कालादर्शेऽपि—
१५ “ प्रत्याब्दिकेऽप्येवमेव तिथिर्ग्राह्याऽपराह्लिकी । उभयत्र तथात्वे तु महत्त्वेन विनिर्णयः ॥
“ समत्वे पूर्वविद्धैव ह्ययथात्वेऽपि सा यदि । त्रिमुहूर्त्ता भवेत्सायं सर्वैष्वेवं विनिर्णयः ” ॥ इति ।
इत्याब्दिकतिथिनिर्णयः ।
'''प्रथमाब्दिकादीनां विभक्तैः पृथगनुष्ठानम् ।''' प्रथमाब्दिकादीनि श्राद्धानि विभक्तैः
पुत्रैः सर्वैरपि पृथगेव कार्याणि
२० “ नवश्राद्धं सपिंडत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ” ॥
इत्येवकारेण ऊनाब्दिकपर्यंतस्यैव अनेककर्तृकत्वव्यावृत्तिप्रतीतेः । तत्रापि
“मासिकं सोदकुम्भं च सपिण्डीकरणं तथा । पृथग्विभक्ताः कुर्वीरन् मिलित्वा वाऽन्यशक्तिborder-तः”॥ इति
गौणत्वोक्तेः ।
“ एकपाके निवसतं पितृदेवद्विजार्चनम् । एकं भवेद्विभक्तानां तदेव स्याद् गृहे गृहे ॥
२५ “ विभक्ता भ्रातरः सर्वे स्वस्वार्जितधनाशborder-नैः । दर्शाब्दिकादिकं पित्रोः श्राद्धं कुर्युः पृथक्पृथक्”॥
इत्यादि स्मरणाच्च । अत एव पैठीनसिः—
“ विभक्तैस्तु पृथक्कार्यं प्रतिसांवत्सरादिकम् । एकेनैवाविभक्तेषु कृते सर्वैस्तु तत्कृतम् ” ॥ इति ।
स्मृत्यंतरे—
“ भिन्नस्थानगतैः पुत्रैर्विभक्तधनैरपि । प्रत्याब्दिकं पृथक्कार्यमन्यश्राद्धानि संभवे ” ॥ इति ।
३० अन्नेनैवाब्दिकादिविधिः । एतच्च सांवत्सरिकश्राद्धमन्नेनैव कार्यम् । तदाह लोकाक्षिः—
“पुष्टवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः । अन्नेनैवाब्दिकं कुर्याद्धेम्ना वाऽऽमेन न कचित्”॥ इति ।
मरीचिरपि—
“ अनग्निश्च प्रवासी च यस्य भार्या रजस्वला । आमश्राद्धं प्रकुर्वीत न तत्कुर्यान्मृतेऽहनि”॥ इति ।
केचिन्मातापित्रोः क्षयाहत इति चतुर्थपादं पठित्वा पितृग्रहणादन्येषामान्विकमामेन कुर्यादिति
३५ व्याचक्षते ।
{{rule}} १ खग-गाह्यातिथिगते । २ ग-र्पा ।<noinclude></noinclude> rr8hdqkyy4my0q0mrywkbfi9998xvfd पृष्ठम्:Smriti mukta phalam.pdf/७५५ 104 166758 419779 2026-11-10T15:13:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''आमश्राद्धम् ।'''|७१५}} {{rule}} '''हारीतोऽपि—'''
“श्राद्धविघ्ने द्विजातीनामामाश्राद्धं प्रकीर्तितम् । अमावास्यादिनियतं माससंवत्सराहते ” ॥ इति ।
'''माधवीये''' वचनम... नवीन पृष्ठं निर्मीत अस्ती 419779 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''आमश्राद्धम् ।'''|७१५}} {{rule}} '''हारीतोऽपि—'''
“श्राद्धविघ्ने द्विजातीनामामाश्राद्धं प्रकीर्तितम् । अमावास्यादिनियतं माससंवत्सराहते ” ॥ इति ।
'''माधवीये''' वचनमिदं व्याख्यातम्—मासं मासिकं संवत्सरं सांवत्सरिकम् । एतद्व्यतिरिक्तं यद्-
मावास्यादिनियतमस्ति तत्र भार्यारजोदर्शनादिना श्राद्धविघ्ने सति आमश्राद्धं प्रकीर्तितमिति ।
अन्यैस्तु व्याख्याततम्—नियतं अमावास्यादिश्राद्धं मासिकं सांवत्सरिकं च वर्जयित्वा अन्यत्र ५
श्राद्धे आपद्वादिना विघ्ने सति तत्रामश्राद्धं कर्तव्यमिति । तथा च '''कालादर्शे—'''
“रजस्वलांगनोऽनग्निः विदेशस्थोऽपि वाब्दिकम् । दर्शादावपि नामेन त्वन्नेन श्राद्धमाचरेत्”॥ इति ।
रजस्वला अंगना यस्य स तथाविधः । अनग्निरौपासनाग्निरहितः । विदेशस्थः प्रवासी । एवंविधोऽपि
वा द्विजः मृताहे दर्शादावपि नामेन श्राद्धमाचरेत् । किंतु अन्नेनैव कुर्यादित्यर्थः । '''संग्रहे—'''
“ विदेशगो वाऽपि गताग्निको वा रजस्वलायामपि धर्मपत्न्याम् । १०
“ श्राद्धं मृताहे विदधीत पकैर्न चामदाने न च पंचमेऽहनि ” ॥ इति ॥
मृताहव्यतिरिक्तश्राद्धस्य विघ्ने त्वामश्राद्धमाह '''उशनाः—'''
“अपत्नीकः प्रवासी च यस्य भार्या रजस्वला । सिद्धाग्नेन न कुर्यात्स आमं तत्र विधीयते”॥ इति ।
'''गालवः—'''
“तीर्थेऽनग्नावापदि च देशभ्रंशे रजस्यपि । हेमश्राद्धं द्विजैः कार्यं शूद्रैः कार्यं सदैव हि” ॥ इति । १५
'''कात्यायनोऽपि—'''
“ आपद्यनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि । आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ” ॥ इति ।
'''व्याघ्रपादः—'''
“आर्त्तवे १ देशकालांनां विप्लवे समुपस्थिते । आमश्राद्धं द्विजैः कार्यं शूद्रः कुर्यात्सदेव हि” ॥ इति ।
न चैतादृशवचनैर्मासिकाब्दिकयोरप्यामाश्राद्धत्वं प्राप्नोतीति वाच्यम् । “माससंवत्सराहते न तत्कुर्या- २०
न्मृतेऽहनि” इति विशेषवचनेनामश्राद्धस्य तद्व्यतिरिक्तविषयत्वावगमात् । यत्तु स्मृत्यंतरे भार्यायां
रजस्वलायां मृतेऽहनि श्राद्धनिषेधवचनम्
“मृतेऽहनि तु संप्राप्ते यस्य भार्या रजस्वला । श्राद्धं तदा न कर्तव्यं कर्तव्यं पंचमेऽहनि”॥ इति ।
यदपि '''मरीचिवचनम्—'''
“ आब्दिक समनुप्राप्ते यस्य भार्या रजस्वला । पंचमेऽहनि तच्छ्राद्धं न तत्कुर्यान्मृतेऽहनि ” ॥ इति २५
एतादृशस्य वचनस्यायं विषयः । अपुत्रायाः पत्न्या एव पत्युर्मृताहश्राद्धेऽधिकाराद्यदा सा रजस्वला
स्यात्तदा मृतेऽहनि श्राद्धं न कर्तव्यं किंतु पंचमेऽहनि कर्तव्यमिति । तथा च '''श्लोकगौतमः—'''
“ अपुत्रा तु यदा भार्या संप्राप्ते भर्तुराब्दिके । रजस्वला भवेत्सा तु तत्कुर्यात्पंचमेऽहनि ” ॥ इति ।
'''प्रभासखंडेऽपि—'''
“ सा शुद्धा स्याच्चतुर्थेऽन्हि स्नानान्नारी रजस्वला । दैवे कर्मणि पित्र्ये च पंचमेऽहनि शुध्यति” ॥ इति ३०
'''माधवीयादौ''' विशेषोऽभिहितः । '''अन्ये तु—'''
“ श्राद्धीयेऽहनि संप्राप्ते यस्य भार्या रजस्वला । श्राद्धं तत्र न कर्तव्यं कर्त्तव्यं पंचमेऽहनि ” ॥ इति ।
श्लोकगौतमवचनमन्यथा पठित्वा श्राद्धादौ कर्मणि भार्यायाः सहैवाधिकारश्रवणात्तस्यां रजोदर्शन-
दूषितायामधिकारे निवृत्ते मुख्यकालमतिक्रम्य पंचमेऽहनि श्राद्धं कर्तव्यमिति मन्यंते । तत्रैक-
भार्येण मृताहश्राद्धं रजोदर्शनरूपविघ्नोपरमकाल एव कर्तव्यम् । भार्यांतरयुक्तेन त्वधिकारान- ३५
पायान्मुख्य एव काले कर्तव्यमिति । यदत्र युक्तं तद्ग्राह्यमिति ।
{{rule}} १ ग-विप्लुते । २ क-दते । ३ क्ष-दृं । ४ ग-र्यया । आशौचांतरिते ।<noinclude></noinclude> q3vaub5l5hrqvv556l2aoyizy97lt2x पृष्ठम्:Smriti mukta phalam.pdf/७५६ 104 166759 419780 2026-11-10T15:13:54Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७१६|'''आशौचांतरिते ।'''|}} {{rule}} “ रजस्वलायां भार्यायां क्षयाहं यः परित्यजेत् । स वै नरकमाप्नोति यावदा भूतसंप्लवम् ॥
“ पित्रोः क्षयदिने प्राप्ते यस्य भार्या रजस्... नवीन पृष्ठं निर्मीत अस्ती 419780 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७१६|'''आशौचांतरिते ।'''|}} {{rule}} “ रजस्वलायां भार्यायां क्षयाहं यः परित्यजेत् । स वै नरकमाप्नोति यावदा भूतसंप्लवम् ॥
“ पित्रोः क्षयदिने प्राप्ते यस्य भार्या रजस्वला । अग्निं संधाय विधिवच्छ्राद्धं कृत्वा विसर्जयेत्” ॥
इत्यादि स्मरणादेकपत्नीकोऽपि भार्यायां रजस्वलायां पित्रोर्मृताह एवान्नेन सांवत्सरिकं कुर्यादिति
युक्तमित्याहुः । आपद्वादिना विघ्ने सति विशेषमाह '''मरीचिः—'''
५ “ श्राद्धविघ्ने समुत्पन्ने चाविज्ञाते मृतेऽहनि । कुर्यादन्नेन कृष्णायामेकादश्यां विधुक्षये ” ॥ इति ।
विधुक्षये अमावास्यायाम् । '''कार्ष्णाजिनिरपि—'''
“ आपन्नोऽप्याब्दिकं नैव कुर्यादामेन कर्हिचित् । अन्नेन तदमायांतुकृष्णे वा हरिवासरे”॥ इति ।
'''कालादर्शोऽपि—'''
“आपद्यपि च नामेन तन्मासि हरिवासरे । कृष्ण इंदुक्षये वापि कुर्यादन्नेन वार्षिकम् ” ॥ इति ।
१० '''आशौचान्तरितश्राद्धे विशेषः ।''' आशौचेन विघ्ने सति विशेषमाह '''देवलः—'''
“देये प्रत्याब्दिके श्राद्धे त्वन्तरा मृतसूतके । आशौचानंतरं कुर्यात्तन्मासींदुक्षयेऽपि वा”॥ इति ।
आशौचानंतरकरणासंभवे दर्शे वा कुर्यादित्यर्थः । अत एव '''ऋष्यशृंगः—'''
“ शुचीभूतेन दातव्यं या तिथिः प्रतिपद्यते । सा तिथिस्तस्य कर्तव्या न त्वन्या वै कदाचन”॥ इति ।
शुचिना तावच्छ्राद्धं कर्तव्यम् । तत्र मुख्यकाले शुद्धद्यभावे शुद्धद्यनन्तरं या तिथिः प्रतिपद्यते
१५ लभ्यते सा ग्राह्या । आशौचदुष्टा तु न ग्राह्येत्यर्थः । एतदेवाभिप्रेत्य '''व्यासोऽपि—'''
“ श्राद्धविघ्ने समुत्पन्ने त्वन्तरा मृतसूतके । अमायां वा प्रकुर्वीत शुद्धावैके मनीषिणः ” ॥ इति ।
अमायामिति कृष्णेकादश्या अप्युपलक्षणम् । तथा च ‘श्राद्धविघ्ने समुत्पन्ने’ इति पूर्वोक्त-
'''मरीचिवचनं''' द्रष्टव्यम् । '''ऋष्यशृंगः—'''
“आब्दिके चैव संप्राप्ते आशौचं जायते यदि । आशौचे तु व्यतिक्रांते तेभ्यः श्राद्धं प्रदीयताम्”॥ इति ।
२० आब्दिके चैव संप्राप्ते इति विशेषणान्दर्शदिश्राद्धस्य नित्यत्वेऽपि कालांतरे विधानाभावेन लोप एव ।
'''यत्तु—'''
“ वर्षश्राद्धे तु संप्राप्ते पित्रोराशौचसंभवे । तदानीमशुचिर्न स्यात्कुर्याच्छ्राद्धं मृतेऽहनि ” ॥ इति
तच्छ्राद्धोपक्रमनंतरमागताशौचविषयम्
“ निमंत्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि । देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ” ॥ इति
२५ स्मरणात् । श्राद्धोपक्रमश्च कुतपकाले द्वितीयवरणम्
“ प्रारंभा वरणं यज्ञे संकल्पो व्रतसत्रयोः । नांदीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया ” ॥ इति
वचनं कुतपकालवरणादूर्ध्वमारब्धपाकविषयमित्येतत्सर्वमधस्तान्निरूपितम् । विस्मृतिविषये
“ अज्ञानाद्वा प्रमादाद्वा मोहाद्वा न करोति यः । कुर्वीत पश्चात् स्वपितॄन् प्रतिज्ञानागते सुतः”॥ इति
वचनस्यापि स्मरणे सति पश्चाद्विहिते काले कृष्णेकादश्यादावित्यर्थः ।
३० '''ग्रहणादिसंभवे सांवत्सरिकश्राद्धविधिः ।''' सांवत्सरिकश्राद्धे चंद्रग्रहणादिसंभवे '''संग्रहकारः—'''
“चंद्रसूर्योपरागे तु पित्रोः श्राद्ध उपस्थिते । हेम्ना वाऽऽमेन वा कृत्वा श्राद्धं कुर्यात्परेऽहनि”॥इति ।
'''स्मृत्यंतरे तु—'''
“ आब्दिके समनुप्राप्ते ग्रहणे चंद्रसूर्ययोः । उपोष्य तद्दिनं सम्यक् परेऽन्हि श्राद्धमाचरेत् ” ॥ इति ।
{{rule}} १ ग-घ्न ।<noinclude></noinclude> 48c615r48d5qc1hj656fby9m9on117d पृष्ठम्:Smriti mukta phalam.pdf/७५७ 104 166760 419781 2026-11-10T15:15:59Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''ग्रहणादियोगे ।'''|७१७}} {{rule}} '''वसिष्ठश्च—'''
“ दर्शे रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् । आमश्राद्धं तु कर्तव्यं हेमश्राद्धमथापि वा ” ॥
'''स्मृत्यंतरे—'... नवीन पृष्ठं निर्मीत अस्ती 419781 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''ग्रहणादियोगे ।'''|७१७}} {{rule}} '''वसिष्ठश्च—'''
“ दर्शे रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् । आमश्राद्धं तु कर्तव्यं हेमश्राद्धमथापि वा ” ॥
'''स्मृत्यंतरे—'''“ ग्रहणे तु द्वितीयेऽन्हि रजोगृष्टौ तु पंचमे ” इति । तथा—
“ श्राद्धविघ्ने समुत्पन्ने सूतकान्मृतकादपि । सोमसूर्योपरागाभ्यां श्राद्धं कुर्यात्परेऽहनि ” ॥ इति ।
अत्र विशेषमाह संग्रहकारः— ५
“ भुजेर्निषेधकाले तु श्राद्धकालो भवेत्तदा । आमश्राद्धं तु कर्तव्यं हेमश्राद्धमथापि वा ” ॥ इति ।
भोजननिषेधकालश्च वृद्धवसिष्ठोक्तः—
“ सूर्यग्रहे तु नाश्नीयात्पूर्वं यामचतुष्टयम् । चंद्रग्रहे तु यामांस्त्रीन्बालवृद्धातुरैर्विना ॥
“ संध्याकाले यदा राहुर्ग्रसते शशिभास्करौ । तदहर्नैव भुंजीत रात्रावपि कदाचन ” ॥ इति ।
एतच्च सविस्तरं प्रतिपादितमधस्तात् । यत्तु स्मृत्यन्तरवचनम्— १०
“ दर्शे रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् । अन्नेनासंभवे हेम्ना कुर्यादामेन वा सुतः ” ॥ इति
तस्याप्ययमर्थः—निषेधादन्नेनासंभवे सति हेम्ना आमेन वा कुर्यादिति । एवं च कर्मकाला-
त्प्रागेवमुक्ते सूर्यग्रहे अपराह्णे श्राद्धमन्नेन कार्यमित्युक्तं भवति । एतमेव विषयमभिप्रेत्य
कालादर्शकारः—
“प्रत्याब्दिकस्य चालभ्य योगेषु विहितस्य च । संपाते देवताभेदात् श्राद्धयुग्मं समाचरेत्”॥ इति । १५
ग्रहणाधोदयादिरलभ्ययोगः रात्रौ यामद्वयादूर्ध्वं चन्द्रग्रहे पितृश्राद्धं कर्तव्यं द्वितीययामे ग्रहणेऽपि
यामत्रयात्पूर्वं गान्धर्वं उपक्रम्य दिवा पञ्चदश नाड्याः पूर्वं कर्तव्यम् । तत्र भुजेर्निषेधादित्याहुः ।
ग्रहणनिमित्तं श्राद्धमाह मनुः—
“संध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः । तयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम्”॥ इति ।
महाभारतेऽपि— २०
“सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने । अकुर्वाणस्तु नास्तिक्यात्पंके गौरिव सीदति ” ॥ इति ।
आश्वमेधिके—“ उपप्लवे चन्द्रमसो रखेश्च श्राद्धस्य कालौ ह्ययनद्वये च ।
“ पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः ” ॥ इति । अंगिराः—
“ सर्वो वर्णः सूतके च मृतके राहुदर्शने । स्नात्वा श्राद्धं प्रकुर्वीत वित्तशाठ्यविवर्जितम् ” ॥ इति ।
अत्र राहुदर्शनग्रहणात्संक्रांत्यादिष्वाशौचे श्राद्धं न कर्तव्यमित्युक्तं भवति । इदं ग्रहणादिश्राद्धं २५
मामेनैव कार्यम् । तथा बोधायनः—
“ संक्रमेऽङ्गद्विजाभावे प्रवासे पुत्रजन्मनि । आमश्राद्धं संग्रहे च द्विजः शूद्रवदाचरेत् ” ॥ इति ।
संक्रमे चाग्न्याभावे द्विजाभावे च प्रवासादौ संग्रहे ग्रहणे चेत्यर्थः । “हिरण्ये तूदकं पश्चान्मृतेऽहनि
परेऽहनि” इति वचनात् तदनन्तरमेव तर्पणं कार्यम् । प्रतिनिधित्वेन तिलतर्पणमात्रे क्रियमाणेऽपि
तर्पणानन्तरं क्षेत्रपिण्डदानमिति पूर्णसंग्रहे । ३०
'''श्राद्धोद्देश्यनिरूपणम् ।''' पितुर्मृताहे पितृपितामहप्रपितामहास्त्रय एकोद्देश्याः । मातुर्मृताहे मातृ-
पितामहीप्रपितामह्य एव देवताः । तदुक्तं '''सायणीये—'''
“ पितुः प्रत्याब्दिकं कार्यमुद्दिश्यैव त्रिपूरुषम् । वर्णान्तरं न वृणुयाद्दत्तं चेन्निष्फनल भवेत् ॥
“पुंसां मृताहे पुरुषा एव भोज्या न तु स्त्रियः । एवं स्त्रीणां मृताहेऽपि स्त्रिय एव न चापरे” ॥ इति ।
{{rule}} ९१-२२<noinclude></noinclude> jcjyp0qwtnlc1pxgnil15n4qw7h4swn पृष्ठम्:Smriti mukta phalam.pdf/७५८ 104 166761 419782 2026-11-10T15:17:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७१८|'''श्राद्धे उद्देश्याः ।'''|}} {{rule}} '''प्रयोगसारे—'''
“ पितुरेव पितुः कुर्यान्मातुरेव मृतेऽहनि । मोहाच्चेदन्यथा कुर्याद्रौरवं नरकं व्रजेत् ” ॥ इति ।
'''पाद्मे... नवीन पृष्ठं निर्मीत अस्ती 419782 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७१८|'''श्राद्धे उद्देश्याः ।'''|}} {{rule}} '''प्रयोगसारे—'''
“ पितुरेव पितुः कुर्यान्मातुरेव मृतेऽहनि । मोहाच्चेदन्यथा कुर्याद्रौरवं नरकं व्रजेत् ” ॥ इति ।
'''पाद्मेऽपि—'''
“ पितुरेव पितुः कुर्यान्मातुरेव मृतेऽहनि । यदि कुर्यात्सपत्नीकं तच्छ्राद्धमसुरहालयम् ” ॥ इति ।
५ पितुर्मृताहे पित्रादीनामेव कुर्यान्न सपत्नीकानाम् । मातुर्मृताहे मात्रादीनामेव कुर्यादित्यर्थः ।
तथा च '''शंखः—'''
“ पित्रादित्रयपत्नीनां भोज्या मातुः प्रति द्विजाः।स्त्रीणामेव तु तस्मात्तु मातृश्राद्धमिहोच्यते”॥इति।
मातुः प्रति मातृपितामहीप्रपितामहीरुद्दिश्य भोज्या द्विजाः । पित्रादित्रयपत्नीनां स्त्रीणामिह पृथगेवैत-
च्छ्राद्धं यस्मात्तस्मान्मातृश्राद्धमुच्यत इत्यन्वयः ।
१० '''शातातपः—'''“ सपिंडीकरणं कृत्वा कुर्यात्पार्वणवत्सदा ॥
“ प्रतिसंवत्सरं विद्वान् शाकल्येनोदितो विधिः। सपिण्डीकरणादूर्ध्वं पितामहादिभिः सह ” ॥ इति
'''हारीतः—'''
“ अनुयानेन सापिण्ड्यं जनकेन सहात्मजः । पितामहादिभिः सार्धं आब्दिकश्राद्धमाचरेत्” ॥ इति ।
'''स्मृत्यन्तरे—'''
१५ “ नांदीमुखेऽष्टकाश्राद्धे गयायां च मृतेऽहनि । पितामहादिभिः सार्द्धं मातुः श्राद्धं समाचरेत्”॥ इति ।
'''यमः—'''
“ मातुर्मृताहे पित्रादीन्पूजयेद्यदि नाशयेत् । तथा पितुर्मृताहेऽपि न पूज्या मातरः स्मृताः”॥ इति ।
'''अन्यत्रापि—'''
“ मातुर्मृताहे पित्रादीन्काशयेद्द्विजसत्तमः । तथा पितुर्मृताहेऽपि न भोज्याः तत्स्त्रियः स्मृताः”॥ इति ।
२० नाशयेन्न भोजयेदित्यर्थः । '''पारिजाते—'''
“ पित्रोः श्राद्धे समायाते तत्तद्वर्गं निमंत्रयेत् । वर्गान्तरं न वृणुयाद्दत्तं चेन्निष्फलं भवेत् ॥
“ मातुः श्राद्धं मातृवर्गवरणेनैव कारयेत् । तत्र पित्रादिवर्गस्य वरणे मातृहा भवेत् ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ प्रत्यब्दाङ्गं तिलं दद्यान्निषिद्धेऽपि परेऽहनि । वर्गैकस्य वचो येषामन्येषां तु विवर्जयेत्”॥ इति ।
२५ येषां पितृपितामहप्रपितामहानां मातृपितामहीप्रपितामहीनां वा वचः उद्देश्यत्वोक्तिः तेषामेकस्य
वर्गस्य निषिद्धेऽपि परदिने तिलोदकं दद्यादनुद्दिष्टानां वर्जयेदित्यर्थः । ततश्चैकस्य वर्गस्य तिलोदक
विधानात् “ यानुद्दिश्य भवेच्छ्राद्धं तेभ्यस्तर्पयति द्विजः ” इति विष्णुस्मरणाच्च ।
“कर्षूसमन्वितं मुक्त्वा तथाऽश्राद्धषोडशम् । प्रत्याब्दिकं च शेषेषु पिंडाः स्युः षडिति स्थितिः”॥ इति
कात्यायनेन प्रत्याब्दिकपर्युदासेन षट्पिंडविधानाच्चैकस्य वर्गस्योद्देश्यत्वम् ।
३० अत्र पितृमेधसारकृत्—‘ मातुर्मृताहे मात्रादय एव भोज्याः न पित्रादयो निषेधाद्युग्मत्व-
विरोधात्पार्वणत्वभंग्यादाचाराभावाच्च ’ इति ।
“ निमंत्रयेत त्र्यवरान्संविधान्प्रयथोदितान् । अयुग्मांश्चयवरानैर्यपेक्षो भोजयेत् ” । इति
मन्वापस्तंबादिभिरयुग्मब्राह्मणभोजनं विहितम् । तत्र पित्रादीनामपि भोजने अयुग्मत्वविरोध
इत्यर्थः । अत्र विज्ञानेश्वरः—येनकेनापि मातुः सापिंड्यचे यत्राष्टकादिषु मातुः श्राद्धं पृथग्विहितम् ।
{{rule}} १ क्ष-मातुः श्राद्धं । २ क्ष-तु । ३ ग-ठान । ४ ग-श्यपि । ५ ग-ननर्था ।<noinclude></noinclude> 89dadi9o1s5wv5kq6uvgw9o8d8jff7g पृष्ठम्:Smriti mukta phalam.pdf/७५९ 104 166762 419783 2026-11-10T15:18:07Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''स्त्रीणां पृथक्श्राद्धविचारः ।'''|७१९}} {{rule}} “ अष्टकासु च वृद्धौ च गयायां च मृतेऽहनि । मातृश्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ” ॥ इति ।
तत्र पितामह्यादिभि... नवीन पृष्ठं निर्मीत अस्ती 419783 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''स्त्रीणां पृथक्श्राद्धविचारः ।'''|७१९}} {{rule}} “ अष्टकासु च वृद्धौ च गयायां च मृतेऽहनि । मातृश्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ” ॥ इति ।
तत्र पितामह्यादिभिरेव पार्वणश्राद्धं कर्तव्यमिति । एवं पितृश्राद्धे पित्रादय एव भोज्याः । न
मात्रादयः । अत्र '''तात्पर्यदर्शनम्—'''अत्र यद्यपि मात्रादिभ्यः पृथगेव पिंडदानदर्शनं तथापि
तासां पृथग् ब्राह्मणभोजनं न भवति । होमाभिमर्शनयोः पृथगादर्शनात्पितृमातृवर्गब्राह्मणसंख्या-
संकलने सत्ययुग्मत्वविरोधादाचाराभावाच्च । अपि च—“अष्टकासु च वृद्धौ च” इति वचनादष्ट- ५
कादिभ्योऽन्यत्र मासिश्राद्धौ पृथक्त्वभावः स्पष्ट एवावगम्यत इति पृथगुद्देशाभावेऽपि मातृवर्गस्यापि
तत्र तृप्तिर्भवतीत्युक्तं '''चंद्रिकायाम् । बृहस्पतिरपि—'''
“ स्वेन भर्त्रा समं श्राद्धं माता भुंक्ते सदैवतम् । पितामही तथा स्वेन स्वेनैव प्रपितामही” ॥ इति ।
सदैवतं पार्वणश्राद्धमित्यर्थः । '''शातातपः—'''
“ एकमूर्तित्वमायाति सपिंडीकरणे कृते । पत्नीपतिपितॄणां तु तस्मादंशेषु भागिनी ” ॥ इति । १०
'''स्मृत्यंतरेऽपि—'''
“ सपिंडीकरणादूर्ध्वं यत्पितृभ्यः प्रदीयते । सर्वत्रांशहरा माता इति धर्मेषु निश्चयः ” ॥ इति ।
'''मनुः—'''
“ स्नेहाद्भर्त्रा समं श्राद्धं माता भुंक्ते स्वधाशनम् । पितामही स्वधां स्वेन तथैव प्रपितामही”॥ इति ।
'''चंद्रिकायाम्—'''एभिर्वचनैः सपिंडीकरणोत्तरकालं पत्यादिदैवत्ये श्राद्धे पृथगुद्देशाभावेऽपि मातृणां १५
सहभावेन देवतात्वं भवतीत्येतावन्मात्रमभिधीयते । न तु येन सह सपिंडीकरणं कृतं तद्दैवत्ये
श्राद्धे सह भावेन देवतात्वमिति । एषु वचनेषु तथाविधविशेषानवगमात्ततश्च पितामह्यादिभिः
सह सपिंडीकृतायामप्यष्टकादिभ्योऽन्यत्र मातुर्न पृथक्श्राद्धमिति । '''पितृमेधसारेऽपि—'''श्वश्वादि-
सापिंड्येऽपि दर्शमासिश्राद्धादौ पित्रादिभिरेव सह मात्रादयो भुंजते । अर्घ्यसंसर्गेण भर्तृ-
साहित्यात्स्नेहाच्च । तदर्थं हि पित्नर्घ्येषु मात्रर्घ्यसंसर्गं कुर्वीतेति । एवं चाष्टकादिष्वेव पृथक्त्व- २०
विधानात्तद्व्यतिरिक्तेषु युगादिमन्वादिदर्शमासिश्राद्धादिषु पृथगुद्देशाभावोऽवगम्यते ।
यत्तु '''चतुर्विंशतिमतेऽभिहितम्—'''“केचिदिच्छन्ति नारीणां पृथकश्राद्धं महर्षयः ” इति
तदष्टकाश्राद्धविषयम् । अत्राष्टकासु च वृद्धौ चेतिवचनं पूर्वमुक्तम् । तथा '''जातुकर्णिः—'''
‘अन्वष्टक्यं तथा वृद्धिं मातुः श्राद्धं मृतेऽहनि । एकोद्दिष्टं तथा मुक्त्वा स्त्रीणां नास्ति पृथक् क्रियाः॥इति।
'''चंद्रिकायाम्—''' २५
“ अन्वष्टकासु वृद्धौ च प्रतिसंवत्सरे तथा । अत्र मातुः पृथक्श्राद्धमन्यत्र पतिना सह ” ॥ इति ।
'''तत्रैव—'''
“क्षयाहं वर्जयित्वैकं स्त्रीणां नास्ति पृथक् क्रिया । केचिदिच्छन्ति नारीणामन्यत्रापि महर्षयः”॥ इति ।
अन्यत्राष्टकादिषु । '''पारिजातेऽपि—'''“अन्वष्टकासु वृद्धौ च प्रतिसंवत्सरे तथा ।
“ महालये गयायां च सपिण्डीकरणात्पुरा । एषु मातुः पृथक् कुर्यादन्यत्र पतिना सह ” । ३०
'''स्मृत्यन्तरे—'''“ अन्वष्टकासु वृद्धौ च गयायां च महालये ।
“ चन्द्रसूर्योपरागे च व्यतीपाते मृतेऽहनि । मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ” ॥ इति ।
अन्वष्टकादौ मातृपितामहीप्रपितामह्यः पृथक् तत्र विहितदेवताभिः सहोद्देश्याः । मातृश्राद्धे तु ता
एवोद्देश्याः । अष्टकावृद्धिगयामहालयेोपरागव्यतीपातव्यतिरिक्तेषु पतिभोजनेन तासां सह तृप्ति-
रित्यर्थः । '''शातातपोऽपि—'''“ मासिके चाब्दिके श्राद्धे मातुः कुर्यात्पृथग्विधिम् ” ॥ इति । ३५
{{rule}} १ ग-वन्ती ।<noinclude></noinclude> 40asu22j8apkdk9d1nza2h0v2488v92 पृष्ठम्:Smriti mukta phalam.pdf/७६० 104 166763 419784 2026-11-10T15:19:02Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७२०|'''मातृमृताहे ।'''|}} {{rule}} यत्तु “सपत्नीकत्वहानेऽपि पितुर्दर्शं समाचरेत् । पितामहादिषु तथा सपत्नीकत्वसंभवात्” ॥ इति
तस्यार्थः । मातरि स्थितायामपि पितामह्... नवीन पृष्ठं निर्मीत अस्ती 419784 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७२०|'''मातृमृताहे ।'''|}} {{rule}} यत्तु “सपत्नीकत्वहानेऽपि पितुर्दर्शं समाचरेत् । पितामहादिषु तथा सपत्नीकत्वसंभवात्” ॥ इति
तस्यार्थः । मातरि स्थितायामपि पितामह्यादीनां दर्शं पिंडं तिलोदकं च समाचरेदिति । एवं च
पितुर्मृताहे पितृपितामहप्रपितामहानामेवोद्देश्यत्वं । मातृमृताहे मातृपितामहीप्रपितामहीनामुद्देश्यत्वं
न पित्रादीनामिति स्थितम् । ननु मा भूत् । पितुर्मृताहे मातुरुद्देश्यता तद्विधायकवचनाभावात् ।
५ मातृमृताहे तु
“ मातृमृताहे संप्राप्ते पितरं तत्र पूजयेत् । अपूजिते तु पितरि मात्रा पिंडो न गृह्यते ” ॥ इति ।
विधिबलेन पितुरप्युद्देश्यता स्यादिति चेदत्र केचिदाहुः । वचनमेतदापस्तंबिनां मातृमृताहे पित्रादे-
र्होमपिंडदानविधिपरम् । अत्र एव ‘ मात्रा पिंडो न गृह्यते ’ इत्युक्तम् । तथा च स्मृत्यंतरे—
“स्त्रीमृताहे स्त्रियो भोज्याः पितरः स्त्रीसपिंडने । पित्रादेरेव होमः स्यात्पिंडदानं तु वर्गयोः”॥ इति ।
१० मातृमृताहे पित्रादेरेव होमो मात्रादेरेव भोजनम् । स्त्रीसपिंडने पित्रादेरेव भोजनं उभयत्र
वर्गद्वयस्यापि पिंडदानमित्यर्थः । एतच्चापस्तंबिनाम् । अन्येषां तु यथासूत्रं द्रष्टव्यम् ।
विष्णुः—“ मातृमृताहे पित्रादीन्होमपिंडैः प्रपूजयेत् ” ॥ इति ।
संग्रहेऽपि—“ मातुः श्राद्धे तु पित्रादीन्होमपिंडैः प्रपूजयेत् ।
“ पिंडहोमौ परित्यज्य श्राद्धं च कुरुते यदि । संततेश्च विनाशाय संपदां हरणाय च ” ॥ इति ।
१५ अन्यत्रापि—
“ पिता जीवेन्मृता माता तद्दिने होमदेवताः । पितामहादयो ह्येव तदुद्देशात्कृतार्थता ॥
“ मंत्रे अमुष्मा इति बलात्पितरो होमदेवताः । ये च त्वामनुयाश्चेति बलात्पिंडास्तु वर्गयोः ॥
“ पत्नीपतीनां श्रुत्युक्तभेदराहित्यवैभवात् । सप्ताहुतीनां पित्रादेः उद्देशाच्चरितार्थता ॥
“ पित्रोः श्राद्धे समायाते पार्थक्येनाथवा सह । सप्ताहुतीश्च जुहुयान्नोद्देशां मातुरिष्यते ” ॥ इति ।
२० अपरे पुनराहुः—“ मातृमृताहे संप्राप्ते पितरं तत्र पूजयेत् ” इति वचनं होमपिंडदानमात्र-
विधिपरं न भवति किंतु पित्राद्युद्देशेन भोजनमपि तेन विधीयते । तथा च स्मृत्यंतरे—
“ मातृमृतेऽन्हि संप्राप्ते पितरं भोजयेत्पुरा । मातरं भोजयेत्पश्चात् द्वयोः पिंstr-डान्मूथक्पृथक् ” ॥ इति ।
शिवधर्मोत्तरे—
“ मासिके चाब्दिके वाऽपि मातृमरणसंभवे । पित्रा सहैव यद्भुक्तं तस्यास्तृप्तिकरं भवेत् ॥
२५ “पित्रादीनान् जनन्यास्तु मासिकादीन्करोति यः। तत्कुलस्य विनाशः स्यात् तस्यास्तृप्तिर्न जायते”॥
हारीतः—
“ पित्र्यं तूभयसामान्यं मातृमृतदिने सति । भर्तुराधिक्यभावेन शुभौ च परिपूजयेत् ॥
“ गरीयसी तु पुत्रस्य माता संभरणात्तथा । पालनाद्धरणाद्भर्त्ता गरीयान् सर्वदा तथा ” ॥ नारदः—
“ भर्तुराधिक्यभावेन तस्यास्तृप्तिर्हि शाश्वती । मातृप्रीतिं समन्विच्छन्पितृप्रीतिं तथाचरेत् ” ॥
३० व्यासः—
“ मातरं पितरं चैव समत्वेनैव पूजयेत् । न्यूनातिरेकं कुर्वाणः तामसीं गतिमाश्रयेत् ” ॥ इति ।
संग्रहेऽपि—“ पितुर्मृताहे पितरो हि भोज्याः पिंडप्रदानं तु सहैव मात्रा ॥
“ मातृमृताहे पितृवर्गपूर्वं भोज्याः स्त्रियः पिंडविधौ षडत्र ” इति ।
{{rule}}<noinclude></noinclude> 9ibev8915xwzvfkhh2z216map6ez0je पृष्ठम्:Smriti mukta phalam.pdf/७६१ 104 166764 419785 2026-11-10T15:20:13Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''जीवपितृकस्य मातृश्राद्धे विशेषः ।'''|७२१}} {{rule}} '''जीवपितृकस्य मातृश्राद्धे विशेषमाहतुः शंखलिखितौ—'''
“ ध्रियमाणे तु पितरि माता चेन्निधनं गता । पितृस्थाने स्व... नवीन पृष्ठं निर्मीत अस्ती 419785 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''जीवपितृकस्य मातृश्राद्धे विशेषः ।'''|७२१}} {{rule}} '''जीवपितृकस्य मातृश्राद्धे विशेषमाहतुः शंखलिखितौ—'''
“ ध्रियमाणे तु पितरि माता चेन्निधनं गता । पितृस्थाने स्वपितरं तत्स्थानेऽन्यन्नियोजयेत् ” ॥ इति ।
अस्यार्थः—“वर्गादिर्यदि जीवेत्तु तं वर्गं परिवर्जयेत्” इति वचनात्पितरि जीवति सति मातृश्राद्धे
पितृवरणमकृत्वा तत्स्थाने स्वपितरं तूष्णीं भोजयेत् । मातृस्थाने च वरणपूर्वकमन्यं भोजयेदिति ।
'''चंद्रिकायाम्—''' ५
“ ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । विप्रवद्वापितं श्राद्धे स्वकं पितरमाशयेत् ॥
“पिता यस्य तु वृत्ततः स्याज्जीवेच्चापि पितामहः । पितामहो वा तच्छ्राद्धं भुंजीतेत्यब्रवीन्मनुः” ॥
तथा च '''स्मृत्यंतरे—'''
“ जीवतस्तु पिता यस्य माता चेन्निधनं गता । तूष्णीं निवेश्य पितरं वरयेन्मातृवर्गजाः ॥
“ होमकार्यं तदा तासां नास्त्येव पितृवर्गborder-तः । पिंडप्रदानमूहेन वर्गयोरुभयोरपि ” ॥ इति । होमकार्यं १०
तासां नास्ति पितृवर्गस्यैव होमः ।
“ पिता जीवेन्मृता माता तद्दिने होमदेवताः । पितामहादयो ह्येव तदुद्देशात् कृतार्थता ” ॥ इति
स्मरणात् । '''निगमेऽपि—'''“यो जीवति पितॄणां तं न भोजयेत्पितृस्थाने इत्येके । जीवतामजीवतां
वा देयमेवेति हिरण्यकेतुः ” इति । एतदेवाभिप्रेत्योक्तं '''पाद्मे—'''
“ मातृमृताहे संप्राप्ते पितरं तत्र पूजयेत् । न जीवंतमिति प्राहुर्गार्ग्यगौतमभार्गवाः ” ॥ इति । १५
जीवंतं पितरं वरणपूर्वकं न पूजयेदित्यर्थः । यत्तु कैश्चिदुक्तम्—जीवपितृकस्य श्राद्धे पितुः
पित्रादिभ्यो होमवर्गद्वयस्य पिंडदानं कार्यं पित्रादीनां होमपिंडदाननिषेधपरमेतदिति तत्पिता
जीवेन्मृता माता पिंडप्रदानमूहेनेति पूर्वोक्तवचनविरोधादुपेक्ष्यम् । तथा च '''पितृमेधसारकृत्'''
“ जीवपितृकस्य मातुः श्राद्धे पितुः पित्रादिभ्यो होमो वर्गद्वयस्य पिंडदानं कार्यम् ” । इति ।
अपरे तु—पितरं तत्र पूजयेदित्यादिवचनानामजीवत्पितृकमातृश्राद्धविषयत्वान्नोनिगोत्रमंत्रान्ते- २०
वास्यसंबंधानिति सगोत्रस्य निमंत्रणनिषेधादनिमंत्र्य श्राद्धपंक्तौ भोजनदाने श्राद्धकर्ता आवृत्तानां
त्वित्यादिना दोषाभिधानात् “ न जीवन्तमिति प्राहुर्गार्ग्यगौतमभार्गवाः ” इति पाद्मपुराण-
वचनात् “ प्रत्यक्षमर्चनं श्राद्धे निषिद्धं मनुरब्रवीत् ” इति भविष्यत्पुराणवचनात् पितृस्थानं
स्वपितरमित्यादेः शिष्टाचारभावेनोपेक्ष्यत्वात् जीवपितृकस्य मातृश्राद्धमातृपितामहीप्रपिता-
महीनामेव भोजनम् । होमः पितामहादेः । पितृवर्गस्य पिंडदानमुभयोरित्याहुः । २५
'''सामसूत्रप्रयोगवृत्तौ तु—'''
“ मातृमृताहे संप्राप्ते सामतित्तिborder-रिशाखिनाम् । पितरं भोजयेदग्रे सह तंत्रेण मातरम् ” ॥ इति ।
एवं च “ पितुरेव पितुः कुर्यान्मातुरेव मृतेऽहनि ” इत्याश्वलायनस्मरणादाश्वलायनानां मातृ-
श्राद्धे मात्रादीनामेवोद्देश्यत्वं “ मातृमृताहे संप्राप्ते पितरं तत्र पूजयेत् ” इति भरद्वाजस्मरणात्
यजुःशाखिनां भरद्वाजीयानां पित्रादीनां मात्रादीनां चोद्देश्यत्वं तथा सामशाखिनामपि । इतरेषां ३०
स्वकुलाचाराव्यवस्था ।
'''अनुमरणान्विकविषये भृगुः—'''
“या समारोहणं कुर्याद्भर्तृचित्यां पतिव्रता । तां मृतेऽहनि संप्राप्ते पृथक्पिंडे नियोजयेत् ” ॥ इति
पृथक्पिंडनियोजनं पृथक्श्राद्धकरणम् ।
{{rule}} १ ग-जीव ।<noinclude></noinclude> 95t7i7id9dgz2q59p752cdc94spxgxx पृष्ठम्:Smriti mukta phalam.pdf/७६२ 104 166765 419786 2026-11-10T15:21:05Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७२२|'''अनुमरणान्दिके ।'''|}} {{rule}} अत एव '''स्मृत्यंतरम्—'''
“ एकचित्यां समारूढौ दंपती निधनं गतौ । पृथक्श्राद्धं तयोः कुर्यादोदनं च पृथक्पृथक्”॥ इति ।
ओदनमत्र पिंड... नवीन पृष्ठं निर्मीत अस्ती 419786 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७२२|'''अनुमरणान्दिके ।'''|}} {{rule}} अत एव '''स्मृत्यंतरम्—'''
“ एकचित्यां समारूढौ दंपती निधनं गतौ । पृथक्श्राद्धं तयोः कुर्यादोदनं च पृथक्पृथक्”॥ इति ।
ओदनमत्र पिंडदानं सहपाकस्य पूर्वमुक्तत्वात् । “ कुर्यात्समानतंत्रेण सांवत्सरिकमेव च ” इति
संघातानुमृत्यborder-तोः सांवत्सरिकस्य समानतंत्रत्वस्मरणमापद्विषयमिति पूर्वमेवोक्तम् । यत्तु वचनम्—
५ “ पत्या सह सपिंडत्वे तन्मृताहे सहत्वभाक् ” इति तस्यार्थः भिन्नतिथ्यनुमरणविषये पितुरा-
ब्दिकं पूर्वदिने कृत्वा परदिने पितृवरणपूर्वकं मातृश्राद्धं कुर्यादिति । '''स्मृत्यंतरे—'''
“ पितुव्याग्रजयोः श्राद्धे तत्तत्पितृपितामहान् । स्त्रीश्राद्धे वृणुयाद्भर्त्ता पत्नीमातृपितामही”॥ इति ।
एवं यस्य मृताहे पार्वणमुक्तं तत्तत्पितृपितामहौ च तत्र वृणुयात् । '''कारिकारत्ने—'''
“ मातुः पित्रोर्मासिकादीन् दौहित्रं स्वीयवह्रिना । तथा महालयादींश्च कुर्यात्पार्वणतः शुचिः॥
१० “ सपिंडनस्य पश्चात्तु दौहित्रः स्वीयवह्निना । तत्सूत्राद्वत्सरादर्वाक्कुर्यात्पश्चात्स्वसूत्रतः”॥ इति ।
यत्तु
“ मातामहस्य सूत्रेण सपिंडीकरणात्पुरा । सूत्रांतरेण यः कुर्याच्छुनां योनिं स गच्छति ” ॥ इति
तद्वत्सरांतसपिंडीकरणाभिप्रायम् । '''संग्रहे—'''
“कर्तुः सगोत्रिणश्चैव भोक्तॄणां च सगोत्रिणः । न निमंत्र्याः किल श्राद्धे सोदकुंभं विनैव तत्”॥ इति ।
१५ अत्र भोक्तृपदं भोक्तृदेवतापरम् ।
“ श्राद्धे निमंत्रयेद्विद्वान्वितॄणामसगोत्रिणः । कर्तुस्तु गोत्रिणश्चैव विशेषेण विवर्जयेत् ” ॥
इति स्मरणात् । पुत्रिकापुत्रस्य धनहारिणो दौहित्रस्य च मातामहमृताहश्राद्धं नित्यं तच्च
प्रतिपादितं '''विज्ञानेश्वरे ।''' “ मातामहेन मातुः सापिंड्ये मातामहश्राद्धं पितृश्राद्धवन्नित्यमेव
पत्न्या पितामह्या वा मातुः सापिंड्ये मातामहश्राद्धं तदनित्यं कृते त्वभ्युदयः अकृते न प्रत्य-
२० वायः ” इति । न च वाच्यम्—
“ पितरो यत्र पूज्यंते तत्र मातामहा अपि । अविशेषेण पूज्याः स्युः विशेषात्नरकं व्रजेत् ॥
“ पार्वणं कुरुते यस्तु केवलं पितृहेतुतः । मातामहान्न कुरुते पितृहा चोपजायते ” इत्यादि-
वचनात्पितृमृताहे मातामहादीनामपि श्राद्धं कार्यमिति । “पितुर्गतस्य देवत्वमौरसस्य त्रिपूरुषम्” इति
विशेषस्मरणात् । तथा '''चंद्रिकायाम्—'''“ याज्ञवल्क्येन कालस्तु अमावास्यादिनोदितः ॥
२५ “ अविशेषेण पित्र्यस्य तथा मातामहस्य च । युगपच्च स विज्ञेयो वचनाद्द्रक्ष्यमाणकात् ॥
“ कालभेदेन तंत्रं स्याद्देशभेदेन चैव हि । तस्मात् तंत्रविधानात्तु यौगपद्यं विधीयते ॥
“ अमावास्यादिकालेषु कालैकत्वात्सहक्रिया । मृतेऽहनि तु तद्भेदान्न युज्येत सह क्रिया”॥ इति ।
अस्यार्थः । “ अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ” इत्यादिवचनेन श्राद्धकालः
सामान्येन पितृश्राद्धस्य मातामहश्राद्धस्य च याज्ञवल्क्येनोदितः
३० स च कालः । पितृयज्ञश्राद्धयोरिव न भागक्रमेण किंतु “ मातामहानामप्येवं तंत्रं वा वैश्व-
दैविकम् ” इति वक्ष्यमाणाद्वचनाद्युगपदेवावगंतव्यः । यौगपद्यमेव समर्थयते कालभेद
इत्यादिना । समानतंत्रतया विधानात् पैतृकस्य मातामहश्राद्धस्य च यौगपद्यं प्रतीतम् । तच्च
समानतंत्रत्वममावास्यादिकाले एव न पुनर्मृताहे इति । एवं च पितुर्मृताहे पित्रादीनामेवोद्देश्यत्वमिति
स्थितम् । संकल्पविधानेन पितृश्राद्धं न कार्यम्
{{rule}} १ ग-न्त्या । २ क्ष-दि । ३ खग-प्रती । ४ क-मृताहस्य ।<noinclude></noinclude> s5fenv58jlka9nqbpvcms7y2va5bbez पृष्ठम्:Smriti mukta phalam.pdf/७६३ 104 166766 419787 2026-11-10T15:22:20Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''मलमासः ।'''|७२३}} {{rule}} “ मातापित्रोर्मृतदिने संकल्पं कुरुते तु यः । संततेस्तु विनाशं स्यात्संपदामपि संक्षयः ” ॥
इति स्मरणात् । एकादश्यामपि मृताहश्राद्धमुक्... नवीन पृष्ठं निर्मीत अस्ती 419787 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''मलमासः ।'''|७२३}} {{rule}} “ मातापित्रोर्मृतदिने संकल्पं कुरुते तु यः । संततेस्तु विनाशं स्यात्संपदामपि संक्षयः ” ॥
इति स्मरणात् । एकादश्यामपि मृताहश्राद्धमुक्तं '''स्मृत्यंतरे—'''
“ मातापित्रोः क्षयाहे च भवेदेकादशी यदा । संभाव्य पितृदेवांश्च त्याजिन्नेपितृसेवितम्” ॥ इति ।
'''कात्यायनोऽपि—'''
“उपवासे यदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ”॥ इति । ५
यत्तु '''पुराणवचनम्—'''
“ ये कुर्वंति महीदेवाः श्राद्धमेकादशीदिने । त्रयस्ते नरकं यांति दाता भोक्ता पिता तथा ॥
“ यथाशौचगतं श्राद्धमाशौचांते विधीयते । तथैवेकादशीं मुक्त्वा द्वादश्यामेव कारयेत् ”॥ इति
तत्तांत्रिकविषयम् । अन्यथा कात्यायनादिस्मृतिविरोधप्रसंगात् ।
'''प्रथमाब्दिके श्राद्धांगतर्पणं नास्ति''' १०
“एकोद्दिष्टेषु सर्वेषु सपिंडीकरणे तथा । मासिकेष्वान्दिके चैव न कुर्यात्तिलतर्पणम् ” ॥ इति
स्मरणात् । इत्याब्दिकनिर्णयः ।
'''अथ मलमासः ।''' तस्य स्वरूपं '''ब्रह्मसिद्धांतेऽभिहितम्—'''
“ चांद्रमासो ह्यसंक्रांतो मलमासः प्रकीर्तितः ” इति । '''पराशरः—'''
“रविणा लंघितो मासश्चांद्रः ख्यातो मलिम्लुचः । तत्र यद्विहितं कर्म उत्तरे मासि कारयेत्”॥ इति । १५
'''लघुहारितोऽपि—'''
“ इंद्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः । अग्नीषोमौ स्थितौ मध्ये समाप्तौ पितृसोमकौ ॥
“तमतिक्रम्य तु यदा रविर्गच्छेत्कदाचन । आद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतः स्मृतः”॥ इति ।
अयमर्थः । दर्शपूर्णमासयाजिनां शुक्लप्रतिपदादिदर्शोष्टिदेवताविंद्राग्नी हूयेते । कृष्णप्रतिपदि पूर्णमासेष्टि-
देवावग्नीषोम्रो । अमावास्यायां पिंडपितृयज्ञदेवौ पितृसोमकौ । तंत्रैवं सति शुक्लप्रतिपदादिदर्शान्तो २०
मासः संक्रांतिरहितो मलिम्लुचः इति । मलिम्लुचत्वं च तस्य राक्षसैस्तस्करैराक्रांतत्वात्
तदाह '''शातातपः—'''
“ वत्सरांतर्गतः पापो यज्ञानां फलनाशकृत् । नैऋतेर्यातुधानाद्यैः समाक्रांतो विनाशकैः ॥
“ मलिम्लुचैः समाक्रांतं सूर्यसंक्रांतिवर्जितम् । मलिम्लुचं विजानीयात् गर्हितं सर्वकर्मसु ”॥ इति
'''मैत्रेयः—'''“मासद्वये यथैकराशिं संक्रमेतादित्यस्तत्राद्यो मलमासः शुद्धोऽन्यः” इति । मलत्वं च २५
कालाधिक्यात् । तथा च '''गुह्यपरिशिष्टे—'''“मलं वदंति कालस्य मासं कालविदोऽधिकम्” इति ।
अधिकमासं कालस्य मलं वदंतीत्यन्वयः । '''श्लोकगौतमः—'''
“ द्वौ मासावेकनामानावेकस्मिन्वत्सरे यदि । तत्राद्ये देवकार्याणि पितृकार्याणि चोभयोः”॥
इति राशिद्वयनिबन्धनात् द्वावित्युक्तिः । चैत्रायेकसंज्ञकत्वात् । एकनामानािविति तन्न आद्ये देवका-
र्याणीत्यस्य व्यवस्था वक्ष्यते '''चंद्रिकायाम्—''' ३०
“ अमावास्याद्वयं यत्र सूर्यसंक्रांतिवर्जितम् । एवं षष्टिदिनो मासस्तदधं तु मलिम्लुचः ॥
“ त्यक्त्वा तमुत्तरे कुर्यात्पितृदेवाब्दिकाः क्रियाः ” ॥ इति ।
'''व्यासः—'''
“ षष्ठ्या तु दिवसैर्मासः कथितो बादरायणैः । पूर्वार्धं तु परित्यज्य उत्तरार्धः प्रशस्यते ”॥ इति ।
'''गार्ग्यः—'''“ अधिमासः स विज्ञेयो मासः शुद्धस्य उत्तरः ” ॥ इति ।
{{rule}} १ ग-द्रो ।<noinclude></noinclude> jiquy9etxsgcbb3b87oas4e1vxjsc62 पृष्ठम्:Smriti mukta phalam.pdf/७६४ 104 166767 419788 2026-11-10T15:23:09Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७२४|'''तल्लक्षणम् ।'''|}} {{rule}} '''नारदः—'''“नष्टेंदुपर्वकालः स्यात्सूर्यसंक्रमणं यदि । तस्मिन्मासि पुनः पर्व स मासोऽधिकमासकः”॥ नष्टेंदुकलायुक्तदर्शकाले दर्शान्त... नवीन पृष्ठं निर्मीत अस्ती 419788 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७२४|'''तल्लक्षणम् ।'''|}} {{rule}} '''नारदः—'''“नष्टेंदुपर्वकालः स्यात्सूर्यसंक्रमणं यदि । तस्मिन्मासि पुनः पर्व स मासोऽधिकमासकः”॥ नष्टेंदुकलायुक्तदर्शकाले दर्शान्तकाल इत्यर्थः । दर्शान्तयुक्ते तस्मिन्नेव मासि पुनरपि दर्शान्तश्चेत्सोऽ- धिकमास इत्यर्थः । '''वसिष्ठसिद्धान्ते—''' “ द्वात्रिंशद्भिर्गतैर्मासैर्दिनैः षोडशभिस्तथा । घटिकानां चतुष्केण पतत्यधिकमासकम् ” ॥ इति । ५ '''विष्णुधर्मोत्तरेऽपि—''' “ सौरसंवत्सरास्यांते मासेन शशिन्रेन तु । एकादशातिरिच्यंते दिनानि भृगुनंदन ॥ “समाद्वये साष्टमासे तस्मान्मासोऽतिरुच्यते । स चाधिमासकः प्रोक्तः काम्यकर्मसु गर्हितः”॥ इति । सौरसंवत्सरं चान्द्रात् वत्सरादेकादशदिनैरधिकम् । तथा च सति चान्द्रवत्सरद्वयात् सौरवत्सरद्वयं द्वाविंशत्यादिनैरधिकं भवति । तत ऊर्ध्वं सौरमासाष्टकं चान्द्रमासाष्टकैः सार्धैः सप्तदशभिर्दिनैरति १० रिच्यते । अवशिष्टदिनार्थं च यथाकालादूर्ध्वं पूर्वोक्तषोडशभिर्दिनैः संपद्यते । तथा च मिलित्वा मासो भवति । सोऽयमधिको मास इत्यर्थः । '''स्मृत्यंतरेऽपि—'''“ सौरे वर्षे पंचमे पंचभिः स्यान्मासैर्युक्ते चाधिमासद्वयं हि ॥ “ द्वात्रिंशद्भिर्मासैकस्तत्र चैकः शिष्टैर्मासैः स्यात्तथैवापरोऽपि ” ॥ इति । '''ज्योतिःशास्त्रेऽपि—''' १५ “अब्दद्वयं षाण्मासाः षोडशाहं त्रिनाडिका । विनाड्यः पंचपंचाशदधिमासान्तरं स्फुटम्”॥इति। न च कालाधिक्यमात्रेण तिथ्यादिवृद्धेरपि मलत्वं प्रसज्येतेति शंकनीयम् । कालाधिक्ये सति नपुंसकत्वेन मलत्वांगीकारात् । नपुंसकत्वं च ज्योतिःशास्त्रेऽभिहितम्— “ असंक्री हि यो मासः कदाचित्तिथिवृद्धितः । कालांतरात्समायाति स नपुंसक इष्यते ” ॥ इति । पुरुषस्य सूर्यस्य तत्राभावाश्नपुंसकत्वम् । तदपि '''तत्रैवोक्तम्—''' २० “ अरुणः सूर्यो भानुस्तपनश्चंद्रो रविर्गभस्तिश्च । अर्यमा हिरण्यरेता दिवाकरो मित्रविष्णू च ॥ “ एते द्वादशसूर्या माघाद्येषूद्भवंति मासेषु । निःसूर्योऽधिकमासो मलिम्लुचाख्यस्ततः पापः ॥ “ मासेषु द्वादशादित्यास्तपंति हि यथाक्रमम् । नपुंसकेऽधिको मासि मंडलं तपते रविः ” ॥ इति । संक्रांतिरहितमासवत् संक्रांतिद्वययुक्तोऽपि चांद्रो मलमासः । तथा च काठकगृह्यम्— “ यस्मिन्मासे न संक्रांतिः संक्रांतिद्वयमेव वा । मलमासः स विज्ञेयो मासे त्रिंशत्तमे भवेत्”॥ इति । २५ ‘द्वात्रिंशद्भिर्गतैः मासैः’ इति पूर्वोक्तेन मासे त्रिंशत्तमे भवेदित्यस्य विरोधे सति समाहितं '''माधवीये—''' ज्योतिःशास्त्रप्रसिद्धं मध्यमं मानमाश्रित्य द्वात्रिंशद्भिरिति वचनं प्रवृत्तम् । यस्मिन्मास इति तु स्फुटमानमाश्रित्य प्रवृत्तमिति । '''चंद्रिकायां तु''' ‘ मासे त्रिंशत्तम ’ इत्येतत् त्रिंशन्मासादवार्क न संभवतीत्येवंपरमिति । '''महाभारते—''' “ पंचके पंचके वर्षे द्वौ मासावधिमासकौ । तेषां कालातिरेकेण ग्रहाणामधिचारतः” ॥ इति । ३० '''माधवीये''' त्वाक्षिप्य परिहृतम् । नन्वधिकमासः क्वचित्त्रिंशत्तमत्वं व्यभिचरति । न्यूनाधिक- संख्याया अपि दर्शनात् । नायं दोषः त्रिंशत्तमत्वस्य लक्षणत्वेनानंगीकारादुदाहरणप्रदर्शनायमेतदुक्त- मित्यविरोधः ” इति । '''सत्यव्रतः—''' “ राशिद्वयं यत्र मासे संक्रमेत दिवाकरः। नाधिमासो भवेद्दोषो मलमासस्तु केवलम् ” ॥ इति । '''ज्योतिःसिद्धांते—'''“ असंक्रांतिमासोऽधिमासः स्फुटः स्याद्विसंक्रांतिमासः क्षयाख्यः कदाचित् । “ कार्त्तिकादित्रये यो नान्यदा स्यात्तदा वर्षमध्येऽधिमासद्वयं च ” ॥ इति । {{rule}}<noinclude></noinclude> liq7bblrzai1ksz3yuxx4rtog1xcfsy 419789 419788 2026-11-10T15:24:03Z Myauthworks 10864 419789 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७२४|'''तल्लक्षणम् ।'''|}} {{rule}} '''नारदः—'''“नष्टेंदुपर्वकालः स्यात्सूर्यसंक्रमणं यदि । तस्मिन्मासि पुनः पर्व स मासोऽधिकमासकः”॥
नष्टेंदुकलायुक्तदर्शकाले दर्शान्तकाल इत्यर्थः । दर्शान्तयुक्ते तस्मिन्नेव मासि पुनरपि दर्शान्तश्चेत्सोऽ-
धिकमास इत्यर्थः । '''वसिष्ठसिद्धान्ते—'''
“ द्वात्रिंशद्भिर्गतैर्मासैर्दिनैः षोडशभिस्तथा । घटिकानां चतुष्केण पतत्यधिकमासकम् ” ॥ इति ।
५ '''विष्णुधर्मोत्तरेऽपि—'''
“ सौरसंवत्सरास्यांते मासेन शशिन्रेन तु । एकादशातिरिच्यंते दिनानि भृगुनंदन ॥
“समाद्वये साष्टमासे तस्मान्मासोऽतिरुच्यते । स चाधिमासकः प्रोक्तः काम्यकर्मसु गर्हितः”॥ इति ।
सौरसंवत्सरं चान्द्रात् वत्सरादेकादशदिनैरधिकम् । तथा च सति चान्द्रवत्सरद्वयात् सौरवत्सरद्वयं
द्वाविंशत्यादिनैरधिकं भवति । तत ऊर्ध्वं सौरमासाष्टकं चान्द्रमासाष्टकैः सार्धैः सप्तदशभिर्दिनैरति-
१० रिच्यते । अवशिष्टदिनार्थं च यथाकालादूर्ध्वं पूर्वोक्तषोडशभिर्दिनैः संपद्यते । तथा च मिलित्वा
मासो भवति । सोऽयमधिको मास इत्यर्थः ।
'''स्मृत्यंतरेऽपि—'''“ सौरे वर्षे पंचमे पंचभिः स्यान्मासैर्युक्ते चाधिमासद्वयं हि ॥
“ द्वात्रिंशद्भिर्मासैकस्तत्र चैकः शिष्टैर्मासैः स्यात्तथैवापरोऽपि ” ॥ इति ।
'''ज्योतिःशास्त्रेऽपि—'''
१५ “अब्दद्वयं षाण्मासाः षोडशाहं त्रिनाडिका । विनाड्यः पंचपंचाशदधिमासान्तरं स्फुटम्”॥इति।
न च कालाधिक्यमात्रेण तिथ्यादिवृद्धेरपि मलत्वं प्रसज्येतेति शंकनीयम् । कालाधिक्ये सति
नपुंसकत्वेन मलत्वांगीकारात् । नपुंसकत्वं च ज्योतिःशास्त्रेऽभिहितम्—
“ असंक्री हि यो मासः कदाचित्तिथिवृद्धितः । कालांतरात्समायाति स नपुंसक इष्यते ” ॥ इति ।
पुरुषस्य सूर्यस्य तत्राभावाश्नपुंसकत्वम् । तदपि '''तत्रैवोक्तम्—'''
२० “ अरुणः सूर्यो भानुस्तपनश्चंद्रो रविर्गभस्तिश्च । अर्यमा हिरण्यरेता दिवाकरो मित्रविष्णू च ॥
“ एते द्वादशसूर्या माघाद्येषूद्भवंति मासेषु । निःसूर्योऽधिकमासो मलिम्लुचाख्यस्ततः पापः ॥
“ मासेषु द्वादशादित्यास्तपंति हि यथाक्रमम् । नपुंसकेऽधिको मासि मंडलं तपते रविः ” ॥ इति ।
संक्रांतिरहितमासवत् संक्रांतिद्वययुक्तोऽपि चांद्रो मलमासः । तथा च काठकगृह्यम्—
“ यस्मिन्मासे न संक्रांतिः संक्रांतिद्वयमेव वा । मलमासः स विज्ञेयो मासे त्रिंशत्तमे भवेत्”॥ इति ।
२५ ‘द्वात्रिंशद्भिर्गतैः मासैः’ इति पूर्वोक्तेन मासे त्रिंशत्तमे भवेदित्यस्य विरोधे सति समाहितं '''माधवीये—'''
ज्योतिःशास्त्रप्रसिद्धं मध्यमं मानमाश्रित्य द्वात्रिंशद्भिरिति वचनं प्रवृत्तम् । यस्मिन्मास इति तु
स्फुटमानमाश्रित्य प्रवृत्तमिति । '''चंद्रिकायां तु''' ‘ मासे त्रिंशत्तम ’ इत्येतत् त्रिंशन्मासादवार्क न
संभवतीत्येवंपरमिति । '''महाभारते—'''
“ पंचके पंचके वर्षे द्वौ मासावधिमासकौ । तेषां कालातिरेकेण ग्रहाणामधिचारतः” ॥ इति ।
३० '''माधवीये''' त्वाक्षिप्य परिहृतम् । नन्वधिकमासः क्वचित्त्रिंशत्तमत्वं व्यभिचरति । न्यूनाधिक-
संख्याया अपि दर्शनात् । नायं दोषः त्रिंशत्तमत्वस्य लक्षणत्वेनानंगीकारादुदाहरणप्रदर्शनायमेतदुक्त-
मित्यविरोधः ” इति । '''सत्यव्रतः—'''
“ राशिद्वयं यत्र मासे संक्रमेत दिवाकरः। नाधिमासो भवेद्दोषो मलमासस्तु केवलम् ” ॥ इति ।
'''ज्योतिःसिद्धांते—'''“ असंक्रांतिमासोऽधिमासः स्फुटः स्याद्विसंक्रांतिमासः क्षयाख्यः कदाचित् ।
“ कार्त्तिकादित्रये यो नान्यदा स्यात्तदा वर्षमध्येऽधिमासद्वयं च ” ॥ इति ।
{{rule}}<noinclude></noinclude> 859ty3h2nf4xhqkrkuld155gulemc88 पृष्ठम्:Smriti mukta phalam.pdf/७६५ 104 166768 419790 2026-11-10T15:25:21Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''क्षयमासः ।'''|७२५}} {{rule}} '''अयमर्थः—'''
स्फुटमानेन योऽयमसंक्रांतः स स्फुटोऽधिमासः । तेनैव मानेन यो द्विसंक्रांतियुक्तः स क्षयमासः ।
स च कार्तिकमार्गशीर्षपौष... नवीन पृष्ठं निर्मीत अस्ती 419790 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''क्षयमासः ।'''|७२५}} {{rule}} '''अयमर्थः—'''
स्फुटमानेन योऽयमसंक्रांतः स स्फुटोऽधिमासः । तेनैव मानेन यो द्विसंक्रांतियुक्तः स क्षयमासः ।
स च कार्तिकमार्गशीर्षपौषमासेष्वेव त्रिष्वन्यतमेऽवतिष्ठते । नान्येषु माघादिनवसु । एवंविधक्षय-
मासयुक्ते वर्षे क्षयमासात्पूर्वं द्वित्रिमासेषु मध्ये कश्चिदधिमासो भवति । क्षयमासादूर्ध्वमपि मास-
त्रयमध्ये परोऽधिमासः । तदेवंविधमेकवर्षस्थं मलमासत्रयं चिरेण कालेन यदाकदाचिदायाति । ५
न त्वेकाधिकमासवत्पुनः पुनः सहसा समायाति । द्विसंक्रांतियुक्तोऽयं क्षयमासः । एकमासत्वादंहसः
पापस्य पतिरिति व्युत्पत्त्यांहस्पतिसंज्ञयापि व्यवह्रियते । तथा च '''बार्हस्पत्ये—'''
“यस्मिन्मासेन संक्रांतिः संक्रांतिद्वयमेव वा । संसर्पाहस्पती मासावधिमासश्च निंदितः ” ॥ इति ।
तत्र क्षयमासात्प्राचीनो योऽसंक्रांतः स संसर्पः । असंक्रांतत्वेनेतराधिमासवत्कर्मानर्हतायां प्राप्तायां
तदपवादेन कर्मार्हः सन् सम्यक्सर्पतीति संसर्पः । १०
“ मासद्वयेऽब्दमध्ये तु संक्रांतिर्न यदा भवेत् । प्राकृतस्तस्य पूर्वः स्यादधिमासस्तथोत्तरः ” ॥ इति
स्मरणात् । संक्रांतिरहितयोर्मासयोर्मध्ये यः पूर्वः स प्राकृतः शुद्धः सर्वकर्मार्ह इत्यर्थः ।
अस्मिन्नेवार्थे '''जाबालिः—'''
“एकस्मिन्नपि वर्षे चेत् द्वौ मासावधिमासकौ । प्राकृतस्तत्र पूर्वः स्यादधिमासस्तथोत्तरः”॥ इति ।
'''ब्रह्मसिद्धांतेऽपि—''' १५
“मासत्रये त्रिंशदूर्ध्वं संक्रांतिर्न यदा भवेत् । प्राकृतस्तत्र पूर्वः स्यादधिमासस्तथोत्तरः ” ॥ इति ।
चंद्रिकायामिदं व्याख्यातम्—त्रिंशन्मासादूर्ध्वं योऽसंक्रांतो मासः सोऽधिमासस्ततोऽवार्ग्यः संक्रान्तो
मासः स प्राकृतः । नाधिमास इति । ततः ससंसर्पत्वं तस्योपपन्नम् । असंक्रांतिमासद्वयमध्य-
वर्तिनः क्षयमासस्यांहस्पतित्वात्तदुत्तरभाविनोऽसंक्रांतस्य कालाधिक्येनाधिमासत्वान्मासद्वयमेत-
न्निंदितम् । त एते त्रयोऽपि ज्योतिःशास्त्रे विवाहादौ क्वचिन्निंदिताः । अत एवोक्तम्—“संसर्पाहि- २०
स्पतीमासावधिमासश्च निंदिताः” इति । यदा तु संक्रांतिद्वययुक्तः क्षयमास एक एव वा असंक्रांति-
रेक एव वाधिमासो भवति तदा तदुभयं वर्ज्यमित्युक्तं '''केशवीये—'''
“यस्मिन्मासि न संक्रांतिः संक्रान्तिद्वयमेव वा । संसर्पाहस्पती मासौ सर्वकर्मबहिष्कृतौ ” ॥ इति ।
'''नारदश्च—'''“संक्रांतिरहितो मासो यो वा संक्रांतियुग्मयुक् ।
“ पूर्वः संसर्पमासः स्यादंहस्पतिस्तथापरः । मलमासाविमौ प्रोक्तौ सर्वकर्मबहिष्कृतौ ” ॥ इति । २५
'''कालादर्शेऽपि—'''
“संक्रांतिरहितो मासो मलमासः प्रकीर्तितः । मलिम्लुचापराख्यं च संक्रांतिद्वययुक्तया”॥ इति ।
मलिम्लुच इत्यपराख्या संज्ञा यस्येति विग्रहः । संक्रांतिद्वययुगपि मासस्तथा मलिम्लुचो मास
इत्यर्थः । एवं च यस्मिन्संवत्सरे संक्रांतिरहितो मासः केवलो भवेत् तदाधिमासो वर्ज्यः । तदुत्तरो
मासः शुद्धस्तत्र यदिहितं कर्म “ उत्तरे मासि कारयेत् ” इति स्मरणात् । यदा द्विसंक्रांति- ३०
युक्तो मासो भवेत्तदा क्षयमासो वर्जनीयः । तत्पूर्वमासः शुद्धः
“ दर्शद्वयं यदैकस्मिन्सौरे संसर्पको भवेत् । अंहस्पतिर्यदैकस्मिंश्चांद्रे द्वौ संक्रमौ तथा ॥
“संसर्पोहस्पतिश्चेति द्विविधावधिमासकौ । मतौ पूर्वापरौ दुष्टौ परपूर्वौ शुभावहौ” ॥ इति
स्मरणात् । संसर्परूपोऽधिमासाख्यः पूर्वो दुष्टः । तदुत्तरः कर्मार्हः । अंहस्पतिरूपोधिमासाख्य
{{rule}} ९२-२३<noinclude></noinclude> t7z00kh267j99ajx2pxg8ha8qe4eel1 पृष्ठम्:Smriti mukta phalam.pdf/७६६ 104 166769 419791 2026-11-10T15:26:06Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७२६|'''मलमासः ।'''|}} {{rule}} इत्युत्तरो दुष्टः । तत्पूर्वो मासः शुभावह इत्यर्थः । संक्रांतिद्वययुक्तस्य क्षयमासस्य षष्टिदिनात्म-
कत्वाभावेन दिनाधिक्याभावेऽपि स... नवीन पृष्ठं निर्मीत अस्ती 419791 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७२६|'''मलमासः ।'''|}} {{rule}} इत्युत्तरो दुष्टः । तत्पूर्वो मासः शुभावह इत्यर्थः । संक्रांतिद्वययुक्तस्य क्षयमासस्य षष्टिदिनात्म-
कत्वाभावेन दिनाधिक्याभावेऽपि संक्रांतेरपि मासव्यपदेशकप्रयोजकत्त्या तदाधिक्येनात्राधि-
मासत्वव्यपदेशः । '''पितृमेधसारे—'''“ चांद्रात् सौरातिरेकेण संवत्सरः कदाचित्त्रयोदशमासः
स्यात्सोऽधिमासः । तत्र द्वौ मासावेकनामानौ षष्टिदिनात्मकौ । तत्राद्यः कर्मसु निंदितः । उत्तरस्तु
५ शुद्धश्चांद्रे मासैकस्मिन् द्वेधा संक्रमश्चेदंहस्पतिरत्रोत्तरो दुष्टः । सौरे चेत् द्वौ दर्शौ संसर्पो मलिम्लुच-
श्चाद्यो दुष्टः । तान्मलमासानाचक्षते । वर्षेऽप्येकस्मिन्यदि द्वौ मलमासौ पूर्वोऽसंक्रांतोऽपि
कर्मण्यः परो मलमासः इति । नन्वेकाधिकमासोपेतसंवत्सरस्य त्रयोदशमासात्मकत्वं यथा
तथा अधिमासद्वयोपेतसंवत्सरस्य चतुर्दशमासात्मकत्वं प्राप्तम् । न च तद्युक्तम् । अस्ति त्रयो-
दशो मास इत्याहुरितिवच्चतुर्दशमासस्याश्रूयमाणत्वान्नौष दोषः । असंक्रांतित्वेनाधिकप्रसक्ति-
१० युक्तयोर्मध्ये पूर्वस्याधिकमासत्वनिषेधात् । उक्तं '''ज्योतिःसिद्धान्ते—'''
“ यदा कन्यागते सूर्ये वृश्चिके वाथ धन्वनि । मकरे वाथ कुंभो वा नाधिमासो विधीयते” ॥ इति ।
अयमर्थः—वृश्चिकादिषु चतुर्षु मासेषु यदा मलमासः प्राप्नोति तदा सूर्ये तुलाकन्ययोर्वर्त्तमाने
सत्यसंक्रांतेऽपि नाधिमास इति । यैदा कन्यागत इत्युपलक्षणम् । पूर्वेषु प्रसक्तोऽसंक्रांतो
नाधिमासः । तदुक्तं '''ब्रह्मसिद्धांते—'''“ चैत्रादर्वाक् नाधिमासः परतस्त्वधिको भवेत् ” । चैत्रा-
१५ दारभ्य उपरितनेषु मासेषु यदा यौ कौ चित् द्वौ मासावसंक्रान्तौ तदा तयोर्वाचीनः पूर्वो
नाधिमासः । उत्तरस्तु भवत्यधिमास इत्यर्थः ।
'''स्मृत्यंतरे च—'''“ एकत्र मासद्वितयं यदि स्याद्वर्षेऽधिकं तत्र परोऽधिमासः ।
“ त्रयोदशं तु श्रुतिराह मासं चतुर्दशः क्वापि न चैव दृष्टम् ” ॥ इति ।
नन्वेवमपि द्विसंक्रांतियुक्तक्षयमासोपेतवत्सरस्य एकादशमासत्त्वं प्रसज्येत । तच्च “ द्वादश-
२० मासाः संवत्सरः । अस्ति त्रयोदशो मास इत्याहुः ” इत्यादि श्रुत्या विरुद्धमिति चेत् द्विसंक्रांति-
युक्तस्य क्षयस्य मासद्वयत्वेन परिगणनात् । तथा च '''कालनिर्णये—'''
“ तिथ्यर्धे प्रथमे पूर्वो द्वितीयेऽर्धे तदुत्तरः । मासाविति बुधैश्चित्यौ क्षयमासस्य मध्यगौ ” ॥ इति ।
क्षयमासस्य स्वतंत्रत्वेऽपि “ परपूर्वौ शुभावहौ ” इति वचनान्मासप्रयुक्तं कर्म पूर्वत्रमासे कर्त्त-
व्यम् । शुद्धमासवत्स्वतंत्रत्वात्तत्रैव कर्तव्यमिति केचित् । तदसाधु । “ संसर्पाहस्पतीमासौ सर्वकर्म-
२५ बहिष्कृतौ ” इति स्मरणात् । असंक्रांतेरधिमासस्य तु “ एवं षष्टिदिनो मासः पूर्वार्धं तु
मलिम्लुचः ” इति स्मरणेन उत्तरशेषत्वात् उत्तरमास एव कर्तव्यमिति चंद्रिकाकालादर्शकाल-
निर्णयपितृमेधसारादौ निरूपितम् ।
मलमासस्वरूपमभिहितम् । अत्र परस्परविरुद्धानि वचनानि संति तान्यप्यत्रैवार्थे कथं-
चियोजनीयानि । दुर्याेजनानि च त्याज्यानि । ननु श्रीधरीयादौ पूर्णिमाद्वययोगे तद्योगे च
३० मलमासत्वमुक्तम् । तथा हि—
“ अमा च पूर्णिमा चैव यन्मासि युगलं भवेत् । यस्मिन्न दृश्यते वापि चौलकर्मादि वर्जयेत् ॥
“ द्वितीयपूर्णिमायुक्तं विषमासं वदंति हि । पूर्णिमा च न दृश्येत मलमासः प्रकीर्तितः ॥
“एकमासे द्वे च पूर्णे दर्शस्त्वैकस्य संभवे । अग्निज्वालेति विख्याता शुभकर्मविनाशिनी” ॥ इति ।
{{rule}} १ ख-घट × ख-माय<noinclude></noinclude> 8qfo6sqpjihymxb4w4ux787p953gvkq पृष्ठम्:Smriti mukta phalam.pdf/७६७ 104 166770 419792 2026-11-10T15:27:24Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''मलमासे कर्तव्यानि ।'''|७२७}} {{rule}} अत्र व्यवस्थाभिहिता ज्योतिःशास्त्रे—
“ दर्शान्तः पूर्णिमान्तश्च चांद्रो मासो द्विधा मतः । जातिभेदाद्देशभेदात्तौ च मासौ व... नवीन पृष्ठं निर्मीत अस्ती 419792 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''मलमासे कर्तव्यानि ।'''|७२७}} {{rule}} अत्र व्यवस्थाभिहिता ज्योतिःशास्त्रे—
“ दर्शान्तः पूर्णिमान्तश्च चांद्रो मासो द्विधा मतः । जातिभेदाद्देशभेदात्तौ च मासौ व्यवस्थितौ ॥
“ दर्शान्तमासो यद्देशे तत्र दर्शप्रयुक्तितः । मलमासादिदोषः स्यान्नान्यदेश इति स्थितिः ॥
“ पौर्णमास्यंतमासोऽपि यस्मिन् देशे प्रवर्त्तते । तत्र तन्मलमासादिदोषो नान्यत्र विद्यते ॥
“ नर्मदादक्षिणे भागे दर्शान्तो मास इष्यते । नर्मदोत्तरभागे तु पूर्णिमांत इति स्थितिः॥ ५
“अमावास्यापरिच्छिन्नो मासः स्याद् ब्राह्मणस्य तु । संक्रांतिपौर्णमासाभ्यां तथैव नृपवैश्ययोः”॥ इति ।
यत्तु “ अंहस्पतिरवंतोषु संसर्पः कोसलेषु च । अधिमासस्तु पांचाले समह्राष्ट्रिस्तु भारते ” ॥ इति
तत् “ तस्मादाहिताग्निर्नादृतं वदेत् ” इतिवद्दोषाधिक्यप्रदर्शनपरम् । उक्तं च कालदीपे—
“ सर्वत्रदोषा दोषाः स्युर्दोषकालव्यवस्थिताः । तेषां तु तत्र तत्रैवा दोषाधिक्याय केवलम् ” ॥ इति ।
दर्शान्तचांद्रमासानुष्ठानामेव श्राद्धादौ मलमासदोषः । न तु सौरानुवादिनां तत्रैकसंज्ञमासद्वयाभावात् । १०
'''मलमासे कर्तव्यानि ।''' मलमासे कर्तव्यान्याह '''यमः—'''
“ गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके । सपिंडीकरणे नित्ये नाधिमासं विसर्जयेत् ॥
“ तीर्थस्नानं जपो होमो यवव्रीहितिलादिभिः । जातकर्मन्त्यकर्माणि नवश्राद्धं तथैव च ॥
“ मघोत्रयोदशीश्राद्धं श्राद्धान्यपि च षोडश । चंद्रसूर्यग्रहे स्नानं श्राद्धदानजपादिकम् ॥
“ कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा ” ॥ इति । गर्भे गर्भयुक्ते पुंसवनसीमंत इति १५
यावत् । वार्धुषिके “ अशीतिभागो वृद्धिः स्यान्मासिमासि सबंधके ” इत्यादिवचनोक्तवृद्धिसंग्रहणे ।
भृत्ये संवत्सरादिपर्यंतकालकृते भृत्ये । नित्ये नित्यदाने । होमोऽौपासनहोमः । अंत्यकर्माणि
दहनोदकपिंडदानास्थिसंचयनादीनि । '''गौतमः—'''
“ जातकर्मणि यच्छ्राद्धं नवश्राद्धं तथैव च । ग्रहणे पुंसुवादौ च तत्पूर्वत्रपरत्र च ” ॥ इति ।
निमित्तवशादिति वाक्यशेषः । '''कालनिर्णये—''' २०
“ जातकर्म च पुंसूतिसीमंतोन्नयनव्रतम् । मलिम्लुचेऽपि कुर्वीत निमित्तं यदि जायते ” ॥ इति ।
'''मरीचिः—'''
“ रोगे चालभ्ययोगे च सीमंते पुंसुवेऽपि च । यद्ददाति समुद्दिष्टं पूर्वत्रापि न दुष्यति ” ॥ इति ।
रोगे रोगशांतौ । अलभ्ययोगे अर्धोदयादिविहितश्राद्धादौ । '''मत्स्यपुराणे—'''
“ चंद्रसूर्यग्रहे चैव मरणे पुत्रजन्मनि । मलमासेऽपि देयं स्याद्दत्तमक्षयकारकम् ” ॥ इति । २५
'''सत्यतपाः—'''
“ मलिम्लुचाव्हये मासे विपत्तिर्यदि जायते । तस्मिन्नपि च कर्तव्या पिंडदानोदकक्रिया ” ॥ इति ।
'''चंद्रिकायाम्—'''
“ जातकर्माणि यच्छ्राद्धं दर्शश्राद्धं तथैव च । प्रतिसंवत्सरं यच्च पूर्वमासे प्रकीर्तितम्” ॥ इति ।
'''तत्रैव—''' ३०
“ श्राद्धजातकनामानि ये च संस्कारसङ्गताः । रोगशान्तिरलब्धैश्च योगैः श्राद्धं व्रतानि च ॥
“ मलिम्लुचेऽपि कर्तव्या इष्टीः काम्याश्च वर्जयेत् ” ॥ इति । संस्काराः अन्नप्राशनादयः । सङ्गता-
श्चातुर्मास्यव्रतादयः । '''कालादर्शे—'''
“ द्वादशाहसपिंड्यंतं कर्मग्रहणजन्मनोः । सीमंते पुंसुवे श्राद्धं द्वावेतौ जातकर्म च ॥
“ रोगशांतिरलभ्ये च योगो श्राद्धव्रतानि च । प्रायश्चित्तनिमित्तस्य वशात्पूर्वे परत्र च ” ॥ इति । ३५
{{rule}} १ ख-माष । २ ख-काम्य । ३ ग-सन्नताः ।<noinclude></noinclude> fe0yhnind577tbdk3guliu4upudyddf पृष्ठम्:Smriti mukta phalam.pdf/७६८ 104 166771 419793 2026-11-10T15:28:59Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७२८|'''वर्ज्यानि ।'''|}} {{rule}} द्वादशाहसपिंड्यंतं कर्म द्वादशाहकालीनम् । यत्सपिंडीकरणं तदंतं यस्येति विग्रहः । मरणादारभ्य
दहननग्नप्रच्छादनतिलोदकपिंडदाननवश्... नवीन पृष्ठं निर्मीत अस्ती 419793 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७२८|'''वर्ज्यानि ।'''|}} {{rule}} द्वादशाहसपिंड्यंतं कर्म द्वादशाहकालीनम् । यत्सपिंडीकरणं तदंतं यस्येति विग्रहः । मरणादारभ्य
दहननग्नप्रच्छादनतिलोदकपिंडदाननवश्राद्धद्वादशाहहोमषोडशश्राद्धसपिंडीकरणात्मकं कर्मेति यावत् ।
ग्रहणे पुत्रादिजन्मनि सीमंते पुंसुवे च विहितं श्राद्धं एतौ द्वौ पुंसवनसीमंतौ जातकर्म च आहिताग्ने-
रिष्टिः अनाहिताग्नेर्होमः प्रायश्चित्तं संध्यातिक्रमाद्वा प्रायश्चित्तं तन्निमित्तस्य वशाद्यद्वा पूर्वमासे
५ निमित्तमुत्पद्यते तदा पूर्वमासे कुर्यात् । यदा परमासे निमित्तमुत्पद्यते तदा परत्र । यदा मासद्वये
निमित्तमुत्पद्यते तदोभयत्रेत्यर्थः । अत्र द्वादशाहग्रहणं वत्सरांतसपिंडीकरणस्याप्युपलक्षणम्
“ श्राद्धं सपिंडनं कुर्यात्कालदोषं न चिंतयेत् । वर्षांते द्वादशाहे वा सपिंडीकरणं यदि ॥
“ गुरुभार्गवयोर्मौढ्ये बाल्ये वा वार्धकेऽपि वा । मलमासेऽपि कर्तव्याः क्रियाः पूर्वाश्च मध्यमाः ”॥
इत्यादि स्मरणात् । अन्ये तु
१० “ प्रेतस्य वत्सरादर्वाक् यथा संस्कारमिच्छति । न कालनियमो ज्ञेयो न मौढ्यं गुरुशुक्रयोः ”॥ इति
स्मरणात् । प्रागेवोक्तकाले त्रिपक्षादिसपिंडनेऽपि न कालनियम इत्याहुः । एवं च वत्सरात्पूर्वं
यत्कृत्यं तत्र नाधिमासदोष इति गम्यते । स्मृत्यर्थसारे—सपिंडीकरणात्प्रागेवोक्तकाले नैमित्तिक-
वृषोत्सर्गस्तत्र न मासादिदोष इति । यत्तु वसिष्ठवचनम्—
“ अग्न्याधेयं प्रतिष्ठां च यज्ञदानव्रतानि च । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥
१५ “ मांगल्यमभिषेकं च मलमासे विसर्जयेत् ” ॥ इति तत् “ कार्त्तिक्यां वैशाख्यां ग्रहणे
संक्रमे वा” इति बोधायनोक्तकाम्यवृषोत्सर्गविषयम् । तथा च तत्र वर्जनीयेषु मध्ये कालादर्श-
कारेण संगृहीतम्—“ आश्रमस्वीकृतिः काम्यवृषोत्सर्गश्च निष्क्रमः ” इति । तथा आद्यैकोद्दिष्टं
मलमासे कुर्यादाद्यमेकादशेऽहनि ।
“ एकादशेऽन्हि यच्छ्राद्धं तत्सामान्यमुदाहृतम् । एकादशेऽहनि श्राद्धं कुर्यादेवाविचारयन् ” ॥
२० इत्यादिभिः मृताहादेकादशाह एवाद्यैकोद्दिष्टविधानात् । तथा च जाबालिः—
“ एकराशौ स्थिते सूर्ये यदि मासो द्विधा भवेत् । एकोद्दिष्टं तु पूर्वत्र न परत्र कदाचन ” ॥ इति ।
कालादर्शकारेणेदं व्याख्यातम्—“ पूर्वमासस्थनिमित्ताधीनमेकोद्दिष्टं तत्र कृत्वा उत्तरत्र न
कुर्यात् ” इति । एवं च
“ सूतकांते नरः कुर्यादेकोद्दिष्टद्वयं बुधः । सूतके पतिते चापि स्वतंत्रं नातिलंघयेत् ” ॥ इति
२५ व्यासस्मरणात् । मध्ये सूतकांतरापाते स्वतंत्रं महैकोद्दिष्टमेकादशे कृत्वा आशौचापगमानंतर-
मावृत्त्यर्थं यथा क्रियते तद्वन्मलमासेऽप्येकादशाहे आद्यश्राद्धं कृत्वा शुद्धमासे त्वावृत्तायमून-
मासिकात्पूर्वं कुर्यात् । तथा च स्मृत्यर्थसारे—“ आद्यश्राद्धविघ्ने तु भार्गववारनंदाचतुर्दशीत्रि-
जन्मानि त्यक्त्वा ऊनमासिकात्पूर्वमनुष्ठेयम् ” इति । तथा च पराशरः—
“ अधिमासमृतानां तु आद्यमेकं समाचरेत् । शुद्धमासे तदावृत्तं शुद्धे चैवोनमासिकम् ” ॥ इति ।
३० एवं च षष्टिदिनात्मकसृतभासस्थद्वितीयतिथौ द्वितीयमासिकं कर्तव्यम् । तदा मृतमासात्पूर्वमासे
प्रथमाब्दिकं भविष्यति
“ बुधश्चांद्रमासस्यैवमामलेदिवसे सति । आद्याब्दिकं प्रकुर्वीत ” इति स्मरणात् ।
स्मृत्यंतरे—
“ आवृत्तिरभ्यमास्यानां द्वादशाहे सपिंडने । तथा नावर्सयेद्यार्थं मले त्वावृत्तिरिष्यते ” ॥ इति ।
{{rule}}<noinclude></noinclude> 12sutpcok3llw45bce9i9dnp4ejd16e पृष्ठम्:Smriti mukta phalam.pdf/७६९ 104 166772 419794 2026-11-10T15:30:44Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''तस्मिन् देयानि ।'''|७२९}} {{rule}} '''गभस्तिरपि—'''
“ एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते । तत्कार्यं पूर्वमासे च कालाधिक्येऽपि धर्मतः ” ॥ इति ।
अस्या... नवीन पृष्ठं निर्मीत अस्ती 419794 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''तस्मिन् देयानि ।'''|७२९}} {{rule}} '''गभस्तिरपि—'''
“ एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते । तत्कार्यं पूर्वमासे च कालाधिक्येऽपि धर्मतः ” ॥ इति ।
अस्यार्थः '''चंद्रिकायामुक्तः—'''“ एतत्सर्पिंडीकरणात्प्राक्तनमासिकविषयं च शब्दादुत्तरमासेऽपि
कार्यम् ” इति । एवं सपिंडीकरणादुत्तरभावीनि मासिकान्युभयत्र कार्याणि । तथा च '''हारीतः—'''
“ अधिमासे न कर्तव्यं श्राद्धमभ्युदयं तथा । तथैव काम्यं यत्कर्म वत्सरात्प्रथमादृते ॥ ५
“ सपिंडीकरणादूर्ध्वं यत्किंचिच्छ्राद्धिकं भवेत् । इष्टं वाऽप्यथवा पूर्तं तन्न कुर्यान्मलिम्लुचे ” ॥ इति ।
अस्यार्थः '''चंद्रिकायामुक्तः—'''“ सपिंडीकरणादूर्ध्वं यत्प्रथमवत्सरे प्रतिमासं क्रियमाणं त्रैपुरुषिकं
मासिकं श्राद्धं तन्मलिम्लुचेऽपि मासे कार्यमितिवक्तुं “ वत्सरात्प्रथमाहते ” इत्युक्तम् इति ।
अस्मिन्विषये '''वसिष्ठोऽपि—'''“ संवत्सरमध्ये यद्यधिकमासो भवेन्मासिकार्थं दिनमेकं वृद्धिं
नयेत् ” इति । '''सत्यव्रतः—''' १०
“ आद्यमंबुघटं दद्यादन्नमाज्येन संयुतम् । संवत्सरे विवृद्धेऽपि प्रतिमासं च मासिकम् ” ॥ इति ।
'''गभस्तिः—'''
“ न कुर्यान्मलमासे तु कर्म किंचित्कथंचन । मुक्त्वा नैमित्तिकश्राद्धं तद्धि तत्रैव कीर्तितम्”॥ इति ।
'''मरीचिरपि—'''
“प्रतिमासं मृताहे च यच्छ्राद्धं प्रतिवत्सरम् । मन्वादौ च युगादौ च तच्छ्राद्धमुभयत्र च”॥ इति । १५
'''संग्रहेऽपि—'''
“यौगादिकं मासिकं च श्राद्धं चापरपाक्षिकम् । मन्वादिकं तैर्थिकं च कुर्यान्मासद्वयेऽपि च”॥ इति ।
तैर्थिकमिति पूर्वदृष्टतीर्थविषयम् । अपूर्वदर्शनस्य निषिद्धत्वात् । तथा
“ मासिके समनुक्रांते चांद्रमाने तिथिद्वयम् । यदि स्यात्तत्र कुर्वीत मासिकद्वितयं क्रमात्”॥ इति ।
एकमेव मासिकं पूर्वत्र च परत्र च कुर्यादित्यर्थः । तथा च '''स्मृत्यंतरे—''' २०
“ अन्यमासे प्रमीतानां मलमासे समागमे । एकनाम्ना तु कर्तव्यं मासिकद्वयमीरितम्” ॥ इति ।
अन्यमासे अधिमासव्यतिरिक्तमासे । '''वृद्धवसिष्ठः—'''
“ श्राद्धीयेऽहनि संप्राप्ते अधिमासो भवेद्यदि । मासद्वयेऽपि कुर्वीत श्राद्धमेकं न दुष्यति” ॥ इति ।
'''व्यासः—'''
“ षष्ठिभिर्दिवसैर्मासः कथितो बादरायणैः । उत्तरे देवकार्याणि पितृकार्याणि चोभयोः ” ॥ इति । २५
'''श्लोकगौतमश्च—'''
“ द्वौ मासावेकनामानावेकस्मिन्वत्सरे यदि । उत्तरे देवकार्याणि पितृकार्याणि चोभयोः ” ॥ इति ।
एषु श्राद्धपितृकार्यशब्दौ मासिकादिश्राद्धपरः । त्रैपक्षिकोनमासिकविषये '''पितृमेधसारे'''
'''अभिहितम्—'''“ तत्तन्मासवृद्धौ त्रैपक्षिकमूनानि च पूर्वत्रैव परत्र न पुनः कुर्यात् ” इति ।
'''सुधीविलोचने''' व्याख्यातमेतत्—द्वितीयमासवृद्धौ मृताहात्त्रिपक्ष एव त्रैपक्षिकं कुर्यात् । न च ३०
परत्रमासे अत्रिपक्षत्वादेवं षष्ठमासवृद्धौ ऊनषाण्मासिकं षष्ठमास एव कुर्यात् । न च परमासे
तस्य सप्तमत्वात् । एवं द्वादशमासवृद्धावूनाब्दिकं द्वादशमास एव कुर्यात् । न त्रयोदशमासे ।
“ मृतेऽहनि तु कर्तव्यं प्रतिमासं तु मासिकम् ” इति मृताहतिथेर्नाधिकस्यैव प्रतिमासं
कर्तव्यत्वविधानात् ।
{{rule}}<noinclude></noinclude> 97jxgybkkf696g4mvs65os7y83fdtip पृष्ठम्:Smriti mukta phalam.pdf/७७० 104 166773 419795 2026-11-10T15:31:43Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७३०|'''प्रथमाब्दिकं तु कर्तव्यमेव ।'''|}} {{rule}} “त्रैपक्षिकोनषाण्मास्ये ऊनाब्दिकमथाचरेत् । एतेषामेव काले तु न पुनःकरणं भवेत् ” ॥ इति
ऊनानां पुनःकरणनिषेधात् । इत... नवीन पृष्ठं निर्मीत अस्ती 419795 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७३०|'''प्रथमाब्दिकं तु कर्तव्यमेव ।'''|}} {{rule}} “त्रैपक्षिकोनषाण्मास्ये ऊनाब्दिकमथाचरेत् । एतेषामेव काले तु न पुनःकरणं भवेत् ” ॥ इति
ऊनानां पुनःकरणनिषेधात् । इति । अन्ये तु ‘ षष्ठिभिर्दिवसैः ’ इति षष्ठिदिनानामेकमासत्वस्मरणेन
उत्तरमासानामपि आद्यषष्ठद्वादशमासत्वाद्वित्रिदिनैरूनेषु तु ऊनानां करणसंभवात्
“ संवत्सरे प्रवृद्धे च प्रतिमासं तु मासिकम् ” इति मासिकमात्रस्य प्रतिमासं कर्तव्यत्वविधानात्
५ “माघत्रयोदशीश्राद्धं श्राद्धान्यपि च षोडश । कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा ” ॥ इति
षोडशानामपि मासिकानामुभयत्र कर्तव्यत्वविधानात्
“एकादशेऽन्हि मास्यूने आद्ये षष्ठे तथांतिमे । प्रतिमासं मृतेऽन्ह्याब्दं स्युस्त्रिपक्षे च षोडश”॥ इति
त्रैपक्षिकोनमासिकानामपि षोडशमध्यपातित्वात्
“ श्राद्धं दर्शोऽप्यहरहः श्राद्धमूनादिमासिकम् । तर्पणं च निमित्तस्य नित्यत्वादुभयत्र च ” ॥ इति
१० कालादर्शकारेण ऊनादीनामुभयत्र विधानात्त्रैपक्षिकोनषाण्मास्ये इति पुनः करणनिषेधस्य ऊनानां
नापकर्षः स्यात्पुनरप्यपकर्षेणे इति वचनेन उत्सवाथर्थापकर्षविषयत्वप्रतीतेः पुनःकरणमात्र विषयत्वे
“ अर्वाक्संवत्सराद्यस्य सपिंडीकरणं कृतम् । षोडशानां द्विरावृत्तिं कुर्यादित्याह गौतमः ”
इत्यादिवचनविरोधप्रसंगात् । अतः आद्यश्राद्धादीनि षोडशमासिकानि मलमासे तदुत्तरमासे
चावृत्य कार्याणीत्याहुः ।
१५ प्रथमान्दिकविषये '''हारीतः—'''“असंक्रांतेऽपि कर्त्तव्यमाब्दिकं प्रथमं द्विजैः”॥ इति । स एव—
“असंक्रमे तु कर्तव्यमाब्दिकं मासिकं तथा । एवं सपिंडनांतं च वत्सरोऽथ घटादिकम् ” ॥ इति ।
'''लघु हारीतोऽपि—'''
“प्रत्यब्दे द्वादशे मासि कार्या पिण्डक्रिया सुतैः। क्वचित् त्रयोदशेऽपि स्यात् आद्यं मुक्त्वा तु वत्सरम्”॥
इति । पिण्डक्रिया मृताहश्राद्धे क्रिया । द्वादशे मासि पूर्णे सति त्रयोदशे मासीति यावत् ।
२० क्वचिदधिमासयुक्तवत्सरे त्रयोदशे मासि परिपूर्णे सति चतुर्दशमासीति यावत् । आद्यमान्दिकं
त्वधिमासवत्यपि संवत्सरे द्वादशे मासि पूर्णे सति कार्यं त्रयोदशे मासि कार्यमित्यर्थः ।
'''चंद्रिकायाम्—'''
“ आब्दिकं प्रथमं यत्स्यात्तत्कुर्वीत मलिम्लुचे । त्रयोदशे च संप्राप्ते कुर्वीत पुनराब्दिकम्”॥ इति ।
पुनराब्दिकं प्रत्याब्दिकम् । उत्तरे मासि संप्राप्ते कुर्वीतेत्यर्थः । अतः शुद्धमासमृतानां प्रथमान्दिकं
२५ मलमासागमे सति तत्र कर्तव्यम् । द्वितीयायाब्दिकं तु तदुत्तरे शुद्धमासे कर्तव्यम् । न पूर्वत्र
मलमासे । तथा च '''सत्यव्रतः—'''
“वर्षे वर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि । मलमासे न कर्तव्यं व्याघ्रस्य वचनं यथा ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ मासे संवत्सरे चैव तिथिद्वैधं यदा भवेत् । तत्रोत्तरा तिथिर्ग्राह्या न पूर्वा तु मलिम्लुचा ” ॥ इति ।
३० एवं च “ मलिम्लुचस्तु यो मासः स मासः पापसंज्ञकः ।
“ त्यक्त्वा तमुत्तरे कुर्यात्पितृदेवाब्दिकाः क्रियाः । वर्जितः पितृदेवाभ्यां स मासः पापसंज्ञितः ” ॥
इत्यादीनि वचनानि शुद्धमासमृतानां प्रत्याब्दिकविषयतया योजनीयानि । मलमासमृतानां तु
प्रत्याब्दिकं मलमासागमे सति तत्रैव कर्तव्यम् । तथा च '''भृगुः—'''
“मलमासे मृतानां तु यच्छ्राद्धं प्रतिवत्सरम् । मलमासे तु तत्कुर्यान्नान्येषां तु कथंचन ” ॥ इति ।
अन्येषामं शुद्धमासमृतानां मलमासे न कार्यम् । किंतु शुद्धमास एवेत्यर्थः ।
{{rule}}<noinclude></noinclude> 7seqpv7e8dwm4d3smzh3rs2yxsjpqit पृष्ठम्:Smriti mukta phalam.pdf/७७१ 104 166774 419796 2026-11-10T15:32:46Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अन्यानि वर्ज्यावर्ज्याणि ।'''|७३१}} {{rule}} '''सत्यतपाश्च—'''
“ वर्षे वर्षे तु यच्छ्राद्धं मृताहे तु मलिम्लुचे । कुर्यात्तत्र प्रमीतानामन्येषामुत्तरत्र तु ” ॥ इत... नवीन पृष्ठं निर्मीत अस्ती 419796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अन्यानि वर्ज्यावर्ज्याणि ।'''|७३१}} {{rule}} '''सत्यतपाश्च—'''
“ वर्षे वर्षे तु यच्छ्राद्धं मृताहे तु मलिम्लुचे । कुर्यात्तत्र प्रमीतानामन्येषामुत्तरत्र तु ” ॥ इति ।
'''पैठीनसिरपि—'''
“ मलमासमृतानां तु श्राद्धं यत्प्रतिवत्सरम् । मलमासे तु कर्तव्यमन्येषां तु कदाचन ” ॥ इति ।
एवं च ५
“ गर्भे वार्धुषिके भृत्ये प्रेते नित्येऽनुमासिके । आब्दिके च तथा श्राद्धे नाधिमासं विसर्जयेत् ॥
“ प्रतिसंवत्सरश्राद्धं मलमासे न वर्जयेत् । नित्यानि यानि कर्माणि निमित्तार्थानि यानि च ॥
“ एकसंज्ञौ यदा मासौ स्यातां संवत्सरे क्वचित् । तत्राद्ये पितृकार्याणि देवकार्याणि चोत्तरे ॥
“ द्वौ मासावेकनामानौ स्यातां संवत्सरे यदि । पूर्वत्र पितृकार्याणि देवकार्याणि चोत्तरे ” ॥ इति ।
कात्यायनप्रचेतःशातातपपैठीनसिवचनानि मलमासमृतविषयाणि । यत्तु गालववचनम्— १०
“ वर्षे वर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि । मासद्वयेऽपि तत्कुर्याद्व्याघ्रस्य वचनं यथा ” ॥ इति ।
यदपि मरीचिवचनम्—
“प्रतिमासं मृताहे यच्छ्राद्धं च प्रतिवत्सरम् । मन्वादौ च युगादौ च मासयोरुभयत्र च ” ॥ इति ।
यदपि कालादर्शे वचनम्—
“मलिम्लुचान्यमासेषु मृतानां श्राद्धमान्दिकम् । तर्पणं च निमित्तस्य नित्यत्वादुभयत्र च”॥ इति । १५
एवमादीन्युभयत्र सांवत्सरिकश्राद्धप्रतिपादकवचनानि मलमासे मृतानां प्रत्याब्दिकं मलमास एव
कर्त्तव्यम् । शुद्धमासमृतानां प्रथमान्दिकं मलमासे द्वितीयायाब्दिकं तु शुद्धमासे इत्येत-
न्निर्णयमभिप्रेत्य पितृकार्याणि चोभयोरित्यादिवचनानि प्रवृत्तानि । '''अपरार्के—'''
“ अधिमासमृतानां तु मृताहं तत्र नोत्तरे । अन्येषामुत्तरे कुर्यात्प्रथमं त्वधिके चरेत् ” ॥ इति ।
अन्यान्वपि वर्ज्यावर्ज्यकार्याणि कालादर्शकारः संग्रहोदाजहार— २०
“ आद्योदकुंभमन्वादि महालययुगादिषु । श्राद्धं दर्शोऽप्यहरहः श्राद्धमूनादिमासिकम् ॥
“ मलिम्लुचान्यमासेषु मृतानां श्राद्धमान्दिकम् । श्राद्धं च पूर्वदृष्टेषु तीर्थेषु च युगादिषु ॥
“ मन्वादिषु च यद्दानं दानं दैनंदिनं च यत् । तिलगोभूहिरण्यानां संध्योपासनयोः क्रियाः ॥
“ पर्वहोमाश्चाग्रयणं साग्नेरिष्टिश्च पर्वणोः । नित्याग्निहोत्रहोमश्च देवतातिथिभोजनम् ॥
“ स्नानं च स्नानविधिना चाभक्ष्यापेयवर्जनम् । तर्पणं च निमित्तस्य नित्यत्वादुभयत्र च ॥ २५
“ अनित्यमनिमित्तं च दानं च महदादिकम् । अग्न्याधानाध्वरापूर्वतीर्थयात्रामरेक्षणम् ॥
“ देवारामतटाकादिप्रतिष्ठामौंजिबंधनम् । आश्रमः स्वीकृतिः काम्यवृषोत्सर्गश्च निर्गमः ॥
“ राज्ञोऽभिषेकप्रथमचूडाकर्मव्रतानि च । अन्नप्राशनमारंभो गृहाणां च प्रवेशनम् ॥
“ स्नानं विवाहो नामातिपन्नदेवमहोत्सवः । व्रतारंभसमाप्ती च काम्यं कर्म च पाप्मनः ॥
“ प्रायश्चित्तं च सर्वस्य मलमासे विसर्जयेत् ॥ ३०
“ उपाकर्मोत्सर्जने च पवित्रदमनार्पणम् । अवरोहश्च हैमंतः सर्पीणां बलिरेष्टकाः ॥
“ ईशानस्य बलिर्विष्णोः शयनं परिवर्तनम् । दुर्गोत्स्वापनोत्थाने ध्वजोत्थानं च वह्रिणः ॥
“ पूर्वत्र प्रतिषिद्धानि परत्रान्यच्च दैविकम् ” इति । अत्र नित्यत्वादुभयत्र च इत्यंतेन
ग्रंथेन कर्तव्यं संगृहीतम् । अनित्यमनिमित्तं च इत्यारभ्य वर्जयेत् इत्यंतेन वर्जनीयसंग्रहः ।
उपाकर्मेत्यारभ्य परत्रान्यच्च दैविकम् इत्यंतेन मलमासे वर्जितानां शुद्धमासेऽवश्यकर्त्तव्यत्वेन ३५
संग्रहः । अत्र केषुचित्संशयवचनान्युक्तानि अवशिष्टेष्वप्युच्यते ।
{{rule}}<noinclude></noinclude> a9g0v1cf2m1pn95pd71m4id49z6j0xq पृष्ठम्:Smriti mukta phalam.pdf/७७२ 104 166775 419797 2026-11-10T15:34:05Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७३२|'''नित्याः क्रियाः ।'''|}} {{rule}} ननूदाहृते संग्रहवचने भाद्रपदापरपक्षश्राद्धस्याप्युभयत्र कर्तव्यता प्रतीयते । महालययुगा-
द्विष्विति तत्र पठितत्वात् । अन्... नवीन पृष्ठं निर्मीत अस्ती 419797 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७३२|'''नित्याः क्रियाः ।'''|}} {{rule}} ननूदाहृते संग्रहवचने भाद्रपदापरपक्षश्राद्धस्याप्युभयत्र कर्तव्यता प्रतीयते । महालययुगा-
द्विष्विति तत्र पठितत्वात् । अन्यत्रापि “ यौगादिकं मासिकं च श्राद्धं चापरपाक्षिकम् ” इति
उभयत्र कर्तव्यता प्रतीयते । सा च स्मृतिविरुद्धा । तथा च काठकगृह्ये—
“ महालयाष्टकाश्राद्धोपक्रमाद्यपि कर्म यत् । स्पष्टमासविशेषाख्यविहितं वर्जयेन्मले ” ॥ इति ।
५ भृगुरपि—
“वृद्धिश्राद्धं तथा सोममग्न्याधेयं महालयम् । राज्याभिषेकं काम्यं च न कुर्याद्भानुलंघिते”॥ इति ।
पराशरः—
“यातुधानप्रियो मासः कन्यार्के जायते यदि । पित्र्यं दैवं तथा कर्म ह्युत्तरे मासि युज्यते” ॥ इति ।
यातुधानप्रियः अधिमास इत्यर्थः । पितामहश्च—
१० “ सोमयागादिकर्माणि षष्ठीष्टाग्रयणं तथा । महालयाष्टकाश्राद्धे मलमासे विसर्जयेत् ” ॥ इति ।
षष्ठीष्टिः काठकशाखादौ प्रसिद्धा । ज्योतिःपराशरः—
“ सिनीवालीमतिक्रम्य यदा कन्यां व्रजेद्रविः । तदा कालस्य वृद्धत्वादतीतेव पितृक्रिया” ॥ इति ।
अतीतेव पंचमपक्षातिक्रांतेत्यर्थः । नागरखंडे—
“ नभो वाथ नभस्यो वा मलमासो यदा भवेत् । सप्तमे पितृपक्षः स्यादन्यत्रैव तु पंचमः ” ॥ इति ।
१५ एवं चोभयत्रानुष्ठानमयुक्तम् । कालनिर्णयादौ परिहृतमेतत् । संग्रहवाक्ये महालयापरपाक्षिक-
शब्देन मघात्रयोदश्याविवक्षितत्वान्न दोष इति । ‘ मघात्रयोदशीश्राद्धं श्राद्धान्यपि च षोडश ’
इति । तस्योभयत्रानुष्ठानमभिहितम् । यत्तु पराशरवचनम्—
“मासः कन्यागते भानावसंक्रांतो यदा भवेत् । पित्र्यं दैवं तदा कर्म तुलास्थे कर्तुरक्षयम् ” ॥ इति
तत्पूर्वोक्तकाले श्राद्धानुष्ठानासम्भवे द्रष्टव्यं तस्य गौणकालत्वात् । दर्शश्राद्धमधिमासेऽपि कर्तव्यम्
२० “ जातकर्मणि यच्छ्राद्धं दर्शश्राद्धं तथैव च । प्रतिसंवत्सरं यच्च पूर्वमासे प्रकीर्तितम् ” ॥ इति
स्मरणात् । यत्तु ऋष्यशृंगवचनम्—
“संवत्सरातिरेकेण मासो यः स्यान्मलिम्लुचः । तस्मिन् त्रयोदशे श्राद्धं न कुर्यादिंदुसंक्षये ” ॥ इति ।
अत्र विरोधः परिहृतः कालादर्शे नास्ति विरोधः काम्यश्राद्धविषयत्वादस्य निषेधस्य । संभवति
हि दर्शे काम्यश्राद्धं ‘ कन्यां कन्यादिन ’ इत्यादिना तिथिवारनक्षत्रविहितम् । तेन काम्यश्राद्ध-
२५ विषयोऽयमृष्यशृंगनिषेध इति । चंद्रिकायां तु ऋष्यशृंगवचनमन्यथापठितम् “ तस्मिंश्चत्रयोदशे
श्राद्धं न कुर्यान्नोपतिष्ठते ” इति । मत्स्यपुराणे—
“ दर्शे चाहरहःश्राद्धं दानं च प्रतिवत्सरम् । गोभूमितिलहिरण्यानां मासे च स्यान्मलिम्लुचे ” ॥ इति ।
मैत्रेयसूत्रे—“ मासद्वये यथैकराशिं संक्रमेतादित्यस्तत्राद्यो मलिम्लुचः शुद्धोऽन्यः पार्वणेष्टिरग्नि-
होमः अग्निहोत्राग्रयणं संध्योपासनं पार्वणस्थालीपाकश्च यान्यन्यानि नित्यानि इहापि यत्नेन
३० क्रियंते ” ॥ इति । यत्तु पैठीनसिवचनम्—
“ श्रौतस्मार्तक्रियाः सर्वा द्वादशे मासि कीर्तिताः । त्रयोदशे तु सर्वास्ता निष्फला इति विश्रुताः ॥
“ तस्मात् त्रयोदशे मासि कुर्यात्तन्न कथंचन । कुर्वन्ननर्थमेवाशु कुर्यादात्मविनाशनम् ” ॥ इति
अत्र निष्फला इत्यभिधानात्फलकामनया प्रवृत्तं कर्म निषिद्धं इति गम्यते । तथा च स्मृत्यंतरम्—
“ इष्टादि सर्वं काम्यं तु मलमासे विसर्जयेत् ” ॥ इति । न च सर्वास्ता इत्यभिधानात्
{{rule}}<noinclude></noinclude> 1r964954qvlrtaez20v5zm2qnfdjnvf पृष्ठम्:Smriti mukta phalam.pdf/७७३ 104 166776 419798 2026-11-10T15:35:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अनन्यगतिकानि कर्तव्यानि ।'''|७३३}} {{rule}} नित्यनैमित्तिकयोरपि निषेधः शंकनीयः—“ नित्यनैमित्तिके कुर्यात्प्रयतः स मलिम्लुचे ” इति
बृहस्पतिवचनात् । जाबालिनाप... नवीन पृष्ठं निर्मीत अस्ती 419798 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अनन्यगतिकानि कर्तव्यानि ।'''|७३३}} {{rule}} नित्यनैमित्तिकयोरपि निषेधः शंकनीयः—“ नित्यनैमित्तिके कुर्यात्प्रयतः स मलिम्लुचे ” इति
बृहस्पतिवचनात् । जाबालिनापि तथैवोक्तम्—
“ नित्यं नैमित्तिकं चैव श्राद्धं कुर्यान्मलिम्लुचे । तिथिनक्षत्रवारोक्तं काम्यं नैव कदाचन ” ॥ इति ।
योऽयं मलमासे काम्यनिषेधः असावारंभसमाप्तिविषयः
“ असूयी नाम ये मासा न तेषु मम संमता । व्रतानां चैव यज्ञानां आरंभश्च समाप्तये ” ॥ ५
इत्यारंभसमाप्त्योरेवाधिमासे प्रतिषेधादारंभसमाप्त्योर्मध्यपातित्यधिमासेऽपि तद्वारब्धं काम्यमनुष्ठेयम् ।
“ अधिमासे निपतितेऽप्येष एव विधिः स्मृतः ” इति स्मरणात् ।
यत्तु काठकगृह्ये समाप्तिप्रतिपादकवचनम्—
“ प्रवृत्तं मलमासात्प्राक्काम्यं कर्म समाप्तितम् । आगते मलमासेऽपि तत्समाप्त्यै न संशयः ” ॥ इति
तत्सावनमासप्रवृत्तकृच्छ्रचांद्रायणादिविषयं तत्रावश्यकं तु यत्काम्यं कर्म तन्मलमासेऽप्यनुष्ठेयम् । १०
तद्यथा—“प्रक्रांते मलमासे यदि कश्चिद्बालग्रहब्रह्मराक्षसादिना गृह्यते तदा ‘ अग्नये रक्षोघ्ने
पुरोडाशमष्टाकपालं निर्वपेत् ’ इति विहिता रक्षोघ्नेष्टिः सद्य एव कर्त्तव्या । मलमाससमाप्ति-
प्रतीक्षायां बालादिमरणप्रसंगात् । यद्वा वृष्ट्यभावात्सस्यानि शुष्यंति मलमासश्चागतः तदा
‘ कारीर्या वृष्टिकामो यजेत ’ इति विहितेष्टिर्न कालविलंबं सहते । एवमन्या इष्टयः स्मार्तान्य-
प्यावश्यकान्युदाहरणीयानि । नित्यनैमित्तिकयोरपि यदनन्यगतिकं यस्यातिक्रमे प्रायश्चित्त- १५
प्राप्तिर्यस्य च मासांतरे विहितकालालाभः तदेव मलमासे कार्यम् “ अनन्यगतिकं नित्यं कुर्या-
न्नैमित्तिकं तथा ” इति स्मरणात् । काठकगृह्येऽपि —
“ मलेऽनन्यगतिं नित्यां कुर्यान्नैमित्तिकीं क्रियाम् ” इति । चंद्रिकायाम् —
“ मलं वदंति कालस्य कालं कालविदोऽधिकम् । नेह कुर्याद्विशेषेण्यामन्यत्रावश्यकद्विधेः ” ॥ इति ।
अनन्यगतिकानि च नित्यानि गुह्यपरिशिष्टे उदाहृतानि २०
“ अवश्यंके १ द्वारहोमश्च पर्व चाग्रयणं तथा । मलमासे तु कर्त्तव्यं काम्या इष्टीस्तु वर्जयेत् ” ॥ इति ।
अवश्यंके द्वारहोमः अग्निहोत्रौपासनवैश्वदेवाद्यः । पर्व दर्शपूर्णमासौ पार्वणस्थालीपाकश्च । दर्शादीनां
नित्यत्वं अकरणे प्रत्यवायश्रवणात् । कालांतरनिमित्तप्रायश्चित्ताम्नानादवगंतव्यम् । तथा चाथर्व-
णिका आम्रनंति “ यस्याग्निहोत्रमदर्शमपौर्णमासमनाग्रयणं न तिथिवर्जितं चाहुतं वैश्वदेवम् ।
विधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति ” ॥ इति । तैत्तिरीयकेऽपि— २५
“ अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां पौर्णमासीं वाति-
पादयेत् ” इति । गत्यंतरयुक्तानि तु नित्यानि तत्र वर्ज्यानि । तदुक्तं काठकगृह्यपरिशिष्टे—
“ सोमयागादिकर्माणि नित्यान्यपि मलिम्लुचे । षष्ठीष्ट्याग्रयणाधानचातुर्मास्यादिकान्यपि ॥
“ महालयाष्टकाश्राद्धोपाकर्माद्यपि कर्म यत् । स्पष्टमासविशेषाख्यविहितं वर्जयेन्मले ” ॥ इति ।
न चाग्रयणस्य गतिकागतिकयोरुदाहरणं विरुद्धमिति शंकनीयम् । तस्य मलमासे विकल्पितत्वात् । ३०
तदाह पैठीनसिः—“संक्रांतिरहिते मासि कुर्याद्वाग्रयणं न वा” इति । अनन्यगतिकानि नैमित्तिकानि
ग्रहणस्नानादीनि । तेषां मलमासेऽपि कर्तव्यतामाह यमः—
“ चंद्रसूर्यग्रहे स्नानं श्राद्धं दानं जपादिकम् । कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा ” ॥ इति ।
सगतिकानि नैमित्तिकानि जातेष्ट्यादीनि ‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते ’ इति
{{rule}} १ क-नित्य ।
९२–२४<noinclude></noinclude> f2dm4e9old94m7rbqx65q7oonwd8e1k पृष्ठम्:Smriti mukta phalam.pdf/७७४ 104 166777 419799 2026-11-10T15:35:56Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सायकाशां तु न कार्यम्।'''|७३४}} {{rule}} विहिताया इष्टेरशाचेऽ्यसिते यथानुष्ठानं तद्नन्मलमासेऽप्यवसितेऽनुष्ठानं तु शक्यत्वाद्वगतिलवम् ।
'''इंस्तोऽपि—'''
“ साव... नवीन पृष्ठं निर्मीत अस्ती 419799 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सायकाशां तु न कार्यम्।'''|७३४}} {{rule}} विहिताया इष्टेरशाचेऽ्यसिते यथानुष्ठानं तद्नन्मलमासेऽप्यवसितेऽनुष्ठानं तु शक्यत्वाद्वगतिलवम् ।
'''इंस्तोऽपि—'''
“ सावकाशं तु यत्कार्यं न कुर्यान्मासि दूषिते । कुर्यान्निरवकाशं तु नित्यं नैमित्तिकं तथा ” ॥ इति ।
'''वृद्धगार्ग्योऽपि—'''
“ नामानप्राशनं चौलं विबाहो मौजिबंधनम् । निष्कामजातकर्मापि काम्यं व्रतविसर्जनम् ॥
“अस्तगे च गुरौ शुक्रे वृद्धे बाले मलिम्लुचे । उपाधयनमुपारंभं व्रतानां नैव कारयेत् ” ॥ इति ।
जातकर्मादीनां चौलपूर्वभाविनां निषेधः स्वकालातिपत्तिविषयः । तथा '''गार्ग्यः—'''
“ नामकर्म च जातेिंदं यथाकालं समाचरेत् । अतिपाते तु कुर्वीत प्रशस्ते मासि पुण्यभे ” ॥
'''अग्निः—'''
“ मासप्रोकेषु कार्येषु मूढत्वं गुरुशुक्रयोः । अधिमासादिदोषाश्च न स्युः कालविधेर्बलात् ॥
“ गर्भादिप्राशनांतानि प्रासकालकं न लंघयेत् ” ॥ '''बृहस्पतिः—'''
“ बाले वा यदि वा वृद्धे शुक्रे चास्तं गते गुरौ । मलमास इवैतानि वर्जयेद्वेदर्शनम् ” ॥ इति ।
'''गार्ग्यः—'''
“ अनादिदेवतादृष्ट्वाशुचि स्यान्नष्टभार्गवे । मलमासेऽप्यनावृत्ततीर्थयात्रां विसर्जयेत् ” ॥
'''मात्स्येऽपि—'''
“ आधानं यज्ञकर्माणि प्रायश्चित्तं व्रतनिच । न कुर्यान्मलमासेऽपि शुक्रगुर्वांतपप्लवे ” ॥ इति ।
दर्शपूर्णमासाग्निहोत्राणां यक्षतैवऽपि प्रथमानुहानमेव तेषां निषिद्धम् । तथा च स्मृत्यंतरे—
“ आरंभदर्शपूर्णयोर्महिहोत्रस्य चोदितम् । प्रतिष्ठापनकर्मार्था मलमासे विवर्जयेत् ” ॥ इति ।
'''ज्योतिःशास्त्रे—'''
“ तत्र दत्तमतं स्याद्भुतं न हुतमेव च । सुझसमप्यजतं स्यात्त्रोपवासः कुतो भवेत् ॥
“ न यात्रा न विवाहं च न च वास्तुनिवेशनम् । न प्रतिष्ठां च देवानां प्रासादग्रामभूरोहाम् ॥
“ न हिरण्यं सुवासोसि धारयेदिति निश्चयः ” ॥ इति । '''वृद्धवसिष्ठः—'''
“ वापीकूपतटाकानां प्रतिष्ठा यज्ञकर्म च । न कुर्यान्मलमासे तु महादानव्रतानि च ” ॥ इति ।
महादानानि तुलापुरुषादीनि षोडश कनकादीनि दश । एतच्च पूर्वं निरूपितम् । '''हारीतः—'''
“ उपक्रमं वृषोत्सर्गं काम्यमुत्सवमणकाः । मासि बुद्धौ पराः कार्या वर्जयितत्वा तु पैतृकम् ” ॥ इति ।
'''मरीचिः—''' “ गृहप्रवेशगोदानस्नानआश्रममहोत्सवन् । न कुर्यान्मलमासे तु गुरो शुक्रे तथास्तगे ” ॥
शुक्रबृहस्पतिर्मौढ्यादिप्रतिपादनपूर्वकं मलमासवर्ज्यानि । तत्रातिदिशति '''कालादर्शकारः—'''
“ मिहिरेण सहात्यतं सैनिकर्षद्बृहस्पतेः । कवेशादर्शनं यत्न्न्मौढ्यमाहुर्महर्षयः ॥
“ ततोऽर्ग्वाथर्कं मौढ्यादूर्ध्वं बाल्यं प्रकीर्तितम् । पक्षः प्राक् दिशि वृद्धत्वं पश्चात् पंचदिनं कवेः ॥
“ शैशवं प्राक् पंचाहं पश्चाहशदिनं स्मृतम् । शैशवं वार्धकं पक्षः प्राक्पश्चाच्च वृहस्पतेः ॥
“ मलिम्लुचे निषिद्धानि कर्माण्यपि वर्जयेत् ” इति । मिहिरः सूर्यः । कवेः शुक्रस्य । प्राग्विशि-
वृद्धत्वं पक्षः पंचदशदिनानि पश्चात् प्रतीच्यां दिशि पञ्चदिनं वृद्धत्वं स्मृतम् । शैशवं बाल्चं
प्राक् प्राच्यां दिशि पंचदिनं स्मृतम् । पश्चात् प्रतीच्यां दिशि दशदिनं स्मृतम् । प्राच्यां प्रतीच्यां
दिशि च वार्धकं शैशवं च बृहस्पतेः पक्षः । “ मलिम्लुचे निषिद्धानि कर्माणि गुरुशुक्रयोः ” मौढ्ये
<noinclude></noinclude> 9b3m98tt2rjn1zkrc9ixkwhjoa5fwcb पृष्ठम्:Smriti mukta phalam.pdf/७७५ 104 166778 419800 2026-11-10T15:37:48Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७३५|'''वर्षाश्राद्धनिर्णयः ।'''|}} {{rule}} वार्धकशैशवयोरापि वर्जयेदित्यर्थः । “ दशाहं शुक्रवार्धक्ये सप्ताहं वार्धकं भवेत् । शुक्रः पञ्चदिनं
वृद्धः ” इत्यादिभेद... नवीन पृष्ठं निर्मीत अस्ती 419800 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७३५|'''वर्षाश्राद्धनिर्णयः ।'''|}} {{rule}} वार्धकशैशवयोरापि वर्जयेदित्यर्थः । “ दशाहं शुक्रवार्धक्ये सप्ताहं वार्धकं भवेत् । शुक्रः पञ्चदिनं
वृद्धः ” इत्यादिभेदस्तु गणितभेदपेक्षया । वाक्यकरणं गणितसारं परहितस्फुटं दृग्गणितं चेति
गणितभेदाः । तेषु भेदेषु दश दिनानि पौर्वापर्येणास्तमयानि भवन्ति क्रमेण दिनत्रयतारतम्यम् ।
मलमासस्यैव द्विषाढासंज्ञकं विशेषमाह '''वृद्धमिहिरः—'''
“ माधवाेषु षट्स्वेकमासि दर्शद्वयं यदा । द्विषाढाः स विज्ञेयः शेते कर्कटकेऽच्युतः ” ॥ ५
“ मेषादिमिथुनांतेषु यदा दर्शद्वयं भवेत् । अब्दांतरे तदावश्यं मिथुनार्थे स्त्रपेत् ” ॥
“ कर्कटादिव्रिकें वापि यदा दर्शद्वयं भवेत् । अब्दांतरे तदावश्यं कर्कटाके स्त्रपेत् ” इति ।
अधिमाসে क्षयमासेपि वर्ज्यावर्जिविवेकसमान इत्युक्तं काठकगृह्ये—
“ रविसंक्रमहीने यो वर्ज्यावर्ज्य विधिः स्मृतः । स एव तद्विसंक्रांतौ मलमासेऽप्युदीरितः ” ॥ इति १०
'''कालादर्शोऽपि—'''
“ मलमासे द्विसंक्रांतौ संक्रांतिरहिते तथा । कार्यवर्ज्यविवेकः स्यादिति शास्त्रविदो विदुः ” ॥ इति ।
तदेवं कार्याकार्यविवेकः पञ्चधा संपन्नः । तत्र किंचिन्मलमास एव कर्तव्यम् । तद्यथा मलमास-
मृतानां यदाकदाचित्प्रत्याब्दिककर्मन्यमासमृतानां प्रथमाब्दिकं च किंचित्तु शुद्धमास एव कर्तव्यं
तथयोपाकर्मादि । किंचिदुभयत्रापि कर्तव्यं तथ्याब्दोदकुंभादि । किंचिदुभयोरन्यतरस्मिन्निमित्त-
वशात्कर्तव्यं तथ्या द्वादशाहादिपिंडादि । किंचिन्मलमासे वर्ज्यं तथ्या नित्यमनित्यं चेत्यादि १५
अनित्यमनिमित्तम् । इति मलमासनिर्णयः ॥
'''दर्शश्राद्धनिर्णयः ।''' अथामावासाश्राद्धम् । तत्र लोकाक्षिः—
“श्राद्धं कुर्याद्वक्ष्यसं तु प्रमीतपितृको द्विजिः । इंदुक्षये मासि मासि वृद्धौ प्रत्यब्दमेव च ” इति ।
'''मनुः—''' ( ३।१२७ )—
“प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये । तस्मिन्मुक्त्यस्नैति नित्यं प्रेतकृत्य हि लौकिकी” ॥ २०
विधुक्षये अमावास्यायां यत्पित्र्यं नाम कर्म क्रियते सैषा प्रेतकृल्येति प्रथिता लोके !
प्रेताः पितृपितामहादयः तदर्था क्रिया प्रेतकृत्या लौकिकी लोकविदिता प्रेतकृत्या तस्मि-
न्यिधुक्षये युक्तस्य श्रद्धानस्य नित्यं प्रतिमासमिति आगच्छति कर्तव्यत्वेनोपतिष्ठते इत्यर्थः ।
'''गौतमोऽपि''' ( १४।१०२ )—“ अथ श्राद्धममावास्यायां पितृभ्यो दद्यात् ” इति । '''हारीतोऽपि—'''
“ यथाकथंचिन्नितानि कुर्याद्दिंक्षयादिषु ” इति । '''विष्णुपुराणे—''' २५
“ श्राद्धं श्रद्धान्वितः कुर्वन्नीणयत्यखिलं हि तत् । मासि मास्यसिते पक्षे पंचदश्यां नृनेश्वर ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ प्रमीतापितृकः कुर्याद्दर्शान्दिकमहालयान् । जनन्यामपि जीवंत्यामेष धर्मः सनातनः ” ॥
'''व्यासोऽपि—'''
“ न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजाः । इंदुक्षये मासि मासि प्रायश्चितीत्यते हि सः ” ॥ इति ३०
'''कार्ष्णाजिनिः—'''
“ दर्शे स्नात्वा पितृभ्यस्तु दद्यात्कृष्णतिलोदकम् । अन्नं च विधिबड्यासांतस्तेन वर्धते ॥
“ दर्शश्राद्धमतिक्रम्द्य यो भुंके तु नराधमः । चंडालत्वमवाप्नोति जन्मानि नव पंच च ” ॥ इति ।
'''पितामहोऽपि—'''
{{rule}} १ कस्वग-कर्तव्यम् ।<noinclude></noinclude> nhle9rssbhlmk2gac471uwqo61eqrq9 पृष्ठम्:Smriti mukta phalam.pdf/७७६ 104 166779 419801 2026-11-10T15:39:37Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''व्यतीपातः ।'''|७३६}} {{rule}} “ अमावास्याव्यतीपातपौर्णमास्येष्वासु च । विद्वान् श्राद्धमकुर्वाणः प्रायश्चीनीयते तु सः ” ॥ इति ।
व्यतीपातलक्षणमुक्तं माधवीये—<br... नवीन पृष्ठं निर्मीत अस्ती 419801 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''व्यतीपातः ।'''|७३६}} {{rule}} “ अमावास्याव्यतीपातपौर्णमास्येष्वासु च । विद्वान् श्राद्धमकुर्वाणः प्रायश्चीनीयते तु सः ” ॥ इति ।
व्यतीपातलक्षणमुक्तं माधवीये—
“ श्रवणाऽश्विविधनिष्ठाद्रानादैवतम्स्तकैः । यथमा रविवारेण व्यतीपात: स उच्यते ” इति ।
नागदैवतमाश्लेष्यानक्षत्रम् । मस्तकं मृगशिरः । यथामावास्या श्रवणादीनाममन्यतमक्षत्रेण रविवारेण
५ च युक्ता स व्यतीपात इत्यर्थः । एतेषु वचनेषु नित्यत्वसाधकनित्यादिपदश्रवणादिष्टिकादि-
श्राद्धं नित्यम् । नित्यत्वसाधकानि च कालनिर्णये दर्शितानि—
“ नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत् । इत्युक्त्यातिक्रमे दोषश्रुतेरत्यागचोदनात् ॥
“ फलश्रुतेर्वैप्ल्या च तन्मित्यमिति कीर्तिंतम् ” ॥ इति । अत्र चोद्देश्यदेवताः पितृपितामहप्रपिता-
महाः । मातामहमातृपितामहमातृप्रपितामहाश्च
१० “ दर्शश्राद्धं तु यत्प्रोक्तं पार्वणं तत्रकीर्तितम् । सपिंडीकरणं कृत्वा कुर्यात्पार्वणवत्सदा ” ॥ इति
शातातपस्मरणात् । “ त्रीनुद्दिश्य तु यत्त्वद्धि पार्वणं मुनयो विदुः ” इति कण्वस्मरणाच्च
दर्शश्राद्धस्य पार्वणत्वेन तत्र पित्रादीनां त्रयाणामुद्देश्यत्वम् ।
“ पितृमातामहांश्रैव द्विजः श्राद्धेन तर्पयत् । अष्टुणः स्थायितृणां तु ब्रह्मलोकं स गच्छति ॥
“ कृत्वा तु पैतृकं श्राद्धं पितृप्रभृतिषु त्रिषु । कुर्यान्मातामहानां च तथैवानुष्यकारणात् ॥
१५ “ पितरो यत्र पूज्यंते तत्र मातामहा अपि । अविशेषेण पूज्याः स्युर्विशेषात्नरकं व्रजेत ॥
“ पार्वणं कुरुते यस्तु केवलं पितृहेतुतः । मातामहान्न कुरुते पितृहा स प्रजायते ” ॥
याज्ञवल्क्येन कालस्तु अमावास्यादिनोदितः—
“ अविशेषेण पित्र्यस्य तथा मातामहस्य च । अमावास्यादिकालेषु तद् ज्ञेयं न मृतेऽहनि ॥
“ अमावास्यादिकालेषु कालैकत्वात्सह क्रिया । मृताहनि तु तद्भेदान्न युज्येत सह क्रिया ॥
२० “ कर्षूसमन्वितं मुक्त्वा तथाऽश्राद्धषोडशम् । प्रत्याब्दिकं च शेषेषु पिंडाः स्युः षडिति स्थितिः ”॥
इत्यादिस्मरणार्शमहालयादिषु मातामहादीनां त्रयाणामप्युद्देश्यत्वं सिद्धम् । न च छात्र:मात्रादीनां
मातामहादीनां च पृथगुद्देश्यत्वमस्ति । ‘ अष्टकासु च वृद्धौ च ’ इत्यादिना अष्टकादिभ्योऽन्यत्र
दर्शश्राद्धे तनिषेधस्योक्तत्वात् । न च ‘ अन्यत्र पतिना सह ’ इति वचनात्सपत्नीकानां करणं
कार्यमिति वाच्यम् । तासामुद्देश्यत्वभावेऽपि पतिभोजनेन सह तासामपि तृप्तिर्भवतीति चंद्रिकादौ
२५ तस्य व्याख्यातत्वात् । अतोऽष्टकादिभ्योऽन्यत्र दर्शश्राद्धे पृथगुद्देश्यत्वं सपत्नीकत्वेनोद्देश्यत्वं च
नास्तीति निबंधेषु निर्णीतम् । यत्तु
“ सपत्नीकत्वहानेऽपि पितृदर्शं समाचरेत् । पितामहादिषु तथा सपत्नीकत्वसंभवात् ” ॥ इति
तम्मातरि जीवंत्यापि पित्रादीनां पितामहादीनां तिसृणां च दर्श पिंडतिलोदकदानं कार्यमित्येवं
परम् । तदुकं चंद्रिकायाम्—
३० “ न मातुः पृथक्श्राद्धं मुनिभिर्यत्र कीर्तितम् । पत्युः पिंडोदकं साद्धी भुंक्ते याऽनपकारिणी ” ॥
यत्तु विष्णुवचनम्—“ यानुद्देश्य भवेच्छ्राद्धं तेभ्यस्तर्पयति द्विजः ” इति तत्प्रत्याब्दिक-
विषयम् ।
“ प्रत्यब्दांगे तिलं दद्यान्निषिद्धेऽपि परेऽहनि । वर्गैकस्य वचो येषामन्येषां तु विवर्जयैत् ” ॥ इति
स्मरणात् । येषां वच उद्देश्यत्वोक्तिरित्यर्थः । एवं चामावास्यायां मात्रादीनामुद्देश्यत्वं नास्ति ।
{{rule}}<noinclude></noinclude> eh9pjs67tvkd06fv78bvfk0alqfpdwk पृष्ठम्:Smriti mukta phalam.pdf/७७७ 104 166780 419802 2026-11-10T15:41:34Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''श्राद्धात्पूर्वं तिलोदकम् ।'''|७३७}} {{rule}} पित्रादीनां भोजने सपत्नीकत्वेन वरणमपि नास्ति । तिलोदकं पिंडदानं च अस्ति मात्रादीनां
मातामहादीनां च । शिष्टाचारोऽ... नवीन पृष्ठं निर्मीत अस्ती 419802 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''श्राद्धात्पूर्वं तिलोदकम् ।'''|७३७}} {{rule}} पित्रादीनां भोजने सपत्नीकत्वेन वरणमपि नास्ति । तिलोदकं पिंडदानं च अस्ति मात्रादीनां
मातामहादीनां च । शिष्टाचारोऽपि तथैवेत्याहुः । स्मृत्यंतरे—
“स्वभर्तृप्रभृतित्रिभ्यः स्वपित्रादिभ्य एव च । विधवा कारयेच्छ्राद्धं नित्यं नैमित्तिकं तथा ” ॥ इति ।
तिलोदकं दर्शे श्राद्धात्पूर्वं कार्यम्
“ अमाष्टकासु संक्रांतौ पातादौ ग्रहणेष्षु च । स्नात्वा तिलोदकं दत्त्वा ततः श्राद्धं समाचरेत् ॥ ५
“ दर्शे तिलोदकं पूर्वं पश्चाद्द्यान्महालये । प्रत्यब्दे तु कृते श्राद्धे परेऽहनि तिलोदकम् ” ॥
इत्यादि स्मरणात् । दर्शप्रत्याब्दिके सति विशेष उक्तः स्मृत्यन्तरे—
“ आब्दिके समनुप्राप्ते दर्शश्चित्तर्पणं ने हि । ब्राह्मणान्भोजयेत्पूर्वं पिंडात्पूर्वं तु तर्पणम् ” ॥ इति ।
हारीतः—
“ वसित्वा वसनं शुक्लं स्थल आस्तीर्णबर्हिषि । विधिज्ञस्तर्पणं कुर्यात्सर्वान्मितृगणांस्तया ” ॥ इति । १०
स्मृत्यंतरे—
“ दर्शे तिलोदकं दद्याच्छुष्कवासा जलाद्बहिः । तर्पयेद्रार्द्रवासाश्चेत् त्रिरात्रमशुचिर्भवेत् ” ॥
मरीचिः—“उपरागे पितृश्राद्धे तीर्थेऽमायां च संक्रमे । निषिद्धेऽपि हि सर्वत्र साक्षतैस्तर्पयेत्तिलैः”॥
कात्यायनः—“ सव्यान्वारब्धेन पाणिना तर्पयेत्तिलाभावे सुवर्णेन दर्भैर्वा यत्राशुचिस्थलं वा
दर्भहीनं वा काममप्सु तर्पयेत् । तिलग्रहणे तर्जन्यंगुष्ठयोगं वर्जयेत् । सा राक्षसी मुद्रा । १५
दक्षिणांगुष्ठेनैवांजलौ तिलान्निक्षिपेत् ” इति । योगयाज्ञवल्क्यः—
“ आवाह्य पूर्वं तन्मंत्रैरास्तीर्य च कुशाञ्छुभान् । गोत्रनामस्वधाकारैस्तर्पयेदनुपूर्वशः ” ॥ इति
“ आयात पितरः ” इति पितॄनावाह्य “ सकृदाच्छिञ्त्रम् ” इति दर्भानास्तीर्य तेषु वत्सगोत्रान्
यज्ञशर्माणः पितॄन्स्वधा नमस्तर्पयामि इति तर्पयेदित्यर्थः । चन्द्रिकायाम्—
“सव्यं जानु ततोऽन्वाच्य पाणिभ्यां दक्षिणामुखः । तल्लिङ्गैस्तर्पयेन्मन्त्रैः सर्वान् पितृगणांस्तथा ॥ २०
“उदीरतामंगिरस आयंत्वित्यूर्जम् इत्यपि । पितृभ्य इति ये चेह मधुवाता इतित्युचम् ॥
“पितॄन्ध्यायन्प्रसिंचेद्दै जपेन्मंत्रान्न्यथाक्रमम् । तृप्यध्वमिति च पठेत्ततः प्रांजलिरानतः ॥
“ नमो व इति जप्त्वा वै ततो मातामहानपि । तर्पयेद्ब्राह्मणस्थार्थं परमं धर्ममास्थितः ॥
“ गोत्रनामस्वधाकारैस्तर्पयेदनुपूर्वशः ” ॥ इति । स्मृत्यन्तरे—
“तर्पयेत् तिलसंमिश्रं पितॄनुद्दिश्य वाग्यतः । आसीनः प्राङ्मुखः कुर्याद्दक्षिणाभिमुखोऽञ्जलिम्”॥इति। २५
अत्र प्राङ्मुखत्वदक्षिणभिमुखत्वयोर्विकल्पः । सर्वमेतन्निरूपितमधस्तात् । जीवपितृको मातरि
मृतायामपि दर्शादिश्राद्धं तर्पणं च न कुर्यात् । प्रमीतपितृकस्तु जीवंत्यामपि मातरि कुर्यात् ।
तत्र लोकाक्षिः—
“ अमाभ्राद्धं गयाश्राद्धं श्राद्धं चापरपाक्षिकम् । न जीवपितृकः कुर्यात्तिलैः कृष्णैश्च तर्पणम् ॥
“ प्रमीतपितृकः कुर्याद्दर्शान्दिकमहालयान् । जनन्यामपि जीवंत्यामेष धर्मः सनातनः ” ॥ ३०
ऋतुश्च—“अन्वष्टकासु संक्रांतौ मन्वादिषु युगादिषु । चंद्रसूर्यग्रहे पाते स्वेच्छया पूज्ययोगतः ॥
“ जीवत्पिता नैव कुर्याच्छ्राद्धं काम्यं तथाखिलम् ” ॥ इति । कात्यायनः—
“ सपितुः पितृकृत्येषु ह्यधिकारो न विद्यते । न जीवन्तमतिक्रम्य किंचिद्दद्यादिति श्रुतिः ”॥ इति ।
कालादर्शोऽपि—“न जीवपितृकः कुर्यात् श्राद्धं दर्शादि चोदितम्”॥इति। अस्यापवाद उक्तस्तत्रैव—
{{rule}} १ क-र्ध्वम् । २ क्ष-अमाष्टकासु ।<noinclude></noinclude> ksanmulvvxdj58ylnvnwemvopv5sji1 पृष्ठम्:Smriti mukta phalam.pdf/७७८ 104 166781 419803 2026-11-10T15:44:10Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७३८|'''दर्शश्राद्धकालनिरणयः ।'''|}} {{rule}} “ पित्रेष्ट्यां पितृयज्ञे च वृद्धौ मातुर्मृतेऽहनि । विप्रसंपदि तीर्थेषु सोऽपि श्राद्धं समाचरेत् ॥
“ पितुर्या देवता प्... नवीन पृष्ठं निर्मीत अस्ती 419803 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७३८|'''दर्शश्राद्धकालनिरणयः ।'''|}} {{rule}} “ पित्रेष्ट्यां पितृयज्ञे च वृद्धौ मातुर्मृतेऽहनि । विप्रसंपदि तीर्थेषु सोऽपि श्राद्धं समाचरेत् ॥
“ पितुर्या देवता प्रोक्तास्ता एवात्र च देवताः । मृताहे मातरः शेषे सर्वा एव प्रकीर्तिताः”॥ इति ।
पित्र्येष्ट्यां चातुर्मास्येषु पित्र्येष्टिर्नामास्ति । तस्यां पितृयज्ञे पिंडपितृयज्ञे । वृद्धौ विवाहादिनिमित्तायां
मातृमृताहे । विप्रसंपदि त्रिमधुस्त्रिसुपर्ण इत्यादिगुणयुक्तविप्रसंभवे । तीर्थेषु महानदीस्नानेषु च
५ गयास्थानस्य तीर्थत्वेऽपि निषेधान्न तत्र कुर्यात् । सोऽपि जीवत्पिता पितृश्राद्धं कुर्यात् । पितृकर्तृक
श्राद्धे या देवताः प्रोक्तास्ता एवात्र पुत्रकर्तृकेऽपि श्राद्धे देवताः । मातुर्मृताहे मातरो देवताः ।
शेषे पित्र्येष्ट्यादिश्राद्धकर्मणि सर्वा देवता इत्यर्थः । तदुक्तं मैत्रेयगृह्यपरिशिष्टे—
“ उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौभिके मखे । तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः ॥
“ महानदीषु तीर्थेषु सर्वासु च गयामृते । जीवत्पिताऽपि कुर्वीत श्राद्धं पार्वणधर्मवत् ” ॥ इति ।
१० हारितः—
“ येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः । अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि ” ॥ इति ।
व्याध्यादिनिमित्ताशक्त्या सर्वांगयुक्तं श्राद्धं कर्तुमक्षमो दर्शश्राद्धौ संकल्पश्राद्धं कुर्यात् ।
कालादर्श—
“ अशक्त्या पार्वणं श्राद्धं यथावत्कर्तुमक्षमः । पिंडार्घ्यादिविहीनं तु संकल्पश्राद्धमाचरेत् ” ॥ इति ।
१५ स्मृत्यंतरेऽपि—
“अङ्गानि यस्तु दशद्रिर्यद्वा कर्तुं न शक्नुयात् । संकल्पश्राद्धमेवासौ कुर्यादर्घ्यादिवर्जितम् ”॥ इति ।
आपस्तंबेऽपि—“ संकल्पश्राद्धे अर्घ्यावाहनाग्निकरणपिंडदानानि वर्जयेत् ” ॥ इति । संग्रहे—
“ संकल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् । विकिरश्च न दातव्यः पिंडांश्चैव न निर्वपेत् ”॥ इति ।
शातातपः—“ पिंडनिर्वपरहितं यत्तु श्राद्धं विधीयते । स्वधानयनलोपोऽत्र विकिरश्च विलुप्यते ।
२० “ अक्षव्यदक्षिणास्वस्ति सौमनस्यं यथास्थितम् ” ॥ इति । स्मृत्यंतरे—
“ आवाहनाग्नौकरणं स्वधानिनयनं तथा । विकिरं पिंडदानं च संकल्पे पंच वर्जयेत् ” ॥ इति ।
“ अज्ञाश्वेद्रव्यवेळायामापदि ब्राह्मणोत्तमः । संकल्पेन विधानेन कुर्याच्छ्राद्धं न पार्वणम् ” ॥ इति
आवाहनशब्देन मंत्रावाहनमुच्यते । मानसावाहनस्य न निषेधः । स्वधानिनयनमर्घ्यदानम् ।
शेषं व्यक्तम् ।
२५ '''दर्शश्राद्धकालनिर्णयः ।''' अथ दर्शश्राद्धकालः । पार्वणत्वातस्य कर्मकालत्वमपराह्नस्य
कुतपस्य प्रारंभिकत्वमित्येतदान्दिके निर्णये प्रपंचितम् । तथा सत्यपराह्नस्य मुख्यकर्मकालत्वा-
त्पूर्वेद्युरेव वापरेद्युरेव वाऽपराह्नव्यापिन्यमावास्या ग्रहीतव्या । पूर्वेद्युरेवापराह्नव्याप्तौ जाबालिः—
“ पूर्वाह्णे चेदमावास्या नापराह्णे भवेद्यदि । भूतविद्धैव सा ग्राह्या पितृकार्येषु सर्वदा ” ॥ इति ।
प्रतिपदि पूर्वाह्णे भवेच्चेदपराह्णे यदि न भवेदित्यर्थः । तथा—
३० “ प्रतिपद्यप्यमावास्या पूर्वाह्णव्यापिनी यदि । भूतविद्धैव सा ग्राह्या पित्र्ये कर्मणि सर्वदा ” ॥ इति ।
हारीतोऽपि—
“सस्यां संध्यागतः सोमो मृणाल इव दृश्यते । अपराह्णे तदा तस्यां पिंडानां करणं ध्रुवम्”॥ इति ।
याज्ञवल्क्यः —“यो यस्य विहितः कालस्तत्कालव्यापिनी तिथिः ” ॥ इति ।
{{rule}}<noinclude></noinclude> jt269wwq4u2d3zh1gwatdwh9tl6nmh5 पृष्ठम्:Smriti mukta phalam.pdf/७७९ 104 166782 419804 2026-11-10T15:45:50Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सिनीवालीकुहूः ।'''|७३९}} {{rule}} यत्तु काष्णाजिनिनोक्तम्—
“ भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा । श्राद्धकर्मणि ये कुर्युस्तेषामायुः प्रहीयते ” ॥ इति ।
... नवीन पृष्ठं निर्मीत अस्ती 419804 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सिनीवालीकुहूः ।'''|७३९}} {{rule}} यत्तु काष्णाजिनिनोक्तम्—
“ भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा । श्राद्धकर्मणि ये कुर्युस्तेषामायुः प्रहीयते ” ॥ इति ।
तदपराह्नव्याप्त्यभावविषयं द्रष्टव्यम् । अपराह्नव्यापिन्या उत्तरतिथेर्ग्राह्यतामाह हारीतः—
“ अपराह्नः पितॄणां तु याऽपराह्नानुयायिनी । सा ग्राह्या पितृकार्ये तु न पूर्वाह्णानुयायिनी ” ॥
अस्तमयकालव्यापिनी पूर्वा न ग्राह्येत्यर्थः । उभयत्रापराह्नव्यापित्वं द्वेधा भिद्यते । एकदेशेन ५
कात्स्न्र्येन वेति । एकदेशव्याप्तिश्च द्वेधा भिद्यते । वैषम्येण साम्येन चेति । तत्र वैषम्येणैकदेश-
व्याप्तौ महत्त्वेन निर्णयः
“ अपराह्नद्वयव्यापिन्यमावास्या यदा भवेत् । तत्राल्पत्वमहत्त्वाभ्यां निर्णयः पितृकर्मणि ” ॥
इति स्मरणान्महत्येव ग्राह्येत्यभिप्रायः । तथा च शिवराजवसंवादे—
“अल्वापराह्ने त्याज्याऽमा ग्राह्या स्यादधिका भवेत्”॥ इति । साम्येनोभयत्रैकदेशव्याप्ति- १०
स्तत्तिथिगतवृद्धिक्षयसाम्यैस्त्रिधा भिद्यते । तत्र खर्वादिdateशास्त्रेण निर्णयः । खर्वादिवाक्यं च पूर्व-
मुक्तम् । तच्च सर्वतिथिसाधारण्येन प्रवृत्तत्वादमावास्यायामपि वर्त्तते । तथाऽमावास्यायामेव
विशेषेण शिवराजवसंवादे स एवार्थो दर्शितः—
“अमावास्या तु या हि स्यादपराह्नद्वये समा । क्षये पूर्वा परा वृद्धौ साम्येऽपि च परा स्मृता”॥ इति ।
स्मृत्यंतरेऽपि— १५
“तिथिक्षये सिनीवाली तिथिवृद्धौ कुहूमता । साम्येऽपि च कुहूर्ज्ञेया वेदवेदांगवेदिभिः”॥ इति ।
चतुर्दशीमिश्रा सिनीवाली प्रतिपन्मिश्रा कुहूः । तथा च व्यासः—
“ दृष्टचंद्रा सिनीवालो नष्टचंद्रा कुहूर्गता ” ॥ इति । नारदोऽपि—
“अपराह्नद्वयव्यापिन्यमावास्या यदा भवेत् । क्षये पूर्वा तु कर्त्तव्या वृद्धौ साम्ये तथोत्तरा”॥ इति ।
कात्स्न्र्येनोभयत्रापराह्नव्याप्तावपि तिथिवृद्धित्वात्कुहुरेव ग्राह्या । यदा दिनद्वयेऽप्यपराह्नं न २०
स्पृशति तदा साग्न्यनग्निभेदेन व्यवस्था द्रष्टव्या । तथाह जाबालिः—
“अपराह्नद्वयव्यापी यदि दर्शः तिथिक्षये । आहिताग्नेः सिनीवाली निरग्नन्यादेः कुहूमता” ॥ इति ।
आदिशब्दात्स्त्रीशूद्रयोर्ग्रहणम् । तथा च लोकाक्षिः—
“सिनीवाली द्विजैः कार्या साग्निकैः पितृकर्मणि । स्त्रीशूद्रैश्च कुहूर्ज्ञेया तथा चानग्निकैर्द्विजैः”॥ इति ।
एवं शास्त्रार्थे व्यवस्थित सति अन्यानि बहुविधानि सर्वाणि वचनानि प्रोक्तेषु अमावास्याभेदे- २५
ष्वन्यतमविषयत्वेन यथायोग्यं योजनीयानि । तथा हि तत्र तावद्बोधायन आह—
“ मध्यान्हात्परतो यत्र चतुर्द्दश्यनुवर्त्तत । सिनीवाली तु सा ज्ञेया पितृकार्येषु निष्फला” ॥
बृहस्पतिरपि—
“मध्यान्हाद्या त्वमावास्या परस्तात्संप्रवर्तते । भूतविद्धा तु सा ज्ञेया न सा पंचदशी भवेत्”॥ इति ।
अत्र मध्यान्हादूर्ध्वमपराह्णमतिक्रम्य परस्तादमावास्या प्रवर्त्तत इति व्याख्येयम् । तदेतद्वचनद्वयं ३०
परेद्युरेवापराह्नव्याप्तौ योजनीयम् । यत्तु बोधायनवचनम्—
“ घटिकैकाऽप्यमावास्या प्रतिपत्सु न चेत्तदा । भूतविद्धैव सा ग्राह्या दैवे पित्र्ये च कर्मणि”॥ इति ।
प्रतिपत्सु घटिकैकापि कर्मकालसंबंधिनी यदि न स्यादित्यर्थः । तदेतद्वचनं पूर्वेद्युरेवापराह्नव्याप्तौ
द्रष्टव्यम् । यच्च हारीतेनोक्तम्—
“पूर्वाह्णे चेदमावास्या अपराह्ने न चेत्तु सा । प्रतिपद्यपि कर्त्तव्यं श्राद्धं श्राद्धविदो विदुः ”॥ इति ।
{{rule}}<noinclude></noinclude> 8s03l0j6befmocqwekshrxfux6bo4cx पृष्ठम्:Smriti mukta phalam.pdf/७८० 104 166783 419805 2026-11-10T15:47:01Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७४०|'''दिनद्वयव्यापिन्याममावास्यायाम् ।'''|}} {{rule}} दिनद्वयेऽप्यपराह्नव्याप्त्यभावे सति कुतपकालव्यापित्वेन अनग्निकेन परदिने कर्तव्यमित्येवं-
परम् । तथा च ते... नवीन पृष्ठं निर्मीत अस्ती 419805 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७४०|'''दिनद्वयव्यापिन्याममावास्यायाम् ।'''|}} {{rule}} दिनद्वयेऽप्यपराह्नव्याप्त्यभावे सति कुतपकालव्यापित्वेन अनग्निकेन परदिने कर्तव्यमित्येवं-
परम् । तथा च तेनैवोक्तम्—
“भूतविद्धा त्वमावास्या प्रतिपन्मिश्रिताऽपि वा । पित्र्ये कर्मणि विद्वद्भिर्ग्राद्या कुतपकालिकी”॥ इति ।
श्लोकगौतमोऽपि—
५ “ पूर्वाह्णे चेत्प्रतिपदो भूते सायममा यदि । आरभ्य कुतपे श्राद्धं रौहिणं नैव लंघयेत् ” ॥ इति ।
भृगुरपि—
“ मध्यंदिनं पितॄणां यदमावास्यांत्यलित्रिका । तस्माद्यदन्हि पर्वांतस्तत्र श्राद्धं समाचरेत्”॥ इति ।
यत्र मध्यान्हे दर्शावसानं तत्र श्राद्धमित्यर्थः । यत्तु भरद्वाजवचनम्—
“ यदि संगवकालस्पृगममावास्यांत्यनाडिका । तदा तस्मिन्दिने श्राद्धं कुर्यात्पूर्वेद्युरन्यथा”॥ इति ।
१० यदपि नारदवचनम्—
“ संगवस्पृगममावास्या चेदहन्येव पार्वणम् । ऊना चेद्धटिकाष्टकाद्भवोत् पूर्वदिने विधिः ” ॥ इति ।
तद्दमाश्राद्धविषयम् । तच्च वक्ष्यते । यत्तु हारीतवचनम्—
“ कन्यामकरमीनेषु तुलायां मिथुने तथा । भूतविद्धैव सर्वेषां पूज्या भवति यत्नतः ” ॥ इति ।
तद्व्रतविषयम् । तथा च जाबालिः—
१५ “ तुलायां मकरे मीने कन्यायां मिथुनेऽप्यमा । भूतविद्धा व्रते ग्राह्या शेषेषु प्रतिपद्युता ” ॥ इति ।
सर्वमेतत्संगृहीतं कालनिर्णये—
“ श्राद्धेऽपराह्नकालीनो दर्श आब्दिकवन्मतः । दिनद्वयेऽप्येकदेशवृद्धौ ग्राह्यो महत्त्वतः ॥
“ तुल्यत्वं चेदेकदेशे क्षये पूर्वोऽन्यथोत्तरः । कृत्स्नव्याप्तौ द्वयोरन्होरुत्तरास्तिथिवृद्धितः ॥
“साग्न्यनग्निव्यवस्था स्यान्न स्याच्चेदपराह्रणयोः । पूर्वेद्युः साग्निकः कुर्यादितरेद्युरनग्निकः” ॥ इति ।
२० अत्र दिनद्वयेऽप्यपराह्णे स्पर्शाभावपक्षे साग्न्यनग्निव्यवस्था कृता षद्धर्मिायै—
“ दर्शो यत्रापराह्णं स्पृशति स दिवसः श्राद्धकालो द्वयोश्चेत्
“ यत्रानल्पः स तु स्याद्यदि भवति समः क्षीयमाणे तु पूर्वः ।
“ वृद्धौ साम्येऽप्यनग्नेर्युवतिवृषलयोश्च श्व एवाहिताग्नेः
“ पूर्वो न त्वापराह्णं स्पृशति स कुतपः श्राद्धकालः प्रशस्तः ” ॥ इति । पूर्वदिने परदिने
२५ वाऽपराह्नस्पर्शे तदेव दर्शस्पर्शयुक्तं दिनं ग्राह्यम् । उभयत्र स्पर्शे यत्रापराह्ने दर्शस्पर्शोऽनल्पः
अधिकः तदेव दिनं ग्राह्यम् । द्वयोरपराह्नयोः स्पर्शसाम्ये क्षयपक्षे सर्वैः पूर्वदिनं ग्राह्यम् । वृद्धौ
साम्ये च साग्नेः पूर्वं निरग्नेस्त्रीशूद्रयोश्च परदिनं ग्राह्यमित्यर्थः । प्रकारान्तरमुक्तं कालादर्श—
“ अमावास्या द्विधा शुद्धा भूतविद्धा च सा पुनः । चतुर्थी प्रतिपद्येव भूत एवापराह्रिणकी ॥
“ तथा विद्धोभयत्र स्यादुभयत्र तथाविधा । शुद्धा निःसंशया विद्धा प्रथमा परकालिकी ॥
३० “ द्वितीया तु भवेत्पूर्वा तृतीया तु तिथेः क्षये । साग्न्यनग्निखीशूद्राणां पौर्वापर्यात् व्यवस्थिता ॥
“ वृद्धौ परैव सर्वेषां सैव साम्येऽपि संमता । चतुर्थीपि परा ग्राह्या यत्सा कुतपकालिकी”॥ इति ।
उभयत्रापराह्विकी तृतीया सा अमावास्याक्षये आहिताग्नेः पूर्वा अनग्न्यादीनां परा तिथि
वृद्धौ साम्ये च परैवेत्यर्थः । अत्र कृत्स्नापराह्वव्याप्तित्वे तदेकदेशव्याप्तित्वेऽप्ययमेव निर्णय
इति स्पर्शाधिक्यमनादृत्योक्तम् । एतत् “ तत्राल्पत्वमहत्त्वाभ्यां निर्णयः पितृकर्मणि ” इत्यादि
३५ स्मरणादुपेश्यम् ।
{{rule}} १ क-पात्रमा ।<noinclude></noinclude> 166hfi0gqtdrvsgp1zqhqzn81ywv4hm पृष्ठम्:Smriti mukta phalam.pdf/७८१ 104 166784 419806 2026-11-10T15:48:24Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''आहिताग्नेर्दर्शश्राद्धमेव ।'''|७४१}} {{rule}} एवं च पूर्वत्र वा परत्र वैकस्मिन्दिने अमावास्यास्पर्शे अपराह्णे सति तदेव ग्राह्यम् । दिनद्वयेऽ-
प्येकदेशवैषम्ये... नवीन पृष्ठं निर्मीत अस्ती 419806 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''आहिताग्नेर्दर्शश्राद्धमेव ।'''|७४१}} {{rule}} एवं च पूर्वत्र वा परत्र वैकस्मिन्दिने अमावास्यास्पर्शे अपराह्णे सति तदेव ग्राह्यम् । दिनद्वयेऽ-
प्येकदेशवैषम्येणापराह्नव्याप्तौ यत्राधिकव्याप्तिस्तदेव ग्राह्यम् । साम्येनैकदेशव्याप्तौ अमावास्या-
क्षये पूर्वदिनं वृद्धौ उत्तरदिनं दिनद्वयेऽपि कृत्स्नापराह्नव्याप्तावुत्तरदिनं दिनद्वयेऽप्यपराह्न-
स्पर्शाभावे आहिताग्नेः पूर्वदिनमनाहिताग्नेः स्त्रीशूद्राणां परदिनमिति कालनिर्णयोक्तदर्शनिर्णयः
शिष्टसंमतः । आहिताग्नेर्दर्शश्राद्धमेव मासिश्राद्धं नापरमित्याह '''मनुः—''' ५
“ पितृयज्ञं तु निर्वर्त्य विप्रश्चंद्रक्षयेऽग्निमान् । पिंडान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥
“ पिंडानां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः । न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः ” ॥ इति ।
अग्निमान्विप्रः आहिताग्निः द्विजश्चंद्रक्षये अमावास्यायां पितृयज्ञं श्रौतं पिंडपितृयज्ञं निर्वर्त्य
पिंडान्वाहार्यकं पिण्डपितृयज्ञांगभूतानां पिंडानामनु पश्चादाहार्य प्रयोज्यम् । आहार्यमेवाहार्यकं
मासानुमासिकं प्रतिमासं कुर्यान्मासिकं श्राद्धं मासिश्राद्धमेव पिंडानामन्वाहार्यं पश्चात्प्रयोज्यं १०
विदुर्बुधाः । दर्शश्राद्धेन विना मासिश्राद्धं नापरमित्यर्थः । अस्य कालमाह '''कात्यायनः—'''
“ पिंडान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते । वासरस्य तृतीयेऽंशे नातिसंध्यासमीपतः ॥
“ अष्टमेंऽशे चतुर्दश्याः क्षीणो भवति चंद्रमाः । अमावास्याष्टमांशे च पुनः कीलो भवेदृजुः ” ॥ इति ।
अत्र ‘ नातिसंध्यासमीपतः ’ इति सायंकालस्य निषेधादपराह्नः कर्मकाल इति कालनिर्णये
व्याख्यातम् । यत्तु गौतमवचनम्— १५
“ अमावास्योदये यत्र क्रियते तत्र वासरे । प्रतिपद्यपि कुर्वीत श्राद्धकर्म विशेषतः ” ॥ इति ।
यच्च बृहस्पतिवचनम्—
“ अमावास्या कलामात्रमुदये यत्र विद्यते । तत्र स्नानजपश्राद्धव्रतहोमादि कारयेत् ” ॥ इति ।
तत्र श्राद्धशब्दः पिंडपितृयज्ञपरः । अन्यथा “ सिनीवाली द्विजैर्माह्या साग्निकैः पितृकर्मणि ” ।
इतिवचनविरोधप्रसंगात् । एवं च प्रतिपद्दिने किंचिदमावास्यासंबन्धेऽपि तत्र पिंडपितृयज्ञः पूर्वदिने २०
श्राद्धं कर्तव्यम् । न चेयं “ पितृयज्ञं तु निर्वर्त्य ” इति पितृयज्ञस्य पूर्वभावित्ववचनं विरुद्ध्येतेति
शंकनीयम् । तस्य प्रायिकाभिप्रायत्वात् । न पुनः सर्वत्र कृतपिंडपितृयज्ञस्यैवाग्निमतः श्राद्धाधिकार
इति मनुना नियम्यते । परमार्थतस्तु पितृयज्ञशब्दस्तर्पणपरः । तथा च मत्स्यपुराणे—
“पितृयज्ञं तु निर्वर्त्य तर्पणाख्यं तु योऽग्निमान् । पिंडान्वाहार्यकं कुर्याच्छ्राद्धमिंदुक्षये सदा ” ॥ इति ।
आहिताग्नेर्ब्राह्मणभोजनात्मकमपि श्राद्धं नावश्यकं तत्फलस्यान्यथासिद्धत्वादित्याह २५
'''मनुः—'''
“ यदेवं तर्पयत्यद्भिः पितॄन् स्नात्वा द्विजोत्तमः । तेनैव सत्रमाप्नोति पितृयज्ञक्रियाफलम् ” ॥ इति ।
तेन आहिताग्निविहितेन पितृयज्ञेनैव ब्राह्मणभोजनात्मकश्राद्धफलमाप्नोतीत्यर्थः । एवं चाहिताग्ने-
स्तिलतर्पणं पिंडपितृयज्ञश्चावश्यकः । ब्राह्मणभोजनात्मकं पिंडान्वाहार्यकश्राद्धं तु वैकल्पिक-
मित्युक्तं भवति । ३०
पिंडान्वाहार्यकश्राद्धं प्रकृत्य जीवपितृकस्य पिंडदाने विशेषमाह '''मनुः—'''
“ म्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । विप्रवद्वापि तच्छ्राद्धे स्वकं पितरमाशयेत् ॥
“ पिता यस्य तु वृत्ततः स्याज्जीवेच्चापि पितामहः । पितुः स्वनाम संकीर्त्य कीर्तयेत्प्रपितामहम् ॥
“ पितामहोऽपि तच्छ्राद्धं भुंजीतैत्यब्रवीन्मनुः । कामं वा तदनुज्ञातो युक्तमेव समाचरेत् ” ॥ इति ।
{{rule}} १ ख-किल ।
९४-२५<noinclude></noinclude> o6vswg23g523cc5t04a7pp1zma48dbp पृष्ठम्:Smriti mukta phalam.pdf/७८२ 104 166785 419807 2026-11-10T15:50:10Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७४२|'''पिंडपितृयज्ञः ।'''|}} {{rule}} विप्रवन्निमंत्रितविप्रवद्वृत्तः मृतपितुः पितामहस्य वा भोजनपक्षे द्वयोरेव पिंडदानम् । पिंडदानस्थाने
भोजनविधानात्
“ जीवभा... नवीन पृष्ठं निर्मीत अस्ती 419807 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७४२|'''पिंडपितृयज्ञः ।'''|}} {{rule}} विप्रवन्निमंत्रितविप्रवद्वृत्तः मृतपितुः पितामहस्य वा भोजनपक्षे द्वयोरेव पिंडदानम् । पिंडदानस्थाने
भोजनविधानात्
“ जीवभानेन देयं स्याद्यस्मात् भरतसत्तम । तस्माज्जीवपिता कुर्यात् द्वाभ्यामेव न संशयः ” ॥ इति
भविष्यत्पुराणवचनाच्च । ‘पितुः स्वनाम संकीर्त्य कीर्तयेत्प्रपितामहम्’ इत्यस्मिन्पक्षे प्रपितामह-
५ पितुरपि पिंडं दद्यात् । ‘ त्रिषु पिंडः प्रवर्त्तते ’ इति नियमात् । “कामं वा तदनुज्ञात” इत्यनेन
पक्षांतरमुक्तम् । तदनुज्ञातः युक्तसमाचरणं चात्र पितामहस्यापि पिंडदानं समस्तपिंडविलोपो वा
कुतः पक्षांतरस्यासंभवादिति मानवे व्याख्यानेऽभिहितम् । तथा निगमे—“ यो वा जीवति
पितॄणां तं भोजयेत्पितृस्थान इत्येके जीवतामजीवतां वा देयमेवेति हिरण्यकेतुः ” इति । ततश्च
“ सपितुः पितृकृत्येषु ह्यधिकारो न विद्यते । न जीवन्तमतिक्रम्य किंचिद्वृ दद्यादिति श्रुतिः ” इति
१० कात्यायनवचनं आहिताग्निकर्तृकपिंडान्वाहार्यकश्राद्धे न प्रवर्त्तते । तथा च सुमंतुः—
“ न जीवपितृकः कुर्याच्छ्राद्धमिद्धिमृते द्विजः । येभ्य एव पिता दद्यात् तेभ्यः कुर्वीत साग्निकः ॥
“ साग्निकोऽपि न कुर्वीत जीवति प्रपितामहे ” ॥ इति प्रपितामहग्रहणं पितृपितामहोपेत-
प्रपितामहप्रदर्शनार्थम् । अत एव '''विष्णुः—'''“ पितरि पितामहे प्रपितामहे च जीवति
नैव दद्यात्” इति । स एव—“ पितरि जीवति श्राद्धं कुर्यात् । स येषां पिता कुर्या-
१५ तेषां कुर्यात्पितरि पितामहे च येषां पितामहः ” । इति पित्रादिषु द्वयोरेकस्य वा मरणेऽपि तेनै-
वोक्तम्—“ यस्य पिता प्रेतः स्यात्स पित्रे पिंडं निधाय प्रपितामहात्परं द्वाभ्यां दद्यात् ।
यस्य पितामहः प्रेतः स्यात्स तस्मै पिंडं निधाय प्रपितामहात्परं द्वाभ्यां दद्यात् । यस्य पितामहः
प्रपितामहश्च प्रेतौ स्यातां स पित्रे पिंडं निधाय पितामहात्परं द्वाभ्यां दद्यात् ” इति ।
पिंडपितृयज्ञेऽप्याह । अक्षपार्श्वः—
२० “ होमांतः पितृयज्ञः स्याज्जीवे पितरि जानतः । पितरं भोजयित्वाऽपि पिंडौ निर्वृणुयात्परौ ॥
“ उभौ यस्य व्यतीतौ तु जीवेच्च प्रपितामहः । पिंडौ निर्वृणुयात्पूर्वौ भोजयेत्प्रपितामहम्”॥ इति
यमो विशेषमाह—
“ पित्र्यं जीवपितुर्नाक्तमग्नौ होमोऽपि पाक्षिकः । येभ्यो वाऽपि पिता दद्याद्वैतानकर्मणि ॥
“दद्यात्तेभ्यः परेभ्यस्तु जीवेच्च त्रितयं यदि ” ॥ इति । पित्र्यं पिंडदानम् । वैतानकर्मणि पिंडपितृ-
२५ यज्ञे इत्यर्थः । भविष्यत्पुराणे तु निषेधः कृतः—
“ प्रत्यक्षार्चनं श्राद्धे निषिद्धं मनुरब्रवीत् । पिंडनिर्वपणं चापि महापातकसंमितम् ” ॥ इति ।
मनुरत्र ज्ञानवान् । मनुना प्रत्यक्षार्चनस्योक्तत्वात् । आपस्तंबः—“ यदि जीवपिता न
दद्याद्वा होमात्कृत्वा विरमेत् ” ॥ इति । आश्वलायनस्तु—“पिंडान्निर्वृणुयात्पराच्यनपाणिः
पित्रे पितामहाय प्रपितामहायैतत्तेऽसौ ये च त्वामन्विति तस्मै यथैषां प्रेताः स्युः ” ॥ इति ।
३० गणकारिकः—
‘ प्रत्यक्षमितरानर्चयेत्तदर्थत्वात्सवैम्य एव निर्वृणुयात् ” इति । तौल्वलिः—“ क्रियागुणत्वादपि
जीवान्त आदिभ्यः प्रेतेभ्य एव वृणुयात् ” इति । गौतमः—“ क्रिया ह्यर्थकारिता उपाय-
विशेषो जीवमृतानां न परेभ्योऽनधिकारात् पिंडं दद्यादितरांस्तु जीवतः प्रत्यक्षं न जीवेभ्यो
वृणुयान्न जीवांतर्हितेभ्यो जुहुयाज्जीवेभ्यः सर्वहुतं सर्वजीवनः ” इति । एषां पित्रादीनां
{{rule}} १ कखग-गौणकारिक ।<noinclude></noinclude> 9b4p4rgzlz44i7xa3zwogqbwwun6kvm पृष्ठम्:Smriti mukta phalam.pdf/७८३ 104 166786 419808 2026-11-10T15:52:12Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अमायां योगविशेषः ।'''|७४३}} {{rule}} त्रयाणां मध्ये यो यः प्रेतस्तस्मै तस्मै निर्वृणुयात्पिंडं दद्यादितरांस्तु जीवतः प्रत्यक्षमर्चयेत्तर्पयेत् ।
तदर्थत्वात्... नवीन पृष्ठं निर्मीत अस्ती 419808 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अमायां योगविशेषः ।'''|७४३}} {{rule}} त्रयाणां मध्ये यो यः प्रेतस्तस्मै तस्मै निर्वृणुयात्पिंडं दद्यादितरांस्तु जीवतः प्रत्यक्षमर्चयेत्तर्पयेत् ।
तदर्थत्वात्पित्रादिस्मृतिकरापिंडार्थत्वात्प्रत्यक्षार्चनस्येति गौणकारिमतम् । सर्वेभ्यः पित्रादिभ्यस्त्रिभ्या
जीवेभ्यः प्रेतेभ्यश्च निर्वृणुयात् । क्रियां प्रति तेषां पित्रादीनां गुणभूतत्वादिति तौल्वळिमतम् ।
अपि जीवान्ते पित्रादिषु त्रिषु मध्ये यो जीवति तदंते आ त्रिभ्यः प्रेतेभ्यः जीवाव्यवहितेभ्यः
निर्वृणुयात् । क्रिया ह्यर्थकारिता । अर्थो मरणं तत्प्रवर्तिता यतः क्रियेति गौतममतम् । उपायेत्यादि । ५
जीवतां मृतानां च पिंडदाने उपायशेषो वक्ष्यत इत्यर्थः । अत्रोपन्यस्तेषु पक्षेषु तावद्गौतममतं
दूषयति ‘ न परेभ्यः ’ इति । पित्रादिभ्यस्त्रिभ्यः परेभ्यो न निर्वृणुयादनधिकारात्पित्रे ददाति
पितामहाय ददाति प्रपितामहाय ददाति इति श्रुतेः । तेभ्यः परेषां पिंडदानऽनधिकार आहिताग्ने-
रित्यर्थः । सर्वप्रतिषेधेऽप्यनधिकारादित्येव हेतुः गौणकारिमतं दूषयति । न प्रत्यक्षममिति ।
प्रेतेभ्यो दद्यादिति श्रुतेः । ‘प्रत्यक्षमर्चनं श्राद्धे निषिद्धं मनुरब्रवीत्’ इति स्मृतेश्च । तौल्वलि— १०
मतं दूषयति न जीवेभ्य इति । सर्वपक्षानुगतं दूषणमाह ‘ न जीवांतर्हितेभ्य ’ इति । अथोपाय-
विशेष उच्यते । ‘जुहुयाज्जीवेभ्य’ इति । पिंडनिर्वपणमंत्रेण स्वाहांतैन जीवेभ्यो जुहुयात् । प्रेतेभ्यो
निर्वृणुयात् । सर्वे जीवनश्चेत्सर्वेषां पिंडानां हवनमित्यर्थः । यथास्वसूत्रमिह व्यवस्था ।
'''अमायां योगविशेषः ।''' अथान्यान्यप्यमावास्याविषयाणि वचनानि लिख्यंते ।
'''विष्णुपुराणे—''' १५
“ अमावास्या यदा मैत्रविशाखास्वात्तियोगिनी । श्राद्धे पितृगणस्तृप्तिमवाप्नोत्यष्टवार्षिकीम् ॥
“ अमावास्या यदा पुष्ये रौद्रेऽर्के पुनर्वसौ । द्वादशाब्दं तथा तृप्तिं प्रयांति पितरेऽर्चिताः ॥
“ वासवाजैकपादृक्षं पितॄणां तृप्तिमिच्छताम् । वारुणे चाप्यमावास्या देवानामपि दुर्लभा ॥
“ न वस्वृक्षेष्वमावास्या यदेतेष्ववनीपते ” ॥ इति । मैत्रमनुराधानक्षत्रं रौद्रमार्द्रानक्षत्रं वासवं धनिष्ठा
अजैकपादृक्षं पूर्वाभाद्रपदा वारुणं शतभिषङ्नक्षत्रम् । तत्रैव— २०
“ माघासिते पंचदशी कदाचिदुपैति योगं यदि वारुणेन ।
“ ऋक्षेण कालः स परः पितॄणां न ह्यल्पपुण्यैर्नृप लभ्यतेऽसौ ॥
“ गायंति चैतत्पितरः कदातु वर्षामधातुप्तिमवाप्य भूयः ।
“ माघासितांत शुभतीर्थतोयैः यास्याम तृप्तिं तनयादिदत्तैः ॥
“ काले धनिष्ठा यदि नाम तस्मिन्भवेत्तु भूपाल तदा पितृभ्यः । २५
“ दत्तं जलात्रं प्रद्धाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ” ॥ इति । तस्मिन्काले माघासित-
पंचदश्यामित्यर्थः । '''महाभारतेऽपि—'''
“ तत्रैव चेद्भाद्रपदस्तु पूर्वः काले तदा यत्क्रियते पितृभ्यः ।
“श्राद्धं परां तृप्तिमुपैत्य तेन युगान्सहस्रं पितरः पिवंति” ॥ इति । तत्रैव माघासितपंचदश्या-
मित्यर्थः । '''महाभारत एव—''' ३०
“ श्रवणाश्विधनिष्ठाद्रा नागदैवतभापतेत् । रविवारयुतामायां व्यतीपातः स उच्यते ॥
“ व्यतीपाताख्योयोगोऽयं शतार्कग्रहसंनिभः ॥
“ अमर्कपातश्रवणेर्युक्ता चेत्पुष्यमाधयोः । अर्धोदयः स विज्ञेयः कोटिसूर्यग्रहैः समः ॥
“ बुधवारण योगोऽयं महोदय इति स्मृतः” । इति । अर्कैः आदित्यवारः । पातः व्यतीपातः ।
{{rule}} १ ग-स्वपन्ति ।<noinclude></noinclude> 1s8uhhdvxuzkvsn0i778ufam4uo23ws पृष्ठम्:Smriti mukta phalam.pdf/७८४ 104 166787 419809 2026-11-10T15:53:29Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७४४|'''अर्धोदयमहोदयौ । अष्टकाः ।'''|}} {{rule}} '''संग्रहे—'''“ पातस्यान्ते पूर्वभागस्त्वमायाः श्रोणामध्यं भास्करस्योदयश्च ।
“ भानोर्वारि त्वेष चार्धोदयः स्यात्सौम्... नवीन पृष्ठं निर्मीत अस्ती 419809 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७४४|'''अर्धोदयमहोदयौ । अष्टकाः ।'''|}} {{rule}} '''संग्रहे—'''“ पातस्यान्ते पूर्वभागस्त्वमायाः श्रोणामध्यं भास्करस्योदयश्च ।
“ भानोर्वारि त्वेष चार्धोदयः स्यात्सौम्ये वारे तमन्वाहुः ” इति । एव भानुवारः ।
एषा अनातिथिर्वा न तु भास्करोदयमात्रं पूर्वोक्तभारतवचनात् । भास्करोदयसमये एतादृग्योग-
श्चेद्दिष्टशः । उदयान्तरममा चेदपि भारतवचनानुरोधेन योगे अर्धोदय एव । '''व्यासः—'''
५ “अमा वै सोमवारेण रविवारेण सप्तमी । चतुर्थी भौमवारेण विषुवैः सदृशं फलम्”॥ इति । '''शंखोऽपि—'''
“ अमावास्या तु सोमेन सप्तमी भानुना सह । चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी ॥
“ चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसंनिभाः ” ॥ इति । '''कालादर्शे''' संगृह्यैतदुक्तम्—
“ मैत्रेंद्राग्निश्रुवातिद्युके दर्शे श्राद्धं करोतियः । प्रीतिं पितॄणामादध्यात्सोऽलभ्यामष्टवार्षिकीम् ॥
“ आदित्यपुष्यरौद्रर्क्षयुक्तो दर्शो यदा तदा । श्राद्धदः प्रीतिमादध्यात्पितॄणां द्वादशाब्दिकम् ॥
१० “ वारुणाजैकपाट्टक्षवासवैर्व्यधमा युता । तदा श्राद्धह्रदाद्व्यःत्पितॄणां तृप्तिमुत्तमाम् ॥
“ पूर्वभाद्रपदं प्राप्तामाध्यमाश्राद्धदो नरः । योगसाहस्रिकीं तृप्तिं पितॄणामुपकल्पयेत् ॥
“ वासवेन यदा युक्ता सैवास्यामन्नमंबु वा । दत्तं वर्षायुतं तृप्तिं पितॄणां जनयेत् ध्रुवम् ॥
“ रविवारसमेतायाममायां यदि वासवम् । वैष्णवं रौद्रमाहेयमश्विनं च भवेद्बुहु ॥
“ यस्माद्व्यतीपातयोगः शतार्कग्रहसंनिभः । अर्कश्रुतिव्यतीपातयुक्तामापुष्यमाधयोः ॥
१५ “ असावर्धोदयो योगः कोट्यर्कग्रहसंनिभः । सोमवारयुतो दर्शः सूर्यग्रहणसंनिभः ”॥ इति ।
'''स्मृत्यंतरे—'''
“ अमा सोमेन भौमेन गुरुणा वा युता यदि । सा तिथिः पुष्कला नाम सूर्यग्रहणसंनिभा”॥ इति ।
इत्यमावास्यानिर्णयः ।
'''अष्टकाश्राद्धनिरूपणम् ।''' अथाष्टकाः । ताश्चतस्रः मार्गशीर्षादिमासचतुष्टयापरपक्षाष्टम्यः ।
२० तथा च '''शौनकः—'''“ हेमंतशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः ” इति । अत्र विशेषमाह
'''विष्णुः—'''“ अष्टकास्तिस्रः अष्टम्योऽन्वष्टक्याः पूर्वेद्युः प्रौष्ठपदे हेमंतशिशिरयो-
रपरपक्षेषु ” इति । अन्वष्टक्या नवम्यः पूर्वेद्युः सप्तम्यः । '''कालादर्श''' च—
“ मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने । कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाष्टमी ” ॥
“ इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्”॥ इति। अत्र पार्वणोक्त्या पित्रादीनां त्रयाणा-
२५ मुद्देश्यत्वम् । ‘अष्टकासु च वृद्धौ च’ इति पूर्वोक्तवचनेन मात्रादीनामपि तिसृणामुद्देश्यत्वम् ।
तथा च '''पितृमेधसारे—'''“ अष्टकास्वष्टौ विप्रा द्वौ विप्रौ विश्वेदेवेौ पित्रादयस्त्रयो मात्रादयस्त्रयः ”
इति । “ पितरो यत्र पूज्यन्ते तत्र मातामहा अपि ” इति वचनात्तु मातामहादीनामपि त्रय
एको वेति केचित् । तन्न । अष्टानामेव विधानात् । '''आपस्तंबः—'''“ तमष्टधा कृत्वा
ब्राह्मणेभ्य उपहरति” इति । '''तात्पर्यदर्शने''' व्याख्यातमेतत् — अष्टधा कृत्वेति अष्टभ्यो ब्राह्मणेभ्य
३० इति विधानम् । तेनेह ब्राह्माणैकत्वबाध इति । यत्त्वा'''पस्तंबे'''नोक्तम्—“ या माघ्याः पौर्णमास्या
उपरिश्टाद्यष्टका तस्याष्टमी ज्येष्ठया संपद्यते तामेकाष्टकेत्याचक्षते ” इति । व्यष्टकाकृष्णपक्ष
इत्यर्थः । ‘ एतदपूर्वं चतुःशरावम् ’ इति इत्यादेर्वक्ष्यमाणप्रयोगस्य माघकृष्णाष्टम्यामेव
प्रापणार्थम् । न त्वष्टकांतराश्वष्टक्यादिनिरासार्थम् । तथा च तेनैवोक्तं—“ श्वोभूतेन्वष्टकां
तस्या मासि श्राद्धेन कल्पो व्याख्यातः ” इति । '''आश्वलायनः—'''
३५ “हेमन्तशिशिरतोस्तु चतुर्णामपि सत्तमाः । समर्थैरष्टका कार्या कृष्णानामष्टमीषु च ” ॥
{{rule}} १ ग-न्तः । २ क-शिवोऽपि ।<noinclude></noinclude> 2hiyacqjltoyie66xujg0cmio2sis6n पृष्ठम्:Smriti mukta phalam.pdf/७८५ 104 166788 419810 2026-11-10T15:54:31Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''महालयश्राद्धम् ।'''|७४५}} {{rule}} “ एकस्यां ह्यशक्तेन कार्या गृह्यस्य वर्त्मना ” ॥ '''बोधायनोऽपि—'''“ उपरिष्टात्माघ्याः पौर्णमास्या
अपरपक्षस्य सप्तम्यामष्टम्या... नवीन पृष्ठं निर्मीत अस्ती 419810 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''महालयश्राद्धम् ।'''|७४५}} {{rule}} “ एकस्यां ह्यशक्तेन कार्या गृह्यस्य वर्त्मना ” ॥ '''बोधायनोऽपि—'''“ उपरिष्टात्माघ्याः पौर्णमास्या
अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यमिति क्रियेतापि वाष्टम्यामेव” इति । एतच्चाष्टकाश्राद्धं नित्यम् ।
“ अमावास्याव्यतीपातपौर्णमास्यष्टकासु च । विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयेते हि सः” ॥ इति
पितामहस्मरणात् । तथा चानुकल्पमाहाश्वलायनः—“ अप्यनुडुहो यवसमाहरेदग्निना वा
कक्षमुपोषेदेषाष्टकेति न त्वेवानष्टकः स्यात् ” इति । स्मृत्यंतरेऽपि— ५
“ अपि वानूचानेभ्य उदकुंभमाहरेदपि वा श्राद्धमंत्रानधीयीत न त्वेवानष्टकः स्यात् ” ॥ इति ।
'''आश्वलायनस्मृतौ—'''
“ तिलोदकं प्रदातव्यं निर्धनेनातिभक्तितः । अष्टकाश्राद्धसिद्धयर्थं प्रौष्ठपन्माघमासयोः ।
“अष्टकां ये न कुर्वन्ति स्वशक्त्या मासयोस्तयोः । अन्त्यायां मध्यमायां वा सिताष्टम्यां यतात्मनः॥
“ ते विरूपा दरिद्राश्च भविष्यन्ति भवे भवे ” ॥ १०
'''अथ महालयश्राद्धं निरूप्यते ॥ तत्र वृद्धमनुः—'''
“ नभस्यस्यापरः पक्षो यत्र कन्यां व्रजेद्रविः । स महालयसंज्ञः स्याद्गजछायाव्हयस्तथा” ॥ इति ।
'''मार्कंडेयः—'''
“ कन्यागते सवितरि दिनानि दशपंच च । पार्वणेनैव विधिना तत्र श्राद्धं विधीयते ॥
“ प्रतिपद्धनलाभाय द्वितीया हि प्रजाप्रदा । वरार्थिनां तृतीया च चतुर्थी शत्रुनाशिनी ॥ १५
“ श्रियं प्राप्नोति पंचम्यां षष्ठ्यां पूज्यो भवेन्नरः । गणाधिपत्यं सप्तम्यामष्टम्यां वृद्धिरुत्तमाम् ॥
“ स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् । वेदांस्तथाप्नुयात्सर्वानैकादश्यां क्रियापरः ॥
“ द्वादश्यां हेमलाभं च प्राप्नोति पितृपूजकः । प्रजा मेधां पशून्पुष्टिं स्वातंत्र्यं बुद्धिमूत्तमाम् ॥
“ दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् । अवाप्नोति न संदेहः श्राद्धं श्राद्धपरो नरः ॥
“ युवानः पितरो यस्य स्मृताः शस्त्रेण वै हताः । तेन कार्यं चतुर्दश्यां तेषामृद्धिमभीप्सता ॥ २०
“ श्राद्धं कुर्वन्नमावास्यामन्नेन पुरुषः शुचिः । सर्वान्कामानवाप्नोति स्वर्गे चानंतमश्नुते” ॥ इति ।
यत्तु शाठ्यायनिनेोक्तम्—
“नभस्यस्यापरे पक्षे तिथिषोडशकं च तत् । कन्यास्थार्कान्वितं चेत्स्यात्स कालः श्राद्धकर्मणः”॥इति ।
तदाश्वयुक्शुक्लप्रतिपदा सह नभस्यापरपक्षस्य षोडशत्वाभिप्रायेण तस्यापि क्षीणचंद्रत्वाविशेषेणा-
परपक्षानुप्रवेशसंभवात् । तदाह देवलः— २५
“ अहः षोडशकं यत्तु शुक्लप्रतिपदा सह । चंद्रक्षयाविशेषेण सापि दर्शात्मिका स्मृता ” ॥ इति ।
कालादर्शोऽपि—
“ नभस्यस्यापरः पक्षः शुक्लप्रतिपदा सह । महालय इति प्रोक्तो गजच्छायाह्वयस्तथा ” ॥ इति ।
'''श्लोकगौतमः—'''
“ कन्यागते सवितरि यान्यहानि तु षोडश । क्रतुभिस्तानी तुल्यानि संपूर्णप्रवरदक्षिणैः”॥ इति । ३०
अत्र पंचदशदिवसषोडशदिवसविध्यो व्रीहियववद्विकल्प इति माधवीये अभिहितम् । नभस्यापर-
पक्षस्य कन्यास्थार्कान्वितत्वेन प्रशस्ततरत्वमुच्यते । तदभावेऽपि प्रशस्तत्वात् । तदाह जाबालिः
“ आगतेऽपि रवौ कन्यां श्राद्धं कुर्वीत सर्वथा । आषाढ्याः पंचमः पक्षः प्रशस्तः पितृकर्मसु ॥
{{rule}} १ स्त्र-मानन्त्य ।<noinclude></noinclude> luktlqkklsogk4xcngmhrbdtlwm7bh7 पृष्ठम्:Smriti mukta phalam.pdf/७८६ 104 166789 419811 2026-11-10T15:55:26Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७४६|'''कन्यागते सवितरि ।'''|}} {{rule}} “ पुत्रानायुस्तथारोग्यमैश्वर्यमतुलं तथा । प्राप्नोति पंचमे दत्वा श्राद्धं कामांस्तथा वरान् ”॥ इति
'''बृहन्मनुः—'''“ आषाढीमवधि... नवीन पृष्ठं निर्मीत अस्ती 419811 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७४६|'''कन्यागते सवितरि ।'''|}} {{rule}} “ पुत्रानायुस्तथारोग्यमैश्वर्यमतुलं तथा । प्राप्नोति पंचमे दत्वा श्राद्धं कामांस्तथा वरान् ”॥ इति
'''बृहन्मनुः—'''“ आषाढीमवधिं कृत्वा पंचमं पक्षमाश्रिताः ।
“ कांक्षंति पितरः क्लिष्टा अन्नमप्यन्वहं जलम् । तस्मात्तत्रैव दातव्यं दत्तमन्यत्र निष्फलम् ॥
“आषाढीमवधिं कृत्वा यः पक्षः पंचमो भवेत् । तत्र श्राद्धं प्रकुर्वीत कन्यास्थार्को भवेन्न वा”॥ इति ।
५ '''जातुकर्णिश्च—'''
“नैयोगिकी तिथिर्येषा पक्षो वै पंचमः स्मृतः । तस्मिन् हुतं हविर्द्त्तं पितॄणामक्षयं भवेत्” इति ।
'''कौत्सः—'''
“ उत्तराहस्तचित्रासु कन्यायां भास्वति स्थिते । कृष्णपक्षे गजच्छायासमानः पितृकर्मसु ॥
“ पार्वणस्यावृता कुर्यादक्रोधः श्राद्धमत्वरः ” ॥ इति । आवृता प्रकारेण । '''आदित्यपुराणे—'''
१० “ पक्षांतरेऽपि कन्यास्थे रवौ श्राद्धं प्रशस्यते । कन्यागते पंचमे तु विशेषेणैव कारयेत् ” ॥ इति ।
'''शाठ्यायनिः—'''
“पुण्यः कन्यागतः सूर्यः पुण्यः पक्षश्च पंचमः। कन्यास्थार्कान्वितः पक्षः सोऽत्यंतं पुण्यमुच्यते”॥
आदिमध्यावसानेषु यत्र क्वचन कन्यार्कास्थिकान्वितत्वेन कृत्स्नः पक्षः पूज्य इत्यर्थः ।
अत एव '''कार्ष्णाजिनिः—'''
१५ “ आदौ मध्येऽवसाने वा यत्र कन्यां व्रजेद्रविः । स पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रति ” ॥ इति ।
'''कालादर्शोऽपि—'''
“ रवेः कन्यागतत्वेन पक्षोऽयं पूज्य इष्यते । आदावेवान्तरान्ते वा शस्तः कन्यागते रवौ”॥ इति ।
'''पितृमेधसारे—'''“ सिंहांतं कृष्णपक्षस्यादौ मध्येऽंते वा कन्यार्कसंक्रमे तु कृत्स्नः पक्षो महालये
प्रशस्तः । पंचम्यादि दशम्यादि अष्टम्यादि वा दर्शतिं क्वचिद्दिने वा यथाशक्ति महालयश्राद्धं
२० कुर्यात् ” ॥ इति । प्रतिपदादिदर्शतिं शुक्लप्रतिपदन्तं वा श्राद्धं कर्तुमशक्तश्चेत्पंचम्यादिदर्शात-
मष्टम्यादिदर्शतिं दशम्यादिदर्शान्तं वा चतुर्थ्या ऊर्ध्वमनिषिद्धे एकस्मिन् दिने वा यथाशक्ति
कुर्यादित्यर्थः । तदाह '''गौतमः —'''“ अपरपक्षे श्राद्धं पितृभ्यो दद्यात्पंचम्यादिदर्शान्तमष्टम्यादि-
सर्वस्मिन्वा ” इति । '''ब्रह्मांडपुराणे—'''
“ नभस्य कृष्णपक्षे तु श्राद्धं कुर्याद्दिने दिने । त्रिभागपक्षहीनं वा त्रिभागं चार्धमेव वा ” ॥ इति ।
२५ पंचम्यादिदशम्याद्यष्टम्यादि वेत्यर्थः । तथा '''कालादर्शे—'''
“ पक्षाद्यादि च दर्शतिं पंचम्यादि दिगादि च । अष्टम्यादि यथाशक्ति कुर्याद्रापरपाक्षिकम्”॥ इति ।
पक्षादिः प्रतिपदादि दिग्वादि दशम्यादि । अत्र सर्वत्र दर्शतमिति संबध्यते । '''कात्यायनः—'''
“अपरपक्षे श्राद्धं कुर्वीत ऊर्ध्वं चतुर्थ्या यदहः संपद्यते सप्तम्या ऊर्ध्वं यदहः संपद्यते ऋते चतुर्दशी
शाकेनापि अपरपक्षं नातिक्रमेत् ” इति। चतुर्थ्याः सप्तम्या वा ऊर्ध्वं यस्मिन्नहनि द्रव्यादि संपद्यते
३० तस्मिन्वा कुर्यादित्यर्थः । अनेन एकस्मिन्नहनि श्राद्धं कुर्यादित्युक्तं भवति । तथा च '''गौतमः—'''
“ सर्वस्मिन्वा द्रव्यदेशब्राह्मणसंनिधाने वा कालनियमः शक्तितः ” इति । '''नागरखंडेऽपि—'''
“ आषाढ्याः पंचमे पक्षे कन्यासंस्थे दिवाकरे । यो वै श्राद्धं नरः कुर्यादेकस्मिन्नपि वासरे ॥
“ तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवम् ” ॥ इति । '''वसिष्ठः ।''' “ ऊर्ध्वं चतुर्थ्याः
पितृभ्यो दद्यात् ” इति ।
{{rule}}<noinclude></noinclude> tpony4fuukdrhl3kk5rzwa9fh0jkgr9 पृष्ठम्:Smriti mukta phalam.pdf/७८७ 104 166790 419812 2026-11-10T15:57:20Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''महालयकालः ।'''|७४७}} {{rule}} '''मनुरपि—'''
“कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रशस्ताः तिथयो यथैता न तथेतराः”॥ इति ।
पक्षमहालये नैव चतुर्दश... नवीन पृष्ठं निर्मीत अस्ती 419812 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''महालयकालः ।'''|७४७}} {{rule}} '''मनुरपि—'''
“कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रशस्ताः तिथयो यथैता न तथेतराः”॥ इति ।
पक्षमहालये नैव चतुर्दश्यादि वर्ज्यम्
“नभस्य कृष्णपक्षे तु श्राद्धं कुर्याद्दिने दिने । नैव नंदादि वर्जं स्यान्नैव वर्ज्या चतुर्दशी ” ॥ इति
'''कार्ष्णाजिनिः''' स्मरणादत एव च माधवीये अभिहितम् ५
“ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते” ॥ इति
याज्ञवल्क्यवचनं पंचम्यादिपक्षविषयम् । अन्यथा कार्ष्णाजिनिवचनस्यानर्थक्यं
प्रसज्येतेति । तथा '''कालादर्शे—'''“ मुक्त्वाथपक्षं नंदादिवर्ज्यमाहुर्महालयः ” इति । प्रतिपदादिः
दर्शान्तः पक्ष आद्यः । तं मुक्त्वाऽन्येषु पक्षेषु नंदा शुक्रवारचतुर्दश्यादि वर्ज्यमाहुरित्यर्थः ।
अपरपक्षे यदहः संपद्यते ताममावास्यायां विशेषेणेति वचनात् यद्यमावास्यायां सकृन्महालयः १०
क्रियते यद्वा च पक्षमहालयादि क्रियते तदा अमावास्याश्राद्धं पृथगेव कार्यम् ।
“आब्दिकं प्रथमं कुर्यान्मासिकं तु ततः परम् । दर्शश्राद्धं तृतीयं स्याच्चतुर्थं तु महालयः”॥इति ।
एकस्मिन्दिने दर्शमहालयश्राद्धयोः पौर्वापर्यविधानाद्देवताभेदाच्च । तच्च वक्ष्यते '''चंद्रिकायाम्—'''
यदिैकस्मिन्नहनि तथा पृथगेवामावास्याश्राद्धं अमावास्याष्टकावृद्धिः कृष्णपक्षोऽयनद्वयम् इति पृथगुपा-
दानादतो यत्कैश्चिदुक्तं अमावास्याश्राद्धमापरपाक्षिकेन श्राद्धेन विकल्पित इति तदपास्तमिति । १५
तदेवं कृत्स्नः पंचमः पक्षः पंचम्यादिदर्शोतमष्टम्यादिदर्शोतदशम्यादिदर्शोतपंचमीदर्शयोर्मध्ये
अनिषिद्धमेकं वा दिनं महालयश्राद्धकालः । अत्राप्यसामर्थ्ये पंचमपक्षस्य पंचमीमारभ्यानंतरपक्ष-
पंचमीपर्यंतासु तिथिषु अनिषिद्धायामेकस्यां तिथौ यथासंभवं गृही श्राद्धं कुर्यात् । तदाह '''यमः—'''
“ हंसे वर्षासु कन्यास्थे शाकेनापि गृहे वसन् । पंचम्योरंतरे दद्यादुभयोरपि पक्षयोः ” ॥ इति ।
अत्राप्यशक्त्या श्राद्धाकरणे यावत्कन्याराशौ सूर्यस्तिष्ठति तावच्छ्राद्धं कुर्यात् । तत्राप्यकरणे २०
यावद्वृश्चिकदर्शनमिति । तदाह '''सुमंतुः—'''
“ कन्याराशौ महाराज यावत्तिष्ठेद्दिभावसुः । तस्मात्कालात् भवेद्देयं वृश्चिकं यावदागतः ॥
“ येयं दीपावली राजन्ख्याता पंचदशी भुवि । तस्यां दद्यान्न चेद्दत्तं पितॄणां वै महालये ” ॥ इति ।
'''पुराणेऽपि''' “ पितृपक्षं प्रतीक्षंते गुरुवांछासमन्विताः ।
“ प्रेतपक्षे व्यतिक्रांते यावत्कन्यागतो रविः । ततस्तुलागतेऽप्येते सूर्ये वांछांति मानवै ॥ २५
“तस्मिन्नपि व्यतिक्रांते काले वृश्चिकगे रवौ । निराशाः पितरो दीनास्ततो यांति निजालयम्”॥ इति ।
'''माधवीये—'''
“ कन्यागते सवितरि पितरो यांति वै सुतान् । शून्या प्रेतपुरी सर्वा यावद्वृश्चिकदर्शनम् ॥
“ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः । पुनः स्वभवनं यान्ति शापं दत्वा सुदारुणम्”॥ इति ।
'''कार्ष्णाजिनिः—''' ३०
“ हस्तर्क्षस्थे दिनकरे प्रेतराजस्य शासनात् । तावत्प्रेतपुरी शून्या यावद्वृश्चिकदर्शनम् ॥
“ वृश्चिके समनुप्राप्ते पितरो दैवतैः सह । निश्वस्य प्रतिगच्छंति शापं दत्वा सुदारुणम् ” ॥ इति ।
'''आदित्यपुराणे—'''
“ प्रावृडृतौ यमः प्रेतान् पितॄंश्चाथ यमालयात् । विसर्जयित्वा मानुष्ये कृत्वा शून्यं स्वकं पुरम् ॥
“ क्षुधार्त्ताः संस्मरंतश्च दुष्कृतं तु स्वयं कृतम् । कांक्षंतः पुत्रपौत्रेभ्यः पायसं मधुसंयुक्तम् ॥ ३५
{{rule}} १ क्ष-मेत । २ ग-पार्थिव ।<noinclude></noinclude> e1wf5h7ao17g85ls481xj9pxneouk7x पृष्ठम्:Smriti mukta phalam.pdf/७८८ 104 166791 419813 2026-11-10T15:58:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७४८|'''वर्ज्यनक्षत्राणि ।'''|}} {{rule}} “ तस्मात्वां तत्र विधिना तर्पयेत्पायसेन तु । मध्वाज्यतिलमिश्रेण तथा शीतेन चांभसा ॥
“ ग्रासमात्रं परगृहाद्दंभं यः प्राप्नु... नवीन पृष्ठं निर्मीत अस्ती 419813 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७४८|'''वर्ज्यनक्षत्राणि ।'''|}} {{rule}} “ तस्मात्वां तत्र विधिना तर्पयेत्पायसेन तु । मध्वाज्यतिलमिश्रेण तथा शीतेन चांभसा ॥
“ ग्रासमात्रं परगृहाद्दंभं यः प्राप्नुयान्नरः । भैक्षमात्रेण यः प्राणान्धारयति वा स्वयम् ॥
“ यो वा संवर्धयेद्देयं प्रत्यहं स्वात्मविक्रयात् । श्राद्धं तेनापि कर्त्तव्यं तैस्तैर्द्रव्यैः सुसंचितैः ” ॥ इति ।
यमालयाद्विसर्जयित्वा स्वपुरं शून्यं कृत्वा मनुष्यलोके पितॄन्वासयतीत्यध्याहृत्य योजना । पायसं
५ कांक्षंतः पितरस्तिष्ठंतीत्यध्याहरः ।
विशेषमाह '''कालादर्शकारः—'''“ अस्मिन् या भरणी सा तु महाभरणिरुच्यते ॥
“ त्रयोदशी गजच्छाया गयामध्याष्टमीति च । आसु श्राद्धं गयाश्राद्धसममाहुर्महर्षयः ” ॥ इति ।
अस्मिन्महालयपक्ष इत्यर्थः । तथा '''मत्स्यपुराणे—'''
“ भरणी पितृपक्षे तु महती परिकीर्त्तिता । अस्यां श्राद्धं कृतं येन स गयाश्राद्धकृद्भवेत् ” ॥ इति ।
१० '''ब्रह्मांडपुराणे—'''
“ आषाढाः पंचमे पक्षे गयामध्याष्टमी स्मृता । त्रयोदशी गजच्छांया गयातुल्या तु पैतृकी” ॥ इति ।
'''हेमाद्रौ—'''
“ अमापाते भरण्यां च द्वादश्यां पक्षमध्यके । तथा तिथिं च नक्षत्रं वारं च न विशोधयेत्” ॥ इति ।
तत्र वर्ज्यान्याह '''गार्ग्यः—'''
१५ “ नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मसु । एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ” ॥ इति ।
त्रयाणां जन्मानि श्राद्धकर्तुस्तत्पत्न्या ज्येष्ठपुत्रस्य च जन्मनक्षत्रे न कुर्यादिति कैश्चिद्व्याख्यातम् ।
तथा च स्मृत्यंतरे—“ कर्तुश्च पुत्रदाराणां जन्मर्क्षाणि विवर्जयेत् ।
“ विपदि प्रत्यरे चैव वधे चंद्राष्टमे तथा । वैना शिके तदंशे च श्राद्धकर्म प्रशस्यते ” ॥ इति ।
संग्रहेऽपि—“ वर्ज्यं पौष्णमघांगनातनययोर्जन्मत्रयं चात्मनः ” । इति । '''वृद्धगार्ग्योऽपि—'''
२० “ प्राजापत्ये च पौष्णे च पित्रर्क्षे भार्गवे तथा । यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति” ॥ इति ।
प्राजापत्यं रोहिणी । पौष्णं रेवती । पित्रर्क्षं मघानक्षत्रम् । यत्तु बृहन्मनुवचनम्—
“ रेवत्यादिषु ऋक्षेषु स्वात्यंतेषु यत्रा शशी । अर्के नभस्यकन्यास्थे श्राद्धकर्म प्रकीर्तितम्” ॥ इति
तद्विशेषवचनेन बाधितत्वाद्रवतीरोहिणीमघाव्यतिरिक्तविषयम् । '''कालादर्श—'''
“ न नंदासु भृगोर्वारे रौहिण्यां च त्रिजन्मसु । रेवत्यां च मघायां च कुर्याद्रापरपाक्षिकम् ” ॥ इति ।
२५ “ नंदायां भार्गवदिने त्रयोदश्यां त्रिजन्मसु । एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ” ॥
'''हेमाद्रौ—'''
“ दर्शपाते भरण्यां च द्वादश्यां पक्षमध्यके । तथा तिथिं च नक्षत्रं वारं च न विशोधयेत् ” ॥
स्मृत्यंतरे—
“ अपुत्रोऽनग्निकश्चैव विधवा ब्रह्मचारिणः । दर्शं महालयं कुर्युः पुत्रवान्वर्जयेद् गृही ” ॥ इति ।
३० '''गार्ग्यः—'''“ मघासु कुर्वतः श्राद्धं ज्येष्ठपुत्रो विनश्यति ” । '''कार्ष्णाजिनिस्तु—'''
“ऋते नैमित्तिकं काम्यं श्राद्धं यस्तु मघादिने । कुर्यात्तज्ज्येष्ठपुत्रस्य नाशः स्यादिति निश्चितम्”॥ इति
'''अङ्गिराश्च—'''
“त्रयोदश्यां कृष्णपक्षे यः श्राद्धं कुरुते नरः । पञ्चत्वं तस्य जानीयात् ज्येष्ठपुत्रस्य निश्चितम् ” ॥
अत्र त्रयोदश्यां निषेधः केवलपितृवर्गश्राद्धविषयः ।
{{rule}}<noinclude></noinclude> niuu2y1twow8wy5p5h3rj1higg3knel पृष्ठम्:Smriti mukta phalam.pdf/७८९ 104 166792 419814 2026-11-10T15:59:19Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''मघात्रयोदश्याम् ।'''|७४९}} {{rule}} तथा च '''कार्ष्णाजिनिः—'''
“ श्राद्धं तु नैकवर्गस्य त्रयोदश्यामुपक्रमेत् । आवृतास्तत्र ये च स्युः प्रजां हिंसंति तेऽप्रजान्”॥... नवीन पृष्ठं निर्मीत अस्ती 419814 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''मघात्रयोदश्याम् ।'''|७४९}} {{rule}} तथा च '''कार्ष्णाजिनिः—'''
“ श्राद्धं तु नैकवर्गस्य त्रयोदश्यामुपक्रमेत् । आवृतास्तत्र ये च स्युः प्रजां हिंसंति तेऽप्रजान्”॥ इति ।
“ इच्छेत्त्रयोदशीश्राद्धं पुत्रवान्यः सुतायुषोः । एकस्यैव तु नो दद्यात्पार्वणं स समाचरेत्”॥ इति ।
यः पुत्रवान्सुतायुषोरभिवृद्धिमिच्छेद्स एकस्य एकवर्गस्य श्राद्धं नो दद्यात् । अपि तु मातामहवर्गाे-
द्देशेनापि पार्वणं समाचरेदित्यर्थः । अत्राक्षिप्य समाहितं '''माधवीये—'''“ ननु केवलपितृवर्गोद्दिशेन ५
श्राद्धप्राप्तौ सत्यां तन्निषेधो युक्तः “ पितरो यत्र पूज्यंते तत्र मातामहा ध्रुवम् ” इति धौम्य-
वचनेनेन केवलैकवर्गोद्दिशेन श्राद्धनिषेधात्प्राप्तिरेव नास्ति । अतो नैवं व्यवस्था युक्ता । मैवम् ।
सत्यामपि धौम्यस्मृतौ व्यामोहादिना प्राप्तस्यैकवर्गश्राद्धस्य निषेधाद्यथारागप्राप्तस्य कलंज-
भक्षणस्य न कलंजं भक्षयेत् इति निषेधः । तस्मादेकवर्गोद्दिशेन मघात्रयोदश्यां श्राद्धनिषेधः ।
न तु श्राद्धस्यैव तत्र श्राद्धस्य प्रशस्तत्वात् ” इति । मघायुक्तत्रयोदश्यामेकवर्गोद्दिशेन श्राद्धं १०
कर्तव्यम् । वर्गद्वयोद्देशेन तु श्राद्धं तत्र प्रशस्तम् । वर्गद्वयोद्देशेनापि केवलत्रयोदश्यां केवल-
मघायां वा श्राद्धं न कर्तव्यमिति चंद्रिकामाधवीयादौ निर्णीतम् । कालादर्शपितृमेधसारयोस्तु
केवलत्रयोदश्यामपि वर्गद्वयोद्देशेन श्राद्धं प्रशस्तमित्युक्तम् । तथा च '''वृद्धगार्ग्यः—'''
“ नभस्यापरपक्षे या तिथिः स्यात्तु त्रयोदशी । गजच्छायेति सा प्रोक्ता पितॄणां तृप्तिकारिणी” ॥
'''महाभारतेऽपि—''' १५
“ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्छ्राद्धं त्रयोदशीम् । नावश्यं तु युवानोऽस्य प्रमीयंते नरा गृहे”॥ इति ।
'''शंखः—'''“प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं तु कर्तव्यं मधुना पायसेन च ॥
“प्रजांमित्रां यशः स्वर्गमारोग्यं च धनं तथा । नॄणां श्राद्धे सदा प्रीताः प्रयच्छंति पितामहाः”॥ इति ।
'''याज्ञवल्क्योऽपि—'''
“ यद्ददाति गयास्थश्च सर्वमानंत्यमश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ” ॥ इति । २०
अत्र '''विज्ञानेश्वरः—'''“ तथा वर्षात्रयोदश्यां भाद्रपदकृष्णपक्षत्रयोदश्यां
विशेषतो मघायुक्तायां यत्किंचिद्दीयते तत्सर्वमानंत्यमश्नुते इति गतेन संबंधः ” इति ।
'''मनुरपि—'''
“अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम् । पायसं मधुसर्पिर्भ्यां छायायां कुंजरस्य च” ॥ इति ।
'''स्मृत्यंतरे—''' २५
“ यदेंदुः पितृदैवत्ये हंसश्चैव करे स्थितः । याम्या तिथिर्भवेत्सा हि गजच्छाया प्रकीर्तिता”॥ इति ।
पितृदैवत्यं मघा । हंसः सूर्यः । करो हस्तनक्षत्रम् । याम्या त्रयोदशी । '''चंद्रिकायामपि—'''
“ हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी । तिथिवैवस्वती नाम सा छाया कुंजरस्य तु” ॥ इति ।
तत्रैव—
“ त्रयोदशी भाद्रपदी कृष्णा मुख्या पितृप्रिया । तृप्यंति पितरस्तस्यां वदंति च शतं समाः ॥ ३०
“ मघायुतायां तस्यां तु जलाद्यैरपि तोषिताः । कृष्णायां पितरस्तद्वद्वर्षाणामयुतायुतम् ” ॥ इति ।
'''हेमाद्रौ—'''
“विभक्ता वाऽविभक्ता वा कुर्युः श्राद्धं पृथक्सुताः । मघायुक्तत्रयोदश्यां विभक्ता एव चान्यदा”॥ इति ।
अत्र मघात्रयोदश्यां श्राद्धे पिण्डनिर्वपणं न कुर्यात् । तस्या युगादित्वेन पिंडदाननिषेधात् ।
{{rule}} १ ख-स्वर्ग ।
९५-२६<noinclude></noinclude> d5k81ex8dcxbshvrxixenl5gm93812f पृष्ठम्:Smriti mukta phalam.pdf/७९० 104 166793 419815 2026-11-10T16:00:20Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७५०|'''विषशस्त्रादिहतानाम् ।'''|}} {{rule}} तथा च '''पुलस्त्यः—'''
“ अयनद्वितये श्राद्धं विषुवद्वितये तथा । युगादिषु च सर्वासु पिण्डनिर्वपणादृते ” ॥ कर्तव्य-
मित्यध्... नवीन पृष्ठं निर्मीत अस्ती 419815 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७५०|'''विषशस्त्रादिहतानाम् ।'''|}} {{rule}} तथा च '''पुलस्त्यः—'''
“ अयनद्वितये श्राद्धं विषुवद्वितये तथा । युगादिषु च सर्वासु पिण्डनिर्वपणादृते ” ॥ कर्तव्य-
मित्यध्याहार्यम् । मघान्वितत्वेन पिंडनिर्वपणं नास्ति । तथा चाविपुराणे—
“ संक्रांतावुपवासेन पारेणेन च भारत । मघायां पिंडदानेन ज्येष्ठः पुत्रो विनश्यति ” ॥
५ स्मृतिरत्ने—“अत्र मघात्रयोदश्यां त्रयोदशिनिबंधनं एकवर्गश्राद्धनिषेधः । मघानिबंधनः पिंडदान-
निषेधश्च द्रष्टव्यः” इति । एतन्मघात्रयोदशीश्राद्धं मलमासेऽपि कर्त्तव्यम् । महालयश्राद्धं तु मल-
मासे न कर्त्तव्यमिति प्रतिपादितमधस्तात् । चतुर्दश्यां महालयनिषेधोऽप्यशस्त्रहतविषयः । अप-
मृत्युहतानां तु चतुर्दश्यामेव महालयश्राद्धमेकोद्दिष्टं कार्यम् । यदाह '''सुमंतुः—'''
“ समत्वमागतस्यापि पितुः शस्त्रहतस्य तु । एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालये” ॥ इति ।
१० समत्वमागतस्य सपिंडीकृतस्य उभयतो नियमोऽत्राभिप्रेतः । शस्त्राद्विहतस्यैव चतुर्दश्यां चतुर्दश्या-
मेव शस्त्रादिहतस्येति च महालयग्रहणान्महाळयविषय एवार्थं नियमः । अतः शस्त्रहतस्य
मृताहादौ यथातिथि पार्वणमेव कार्यम् । शस्त्रहतस्यैवेति दुर्मरणोपलक्षणम्
“विषशस्त्रश्वापदादितिर्यक्ब्राह्मणघातिनाम् । चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता ” ॥ इति
मरीचिस्मरणात् । यत्तु गार्ग्यवचनम्—
१५ “ चतुर्दश्यां तु यच्छ्राद्धं सपिंडीकरणात्परम् । एकोद्दिष्टविधानेन तत्कार्यं शस्त्रघातिनः” ॥ इति ।
अस्यार्थश्चंद्रिकायामुक्तः—“शस्त्रघातिनो यद्वाऽपरपाक्षिकश्राद्धं चतुर्दश्यां क्रियते तदैवेकोद्दिष्ट-
विधानेन नान्यथेत्यर्थः” ॥ इति । अत एव '''सुमंतुः—'''
“ एकपिंडीकृतानां तु पृथक्त्वं नोपपद्यते । सपिंडीकरणादूर्ध्वमृते कृष्णचतुर्दशीम् ” ॥ इति ।
एतच्च सदैवतं कार्यम्—
२० “ प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टं सदैवतम् । तच्छ्राद्धं दैवहीनं चेत्कुलक्षयकरं भवेत् ” ॥ इति
स्मरणात् । माधवीये दिनांतरेऽपि पितामहादितृप्त्यर्थं महालयश्राद्धं कार्यम् । चतुर्दश्यां महालय-
श्राद्धस्य एकोद्दिष्टत्वेन विहितत्वात्तेन तत्र पितामहादितृप्तेरभावादिति । यस्य पितृपितामहप्रपिता-
महास्त्रयोऽपि शस्त्रादिना हताः तेषां मध्ये द्वौ वा शस्त्रादिहतौ तेषां चतुर्दश्यां प्रत्येकमेकोद्दिष्ट-
श्राद्धं कार्यमिति पूर्वं प्रतिपादितम् । त्रिदंडिन एकदंडिनो वा यतेर्महालयश्राद्धं द्वादश्यामेव
२५ पार्वणविधानेन कुर्यान्न तिथ्यंतरे । तदुक्तं वाराहे—
“संन्यासिनोऽप्याब्दिकादि पुत्रः कुर्याद्यथाविधि । महालये तु यच्छ्राद्धं द्वादश्यां पार्वणेन तु”॥ इति ।
संग्रहेऽपि—
“द्वादश्यां पार्वणेनैव श्राद्धं कुर्यान्महालये । सुतः संन्यासिनोऽन्यत्र यथातिथि समाचरेत्”॥ इति ।
संन्यासिनो द्वादश्यामेव महालयश्राद्धमिति नियमः । न तु द्वादश्यां संन्यासिन एवेति । तेन
३० द्वादश्यामन्येषामपि महालयश्राद्धं भवति । तथा च “अमापाते भरण्यां च द्वादश्यां पक्षमध्यके”
इति वचनं पूर्वमुदाहृतम् । इममेवार्थं मभिप्रेत्य कालादर्शकारः—
“ श्राद्धं शस्त्रहतस्यैव चतुर्दश्यां महालये । द्वादश्यामेव कुर्वीत यतेरिति विनिश्चयः ” ॥ इति ।
तिथिविशेषात्फलविशेषमाह याज्ञवल्क्यः ( आ. २६२–२६४ )—
“ कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि । द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस्तथा ॥
३५ “ ब्रह्मवर्चस्विनः पुत्रान्सुवर्णरूप्ये सकुप्यके । ज्ञातिश्रेष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥
{{rule}} १ मन्व्थ ।<noinclude></noinclude> 80lf7tbx0vtps54tvmde4qbdheglwui पृष्ठम्:Smriti mukta phalam.pdf/७९१ 104 166794 419816 2026-11-10T16:01:35Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''मासिश्राद्धे उद्देश्याः ।'''|७५१}} {{rule}} “ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ” ॥ इति ।
कन्यावेदिनः जा... नवीन पृष्ठं निर्मीत अस्ती 419816 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''मासिश्राद्धे उद्देश्याः ।'''|७५१}} {{rule}} “ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ” ॥ इति ।
कन्यावेदिनः जामातारः । कुप्यं त्रपुसीसादि । एतन्न नित्यत्वनिराकरणार्थं किंतु कालविशेषा-
त्फलविशेषो भवतीत्येवंपरम् । अयं कृष्णप्रतिपदादितिथिषु श्राद्धविधिः सर्वेष्वेवापरपक्षेषु न
भाद्रपदापरपक्ष एव । अत एव '''शौनकः—''' “ प्रौष्ठपद्यापरपक्षे मासि मासि चैवम् ” इति । मासि-
मासीति वीप्सया मासिश्राद्धस्य नित्यत्वमवगम्यते । '''आपस्तंबः—'''“ मासि मासि कार्य- ५
मपरपक्षस्यापराह्नः श्रेयांस्तथाऽपरपक्षस्य जघन्यान्वहानि सर्वेष्वेवापरपक्षस्याहःसु क्रियमाणे
पितॄन्प्रीणाति । कर्तुः कालनियमात्फलविशेषः प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्यं जायते ।
द्वितीये स्तेनाः । तृतीये ब्रह्मवर्चसिनश्चतुर्थे क्षुद्रपशुमान्पंचमे पुमांसो बह्वपत्यो न चानपत्यः
प्रमीयते । षष्ठे अध्वशीलो अक्षशीलश्च । सप्तमे कृषेराद्धिः । अष्टमे पुष्टिर्नवमे एकखुरः ।
दशमे व्यवहारराद्धिरेकादशे कृष्णायासं त्रपुसीसं द्वादशे पशुमांस्त्रयोदशे बहुपुत्रो बहुमित्रो १०
दर्शनीयापत्यो युवमारिणस्तु भवंति । चतुर्दश्याम् आयुधेराद्धिः पंचदशे पुष्टिम् ” इति ।
“अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम्” इति स्मृतिश्च । अत्र मासिश्राद्धे उद्देश्याः आप-
स्तंबोक्ताः—“पितृपितामहप्रपितामहा उद्देश्याः । महालये इति उद्देश्याः कारुणिकाः । महालये तु
पित्रादयस्त्रयः मात्रादयस्तिस्र अशक्तौ सपत्नीकाः पित्रादयस्तिस्रः मातामहादयश्च त्रय उद्देश्याः ।
'''कालादर्श—''' १५
“ वर्गद्वयं समुद्दिश्यं श्राद्धमावन्तदैविकम् । कुर्यात्पार्वणमार्गेण नो चेद्दोषो महान्भवेत् ” ॥ इति ।
वर्गद्वयं पितृवर्गं मातामहवर्गं च समुद्दिश्य आद्यंतदैविकं आदौ वैश्वदैविकं अंते वैष्णवं
यस्येत्यर्थः । तदाह '''देवलः—'''
“ दैवाद्यं नैव कुर्वीत दैवांतं नैव कुत्रचित् । दैवाद्यंतं हि कुर्वीत श्राद्धरक्षणहेतुना ”॥ इति ।
“ पितरो यत्र पूज्यंते तत्र मातामहा अपि ” । इति वचनेनेन मातामहानामप्युद्देश्यता । २०
“ अन्वष्टकासु वृद्धौ च प्रतिसंवत्सरे तथा । महालये गयायां च सपिंडीकरणात्पुरा ।
“ एषु मातुः पृथक्कुर्यादन्यत्र पतिना सह ” इति वचनान्मात्रादीनामप्युद्देश्यत्वमिति
प्रतिपादितमधस्तात् । पितरि मृते मातरि जीवंत्यां पितामहादीनामत्र वरणं नास्ति “ जीवेद्यदि
तु वर्गादिस्तद्वर्गं परिवर्जयेत् ” इति स्मरणात् ।
पिंडदानं तु कर्त्तव्यं तत्सहभावात्तिलोदकमपि कार्यमित्याहुः । तथा च स्मृत्यंतरे— २५
“जीवन्त्यां मातरि श्राद्धं तद्वर्गस्य न कारयेत् । सपत्नीमातरि तथा जीवेन्मातामहोऽपि च”॥ इति ।
उभयविधमात्रोरपि जीवन्त्योयं निषेध इत्यर्थः । तथा च '''पूर्णसंग्रहे—'''“ महालयादिषु सपत्नी-
मातरमारभ्य वरणं कर्तव्यम्” इति । कारुणिकसंज्ञानां पितृव्यादीनामप्युद्देश्यत्वमुक्तं स्मृत्यंतरे—
“ दैवं पिता ततो माता सपत्नी जननी तथा । मातामहाः सपत्नीकाः पितृव्या भ्रातरः सुताः ॥
“ पितृष्वसा मातुलश्च तद्भगिन्यश्च जामयः । भगिनी दुहिता भार्या श्वशुरो भावुकः स्नुषा ॥ ३०
“स्यालको गुरुराचार्यः स्वामी सख्यादयः क्रमात् । भोज्या महालयश्राद्धे एते कारुणिकाव्हयाः”॥इति ।
'''मनुः—'''
“ अपुत्राः स्वकुले ये च स्त्रियो वा पुरुषा मृताः । एकोद्दिष्टेन तेभ्योऽपि दद्यादापरपाक्षिकम् ” ॥
'''अन्यच्च—'''
“ श्राद्धं कुर्यादपुत्रस्य नित्यश्राद्धं महालये । एकोद्दिष्टेन विधिना न कुर्यात्पुत्रिणे क्वचित् ” ॥ इति । ३५
{{rule}}<noinclude></noinclude> b70fsqtpzdgsx97wghwtxkyqcsyxnmx पृष्ठम्:Smriti mukta phalam.pdf/७९२ 104 166795 419817 2026-11-10T16:02:32Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७५२|'''अपुत्रादयः ।'''|}} {{rule}} '''चतुर्विंशतिमतेऽपि—'''
“ आचार्यगुरुशिष्येभ्यः सखिज्ञातिभ्य एव च । तत्पत्नीभ्यश्च सर्वाभ्यस्तथैव च जलांजलीन् ॥
“ एतेभ्यस्तु सदा... नवीन पृष्ठं निर्मीत अस्ती 419817 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७५२|'''अपुत्रादयः ।'''|}} {{rule}} '''चतुर्विंशतिमतेऽपि—'''
“ आचार्यगुरुशिष्येभ्यः सखिज्ञातिभ्य एव च । तत्पत्नीभ्यश्च सर्वाभ्यस्तथैव च जलांजलीन् ॥
“ एतेभ्यस्तु सदा पिंडान्दद्याच्छ्राद्धप्रदो नरः । एकस्मिन्ब्राह्मणे सर्वानाचार्यादीन्प्रपूजयेत् ” ॥ इति ।
स्वयमकृत्वा परमहाळये नाश्नीयात्—
५ “अकृत्वाऽन्यत्र नाश्नीयाच्छ्राद्धं चापरपाक्षिकम् । पश्चात्कृतेऽपि श्राद्धेऽस्मिंस्तच्छ्राद्धं निष्फलं भवेत्”॥
इति स्मृतेः । स्मृत्यंतरे—
“ पित्रोर्मृतदिनात्पूर्वं न तन्मासे महालयम् । पित्रोः श्राद्धं तु निर्वर्त्य महालयमथाचरेत् ” ॥ इति ।
एतच्च महालयश्राद्धं नित्यम् । शाकेनाप्यपरपक्षं नातिक्रामेत्
“ सूर्ये कन्यागते श्राद्धं यो न कुर्याद् गृहाश्रमी । धनं पुत्राः कुतस्तस्य पितॄनिश्वासपीडनात् ” ॥
१० इत्यादि स्मृतेः । तथा च '''कार्ष्णाजिनिः—'''
“ मृताहेऽहरहर्दर्श श्राद्धं यच्च महालये । तन्नित्यमुदितं सद्भिनित्यवत्तद्विधानतः ” ॥ इति ।
अहरहः अहिन्यहनि यच्छ्राद्धं तदपि नित्यमित्यर्थः । तत्र '''भास्करः—'''
“ अहिन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्तितम् । वैश्वदेवविहीनं तु अशक्तावुदकेन तु ” ॥ इति ।
अस्य पार्वणत्वेन प्राप्तं वैश्वदेवं निरस्यति वैश्वदेवविहीनमिति । अहन्यहनीत्येतदत्यन्तश्रद्धालु-
१५ विषयं सुसमृद्धविषयं वा । यदाह '''देवलः—'''
“ एतेन विधिना श्राद्धं कुर्यात्संवत्सरं सकृत् । त्रिऋतुर्वा यथा श्राद्धं मासे मासे दिने दिने”॥ इति ।
एतेन विधिना पार्वणविधिना प्रतिसंवत्सरमेकवारं विशिष्टेऽन्हि प्रतिसंवत्सरं त्रिवारं वा चतुर्षु
चतुर्षु मासेषु विशिष्टेऽन्हि प्रतिसंवत्सरं चतुर्वारं वा त्रिषु त्रिषु मासेषु विशिष्टेऽन्हि मासे मासे वा
विशिष्टेऽन्हि दिने दिने वा यथाश्राद्धं श्रद्धानुसारण शक्त्यनुसारेण च नित्यश्राद्धं कुर्यादित्यर्थः ।
२० अस्य च नित्यश्राद्धस्य कल्पः सम्यगान्हिकेऽस्माभिः प्रपंचितः ।
'''वृद्धिश्राद्धनिरूपणम् ।''' अथ वृद्धिश्राद्धम् । तच्च नैमित्तिकम्
“ प्रेतश्राद्धं सपिंडत्वंतं संक्रांतिग्रहेषु च । संवत्सरोदकुंभं च वृद्धिश्राद्धं निमित्ततः ” ॥ इति
गालवस्मरणात् । '''कात्यायनः—'''
“ स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु । पिंडानोद्वाहनात्तेषां तस्याभावे तु तत्क्रमात् ”॥ इति ।
२५ अयमर्थः—सुतसंस्कारकर्मसु जातकदिषु तेषां सुतानामोद्वाहनाद्दिवाहपर्यंतं पार्वणेषु पिता
स्वपितृभ्यः पिंडांनद्याद्वृद्धिश्राद्धं दद्यात्तस्याभावे तु तत्क्रमात् “ असंस्कृतास्तु संस्कार्या भ्रातृभिः
पूर्वसंस्कृतैः”इत्यादि वचनांत्तेषु जातकमादिषु यो गन्यमानः कर्तुः कमस्तेन क्रमेण ज्येष्ठभ्रात्रादिः
कुर्यात्पूर्वसंस्कृतमात्राद्यसंभवे व्रतसमावर्त्तनादौ स्वयं कुर्यादिति ।
“ असगोत्रः सगोत्रो वा य आचार्य उपायने । तदोपनेयपित्रादीनुद्दिश्याभ्युदयं चरेत् ॥
३० “ कन्यकानामयं मार्गो मुनिभिः परिकीर्तितः । उपनीतस्तु पित्रादेरभावेऽन्यं नियोजयेत् ।
“ आचार्यपितरस्तत्र वृद्धिश्राद्धे तु देवताः ” ॥ इति ।
'''विष्णुपुराणेऽपि—'''
“ जातस्य जातकदि क्रियाकांडमशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम्”॥ इति ।
{{rule}} १ कख-क्वचित् । २ याज्ञ. व्य. १२४<noinclude></noinclude> 7oymv55xipq3hmc5nfelu2vauh47tu4 पृष्ठम्:Smriti mukta phalam.pdf/७९३ 104 166796 419818 2026-11-10T16:03:21Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''वृद्धिश्राद्धम् ।'''|७५३}} {{rule}} '''वसिष्ठोऽपि—'''
“ जन्मन्यथोपनयने विवाहे पुत्रकस्य च । पितॄन्नांदीमुखानान्न तर्पयेत् विधिपूर्वकम् ” ॥ इति ।
'''सायणीये—'''
“... नवीन पृष्ठं निर्मीत अस्ती 419818 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''वृद्धिश्राद्धम् ।'''|७५३}} {{rule}} '''वसिष्ठोऽपि—'''
“ जन्मन्यथोपनयने विवाहे पुत्रकस्य च । पितॄन्नांदीमुखानान्न तर्पयेत् विधिपूर्वकम् ” ॥ इति ।
'''सायणीये—'''
“ नांदीश्राद्धं पिता कुर्यादाचपाणिग्रहावधि । अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नांदिकम् ”॥ इति ।
आयपाणिग्रहावधि प्रथमविवाहपर्यन्तमित्यर्थः । ५
“ नान्दीश्राद्धं पिता कुर्यात्पुत्रीपुत्रविवाहयोः । उत्तरेषु विवाहेषु स्वयं कुर्यात्तु नान्दिकम् ”॥ इति ।
द्वितीयादिविवाहे तु जीवत्पितापि स्वयमेव कुर्यात्
“ उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौभिके मखे । तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः ” ॥ इति
स्मरणात् । नांदीमुखश्राद्धस्यानुष्ठानं क्वचिद्विषये तंत्रेण कार्यं न त्वावृत्त्येत्याह '''कात्यायनः—'''
“ गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् । सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु ” ॥ १०
अस्यार्थः—उपनयनात्प्राक् स्वकाले कथंचिदकृतचौळपर्यंतसंस्कारस्य यानि जातकमादीनि उप-
नयनात्पूर्वं संभूय क्रियंते तथा व्रतानि यद्वा संभूय क्रियंते तथा देशांतरगतस्य मृत इति बुद्ध्या
कृतप्रेतकार्यस्य कालांतरे आगतस्य यानि जातकमादीनि पुनः संभूय क्रियंते तथा पतितस्य
कृतप्रायश्चित्तस्य यानि जातकमादीनि पुनः संभूय क्रियंते तेषु गणशः संभूय क्रियमाणेषु जात-
कर्मादिषु संस्कारेषु प्रथमं क्रियमाणस्य संस्कारक्रमेण आदौ मातृपूजायां नांदीश्राद्धस्य सकृत् १५
तंत्रेणानुष्ठानं न पृथगादिषु संस्कारकर्मणामादिषु न पृथगनुष्ठानम् ” इति । स्मृत्यंतरेऽपि—
“ एकदा क्रियमाणानामनेकशुभकर्मणाम् । वृद्ध्यंकुरप्रतिसरान्सकृदेव समाचरेत् ” ॥ इति ।
'''आश्वलायनः—'''“सहैवाभ्युदयश्राद्धं स्वस्तिवाचनमेव च । सहकर्माणि कुर्याद्वा पृथग्वा क्रमतश्चरेत् ॥
“ नामनिष्क्रमणौ कार्यों सहापदि विजानता । तथा पुंसवसीमन्तौ बलिसीमन्तको च वा ॥
“ जातकत्ये त्वतीते तु नाम्ना वा सह संचरेत् । अकृतानामतीतानां निष्कृतिः स्याद्धि कर्मणाम् ॥ २०
“ चौलोपनयने चैव समावर्त्तविवाहकौ । सह कर्मत्रयं जातु सामस्वपि समाचरेत् ॥
“ एतेभ्योऽन्यानि कर्माणि द्वावकार्यो सहैव तु ” ॥ यत्तु कात्यायनोक्तम्—
“ मातृयागक्रियापूर्वं कार्यं श्राद्धं तु मंगले । ऋतुत्रयेऽपि कर्तव्यं न चान्यल्लघुमंगलम् ” ॥ इति
तद्यथाकालं क्रियमाणसंस्कारविषयम् । मातृपूजाऽपि तेनोक्ता—
“ कर्मादिषु च सर्वेषु मातरः सगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयंति ताः । २५
“ प्रतिमासु च शुद्धासु लिखिता वा पटादिषु । गंधपुष्पाक्षतैश्चैव नैवेद्यैश्च पृथग्विधैः ।
“ गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेनाः स्वधा स्वाहा मातरो लोकमातरः ॥
“ धृतिः पुष्टिस्तथा तुष्टिः आत्मदेवतया सह । आभ्योऽर्घ्यं गंधपुष्पं च धूपदीपं निवेदयेत् ।
“आयुष्याणि च शांत्यर्थं जप्त्वा तत्र समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत् ” ॥ इति ।
आत्मदेवता आत्मनोऽभीष्टदेवताः आयुष्याणि च ‘आ नो भद्राः क्रतव’ इत्यादिसूक्तानि । षड्भ्यः ३०
पितृभ्यः पित्रादिभ्यः मातामहादिभ्यश्च मातृश्राद्धपूर्वकं श्राद्धदानमुपक्रमेदित्यर्थः । तत्र '''शातातपः—'''
“ मातृश्राद्धं तु पूर्वं स्यात्पितॄणां तदनंतरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ।
“ नांदी[कृ]त्वा तु पितॄञ्श्राद्धे कर्म वैदिकमाचरेत् ” ॥ इति । मातुः मातृपितामहीप्रपितामहीनां पितॄणां
पितृपितामहप्रपितामहानां मातामहानां मातामहमातृपितामहमातृप्रपितामहानां क्रमेण पार्वणविधिना
श्राद्धत्रयं कुर्यादित्यर्थः । ३५
{{rule}}<noinclude></noinclude> 3cet600d56e70f252zdy2zbeo94rurn पृष्ठम्:Smriti mukta phalam.pdf/७९४ 104 166797 419819 2026-11-10T16:04:24Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७५४|'''श्राद्धत्रयस्य कालभेदाः ।'''|}} {{rule}} तथा '''चंद्रिकायाम्—'''
“ वृद्धौ समर्चयेद्विद्वान्नित्यं नांदीमुखान् पितॄन् । संपादितो विशेषस्तु शेषं पार्वणवद्भवेत्... नवीन पृष्ठं निर्मीत अस्ती 419819 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७५४|'''श्राद्धत्रयस्य कालभेदाः ।'''|}} {{rule}} तथा '''चंद्रिकायाम्—'''
“ वृद्धौ समर्चयेद्विद्वान्नित्यं नांदीमुखान् पितॄन् । संपादितो विशेषस्तु शेषं पार्वणवद्भवेत् ” ॥ इति ।
वृद्धिश्राद्धे नांदीमुखसंज्ञान् समर्चयेदिति विशेषः । नांदीमुखसंज्ञारूपो वैशेषिको धर्मः संपादितः
प्रतिपादितः । शेषं वैशेषिकधर्मादन्यद्धर्मजातं पार्वणवदित्यर्थः ।
५ उक्तश्राद्धत्रयस्य कालभेदमाह '''गार्ग्यः—'''
“ मातृश्राद्धं तु पूर्वेद्युः कर्माहन्येव पैतृकम् । मातामहं चोत्तरेद्युः वृद्धौ श्राद्धत्रयं स्मृतम् ” ॥ इति ।
अत्र विशेषमाह '''शातातपः—'''
“ पूर्वाह्णे मातृकं श्राद्धं मध्यान्हे पैतृकं तथा । ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम् ” ॥ इति ।
एवं दिनत्रयपक्षो यदा दुष्करः तदा त्वाह '''शातातपः—'''
१० “ पृथक् दिने त्वशक्तश्चेदेकस्मिन्पूर्ववासरे । श्राद्धत्रयं तु कुर्वीत वैश्वदेवं तु तांत्रिकम् ” ॥ इति ।
फलदेशकालद्रव्यदेवतासाधारणाद्यन्न वैश्वदेविकं तंत्रेणैव कार्यमित्यर्थः । एतच्च पूर्वाह्णे कर्तव्यम्
“ पूर्वाह्ने दैविकं कार्यमपराह्णे च पैतृकम् । एकोद्दिष्टं तु मध्यान्हे प्रातर्वृद्धिनिमित्तकम् ” ॥ इति
प्रचेतःस्मृतेः । प्रातः शब्देनात्र पूर्वाह्ण उच्यते “ पूर्वाह्णे वै भवेद्वृद्धिः विना जन्मनिमित्तकम् ”
इति स्मरणात् । तथा च '''गार्ग्यः—'''
१५ “ललाटसंमिते भानौ प्रहरः प्रथमः स्मृतः । स एवाभ्यर्थसंयुक्तः प्रातरित्यभिधीयते ”॥ भरद्वाजोऽपि
“ पूर्वाह्ण एव नांदी स्यादपराह्णे तु पैतृकम् ” ॥ इति । अग्न्याधाननिमित्तं त्वपराह्णे कार्यम्—
“आमश्राद्धं तु पूर्वाह्णे सिद्धानेन तु मध्यतः । पार्वणं चापराह्वे तु वृद्धिश्राद्धं तथाग्निकम् ” ॥ इति
गालवस्मरणात्तत्र । नियतकालसीमन्तान्नप्राशनचौळोपनयनादिनिमित्तं ब्राह्मणभोजनमुपनयनवद्-
ब्राह्मणान्भोजयित्वेत्यादिना कर्मादिषु विहितं श्राद्धं तस्मिन्नेव दिने पूर्वाह्णे अनुष्ठेयं विवाहाद्यव॑ते
२० विहितमभ्युदयश्राद्धं पूर्वाह्णे विवाहादौ सति तस्मिन्नेव दिने पूर्वाह्णे कर्त्तव्यम् । रात्रौ विवाहादौ
सति श्वः प्रातः कर्त्तव्यम् । अनियतनिमित्तं पुत्रजन्मग्रहणादिश्राद्धं निमित्तानंतरं कुर्यात् । यदाह
'''लोकाक्षिः—'''
“ नियतेषु निमित्तेषु प्रातर्वृद्धिनिमित्तकम् । पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुधः ” ॥ इति ।
तथा '''कार्ष्णाजिनिः—'''
२५ “ प्रादुर्भावे पुत्रपुत्र्योर्ग्रहणे चंद्रसूर्ययोः । स्नात्वाऽनंतरमात्मीयान्पितॄन् श्राद्धेन तर्पयेत् ”॥ इति ।
उक्तमर्थमभिप्रेत्य कालादर्शकारः—
“ नैमित्तिकं तु यच्छ्राद्धं निमित्तानंतरं भवेत् । नांदीमुखाव्हयं प्रातः आन्हिकं त्वपराह्नके ”॥ इति ।
नांदिमुखनिमित्तान्याह स एव—
“ सीमंतव्रतचौळनामकरणान्नाप्राशनोपापनस्नानाधानविवाहयज्ञतयोत्पत्तिप्रतिष्ठासु च ।
३० “पुंसूत्यावसथप्रवेशनसुतायास्यावलोकाश्रमस्वीकारक्षितिपाभिषेकदयितायत्तौ च नांदीमुखम्”॥इति।
व्रतानि प्राजापत्यादीनि । उपायानमुपनयनं स्नानं समावर्त्तनं प्रतिष्ठा देवताप्रतिष्ठा वापीकूपतटाकादि
प्रतिष्ठा च । पुंसूतिः पुंसवनम् । आवसथप्रवेशनं गृहप्रवेशनं । सुतायास्यावलोकः सुतस्य सुता-
याश्च आद्यः प्रथमः आस्यावलोको मुखप्रेक्षणं दयितायाः भार्यायाः आयर्तुः प्रथमद्रजः प्रादुर्भावः ।
एतेषु निमित्तेषु नांदीमुखं कार्यमित्यर्थः । तत्र '''लोकाक्षिः—'''
३५ “नामाग्नचौळगोदानसोपानयनपुंसवे । स्नानाधानविवाहेषु नांदीश्राद्धं विधीयते” ।
{{rule}}<noinclude></noinclude> gtnjaq02v94hsx10mnwrz4xqs7y4cky पृष्ठम्:Smriti mukta phalam.pdf/७९५ 104 166798 419820 2026-11-10T16:05:17Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''तत्र ब्राह्मणाः ।'''|७५५}} {{rule}} '''कार्ष्णाजिनिः—'''
“ कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा ॥
“सीमंतोन्नयने चैव पुत्र... नवीन पृष्ठं निर्मीत अस्ती 419820 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''तत्र ब्राह्मणाः ।'''|७५५}} {{rule}} '''कार्ष्णाजिनिः—'''
“ कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा ॥
“सीमंतोन्नयने चैव पुत्रादिमुखदर्शने । नांदीमुखांन्पितृगणान्पूजयेत्प्रयतो गृही”॥ इति । '''कात्यायनः—'''
“ पुत्रोत्पत्तिप्रतिष्ठासु तन्नोंजीत्यागबंधयोः । चूडायां च विवाहे च वृद्धिश्राद्धं समाचरेत् ” ॥ इति ।
'''वृद्धगार्ग्यः—''' ५
“ अग्न्याधानाभिषेकादाविष्ट्यापूर्ते श्रिया ऋतौ । वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे तथा ” ॥ इति ।
'''पारस्करः—'''
“ निषेककाले सोमे च सीमंतोन्नयने तथा । ज्ञेयं पुंसवने श्राद्धं कर्मांगं वृद्धिवत्कृतम् ” ॥ इति ।
निषेककाले गर्भाधानकाले सोमशब्दोऽत्राधानाग्निहोत्रादिकर्मणामुपलक्षणार्थः ।
“ गर्भाधाने विवाहे च सुवने जातकर्मणि । नामोपाकर्मस्नानेषु व्रतेषु च समापने ॥ १०
“ ब्राह्मणाम् भोजयेदादौ ” इति । तत्रैव—
“ संभिनत्तोन्नयने चैव अन्नप्राशनचौलयोः । उपायने च गोदाने चाद्रावेव समाचरेत् ” ॥ इति ।
एतच्च कर्मांगश्राद्धमसकृत्क्रियमाणे अग्निहोत्रादिषु कर्मसु प्रथमप्रयोग एव कर्तव्यम् ।
यदाह '''कात्यायनः—'''
“ नानिष्ट्वा तु पितॄन् श्राद्धे कर्म वैदिकमाचरेत् । असकृद्यानि कर्माणि क्रियेरन्कर्मकारिभिः ॥ १५
“प्रतिप्रयोगं नैताः स्युर्मातरः श्राद्धमेव च ” ॥ इति स एव—
“ आधाने होमयोश्चैव वैश्वदेवे तथैव च । बलिकर्मणि दर्शे च पौर्णमासे तथैव च ॥
“ नवयज्ञे च यज्ञादौ वदन्त्येव मनीषिणः । एकमेव भवेच्छ्राद्धमेतेषु न पृथक्पृथक् ” ॥ इति ।
होमयोस्त्यनेनाधानसमभिव्याहारात् द्विवचनाच्च सायंप्रातरग्निहोत्रहोमावुक्तौ अष्टकोदिश्राद्धेषु
पृथक्प्रयोगेऽपि कर्मांगिश्राद्धं न कर्तव्यं यतोऽनंतरमाह स एव “ नाष्टकादौ भवेच्छ्राद्धं न श्राद्धे २०
श्राद्धमिष्यते ” । '''वृद्धशातातपोऽत्र''' विशेषमाह—
“त्रिष्वप्येतेषु युग्मांस्तु ब्राह्मणान्द्विजसत्तमः शुचिः । प्रदक्षिणं तु सव्येन पूजयेद्देवपूर्वकम् ” ॥ इति ।
अयमर्थः—दैवे द्वौ ब्राह्मणौ मातृश्राद्धे द्वौ पितृश्राद्धे द्वौ सपत्नीकमातामहश्राद्धे द्वौ एवमष्टावरा-
न्ब्राह्मणानिमंत्रणादिविसर्जनांतं सर्वमुपचारजातं प्रदक्षिणं यथा भवति तथा कुर्वन्सव्येन सव्यां-
सगतेनैव यज्ञसूत्रेणोत्तरवाससा चान्वितः श्राद्धकर्त्ता भोजयेत्” इति । '''याज्ञवल्क्य—''' २५
“एवं प्रदक्षिणावृत्को वृद्धौ नांदीमुखात्पितॄन् । यजेत दधिकर्कन्धुमिश्रान्पिंडान्न्यवैः क्रियाः”॥ इति ।
कर्कन्धुः बदरीफलम् । '''प्रचेताः—'''
“ न जपेत्पैतृकं जप्यं न मांसं तत्र दापयेत् । प्राङ्मुखो दैवतीर्थेन क्षिप्तं देशविमार्जनम् ” ॥ इति ।
'''आश्वलायनः—''' “ अथाभ्युदयिके युग्मा ब्राह्मणा अमूला दर्भाः प्राङ्मुखो यज्ञोपवीती
स्यात् । प्रदक्षिणमुपचारो यवास्तिलार्था गंधाद्दिदानं च ऋजुदर्भा वासने दद्यात् ’ ॥ ३०
“यवोऽसि सोमदेवत्यो गोसवो देवैर्निर्मितः । प्रत्नवद्भिः प्रत्तः पुन्नर्नांदीमुखान्प्रीणयाहि नः स्वाहा” इति।
यववापनमिति । '''मुद्गलः—'''“ देवेषु द्वावेको वा पित्र्येष्त्रेको द्वौ वा ब्राह्मणौ श्राद्धे कल्पयेत् ” इति ।
'''कात्यायनः—''' यवस्तिलार्थः । तत्र यवोऽसीति ऊहो न स्वधां प्रयुंजीत ।
“ सदा परिचरेद्भक्त्या पितॄनप्यत्र देववत् । निपातो हि न सव्यस्य जानुनो विद्यते क्वचित् ”॥इति ।
{{rule}} १ क्ष-आब्दिकादि । २ कखग-प्रथम । ३ ख-मधु ।
३५<noinclude></noinclude> kokwr8vnikvz97p4hqmghdly3ffvijs पृष्ठम्:Smriti mukta phalam.pdf/७९६ 104 166799 419821 2026-11-10T16:08:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७५६|'''अशक्तौ आमश्राद्धम् ।'''|}} {{rule}} स एव—“नांदीमुखांन्पितॄनावाहयिष्य ‘ इति पृच्छति ’ । अस्तु स्वधेत्यस्य स्थाने नांदीमुखः
पितरः प्रीयंतामिति संपन्नमिति तृप... नवीन पृष्ठं निर्मीत अस्ती 419821 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७५६|'''अशक्तौ आमश्राद्धम् ।'''|}} {{rule}} स एव—“नांदीमुखांन्पितॄनावाहयिष्य ‘ इति पृच्छति ’ । अस्तु स्वधेत्यस्य स्थाने नांदीमुखः
पितरः प्रीयंतामिति संपन्नमिति तृप्तिप्रश्ने दधिबदराक्षतमिश्राः पिंडाः ” ॥ इति ।
'''वृद्धवसिष्ठोऽपि—'''
“ दधिकर्कन्धुसंमिश्राः पिण्डाः कार्या यथाक्रमम् । प्राङ्मुखो दैवतीर्थेन प्राक्कूलेषु कुशेषु च ” ॥
५ “दत्वा पिंडांन्न कुर्वीत पिंडपात्रमधोमुखम्” ॥ इति । पिंडदानमत्र भोजनशालायाः बहिः-
कार्यम् । यदा प्रचेताः “ बहिस्तु प्राक्कूलेषु च दध्यक्षतकर्कधुमिश्रान्पिंडान् निर्वपेत् ” इति ।
'''चतुर्विंशतिमते—'''“ एकं नाम्नापरं तूष्णीं दद्यात्पिंडान्पृथक्पृथक् ” इति । पृथक्प्रयोगेऽकस्मिन्द्वौ
द्वौ पिंडौ दद्यात् । तत्र प्रथमपिंडं नाम्ना गोत्रसहितेन दद्यात् । द्वितीयं तूष्णीं दद्यादित्यर्थः ।
'''आश्वलायनोऽपि—'''“ प्राचीनाग्रान्दर्भान्संस्तीर्य तेषु पृषदाज्यमिश्रेण भुक्तशेषेणैकैकस्य
१० द्वौ द्वौ पिंडौ दद्यात् ” इति । पिंडदानं वैकल्पिकमित्युक्तं '''भविष्यत्पुराणे—'''
“ पिंडनिर्वपणं कुर्यान्न वा कुर्यान्नराधिप । वृद्धिश्राद्धे महाबाहो कुलधर्मानवेक्ष्य तु” ॥इति ।
एतच्चाभ्युदयश्राद्धमापदादिनिमित्तेषु आमेन हेम्ना वा कुर्यात् । तत्र '''मरीचिः—'''
“ अनग्निश्च प्रवासी च यस्य भार्या रजस्वला । आमश्राद्धं प्रकुर्वीत मातापित्रोः क्षयाहते ”॥ इति ।
१५ “आर्त्तेऽन्नद्विजाभावे यहणे देशविप्लवे । आमश्राद्धं द्विजः कुर्याच्छूद्रः कुर्यात्सदाैव हि ” ॥ इति ॥
'''गालवः—'''
“ तीर्थेऽनग्नावापदि च देशभ्रंशे रजस्यपि । हेमश्राद्धं द्विजैः कार्यं शूद्रैः कार्यं सदैव हि ” ॥ इति ।
'''पराशरः—'''
“असमर्थोऽन्नदानस्य धान्यमामं स्वशक्तितः । प्रदास्यति द्विजाग्रेभ्यः स्वल्पामपि च दक्षिणाम्”॥ इति ।
२० '''पुराणेऽपि—'''
“ आमं ददातु कौंतेय दद्याद्ध्नाच्चतुर्गुणम् । सिद्धाने तु विधिर्यः स्यादामाश्राद्धेऽप्ययं विधिः”॥ इति ।
अत्र '''विज्ञानेश्वरः—'''
“यद्यद्द्वाति विप्रेभ्यः श्रुतं वा यदि वाऽश्रुतम् । तेनाग्नौ करणं कुर्यात्पिंडांस्तेनैव निर्वपेत् ” ॥ इति ।
'''चतुर्विंशतिमते—'''
२५ “ आमश्राद्धं यदा कुर्यात्पिंडदानं कथं भवेत् । गृहादाहृत्य पक्वान्नं पिंडं दद्यात्तिलैः सह ।
“ येनाग्नौकरणं कुर्यात्पिंडांस्तेनैव निर्वपेत् ” ॥ इति । हेमपिंडदानयोः संनियोगाशिष्टत्वा-
द्वचनारूढत्वाच्च । संकल्पविधानेन त्वग्नौहोमाभावे पिंडदानं नास्ति इति गम्यते । तथा
'''पितृमेधसारे—'''“ यथाद्विप्रेभ्यो दद्यात्तेनैव होमस्तेन वा गृहादाहृतान्नेन वा पिंडान् दद्याद्यदा होमस्तदा
पिंडदानं होमाभावे पिंडदानाभावः । आमश्राद्धे चरोरभावात्तद्धर्माणामभावे भोजनाभावात्तत्संबंधिनां
३० चाभावः । संकल्पो वरणं पादप्रक्षालनं गंधपुष्पादिदानंतंदुलादिप्रदानं दक्षिणेत्यामश्राद्धं कार्यम्” इति ।
तद्धर्माणामुपस्तरणावदानादीनां तत्संबंधिनां पात्राभिमंत्रणादीनामित्यर्थः ।
“ हिरण्ये तूदकं पश्चान्मृतेऽहनिपरेऽहनि ” इति वचनात् तर्पणं तदैव कार्यम् ।
इति वृद्धिश्राद्धं निरूपितम् ।
{{rule}} १ क्ष-प ।<noinclude></noinclude> s9h5qi7rjwgct9vgg6v16ixezz50y1d पृष्ठम्:Smriti mukta phalam.pdf/७९७ 104 166800 419822 2026-11-10T16:14:16Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''श्राद्धभेदाः ।'''|७५७}} {{rule}} '''श्राद्धभेदाः ॥ अथ श्राद्धभेदाः ।''' प्रेतोद्देशेन पितुरुद्देशेन वा द्रव्यत्यागः श्राद्धम् । तदाह '''मरीचिः—'''
“प्रेतं पितॄंश्च नि... नवीन पृष्ठं निर्मीत अस्ती 419822 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''श्राद्धभेदाः ।'''|७५७}} {{rule}} '''श्राद्धभेदाः ॥ अथ श्राद्धभेदाः ।''' प्रेतोद्देशेन पितुरुद्देशेन वा द्रव्यत्यागः श्राद्धम् । तदाह '''मरीचिः—'''
“प्रेतं पितॄंश्च निर्दिश्य भोज्यं यत्प्रियमात्मनः । श्रद्धया क्रियते यत्तु तच्छ्राद्धं परिकीर्तितम्” ॥ इति ।
'''ब्रह्मांडपुराणेऽपि—'''
“ देशे काले च पात्रे च श्रद्धया विधिना च यत् । पितॄनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम्”॥इति ।
तच्च पुनः पार्वणैकोद्दिष्टभेदेन द्विविधम् । त्रिपुरुषोद्देशेन यत्क्रियते तत्पार्वणम् । एकपुरुषोद्देशेन ५
क्रियमाणमेकोद्दिष्टम् । तदाह '''कण्वः—'''
“ एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्तितम् । त्रीनुद्दिश्य तु यत्तद्धि पार्वणं मुनयो विदुः ” ॥ इति ।
एतद्विविधमपि श्राद्धं नित्यनैमित्तिककाम्यभेदेन त्रिधा भिद्यते । तदुक्तं '''कालादर्श—'''
“ श्राद्धद्वयं तथोद्दिष्टमेकोद्दिष्टं च पार्वणम् । नित्यं नैमित्तिकं काम्यमिति तच्च पुनस्त्रिधा ” ॥ इति ।
तत्र नियतोपाधौ चोदितं नित्यम् । यथा अमावास्यादौ विहितं श्राद्धम् । अनियतनिमित्तं १०
हि न नैमित्तिकम् । यथा उपरागादौ कामनोपाधिकं काम्यम् । यथा तिथिनक्षत्रादिषु ।
तदुदाहरति '''कार्ष्णाजिनिः—'''
“ मृताहेऽहरहर्दर्श श्राद्धं यच्च महालये । तन्नित्यमुदितं सद्भिर्नित्यवत्तद्विधानतः ॥
“ प्रेतश्राद्धं सपिंडत्वं संक्रांतिग्रहणेषु च । संवत्सरोदकुंभं च वृद्धिश्राद्धं निमित्ततः ॥
“ तिथ्यादिषु च यच्छ्राद्धं मन्वादिषु युगादिषु । अलभ्येषु च योगेषु तत्काम्यं समुदाहृतम् ” ॥ इति । १५
यत्तु विश्वामित्रेण द्वादशविधत्वमुक्तम्
“ नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिंडनम् । पार्वणं चेति विज्ञेयं गोष्ठयं शुद्ध्यर्थमष्टमम् ॥
“ कर्मांगं नवमं प्रोक्तं दैविकं दशमं स्मृतम् । यात्रास्वेकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम् ” ॥
इति तत् नित्यनैमित्तिककाम्यावांतरविवक्षयैव न तु ततः पार्थक्यविवक्षया ।
तथा च '''वृद्धवसिष्ठः—''' २०
“ अहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्तितम् । एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ॥
“ अभिप्रेतार्थसिद्ध्यर्थं काम्यं पार्वणवत्स्मृतम् । पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम् ॥
“ नवनीतार्य्यपात्रं च पिंडं च परिकीर्त्यते । पितृपात्रेषु पिण्डेषु सपिंडीकरणं तु तत् ॥
“ प्रतिपर्व भवेद्यस्मात्प्रोच्यते पार्वणं तु तत् । गोष्ठ्यां यत्क्रियते श्राद्धं गोष्ठीश्राद्धं तदुच्यते ॥
“ बहूनां विदुषां प्राप्तौ सुखार्थं पितृतृप्तये । क्रियते शुद्धये यत्तु ब्राह्मणानां तु भोजनम् ॥ २५
“ शुद्ध्यर्थमिति तत्प्रोक्तं श्राद्धं पार्वणवत्कृतम् ।
“ निषेककाले सोमे च सीमंतोन्नयने तथा । ज्ञेयं पुंसवने श्राद्धं कर्मांगं विधिवत्कृतम् ॥
“ देवानुद्दिश्य क्रियते यत्तद्देविकमुच्यते । तन्नित्यश्राद्धवत्कुर्यात् द्वादश्यादिषु यत्नतः ॥
“गच्छन् देशांतरं यद्धि श्राद्धं कुर्यात्तु सर्पिषा । तथात्रार्थमिति प्रोक्तं प्रवेशे च न संशयः” ॥ इति ।
'''श्राद्धदेशाः । अथ श्राद्धदेशाः ! रत्नावल्याम्—''' ३०
“देशः कालस्तथा पात्रं द्रव्यं कर्ता पितामहाः । निष्पत्तिकारणान्याहुः कर्मणोस्य विपश्चितः”॥इति ।
'''विष्णुः—'''
“ दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा । भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात्प्रयत्नतः ” ॥ इति ।
तीर्थं देवर्षिसेवितं जलम् । आदिशब्देन पुण्याश्रमादि गृह्यते । भूसंस्कारो गोमयादिनोप-
लेपः । आदिशब्देन अशुचिद्रव्यापसरणम् । ३५
{{rule}} १ क्ष-तीर्था । २ क-मुक्तमत् । ३ क्ष-दर्ष ।
९६-२७<noinclude></noinclude> 104p9rj3jfxg8g9vgh9bf5hxijukhvx पृष्ठम्:Smriti mukta phalam.pdf/७९८ 104 166801 419823 2026-11-10T16:15:14Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७५८|'''श्राद्धदेशाः । अस्वामिकानि ।'''|}} {{rule}} '''स एव—'''
“ गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च । कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि ” ॥ इति ।
'''याज्ञवल्क्... नवीन पृष्ठं निर्मीत अस्ती 419823 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७५८|'''श्राद्धदेशाः । अस्वामिकानि ।'''|}} {{rule}} '''स एव—'''
“ गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च । कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि ” ॥ इति ।
'''याज्ञवल्क्योऽपि—'''“ परिश्रिते शुचौ देशे दक्षिणाप्रवणेतथा ” इति ।
परिश्रिते परितः प्रच्छादिते दक्षिणावनते देशे श्राद्धं कुर्यादित्यर्थः । स्वतो दक्षिणाप्रवणत्वासंभवे
५ देशस्य यत्नतो दक्षिणाप्रवणत्वं कार्यम् । तथा च '''मनुः—'''
“ शुचिदेशं विवक्तं तु गोमयेनोपलिप्य च । दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ” ॥ इति ।
'''विष्णुधर्मोत्तरे—'''
“ तस्माच्छ्राद्धानि देयानि पुण्येष्वायतनेषु च । नदीतीर्थेषु तीर्थेषु स्वभूमौ च प्रयत्नतः ” ॥ इति ।
'''देवलः—'''
१० “ स्थलीषु गिरिपुष्ठेषु तीर्थेष्वायतनेषु च । विविक्तेषु च तुष्यंति श्राद्धेषु पितरः सदा ” ॥ इति ।
स्थलीषु अकृत्रिमभूमिवित्यर्थः । तथा च '''शंखः—'''
“ गोगजाश्वादिपृष्ठेषु कृत्रिमायां तथा भुवि । न कुर्याच्छ्राद्धमेतेषु पारक्यासु च भूमिषु ” ॥ इति ।
कृत्रिमायां भुवि वेदिकादावित्यर्थः । '''यमः—'''
“ परकीयप्रदेशेषु पितॄणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ” ॥ इति ।
१५ '''भारते च—'''
“ पारक्ये भूमिदेशे च पितॄणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥
“तस्मात् क्रीत्वा महीं दत्वा स्वल्पामपि विचक्षणः।पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः”॥इति।
परकीयप्रदेशाः परपरिगृहीतगृहगोष्ठारामादायः । न पुनस्तीर्थादीनि ।
तथा चा'''दित्यपुराणे—'''
२० “ अटवी पर्वताः पुण्या नदीतीराणि यानि च । सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥
“ वनानि गिरयो नद्यस्तीर्थान्यायधनानि च । देवखाताश्च गर्तश्च न स्वामी तेषु विद्यते ” ॥ इति ।
“ कृमिकीटाद्युपहतं देशं श्राद्धे विवर्जयेत् ” । तदाह '''यमः—'''
“ रूक्षं कृमिहतं क्लिन्नं संकीर्णामेध्यगंधिकम् । देशं त्वनिष्टशब्दं च वर्जये च्छ्राद्धकर्मणि ” ॥ इति ।
क्लिन्नं सकर्दमम् । संकीर्णमन्येनाकीर्णम् । '''मार्कंडेयः—'''
२५ “ वर्ज्या जंतुमया रूक्षा क्षितिः प्लुष्टा तथाग्निना । अनिष्टदुष्टशब्दाोग्रा दुर्गंधा श्राद्धकर्मणि”॥ इति ।
तीर्थक्षेत्रविशेषेषु कृतं श्राद्धं फलातिशयप्रदं भवति । तदाह '''देवलः—'''
“ श्राद्धस्य पूजितो देशो गया गंगा सरस्वती । कुरुक्षेत्रं प्रयागश्च नैमिशं पुष्कराणि च ॥
“ नदीतीरेषु तीर्थेषु शैलेषु पुलिनेषु च । विविक्तेष्वेव तुष्यंति दत्तेनेह पितामहाः ” ॥ इति ।
'''आश्वलायनः—'''
३० “ गङ्गा गोदावरी वेण्णा गौतमी कौशिकी तथा । नर्मदा शरयूश्चैव कावेरी च सरस्वती ॥
“ गया प्रयागः श्रीशैलः गोकर्ण पुष्करं शुभम् । नैमिशं च कुरुक्षेत्रं केदारं सेतुबन्धनम् ॥
“द्वारका बदरी कौब्जं मुख्या वाराणसी तथा । पुरुषोत्तमस्वामिवेश्म सर्वोत्कृष्टंमहोदधिः ॥
“एतेषु तीर्थमुख्येषु क्षेत्रेषु च शुभाशुभम् । कृतमक्षयमाप्नोति मनुष्याणां न संशयः”॥
{{rule}} ```[cite: 20]<noinclude></noinclude> ljnxv0o98y0zwwu2d7rdryo07epe5tw पृष्ठम्:Smriti mukta phalam.pdf/७९९ 104 166802 419824 2026-11-10T16:16:03Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पुण्यक्षेत्राणि ।'''|७५९}} {{rule}} '''व्यासः—'''
“ पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च । महोदधौ प्रयागे च काश्यां च कुरुजांगले ” ॥ इति ।
'''शंखोऽपि—''' “ वाराणस्य... नवीन पृष्ठं निर्मीत अस्ती 419824 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पुण्यक्षेत्राणि ।'''|७५९}} {{rule}} '''व्यासः—'''
“ पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च । महोदधौ प्रयागे च काश्यां च कुरुजांगले ” ॥ इति ।
'''शंखोऽपि—''' “ वाराणस्यां कुरुक्षेत्रे भृगुतुंगे हिमालये ।
“ गंगाद्वारे प्रयागे च नैमिषे पुष्करे तथा । संनिहत्यां गयायां च दत्तमक्षयतां व्रजेत् ॥
“ नदीसमुद्रतीरे वा ह्रदे गोष्ठे च पर्वते । समुद्रगानदीतीरे सिंधुसागरसंगमे ॥ ५
“ नद्योर्वा संगमे राजन्सालग्रामशिलांतिके । शालग्रामे च गोकर्णे गयायां च विशेषतः ॥
“ क्षेत्रेष्वेषाु तु यः श्राद्धं पितृभक्तिसमन्वितः । करोति विधिवन्मर्त्यः कृतकृत्यो विधीयते ” ॥ इति ।
स एव “ यत्रक्वचन नर्मदातीरे यमुनातीरे गंगायां विशेषतो गंगाद्वारे प्रयागे गंगासागरसंगमे
कुशावर्ते बिल्वके नीलपर्वते । कुब्जाहे भृगुतुन्दे केदारे ललितायां सुगंधायां फल्गुतीर्थे महागङ्गायां
तण्डुलिकाश्रमे कुमारधारायां प्रभासे यत्रक्वचन सरस्वत्यां विशेषतो नैमिषारण्ये वाराणस्यामगस्त्या- १०
श्रमे कण्वारभमे कौशिकायां सरयूतीरे शोणायां भागीरथ्याश्च संगमे श्रीपर्वते कल्पोदके उत्तर- .
मानसे बडवायां सप्तर्चे विष्णुपदे स्वर्गप्रदेशे गोदावर्या गोमत्यां वेत्रवत्यां विपाशायां वितस्तायां
मरुद्वृधायां शतद्रुति चंद्रभागायां ऐरावत्यां सिंधोस्तीरे दक्षिणे पंचनदे औजसे चैवमादिष्वन्येषु
तीर्थेषु सरिद्वरासु पुष्करेषु प्रस्रवणेषु पर्वतेषु निकुंजेषु वनेषूपवनेषु च गोमयेनोपलिप्तेषु मनोज्ञेषु
चेति ” । अत्र पितृगाथा— १५
“कुलेऽस्माकं स जंतुः स्याद्यो नो दद्याज्जलांजलिम् । नदीषु बहुतोयासु शीतलासु विशेषतः ॥
“ अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । गयाशीर्षे वटे श्राद्धं यो नो दद्यात्समाहितः ॥
“एष्टव्या बहवः पुत्राः यद्येकोऽपि गयां व्रजेत् । यजेत वाऽश्वमेधं वा नीलं वा वृषमुत्सृजेत् ” ॥इति ।
'''ब्रह्मकैटर्ते—'''
“ गयातीर्थे यदा पिंडं नाम्ना येषां प्रकुर्वते । नरकस्था दिवं यांति स्वर्गस्था मोक्षमाप्नुयुः ॥ २०
“तत्राक्षय्यवटो नाम त्रिषु लोकेषु विश्रुतः । पितॄणां तत्र वै दत्तमक्षय्यं भवति प्रभो ॥
“ वटवृक्षं समासाद्य शाकेनाप्युदकेन वा । एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिताः ॥
“ आत्मनस्तु महाबुद्धे गयायां तु तिलैर्विना । पिंडनिर्वपणं कार्यं मृतानां तु तिलैः सह ” ॥
नद्यादिषु तीर्थश्राद्धमुक्तं '''मत्स्यपुराणे—'''
“ स्नात्वा नदीषु सर्वासु पितॄन्देवांश्च तर्पयेत् । तत्र तत्र यथावित्तं कुर्याच्छ्राद्धादिकं तथा ” ॥ २५
“अकालेऽप्यथ काले वा तीर्थश्राद्धं तथा नरः।श्राद्धं कृत्वा तदा तीर्थे कर्त्तव्यं पितृतर्पणम्” ॥ इति ।
'''पाद्मेऽपि—'''
“ तीर्थे तु ब्राह्मणं नैव परीक्षेत कथंचन । अनर्थिनमनुप्राप्तं भोजयेन्मनुशासनात् ॥
“ सक्तुभिः पिंडदानं स्यात्संयावैः पायसेन वा । कर्तव्यमृषिभिर्दृष्टं पिण्याकेनैंगुदेन वा ॥
“पिण्याकेन तिलानां वा भक्तिमद्भिर्नरैः सदा । श्राद्धं तत्र तु कर्तव्यमर्घ्यावाहनवर्जितम् ॥ ३०
“श्वध्वांक्षहृष्टाः काका वा प्रेति दृष्टा न तैः क्रियाः” ॥ इति । ‘तीर्थेऽनग्नावापदि च’ इति पूर्वोक्तं
हिरण्यश्राद्धं कर्तव्यम् ।
“ क्षेत्रे स्नात्वा शुष्कवासाः प्रदाय तिलवार्यथ । भोजयेद्ब्राह्मणान् श्राद्धे हिरण्यश्राद्धमेव वा ॥
“ कृत्वा समविधानेन पिण्डान्ते क्षेत्रपिण्डनात् । अन्नेनामेन मांसेन सक्तुभिर्द्दिन आचरेत् ”॥
गयाव्यतिरिक्तस्थानेषु जीवपितृकेनापि तीर्थ श्राद्धं कर्तव्यं इत्यधस्तात्प्रतिपादितम् । ३५
{{rule}} १ खग-पुलिनेषु । ```[cite: 20]<noinclude></noinclude> orn8u7jnlecb916ynvzt3s4b2vekhyf पृष्ठम्:Smriti mukta phalam.pdf/८०० 104 166803 419825 2026-11-10T16:16:46Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७६०|'''श्राद्धकालाः । गजच्छायां ।'''|}} {{rule}} '''श्राद्धकालाः ॥ अथ श्राद्धकालाः । तत्र याज्ञवल्क्यः—'''
“ अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यब्राह... नवीन पृष्ठं निर्मीत अस्ती 419825 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७६०|'''श्राद्धकालाः । गजच्छायां ।'''|}} {{rule}} '''श्राद्धकालाः ॥ अथ श्राद्धकालाः । तत्र याज्ञवल्क्यः—'''
“ अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यब्राह्मणसंपत्तिः विषुवत्सूर्यसंक्रमः ॥
“ व्यतीपातो गजच्छाया ग्रहणं चंद्रसूर्ययोः । श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः ” ॥ इति ।
द्रव्यं कृसरमांसादि । ब्राह्मणः श्रुताध्ययनसंपन्नस्तयोः संपत्तिर्लाभो यस्मिन्काले स तथोक्तः
५ '''अत्र हारीतः—'''
“ तीर्थद्रव्योपपत्तौ तु न कालमवधारयेत् । पात्रं च ब्राह्मणं प्राप्य सद्यः श्राद्धं विधीयते ” ॥ इति ।
तीर्थं गंगादि । विषुवं मेषतुलासंक्रांतिः । अयनविषुवयोः संक्रांतित्वे सिद्धेऽपि पृथगुपादानं
फलातिशयज्ञापनार्थम् । गजच्छाया लक्षणं “ यथेंदुः पितृदैवत्य ” इत्यादिना पूर्वमुक्तं ग्रहणमुपरागः ।
अत्र विशेषमाह '''वृद्धवसिष्ठः—'''
१० “ त्रिदशाः स्पर्शसमये तृप्यंति पितरः सदा । मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः ” ॥ इति
श्राद्धं प्रति रुचिः यदा श्राद्धं प्रतीच्छा तदैव कर्त्तव्यमिति । चकारेणान्येऽपि श्राद्धकालाः
संगृह्यंते । अत एव '''यमः—'''
“आषाढ्यामथ कार्त्तिक्यां माध्यां त्रीन्पंच वा द्विजान् । तर्पयेत्पितृपूर्वं तु तदस्याक्षयमुच्यते” ॥ इति ।
'''जातुकर्णिः—'''“ ग्रहोपरागे विषुवे च जाते कृष्णे मघायामयनद्वये च ।
१५ “नित्यं च शंखे च तथैव पद्मे दत्तं भवेन्निष्सहस्रतुल्यम् ” ॥ इति । शंखादिस्वरूपमपि तेनैवोक्तम्—
“ शंखं प्राहुरमावास्यां क्षीणसोमा द्विजोत्तमः । अष्टका तु भवेत्पद्मं तत्र दत्तं तथाक्षयम् ” ॥ इति ।
“ यदा विष्टिव्यतीपातो भानुवारस्तथैव च । पद्मकं नाम तत्रोक्तमयनार्द्धं चतुर्गुणम् ” ॥ इति
शंखोक्तमपि पद्मं ग्राह्यमाकाठकीश्रुतिः ‘एतद्धि देवपितॄणामयनं यद्धास्तिच्छायायां श्राद्धं दद्यात्’ इति ।
'''शंखोऽपि—'''
२० “ हस्तिच्छायासु यद्दत्तं यद्दत्तं राहुदर्शने । विषुवत्ययने चैव सर्वमानंत्यमश्नुते ” ॥ इति ।
अनेकविधा गजच्छायाः स्मृतिषु प्रतिपाद्यंते—
“ हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी । तिथिवैवस्वती नाम सा छाया कुंजरस्य तु ॥
“ हंसे करस्थिते या तु अमावास्या करान्विता । सा ज्ञेया कुंजरछाया इति बोधायनोऽब्रवीत् ” ॥
करो हस्तनक्षत्रम् ।
२५ “वनस्पतिगते सोमे या च्छाया प्राङ्मुखी भवेत् । गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धं प्रकल्पयेत् ॥
अमावास्यायामपराह्ण इत्यर्थः ।
“सैंहिकेयो यदा सूर्यं ग्रसते पर्वसंधिषु । गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धं प्रकल्पयेत्”॥
सैंहिकेयो राहुः ।
“ घृतेन भोजयेद्विप्रान्मृतं भूमौ समुत्सृजेत् । ग्रहणारूये गजच्छायाये श्राद्धं दत्वा न शोचति”॥ ३०
भोक्तुरपि दोषस्तेनैव दर्शितः । युगादिकाळं सूचयति
“ वैशाखे कार्त्तिके माघे शुद्धाग्निग्रहपूर्णिमाः । नभस्यकृष्णापाटूरोमामा वा तु युगादयः ” ॥
अग्निः तृतीया । ग्रहाः नवमी । पाटूरः त्रयोदशी । मामावा माघामावास्या ।
{{rule}}<noinclude></noinclude> b03axhuaj7ekq61pt02antr1ihtm4po पृष्ठम्:Smriti mukta phalam.pdf/८०१ 104 166804 419826 2026-11-10T16:17:52Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''युगादिश्राद्धानि । मन्वन्तरादयः ।'''|७६१}} {{rule}} “कृष्णाजिनप्रतिग्राही विक्रयी वा हरेत यः । गजच्छायाश्रितो भुक्त्वा न भूयः पुरुषो भवेत्” इति ॥
'''देवलः—'''
“ त... नवीन पृष्ठं निर्मीत अस्ती 419826 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''युगादिश्राद्धानि । मन्वन्तरादयः ।'''|७६१}} {{rule}} “कृष्णाजिनप्रतिग्राही विक्रयी वा हरेत यः । गजच्छायाश्रितो भुक्त्वा न भूयः पुरुषो भवेत्” इति ॥
'''देवलः—'''
“ तृतीया रोहिणीयुक्ता वैशाखस्य सिता तु या । मघाभिः सहिता कृष्णा नभस्ये तु त्रयोदशी ॥
“ तथा शतभिषग्युक्ता कार्त्तिके नवमी तथा । इंदुक्षये गजच्छाया वैश्वेतेषु युगादिषु ॥
“ एते कालाः समुद्दिष्टाः पितॄणां प्रीतिवर्धनाः ” ॥ इति । ५
'''युगादिश्राद्धनिरूपणम् ।'''
युगादयो मत्स्यपुराणे दर्शिताः—“वैशाखस्य तृतीया तु नवमी कार्त्तिकस्य तु ।
“माघे पंचदशी चैव नभस्ये च त्रयोदशी । युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः” ॥ इति ।
'''विष्णुपुराणेऽपि—'''
“ वैशाखमासस्य च या तृतीया नवम्यसौ कार्तिकशुक्लपक्षे १०
“ नभस्य मासस्य च कृष्णपक्षे त्रयोदशी पंचदशी च माघे ॥
“ पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
“ श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदंति ” ॥ इति । अत्र शुक्लपक्षे या
तृतीया पंचदशी कृष्णपक्ष इत्यन्वयः । अत एव नारदीयपुराणम्— “ द्वे तु शुक्ले द्वे तु कृष्णे
युगाद्याः कवयो विदुः ” ॥ इति । ब्राह्मपुराणे तु माघस्य पौर्णमासी युगादिरित्युक्तम्— १५
“ वैशाखशुक्लपक्षस्य तृतीयायां कृतं युगम् । कार्त्तिके शुक्लपक्षे च त्रेता तु नवमेऽहनि ॥
“अथ भाद्रपदे कृष्णे त्रयोदश्यां द्वापरं युगम् । माघे तु पौर्णमास्यां तु घोरं कलियुगं तथा ॥
“ युगारंभास्तु तिथयो युगाद्यास्तेन मिश्रितात् ” ॥ इति ।
अत्र कल्पभेदेन व्यवस्थेति चंद्रिकायाम् । पुलस्त्यो विशेषमाह—
“ अयनद्वितये श्राद्धं विषुवद्वितये तथा । युगादिषु च सर्वासु पिंडनिर्वपणादृते ” ॥ इति । २०
'''स्मृत्यंतरे—'''
“ सूर्यस्य सिंहसंक्रांत्यामतः कालियुगस्य तु । तथा वृश्चिकसंक्रांत्यामतंस्त्रेतायुगस्य तु ॥
“ ज्ञेयस्तु वृषसंक्रांत्या द्वापरान्तश्च संख्यया । तथा च कुंभसंक्रांत्यामतः कलियुगस्य च ॥
“ युगादिषु युगांते तु श्राद्धमक्षय्यमश्नुते ” ॥
'''मन्वादिश्राद्धनिरूपणम् । मन्वादयोऽपि श्राद्धकालाः ॥''' २५
“ तथा मन्वंतरादौ च देयं श्राद्धं विजानता ” ॥ इति स्मरणात् ।
मन्वंतरादयो '''मत्स्यपुराणे''' दर्शिताः—
“ आश्वयुक्शुक्लनवमी कार्त्तिकी द्वादशी सिता । तृतीया चैत्रमासस्य सिता भाद्रपदस्य च ॥
“ फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता । आषाढस्यापि दशमी माघमासस्य सप्तमी ।
“श्रावण्याष्टामी कृष्णा तदाषाढी च पूर्णिमा । कार्त्तिकी फाल्गुनी चैत्री ज्येष्ठी पंचदशी सिता ॥ ३०
“ मन्वंतरादयश्चैते दत्तस्याक्षयकारकाः ” ॥ इति । '''तत्रैव—'''
“ कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु । हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत् ॥
“ आसु स्नानं जपो होमः पुण्यानंत्याय कल्पते ” ॥ इति ।
{{rule}} ```[cite: 20]<noinclude></noinclude> f0uwvkkf2bzye4exe6qfub7ym2twobz पृष्ठम्:Smriti mukta phalam.pdf/८०२ 104 166805 419827 2026-11-10T16:22:24Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७६२|'''मन्वादिश्राद्धानि ।'''|}} {{rule}} '''महाभारतेऽपि—'''
“या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवाः। स्नात्वा हुत्वा च दत्त्वा च तदनंतफलं भवेत्”॥ इति ।
'''कालादर... नवीन पृष्ठं निर्मीत अस्ती 419827 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७६२|'''मन्वादिश्राद्धानि ।'''|}} {{rule}} '''महाभारतेऽपि—'''
“या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवाः। स्नात्वा हुत्वा च दत्त्वा च तदनंतफलं भवेत्”॥ इति ।
'''कालादर्शोऽपि—'''
“ मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलांजलिः । सहस्रवार्षिकीं तृप्तिं पितॄणामावहेत्पराम् ॥
५ “ द्विसहस्राब्दिकीं तृप्तिं कृतं श्राद्धं यथाविधि । स्नानं दानं जपो होमः पुण्यानंत्याय कल्पते”॥ इति ।
'''संग्रहकारः—'''
“तिथ्यग्निनितिथिस्तिथ्याशे कृष्णोभोऽनलो ग्रहाः।तिथ्यकौं न शिवोऽश्वोमातिथी मन्वादयो मताः”॥इति
चैत्रमासमारभ्य द्वादशमासानामैकैकस्य एकैकं पदं योजनीयम् । तिथिः पौर्णिमा अग्निरुतृतीया ।
चैत्रे पौर्णिमा शुक्लतृतीया चेत्यर्थः । वैशाखे नास्ति । ज्येष्ठे तिथिः पौर्णमासी । आषाढे तिथ्यांशे
१० पौर्णमासी । शुक्लदशमी च । श्रावणे कृष्णोभः कृष्णाष्टमी । अत्र कृष्णोति विशेषणादितरत्र सर्वत्र
शुक्लतिथेर्ग्रहणम् । भाद्रपदे अनलः तृतीया । आश्वयुजे ग्रहा नवमी । कार्त्तिक्यां तिथ्यर्कौ पूर्णा
द्वादशी च । मार्गशीर्षे पूर्णाद्वादशी न नास्ति । पुष्ये शिवः एकादशी । माघे अश्वः सप्तमी ।
फाल्गुने अमातिथी अमावास्या पौर्णमासी चेत्यर्थः । '''स्मृत्यंतरे—'''
“ अमापातश्च संक्रांतिस्तथा वैधृतिरेव च । अष्टका चैव मन्वादि युगादिश्च महालयः ॥
१५ “ चंद्रसूर्योपरागश्च गजच्छाया तथैव च । द्रव्यब्राह्मणसंपत्तिः श्राद्धकालाः प्रकीर्तिताः”॥ इति ।
“ अमाष्टकाव्यतीपातमन्वादिषु युगादिषु । विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयते द्विजः” ॥ इति
वचनान्मन्वादियुगादिव्यतीपातेषु श्राद्धं नित्यम् ।
“ तिथ्यादिषु च यच्छ्राद्धं मन्वादिषु युगादिषु । अलभ्येषु च योगेषु तत्काम्यं समुदाहृतम् ” ॥ इति
गालवः । वचनं तु न नित्यत्वापाकरणार्थं वचनद्वयेनाग्निहोत्रादिवन्नित्यत्वकाम्यत्वयोरविरोधादित्या-
२० हुः । एवमेव—“ प्रेतश्राद्धं सपिंडत्वं संक्रांतिग्रहणेषु च” इति । प्रतिपादितस्य नैमित्तिकस्य
“ संक्रांतिर्विषुवञ्चैव विशेषेणायनद्वयम् । व्यतीपातोऽथ जन्मर्क्षं चंद्रसूर्यग्रहस्तथा ॥
“ इत्येतान् श्राद्धकालांस्तु काम्यानाह प्रजापतिः । श्राद्धमेतेषु यद्दत्तं तदानंत्याय कल्पते ” ॥ इति ।
विष्णूक्तस्य काम्यत्वस्य च न विरोधः । अत एव '''कूर्मपुराणे—'''
“ नैमित्तिकं तु कर्तव्यं ग्रहणे चंद्रसूर्ययोः । बांधवानां च मरणे नरकी स्यादातोऽन्यथा ॥
२५ “ काम्यानि चैव श्राद्धानि शस्यंते ग्रहणादिषु ” । तथा च '''शातातपः—'''
“ सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने । अकुर्वाणस्तु यः श्राद्धं पंके गौरिवसीदिति”॥
“ राहुदर्शनदत्तं हि श्राद्धमा चंद्रतारकम् । गुणवत्सर्वकामीयं पितॄणामुपतिष्ठते ” ॥ इति
'''मार्कंडेयोऽपि—'''
“ विशिष्टब्राह्मणप्राप्तौ सूर्येंदुग्रहणेऽयने । विषुवे रविसंक्रांतौ व्यतीपाते च पुत्रक ॥
३० “ श्राद्धार्हद्रव्यसंप्राप्तौ तथा दुःस्वप्नदर्शने । जन्मर्क्षग्रहपीडासु श्राद्धं कुर्वीत चेच्छया”॥इति ।
यदापि इच्छा कामः तदापि श्राद्धं कुर्वीतित्यर्थः । एवं च नित्यनैमित्तिकयोः फलेच्छायां सत्यां
काम्यत्वं न विरुध्यते ।
{{rule}}<noinclude></noinclude> o8v6ls6fvnpanjk2vh7pte2ibqtqita पृष्ठम्:Smriti mukta phalam.pdf/८०३ 104 166806 419829 2026-11-11T02:09:38Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''काम्यश्राद्धकालः ।'''|७६३}} {{rule}} '''काम्यश्राद्धकालः । कृत्तिकादिनक्षत्राणि काम्यश्राद्धकालः ।'''
तदाह '''याज्ञवल्क्यः—'''
“ स्वर्गं ह्यपत्यमोजश्च शौर्यं क्ष... नवीन पृष्ठं निर्मीत अस्ती 419829 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''काम्यश्राद्धकालः ।'''|७६३}} {{rule}} '''काम्यश्राद्धकालः । कृत्तिकादिनक्षत्राणि काम्यश्राद्धकालः ।'''
तदाह '''याज्ञवल्क्यः—'''
“ स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा । पुत्रं श्रेष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥
“ प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि । अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥
“ धनं वेदान्भिषक्सिद्धिं कुप्यं गामप्यजाविकम् । अश्वानायुश्च विधिवत् श्राद्धं संप्रयच्छति ॥ ५
“ कृत्तिकादिभरण्यंतं स कामानाप्नुयाद्विमान् । आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ” ॥ इति ।
प्रवृत्तचक्रता अप्रतिहताज्ञता । कुप्यं सुवर्णरजतव्यतिरिक्तताम्रादि । '''विष्णुरपि—''' “ स्वर्गं
कृत्तिकासु अपत्यं रोहिणीषु ब्रह्मवर्चसं सौम्ये कर्मणां सिद्धिं रौद्रे भुवं पुनर्वसौ पुष्टिं पुष्ये सार्पे
सर्वान्कामान्श्रेष्ठ्यं पित्र्ये सौभाग्यं फाल्गुनीषु धनमर्यम्णे ज्ञातिश्रैष्ठ्यं हस्ते रूपवतः सुतान् त्वाष्ट्रे
वाणिज्यवृद्धिं स्वातौ कनकं विशाखासु मित्राणि मैत्रे शाक्रे राज्यं कृषिमूले समुद्रयानसिद्धिमप्ये १०
सर्वान्कामान्नैर्ऋतदैवे वेदश्रैष्ठ्यमभिजिति सर्वान्कामान्छ्रवणे बलं वासवे आरोग्यं वारुणे
रूपद्रव्यमजे गृहमहिर्बुध्न्ये गाः पौष्णे तुरंगानाश्विने जीवितं याम्ये ” इति । आदित्यादयो
वाराश्च काम्यश्राद्धकालाः । तदाह '''विष्णुः—''' “ सततमादित्येऽन्हि श्राद्धं
कुर्वन्नारोग्यमवाप्नोति । सौभाग्यञ्चांद्रे समरविजयं कौजे सर्वान्कामान्बौधे विद्यामभीष्टां जीवे धनं
शौक्रे जीवितं शनैश्चरः ” इति । १५
'''कूर्मपुराणेऽपि —'''
“ आदित्यवारे त्वारोग्यं चान्द्रे सौभाग्यमेव च । कुजे सर्वत्र विजयं सर्वान्कामान् बुधस्य तु ।
“ विद्यामभीष्टां च गुरौ धनं वै भार्गवे पुनः । शनैश्चरे भवेदायुरारोग्यं च सुदुर्लभम् ”॥ इति ।
'''विष्णुधर्मोत्तरे—''' “ अथ काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव ।
“ आरोग्यमथ सौभाग्यं समरे विजयं तथा । सर्वान्कामांस्तथा विद्यां धनं जीवितमेव च ॥ २०
“ आदित्यादिदिनेष्वेवं श्राद्धं कुर्वन्सदा नरः । क्रमेणैतान्यवाप्नोति नौत्र कार्या विचारणा ” ॥ इति ।
अत्र विशेषमाह '''मनुः—'''
“युक्षु कुर्वन् दिनर्क्षेषु सर्वान्कामानवाप्नुयात् । अयुक्षु तु पितॄनर्च्य प्रजां प्राप्नोति पुष्कलाम्”॥ इति ।
युक्षु युग्मेषु दिनेषु सूर्यादिवारेषु । ऋक्षेषु कृत्तिकादिनक्षत्रेषु । कुर्वन्श्राद्धमिति शेषः । प्रतिपदादि-
तिथयोऽपि काम्यश्राद्धकालाः । तदाह '''मनुः—''' २५
“कुर्वन्प्रतिपदि श्राद्धं सुरूपान्विंदते सुतान् । कन्यकां तु द्वितीयायां तृतीयायां तु वंदिनः ॥
“पशून्क्षुद्रां चतुर्थ्यां च पंचम्यां शोभनान् सुतान् । षष्ठ्यां द्यूतं कृषिं चापि सप्तम्यां लभते नरः ॥
“ अष्टम्यामपि वाणिज्यं लभते श्राद्धदो नरः । स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ॥
“ एकादश्यां तथा रूप्यं ब्रह्मवर्चसिनः सुतान् । द्वादश्यां जातरूपं च रजतं रूप्यमेव च ॥
‘ ज्ञातिश्रेष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु सुप्रजाः । प्रीयंते पितरश्चास्य ये शस्त्रेण रणे हताः ॥ ३०
“श्राद्धदः पंचदश्यां तु सर्वान्कामानवाप्नुयात्”॥ इति । '''कात्यायनोऽपि—''' “सुरूपाः सुताः
प्रतिपदि स्त्रियोऽप्रतिरूपा द्वितीयायां वंदिनस्तृतीयायां चतुर्थ्यां क्षुद्रपशवः पुत्राः पंचम्यां द्यूतं
षष्ठ्यां कृषिः सप्तम्यां वाणिज्यमष्टम्यामेकशफं नवम्यां दशम्यां वा गावः परिचारकाः एकादश्यां
द्वादश्यां धनधान्यरूप्यं ज्ञातिश्रेष्ठ्यं हिरण्यानि त्रयोदश्यां युवानस्तत्र म्रियंते शस्त्रहतस्य चतु-
र्दश्याममावास्यायां सर्वम् ” ॥ इति । ३५
{{rule}}<noinclude></noinclude> 7cjobdt62d2l7oz1kwsud9k5cetutab पृष्ठम्:Smriti mukta phalam.pdf/८०४ 104 166807 419830 2026-11-11T02:11:05Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७६४|'''कालान्तराणि ।'''|}} {{rule}} एतच्च तिथिश्राद्धं कृष्णपक्षे कर्तव्यम्—
“ पित्र्यं श्राद्धं कृष्णदिनेऽस्तमययोगिनि ” इति स्मरणात् । तथा च '''मनुः—'''
“ यथैव चापर... नवीन पृष्ठं निर्मीत अस्ती 419830 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७६४|'''कालान्तराणि ।'''|}} {{rule}} एतच्च तिथिश्राद्धं कृष्णपक्षे कर्तव्यम्—
“ पित्र्यं श्राद्धं कृष्णदिनेऽस्तमययोगिनि ” इति स्मरणात् । तथा च '''मनुः—'''
“ यथैव चापरः पक्षः पूर्वपक्षाद्विशिष्यते । तथा श्राद्धस्य पूर्वाह्णादपराण्हो विशिष्यते ” ॥ इति ।
कामश्राद्धं प्रकृत्य स्मृत्यंतरेऽपि “ कृष्णपक्षेऽपराण्हे तु रौहिणं तु न लंघयेत् ” इति ।
५ अपराह्णः द्वेधा विभक्तस्यान्हो द्वितीयभागः । रौहिणोऽन्हो नवमो मुहूर्तः । एवं कुतपादिवटिका-
त्रययुक्तायां प्रतिपदादितिथौ काम्यश्राद्धं कार्यं न तु कुतपायसंयुक्तायामिति मंतव्यमिति ।
'''चंद्रिकायाम्—'''काम्यश्राद्धं काम्यसिद्धिपर्यन्तमेकसंवत्सरपर्यंतं वा यथाकाममुक्तदिनेऽवश्यमनुष्ठेयम् ।
तथा देवस्वामिना नक्षत्रश्राद्धमुदाहृत्योक्तम्—“नक्षत्रेषु तु काम्यश्राद्धेषु तत्कामप्रदनक्षत्रप्राप्तौ
आ तत्कामप्राप्तेरब्दमेकं वा तस्मिन् ऋक्षे श्राद्धं कुर्यात् ” इति । '''हारीतः—'''
१० “ काम्यश्राद्धानि काम्यार्थं सम्यग्यत्नेन साधयेत् । शरीरारंभहेतुत्वाच्च मुहूर्त्तानि कारयेत् ॥
“यथाकथंचिन्नित्यानि कुर्याद्विद्धक्षयादिषु । पात्रद्रव्यादिसंपत्सु सत्सु काम्यफलं भवेत् ” ॥ इति ।
विष्कंभादियोगाश्च काम्यश्राद्धकालाः । तत्र कृत्तिकादिनक्षत्रेषूक्तं फलं क्रमात् ज्ञेयम् । तदाह
'''मरीचिः—'''
“ कृत्तिकादिषु ऋक्षेषु श्राद्धे यत्फलमीरितम् । विष्कंभादिषु योगेषु तदेव फलमिष्यते ” ॥ इति ।
१५ रव्यादिवारश्राद्धफलं बवादिकरणेषु श्राद्धकरणेऽपि द्रष्टव्यम् । तदाह '''बृहस्पतिः—'''
“ सूर्यादिवासरेष्वेतत् श्राद्धकृल्लभते परम् । बवादिकरणेष्वेवत्तच्छ्राद्धकृच्चाश्नुते फलम् ” ॥ इति ।
संगृह्य दर्शयति '''कालादर्शकारः—'''
“ पक्षाद्यायासु तिथिषु वर्जयित्वा चतुर्दशीम् । कन्यादिकामिनः कुर्युः श्राद्धं पार्वणरूपवत् ॥
“ कृत्तिकादिषु ऋक्षेषु भरण्यंतेषु पार्वणम् । कुर्युः श्राद्धं श्रद्दधानाः स्वर्गादिफलगामिनः ॥
२० “ विष्कंभादिषु योगेषु फलं नक्षत्रवत्स्मृतम् ।
“ श्राद्धं रव्यादिवारेषु ह्यारोग्यादिफलेप्सवः । कुर्युः फलमिदं ज्ञेयं बवादिकरणेष्वपि ” ॥ इति ।
काम्यश्राद्धस्य कालांतरमप्याह '''गार्ग्यः—'''
“ माससंज्ञे यथा ऋक्षे चंद्रः संपूर्णमंडलः । गुरुणा यदि संयुक्तः सा तिथिर्महती स्मृता ” ॥ इति ।
पौर्णमास्यां चंद्रस्तन्मासनक्षत्रे चित्रादौ गुरुणा युक्तश्चेत्सा पौर्णमासी महाचैत्र्यादिसंज्ञेत्यर्थः ।
२५ '''स एव—'''
“ मेषराशौ यदा सौरिः सिंहे चन्द्रबृहस्पती । भास्करः श्रवणर्क्षे च महामाघी च सा स्मृता”॥ सौरिः
शनैश्चरः मेषे यदि स्याद्गुरुश्चंद्रश्च सिंहे यदि स्याद्भास्करः श्रवणनक्षत्रे यदि स्यात्तदा पूर्णिमा
महामाघीत्यर्थः । '''स एव—'''
“ वृषे वा मिथुने भानौ जीवचंद्रौ तथेंदुभे । पौर्णमासी गुरोर्वारे महाज्यैष्ठी प्रकीर्तिता ॥
३० “ महाचैत्र्यादिषु कृतं दानं श्राद्धमुपोषणम् । अनंतफलदं प्राहर्मुुनयो धर्मविदिनः ” ॥
'''इति श्राद्धकालः ।'''
{{rule}} १ क्ष-क्र<noinclude></noinclude> n1jjc4kow1dwyt8rb9kimjjzha0qpz5 पृष्ठम्:Smriti mukta phalam.pdf/८०५ 104 166808 419831 2026-11-11T02:13:01Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''ब्राह्मणपरीक्षा ।'''|७६५}} {{rule}} '''अथ श्राद्धे भोजनीयवर्जनीयब्राह्मणनिरूपणम् । तत्र मनुः—'''
“तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः । यावंतश्चैव यै... नवीन पृष्ठं निर्मीत अस्ती 419831 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''ब्राह्मणपरीक्षा ।'''|७६५}} {{rule}} '''अथ श्राद्धे भोजनीयवर्जनीयब्राह्मणनिरूपणम् । तत्र मनुः—'''
“तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः । यावंतश्चैव यैश्चाङ्गैस्तैस्तांश्च वक्ष्याम्यशेषतः”॥ इति ।
द्विजोत्तमा द्विजेषु त्रैवर्णिकेषूत्तमाः ब्राह्मणा इति यावत् । भोजनीयानभोजनीयांश्च ब्राह्मणान्वेत्तुं
गुणदोषपरीक्षणं कार्यमित्याह '''स एव—'''
“ दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् । तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ” ॥ इति । ५
पात्रपरिग्रहकालात्पूर्वमेतत्पितृपितामहपरीक्षा कार्या । तीर्थमुत्तमं पात्रमतिथितुल्यश्चेत्यर्थः ।
वेदपारगग्रहणमुपादेयगुणानामुपलक्षणार्थम् । अत एव '''छागलेयः—'''
“ सर्वलक्षणसंयुक्तैर्विद्याशीलगुणान्वितैः । पुरुषत्रयविख्यातैः सर्वं श्राद्धं प्रकल्पयेत् ” ॥ इति ।
'''यमोऽपि—'''
“ पूर्वमेव परीक्षेत ब्राह्मणान् वेदपारगान् । शरीरप्रभवैर्दोषैः शुद्धांश्च चरित्रव्रतान् ” ॥ इति । १०
शरीरप्रभवा दोषाः कुष्ठापस्मारकादयः । तद्रहितान्पितामहादारभ्य भोजनीयब्राह्मणपर्यंतं परीक्ष्येते-
त्यर्थः । अत एव पितुः श्रोत्रियत्वेन पुत्रस्य श्रेष्ठ्यमाह '''मनुः—'''
“ अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः । अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः ॥
“ ज्यायांसमनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता । मंत्रसंपूजनार्थं तु सत्कारमितरोऽर्हति ” ॥ इति ।
इतरः अश्रोत्रियपितृकः श्रोत्रिय इत्यर्थः । '''स एव—''' १५
“ न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ” ॥ इति ।
प्रयत्नत इति दैवेऽप्यपकृष्य योजनीयम् । दैवे कर्मणि प्रयत्नतो न परीक्षेत । अनेन
किंचित्परीक्षणं कार्यमित्युक्तं भवति । तथा च '''स एव—'''
“ श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । अर्हत्तमाय विप्राय तस्मै दत्तं महत्फलम् ॥
“एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् । पुष्कलं फलमाप्नोति नामंत्रज्ञांबहूनपि ॥ २०
“ सहस्राणि सहस्राणामनृचां यत्र भुञ्जते । एकस्तान्मंत्रविद्विप्रः सर्वानर्हति धर्मतः ॥
“ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च । न हि हस्तावसृग्दिग्धौ धाव्येते रुधिरेण वै ॥
“ यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् । शाखांतगं वाऽप्यध्वर्युं छंदोगं वा समाप्तिकम् ॥
“ एषामन्यतमो यस्य भुंजीत श्राद्धमर्चितः । पितॄणां तस्य तृप्तिः स्याच्छाश्वती सप्तपौरुषी ॥
“ ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति । तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते”॥ २५
'''बृहस्पतिः—'''
“यद्येकं भोजयेच्छ्राद्धे छंदोगं तत्र भोजयेत् । ऋचो यजूंषि सामानि त्रयं तत्र तु विद्यते ॥
“अद्भिस्तु पृथिवीं सर्वां सशैलवनकाननाम् । यदि लभ्येत पित्र्यर्थे साम्नामक्षरचिंतकः ” ॥
“ऋचा तु तृप्यति पिता यजुषा तु पितामहाः । पितुः पितामहः साम्ना छंदोगो ह्यधिकस्ततः”॥ इति ।
'''शातातपः—''' ३०
“ भोजयेच्छस्त्वथर्वाणं दैवे पित्र्ये च कर्मणि । अनंतमक्षयं चैव फलं तस्येति वै श्रुतिः ” ॥
'''यमः—'''“ वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः । स्वकर्मनिरताः शांताः क्रियावंतस्तपस्विनः ॥
“ तेभ्यो हव्यं च कव्यं च प्रसन्नेभ्यः प्रदीयते ” ॥
“येसोमपा विरजसो ब्रह्मज्ञाः शांतबुद्धयः । व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥
“ पंचाग्निरप्यधीयानो यजुर्वेदविदेव च । बह्वृचश्च त्रिसौपर्णिस्त्रिमधुर्वाऽथ यो भवेत् ॥ ३५
{{rule}} ९७-२८<noinclude></noinclude> cnczyl0wgiw3pjk07bp1m0jeyrggxfw पृष्ठम्:Smriti mukta phalam.pdf/८०६ 104 166809 419832 2026-11-11T02:16:58Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७६६|'''पंक्तिपावना ब्राह्मणा नियोज्याः ।'''|}} {{rule}} “ त्रिणाचिकेतो विरजाञ्छंदोगो ज्येष्ठसामगः । अथर्वशिरसोऽध्येता सर्वे ते पंक्तिपावनाः ॥
“ शिशुरप्यग्निहोत्... नवीन पृष्ठं निर्मीत अस्ती 419832 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७६६|'''पंक्तिपावना ब्राह्मणा नियोज्याः ।'''|}} {{rule}} “ त्रिणाचिकेतो विरजाञ्छंदोगो ज्येष्ठसामगः । अथर्वशिरसोऽध्येता सर्वे ते पंक्तिपावनाः ॥
“ शिशुरप्यग्निहोत्री च न्यायविच्च षडंगवित् । मंत्रब्राह्मणविच्चैव यश्च स्याद्धर्मपारगः ॥
“ ब्रह्मदेयासुतश्चैव भावशुद्धः सहस्रदः । चांद्रायणव्रतचरः सत्यवादी पुराणवित् ॥
“ निष्णातः सर्वविद्यासु शांतो विगतकल्मषः । गुरुवेदाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥
५ “ विमुक्तश्च सदा धीरो ब्रह्मभूतो द्विजोत्तमः । न मित्रो नैव चामित्रो मैत्र आत्माविदेव च ॥
“ स्नातको जप्यनिरतः सदा पुष्पबलिप्रियः । ऋजुर्मृदुः क्षमी दांतः शांतः सत्यव्रतः शुचिः ॥
“ वेदज्ञः सर्वशास्त्रज्ञ उपवासपरायणः । गृहस्थो ब्रह्मचारी च चतुर्वेदविदेव च ॥
“ वेदविद्याव्रतस्नाता ब्राह्मणाः पंक्तिपावनाः”॥ इति । “ब्रह्म मे तुमाम्” इत्यादयस्त्रयोऽनु-
वाकाः प्रत्येकं त्रिसुपर्णसंज्ञास्तांस्त्रीनेकं वाऽधीते स त्रिसुपर्णः । ‘मधुवाता ऋतायते’ इत्याद्या-
१० स्तिस्रः ऋचो योऽधीते स त्रिमधुः । १ ‘उशन्ह वै वाजश्रवस’ इत्यादिभिखिभिरनुवाकैर्विहितानां
नाचिकेतसंज्ञानामग्नीनां चेतावेत्ता वा त्रिणाचिकेतः । ब्रह्मदेयासुतः ब्राह्मविवाहोढायाः पुत्र
इत्यर्थः । '''शंखः—'''
“ ब्रह्मदेयानुसंतोनो ब्रह्मदेयाप्रदायकाः । ब्रह्मदेयापतिश्चैव ब्राह्मणाः पंक्तिपावनाः ॥
“यजुषां पारगो यश्च साम्नां यश्चापि पारगः । अथर्वशिरसोऽध्येता ब्राह्मणः पंक्तिपावनः”॥ इति ।
१५ '''बोधायनोऽपि—'''“त्रिमधुस्त्रीणा चिकेतस्त्रिसुपर्णः पंचाग्निः षडङ्गवित् त्रिशीर्षगो ज्येष्ठसामगा”इति ।
पङ्क्तिपावनाः इति । ‘सहस्रशीर्षा पुरुषः’ ‘अद्भ्यः संभूतः’ ‘सहस्रशीर्षं देवम्’ इत्यनुवाकत्रयस्या-
ध्येता । '''हारीतोऽपि''' स्थितिरविच्छिन्नवेदिवेदिता आर्षेयत्वं चेति कुलगुणाः । वेदा अंगानि
धर्मोऽध्यात्मविख्यं विज्ञानं स्मृतिश्चेति षड्विधं श्रुतं ब्रह्मण्यता देवपितृभक्तिता समता सौम्यता अपरो-
षतापिता अनसूयता अनुद्धतता अपारुष्यं मित्रता प्रियवादित्वं कृतज्ञता शरण्यता प्रशांतिश्चेति
२० त्रयोदशविधं शीलम् ।
“क्षमा दमो दया दानमहिंसा पूजनं तथा । शौचं स्नानं जपो होमस्तपः स्वाध्याय एव च ॥
“ सत्यवचनं संतोषो दृढव्रतत्वमुपव्रतत्वमिति षोडशगुणं वृत्तम् । तस्मात्कुलीनाः श्रुतशील-
वंतो व्रतस्थाः सत्यवादिनोऽव्यंगाः पंक्तिंया द्वादशोभयत्र श्रोत्रियस्त्रिणाचिकेतस्त्रिसुपर्णस्त्रिमधु-
त्रिशीर्षगो ज्येष्ठसामगः पंचाग्निरुषडंगविद्ब्रह्मजान्यूर्ध्वरेता ऋतुकालगामी तत्त्वाविच्चेति पंक्तिपावना
२५ भवंतीति स्थितिरविच्छिन्नसंतानत्वं अविच्छिन्नवेदेवेदितेति । हविरासादनार्थ देशविशेषवाची वेदि-
शब्दो हविः साध्यंयागं लक्षयति । आर्षेयत्वं प्रवरगतऋषिज्ञातृत्वं धमो धर्मशास्त्रं विज्ञानं वैशेषिकादि
शास्त्रज्ञानं स्मृतिः वेदशाखायाविस्मरणम् ”॥ '''विष्णुरपि—'''
“ ये क्षांतदांताः श्रुतिपूर्णकर्णा जितेंद्रियाः प्राणिवधे निवृत्ताः ।
“प्रतिग्रहे संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः”॥ इति । '''मत्स्यपुराणेऽपि—'''
३० “ अर्थज्ञो वेदवित्सत्री ज्ञातवंशः कुलान्वितः । पुराणवेत्ता सर्वज्ञः स्वाध्यायजपतत्परः ॥
“ शिवभक्तः पितृपरः सूर्यभक्तोऽथ वैष्णवः । ब्रह्मण्यो योगविच्छान्तो विजितात्माऽथशीलवान् ॥
“ श्राद्धे नियोजनीयाः स्युर्यह्येते पंक्तिपावनाः ” इति ॥ '''याज्ञवल्क्यः—'''
“अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मवित्युवा । वेदार्थविज्ज्येष्ठसामा त्रिमधुख्रिसुपर्णकः ॥
{{rule}} १ ग-द्वि ।<noinclude></noinclude> j1qklomapnatyir6r7qd897z4bd3xwk पृष्ठम्:Smriti mukta phalam.pdf/८०७ 104 166810 419833 2026-11-11T02:18:51Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सावित्रीजाप्यनिरताः केतनक्षमाः । यतिनश्च ।'''|७६७}} {{rule}} “ कर्मनिष्ठास्तपोनिष्ठाः पंचाग्निर्ब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ” ॥ इत... नवीन पृष्ठं निर्मीत अस्ती 419833 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सावित्रीजाप्यनिरताः केतनक्षमाः । यतिनश्च ।'''|७६७}} {{rule}} “ कर्मनिष्ठास्तपोनिष्ठाः पंचाग्निर्ब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ” ॥ इति ।
'''मनुः—'''
“अपांक्त्योपहता पंक्तिः पाव्यते यैर्द्विजोत्तमैः । तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान्पंक्तिपावनान् ॥
“ अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । श्रोत्रियान्वयजाश्चैव विज्ञेयाः पंक्तिपावनाः ॥
“ त्रिणाचिकेतः पंचाग्निस्त्रिसुपर्णः षडंगवित् । ब्रह्मदेयानुसंतानः छंदोगो ज्येष्ठसामगः ॥ ५
“ वेदार्थविद्वक्ता च ब्रह्मचारी सहस्रदः । शतायुश्चैव विज्ञेया ब्राह्मणाः पंक्तिपावनाः ” ॥ इति ।
सहस्रदः गवां सुवर्णानां वा । '''व्यासोऽपि—'''
“ अग्निहोत्रपरो विद्वान् न्यायविच्च षडंगवित् । मंत्रब्राह्मणविच्चैव यश्च धर्मस्य पालकः ॥
“ गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः । महादेववार्चनरतो वैष्णवः पंक्तिपावनः ” ॥ इति ।
'''मनुः—''' १०
“ गायत्रीमात्रसारोऽपि वरं विप्रः सुयंत्रितः । नायंत्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ” ॥
'''मत्स्यः—'''
“ गायत्रीजप्यनिरतं हव्यकव्ये नियोजयेत् । पापं तिष्ठति नो तस्मिन् बिंदुरिव पुष्करे ” ॥ इति ।
पुष्करं पद्मपत्रम् । '''आश्वलायनः—'''
“ अविप्लुतब्रह्मचर्यो पितरौ यस्य तिष्ठतः । सन्ध्याग्निहोत्रनिष्ठश्चेत् श्राद्धे सोऽर्हो न वेदवित् ॥ १५
“ त्यक्ताग्निस्त्यक्तसन्ध्यो यो वेदविच्चापि सद्द्विजाः । स्वपित्रोरात्मनः शुद्धिविहीनस्तं च वर्जयेत्”॥
'''व्यासोऽपि—'''
“ चीर्णव्रता गुणैर्युक्ता भवेयुर्ये च कर्षकाः । सावित्रीज्ञाः क्रियावंतस्ते राजन्केतनक्षमाः ॥
“ सावित्रीं तु जपन्त्यस्तु त्रिकालं भरतर्षभ । भैक्षवृत्तिः क्रियावांश्च स राजन्केतनक्षमः ” ॥ इति ।
केतनं निमंत्रणम् । क्षमो योग्य इत्यर्थः । '''यमः—''' २०
“ गृहस्थो ब्रह्मचारी च यजुर्वेदविदेव च । वेदविद्याव्रतस्नाता ब्राह्मणाः पंक्तिपावनाः ” ॥ इति ।
चशब्दाद्यतिरप्युक्तः । उक्तं च साक्षादगस्त्येन—“ यतीन्साधूंश्चेति ” ; भोजयेदिति शेषः ।
'''ब्रह्मांडपुराणे—'''“ शिखिभ्यो धातुरक्तेभ्यः त्रिदंडिभ्यश्च दापयेत् ” ॥ इति । शिखिनो
ब्रह्मचारिणः । धातुरक्तः धातुरक्तवस्त्रधारिणो वानप्रस्थाः । त्रिदंडिनो वाक्कायमनोदंडैरुपेता यतयः ।
अत्र परः परः श्रेष्ठः । अत एव '''नारदः—''' २५
“यो वै यतीननादृत्य भोजयेदितरान्द्विजान् । विजानन्वसतो ग्रामे कव्यं तद्याति राक्षसान्”॥ इति ।
'''नागरखंडे—'''
“ आमंत्रयेद्यतीन्पूर्वं वनस्थान्त्रा त्रिकर्मणः । तदभावे गृहस्थांश्च ब्रह्मज्ञानपरायणान् ” ॥ इति ।
त्रिकर्मणः ब्रह्मचारिणः । '''ब्रह्मपुराणे—'''
“ अलाभे ध्यानिभिक्षूणां भोजयेद्ब्रह्मचारिणः । तदलाभे ह्युदासीनं गृहस्थमपि भोजयेत् ” ॥ इति । ३०
ध्यानी वानप्रस्थः । उदासीनः दातुरसंबंधी । तथा चा'''पस्तंबः—'''“ ब्राह्मणान्भोजयेद्ब्रह्मविदो
योनिगोत्रमंत्रांतेवास्यसंबंधान् ” इति । योनिसंबंधः मातुलादयः । गोत्रसंबंधाः सपिंडाः ।
मंत्रसंबंधा वेदाध्यापकादयः । अंतेवासिसंबंधाः शिल्पशास्त्रोपाध्यायाः । एवंविधसंबंधव्यतिरिक्ता-
न्ब्राह्मणान् गृहस्थादीन्भोजयेदित्यर्थः ।
{{rule}} ९७-२८<noinclude></noinclude> brzip82ygfmrz46ojg0ut5jm1bc58v4 पृष्ठम्:Smriti mukta phalam.pdf/८०८ 104 166811 419834 2026-11-11T02:23:45Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७६८|'''योगिनं भोजयेत् ।'''|}} {{rule}} '''चंद्रिकायाम्—'''
“ गृहस्थानां सहस्रेण वानप्रस्थशतेन च । ब्रह्मचारिसहस्रेण वानप्रस्थशतेन च ॥
“ ब्रह्मचारिसहस्रेण यो योगी स व... नवीन पृष्ठं निर्मीत अस्ती 419834 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७६८|'''योगिनं भोजयेत् ।'''|}} {{rule}} '''चंद्रिकायाम्—'''
“ गृहस्थानां सहस्रेण वानप्रस्थशतेन च । ब्रह्मचारिसहस्रेण वानप्रस्थशतेन च ॥
“ ब्रह्मचारिसहस्रेण यो योगी स विशिष्यते ” ॥ '''पद्मपुराणेऽपि—'''
“ सांगान्यध्वतुरो वेदानधीते संस्कृतोऽर्थवित् । कर्मवान्कर्मसंशुद्धः स श्राद्धे प्रथमो मतः ॥
५ “ तादृशादयुताच्छ्रेयानैको योगसमाश्रयः ॥ ” '''वृद्धशातातपः—'''
“ ज्ञानी यस्य सदाऽश्नाति उदकं वा पिबेद्यदि । कृतं तेनेह तत्कृत्यं तारितं च कुलत्रयम् ॥
“ योगिनं समतिक्रम्य गृहस्थं यदि पूजयेत् । न तत्फलमवाप्नोति स्वर्गस्थमपि पातयेत् ॥
“ योगिनं तु व्यतिक्रम्य पूजयंति परस्परम् । भोक्तारस्तु सदातारो नरके स्युः सबांधवाः” ॥ इति ।
एतत्सर्वं वृत्तस्थदृढतत्वयोगिविषयम् । तथा च '''शातातपः—'''
१० “ योगिनं भोजयेन्नित्यं दृढतत्वं मनीषिणम् । तेषां तु दत्तमक्षय्यं भवतीति न संशयः ” ॥
'''चंद्रिकायामपि—'''“ भोजनीयास्तथा नित्यं ज्ञानिनो ध्यानिनस्तथा ” ॥ इति ।
एवं च “ यथाकथंचिदपि यो योगधर्मं समाश्रितः । सम्यग्वर्णाश्रमस्थेभ्यस्तत्पात्रं परमं मतम् ” ॥
इत्युशनसो वचनं योगिप्रशंसापरम् । तथा चा'''श्वलायनः—'''
“ त्यक्तसंगं मुनिं शांतं सुनिविण्णममत्सरम् । शुद्धमेकाकिनं भिक्षुं सश्रद्धं च निराशिषम् ॥
१५ “ ईषणात्रयनिर्मुक्तं लोकवन्माविदूषकम् । यतिमेतादृशं यत्नात् श्राद्धे सम्यक्प्रपूजयेत् ॥
“ आहूतं वाप्यनाहूतं सिद्धं वा ब्राह्मणाज्ञया । आत्मना विदितं विप्रं यतिं सिद्धं च योगिनम् ॥
“ पूजयेदेव मतिमाञ्छ्राद्धेनाविदितं बुधः ॥
“ये चाप्यविदिताः काले सिद्धायाः स्वयमागताः।शिवबुद्ध्याऽर्चयेदेतान् सिद्धान्विप्रांनुमोदितान्”॥
'''हेमाद्रौ—'''
२० “ भिक्षार्थमागतांश्चापि काले संयमिनो यतीन् । भोजयेत्प्रणिपाताद्यैः प्रसाद्य यतमानसः ” ॥
'''यमः—'''
“ भिक्षुको ब्रह्मचारी च भोजनार्थमुपस्थितः । उपविष्टेष्वनुप्राप्तः कामं तमपि भोजयेत् ” ॥
वरणानंतरं प्राप्तमतिथिवद्भोजयेदित्यर्थः । '''छागलेयः—'''
“ पूजयेच्छ्राद्धकालेऽपि यतिं च ब्रह्मचारिणम् । विप्रानुद्धरते पापात्पितॄणाञ्चगणानपि ” ॥ इति ।
२५ उपवेशनस्थानाविशेषमाह '''बृहस्पतिः—'''
“ अभावे स्नातकानां तु व्रतिनं श्राद्धकर्मणि । दैवार्थं केतयेद्योग्यं न पित्रर्थं कदाचन ॥
“ श्राद्धकाले यतिं प्राप्तं पितृस्थाने तु भोजयेत् । देवस्थानेन वृणुयात्प्रथमो परिवेषयेत् ” ॥ इति ।
व्रतिनं ब्रह्मचारिणमित्यर्थः । यत्तु '''ब्रह्मकैवर्तवचनम्—'''“ मुंडान् जटिलकाषायान् श्राद्धकाले
विवर्जयेत् ” इति तदाश्रमाचाररहितव्यर्थमुंडिविषयम् ।
३० “ वर्णाश्रमविरुद्धानां धर्माणां ये तु सेवकाः । मुंडान् वसनकाषायांस्तांस्तु श्राद्धे विवर्जयेत् ॥
“अनाश्रमी तु यो विप्रो जटी मुंडी वृथाचयः । वृथाकाषायधारी च श्राद्धे तं दूरतस्त्यजेत्” ॥ इति
स्मरणात् । ब्रह्मचारिणः श्राद्धे एकान्नभोजनमनुजानाति '''मनुः—'''
“ व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथार्थितः । काममभ्यर्थितोऽश्नीयाद्वतमस्य न लुप्यते ” ॥ इति ।
देवदैवत्ये दैविके कर्मण्यभ्यर्थितो ब्रह्मचारी व्रतबद्द्ब्रताविरोधेन मधुवर्जं भुंजीत । पित्र्ये पितृकर्मणि
३५ ऋषिवत् ऋषिरिव मधुमांसादि वर्जयन् कामं इच्छया भुंजीत । एवमस्य ब्रह्मचर्यव्रतं न लुप्यते ।
अन्यथा लुप्यत इत्यर्थः ।
{{rule}}<noinclude></noinclude> 2vai3u4ic6pi488edgw1bdwm0t0hjnd पृष्ठम्:Smriti mukta phalam.pdf/८०९ 104 166812 419835 2026-11-11T02:24:46Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''कल्पानुकल्पौ ।'''|७६९}} {{rule}} '''याज्ञवल्क्योऽपि—'''
“ ब्रह्मचर्ये स्थितो नैकंमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ” ॥ इति ।
व्रतपी... नवीन पृष्ठं निर्मीत अस्ती 419835 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''कल्पानुकल्पौ ।'''|७६९}} {{rule}} '''याज्ञवल्क्योऽपि—'''
“ ब्रह्मचर्ये स्थितो नैकंमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ” ॥ इति ।
व्रतपीडाकरं मधुमांसादिवर्ज्यन्भुंजीतेत्यर्थः । परानुग्रहार्थं यतेः एकान्नभोजनमनुजज्ञे '''कार्ष्णा-'''
'''जिनिः—'''“ अशक्तानुग्रहार्थं वा यतिरेकान्नभुग्भवेत् ” ॥ इति । '''वसिष्ठोऽपि—'''
“ ब्राह्मणकुलेऽभ्यर्थितो यतिर्भुंजीत ” इति । '''स्मृत्यंतरे—''' ५
“ मधुमांसं न दातव्यं यतीनां ब्रह्मचारिणाम् । गंधं माल्यं च तांबूलमनुज्ञाप्यान्यतो दिशेत्”॥ इति ।
'''मनुः—'''
“ एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिस्नुष्ठितः ॥
“मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् । दौहित्रं विट्पतिं बंधुमृत्विग्याज्यौ च भोजयेत्”॥ इति ।
एष इति त्रिणाचिकेतः पंचाग्निरित्यादिरुक्तस्य परामर्शः । अयमिति मातामहं मातुलं चेति १०
वक्ष्यमाणस्य प्रथनः श्रेष्ठः कल्पः । अनुकल्पः प्रथमकल्पाद्धमः । “ मुख्यः स्यात् प्रथमः कल्पो
ह्यनुकल्पस्ततोऽधमः ” इत्यमरसिंहेनाभिधानात् । प्रथमकल्पाभावे अनुकल्पोऽ-
प्यनुष्ठेय इत्युक्तम् । सदा सद्भिस्नुष्ठेत इति । विट्पतिर्जामाता भोजयितुर्मातामहादय इह गृह्यंते ।
न तु भोक्तुः पित्रादेः तेषां संबंधिविश्रष्टत्वात् । '''आश्वलायनः—'''
“ सत्पात्राणामलाभे तु पात्रभूतान् स्वत्रान्धवन् । कृतोपकारिणश्चापि श्राद्धे पूजितुमर्हति ॥ १५
नियतेदोषनिर्मुक्ता गुणैश्वोक्तैः समन्विताः । अनुकल्पेऽर्चनीयाः स्युः बान्धवाश्चोपकारिणः ॥
“एतान्मोहात्तु यः श्राद्धे निर्गुणान् बान्धवान् द्विजान् । कृतोपकारिणश्चार्चेत श्राद्धहा स भवेन्नरः ॥
“ दौहित्रस्तु गुणैर्युक्तो विद्वान्प्रेतस्य संस्कृतः । अर्च्यः प्रथमकल्पेऽपि निर्गुणो न तु गृह्यते ”॥
संभवति मुख्यकल्पे अनुकल्पो नानुष्ठेयः ।
“प्रभुः प्रथमकल्पस्य योऽनुकल्पेऽनुवर्तते । न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ” ॥ इति । २०
'''मनुस्मरणात्—'''सांपराथिकमुत्तरकालीनं स्वर्गादिफलमित्यर्थः ।
याज्ञवल्क्येनाप्यनुकल्पो दर्शितः—
“ स्वस्त्रीयऋत्विग्जामातृयाज्यश्वशुरमातुलाः । त्रिणाचिकेतदौहित्रशिष्यसंबंधिबांधवाः”॥ इति ।
'''बोधायनः—'''“ तदनावे रहस्यविदो यजूंषि सामानीति श्राद्धस्य महिमा तस्मादेवंविधं सपिंड-
मप्याशयेत् ” इति । त्रिभ्य ऊर्ध्वं यः सपिंडस्तद्विषयमेतत् । तथा च सपिंड इत्यनुवृत्तौ '''गौतमः—''' २५
“ भोजयेदूर्ध्वं त्रिभ्यो गुणवंतम् ” इति । '''अत्रिरस्तु—'''
‘षड्भिस्तु परतो भोज्याः श्राद्धे स्युर्गोत्रजा अपि।षड्भ्यस्तु पुरुषेभ्योऽर्वाक् अश्राद्धेयाः सगोत्रिणः’॥ इति।
'''यत्त—'''
“ पितृव्यगुरुदौहित्रांस्त्विक्स्वस्त्रीयमातुलान् । पूजयेद्धव्यकव्येन वृद्धानतिथियांधवान् ” ॥ इति ।
'''विष्णुपुराणे—'''पितृव्यस्य भोजनीयत्वमुक्तं तत्तस्य गुणवत्तरत्वे वैश्वदैविकस्थाने भोजनीयत्वाभि- ३०
प्रायेण । तथा चा'''त्रिः—'''
“ पिता पितामहो भ्राता पुत्रो वाऽथ सपिंडकः । न परस्परमर्ध्याः स्युर्न श्राद्धे ऋत्विजस्तथा ॥
“ऋत्विक्पुत्रादयो ह्येते सकुल्या ब्राह्मणा द्विजाः । वैश्वदेवे नियोक्तव्या यथेते गुणवत्तराः” ॥ इति
एवं च—
{{rule}}<noinclude></noinclude> pt08my62wick1osrc4ml6e4awoghnd8 पृष्ठम्:Smriti mukta phalam.pdf/८१० 104 166813 419836 2026-11-11T02:26:53Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७७०|'''विद्वांसमेव निमन्त्रयीत ।'''|}} {{rule}} “आत्मानं वा नियुञ्जीत पुत्रं वाऽपि गुणान्वितम् । सोदर्यमेव वा श्राद्धे भोजयेत्तु द्विजोत्तमः”॥ इति ।
'''पराशरवचनं'''
... नवीन पृष्ठं निर्मीत अस्ती 419836 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७७०|'''विद्वांसमेव निमन्त्रयीत ।'''|}} {{rule}} “आत्मानं वा नियुञ्जीत पुत्रं वाऽपि गुणान्वितम् । सोदर्यमेव वा श्राद्धे भोजयेत्तु द्विजोत्तमः”॥ इति ।
'''पराशरवचनं'''
“ योनिश्रोत्रसंबंधानापि कामं श्रुतवृत्तये हि स्वधानिधीयते ” इति '''बोधायनवचनं—'''“भोजये-
द्ब्राह्मणान्नब्रह्मविदो योनिगोत्रमंत्रांतेवास्यसंबंधान् गुणहान्यां तु परेषां समुदेतः सोदर्योऽपि
५ भोजयितव्य एतेनांतेवासिनो व्याख्याता ” इत्यापस्तंबवचनमपि वैश्वदेविकस्थानाभिप्रायम् ।
अंतेवासिनामपि तत्स्थान एव निवेशः । तथा चामंत्रयीतेत्यनुवृत्तौ '''कात्यायनः—'''
“ अभावे शिष्यान्स्वाचारांन्वैश्वदेवार्थम् ” इति । सगुणानामनुकल्पानां मातामहादीनामभावे
निर्गुणानामनुकल्पतया ग्रहणमुक्तं '''चंद्रिकायाम्—'''
“ यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते । दूरस्थं भोजयेन्मूर्खो गुणाढ्यं नरकं व्रजेत् ॥
१० “ तस्मात्संपूजयेदेनं गुणं तस्य न चिंतयेत् । केवलं चिंतयेज्जातिं न गुणान्वितां द्विजः ॥
“ सन्कृष्टं द्विजं यस्तु युक्तजातिं प्रियंवदम् । मूर्खं वा पंडितं वापि वृत्तहीनमथापि वा ॥
“ नातिक्रमेन्नरो विद्वान्दारिद्र्याभिहतं तथा ” ॥ इति । संनिकृष्टं शरीरतः संनिकृष्टं दौहित्रादि-
मित्यर्थः । तथा च '''पुराणे—'''
“ संबंधिनस्तथा सर्वांन्दौहित्रं विट्पतिं तथा । भागिनेयं विशेषेण तथा बंधुं खगाधिप ॥
१५ “ नातिक्रमेन्नरस्त्वेतान्न मूर्खानपि गोपते । अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत् ” ॥ इति ।
'''मनुरपि—'''“ व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ” ॥ इति । व्रतस्थं केवल-
व्रतस्थमध्ययनादिरहितमित्यर्थः ।
“ दौहित्रस्तु गुणैर्युक्तो विद्वान् प्रयत्नसंयतः । अर्च्यः प्रथमकल्पेऽपि निर्गुणो न तु गृह्यते ” ॥
'''इत्याश्वलायनः ।''' शरीरतः संनिकृष्टदौहित्राद्यभावे तु '''चंद्रिकायामुक्तम्—'''
२० “ गायत्रीमात्रसारोऽपि ब्राह्मणः पूज्यतां गतः । गृहासन्नो विशेषेण न भवेत्पतितः स चेत्”॥ इति ।
द्विविधसंनिकृष्टविषयेऽपि गुणादिभिः श्रेष्ठेऽतिक्रांते सति भवत्येव दोषातिशयः । तदप्युक्तं तत्रैव—
“ सप्तपूर्वान्सप्तपरान्पुरुषान्नात्मना सह । अतिक्रम्य द्विजवरं नरके पातयेत्खग ॥
“ तस्मान्नातिक्रमेत्प्राज्ञो ब्राह्मणान्प्रातिवेशिकान् । संबंधिनस्तथा सर्वांन्दौहित्रं विट्पतिं तथा”॥ इति ।
'''षट्त्रिंशन्मते—'''
२५ “ संनिकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् । भोजने चैव दाने च हन्यात् त्रिपुरुषं कुलम्”॥ इति ।
यस्तु संनिकृष्टोऽनधीयानस्तस्यातिक्रमे न दोषः । तथा च तत्रैवोक्तम्—
“यस्य त्वेकगृहे मूर्खो दूरस्थश्च गुणान्वितः । गुणान्विताय दातव्यं न हि मूर्खे व्यतिक्रमः”॥ इति ।
व्यतिक्रमदोषो नास्तीत्यर्थः । '''भविष्यत्पुराणेऽपि—'''
“ ब्राह्मणातिक्रमो नास्ति मूर्खे मंत्रविवर्जिते । ज्वलंतमग्निमुत्सृज्य न हि भस्मनि हूयते ”॥ इति ।
३० मूर्खग्रहणं निर्गुणमात्रोपलक्षणार्थम् । अत एवोक्तं तत्रैव—“व्यतिक्रांते न दोषोऽस्ति निर्गुणं प्रति
कर्हिचित् ” इति । आसन्नस्यैवातिथेरपि गुणपरीक्षणं न कार्यमित्याह '''शातातपः—'''“ अविज्ञातं
द्विजं श्राद्धे न परीक्षेतसद्गा बुधः ।
“ सिद्धा हि विप्ररूपेण चरंतीह महीतले । अतिथैर्यस्य नाश्नाति तच्छ्राद्धं न प्रशस्यते”॥ इति ।
“अज्ञातकुलनामानं तत्कालसमुपस्थितम्” इत्युक्तलक्षणातिथिः ।
{{rule}}<noinclude></noinclude> 8mxd2byqpesb7p43kmgt9ubue7ux0z9 पृष्ठम्:Smriti mukta phalam.pdf/८११ 104 166814 419837 2026-11-11T02:27:48Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''वर्जनीया ब्राह्मणाः ।'''|७७१}} {{rule}} '''अनुकल्पांतरमाह वसिष्ठः—'''
“ आनृशंस्यं परो धर्मः याचते यत्प्रदीयते । अयाचतः सीदमानान्सर्वोपायैर्निमंत्रयेत् ” ॥ इति ।
... नवीन पृष्ठं निर्मीत अस्ती 419837 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''वर्जनीया ब्राह्मणाः ।'''|७७१}} {{rule}} '''अनुकल्पांतरमाह वसिष्ठः—'''
“ आनृशंस्यं परो धर्मः याचते यत्प्रदीयते । अयाचतः सीदमानान्सर्वोपायैर्निमंत्रयेत् ” ॥ इति ।
आनृशंस्यमुत्कृष्टो धर्मः । तेन सगुणानामनुकल्पानामभावे याचनशीलान् निर्गुणानपि सर्वोपायैर्नि-
मन्त्रयीत यथा ते निमन्त्रणमङ्गीकुर्वन्ति तादृशैरुपायैर्निमन्त्रयीत । अयाचनशीलानांमभावे
याचमानाय निर्गुणायापि दीय इत्यर्थः । अनुकल्पांतरमाह '''मनुः—''' ५
“ कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् । द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम्”॥ इति ।
अभिरूपं विद्वांसमपीत्यर्थः । अयं त्वनुकल्पः पूर्वोक्तानामप्यलाभे द्रष्टव्यः । स्वेनैव निषिद्धस्य
काममर्चयेदिति सानुशयमेवाभ्यनुज्ञानात् । तथाहि श्राद्धे मित्रं निषेधति '''मनुः—'''
“न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः । नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद् द्विजम्”॥इति ।
धनैः कार्य इति वचनाद्गुणवत्तामात्रहेतुकस्य मित्रभोजनस्यानुज्ञानमर्थात् सिद्धम् । १०
यदाह '''स एव—'''
“ यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हवींषि च ॥
“यः संगतानि कुरुते मोहात् श्राद्धेन मानवः । स स्वर्गाच्च्यवते लोकात् श्राद्धमित्रो विनश्यति ॥
“ संभोजनी साभिहिता पैशाची दक्षिणा द्विजैः । इहैवास्ते तु सा लोके गौरंधे वैकवेश्मनि”॥ इति ।
सा दक्षिणा तन्मित्रश्राद्धं संभोजनी बहूनामेकत्र भोजनम् । तद्रूपा पैशाची पिशाचैरुपभोग्येति १५
द्विजैरभिहिता इहैवास्ते इह लोके मित्रमेव संगृह्णाति नामुत्र पितॄन् । अन्यत्र गमनाशक्तौ दृष्टांत
उक्तः गौरंधे बैकवेश्मनीति । '''स्मृत्यंतरेऽपि—'''
“ संभोजनी नाम पिशाचभिक्षा नैषा पितॄन् गच्छति नोत देवान् ॥
“ इहैव सा चरति क्षीणपुण्या शालांतरे गौरिव नष्टवत्सा” ॥ इति ।
अथ भोजनीयतयोक्तश्रोत्रियादिषु ये वर्जनीयास्ते निरूप्यंते । तत्र '''क्रमदीपिकायाम्—''' २०
“रजस्वला च या नारी प्रसूता याश्च योषितः । दैवे कर्मणि पित्र्ये च तासां भर्तुरशुद्धता ॥
“पूर्वेद्युः श्राद्धकर्त्तारं तत्कर्त्तारं परेऽहनि । शवानुगामिनं चैव वर्जयेच्छ्राद्धकर्मणि ” ॥ इति ।
“ श्राद्धे निमन्त्रयेद्विद्वान् पितॄणां न सगोत्रिणः । कर्तुस्तु गोत्रिणश्चैव विशेषेण विवर्जयेत् ।
“सहोदराणां पुत्राणां पितुरेकादिने तथा । श्राद्धे निमन्त्रणं वर्ज्यं क्षुरकर्म तथैव च” ॥ इति ।
'''शंखः—''' मातामहादेर्जातींश्च स्वस्य ज्ञातींश्च वर्जयेत् । २५
“ गृह्णीत यदि कर्त्ता च भोक्ता च नरकं व्रजेत् । तच्छ्राद्धमासुरं प्रोक्तं पितॄणां नोपतिष्ठते ” ॥
'''वृद्धमनुः—'''“मासिके आब्दिके प्राप्ते वरणे परिवर्जयेत् । योनिजान् गोत्रजांश्चैव ह्युभयोर्वशजांस्तथा ॥
“ वर्जयेत्पितृकृत्येषु देवकार्ये यथामति । मातामहादेवरंणादूर्ध्वं ज्ञातीन्नियोजयेत्”॥ इति ।
'''नारदः—'''
“ श्राद्धं दद्यात्सगोत्रे चेत्समानप्रवरे तथा । दातुः प्रतिग्रहीतुश्च कुलक्षयकरं तु तत् ” ॥ इति । ३०
'''कारिकारत्ने—'''“अमग्निं गर्भिणीनाथं पितरं पुत्रमेव च । श्राद्धे निमंत्रयेन्नैको भ्रातृनपि च सोदरान् ॥
“ नित्यश्राद्धे गयाश्राद्धे सोदकुंभे तथैव च । सगोत्रं भोजयेत्प्राज्ञ इत्युवाच बृहस्पतिः ” ॥ इति ।
“ आब्दिकं त्वथमेकाहं मासिकेषु च षड्दिनम् । षाण्मासिके सपिण्डे च एकोद्दिष्टे च वत्सरम्”॥इति ।
{{rule}}<noinclude></noinclude> ol8zrqodoe77t5xt08ulhw6qxz3b17f पृष्ठम्:Smriti mukta phalam.pdf/८१२ 104 166815 419838 2026-11-11T02:28:37Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७७२|'''निन्द्याः । अवकीर्णी ।'''|}} {{rule}} '''याज्ञवल्क्यः—'''
“ रोगी हीनातिरिक्तांगः काणः पौनर्भवस्तथा । अवकीर्णी कुंडगोलौ कुनखी श्यावदंतकः ॥
“ भृतकाध्यापकः क्ली... नवीन पृष्ठं निर्मीत अस्ती 419838 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७७२|'''निन्द्याः । अवकीर्णी ।'''|}} {{rule}} '''याज्ञवल्क्यः—'''
“ रोगी हीनातिरिक्तांगः काणः पौनर्भवस्तथा । अवकीर्णी कुंडगोलौ कुनखी श्यावदंतकः ॥
“ भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः । मित्रध्रुक्पिशुनः सोमविक्रयी परिवित्तिदः ॥
“ मातापितृपरित्यागी कुंडाशी वृषलात्मजः । परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निंदिताः ” ॥ इति ।
५ रोगी उन्मादादिरोगवान् । उन्मादादिरोगाश्च देवलेन दर्शिताः—“ उन्मादस्त्वग्दोषो राज-
यक्ष्मा कासो मधुमेहो भगंदरो महोदरोऽश्मरीत्यष्टौ पापरोगः ” इति । हीनमतिरिक्तं वाऽंगं
यस्यासौ हीनातिरिक्तांगः । एकोनाक्ष्णा यः पश्यति स काणः । तेन च बधिरमूकांदादयो लक्ष्यंते ।
द्विरूढा पुनर्भूः । तस्य जातः पौनर्भवः । अवकीर्णी स्खलितब्रह्मचर्यो ब्रह्मचारी ।
“प्रती यः स्त्रियमभ्येति सोऽवकीर्णी निरूच्यते । गूढलिंग्यवकीर्णी स्यात् यश्च भग्नव्रतस्तथा”॥ इति ।
१० “ स्त्रीगूढं यवकीर्णः स्याद्यश्च भिन्न व्रतस्तथा” देवलस्मरणात् । कुंडगोलौ—
“ परदारेषु जायेते द्वौ सुतौ कुंडगोलकौ । पत्यौ जीवति कुंडस्तु मृते भर्तरि गोलकः ” ।
इत्येवमुक्तलक्षणौ । कुनखी दुष्टनखः । श्यावदंतः स्वभावकृष्णदंतः । “ स्वर्णचोरस्तु कुनखी
सुरापः श्यावदंतकः ” इति पूर्वजन्मनि महापातकित्वात्तयोः प्रतिषेधः । वेतनं गृहीत्वा योऽध्या-
पयति स भृतकाध्यापकः । तेन भृतकाध्यापितोऽपि लक्ष्यते । तावुपपातकितौ
१५ “भृतकाध्यापको यश्च भृतकाध्यापितश्च यः । उपपातकिनौ द्वौ च स्वाध्यायक्रयविक्रयात्” ॥ इति ।
देवलस्मरणात् । सता असता वा दोषेण कन्यां दूषयिता कन्यादूषी । महापातकाभिशस्तोऽभि-
शस्तकः । मित्रद्रोही मित्रध्रुक् । परदोषसंकीर्तनशीलः पिशुनः । परिवेदिकः परिवेत्ता । कुंडस्यान्नं
योऽश्नाति स कुंडाशी । एवं गोलकस्यापि ‘ यस्तयोरन्नमश्नाति स कुंडाशी प्रकीर्तितः ” इति
वचनात् । विहितकर्मपरित्यागी वृषलः । तत्सुतो वृषलात्मजः । परपूर्वापतिः पुनर्भूपतिः । अदत्ता-
२० दायी स्तेनः । कर्मदुष्टाः शास्त्रविरुद्धकारिणः । एते श्राद्धे निंदिता वर्ज्या इत्यर्थः ।
'''मनुरपि—'''
“ ये स्तेनाः पतिता विप्रा ये च नास्तिकवृत्तयः । तान्हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥
“ जटिलं चानधीयानं दुर्बलं कितवं तथा । याजयंति च ये पूगांस्तांस्तान् श्राद्धे न भोजयेत् ।
“ चिकित्सका देवलका मांसविक्रयिणस्तथा । विपणेन च जीवंतो वर्ज्याः स्युर्हव्यकव्ययोः ।
२५ “ प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदंतकः । प्रतिरोधो गुरोश्चैव त्यक्ताग्निवार्धुषिस्तथा ॥
“ यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः । ब्रह्मद्विट् परिवित्तिश्च गणाभ्यंतर एव च ॥
“ कुशीलवोऽवकीर्णी च वृषलीपतिरेव च । पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे ॥
“ भृतकाध्यापको यश्च भृतकाध्यापितस्तथा । शूद्रशिष्यो गुरुश्चैषां वाग्दुष्टः कुंडगोलकौ ॥
“ अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा । ब्राह्मैर्यौनैश्च संबंधैः संयोगं पतितैर्गतः ॥
३० “ अगारदाही गरदः कुंडाशी सोमविक्रयी । समुद्रयायी बंदी च तैलिकः कूटकारकः ॥
“ विप्रान् विवादमानश्च केकरो मध्यपस्तथा । पापरोग्यभिशस्तश्च दांभिको रसविक्रयी ॥
“ धनुःशराणां कर्त्ता च यश्चाग्रेविधिधूपतिः । मित्रध्रुक् द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥
“ भ्रमरी गंडमाली च श्वित्र्यथो पिशुनस्तथा । उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिंदक एव च ॥
“ हस्तिगोश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति । पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥
३५ “ स्रोतसां भेदकश्चैव तेषामावरणे रतः । गृहसंवेशको दूतो वृक्षारोहक एव च ॥
{{rule}} १ ग-कुंथि । २ क्ष-त्यह ।<noinclude></noinclude> azap92x5go41k6zzslqxxapmrchczki पृष्ठम्:Smriti mukta phalam.pdf/८१३ 104 166816 419839 2026-11-11T02:30:47Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''देवलकः । परिवित्त्यादयः ।'''|७७३}} {{rule}} “ श्वक्रीडी श्येनजीवी च कन्यादूषक एव च । हिंस्रो वृषलपुत्रश्च गणानां चैव याजकः ॥
“ आचारहीनः क्लीबश्च नित्ययाचनकस्तथा... नवीन पृष्ठं निर्मीत अस्ती 419839 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''देवलकः । परिवित्त्यादयः ।'''|७७३}} {{rule}} “ श्वक्रीडी श्येनजीवी च कन्यादूषक एव च । हिंस्रो वृषलपुत्रश्च गणानां चैव याजकः ॥
“ आचारहीनः क्लीबश्च नित्ययाचनकस्तथा । कृषिजीवी शिल्पेजीवी सद्भिर्निंदित एव च ॥
“ औरभ्रको माहिषिकः परपूर्वापतिस्तथा । प्रेतनिर्यातकश्चैव वर्जनीयाः प्रयत्नतः ॥
“ एतान्विगर्हिताचारानपाङ्क्तेयान् नराधमान् । द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ” ॥ इति ।
एतच्चास्य्यायते पारलौकिकफलदं कर्म नास्तीति मन्यमाना नास्तिकाः तेभ्यो वृत्तिर्जीविका ५
येषां श्रोत्रियादीनां ते नास्तिकवृत्तयः । जटिलो ब्रह्मचारी । अनधीयानः इति तस्य विशेषणम् । न
चाध्ययनरहितस्य ब्रह्मचारिणोऽश्रोत्रियत्वेन श्राद्धे प्रसक्त्यभावात्प्रतिषेधोऽनुपपन्न इति मंतव्यम् ।
यतो “व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ” इति । अनधीयानस्यापि दौहित्रस्य ब्रह्म-
चारिणो भोजनीयत्वप्रसक्तौ प्रतिषेध इति । दुर्बालः खल्वाटः कपिलकेशः । अत्यंतकोपनो वा ।
तदुक्तं संग्रहे—“ खल्वाटकश्च दुर्बालः कपिळभ्रूह एव च” इति । कितवो द्यूतसक्तः । पूगयाजकः १०
गणयाजकः । चिकित्सकाः जीवनार्थं दृष्टार्थं च भेषज्यकारिणः । तस्माद् ब्राह्मणेन भेषजं न
कार्यम् ‘ अपूतो ह्येषोऽमेध्यो यो भिषक् ’ इति निंदार्थवाददर्शनात् ।
देवलकस्वरूपं देवलेन दर्शितम्—
“ देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् । असौ देवलको नाम हव्यकव्येषु वर्जितः ॥
“ देवकोशोपजीवी च नाम्ना देवलको भवेत् । अपांक्तेयः स विज्ञेयः सर्वकर्मसु सर्वदा ” ॥ इति । १५
अनापदि वाणिज्येन जीवंतो विपणजीवनः । न त्वापद्यपि “ क्षात्रेण कर्मणा जीवेद्विशां
वाऽप्यापदि द्विजः” इति वाणिज्यस्यापन्कल्पतया विहितत्वात् गुरोः प्रतिरोध्दा गुरुस्पर्धी । त्यक्ताग्निः
विहितत्यागकारणं विना श्रौतस्मार्ताग्निपरित्यक्ता । अल्पवृद्ध्या धनं स्वीकृत्य अधिकवृद्ध्या धन-
प्रयोजको वार्धुषिः । तथा च '''यमः—'''
“ समार्धं धनमुद्धृत्य महार्धं यः प्रयच्छति । स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ” ॥ इति । २०
यक्ष्मी क्षयरोगी ‘ब्रह्महा क्षयरोगी स्यात्’ इति तस्य पूर्वजन्मनि ब्रह्महन्तृत्वात्प्रतिषेधः । अनापदि
वृद्ध्यर्थं यः पशून्पालयति स पशुपालः । परिवेत्तृपरिवित्तिस्वरूपमुक्तं मनुर्नैव—
“ दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥
“ परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यांति दातृयाजकपंचमाः ” ॥ इति ।
परिवित्त्यादयः पंच वर्जनीया इत्यर्थः । अधीतविस्मृतवेदो निराकृतिः । तथा च '''देवलः—''' २५
“ अधीतविस्मृते वेदे भवेद्विप्रो निराकृतिः ” ॥ इति । '''कात्यायनस्तु—'''
“ यस्त्वाधायाग्निमालस्याद्देवादीन्यस्तु नेष्टवान् । निराकर्ताऽमरादीनां स विज्ञेयो निराकृतिः”॥ इति ।
गणाभ्यंतरो गणस्य नेता । कुशीलवो गायकादिः । वृषलीपतिस्तु रजस्वलायाः कन्यायाः पतिः ।
तदुक्तं देवलेन—
“ वंध्या तु वृषली ज्ञेया वृषली च मृतप्रजा । अपरा वृषली ज्ञेया कुमारी या रजस्वला ॥ ३०
“ यस्त्वेनामुद्वहेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः । अश्राद्धेयमपांक्तेयं तं विद्यात् वृषलीपतिम् ” ॥ इति ।
उपपतिस्वरूपमुक्तं '''देवलेन—'''
“ परदाराभिगो मोहात्पुरुषो जार उच्यते । स एवोपपतिर्ज्ञेयो यः सदा संवसेद्गृहे ” ॥ इति ।
वाग्दुष्टो निष्ठुरवाक् । अगारदाही द्वेधा देवलेन दर्शितः—
{{rule}} १ १ खग-श्लीपदी । २ क्ष-भक्तार्थी ।
९८-२९<noinclude></noinclude> 642h9j25egf6ju1i1qeqeeyy6g0mrh3 पृष्ठम्:Smriti mukta phalam.pdf/८१४ 104 166817 419840 2026-11-11T02:31:36Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७७४|'''अग्रेदिधिषूपतिः ।'''|}} {{rule}} “ अगारदाही स ज्ञेयः प्रेतदग्धा धनेन यः। स चाप्यगारदाही स्याद् द्वेषाद्यो वेश्मदाहकः” ॥ इति ।
तैलिकश्चक्री । कूटकारकः तुलामान... नवीन पृष्ठं निर्मीत अस्ती 419840 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७७४|'''अग्रेदिधिषूपतिः ।'''|}} {{rule}} “ अगारदाही स ज्ञेयः प्रेतदग्धा धनेन यः। स चाप्यगारदाही स्याद् द्वेषाद्यो वेश्मदाहकः” ॥ इति ।
तैलिकश्चक्री । कूटकारकः तुलामानादिषु वंचनाकारकः । केकरोऽध्यर्धदृष्टिः । अग्रेदिधिषूः पति-
रग्रेदिधिषूपतिः । ज्येष्ठायामभूढायाम्यूढा या कनिष्ठिका साऽग्रेदिधिषूः । तदुक्तं देवलेन—
“ ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूर्मता ” ॥ इति ।
५ पुत्राचार्योक्षरपाठकः पुत्राद्गृहीतविद्यो वा । तथा चंद्रिकायाम्—
“ पुत्राचार्यः स विज्ञेयो ग्रामे योऽक्षरपाठकः । पुत्राद्गवासविद्यो वा पुत्राचार्यो निगद्यते ” ॥ इति ।
भ्रामरी वृत्त्यर्थमेव भ्रमरवदर्जकः । अपस्मारीत्यन्ये । गंडमाली गंडमालाख्यरोगवान् । श्वित्री
श्वेतत्वक् । हस्त्यादिदमकः शिक्षकः । गृहसंवेशकः गृहाणां निर्माता । नानाजातीया अनियतवृत्तयः ।
संहता गणाः । तेषां याजकः यांजयिता । औरभ्रिकः अदीनां पालकः । माहिषिकः व्यभिचारिणी-
१० पुत्रः । तदाह देवलः—
“महिषीत्युच्यते भार्या सा चैव व्यभिचारिणी । तस्यां यो जायते पुत्रः स वै माहिषिकः स्मृतः” ॥ इति ।
एतान्पूर्वोक्तानुभयत्र दैवे पित्र्ये च वर्जयेदित्यर्थः । मनुश्च—
“ अपांक्त्यदाने यो दातुर्भवत्यूर्ध्वफलोदयः । दैवे कर्मणि पित्र्ये च तं प्रवक्ष्याम्यशेषतः ॥
“ अवृत्तैर्द्विजैर्भुक्तं परिवेत्तादिभिस्तथा । अपांक्तेयैर्ह्वयन्यैश्च तद्वै रक्षांसि भुंजते ॥
१५ “अपांक्त्यो यावतः पांक्त्यान्भुंजानाननुपश्यति । तावतां न फलं तत्र प्रदाताप्नोति बालिशः ॥ १७६
“वीक्ष्यांधो नवतेः काणः षष्टेः श्वित्री शतस्य तु । पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ १७७
‘ यावतः संस्पृशेदंगैः ब्राह्मणान् शूद्रयाजकः । तावतां न भवेत् दातुः फलं दानस्य पौर्तिकम् ॥ १७८
“ सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् । अप्रतिष्ठं वार्धुषिके नष्टं देवलके भवेत् ॥ १८०
“ यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् । भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥ १८१
२० “इतरेषु त्वपांक्तेषु यथोद्दिष्टेष्वसाधुषु । मेदोऽसृङ्मांसमज्जास्थि वदंत्यन्नं मनीषिणः ” १८२ ॥ इति ।
वीक्ष्यांधो दृश्यमानांधः नवंतंभुंजानानां दातुर्दानं फलं नाश्यते । पौर्तिकं पूर्तश्राद्धादि । तत्र
भवतीत्यर्थः । यमः —
“काणाः कुब्जाश्च कुणपाः कृतघ्ना गुरुतल्पगाः । ब्रह्मघ्नाश्च सुरापाश्च स्तेना गोघ्नाश्चिकित्सकाः ॥
“राष्ट्रकामास्तथोन्मत्ताः पशुविक्रयिणश्च ते । मानकूटास्तुलाकूटाः शिल्पिनो ग्रामयाजकाः ॥
२५ “ राजभृत्याश्चबधिरमूकाः खल्वाटपंकवः । वृषलीकन्यपीताश्च स्वज्ञाञ्च श्रेणियाजकाः ॥
“ कालोपजीविनश्चैव ब्रह्मविक्रयिणस्तथा । दग्धपूजाश्च ये विप्रा ग्रामकृत्यकराश्च ये ॥
“ अगारदाहिनश्चैव गरदाः शवदाहकाः । कुंडाशिनो देवलकाः परदाराभिमर्शकाः ॥
“ श्यावदंताः कुनखिनः शिल्पिनः कुष्ठिनश्च ये । वाणिजो मधुहर्त्तारो हस्त्यश्वदमका द्विजाः ॥
“ कन्यानां दूषकाश्चैव ब्राह्मणानां च दूषकाः । सूचकाः प्रेषकाश्चैव कितवाश्च कुशीलवाः ॥
३० “समयानां च भेत्तारः प्रदाने ये च वंचकाः । अजाविका माहिषिकाः सर्वविक्रयिणश्च ये ॥
“धनुःकर्त्ता द्यूतवृत्तिर्मित्रध्रुक् शस्त्रविक्रयी । गंडमाली च यक्ष्मी च दीर्घरोगी वृथाश्रमी ॥
“ प्रप्रज्योपनिषृत्तश्च वृथाप्रव्रजितश्च यः । तथा प्रव्रजिताजातः प्रव्रज्यावासितश्च यः ॥
“ तावुभौ ब्रह्मचंडालौ प्राह वैवस्वतो यमः ।
“ राज्ञः प्रेष्यकरो यश्च ग्रामस्य नगरस्य च । समुद्रयायी वाताशी केशविक्रयिणश्च ये ॥
{{rule}} १ ग-यो । २ क्ष-बांधवाः ।<noinclude></noinclude> 5ezbb6ufri8dz4socow6ayhiy0i05hp पृष्ठम्:Smriti mukta phalam.pdf/८१५ 104 166818 419841 2026-11-11T02:32:42Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''नग्नादयः ।'''|७७५}} {{rule}} “ अवकीर्णी च वीरघ्नो गुरुघ्नः पितृदूषकः । गोविक्रयी च दुर्बालः पूगानां चैव याजकः ॥
“ मद्यपश्च कदर्यश्च सह पित्रा विवादकृत् । दांभिको... नवीन पृष्ठं निर्मीत अस्ती 419841 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''नग्नादयः ।'''|७७५}} {{rule}} “ अवकीर्णी च वीरघ्नो गुरुघ्नः पितृदूषकः । गोविक्रयी च दुर्बालः पूगानां चैव याजकः ॥
“ मद्यपश्च कदर्यश्च सह पित्रा विवादकृत् । दांभिको वर्धकीभर्त्ता त्यक्तात्मा दारंदूषकः ॥
“ सद्भिेश्च निंदिताचारः स्वकर्मपरिवर्जकः । परिवित्तिः परिवेत्ता भृत्याचारो निराकृतिः ॥
“ शूद्राचार्यः सुताचार्यः शूद्रशिष्यस्तु नास्तिकः । इष्वस्त्रद्वारकाचार्यो मानकृत्तैलिकस्तथा ॥
“ चोरा वार्धुषिका दुष्टाः परस्वानां च दूषकाः । चतुराश्रमबाह्याश्च सर्वे ते पंक्तिदूषकाः ” ॥ ५
इत्येतैर्लक्षणैर्युक्तान तान् द्विजान न निमंञ्जयेदिति । ब्रह्माण्डपुराणेऽपि—
“षण्ढो मूकश्च कुनखी खल्वाटो दंतरोगवान् । श्यावदंतः पूतिनासो हीनांगश्चाधिकांगुलिः॥
“ गलगोगी गंडमाली स्फुटितांगश्च सञ्जरः । संजेतूरबरमंदाश्च गंङ्गुमान् दीर्घरोगवान् ” ॥ इति ।
तूंबरः श्मश्रुरहितः । यमोऽपि—
“ न खरैरुपयातस्य न रक्तोल्बणवाससः । अंगुलातीतकर्णस्य भुंजते पितरो हविः ” ॥ इति । १०
कर्णवेधस्थाने तालपत्रादिप्रवेशेन विवर्धनं अंगुलाधिकं निषिद्धम्। अतः अंगुलातीतकणैः श्राद्धानर्ह
इत्यर्थः । शंखोऽपि—
“ अनध्यायेष्वधीयानाः शौचाचारविवर्जिताः । शूद्रान्न रसपुष्टांगा ब्राह्मणाः पंक्तिदूषकाः”॥ इति ।
आपस्तंबः—
“ नीलकर्षणकारी तु नीलवस्त्रोपधारकः । किंचित्तस्मै न दातव्यं चंडालसदृशो हि सः ”॥ इति १५
नीलीसंसर्गजदोषवान्वर्ज्य इत्यर्थः । स्मृत्यंतरे—
“ स्तेनाभिशस्तनग्नासुषंढमार्जारकुक्कुटाः । कुंडगोलौ देवलकौ काणांधाः शिष्टगर्हिताः ॥
“ न वार्यपि प्रयच्छेत्तु बैढालव्रतिके द्विजे । न बकवृत्तिवे चैव नावेदविदि धर्मवित् ॥
“ न भ्रातरं नियुंजीत श्राद्धे पितृसुतानपि । विधुरं गर्भश्वंतं च विशिष्टमपि वर्जयेत् ॥
“ विद्याचोरो गुरुद्रोही नास्तिको वेदनिंदकः । एते ब्राह्मणचंडाला जातिचंडालपंचमाः ॥ २०
“ प्रतिगृह्य तु धर्मार्थं संचयं कुरुते तु यः । धर्मार्थं नोपयुंजीत तस्करं तं विवर्जयेत् ” ॥ इति ।
नग्नादीनां लक्षणं निरूपितमधस्तात् । मनुः—
“ पाषंडिनो विकर्मस्थान्बैडालव्रतिकान् शठान् । हैतुकांबकवृत्तींश्च वाङ्मात्रेणापि नार्श्वयेत् ” ॥
न केवलं भोजयित्नैव ज्ञानहीनो वर्जनीयः । किंतु स्वयमेव तेन वर्जनीया इत्याह स एव—
“यावतो ग्रसते पिंडान् हव्यकव्येष्वमंत्रवित् । तावतो ग्रसते प्रेत्य दीप्ताञ्छूलानयोहुळान्” इति । २५
दीप्तानग्निनयान् हुळद्विफलैरुपायप्रम् । ब्रह्माण्डपुराणे—
“अस्मान् वृणीष्व श्राद्धार्थं यो वदेत्स द्विजाधमः । तं वृद्धे श्राद्धकर्त्ता चेत् तावुभौ नरकालये ।
“एतावद्दक्षिणां देहि श्राद्धार्थमिति यो वदेत् । तं वृंक्ते श्राद्धकर्त्ता चेत् तावुभौ नरकालयौ” ॥
उक्तानामेतेषां विद्यादिगुणयोगेऽपि वर्जनीयत्वमुक्तं ब्रह्मांडपुराणे—
“श्राद्धार्हगुणयोगेऽपि नैतान् जातु कथंचन । निमंत्रित्रेत श्राद्धेषु सम्यक्फलमभीप्सता ” ॥ इति । ३०
आपत्स्वगत्या स्वीकृताः काणादयः सर्ववेदांग्यादिभिः पंक्तिपावनैर्यथा मिश्रिता भवंति तथा
नियोक्तव्या इत्याह सुमंतुः—
“काणाः कुब्जाश्च संजाश्च शितिपादाः खलैरैविना । सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः”॥ इति ।
अत एवोक्तं मनुनापिः— अपांक्त्योपहता पंक्तिः पाव्यते यैर्द्विजोत्तमैः” ॥ इति ।
{{rule}} १ क्ष-कूबर- । २ क्ष-दीप्तशूलर्ययोगुडान् इति मुद्रितपाठः । ३ क-द्विपलपत्रा । ४ ग-तत्रैव ।<noinclude></noinclude> od0oq2igplfb644cb3byi8dkeo9gnao पृष्ठम्:Smriti mukta phalam.pdf/८१६ 104 166819 419842 2026-11-11T02:34:44Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७७६|'''निमंत्रण प्रकारः ।'''|}} {{rule}} मिश्रणे विशेषः उक्तः चंद्रिकायाम्—“ काणादीन्भोजयेद्देवे श्राद्धे पित्र्ये तु वर्जयेत् ” ॥ इति ।
'''पैठीनसिरपि—'''“ त्रिमधुख्र... नवीन पृष्ठं निर्मीत अस्ती 419842 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७७६|'''निमंत्रण प्रकारः ।'''|}} {{rule}} मिश्रणे विशेषः उक्तः चंद्रिकायाम्—“ काणादीन्भोजयेद्देवे श्राद्धे पित्र्ये तु वर्जयेत् ” ॥ इति ।
'''पैठीनसिरपि—'''“ त्रिमधुख्रिसुपर्णस्त्रिणाचिकेतश्छंदोगो ज्येष्ठसामगो ब्रह्मदेयानुसंतानः सहस्रदो
रुद्राध्यायी चतुर्वेदः षडंगविद्व्यर्वशिरसोऽध्यायी पंचाग्निर्वेदजापीति पंक्तिपावनाः । तेषामेकैकः
पुनाति युक्तः पंक्तिमूर्ध्नि सहस्रैरप्युपहताम् ” इति । गयाश्राद्धे तु जातिमात्रोपजीविन्नोऽपि तत्रत्या
५ एव ब्राह्मणार्ये परिग्राह्याः । तदुक्तं '''चंद्रिकायाम्—'''
“ यदि पुत्रो गयां गच्छेत्कदाचित्कालपर्ययात् । तानेव भोजयेद्विप्रान् ब्राह्मणा ये प्रकल्पिताः ॥
“ ब्रह्मकारितसंस्थाना विप्रा ब्रह्मसमाः स्मृताः । अमानुषा गयाविप्रा ब्राह्मणा ये प्रकल्पिताः ॥
“ तेषु तुष्टेषु संतुष्टाः पितृभिः सह देवताः ” ॥ इति ।
'''श्राद्धदिनात्पूर्वदिनकृत्यमुक्तम् वराहपुराणे—'''
१० “ वक्षशौचादि कर्त्तव्यं श्वः कर्त्ताऽस्मीति जानंता । स्थानोपलेपनं कृत्वा भूमिं विप्रान्निमंत्रयेत् ॥
“ दंतकाष्ठं च विसृजेत् ब्रह्मचारी शुचिर्भवेत् ” ॥ इति । श्राद्धभूमिं परिगृह्य गोमयादिना
तत्स्थाने लेपनं कृत्वा वक्षशुद्ध्यादिकमन्हि कृत्वा रात्रौ विप्रान्निमंत्रयेदित्यर्थः । '''माधवीयेऽपि—'''
“ पूर्वेऽह्नि रात्रौ विप्रान्रग्यान्कृतसायंतनाशनान् । गत्वा निमंत्रयेद्विप्रान्पितुरुद्देशसमन्वितः ” ॥ इति ।
'''चंद्रिकायाम्—'''
१५ “ निमंत्रयीत पूर्वेद्युः पूर्वाह्णे द्विजसत्तमान् । दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ” ॥ इति ।
'''हारीतः—'''“यतेतैवंविधं श्राद्धमाहरिष्यन्पूर्वेद्युर्निमंत्रयेत् ” ॥ इति । '''देवलः—'''
“श्वः कर्त्ताऽस्मीति निश्चित्य ज्ञाता विप्रान् निमंत्रयेत् । निरामिषं सकृद्भुक्त्वा सर्वभुक्तजने गृहे”॥ इति ।
स्वगृहे यज्जनजातमस्ति तस्मिन्सर्वस्मिन्भुक्तवति सति पश्चान्निमंत्रयेदित्यर्थः । '''यमोऽपि—'''
“ जातिक्रियावयोविद्यावृत्तैर्गुणैर्युक्तानलोलुपान् । प्रार्थयेत प्रदोषान्ते भुक्तानशयितान् द्विजान्” ॥ इति ।
२० '''निमंत्रणप्रकारः प्रचेतसा दर्शितः'''
“ कृतापसव्यः पूर्वेद्युः पितॄन्पूर्वं निमंत्रयेत् ”॥ भवद्भिः पितृकार्यं नः संपाद्यं च प्रसीदत ॥
“ सव्येन वैश्वदेवार्थं प्रणिपत्य निमंत्रयेत् ” ॥ अत्र पूर्वशब्दस्य वैश्वदेवार्थं निमंत्रयेदिति
व्यवाहितेनान्वयः ।
“ उपवीती ततो भूत्वा देवार्थं हि द्विजोत्तमान् । अपसव्येन पित्र्येऽथ स्वयं शिष्योऽथवा सुतः” ॥ इति
२५ '''बृहस्पतिस्मरणात् ।''' अत्र “शिष्योऽथ वा सुत” इत्युक्तत्वात् “सवर्ण प्रेषयेद्वातं द्विजानामुपमंत्रणे”॥
इति '''प्रचेतःस्मरणाच्च कदाचिन्निमंत्रणमन्येनापि कारयेत् ।'''
प्रणतिपूर्वं निमंत्रणं शूद्रविषयम् । तथा च '''पुराणम्—'''
“ दक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस्तथा । पादावादाय वैश्यो द्वौ शूद्रः प्रणतिपूर्वकम् ”॥ इति ।
दक्षिणचरणस्पर्शो जानुप्रदेशे कर्तव्यः । तथा च '''मत्स्यः—'''
३० “ दक्षिणं जानुमालभ्य त्वं मयाऽत्र निमंत्रितः ” इति । '''स्मृत्यंतरे—'''
“ पितृकार्येषु सर्वेषु पूर्वेद्युः स्यान्निमंत्रणम् । प्रेतकार्येषु सर्वत्र सद्य एव निमंत्रणम् ”॥ इति ।
'''आश्वलायनः—''' कृतसायमग्निकार्यः कृतसायमाशेभ्यो ब्राह्मणेभ्यो निवेदयेत् ” इति ।
'''आपस्तंबोऽपि—''' “ पूर्वेद्युर्निवेदनं परेद्युर्द्वितीयं तृतीयमामंत्रणम् ” ॥ इति ।
{{rule}}<noinclude></noinclude> bivrnj1uxmqy3u5cm5pzj4nm8z43x53 पृष्ठम्:Smriti mukta phalam.pdf/८१७ 104 166820 419843 2026-11-11T02:35:52Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''ब्राह्मणसंख्या ।'''|७७७}} {{rule}} '''याज्ञवल्क्योऽपि—'''
“ निमंत्रयीत पूर्वेद्युर्ब्राह्मणानात्मवान्छुचिः । तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ” ॥ इति ।<... नवीन पृष्ठं निर्मीत अस्ती 419843 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''ब्राह्मणसंख्या ।'''|७७७}} {{rule}} '''याज्ञवल्क्योऽपि—'''
“ निमंत्रयीत पूर्वेद्युर्ब्राह्मणानात्मवान्छुचिः । तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ” ॥ इति ।
पूर्वेद्युः कथंचिन्नमन्त्रणासंभवे परेद्युर्निमंत्रयेत् । तथा च '''देवलः—'''“असंभवे परेद्युर्वा ब्राह्मणांस्त-
न्निमंत्रयेत् ” इति ।
'''चंद्रिकायाम्—'''“ निमन्त्रयीत पूर्वेद्युस्तदहर्वा द्विजोत्तमान् ” ॥ इति । स्मृत्यंतरेऽपि । ५
“ तस्मात्तु प्रथमं कार्यं प्राज्ञेनोपनिमंत्रणम् । अप्राप्तौ तद्दिने वापि वर्ज्या योषित्प्रसंगिनः”॥ इति ।
'''मनुरपि—'''
“ पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयेत त्र्यवरान्सम्यग्विप्रान्यथोदितान्” ॥ इति ।
'''याज्ञवल्क्यः—'''
“ युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च । परिश्रिते शुचौ देशे दक्षिणाप्रवणे तथा ” ॥ इति । १०
'''पैठीनसिः—'''“ ब्राह्मणान्सप्त पंच वा श्रोत्रियान्निमंत्रयेत् ” इति । यत्र पंच ब्राह्मणास्तदा “ द्वौ दैवे
पित्र्ये त्रय ” इति विभागः । “ द्वौ दैवे पितृकार्ये त्रीन् ” इति मनुस्मरणात् । यद्वा सप्त तदा दैवे
चत्वारः पित्र्ये त्रयः । “ अयुजो भोजयेच्छ्राद्धे न समान् दैविके समान् ” इत्यंगिरस्मरणात् ।
नन्वेतद्वचनं दैवे द्वौ पित्र्ये पंचेति विभागेऽप्युपपद्यते इति चेत् । मैवं त्रिषु पंचानामयुग्मसंख्यया
विभागानुपपत्तेः । “ दैवे युग्मान् यथाशक्ति पित्र्ये एकैकस्य ” इति । कात्यायनेन पितृपिता- १५
महप्रपितामहानां प्रत्येकम् युग्म ब्राह्मणविधानात् । न चैकत्र त्रयः इतरत्रैकैक इति विभाग
उपपद्यत इति वाच्यम् । ‘ समं स्यादश्रुतत्वात् ’ इति न्यायेन विषमविभागस्यान्याय्यत्वात्
तस्माद्वयुग्मसंख्या समाविभागार्थं पित्र्ये त्रय इत्युक्तम् । पित्रादिस्थानेषु सति सामर्थ्ये एकैकस्य
त्रीन्विप्रान्भोजयेत् । तथा च '''शौनकः—'''“एकैकस्य द्वौ द्वौ त्रींस्त्रीन्” इति । अत्र द्वौ द्वाविति
वृद्धिश्राद्धाभिप्रायम् । पार्वणश्राद्धे त्वयुजो भोजयेत् श्राद्धे न समान् इति समसंख्याया निषे- २०
धात् । अत्यंतविभवे सत्येकैकस्य पंच सप्त वा ब्राह्मणान्भोजयेत् । तथा च '''गौतमः—'''
“ नवारम्भोभोजयेदयुजो यथोत्साहम् ” ॥ इति । अस्यार्थः—यथोत्साहं यथाविभवं पित्रादि-
स्थानेषु प्रत्येकमयुजः पंच सप्त वा ब्राह्मणान्भोजयेदिति । अयुजो भोजयेदिति सामान्येनोक्तावपि
पित्र्ये सप्तस्वेव पर्यवसानम्—
“सामर्थ्येऽपि नवम्योऽर्वाग्भोजयीत सति द्विजान् । नोर्ध्वं कर्तव्यमित्याहुः केचित्तद्दोषदर्शिनः”॥इति २५
वचनात् । एवं शौनकगौतमाभ्यामुक्तोऽयं श्राद्धविस्तारः । मनुना तु संकोच आश्रितः—
“ द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥
“सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् । पंचैतान्विस्तरो हंति तस्मान्नेहेत विस्तरम्” ॥ इति ।
'''याज्ञवल्क्योऽपि—''' ३०
“ द्वौ दैवे प्राक् त्रयः पित्र्ये उत एकैकमेव वा । मातामहानामप्येवं तंत्रं वा वैश्वदेविकम्” इति ।
प्राक् प्राङ्मुखौ उदगुदङ्मुखा उपवेश्याः । एकैकमेव वा वैश्वदेवे पित्र्ये च एकैकमुपवेशयेत् ॥
मातामहश्राद्धमपि एवं पितृश्राद्धवत्कर्त्तव्यम् । पितृपितामहदैवत्ये तु श्राद्धे पृथक् तंत्रेण वा वैश्व-
देविकं कर्तव्यमित्यर्थः । '''बृहस्पतिरपि—'''
“एकैकमथ वा द्वौ त्रीन्दैवे पित्र्ये च भोजयेत् । सत्क्रियाकालपात्रादि न संपद्येत विस्तरे” ॥ इति ॥ ३५
{{rule}}<noinclude></noinclude> r1k6f4fs4odyjc5muvja0yu4vugp5y6 पृष्ठम्:Smriti mukta phalam.pdf/८१८ 104 166821 419844 2026-11-11T02:36:45Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७७८|'''न प्रस्ज्‍यते विस्तरः । निमंत्रितब्राह्मणकृत्यम् ।'''|}} {{rule}} '''चंद्रिकायाम्—'''
“ देशकालवलाभावादेकैकमुभयत्र वा । शेषाnvित्तानुसारेण भोजयेदन्यवेश्मनि ॥<br /... नवीन पृष्ठं निर्मीत अस्ती 419844 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७७८|'''न प्रस्ज्‍यते विस्तरः । निमंत्रितब्राह्मणकृत्यम् ।'''|}} {{rule}} '''चंद्रिकायाम्—'''
“ देशकालवलाभावादेकैकमुभयत्र वा । शेषाnvित्तानुसारेण भोजयेदन्यवेश्मनि ॥
“ यस्माद्ब्राह्मणबाहुल्यो बहुतरों भवेत् । श्राद्धनाशो मौननाशः श्राद्धतंत्रस्य विस्मृतिः ॥
“उच्छिष्टोच्छिष्टसंपर्को निंदा चाप्यन्यभोकृषु । विटंडा च परीवादो जल्पास्ते पृथग्विधाः” ॥ इति ।
५ अत्र व्यवस्था कृता चंद्रिकायाम्—समुद्वापि यस्य ब्राह्मणबाहुल्ये सत्क्रियादिसंपादनासामर्थ्यं
तद्विषयं मन्वादिचननं यस्य तु संपादनसामर्थ्यमस्ति तद्विषयं शौनकादिवचनमिति । यत्तु
शंखेनोक्तम्—“ भोजयेद्य वाऽप्येके ब्राह्मणं पंक्तिपावनम् ” इति तद्ब्राह्मणलाभाविषयम् ।
“ पिशाचा राक्षसा यक्ष्मा भूता नानाविधास्तथा । विप्रलुंपन्ति सहसा श्राद्धमा रक्षवर्जितम् ॥
“तत्पालनाय विहिता विश्वदेवाः स्वयंभुवा । महालये चांदྲिके च सापिंड्ये मासिके तथा ॥
१० “ व्यर्थं भवति तच्छ्राद्धं वासुदेवविना कृतम् ” इति स्मृतेः ।
यदा त्वेक एव भोक्ता तद्वेमाह वसिष्ठः ( ८।२०-२१ ) “यथेकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ।
“ अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु । देवतायतने कृत्वा तत्र श्राद्धं प्रकल्पयेत् ॥
“ प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे ” । स्मृत्यंतरे—
“ एकश्चेद्ब्राह्मणो लब्धः श्राद्धं च प्रकृतं भवेत् । पितरश्च त्रयः प्रोक्ताः कथं तृष्यंति ते त्रयः ॥
१५ “उरस्याश्रंति पितरो वामभाग पितामहाः । प्रपितामहा दक्षिणतः पृष्ठतस्त्वनुयायिनः”॥ इति ।
निमंत्रणे नियमांतरमाह मत्स्यः । “ एव निमन्त्रये नियमान्रावयेत्पैतृकानुगः ।
“ अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिर्जमया च श्राद्धकारिणा ” ॥
अत्रिरपि—
“ प्रथमेऽह्नि निवासस्थान् श्रोत्रियादीन्निमंत्रयेत् । कथयेत् तदैवैषां नियमं पितृदैविकम् ॥
२० “ सर्वायासविनिर्मुक्तेः कामक्रोधविवर्जितैः । भवितव्यं भवद्भिर्नः श्वोभूते श्राद्धकर्मणि ” ॥ इति ।
प्रथमेऽह्नि पूर्वयुर्निवासस्थान्सीयनिवासस्थितानित्यर्थः ।
'''निमंत्रितब्राह्मणकृत्यम् ।''' निमंत्रितैर्यत्कर्त्तव्यं तदाह अत्रिः—
“ ते तां तथैत्यविघ्नेन गतेयं रजनी यदि । यथाश्रुतं प्रतीक्षेन्नेरद्धाकालमतंत्रिताः ” ॥ इति ।
ते निमंत्रित्रा विप्रः तं निमंत्रिणकर्तारं तथारस्तु यथविग्नेनेथ्य रजनी गतेत्युक्ता धर्मशास्त्रदौ
२५ यथा नियमजातं श्रुतं तथैव तं नियमजातं प्रतीक्षेरन परिपालयेयुः श्राद्धकालस्वादित्तान्नपरिणाम-
पर्यतम इत्यर्थः । तथा च प्रचेतः— “ स्यादन्नपरिमाणात्तु ब्रह्मचर्यं तयोः स्मृतम् ” ।
“ निमंत्रितास्तु ये विप्राः श्राद्धकाल उपस्थिते । वसेरक्षियताहारा ब्रह्मचर्यपरायणाः ॥
“अहिंसासत्यमक्रोधो दूरे च गमनक्रिया ” ॥
'''वृद्धमनुः—''' “ निमंत्र्य विप्रानदहर्वर्जेयन्मैथुनक्षुरे ।
३० “प्रमत्ततां च स्वाध्यायं क्रोधं शोकं तथाऽनृतम् । अभावोद्रहनं क्षांतिः श्राद्धस्यौपयिको विधिः ॥
“ क्रतुकाले नियुक्तोऽपि नैव गच्छेत्स्त्रयं क्वचित् । तत्र गच्छन्समाप्नोति हानिंचं फलमेव तु ” ॥ इति ।
नारदः—
“ पूर्वेशुश्चापरेयुश्च वर्जयेत् स्त्रीनिषेवणम् । ब्यवायी रेतसो गर्तेन्मज्जेयदात्मनः पितॄन् ॥
“ श्राद्धे निमंत्रितो यश्च मैथुनं कुरुते यदि । ब्रह्महत्यामवाप्नोति नात्र कार्या विचारणा ” ॥
{{rule}} १ क्ष-पठन्निम्रमणियमः ।<noinclude></noinclude> jvd3gdmkvsrtybq3m61vfqynfirbktz पृष्ठम्:Smriti mukta phalam.pdf/८१९ 104 166822 419845 2026-11-11T02:38:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अंगीकृतश्राद्धातिक्रमे दोषः ।'''|७७९}} {{rule}} वृषलीगमने दोषाधिक्यमाह मनुः— ( ३।१९१ )—
“ निमंत्रितस्तु यः श्राद्धे वृषल्या सह मोदते । दातुर्यत् दुष्कृतं किंचित... नवीन पृष्ठं निर्मीत अस्ती 419845 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अंगीकृतश्राद्धातिक्रमे दोषः ।'''|७७९}} {{rule}} वृषलीगमने दोषाधिक्यमाह मनुः— ( ३।१९१ )—
“ निमंत्रितस्तु यः श्राद्धे वृषल्या सह मोदते । दातुर्यत् दुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ” ॥
यमस्तु—
“ आमंत्रितस्तु यः श्राद्धे वृषल्या सह मोदते । भवंति पितरस्तस्य मांसासृक् शुक्लभोजनाः ” ॥ इति ५
गौतमः— ( १५।२६ )—“ सद्यःश्राद्धीशूद्रालयगतत्पुरुषे मांसं नयति पितॄन् ” इति ।
श्राद्धी श्राद्धकर्ता । सद्यस्तत्क्षणमारभ्येत्यर्थः । यमः—
“ आमंत्रितस्तु यः श्राद्धे अध्वानं प्रतिपद्यते । भवंति पितरस्तस्य तन्नासं पांसुभोजनाः ।
“ आमंत्रितस्तु यः श्राद्धे कलहं कुरुते द्विजः । भवंति पितरस्तस्य तन्मांसं त्वक्षभोजनाः ।
“ आमंत्रितस्तु यः श्राद्धे भारमुद्वहते द्विजः । भवंति पितरस्तस्य तन्मांसं स्वेदभोजनाः । १०
“ आमंत्रितस्तु यः श्राद्धे हिंसां वै कुरुते द्विजः । भवंति पितरस्तस्य तन्मांसं रक्तभोजनाः ” ॥
उशनाः—“आमंत्रितस्तु यः श्राद्धे द्यूतं संसेवते द्विजः । भवंति पितरस्तस्य तन्मांसं मलभोजनाः”
इति ॥ मनुः— ( ३।१८८ )—
“ निमंत्रिते द्विजः पित्र्ये नियतात्मा भवेत्सदा । न च छंदंस्यधीयीत यस्य श्राद्धं च तद्भवेत् ”
इति । स्मृत्यंतरे—
“ श्राद्धे निमंत्रितो विप्रो मंत्रमुच्चारयेद्यदि । त्र्यस्ते नरकं यांति दाता भोक्ता पिता तथा ” १५
इति । कात्यायनः—“ अनिधिनामंत्रितो नापकामેચ્છके न प्रत्याख्यानं कर्त्तव्यम् ” इति ।
अनेनार्धिर्थ्यामंत्रणे भोक्तुमसामर्थ्य च प्रत्याख्यानं कर्त्तमंव्यवेत्यगम्यते । निमंत्रणानंतरं
भोक्तुमसामर्थ्ये सति प्रत्यास्याने न दोष इत्याह स एव “ विधिवत्केतनं प्रतिगृह्य शक्क्रः
सन्नापक्रमेत् ” इति । केतनं प्रतिगृह्य आमंत्रणमंगीकुर्त्यर्थः ।
अनिधिनामंत्रितस्य शक्रस्यांगीकृतश्राद्धातिक्रमे दोषमाह मनुः— ( ३।१९० ) २०
“ केतितस्तु यथान्ययं हव्यकव्ये द्विजोत्तमः । कथंचिदप्यतिक्रामन् पापों सूकरतां व्रजेत् ” ॥ इति ।
यमः—
“ आमंत्रितस्तु यो विप्रो भोक्तुमന്യत्र गच्छति । नरकानां शतं गत्वा चंडालेष्वभिजायते ” ॥
नारायणः—
“ आमंत्रितस्तु यः श्राद्धे कुर्वीतान्यस्य तु क्षणम् । संवत्सरकृतं पुण्यं तत्र नश्यति दुर्मतेः” ॥ २५
स्मृत्यंतरेऽपि—
“ विद्यमानधनो विद्वान् भोज्याखेन निमंत्रितः । कथंचिद्ब्यतिक्रामन्पापः सूकरतां व्रजेत् ” ॥
विद्यमानधनविशेषणादाऽद्याथ्रिष्वमेतदिति केचिद्वर्णयंति । तदसाधु
“ निमंत्रितास्तु गुणिना निर्धनेनापि सद्द्विजाः । नान्यम्भूतान्नलोभेन तमतिक्राम्यंति हि ।
“ निमंत्रितास्तु येनादौ तस्माद्गच्छंतु नान्यतः ” ॥ इति मत्स्यपुराणात् । कात्यायनः— ३०
“आमंत्रितोऽन्यत्र प्रतिगृह्णीयात् ” इति । पूर्वमन्येन निमंत्रितः तद्दीयादज्ञादन्यदन्नं पश्चाभिमंत्रितस्य
तंदुलादिरुपमपि न प्रतिगृह्णीयाँदित्यर्थः । यः पुनः प्रतिगृह्णाति तस्य दोषमाह देवलः—
“ आम्रश्राद्धं गृहीत्वा तु योऽन्यश्राद्धेऽतिमोहतः । पतंति पितरस्तस्य लुप्तपिंडोदकक्रियाः ॥
“ पूर्व निमंत्रितोऽन्येन कुर्यादन्यप्रतिग्रहम् । भुक्ताहारोऽथ वा भुक्ते सुकृतं तस्य न दृश्यति ” ॥
{{rule}}<noinclude></noinclude> n6v1uaxzk6girm1x3mhu1vs9ixat0sw पृष्ठम्:Smriti mukta phalam.pdf/८२० 104 166823 419846 2026-11-11T02:39:10Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७८०|'''निमन्त्रितब्राह्मणपरित्यागे । श्राद्धदिनकृत्यम् ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“ श्राद्धे निमंत्रितो यस्तु यदि कुर्यात्प्रतिग्रहम् । भक्षयेत् किंचिदप्य... नवीन पृष्ठं निर्मीत अस्ती 419846 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७८०|'''निमन्त्रितब्राह्मणपरित्यागे । श्राद्धदिनकृत्यम् ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“ श्राद्धे निमंत्रितो यस्तु यदि कुर्यात्प्रतिग्रहम् । भक्षयेत् किंचिदप्यन्यत्सुकृतं तस्य नश्यति ” ॥
एवं च “इक्षूनपः फलं मूलं तांबूलं पय औषधम् । भक्षयित्वाऽपि कर्तव्या स्नानदानोदकक्रिया”॥
इति वचनं श्राद्धव्यतिरिक्तविषयम् । यस्त्वामंत्रितो विप्र आहूतोऽपि श्राद्धोपक्रमकालातिपत्तिं
५ करोति तस्य प्रत्यवाय आदित्यपुराणेऽभिहितः—
“ आमंत्रितश्चिरञ्चैव कुर्याद्विप्रः कदाचन । देवतानां पितॄणां च दातुरन्यस्य चैव हि ॥
“ चिरकारी भवेद्रोगी पच्यते नरकाग्निना ” ॥ इति ।
'''निमंत्रितब्राह्मणपरित्यागे प्रत्यवायमाह नारायणः—'''
“ केतनं कारयित्वा तु निवारयति दुर्मतिः । ब्रह्महत्यामवाप्नोति शूद्रयोनौ च जायते ॥
१० “ निवार्यमंत्रितं कर्त्ता ब्राह्मणं नियतं शुचिम् । यतिचांद्रायणं कृत्वा तस्मात्पापात्प्रमुच्यते ” ॥
यतिचांद्रायणं चांद्रायणविशेषः । '''यमः—'''
“ ब्राह्मणं तु मुखं कृत्वा देवताः पितृभिः सह । तदन्नं समुपाइ्नंति तस्मात्तं न व्यतिक्रमेत् ”॥ इति ।
'''मनुरपि—'''
“ निमंत्रिता हि पितर उपतिष्ठंति तान्द्विजान् । वायुभूतास्तु गच्छंति तथासीनानुपासते ” ॥ इति ।
१५ '''श्राद्धदिनकृत्यम् । अथ श्राद्धदिनकृत्यम् । प्रचेताः—'''
“ श्राद्धे भुक् प्रातः स्नात्वा प्रकुर्याद्दंतधावनम् । श्राद्धकर्त्ता न कुर्वीत दंतानां धावनं बुधः ” ॥ इति ।
'''देवलः—''' “ तथैव यंत्रितो दाता प्रातः स्नात्वा सहांबरः । आरभेत नवैः पात्रैरन्नारंभं च बांधवैः”
इति । तथैव श्राद्धकर्त्तुरुक्तनियमातिक्रमेणैव यंत्रितः नवैः अनुपहतैः पाकयोग्यैः पात्रैः अन्नारंभं
श्राद्धार्थान्नस्य पाकारंभं पाकोपयोगिभिर्बांधवैरुपेतः कुर्यादित्यर्थः । '''स्मृत्यंतरे च—'''
२० “ पुराणपात्रपक्वं यद्वद्बिस्तु श्राद्धकर्मणि । भुंजतं नैव पितरो न देवाश्चासुरं भवेत् ” ॥ इति ।
'''तत्रैव—'''
“ पचेदन्नानि सुस्नातः पात्रेषु शुचिषु स्वयम् । स्वर्णादिधातुजातेषु मृन्मयेष्वपि वा पुनः ॥
“ नायसेषु न भिन्नेषु दूषितेष्वपि कर्हिचित् । पूर्वं कृतोपयोगेषु मृन्मयेषु न तु क्वचित् ॥
“ पचमानस्तु भांडेषु भक्त्या ताम्रमयेषु तु । समुद्धरति वै घोरात् पितॄन्दुःखमहार्णवात् ॥
२५ “ न कदाचित् पचेदन्नमयःस्थाल्यां पैतृकम् । अयसो दर्शनादेव पितरो विद्रवंति हि ॥
“घण्टानादं च लोहं च विभूतिं च विशेषकम् । रुद्राक्षमालां मुद्रां च निराशाः पितरो गताः”॥ इति ।
'''स्मृत्यन्तरे—'''
“कर्त्ता भोक्ता च सर्वत्र नैकवस्त्रो द्विजो भवेत् । तस्माद्वस्त्रादिना श्राद्धे सोत्तरीयः सदा भवेत्”॥ इति ।
“ दंतधावनतांबूलक्षौराभ्यंगमभोजनम् । रत्यौषधिपरात्नं च श्राद्धकर्त्ता विवर्जयेत् ” ॥ इति ।
“ पितृशेषाशनात् पूर्वं श्राद्धकर्तुश्च कर्तृता । प्रत्याब्दिकेषु मासिके च परेऽह्नि स्यात् तिलोदकम् ॥
३० “ कर्त्ता वा स्यादकर्त्ता वा पुनर्भाजनमैथुने । वर्जयेत् कर्मसिद्ध्यर्थं पितृद्रोहादन्यथा भवेत् ” ॥
न केवलं तद्दिने क्षौरनिषेधः किंतु पूर्वमपि पक्षाम्यंतरे न कार्यम्—
“यस्मिन्मासि मृताहः स्यात्तन्मासं पक्षमेव वा । क्षुरकर्म न कुर्वीत परान्ने च रतिं त्यजेत्” ॥ इति
स्मरणात् । अशक्तौ दिनत्रयं परान्नं वर्जयेत्—
“ पूर्वेद्युश्च परेद्युश्च कर्त्ता श्राद्धदिनेऽपि च । परस्यान्नं तु नाश्नीयादश्नीयात्पितृघातकः ” ॥ इति ।
{{rule}} १ क-श्राद्धेतु । २ करख-रुच्छ्रतः ।<noinclude></noinclude> ecpg7bx6rd9p5aszeuzi6x8deuyf9pc पृष्ठम्:Smriti mukta phalam.pdf/८२१ 104 166824 419847 2026-11-11T02:40:09Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''श्राद्धद्रव्याणि ।'''|७८१}} {{rule}} अत्यंताशक्तौ सुहृद्दायन्नभक्षणेऽपि न दोषः । तथा चा'''त्रिः—'''
“ सुहृदन्नं गुरोरन्नं यदन्नं मातुलस्य च । स्वसृश्वशुरयोरन्नं प... नवीन पृष्ठं निर्मीत अस्ती 419847 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''श्राद्धद्रव्याणि ।'''|७८१}} {{rule}} अत्यंताशक्तौ सुहृद्दायन्नभक्षणेऽपि न दोषः । तथा चा'''त्रिः—'''
“ सुहृदन्नं गुरोरन्नं यदन्नं मातुलस्य च । स्वसृश्वशुरयोरन्नं परान्नं न विदुर्बुधाः ” ॥ इति ।
श्राद्धं कृत्वा परश्राद्धे नाश्नीयात्—
“श्राद्धं कृत्वा परश्राद्धे यस्तु भुंजीत लोलुपः । पतंति पितरस्तस्य लुप्तपिंडोदकक्रियः ” ॥ इति
स्मरणात् । गोमयलेपनेन महानसादिभूमिशुद्धिमिश्रुद्भिर्मुदकेन भाजनभांडशुद्धिं च कुर्यादित्याह ५
'''उशनाः—'''“गोमयोदकैर्भूमिभाजनभांडशौचं कुर्यात्” इति । महानसादिभूमिसंस्कारानंतरकृत्यमाह
'''देवलः—'''“ तिलानवकिरेत्तत्र सर्वतो बंधयेच्च तान् । असुरोपहतं सर्वं तिलैः शुद्ध्येज्जलेन च ॥
“ ततोऽन्नं बहुसंस्कारं नैकव्यंजनभक्ष्यवत् । चोष्यपेयसमृद्धं च यथाशक्ति प्रकल्पयेत् ” ॥ इति ।
'''श्राद्धद्रव्याणि । अत्र द्रव्याण्याह प्रचेताः—'''
“ कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवश्शालयः । महायवा व्रीहियवा गोधूमा मुद्गसर्षपाः ॥ १०
“कृष्णश्वेता लोहिताश्च ग्राह्याः स्युः श्राद्धकर्मणि”॥ इति । यवाः सितशूकाः । शालयः कलमद्याः ।
महायवाः व्रीहियवाश्च लोहिता यवविशेषाः । कृष्णाः स्थलजाः रक्तशालयः । कृष्णवर्णा व्रीहियवाः ।
'''मार्कंडेयोऽपि—'''
“ यवव्रीहिसगोधूमास्तिलमुद्गाः ससर्षपाः । प्रियंगवः कोविदारा निष्पावाश्चात्र शोभनाः ” ॥ इति ।
अत्र निष्पावः कृष्णोतरः । '''चतुर्विंशतिमते तु—''' १५
“ कोद्रवान्रजमाषांश्च कुलुत्थांश्चणकांस्तथा । निष्पावांस्तु विशेषेण पंचैतांस्तु विवर्जयेत् ” ॥ इति ।
अत्र निष्पावः कृष्णनिष्पावः
“ कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणि । न वर्जयेत्तिलांश्चैव मुद्गमाषांस्तथैव च ” ॥ इति
स्मरणात् । '''अत्रिः—'''
“ अगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेत् । विना माषेण यच्छ्राद्धं कृतमप्यकृतं भवेत् ॥ २०
“ क्रव्यादाः पितरो यस्मादभावे पायसादिनः ” ॥ इति । '''वायुपुराणे—'''
“ बिल्वामलकमृद्वीकाः पनसाभ्रकदाडिमाः । चव्येपालेवकाक्षोटखर्जूराणां फलानि च ॥
“ कशेरुः कोविदारश्च तालकंदस्तथा बिसम् । कालेयं कालशाकं च सुनिषण्णं सुवर्चला ॥
“ सट्ट्फलं कोंकिणीं द्राक्षा लकुचं मोचमेव च । कर्कन्धूग्रावकं चारुतिंदुकं मधुसाह्वयम् ॥
“ वैकंकतं नालिकेरं शृंगाटकपरूषकम् । पिप्पली च मरीचं च पटोलं बृहतीफलम् ॥ २५
“ सुगंधिमत्स्यमांसं च कालेयाः सर्व एव च ॥
“ एवमादीनि चान्यानि स्वादूनि मधुराणि च । नागरं चात्र वै देयं दीर्घमूलकमेव च ” ॥ इति ।
मृदीका द्राक्षा । लकुचो लिकुचः । मोचं कदलीफलम् । कर्कन्धूः बदरी । बृहती कंटकारिका “निदिग्धिका
स्पृशी व्याघ्री बृहतीकण्टकारिका ” इत्यमरसिंहेनाभिधानात् । नागरं शुंठी ।
दीर्घमूलफलं तुंडिकेरफलम् । बिल्वामलकादीनि प्रसिद्धानि । इतराण्युप्रसद्धानि । '''शंखः—''' ३०
“ आम्रांश्च कदलीभेदान्मृद्दीकांचन्यदाडिमे । वर्ज्यांश्च सुरदांश्च श्राद्धकालेऽपि दापयेत् ॥
“लाक्षां मधु घृतं दद्यात्सक्तून् शर्करया सह । दद्याच्छ्राद्धे प्रयत्नेन शृंगाटककशेरुकम्” ॥
'''आदित्यपुराणे—'''
“ मधुकं रामठं चैव कर्पूरं मरिचं गुडम् । श्राद्धकर्मणि शस्तानि सैंधवं त्रपुषं तथा ” ॥ इति ।
{{rule}} १ क-म्य । २ ग-कङ्कफलं । ३ ग-किंकिणी । ४ ग-च । ५ खग-विद्रा ।
९९-३०<noinclude></noinclude> da4te9v4zcpcy6bdgd5t4jtqa72ikn1 पृष्ठम्:Smriti mukta phalam.pdf/८२२ 104 166825 419848 2026-11-11T02:42:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७८२|'''धान्यादीनि ।'''|}} {{rule}} '''चंद्रिकायाम्—'''
“ उर्वारुकं कारवल्ली पटोलं कालपत्रिका । कद्वाळी कन्दली चैव श्राद्धे ह्यत्यंतशोभनाः ॥
“ गवां क्षीरं घृतं शाकं क्... नवीन पृष्ठं निर्मीत अस्ती 419848 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७८२|'''धान्यादीनि ।'''|}} {{rule}} '''चंद्रिकायाम्—'''
“ उर्वारुकं कारवल्ली पटोलं कालपत्रिका । कद्वाळी कन्दली चैव श्राद्धे ह्यत्यंतशोभनाः ॥
“ गवां क्षीरं घृतं शाकं क्षौद्रमिक्षुरसो गुडम् । कालिंगं द्रोणपुष्पी च तंडीली चक्रवर्त्तिका ॥
“ बालुका चर्मवल्लयं कोशातकिफलं शिशुः । श्राद्धे ह्येतानि देयानि तथा पितृरुचीनि च ॥
५ “ नागरं वै सदा देयं दीर्घमूलकमेव च । घृतेन भोजयेद्विप्रान्घृतं भूमौ समुत्सृजेत् ॥
“ शर्कराक्षीरसंयुक्ता पृथुका नित्यमक्षयाः । सर्पिः स्नातानि सर्वाणि पाके संस्कृत्य योजयेत् ॥
“ मुन्यन्नानि च सर्वाणि वन्यमूलफलानि च । श्राद्धे ह्येतानि यो दद्यात्पितरः प्रीणयंति तम् ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ निर्माल्यमपि गंगाम्‍भं उच्छिष्टमपि माक्षिकम् । निर्यासर्माप वा हिंगुं गुग्गुलुं न परित्यजेत् ॥
१० “ उत्तमं चैव गोक्षीरं माहिषं चैव मध्यमम् । औष्ट्रमंजाविकं चैव सर्वथा परिवर्जयेत् ” ॥ इति ।
'''विष्णुपुराणेऽपि—'''
“ प्रशातिकाः सनीवाराः श्यामाका विविधास्तथा । वन्योैषधिप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ ॥
“ यवाः प्रियंगवो मुद्गाः गोधूमा व्रीहयस्तिलाः । निष्पावाः कोविदाराश्च सर्षपाश्चात्र शोभनाः ॥
“ सकण्टकं च वार्त्ताकं पितृभ्यो दत्तमक्षयम् ” ॥
१५ '''वायुः—'''“ जीरकं मरिचं श्राद्धे पटोलं बृहती शिगुः । कशेरुः कोविदारश्च पनसोर्वारुदाडिमाः ॥
“ कूष्मांडं रक्तनाळं च प्रदेयं श्राद्धकर्मणि ” ॥ इति । '''मनुः—'''
“ गुंळांश्च सूपशाकाद्यान् पयोदधिघृतं मधु । विन्यसेत्प्रयतः सर्वं भूमावेव समाहितः ॥
“ भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च । हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥
“ यद्यद्रोचेत विप्रेभ्यो तत्तद्दद्यादमत्सरः ” ॥ इति । '''विद्वान्निबंध—'''“श्राद्धयोग्यं
२० व्रीहियवशाळिगोधूममुद्गमाषमुन्यन्नकालशाकशूंठीमरीचहिंगुकर्पूरगुडसैंधवसागरपनसनालिकेरबदर-
गव्यपयोदधिघृतपायसमधुप्रभृति ” ॥ इति । '''स्मृत्यन्तरे—'''
“कदलीजातयः पंच चूतं च पनसद्वयम् । उर्वारुकं च जंबीरा पटोलद्रोणपत्रकम् ॥
“ कारवल्लीफलं चैव श्राद्धे चात्यंतमुन्नतम् । अलर्कस्य फलं पुष्पमार्द्रकं सूरणद्वयम् ॥
“धात्रीफलं चाच्युतं च श्राद्धे चात्यंतमुन्नतम्”॥ इति। '''पितृमेधसारे—'''कादलीजातिभेदकारवल्ली-
२५ त्रयपनसोर्वारुकनिष्पावपटोलमुद्गत्रयनालिकेरफलानि हिंगुकालशाकमहाशाकक्षुद्रीकंदानि मुन्य-
न्नानि च प्रशस्यते इति । '''मनुः—'''
“ तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयंते पितरो विधिवन्नृणाम् ” ॥ इति ।
“ संवत्सरं तु गव्येन पयसा पायसेन वा । कालशाकं महाशाकं खड्गलोहामिषं मधु ॥
“ आनंत्यायैव कल्पंते मुन्यन्नानि च सर्वशः ” ॥ इति । '''स्मृत्यंतरे—'''
३० “ अन्नेन मासं तृप्तिः स्यान्मांसैः षण्मासमेव च । आज्येन वत्सरं तृप्तिर्गोधूमाद्वत्सरत्रयम् ” ॥ इति ।
'''याज्ञवल्क्यः—'''“हविष्येणान्न्रेन वै मासं पायसेन तु वत्सरम् ।
“ खड्गामिषं महाशल्कं मधु मुन्यन्नमेव च । लोहामिषं महाशाकं मांसं वार्धाणसस्य च ।
“ यद्ददाति गयास्थश्च सर्वमानंत्यमश्नुते ” ॥ इति ।
'''मत्स्यपुराणे—'''
३५ “ अन्नं तु सद्गधिक्षीरं गोघृतं शर्करान्वितम् । मासं प्रीणाति सर्वान्वै पितॄनित्याह केशवः ” ॥ इति
{{rule}} १ क्ष-मा । २ ग-धि ‘प्रसातिभाः’ इति मुद्रितपाठः । ३ ग- दाँ । ४ क-मभावे ।<noinclude></noinclude> bpmaua2dcknlnwdtsakwfetehnhdyoq पृष्ठम्:Smriti mukta phalam.pdf/८२३ 104 166826 419849 2026-11-11T02:43:08Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अन्यानि भक्ष्यभोज्यानि ।'''|७८३}} {{rule}} '''कात्यायनः—'''“ ग्राम्याभिरोषधीभिर्मासं तृप्तिस्तदलाभे मूलफलैराद्भिर्वा सहान्नेनोत्तरास्तर्पयंति ” ॥ इति ।
उत्तरा... नवीन पृष्ठं निर्मीत अस्ती 419849 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अन्यानि भक्ष्यभोज्यानि ।'''|७८३}} {{rule}} '''कात्यायनः—'''“ ग्राम्याभिरोषधीभिर्मासं तृप्तिस्तदलाभे मूलफलैराद्भिर्वा सहान्नेनोत्तरास्तर्पयंति ” ॥ इति ।
उत्तराः मूलफलादयः । तै सहैव किंचिदन्नेन मासं तर्पयंति न केवला इत्यर्थः ।
'''मार्कंडेयोऽपि—'''“ गोधूमैस्त्रिभिर्मुद्गैः सतिलैश्चणकैरपि । श्राद्धेषु दत्तैः प्रीयंते मासमेकं पितामहाः ।
“ विदार्या चैव चूतैश्च बिसैः शृंगाटकैस्तथा । केबुकैश्च तथा कंदैः कर्कन्धुबदरैरपि ॥
“ पोलेवतैरुचकैश्चाँक्षोदैः पनसैस्तथा । काकोल्याक्षीरकाकोल्या तथा पिंडालकैः शुभैः ॥ ५
“ लाक्षाभिश्च शलाभिश्च पुरु॑षोर्वारुचिन्द्रिलैः । सर्षपाराजशाकाभ्यामिङ्गुदैराजजंबुभिः ॥
“ प्रियालामलकैर्मुख्यैः फल्गुभिश्च तिळंबुकैः । वेत्रांकुरैस्तालकंदैश्चक्रिकाक्षीरिकाचवैः ॥
“ मोचैः समोचैर्लिकुचैस्तथा वै बीजपूरकैः । मुंजातकैः पद्मफलैर्भक्ष्यभोज्यैः सुसंस्कृतैः ॥
“ रागषाडबचाव्यैश्च त्रिजातकसमन्वितैः । दत्तैस्तु मासं प्रियेते श्राद्धेषु पितरो नृणाम् ” ॥ इति ।
विदारी कृष्णपर्णीभूकुष्मांडफलम् । केबुकं खर्जूरैस्तुल्यं शाकम् । कंदः सूरणः । उवारुः १०
स्वादुकर्कटी । चिन्द्रिलीस्तिककर्कटी । सर्षपा इति दीर्घश्छांदसः । राजशाकं कृष्णसर्षपः । इंगुदी तापस-
तरुः । प्रियालं राजादनम् । चक्रिका चिंचा । क्षीरिका फलाध्यक्षः । मोचा कदली । लिकुचो
जंबीरफलतुल्यसर्वफलवान्गुल्मविशेषः । रागषाडबः पानविशेषः । त्रिजातकमेलालवंगगंधपत्राणि ।
'''प्रचेताः—'''“ हारितमुद्गकृष्णमाषश्यामाकप्रियंगुगोधूमेक्षुविकारांश्च दद्यात् ” ॥ इति ।
'''विष्णुपि—''' १५
“ शाकश्यामाकप्रियंगुनीवारमुद्गैर्मासं प्रीयंते संवत्सरं तु पयसा तद्विकारैश्च ” ॥ इति ।
पयसा गव्यपयसा । यत्तु प्रीणातीत्यनुवृत्तौ '''पैठीनसिनोक्तम्—'''“ पायसेन षण्मासानि ”
इति तन्मरिचपयःसिद्धपायसविषयमिति '''चंद्रिकायाम् । तत्रैव—'''
“ कालशाकं महाशाकं मांसं वार्धाणसस्य च । विषाणवर्जं ये खड्गा आसूर्यं तांस्तु भुंजते ”॥इति ।
उक्तानां तृप्तितारतम्याभिधायकस्मृतीनां तत्तत्तारतम्यानुसारेण श्राद्धकर्तुः फलेऽपि तारतम्यं भवती- २०
त्येवं तात्पर्यमवगंतव्यम् । अत एव '''हारीतेनैकमृदाहृत्योक्तम्—''' “ मधुना परमप्रीताः सर्वा-
न्कामान्दिशंति च ” इति । अत्र व्यवस्थामाह '''पुलस्त्यः—'''
“ मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः । मधुप्रधानं शूद्रस्य सर्वेषां चाविरोधि यत् ” ॥ इति ।
मुन्यन्नं नीवारादि । मधु माक्षिकं प्रधानं समग्रफलदम् । एतत्त्रितयव्यतिरिक्तं यदविरोधि अप्रतिषिद्धं
तत्सर्षेषामित्यर्थः । श्राद्धे मांसस्य कलौ निषिद्धत्वात्नेह तदभिधीयते । तच्च युगधर्मप्रकरणे २५
प्रतिपादितम् ।
'''श्राद्धे वर्ज्यद्रव्याणि । अथ श्राद्धे वर्ज्यद्रव्याणि महाभारते मदालसावाक्यम्'''
“ यच्चोत्क्रोचादिना प्राप्तं पतिताद्यदुपार्जितम् । अन्यायकन्याशुल्कोत्थं द्रव्यं चात्र विगर्हितम् ॥
“पित्रर्थं मे प्रयच्छेति ह्युक्त्वा यच्चाप्युपाहृतम् । वर्जनीयं सदा सद्भिः तत्तद्वै श्राद्धकर्मणि ” ॥ इति ।
'''वैवृव्यासोऽपि—''' ३०
“ वेदविक्रयजं दुष्टं स्त्रिया यच्चार्जितं धनम् । न देयं पितृदेवेभ्यो यच्चक्रीवदुपार्जितम् ॥
“ अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा । हिंगुद्रव्येषु शाकेषु कालानलशुभास्तथा ” ॥ इति ।
कोद्रवः कोळंङ्खकः । पुळकः पुलाकः । छांदसो ह्रस्वः । संस्कारद्रव्येषु हिंग्वास्यद्रव्यम-
श्राद्धेयम् । कालः कृष्णार्जकः अनलश्चित्रकः । शुभः शुभाशुभाख्यः शाकविशेषः । शाकेषु
एतानि शाकान्यश्राद्धेयानीत्यर्थः । हिंगुद्रव्यस्य विधिप्रतिषेधयोर्दर्शनाद्विकल्पः । एवमन्यत्रापि । ३५
{{rule}} १ क-कालेयकैः । ग-पारेवतैः । २ ग-च । ३ ग-आक्षोटैः । ४ ग-त्रपु । ५ ग-क्त ।
६ क-म्योचैः । खग-षोचैः । ७ ग-क्षी । ८ ग-क्त । ९ ग-रा ।<noinclude></noinclude> dsi26m746vui45l2psbtz44211kwm1z पृष्ठम्:Smriti mukta phalam.pdf/८२४ 104 166827 419850 2026-11-11T02:43:53Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७८४|'''वर्ज्याणि ।'''|}} {{rule}} यत्र विधिप्रतिषेधावैकस्य दृश्येते तत्र विकल्पो वेदितव्यः इति चंद्रिकामाधवीयादौ व्यव-
स्थापितम् । भरद्वाजोऽपि—“मुद्गाढकीमाषवर्ज... नवीन पृष्ठं निर्मीत अस्ती 419850 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७८४|'''वर्ज्याणि ।'''|}} {{rule}} यत्र विधिप्रतिषेधावैकस्य दृश्येते तत्र विकल्पो वेदितव्यः इति चंद्रिकामाधवीयादौ व्यव-
स्थापितम् । भरद्वाजोऽपि—“मुद्गाढकीमाषवर्जं विदळानि दद्यात् ” इति । यानि पाषाणयंत्र-
भ्रमणेन प्रायशो द्विधा भिद्यंते तानि धान्यानि विदलानि । मुद्गः कृष्णहरितेतरः । आढकी तूरी ।
माषो राजमाषः । अलसान्द्रानाम्ना प्रसिद्धः । तथा हि “ अलसांद्रो राजमाषः ” इति वैजयंती
५ निघंटुः । एतैर्विना विदलानि दद्यादित्यर्थः ।
“कुलुत्थावरकाः श्राद्धे न देयाश्चैव कोद्रवाः । कटुकानि च सर्वाणि विरसानि तथैव च ॥
“यवनालानपि तथा वर्जयंति विपश्चितः ” ॥ इति । चंद्रिकायाम्—
“श्राद्धे न देयाः पालक्यास्तथा निष्पावकोद्रवाः । मसूरक्षारवार्ताकाः कुलुत्थशणशिग्रवः”॥ इति ।
पालक्या गंधद्रव्यविशेषः । क्षारो यवक्षारादिः । वार्त्ताकं क्षुद्रवार्त्ताकीसंज्ञकबृहतीफलं कंटकारिका-
१० स्वयंबृहतीफलात्किंचित्स्थूलम् । विष्णुरपि— “भूतृणं शिग्रुराजसर्षपसुरसार्जककूष्मांडालम्बु-
वार्त्ताकपालंक्यातंदुलीयककुसुंभमाहिषीक्षीराणि वर्जयेत् ” ॥ इति । भूस्तृणं शाकविशेषः । सुरसः
निर्गुंडी । मत्स्योऽपि—
“कुसुंभं बीजपूरं च कपित्थं मधुकातसी । श्राद्धे नैतानि देयानि पितृभ्यः प्रीतिमिच्छता ” ॥ इति ।
बीजपूरो मातुलुंगकः । कपित्थं कपित्थफलम् । मधुकं यष्टिमधुकः । विष्णुपुराणे—
१५ “ अकुप्ताग्रयणं यच्च धान्यजातं नरेश्वर । राजमाषानणूंश्चैव मसूरांश्च विवर्जयेत् ॥
“ अलाबुं गृंजनं चैव लशुनं पिंडमूलकम् । गांधारकर्कंभाणि लवणान्यौषराणि च ॥
“ आरक्तांश्चैव निर्यासाः प्रत्यक्षलवणानि च। वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ॥
“ क्षीरमेकशफानां यदौष्ट्रमाविकमेव च । मार्त्तंगं माहिषं चैव वर्जयेच्छ्राद्धकर्मणि”॥ इति ।
शंखः—
२० “ शीतपाकीमपि श्राद्धे कृष्णजीरकमेव च । वर्जयेल्लवणं सर्वं तथा जंबूफलानि च ” ॥ इति ।
लवणं कृतलवणम् ।
“ सैंधवं लवणं चैव तथा मानससंभवम् । पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यशः ॥
“कृतं तु लवणं सर्वं वैश्यान्नं च विवर्जयेत् ” ॥ इति तेनैवाभिधानात् । सुमंतुः—
“ वर्ज्याश्चाभिषवा नित्यं शतपुष्पं गवेधुका । जंबीरकं फलं वर्ज्यं कोविदारं च नित्यशः”॥
२५ अभिषवाः शुष्काः संतः क्लिन्नाः । स्मृत्यंतरे— “ गांधारिकापटोलानि श्राद्धकर्मणि वर्जयेत् ।
“ औषरं लवणं श्राद्धे कूष्मांडं बृहतीफलम् । श्लेष्मातकं च शिग्रूं च प्रत्यक्षलवणं त्यजेत् ॥
“ ताम्रपात्रे स्थितं गव्यं क्षीरं च लवणान्वितम् । घृतं लवणसंयुक्तं सर्वदा परिवर्जयेत् ॥
“ पायसे लवणयोगे न दोषस्तदुपतं पचेत् ” ॥ इति ।
पाद्मेऽपि—“ पयसा पाचयेदन्नं लवणं तत्र योजयेत् ” ॥ इति ।
३० पायसे लवणसंयोगः शिष्टाचारविरोधादुपेक्ष्य इत्याहुः । उशनाः—
“ नालिकाशणछत्राककुसुंभालम्बुविद्भवन् । कुंभीकंबुकवृंताककोविदारांश्च वर्जयेत् ॥
“ वर्जयेच्च गृही श्राद्धे कांजिकां पिंडमूलकम् । करंजं येऽपि चान्ये वै रसगंधोत्कटास्तथा”॥ इति।
पुराणे—
“ वांशं करीरं सुरसासर्जकं भूतृणानि च । अवेष्टोक्ताश्च निर्यासा लवणान्यौषराणि च ।
{{rule}} १ ग-द्वि । २ ग-सा । ३ ग-मार्ग इतिमुद्रितपाठः ।<noinclude></noinclude> 1kbi4grv9rjkgljyd792ow1nyu7pqm8 पृष्ठम्:Smriti mukta phalam.pdf/८२५ 104 166828 419851 2026-11-11T02:44:44Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अन्यानि वर्ज्याणि'''|७८५}} {{rule}} “श्राद्धकर्मणि वर्ज्यानि याश्च नार्यो रजस्वला”॥ इति । वांशं करीरं वंशांकुरम् । अवेष्टोक्ता निर्यासाः
वेदे ग्राह्यत्वेनोक्... नवीन पृष्ठं निर्मीत अस्ती 419851 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अन्यानि वर्ज्याणि'''|७८५}} {{rule}} “श्राद्धकर्मणि वर्ज्यानि याश्च नार्यो रजस्वला”॥ इति । वांशं करीरं वंशांकुरम् । अवेष्टोक्ता निर्यासाः
वेदे ग्राह्यत्वेनोक्तनिर्यासव्यातिरिक्तनिर्यासाः लोहितनिर्यासाः । व्रश्चनप्रभवाश्चेति यावत् ।
“अथो खलु य एव लोहितो यो वा व्रश्चनान्निर्यैधति तस्य नाश्यं काममन्यस्य” इति श्रुतेः ।
लवणान्यौषराणि कृतलवणानीति यावत् । याश्च नार्यो रजस्वलाः । या नार्यस्त्रिरात्रादूर्ध्वमप्य-
निवृत्तरजस्कास्ताश्च वर्ज्या इत्यर्थः । '''भरद्वाजोऽपि—''' ५
“ नक्तोद्धृतं तु यत्तोयं पल्वलांबु तथैव च । स्थलीकूष्मांडफलं बहुकंदं च पिप्पली ॥
“ तंदुलीयकशाकं च माहिषं च पयोदधि । शिंबुकानि करीराणि कोविदारं गवेधुकम् ॥
“ कुलुत्थशणजंबीकरंवाणि तथैव च । कूष्मांडमार्द्रपुष्पं च शिग्रुक्षारं तथैव च ॥
“ नीरसानि च सर्वाणि भक्ष्यभोज्यानि यानि च । एतानि नैव देयानि सर्वस्मिञ्श्राद्धकर्मणि ” ॥
माहिषं तु घृतं देयं पयोदधीति विशेषितत्वादिति चंद्रिकायाम् । '''स्मृत्यंतरे—''' १०
“ अतिशुंक्तोमयलवणं विरसं भावदूषितम् । राजसं तामसं चैव हव्यकव्येषु वर्जयेत् ” ॥
'''ब्रह्मांडपुराणे—'''
“ आसनान्नावशेषं वा पादोपहतमेव च । अमेध्याद्वागतैः स्पृष्टं शुक्तं पर्युषितं च यत् ॥
“ द्विः स्विन्नं परिदग्धं च तथैवाग्रेऽवलेहितम् । शर्कराकीटपाषाणैः केशैरप्युपद्रुतम् ॥
“ पिण्याकं मथितं चैव तथातिलवणं च यत् । सिद्धाः कृताश्च ये भक्षाः प्रत्यक्षलवणीकृताः ॥ १५
“ दग्धावदुष्टाश्च तथा दुष्टैश्चोपहतास्तथा । वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि ” ॥ इति ।
यदन्नमौस्रावणांतया पचिक्रियया सिद्धं मार्दवार्थं पुनरुदकं निनियावस्राणांतं पच्यते तद् द्विस्विन्नं
न तु यत्सिद्धमौष्ण्यार्थमग्नावधिश्रियते ‘अत्युष्णं सर्वमन्ने स्यात्’ इति वचनादौष्ण्यार्थं पुनरधि-
श्रवणाम्यनुज्ञानात् । अग्रावलेहितं यदग्रंथमुत्स्वादितं तन्निर्वृत्तः प्रागन्येनास्वादितम् । सिद्धाः कृता
इति अभक्ष्यतया सिद्धाः आमलकादयः । वटकादिरूपेण भक्षतया कृताः प्रत्यक्षलवणेन लवणीकृताः। २०
एतत्कृतभक्षविशेषणम् । प्रत्यक्षग्रहणादृष्यादिना वस्त्वंतरेण प्रच्छादितलवणेन लवणीकृता ग्राह्या
इति गम्यते । श्राद्धे कूष्मांडादिनिषिद्धद्रव्योपादाने प्रत्यवाय उक्तः '''स्मृत्यंतरे—'''
“ कूष्मांडं माहिषं क्षीरमाढक्यो राजसर्षपाः । चणका राजमाषाश्च घ्नंति श्राद्धमसंशयम्”॥ इति ।
'''चंद्रिकायाम्—'''
“ पिंडालुकं च तुंडीरं करमर्दीश्च नालिकम् । कूष्मांडं बहुबीजानि श्राद्धे दत्वा व्रजत्यधः ”॥ इति । २५
बहुबीजानि मातुलुङ्गफलानि । '''षट्त्रिंशन्मते—'''
“ क्षीरादिमाहिषं वर्ज्यं अभक्ष्यं यच्च कीर्तितम् ” ॥ इति । आदिशब्देन महिषीदधि गृह्यते ।
अभक्ष्यं यच्च कीर्तितं नित्यभोजने यदभक्ष्यं प्रकीर्तितं तच्च सर्वं श्राद्धकर्मणि न देयमित्यर्थः ।
नित्यभोजने यद्वर्ज्यं तन्नित्यभोजनप्रकरणे प्रतिपादितम्
“ पित्रोः श्राद्धे तु संप्राप्ते वृथातक्रं समृद्धधीः । तत्तक्रं रक्तमित्याहुर्गर्गाङ्गाश्यपगौतमाः ” ॥ इति । ३०
'''देवलः—'''“इष्टापूर्तस्रुताहेषु दर्शवृद्ध्यष्टकासु च । पात्रेभ्यस्तेषु कालेषु देयं नैव कुभोजनम्”॥ इति ।
चशब्दान्महालयादिविशिष्टकालेष्वपि कुभोजनं न देयमिति समुच्चीयते । एवं च नित्यश्राद्धादौ
दरिद्रकर्तृके कुभोजनाभ्यनुज्ञा गम्यते । '''यमः—'''
“ भक्ष्यं भोज्यं तथा पेयं यत्किंचित्पच्यते गृहे । न भोक्तव्यं पितॄणां तदनिवेद्य कथंचन ” ॥ इति ।
{{rule}} १ ग-यद्वा । २ ग-शू । ३ ग-मवस्त्रा ।<noinclude></noinclude> kl8zwy1izjzbmqpyj27vntjffpmd97e पृष्ठम्:Smriti mukta phalam.pdf/८२६ 104 166829 419852 2026-11-11T02:45:32Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७८६|'''पाकस्थानात् बहिष्कार्याणि ।'''|}} {{rule}} पकान्नोपहतिपरिहाराय पाकस्थानाद्वितो बाहिष्कार्यानाह '''स एव—'''
“ मद्यपः स्वैरिणी या च परपूर्वापतिस्तथा । नैव श्राद... नवीन पृष्ठं निर्मीत अस्ती 419852 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७८६|'''पाकस्थानात् बहिष्कार्याणि ।'''|}} {{rule}} पकान्नोपहतिपरिहाराय पाकस्थानाद्वितो बाहिष्कार्यानाह '''स एव—'''
“ मद्यपः स्वैरिणी या च परपूर्वापतिस्तथा । नैव श्राद्धे निरीक्षेरन्नावापात्प्रभृति क्वचित् ” ॥ इति
आवापः पाकं कर्तुं तंदुलादीनां पिठरादौ प्रक्षेपः । तत्रप्रभृतिभोजननिष्पत्तिपर्यंतं कचिद्द्रोजनस्थाः
अन्यत्रावस्थितान् भोज्यपदार्थान्भुंजानांश्च विप्रान्म्राद्धकर्मणि यथा मद्यपाद्यो नाभिवीक्षेरन् तथा
५ दूरत एवापसरणीया इत्यर्थः । '''मनुरपि—'''
“ चंडालश्च वराहश्च कुक्कुटश्च तथैव च । रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान् ॥
“ होमे प्रदाने भोज्ये च यदेभिरवलोकितम् । दैवे कर्मणि पित्र्ये वा तद्गच्छत्ययथातथम् ” ॥ इति ।
'''उशना अपि—'''“विद्वराहमार्जारकुक्कुटनकुलशूद्ररजस्वलाशूद्राभर्त्तारश्च दूरतो नेतव्याः ” ॥ इति ।
'''चंद्रिकायाम्—'''
१० “ कुक्कुटो विड्वराहश्च काकः श्वा च विडालकः । वृषलीपतिश्च वृषलः षंढो नारी रजस्वला ॥
“ एते तु श्राद्धकाले वै वर्जनीयाः प्रयत्नतः ” ॥ इति ।
'''व्यासः—'''
“काषायवासाः कुष्ठी वा पतितो भ्रूणहाऽपि वा । संकीर्णयोनिर्विप्रश्च संबंधी पतितस्य वा ॥
“ वर्जनीयास्तथैवैते निवापे समुपस्थिताः ” ॥ इति । निवापः पितृभ्यो दानं ‘पितृदानं निवापः
१५ स्यादि’ त्यमरेणाभिधानात् उपस्थितशब्दात् पाकोप्रक्रमप्रभृतिवर्जनीया इति गम्यते ।
'''स्मृत्यंतरे—'''
“ उदक्यासूतिकाशौचमृताहारैश्च वीक्षिते । श्राद्धे सुरा न पितरो भुंजते पुरुषर्षभ ॥
“ आदौ माहिषकं दृष्ट्वा मध्ये तु वृषलीपतिम् । अंते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ॥
“ नीचैर्दृष्टास्तथा स्पृष्टात् पतितैः प्रतिलोमजैः । आशौचवद्भिरपरैः शूद्रान्नं चैव वर्जयेत् ॥
२० “ शूद्रैः स्पृष्टं च दृष्टं च तद्भूतं तन्निमंत्रितम् । तद्दत्तं च तदुच्छिष्टं शूद्रान्नं षड्विधं स्मृतम् ” ॥ इति ।
'''यमः—'''
“ संजः काणः कुणिः श्वित्री दातुः प्रेष्यकरो भवेत् । न्यूनांगो वातिरिक्तांगस्तमप्यपनयेत्ततः ”। इति ।
'''देवलोऽपि—'''
“ बीभत्सुभ्रुशठिं नग्नं मत्तं धूर्तं रजस्वलाम् । नीलकाषायवसनं छिन्नकर्णं च वर्जयेत् ” ॥ इति ।
२५ '''ब्रह्मांडपुराणेऽपि—'''
“ नग्नादयो न पश्येयुः श्राद्धमेतत्कदाचन । श्राद्धे गच्छंति तैर्दृष्टे पितरोऽथ पितामहाः ” ॥ इति ।
नग्नो वेदपरित्यागी । आदिशब्देन वैदिककर्मानुष्ठानत्यागिनो गृह्यंते । तथा च तत्रैवोक्तम्—
“सर्वेषामेव वर्णानां त्रयी संवरणं यतः । ये वै त्यजंति तां मोहात्ते वै नग्ना इति स्मृताः ॥
“वृथाजटी वृथामुंडी वृथाचारश्च यो नरः । महापातकिनो ये च ते वै नग्नादयः स्मृताः ”॥ इति ।
३० यदि तु नग्नादयः श्राद्धार्थं संपादितमन्नादिकं पश्येयुः तदा किं कार्यमित्यपेक्षायां तत्रैवोक्तम्—
“अन्नं पश्येयुरेते तु यदि वै हव्यकव्ययोः । उत्सृष्टव्यं प्रधानार्थं संस्कारस्त्वापदि स्मृतः”॥ इति ।
प्रधानार्थमग्नौकरणब्राह्मणभोजनपिंडप्रदानात्म कपधानसंपत्त्यर्थमन्नमेतद्वीक्षित मुत्सृज्यान्यदन्नं संपा-
द्यम् । अन्नांतरसंपादनासामर्थ्य तु नोत्स्रष्टव्यम् । किं तु नग्नादिदर्शनजनितदोषापाकरणार्थं स्मृतः
संस्कारः कर्तव्य इत्यर्थः ।
{{rule}}<noinclude></noinclude> 9cdpblennw93pnndxh9ewbqekmctk60 पृष्ठम्:Smriti mukta phalam.pdf/८२७ 104 166830 419853 2026-11-11T02:47:28Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''निमंत्रितेभ्यो देयानि ।'''|७८७}} {{rule}} संस्कारोऽपि तत्रैवोक्तः—
“ हविषांमथ पकानां शक्तौ स्यादपवर्जनम् । मृत्संस्पृक्ताभिरद्भिborder प्रोक्षणं तु विधीयते ॥
“... नवीन पृष्ठं निर्मीत अस्ती 419853 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''निमंत्रितेभ्यो देयानि ।'''|७८७}} {{rule}} संस्कारोऽपि तत्रैवोक्तः—
“ हविषांमथ पकानां शक्तौ स्यादपवर्जनम् । मृत्संस्पृक्ताभिरद्भिborder प्रोक्षणं तु विधीयते ॥
“ सिद्धार्थकैः कृष्णतिलैः कार्यं चाप्यवकीरणम् । गुरुसूर्याग्निवस्तानां दर्शनं तु प्रयत्नतः ” ॥ इति ।
शुद्ध्यंतरमाह '''जमदग्निः—'''
“ शुद्धवत्योऽथ कूष्मांडरः पावमान्यस्तरत्समाः । पूतेन वारिणा दर्भैरन्नदोषानपानुदेत् ” ॥ इति । ५
‘एतो न्विन्द्रंस्तावाम’ इत्याद्याः ऋचः शुद्धवत्यः । ‘यद्देवा देवहेळनम्’ इत्याद्याः कूष्मांडरः । ‘पवमानः
सुवर्जन’ इत्याद्याः पावमान्यः । ‘तरत्समंदी धावती’ इत्याद्यास्तरत्समाः । शुद्धवत्यादिमंत्राभिमान्त्रित-
मुदकं दर्भैरुपादायान्नदोषापनोदनार्थमवोक्षणं कुर्यादित्यर्थः । '''सुमंतुरपि—'''“ चंडालाद्यवेक्षितमन्न-
मभोज्यमन्यत्र मृद्भस्माभिरस्योदकस्यर्शनात् ” ॥ इति । केशाद्युपहतौ तु नित्यभोजनप्रकरणोक्ता
शुद्धिर्द्रष्टव्या । अलं प्रसक्तानुप्रसक्त्या । १०
'''निमंत्रितेभ्यो देयद्रव्याणि । निमंत्रितेभ्यो यद्देयं तदाह कात्यायनः—'''
“ तैलमुद्वर्त्तनं स्नानं दंतधावनमेव च । कृत्तनखश्मश्रुभ्यस्तु दद्यात्तेभ्यः परेऽहनि ” ॥ इति ।
उत्तरेद्युः पूर्वाह्णे कृत्तनखश्मश्रुभ्यो निमंत्रितेभ्यः स्नानसाधनं तैलादिकं दंतकाष्ठं च दद्यादि-
त्यर्थः । '''बोधायनोऽपि—''' “ श्वः करिष्यामीति ब्राह्मणानभिमंत्रयेत् तान्ह्वोभूते श्मश्रुकर्माभ्यंजन-
स्नानैर्यथोपपातं संपूज्य स्वयमाप्लुत्य शुचौ देशे ” ॥ इति । यत्तु '''प्रचेतसोक्तम्—''' १५
“ तैलमुद्वर्त्तनं स्नानं दद्यात्पूर्वाह्ण एव तु । श्राद्धभुग्भ्यो नखश्मश्रुछेदनं तु न कारयेत् ” ॥ इति
तन्निषिद्धक्षुरकर्मतिथिविषयमिति चंद्रिकामाधवीयादौ व्यवस्थापितम् । सुधीविलोचने तु
श्मश्रुकर्मैकोद्दिष्टविषयमित्येके । अष्टकायामित्यपरे । विहितमपि शिष्टाचाराभावान्नान्यश्राद्धेषु वपन-
मिति वृद्धाः । अनेन निमंत्रितः स्वयमेव क्षौरी चेच्छ्राद्धार्ह एव “मृता वा एषा त्वगमेध्या यत्केश-
श्मश्रुमृतामेव त्वचममेध्यामपहृत्य यज्ञियो भूत्वा मेधमुपैति ” इति श्रुतेः त्रयोदशवारं तूष्णीं २०
निमज्ज्य शुक्तवस्त्रं परिधाय विधिवत्पुनः स्नात्वा शुद्धो भवतीति । '''आश्वलायनः—'''“ तांबूल-
कृसरादीनि दत्वा अभ्यज्य स्नातेष्वेतेषु स्नातः ” इति । अभ्यज्य स्नापयित्वा एतेषु निमंत्रितेषु
स्नातेषु कर्त्ता स्नात इत्यर्थः । अभ्यंगस्यावश्यकत्वमुक्तं '''पुराणेऽपि—'''
“ पादशौचं विनाभ्यंगं मुद्गमाषं विनाकृतम् । तत्सर्वं विप्रडेत्तुल्यं यत्तु श्राद्धमदक्षिणम् ” ॥ इति ।
'''मार्कंडेयः—''' २५
“ अह्नाःषट्सु मुहूर्तेषु गतेषु त्वथ तान्द्विजान् । प्रत्येकं प्रेषयेत्प्रेष्यान्प्रदायामलकोदकम् ” ॥ इति ।
द्वादशघटिकाम्य ऊर्ध्वं निमंत्रितब्राह्मणानां स्नानार्थं परिचारकाणां हस्तेष्वामलककल्कं प्रदाय
निमंत्रितब्राह्मणेभ्यः प्रत्येकं दीयतामिति तान्द्विजान्प्रति परिचारकान्प्रेषयेदित्यर्थः ।
चंद्रिकामाधवीययोरत्र व्यवस्था कृता—एतदामलककल्कदानं प्रतिषिद्धतैलासु तिथिषु द्रष्टव्यम् ।
तास्वप्यमावास्याव्यतिरिक्तासु देयम् । ‘धात्रीफलैरमावास्यायां न स्नायात्’ इत्यामलकोदकस्नानस्या- ३०
प्यमावास्यायां निषेधादनिषिद्धतैलायां तिथौ तैलादिदानमिति । तथा च '''स्मृत्यंतरे—'''
“ निमंत्रितानां श्राद्धेषु निषिद्धदिवसेषु तु । अभ्यंजनं नैव दद्याद्द्यात् धात्रीफलोदकम् ॥
“ तच्चामायां भानुवारे सप्तम्यां परिवर्जयेत् ” ॥ इति । '''अत्र केचित्—'''
“ अष्टकायामथाष्टम्यांममायां श्राद्धकर्मणि । पित्र्यस्य तु विकारेषु तैलाभ्यंगो विधीयते ” ॥ इति
वचनमनुसरंतः श्राद्धेषु निषिद्धदिनेऽपि तैलाभ्यंगमाचरंति । यथोचितमत्र ग्राह्यम् । ३५
{{rule}}<noinclude></noinclude> kvxg7sv3qxuldqq8kpb1i36hun9ttxs पृष्ठम्:Smriti mukta phalam.pdf/८२८ 104 166831 419854 2026-11-11T02:48:19Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७८८|'''श्राद्धदेशे प्रकल्प्य द्रव्याणि ।'''|}} {{rule}} तैलदाने विशेषो '''देवलेन दर्शितः—'''
“ तैलमुद्वर्त्तनं स्नानं स्नानीयं च पृथग्विधम् । पात्रैरौदुंबरैः दद्याद्... नवीन पृष्ठं निर्मीत अस्ती 419854 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७८८|'''श्राद्धदेशे प्रकल्प्य द्रव्याणि ।'''|}} {{rule}} तैलदाने विशेषो '''देवलेन दर्शितः—'''
“ तैलमुद्वर्त्तनं स्नानं स्नानीयं च पृथग्विधम् । पात्रैरौदुंबरैः दद्याद्वैश्वदेविकपूर्वकम् ” ॥ इति ।
उदुंबरं ताम्रम् ।
'''श्राद्धदेशे प्रकल्प्यद्रव्याणि । श्राद्धदेशे प्रकल्प्यानि द्रव्याणि पुराणेऽभिहितानि—'''
५ “ उपमूलं सकृल्लूनान् कुशांस्तत्रोपकल्पयेत् । यवांस्तिलान् ब्रसीः कांस्यमापः शुद्धैः समाहृताः ॥
“ पात्राणरजतताम्राणि पात्राणि स्युः समिन्ध्मु । पुष्यधूपसुगंधादिक्षौमसूत्रं च मेक्षणम् ” ॥ इति ।
ब्रसीः निमंत्रितानामुपवेशनार्थान्यासनानि । ‘ व्रतिनामासनं ब्रसी ’ इत्यमरेणा-
भिहितत्वात् । कांस्यं कांस्यमयं भाजनम् । कांस्यपार्णराजतताम्रभाजनेषु यथासामर्थ्यमुपकल्पनं
कार्यम् । सुगंधादीत्यादिग्रहणादक्षतदीपात्रिकं गृह्यते । मेक्षणं काष्ठमयी दर्वी । तिला जर्तिला ग्राह्या-
१० स्तदसम्भवे ग्राम्या ग्राह्याः । जर्तिललक्षणमुक्तं '''सत्यव्रतेन—''' “ जर्तिलास्तु तिलाः प्रोक्ताः कृष्णवर्णा
वनेभवाः ” ॥ इति । '''स्मृत्यंतरे—''' ‘जर्तिलाश्चैव ते ज्ञेया अकृष्टोत्पादितास्तु ये ’ इति ।
यत्वापस्तंबेनोक्तम्—
“ अटव्यां ये समुत्पन्ना अकृष्टफलितास्तथा । ते वै श्राद्धे पवित्रास्तु तिलास्ते जर्तिला इति ” ॥
‘ तदपशवो वा अन्ये गोऽश्वेभ्यः पशवः असत्रं वा एतद्यदच्छंद्रोमम् ’ इत्यादिमंत्रेषां प्रशंसापरम् ।
१५ अत एव '''ब्रह्मांडपुराणे—'''
“ यत्किंचिद्देडौ करुणार्जतं पात्रमेव च । दौहित्रः कुतपः कालः छागः कृष्णाजिनं तथा ॥
“गौराः कृष्णास्तथारण्यास्तथैव त्रिविधास्तिलाः । पितॄणां तृप्तये सृष्टाः दर्शने ब्रह्मणा स्वयम्”॥ इति ।
दौहित्रलक्षणमुक्तं याज्ञवल्क्येन—
“ वनस्पतिगते सोमे या गौः संचरेत्तृणम् । तत्क्षीरसंभवघृतं दौहित्रमिति कथ्यते ” ॥ इति ।
२० बृसीषु विशेषमाह '''मनुः—'''“ कुतपं चासनं दद्यात् ” इति । कुतपो नेपालदेश-
प्रभवरोमादिनिर्मितः कंबलः । तदुक्तं '''स्मृत्यंतरे—'''
“ मध्यान्हः खड्गपात्रं च तथा नेपालकंबलः । रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥
“ पापं कुत्सितमित्याहुस्तस्य संतापकारणम् । अह्नावेते यतस्तस्मात्कुतपा इति विश्रुताः ” ॥ इति
'''चंद्रिकायाम्—'''नेपालकंबलाभावे मेषाविलोमनिर्मितकंबलमात्रमपि पीठाद्यपेक्षया प्रशस्तम् ।
२५ आसनोपकल्पनं भोजनार्थोपवेशनस्थानेषु कार्यम् । उपक्लृप्तासनेषु दर्भास्तरणं च कार्यमिति ।
तथा च '''मनुः—'''
“ आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक् पृथक् । उपस्पृष्टोदकान्सम्यक् विप्रान्स्तेषूपवेशयेत् ”॥ इति ।
बर्हिष्मत्सु दर्भवत्सु । '''स्मृत्यंतरेऽपि—'''“ आसनेषु सदभेषु विविक्तेषूपवेशयेत् ” ॥ इति ।
'''हेमाद्रौ—'''
३० “ यस्त्वासनोपभोगार्थं प्रदद्यात्कंबलं नवम् । अष्टांगयोगसंसिद्धिस्तस्य पुंसोऽभिजायते ॥
“ यस्तूर्णमृदुभिः श्लक्ष्णं निर्माय शुभमासनम् । दद्याच्छाद्धेषु तस्यापि सुस्थिराः सर्वतः श्रियः”॥ इति ।
कांस्यपार्णराजतताम्रपात्राणि भोजनार्थमर्घ्यार्थं चोपकल्प्यानि । अत्र राजतस्य रजतमिश्नस्य च
वैशिष्ट्यमाह '''मनुः—'''
“ राजतैर्भाजनैरेषामपि वा रजतान्वितैः । वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते ” ॥ इति ।
{{rule}} १ क्ष-ब्राह्मणाः । २ क्ष-नै ।<noinclude></noinclude> m6wfy5chfgta6kijp9kyggr0c9315xd पृष्ठम्:Smriti mukta phalam.pdf/८२९ 104 166832 419855 2026-11-11T02:50:09Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''श्राद्धविहितानि पर्णपात्रपुष्पाणि ।'''|७८९}} {{rule}} '''वैजावपः—'''
“ राजतानि प्रशस्तानि पित्र्ये हैमानि दैविके । अथवा ताम्रपात्राणि पित्र्ये हैमानि दैविके” ॥ इत... नवीन पृष्ठं निर्मीत अस्ती 419855 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''श्राद्धविहितानि पर्णपात्रपुष्पाणि ।'''|७८९}} {{rule}} '''वैजावपः—'''
“ राजतानि प्रशस्तानि पित्र्ये हैमानि दैविके । अथवा ताम्रपात्राणि पित्र्ये हैमानि दैविके” ॥ इति ।
राजतमधिकृत्य '''मत्स्यः—'''
“ शिवनेत्रोद्भवं यस्मादतस्तत्पितृवल्लभम् । अमंगलं तद्यत्नेन देवकार्येषु वर्जयेत् ” ॥ इति ।
अमंगलं रुद्रनेत्रजलप्रभवत्वादिति भावः । पार्णेषु भोजनार्थं पलाशपत्रपात्राण्येवोपकल्प्यानि न ५
त्वन्यानि पर्णपात्राणि । तथा चा'''त्रिः—'''
“न मृन्मयानि कुर्वीत भोजने दैवपित्र्ययोः । पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने” ॥ इति ।
एवं च “ पालाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् ” इति पलाशपत्रनिषेधवचनं श्राद्धव्यतिरिक्त-
भोजनविषयम् ।
“ सदंडं कदलीपत्रं वामभागाग्रमायतम् । अग्रं चेदन्यद्दिग्भागे निराशाः पितरो गताः ॥ १०
“ निर्दण्डं च निरग्रं च पशुचर्मसमं स्मृतम् । तस्मादग्रं च दण्डं च श्राद्धेषु न निकृन्तयेत् ॥
“ श्राद्धेऽहनि तु संप्राप्ते रम्भापृष्ठं न कृन्तयेत् । कृन्तयेद्यदि मूढात्मा निराशाः पितरो गताः ” ॥
इत्यादिवचनैः श्राद्धे कदलीपत्रं भोजनाभ्यनुज्ञानां “ न जातिकुसुमानि न कदलीपत्रम् ” इति
प्रचेतसा निषेधाच्च कदलीपत्रभोजनं श्राद्धे वैकल्पिकमित्याहुः । अर्घ्यार्थे त्वन्यपर्णपात्राण्यपि
अप्रतिषिद्धानि । अत एव '''वैजावापः—''' १५
“ खादिरौदुंबराण्यर्घ्यपात्राणि श्राद्धकर्मणि । अप्यश्ममृन्मयानि स्युरपि पर्णपुटास्तथा ” ॥ इति ।
'''कात्यायनः—'''“ सौवर्णराजतौदुंबरखड्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यंते पर्ण-
पुटेषु वा ” इति । यानि तैजसादीनि तेषु वेत्यर्थः ।
अत्रोपकल्पनीयानि पुष्पाणि '''ब्रह्माण्डपुराणे दर्शितानि—'''
“ शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च । गंधरूपोपपन्नानि यानि चान्यानि कृत्स्नशः”॥ इति । २०
“ जातीचंपकलोध्रांश्च मल्लिकाबाणबर्बरीः । चूताशोका अरूषं च तुलसी तिलकं तथा ॥
“पारंतीं शतपत्रं च भृंगराजं च केतकीम् । यूथिकातिममुक्तं च दद्यात्पुष्पाण्यमूनि च ” ॥ इति ।
'''मार्कंडेयः—'''
“जात्यश्च सर्वा दातव्या मल्लिकाश्वेतयूथिकाः । जलोद्भवानि सर्वाणि कुसुमानि च चंपकम्”॥इति ।
जात्यः मालत्यः । यत्त्वंगिरसोक्तम् “ न जातिकुसुमानि ” इति यच्च क्रतुनोक्तम्— २५
“ असुराणां कुले जाता जातिः पूर्वपरिग्रहे । तस्यादर्शनमात्रेण निराशाः पितरो गताः ” ॥ इति
अत्र जातिकुसुमनिषेधो वैकल्पिकः । '''सायणीये—'''
“ तुलसी शतपत्रं च भृंगराजं तथैव च । मरुवं मल्लिकाश्चैव पितॄणामक्षयं भवेत् ” ॥ इति ।
'''संग्रहे—'''
“तुलसी श्राद्धकाले तु यदा शिरसि धारिता । दाता भोक्ता पिता तस्य विष्णुलोके महीयते”॥ इति ३०
स्मृत्यर्थसारे तुलस्या वर्ज्यत्वमुक्तं तत्र मूलं चिंत्यमिति चन्द्रिकायाम् ।
'''श्राद्धे वर्जनीयानि पुष्पाण्याह शंखः—'''
“ उग्रगंधीन्यगंधीनि चैत्यवृक्षोद्भवानि च । पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥
“जलोद्भवानि देयानिरक्तान्यपि विशेषतः”॥ इति । चैत्यवृक्षः श्मशानवृक्षः ।
{{rule}} १ ख-कोशादरं । २ ग-र्त्ती ।
१००-३१<noinclude></noinclude> l0wr0l75duo6y4dv128f188g0s8h8i6 पृष्ठम्:Smriti mukta phalam.pdf/८३० 104 166833 419856 2026-11-11T02:52:12Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७९०|'''श्राद्धे वर्जनीयानि पुष्पाणि ।'''|}} {{rule}} '''विष्णुः—'''“ न कंटकिजं दद्यात्कंटकिजमपि शुक्लं सुगंधि यत्स्यान्न रक्तं
दद्याद्रक्तमपि कुंकुमं जलं च दद्यात् ”... नवीन पृष्ठं निर्मीत अस्ती 419856 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७९०|'''श्राद्धे वर्जनीयानि पुष्पाणि ।'''|}} {{rule}} '''विष्णुः—'''“ न कंटकिजं दद्यात्कंटकिजमपि शुक्लं सुगंधि यत्स्यान्न रक्तं
दद्याद्रक्तमपि कुंकुमं जलं च दद्यात् ” इति । '''मत्स्यः—'''
“ पद्मबिल्वार्कधत्तूरपारिभद्रारूषकाः । न देयाः पितृकार्येषु पयश्चैवाविकं तथा ” ॥ इति
पारिभद्रो मंदारः । '''ब्रह्मांडपुराणेऽपि—'''
५ “जपाकुसुमं भंडी रूपिका सकुटंटका । पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः” ॥ इति ।
आदिग्रहणेन जपाकुसुमवद्रक्तकरवीरादिकुसुमानां वर्ज्यत्वमुक्तम् । भण्डी मंजिष्ठाधूपद्रव्येषूपकल्प-
नीयानि '''विष्णुधर्मोत्तरे दर्शितानि—'''
“ धूपो गुग्गुलुजो देयस्तथा चंदनसारजः । अगुरुश्च सकर्पूरस्तुरुक्कस्त्वक् तथैव च ” ॥ इति ।
तुरुष्कः सल्हकीवृक्षः । त्वक् लवंगम् । '''मरीचिरपि—'''“चंदनागरुणी क्षोभे तमालो क्षीरपद्मकम् ”॥
१० इति । वर्जनीयं धूपद्रव्यमाह '''विष्णुः—''' “ जीवजं च सर्व न धूपार्थे ” इति । जीवजं
कस्तूर्यादि । अनुलेपनार्थमुपकल्पनीयं द्रव्यमाह
'''मरीचिः—'''
“ कर्पूरकुंकुमोपेतं सुगंधि सितचंदनम् । दैविकेऽप्यथ पित्र्ये च गंधदाने प्रशस्यते ” ॥ इति ।
'''विष्णुरपि—''' “ चंदनं कुंकुमकर्पूरागरुपद्मकान्यनुलेपनार्थम् ” इति । '''मार्कंडेयः—'''
१५ “ चंदनागरुकर्पूरकुंकुमानि प्रदापयेत् । अश्वमेधमवाप्नोति पितॄणामनुलेपनात् ” ॥ इति ।
'''ब्रह्मांडपुराणेऽपि—'''
“ श्वेतचंदनकर्पूरकुंकुमानि शुभानि च । विलेपनार्थं दद्यात्तु प्रीतिजं पितृवल्लभम् ” ॥ इति ।
वर्ज्यानाह '''मरीचिः—'''“ श्राद्धेषु विनियोक्तव्या न गंधा देवदारुजाः ।
“ कल्कीभावं समासाद्य न च पर्युषिताः क्वचित् । न विगंघाश्च दातव्या भुक्तशेषावशेषिताः ॥
२० “पूतिं च मृगनाभिं च रोचनं रक्तचंदनम् । कालेयं जांगकं चैव तुरुष्कं चाद्वि वर्जयेत्” ॥ इति ।
पूती तृणविशेषः । मृगनाभी कस्तूरी । रोचनं गोरोचनम् । दीपार्थस्नेहद्रव्येषु उपकल्पनीयमाह
'''मरीचिः—'''“ घृताद्वा तिलतैलाद्वा नान्यद्रव्यात्तु दपिकम् ” । अत्र चान्यद्रव्यनिषेधो वसामेदो-
रूपद्रव्यविशेषे विषयो न पुनः कुसुंभादितैलविषयः । यत आह '''शंखः—'''
“ घृतेन दीपो दातव्यस्त्वथवाप्योषधीरसैः । वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ” ॥ इति ।
२५ आच्छादनार्थमुपकल्पनीयानि '''चंद्रिकायां दर्शितानि'''
“ आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि । आयुः प्रकाक्यमैश्वर्यं रूपं च लभते शुभम् ॥
“ कौशेयं क्षौमकार्पासं दुकूलमहतं तथा । श्राद्धेष्वेतानि यो दद्यात्कामानाप्नोति पुष्कलान् ” ॥ इति ।
अहतलक्षणमाह '''प्रचेताः—'''
३० “ ईषत् धौतं नवं श्वेतं सदशं यन्न धारितम् । अहतं तु विजानीयात्सर्वकर्मसु पावनम् ॥
“ स्वयं धौतं च देयं स्यात्स्रवर्णैः क्षालितं च यत् । प्रदेयं पितृकार्येषु कारूधौतं न जातुचित् ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ वासांसि वाससी वासो यो न दद्यान्मृतेऽहनि । सप्तजन्मसु नग्नः स्याद्दरिद्रश्च प्रजायते ” ॥ इति ।
{{rule}} १ क-चोष्ट्रकं; क्ष-कालेयांजकं ।<noinclude></noinclude> d8wvcwcbea124d5ejztmby8kgetqqd4 पृष्ठम्:Smriti mukta phalam.pdf/८३१ 104 166834 419857 2026-11-11T02:53:05Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''वस्त्राणि यज्ञोपवीतम् । श्राद्धप्रकारः'''|७९१}} {{rule}} '''शंखः—'''“ यथाविभवसारेण वस्त्रं दद्यात्तु पैतृके । उत्तरीयमभावे तु शोभनं दर्भनिर्मितम् ” ॥ इति ।
'''शातात... नवीन पृष्ठं निर्मीत अस्ती 419857 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''वस्त्राणि यज्ञोपवीतम् । श्राद्धप्रकारः'''|७९१}} {{rule}} '''शंखः—'''“ यथाविभवसारेण वस्त्रं दद्यात्तु पैतृके । उत्तरीयमभावे तु शोभनं दर्भनिर्मितम् ” ॥ इति ।
'''शातातपः “''' युवा सुवासा इति वस्त्रं तदभावे यज्ञोपवीतम् ” इति ।
'''पुराणेऽपि—'''“यज्ञोपवीतं दातव्यं वस्त्राभावे विजानता । पितॄणां वस्त्रदानस्य फलं तेनाप्नुतेऽखिलम् ॥
“ यज्ञोपवीतदानेन विना श्राद्धं तु निष्फलम् । तस्माद्यज्ञोपवीतस्य दानमावश्यकं स्मृतम्” ॥ इति ।
एवं दर्भादिमेक्षणांतं द्रव्यमुपकल्प्य स्नात्वा शुक्लं वासः परिदध्यात् । ५
“स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि । आबद्धकच्छुक्लवासा स्यात् ”। इति च स्मरणात्—
'''श्राद्धप्रकारः—'''स्नानानंतंर यत्कर्त्तव्यं तदाह '''मार्कंडेयः—'''“स्नातः स्नातान्समाहूतान्रवागतेनार्चये-
त्पृथक् ” इति । पृथक्पृथक्स्वागतमिति ब्रूयादित्यर्थः । '''शंखश्च । “''' प्रयतोऽपराण्हे शुचिः शुक्ल-
वासा दर्भहस्तः स्वागतमिति ब्रूयात् ” इति । अपराण्हशब्दोऽत्रावर्त्तनादुपरितनभागे प्रयुक्तः
“ऊर्ध्वं मुहूर्तात्कुतपान्यन्मुहूर्तचतुष्टयम् । मुहूर्तपंचकं वाऽपि स्वधाभवनमिष्यते” ॥ इति स्मरणात् । १०
'''यमोऽपि—'''“ततःस्नात्वा निवृत्तेभ्यःप्रत्युत्थाय कृतांजलिः पाद्यमाचमननीयं च संप्रयच्छेदद्यथाक्रमम्’॥इति।
स्वागतमित्युक्त्वा मार्गकृतोपहतिशुद्ध्यर्थं पादप्रक्षालनार्थमुदकमाचमनार्थमुदकं च क्रमेण प्रयच्छे-
दित्यर्थः । तत आसनं दत्वा पुनर्नमंत्रयीत । तदुक्तं '''माधवीये—'''“ पुनरपो दत्वा निमंत्रयेत्
दैवे क्षणः क्रियतां ॐ तथेति विप्रो ब्रूयात् । प्राप्नोतु भवान इति कर्त्ता ब्रूयात् । ‘ प्राप्नुवानि ’ इति
पुनर्विप्रो ब्रूयात्” इति । निमंत्रणं च निरंगुष्ठहस्तं गृहीत्वा कर्तव्यम् । “ निरंगुष्ठं गृहीत्वा तु विश्वान्दे- १५
वान्समाव्हयेत् ” इति '''स्मरणात्—'''
'''मण्डलकरणम् ।''' तदनंतरं गृहांगणे मंडलद्वयं कार्यम् । तथा च '''स्मृत्यंतरे—'''
“ संमार्जितोपलिप्तेषु द्वारि कुर्वीत मंडले । प्रांकणे मंडले कुर्याद्दैवे पित्र्ये च कर्मणि ॥
“ अंतरेण प्रकर्त्तव्यं तयोर्मध्ये षडंगुलम् । पादोदकस्य संयोगात्पितृघाती प्रजायते” ॥
'''अत्रिः—'''“ एकोद्दिष्टे सपिंडे च कुंडं कुर्याद्यथाविधि । अन्नश्राद्धेषु सर्वत्र मंडलं तु विधीयते ” ॥ २०
'''दक्षः—'''“ सपिंडीकरणादूर्ध्वं मंडलं तु विधीयते । यावत्कालं प्रेतनाम तावत्कुंडं प्रकीर्तितम् ॥
“ सपिंडीकरणादूर्ध्वं कुंडेष्पु क्षालितं यदि । कुलक्षयकरं तस्मान्नरके पातयेत् ध्रुवम् ॥
“तदूर्ध्वं क्षालनं कुंडे स्त्रीपुत्रगृहनाशनम् ” ॥ इति ।
'''मत्स्यः—'''“गृहद्वारसमीपे तु भवनस्याग्रतो भुवि । गोमयेनोपलिप्तायां गोमूत्रेण तु मंडले ” ॥
इति । गोमयसहितेन गोमूत्रेण मंडले कार्ये इत्यर्थः । '''स्मृत्यंतरे—''' २५
“ प्रांकणे मंडले कुर्याद्देवानां चतुरश्रकम् । वितस्तिमात्रं पित्रर्थं वर्त्तुलं दक्षिणं भवेत् ॥
“ नांतः प्रक्षालयेत्पादौ दैवे पित्र्ये च कर्मणि । नोत्तरे दक्षिणेनैव पश्चिमे न गृहांतरे ॥
“ द्वारस्य पूर्वतः कुर्याद्गोमयैर्मंडलद्वयम् ” ॥ इति । '''स्मृत्यर्धसारे—'''
“ प्रादेशमात्रं देवानां मंडलं चतुरश्रकम् । वितस्तिमात्रं पित्रर्थं मंडलं वर्त्तुलं भवेत् ॥
“ देवानामुत्तरे कार्यं पित्रर्थं दक्षिणे तथा । अंतरालं तु कर्तव्यं तयोर्मध्ये षडंगुलम् ”॥ इति । ३०
अत्र विशेषमाह '''शंखुः—'''“ उदक्प्लवमुदीच्यं स्याद्दक्षिणं दक्षिणाप्लवम् ” इति । उदीच्यां वैश्व-
दैविकं चतुरश्रं मंडलमुदक्प्रवणं दक्षिणं पित्र्यं वर्त्तुलमंडलं दक्षिणाप्रवणं कुर्यादित्यर्थः ।
'''मंडलकरणानंतरं यत्कर्तव्यं तदाह शंभुः—'''
{{rule}}<noinclude></noinclude> chwxg7wtqdgonytlkhz9w3ztlb3ou8k पृष्ठम्:Smriti mukta phalam.pdf/८३२ 104 166835 419858 2026-11-11T02:55:47Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७९२|'''पादप्रक्षालनम् ।'''|}} {{rule}} “उत्तरे क्षतसंयुक्तान्पूर्वाग्रान्विन्यसेत्कुशान् । दक्षिणे दक्षिणाग्रांस्तु सतिलान्विन्यसेत् द्विजः”॥ इति ।
'''पादप्रक्ष... नवीन पृष्ठं निर्मीत अस्ती 419858 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७९२|'''पादप्रक्षालनम् ।'''|}} {{rule}} “उत्तरे क्षतसंयुक्तान्पूर्वाग्रान्विन्यसेत्कुशान् । दक्षिणे दक्षिणाग्रांस्तु सतिलान्विन्यसेत् द्विजः”॥ इति ।
'''पादप्रक्षालनम् । मत्स्योऽपि—'''
“ अक्षताभिः सपुष्पाभिस्त्वभ्यर्च्यपसव्यतः । विप्राणां क्षालयेत्पादान्भवंय पुनः पुनः ” ॥ इति ।
अपसव्यतः पूर्वमुदङ्गमंडलं पश्चाद्दक्षिणमंडलमभ्यर्च्यत्यर्थः । एवं च मंडलकरणं तदर्चनं च पदार्थानु-
५ समयेन कार्यम् । न तु कांडानुसमयेनेत्युक्तं भवति । '''व्यासः—'''
“ अक्षताभिः सपुष्पाभिर्दर्भैरद्भिरेव च । विप्राणां क्षालयेत्पादान्दैवे चैव पुरोमुखः ॥
“ तिलैर्दर्भैस्तथा पुष्पैर्दक्षिणाग्रैर्विमिश्रितैः । पितॄणां क्षालयेत्पादांस्तथा प्रत्यङ्मुखः शुचिः ” ॥
पुरोमुखः प्राङ्मुख इत्यर्थः । अत्र केचित्
“ अप्रवाहोदकस्नानं विप्रपादावनेजनम् । गायत्र्या जपमर्घ्यं च ह्यादित्याभिमुखं भवेत् ” ॥ इति
१० वचनाद्देवपित्रोरुभयोरपि पादप्रक्षालनमादित्याभिमुखः कुर्यादित्याहुः । अपरे तु—
“दिवा वा यदि वा रात्रौ न कुर्यात्प्राङ्मुखः शुचिः। प्रत्यङ्मुखस्तु कुर्वीत विप्रः पादावनेजनम्”॥ इति
वचनात् । आदित्याभिमुखयोर्देवपित्रोः पादक्षालनं तदभिमुखः कुर्यादिति । शिष्टाचारादिह
व्यवस्था । घृतयुक्तेन गोमयेनालिप्य पादशौचं विशिष्यते
“आज्यं गोमयसंयुक्तं पादयोर्लेपयेद्यदि । पितरस्तस्य कल्पांतममृतेनाभिषेचिताः”॥ इति स्मरणात् ।
१५ न पवित्रपाणिः प्रक्षालयेत्
“ सर्वदा दर्भपाणिः स्याद्देवे पित्र्ये च कर्मणि । पादशौचं गंधलेपं न कुर्याद्दर्भपाणिना ॥
“ सपवित्रेण हस्तेन विप्रपादावनेजनात् । तथा वज्रहतो वृत्रस्तथैव पितृदेवताः ।
“ ग्रंथियस्तस्य पवित्रस्य विप्रपादाभिषेचने । यथा वज्रहतो वृक्षो देवताः पितरस्तथा ” ॥ इत्यादि
स्मरणात् । अत्र '''भरद्वाजः—'''
२० “ पादावाजानु वा जंघमपि वा चरणद्वयम् । कूर्परांतं करौ सम्यक्क्षालयेत्प्रथमं बुधः ” ॥ इति ।
'''पारिजाते तु—'''
“ नान्तः प्रक्षालयेत्पादौ कर्ता पित्रादिकर्मसु । अज्ञानाद्यदि कुर्वीत पातयेदुभयं कुलम् ॥
“ पादप्रक्षालनं श्राद्धे परं गुल्फद्वयावधि । कुर्वीत रोमसंस्पृशीत्तत्तोयं रुधिरं भवेत् ॥
“ तिष्ठंश्च क्षालयेत्पादौ क्षालयेत्तु तथा यदि । नरश्चंडालयोनिः स्याद्यदि गंगां न पश्यति ”॥ इति ।
२५ देवपूर्वकं पादप्रक्षालनं कुर्यात् । तथा च बृहद्भिरुक्तम्—
“ पाद्यं चैव तथैवार्घ्यं दैवमादौ प्रपूजयेत् । शंनोदेवीति मंत्रेण पाद्यं चैव प्रपूजयेत् ” ॥ इति ।
पाद्यार्घ्ययोर्देवपूर्वानुष्ठानं निमंत्रणादीनां सर्वेषां प्रदर्शनार्थं—
“ सदैवं भोजयेच्छ्राद्धं तत्पूर्वं च प्रवर्तयेत् । अन्यथा हवलुंपंति सहैवासुरराक्षसाः ॥
“ देवकार्यात् द्विजातीनां पितृकार्यं विशिष्यते । दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ॥
३० “ तेषामारक्षभूतं तु दैवं पूर्वं नियोजयेत् । उपचारानपि तथा देवान्पूर्वं प्रयोजयेत् ” ॥ इति
ऋतुस्मरणात् । पादप्रक्षालनं कर्ता स्वयमेव कुर्यात् “ पादप्रक्षालनं कुर्यात् स्वयमेव विनीत-
वत् ” इति यमस्मरणात् । शं नो देवीरिति मंत्रेण पुरूरवार्द्रवसंज्ञका विश्वेदेवा इदं वः पाद्यमिति
{{rule}}<noinclude></noinclude> k5pmce8tt8l0sf2775rrtarg0hfqyt1 पृष्ठम्:Smriti mukta phalam.pdf/८३३ 104 166836 419859 2026-11-11T02:56:40Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''विश्वेदेवाः ।'''|७९३}} {{rule}} सामान्यनाम्ना विशेषनाम्ना च निर्दिश्य वैश्वदेविकब्राह्मणपादयोः पाद्योदकं प्रक्षिप्य समस्त-
संपत्सम्प्राप्तिहेतव इत्यादिभिर... नवीन पृष्ठं निर्मीत अस्ती 419859 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''विश्वेदेवाः ।'''|७९३}} {{rule}} सामान्यनाम्ना विशेषनाम्ना च निर्दिश्य वैश्वदेविकब्राह्मणपादयोः पाद्योदकं प्रक्षिप्य समस्त-
संपत्सम्प्राप्तिहेतव इत्यादिभिर्मन्त्रैः पादप्रक्षालनं कुर्यात् । विश्वेदेवा इति सामान्यनामनिर्देशः ।
विशेषनामानि '''बृहस्पतिना दर्शितानि—'''
“ क्रतुर्दक्षो वसुः सत्यः कालः काम्यस्तथैव च । धुरिश्च रोचनश्चैव तथा चैव पुरूरवाः ॥
“ आर्द्रवश्च दर्शते तु विश्वेदेवाः प्रकीर्तिताः ” ॥ इति । विभज्य दर्शयति '''शंखः—''' ५
“ इष्टिश्राद्धे क्रतुर्दक्षः संकीर्त्यौ वैश्वदैविके । नांदीमुखे सत्यवसू काम्ये च धुरिरोचनौ ।
“ पुरूरवार्द्रवौ चैव पार्वणे समुदाहृतौ । नैमित्तिके कालकाम्यावेवं सर्वत्र कीर्तयेत् ” ॥ इति
इष्टिश्राद्धं यागादिधर्मांगश्राद्धमित्यर्थः। एवं पित्र्यब्राह्मणपादप्रक्षालनम्। शंनोदेवीरिति मंत्रांते ‘पित-
रमुकगोत्र देवदत्तशर्म इदं ते पाद्यं पितामहामुकगोत्र यज्ञदत्तशर्मन्निदं ते पाद्यं प्रपितामहामुक-
गोत्र विष्णुमित्रशर्मन्निदं ते पाद्यम् ’ इति एकब्राह्मणपक्षे तु पितृपितामहप्रपितामहा अमुक- १०
गोत्रा अमुकशर्माण इदं वः पाद्यमिति वा विशेषः । पाद्यादिसमर्पणे पितॄणां नामगोत्रं च वक्तव्यम् ।
तथा च '''मत्स्यः—'''“ नामगोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः ” इति । हव्यकव्यग्रहणं
पाद्यादीनामपि प्रदर्शनार्थम्
“ आवाहनेऽर्घ्ये संकल्पे पिंडदाने तिलोदके । अक्षतासनयोः पाद्ये गोत्रं नाम प्रकीर्तयेत् ” ॥ इति
स्मरणात् । '''स्मृत्यंतरे—''' १५
“ आवाहनासने पाद्ये ह्यन्नदाने तथैव च । अक्षय्ये पिंडदाने च गोत्रं नाम च कीर्तयेत् ” ॥ इति ।
'''हेमाद्रौ—'''
“ वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । वस्वादिनामभिः सार्धं ये कुर्वंति समाहिताः ॥
“ श्राद्धे पितॄन्सम्पूज्य ते यांति फलमक्षयम् ” ॥ इति ।
'''पैठीनसिः—'''“ बसवः पितरो रुद्राः पितामहा आदित्याः प्रपितामहाः य एवं विद्वान्पितॄन्यजते २०
वसवो रुद्रा आदित्याश्चास्य प्रीता भवंति ” इति । अवश्यं नामगोत्रमंत्राद्युच्चारणवद्वस्वाद्रिरूपेण
पित्रादयो ध्यातव्या इत्युक्तं भवति । निमंत्रणप्रभृत्या श्राद्धपरिसमाप्तेर्वैश्वदेविकं प्रदक्षिणं यज्ञोप-
वीतिना कार्यं पित्र्यमपसव्य प्राचीनावीतिना कार्यम्
“ यज्ञोपवीती देवानां कुर्यात्सर्वं प्रदक्षिणम् । अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥
“ दक्षिणाग्राश्च दर्भाः स्युः स च वै दक्षिणामुखः ” ॥ इति स्मरणात् । पितृमेधसार- २५
कृत्सर्वं देवार्थमुपचारमुपवीती प्राङ्मुखः प्रदक्षिणं प्रागग्रैर्दर्भैरुपवीतीपूर्व कृत्वा पितृभ्यः सर्वं
दक्षिणामुखः कुर्यात् । पित्रनंतरं दैववत्सर्वं विष्णोः कुर्यात् ” ॥ इति । '''स्मृत्यंतरे—'''
“ उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदद्यात्पावणे सर्वं देवपूर्वं विधानतः” ॥ इति ।
'''बोधायनः—'''“आचमने चाभिमुखे चाभिश्रवणे चानुव्रजनप्रदक्षिणेषु च पश्चाद्धोमेषु यज्ञोपवीत-
मन्यत्र प्राचीनावीतम् ” ॥ इति । पश्चाद्धोमः प्रायश्चित्तहोमः । अत्र कपर्दी— ३०
“ आधारदार्वाग्निमुखाज्यभागौ प्रदक्षिणा नुव्रजनेषु तद्वत् ।
“ आधारयोः स्विष्टकृति प्रसिद्धं यज्ञोपवीतं हि कपर्द्दिनः स्यात्” । पितृमेधसारेऽपि “आ
समाप्तेः प्राचीनावीतमन्यत्र प्राणायामाधारहोमाज्यभागाग्निमुखस्विष्टकृद्धोमप्रायश्चित्ताहुत्याभि-
श्रवणाचमनप्रदक्षिणनमस्कारानुव्रजनेभ्यः ” इति । भाष्यकारः “निरूह्मोद्धासनपरिध्याधानलेसोल्ले-
खनादिकं पित्र्येऽपि समानम् ” इति दैवसमानमित्यर्थः । ३५
{{rule}} १ क-नि ।<noinclude></noinclude> cpbvcjruk9ukuf0zeq0v3v2g9hh5ht7 पृष्ठम्:Smriti mukta phalam.pdf/८३४ 104 166837 419860 2026-11-11T02:57:36Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७९४|'''आचमनविधिः ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“ सूक्तस्तोत्रजपं त्यक्त्वा बिना च परिवेषणम् । विसर्जनं सौमनस्यं स्वागतं प्रार्थनां तथा ॥
“ विप्रप्रदक्षिणं चैव... नवीन पृष्ठं निर्मीत अस्ती 419860 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७९४|'''आचमनविधिः ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“ सूक्तस्तोत्रजपं त्यक्त्वा बिना च परिवेषणम् । विसर्जनं सौमनस्यं स्वागतं प्रार्थनां तथा ॥
“ विप्रप्रदक्षिणं चैव स्वस्तिवाचनकं विना । पिंडाग्राणं दक्षिणां च प्रत्युत्थानादिकं विना ॥
“ पित्र्यमन्यत्प्रकर्त्तव्यं प्राचीनावीतिना सदा ” ॥ इति । '''मनुः—'''
५ “ प्राचीनावीतिना सम्यगपसव्यमतंद्रिणा । पित्र्यमा निधनात्कार्यं विधिवद्दर्भपाणिना ” ॥ इति ।
आ निधनादाश्राद्धपरिसमाप्तेरित्यर्थः । विशेषांतरमाह '''कात्यायनः—'''
“ दक्षिणं पातयेज्जानु देवान्परिचरन्सदा । पातयेदितरं जानु पितॄन्परिचरन् सदा ” ॥ इति ।
'''बोधायनः—'''
“ प्रदक्षिणं तु देवानां पितॄणामप्रदक्षिणम् । देवानामुज्रवो दर्भाः पितॄणां द्विगुणाः स्मृताः ”॥ इति ।
१० द्विगुणाः मध्यभंगेन द्विगुणीकृता इत्यर्थः ॥ '''शौनकः—'''“ दर्भान् द्विगुणभुग्नानासनं प्रदाय ” इति ।
आसनग्रहणं दर्भसाध्यपितृकर्मोपलक्षणार्थम् ।
'''आचमनविधिः—'''
पादप्रक्षालनांतरं कर्त्ता मंडलस्योत्तरभागे ईशानदिग्भागे वा पूर्वमाचामेत् । ततो
निमंत्रित आचामेत्
१५ “ मंडलस्योत्तरे भागे विप्रस्याचमनं भवेत् । अमृतं स्याद्धि तत्तोयमन्यत्र रुधिरं भवेत् ॥
“ कुंडस्योत्तरपूर्वे वा द्विजस्याचमनं भवेत् । दक्षिणे तु सुरातुल्यं पश्चिमे रुधिरं भवेत् ॥
“ कर्तुराचमनात्पूर्वं भोक्तुराचमनं यदि । शुनो मूत्रसमं तोयमित्येवं मनुरब्रवीत् ॥
“कर्तुराचमनं पूर्वं कुंडस्योत्तरतो भवेत् । अपि चेशानदिग्भागे कार्यमाचमनं तदा”॥ इति स्मरणात्—
'''आचमनानन्तरं कर्तव्यम् । आचमनानन्तरं कर्त्तव्यमाह ऋतुः—'''
२० “ दर्भपाणिर्द्विराचम्य शुक्लवासा जितेंद्रियः । परिश्रिते शुचौ देशे गोमयेनोपलेपिते ॥
“दक्षिणाप्रवणे सम्यगावांतान्त्रयतांञ्छुचीन् । आसनेषु सदभेषु विविक्तेषूपवेशयेत् ” ॥ इति ।
'''याज्ञवल्क्यः—'''
“ अपराण्हे समभ्यर्च्य स्वागतैनागतांस्तु तान् । पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥
“द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा ” इति । दैवे वैश्वदेवे द्वौ प्राङ्मुखौ ब्राह्मणावुपवेश्यौ ।
२५ पित्र्ये पित्र्यादिस्थाने त्रय उदङ्मुखा उपवेश्याः । वैश्वदेवे पित्र्ये च एकैकं वा उपवेशयेदित्यर्थः ।
'''चंद्रिकायाम्—'''
“विप्रौ तु प्राङ्मुखे दैवे द्वौ तु पूर्वे निवेशयेत् । उत्तराभिमुखाग्विप्रान् त्रीन् पितॄभ्यश्च सर्वदा”॥ इति ।
'''विज्ञानेश्वरः—''' ‘पित्रादीनां त्रयाणामयुग्मान्कुशा न्द्विगुणभुग्नान प्रदक्षिणं वामतो विष्टरार्थमास-
नेषूदकपूर्व दत्वा पुनरुदकं दद्यात् । अपः प्रदाय द्विगुणभुग्नान् कुशान्दत्वा ‘ अपः प्रदाय ’
३० इत्याश्वलायनस्मरणात् । “एतच्चाक्षंतयोरुदकदानं वैश्वदेवे पित्र्ये च प्रतिपादनार्थं द्रष्टव्यम्” इति ।
'''पितृमेधसारेऽपि—'''“ प्राङ्मुखान्युदगपवर्गौ वैश्वदेवे पित्र्ये तु उदङ्मुखान्प्रागपवर्गान्प्राङ्मुखान्वा
दक्षिणापवर्गान्विप्रांन्वा सदभ्र्भोपक्लृप्तेष्वासनेषूदकदानपूर्वं द्विगुणदर्भान्त्वामतो विष्टरार्थं दत्वा
निवेश्यापः प्रदाय ” ॥ इति ।
{{rule}} १ क्ष--भवति ।<noinclude></noinclude> sn82hal665kldewgw2r4a0gl7411vbe पृष्ठम्:Smriti mukta phalam.pdf/८३५ 104 166838 419861 2026-11-11T02:59:16Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''उपवेशनम् तत्र क्रमः प्रकाराश्च ।'''|७९५}} {{rule}} '''बोधायनोऽपि—'''
“ अयुग्मान्ब्राह्मणान्मुप्रक्षालितपाणिपादानप आचमय्य सदभ्र्भोपक्लृप्तेष्वासनेषु प्राङ्मुख... नवीन पृष्ठं निर्मीत अस्ती 419861 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''उपवेशनम् तत्र क्रमः प्रकाराश्च ।'''|७९५}} {{rule}} '''बोधायनोऽपि—'''
“ अयुग्मान्ब्राह्मणान्मुप्रक्षालितपाणिपादानप आचमय्य सदभ्र्भोपक्लृप्तेष्वासनेषु प्राङ्मुखानुपवेशय-
त्युदङ्मुखान्वा यदि प्राङ्मुखान् दक्षिणापवर्गान्युदङ्मुखान्प्रागपवर्गम् ” इति । स एव—
“प्रदक्षिणं तु देवानाम्” इति । देवानां ब्राह्मणाः प्रदक्षिणं दक्षिणादिगुपक्रममुदपवर्गं यथा भवति
तथा आसीरन्नित्यर्थः । यमः—“दक्षिणासंस्था आसीरन्नस्पृशंतः परस्परम्” इति । “दक्षिणा- ५
संस्थता ह्येषां पितॄणां श्राद्धकर्मणि” इति । निष्ठा समाप्तिः । असंस्पृशंत इति अनुच्छिष्टदशायामपि
परस्परस्पर्शो यथा न भवति तथा आसीरन्नित्यर्थः ॥ तथा च गार्ग्यः—
“ स्पर्शे स्पर्शे भवेत्पापमेकपक्तिनियोगातः । हीनवृत्तादिपंक्तौ तु युक्तं तस्माद्विवेचनम् ” ॥ इति ।
'''चंद्रिकायाम्—'''
“ आसनेष्वासनं दद्यान्न तु हस्ते कदाचन । दीयते यदि मूढात्मा निराशाः पितरो गताः”॥ इति । १०
'''प्रचेताः—'''“ दर्भाश्चैवासने दद्यान्न तु पाणौ कदाचन ” इति ।
'''पुराणेऽपि—'''
“ आसने चासनं दद्याद्वामे वा दक्षिणेऽपि वा । पितृकर्माणि वामे वै दक्षिणे देवकर्मणि ” ॥
'''उपवेशनक्रमः ।''' उपवेशनक्रममाह '''विष्णुः—'''“ विप्रान् स्वागतान्स्वाचान्तान्यथाभूयो-
विर्धकुशोत्तेरेष्वासनेषूपवेशयेत् ” इति । यथाभूयोविद्यं विद्यातारतम्यानुसारेण वैश्वदेविक- १५
ब्राह्मणपंक्तौ पैतृकब्राह्मणपंक्तौ च प्रथमद्वितीयादिक्रमेणोपवेशयेदित्यर्थः ।
'''पैठीनसिरपि—'''“विद्यातपोऽधिकानां वै प्रथममासनमुच्यते ।
“एकपङ्क्त्युपविष्टानां भोजनादि समं स्मृतम् । अयुक्तोऽग्रासनं गच्छन् पंक्त्या हरति दुष्कृतम्”॥इति।
नियुक्त एव गच्छेदित्यर्थः । '''हारीतोऽपि—'''
“ संतिष्ठमानेष्वर्हेषु योऽनह्रोऽग्रासनं श्रयेत् । गृह्णाति स मलं पंक्तेरायुषा च वियुज्यते ” ॥ इति । २०
तस्मान्मान्यानतिक्रमेणैवाग्रासनं समश्रयेदित्यभिप्रायः । '''चन्द्रिकायाम्—'''
“ पाणिपादमृत्साद्रैश्च स्वाचान्ताः सुसमाहिताः । तेष्वासनेषु संस्थाप्य विप्रास्ते क्रमेण तु ”॥ इति।
येन क्रमेणोपवेशने कृते मान्यानतिक्रमः तेन क्रमेणेत्यर्थः ।
पूर्वमासनोपकॢप्त्यभावे स्मृत्यंतरेऽभिहितम्—
“ तत्रासनानि देयानि तिलांश्चापि कुशैः सह । पृथक्पृथक्वचासनेषु तिलतैलेन दीपिका ” ॥ इति । २५
स्थापनीया इति शेषः
'''उपवेशनप्रकारः ।''' उपवेशनप्रकारमाह '''यमः—'''“आसनं संस्पृशन्सव्येन पाणिना दक्षिणेन ब्राह्मण-
मुपसंगृह्य समाध्वमिति चोक्त्वोपवेशयेत् ” । इति । आस्यतामित्युक्त्वा वोपवेशयेत् । “आस्यता-
मिति तान्ब्रूयात् आसनं संस्पृशन्नपि” इति स्मृत्यंतरे विधानात् । '''यमः—'''
“ जान्वाल्भ्य ततो देवानुपवेश्य ततः पितॄन् । समस्तानन्विर्याह्वैतिभिरासनेषूपवेशयेत् ” ॥ इति ॥ ३०
'''उपविष्टनियमाः ।''' उपविष्टब्राह्मणनियमाश्च स्मृत्यंतरे दर्शिताः—
“ पवित्रपाण्यः सर्वे ते च मौनव्रतान्विताः । उच्छिष्टोच्छिष्टसंस्पर्शं वर्जयंतः परस्परम्” ॥ इति ।
मौनित्वं च बह्मघोषकथाव्यतिरिक्तविषम् ।
{{rule}} १ क-यथाविद्यं ।<noinclude></noinclude> 24073m83g0wxwhtvntp3zd58zslrmnc पृष्ठम्:Smriti mukta phalam.pdf/८३६ 104 166839 419862 2026-11-11T03:01:02Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७९६|'''आसनात्पूर्वकृत्यं, तदनंतरं च ।'''|}} {{rule}} अत एव '''यमः—'''“ ब्रह्मोद्याश्च कथाः कुर्युः पितॄणामेतदीप्सितम् ” ॥ इति
'''दर्भासनदानात्पूर्वकृत्यम् ।''' कंबलाद्यास... नवीन पृष्ठं निर्मीत अस्ती 419862 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७९६|'''आसनात्पूर्वकृत्यं, तदनंतरं च ।'''|}} {{rule}} अत एव '''यमः—'''“ ब्रह्मोद्याश्च कथाः कुर्युः पितॄणामेतदीप्सितम् ” ॥ इति
'''दर्भासनदानात्पूर्वकृत्यम् ।''' कंबलाद्यासनेषूपवेशनानन्तरं दर्भासनदानात्पूर्वकृत्यमुक्तं '''स्मृत्यंतरे—'''
“श्राद्धभूमिं गयां ध्यात्वा ध्यात्वा देवंगदाधरम्। ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्त्तयेत्”॥ इति ।
श्राद्धं करिष्ये इत्येवमुपविष्टान्ब्राह्मणान्पृच्छेदित्यर्थः । अत एवोक्तं '''तत्रैव —'''
५ “उभौ हस्तौ समौ कृत्वा जानुभ्यामंतरे स्थितौ। सप्रश्रयश्चोपविष्टान्सर्वान्पृच्छेत् द्विजोत्तमान्”॥ इति ।
कुरुष्वेति तैरनुज्ञातो देवताभ्यः पितृभ्यश्चेति मंत्रं त्रिः पठेत् । तदुक्तं '''ब्रह्मांडपुराणे—'''
“ श्राद्धं करिष्य इत्येवं पृच्छेद्दिप्रान्समाहितः । कुरुष्वेति स तैरुक्तो मंत्रमेतं त्रिरुच्चरेत् ॥
“ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ॥
“ आद्येऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा ।
१० “ पठ्यमानमिमं श्रुत्वा श्राद्धकाल उपस्थिते । पितरः क्षिप्रमायांति राक्षसाः प्रद्रवंति च” ॥ इति ।
अत्र कर्त्तव्यांतरमाह '''निगमः—'''‘अपहता’ इति ‘तिलान्विकिरेत्’ इति । ‘अपहता असुरा रक्षांसि
पिशाचा ये क्षयंति’ इति मंत्रेण तिलान्विकीर्य ब्राह्मणसनेषु पूर्वोक्तप्रकारेण दर्भासनं दद्यात् ।
“ कुरुष्वेति स तैरुक्तो दद्यादर्भासनं ततः ” इति स्मरणात् । दर्भासनं च ब्राह्मणहस्ते अप
आसिच्य कार्यम्
१५ “ पाणिप्रक्षालनं दत्वा विष्टरार्थान्कुशानपि । आवाहयेदनुज्ञातो ‘विश्वे देवास’ इत्यृचा ”॥ इति
'''याज्ञवल्क्यस्मृतेः ।''' देवकर्मणि यवसहितं दर्भासनं दद्यात् ‘देवानां सयवा दर्भाः ’
इति काटकगृहोऽभिधानात् । कंबलाद्यासनस्य दक्षिणभागे पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवाना-
मिदमासनमिति वामे तु पितृपितामहप्रपितामहानामिदमासनमिति दर्भासनं दद्यात् ।
तथा '''चंद्रिकायाम्—'''
२० “अक्षय्यासनयोः षष्ठी द्वितीयावाहने स्मृता । अन्नदाने चतुर्थी स्याच्छ्रेषां संबुद्धयः स्मृताः”॥ इति ।
'''आसनदानान्तरकृत्यम् ।''' अनंतरकृत्यमाह '''यमः—'''
“ यवहस्तस्ततो देवान् विज्ञाप्यावाहनं प्रति । आवाहयेदनुज्ञातो विश्वेदेवा स इत्यृचा ” ॥
“विश्वेदेवासः शृणुतेति मंत्रं जपित्वा ततोऽक्षतान्॥ ओषधय इति मंत्रेण विकिरेत्तु प्रदक्षिणम्”॥ इति ।
अस्यार्थः चंद्रिकायामुक्तः—“श्राद्धकर्त्ता गृहीतयवः पुरूरवार्द्रवसंज्ञकान् विश्वान् देवानावाहयामीति
२५ विज्ञाप्य तैरावाहयेत्यनुज्ञातो विश्वे देवास आगतेत्यनया ऋचा विश्वान् देवान् ब्राह्मणेष्वावाह्य
यवान्ब्राह्मणस्य दक्षिणपादे सव्यपादे च दक्षिणजानुनि सव्यजानुनि च दक्षिणांसे वामांसे च
शिरसि च समारोप्य विश्वेदेवाः शृणुतेमं हवं म इति मंत्रं जपित्वा प्रदक्षिण दक्षिणपादादि
मस्तकांतमोषधयः प्रतिमोदध्वमिति मंत्रेणाक्षतानारोपयेत् ” ॥ इति । तथा च '''हेमाद्रौ—'''
“ देवार्चा दक्षिणादिः स्यात्पादजान्वंसमूर्धसु । शिरोंसजानुपादेषु वामांगादिषु पैतृके ” ॥ इति ।
३० '''स्मृत्यंतरेऽपि—'''
“ देवेभ्यो निस्तिलं दद्यात्पादजान्वंसमूर्धसु । शिरोंसजानुपादेषु वामांगादिषु पैतृके ॥
“ पितृभ्यो निस्तिलं दद्यात्स्वधाकारेण सर्वदा । अक्षय्यमासनं चैव वर्जयित्वाऽऽर्घ्यमेव च” ॥ इति ।
{{rule}}<noinclude></noinclude> rnaa2b9533bnjx1cug6k7trplb387t3 पृष्ठम्:Smriti mukta phalam.pdf/८३७ 104 166840 419863 2026-11-11T03:02:00Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''विश्वेदेवाऽवाहनमंत्राः पितॄनावाहनमंत्राश्च ।'''|७९७}} {{rule}} '''कात्यायनस्तु—'''“ विश्वान् देवानावाहयिष्यामीति पृच्छत्यावाहयेत्यनुजानाति ” ॥ इति । अत्र
क्रत... नवीन पृष्ठं निर्मीत अस्ती 419863 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''विश्वेदेवाऽवाहनमंत्राः पितॄनावाहनमंत्राश्च ।'''|७९७}} {{rule}} '''कात्यायनस्तु—'''“ विश्वान् देवानावाहयिष्यामीति पृच्छत्यावाहयेत्यनुजानाति ” ॥ इति । अत्र
क्रतुदक्षसत्यादीनां च दक्षप्रजापतेर्दुहितरि विश्वाख्यायां लोकविश्रुतायामुत्पत्तिः समभूदिति
उत्पत्तिमपि ज्ञात्वाऽवाहनं कर्तव्यम् । उत्पत्तिश्च तेषां पुराणेऽभिहिता—
“दक्षस्य दुहिता साध्वी विश्वा नाम परिश्रुता । तस्याः पुत्रा महाभागाः विश्वेदेवाः प्रकीर्तिताः”॥ इति
उक्तोत्पत्तिरावाहनसमये ज्ञातव्या । अत एव क्रतुदक्षादिसंज्ञां दक्षदुहितुर्युत्पत्तिचयेन विदुरावाहा- ५
नकर्त्तारः । तेषामनुकल्पमाह '''शंखः—'''
“ नाम चैव तथोत्पत्तिं न विदुर्यै द्विजातयः । श्लोकमेतं पठेयुस्ते ब्राह्मणानां समीपगाः ॥
“ आगच्छंतु महाभागा विश्वेदेवा महाबलाः । ये अत्र विहिताः श्राद्धे सावधाना भवंतु ते ” ॥ इति ।
‘ विश्वेदेवाः शृणुतेमं हवं मे ’ इति मंत्रजपानंतरमेतं श्लोकं जपेयुरित्यर्थः । तथा च '''बोधायनेन'''
‘ विश्वेदेवाः शृणुत आगच्छंतु ’ इति मंत्रद्वयं विश्वेदेवावाहने विहितम् । आपस्तंबिनामपि १०
बोधायनोक्तमेव ग्राह्यम् । “ बोधायनमतं कृत्वा स्वसूत्रफलभाग्भवेत् ” इति स्मरणात् ।
यत्त्विदं वचनम्
“ ततो मंत्रं जपेन्मौनी विश्वेदेवास आगत । विश्वेदेवाः शृणुतेति द्वितीयं तदनंतरम् ॥
“ तृतीयं तु जपेन्मंत्रं आगच्छंत्वित्यतः परम् ”॥ इति तदाश्वलायनादिविषयम् । यद्यपि न क्वापि
दश विश्वेदेवा देवतात्वेनोक्ताः किंतु द्वौ द्वावेकस्मिञ्श्राद्धे देवतात्वेनोक्तौ तथाप्यावाहनादौ १५
पुरूरवार्द्रवसंज्ञकान्विश्वेदेवानावाहयामीत्येवं बहुवचनांततयैव प्रयोगः कार्यः । “विश्वान्देवा-
नावाहयिष्यामीति पृच्छति । निरंगुष्ठं गृहीत्वा तु विश्वान्देवान्समाह्वयेत् ” इति बहुवचनांततयैव
प्रयोगदर्शनात् । एवं पित्रादिषु पितरः पितामहाः प्रपितामहा इति सर्वोपचारेषु बहुवचनांतप्रयोगो
युज्यते । चंद्रिकायाम्—वैश्वदेविकब्राह्मणानैकत्वेऽपि न प्रतिब्राह्मणमावाहनावृत्तिः । सकृदावाहनेनै-
वानेकाधिष्ठानदेवताध्याससंभवात् । यद्यद्देवतारोधनार्थं यवारोपणादि तत्तत्प्रतिब्राह्मणमावर्त्तनीयं २०
संनिपत्योपकारकेष्वावृत्तिं बिना ब्राह्मणांतरे कार्यासिद्धेः । ‘विश्वेदेवाः शृणुते’ति मंत्रजपस्तु नाव-
र्त्तते सकृज्जपेनैव जपसाध्यादृष्टसिद्धेरिति ।
पैतृकावाहनमाहा'''श्वलायनः—'''“पितॄनावाहयिष्येति ब्राह्मणानपृष्ट्वावाहयेति तैरनुज्ञात उशंतस्त्वेति
मंत्रेणावाह्य नमो वः पितर इति मंत्रेणोपतिष्ठते ” इति
'''प्रचेताश्च—'''“ शिरःप्रभृति पादांतं नमो व इति पैतृकम्” इति । '''याज्ञवल्क्यः—''' २५
“द्विगुणांस्तु कुशान् दत्वा ह्युशंतस्त्वेत्यृचा पितॄन् । आवाह्य तदनुज्ञातो जपेदायंतु नस्ततः”॥इति ।
'''पुराणे—'''
“ जपेदायंतु न इति मंत्रं सम्यगशेषतः । शुद्धयर्थं पितृसद्मस्य त्रिः कृत्वा सर्वतो दिशम् ” ॥
“ तिलांस्तु प्रक्षिपेन्मंत्रमुच्चार्यापहता इति ” । बोधायनादिभिरायात पितर इति पित्रावाहनं ऊर्जं
वहंतीरिति तिलोदकप्रक्षेपणं च विहितम् । ३०
'''अर्घ्यपरिकल्पनम् । अनंतरकृत्यमाह याज्ञवल्क्यः—'''
“यवैरन्ववकीर्याथ भाजने सपवित्रके । शन्नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा” ॥ इति ।
'''मत्स्यपुराणे—'''
“ विश्वान् देवान्यवैः पुष्पैर्मभ्यर्च्यप्सिनपूर्वकम् । पूरयेत्पात्रयुग्मं तु स्थाप्यं दर्भपवित्रके ” ॥ इति ।
{{rule}} १ क्ष-ज्ञानां । २ करख-सपर्यारेम्वकीर्यां ;
१०१-३२<noinclude></noinclude> dojb2274oq4zpo19tnjpuankjzw2gad पृष्ठम्:Smriti mukta phalam.pdf/८३८ 104 166841 419864 2026-11-11T03:03:25Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|७९८|'''अर्घ्यपरिकल्पनम् । पवित्रकरणं ।'''|}} {{rule}} '''प्रचेताः—'''
“ एकैकस्य तु विप्रस्य अर्घ्यपात्रं विनिक्षिपेत् । यवोऽसीति यवाञ्छीत्वा गंधपुष्पैः सुपूजितम् ” ॥... नवीन पृष्ठं निर्मीत अस्ती 419864 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|७९८|'''अर्घ्यपरिकल्पनम् । पवित्रकरणं ।'''|}} {{rule}} '''प्रचेताः—'''
“ एकैकस्य तु विप्रस्य अर्घ्यपात्रं विनिक्षिपेत् । यवोऽसीति यवाञ्छीत्वा गंधपुष्पैः सुपूजितम् ” ॥ इति ।
अर्घ्यपात्रं प्रतिपात्रं भेदेन कार्यम् । तदुक्तं चतुर्विंशतिमते—
“ द्वे द्वे शलाके देवानां पात्रे कृत्वा पयः क्षिपेत् ” इति । प्रतिदेवं पात्रं साग्रौ द्वौ द्वौ दर्भौ विधाय
५ जलं निक्षिपेदित्यर्थः । कात्यायनीये तु—“विश्वेषां देवानामेकमर्घ्यपात्रं पितॄणां त्रीणि” इति ।
पवित्रकरणप्रकारमाह '''योगयाज्ञवल्क्यः—'''
“ पवित्रे स्थ इति मंत्रेण द्वे पवित्रे च कारयेत् । अंतर्दर्भे कुशच्छिन्ने कौशे प्रादेशसंमिते”॥ इति ।
कुशच्छिन्ने कुशमंतर्धाय छिन्ने । कौशे कुशमय इत्यर्थः । तथा च '''यज्ञपार्श्वः—'''
“ ओषधीमंतरे कृत्वा अंगुष्ठांगुलिपर्वणोः । छिंद्यात्प्रादेशमात्रं तु पवित्रं विष्णुदैवतम् ॥
१० “ न नखेन न काष्ठेन न लोहेन न मृन्मयात् । नखेन तु भवेद्व्याधिः काष्ठेनार्थो न सिध्यति ॥
“ आयसेन भवेन्मृत्युर्मृन्मये कलहो ध्रुवम् ” ॥ इति । अनंतरं ‘ स्वाहार्घ्या ’ इति मंत्रेण देवतार्थ-
ब्राह्मणसमीपे अर्घ्यपात्रं स्थापयेत् । तथा च '''गार्ग्यः—'''“ स्वाहेति चैव देवानां होमकर्मण्यु-
दाहरेत् ” ॥ इति चंद्रिकामाधवीययोरिदं व्याख्यातम्—“ देवानां होमकर्मणि अर्घ्यदानकर्म-
ण्युपस्थिते अर्घ्यपात्रं स्थापयितुं स्वाहार्घ्या इति मंत्रमुच्चारयेदिति प्रकरणादवगम्यते ” इति ।
१५ पैतृककार्यविधिमाह '''विष्णुः—'''“ दक्षिणापवर्गेषु चमसेषु पवित्रांतरहितेषु अप आसिंचति शन्नोदेवी-
रिति ” । '''प्रचेता अपि—'''“ यशीयवृक्षचमसेषु पवित्रान्तर्हितेषु एकैकस्मिन्नप आसिंचेत् ” इति ।
'''शौनकोऽपि—'''“ तैजसाश्ममयमुन्मयेषु पात्रेषु एकद्रव्येषु अनेकद्रव्येषु वा दर्भान्तर्हितेषु शंनो-
देवीरितिमंत्रेणापो निनीय तासु तिलानावपति ‘ तिलोसि सोमदेवत्य ’ इति । अत्र पात्रेष्विति
बहुवचनं त्रिष्वेवावतिष्ठते ‘ त्रीण्येवोदकपात्राणि ’ इति प्रचेताः स्मरणात् । तथा च '''वैजावापः—'''
२० “ कीर्त्वा पितॄणां त्रीण्येव कुर्यात्पात्राणि धर्मवित् । एकस्मिन्वा बहुषु वा ब्राह्मणेषु यथाविधि ” ॥ इति ।
पित्रादीनां त्रयाणामेकैकस्यानेकब्राह्मणनिमंत्रणे सर्वेषामेकब्राह्मणनिमंत्रणेऽपि त्रीण्येवार्घ्यपात्राणि
तिलान् कीर्त्वा प्रक्षिप्य कुर्यान्न तु ब्राह्मणसंख्ययेत्यर्थः ।
“ मृत्पात्रेणार्घ्यतोयं च मृद्गन्धेनानुलेपनम् । घृतधूपं तु यद्दत्तं निराशाः पितरो गताः ” ॥ इति ।
स्मृत्यंतरम् । '''स्मृत्यर्थसारे—'''
२५ “ द्रव्याभावे द्विजाभावे यद्येको ब्राह्मणो भवेत् । पात्राणि सादयेत्त्रीणि न तु ब्राह्मणसंख्यया”॥ इति ।
अत्र विशेषमाह '''बोधायनः—'''“त्रीणि पितॄणामेकमथवा ” इति । अर्घ्यपात्राणि विहृतानि न
कुर्यात् । न पुनः पूरयेत् । तानि नोद्धरेत् । दर्भ्या आदाय अर्घ्यं दद्यात् । तथा च '''शौनकः—'''
“ यदा चैवोद्धृतं पात्रं निवृत्तं वा यदा भवेत् । अभोज्यं तद्भवेच्छ्राद्धं क्रुद्धैः पितृगणैर्गतैः ॥
“ नोद्धरेत्प्रथमं पात्रं पितॄणामर्घ्यपूरितम् । आवृतास्तत्र गच्छंति पितरः शौनकोऽब्रवीत् ॥
३० “ आपोशनं करे कृत्वा पात्रे कृत्वा तिलोदकम् । पूर्णं तु पुनः कृत्वा सुरापानसमं भवेत् ” ॥ इति ।
'''पितृमेधसारे—'''“कृत्स्नस्कंदने प्रणीतावन्यमंत्रवत्पुनर्घ्यं गृह्णीयात् ” इति । एकदेशस्कंदने न दोष
इत्यर्थः । पैतृकार्घ्यपवित्रे विशेषोऽभिहितश्चतुर्विंशतिमते—“तिस्रस्तिस्रः शलाकास्तु पितृपात्रेषु
{{rule}} १ क्ष-कीत्वा । २ ग-आ ।<noinclude></noinclude> 4a5gu1dml4i5ssoto1hdqi0re33lsj4 पृष्ठम्:Smriti mukta phalam.pdf/८३९ 104 166842 419865 2026-11-11T03:05:44Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पैतृकार्घ्यदानम् ।'''|७९९}} {{rule}} पार्वणे ” ॥ इति । शलाकाः अभिन्नाग्रा दर्भा इति यावत् । अर्घ्यपात्रेषु तिलप्रक्षेपणा नंतरं कर्त्तव्यमुक्तं
'''ब्रह्मपुराणे—'''... नवीन पृष्ठं निर्मीत अस्ती 419865 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पैतृकार्घ्यदानम् ।'''|७९९}} {{rule}} पार्वणे ” ॥ इति । शलाकाः अभिन्नाग्रा दर्भा इति यावत् । अर्घ्यपात्रेषु तिलप्रक्षेपणा नंतरं कर्त्तव्यमुक्तं
'''ब्रह्मपुराणे—'''“अर्घ्याः पुष्पैश्च गंधैश्च ताः प्रपूज्याश्च शास्त्रवत” इति । तिलमिश्रा या अर्घ्या आप-
स्तासु गंधपुष्पाणि प्रक्षिपेदित्यर्थः । अनंतरं कर्तव्यमाह '''शौनकः—'''“ताः प्रतिग्राहयिष्यन्स्वधाऽर्घ्या” इति ।
ता आपो ब्राह्मणैः प्रतिग्राहयिष्यन्स्वधाऽर्घ्यमंत्रेण स्थापयेदित्यर्थः । '''कात्यायनः—'''
“ पैतृकं प्रथमं पात्रं ततः पैतामहं न्यसेत् । प्रपैतामहं ततोऽन्यस्य नोद्धरेन्न च चालयेत् ”॥ इति । ५
'''अर्घ्यदानम् ।''' अर्घ्यपात्रं स्थापयित्वा विप्रहस्तेऽर्घ्यं दद्यात् । तदाह '''गार्ग्यः—'''“ दत्वा हस्ते
पवित्रं तु हस्तेष्वर्घ्यं विनिक्षिपेत् ” इति । '''याज्ञवल्क्योऽपि—'''
“‘या दिव्या’ इति मंत्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् ” इति । ‘या दिव्या आपः पयसा संभवुवः’ इति मंत्रांते
‘पुरूरवार्द्रवसंज्ञका विश्वेदेवा इदं वोऽर्घ्यम्’ इत्युक्त्वा वैश्वदेविकब्राह्मणस्यैकैकस्य दक्षिणे हस्ते
पवित्रेणान्तर्हिते एकैकपात्रस्थमुदकं दद्यादित्यर्थः । पैतृकार्घ्यदानमाह '''कात्यायनः—'''“ सपवित्रेषु १०
हस्तेषु ‘या दिव्या’ इति पितरैतत्तेऽर्घ्यं पितामहैतत् ते अर्घ्यं प्रपितामहैतत् ते अर्घ्यमिति ब्राह्मणांजलिषु
पात्राणि निनीय पितृभ्योऽक्षय्यमस्त्विति शेषं दर्भेष्ववनेजयति” इति । पात्राणि पात्रस्थोदकानीत्यर्थः ।
'''पैठीनसिः—'''“ततो ब्राह्मणहस्तेषूदकपूर्वं दर्भान्प्रदायाेदकपूर्वमर्घ्योदकं ददाति” ॥ इति । या
दिव्या इत्युक्त्वाऽसावेतत्ते अर्घ्योदकमिति अपस्पृश्यैवमेवेतरयोरिति । अत्र विशेषमाह '''यमः—'''
“या दिव्या आप इति पात्रं पाणिभ्यामुद्धृत्य नामगोत्रं च गृहीत्वा सपवित्रमर्घ्यं हस्ते दद्यात्”॥ इति । १५
पात्रं पात्रस्थं जलमिति यावत्
“ स्पृष्टमुद्धृतमन्यत्र नीतमुद्घाटितं तथा । पात्रं दृष्ट्वा व्रजंत्याशु पितरः शपंति च ” ॥ इति
कात्यायनस्मरणात् । '''प्रचेता अपि—'''
“ अप्रदक्षिणमेतेषामेकैकं तु पितृक्रमात् । संबोध्य नाम गोत्राभ्यामेष तेऽर्घ्य इतारयेत् ” ॥ इति ।
ब्राह्मणहस्ते प्रथममपो निनीयार्घ्यं पवित्रं दक्षिणाग्रतया क्षिप्त्वा या दिव्या इति मंत्रांते २०
अमुकगोत्र अमुक शर्मन्वसूरूप अस्मत्पितुः इदं ते अर्घ्यं रुद्ररूपास्मत्पितामह आदित्यरूपा-
स्मत्प्रपितामह इदं ते अर्घ्यमिति दक्षिणहस्ते पितृतीर्थेनार्घ्यं दत्वा अप उपस्पृशेदित्यर्थः ।
'''श्लोकगौतमः—''' “ पूर्ववत्पृथगैकैकमैकैकेनार्चयेत्क्रमात् ” इति ।
अनंतरं कर्तव्यमाह '''याज्ञवल्क्यः—'''
“दत्वार्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृभ्यःस्थानमसीति न्युब्जं पात्रं करोत्यधः”॥ इति । २५
एवमर्घ्यं दत्वा तेषामर्घ्याणां संस्रवान्ब्राह्मणहस्तगलितार्घ्योदकानि पितृपात्रे संगृह्य पितृभ्यः
स्थानमसीत्यनेन मंत्रेण तत्पात्रं न्युब्जमधोमुखं कुर्यादित्यर्थः । तथा च '''प्रचेताः—'''
“ प्रथमे पितृपात्रे तु सर्वान्संभृत्य संस्रवान् । पितृभ्यः स्थानमसीति कुर्याद्भुमावधोमुखम्” ॥ इति ।
'''गोभिलस्तु—''' “ न्युब्जं कुर्यात्पवित्रवत् ” इति अर्घ्यपवित्राण्यादाय पितृपात्रे विधाय तैः
सह भूमौ न्युब्जं कुर्यादित्यर्थः । '''कात्यायनः—'''“ कुशवत्यां भूमावधोमुखं कुर्यात्तस्योपरि च ३०
कुशम् ” इति । निदध्यादिति शेषः । कुशग्रहणं गंधादेरपि प्रदर्शनार्थम् । न्युब्जं पात्रं प्रकृत्य
‘गंधमाल्यैः पात्रमभ्यर्च्य’ इति शौनकस्मृतेः । न्युब्जीकरणस्य कालांतरमाहा'''त्रिः—'''
“अपसव्यं ततः कृत्वा पिंडपार्श्वे समाहितः । क्षिप्त्वा दर्भपवित्राणि मोचयेत्संस्रवांस्ततः ”॥ इति ।
{{rule}} १ ग-थ । २ क्ष-स्युहस्ता । ३ क्ष-रितृवत् ।<noinclude></noinclude> p53qn42pw89bxig9xz3wailfwazy0ba पृष्ठम्:Smriti mukta phalam.pdf/८४० 104 166843 419866 2026-11-11T03:06:39Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८००|'''विश्वदेवपूर्वका कुशांगंधपुष्पधूपदीपाच्छादनहिरण्ययुक्ता पितृपूजा ।'''|}} {{rule}} एवं च पिंडपार्श्वे सपवित्रसंस्रावमोचनविधानान्न्युब्जकरणमपि पिंडप्रदाना... नवीन पृष्ठं निर्मीत अस्ती 419866 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८००|'''विश्वदेवपूर्वका कुशांगंधपुष्पधूपदीपाच्छादनहिरण्ययुक्ता पितृपूजा ।'''|}} {{rule}} एवं च पिंडपार्श्वे सपवित्रसंस्रावमोचनविधानान्न्युब्जकरणमपि पिंडप्रदानानंतरमिति गम्यते ।
शिष्टाचारानुगुणो विकल्पोऽत्र द्रष्टव्यः ।
'''गन्धादिदानम् ।''' न्युब्जीकरणानंतरं कर्त्तव्यमाह '''वैजावापः—'''
“ तस्योपरि कुशान्दत्वा प्रदद्याद्देवपूर्वकम् । गंधपुष्पाणि धूपं च दीपं वस्त्रोपवीतके ” ॥ इति ।
५ तस्य न्युब्जीकृतस्योपरि कुशांगंधपुष्पाणि दत्वा वैश्वदेविकब्राह्मणपूर्वकं गंधादि दद्यादित्यर्थः ।
अनेनैतदुक्तं भवति—वैश्वदेविकासनादानानंतरं पैतृकासनदानं वैश्वदेविकावाहनाननंतरं पैतृका-
वाहनमित्येवं पदार्थानुसमयेनैवासनावाहनाद्यर्घ्यपुष्पधूपदीपाच्छादनादयः पदार्था वैश्वदेविकाः
पैतृका अनुष्ठेयाः । न तु वैश्वदेविकासनायाच्छादनांतपदार्थकांक्षानन्तरं पैतृकासनादि-
पदार्थाः इति पदार्थानुसमयेनानुष्ठानं कार्यम् । एवं हि तेषां प्रधानप्रत्यासत्तिर्भवति । न वैषम्यं
१० च । अन्यथा केषांचित्प्रधानभूतपैतृकपदार्थप्रत्यासत्तिः केषांचिन्नेति वैषम्यमापद्येत । अत्र
'''केचिदाहुः—'''“ अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ” इति याज्ञवल्क्येन वैश्वदेविक-
पदार्थकांडादूर्ध्वं पैतृकार्चनविधानात्कांडादुसमयो युक्त इति । यथाशिष्टाचारमिह व्यवस्था ।
विष्णुनापि गंधादिदानमुक्तम् । “ अनुलेपनवस्त्राभरणपुष्पधूपदीपादि पित्र्यब्राह्मणहस्ते अपो
निनीय ” ॥ इति । विलेपनं विप्राः स्वयं कुर्युः श्राद्धकर्त्ता वा । तत्र '''व्यासः—'''
१५ “ दत्वा विप्रकरे गंधान्नगंधद्वारेति पूजयेत् ” इति । '''शातातपः—'''
“ पवित्रं तु करे कृत्वा यः समालभते द्विजान् । राक्षसानां भवेच्छ्राद्धं निराशाः पितरो गताः”॥ इति ।
समालंभनं गंधैर्विलेपनम् । '''देवलः—'''
“ यज्ञोपवीतं विप्राणां स्कंधान्नैवावतारयेत् । गंधादिपूजासिद्ध्यर्थं दैवे पित्र्ये च कर्मणि ” ॥ इति ।
'''शंखः—'''
२० “ उपवीतं कटौ कृत्वा यः कुर्याद्गात्रलेपनम् । एकवासाश्च योऽश्नीयान्निराशाः पितरो गताः”॥ इति ।
'''ऋतुः—'''
“ ललाटे वर्त्तुलं दृष्ट्वा स्कंधे मालां तथैव च । निराशाः पितरो यांति दृष्ट्वा च वृषलीपतिम् ” ॥ इति ।
एवं च
“वर्जयेत्तिलकं फाले श्राद्धकर्माणि सर्वदा । तिर्यग्वाऽप्यूर्ध्वपुंड्रं वा धारयेच्छ्राद्धकर्मणि ” ॥ इति
२५ वर्तुलाकारपुंड्रस्य निषेधात् “ चंदनं तु यथारुचि ” इति स्मरणादूर्ध्वपुंड्रं त्रिपुंड्रं वा यथारुचि
कर्त्तव्यम् । मृद्भस्मादिधारणनिषेधस्तु पुंड्रनिरूपणावसरे प्रतिपादितः । स्कंधे माल्याधारणे दोष-
स्मरणाच्छिरस्येव विप्रेण माला धार्या । तत्रापि शिखायामेव धार्या “ न नियुक्तः शिखावर्जं
माल्यं शिरसि वेष्टयेत् ” इति वृद्धमनुस्मरणात् । पुष्पदाने मंत्रमाह '''विष्णुः—'''
“ पुष्पावतीरिति पुष्पं दद्यात् ” ॥ इति ।
३० “ ओषधयः प्रतिमोदध्वमेनं पुष्पावतीः सुपिप्पलाः । अयं वो गर्भ ऋत्वियः प्रत्नः सधस्थमासदत् ” ॥
इति मंत्रस्य मध्यप्रतीकोपादानमेतत् । धूपदाने मंत्रमाह '''व्यासः—'''
“धूपार्थे धूरसीत्युक्त्वा दद्यात् सघृतगुग्गुलम्”॥ इति । हस्तवातप्रापितो धूपो न विप्रेण सेव्यः। तथा
च '''शातातपः—'''
“ हस्तवाताहतं धूपं ये पिबंति द्विजोत्तमाः । वृथा भवति तच्छ्राद्धं तस्मात्तं परिवर्जयेत् ” ॥ इति ॥
{{rule}}<noinclude></noinclude> mpd1cdbgj020x9okmqalrqosjtcp6sv पृष्ठम्:Smriti mukta phalam.pdf/८४१ 104 166844 419867 2026-11-11T03:07:29Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''भूशुद्धिः । अग्नौकरणम् ।'''|८०१}} {{rule}} '''स्मृत्यंतरे—'''
“ पाददेशे तु यद्दीपं धूपं च मुखदेशतः । यो ददाति च मूढात्मा सोऽन्धे तमसि मज्जति ” ॥
'''हेमाद्रिः—'''
“ प्... नवीन पृष्ठं निर्मीत अस्ती 419867 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''भूशुद्धिः । अग्नौकरणम् ।'''|८०१}} {{rule}} '''स्मृत्यंतरे—'''
“ पाददेशे तु यद्दीपं धूपं च मुखदेशतः । यो ददाति च मूढात्मा सोऽन्धे तमसि मज्जति ” ॥
'''हेमाद्रिः—'''
“ प्रतिपात्रं द्विजे दीपाः स्थापनीयाः प्रयत्नतः । पितृयानेषु मार्गेषु सदा लोकः प्रजायते”॥ इति ।
'''व्यास्रोऽपि—''' ५
“ स्थाप्याः प्रतिद्विजं दीपाः श्वेतसूत्रजवत्र्त्यः । गव्येन माहिषेणापि घृतेन कृततेजनाः ॥
“ अथवा तिलतैलेन पूरिता विमलार्चिनः । पितॄनुद्दिश्य दातव्याः प्रत्येकं च यथाविधि ॥
“ तेन लोकेनं पितरो दीप्यंते दिवि सर्वतः ।
“ श्राद्धभोजनकाले तु दीपो यदि विनश्यति । पुनरन्नं न भोक्तव्यं भुक्त्वा चांद्रायणं चरेत् ॥
“ कर्तुरायुरव्यहानिः स्यात्पुनः श्राद्धं समाचरेत् ” ॥ इति । '''विष्णुधर्मोत्तरे—''' १०
“यथा विहंति ध्वांतानि दीपः प्रज्वलितोऽभितः। तथैव सर्वपापानि श्राद्धदत्तो निहंति सः” ॥ इति ।
'''संग्रहे—'''“आसनेष्वासनं ब्रूयादर्घ्येष्वर्घ्यं द्विजो वदेत् । सुगंधंश्च सुपुष्पाणि सुमाल्यानि सुधूपकः”॥
“ सुज्योतिश्च सुदीपश्च स्वाच्यापनमिति क्रमात् ” ॥ इति । इदं व आसनमिदं वोऽर्घ्य-
मित्येवमासनादिषु कर्त्रा दत्तेषु स्वासनमित्यादि निमंत्रितो ब्रूयादित्यर्थः । '''स्मृत्यंतरे—'''
“ अर्घ्येद्व ब्राह्मणांपूर्वं प्रतिसंवत्सरादिके । भूमिशुद्धिं ततः कुर्यात्पश्चात्पात्रं तु निक्षिपेत् ॥ १५
“ पूर्वं पात्रं तु निक्षिप्य पश्चादभ्यर्चने कृते । यदन्नं पात्रनिक्षिप्तं सुरामांससमं हि तत् ” ॥ इति ।
गंधादिभिर्ब्राह्मणानभ्यर्च्यग्नौकरणं कृत्वा भूशुद्धिं कृत्वा पश्चाद्भोजनपात्रं निक्षिपेदित्यर्थः । अपेत-
वीतेति मंत्रेण भूमिशुद्धिमाचरंति शिष्टाः । अन्ये तु अपेतवीतेति मंत्रेण भूशुद्धेर्बोधायनादिभि-
रत्रानुक्तत्वात् ‘अपहता असुरा रक्षांसि’ इति तिलप्रक्षेप एव भूशुद्धिरित्याहुः ।
'''अग्नौकरणम्—'''गंधपुष्पादिभिर्ब्राह्मणानभ्यर्च्यग्नौकरणाख्यं कर्म कुर्यात् । तदाह '''कात्यायनः—''' २०
“ गंधान् ब्राह्मणसात्कृत्वा पुष्पाण्यृतुभवानि च । धूपं चैवानुपूर्व्येण अग्नौ कुर्यादतः परम् ” ॥ इति ।
ऋतुभवानि स्वोद्भवकालत्वेन प्रसिद्धवसंतादिकालभवानि पुष्पाणि चशब्देन दीपादिकं गृह्यते ।
'''हारीतः—''' “ अथोद्धृत्यान्नं पंक्तिमूर्धन्यं सर्वान्वा पृच्छत्याग्नौकरिष्ये ” इति । '''पारस्करः—'''
“ दत्वा गंधादिधूपश्च सर्पिष्मद्धविरुद्धरेत् । पैतृकैरभ्यनुज्ञातो जुहोति पितृयज्ञवत् ” ॥ इति ।
पैतृकैर्राह्मणैरिति शेषः । तथा च '''मनुः—''' २५
“ तेषामुदकमानीय सपवित्रं तिलोदकम् । अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ” ॥ इति ।
सहपैतृकैर्ब्राह्मणैः सर्वैरियगपदनुज्ञात इत्यर्थः । '''आश्वलायनः—'''“ उद्धृत्य घृताक्तमन्नं
पृच्छत्यग्नौ करिष्ये करवै करवाणीति वा । प्रत्यनुज्ञा क्रियतां कुरुष्व कुर्विति । अथाग्नौ जुहोति
यथोक्तं पुरस्तात्”॥ इति । '''कात्यायनः—'''“उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्य इति कुरुष्वे-
त्यनुज्ञातः पिंडपितृयज्ञवद्धुत्वा” इति । '''प्रचेताः—'''“ॐ कुरुष्वेत्यनुज्ञातो हुताग्नौ पितृयज्ञवत्” इति । ३०
‘उद्ध्रियतामग्नौ च क्रियताम्’ इत्यामंत्रयते । ‘ काममुद्ध्रियतां कामग्नौ च क्रियताम् ’ इत्यतिसृष्ट
उद्धरेज्जुहुयाच्चेत्येवं '''बोधायनोऽपि । याज्ञवल्क्यः—'''
“ अग्नौकरिष्यन्नादाय पृच्छेदन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥
“ हुतशेषं प्रदद्यात्तु भोजनेषु समाहितः । यथालाभामुपन्नेषु रौप्येषु तु विशेषतः ” ॥ इति ।
{{rule}}<noinclude></noinclude> 15amlt15nxf72xpjflx4b0zsws9lsxq पृष्ठम्:Smriti mukta phalam.pdf/८४२ 104 166845 419868 2026-11-11T03:08:27Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८०२|'''तत्राहुतित्रयम् । हुतशेषान्नव्यवस्'''|}} {{rule}} अत्र '''विज्ञानेश्वरः—'''
“ अग्नौ करिष्यन्घृताप्लुतसन्नमादायाग्नौकरिष्य ” इति ब्राह्मणान्पृच्छेत् । घृतग्... नवीन पृष्ठं निर्मीत अस्ती 419868 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८०२|'''तत्राहुतित्रयम् । हुतशेषान्नव्यवस्'''|}} {{rule}} अत्र '''विज्ञानेश्वरः—'''
“ अग्नौ करिष्यन्घृताप्लुतसन्नमादायाग्नौकरिष्य ” इति ब्राह्मणान्पृच्छेत् । घृतग्रहणं सूपशाका-
दिनिवृत्त्यर्थम् । ततस्तैः कुरुष्वेत्यनुज्ञातः समिधमुपसमाधाय मेक्षणेनाव्रायावदानसंपदा ‘सोमाय
पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम ’ इति पिण्डपितृयज्ञकल्पेनाग्नौ जुहुयात्ततो
५ मेक्षणमग्नौ प्रहृत्य हुतशेषं मृन्मयवर्जं यथालाभोपपन्नेषु विशेषतो रौप्येषु पित्रादिभाजनेषु दद्यात् ।
न वैश्वदेवभाजनेष्वित्यर्थः” इति । '''हारीतः—'''“कुरुष्वेत्यनुज्ञातः पूर्वोद्धृतेऽग्नौ सकृदाच्छिन्नेरुपमूल-
लूनैः परिस्तीर्णे समिन्मन्त्रेण प्राङ्मुखो मेक्षणेनाहुतिद्वयं हुत्वा मेक्षणमग्नावेव कुर्यात् ” इति ।
पूर्वोद्धृते परिस्तरणात्पूर्वमेवोद्धृथिते समिन्मंत्रेण आहुतिद्वयार्थमेकामेव समिधमाधायेत्यर्थः ।
'''वैजावापः—'''
१० “ आज्यमासिच्योद्वास्य यज्ञोपवीती द्वे आहुती जुहोत्यग्नय इति पूर्वा सोमायेत्युत्तराम् ” ॥ इति ।
'''आश्वलायनः—'''प्राचीनावीतीधमुपसमाधाय मेक्षणेनाव्रायावदानसंपदा जुहुयात् । सोमाय
पितृपते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम” इति । अत्र पितृयज्ञधर्मकाग्नौकरणे प्राचीनावी-
त्वोपवीतित्वयोर्यथास्वसूत्रं व्यवस्था द्रष्टव्या । अत्राहुतित्रयमाह '''मनुः—'''
“अग्निसोमयंमानां च कृत्वा चाप्यायनं द्विजः । हविर्दानेन विधिवत्पश्चात्संतर्पयेत् पितॄन् ” ॥ इति ।
१५ आप्यायनहोममिति यावत् । '''स्मृत्यंतरेऽपि—'''“ अन्नं निधाय समिधं जुहुयाज्जातवेदसि ।
“ अग्नये कव्यवाहनाय स्वधा नम इति ब्रुवन् । सोमाय पितृमते स्वधा नम इति ब्रुवन् ।
“ इत्येते होममंत्रास्तु त्रयाणामनुपूर्वशः । जुहुयाद्व्यंजनक्षारवर्जमन्नं ततो द्विजः ॥
“ अनुज्ञातो द्विजैस्तैस्तु त्रिः कृत्त्वो भरतर्षभ” ॥ इति । अत्र व्यवस्थामाह '''कात्यायनः—'''
“स्वाहा स्वधा नमः सव्यमपसव्यं तथैव च । आहुतीनां च या संख्या सावगम्या स्वसूत्रतः”॥ इति ।
२० '''पराशरोऽपि—'''
“अग्नौकरिष्य इत्युक्त्वा तैरुक्तः क्रियतामिति । गृह्योक्तेनैव विधिना हुत्वा पात्रे प्रदापयेत्”॥ इति ।
हुत्वा हुतशेषं पितृब्राह्मणभोजनपात्रेषु दद्यान्न वैश्वदेविकब्राह्मणपात्रेष्वित्यर्थः । तथा च '''पुराणे—'''
“ हुतावशिष्टमल्पायं विप्रपात्रेषु निक्षिपेत् । अग्नौकरणशेषं तु न दद्याद्वैश्वदेविके ” ॥ इति ।
गृह्योक्तेनैव विधिनेत्युक्तत्वादामस्तंबेेन पार्वणप्रकृतिभूते मासिश्राद्धे यन्मे मातेत्यादिमंत्राणामाम्नात-
२५ त्वादभ्रस्योत्तराभिर्जुहोत्याज्याहुतीरुत्तरा इति चोदितत्वाच्चापस्तंबसूत्रिणामन्यसूत्रिणामिव पितृयज्ञ-
धर्मकाग्नौकरणहोमो न युक्तः । तथा च '''संग्रहकारः—'''
“ अग्नीन्धनादि प्रतिपद्य कर्म कृत्वाज्यभागांतमथावदाय यन्मेति मंत्रैः प्रतिमंत्रमग्नौ कार्य-
स्तथा सप्तभिरेव होमः । स्वाहादिमंत्रैरपि सर्पिषा स्युर्होमास्ततः स्विष्टकृतं तु हुत्वा । भस्मव्यपो-
होत्तरतोऽन्नहोमो लेपे तु दर्भस्य संमार्जनादि शेषं च हुत्वा परिवेषणांतं पात्रेषु दद्याद्धुतशेष-
३० मन्नमिति । सप्तभिरन्नहोम इत्येकवर्गोद्दिष्टपार्वणाभिप्रायेणोक्तम् । दर्शमहालयादौ तु अहितंमंत्र-
साहित्यात्रयोदशसंख्यासंपत्तेः । तत्र च यन्मे मातामही प्रलुलोभ तन्मे रेतो मातामहो वृंक्ताम् ।
अंतेरन्यं मातामहादृधे । यन्मे मातुः पितामही इत्येवमूहः कार्यः । आमुष्मन् इत्यत्र मातामहादे-
श्चतुर्थ्यंततया नामग्रहणं कर्त्तव्यम् । मातामहमातामह्योमृताहश्राद्धे चोहेन होमः कर्त्तव्यः ।
{{rule}} १ करखक्ष-दौहित्र ।<noinclude></noinclude> b26qzv3rujn5ho7tbe97un0a9177t6h पृष्ठम्:Smriti mukta phalam.pdf/८४३ 104 166846 419869 2026-11-11T03:09:16Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''परिवेष्णादिकम् ।'''|८०३}} {{rule}} तथा च '''संग्रहकारः—'''
“ योज्यः पित्रादिशब्दानां स्थाने मातामहादिकः । अक्षाहुतौ तथा स्पर्शे जलपिंडादिदानके ” ॥
“ यन्मे मातामह... नवीन पृष्ठं निर्मीत अस्ती 419869 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''परिवेष्णादिकम् ।'''|८०३}} {{rule}} तथा च '''संग्रहकारः—'''
“ योज्यः पित्रादिशब्दानां स्थाने मातामहादिकः । अक्षाहुतौ तथा स्पर्शे जलपिंडादिदानके ” ॥
“ यन्मे मातामहीत्यादि तत्रोदाहरणं भवेत् ” ॥ इति । स्पर्शे एष ते तमधुमाऽऊर्मिरित्या-
दिभिरन्नस्पर्शे मार्जयतामितिजलदाने एतत्ते ततेति पिंडदाने च पित्रादिशब्दस्थाने मातामहादि-
शब्द ऊह्य इत्यर्थः । पितृसपिंडीकरणे जीवपितृकर्तृकश्राद्धे च यन्मे पितामही प्रलुलोभ पिता- ५
महो वृंक्ताम् । यन्मे पितुः पितामही पितुः प्रपितामहीत्येवमूहः । तस्माद्यं नोहेदित्यूहप्रतिषेधः
प्रकृतिभूतमासिश्राद्धविषयः । ‘ न प्रकृतावूहो विद्यते ’ इति प्रकृतावूनिषेधात् मासिश्राद्धव्यति-
रिक्तेषु द्विपिटृकेणोहः कार्य इत्येके । एतदग्नौकरणं च प्राचीना वीतिना कार्यं पैतृकत्वात् । तथा
'''आपस्तंबः—'''“अपरपक्षे पित्र्याणि प्राचीनावीतिना प्रसव्यं दक्षिणतोऽपवर्गः”॥ इति । '''स्मृत्यंतरे—'''
“अकृत्वा पार्वणं होमं श्राद्धं कुर्यात् द्विजोत्तमः । तच्छ्राद्धमासुरं ज्ञेयं कर्ता च नरकं व्रजेत्”॥ इति । १०
'''अथ परिवेषणादिविधिः ।'''
“ तत्र तावन्मत्राणि देयानि सति संभवे । भोजने हैमरूप्याणि दैवे पित्र्ये यथाक्रमम् ” ॥ इति ।
प्रतिपादितानि श्रेष्ठांनि संपादानी । तेषामलाभे तैजसानीति उपकल्प्यनिरूपणे प्रतिपादितम् । तानि
पात्राणि द्विः प्रक्षालयेत् । तथा च '''ब्रह्मांडपुराणे—'''
“ प्रक्षाल्य हस्तपात्रादि पश्चाद्भाण्डैर्विधानवित् । प्रक्षालनजलं दर्भांस्तैलैर्मिश्रं क्षिपेच्छुचौ ” ॥ इति । १५
हस्तनिर्मृष्टपात्रादीति मध्यमपदलोपि समासः । प्रथममपो निनीय हस्तेन निर्मृज्य तदनंतरं जलेनैव
प्रक्षालयेदित्यर्थः । आदिशब्देन घृतादिधारणार्थानि गृह्यंते । एवं प्रक्षाळितेषु पात्रेषु चतुरश्र-
मंडलस्थापितेषु हुतशेषं किंचित्प्राचीनावीतिना पितृपात्रेषु विधाय संपादितान्यपदार्थान्परिवेषयेत् ।
तथा च '''शौनकः—'''
“ हुत्वाग्नौ परिशिष्टं तु पितृपात्रेष्वनन्तरम् । निवेद्यैवापसव्येन परिवेषणमाचरेत् ” ॥ इति । २०
अपसव्येनेति हुतशेषनिवेशनेनान्वेति न परिवेषणेन । तथा च '''कार्ष्णाजिनिः—'''
“अपसव्येन कर्त्तव्यं पित्र्यं कर्म विशेषतः । अन्नदानादृते सर्वमेवं मातामहेष्वपि” ॥ इति ।
अन्नदानं परिवेषणमित्यर्थः । '''स्मृत्यंतरे—'''
“ अपसव्येन यस्त्वन्नं ब्राह्मणेभ्यः प्रयच्छति । विष्ठामश्नंति पितरो दाता च नरकं व्रजेत् ”॥ इति । २५
होमाद्यशेषेण नोपस्तरणाभिधारणे कुर्यात्
“ अग्नौकरणशेषेण यदन्नमभिघारितम् । निरंगुष्ठं च यद्दत्तं न तत्प्रीणाति वै पितॄन् ” ॥ इति ।
स्मरणात् । परिवेषणप्रकारो '''मनुना दर्शितः—'''
“ पाणिभ्यामुपसंगृह्य स्वयमन्नस्य वर्धितम् । विप्रान्तिके पितॄन् ध्यायन् शनकैरुपविक्षिपेत ॥
“ एकेनैव तु हस्तेन यदन्नमुपनीयते । तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः ” ॥ इति । ३०
अन्नस्य वर्धितमन्नस्य पूर्णं परिवेषणार्थं पात्रमित्यर्थः । स्वयमिति वचनात्स्वयं परिवेषणं मुख्यम् ।
अत एव '''वायुपुराणे''' “ फलस्यानंतता प्रोक्ता स्वयं तु परिवेषणे ” इति । यत्तु तत्रैवोक्तम्
“ परिवेषणं प्रशस्तं हि भार्यया पितृतृप्तये । पितृदेवमनुष्याणां स्त्री सहाया यतः स्मृता” ॥ इति ।
तदितरापेक्षया वेदितव्यम् । भार्ययापि सवर्णयैव परिवेषणं कार्यम् । तथा च '''नारायणः—'''
“यद्द्रव्यं यत्पवित्रं च यत्पित्र्यं यत्सुखावह्म् । द्विजातिभ्यः सवर्णाया हस्तेनैव तु दीयते ”॥ इति ।
{{rule}}<noinclude></noinclude> gdyz6y0a3oz8vvfdhjd9ahj44degura पृष्ठम्:Smriti mukta phalam.pdf/८४४ 104 166847 419870 2026-11-11T03:11:26Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८०४|'''परिवेषणपात्राणि । तेषामभिमंत्रणम् ।'''|}} {{rule}} हस्तेन हस्तद्वयेनेत्यर्थः । ‘ उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत् ’ इति स्मरणात् । हस्त-
द्वयेनापि न स... नवीन पृष्ठं निर्मीत अस्ती 419870 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८०४|'''परिवेषणपात्राणि । तेषामभिमंत्रणम् ।'''|}} {{rule}} हस्तेन हस्तद्वयेनेत्यर्थः । ‘ उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत् ’ इति स्मरणात् । हस्त-
द्वयेनापि न साक्षाद्देयं किंतु दर्व्यादिद्वारा । अत एव '''वृद्धशातातपः—'''
“ हस्तदत्तास्तु ये स्नेहलवणव्यंजनादयः । दातारं नोपतिष्ठंति भोक्ता भुंजीत किल्बिषम् ॥
“ नापवित्रेण हस्तेन नैकेन न विना कुशम् । नायसेनायसे नैव श्राद्धे तु परिवर्जयेत् ” ॥ इति ।
५ आयसे अयोमये नैव परिवेषयेदित्यर्थः । प्रशस्तानि परिवेषणपात्राण्याह '''विष्णुः—'''
“ घृतादिदाने तैजसानि पात्राणि फल्गुपात्राणि वा प्रशस्तानि ” अत्र च पितृगाथा भवति—
“सौवर्णराजताभ्यां च खड्गेनैौदुंबरेण वा। दत्तमक्षयतां याति फल्गुपात्रेण वा पुनः”॥ इति ।
खाङ्गेन खड्गमृगशृंगकृतदर्व्यादिना फल्गुपात्रेण काकोदुंबरिकाख्यदारुकृतदर्व्यादिनान्तरितं
कृत्वा देयमित्यर्थः । '''शौनकः—'''“पाकं सर्वमुपानीयं संवेद्य च पृथक् पृथक् ”॥ अनिषिद्धद्रव्या-
१० यसंभवे चंद्रिकायामुक्तं ‘ विधिना देवपूर्वं तु परिवेषणमारभेत् ’ इति संवेद्य । भोक्तृणामन्नगुणा-
न्संविदितान्कृृत्वेत्यर्थः । “भक्ष्यभोज्यगुणानुक्त्वा भोजयेद्ब्राह्मणान् शनैः” इति '''बृहस्पतिस्मरणात् ।'''
'''पुराणे—'''
“ तप्यमानास्तपस्तीव्रं प्रेषिता ब्रह्मशासनात् । विश्वेदेवास्तु रक्षार्थं पितृयज्ञेषु सर्वदा ॥
“ अतः पूर्वं प्रदातव्यं तेभ्योऽन्नं पितृकर्मणि ” ॥ इति । '''मनुः—'''
१५ “ गुणांश्च सूपशाकान्यप्यो दधि घृतं मधु । विन्यसेत्प्रयतः सम्यग्भूमावेव समाहितः ” ॥ इति
गुणान् अन्नानुग्राहकत्या गुणभूतान्सूपदीन्भूमौ निहितेषु स्वल्पभाजनेषु प्रक्षिपेत् । न प्रधाना-
न्नार्थं महाभोजने निहितेष्वित्यर्थः । तथा च '''हारीतः—'''“ भूमावेव निदध्यान्नोपर्य्युपरिपात्राणि ”
इति । चंद्रिकायामिदं व्याख्यातम्—यान्युपरि पात्राणि महाभोजनोपरि निधेयानि घृताद्याधार-
भूतानि स्वल्पपात्राणि तानि श्राद्धे भूमावेव निदध्यात् । न भाजनस्योपरि” इति । '''स्मृत्यंतरे—'''
२० “भोज्यपात्रेणाज्यपात्रमुपपात्रे तु निक्षिपेत । भोज्ये निक्षिप्य चेद्भुंक्ते सुरापानसमं हि तत्॥
“ अन्ने च पायसे चैव सूपे च स्थापितं घृतम् । मोहाद्यदि च भुंजीत सुरापानसमं भवेत् ॥
“सूपं च पायसं चाज्यं दद्याद्भोक्तुश्च दक्षिणे । तैजपकं तथा वामे शेषेष्वनियमः स्मृतः ”॥ इति ।
'''पात्राभिमंत्रणादि ।''' संपादिंतं सर्वं पात्रेषु निक्षिप्य पात्राभिमंत्रणं कुर्यात् । तदाह '''प्रचेताः—'''
“ सर्वं प्रकृतं दत्वा पात्रमालभ्य जपेत् ” इति । अत्र विशेषमाह '''याज्ञवल्क्यः—'''
२५ “ दत्वाऽन्नं पृथिवीपात्रमिति पात्राभिमंत्रणम् । कृत्वेदं विष्णुरित्यने द्विजांगुष्ठं निवेशयेत् ”॥ इति ।
‘पृथिवी ते पात्रम्’ इत्यादिना मंत्रेण पात्राभिमंत्रणं कृत्वा ‘इदं विष्णुः’ इत्यनया ऋचा द्विजांगुष्ठं
अन्ने निवेशयेदित्यर्थः । '''कात्यायनः—''' “ वैष्णव्यर्चा यजुषा चांगुष्ठमन्नेऽवगाह ” इति ।
यमस्तु सार्थवाहिकमंगुष्ठनिवेशनविधिं वदन् अत्र विनियुक्तयजुर्मंत्रस्वरूपमाह—
“ अंगुष्ठमात्रो भगवान् विष्णुः पर्यटते महीः । राक्षसानां वधार्थाय कोपवान्प्रहरिष्यति ॥
३० “तस्माच्छ्राद्धेषु सर्वेषु अंगुष्ठग्रहणं स्मृतम् । विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति च क्रमात् ”॥ इति ।
तत्र दैवेऽन्ने अंगुष्ठनिवेशनात्राक् विष्णो हव्यं रक्षस्वेति यजुर्ब्रूयात् । पित्र्येऽन्ने विष्णो कव्यं रक्ष-
स्वेति यजुर्ब्रूयादित्यर्थः । अत्र वृद्धाचारानुसारी प्रयोगः । भोजनपात्रेषूपस्तीर्य पित्रादिपात्रेषु
हुतशेषं निधाय सर्वेषु पात्रेष्वन्नानि दत्वाभिधार्य पात्रस्याधस्तादुपरिष्टाच्च दर्भान्निक्षिपेत् ।
एष ते ततेत्यादिमंत्रैः प्रतिपुरुषं क्रमात् पित्रादिपात्रदत्तपदार्थोपस्पर्शनं केचिदिच्छंति ।
{{rule}}<noinclude></noinclude> 1ypk6wzd9mn6vnpsfj484zyuvka4zre पृष्ठम्:Smriti mukta phalam.pdf/८४५ 104 166848 419871 2026-11-11T03:12:16Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पात्रालंभनम् । परिविष्टमन्नज्ञानम् ।'''|८०५}} {{rule}} अपरे तु होमानंतरमेष ते ततेत्यादिभिः सर्वान्नामभिमर्शनमाहुः । ‘सर्वमुत्तरैरभिमृशेत् कृतान्वा’ प्रति-
प... नवीन पृष्ठं निर्मीत अस्ती 419871 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पात्रालंभनम् । परिविष्टमन्नज्ञानम् ।'''|८०५}} {{rule}} अपरे तु होमानंतरमेष ते ततेत्यादिभिः सर्वान्नामभिमर्शनमाहुः । ‘सर्वमुत्तरैरभिमृशेत् कृतान्वा’ प्रति-
पुरुषमित्यापस्तंबस्मरणात् । तत उपवीती दक्षिणं जान्वाच्य उदङ्मुखः प्रथमं देवार्थमन्नमभ्यु-
क्षणेन अवोक्ष्य पात्रमालभ्य ‘पृथिवी ते पात्रम्’ इत्यभिमन्त्र्य ‘इदं विष्णुर्र्विचक्रम ’ इत्यृचा ‘ विष्णो
हव्यं रक्षस्व ’ इति यजुषा च द्विजाङ्गुष्ठं निवेश्य च प्राचीनावीती जान्वाच्य सव्यं दक्षिणामुखः
पित्र्यं परिविष्टमन्नमभ्युक्षणेनावोक्ष्य पात्रमालभ्य जपाद्यंगुष्ठनिवेशनांतं कुर्यात् । एतच्च दैवे पित्र्ये च ५
ब्राह्मणानेकत्वे प्रतिब्राह्मणपात्रं “कार्यम् एकैकविप्रस्य गृहीत्वांगुष्ठमावरात्” इति स्मृतेः । अनंतरं
कर्त्तव्यमाह '''विष्णुः—'''नमो विश्वेभ्यो देवेभ्यो इत्यन्नमादौ प्राङ्मुखस्योन्निवेदयेत् । पित्र्ये पितामहाय
च प्रपितामहाय नामगोत्राभ्यामुदङ्मुखेस्वेविति । '''चतुर्विंशतिमतेऽपि—'''
“ पात्रालंभं द्विजः कुर्यादिदं वोऽन्नमितीरयेत् ” इति । पात्रालंभनं वामहस्तेन कृत्वा
अन्नत्यागात्पात्रमनुसृजन्नेव विश्वेदेवा इदं वोऽन्नमित्युच्चारयन्नन्नत्यागं कुर्यादित्यर्थः । वैश्वदेविकान्न १०
त्यागप्रकारमाहा'''त्रिः—'''
“ हस्तेन मुक्तमन्नाद्यमिदमन्नमुदीरयेत् । स्वाहेति च ततः कुर्यात्स्वसत्तात्रिनिवर्त्तनम् ” ॥ इति ।
परिवेषकहस्तेन मुक्तं परिविष्टमन्नाद्यमिदमन्नमिति विश्वेभ्यो देवेभ्य इति देवतोद्देशकशब्दोच्चारणा-
नंतरमुच्चारयेत् । इदमन्नमित्युदीरणानंतरं हविर्दानप्रकाशकं स्वाहेति मंत्रमुच्चारयेत् । ततो न
ममेति सत्वपरित्यागं कुर्यादित्यर्थः । पित्रादिभ्योन्नत्यागप्रकारमपि स एवाह— १५
“ गोत्रसंबंधनामानि इदमन्नं नमः स्वधा । पितृक्रमादुदीर्याथ स्वसत्तां विनिवर्तयेत् ” ॥ इति ।
पित्रादिक्रमाद्गोत्रसंबंधनामोच्चारणपूर्वकं देवतोद्देशं कृत्वा इदमन्नमिति प्रदेयद्रव्यं निर्दिश्य
स्वधेति कव्यदानप्रकाशकं मंत्रमुच्चार्य न ममेति स्वत्वपरित्यागं कुर्यादित्यर्थः । '''संग्रहे—'''
“ अन्नब्रह्मात्मकं ध्यात्वा द्विजमात्मानमेव च । श्राद्धभूमिं गयां ध्वात्वा भोक्तारं च गदाधरम् ॥
“ उदीर्य गोत्रसंबंधनामानि च ततः परम् । इदमन्नं ततः स्वाहा स्वधाशब्दौ यथोचितम् ॥ २०
“उदीर्य च नमःशब्दं न ममेति ततो वदेत्”॥ इति । अत्र प्रयोगश्चंद्रिकायामुक्तः—अन्नमंगुष्ठनिवेशना-
नंतरं दक्षिणहस्तेन यवसहितमुदकमादाय सव्यहस्तेन पात्रमालभ्य इदमन्नं हविर्ब्राह्मण आहवनीयार्थे
इदं भूर्गया अयं भोक्ता ब्राह्मणो गदाधरः पुरूरवार्द्रवसंज्ञकविश्वेभ्यो देवेभ्य इदं परिविष्टमन्न-
मातृप्तेः परिवेष्यमाणं च स्वाहा नमो न ममेत्युक्त्वा भाजनसमीपे यवसहितमुदकं निनीय भक्त्या
प्रणामं कुर्यात् । ततः पैतृकब्राह्मणसंनिधौ दक्षिणामुखे उपविश्य दक्षिणहस्तेन तिलानुदकं २५
चादाय वामहस्तेन पात्रमालभ्य ब्राह्मणो गदाधर इत्यंतमुक्त्वा अस्मत्पित्रे अमुकगोत्रायामुकशर्मणे
वसुरूपा य इदं परिविष्टमन्नमातृप्तेः परिवेष्यमाणं च स्वधा नमो न ममेतीत्युक्तभाजनसमीपं
तिलसहितं सलिलं निनीय प्रणामं कुर्यात् । पितामहायामुकशर्मणे रुद्ररूपाय प्रपितामहायामुक-
शर्मणे आदित्यरूपायेति विशेषतः इति ।
“ अदत्तमन्नं विप्रस्तु पाणिना स्पृशते यदि । त्रयस्ते नरकं यान्ति दाता भोक्ता तथा पिता”॥ इति । ३०
'''स्मृत्यन्तरम् ।''' अत्र '''विष्णुपुराणे दर्शिताः—'''
“ पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयांतु मे भक्त्या यन्मयेतदुदाहृतम् ।
“ यज्ञेश्वरो हव्यसमस्तकव्यभोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र ।
“ तत्संनिधानादपयांतु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ” ॥ इति । '''पुराणांतरे—'''
{{rule}} १०२-३३<noinclude></noinclude> 01gt9jg8ukax16px18ysrfy2md6i57k पृष्ठम्:Smriti mukta phalam.pdf/८४६ 104 166849 419872 2026-11-11T03:13:24Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८०६|'''अनंतरकृत्यानि ।'''|}} {{rule}} “ ईशानविष्णुकमलासनकार्तिकेयवह्नित्रयार्कजनिशङ्गणेश्वराणाम् ।
“ क्रौंचामरेंद्रकलशोद्भवकाश्यपानां पादाक्षमामि सततं पितृम... नवीन पृष्ठं निर्मीत अस्ती 419872 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८०६|'''अनंतरकृत्यानि ।'''|}} {{rule}} “ ईशानविष्णुकमलासनकार्तिकेयवह्नित्रयार्कजनिशङ्गणेश्वराणाम् ।
“ क्रौंचामरेंद्रकलशोद्भवकाश्यपानां पादाक्षमामि सततं पितृमुक्तयेभोः ॥
“ एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकंशः । त्रीन्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः”॥ इति ।
अनन्तरकृत्यमाह '''लघुयमः—'''
५ “अन्नहीनं क्रियाहीनं मंत्रहीनं च यद्भवेत् । सर्वमच्छिद्रमित्युक्त्वा ततो यत्नेन भोजयेत्”॥ इति ।
अच्छिद्रं जायतामित्येतावदेव '''बोधायनेनोक्तम् ।''' एतच्च प्रागेवापोशनदानाद्वक्तव्यम्
“ आपोशनकराग्राणामच्छिद्रस्य तु भाषणात् । निराशाः पितरो यांति देवैः सह न संशयः ”॥ इति
प्रचेतःस्मरणात् । अनंतरकृत्यमाह '''पारस्करः—'''
“ गायत्रीं त्रिः सकृद्वाऽपि जपेद्व्याहृतिपूर्वकम् । मधु वाता इतिव्यचं मध्वित्येतत्त्रिकं तथा” ॥
१० '''प्रचेताः—'''
“ आपोशनं प्रदायाथ सावित्रीं त्रिर्जपेत्तथा । मधु वाता इति तृचं मध्वित्येतत्त्रिकं तथा” ॥ इति ।
आपोशनदानविधानाश्रित्यभोजनाश्रितनियमाः परिवेषप्राणाहुत्यादयो भोक्तृणामत्रापि संतीति
गम्यते । अत एव कस्यचिद्भोजननियमस्यात्र प्रतिषेधार्थं तदनुष्ठाने दोषमाह '''भरद्वाजः—'''
“ पितॄणामन्नमादाय बलिं यस्तु प्रयच्छति । स्तेयेन ब्राह्मणस्तेन स सर्वस्तेयकृद्भवेत् ” ॥ इति ।
१५ बलिः भोजनात्किंचिद्भाग्रं बर्हिराजाय वै बलिरित्युक्तमित्यर्थः । '''अत्रिरपि—'''
“ दत्ते वाऽप्यद्यवाऽदत्ते भूमौ यो निक्षिपेद्बलिम् । तदन्नं निष्फलं याति निराशैः पितृभिर्गतैः”॥ इति ।
'''स्मृत्यंतरे—'''
“ आपोशने धार्यमाणे यस्तु भूमौ जलं क्षिपेत् । तदन्नमासुरं प्रोक्तं न दातुः पारलौकिकम्” ॥ इति ।
“ आपोशनं न गृह्णीयात् स्वयमेव नृपोत्तम । अन्येर्दैक्षिणपार्श्वस्थैरन्नस्योपरि गृह्यता” ॥ इति
२० ब्रह्माण्डपुराणम् । प्राणाहुत्यनंतरकर्तव्यमाह '''याज्ञवल्क्यः—'''
“सव्याहृतिकां गायत्रीं मधुवाता इति तृचम् । जप्त्वा यथासुखं वाच्यं भुंजीरंस्तेऽपि वाग्यताः”॥ इति ।
यथासुखमंत्र जुषध्वमित्यध्याहारः । अत एव '''व्यासः—'''
“ जुषध्वमिति ते चोक्त्वा सम्यग्विधृतभाजनाः । कृतमौनाः समश्नीयुरापोशानादनंतरम् ” ॥ इति ।
विधृतभाजनाः वामहस्तधृतभोजनपात्रा इत्यर्थः । एतच्चान्निनिवेदनप्रभृति कर्त्तव्यम्
२५ यदाह '''वसिष्ठः—'''
“ उभयोर्हस्तयोर्मुक्तं पितृभ्योऽन्नं निवेदितम् । तदन्नं संप्रतीच्छंति ह्यसुरा नष्टचेतसः ॥
“ तस्मादक्षन्यं हस्तेन कुर्यादन्नमुपस्थितम् । भोजनं तु समालभ्य तिष्ठेन्नोच्छ्रेषणात् द्विजः”॥ इति ।
अंगुष्ठनिवेशनप्रभृतिभोजनसमाप्तिपर्यंतं वामहस्तेन भाजनम् परित्यज्यन्नेव वर्तेत । कंडूशमनाद्यर्थं
वामहस्तव्यापारसमये तु दक्षिणेन हस्तेन भाजनं समालभ्य वर्त्तेतेत्यर्थः । अंगुष्ठनिवेशनोत्पूर्वं
३० भोक्त्रा अन्नस्पर्शो न कर्त्तव्यः । “ अन्नस्पर्शो न कर्तव्यः प्रागंगुष्ठनियोजनात् ” इति स्मृतेः ।
'''विष्णुपुराणे—'''
“ ततोऽमृतममृत्यर्धमभीष्टमतिसत्कृतम् । दत्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ॥
“ भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् । अक्रुध्यता चात्वरता देयं तेनापि भक्तितः”॥ इति ।
{{rule}} १ ग-यमः ।<noinclude></noinclude> 74newf7j30d3m8ezjbps35gbtaabq1v पृष्ठम्:Smriti mukta phalam.pdf/८४७ 104 166850 419873 2026-11-11T03:14:25Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अभिश्रवणम् ।'''|८०७}} {{rule}} '''पारस्करः—'''
“ संकल्प्य पितृदेवेभ्यः सावित्रीमधुमज्जपः । श्राद्धं निवेद्यापोशनं जुषैषैधोऽथ भोजनम् ” ॥ इति ।
'''अभिश्रवणम् ।''' भोज... नवीन पृष्ठं निर्मीत अस्ती 419873 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अभिश्रवणम् ।'''|८०७}} {{rule}} '''पारस्करः—'''
“ संकल्प्य पितृदेवेभ्यः सावित्रीमधुमज्जपः । श्राद्धं निवेद्यापोशनं जुषैषैधोऽथ भोजनम् ” ॥ इति ।
'''अभिश्रवणम् ।''' भोजनोपक्रमानंतरं कर्त्तव्यमाह '''कात्यायनः—'''“अश्नत्सु जपेत् व्याहृतिपूर्वां
गायत्रीं सप्रणवां सकृद्द्विर्वा रक्षोघ्नीः पित्र्यमंत्रान्पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणि ” इति ।
रक्षोघ्नीः “ कृणुष्वपाजः प्रसितिं न पृथ्वीम् ” इत्याद्या ऋचः । पित्र्यमंत्राः ‘ उदीरतामवर ५
उत्पारास ’ इत्याद्याः । अप्रतिरथम् ‘ आशुः शिशान ’ इति सूक्तम् । '''मनुरपि—'''
“स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांश्च पुराणान्यखिलानि च”॥इति ।
'''याज्ञवल्क्यः—'''
“ अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः । आवृतेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ” ॥ इति ।
अत्र '''विज्ञानेश्वरः—'''“ पवित्राणि श्रीपुरुषसूक्तपवमानप्रभृतीनि जपित्वा १०
तृप्तान्ज्ञात्वा पूर्वोक्तजपं च सव्याहृतिकां गायत्रीं मधुवाता इति तृचमित्युक्तं जपेत् ” इति ।
'''सायणीये—'''
“ श्राद्धभोजनकाले तु कर्त्ता भ्राता सुतोऽपि वा । दौहित्रो वाऽथ पौत्रो वा सपिंडो वा विचक्षणः ॥
“यस्त्वभिश्रावयेद्भोक्तून् तच्छ्राद्धं पावनं भवेत् । अन्यं वाहूय तं वृत्त्या श्रावयेत्तं निरीक्षयेत् ॥
“ श्राद्धक्रियासमाप्तौ तु प्रदद्याज्जपदक्षिणाम् । अत्युच्चैरतिशीघ्रं च हित्वैव श्रावयेद्बुधः ॥ १५
“ रक्षोघ्नं पैतृकं चैव दिवाकीर्त्ययुतं तथा । वैष्णवं त्रिसुपर्णं च नाचिकेतं तथा पठेत् ॥
“ रक्षोघ्नादिजपाशक्तो जपेत्पुरुषसूक्तकम् । तत्राप्यशक्तो गायत्रीमा वृते रसकृज्जपेत् ॥
“ एकोद्दिष्टे च सपिंड्ये षोडशेष्वनुमासिके । एषु श्रावयेत्सूक्तमन्यत्र श्रावयेद्बुधः ” ॥ इति ।
“अभिश्रवणहीनो यः श्राद्धं कुर्वीत मूढधीः । तदन्नं मांसतुल्यं स्यात् तद्गेहमासुरालयम् ” ॥ इति
'''स्मृत्यन्तरम् । स्मृत्यर्थसारे—''' २०
“ नांदीमुखे गयाश्राद्धे नवश्राद्धे च मासिके । सपिंडीकरणश्राद्धे न जपेत्पितृसूक्तकम् ” ॥ इति ।
जपोऽयमुपवीतिना कर्त्तव्यः । अत एव '''जमदग्निः—'''
“अपसव्येन कर्त्तव्यं सर्वं श्राद्धं यथाविधि । सूक्तस्तोत्रजपं मुक्त्वा विप्राणां च विसर्जनम्” ॥ इति ।
'''दातृभोक्तृनियममाह वृद्धशातातपः—'''
“ अपेक्षितं यो न दद्याच्छ्राद्धार्थमुपकल्पितम् । कृपणो मंदबुद्धिस्तु न च श्राद्धफलं लभेत् ॥ २५
“ अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितन् । न याचते द्विजो मूढः स भवेत्पितृघातकः ”॥इति ।
'''स्मृत्यंतरेऽपि—'''
“अपेक्षितं द्विजो मोहाद्भुंजानो यो न याचते । अपेक्षितं यो न दद्यात्तावुभौ पितृघातकौ ” ॥ इति ।
'''निगमेऽपि—'''
“ अवश्यमर्थयेच्छ्राद्धे पित्रर्थमुपकल्पितम् । न याचते द्विजो मूढः स भवेत् पितृघातकः ॥ ३०
“ अपेक्षितं यो न दद्यात् श्राद्धार्थमुपकल्पितम् । अयै कृच्छ्रांस्तु घोरांस्तु तिर्यग्योनिषु जायते”॥इति ।
यत्तु '''यमेनोक्तम्—'''
“ कृच्छ्राद्दशरात्रेण मुच्यते कर्मणस्ततः । तस्माद्विद्वांश्चैव दद्यान्न याचेन्न च दापयेत् ” ॥ इति ।
{{rule}} १ ग-पि । २ क-घः । ३ क्ष-द् ।<noinclude></noinclude> 1zf2aov8j1ftowpphgr0dpmk097novx पृष्ठम्:Smriti mukta phalam.pdf/८४८ 104 166851 419874 2026-11-11T03:15:55Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८०८|'''अपेक्षितदानम् । श्राद्धकर्तुनियमाः ।'''|}} {{rule}} यदप्युक्तं '''वायुपुराणे—'''
“ याचते यदि दातारं ब्राह्मणो ज्ञानदुर्बलः । पितरस्तस्य कुप्यंति दातुर्भोक्तु... नवीन पृष्ठं निर्मीत अस्ती 419874 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८०८|'''अपेक्षितदानम् । श्राद्धकर्तुनियमाः ।'''|}} {{rule}} यदप्युक्तं '''वायुपुराणे—'''
“ याचते यदि दातारं ब्राह्मणो ज्ञानदुर्बलः । पितरस्तस्य कुप्यंति दातुर्भोक्तुर्न संशयः” ॥ इति ।
तच्छ्राद्धार्थमकल्पितविषयम् । सामान्येनाभिधानात् । श्राद्धार्थमुपकल्पितवस्तुविषयेऽपि अत्य-
न्ताधिकं दाता न दद्यात् । भोक्ता च न प्रतिगृह्णीयात् । तथा च '''शङ्खलिखितपि—'''
५ “नात्यधिकं दद्यान्न प्रतिगृह्णीयात् ” इति । अनपेक्षितवस्तुनो निवारणप्रकारमाह '''निगमः—'''
“ नान्नपानादिकं श्राद्धे वारयेन्मुखतः क्वचित् । अनिष्टस्वादृहृत्वाद्वा वरणं हस्तसंज्ञये ” ॥ इति ।
'''शंखलिखितावपि—'''“अन्नपात्रं प्रभूतमिति न ब्रूयुरन्यत्र हस्तसंज्ञाया” इति । एवं याचमानोऽपि न
मुखतः कुर्यात् “याचनप्रतिषेधश्च कर्त्तव्यो हस्तसंज्ञया” इति स्मृतेः । मौनभंगप्रसंगाच्च अपेक्षितं
वस्तु ददामीत्युक्त्वा नो दद्यात् । तथा च '''यमः—'''
“ यावद्धविष्यं भवति यावन्निष्टं प्रमीयते । तावदश्नंति पितरो यावन्नाह ददाम्यहम् ” ॥ इति ।
१० परिविष्टवस्तुषु यत्किंचिदशेषतया भुक्तं यच्च भोक्तुं पुनर्गाह्यते ततस्येष्टमित्यनुमाय तस्य
प्रतिषेधसूचनाभावे देयम् । तथा च स एव—‘‘ यद्यद्रोचेत विप्रेभ्यः तद्दद्यादविमत्सरी ” ।
'''देवलः—'''
“ अन्नपानकशीतोदं दद्यादेवान्ववेक्षितम् । वक्तव्ये कारणे संज्ञा कुर्वन्भुंजीत पाणिना ” ॥ इति ।
'''ब्रह्मांडपुराणे—'''
“निराशो नित्यतृप्तिप्रः श्राद्धकर्त्ताऽथ याचितः । विष्णुः सर्वात्मको भुङ्क्ते इति मत्वा न दोषभाक् ।
“ न चाश्रु पातयेज्जातु न शुक्तां गिरमीरयेत् । न चोद्वीक्षेत भुंजानं न च कुर्वीत मत्सरम् ॥
“ न दीनो नापि वा क्रुद्धो न चैवान्यमनान रः । एकाग्रमाधाय मनः श्राद्धं कुर्यात्सदा बुधः ”॥ इति ।
शुक्तां निष्ठुराम् । '''मनुः—'''
२० “ नास्रमा पातयेज्जातु न कुप्येन्नानृतं वदेत् । न पादेन स्पृशेदन्नं न चैनमवधूनयेत् ॥
“ आस्रं गमयति प्रेतान्कोपोरीननृतं शुनः । पादस्पर्शं तु रक्षांसि दुष्कृतीरवधूननम् ” ॥ इति ।
आस्रं बाष्पः । तदन्नं प्रेतानिशाचान् गमयति पितॄनित्यर्थः । '''व्यासः—'''
“ क्रोधेनैव च यद्दत्तं यद्दत्तं त्वरया पुनः । यातुधाना विसुंपंति जल्यवाचोप्पाद्रितम् ॥
“ स्निग्धांग्रो न तिष्ठेत्तु संनिधौ च द्विजन्मनाम् ” ॥ इति । '''कार्ष्णाजिनिः—'''
२५ “ भक्ष्यभोज्यानि चोध्यानि पेयलेह्यायुतानि च । सर्वरिष्टानि यो दद्यात्सर्वश्रेष्टो भवेन्नरः ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ अदत्तमन्नं विप्रस्तु पाणिना स्पृशते यदि । त्रयस्ते नरकं यांति दाता भोक्ता तथा पिता ॥
“ मृत्पात्रगतमर्घ्यं च मृत्तिकागंधलेपनम् । मार्जारोच्छिष्टशेषं च निराशाः पितरो गताः ॥
“ न वदेन्मानुषीं वाचं न चैवाश्रूणि पातयेत् ॥
३० “तर्जन्यां रजतं धृत्वा यत्पितृभ्यः प्रदीयते । अन्तोस्ति परमाणूनामस्यांतो न हि विद्यते ॥
“श्राद्धकर्ता मृतानां चेत्काकबन्ध्यं तु भोजयेत् । पितरस्तस्य षण्मासं चंडालोच्छिष्टभोजिनः” ॥ इति ।
यत्तु '''मनुवचनम्—'''
“ ब्राह्मणं भिक्षुकं वापि भोजनार्थमुपस्थितम् । ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ” ॥ इति
{{rule}}<noinclude></noinclude> dnoac1zxfmqx8ejgsvi15ri2c9s8rr9 पृष्ठम्:Smriti mukta phalam.pdf/८४९ 104 166852 419875 2026-11-11T03:16:54Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''भोक्तृनियमाः ।'''|८०९}} {{rule}} यदपि स्मृत्यंतरवचनम्—
“ उपविष्टेषु विप्रेषु यद्यागच्छेत् द्विजोऽतिथिः । निमंत्रितैरनुज्ञातः कामं तमपि भोजयेत् ” ॥ इति ।
तत्... नवीन पृष्ठं निर्मीत अस्ती 419875 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''भोक्तृनियमाः ।'''|८०९}} {{rule}} यदपि स्मृत्यंतरवचनम्—
“ उपविष्टेषु विप्रेषु यद्यागच्छेत् द्विजोऽतिथिः । निमंत्रितैरनुज्ञातः कामं तमपि भोजयेत् ” ॥ इति ।
तत्पंक्त्यंतरे तदैव भोज्यत्वपरम् । अत एव चंद्रिकायाम्— “ यदा अतिथिमोंजनार्थमुपविष्टः
तदा तं गंधपुष्पादिभिरर्चयित्वा पितृभ्योऽन्नत्यागानंतरमस्मै ब्राह्मणाय विष्णुरूपाय शिवरूपाये-
दमन्नं परिविष्टमातृप्तेः परिवेष्यमाणं च न ममेति तदर्थं परिविष्टमन्नं त्यजेत् ” इति । अन्नपानदाता ५
लवणादिन्यूनत्वाधिक्याभावेन हविषः साधुगुण्यं पुनः प्रदानार्थं न गच्छेदित्याह '''शंखः—'''
“ श्राद्धे नियुक्तान् भुंजानान्न पृच्छेद्वलवणादिषु । उच्छिष्टाः पितरो यांति पृच्छतो नात्र संशयः ॥
“ बाहुः पतति दातुर्वै जिव्हा भोक्तुश्च भिद्यते ” ॥ इति ।
'''भोक्तृनियमाः ।''' भोक्तृनियममाह '''प्रचेता—'''
“ पीत्वापोशनमश्नीयात्यात्रे दत्तमगर्हितम् । सर्वेंद्रियाणां चापल्यं न कुर्यात्पाणिपादयोः” ॥ इति । १०
भोजनार्थव्यापारदधिकव्यापारः इंद्रियाणां चापल्यम् । तत्र दोषमाह '''हारीतः—'''
“उद्धृत्य पाणिं विहरन् सक्रोधा विस्मयान्वितः । श्राद्धकाले तु यद्भुंक्ते न तत्प्रीणाति वै पितॄन्”॥ इति
'''बोधायनः—'''
“ पादेन पादमाक्रम्य यो भुंक्तेऽनापदि द्विजः । नैवासौ भोज्यते श्राद्धे निराशाः पितरो गताः” इति ।
'''निगमेऽपि—'''“ तूष्णीं भुंजीरन्नविलो कयमाना अनुद्धृत्य पात्रम् ” इति । तूष्णीं वाग्व्यापारमंतरेण १५
अविलोकयमाना दिश इत्यर्थः । '''मनुरपि—'''
“ अभ्युष्णमन्नं सर्वं स्याद्भुंजीरंश्चैव वाग्यताः । न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् ॥
“ यावदुष्णं भवत्यन्नं यावदश्नंति वाग्यताः । तावद्धि पितरोऽश्नंति यावन्नोक्ता हविर्गुणाः”॥ इति
वाग्यमनविधानादेव हविर्गुणावचने सिद्धे पुनर्निषेधो हस्तसंकेतेनापि हविर्गुणसूचननिषेधार्थः ।
यदाहा'''त्रिः—''' २०
“ हुंकारेणापि यो ब्रूयात् हस्ताद्वापि गुणान्वदेत् । भूतलाच्चोद्धरेत्पात्रं मुंचेद्धस्तेन वाऽपि तत् ॥
“ प्रौढपादो बहिःकक्षो बहिर्जानुकरोऽथ वा । अंगुष्ठेन विनाश्नाति मुखशब्देन वा पुनः ॥
“ पीतावशिष्टं तोयादि पुनरुद्धृत्य वा पिवेत् । खादितार्थं पुनः खादेन्मोदकादि फलादि वा ॥
“मुखेन वाधमेदन्नं निद्यीवेद्भोजनेऽपि वा । इत्यन्नं तु द्विजः श्राद्धे भुक्त्वा गच्छत्यधोगतिम्”॥ इति
भूतलात्पात्रोद्धरणे दोषोऽन्नाधारमाह भाजनविषयः । प्रौढपाद आसनाद्यारोपितपादः । बहिः २५
कक्षः उत्तरवासो बहिर्भूतकक्ष इत्यर्थः । '''वृद्धशातातपः—'''
“आसने पादमारोप्य यो भुंक्ते तु द्विजोत्तमः । हंति दैवं च पित्र्यं च तदन्नं च प्रजां पशून्”॥ इति ।
'''प्रचेताः—'''
“न स्पृशेदामहस्तेन भुंजानोऽन्नं कदाचन । न पादौ न शिरे वस्तिं न पदा भाजनं स्पृशेत् ”॥इति ।
'''निगमेऽपि—''' ३०
“ मांसापूपफलेक्ष्वादि दंतच्छेदैर्न भक्षयेत् । ग्रासशेषं नो निर्वपेत्पीतशेषं तु नो पिवेत् ” ॥ इति ।
ग्रासशेषं अस्यार्पितग्रासशेषं भोजनपात्रे न निक्षिपेदित्यर्थः । '''सुमंतुः—'''
“अक्रोधनो रसान् सम्यगधावत्यस्वस्य रोचते । आतृप्ति भोजनं तेषां कामतोऽनवशेषणम्” ॥ इति ।
{{rule}} १ ग-न् पात्रेस्थ ।<noinclude></noinclude> ge4cogp55yo67xls8or09dvufletple पृष्ठम्:Smriti mukta phalam.pdf/८५० 104 166853 419876 2026-11-11T03:18:46Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८१०|'''असंस्कृतप्रमीतानामुच्छिष्टभागः । भोजने परस्परस्पर्शदोषः ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“श्राद्धे भुंजन् द्विजो यस्तु बहुभाषी मिताशनः । स पापी नरके याति श्... नवीन पृष्ठं निर्मीत अस्ती 419876 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८१०|'''असंस्कृतप्रमीतानामुच्छिष्टभागः । भोजने परस्परस्पर्शदोषः ।'''|}} {{rule}} '''स्मृत्यंतरे—'''
“श्राद्धे भुंजन् द्विजो यस्तु बहुभाषी मिताशनः । स पापी नरके याति श्राद्धहंता भवेद्ध्रुवम् ”॥ इति ।
“ भोक्ता भोजयिता श्राद्धे मौनी स्याच्चासमाहितः । न ह्युकपाणिरुक्तवा तु शनैर्दोषो न विद्यते ” ॥
इत्याश्वलायनः । '''व्यासः—'''
५ “न किंचिद्वर्जयेत् श्राद्धे नियुक्तस्तु द्विजोत्तमः । न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत्”॥ इति ।
'''प्रचेताः—'''“दंतच्छेदं हस्तपानं वर्जयेच्चातिभोजनम्” इति । हस्तपानं हस्तेन पेयादिपानं वर्जयेत् ।
अपि तु लघुपात्रेणैव कुर्यात् । अतिभोजनं तृप्तौ सत्यामपि भोजनमित्यर्थः ॥ '''उशनाः—'''
‘भोजनं तु न निःशेषं कुर्यात् प्राज्ञः कथंचन । अन्यत्र दध्नः क्षीराद्वा क्षौद्रात् सकुभ्य एवच”॥ इति ।
यत्तु जमदग्निनोक्तम्-‘न निवेदयुनावशेषयेयुः’ इति तदधिकावशेषविषयम् । यतोऽनन्तरमाह स एव
१० “अल्पं पुनरुत्स्रष्टव्यं तस्यासंस्कृतप्रमीतानां भागधेयत्वात् ” ॥ इति । असंस्कृतप्रमीतानामनुपनीतमृ-
तानामित्यर्थः । उच्छिष्टस्यासंस्कृतप्रमीतादिभागधेयत्वं च '''मनुराह—'''
“ असंस्कृतप्रमीतानां त्यागिनां कुल्ययोषिताम् । उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरेच्च यत् ” ॥ इति ।
त्यागिनां संन्यासिनाम् किंचिदुच्छिष्टं दासवर्गतृप्तये भूमिगतं कुर्यात् । यत आह स एव —
“ उच्छेषणं भूमिगतमजिह्मस्याशठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ” ॥ इति ।
१५ '''आश्वलायनः—'''
“शेषयेद्भोजने भुक्त्वा सर्वान्नं किंचित्तस्ततः । यत्तु शिष्टं भोजनेषु तदश्नंत्यति हर्गिताः ॥
“ दाता मृतस्य योन्नादि तस्मात्तत्परिशेषयेत् ” ॥ इति । प्रमादाद्भोजॄणां परस्परस्पर्शे
उच्छिष्टस्पर्शेऽपि भोजनोपरमो न कार्य इत्याह '''शंखः—'''
“ श्राद्धपंक्तौ तु भुंजानो ब्राह्मणो ब्राह्मणं स्पृशेत् । तदन्नमंत्यजन् भुक्त्वा गायत्र्यष्टशतं जपेत् ॥
२० “उच्छिष्टलेपनस्पर्शे प्रक्षाल्यान्येन वारिणा । भोजनांते द्विजः स्नात्वा गायत्रीत्रिशतं जपेत्”॥ इति ।
पात्रेऽन्योच्छिष्टपतनेऽपि स एव—
“ उच्छिष्टस्पर्शनं ज्ञात्वा तत्पात्रं परिवृत्य च । अस्पृष्ट्वा पाणिना पात्रं भूमिं समनुलिप्य च ॥
“अन्यत्पात्रं निधायात्र सर्वान्नं परिवेषयेत् । परिषिच्य ततः पश्चाद्भोजयेच्च न दोषकृत्” ॥ इति ।
'''व्यासोऽपि—'''
२५ “उच्छिष्टोच्छिष्टसंस्पर्शे स्पृष्टपात्रं विसृज्य च । सर्वान्नपूर्ववत् दत्वा भोजयेत्तु द्विजोत्तमः ” ॥ इति ।
उच्छिष्टस्पर्शे पात्रद्वयं परित्यज्य पात्रांतरयोर्द्वावपि भोजयेदित्यर्थः । अत्र भोक्तुरुच्छिष्टस्पर्शाभावे
उच्छिष्टपात्रं परित्यज्य पात्रांतरे भोजयेत्स्पर्शे भोजनांते द्विजाः स्नात्वा गायत्र्याः त्रिशतं जपे-
दित्युक्तं प्रायश्चित्तमपि कुर्यात् । '''स्मृत्यंतरे—'''
“श्राद्धपंक्तौ तु भुंजानो विण्मूत्रोत्सर्जनं प्रति । व्रजेद्यदि हि मूढात्मा श्राद्धघाती भवेद्ध्रुवम् ॥
३० “ उपोष्य तद्दिने कर्त्तापरेद्युः श्राद्धमाचरेत् ” ॥ इति ।
'''पितृस्थानीयव्यतिरिक्तस्य वमने स्मृत्यंतरे—'''
“ विश्वेदेवाद्वितीयो वा तृतीयो वांतिकृद्भवेत् । प्राणादिपंचभिर्मंत्रैर्यावत् द्वात्रिंशत्संख्य कम् ॥
{{rule}}<noinclude></noinclude> 8ik90x5i4pqeg8y1hd0az7ear050bcs पृष्ठम्:Smriti mukta phalam.pdf/८५१ 104 166854 419877 2026-11-11T03:19:42Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''छर्दितब्राह्मणभोजने । पितृस्थानीयवमने ।'''|८११}} {{rule}} होमशेषं समाप्याथ श्राद्धशेषं समापयेत् ” ॥ इति । अन्यत्रापि—
“ एक एव यदा विप्रो भोजने छर्दितो यदि । तदैव... नवीन पृष्ठं निर्मीत अस्ती 419877 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''छर्दितब्राह्मणभोजने । पितृस्थानीयवमने ।'''|८११}} {{rule}} होमशेषं समाप्याथ श्राद्धशेषं समापयेत् ” ॥ इति । अन्यत्रापि—
“ एक एव यदा विप्रो भोजने छर्दितो यदि । तदैवाग्निं समाधाय होमं कुर्याद्यथाविधि ॥
“ तत्स्थाननामगोत्रेण चासनादिभिरर्चयेत् । अङ्गयागं प्रकुर्वीत ततोऽग्नौ जुहुयाच्चरुम् ॥
“ प्राणादिपंचकैर्मंत्रैर्यवत् द्वात्रिंशत्संख्य कम् । होमशेषं समाप्याथ श्राद्धशेषं समापयेत् ” ॥ इति ।
छर्दितब्राह्मणभोजने पात्रं त्यक्त्वा लौकिकाग्निं समाधाय तत्स्थाननामगोत्रोच्चारणपूर्वकमासनादिभि- ५
रभ्यर्च्य हुतशेषं चरुं प्राणादिपंचभिर्मंत्रैः षडावृत्तैः पुनरुपादानसमानाभ्यां च हुत्वा श्राद्धशेषं
समापयेदिति व्याख्यातारः । '''संग्रहे—'''
“श्राद्धपङ्क्तौ तु भुंजानो ब्राह्मणो वमयेद्यदि । लौकिकाग्निं प्रतिष्ठाप्य त्वर्चयेच्च हुताशनम्” ॥ इति ।
पितृस्थानीयस्य वमने त्रयाणां वमने पुनःश्राद्धमुक्तं '''तत्रैव —'''
“ पितॄणां तत्र सर्वेषां पितुर्वा वमनं यदि । तद्दिनो’ चोपवासश्च पितुः श्राद्धं परेऽहनि ” ॥ इति । १०
एतच्च पिंडदानात्प्राग् वमने वेदितव्यम् ।
“ अकृते पिंडदाने तु पिता यदि वमेत्तदा । पुनः पाकं प्रकुर्वीत श्राद्धं कुर्याद्यथाविधि ” ॥ इति
स्मरणात् । यत्तु वचनम्—
“ अकृते पिंडदाने तु भुंजानो ब्राह्मणो वमेत् । पुनः पाकात्तु कर्तव्यं पिंडदानं यथाविधि ” ॥ इति ।
अत्र द्वितीयः पिंडदानशब्दः श्राद्धपरः । तस्मिन्नहनि पुनःपाकेन श्राद्धविधायकमिदं वचनद्वयं १५
दर्शादिश्राद्धविषयम् । क्षयाहश्राद्धस्य परदिने विहितत्वात् । दर्शादौ पुनःपाकेन श्राद्धकरणा-
संभवे आमेन वा कार्यम् ।
“ आद्धविघ्ने द्विजातीनामामाश्राद्धं प्रकीर्तितम् । अमावास्यादिनियतं माससंवत्सराहते ” ॥ इति
मरीचिस्मरणात् । संकल्पश्राद्धेऽपि त्रयाणां वमने पितुरेकस्य वा वमने पुनः श्राद्धमुक्तं '''स्मृत्यंतरे—'''
“ भुक्तिक्रियायाः प्राधान्यं श्राद्धे संकल्पसंज्ञके । अत्रैव पितृविप्राणां उपघाते पुनःक्रिया ” ॥ इति । २०
यत्तु वचनम्—
“ प्राधान्यं पिंडदानस्य भोजनस्य तदंगताम् । अतो भुक्तिक्रियाहानौ श्राद्धवृत्तिं न मन्यते ” ॥ इति
तत्संकल्पव्यतिरिक्तपार्वणश्राद्धे पितृस्थानीयव्यतिरिक्तब्राह्मणमुक्तिक्रियाहानिविषयम् ।
'''ऋग्विधाने तु—'''
“ इंद्राय सोमसूक्तेन श्राद्धविघ्नो यदा भवेत् । अन्न्यादिभिर्भोजनेन श्राद्धं संपूर्णमेव वा ” ॥ इति । २५
अत्र इंद्राय त्रयसोमसूक्तजपेन होमेन भोजने न चेति विधानमुक्तम् । तत्र व्यवस्था व्याख्यातृभिर्दर्शिता-
पिंडदानात्परं वमनेन श्राद्धविघ्ने सूक्तजपेन श्राद्धं संपूर्णतामेति । पिंडदानात्प्राक्तु पितृव्यतिरिक्तस्यै-
कस्य वमनेन श्राद्धविघ्ने होमेन अनेकस्य वमनेन तद्दिने होमसूक्तजपाभ्यां पितृस्थानोपवेशितस्य
वमनेन तद्दिने तु परदिने पुनः श्राद्धभोजनेन नेति । तथा च '''शौनकः—'''
“ भोजनोपरमात्पूर्वं प्रक्रमात्परतो यदि । श्राद्धविघ्ने पुनः कार्य जपहोमौ न तृप्तिदौ ” ॥ इति । ३०
“ अग्निनाशे यदा श्राद्धे ज्योतिर्यंत्र विनश्यति । तद्दिने चोपवासश्च पुनः श्राद्धं परेऽहनि ” ॥
'''अथ विकिरणविधिः । तत्र प्रचेताः—'''
“ तृप्तिं बुध्वाऽन्नमादाय सतिलं पूर्ववज्जपेत् । तृप्तिं पृच्छेत्ततः पृष्टा ब्रूयुस्तृप्ताः स्म इत्यपि ”॥ इति ।
{{rule}} १ ग-णादि । क्ष-नो ।<noinclude></noinclude> 2vj9dzxjkmynw6w2mfttynhnzifc2is पृष्ठम्:Smriti mukta phalam.pdf/८५२ 104 166855 419878 2026-11-11T03:20:30Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८१२|'''विकिरः । तृप्तिप्रश्नः ।'''|}} {{rule}} पूर्ववज्जपेदित्यस्यार्थः कात्यायनेन प्रपंचितः “ गायत्रीं मधुमतीं मधु मध्विति जप्त्वा तृप्ताः स्थ
इति पृच्छति ” इति ।... नवीन पृष्ठं निर्मीत अस्ती 419878 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८१२|'''विकिरः । तृप्तिप्रश्नः ।'''|}} {{rule}} पूर्ववज्जपेदित्यस्यार्थः कात्यायनेन प्रपंचितः “ गायत्रीं मधुमतीं मधु मध्विति जप्त्वा तृप्ताः स्थ
इति पृच्छति ” इति । '''व्यासः—'''
“ तृप्ताः स्थ इति पृष्टास्ते ब्रूयुस्तृप्ताः स्म इत्यर्थः ” ॥ इति । अनंतरकर्त्तव्यमाह '''मनुः—'''
“ सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा । समुत्सृजेद्भुक्तवतां अग्रतो विकिरन् भुवि ” ॥ इति ।
५ संनीय व्यंजनैः सह संयोज्य सार्ववर्णिकं सर्ववर्णहितार्थमुत्सृजेदित्यर्थः । '''मत्स्यपुराणे—'''
“ भुक्तवत्सु ततस्तेषु भोजनोपांतिके नृप । प्रोक्ष्य भूमिमथाद्भिस्तु भूमौ पितृपरायणः ।
“ ततो विकिरणं कुर्याद्विदिष्टेन कर्मणा ” इति । '''मार्कंडेयः—'''
“ उदङ्मुखानां विप्राणां पुरतः सोदकं ततः । अन्नं तु विकिरेद्भक्त्या पुनर्दद्यात्तिलोदकम् ” ॥ इति
'''विष्णुपुराणे—'''
१० “ तृप्तेष्वेतेषु विकिरेदन्नं विप्रेषु भूतले । दद्याच्चाचमनार्थाय तेभ्यो वारि सकृत्सकृत् ” ॥ इति ।
आचमनार्थाय नित्यभोजननियमयेवूकं अमृतापिधानमसीति मन्त्रपूर्वकं यत् गण्डूषं तदर्थं वैश्वदेविक-
विप्रपूर्वकं प्रतिविप्रं सकृत् सकृत् जलं दद्यादित्यर्थः । '''याज्ञवल्क्यः—'''
“ अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च । तदन्नं प्रकिरेद्भूमौ दद्याच्चापि सकृत्सकृत् ” ॥ इति ।
व्याख्यातमेतद्विज्ञानेश्वरेण—सर्वमन्नमादाय तृप्ताः स्थेति पृष्टास्तृप्ताः स्म इति तैः
१५ प्रत्युक्तः शेषमस्ति किं क्रियतामिति पृष्ट्वा इष्टैः सह भुज्यतामित्यभ्युपगमय्य तदन्नं पितृस्थानीयस्य
ब्राह्मणस्य पुरस्तादुच्छिष्टसंनिधौ दक्षिणाग्रदर्भांतर्हितायां भूमौ तिलोदकप्रक्षेपपूर्वं ये अग्निदग्धा
इत्यनयर्चा निक्षिप्य पुनस्तिलोदकं प्रक्षिपेत् । तदनंतरं ब्राह्मणहस्तेषु गंडूषार्थं सकृदपो दद्यात्” इति ।
'''बोधायनस्तु—'''उत्तरापोशनानन्तरं विकिरदानमाह— “ स्वधायुक्तानि ब्राह्मणान्यभिश्रावयिष्यन्
रक्षोघ्नानि च नैर्ऋतानि च तृप्तानप आचमय्याशनेष्वन्नशेषान्मकिरति “ ये अग्निदग्धा येऽनग्नि-
२० दग्धा ” इति । '''प्रचेताश्च—'''“ ये अग्निदग्धेति भुवि क्षिपेत् ” । '''स्मृत्यंतरे—'''
“ पितृदैवतयोर्मध्ये भुवं प्रोक्ष्य तिलान्क्षिपेत् । ततो दर्भांन्समास्तीर्य तूष्णीं दत्वा तिलोदकम् ॥
“ उच्छिष्टं तिलमिश्रेण पिंडं दद्यात्समाहितः । ये अग्निदग्धा येऽनेति दद्यादुच्छिष्टसंनिधौ ” ॥ इति ।
अत्र केचिदाहुः—“ मनुयाज्ञवल्क्यबोधायनचंद्रिकामाधवीयविज्ञानेश्वरादिषु ‘ये अग्नि-
दग्धा’ इत्यनेन विकिरदानविधानादन्यस्यानुक्तैस्तावन्मात्रमेव विकिरदानं कार्यमिति । एतदुच्छिष्ट-
२५ पिण्डं काकेभ्यो विशास्तिकाकपिण्डमिति च व्यवहरन्ति । काकस्वीकारे च यत्नं कुर्वन्ति ।
“ वायसा स्वीकृते पिण्डे शुनां शूद्रेन दूषिते । तद्दिने चोपवासश्च पुनः श्राद्धं परेऽहनि ॥ इति
पठन्ति । अन्ये तु—प्रतिब्राह्मणमुच्छिष्टसंनिधौ मंत्रांतरेण विकिरदानं कृत्वा ये अग्निदग्धा येऽनग्नि-
दग्धा इत्यनेनोच्छिष्टपिंडदानं च कार्यमित्याहुः । तदाह '''आश्वलायनः—'''“श्रावयित्वा च पृष्ट्वा च
देवानां विकिरं चरेत् ” इति । मधुमती अक्षन्नमीमदंत इति च श्रावयित्वा संपन्नं पृष्ट्वाऽनंतरं वैश्व-
३० देविकं विकिरं चरेदित्यर्थः । '''स्मृत्यंतरे''' “ मंत्रेण विकिरं कुर्यान्मुख्यब्राह्मणसंनिधौ ॥
“असोमपाश्च ये देवा यज्ञभागविवर्जिताः । तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम् ”॥इति
विश्वेदेवार्थब्राह्मणयोर्मुख्यः प्रथमं शूत इत्यर्थः ।
{{rule}}<noinclude></noinclude> pi864kzs0onbvjngm1knntqqkrmqmbz पृष्ठम्:Smriti mukta phalam.pdf/८५३ 104 166856 419879 2026-11-11T03:21:35Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''उच्छिष्टैर्विकिरदानम् ।'''|८१३}} {{rule}} '''रत्नावल्याम्—'''
“उच्छिष्टैरेव विकिरं सदैव प्रतिपादयेत् । अन्यथा कुरुते यस्तु निराशास्तस्य देवताः”॥ इति ।
स्मृत्य... नवीन पृष्ठं निर्मीत अस्ती 419879 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''उच्छिष्टैर्विकिरदानम् ।'''|८१३}} {{rule}} '''रत्नावल्याम्—'''
“उच्छिष्टैरेव विकिरं सदैव प्रतिपादयेत् । अन्यथा कुरुते यस्तु निराशास्तस्य देवताः”॥ इति ।
स्मृत्यंतरे तु “ पात्रे यवकुशास्तीर्णे देवान्! विकिरं चरेत् ” इति प्राप्ते—
“ अनंतरं सुतृप्तेषु तेषु विप्रेषु भक्तितः । अन्नशेषं प्रविकिरेद्दर्भेषु विधिवन्नृप ॥
“ असोमपेति मंत्रेण विकिरं वैश्वदेविकम् । असंस्कृतेति मंत्रेण पैतृकं विकिरं क्षिपेत् ॥ ५
“ असंशयो भवेद्विष्णुमनुना वैष्णवं क्षिपेत् ” ॥ इति । स्मृत्यंतरे—
“ असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्त्रियः । दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम् ॥
“एतेन विकिरेत्पित्र्ये मुख्यब्राह्मणसन्निधौ” इति । तथा विकिरभागिनो दर्शयति '''मनुः—'''
“ असंस्कृतप्रमीतानां त्यागिनां कुल्योषिताम् । उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरे च ये ” ॥ इति ।
'''मार्कंडेयस्तु—'''‘ये चापमृत्युना केचिन्मृत्युं प्राताः स्ववंशजाः।विकिरेण प्रदानेन तृप्तिं यांति च तेऽखिलाः’॥ १०
“ये चादंताः कुले बालाः क्रियायोग्या ह्यसंस्कृताः । सपिंडास्ते तु विकिरे संमार्जनजलाशिनः”॥ इति ।
विकिरदानानंतरमुपवीती भूत्वा आचामेत् । अत एव '''मरीचिः—'''
“श्राद्धेषु विकिरं दत्वा यो नाचामेन्मतिभ्रमात् । पितरस्तस्य षण्मासं भवन्त्युच्छिष्टभोजिनः”॥ इति ।
अनन्तरमुत्तरापोशनार्थमुदकं दद्यात् । तथा च '''मदालसावाक्यम्—'''
“ तदन्वाचमनार्थाय दद्याच्चापः सकृत्सकृत् ” इति । अत्र '''मरीचिः—''' १५
“ हस्तं प्रक्षाल्य गंडूषं यः पिवेद्द्विजविचक्षणः । आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ” ॥ इति ।
गंडूषं यः पिवेदित्यत्र भोजनांते अमृतापिधानमसीति मंत्रेणापो यः पिवेदित्यर्थः । गंडूषकरणात्पूर्वं
हस्तलेपनिमार्जनं तत्क्षालनं आसनादुत्थानं च न कार्यमित्याह '''आश्वलायनः—'''
“ प्राग्गंडूषजलाद्भुक्त्वाऽन्नहस्तं निमृजेद्बुधः । प्रक्षालयेच्च नोत्तिष्ठेत्पीठाद्विप्रः सदैव हि ॥
“यो भुक्त्वोत्थायाचामति पीठाद्विप्रः सदाऽशुचिः। स्नात्वा शुचिर्भवेच्छ्राद्धे श्राद्धहा च नराधमः”॥इति। २०
अस्यार्थः प्रयोगसारकृताभिहितः—यो भुक्त्वा पीठादुत्थायोत्तरापोशनार्था अप आचामति तदा
अशुचिर्भवेत् । स्नात्वैव श्राद्धे शुचिर्भवेदिति । गंडूषकरणप्रकारश्च तेनैवोक्तः—
“ अर्धं पिबति गंडूषं अर्धं त्यजति भूतले । प्रीणांति पितरः सर्वे ये चान्ये भूमिदेवताः ” ॥ इति ।
उच्छिष्टपिंडं वायसेभ्यो दद्यात्
“ बलिं बलिभुजो यत्र प्रवृत्तं नैव भुंजते । नैव तृप्ताः प्रयास्यंति पितरस्तस्य सानुगाः ” ॥ इति २५
शंखलिखितस्मरणात् । हस्तप्रक्षालने विशेषमाह '''शातातपः—'''
“ विश्वेदेवानिविष्टानां चरमं हस्तधावनम् । विसर्जनं च निर्दिष्टं तेषु रक्षा यतः स्थिता ॥
“ दैवपूर्वं तु यो दद्याद्धस्तप्रक्षालनोदकम् । निराशाः पितरो यांति देवरक्षाविवर्जिताः ” ॥ इति ।
'''विष्णुरपि—'''“उदङ्मुखेष्वाचमनमादौ दद्यात् । ततः प्राङ्मुखेषु ततः सुप्रोक्षितमिति
श्राद्धदेशं प्रोक्ष्य दर्भपाणिः सर्वं कुर्यात्” ॥ इति । अस्यार्थश्चंद्रिकायामुक्तः—पैतृकब्राह्मणेषु प्रथम- ३०
हस्तप्रक्षालनपूर्वकाचमनार्थमपो दत्वा पश्चाद्वैश्वदेविकब्राह्मणेषु दत्वा सुप्रोक्षितमिति मंत्रेण श्राद्ध-
देशं प्रोक्ष्य दर्भपाणिः सर्वमुपरितनं कर्मजातं कुर्यादिति ।
'''हस्तप्रक्षालनानन्तरविधिः ।''' अनंतरकर्तव्यमाह '''अगस्त्यः—'''“अथाचांतेषु चाचम्य
वारि दद्यात्सकृत्सकृत् ” ॥ इति । '''मार्कंडेयः—'''
“ पितॄणां नामगोत्रेण जलं देयमनंतरम् । ब्राह्मणानां द्विजैर्वाच्यमिदमक्षय्यमस्त्विति ” ॥ ३५
{{rule}} १०३-३४<noinclude></noinclude> 74zmjqpgx8ldyn3hp6u7n1ngjp5xm2y पृष्ठम्:Smriti mukta phalam.pdf/८५४ 104 166857 419880 2026-11-11T03:23:16Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८१४|'''स्वस्तिवाचनकम् । ब्राह्मणेभ्यो हिरण्यदानं च ।'''|}} {{rule}} '''स्मृत्यंतरे—'''“रोचत इति वैश्वदेवा‌न्वाचयित्वा पितॄन्स्वदितमिति वाचयेत् ” ॥ इति । '''मत्स्यः—'''
“... नवीन पृष्ठं निर्मीत अस्ती 419880 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८१४|'''स्वस्तिवाचनकम् । ब्राह्मणेभ्यो हिरण्यदानं च ।'''|}} {{rule}} '''स्मृत्यंतरे—'''“रोचत इति वैश्वदेवा‌न्वाचयित्वा पितॄन्स्वदितमिति वाचयेत् ” ॥ इति । '''मत्स्यः—'''
“ स्वस्तिवाचनकं दद्यादक्षय्योदकमेव च । सलिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् ॥
“ गोभूहिरण्यवासांसि नवानि शयनानिच । दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव हि ॥
“ वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमाचरन्निति ” ॥ इति । '''जमदग्निः—'''
५ “सलिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् । हिरण्यधनवासांसि हर्म्याणि शयनानि च ” ॥ इति ।
'''चंद्रिकायाम्—'''“ब्राह्मणान्मोजयित्वा तु दद्याच्छक्त्या च दक्षिणाम् ॥
“ यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता ” ॥ इति ।
'''पारस्करः—'''“हिरण्यं विश्वेभ्यो देवेभ्यो रजतं पितृभ्यः अन्यच्च गोकृष्णाजिनादिकं यावच्छक्नुयात्
- “एकपंकत्युपविष्ठानां विप्राणां श्राद्धकर्मणि । भक्ष्यभोज्यं समं देयं दक्षिणा त्वनुसारतः” ॥ इति ।
१० निमंत्रितब्राह्मणविद्यागुणतारतम्येनेत्यर्थः । अनिमंत्रितविप्रेभ्योऽपि दक्षिणादानमाह '''बृहस्पतिः—'''
“ ज्ञातयो बांधवा निःस्वास्तथैवाथ च येऽपरे । प्रदद्याद्दक्षिणां तेषां सर्वेषामनुरूपतः ” ॥ इति ।
'''देवलः—''' “ आचांतेभ्यो द्विजेभ्यस्तु प्रयच्छेद्य दक्षिणाम् ” ॥ इति । स एव—
“ दक्षिणां पितृविप्रेभ्यो दद्यात्पूर्वं ततो द्वयोः । सर्वं कर्मापसव्येन दक्षिणादानवर्जितम् ” ॥ इति ।
'''जमदग्निस्तु—''' “ अपसव्यं तु तत्रापित्स्योऽपि भगवान्यमः ” ॥ इति । अत्र व्यवस्था दर्शिता
१५ '''माधवीये—'''ब्राह्मणोद्देशेन दक्षिणादाने पितृपूर्वकमिः । उपवीतं च पितुरुद्देशेन दक्षिणादानं प्राचीना-
वीतिना कार्यम् । तच्च वैश्वदेविकब्राह्मणपूर्वकमिति । '''ब्रह्माण्डपुराणे—'''
“श्राद्धभृग्दक्षिणां नेच्छेत् कर्ता दद्यात्तु दक्षिणाम् । तावुभौ पूर्णकर्माणौ श्राद्धभुङ् न तु दोषभाक् ॥
“श्राद्धभुक् श्राद्धमध्ये यो नालं मे दक्षिणेति च । तस्मिंस्तन्न प्रदातव्यं दत्ते तौ नरकालयौ ॥
“ अदत्वा दक्षिणां श्राद्धे श्वो दास्यामीति यो वदेत् । दिने दिने भवेद्वृद्धिर्दक्षिणापरिमाणतः ॥
२० “ तस्मादवश्यं दातव्यमदाता रौरवं व्रजेत् । श्राद्धभुक् श्राद्धकर्त्तारं सबृद्धिं दक्षिणां ततः ॥
“ एकवारं त्रिवारं वा पृच्छेच्च दिनपंचकम् । ततः परं न पृच्छेत्तु कर्त्तारं हन्ति दक्षिणा ॥
“ पुनः श्राद्धं चरेत्कर्ता षष्ठेऽह्न्यायुर्विवृद्धये । अथवायुष्यहोमं वा चरेत्प्रोक्तं महर्षिभिः ॥
“ यत्किंचिद्दक्षिणाकाले स्वस्वशक्त्यनुसारतः । तदक्षयं भवेत्तृप्तिं ददाति स्वापितॄन् प्रति ॥
“ लक्षं लक्षपतिर्दद्यात् दरिद्रस्तु वराटिकाम् । वित्तशाठ्यं न कुर्वीत श्राद्धकाले समाहितः ॥
२५ “ सत्यां संपदि लोभाद्यः श्राद्धं न कुरुते द्विजः । स विज्ञेयो नरपशुर्गर्दाभीं योनिमाविशेत् ॥
“ तस्य पङ्क्तौ न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ” ॥ इति ।
अनंतरं कर्तव्यमाह '''याज्ञवल्क्यः—'''
“ दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् । वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥
“ ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिंचेत्ततो जलम् । विश्वेदेवाश्च प्रीयंतां विप्रैश्चोक्ते इदं जपेत् ॥
{{rule}} १ क्ष-मत्स्यो भगवान्हि मेने ।<noinclude></noinclude> fa1b6osbnfv73plv4k1ts45icq59bu8 पृष्ठम्:Smriti mukta phalam.pdf/८५५ 104 166858 419881 2026-11-11T03:24:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''षट्पिंडदानविधिः ।'''|८१५}} {{rule}} “ दातारो नोभिवर्धंतां वेदाः संततिरेव च । श्रद्धा च नो मा व्यपगाद्बहु देयं च नोऽस्त्विति ॥
“ इत्युक्त्वा च प्रिया वाचः प्रणिपत्... नवीन पृष्ठं निर्मीत अस्ती 419881 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''षट्पिंडदानविधिः ।'''|८१५}} {{rule}} “ दातारो नोभिवर्धंतां वेदाः संततिरेव च । श्रद्धा च नो मा व्यपगाद्बहु देयं च नोऽस्त्विति ॥
“ इत्युक्त्वा च प्रिया वाचः प्रणिपत्य विसर्जयेत् । वाजे वाज इति प्रीतः पितृपूर्वं विसर्जयेत् ॥
“ प्रदक्षिणमनुव्रज्य भुंजीत पितृसेवितम् । ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ” ॥ इति ।
'''मत्स्यः—'''
“ दक्षिणां दिशमाकांक्षन्पितॄन्याचेत मानवः । दातारो नोभिवर्द्धन्तां नोभिदेयं च नोऽस्त्विति ॥ ५
“ अन्नं च नो बहु भवेदतिथींश्च लभेमहि । याचिताश्च नः संतु मा च याचिष्म कंचन ॥
“ एवमस्त्विति तैरार्च्यं मूर्ध्ना ग्राह्यं च तेन तत् । पश्चाद्विसर्जयेद्देवान् पूर्वं पैतामहान्द्विजान् ” ॥ इति ।
'''षट्पिण्डदानविधिः ।''' विप्रविसर्जनानंतरं पिंडदानमाह '''आपस्तंबः—'''
“ भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य द्वैधं दक्षिणामान्दर्भान्संस्तीर्य तेषूत्तरैरपो दत्वोत्तरैर्दक्षिणापवर्गा-
न्पिण्डान्दत्वा पूर्ववदुत्तरैरुत्पस्थायोदपात्रेण त्रिः प्रसव्यं परिषिच्य न्युब्जपात्राण्युत्तरं १०
यजुरनवानं त्र्यवरार्धमावर्त्तयित्वा प्रोक्ष्य पात्राणि द्वन्द्वमभ्युदाहृत्य सर्वतः समवदायोत्तरेण यजुषा
शेषस्य ग्रासावरार्धं प्राश्नीयात् ” इति । भुक्तवतो व्रजतो ब्राह्मणान् यज्ञोपवीती आगृहसीमांत-
मनुव्रज्य प्रदक्षिणीकरोति । अथ प्रत्येत्य प्राचीनावीती । पिंडप्रदानदेशे दक्षिणामान्दर्भान्द्वेधा
संस्तृणाति । तत्र पुरस्तात्पित्राद्यर्थं पश्चान्मात्राद्यर्थं ततस्तेषु मार्जयंतां मम पितर इत्यादिभित्रिभि-
र्मार्जयंतां मम मातर इत्यादिभिश्च यथादर्भं दक्षिणापवर्गमपो दत्वा अनंतरमुत्तरैरेतत्ते ततासावि- १५
त्यादिभिः षड्भिः षट्पिंडान् ददाति । अथ पूर्ववन्मार्जयंतामित्यादिभिरेवापो ददाति । अथोत्तरैर्ये च
वोत्रेत्यादिभिः षड्भिर्मंत्रैरर्थालिंगं पितॄन्मातृश्च त्रिपतिष्ठते । तृप्यतेत्यनेन त्रिरावृत्तेनोभयां-
स्तंत्रेण । तत उत्तरया पुत्रान्पौत्रानभितर्पयंतीरित्युभयेषां पिंडांन्युगपदुदपात्रेण त्रिः प्रसव्यमविच्छिन्नं
परिषिंचति । अनंतरं पात्राणि होमार्थानि च पिंडार्थानि च न्युब्ज अधोबिलानि कृत्वा उत्तरं
यजुः तृप्यत तृप्यतेत्याम्नान एव त्रिरभ्यस्तमनवानं अनुच्छ्वसनं त्र्यवरार्ध्यं त्रिरभ्यावृत्तिरवमामात्रा २०
यस्यावर्त्तनस्य तत्र्यवरार्ध्यं यथा भवति तथा आवर्त्तयति ततश्चावमथापि मात्राया तृप्यतेति
नव कृत्वोभ्यासितव्यं भवति । एवमनवानं यावच्छक्त्यावर्त्य ततः पात्राणि न्यग्भूतानि प्रोक्ष्य
द्वंद्वमभ्युदाहरति । अथ शेषस्यान्नस्य ग्रासावरार्धं सर्वतः सर्वेभ्योऽन्नभेदेभ्यः समवदाय उत्तरेण
यजुषा प्राणे निविष्ट इत्यनेन प्राश्नीयात् । इदं प्राशनं भोजनेच्छायाम सत्यामपि कार्यम् ।
कर्मांगत्वादिति । तात्पर्यदर्शनेऽस्यार्थोभिहितः । २५
'''कात्यायनादीनां त्रिपिण्डादिदानविधिः ।'''
पिंडत्रयदानमवघ्राणं चाह '''मनुः—'''
“ त्रींस्तु तस्माद्धविःशेषान् पिण्डान्कृत्वा समाहितः । औदकेनैव विधिना निवपेद्दक्षिणामुखः ।
“ न्युब्ज पिंडांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् । तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम् ॥
“उदशेषं तु निनयेच्छनैः पिंडांतिके पुनः । अवजिघ्रेच्च तान्पिंडान्यथान्यूनान्समाहितः”॥ इति । ३०
आचमनात्पूर्वं पिंडत्रयदानमाह '''याज्ञवल्क्यः—'''
“ सर्वमन्नमुपादाय सतिलं दक्षिणामुखः । उच्छिष्टसंनिधौ पिंडान्दद्याद्वि पितृयज्ञवत् ॥
“ मातामहानामप्येवं दद्यादाचमनं ततः ” ॥ इति ।
{{rule}}<noinclude></noinclude> lw2sci0wp4dlfgoeacmo2yn4sci53gp पृष्ठम्:Smriti mukta phalam.pdf/८५६ 104 166859 419882 2026-11-11T03:24:59Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८१६|'''त्रिपिण्डादिदानविधिः ।'''|}} {{rule}} अत्र '''विज्ञानेश्वरः—'''पिंडपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावे अग्नौ-
करणाशिष्टचरुशेषेण सह सर्वमन्नमुपादायाग्निस... नवीन पृष्ठं निर्मीत अस्ती 419882 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८१६|'''त्रिपिण्डादिदानविधिः ।'''|}} {{rule}} अत्र '''विज्ञानेश्वरः—'''पिंडपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावे अग्नौ-
करणाशिष्टचरुशेषेण सह सर्वमन्नमुपादायाग्निसंनिधौ पिंडान्दद्यात् । तदभावे ब्राह्मणार्थसाधित-
मन्नमुपादाय तिलमिश्रं दक्षिणामुख उच्छिष्टसंनिधौ पिंडपितृयज्ञकल्पेन पिंडान् दद्यात् ।
मातामहानामपि तच्छ्राद्धे वैश्वदेवावाहनादि पिंडप्रदानपर्यंतं कर्मैवेनेव कर्त्तव्यम् । अनंतरं
५ ब्राह्मणानामप्याचमनं ददाति । '''आश्वलायनः—'''
“ भुक्तवत्स्वाचांतेषु पिंडांश्चिद्दध्यादनाचांतेष्वित्येके ” ॥ इति '''मनुस्तु—'''
“पिंडनिर्वपणं केचित्पुरस्तादेव कुर्वते ” इति । चंद्रिकामाधवीययोरिदं व्याख्यातम्—भोजना-
त्पुरस्ताद्ब्राह्मणानामर्चनांतरं अग्नौकरणानतरं वा पिंडनिर्वपणं केचिदिच्छंति । केचिदिति
वचनादपरे ब्राह्मणभोजनानंतरमाचमनादर्वाग्वा ब्राह्मणविसर्जनात् पश्चाद्वा पिंडनिर्वपणं कुर्वत
१० इत्यवगम्यते इति । अत्र यथास्वशास्त्रं व्यवस्था । तथा च '''स्मृत्यंतरम्—'''
“ मुनिभिर्भिग्नकालेषु पिंडदानं तु यत्स्मृतम् । तन्तु शास्त्रामतं यत्र तत्र कुर्याद्विचक्षणः ” ॥ इति ।
'''लोकाक्षिरतु—'''“अप्रशस्तेषु श्राद्धेषु भोजनात्पूर्वं पिंडनिर्वपणं सर्पिंडीकरणाद्रिषु प्रशस्तश्राद्धेषु
पश्चादेवोपकल्पयेत् ” ॥ इति ।
अशस्तेषु सपिंडीकरणाद्वार्बाहितेषु श्राद्धेषु भोजनात्पूर्वं पिंडनिर्वपणं सपिंडीकरणादिषु
१५ प्रशस्तश्राद्धेषु पश्चादेव पिंडनिर्वपणमित्यर्थः । एतच्च येषां स्वगृह्येषु पिंडदानकालो नोक्तस्त-
द्विषयमित्याहुः । '''पराशरः—'''
“ सुतृप्तैस्तैरनुज्ञातः सर्वेणान्नेन भूतले । सतिलेन ततः पिंडान् सम्यक् कृत्वा समाहितः ॥
“ पितृतीर्थेन सलिलं तत्र सिंचेद्यथाक्रमम् । दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् ॥
“ स्वपित्रे प्रथमं पिंडं दद्यादुच्छिष्टसंनिधौ । पितामहाय चैवान्यत्तत्पित्रे च ततःपरम् ॥
२० “ दर्भमूले लेपभुजः प्रीणयेल्लेपकर्षणम् ” ॥ इति '''स्मृत्यंतरे—'''
“दर्भान्समास्तीर्य दर्भानुच्छिष्टसंनिधौ । कृत्वावनेजनं दद्यात् त्रींस्त्रीन्पिंडान्यथाक्रमम्”॥ इति ।
'''भारतेऽपि—'''
“ सतिलेन ततोऽन्नेन पिंडान्त्रीनेव पुत्रकः । पितॄनुद्दिश्य दर्भेषु दद्यादुच्छिष्टसंनिधौ ” ॥ इति ।
'''देवलः—'''
२५ “ ततः सर्वान्नं पात्रे गृहीत्वा विधिवत्स्वयम् । तेषामुच्छेषणस्थाने तेन पात्रेण निक्षिपेत् ॥
“ पात्राणां खड्गपात्रेण पिंडदानं विधीयते । राजतौदुंबराभ्यां वा हस्तेनैवाथवा पुनः ॥
“मधुसर्पिस्तिल्युतास्त्रीन्पिंडान् निक्षिपेद्बुधः । जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः”॥ इति ।
यथास्वगृह्यं पिंडसंख्या अवगंतव्या । आपस्तंबसूत्रिणां तु मासिकश्राद्धकल्पनानुष्ठातृणां पिंड-
षट्कं पिण्डपितृयज्ञकल्पेनानुष्ठातृणां पिंडत्रयमिति विवेकः ।
३० ननु उच्छिष्टसंनिधिरशुचिदेशो भवति तत्र कथं पिंडदानं विधीयत इत्याशंक्याहा'''त्रिः—'''
“ पितॄणामासवस्थानादग्रतस्त्रिश्वरत्निषु । उच्छिष्टसन्निधानं तन्नोच्छिष्टासनसंनिधौ ” ॥ इति ।
त्रिश्वरत्निष्वित्युच्छिष्टसंपर्करहितासन्नदेशोपलक्षणार्थम् । अत एव '''जातुकर्णिः—'''
“ व्याममात्रं समुत्सृज्य पिंडांस्तत्र प्रदापयेत् ” इति ॥
{{rule}}<noinclude></noinclude> 9gt5etb9wcs2gqnjjwfu1sj6yajde81 पृष्ठम्:Smriti mukta phalam.pdf/८५७ 104 166860 419883 2026-11-11T03:25:55Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पिंडप्राशनविधिः ।'''|८१७}} {{rule}} '''भास्करोऽपि—'''“ पात्राणां बाहुमात्रे वा पिंडदानं विधीयते ” इति ॥ '''व्यासोऽपि—'''
“ अरत्निमात्रमुत्सृज्य पिंडांस्तत्र प्रदापय... नवीन पृष्ठं निर्मीत अस्ती 419883 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पिंडप्राशनविधिः ।'''|८१७}} {{rule}} '''भास्करोऽपि—'''“ पात्राणां बाहुमात्रे वा पिंडदानं विधीयते ” इति ॥ '''व्यासोऽपि—'''
“ अरत्निमात्रमुत्सृज्य पिंडांस्तत्र प्रदापयेत् । यत्रोपस्पर्शनं वापि प्राप्नोति न हि पिंडतः ” ॥ इति ।
'''व्याघ्रः—'''“ गंधपुष्पाणि धूपं च दीपं चैव निवेदयेत् ॥
“ यत्किंचित्पच्यते गेहे भक्ष्यं भोज्यमगर्हितम् । अनिवेद्य न भोक्तव्यं पिंडमूले कथंचन ” ॥ इति ।
'''द्वितीयावनेजनमध्यमपिण्डप्राशनादिविधिः ।''' अनंतरकृत्यमाह '''बृहस्पतिः—''' ५
“ समभ्यर्च्योदपात्रं तु तेषामुपरि निक्षिपेत् ” इति । '''विष्णुः—'''“ पिंडानां
निर्वपणं कृत्वा अर्घ्यपुष्पधूपानुलेपनान्नादिभिरभ्यर्च्यनिवेद्येदुपपात्रमासिंचेत् ” इति । एतच्च
द्वितीयावनेजनं पिंडपात्रप्रक्षालनोदकेन कार्यम् । “ पात्रनिर्णेजनेनैव पुनः प्रत्यवनेजयेत् ” ॥ इति
स्मरणात् । पुत्रार्थी मध्यमं पिंडं पत्न्यै दद्यात् । तथा च '''वायुपुराणे—'''“पत्ल्यै प्रजार्थं दद्यात्तु
मध्यमं मंत्रपूर्वकम् ” इति । मध्यमं पिंडमित्यर्थः । मंत्रस्तु मत्स्येन दर्शितः— १०
“ आधत्त पितरो गर्भमत्र संतानवर्धनम् ” इति । '''मनुः—'''
“ पतिव्रता धर्मपत्नी पितृपूजनतत्परा । मध्यमं तु ततः पिंडमद्यात्सम्यक्सुतार्थिनी ॥
“आयुष्मंतं सुतं विंद्येद्यशोमेधासमन्वितम् । धनवंतं प्रजावंतं धार्मिकं सात्विकं तथा” ॥ इति ।
'''यमः—'''
“ यत्तथा मध्यमं पिंडं पत्नी प्राश्नाति वाग्यता । पुत्रकामा सुपुत्रां तां कुर्वंति प्रपितामहाः” ॥ इति । १५
'''शंखलिखितौ—'''“ पत्नी मध्यमं पिंडमश्नीयादार्त्तवस्नाता ” इति । अगृहीतगर्भा अत्रार्तवस्नाते-
त्युच्यते । ततश्च गृहीतगर्भा पत्नी नाश्नीयात् ।
अत एवंविधे विषये मध्यमपिंडस्य प्रतिपत्त्यन्तरमाह '''बृहस्पतिः—'''
“ अन्यदेशगता पत्नी गर्भिणी रोगिणी तथा । तद्वा तं जीर्णवृषभः छागो वा भोक्तुमर्हति” ॥ इति ।
जीर्णो गतरेताः । अत एव '''वायुपुराणे—''' २०
“ गतवीर्यश्च यो ह्यश्वोऽनड्वांश्चैव तथाविधः । तयोः पिंडः प्रदातव्यो यथा वीर्यं न रोहति ” ॥ इति ।
प्रतिपत्त्यन्तरमाहा'''पस्तंबः—'''
“ यदि पत्नी विदेशस्था उच्छिष्टा यदि वा मृता । दुरात्माऽननुClass च तस्य पिंडस्य का गतिः ॥
“आकाशं गमयेत्पिंडं जलस्थो दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणा दिक् तथैव च”॥ इति ।
यत्तु '''देवलेनोक्तम्—''' २५
“ ततः कर्मणि निर्वृत्ते पिंडांश्च तदनंतरम् । ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत् ” ॥ इति ।
तत्पुत्रार्थित्वाभावविषयम् । तत्सद्भावे मध्यमपिंडव्यतिरिक्तपिंडान्तरविषयं च । तीर्थश्राद्धे पिंडा-
नामप्स्वेव प्रक्षेपः । तदुक्तं '''विष्णुधर्मोत्तरे—'''
“तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थे समाहितः । दक्षिणाभिमुखो भूत्वा पित्र्या दिक्स्रा प्रकीर्तिता”॥ इति ।
{{rule}}<noinclude></noinclude> 6u9l5kalpy8pkxbwo1argxanfl6npxy पृष्ठम्:Smriti mukta phalam.pdf/८५८ 104 166861 419884 2026-11-11T03:26:43Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८१८|'''उच्छिष्टसंमार्जनादि ।'''|}} {{rule}} '''उच्छिष्टसंमार्जनादि ।''' अनंतरं उच्छिष्टदेशं संमार्जयोत् । अत एव '''याज्ञवल्क्यः—'''
“पिंडांस्तु गोऽजविप्रेभ्यो दद्यादग्... नवीन पृष्ठं निर्मीत अस्ती 419884 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८१८|'''उच्छिष्टसंमार्जनादि ।'''|}} {{rule}} '''उच्छिष्टसंमार्जनादि ।''' अनंतरं उच्छिष्टदेशं संमार्जयोत् । अत एव '''याज्ञवल्क्यः—'''
“पिंडांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत्”॥ इति ।
अयमर्थः । सत्सु विप्रेषु विप्रविसर्जनात्प्रागुच्छिष्टं न मार्जयित् । किंतु तेषु विसर्जितेषु पिंडप्रतिपत्तौ
च कृतायां शोधयेदिति । यत्तु '''व्यासेनोक्तम्—'''
५ “ उच्छिष्टं न प्रमृज्यात्तु यावन्नास्तमितो रविः ” इति यच्च '''वसिष्ठेनोक्तम्—'''
“श्राद्धे नोद्वासनीयानि उच्छिष्टान्या दिनक्षयात् । श्र्योतंते वै स्वधाकारास्तान् पिबन्त्यकृतोदकाः”॥ इति
तद्गृहासम्भवविषयम् । अत एव '''प्रचेताः—'''
“ भुक्तवत्सु ततो भुंक्ते कव्यशेषं स्वगोत्रजैः । आ सायं श्राद्धशालायां द्विजोच्छिष्टं न मार्जयेत्”॥ इति ।
बंधुभिः सह पितृसेवितशेषभोजनार्थं गृहांतसद्भावे आसायमुच्छिष्टदेशशोधनं न कार्यम् । गृहां-
१० तराभावे ब्राह्मणेषु विसर्जितेषु पिंडप्रतिपत्तौ च कृतायां कर्तव्यमित्युक्तं भवति ।
'''पात्रचालनादि ।''' पात्रचालनमात्रं सत्सु विप्रेषु स्वस्तिवाचनात्पूर्वमवश्यं कर्तव्यम् ।
अन्यथा दोषस्मरणात् । तथा च '''नारायणः—'''
“अचालयित्वा तत्पात्रं स्वस्ति कुर्वंति ये द्विजाः । निराशाः पितरस्तेषां शप्त्वा यांति यथागतम्”॥ इति ।
'''बृहस्पतिरपि—'''
१५ “ भाजनेषु च तिष्ठत्सु स्वस्ति कुर्वंति ये द्विजाः । तद्दत्तमसुरैर्भुक्तं निराशौः पितृभिर्गतैः” ॥ इति ।
पात्रचालने विशेषमाह '''जातुकर्णिः—'''
“पात्राणि चालयेच्छ्राद्धे स्वयं शिष्योऽथ वा सुतः । न स्त्रीभिर्न च बालेन नासजात्या कथंचन”॥ इति ।
'''भुक्तिपात्राणि निसनेत्'''
“ भुक्तिपात्रं समुद्धृत्य निखनेत्तु प्रयत्नतः । अलब्धप्रेतकार्येषु तस्य त्यागो विधीयते” ॥ इति
२० स्मरणात् । यत्नत इति यथा श्वादिभिः स्पर्शाभावः तथा निखनेदित्यर्थः । श्राद्धे तूच्छिष्टपात्राणि
गर्ते निक्षिप्य गोपयेत् । मृद्भिdirच्छादयेत् । श्वादि “ यथा न स्पृशते तथा ” इति स्मरणात् ।
'''न शूद्राय श्राद्धशेषं दद्यात्—'''
“ श्राद्धं दत्वा य उच्छिष्टं वृषलाय प्रयच्छति । पितरस्तस्य षण्मासं भवन्त्युच्छिष्टभोजनाः ” ॥ इति
स्मृतेः । '''स्मृत्यंतरेऽपि—'''
२५ “भुक्तिपात्रस्थमुच्छिष्टं बालेभ्यो यः प्रयच्छति । भृत्येभ्यो वृषलेभ्यो वा स श्राद्धं हंत्यसंशयम्”॥ इति ।
“भुक्तिपात्रस्थमुच्छिष्टं पशुभ्यो यः प्रयच्छति । अजेभ्यो महिषीभ्यो वा स श्राद्धं हन्त्यसंशयम् ” ॥ इति ।
'''आश्वलायनः—'''
“ न शूद्रं भोजयेत्तस्मिन् गृहे यत्नेन तद्दिने । श्राद्धशेषं न शूद्रेभ्यो ददाति च खलेष्वपि ” ॥
श्राद्धदिने नित्यश्राद्धमधिकृत्य '''मार्कंडेयेनोक्तम्—'''‘पृथक्पाकेन नेत्यन्ये’ इति । पृथक्पाकेन नित्य-
३० श्राद्धं कार्यं नेत्यन्ये न पृथक्पाकेन कार्यं किंतु श्राद्धशेषेणैव कार्यमित्यन्ये मन्यन्त इत्यर्थः ।
एतच्च नित्यश्राद्धं श्राद्धांतरे कृते सत्यानियतम् । यदाह स एव—
“नित्यक्रियां पितॄणां च केचिदिच्छंति मानवाः । न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत् ” ॥ इति ।
पितॄणां नित्यक्रियां नित्यश्राद्धं केचिदिच्छंति । अन्ये नेच्छंति । शेषे वैश्वदेवाधिकं पूर्ववदाचरेव्
नियमेनैव कुर्यादित्यर्थः ।
{{rule}}<noinclude></noinclude> qp6qm8dvo6xkxoakg4d129d2vjpejcg पृष्ठम्:Smriti mukta phalam.pdf/८५९ 104 166862 419885 2026-11-11T03:28:43Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''वैश्वदेवकरणे । शेषभोजनम् ।'''|८१९}} {{rule}} अत्र '''पैठीनसिः—'''
“श्राद्धं निर्वर्त्य विधिवद्वैश्वदेवाधिकं ततः । कुर्याद्भिक्षां ततो दद्यात् हन्तकारादिकं तथा” ॥... नवीन पृष्ठं निर्मीत अस्ती 419885 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''वैश्वदेवकरणे । शेषभोजनम् ।'''|८१९}} {{rule}} अत्र '''पैठीनसिः—'''
“श्राद्धं निर्वर्त्य विधिवद्वैश्वदेवाधिकं ततः । कुर्याद्भिक्षां ततो दद्यात् हन्तकारादिकं तथा” ॥ इति ।
ततः पितृपाकत्समुद्धृतादन्नादित्यर्थः । '''आश्वलायनः—'''
“ दानाध्ययनदेवार्च्चाजपहोमाद्रिकाम् क्रमात् । न कुर्याच्छ्राद्धदिवसे प्राग्विdischarge विसर्जनात् ॥
“ श्राद्धेऽह्नि भोजयेद्दास्तौ न बालानपि यत्नतः । प्राक्पिण्डदानाद्धन्यायैर्नालंकुर्यात् स्वविग्रहम्” ॥ ५
यत्तु '''पैठीनसिवचनम्—'''
“ पितृपाकात्समुद्धृत्य वैश्वदेवं करोति यः । आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ” ॥ इति
तच्छ्राद्धस्यादौ पृथक्पाकादेव वैश्वदेवकरणं न पितृपाकादित्येवं परम् । अत एव श्राद्धे भोजनात्पूर्वं
पितृपाकाद्वैश्वदेवकरणे दोषोऽभिहितः '''पुराणे'''
“ प्रातिवाससिको होमः श्राद्धादौ क्रियते यदि । देवा हव्यं न गृह्णंति कव्यं च पितरस्तथा”॥ इति । १०
'''आनुशासनिके—'''
“ यदा श्राद्धं पितृभ्यश्च दातुमिच्छति मानवः । तद्वा पश्चात्प्रकुर्वीत निर्वृत्ते श्राद्धकर्मणि ” ॥ इति
“ततोऽन्नेनावशिष्टेन पूजयेदतिथीनापि” । ब्राह्मणभोजनात्पूर्वं वैश्वदेवकरणं च स्मृत्यंतरेऽभिहितम्—
“ वैश्वदेवाहुतीहृत्वाविप्रान्ब्राह्मणभोजनात् । जुहुयादृतयज्ञादि श्राद्धं कृत्वा ततः स्मृतम् ”॥ इति ।
एतच्चाहिताग्निविषयम् । एवं च श्राद्धादौ अग्नौकरणानंतरं वा पृथक्पाकादेव वैश्वदेवहोमः । १५
निर्वृत्ते तु श्राद्धे पितृपाकात् इति चंद्रिकादौ निर्णीतम् । यत्तु '''लोकाक्षिणोक्तम्—'''
“ पित्रर्थं निर्वपेत्पाकं वैश्वदेवार्थमेव च । वैश्वदेवं न पित्रर्थं न दर्शं वैश्वदेविकम् ” ॥ इति ।
अस्यार्थः—पैतृकब्राह्मणभोजनार्थं वैश्वदेविकब्राह्मणभोजनार्थं च पृथक्पाके कुर्यात् ।
दर्शिममावास्याश्राद्धार्थं निरुप्तमन्नं कृतेऽपि श्राद्धेन वैश्वदेवहोमार्थं भवतीति । अत्र न दर्शं
वैश्वदेविकमित्येतदाहिताग्निदर्शश्राद्धविषयं तस्य दर्शश्राद्धात्प्रागेव वैश्वदेवविधानेन श्राद्धांते २०
श्राद्धशिष्टेन वैश्वदेवायोगात् । अग्निमतां दर्शश्राद्धात्प्रागेव वैश्वदेवविधिश्च तेनैव दर्शितः—
“ पक्षांतं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः । पिंडयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः”॥ इति ।
पक्षांतकर्माग्न्वन्वाधानं अन्वाहार्यकं अमावास्याश्राद्धमित्यर्थः । एवं च साग्निकामावास्याश्राद्धे वैश्व-
देवार्थं पृथगेव पाकः इति चंद्रिकायाम् । अत्र यच्चान्यद्वक्तव्यं तद्वैश्वदेवप्रकरणेऽभिहितम् ।
'''पितृशेषभोजनम् ।''' वैश्वदेवार्थं पृथक्पाके कृतेऽपि पितृपाकशेषादेव भोजनम् २५
“ प्रदक्षिणमनुव्रज्य भुंजीत पितृसेवितम् ” इति याज्ञवल्क्यस्मरणात् ।
अभोजने दोषमाह '''देवलः—'''
“ श्राद्धं कृत्वा तु यो विप्रो न भुंक्ते तु कदाचन । देवा हव्यं न गृह्णंति कव्यानि पितरस्तथा”॥ इति ।
एतच्च पितृसेवितभोजनं सर्वविधात्पितृसेवितादुपादाय कर्त्तव्यम् । तथा च '''मत्स्यः—'''
“ ततश्च वैश्वदेवांते सभृत्यसुतबांधवः । भुंजीतातिथिसंयुक्तः सर्वं पितृनिषेवितम् ”॥ इति । ३०
अतिथ्यादीनामपि शेषभोजने न दोष इति चन्द्रिकादावनेकवचनपुरःसरं प्रतिपादितम् ।
“पितृशेषं तु यो भुङ्क्ते सोऽन्यशातिकुलोद्भवम् । प्रदाय कर्त्रे स्वं पुण्यं पापमादाय गच्छति”॥ इति ।
यथा शिष्टाचारस्तथा कर्तव्यम् । अतिथ्यादीनां वैश्वदेवशिष्टान्नं व्यंजनं च पितृशेषमेव दातव्यम् ।
“ फलशाकव्यञ्जनानि पयो दधि घृतं मधु । पक्वापकानि यानि स्युस्तेषां शेषो न विद्यते ” ॥
{{rule}}<noinclude></noinclude> rcch0zj1nnaolkubyyc724xd6z2zqe5 पृष्ठम्:Smriti mukta phalam.pdf/८६० 104 166863 419886 2026-11-11T03:29:38Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८२०|'''भोजनस्यावश्यक्त्वम् । एकादश्यादौ प्रत्याम्नायः ।'''|}} {{rule}} यदापि क्षुन्न विद्यते तदापि शेषभोजनस्यावश्यकत्वात्सर्वमेव पितृसेवितं लेशतो भोक्तव्यम् ।
अ... नवीन पृष्ठं निर्मीत अस्ती 419886 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८२०|'''भोजनस्यावश्यक्त्वम् । एकादश्यादौ प्रत्याम्नायः ।'''|}} {{rule}} यदापि क्षुन्न विद्यते तदापि शेषभोजनस्यावश्यकत्वात्सर्वमेव पितृसेवितं लेशतो भोक्तव्यम् ।
अत एवापस्तंबः— “ सर्वतः समवदात्तरेण यजुषा शेषस्य ग्रासावरार्ध्यं प्राश्नी-
यात् ” ॥ इति । असति तु पितृशेषे पाकांतं कृत्वा भोक्तव्यम् “ भुंजीतैव कृते श्राद्धे पुत्री
नोपवसेद्गृही ” ॥ इति । स्मरणात् । अत एवैकादश्यादौ भोजनप्रत्याम्नायः स्मर्यते—
५ “ उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ” ॥ इति ।
एतदाघ्राणं च कर्तृव्यतिरिक्तविषयम् ।
“ कर्तुर्योन्यैर्न भोक्तव्यं श्राद्धे प्राप्ते हरेर्दिने । पितृशेषं तथाघ्राय उपवासफलाप्तये ” ॥ इति ।
“ कर्ता नोपवसेच्छ्राद्धे पित्र्येऽप्येकादशीदिने । तयोरप्यधिकं ब्रूयुः पितृशेषं महर्षयः ” ॥ इति ।
एकादशीव्यतिरिक्तदिने ज्ञातिभिरपि अवश्यं पितृशेषं भोक्तव्यमित्याह—
१० “ पितृशेषं न यो भुङ्क्ते को वा ज्ञातिकुलोद्भवः । पितृद्रोही स विज्ञेयः पुत्रपौत्रविना कृतः ॥
“ अकिंचनोऽपि कर्ता स्यात् स्वान्नमादाय तद्गृहे । भोक्तव्यमेव सद्भिर्भिः पुत्रपौत्रादिवृद्धये” ॥ इति ।
“ पितृशेषं तु यो भुंक्ते कर्ता तु ज्ञातिभिर्विना । यमस्य शमलं भुङ्क्ते दाता प्राशयते पितॄन् ” ॥
पितृसेवितभोजननियमोऽनुज्ञापेक्षा एव । अत एव शातातपः—
“ शेषमन्नमनुज्ञातं भुंजीत तदनंतरम् । इष्टैः श्राद्धं तु विधिवत्कृद्विद्वान्सुसमाहितः ” ॥ इति ।
१५ निगमोऽपि— “ अनुज्ञातो गृह्णान् बालवृद्धांश्च परितोष्य भुंजीत ” ।
'''श्राद्धदिने दातृभोक्तृनियमाः ।''' दातृभोक्तृनियममाह '''बृहस्पतिः—'''
“तां निशां ब्रह्मचारी स्याच्छ्राद्धकृच्छ्राद्धभुकैः सह । अन्यथा वर्त्तमानौ तु स्यातां निरयगामिनौ”॥इति ।
'''मत्स्यः—'''
“ पुनर्भोेजनमध्वानं यानमायासमैथुने । श्राद्धकृच्छ्राद्धभुक् चैव सर्वमेतद्विवर्जयेत् ॥
२० “ स्वाध्यायं कलहं चैव दिवा स्वापं च स्वेच्छया ” इति ।
'''यमः—'''“ पुनर्भोेजनमध्वानं भाराध्ययनसंगमम् । संध्यां प्रतिग्रहं होमं श्राद्धभुक् त्वष्ट वर्जयेत् ॥
“ दंतधावनतांबूलं क्षौराभ्यंगमभोजनम् । रत्यौषधपरात्रानि श्राद्धकर्ता विवर्जयेत् ” ॥ इति ।
संध्याहोमयोः प्रतिषेधस्त्वकृतप्रायश्चित्तस्य कृते तु प्रायश्चित्ते कुर्यात् । अत एव '''भविष्यत्पुराणम्—'''
“ दशकृत्वः पिवेच्चापो गायत्र्या श्राद्धभुक् द्विजः । ततः संध्यामुपासीत जपेच्च जुहुयादपि ” ॥ इति ।
२५ जुहुयादित्येतदन्यस्य होतुरलाभे द्रष्टव्यम् । तल्लाभे तु तेनैव हावयेत् । यदाह '''कात्यायनः—'''
“ सूतके च प्रवासे च अरुक्तौ श्राद्धभोजने । एवमादिनिमित्तेषु हावयेद्वां नियोजयेत् ” ॥ इति ।
हावयेदिति यज्ञोभिलादिभिरुक्तं तदेवमादिनिमित्तेषु योजयेदित्यर्थः ।
'''यथाशक्ति श्राद्धानुष्ठानम् ।''' यथाशक्ति श्राद्धानुष्ठानमाह '''शातातपः—'''
“ यथाकथंचिन्नित्यं यत्कुर्याद्दिंदुक्षयादिषु । पात्रद्रव्यादिसंपत्सु निन्ये काम्यफलं लभेत् ” ॥ इति ।
३० अमावास्यादिषु चोदितं श्राद्धं पात्रद्रव्यादिसंपत्त्यभावेऽपि यथाशक्ति कुर्यादिति पूर्वार्धस्यार्थः ।
'''देवलः—'''
“ पात्रालाभेऽपरं कृत्वा पितृयज्ञविधिं नरः । निर्दिश्याप्यन्नमुद्धृत्य यत्र पात्रं ततो गतिः ॥
“ पात्राभावे क्षिपेदग्नौ गवे दद्यादथाप्सु वा । न तु प्राप्तस्य लोपोऽस्ति पैतृकस्य विशेषतः” ॥ इति ।
{{rule}} १ ग-द्वेतिः, क्ष-द्वे नि ।<noinclude></noinclude> tr7lnmba54dg4vssi48t4uc8soezz9e पृष्ठम्:Smriti mukta phalam.pdf/८६१ 104 166864 419887 2026-11-11T03:31:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''संकल्पश्राद्धविधिः । आमश्राद्धम् ।'''|८२१}} {{rule}} अस्यार्थः—“ पात्राभावे अनुकल्पतयाऽप्युक्तपात्रस्याप्यलाभे पितृयज्ञविधिं अग्नौकरणं कृत्वा अन्नं
भाजने... नवीन पृष्ठं निर्मीत अस्ती 419887 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''संकल्पश्राद्धविधिः । आमश्राद्धम् ।'''|८२१}} {{rule}} अस्यार्थः—“ पात्राभावे अनुकल्पतयाऽप्युक्तपात्रस्याप्यलाभे पितृयज्ञविधिं अग्नौकरणं कृत्वा अन्नं
भाजने उद्धृत्य निर्दिश्य चतुर्थ्यंतशब्देन देवान्पितॄंश्चोद्दिश्य उद्धृतमन्नं त्यक्त्वा अदूरे विप्रोऽस्ति
चेत्तत्र नीत्वा तस्मै तदन्नं समर्पयेत् । दूरस्थे तु पात्रे निर्दिष्टमन्नमग्नौ क्षिपेत् । अथवा गवे भक्षणार्थं
प्रयच्छेत्तथाप्युदके वा क्षिपेत् । न तु पात्राभावमात्रेण कर्मणो लोपः कार्यः इति ” ।
'''संकल्पश्राद्धविधिः ।''' विस्मृतपार्वणानुष्ठानासंभवे तु '''व्यासेनोक्तम्—''' ५
“ त्यक्ताग्नेः पार्वणं नैव नैकोद्दिष्टं सपिंडनम् । अत्यक्ताग्नेस्तु पिंडोक्तिस्तस्मात्संकल्प्य भोजयेत्”॥ इति ।
त्यक्ताग्नेः अग्निधानेनोत्सृष्टाग्नेः पार्वणैकोद्दिष्टसपिंडीकरणात्मकश्राद्धकर्माणि नैवाधिकारः । पिंडोक्तिः
श्राद्धं कर्तव्यमित्युक्तिः । अत्यक्ताग्नेरेव श्राद्धाधिकारः इति यावत् । तस्मादत्यक्ताग्निरिवाशक्तौ
संकल्पविधानेन श्राद्धं कुर्यादित्यर्थः । तत्स्वरूपमधस्तात्प्रतिपादितम् ।
'''आमश्राद्धविधिः—पक्वद्रव्यसंपादनासंभवे तु सुमंतुः—''' १०
“ पाकाभावेऽधिकारः स्याद्विप्रादीनां नराधिप । अपत्नीनां महाबाहो विदेशगमनादिभिः ॥
“ सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः । आत्मनो देशकालाभ्यां विषुवे समुपोगते ॥
“ आपद्यनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि । चंद्रसूर्यग्रहे चैव दद्यादामं विशेषतः ” ॥ इति ।
विप्रादीनां त्रैवर्णिकानां पत्नीरहितानां विदेशगमनादिभिश्च कारणैः पाकसंपादनासम्भवे आमश्राद्धे
अधिकारः स्यात् । चंद्रसूर्यग्रहेऽपि यस्य पाकासंभवः भोक्तुर्ब्राह्मणस्य वा अलाभः स आमं १५
दद्यादित्यर्थः । '''उशनाः—'''
“अपत्नीकः प्रवासी च यस्य भार्या रजस्वला । सिद्धान्नेन न कुर्वीत आमं तस्य विधीयते”॥ इति ।
सिद्धान्नेन लब्धक्रीतादिपक्वान्नेन न कुर्वीतेति चंद्रिकायां व्याख्यातम् । '''जमदग्निः—'''
“ न भवेद्यस्य सामग्री दारा वा गृहमेव च । आमश्राद्धं प्रकुर्वीत वृद्धो बालश्च यो भवेत् ।
“यावत्स्यान्नाग्निसंयुक्त उत्सन्नाग्निरथापि वा । आमश्राद्धं सदा कुर्याद्धस्तेऽग्नौकरणं भवेत्”॥ इति । २०
'''हारीतः—'''
“ श्राद्धविघ्ने द्विजातीनामामाश्राद्धं प्रकीर्तितम् । अमावास्यादिनियतं माससंवत्सराहते ”॥ इति ।
अनेन मासिकमाब्दिकं च श्राद्धमवश्यं पाकेन कार्यमित्युक्तं भवति । एतच्च प्रतिपादितमधस्तात् ।
यत्तु '''जमदग्निनोक्तम्—'''
“ आब्दिकं श्रद्धया श्राद्धं श्राद्धकाले यथाविधि । पाकेन वा शृतेनापि नूनं कुर्यात्सुतः पितुः ” ॥ इति २५
तच्छ्रद्धयावश्यं कार्यमित्येवंपरम् । अन्यथा
“ माससंवत्सराहते न तत्कुर्यान्मृतेऽहनि । आपद्यपि च नामेन तन्मासि हरियासरे—
“ कुंष्ण इंदुक्षये वापि कुर्यादन्नेन वार्षिकम् ” ॥ इत्यादि बहुस्मृतिविरोधप्रसंगः ।
'''आमश्राद्धे विशेषमाह व्यासः—'''
“ चतुर्थ्यस्यैव पाथेयं सर्पिंडीकरणात्परम् । आमेनेव तु कर्त्तव्यं पुनः श्राद्धं न सोऽर्हति”॥ ३०
“आमं ददत् कौंतेय दद्यादन्नं चतुर्गुणम् । सिद्धाने तु विधिर्यः स्यादामश्राद्धेऽप्यसौ विधिः ॥
“ आवाहनादिसर्वः स्यात्पिंडदानं च भारत । दद्याच्च द्विजातिभ्यः शृतं वाऽशृतमेव वा ॥
“ तेनाग्नौकरणं कुर्यात्पिडांस्तेनैव निर्वपेत् ।
“आमश्राद्धं यदा कुर्याद्द्विजः श्राद्धदस्तदा । हस्तेऽग्नौ करणं कुर्याद् ब्राह्मणस्य विधानतः ” ॥ इति ।
{{rule}} १ ग-बन्दी । १०४-३५<noinclude></noinclude> qxpaojtnfxp26rwc072umagh75huu4w पृष्ठम्:Smriti mukta phalam.pdf/८६२ 104 166865 419888 2026-11-11T03:32:17Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८२२|'''हिरण्यश्राद्धादिविधिः । श्राद्धप्रशंसा ।'''|}} {{rule}} '''षट्त्रिंशन्मते तु—'''
“ आमश्राद्धं यदा कुर्यात्पिंडदानं कथं भवेत् । पिंडपाकात्समुद्धृत्य सक्तुभिः... नवीन पृष्ठं निर्मीत अस्ती 419888 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८२२|'''हिरण्यश्राद्धादिविधिः । श्राद्धप्रशंसा ।'''|}} {{rule}} '''षट्त्रिंशन्मते तु—'''
“ आमश्राद्धं यदा कुर्यात्पिंडदानं कथं भवेत् । पिंडपाकात्समुद्धृत्य सक्तुभिः पायसेन वा ॥” इति ।
'''हिरण्यश्राद्धादिविधिः ।''' “ आमश्राद्धासम्भवे तु हेमश्राद्धमाह '''व्यासः—'''
“ द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि । हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ” ॥ इति ।
५ अत्राप्याश्राद्धोक्ता विशेषा यथासंभवमनुसंधेयाः । हेमद्रव्यालाभेष्वप्युक्तं '''स्मृत्यंतरे—'''
“ तृणानि वा गवे दद्यात्पिंडान्वापि च निर्वपेत् । तिलोदकैः पितॄन्वापि तर्पयेत्स्नानपूर्वकम् ॥
“ अग्निना वा दहेत्कक्षं श्राद्धकाले समागते । तस्मिंश्चोपवसेदन्हि जपेद्वा श्राद्धसंयुतान् ॥
“ अंगानि पितृयज्ञस्य यदा कर्तुमशक्नुयात् । स तदा वाचयेद्विप्रान् सकला सिद्धिरस्त्विति ” ॥
एवमनुकल्पानुष्ठानेऽपि शाठ्याभावे सति मुख्यकल्पानुष्ठानफलं भवति
१० “ श्राद्धानुकल्पं यः कुर्याज्ज्ञात्यवस्थाद्यपेक्षया । श्राद्धांगांशेऽप्यवाप्नोति मुख्यश्राद्धफलं नरः”॥
इति स्मरणात् । श्राद्धांगांशे यथाशक्ति कतिपयांगानुष्ठानेऽपि कृत इत्यर्थः ।
'''श्राद्धप्रशंसा ।''' श्राद्धं प्रशंसति '''सुमंतुः—'''
“ श्राद्धात्परतरं नान्यच्छ्रेयस्करमुदाहृतम् । तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्विचक्षणः ” ॥ इति
'''देवलः—'''
१५ “ अरोगः प्रकृतिस्थश्च चिरायुः पुत्रपौत्रवान् । अर्थवानर्थकामी च श्राद्धकामो भवेदिह ॥
“ परत्र च परां तृप्तिं लोकांश्च विविधाञ्छुभान् । श्राद्धकृत्समवाप्नोति यशश्च विपुलं नरः ” ॥ इति
'''यमोऽपि—'''
“ ये यजंति पितॄन्द्देवान्ब्राह्मणान्सहुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजंति ते ॥
“आयुः पुत्रान्यशःस्वर्गं कीर्तिः पुष्टिं बलं श्रियम् । पशून्सौख्यं धनं धान्यं प्राप्नुयात्पितृपूजनात् ” ॥ इति ।
२० '''बृहस्पतिः—'''
“ य एवं वेत्ति मतिमांस्तस्य श्राद्धफलं भवेत् । उपदेष्टाऽनुमंता च लोके तुल्यफलौ स्मृतौ ” ॥
'''हारीतोऽपि—'''
“ इमं श्राद्धविधिं पुण्यं कुर्याद्वाऽपि पठेत्तु यः । सर्वकामैः स मुच्येति अमृतत्वं च गच्छति ” ॥ इति ।
अकरणेऽपि दोष स्तेनैव दर्शितः—
२५ “न तत्र वीरा जायते नारोगा न शतायुषः । न च श्रेयोऽधिगच्छंति यत्र श्राद्धं विवर्जितम् ” ॥ इति ।
'''आदित्यपुराणेऽपि—'''
“ वसन्ति पितरश्चेति कृत्वा मनसि यो नरः । श्राद्धं न कुरुते तत्र तस्य रक्तं पिबंति ते ” ॥
'''मार्कंडेयः—'''
“ अन्यायोपार्जितद्रव्यैर्यच्छ्राद्धं क्रियते नरैः । तृप्यंति तेन चंडालाः पुल्कसायाश्च योनयः ”॥इति ।
३० ननु प्रातिस्विकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां दूरस्थकव्यभोक्तृत्वसामर्थ्यरहितानां
मनुष्याणां पुत्रादिभिर्दत्तैरन्नपानादिभिस्तृप्त्यसम्भवात् संभवेऽपि स्वयमात्मनामप्यनीशानाः कथं
स्वर्गादिफलं प्रयच्छंतीत्यत्राह । '''याज्ञवल्क्यः—'''
“ वसुरुद्रादितिसुताः पितरं श्राद्धदेवताः । प्रीणयंति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः
“आयुः प्रजां धनं धान्यं स्वर्गं मोक्षं सुखानि च । प्रयच्छंति तथा राज्यं प्रीता नॄणां पितामहाः”॥इति
{{rule}} १ कखग- गृह्<noinclude></noinclude> stgl5qxzxfbvrvekzjz3depgexzw30g पृष्ठम्:Smriti mukta phalam.pdf/८६३ 104 166866 419889 2026-11-11T03:34:09Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''श्राद्धं पितॄणां फलप्रापकम् ।'''|८२३}} {{rule}} अत्र '''विज्ञानेश्वरः—'''न ह्यत्र देवदत्तादय एव श्राद्धे कर्मणि संप्रदानभूताः पित्रादिशब्दै-
रुच्यंते । किंतु अधिष... नवीन पृष्ठं निर्मीत अस्ती 419889 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''श्राद्धं पितॄणां फलप्रापकम् ।'''|८२३}} {{rule}} अत्र '''विज्ञानेश्वरः—'''न ह्यत्र देवदत्तादय एव श्राद्धे कर्मणि संप्रदानभूताः पित्रादिशब्दै-
रुच्यंते । किंतु अधिष्ठातृवस्वादिदेवतासहिता एव यथा देवदत्तादिशब्दैर्न शरीरमात्रं नाप्यात्म-
मात्रं किंतु शरीरविशिष्ट आत्मान उच्यंते एत्रमधिष्ठातृदेवतासहिता एव देवदत्तादयः पित्रादि-
शब्दैरुच्यंते । अतश्च अधिष्ठातृदेवतावस्वाद्यः पुत्रादिभिर्दीनान्नपानादितुष्टाः संतस्तानपि
देवदत्तादींस्तर्पयंति कर्तॄंश्च पुत्रादीन्फलेन संयोजयंतीति । '''शातातपः—''' ५
“वसवः पितरो ज्ञेया रुद्रा ज्ञेयाः पितामहाः।प्रपितामहास्तथादित्या इत्येषां वैदिकी श्रुतिः ” ॥ इति ।
'''पैठीनसिः—'''“ वसवः पितरो रुद्राः पितामहा आदित्या प्रपितामहा य एवं विद्वान्वितॄन्यजते
वसवो रुद्रा आदित्याश्चास्य प्रीता भवंति ” ॥ इति । '''मनुरपि—'''
“ वसून्वदंति तु पितॄन्रुद्रांश्चैव पितामहान् । प्रपितामहास्तथादित्यान्श्रुतिरेषा सनातनी ” ॥ इति ।
'''व्यासः—''' १०
“ यथा गोषु प्रनष्टो वै वत्सो विंदंति मातरम् । एवं श्राद्धेऽन्नमुद्दिष्टं मंत्रः प्रापयते पितॄन्” ॥
'''मत्स्योऽपि—'''“ नामं गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः ।
“ नाममंत्रास्तथा देशा भावांतरगतानपि । प्राणिनः प्रीणयंत्येते तदाकारत्वमागतान् ॥
“ देवो यदि पिता जातः शुभकर्मानुयोगतः । तस्यान्नममृतं भूत्वा देवत्वे ह्युपगच्छति ॥
“ देवत्वे भोग्यरूपेण पशुत्वे तु तृणं भवेत् । श्राद्धान्नं वायुरूपेण नागत्वेऽप्युपतिष्ठति ॥ १५
“ पानं भवति यक्षत्वे गृध्रत्वे च तथामिषम् । दनुजत्वे तथा मांसं प्रेतत्वे रुधिरोदकम् ॥
“ मानुषत्वेऽन्नपानादि नानाभोगकरं तथा । रतिः शक्तिः स्त्रियः कांता भोज्यं भोजनशक्तिता ॥
“दानशक्तिः सविभवा रूपमारोग्यमेव च । श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमे” ॥ इति ।
नामानि देवदत्तयज्ञदत्तादीनि । मंत्राः पृथिवी ते पात्रम् इत्यादयः । आदेशः इदमन्नादिकममुष्मै
भवत्वित्येवमादिनिर्देशः । पुष्पमवांतरफलं ब्रह्मसमागमे ब्रह्मप्राप्तिः परमफलं प्रोक्तमित्यर्थः । २०
'''हारीतः—'''
“ कालेऽन्यथा गतं पात्रे विधिना प्रतिपादितम् । प्राप्नोत्यन्नं तथा दत्तं जंमुर्यत्रोपतिष्ठते ।
“ यन्नाम्ना पातयेत्पिंडं तं नयेद्ब्रह्म शाश्वतम् ” ॥ इति ।
“ परंक्षुरापि तत्तृप्त्यै ब्राह्मणान् भोजयेत् द्विजः । अनपेक्षस्थितस्यैव शापं दत्वा व्रजंति ते ” ॥ इति ।
॥ इति वैद्यनाथदीक्षितविरचिते स्मृतिमुक्ताफले श्राद्धनिरूपणं नाम चतुर्थः परिच्छेदः । २५
{{rule}}
हरिः ओम् । श्रीव्यंकटेश्वराप्रणमस्तु । श्री शके १७६४ शुभकृन्नाम संवत्सरे मार्गशीर्ष-
कृष्णपक्षे नवम्यां तद्दिने गुरुवार वारे समाप्तं । स्वार्थं परार्थं च ।
“ तैलाद्रक्षेज्जलाद्रक्षेद्रक्षेच्छिथिलबंधनात् । मूर्खहस्ते न दातव्यं एवं वदति पुस्तकम् ॥
श्रीकालभैरवप्रसन्न । श्री । श्रीगणेशायनमः । वैद्यनाथीय श्राद्धकांड अनुक्रमणिका प्रारंभः । ऊर्ध्वो- ३०
च्छिष्टादौ । विधुरविधवाविषये पर्युषितशवप्रायश्चित्तं । “ सर्पदंशान्यादिमरणे आहिताग्निविधवाविषये ।
संस्कार्त्तारः । अग्निनिर्णयः । उत्सन्नलक्षणं कपालाग्निलक्षणं । भार्याद्वयेग्निसंसर्गात्पूर्वमृत्तौ परमृतौ ॥
{{rule}}<noinclude></noinclude> fjomy6ap06xst8qithdr8snd4tjgmvo पृष्ठम्:Smriti mukta phalam.pdf/८६४ 104 166867 419890 2026-11-11T03:35:04Z Myauthworks 10864 /* अपरिष्कृतम् */
COLLECTION OF HINDU LAW TEXTS
No. 25 (5)

'''Śrî VAIDYANÂTHA DÎKSHITA’S'''

'''SMṚTIMUKTĀPHALAM'''

(PART V)

'''KĀLA KĀṆDA (5) and PRÁYAŚCHITTA KĀṆDA (6)'''

{{rule|3em}}

EDITED BY

'''J. R. GHARPURE,''' B. A., LL. B. (Honours-in-Law), F. R. S. A.
''Principal, Law Co... नवीन पृष्ठं निर्मीत अस्ती 419890 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>
COLLECTION OF HINDU LAW TEXTS
No. 25 (5)

'''Śrî VAIDYANÂTHA DÎKSHITA’S'''

'''SMṚTIMUKTĀPHALAM'''

(PART V)

'''KĀLA KĀṆDA (5) and PRÁYAŚCHITTA KĀṆDA (6)'''

{{rule|3em}}

EDITED BY

'''J. R. GHARPURE,''' B. A., LL. B. (Honours-in-Law), F. R. S. A.
''Principal, Law College, Poona; Senior Advocate, Federal Court
of India, Fellow of the University of Bombay.''

'''BOMBAY.'''

{{rule|3em}}
'''First Edition'''
{{rule|3em}}

'''1940'''
<noinclude></noinclude> k5gorm4269pvagy89ofdf6njc7xq5hm पृष्ठम्:Smriti mukta phalam.pdf/८६५ 104 166868 419891 2026-11-11T03:35:43Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rule}}
Printed at the Aryabhushan Press, 915/1 Bhamburda Peth,
Poona City, by Mr. V. H. Barve and
Published by Mr. V. J. Gharpure, M. A., LL. B. at the Office
of the Collection of Hindu Law Texts,
Angre's Wadi, Vithalbhai Patel Road, Bombay 4.
{{rule}} नवीन पृष्ठं निर्मीत अस्ती 419891 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rule}}
Printed at the Aryabhushan Press, 915/1 Bhamburda Peth,
Poona City, by Mr. V. H. Barve and
Published by Mr. V. J. Gharpure, M. A., LL. B. at the Office
of the Collection of Hindu Law Texts,
Angre's Wadi, Vithalbhai Patel Road, Bombay 4.
{{rule}}<noinclude></noinclude> 2ox7kanswky0n7ntv0bixql5lulyeaq पृष्ठम्:Smriti mukta phalam.pdf/८६६ 104 166869 419892 2026-11-11T03:36:34Z Myauthworks 10864 /* अपरिष्कृतम् */ Digitized and Uploaded by: Hari Parshad Das (HPD) on 06 July 2013.
'''धर्मशास्त्रग्रन्थमाला.'''
[ ग्रन्थाङ्कः २५ (५) ]

श्री

'''वैद्यनाथदीक्षितीय-'''

'''स्मृतिमुक्ताफलम्'''
<br... नवीन पृष्ठं निर्मीत अस्ती 419892 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>Digitized and Uploaded by: Hari Parshad Das (HPD) on 06 July 2013.
'''धर्मशास्त्रग्रन्थमाला.'''
[ ग्रन्थाङ्कः २५ (५) ]

श्री

'''वैद्यनाथदीक्षितीय-'''

'''स्मृतिमुक्ताफलम्'''

( पञ्चमः खण्डः )

'''कालकाण्डम् (५), प्रायश्चित्तकाण्डः (६)'''

{{rule|3em}}

'''जगन्नाथ रघुनाथ घरपुरे,'''
बी. ए., एल्एल्. बी., (ऑनर्स-इन्-लॉ)

पुण्यपत्तनस्थव्यवहारशालाया आचार्यः, मुम्बईविश्वविद्यालयसदस्यः
भारतसङ्घन्यायसभासदस्यः, लंडनराजकलासंघसदस्यः
इत्यनेन संशोधितं, मुद्रापितं, प्रकाशितं च ।

'''प्रथमावृत्तिः'''

{| width="100%" | '''शकाब्दाः १८६२''' | style="text-align:right;" | '''क्रिस्ताब्दाः १९४०''' |}<noinclude></noinclude> jf71c7vpcuzk6hpbl14r5q72oq66e40 पृष्ठम्:Smriti mukta phalam.pdf/८६७ 104 166870 419893 2026-11-11T03:37:30Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rule}}
पुण्यपत्तने ‘ आर्यभूषण ’ मुद्रणालये ‘ विठ्ठल हरि बर्वे ’ इत्यनेन मुद्रितः,
मोहमय्यां ‘ विश्वनाथ जगन्नाथ घरपुरे, ’ इत्यनेन प्रकाशितश्च ।
{{rule}} नवीन पृष्ठं निर्मीत अस्ती 419893 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rule}}
पुण्यपत्तने ‘ आर्यभूषण ’ मुद्रणालये ‘ विठ्ठल हरि बर्वे ’ इत्यनेन मुद्रितः,
मोहमय्यां ‘ विश्वनाथ जगन्नाथ घरपुरे, ’ इत्यनेन प्रकाशितश्च ।
{{rule}}<noinclude></noinclude> 17ejs610narl02q4y3jdcha6aey80r1 पृष्ठम्:Smriti mukta phalam.pdf/८६८ 104 166871 419894 2026-11-11T03:39:37Z Myauthworks 10864 /* अपरिष्कृतम् */
श्री

'''विषयानुक्रमणिका'''

'''कालकाण्डम् ( ५ )'''

{| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left... नवीन पृष्ठं निर्मीत अस्ती 419894 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>
श्री

'''विषयानुक्रमणिका'''

'''कालकाण्डम् ( ५ )'''

{| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left; padding-left:1.5em;" | विषयः ! style="text-align:right;" | पृष्ठम् |- | कालनिरूपणम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८२५ | style="padding-left:1.5em;" | सप्तमी—पूर्वविद्धा—ग्राह्या ... | style="text-align:right;" | ८३१ |- | निमेषादिलक्षणम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | पूर्वविद्धाया अलाभे उत्तरविद्धा ,, ... | style="text-align:right;" | ” |- | तिथिखरूपम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | अष्टमीनिर्णयः ... ... | style="text-align:right;" | ” |- | खण्डतिथिलक्षणम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | शुक्लाष्टमी परविद्धा ग्राह्या ... | style="text-align:right;" | ” |- | तत्र निर्णयः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | दूर्वाष्टमीव्रते ,, ,, ... | style="text-align:right;" | ८३२ |- | ,, विधिनिषेधादि ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | कृष्णजन्माष्टमी ... ... | style="text-align:right;" | ” |- | प्रतिपन्निर्णयः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | अस्मिन्व्रते तिथिरेव निमित्तम् ... | style="text-align:right;" | ” |- | सा द्विविधा, शुद्धा विद्धा च ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | अत्र श्रावण इति मुख्यकल्पः ... | style="text-align:right;" | ” |- | पूर्वविद्धायाः पूज्यत्वम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | तत्स्वरूपम् ... ... | style="text-align:right;" | ” |- | संमुखत्वम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८२६ | style="padding-left:1.5em;" | जयंतीव्रतम् ... ... | style="text-align:right;" | ” |- | उत्तरविद्धाया निषेधः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | तत्करणे फलम् ... ... | style="text-align:right;" | ” |- | खर्वादर्पाहिंसादितिथेर्भेदाः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | अकरणे प्रत्यवायः ... ... | style="text-align:right;" | ” |- | तिथीनां वेधः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८२७ | style="padding-left:1.5em;" | जयंतीव्रते फलविशेषः ... ... | style="text-align:right;" | ८३३ |- | कार्तिकशुक्लप्रतिपदि बल्युत्सवः ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | ग्राह्या तिथिः ... ... | style="text-align:right;" | ” |- | ज्योतिःशास्त्रप्रसिद्धाभावे स्मृत्यापादितग्रहणम् ,, | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | चत्वारः कल्पाः ... ... | style="text-align:right;" | ८३४ |- | तत्रापवादः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८२८ | style="padding-left:1.5em;" | पारर्णानिर्णयः ... ... | style="text-align:right;" | ८३५ |- | एकभक्तव्रतम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | नवमीनिर्णयः ... ... | style="text-align:right;" | ” |- | नक्तव्रतम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८२९ | style="padding-left:1.5em;" | दुर्गासरस्वतीव्रतादौ पूर्वविद्धा ग्राह्या ... | style="text-align:right;" | ” |- | तत्र कालभेदेनाधिकारव्यवस्था ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | रामनवमीनिर्णयः ... ... | style="text-align:right;" | ८३६ |- | त्रिमुहूर्तात्मकप्रदोषव्यापिन्यां तिथौ कार्यम् ,, | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | दशावतारकालाः ... ... | style="text-align:right;" | ८३७ |- | दानव्रतादीनां क्रमः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८३० | style="padding-left:1.5em;" | दशमीनिर्णयः ... ... | style="text-align:right;" | ” |- | द्वितीयानिर्णयः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | एकादशीनिर्णयः ... ... | style="text-align:right;" | ” |- | परविद्धाया उपोष्यत्वम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | उपवासः ,, ... ... | style="text-align:right;" | ८३८ |- | तृतीयानिर्णयः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८३१ | style="padding-left:1.5em;" | वैष्णवानां विशेषाः ... ... | style="text-align:right;" | ८३९ |- | परविद्धैव ग्राह्या ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | वैष्णवशव्दार्थः ... ... | style="text-align:right;" | ” |- | चतुर्थी— ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | स्मार्तैकादशीनिर्णयः ... ... | style="text-align:right;" | ८४० |- | विनायकव्रतानुष्ठाने मध्यान्हव्यापिनी ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | अष्टादशभेदपूर्वकमुपवासनिश्चयः ... | style="text-align:right;" | ८४१ |- | पंचमी—पूर्वविद्धा ग्राह्या ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | एकादश्या ह्रासवृद्धिः ... ... | style="text-align:right;" | ८४२ |- | षष्ठी—परविद्धा— ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | दिनत्रयविषये ... ... | style="text-align:right;" | ८४३ |}<noinclude></noinclude> 1r9kxjavdt7v8blbt0a4sosr8hus01b पृष्ठम्:Smriti mukta phalam.pdf/८६९ 104 166872 419895 2026-11-11T03:40:31Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|२|'''विषयानुक्रमणिका'''|}} {{rule}} {| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left; padding-left:1.5em;" | विषयः ! style="text-align:right;" | पृष्ठम् |- | दिनक्षये ... ..... नवीन पृष्ठं निर्मीत अस्ती 419895 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|२|'''विषयानुक्रमणिका'''|}} {{rule}} {| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left; padding-left:1.5em;" | विषयः ! style="text-align:right;" | पृष्ठम् |- | दिनक्षये ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८४४ | style="padding-left:1.5em;" | त्रयोदशीनिर्णयः ... ... | style="text-align:right;" | ८५० |- | नैमित्तिककाम्यौ ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८४५ | style="padding-left:1.5em;" | चतुर्दशी ,, ... ... | style="text-align:right;" | ८५१ |- | श्रवणद्वादशीनिर्णयः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८४६ | style="padding-left:1.5em;" | अनन्तव्रतम् ... ... | style="text-align:right;" | ” |- | द्वादश्यां माध्यान्हकालः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८४७ | style="padding-left:1.5em;" | शिवरात्रिव्रतनिर्णयः ... ... | style="text-align:right;" | ८५२ |- | एकादश्युपवासे अधिकारिणः ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | दिनद्वयव्यापिन्याम् ... ... | style="text-align:right;" | ८५३ |- | पतिमत्या उपवासनिषेधः ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | तत्र विवेकः ... ... | style="text-align:right;" | ” |- | उपवासासामर्थ्यविषयः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८४८ | style="padding-left:1.5em;" | सृष्टिकालनिर्णयः ... ... | style="text-align:right;" | ८५४ |- | सूतकादावुपवासविचारः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | संधिमत्यां तिथौ ... ... | style="text-align:right;" | ८५५ |- | एकादश्यां नित्यनैमित्तिकश्राद्धे उपवासभेदः ,, | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | तिथिक्षयवृद्ध्योः संधौ ... ... | style="text-align:right;" | ८५६ |- | काम्यैकादशीव्रतानुष्ठानक्रमः ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८४९ | style="padding-left:1.5em;" | बौधायनमतानुसारिणाममावास्यायां | style="text-align:right;" | |- | नित्येापासविषयः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८५० | style="padding-left:2.5em;" | विशेषः ... ... | style="text-align:right;" | ८५७ |- | द्वादशीनिर्णयः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | नक्षत्रादिनिर्णयः ... ... | style="text-align:right;" | ८५८ |}

'''प्रायश्चित्त काण्डः ( ६ )'''

{| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left; padding-left:1.5em;" | विषयः ! style="text-align:right;" | पृष्ठम् |- | प्रायश्चित्ताधिकारिणः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८५९ | style="padding-left:1.5em;" | प्रायश्चित्तविघानस्थलम् ... ... | style="text-align:right;" | ८७१ |- | अकरणे दोषः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | ब्रह्महत्याप्रायश्चित्तम् ... ... | style="text-align:right;" | ८७१ |- | एकविंशति नरकाः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | वधोद्यमे ,, ... ... | style="text-align:right;" | ८७२ |- | पापफलानि ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६० | style="padding-left:1.5em;" | प्रायश्चित्ताकरणे ,, ... ... | style="text-align:right;" | ” |- | रहस्यकृतपापफलम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६० | style="padding-left:1.5em;" | जनकादिहत्यायाम् ,, ... ... | style="text-align:right;" | ८७३ |- | नरकानुभवानन्तरं जन्मान्तराणि ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६१ | style="padding-left:1.5em;" | क्षत्रियादिकृतब्रह्महत्याप्रायश्चित्तम् | style="text-align:right;" | ” |- | नवविधपापानि ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६२ | style="padding-left:1.5em;" | क्षत्रियादिवधे ,, ... ... | style="text-align:right;" | ” |- | ब्रह्महत्यादिमहापातकानि ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | शस्त्रग्रहणविचारः ... ... | style="text-align:right;" | ८७४ |- | प्रयोजकादीनां फलतारतम्यम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | गोवधप्रायश्चित्तम् ... ... | style="text-align:right;" | ८७५ |- | अतिपातकानि ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६३ | style="padding-left:1.5em;" | गोवधनिमित्तानि ... ... | style="text-align:right;" | ” |- | ब्रह्महत्यासमानि ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६४ | style="padding-left:1.5em;" | दण्डलक्षणम् ... ... | style="text-align:right;" | ८७६ |- | सुरापानसमानि ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६५ | style="padding-left:1.5em;" | द्विगुणप्रायश्चित्तस्य निमित्तान्तरम् | style="text-align:right;" | ” |- | स्वर्णस्तेय ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | गृहे बद्धस्य गोर्मरणे ... ... | style="text-align:right;" | ” |- | गुरुतल्प ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | क्वचित्प्रायश्चित्ताभावः ... ... | style="text-align:right;" | ” |- | उपपातकानि ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६६ | style="padding-left:1.5em;" | शृङ्गभङ्गादौ ... ... | style="text-align:right;" | ” |- | कामाकामकृतपापविचारः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६७ | style="padding-left:1.5em;" | प्राण्वन्तरहनने ... ... | style="text-align:right;" | ८७६,८७७ |- | प्रकाशरहस्यप्रायश्चित्तम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६८ | style="padding-left:1.5em;" | वृक्षच्छेदादिप्रायश्चित्तम् ... ... | style="text-align:right;" | ८७७ |- | परिषल्लक्षणम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८६९ | style="padding-left:1.5em;" | सुरापानादिप्रायश्चित्तम् ... ... | style="text-align:right;" | ८७८ |- | परिषदयोग्याः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८७० | style="padding-left:1.5em;" | प्रायश्चित्ताकरणे दण्डः ... ... | style="text-align:right;" | ८७९ |}<noinclude></noinclude> r55v1eo1z7ehcb9jfqne5y0k3nc6bpp पृष्ठम्:Smriti mukta phalam.pdf/८७० 104 166873 419896 2026-11-11T03:41:36Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''विषयानुक्रमणिका'''|३}} {{rule}} {| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left; padding-left:1.5em;" | विषयः ! style="text-align:right;" | पृष्ठम् |- | प्रमादतः पा... नवीन पृष्ठं निर्मीत अस्ती 419896 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''विषयानुक्रमणिका'''|३}} {{rule}} {| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left; padding-left:1.5em;" | विषयः ! style="text-align:right;" | पृष्ठम् |- | प्रमादतः पाने ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८८० | style="padding-left:1.5em;" | रजस्वलागमने प्रायश्चित्तम्... ... | style="text-align:right;" | ८९० |- | कामकाारे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | विधवागमने ,, ... ... | style="text-align:right;" | ८९१ |- | विण्मूत्रादिभक्षणे प्रायश्चित्तम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | दास्यादिगमने ,, ... ... | style="text-align:right;" | ” |- | चंडालघटस्थजलपाने ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८८१ | style="padding-left:1.5em;" | मुखमैथुने ,, ... ... | style="text-align:right;" | ” |- | ,, वाप्यादिजलपाने ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | पश्चादिगमने ,, ... ... | style="text-align:right;" | ” |- | उच्छिष्टविषयापवादाः ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | अवकीर्णिप्रायश्चित्तम् ... ... | style="text-align:right;" | ८९२ |- | निषिद्धक्षीरपाने ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८८२ | style="padding-left:1.5em;" | ब्रह्मचारिणो रेतस्खलने ... ... | style="text-align:right;" | ” |- | सुवर्णस्तेये ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | नैष्ठिकादीनां तु कृतप्रायश्चित्तानामपि न | style="text-align:right;" | |- | स्तेयस्वरूपम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८८३ | style="padding-left:2.5em;" | व्यवहारः ... ... | style="text-align:right;" | ” |- | मनसापहारे ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | ऋतुकालातिक्रमे ... ... | style="text-align:right;" | ” |- | अल्पस्वर्णापहरणे ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | स्त्रीबालातुराणामर्धप्रायश्चित्तम् ... | style="text-align:right;" | ८९३ |- | क्षत्रियादीनां स्तेयप्रायश्चित्तम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८८४ | style="padding-left:1.5em;" | शपथोल्लंघने ,, ... | style="text-align:right;" | ” |- | रजतस्तेये ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | क्षत्रियादीनां ब्राह्मणीगमने ,, ... | style="text-align:right;" | ” |- | ताम्रस्तेये ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | स्त्रियाः परपुरुषगमने ,, ... | style="text-align:right;" | ” |- | कांस्यादिस्तेये ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | व्यभिचारिणीणां त्यागविचारः ... | style="text-align:right;" | ८९४ |- | धनधान्यादिस्तेये ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | अनिमित्ततया भर्तृभार्यापरित्यागे ,, ... | style="text-align:right;" | ” |- | भूम्यपहारे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८८५ | style="padding-left:1.5em;" | विधवाया गर्भत्यागः ... ... | style="text-align:right;" | ८९५ |- | वस्त्रादिस्तेये ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | शङ्कितव्यभिचारे स्त्रीणां कर्तव्यम् ... | style="text-align:right;" | ” |- | अजादिहरणे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | बन्धुराहित्येन गमने ... ... | style="text-align:right;" | ” |- | गृहोपकरणहरणे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | पुनरागमने प्रतीक्षणकालः... ... | style="text-align:right;" | ” |- | सालग्रामादेः पूजोपकरणस्य च हरणे ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | rowspan="2" style="padding-left:1.5em;" | } स्वातन्त्र्येण गताया अत्यागे भर्त्रादीनां प्रायश्चित्तम् ... | rowspan="2" style="text-align:right;" | ” |- | मध्यस्थेन धनग्रहणे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” |- | अगम्यागमनप्रायश्चित्तानि ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८८६ | style="padding-left:1.5em;" | ताडनादिना निर्गच्छन्त्याः त्यागविचारः | style="text-align:right;" | ८९६ |- | गुरुतल्पगमने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | व्यभिचारिण्या गृहप्रवेशे शुद्धिप्रकारः | style="text-align:right;" | ” |- | ,, तत्समानि ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | ब्राह्मण्याश्चाण्डालादिगमने प्रायश्चित्तम् | style="text-align:right;" | ” |- | रेतस्सेकात्पूर्वनिवृत्तौ ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | ,, म्लेच्छरजकादिगमने ,, ... | style="text-align:right;" | ८९७ |- | कामकृतगमने प्रायश्चित्तम्... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८८७ | style="padding-left:1.5em;" | संसर्गस्य महापातकविचारः ... | style="text-align:right;" | ” |- | सवर्णगमने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | कर्मण एव पातित्यहेतुत्वम् ... | style="text-align:right;" | ” |- | सम्बन्ध्यादिस्रीगमने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८८८ | style="padding-left:1.5em;" | कलौ संसर्गस्य पापमात्रहेतुत्वम् ... | style="text-align:right;" | ८९८ |- | स्वैरिणीगमने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | तत्र प्रायश्चित्तम् ... ... | style="text-align:right;" | ” |- | गर्भोत्पादने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | गोचर्मक्षेत्रलक्षणम् ... ... | style="text-align:right;" | ८९८ |- | चण्डाल्ल्यादिगमने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | मिथ्याभिशंसने प्रायश्चित्तम् ... | style="text-align:right;" | ८९८,८९९ |- | षोडशविधचण्डालीगमने प्रायश्चित्तम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८८९ | style="padding-left:1.5em;" | ब्राह्मणापगुरणे ,, ... ... | style="text-align:right;" | ८९९ |- | चर्मकारस्त्रीगमने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | ब्राह्मणातिक्रमे ,, ... ... | style="text-align:right;" | ” |- | ब्रह्मचण्डालीगमने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ८९० | style="padding-left:1.5em;" | ,, ताडना ,, ... ... | style="text-align:right;" | ” |}<noinclude></noinclude> 3bktm9bk2iyg96thc5gg4i5g0wz7y87 पृष्ठम्:Smriti mukta phalam.pdf/८७१ 104 166874 419897 2026-11-11T03:43:45Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|४|'''विषयानुक्रमणिका'''|}} {{rule}} {| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left; padding-left:1.5em;" | विषयः ! style="text-align:right;" | पृष्ठम् |- | गुरुपित्रा... नवीन पृष्ठं निर्मीत अस्ती 419897 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|४|'''विषयानुक्रमणिका'''|}} {{rule}} {| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left; padding-left:1.5em;" | विषयः ! style="text-align:right;" | पृष्ठम् |- | गुरुपित्राद्यधिक्षेपे प्रायश्चित्तम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०० | style="padding-left:1.5em;" | उपरागमोजने प्रायश्चित्तम्... ... | style="text-align:right;" | ९१० |- | पतनीये समुद्रयानादौ ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | भिन्नपात्रभोजने ,, ... ... | style="text-align:right;" | ९११ |- | दुर्जनसेवाप्रायश्चित्तम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | रजस्वलापक्वान्नभोजने ,, ... ... | style="text-align:right;" | ” |- | शूद्रसेवा ,, ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | निषिद्धदिने द्विर्भोजने ,, ... ... | style="text-align:right;" | ” |- | अशुचिकराणाम् ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०१ | style="padding-left:1.5em;" | ब्रह्मयज्ञानकरणे ,, ... ... | style="text-align:right;" | ” |- | अभिचारशापादि ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | स्वस्वकाले गर्भाधानाद्यकरणे ,, ... | style="text-align:right;" | ” |- | भृतकाध्यापनाध्ययने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | उष्णोदकस्नाने ,, ... ... | style="text-align:right;" | ९१२ |- | ब्रह्मोञ्छे ,, ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०२ | style="padding-left:1.5em;" | यज्ञोपवीतादिना विना भोजने ,, ... | style="text-align:right;" | ” |- | अनाश्रमवासे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | शिखोपवीतभ्रंशे ,, ... ... | style="text-align:right;" | ” |- | पञ्चाशद्वत्सरादुपरि विवाहनिषेधः ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | भोजनकाले क्षुतादौ ,, ... ... | style="text-align:right;" | ” |- | ऊढायाः पुनरुद्वाहे प्रायश्चित्तम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | शिवनिर्माल्यभोजने ,, ... ... | style="text-align:right;" | ” |- | सगोत्रादिविवाहे ,, ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | पत्न्या सह भोजने ,, ... ... | style="text-align:right;" | ९१३ |- | परिवित्त्यादेः ,, ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०३ | style="padding-left:1.5em;" | नीलवस्त्रधारणनिषेधः ,, ... ... | style="text-align:right;" | ” |- | उष्ट्रादियुक्तयाणारोहणे ,,... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | पराक्रमभोजने प्रायश्चित्तम् ,, ... | style="text-align:right;" | ” |- | खराद्यारोहणे ,, ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | नवश्राद्धादिभोजने ,, ,, ... | style="text-align:right;" | ” |- | कारागृहवासप्रायश्चित्तम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | श्राद्धभोजने ब्रह्मचारिणः ,, ... | style="text-align:right;" | ९१४ |- | कुग्रामवासे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०४ | style="padding-left:1.5em;" | क्षत्रियादिश्राद्धभोजने ,, ... ... | style="text-align:right;" | ” |- | दुर्देशगमने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | नान्दीश्राद्धभोजने ,, ... ... | style="text-align:right;" | ” |- | श्वशृगालादिदंशने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | श्राद्धशिष्टान्नभोजननिषेधः ... | style="text-align:right;" | ९१५ |- | शरीरे कृम्युत्पत्तौ ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०५ | style="padding-left:1.5em;" | चौलाद्यन्नभोजने ,, ... ... | style="text-align:right;" | ” |- | दुर्ब्राह्मणगृहभोजने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०६, ९०७ | style="padding-left:1.5em;" | अविक्रेयाविक्रये ,, ... ... | style="text-align:right;" | ९१६ |- | राजाद्यन्नभोजने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०६ | style="padding-left:1.5em;" | ऋणादि कृत्वा व्रताद्याचरणनिषेधः ... | style="text-align:right;" | ९१७ |- | व्यतीपातादिभोजने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०७ | style="padding-left:1.5em;" | ब्राह्मणादिविक्रये प्रायश्चित्तम् ... | style="text-align:right;" | ९१७ |- | अयुतसहस्रभोजने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०८ | style="padding-left:1.5em;" | श्रुतिस्मृत्यादेः विक्रये ,, ... | style="text-align:right;" | ९१८ |- | शूद्रादिगृहे स्वयंपाकभोजनेऽपि ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | जलान्न्यादिषु भर्तुर्मुद्यम्य निवृत्तस्य ,,... | style="text-align:right;" | ” |- | संघात्रभोजने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | पारिव्राज्यात् प्रच्युतौ ,, ... | style="text-align:right;" | ९१९ |- | क्रीतान्नभोजने प्रायश्चित्तम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०८ | style="padding-left:1.5em;" | आत्मघातिनः शवदहनादौ ,, ... | style="text-align:right;" | ” |- | यागान्नभोजने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९०९ | style="padding-left:1.5em;" | अनृतभाषणे ,, ,, ... | style="text-align:right;" | ९२० |- | अज्ञात्वा भोजने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | मिथ्याभूतचतुर्वर्णवधशपथे ,, ... | style="text-align:right;" | ” |- | अशुचिकालाभोजने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | क्वचित्तु निमित्तविशेषे अनृतमपि वक्तव्यम् | style="text-align:right;" | ९२१ |- | पर्युषितान्नभोजने ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | श्रौताग्नित्यागे प्रायश्चित्तम् ... | style="text-align:right;" | ” |- | ओदनवटकमाषवटकादिभक्षणे ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | नास्तिक्यप्रायश्चित्तम् ... ... | style="text-align:right;" | ९२२ |- | परमान्नकृसरभक्षणे नियमाः ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९१० | style="padding-left:1.5em;" | एकपंक्तौ वैषम्येण दाने ,, ... | style="text-align:right;" | ” |- | व्रात्यकुष्ठयाद्यन्नभोजने ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | अपाङ्क्तेयपंक्तिभोजनादौ ,, ... | style="text-align:right;" | ” |- | अन्तःशवग्रामभोजने ,, ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | पलाशवृक्षशयनादौ ,, ... | style="text-align:right;" | ” |}<noinclude></noinclude> 23xjsg6osajoo1f1kghd9b85sy8t5mb पृष्ठम्:Smriti mukta phalam.pdf/८७२ 104 166875 419898 2026-11-11T03:44:55Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''विषयानुक्रमणिका'''|५}} {{rule}} {| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left; padding-left:1.5em;" | विषयः ! style="text-align:right;" | पृष्ठम् |- | श्राद्धे नि... नवीन पृष्ठं निर्मीत अस्ती 419898 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''विषयानुक्रमणिका'''|५}} {{rule}} {| width="100%" style="border-collapse:collapse;" ! style="text-align:left;" | विषयः ! style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | पृष्ठम् ! style="text-align:left; padding-left:1.5em;" | विषयः ! style="text-align:right;" | पृष्ठम् |- | श्राद्धे निमन्त्रितस्य कालातिक्रमे प्रायश्चित्तम् | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९२३ | style="padding-left:1.5em;" | पादकृच्छ्राः ... ... | style="text-align:right;" | ९३६ |- | क्षत्रियाद्यभिवादनादौ ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | तत्र वर्णभेदेन व्यवस्था ... ... | style="text-align:right;" | ९३६ |- | शूद्रस्य वेदवाक्यश्रवणे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | अतिकृच्छ्रलक्षणम् ... ... | style="text-align:right;" | ९३७ |- | '''प्रतिग्रहविचारः''' | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | | style="padding-left:1.5em;" | कृच्छ्रातिकृच्छ्र ,, ... ... | style="text-align:right;" | ” |- | वृत्त्यर्थं सत्प्रतिग्रहे न प्रायश्चित्तापेक्षा ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | तप्तकृच्छ्र ,, ,, ... ... | style="text-align:right;" | ” |- | तत्र व्यवस्था ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९२४ | style="padding-left:1.5em;" | सांतपनकृच्छ्र ,, ... ... | style="text-align:right;" | ” |- | तुलापुरुषादिप्रतिग्रहे प्रायश्चित्तम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | महासांतपनम् ... ... | style="text-align:right;" | ९३८ |- | ब्रह्माण्डघटविषये ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९२५ | style="padding-left:1.5em;" | पराकलक्षणम् ... ... | style="text-align:right;" | ” |- | हिरण्यगर्भविषये ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | पर्णकृच्छ्र ,, ,, ... | style="text-align:right;" | ” |- | कल्पतरुविषये ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९२६ | style="padding-left:1.5em;" | फलकृच्छ्रादि ,, ... ... | style="text-align:right;" | ” |- | गोसहस्रप्रतिग्रहे प्रायश्चित्तम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९२७ | style="padding-left:1.5em;" | वारुणस्त्रीसौम्यकृच्छ्रादि ,, ... | style="text-align:right;" | ” |- | हिरण्यकामधेनुप्रतिग्रहे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | तुलापुरुषकृच्छ्राः ,, ... ... | style="text-align:right;" | ९३९ |- | हिरण्याश्वप्रतिग्रहे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | अघमर्षणकृच्छ्रलक्षणम् ... ... | style="text-align:right;" | ” |- | हिरण्याश्वरथप्रतिग्रहे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९२८ | style="padding-left:1.5em;" | दैवतकृच्छ्र ,, ,, ... | style="text-align:right;" | ” |- | हिरण्यहस्तिप्रतिग्रहे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | यज्ञकृच्छ्र ,, ,, ... | style="text-align:right;" | ” |- | पञ्चलाङ्गलप्रतिग्रहे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | यावककृच्छ्र ,, ,, ... | style="text-align:right;" | ” |- | धराप्रतिग्रहे प्रायश्चित्तम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९२९ | style="padding-left:1.5em;" | प्रसृतियावककृच्छ्र ,, ... ... | style="text-align:right;" | ” |- | विश्वचक्रप्रतिग्रहे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | चांद्रायणकृच्छ्र ,, ,, ... | style="text-align:right;" | ९४० |- | कल्पलता ,, ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | तत्र पिपीलिकामध्यम ,, ... ... | style="text-align:right;" | ” |- | सप्तसागर ,, ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | '''वपनादिक्रमः''' ... ... | style="text-align:right;" | ” |- | चर्मधेनुप्रतिग्रहे ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | '''चान्द्रायणानि''' ... ... | style="text-align:right;" | ९४१ |- | महाभूतघट ,, ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९३० | style="padding-left:1.5em;" | तेषां स्वरूपम् ... ... | style="text-align:right;" | ” |- | '''साधारणप्रायश्चित्तम्''' ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | तत्र ग्रासपरिमाणम् ... ... | style="text-align:right;" | ” |- | '''अतिपातकप्रायश्चित्तम्''' ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९३१ | style="padding-left:1.5em;" | चान्द्रायणफलम् ... ... | style="text-align:right;" | ” |- | संकरीकरणादौ ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | व्रतग्रहणप्रकारः ... ... | style="text-align:right;" | ” |- | उपपातकिप्रायश्चित्तम् ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | असमापने प्रत्यवायः ... ... | style="text-align:right;" | ” |- | रहस्यपापप्रायश्चित्तानि ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९३२,९३३ | style="padding-left:1.5em;" | ब्रह्मकूर्चस्वरूपं तत्परिमाणं च ... | style="text-align:right;" | ९४२ |- | तत्र प्रतिपदोक्तप्रायश्चित्तम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९३४ | style="padding-left:1.5em;" | देशविशेषाः ,, ... ... | style="text-align:right;" | ” |- | रहस्यसुरापानादौ ,, ... ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९३५ | style="padding-left:1.5em;" | प्राजापत्यादिप्रत्याम्नायाः ... ... | style="text-align:right;" | ” |- | उपपातकरहस्यप्रायश्चित्तम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ” | style="padding-left:1.5em;" | चान्द्रायणादीनां ,, ... ... | style="text-align:right;" | ९४३ |- | अधिकारभेदेन प्रयोगान्तरम् ... | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | ९३६ | style="padding-left:1.5em;" | महानदीपरिगणनम् ... ... | style="text-align:right;" | ” |- | | style="text-align:right; border-right:1px solid black; padding-right:1.5em;" | | style="padding-left:1.5em;" | गोदानादावशक्तेन तेभ्यस्तूपदानम् ... | style="text-align:right;" | ९४४ |} {{rule}}<noinclude></noinclude> 9hawhb0zrwinot4d0a4ds3zfdwvwrj2 पृष्ठम्:Smriti mukta phalam.pdf/८७३ 104 166876 419899 2026-11-11T03:46:09Z Myauthworks 10864 /* अपरिष्कृतम् */
'''स्मृतिमुक्ताफलम्'''

'''कालकाण्डम् ( ५ )'''

श्रीगणेशाय नमः ॥ अथ कालो निरूप्यते ॥ स च कर्मण्यंगभूतः । तदाह '''गार्ग्यः—'''
“ तिथिनक्षत्रव... नवीन पृष्ठं निर्मीत अस्ती 419899 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>
'''स्मृतिमुक्ताफलम्'''

'''कालकाण्डम् ( ५ )'''

श्रीगणेशाय नमः ॥ अथ कालो निरूप्यते ॥ स च कर्मण्यंगभूतः । तदाह '''गार्ग्यः—'''
“ तिथिनक्षत्रवारादि साधनं पुण्यपापयोः । प्रधानगुणभावेन न स्वातंत्र्येण ते क्षमाः ” ॥ इति ।
'''व्यासोऽपि—'''“ यत्तिथौ यच्च नक्षत्रे वारे यत्र च यद्यथा । ५
“ विहितं वा निषिद्धं वा पाल्यंस्त्रिदिवं व्रजेत् । अपालयन् पुनर्मोहादपवित्रं पदं व्रजेत् ” ॥ इति ।
'''निमेषादिलक्षणम् ।''' काल एकोऽप्युपाधिभेदादनेकप्रकारः । तथा च '''गार्ग्यः—'''
“ अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्तितः । द्वौ निमेषौ त्रुटिर्नाम द्वौ त्रुटी तु लवः स्मृतः ॥
“द्वौ लवौ क्षण इत्युक्तः काष्ठा प्रोक्ता दश क्षणाः ।
“त्रिंशत्काष्ठाः कलाः प्रोक्ताः कलास्त्रिंशन्मुहूर्तकः । ते तु त्रिंशदहोरात्र इत्याह भगवान्हरः”॥ इति । १०
'''तिथिस्वरूपम् ।''' तिथिखरूपमुक्तं '''कालादर्शे—'''
“ रवीन्द्वोर्योगविरहौ क्रमाद्दर्शश्च पूर्णिमा । कलाः प्रवेशनिर्याणैस्तिथयोऽन्याश्च पक्षयोः ” ॥ इति ।
सूर्याचन्द्रमसोः संनिकर्षो दर्शः । विप्रकर्षः पूर्णिमा भवति । इंदोः कलानां रवौ प्रवेशनिर्याणैः
सूर्याचन्द्रमसोः कृष्णशुक्लपक्षयोः प्रतिपदादयः तिथयो भवेयुरित्यर्थः ।
'''खण्डतिथिलक्षणम् ।''' तत्र संपूर्णतिथौ नास्ति संदेहः । यदा ह्रासवृद्धिवशेन खंडतिथि- १५
र्भवति तदा निर्णयोऽपेक्ष्यते । ह्रासवृद्धी च गार्ग्येण दर्शिते—
“ खर्वा दर्पा तथा हिंसा त्रिविधं तिथिलक्षणम् । धर्माधर्मवशादेव तिथिस्त्रेधा विवर्तते ” ॥ इति ।
खर्वा समतिथिः । दर्पा वृद्धियुक्ता । हिंसा क्षययुक्ता ।
खंडतिथौ विधिनिषेधव्यवस्थामाह '''वृद्धगार्ग्यः—'''
“ निमित्तं कालमादाय वृत्तिर्विधिनिषेधयोः । विधिः पूज्यतिथौ तत्र निषेधः कालमात्रके ॥ २०
“ तिथीनां पूज्यता नाम कर्मानुष्ठानयोग्यता । निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते ” ॥ इति ।
“ दर्शे स्नात्वा पितृभ्यस्तु दद्यात्कृष्णतिलोदकम् ” इत्यादिविधिः कर्मानुष्ठानयोग्यतिथि मपेक्षते ।
“ अमावास्यायां न गच्छेत्प्राप्तकालामापि स्त्रियम् । तैलं च न स्पृशेद्रामं वृक्षादींश्च न छेदयेत् ” ॥
इत्यादिको निषेधस्तिथिमात्रमपेक्षत इत्यर्थः । एवं च सति खंडतिथौ पूज्यत्वं निर्णेतव्यं भवति ।
तत्र प्रतिपदारभ्य पंचदश्यंतास्तिथयः क्रमेण निर्णायन्ते । २५
'''प्रतिपन्निर्णयः ।''' प्रतिपत् द्विविधा । शुद्धा विद्धा चेति । या सूर्योदयमारभ्य पुनरुदयपर्यंता
भवति सा शुद्धा
“ सर्वा ह्येताश्च तिथय उदयादोदयस्थिताः । शुद्धा इति विनिश्चेयाः षष्टिनाड्यो हि वै तिथिः ” ॥ इति
स्मृतेः । शुद्धत्वात्प्रतिपदादिविहितं सर्वं निःशंकैस्तत्रानुष्ठेयम् । विद्धा च द्विविधा । पूर्वदिने दर्श-
युक्ता उत्तरदिने द्वितीयायुक्ता चेति । तत्र पूर्वविद्धायाः पूज्यत्वमाह '''पैठीनसिः—''' ३०
“ पंचमी सप्तमी चैव दशमी च त्रयोदशी । प्रतिपन्नवमी चैव कर्तव्या संमुखा तिथिः ” ॥ इति ।
{{rule}}
१०५-१<noinclude></noinclude> iilqjgw9t6imnw56xlqgukuct8mhtua पृष्ठम्:Smriti mukta phalam.pdf/८७४ 104 166877 419900 2026-11-11T03:47:08Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८२६|'''प्रतिपन्निर्णयः ।'''|}} {{rule}} संमुखत्वं च '''स्कांदपुराणे''' विवेचितम्—
“ संमुखा नाम सायाह्नव्यापिनी दृश्यते यदा । प्रतिपत्संमुखा कार्या या भवेदापराहिकी” ॥... नवीन पृष्ठं निर्मीत अस्ती 419900 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८२६|'''प्रतिपन्निर्णयः ।'''|}} {{rule}} संमुखत्वं च '''स्कांदपुराणे''' विवेचितम्—
“ संमुखा नाम सायाह्नव्यापिनी दृश्यते यदा । प्रतिपत्संमुखा कार्या या भवेदापराहिकी” ॥ इति ।
'''व्यासोऽपि—'''“ प्रतिपत्सैव विज्ञेया या भवेदापराह्विकी ” ॥ इति ।
एतस्यैव पक्षस्यानुग्राहक उत्तरविद्धाया निषेधो '''बृहद्वसिष्ठेन''' स्मर्यते—
५ “ द्वितीया पंचमी वेधाद्दशमी च त्रयोदशी । चतुर्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी ” ॥ इति ।
द्वितीयादयः स्ववेधेन पूर्वांमुत्तरां च तिथिं हन्युरित्यभिधानादुत्तरविद्धा प्रतिपदुपवासे निषिद्धा
भवति । तथा च '''ब्रह्मकैवर्ते—'''
“ प्रतिपत्पंचमीभूतसावित्रिव्रतपूर्णिमा । नवमी दशमी चैव नोपोष्याः परसंयुताः ” ॥ इति ।
सावित्रिव्रतपूर्णिमा सावित्रिव्रतयुक्ता पौर्णमासी । एतच्च पूर्वविद्धायाः प्रतिपदः पूज्यत्वाभिधानं
१० शुक्लप्रतिपद्विषयम् । अत एवोक्तं '''निगमे—'''
“ युग्माग्नियुगभूतानां षण्मुन्योर्वसुरंध्रयोः । रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा ॥
“ प्रतिपद्यप्यमावास्या तिथ्योर्युग्मं महाफलम् ” ॥ इति । युग्मं द्वितीया । अग्निरुत्तृतीया । युग्मं
चतुर्थी । भूतं पंचमी । षट् षष्ठी । मुनिः सप्तमी । वसुरष्टमी । रंध्रं नवमी । रुद्र एकादशी ।
अत्र युग्माग्न्यादिसप्तयुग्मेषु पूर्वी तिथिरुत्तरविद्धा ग्राह्या । उत्तरा तु पूर्वविद्धेत्युक्तं भवति ।
१५ '''स्मृत्यंतरेऽपि—'''
“ एकादशी तथा षष्ठी अमावास्या चतुर्थिका । उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः ”॥ इति ।
'''अन्यत्रापि—'''
“ षष्ठ्यष्टमी अमावास्या कृष्णपक्षे त्रयोदशी । एताः परयुताः पूज्याः पराः पूर्वेण संयुताः”॥ इति ।
अत्र ‘प्रतिपद्यप्यमावास्या पराः पूर्वेण संयुता’ इति चामावास्यायुतायाः प्रतिपदः उपोष्यत्वा-
२० भिधानात् शुक्लप्रतिपद्विषयत्वं स्फुटमवगम्यते । न ह्येतानि वचनानि कृष्णपक्षविषयतयाः
कथंचिदपि योजयितुं शक्यन्ते । एतदनुसारेण “प्रतिपत्सदितीया स्यात् द्वितीया प्रतिपद्युता”
इत्यापस्तम्बवचनं कृष्णपक्षविषयतयैव संकोचनीयम् । एवं च ‘नोपोध्याः परसंयुता’ इति
द्वितीयायुतोपवासनिषेधः शुक्लपक्षविषयतया योजनीयः । यत्तु '''गोभिलवचनम्—'''
“ खर्वा दर्पा तथा हिंसा त्रिविधं तिथिलक्षणम् । खर्वादर्पे परे कार्ये हिंसा स्यात्पूर्वकालिकी”॥ इति ।
२५ यदपि '''बोधायनवचनम्—'''
“ वर्धमानस्य पक्षस्य उदद्या पूज्यते तिथिः । यदा पक्षः क्षयं याति तदा स्यादापराह्विकी ”॥ इति ।
उदद्या उदयं गतेत्यर्थः । यदपि '''स्मृत्यन्तरवचनम्—'''
“ सा तिथिरहश्चैवेत् यस्यामभ्युदितो रविः । वर्धमानस्य पक्षस्य ह्रासे त्वस्तमया तिथिः” ॥ इति ।
वृद्धौ तिथिरुदयगता पूज्या क्षये त्वस्तगता पूज्येत्यर्थः । एतान्येकोद्दिष्टादिविषयाणि ।
३० तथाह '''व्यासः—'''
“द्वितीयादिकयुग्मानां पूज्यतानियमाद्विषु । एकोद्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिचोदना ॥ ” इति ।
नियमाद्विष्वित्यादिशब्देन पितृकर्मव्यतिरिक्तव्रतोपवासादि सकलकर्मणां ग्रहणम् । एकोद्दिष्टादीत्यादि-
शब्देन पार्वणश्राद्धस्य ग्रहणम् ।
{{rule}} १ ख-गार्ध । २ खगघ-ष्टाः ३ खग-स्य ।<noinclude></noinclude> 2zx2ndbgqcit23zft1nkx7gqribq2yv पृष्ठम्:Smriti mukta phalam.pdf/८७५ 104 166878 419901 2026-11-11T03:48:58Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''तिथीनां वेधः ।'''|८२७}} {{rule}} '''कालादर्शोऽपि—'''
“प्रत्याब्दिकादिश्राद्धादौ वृद्धिह्रासादिचोदना । द्वितीयादिकयुग्मानां व्रतादौ पूज्यता भवेत् ॥”इति ।
तदेव... नवीन पृष्ठं निर्मीत अस्ती 419901 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''तिथीनां वेधः ।'''|८२७}} {{rule}} '''कालादर्शोऽपि—'''
“प्रत्याब्दिकादिश्राद्धादौ वृद्धिह्रासादिचोदना । द्वितीयादिकयुग्मानां व्रतादौ पूज्यता भवेत् ॥”इति ।
तदेवं वृद्धिह्रासानादरेण उपवासे शुक्लप्रतिपत् पूर्वविद्धा ग्राह्या कृष्णप्रतिपदुत्तरविद्धेति स्थितम् ।
तिथीनां वेधः '''पैठीनसिना''' दर्शितः—
“पक्षद्वयेऽपि तिथयस्तिथिं पूर्वां तथोत्तराम् । त्रिभिर्मुहूर्तैर्विध्यंति सामान्योऽयं विधिः स्मृतः” ॥ इति । ५
पूर्वेद्युरुदयानंतरममावास्या त्रिमुहूर्त्ता ततोऽधिका वा सा प्रतिपदं विध्यति । परेद्युरस्तमयात्प्राक्
द्वितीया त्रिमुहूर्त्ता ततोधिका वा साऽपि पूर्वां प्रतिपदं विध्यतीत्येवं सर्वतिथिसाधारणो वेधो
विशेषवचनाभावविषये द्रष्टव्यः । वेध्यापि प्रतिपद्दिवा त्रिमुहूर्त्ता ततोधिका वा भवेत् सा वेधार्हा
भवेत् । न न्यूना । तदुक्तं '''कालनिर्णये—'''
“ शुद्धा विद्धा तिथिः शुद्धा हीना तिथ्यान्त्ययाहनि । उदये पूर्वया तिथ्या विध्यते त्रिमुहूर्तकैः ॥ १०
“ सायं तूत्तरया तद्वन्न्यूना तु न विध्यते । वेध्यापि त्रिमुहूर्त्तैव न न्यूना वेधमर्हति ॥
“ शुक्लपक्षे दर्शविद्धा कृष्णे विद्धा द्वितीयाया । उपोष्या प्रतिपच्छुक्ले मुख्या स्यादापराह्निकी ॥
“ तदभावे तु सायान्हव्यापिनी परिगृह्यताम् । प्रातः संगवमध्यान्हापराह्नाः सायममित्यसौ ॥
“ अन्हान्हः पंचधा भागो मुख्यो द्वित्र्यादिभागतः ” ॥ इति । पूर्वाण्होऽपराण्ह इति द्वेधा
विभागः । पूर्वाण्हो मध्यान्होऽपराह्न इति त्रेधा विभागः । पूर्वाण्हो मध्यान्हः अपराह्नः सायान्ह १५
इति चतुर्धा विभागः । प्रातः संगवो मध्यान्होऽपराण्डः सायान्ह इति पंचधा विभागः । द्वित्र्यादि-
विभागात् पंचधाविभागस्य बहुश्रुतिस्मृतिसंमतत्वात् स एव मुख्य इत्यन्तिमश्लोकार्थः । एवं च
सत्युक्तेषु पंचस्वन्हो भागेषु पंचमं सायान्हभागं व्याप्य ततः पूर्वं चतुर्थमपराण्हेभागं या शुक्ल-
प्रतिपत्स्पृशति तादृशी पूर्वविद्धोपवासे पूज्या । स चोपवासः '''भविष्योत्तरपुराणे''' कार्तिक-
मासांतदर्शे पायसभोजनादिनियमं विधाय प्रतिपदि विहितः— २०
“ मार्गशीर्षे ततो मासि प्रतिपद्यपरेऽहनि । स्पृष्ट्वा गुरुं चोपवसेन्महादेवं स्मरन्मुहुः ” ॥ इति
'''स्कंदपुराणे''' कार्तिकशुक्लप्रतिपदि बल्युत्सवो विहितः । एवमन्यत्रापि द्रष्टव्यम् । पूर्वविद्धायां
शुक्लप्रतिपदि योऽयमुपवासो विहितः तस्य प्रातरेव संकल्पः कार्यः । तदानीं ज्योतिःशास्त्र-
प्रसिद्धप्रतिपदभावेऽपि स्मृतिभिरापादितायाः प्रतिपदः सत्त्वात् । अत एव '''देवलः—'''
“यां तिथिं समनुप्राप्य त्वस्तं याति दिवाकरः । सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु ” ॥ इति । २५
अत्र कर्मस्विति बहुवचनादुपवासादिनिखिलदैवकर्मपरिग्रहः । अत्रास्तमयात्पूर्वं मुहूर्तत्रय-
व्यापिनीं तिथिं समनुप्राप्येति व्याख्येयम् । न तु ततोऽल्पव्याप्तिर्न विवक्षिता ।
तथा च '''वृद्धवसिष्ठः—'''
“ यस्यां तिथ्यावस्तमियात्सूर्यस्तु त्रिमुहूर्त्तकः । यागदानजपादिभ्यस्तामेवोपक्रमोत्तिथिम् ” ॥ इति ।
'''स्कांदेऽपि—''' ३०
“यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीप्रियः । सा तिथिस्तद्दिने प्रोक्ता त्रिमुहूर्त्ता यदा भवेत्”॥ इति ।
'''सौरेऽपि—'''
“ यां प्राप्यास्तमुपेत्यर्कः स्याच्चेत्सा त्रिमुहूर्तगा । धर्मकृत्येषु सर्वेषु संपूर्णां तां विदुर्बुधाः ” ॥ इति ।
एवं च सायंतनत्रिमुहूर्त्तशुक्लप्रतिपदुपेतायां तिथौ प्रातरेव संकल्प्य प्रतिपदुपवासः कर्तव्य इति
निश्चयः । पूर्वविद्धायां शुक्लप्रतिपदि उपवासं कृत्वा परेद्युः तिथ्यन्ते पारणं कुर्यात् । तदाह '''सुमंतुः—''' ३५
“ तिथिनक्षत्रनियमे तिथिभान्ते च पारणम् । अतोऽन्यथा पारणे तु व्रतभंगमवाप्नुयात्”॥ इति ।
{{rule}}<noinclude></noinclude> kdkowebq0bbl5v19ssh2d6qwv2y6paj पृष्ठम्:Smriti mukta phalam.pdf/८७६ 104 166879 419902 2026-11-11T03:49:57Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८२८|'''एकभक्तव्रतनिर्णयः ।'''|}} {{rule}} '''निगमे—'''“पूर्वविद्धासु तिथिषु भेषु च श्रवणं विना । उपोष्य विधिवत्कुर्यात्तत्तदंते तु पारणम्”॥ इति ।
'''स्कांन्देऽपि—'''
“... नवीन पृष्ठं निर्मीत अस्ती 419902 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८२८|'''एकभक्तव्रतनिर्णयः ।'''|}} {{rule}} '''निगमे—'''“पूर्वविद्धासु तिथिषु भेषु च श्रवणं विना । उपोष्य विधिवत्कुर्यात्तत्तदंते तु पारणम्”॥ इति ।
'''स्कांन्देऽपि—'''
“ तिथीनामेव सर्वासामुपवासव्रतादिषु । तिथ्यंते पारणं कुर्याद्विना शिवचतुर्दशीं ” ॥ इति ।
अस्य तिथिभांतपारणस्यापवादः क्वचित् स्मर्यते—
५ “ तिथ्यंते चैव भांते च पारणं यत्र चोद्यते । यामत्रयोर्ध्ववर्तिन्यां प्रातरेव हि पारणम् ” ॥ इति ।
यत्तु '''देवलवचनम्—'''
“ उपवासेषु सर्वेषु पूर्वाह्णे पारणं भवेत् । अन्यथा तत्फलस्यार्धं धर्ममेवोपसर्पति ” ॥ इति । धर्मो
यमः । तत्पूर्वविद्धान्यतिरिक्तपरविद्धाशुद्धतिथ्युपवासविषयम् । पूर्वविद्धायां विहितस्योपवासस्य
केनापि निमित्तेन तत्रानुष्ठानासम्भवे सत्युत्तरविद्धा गौणकालत्वेन ग्राह्या । “ पौर्वाह्णिकास्तु तिथयो
१० दैवकार्ये फलप्रदा ” इति सामान्येन स्मरणात् । उक्तं च '''कालनिर्णयसंग्रहे—'''
“ अभावेऽपि प्रतिपदः संकल्पः प्रातरिष्यते । तिथिश्चियामतोऽर्वाक् चेत् तिथ्यंते पारणं भवेत् ॥
“ मुख्यतिथ्यंतरत्वे तु तिथिशेषोऽपि गृह्यताम् ” ॥ इति ।
'''एकभक्तव्रतनिर्णयः ।''' अथैकभक्तं निर्णीयते । तच्च त्रिविधम् । स्वतंत्रमन्यांगं उपवासप्रति-
निधिरूपं चेति । तेषु स्वतंत्रं ब्रह्मपुराणे पठ्यते—“प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः”॥ इति ।
१५ तत्र कर्मकालव्यापिनी तिथिर्ग्राह्या “ यो यस्य विहितः कालस्तत्कालव्यापिनी तिथिः ”
इति स्मृतेः । कर्मकालस्तत्कर्मस्वरूपं चेत्युभयं स्कंदपुराणे दर्शितम्—
“ दिनार्धसमयेऽतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्तमतस्तत्स्याद्द्विवैव हि ” ॥ इति ।
'''देबलोऽपि—'''
“ दिनार्धसमयेऽतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्तं न्यूनं ग्रासत्रयेण तु ” ॥ इति ।
२० अत्र दिनार्धस्योपरि सार्धमुहूर्तपरिमितः काल एकभक्तस्य मुख्यः । दिनार्धेऽतीते सति समनंतर-
भावित्वादस्तमयात् प्राचीनो गौणः कालः । दिवेत्यभ्यनुज्ञानात् । अत्र मुख्यकालव्यापिनी तिथिर्ग्राह्या ।
अत एव '''पाद्मे—'''“मध्यान्हव्यापिनी ग्राह्या एकभक्ते सदा तिथिः ” ॥ इति । '''बोधायनोऽपि—'''
“ मध्यान्हव्यापिनी ग्राह्या एकभक्तव्रते तिथिः ” ॥ इति । अत्र निर्णतव्यो विषयः षोढा भिद्यते ।
पूर्वेद्युरेव मध्यान्हव्यापित्वं परेद्युरेव तद्व्यापित्वम् उभयत्र साम्येन तदेकदेशव्यापित्वं वैषम्येण
२५ तदेकदेशव्यापित्वं चेति । तत्र प्रथमद्वितीययोर्मध्यान्हव्यापित्वस्यैव निर्णायकत्वम् । तृतीये पूर्व-
विद्धा ग्राह्या । मुख्यकालब्याप्तेः समत्वेऽपि गौणकालव्याप्तेः अधिकत्वात् । चतुर्थेऽपि पूर्वविद्धैव ।
उभयत्र मुख्यकालव्याप्त्यभावेऽपि गौणकालव्याप्तिलाभात् । पंचमेऽप्यथमेव न्यायो योज्यः । षष्ठे तु
यस्मिन् दिने अधिकव्याप्तिः सैव ग्राह्या । एवं स्वतंत्रैकभक्तं निर्णीतम् । अन्यांगं त्वपराह्नादौ
कार्यम् । “ पूजामतेषु सर्वत्र मध्यान्हव्यापिनी तिथिः ” इति ‘ मध्यान्हे पूजयेन्नृप ’ इत्यादि
३० शास्त्रैरंगिनः पूजादेर्मध्यान्हे विहितत्वेन एकभक्तस्य मुख्यकालासंभवात् उपवासप्रतिनिधिरूपमेक-
भक्तमुपवासतिथौ कार्यम् । तस्य गौणोपवासत्वात् ।
अत एव '''सुमंतुः—'''“ तिथौ यत्रोपवासः स्यादेकभक्तेऽपि सा तिथिः ” ॥
{{rule}} १ ख-न्ता ।<noinclude></noinclude> 6dkl9hojcj1gi4zjak4nrmr9tnccdmm पृष्ठम्:Smriti mukta phalam.pdf/८७७ 104 166880 419903 2026-11-11T03:51:35Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''नक्तव्रतम् ।'''|८२९}} {{rule}} '''नक्तव्रतम् ।''' अथ नक्तं निरूप्यते । तच्च वाराहपुराणे पठ्यते—
“मार्गशीर्षे सिते पक्षे प्रतिपद्या तिथिर्भवेत् । तस्यां नक्तं प्रकु... नवीन पृष्ठं निर्मीत अस्ती 419903 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''नक्तव्रतम् ।'''|८२९}} {{rule}} '''नक्तव्रतम् ।''' अथ नक्तं निरूप्यते । तच्च वाराहपुराणे पठ्यते—
“मार्गशीर्षे सिते पक्षे प्रतिपद्या तिथिर्भवेत् । तस्यां नक्तं प्रकुर्वीत रात्रौ विष्णुं च पूजयेत्”॥ इति ।
नक्तं कुर्यात् दिवा अभुंजानो रात्रिभोजनं कुर्वन्नित्यर्थः । तस्य काल उक्तः '''कालादर्शे—'''
“ त्रिमुहूर्त्तास्तमानात्प्राक् परतश्च तथाविधा । तस्यां नक्तव्रतं कुर्याद्धरिनक्तव्रतादृते ” ॥ इति ।
'''कौर्मेऽपि—''' ५
“ प्रदोषव्यापिनी यत्र त्रिमुहूर्ता यदा दिवा । तदा नक्तव्रतं कुर्यात्स्वाध्यायस्य निषेधवत् ” ॥ इति ।
एतत्प्रदोषव्याप्तिर्मुख्यः कल्पः सायंकालव्याप्तिरनुकल्प इत्येवंपरम् । तथा च कालद्वयं '''भविष्यत्पुराणे'''
दर्शितम्—“मुहूर्त्तोनांदिनं नक्तं प्रवदंति मनीषिणः । नक्षत्रदर्शनान्नक्तमहं मन्ये गणाधिप” ॥ इति ।
अस्य च कालद्वयस्याधिकारिभेदेन व्यवस्थामह '''देवलः—'''
“ नक्षत्रदर्शनान्नक्तं गृहस्थस्य बुधैः स्मृतम् । यतेर्दिनाष्टमे भागे तस्य रात्रौ निषिध्यते ” ॥ इति । १०
'''स्मृत्यंतरेऽपि—'''
“ नक्तं निशायां कुर्वीत गृहस्थो विधिसंयुतः । यतिश्च विधवा चैव कुर्यात्तत्सदिवाकरम् ॥
“दिवा नक्तं तु तत्प्रोक्तमतिमे घटिकाद्वयम् । निशां नक्तं तु विज्ञेयं प्रवदन्ति मनीषिणः ॥
“ नक्षत्रदर्शनान्नक्तं यामार्धे प्रथमे सदा ” ॥ इति । रात्रिनक्तभोजने कालमाह '''व्यासः—'''
“त्रिमुहूर्तः प्रदोषः स्याद्भानोरस्तंगते सति । नक्तं तत्र तु कर्तव्यमिति शास्त्रविनिश्चयः ” ॥ इति । १५
नक्तं त्रिमुहूर्तात्मकप्रदोषव्यापिन्यां तिथौ कार्यम् । यदाह '''वत्सः—'''
“ प्रदोषव्यापिनी ग्राह्या सदा नक्तव्रते तिथिः । एकादशीं विना सर्वा शुक्लकृष्णे तथा स्मृता ”॥ इति ।
अयमपि विषयः षोढा भिद्यते । पूर्वेद्युरेव प्रदोषव्याप्तिः परेद्युरेव तद्व्याप्तिः उभयत्रापि तद्व्याप्तिः
उभयत्र तदभावः । उभयत्र साम्येन तदेकदेशव्याप्तिः । उभयत्र वैषम्येण तदेकदेशव्याप्तिरिति ।
तत्र प्रथमद्वितीययोः प्रदोषव्याप्तिर्निर्णायिका । उभयत्र तद्भावौ परतितिरेव । तदाह '''जाबालिः—''' २०
“ सदैव तिथ्योरुभयोः प्रदोषव्यापिनी तिथिः । तत्रोत्तरत्र नक्तं स्यादुभयत्रापि सा तिथिः ”॥ इति ।
उभयत्रापि दिवारात्रावपि सा तिथिविंधते इत्यर्थः । उभयत्र प्रदोषव्याप्त्यभावेऽपि परैव ।
तदाह '''जाबालिः—''' “ अतथात्वे परत्र स्याद्रवार्गस्तंगते हि सा ” इति । प्रदोषे तदभावेपि अस्त-
मयादर्वाग्यतः सा विध्यते सा ग्राह्येत्यर्थः । ईदृशे विषये गृहस्थोऽपि यतिवत् दिवा नक्तमाचरेत् ।
तदुक्तं '''स्कांदे—'''“ प्रदोषव्यापिनी न स्याद्दिवा नक्तं विधीयते । २५
“ आत्मनो द्विगुणच्छायामतिक्रामति भास्करे । तन्नक्तं नक्तमित्याहुर्न नक्तं निशिभोजनम् ॥
“एवं ज्ञात्वा ततो विद्वान्साय्यान्हे तु भुजिक्रियाम् । कुर्यान्नक्तव्रती नक्तफलं भवति निश्चितम्”॥ इति ।
प्रदोषव्यापिन्यां तिथौ भानुवारसंक्रांत्यादिना गृहस्थस्यापि यदा रात्रिभोजननिषेधः तदा दिवैव
नक्तं कुर्यात् । तथा च '''भविष्यत्पुराणे—'''
“ ये त्वादित्यदिने बह्लन्नक्तं कुर्वंति मानवाः । दिनांते तेऽपि कुर्वीरन्निषेधाद्रात्रिभोजने ” ॥ इति । ३०
अस्मिंश्च दिवाभोजने उत्तमोऽन्तिममुहूर्तः । मध्यम उपान्त्यः । ततः प्राचीनो जघन्यः । एवं च
सति अन्तिमाष्टमभागत्रिमुहूर्तवचनान्युपपद्यन्ते । रात्रिभोजनेऽपि घटिकात्रयमुत्तमः कालः ।
घटिकाषट्कं मध्यमः कालः
“प्रदोषोऽस्तमयादूर्ध्वं घटिकात्रयमिष्यते । त्रिमुहूर्तः प्रदोषः स्याद्रवावस्तंगते सति”॥ इति च स्मृतेः ।
{{rule}}
१ क्ष-न । २ ख-नं दि । ३ क्ष-दिवा ।<noinclude></noinclude> 7g9lgiv8ipuj4odbzryinu3buzqq3ou पृष्ठम्:Smriti mukta phalam.pdf/८७८ 104 166881 419904 2026-11-11T03:52:27Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८३०|'''दानव्रतादीनां कालः ।'''|}} {{rule}} निशीथपर्यन्तो जघन्यः कालः । नक्तं प्रकुर्वीत रात्रौ कुर्वन्निति सामान्येनाभिधानात् । असौर-
नक्तेषु साम्येन वैषम्येण वा द... नवीन पृष्ठं निर्मीत अस्ती 419904 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८३०|'''दानव्रतादीनां कालः ।'''|}} {{rule}} निशीथपर्यन्तो जघन्यः कालः । नक्तं प्रकुर्वीत रात्रौ कुर्वन्निति सामान्येनाभिधानात् । असौर-
नक्तेषु साम्येन वैषम्येण वा दिनद्वये प्रदोषैकदेशव्याप्तौ परेद्युरेव नक्तं कार्यं सायंकालस्य
गौणस्य तिथिव्याप्तत्वात्सौरनक्तेषु सायंकालैकदेशव्याप्तौ पूर्वपूर्वतिथिर्ग्राह्या प्रदोषकालस्य तत्तिथि-
व्याप्तत्वात् । “ अर्कद्विपर्वरात्रौ च चतुर्दश्यष्टमी दिवा ” इत्यनेन दिवाचतुर्दश्यष्टमीयोगे सति
५ भोजने प्रायश्चित्तविधानात् दिवा तत्संबंधसमये भोजननिषेधो गम्यते “ निषेधस्तु निवृत्त्यात्मा
कालधर्ममपेक्षते ” इति स्मृतेः । तत्संबंधाभावसमये तु भोजनं न निषिध्यते । अत एव रात्रौ
पर्वयोगे भोजने निषिद्धे तद्विगमे सति कचिद्भोजनमभ्यनुज्ञायते
'''मनुना—'''“ चंद्रसूर्यग्रहे नाद्याद्यात् स्नात्वा विमुक्तयोः ” इति ।
'''व्यासोऽपि—'''“ नाद्यात्सूर्यग्रहात्पूर्वमन्हि सायं शशिग्रहात् ।
१० “ग्रहकाले च नाश्नीयात्स्नात्वाऽश्नीयाच्च मुक्तयोः। मुक्ते शशिनि भुंजीत यदि न स्यान्महानिशा”॥ इति ।
'''वृद्धगौतमोऽपि—'''
“ चंद्रसूर्यग्रहे नाद्यात्तस्मिन्नहनि पूर्वतः । राहोर्र्विमुक्तिं विज्ञाय स्नात्वा कुर्वीत भोजनम्” ॥ इति ।
चतुर्दश्यष्टमी दिवेत्यस्य नक्तव्रतत्वाभावान्नक्तन्यायोऽप्यत्र नावतरति । तदेवं प्रतिपद्युपवास एक-
भक्तनक्तानि निर्णीतानि । तत्र शुक्लप्रतिपत्पूर्वविद्धोपोष्या कृष्णप्रतिपदुत्तरविद्धा । एकभक्त-
१५ नक्तयोस्तु सर्वासु तिथिषु मध्यान्हप्रदोषव्याप्त्या निर्णयः ।
'''दानव्रतादीनां कालः ।''' दानव्रतादीनि उत्तरविद्धायां प्रतिपदि कर्तव्यानि । तेषां दैवत्वात् ।
तदाह '''वृद्धयाज्ञवल्क्यः—'''“पौर्वाह्णिकास्तु तिथयो दैवकार्ये फलप्रदाः” इति । अन्हः पूर्वो भागः
पूर्वाह्णः । स च मुहूर्तत्रयात्मकः प्रातःकालः । कर्मकालव्याप्तिं च '''वृद्धयाज्ञवल्क्य आह—'''
“कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः । तथा कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्” ॥ इति ।
२० '''गार्ग्यश्च—'''
“ यो यस्य विहितः कालस्तत्कल्यापिनी तिथिः । तथा कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्”॥
एवं च उदयानंतरं मुहूर्तत्रयव्यापिनी दानादौ तिथिर्ग्राह्या ।
“ यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथिः सकला ज्ञेया स्नानदानजपादिषु ॥
“ व्रतोपवासस्नानादौ घटिकैका यदा भवेत् । उदये सा तिथिर्ग्राह्या श्राद्धाद्वावस्तगामिनी ” ॥
२५ इति देवलदिवचनं वैश्वानराधिकरणन्यायेन त्रिमुहूर्तव्याप्तिप्रशंसापरम् । अत्रापि षोढा
भिद्यते । उदयकाले पूर्वेद्युरेव त्रिमुहूर्तव्यापिनी परेद्युरेव तद्व्यापिनी उभयत्रापि त्रिमुहूर्त-
व्यापिनी नोभयत्र त्रिमुहूर्तव्यापिनी साम्येन वैषम्येण वा त्रिमुहूर्तैकदेशव्यापिनीति । तत्र
प्रथमद्वितीयोर्नास्ति संदेहः । तृतीयादिषु चतुर्थेष्वस्तमयव्याप्तेः कर्मकालबाहुल्यस्य च
लाभात् पूर्वेद्युरेवानुष्ठानमिति निर्णयः । पित्र्यकालस्तु श्राद्धकांडे निरूपितः। इति प्रतिपन्निर्णयः ।
३० अयमेव निर्णय उत्तरासु सर्वासु तिथिषु सामान्येन संचारयितव्यः । विशेषस्तु तत्र तत्राभिधास्यते ।
'''द्वितीयानिर्णयः ।''' तत्र द्वितीयायाः परविद्धायाः उपोष्यत्वं भृगुराह—
“एकादश्यष्टमी षष्ठी द्वितीया च चतुर्दशी । त्रयोदशी त्वमावास्या उपोष्याः स्युः परान्विताः”॥ इति ।
'''व्यासः—'''“ तृतीया युता कार्या द्वितीया न तु पूर्वया ” इति । यदा तु पूर्वेद्युरुदयमारभ्य
परेद्युरुदयस्योपरि त्रिमुहूर्तं वर्तते तदा पूर्वेद्युरेव संपूर्णतिथित्वादुपवासः । तदुक्तं '''कालनिर्णये—'''
३५ “ पूर्वेद्युरसती प्रातः परेद्युस्त्रिमुहूर्तगा । सा द्वितीया परोपोष्या पूर्वविद्धा ततोऽपरा ” ॥ इति ।
{{rule}} १ खगध-मात्र । २ जैमिनीय न्या. । १।४।१२ (सू. १७-२२) जातेष्टिन्यायः । ३ पृ. ७२३-७५२<noinclude></noinclude> oieke0zpxl1f60leiue9igrb8nfl4te पृष्ठम्:Smriti mukta phalam.pdf/८७९ 104 166882 419905 2026-11-11T03:54:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''तृतीयादिनिर्णयाः ।'''|८३१}} {{rule}} '''तृतीयानिर्णयः ।''' तृतीया परविद्धैव ग्राह्या । रंभाख्यव्रते तु पूर्वविद्धा ग्राह्या ।
तदुक्तं '''ब्रह्मकैवर्ते—'''
“ रंभाख्... नवीन पृष्ठं निर्मीत अस्ती 419905 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''तृतीयादिनिर्णयाः ।'''|८३१}} {{rule}} '''तृतीयानिर्णयः ।''' तृतीया परविद्धैव ग्राह्या । रंभाख्यव्रते तु पूर्वविद्धा ग्राह्या ।
तदुक्तं '''ब्रह्मकैवर्ते—'''
“ रंभाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तम । अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ” ॥ इति ।
गणश्चतुर्थी । '''स्मृत्यंतरेऽपि—'''
“ द्वितीयाया तु विद्धा चेत्तृतीया न कदाचन । कर्तव्या व्रतिभिस्तात धर्मकामार्थतत्परैः ॥ ५
“ विहायैकां च रंभाख्यां तृतीयां पुण्यवर्धिनीम् ” ॥ इति ।
'''चतुर्थीनिर्णयः ।''' चतुर्थीपि परविद्धैव ग्राह्या । यदाह '''बृहद्वसिष्ठः—'''
“ एकादशी तथा षष्ठी अमावास्या चतुर्थिका । उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः” ॥ इति ।
विनायकव्रतानुष्ठाने तु मध्यान्हव्यापिनी चतुर्थी ग्राह्या । तदाह '''बृहस्पतिः—'''
“ चतुर्थीगणनायस्य मातृविद्धा प्रशस्यते । मध्यान्हव्यापिनी चेत्स्यात्परतश्चेत्परेऽहनि ” ॥ १०
मातृविद्धा तृतीयाविद्धा । '''स्मृत्यंतरेऽपि—'''
“ मातृविद्धा प्रशस्ता स्याच्चतुर्थीगणनायके । मध्यान्हे परतश्चेत्स्यान्नागविद्धा प्रशस्यते ” ॥ इति ।
नागः पंचमी । एकभक्तन्यायेन मध्यान्हव्याप्तेः षोढा भेदे सति यदा परेद्युरेव मध्यान्हव्याप्तिः
तदा परा । इतरेषु पंचसु भेदेषु जयायोगस्य प्रशस्तत्वात्पूर्वेद्युरेव सा भवति ।
'''पंचमीनिर्णयः ।''' पंचमी पूर्वविद्धैव ग्राह्या । तदाह '''हारीतः—'''
“ चतुर्थीसंयुता कार्या पंचमी परया न तु । दैवे कर्मणि पित्र्ये च शुक्लपक्षे तथाऽसिते ” ॥ इति । १५
'''षष्ठीनिर्णयः ।''' षष्ठी परविद्धा ग्राह्या । तदुक्तं '''विष्णुधर्मोत्तरे—'''
“एकादश्यष्टमी षष्ठी शिवरात्रीचतुर्दशी । अमावास्या तृतीया च ता उपोष्याः परान्विताः”॥ इति ।
स्कंदव्रते तु षष्ठ्याः पूर्वविद्धाया ग्राह्यत्वमाह '''वसिष्ठः—'''
“कृष्णाष्टमी स्कंदषष्ठी शिवरात्रिश्चतुर्दशी । एताः पूर्वयुताः कार्यास्तिथ्यंते पारणं भवेत् ” ॥ इति । २०
यदि कदाचित्तिथिक्षयवशादुत्तरविद्धा न लभ्यते तदा स्कांतव्रतवदन्यान्यपि व्रतानि पंचमी-
विद्धायां कर्तव्यानि । तदाह '''वसिष्ठः—'''
“एकादशी तृतीया च षष्ठी चैव त्रयोदशी । पूर्वविद्धा तु कर्तव्या यदि न स्यात्परेऽहनि”॥ इति ।
'''सप्तमीनिर्णयः ।''' सप्तमी पूर्वविद्धैव ग्राह्या । “षष्ठ्या युता सप्तमी च कर्तव्या तत्र सर्वदा”॥
इति स्मृतेः । उत्तरविद्धाप्रतिषेधः '''स्कंदपुराणे''' दर्शितः— २५
“ षष्ठ्येकादश्यमावास्या पूर्वविद्धा तथाऽष्टमी । सप्तमी परविद्धा च नोपोष्यं तिथिपंचकम् ” ॥ इति ।
पूर्वविद्धायाः सप्तम्या अलाभे तूत्तरविद्धा ग्राह्या । तदुक्तं '''कालनिर्णये—'''
“ सप्तमी पूर्वविद्धैव व्रतेषु निखिलेष्वपि । अलाभे पूर्वविद्धायाः परविद्धापि गृह्यताम् ” ॥ इति ।
'''अष्टमीनिर्णयः ।''' अथाष्टमी निर्णीयते । तत्र शुक्लाष्टमी परविद्धा ग्राह्या । तथा च '''निगमे—'''
“ शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी । पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥ ३०
“ उपवासादिकार्येषु ह्येष धर्मः सनातनः ” ॥ इति । '''स्कांदेऽपि—'''
“अष्टमी नवमी मिश्रा कर्तव्या भूतिमिच्छता । सप्तम्या चाष्टमी चैव न कर्तव्या शिखिध्वज”॥ इति ।
कृष्णपक्षे पूर्वविद्धायाः परिग्रहः परविद्धायाः प्रतिषेधश्च '''निगमे''' पठ्यते—
“ कृष्णपक्षेऽष्टमी यत्र कृष्णपक्षे चतुर्दशी । पूर्वविद्धा तु कर्तव्या परविद्धा न कस्यचित् ॥
“ उपवासादिकार्येषु ह्येष धर्मः सनातनः ” ॥ इति । व्रतविशेषे तु तत्र तत्रोक्तं द्रष्टव्यम् । ३५
{{rule}} १ खगघ-पौर्णमासी । २ क्ष-यतु ।<noinclude></noinclude> 26pxihk1lpwx1vtwn18vzbzjljdc8m8 पृष्ठम्:Smriti mukta phalam.pdf/८८० 104 166883 419906 2026-11-11T03:55:18Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८३२|'''कृष्णजन्माष्टमी ।'''|}} {{rule}} तथा दूर्वाष्टमीसंज्ञकव्रतविशेषविषये '''भविष्यत्पुराणम्—'''
“ श्रावणी दुर्गनवमी तथा दूर्वाष्टमी च या । पूर्वविद्धैव कर्तव्या... नवीन पृष्ठं निर्मीत अस्ती 419906 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८३२|'''कृष्णजन्माष्टमी ।'''|}} {{rule}} तथा दूर्वाष्टमीसंज्ञकव्रतविशेषविषये '''भविष्यत्पुराणम्—'''
“ श्रावणी दुर्गनवमी तथा दूर्वाष्टमी च या । पूर्वविद्धैव कर्तव्या शिवरात्रिश्चतुर्दशीम् ” ॥ इति ।
'''कृष्णजन्माष्टमी ।''' कृष्णजन्माष्टमीव्रतात् जयंतीव्रतं भिन्नम् । जन्माष्टमीव्रते तिथिरेव
निमित्तम् । जयंतीव्रते तु रोहिणीयोगः । तथा च स्मर्यते—
५ “ श्रावणे बहुले पक्षे कृष्णजन्माष्टमीव्रतम् । न करोति नरो यस्तु भवति क्रूरराक्षसः ॥
“श्रावणस्य च मासस्य कृष्णाष्टम्यां नराधिप । रोहिणी यदि लभ्येत जयंती नाम सा तिथिः”॥ इति ।
'''वसिष्ठसंहितायाम्—'''
“ श्रावणे वा नभस्ये वा रोहिणी सहिताऽष्टमी । यदा कृष्णा नरैर्लब्धा सा जयंतीति कीर्तिता ॥
“ श्रावणेन भवेद्योगो नभस्ये तु भवेद्ध्रुवम् । तयोरभावे योगस्य तस्मिन् वर्षे न संभवः” ॥ इति ।
१० अत्र श्रावण इति मुख्यकल्पः । नभस्य इत्यनुकल्पः । एतदेवाभिप्रेत्य '''विष्णुरहस्येऽपि—'''
“अष्टमी कृष्णपक्षस्य रोहिणी ऋक्षसंयुता । भवेत्प्रौष्ठपदे मासि जयंती नाम सा स्मृता ” ॥ इति ।
'''हरिवंशे—'''
“ अभिजिन्नम नक्षत्रं जयन्ती नाम शर्वरी । मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ” ॥ इति ।
अत्र श्रावणनभस्यप्रौष्ठपदशब्दाः सिंहश्रावणादिपराः । तथा च ज्योतिरार्णवे—
१५ “ श्रावण्यां प्रौष्ठपद्यां वा यदा सिंहगतो रविः । जयंत्याराधनं कुर्यान्न तु कर्कटकन्ययोः ” ॥ इति ।
'''वाराहेऽपि—'''“ सिंहराशौगते सूर्ये गगने जलदाकुले । मासि प्रौष्ठपदेऽष्टम्यामर्धरात्रे विधूदये ॥
“ बुधवारे वृषे लग्ने रोहिण्याश्चरमांशके । शुभे हर्षणयोगे च कौलवेन युते तथा ॥
“ वसुदेवेन देवक्यामहं जातोऽस्मि पद्मजे ” ॥ इति । यस्मिन्वर्षे श्रावणे वा नभस्ये वा जयंती
न संभवति तस्मिन्वर्षे श्रावणमास एव कृष्णाष्टमीव्रतमनुष्ठेयम् । तस्य स्वरूपमुपवासमात्रम्—
२० “केवलेनोपवासेन तस्मिन्जन्मदिने मम । सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ” ॥ इति स्मृतेः ।
यदि शिष्टास्तत्रापि जागरणादानादिकमनुतिष्ठन्ति अनुतिष्ठन्तु नाम । अविरुद्धैः पुण्यविशेषैः
व्रतस्योपबृंहनसंभवाच्चाङ्गेन तु प्राप्तमुपवासमात्रम् । जयंतीव्रतस्य तु दानादिसहित उपवासः
स्वरूपम् । तथा च भविष्योत्तरे— “ मासि भाद्रपदेऽष्टम्यां निशीथे कृष्णपक्षके ।
“ शशांके वृषराशिस्थे ऋक्षे रोहिणिसंज्ञके । योगेऽस्मिन्वसुदेवाद्धि देवकी मामजीजनत् ॥
२५ “ तस्मान्मां पूजयेत्तत्र शुचिः सम्यगुपोषितः । ब्राह्मणान्भोजयेद्भक्त्या ततो दद्याच्च दक्षिणाम् ॥
“ हिरण्यं मेदिनीं गावो वासांसि कुसुमानि च । यद्यदिष्टतमं तत्तत्कृष्णो मे प्रीयतामिति ” ।
जयंतीं प्रकृत्य नारदीयसंहितायां स्मर्यते—
“ उपोषणं जन्मदिने कुर्याज्जागरणं च यः । अर्धरात्रयुताष्टम्यां सोऽश्वमेधफलं लभेत्” ॥
शुद्धं नित्यं जन्माष्टमीव्रतं करणे फलविशेषस्मरणात् अकरणे प्रत्यवायस्मरणाच्च । नित्यं काम्यं
३० च जयंतीव्रतं अकरणे प्रत्यवायस्मरणात्फलविशेषस्मरणाच्च ।
तथा हि जन्माष्टम्या अकरणे प्रत्यवायः स्मर्यते—
“ कृष्णजन्मदिने प्राप्ते यो भुंक्ते तु द्विजोत्तमः । त्रैलोक्यसंभवं पापं तेन भुक्तं द्विजोत्तम” ॥ इति ।
{{rule}}<noinclude></noinclude> iz5n5mrch6vp0dzh3v1462vk2h5mt7f पृष्ठम्:Smriti mukta phalam.pdf/८८१ 104 166884 419907 2026-11-11T03:56:31Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''जयंतीव्रतम् ।'''|८३३}} {{rule}} '''स्कंदपुराणेऽपि—'''
“ये न कुर्वंति जानंतः कृष्णजन्माष्टमीव्रतम् । ते भवन्ति नराः पापा व्याला व्याघ्राश्च कानने” ॥ इति ।
तथा जयंत... नवीन पृष्ठं निर्मीत अस्ती 419907 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''जयंतीव्रतम् ।'''|८३३}} {{rule}} '''स्कंदपुराणेऽपि—'''
“ये न कुर्वंति जानंतः कृष्णजन्माष्टमीव्रतम् । ते भवन्ति नराः पापा व्याला व्याघ्राश्च कानने” ॥ इति ।
तथा जयंतीव्रतस्याकरणे '''स्कांदे''' प्रत्यवायः स्मर्यते—
“शूद्रान्नेन तु यत्पापं शवहस्तस्थभोजने । तत्पापं लभते कुन्ति जयन्त्यां भोजने कृते ॥
“ ब्रह्मघ्नस्य सुरापस्य स्त्रीवधे गोवधेऽपि वा । न लोको यदुशार्दूल जयंतीविमुखस्य च ॥ ५
“ न करोति यदा विष्णोर्जयंतीसंभवं व्रतम् । यमस्य वशमापन्नः सहते नारकीं व्यथाम् ॥
“ जयंतीवासरे प्राप्ते करोत्युदरपूरणम् । संपीड्यतेऽतिमात्रं तु यमदूतैः कलेबरम् ” ॥ इति ।
जयंतीव्रते फलविशेषोऽभिहितो '''भविष्योत्तरे—'''
“ प्रतिवर्षं विधानेन मद्भक्तो धर्मनंदन । नरो वा यदि वा नारी यथोक्तं फलमाप्नुयात् ॥
“ पुत्रसंतानमारोग्यं सौभाग्यमतुलं भवेत् । सदा धर्मरतिर्भूत्वा मृतो वैकुंठमाप्नुयात् ॥ १०
“ तत्र दिव्येन मानेन वर्षलक्षं युधिष्ठिर । भोगान् नानाविधान्भुक्त्वा पुण्यशेषादिहागतः ॥
“ सर्वकामसमृद्धे तु कुले महति जायते ” ॥ इति । '''पाद्मेऽपि—'''
“ प्रेतयोनिगतानां तु प्रेतत्वं नाशितं नरैः । यैः कृता श्रावणे मासि अष्टमे रोहिणी युता ” ॥ इति ।
“ किं पुनर्बुधवारेण सोमेनापि विशेषतः ” ॥ इति ।
ननु जन्माष्टमीव्रतेऽपि फलं स्मर्यते “ सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः ” इति १५
अतस्तदपि नित्यं काम्यमिति चेन्नैवम् । उपात्तदुरितक्षयमात्रेण काम्यत्वे संध्यावंदनादेरपि
काम्यत्वप्रसंगात्सत्यपि पापक्षये फलांतरास्मरणात् । अतः केवलं नित्यं जन्माष्टमीव्रतम् । नित्यं
काम्यं च जयंतीव्रतम् ।
नन्वेवं व्रतभेदे सति यदा दिनद्वयेऽष्टमी वर्तते रोहिणी तूत्तरदिन एव तदा पूर्वदिने
जन्माष्टमीमुपवासः परेद्युर्जयंत्त्युपवास इति नैरंतर्येणोपवासद्वयं प्रसज्येतेति चेन्न । रोहिणीयोगसंभवे २०
जन्माष्टमीत्या अपि तत्रैव कर्तव्यत्वात् । सर्वतिथेष्वलम्भूयोगस्य केवलतिथेरुत्कृष्टत्वेन केवलाया-
स्तिथेस्तत्रोपेक्षणीयत्वात् । यदा त्वेकस्मिन्नेव दिने अष्टमी वर्तते रोहिण्या च युज्यते तदा
जन्माष्टमीजयंत्योः सह प्रयोगस्यावश्यंभावित्वेन जयंतीव्रत एव जन्माष्टमीव्रतमंतर्भवतीति न
पृथगुपवासप्रसंगः । तदुक्तं '''कालनिर्णये—'''
“यस्मिन्वर्षे जयंत्याख्यो योगो जन्माष्टमी तदा । अंतर्भूता जयंत्यां स्यादृक्षयोगः प्रशस्यते ” ॥ इति २५
'''ग्राह्या तिथिनिर्णूयते ।''' जन्माष्टमी जयंत्याश्चार्धरात्रप्रधानत्वात् तयोयोगोऽतिप्रशस्तः ।
तदुक्तं '''वसिष्ठसंहितायाम्—'''
“ अष्टमी रोहिणीयुक्ता निश्यर्धे यदि दृश्यते । मुख्यकाल इति ख्यातस्तत्र जातो हरिः स्वयम् ”॥
'''विष्णुरहस्येऽपि—'''
“रोहिण्यामर्धरात्रे तु यदा कृष्णाष्टमी भवेत् । तस्यामभ्यर्चनं शौरेर्हंति पापं त्रिजन्मजम्”॥ इति । ३०
एवं च सत्यर्धरात्रसद्भाव एवात्र कर्मकालव्याप्तिः । तत्र '''योगीश्वरः—'''
“ रोहिणीसहिता कृष्णा मासे च श्रावणेऽष्टमी । अर्धरात्रादधश्चोर्ध्वं कलयाऽपि यदा भवेत् ॥
“ जयंती नाम सा प्रोक्ता सर्वपापप्रणाशिनी ” ॥ इति । पक्षांतरमाह स एव—
“ अर्धरात्रादधश्चोर्ध्वमेकार्धघटिकान्विता । रोहिणी चाष्टमी ग्राह्या उपवासव्रतादिषु ” ॥ इति ।
{{rule}} १ क्ष-पूर्वत्र । १०६-२<noinclude></noinclude> ead5d0lhki72ldfk2l4sc3xv21138fn पृष्ठम्:Smriti mukta phalam.pdf/८८२ 104 166885 419908 2026-11-11T03:58:01Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८३४|'''ग्राह्याविधिः ।'''|}} {{rule}} एकघटिकान्विता वा अर्धघटिकान्विता वा । तत्रायमर्थः संपद्यते । पूर्वभागावसन एका घटिका
उत्तरभागादावेका मिलित्वा निशीथशब्दवाच्... नवीन पृष्ठं निर्मीत अस्ती 419908 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८३४|'''ग्राह्याविधिः ।'''|}} {{rule}} एकघटिकान्विता वा अर्धघटिकान्विता वा । तत्रायमर्थः संपद्यते । पूर्वभागावसन एका घटिका
उत्तरभागादावेका मिलित्वा निशीथशब्दवाच्यं मुहूर्तं तावत्परिमाणं मुख्यः कल्पः । तदसंभवे
उभयत्र अर्धघटिका तस्या अप्यसंभवे कलेति । एवं चार्धरात्रे कलामात्रमष्टमीसद्भावेऽपि जयन्ती-
योगस्य प्रतिपादनात् “ अह्नि चेत् सप्तमी विद्धा तस्यां नाराधयेद्धरिम् ” इति वचनं
५ निर्मूलम् । सोऽयमर्धरात्रयोगो मुख्यः कल्पः । कृत्स्नाहोरात्रयोगोऽत्यंतमुख्यः ।
यदा कदाचित् मुहूर्तयोगः स्वल्पयोगश्चानुकल्पः तदा '''वसिष्ठसंहितायाम्—'''
“ अहोरात्रं तयोर्योगो ह्यसंपूर्णो भवेद्यदि । मुहूर्तम्प्यहोरात्रे योगश्चेत्तामुपोषयेत् ॥
“वासरे वा निशायां वा यत्र स्वल्पाऽपि रोहिणी । विशेषेण नभोमासे सैवोपोध्या मनीषिभिः”॥इति ।
यो जयंतीव्रते योगनिर्णयः स एव जन्माष्टमीव्रतेऽपि द्रष्टव्यः
१० “दिवा वा यदि वा रात्रौ नास्ति चेद्रोहिणीकला । रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसंयुताम् ॥
“अष्टमी शिवरात्री च अर्धरात्रादधो यदि । दृश्यते घटिका या सा पूर्वविद्धा प्रकीर्तिता”॥ इति स्मृतेः ।
तत्र जन्माष्टमी द्विविधा । शुद्धा सप्तमीविद्धा चेति । सूर्योदयमारभ्य प्रवर्तमानाष्टमी शुद्धा ।
निशीथादर्वाक्सप्तम्या कियत्यापि युक्ता विद्धा । शुद्धापि पुनर्निशीथव्याप्त्यव्याप्तिभ्यां द्विविधा ।
तत्र “ निशीथव्यापिनी मुख्या विशेषेणेन्दुसंयुताम् ” इति वचनात् “ निशीथव्याप्तिरहितापि
१५ रात्रियुक्तां प्रकुर्वीत ” इति वचनात् गृहीतव्या भवति ।
ननु पूर्वेद्युर्निशीथादूर्ध्वमारभ्य परेद्युर्निशीथादर्वाग्या समाप्यते तस्यामुभयत्र रात्रिसंबंधसत्त्वात्
कुत्रोपवास इति चेत्परेद्युरेवोपवासः कार्यः । प्रातः संकल्पकालमारभ्य प्रवर्तमानत्वात् ।
सप्तमी विद्धापि त्रिविधा । पूर्वेद्युरेव निशीथव्यापिनी परेद्युरेव तद्व्यापिनी उभयत्रापि
निशीथव्यापिनी चेति । तत्र प्रथमद्वितीययोः पक्षयोर्निशीथव्याप्तेः प्रयोजकत्वेन “ या
२० निशीथव्यापिनी सा विशेषेणेन्दुसंयुताम् ” इति वचनेन गृहीतव्या भवति । तृतीये तु
पक्षे परेद्युरुपवासः प्रातःसंकल्पमारभ्य तिथिव्याप्तिसंभवात् ।
रोहिणीसहिताष्टमी चतुर्विधा । शुद्धा विद्धा शुद्धाधिका विद्धाधिका चेति । तत्र शुद्धायां
संपूर्णयोगो निशीथयोगो यत्किंचिन्मुहूर्तयोग इति त्रैविध्यं भवति । एवं विद्धायामपि त्रैविध्यं ।
एतेषु षट्सु पक्षेषु दिनांतरे योगाभावादुपवासे संदेहो नास्ति । किन्तु योगतारतम्यात् प्राशस्त्य-
२५ तारतम्यं भवति । यत्किंचिन्मुहूर्तयोगः प्रशस्तः । निशीथयोगः प्रशस्ततरः । संपूर्णयोगः
प्रशस्ततमः । शुद्धाधिका तु सूर्योदयमारभ्य प्रवृत्ता परेद्युः सूर्योदयमतिक्रम्य एषा वर्धते । सा
च त्रिविधा । पूर्वेद्युरेव रोहिणीयुक्ता परेद्युरेव तद्युक्ता दिनद्वयेऽपि रोहिणीयुक्ता चेति । तत्रा-
द्ययोर्नास्ति संदेहः । रोहिणीयोगस्य नियामकत्वात् । तृतीये तु रोहिणीयोगस्य उभयत्र समा-
नत्वेऽपि गुणाधिक्यात्पूर्वेवोपोष्या । तथा हि सा रोहिणीयोगभेदात् त्रिधा भिद्यते । अष्टमी-
३० वत्सूर्योदयमारभ्य प्रवृत्ता रोहिणी कदाचित्परेद्युरपि कियती वर्धते । कदाचित् पूर्वेद्युर्निशीथमारभ्य
रोहिणी प्रवर्तते । कदाचिन्निशीथादूर्ध्वमारम्य प्रवर्तते । तत्र प्रथमद्वितीययोर्निशीथयोगस्य सत्त्वा-
त्पूर्वेद्युरेवोपवासः । तृतीयपक्षे दिनद्वयेऽपि निशीथे जयंतीयोगो नास्ति । पूर्वेद्युर्निशीथे केवला-
ष्टमी परेद्युः केवलरोहिणी । तत्र निशियोगाभावेऽपि रात्रियोगस्य सत्त्वादष्टम्याः प्राधान्याच्च
पूर्वेद्युरुपवासः । तदेवं शुद्धाधिका पूर्वेवोपोष्या । निशीथादर्वाक्सप्तम्या युक्ता परेद्युरपि विद्यमाना
३५ विद्धाधिका । सा च त्रिविधा । पूर्वेद्युरेव रोहिणीयुक्ता विद्धाधिका परेद्युरेव रोहिणीयुक्ता उभयत्र
{{rule}}<noinclude></noinclude> kzei09nt0oirikf9l2wqazpw5tp8o7i पृष्ठम्:Smriti mukta phalam.pdf/८८३ 104 166886 419909 2026-11-11T04:22:17Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पारणनिर्णयः ।'''|८३५}} {{rule}} रोहिणीयुक्ता विद्धाधिकेति । प्रथमद्वितीययोस्तु रोहिणीयोगो नियामकः । या तूभयत्र रोहिणी-
युक्ता विद्धाधिका साऽपि निशीथे जयंतीयोग... नवीन पृष्ठं निर्मीत अस्ती 419909 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पारणनिर्णयः ।'''|८३५}} {{rule}} रोहिणीयुक्ता विद्धाधिकेति । प्रथमद्वितीययोस्तु रोहिणीयोगो नियामकः । या तूभयत्र रोहिणी-
युक्ता विद्धाधिका साऽपि निशीथे जयंतीयोगमपेक्ष्य चतुर्धा भिद्यते । पूर्वेद्युरेव निशीथयोगवती
परेद्युरेव निशीथयोगवती उभयत्रापि तादृशी उभयत्रापि निशीथयोगरहिता चेति । तत्र प्रथम-
द्वितीययोः निशीथयोगो नियामकः । तृतीयचतुर्थयोः परदिन एवोपवासः । परेद्युः संकल्पकाले
तिथिनक्षत्रयोगस्य सत्त्वात् । जयंतीभेदेषूपवासदिने यदि सोमवारो बुधवारो वा भवति तदा ५
फलाधिक्यं भवति । तदुक्तं '''ब्रह्मपुराणे—'''
“ प्रेतयोनिगतानां तु प्रेतत्वं नाशितं नरैः । यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता ॥
“ किं पुनर्बुधवारेण सोमेनापि विशेषतः । किंपुनर्नवमी युक्ता कुलकोद्धास्तु मुक्तिदा ” ॥ इति ।
दिनद्वयेऽप्यर्धरात्रसंबंधाभावे '''स्कांदेऽपि—'''
“ उदये वाष्टमी किंचिन्नवमी सकला यदि । भवेत्तु बुधसंयुक्ता प्राजापत्यर्क्षसंयुता । १०
“ अपि वर्षशतेनापि लभ्यते वाऽथ वा न वा ” ॥ इति ।
'''पारणनिर्णयः ।''' यथोक्तरीत्या विहिततिथावुपवासं कृत्वा परेद्युः
“ पूर्वाह्णे पारणं कृत्वा उपवासं समापयेत् । उपवासेषु सर्वेषु पूर्वाह्णे पारणं भवेत् ॥
“पारणांतं व्रतं ज्ञेयं व्रतान्ते द्विजभोजनम् । असमाप्ते व्रतं पूर्वे नैव कुर्याद्व्रतांतरम्”॥ इति स्मृतेः ।
एवं सामान्यतः पूर्वाह्णे पारणप्राप्तौ क्वचिदपवादः स्मर्यते— १५
“ अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं क्वचित् ।
“ तिथिरष्टगुणं हंति नक्षत्रं तु चतुर्गुणम् । तस्मात्प्रयत्नतः कुर्यात्तिथिभांते च पारणम् ”॥ इति ।
'''नारदीये—'''“तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् । पारणं तु न कर्तव्यं यावन्नैकस्य संक्षयः ॥
“ सांयोगिके व्रते प्राप्ते यद्येकोऽपि वियुज्यते । तत्रैव पारणं कुर्यादेवं वेदविदो विदुः ” ॥ इति ।
'''ब्रह्मकैवर्ते—''' २०
“ सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते । अन्यथा पुण्यहानिः स्यादृते धारणपारणम् ” ॥ इति ।
'''स्मृत्यंतरे—'''
“ तिथ्यर्क्षयोर्यदा च्छेदो नक्षत्रांतमथापि वा । अर्धरात्रेऽपि वा कुर्यात्पारणं च परेऽहनि” ॥ इति ।
उपवासदिनात्परेऽहनि दिवसे यद्युभयांतः तदा पारणमिति मुख्यः कल्पः । नक्षत्रांतमित्यनेन
एकतरांतत्वमभिहितम् । सोऽयमनुकल्पः । यदि रात्रौ निशीथादर्वागुभयांत एकतरांतो वा २५
भवति तदा दिवसे मुख्यानुकल्पयोरुभयोरप्यसंभवाद्रात्रौ पारणस्य निषिद्धत्वाच्च तत्राप्युपवास-
प्रसक्तौ पारणस्य प्रतिप्रसवः क्रियते । “अर्धरात्रेऽपि वा कुर्यात्” इति । अशक्तस्य तिथिनक्षत्रयो-
रुभयोरनुवर्त्तमानयोरपि प्रातर्देवं संपूज्य क्रियमाणं पारणं नैव दुष्यति
“ जयन्त्यां पूर्वविद्धायामुपवासं समाचरेत् । तिथ्यंते वोत्सवांते वा व्रती कुर्वीत पारणम् ” ॥
इति वचनात्— ३०
'''नवमीनिर्णयः ।''' अथ नवमी निर्णीयते । सा च दुर्गासरस्वतीव्रतादौ पूर्वविद्धैव ग्राह्या
“ अष्टम्या नवमी युक्ता कर्तव्या फलकांक्षिभिः । न कुर्यान्नवमीं तात दशम्यां तु कदाचन ” ॥
इति स्मरणात् । महानवम्यां तु—
“ आश्वयुक्शुक्लनवमी तथा नक्तं चतुर्दशी । जयायुक्ता न कर्तव्या पूर्णांयुक्ता प्रशस्यते ”॥
जया अष्टमी । पूर्णा दशमी । ३५
{{rule}}<noinclude></noinclude> af9trg2snbgkwpxjdgkb1fmq93n6853 पृष्ठम्:Smriti mukta phalam.pdf/८८४ 104 166887 419910 2026-11-11T04:24:33Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८३६|'''रामनवमी ।'''|}} {{rule}} '''श्रीरामनवमीनिर्णयः ।'''
श्रीरामनवमीव्रतमुक्तमगस्त्यसंहितायाम्—“ श्रीरामनवमी प्रोक्ता कोटिसूर्यग्रहाधिका ।
“ तस्मिन्दिने महापु... नवीन पृष्ठं निर्मीत अस्ती 419910 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८३६|'''रामनवमी ।'''|}} {{rule}} '''श्रीरामनवमीनिर्णयः ।'''
श्रीरामनवमीव्रतमुक्तमगस्त्यसंहितायाम्—“ श्रीरामनवमी प्रोक्ता कोटिसूर्यग्रहाधिका ।
“ तस्मिन्दिने महापुण्ये राममुद्दिश्य भक्तितः । यत्किंचित्क्रियते कर्म तद्भवत्यक्षयंकारणम् ।
“ उपोषणं जागरणं पितृनुद्दिश्य तर्पणम् । तस्मिन्दिने तु कर्तव्यं ब्रह्मभावाप्तिमभीप्सुभिः ” ॥ इति ।
५ तत्रोपवासो जयंतीवन्नित्यकाम्यरूपः । द्वैरूप्यं च तस्य द्विविधप्रमाणबलादवसीयते । उपवास-
विधिवाक्येषु नित्यशब्दसदाशब्दादीनां नित्यत्वसाधकानां श्रवणात्रित्यत्वसिद्धिः । तानि च
साधकानि संग्रहकारेण संगृहीतानि—“नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत्” इत्युक्त्वाऽ-
तिक्रमे दोषश्रुतेस्त्यागचोदनात् । “ फलाश्रुतेर्वीप्सया च तन्नित्यमिति कीर्तितम् ” इति ।
अत्र नित्यादिपदान्यभिधीयंते । अकरणे प्रत्यवायश्च स्मर्यते अगस्त्यसंहितायाम्—
१० “ नित्यमेव तु कर्तव्यं श्रीरामनवमीव्रतम् ।
“ चैत्रे मासि नवम्यां तु शुक्लायां रघुनंदनः । प्रादुरासीत्पुरा ब्रह्मन् परं ब्रह्मैव केवलम् ॥
“ तस्मिन्दिने तु कर्तव्यमुपवासव्रतं सदा ।
“ प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः । उपोषणं न कुरुते कुंभीपाकेषु पच्यते ” ॥ इति ।
स्मृत्यंतरेऽपि—
१५ “ यस्तु रामनवम्यां तु भुंक्ते मोहाद्विमूढधीः । कुंभीपाकेषु घोरेषु पच्यते नात्र संशयः ” ॥ इति ।
काम्यत्वं च फलश्रवणादवसीयते । तथा च तत्रैव—
“ कुर्याद्रामनवम्यां य उपोषणमतंद्रितः । न मातृगर्भमाप्नोति स वै रामो भवेत्स्वयम् ॥
“ तस्मात्सर्वात्मना सर्वे कृत्वैव नवमीव्रतम् । मुच्यंते सर्वपापेभ्यो यांति ब्रह्मसनातनम् ” ॥ इति ।
अन्ये त्वाहुः व्रतंमिदं केवलं नित्यं न तु काम्यमपि पशुपुत्रस्वर्गादिफलस्या श्रवणात् ।
२० “ संध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यांति ब्रह्मलोकं सनातनम् ” ॥ इति ।
फलश्रवणेऽपि संध्योपासनस्य यथा नित्यत्वं तथा पापक्षयद्वारा मोक्षार्थस्यास्य नित्यत्वमिति ।
अत्र मध्यान्हव्यापिनी तिथिर्ग्राह्या ।
“ ऋक्षं पूषणि संप्राप्ते लग्ने कर्कटकाह्वये । आविरासीत्सकलया कौसल्यायाः परः पुमान् ॥
“चैत्रशुद्धा तु नवमी पुनर्वसुयुता यदि । सैव मध्यान्हयोगेन महापुण्यतमा भवेत्”॥ इति स्मृतेः ।
२५ यस्मिन्वर्षे पुनर्वसुयोगो नास्ति तस्मिन्वत्सरे केवलनवम्युपोष्या । “ केवलाऽपि सदोपोष्या नवमी-
शब्दसंग्रहात् ” इति वचनात् । सा च द्विविधा । शुद्धा विद्धा चेति । सूर्योदयमारभ्य प्रवर्त्तमाना
शुद्धा । त्रिमुहूर्तया तदधिकया वाऽष्टम्या युक्ता विद्धा । तत्र शुद्धा त्रिविधा । शुद्धाधिका शुद्धसमा
शुद्धन्यूना चेति । अत्र नास्ति संशयः । दिनांतरे मध्यान्हव्याप्त्यभावात् । सा च पुनः प्रत्येकं
द्विविधा पुनर्वसुनक्षत्रयुक्ता तद्रहिता चेति । तत्र पुनर्वसुयुक्तशुद्धाधिका त्रिविधा । पूर्वेद्युरेव नक्षत्र-
३० युक्ता परेद्युरेव तद्युक्ता उभयत्र तद्युक्ता चेति । तत्र प्रथमद्वितीययोर्नक्षत्रयोगो नियामकः ।
“पुनर्वस्वृक्षसंयोगः स्वल्पोऽपि यदि दृश्यते । चैत्रशुक्लन्नवम्यां तु सा तिथिः सर्वकामदा”॥ इति स्मृतेः।
तृतीये तु मध्यान्हे पुनर्वसुयुक्तदिनं ग्राह्यम् । तथाऽगस्त्यः—
“ चैत्रशुद्धा तु नवमी पुनर्वसुयुता यदि । सैव मध्यान्हयोगेन महापुण्यतमा भवेत् ” ॥ इति ।
{{rule}}<noinclude></noinclude> n2upx9qa0vte94n4adr000gher2o0e3 पृष्ठम्:Smriti mukta phalam.pdf/८८५ 104 166888 419911 2026-11-11T04:25:31Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''दशावतारकालाः ।'''|८३७}} {{rule}} एवं विद्धायामपि कृष्णाष्टम्यादिवत् पक्षभेदो निर्णयश्च द्रष्टव्यः । विद्धानिषेधस्तु वैष्णवविषयः ।
“नवमी चाष्टमी विद्धा त्याज... नवीन पृष्ठं निर्मीत अस्ती 419911 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''दशावतारकालाः ।'''|८३७}} {{rule}} एवं विद्धायामपि कृष्णाष्टम्यादिवत् पक्षभेदो निर्णयश्च द्रष्टव्यः । विद्धानिषेधस्तु वैष्णवविषयः ।
“नवमी चाष्टमी विद्धा त्याज्या विष्णुपररायणैः। तदन्येषां तु सर्वेषां व्रतं तत्रैव निश्चितम्”॥ इति स्मृतेः ।
'''दशावतारकालाः ।''' दशावतारकालाः संग्रहकारेण संगृहीताः—
“ चैत्रे मास्यसिते पक्षे त्रयोदश्यां तिथौ विभुः । उद्भून्मत्स्यरूपेण रक्षार्थमवनेर्हरिः ॥
“ ज्येष्ठमासे तथा कृष्णद्वादश्यां भगवानजः । मंदरं पृष्ठतः कृत्वा कूर्मरूपी हरिर्विधौ ॥ ५
“ चैत्रकृष्णे तु पंचम्यां जज्ञे नारायणः स्वयम् । भुवं वराहरूपेण शृंगाभ्यामुदधेर्बलात् ॥
“ वैशाखे शुक्लपक्षे तु चतुर्दश्यामिनोऽस्तगे । उद्भूवासुरद्वेषी नृसिंहो भक्तवत्सलः ॥
“ मासि भाद्रपदे शुक्लद्वादश्यां वामनो विभुः । अदित्यां काश्यपाज्जज्ञे नियंतुं बलिमोजसा ॥
“ मार्गशीर्षे द्वितीयायां कृष्णपक्षे तु भार्गवः । दुष्टक्षत्रियविद्वेषी रामोऽभूत्तापसाग्रणीः ॥
“ चैत्रशुक्लनवम्यां तु मध्यान्हे रघुनंदनः । दशाननवधाकांक्षी जज्ञे रामः स्वयं हरिः ॥ १०
“ वैशाखे शुक्लपक्षे तु तृतीयायां हलायुधः । संकर्षणो बलो जज्ञे रामः कृष्णाग्रजो हरिः ।
“ मासि तु श्रावणाष्टम्यां निशीथे कृष्णपक्षके । प्राजापत्यर्क्षसंयुक्ते कृष्णं देवक्यजीजनत् ।
“ मासे भाद्रपदे शुक्लद्वितीयायां जनार्दनः । म्लेच्छाक्रांते कलावांते कल्किरूपो भविष्यति ।
“ अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः । उपवासादि यत्किंचित्तदानंताय कल्पते ” ॥ इति ।
'''दशमीनिर्णयः ।''' अथ दशमी निर्णीयते । तस्याश्च न तिथ्यंतरवद्धेयोपादेयविभागोऽस्ति । १५
तथा चांगिराः—
“ संपूर्णा दशमी कार्या परया पूर्वयाऽथवा । युक्ता न दूषिता यस्मात्तिथिः सा सर्वतोमुखी”॥ इति ।
यथा संपूर्णा तिथिर्दोषरहिता तथा पूर्वविद्धा परविद्धा चेत्यर्थः । अत्र व्यवस्थामह शंखः—
“ शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः । कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः”॥ इति ।
“ नवमी दशमी चैव नोपोष्या परसंयुता ” इति वचनं कृष्णपक्षविषयतया योजनीयम् । २०
'''एकादशीनिर्णयः ।''' अथैकादशी निर्णीयते । तत्रोपवासो नित्यकाम्यरूपः उपवासविधिषु
नित्यत्वसाधकानां नित्यादिपदानां श्रवणात् । सायुज्यादिफलश्रवणाच्च ।
नित्यशब्द उदाहृतो गारुडपुराणे—“उपोष्याैकादशी नित्यं पक्षयोरुभयोरपि ” ॥ इति ।
सदाशब्द उक्तः सनत्कुमारसंहितायाम्—“एकादशी सदोपोष्या पक्षयोः शुक्लकृष्णयोः”॥ इति ।
एवमन्यान्यपि वचनानि—“ उपोष्यैकादशीं राजन्यावदायुः सुवृत्तिमः । २५
“ न करोति हि यो मूढ एकादश्यामुपोषणम् । स नरो नरकं याति रौरवं तमसा वृतम् ।
“ समादाय विधानेन द्वादशीव्रतमुत्तमम् । तस्य भंगं नरः कृत्वा रौरवं नरकं व्रजेत् ॥
“ मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा । एकादश्यां तु यो भुंक्ते पक्षयोरुभयोरपि ” ॥
इत्यादीनि नित्यसाधकानि द्रष्टव्यानि । काम्यत्वसाधकं फलं च श्रूयते विष्णुरहस्ये—
“ यदीच्छेत् विष्णुसायुज्यं सुखं संपदमात्मनः । एकादश्यां न भुंजीत पक्षयोरुभयोरपि ” ॥ इति । ३०
स्कांन्देऽपि—
“ यदीच्छेद्विपुलाम्भोगान्मुक्तिं चात्यंतदुर्लभाम् । एकादश्यामुपवसेत्पक्षयोरुभयोरपि ” ॥ इति ।
नारदोऽपि—“ एकादशीसमं किंचित्पापत्राणं न विद्यते ।
“ स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्रप्रदायिनी । सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनी ” ॥ इति ।
{{rule}}
१ क्ष-नि ।<noinclude></noinclude> qhy9iczeu45pwy9noadqug4vbhw3lg2 पृष्ठम्:Smriti mukta phalam.pdf/८८६ 104 166889 419912 2026-11-11T04:26:22Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८३८|'''एकादशीव्रतम् ।'''|}} {{rule}} '''कौर्मेऽपि—'''
“ यदीच्छेद्विष्णुसायुज्यं श्रियं संततिमात्मनः । एकादश्यां न भुंजीत पक्षयोरुभयोरपि ” ॥ इति ।
तदेवं नित्यादिशब्द... नवीन पृष्ठं निर्मीत अस्ती 419912 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८३८|'''एकादशीव्रतम् ।'''|}} {{rule}} '''कौर्मेऽपि—'''
“ यदीच्छेद्विष्णुसायुज्यं श्रियं संततिमात्मनः । एकादश्यां न भुंजीत पक्षयोरुभयोरपि ” ॥ इति ।
तदेवं नित्यादिशब्दश्रवणात्रित्यत्वं फलश्रवणात् काम्यत्वं च सिद्धम् । उक्तं च '''कालादर्शे—'''
“ सर्वस्मृतिपुराणेतिहासादिषु विनिश्चितम् । एकादशीव्रतं तच्च नित्यं काम्यमिति द्विधा”॥ इति ।
५ सर्वासु स्मृतिषु सर्वेषु पुराणेषु इतिहासेषु भारतादिषु च एकादशीव्रतं विनिश्चितं विशेषेण प्रमितम् ।
अनेन निर्मूलत्वभ्रान्त्या ये मूढाः संदिहते निरस्तास्ते वेदितव्याः । स्मृतयस्तावदुदाह्रियंते ।
'''विष्णुस्मृतौ—'''“ एकादश्यां न भुंजीत कदाचिदपि मानवः ” ॥ इति ।
'''कात्यायनः—'''“ एकादश्यामुपवसेत्पक्षयोरुभयोरपि ” इति ।
'''कण्वः—'''“ एकादशीमुपवसेन्न कदाचिदतिक्रमेत् ” इति । '''सनत्कुमारः—'''
१० “ निष्कृतिर्मद्यपस्योक्ता धर्मशास्त्रे मनीषिभिः । एकादश्यन्नकामस्य निष्कृतिः क्वापि नोदिता”॥ इति ।
'''नारदोऽपि—'''“ एकादशीसमं किंचित्पापत्राणं न विद्यते ” इति । '''प्रचेताः—'''
“ एकादशीविद्धा चेच्छुक्ले कृष्णे तथैव च । उत्तरां तु यतिः कुर्यात्पूर्वामुपवसेद् गृही ” ॥ इति ।
'''बृहद्वसिष्ठः—'''
“द्वादशी घटिकाऽल्पा वा यदि न स्यात्परेऽहनि । दशमीमिश्रिता कार्या महापातकनाशिनी”॥ इति ।
१५ '''हारीतोऽपि—'''
“ त्रयोदश्यां यदा न स्यात् द्वादशी घटिकाद्वयम् । दशम्येकादशी विद्धा सैवोपोष्या कदाचन”॥ इति ।
'''ऋष्यशृंगः—'''
“ एकादशी न लभ्येत सकला द्वादशी भवेत् । उपोध्या दशमी विद्धा ऋषिऋद्दालकोऽब्रवीत्” ॥ इति ।
काम्योपवासमधिकृत्यांगिराः—
२० “ सायमाद्यन्तयोरन्होः सायंप्रातश्च मध्यमे । उपवासफलेप्सुस्तुाङ्गदक्तचतुष्टयम् ” ॥ इति ।
'''देवलोऽपि—'''
“ दशम्यामेकभक्ताशी मांसमैथुनवर्जितः । एकादशीमुपवसेत्पक्षयोरुभयोरपि ” ॥ इति ।
'''पुलस्त्यः—'''“ एकादश्यां न भुंजीत नारी दृष्टे रजस्यपि ” इति ॥ '''गोभिलः—'''
“ न शंखेन पिबेत्तोयं नाश्नीयात्कूर्मसूकरौ । एकादश्यां न भुंजीत पक्षयोरुभयोरपि ” ॥ इति ।
२५ एवमादीनि स्मृतिवचनानि द्रष्टव्यानि । पुराणवचनान्युदाह्रियंते । नारदीये '''वसिष्ठः—'''
“ एकादशीसमुत्थेन वह्निना पातकेन्धनम् । भस्मसां याति राजेंद्र अपि जन्मशतोद्भवम् ॥
“ नेदृशं पावनं किंचिन्नराणां भूप विद्यते । यादृशं पद्मनाभस्य दिनं पातकहानिदम् ॥
“ न गंगा न गया भूप न काशी न च पुष्करम् । न चापि कौरवं क्षेत्रं न देवा न च देविका ॥
“ यमुना चंद्रभागा च तुल्या नृप हरेर्दिनात् । अनायासेन राजेंद्र प्राप्यते वैष्णवं पदम् ॥
३० “ प्रसंगादथवा दंभाल्लोभाद्वाऽथ नराधिप । एकादश्यामशन्यः सर्वदुःखैःप्रमुच्यते ” ॥ इति ।
'''कौर्मेऽपि—'''
“ वदंतीह पुराणानि भूयो भूयो वरानने । न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ” ॥ इति ।
'''विष्णुरहस्येऽपि—'''
“ परमापद्ममापन्नो हर्षे वा समुपस्थिते । सूतके मृतके चैव न त्यजेत् द्वादशीव्रतम् ” ॥ इति ।
एवमादीन्युपवासपराणि वचनानि बहूनि संति । तानि विस्तरभयान्न लिख्यंते ।
{{rule}}<noinclude></noinclude> 46jgl97encv2rckeqicbah5sigh8yc1 पृष्ठम्:Smriti mukta phalam.pdf/८८७ 104 166890 419913 2026-11-11T04:27:12Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''वैष्णवशव्दार्थः ।'''|८३९}} {{rule}} '''वैष्णवानामुपवासाङ्गतिथिनिर्णयः ।''' अथ वैष्णवानामुपवासांगतिथिनिर्णीयते ।
तन्निर्णयस्य च वेधाधीनत्वात्प्रथमं दशमीवेधो नि... नवीन पृष्ठं निर्मीत अस्ती 419913 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''वैष्णवशव्दार्थः ।'''|८३९}} {{rule}} '''वैष्णवानामुपवासाङ्गतिथिनिर्णयः ।''' अथ वैष्णवानामुपवासांगतिथिनिर्णीयते ।
तन्निर्णयस्य च वेधाधीनत्वात्प्रथमं दशमीवेधो निरूप्यते । स च वेधः त्रिविधः । अरुणोदयवेधः
सूर्योदयवेधः पंचदशनाडीवेधश्चेति । तत्रारुणोदयवेधो '''भविष्यत्पुराणे''' दर्शितः—
“ अरुणोदयकाले तु दशमी यदि दृश्यते । सा विद्धैकादशी तत्र पापमूलमुपोषणम् ” ॥ इति ।
अरुणोदयस्य प्रमाणं '''स्कंदनारदाभ्यामुक्तम्—'''“उदयात् प्राक्चतस्रस्तु नाडिका अरुणोदयः ” इति । ५
'''गोभिलः—'''
“ अरुणोदयवेलायां दशमीसंयुता यदि । संस्पृष्टैकादशीं तां तु मोहिन्यै दत्तवान्विभुः ” ॥ इति ।
'''सौरधर्मे—'''
“आदित्योदयवेला या प्राङ्मुहूर्तद्वयान्विता। सैकादशर्ति संपूर्णा विद्धाऽन्या परिकीर्तिता”॥ इति ।
सूर्योदयवेधः '''कण्वेन''' दर्शितः— १०
“ उदयोपरि विद्धा तु दशम्यैकादशी यदा । दानवेभ्यः प्रीणनार्थं दत्तवान्पाकशासनः ” ॥ इति ।
'''स्मृत्यंतरेऽपि—'''
“ दशम्याः प्रांतमादाय यत्रोदेति दिवाकरः । तेन स्पृष्टं हरिदिनं दत्तं जंभासुराय तु ” ॥ इति ।
पंचदशनाडीवेधस्तु '''स्कांन्दे''' दर्शितः—
“ नागो द्वादशनाडीभिः दिक्पंचदशभिस्तथा । भूतोष्टा दशनाडीभिर्दूषयत्युत्तरां तिथिम् ” ॥ इति । १५
नागः पंचमी । दिक् दशमी । पंचदशनाडीबोधस्य वेधांतरस्य च विषयव्यवस्था '''निगमे''' दर्शिता—
“ सर्वप्रकारवेधोऽयमुपवासस्य दूषकः । सार्धः सप्तमुहूर्त्त तु वेधोऽयं बाधते व्रतम् ” ॥ इति ।
यत्तु स्मर्यते—
“ अर्धरात्रात्परा यत्र एकादश्युपलभ्यते । तत्रोपवासः कर्तव्यो दशमी न तु वै कला ” ॥ इति ।
न तद्द्वेधाभिप्रायेण किं तु अर्धरात्रवेधोऽपि यदा वर्ज्यः तदा किमु वक्तव्यमरुणोदयवेध इति २०
कैमुत्यप्रदर्शनपरम् । तथा '''ब्रह्मकैवर्ते—'''
“ अर्धरात्रे तु केषांचिद्दशम्या वेध इष्यते । अरुणोदयवेलायां नावकाशो विचारणे ” ॥ इति ।
विद्धानिषेध उक्तो '''नारदीये—'''
“कलावेधेऽपि विप्रेन्द्र दशम्यैकादशीं त्यजेत् । सुराया बिन्दुना स्पृष्टं गंगांभ इव निर्मलम् ” ॥ इति ।
'''स्मृत्यंतरेऽपि—''' २५
“कलाधेनापि विद्धा स्याद्दशम्यैकादशी यदि । तदाप्येकादशीं त्यक्त्वा द्वादशीं समुपोषयेत्”॥ इति ।
सोऽयं कलाद्विवेधः अरुणोदये सूर्योदिये च समानः । तत्रारुणोदयवेधे वैष्णवविषयः ।
तच्च गारुडपुराणे स्पष्टमवगम्यते—
“ दशमीशेषसंयुक्तो यदि स्यादरुणोदयः । नैवोपोष्यों वैष्णवेन तद्दि नैकादशीव्रतम् ” ॥ इति ।
'''वैष्णवशव्दार्थः ।''' वैस्तानंस पांचरात्रादिवैष्णवागमोक्तदीक्षां प्राप्तो वैष्णवः । ३०
“ पांचरात्राद्यागमोक्तदीक्षां प्राप्तस्तु वैष्णवः ” इति स्मृतेः । '''स्कांदेऽपि—'''
“ परमापदमापन्नो हर्षे वा समुपस्थिते । नैकादशीं त्यजेद्यस्तु यस्य दीक्षा तु वैष्णवी ॥
“समात्मा सर्वजीवेषु निजाचारादविप्लुततः। विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते ” ॥ इति
उक्तलक्षणं वैष्णवं प्रति तिथिरैवं निर्णेतव्या । एकादशी द्विविधा । अरुणोदयवेधवती शुद्धा चेति ।
{{rule}} १ क्ष-डि । २ खगघ-पाठः ।<noinclude></noinclude> m50k9yvs20y1chez89s7zdgo7y38vpm पृष्ठम्:Smriti mukta phalam.pdf/८८८ 104 166891 419914 2026-11-11T04:28:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८४०|'''स्मार्तैकादशीनिर्णयः ।'''|}} {{rule}} तत्र वेधवती सर्वथा त्याज्या ‘तद्दि नैकादशीव्रतम्’ इत्यादिभिः प्रतिषेधात् । तत्रारुणोदयवेधस्य
प्रतिषेधे सूर्योदयवेध... नवीन पृष्ठं निर्मीत अस्ती 419914 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८४०|'''स्मार्तैकादशीनिर्णयः ।'''|}} {{rule}} तत्र वेधवती सर्वथा त्याज्या ‘तद्दि नैकादशीव्रतम्’ इत्यादिभिः प्रतिषेधात् । तत्रारुणोदयवेधस्य
प्रतिषेधे सूर्योदयवेधस्य त्याज्यत्वमर्थसिद्धम् । कण्ववचनं चात्र पूर्वमुदाहृतम् । या तु वेधरहिता
अरुणोदयमारभ्य प्रवृत्ता शुद्धैकादशी सा द्विविधा । आधिक्येन युक्ता तद्रहिता चेति । आधिक्यं
चतुर्विधम् । एकादश्याधिक्यं द्वादश्याधिक्यमुभयाधिक्यमुभयानाधिक्यं । तत्राद्येषु त्रिषु पक्षेषु
५ शुद्धामप्यरुणोदयमारभ्य प्रवृत्तां परित्यज्य परेद्युरुपवासः कर्तव्यः । तत्रैकादश्याधिक्ये
'''स्मृत्यंतरम्—'''
“ एकादशी यदा पूर्णा परतः पुनरेव सा । पुण्यं क्रतुशतस्योक्तं त्रयोदश्यां तु पारणम् ” ॥ इति ।
'''नारदोऽपि—'''
“ संपूर्णांकादशी यत्र द्वादश्यां वृद्धिगामिनी । द्वादश्यां लंघनं कार्यं त्रयोदश्यां तु पारणम्” ॥ इति ।
१० द्वादश्याधिक्ये '''व्यास आह—'''
“ एकादशी यदा लुप्ता परतो द्वादशी भवेत् । उपोध्या द्वादशी तत्र यदीच्छेत्परमां गतिम्” ॥ इति ।
'''स्मृत्यंतरेऽपि—'''
“ एकादशी तु संपूर्णा द्वादशी वृद्धिगामिनी । वंचुली नाम सा प्रोक्ता कोटियज्ञफलप्रदा ॥
“ वंचुलीं द्वादशीं त्यक्त्वा यः कुर्यात्पूर्ववासरे । सप्तजन्मMulti-आर्जितं पुण्यं तत्क्षणादेव नश्यति” ॥ इति ।
१५ उभयाधिक्ये तु '''नारद आह—'''
“ संपूर्णांकादशी यत्र प्रभाते पुनरेव सा । सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि ” ॥ इति ।
'''गुरुरपि—'''
“ संपूर्णांकादशी यत्र प्रभाते पुनरेव सा । तत्रोपोध्या द्वितीया तु परतो द्वादशी यदि ” ॥ इति ।
उभयाधिक्यरहितायां तु शुद्धायां न कोऽपि संदेहः । इति वैष्णवदीक्षायुक्तानामेकादशी निर्णीता ।
२० '''स्मार्तैकादशीनिर्णयः ।''' अथ श्रौतस्मार्तपर्यवसितानां आगमोक्तदीक्षारहितानामेकादशी
निर्णीयते । अरुणोदयवेधस्य वैष्णवविषयत्वे व्यवस्थिते सत्युदयवेधः स्मार्तविषयत्वेन परिशिष्यते ।
अत एव स्मर्यते—
“ अतिवेधा महावेधा ये वेधास्तिथिषु स्मृताः । सर्वेऽप्यवेधा विज्ञेया वेधः सूर्योदये मतः ” ॥ इति ।
वेधादीनां स्वरूपमुक्तं '''ब्रह्मकैवर्ते—'''
२५ “ चतस्रो घटिकाः प्रातररुणोदयसंज्ञिताः । चतुष्टयविभागोऽत्र वेधादीनां किलोदितः ॥
“ अरुणोदयवेधः स्यात्सार्धं तु घटिकात्रयम् । अतिवेधोऽपि घटिका प्रभासंदर्शनाद्रवेः ॥
“ महावेधोऽपि तत्रैव दृश्यतेऽर्को न दृश्यते । तुरीयस्तत्र विहितो योगः सूर्योदये बुधैः ” ॥ इति ।
अरुणोदयकाले घटिकार्धं दशमीसद्भावो वेधः घटिकान्यातिरतिवेधः । उदयात्पूर्वं कृत्स्नारुणोदय-
कालव्याप्तिर्महावेधः । सूर्योदयकाले दशमीसद्भावो योगः उदयवेध इति यावत् । वेधातिवेधमहा-
३० वेधयोगाश्चत्वार उपवासस्य दूषकाः । तत्र
“ दशमीशेषसंयुक्तो यदि स्यादरुणोदयः । नैवोपोष्यों वैष्णवेन तद्दि नैकादशीव्रतम् ” ॥ इति
वचनेनारुणोदयवेधस्य वैष्णवविषयत्वे निश्चिते सति पारिशेष्यात् ‘सर्वेऽप्यवेधा विज्ञेया’ इति
वचनाच्च सूर्योदयवेधः स्मार्त्तविषय इति निश्चीयते । एवं च सूर्योदयवेधमपेक्ष्य द्वेधा भिद्यते ।
शुद्धा विद्धा चेति । शुद्धैकादशी वृद्धिसाम्यह्रासैस्त्रिविधा । शुद्धाधिका शुद्धसमा शुद्धहीनेति ।
{{rule}}<noinclude></noinclude> r7lvdauw2kpu71319df2959wad9vaxi पृष्ठम्:Smriti mukta phalam.pdf/८८९ 104 166892 419915 2026-11-11T04:30:21Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''भेदप्रतिपादनपूर्वकमुपवासनिर्णयः ।'''|८४१}} {{rule}} एवं विद्धापि त्रिधा । विद्धाधिका विद्धसमा विद्धहीनेति । तत्र शुद्धप्रकारेसु त्रिषु विद्धा-
प्रकारेसु त्रि... नवीन पृष्ठं निर्मीत अस्ती 419915 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''भेदप्रतिपादनपूर्वकमुपवासनिर्णयः ।'''|८४१}} {{rule}} एवं विद्धापि त्रिधा । विद्धाधिका विद्धसमा विद्धहीनेति । तत्र शुद्धप्रकारेसु त्रिषु विद्धा-
प्रकारेसु त्रिषु च एकैका एकादशी द्वादशी वृद्धिसाम्यहीनतागुणैर्भूयस्त्रिविधा । शुद्धाधिका
द्वादश्यधिका शुद्धाधिका द्वादशीसमा शुद्धाधिका द्वादशीहीना शुद्धसमा द्वादश्यधिका शुद्धसमा
द्वादशीसमा शुद्धसमा द्वादशीहीना शुद्धहीना द्वादश्यधिका शुद्धहीना द्वादशीसमा शुद्धहीना
द्वादशीहीना विद्धाधिका द्वादश्यधिका विद्धाधिका द्वादशीसमा विद्धाधिका द्वादशीहीना विद्ध- ५
समा द्वादश्यधिका विद्धसमा द्वादशीहीना विद्धहीना द्वादश्यधिका विद्धहीना द्वादशीसमा
विद्धहीना द्वादशीहीनेति । एवमष्टादशधा भिन्नेकादशी । तदुक्तं ब्रह्मसिद्धांते—
“ शुद्धा विद्धा दशम्या क्वचिदपि च ततो द्वैधमेकादशीयं
“ प्रत्येकं च त्रिधाऽसौ पुनरपि समतान्यूनताधिक्ययोगात् ।
“ पक्षाः प्रत्येकभिन्नाः पुनरपि षडमी द्वादशीन्यूनताद्यैः १०
“ संबंघादेवमष्टादश खलु मिलिताः कल्पनाः संभवन्ति ” ॥ इति ।
अष्टादशभेदप्रतिपादनपूर्वकं यथाक्रममुपवासनिर्णयमाह कालादर्शकारः—
“ शुद्धा विद्धा द्विधा वृद्धिसाम्यह्रासैः पुनस्त्रिधा । तत्रैकैका द्वादशीस्या वृद्धिसाम्योनतागुणैः ॥
“ आद्योपोष्या परोर्ध्वे द्वे पौर्वापर्यात् व्यवस्थिते । गृहिण्यस्तोरुत्तरासु षट्सु पूर्वैव संमता ॥
“तिसृष्वंत्यासु विद्धैव तत्पूर्वे तु व्यवस्थिते । अविद्धैव तु शेषासु तृतीयासु व्यवस्थिता”॥ इति । १५
आद्योपोष्या परेति द्वादश्याधिक्ययुक्ता शुद्धाधिकैकादशी परैवोपोष्या । तदाह नारदः—
“ संपूर्णाैकादशी यत्र प्रभाते पुनरेव सा । तत्रोपोष्या द्वितीया तु पुत्रपौत्रविवर्धनी ” ॥ इति ।
गारुडपुराणे—“संपूर्णाैकादशी यत्र प्रभाते पुनरेव सा । तत्रोपोष्या परा पुण्या परतो द्वादशी यदि”॥
स्मृत्यंतरे—“संपूर्णाैकादशी यत्र प्रभाते पुनरेव सा । वैष्णवी चेत्त्रयोदश्यां घटिकैकाऽपि दृश्यते ॥
“गृहस्थोऽपि परां कुर्यात्पूर्वां नोपवसेत्सदा । पूर्णाऽप्येकादशी त्याज्या वर्धते द्वितयं यदि”॥ इति । २०
वैष्णवी द्वादशी । वाराहेऽपि—
“एकादशी विष्णुना चेत् द्वादशी परतः स्थिता । उपोष्या द्वादशी तत्र यदीच्छेत्परमं पदम्”॥ इति ।
ऊर्ध्वे द्वे एकादश्यौ । द्वादशीसाम्ययुक्ता शुद्धाधिका द्वादशीहानियुक्ता शुद्धाधिकेति द्वे एका-
दश्यौ पौर्वापर्यात्पूर्वा गृहस्थानां परा यतीनामिति व्यवस्थिते । तदाह स्कंदः—
“ संपूर्णाैकादशी यत्र प्रभाते पुनरेव सा । उत्तरां तु यतिः कुर्यात्पूर्वामुपवसेद् गृही ” ॥ इति । २५
स्कांदेऽपि—“ प्रथमेऽहनि संपूर्णा व्याप्याऽहोरात्रसंयुता ।
“द्वादश्यां च तथा किंचिद् दृश्यते पुनरेव च । पूर्वा कार्या गृहस्थैस्तु यतिभिश्चोत्तरा विभो”॥ इति ।
स्मृत्यंतरे—“ पुनः प्रभातसमये घटिकैका यदा भवेत् ।
“ अत्रोपवासो विहितः चतुर्थाश्रमवासिनाम् । विधवायाश्च तत्रैव परतो द्वादशी न चेत् ” ॥
गारुडपुराणेऽपि— ३०
“ पुनः प्रभातसमये घटिकैका यदा भवेत् । अत्रोपवासो विहितो वनस्थस्य यतेस्तथा ॥
“ विधवायाश्च तत्रैव परतो द्वादशी न चेत् । पुण्यं क्रतुशतस्योक्तं त्रयोदश्यां तु पारणम्”॥ इति ।
{{rule}}
१०६-३<noinclude></noinclude> nw62rp0488huos8ypt0mh6t89k9plvb पृष्ठम्:Smriti mukta phalam.pdf/८९० 104 166893 419916 2026-11-11T04:33:58Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८४२|'''एकादश्या ह्रासवृद्धौ ।'''|}} {{rule}} '''मार्कंडेयः—'''
“ संपूर्णाैकादशी यत्र प्रभाते पुनरेव सा । पूर्वामुपवसेत् कामी निष्कामस्तूत्तरां सदा ” ॥ इति ।
कामिपदं ग... नवीन पृष्ठं निर्मीत अस्ती 419916 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८४२|'''एकादश्या ह्रासवृद्धौ ।'''|}} {{rule}} '''मार्कंडेयः—'''
“ संपूर्णाैकादशी यत्र प्रभाते पुनरेव सा । पूर्वामुपवसेत् कामी निष्कामस्तूत्तरां सदा ” ॥ इति ।
कामिपदं गृहस्थोपलक्षणं निष्कामपदं यत्युपलक्षणम् ।
केचिद्गृहस्थस्यापि निष्कामत्वे उत्तरा तिथिरुपोष्येत्याहुः । तथा '''विष्णुरहस्ये—'''
५ “ निष्कामस्तु गृही कुर्यादुत्तरैकादशीं सदा । सकामस्तु सदा पूर्वामिति बोधायनो मुनिः ”॥ इति ।
यत्तु स्मृत्यंतरवचनम्—
“ संपूर्णाैकादशी यत्र प्रभाते पुनरेव सा । लुप्यते द्वादशी तस्मिन्नुपवासः कथं भवेत् ॥
“ उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परैः ”॥ इति तत् गृहिमत्योर्व्यवस्थितं यत्पौर्वापर्यं तदभि-
प्रायेण । अत एवोक्तं '''कालनिर्णये—'''
१० “एकादशीमात्रवृद्धौ गृहियत्योर्व्यवस्थितिः । उपोध्या गृहिभिः पूर्वा यतिभिस्तूत्तरा तिथिः”॥ इति ।
उत्तरासु षट्सु पूर्वैव द्वादश्याधिक्ययुक्ता शुद्धसमा द्वादशीसाम्ययुक्ता शुद्धसमा द्वादशी-
हानियुक्ता शुद्धसमा द्वादश्याधिक्ययुक्ता शुद्धहीना द्वादशीसाम्ययुक्ता शुद्धहीना द्वादशी-
हानियुक्ता शुद्धहीनेति षट्स्वेकादशीषु पूर्वैवोपोष्या । तदाह '''स्कंदः—'''
“ शुद्धा यद्वा समा हीना समा क्षीणाऽधिकोत्तरा । एकादशीमुपवसेन्न शुद्धां वैष्णवीं सदा ” ॥ इति ।
१५ यत्तु स्मृत्यंतरेऽभिहितम्—“शुद्धाऽप्येकादशी त्याज्या परतो द्वादशी यदि ” इति यदपि वचनांतरं
“ द्वादशी तु त्रयोदश्यां कलामात्रापि दृश्यते । द्वादशद्वादशीर्हन्ति पूर्वस्यां पारणं कृतम्”॥ इति ।
यदपि '''स्कांदवचनम्—'''
“ एकादशी भवेत्पूर्णा परतो द्वादशी यदि । तदा ह्येकादशीं त्यक्त्वा द्वादशीं समुपोषयेत्”॥ इति ।
यदपि '''कालिकापुराणवचनम्—'''
२० “एकादशी यदा पूर्णा परतो द्वादशी भवेत् । उपोष्या द्वादशी तत्र तिथिवृद्धिः प्रशस्यते ”॥ इति ।
यदपि स्मृत्यंतरवचनम्—
“ एकादशी तु संपूर्णा द्वादशी वृद्धिगामिनी । वंचुली नाम सा प्रोक्ता कोटियज्ञफलप्रदा ॥
“ वंचुलीं द्वादशीं त्यक्त्वा यः कुर्यात्पूर्ववासरे । सप्तजन्मMulti-आर्जितं पुण्यं तत्क्षणादेव नश्यति”॥ इति ।
एवमादीनि द्वादशीमात्रवृद्धौ परदिनोपवासविधायिनी वचनानि वैष्णवविषयाणि । स्मार्तानामपि
२५ विद्धैकादशीविषयाणि । तथा च स्मर्यते—
“ आदित्योदयमारभ्य भवेदेकादशीतिथिः । परेऽह्नि द्वादशी पूर्णा त्रयोदश्यां च वर्धते ॥
“ उपोष्या द्वादशी तत्र वैष्णवैर्मोक्षाकांक्षिभिः ” ॥
'''व्यासः—'''
“एकादशी यदा लुप्ता परतो द्वादशी भवेत् । उपोध्या द्वादशी तत्र यदीच्छेदत्परमां गतिम् ” ॥ इति ।
३० लुप्ता आदौ दशमीमिश्रितत्वात्परतो वृद्धयभावाच्च क्षयं गतेति यावत् । उक्तं च '''कालनिर्णये—'''
“ द्वादशीमात्रवृद्धौ तु शुद्धाविद्धे व्यवस्थिते । शुद्धा पूर्वोत्तरा विद्धा स्मार्त्तनिर्णय ईदृशः”॥ इति ।
विद्धाधिका द्वादश्यधिका विद्धाधिका द्वादशीसमा विद्धांसमा द्वादश्यधिका इति पक्षत्रयेऽपि
परदिन एवोपवासः । तथा '''भविष्यत्पुराणे—'''
“ एकादशीं दिशासंयुक्तां वर्धमाने विवर्जयेत् । क्षयप्रार्गीस्थिते सोमे कुर्वीत दशमीयुता ” ॥ इति ।
{{rule}}
१ घ-विद्धाधिका द्वादशीहीनेति ।<noinclude></noinclude> 8dux7fbqvsh0ldmof91vppfprtqqbdn पृष्ठम्:Smriti mukta phalam.pdf/८९१ 104 166894 419917 2026-11-11T04:35:08Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''दिनत्रयविषये ।'''|८४३}} {{rule}} '''स्मृत्यंतरेऽपि—'''
“ एकादशी यदा लुप्ता परतो द्वादशी भवेत् । उपोध्या द्वादशी तत्र यदीच्छेदत्परमां गतिम् ॥
“कलाधेनापि विद्धा स्... नवीन पृष्ठं निर्मीत अस्ती 419917 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''दिनत्रयविषये ।'''|८४३}} {{rule}} '''स्मृत्यंतरेऽपि—'''
“ एकादशी यदा लुप्ता परतो द्वादशी भवेत् । उपोध्या द्वादशी तत्र यदीच्छेदत्परमां गतिम् ॥
“कलाधेनापि विद्धा स्याद्दशम्यैकादशी यदा । तदा त्येकादशीं त्यक्त्वा द्वादशीं समुपोषयेत्”॥ इति ।
पक्षत्रयेऽपि पूर्वत्रोपवासं निषेधति '''नारदः—'''
“ नोपोध्या दशमी विद्धा सदैवौकादशी तिथिः । तामुपोष्य नरो जह्यात्पुण्यं वर्षशतोद्भवम्” ॥ इति । ५
तथा—
“ दशमीशेषसंयुक्ता गांधार्या समुपोषिता । तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ” ॥ इति ।
एवमन्यान्यपि वचनानि विद्धानिषेधपराण्यत्रैव विषये योजनीयानि ।
विद्धाधिका द्वादशीहीनेति पक्षे पूर्ववत् गृहियत्योर्व्यवस्था द्रष्टव्या । तदाह '''प्रचेताः—'''
“ एकादशी विवृद्धा चेच्छुक्ले कृष्णे विशेषतः । उत्तरां तु यतिः कुर्यात्पूर्वामुपवसेद् गृही ” ॥ इति । १०
न चैतच्छुद्धाधिक्ये चरितार्थमिति शंकनीयं बाधकाभावेन विद्धाधिक्येऽपि तद्वचनप्रवृत्तेर्निवारयितु-
मशक्यत्वात् । विद्धसमा द्वादशीसमा विद्धसमा द्वादशीहीना विद्धहीना द्वादश्यधिका विद्धहीना
द्वादशीसमा विद्धहीना द्वादशीहीनेति पंचसु पक्षेषु विद्धैकादश्येवोपोष्या । तथा च स्मृत्यंतरे—
“एकादशी न लभ्येत सकला द्वादशी भवेत् । उपोध्या दशमी विद्धा ऋषिऋद्दालकोऽब्रवीत्”॥ इति ।
'''ऋष्यशृंगः—''' १५
“ सर्वत्रैकादशी कार्या दशमीमिश्रिता नरैः । प्रातर्भवतु वाऽमा वा तस्यां नित्यमुपोषणम्”॥ इति ।
तथा—
“ त्रयोदश्यां न लभ्येत द्वादशी यदि किंचन । उपोष्यैकादशी तत्र दशमीमिश्रिता त्वपि ” ॥ इति ।
'''विष्णुरहस्येऽपि—'''
“ एकादशी भवेत्काचिद्दशम्या दूषिता तिथिः । वृद्धिपक्षे भवेद्दोषः क्षयपक्षे तु पुण्यदा ” ॥ इति । २०
विद्धैकादश्याः क्षये सति पूर्वैवोपोष्येत्यर्थः । अत्र पक्षपंचके परदिनोपवासे सति त्रयोदश्यां पारणं
प्रसज्येत । तच्च निषिद्धम् । तथा च भविष्यत्पुराणं—
“ पारणं तु त्रयोदश्यां यः करोति नृपोत्तम । द्वादशद्वादशीर्हन्ति नात्र कार्या विचारणा ” ॥ इति ।
'''ऋष्यशृंगः—'''
“ पारणाय न लभ्येत द्वादशी यदि कुत्रचित् । तदानीं दशमी विद्धाऽप्युपोष्याैकादशी तिथिः ”॥ इति । २५
'''विष्णुरहस्येऽपि—'''
“द्वादशीतिथिरल्पाऽपि यदि न स्यात्परेऽहनि । दशमीमिश्रिता कार्या न दोषोऽस्तीति वेधसः”॥ इति ।
वचनमिति शेषः । विद्धसमा द्वादशीसमा विद्धसमा द्वादशीहीनेति पक्षद्वये पौर्वापर्येण गृहि-
यत्योर्व्यवस्था कालादर्शकारेण प्रतिपादिता ‘तत्पूर्वे तु व्यवस्थिते’ इति । अत्र प्रमाणं चिंत्यम् ।
सर्वमेतत्संगृह्य दर्शयति कालनिर्णयकारः—“ शुद्धाविद्धयोरुभयोरप्येष निर्णयसंग्रहः । एका- ३०
दशीद्वादश्योरुभयोरपि वृद्धौ परेद्युरुपवासः द्वयोरप्यवृद्धौ पूर्वेद्युः । एकादशीमात्रवृद्धौ गृहियत्यो-
र्व्यवस्था पूर्वेद्युर्गृहस्थः उत्तरेद्युर्यतिः । द्वादशीमात्रवृद्धौ शुद्धायां सर्वेषां पूर्वेद्युः विद्धायां
परेद्युरिति । दिनत्रयविषयाणि कानिचिद्वचनान्युपलभ्यंते । तदाह नारदः—
“यदि दैवात्तु संसिद्ध्येदेकादश्यां तिथित्रयम् । तत्र क्रतुशतं पुण्यं द्वादशीपारणे भवेत् ” ॥ इति ।
{{rule}}<noinclude></noinclude> nrga3jno3petv1t34j6lxvhymbn1w5v पृष्ठम्:Smriti mukta phalam.pdf/८९२ 104 166895 419918 2026-11-11T04:36:53Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८४४|'''दिनक्षये ।'''|}} {{rule}} '''कौर्मे—'''
“ द्विस्पृगेकादशी यत्र तत्र संनिहितो हरिः । तामेवोपवसेत्काममकामो विष्णुतत्परः ” ॥ इति ।
अत्राद्यंतयोर्दशमीद्वादश्योर... नवीन पृष्ठं निर्मीत अस्ती 419918 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८४४|'''दिनक्षये ।'''|}} {{rule}} '''कौर्मे—'''
“ द्विस्पृगेकादशी यत्र तत्र संनिहितो हरिः । तामेवोपवसेत्काममकामो विष्णुतत्परः ” ॥ इति ।
अत्राद्यंतयोर्दशमीद्वादश्योर्मध्ये एकादशीत्येतादृशं दिनत्रयं यदा प्राप्नोति तदा परतो द्वादशी
वृद्धिरवृद्धिश्चेत्युभयं संभवति । तत्र यद्यवृद्धिः तदा यथोक्तं दिनत्रयमुपोष्यम् । तदुक्तं पुराणांतरे—
५ “ दिनत्रयस्पृते देवि नोपोध्या दशमीयुता । सैवोपोध्या सदा पुण्या परतश्चेत्रयोदशी ” ॥ इति ।
द्वादशीवृद्धौ एकादशी यदा लुप्तेत्यनेन व्यासवचनेन परेद्युरुपवासः कर्तव्यः । यदा त्वाद्यंतयो-
रेकादशीत्रयोदश्योर्मध्ये द्वादशीत्येतादृशं दिनत्रयं तदा गृहस्थानां पूर्वदिन उपवासः । परदिने
निषेधात् । तथा कौर्मे—
“ एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ” ॥ इति ।
१० पाद्मेऽपि—
“ एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्र्यहस्पृक्तदहोरात्रं नोपोष्यं तु सुतार्थिभिः ” ॥ इति ।
पुत्रपौत्रसमन्वितः सुतार्थिभिरिति विशेषणाद्यतीनामत्र विषये परदिन एवोपवासः ।
एतदेवाभिप्रेत्याह नारदः—
“ एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥
१५ “एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिस्पृशी नाम सा प्रोक्ता ब्रह्महत्यां व्यपोहति”॥ इति ।
कौर्मेऽपि—
“ द्विस्पृगेकादशी यत्र तत्र संनिहितो हरिः । पुण्यं क्रतुशतस्योक्तं त्रयोदश्यां तु पारणम् ” ॥ इति ।
वैष्णवानामपि परदिन एवोपवासः “ नैवोपोध्या वैष्णवेन ” इति पूर्वदिनोपवासस्य निषिद्धत्वात् ।
यत्तु स्मर्यते—
२० “आदित्येऽहनि संक्रांत्यां व्यतीपाते दिनत्रये । पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही”॥ इति ।
यदपि मत्स्यवचनम्—
“ दिनक्षये तु संक्रांत्यां ग्रहणे चंद्रसूर्ययोः । उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥
“ द्वौ तिथ्यंतावेकवारे यस्मिन्स स्याद्दिनक्षयः ” ॥ इति । अत्र दिनक्षयादिषूपवासनिषेधो दिन-
क्षयादिनिमित्तकः नैकादशीनिमित्तकः । तदुक्तं कालादर्शे—
२५ “ संक्रात्यादिनिषेधश्च संक्रात्यादिनिमित्तकः । उपवासं निषेधन्ति न ते त्वैकादशीव्रतम् ” ॥ इति ।
कात्यायनः—
“ तत्प्रयुक्तोपवासस्य निषेधोऽयमुदाहृतः । प्रयुक्त्यंतरयुक्तस्य न विधिर्न निषेधनम् ” ॥ इति ।
जैमिनिरपि—
“ तन्निमित्तोपवासस्य निषेधोऽयमुदाहृतः । नानुषंगकृतो ग्राह्यो यतो नित्यमुपोषणम् ” ॥ इति ।
३० अयमर्थः—एकादश्युपवासस्य नित्यत्वात्संक्रांत्याद्युपवासस्य काम्यत्वात्काम्योपवासनिषेधेन
नित्योपवासनिषेधो न सिध्यतीति । काम्योपवासश्च वसिष्ठेनोक्तः—
“ एकस्मिन्सावने त्वन्हि तिथीनां त्रितयं यदा । तदा दिनक्षयः प्रोक्तस्तत्र साहस्त्रिकं फलम् ॥
“ अमावास्या द्वादशी च संक्रांतिश्च विशेषतः । एताः प्रशस्तास्तिथयो भानुवारस्तथैव च ॥
“ अत्र स्नानं जपो होमो देवतानां च पूजनम् । उपवासस्तथा दानमेकैकं पावनं स्मृतम् ” ॥ इति ।
{{rule}}<noinclude></noinclude> l59vvdrgrdlcwh4adf7pm42h7kp2p8y पृष्ठम्:Smriti mukta phalam.pdf/८९३ 104 166896 419919 2026-11-11T04:38:38Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''नैमित्तिककाम्योपवासौ ।'''|८४५}} {{rule}} '''पितामहस्तु''' दिनक्षय एकादश्युपवासं निषेधति—
“ एकादश्यां दिनक्षय उपवासं करोति यः । तस्य पुत्रा विनश्यंति मघायां पिंडदो... नवीन पृष्ठं निर्मीत अस्ती 419919 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''नैमित्तिककाम्योपवासौ ।'''|८४५}} {{rule}} '''पितामहस्तु''' दिनक्षय एकादश्युपवासं निषेधति—
“ एकादश्यां दिनक्षय उपवासं करोति यः । तस्य पुत्रा विनश्यंति मघायां पिंडदो यथा ” ॥ इति ।
ईदृशे विषये व्यवस्था दर्शिता '''कालनिर्णये—'''
“ उपवासे निषिद्धे तु भक्ष्यं किंचित् प्रकल्पयेत् । न दुष्यत्युपवासोऽत्र उपवासफलं भवेत् ॥
“ नक्तं हविष्यान्नमनोदनं वा फलं तिलाः क्षीरमथांबुवाऽऽज्यम् । ५
“ यत्पंचगव्यं यदि वाऽपि वायुः प्रशस्तमत्रोत्तरमुत्तरं च ” ॥ इति । '''स्मृत्यंतरे—'''
“ अष्टैतान्यव्रतघ्नानि आपो मूलं घृतं पयः । हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ” ॥ इति ।
एवं कृष्णैकादश्यां गृहस्थस्योपवासे निषिद्धे भक्ष्यं प्रकल्पनीयम् । तत्रोपवासं निषेधति
'''कात्यायनः—'''
“ एकादशीषु कृष्णासु रविसंक्रमणे तथा । चंद्रसूर्योपरागे च न कुर्यात्पुत्रवान्गृही ” ॥ इति । १०
'''गौतमः—'''
“ आदित्येऽहनि संक्रांत्यामसितेकादशीषु च । व्यतीपाते कृते श्राद्धे पुत्री नोपवसेत् गृही ” ॥ इति ।
'''पाद्मेऽपि—'''
“ संक्रात्यामुपवासेन पारणेन युधिष्ठिर । एकादश्यां च कृष्णायां ज्येष्ठपुत्रो विनश्यति ” ॥ इति ।
'''नारदोऽपि—''' १५
“ इंदुक्षयेऽर्कसंक्रांतौ एकादश्यासते रवेः । उपवासं न कुर्वीत यदीच्छेत्संततिं ध्रुवम् ” ॥ इति ।
यत्तु कौर्मवचनम्—“ एकादश्यां न भुंजीत पक्षयोरुभयोरपि ” ॥ इति । यदपि विष्णुधर्मोत्तरे
वचनम्—
“ स ब्रह्महा स गोघ्नश्च स्तेयी च गुरुतल्पगः । एकादश्यां तु यो भुंक्ते पक्षयोरुभयोरपि ” ॥ इति ।
यत्तु कूर्मवचनम्— २०
“ यथोत्तरे दक्षिणे वा अयने चैव कीर्तिते । तुल्यं पुण्यमवाप्नोति द्वादश्योरुभयोरपि ” ॥ इति ।
“ सायंमातर्यथा सन्ध्ये सायंमातर्यथाहुती । तथा सितासिते पुण्ये द्वादश्यौ धर्मतः समे ” ॥ इति ।
यानि चान्यान्येतादृशानि शुक्लकृष्णैकादश्युपवासप्रतिपादकानि तानि सर्वाणि वानप्रस्थयतिविधवा-
विषयाणि । तदुक्तं कालादर्शे—
“ उपोष्यैकादशी कृष्णा शुक्लाषद्विति वादिनः । विधवाविपिनस्थादिविषयत्वेन सार्थकम्”॥ इति । २५
'''कौर्मेऽपि—'''“एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । वानस्थयतिधर्मोऽयं शुक्लामेव सदा गृही”॥
'''स्कांदेऽपि—'''“एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । वानप्रस्थो यतिश्चैव शुक्लामेव सदा गृही”॥ इति
नैमित्तिककाम्योपवासौ कृष्णायामपि कर्तव्यौ । तत्र नैमित्तिकं स्मृत्यंतरे पठ्यते—
“ शयनिबोधनी मध्ये या कृष्णैकादशी भवेत् । सैवोपोध्या गृहस्थेन नान्या कृष्णा कदाचन ” ॥ इति
काम्योपवासस्तु मात्स्ये दर्शितः— ३०
“ एकादश्यां तु कृष्णायामुपोष्य विधिवन्नरः । पुत्रानायुः समृद्धिं च सायुज्यं च समृच्छति ” ॥ इति ।
'''स्कांदेऽपि—'''“ पितॄणां गतिमन्विच्छन् कृष्णायां समुपोषयेत् ” ॥ इति । '''सनत्कुमारोऽपि—'''
“ भानुवारेण संयुक्ता कृष्णा संक्रांतिसंयुता । एकादशी सदोपोष्या सर्वसंपत्करी तिथिः ”॥ इति ।
{{rule}}<noinclude></noinclude> da9lxydegk3hau18eagsu9twutxtcax पृष्ठम्:Smriti mukta phalam.pdf/८९४ 104 166897 419920 2026-11-11T04:40:02Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८४६|'''श्रवणद्वादशी ।'''|}} {{rule}} '''श्रवणद्वादशीनिर्णयः ।''' यदा द्वादश्यां श्रवणनक्षत्रं भवेत्तदा शुद्धैकादशीमपि परित्यज्य द्वादश्या-
मेवोपवसेत् । तथा च '''नारदः—'... नवीन पृष्ठं निर्मीत अस्ती 419920 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८४६|'''श्रवणद्वादशी ।'''|}} {{rule}} '''श्रवणद्वादशीनिर्णयः ।''' यदा द्वादश्यां श्रवणनक्षत्रं भवेत्तदा शुद्धैकादशीमपि परित्यज्य द्वादश्या-
मेवोपवसेत् । तथा च '''नारदः—'''
“ शुक्ला वा यदि वा कृष्णा द्वादशी श्रवणान्विता । तयोरेवोपवासश्च त्रयोदश्यां तु पारणम् ॥
“एकादश्यां त्वविद्धायां द्वादश्यां श्रवणं यदि । उपोष्या द्वादशी पुण्या सर्वपापक्षयावहा ” ॥ इति ।
५ '''स्मृत्यंतरेऽपि—'''
“ एकादशीं परित्यज्य द्वादशीं समुपोषयेत् । पूर्वोपवासजं पुण्यं सर्वं प्राप्नोत्यसंशयम् ” ॥ इति ।
शक्तस्तूपवासद्वयं कुर्यात्
“ एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् । तत्र द्विवोपवासः स्यादुभयोर्देवता हरिः ” ॥ इति ।
अत्र देवतैक्यात्पूर्वापवासस्थ पारणं नास्तीत्युक्तं भवति ।
१० विद्धायामपि द्वादश्यां फलाधिक्यमुक्तं '''स्मृत्यंतरे—'''
“ द्वादश्येकादशीयुक्ता तत्र च श्रवणं यदि । सा विष्णुशृङ्खला ज्ञेया सायुज्यफलदायिनी ”॥
'''गौतमोऽपि—'''
“ द्वादशी श्रवणर्क्षं च स्पृशेदेकादशीं यदि । स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञकः ” ॥ इति ।
इयं च श्रवणद्वादशी नित्या
१५ “ द्वादशी श्रवणोपेतां यो नोपोष्यति दुर्मतिः । पंचसंवत्सरकृतं पुण्यं तस्य विनश्यति ” ॥
इत्यकरणे प्रत्यवायस्मरणात् । काम्यत्वमपि '''मार्कण्डेय आह—'''
“ द्वादश्यामुपवासेन सिद्धार्थी भूप सर्वशः । चक्रवर्तित्वमखिलं संप्राप्नोत्यखिलां श्रियम् ” ॥
यत्तु वचनम्—
“ नभस्यशुक्लद्वादश्यां नक्षत्रं श्रवणं यदि । श्रवणद्वादशी नाम सा प्रोक्ता मुनिपुंगवैः ” ॥ इति ।
२० तद्वामनजयंत्यभिप्रायम्
“ मासि भाद्रपदे शुक्लद्वादशी श्रवणान्विता । उपोष्या वामनप्रीत्यै जातस्तत्र यतो हरिः ” ॥ इति
स्मरणात् । “शुक्ला वा यदि वा कृष्णा द्वादशी श्रवणान्विता” इति वचनाद्यदाकदाचिदपि श्रवण-
द्वादशीसंभवे तत्रोपवासः कार्य एव । एतच्च श्रवणद्वादशीव्रतं न तिथिप्रधानं
“याः काश्चित्तिथयः पुण्याः प्रोक्ता नक्षत्रयोगतः।तास्वेव तद्व्रतं कुर्याच्छ्रवणद्वादशीं विना”॥ इति स्मृतेः।
२५ नक्षत्रप्राधान्येऽपि इतरनक्षत्रोपवासवदस्तमयव्यापि नक्षत्रं ग्राह्यम्
“ यस्मिन्नस्तंगतः सूर्यो निशि यद्युतमिंदुना । तदैवोपवसेदृक्षं नक्षत्रं श्रवणं विना ” ॥ इति
श्रवणपर्युदासात् । अतः “ उदये त्रिमुहूर्तस्थं नक्षत्रं व्रतदानयोः ” इति वचनादुदयादित्रिमुहूर्त-
व्यापिश्रवणनक्षत्रं किंचित् द्वादशीस्पृष्टं यदि ग्राह्यम् । त्रिमुहूर्तव्याप्त्यभावे पूर्वेद्युरेवोपवासः ।
द्वादशीयुक्तस्य श्रवणस्य दिनद्वये त्रिमुहूर्तव्यापित्वे पूर्वदिन उपवासः । तत्र नक्षत्रस्य पूर्णत्वात् ।
३० श्रवणद्वादश्युपवासे त्रयोदश्यामेव पारणं कार्यं “ त्रयोदश्यां तु पारणम् ” इत्युक्तत्वात् ।
एकादश्युपवासे तु हरिवासरवर्जितद्वादश्यां पारणं कार्यम्
“ चतुर्मुहूर्तं द्वादश्यामायमेकादशीतिथौ । अन्ते चतुर्मुहूर्तं यत् तत्कालं हरिवासरम् ॥
“ महादोषकरं चान्नं संप्राप्ते हरिवासरे । न कार्यं पारणं तत्र विष्णुप्रीणनतत्परैः ” ॥ इति स्मृतेः ।
यदा त्रयोदश्यां द्वादश्याः कलाद्वयं कलात्रयं वा संभवति तदा द्वादशीकाल एव पारणं कुर्यात्तदुक्तं
{{rule}}<noinclude></noinclude> f8st07orolnktla8l4pud3jezhhquvt पृष्ठम्:Smriti mukta phalam.pdf/८९५ 104 166898 419921 2026-11-11T04:41:08Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''द्वादश्यां मध्याह्निककालः ।'''|८४७}} {{rule}} '''नारदीये—'''
“एकादश्याः कला ह्येका द्वादश्यास्तु कलाद्वयम् । द्वादशद्वादशीर्हन्ति त्रयोदश्यां तु पारणम् ” ॥ इति ।<br... नवीन पृष्ठं निर्मीत अस्ती 419921 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''द्वादश्यां मध्याह्निककालः ।'''|८४७}} {{rule}} '''नारदीये—'''
“एकादश्याः कला ह्येका द्वादश्यास्तु कलाद्वयम् । द्वादशद्वादशीर्हन्ति त्रयोदश्यां तु पारणम् ” ॥ इति ।
'''स्मृत्यंतरेऽपि—'''
“कलाद्वयं त्रयं वापि द्वादशीं न व्यतिक्रमेत् । पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता”॥ इति ।
'''द्वादश्यां मध्याह्निककालः ।''' द्वादशीकाले यदा पारणं तदा तत्प्रागेव सर्वाः क्रियाः ५
कर्तव्याः । तदुक्तं '''नारदीये—'''
“ अल्पायामपि विप्रेन्द्र द्वादश्यामरुणोदये । स्नानाद्यर्चनक्रियाः कार्या दानहोमादिसंयुताः ”॥ इति ।
'''गारुडपुराणेऽपि—'''
“यदा त्वल्पा द्वादशी स्यादपकर्षो भुजेर्भवेत् । प्रातर्मध्याह्निकस्यापि तत्र स्यादपकर्षणम्”॥ इति ।
'''स्कांन्देऽपि—''' १०
“यदा भवेदतीवाल्पा द्वादशी पारणादिने । उषःकाले द्वयं कुर्यात्प्रातर्माध्याह्निकं च तत्”॥ इति ।
उदितहोमिनोऽग्निहोत्रिणो अग्निहोत्रहोमानंतरं पारणं कार्यम् ‘ विप्रतिषेधे श्रुतिलक्षणं बलीय ’
इति स्मरणात् । न च वाच्यम्
“ आहिताग्नेरनङ्गांश्च ब्रह्मचारी च ते त्रयः । अश्नंत एव सिध्यंति नैषां सिद्धिरनश्नताम् ” ॥
इत्यापस्तंबस्मरणादाहिताग्नेरुपवास एव नास्तीति “ब्राह्मण्योर्हिताग्निश्च त्यजेन्नैकादशीव्रतम्”इति १५
स्मृतेः । आपस्तंबवचनस्य एकादशीव्यतिरिक्तविषयत्वावगमात् कालयोर्भोजनमिति वचन-
प्राप्तं यत्कालद्वयभोजनं तत्र नियमाभावप्रतिपादनपरत्वाच्च द्वादशीकाले पारणासंभवे अद्भिः
पारणं कुर्यात् । तदाह '''कात्यायनः—'''
“संध्यादिकं भवेन्नित्यं पारणं तु निमित्ततः । अद्भिस्तु पारयित्वाऽथ नैत्यकाँते भुजिर्भवेत्”॥ इति ।
'''देवलोऽपि—''' २०
“संकटे विषमे प्राप्ते द्वादश्यां पारणं कथम् । अद्भिस्तु पारणं कुर्यात् पुनर्भुक्तं न दोषकृत् ॥ इति ।
“ अशित्तानशिता यस्मादापो विद्भिरिरीरिताः । अम्भसा केवलेनैव करिष्ये व्रतपारणम् ” ॥ इति
संकल्प्य गायत्र्या अभिमन्त्र्य त्रिवारं चुलुकोदकं “ प्रणवेन पिवेत् तोयं जलपारणमुच्यते ॥
“ आपः पवित्रममलं पावनाः सर्वकर्मसु । व्रतलोपभयादेतत्पारणार्थं पिबाम्यहम् ” ॥ इति ।
'''एकादश्युपवासे अधिकारिणः ।''' एकादश्युपवासे अधिकारिणं दर्शयति '''कात्यायनः—''' २५
“ अष्टवर्षाधिको मर्त्यो ह्यसंपूर्णाशीतिवत्सरः । एकादश्यामुपवसेत्पक्षयोरुभयोरपि ” ॥ इति ।
'''नारदः—'''
“अष्टाब्दादधिको मर्त्यो ह्यपूर्णाशीतिहायनः । भुंक्ते यो मानवो मोहादेकादश्यां स पापकृत्”॥ इति ।
'''पतिमत्या उपवासनिषेधः ।''' पतिमत्यास्तूपवासं निषेधति '''विष्णुः—'''
“ पत्त्यौ जीवति या नारी उपोष्य व्रतमाचरेत् । आयुष्यं हरते भर्तुर्नरकं चैव गच्छति ” ॥ इति । ३०
'''मनुरपि—'''“ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् ” ॥ इति ।
पत्युरनुमत्या पत्नी व्रतादिष्वधिकारिणी भवेत् । तदाह '''कात्यायनः—'''
“ भार्या भर्तुर्मतेनैव व्रतादीनाचरेदिति ” ॥ '''मार्कंडेयः—'''
“ नारी खल्वननुज्ञाता भर्त्रा पित्रा सुतेन वा । निष्फलं तु भवेत्तस्या यत्करोति व्रतादिकम्”॥ इति ।
{{rule}}
१ घ-धि ।<noinclude></noinclude> 700er2mq0614q61m0h75btz3y944ubo पृष्ठम्:Smriti mukta phalam.pdf/८९६ 104 166899 419922 2026-11-11T04:42:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८४८|'''उपवासासामर्थ्ये ।'''|}} {{rule}} '''पराशरोऽपि—'''
“ अपृष्ट्वा चैव भर्त्तारं या नारी कुरुते व्रतम् । सर्वं तद्राक्षसान् गच्छेदित्येवं मनुरब्रवीत् ”॥ इति ।
'''उपव... नवीन पृष्ठं निर्मीत अस्ती 419922 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८४८|'''उपवासासामर्थ्ये ।'''|}} {{rule}} '''पराशरोऽपि—'''
“ अपृष्ट्वा चैव भर्त्तारं या नारी कुरुते व्रतम् । सर्वं तद्राक्षसान् गच्छेदित्येवं मनुरब्रवीत् ”॥ इति ।
'''उपवासासमर्थविषयः ।''' उपवासासमर्थस्तु एकभक्तादीनि कुर्यात् । तथा च '''कात्यायनः—'''
“ उपवासे त्वशक्तानामशीतेरूर्ध्वजीविनाम् । एकभक्तादिकं कार्यमाह बोधायनो मुनिः ” ॥ इति ।
५ '''मार्कंडेयः—'''
“ एकभक्तेन नक्तेन तथैव याचितेन च । मुन्यन्नेन च दानेन न निर्द्वादशिको भवेत् ” ॥ इति ।
'''स्मृत्यन्तरेऽपि—'''
“ एकभक्तेन नक्तेन बालवृद्धातुरः क्षपेत् । पयोमूलं फलं वाऽपि न निर्द्वादशिको भवेत् ” ॥
'''भविष्यत्पुराणेऽपि—'''
१० “ एकादश्यामुपवसेन्नक्तं वापि समाचरेत् । अथवा विप्रमुख्येभ्यो दानं दद्यात्स्वशक्तितः”॥ इति ।
एकभक्तादावप्यशक्तः प्रतिनिधिना कारयेत् । तथा च '''विष्णुरहस्ये—'''
“ असामर्थ्ये शरीरस्य व्रते च समुपस्थिते । कारयेद्धर्मपत्नीं वा पुत्रं वा विनयान्वितम् ” ॥ इति ।
'''पैठीनसिः—'''
“ भार्या भर्तुर्व्रतं कुर्याद्भार्यायाश्च पतिर्व्रतम् । असामर्थ्ये परस्ताभ्यां व्रतभंगो न जायते ” ॥ इति ।
१५ '''स्कांन्देऽपि—'''“ पुत्रं वा विनयोपेतं पत्नीं वा भ्रातरं तथा ।
“एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् । भगिनीमथवा शिष्यं ब्राह्मणं दक्षिणादिभिः”॥ इति ।
'''कात्यायनः—'''“पितृमातृस्वसृभ्रातृगुर्वर्थे च विशेषतः । उपवासं प्रकुर्वाणः पुण्यं क्रतुशतं लभेत् ॥
“ दक्षिणा नात्र दातव्या शुश्रूषा विहिता च सा । नारी च पतिमुद्दिश्य एकादश्यामुपोषिता ॥
“ पुण्यं क्रतुशतं प्राहुर्मुनयः पारदर्शिनः । उपवासफलं तस्य पतिः प्राप्नोत्यसंशयम् ” ॥ इति ।
२० '''स्मृत्यंतरेऽपि—'''
“ पितृमातृपतिभ्रातृश्वश्रूगुर्वादिभूभुजाम् । अदृष्टार्थमुपोषित्वा स्वयं च फलभाग्भवेत् ॥
“ मातामहादीनुद्दिश्य एकादश्यामुपोषणे । कर्त्ता दशगुणं पुण्यं प्राप्नोत्यत्र न संशयः ॥
“ यमुद्दिश्य कृतं सोऽपि संपूर्णफलमाप्नुयात् ” ॥ इति । प्रतिनिधौ कश्चिद्विशेषः स्मर्यते—
“काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके च सः। काम्येऽप्युपक्रमादूर्ध्वं केचित्प्रतिकृतिं विदुः”॥ इति
२५ '''उपवासाकरणे प्रायश्चित्तं स्मर्यते—'''
“ अर्के पर्वद्वये रात्रौ चतुर्दश्यष्टमी दिवा । एकादश्यामहोरात्रं भुक्त्वा चांद्रायणं चरेत् ” ॥
'''सूतकादावुपवासविचारः ।''' सूतकादौ उपवासमात्रं कार्यमाह '''पुलस्त्यः—'''
“ सूतके च नरः स्नात्वा प्रणम्य मनसा हरिम् । एकादश्यां न भुंजीत व्रतमेतन्न लुप्यते ॥
“ मृतकेऽपि न भुंजीत ह्येकादश्यां सदा नरः । एकादश्यां न भुंजीत नारी दृष्टे रजस्यपि”॥ इति ।
३० काम्येऽपि दानार्चनरहितमुपवासमात्रं कार्यम् । एतदुक्तं '''कौर्मे—'''
“ काम्योपवासे प्रक्रांते त्वन्तरा मृतसूतके । तत्र काम्यव्रतं कुर्यात् दानार्चनविवर्जितम् ॥
“ सूतकांते नरः स्नात्वा पूजयित्वा जनार्दनम् । दानं दत्त्वा विधानेन व्रतस्य फलमश्रुते ॥
“ संप्रवृत्तेऽपि रजसि न त्याज्यं द्वादशीव्रतम् । पंचमेऽहनि शुद्धा स्याद्द्दैवे पित्र्ये च कर्मणि ” ॥
'''एकादश्यां नित्यनैमित्तिकश्राद्धे उपवासभेदः ।''' एकादश्यां सांवत्सरिकश्राद्धे संप्राप्ते
३५ श्राद्धं कृत्वा पितृसेवितशेषं समाघ्रायोपोषणं कुर्यात् । तदाह '''कात्यायनः—'''
“ उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवासं ततः कुर्यादाघ्राय पितृसेवितम् ” ॥ इति ।
{{rule}}<noinclude></noinclude> ahdmdw71yl8cyu31c5h0zjryf8kdn1m पृष्ठम्:Smriti mukta phalam.pdf/८९७ 104 166900 419923 2026-11-11T04:43:53Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''काम्यैकादशीव्रतम् ।'''|८४९}} {{rule}} ननु “ भुंजीतैव कृते श्राद्धे पुत्री नोपवसेद् गृही ” ॥ इति । तथा—
“ श्राद्धं कृत्वा तु यो विप्रो न भुंक्ते तु कदाचन । देवा हव्य... नवीन पृष्ठं निर्मीत अस्ती 419923 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''काम्यैकादशीव्रतम् ।'''|८४९}} {{rule}} ननु “ भुंजीतैव कृते श्राद्धे पुत्री नोपवसेद् गृही ” ॥ इति । तथा—
“ श्राद्धं कृत्वा तु यो विप्रो न भुंक्ते तु कदाचन । देवा हव्यं न गृह्णंति कव्यानि पितरस्तथा ” ॥
इत्यादिवचनविरोधः स्यात् । मैवम् । आघ्राणेनापि भोजनकार्यस्य सिद्धेः तस्य भोजनकार्ये विधानात् ।
अनुकल्पं कुर्वन्नशक्तस्तु भुंजीत
“अनुकल्पं यदा कुर्यन्नशक्तः पक्षयोर्द्वयोः । एकादश्यां तु भुंजीत श्राद्धं कृत्वा दिवैव च”॥ इति स्मृतेः । ५
कृष्णैकादश्यां गृहस्थस्य ओदनव्यतिरिक्तपितृशेषभोजनेऽप्यदोषः । तस्य शुक्लैकादश्यामेव
नित्योपवासविधानात् । कृष्णैकादश्यामुपवासनिषेधेन भक्ष्यविधानाच्च । ब्रह्माण्डपुराणे तु—
“ कर्ता नोपवसेच्छ्राद्धे पित्र्येऽप्येकादशीव्रते । तयोरप्यधिकं ब्रूयुः पितृशेषं महर्षयः ” ॥ इति ।
कर्तृग्रहणात् ज्ञातीनामाघ्राणमेव
“ कर्तृभ्योऽन्यैर्न भोक्तव्यं श्राद्धे प्राप्ते हरेर्दिने । पितृशेषं तमाघ्राय उपवासफलाभये ” ॥ इति १०
भोक्तुरपि दोषो नास्तीत्युक्तं तत्रैव—
“ पात्राभावे द्विजः श्राद्धे भुंजीयाद्धरिवासरे । नोपवासव्रतघ्नं तन्नो चेत्तच्छ्राद्धहा भवेत् ॥
“ परदिने तु कर्तव्या पारणा द्वादशीदिने । उपवासफलं सम्यक् प्राप्नोति व्रतभाङ् नरः ॥
“एकादश्यां न भुंजीत कदाचिदपि मानवः । स्वयं प्रार्थ्य न भुङ्क्ते चेत् प्रार्थितोऽन्यैर्न दोषभाक्”॥इति ।
'''काम्यैकादशीव्रतानुष्ठानक्रमः ।''' अयमिह काम्यव्रतानुष्ठानक्रमः । प्रथमं दशम्यामेक- १५
भुक्तं कृत्वा दंतधावनं कुर्यात् । “ दशम्यामेकभुक् भूत्वा खादयेद्दंतधावनम् ” इति स्मरणात् ।
दशम्यां रात्रौ नियम उक्तो '''ब्रह्मकैवर्ते—'''
“ प्राप्ते हरिदिने सम्यक् विधाय नियमं निशि । दशम्यामुपवासस्य प्रकुर्याद्वैष्णवं व्रतम् ” ॥
'''नारदीये—'''
“ अक्षारलवणाः सर्वे हविष्यान्ननिवेदणाः । अवनितल्यशयनाः प्रियासंगविवर्जिताः ” ॥ इति । २०
ततः प्रातरुत्थायैकादश्यां बाह्यांतरशुद्धिं विदध्यात् । तत्प्रकारस्तु '''कालनिर्णयेऽभिहितः—'''
“ शरीरमंतःकरणोपघातं वाचश्च विष्णुर्भगवानशेषम् ।
“ शमं नयत्वस्तु ममेह शर्म पापाद्वनंते हृदि संनिविष्टे ॥
“ अंतःशुद्धिं बहिःशुद्धिं शुद्धो धर्ममयोऽच्युतः । स करोतु ममैतस्मिन् शुचिरेवास्मि सर्वदा ॥ ।
“ बाह्योपघातादनघो बोद्धा च भगवानजः । शमं नयत्वनंतात्मा विष्णुश्चेतसि संस्थितः”॥ इति । २५
अनंतरं व्रतसंकल्पं कुर्यात् । तत्र मंत्रमाह '''विष्णुः—'''
“ एकादश्यां निराहारः स्थित्वाऽहमपरेऽहनि । भोक्ष्यामि पुंडरीकाक्ष शरणं मे भवाच्युत ।
“ इत्युच्चार्य ततो विद्वान्पुष्पांजलिमथार्पयेत् ” ॥ इति ।
अनंतरकृत्यमाह '''कात्यायनः—''' “ गृहीत्वौदुंबरं पात्रं वारिपूर्णमुदङ्मुखः ।
“ अष्टाक्षरेण मंत्रेण त्रिर्जप्तेनाभिमंत्रितम् । उपवासफलप्रेप्सुः पिबेत्यावगतं जलम् ” ॥ इति । ३०
औदुंबरं ताम्रपात्रम् । '''ब्रह्मपुराणे—'''
“ संपूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः । गंधैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यकैः वरैः ।
“एवं संपूज्य विधिवद्रात्रौ कृत्वा तु जागरम् । याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः”॥ इति ।
{{rule}}
१०८-४<noinclude></noinclude> copwoxfigtbc63u6hwubh2yuhlvwc03 पृष्ठम्:Smriti mukta phalam.pdf/८९८ 104 166901 419924 2026-11-11T04:45:08Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८५०|'''नित्योपवासविषयः ।'''|}} {{rule}} द्वादश्यां कर्तव्यमाह '''कात्यायनः—'''“ प्रातः स्नात्वा हरिं पूज्य उपवासं समापयेत् ।
“ अज्ञानतिमिरान्धस्य व्रतेनानेन केशव । प्... नवीन पृष्ठं निर्मीत अस्ती 419924 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८५०|'''नित्योपवासविषयः ।'''|}} {{rule}} द्वादश्यां कर्तव्यमाह '''कात्यायनः—'''“ प्रातः स्नात्वा हरिं पूज्य उपवासं समापयेत् ।
“ अज्ञानतिमिरान्धस्य व्रतेनानेन केशव । प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥
“ मंत्रं जपिला हरये निवेद्योपेषणं व्रती । द्वादश्यां पारणं कुर्याद्वर्ज्यित्वा ह्युपोतेकीम् ” ॥ इति ।
'''बृहस्पतिः—'''
५ “ सायमाद्यंतयोरन्होः सायं प्रातश्च मध्यमे । उपवासफलेप्सुर्भुञ्ज्याद्भक्तचतुष्टयम् ” ॥ इति ।
'''नित्योपवासविषयः ।''' नित्योपवासप्रकारमाह '''कात्यायनः—'''
“ नित्योपवासी यो मर्त्यः सायंमातर्भुजिक्रियाम् । वर्जयेन्मतिमान्विप्रः संप्राप्ते हरिवासरे ।
“ विशेषनियमाशक्तोऽहोरात्रं भुक्तवर्जितम् । शक्तिमांस्तु पुनः कुर्यान्नियमं सविशेषणम् ” ॥ इति ।
'''कालादर्शेऽपि—'''“ अह्नाद्भक्तं द्वयं नित्ये काम्ये भक्तचतुष्टयम् ” ॥ इति ।
'''उपवासे वर्ज्यानि ।''' उपवासे वर्ज्यानाह '''विष्णुः—''' १०
“ असकृज्जलपानं च दिवा स्वापं च मैथुनम् । तांबूलचर्वणं मांसं वर्जयेद्वतवासरे ” ॥ इति ।
'''वसिष्ठः—'''
“ उपवासे तथा श्राद्धे न खादेद्दन्तधावनम् । दंतानां काष्ठसंयोगो हंति सप्त कुलानि च ” ॥ इति ।
दंतधावने प्रायश्चित्तमुक्तं '''विष्णुरहस्ये—'''
“ आन्द्रोपवासदिवसे खादित्वा दंतधावनम् । गायत्र्याः शतसंपूतमंबु प्राश्य विशुध्यति” ॥ इति । १५
'''हारीतः—'''“ पतितपाषंडनास्तिकसंभाषणमनृताश्लीलादिकमुपवासे वर्जयेत् ” ॥ इति ।
'''विष्णुधर्मे—'''“ असंभाष्यांस्तु संभाष्य तुलस्यतसिकादलम् ॥
“ द्वादश्यामच्युतफलमागस्त्यं पत्रमेव वा । आमलक्याः फलं वापि पारणे प्राश्य शुध्यति ” ॥ इति ।
'''बृहस्पतिः—'''
“ दिवा निद्रां परान्नं च पुनर्भो जनमैथुने । क्षौद्रं कांस्यामिषे तैलं द्वादश्यामष्ट वर्जयेत् ॥ २०
“ कृत्वा चैवोपवासं तु योऽश्नाति द्वादशीदिने । नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनम् ॥
“ द्वादश्यामाद्यपादस्तु कीर्तितो हरिवासरः ॥
“ महादोषकरं चान्नं संप्राप्ते हरिवासरे । न कार्यं पारणं तत्र विष्णुप्रीणनतत्परैः ” ॥
'''स्मृत्यंतरे—'''“चतुर्मुहूर्त्तं द्वादश्यामाद्यमेकादशीतिथौ । अंते चतुर्मुहूर्त्तं यत् तत्कालो हरिवासरः”॥ इति ।
'''इत्येकादशीनिर्णयः । द्वादशीनिर्णयः ।''' अथ द्वादशी निर्णीयते । सा च पूर्वविद्धा ग्रहीतव्या । २५
तदुक्तं '''स्कांन्दे—'''
“द्वादशी च प्रकर्त्तव्या एकादश्या युता विभो । सदा कार्या च विद्वद्भिर्विष्णुभक्तैश्च मानवैः”॥ इति ।
उत्तरविद्धां प्रतिषेधति '''बृहद्वसिष्ठः—'''
“ द्वितीया पंचमी चैव दशमी च त्रयोदशी । चतुर्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी ” ॥ इति ।
द्वादश्यां च काम्योपवासो '''मार्कंडेयेन''' दर्शितः— ३०
“ द्वादश्यामुपवासेन सिद्धार्थो भूप सर्वशः । चक्रवर्तित्वमतुलं संप्राप्तं अतुलां श्रियम् ” ॥ इति ।
'''त्रयोदशीनिर्णयः ।''' अथ त्रयोदशी निर्णीयते । सा च शुक्लकृष्णपक्षभेदेन व्यवतिष्ठते ।
तत्र शुक्लत्रयोदशी पूर्वविद्धा ग्राह्या । तदुक्तं '''ब्रह्मकैवर्ते—'''
“ त्रयोदशी प्रकर्त्तव्या द्वादशीसहिता मुने । भूतविद्धा न कर्तव्या दर्शः पूर्णा कदाचन ” ॥ इति ।
{{rule}}
१ घ-दू ।<noinclude></noinclude> rsdri9tjpyol4nyu2ffc815zauc2emb पृष्ठम्:Smriti mukta phalam.pdf/८९९ 104 166902 419925 2026-11-11T04:46:28Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अनंतव्रतम् ।'''|८५१}} {{rule}} '''निगमे—'''
“षष्ठ्यष्टमी अमावास्या कृष्णपक्षे त्रयोदशी । एताः परयुताः पूज्याः पराः पूर्वयुतास्तथा ” ॥ इति ।
अत्र कृष्णपक्ष इति विश... नवीन पृष्ठं निर्मीत अस्ती 419925 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अनंतव्रतम् ।'''|८५१}} {{rule}} '''निगमे—'''
“षष्ठ्यष्टमी अमावास्या कृष्णपक्षे त्रयोदशी । एताः परयुताः पूज्याः पराः पूर्वयुतास्तथा ” ॥ इति ।
अत्र कृष्णपक्ष इति विशेषाणात् पूर्वविद्धावचनस्य शुक्लपक्षविषयत्वं परिशिष्यते ।
'''चतुर्दशीनिर्णयः ।''' अथ चतुर्दशी निर्णीयते । नृसिंहचतुर्दशी रात्रिव्यापिनी ग्राह्या ।
नृसिंहस्य सायंकाले आविर्भावात् । ५
“ मधुश्रवणमासस्य शुक्ला या च चतुर्दशी । सा रात्रिव्यापिनी ग्राह्या परा पूर्वाह्णगामिनी” ॥ इति
वचनात् । परा अनन्तचतुर्दशी । त्रिमुहूर्तमेव पूर्वाह्नः । तत्र शुक्लचतुर्दशी परविद्धा ग्राह्या ।
तथा '''व्यासः—'''“ शुक्ला चतुर्दशी ग्राह्या परविद्धा सदा व्रते ” इति । '''नारदीयेऽपि—'''
“ तृतीयाैकादशी षष्ठी शुक्लपक्षे चतुर्दशी । पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ” ॥ इति ।
'''अनन्तव्रतम् ।''' यत्तु भाद्रपदशुक्लचतुर्दश्यामनंतव्रतमुक्तं '''भविष्योत्तरे—'''तत्र ‘दैवे १०
ह्यौदयिकी ग्राह्या ” इति वचनेन युग्मशास्त्रादिभिश्चोदयव्यापिनी ग्राह्या । तत्र तिथ्यंतरव्रत-
त्रिमुहूर्तव्याप्तिर्मुख्यः कल्पः । द्विमुहूर्तव्याप्तिरनुकल्पः । यत्तु—
“ मध्यान्हे भोज्यवेलायां समुत्तीर्य सरित्तटे । ददर्श लीला सा स्त्रीणां समूहं रक्तवाससाम् ॥
“ चतुर्दश्यामर्चयंतं भक्त्या देवं जनार्दनम् ” ॥ इति तत्तु अर्थवादत्वान्न स्वातंत्र्येण
कस्यचिदर्थस्य प्रापकं न चात्र मध्याह्नः कर्मकालो विहितः । सति प्रमाणांतरे तस्योपोह्वलक- १५
मर्थवादवाक्यं भवति । न चात्र प्रमाणांतरमस्तीति कालनिर्णये निरूपितम् । कृष्णचतुर्दशी तु
पूर्वयुतैव ग्राह्या । तथा चापस्तंबः—
“ कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्वविद्धा तु कर्तव्या परविद्धा न कस्यचित्”॥ इति ।
'''शिवरात्रिव्रतनिर्णयः ।''' अथ शिवरात्रिव्रतं निर्णीयते । शिवस्य रात्रिः शिवरात्रिरिति
तत्पुरुषसमासेन योगेन प्रवर्त्तमानः शब्दो रूढ्या माघकृष्णचतुर्दशीरूपे कालविशेषे नियम्यते । २०
शिवप्रिया रात्रिर्यस्मिन्व्रत इति बहुव्रीहिसमासेन योगेन प्रवृत्तः शब्दो रूढ्या व्रतविशेषे नियम्यते ।
यथा पंकजशब्दः पंक़ाज्जायत इति योगं स्वीकृत्य भेकादिष्वतिप्रसंगो रूढिस्वीकारेण निवार्यते
तद्वदत्रापि यौगिकत्वे सति शिवव्रतोपेतेषु त्रयोदश्यादितिथ्यंतरेषु शिवरात्रित्वं प्रसक्तं रूढि-
परिग्रहेण निवार्यते । अतः कालविशेषे व्रतविशेषे च योगरूढोऽयं शिवरात्रिशब्दः ।
तथा च '''स्कांन्दे—''' २५
“ माघस्य कृष्णपक्षे या तिथिर्भवेच्चतुर्दशी । तस्या रात्रिः समाख्याता शिवरात्रिः शिवप्रिया ॥
“ तस्यां सर्वेषु लिंगेषु तदा संक्रमते हरः । यानिकान्यत्र लिंगानि चराणि स्थावराणि च ॥
“ तेषु संक्रमते देवि तस्यां रात्रौ यतो हरः । शिवरात्रिस्ततः प्रोक्ता तेन सा हरवल्लभे ” ॥ इति ।
'''कासिकेऽपि—'''
“ माघमास्यसिते पक्षे विद्यते या चतुर्दशी । तद्रात्रिः शिवरात्रिः स्यात्सर्वपुण्यशुभावहा ” ॥ इति । ३०
'''ईशानसंहितायाम्—'''
“ शिवरात्रिव्रतं नाम सर्वपापहरं नृणाम् । आचंडालं मनुष्याणां भुक्तिमुक्तिप्रदायकम् ” ॥ इति ।
अनेनास्य सर्वाधिकारित्वमुक्तम् । तच्च शिवरात्रिव्रतमेकादशीवन्नित्यं काम्यं चेत्युभयविधिम् ।
तत्र नित्यत्वमकरणे प्रत्यवायवीप्सानित्यशब्दैरवगंतव्यम् ।
{{rule}}
१ खग-शी ।<noinclude></noinclude> 77fkkmokkl4srzuh4um9txvf7wruncx पृष्ठम्:Smriti mukta phalam.pdf/९०० 104 166903 419926 2026-11-11T04:47:34Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८५२|'''शिवरात्रिः ।'''|}} {{rule}} ते च '''स्कांन्दे पठ्यन्ते—'''“ परात्परतरं नास्ति शिवरात्रिः परात्परा ।
“ न पूजयंति भक्त्येशं रुद्रं त्रिभुवनेश्वरम् । जंतुर्जन्मसह... नवीन पृष्ठं निर्मीत अस्ती 419926 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८५२|'''शिवरात्रिः ।'''|}} {{rule}} ते च '''स्कांन्दे पठ्यन्ते—'''“ परात्परतरं नास्ति शिवरात्रिः परात्परा ।
“ न पूजयंति भक्त्येशं रुद्रं त्रिभुवनेश्वरम् । जंतुर्जन्मसहस्रेण भ्रमते नात्र संशयः ॥
“ वर्षे वर्षे महादेवि नरो नारी पतिव्रता । शिवरात्रौ महादेवं कामं भक्त्या प्रपूजयेत् ॥
“ माघकृष्णचतुर्दश्यां यः शिवं संशितव्रतः । मुमुक्षुः पूजयेन्नित्यं स लभेतेप्सितं पदम् ” ॥ इति ।
५ काम्यत्वं च फलश्रवणादवगंतव्यम् । तच्च '''स्कांन्दे पठ्यते—'''
“ शिवं च पूजयित्वा यो जागर्ति च चतुर्दशीम् । मातुः पयोधररसं न पिबेत्स कदाचन ॥
“ सर्वान्भुक्त्वा महाभोगान्स मृतो न प्रजायते ” ॥ इति ।
काम्यव्रतस्येशानसंहितायां वर्षसंख्या पठ्यते—
“ एवमेतत् व्रतं कुर्यात् प्रतिसंवत्सरं प्रति । द्वादशाब्दिकमेतत्स्याच्चतुर्विंशाब्दिकं तु वा ॥
१० “ सर्वान्कामानवाप्नोति प्रेत्य चेह च मानवः ” ॥ इति ।
उपवासे जागरणं पूजा चेति त्रयं समप्राधान्येन व्रतस्वरूपम् । तदुक्तं '''नागरखंडे—'''
“ उपवासप्रभावेन बलादपि च जागरात् । शिवरात्रेस्तथा तत्र लिंगस्यापि प्रपूजनात् ॥
“ अक्षयांल्लभते भोगाञ्छिवसायुज्यमाप्नुयात् ” ॥ इति ।
यत्तु स्कांडपुराणे द्वयमेकैकं वा पठ्यते “ अथवा शिवरात्रिं च प्रजा जागरणेर्नयेत् ।
१५ “ असंज्ञितव्रतो यो हि शिवरात्रिमुपोषयेत् । सर्वान्कामानवाप्नोति रुद्रेण सह मोदते ॥
“ कश्चित्पुण्यविशेषेण व्रतहीनोऽपि यः पुमान् । जागरं कुरुते तत्र स रुद्रसमतां व्रजेत् ॥
“ यः पूजयति भक्त्येशमनेकफलतां व्रजेत् ” ॥ इति तत् अथवेत्यनुकल्पोपक्रमादशक्तविषयम् ।
प्रदोषनिशीथवेधावत्र ग्राह्यौ । प्रदोषवेधो '''वायुपुराणे''' दर्शितः—
“ त्रयोदश्यस्तगे सूर्ये चतसृष्वेव नाडिषु । भूतविद्धा तु या तत्र शिवरात्रिव्रतं चरेत् ” ॥ इति ।
२० '''कामिकेऽपि—'''
“आदित्यास्तमये काले त्वस्ति चेद्या चतुर्दशी । तद्रात्रिः शिवरात्रिः स्यात्सा भवेदुत्तमोत्तमा”॥ इति ।
'''स्मृत्यन्तरेऽपि'''
“ प्रदोषव्यापिनी ग्राह्या शिवरात्रिश्चतुर्दशी । रात्रौ जागरणं यस्मात्तस्मात्तां समुपोषयेत् ” इति ॥
निशीथवेधो '''नारदीयसंहितायां''' दर्शितः—
२५ “ अर्धरात्रियुता यत्र माघकृष्णचतुर्दशी । शिवरात्रिव्रतं तत्र सोऽश्वमेधफलं लभेत् ” ॥ इति ।
'''ईशानसंहितायाम्—'''
“ पूर्वेद्युःपरेद्युर्वा महानिशि चतुर्दशी । व्याप्ता सा दृश्यते यस्यां तस्यां कुर्याद्व्रतं नरः ॥
“ मम प्रियकरी ह्येषा माघकृष्णचतुर्दशी । महानिश्यन्विता यत्र तत्र कुर्याद्विदं व्रतम् ” इति ॥
एवं च सति पूर्वेद्युरेव वाऽपरेद्युरेव वा यत्र प्रदोषनिशीथोभयव्याप्तिः तत्र व्रतमाचरणीयम् ।
३० तथा च '''स्कांन्दे—'''
“ त्रयोदशी यदा देवि दिनमुक्तिप्रमाणतः । जागरे शिवरात्रिः स्यान्निशि पूर्णा चतुर्दशी ॥
“ निशाद्वये चतुर्दश्यां पूर्वा त्याज्या शुभान्विता ” ॥ इति दिनमुक्तिरस्तमयः । दिनद्वयेऽप्युभय-
व्याप्तिस्तु न संभाव्यते । यामद्वयवृद्ध्यभावात् । दिनद्वयेऽप्युभयव्याप्त्यभावोऽपि न संभवति
{{rule}}<noinclude></noinclude> 9o83rhkd1ys81h9wejni2h548u5c3ck पृष्ठम्:Smriti mukta phalam.pdf/९०१ 104 166904 419927 2026-11-11T04:49:58Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''दिनद्वयव्यापित्याम् ।'''|८५३}} {{rule}} यामद्वयक्षयस्याभावात् । एकैकस्मिन्दिने यथैकैकव्याप्तिः तत्र पूर्वेद्युर्निशीथव्याप्तिः परेद्युः
प्रदोषव्याप्तिरि... नवीन पृष्ठं निर्मीत अस्ती 419927 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''दिनद्वयव्यापित्याम् ।'''|८५३}} {{rule}} यामद्वयक्षयस्याभावात् । एकैकस्मिन्दिने यथैकैकव्याप्तिः तत्र पूर्वेद्युर्निशीथव्याप्तिः परेद्युः
प्रदोषव्याप्तिरित्यत्रैकैकव्याप्तौदिनद्वये समानत्वेऽपि जयायोगस्य प्रशस्तत्वादर्शयोगस्य निंदित-
त्वाच्च पूर्वेद्युरेवोपवासः । त्रयोदशीयोगप्राशस्त्यं दर्शयोगनिंदा च '''स्कांन्दे पठ्यते—'''
“ कृष्णाष्टमी स्कंदषष्ठी शिवरात्रिश्चतुर्दशी । एताः पूर्वयुताः कार्याः तिथ्यन्ते पारणं भवेत् ॥
“महतामपि पापानां दृष्टा वै निष्कृतिः पुरा । न दृष्टा कुर्वतां पुंसां दर्शयुक्तां तिथिं पराम् ” ॥ इति । ५
यदा पूर्वेद्युर्निशीथादूर्ध्वं प्रवृत्ता चतुर्दशी परेद्युः क्षयवशात् निशीथादर्वागेव समाप्ता तदा पूर्वेद्युः
प्रदोषनिशीथव्याप्त्योरुभयोरप्यसंभवात्परेद्युः प्रदोषव्याप्तेरेकस्याः संभवाच्च परविद्धैव ग्राह्या ।
एतदेवाभिप्रेत्य स्मर्यते—
“ माघासिते भूतदिनं कदाचिदुपैति योगं यदि पंचदश्याः ।
“ जयाप्रयुक्तां न तु जातु कुर्यात् शिवस्य रात्रिं प्रियकृच्छिवस्य ” ॥ इति । १०
यदा पूर्वेद्युः प्रदोषार्ध्वं प्रवृत्ता चतुर्दशी परेद्युः क्षयवशात्प्रदोषादर्वागेव समाप्ता तदा परेद्युर्व्याप्ति-
द्वयाभावात् पूर्वेद्युर्निशीथव्याप्तेः सद्भावेन जयायोगाच्च पूर्वेद्युरेवोपवासः ।
'''अत्रायं विवेकः—'''दिनद्वयेऽपि निशीथव्याप्तौ तद्व्याप्तौ च प्रदोषव्याप्तिर्निर्णायिका ।
तथा दिनद्वयेऽपि प्रदोषव्याप्तौ तद्व्याप्तौ च निशीथव्याप्तिर्निर्णायिका । एकैकस्मिन्दिने एकैक-
व्याप्तौ जयायोगो नियामक इति । १५
वारविशेषेण योगविशेषेण च युक्ता त्रिस्पृशी च शिवरात्रिः प्रशस्ता । तथा च '''स्कांन्दे—'''
“ माघकृष्णचतुर्दश्यां रविवारो यदा भवेत् । भौमो वाऽथ भवेद्देवि कर्त्तव्यं व्रतमुत्तमम् ॥
“ शिवयोगस्य योगो वै तद्भवेदुत्तमोत्तमम् । त्रयोदशी कलाऽप्येका मध्ये चैव चतुर्दशी ।
“ अंते चैव सिनीवाली त्रिस्पृश्यां शिवमर्चयेत् ” ॥ इति । ननु यदा पूर्वविद्धायामुपवासः तदा
परेद्युः किं तिथ्यंते पारणं उत तिथिमध्ये । शास्त्रं तु पक्षद्वयेऽपि समानम् । तत्र तिथ्यंते पारण- २०
वचनानि पूर्वोदाहृतानि । तिथिमध्ये पारणवचनं तु '''स्कांन्दे पठ्यते—'''
“ उपोषणं चतुर्दश्यां चतुर्दश्यां तु पारणम् । कृतैः सुकृतलक्षैश्च लभ्यते वाऽथ वा न वा ।
“ ब्रह्मांडोदरमध्ये तु यानि तीर्थानि संति वै । संस्थितानि भवंतीह भूतायां पारणे कृते ।
“ तिथीनामेव सर्वासामुपवासव्रतादिषु । तिथ्यंते पारणं कुर्याद्विना शिवचतुर्दशीम् ” ॥ इति ।
ग्राह्यं अस्ति द्विविधं शास्त्रम् । तस्य च द्विविधशास्त्रस्य प्रतिपत्प्रकरणोक्तन्यायेन व्यवस्था द्रष्टव्या । २५
यदा यामत्रयादर्वागेव चतुर्दशी समाप्यते तदा तिथ्यंते पारणम् । यदा चतुर्दशी यामत्रयमति-
क्रामति तदा चतुर्दशीमध्ये पूर्वाह्णे पारणं कुर्यात् । '''इति शिवरात्रिनिर्णयः ।'''
'''पंचदशीनिर्णयः ।''' अथ पंचदशी निर्णीयते । सा च व्रतादौ परविद्धैव ग्राह्या । तथा च
'''ब्रह्मकैवर्ते—'''
“ भूतविद्धा न कर्तव्या अमावास्या च पूर्णिमा । वर्जयित्वा मुनिश्रेष्ठ सावित्रीव्रतमुत्तमम् ” ॥ इति ३०
'''स्कांन्देऽपि—'''
“ भूतविद्धा सिनीवाली न तु तत्र व्रतं चरेत् । वर्जयित्वा तु सावित्रीव्रतं तु शिखिवाहन ” ॥ इति
सावित्र्या राजकन्यया चीर्णं सावित्रीव्रतम् । तच्च '''भविष्योत्तरे दर्शितम्—'''
“कथयामि कुलस्त्रीणां महिम्नो वर्धनं परम् । यथा चीर्णं व्रतं पूर्वं सावित्र्या राजकन्यया ”॥ इति ।
तच्च पौर्णमास्याममावास्यायां च विहितम् । तस्मिन्व्रते पूर्वविद्धा ग्राह्या । ३५
{{rule}}<noinclude></noinclude> m7m5uyfl6y3n8y8g4jw8vftyef09si9 पृष्ठम्:Smriti mukta phalam.pdf/९०२ 104 166905 419928 2026-11-11T04:50:51Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८५४|'''इष्टिकालनिर्णयः ।'''|}} {{rule}} एतदेवाभिप्रेत्य '''नारदीये—'''
“ दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम् । पूर्वविद्धामकुर्वाणो नरकं प्रतिपद्यते ” ॥ इति ।
द... नवीन पृष्ठं निर्मीत अस्ती 419928 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८५४|'''इष्टिकालनिर्णयः ।'''|}} {{rule}} एतदेवाभिप्रेत्य '''नारदीये—'''
“ दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम् । पूर्वविद्धामकुर्वाणो नरकं प्रतिपद्यते ” ॥ इति ।
दर्शादिश्राद्धकालः श्राद्धकांडे निरूपितः ।
'''इष्टिकालनिर्णयः ।''' इष्टिकालस्तु निर्णीयते । अत्र '''गोभिलः—'''
५ “ पक्षांता उपवस्तव्याः पक्षाद्यो हि यष्टव्याः” इति । अत्रोपवासशब्देनाग्न्युपस्तरणं विवक्षितम् ।
तस्मिन्क्रियमाणे यजमान समीपे देवतानां निवासात् । तथा च श्रुतिः—
“ उपास्मिञ्श्वो यक्ष्यमाणे देवता वसन्ति एवं विद्वानग्निमुपस्तृणाति ” ॥ इति । उपवासशब्दा-
भिधेयाग्न्युपस्तरणांतस्य पूर्वदिनकर्त्तव्यस्यान्वाधानादेश्चतुरंशवति पर्वणि आद्यास्त्रयोऽंशाः कालाः
पर्वणश्चतुर्थोऽशः प्रतिपद आद्यास्त्रयोऽंशाश्च यागस्य कालः । तदाह '''लौकाक्षिः—'''
१० “ त्रीनंशानावसथ्यस्य यागस्य चतुरो विदुः । द्वावंशावत्सृजेदंत्यौ यागे च व्रतकर्मणि ” ॥ इति ।
यागकालं '''यज्ञपार्श्वोऽप्याह—'''
“ पंचदश्याः परः पादः पक्षादेः प्रथमास्त्रयः । कालः पार्वणयागे स्यादर्थांते तु न विद्यते ” ॥ इति ।
'''वृद्धशातातपोऽपि—'''
“पर्वणो यश्चतुर्थोऽश आद्याः प्रतिपदस्त्रयः । यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः ” ॥ इति ।
१५ अत्र प्रातरिति विशेषाणात् “सूर्योदयस्योपरि मुहूर्तत्रयं यागस्य मुख्यः कालः” इति कालनिर्णये ।
प्रतिपदश्चतुर्थांशं निषेधति '''कात्यायनः—'''
“ न यष्टव्यं चतुर्थेऽशे यागैः प्रतिपदः क्वचित् । रक्षांसि तद्विलुंपंति श्रुतिरेषा सनातनी”॥ इति ।
यदा पर्वप्रतिपदावुदयमारभ्य संपूर्णतिथी भवतः तदा न कोऽपि संदेहः । यदा तु संडतिथी तदा
निर्णयमाह '''गोभिलः—'''
२० “ आवर्तने यदा संधिः पर्वप्रतिपदोर्भवेत् । तदर्हर्याग इष्येत परतःश्वेत्परेऽहनि ॥
“ पर्वप्रतिपदोः संधिर्वर्गानावर्तनाद्यदि । तस्मिन्नहनि यष्टव्यं पूर्वेद्युस्तदुपक्रमः ॥
“ आवर्तनोत्तरः संधिर्यदि तस्मिन्नुपक्रमः । परेद्युरिष्टिरित्येष पर्वद्वयविनिश्चयः ” ॥ इति ।
'''लौकाक्षिरपि—'''
“ पूर्वाह्णे वाऽथ मध्याह्ने यदि पर्व समाप्यते । उपोष्य तत्र पूर्वेद्युस्तदहर्याग इष्यते ॥
२५ “ अपराह्णेऽथ वा रात्रौ यदि पर्व समाप्यते । उपोष्य तस्मिन्नहनि श्वोभूते याग इष्यते ” ॥ इति ।
अन्हो मध्ये मध्याह्न इति व्युत्पत्तेरावर्तनमत्र मध्याह्नशब्देनाभिधीयते । एवमपराह्र-
शब्दोऽप्यत्र यौगिकः । न तु पंचधाविभागमाश्रित्य प्रवृत्तः । अत एव गोभिलेनावर्तनशब्दः
प्रयुक्तः । '''शातातपोऽपि—'''
“ पूर्वाह्णे मध्यमे वापि यदि पर्व समाप्यते । तद्रोपवासः पूर्वेद्युः तदहर्याग इष्यते ” ॥ इति ।
३० अह्नः पूर्वो भागः पूर्वाह्नः । अन्होऽपरो भागोऽपराह्णः । अतस्ताभ्यां शब्दाभ्यामावर्तनात्
पूर्वोत्तरभागावाभिधीयेते '''कालादर्शोऽपि—'''“ पूर्वप्रतिपदोः संधिर्मध्याह्ने पूर्वतोऽपि वा ।
“ अन्वाधानं पूर्वदिने तद्दिने याग इष्यते । परतःश्वेत्परेह्विस्तिष्टाद्दिनेऽन्वाहितिर्भवेत् ” ॥ इति ।
वाजसनेयिनां पौर्णमास्यां विशेष उक्तस्तत्रैव—
“ आवर्तनादधः संधिश्चेन्वन्वाधाय तद्दिने । परेद्युरिष्टिरित्याहुर्विप्रा वाजसनेयिनः ” ॥ इति ।
{{rule}}
*७३८-७४४ पृष्ठे<noinclude></noinclude> lnzavlw5nwtsupxf975xodefk1fmxpm पृष्ठम्:Smriti mukta phalam.pdf/९०३ 104 166906 419929 2026-11-11T04:52:02Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''संधिमत्यां तिथौ ।'''|८५५}} {{rule}} यदि मध्यान्हात्पूर्व संधिः स्यात् तदा संधिदिने अन्वाधाय परेद्युरिष्टिः कार्येति वाजसनेयिमतानु-
वर्तिन आहुरित्यर्थः । तदाह ''... नवीन पृष्ठं निर्मीत अस्ती 419929 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''संधिमत्यां तिथौ ।'''|८५५}} {{rule}} यदि मध्यान्हात्पूर्व संधिः स्यात् तदा संधिदिने अन्वाधाय परेद्युरिष्टिः कार्येति वाजसनेयिमतानु-
वर्तिन आहुरित्यर्थः । तदाह '''भाष्यार्थसंग्रहकारः—'''
“ मध्यंदिनात्स्यादहनीह यस्मिन् प्राक्पर्वणः सन्धिरियं तृतीया ।
“ सा खर्त्रिका वाजसनेयिमर्त्यैस्तस्यामुपोष्योथ परेद्युरिष्टिः ” ॥ इति । आवर्तनादूर्ध्व-
मस्तमयादर्वाग्यदा संधिर्भवति तदा संधिमती तिथिः प्रथमा रात्रौ संधिश्चेत्सा तिथिर्द्वितीया । ५
ते उभे अपेक्ष्य पूर्वाह्णे संधिमतीतिथ्रिस्तृतीया । तत्र पूर्वकालस्याल्पत्वात्सार्वर्तिकेत्युच्यते ।
एवं च सति वाजसनेयिनां न क्वापि संधिदिनात्पूर्वेद्युरन्वाधानादिकमस्ति । वाजसनेयिव्यति-
रिक्तानामावर्तने ततः पूर्वं वा यदा संधिर्भवति तदा संधिदिने पूर्वचतुर्थांशे इष्टिर्भवति ।
तत्र विशेषमाह '''गर्गः—'''
“ प्रतिपद्यप्रविष्ठायां यदि चेष्टिः समाप्यते । पुनः प्रणीय कृत्स्नेष्टिः कर्तव्या यागवित्तमैः”॥ इति । १०
पर्वणश्चतुर्थोऽशप्रतिपद्त्रयोऽंशाश्च यागकालत्वेन विहिताः । तत्र पर्वचतुर्थांशस्य विषय उदाहृतः ।
प्रतिपदंशानां तु विषय उदाह्रियते । उषःकाले सन्धौ प्रतिपदः प्रथमांशो यागकालः । निशीथे
संधौ द्वितीयांशः । रात्रिप्रारंभे संधौ तृतीयांशः । नन्वनेन न्यायेनापराह्णे संधौ प्रतिपच्चतुर्थांशस्य
यागकालत्वं प्राप्नोति । तच्च प्रतिषिद्धं ‘ न यष्टव्यं चतुर्थांशः ’ इति स्मृतेः । अतस्तादृशे विषये
याग एव लुप्यते इति चेन्नैवम् । '''वृद्धशातातपेन''' प्रतिप्रसवाभिधानात्— १५
“ संधिर्यद्यपराह्णे स्याद्यागं प्रातः परेऽहनि । कुर्वाणः प्रतिपद्भागे चतुर्थेऽपि न दुष्यति ” ॥ इति ।
'''कालादर्शोऽपि—'''
“चतुर्थः पर्वणो योऽशो यैऽशाः प्रतिपदस्त्रयः। आद्यास्तस्याश्चतुर्थोऽपि यागकाल उदाहृतः”॥ इति।
तस्याः प्रतिपदः चतुर्थोऽप्यंशो यागकाल इत्यर्थः । एवं तर्हि चतुर्थांशे यागप्रतिषेधो निर्विषयः
स्यादिति चेन्मैवम् । सद्यःकालविषये चरितार्थत्वात् । तं च विषयं दर्शयति '''कात्यायनः—''' २०
“ संधिश्चेत्संगवाद्दूर्ध्वं प्राक्चेदावर्तनाद्रवेः । सा पौर्णमासी विज्ञेया सद्यःकालविधौ तिथिः ” ॥ इति ।
'''भाष्यार्थसंग्रहकारोऽपि—'''
“ अन्वाहितिश्चास्तरणोपवासः पूर्वेद्युरेते खलु पौर्णमास्याम् ।
“ आवर्तनात्प्राग्यदि पर्वसंधिः सद्यस्तदा वा क्रियते समस्तम् ” ॥ इति । '''कालादर्शोऽपि—'''
“ पूर्णिमा प्रतिपत्संधिः यदि संगवमंतरा । आवर्त्तनं च स्यात्तर्हि सद्यस्कालविधिर्भवेत् ” ॥ इति । २५
'''आपस्तंबोऽपि—'''“पौर्णमास्यां त्वन्वाधानपरिस्तरणोपवासः सद्यो वा सद्यःकालायां सर्वं क्रियते” इति।
संगवावर्त्तनयोर्मध्ये पौर्णमासी प्रतिपदोः संधौ सति संधिदिनात्पूर्वेद्युर्वा अन्वाधानादिपरिस्तरणांतं
संधिदिने वा अन्वाधानादिकं सर्वं क्रियत इत्यर्थः । एवं सति प्रतिपच्चतुर्थांशप्रतिषेधवचनमत्र
विषये सावकाशम् । विकृतिरूपाया इष्टेस्तु कालमाह '''कात्यायनः—'''
“ आवर्तनात्प्राग्यदि पर्वसंधिः कृत्वा तु तस्मिन्प्रकृतिं विकृत्याः । ३०
“ तत्रैव यागः परतो यदि स्यात्तस्मिन्विकृत्या प्रकृतेः परेद्युः ” ॥ इति । आवर्तने ततः पुरा वा
पर्वसंधौ तस्मिन्संधिदिने प्रथमं प्रकृतिर्यागं कृत्वा पश्चाद्विकृतेः संबंधि यागः कर्तव्यः । यदि
आवर्तनात्परतः संधिः तदा केवलविकृतियागः संधिदिने कर्तव्यः । प्रकृतिर्यागस्तु केवलसंधि-
दिनात्परेद्युरनुष्ठेय इत्यर्थः । आवर्तने ततः पूर्वकाले ततः परकाले वा संधिरित्येतेषु त्रिष्वपि
पक्षेषु संधिदिन एव विकृतेरनुष्ठानं प्रकृतेस्तु पूर्वोक्तरीत्या संधिदिने परेद्युश्चानुष्ठानं व्यवतिष्ठते । ३५
{{rule}}<noinclude></noinclude> scis3zuxtkeft4hvjte5d4g1iym1xbc पृष्ठम्:Smriti mukta phalam.pdf/९०४ 104 166907 419930 2026-11-11T04:53:00Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८५६|'''तिथिक्षयवृद्धयोः संधौ ।'''|}} {{rule}} तदेवं संपूर्णतिथौ इष्टिपशुसोमविकृतीनां केवलपर्वैव कालः । खंडतिथौ तु पूर्वोक्तः कालः ।
तदेतदापस्तंब आह “ यदीष्ट्या यद... नवीन पृष्ठं निर्मीत अस्ती 419930 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८५६|'''तिथिक्षयवृद्धयोः संधौ ।'''|}} {{rule}} तदेवं संपूर्णतिथौ इष्टिपशुसोमविकृतीनां केवलपर्वैव कालः । खंडतिथौ तु पूर्वोक्तः कालः ।
तदेतदापस्तंब आह “ यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां पौर्णमास्यां वा
यजेत ” ॥ इति । पर्वप्रतिपदोः संधिमुपजीव्यान्वाधानेष्टिकालौ व्यवस्थापितौ । अत्र तिथिक्षय-
वृद्धयोः संधिविषयं कंचिद्विशेषमाह '''कात्यायनः—'''
५ “परेऽन्हि घटिका न्यूनास्तथैवाभ्यधिकास्तु याः । तदर्धंक्लृप्या पूर्वस्मिन् ह्रासवृद्ध्या प्रकल्पयेत्”॥ इति ।
'''लौकाक्षिरपि—'''“ तिथेः परस्या घटिकास्तु या स्युर्न्यूनास्तथा वाऽभ्यधिकास्तु तासाम् ।
“अर्धं वियोज्यं च तथा प्रयोज्यं ह्रासे च वृद्धौ प्रथमे दिने स्यात् ” ॥ इति ।
'''कालादर्शोऽपि—'''
“पर्वणि क्षयगे वृद्धौ परस्यान्हः क्षयोर्जिती । अर्धक्लृप्या यथान्यायं दिने पूर्वत्र योजयेत्”॥ इति ।
१० पर्वणि पूर्णिमायाममायां च क्षयगे क्षयगामिनि सति वृद्धौ वृद्धिगामिनि सति परस्याह्नः प्रतिपदः
क्षयोर्जिती ह्रासवृद्धी अर्धक्लृप्या अर्धकल्पनेन यथान्यायं यथासंख्यक्रमेण पूर्वदिने योजये-
दित्यर्थः । पूर्वेद्युः पूर्णिमा अमावास्या वा पंचदशघटिका परेद्युः प्रतिपदपि तावती तदा यथास्ति
तामेवोपजीव्य संधिविज्ञेयः । यदा तु प्रतिपदि षड्घटिकाः क्षीयन्ते तदा घटिकात्रयक्षयः पर्वणि
योजनीयः । तस्मिन् योजने द्वादशघटिकामावस्या भवति । अनेन न्यायेन षड्घटिकावृद्धौ
१५ घटिकात्रये योजिते अष्टादशघटिका अमावास्या भवति । तथा सत्यावर्तनादूर्ध्वं संधिर्भवति ।
तदेवं संधिं विज्ञाय तदनुसारेणान्वाधानेष्टी अनुष्ठातव्ये ।
'''बोधायनमनानुसारिणाममावास्यायां विशेषः ।''' बोधायनकात्यायनमतानुसारिणा-
ममावास्यायां विशेषमाह '''कात्यायनः—'''
“ सिनीवाल्यपराह्ने चेद्गापस्तंबसामिनाम् । सायाह्ने द्वित्रिनाडी चेत्सा बोधायनकण्वयोः”॥ इति ।
२० श्राद्धेऽप्येवमेव तिथिर्ग्राह्या । यतः स एवमाह—
“ चतुर्दशीदिनांते तु चतुस्त्रिघटिका यदि । अमाभूते च कर्त्तव्यं श्राद्धं वाजसनेयिभिः ” ॥ इति ।
'''कालनिर्णये—'''“अस्तमयादर्वाक् स्वल्पामावास्योपेतायामपि चतुर्दश्यां श्राद्धान्वाधाने कर्तव्ये” इति ।
एतच्च तिथिसाम्ये द्रष्टव्यम् । तिथिक्षये तु अस्तमयात्परं चतुर्दश्यनुवृत्तावपि तस्मिन्नेव दिने
श्राद्धान्वाधाने । तथा च '''बोधायनः—'''
२५ “चतुर्दशी तु संपूर्णा द्वितीया क्षयकारिणी । चरुरिष्टिरमायां स्याद्भूते कव्यादिका क्रिया” ॥ इति ।
अस्यार्थः—चतुर्दशी संपूर्णा अस्तमयपर्यंतवर्तिनी अधिका वा द्वितीया क्षयकारिणी प्रतिपद्दिने
सायाह्नवर्तिनी अत्रामायां चरूः स्थालीपाक इष्टिश्च स्याद्भूते चतुर्दश्यां कव्यादिका श्राद्धान्वाधाने
इत्यर्थः । स एव—
“ चतुर्दशीचतुर्थांशे त्वमावास्या न दृश्यते । श्वोभूते प्रतिपद्यत्र भूते कव्यादिका क्रिया ” ॥ इति ।
३० अस्यार्थः—चतुर्दशीदिनचतुर्थयामे अमावास्या न दृश्यते श्वोभूते अमावास्यायामस्तमयात्प्रागेव
प्रतिपत् दृश्यते । तदा भूते चतुर्दश्यां कव्यादिका क्रियेत्यर्थः । '''स्मृत्यंतरेऽपि—'''
“ अमायां तु दिवा युक्ता प्रतिपद्धटिकार्धं वा । तत्रैवेष्टिसमाप्तिः स्यात्तिथिवृद्धिर्भवेन्न चेत्”॥ इति ।
“ द्वितीयास्तमये काले घटिकैकाऽपि दृश्यते । अत्र यागं न कुर्वति विश्वेदेवाः पराङ्मुखाः ॥
{{rule}}<noinclude></noinclude> ndfnepo2a76jl2mxczdoirsesix0ufq पृष्ठम्:Smriti mukta phalam.pdf/९०५ 104 166908 419931 2026-11-11T04:54:40Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''बोधायनकात्यायनमतानुसारिणां विशेषः ।'''|८५७}} {{rule}} “द्वितीया तु दिवा युक्ता नाड्यैका प्रतिपत्तिथौ । अमावास्या चतुर्थेऽशे यागस्तत्र समाप्यते”॥ इति ।
पूर्वे... नवीन पृष्ठं निर्मीत अस्ती 419931 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''बोधायनकात्यायनमतानुसारिणां विशेषः ।'''|८५७}} {{rule}} “द्वितीया तु दिवा युक्ता नाड्यैका प्रतिपत्तिथौ । अमावास्या चतुर्थेऽशे यागस्तत्र समाप्यते”॥ इति ।
पूर्वेद्युरन्वाधानं अमावास्यायां यागसमाप्तिरित्यर्थः । '''बोधायनः—'''
“ यदा चतुर्दशीयामं तुरीयमनुपूरयेत् । अमावास्या क्षीयमाणा तदैव श्राद्धमाचरेत् ” ॥ इति ।
अस्यार्थः—चतुर्दश्यास्तुरीयं यामं यद्यमावास्या अनुपूरयेत् स्पृशेत् सा च पुनः क्षीयमाणा परेद्युः
चतुर्थयामे प्रतिपद्युक्ता तदैव अमावास्यास्पृष्टचतुर्दशीदिन एव श्राद्धान्वाधाने कुर्यादित्यर्थः । ५
'''बोधायनवृद्धशातातपौ—'''
“द्वितीया त्रिमुहूर्त्ता चेत्प्रतिपद्याऽपराह्णिकी । अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात्” ॥ इति ।
प्रतिपद्दिने सोमदर्शनादमायामिष्टिरित्यर्थः । '''कालादर्शोऽपि—'''
“ द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी । भूतेन्वाहितिरिष्टिस्तु श्वश्चन्द्रस्य दर्शनात् ” ॥ इति ।
प्रतिपद्यस्तमयात्पूर्वं द्वितीया त्रिमुहूर्त्ता चेत्तदा भूते चतुर्दश्यामन्वाधानं इष्टिस्तु श्वः चतुर्दश्याः १०
परेद्युर्भवेत् । तस्माच्छ्रश्वंद्रस्य दर्शनात् चतुर्दश्युत्तरदिने चंद्रस्य दर्शनात् तत्रेष्टिर्न कर्तव्येत्यर्थः ।
त्रिमुहूर्तेति घटिकामात्रस्याप्युपलक्षणम्—
“अर्वागस्तमयाद्यत्र द्वितीया घटिका भवेत् । तत्र यागं न कुर्वीत तदा चंद्रस्य दर्शनात्”॥ इति स्मृतेः।
चंद्रदर्शनराहित्यमेवाभिप्रेत्य '''बोधायनकारिकासु पठ्यते—'''
“ इष्टेरलं प्रतिपदोऽन्हि तदैव नाड्यः सप्ताष्ट वा यत्र भवंति तस्मात् । १५
“ क्षीणासु नाडीषु दिनस्य पूर्वः कल्पोऽथ वृद्धौ तु भवेत् द्वितीया ” ॥ इति । अयमर्थः—अमा-
वास्यातिथेः संबंधिनीषु नाडीषु क्षीणासु सतीषु तस्मिन्दिने अस्तमयात्पूर्वं प्रतिपदः संबंधिन्यो
नाड्यः सप्ताष्ट वा यदि भवंति तदा तद्दिनमिष्टेरलं योग्यम् । सोऽयमेकः पक्षः । अमावास्याप्रतिपदौ
यदा वर्धेते अस्तमयात्परं प्रतिपदनुवर्तते तदा द्वितीयः कल्पो भवेत् । अमावास्यायामन्वाधाय
सोमदर्शनरहिते प्रतिपद्दिने यागः कर्त्तव्य इति । एवं च तिथिवृद्धिप्रक्रमे चतुर्दश्यामस्तमयात्पूर्व- २०
ममावास्यायोगे अमावास्यायां चास्तमयात्पूर्वं प्रतिपद्योगे च प्रतिपद्दिने अस्तमयात्परं प्रतिपदनु-
वृत्तौ तिथिवृद्धिर्भवेन्न चेदिति पूर्वोक्तवचनात् प्रतिपद्युतामावास्यायामन्वाधानं प्रतिपदि यागः
कर्तव्यः । तिथिसाम्ये तिथिक्षये च चतुर्दश्यामन्वाधानं पर्वणि यागः । '''स्मृत्यंतरेऽपि—'''
“ आदित्येऽस्तमिते चंद्रः प्रतीच्यामुदियाद्यदा । प्रतिपद्यतिपत्तिः स्यात्तंचदश्यां यजेत्तदा ॥
“ अमावास्याऽस्य पूर्वेद्युः अहर्द्वेढः प्रशस्यते । दृष्टचंद्रेन कर्तव्यो यागस्तत्र परेऽहनि ॥ २५
“ दृष्टचंद्रदिने चेत्स्याद्देवा यांति पराङ्मुखाः ” ॥ इति । प्रतिपद्दिने अस्तमयात्पूर्वं
घटिकामात्राद्वितीयासंभवे चंद्रस्य दर्शनात् तत्र यागो न कर्तव्य इत्यर्थः ।
'''कात्यायनोऽपि—'''“ अन्वाधानं भूततिथ्यां तु कुर्यात्सायाह्ने चेत्संप्रविष्टा द्वितीया ।
“ तस्यां तिथ्यां दर्शनात्प्रत्यगिंद्रोः पर्वण्युक्तो यागकालो नितांतः ” ॥ इति ।
'''वृद्धवसिष्ठः—''' ३०
“ इंदौ निरुते हविषि पुरस्तादुदिते विधेः । यद्वैगुण्यं हुते तस्मिन्पश्चादपि हि तद्भवेत् ” ॥ इति ।
अयमर्थः—संपूर्णचतुर्दश्यामविचारणामावास्याबुद्धिं कृत्वा हविर्निर्वपे कृते तस्मिन्दिने उषः-
काले पूर्वस्यां दिशि चंद्रमा उदेति तदा दर्शकालस्याप्राप्तत्वात्कालापराधं निमित्तीकृत्य दर्शदेवता
अपनीय दात्रादिगुणविशिष्टान्न्यग्न्यादिदेवतांतराण्युद्दिश्य यागो विहितस्तैत्तिरीयब्राह्मणे-
{{rule}}
१०९-५<noinclude></noinclude> qe3kbed4grzzbxn61nyztzqzulul6e6 पृष्ठम्:Smriti mukta phalam.pdf/९०६ 104 166909 419932 2026-11-11T04:56:14Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८५८|'''नक्षत्रादिनिर्णयः ।'''|}} {{rule}} “ यस्य हविर्निरुक्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्त्रिभजेये मध्यमाः स्युस्तानग्नये दात्रे
पुरोडाशमष्ट... नवीन पृष्ठं निर्मीत अस्ती 419932 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८५८|'''नक्षत्रादिनिर्णयः ।'''|}} {{rule}} “ यस्य हविर्निरुक्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्त्रिभजेये मध्यमाः स्युस्तानग्नये दात्रे
पुरोडाशमष्टाकपालं कुर्यात् ” इत्यादिना । सोऽयं दृष्टांतः । हविषि निरुप्ते सति
तत ऊर्ध्वं पूर्वस्यां दिशि चंद्रमस्यभ्युदिते यद्वैगुण्यं तदेव वैगुण्यं होमदिने पश्चिमदिशि चंद्रोदये
भवतीति । एतदेव बौधायनमतमुपोद्वलयति श्रुतिः—“यस्मिन्नहनि पुरस्तात्पश्चात्सोमो न दृश्यते
५ तदहर्यजेत ” इति । चंद्रदर्शनोपेतायां शुक्लप्रतिपदि यागानुष्ठाने प्रायश्चित्तमाह '''कात्यायनः—'''
“यजनीयेऽन्हि सोमश्चेत् वारुण्यां दिशि दृश्यते । तत्र व्याहृतिभिर्हुत्वा दंडं दद्यात् द्विजातयः”॥ इति ।
यत्तु बौधायनवचनम्—
“ मध्याह्नात्परतो यत्र चतुर्दश्यनुवर्तते । सिनीवाली तु सा ज्ञेया पितृकार्ये तु निष्फला ” ॥ इति
तद्बौधायनीयव्यतिरिक्तविषयम् । अन्यथा पूर्वोक्तवचननिचयविरोधः स्यात् । पौर्णमासे
१० बौधायनमतातवलंबीनां विशेषादर्शनात् वाजसनेयिनामेव विशेषदर्शनात् वाजसनेयिव्यतिरिक्तानां
सर्वेषां पूर्वोक्त एव प्रकारोऽवगंतव्यः । इति दृष्टिनिर्णयः—
'''नक्षत्रादिनिर्णयः ।''' अथ नक्षत्रादिनिर्णयः । तत्र '''मार्कंडेयः—'''
“ तन्नक्षत्रमहोरात्रं यस्मिन्नस्तमितो रविः । यस्मिन्नुदेति सविता तन्नक्षत्रं दिनं भवेत् ” ॥ इति ।
अयमर्थः—द्विविधो नक्षत्रसंबंधिकालविशेषः । अहोरात्रौ दिनं च । अनुष्ठेयं कर्मापि द्विविधम् ।
१५ अहोरात्रसाध्यं दिनसाध्यं च । उपवासैकभक्तादिकमहोरात्रसाध्यम् । यद्यप्यल्पकालनिष्पाद्यं
भोजनमेकभक्तनक्तयोः स्वरूपं तथाप्यहोरात्रे भोजनांतरस्य एकभुक्तादिनिघातितया भोजनांतर-
परित्यागसहितस्यैव भोजनस्यैकभक्तादिस्वरूपत्वादहोरात्रसाध्यत्वं विरुद्धम् । दानव्रतश्राद्धा-
नामहन्येव कर्तव्यतया दानादिकं दिनसाध्यम् । तत्रोपवासादौ निशीथव्यापि अस्तमयव्यापि वा
नक्षत्रं ग्राह्यम् । व्रतदानादौ तु सूर्योदयव्यापि नक्षत्रं ग्राह्यमिति । तदुक्तं स्कान्दपुराणे—
२० “ तत्रैवोपवसेदृक्षे यन्निशीथे यद्वा भवेत् । उपोषितव्यं नक्षत्रं यस्मिन्वास्तमियाद्रविः ॥
“ उपवासे यदृक्षं स्यात् तद्धि नक्तेकभक्तयोः ”॥ इति । अस्तमययोगो मुख्यः । निशीथ-
योगोऽनुकल्पः । '''विष्णुधर्मोत्तरे—'''
“ सा तिथिस्तच्च नक्षत्रं यस्मिन्नभ्युदितो रविः । तथा कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्”॥ इति ।
एतदुपवासव्यतिरिक्तव्रतादिविषयम् । यद्यप्यत्र सूर्योदयकाले नक्षत्रसद्भावमात्रं प्रतीयते न तु परिमाण-
२५ विशेषः तथापि त्रिमुहूर्तपरिमाणस्य तिथिषु क्लृप्तत्वात् तन्न्यायेनोदये ‘त्रिमुहूर्तस्थं नक्षत्रं व्रत-
दानयोः’ इति वचनेन चोदयादित्रिमुहूर्तव्यापि नक्षत्रं ग्राह्यम् । नक्षत्रश्राद्धे तु अपराह्नस्य पार्वण-
श्राद्धकालत्वेन तद्व्यापिराश्रयणीया । एवं विष्कम्भादियोग उपवासादौ अस्तमयव्यापी ग्राह्यः ।
दानव्रतयोरुदयादित्रिमुहूर्तव्यापी ग्राह्यः । श्राद्धे तु कर्मकालव्यापी ग्राह्यः । एवं बवादिकरणानां
तिथ्यर्धपरिमितत्वेन दिनद्वयव्याप्तिवसंधेहाभावादुदयेऽस्तमये वा यस्मिन्दिने करणसद्भावस्तस्मि-
३० न्नेव दिने तत् कर्मानुष्ठेयम् । संक्रांतिग्रहणादिकालो नैमित्तिकस्नानादिप्रकरणे निरूपितः ॥
'''इति वैद्यनाथदीक्षितविरचे स्मृतिमुक्ताफले कालनिरूपणं नाम पंचमः परिच्छेदः'''
'''तिथिनिर्णयकाण्डः समाप्तः ॥ हरिः ओम् ।'''
( श्रीयतेश्वरार्पणमस्तु । शके १७६७ विश्वावसुनामाब्दे भाद्रपदकृष्णादशम्यां भृगुवासरे
तद्दिने इदं पुस्तकं यक्तेश्वरस्थशङ्करनारायणद्रविडेन लिखितम् । स्वार्थपरार्थं च । यदक्षरप )
{{rule}}<noinclude></noinclude> iw7vbm0o3oiwzu7lz3cz77y1ybd08tm 419933 419932 2026-11-11T04:59:43Z Myauthworks 10864 419933 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८५८|'''नक्षत्रादिनिर्णयः ।'''|}} {{rule}} “ यस्य हविर्निरुक्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्त्रिभजेये मध्यमाः स्युस्तानग्नये दात्रे
पुरोडाशमष्टाकपालं कुर्यात् ” इत्यादिना । सोऽयं दृष्टांतः । हविषि निरूप्रे सति
तत ऊर्ध्वं पूर्वस्यां दिशि चंद्रमस्यभ्युदिते यद्वैगुण्यं तदेव वैगुण्यं होमदिने पश्चिमदिशि चंद्रोदये
भवतीति । एतदेव बौधायनमतमुपोद्वलयति श्रुतिः—“यस्मिन्नहनि पुरस्तात्पश्चात्सोमो न दृश्यते
५ तदहर्यजेत ” इति । चंद्रदर्शनोपेतायां शुक्लप्रतिपदि यागानुष्ठाने प्रायश्चित्तमाह '''कात्यायनः—'''
“यजनीयेऽन्हि सोमश्चेत् वारुण्यां दिशि दृश्यते । तत्र व्याहृतिभिर्हुत्वा दंडं दद्यात् द्विजातयः”॥ इति ।
यत्तु बौधायनवचनम्—
“ मध्याह्नात्परतो यत्र चतुर्दश्यनुवर्तते । सिनीवाली तु सा ज्ञेया पितृकार्ये तु निष्फला ” ॥ इति
तद्बौधायनीयव्यतिरिक्तविषयम् । अन्यथा पूर्वोक्तवचननिचयविरोधः स्यात् । पौर्णमासे
१० बौधायनमतातवलंबीनां विशेषादर्शनात् वाजसनेयिनामेव विशेषदर्शनात् वाजसनेयिव्यतिरिक्तानां
सर्वेषां पूर्वोक्त एव प्रकारोऽवगंतव्यः । इति दृष्टिनिर्णयः—
'''नक्षत्रादिनिर्णयः ।''' अथ नक्षत्रादिनिर्णयः । तत्र '''मार्कंडेयः—'''
“ तन्नक्षत्रमहोरात्रं यस्मिन्नस्तमितो रविः । यस्मिन्नुदेति सविता तन्नक्षत्रं दिनं भवेत् ” ॥ इति ।
अयमर्थः—द्विविधो नक्षत्रसंबंधिकालविशेषः । अहोरात्रौ दिनं च । अनुष्ठेयं कर्मापि द्विविधम् ।
१५ अहोरात्रसाध्यं दिनसाध्यं च । उपवासैकभक्तादिकमहोरात्रसाध्यम् । यद्यप्यल्पकालनिष्पाद्यं
भोजनमेकभक्तनक्तयोः स्वरूपं तथाप्यहोरात्रे भोजनांतरस्य एकभुक्तादिनिघातितया भोजनांतर-
परित्यागसहितस्यैव भोजनस्यैकभक्तादिस्वरूपत्वादहोरात्रसाध्यत्वं विरुद्धम् । दानव्रतश्राद्धा-
नामहन्येव कर्तव्यतया दानादिकं दिनसाध्यम् । तत्रोपवासादौ निशीथव्यापि अस्तमयव्यापि वा
नक्षत्रं ग्राह्यम् । व्रतदानादौ तु सूर्योदयव्यापि नक्षत्रं ग्राह्यमिति । तदुक्तं स्कान्दपुराणे—
२० “ तत्रैवोपवसेदृक्षे यन्निशीथे यद्वा भवेत् । उपोषितव्यं नक्षत्रं यस्मिन्वास्तमियाद्रविः ॥
“ उपवासे यदृक्षं स्यात् तद्धि नक्तेकभक्तयोः ”॥ इति । अस्तमययोगो मुख्यः । निशीथ-
योगोऽनुकल्पः । '''विष्णुधर्मोत्तरे—'''
“ सा तिथिस्तच्च नक्षत्रं यस्मिन्नभ्युदितो रविः । तथा कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्”॥ इति ।
एतदुपवासव्यतिरिक्तव्रतादिविषयम् । यद्यप्यत्र सूर्योदयकाले नक्षत्रसद्भावमात्रं प्रतीयते न तु परिमाण-
२५ विशेषः तथापि त्रिमुहूर्तपरिमाणस्य तिथिषु क्लृप्तत्वात् तन्न्यायेनोदये ‘त्रिमुहूर्तस्थं नक्षत्रं व्रत-
दानयोः’ इति वचनेन चोदयादित्रिमुहूर्तव्यापि नक्षत्रं ग्राह्यम् । नक्षत्रश्राद्धे तु अपराह्नस्य पार्वण-
श्राद्धकालत्वेन तद्व्यापिराश्रयणीया । एवं विष्कम्भादियोग उपवासादौ अस्तमयव्यापी ग्राह्यः ।
दानव्रतयोरुदयादित्रिमुहूर्तव्यापी ग्राह्यः । श्राद्धे तु कर्मकालव्यापी ग्राह्यः । एवं बवादिकरणानां
तिथ्यर्धपरिमितत्वेन दिनद्वयव्याप्तिवसंधेहाभावादुदयेऽस्तमये वा यस्मिन्दिने करणसद्भावस्तस्मि-
३० न्नेव दिने तत् कर्मानुष्ठेयम् । संक्रांतिग्रहणादिकालो नैमित्तिकस्नानादिप्रकरणे निरूपितः ॥
'''इति वैद्यनाथदीक्षितविरचे स्मृतिमुक्ताफले कालनिरूपणं नाम पंचमः परिच्छेदः'''
'''तिथिनिर्णयकाण्डः समाप्तः ॥ हरिः ओम् ।'''
( श्रीयतेश्वरार्पणमस्तु । शके १७६७ विश्वावसुनामाब्दे भाद्रपदकृष्णादशम्यां भृगुवासरे
तद्दिने इदं पुस्तकं यक्तेश्वरस्थशङ्करनारायणद्रविडेन लिखितम् । स्वार्थपरार्थं च । यदक्षरप )
{{rule}}
१ २६४-२७६ पृ.<noinclude></noinclude> gpjnalcv9nj76p533njca3x8f1z1yhe पृष्ठम्:Smriti mukta phalam.pdf/९०७ 104 166910 419934 2026-11-11T05:00:56Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''प्रायश्चित्तकाण्डः षष्ठः ।'''|८५९}} {{rule}} ॥ शुभमस्तु ॥
श्रीरामचरणाम्भोजलीनमानसषट्पदः । वैद्यनाथाध्वरी प्रायश्चित्तं संगृह्य भाषते ॥
अथ प्रायश्चित्तकाण्... नवीन पृष्ठं निर्मीत अस्ती 419934 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''प्रायश्चित्तकाण्डः षष्ठः ।'''|८५९}} {{rule}} ॥ शुभमस्तु ॥
श्रीरामचरणाम्भोजलीनमानसषट्पदः । वैद्यनाथाध्वरी प्रायश्चित्तं संगृह्य भाषते ॥
अथ प्रायश्चित्तकाण्डमारभ्यते । प्रायो नाम तपः चित्तं निश्चयः । अनुष्ठितेन द्वादश-
वार्षिकादिना अवश्यं पापं निवर्त्तत इति विश्वासयुक्तव्रतानुष्ठानलक्षणं तपः प्रायश्चित्तम् । ५
तदा'''हाङ्गिराः—'''
“ प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो निश्चयसंयुक्तं प्रायश्चित्तमिहोच्यते ” ॥ इति ।
तच्च विहिताकरणादिनिमित्तवन्तं प्रति चोदनानैमित्तिकम् । तथा च '''बृहस्पतिः—'''
“ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । प्रायश्चित्तं यत्क्रियते तन्नैमित्तिकमुच्यते ” ॥ इति ।
'''विज्ञानेश्वरः—'''“प्रायश्चित्तशब्दः पापक्षयार्थे नैमित्तिके कर्मविशेषे रूढः” इति । १०
तदेवं प्रायश्चित्तशब्दः योगेन रूढ्या च पापनिवर्त्तनक्षमं धर्मविशेषमाचष्टे ।
'''प्रायश्चित्ताधिकारिनिरूपणम् ।''' तत्र अधिकारिणं दर्शयति '''मनुः—'''
“ अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसञ्जंश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ” ॥ इति ।
'''याज्ञवल्क्योऽपि—'''
“ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनियहाच्चेन्द्रियाणां नरः पतनमृच्छति ” ॥ १५
प्रत्यवायीभवति ।
“ तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ” ॥
एवं प्रायश्चित्ते कृते अस्यान्तरात्मा शुद्धतया प्रसीदति लोकश्च संव्यवहर्तुं प्रसीदतीत्यर्थः ।
'''एकविंशति नरकाः ।''' प्रायश्चित्ताकरणे दोषमाह स एव—
“ प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपश्चात्तापिनः कष्टान्न्ररकान्यान्ति दारुणान् ॥ २०
“ तामिस्रं लोहशङ्कुं च महानिरयशाल्मली । रौरवं कुड्मलं पूतिं मृत्तिकां कालसूत्रकम् ॥
“ संघातं लोहितोदं च सविशं संप्रतापनम् । महानरककोकोलं सञ्जीवनमहार्पयम् ॥
“ अवीचिमन्धतामिस्रं कुम्भीपाकं तथैव च । असिपत्रवनं चैव तपनं चैकविंशकम् ” ॥
“ महापातकजैर्घोरैरुपपातकजैस्तथा । अन्विता यान्त्यचरितप्रायश्चित्ता नराधमाः ” ॥ इति ।
एकविंशकमित्येतत् प्रधाननरकापेक्षयोक्तम् । महापातकजैरिति उपपापमात्रोपलक्षणम् । २५
तथा च पापतारतम्यात् फलतारतम्यं दर्शितं '''विष्णुधर्मोत्तरे—'''
“ अष्टाविंशतिकोट्यः स्युर्घोराणि नरकाणि वै । महापातकिनश्चात्र सर्वे स्युर्नरकाधिषु ॥
“ आ चन्द्रतारकं यावत्पीड्यन्ते विविधैर्वधैः । अतिपातकिनश्चान्ये निरयार्णवकोटिषु ॥
“ एकविंशतिसंख्याेषु पादोनब्रह्मकल्पकम् । चतुर्दशसु पच्यन्ते कल्पार्धं समपापिनः ॥
“ उपपातकिनश्चापि तदर्धं यान्ति मानवाः । शेषैः पापैस्तदर्धं च कालक्लृप्तिरियं स्मृता ” ॥ इति । ३०
{{rule}}
१ ग-भ्य । २ ग-सक । ३ क-कश्मलं । ४ ग-पूतिमृत्तिकं । ५ क्ष-लोकं च । ६ क्ष-वशि । ७ तापनमिति मुद्रिते पाठः । ८ ग-पार ।<noinclude></noinclude> 7vae889wom43iy1uyptbp995bvcobpk पृष्ठम्:Smriti mukta phalam.pdf/९०८ 104 166911 419935 2026-11-11T05:01:48Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८६०|'''पापफलानि ।'''|}} {{rule}} '''रहस्यकृतपापफलानिरूपणम् ।''' रहस्यकृतपापफलमाह '''पराशरः—'''
“पातके तु सहस्रं स्यान्महति द्विगुणं तथा । उपपातके तुरीयं स्यान्नरकं वर्षस... नवीन पृष्ठं निर्मीत अस्ती 419935 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८६०|'''पापफलानि ।'''|}} {{rule}} '''रहस्यकृतपापफलानिरूपणम् ।''' रहस्यकृतपापफलमाह '''पराशरः—'''
“पातके तु सहस्रं स्यान्महति द्विगुणं तथा । उपपातके तुरीयं स्यान्नरकं वर्षसंख्यया”॥ इति ।
'''नरकानुभवानन्तरं तिर्यगादिजन्मनिरूपणम् ।''' एवं नरकमनुभूय कर्मशेषात्पुनरपि
संसारे दुःखबहुुलतिर्यगादिषु योनिषु जायन्ते । तदाह '''याज्ञवल्क्यः—'''
५ “ महापातकजान् घोरान्नरकान्प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ॥
“ मृगश्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति । खरपुल्कसवेणानां सुरापो ब्राह्मणो व्रजेत् ॥
“ कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ” ॥
एतच्चाकामकारविषयम् । कामकारे तु अन्यास्वपि दुःखबहुलयोनिषु संसरति ।
यथाह '''मनुः—'''
१० “ बहुवर्षगणान् सर्वान्ररकान्प्राप्य तत्क्षणात् । संसारान्प्रतिपद्यन्ते महापातकिनस्त्विह ॥
“ श्वसूकरखरोष्ट्राणां गोमायुमृगपक्षिणाम् । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ॥
“ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणोऽसकृत् ॥
“ लूताहिसरटानां च तिरश्चां चांबुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥
“ तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ” ॥ इति ।
१५ लूता ऊर्णनाभिः । सरटः कृकलासः । एवं रौरवादिनरकेषु श्वसूकरादियोनिषु च दारुणं दुःख-
मनुभूयानन्तरं दुरितशेषेण जननमरणसमय एव क्षयरोगादिलक्षणयुक्तो दुःखप्रचुरेषु मानुषशरीरेषु
संसरति । तथा च '''याज्ञवल्क्यः—'''
“ ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥
“ यो येन संवसेद्येषां स तल्लिङ्गो हि जायते ” ॥ इति । श्यावदन्तकः स्वभावतः कृष्ण-
२० दशनः । दुश्चर्मा कुष्ठी । एतेषां ब्रह्महादीनां मध्ये येन पुरुषेण यः संवसति स तल्लिङ्गो जायते
इत्यर्थः । एवं महापातकव्यतिरिक्तेष्वन्येष्वपि पापेषु अकृतप्रायश्चित्तानां नरकानुभवानन्तरं
तिर्यगादिषु जननम् । स एवाह—
“ यथाकर्मफलं प्राप्य तिर्यक्त्वं कालपर्ययात् । जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ” ॥ इति ।
तथाऽन्यत्र—
२५ “ चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । नित्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः”॥ इति ।
'''मनुरपि—'''
“ इह दुश्चरितैः केचित् केचित्पूर्वकृतैस्तथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ” ॥ इति ।
इह दुश्चरितैरस्मिन् जन्मन्‍यार्जितैः उत्कटैः पापैरिह तत्फलं पूर्वमनुभूय पश्चान्नरकादिकमनुभवन्ति ।
“अत्युत्कटैः पुण्यपापैरिहैव फलमश्रुते । त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः”॥ इति स्मृतेः ।
३० पूर्वकृतैस्तु पापैर्नरकाद्यनुभवानन्तरं रूपविपर्ययं प्राप्नुवन्तीत्यर्थः । स एव—
“ संयोगं पतितैर्गत्वा परस्यैव च योषितम् । ब्रह्मस्वमपहृत्यापि भवन्ति ब्रह्मराक्षसाः ॥
“ पिशुनः पूतिनासात्वं सूचकः पूतिवक्त्रताम् । धान्यचोरोऽङ्गहीनत्वमतिरेक्यं तु मिश्रतः ॥
“ अन्नहर्त्तामयावित्वं मत्स्यं वागपहारकः । वस्त्रापहारकः श्वैत्यं पङ्गुतामश्वहारकः ॥
“ एवं कर्मविशेषेण जायन्ते सद्दिगर्हिताः । जडमूकान्धबधिरा विकृताकृतयस्तथा ॥
३५ “ मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवाः । विविधानि च रत्नानि जायन्ते लोहकर्तृषु ॥
{{rule}}
१ क्ष-स्तियं । २ क्ष-कृमि । ३ ग-क्रमशो; क्ष-चमरो । ४ ग-मः । ५ ग-पतितेन । ६ अ. ११।५०-५२; ६१-६८; । ७ क-न्यं; क्ष-र्थ्यं । ८ ग-पङ्गु ।<noinclude></noinclude> 8f3h9swhsu5vr9e7zzlgoo9pp9y4cl4 पृष्ठम्:Smriti mukta phalam.pdf/९०९ 104 166912 419936 2026-11-11T05:02:41Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अन्यजन्मनि फलानुभूतिः ।'''|८६१}} {{rule}} “ धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः । मधुदंशः पयः काको रसं श्वा नकुलो घृतम् ॥
“ मांसं गृध्रो वसां मद्भुस्तै... नवीन पृष्ठं निर्मीत अस्ती 419936 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अन्यजन्मनि फलानुभूतिः ।'''|८६१}} {{rule}} “ धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः । मधुदंशः पयः काको रसं श्वा नकुलो घृतम् ॥
“ मांसं गृध्रो वसां मद्भुस्तैलं तैलपकः खगः । चिरैवाकस्तु लवणं बलाकः शकुनिर्दधि ॥
“ कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः । कार्पासं तान्तवं क्रौञ्चो गोधा गां वाग्गदो गुडम् ॥
“ छुचुन्दरिः शुभान् गन्धान् पत्रशाकं तु बर्हिणः । श्वाविद् कृतान्नं विविधमकृतान्नं तु शल्यकः ॥
“ बको भवति हृत्वाऽग्निं गृहकारी ह्युपस्करम् । रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥ ५
“ वृको मृगेभं व्याघ्रोऽश्वं फलपुष्पं तु मर्कटः । स्त्रीमृक्षैस्तोयको वारि यानान्युष्ट्रः पशूनजः ॥
“ यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ” ॥
“ यादृशेन हि भावेन यत्कर्म निषेवते । तादृशेन शरीरेण तत्तत्फलमुपाश्नुते ” ॥ इति ।
'''याज्ञवल्क्योऽपि—'''“अन्नहर्त्ताऽमयावी स्यान्मूको वागपहारकः ।
“धान्यहर्त्ताऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः । तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः ॥ १०
“ हीनजातौ प्रजायेत रत्नानामपहारकः ॥
“ श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः । आमयावी अजीर्णान्नो मौक्यं वागपहारकः ” ॥
पुस्तकहर्ता अननुज्ञाताध्यायी च । तैलपायी कीटविशेषः । सूचकः सदोषसंकीर्तकः ।
“ पत्रशाकं शिखी हृत्वा गन्धान् चुचुन्दरी शुभान् ।
“मूषको धान्यहारी स्याद्यानमूष्ट्रः फलं कपिः। जलं प्लवः पयः काको गृहकारी ह्युपस्करम् ॥ १५
“मधु दंशः फलं गृध्रो गां गोधार्निं बकस्तथा” । चुचुन्दरिः राजदुरितास्थो मूषकविशेषः । गृहकारि
कीटविशेषः । उपस्करः मुसलादि । चीरी उच्चैस्स्वरः कीटविशेषः । '''शङ्खे विशेषमाह—'''
“ ब्रह्महा कुष्ठी तैजसहारी मण्डली देवब्राह्मणाक्रोशणकः खलतिर्गुरुदारान्निद्रावृत्तौ गुरुप्रति-
हन्ताऽपस्मारी गोघ्नश्चान्धः धर्मपत्नीमृतां त्यक्त्वाऽन्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः । कुण्डाशी
दंशभक्षः । देवब्राह्मणस्वापहारी पाण्डुरोगी । न्यासापहारी काणः । स्त्रीवृत्त्योपजीविः षण्डः २०
कौमारदारत्यागी दुर्भगो मृष्टैकाशी वातगुल्मी अभक्ष्यभक्षको गण्डमाली ब्राह्मणीगामी निर्बीजः
क्रूरकर्मा वामनः वस्त्रापहारी पतङ्गः शय्यापहारी क्षपणकः शङ्खशुक्त्यहारी कपाली दीपापहारी
कौशिकः मित्रधुक् क्षयी मातापित्रोराक्रोशरकः कारण्डकः ” इति ।
'''वृद्धगौतमोऽपि कचित् विशेषमाह—'''“ अनृतवाक् खरः मुहुर्मुहुः संचलनवाक् जलोदरो
दारत्यागी श्लीपर्दी कूटसाक्षी उच्च्छ्रतजंघाचरणः । विवाहविघ्नकर्त्ता छिन्नोष्ठः गोररक्षणे च्छिन्न- २५
हस्तः मातृघ्नोऽन्धः । स्नुषागामी वातवृषणः । चतुष्पथे विण्मूत्रविसर्जनो मूत्रकृच्छ्री । कन्यादूषकः
षण्डः । ईर्ष्यालुः मशकः । पित्रा विवदमानोऽपस्मारी । न्यासापहारी अनपत्यः । रत्नापहारी
अत्यन्तदरिद्रः । विद्याविक्रयी पुरुषमृगः । वेदविक्रयी द्वीपी । बहुवाचको जलप्लवः । अयाज्य-
याजको वराहः । अनिर्मन्त्रितभोजी वायसः । सृष्टै कभोजी वानरः । यतस्ततोऽन्नमश्नन्मार्जारः । कक्ष-
वनदाहकः खद्योतः । द्वारकाचार्य्यो मुखविद्रुगन्धः । पर्युषितभोजी कृमिः । अदत्तादायी बलीवर्दः । ३०
मत्सरी भ्रमरः । अग्न्युत्सादी मण्डलकुष्ठी । शूद्राचार्य्यः श्वपाकः । गोहर्ता सर्पः । स्नेहापहारी क्षयी ।
अन्नापहारी अजीर्णी । ज्ञानापहारी मूकः । चण्डालीपुल्कसीगर्भैकः रजकः । प्रव्रजितागमने मरुत्पिशाचः
शूद्रागमने द्वीपर्हेटः । सवर्णागमने दरिद्रः । जलहारी मत्स्यः । पञ्चमहापातकानि मिथ्यः । क्षारहारी
{{rule}}
१ ग-काश; ‘चीरी’ मु. पाठः । २ ‘छुछु’ । ३ क्ष-ता । ४ ‘मूर्ख’ क्ष-मु । ५ क्ष-धा; ग-धाम्या । ६ ‘मिश्रो’ मु. पाठः । ७ क्ष-रिपु । ८ क्ष-नि । ९ ग-वाक्यो । १० ग-गोरवपूर । ११ ग-द्वि । १२ ग-याज । १३ क्ष-य । १४ ग-ट्टी । १५ ग-गामी । १६ ग-दीर्घकीटः ।<noinclude></noinclude> ofvaf36dr91oxbadgrluwjgs9li5uio पृष्ठम्:Smriti mukta phalam.pdf/९१० 104 166913 419937 2026-11-11T05:03:35Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८६२|'''नवविधपापानि । महापातकानि । प्रयोजकादीनाम् ।'''|}} {{rule}} बलाकः । वार्धुषिकोऽङ्गहीनः । अविक्रेयविक्रयी गृध्रः । राजमहिषीगामी नपुंसकः । दुराक्रोशी गर्दभः ।
... नवीन पृष्ठं निर्मीत अस्ती 419937 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८६२|'''नवविधपापानि । महापातकानि । प्रयोजकादीनाम् ।'''|}} {{rule}} बलाकः । वार्धुषिकोऽङ्गहीनः । अविक्रेयविक्रयी गृध्रः । राजमहिषीगामी नपुंसकः । दुराक्रोशी गर्दभः ।
भोगामी मण्डूकः । अनध्यायाध्यायी सृगालः । परद्रव्यापहारी परप्रेष्यः । मत्स्यवेधो गर्दभः ” इति ।
स्त्रियोऽप्येतेषु पूर्वोक्तेष्वेव जातिषु स्त्रीत्वमनुभवन्ति । यथाह मनुः—
“ स्त्रियोप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ” ॥ इति ।
५ स एव—
“ असकृत् गर्भवासेषु वसन् जन्म च दारुणम् । बन्धनानि च कष्टानि परप्रेष्यत्वमेव च ” ॥ इति ।
“ बन्धुप्रियवियोगं च संसर्गं चाप्रियैर्जनैः । द्रव्यं जनं च नाशं च मित्राभित्रस्य चार्जन् ॥
“ जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् । क्लेशांश्च विविधांस्तांस्तान्मृत्युमेव च दुर्जयम् ॥
“ यादृशेन हि भावेन यत्कर्म निषेवते । तादृशेन शरीरेण तत्तत्फलमुपाश्नुते ” ॥ इति ।
१० दुर्लभन्मनुष्यजन्मानन्तरं प्राग्भवीयसुकृतविशेषेण महाकुले भोगविद्याधनधान्यसंपन्नो जायते ।
तदाह याज्ञवल्क्यः—
“ ततो निष्कल्मषीभूताः कुले महति भोगिनः । जायन्ते विद्ययोपेता धनधान्यसमन्विताः ” ॥ इति ।
निष्कल्मषीभूताः नरकोपभोगद्वारेण क्षीणपापा इत्यर्थः ।
'''नवविधपापानि ।''' प्रायश्चित्तनिमित्तानि तानि पापानि नवविधानि । महापाताकान्यति-
१५ पातकानि समपातकान्युपपातकानि सङ्करीकरणानि मलिनीकरणान्यपात्रीकरणानि जातिभ्रंशकराणि
प्रकीर्णकानीति । यथाह '''विष्णुः—'''“ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं
भवति तेनायमाक्रान्तो महापातकातिपातकसमपातकोपपातकेषु प्रवर्त्तते सङ्कीर्णकरणेषु मलावापहेषु
अपात्रीकरणेषु जातिभ्रंशकरणेषु प्रकीर्णकेषु च ” इति ।
'''ब्रह्महत्यादिमहापातकानि ।''' तत्र महापातकान्याह '''मनुः—'''
२० “ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संयोगश्चैव तैः सह ” ॥ इति ।
'''याज्ञवल्क्योऽपि—'''
“ ब्रह्महा मद्यपः स्तेनः तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेत् ” ॥ इति ।
यद्व्यापारसमनन्तरं वा कालान्तरे वा कारणान्तरनिरपेक्षः प्राणवियोगो भवति स ब्राह्मणं हतवानिति
ब्रह्महा । मद्यपः निषिद्धसुरायाः पाता । स्तेनो ब्राह्मणस्वर्णहारी । गुरुतल्पगो गुरुभार्यागामी । यश्च
२५ तैर्ब्रह्महादिभिः प्रत्येकं संवत्सरं सह वसति सोऽपि महापातकीत्यर्थः ।
'''प्रयोजकादीनां फलतारतम्यम् ।''' अनुग्राहकस्यान्यपि हिंसाफलसंबन्धमाह '''मनुः—'''
“ बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् । यद्येको घातयेत्तत्र सर्वे ते घातकाः स्मृताः ” ॥ इति ।
'''विष्णुः—'''
“ आकृष्टस्ताडितो वापि धनैर्वा विप्रयोजितः । यमुद्दिश्य त्यजेत्प्राणां स्तमाहुर्ब्रह्मघातकम् ॥
३० “ ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थमेव च । यमुद्दिश्य त्यजेत्प्राणान् तमाहुर्ब्रह्मघातकम् ॥
“ रागद्वेषात्प्रमादाद्वा स्वतः परत एव वा । घातयेत् ब्राह्मणं कंचित्स भवेत् ब्रह्मघातकः ।
“ भृतको यस्य तं हन्यात्सोऽपि च ब्रह्मघातकः ” ॥ इति ।
'''हेमाद्रौ—'''“धनार्थं क्षेत्रदारार्थं पश्वर्थं वा जनेश्वर । यमुद्दिश्य त्यजेत्प्राणान् तमाहुर्ब्रह्मघातकम् ॥
“नारी वा पुरुषो वाऽथ विधवा वा मनस्विनी । यमुद्दिश्य त्यजेत्प्राणान् तमाहुर्ब्रह्मघातकम् ”॥ इति ।
{{rule}}
१ ग-दासं । २ ग-मलिनीकरणेषु । ३ ग-संसर्गाश्चापि । ४ ग-तु ।<noinclude></noinclude> rg7xcqp733vp0n5l4m1tw49yf3npkwi पृष्ठम्:Smriti mukta phalam.pdf/९११ 104 166914 419938 2026-11-11T05:09:25Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अतिपातकानि ।'''|८६३}} {{rule}} '''स्मृत्यन्तरेऽपि—'''
“ हन्ता मन्त्रोपदेष्टा च तथा संप्रतिपादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥
“ आश्रयः शस्त्रदाता च भ... नवीन पृष्ठं निर्मीत अस्ती 419938 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अतिपातकानि ।'''|८६३}} {{rule}} '''स्मृत्यन्तरेऽपि—'''
“ हन्ता मन्त्रोपदेष्टा च तथा संप्रतिपादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥
“ आश्रयः शस्त्रदाता च भक्तदाता च कर्मिणाम् । उपेक्षकः शक्तिमांस्तु दोषवक्ताऽनुमोदकः ॥
“ अकार्यकारिणां तेषां प्रायश्चित्तं प्रकल्पयेत् ” ॥ इति । '''आपस्तम्बः—'''
“प्रयोजयिता मन्ता कर्त्तेति स्वर्गनरकफलेषु कर्मसु भागिनो यो भूय आरभते तस्मिन् फलविशेषः”॥इति । ५
प्रयोजकादीनां प्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फले गौरवलाघवात् प्राय-
श्चित्तेऽपि गौरवलाघवं बोध्यम् । तथा '''सुमन्तुः—'''
“ तिरस्कृतो यदा विप्रो हत्वाऽऽत्मानं मृतो यदि । निर्गुणः सहसा क्रोधात् गृहक्षेत्राधिकारणात् ॥
“ त्रैवार्षिकं व्रतं कुर्यात्प्रतिलोमां सरस्वतीम् । गच्छेदूढोऽपि विशुद्ध्यर्थं तत्पापस्येति निश्चितम् ॥
“ क्रोधाद्वै म्रियते यस्तु निर्निमित्तं च भर्त्सिनतः । संवत्सरत्रितयं कुर्यान्नरः कृच्छ्रं विशुद्धये ॥ १०
“ भर्त्सको यः स विद्वांश्चेद्वैर्णेनेकेन शुध्यति । केशश्मश्रुनखादीनामकृत्वा वपनं वने ” ॥ इति ।
उपकारार्थं प्रवृत्तौ दोषाभावः । परोपकारार्थं प्रवृत्तौ दोषाभावमाह '''संवर्तः—'''
“ औषधं स्नेहाहारं दद्रोगब्राह्मणादिषु । दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥
“ दाहच्छेदसिराभेदप्रयत्नैैरुपकुर्वताम् । प्राणसन्त्राणसिद्ध्यर्थं प्रायश्चित्तं न विद्यते ” ॥ इति ।
एतच्च निपुणभिषग्विषयम् । इतरस्तु ‘भिषङ्मिय्याचारं दाप्य’ इति दोषस्मरणात् । १५
यत्र मन्युनिमित्ताक्रोशादिकमकुर्वतोऽपि नाम गृहीत्वा उन्मादादिना आत्मानं व्यापादयति
तत्रापि न दोषः
“ अकारणात्तु यः कश्चित् द्विजः प्राणान्परित्यजेत् । तस्यैव तत्र दोषः स्यान्न तु यं परिकीर्तयेत्”॥ इति
स्मरणात् । तथा यत्राक्रोशादिजनितमन्युरात्मानं खङ्गादिना प्रहृत्य मरणादर्वागाक्रोशादिकर्त्रा
धनादिना सन्तोषिता यदि जनसमक्षमचैः श्रावयति नान्‍नाक्रोशकस्यानराध इति तत्रापि वचनान्न २०
दोषः । यथाह '''विष्णुः—'''
“उद्दिश्य कुपितो भूत्वा तोषितः श्रावयेत्पुनः । तस्मिन् मृते न दोषोऽस्ति तस्य चोच्चावणे कृते”॥इति।
'''अतिपातकानि ।''' अतिपातकान्याह '''मनुः—'''
“ हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् । राजन्यवैश्यावीजानावात्रेयीमेव च स्त्रियम् ॥
“ उक्त्वा चैवानृतं साक्ष्ये प्रतिरुद्धं गुरुं तथा । अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ” ॥ २५
ईजानौ यागदीक्षामध्येवर्तिनौ । आत्रेयी अग्निगोत्रजानिक्षेपं ब्राह्मणसंबन्धिनम् । स्त्री आहिताग्नि-
पत्नी पातिव्रत्यादिगुणयुक्ता वा । अविज्ञातगर्भहननादीनामनिपातकतत्वम्
“ अतिदिष्टं तु यत्पापमतिपातकमुच्यते । अतिदुष्टेषु सर्वत्र पादोनं तत् व्रतं चरेत् ” ॥ इति
वचनादवगम्यते । '''यमः—'''
“मातृष्वसा मातृसखी दुहिता च पितृष्वसा। मातुलीनी स्वसा श्वश्रूर्गत्वा सद्यः पतेत् द्विजः”॥ इति । ३०
'''गौतमः—'''“मातृपितृयोनिसंबन्धागस्तेननास्तिकनिन्दितकर्माभ्यासियतितत्याग्यपतित-
त्यागिनः पतितापातकसंयोजकाश्च ” इति । '''बोधायनोऽपि—'''“अथ पतनीयानि ।
समुद्रयानं ब्रह्मस्वन्यासापहरणं भूम्यनृतवदनं सर्वापण्यैर्व्यवहरणं शूद्रसेवनं शूद्राभिगमनं यश्च
शूद्रायामभिप्रजायते तदपत्यं च भवति ” इति । '''आपस्तम्बोऽपि—'''
“ धर्मार्थसंनिपातेऽर्थग्राहिण एतदेव ” इति ३५
{{rule}}
१ क्ष-तन्तु संकीर्तयेत् ।<noinclude></noinclude> n6lrwxrmxt1an2a3t50jxq3alvuhrt6 पृष्ठम्:Smriti mukta phalam.pdf/९१२ 104 166915 419939 2026-11-11T05:10:14Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८६४|'''ब्रह्महत्यासमानि ।'''|}} {{rule}} '''याज्ञवल्क्यः—'''“ चरेद्व्रतं महत्त्वपि घातार्थं चेत्समाहितः ।
“ पितुः स्वसारं मातुश्च मातुलीनीं स्नुषामपि । मातुः सपत्नीं... नवीन पृष्ठं निर्मीत अस्ती 419939 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८६४|'''ब्रह्महत्यासमानि ।'''|}} {{rule}} '''याज्ञवल्क्यः—'''“ चरेद्व्रतं महत्त्वपि घातार्थं चेत्समाहितः ।
“ पितुः स्वसारं मातुश्च मातुलीनीं स्नुषामपि । मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ॥
“ आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ” ॥ इति ।
'''विष्णुः—'''“ मातृगमनं दुहितृगमनं स्नुषागमनम् ” इति अतिपातकानीति ।
५ '''नारदः—'''
“ माता मातृष्वसा श्वश्रूर्मातुलीनी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
“ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रत्राजिता साध्वी धात्री वर्णोत्तमा च या ॥
“ आसामन्यतमां गच्छन् गुरुतल्पग उच्यते । आश्रितां विदुषः पत्नीमाहिताग्नेश्च योगिनः ॥
“एषां पत्नीं स्वपुत्रीं च गत्वा तल्पव्रतं चरेत् । चण्डालीं गर्भमाधाय गुरुतल्पव्रतं चरेत्”॥ इति ।
१० अत्र माता मातृसपत्नी । '''भविष्यत्पुराणे—'''
“ अग्निहोत्रार्थकपिलां हत्वा ब्राह्मणो वतम् । दुःस्थितं संस्थितं वापि शिवलिङ्गं न चालयेत् ॥
“ अन्यथा तु कृते लिङ्गे अतिपातकमाप्नुयात् । उत्तमानां चामराणामन्यथाकरणे सति ॥
“ विप्रस्यैव व्रतं कुर्यात् विप्रदेवौ समौ स्मृतौ ।
“गर्भिण्युदुक्था विज्ञाताः कन्यामातामनिच्छतीम्। गुरुतल्पं चरेत् गत्वा ग्रामयोनिं सतीं स्त्रियम्”॥इति।
१५ '''याज्ञवल्क्यः—'''
“ नीचाभिगमनं गर्भघातनं भर्तृनाशनम् । विशेषपतनीयानि स्त्रीणामेतान्यपि ध्रुवम् ” ॥
'''व्याघ्रपादः—'''
“ अतिदेशस्योपदेशान्न्यूनत्वाच्चद्व्रतं न हि । अतिदिष्टेषु सर्वत्र पादोनं तद्व्रतं चरेत् ” ॥ इति ।
एवं महापातकातिदेशाद्वन्यान्यप्यतिपातकानि द्रष्टव्यानि ।
२० '''ब्रह्महत्यासमपातकानि ।''' ब्रह्महत्यासमपातकान्याह '''मनुः—'''
“ अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीकनिर्वन्धः समानि ब्रह्महत्यया ” ॥
'''याज्ञवल्क्यः—'''
“ गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृद्वधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ” ॥ इति
गुरूणामाधिक्येनाधिक्षेपोऽनृताभिशंसनं “कूटसाक्ष्यं राजगामि च पैशुनं गुरोरनृताभिशंसनं पातक-
२५ समानि ” इति गौतमस्मरणात् । एतच्च लोकाविदितदोषाभिशंसनविषयम् । “दोषं
बुद्ध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्यात्” इत्यापस्तम्बस्मरणात् ।
नास्तिकाभिनिवेशेन वेदकुत्सनं सुहृन् मित्रं तस्याब्राह्मणस्यापि वधः । अधीतस्य वेदस्या-
सच्छास्त्र विनोदेनालस्यादिना वा नाशनं विस्मरणम् । '''पराशरः—'''
“ भुञ्जानेषु तु विप्रेषु योऽग्रे पात्रं परित्यजेत् । स मूढः स च पापिष्ठः वद्धाह्नः स खलूच्यते ” ॥ इति ।
३० '''विष्णुधर्मोत्तरे—'''
“ यस्तु विद्याभिमानेन नीचो जयति सद्ध्विजम् । उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ॥
“ परदोषमविज्ञाय नृपकर्णे जपेत्तु यः । पापीयान् पिशुनः क्षुद्रः स चैवं ब्रह्महा स्मृतः ।
“ देवद्विजगतां भूमिं पूर्वभुक्तां हरेत यः । प्रणष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ” ॥ इति ।
{{rule}}
१ ग-पितृ । २ ग-पौ । ३ कग-व्याघ्रः ।<noinclude></noinclude> syr2ttnurzck3mimgq0aqfuhk7aizum पृष्ठम्:Smriti mukta phalam.pdf/९१३ 104 166916 419940 2026-11-11T05:11:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सुरापानसमपातकानि ।'''|८६५}} {{rule}} '''विष्णुः—'''“यागस्थस्य क्षत्रियस्य वैश्यस्य रजस्वलायाश्चान्तर्वत्न्याश्चात्रिगोत्रजाया
अविज्ञातगर्भस्य शरणागतस्य च घा... नवीन पृष्ठं निर्मीत अस्ती 419940 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सुरापानसमपातकानि ।'''|८६५}} {{rule}} '''विष्णुः—'''“यागस्थस्य क्षत्रियस्य वैश्यस्य रजस्वलायाश्चान्तर्वत्न्याश्चात्रिगोत्रजाया
अविज्ञातगर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमम् ” इति ।
यागस्थक्षत्रियादीनामतिपातकत्वेन परिगणितानां समपातकत्वाभिधानमकामकृताभिप्रायम् ।
कामकारे तु तेषामतिपातकत्वम् ।
'''सुरापानसमपातकानि ।''' सुरापानसमान्याह '''मनुः—''' ५
“ब्रह्मोञ्झता वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः । गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट्”॥ इति ।
गर्हितं लशुनादि । अनाद्यममेध्यादि । '''याज्ञवल्क्यः—'''
“ निषिद्धभक्षणं जैह्म्यमुत्कर्षे च वचोऽनृतम् । रजस्वलामुखास्वादस्सुरापानसमानि तु ” ॥ इति ।
निषिद्धं लशुनादिकं तस्य मतिपूर्वभक्षणम् । ‘पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्विजः ’ इति
स्मरणात् । जैह्म्यं कौटिल्यम् । अन्याभिसंधानेनान्यवादीत्वमन्यकर्तृत्वं च । तच्च गुरुविषयमिति १०
'''विज्ञानेश्वरः''' तथा समुत्कर्षनिमित्तं राजकुलादावचतुर्वेद् एव
चतुर्वेदोऽहमित्यनृतभाषणम् । '''स्मृत्यन्तरे—'''
“ नाळिकेरोदकं कांस्ये गोक्षीरं लवणान्वितम् । स्नानं रजकतीर्थे च ताम्रे गव्यं सुरासमम् ”॥ इति ।
'''अत्रिः—'''
“ तोयं पाणिनाखायेषु ब्राह्मणो न पिबेत् क्वचित् । सुरापानेन तत्तुल्यमित्येवं मनुरब्रवीत् ” ॥ १५
'''शातातपोऽपि—'''
“ उद्धृत्य वामहस्तेन यत्तोयं पिबति द्विजः । सुरापानेन तत्तुल्यं मनूराह प्रजापतिः ” ॥ इति ।
'''स्वर्णस्तेयसमपातकानि ।''' स्वर्णस्तेयसमान्याह '''मनुः—'''
“ निक्षेपस्यापहरणं नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ” ॥ इति ।
'''याज्ञवल्क्यः—''' २०
“ अश्वरलमनुष्यस्त्रीभूधेनुहरणं तथा । निक्षेपस्य च सर्वं हि स्वर्णस्तेयसमं मतम् ” ॥ इति ।
'''विष्णुः—'''“ ब्राह्मणभूम्यपहरणं स्वर्णस्तेयसमम् ” इति ।
'''हेमाद्रौ—'''“ हृत्वा शतपलं ताम्रं स्वर्णस्तेयसमं विदुः ” ॥ इति ।
'''गुरुतल्पसमपातकानि ।''' गुरुतल्पसमान्याह '''मनुः—'''
“ रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ” ॥ २५
स्वयोनिषु भगिनीषु । '''याज्ञवल्क्यः—'''
“ सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ” ॥ इति ।
'''पुराणसारे—'''
“ अपि वा मातरं गच्छेन्न गच्छेद्रेवदारिकाम् । यदि गच्छेत्प्रमादेन गुरुदारसमं स्मृतम् ” ॥ इति ।
'''विष्णुः—'''“पितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसदृशम् । पितृष्वसृ- ३०
मातृष्वसृगमनं च । श्रोत्रियऋत्विगुपाध्यायामित्रपत्न्यभिगमनं च । स्वसुः सख्युः पत्न्याः सगोत्राया
उत्तमवर्णायाः कुमार्याः रजस्वलायाः शरणागतायाः प्रत्रजितायाः निक्षिप्तायाश्च गमनम् ” इति ।
अतिपातकेषु परिगणितानां केषांचिदिह ग्रहणमकामकारविषयम् ।
{{rule}}
१ ग-ऊ । २ ग-सख्याः ।
११०-६<noinclude></noinclude> frd01lod0c8panxigk1j3b6jcy7x9gm पृष्ठम्:Smriti mukta phalam.pdf/९१४ 104 166917 419941 2026-11-11T05:11:55Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८६६|'''उपपातकानि ।'''|}} {{rule}} '''उपपातकानि ।''' उपपातकान्याह '''याज्ञवल्क्यः—'''
“ गोवधो व्रात्यता स्तेयमृणानां चानपक्रिया । अनाहिताग्निता पण्यविक्रयः परिवेदनम् ॥
... नवीन पृष्ठं निर्मीत अस्ती 419941 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८६६|'''उपपातकानि ।'''|}} {{rule}} '''उपपातकानि ।''' उपपातकान्याह '''याज्ञवल्क्यः—'''
“ गोवधो व्रात्यता स्तेयमृणानां चानपक्रिया । अनाहिताग्निता पण्यविक्रयः परिवेदनम् ॥
“ भृतादध्ययनादानं भृतकाध्यापनं तथा । पारदार्यं परिवित्त्वं वार्धुष्यं लवणक्रिया ॥
“ स्त्रीशूद्रविट्क्षत्रवधो निन्दिताथोपजीवनम् । नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ॥
५ “ धान्यकुप्यपशुस्तेयमयाज्यानां च याजनम् । पितृमातृगुरुत्यागस्तटाकारामविक्रयः ॥
“ कन्याया दूषणं चैव परिविन्दकयाजनम् ।
“ आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥
“ इन्धनार्थं द्रुमच्छेदः स्त्रीहिंसौषधजीवनम् । हिंस्त्रयन्त्रविधानं च व्यसनान्यप्यात्मविक्रयः ॥
“ शूद्रप्रैष्यं हीनसख्यं हीनयोनिनिषेवणम् । तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥
१० “ असच्छास्त्राधिगमनमाकरेष्वधिकारिता । भार्याया विक्रयश्चैषामेकैकमुपपातकम् ” ॥ इति ।
काले अनुपनीतत्वं व्रात्यता । सत्यधिकारेऽनाहिताग्निता । ज्येष्ठे सति कनीयसो दाराग्निहोत्रसंयोगः
परिवेदनम् । गुरुदारव्यतिरिक्तं पारदार्यम् । कनीयसि कृतविवाहे ज्येष्ठस्य विवाहाराहित्यं पारि-
वित्त्वम् । वार्धुष्यं निषिद्धवृद्धिप्रयोगः । लवणक्रिया लवणोत्पादनम् । निन्दिताथोपजीवनम्
अराजस्थापिताथोपजीवनम् । व्रतलोपः ब्रह्मचारिणः स्त्र्यादिप्रसङ्गः । कन्याया दूषणं
१५ अङ्गुल्यादिना योनिविदारणं न तु संयोगः । हिंस्रयन्त्रस्य तिलेक्षुपीडाकरस्य प्रवर्तनम् ।
व्यसनानि मृगयादीनि अष्टादश । आकरेषु स्वर्णाद्युत्पत्तिस्थानेषु । '''मनुरपि—'''
“ गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयौ । गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥
“ परिवित्ति चानुजेन परिवेदनमेव च । तयोर्दानं च कन्यायास्तयोर्याजनमेव च ॥
“ कन्याया दूषणं चैव वार्धुष्यक्यं व्रताच्च्युतिः । तटाकारामदाराणामपत्यस्य च विक्रयः ॥
२० “ व्रात्यता बान्धवत्यागो भृताध्यापनमेव च । भृत्या चाध्ययनादानमपण्यानां च विक्रयः ॥
“ सर्वाकरेष्वधीकारो महायन्त्रप्रवर्त्तनम् । हिंस्रौषधस्र्युपजीवोऽभिचारो मूलकर्म च ॥
“ इन्धनार्थमशुष्काणां द्रुमानामवपातनम् । आत्मार्थे च क्रियारम्भो निन्दितान्नादनं तथा ॥
“ अनाहिताग्निता स्तेयमृणानामनपक्रिया । असच्छास्त्राधिगमनं कौटिल्यं व्यसनक्रिया ॥
“धान्यरौप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् । स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ” ॥ इति ।
२५ '''बोधायनः—'''“अथोपपातकान्यगम्यागमनं गुर्वी सखीं गुरुसखीमपपात्रां पतितां च
गत्वा भैषज्यकरणं ग्रामयाजनं रङ्गोपजीवनं नाट्याचार्यता गोमहिषरक्षणं यच्चान्यदप्येवमयुक्तं
कन्यादूषणमिति ” । '''स्मृत्यन्तरेऽपि—'''“विद्वद्ब्राह्मणव्रतभेदाचरणविधवादेवदासीवेश्यावार्धुकी-
दासीगमनान्युपपातकानि ” इति । '''शङ्खलिखितौ—'''“ कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो
मिथ्याभिशंसी पतितात्यागी अभोज्यभोजी असत्प्रतिग्रही ” इति । '''बृहद्विष्णुः—'''“ अभोज्यानां
३० च भक्षणं परस्वापहरणं परदाराभिगमनमयाज्यानां च याजनं द्रुमगुल्मलतौषधीनां हिंसया जीवन-
मभिचारमूलकर्मसु प्रवृत्तिर्देवार्विपितॄणामृणानपक्रिया कुशीलवता ” इति ।
'''संकीरणादीन्याह मनुः—'''
“ खरोष्ट्राश्वमृगेभानामजाविकवधस्तथा । संकीर्णकरणं ज्ञेयं मीनाहिमहिषस्य च ॥
“ कृमिकीटवधोहेत्यामद्यानुगतभोजनम् । फलैधःकुसुमस्तेयमधैर्यं च मलावहम् ॥
{{rule}}
१ क्ष-सक्ता । २ क्ष-ह्रष्येण । ३ कग-पद्धि । ४ क्ष-पाकी ।<noinclude></noinclude> 32j9w5h7a4yqalt4g8vfivhhvz17g0j पृष्ठम्:Smriti mukta phalam.pdf/९१५ 104 166918 419942 2026-11-11T05:20:07Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''कामाकामकृतानि ।'''|८६७}} {{rule}} “निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥
“ब्राह्मणस्य रुजेः कृत्याघ्रातिरग्रेयमद्... नवीन पृष्ठं निर्मीत अस्ती 419942 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''कामाकामकृतानि ।'''|८६७}} {{rule}} “निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥
“ब्राह्मणस्य रुजेः कृत्याघ्रातिरग्रेयमद्ययोः । जैह्म्यं च पुंसि मैथुन्यं जातिभ्रंशकरं स्मृतम्” इति ।
'''विष्णुः—'''“ब्राह्मणस्य रुजः करणमघ्रेयमद्ययोर्घ्रातिः जैह्म्यं पशुष्वयोनिषु पुंसि च मैथुनम्”
इति । एतानि जातिभ्रंशकराणि । ग्राम्यारण्यपशूनां हिंसनं संकरीकरणं निन्दितेभ्यो धनादानं
वाणिज्यं कुसीदजीवनमसभ्यंभाषणं शूद्रसेवनमित्यपात्रीकरणानि । पक्षिणां जलचराणां जलजानां ५
च घातनं कृमिकीटघातनं मद्यानुगतभोजनमिति मलावहानि । यदनुक्तं तत् प्रकीर्णकम्” इति ।
तदेवं नवविधानि पापानि । यत्तु कात्यायनेनोक्तम्—
“ महापापं चातिपापं तथा पातकमेव च । प्रासङ्गिकोपपापमित्येवं पञ्चको गणः”॥ इति ।
अत्र पातकमिति समपातकान्युक्तानि । उपपातकेषु कानिचिदगम्यागमनादीन्यवान्तरभेदाविवक्षया
प्रासङ्गिकामित्युक्तानि । अतिपातकाद्यवान्तरभेदाविवक्षया त्रैविध्यमुक्तं '''विज्ञानेश्वरीये—''' १०
“ महापाकतुल्यानि पापान्युक्तानि यानि वै । तानि पातकसंज्ञानि तन्न्यूनमुपपातकम् ” ॥ इति ।
'''कामाकामकृतपापविचारः ।''' अकामकृतानां पापानां प्रायश्चित्तैर्नाश इह व्यवहारश्च
भवति । कामकृतानां त्विह व्यवहार्यत्वमात्रम् । तथा च '''याज्ञवल्क्यः—'''
“ प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतो व्यवहार्यस्तु वचनादिह जायते ” ॥ १५
'''छागलेयः—'''“ प्रायश्चित्तमकामानां कामावाप्तौ न विद्यते ” ।
'''वसिष्ठोऽपि—'''“ नाभिसन्धिक्कृते प्रायश्चित्तम् ” इति । '''मनुः—'''
“ अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ” ॥
'''जाबालिः—'''
“ अकामकृतपापानां ब्रुवन्ति ब्राह्मणा व्रतम् । कामकारकृतेऽप्येके द्विजानां वृषलस्य च ” ॥ इति । २०
'''देवलोऽपि—'''
“ अभिसन्धिक्कृते पापेऽसकृद्वा नेह निष्कृतिः । अपरे निष्कृतिं ब्रूयुरभिसन्धिक्कृतेऽपि च ” ॥
'''अङ्गिरास्तु''' कामकृते द्विगुणं प्रायश्चित्तमाह—
“ अकामतः कृते पापे प्रायश्चित्तं न कामतः । स्यादकामकृते यत्तत् द्विगुणं बुद्धिपूर्वकम् ” ॥ इति ।
'''स्मृत्यन्तरेऽपि—'''“ विहितं यदकामानां कामात्तु द्विगुणं भवेत् ” ॥ इति । तथा— २५
“ म्लेच्छेनाधिगता शूद्रा ह्यज्ञानात्तु कथंचन । कृच्छ्रत्रयं प्रकुर्वीत ज्ञाने तु द्विगुणं भवेत् ” ॥ इति ।
अत्र '''माधवीये''' व्यवस्थापितम्—अकामकृते न विप्रतिपत्तिः । कामकृतस्य तु विप्रतिपत्तौ केचि-
न्निर्णयमाहुः । द्विविधा पापस्य शक्तिः । नरकोत्पादिका व्यवहारनिरोधिका चेति । तन्निवर्तकस्यापि
प्रायश्चित्तस्य शक्तिर्द्विविधा । नरकनिवारिका व्यवहारजननी चेति । तत्र प्रायश्चित्ताभाव-
वादिनां मुनीनां नरकनिवारणाभावः अभिप्रेतः । सद्भाववादिनां तु व्यवहारजननी शक्तिरभिप्रेता । ३०
द्विगुणप्रायश्चित्तेन इह लोके व्यवहारः सिध्यति । अपरे पुनः—‘ कामतोव्यवहार्यस्तु वचनादिह
जायते ’ इति याज्ञवल्क्यवचने अव्यवहार्य इति पदं छित्वा कृतप्रायश्चित्तोऽपि
अव्यवहार्यः नरकस्य निवृत्तिरस्तीति वदन्ति । अत्र चोपोद्वलकं मनुवचनम्—
“ बालघ्नांश्च कृतघ्नांश्च विशुद्धावपि धर्मतः । शरणागतहन्तूंश्च स्त्रीहन्तॄंश्च न संवसेत् ” ॥ इति ।
{{rule}}
१ क्ष-रजः कृत्यं । २ ग-त्य । ३ क्ष-क्राम ।<noinclude></noinclude> srhq64uiapln022xno8rji9llsz8mfs पृष्ठम्:Smriti mukta phalam.pdf/९१६ 104 166919 419943 2026-11-11T05:21:09Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८६८|'''प्रकाशरहस्यप्रायश्चित्तम् ।'''|}} {{rule}} अन्ये तु पूर्वोक्ताङ्गिरःस्मृत्यन्तरवचने कामकृते विशेषेण द्विगुणप्रायश्चित्तावगमात् '''मनुना—'''
“ कामकारकृतेऽप... नवीन पृष्ठं निर्मीत अस्ती 419943 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८६८|'''प्रकाशरहस्यप्रायश्चित्तम् ।'''|}} {{rule}} अन्ये तु पूर्वोक्ताङ्गिरःस्मृत्यन्तरवचने कामकृते विशेषेण द्विगुणप्रायश्चित्तावगमात् '''मनुना—'''
“ कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ” इति । तत्र विशेषेण प्राय-
श्चित्ताङ्गीकारात्, '''आपस्तम्बेन च—'''“ दोषवच्च कर्माभिसन्धिपूर्वं कृत्वानभि-
सन्धिपूर्वं वाऽव्लिङ्गाभिरप उपस्पृशेद्वारुणीभिर्वा ” इति व्यवहारविधिप्रविशेषानाभिधानेन कामा-
५ कामयोः शुद्ध्यभिधानात्, '''गौतमेन च—'''“ शिष्टस्याक्रियाप्रतिषिद्धसेवनमिति च ।
तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसते न कुर्यादित्याहुः । न हि कर्म क्षीयत इति । कुर्या-
दित्यपरे । पुनःस्तोमेनेष्ट्वा पुनस्सवनमायान्तीति विज्ञायते । व्रात्यस्तोमैश्चेष्ट्वा तरति सर्वं पाप्मानं
तरति ब्रह्महत्यां योऽश्वमेधेन यजते ” इति पूर्वोत्तरपक्षभङ्ग्या पापक्षयस्य दर्शितत्वात्,
अकामकृतानां सर्वेषां पापानां तत्तदुक्तप्रायश्चित्तैरिहामुत्र च शुद्धिर्भवति । कामकृतानां च
१० पतनीयव्यतिरिक्तानां द्विगुणप्रायश्चित्तैर्नरकनिवृत्तिरिह व्यवहारश्च सिध्यति । “ नाभिसन्धिकृते
प्रायश्चित्तम् ” इति वसिष्ठादिस्मरणं पतनीयपापविषयम् । तथा च '''मनुः—'''
“अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥
“इयं विशुद्धिरुदिता प्रमाप्याकामत्रो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते” इति ।
ब्राह्मणवध इति सुरापानादेरप्युपलक्षणम्
१५ “ब्रह्महत्यासुरापानस्वर्णस्तेयेषु कामतः । कृतेषु निष्कृतिर्नास्ति विहितानन्मरणादृते” इति ।
“यः कामतो महापापं नरः कुर्यात्कथञ्चन । न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते”॥ इति स्मृतेः ।
एवं च पतनीये कर्मणि कामकृते मरणांन्तिकप्रायश्चित्तेषु कल्मषक्षयो भवत्येव । फलान्तराभावात्
“नास्यास्मिन् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यत” इत्यापस्तंबस्मरणात् ।
एतच्च मरणांतिकप्रायश्चित्तं ब्राह्मणानां कलौ निषिद्धम्
२० “ प्रायश्चित्तविधानं च विप्राणां मरणाान्तिकम् । भृग्वग्निपतनं चैव वृद्धादिमरणं तथा ” ॥ इति
कलियुगनिषिद्धधर्ममध्ये परिगणनात् । “ मिथ्यैतदिति हारीतः । यो ह्यात्मानं परं वाभिमन्यते
अभिशस्त एव स भवति” इत्यापस्तंबस्मरणात् । अयमर्थः—एतन्मरणाान्तिक-
प्रायश्चित्तं मिथ्या न कर्तव्यम् । य आत्मानं परं वाऽभिमन्यते मारयति सोऽभिशस्त एव ब्रह्महैव
भवतीति । अतः कामकृतमहापातकानां मरणाान्तिकप्रायश्चित्तस्य कलौ निषेधात् द्वादशवार्षिकादि-
२५ प्रायश्चित्तैः पापक्षयाभावादिह व्यवहार्यत्वमात्रं सिध्यति । “ कामतो व्यवहार्यस्तु ” इति
याज्ञवल्क्यवचनं च महापापविषयम् । उपपातकादावपतनीये पुनः कामकृतेऽपि प्रायश्चित्ते कृते
पापक्षयो भवत्येव मनुवचनात्—
“अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । कामतस्तु कृतं पापं प्रायश्चित्तैः पृथग्विधैः”॥ इत्याहुः ।
'''प्रकाशरहस्यपापप्रायश्चित्तम् ।''' द्विविधानि पापानि । प्रकाशकृतानि रहस्यकृतानि चेति ।
३० तत्र प्रकाशकृतानां परिषद्दोऽनुमत्या प्रायश्चित्तं कार्यम् । तथा च '''याज्ञवल्क्यः—'''
“ विख्यातादोषः कुर्वीत परिषद्दोऽनुमते व्रतम् ” ॥ इति । '''पराशरः—'''
“ वेद्वेदाङ्गविदुषां धर्मशास्त्रं विजानताम् । स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत् ” ॥ इति ।
यत्पापं कर्तृव्यतिरिक्तेन केनचिदपि न ज्ञातं तद्रहस्यं तस्य प्रायश्चित्तमपि रहस्येव कर्तव्यम् ।
{{rule}}
१ कग-मरुतयोः । २ ग-मेने ।<noinclude></noinclude> oaxlbxpfu16q4591wnwxxk1zf7lcb57 पृष्ठम्:Smriti mukta phalam.pdf/९१७ 104 166920 419944 2026-11-11T05:21:56Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''परिषल्लक्षणम् ।'''|८६९}} {{rule}} तथा च '''हारीतः—'''“रहस्ये रहस्यं प्रकाशे प्रकाशम्” इति । रहस्यत्वादेव नास्ति तत्र परिषद्वनु-
मत्यपेक्षा । '''मनुः—'''
“ एतैर्द्विज... नवीन पृष्ठं निर्मीत अस्ती 419944 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''परिषल्लक्षणम् ।'''|८६९}} {{rule}} तथा च '''हारीतः—'''“रहस्ये रहस्यं प्रकाशे प्रकाशम्” इति । रहस्यत्वादेव नास्ति तत्र परिषद्वनु-
मत्यपेक्षा । '''मनुः—'''
“ एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः । अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥
“ ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकून्मुच्यते पापात्तथा दानेन चापदि ॥
“ यथा यथा नरोऽधर्मं स्वयं कृत्वाऽनुभाषते । तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते ॥ ५
“ यथा यथा मनस्तस्य दुष्कृतं कर्म निन्दति । तथा तथा शरीरं हि तेनाधर्मेण मुच्यते”॥ इति ।
'''परिषल्लक्षणमाह मनुः—'''
“ दशावरा वा परिषद्यं धर्मं परिकल्पयेत् । त्र्यवरा वापि वृत्तस्था तद्धर्मं न विचालयेत् ।
“ त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे परिषत्स्यात् दशावरा ॥
“ ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च । त्र्यवरा परिषद ज्ञेया धर्मसंशयनिरण्ये ॥ १०
“ एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विचक्षणः । स विज्ञेयः परो धर्मो नाज्ञानां गदितोऽयुतैः”॥ इति ।
'''याज्ञवल्क्यः—'''
“ चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा । सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ” ॥ इति ।
'''पराशरः—'''
“ चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः । स धर्म इति विज्ञेयो नेतैरस्तु सहस्रशः ॥ १५
“ चत्वारो वा त्रयो वापि वेदवन्तोऽग्निहोत्रिणः । ब्राह्मणानां समर्था ये परिषत्सा विधीयते ॥
“ अनाहिताग्नयो येऽन्ये वेदवेदाङ्गपारगाः । पञ्च त्रयो वा धर्मज्ञाः परिषत्सा प्रकीर्तिता ॥
“ मुनीनामात्मविद्यानां द्विजानां यज्ञयाजिनाम् । वेदव्रतेषु स्नातानामेकोऽपि परिषत् भवेत् ॥
“ प्रमाणमार्गं मार्गन्तो यं धर्मं प्रवदन्ति ये । तेषामुद्विजते पापं सद्भावैर्गुणवादिनाम् ॥
“ यथाश्मनि स्थितं तोयं मारुतार्केण शुष्यति । एवं परिषदादेशान्नाशयेत्तत्र दुष्कृतम् ॥ २०
“नैव गच्छति कर्तारं नैव गच्छति पर्षदम् । मारुतार्कादिसंयोगात्पापं नश्यति तोयवत् ॥
“ अमेध्यानि तु सर्वाणि प्रक्षिप्यन्ते यथोदके । तथैव किल्बिषं सर्वं प्रक्षिपेच्च द्विजानले ॥
“ ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश्च ये । त्रैलोक्यं तारयन्त्येते पञ्चेन्द्रियरता अपि ॥
“ धर्मशास्त्ररयारूढा वेदखड्गधरा द्विजाः । क्रीडार्थमपि यं ब्रूयुः स धर्मः परमो मतः ॥
“चातुर्विद्यो विकल्पी चाङ्गविद्धर्मपाठकः। वृद्धाश्चाश्रमिणो मुख्याः पर्षदैषा दशावरा”॥ इति । २५
चतुर्णां वेदानां पारगश्चातुर्विद्यः । विकैल्यादिकस्वरूपमुक्तमङ्गिर्सा—
“ धर्मस्य संपदश्चैव प्रायश्चित्तक्रमस्य च । त्रयाणां यः प्रमाणज्ञः स विकल्पी भवेत् द्विजः ॥
“शब्दे छन्दसि कल्पे च शिक्षायां च सुनिश्चितः । ज्योतिषां गणिते चैव स नैरुक्तोऽङ्गविद्भवेत् ॥
“वेदविद्याव्रतस्नातः कुलशीलसमन्वितः । अनेकधर्मशास्त्रज्ञः पठ्यते धर्मपाठकः ” ॥ इति ।
“ ब्रह्मचर्याश्रमादूर्ध्वं विप्रो वृद्धः प्रकीर्त्यते ” । चातुर्वेद्यत्वादिकथितविशेषविशिष्टा गृहस्थाश्रम- ३०
वर्तिनो दशसंख्याकाः पर्षच्छब्दवाच्याः । चत्वारो वापीति ये पूर्वपक्षाः पूर्वमुक्ताः ते सर्वे महा-
पापेभ्योऽर्वाचीनविषया वा युगान्तरविषया वा । यदाह '''देवलः—'''
“ पापानां तारतम्येन विप्राणां गुरुलाघवम् । एको नार्हति तत्कर्त्तुमनूचानोऽप्यनुग्रहम् ॥
{{rule}}
१ क्ष-तत्र । २ ग-प्र । ३ क्ष-ल । ४ क्ष-देशा । ५ क्ष-र्थे । ६ ग-भूत । ७ क्ष-धर्मपाठक ।<noinclude></noinclude> 6typrv544mju7qxdggm46d5tkjtyp06 पृष्ठम्:Smriti mukta phalam.pdf/९१८ 104 166921 419945 2026-11-11T05:22:51Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८७०|'''परिषद्योग्याः ।'''|}} {{rule}} “ हुशान्तानां च विदुषां कलौ सङ्घः प्रशस्यते । धर्मज्ञा बहवो विप्राः कर्तुमर्हन्त्यनुग्रहम् ” ॥
यत्तुक्तमङ्गिरसा—
“ पातके तु... नवीन पृष्ठं निर्मीत अस्ती 419945 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८७०|'''परिषद्योग्याः ।'''|}} {{rule}} “ हुशान्तानां च विदुषां कलौ सङ्घः प्रशस्यते । धर्मज्ञा बहवो विप्राः कर्तुमर्हन्त्यनुग्रहम् ” ॥
यत्तुक्तमङ्गिरसा—
“ पातके तु शतं पर्षत्सहस्रं महदादिषु । उपपातके तु पञ्चाशत् स्वल्पे स्वल्पं तथा भवेत् ” ॥ इति
तदभ्यासविषयम् । '''अङ्गिराः—'''
५ “ आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते तेषां समभागिनः ॥
“ तस्मादार्तं समासाद्य ब्राह्मणं तु विशेषतः । जानद्भिर्धर्मपन्थानं न भाव्यं तु पराङ्मुखैः ॥
“ अनर्थितैरनाहूतैरपृष्टैश्चैव संसदि । प्रायश्चित्तं न दातव्यं जानाद्भिरपि सर्वदा ॥
“ यत्पुण्यमुद्धृते विप्रे म्रियमाणे जलादिषु । तत्पुण्यं तारिते पाात्प्रायश्चित्तैस्तु मानवैः ॥
“ प्रायश्चित्तविधानेन दुष्कृतान्मोचयेन्नरम् । इहामुत्र सुखं विन्देद्द्विज्ञानायुर्यशो बलम् ” ॥ इति ।
१० '''परिषद्योग्याः ।'''
नामधारकविप्राणां परिषत्त्वं नास्तीत्याह '''पराशरः—'''
“ अत ऊर्ध्वं तु ये विप्राः केवलं नामधारकाः । परिषत्त्वं न तेष्वस्ति सहस्रगुणितेष्वपि” ॥ इति ।
अत ऊर्ध्वं वर्णितेभ्यो गुणवद्भ्यो ब्राह्मणेभ्यः ऊर्ध्वं तद्व्यतिरिक्ता गुणवद्द्भ्य ऊर्ध्वमन्ये गुणरहिता
इति यावत् । स एव—
१५ “सावित्र्याश्चापि गायत्र्याः सन्ध्योपास्त्यग्निकार्ययोः। अज्ञानात्कृषिकर्त्तारो ब्राह्मणा नामधारकाः॥
“ यथा काष्ठमयो हस्तिर्यथा चर्ममयो मृगः । ब्राह्मणोऽप्यनधीयानस्त्रयस्ते नामधारकाः ॥
“ प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः । ते द्विजाः पापकर्माणः समेता नरकं ययुः ” ॥
ययुः यान्तीत्यर्थः । स एव—
“ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥
२० “ यद्वदन्ति तमोमूढा मूर्खा धर्ममतद्विदः । तत्पापं शतधा भूत्वा तद्वक्तृनधिगच्छति ।
“ अज्ञातवा धर्मशास्त्राणि प्रायश्चित्तं वदति यः । प्रायश्चित्ती भवेत् पूतः किल्विषं पार्वदं व्रजेत् ॥
“ राज्ञश्चानुमते स्थित्वा प्रायश्चित्तं विनिर्दिशेत् । स्वयमेव न कर्तव्यं कर्तव्या स्वल्पनिष्कृतिः ” ॥
'''प्रायश्चित्तविधानस्थलम् ।''' स एव—
“ प्रायश्चित्तं यदा दद्याद्देवतायतनाग्रतः । आत्मकृच्छ्रं ततः कृत्वा जपेद्वै वेदमातरम् ” ॥ इति ।
२५ देवतायतनाग्रत इति शैवस्य वैष्णवस्य वा पुरः स्थित्वा निर्देष्टव्यम् । एतत् पुण्यतीर्थादिरप्युपलक्षणम्
“देवालये नदीतीरे शुचौ देशे सभास्थले । उपविश्य यथाशास्त्रं प्रायश्चित्तं विनिर्दिशेत् ” ॥ इति स्मृतेः ।
एवं प्रायश्चित्तं विनिर्दिश्यानन्तरं निर्देष्टारः सर्वे स्वात्मशुद्ध्यर्थं तत्प्रायश्चित्तानुसारेण किंचित्
कृच्छ्रं चरित्वा अनन्तरं वेदमातरं गायत्रीं यथाशक्ति जपेयुः । '''अङ्गिराः—'''
“ उपस्थानं व्रतादेशः चर्याशुद्धिः प्रकाशनम् । प्रायश्चित्तं चतुष्पादं विहितं धर्मकर्तृभिः ” ॥ इति ।
३० '''पराशरः—'''“ पापं प्रख्यापयेत्पापी दत्वा धेनुं तथा वृषम् । तिस्रो धेनुर्महापापे दत्वा प्रख्यापयेन्नरः ॥
“ द्विगुणे व्रत आदिष्टे दक्षिणा द्विगुणा भवेत् । यावद्व्रतं तु कर्तव्यं दक्षिणा तावती भवेत् ॥
“ वित्तशाठ्यं न कुर्वीत सति द्रव्ये फलप्रदम् । विज्ञाप्य पापं सभ्यानां किल्बिहत्वा व्रतं चरेत्” ॥ इति ।
{{rule}}<noinclude></noinclude> 34yrk02qw70xminq72vlg96l80mqof2 पृष्ठम्:Smriti mukta phalam.pdf/९१९ 104 166922 419946 2026-11-11T05:23:42Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''ब्रह्महत्याप्रायश्चित्तम् ।'''|८७१}} {{rule}} '''ब्रह्महत्याप्रायश्चित्तम् ।''' अथ प्राणहननप्रायश्चित्तमुच्यते । तत्र ब्रह्मवधस्य महापातकस्य
प्रायश्चित्तमाह '''... नवीन पृष्ठं निर्मीत अस्ती 419946 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''ब्रह्महत्याप्रायश्चित्तम् ।'''|८७१}} {{rule}} '''ब्रह्महत्याप्रायश्चित्तम् ।''' अथ प्राणहननप्रायश्चित्तमुच्यते । तत्र ब्रह्मवधस्य महापातकस्य
प्रायश्चित्तमाह '''पराशरः—'''
“ चातुर्विद्योपपन्नस्तु विधिवद्ब्रह्मघातके । समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ” ॥ इति ।
चातुर्विद्योपपन्नः वेदाध्ययनानुष्ठानवान् । अनेन सर्वा परिषदुपलक्ष्यते । समुद्रे दाशरथिना बद्ध-
सेतुः समुद्रसेतुः । तद्यात्रां ब्राह्मणघातके पुरुषे यथाविध्यनुष्ठेयत्वेन निर्दिशेदिति विधिवदित्युक्तम् । ५
कोऽसौ विधिरित्याकांक्षायां तदितिकर्तव्यतामाह स एव—
“ सेतुबन्धपथे भिक्षां चातुर्वर्ण्वात् समाचरेत् । वर्जयित्वा विकर्मस्थां छत्रोपानद्विवर्जितः ॥
“ अहं दुष्कृतकर्मा वै महापातककारकः । गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥
“ गोकुलेषु वसेच्चैव ग्रामेषु नगरेषु च । तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥
“ एतेषु ख्यापयन्नेनः पुण्यं गत्वा तु सागरम् । १०
“ दशयोजनविस्तीर्णं शतयोजनमायतम् । रामचन्द्रसमादिष्टं नलसंचयसंचितम् ॥
“ सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति । सेतुं दृष्ट्वा विशुद्धात्मा अवगाहेत सागरम् ” ॥ इति ।
छत्रोपानद्विवर्जित इति न केवलं भिक्षावेलायां किन्तु मार्गगमनेऽपीति द्रष्टव्यम् । अहं दुष्कृत-
कर्मेति भिक्षमानेन वक्तव्य इति उक्तिप्रकारोऽभिहितः । अध्वशान्तः तपोवनादिषु निवसेत् ।
तत्र व्याघ्रादिभये सति ग्रामे नगरे वा प्रविश्य गोशालादेवतायतनादौ पुण्यप्रदेशे निवसेत् । १५
एतेषु ख्यापयन्निति न केवलं भिक्षागृहेष्वेव पापप्रख्यापनं किन्तु निवासस्थानेष्वपीत्यर्थः ।
सेतुयात्रां समाप्य पुनः कर्तव्यमाह स एव—
“ पुनः प्रत्यागतो वेश्म वासार्थमुपसर्पति । सपुत्रः सह भृत्यैश्च कुर्याद्ब्राह्मणभोजनम् ॥
“ गाश्चैवैकां शतं दद्याच्चतुर्वेदेऽथ दक्षिणाम् । ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते ” ॥ इति ।
सेतुं द्रष्टुमशक्नुवतो भूपतेः प्रायश्चित्तान्तरमाह स एव— “ यजेत वाश्वमेधेन २०
राजा तु पृथिवीपतिः ” इति । कलौ पराशरोक्तं प्रायश्चित्तमेव मुख्यम्—
“ कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः । द्वापरे शांखलिखिताः कलौ पाराशराः स्मृताः ”॥
इति स्मरणात् । '''व्यासोऽपि—'''
“ गत्वा सेतुं समुद्रस्य स्नात्वा तत्र महोदधौ । दृष्ट्वा रामेश्वरं लिङ्गं ब्रह्महा तु विशुध्यति”॥ इति ।
'''श्रीरामायणे—''' २५
“ सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् । एतत्पवित्रं परमं महापातकनाशनम् ” ॥ इति ।
प्रायश्चित्तान्तरमाह '''याज्ञवल्क्यः—'''
“शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात्”इति।
'''मनुः—'''
“ब्रह्महा द्वादशंसमाः कुटीं कृत्वा वने वसेत् । भैक्ष्याश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम्”॥ इति । ३०
'''हेमाद्रौ—'''
“ अज्ञानात् ब्राह्मणं हत्वा चीरवासा जटी भवेत् । स्वेनैव हतविप्रस्य कपालं धारयेन्मुदा ॥
“ तदभावेऽन्यदीयं वा पानार्थं विभृयात्सदा । तच्छत्रं ध्वजदण्डे तु धृत्वा वनचरो भवेत् ॥
“ वन्याहारो भवेन्नित्यमेकाहारो मिताशनः । सम्यक् सन्ध्यामुपासीत त्रिकालं स्नानमाचरेत् ॥
{{rule}}
१ क्ष-कादर्श । २ क्ष-शाब्दानि ।<noinclude></noinclude> k8mafkwgtlqvh85h5zot7qh9frxugow पृष्ठम्:Smriti mukta phalam.pdf/९२० 104 166923 419947 2026-11-11T05:37:10Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८७२|'''प्रायश्चित्ताकरणे ।'''|}} {{rule}} “ अध्यापनं चाध्ययनं वर्जयन् संस्मरेद्धरिम् । ब्रह्मचर्यव्रतं नित्यं चरेत् गन्धादिवर्जितः ॥
“ तीर्थान्युपवसेच्चैव पुण्य... नवीन पृष्ठं निर्मीत अस्ती 419947 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८७२|'''प्रायश्चित्ताकरणे ।'''|}} {{rule}} “ अध्यापनं चाध्ययनं वर्जयन् संस्मरेद्धरिम् । ब्रह्मचर्यव्रतं नित्यं चरेत् गन्धादिवर्जितः ॥
“ तीर्थान्युपवसेच्चैव पुण्यक्षेत्राश्रमाणि च । यदि वन्यैर्न जीवेत् ग्रामे भिक्षां समाचरेत् ॥
“ अखण्डेन शरावेण रक्तवर्णेन वर्गलः । वदेच्च ब्रह्महाऽस्मीति सर्वोङ्गाराणि पर्यटेत् ॥
“ चतुर्वर्णेषु वा भैक्षं त्रिवर्णेष्वथ वा चरेत् । सृष्टामृष्टाविवेकेन तदन्नं चाविकुत्सयन् ॥
५ “ द्वादशाब्दं व्रतं कुर्यादेवं हरिपरायणः । व्रतमध्ये मृगैर्वाऽपि रोगैर्वाऽपि हतो यदि ॥
“ गोनिमित्तं द्विजार्थं वा नार्यर्थं यदि वा म्रियेत् । ब्रह्महा शुद्धिमाप्नोति द्वादशाब्दव्रतेन वै ” ॥ इति ।
'''आपस्तंबः—'''“द्वादशवर्षाणि चरित्वा सिद्धः सद्भिः संप्रयोगः” ॥ इति ।
अत्र '''हरदत्तः—'''सद्भिः संप्रयुज्यते येन विधिना स कर्तव्यः स उच्यते । कृतप्रायश्चित्तः स्वहस्ते यवसं
गृहीत्वा गामाह्वयेत् । सायमागत्य श्रद्दधाना भक्षयति तदा सम्यगनेन व्रतं चरितमिति जानीयात् ।
१० अन्यथा नेति । प्रायश्चित्तान्तरमाह '''मनुः—'''
“ सर्वस्वं वा वेदविदे ब्राह्मणायापपादयेत् । धनं वा जीवनायालं गृहं वा सपरिच्छदम् ।
“ ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् । मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च”॥ इति
स्मरणमभ्युपगम्य गोब्राह्मणरक्षणे प्रवृत्तो यदि कथञ्चिज्जीवेत्तदा गोब्राह्मणयोः स गोप्ता जीवन्नपि
ब्रह्महत्याया मुक्तो भवति । स एव—
१५ “ यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा । अभिजिद्विश्वजिद्भ्यां वा त्रिवृताऽग्निष्टुतापि वा ॥
“ जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् । ब्रह्महत्यापनोदाय मितभुक्नियतेन्द्रियः ॥
“ हविष्यभुग्वा सुतरेत्प्रतिस्रोतां सरस्वतीम् । जपेद्वा नियताहारस्त्रिर्वे वेदस्य संहिताम् ” ॥
'''याज्ञवल्क्यः—'''
“ ब्राह्मणस्य परित्राणाद्गवां द्वादशकस्य वा । तथाऽश्वमेधावभृथस्नानाद्वा शुद्धिमाप्नुयात् ॥
२० “ दीर्घतीव्रामयग्रस्तं ब्राह्मणं गमयापि वा । दृष्ट्वा पथि निरादंतृं कृत्वा वा ब्रह्महा शुचिः ” ॥ इति ।
आवृत्त्या ब्रह्मवधे आचतुर्थाद्व्रतमावर्तनीयम् । तदाहतु '''र्मनुगौतमौ—'''
“वधे प्राथमिकेऽदस्मात् द्वितीये द्विगुणं चरेत् । तृतीये त्रिगुणं चैव चतुर्थे नास्ति निष्कृतिः”॥ इति ।
'''वधोद्यमे प्रायश्चित्तम् ।''' वधोद्यमेऽपि वधप्रायश्चित्तमाह '''याज्ञवल्क्यः—'''
“चरेद्व्रतमहत्त्वाऽपि घातार्थं चेत्समाहितः ” ॥ इति । '''स्मृत्यन्तरेऽपि—'''“ अहत्वाऽपि यथावर्णं
२५ ब्रह्महत्याव्रतं चरेत् ” ॥ इति । यत्तु वशिष्ठवचनं ‘द्वादशरात्रमत्रभक्षो द्वादशरात्रमुपवसेत् ’ इति,
तन्मनोव्यवसितब्रह्महत्त्यस्य तदैवोपारतजिघांसस्य वेदितव्यमिति माधवीये ।
'''उक्तप्रायश्चित्ताकरणे राजकृत्यमुक्तम्—'''
“ पट्टणे वा स्वराष्ट्रे वा यो विप्रो ब्रह्महा भवेत् । ब्रह्महत्यां विनिर्भित्य त्रुटित्वा तच्छिखां ततः ॥
“ ब्रह्मसूत्रं तथा छित्त्वा पिशिताशनवाहनम् । आरोहयित्वा तु तत्कीले शवं तन्मयं लिखेत् ॥
३० “ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये तु श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥
“ एवं कृत्वा तु शास्त्रेण निर्वास्यो विषयाद्वहिः ।
“ तत्पुत्रा ब्रह्महनने सहायास्ते यदाऽभवन् । तानप्येवं पुनः कृत्वा निर्वास्याः पूर्ववद्वहिः ॥
“ तत्क्षेत्रं बहुलं धान्यं पश्चादामादिकं च यत् । तत्सर्वं देवताप्रीत्यै राजा कुर्यात्समाहितः ॥
{{rule}}
१ ग-ता । २ ग-नुसरेत् । ३ क्ष-रुत्वा । ४ कगध-विषेः । ५ क्ष-विविध । ६ ग-त्तने । ७ क्ष-विहित । ८ क्ष-तले श्वानं ।<noinclude></noinclude> nvh89i14zijapt769afr348rydz6j0u पृष्ठम्:Smriti mukta phalam.pdf/९२१ 104 166924 419948 2026-11-11T05:38:03Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''जनकादिहत्यायाम् ।'''|८७३}} {{rule}} “ विचार्य बहुधा राजा तत्पत्नी पुत्रकान् बहून् । दोषवन्तस्तथा तेऽपि कर्त्तव्या राजवल्लभैः ॥
“ नो चेत्तद्दूतिधान्यादीन् तेभ्... नवीन पृष्ठं निर्मीत अस्ती 419948 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''जनकादिहत्यायाम् ।'''|८७३}} {{rule}} “ विचार्य बहुधा राजा तत्पत्नी पुत्रकान् बहून् । दोषवन्तस्तथा तेऽपि कर्त्तव्या राजवल्लभैः ॥
“ नो चेत्तद्दूतिधान्यादीन् तेभ्यो दत्त्वाऽथ शिक्षयेत् ” ॥ इति । पुत्रादीनां दोषाभावे तद्द्रव्यं तेभ्य
एव दत्वा ब्रह्महन्त्रा सह संभापणादिकं न कार्यमिति पुत्रादीन् शिक्षयेदित्यर्थः । स्मृत्यन्तरे—
“ अयोरूपं द्विजं कृत्वा मूर्द्धानं प्रताप्तयेत् । अङ्कयित्वा ललाटे तु देशान्निर्वासयेद्वहिः ॥
“ द्वादशाब्दविधानेन शुद्धो भवितुमर्हति । अशक्तो व्रतमाचर्तुमेवं कृत्वा विशुध्यति ” । ५
'''जनकादिहत्यायां प्रायश्चित्तान्तरमुक्तं स्कान्दे—'''
“ अज्ञानाज्जनकं हन्त्यान्निमित्तैर्बहुभिर्द्विजः । चतुर्विंशति वर्षाणि व्रतं कृत्वा विशुद्ध्यति ॥
“ द्विगुणं च गवां दानं कृत्वा शुद्धिंमवाप्नुयात् । दीक्षितं ब्राह्मणं हत्वा द्विगुणं व्रतमाचरेत् ॥
“ मातामहं मातुलं च स्यालं जामातरं तथा । आचार्यस्य वधे चैव व्रतमुक्तं चतुर्गुणम् ” ॥ इति ।
स एव—“स्नातकं ऋत्विजं हत्वा द्विगुणं व्रतमाचरेत् ” ॥ इति । चत्वारिंशत्संस्कारपूतः १०
स्नातकः । उत्पाद्य पुत्रं संस्कृत्येत्युक्तलक्षण आचार्योः । '''दक्षः—'''
“ सममब्राह्मणे देयं द्विगुणं ब्राह्मणब्रुवे । आचार्ये शतसाहस्रं सोदर्ये दत्तमक्षयम् ” ॥ इति
प्रतिपाद्योक्तवान्
“ समद्विगुणसाहस्रमानन्त्यं च यथाक्रमम् । दाने फलविशेषः स्याद्धिंसायां तद्वदेव हि ” ॥ इति ।
'''आपस्तम्बः—'''“ गुरुं हत्वा श्रोत्रियं वा कर्मसमाप्तमेतेनैव विधिनोत्तमादुच्छ्वा- १५
साच्चरेन्नास्यास्मिन् लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते ” इति । गुरुः पित्राचार्यादिः ।
श्रोत्रियोऽधीतवेदः । सोमान्तानि कर्माणि समाप्तानि यस्य स कर्मसमाप्तः । तौ हत्वा एतेन कुटिं
कृत्वेत्यनन्तरोक्तेन । उत्तमादुच्छ्वासादाप्राणवियोगादित्यर्थः । भ्रूणहत्याया अपि यावज्जीवं
व्रतधारणमुक्तमापस्तम्बेन—“एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् ” इति ।
“भ्रूणहा द्वादशसमाः कपाली” बौधायनवचनं भ्रूणहत्यासमपापविषयम्। भ्रूणः साङ्गवेदीति निश्चयः। २०
'''क्षत्रियादिकृतब्रह्महत्याप्रायश्चित्तम् ।''' क्षत्रियादीनां ब्राह्मणवधे प्रायश्चित्तमाह '''व्यासः—'''
“ अज्ञानात् बाहुजो विप्रं हत्वा विविधसाधनैः । पश्चात्तापसमायुक्तो द्विगुणं व्रतमाचरेत् ॥
“ अज्ञानादूरुजो हत्वा ब्राह्मणं त्रिगुणं चरेत् । पादजो ब्राह्मणं हत्वा मुसलैर्वधमर्हति ॥
“ केचित्कारीषदाहेन वधमिच्छन्ति पावनम् । ब्राह्मणीं स्थविरां हत्वा विधवा च सुवासिनीम् ॥
“ बालं कन्यां यदा हन्यात्कारीषेणैव दाहयेत् ” ॥ '''स्मृत्यन्तरेऽपि—''' २५
“ द्विगुणं क्षत्रियस्योक्तं त्रिगुणं तद्विशः स्मृतम् । ब्राह्मणं हन्ति यः शूद्रस्तस्य दण्डो वधः स्मृतः ॥
“ कन्याबालवधे गर्भघातने विप्रयोषिताम् । पूर्ववद्दण्डयेद्राजा ह्यन्यथा नरकं व्रजेत् ” ॥ इति ।
'''गौतमः—'''“शूद्रो द्विजातीनतिसन्धायाभिहत्य च वाग्दण्डपारुष्याभ्यामंगमोच्यो
येनोपहन्त्यात् ” ॥ इति । क्षत्रियादिवधे प्रायश्चित्तमाह '''मनुः—'''
“ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥ ३०
“ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । वृषभैकसहस्रां गां दद्याच्छुद्ध्यर्थमात्मनः ॥
“ प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वैकशतं गवाम् । एतदेव व्रतं कृत्स्नं षण्मासांश्चूद्रहा चरेत् ॥
“ ऋषभैका दशा वापि दद्याद्विप्राय गास्तथा ” ॥ इति ।
{{rule}}
१ क्ष-थो । २ ग-त्त । ३ क-यत ।
१११-७<noinclude></noinclude> nsuqnpa994pqzl2qfptt5d8av7gs0qc पृष्ठम्:Smriti mukta phalam.pdf/९२२ 104 166925 419949 2026-11-11T05:38:55Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८८४|'''क्षत्रियादीनाम् । रजतादिस्तेये ।'''|}} {{rule}} अज्ञानादपहृतस्य सुवर्णस्य पुनर्दाने तु प्रायश्चित्तं स एवाह—
“ ब्रह्मस्वं यस्तु हृत्वा च पश्चात्तापमवाप्य च... नवीन पृष्ठं निर्मीत अस्ती 419949 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८८४|'''क्षत्रियादीनाम् । रजतादिस्तेये ।'''|}} {{rule}} अज्ञानादपहृतस्य सुवर्णस्य पुनर्दाने तु प्रायश्चित्तं स एवाह—
“ ब्रह्मस्वं यस्तु हृत्वा च पश्चात्तापमवाप्य च । पुनर्द्दत्वा तु विप्रेभ्यः प्रायश्चित्तमिदं चरेत् ॥
“ कृच्छ्रं सान्तपनं कृत्वा द्वादशाहोपवासतः । शुद्धिमाप्नोति विप्रेन्द्र अन्यथा पतितो भवेत्”॥ इति ।
'''क्षत्रियादीनां स्तेयप्रायश्चित्तम् ।''' राज्ञां स्तेयप्रकारोऽभिहितः '''शिवरहस्ये—'''
५ “ अन्यायाद्विप्रग्रामेषु अनाथेभ्यो धनं च यत् । अदण्ड्योभ्योऽपि यद्दित्तं स्तेयं तद्द्बहुजामिह ॥
“ स्तेयं कृत्वा सुरां पीत्वा मृत्वा राजा विशुध्यति ” । '''नागरखण्डे—'''
“ ऊरुजस्तु सुरां पीत्वा हृत्वा स्वर्णं द्विजन्मनाम् । राजा च शुद्धिमाप्नोति यच्छेद्वा प्रयुतं गवाम् ।
“ पादजस्तु सुरां पीत्वा हृत्वा हेम द्विजन्मनाम् । राज्ञा दण्ड्यः स्वधर्मेण मुसलेन हतः शुचिः”॥ इति ।
'''कात्यायनः—'''
१० “ विप्रादीनां तु नारीणां स्तेयं वा पानमेव वा । संभवेद्यदि दैवेन नेच्छन्ति मरणं बुधाः ॥
“ त्याज्या एव स्त्रियस्ताश्च न पोष्या धर्मलिप्सुभिः ” ॥ इति ।
'''रजतस्तेयप्रायश्चित्तम् ।''' रजतस्तेये '''नारदः—'''
“ सुवर्णमानं यस्मिन्वै रजतं स्तेयकर्मणि । कुर्यात्सान्तपनं सम्यगन्यथा पतितो भवेत् ॥
“ दशनिष्कान्तपर्यन्तमूर्ध्वंनिष्कदशद्वयात् । हृत्वा तु रजतं विद्वान् कुर्याच्चान्द्रायणं द्विजः ॥
१५ “ ततो विंशतिनिष्कान्तं रजतस्तेयकर्मणि । चान्द्रायणद्वयं प्रोक्तं तत्पापं परिशोधनम् ॥
“ शतादूर्ध्वं सहस्रान्तं प्रोक्तं चान्द्रायणद्वयम् । सहस्रादधिकस्तेये ब्रह्महत्याव्रतं चरेत् ” ॥
'''ताम्रस्तेये प्रायश्चित्तम् ।''' ताम्रस्तेये '''हेमाद्रौ—'''
“ पलद्वये पञ्चगव्यं पीत्वा शुद्धिंमवाप्नुयात् । प्राजापत्यं पञ्चपले तप्तं दशपले स्मृतम् ।
“ विंशत्पले तु चान्द्रं स्यात्स्यात्पञ्चाशति तु त्रयम् । ताम्रं षष्टिपले प्रोक्तं मासं कृत्वाऽघमर्षणम् ॥
२० “ कण्ठदघ्नजले स्थित्वा शुद्धिमाप्नोति पूर्वजः । ताम्रेऽशीतिपले तत्र स्तेयं कृत्वा तु पूर्वजः ॥
“ भूपरिक्रमणं कृत्वा भूयश्चान्द्रं ततः परम् । हृत्वा शतपलं ताम्रं स्वर्णस्तेयसमं विदुः ” ॥ इति ।
स्वर्णचतुष्टयपरिमितं पलम्
“पलं सुवर्णं चत्वारि तच्चत्वारि ध्रुवो भवेत् । चत्वारिंशद्द्रुवाणां च भार इत्युच्यते बुधैः”॥ इति स्मृतेः ।
'''कांस्यादिस्तेये प्रायश्चित्तम् । चतुर्विंशतिमते—'''
२५ “ कांस्यपित्तलमुख्येष्वयस्कान्तेषु पञ्चसु । सहस्रनिष्कुमानं तु पारक्यं परिकीर्तितम् ॥
“ प्रायश्चित्तं तु लोहानां स्तेये रजतवत्स्मृतम् ” ॥ इति ।
'''धनधान्यादिस्तेयप्रायश्चित्तम् । मनुः—'''
“ धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । सजातीयगृहादेव कृच्छ्राब्देनैव शुध्यति ॥
“ मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानां च शुद्धिborderश्चान्द्रायणं स्मृतम् ॥
३० “ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मनः । चरेत्सान्तपनं कृच्छ्रं निर्यात्यात्माविशुद्धये ॥
“ भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥
“ तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥
“ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयःकांस्योपलानां च द्वादशाहं कणान्नता ॥
“ कार्पासकीटजीर्णानां द्विखुरैकखुरस्य च । पक्षिगन्धौषधीनां च रज्ज्वाश्च त्रिहः पयः ॥
३५ “ एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ” ॥
{{rule}}
१ क्ष-द्विशतं । २ क-कास्तो ।<noinclude></noinclude> 59h6v8lu7371flx2r69v6f1lbw617lx पृष्ठम्:Smriti mukta phalam.pdf/९२३ 104 166926 419950 2026-11-11T05:39:41Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''भूम्यपहारे । वस्त्रादिहरणे ।'''|८८५}} {{rule}} '''भूम्यपहारप्रायश्चित्तम् ।''' भूम्यपहारे दोषाधिक्यमाह '''पराशरः—'''
“ वापिकूपतटाकाद्यैर्वाजपेयश तैरपि । गवां कोटिप्... नवीन पृष्ठं निर्मीत अस्ती 419950 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''भूम्यपहारे । वस्त्रादिहरणे ।'''|८८५}} {{rule}} '''भूम्यपहारप्रायश्चित्तम् ।''' भूम्यपहारे दोषाधिक्यमाह '''पराशरः—'''
“ वापिकूपतटाकाद्यैर्वाजपेयश तैरपि । गवां कोटिप्रदानेन भूमिहर्त्ता विशुध्यति ” ॥
'''नारदः—'''“ केदारे तप्तकृच्छ्रं स्याद्गृहादेश्चान्द्रमीरितम् ” ॥ इति ।
राजदण्डमाहा'''पस्तम्बः—'''“अयमस्यू दण्डः । पुरुषवधे स्तेये भूम्यादान इति ।
चक्षुर्वरोधस्त्वेतेषु ब्राह्मणस्य ” इति । भूम्यादानं भूम्यपहारः । पुरुषवधादिषु शूद्रो वध्यः । ५
ब्राह्मणस्य तु पट्टबन्धनादिना चक्षुषी निरोद्धव्ये न तत्पाटयितव्ये ‘न शारीरो ब्राह्मणे दण्ड’ इति
‘अक्षतो ब्राह्मणो व्रजेत् ’ इत्यादिसमरणात् । '''वस्त्रादिस्तेयप्रायश्चित्तम् । देवस्वामी—'''
“ स्थूलतन्तुकृते वस्त्रे स्तेयं कृत्वा तु पूर्वजः । पश्चात्तापसमायुक्तः प्राजापत्यं समाचरेत् ॥
“ सूक्ष्मतन्तुकृते वस्त्रे पराकं मुनिचोदितम् । पीतवस्त्रं मुषित्वा तु तप्तकृच्छ्रद्वयं चरेत् ॥
“ नील नये सूक्ष्मवस्त्रे चरेच्चान्द्रायणत्रयम् । १०
“ मूल्याधिके पट्टवस्त्रे कौशेये च मुनीश्वराः । सद्यः पतति पापात्मा घृताक्तोऽग्निं विशेत्तदा ” ॥
'''अजादिहरणे प्रायश्चित्तम् । जाबालिः—'''
“ अजं बस्तं गृहेऽरण्ये पारक्यं गर्वितो द्विजः । मुषित्वा निष्कृतिं तत्र प्राजापत्यं समाचरेत् ” ॥
'''मार्कण्डेयः—'''
“ मार्जारं नकुलं सर्पं भारद्वाजं कपिं तथा । कृच्छ्रार्धमाचरेद्धृत्वा ज्ञात्वा तद्द्विगुणं चरेत् ॥ १५
“ द्विजानां तल्पहरणे प्रायश्चित्तं प्रजापतिः । प्राह चान्द्रं पराकं च तप्तं चैव यथाक्रमम्” ॥ इति ।
'''मरीचिः—'''
“ यो विप्रः पापमज्ञात्वा उपानत्पादुके हरेत् । स तु देहविशुद्ध्यर्थं प्राजापत्यं समाचरेत् ॥
“ छत्रं हरेद्द्विजो यस्तु महातपनिवारणम् । वस्त्रावृते पराकं स्यात्केतकीपर्णसंवृते ॥
“ यावकं तालपत्रैश्च निर्मितं राजवल्लभै । पञ्चगव्यं पिवेत्पश्चात्सर्वपापविनाशनम् ॥ २०
“ पुष्पजालं हि पारक्यं देवपूजार्थमादरात् । सुगन्धिकरवीरादि हृत्वा विप्रः स पापभाक् ॥
“ देवार्थं पुष्पहरणे चान्द्रं वत्सरसेवनात् । पराकं ब्रह्मनिर्माणे कार्यं क्षत्रियवैश्ययोः ” ॥ इति ।
'''देवलः—'''
“ कदलीमातुलुङ्गं च नालिकेरं च पानसम् । द्राक्षाखर्जूरजम्बीरचूतजम्बूफलानि च ॥
“ फलानि विविधानीह देवप्रियकराणि वै । हृत्वा विप्रस्तु पारक्यं प्रायश्चित्तमिदं चरेत् ॥ २५
“ ऋतुत्रये पराकं स्याद्वत्सरे चान्द्रमुच्यते ” ॥ इति ।
'''गृहोपकरणहरणे प्रायश्चित्तमाह गौतमः—'''“ मुसलं दृषदं चैव झुलूखलमनन्तरम् ।
“ वेणुपात्रं तथा शूर्पं मृन्मयं भाण्डमेव च । गृहोपकरणं हृत्वा पुनः संस्कारमर्हति ” ॥ इति ।
'''सालग्रामादेः पूजोपकरणस्य च हरणे प्रायश्चित्तम् । देवलः—'''
“ सालग्रामं शैवलिङ्गं प्रतिमां चक्रपाणिनः । घण्टामुपस्करं विप्रो यो हरेत्पापबुद्धिमान् ॥ ३०
“ सालग्रामे तु चान्द्रं स्याच्छिवलिङ्गे तथैव च । प्राजापत्यं चक्रपाणेरितरेषु तथैव च ॥
“ शतादूर्ध्वं तु रुद्राक्षं हृत्वा चान्द्रद्वयं स्मृतम् । शते पराकमल्पे तु गायत्रीजपमाचरेत् ” ॥
'''नारदः—'''“ लेखनीं बन्धसूत्रं च पुस्तकं फलकं तथा ।
“ हृत्वा दत्वा तु तद्द्रव्यं पश्चात्तापसमन्वितः । प्राजापत्यं चरेत्कृच्छ्रं तदा देहविशुद्धये ” ॥
'''माध्यस्थ्येन धनग्रहणे प्रायश्चित्तम् ।''' ३५
'''देवलः—'''“व्यवहारादिकल्हे प्रायश्चित्तादिकर्मसु । धनं गृहीत्वा यो विप्रः कौटसाक्ष्यं वदेत् चेत् ॥
“ तस्य पुत्राश्च पौत्राश्च तदा नाशमवाप्नुयुः । तस्य देहविशुद्धद्यर्थं महाचान्द्रमुदीरितम् ”॥ इति ।
{{rule}}
१ ग-रू ।<noinclude></noinclude> hixpavv3po1g3lvkjq3vyjh6y1dkrm0 पृष्ठम्:Smriti mukta phalam.pdf/९२४ 104 166927 419951 2026-11-11T05:41:48Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८७६|'''दण्डलक्षणम् । गृहे बद्धनिमित्ते मरणे । शृङ्गभङ्गादौ ।'''|}} {{rule}} बुद्धिः कामः । व्यर्थेच्छामात्रमकामः । ताभ्यामुत्पादितः । क्रोधो यस्यासौ दण्डादिभिर्यदि<br... नवीन पृष्ठं निर्मीत अस्ती 419951 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८७६|'''दण्डलक्षणम् । गृहे बद्धनिमित्ते मरणे । शृङ्गभङ्गादौ ।'''|}} {{rule}} बुद्धिः कामः । व्यर्थेच्छामात्रमकामः । ताभ्यामुत्पादितः । क्रोधो यस्यासौ दण्डादिभिर्यदि
हन्यात्तदा मरणमन्तरेण केवलं प्रहृता स्यात् कामकृतस्संप्रहारो घातः । अकामकृतं तु मारणं
घात इत्यर्थः । दण्डलक्षणमुक्तं तेनैव—
“ अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रप्रमाणकः । आर्द्रस्तु स पलाशश्च दण्ड इत्यभिधीयते ” ॥
५ अधिकप्रमाणदण्डादिभिर्मरणे तु प्रायश्चित्तद्वैगुण्यमाह स एव—
“ दण्डादूर्ध्वं यदाऽन्येन प्रहारायदि पातयेत् । प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत् ”॥
वृण्डाधिकमानेन लमुडादिना मारणे अकामकृतेऽपि द्विगुणं चरेदित्यर्थः ।
द्विगुणस्य प्रायश्चित्तस्य निमित्तान्तरमाह स एव—
“व्यापन्नानां बहूनां च बन्धने रोधनेऽपि च । द्विगुणं विहितं तस्य प्रायश्चित्तं विशुद्धये ” ॥ इति ।
१० कामकृते गोवधे निमित्तविशेषानुपजीव्यप्रायश्चित्तविशेषान् दक्षिणासहितानाह स एव—
“ काष्ठलोष्टकपाषाणैः शस्त्रेणैवोद्धतो बलात् । व्यापादयति यो गां तु तस्य शुद्धिं विनिर्दिशेत् ॥
“ चरेत्सान्तपनं काष्ठे प्राजापत्ये तु लोष्ठके । तप्तकृच्छ्रं तु पाषाणे शस्त्रपातेऽतिकृच्छ्रकम् ।
“ पञ्च सान्तपने गावः प्राजापत्ये तया त्रयः । तप्तकृच्छ्रे भवत्यष्टावतिकृच्छ्रे त्रयोदश ” ॥ इति ।
सान्तपनादीनां स्वरूपमग्रे वक्ष्यते ।
१५ गृहे बद्धस्य गोर्वन्धननिमित्ते मरणे प्रायश्चित्तमाह स एव—
“ बन्धपाशनिबद्धाङ्गो म्रियेत यदि गोपशुः । भवने तस्य पापी स्यात् प्रायश्चित्तार्थमर्हति ” ॥ इति ।
शृङ्गभङ्गादौ स एवाह—
“ पाषाणेनैव दण्डेन गावो येनाभिघातिताः । शृङ्गभङ्गे चरेत्पादं द्वौ पादौ नेत्रघातने ॥
“ लङ्गुले पादकृच्छ्रं तु द्वौ पादावस्थिभञ्जने । त्रिपादं चैव कर्णे तु चरेत्सर्वं निपातने ॥
२० “ अतिदाहे चरेत्पादं द्वौ पादावतिवाहने । नासिक्ये पादहीनं तु चरेत्सर्वं निपातने ॥
“ एका चेद्बहुभिः काचिद्देवाद्यापादिता यदि । पादं पादं तु हत्यायाश्चरेयुस्ते पृथक् पृथक् ॥
“ वाहनात्तु विपद्येत अनङ्गान्योन्ययन्त्रितः । उक्तं पराशरेणैव ह्येकं पादं यथाविधि ॥
“ प्रेरयन् कूपवापीषु वृक्षच्छेदेषु पातयन् । गवाशनेषु विक्रीणन् ततः प्राप्नोति गोवधम् ” ॥ इति ।
अङ्गुष्ठप्रमाणदण्डेन सबारणाय प्रहारे कचित्प्रायश्चित्ताभावमाह स एव—
२५ “ मूर्च्छितः पतितो वापि दण्डेनाभिहतः स तु । उत्थितस्तु यदा गच्छेत्पञ्च सप्त दशैव वा ॥
“ ग्रासं वा यदि गृह्णीयात्तोयं वापि पिवेदयदि । पूर्वं व्याध्युपसृष्टश्चेत्प्रायश्चित्तं न विद्यते ” ॥ इति ।
अन्यत्रापि कचित्प्रायश्चित्ताभावमाहाङ्गिराः—“ सायं सङ्गोपनार्थं तु न दुष्येद्रोधबन्धयोः ” इति ।
पराशरोऽपि—
“ गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः । तदर्थं तु न तं विद्यात्कामाकामकृतं तथा ॥
३० “ कूपखाते तटाकीते नदीखाते तथैव च । अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते ॥
“ सङ्ग्रामप्रहृता ये च ये दग्धा वेश्मकेषु च । दवाग्निशामघातेषु प्रायश्चित्तं न विद्यते ॥
“ ग्रामघाते शरोघेण वेश्मभङ्गाश्मपातने । अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥
“ यन्त्रिता गौश्चिकित्सार्थं गूढगर्भविमोचने । यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते ॥
“ केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् । द्विगुणे व्रत आदिष्टे द्विगुणां दक्षिणां भवेत् ॥
{{rule}}
१ क्ष-द्विगुणस्य प्रायश्चित्तमाह । २ गघख-दह । ३ क्ष-पा ।<noinclude></noinclude> 3daavveiy00lzvy0oy22rhv3bf1g79k पृष्ठम्:Smriti mukta phalam.pdf/९२५ 104 166928 419952 2026-11-11T05:45:56Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८७६|'''दण्डलक्षणम् । गृहे बद्धनिमित्ते मरणे । शृङ्गभङ्गादौ ।'''|}} {{rule}} बुद्धिः कामः । व्यर्थेच्छामात्रमकामः । ताभ्यामुत्पादितः । क्रोधो यस्यासौ दण्डादिभिर्यदि<br... नवीन पृष्ठं निर्मीत अस्ती 419952 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८७६|'''दण्डलक्षणम् । गृहे बद्धनिमित्ते मरणे । शृङ्गभङ्गादौ ।'''|}} {{rule}} बुद्धिः कामः । व्यर्थेच्छामात्रमकामः । ताभ्यामुत्पादितः । क्रोधो यस्यासौ दण्डादिभिर्यदि
हन्यात्तदा मरणमन्तरेण केवलं प्रहृता स्यात् कामकृतस्संप्रहारो घातः । अकामकृतं तु मारणं
घात इत्यर्थः । दण्डलक्षणमुक्तं तेनैव—
“ अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रप्रमाणकः । आर्द्रस्तु स पलाशश्च दण्ड इत्यभिधीयते ” ॥
५ अधिकप्रमाणदण्डादिभिर्मरणे तु प्रायश्चित्तद्वैगुण्यमाह स एव—
“ दण्डादूर्ध्वं यदाऽन्येन प्रहारायदि पातयेत् । प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत् ”॥
वृण्डाधिकमानेन लमुडादिना मारणे अकामकृतेऽपि द्विगुणं चरेदित्यर्थः ।
द्विगुणस्य प्रायश्चित्तस्य निमित्तान्तरमाह स एव—
“व्यापन्नानां बहूनां च बन्धने रोधनेऽपि च । द्विगुणं विहितं तस्य प्रायश्चित्तं विशुद्धये ” ॥ इति ।
१० कामकृते गोवधे निमित्तविशेषानुपजीव्यप्रायश्चित्तविशेषान् दक्षिणासहितानाह स एव—
“ काष्ठलोष्टकपाषाणैः शस्त्रेणैवोद्धतो बलात् । व्यापादयति यो गां तु तस्य शुद्धिं विनिर्दिशेत् ॥
“ चरेत्सान्तपनं काष्ठे प्राजापत्ये तु लोष्ठके । तप्तकृच्छ्रं तु पाषाणे शस्त्रपातेऽतिकृच्छ्रकम् ।
“ पञ्च सान्तपने गावः प्राजापत्ये तया त्रयः । तप्तकृच्छ्रे भवत्यष्टावतिकृच्छ्रे त्रयोदश ” ॥ इति ।
सान्तपनादीनां स्वरूपमग्रे वक्ष्यते ।
१५ गृहे बद्धस्य गोर्वन्धननिमित्ते मरणे प्रायश्चित्तमाह स एव—
“ बन्धपाशनिबद्धाङ्गो म्रियेत यदि गोपशुः । भवने तस्य पापी स्यात् प्रायश्चित्तार्थमर्हति ” ॥ इति ।
शृङ्गभङ्गादौ स एवाह—
“ पाषाणेनैव दण्डेन गावो येनाभिघातिताः । शृङ्गभङ्गे चरेत्पादं द्वौ पादौ नेत्रघातने ॥
“ लङ्गुले पादकृच्छ्रं तु द्वौ पादावस्थिभञ्जने । त्रिपादं चैव कर्णे तु चरेत्सर्वं निपातने ॥
२० “ अतिदाहे चरेत्पादं द्वौ पादावतिवाहने । नासिक्ये पादहीनं तु चरेत्सर्वं निपातने ॥
“ एका चेद्बहुभिः काचिद्देवाद्यापादिता यदि । पादं पादं तु हत्यायाश्चरेयुस्ते पृथक् पृथक् ॥
“ वाहनात्तु विपद्येत अनङ्गान्योन्ययन्त्रितः । उक्तं पराशरेणैव ह्येकं पादं यथाविधि ॥
“ प्रेरयन् कूपवापीषु वृक्षच्छेदेषु पातयन् । गवाशनेषु विक्रीणन् ततः प्राप्नोति गोवधम् ” ॥ इति ।
अङ्गुष्ठप्रमाणदण्डेन सबारणाय प्रहारे कचित्प्रायश्चित्ताभावमाह स एव—
२५ “ मूर्च्छितः पतितो वापि दण्डेनाभिहतः स तु । उत्थितस्तु यदा गच्छेत्पञ्च सप्त दशैव वा ॥
“ ग्रासं वा यदि गृह्णीयात्तोयं वापि पिवेदयदि । पूर्वं व्याध्युपसृष्टश्चेत्प्रायश्चित्तं न विद्यते ” ॥ इति ।
अन्यत्रापि कचित्प्रायश्चित्ताभावमाहाङ्गिराः—“ सायं सङ्गोपनार्थं तु न दुष्येद्रोधबन्धयोः ” इति ।
पराशरोऽपि—
“ गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः । तदर्थं तु न तं विद्यात्कामाकामकृतं तथा ॥
३० “ कूपखाते तटाकीते नदीखाते तथैव च । अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते ॥
“ सङ्ग्रामप्रहृता ये च ये दग्धा वेश्मकेषु च । दवाग्निशामघातेषु प्रायश्चित्तं न विद्यते ॥
“ ग्रामघाते शरोघेण वेश्मभङ्गाश्मपातने । अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥
“ यन्त्रिता गौश्चिकित्सार्थं गूढगर्भविमोचने । यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते ॥
“ केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् । द्विगुणे व्रत आदिष्टे द्विगुणां दक्षिणां भवेत् ॥
{{rule}}
१ क्ष-द्विगुणस्य प्रायश्चित्तमाह । २ गघख-दह । ३ क्ष-पा ।<noinclude></noinclude> 3daavveiy00lzvy0oy22rhv3bf1g79k 419953 419952 2026-11-11T05:47:21Z Myauthworks 10864 419953 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''प्राण्यन्तरहनने ।'''|८७७}} {{rule}} “ राजा वा राजमात्रो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तस्य प्रायश्चित्तं विनिर्दिशेत् ॥
“ सर्वान् केशान् समुद्धृत्य छेदयेदङ्गुलिद्वयम् । एवं नारीकुमारीणां शिरसो मुण्डनं स्मृतम् ॥
“ न स्त्रिया केशवपनं न दूरे शयनासनम् । गृहेषु नियतं तिष्ठेच्छुचिर्नियममाचरेत् ।
“ इह यो गोवधं कृत्वा प्रच्छादयितुमिच्छति । स याति नरकं घोरं कालसूत्रमसंशयः ॥
“ विमुक्तो नरकात्तस्मान्मर्त्यलोकेषु जायते । क्लीबो दुःखी च कुष्ठी च सप्तजन्मनि वै नरः ॥ ५
“ तस्मात्प्रकाशयेत्पापं स्वधर्मं सततं चरेत् । स्त्रीबालवृद्धगोविप्रेष्वतिकोपं विवर्जयेत् ” ॥
'''हेमाद्रौ—'''“यो विप्रो वृषभं हन्याच्छिवलिङ्गाङ्कितं तनौ । त्रिवारं क्ष्मा परिक्रम्य ब्रह्मचर्यव्रते स्थितः ॥
“ धनुष्कोटिं ततो गत्वा गन्धमादनपर्वते । तत्र स्नात्वा त्रिरात्रं च रामलिङ्गं निरीक्ष्य च ॥
“ कृत्वा चान्द्रायणं कृच्छ्रमथ शुध्येन्न संशयः ” ॥ '''तत्रैव—'''
“ अनड्डान् हन्यते विप्रैरश्मदण्डशिलादिभिः । तप्तकृच्छ्रत्रयं कृत्वा पिवेयुः पञ्चगव्यकम् ॥ १०
“ शुद्धिमाप्नुयुरेतेन नान्यथा शुद्धिरिष्यते ” ॥ इति ।
'''प्राण्यन्तरहनने प्रायश्चित्तम् ।''' प्रसङ्गात्प्राण्यन्तरहननस्यापि प्रायश्चित्तमुच्यते ।
तत्र '''मनुः—'''
“ मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च । श्वगोथोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥
“ पयः पिवेत् त्रिरात्रं वा योजनं वा वने व्रजेत् । उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाग्दैवतं जपेत् ॥ १५
“ अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्यानस्थ्नां तु शूद्रहत्याव्रतं चरेत् ” ॥
पक्षिषु कुम्यादिषु च अस्थिमत्सहस्रवधे शकटपरिमितानस्थिमद्वधे च शूद्रहत्याव्रतं चरेदित्यर्थः ।
'''आपस्तम्बः—'''“ वायसप्रचलाकबर्हिणचकवाक हंसभासमण्डूकनकुलैडेरिका-
श्वहिंसायां शूद्रवत्प्रायश्चित्तम् ” इति । प्रत्येकवधे तु स एव—
“ किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे । अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ” ॥ २०
'''पराशरः—'''
“ हत्वा मूषिकमार्जारसर्पाजगरडुण्डुभान् । कृसरं भोजयेद्विप्रान् लोहदण्डश्च दक्षिणा ” ॥ इति ।
कृसरं तिलमुद्गमिश्रमन्नम् । लोहं कृष्णायसम् । '''याज्ञवल्क्यः—'''
“ मार्जारगोधानकुलमण्डूकांश्च पतत्रिणः । हत्वा त्र्यहं पिवेत्क्षीरं कृच्छ्रं वा पादकं चरेत् ॥
“ गजे नीलवृषाः पञ्च शुकवत्सो द्विहायनः । खराजामेषेषु वृषो देयः क्रौञ्चे द्विहायनः ॥ २५
“ हंसश्येनकपिक्रोष्टुजलस्थलशिखण्डिनः । भासं च हत्वा गां दद्यात्क्रव्यादं तु सवत्सकाम् ॥
“ उरगेष्वायसो दण्डः पण्ढके त्रपुसीसकम् । कोले घृतघटो देय उष्ट्रे गुञ्जो हयेऽशुकम् ॥
“ तित्तिरौ तु तिलद्रोणं गजादीनामशक्नुवन् । दातुं दानं चरेत्कृच्छ्रमेकैकस्य विशुद्धये ॥
“ किञ्चित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके । वृक्षगुल्मलतावीरुच्छेद्ने जप्यमृक्शतम् ॥
“ स्यादौषधिवृथाच्छेदे क्षीराशीगोनुगो दिनम् ” ॥ इति । ३०
'''पराशरः—'''“ गजस्य चतुरङ्गस्य महिषोष्ट्रनिपातने । प्रायश्चित्तमहोरात्रं त्रिसन्ध्यामवगाहनम् ॥
“ कुरङ्गं वानरं सिंहं चित्रं व्याघ्रं तु घातयन् । शुध्यतेऽथ त्रिरात्रेण विप्राणां तर्पणेन च ॥
“ वृकजम्बूकऋक्षाणां तरक्षुश्वानघातकः । तिलप्रस्थं द्विजे दद्याद्वायुभक्षो दिनत्रयम् ॥
“ शृंगरोहिद्वराहाणां वैधे बस्तस्य घातकः । अफालकृष्टमश्नीयादहोरात्रमुपोष्य सः ॥
{{rule}}
१ क्ष-हि । २ क्ष-सु । ३ गध-मने ।<noinclude></noinclude> f0ypaw2ggo6s2sg7curx6uxigfu7jf7 पृष्ठम्:Smriti mukta phalam.pdf/९२६ 104 166929 419955 2026-11-11T05:53:08Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८७८|'''वृक्षच्छेदादौ ।'''|}} {{rule}} “ शिंशुमारं तथा गोधां हत्वा कूर्मं च शल्यकम् । वृन्ताकफलभक्षी वाप्यहोरात्रेण शुध्यति ॥
“ एवं चतुष्पदानां च सर्वेषां वनचारिणाम्... नवीन पृष्ठं निर्मीत अस्ती 419955 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८७८|'''वृक्षच्छेदादौ ।'''|}} {{rule}} “ शिंशुमारं तथा गोधां हत्वा कूर्मं च शल्यकम् । वृन्ताकफलभक्षी वाप्यहोरात्रेण शुध्यति ॥
“ एवं चतुष्पदानां च सर्वेषां वनचारिणाम् । अहोरात्रोषितस्तिष्ठेज्जपन्वौ जातवेदसम् ॥
“ क्रौञ्चसारसहंसांश्च चक्रवाकांश्च कुक्कुटम् । जालपादं च शरभमहोरात्रेण शुध्यति ॥
“ बलोकटिट्टिभौ वापि शुकपारावतावपि । अहिनकंविधाती च शुध्यते नक्तभोजनात् ॥
५ “ वृककाककपोतानां शारीतित्तिरिघातकः । अन्तर्जले उभे सन्ध्ये प्राणायामेन शुध्यति ॥
“ गृध्रश्येनशशादानामुल्लूकस्य च घातकः । अपकाशी दिनं तिष्ठेत्रिकालं मारुताशनः ॥
“ वल्गुलीटिट्टिभानां च कोकिलाखञ्जरीटके । लाविकारक्तपक्षेषु शुध्यते नक्तभोजनात् ॥
“ कारण्डवचकोराणां पिङ्गलाकुररस्य च । भारद्वाजादिकं हत्वा शिवं पूज्य विशुध्यति ॥
“ भेरुण्डचाषभासांश्च पारावतकपिञ्जलौ । पक्षिणां चैव सर्वेषामहोरात्रमभोजनम् ” ॥
१० '''हेमाद्रौ—'''“महिषीहनने विप्रो महासान्तपनं चरेत् । स चेद्दोग्ध्री बालवत्सा महासान्तपनद्वयम् ” ॥
'''वृक्षच्छेदादिप्रायश्चित्तम् ।'''
“ इन्धनार्थं द्रुमच्छेदी तद्दोषस्योपशान्तये । प्राजापत्यं सकृत्कृत्वा शुद्धिमाप्नोत्यनुत्तमाम् ॥
“ कृष्यर्थमिन्धनार्थं वा यज्ञवृक्षविभेदने । पराकं तत्र कुर्वीत शुद्धो भवति वृक्षहा ॥
“ बिल्वाश्वत्थौ यदा छिंद्यात्तदा चान्द्रायणं चरेत् । पुष्पारामस्य विच्छेदी वनद्रोहीति गण्यते ॥
१५ “ तद्दोषपरिहारार्थं गायत्र्या लक्षमुच्यते ।
“ तिन्तिणीचूतयोश्छेदे बहुजन्तूपकारकात् । कपित्थामलकच्छेदे सम्यक् चान्द्रायणं चरेत् ॥
“ कोविदारतरौ निम्बे प्राजापत्यं विशोधनम् । खर्जूरे नालिकेरे च तालहिन्तालयोस्तथा ॥
“ तप्तकृच्छ्रं चरेद्विद्वान् छेददोषोपशान्तये ।
“ जम्बीरमातुलुङ्गाद्रिं च्छित्वा पापविशुद्धये । सम्यक् स्नात्वा शुचिर्भूत्वा गीताशास्त्रं पठेत्क्रमात् ।
२० “ तटाककूपकासारच्छेदने विप्रसत्तमः । पूर्ववन्तं दृढं कृत्वा प्राजापत्यं समाचरेत् ।
“ विष्ण्वालयादिविच्छेदे तद्वद्द्वैन्दवमाचरेत् । शून्यालयस्य विच्छेदे पराकं द्विजसत्तमः ” ॥ इति ।
'''याज्ञवल्क्यः—'''
“ वृक्षगुल्मलतानां तु छेदने जप्यमृक्शतम् । स्यादोषधिवृथाच्छेदी क्षीराशी गोनुगो दिनम्” ॥ इति ।
अत्र वृथाछेदीति विशेषणायज्ञार्थच्छेदने न दोषः । यत्तु शङ्खवचनम्—“ संवत्सरं व्रतं कुर्या-
२५ च्छित्त्वा वृक्षं फलप्रदम् ” इति तत् छेदनावृत्तिविषयम् । दृष्टार्थत्वेऽपि कर्षणाङ्गभूतहलाद्यर्थत्वे
न दोषः । “ फलपुष्पोपवनादीन्न हिंस्यात् । पादपान् कर्षणाद्यर्थमुपहन्त्यात् ” इति स्मृतेः ।
महातटाकच्छेदे विशेषमाह देवलः—“ बहुधान्योद्भवस्याथ तटाकस्य विभेदने ।
“ ब्रह्महत्याव्रतं कृत्वा कपालध्वजवर्जितः । पुनः संस्कारकृत्पश्चाच्छुद्धिमाप्नोत्यसंशयः ” ॥
'''सुरापानादिप्रायश्चित्तम् ।''' अथ सुरापानादेः प्रायश्चित्तमुच्यते । पिष्टादिजन्यो द्रव्य-
३० विशेषः सुरा । तथा च '''मनुः—'''
“ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥
“ सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेत् ॥
“ यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मणेन नात्तव्यं देवानामश्नमर्हति ” ॥ इति ।
{{rule}}
१ ग-का । २ क्ष-अदीनम्रकघाती । ३ क्ष-हे । ४ क्ष-गावप्योहितगम्यते ।<noinclude></noinclude> s26ptp0wqg6ltxko6wesaxo5dvdwkue पृष्ठम्:Smriti mukta phalam.pdf/९२७ 104 166930 419956 2026-11-11T05:53:55Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सुरापानप्रायश्चित्तम् ।'''|८७९}} {{rule}} राजन्यवैश्ययोः सुरापाननिषेधः पैष्टीविषयः । गौडीमाध्व्योरेकादशसु मद्येष्वनुक्रमणात्तत्पाने तयो-
र्दोषाभावात् । अत... नवीन पृष्ठं निर्मीत अस्ती 419956 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सुरापानप्रायश्चित्तम् ।'''|८७९}} {{rule}} राजन्यवैश्ययोः सुरापाननिषेधः पैष्टीविषयः । गौडीमाध्व्योरेकादशसु मद्येष्वनुक्रमणात्तत्पाने तयो-
र्दोषाभावात् । अत एव ‘सुरासर्वं सुरारूपं मद्यं ब्राह्मणेन नात्तव्यम्’ इति ब्राह्मणस्य तन्निषेधः ।
पैष्ट्या अकामकृते सकृत्पाने गौडीमाध्व्योरसकृत्पाने कामकृते च ब्राह्मणस्य प्रायश्चित्तं तुल्यम् ।
श्रुतिरपि—“न सुरां पिबेत् न कलञ्जं भक्षयेत् । न तस्य वै प्रायश्चित्तम् । मरणान्तमेव” इति ।
मरणान्तमेव प्रायश्चित्तमन्यत्तु नास्तीत्यर्थः । तथा चापस्तम्बः— “सुरापोऽग्नि- ५
स्पर्शां सुरां पिबेत् मृतः शुद्धो भवति ” इति । पराशरः—
“ सुरापानं सकृत्कृत्वाऽग्निवर्णां सुरां पिबेत् । स पावयेद्यात्मानमिह लोके परत्र च ” ॥ इति ।
मनुः—
“ सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् । तया काये विनिर्दग्धे मुच्यते किल्बिषात्ततः ॥
“ गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा । पयोधृतं वा मरणात् गोशकृद्रसमेव वा ” ॥ इति । १०
कलौ मरणान्तप्रायश्चित्तस्य निषिद्धत्वात् तदभिप्रायेण प्रायश्चित्तान्तरमाह स एव—
“ कणाम्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरापानापनुत्त्यर्थं बालवासा ध्वजी जटी ” ॥
एतज्जिह्वास्पृष्टमात्रविषयमित्यन्ये । याज्ञवल्क्यः—
“सुराम्बुघृतगोमूत्रपयसामग्निसन्निभम् । सुरापोऽन्यतमं पीत्वा मरणान्छुद्धिमाप्नुयात् ॥
“ बालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् । पिण्याकं वा कणाम्वापि भक्षयेत्तु समान्निशि ॥ १५
“ अज्ञानात्तु सुरां पीत्वा रेतोविण्मूत्रमेव च । पुनःसंस्कारमर्हन्ति त्रयोवर्णा द्विजातयः ॥
“पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । इहैव सा शुनी गृध्री सूकरी वापि जायते”॥ इति ।
गौतमः—“सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामास्ये मृतः शुद्धेदमत्या
पाने पयोगृतमुदकम् ” इति । “ततोऽस्य संस्कारो मूत्रपुरीषरेतसा च प्राशने” इति च ।
यत्वङ्गिरोवचनम्— २०
“भूमिप्रदानं कुर्यात्तु सुरां पीत्वा द्विजोत्तमः। पुनर्न च पिबेज्जातु संस्कृतः स विशुद्ध्यति”॥इति
तत् गौडीमाध्व्योः सकृत्पानविषयमिति माधवीये । यत्तु बृहस्पतिनोक्तम्—
“गौडीं माध्वीं सुरां पीत्वा पैष्टीं विप्रः समाचरेत् । तप्तकृच्छ्रं पराकं च चान्द्रायणमनुक्रमात्”॥ इति
तत्सङ्कल्पमात्रविषयम् । प्रायश्चित्ताकरणे दण्डनमुक्तं हेमाद्रौ—
“ सुरापं दण्डयेद्राजा मरणं यदि नेच्छति । ब्रह्मसूत्रं शिखां सम्यक् त्रुटित्वा वापयेच्छिरः ॥ २५
“ सुराभाण्डं ललाटे तु तापयित्वाऽङ्कयेत्सुधीः । आनीय मृन्मयं भाण्डं सुरापूरितमादरात् ॥
“ बद्ध्वा कण्ठे खरं यानमारोप्य नगरात्ततः । निस्सार्य ध्वनयन् भृत्यैरटित्वा नगराद्वहिः ।
“प्रतार्य सद्यो निर्वास्य शुद्धिमाप्नोति नान्यथा”॥इति। “प्रोत्सार्य सहसा राजा न दुष्टस्तेनं कर्मणा ॥
“ स पापी द्वादशाब्दं तु कपालध्वजवर्जितम् । ब्रह्महत्याव्रतं कृत्वा शुद्धिमाप्नोति नान्यथा ” ॥
तत्रैव—“यदि रोगनिवृत्त्यर्थमौषधार्थं सुरां पिबेत् । ३०
“रोगे’ तस्मिन्निवृत्ते तु तस्य चान्द्रद्वयं विदुः। उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ” ॥ इति ।
पराशरः—
.“ पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत् । पतिरार्धशरीरस्य निष्कृतिर्न विधीयते ” ॥ इति ।
उक्तादन्येन शुद्धिरित्यर्थः ।
{{rule}}
१ ग-तस्योपनयनं भूयः ।<noinclude></noinclude> r6dy8fmf7y5jcwbpqixs52juwy3tfyp पृष्ठम्:Smriti mukta phalam.pdf/९२८ 104 166931 419957 2026-11-11T05:55:31Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८८०|'''प्रमादतः पाने; कामकारे पाने । विण्मूत्रादिभक्षणे ।'''|}} {{rule}} प्रायश्चित्तमाह स एव—
“ गायत्रीं जपमानस्तु कृच्छ्रं सान्तपनं चरेत् । गोमूत्रं गोमयं क्षीरं... नवीन पृष्ठं निर्मीत अस्ती 419957 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८८०|'''प्रमादतः पाने; कामकारे पाने । विण्मूत्रादिभक्षणे ।'''|}} {{rule}} प्रायश्चित्तमाह स एव—
“ गायत्रीं जपमानस्तु कृच्छ्रं सान्तपनं चरेत् । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥
“ एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ” । इति । एतच्च त्रिविधसुरापानविषयम् ।
मद्यपाने तु प्रायश्चित्तमाह '''बृहस्पतिः—'''
५ “ पीत्वा प्रमादतो मद्यमतिकृच्छ्रं चरेद्विजः । कारयेत्तस्य संस्कारं शक्त्या विप्रांस्तु भोजयेत् ” ॥
कामकारे '''पराशरः—'''
“ मद्यपश्व द्विजः कुर्यान्नदीं गत्वा समुद्रगाम् । चान्द्रायणे ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ॥
“ अनडुत्सहितां गां च दद्याद्विप्रेषु दक्षिणाम् ” ॥ इति ।
पनसादिजन्यमदकरणद्रव्यं मद्यम् । तदाह '''पुलस्त्यः—'''“ पानसन्द्राक्षमाधूकन्खार्जूरं तालमैक्षवम् ।
१० “ माध्वीकं सैरमारिष्टं मैरेयं नालिकेरजम् । समानानि विजानीयान्मद्यान्येकादशैव तु ” इति ।
द्विजो ब्राह्मणः ।
“ कामादपि च राजन्यो वैश्यो वाऽपि कथंचन । मद्यमेव सुरां पीत्वा न दोषं प्रतिपद्यते ” ॥ इति ।
बृहद्याज्ञवल्क्यस्मरणात् । मद्यं सुरा गौडी माध्वी च पैष्टी निषिद्धैव । एकादशानामन्यतमपाने
विप्रो महानदीतीरे चान्द्रायणं चरित्वा ब्राह्मणभोजनं कृत्वा दक्षिणां दद्यात् । '''हेमाद्रौ—'''
१५ “ माधूकं शैलमारिष्टमैरेयं नालिकेरजम् । तालं हिन्तालजं चैव द्राक्षाखर्जूरसंभवम् ॥
“ वृक्षोद्भवमिदं मद्यं नवधा परिकीर्तितम् । एषामन्यतमं पीत्वा द्विजो गच्छेन्महानदीम् ॥
“ चान्द्रायणं चरित्वाऽथ कुर्याद्ब्राह्मणभोजनम् । सुरास्पृष्टमन्नं च सुराभाण्डोदकं तथा ॥
“ सुरापानसमं प्राहुः तत्र चान्द्रस्य भक्षणम् । तस्योपनयनं भूयो पञ्चगव्यस्य सेवनम्” ॥ इति ।
'''मनुः—'''
२० “ यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । तस्य व्यपैति तद्ब्रह्म शूद्रत्वं च स गच्छति ॥
“ अज्ञानाद्दारुणीं पीत्वा संस्कारेणैव शुध्यति । मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥
“ अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा । पञ्चरात्रं पिबेत्पीत्वा शंखपुष्पीशृतं पयः ॥
“ स्पृष्ट्वा दत्वा च मदिरां विधिवत् प्रतिगृह्य च । शूद्रोच्छिष्टाश्च पीत्वाऽपः कुशवारि पिबेत्त्र्यहम् ॥
“ ब्राह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति ॥
२५ “ अज्ञानात्प्राश्य विण्मूत्रसुरासंसृष्टमेव च । पुनस्संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ” ॥
'''देवलः—'''
“ हिन्तालतालखर्जूरनालिकेरमधूद्भवम् । गन्ध्यं वायुवशात्प्राप्तं घ्रात्वा विप्रस्य दक्षिणम् ॥
“ हस्तमाघ्राय सहसा शुद्धिमाप्नोति तत्क्षणात् । अभावे भास्करं दृष्ट्वा स्पृष्ट्वा कर्णं स्मरेद्धरिम् ” ॥
'''विण्मूत्रादिभक्षणप्रायश्चित्तम् । पराशरः—'''
३० “ अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनस्संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥
“ अजिनं मेखला दण्डो भैक्षचर्या व्रतानि च । निवर्त्तन्ते द्विजातीनां पुनस्संस्कारकर्मणि ॥
“ विण्मूत्रस्य च शुद्ध्यर्थं प्राजापत्यं समाचरेत् । पञ्चगव्यं प्रकुर्वीत स्नात्वा पीत्वा शुचिर्भवेत् ”॥
स्नात्वा पञ्चगव्येन । एतच्च पुनस्संस्कारात्प्रागेव कार्यम् । कामकारे तु '''स एव—'''
“ अमेध्यरेतोगोमांसं चण्डालाद्यन्नमथापि वा । यदि भुक्तं तु विप्रेण कृच्छ्रं चान्द्रायणं चरेत् ” ॥
३५ अमेध्यं विण्मूत्रादि । तथा च '''मनुः—'''“प्राश्य मूत्रपुरीषादि द्विजश्चान्द्रायणं चरेत् ” ।
{{rule}}
१ गध-सैर ।<noinclude></noinclude> pnk46wawa3lhqut64r7hoc8chwti9ws पृष्ठम्:Smriti mukta phalam.pdf/९२९ 104 166932 419958 2026-11-11T05:56:22Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''चंडालदिपाने ।'''|८८१}} {{rule}} यत्तु '''चतुर्विंशतिमतेऽभिहितम्—'''
“ विण्मूत्रभक्षणे विप्रश्चरेच्चान्द्रायणद्वयम् । श्वादीनां चैव विण्मूत्रं चरेच्चान्द्रायणत... नवीन पृष्ठं निर्मीत अस्ती 419958 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''चंडालदिपाने ।'''|८८१}} {{rule}} यत्तु '''चतुर्विंशतिमतेऽभिहितम्—'''
“ विण्मूत्रभक्षणे विप्रश्चरेच्चान्द्रायणद्वयम् । श्वादीनां चैव विण्मूत्रं चरेच्चान्द्रायणत्रयम् ” ॥ इति ।
तदेतदभ्यासविषयमिति माधवीये ।
'''यमः—'''“द्विजोऽज्ञानान्मळं मूत्रं खरमानुषयोः कपेः । मयूरहंसगृध्राणां सकृत् भुक्त्वा तु पातकी ॥
“ पुनःकर्म प्रकुर्वीत तप्तकृच्छ्रं विशोधनम् । ५
“ रोगिणो न पुनःकर्म कृच्छ्रमात्रमुदीरितम् । सुखी भूत्वा पिवेदूगव्यं नारीणामर्थमीरितम् ” ॥ इति ।
'''चंडालघटस्थजलपाने प्रायश्चित्तम् ।'''
'''पराशरः—'''
“ चंडालघटसंस्थं तु यत्तोयं पिवति द्विजः । तत्क्षणात् क्षिपते यस्तु प्राजापत्यं समाचरेत् ॥
“ यदि न क्षिप्यते तोयं शरीरे यस्य जीर्यते । प्राजापत्यं न दातव्यं कृच्छ्रं सान्तपनं चरेत् ” ॥ इति । १०
प्रथममज्ञानात्पीत्वा पश्चात्तदानीमेव यदि वमेत् तदा प्राजापत्यम् । तज्जरणे सान्तपनं कृच्छ्रं
परिषद्भा दातव्यम् । न तु प्राजापत्यम् ।
बुद्धिपूर्वं तत्पाने वर्णभेदेन प्रायश्चित्तभेदमाह स एव—
“ चरेत्सान्तपनं विप्रः प्राजापत्यमनन्तरः । तदर्थं तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ” ॥ इति ।
'''रजकाद्यन्त्यजभांडोदकादिपाने प्रायश्चित्तमाह स एव—''' १५
“ भाण्डस्थमन्त्यजानां तु जलं दधि पयः पिबेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ॥
“ ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः । शूद्रस्य चोपवासेन तथा दानेन शक्तितः ” ॥ इति ।
ब्रह्मकूर्चस्वरूपमग्रे वक्ष्यते । तत्सहित उपवासः त्रैवर्णिकस्य चतुर्थस्य ब्रह्मकूर्चस्थाने दानं द्रष्टव्यम् ।
'''चण्डालवाप्यादिजलपाने प्रायश्चित्तम् ।'''
'''पराशरः—''' २०
“ चण्डालखातवापीषु पीत्वा सलिलमग्रजः । अज्ञानाद्द्रोकभुक्तेन त्वहोरात्रेण शुध्यति ।
“ चण्डालभाण्डसंसृष्टं पीत्वा कूपगतं जलम् । गोमूत्रयावकाहारः त्रिरात्राच्छुद्धिमाप्नुयात्”॥इति ।
चण्डालस्वामिकवाप्युदकपाने एकभुक्तं कामकारे तु उपवासः । चण्डालभाण्डसंसृष्टकूपस्थजल-
पाने गोमूत्रसहितयवपिष्टादिकं दिनत्रयमाहारत्वेन स्वीकुर्यादित्यर्थः ।
'''उच्छिष्टविषयतदपवादौ ।''' २५
'''देवलः—'''
“ विप्रस्य पीतशेषं यत्तोयमन्यः पिबेद्यदि । मद्यपानसमं प्रोक्तं तच्चोयं मुनिपुंगवैः ॥
“ पीत्वाऽज्ञानात् द्विजः कुर्यात्प्राजापत्यं विशुद्धये ” ॥ इति । पृथक्पात्राभावे तु '''मार्कण्डेयः—'''
“ पात्राभावे तृषार्तस्तु पीतशेषं पिबेत् द्विजः । भूमौ किञ्चिन्निपात्याय पीत्वा विप्रो न दोषभाक् ” ॥ इति ।
'''वृद्धशातातपः—''' ३०
“पीतशेषं तु यत्किञ्चित् भाजने मुखनिःसृतम् । अभोज्यं तत् विजानीयात् भुक्त्वा चान्द्रायणं चरेत् ॥
“ पीतोच्छिष्टं च पानीयं पत्विा तु ब्राह्मणः कचित् । त्रिरात्रं तु व्रतं कुर्याद्दामहस्तेन वा पुनः”॥ इति ।
एतत् स्वोच्छिष्टविषयम् । '''हारीतः—'''
“ रुधिरोच्छिष्टस्थिता आपो यदि कश्चित्पिबेत् द्विजः । शंखपुष्प्या विपक्वेन त्र्यहं क्षीरेण शुध्यति ॥
“ शूद्रोच्छिष्टजलं पीत्वा त्रिरात्रं यावकं पिबेत् ” ॥
{{rule}}
११२-८<noinclude></noinclude> 6dpul00dnphkjlc16eqrcc6jvuduhdr पृष्ठम्:Smriti mukta phalam.pdf/९३० 104 166933 419959 2026-11-11T05:57:34Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८८२|'''निषिद्धक्षीरपाने ।'''|}} {{rule}} '''निषिद्धक्षीरपानप्रायश्चित्तम् ।''' स एव—
“ मृतवत्सापयः पीत्वा मुखेनापि जलं द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ”... नवीन पृष्ठं निर्मीत अस्ती 419959 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८८२|'''निषिद्धक्षीरपाने ।'''|}} {{rule}} '''निषिद्धक्षीरपानप्रायश्चित्तम् ।''' स एव—
“ मृतवत्सापयः पीत्वा मुखेनापि जलं द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ” ॥ इति ।
'''चतुर्विंशतिमते—'''
“ स्त्रीक्षीरं तु द्विजः पीत्वा कथञ्चित्काममोहितः । पुनः संस्कृत्य चात्मानं प्राजापत्यं समाचरेत् ॥
५ “ अमोघ्रीसंधिनीक्षीरं मृगाणां वनचारिणाम् । अनिर्दशाया गोश्चैव पीत्वा दिनमभोजनम्”॥ इति ।
'''अत्रिः—'''
“अविकोट्रोष्ट्राश्च यत्क्षीरं मृगाणां वनचारिणाम् । छागजं गार्दभं क्षीरं भुक्त्वा दिनमभोजनम्”॥ इति
'''विष्णुः—'''“ गोऽजा महिषीवर्जं सर्वपयांसि प्राश्योपवसेत् ” ॥ इति ।
अयं चैकदिनोपवासो ज्ञानकृते सकृत्पाने वेदितव्यः । असकृत्पाने तु '''पराशरः—'''
१० “ पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जनम् । पलाण्डुं वृक्षनिर्यासं देवस्ववकवकानि च ॥
“ उष्ट्रीक्षीरमविंक्षीरमज्ञानादश्नुते द्विजः । त्रिरात्रमुपवासेन पञ्चगव्येन शुध्यति ” ॥ इति ।
पीयूषः अभिनवं पयः । पयसोऽभिनवत्वं दशाहान्तःपातित्वम् । कामकृते तु '''शंखः—'''
“ क्षीराणि यान्येपेयानि तद्विकाराशने बुधः । सप्तरात्रं व्रतं कुर्यात्प्रयत्नेन समाहितः ” ॥ इति ।
कामतश्चाभ्यासे तु—
१५ '''शातातपः—'''“ सन्धिन्या अन्तर्दशाहाया अवत्सायाश्च गोक्षीरप्राशने वृथामांसे प्राजापत्यमुष्ट्री-
खरीमानुषीक्षीरप्राशने चान्द्रायणं पुरुषस्य पुनरुपनयनं च ” ॥ इति ।
'''स्मृतिसारे—'''“क्षीरं लवणसम्मिश्रमुच्छिष्टेऽपि च यत् घृतम् । पानं रजकतीर्थेषु ताम्रे गव्यं सुरासमम्”॥
'''यमः—'''“ ताम्रपात्रस्थितं गव्यं नालिकेरोदकं तथा । लवणाक्तं पयश्चैव मद्यगन्धं तथैव च ॥
“ पीत्वा द्विजश्वरेच्चान्द्रं प्राजापत्यमकामतः ” ॥ इति ।
२० '''पराशरः—'''
“ सकांश्यं नालिकेराम्बु कांस्ये च रसमैक्षवम् । नालिकेररसं पक्वमभूमिष्ठं जलं तथा ॥
“ नालिकेरोदकं ताम्रपात्रस्थं गव्यमेव च । लवणाक्तं पयश्चैव मद्यघ्राणं तथैव च ॥
“ द्विजः कामाच्चरेच्चान्द्रं पीत्वा ज्ञातात्प्रजापतिम् ” ॥
'''देवलः—'''“ताम्रपात्रस्थितं दुग्धं गोमूत्रं तक्रमेव च । नालिकेरोदकं तत्स्थं पीत्वा चान्द्रायणं चरेत्”॥
२५ निमित्तान्तरे च भोजनप्रकरणे प्रायश्चित्तमुक्तम् ।
'''सुवर्णादिस्तेयप्रायश्चित्तम् ।''' अथ स्तेयप्रायश्चित्तमुच्यते ।
तत्र स्वर्णस्तेयप्रायश्चित्तमाह '''मनुः—'''
“ सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु । स्वकर्म स्थापयन् ब्रूयान्मां भवाननुशास्त्विति ॥
“ गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव वा ॥
३० “ तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् ॥
“ एतैर्व्रतैरपोहेत तत्पापं स्तेयकृतं द्विजः ” ॥ वधपक्षो नामधारकमात्रविप्रविषयः तपःपक्षस्तु
वनस्थत्वादिविगुणोपेतब्राह्मणविषय इति माधवीये ।
अत्र सुवर्णशब्दः परिमाणविशेषोपेतहेमवचनः । तथा च '''याज्ञवल्क्यः—'''
“ जालसूर्य मरीचिस्थं त्रसरेणुद्रजः स्मृतम् । तेऽष्टौ लीक्षा तु तास्तिस्रो राजसर्षप उच्यते ।
{{rule}}
१ ग-स्नानं ।<noinclude></noinclude> 39xi2r30lhnew9bv21crijn0ty4jsln पृष्ठम्:Smriti mukta phalam.pdf/९३१ 104 166934 419960 2026-11-11T05:58:38Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''स्वर्णस्तेयप्रायश्चित्तम् । अल्पापहरणे ।'''|८८३}} {{rule}} “ गौरस्तु ते त्रयः षट् ते यवमध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णं तु षोडश” ॥ इति ।
स्तेयस... नवीन पृष्ठं निर्मीत अस्ती 419960 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''स्वर्णस्तेयप्रायश्चित्तम् । अल्पापहरणे ।'''|८८३}} {{rule}} “ गौरस्तु ते त्रयः षट् ते यवमध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णं तु षोडश” ॥ इति ।
स्तेयस्वरूपमाह '''व्यासः—'''
“ समक्षं वा परोक्षं वा बलाच्चौर्येण वा पुनः । परस्वानामापादनं स्तेयमित्युच्यते बुधैः ” ॥
अपहृतं धनं स्वामिने दत्त्वैव स्तेयप्रायश्चित्तं कर्तव्यम्
“ स्तेये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुनः । स्वामिनेऽपहृतं दत्वा हत्योनिष्कृतिमाचरेत् ” ॥ इति ५
स्मरणात् ।
यदा सुवर्णमपहृत्य तद्भुक्त्वा तदानीमेवानुतापेन प्रत्यर्पयेत् तदा आपस्तम्बोक्तं
द्रष्टव्यम् —“ चतुर्थकालं मिताशनेन त्रिवर्षमवस्थानम् ” इति ।
मनसापहारे तु '''सुमन्तुराह—'''“ स्वर्णस्तेयी द्वादशरात्रं वायुभक्षः पूतो भवति ” ॥ इति ।
'''याज्ञवल्क्यः—''' १०
“ ब्राह्मणः स्वर्णहारी तु राज्ञे मुसलमर्पयेत् । स्वकर्म ख्यापयंस्तेन हतो मुक्तोऽपि वा शुचिः ॥
“ अनिवेद्य नृपे शुद्ध्येत् सुराव्रतमाचरेत् । आत्मतुल्यं सुवर्णं वा दद्याद्विप्राय तुष्टिकृत् ” ॥ इति ।
'''पराशरः—'''
“ अपहृत्य सुवर्णं तु ब्राह्मणस्य ततः स्वयम् । गच्छेन्मुसलमादाय राजानं स्वयमेव तु ॥
“ ततः शुद्धिमवाप्नोति राज्ञाऽसौ मुक्त एव च । कामतस्तु कृतं यत्स्याज्ज्ञानान्त्यथा वधमर्हति ” ॥ इति । १५
'''आपस्तम्बः—'''“ स्तेनः प्रकीर्णकेशोऽंसे मुसलमादाय राजानं गत्वा कर्माचक्षीत ।
तेनैनं हन्याद्वधे मोक्षः ” ॥ इति ।
'''हेमाद्रौ—'''“हृत्वा ब्रह्मस्वमज्ञात्वा द्वादशाब्दं तु पूर्ववत् । कपालध्वजहीनं तु ब्रह्महत्याव्रतं चरेत् ॥
“ यद्भांऽसे मुसलं धृत्वा विश्रस्यात्मशिरोरुहान् । गत्वा राजानमाचष्टे प्रहृतस्तेनमस्तके ॥
“ मृत्वा शुद्धिंमवाप्नोति नान्यथा शुद्धिरिष्यते ॥ २०
“ गुरूणां यज्ञकर्तृणां धर्मिष्ठानां तथैव च । श्रोत्रियाणां द्विजानां तु हृत्वा हेम कथं भवेत् ॥
“ तच्छुद्धयर्थं स्वदेहे तु संपूर्ण लेपयेत् घृतम् । कारीषाच्छादितो दग्धः स्तेयपापात्प्रमुच्यते ” ॥
'''अल्पस्वर्णापहरणे प्रायश्चित्तमाह गौतमः—'''
“ त्रसरेणुसमं हेम हृत्वा कुर्यात्समाहितः । प्राणायामद्वयं सम्यक् तेन शुद्ध्येन्न संशयः ॥
“ प्राणायामत्रयं कृत्वा हृत्वा लीक्षाप्रमाणकम् । प्राणायामाश्च चत्वारो राजसर्षपमात्रतः ॥ २५
“ गौरसर्षपमात्रं तु हृत्वा हेम विचक्षणः । स्नात्वा च विधिवत्कार्यं गायत्र्यष्टसहस्रकम् ॥
“ यवमध्यसुवर्णस्य स्तेये शुद्धो जपेद्द्विजः । आ सायं प्रातरारभ्य गायत्रीं वेदमातरम् ॥
“ हेम्नः कृष्णलमात्रस्य हृत्वा सान्तपनं चरेत् । माषमात्रसुवर्णस्य प्रायश्चित्तं तु कथ्यते ॥
“ गोमूत्रपङ्कयवभुक् देवार्चनपरायणः । मासत्रयेण शुद्धिः स्यान्नारायणपरायणः ॥
“ रूप्यमात्रसुवर्णस्य स्तेयं कृत्वा प्रमादतः । जपेद्वै लक्षगायत्रीमन्यथा दोषमाप्नुयात् ॥ ३०
“ निष्कमात्रस्य हेम्रस्तु हरणे विप्रसत्तमः । ब्रह्महत्याव्रतं कृत्वा षडब्दं शुद्धिमाप्नुयात् ॥
“ किञ्चिन्न्यूनसुवर्णस्य स्तेये तु द्विजसत्तमः । गोमूत्रपङ्कयवभुग्वदेनैकेन शुध्यति ।
“ संपूर्णस्य सुवर्णस्य स्तेयं कृत्वा मुनीश्वरैः । ब्रह्महत्याव्रतं कुर्याद्वादशाब्दान्समाहितः ” ॥
{{rule}}
क्ष-पञ्चान्नि । २ ग-वंधाय । ३ ग-न । ४ कग-द्ध । ५ ग-लि । ६ ग-मात्र । ७ ग-रा ।<noinclude></noinclude> jixhtd6qbhbzy3kzhevvjyhpke8tp5z पृष्ठम्:Smriti mukta phalam.pdf/९३२ 104 166935 419961 2026-11-11T05:59:26Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८८४|'''क्षत्रियादीनाम् । रजतादिस्तेये ।'''|}} {{rule}} अज्ञानादपहृतस्य सुवर्णस्य पुनर्दाने तु प्रायश्चित्तं स एवाह—
“ ब्रह्मस्वं यस्तु हृत्वा च पश्चात्तापमवाप्य च... नवीन पृष्ठं निर्मीत अस्ती 419961 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८८४|'''क्षत्रियादीनाम् । रजतादिस्तेये ।'''|}} {{rule}} अज्ञानादपहृतस्य सुवर्णस्य पुनर्दाने तु प्रायश्चित्तं स एवाह—
“ ब्रह्मस्वं यस्तु हृत्वा च पश्चात्तापमवाप्य च । पुनर्द्दत्वा तु विप्रेभ्यः प्रायश्चित्तमिदं चरेत् ॥
“ कृच्छ्रं सान्तपनं कृत्वा द्वादशाहोपवासतः । शुद्धिमाप्नोति विप्रेन्द्र अन्यथा पतितो भवेत्”॥ इति ।
'''क्षत्रियादीनां स्तेयप्रायश्चित्तम् ।''' राज्ञां स्तेयप्रकारोऽभिहितः '''शिवरहस्ये—'''
५ “ अन्यायाद्विप्रग्रामेषु अनाथेभ्यो धनं च यत् । अदण्ड्येभ्योऽपि यद्दत्तं स्तेयं तद्बहुजामिह ॥
“ स्तेयं कृत्वा सुरां पीत्वा मृत्वा राजा विशुद्ध्यति ” । '''नागरखण्डे—'''
“ ऊरुजस्तु सुरां पीत्वा हृत्वा स्वर्णं द्विजन्मनाम् । राजा च शुद्धिमाप्नोति यच्छेद्वा प्रयुतं गवाम् ।
“पादजस्तु सुरां पीत्वा हृत्वा हेम द्विजन्मनाम्। राज्ञा दण्ड्यः स्वधर्मेण मुसलेन हतः शुचिः”॥ इति।
'''कात्यायनः—'''
१० “ विप्रादीनां तु नारीणां स्तेयं वा पानमेव वा । संभवेद्यदि दैवेन नेच्छन्ति मरणं बुधाः ॥
“ त्याज्या एव स्त्रियस्ताश्च न पोष्या धर्मलिप्सुभिः ” ॥ इति ।
'''रजतस्तेयप्रायश्चित्तम् ।''' रजतस्तेये '''नारदः—'''
“ सुवर्णमानं यस्मिन्वै रजतं स्तेयकर्मणि । कुर्यात्सान्तपनं सम्यगन्यथा पतितो भवेत् ॥
“ दशनिष्कान्तपर्यन्तमूर्ध्वंनिष्कदशद्वयात् । हृत्वा तु रजतं विद्वान् कुर्याच्चान्द्रायणं द्विजः ॥
१५ “ ततो विंशतिनिष्कान्तं रजतस्तेयकर्मणि । चान्द्रायणद्वयं प्रोक्तं तत्पापं परिशोधनम् ॥
“ शतादूर्ध्वं सहस्रान्तं प्रोक्तं चान्द्रायणद्वयम् । सहस्रादधिकस्तेये ब्रह्महत्याव्रतं चरेत् ” ॥
'''ताम्रस्तेये प्रायश्चित्तम् ।''' ताम्रस्तेये '''हेमाद्रौ—'''
“ पलद्वये पञ्चगव्यं पीत्वा शुद्धिंमवाप्नुयात् । प्राजापत्यं पञ्चपले तप्तं दशपले स्मृतम् ।
“ विंशत्पले तु चान्द्रं स्यात्स्यात्पञ्चाशति तु त्रयम् । ताम्रं षष्टिपले प्रोक्तं मासं कृत्वाऽघमर्षणम् ॥
२० “ कण्ठदघ्नजले स्थित्वा शुद्धिमाप्नोति पूर्वजः । ताम्रेऽशीतिपले तत्र स्तेयं कृत्वा तु पूर्वजः ॥
“ भूपरिक्रमणं कृत्वा भूयश्चान्द्रं ततः परम् । हृत्वा शतपलं ताम्रं स्वर्णस्तेयसमं विदुः ” ॥ इति ।
स्वर्णचतुष्टयपरिमितं पलम्
“पलं सुवर्णं चत्वारि तच्चत्वारि ध्रुवो भवेत् । चत्वारिंशद्द्रुवाणां च भार इत्युच्यते बुधैः”॥ इति स्मृतेः ।
'''कांस्यादिस्तेये प्रायश्चित्तम् । चतुर्विंशतिमते—'''
२५ “ कांस्यपित्तलमुख्येष्वयस्कान्तेषु पञ्चसु । सहस्रनिष्कुमानं तु पारक्यं परिकीर्तितम् ॥
“ प्रायश्चित्तं तु लोहानां स्तेये रजतवत्स्मृतम् ” ॥ इति ।
'''धनधान्यादिस्तेयप्रायश्चित्तम् । मनुः—'''
“ धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । सजातीयगृहादेव कृच्छ्राब्देनैव शुध्यति ॥
“ मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानां च शुद्धिborderश्चान्द्रायणं स्मृतम् ॥
३० “ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मनः । चरेत्सान्तपनं कृच्छ्रं निर्यात्यात्माविशुद्धये ॥
“ भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥
“ तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥
“ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयःकांस्योपलानां च द्वादशाहं कणान्नता ॥
“ कार्पासकीटजीर्णानां द्विखुरैकखुरस्य च । पक्षिगन्धौषधीनां च रज्ज्वाश्च त्रिहः पयः ॥
३५ “ एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ” ॥
{{rule}}
१ क्ष-द्विशतं । २ क-कास्तो ।<noinclude></noinclude> gpyov6r1faxvddalxh389d7vls6pn67 पृष्ठम्:Smriti mukta phalam.pdf/९३३ 104 166936 419962 2026-11-11T06:00:15Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''भूम्यपहारे । वस्त्रादिहरणे ।'''|८८५}} {{rule}} '''भूम्यपहारप्रायश्चित्तम् ।''' भूम्यपहारे दोषाधिक्यमाह '''पराशरः—'''
“ वापिकूपतटाकाद्यैर्वाजपेयशतैरपि । गवां कोटिप्... नवीन पृष्ठं निर्मीत अस्ती 419962 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''भूम्यपहारे । वस्त्रादिहरणे ।'''|८८५}} {{rule}} '''भूम्यपहारप्रायश्चित्तम् ।''' भूम्यपहारे दोषाधिक्यमाह '''पराशरः—'''
“ वापिकूपतटाकाद्यैर्वाजपेयशतैरपि । गवां कोटिप्रदानेन भूमिहर्त्ता विशुध्यति ” ॥
'''नारदः—'''“ केदारे तप्तकृच्छ्रं स्याद्गृहादेश्चान्द्रमीरितम् ” ॥ इति ।
राजदण्डमाहा'''पस्तम्बः—'''“अयमस्यू दण्डः । पुरुषवधे स्तेये भूम्यादान इति ।
चक्षुर्वरोधस्त्वेतेषु ब्राह्मणस्य ” इति । भूम्यादानं भूम्यपहारः । पुरुषवधादिषु शूद्रो वध्यः । ५
ब्राह्मणस्य तु पट्टबन्धनादिना चक्षुषी निरोद्धव्ये न तत्पाटयितव्ये ‘न शारीरो ब्राह्मणे दण्ड’ इति
‘अक्षतो ब्राह्मणो व्रजेत् ’ इत्यादिसमरणात् । '''वस्त्रादिस्तेयप्रायश्चित्तम् । देवस्वामी—'''
“ स्थूलतन्तुकृते वस्त्रे स्तेयं कृत्वा तु पूर्वजः । पश्चात्तापसमायुक्तः प्राजापत्यं समाचरेत् ॥
“ सूक्ष्मतन्तुकृते वस्त्रे पराकं मुनिचोदितम् । पीतवस्त्रं मुषित्वा तु तप्तकृच्छ्रद्वयं चरेत् ॥
“ नील नये सूक्ष्मवस्त्रे चरेच्चान्द्रायणत्रयम् । १०
“ मूल्याधिके पट्टवस्त्रे कौशेये च मुनीश्वराः । सद्यः पतति पापात्मा घृताक्तोऽग्निं विशेत्तदा ” ॥
'''अजादिहरणे प्रायश्चित्तम् । जाबालिः—'''
“ अजं बस्तं गृहेऽरण्ये पारक्यं गर्वितो द्विजः । मुषित्वा निष्कृतिं तत्र प्राजापत्यं समाचरेत् ” ॥
'''मार्कण्डेयः—'''
“ मार्जारं नकुलं सर्पं भारद्वाजं कपिं तथा । कृच्छ्रार्धमाचरेद्धृत्वा ज्ञात्वा तद्द्विगुणं चरेत् ॥ १५
“ द्विजानां तल्पहरणे प्रायश्चित्तं प्रजापतिः । प्राह चान्द्रं पराकं च तप्तं चैव यथाक्रमम्” ॥ इति ।
'''मरीचिः—'''
“ यो विप्रः पापमज्ञात्वा उपानत्पादुके हरेत् । स तु देहविशुद्ध्यर्थं प्राजापत्यं समाचरेत् ॥
“ छत्रं हरेद्द्विजो यस्तु महातपनिवारणम् । वस्त्रावृते पराकं स्यात्केतकीपर्णसंवृते ॥
“ यावकं तालपत्रैश्च निर्मितं राजवल्लभै । पञ्चगव्यं पिवेत्पश्चात्सर्वपापविनाशनम् ॥ २०
“ पुष्पजालं हि पारक्यं देवपूजार्थमादरात् । सुगन्धिकरवीरादि हृत्वा विप्रः स पापभाक् ॥
“ देवार्थं पुष्पहरणे चान्द्रं वत्सरसेवनात् । पराकं ब्रह्मनिर्माणे कार्यं क्षत्रियवैश्ययोः ” ॥ इति ।
'''देवलः—'''
“ कदलीमातुलुङ्गं च नालिकेरं च पानसम् । द्राक्षाखर्जूरजम्बीरचूतजम्बूफलानि च ॥
“ फलानि विविधानीह देवप्रियकराणि वै । हृत्वा विप्रस्तु पारक्यं प्रायश्चित्तमिदं चरेत् ॥ २५
“ ऋतुत्रये पराकं स्याद्वत्सरे चान्द्रमुच्यते ” ॥ इति ।
'''गृहोपकरणहरणे प्रायश्चित्तमाह गौतमः—'''“ मुसलं दृषदं चैव झुलूखलमनन्तरम् ।
“ वेणुपात्रं तथा शूर्पं मृन्मयं भाण्डमेव च । गृहोपकरणं हृत्वा पुनः संस्कारमर्हति ” ॥ इति ।
'''सालग्रामादेः पूजोपकरणस्य च हरणे प्रायश्चित्तम् । देवलः—'''
“ सालग्रामं शैवलिङ्गं प्रतिमां चक्रपाणिनः । घण्टामुपस्करं विप्रो यो हरेत्पापबुद्धिमान् ॥ ३०
“ सालग्रामे तु चान्द्रं स्याच्छिवलिङ्गे तथैव च । प्राजापत्यं चक्रपाणेरितरेषु तथैव च ॥
“ शतादूर्ध्वं तु रुद्राक्षं हृत्वा चान्द्रद्वयं स्मृतम् । शते पराकमल्पे तु गायत्रीजपमाचरेत् ” ॥
'''नारदः—'''“ लेखनीं बन्धसूत्रं च पुस्तकं फलकं तथा ।
“ हृत्वा दत्वा तु तद्द्रव्यं पश्चात्तापसमन्वितः । प्राजापत्यं चरेत्कृच्छ्रं तदा देहविशुद्धये ” ॥
'''माध्यस्थ्येन धनग्रहणे प्रायश्चित्तम् ।''' ३५
'''देवलः—'''“व्यवहारादिकल्हे प्रायश्चित्तादिकर्मसु । धनं गृहीत्वा यो विप्रः कौटसाक्ष्यं वदेत् चेत् ॥
“ तस्य पुत्राश्च पौत्राश्च तदा नाशमवाप्नुयुः । तस्य देहविशुद्धद्यर्थं महाचान्द्रमुदीरितम् ”॥ इति ।
{{rule}}
१ ग-रू ।<noinclude></noinclude> 7k2ya48tg2a02dqwxgffgs1bno8nf9a पृष्ठम्:Smriti mukta phalam.pdf/९३४ 104 166937 419963 2026-11-11T06:01:01Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८८६|'''माध्यस्थ्येन धनग्रहणे । गुरुतल्पगमने ।'''|}} {{rule}} '''मनुः—'''“द्विजवादे महाचान्द्रं धर्मशास्त्रे तदर्धतः । इतरेषु विवादेषु कायकृच्छ्रं समाचरेत् ” ॥ इति ।
'''... नवीन पृष्ठं निर्मीत अस्ती 419963 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८८६|'''माध्यस्थ्येन धनग्रहणे । गुरुतल्पगमने ।'''|}} {{rule}} '''मनुः—'''“द्विजवादे महाचान्द्रं धर्मशास्त्रे तदर्धतः । इतरेषु विवादेषु कायकृच्छ्रं समाचरेत् ” ॥ इति ।
'''देवलः—'''“ ग्रामणीः प्राड्विवाकश्च राजद्वारे पुरोहितः ।
“ प्रजाभ्यः कार्यसिद्ध्यर्थं यो हरेत्तस्य निष्कृतिः । एकवारे तु चान्द्रं स्यान्महाचान्द्रं द्विवारतः”॥इति ।
'''मनुः—'''
५ “ वानस्पत्यं फलं मूलं दार्वग्न्यर्थं तृणानि च । तृणं च गोभ्यो गृह्णार्थमस्तेयं मनुरब्रवीत् ॥
“ चणकव्रीहिगोधूमयवानां मुद्गमाषयोः । अनिषिद्धो ग्रहीतव्यो मुष्टिरेकोऽध्वनिस्थितैः ” ॥ इति ।
'''आपस्तम्बः—'''“ यथाकथा च परपरिग्रहमभिमन्यते स्तेनोह भवतीति
कौत्सहारीतौ तथा कण्वपौष्करसादी । सन्त्यपवादाः परिग्रहेष्विति वार्ष्यायणिः । शम्योषा युर्ग्ये-
घासो न स्वामिनः प्रतिषेधयन्त्यभैक्ष्यपहारो भवति । सर्वत्रानुमतिपूर्वमिति हारीतः ” इति ।
१० शम्योषाः कोशधान्यानि माषमुद्गादयः । ध्वनिस्थितैः '''गौतमः—'''
“ गोऽग्न्यर्थे तृणमेधान्वीरुद्वनस्पतीनां च पुष्पाणि स्ववदाददीत फलानि चापरिवृतानाम् ” ॥ इति ।
'''मनुः—'''
“ द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके । आददानः परक्षेत्रान्न हस्तच्छेद मर्हति ” ॥ इति ।
अत्र द्विज इति विशेषणाच्छूद्रस्तु दण्ड्य एव । तथा च '''स्मृत्यन्तरेऽपि—'''
१५ “तृणं वा यदि वा काष्ठं मूलं वा यदि वा फलम् । अनापद्ग्रस्तु गृह्णानो हस्तच्छेदनमर्हति”॥ इति ।
'''अथागम्यागमनप्रायश्चित्तम् । गुरुतल्पगमने प्रायश्चित्तम् ।'''
गुरुतल्पगमनस्य प्रायश्चित्तमाह '''मनुः—'''
“ गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । सूमीं ज्वलन्तीमाश्लिष्य मृत्युना स विशुद्ध्यति ॥
“ स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्जलौ । नैऋर्ती दिशमातिष्ठेदा निपातादजिह्मगः ॥
२० “ खट्वाङ्गी चीरवासा वा श्मश्रुलो निर्जने वने । प्राजापत्यं चरेत् कृच्छ्रमब्दमेकं समाहितः ॥
“ चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥
“ एतैर्व्रतैरपोहेयुर्महापातकिनो मलम् ” ॥ इति । '''याज्ञवल्क्यः—'''
“ तप्तेऽयःशयने सार्धमायस्या योषिता स्वपेत् । गृहीत्वोत्कृत्य वृषणौ नैऋत्यां वोत्सृजेत्तनुम् ॥
“ प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः । चान्द्रायणं वा त्रीन्मासानभ्यसेद्वेदसंहिताम्” ॥ इति ।
२५ '''पराशरः—'''
“ मातरं यदि गच्छेत्तु भगिनीं स्वसुतां तथा । एतास्तु मोहितो गत्वा त्रीणि कृच्छ्राणि संञ्चरेत् ।
“चान्द्रायणत्रयं कुर्यात् शिश्नच्छेदेन शुध्यति ” ॥ एतद्व्याख्यातं '''माधवीये'''—मातरं जननीं
भगिनीमेकोदराम् । अत्र त्रीणि प्रायश्चित्तानि । प्राजापत्यत्रयमेकं चान्द्रायणत्रयं द्वितीयं
शिश्नच्छेदस्तुतृतीयम् । तच्च त्रयं मैथुनप्रकारभेदविषयतया योजनीयम् । मैथुनं चाष्टविधम्—
३० “ स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥
“ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ” ॥ इति स्मरणात् । तत्र आद्यं व्रतमल्पत्वादप्रवर्त्तक-
स्मरणादिपञ्चविधापराधविषयम् । द्वितीयं तु सङ्कल्पाध्यवसायविषयम् । तृतीयं त्वतिमहत्वात्
क्रियानिर्वृत्तिविषयम् इति । रेतस्सेकात्पूर्वं तु निवृत्तौ ब्रह्महत्याव्रतं कार्यम्
“रेतःसेकात्पूर्वमेव निवृत्तो यदि मातरम् । ब्रह्महत्याव्रतं कुर्यात् कपालध्वजवर्जितम् ॥
{{rule}}
१ ग-निर्जितः । २ ग-पंष्टो । ३ क-ति । ४ क-यस्तो । ५ क्ष-वदन्ति ब्रह्मचारिणः ।<noinclude></noinclude> kxcvcfcapmn88srwd68dksl5th5bz96 पृष्ठम्:Smriti mukta phalam.pdf/९३५ 104 166938 419964 2026-11-11T06:06:33Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सवर्णागमने ।'''|८८७}} {{rule}} “रेतस्सेकान्तनिर्वृत्तौ मुष्कच्छेदनमर्हति ” । इति स्मृतेः । '''वसिष्ठः—'''
“सवृषणं शिश्नमुत्कृत्याञ्जलावाधाय दक्षिणामुखो गच्छेत्... नवीन पृष्ठं निर्मीत अस्ती 419964 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सवर्णागमने ।'''|८८७}} {{rule}} “रेतस्सेकान्तनिर्वृत्तौ मुष्कच्छेदनमर्हति ” । इति स्मृतेः । '''वसिष्ठः—'''
“सवृषणं शिश्नमुत्कृत्याञ्जलावाधाय दक्षिणामुखो गच्छेत् यत्रैव प्रतिहतस्तत्रैव तिष्ठेदाप्रलयात्” इति ।
'''आपस्तम्बः—'''“गुरुतल्पगामी सवृषणं शिश्नं परिवास्याञ्जलावाधाय दक्षिणां दिश-
मनावृत्तिं व्रजेत् ज्वलितां वा सूर्मिं परिष्वज्य समाप्नुयात् ” इति । अत्र '''हरदत्तः—'''गुरुत्र पिता
नाचार्यादिः । तल्पशब्देन शयनवाचिना भार्या लक्ष्यते । सा च साक्षाज्जननी । न तत्सपत्नी । ५
तां गत्वा साण्डं शिश्नं क्षुरादिना छित्त्वाऽञ्जलावाधाय दक्षिणां दिशमनावर्तमानो गच्छेत् । आयसी
ताम्रमयी वाऽन्तस्सुषिरा स्त्रीप्रतिकृतिस्सूर्मिः । तामग्नौ तप्तां परिष्वज्य समाप्नुयात् म्रियेत वा ।
'''संवर्तः—'''
“ पितृदारान् समारुह्य मातृवर्जं नराधमः । भगिनीं मातृराप्तां वा स्वसारं वाऽन्यमातृजाम् ॥
“ एतां गत्वा स्त्रियो मोहात् तप्तकृच्छ्रं समाचरेत् ” इति । '''पराशरः—''' १०
“ पितृदारान् समारुह्य मातृराप्तां च भ्रातृजाम् । गुरुपत्नीं स्नुषां चैव भ्रातृभार्यां तथैव च ॥
“ मातुलानीं सगोत्रां च प्राजापत्यत्रयं चरेत् । गोद्वयं दक्षिणां दत्वा शुद्ध्यते नात्र संशयः”॥ इति ।
'''माधवीये''' व्याख्यातमेतत्—मातृराप्ता मातुः सखी । भ्रातृजा ज्येष्ठस्य कनिष्ठस्य वा सुता । गुरवः
आचार्यविद्यादातृज्येष्ठभ्रातृऋत्विजः । अभयदाताऽन्नदाता च । अकामतः सकृत् गमने इदं
प्रायश्चित्तमिति । अकामकृतगमने रेतस्सेकात् प्राङ्निवृत्तौ तु '''शंखः—''' १५
“ चण्डालीं पुल्कसीं म्लेच्छीं स्नुषां च भगिनीं सखीम् । मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥
“ मातुलानीं प्रब्रजितां सगोत्रां नृपयोषितम् । शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणं चरेत्”॥ इति ।
कामकृतगमने रेतस्सेकान्तनिर्वृत्तौ '''नारदः—'''
“ माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
“ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रब्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ २०
“ आसामन्यतमां गत्वा गुरुतल्पग उच्यते । शिश्नस्योत्कर्त्तनं तत्र नान्यो दण्डो विधीयते”॥ इति ।
'''पराशरोऽपि—'''
“ मातृष्वसृगमेऽप्येवमात्ममेदोनिकृन्तनम् । अज्ञानेन तु यो गच्छेत् चरेच्चान्द्रायणद्वयम् ॥
“ दश गोमिथुनं दद्याच्छुद्धिं पाराशरोऽब्रवीत् ” । इति । अत्र मातृष्वसृग्रहणं श्वश्वादे-
रुपलक्षणम् । कलौ मरणान्तप्रायश्चित्तस्य निषेधात् । “खट्वाङ्गी चीरवासा वा” इति २५
मन्वाद्युक्तं प्रायश्चित्तान्तरं कर्तव्यम् ।
'''सवर्णागमने प्रायश्चित्तम् ।''' सवर्णागमने प्रायश्चित्तमाह '''आपस्तम्बः—'''
“सवर्णायामन्यपूर्वायां सकृत्सन्निपाते पादः पततीत्युपदिशन्त्येवमभ्यासे पादः पादश्चतुर्थे सर्वमिति”॥
अत्र '''हरदत्तः—'''अन्यः पूर्वः पतिर्यस्याः सा अन्यपूर्वा परभार्या । तस्यां सवर्णायां सकृदभिगमने
पादः पतति । पतितस्य द्वादशवार्षिकं प्रायश्चित्तम् । तस्य तुरीयोऽशस्त्रीणि वर्षाणि । एतच्च ३०
श्रोत्रियभार्यायां ऋतुकाले कामतः प्रथमदूषकस्य ब्राह्मणस्य । एवमभ्यासे प्रत्यभ्यासं पादः पादः
पतति । अतश्चतुर्थे सन्निपाते सर्वमेव पतति । ततश्च पूर्ण द्वादशवार्षिकं कर्तव्यम् । तृतीये
नववर्षाणि द्वितीये षडिति ” । '''संवर्तः—'''
“ ब्राह्मणो ब्राह्मणीं गत्वा प्राजापत्यं समाचरेत् । एवं शुद्धिः समाख्याता संवर्तवचनं यथा ” ॥ इति ।
{{rule}}<noinclude></noinclude> 2uqyh9icoxp2lm0ncr223k3qdcac9d3 पृष्ठम्:Smriti mukta phalam.pdf/९३६ 104 166939 419965 2026-11-11T06:07:45Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८८८|'''सम्बन्ध्वादिक्रीगमने ।'''|}} {{rule}} '''व्याघ्रः—'''“ब्राह्मणो ब्राह्मणीं गच्छेदकामां यदि कामतः । कृच्छ्रं चान्द्रायणं कुर्यादर्धमेव प्रमादतः ॥
“ अर्धकृच्छ्... नवीन पृष्ठं निर्मीत अस्ती 419965 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८८८|'''सम्बन्ध्वादिक्रीगमने ।'''|}} {{rule}} '''व्याघ्रः—'''“ब्राह्मणो ब्राह्मणीं गच्छेदकामां यदि कामतः । कृच्छ्रं चान्द्रायणं कुर्यादर्धमेव प्रमादतः ॥
“ अर्धकृच्छ्रं सकामायां तप्तकृच्छ्रं सकृद्गतौ । अर्धमर्धं नृपादीनां दारेषु ब्राह्मणश्चरेत् ॥
“ एतद्व्रतं चरेत्सार्धं श्रोत्रियस्य परिग्रहे । अश्रोत्रियस्वेद्द्विगुणमगुप्तामर्थमेव च ” ॥
क्षेत्रिणः प्रायश्चित्तविशेषानादेशात्सामान्यप्रायश्चित्तं द्रष्टव्यम् । तच्च याज्ञवल्क्येन दर्शितम्
५ “ प्राणायामशतं कुर्यात्सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ” ॥ इति ।
'''संबन्ध्यादिस्त्रीगमने प्रायश्चित्तम् ।'''
'''चतुर्विंशतिमते—'''“ संबन्धिमः स्त्रियं गत्वा सपादं कृच्छ्रमाचरेत् ॥
“ विधवागमने कृच्छ्रमहोरात्रसमन्वितम् । व्रतस्थागमने कृच्छ्रं सपादं तु समाचरेत् ॥
“ सखिभार्यां समारुह्य ज्ञातिस्वजनयोषितः । स कृत्वा प्राकृतं कृच्छ्रं पादं कुर्यात्ततः पुनः । १०
“ कुमारीगमने विप्रश्चरेच्चान्द्रायणं व्रतम् । पतितां तु द्विजो गत्वा तदेव व्रतमाचरेत् ” ॥
'''स्वैरिणीगमने प्रायश्चित्तम् ।''' स्वैरिणीगमने '''शंखलिखितौ—'''“स्वैरिण्यां वृषल्यामवकीर्णः
सचेलः स्नात उदकुंभं दद्यात् । ब्राह्मणाय वैश्यायां चतुर्थकालाहारो ब्राह्मणान् भोजयेत् ।
क्षत्रियायां त्रिरात्रोषितो यवादकं दद्यात् । ब्राह्मण्यां त्र्यहमुपोष्य घृतपात्रं दद्यादिति ” ।
१५ '''वर्षकीगमने षड्विंशे प्रायश्चित्तमुक्तम्—'''
“ ब्राह्मणीं वार्धकीं गत्वा किञ्चिद्दद्यात् द्विजातये । राजन्यां तु धनुर्दद्यात् वैश्यां गत्वा तु चेलकम् ।
“शूद्रां गत्वा तु वै विप्र उदकुंभं द्विजातये । दिवसोपोषितो वा स्यात् दद्याद्विप्राय भोजनम्”॥ इति ।
तल्लक्षणं स्मृत्यन्तरेऽभिहितम्—“ चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे वर्षकी भवेत् ” ॥ इति । इदं च
गर्भानुत्पत्तिविषयम् । तदुत्पत्तौ तु '''उशनाः—'''“ गमने तु व्रतं यत्स्यात् गर्भे तद् द्विगुणं चरेत्” ।
२० '''गर्भोत्पादने प्रायश्चित्तम् ।''' जातिभेदेन गर्भाधाने '''चतुर्विंशतिमतेऽभिहितम्—'''
“ ब्राह्मणीगमने कृच्छ्रं गर्भे सान्तपनं स्मृतम् । राज्ञीगर्भे पराकं स्याद्विशिगर्भे तु त्र्यहाधिकम् ॥
“ शूद्रागर्भे द्विजः कुर्यात्तद्वच्चान्द्रायणव्रतम् । चण्डाल्यां गर्भमारोप्य गुरुतल्पव्रतं चरेत्”॥ इति ।
'''चण्डात्यादिगमने प्रायश्चित्तम् । चण्डालीगमने पराशरः—'''
“ चण्डालीं वा श्वपाकीं वाऽप्यनुगच्छति यो द्विजः । त्रिरात्रमुपवासित्वा विप्राणामनुशासनात् ॥
२५ “ सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् । गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरोऽब्रवीत् ” ॥ इति ।
ब्राह्मण्यां शूद्राज्जाता चण्डाली । आरूढपतिताज्जाता सगोत्राज्जाता च । एतत्रिविधचण्डाल-
सन्ततौ जाता स्त्री चण्डाली । उम्रात् क्षत्तायां जाता श्वपाकी । द्विजो ब्राह्मणः । '''यमः—'''
“ चण्डालपुल्कसानां तु गत्वा भुक्त्वा च योषितम् । कृच्छ्राब्दमाचरेत् ज्ञानादज्ञानाद्वैन्दवद्वयम्”॥ .
एतदभ्यासविषयम् । '''नारदः—'''
३० “ चण्डालीं तु द्विजः पूर्वमज्ञात्वा कामपीडितः । पश्चात् ज्ञात्वा तु चण्डालीं शुद्धिमिच्छन्मनस्यथ ॥
“ रामसेतुमुपागम्य चापाग्रे प्रत्यहं शुचिः । प्रातः स्नात्वा मासमात्रं पूर्ववच्छुद्धिमाप्नुयात् ” ॥ इति ।
'''गौतमः—'''“ द्विजः कामातुरो गच्छन्नविचार्य च सङ्गमम् ॥
“पश्चाच्चाण्डालजातीयां ज्ञात्वा शुद्धिं परायणः। रामेश्वरधनुष्कोट्यां प्रातः स्नात्वा विशुद्ध्यति ” ॥
{{rule}}
१ ग-मेव । २ क्ष-कुर्यात् । ३ गघ-श्चतुरुत्थार्यां ।<noinclude></noinclude> mtg6halu1je2f6v013pqx7qo06onl5w पृष्ठम्:Smriti mukta phalam.pdf/९३७ 104 166940 419966 2026-11-11T06:08:38Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''चण्डात्यादिगमने ।'''|८८९}} {{rule}} '''यमः—'''
“ रेतः सिक्त्वा कुमारीषु स्वयोनिष्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ” ॥ इति ।
एतत्संवत्सराभ्या... नवीन पृष्ठं निर्मीत अस्ती 419966 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''चण्डात्यादिगमने ।'''|८८९}} {{rule}} '''यमः—'''
“ रेतः सिक्त्वा कुमारीषु स्वयोनिष्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ” ॥ इति ।
एतत्संवत्सराभ्यासविषयम् । '''जाबालिः—'''
“ चण्डालीं रूपसंपन्नां दृष्ट्वा विप्रोऽसकृद् व्रजन् । स चण्डालसमो ज्ञेयः कारीषवधमर्हति ॥
“ चापाग्रे मासमात्रं तु प्रातःस्नानाद्विशुध्यति । तद्गर्भधारणे विप्रो मुष्कच्छेदनमर्हति ” ॥ इति । ५
'''देवलः—'''
“ चण्डालश्च तुलुष्कश्च द्वावेतौ तुल्यपापिनौ । तदङ्गना तथा ज्ञेया विप्रैः पापभयातुरैः ॥
“ज्ञात्वाऽज्ञात्वा तुलुष्कीं यो द्विजः कामातुरः सकृत् । गत्वा शुद्धिंमवाप्नोति चण्डालीगमने यथा”॥ इति ।
'''संवर्तः—'''
“ पुल्कसीगमनं कृत्वा कामतोऽकामतॉऽपि वा । कृच्छ्रं चान्द्रायणं कुर्यात्ततो मुच्येत किल्बिषात् ॥ १०
“ नटीं शैलूषकीं चैव रजकीं बुरुडीं तथा । एतासु गमनं कृत्वा चरेच्चान्द्रायणद्वयम् ” ॥
चान्द्रायणद्वयमभ्यासविषयं बलात्कारविषयं च । तथा '''जाबालिः—'''
“ द्विजः कामातुरो ग्राम्यचण्डालीं रजकाङ्गनाम् । अज्ञानाद्रमयेत्त्वापी प्रायश्चित्तं समाचरेत् ॥
“ उभयोरेकमत्यं चेत्तत्र चान्द्रं विदुर्बुधाः । बलात्कारेण द्वैगुण्यमभ्यासे च तथा स्मृतम् ”॥ इति ।
“ रेतःसेकात्पूर्वमेव प्राजापत्यं विशोधनम् । नटिनीं च द्विजो गच्छन् चरेच्चान्द्रायणव्रतम् ॥ १५
“ तां गत्वाऽनेकवारं तु चरेच्चान्द्रायणद्वयम् । केशसंवपनं कृत्वा पुनःसंस्कारमर्हति ॥
“ वर्षादूर्ध्वं तु पतितः स्यादेवान्र न संशयः ” ॥ नटिनीस्वरूपमुक्तं '''हेमाद्रौ—'''
“ देवालये राजगृहे गृहीत्वा भृतिमादरात् । मासि मासि च वर्षे वा प्रत्यहं वाऽथ नृत्यति ॥
“सोऽयं नट इति ख्यातः सर्वधर्मबहिष्कृतः । तस्य संबन्धिनो नारी नटिनीति स्मृता जनैः”॥ इति ।
'''स्मृत्यन्तरे—''' २०
“ अपि वा मातरं गच्छेन्न गच्छेद्वेदद्रारिकाम् । तां गत्वा तु सकृन्मोहाद्द्विजश्चान्द्रायणं चरेत् ” ॥
'''नागरखण्डे—'''
“ ये वै कटकुटीरस्था भाषावर्णविभेदिनः । मद्यमांसं निषेवन्ते बुरुडास्ते समीरिताः ॥
“ तदङ्गनेयं बुरुडी सर्वपापालया सदा । एकवारं द्विवारं वा दिनत्रयमथापि वा ॥
“ तां गत्वा मासमात्रं वा वत्सरं वा विशेषतः । यावकं तप्तकृच्छ्रं च प्राजापत्यं तथैन्दवम् ॥ २५
“ वत्सरे पतितो भूयाद्धर्मं तद्वर्णवान् भवेत् ” ॥ इति ।
'''षोडशविधग्रामचण्डालीगमने प्रायश्चित्तम् । पराशरः—'''
“ रजकश्चर्मकारश्च नटो बुरुड एव च । कैवर्तमेदभिल्लाश्च स्वर्णकारश्च सौचिकः ॥
“ तक्षकस्तिलयन्त्री च सूनश्चक्री तथा ध्वजी । नापितः कारुकश्चैवं षोडशैते जघन्यजाः ॥
“ तत्स्त्रियो ग्रामचण्डाल्यो विप्रैर्वर्ज्याः प्रयत्नतः ” ॥ इति । ३०
'''तत्र चर्मकारस्त्रीगमने देवस्वामी—'''
“ चर्मकारस्त्रियं गत्वा पराकं दिनमात्रतः । दिनत्रये तु चान्द्रं स्यात् षण्मासात् त्रिंशदाचरेत् ॥
“ वत्सरे पतितं विद्यात्कुर्यात्पातितवत्तदा । गर्भे तु निष्कृतिर्नास्ति कारीषदहनादृते ” ॥
'''मार्कण्डेयः—'''
“ कैवर्तस्य स्त्रियं गत्वा बुरुडीगमनोदितम् । प्रायश्चित्तं द्विजः कुर्यात्पुनःसंस्कारमर्हति ॥ ३५
{{rule}}
१ ग-नु ।
११३-९<noinclude></noinclude> skbbner18zjr1dmldjx1z14od7wcpb6 पृष्ठम्:Smriti mukta phalam.pdf/९३८ 104 166941 419967 2026-11-11T06:09:40Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८९०|'''ब्रह्मचण्डाली-रजस्वला-गमने ।'''|}} {{rule}} “मेदस्त्रीगमनेऽप्येवं प्रायश्चित्तं समाचरेत् ” । मेदः वेणुकारः ।
'''नागरखण्डे—'''
“ चण्डालवत्पशून् निघ्नन् प्रत्... नवीन पृष्ठं निर्मीत अस्ती 419967 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८९०|'''ब्रह्मचण्डाली-रजस्वला-गमने ।'''|}} {{rule}} “मेदस्त्रीगमनेऽप्येवं प्रायश्चित्तं समाचरेत् ” । मेदः वेणुकारः ।
'''नागरखण्डे—'''
“ चण्डालवत्पशून् निघ्नन् प्रत्यहं भावभेदतः । स भिल्ल इति विख्यातः सर्ववर्णबहिष्कृतः ॥
“ भिल्लस्त्रियं द्विजो गत्वा चण्डालीगन्तुवच्चरेत् ।
५ “ स्वर्णकारस्त्रियं गच्छेत् यो विप्रः काममोहितः । एकवारं द्विवारं वा त्रिवारं मासमेव वा ॥
“ यावकं च पराकं च प्राजापत्यं तथैन्दवम् । यथाक्रमं योजनीयं देहशुद्ध्यर्थमादरात् ॥
“ तस्योपनयनं भूयो वर्षान्ते पतितो भवेत् ” ॥ इति । '''नारदः—'''
“ सौचिको वस्त्रसन्धानी यदि तस्य स्त्रियं रमेत् । दिनं दिनत्रयं मासं वर्षं वा गर्भधारणात् ॥
“ यावकं च पराकं च तप्तमैन्दवमेव च । यथाक्रमं प्रकुर्वीत पतितो गर्भधारणे ” ॥ इति ।
१० '''जाबालिः—'''“ तक्षा च तिलयन्त्री च ग्रामचण्डालसंज्ञिकौ ॥
“ तयोर्यदि रमेन्नारीं ब्राह्मणः कामपीडितः । रामचन्द्रधनुष्कोट्यां स्नानाभ्यासेन शुद्ध्यति ” ॥
'''मार्कण्डेयः—'''
“ सौचिकस्य स्त्रियं गत्वा प्राजापत्यं समाचरेत् । मासत्रये तु चान्द्रं स्यात्तदूर्ध्वं पतितो भवेत् ॥
“ कुलालस्य स्त्रियं गच्छेद्विजो यः काममोहितः । तस्यैषा निष्कृतिर्दृष्टा पूर्ववन्मुनिसत्तमैः ॥
१५ “ मद्यविक्रयिणो नारीं यो द्विजः कामपीडितः । तस्योपनयनं भूयः प्राजापत्यं दिनत्रये ॥
“ मासे चान्द्रमृत्तौ तत्त द्विगुणं मुनिभिः स्मृतम् । अतः परं न शुद्धिः स्यात्कारीषदहनादृते ॥
“ अयस्कारस्त्रियं गत्वा क्षौरकस्य तथैव च ” ॥ इति ।
'''ब्रह्मचण्डालीगमने प्रायश्चित्तम् ।''' ब्रह्मचण्डालस्त्रीगमने प्रायश्चित्तमाह '''मनुः—'''
“ अस्थीनि परकीयानि भृत्यर्थं यो हरेद्द्विजः । पादप्रस्थानमात्रेण स चण्डालसमो भवेत् ॥
२० “ मूल्यं गृहीत्वा दाहादिप्रेतकृत्यं करोति यः । काशीं गच्छेत्परार्थं यस्तौ चण्डालसमौ स्मृतौ ॥
“ एतेषां यः स्त्रियो गच्छेच्चण्डालीगमनोदितम् । प्रायश्चित्तं प्रकुर्वीत कारीषवधवजितम् ॥
“ पुनःसंस्कारविधिना कर्तव्यं विधिचोदनात् ” ॥ इति ।
'''रजस्वलागमने प्रायश्चित्तम् ।''' रजस्वलागमने '''पराशरः—'''
“ प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ” ॥
२५ चण्डात्यादिगमने यदुक्तं तदुदक्यागमनेऽपीत्यर्थः । तथा च '''मार्कण्डेयः—'''
“ यो विप्रः पञ्चबाणार्तो रमेत्पत्नीं रजस्वलाम् ॥
“ प्रथमेऽहनि चेत् गच्छेच्चण्डालीगमने च यत् । तत्कृत्वा शुद्धिमाप्नोति ह्यन्यथा दोषभाक् भवेत् ॥
“ द्वितीयेऽहनि ब्रह्मघ्नी गमने यदुदाहृतम् । तदत्रापि नियोक्तव्यं नान्या शुद्धिमाप्नुयात् ॥
“ तृतीये रजकी सङ्गे प्रायश्चित्तं तदत्र हि । कृत्वा शुद्धिंमवाप्नोति इह लोके परत्र च ” ॥ इति
३० अज्ञानकृते रजस्वलागमने '''मनुः—'''
“ अमानुषीषु पुरुषे उदक्यायामयोनिषु । रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ।
'''संवर्तः—'''
“रजस्वलां च यो गच्छेत् गर्भिणीमष्टमासिकीम् । तस्य पापविशुद्ध्यर्थमतिकृच्छ्रं विशोधनम्”॥ इति ।
'''गौतमः—'''
३५ “ यदा रहः पुष्पवती द्विजस्तामुद्वहेद्यदि । कालान्तरे यदा गच्छेत्तदा तां परिवर्जयेत् ॥
{{rule}}
१ गघ-नि । २ कगध-ऋतु । ३ क्ष-पश्ये ।<noinclude></noinclude> nvcuhdb3974vb2mpaegg87h8r37o105 पृष्ठम्:Smriti mukta phalam.pdf/९३९ 104 166942 419968 2026-11-11T06:10:36Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''विधवागमने । दास्यादिगमने ।'''|८९१}} {{rule}} “ यद्यहे तन्मनःशुद्धिं तदा चान्द्रायणं चरेत् । कामातुरस्तदा वर्तेत्स चण्डालसमो भवेत् ॥
“ पुत्रोत्पत्तिर्यदा भूयात... नवीन पृष्ठं निर्मीत अस्ती 419968 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''विधवागमने । दास्यादिगमने ।'''|८९१}} {{rule}} “ यद्यहे तन्मनःशुद्धिं तदा चान्द्रायणं चरेत् । कामातुरस्तदा वर्तेत्स चण्डालसमो भवेत् ॥
“ पुत्रोत्पत्तिर्यदा भूयात्तदा पतित एव सः । माता पिता च पुत्रश्च त्रयस्ते वृषलाः स्मृताः ” ॥
'''विधवागमने प्रायश्चित्तम् ।''' विधवागमने '''देवलः—'''
“ ब्राह्मणो मदलोभेन विधवा विप्रनन्दिनीम् । यभेत्कामातुरः पश्चात् ज्ञात्वाऽसौ पतिवर्जिता ॥
“ इति तत्र व्रजेद्गन्धमादनं पर्वतोत्तमम् । तत्र चापाग्रमासाद्य प्रातः स्नायाद्दिनेदिने । ५
“ मासमात्रेण शुद्धिः स्यादन्यथा दोषभाक् भवेत् ” ॥ ज्ञानपूर्वके तु गमने '''पराशरः—'''
“ ज्ञात्वा विप्रः सकृद्गत्वा विधवा कामपीडितः । न तस्य निष्कृतिर्दृष्टा कारीषदहनादृते ॥
“ उभयोरपि सम्मत्या गच्छेत्तु विधवा द्विजः । त्रिवारं क्ष्मा परिक्रम्य पुनस्संस्कारपूर्वकम् ॥
“ पञ्चगव्यं पिवेत् पश्चाच्छुद्धिमाप्नोति पौर्विकीम् ” ॥
एतद्गर्भानुत्पत्तिविषयम् । गर्भोत्पाते तु पतितप्रायश्चित्तम् । तथा '''हेमाद्रौ—''' १०
“ यो विप्रो विधवा साध्वी गच्छेद्वा गर्भधारणात् । स चण्डालसमो ज्ञेयः पतितः स्यान्न संशयः ” ॥
यत्तु '''चतुर्विंशतिमतेऽभिहितम्—'''“ विधवागमने कृच्छ्रमहोरात्रसमन्वितम् ” इति तदेतः-
सेकात्प्राङ्निवृत्त्यभिप्रायम् । '''मार्कण्डेयः—'''
“ दासी मानधनं हन्ति वेश्या हन्ति वयो यशः । विधवाऽऽयुः श्रियं हन्ति सर्वं हन्ति पराङ्गना ” ॥
'''दास्यादिगमने प्रायश्चित्तम् ।''' १५
“ एकस्मिन्नह्नि यो दासीं यभेत्कामातुरः सकृत् । यावकं तत्र कर्तव्यं पराकं तु दिनत्रये ॥
“ प्राजापत्यं तथा मासे वर्षे चान्द्रं प्रकल्पितम् । अतःपरमवाप्नोति चण्डालत्वं विगर्हितम् ॥
“ द्विजः कामातुरोऽभीक्ष्णं वेश्यां यदि यभेद्भुवि । यन्नीच्छेच्छुद्धिमतुलां षडब्दं कृच्छ्रमाचरेत् ॥
“ पाषण्डशूद्रपतितबौद्धस्त्रीभिर्यभेद्यदि । दिनत्रये यावकं स्यात्तप्तं मासे प्रकीर्तितम् ॥
“ गर्भे वा पुत्रजनने बहिष्कारो विधीयते । मद्यपानरतां नारीं द्विजः कामातुरो यभेत् ॥ २०
“ मासमात्रे तु चान्द्रं स्यात् षण्मासे तु षडब्दकम् । वत्सरे पतितो भूयात्तत्प्रायश्चित्तमाचरेत् ॥
“तस्योपनयनं भूयः प्रायश्चित्तं ततः परम्”॥ इति । प्रायश्चित्ताकरणे '''आपस्तम्बः—'''
“ नाश्य आर्यः शूद्रायाम् ” इति । आर्यस्त्रैवर्णिकः शूद्रायां परभार्यायां प्रसक्तो नाश्यः
राज्ञा राष्ट्रावनिर्वास्य इत्यर्थः । '''संवर्तः—'''
“ शूद्री तु ब्राह्मणो गत्वा मासं मासार्धमेव वा । गोमूत्रयावकाहारो मासार्धेन विशुध्यति ” ॥ २५
'''आपस्तम्बः—'''
“ अनार्थं शयने विप्रश्चेद्वदृद्धिं कषायपः । अब्राह्मण इव वन्दित्वा तृणेष्वात्सीत पृष्ठतः ” ॥
अनार्या शूद्रामुपगच्छन् वद्दद्वृद्धिं बुद्ध्वा जीवन् सुराव्यतिरिक्तं मद्यं कषायः तस्य पाता कषायपः ।
यश्चाब्राह्मण इव सर्वान् वन्दित्वा स्तौति सः सर्वोऽपि तृणेषूद्यादारभ्यासीत यावदादित्यः पृष्ठं
तपति पश्चाद्भागं तपतीत्यर्थः । अभ्यासे एवमभ्यासो यावता शुद्धिं मन्यते । ३०
'''मुखमैथुने प्रायश्चित्तम् ।''' मुखमैथुने '''उशनाः—'''“ यस्तु ब्राह्मणो धर्मपत्नीं मुखे मैथुनं
सेवेत स दुष्यति प्राजापत्येन शुध्यति ” ।
'''पश्वादिगमने प्रायश्चित्तम् ॥''' पश्वादिगमने '''पराशरः—'''
“ पशुवेश्यादिगमने महिष्युष्ट्रीकपीस्तथा । कैरिणीं सूकरीं गत्वा प्राजापत्यं समाचरेत् ” ॥ इति ।
{{rule}}
१ ग-तपो । २ कग-बौद्ध । ३ कग-शूद्र । ४ कग-पञ्चगव्यं । ५ ग-सरी च ।<noinclude></noinclude> k09bytvhw9ch3xafh9nayn40v50dchp पृष्ठम्:Smriti mukta phalam.pdf/९४० 104 166943 419969 2026-11-11T06:11:26Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८९२|'''अवकीर्णिप्रायश्चित्तम् ।'''|}} {{rule}} सकृद्गमने त्वाह '''स एव—'''“ महिष्युष्ट्रीखरीगामी त्वहोरात्रेण शुद्ध्यति ” ॥ इति ।
'''स एव—'''“ गोग़ामी च त्रिरात्रेण गामेक... नवीन पृष्ठं निर्मीत अस्ती 419969 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८९२|'''अवकीर्णिप्रायश्चित्तम् ।'''|}} {{rule}} सकृद्गमने त्वाह '''स एव—'''“ महिष्युष्ट्रीखरीगामी त्वहोरात्रेण शुद्ध्यति ” ॥ इति ।
'''स एव—'''“ गोग़ामी च त्रिरात्रेण गामेकां ब्राह्मणे ददत् ” ॥ इति ।
इदं रेतःसेकात्पूर्वनिवृत्तौ वेदितव्यम्
“ रेतःसेकान्तगमने कुर्यात्सान्तपनं बुधः । तप्तकृच्छ्रं चरेद्गत्वा गां द्विजो मदनातुरः ” ॥ इति
५ स्मरणात् । '''मनुः—'''
“ मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः । गोयानेऽप्सु दिवा चैव सवासा स्नानमाचरेत् ” ॥ इति ।
गोयाने शकटाद्रौ रेतःस्खलने प्रायश्चित्तम् । रेतःस्खलने '''पराशरः—'''
“ गृहस्थः कामतः कुर्यात् रेतःस्खलनं भुवि । सहस्रं तु जपेद्देव्याः प्राणायामैस्त्रिभिः सहः ”॥ इति ।
भुवीत्येतद्वस्त्रादेरुपलक्षणम्
१० “ वस्त्रे जले तथा मार्गे कटादौ रेत उत्सृजेत् । परेषु र्वा तदानीं वा सचेलः स्नानमाचरेत् ॥
“ जपेत्सहस्रं गायत्रीं ततः शुद्धिमवाप्नुयात् ” ॥ इति स्मृतेः । अकामकृते '''याज्ञवल्क्यः—'''
“यन्मेऽद्य रेत इत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत् । स्नानान्तरं भ्रुवोर्मध्यं तेनानामिकया स्पृशेत् ”॥ इति ।
“यन्मेऽद्य रेतः पुनर्मामैत्विन्द्रियम् ” इति द्वाभ्यामनामिकया रेत आदाय स्तनयोर्भ्रुवोर्मध्यमुपस्पृशेत् ।
'''कण्वः—'''“यत्लोत्सर्गं गृहीत्वौ च वारुणीभिरुपस्पृशेत् । वानप्रस्थो यतिश्चैव चरेच्चान्द्रायणव्रतम् ”॥
१५ '''शाण्डिल्यः—'''
“ वानप्रस्थो यतिश्चैव स्खलने सति कामतः । पराकत्रयसंयुक्तमवकीर्णिब्रतं चरेत् ” ॥ इति !
'''काश्यपः—'''
“सूर्यस्य त्रिनमत्कारं स्वप्ने सिक्त्वा गृही चरेत् । वानप्रस्थो यतिश्चैव त्रिः कुर्यादघमर्षणम् ” ॥ इति ।
'''अवकीर्णिप्रायश्चित्तम् ।''' ब्रह्मचारिणो रेतःस्स्खलने '''मनुः—'''
२० “ कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥
“ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥
“ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् । उपस्पृशंस्त्रिषवणमब्देनैकेन शुध्यति ॥
“अवकीर्णि विशुद्ध्यर्थं चान्द्रायणमथापि वा ” ॥
“अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । स्थालीपाकविधानेन यजैकैऋतिभिर्निशि” ॥ इति ।
२५ '''संवर्तः—'''
“ब्रह्मचारी तु यः स्कन्देत् कामतः शुक्रमत्मनः।अवकीर्णीव्रतं कुर्यात्स्नात्वा शुद्धयेदकामतः”॥ इति ।
'''बोधायनः—'''“ यो ब्रह्मचारी स्त्रियमुपेयात्सोऽवकीर्णी । स गर्दभं पशुमालभेत ।
नैऋतः पशुः पुरोडाशश्च रक्षोदैवतो यमदैवतो वा ” ॥ इति । '''जातुकर्णिः—'''
“ खण्डितं व्रतिना रेतो येन स्यात् ब्रह्मचारिणा । कामतोऽकामतः प्राङ्गुरवकीर्णीति तं बुधाः ॥
३० “ आलभेत विशुद्ध्यर्थं नैऋतं गर्दभं पशुम् ” इति ।
कौशिकस्तु नैष्ठिकादीनां कृतप्रायश्चित्तानामपि इह व्यवहारो नास्तीत्याह—
“नैष्ठिकानां व्रतस्थानां यतीनां चावकीर्णिनाम् । शुद्धानामपि लोकेऽस्मिन्प्रत्यापत्तिर्न विद्यते ” ॥ इति ।
'''ऋतुकालातिक्रमे प्रायश्चित्तम् ।''' ऋतुकालातिक्रमे '''पराशरः—'''
“ ऋतौ न गच्छेद्यो भार्या सोऽपि कृच्छ्रार्धमाचरेत् ” ॥
{{rule}}
१ गघ-रुत्वा । २ गघ-यजेत निर्ऋतिं निशि ।<noinclude></noinclude> 55kkn9mwcbo5kq6znb0joandept2bso पृष्ठम्:Smriti mukta phalam.pdf/९४१ 104 166944 419970 2026-11-11T06:13:20Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''स्त्रीबालवृद्धातुराणाम् ।'''|८९३}} {{rule}} '''कात्यायनः—'''
“ ऋतुस्नातां द्विजो भार्यां व्रतश्राद्धविवर्जितः । स्वयं च रोगरहितो यभेत्सन्तानकाम्यया ॥
“ अनिमित... नवीन पृष्ठं निर्मीत अस्ती 419970 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''स्त्रीबालवृद्धातुराणाम् ।'''|८९३}} {{rule}} '''कात्यायनः—'''
“ ऋतुस्नातां द्विजो भार्यां व्रतश्राद्धविवर्जितः । स्वयं च रोगरहितो यभेत्सन्तानकाम्यया ॥
“ अनिमित्ततया विप्रः पत्नीमृतुमतीं त्यजेत् । भ्रूणहत्यामवाप्नोति प्राजापत्यार्धमाचरेत् ” ॥ इति ।
'''बोधायनः—'''
“ऋतौ न गच्छेद्वो भार्या नियतां धर्मचारिणीम् । नियमातिक्रमे तस्य प्राणायामशतं स्मृतम्”॥ इति । ५
कृच्छ्रार्धप्रत्याम्नायत्वेन प्राणायामशतं कार्यमिति भावः ।
'''स्त्रीबालवृद्धातुराणामर्धप्रायश्चित्तम् ।'''
ऋतुस्नातायाः स्त्रिया अनुपसर्पणे तदर्धं प्रायश्चित्तमुक्तम् । तथा च '''भृगुः—'''
“ अशीतिर्यस्य वर्षाणि बालो वाऽप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च”॥ इति ।
'''शपथोल्लङ्घने प्रायश्चित्तम् ।''' १०
केनचिन्निमित्तेन शपथमुल्लंघितवतः प्रायश्चित्तमाह '''पराशरः—'''
“ यस्तु क्रुद्धः पुमान् ब्रूयात् जायायास्तु अगम्यताम् । पुनरिच्छति चेदेनां विप्रमध्ये तु श्रावयेत् ॥
“श्रान्तः क्रुद्धस्तमोऽन्यो वा क्षुत्पिपासाभयार्दितः । दानं पुण्यं क्रतं कृत्वा प्रायश्चित्तं दिनत्रयम् ॥
“ उपस्पृशेत्त्रिषवणं महानद्युपसङ्गमे । चीर्णान्ते चैव गां दद्यात् ब्राह्मणान् भोजयेद्दश ” ॥ इति ।
विप्रमध्ये परिषन्मध्ये स्वपापं निवेदयेत् । अहं शपथप्रतिज्ञावेलायां श्रान्त आसन् । अतः श्रमादि- १५
दोषप्रयुक्तमिदम् । अगम्यता प्रतिज्ञानं न तु विवेकपूर्वकम् । तस्मादस्य पापस्य प्रायश्चित्तमनु-
गृह्णन्तु भवन्त इति । यश्च दानं काशीयात्रादिपुण्यं च प्रतिज्ञाय पश्चादश्रद्धया न करोति तेषु
त्रिषु निमित्तेषु विप्रैर्निर्दिष्टमिदं प्रायश्चित्तं कुर्यादित्यर्थः ।
'''क्षत्रियादीनां ब्राह्मणीगमने प्रायश्चित्तम् ।''' क्षत्रियादीनां ब्राह्मणीगमने '''संवर्तः—'''
“ कथञ्चित् ब्राह्मणीं गच्छेत्क्षत्रियो वैश्य एव वा । गोमूत्रयावकाहारो मासार्धेन विशुद्ध्यति ॥ २०
“ शूद्रस्तु ब्राह्मणीं गत्वा कथंचित्काममोहितः । गोमूत्रयावकाहारो मासेनेकेन शुध्यति ” ॥
एतदत्यन्तव्यभिचारिबाह्मणीविषयम् । इतरविषये वधस्मरणात् । तथा च '''वसिष्ठः—'''
“ शूद्रश्चेत् ब्राह्मणीमुपगच्छेद्दीरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा
सर्पिषाऽभ्यज्य नग्नां कृष्णां खरमारोप्य महापथमनुसंव्राजयेत् पूता भवतीति विज्ञायते ” ॥
'''आपस्तम्बः—'''“ वध्यः शूद्र आर्यायामिति ” । त्रैवर्णिकायामित्यर्थः । एतच्च २५
योऽन्तःपुरादिष्वधिकृतो भवति रक्षकस्तद्विषयम् । अन्यत्र शिश्नच्छेदनम् । तथा च '''गौतमः—'''
“ आर्यस्याभिगमने लिङ्गोद्धारः स्वहरणं च गोप्ता चेद्वधोऽधिकः ” इति ।
'''कात्यायनः—'''“ वर्णत्रयस्य विप्राणां भार्यामातेति गीयते । तद्वारे यदा गच्छेद्वर्णत्रयमकामतः ॥
“ शिश्नच्छेदस्वहरणं कार्यं क्षत्रियवैश्ययोः । शूद्रस्य मौसलं प्राहुरिति शास्त्रेषु निश्चितम्”॥ इति ।
'''स्त्रियाः परपुरुषगमने प्रायश्चित्तम्—''' ३०
स्त्रियाः परपुरुषगमने प्रायश्चित्तमुक्तं '''चतुर्विंशतिमते—'''
“ रजसा शुध्यते नारी परपुंसाभिगामिनी । तथापि मुनिना प्रोक्तं प्रायश्चित्तं समाचरेत् ॥
“ कृच्छ्रार्धं ब्राह्मणी कुर्याद्विप्रस्य गमने सति । क्षत्रियस्य चरेत्कृच्छ्रं वैश्ये सान्तपनं चरेत् ॥
“ शूद्रस्य गमने चैव पराकं च समाचरेत् ” ॥ इति । एतत्सकृद्गमनविषयम् ।
अभ्यासे तु '''उशनाः—'''“ व्यभिचारिणीं भार्यां कुचेलपिण्डपरिभूतां निवृत्ताधिकारां चान्द्रायण- ३५
प्रायश्चित्तं प्राजापत्यं वाचारयेत् ” ॥ इति ।
{{rule}}
१ कग-जन् । २ गघ-प्यमकृत्वा वा ।<noinclude></noinclude> fr98r77ig6si180lnn569kneycqwkdo पृष्ठम्:Smriti mukta phalam.pdf/९४२ 104 166945 419971 2026-11-11T06:14:12Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८९४|'''व्यभिचारिणीनां त्यागविचारः । अनिमित्ततयात्यागे ।'''|}} {{rule}} '''मनुः—'''
“ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि । यत्पुंसः परदारेषु तच्चैनां च... नवीन पृष्ठं निर्मीत अस्ती 419971 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८९४|'''व्यभिचारिणीनां त्यागविचारः । अनिमित्ततयात्यागे ।'''|}} {{rule}} '''मनुः—'''
“ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि । यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् ॥
“ सा चेत्पुनः संप्रदुष्येत्सदृशेनोपमन्त्रि्रता । कृच्छ्रं चान्द्रायणं चैव तदसborder्याः पावनं स्मृतम् ” ॥ इति ।
'''संवर्तः—'''
५ “ ब्राह्मण्याः शूद्रसंपर्के कथञ्चित्समुपागते । कृच्छ्रं चान्द्रायणं तस्याः पावनं परमं स्मृतम् ” ॥
'''याज्ञवल्क्यः—'''“ प्रातिलोम्ये वधः पुंसां स्त्रीणां नासादिकृन्तनम् ” ॥
'''मनुः—'''
“ ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः । अप्रजाता विशुद्ध्यन्ति प्रायश्चित्तेन नेतborderराः ” ॥
गर्भे पाते च ब्राह्मण्याः प्रायश्चित्तम् । '''स्मृत्यन्तरेऽपि—'''
१० “ विप्रगर्भे पराकं स्यात् ब्राह्मण्या क्षत्रियस्य तु । गर्भे चान्द्रं वैश्यगर्भे पराकेण समन्वितम् ॥
“ चान्द्रायणं शूद्रगर्भे तस्यास्त्यागो विधीयते ” ॥ इति । गर्भो द्विविधः । पतिअन्योऽन्य-
जन्यश्च । सवर्णजोऽसवर्णजश्च । तत्र सर्वत्र गर्भपाते प्रायश्चित्तमुक्तं '''चतुर्विंशतिमते—'''
“ गर्भपाते समुद्दिष्टं यथावर्णविधिन्नतम् । राजगर्भे विशेषः स्यात् यथोक्तमृषिभिः पुरा ॥
“ ब्रह्मगर्भबधे कृच्छ्रमब्दं सान्तपनादिकम् । क्षत्रगर्भवधे चैव चरेच्चान्द्रायणद्वयम् ॥
१५ “ वैश्यस्य चैन्दवं प्रोक्तं पराकं शूद्रघातने । प्रायश्चित्तमिदं प्रोक्तं गर्भपाते विशेषतः ” ॥ इति ।
'''व्यभिचारिणीनां त्यागविचारः । याज्ञवल्क्यः—'''
“ व्यभिचारर्त्तौ शुद्ध्येत् गर्भे त्यागो विधीयते । गर्भभर्तृवधादौ च तथा महति पातके ” ॥
ऋतौ शुद्धिरिति मानसव्यभिचाराभिप्रायम् । “ रजसा स्त्री मनोदुष्टा ” इति स्मृतेः । शूद्रगर्भे
तस्यास्त्यागः । तथा गर्भवधे भर्तृवधे महापातके च । आदिग्रहणेन शिष्यादिगमने च त्यागः ।
२० तथा च '''वसिष्ठः—'''
“चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिघ्नी तु विशेषेण जुङ्गितोपगता च या”॥ इति ।
जुङ्गितः श्वपाकादिः । '''चतुर्विंशतिमते—'''
“ चतस्र एव सन्त्याज्याः पतने सत्यपि स्त्रियः । श्वपाकोपहताया तु भर्तृघ्नी पितृपुत्रगा”॥ इति ।
त्यागश्च उपभोगधर्मकार्ययोः । न तु सर्वथा तस्याः । तथा '''चतुर्विंशतिमते—'''
२५ “स्त्रीणां नास्ति परित्यागो ब्रह्महत्यादिभिर्विना । तत्रापि गृहमध्ये तु प्रायश्चित्तानि कारयेत् ॥
“ परित्यक्ता चरेत्पापं ब्रह्मघ्नं वापि किञ्चन । तत्पापं शतधा भूत्वा बान्धवानधिगच्छति ” ॥
'''माधवीये''' तु परित्यागनिषेधोऽनुतापोपेतप्रायश्चित्ताधिकारिणीविषयः ‘प्रायश्चित्तानि कारयेत् ’
इत्यभिधानात् । अनुतापरहितायाः शूद्रगर्भाद्रौ सर्वथा त्याग एवेत्युक्तम् ।
'''अनिमित्ततया भर्तृभार्यान्यतरपरित्यागे प्रायश्चित्तम् ।''' अनिमित्ततया भार्यापरित्यागे
३० भर्तृपरित्यागे चा'''पस्तंबः—'''“दारव्यतिक्रमी खराऽजिनं बहिलोम परि-
धाय दारव्यतिक्रमिणे भिक्षामिति सप्तागाराणि चरेत् । सा वृत्तिः षाण्मासम् । स्त्रियास्तु भर्तृ-
व्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासः तावन्तं कालम्”॥ इति । षाण्मासान्प्राजापत्याभ्यासः इत्यर्थः ।
आपन्नायाः बलाच्छूद्रादिसंपर्के सति रेतःसेकासेकयोः प्रायश्चित्तद्वयमाह '''पराशरः—'''
“ बन्दीग्रहेण या भुक्ता हृत्वा बद्ध्वा भयाद्बलात् । कृत्वा सान्तपनं कृच्छ्रं शुद्ध्येत्पाराशरोऽब्रवीत् ”॥ इति । ३५
{{rule}}
१ कगध-जारजन्मो । २ मनुस्मृतेः ५।१००<noinclude></noinclude> 2mw1dm41lh1o93jfwg6hzddz660v2r9 पृष्ठम्:Smriti mukta phalam.pdf/९४३ 104 166946 419972 2026-11-11T06:15:14Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''विधवाया गर्भे । शङ्कितव्यभिचारायाः ।'''|८९५}} {{rule}} “ सकृद्भुक्ता तु या नारी नेच्छन्ती पापकर्मभिः । प्राजापत्येन शुध्येत ऋतुप्रस्रवणेन च ” ॥
इति भयाद्भयमुपाथ... नवीन पृष्ठं निर्मीत अस्ती 419972 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''विधवाया गर्भे । शङ्कितव्यभिचारायाः ।'''|८९५}} {{rule}} “ सकृद्भुक्ता तु या नारी नेच्छन्ती पापकर्मभिः । प्राजापत्येन शुध्येत ऋतुप्रस्रवणेन च ” ॥
इति भयाद्भयमुपाथेत्यर्थः ।
'''विधवाया गर्भे त्यागः ।''' विधवागमने पुरुषस्य यत्प्रायश्चित्तं तदर्धं विधवायाः द्रष्टव्यम् ।
विधवायाः गर्भधारणे परित्यागमाह '''पराशरः—'''
“ जारेण जनयेद्गर्भं मृते व्यक्ते गते पतौ । तां त्यजेत्परे राष्ट्रे पतितां पापकारिणीम् ” ॥ इति । ५
'''नागरखण्डे—'''
“ वर्णत्रयाद्वा विधवा सवर्णाद्वाऽथ गर्भिणी । विप्रैस्तस्याः परित्यागः कार्यो धर्मपरायणैः ॥
“ तद्दर्शनान्महापापमवाप्नोतीह पूर्वजः ” ॥
'''विष्णुधर्मे—'''
“ वर्णत्रयात्सवर्णाद्वा गर्भिणी विधवा यदि । तस्या दर्शनमात्रेण ब्रह्महत्यामवाप्नुयात् ॥ १०
“ अतस्त्यागो मुनिश्रेष्ठैर्विधवाया विधीयते ” ॥ इति ।
'''शङ्कितव्यभिचारे स्त्रीणां कर्तव्यम् ।''' शङ्कितव्यभिचारां ब्राह्मणीं प्रत्याह '''पराशरः—'''
“ब्राह्मणी तु यदा गच्छेद्वरपुंसा समन्विता । सा तु नष्टा विनिर्देश्या न तस्या गमनं पुनः”॥ इति ।
पित्रादिभ्यो व्यतिरिक्तः पुमान्पर इत्युच्यते । तेन पुंसा समन्विता प्रीत्यतिशयद्योतकहास्यादि-
पुरस्सरं सम्यगन्विता ब्राह्मणस्त्री केनचिद्व्याजेन ग्रामान्तरं देशान्तरं वा गत्वा चिरं निवसेत् १५
सा बन्धुमध्ये नष्टेति प्रख्यापनीया । न तस्याः पुनः गृहगमनमस्ति । स्वगृहं प्रत्यागतापि
निर्वासनीयेत्यर्थः ।
परपुरुषेण यथोक्तसम्बन्धाभावेऽपि स्वातन्त्र्येण चिरं निर्गता स्त्री परित्याज्येत्याह '''स एव—'''
“ कामान्मोहात्तु या गच्छेत्त्यक्त्वा बन्धून्सुतान् पतिम् । सा तु नष्टा परे लोके मानुषेषु विशेषतः”॥ इति ।
बन्ध्वादीनामन्यतमस्य समीपे स्थातव्यं इति स्त्रीधर्मः । तथा च '''याज्ञवल्क्यः—''' २०
“ पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः । हीना न स्याद्विना भर्त्रा गर्हणीयाऽन्यथा भवेत् ” ॥ इति ।
एवं च सति या स्त्री कामाद्वा यथोक्तस्त्रीधर्मपरिज्ञानाद्वा बन्ध्वादीन्परित्यज्य ग्रामान्तरादौ चिरं
वस्तुं गच्छेत्सा परलोके नष्टा नरकं प्राप्नोति । बन्ध्वादिषु च प्रवेशं न लभते ।
'''बन्धुहित्येन गमनेऽपि त्यागापवादः ।''' उक्तार्थस्य निमित्तविशेषेणापवादमाह
'''स एव—'''“मद्मोपहता नारी क्रोधाद्दण्डादिताडिता । अद्वितीयगता चैव पुनरागमनं भवेत् ”॥ इति । २५
मदः पतिश्वशुरादितिरस्कारजनको मानसो दोषः । पतिशुश्रूषणं स्त्रीणां परमो धर्म इति
विवेकाभावो मोहः । उक्तदोषद्वयोपेतां नारीं शिक्षितुं पत्यादयो यदा दण्डादिभिस्ताडयेयुः
तदा व्यथिता सा यथोक्तबन्ध्वादिसहायं विना स्वयमेकाकिन्येव यद्यपि निर्गच्छेत्तथापि स्वगृहे
पुनरागमनं प्राप्नुयादित्यर्थः । पुनरागमने प्रतीक्षणकालविधिमाह '''पराशरः—'''
“ दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते । दशाहं न त्यजेन्नारीं त्यजेन्नष्टामश्रुतां तथा ” ॥ इति । ३०
पुनरागमने प्रतीक्षां दश दिनानि कुर्यात् । दशमदिने तया गृहे प्राप्ते सति नेयं प्रायश्चित्तभाग्भवेत् ।
ऊर्ध्वं तु व्यभिचारोचितप्रायश्चित्तभाग्भवति । दशाहमध्ये तदीयव्यभिचाराश्रवणे तां न परित्यजेत् ।
यदि नष्टत्वेन सा श्रूयेत् तदा दशाहमध्ये त्वकृतप्रायश्चित्तां तां परित्यजेदित्यर्थः ।
'''स्वातन्त्र्येण गताया अत्यागे भर्त्रादीनां प्रायश्चित्तम् ।''' नष्टां श्रुत्वापि यदि भर्त्रादयस्तां
न परित्यजेयुः तदा तेषां प्रायश्चित्तमाह '''स एव—'''“ भर्ता चैव चरेत्कृच्छ्रं कृच्छ्रार्धं चैव ३५
{{rule}}<noinclude></noinclude> p3aw9d7cvjxmhob8qd3xktu1xwmdduw पृष्ठम्:Smriti mukta phalam.pdf/९४४ 104 166947 419973 2026-11-11T06:16:07Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८९६|'''व्यभिचारिण्याः शुद्धिप्रकारः ।'''|}} {{rule}} बान्धवाः”इति । अकृतप्रायश्चित्तानां तेषां गृहे भोजनादिकमाचरन्नुपवासेन शुद्ध्यतीत्याह स एव
“ तेषां भुक्त्वा... नवीन पृष्ठं निर्मीत अस्ती 419973 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८९६|'''व्यभिचारिण्याः शुद्धिप्रकारः ।'''|}} {{rule}} बान्धवाः”इति । अकृतप्रायश्चित्तानां तेषां गृहे भोजनादिकमाचरन्नुपवासेन शुद्ध्यतीत्याह स एव
“ तेषां भुक्त्वा च पीत्वा चाहोरात्रेण शुद्ध्यति ” ॥ इति ।
ताडनादिना निर्गच्छन्त्याः त्यागविचारः । ताडनादिना निर्गच्छन्त्याः पुरुषान्तर-
सम्बन्धयाभावेऽपि दशाहादूर्ध्वं त्यागे को हेतुरित्यत आह स एव—
५ “ ब्राह्मणी तु यदा गच्छेदपरपुंसा विवर्जिता । गत्वा पुंसः शतं याति त्यजेयुस्तां तु गोत्रिणः ” ॥ इति ।
यद्यपि क्रोधादिना निर्गच्छन्ती न तदानीं पुरुषान्तरेण समवैति तथापि गत्वा कालान्तरेण शत-
संख्याकेषु पुरुषेषु सञ्चरतीति मत्वा बान्धवास्तां परित्यजेयुः । ब्राह्मण्या अपि बहुपुरुषसञ्चारिण्या
गणिकात्वं भवति । तदाह प्रजापतिः—
“अभिगच्छति या नारी बहुभिः पुरुषैर्मिथः । व्यभिचारिणीति सा ज्ञेया प्रत्यक्षा गणिकेति च ”॥इति ।
१० व्यभिचारिण्या गृहप्रवेशे शुद्धिप्रकारः । सा यद्गृहं प्रविशति तस्य शुद्धिप्रकारमाह
पराशरः—
“ पुंसां यदि गृहं गच्छेत्तदशुद्धं गृहं भवेत् । पितृमातृगृहं यच्च जारस्यैव तु तद्गृहम् ॥
“ उद्धृत्य तद्गृहं पश्चात्पञ्चगव्येन सेचयेत् । त्यजेच्च मृन्मयं पात्रं वस्त्रं काष्ठं च शोधयेत् ॥
“ संभारान् शोधयेत्सर्वान् गोवालैश्च फलोद्भवान् । ताम्राणि पञ्चगव्येन कांस्यानि दश भस्मभिः ॥
१५ “ प्रायश्चित्तं चरेद्विप्रो ब्राह्मणैरुपपादितम् । गोद्वयं दक्षिणां दद्यात्प्राजापत्यद्वयं चरेत् ॥
“ इतरेषामहोरात्रं पञ्चगव्येन शोधनम् ॥
“ उपवासैर्व्रतैः पुण्यैः स्नानसन्ध्यार्चनादिभिः । जपहोमद्यादानैः शुद्ध्यन्ते ब्राह्मणादयः ॥
“ आकाशं वायुरग्निश्च मेध्यं भूमिगतं जलम् । न दुष्यन्ति च दर्भाश्च यज्ञेषु चमसा यथा ” ॥ इति ।
सेयं दुर्ब्राह्मणी स्वनिवासाय पत्युर्मातुर्वा जारस्य वाऽन्यस्य वा दाक्षिण्यवतः यस्य कस्यचिद्गृहं
२० प्रविशति तद्गृहं चण्डालाध्युषितगृहमिवात्यन्तमपवित्रं भवति । तत्रोल्लेखनं भूमेस्तेन कुड्यादिलेपना-
दिकमुपलक्ष्यते । वस्त्रकाष्ठयोर्धान्यादीनां संभाराणां च यथोक्तं शोधनं कुर्यात् । नालिकेरादिफल-
संभूतानां पात्राणां गोवालैर्मार्जनम् । ताम्रस्याम्लादिना शुद्धिborderरुक्ता पूर्वम् । अत्र तु पञ्चगव्येनेति
विशेषः । कांस्यपात्राणां दशकृत्वो भस्मनाऽघमर्षणम् । गृहस्वामी तु परिषन्निर्दिष्टं सदक्षिणं प्राजापत्य-
द्वयं चरेत् । अन्येषां तु तद्गृहवासिनामुपवासः पञ्चगव्यप्राशनं च । तद्गृहवासिभिः सह व्यवहर्तॄणां
२५ गृहान्तरवासिनां निर्दिष्टेनोपवासादीनामन्यतमेन शुद्धिः । तद्गृहसम्बन्धिनामाकाशादीनां निर्लेपत्वात्
न यत्नसंपादनीया शुद्धिः । तत्र दृष्टान्तो यज्ञेष्विति । चिरकालवासविषयमिदं परिशोधनम् ।
सकृत्प्रवेशे तु मार्जनादिभिः शुद्धिरिति माधवीये ।
ब्राह्मण्याश्चण्डालादिगमने प्रायश्चित्तम् । अकामकृते चण्डालसंसर्गे ब्राह्मण्याः
प्रायश्चित्तमाह पराशरः—
३० “ चण्डालैः सह संपर्कं या नारी कुरुते ततः । विप्रान् दशावरान् कृत्वा स्वकं दोषं प्रकाशयेत् ॥
“ आकण्ठसम्मिते कूपे गोमयोदककर्दमे । तत्र स्थित्वा निराहारा त्वहोरात्रेण निष्क्रमेत् ॥
“ सशिखं वपनं कृत्वा भुञ्जीयायावकोदनम् । त्रिरात्रमुपवासित्वा त्वेकरात्रं जले वसेत् ॥
“ शङ्खपुष्पीलतामूलं पत्रं च कुसुमं फलम् । सुवर्णं पञ्चगव्यं च क्वाथयित्वा पिबेज्जलम् ॥
{{rule}}<noinclude></noinclude> 8wrhotj0jy44z2i4ntc9y3u4ilq3oqt पृष्ठम्:Smriti mukta phalam.pdf/९४५ 104 166948 419974 2026-11-11T06:16:59Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''ब्राह्मण्या म्लेच्छरजकादिगमने ।'''|८९७}} {{rule}} “ एकभुक्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत् । व्रतं चरति तथावन्नावसंवसते बहिः ॥ “ प्रायश्चित्ते ततश्चीर्णे कुर... नवीन पृष्ठं निर्मीत अस्ती 419974 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''ब्राह्मण्या म्लेच्छरजकादिगमने ।'''|८९७}} {{rule}} “ एकभुक्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत् । व्रतं चरति तथावन्नावसंवसते बहिः ॥ “ प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् । गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरोऽब्रवीत् ” ॥ इति । कामकृते सकृद्गमने त्वब्दकृच्छ्रमसकृद्गमने अग्निप्रवेशः । “ सकृच्चण्डालगमने कामतस्तु कृते स्त्रियः । अब्दकृच्छ्रं स्मृतं तस्या अभ्यासेऽग्निप्रवेशनम् ” ॥ इति स्मृतेः । ५ रेतस्सेकान्तचण्डालगमनस्य प्रायश्चित्तमभिधाय रेतस्सेकात्प्राङ्निवृत्तौ प्रायश्चित्तमाह '''पराशरः—''' “ चातुर्वर्ण्यस्य नारीणां कृच्छ्रं चान्द्रायणं स्मृतम् । यथा भूमिस्तथा नारी तस्मात्तां न तु दूषयेत् ” ॥ दूषणं त्यागः । चातुर्वर्ण्येस्येति ब्राह्मणीव्यतिरिक्तस्त्रीविषयम् “ रेतस्सेकात्प्राङ्निवृत्तौ चण्डालगमने सति । ब्राह्मणी निष्कृतिं कुर्याच्चान्द्रायणचतुष्टयम् ” ॥ इति १० स्मृतेः । '''ब्राह्मण्या म्लेच्छरजकादिगमने प्रायश्चित्तम् । संवर्तस्तु—''' “ चण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा । एतान् श्रेष्ठा तु या गच्छेत्कुर्याच्चान्द्रायणत्रयम् ॥ “ रजकव्याधशैलूषवेणुचर्मोपजीविनः । ब्राह्मणीयेतान् समागच्छेत्कुर्याच्चान्द्रायणत्रयम् ” ॥ इति । गर्भधारणे '''जाबालिः—''' १५ “ विप्राङ्गनायाश्चण्डालगर्भे तां दण्डयेन्नृपः । निकृत्य कर्णनासं तु निर्वास्य पत्तनाद्वहिः ॥ “ राज्ञा कार्यस्त्याग एव न वधस्त्रीषु सम्मतः । क्षत्रवैश्यस्त्रियो राजा कारीषवधमाचरेत् ” ॥ इति । तदेवं ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पगमनानां महापातकानां प्रायश्चित्तानि निरूपितानि । प्रसङ्गादितरहननस्यापेयान्तरपानस्य स्तेयान्तरस्यागम्यागमनमात्रस्य च प्रायश्चित्तमुक्तम् । '''अथ संसर्गस्य महापातकत्वविचारः ।''' महापातकिसंसर्गस्य प्रायश्चित्तमुच्यते । तस्य च २० महापातकित्वमुक्तं मनुयाज्ञवल्क्यादिभिः— “ ब्रह्महत्यासुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संयोगं चैव पञ्चमम् ” ॥ इति । “ संवत्सरेण पतति पतितेन समाचरन् । ब्रह्महा मद्यपस्तेनस्तथैव गुरुतल्पगः ॥ “ एते महापातकिनो यश्च तैः सह संवसेत् ” ॥ इति । तत्तत्प्रायश्चित्तं च संसर्गेण उक्तम् ॥ “यो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैव व्रतं कुर्यात्संसर्गस्य विशुद्धये”॥ इति । २५ एतद्युगान्तरविषयम् । अत एव कलियुगधर्माभिधाने प्रवृत्तः पराशरः ब्रह्महत्यादिमहापातक- चतुष्टयस्य प्रायश्चित्तमुक्तवान् । कलियुगे संसर्गदोषाभावमभिप्रेत्य संसर्गप्रायश्चित्तं नाभ्यधात् । '''कर्मण एव पातित्यहेतुत्वम् ।''' तथा कर्मणा पातित्यं कण्ठरवेणाह पराशरः— “ कृते संभाषणादेव त्रेतायां स्पर्शनेन च । द्वापरे त्वन्नमादाय कलौ पतति कर्मणा ॥ “ त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् । द्वापरे कुलमेकं तु कर्त्तारं तु कलौ युगे ” ॥ इति । ३० '''सुमन्तुः—'''“ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महापातकसंज्ञानि चत्वार्येव कलौ युगे ” ॥ इति । अत्र चतुर्ग्रहणादेवकाराच्च संसर्गिणो न महापातकित्वम् । '''स्मृतिकामधेनौ—''' “ संसर्गदोषो नैव स्यान्महापातकभिः कलौ । संसर्गदोषः स्तेनाद्यैर्न महापापनिष्कृतिः” ॥ तथा स्मृत्यन्तरे कलौ वर्जनीयानामनुक्रमे संसर्गदोषः पापेष्विति पठितम् । {{rule}} १ गघ-दृष्ट्वामादैन्द्वद्वयम् । ११४-१०<noinclude></noinclude> cepwv263fj5765bhup0er5occovst6q 419975 419974 2026-11-11T06:19:57Z Myauthworks 10864 419975 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''ब्राह्मण्या म्लेच्छरजकादिगमने ।'''|८९७}} {{rule}} “ एकभुक्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत् । व्रतं चरति तद्यावत्तावत्संवसते बहिः ॥
“ प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् । गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरोऽब्रवीत्”॥ इति ।
कामकृते सकृद्गमने त्वब्दकृच्छ्रमसकृद्गमने अग्निप्रवेशः ।
“सकृच्चण्डालगमने कामतस्तु कृते स्त्रियः । अब्दकृच्छ्रं स्मृतं तस्या अभ्यासेऽग्निप्रवेशनम्”॥ इति
'''स्मृतेः ।''' ५
रेतस्सेकान्तचण्डालगमनस्य प्रायश्चित्तमभिधाय रेतस्सेकात्प्राङ्निवृत्तौ प्रायश्चित्तमाह
'''पराशरः—'''
“ चातुर्वर्ण्यस्य नारीणां कृच्छ्रं चान्द्रायणं स्मृतम् । यथा भूमिस्तथा नारी तस्मात्तां न तु दूषयेत्”॥
दूषणं त्यागः । चातुर्वर्ण्यस्येति ब्राह्मणीव्यतिरिक्तस्त्रीविषयम्
“ रेतस्सेकात्प्राङ्निवृत्तौ चण्डालगमने सति । ब्राह्मणी निष्कृतिं कुर्याच्चान्द्रायणचतुष्टयम्” ॥ इति १०
'''स्मृतेः ।'''
'''ब्राह्मण्या म्लेच्छरजकादिगमने प्रायश्चित्तम् । संवर्तस्तु—'''
“ चण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा । एतान् श्रेष्ठा तु या गच्छेत्कुर्याच्चान्द्रायणत्रयम् ॥
“ रजकव्याधशैलूषवेणुचर्मोपजीविनः । ब्राह्मण्येतान् समागच्छेत्कुर्याच्चान्द्रायणत्रयम् ” ॥ इति ।
गर्भधारणे '''जाबालिः—''' १५
“ विप्राङ्गनायाश्चण्डालगर्भे तां दण्डयेन्नृपः । निकृत्य कर्णनासं तु निर्वास्य पत्तनाद्वहिः ॥
“ राज्ञा कार्यस्त्याग एव न वधस्त्रीषु सम्मतः । क्षत्रवैश्यस्त्रियो राजा कारीषवधमाचरेत् ” ॥ इति ।
तदेवं ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पगमनानां महापातकानां प्रायश्चित्तानि निरूपितानि ।
प्रसङ्गादितरहननस्यापेयान्तरपानस्य स्तेयान्तरस्यागम्यागमनमात्रस्य च प्रायश्चित्तमुक्तम् ।
'''अथ संसर्गस्य महापातकत्वविचारः ।''' महापातकिसंसर्गस्य प्रायश्चित्तमुच्यते । तस्य च २०
महापातकित्वमुक्तं '''मनुयाज्ञवल्क्यादिभिः—'''
“ ब्रह्महत्यासुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संयोगं चैव पञ्चमम् ” ॥ इति ।
“ संवत्सरेण पतति पतितेन समाचरन् । ब्रह्महा मद्यपस्तेनस्तथैव गुरुतल्पगः ॥
“ एते महापातकिनो यश्च तैः सह संवसेत् ” ॥ इति । तत्तत्प्रायश्चित्तं च संसर्गेण उक्तम् ॥
“यो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैव व्रतं कुर्यात्संसर्गस्य विशुद्धये”॥ इति । २५
एतद्युगान्तरविषयम् । अत एव कलियुगधर्माभिधाने प्रवृत्तः '''पराशरः''' ब्रह्महत्यादिमहापातक-
चतुष्टयस्य प्रायश्चित्तमुक्तवान् । कलियुगे संसर्गदोषाभावमभिप्रेत्य संसर्गप्रायश्चित्तं नाभ्यधात् ।
'''कर्मण एव पातित्यहेतुत्वम् ।''' तथा कर्मणा पातित्यं कण्ठरवेणाह '''पराशरः—'''
“ कृते संभाषणादेव त्रेतायां स्पर्शनेन च । द्वापरे त्वन्नमादाय कलौ पतति कर्मणा ॥
“ त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् । द्वापरे कुलमेकं तु कर्त्तारं तु कलौ युगे ” ॥ इति । ३०
'''सुमन्तुः—'''“ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महापातकसंज्ञानि चत्वार्येव कलौ युगे”॥ इति ।
अत्र चतुर्ग्रहणादेवकाराच्च संसर्गिणो न महापातकित्वम् । '''स्मृतिकामधेनौ—'''
“ संसर्गदोषो नैव स्यान्महापातकिभिः कलौ । संसर्गदोषः स्तेनाद्यैर्न महापापनिष्कृतिः” ॥
तथा '''स्मृत्यन्तरे''' कलौ वर्जनीयानामनुक्रमे संसर्गदोषः पापेष्विति पठितम् ।
{{rule}} १ गघ-दकामादैंदवद्वयम् । ११४-१०<noinclude></noinclude> qv7slvimhiwglni7snztq9ahcnuwpjx पृष्ठम्:Smriti mukta phalam.pdf/९४६ 104 166949 419976 2026-11-11T06:21:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|८९८|'''मिथ्याभिशंसने ।'''|}} {{rule}} कलौ संसर्गस्य पापमात्रहेतुत्वम् । संसर्गदोषस्य पातित्यापादकत्वाभावेऽपि पाप-
मात्रापादकमस्तीत्याह '''पराशरः—'''
“आसनाच्छयना... नवीन पृष्ठं निर्मीत अस्ती 419976 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|८९८|'''मिथ्याभिशंसने ।'''|}} {{rule}} कलौ संसर्गस्य पापमात्रहेतुत्वम् । संसर्गदोषस्य पातित्यापादकत्वाभावेऽपि पाप-
मात्रापादकमस्तीत्याह '''पराशरः—'''
“आसनाच्छयनाद्यानात्सम्भाषात्सहभोजनात् । सङ्क्रामन्ति हि पापानि तैलविन्दुरिवाम्भसि” ॥ इति ।
तत्र प्रायश्चित्तमाह स एव—
५ “ यो वै समाचरेद्विप्रः पतितादिष्वकामतः । पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा ॥
“ मासार्धमासमेकं वा मासद्वयमथापि वा । अब्दार्धमब्दमेकं वा तदूर्ध्वं चैव तत्समः ॥
“ त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमाचरेत् । तृतीये चैव पक्षे तु कृच्छ्रं सान्तपनं चरेत् ॥
“ चतुर्थे दशरात्रं स्यात्पराकः पञ्चमे ततः । कुर्याच्चान्द्रायणं षष्ठे सप्तमे चैन्दवद्वयम् ॥
“ शुद्ध्यर्थमष्टमे चैव षण्मासान् कृच्छ्रमाचरेत् । पक्षसंख्याप्रमाणेण सुवर्णान्यपि दक्षिणा” ॥ इति ।
१० समाचरणं सहशयनादि ।
“ एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्नणम् । याजनाध्यापने योनिरतथैव सहभोजनम् ॥
“ नवधा सङ्करः प्रोक्तो न कर्तव्योऽधमैः सह ” ॥ इति बृहस्पतिस्मरणात् । पतितादिष्वित्यादि-
शब्देन तत्पुत्रादयो गृह्यन्ते “ पतितोत्पन्नः पतितो भवति ” इति वसिष्ठेन
तन्निन्दनात् । प्रथमः पक्षः पञ्चाहसंसर्गः । तत्र त्रिरात्रोपवासमाचरेत् । द्वितीये पक्षे प्राजापत्यम् । तृतीये
१५ सान्तपनम् । अत्र सान्तपनं सप्तरात्रं गृह्यते । अर्धमाससंसर्गश्चतुर्थः पक्षः । तत्र दशरात्रोपवासमाचरेत् ।
ऐन्दवद्वयं चान्द्रायणद्वयम् । किंचिन्न्यूनसंवत्सरसंसर्गः अष्टमः पक्षः । अत्र षण्मासान् कृच्छ्र-
माचरेत् । षट्सु मासेषु प्राजापत्यकृच्छ्राणि पञ्चदश संपद्यन्ते । तदूर्ध्वं संसर्गे समपापे ‘तदर्धं स्यात्’
इति वचनेन तत्तत्प्रायश्चित्तार्धं द्रष्टव्यम् । सर्वेषु पक्षेषु यथोक्तं प्रायश्चित्तमनुष्ठाय तदङ्गत्वेन
दक्षिणा दातव्या । तत्र प्रथमपक्षे सुवर्णमेकम् । एवमपरेष्वपि पक्षेष्ववगन्तव्यम् । '''कूर्मपुराणेऽपि—'''
२० “ सङ्गं कृत्वाऽर्धमासे तु उपवासान् दशाचरेत् । पराकं माससंसर्गे चान्द्रं मासत्रये व्रतम् ।
“कृत्वा षण्माससंसर्गं कुर्याच्चान्द्रायणद्वयम् । किञ्चिन्न्यूनाब्दसंसर्गे षण्मासं कृच्छ्रमाचरेत्”॥ इति ।
'''गोचर्मक्षेत्रलक्षणम् ।''' महापातकानां साधारणं प्रायश्चित्तमाह '''पराशरः—'''
“ गवां शतं सैकवृषं यत्र तिष्ठत्ययन्त्रितम् । तत्क्षेत्रं दशगुणितं गोचर्मपरिकीर्तितम् ॥
“ ब्रह्महत्यादिभिर्मुक्तो मनोवाक्कायकर्मजैः । एतद्गोचर्मदानेन मुच्यते सर्वकिल्बिषैः ” ॥ इति ।
२५ एकवृषेण सहितं गोशतं यन्त्रणा रहितं विश्रमाय यावन्तं प्रदेशमाक्रम्य व्यवतिष्ठते तावान्
भूप्रदेशो दशगुणितः सन् गोचर्मशब्देनाभिधीयते ।
'''मिथ्याभिशंसनप्रायश्चित्तम्—'''अभिशंसने दोषं प्रायश्चित्तं च दर्शयति '''याज्ञवल्क्यः—'''
“ मिथ्याभिशंसने दोषो द्विः समोऽनृतवादिनः । मिथ्याभिशस्तश्चोघं च समादत्ते मृषा वदन् ॥
३० “ महापापोपपापाभ्यां योऽभिशंसेन्नृपा परम् । अबुभक्षो मानुमासीत स जापी नियतेन्द्रियः ॥
“ अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा । निर्वपेत्तु पुरोडाशं वायव्यं पशुमेव वा ”॥ मनुः—
“ पतितं पतितत्युक्त्वा जारं चोरेति वा पुनः । वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषभाग्भवेत्”॥
'''गौतमः—'''
“ ब्राह्मणस्याभिशंसने दोषस्तावन् । द्विरनेनसि । दुर्बलहिंसायां चाविमोचने शक्तश्चेत्”॥ इति ।
{{rule}}
१ क-असा । २ कगध-भूत ।<noinclude></noinclude> dicfb7isbko047c5hb18luee7q8f17c पृष्ठम्:Smriti mukta phalam.pdf/९४७ 104 166950 419977 2026-11-11T06:22:57Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''ब्राह्मणापगुरणे ।'''|८९९}} {{rule}} '''बोधायनः—'''“ मिथ्याभिशंसने कृच्छ्रस्तदर्थमभिशंसितुः ” ॥ इति । '''मरीचिः—'''
“स्तेयं वा व्यभिचारो वा हत्या वाऽप्यस्ति सर्वदा । इ... नवीन पृष्ठं निर्मीत अस्ती 419977 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''ब्राह्मणापगुरणे ।'''|८९९}} {{rule}} '''बोधायनः—'''“ मिथ्याभिशंसने कृच्छ्रस्तदर्थमभिशंसितुः ” ॥ इति । '''मरीचिः—'''
“स्तेयं वा व्यभिचारो वा हत्या वाऽप्यस्ति सर्वदा । इति यो वदते साधून् स मिथ्यावादवान् द्विजः ॥
“ देवकार्येषु पित्र्येषु निर्गह्यो मिथ्यया वदन् । अस्ति चेत्तुल्यपापी स्यान्मिथ्यात्वे द्विगुणं भवेत् ॥
“ तस्य पापविशुद्ध्यर्थं प्रायश्चित्तं महत्तमम् । विप्रेषु तप्तकृच्छ्रं स्यादङ्गनास्विह च कायिकम् ॥
“ बालावृद्धातुरेष्वेवं वदन्पारकमाचरेत् । क्षत्रियादिषु सर्वेषु प्राजापत्यमुदीरितम् ” ॥ इति । ५
'''गालवः—'''
“ मिथ्यापापेन वा बद्धो ह्यभिशस्त इतीरितः । पापमस्ति न वा लोके वार्ता सर्वत्र गण्यते ।
“ अयोग्यो हव्यकव्येषु निन्दितः सर्वदा जनैः । तस्माद्देहविशुद्ध्यर्थं प्राजापत्यं चरेद्विजः ।
“ ततः शुद्धो भवत्येवं मिथ्यात्वे विप्रपुङ्गवः । दोषस्तु विद्यते यत्र तत्रोक्तां निष्कृतिं चरेत् ”॥इति ।
दोषस्य सत्वे प्रतिपदोक्तं प्रायश्चित्तं कुर्यादित्यर्थः । असकृदभिशंसने '''शङ्खः—'''“ नास्तिको १०
नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसीत्येते पञ्चवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः”॥ इति ।
यत्तु नास्तिकविषये '''वसिष्ठवचनम्''' “ नास्तिकः कृच्छ्रद्वादशरात्रं चरित्वा
विरमेन्नास्तिक्यान्नास्तिकवृत्तिस्तिस्रोनिकृच्छ्रम् ” । इति तत्सकृत्करणविषयमिति माधवीये ।
'''ब्राह्मणापगुरणादि प्रायश्चित्तम् ।''' ब्राह्मणापगुरणादौ '''पराशरः—'''
“ अपगूर्य त्वहोरात्रं त्रिरात्रं क्षितिपातने । अतिकृच्छ्रं च रुधिरे कृच्छ्रोऽभ्यन्तरशोणिते ” ॥ इति । १५
अपगूर्य वधार्थं दण्डमुद्यम्य दिनमेकमुपवसेत् । भूमौ निपात्य त्रिरात्रं उपवसेत् । प्रहारे रुधिरे
निर्गते अतिकृच्छ्रं चरेत् । निर्गतं रुधिरमन्तरेव एकत्र घनीभूतं चेत्कृच्छ्रं चरेदित्यर्थः ।
एतत्कलियुगाभिप्रायम् । “ कलौ पाराशराः स्मृताः ” इति स्मरणात् ।
युगान्तरे तु '''मनुः—'''
“ अपगूर्य त्वब्दशतं सहस्रमभिहत्य तु । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ २०
“ शोणितं यावतः पांसून् संगृह्णाति द्विजन्मनः । तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत् ॥
“ अपगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ” ॥
'''याज्ञवल्क्यः—'''
“विप्रदण्डोद्यमे कृच्छ्रो ह्यतिकृच्छ्रो निपातने।कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते”॥इति।
'''बोधायनोऽपि—''' २५
“ अपगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रं चान्द्रायणं चैव लोहितस्य प्रवर्त्तने ॥
“ तस्मान्नैवापगुर्वीत न च कुर्यात् शोणितम् ” ॥ इति ।
'''ब्राह्मणतिरस्कारे प्रायश्चित्तम् ।''' ब्राह्मणस्य तिरस्कारे '''पराशरः—'''
“ हुङ्कारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः । स्नात्वा तिष्ठन्नहःशेषमभिवाद्य प्रसादयेत् ” ॥
ब्रह्मविदं प्रति हुङ्कारं यः प्रयुङ्क्ते यश्च वयसा विद्यया वा ज्येष्ठं प्रति त्वमित्येकवचनं प्रयुङ्क्ते ३०
तावुभौ स्नात्वा यावदस्तमयं निराहारौ स्थित्वा रात्रावभिवादनेन तं क्षमापयेतामित्यर्थः ।
'''ब्राह्मणताडनादौ प्रायश्चित्तम् ।''' ताडनादौ प्रायश्चित्तमाह '''स एव—'''
“ ताडयित्वा तृणेनापि कण्ठे बद्ध्वा च वाससा । विवादेन विनिर्जित्य प्रणिपत्य प्रसादयेत् ” ॥ इति ।
{{rule}}
१ ग-अनर्हो ।<noinclude></noinclude> pjo9dxzu9w1ju5j2p6zeo78z92g5w6x पृष्ठम्:Smriti mukta phalam.pdf/९४८ 104 166951 419978 2026-11-11T06:24:29Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९००|'''गुरुपित्राद्यधिक्षेपे ।'''|}} {{rule}} प्रणिपातेन उपवासोऽप्युपलक्ष्यते । तथा च '''मनुः—'''
“ हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः । स्नात्वाऽनश्नन्नह... नवीन पृष्ठं निर्मीत अस्ती 419978 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९००|'''गुरुपित्राद्यधिक्षेपे ।'''|}} {{rule}} प्रणिपातेन उपवासोऽप्युपलक्ष्यते । तथा च '''मनुः—'''
“ हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः । स्नात्वाऽनश्नन्नहःशेषमभिवाद्य प्रसादयेत् ॥
“ ताडयित्वा तृणेनापि कण्ठे वाऽबध्य वाससा । विवादे वा विनिर्जित्य तमुपोष्य प्रसादयेत् ” ॥
'''याज्ञवल्क्यः—'''
५ “ गुरुं त्वंकृत्य हुंकृत्य विप्रं निर्जित्य वादतः । बद्धा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ” ॥ इति
'''गुरुपित्राद्यधिक्षेपप्रायश्चित्तम् ।''' पित्राद्यधिक्षेपे '''स्कान्दे—'''
“ पुत्राद्विर्जनकं ज्येष्ठं गुरुं वापि न पीडयेत् । एकशब्देन नामोक्त्या त्वंकारं हुंकृतिं च वा ।
“ तद्दोषपरिहारार्थं नाचिकेतव्रतं चरेत् ॥
“ नाचिकेतः पुरा राजन् गुरुमुद्दालकं प्रति । परिभाष्य ततो गत्वा दृष्ट्वा यमपुरं महत् ॥
१० “ पुनर्भूत्वा भुवः पृष्ठं पितरं प्रणिपत्य च । तद्वाक्येन ततः पश्चाद्देहशुद्ध्यर्थमादरात् ॥
“ अपिबन्मण्डलं तत्र गवां क्षीरं दिने दिने । पीत्वा शुद्धिमनुप्राप्तो मण्डलाद्विप्रसत्तमः ॥
“ असकृत् गुर्वधिक्षेपे व्रतमेतच्चरेद्विजः । अथवा देहशुद्ध्यर्थं षडब्दं कृच्छ्रमाचरेत् ” ॥ इति ।
'''वसिष्ठः—'''“ गुरोरलीकनिर्वन्धे कृच्छ्रं द्वादशरात्रं चरित्वा सचैलस्नातो गुरु-
प्रसादात्पूतो भवति ” ॥ इति । तदेतदमतिपूर्वे मतिपूर्वे सकृदनुष्ठाने वेदितव्यम् इति माधवीये ।
१५ '''विष्णुः—'''“समुत्कर्षे गुरोरलीकनिर्वन्धे क्षीरेण पयसा वा मासं वर्तेत ” ॥ इति ।
'''पतनीये समुद्रयानादौ प्रायश्चित्तम् ।'''
पतनीयानां प्रायश्चित्तमाह—'''बोधायनः—'''
“ समुद्रयानं ब्रह्मस्वन्यासापहरणं भूम्यपा हरणमनृतवदनं सर्वोपण्यैर्व्यवहरणं शूद्राभिगमनं यश्च
“ शूद्रायामभिप्रजायते तदपत्यं च भवति तेषां निर्वेशः चतुर्थकालं मितभोजिनः स्युरपोभ्यपेयुः
२० “ सवनानुकल्पम् । स्थानासनाभ्यां विहरन्त एते त्रिभिर्वर्षैस्तदपहन्ति पापम् ” इति । चतुर्थः
कालो येषां तथाद्य दिवा भुक्त्वा श्वो रात्रौ भुञ्जते तथोक्ताः । तथा मितभोजिनः अमृष्टाशिनः ।
अपोऽभ्यपेयुः भूमिगतास्त्वप्सु स्नानं कुर्युः । सवनानुकल्पं त्रिषवणं स्थानासनाभ्यां तिष्ठेयुः । अहनि
रात्रौ चासीरन् । एवं विहरन्तः कालं क्षिपन्तः एते त्रिभिर्वर्षैस्तत्पापमपनुदन्तीत्यर्थः ।
शूद्राभिगमने इदं महत्प्रायश्चित्तं ऋतुगमने अपत्योत्पत्तौ द्रष्टव्यम्
२५ “वृषलीफेनपीतस्य निश्वासोपहतस्य च । तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते”॥ इति स्मृतेः ।
'''दुर्जनसेवाप्रायश्चित्तम् ।''' दुर्जनसेवायां प्रायश्चित्तमाह—'''देवलः—'''
“ पिशुनश्च खलश्चैव मद्यपः कितवस्तथा । स्तेयी च दुर्जना एते सेवामेषां करोति यः ॥
“ पराकस्त्वेकदिवसे पक्षे तप्तमुदीरितम् । प्राजापत्यं ततो मासे वर्षे चान्द्रस्य भक्षणम् ॥
“ कृत्वा शुद्धिमवाप्नोति वर्षादूर्ध्वं पतत्यसौ ” ॥ इति ।
३० '''शूद्रसेवाप्रायश्चित्तम् ।''' शूद्रसेवायां '''बोधायनापस्तम्बौ—'''
“ यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः ॥
“ चतुर्थकाल उदकाभ्यवायी त्रिभिर्वर्षैस्तदपहन्ति पापम् ” ॥ इति । कृष्णवर्णः शूद्रः तदाज्ञा-
करो भूत्वा वृत्त्यर्थं सेवमानो ब्राह्मणः त्रिभिर्वर्षैर्मितमेव चतुर्थकाले मितं भुञ्जानः त्रिषवणस्नायी
३५ एकदिनसेवाकृतं पापं हन्तीत्यर्थः । '''बोधायनः—'''“ भेषज्यकरणं ग्रामयाजनं
{{rule}}
१ ग-प्रणिपत्य । २ ग-र्थं । ३-‘जननं’ मुद्रितपाठः ।<noinclude></noinclude> pnakjot1nmvaf99uvjiwx3zxpipbf8m पृष्ठम्:Smriti mukta phalam.pdf/९४९ 104 166952 419979 2026-11-11T06:25:23Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''भृतकाध्यापनाध्ययने ।'''|९०१}} {{rule}} रङ्गोपजीवनं नाट्याचार्यता गोमहिषैरक्षणं यच्चान्यदप्येवं युक्तं कन्यादूषणमिति । तेषां तु निर्वेशः पतितवृत्तिद्रौ संवत्स... नवीन पृष्ठं निर्मीत अस्ती 419979 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''भृतकाध्यापनाध्ययने ।'''|९०१}} {{rule}} रङ्गोपजीवनं नाट्याचार्यता गोमहिषैरक्षणं यच्चान्यदप्येवं युक्तं कन्यादूषणमिति । तेषां तु निर्वेशः पतितवृत्तिद्रौ संवत्सराविति ” अन्यदप्येवं युक्तमिति अन्यदपि उपपातकदित्यर्थः । '''अशुचिकराणां प्रायश्चित्तम् ।''' स एव “ अथाशुचिकराणि । द्यूत- मभिचारोनाहिताग्नेरुञ्छवृत्तिता समावृत्तस्य भैक्षचर्या तस्य चैव गुरुकुले वास ऊर्ध्वं चतुर्भ्यो मासेभ्यस्तस्य चाध्यापनं नक्षत्रनिर्देश्चेति । तेषां तु निर्वेशो द्वादशमासान् द्वादशार्धमासान् ५ द्वादशद्वादशाहान् द्वादशषडहान् द्वादशत्र्यहान् द्वादशाहं षडहं त्र्यहमहोरात्रमेकाहमिति यथा- कर्माभ्यासः ” इति । द्वादशमासाद्येकाहान्तकालविकल्पः यथाकर्माभ्यासः तथा वेदितव्यः । बुद्धिपूर्वे सानुबन्धेऽभ्यासे च भूयांसं कालं प्रायश्चित्तं कुर्याद्विपरीते विपर्यय इत्यर्थः । '''अभिचारशापादिप्रायश्चित्तम् ।''' आपस्तंबः—“ अभीचारानु- व्याहारावशुचिकरावपतनीयौ पतनीयाविति हारीतः ” ॥ इति । अभिचारः श्येनेनेत्यादि । अनु- व्याहारः शापः । तौ ब्राह्मणविषये क्रियमाणावित्यर्थः । स एव — “ पतनीयवृत्तिस्त्वशुचिकराणां द्वादशमासान् द्वादशार्धमासान् द्वादशद्वादशाहान् द्वादशसप्ताहान् द्वादशत्र्यहान् द्वादशह्याहान् द्वादशाहं सप्ताहं त्र्यहव्यहमेकाहमिति ” । अशुचिकराणां कर्मणां येषां प्रातिस्विकं प्रायश्चित्तं नोक्तं तेषामपि कर्मणां पतनीयेषु कर्मसु या वृत्तिः प्रायश्चित्तं सैव । शिष्टं स्पष्टम् । अशुचिकराणि तेनोक्तानि —“ अथाशुचिकराणि शूद्र- १५ गमनमार्यस्त्रीणां प्रतिषिद्धानां मांसभक्षणं शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां क्रव्यादं सां मनुष्याणां मूत्रपुरीषप्राशनं शूद्रेच्छिष्टमपपात्रागमनं चार्याणामिति ” । क्रव्यादसः गृध्रादयः । शूद्रेच्छिष्टं भुक्तमशुचिकरम् । अपपात्राः प्रतिलोमस्त्रियः । '''मनुः—''' “ व्रात्यानां याजनं कृत्वा परेषाformationमन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ “ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः । संवत्सरं यवाहारस्तत्पापमपसेधति ॥ २० “ येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन् कृच्छ्रान्यताविधिमुपनायेत्” ॥ '''याज्ञवल्क्यः—''' “त्रीन् कृच्छ्रानाचरेद्व्रात्ययाजकोऽभिचरन्नपि । वेदप्लावौ यवाहश्च त्यक्त्वा च शरणागतम्”॥ इति । '''पैठीनसिः—'''“शूद्रयाजकः तद्द्रव्यत्यागात्पूतो भवति । प्राणायामसहस्रेषु दशकृत्वोऽभ्यस्तेष्विति॥ यत्तु मनुराह— २५ “ पुरोधाः शूद्रवर्णस्य ब्राह्मणो यः प्रवर्तते । स्नेहादर्थप्रसङ्गाद्वा तप्तकृच्छ्रं विशोधनम् ” ॥ इति तदशक्तविषयम् । '''पराशरः—''' “गृहीत्वा दक्षिणां यस्तु शूद्रस्य जुहुयाद्विः । ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत्”॥ इति। जुहुयात् वैदिकैर्मन्त्रैः । “ शूद्रस्तु ब्राह्मणो भवेत् ” इति तत्कर्मफलप्राप्नोतीत्यर्थः । '''भृतकाध्यापनाध्ययनप्रायश्चित्तम् ।''' भृतकाध्यापनं निन्दति '''शौनकः—''' ३० “ वेदाक्षराणि यावन्ति नियुङ्क्ते त्वर्थकारणात् । तावतीर्भ्रूणहत्या वै लभते नात्र संशयः ” ॥ इति । '''व्यासोऽपि—''' “ यो विप्रो भृतकं हृत्वा मासि मासि प्रचोदितम् । शिष्यानध्यापयेद्वेदं साक्षान्नारायणात्मकम् ॥ “ स वै नारायणद्रोही सर्वदा सूतकी भवेत् । अयोग्यो हव्यकव्येषु सर्वथा तं परित्यजेत् ” ॥ इति । {{rule}} १ गघ-धी । २ क्ष-द्वानां । ३ ग-वृ ।<noinclude></noinclude> qq63w0l4l3brno4bvu6n6ikwfg7mtw5 पृष्ठम्:Smriti mukta phalam.pdf/९५० 104 166953 419980 2026-11-11T06:26:19Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९०२|'''अनाश्रमवासे ।'''|}} {{rule}} तस्य प्रायश्चित्तमाह '''जाबालिः—'''
“ अब्दं यो भृतकं हृत्वो वेदपाठं द्विजातये । तस्य चान्द्रत्रयं प्रोक्तमब्दमात्रप्रपूरणे ॥
“ अ... नवीन पृष्ठं निर्मीत अस्ती 419980 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९०२|'''अनाश्रमवासे ।'''|}} {{rule}} तस्य प्रायश्चित्तमाह '''जाबालिः—'''
“ अब्दं यो भृतकं हृत्वो वेदपाठं द्विजातये । तस्य चान्द्रत्रयं प्रोक्तमब्दमात्रप्रपूरणे ॥
“ अब्दद्वयं तदर्धस्तु हृत्वा मूल्यं द्विजन्मने । तस्य पापविशुद्ध्यर्थं प्रोक्तं चान्द्रचतुष्टयम् ॥
“ अब्दत्रये चान्द्रषट्कं कुर्यादिहविशुद्धये ।
५ “ अत ऊर्ध्वं ब्रह्महन्ता ललाटे तापवर्जितः । ब्रह्महत्याव्रतं कुर्यात्कपालध्वजवर्जितः ” ॥ इति ।
भृतकाध्यापने '''व्यासः—'''
“ भृतकाध्यापितो यश्च भृतकाध्यापकश्च यः । अनुयोगप्रदानेन त्रीन् पक्षांस्तु पयः पिवेत् ” ॥
'''ब्रह्मोञ्झप्रायश्चित्तम् ।''' ब्रह्मोञ्झे '''वसिष्ठः—'''“ ब्रह्मोञ्झः कृच्छ्रं द्वादशरात्रं
चरित्वा पुनरुपयुञ्जीत वेदमाचार्यात् ” इति । एतत्प्रमादादिकृतत्यागविषयम् । नास्तिकतया त्यागे
१० सुरापानसममिति मतेर्मतम् ।
'''अनाश्रमवासे प्रायश्चित्तम् ।''' अनाश्रमवासे '''हारीतः—'''“ अनाश्रमी संवत्सरं प्राजापत्यं
चरित्वाऽऽश्रममुपगच्छेत् । द्वितीयेऽतिकृच्छ्रं तृतीये कृच्छ्रातिकृच्छ्रमूर्ध्वं चान्द्रायणम्” इति ।
'''गौतमः—'''
“ अग्निपूतो गृहस्थः स्यात्सोमयाजी विशेषतः । तयोर्यदि मृता भार्या तज्जन्म विफलं भवेत् ॥
१५ “ अनाश्रमी द्विजो यस्तु यावज्जीवति भूतले । मासि मासि स कुर्वीत प्राजापत्यं विशुद्धये ॥
“ अशक्तश्चेत्तथा कर्तुं कुर्याद्वा मृत्यनन्तरम् । मासि मासीह तावन्ति गणयित्वा तदात्मजः ॥
“ ततः शुद्धिborderमवाप्नोति परलोकं च विन्दति ” ॥
'''पञ्चाशद्वत्सरादुपरि विवाहनिषेधः । स एव—'''
“ पञ्चाशद्वत्सरादूर्ध्वं न कार्यं पाणिपीडनम् । कलेर्युगस्य दृष्टत्वात् त्याज्यमाहुर्मनीषिणः ॥
२० “ युवानं प्रेक्षते नारी स्वयं जीर्णापि सर्वदा । व्यभिचारात्कुलं नश्येत्कुलनाशात्कुलाङ्गनाः ॥
“ भ्रश्यन्ति सङ्करो भूयात्सङ्गरो नरकाय च ” ॥ इति ।
“ यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राड्वापि मैत्रेय स नग्नः परिकीर्तितः ”॥ इति
विष्णुपुराणवचनमधिकारिविषयम् ।
'''ऊढायाः पुनर्विवाहे प्रायश्चित्तम् ।''' ऊढायाः पुनर्विवाहे '''जाबालिः—'''
२५ “ पूर्वमुद्वाहितां कन्यां पिता भ्राता धनेच्छया । अन्यस्मै चेत्पुनर्दद्यात्पितरो यान्त्यधोगतिम् ॥
“ सा कन्या पांसुला ज्ञेया तत्पुत्राः कुण्डसंज्ञिताः । एतद्दोषविशुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ॥
“ दाता रामधनुष्कोट्यां प्रत्यहं स्नानमाचरेत् । वर्षमात्रेण संशुद्धो नान्यथा शुद्धिरिष्यते ॥
“ तद्भर्त्ता तां परित्यज्य कुर्याच्चान्द्रायणत्रयम् । तस्योपनयनं भूयः शुद्धिमाप्नोति पौर्विकीम् ॥
“ सा कन्या पूर्वकं चान्यं त्यक्त्वा चान्द्रायणं चरेत् । पुत्रोत्पादे तु पुत्राणां तस्यां च त्याग इष्यते”॥इति
३० '''सगोत्राद्विवाहे प्रायश्चित्तम् ।''' सगोत्रविवाहे '''बोधायनः—'''“ सगोत्रां
“ चेदमत्योपयच्छेन्मातृवदेनां बिभृयात् । प्रजाता चेत् कृच्छ्राब्दपादं चरित्वा यन्म आत्मनो
“ मिन्दाभूत्पुनरग्निश्चक्षुरदित्येताभ्यां जुहुयात् ” इति । '''कल्पसारे—'''
“ अमत्योढा सगोत्रा चेन्मातृवद्विभृयात्तु ताम् । चान्द्रायणं चरित्वाऽन्यामुपयच्छेत कन्यकाम् ॥
“ कृच्छ्राब्दपादं कुर्वीत प्रजाता यदि सा भवेत् । मिन्दाहुती द्वे जुहुयात्तस्यान्ते चरितव्रतः ॥
{{rule}}
१ ग-वृ । २ ग-नु ।<noinclude></noinclude> 9w2al3gzt0ax6pw1cv705tkb9tzojy6 पृष्ठम्:Smriti mukta phalam.pdf/९५१ 104 166954 419981 2026-11-11T06:27:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''परिवित्त्यादेः ।'''|९०३}} {{rule}} “ तस्यां प्रसूतो निर्दोषः काश्यपो गोत्रतः स्मृतः ।
“ ऊढा चेद्बुद्धिपूर्वं स्याद्गुरुतल्पव्रतं चरेत् । तस्यां प्रसूतश्चण्डाल... नवीन पृष्ठं निर्मीत अस्ती 419981 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''परिवित्त्यादेः ।'''|९०३}} {{rule}} “ तस्यां प्रसूतो निर्दोषः काश्यपो गोत्रतः स्मृतः ।
“ ऊढा चेद्बुद्धिपूर्वं स्याद्गुरुतल्पव्रतं चरेत् । तस्यां प्रसूतश्चण्डालः सर्वकर्मबहिष्कृतः ” ॥
'''स्मृत्यर्थसारे—'''
“ यदि कश्चित् ज्ञानतस्तां कन्यामूह्नोपगच्छति । गुरुतल्पव्रताच्छुद्धो गर्भस्तज्जोऽऽन्त्यतां व्रजेत् ॥
“ भोगतस्तां परित्यज्य पालयेज्जननीमिव । अज्ञानाच्चैन्दवेन शुद्धेद्गर्भस्तु काश्यपः ” ॥ इति । ५
'''शातातपः—'''
“ समानप्रवरां कन्यां सगोत्रामुपयम्य च । उत्सृज्य तां ततो भार्या मातृवत्परिपालयेत् ॥
“ कृत्वा तस्यां समुत्सर्गमतिकृच्छ्रं विशोधनम् ” इति । '''देवलः—'''
“ समानगोत्रजामूढा समानप्रवरां तथा ।
“ यदि पुष्पवतीं गच्छेल्लोभात्कामातुरः सकृत् । मातृगामी स विज्ञेयः सर्वकर्मबहिष्कृतः ॥ १०
“ गुरुतल्पव्रतं कुर्यान्मुष्कच्छेदविवर्जितम् । पुत्रोत्पत्तौ तयोः पुत्रा अन्त्यजत्वमवाप्नुयुः ” ॥ इति ।
'''परिवित्त्यादेः प्रायश्चित्तम् ।''' परिवेदनादौ '''पराशरः—'''
“ परिवित्तिः परिवेत्ता च यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥
“द्वौ कृच्छ्रौ परिवित्तेस्तु कन्यायाः कृच्छ्र एव च।कृच्छ्रातिकृच्छ्रौ दातुस्तु होता चान्द्रायणं चरेत्”॥इति।
यत्र ज्येष्ठो नोद्वहति कनिष्ठश्चोद्वहति तत्र ज्येष्ठः परिवित्तिः कनिष्ठः परिवेत्ता कन्या परिवेदिनी १५
तस्याः पित्रादिर्दाता याजको विवाहहोमस्य कारयिता अत्र परिवित्तेः परिवेत्तुश्च द्वौ कृच्छ्रौ । यत्र
कुब्जादौ विषयविशेषे पूर्वमपवादा उक्ताः तत्र न प्रायश्चित्तापेक्षा । '''बोधायनस्तु—'''
“ परिवित्तिः परिवेत्ता दाता यश्चापि याजकः । कृच्छ्रद्वादशरात्रेण त्रिरात्रेण विशुध्यति ” ॥ इति ।
'''शङ्खलिखितौ—'''“ परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः ” इति ।
अत्र ज्ञाताज्ञातभेदेन प्रायश्चित्तगौरवलाघवव्यवस्था । २०
प्रायश्चित्तानन्तरं परिवेत्तुः कर्तव्यमाह '''वसिष्ठः—'''“परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा
तस्मै दत्वा निवेद्य पुनस्तामेवोपयच्छेत् ” ॥ इति । तस्मै ज्येष्ठाय निवेद्य पुनस्तामेवोद्वहेदित्यर्थः ।
अयमेव न्याय आधानव्युत्क्रमे भगिन्योर्विवाहव्युत्क्रमे चेति माधवीये ।
'''उष्ट्रादियुक्तयानारोहणे प्रायश्चित्तम् ।''' उष्ट्रादियुक्तशकटाय्यारोहणे '''मनुः—'''
“ उष्ट्रयानं समारुह्य खरयानं च कामतः । स्नात्वा च विप्रो दिग्वासाः प्राणायामेन शुद्ध्यति”॥ इति । २५
'''याज्ञवल्क्यः—'''
“प्राणायामं जले स्नात्वा खरयानोट्रयानगः । नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम्”॥ इति ।
'''खराद्यारोहणे प्रायश्चित्तम् ।''' खराद्यारोहणे '''मार्कण्डेयः—'''
“ खरमारुह्य विप्रोऽसौ योजनं यदि गच्छति । तप्तकृच्छ्रत्रयं कुर्याच्छुद्धिमाप्नोति वै द्विजः ॥
“ उष्ट्रं च महिषं चैव ह्यनड्वाहं द्विजः सकृत् । आरुह्य योजनं गच्छेत्प्राजापत्यमुदीरितम् ” ॥ इति । ३०
“ अजं बस्तं समारुह्य पूर्ववद्यदि गच्छति । तत्र सान्तपनं प्रोक्तं शरीरस्य विशोधनम् ॥
“ पुनः कर्म प्रकुर्वीत तेन शुध्येन्न संशयः ” ॥ इति । पुनःकर्म पुनरुपनयनम् ।
'''कारागृहवासप्रायश्चित्तम् ।''' कारागृहवासे '''गौतमः—'''
“ बलाद्बन्दीकृतो यस्तु म्लेच्छचण्डालदस्युभिः ।
“ कारागृहे मासमात्रमुषित्वा कायमाचरेत् । प्राजापत्यं च चान्द्रं च चरेत्संवत्सरोषितः ” ३५
{{rule}}
१ ग-समं । २ म-ग । ३ क-वेत्तुः ।<noinclude></noinclude> th7zr3pkdpuzsgf81wiz57opl6leqpp पृष्ठम्:Smriti mukta phalam.pdf/९५२ 104 166955 419982 2026-11-11T06:28:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९०४|'''दुर्द्देशगमने ।'''|}} {{rule}} '''यमः—'''“कारागृहाद्विनिर्गत्य प्रायश्चित्तं यथोदितम् । कृत्वा विप्रः पुनः कर्म कृत्वा शुद्धिमवाप्नुयात् ॥
“ बलाद्बन्दीकृता न... नवीन पृष्ठं निर्मीत अस्ती 419982 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९०४|'''दुर्द्देशगमने ।'''|}} {{rule}} '''यमः—'''“कारागृहाद्विनिर्गत्य प्रायश्चित्तं यथोदितम् । कृत्वा विप्रः पुनः कर्म कृत्वा शुद्धिमवाप्नुयात् ॥
“ बलाद्बन्दीकृता नारी तत्रैव निवसेद्यदि । पक्षमासमृतुं चाब्दमुत्सृष्टा चेत्तदा पतिः ॥
“ षष्ठिभिर्मृत्तिकाभिश्च धृतशौचमनन्तरम् । कारयित्वा विधानेन स्नापयित्वा नदीजलैः ॥
“ कारयेत्पूर्ववद्विप्रः प्रायश्चित्तमनुक्रमात् ॥
५ “ अर्धमुक्तं तु नारीणां प्रायश्चित्तं विशोधनम् । तस्या दोषनिवृत्तिः स्यात् जनयोगेन हीयते ॥
“ अतस्तत्पोषणं कुर्यात्संसर्गादीन्न कारयेत् । तत्रैव गर्भसंपत्तौ परित्यागो विधीयते ” ॥ इति ।
'''कुग्रामवासप्रायश्चित्तम् ।''' कुग्रामवासे '''मरीचिः—'''
“ श्रोत्रियश्च तटाकादितृणं पर्णं तथैन्धनम् । बान्धवः स्वकुलीनाश्च विद्या चैवोपकारिणी ॥
“ न सन्ति यत्र ग्रामे तु स कुग्राम इतीरितः ॥
१० “ तत्र ग्रामे द्विजो यस्तु हव्यकव्यपराङ्मुखः । एकत्र दिवसे तिष्ठन्महाचान्द्रायणं चरेत् ” ॥
'''दुर्द्देशगमने प्रायश्चित्तम् ।''' दुर्द्देशगमने '''बोधायनः—'''
“ सिन्धुसौवीरसौराष्ट्रांस्तथा प्रत्यन्तवासिनः । अङ्गवङ्गकलिङ्गांश्च गत्वा संस्कारमर्हति ” ॥
प्रत्यन्तवासिनः चण्डालादिवासप्रदेशान् । स एव —
“ पद्भ्यां स कुरुते पापं यः कलिङ्गान्प्रपद्यते । ऋषयो निष्कृतिं तस्य प्राहुर्वैश्वानरं हविः ” ॥ इति ।
१५ '''श्वशृगालादिदंशने प्रायश्चित्तम् ।''' श्वादिरंशे '''याज्ञवल्क्यः—'''
“ पुंश्चलीवानरखरैर्दष्टः श्वोष्ट्रदिवायसैः । प्राणायामं जले कृत्वा घृतं प्राश्य विशुद्ध्यति ” ॥
'''मनुः—'''
“ श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहेश्च प्राणायामेन शुद्ध्यति ॥
एतन्नदीस्नानादेरप्युपलक्षणम् । तथा च '''बोधायनः—'''
२० “ शुना दष्टस्तु यो विप्रो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति ॥
“ सुवर्णरजताभ्यां वा गवां शृङ्गोदकैश्च वा । नवैर्वा कलशैः स्नात्वा सद्य एव शुचिर्भवेत् ” ॥ इति ।
'''हारीतः—'''“ श्वानो वा क्रोष्टुको वापि नारी वा यदि वानरः । आखुर्नकुलमार्जारवायसग्राम्यसूकराः ॥
“ एतैर्दष्टे द्विजस्याङ्गे प्रायश्चित्तं कथं भवेत् ॥
“ स्नानं कृत्वा सचेलं तु विप्राणामनुशासनात् । प्रोक्षणीभिः त्रिभिर्वाग्भिः कारयेन्मार्जनं द्विजः ॥
२५ “प्राणायामत्रयं कुर्यात् दद्याद्गोभ्यस्तृणं नरः। सह द्विजैश्च भुक्तेन शुध्यते नात्र संशयः”॥ इति ।
'''अङ्गिराः—'''
“ ब्रह्मचारी शुना दष्टस्त्र्यहं सायं पयः पिवेत् । गृहस्थस्तु द्विरात्रं वा एकाहं वाऽग्निहोत्रवान् ॥
“ नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् । स्यादेतत्त्रिगुणं वक्त्रे मस्तके तु चतुर्गुणम् ॥
“अमती समती वापि शुना दष्टस्तथा द्विजः। दृष्ट्वाऽग्नीन् हूयमानांस्तु सद्य एव शुचिर्भवेत् ”॥ इति ।
३० '''पराशरः—'''
“ वृकश्वानशृगालाद्यैर्दष्टो यस्तु द्विजोत्तमः । स्नात्वा जपेत्स गायत्रीं पवित्रां वेदमातरम् ॥
“ गवां शृङ्गोदकस्नानं महानद्योस्तु सङ्गमे । समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत् ॥
“ वेदविद्याव्रतस्नातः शुना दष्टो द्विजो यदि । सहिरण्योदकैः स्नात्वा घृतं प्राश्य विशुद्ध्यति ॥
{{rule}}
१ ग-वादो । २ क्ष-यस । ३ गघ-श्च तिसृभिः ।<noinclude></noinclude> 2pnvz25h2g0ct25amf5eav6jbb5xjaz पृष्ठम्:Smriti mukta phalam.pdf/९५३ 104 166956 419983 2026-11-11T06:28:53Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''शरीरे कृम्युत्पत्तौ ।'''|९०५}} {{rule}} “ सम्रतस्तु शुना दष्टः पञ्चरात्रमुपावसेत् । घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ॥
“ अव्रतः सव्रतो वापि शुना दष्टो भवेत... नवीन पृष्ठं निर्मीत अस्ती 419983 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''शरीरे कृम्युत्पत्तौ ।'''|९०५}} {{rule}} “ सम्रतस्तु शुना दष्टः पञ्चरात्रमुपावसेत् । घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ॥
“ अव्रतः सव्रतो वापि शुना दष्टो भवेत् द्विजः । प्रणिपाताद्भवेत्पूतो विप्रैश्चशुभिरीक्षितः ॥
“ शुनाघ्रातावलीढस्य नखैर्विलेखितस्य वा । अद्भिः प्रक्षालनं प्रोक्तमग्निना चोपचूलनम् ॥
“ शुना तु ब्राह्मणी दष्टा जम्बुकेन वृकेण वा । उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥
“ कृष्णपक्षे यदा सोमो न दृश्येत कदाचन । या दिशं व्रजते सोमस्तान्दिशं वाऽवलोकयेत् ॥ ५
“ अब्राह्मणके ग्रामे शुना दष्टो भवेद्विजः । वृक्षं प्रदक्षिणीकृत्य सद्यः स्नात्वा विशुद्ध्यति ” ॥ इति ।
वृकश्वनोरारण्यकत्वग्राम्यत्वाभ्यां भेदः । शृगालो जम्बुकः । आदिशब्देन वराहादया गृह्यन्ते । तैर्दष्टः
स्नात्वा गायत्र्यष्टशतं जपेत् । जपसंख्याविशेष उशनसा दर्शितः ‘दंष्ट्र्यादिदष्टे गायत्र्यष्टशतं
प्राणायामशतं वा ” इति । एतच्चासमर्थविषयम् । समर्थस्तु गोशृङ्गोदकस्नानादिकमाचरेत् । तत्र
गोशृङ्गोदकस्नानं नाम शृङ्गपूरितेनोदकेन गायत्र्या शतवारमभिमन्त्रितेन सेचनम् ‘गोशृङ्गेण शतं १०
स्नानम् ” इति हारीतस्मरणात् । शृङ्गोदकस्नानसङ्गमस्नानसमुद्रदर्शनानामधममध्यमोत्तमाङ्ग-
भेदेन वा देशतारतम्येन वा व्यवस्था । वेदाध्ययनं वा सौम्यप्राजापत्यादिव्रतानि वा समाप्य स्नातो
वेदविद्याव्रतस्नातः । स यदि शुना दष्टः तथा हिरण्यमुदके निधाय तेनोदकेन स्नात्वा घृतं प्राश्य
विशुद्ध्यति । तत्रापि ब्राह्मणश्चेत् गायत्रीं शतकृत्वो जपेत् । तदाह '''बोधायनः—'''
“ वेदविद्याव्रतस्नातः शुना दष्टस्तु ब्राह्मणः। शतपयीमावृत्य गायत्रीं शुद्धिमाप्नुयात् ” ॥ इति । १५
चान्द्रायणादिव्रतेन सहितः सव्रतः । स त्रिरात्रमुपोष्य चतुर्थेऽह्नि घृतं प्राश्य कुशोदकं च पीत्वा
पश्चाद्व्रतशेषं समापयेत् । सव्रताव्रतावुभावपि विप्रान् प्रणिपत्य तैर्निरीक्षितौ यथोक्तप्रायश्चित्ता-
चरणेन पूतौ भवतः । यदा ब्राह्मणी श्वादिभिर्दष्टा तदा सा रात्रावुदितान् महान् सोमादींन्नक्षत्राणि
कृत्तिकादीनि दृष्ट्वा शुद्धा स्यात् । सोमदर्शनासम्भवे तदवस्थितियोग्यां दिशां वा पश्येत् । तच्च
दर्शनं पञ्चगव्यप्राशनस्य चोपलक्षणम् । अत एवा'''ङ्गिराः—''' २०
“ ब्राह्मणी तु शुना दष्टा सोमे दृष्टेर्निपातयेत् । समुद्रदर्शनाद्वाऽपि शुना दृष्टा शुचिर्भवेत् ॥
“ सोममार्गेण सा पूता पञ्चगव्येन शुध्यति ” ॥ इति । सोमादर्शनासम्भवे समुद्रदर्शनं दिगवलोकनं
वा कार्यम् । यत्र ब्राह्मणा न सन्ति तत्र ब्राह्मणप्रणिपातनिरीक्षणयोः स्थाने वृषभप्रदक्षिण
द्रष्टव्यम् । एतेषु वचनेषु यत्र यत्र प्रायश्चित्तबाहुल्यं तत्रोत्तमाङ्गविषयत्वं दंशनाद्युत्तितिषिविषयत्वं
चोहनीयम् । ब्रह्मचारिगृहस्थाग्निहोत्रिषूत्तरोत्तरं तपोबाहुल्यात्प्रायश्चित्तह्रास इति माधवीये । २५
'''शरीरे क्रिम्युत्पत्तौ प्रायश्चित्तम् ।''' शरीरे क्रिमिजनने '''शातातपः—'''
“ ब्राह्मणस्य व्रणद्वारे यदा संपद्यते क्रिमिः । प्रायश्चित्तं तदा कार्यमिति शातातपोऽब्रवीत् ”॥ इति ।
“ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । स्नात्वा दत्वा च भुक्त्वा च क्रिमिदष्टा शुचिर्भवेत्”॥ इति ।
'''बोधायनः—'''
“ ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे । क्रिमिरुत्पद्यते तत्र प्रायश्चित्तं कथं भवेत् ॥ ३०
“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । त्र्यहं स्नात्वा च पीत्वा च क्रिमिदष्टः शुचिर्भवेत् ” ॥
एतच्च नाभेरोभागे द्रष्टव्यम् । उपरिभागे तु भानुराह । नाभेरुपरिचेद्वानुरह—
“ नाभिकण्ठान्तरोद्भूते व्रणे चोत्पद्यते क्रिमिः । षड्रात्रं तु तदा प्रोक्तं प्राजापत्यं शिरोवणे ” ॥
{{rule}}
१ क्ष-नीरीक्षितः । २ ग-पं । ३ क-वानरा । ४ क्ष-स्थो । ५ गघ-त्र्यहं स्नात्वा च पीत्वा च ।
११५-११<noinclude></noinclude> nwtdv5kt370pfu3uq6qk9n4i3yzxnh1 पृष्ठम्:Smriti mukta phalam.pdf/९५४ 104 166957 419984 2026-11-11T06:32:58Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९०६|'''राजाद्यन्नभोजने ।'''|}} {{rule}} '''दुर्ब्राह्मणगृहभोजने प्रायश्चित्तम् ।''' अभोज्यभोजने प्रायश्चित्तमुच्यते । तत्र दुर्ब्राह्मणगृहे
भोजने '''भरद्वाजः—'''
“ न... नवीन पृष्ठं निर्मीत अस्ती 419984 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९०६|'''राजाद्यन्नभोजने ।'''|}} {{rule}} '''दुर्ब्राह्मणगृहभोजने प्रायश्चित्तम् ।''' अभोज्यभोजने प्रायश्चित्तमुच्यते । तत्र दुर्ब्राह्मणगृहे
भोजने '''भरद्वाजः—'''
“ निराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा द्विजः कुर्याद्दिनमेकमभोजनम् ” ॥ इति ।
तदशक्तौ '''पराशरः—'''
५ “ सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः । भुक्त्वाऽन्नं मुच्यते पापाद्दहोरात्रान्नरात्रतः ” ॥ इति ।
एतदनभ्यासविषयम् । अभ्यासे तु स एव—
“ परपाकनिवृत्तस्य परपाकरतस्य च । अपचस्य च भुक्त्वाऽन्नं द्विजश्चान्द्रायणं चरेत् ” ॥ इति ।
तेषां लक्षणं स एवाह—
“ गृहीत्वाऽग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् । परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः ।
१० “ पञ्चयज्ञान् स्वयं कृत्वा परान्नेनोपजीवति । सततं प्रातरुत्थाय परपाकरतस्तु सः ।
“ गृहस्थधर्मा यो विप्रो दद्यातिः परिवर्जितः । ऋषिभिर्धर्मतत्त्वज्ञैरपचः परिकीर्तितः ” ॥ इति ।
दद्यातिरन्नदानपरः । तद्वर्जितः स्वयमेव यो भुङ्क्ते सोऽपच इत्युच्यते । तस्य निन्दा प्रत्यक्षश्रुता-
वाम्नायते (उदकशान्तिः)—‘नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी’ ॥
'''शातातपबृहस्पती—'''
१५ “ यो हि हित्वा विवाहाग्निं गृहस्थ इति मन्यते । अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ॥
“ वृथापाकस्य भुञ्जानः प्रायश्चित्तं चरेद्विजः । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति ” ॥ इति ।
वृथापाके यत्प्रायश्चित्तं तदेव ब्राह्मणनिन्दकादावपि द्रष्टव्यम् । निन्दावचनेन सह पाठात् । तथा च
'''व्यासः—'''“पङ्क्तिभेदी वृथापाकी नित्यं ब्राह्मणनिन्दकः । आदेशी वेदविक्रेता पञ्चैते ब्रह्मघातकाः”॥ इति ।
'''शौनकः—'''“कनिक्रदं जपेन्मन्त्रं दशवारं यदा तदा । वेदविक्रयिणो गेहे भुक्त्वा पापात्प्रमुच्यते”॥ इति।
२० '''हारीतः—'''
“ यदन्नं प्रतिलोमस्य शूद्रजस्योत्तमास्त्रियाम् । महापातकिनां चैव यदन्नं स्त्रीकृतघ्नयोः ॥
“ आरूढपतितस्यैव सगोत्राभर्तुरेव च । पाषण्डानाश्रितानां च यतेश्चैव तथैव च ॥
“ अतिकृच्छ्रं चरेद्भुक्त्वा प्रमादाद्ब्राह्मणः सकृत् । मत्या चान्द्रायणं कुर्यादामं चेदर्धमेव च ॥
“ तद्धस्तभोजने वापि त्रिगुणं सह भोजने । चतुर्गुणं तदुच्छिष्टे पानीये त्वर्धमेव च ॥
२५ “ कृच्छ्राब्दपादमुद्दिष्टमभ्यासात् ज्ञानभोजने । मत्याभ्यासे तथा कुर्यात् त्रिंशत्कृच्छ्रं द्विजोत्तमः ”॥
उत्तमस्त्री ब्राह्मणी । तस्यां प्रातिलोम्येन शूद्रादुत्पन्नश्चण्डालः । सत्यपि सामर्थ्ये नास्तिक्येन किंचि-
दप्याश्रममप्राप्तः अनाश्रितः ।
'''राजाद्यन्नभोजनफलानि । सुमन्तुः—'''
“ राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश्चर्मावकर्त्तिनः ।
३० “ कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥
“ रूपं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥
“ एवमेते त्वभोज्यान्नाः क्रमशः परिकीर्तिताः ॥
“भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम्। मत्या भुक्त्वाऽऽचरेत्कृच्छ्रं रेतोविण्मूत्रमेव च”॥इति।
{{rule}} १ क-पृथक् । २ ग-नः । ३ ग-कर्ति ।<noinclude></noinclude> k9a570gpmbtrdegu1nds33mwl70f21p पृष्ठम्:Smriti mukta phalam.pdf/९५५ 104 166958 419985 2026-11-11T06:34:00Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''व्यतीपातादिभोजने ।'''|९०७}} {{rule}} '''विष्णुः—'''“गणकगणिकास्तेनगायकन्नानि भुक्त्वा सप्तरात्रं पयसा वर्तेत ।
तक्षणोऽन्नं चर्मकर्तुश्च श्वपाकवार्धुषिककदर्यदी... नवीन पृष्ठं निर्मीत अस्ती 419985 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''व्यतीपातादिभोजने ।'''|९०७}} {{rule}} '''विष्णुः—'''“गणकगणिकास्तेनगायकन्नानि भुक्त्वा सप्तरात्रं पयसा वर्तेत ।
तक्षणोऽन्नं चर्मकर्तुश्च श्वपाकवार्धुषिककदर्यदीक्षितबन्दिगिलाभिशस्तपौषण्डानां च पुंश्चलीदांभिक-
चिकित्सकलुब्धक्रूरोच्छिष्टभोजिनां चावीरस्त्रीसुवर्णकारसपत्नपतितानां च ऋतुधर्मसोमविक्रयिणां
च शैलूषतन्तुवायकृतघ्ननिषादरङ्गावतारिवेदशस्त्रविक्रयिणां च श्वजीविशौण्डिकतैलिकचेल-
निर्णेजकानां च रजकानां च रजस्वलासहोपपतिवेद्मनां च भ्रूणघ्नोवेक्षितमुदक्यासंस्पृष्टं पतत्रिणा- ५
वलीढं शुना स्पृष्टं गोघ्रातं च कामतः पादस्पृष्टमवक्षतं च मत्तक्रुद्धातुराणां चानर्चितं वृथा-
मांसं च त्रिरात्रमुपवसेत् ” इति । त्रिरात्रोपवासः अकामकृतसकृद्भोजनविषयः ।
अत्रैव विषये '''लिखितोऽपि—'''
“भुक्त्वा वार्धुषिकस्यान्नं सव्रतस्यौव्रतस्य वा । शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्यादभोजनम्”॥ इति ।
अस्मिन्नेव विषये अशक्तस्य '''पराशरः—''' १०
“ शूद्रान्नं सूतकस्यान्नमभोज्यस्यान्नमेव च । शङ्कितं प्रतिषिद्धान्नं शूद्रेच्छिष्टं तथैव च ॥
“ यदि भुक्तं तु विप्रेण चाज्ञानादापदापि वा । ज्ञात्वा समाचरेत्कृच्छ्रं ब्रह्मकूर्चं तु पावनम् ” ॥ इति ।
अज्ञाने आपदि च ब्रह्मकूर्चमेव ज्ञाने प्राजापत्यमिति योज्यम् ।
अकामकृतसकृद्भोजनविषये अशक्तस्य '''हारीतः—'''
“ मृतसूतकशूद्रान्नं सदोषेणापि संस्कृतम् । शङ्कितं प्रतिषिद्धान्नं विद्धिषोऽन्नमथापि वा ॥ १५
“ यदि भुञ्जीत विप्रो यः प्रायश्चित्तं कथं भवेत् । एकरात्रोपवासश्च गायत्र्यष्टशतं भवेत् ।
“ प्राशयेत्पञ्चभिर्मन्त्रैः पञ्चगव्यं पृथक् पृथक् । एतेन शुध्यते विप्रो ह्यन्यैश्चाभोज्यभोजनैः ” ॥
अकामकृताभ्यासे तु विष्णूक्तं सप्तरात्रं पयोव्रतम् । मनुस्तु यववागूपानमाह—
“अभोज्यानां तु भुक्त्वाऽन्नं स्त्रीशूद्रेच्छिष्टमेव च। जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान् पिवेत्”॥इति।
कामकृताभ्यासे हारीतोक्तं चान्द्रायणम् । तथा '''शंखोऽपि—''' २०
“ शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः । चिकित्सकस्य क्रूरस्य तथा स्त्रीमृगजीविनः ॥
“ अभिशस्तस्य चौरस्य अवीरायाः स्त्रियस्तथा । चर्मकारस्य वैणस्य क्लीबस्य पतितस्य च ॥
“ रुक्मकारस्य तक्षणश्च रजकस्य च वार्धुषेः । कदर्यस्य नृशंसस्य वेश्यायाः कितवस्य च ॥
“ गणान्नं भूमिपालान्नं मृगजीविश्ववृत्त्तिनाम् । सौनिकान्नं सूतकान्नं भुक्त्वा मासव्रतं चरेत् ॥
“ गणान्नं सूतकान्नं च भुक्त्वा मासव्रतं चरेत् ” ॥ मासव्रतं चान्द्रायणमित्यर्थः । २५
शुक्तादिभक्षणे '''मनुः—'''
“ शुक्तानि च कषायांश्च भुक्त्वाऽमेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ” ॥
'''आपस्तम्बः—'''‘ अभोज्यं भुक्त्वा नैष्पुरीष्यन्तस्सप्तरात्रेण वाप्यत ’ इति ॥
अभोज्यमांसादिभक्षणे निष्पुरीषभावः कर्तव्यः । यावदुदरं निष्पुरीषं भवति तावदुपवस्तव्यम् ।
तच्च सप्तरात्रेणावाप्यते । येषां त्रिरात्रेण नैष्पुरीष्यं तेषां तावदेव शुद्धिः ॥ तथा च ३०
'''गौतमः—'''
“ अभोज्यभोजने निष्पुरीषभावस्त्रिरात्रमभोजनं सप्तरात्रं वा ” ॥ इति ।
'''व्यतीपातादिभोजने प्रायश्चित्तम् ।''' व्यतीपातादिभोजने '''देवलः—'''
“ व्यतीपाते यदन्नं च महापुरुषभोजनम् । कर्मण्यार्जिने भुक्तिर्दर्शाह्वे बलिभोजनम् ॥
“ भूतप्रेतपिशाचानां यदन्नं परिकल्पितम् । कलुषं वर्जनीयं तत् ब्रह्मराक्षसभोजनम् ॥ ३५
{{rule}}
१ ग-प । २ ग-पिशुनावृतवादि । ३ ग-लुब्ध । ४ क्ष-अमत्तस्याश्रुतस्य । ५ ग-पीत्वा ।<noinclude></noinclude> f407hwhc8vxapwaa44ite1tahlim96a पृष्ठम्:Smriti mukta phalam.pdf/९५६ 104 166959 419986 2026-11-11T06:34:51Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९०८|'''अयुतसहस्रभोजने ।'''|}} {{rule}} “ एतेष्वदंस्तु यो विप्रो धनलोभपरायणः । तदानीं मृत्युमाप्नोति जीवेद्वा पापकार्यसौ ॥
“ तत्र दोषोपशान्त्यर्थं प्रायश्चित्तमिद... नवीन पृष्ठं निर्मीत अस्ती 419986 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९०८|'''अयुतसहस्रभोजने ।'''|}} {{rule}} “ एतेष्वदंस्तु यो विप्रो धनलोभपरायणः । तदानीं मृत्युमाप्नोति जीवेद्वा पापकार्यसौ ॥
“ तत्र दोषोपशान्त्यर्थं प्रायश्चित्तमिदं स्मृतम् ।
“ प्राजापत्यद्वयं कृत्वा पुनस्संस्कारपूर्वकम् । पञ्चगव्यं पिवेत्पश्चाच्छुद्धो भवति भूतले ” ॥
'''अयुतसहस्रभोजने प्रायश्चित्तम् ।''' अयुतसहस्रभोजनादौ '''मार्कण्डेयः—'''
५ “ अयुते वा सहस्रे वा द्विजो ब्राह्मणभोजने । जिह्वाचापल्यतः क्षिप्रं भुञ्जीतापः पिवेत्तु वा ॥
“ पक्षं वा मासमथ वा भुक्त्वा विप्रो निरन्तरम् । कृच्छ्रं पराकं चान्द्रं च कृत्वा शुद्धिborderमवाप्नुयात् ॥
“ वर्षोपरिह शूद्रत्वमवाप्नोतीति निश्चितम् ” ॥
'''देवलः—'''“ अयुते वा सहस्रे वा नानावर्णसमागमे । पतितक्लीबवैडालवात्यतस्करपूरिते ॥
“ कुण्डगोलकसंघोते नटगायकसङ्कुले । पाषण्डजनसंसर्गे सर्वपातकिसङ्कुले ॥
१० “ भाण्डोच्छिष्टस्वयंपाके स्त्रीजनैरुपशोभिते । यो विप्रो लोभमन्विच्छन्नभुञ्जीयात्कदाचन ” ॥
सत्रभोजनेऽप्येवम् । दीर्घसत्रे तु '''देवलः—'''
“ वर्षद्वयं वा वर्षं वा यो वा को वा द्विजो भुवि । सङ्कल्प्य भोजयेद्विप्रान् तद्दीर्घं सत्रमुच्यते ॥
“ विप्रस्तत्र न भुञ्जीत पूर्ववत् दुष्टसङ्गमात् । पक्षं वा मासमथवा भुक्त्वा निष्कृतिमाचरेत् ॥
“ पक्षभुक्तौ पराकं स्याच्चान्द्रं स्यान्मासभोजने ।
१५ शूद्रसत्रे तु '''स एव—'''
“ शूद्रसत्रे न भुञ्जीत प्राणैः कण्ठगतैरपि । भुञ्जन्मर्कटमासाद्य वायसत्वमवाप्नुयात् ॥
“ पक्षे मासे ऋतावब्दे भोजने तु यथाक्रमम् । यावकं तप्तकृच्छ्रं च प्राजापत्यमथैन्दवम् ॥
“ कृत्वा शुद्धिborderमवाप्नोति द्विजः पापक्रियाक्रमात् ” इति ।
'''शूद्रादिगृहे स्वयंपाकादिना भोजनेऽपि प्रायश्चित्तम् ।''' शूद्रादिगृहे स्वयं पक्त्वा भोजने
२० '''पराशरः—'''
“ शूद्रालये वा वैश्या वा गृहे वाऽन्नं तदर्पितम् । पक्त्वा भुक्त्वा स पापीयान्महान्तं नरकं व्रजेत् ॥
“ तद्दोषपरिहारार्थं प्रायश्चित्तमिदं स्मृतम् ॥
“ परेद्युborderर्वा तदानीं वा वापयित्वा शिरोरुहान् । स्नानं कृत्वा ततः पश्चात्तप्तकृच्छ्रं समाचरेत् ॥
“ पञ्चगव्यं पिवेत्पश्चाच्छुद्धो भवति नान्यथा ” ॥ इति ।
२५ '''सङ्घात्रभोजने प्रायश्चित्तम् ।''' सङ्घात्रभोजने '''गौतमः—'''
“ सङ्घीभूय द्विजा ये तु मार्गे तीर्थगमेऽपि वा । स्वद्रव्यमेलनं कृत्वा पक्त्वा भुक्त्वैकदेशतः ॥
“ ते सर्वे नरकं यान्ति शूद्रतुल्या न संशयः । तेषामिदं मुनिप्रोक्तं प्रायश्चित्तं विशुद्धborderये ॥
“ एकरात्रे पञ्चगव्यं द्विरात्रे यावकं पिवेत् । प्राजापत्यं त्रिरात्रे च पक्षे चान्द्रायणं स्मृतम् ॥
“ मासे तु शूद्रतुल्याः स्युः स्त्रीणामर्धं समीरिमत् ” ॥
३० '''क्रीतान्नभोजने प्रायश्चित्तम् ।''' क्रीतान्नभोजने '''देवलः—'''
“ देवालयेषु मार्गेषु ग्रामेषु नगरेषु च । विप्रः क्रीतान्नभोक्ता चेत्तदा नरकमाप्नुयात् ” ॥
'''महाभारतेऽपि—'''
“ क्रीतान्नं देवतागारे ग्रामे वा पत्तने पथि । यो भुङ्क्ते पूर्वजो ज्ञानान्नरकं स समाप्नुयात् ” ॥
{{rule}}
१ ग-र्त्तोने । २ गघ-क्षपात् । ३ क्ष-तृणे ।<noinclude></noinclude> ocle9m50kbfr4a0gl2w5jazhtfd9hwu पृष्ठम्:Smriti mukta phalam.pdf/९५७ 104 166960 419987 2026-11-11T06:35:38Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अशुचिभोजने ।'''|९०९}} {{rule}} '''हेमाद्रौ—'''
“ विप्रः कण्ठगतप्राणः क्रीतान्नं यदि भुञ्जते । ग्रामे वा नगरे तीर्थे महादेवालयेऽपि वा ॥
“ स गत्वा नरकं घोरं नानायोनि... नवीन पृष्ठं निर्मीत अस्ती 419987 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अशुचिभोजने ।'''|९०९}} {{rule}} '''हेमाद्रौ—'''
“ विप्रः कण्ठगतप्राणः क्रीतान्नं यदि भुञ्जते । ग्रामे वा नगरे तीर्थे महादेवालयेऽपि वा ॥
“ स गत्वा नरकं घोरं नानायोनिषु जायते । तस्मात्तस्य विशुद्ध्यर्थं प्रायश्चित्तमुदीरितम् ।
“ त्रिरात्रभोजने कार्यं पक्षे तप्तं समाचरेत् । महातप्तं तु मासे च वत्सरे चान्द्रमुच्यते ॥
“ अतःपरं शूद्रतुल्यो विद्वानपि न संशयः । विप्रस्त्रीणामेतदर्धं यतीनां द्विगुणं भवेत् ॥ ५
'''यागान्नभोजने प्रायश्चित्तम् ।''' यागान्नभोजने '''कण्वः—'''
“ यज्ञेषु पशुबन्धेबु अन्नमत्ति यदा द्विजः । स वै नरकमाप्नोति स बिडालसमो भवेत् ॥
“ भुङ्क्ते यदि वपाहोमान्प्राक् पापं महदश्नुते । पुनस्तस्योपनयनं प्राजापत्येन शुद्ध्यति ॥
“ वपायागात्परं विप्रो यो भुङ्क्ते दीक्षितालये । प्राजापत्यं विशुद्ध्यर्थं मुनिभिः परिकीर्तितम् ” ॥ इति ।
'''कात्यायनः—''' १०
“ ऋत्विजां च परस्त्रीणां भोक्तॄणां यागसद्मनि । उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ॥
“ सुवासिनी चेत्तद्भर्तुः पिवेत्पादोदकं तथा । विधवा वपनं कृत्वा प्रपिवेद्ब्रह्मकूर्चकम् ॥
“ यतिश्च ब्रह्मचारी च पूर्वं यागान्नभक्षणे । चान्द्रं कुर्याद्वपाहोमात्परं कार्यं समाचरेत् ” ॥
'''अस्नात्वा भोजने प्रायश्चित्तम् ।''' अस्नात्वा भोजने '''गौतमः—'''
“ अस्नात्वा भोजनं विप्रो नीरोगः कुरुते यदि । स मलाशी सदा ज्ञेयः सर्वकर्मबहिष्कृतः । १५
“ श्राद्धकालेषु चान्द्रं स्यात् ग्रहणे तद्द्वयं स्मृतम् । पञ्च पर्वसु तप्तं स्यादितरत्र तु यावकम् ॥
“ द्विगुणं संविधानां तु यतीनां ब्रह्मचारिणाम् ” ॥
'''अशुचिकालभोजने प्रायश्चित्तम् । शातातपः—'''
“ मूत्रोच्चारं द्विजः कृत्वा शौचहीनः कथंचन । मोहाद्भुक्त्वा त्रिरात्रं स्यान्मत्या सांतपनं चरेत् ॥
“ मूत्रीयित्वा द्विजन्मार्थं स्मृतिभ्रंशाज्जलं पिवेत् । अहोरात्रोषितः स्नात्वा जुहुयात्सर्पिषा हविः ” ॥ २०
'''व्याघ्रः—'''
“ अस्पृश्यस्पर्शनं कृत्वा यदा भुङ्क्ते गृहाश्रमी । अकामतस्त्रिरात्रं स्यात् षड्रात्रं कामतश्चरेत् ” ॥
'''प्रजापतिः—'''“ अस्नात्वा तु यदा भुङ्क्ते पिण्डं दत्वा पितुर्वती ॥
“ स्पृष्ट्वा शवमुदक्यां वा चण्डालं सूतिकां तथा । अकामतस्त्रिरात्रं स्यान्मत्या सांतपनं चरेत् ”॥
पिण्डं प्रेतपिण्डम् । २५
'''पर्युषितान्नभोजने प्रायश्चित्तम् ।''' पर्युषितभोजने '''स एव—'''
“ जले निधाय पूर्वेद्युर्यदन्नं पितरोऽमृतम् । तत्पर्युषितसंज्ञं स्याद्भुक्त्वा चान्द्रायणं चरेत् ॥
“ त्रिरात्रं पञ्चरात्रं वा भुक्त्वा पर्युषितं द्विजः । तस्योपनयनं भूयश्चान्द्रायणमथाचरेत् ॥
“ हिङ्गुजीरकसम्मिश्रं तिन्तिणीरसवेष्टितम् । दुर्गन्धरहितं यत्तु भोक्तव्यं द्विजपुङ्गवैः ॥
“ दध्ना घृतेन तैलेन यदन्नं संस्कृतं भवेत् । दुर्गन्धरहितं भोज्यमन्यथा चान्द्रमुच्यते ” ॥ ३०
'''ओदनवटकमाषवटकादिभक्षणे प्रायश्चित्तम् । गालवः—'''
“ ओदनान्निर्मितं वस्तु शुक्तीभूतं यदा भवेत् । अभोज्यं भक्षयित्वा तद्यावकं कृच्छ्रमाचरेत् ॥
“ दुर्गन्धरहितं भक्ष्यं तथा पर्युषितं च यत् । वटकं माषसम्भूतं शष्कुल्यादि तथैव च ॥
“ तैलादिपाकसंह्रीनं च भक्ष्यमाहुर्मनीषिणः ॥
{{rule}}
१ क-रे स्थितम् । २ क्ष-न ।<noinclude></noinclude> rcs0rix0dy8awzn1dzlv3bivjjjt2w3 पृष्ठम्:Smriti mukta phalam.pdf/९५८ 104 166961 419988 2026-11-11T06:36:25Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९१०|'''अन्तःशवग्रामभोजने ।'''|}} {{rule}} “ माषसम्भूतवटकान् शष्कुलीं च तथाविधाम् । निष्कारणतया विप्रो न भुञ्जीत कदाचन ॥
“ पित्रर्थं देवकार्यार्थं पक्त्वा भुक्त्वा... नवीन पृष्ठं निर्मीत अस्ती 419988 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९१०|'''अन्तःशवग्रामभोजने ।'''|}} {{rule}} “ माषसम्भूतवटकान् शष्कुलीं च तथाविधाम् । निष्कारणतया विप्रो न भुञ्जीत कदाचन ॥
“ पित्रर्थं देवकार्यार्थं पक्त्वा भुक्त्वा न दोषभाक् । वृथा तानीह भक्षयित्वा यावकं कृच्छ्रमाचरेत् ”॥
'''परमान्नकृसरभक्षणे कालनियमः । देवलः—'''
“ परमान्नं च कृसरं वृथा पक्त्वा द्विजोत्तमः । भुञ्जीत यदि छर्दयित्वा उपोष्य रजनीं ततः ॥
५ “ पञ्चगव्यं पिवेत्पश्चाच्छुद्धो भवति नान्यथा ।
“ रवौ धनुः समायाते गृहे कन्या रजस्वला । पितृदेवनििमत्तं च परमान्नं प्रशस्यते ” ॥ इति ।
'''गौतमः—'''
“ धनुर्मासे गृहे कन्या यदि स्यात्प्रथमार्तवा । तथैव देवयात्रायां कृसरान्नं न दोषभाक् ॥
“ पितृकार्येषु सर्वेषु दैवे बन्धुसमागमे । पक्त्वा भोज्यं तदन्नं स्यात् प्रभूतक्षीरसंभवम् ॥
१० “ निमित्तेन विना भुक्त्वा दिनमेकमभोजनम् । पञ्चगव्यं पिवेत्पश्चाच्छुद्धो भवति निश्चितम् ” ॥
कन्या दुहिता भगिनी स्नुषा च । धनुर्मासे च दुहितरि भगिन्यां स्नुषायां च प्रथमार्तवायां
पितृदेवकार्ये बन्धुसमागमे च पायसकृसरान्नभोजने न दोषः । उक्तनिमित्तादन्यत्र दिनमुपवासः
पञ्चगव्यप्राशनं च कर्तव्यमित्यर्थः ।
'''व्रात्यकुण्डायन्नभोजने प्रायश्चित्तम् ।''' व्रात्यान्नभोजने '''देवलः—'''
१५ “ व्रात्यान्नं यदि कुण्डान्नं भुङ्क्ते विप्रः क्षुधातुरः । एकादश्यन्नभुक् चैव शुद्ध्यर्थे चान्द्रायणं चरेत् ॥
“ कुण्डगोलकयोरन्नं परिवित्तेस्तथैव च । परिवेत्तूर्यदन्नं च भुक्त्वा चान्द्रायणं चरेत् ॥
“ देवार्चकस्य यो भुङ्क्ते तथा गणकवेश्मनि । उभौ तौ पापिनौ प्रोक्तौ प्रायश्चित्तमथार्हतः ॥
“ एकरात्रे पञ्चगव्यं द्विरात्रे यावकं स्मृतम् । मासमात्रे पराकं स्यादब्दे चान्द्रमुदीरितम् ॥
“ ततः परं तत्समः स्यात् स्त्रीणामर्धमुदीरितम् ।
२० “ यतेराराधने भूत्वा यत्यन्नं भोजनोपरि । दम्पत्योर्भुक्तशिष्टं यत् भुक्त्वा चान्द्रायणं चरेत् ॥
“ उल्लङ्घितं पादहतं विडालादिभिमर्दितम् । देवपूजाविहीनं यद्वैश्वदेवविवर्जितम् ।
“ देवालयेषु यद्भुक्तं यदन्नं मूल्यसंभवम् । शीतीकृतं यदन्नं च शूर्पेण वदनेन वा ।
“ तुषपाषाणसंयुक्तं फलीकरणमिश्रितम् । असाक्षिकं यदन्नं च यदन्नं जीवतण्डुलम् ॥
“ एतद्भुक्त्वा विशुद्ध्यर्थं पराकं कृच्छ्रमाचरेत् ” ॥ इति ।
२५ भोक्तुरागयनात्पूर्वं भोजनपात्रे यत्परिवेषितं तदसाक्षिकम् ।
'''अन्तःशवग्रामभोजने प्रायश्चित्तम् ।''' अन्तःशवग्रामभोजने '''संवर्तः—'''
“ यत्र ग्रामे तु कुणपो विप्रो वसंत तत्र वै । पाकयज्ञं तथा भुक्तिं जलाहरणमेव च ॥
“ न कुर्यात्तावता विप्रो यावन्नान्यत्र नीयते । कुणपेनाश्रिते ग्रामे विप्रो भुक्त्वा स पापकृत् ॥
“ प्राजापत्यं तु कुर्वीत पञ्चगव्यमतः परम् । द्विजानां क्षीरपाने तु न दोषो गृहमेधिनाम् ” ॥
३० '''उपरागभोजने प्रायश्चित्तम् ।''' उपरागभोजने '''मनुः—'''
“ सूर्योपरागे यो भुङ्क्ते तस्य पापं महत्तमम् । तस्य पापविशुद्ध्यर्थं तप्तकृच्छ्रमुदीरितम् ॥
“ चन्द्रोपरागकाले तु भुक्त्वा कार्यं समाचरेत् । उभयोर्भोजने विप्रः पुनः संस्कारमर्हति ” ॥
'''मरीचिरपि—'''
“ सूर्यग्रहे तु नाश्नीयात्पूर्वं यामचतुष्टयम् । चन्द्रग्रहे तु यामांस्त्रीन् भुक्त्वा पापं समश्नुते ॥
{{rule}}
१ ग-न्ना । २ ग-सु । ३ क्ष-गृह ।<noinclude></noinclude> 6y0micl2ifjb7dvt4q3t3oozl3pfczi पृष्ठम्:Smriti mukta phalam.pdf/९५९ 104 166962 419989 2026-11-11T06:38:07Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''स्वस्वकाले गर्भाधानाद्यकरणे ।'''|९११}} {{rule}} “ इमं धर्मं परित्यज्य यो विप्रस्त्वन्यथा चरेत् । तस्योपनयनं भूयस्तप्तं सांतपनं स्मृतम् ” ॥
सूर्योपग्रहे तप्तम्... नवीन पृष्ठं निर्मीत अस्ती 419989 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''स्वस्वकाले गर्भाधानाद्यकरणे ।'''|९११}} {{rule}} “ इमं धर्मं परित्यज्य यो विप्रस्त्वन्यथा चरेत् । तस्योपनयनं भूयस्तप्तं सांतपनं स्मृतम् ” ॥
सूर्योपग्रहे तप्तम् । अन्यत्रान्यदित्यर्थः । उभयोः पुनःसंस्कारे इत्यर्थः ।
'''भिन्नपात्रभोजने प्रायश्चित्तम् ।''' भिन्नपात्रादिभोजने '''गालवः—'''
“ स्वर्णपात्रं तथा कांस्यं रजतं भिन्नमेव यत् । तत्र भुक्त्वा चरेत्कृच्छ्रमन्यथा दोषमाप्नुयात् ॥
“ येषु पर्णेषु यो भुङ्क्ते यदा तत्र भुजिं चरेत् । पर्णान्तरं न भुञ्जीत तदा चैन्दवमाचरेत् ॥ ५
'''गौतमोऽपि—'''
“ एकजातीयपर्णेषु कांस्ये चामिन्नभाजने । भोजनं कुरुते यस्तु संपूर्णायुर्भवेदिह ” ॥
'''रजस्वलापक्वान्नभोजने प्रायश्चित्तम् ।''' रजस्वलापक्वभोजने '''मार्कण्डेयः—'''
“ अज्ञात्वा पुष्पिणी नारी कृत्वा वै पचनक्रियाम् । पश्चाच्छुल्कं रजो दृष्ट्वा यदा तस्मादपक्रमेत् ॥
“ तां दृष्ट्वा भाषणं कृत्वा भुक्तवन्तो यदि द्विजाः । चान्द्रायणेन शुद्धाः स्युः पञ्चगव्येन चेत्तथा ॥ १०
“ पुनः कर्म प्रकुर्वीरन् भवेयुः पापिनोऽन्यथा ” ॥ इति ।
'''निषिद्धदिने द्विर्भोजने ब्रह्मयज्ञानाकरणे च प्रायश्चित्तम् ।'''
निषिद्धदिने द्विर्भोजने '''स एव—'''
“ अर्कद्विपर्वरात्रौ च मृताहात्पूर्ववासरे । तथा चतुर्दश्यष्टम्योः संक्रान्तौ च महोत्सवे ।
“ पितरौ व्याधिनाक्रान्तौ गुरूणां दुःखसंभवे । श्रोत्रिये मरणं प्राप्ते महाराजविपातने । १५
“ न द्विवारं समश्नीयान्नश्येत् द्विवारभोजनात् ” ॥
“ न द्विवारं समश्नीयात् विप्रो धर्ममनुस्मरन् । तस्य पापस्य शुद्ध्यर्थं सहसा निष्कृतिं चरेत् ॥
“ पञ्चगव्येन शुद्धः स्यात् विप्रो द्विवारभोजने ” ॥ इति ।
एतदनभ्यासविषयम् । अभ्यासे तु भोजनप्रकरणोक्तं द्रष्टव्यम् । स एव—
“ वैश्वदेवं देवतार्चां नित्यहोमं तथाविधम् । ब्रह्मयज्ञं पितॄणां च तर्पणं द्विजवल्लभः ॥ २०
“ त्यक्त्वा भुक्त्वा तथा विप्रः सुरापीत्युच्यते बुधैः । तप्तकृच्छ्रं चरेत्पापी तस्मात्पापात्प्रमुच्यते ॥
“ पञ्चगव्येन पूतात्मा नान्यथा शुद्धिरिष्यते ” ॥ इति । एतदसकृत्करणविषयम् । सकृत्करणे तु
“ वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ” ॥ इति
मनूक्त एकरात्रोपवासो द्रष्टव्यः ।
'''स्वस्वकाले गर्भाधानाद्यकरणे प्रायश्चित्तम् ।''' स्वस्वकाले गर्भाधानाद्यकरणे '''हेमाद्रौ—''' २५
“ स्नातवत्यामृतौ पत्न्यां चतुर्थे पञ्चमेऽह्नि वा । कृत्वाऽभ्युदयिकं प्रातस्तद्रात्रौ मन्त्रपूर्वकम् ॥
“ गर्भाधानं ततः कुर्यात् प्रतिगर्भं न तत् स्मृतम् । अन्यथा गर्भघाती स्याद्यथा जारः तथैव सः ॥
“ प्राजापत्यत्रयं कुर्यात् द्वितीये पुनरार्तवे ।
“ सीमन्तपुंसवनयोः स्वकालाकरणे सति । प्राजापत्यद्वयं कृत्वा शुद्धो भवति नान्यथा ” ॥ इति ।
“ जातकर्म न कुर्वीत नास्तिक्याद्यदि पूर्वजः । प्राजापत्यद्वयं कुर्यान्नास्ति चौले तथा व्रते ॥ ३०
“ एकादशे द्वादशे वा नामकर्म विधीयते । अतिपत्तौ पिता कुर्यात् प्राजापत्यद्वयं ततः ॥
“ अन्नप्राशनचौलादिकाले कुर्याद्व्रतेऽपि वा ।
“ मुख्यकालपरित्यागादन्नप्राशनकर्मणः । व्रतबन्धे तु गौणं स्यात्प्राजापत्यमुदीरितम् ॥
“ देशकालानुरोधेन यदि चौलं विलम्ब्यते । प्राजापत्यद्वयं कृत्वा तत्पापं परिशोधयेत् ॥
{{rule}}
१ गघ-त्कार्यं । २ क्ष-च । ३ ग-श्रु ।<noinclude></noinclude> 213bdxs75p18nfzinklwme7cta6mcsd पृष्ठम्:Smriti mukta phalam.pdf/९६० 104 166963 419990 2026-11-11T06:38:52Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९१२|'''शिखोपवीतभ्रंशे ।'''|}} {{rule}} “ पञ्चमाब्दं विलम्ब्याशु शिशोरक्षरसंग्रहे । कायिकं तत्र कर्तव्यमन्यथा दोषमाप्नुयात् ॥
“ यदि कामादष्टमाब्दं लङ्घयित्वा चरेद... नवीन पृष्ठं निर्मीत अस्ती 419990 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९१२|'''शिखोपवीतभ्रंशे ।'''|}} {{rule}} “ पञ्चमाब्दं विलम्ब्याशु शिशोरक्षरसंग्रहे । कायिकं तत्र कर्तव्यमन्यथा दोषमाप्नुयात् ॥
“ यदि कामादष्टमाब्दं लङ्घयित्वा चरेद्व्रतम् । नवमे तप्तकृच्छ्रं स्याद्दशमे तच्च कायिकम् ॥
“ एकादशे द्वादशे वा ह्यतिक्रम्यैन्दवं चरेत् । तत आ षोडशात्कुर्यादिन्द्रवद्वयमेव च ॥
“ अजिनं मेखलां दण्डं ब्रह्मचारी यदि त्यजेत् । प्राजापत्यं पक्षमात्रे मासे तप्तं समाचरेत् ॥
५ “ अब्दमात्रपरित्यागे कुर्याच्चान्द्रायणव्रतम् ।
“ अग्निकार्यं ब्रह्मयज्ञं देवर्षिपितृतर्पणम् । अकृत्वा वत्सरे चान्द्रं तत्परं पतितो हि सः ” ॥
'''उष्णोदकस्नाने प्रायश्चित्तम् ।''' उष्णोदकस्नानादौ '''देवलः—'''
“ कूपोदकेन सप्ताहं स्नानमुष्णेन वारिणा । मृत्तिकाभिर्विना शौचं कृत्वा सप्ताहमेव च ॥
“ प्राजापत्यं विशुद्ध्यर्थं चरेत् पूतो भवेद्विजः । पञ्चगव्यं ततः पीत्वा शुद्धो भवति नान्यथा ” ॥ इति ।
१० '''यज्ञोपवीतादिना विना भोजने प्रायश्चित्तम् ।''' यज्ञोपवीतादिनाविना भोजने '''स एव—'''
“ विना यज्ञोपवीतेन शिखया च द्विजोत्तमः । उच्छिष्टो यदि मोहात्मा पापकृत्स भवेद्विजः ॥
“ उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ” ॥ इति । शिखया शिखाबन्धेनेत्यर्थः ।
'''शिखोपवीतभ्रंशे प्रायश्चित्तम् ।''' शिखानाशे तु '''गौतमः—'''
“ शिखां विना द्विजश्रेष्ठः कण्ठे गोवालरोमभिः । भूत्वा तद्दोषशान्त्यर्थं प्राजापत्यं समाचरेत् ॥
१५ “ यावच्छिखा पुनर्जाता तावत्कण्ठेन धारयेत् । ब्रह्माविष्णुमहेशाख्या ब्रह्मसूत्रस्य तन्तव ॥
“ एकस्मिंस्त्रुटिते विप्रः पुनर्धृत्वा नवं मुदा । नित्यकर्म प्रकुर्वीत त्रुटितं निक्षिपेज्जले ॥
“ ब्रह्मसूत्रं तु वामांसात् भ्रष्टं स्याच्चतुरङ्गुलम् । प्राणायामत्रयं कृत्वा स्वस्थाने पूर्ववत् क्षिपेत् ॥
“ मणिबन्धे यदा भ्रष्टं प्राणायामसहस्रकम् । कृत्वा शुद्धिमवाप्नोति वामहस्तादधोगतम् ॥
“ यत्सूत्रं सहसा त्यक्त्वा धारयेदन्यसूत्रकम् ।
२० “जले भ्रष्टं परित्यज्य सहस्रं वेदमातरम् । जप्त्वा शुद्धिमवाप्नोति नान्यथा शुद्धिरिरीता ” ॥ इति ।
'''भोजनकाले क्षुतादौ प्रायश्चित्तम् ।''' भोजनकाले क्षुतादौ '''विष्णुः—'''
“ द्विजो भोजनकाले तु जृम्भणं क्षुतमेव च । अपानवायुमोक्षं वा कुर्वन्निष्कृतिमाचरेत् ॥
“ अन्यो दोर्ध्या जलं धृत्वा तस्य मूर्धनि विन्यसेत् । पृच्छेत् जन्मसदनं दिवा वा यदि वा निशि ॥
“ क्षुते च जृम्भणे चैव कृतैवं स विशुद्ध्यति ।
२५ “ अपानवायोरुत्सर्गं जातेऽन्नं परिवर्जयेत् । लोभेन भुक्त्वा तद्भुक्तं स्नात्वा कायं समाचरेत् ” ॥
'''शिवनिर्माल्यभोजने प्रायश्चित्तम् ।''' शिवनिर्माल्यभोजने '''देवलः—'''
“ शम्भौर्निवेदितं भक्तं तत्तीर्थं शाकमेव वा । विप्रः सकृन्न भुञ्जीयात् भुक्त्वा तप्तं समाचरेत् ” ॥
'''मार्कण्डेयः—'''
“शिवे निवेदितं भक्तं प्रत्येकं देवतां विना । द्विजोऽज्ञानाद्यदा भुङ्क्ते तप्तकृच्छ्रं समाचरेत्”॥ इति ।
३० '''सालग्रामादिसाहित्ये जाबालिः—'''
“ शिवे विष्ण्वादिभिर्देवैर्वेष्टिते यत्समर्पितम् । तद्भुक्त्वा विप्रवर्याऽसौ न भवेद्दोषभाग्जनः ” ॥
'''हारीतः—'''
“सालग्रामादिभिः शम्भोर्वेष्टितस्य यदर्पितम् । तद्भोक्तव्यं द्विजैर्नित्यं ततोयं च पिवेद्द्विजः”॥ इति ।
फलाधिक्यमाह '''योगयाज्ञवल्क्यः—'''
“ शिवे निवेदितं भक्तं सालग्रामादिवेष्टिते । तद्भक्तभोजने चान्द्रं कृतवान्नात्र संशयः ।
३५ “ अन्यथा मांसतुल्यं स्यात्तत्तोयमसुजासमम् ” ॥ इति ।
{{rule}}
१ ग-हूत्वा । २ ग-जाबालिः । ३ ग-देवलः । ४ ग-र्णम् । ५ ग-जनम् ।<noinclude></noinclude> feyr3hb6kj7jhc1a3v3682ebqws6515 पृष्ठम्:Smriti mukta phalam.pdf/९६१ 104 166964 419991 2026-11-11T06:39:41Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''परान्नभोजने ।'''|९१३}} {{rule}} '''पत्न्या सहभोजने प्रायश्चित्तम् ।''' पत्न्या सहभोजने '''देवलः—'''
“द्विजः कामातुरो यस्तु पत्न्या सह यदान्नभुक् । पश्चाच्चान्द्रायणं... नवीन पृष्ठं निर्मीत अस्ती 419991 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''परान्नभोजने ।'''|९१३}} {{rule}} '''पत्न्या सहभोजने प्रायश्चित्तम् ।''' पत्न्या सहभोजने '''देवलः—'''
“द्विजः कामातुरो यस्तु पत्न्या सह यदान्नभुक् । पश्चाच्चान्द्रायणं कृत्वा शुद्धिमाप्नोति पौर्विकीम्”॥इति।
'''गालवः—'''“एकयाने समारोहमकपात्रे तु भोजनम् । विवाहे पथि यात्रायां कृत्वा विप्रो न दुष्यति ॥
“अन्यथा दोषमाप्नोति पश्चाच्चान्द्रायणं चरेत् । अभ्यासे द्विगुणं चैव कृत्वा शुद्धिborderमवाप्नुयात्”॥
'''गौतमः—'''“ पिताऽनुजस्य पुत्रस्य तयोः प्रीतिं समुद्वहन् । ५
“निक्षिपेत्कवलं तत्र न दोषस्तस्य भोजने । ताभ्यां सह न भुञ्जीत भुक्त्वा दोषमवाप्नुयात्” ॥ इति ।
'''नीलवस्त्रधारणनिषेधः ।''' नीलवस्त्रादिधारणे '''आपस्तम्बः—'''
“ नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
“ रोमकूपे यदा गच्छेद्वसो नील्यास्तु कस्यचित् । त्रिवर्णेणु तु मासान्त्यं तप्तकृच्छ्रं विशोधनम् ॥
“ पालनं विक्रयं चैव तद्वृत्त्या तूपजीवनम् । पतनं तु भवेद्विप्रः त्रिभिः कृच्छ्रैर्व्यपोहति ॥ १०
“ स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् । वृथा तस्य महायज्ञा नीलीसूत्रस्य धारणात् ॥
“ नीलीमध्ये तु गच्छेद्वः प्रमादाद्ब्राह्मणः क्वचित् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
“ नीलीदारुर्यदा भिन्द्याद्ब्राह्मणस्य शरीरकम् । शोणितं दृश्यते यत्र द्विजश्चान्द्रायणं चरेत् ॥
“ स्त्रीणां क्रीडार्थसम्भोगे शयनीयं न दुष्यति ।
“ नीलरक्तेन वस्त्रेण यदन्नमुपजीव्यते । दातारं नोपतिष्ठेत भोक्ता भुञ्जीत किल्बिषम् । १५
“ कम्बले पट्टवस्त्रे च नीलीरागो न दुष्यति ” ॥ नीलीवस्त्रं धृत्वा भोजने '''देवलः—'''
“ नीलीवस्त्रं तु तच्चिह्नं धृत्वा कर्म करोति यः । स विप्रस्तु न कर्माहस्तत्कर्म विफलं भवेत् ॥
“ एकस्मिन् दिवसे भुक्त्वा धृत्वा रक्तमयं पटम् । कुर्यादिहविशुद्ध्यर्थं यावकं मुनिचोदितम् ॥
“ अभ्यासे तु पराकं स्यात् वत्सरे चान्द्रमुच्यते” ॥ इति । तच्चिह्नं वस्त्रान्ते मध्ये वा नीलतन्तुभि-
श्चिह्नितमित्यर्थः । '''गौतमः—''' २०
“ नीलीमयं पटं धृत्वा विप्रस्तञ्चिह्नमेव वा । कृत्वा कर्माणि भुक्त्वा वा न तत्कर्मफलं लभेत् ॥
“ भोजने मांसभुग्विप्रः सर्वथा परिवर्जयेत् ” । '''देवलः—'''
“नीलवस्त्रं तु तच्चिह्नं धृत्वा ज्ञानात्तु यश्चरेत् । स विप्रस्त्वशुचिर्नित्यं न कर्माहो भवेदिह ” ॥ इति।
'''परान्नभोजने प्रायश्चित्तम् ।''' परान्नभोजने '''शौनकः—'''
“ यस्मिन्वर्ये जपेन्मन्त्रं शतवारं दिने दिने । सदा परान्नभोक्ता च विमुच्येत हि किल्बिषात् ” ॥ २५
'''यमः—'''
“ न पङ्क्तौ विषमं दद्यान्न याचेन्न च दापयेत् । प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस्ततः”॥ इति ।
'''नवश्राद्धादिभोजने प्रायश्चित्तम् ।''' श्राद्धभोजने '''विष्णुः—'''
“ प्राजापत्यं नवश्राद्धे पादोनं त्वाद्यमासिके । त्रैपक्षिके तदर्धं स्यात्पञ्चगव्यं चै मासिके ” ॥ इति ।
एतच्चापद्विषयम् । अनापदि तु— ३०
“ चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयते ” ॥
इति हारीतोक्तं द्रष्टव्यम् ।
{{rule}}
१ क्ष-प्र । २ क्ष-तः । ३ कगध-गालवः । ४ क्ष-श्च । ५ ग-द्धि ।
११६-१२<noinclude></noinclude> bfjffltdq1qtxgvlrv9tw7nn3eww92k पृष्ठम्:Smriti mukta phalam.pdf/९६२ 104 166965 419992 2026-11-11T06:40:25Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९१४|'''श्राद्धभोजने ।'''|}} {{rule}} ‘ प्राजापत्यं तु मिश्रक ’ इति आद्यमासिकविषयम् । ऊनमासिकादिषु तु पादोनप्राजापत्यादीनि
कर्तव्यानि । तदुक्तं '''चतुर्विंशतिमते—'''<br... नवीन पृष्ठं निर्मीत अस्ती 419992 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९१४|'''श्राद्धभोजने ।'''|}} {{rule}} ‘ प्राजापत्यं तु मिश्रक ’ इति आद्यमासिकविषयम् । ऊनमासिकादिषु तु पादोनप्राजापत्यादीनि
कर्तव्यानि । तदुक्तं '''चतुर्विंशतिमते—'''
“ प्राजापत्यं नवश्राद्धे पादोनं त्वाद्यमासिके । त्रैपक्षिके तदर्धं स्यात् द्वौ पादौ मासि के ततः ॥
“ पादोनं कृच्छ्रमुद्दिष्टं षण्मासे चाब्दिकेतथा । त्रिरात्रं चान्यमासेषु प्रत्यब्दं चेदहः स्मृतम् ”॥ इति ।
५ अत्र ‘प्राजापत्यं नवश्राद्ध’ इत्ययमंश आपद्विषयः । अनापदि चान्द्रायणम् । तथा '''मरीचिः—'''
“ नवश्राद्धं नवश्राद्धमाशौचाभ्यन्तरे द्वयम् । तत्रान्नं प्रतिगृह्णांश्च महारौरवमश्नुते ॥
“ नवश्राद्धे नवश्राद्धे चान्द्रायणमुदीरितम् ॥
“आद्यश्राद्धे तथा चान्द्रं सपिण्डीप्रेतभोजने । चान्द्रायणं पराकं वा कुर्याद्दोषशान्तये”॥ इति ।
‘प्राजापत्यं तु मिश्रक’ इत्येतदावृत्ताद्यमासिकविषयम् । तत्र चान्द्रायणं महैकोद्दिष्टविषयम् । तद-
१० नावृतौ तु चान्द्रायणत्रयं कार्यम् ।
“ आद्यमासिकमेकञ्चेद्भुङ्क्ते ब्राह्मात्स हीयते । चान्द्रायणत्रयं कृत्वा कूष्माण्डैर्जुहुयात्ततः ॥
“ पुनः कर्म प्रकुर्वीत ततः पूतो भवेद्विजः ” ॥ इति स्मृतेः । यत्तु शङ्खवचनम्
“ चान्द्रायणं नवश्राद्धे पराको मासि के स्मृतः । पक्षत्रये तु कृच्छ्रं स्यात् षण्मासे कृच्छ्र एव तु ॥
“ आब्दिक पादकृच्छ्रं स्यात् एकाहः पुनराब्दिके ” ॥ इति । अत्र यत्पराकादिविधानं तत्सर्पादि-
१५ हतविषयम् आपङ्क्तेयविषयं च ।
“ चण्डालादुदकात्सर्पात् ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥
“ पतनानशनैश्चैव विषोद्वन्धनतस्तथा । भुङ्क्ते यः षोडशश्राद्धे कुर्यादिन्दुव्रतं द्विजः ॥
“ आपाङ्क्तेयान्युद्दिश्य श्राद्धमेकादशेऽहनि । ब्राह्मणस्तत्र भुक्त्वाऽन्नं शिशुचान्द्रायणं चरेत् ॥
“मासश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुध्यति । संकाल्पते तथा भुक्त्वा त्रिरात्रं क्षपणं स्मृतम्”॥ इति
२० भारद्वाजेन प्रायश्चित्तविशेषाभिधानात् ।
'''श्राद्धभोजने ब्रह्मचारिणः प्रायश्चित्तम् ।''' ब्रह्मचारिणस्तु बृहद्यमो विशेषमाह—
“ मासिकादिषु योऽश्नीयात् असमप्तव्रतो द्विजः । त्रिरात्रमुपवासोऽत्र प्रायश्चित्तं विधीयते ॥
“ प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति ” ॥ इदमज्ञानविषयम् । ज्ञानपूर्वके तु स एव—
“ मधु मांसं तु योऽश्नीयाच्छ्राद्धे सूतक एव वा । प्राजापत्यं चरेत्कृच्छ्रं व्रतशेषं समापयेत् ” ॥ इति ।
२५ '''क्षत्रियादिश्राद्धभोजने प्रायश्चित्तम् ।''' क्षत्रियादिश्राद्धभोजने '''चतुर्विंशतिमते—'''
“ चान्द्रायणं नवश्राद्धे पराको मासि के स्मृतः । त्रैपक्षिके सांतपनं कृच्छ्रं मासद्वये स्मृतम् ॥
“ क्षत्रियस्य नवश्राद्धे व्रतमेतदुदाहृतम् । वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात्तु मनीषिभिः ॥
“ शूद्रस्य तु नवश्राद्धे चरेच्चान्द्रायणद्वयम् ।
“ सार्धं चान्द्रायणं मासे त्रिपक्षे त्वैन्दवं स्मृतम् । मासद्वये पराकं स्यादूर्ध्वं सान्तपनं स्मृतम्”॥ इति ।
३० '''यत्तशनसोक्तम्'''
“दशकृत्वः पिवेदापो गायत्र्या श्राद्धभुग्द्विजः । ततः सन्ध्यामुपासीत शुद्ध्येत्तु तदनन्तरम्”॥ इति
तदनुक्तप्रायश्चित्तश्राद्धविषयम् ।
'''नान्दीश्राद्धभोजने प्रायश्चित्तम् ।''' संस्काराङ्गश्राद्धभोजने '''व्यासः—'''
“ प्रवृत्ते चूडाहोमे तु प्राङ्नामककरणात्तथा । चरेत्सान्तपनं भुक्त्वा जातकर्मणि चैव हि ॥
{{rule}}
१ ग-द्रा । २ गघ-ति । ३ क्ष-निमित्त ।<noinclude></noinclude> ax20obedys6qph395v28601qbhbtwbo पृष्ठम्:Smriti mukta phalam.pdf/९६३ 104 166966 419993 2026-11-11T06:41:14Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''श्राद्धशिष्टात्नभोजने ।'''|९१५}} {{rule}} “अतोऽन्येषु तु भुक्त्वाऽन्नं संस्कारेषु द्विजोत्तमः । नियोगादुपवासेन शुद्ध्यते नित्यभोजनात्” ॥ इति ।
सीमनोन्नयनादि... नवीन पृष्ठं निर्मीत अस्ती 419993 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''श्राद्धशिष्टात्नभोजने ।'''|९१५}} {{rule}} “अतोऽन्येषु तु भुक्त्वाऽन्नं संस्कारेषु द्विजोत्तमः । नियोगादुपवासेन शुद्ध्यते नित्यभोजनात्” ॥ इति ।
सीमनोन्नयनादिषु '''धौम्यो''' विशेषमाह—
“ब्रह्मोदने च सोमे च सीमन्तोन्नयने तथा । जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत्”॥ इति ।
ब्रह्मोदनाख्यं कर्माग्न्याधानाङ्गभूतम् । यत्तु '''भारद्वाजेनोक्तम्—'''
“ भुक्त्वैत्यावर्णश्राद्धे प्राणायामान् षडाचरेत् । उपवासस्त्रिमासादिवत्सरान्तं प्रकीर्तितम् ” ॥ ५
एतदप्यापद्विषयम् । अनापद्यधिकप्रायश्चित्तस्योक्तत्वात् । आमश्राद्धे सर्वत्रार्धम् । “ आमश्राद्धे
भवेदर्थम् ” इति षट्त्रिंशन्मतेऽभिधानात् ।
'''श्राद्धशिष्टात्नभोजननिषेधः ।''' श्राद्धशिष्टात्नभोजनं प्रतिषेधति '''देवलः—'''
“ अमायां पैतृकश्राद्धे मासिश्राद्धे महालये ।
“ श्राद्धे च षण्णवत्याख्ये सपिण्डीकरणे तथा । मासिकेषु तथा विप्रो न कुर्याच्छेषभोजनम्”॥१०
'''महाभारते—'''
“ श्राद्धकर्मणि भोक्तारो भोक्तारो यज्ञकर्मणि । श्राद्धशिष्टाश्नभोक्तारस्ते वै निरयगामिनः ॥
“ सगोत्राणां सHostल्यानां न दोषः शिष्टभोजने । पुत्रिणामन्यगोत्राणां विधवानां तु दुष्यति ” ॥
'''जाबालिः—'''
“ श्वशुरस्य गुरोर्वापि मातुलस्य महात्मनः । एतेषां श्राद्धशिष्टात्नं भुक्त्वा दोषो न विद्यते ॥ १५
“ पित्रोश्च ब्रह्मनिष्ठस्य ज्येष्ठभ्रातुश्च ज्ञानिनः । पैतृकेषु न भोक्तव्यं विधवानां तु सर्वदा ॥
“ विप्रस्त्वन्यकुले श्राद्धे कुर्याच्चेच्छेषभोजनम् । प्राजापत्यं विशुद्धिः स्यात् ज्ञातीनां तु न दोषभाक् ।
“ व्रतिनां च स्वपित्रादौ न दोषः शिष्टभोजने । विधवा केशवपनं कृत्वा तप्तं समाचरेत् ॥
“ यतिश्च ब्रह्मचारी च पराकं कृच्छ्रमाचरेत् । संन्यासी वपनं कृत्वा लक्षं च प्रणवं जपेत् ”॥ इति ।
चन्द्रिकादावनेकस्मृतिवचनाभिधानपूर्वकं श्राद्धशिष्टात्नभोजनं नै दोषावहमित्युक्तम् । तच्च २०
प्रतिपादितमधस्तात् । हेमाद्रौ तु विशेषवचनमुदाहृत्य श्राद्धशिष्टात्नभोजने प्रायश्चित्तं चाभिहितम् ।
अत्र निषेधस्य प्राबल्यात् श्राद्धशिष्टात्नभोजने प्रायश्चित्तोपदेशात् शिष्टाचारबाहुल्याच्च तद्वर्जनमेव
युक्तमित्याहुः ।
'''चौलाद्यन्नभोजने देवलः—'''
“ चौलकर्मणि सीमन्ते मुहूर्ताद्भोजने परम् । सुरापानसमं प्रोक्तमतो नेच्छन्ति सूरयः ” ॥ २५
'''गौतमः—'''“सीमन्ते पुंसवे चैव चौले कर्मणि यो द्विजः । असगोत्रस्तदन्नादः सुरापीत्युच्यते बुधैः”॥
'''मार्कण्डेयः—'''
“ चौले कर्मणि सीमन्ते पुंसवे योऽसगोत्रजः । मुहूर्तादूर्ध्वभुक्पापी सुरापानमवाप्नुयात् ॥
“ प्रायश्चित्तं द्विजैः प्रोक्तमत्र शिष्टान्नभोजने । मुहूर्तात्परतस्तप्तं तत्पूर्वं भोजनं चरन् ॥
“ जप्त्वा शुद्धिमवाप्नोति सहस्रं वेदमातरम् । स्त्रीणामर्धं यतीनां च व्रतिनां चान्द्रमुच्यते ॥ ३०
“ चौलकर्मणि पूर्वत्रापरत्र च समं भवेत् ” ॥ स्मृत्यन्तरे च—
“ चौलोपनयने चैव सीमन्ते पुंसवे तथा । ऋतूत्सवेऽप्यहःशेषं भुक्त्वा चान्द्रायणं चरेत् ” ॥
अहःशेषमिति वचनात् रात्रौ तद्गृहभोजने नैतत् प्रायश्चित्तम् । उच्छिष्टभोजनादीनां प्रायश्चित्त-
माह्निकपरिच्छेदे भोजनप्रकरणे निरूपितम् । तत एवावधार्यम् ।
{{rule}}
१ क्ष-रु । २ क्ष-सौ । ३ ग-त्री । ४ क्ष-ति । ५ कग-+ म । ६ ग-निषेध । ७ पृ. ४३१<noinclude></noinclude> aud95gqvhe2etcc54zt0skcz9plr03g पृष्ठम्:Smriti mukta phalam.pdf/९६४ 104 166967 419994 2026-11-11T06:42:08Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९१६|'''अवsubsidविक्रये ।'''|}} {{rule}} '''अनुक्तप्रायश्चित्तेषु शङ्खलिखितौ—'''
“ क्रयविक्रयदुष्टभोजनप्रतिग्रहेषु अनिर्दिष्टप्रायश्चित्तेषु सर्वेषु चान्द्रायणं प्रा... नवीन पृष्ठं निर्मीत अस्ती 419994 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९१६|'''अवsubsidविक्रये ।'''|}} {{rule}} '''अनुक्तप्रायश्चित्तेषु शङ्खलिखितौ—'''
“ क्रयविक्रयदुष्टभोजनप्रतिग्रहेषु अनिर्दिष्टप्रायश्चित्तेषु सर्वेषु चान्द्रायणं प्राजापत्यं वा ” ॥ इति ।
'''मनुः—'''
“ अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञातभुक्तमुद्गार्य शोध्यं वाप्याऽशु शोधनैः ” ॥
५ '''स्मृत्यन्तरे तु—'''
“ भक्ष्याभक्ष्याण्यशेषाणि ब्राह्मणानां विशेषतः । तत्र शिष्टा यथा ब्रूयुस्तत्कर्तव्यमिति स्मृतम् ” ॥
'''अविक्रेयविक्रये प्रायश्चित्तम् ।''' अविक्रेयविक्रये '''हारीतः—'''“ गुडतिलपुष्पमूलफल-
पक्वान्नविक्रये सोमलाक्षालवणमधूनां तैलक्षीरतक्रदधिघृतगन्धचर्मवाससामन्यतमविक्रये चान्द्रायणं
तयोर्णीकेशकेसरिमृगेभेभ्वेभ्भाश्मशस्त्रविक्रये च मत्स्यमांसास्थिशृङ्गनखशुक्तिविक्रये तप्तकृच्छ्रं
१० हिङ्गुगुग्गुलुहरितालमनःशिलाञ्जनगैरिकलाक्षालवणमणिशुक्ताप्रवालवैणवसन्मयेषु च आरामकूप-
वनपुष्करिणीसुकृतविक्रये त्रिषवणस्नाय्यधःशायी चतुर्थकालाहारो दशसहस्रं जपेद् गायत्रीं
वत्सरेण पूतो भवति हीनमानोन्मानोन्मापनसंकरसंकीर्णविक्रये च ” इति ।
'''चतुर्विंशतिमते—'''
“ सुराया विक्रयं कृत्वा चरेत्सौम्यचतुष्टयम् । लाक्षालवणमांसानां चरेच्चान्द्रायणत्रयम् ॥
१५ “ मध्वाज्यतैलसोमानां चरेच्चान्द्रायणद्वयम् । पयःपायसपूपानां चरेच्चान्द्रायणव्रतम् ॥
“ दध्याज्येक्षुरसानां च गुडखण्डादिविक्रये । सर्वेषां स्नेहपकानां पराकं तु समाचरेत् ॥
“ सिद्धान्नविक्रये विप्रः प्राजापत्यं समाचरेत् । उपवासं तु तक्रस्य नक्तं काञ्चनविक्रये ॥
“ पूगीफलानि मञ्जिष्ठां राजसर्जूरमेव च । एतेषां विक्रये कृच्छ्रं पनसस्य दिनद्वयम् ।
“ कदलीं नारिकेलं च नारङ्गं बीजपूरकम् । एतेषां पादकृच्छ्रं स्यात् जम्बीरादेस्तथैव च ॥
२० “ कस्तूरिकादिगन्धानां विक्रये कृच्छ्रमाचरेत् । कर्पूरादेस्तदर्धं स्याद् दिनं हिंङ्ग्वादिविक्रये ॥
“ तिलानां वि क्रयं कृत्वा प्राजापत्यं समाचरेत् । यज्ञार्थं कृषिजातानां दानलब्धस्य विक्रये ॥
“ रक्तपीतानि वस्त्राणि कृष्णाजिनमथापि वा । एतेषां विक्रये कृच्छ्रं गर्गस्य वचनं यथा ॥
“ गोविक्रयं द्विजः कुर्याल्लाभार्थं धनमोहितः । प्राजापत्यं प्रकुर्वीत गजानां त्वैन्दवं स्मृतम् ॥
“ खराश्वाजादिकानां च करभाणां च विक्रये । पराकं तत्र कुर्वीत शुनि द्विगुणमाचरेत् ॥
२५ “ नारीणां विक्रयं कृत्वा चरेच्चान्द्रायणं व्रतम् । द्विगुणं पुरुषाणां च व्रतमाहुर्मनीषिणः ॥
“ चान्द्रायणं प्रकुर्वीत एकाहं वेदविक्रये । अङ्गानां तु पराकं स्यात् स्मृतीनां कृच्छ्रमाचरेत् ॥
“ इतिहासपुराणानां चरेत्सान्तपनं द्विजः । रहस्यपाञ्चरात्राणां कृच्छ्रं तत्र समाचरेत् ॥
“ गाथानां नीतिशास्त्राणां प्राकृतानां तथैव च । सर्वासामेव विद्यानां पादकृच्छ्रं समाचरेत् ”॥ इति ।
'''नारदः—'''“ तण्डुलांश्च तिलांन्नाद्यान् फलपुष्पगुडाद्यपि । नागवल्लीदलं पूगौपर्णं कर्पूरमेव च ॥
३० “ कस्तूरीं कुङ्कुमं मूलं मुद्रं दधि घृतं पयः । कृष्णाजिनं च रुद्राक्षं ब्रह्मसूत्रं कमण्डलुम् ॥
“ ताम्रं कांस्यं तथा वस्त्रं कम्बलं रोचनं तथा । तिन्तिणीं लवणं मूलं पक्कमन्नं द्विजो यदि ॥
“विक्रयित्वा तु यो जीवेत् स तु शूद्रो न संशयः । एतानि विक्रयित्वा तु हव्यकव्यानि नाचरेत् ॥
“ एतानि विक्रयित्वा तु प्राजापत्यं समाचरेत् । धनस्य संग्रहार्थं तु द्विगुणं कृच्छ्रमाचरेत् ॥
“ विप्रस्तु पक्षमात्रं च गोरसं विक्रयेद्यदि । तस्य देहविशुद्ध्यर्थं तप्तकृच्छ्रमुदीरितम् ॥
३५ “ मासमात्रं विक्रयित्वा चरेच्चान्द्रायणव्रतम् । ऋतुद्वयं विक्रयित्वा मण्डलं यावकं चरेत् ॥
{{rule}}
१ ग-नादि । २ म-सोमापनं । ३ ग-ञ्जिक । ४ गघ-पूगं पूणीं ।<noinclude></noinclude> ab0ge615vv0bivzmxrioneiums6dgae पृष्ठम्:Smriti mukta phalam.pdf/९६५ 104 166968 419995 2026-11-11T06:42:57Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''ब्राह्मणादिविक्रये ।'''|९१७}} {{rule}} “ ऋतुत्रयं विक्रयित्वा ब्रह्महन्ता भवेद् ध्रुवम् । षण्मासं गोरसं पक्वं पीत्वा शुद्धिborderमवाप्नुयात् ॥
“ लवणं पक्वमन्नं च य... नवीन पृष्ठं निर्मीत अस्ती 419995 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''ब्राह्मणादिविक्रये ।'''|९१७}} {{rule}} “ ऋतुत्रयं विक्रयित्वा ब्रह्महन्ता भवेद् ध्रुवम् । षण्मासं गोरसं पक्वं पीत्वा शुद्धिborderमवाप्नुयात् ॥
“ लवणं पक्वमन्नं च यदि मासं तु विक्रयेत् । तस्यैव निष्कृतिर्नित्यं यावकं वत्सरं चरेत् ॥
“ तस्योपनयनं भूयः कर्तव्यं शुद्धिमिच्छता ” ॥
'''कूर्मपुराणे—'''“अश्वधेनुमनुष्याश्च रासभः कुञ्जरस्तथा । कन्या नारी च मेषश्च पुस्तकं ब्रह्मसूत्रकम् ॥
५ “ लवणं पललं चर्म लशुनं गृञ्जनं तथा । पिप्पली च मरीचाश्च हरिद्राश्च लवङ्गिकाः ॥
“ औषधानि च यावन्ति मत्स्यकुक्कुटसूकराः । हिङ्गुजीरकवस्तूनि ताम्रं कांस्यादिकं तथा ॥
“एतानि मूल्यैः कृत्वा तु स्वल्पैर्वापि ततोऽधिकैः । विक्रयित्वाऽऽत्मभरणं कुर्याद्यदि स पापभाक् ॥
“ मृत्वा नरकमासाद्य क्रिमिरूपे पतत्यधः । तस्मादेतद्विशुद्ध्यर्थं प्रायश्चित्तमिहोच्यते ॥
“ एकवारं द्विवारं वा बहुवारमनेकशः । तप्तं पराकं चान्द्रं च यावकं वर्षमाचरेत् ॥
१० “ तस्योपनयनं भूयः पञ्चगव्येन शुध्यति ।
“ वृद्धेरपि च या वृद्धिborderश्चक्रवृद्धिरुदाहृता । मासिमासि च या वृद्धिः सा शिखावृद्धिरिष्यते ॥
“ ताभ्यां जीवेद्यदा विप्रः स वार्धुषिक उच्यते ।
“ मासं जीवेद्यदा विप्रः पराकं कृच्छ्रमाचरेत् । मासद्वये तु तप्तं स्याच्चान्द्रं मासत्रये स्मृतम् ॥
“ षण्मासे तु महाचान्द्रं वत्सरे द्विगुणं स्मृतम् । पतितः स्यात्परं विप्रः सर्वकर्मबहिष्कृतः ” ॥
१५ '''ऋणादि कृत्वा व्रताद्याचरणनिषेधः । हेमाद्रौ—'''
“ स्वस्याकिञ्चन्यमज्ञात्वा ऋणं कृत्वा व्रतं चरेत् । भोगासक्तश्च यः स्वात्मविक्रयीत्युच्यते बुधैः ॥
“ नित्यकर्माणि काम्यानि इष्टापूर्तादिकानि च । सर्वं तस्यैव भवति स्वयं वै निष्फलो भवेत् ॥
“अर्वाग्धनस्य द्वैगुण्यात् तस्माद्ध्यात्सवृद्धिकम् । ऊर्ध्वं तु कर्मणां भ्रंशात् पतितः स्यान्न संशयः ॥
“ हिरण्यगर्भं तस्योक्तं प्रायश्चित्तं महर्षिभिः । धनिने च धनं दत्वा प्रायश्चित्तं समाचरेत्”॥ इति ।
२० “ कल्पान्ते भ्रूणहा मुच्येत्तर्णी तु न कदाचन ” इति वचनमकृतप्रायश्चित्तविषयम् ।
यत्तु '''संवर्त आह—'''
“ अग्निहोत्री तपस्वी च ऋणवान्म्रियते यदि । अग्निहोत्रं तपश्चैव सर्वं तद्धनिनां धनम् ” ॥
इति तद्द्वैगुण्यादूर्ध्वं मरणे धनग्राहिपुत्राद्यभावे चावगन्तव्यम् ।
'''ब्राह्मणादिविक्रये प्रायश्चित्तम् । हेमाद्रौ—'''
२५ “ पूर्वजः पूर्वजं वापि बाहुजोरूजपादजान् । वशीकृत्यौषधैर्मन्त्रैर्विक्रयेद्यदि पापधीः ।
“ बाले चान्द्रं द्विजे प्रोक्तं पौगण्डे तद्द्वयं चरेत् । तरुणे तु महाचान्द्रं प्रौढे प्रोक्तं तु तत्त्रयम् ॥
“ भिन्नवर्णे विक्रये तु सहस्रं कृच्छ्रमाचरेत् ।
“ विप्रं यः क्षत्रियो हृत्वा विक्रयेद्यदि पापधीः । ब्रह्महत्याव्रतं कृत्वा शुद्धिमाप्नोति पौर्विकीम् ॥
“ तदर्धेनैव शुद्धः स्यादूरुजो विप्रविक्रये । शूद्रस्तु विक्रयेद्विप्रं मौसलं वधमर्हति ॥
३० “ जारजं वाऽऽत्मजं वापि विक्रीणीयात्सुतं यदि । तद्दोषपरिहारार्थं महासान्तपनं चरेत् ॥
“ बाले सान्तपनं प्रोक्तं पौगण्डे तद्द्वयं स्मृतम् । कौमारे प्रौढकाले च महासान्तपनत्रयम् ॥
“ स्वपत्नीं विक्रयेद्यस्तु सतीं दुष्टामथापि वा । सतीं विक्रीय चान्द्रं स्यात्पराकं दुष्टचारिणीम् ॥
“बालिकायां षडब्दं स्यात् वृद्धायां नास्ति निष्कृतिः । ज्ञात्वा विक्रयते यस्तु द्विगुणं व्रतमाचरेत् ॥
“ विवाहार्थं धनं गृह्णन् यत्किञ्चिद्व्याजमाश्रितः । स कन्याविक्रयी तस्य शुद्धिborderश्चान्द्रायणत्रयात् ॥
{{rule}}
१ क्ष-च । २ ग-र्थे । ३ क्ष-द्विज ।<noinclude></noinclude> kjyxst64bcj8fs6vraeh2zcxzyxmhos पृष्ठम्:Smriti mukta phalam.pdf/९६६ 104 166969 419996 2026-11-11T06:44:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९१८|'''श्रुतिस्मृत्यादेर्विक्रये ।'''|}} {{rule}} “ द्विजः संपाद्य यो दासीं गृहकर्मसुसाधये । युवतिं विक्रयित्वा तां षडब्दं कृच्छ्रमाचरेत् ॥
“ स्नानादिनित्यकर्माण... नवीन पृष्ठं निर्मीत अस्ती 419996 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९१८|'''श्रुतिस्मृत्यादेर्विक्रये ।'''|}} {{rule}} “ द्विजः संपाद्य यो दासीं गृहकर्मसुसाधये । युवतिं विक्रयित्वा तां षडब्दं कृच्छ्रमाचरेत् ॥
“ स्नानादिनित्यकर्माणि इष्टापूर्तादिकानि च । उपोषणव्रतादीनि श्रौतस्मार्तादिकानि च ॥
“ विक्रीणीयात्तु यो विप्रो माघस्नानं तथैव च । चान्द्रायणत्रयं कृत्वा पुनःसंस्कारकृत्तथा ॥
“ पञ्चगव्यं ततः पीत्वा शुद्धिमाप्नोति नैष्ठिकीम् ” ॥
५ '''श्रुतिस्मृत्यादेः विक्रये प्रायश्चित्तम् । वसिष्ठः—'''
“ श्रुतिं स्मृतिं धर्मशास्त्रं पुराणं ज्योतिषं तथा । पुस्तकं फलकं वापि तत्साधनमथापि वा ॥
“विक्रयेद्यदि लोभात्मा महान्तं नरकं व्रजेत् । चान्द्रायणं पराकं वा कृत्वा शुद्धिborderमवाप्नुयात्”॥ इति ।
'''मार्कण्डेयः—'''“ सालग्रामशिलां यो वै तत्तच्चक्राङ्कितां द्विजः ।
“ शिवलिङ्गं चक्रपाणिप्रतिमां यदि विक्रयेत् । चान्द्रायणं प्रकुर्वीत पश्चात्तापसमन्वितः ॥
१० “ लक्ष्मीन्नृसिंहं वामनं च गोपालं श्रीधरं तथा । लक्ष्मीनारायणं चैव दधिवामनमेव च ॥
“ हिरण्यगर्भमित्यादिमूर्तीः पापापहारिणीः । रामादिविक्रये विप्रश्चरेच्चान्द्रायणत्रयम् ॥
“ लक्ष्मीनारायणं चैव तद्द्वयं दधिवामने । महाचान्द्रं प्रकुर्वीत लक्ष्मीनृसिंहविक्रये ॥
“ पराकं देहशुद्ध्यर्थं चरेद्विप्रो विचारयन् । लिङ्गे तु स्फाटिके चैव तथा मारकते द्विजः ॥
“ मासं दीक्षामुपागम्य प्रातः स्नात्वा यथाविधि ।
१५ “ सूर्योदयं समारभ्य यावदस्तंगतो रविः । प्रत्यहं दशसाहस्रं जपेच्चैवं षडक्षरम् ॥
“फलाहारं प्रकुर्वीत यदा मन्दायते रविः । स्थण्डिले शयनं कृत्वा मासान्ते शुद्धिमाप्नुयात्”॥ इति ।
'''जलाग्न्यादिषु भर्तुमुद्यम्य निवृत्तस्य प्रायश्चित्तम् ।''' चतुर्वर्णेषु यः कोऽपि स्वात्मघातार्थ-
मुपक्रम्य कथंचिद् वातात्प्रागेव निवर्तेत तस्य प्रायश्चित्तं प्रश्नपूर्वकमाह '''पराशरः—'''
“ जलाग्न्युपतने चैव प्रव्रज्यानशनेषु च । प्रत्यावसितवर्णानां कथं शुद्धिर्विधीयते ॥
२० “ प्राजापत्यद्वयेनैव तीर्थाभिगमनेन च । वृषैकादशदानेन वर्णाः शुध्यन्ति ते त्रयः ॥
“ ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथे । सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् ॥
“गोद्वयं दक्षिणां दद्यात् शुद्धिं पाराशरोऽब्रवीत् । मुच्यते तेन पापेन ब्राह्मणत्वं च गच्छति”॥ इति ।
नद्यादिप्रवेशनमग्निप्रवेशनं भृगुपतनं महाप्रस्थानगमनमनशनं चेति जलाग्न्यादयः पञ्च मरणहेतवः ।
जलादिमरणं द्विविधम् । विहितं प्रतिषिद्धं चेति । तत्र विहितमपि द्विविधम् । काम्यतपोरूपं प्राय-
२५ श्चित्तरूपं चेति । तत्तु कलौ वर्जनीयम् । युगान्तरेष्वपि विहितत्वेन न प्रायश्चित्तार्हम् । क्रोधादिना
यज्जलादिमरणं तत् प्रतिषिद्धम् । तदेवात्र परिशिष्यते । जलाग्नीति विषबन्धनोद्वन्धनादेरप्युपलक्षणम् ।
तत्र मर्तुमुद्यम्य मृतस्य प्रायश्चित्तं नास्ति । तत्कर्तुरभावात् । यस्तूद्यम्य मरणात्निवर्तते तस्योद्यम-
निमित्तमिदं प्रायश्चित्तम् । प्रत्यवसिता निवृत्ताः । क्षत्रियस्य प्रायश्चित्तद्वयं वैश्यस्य तीर्थयात्रा ।
शूद्रस्य वृषसहितगोदशकदानं ब्राह्मणस्य वनगमनादि व्रतम् । आत्मनो हननोद्यमेन ब्राह्मणत्वमध-
३० गतं चण्डालत्वमागतम् । पुनर्व्रतचरणेन चण्डालत्वनिवृत्तौ पुनः पूर्वसिद्धं ब्राह्मण्यं प्रतिपद्यते ।
तदाह '''वृद्धपराशरः—'''
“ अनाशकान्निवृत्तस्तु चातुर्वर्ण्यव्यवस्थितः । चण्डालः स तु विज्ञेयो वर्जनीयः प्रयत्नतः ॥
“ ब्राह्मणानां प्रसादेन तीर्थाभिगमनेन च । गवां च दश दानेन वर्णाः शुध्यन्ति ते त्रयः ॥
“ ब्राह्मणस्य प्रवक्ष्यामि गत्वारण्यं चतुष्पथम् । सशिखं वपनं कृत्वा त्रिसन्ध्यमवगाहनम् ॥
{{rule}}
१ कग-च । २ गध-रामं । ३ क्ष-णः । ४ कग-यम्प्य ।<noinclude></noinclude> mwafho2vbcbms7x5k7a4iadq21kkc66 पृष्ठम्:Smriti mukta phalam.pdf/९६७ 104 166970 419997 2026-11-11T06:44:48Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''पारिव्राज्यात्प्रच्युतौ ।'''|९१९}} {{rule}} “ सावित्र्यष्टसहस्रं तु जपेच्चैव दिने दिने । मुच्यते सर्वपापेभ्यो ब्राह्मणत्वं च गच्छति ।
“ भैक्षार्थं विचरेद् ग्र... नवीन पृष्ठं निर्मीत अस्ती 419997 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''पारिव्राज्यात्प्रच्युतौ ।'''|९१९}} {{rule}} “ सावित्र्यष्टसहस्रं तु जपेच्चैव दिने दिने । मुच्यते सर्वपापेभ्यो ब्राह्मणत्वं च गच्छति ।
“ भैक्षार्थं विचरेद् ग्रामं गृहान् सप्त वने वसन् । धौतां भिक्षां समश्नीयादब्धार्धेन विशुद्ध्यति ” ॥ इति ।
तत्रैव व्रतान्तराण्याह '''वसिष्ठः—'''“ जीवन्नात्मत्यागी कृच्छ्रं वा द्वादशरात्रं चरेत् ।
त्रिरात्रं वोपवसेत् । नित्यं स्निग्धेन वाससा । “ प्राणानात्मनि संयम्य त्रिः पठेद्धमर्षणम् ।
“अपि वैतेन कल्पेन गायत्रीं परिवर्तयेत् । अपि वाग्निमुपाधाय कूष्माण्डैर्जुहुयात् घृतम् ” ॥ इति । ५
तत्र अपोहोमौ विद्वद्विषयौ कल्पनीयौ । द्वादशरात्रत्रिरात्रौ त्वविद्वद्विषये शक्ताशक्तभेदेन
व्यवस्थिताविति माधवीये ।
'''पारिव्राज्यात् प्रच्युतौ प्रायश्चित्तम् ।''' “ प्रव्रज्यानशनेन च ” इति पराशरवचने
यः प्रव्रज्याशब्दः तस्यार्थान्तरमप्युक्तं तत्रैव । परिव्रज्यते विविज्यते । तथा च सति पारि-
व्राज्यात् प्रच्युतस्य ब्राह्मणस्य प्राजापत्यं प्रायश्चित्तमुक्तं भवति । तदिदं श्रद्धालुः पुनरुप- १०
नयनादिपुरःसरं पारिव्राज्यं जिघृक्षोर्वेिदितव्यम् । मोहाभिवृत्तौ '''संवर्तः—'''
“ संन्यस्य दुर्मतिः कश्चित् प्रत्यापत्तिं व्रजेद्यदि । स कुर्यात्कृच्छ्रमश्रान्तः षण्मासान् प्रत्यनन्तरम् ॥
“ पुनः परिव्रजेद्विप्रो यथाविधि समाहितः ” ॥ इति । अत्यन्ताशक्तमुग्धविषये '''वृद्धपराशरः—'''
“ यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः । अनाशननिवृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति ॥
“चरेत् त्रीणि च कृच्छ्राणि त्रीणि चान्द्रायणानि च।जातकमादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात्”॥इति। १५
शक्तो यस्तु पुनः पारिव्राज्यं न जिघृक्षति तस्य मरणाान्तिकं राजदासत्वादिकम् ।
अत्र '''नारदः—'''
“राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो द्विजः। न तस्य प्रतिमोक्षोऽस्ति न विशुद्धिः कथंचन”॥ इति।
'''कात्यायनः—'''
“ प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजातयः । निर्वासं कारयेद्विप्रं दास्यं क्षत्रविशोर्नृपः ” ॥ २०
'''दक्षः—'''
“ पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत् ” ॥
'''याज्ञवल्क्यः—'''“ प्रव्रज्यावसितो राज्ञो दासः स्यान्मरणाान्तिकम् ” ॥ '''अङ्गिराः—'''
“ संन्यासं चैव यः कृत्वा पुनरुत्तिष्ठते द्विजः । न तस्य निष्कृतिर्दृष्टा स्वधर्मात् प्रच्युतस्य तु ॥
“ आरूढो नैष्ठिकं धर्मं पुनरावर्तयेद्यदिः । आरूढपतितो ज्ञेयः सर्वकर्मबहिष्कृतः ॥ २५
“ चण्डालाः प्रत्यवसिताः परिव्राजकतापनाः । तेषां जातान्यपत्यानि चण्डालैः सह वासयेत् ॥
“ नैष्ठिकानां वनस्थानां यतीनामवकीर्णिनाम् । शुद्धानामपि लोकेऽस्मिन् प्रत्यापत्तिर्न विद्यते”॥ इति।
'''बह्वृचपरिशिष्टे—'''
“ धीपूर्वं रेत उत्सर्गो द्रव्यसंग्रह एव च । पतत्यसौ ध्रुवं निष्ठाैर्यस्य भिक्षोर्द्वयं भवेत् ” ॥
'''आत्मघातिनः शववहनादौ प्रायश्चित्तम् ।''' आत्महननस्यातिकृष्टत्वमुक्त्वा तच्छववहनादौ ३०
प्रायश्चित्तमाह '''पराशरः—'''
“ अतिमानादतिक्रोधात् स्नेहाद्वा यदि वा भयात् । उद्वध्नीयात् स्त्रीपुमान्वा गतिरेषा विधीयते ॥
“ पूयशोणितसंपूर्णे त्वन्धे तमसि मज्जति । षष्टिं वर्षसहस्राणि नरकं प्रतिपद्यते ।
{{rule}}
१ गध-पारिव्राज्यं तेन विवक्ष्यते । २ क्ष-क्षाद्वय ।<noinclude></noinclude> 6owrpqf4jolw9nmzs8xyh3msryxg2mz पृष्ठम्:Smriti mukta phalam.pdf/९६८ 104 166971 419998 2026-11-11T06:45:43Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९२०|'''अनृतभाषणे ।'''|}} {{rule}} “ नाऽशौचं नोदकं नाग्निं नाश्रुपातं च कारयेत् ।
“ वोढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा । तप्तकृच्छ्रेण शुद्ध्यन्तीत्येवमाह प्रज... नवीन पृष्ठं निर्मीत अस्ती 419998 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९२०|'''अनृतभाषणे ।'''|}} {{rule}} “ नाऽशौचं नोदकं नाग्निं नाश्रुपातं च कारयेत् ।
“ वोढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा । तप्तकृच्छ्रेण शुद्ध्यन्तीत्येवमाह प्रजापतिः ॥
“ तप्तकृच्छ्रेण शुद्धास्ते कुर्युर्ब्राह्मणभोजनम् । अनडुत्साहितां गां च दद्याद्विप्राय दक्षिणाम्”॥ इति ।
अन्धतमस्तीव्रो नरकविशेषः । यत्तु स्मृत्यन्तरे—
५ “एतानि पतितानां तु यः करोति विमोहितः । तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न चान्यथा”॥ इति ।
एतानि वहनादीनि तेषां प्रकृतत्वात् तत् कामकारविषयम् । “विहितं यदकामानां कामतो द्विगुणं
भवेत् ” इति स्मरणात् । यच्च बृहस्पतिनोक्तम्—
“ विषोद्वन्धनशस्त्रेण यः स्वात्मानं प्रमापयेत् । मृते मेध्येन लेप्तव्यो नान्यं संस्कारमर्हति ॥
“पाशच्छेत्ता तु यस्तस्य वोढा चाग्निप्रदस्तथा। सोऽतिकृच्छ्रेण शुद्ध्येत पिण्डदो वा नराधमः”॥ इति ।
१० यच्च यमेनोक्तम्—
“गोब्राह्मणहतं दग्ध्वा मृतमुद्वन्धनेन च । पाशं छित्वा तथा तस्य कृच्छ्रं सान्तपनं चरेत्”॥ इति
तत् देशकालादितारतम्यापेक्षयोक्तम् । देशादितारतम्यस्य प्रायश्चित्ततारतम्यहेतुत्वात् ।
तथा च व्यासः—
“देशं कालं वयः शक्तिं ज्ञानं बुद्धिकृतं तथा । अबुद्धिकृतमभ्यासं ज्ञात्वा निष्क्रयणं वदेत्”॥ इति ।
१५ शक्त्यादितारतम्यवत् निमित्ततारतम्यमपि प्रायश्चित्ततारतम्ये कारणम् । अत एव स्पर्शाद्यल्पनिमित्ते
स्वल्पं प्रायश्चित्तमाह प्रजापतिः—
“तच्छवं केवलं स्पृष्ट्वा पातयित्वाश्रु वा तथा । एकरात्रं तु नाश्नीयात् त्रिरात्रं बुद्धिपूर्वकम्”॥ इति ।
निमित्तभूयस्त्वेऽधिकं प्रायश्चित्तमाह वसिष्ठः—
“य आत्मत्यागिनां कुर्यात् स्नानं प्रेतक्रियां द्विजः। तप्तकृच्छ्रं तु सहितं चरेच्चान्द्रायणव्रतम्”॥ इति ।
२० प्रमादादिकरणे पातित्याभावात् नैतत्प्रायश्चित्तम् । तच्चाधस्तात् प्रतिपादितम् ।
'''अनृतभाषणे प्रायश्चित्तम् ।''' अनृतभाषणे मनुः—
“ वाग्दैवतैस्तु चरुभिर्यजेरंस्ते सरस्वतीम् । अनृतस्यैनसस्तस्य कुर्वाणो निष्कृतिं पराम् ॥
“ कूष्माण्डैर्वापि जुहुयात् घृतमग्नौ यथाविधि । उदित्यूचा वा वारुण्या तृचेनाब्दैवतेन वा ॥
“ अनृती सोमपः कुर्यात् त्रिरात्रं परमं तपः । पूर्णाहुतिं वा जुहुयात् संस्ततेन घृतेन तु ” ॥ इति ।
२५ याज्ञवल्क्यः—
“मयि तेज इति च्छायां स्वां दृष्ट्वाम्बुगतां जपेत्। सावित्रीमशुचौ दृष्टे चापले चानृतेऽपि च”॥ इति ।
एतत्कामकारे द्रष्टव्यम् । अकामकृते अनृतवचने मनुः—
“ सुप्त्वा क्षुत्त्वा च भुक्त्वा च निष्ठीव्योक्त्वाऽनृतानि च । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि
सन् ” ॥ इति ।
३० '''मिथ्याभूतचतुर्वर्णवधशापथे प्रायश्चित्तम् ।''' एतस्य कार्यास्याकरणे चतुर्वर्णेष्वन्यतमं
हतवानस्मीति शपथं कृत्वा यस्तत् कार्यं न करोति तस्य प्रायश्चित्तमाह यमः—
“ विप्रस्तु वधसंयुक्तं कृत्वा तु शपथं मृषा । ब्राह्मणो यावकाशेन व्रतं चान्द्रायणं चरेत् ॥
“ क्षत्रियस्य पराकं तु प्राजापत्यं तथा विशः । वृषलस्य त्रिरात्रं तु व्रतं शूद्रहणश्चरेत् ॥
“ केचिदाहुरपापं तु वृषलस्य वधं मृषा । न ममैतन्मतं यस्माद्दतस्तेन भवत्यसौ ” ॥ इति ।
{{rule}}
१ गघ-रुत्वां । २ ग-च्छ्रेण । ३ गध-सहस्त्या ।<noinclude></noinclude> bshnff1jgatc507zw9wz2cw71085uiy पृष्ठम्:Smriti mukta phalam.pdf/९६९ 104 166972 419999 2026-11-11T06:47:36Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''श्रोताग्नित्यागे ।'''|९२१}} {{rule}} '''प्रतिश्रुत्यानृतोक्तौ हारीतः—'''
“ प्रतिश्रुत्यानृतं ब्रूयान्मिथ्यासत्यमथापि वा । स तप्तकृच्छ्रसहितं चरेच्चान्द्रायणव्... नवीन पृष्ठं निर्मीत अस्ती 419999 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''श्रोताग्नित्यागे ।'''|९२१}} {{rule}} '''प्रतिश्रुत्यानृतोक्तौ हारीतः—'''
“ प्रतिश्रुत्यानृतं ब्रूयान्मिथ्यासत्यमथापि वा । स तप्तकृच्छ्रसहितं चरेच्चान्द्रायणव्रतम् ” ॥ इति ।
'''ब्रह्मचार्यादिविषये गार्ग्यः—'''
“ त्रिरात्रमेकरात्रं वा ब्रह्मचार्यनृतं चरेत् । मासं भुक्त्वा ब्रह्मचारी पुनः संस्कारमाचरेत् ॥
“ अभ्यासे चैन्दवं कुर्यान्नैष्ठिको द्विगुणं चरेत् । वनस्थस्त्रिगुणं कुर्याद्यतिः कुर्याच्चतुर्गुणम् ॥ ५
“ मांसाशने चानृतोक्तौ शवनिर्हरणे तथा ” ॥ इति ।
क्वचित्तु निमित्तविशेषेऽनृतमपि बुद्धिपूर्वं वक्तव्यं तदाह '''याज्ञवल्क्यः—'''
“ वर्णिनां तु वधो यत्र तत्र साक्ष्यनृतं वदेत् । तत्पावनाय निर्वपेच्चरुः सारस्वतो द्विजैः”॥ इति ।
स्वोत्कर्षेऽनृतवचनं '''मनुना—'''“ अनृतं च समुत्कर्षे राजगामि च पैशुनम् ” इति
ब्रह्महत्यासमेषु मध्ये पठितम् । १०
“ निषिद्धभक्षणं जैह्म्यमुत्कर्षस्य वचोऽनृतम् ” इति '''याज्ञवल्क्येन''' सुरापानसमेषु
पठितम् । '''विष्णुना तु''' ‘अनृतवचनमुत्कर्षे’ इत्युपपातकत्वमुक्तम् । अत्र च विषयभेद उक्तो
'''माधवीये—'''‘द्वेष्यं पुरुषं राजादिभिर्मारयितुं तस्मिन्नविद्यमानमपि महान्तमपराधमारोप्यानृतं चेत्
ब्रूयात् तत् ब्रह्महत्यासमं वधपर्यवसायित्वात् । यस्तु लाभपूजाख्यातिकामो राजसभादौ स्वस्मि-
न्नविद्यमानमपि चतुर्वेदामिज्ञत्वादिकं प्रथयितुमनृतं ब्रूते तत्सुरापानसममतिगर्हितत्वात् । यस्तु सुहृ- १५
द्गोष्ठ्यादौ परोपकारमन्तरेण वृथानृतं ब्रूते तस्यैतदुपपातकमिति । तत्राद्ययोः प्रायश्चित्तं '''विष्णुनो-'''
'''क्तम्—'''‘समुत्कर्षेऽनृते गुरोरलीकनिर्वन्धे तदवज्ञानकरणे च मासं पयसा वर्तेत’ इति ।
तृतीये तु '''याज्ञवल्क्यायुक्तं''' द्रष्टव्यम्—‘ शतमश्वाऽनृते हन्ति सहस्रं तु गवानृते ’ इत्यादिना*
प्रतिपादिते दोषतारतम्ययुक्तेऽनृते उक्तप्रायश्चित्तेषु तारतम्यं द्रष्टव्यम् ।
'''श्रोताग्नित्यागे प्रायश्चित्तम् ।''' श्रोताग्नित्यागे प्रायश्चित्तमाह '''विष्णुः—''' २०
“ अग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं सकृद्भैक्षेण वर्तेत ” इति । '''वसिष्ठः—'''
“योऽग्नीनपविध्येत् स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधानं कारयेत्” इति । '''मनुः—'''
“ अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः । चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत् ॥
“अग्निहोत्र्यपविध्याग्नीन् मासादूर्ध्वं तु कामतः । कृच्छ्रं चान्द्रायणं चैव कुर्याद्देवाविचारयन्”॥ इति ।
'''हारीतः—'''“ संवत्सरोत्सन्नेऽग्निहोत्रे चान्द्रायणं चरित्वा पुनरादध्यात् । द्विवर्षोत्सन्ने चाद्रायणं २५
सोमायनं च कुर्यात् । त्रिवर्षोत्सन्ने संवत्सरं कृच्छ्रमभ्यस्य पुनरादध्यात् ” इति । '''शंखोऽपि—'''
“ अग्न्युत्सादी संवत्सरं प्राजापत्यं चरेत् गां च दद्यात् ” इति । '''भारद्वाजः—'''“ द्वादशाहाति-
क्रमे त्र्यहमुपवासो मासातिक्रमे द्वादशाहमुपवासः संवत्सरातिक्रमे मासोपवासः पयोभक्षणं च ”
इति । एतत् सर्वमालस्यादिनिमित्तत्यागविषयम् । यत्तु '''भारद्वाजगृह्येऽभिहितम्—'''
“ प्राणायामशतमा दशरात्रं कुर्यादुपवासः स्यात् आ विंशतिरात्रमत ऊर्ध्वमा षष्टिरात्रात् तिस्रो ३०
रात्रीरुपवसेत् । अत ऊर्ध्वं मासं वत्सरात् प्राजापत्यं चरेत् । अत ऊर्ध्वं कालबहुत्वे दोषबहुलत्वं
इति तत् प्रामादिकत्यागविषयम् । यत्तु '''जातुकर्णिरह—'''“ अतिकाले च जुहुयादग्नौ विप्राय
वा यवम् । नष्टेऽग्नौ विधिबद्धूयात् कृत्वाऽऽधानं पुनर्द्विजः ” ॥ इति । तदौपासनाग्निविषयम् ॥
{{rule}}
१ घ-निःसारणे । *मनु स्मृ. ८।९९ ।
११७-१३<noinclude></noinclude> 6lryrcbevd2rda8fyjvvmclnjd3br7h पृष्ठम्:Smriti mukta phalam.pdf/९७० 104 166973 420000 2026-11-11T06:48:29Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९२२|'''एकपङ्क्तौ वैषम्ये ।'''|}} {{rule}} '''नास्तिक्यप्रायश्चित्तम् ।''' नास्तिक्यप्रायश्चित्तमाह '''वसिष्ठः—'''“ नास्तिकः
कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन्नास्त... नवीन पृष्ठं निर्मीत अस्ती 420000 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९२२|'''एकपङ्क्तौ वैषम्ये ।'''|}} {{rule}} '''नास्तिक्यप्रायश्चित्तम् ।''' नास्तिक्यप्रायश्चित्तमाह '''वसिष्ठः—'''“ नास्तिकः
कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन्नास्तिक्यात् ” इति । तदेतदुपपातकानास्तिक्यविषयम् ।
पातकनास्तिक्ये तु '''शङ्खः—'''“ नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसीत्येवं
पञ्च संवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः ” इति । नास्तिकस्य त्रैविध्यमुक्तं '''माधवीये—'''
५ “ नास्तिकस्त्रिविधः प्रोक्तो धर्मज्ञैस्तत्त्वदर्शिभिः । क्रियादुष्टो मनोदुष्टो वाग्दुष्टश्च तथैव च ॥
“ उपपातकस्तु वाग्दुष्टो मनोदुष्टस्तु पातकः । अभ्यासात्तु क्रियादुष्टो महापातक उच्यते ” ॥ इति ।
महापातकनास्तिके तु '''हारीतः—'''“ कन्यादूषी सोमविक्रयी वृषलीपतिः कौमारदारत्यागी सुरा-
मध्यपः शूद्रयाजको गुरोः प्रतिहन्ता नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मण-
मित्रघ्नो मिथ्याभिशंसी पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिरित्येते पञ्चतपोऽ-
१० भ्रावकाशजलशयनान्यनुतिष्ठेयुः क्रमेण ग्रीष्मवर्षाहिमन्तेषु मासं गोमूत्रयावकprimaryमश्नीयुः ” ॥ इति ।
'''एकपङ्क्तौ वैषम्येण दाने ।''' एकपङ्क्त्युपविष्टानां वैषम्येण दानादौ '''यमः—'''
“ न पङ्क्त्यां विषमं दद्यान्न याचेन्न तु दापयेत् । प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस्ततः”॥इति।
'''अपाङ्क्तेयपङ्क्तिभोजनादौ प्रायश्चित्तम् ।''' अपाङ्क्तेयपङ्क्तिभोजने '''मार्कण्डेयः—'''
“ आपाङ्क्तेयस्य यः कश्चित् पङ्क्तौ भुङ्क्ते द्विजोत्तमः । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ”॥
१५ पतितादिसंभाषणे '''गौतमः—'''“ न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत । संभाष्य
पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन वा संभाषेत ” इति अप्सु मूत्रपुरीषकरणे '''सुमन्तुः—'''
“ अप्स्वग्नौ वा मेहतस्तप्तकृच्छ्रम् ” इति । आर्तविषये '''मनुः—'''
“ विनाद्भिरप्सु वाऽप्यार्तः शारीरं संनिवेश्य तु । सचेला मुहुराप्लुत्य गामालेभ्य विशुद्ध्यति ” ॥
कामकारे तु '''यमः—'''
२० “ आपद्गतो विना तोयं शारीरं यो निषेवते । एकाहं क्षपणं कृत्वा स चेलः स्नानमाचरेत् ” ॥ इति ॥
ब्रह्मसूत्रं विना मूत्रपुरीषादिकरणे प्रायश्चित्तमुक्तं '''स्मृत्यन्तरे—'''
“ विना यज्ञोपवीतेन यद्युच्छिष्टो भवेत् द्विजः । प्रायश्चित्तमहोरात्रं गायत्र्यष्टशतं तु वा ॥
“ अकामतस्तु पिवतो मेहतश्चैव भुञ्जतः । प्राणायामत्रिकं षट्कं नक्तं च त्रितयं क्रमात् ” ॥ इति ।
'''संवर्तः—'''
२५ “ अनाचान्तः पिवेद्यस्तु अपि वा भक्षयेत् द्विजः । गायत्र्यष्टसहस्रं तु जपं कृत्वा विशुद्ध्यति”॥ इति।
'''पलाशदारुशयनादौ प्रायश्चित्तम् । शङ्खः—'''
“ अध्यासत्य शयनं यानमासनं पादुके तथा । द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥
“ द्वौ विप्रौ ब्राह्मणाम्नी वा दंपती गोद्विजोत्तमौ । अन्तरेण यदा गच्छेत् कृच्छ्रं सांतपनं चरेत् ॥
“ होमकाले तथा दोहे स्वाध्याये दारसंग्रहे । अन्तरेण यदा गच्छेत् द्विजश्चान्द्रायणं चरेत् ॥
३० “ क्षत्रियस्तु रणे पृष्ठं दत्वा प्राणपरायणः । संवत्सरं व्रतं कुर्यात् छित्वा वृक्षं फलप्रदम् ” ॥ इति
'''स एव—'''“ दुःस्वप्नारिष्टदर्शनादौ हिरण्यं घृतमर्पयेत् ” ॥ इति ।
{{rule}}
१ गध-शाहं । २ घ-आदद्यात् ।<noinclude></noinclude> 1sp3a1w0rlg4ye89ya76pujs9g7ruf6 पृष्ठम्:Smriti mukta phalam.pdf/९७१ 104 166974 420001 2026-11-11T06:49:19Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''शूद्रस्य वेदवाक्यश्रवणे ।'''|९२३}} {{rule}} '''श्राद्धे निमन्त्रितस्य कालातिक्रमे प्रायश्चित्तम् ।''' श्राद्धे निमन्त्रितस्य कालातिक्रमे
'''यमः—'''
“ केतनं कारयित... नवीन पृष्ठं निर्मीत अस्ती 420001 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''शूद्रस्य वेदवाक्यश्रवणे ।'''|९२३}} {{rule}} '''श्राद्धे निमन्त्रितस्य कालातिक्रमे प्रायश्चित्तम् ।''' श्राद्धे निमन्त्रितस्य कालातिक्रमे
'''यमः—'''
“ केतनं कारयित्वा तु योऽतिपातयते द्विजः । ब्रह्महत्यामवाप्नोति शूद्रयोनौ प्रजायते ॥
“ एतस्मिन्नेनसि प्राप्ते ब्राह्मणो नियतव्रतः । यतिचान्द्रायणं चैर्त्वा ततश्चान्द्रायणं चरेत् ” ॥ इति ।
'''क्षत्रियाद्यभिवादनादौ प्रायश्चित्तम् ।''' क्षत्रियाद्यभिवादने '''हारीतः—'''“ क्षत्रियस्याभि- ५
वादनेऽहोरात्रमुपवसेत् । वैश्यस्य द्विरात्रं शूद्रस्य त्रिरात्रमुपवासः । शय्यारूढपादुकोपानदारोपित-
पादोच्छिष्टान्धकारस्थश्राद्धकृज्जपदेवपूजादिरनाभिवादने त्रिरात्रमुपवासः । अन्यत्र निमन्त्रित-
स्यान्यत्र भोजने त्रिरात्रमुपवासः ” ॥ इति ।
'''शूद्रस्य वेदवाक्यश्रवणे प्रायश्चित्तम् ।''' शूद्रस्य वेदवाक्यश्रवणादौ '''गौतमः—'''
“अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः”॥इति। १०
'''प्रतिग्रहविचारः ।''' अथ प्रतिग्रहो निरूप्यते । वृत्त्यर्थं सत्प्रतिग्रहे न प्रायश्चित्तापेक्षा ।
“ विहितात् प्रतिगृह्णीयात् गृहधर्मप्रसिद्धये । आत्मनो वृत्तिमन्विच्छन् गृह्णीयात्साधुतः सदा ॥
“ अनापद्यपि गृह्णीयात् याज्यतः शिष्यतस्तथा । धर्मतस्तु द्विजो गृह्णन् न धर्मात् परिहीयते ” ॥ इति
स्मृतेः । असत्प्रतिग्रहे प्रायश्चित्तं कर्तव्यम् । स पञ्चविधः—
“ असत्प्रतिग्रहः प्रोक्तः कालतो देशतस्तथा । स्वरूपतो जातितश्च कर्मतश्चेति पञ्चधा ” ॥ इति १५
स्मरणात् । कालो ग्रहणादिः । देशः कुरुक्षेत्रादिः । स्वरूपं मेषीकृष्णाजिनतुलोभयतोमुख्यादिकम् ।
जातिः शूद्रादिः । कर्म पतनीयवृत्तिः । '''मनुः—'''
“प्रतिग्रहः प्रत्यवरः प्रेत्यै विप्रस्य गर्हितः । प्रतिग्रहेण विप्राणां ब्राह्मं तेजो विनश्यति ।
“ प्रतिग्रहीतुरृतपुण्यं दातारमधिगच्छति । दातुश्चैव हि यत्पापं प्रतिग्राहिणमृच्छति ॥
“ प्रायश्चित्तमतः कार्यं भीरुणा चानुतापिना ॥ २०
“यद्गर्हितेनार्ज्यन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जपेन तपसैव च”॥
इति । उत्सर्गेण त्यागेन । जपेन वेदपारायणगायत्र्यादिजपेन । तपसा कृच्छ्रचान्द्रायणादिना च
शुध्यन्तीत्यर्थः । '''वृद्धमनुः—'''
“ कृषेस्तु विंशकं भागं वाणिज्यात् पञ्चमंशकम् । प्रतिग्रहे तुरीयांशं त्यक्त्वा पापात्प्रमुच्यते ” ॥ इति ।
'''व्यासः—''' २५
“ वाणिज्यस्याष्टमं भागं भागं विंशतिमं कृषेः । प्रतिग्रहे चतुर्थांशं त्यक्त्वा पापैः प्रमुच्यते ॥
“ अन्यथा निष्कृतिर्नास्ति जपैस्तीर्थनिषेवया ” ॥ इति । '''चतुर्विंशतिमते—'''“ प्रतिषिद्धेषु दानेषु
षष्ठांशं परिकल्पयेत् ” इति । '''हेमाद्रौ—'''“ अथ चेत्प्रतिगृह्णाति ब्राह्मणो वृत्तिकर्शितः ॥
“ दशांशमार्ज तात् दद्याद्देवं तत्र न हीयते । गृहीतात् षोडशांशं तु पञ्चमांशमथापि वा ” ॥
अत्राभियुक्तैर्व्यवस्था दर्शिता—पञ्चदोषदुष्टप्रतिग्रहे साङ्गं द्रव्यत्यागं कुर्यात् । ३०
“ अज्ञानाद्यदि वा मोहादसद्द्रव्यं प्रगृह्य तु । सर्वं द्रव्यं परित्यज्य चान्द्रायणमथाचरेत् ॥ ” इति
स्मरणात् । त्यक्तं च द्रव्यं ब्राह्मण एव गृह्णीयात् । ‘प्रहीणं ब्राह्मणस्येति’ स्मरणात् । एवं कृत्वा
जपतपोभ्यां शुद्धिः कार्या । त्रिचतुरदोषदुष्टस्य दरिद्रस्य चतुर्थांशत्यागः । आद्यस्य त्वर्धत्यागः कार्यः ।
‘असत्प्रतिग्रहे तु त्वर्धं त्यक्त्वा पापात्प्रमुच्यते’ इति स्मरणात् । दोषद्वययुक्तस्य पञ्चमांशत्यागः ।
{{rule}}
१ घ-ती । २ क्ष-मारु । ३ गघ-ब्रास्ये ।<noinclude></noinclude> caggxjdaqs3atenwrqrmkfrcc7la4as पृष्ठम्:Smriti mukta phalam.pdf/९७२ 104 166975 420002 2026-11-11T06:50:06Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९२४|'''तुलापुरुषादिप्रतिग्रहे ।'''|}} {{rule}} एकदोषदुष्टस्य षष्ठांशत्यागः । दरिद्रस्योभयत्रापि दशांशत्यागः षोडशांशत्यागो वा कार्यः ।
सर्वत्र द्रव्यत्यागानन्त... नवीन पृष्ठं निर्मीत अस्ती 420002 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९२४|'''तुलापुरुषादिप्रतिग्रहे ।'''|}} {{rule}} एकदोषदुष्टस्य षष्ठांशत्यागः । दरिद्रस्योभयत्रापि दशांशत्यागः षोडशांशत्यागो वा कार्यः ।
सर्वत्र द्रव्यत्यागानन्तरं जपादिरूपं प्रायश्चित्तं च कर्तव्यम् । कृष्णाजिनकालपुरुषतिलधेनुभयतो-
मुखीमहिषीमेषीदानादीनां निषिद्धप्रधानद्रव्याणां प्रधानद्रव्यं दक्षिणाद्यङ्गद्रव्यस्य चतुर्थांशं च
त्यक्त्वा प्रायश्चित्तं च कार्यम् । अन्ये तु प्रधानद्रव्यं परित्यज्य दक्षिणाद्यङ्गद्रव्यं स्वीकृत्य
५ प्रायश्चित्तं कार्यमिति । स्वल्पद्रव्यपरिग्रहे प्रायश्चित्तमुक्तं षट्त्रिंशन्मते “भिक्षामात्रे गृहीते तु पुण्यं
मन्त्रमुदीरयेत् ” ॥ इति । '''हारीतः—'''“ मणिकासोगोतृहोदीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत् ” ॥
'''याज्ञवल्क्यः—'''
“ गोष्ठे वसन् ब्रह्मचारी मासमेकं पयोव्रतः । गायत्रीजप्यनिरतः शुद्ध्येदसत्प्रतिग्रहात् ” ॥ इति ।
अत्र जपसंख्या '''मनुना''' दर्शिता—
१० “जपित्वा त्रीणि गायत्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात्”॥ इति ।
एतच्च दातृद्रव्ययोरुभयोस्सत्वे वेदितव्यम् । अन्यतरस्यासत्त्वे तु षट्त्रिंशन्मते दर्शितम्—
“ ऐन्दवेन मृगारेष्ट्या कदाचिन्मित्रविन्दया । पवित्रेष्ट्या विशुष्यन्ति सर्वे घोराः प्रतिग्रहाः” ॥ इति ।
“ देव्या लक्षजपेनैव शुद्ध्यन्तेऽसत्प्रतिग्रहात् ” ॥ इति ।
यत्तु '''वृद्धहारीतवचनम्—'''“ राज्ञः प्रतिग्रहं कृत्वा मासमप्सु सदा वसेत् ॥
१५ “ षष्ठे काले पयोभक्षः पूर्णे मासे प्रमुच्यते । तर्पयित्वा द्विजान् कामैः सततं नियतव्रतः ” ॥ इति
तत् पञ्चदोषदुष्टप्रतिग्रहविषयमिति माधवीये ।
'''तुलापुरुषादिप्रतिग्रहे ।''' तुलादिषोडशमहादानप्रतिग्रहे प्रातिस्विकं प्रायश्चित्तमुक्तं हेमाद्रौ ।
तदिदानीं निरूप्यते । तत्र '''देवस्वामी—'''“ तुलाप्रतिग्रहीता च पूर्वजो विषयातुराः ।
“ सोऽरण्ये निर्जले देशे भवति ब्रह्मराक्षसः । नास्त्येव निष्कृतिस्तस्य नवलक्षजपाद्दते ” ॥
२० '''देवलः—'''“ ऋणापकरणार्थं वा तथा यागार्थमेव वा । द्विजः प्रतिग्रहं कृत्वा तदर्थं विनियोजयेत् ॥
“ सुवर्णरत्नरजतैस्तुलाश्च त्रिविधाः स्मृताः । तासां प्रतिग्रहे विप्रः ऋणयागादिभिर्विना ॥
“रौरवे नरके घोरे ऋत्विग्भिः सह मज्जति”॥ इति । ऋत्विजो ब्रह्मा सदस्यो होतारो जापकाश्च ।
'''देवीपुराणे—'''
“ आत्मतुल्यसुवर्णं यः प्रतिगृह्य धनातुराः । अकृत्वा निष्कृतिं तस्य ऋत्विग्भिः सह राक्षसः”॥ इति ।
२५ '''गारुडपुराणे—'''
“ श्रीशैले हेमकूटे वाऽप्यचले गन्धमादने । अहोविले वेंकटाद्रौ काश्यादिषु विशेषतः ॥
“ सूर्योपरागकालेषु अन्यकालेषु पर्वसु । प्रतिगृह्य तुलां विप्रो राज्ञो यो भोगलालसः ॥
“ सोऽरण्ये निर्जले देशे दृष्टिहीनो निराश्रयः । सहस्राब्दं भवेद्रक्षो नवलक्षजपादृते ” ॥ इति ।
'''ब्रह्माण्डे—'''
३० “ सेत्वादिकुण्यतीर्थेषु उपरागादिपर्वसु । पूर्वजः प्रतिगृह्णाति तुलां राज्ञो विशेषतः ॥
“ भवेद्रक्षः सहस्राब्दं दृष्टिहीनो निराश्रयः । निष्कृतिस्तस्य गायत्र्या नवलक्षजपादिह ॥
“ यदा प्रतिग्रहस्तस्यास्तदा पातित्यमर्हति । सन्ध्यादिनित्यकर्माणि विफलानि न संशयः ॥
“ सावित्रीपतितं विधातु पुनःसंस्कारमर्हति ” ॥
{{rule}}
१ गघ-गवा ।<noinclude></noinclude> q8bev3fxwrua4h93h2mg14q54wmwokr पृष्ठम्:Smriti mukta phalam.pdf/९७३ 104 166976 420003 2026-11-11T06:51:17Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''हिरण्यगर्भविषये ।'''|९२५}} {{rule}} '''स्कान्देऽपि—'''
“ प्रतिगृह्य तुलामाशु नवलक्षं जपेद्बुधः । चतुर्थांशव्ययं कृत्वा यज्ञं वा सर्वदक्षिणम् ॥
“ तदर्धं ब्रह्मणः... नवीन पृष्ठं निर्मीत अस्ती 420003 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''हिरण्यगर्भविषये ।'''|९२५}} {{rule}} '''स्कान्देऽपि—'''
“ प्रतिगृह्य तुलामाशु नवलक्षं जपेद्बुधः । चतुर्थांशव्ययं कृत्वा यज्ञं वा सर्वदक्षिणम् ॥
“ तदर्धं ब्रह्मणः प्रोक्तं तदर्थं सदस्यपतेः । होतॄणां द्वारपालानां पाठकानां महामुने ॥
“ जापकानामिदं प्रोक्तं तयोरर्धं विचक्षणैः ”॥ तयोः ब्रह्मसदस्ययोः । अर्धं सर्वेषां प्रायश्चित्तमित्यर्थः ।
'''मार्कण्डेयपुराणे तु—'''“ तुलाप्रतिग्रहीता च प्रायश्चित्तमिदं चरेत् । ५
“ चतुर्थांशिभागेन परिषद्धिधिपूर्वकम् । चतुर्थांशं धनं सर्वं चतुर्धा भागमाचरेत् ॥
“ अनुवादे भागमेकं भागमेकं विधायके । भागः परिषदि प्रोक्तः शेषं कृच्छ्रादिषु न्यसेत् ” ॥
'''मार्कण्डेयपुराणे तु—'''
“ प्रधानं संपरित्यज्य यागार्थं दक्षिणां वहन् । तस्यैव निष्कृतिरियं मुनिभिः परिकीर्तिता ॥
“ परेद्युर्वा तदानीं वा स्नात्वा शुचिरलंकृतः । नीलवर्णां च गामेकां श्यामां वाऽऽदाय निर्गदाम् ॥ १०
“ आपोहिष्ठादिभिर्मन्त्रैः प्राङ्मुखीं मार्जयेज्जलैः । रक्तेन वाससाच्छाद्य त्रिः परिक्रम्य यत्नतः ॥
“ तन्मूत्रस्नानमासाद्य जपेन्मन्त्रमिदं सुधीः । हिरण्यगर्भ इत्येनामृचमन्तं समुच्चरन् ॥
“ विष्णोर्योनिमित्येतद्भिरान्ताभिरनुमन्त्रयेत् ॥
“ स्थित्वा मुहूर्तं गोगर्भे स्वमूर्धानं निधाय च । अद्ययोनिमष्टपुत्रामनुवाकं जपेद्बुधः ॥
“ ततः परं पुनर्जातं मन्येतात्मानमादृतः । स्वयं पिताथ वाचार्यो जातकर्मादि भावयेत् । १५
“ व्रतान्तं तत्र तद्द्रव्यं दत्वाचार्यं क्षमापयेत् । ततः पूतो भवेदेषु दक्षिणामात्रसंग्रहे ” ॥
प्रधानात्यागाभावे पूर्वोक्तैरष्टलक्षजपादिभिः पूतो भवति । तथा च '''हेमाद्रौ—'''
“ अन्यथा निष्कृतिर्नास्ति ह्युक्त्वा निष्कृतीरिमाः । सहस्राब्दं भवेद्रक्ष आचार्यी द्रव्यलोभतः ॥
“ ब्रह्मा सदस्यतिश्चैव तदर्धं राक्षसो भवेत् । द्वारपा ऋत्विजश्चैव होतारो जापका अपि ॥
“ तयोरर्धं भवेयुस्ते राक्षसा घोररूपिणः ॥ २०
“ आचार्यर्धि जपः प्रोक्तो ब्रह्मणः सदस्यपतेः । तयोरर्धं तु होतॄणामितरेषामिति स्थितिः ” ॥
'''नागरखण्डे—'''“एवं हिरण्यगर्भस्य ग्रहणे निष्कृतिः पुरा । दृष्टा मन्वादिभिर्विप्रैर्धर्मशास्त्रपरायणैः ॥
“ अन्यथा निष्कृतिर्नास्ति प्रायश्चित्तैर्जडोदितैः ” ॥
'''ब्रह्माण्डघटविषये—'''
“ ततः परं विशुद्ध्यर्थादिह लोके परत्र च । पुनः संस्कारविधिना ह्यभ्यसेद्वेदमातरम् ॥ २५
“ ब्रह्मोपदेशं तत्रापि कुर्यादाचार्यवाक्यगैः । ततः परं जपेद्देवमातरं प्रत्यहं सुधीः ॥
“ प्रतिग्रहपराङ्मुखो विमुक्तो विष्णुमादरात् । चिन्तयन्वर्तयन् विप्रः सुखी भव परत्र च ॥
“ एवं कृत्वा द्विजो यस्तु निष्कृतिं शुद्धमानसः । तुलाप्रतिग्रहे राजन् शुद्धो भवति नान्यथा ॥
“ अकृत्वा निष्कृतीरेता एकां वापि नरेश्वर । सन्ध्यादि नित्यकर्माणि पितृकर्माणि यानि च ॥
“ न फलन्तिह सर्वाणि भस्मनि न्यस्तहव्यवत् । पुनःसंस्कारमात्रेण पुनरायान्ति तानि वै ॥ ३०
“ ततः प्रतिग्रहीता तु आत्मदेहविशुद्धये । कुर्याद्वै विरजाहोमं पञ्चगव्यमनन्तरम् ” ॥ इति ।
'''हिरण्यगर्भविषये हेमाद्रौ—'''
“ पूर्वजो द्रव्यलोभेन ऋणयागादिभिर्विना । गर्भं स्वर्णमयं धृत्वा ऋत्विग्भिः सह राक्षसः ” ॥
'''पाद्मे—'''“ हिरण्यगर्भं भूपालात् पूर्वजो भोगलालसः । प्रतिगृह्य स शीघ्रेण नक्तंचारी भवेद्भुवि ॥
“ ऋत्विजः कीकसा नाम पिशाचाः संभवन्त्यथ । कथंचिन्निष्कृतिर्दृष्टा पुनर्गाभान्न चान्यथा ” ॥ ३५
{{rule}}
१ गध-सर्वथैव । २ गध-जंप्त्वाप्लवेः ।<noinclude></noinclude> dzx9hkmfugjz5728vz08nbsaa22e9ts पृष्ठम्:Smriti mukta phalam.pdf/९७४ 104 166977 420004 2026-11-11T06:52:46Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९२६|'''कल्पतरुविषये ।'''|}} {{rule}} '''देवीपुराणे—'''
“ दक्षिणामात्रमालम्ब्य प्रधानं संपरित्यजेत् । तथापि धर्मयागादिं कृत्वा शुद्धिमवाप्नुयात् ॥
“ शेषयेद्यस्तु म... नवीन पृष्ठं निर्मीत अस्ती 420004 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९२६|'''कल्पतरुविषये ।'''|}} {{rule}} '''देवीपुराणे—'''
“ दक्षिणामात्रमालम्ब्य प्रधानं संपरित्यजेत् । तथापि धर्मयागादिं कृत्वा शुद्धिमवाप्नुयात् ॥
“ शेषयेद्यस्तु मोहेन वृत्त्यर्थं भोगलालसः । तस्योपनयनं भूयो जननं गर्भगोलतः ॥
“ पञ्चायुतेन शम्भोर्वा ह्यभिषेकेण मुच्यते । अष्टलक्षजपो देव्याः कूष्माण्डायुतहोमतः ॥
५ “ चतुर्भागव्ययो वापि यज्ञो वा सर्वदक्षिणः । एवं कुर्यात् द्विजो यस्तु तस्माद् दोषात्प्रमुच्यते ” ॥
'''देवलः—'''
“ ब्रह्माण्डं यस्तु गृह्णाति द्विजः क्रत्वादिभिर्विना । ऋत्विग्भिः सह दुष्टात्मा राक्षसो भवति ध्रुवम्” ॥
'''मार्कण्डेयः—'''
“ ब्रह्माण्डं पुण्यतीर्थेषु प्रतिगृह्णाति यो द्विजः । निष्कृतिस्तस्य नास्तीह वसुलक्षजपादृते ” ॥
१० '''ब्रह्मवैवर्ते—'''
“ ब्रह्माण्डघटसंज्ञं तु प्रतिगृह्णाति यो द्विजः । अष्टलक्षजपादस्य निष्कृतिर्ब्रह्मराक्षसात् ” ॥ इति ।
'''गालवः—'''
“ ब्रह्माण्डं यो द्विजो धृत्वा वसुलक्षं जपेदिह । पूतो भवति दुष्टात्मा इह लोके परत्र च ॥
“ नियुतेनाभिषेकस्य शम्भो रुद्रविधानतः । चतुर्भागव्ययं कृत्वा यज्ञं वा बहुदक्षिणम् ॥
१५ “एषैव निष्कृतिस्तस्य ऋत्विग्भिः सहितस्य च । अन्यथा निष्कृतिर्नास्ति सहस्राब्दं पिशाचता ” ॥
'''भविष्योत्तरे—'''
“ आचार्यर्धं तयोः प्रोक्तं प्रायश्चित्तमिदं प्रभो । द्वाःस्थानां हि तदर्धं स्यादितरेषां हि पूर्ववत् ॥
“ अथवा तच्चतुर्भागव्ययं तु कुरुते द्विजः । अन्यथा निष्कृतिर्नास्ति दानैस्तीर्थावगाहनैः ॥
“ आचार्य प्रविशेत्पापं राज्ञो दानाधिकारिणः । पादहीनं तयोः प्रोक्तं शेषं सर्वेषु संविशेत् ॥
२० “ प्रायश्चित्तैर्विना राजन्न पुनन्ति प्रतिग्रहात् । तस्मादिदं प्रकर्तव्यं प्रायश्चित्तं द्विजातिभिः” ॥ इति ।
'''कल्पतरुविषये मार्कण्डेयः—'''“ आपत्स्वपि सदा विप्रो न गृह्णीयादिमं तरुम् ।
“ यान्त्यस्य सन्ति पर्णानि फलानि कुसुमानि च । तावतीस्तु समा भूयाद्राक्षसो निर्जने वने ॥
ऋत्विग्भिः ब्रह्मणा सार्धमधःपादविवर्जितः ” ॥ इति ।
'''गारुडे—'''
२५ “ न द्विजः क्वापि गृह्णीयात् बहुभिः कारणैर्विना । तरुमेनं पर्णवन्तं रक्षो भवति कानने ॥
“दृष्ट्या पद्भ्यां विना राजन् ऋत्विग्भिः सह निर्जने । यावन्ति तस्य पर्णानि तावदब्दं नराधिप ”॥ इति ।
'''गौतमः—'''
“ द्विजो ऋणविमुक्त्यर्थं गृह्णीयात्कल्पभूरुहम् । यागार्थं स्वकृतग्रामतटाकादिविनाशिने ॥
“ सर्वं तदर्थं सहसा व्ययं कृत्वा न दोषभाक् । शुद्धो भवति मानुष्ये न भवेद्ब्रह्मराक्षसः ” ॥ इति ।
३० '''मार्कण्डेयपुराणे—'''
“ प्रतिगृह्य द्विजो मोहात् तरुमेनं सुखार्थये । निष्कृतिस्तस्य नास्तीह नरकादेकविंशतेः ॥
“ कथंचिन्निष्कृतिर्दृष्टा मनुनारदगालवैः । अष्टलक्षाद्वेदमातुश्चतुर्थांशव्ययेन वा ॥
“ अभिषेकेण वा शम्भोर्भूमेर्वा त्रिः परिक्रमात् । रामसेत्वादितीर्थेषु त्र्यब्दाब्दस्नानतोऽपि वा ॥
“ एता निष्कृतयो दृष्टास्तरोरेतस्य संग्रहे ” ॥
३५ '''तथैव—'''“ बाहुजादेकगुणितं पादजाद्विगुणं चरेत् । मुखजादुक्तमानेन ऊरुजात् क्षत्रवन्नृप ॥<noinclude></noinclude> ftexabcdjok5f1lk9qi24t2ssmd6xz1 पृष्ठम्:Smriti mukta phalam.pdf/९७५ 104 166978 420005 2026-11-11T06:55:23Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''हिरण्यकामधेनुप्रतिग्रहे ।'''|९२७}} {{rule}} “ एताभ्यो निष्कृतिभ्यश्च गतिर्नान्यत्र विद्यते ” ॥ इति ।
'''गोसहस्रप्रतिग्रहे प्रायश्चित्तम् ।''' गोसहस्रप्रतिग्रहे ''... नवीन पृष्ठं निर्मीत अस्ती 420005 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''हिरण्यकामधेनुप्रतिग्रहे ।'''|९२७}} {{rule}} “ एताभ्यो निष्कृतिभ्यश्च गतिर्नान्यत्र विद्यते ” ॥ इति ।
'''गोसहस्रप्रतिग्रहे प्रायश्चित्तम् ।''' गोसहस्रप्रतिग्रहे '''देवलः—'''
“ तुलायां गोसहस्रेषु आचार्यस्य पुनर्भवः । आब्रह्मणोऽर्कपर्यन्तं नास्ति भूमौ पिशाचतः ” ॥
पिशाचत्वानिवृत्तिर्नास्तीत्यर्थः । '''मार्कण्डेयः—'''
“ धृत्वाग्रजो गोसहस्रं राज्ञोऽन्यस्मात् द्विजन्मनः । नवलक्षं जपेद्देव्याः पुनःसंस्कारमर्हति ” ॥ ५
'''मत्स्यपुराणे—'''
“ पुण्यक्षेत्रे पुण्यतीर्थे सूर्यचन्द्रमसोर्ग्रहे । धेनूनां यः सहस्रं च प्रतिगृह्य धनातुरः ॥
“ भुवः प्रदक्षिणं कृत्वा नवलक्षं जपेद्बुधः । केशानां वपनं कृत्वा पुनःसंस्कारमर्हति ” ॥
'''राजविषये—'''
“ सहस्रधेनुदाने तु आचार्यत्वं यदि व्रजेत् । तस्यैव निष्कृतिर्नास्ति नवलक्षजपादृते ॥ १०
“ भूमेः प्रदक्षिणं कृत्वा केशानां वपनं पुनः । प्रायश्चित्तेन पूतात्मा पुनःसंस्कारमर्हति ” ॥
'''कूर्मपुराणे—'''
“ सहस्रधेनुदाने तु आचार्यो यदि लोभतः । भूमेः प्रदक्षिणं कृत्वा नवलक्षं जपेद् द्विजः ॥
“ तद्दशको महाशम्भोर्नमकैश्चमकैः शुभैः । कृत्वाऽभिषेकं विधिवत् अयुतं प्रयुतं तु वा ॥
“ सर्वव्ययं च यागे वा कृत्वा शुद्धिborderमवाप्नुयात् ” ॥ १५
'''नागरखण्डे—'''“ ब्रह्मा सदस्यः पूर्वोक्तप्रायश्चित्तार्धमर्हति ।
“ तदर्धं द्वारपालानां पाठकानां तथैव च । होतॄणां जापकानां च पूर्ववन्मुनिभिः स्मृतम् ” ॥
'''लिङ्गपुराणे—'''
“ तुलायां गोसहस्रे च आचार्यो यद्धनं हरेत् । अकृत्वा तद्व्ययं धर्म्यं पत्नीपुत्रपरिष्कृतः ॥
“ तत्पत्नीनां च पुत्राणां मनुजानां जनाधिप । हव्यकव्येषु यो भोक्ता ये वा संबन्धिवान्धवाः ॥ २०
“ ते वै कृच्छ्रद्वयं कुर्युः निष्कृतिः कथितोत्तमैः ” ॥
'''हिरण्यकामधेनुप्रतिग्रहे प्रायश्चित्तम् ।''' हिरण्यकामधेनुविषये '''महाभारते—'''
“ राज्ञां पापानिबद्धानां सर्वदा पापचेतसाम् । पापनिर्मोचनी तेषां कामधुक् पुण्यवर्धनी ॥
“ एतादृशीं पुण्यरूप वां स्वर्णकामदुहां द्विजः । प्रतिगृह्णाति यो लोभात् स सद्यः पतितो भवेत् ॥
“ अष्टलक्षजपाद्राजन् व्ययाद्वा अष्टेभागतः । अभिषेकेण वा शम्भोः यज्ञाद्वा सर्वदक्षिणात् ॥ २५
“ एतैः शुद्धिborderमवाप्नोति ह्युभयोर्लोकयोरपि ” ॥
'''कौर्मे—'''“स्वर्णकामदुहां राज्ञा स्वर्चितां शास्त्रवर्त्मना । प्रत्यगृह्लाद् द्विजो यस्तु स सदा सूतकी भवेत् ॥
“ प्रायश्चित्ती भवेत्सद्यः पुनर्ब्रह्मोपदेशतः । अष्टलक्षं जपं कृत्वा प्रत्यहं विधिपूर्वकम् ॥
“ धनस्याष्टमभागेन प्रायश्चित्तं समाचरेत् । अभिषेकेण वा विप्रो यज्ञात्सर्वस्वदक्षिणात् ॥
“ एतेषूक्तेषु राजेन्द्र प्रायश्चित्तेन बुद्धिमान् । इह लोके परत्रापि शुद्धिborderमाप्नोत्यनुत्तमाम् ” ॥ ३०
'''हिरण्याश्वप्रतिग्रहे प्रायश्चित्तम् ।''' हिरण्याश्वप्रतिग्रहे '''कौर्मे—'''
“ हिरण्याजिनं गृह्णन् द्विजो लोभपरायणः । जन्मत्रये राक्षसत्वमनुभूय पिशाचताम् ॥
“ तदन्ते भुवमासाद्य रासभत्वमवाप्नुयात् । तदन्ते रोगवान् भूत्वा नरकं याति पाण्डव ” ॥ इति
{{rule}}
१ गध-ष्टम ।<noinclude></noinclude> nczk0mc5grwn4bh6ioyrj09lixtf2rq पृष्ठम्:Smriti mukta phalam.pdf/९७६ 104 166979 420006 2026-11-11T06:56:31Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९२८|'''पञ्चलाङ्गलप्रतिग्रहे ।'''|}} {{rule}} '''वामनपुराणे—'''[cite: 21] “ हिरण्याश्वं द्विजो लोभात् राज्ञः पुण्यदिनेष्विह । प्रतिगृह्यात्मभोगार्थं स भवेद्ब्रह्मराक्षसः ।[cite:... नवीन पृष्ठं निर्मीत अस्ती 420006 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९२८|'''पञ्चलाङ्गलप्रतिग्रहे ।'''|}} {{rule}} '''वामनपुराणे—'''[cite: 21] “ हिरण्याश्वं द्विजो लोभात् राज्ञः पुण्यदिनेष्विह । प्रतिगृह्यात्मभोगार्थं स भवेद्ब्रह्मराक्षसः ।[cite: 21] “ ततः खरत्वमासाद्य रोगवान् जन्मनां त्रये । ततो नरकमासाद्य तिष्ठत्या चन्द्रतारकम् ॥[cite: 21] “ तस्यैव निष्कृतिर्नास्ति ह्यष्टलक्षजपादृते ” ॥ इति ।[cite: 21] ५ '''ब्रह्मवैवर्ते—'''“ हिरण्याश्वं द्विजो धृत्वा तस्य निष्कृतिरीरिता । अष्टलक्षजपाद्वापि नियुताद्वाभिषेकतः ॥[cite: 21] “ अष्टमांशव्ययेनापि यागैर्वा सर्वदक्षिणैः । ततः शुद्धिborderमवाप्नोति पुनर्मौञ्जीविधानतः ॥[cite: 21] “ तद्ब्रह्मा च सदस्यश्च प्रायश्चित्तार्धमर्हतः । द्वाःस्थास्तज्जापका राजन्नर्हन्त्यर्धार्धमंशतः ॥[cite: 21] “ अन्यथा दोषवन्तस्ते न संभाण्याः कदाचन । न संस्पृश्यास्त्वपाङ्क्तेया नालेप्चानिह द्विजान् ” ॥[cite: 21] '''हिरण्याश्वरथप्रतिग्रहे प्रायश्चित्तम् ।''' हिरण्याश्वरथप्रतिग्रहे '''ब्रह्मवैवर्ते—'''[cite: 21] १० “ हिरण्याश्वरथं यस्तु द्विजो गृह्णन्नराधिपात् । सोऽरण्ये निर्जले देशे ऋत्विग्भिः सह राक्षसः ॥[cite: 21] “ तस्यैषा निष्कृतिर्दृष्टा मुनिभिस्तत्त्वदर्शिभिः । नवलक्षजपाद्वापि नियुताद्वाभिषेकतः ॥[cite: 21] “ अष्टमांशव्ययेनापि प्रायश्चित्तविधानतः । तदन्ते वपनं कृत्वा पुनःसंस्कारमर्हति ॥[cite: 21] “ एवं चेच्छुद्धिborderमाप्नोति प्रायश्चित्तेन भूयसा । अन्यथा तु न शुद्धः स्यान्न संभाष्यः कदाचन ॥[cite: 21] “ ब्रह्मादीनां तदर्थांशन्यायः पूर्वोक्त इष्यते ” ॥ इति ।[cite: 21] १५ '''हिरण्यहस्तिप्रतिग्रहे प्रायश्चित्तम् ।''' हिरण्यहस्तिप्रतिग्रहे '''ब्रह्माण्डपुराणे—'''[cite: 21] “ हिरण्यहस्तिनं धृत्वा पुण्यकालेषु पर्वसु । यो विप्रो लोभमोहेन राज्ञो दानार्थिनो नृप ॥[cite: 21] “ न तस्य निष्कृतिर्दृष्टा दशलक्षजपादृते । लक्षहोमेन कूष्माण्डैः शुद्धिborderमाप्नोत्यनुत्तमाम् ” ॥ इति ।[cite: 21] '''ब्रह्मवैवर्ते—'''[cite: 21] “ हिरण्यहस्तिनं भूपात् द्विजो लोभविमोहितः । पुण्यकालेषु पुण्येषु तीर्थेष्व्वायतनेषु च ॥[cite: 21] २० “ प्रतिगृह्य ततो लोभादकृत्वा निष्कृतिं नृप । सोऽरण्ये निर्जले देशे राक्षसोऽम्बरचारवान् ॥[cite: 21] “ तस्यैव निष्कृतिर्नास्ति नवलक्षजपाद्दिना । लक्षहोमेन कूष्माण्डैः शुद्धिborderमाप्नोति देहिकीम् ।[cite: 21] “ अष्टमांशव्ययेनापि प्रायश्चित्तविधानतः । केशानां वपनं कृत्वा पुनःसंस्कारमाचरेत् ॥[cite: 21] “ तदर्धं ब्रह्मणः प्रोक्तं तथैव सदस्यपतेः । तदर्धं द्वारपालानां जापकानां तदर्धतः ॥[cite: 21] “ प्रायश्चित्तमिदं प्रोक्तं हेमहस्तिप्रतिग्रहे ” ॥ इति ।[cite: 21] २५ '''पञ्चलाङ्गलप्रतिग्रहे प्रायश्चित्तम् ।''' पञ्चलाङ्गलप्रतिग्रहे '''वसिष्ठसंहितायाम्'''[cite: 21] “ लाङ्गलं मुसलो धृत्वा पञ्च वाप्येकमेव वा । तस्यैव निष्कृतिंवक्ष्ये शृणु नान्यमनाः प्रभो ॥[cite: 21] “ दशलक्षजपं वाथ प्रयुतं वाभिषेचनम् । चतुर्भागव्ययं कुर्याद्यज्ञं वा सर्वदक्षिणम् ॥[cite: 21] “ एतत्पापविशुद्ध्यर्थं परेद्युर्वाऽन्यतोऽपि वा । मार्तण्डस्योदयादर्वाक् स्नानं कृत्वा यथार्हतः ॥[cite: 21] “ नित्यकर्म समाप्याशु यावत्सूर्योदयो भवेत् । तावद्गत्वा जलाधारं नदीं पुष्करिणीमपि ॥[cite: 21] ३० “ कण्ठदघ्नजले स्थित्वा स्मरन्नारायणं विभुम् । मुखमुद्धृत्य मार्तण्डं पश्यन्नुत्तानपाणिकः ॥[cite: 21] “ अघमर्षणसूक्तं च जपन् पापविमुक्तये । यावदस्तं गतो भानुस्तावत्कालं जपेत्सुधीः ॥[cite: 21] “ मध्ये माध्याह्निकं कृत्वा ब्रह्मयज्ञं च तर्पणम् । मनसा देवमाराध्य पुनर्गत्वा जलं जपेत् ॥[cite: 21] “ सायं सन्ध्यामुपासित्वा सायं होममनन्तरम् । मौनं त्यक्त्वा तदा राजन् मिताहारं समाचरेत् ॥[cite: 21] “ ओदनं यावकं भक्षेदथवा मुद्गभक्षणम् । अधःशायी भवेत्तत्र पापं कृतमनुस्मरन् ॥[cite: 21] ३५ “ प्रभातायां तु शर्वर्यां पूर्ववद्व्रतमाचरेत् ॥[cite: 21] {{rule}}
१ गध-दैहिकीम् ।<noinclude></noinclude> n2nb6phlpisd9rvjpeavk4pb73fn32q 420007 420006 2026-11-11T06:57:19Z Myauthworks 10864 420007 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९२८|'''पञ्चलाङ्गलप्रतिग्रहे ।'''|}} {{rule}} '''वामनपुराणे—'''
“ हिरण्याश्वं द्विजो लोभात् राज्ञः पुण्यदिनेष्विह । प्रतिगृह्यात्मभोगार्थं स भवेद्ब्रह्मराक्षसः ।
“ ततः खरत्वमासाद्य रोगवान् जन्मनां त्रये । ततो नरकमासाद्य तिष्ठत्या चन्द्रतारकम् ॥
“ तस्यैव निष्कृतिर्नास्ति ह्यष्टलक्षजपादृते ” ॥ इति ।
५ '''ब्रह्मवैवर्ते—'''“ हिरण्याश्वं द्विजो धृत्वा तस्य निष्कृतिरीरिता । अष्टलक्षजपाद्वापि नियुताद्वाभिषेकतः ॥
“ अष्टमांशव्ययेनापि यागैर्वा सर्वदक्षिणैः । ततः शुद्धिborderमवाप्नोति पुनर्मौञ्जीविधानतः ॥
“ तद्ब्रह्मा च सदस्यश्च प्रायश्चित्तार्धमर्हतः । द्वाःस्थास्तज्जापका राजन्नर्हन्त्यर्धार्धमंशतः ॥
“ अन्यथा दोषवन्तस्ते न संभाण्याः कदाचन । न संस्पृश्यास्त्वपाङ्क्तेया नालेप्चानिह द्विजान् ” ॥
'''हिरण्याश्वरथप्रतिग्रहे प्रायश्चित्तम् ।''' हिरण्याश्वरथप्रतिग्रहे '''ब्रह्मवैवर्ते—'''
१० “ हिरण्याश्वरथं यस्तु द्विजो गृह्णन्नराधिपात् । सोऽरण्ये निर्जले देशे ऋत्विग्भिः सह राक्षसः ॥
“ तस्यैषा निष्कृतिर्दृष्टा मुनिभिस्तत्त्वदर्शिभिः । नवलक्षजपाद्वापि नियुताद्वाभिषेकतः ॥
“ अष्टमांशव्ययेनापि प्रायश्चित्तविधानतः । तदन्ते वपनं कृत्वा पुनःसंस्कारमर्हति ॥
“ एवं चेच्छुद्धिborderमवाप्नोति प्रायश्चित्तेन भूयसा । अन्यथा तु न शुद्धः स्यान्न संभाष्यः कदाचन ॥
“ ब्रह्मादीनां तदर्थांशन्यायः पूर्वोक्त इष्यते ” ॥ इति ।
१५ '''हिरण्यहस्तिप्रतिग्रहे प्रायश्चित्तम् ।''' हिरण्यहस्तिप्रतिग्रहे '''ब्रह्माण्डपुराणे—'''
“ हिरण्यहस्तिनं धृत्वा पुण्यकालेषु पर्वसु । यो विप्रो लोभमोहेन राज्ञो दानार्थिनो नृप ॥
“ न तस्य निष्कृतिर्दृष्टा दशलक्षजपादृते । लक्षहोमेन कूष्माण्डैः शुद्धिborderमाप्नोत्यनुत्तमाम् ” ॥ इति ।
'''ब्रह्मवैवर्ते—'''
“ हिरण्यहस्तिनं भूपात् द्विजो लोभविमोहितः । पुण्यकालेषु पुण्येषु तीर्थेष्व्वायतनेषु च ॥
२० “ प्रतिगृह्य ततो लोभादकृत्वा निष्कृतिं नृप । सोऽरण्ये निर्जले देशे राक्षसोऽम्बरचारवान् ॥
“ तस्यैव निष्कृतिर्नास्ति नवलक्षजपाद्दिना । लक्षहोमेन कूष्माण्डैः शुद्धिborderमाप्नोति देहिकीम् ।
“ अष्टमांशव्ययेनापि प्रायश्चित्तविधानतः । केशानां वपनं कृत्वा पुनःसंस्कारमाचरेत् ॥
“ तदर्धं ब्रह्मणः प्रोक्तं तथैव सदस्यपतेः । तदर्धं द्वारपालानां जापकानां तदर्धतः ॥
“ प्रायश्चित्तमिदं प्रोक्तं हेमहस्तिप्रतिग्रहे ” ॥ इति ।
२५ '''पञ्चलाङ्गलप्रतिग्रहे प्रायश्चित्तम् ।''' पञ्चलाङ्गलप्रतिग्रहे '''वसिष्ठसंहितायाम्'''
“ लाङ्गलं मुसलो धृत्वा पञ्च वाप्येकमेव वा । तस्यैव निष्कृतिंवक्ष्ये शृणु नान्यमनाः प्रभो ॥
“ दशलक्षजपं वाथ प्रयुतं वाभिषेचनम् । चतुर्भागव्ययं कुर्याद्यज्ञं वा सर्वदक्षिणम् ॥
“ एतत्पापविशुद्ध्यर्थं परेद्युर्वाऽन्यतोऽपि वा । मार्तण्डस्योदयादर्वाक् स्नानं कृत्वा यथार्हतः ॥
“ नित्यकर्म समाप्याशु यावत्सूर्योदयो भवेत् । तावद्गत्वा जलाधारं नदीं पुष्करिणीमपि ॥
३० “ कण्ठदघ्नजले स्थित्वा स्मरन्नारायणं विभुम् । मुखमुद्धृत्य मार्तण्डं पश्यन्नुत्तानपाणिकः ॥
“ अघमर्षणसूक्तं च जपन् पापविमुक्तये । यावदस्तं गतो भानुस्तावत्कालं जपेत्सुधीः ॥
“ मध्ये माध्याह्निकं कृत्वा ब्रह्मयज्ञं च तर्पणम् । मनसा देवमाराध्य पुनर्गत्वा जलं जपेत् ॥
“ सायं सन्ध्यामुपासित्वा सायं होममनन्तरम् । मौनं त्यक्त्वा तदा राजन् मिताहारं समाचरेत् ॥
“ ओदनं यावकं भक्षेदथवा मुद्गभक्षणम् । अधःशायी भवेत्तत्र पापं कृतमनुस्मरन् ॥
३५ “ प्रभातायां तु शर्वर्यां पूर्ववद्व्रतमाचरेत् ॥
{{rule}}
१ गध-दैहिकीम् ।<noinclude></noinclude> lddx1y21hhzfscqz9mbjs1u74e4ewzr पृष्ठम्:Smriti mukta phalam.pdf/९७७ 104 166980 420008 2026-11-11T07:04:55Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''धरादिप्रतिग्रहे ।'''|९२९}} {{rule}} “ एवं तु मण्डले पूर्णे विरजाहोममाचरेत् । उपोष्य दिनमेकं च पञ्चगव्यं पिवेत्ततः ।
“ब्राह्मणान् भोजयेत्पश्चात् तेभ्यो दद्याच्... नवीन पृष्ठं निर्मीत अस्ती 420008 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''धरादिप्रतिग्रहे ।'''|९२९}} {{rule}} “ एवं तु मण्डले पूर्णे विरजाहोममाचरेत् । उपोष्य दिनमेकं च पञ्चगव्यं पिवेत्ततः ।
“ब्राह्मणान् भोजयेत्पश्चात् तेभ्यो दद्याच्च दक्षिणाम्। पश्चात्स्वयं प्रभञ्जीयात् तद्विप्रानुज्ञया सह”॥इति।
एतत् प्रायश्चित्तमाचार्यस्य । सर्वेषां प्रायश्चित्तमुक्तं मात्स्ये—
“ ब्रह्मा सदस्यतिश्चैव तदर्धं भागमर्हतः । द्वारस्थानां तदर्धं स्यात्तदर्धमितरेषु वै ॥
“ प्रायश्चित्तविधिश्चैष नान्यथा गतिरस्ति हि ” ॥ इति । ५
'''धराप्रतिग्रहे प्रायश्चित्तम् ।''' धराप्रतिग्रहे '''शिवपुराणे—'''
“ धरामभ्यर्च्य गन्धाद्यैर्विप्रो राजा पुण्यकालतः । विप्रसात्कुरुते तत्र पुण्यस्यान्तो न विद्यते ।
“ गृह्णीयाद्यो धरामेनां पुण्यकालेषु पर्वसु । तस्य विप्रस्य चास्तीह न पुनर्जन्म राक्षसात् ॥
“ ब्रह्मोपदेशः कर्तव्यः सावित्रीदानमेव च । ततः परं जपेद्देव्या दशलक्षमन्द्रितः ” ॥ इति ।
'''पाद्मे—'''“ धरामभ्यर्चितां राज्ञा धर्मशास्त्रानुसारतः । यो विप्रः प्रतिगृह्णीयात् द्रव्यलोभपरायणः ॥ १०
“ यज्ञादिकमकृत्वा चेत् भवति ब्रह्मराक्षसः । दशलक्षजपाद्देव्यास्तस्य निष्कृतिरीरिता ॥
“ सदस्यब्रह्मणोश्चार्धं द्वारपानां तदर्धकम् । तदर्धं जापकानां च होतॄणां च तथैव च ॥
“ मार्जनं सर्वदानानामाचार्याणां स्वयंभुवा । उक्तं पुरा देवमुख्ये लोकस्यास्य हितैषिणा ॥
“ अन्यथा मृत्युमाप्नोति कुर्यादेतत्प्रयत्नतः ” ॥ इति ।
'''विश्वचक्रप्रतिग्रहे प्रायश्चित्तम् ।''' विश्वचक्रप्रतिग्रहे '''मार्कण्डेयः—''' १५
“ विश्वचक्रं द्विजो धृत्वा निर्निमित्तेन लोभतः । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥
“ न तस्य पुनरावृत्तिः सहस्राब्दं महाभयात् । एषा वै निष्कृतिर्दृष्टा वसिष्ठेन महात्मना ।
“ चतुर्भागव्ययं कृत्वा प्रायश्चित्तविधानतः । पुनःसंस्कारविधिना पुनःसंस्कारमाचरेत् ॥
“ ब्रह्मोपदेशं सावित्रीमभ्यसेद् द्विजपुङ्गवात् । प्रयुतेनाभिषेकस्य निष्कृतिस्तस्य नान्यथा ॥
“ तदर्धं ब्रह्मणः प्रोक्तं तथैव सदस्यपतेः । द्वारपानां जापकानां तयोरर्धं प्रकल्पयेत् ” ॥ इति । २०
'''कल्पलताप्रतिग्रहे प्रायश्चित्तम् ।''' कल्पलताप्रतिग्रहे '''लिङ्गपुराणे—'''
“ दत्तामिमां कल्पलतां राजभिः पूजितां शुभाम् । यो गृह्णीयात् द्विजः कामात् स भवेद्ब्रह्मराक्षसः ॥
“ यावज्ज्योतींषि तिष्ठन्ति तावत्तिष्ठति राक्षसः । तद्ब्रह्मा च सदस्यश्च द्वारपा जापका अपि ॥
“ राक्षसाः क्रूरकर्माणो भवन्त्येव न संशयः । सहस्राब्दं तदर्धं च तदर्धं च यथाक्रमम् ॥
“ प्रायश्चित्तं कल्पतरोर्यत्तदेव समाचरेत् ” ॥ इति । २५
'''सप्तसागरप्रतिग्रहे प्रायश्चित्तम् ।''' सप्तसागरप्रतिग्रहे '''लिङ्गपुराणे—'''
“ मुखजो धनलोभेन गृह्णीयात्सप्तसागरम् । कुलेन सह संयुक्तो राक्षसो निर्जले भवेत् ॥
“ यागार्थं दक्षिणां गृह्णन् प्रधानत्यागमाचरेत् । योगे सर्वव्ययं कृत्वा नास्ति तस्य पिशाचता ।
“ प्रायश्चित्तेन पूतात्मा इह लोके परत्र च । चतुर्भागव्ययं वापि प्रायश्चित्तं समाचरेत् ॥
“ तस्योपनयनं भूयः सावित्रीदानमेव च ॥ ३०
“ ब्रह्मा सदस्यस्तस्यार्धं प्रायश्चित्तमिहार्हतः । द्वारस्थानां तयोरर्धं जापकानां यथाक्रमम् ” ॥ इति ।
'''चर्मधेनुप्रतिग्रहे प्रायश्चित्तम् ।''' चर्मधेनुप्रतिग्रहे '''वामनपुराणे—'''
“ धृत्वा चर्ममयीधेनुं धनलोभपरायणः । सप्तजन्मसु राजेन्द्र विपिने निर्जनेऽजले ॥
“ कृतं पापमनुस्मृत्य स भवेद्ब्रह्मराक्षसः ।
“ तस्यैषा निष्कृतिर्दृष्टा देव्या द्वादशलक्षतः । तस्योपनयनं भूयः पुनःसंस्कारकर्मणा ” ॥ इति । ३५
{{rule}}
१ गध-गारुड ।
११८-१४<noinclude></noinclude> o6rvr3jduhodh6vocia91g088o5rprf पृष्ठम्:Smriti mukta phalam.pdf/९७८ 104 166981 420009 2026-11-11T07:19:13Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९३०|'''महाभूतघटप्रतिग्रहे ।'''|}} {{rule}} '''पराशरः—'''
“ मुखजो यस्तु गृह्णीयात् चर्मधेनुं नृपात्मजात् । ग्रहणादिषु कालेषु पुण्यतीर्थेषु येषु च ॥
“ चतुर्भागव्ययं क... नवीन पृष्ठं निर्मीत अस्ती 420009 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९३०|'''महाभूतघटप्रतिग्रहे ।'''|}} {{rule}} '''पराशरः—'''
“ मुखजो यस्तु गृह्णीयात् चर्मधेनुं नृपात्मजात् । ग्रहणादिषु कालेषु पुण्यतीर्थेषु येषु च ॥
“ चतुर्भागव्ययं कुर्यात् प्रायश्चित्तविधानतः । देव्या द्वादशलक्षेण नियुतेनाभिषेकतः ॥
“ एषामन्यतमेनैव पुनःसंस्कारतः शुचिः । सदस्यब्रह्मणोर्ह्यृत्विजामपि पूर्ववत् ” ॥ इति ।
५ '''गारुडपुराणे—'''“तुलायां गोसहस्रे च लाङ्गले सप्तसागरे । विश्वचक्रे चर्मधेनौ महाभूतघटे तथा ॥
“ हेमहस्तिरथे चैव आचार्यं मृत्युराविशेत् । तस्मात्तन्मार्जनं कर्म मृत्युत्तरणहेतवे ॥
“ तदानीं वा परेद्युर्वा पक्षे वा पञ्चमे दिने । मासमात्रे त्रिमासे वा वत्सरे पूर्णतां गते ॥
“ प्रायश्चित्तेन पूतात्मा पुनःसंस्कारमर्हति ॥
“ व्यवहारक्षमो भूयादुभयोर्लोकयोरपि । अन्यथा दोषमाप्नोति न मुक्तिर्ब्रह्मराक्षसात् ” ॥ इति ।
१० '''महाभूतघटप्रतिग्रहे प्रायश्चित्तम् ।''' महाभूतघटप्रतिग्रहे '''देवलः—'''
“ पञ्चभूतघटं गृह्णन् विप्रो भवति राक्षसः । सहस्राब्दं वने घोरे निर्जले निर्जने वसेत् ॥
“ पक्षमात्रं जपेद्देवीं द्विजः पापविशुद्धये । तस्योपनयनं भूयः पुनःसंस्कारकर्मणा ॥
“ नियुतेनाभिषेकेण चतुर्भागव्ययेन च । नान्यथा शुद्धिमाप्नोति ब्रह्मराक्षसदेहतः ॥
“ तदर्धं ब्रह्मणः प्रोक्तं तथैव सदस्यपतेः । द्वाःस्थानां जापकानां च तयोरर्धं प्रकल्पयेत् ” ॥ इति ।
१५ '''स्कान्दे तु—'''“प्रतिगृह्य तुलादीनि राज्ञः पापपरायणात् । प्रायश्चित्तेन पूतात्मा पुनःसंस्कारमर्हति ॥
“गङ्गायां मौसलस्नानाच्छुद्धिमाप्नोति देहिकीम् । रेवायां तु तथा स्नात्वा शुद्धिमाप्नोति पौर्विकीम्॥
“ प्रातरारभ्य गण्डक्यामा सायं स्नानमाचरेत् । वर्षद्वयेन पूतात्मा ह्युभयोर्लोकयोः शुचिः ॥
“ तथैव शोणभद्रायां पूर्वजः शुद्धिमाप्नुयात् । गौतम्यां नियतः स्नात्वा नित्यकर्मपरायणः ॥
“ विंशत्या मौसलस्नानैरब्दमात्रेण शुध्यति । भीमरथ्यां महानद्यामर्धरात्रे जितेन्द्रियः ॥
२० “ जानुदघ्ने जले स्थित्वा जपेन्मन्त्रं त्रियम्बकम् । सहस्रं पूर्णतां याति यावत्तावद्विरम्यते ॥
“ एवं मासत्रयं कृत्वा शुद्धिमाप्नोति पौर्विकीम् । अखण्डायां तु कावेर्यां प्रातः स्नात्वा यथाविधि ॥
“ नित्यकर्म समाप्याशु कण्ठदघ्ने जले वसन् । जपेच्च पौरुषं सूक्तमष्टोत्तरशतं द्विजः ॥
“ यदा समाप्तिर्भवति तदा मौनं परित्यजेत् । एवं कुर्यात्प्रतिदिनं शुद्धः स्यादृतुमात्रतः ॥
“ ताम्रपर्णीनदीतोये अवगाह्य दिनत्रयम् । त्रियम्बकं जपेन्नित्यं संख्यामनुपधारयन् ॥
२५ “ दिनत्रये तु पूर्णेऽस्मिन् निर्विघ्नेन जनाधिप । पूतो भवति विप्रोऽसौ तुलादीनां प्रतिग्रहात् ॥
“ धनुष्कोट्यां तुलादीनां ग्रहीता धनलोभतः । स्नात्वा मध्याह्नवेलायां गत्वा रामेश्वरालयम् ॥
“ औपासनाग्नौ जुहुयाद्विरजाहोममादृतः । अधःशायी भवेन्नित्यं मासमेकं निरन्तरम् ॥
“ दुग्धाहारं फलाहारं द्वयोरेकं समाचरेत् । सेतुदर्शनमात्रेण ब्रह्महत्या विनश्यति ॥
“ अर्वाचीनानि पापानि नश्यन्तीत्यत्र का कथा ” ॥ इति । आहिताग्निः संपूर्णदक्षिणेन पुनः
३० स्तोमेन वा यजेत । ‘यो वा बहु प्रतिगृह्य गरगीर्णमिव मन्येत पुनःस्तोमेन यजेत’ इति श्रुतेः ।
‘उशनसः स्तोमेन गरगीर्णमिवात्मानं मन्यमानो यजेत’ इत्याश्वलायनसूत्रम् ।
उशनसस्तोमो नाम एकाहः पुनःस्तोम इति चास्यैव संज्ञा । गरः विषं गरो गीर्णो येन स
गरगीर्णः । यो बहुप्रतिग्रहादिना पापादिभयादात्मानं गरगीर्णमिव मन्येत स एतेन यजेतेति
नारायणीयवृत्तिः ।
इति प्रतिग्रहप्रायश्चित्तम् ।
{{rule}}<noinclude></noinclude> 483bth2l3d83z0ts4zdsk01i7gp3xu4 पृष्ठम्:Smriti mukta phalam.pdf/९७९ 104 166982 420010 2026-11-11T07:21:10Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''उपेपातकादि ।'''|९३१}} {{rule}} यत्र प्रतिपदं प्रायश्चित्तं नोक्तं नोपलभ्यते वा तत्र साधारणं प्रायश्चित्तमुच्यते ।
'''अतिपातकिप्रायश्चित्तम् ।''' तत्रानुप्रातकप्... नवीन पृष्ठं निर्मीत अस्ती 420010 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''उपेपातकादि ।'''|९३१}} {{rule}} यत्र प्रतिपदं प्रायश्चित्तं नोक्तं नोपलभ्यते वा तत्र साधारणं प्रायश्चित्तमुच्यते ।
'''अतिपातकिप्रायश्चित्तम् ।''' तत्रानुप्रातकप्रायश्चित्तं '''विष्णुराह—'''
“ अनुपाकिनस्त्वेते महापातकिनो यथा । अश्वमेधेन शुध्यन्ति तीर्थानुसरणेन वा ” ॥ इति ।
तत्राश्वमेधः सार्वभौमराजविषयः “ राजा सार्वभौमोऽश्वमेधेन यजेत ” इति श्रुतेः । तीर्थस्नानमितरविषयम् । ५
'''उपपातकिप्रायश्चित्तम् ।''' उपपातकप्रायश्चित्तमाह '''स एव—'''
“ उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः । पराकमथवा कुर्युर्यजेयुर्गोसवेन वा ” ॥ इति ।
'''याज्ञवल्क्योऽपि—'''
“ उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा । पयसा वापि मासेन पराकेणाथ वा पुनः”॥ इति ।
'''संकरीकरणादिप्रायश्चित्तम् ।''' संकरीकरणादेः प्रायश्चित्तमाह '''विष्णुः—''' १०
“ संकरीकरणं कृत्वा मासमश्नीत यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं तु कारयेत् ॥
“ अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति । शीतकृच्छ्रेण वा शुद्धिः महासान्तपनेन वा ।
“ मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं विशोधनम् ॥ ” इति ।
'''मनुः—'''
“ संकरापात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकं त्र्यहम् ”॥ इति । १५
अनुक्तानां सर्वेषां पापानां साधारणं प्रायश्चित्तमाह '''पराशरः—'''
“ चान्द्रायणं यावकं च तुलापुरुष एव च । गवां चैवानुगमनं सर्वपापप्रणाशनम् ” ॥ इति ।
तुलापुरुषः कृच्छ्रविशेषः। पापगौरवलाघवानुसारेण चान्द्रायणादीन्यावृत्तान्यनावृत्तानि वा अनुष्ठेयानि।
'''स एव—'''
“ सर्वेषामेव पापानां संकरे समुपस्थिते । दशसाहस्रमभ्यस्ता गायत्री शोधनी परम् ” ॥ इति । २०
'''शङ्खलिखितौ—'''“ क्रयविक्रयदुष्टभोजनप्रतिग्रहेष्वनादिष्टप्रायश्चित्तेषु सर्वेषु चान्द्रायणं
प्राजापत्यं वा ” ॥ इति ।
'''शातातपः—'''“अनुक्तेषु विधिं ज्ञात्वा प्राजापत्यं समाचरेत् । सर्वत्र सर्वपापेषु द्विजश्चान्द्रायणं चरेत्”॥
'''उशनाः—'''
“ यन्नोक्तं यन्न वा नोक्तमिह पातकनाशनम् । प्राजापत्येन कृच्छ्रेण शुध्यते नात्र संशयः ” ॥ इति । २५
'''मनुविष्णुविश्वामित्राः—'''
“ अनुक्तनिष्कृतीनां तु पापानामपनुत्तये । शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत्” ॥ इति ।
'''याज्ञवल्क्यः—'''
“ देशं कालं वयः शक्तिं पापञ्चावेक्ष्य यत्नतः । प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः”॥
'''स एव—''' ३०
“ यदा यदा तु संकीर्णमात्मानं मन्यते द्विजः । तदा तदा तिलैर्होमो गायत्र्या वाचनं तथा”॥ इति ।
'''गौतमः—'''“ संवत्सरं षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशत्यहो द्वादशाहाः
षडहस्त्र्यहोहोरात्रः ” इति कालाः । एतान्येवानादेशे विकल्पेन क्रियेरन्नैनःसु गुरुषु गुरूणि लघुषु
लघूनि कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तम् ” ॥ इति ।
{{rule}}
१ गध-तिपातकमहापातकायोः । २ घ-दशा । ३ गध-षडहस्त्र्यहः अहोरात्र ।<noinclude></noinclude> nraoc4est3ywsriv04a50byn9wetvpp पृष्ठम्:Smriti mukta phalam.pdf/९८० 104 166983 420011 2026-11-11T07:22:59Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९३२|'''रहस्यप्रायश्चित्तम् ।'''|}} {{rule}} स्मृत्यन्तरे—“सर्वजन्मार्जितानीह भ्रूणहत्यादिकान्यपि । सर्वपापानि नश्यन्ति कृच्छ्रैर्द्वादशवार्षिकैः॥
“ जन्मप्रभ... नवीन पृष्ठं निर्मीत अस्ती 420011 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९३२|'''रहस्यप्रायश्चित्तम् ।'''|}} {{rule}} स्मृत्यन्तरे—“सर्वजन्मार्जितानीह भ्रूणहत्यादिकान्यपि । सर्वपापानि नश्यन्ति कृच्छ्रैर्द्वादशवार्षिकैः॥
“ जन्मप्रभृति यत् किंचित्पातकं चोपपातकम् । अर्वाक्तु भ्रूणहत्यायाः षडब्दान्नश्यति ध्रुवम् ॥
“ अब्दात्तु सकृदभ्यस्तं बुद्धिपूर्वमसन्महत् । तच्छुध्यत्यब्दकृच्छ्रेण महतः पातकादृते ” ॥ इति ।
त्रिंशत्कृच्छ्रा अब्दकृच्छ्रः कृच्छ्रः प्राजापत्यः । स च प्रतिनिधिना कार्यः ।
५ '''रहस्यपापप्रायश्चित्तानि ।''' अथ रहस्यप्रायश्चित्तानि । यत्पापं कर्तृव्यतिरिक्तेनान्येन
केनापि न ज्ञातं तद्रहस्यम् । तस्य प्रायश्चित्तमपि रहस्येव कर्तव्यम् । तथा च '''यमहारीतौ—'''
‘ रहस्ये रहस्यं प्रकाशे प्रकाशम् ’ इति । रहस्यत्वादेव नास्ति तत्र परिषदनुमत्यपेक्षा ।
तदाहुर्'''बृहस्पतियाज्ञवल्क्यौ—'''
“ प्रख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् । अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् ” ॥ इति ।
१० न च विना परिषदं व्रतज्ञानाभाव इति शङ्कनीयम् । शास्त्रज्ञस्य तद्विज्ञानसंभवात् । इतरेणापि बुद्धि-
मता विद्वद्गोष्ठ्यां केनचित् व्याजेनावगन्तुं शक्यत्वात् । रहस्यकृतं पापं स्वल्पेनापि जपादिना
निवर्तते । अत एव प्राजापत्यादिव्रतानां जपादीनां च व्यवस्थामाह '''मनुः—'''
“ एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः । अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ” ॥ इति ।
तत्र रहस्यानां साधारणं प्रायश्चित्तमाह '''स एव—'''
१५ “ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा । नाशयन्त्याशु पापानि महापातकजान्यपि ॥
“ यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् । तथा ज्ञानाग्निना पापं कृत्स्नं दहति वेदवित् ॥
“ सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः ” ॥
'''बोधायनः—'''
“यडुपस्थकृतं पापं पद्भ्यां वा यत्कृतं भवेत् । बाहुभ्यां मनसा वाचा श्रोत्रघ्राणेन चक्षुषा ॥
२० “ सर्वं दहति निःशेषं प्राणायामैस्त्रिभिः कृतैः ” ॥
'''गौतमः—'''“ अनार्यवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वा
अयोनौ च दोषवति च कर्मणि अभिसन्धिपूर्वेऽपि अब्ल्लिङ्गाभिरप उपस्पृशेत् । वारुणीभिरन्यैर्वा
पवित्रैः । प्रतिषिद्धब्राह्मणसंभाषणे व्याहृतयः पञ्च । सर्वास्वपो वा आचामेदहश्च माऽऽदित्यश्च
पुनात्विति । प्राता रात्रिश्च मा वरुणश्च पुनात्विति सायमग्नौ वा समिध आदध्यात् । देवकृतस्येति हुत्वैवं
२५ सर्वस्मादेनसो मुच्यते मुच्यत” इति । अनार्यवमृजुत्वं मानसं कर्मशाठ्यं वा । पैशुनं परपरिवादः ।
वाचिकं प्रतिषिद्धाचारः । नियमलोपः कायिकं अनाद्यस्यानेकविधस्योपभोगः अनाद्यप्राशनम् ।
एतदादौ दोषवति कर्मणि च ।
'''आपस्तम्बः—'''“ अनाद्यानपेयप्रतिषिद्धभोजनेषु दोषवच्च कर्माभिसन्धिपूर्वं
कृत्वाऽनभिसन्धिपूर्वं वा शूद्रायां च रेतः सिक्त्वा योनौ चाब्ल्लिङ्गाभिर्वारुणीभिश्चोपस्पृश्य प्रयतो
३० भवति । ओंपूर्वाभिर्व्याहृतिभिः सर्वाभिः सर्वपापेष्वाचामेत् । आचमनादेव सर्वस्मात्पापात्
प्रमुच्यते । अग्नौ वा समिध आदध्यात् । देवकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽ-
वयजनमसि स्वाहा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि
स्वाहा । यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनमसि स्वाहा । यत् स्वपन्तश्च जाग्रतश्चैनश्चकृम-
तस्यावयजनमसि स्वाहा । यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनमसि स्वाहा । एनस
{{rule}}
१ गघ-त्वघ्राणचक्षुषा ।<noinclude></noinclude> o4asefn4976iku0pjedju4wwhl5mcnb पृष्ठम्:Smriti mukta phalam.pdf/९८१ 104 166984 420012 2026-11-11T07:51:13Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''तत्र प्रायश्चित्तानि ।'''|९३३}} {{rule}} एनसोऽवयजनमसि स्वाहा । इत्येतैरष्टाभिर्हुत्वा सर्वस्मात् पापात्प्रमुच्यते । ऋतं च सत्यं चेत्यघमर्षणं
त्रिरन्तर्जले प... नवीन पृष्ठं निर्मीत अस्ती 420012 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''तत्र प्रायश्चित्तानि ।'''|९३३}} {{rule}} एनसोऽवयजनमसि स्वाहा । इत्येतैरष्टाभिर्हुत्वा सर्वस्मात् पापात्प्रमुच्यते । ऋतं च सत्यं चेत्यघमर्षणं
त्रिरन्तर्जले पठेत् । सर्वस्मात्पापात् प्रमुच्यते । आयंगौः पृश्निरक्रमीदिति तृचं च त्रिरन्तर्जले पठेत् ।
सर्वस्मात् पापात् प्रमुच्यते । द्रुपदादिवेन्मुमुचान इति एनामृचं त्रिरन्तर्जले पठेत् । सर्वपापात् प्रमुच्यते ।
हंसः शुचिषदित्येतामृचं त्रिरन्तर्जले पठेत् । सर्वपापैः प्रमुच्यते । अपि वा सावित्रीं गायत्रीं पच्छोऽ-
र्धर्चशः समस्तामिति त्रिरन्तर्जले पठेत् । सर्वपापैः प्रमुच्यते । अपि वा व्याहतीर्व्यस्ताः समस्ताश्चेति ५
त्रिरन्तर्जले पठेत् । सर्वस्मात्पापात् प्रमुच्यते । अपि वा प्रणवमेव त्रिरन्तर्जले पठेत् । सर्वस्मात् पापात्
प्रमुच्यते । पवित्रैर्मार्जनं कुर्वन् रुद्रैकादर्शिनीं जपन् । मुच्यते सर्वपापेभ्यो महतःपातकादृते ” ॥ इति ।
'''आपस्तम्बः—'''“ अनार्यवपैशुनप्रतिषिद्धाचारेषु अभक्ष्याभोज्यापेयप्राशने
शूद्रायां च रेतः सिक्त्वायोनौ च दोषवत्कर्माभिसन्धिपूर्वं कृत्वाऽनभिसन्धिपूर्वं वा अब्ल्लिङ्गाभिरप
उपस्पृशेत् वारुणीभिर्वाऽन्यैर्वा पवित्रैर्यथाकर्माभ्यासः ” इति । १०
'''यमः—'''“ विरजाद्विगुणं जप्त्वा तदह्रैव विशुध्यति । पौरुषं सूक्तमादृत्य मुच्यते सर्वकिल्बिषात् ॥
“ ऋषभं शतशो जप्त्वा तदह्रैव विशुध्यति । वेदमेकगुणं जप्त्वा तदह्रैव विशुध्यति ॥
“ रुद्रैकादशकं जप्त्वा तदह्रैव विशुध्यति । जपेद्वाप्यस्य वामीयं पावमानीरथापि वा ॥
“कुन्तापं वालखिल्यांश्च निविदन्नैषं वृषाकपिम् । होतॄन् रुद्रान् पितॄन् जप्त्वा मुच्यते सर्वपातकैः”॥इति।
होतॄन् चित्तिः स्रुगादीन् । पितॄन् परे युवांसमित्यादीन् । '''चतुर्विंशतिमते—''' १५
“ पावमानीस्तथा ब्राह्मं पौरुषं सूक्तमेव च । सपुत्रं माधुच्छन्दसं जप्त्वा पापैः प्रमुच्यते ।
“ मण्डूकं ब्राह्मणं रुद्रं शुक्रियं मोक्षकं तथा । वामदेव्यं बृहत्साम जप्त्वा पापैः प्रमुच्यते ॥
“ यज्ञायज्ञियमादित्यज्येष्ठसाम च राजनम् । पौरुच्छेपं च सामानि जप्त्वा पापैः प्रमुच्यते ॥
“ अथर्वशिरसं चैव पौरुषं सूक्तमेव च । नीलरुद्रांस्तथैवैन्द्रं जप्त्वा पापैः प्रमुच्यते ॥
“ आथर्वणाश्च ये केचित् मन्त्राः कामविवर्जिताः । ते सर्वे पापहन्तारो याज्ञवल्क्यवचो यथा ॥ २०
“ अग्नेर्मन्वेऽनुवाकं तु जपेदेनमनुत्तमम् । सिंहे मे मन्युरित्येतमनुवाकं जपेद् द्विजः ॥
“ जप्त्वा पापैः प्रमुच्येत बोधायनवचो यथा ।
“ ऋग्वेदमभ्यसेद्यस्तु यजुःशाखामथापि वा । सामानि सरहस्यानि अथर्वाङ्गिरसस्तथा ॥
“ यत्किंचित्पातकं कुर्यात् किंचेत्प्रेमाता च तं जपेत् । हंसः शुचिषदित्येतां जपेद्वापि त्रियम्बकम् ॥
“ ब्राह्मणानि च कल्पांश्च षडङ्गानि तथैव च । आख्यानानि तथान्यानि जप्त्वा पापात्प्रमुच्यते ॥ २५
“ इतिहासपुराणानि देवतास्तवनानि च । जप्त्वा पापैः प्रमुच्येत धर्मस्थानैस्तथापरैः ” ॥ इति ।
'''विष्णुः—'''“अथातः सर्वदैवपित्र्याणि भवन्ति । येषां जपैश्च होमैश्च द्विजातयः
पापैश्च पूयन्तेऽघमर्षणं देवकृतं शुद्धवत्यस्तरत्समन्दीधावति कूष्माण्डाः पावमान्यः दुर्गा सावित्री
अतिषङ्गायः पदस्तोभा व्याहृतयो भारुण्डानीन्द्रसामं पुरुषव्रतं दैवतं भासमब्ल्लिङ्गं बार्हस्पत्यं
वाक्सूक्तं गोसूक्तं अश्वसूक्तं मधुवृचः सामानि चेन्द्रशुद्ध शतरुद्रीयमथर्वशिरः त्रिसुपर्णो महाव्रतं ३०
नारायणीयं पुरुषसूक्तम् । “ त्रीण्याज्यस्तोमानि रथंतरं चाग्नेर्व्रतं वामदेव्यं बृहच्च ।
“ तानि जप्त्वा पुनन्ति जन्तून् जातिस्मरत्वं लभते य इच्छेत् ” इति । '''पैठीनसिः—'''
“ सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । पुनस्तपस्वी भवति पङ्क्तिपावनपावनः ” ॥
{{rule}}
१ क्ष -व । २ घ-या । ३ गध-यत्किचेदमृतं ।<noinclude></noinclude> q9dpvrm7v4duykc5n6oyb7y8vea1w57 पृष्ठम्:Smriti mukta phalam.pdf/९८२ 104 166985 420013 2026-11-11T07:52:34Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९३४|'''रहस्यब्रह्महत्यादिपापानाम् ।'''|}} {{rule}} '''वसिष्ठः—'''
“ हित्वा सकलपापानि लब्ध्वा सुकृतसंचयम् । स पूतो जायते धीमान्मुरजिन्नामकीर्तनात् ” इति ।
'''भृगुः—'''“... नवीन पृष्ठं निर्मीत अस्ती 420013 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९३४|'''रहस्यब्रह्महत्यादिपापानाम् ।'''|}} {{rule}} '''वसिष्ठः—'''
“ हित्वा सकलपापानि लब्ध्वा सुकृतसंचयम् । स पूतो जायते धीमान्मुरजिन्नामकीर्तनात् ” इति ।
'''भृगुः—'''“कोटिशो मनुजानां वै भीतिदं समुपस्थितम् । रामरामेति संकीर्त्य तं नाशयति मानवः ॥
“ सर्वेषामेव पापानां प्रायश्चित्तमिदं स्मृतम् । नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ” ॥ इति ।
५ '''योगयाज्ञवल्क्यः—'''
“ न तावत्पापमेधेत यन्नाम्ना न हतं हरेः । अतिरेकभयादाहुः प्रायश्चित्तान्तरं वृथा ” ॥ इति ।
'''ब्रह्मवैवर्ते—'''
“ सर्वपापयुतो वापि कीर्तयन्ननिशं हरिम् । शुद्धान्तःकरणो भूत्वा जायते पङ्क्तिपावनः ” ॥
'''रहस्यब्रह्महत्यादिपापानां प्रतिपदोक्तप्रायश्चित्तम् ।''' अथ प्रतिपदोक्तानि ।
१० '''व्यासः—'''“योऽनूचानं द्विजं मर्त्यो हतवानर्थलोभतः । स जपेत्पौरुषं सूक्तं जलस्थश्चिन्तयन् हरिम् ॥
“ तथैव ब्रह्महत्याया मुच्यते नात्र संशयः ” ॥ इति ।
'''यमः—'''“ ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पेषु प्राणायामैः श्रौताघमर्षणं जपेत् ” ॥ इति ।
'''याज्ञवल्क्यः—'''
“ त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुध्येत गां दत्वा तु पयस्विनीम् ” ॥
१५ '''शङ्खलिखितौ—'''“ त्रिरात्रोपोषितोऽन्तर्जलेऽघमर्षणं त्रिरावर्तयेत् ” ॥ इति । '''चतुर्विंशतिमते—'''
“ त्रिमधुत्रिसुपर्णं च नाचिकेत्तत्रयं तथा । नारायणं जपेत्सर्वं मुच्यते ब्रह्महत्यया ” ॥ इति ।
'''बोधायनः—'''“ ग्रामात् प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्नातः शुचिः शुचि-
वासा उदकान्ते स्थण्डिलमुपलिप्य सकृत्क्लिन्नवासा गोशकृत्पूतेन पाणिनादित्याभिमुखोऽघमर्षणं
स्वाध्यायमधीयीत प्रातःशतं मध्याह्ने शतमपराह्णे शतमपरिमितं चोदितेषु नक्षत्रेषु प्रसुप्तियावकं प्राश्नी-
२० यात् । ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश्चोपपातकेभ्यः सप्तरात्रात् प्रमुच्यते । द्वादशरात्रान्महापातकेभ्यः
ब्रह्महननं गुरुतल्पगमनं स्वर्णस्तेन्यं सुरापानमिति च वर्जयित्वा एकविंशतिरात्रात् तान्यति-
तरति ” ॥ इति । '''बृहद्विष्णुः—'''“ ब्रह्महत्यां कृत्वा प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य प्रभूत-
मेन्धनेनाग्निं प्रज्वाल्याघमर्षणेनाष्टसहस्रमाज्यैर्जुहुयात् । तेनैव तस्मात् पूतो भवति ” ॥ इति ।
'''मनुः—'''
२५ “ कौत्सं जप्त्वाऽपनोत्येतद्वासिष्ठं च तृचं प्रति । माहित्रं शुद्धवत्यृचं च सुरापोऽपि विशुध्यति ॥
“ सकृज्जप्त्वास्य वामीयं शिवसंकल्पमेव च । सुवर्णमपहृत्यापि क्षणात् भवति निर्मलः ॥
“ हविष्मन्तीयमभ्यस्य न तमं ह इतीति च । जप्त्वा च पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥
“ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः । सर्वमप्यपहन्त्येनो जप्त्वा वामेन इत्यृचां ।
“महापातकसंयुक्तोऽनुगच्छेद्वा गाः समाहितः । अभ्यस्याब्दं पावमानीः भैक्षाहारो विशुध्यति ।
३० “ अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ।
“ त्र्यहं तूपवसेद्युक्तः त्र्यहं तूपनयन्नपः । मुच्यते पातकैः सर्वैः त्रिजप्त्वा वाघमर्षणम् ” ॥
'''यमः—'''“सुरापः कण्ठमात्रमुदकमवतीर्य सुतसोमात् प्रसुतिमादाय ओंकारेणाभिमन्त्र्य पिबेत् ।
ततोऽप्सु निमग्नो मानस्तोकीयं जपेत् । ब्राह्मणः स्वर्णस्तेयं कृत्वा हिरण्यशालायां प्रक्षिप्याप्सु
निष्णातो ग्रीवामात्र उदके हिरण्यवर्णाभिश्चतसृभिरात्मानमभ्युक्ष्य त्रीन् प्राणायामान् कृत्वा
३५ तदेतस्मात् पूतो भवति । गुरुतल्पगमनं कृत्वाऽघमर्षणमन्त्रं जले त्रिरावृत्य तदेतस्मात् पूतो भवति”॥
{{rule}}
१ घ-स्तेयं । २ घ-प्रतीत्यृचं । ३ गध-वत्यश्च । ४ घ-ष्या । ५ घ-नम । ६ घ-चम् ।<noinclude></noinclude> 83s27tfbnaxald36c32g8appvhgmi1y पृष्ठम्:Smriti mukta phalam.pdf/९८३ 104 166986 420014 2026-11-11T07:53:40Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''रहस्यसुरापानादि ।'''|९३५}} {{rule}} '''रहस्यसुरापानादिप्रायश्चित्तम् ।''' सुरापानादौ '''याज्ञवल्क्यः—'''
“ त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्घृतं शुचिः । ब्रा... नवीन पृष्ठं निर्मीत अस्ती 420014 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''रहस्यसुरापानादि ।'''|९३५}} {{rule}} '''रहस्यसुरापानादिप्रायश्चित्तम् ।''' सुरापानादौ '''याज्ञवल्क्यः—'''
“ त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्घृतं शुचिः । ब्राह्मणः स्वर्णहारी तु रुद्रजापी जले स्थितः ॥
“ सहस्रशीर्षा जापी तु मुच्यते गुरुतल्पगः । गोर्देया कर्मणोऽस्यान्ते पृथगेव पयस्विनी ” ॥ इति ।
'''शातातपः—'''“ मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा ॥
“ भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः ” ॥ इति । ५
जपश्चैकादशकृत्वः कार्यः । तदाहा'''त्रिः—'''
“ एकादशगुणान्वापि रुद्रान्वावर्त्य धर्मवित् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ” ॥ इति ।
'''बोधायनः—'''
“ अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः । कूष्माण्ड्यः पावमान्यश्च विरजासृत्युलाञ्जलम् ।
“ दुर्मयाहुतयो रुद्रा महापातकनाशनाः ” ॥ इति । '''आश्वलायनः—''' १०
“ कुन्तापं वालखिल्यांश्च जप्त्वा पापैः प्रमुच्यते । ब्रह्महत्यादिपापेभ्यः पावमानात्प्रमुच्यते ” ॥
'''संवर्तः—'''
“ षण्मासं पञ्चमासं वा नियतो नियताशनः । जप्त्वा तु पौरुषं सूक्तं मुच्यते सर्वपातकैः ” ॥ इति ।
'''बोधायनः—'''“ मातृदुहितृस्नुषास्वसृसवर्णाविधवागमनं कृत्वा यः पुरुषसूक्तं त्रिरुच्चारयेत्
तदानीमेव पूतो भवति ” इति । '''कूर्मपुराणे—''' १५
“ जपस्तपस्तीर्थसेवा दानं ब्राह्मणपूजनम् । ग्रहणादिषु कालेषु महापातकशोधनम् ॥
“ उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः ।
“ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
“प्रत्येकं तिलसंयुक्तान् दद्यात् सतोदकाञ्जलीन् । स्नात्वा नद्यां तु पूर्वाह्णे मुच्यते सर्वपातकैः”॥ इति ।
अत्र ज्ञानाज्ञानाभ्यासानभ्यासैर्व्यवस्था द्रष्टव्या । संसर्गी तदीयमेव प्रायश्चित्तं कुर्यात् । २०
‘ स तस्यैव व्रतं कुर्यात् ’ इत्यादिना पूर्वमेवोक्तत्वात् ।
'''उपपातकरहस्यप्रायश्चित्तम् ।''' उपपातकरहस्यप्रायश्चित्तमाह '''याज्ञवल्क्यः—'''
“ प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ” ॥ इति ।
'''स्मृत्यन्तरेऽपि—'''
“ दशप्रणवसंयुक्तैः प्राणायामैश्चतुःशतैः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ” ॥ इति । २५
'''प्राजापत्यकृच्छ्रलक्षणम् ।''' अथ कृच्छ्रलक्षणम् । तत्र प्राजापत्यस्य '''बोधायनः—'''
“ प्राजापत्यो भवेत्कृच्छ्रो दिवा रात्रावयाचितम् । क्रमशो वायुभक्षश्च द्वादशाहं त्र्यहं त्र्यहम् ” ॥
'''आपस्तम्बः—'''“ त्र्यहमन्नश्नाशी अदिवाशी ततस्त्र्यहं त्र्यहमयाचितव्रतस्त्र्यहं
नाश्नाति किं च नेति कृच्छ्रद्वादशरात्रस्य विधिः ” ॥ इति ।
'''मनुः—''' ३०
“ त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं तु नाश्नीयात् प्राजापत्यं चरन्व्रतम्” ॥ इति ।
{{rule}}
१ क्ष-हस्तच्छन्नो । २ गघ-देव ।<noinclude></noinclude> 02fd4hsym2k4qno8t5w2gz7zo22cnej पृष्ठम्:Smriti mukta phalam.pdf/९८४ 104 166987 420015 2026-11-11T07:54:23Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९३६|'''पादकृच्छ्राणां व्यवस्था ।'''|}} {{rule}} अस्यैवाधिकारिभेदेन प्रयोगान्तरमाह '''वसिष्ठः—'''
“ अहःप्रातरहर्नक्तमहरेकमयाचितम् । अहः परं चोपवास एवं चतुरहौ परौ ॥
... नवीन पृष्ठं निर्मीत अस्ती 420015 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९३६|'''पादकृच्छ्राणां व्यवस्था ।'''|}} {{rule}} अस्यैवाधिकारिभेदेन प्रयोगान्तरमाह '''वसिष्ठः—'''
“ अहःप्रातरहर्नक्तमहरेकमयाचितम् । अहः परं चोपवास एवं चतुरहौ परौ ॥
“ अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः । बालवृद्धातुराणां च शिशुक्कृच्छ्रमुवाच ह ” ॥
'''बोधायनः—'''
५ “ अहरेकं तथा नक्तमज्ञास्तं वायुभक्षितम् । त्रिवृदेष परावृत्तो बालानां कृच्छ्र उच्यते ” ॥
'''याज्ञवल्क्यः—'''
“ एकभुक्तेन नक्तेन तथैवायाचितेन वा । उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः ।
“ यथाकथंचित् त्रिगुणः प्राजापत्योऽयमुच्यते ” ॥ इति । एकभुक्तेन दिवा सकृद्भोजनेन नक्तेन
रात्रौ सकृद्भोजनेन अयाचितेन न विद्यते याचितं यस्मिन् भोजने तेनात्र कालविशेषाप्रतीतेः दिवा
१० रात्रौ वा सकृद्भोजनेनायाचितेनोपवासेनानाशनेन पादकृच्छ्रो भवति । अयमेव पादकृच्छ्रः स्वस्या-
वृत्त्या स्वस्थानविवृद्ध्या वा यथाकथंचित् त्रिगुणः त्रिरभ्यस्तः प्राजापत्य इत्युच्यत इत्यर्थः ।
एकभुक्तादिषु ग्राससंख्यां परिमाणं '''चापस्तम्बो''' दर्शितवान्—
“ सायं द्वाविंशतिर्ग्रासाः प्रातः षड्विंशतिः स्मृताः । चतुर्विंशतिरयाचिते परं निरशनं स्मृतम् ॥
“ कुक्कुटाण्डप्रमाणं तु यथावास्यं विशेत्स्वयम् ” ॥ '''चतुर्विंशतिमते—'''
१५ “ प्रातस्तु द्वादशग्रासाः सायं पञ्चदशैव तु । अयाचितेन द्वाविंशौ त्रिदिनं मारुताशनः ” ॥ इति ।
अत्र शक्त्यपेक्षया व्यवस्था द्रष्टव्या ।
'''पादकृच्छ्राणां वर्णभेदेन व्यवस्था ।'''
'''आपस्तम्बः''' चतुरः पादकृच्छ्रानुक्त्वा तेषां वर्णभेदेन व्यवस्थामाह—
“ त्र्यहं निरशनं पादः पादश्चायाचितं त्र्यहम् । सायं त्र्यहं तथा पादः प्रातः पादस्तथा त्र्यहम् ॥
२० “ प्रातः पादं चरेच्छूद्रः सायं वैश्यस्य दापयेत् । अयाचितं तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम् ” ॥
अर्धकृच्छ्रपादोनकृच्छ्रयोः स्वरूपमाह '''स एव—'''
“ सायंपातर्विनार्धं स्यात् पादोनं नक्तवर्जितम् ” ॥ अयमर्थः—अयाचितोपवासयोः
त्र्यहद्वयानुष्ठानेनार्धकृच्छ्रो भवति । नक्तत्रयव्यतिरिक्तत्र्यहत्रयानुष्ठानेन पादोनकृच्छ्रो भवतीति ।
अन्यथा अर्धकृच्छ्र'''स्तेनैवोक्तः—'''
२५ “ सायं प्रातस्तथैवोक्तं दिनद्वयमयाचितम् । दिनद्वयं तु नाश्नीयात् कृच्छ्रार्धं तद्विधीयते ” ॥ इति ।
यत्तु जपहोमादिबाह्माङ्गवविहितं प्राजापत्यकृच्छ्रं '''गौतमेना'''भिहितं—“ हविष्या-
न्प्रातराशान् भुक्त्वा तिस्रो रात्रीर्नाश्नीयात् । अथापरं त्र्यहं नक्तं भुञ्जीताथापरं त्र्यहं न किंचन
याचयेत् । अथापरं त्र्यहमुपवसेत् । तिष्ठेदहनि रात्रावासीत क्षिप्रकामः । सत्यं वदेदनार्यैर्न संभाषेत ।
रौरवयौधाजपे नित्यं प्रयुञ्जीतानुसवनमुदकोपस्पर्शनमापो हि ष्ठेति तिसृभिः पवित्रवतीभिर्मार्जयीत
३० हिरण्यवर्णाः शुचयः पावका इत्यष्टाभिरथोदकतर्पणं नमोऽह्रमाय मोहमाय संह्रमाय विधुन्वते
तापसाय पुनर्वसवे नमो नमो मौञ्ज्यायोज्याँय वसुविन्दाय सार्वविन्दाय नमो नमः पाराय सुपाराय
महापाराय पारयिष्णवे नमो नमो रुद्राय पशुपतये महते दैवताय त्र्यम्बकायैकचरायाधिपतये
हराय शर्वायेशानायोग्राय वज्रिणे घृणिने कपर्दिने नमो नमः सूर्यायादित्याय नमोनमो नीलग्रीवाय
शितिकण्ठाय नमो नमः कृष्णाय पिङ्गलाय नमो नमो ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशा-
३५ योर्ध्वरेतसे नमो नमः सत्याय पावकाय पावकवर्णाय कामाय कामरूपिणे नमो नमो दीप्ताय
{{rule}}
१ घ-ज्ञप्तं । २ घ-भ । ३ घ-कं । ४ घ-धूं । ५ घ-देवाय ।<noinclude></noinclude> 11dxvuig72in3bsuhzhrpewxg5wzo24 पृष्ठम्:Smriti mukta phalam.pdf/९८५ 104 166988 420016 2026-11-11T07:55:29Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''अतिकृच्छ्रादि ।'''|९३७}} {{rule}} दीप्तरूपिणे नमो नमस्तीक्ष्णाय तीक्ष्णरूपिणे नमो नमः सौम्याय सुपुरुषाय महापुरुषाय मध्यम-
पुरुषायोत्तमपुरुषाय ब्रह्मचारिणे न... नवीन पृष्ठं निर्मीत अस्ती 420016 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अतिकृच्छ्रादि ।'''|९३७}} {{rule}} दीप्तरूपिणे नमो नमस्तीक्ष्णाय तीक्ष्णरूपिणे नमो नमः सौम्याय सुपुरुषाय महापुरुषाय मध्यम-
पुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमो नमश्चन्द्रललाटाय कृत्तिवाससे नमः। इत्येतदेवादित्योपस्थान-
मेता एवाज्याहुतयो द्वादशरात्रस्यान्ते चरुं श्रपयित्वैताभ्यो देवताभ्यो जुहुयादग्नये स्वाहा
सोमाय स्वाहाऽग्नीषोमाभ्यामिन्द्राग्निभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्नये स्विष्ट-
कृते स्वाहेत्यन्ते ब्राह्मणभोजनम् ” इति । हविष्यान्नित्याद्युपवसेदित्यन्तेन प्राजापत्यस्वरूपमुक्तम् । ५
तिष्ठेदित्यादिना तस्येतिकर्तव्यतोच्यते । क्षिप्रकामः शीघ्रं शुद्धिकामः । भोजनाद्यविरुद्धकालेषु
अहनि तिष्ठेत् रात्रौ निद्रामप्यासीन एव सेवेत । एवं सत्यं वदेदित्याद्यङ्गकलापे क्षिप्रकाम इत्यधिकारि-
विशेषणमनुषञ्जनीयम् । अनेन यः शनैः शुद्धो भवामीति मन्यते तस्य नायं नियम इति गम्यते ।
रौरवयौधाजये सामनी नमोऽह्रमायेत्यादयस्त्रयोदशमन्त्रास्तर्पणसूर्योपस्थानाज्यहोमेषु द्रष्टव्याः ।
अथवा संप्रदानविभक्त्यन्ताः षट्पञ्चाशन्मन्त्राः । एतन्मन्त्रायुक्तजपहोमाद्यङ्गरहितप्राजापत्यद्वय- १०
स्थाने वेदितव्यमिति माधवीये ।
'''अतिकृच्छ्रलक्षणम् ।''' अतिकृच्छ्रस्य '''मनुः—'''
“ एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्वतः । त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ” ॥ इति ।
एकभुक्तनक्तायाचितदिवसेषु नवस्वेकैकं ग्रासमश्नीयात् । त्र्यहं चोपवसेत्। अयमतिकृच्छ्रो भवतीत्यर्थः।
'''यमः—'''“एकैकं पिण्डमश्नीयात् त्र्यहं काले त्र्यहं निशि । अयाचितं त्र्यहं चैव वायुभक्षः परं त्र्यहम् ॥ १५
“ अतिकृच्छ्रं चरेद्विप्रः पवित्रं पापनाशनम् ” ॥ '''बोधायनः—'''
“ एकैकं ग्रासमश्नीयात् पूर्वोक्तेन त्र्यहं त्र्यहम् । वायुभक्षस्त्र्यहं चान्यदतिकृच्छ्रोऽघनाशनः ” ॥
यत्तु '''याज्ञवल्क्येनोक्तम्—'''“ अयमेवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजने ” इति
अयमेव प्राजापत्यकृच्छ्र एव एकभुक्तनक्तायाचितदिवसेषु नवसु पाणिपूरान्नभोजनयुक्तोऽतिकृच्छ्रो
भवतीत्यर्थः । तथा च '''पराशरः—''' २०
“नवाहमतिकृच्छ्रः स्यात् पाणिपूरान्नभोजनः । त्रिरात्रमुपवासः स्यादतिकृच्छ्रः स उच्यते ”॥ इति
तदेतदशक्तविषयम् । पाणिपूरान्नस्य ग्रासपरिमितान्रादधिकपरिमाणत्वात् ।
'''कृच्छ्रातिकृच्छ्रलक्षणम् ।''' कृच्छ्रातिकृच्छ्रस्य '''बोधायनः—'''
“ अब्भक्षस्त्र्यहमेतान्वायुभक्षस्ततः परम् । एष कृच्छ्रातिकृच्छ्रस्तु विज्ञेयः सोऽतिपावनः ” ॥
एकभुक्तनक्तायाचितदिवसेषु यो भोजनकालः तस्मिन्नेव काले केवलमुदकेनैव वर्तनं त्रिरात्रमुपवासश्च २५
कृच्छ्रातिकृच्छ्र इत्यर्थः । यत्तु एकविंशतिदिनपर्यन्तं क्षीरेणैव वर्तनमुक्तं '''याज्ञवल्क्येन—'''
“ कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ” इति तदशक्तविषयम् ।
'''तप्तकृच्छ्रलक्षणम् ।''' तप्तकृच्छ्रस्य '''मनुः—'''
“ तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ” ॥
'''बोधायनः—''' ३०
“ त्र्यहं त्र्यहं पिबेदुष्णं पयः सर्पिः कुशोदकम् । वायुभक्षस्त्र्यहं चान्यत् तप्तकृच्छ्रः स उच्यते ” ॥
'''सांतपनकृच्छ्रलक्षणम् ।''' सांतपनस्य '''मनुबोधायनौ—'''
“ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रः सांतपनः स्मृतः ” ॥ इति ।
{{rule}} ११८-१५<noinclude></noinclude> 344ylox4wbsbhj4olfikqwf84s40m42 पृष्ठम्:Smriti mukta phalam.pdf/९८६ 104 166989 420017 2026-11-11T07:57:12Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९३८|'''पर्णकृच्छ्रम् ।'''|}} {{rule}} एतस्य द्विरात्रसाध्यत्वमाह '''याज्ञवल्क्यः—'''
“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। जग्ध्वा परेऽह्न्यपवसेत् कृच्छ्रं सा... नवीन पृष्ठं निर्मीत अस्ती 420017 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९३८|'''पर्णकृच्छ्रम् ।'''|}} {{rule}} एतस्य द्विरात्रसाध्यत्वमाह '''याज्ञवल्क्यः—'''
“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। जग्ध्वा परेऽह्न्यपवसेत् कृच्छ्रं सांतपनं चरन्”॥ इति ।
'''महासांतपनलक्षणम् ।''' महासांतपनं त्रिविधं सप्तरात्रं पञ्चदशरात्रमेकविंशतिरात्रं चेति ।
तत्र सप्तरात्रस्य स्वरूपमाह '''याज्ञवल्क्यः—'''
५ “पृथक् सांतपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासांतपनः स्मृतः” ॥ इति ।
'''यमः पञ्चदशाहमाह—'''
“ त्र्यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् । त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पिस्ततः शुचिः ॥
“ महासांतपनं ह्येतत् सर्वपापप्रणाशनम् ” ॥ इति । '''जाबालिस्त्वाह—'''
“ षण्णामेकैकमतेषां त्रिरात्रमुपयोजयेत् । त्र्यहं चोपवसेदन्ते महासांतपनं विदुः ” ॥ इति ।
१० एतत् त्रयं पापतारतम्यविषयं द्रष्टव्यम् । '''पराकलक्षणम् ।''' पराकस्य '''मनुः—'''
“ यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम कृच्छ्रोऽयं सर्वपापप्रणाशनः ” ॥ इति ।
'''पर्णकृच्छ्रलक्षणम् ।''' पर्णकृच्छ्रस्य '''याज्ञवल्क्यः—'''
“ पर्णोडुम्बरराजीवबिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ” ॥ इति ।
पलाशोडुम्बरारविन्दबिल्वपर्णानामेकैकेन क्वथितमुदकं प्रत्यहं पिबेत् । कुशोदकं चैकस्मिन्नहनीति
१५ पञ्चाहसाध्यः पर्णकृच्छ्रः । पर्णकृच्छ्रस्य लक्षणान्तरमाह '''यमः—'''
“ एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वथयित्वा पिबेदद्भिः पर्णकृच्छ्रस्य लक्षणम्”॥ इति ।
पलाशपर्णाद्येकीकृत्याम्भसा क्वथयित्वा त्रिरात्रोपवासान्ते क्वथितं तत्पयः पिबेत् । अयं
पर्णकृच्छ्रो भवतीत्यर्थः ।
'''फलकृच्छ्रादिलक्षणम् ।''' फलकृच्छ्रादीनां स्वरूपमाह '''मार्कण्डेयः—'''
२० “ फलैर्मासेन क्वथितः फलकृच्छ्रो मनीषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा ॥
“ मासेनामलकैरेवं श्रीकृच्छ्रः परमः स्मृतः । पत्रैर्मासः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥
“ मूलकृच्छ्रः स्मृतो मूलैस्तोयकृच्छ्रो जलेन तु ” ॥ इति । यदा बिल्वादिफलान्यम्भसा
क्वथयित्वा मासमेकं तदम्भः पिबति तदा फलकृच्छ्रो भवति । यदा बिल्वपद्माक्षामलकाना-
मन्यतमस्य क्वाथं मासमेकं पिबेत् तदा श्रीकृच्छ्रो भवति । यदा त्वेषां पत्रपुष्पमूलानां क्वाथं पिबेत्
२५ तदा पत्रपुष्पमूलकृच्छ्राणि भवन्ति ।
'''वारुणस्त्रीसौम्यकृच्छ्रलक्षणम् ।''' वारुणस्त्रीकृच्छ्रयोलक्षणमाह '''यमः—'''
“ ब्रह्मचारी जितक्रोधो मासेऽप्युदकसक्तुकान् । पिबेच्च नियताहारः कृच्छ्रं वारुणमुच्यते ॥
“ त्र्यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् । त्र्यहं वै यावकेनैव स्त्रीकृच्छ्रं ह्येतदुच्यते ” ॥ इति ।
सौम्यकृच्छ्रस्य '''याज्ञवल्क्यः—'''
३० “ पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ”॥ इति ।
आचामः ओदननिस्स्रावः । पिण्याकादीनां पञ्चानां एकैकं प्रतिदिनमुपभुज्य षष्ठेऽहन्युपवसेत् ।
स एष सौम्यकृच्छ्रः । यत्तु जाबालेन चतुरहव्यापी सौम्यकृच्छ्र उक्तः—
“पिण्याकं सक्तवस्तक्रं चतुर्थेऽहन्यभोजनम्। वासो वै दक्षिणां दद्यात् सौम्यो वै कृच्छ्र उच्यते”॥ इति
तदेतदशक्तविषयम् ।
{{rule}}<noinclude></noinclude> m2z4m6ifvltq8wry1jr2iunhebpuf86 पृष्ठम्:Smriti mukta phalam.pdf/९८७ 104 166990 420018 2026-11-11T07:58:59Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''यज्ञकृच्छ्रम् ।'''|९३९}} {{rule}} '''तुलापुरुषकृच्छ्रलक्षणम् ।''' अथ तुलापुरुषकृच्छ्रमाह '''जाबालिः—'''
“ पिण्याकं च तथाचामस्तक्रं चोदकसक्तवः । त्रिरात्रमुपवासश्च त... नवीन पृष्ठं निर्मीत अस्ती 420018 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''यज्ञकृच्छ्रम् ।'''|९३९}} {{rule}} '''तुलापुरुषकृच्छ्रलक्षणम् ।''' अथ तुलापुरुषकृच्छ्रमाह '''जाबालिः—'''
“ पिण्याकं च तथाचामस्तक्रं चोदकसक्तवः । त्रिरात्रमुपवासश्च तुलापुरुष उच्यते ” ॥ इति
सोऽयमष्टदिवससाध्यः । '''याज्ञवल्क्यः''' पञ्चदशाहसाध्यमाह—
“ एषां त्रिरात्रमभ्यासात् एकैकस्य यथाक्रमम् । तुलापुरुष इत्येवं ज्ञेयः पञ्चदशाहिकः ” ॥ इति ।
एषां पिण्याकादीनां पञ्चानाम् । '''यमस्तु''' एकविंशतिदिनसाध्यमाह— ५
“ आचामांचितपिण्याकं तक्रं चोदकसक्तुकान् । त्र्यहं त्र्यहं प्रयुञ्जानो वायुभक्षस्त्र्यहद्वयम् ॥
“एकविंशतिरात्रस्तु तुलापुरुष उच्यते”॥ इति। तदेतत् त्रयं पापतारतम्यविषयतया व्यवस्थापनीयम् ।
'''अघमर्षणकृच्छ्रलक्षणम् ।''' अघमर्षणकृच्छ्रस्य '''शङ्खः—'''
“ त्र्यहं त्रिषवणस्नायी मुनिः स्नात्वाऽघमर्षणम् । मनसा त्रिः पठेद्रप्सु न भुञ्जीत दिनत्रयम् ॥
“ अघमर्षणमित्येतद्व्रतं सर्वाघसूदनम् ” ॥ इति । प्रकारान्तरमाह '''विष्णुः—''' १०
“ त्र्यहं नाश्नीयात् त्र्यहं त्रिषवणस्नानमाचरेदप्सु त्रिरघमर्षणं जपेत् । दिवा तिष्ठेद्रात्रावासीत
कर्मणोऽन्ते पयस्विनीं गां दद्यादित्यघमर्षणम् ” इति ।
'''दैवतकृच्छ्रलक्षणम् ।''' दैवतकृच्छ्रमाह '''यमः—'''
“ यवागूं यावकं शाकं क्षीरं दधि घृतं तथा । त्र्यहं त्र्यहं तु प्राश्नीयात् वायुभक्षः परं त्रयम् ॥
“ कृच्छ्रं दैवं तु तन्नाम सर्वकल्मषनाशनम् ” ॥ इति । १५
'''यज्ञकृच्छ्रम् ।''' यज्ञकृच्छ्रस्या'''ङ्गिराः—'''
“ युक्तस्त्रिषवणस्नायी संयतो मौनमास्थितः । प्रातः स्नानं समारभ्य कुर्याज्जप्यं च नित्यशः ॥
“ सावित्रीं व्याहृतीश्चैव जपेदष्टसहस्रकम् । ओंकारमादितः कृत्वा रूपे रूपे तथादितः ॥
“ भूमौ वीरासने युक्तः कुर्याज्जप्यं तु संयतः । आसीनश्च स्थितो वापि पिबेद् गव्यं पयः सकृत् ॥
“ गव्यस्य पयसोऽलाभे गव्यमेव भवेद् दधि । दध्नोऽभावे भवेत्तक्रं तक्रालाभे तु यावकम् ॥ २०
“ एषामन्यतमं यत्तु उपपद्येत तत् पिबेत् । गोमूत्रेण समायुक्तं यावकं चोपयोजयेत् ।
“ सर्वपापहरो दिव्यो नाम्ना यज्ञ इति स्मृतः । एकाहेन तु कृच्छ्रोयमुक्तस्त्वाङ्गिरसा स्वयम् ॥
“ एतत्पातकयुक्तानां तथा चाप्युपपातकैः । महद्भिश्वापि युक्तानां प्रायश्चित्तमिदं शुभम् ” ॥ इति ।
'''यावककृच्छ्रलक्षणम् ।'''
यावककृच्छ्रस्य '''देवलः—'''“यौवकानामप्सु साधितानां सप्तरात्रं पक्षं मासं वा प्राशनं यावकम् । २५
एतेन यावकपायसोदकानि व्याख्यातानि ” । '''शङ्खः—'''
“ गोपुरीषं यवाभ्यासो मासमेकं समाहितः । व्रतं तु यावकं कुर्यात् सर्वपापापनुत्तये ” ॥ इति ।
'''प्रसुतियावककृच्छ्रलक्षणम् ।''' प्रसुतियावककृच्छ्रमाह '''हारीतः—'''“य आत्मकृतैः कर्मभिः
गुरुमात्मानं पश्येत् । आत्मार्थं प्रसुतियावकं श्रपयेत् । ततोऽग्नौ जुहुयात् । तेन देवबलिकर्म ।
श्रुतमभिमन्त्रयेत । ३०
“ यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥
“ घृतं यवा मधु यवा आपोहिष्ठामृतं यवाः । सर्वे पुनन्तु मे पापं यन्मया दुष्कृतं कृतम् ॥
“ वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् । अलक्ष्मीं कालकण्ठीं च सर्वं पुनीतं मे यवाः ” ॥
{{rule}} १ घ-मंत । २ गध-ममथ । ३ घग-यवा । ४ क्ष-षण्डन् । ५ क्ष-न ।<noinclude></noinclude> 6y4nz1upnl6lma0vn5xhfxan6oj52qg पृष्ठम्:Smriti mukta phalam.pdf/९८८ 104 166991 420019 2026-11-11T08:00:11Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९४०|'''वपनादिक्रमः ।'''|}} {{rule}} श्रप्यमाणं रक्षां कुर्यात् । नमो रुद्राय भूतपतये सावित्री मानस्तोकेति पात्रे त्रिः निषिच्य ये देवा
मनोजातो मनायुजः सुदक्षा दक्ष... नवीन पृष्ठं निर्मीत अस्ती 420019 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९४०|'''वपनादिक्रमः ।'''|}} {{rule}} श्रप्यमाणं रक्षां कुर्यात् । नमो रुद्राय भूतपतये सावित्री मानस्तोकेति पात्रे त्रिः निषिच्य ये देवा
मनोजातो मनायुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यो नमः स्वाहेति
आत्मनि जुहुयात् । त्रिरात्रमेवात्रातिपापकृत् षडरात्रं पीत्वा पूतो भवति सप्तरात्रं महापातकी
द्वादशरात्रं पीत्वा सर्वं पुरुषकृतं पापं निर्दहति । निर्वृत्तानां यवानामेकं विंशतिरात्रं पीत्वा गणान्
५ पश्यति गणाधिपं पश्यति श्रियं पश्यति विद्याधिपं पश्यति योऽश्नीयाद्यावकं पक्वं गोमूत्रेष्वसकृत्
दधिक्षीरसर्पिःषु मुच्यते सोहुरुः क्षणात् इत्याह भगवान् मैत्रायणिः ” इति ।
'''चान्द्रायणकृच्छ्रलक्षणम् ।''' अथ चान्द्रायणस्य प्रकार उच्यते । तच्च द्विविधं
पिपीलिकामध्यं यवमध्यं चेति । यथा पिपीलिकायाः शिरःपृष्ठभागौ स्थूलौ मध्यं शून्यं तथा यस्य
चान्द्रायणस्य मध्ये अमावास्यादिने सर्वग्रासह्रासः तस्य मध्यमभागसौक्ष्म्यात् पिपीलिका-
१० मध्यत्वम् । तद्यथा कृष्णप्रतिपदि व्रतं संकल्प्य चतुर्दश ग्रासान् भुञ्जीत । ततो द्वितीयामारभ्य
प्रतिदिनमेकैकग्रासस्य ह्रासे सति अमावास्यायामुपवासः संपद्यते । पुनः शुक्लप्रतिपदि ग्रासमेक-
मुपक्रम्य प्रतिदिनमेकैकग्रासवृद्ध्या पूर्णिमायां पञ्चदशग्रासाः संपद्यन्ते । स एष पिपीलिकामध्य-
चान्द्रायणस्यानुष्ठानप्रकारः । तथा यवं मध्यस्थूलमुभावन्तौ शून्यौ । तथाहि—शुक्लप्रतिपदमारभ्य
प्रतिदिनमेकैकग्रासवृद्ध्या पूर्णिमायां पञ्चदशग्रासाः संपद्यन्ते । कृष्णप्रतिपदमारभ्यैकैकग्रासह्रासे
१५ सति अमावास्यायामुपवासः इति मध्यभागस्थौल्याद्यवमध्यत्वम् ।
तत्र पिपीलिकामध्यमाह '''वसिष्ठः—'''
“ मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश । ग्रासापचयभोजी सन् पक्षशेषं समापयेत् ॥
“ तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् । ग्रासोपचयभोजी सन् पक्षशेषं समापयेत् ” ॥
'''पराशरः—'''
२० “एकैकं ह्रासयेद् ग्रासं कृष्णे शुक्ले तु वर्धयेत् । अमावास्यां न भुञ्जीत ह्येष चान्द्रायणो विधिः”॥इति ।
चान्द्रायणद्वयमाह '''देवलः—'''“चान्द्रायणं द्विविधं यवमध्यं पिपीलिकामध्यं चेति । एकग्रासममा-
वास्यादि यवमध्यं पञ्चदशग्रासं पौर्णमास्यादि पिपीलिकामध्यम् ” इति ।
'''मनुरपि—'''
“ एकैकं ह्रासयेद् ग्रासं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणव्रतम् ॥
२५ “ एवमेव विधिं कृत्स्नमाचरेद्यवमध्यमे । शुक्लपक्षादिनियतश्चरेच्चान्द्रायणव्रतम् ” ॥ इति ।
'''वपनादिक्रमः ।''' वपनादीतिकर्तव्यतामाह '''गौतमः—'''“वपनादिव्रतं चरेत् ।
श्वोभूतां पौर्णमासीमुपवसेदाप्यायस्व सं ते पयांसि नवो नव इति चैताभिस्तर्पणमाज्यहोमो हविषां
चानुमन्त्रणमुपस्थानं चन्द्रमसो यद्देवा देवहेलनमिति चतसृभिराज्यं जुहुयात् । देवकृतस्येति
चान्ते समिद्भिः । ओं भूर्भुवः सुवर्महर्जनस्तपः सत्यं यशः श्रीरुर्गीष्टौजास्तेजः पुरुषो धर्मः शिव
३० इत्येतैर्ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा । नमः स्वाहेति वा सर्वानैतैरेव ग्रासाननुभुञ्जीत । ग्रास-
प्रमाणमास्याविकारेण । चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकादीनि हवींष्युत्तरोत्तरं
प्रशस्तानि । द्वादशैतानि पौर्णमास्यां पञ्चदशग्रासान् भुक्त्वा एकैकापचयेनापरपक्षमश्नीयात् ।
अमावास्यायामुपोष्यैकैकोपचयेन पूर्वपक्षं विपरीतमैकेषामेष चान्द्रायणो मासः ” इति ।
{{rule}}
१ घ-नं । २ क्ष-कैवि ।<noinclude></noinclude> lbsbe1yy9m2jkmqiemohupxw1ekzz31 पृष्ठम्:Smriti mukta phalam.pdf/९८९ 104 166992 420020 2026-11-11T08:01:28Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''व्रतग्रहणप्रकारः ।'''|९४१}} {{rule}} पुनरपि प्रकारान्तरेण त्रिविधं ऋषिचान्द्रायणं शिशुचान्द्रायणं यतिचान्द्रायणं चेति ।
तेषां स्वरूपमाह '''यमः—'''
“त्रींस्त्... नवीन पृष्ठं निर्मीत अस्ती 420020 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''व्रतग्रहणप्रकारः ।'''|९४१}} {{rule}} पुनरपि प्रकारान्तरेण त्रिविधं ऋषिचान्द्रायणं शिशुचान्द्रायणं यतिचान्द्रायणं चेति ।
तेषां स्वरूपमाह '''यमः—'''
“त्रींस्त्रीन् पिण्डान् समश्नीयात् नियतात्मा दृढव्रतः । हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम् ॥
“ चतुरः प्रातरश्नीयात् चतुरः सायमेव च । पिण्डानेतद्धि बालानां शिशुचान्द्रायणं स्मृतम् ॥
“पिण्डानष्टौ समश्नीयात् मासं मध्यंदिने रवौ । यतिचान्द्रायणं ह्येतत् सर्वकल्मषनाशनम् ” ॥ इति । ५
'''विष्णुः''' पञ्चविधमाह— “ अथातश्चान्द्रायणं ग्रासानाविकारमश्नीयात् । तांश्च
कलाभिवृद्धौ क्रमेण वर्धयेत् । ह्रासौ च ह्रासयेत् । अमावास्यायां च नाश्नीयात् । ”
'''दक्षः—'''“चान्द्रायणो यवमध्यः पिपीलिकामध्यो वा यस्यामावास्या मध्या भवति स पिपीलिकामध्यः ।
“ यस्य पौर्णमासी स यवमध्यः । अष्टौ ग्रासान् प्रतिदिनमश्नीयात् स यतिचान्द्रायणः । सायं
“ प्रातश्चतुरश्चतुरः स शिशुचान्द्रायणः । यथाकथंचित् पिण्डानां तिस्रोऽशीतीर्वा समश्नीयात् १०
“ ससामान्यचान्द्रायणः ” इति ।
'''चान्द्रायणे ग्रासपरिमाणम् ।''' चान्द्रायणेऽभिहितस्य पिण्डस्य परिमाणमाह
'''पराशरः—'''
“ कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत् । अन्यथाभावदोषेण न धर्मो न च शुध्यति ” ॥
व्रताचरणानन्तरं कर्तव्यमाह '''स एव—''' १५
“प्रायश्चित्ते ततश्चीर्णे कुर्यात् ब्राह्मणभोजनम् । गोद्वयं वत्ससंयुक्तं दद्याद्विप्राय दक्षिणाम् ” ॥ इति ।
संख्याविशेषानुपादनात् शक्त्यनुसारेण ब्राह्मणभोजनम् ।
'''चान्द्रायणफलनिरूपणम् ।''' चान्द्रायणस्य फलं दर्शयति '''यमः—'''
“यत् किंचित् क्रियते पापं कर्मणा मनसा गिरा । द्विजश्चान्द्रायणं कृत्वा तस्मात्पापात् प्रमुच्यते ॥
“एतानि विधिवत् कृत्वा बहुभिर्मासैर्हविष्यभुक् । व्यपेतकल्मषो विप्रश्चन्द्रस्यैति सलोकताम् ”॥ २०
'''व्रतग्रहणप्रकारः ।''' व्रतग्रहणप्रकारमाह '''विष्णुः—'''
“ सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकम् । ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकीर्षिते ॥
“ दिनान्ते नखरोमादीन् प्रवाप्य स्नानमाचरेत् । भस्मगोमयसृद्वारिपञ्चगव्यादिकल्पितैः ॥
“ मलापकर्षणं कार्य बाह्यशौचोपसिद्धये ” ॥ इति । '''जाबालिः—'''
“आरम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः । आज्येनैव हि शालाग्नौ जुहुयाद्व्याहृतीः पृथक् ॥ २५
“कायाभ्यङ्गं शिरोभ्यङ्गं ताम्बूलमनुलेपनम् । व्रतस्थो वर्जयेत्सर्वं यच्चान्यत् बलरागकृत्” ॥ इति ।
गृही तस्य व्रतस्यासमापने प्रत्यवायमाह '''छागलेयः—'''
“पूर्वं व्रतं गृहीत्वा तु नाचरेत् कामतो हि यः । जीवन् भवति चण्डालो मृतः श्वा चाभिजायते”॥
'''ब्रह्मकूर्चस्वरूपं तत्परिमाणं च ।''' ब्रह्मकूर्चस्य स्वरूपमाह '''पराशरः—'''
“ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पञ्चगव्यं तु पवित्रं पापनाशनम् ॥ ३०
“ गोमूत्रं कृष्णवर्णायाः श्वेतायाश्चैव गोमयम् । पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधि ॥
“ कपिलाया घृतं ग्राह्यं सर्वं कापिलमेव वा । मूत्रमेकपलं दद्यादङ्गुष्ठार्धं तु गोमयम् ॥
{{rule}}
१ घ-दृढव्रतः । २ क्ष-दाहुतिः ।<noinclude></noinclude> 4rhh8xka1ihvnfbrdksb08rcj41squp पृष्ठम्:Smriti mukta phalam.pdf/९९० 104 166993 420021 2026-11-11T08:02:43Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९४२|'''प्राजापत्यादिप्रत्याम्नायः ।'''|}} {{rule}} “ क्षीरं सप्तपलें दधात् दधि त्रिपलमुच्यते । घृतमेकपलं दद्यात् पलमेकं कुशोदकम् ॥
“ गायत्र्यावाद्य गोमूत्रं गन्धद... नवीन पृष्ठं निर्मीत अस्ती 420021 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९४२|'''प्राजापत्यादिप्रत्याम्नायः ।'''|}} {{rule}} “ क्षीरं सप्तपलें दधात् दधि त्रिपलमुच्यते । घृतमेकपलं दद्यात् पलमेकं कुशोदकम् ॥
“ गायत्र्यावाद्य गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं द्विकावावृणस्तथा दधि ॥
“ तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् । पञ्चगव्यमुचा पूतं स्थापयेदग्निसन्निधौ ॥
“ आपो हि ष्ठेत्युचालोध्य मानस्तोकेति मन्त्रयेत् । सप्तावरास्तु ये वर्षा अच्छिन्नाग्राः शुकाल्विषः ॥
५ “ एतैरूद्धृत्य होतव्यं पञ्चगव्यं यथाविधि । इरावती इदं विष्णुर्मानस्तोकेति शर्वेति ॥
“ एताभिश्चैव होतव्यं हुतशेषं पिबेद् द्विजः । आलोध्य प्रणवेनैव निर्मथ्यं प्रणवेन तु ॥
“ उद्धृत्य प्रणवेनैव पिबेच्च प्रणवेन तु । मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् ॥
“ स्वर्णपात्रेण रौप्येण ब्रह्मतीर्थेन वा पुनः । यत्त्वगस्थगतं पापं देहे तिष्ठति देहिनाम् ॥
“ ब्रह्मकूर्चो दहेत्सर्वं प्रदीप्तोऽग्निरिवन्धनम् । पवित्रं त्रिषु लोकेषु देवताभिरधिदितम् ॥
१० “ द्रुणश्चैव गोमूत्रे गोमये हंसवाहनः । दधिन् वायुः समुद्दिष्टः सोमः क्षीरे घृते रविः ” ॥
यथोक्तपरिमाणानि द्रव्याणि पलाशदि पात्रे गायत्र्याभिः संयोज्य स्थापयित्वा आपो हि ष्ठेति
८व्युचेनालोड्य मानस्तोकेत्यभिमन्त्र्य सप्तावरैः हरितवर्णैः दुर्भैर्द्राव्य इरावती इदं विष्णुर्मानस्तोके
ईनो देवीरिति चतस्रिभिरग्ने स्वाहा सोमाय स्वाहा सवित्रे स्वाहा ओं स्वाहा अग्नये स्विष्टकृते
स्वाहा । इति प्राजापत्योर्केर्मैन्त्रैश्च पलाशपत्रेण हुत्वा हुतशेषं हस्तेन काष्टेन वा निर्मन्थ्य
१५ पिबेत् । गोमूत्रादीनां परिमाणान्तरमाह प्रजापतिः—
“ गोमयात् द्विगुणं मूत्रं सर्पिर्द्विधाचतुर्गुणं । क्षीरमष्टगुणं देयं दधि पञ्चगुणं तथा ” इति ।
अत्र गोमयस्य परिमाणविशेषानाभिधानात् वचनान्तरादङ्गुष्ठार्धपरिमितं ग्राह्यम् । पर्वद्वयोपेतमकृछ्र
तत्रोपरितनपर्वणा समानपरिमाणं गोमयं स्वीकृत्य यथोक्तच्छरामभृद्वा गोमूत्रादीनि योजयेत् ।
एतच्च पूर्वोक्तपरिमागेण सह विकल्प्यते । स एव—
२० “ पलाशं पद्मपात्रं वा ताम्रं वाऽथ हिरण्मयम् । गृहीत्वा सादयित्वा तु ततः कर्म समारभेत ॥
“ स्थापयित्वाऽथ दर्भेषु पालाशैः पत्रकैरथ । तत्समुद्धृत्य होतव्यं देवताभ्यो यथाक्रमम् ॥
“ अग्नये चैव सोमाय सवित्रे च तथैव च । प्रणवेन तथा हुत्वा स्विष्टकृत्या तथैव च ” इति ।
ब्रह्मकूर्चस्य कालविशेषमाह स एव—“ चतुर्दश्यामूपोध्याय पौर्णिमास्यां समाचरेत् ” इति ।
जाबालिरपि—
२५ “ अहोरात्रोषितो भूत्वा पौर्णिमास्यां विशेषतः । पञ्चगव्यं पिबेत्प्रातर्ब्रह्मकूर्चमिति स्मृतम् ” ॥
देशविशेषमाह शातातपः—
“ नदीतीरेषु गोष्ठेषु पुण्येष्वायतनेषु वा । तत्र गत्वा शुचौ देशे ब्रह्मकूर्चं समाचरेत् ” ॥ इति ।
प्राजापत्यादिप्रत्याम्नायः । अथ पूर्वोक्तानां व्रतानां केनचिन्निमित्तेनानुष्ठानाशक्तौ यथायोग्यं
प्रत्याम्नाया उच्यन्ते । तत्र प्राजापत्यप्रत्याम्नायास्तुविंशतिमते दर्शिताः—
३० “ कृच्छ्रोऽयुक्तं तु गायत्र्या उद्वासस्तथैव च । धेनुप्रदानं विप्राय सममेतशतुष्टयम् ॥
“ तिलहोमसहस्रं तु वेदपारायणं तथा । विप्रान् द्वादश वा भोज्याः पावलेष्टिस्तथैव च ॥
“ अन्या वा पावमानेष्टिः समान्याहुर्मनीषिभिः ” ॥ तिलहोमसहस्रं गायत्र्या ।
{{rule}}
१ गध-शंक्ती । २ घ-प्रथपेनामिमन्त्रयेत् । ३ घ-रप ।<noinclude></noinclude> iyaay9e1fiwceyeyzho4w3xo1b150s4 पृष्ठम्:Smriti mukta phalam.pdf/९९१ 104 166994 420022 2026-11-11T08:03:33Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९४३|'''महानदीपरिगणनम् ।'''|}} {{rule}} पराशरः ( १२।५६-५७ )—
“ कृच्छ्रे द्वेष्थ्युतं चैव प्राणायामशतद्वयम् । पुण्यतीर्धेनाईशिरः स्नानं द्वादशसंस्थया ॥
“ द्वियोजनं... नवीन पृष्ठं निर्मीत अस्ती 420022 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९४३|'''महानदीपरिगणनम् ।'''|}} {{rule}} पराशरः ( १२।५६-५७ )—
“ कृच्छ्रे द्वेष्थ्युतं चैव प्राणायामशतद्वयम् । पुण्यतीर्धेनाईशिरः स्नानं द्वादशसंस्थया ॥
“ द्वियोजनं तीर्थयात्रामुच्छ्रमेकं प्रकल्पितम् ” इति । अनाई शिरो यस्यासावनार्धशिरः ।
तस्य स्नानमनाईशिरःस्नानम् । सकृत् स्नात्वा तदङ्गानुपानं च कृत्वा केशान् शोषयित्वा
ततो द्वितीयस्नानमाचरेत् । एवंविधस्नानद्वादशकं पुण्यतीर्थे कृतमित्यर्थः । हेमाद्रौ—
“ कृच्छ्रोऽयुतं तु गायत्र्या विप्रद्वादशभोजनम् । तिलहोमसहस्रं वा सममेतच्चतुष्टयम् ” इति ।
द्वादशब्राह्मणभोजनं निर्धनविषयम् । धनिकस्य प्रतिदिनं पञ्चपञ्चेति द्वादशसु दिवसेषु षष्टि-
ब्राह्मणा भोजनीयाः । अत एव स्मृत्यन्तरम्—
“ प्राजापत्यं चरन् विप्रो यथशकः कथंचन । प्रत्यक्षं पञ्च विप्राञ्च्छान् भोजयेत्सम्म्यगीसितान् ” ॥
अन्यत्रापि—
“ षष्टिचतुर्विंशतिर्वा भोज्या द्वादश वा द्विजाः । तावद्धोजनपर्यंतं धान्यं तन्मूल्यमेव वा ॥
“ तत्समृद्धच्चसमृद्धिभ्यां संख्यावैषम्यभाषणम् ” ॥ इति । माधवीये—
“ प्राजापत्यक्रियाशक्तौ धेनुं दद्याद् द्विजोत्तमः । धेनेोरभावे दातव्यं मूल्यं तुल्यं न संशयः ” ॥ इति ।
मूल्यं च यथाशक्ति देयम् ।
“ गवांमभावे निष्कं स्यात् तदर्धं पादमेव वा । पादहीनं न कर्तव्यमिति शातातपोऽब्रवीत् ” इति
स्मरणात् । स्मृत्यन्तरेऽपि—
“ कृच्छ्रोऽयुतं तु गायत्र्या उदवासस्तथैव च । समुद्रगानदीस्नानं सममेतच्चतुष्टयम् ” इति ।
नदीस्नानं मृत्तिकास्नानम् ।
चान्द्रायणादीनां प्रत्याम्नायाः । चान्द्रायणादीनां प्रत्याम्नायाश्चतुर्विंशतिमते दर्शिताः—
“ चान्द्रायणं मृगारिष्टैः पवित्रैष्टिश्चदैव च । मित्रविन्दाकृृतिश्चैव कृच्छ्रं मासत्रयं तथा ॥
“ तिलहोमायुतं चैव पराकद्वयमेव च । गायत्र्या लक्षजप्यं च समान्याह प्रजापतिः ॥
“ नित्यनैमित्तिकानां च काम्यानां चैव कर्मणाम् । इष्टीनां पशून्धानामभावे चरवः स्मृताः ॥
“ पराकतप्तकृच्छ्राणां स्थाने कृच्छ्रत्रयं चरेत् । व्रतहोमादिकन्वापि कल्पयेत् पूर्वकल्पवत् ” इति ।
स्मृत्यन्तरे—
“ चान्द्रायणं त्रयः कृच्छ्रा गायत्र्या अयुतत्रयम् । तथा महानदीस्नानं सममेतच्चतुष्टयम् ” इति ।
'''महानदीपरिगणनम् ।''' महानद्यः परिगणिताः
देवलः—“ अथ गङ्गा सरस्वती यमुना नर्मदा विपाता वितस्ता कौशिकी नन्दा विरजा
चन्द्रभागा सरयूः शरावती सिन्धुः कृष्णवेणी शोणा तापिनी पाषाणा गोमती गण्डकी बाहुदा
पम्पा देविका कावेरी ताम्रपर्णी चर्मण्वती वेत्रवती गोदावरी तुङ्गभद्रा सुच्छुररुणा चेति महानथः
पुण्यतमाः ” इति । चतुर्विंशतिमते—
“ प्राजापत्ये तु गामेकं दद्यात् सांतपने द्वयम् । पराकतप्तकृच्छ्रेषु तिस्रस्तिस्रस्तु गाः स्मृताः ॥
“ अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा । यथावित्तनुसारैन दानं दद्याद्दिशुद्धये ” इति ।
{{rule}}
१ घ-यशु । २ घ-बृहस्पति ।<noinclude></noinclude> 7djev5oqojzh0m5hz5l1vq5gpnp3nqa पृष्ठम्:Smriti mukta phalam.pdf/९९२ 104 166995 420023 2026-11-11T08:04:15Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh|९४४|'''कृच्छ्रफलानि ।'''|}} {{rule}} यतु स्मृत्यन्तरे चान्द्रायणस्य गोदानत्रयमाहितम्
“ प्राजापत्ये तु गामेकामतिकृच्छ्रे द्वयं स्मृतम् । चान्द्रायणे पराके च तिस्र... नवीन पृष्ठं निर्मीत अस्ती 420023 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९४४|'''कृच्छ्रफलानि ।'''|}} {{rule}} यतु स्मृत्यन्तरे चान्द्रायणस्य गोदानत्रयमाहितम्
“ प्राजापत्ये तु गामेकामतिकृच्छ्रे द्वयं स्मृतम् । चान्द्रायणे पराके च तिस्रस्ता दक्षिणास्तथा ” इति ।
तन्निर्धनविषयम् । गोदानाद्यावशक्तौ गोभ्यस्त्रुणं दद्यात् । तदाह कण्वः—
“ एकमध्ययनं कुर्यात् प्राजापत्यमथापि वा । दद्यात् द्वादसहस्रं गवां मुक्तिं विचक्षणः ” इति[cite: 19].
५ चतुर्विंशतिमते—
“ कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुणमहिरहंविंशदेवं तृतीये ।
“ चत्वारिंशच्च तते त्रिगुणमगुणिता विंशति स्यात्पराके ॥
“ कृच्छ्रे संतापनान्ये भवति षडधिका विंशतिः सैव हीना ।
“ द्वाभ्यां चान्द्रायणे स्यात्पसि कृशचलो भोजयेद्विप्रमुख्यान् ” इति । अहरहरिति सर्वत्र
१० संबध्यते । तृतीयः कृच्छ्रातिकृच्छ्रः । अध्ययनजपादीनां पुरुषविशेषेण व्यवस्था तत्रैव दर्शिता—
“ धर्मनिष्ठास्तपोनिष्ठाः कदाचित्पापमागताः । जपहोग्रादिकं तेभ्यो विशेषेणोभिधीयते ॥
“ नामधारकविप्रा ये मूर्खा धर्मविवर्जिताः । कृच्छ्रच्छान्द्रायणादीनि तेभ्यो दद्याद्विशेषतः ॥
“ धनिना दक्षिणा देया प्रयत्नविहिता तु या । एवं नरविशेषेण प्रायश्चित्तानि पातयेत् ” इति[cite: 19].
यत्र यावत्संख्यया प्राजापत्यान्यावर्तनीयानि भवन्ति तत्र तावत्संख्यया गोदानादीन्यावर्तनीयानि ।
तदपि चतुर्विंशतिमते दर्शितम्—
१५ “ जन्मप्रभृति पापानि बहूनि विविधानि च । अर्वाक्तु भ्रूणहत्यायाः षडब्धं कृच्छ्रमाचरेत् ॥
“ प्रत्याम्नाये गवां देयं साशीति धनिना शतम् । तथाष्टादशलक्षानि गायत्र्या वा जपेद्बुधः ” इति[cite: 19].

इति श्रीवाधूलवंशमुक्ताफलवैद्यनाथदीक्षितविरचिते स्मृतिमुक्ताफले
प्रायश्चित्तनिरूपणं नाम षष्ठः परिच्छेदः ॥
{{rule}}
१ घ-शीर्वे । २ घ-णपि । ३ घ-द्वाप । ४ घ-ऋश्वावाक् ।<noinclude></noinclude> noklpnajkb8qwqh3deqhb38dgenazsp पृष्ठम्:Smriti mukta phalam.pdf/९९३ 104 166996 420024 2026-11-11T08:04:59Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''स्मृतिमुक्ताफलपुस्तकोद्धृतऋषिवचनानाम्'''|}} {{rule}} '''अकारादिवर्णतः सूचिः ।'''
{{rule}} ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम्
अखण्डादर्शः | - | यो देवः सविता | ३२७... नवीन पृष्ठं निर्मीत अस्ती 420024 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''स्मृतिमुक्ताफलपुस्तकोद्धृतऋषिवचनानाम्'''|}} {{rule}} '''अकारादिवर्णतः सूचिः ।'''
{{rule}} ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम्
अखण्डादर्शः | - | यो देवः सविता | ३२७ | उपस्थानं व्रतादेशः | ८७०
अश्मोदकपिण्ड | ६१९ | राजकार्ये नियुतानां | ६०३ | एकमातृप्रसूतानां | १४५
अनुत्केशो यः | ५८० | श्रीरामजन्मी | ८३६ | एकादशगुणान् | ३४९
अप्रायत्यं निहन्त्येष | २४६ | '''अग्निः''' | - | कामतो मरणम् | ४८९
अढशन्ते वाध | ४८१ | एकचित्त्यां समारूढ | ६९६ | कृत्वा मूत्रपुरीषं वा | २१३, २६७
अएमरी चतुर्दशाः | ६१३ | '''अग्निवेश्यः''' | - | कृत्वा यज्ञोपवीतं तु | २१२
असपिण्डो यदि | ५९९ | '''बोधायनामापस्तम्ब्यं''' | ९ | गृहे यस्य सुतः | ५२५
उच्छिष्टेन तु संयुक्ता | २७८ | '''अग्निवैश्व्यायनिः''' | - | चण्डालापतितादीनां | ४३२
एकस्मिन्मासे | ७८५ | त्रिपुण्ड्रं ब्राह्मणी | २१३ | चित्रकर्म यथा | ७६
कूटस्थमन्तराले | १२६ | '''अग्निस्मृतिः''' | - | जनने मरणे चैव | ४८१
जननमरणयोः | ५३३ | अयादेकोदकानां | ४१८ | जाबालिनाञ्चिके तश्च | ८
ज्ञातीनां स्नानमेव | ५१० | पुंजन्मनि सपिण्डानां | ४१८ | तिस्रः कोट्यर्थ्र्ध | १६१
ततो गृहं समागम्य | ६०० | स्त्रीषु त्रिपुरुषं | ४१८ | त्रयोदश्यां कृष्णपक्षे | ७४८
श्रिनितीय मातृतः | १२८ | '''अङ्गिराः''' | - | दम्पत्योः सह | ६३८
दम्पती शिशुना | ५९० | अतिक्रान्ते दशाहे | ५२० | दासी दासश्च सर्वे | ४८६
दायप्राहैः स्वरुथ्या | २३ | अनभ्रिमत उत्क्रान्ते | ५३१ | दाहकस्तु दशाहान्तः | ५३३
दाहं विनालंकरणं | ५४४ | अनिर्दशाहे जनने | ५०४ | दाहकसत्वा दशाहात्तु | ६३५
न तिथिर्न च | ६०५ | अनुजातस्य तावत् | ५०७ | दाहदित्सा तथा | ५१४
पित्रोः सपिण्डीकरणं | ६८४ | अन्नसत्रभृत्थतानां | ४८० | द्वादशाहे त्रिपक्षे | ६६५
मुक्तवा तु सुप्तमासिनः | ४५५ | अयुजो भोजयेत् | ७७७ | द्विविधं गर्हितं | ४३३
रजस्वलाया भोजनं | २७९ | अविशेषेण वर्णानां | ५१९ | धर्मस्य संपदश्चैव | ८६९
वामतः प्राङ्मुखस् | ३३० | आतूराणां विशेषो | ३७५ | न जातिकुत्सुनानि | ७८९
सायमासीनः | ३२३ | आ द्वादशाहात् | २७७ | नारायणबलिः कार्यो | ४९०
शूर्पवायुर्नसा | २५६ | आममेदाद्द्दीत | १६ | नाशौचं सुतकें | ५०२
सोदकवाससो | ५९६ | आम्रपुंनागबिल्वानां | २४१ | नाशौयुक्ताद्दिने | ६०६
– १२९,४९९,५०१,५०६,५११ | - | आतानां मार्गमाणानां | ८७० | पातके तु शतं | ८७०
'''अगस्त्यः''' | - | आशौचं यस्य | ५४० | पिण्डं काकादिपक्षेभ्यो | ६०३
अधाचान्तेषु | ८१३ | उत्स्थाय पश्चिमे याme | २१९ | पुराणश्रवणात् | २०४
एकादशेऽह्नि | ६४७ | उत्पन्ने संकटे | १७४ | प्रच्छन्नानि | ३२९
चैत्रशुद्धा तु | ८३६ | उद्ग्यस्य पुत्री | १४५ | प्रथमा प्रसूतिर्जेधा | २१८
नित्यमेव तु | ८३६ | - | - | प्रमाणानि प्रमाणेः | २
{{rule}}<noinclude></noinclude> mv8ia2ctbt4gehp95b35hfhcz1r4pgd 420025 420024 2026-11-11T08:06:00Z Myauthworks 10864 420025 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''स्मृतिमुक्ताफलपुस्तकोद्धृतऋषिवचनानाम्'''|}} {{rule}} '''अकारादिवर्णतः सूचिः ।'''
{{rule}} ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम्
अखण्डादर्शः | - | यो देवः सविता | ३२७ | उपस्थानं व्रतादेशः | ८७०
अश्मोदकपिण्ड | ६१९ | राजकार्ये नियुतानां | ६०३ | एकमातृप्रसूतानां | १४५
अनुत्केशो यः | ५८० | श्रीरामजन्मी | ८३६ | एकादशगुणान् | ३४९
अप्रायत्यं निहन्त्येष | २४६ | '''अग्निः''' | - | कामतो मरणम् | ४८९
अढशन्ते वाध | ४८१ | एकचित्त्यां समारूढ | ६९६ | कृत्वा मूत्रपुरीषं वा | २१३, २६७
अएमरी चतुर्दशाः | ६१३ | '''अग्निवेश्यः''' | - | कृत्वा यज्ञोपवीतं तु | २१२
असपिण्डो यदि | ५९९ | '''बोधायनामापस्तम्ब्यं''' | ९ | गृहे यस्य सुतः | ५२५
उच्छिष्टेन तु संयुक्ता | २७८ | '''अग्निवैश्व्यायनिः''' | - | चण्डालापतितादीनां | ४३२
एकस्मिन्मासे | ७८५ | त्रिपुण्ड्रं ब्राह्मणी | २१३ | चित्रकर्म यथा | ७६
कूटस्थमन्तराले | १२६ | '''अग्निस्मृतिः''' | - | जनने मरणे चैव | ४८१
जननमरणयोः | ५३३ | अयादेकोदकानां | ४१८ | जाबालिनाञ्चिके तश्च | ८
ज्ञातीनां स्नानमेव | ५१० | पुंजन्मनि सपिण्डानां | ४१८ | तिस्रः कोट्यर्थ्र्ध | १६१
ततो गृहं समागम्य | ६०० | स्त्रीषु त्रिपुरुषं | ४१८ | त्रयोदश्यां कृष्णपक्षे | ७४८
श्रिनितीय मातृतः | १२८ | '''अङ्गिराः''' | - | दम्पत्योः सह | ६३८
दम्पती शिशुना | ५९० | अतिक्रान्ते दशाहे | ५२० | दासी दासश्च सर्वे | ४८६
दायप्राहैः स्वरुथ्या | २३ | अनभ्रिमत उत्क्रान्ते | ५३१ | दाहकस्तु दशाहान्तः | ५३३
दाहं विनालंकरणं | ५४४ | अनिर्दशाहे जनने | ५०४ | दाहकसत्वा दशाहात्तु | ६३५
न तिथिर्न च | ६०५ | अनुजातस्य तावत् | ५०७ | दाहदित्सा तथा | ५१४
पित्रोः सपिण्डीकरणं | ६८४ | अन्नसत्रभृत्थतानां | ४८० | द्वादशाहे त्रिपक्षे | ६६५
मुक्तवा तु सुप्तमासिनः | ४५५ | अयुजो भोजयेत् | ७७७ | द्विविधं गर्हितं | ४३३
रजस्वलाया भोजनं | २७९ | अविशेषेण वर्णानां | ५१९ | धर्मस्य संपदश्चैव | ८६९
वामतः प्राङ्मुखस् | ३३० | आतूराणां विशेषो | ३७५ | न जातिकुत्सुनानि | ७८९
सायमासीनः | ३२३ | आ द्वादशाहात् | २७७ | नारायणबलिः कार्यो | ४९०
शूर्पवायुर्नसा | २५६ | आममेदाद्द्दीत | १६ | नाशौचं सुतकें | ५०२
सोदकवाससो | ५९६ | आम्रपुंनागबिल्वानां | २४१ | नाशौयुक्ताद्दिने | ६०६
– १२९,४९९,५०१,५०६,५११ | - | आतानां मार्गमाणानां | ८७० | पातके तु शतं | ८७०
'''अगस्त्यः''' | - | आशौचं यस्य | ५४० | पिण्डं काकादिपक्षेभ्यो | ६०३
अधाचान्तेषु | ८१३ | उत्स्थाय पश्चिमे याme | २१९ | पुराणश्रवणात् | २०४
एकादशेऽह्नि | ६४७ | उत्पन्ने संकटे | १७४ | प्रच्छन्नानि | ३२९
चैत्रशुद्धा तु | ८३६ | उद्ग्यस्य पुत्री | १४५ | प्रथमा प्रसूतिर्जेधा | २१८
नित्यमेव तु | ८३६ | - | - | प्रमाणानि प्रमाणेः | २
{{rule}} ```[cite: 19]<noinclude></noinclude> 494j6oduddptlus29e075g446pd9hnm 420026 420025 2026-11-11T08:07:44Z Myauthworks 10864 420026 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''अकारादिवर्णतः सूचिः ।'''|}} {{rule}} ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम्[cite: 19] अखण्डादर्शः | - | यो देवः सविता | ३२७ | उपस्थानं व्रतादेशः | ८७०[cite: 19] अश्मोदकपिण्ड | ६१९ | राजकार्ये नियुतानां | ६०३ | एकमातृप्रसूतानां | १४५[cite: 19] अनुत्केशो यः | ५८० | श्रीरामजन्मी | ८३६ | एकादशगुणान् | ३४९[cite: 19] अप्रायत्यं निहन्त्येष | २४६ | '''अग्निः''' | - | कामतो मरणम् | ४८९[cite: 19] अढशन्ते वाध | ४८१ | एकचित्त्यां समारूढ | ६९६ | कृत्वा मूत्रपुरीषं वा | २१३, २६७[cite: 19] अएमरी चतुर्दशाः | ६१३ | '''अग्निवेश्यः''' | - | कृत्वा यज्ञोपवीतं तु | २१२[cite: 19] असपिण्डो यदि | ५९९ | '''बोधायनामापस्तम्ब्यं''' | ९ | गृहे यस्य सुतः | ५२५[cite: 19] उच्छिष्टेन तु संयुक्ता | २७८ | '''अग्निवैश्व्यायनिः''' | - | चण्डालापतितादीनां | ४३२[cite: 19] एकस्मिन्मासे | ७८५ | त्रिपुण्ड्रं ब्राह्मणी | २१३ | चित्रकर्म यथा | ७६[cite: 19] कूटस्थमन्तराले | १२६ | '''अग्निस्मृतिः''' | - | जनने मरणे चैव | ४८१[cite: 19] जननमरणयोः | ५३३ | अयादेकोदकानां | ४१८ | जाबालिनाञ्चिके तश्च | ८[cite: 19] ज्ञातीनां स्नानमेव | ५१० | पुंजन्मनि सपिण्डानां | ४१८ | तिस्रः कोट्यर्थ्र्ध | १६१[cite: 19] ततो गृहं समागम्य | ६०० | स्त्रीषु त्रिपुरुषं | ४१८ | त्रयोदश्यां कृष्णपक्षे | ७४८[cite: 19] श्रिनितीय मातृतः | १२८ | '''अङ्गिराः''' | - | दम्पत्योः सह | ६३८[cite: 19] दम्पती शिशुना | ५९० | अतिक्रान्ते दशाहे | ५२० | दासी दासश्च सर्वे | ४८६[cite: 19] दायप्राहैः स्वरुथ्या | २३ | अनभ्रिमत उत्क्रान्ते | ५३१ | दाहकस्तु दशाहान्तः | ५३३[cite: 19] दाहं विनालंकरणं | ५४४ | अनिर्दशाहे जनने | ५०४ | दाहकसत्वा दशाहात्तु | ६३५[cite: 19] न तिथिर्न च | ६०५ | अनुजातस्य तावत् | ५०७ | दाहदित्सा तथा | ५१४[cite: 19] पित्रोः सपिण्डीकरणं | ६८४ | अन्नसत्रभृत्थतानां | ४८० | द्वादशाहे त्रिपक्षे | ६६५[cite: 19] मुक्तवा तु सुप्तमासिनः | ४५५ | अयुजो भोजयेत् | ७७७ | द्विविधं गर्हितं | ४३३[cite: 19] रजस्वलाया भोजनं | २७९ | अविशेषेण वर्णानां | ५१९ | धर्मस्य संपदश्चैव | ८६९[cite: 19] वामतः प्राङ्मुखस् | ३३० | आतूराणां विशेषो | ३७५ | न जातिकुत्सुनानि | ७८९[cite: 19] सायमासीनः | ३२३ | आ द्वादशाहात् | २७७ | नारायणबलिः कार्यो | ४९०[cite: 19] शूर्पवायुर्नसा | २५६ | आममेदाद्द्दीत | १६ | नाशौचं सुतकें | ५०२[cite: 19] सोदकवाससो | ५९६ | आम्रपुंनागबिल्वानां | २४१ | नाशौयुक्ताद्दिने | ६०६[cite: 19] – १२९,४९९,५०१,५०६,५११ | - | आतानां मार्गमाणानां | ८७० | पातके तु शतं | ८७०[cite: 19] '''अगस्त्यः''' | - | आशौचं यस्य | ५४० | पिण्डं काकादिपक्षेभ्यो | ६०३[cite: 19] अधाचान्तेषु | ८१३ | उत्स्थाय पश्चिमे याme | २१९ | पुराणश्रवणात् | २०४[cite: 19] एकादशेऽह्नि | ६४७ | उत्पन्ने संकटे | १७४ | प्रच्छन्नानि | ३२९[cite: 19] चैत्रशुद्धा तु | ८३६ | उद्ग्यस्य पुत्री | १४५ | प्रथमा प्रसूतिर्जेधा | २१८[cite: 19] नित्यमेव तु | ८३६ | - | - | प्रमाणानि प्रमाणेः | २[cite: 19] {{rule}}<noinclude></noinclude> lp40h25bd2kyb320k5wsx4krgzizfp3 420027 420026 2026-11-11T08:09:43Z Myauthworks 10864 420027 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''स्मृतिमुक्ताफलपुस्तकोद्धृतऋषिवचनानाम्'''|}} {{rule}} '''अकारादिवर्णतः सूचिः ।''' {{rule}} ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् अखण्डादर्शः | - | यो देवः सविता | ३२७ | उपस्थानं व्रतादेशः | ८७० अश्मोदकपिण्ड | ६१९ | राजकार्ये नियुतानां | ६०३ | एकमातृप्रसूतानां | १४५ अनुत्केशो यः | ५८० | श्रीरामजन्मी | ८३६ | एकादशगुणान् | ३४९ अप्रायत्यं निहन्त्येष | २४६ | '''अग्निः''' | - | कामतो मरणम् | ४८९ अढशन्ते वाध | ४८१ | एकचित्त्यां समारूढ | ६९६ | कृत्वा मूत्रपुरीषं वा | २१३, २६७ अएमरी चतुर्दशाः | ६१३ | '''अग्निवेश्यः''' | - | कृत्वा यज्ञोपवीतं तु | २१२ असपिण्डो यदि | ५९९ | '''बोधायनामापस्तम्ब्यं''' | ९ | गृहे यस्य सुतः | ५२५ उच्छिष्टेन तु संयुक्ता | २७८ | '''अग्निवैश्व्यायनिः''' | - | चण्डालापतितादीनां | ४३२ एकस्मिन्मासे | ७८५ | त्रिपुण्ड्रं ब्राह्मणी | २१३ | चित्रकर्म यथा | ७६ कूटस्थमन्तराले | १२६ | '''अग्निस्मृतिः''' | - | जनने मरणे चैव | ४८१ जननमरणयोः | ५३३ | अयादेकोदकानां | ४१८ | जाबालिनाञ्चिके तश्च | ८ ज्ञातीनां स्नानमेव | ५१० | पुंजन्मनि सपिण्डानां | ४१८ | तिस्रः कोट्यर्थ्र्ध | १६१ ततो गृहं समागम्य | ६०० | स्त्रीषु त्रिपुरुषं | ४१८ | त्रयोदश्यां कृष्णपक्षे | ७४८ श्रिनितीय मातृतः | १२८ | '''अङ्गिराः''' | - | दम्पत्योः सह | ६३८ दम्पती शिशुना | ५९० | अतिक्रान्ते दशाहे | ५२० | दासी दासश्च सर्वे | ४८६ दायप्राहैः स्वरुथ्या | २३ | अनभ्रिमत उत्क्रान्ते | ५३१ | दाहकस्तु दशाहान्तः | ५३३ दाहं विनालंकरणं | ५४४ | अनिर्दशाहे जनने | ५०४ | दाहकसत्वा दशाहात्तु | ६३५ न तिथिर्न च | ६०५ | अनुजातस्य तावत् | ५०७ | दाहदित्सा तथा | ५१४ पित्रोः सपिण्डीकरणं | ६८४ | अन्नसत्रभृत्थतानां | ४८० | द्वादशाहे त्रिपक्षे | ६६५ मुक्तवा तु सुप्तमासिनः | ४५५ | अयुजो भोजयेत् | ७७७ | द्विविधं गर्हितं | ४३३ रजस्वलाया भोजनं | २७९ | अविशेषेण वर्णानां | ५१९ | धर्मस्य संपदश्चैव | ८६९ वामतः प्राङ्मुखस् | ३३० | आतूराणां विशेषो | ३७५ | न जातिकुत्सुनानि | ७८९ सायमासीनः | ३२३ | आ द्वादशाहात् | २७७ | नारायणबलिः कार्यो | ४९० शूर्पवायुर्नसा | २५६ | आममेदाद्द्दीत | १६ | नाशौचं सुतकें | ५०२ सोदकवाससो | ५९६ | आम्रपुंनागबिल्वानां | २४१ | नाशौयुक्ताद्दिने | ६०६ – १२९,४९९,५०१,५०६,५११ | - | आतानां मार्गमाणानां | ८७० | पातके तु शतं | ८७० '''अगस्त्यः''' | - | आशौचं यस्य | ५४० | पिण्डं काकादिपक्षेभ्यो | ६०३ अधाचान्तेषु | ८१३ | उत्स्थाय पश्चिमे याme | २१९ | पुराणश्रवणात् | २०४ एकादशेऽह्नि | ६४७ | उत्पन्ने संकटे | १७४ | प्रच्छन्नानि | ३२९ चैत्रशुद्धा तु | ८३६ | उद्ग्यस्य पुत्री | १४५ | प्रथमा प्रसूतिर्जेधा | २१८ नित्यमेव तु | ८३६ | - | - | प्रमाणानि प्रमाणेः | २ {{rule}} १६<noinclude></noinclude> kywf3oe85t4djp21lp3cdyq6p7gvhh3 420029 420027 2026-11-11T08:15:27Z Myauthworks 10864 420029 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सूचीः'''|९४६}} {{rule}} {| class="wikitable" style="font-size:90%; text-align:left;" |- ! ऋषिः !! पृष्ठम् !! ऋषिः !! पृष्ठम् !! ऋषिः !! पृष्ठम् |- | '''अंगिराः''' || || || || || |- | प्राक् स्नानात् || ४९९ || संन्यासं चैव || २०७, १९९ || उभाभ्यामेव हस्ताभ्याम् || २३० |- | प्राते वेदानुवचने || ११३ || संपूर्णा दशमी || ८३७ || ऊर्ध्वपुण्ड्रे विहीने || २१३ |- | प्रायो नाम तपः || ८५१ || सतिलं दर्भैषवावेतत् || ५१५ || एकादशगुणान् || ३४९, ९३५ |- | प्रथमेऽह्नि तृतीये || ६०५ || सत्यशौचे तु || ४८१ || एकोद्दिष्टे सपिण्डे || ७९१ |- | यद्भिः पिण्डप्रदानं || ६०१ || सर्वे वर्णाः सूतके || २७२, ४८५ || कोपीनयुगलं || १८५ |- | यज्ञचरी ध्रुवा || २७, १०४ || सर्वेषामेव वर्णानि || ४९५ || क्षमं पार्श्वं च || २०३ |- | यज्ञवर्षे कामस्य || ८७ || सर्वो वर्णः सूतके || ७१७ || क्षीरं लवणसंयुक्तं || ४२७ |- | ब्राह्मणी तु शुना || १०५ || साम्वाचारा न तावत् || २७७ || गोत्रसंबन्ध || ८०५ |- | मुनिप्रदानं || ८७२ || सावीनामेव || १६२ || घृतं वा यदि वा || ४३० |- | मातामहमातुल्— || ५२६ || सायं संगोपनाथे || ८७६ || चतुरोऽथं दसेत् || २०५ |- | मौञ्जीनिबन्धनम् || १४७ || सायमायन्तयो || ८३८ || जन्मम्मे जन्मदिवसे || १४७ |- | यज्ञोपवीतं कर्णै च || २१२ || सूतके सुतकं चेत् || ५३० || ते तं तथेत्य् || ७७८ |- | यत्तु क्षेत्रगतं || ४८० || सूतके सूतिकावर्जे || ४९९ || तोयं पाणि || ८६५ |- | यत्तु राशीकृतं || ५६ || सूत्रान्तरेण यत् || ५७८ || दत्ते वाऽड्यव्यवस्था || ८०६ |- | यत्पूर्वं मनुना || ६ || स्नानं रजस्वलायास्तु || २७६ || दिशा स्पर्शं न || १५४ |- | यदा मनसि || १७३ || स्वपात्रे यत् || ४४६ || देवमार्गे ततो || १७७ |- | यदि कश्चिन्महादेन || ४८० || स्वसूत्रे शिष्यमाने || ५७८ || न तावन्मुच्यते || १७६ |- | यद्यव्यरुतचूडो || ५०५ || स्वाभिमयफतं || ३६४ || न मुन्मयानि || ७८९ |- | यस्तु छायां श्वपाकस्य || २६६ || — || ५०५, ५५४ || न व्रतेनोपवासेन || १५८ |- | यस्य संवत्सरान् || ६५२ || '''अङ्गिरा स्मृतिः''' || ८६८ || नोपतिष्ठन्ति ये || ३१४ |- | या स्त्री ब्राह्मणजातीया || १६२ || '''आत्रिः—''' || || पार्वणं च यथा || १७७ |- | युक्तक्षिपवन || ९९ || अङ्गुलीमूलदेशे तु || २३० || पिता पितामहो || ७६९ |- | यो दद्यात्काञ्चनं || ३६६ || अङ्गुल्या दन्तकाष्ठं च || २४१ || पिता भ्राता स्वसा || २०६ |- | यः कश्चिन्निर्देरित् || ५४६ || अगोधूमं च || ८८१ || पुत्रो धाताथ || ३९९ |- | रजश्चतुर्ध्वे क्षेत्रं || २७७ || अनित्यं वै || २०२ || प्रथमेष्टि निवास || ७७८ |- | लौकिके वैदिकी || ३१६ || अपररूपं ततः || ७१९ || प्राणाहुतो घृताभावे || ४२७ |- | वयोधिका नोपयच्छेत् || ३२५ || अपः पाणिनाग्नेभ्यः || २२३ || प्रेतार्थं सूतकान्ते || ६४८ |- | विमे न्यूने || ५०५ || अविक्रोष्ट्रोश्च || ४३८ || भिन्नमातृषुः || ५२८ |- | विरक्तः संन्यसेत् || १७३ || अविक्रोष्ट्राश्च || ८८२ || भूम्या पादौ प्रतिष्ठाप्य || ४१८ |- | शयनासनयानानि || ४६१ || अशुद्धः स्वयमध्यन्ने || ४२६ || मधुपर्के च सोमे || २३९ |- | शवस्पर्शमथोदक्याम् || २६५ || असति प्रतिबन्धे || २०६ || मातामहपितृणां || ५८९ |- | शालाग्नौ तु पचेत् || ३१६ || अस्मानाशरी मलं भुङ्क्ते || २४५ || मासमोकेषु || ७३४ |- | शुद्धा भर्तुश्चतुर्थेऽह्नि || २७७ || अहिंसा सत्यम् || १९० || मासमोकेषु कार्येषु || ६१२ |- | शूद्रस्य प्रेतस्य || ५४२ || आकेशाप्रात् || ३२४ || मुसे पर्युदिते || २४० |- | षष्टि कुलान्यतीतानि || १७५ || आचार्योऽप्य्युभिः || ५१३ || मौनव्रतं महाफलं || ४२३ |- | षष्ठे तथा द्वादशे || ८७ || आच्छंपा यदि || २०९ || यदि कर्ता मतरथः || ५१२ |- | संन्यसेद् ब्रह्मण || १७२ || आश्येन न निषेत् || २२९ || रजस्वलायां स्नातायां || २७७ |- | || || उभाभ्यामेव पाणिभ्यां || २३० || वपनानन्तरं || २०५ |} {{rule}}<noinclude></noinclude> 9irowdwu2b9t4kuyad3lil7puwu600a 420032 420029 2026-11-11T08:27:56Z Myauthworks 10864 "" इत्यनेन सह आधेस्य विनिमयः कृतः । 420032 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude><noinclude></noinclude> erkpdhskd9iyweeojbmnrjx5t0yc8i4 420033 420032 2026-11-11T08:29:16Z Myauthworks 10864 420033 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|| '''स्मृतिमुक्ताफलपुस्तकोद्धृतर्षिवचनानाम्''' |}} {{rh|| '''अकारादिवर्णतः सूचिः ।''' |}} {{rule}} ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम्
'''अखण्डाद्दर्शः—''' | - | यो देवः सविता | ३२७ | उपस्थानं व्रतादेशः | ८७०
अम्बोदकपिण्ड | ६११ | राजकार्यनिर्णयानां | ६०३ | एकमूलमसूतानां | १७५
अनुवकेशो यः | ५८७ | श्रीरामनवमी | ८३६ | एकादशगुणान् | ३४९
अभाययं निश्चयेव | २४६ | '''अग्नि:''' | | कामतो नरणं | ४७९
अष्टाङ्गते वाथ | ४८६ | एकचित्यां समाकृष्य | ६५६ | ऋषा मूत्रपुरीषं वा | २१३, २६७
अष्टमी चतुर्दशया: | ६१३ | '''अग्निवेश्यः''' | | ऋषा यज्ञोपवीतं तु | २१२
असविष्ठो यदि | ५९५ | वोधायननापस्तम्बं | ९ | रूढे यस्य वृतः | ५२५
उच्छिष्टेन तु संयुक्ता | ३७८ | '''अग्निवैश्वायनिः''' | | चण्डालवतितादीनां | ३२२
एकस्मिन्मासे | ७८५ | त्रिपुण्ड्रं ब्राह्मणो | २९३ | चित्रकर्म तथा | ७३
कूटस्थनन्तराले | १२६ | '''अग्निस्मृतिः''' | | जनने मरणे चैव | ४८१
जननमरणयोः | ५३३ | स्नाद्देवोद्धकानां | ४९८ | नाबालिनीषिकैतव्य | ८
ज्ञातीनां स्नानमेव | ५१० | युंजन्मनि सपिण्डानां | ४९८ | तिस्रः कोट्यर्धं | १६१
ततो गृहे समागम्य | ६०० | खीषु त्रिपुण्ड्रं | २८८ | यथोदश्यां रूपणपक्षे | ७४८
ततीस्य मातृतः | १२८ | '''अङ्गिराः''' | | दृष्पत्यो सह | ६३८
दृष्पती शिशुना | ५१० | अनिक्लान्ते दशाहे | ५५० | दासी दासश्च सर्वे | ५६५
दृयाद्यादेः स्वरुणया | २३ | अनभिगत उत्कान्ते | ५२६ | दाढकस्तु दशाहान्तः | ५३३
दृढे विनालकरणं | ५४४ | अनिर्दशाहे जनने | ५७० | दाढस्थ दशाहानु | ६२५
न तिर्थिने च | ६०५ | अनुजालस्य तावत् | ५७० | दाढिल्ला तथा | ५१५
विप्रो: सपिण्डीकरणं | ६८४ | सन्नसत्यवृत्तानां | ८८० | द्वाशुद्धे ग्रिश्चरे | ६६५
मुस्त्वा तु युन्नमासीनः | ४१५ | अधुजो मोजयेत् | ६७७ | द्विपिर्ण गर्हिते | ३३३
रजस्वलाया भोजनं | २७६ | अभिशेषेष वर्णानां | ५११ | धर्मस्य संपदेव्च | ६६९
वाम्पतः ब्राह्मुसु | ३३७ | आयुरोणां विशेषे | ३७५ | न जातिकुलमानि | ७८९
सायमासीनः | ३२३ | आ द्वाद्शाव | २७७ | नारायणबलि: कार्यो | ४७७
सूर्यवयुर्नेता | २४५ | आमनेद्वात् | ९६ | नाशौचं सूतके | ५०२
सोद्वकशास्त्रो | ५५६ | आम्रपुण्याभिलेपानां | २४३ | नाश्चीयस्तल्लिङ्गे | ७०६
– १२६, ४९९, ५०१, ५०६, ५११ | आर्तानां मार्गमानानां | ८७० | पातकं तु शाते | ८७० | '''अगस्त्यः''' | | आशौचं यस्य | ५७० | पिण्डं काकादिपक्षिभ्यो | ६७३ | अधाचान्तेषु | ८१३ | उत्थाय पश्चिमे यामे | २११ | पुराणश्चतनाद् | २७४ | एकादशेऽनिह | ६४७ | उत्पन्ने संक्रते | १७४ | पञ्चम्नानि | ३२९ | चैवश्रद्धा तु | ८२६ | उद्वाह्य पुत्री | ३३४ | प्रयमा मसृतिर्ज्ञेया | २६९ | नित्यमेव तु | ८३६ | | | प्रमाणानि प्रमाणञ्च: | २ | {{rule}}<noinclude></noinclude> ibuog079aqi9mhgtmukwckzp8lns9e8 420034 420033 2026-11-11T08:31:17Z Myauthworks 10864 420034 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''स्मृतिमुक्ताफलपुस्तकोद्धृतर्षिवचनानाम्'''
'''अकारादिवर्णतः सूचिः ।'''|}} {{rule}} {| class="wikitable" style="width:100%; text-align:left;" ! ऋषिः !! पृष्ठम् !! ऋषिः !! पृष्ठम् !! ऋषिः !! पृष्ठम् |- | '''अखण्डादर्शः—''' || - || यो देवः सविता || ३२७ || उपस्थानं व्रतादेशः || ८७० |- | अम्बोदकपिण्ड || ६११ || राजकार्यनिर्णयानां || ६०३ || एकमूलमसूतानां || १७५ |- | अनुवकेशो यः || ५८७ || श्रीरामनवमी || ८३६ || एकादशगुणान् || ३४९ |- | अभाययं निश्चयेव || २४६ || '''अग्निः''' || || कामतो नरणं || ४७९ |- | अष्टाङ्गते वाथ || ४८६ || एकचित्यां समाकृष्य || ६५६ || ऋषा मूत्रपुरीषं वा || २१३, २६७ |- | अष्टमी चतुर्दशयाः || ६१३ || '''अग्निवेश्यः''' || || ऋषा यज्ञोपवीतं तु || २१२ |- | असविष्ठो यदि || ५९५ || बोधाननापस्तम्बं || ९ || रूढे यस्य वृतः || ५२५ |- | उच्छिष्टेन तु संयुक्ता || ३७८ || '''अग्निवैश्वायनिः''' || || चण्डालवतितादीनां || ३२२ |- | एकस्मिन्मासे || ७८५ || त्रिपुण्ड्रं ब्राह्मणो || २९३ || चित्रकर्म तथा || ७३ |- | कूटस्थनन्तराले || १२६ || '''अग्निस्मृतिः''' || || जनने मरणे चैव || ४८१ |- | जननमरणयोः || ५३३ || स्नाद्देवोद्धकानां || ४९८ || नाबालिनीषिकैतव्य || ८ |- | ज्ञातीनां स्नानमेव || ५१० || युंजन्मनि सपिण्डानां || ४९८ || तिस्रः कोट्यर्धं || १६१ |- | ततो गृहे समागम्य || ६०० || खीषु त्रिपुण्ड्रं || २८८ || यथोदश्यां रूपणपक्षे || ७४८ |- | ततीस्य मातृतः || १२८ || '''अङ्गिराः''' || || दृष्पत्यो सह || ६३८ |- | दृष्पती शिशुना || ५१० || अनिक्लान्ते दशाहे || ५५० || दासी दासश्च सर्वे || ५६५ |- | दृयाद्यादेः स्वरुणया || २३ || अनभिगत उत्कान्ते || ५२६ || दाढकस्तु दशाहान्तः || ५३३ |- | दृढे विनालकरणं || ५४४ || अनिर्दशाहे जनने || ५७० || दाढस्थ दशाहानु || ६२५ |- | न तिर्थिने च || ६०५ || अनुजालस्य तावत् || ५७० || दाढिल्ला तथा || ५१५ |- | विप्रो: सपिण्डीकरणं || ६८४ || सन्नसत्यवृत्तानां || ८८० || द्वाशुद्धे ग्रिश्चरे || ६६५ |- | मुस्त्वा तु युन्नमासीनः || ४१५ || अधुजो मोजयेत् || ६७७ || द्विपिर्ण गर्हिते || ३३३ |- | रजस्वलाया भोजनं || २७६ || अभिशेषेष वर्णानां || ५११ || धर्मस्य संपदेव्च || ६६९ |- | वाम्पतः ब्राह्मुसु || ३३७ || आयुरोणां विशेषे || ३७५ || न जातिकुलमानि || ७८९ |- | सायमासीनः || ३२३ || आ द्वाद्शाव || २७७ || नारायणबलि: कार्यो || ४७७ |- | सूर्यवयुर्नेता || २४५ || आमनेद्वात् || ९६ || नाशौचं सूतके || ५०२ |- | सोद्वकशास्त्रो || ५५६ || आम्रपुण्याभिलेपानां || २४३ || नाश्चीयस्तल्लिङ्गे || ७०६ |- | – १२६, ४९९, ५०१, ५०६, ५११ || || आर्तानां मार्गमानानां || ८७० || पातकं तु शाते || ८७० |- | '''अगस्त्यः''' || || आशौचं यस्य || ५७० || पिण्डं काकादिपक्षिभ्यो || ६७३ |- | अधाचान्तेषु || ८१३ || उत्थाय पश्चिमे यामे || २११ || पुराणश्चतनाद् || २७४ |- | एकादशेऽनिह || ६४७ || उत्पन्ने संक्रते || १७४ || पञ्चम्नानि || ३२९ |- | चैवश्रद्धा तु || ८२६ || उद्वाह्य पुत्री || ३३४ || प्रयमा मसृतिर्ज्ञेया || २६९ |- | नित्यमेव तु || ८३६ || || || प्रमाणानि प्रमाणञ्चः || २ |} {{rule}}<noinclude></noinclude> h7zaew2bbgxv958efo8aduiac150r7y पृष्ठम्:Smriti mukta phalam.pdf/९९४ 104 166997 420028 2026-11-11T08:11:16Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सूचीः'''|९४६}} {{rule}} ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् '''अंगिराः—''' | - | संन्यासं चैव | २०७, १९९ | उभाभ्यामेव हस्ताभ्याम् | २३० प्राक् स्नानात् | ४९९ | संपूर्णा द... नवीन पृष्ठं निर्मीत अस्ती 420028 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सूचीः'''|९४६}} {{rule}} ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् '''अंगिराः—''' | - | संन्यासं चैव | २०७, १९९ | उभाभ्यामेव हस्ताभ्याम् | २३० प्राक् स्नानात् | ४९९ | संपूर्णा दशमी | ८३७ | ऊर्ध्वपुंड्रे विहीने | २१३ प्राते वेदानुबचने | ११३ | सतिलं दर्भैषवावेतत् | ५१५ | एकादशगुणान् | ३४९, ९३५ प्रायो नाम तपः | ८५१ | सत्यशौचे तु | ४८१ | एकोद्दिष्टे सपिंडे | ७९१ प्रथमेश्नि तृतीये | ६०५ | सर्वे वर्णाः सूतके | २७२, ४८५ | कोपीनयुगलं | १८५ यद्भिः पिण्डप्रदानं | ६०१ | सर्वेषामेव वर्णानि | ४९५ | क्षमं पार्श्वं च | २०३ यज्ञचरी ध्रुवा | २७, १०४ | सर्वो वर्णः सूतके | ७१७ | क्षीरं लवणसंयुक्तं | ४२७ यज्ञवर्षेकामस्य | ८७ | साम्वाचारा न तावत् | २७७ | गोत्रसंबंध | ८०५ ब्राह्मणी तु शुना | १०५ | सावीनामेव | १६२ | घृतं वा यदि वा | ४३० मुनिप्रदानं | ८७२ | सायं संगोपनाथे | ८७६ | चतुरोध्यं दसेत् | २०५ मातामहमातुल्— | ५२६ | सायमायन्तयो | ८३८ | जन्मम्मे जन्मदिवसे | १४७ मौंजीनिबन्धनम् | १४७ | सूतके सुतकं चेत् | ५३० | ते तं तथेत्य् | ७७८ यज्ञोपवीतं कर्णै च | २१२ | सूतके सूतिकावर्जे | ४९९ | तोयं पाणि | ८६५ यत्तु क्षेत्रगतं | ४८० | सूत्रान्तरेण यत् | ५७८ | दत्ते वाऽड्यव्यवस्था | ८०६ यत्तु राशीकृतं | ५६ | स्नानं रजस्वालास्तु | २७६ | दिशा स्पर्शं न | १५४ यत्पूर्व मनुना | ६ | स्वपात्रे यत् | ४४६ | देवमार्गे ततो | १७७ यदा मनसि | १७३ | स्वसूत्रे शिष्यमाने | ५७८ | न तावन्मुच्यते | १७६ यदि कश्चिन्महादेन | ४८० | स्वाभिमयफतं | ३६४ | न मुन्मयानि | ७८९ यद्यव्यरुतचूडो | ५०५ | — | ५०५, ५५४ | न व्रतेनोपवासेन | १५८ यस्तु छायां श्वपाकस्य | २६६ | '''अङ्गिरा स्मृतिः''' | ८६८ | नोपतिष्ठन्ति ये | ३१४ यस्य संवत्सरान् | ६५२ | '''आत्रिः—''' | - | पार्वणं च यथा | १७७ या स्त्री ब्राह्मणजातीया | १६२ | अंगुलीमूलदेशे तु | २३० | पिता पितामहो | ७६९ युक्तक्षिपपवन | ९९ | अंगुल्या दन्तकाष्ठं च | २४१ | पिता भ्राता स्वसा | २०६ यो दयात्कांचनं | ३६६ | अगोधूमं च | ८८१ | पुत्रो धाताथ | ३९९ यः कश्चिन्निर्देरित् | ५४६ | अनित्यं वै | २०२ | प्रथमेष्टि निवास | ७७८ रजश्चतुर्ध्वे क्षेत्रं | २७७ | अपरूरूपं ततः | ७१९ | प्राणाहुतो घृताभावे | ४२७ लौकिके वैदिकी | ३१६ | अपः पाणिनाग्नेभ्यः | २२३ | प्रेतार्थं सूतकान্তে | ६४८ वयोधिका नोपयच्छेत् | ३२५ | अविक्रोष्ट्रोश्च | ४३८ | भिन्नमातृषुः | ५२८ विमे न्यूने | ५०५ | अविक्रोष्ट्राश्च | ८८२ | भूम्या पादौ प्रतिष्ठाप्य | ४१८ विरक्तः संन्यसेत् | १७३ | अशुद्धः स्वयमध्यन्ने | ४२६ | मधुपर्के च सोमे | २३९ शयनासनयानाानि | ४६१ | असति प्रतिबन्धे | २०६ | मातामहपितृणां | ५८९ शवस्पर्शमथोदक्याम् | २६५ | अस्मानाशरी मलं भुंक्ते | २४५ | मासमोकेषु | ७३४ शालाग्नौ तु पयेत् | ३१६ | अहिंसा सत्यम् | १९० | मासमोकेषु कार्येषु | ६१२ शुद्धा भर्तुश्चतुर्थेऽह्नि | २७७ | आकेशाप्रात् | ३२४ | मुसे पर्युदिते | २४० शूद्रस्य प्रेतस्य | ५४२ | आचार्योऽप्य्युभिः | ५१३ | मौनव्रतं महाफलं | ४२३ षष्टि कुलान्यतीतानि | १७५ | आच्छंपा यदि | २०९ | यदि कर्ता मतरथः | ५१२ षष्ठे तथा द्वादशे | ८७ | आश्येन न निषेत् | २२९ | रजस्वलायां स्नातायां | २७७ संन्यसेद् ब्रह्मण | १७२ | उभाभ्यामेव पाणिभ्यां | २३० | वपनानंतरं | २०५ {{rule}}<noinclude></noinclude> cksx42p4yg1ymr4np0pieq1lo1u69dw 420030 420028 2026-11-11T08:16:15Z Myauthworks 10864 420030 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{| class="wikitable" |+ सूचिः (Index) — Page 946 ! Column 1 !! Page !! Column 2 !! Page !! Column 3 !! Page |- | colspan="6" | '''अंगिराः''' |- | प्राकू स्नानात् || ४९९ || संन्यासं चैव || २०७, ११९ || उमाभ्यामेव इत्थाभ्यां || २३० |- | प्राप्ते वेदानुवचने || ११३ || संपूर्णा दृश्मि || ८३७ || ऊर्ध्वपुंड्र विहीनं || २९३ |- | मायो नाम तपः || ८५९ || सतिलं दुर्दैष्यसावेतत् || ५६७ || एकादशगुणान् || ३४९, ३३५ |- | मध्यमेनी तूनीथे || ६०५ || सदाप्रोधे तु || ४८१ || एकोद्दिष्टे सापिण्डे || ७६१ |- | यद्विः पिष्ठप्रदानं || ६०१ || सर्वे वर्णाः सूतके || २९२, २८५ || कौपीनप्युलं || ११५ |- | ब्रह्मचारी शुना || २७०, १०७ || सर्वेषामेव वर्णानां || २९५ || क्षमं पार्श्वं च || २०३ |- | ब्रह्मचर्यस्कामस्य || ८७ || सर्वो वर्णः सूतके || ७१७ || क्षीरं लवणसंयुक्तं || ३२७ |- | ब्राह्मणी तु शुना || १०५ || साभ्यावारा न तावत् || २७७ || गोत्रसंबंधं || ८०५ |- | मुनिमदानं || ८७९ || साधीनामेव || १६२ || पूर्ण वा यदि वा || ४३० |- | मातामहमातुल- || ५२६ || सायं सगोनार्थ || ८७६ || चतुरो‌र्थे दशेव् || २०५ |- | मोजीलिबन्धमत || १९० || सावमादत्तयो || ८३८ || जन्मम् जन्मद्विसे || १७७ |- | यज्ञोपवीते कर्णं च || २१२ || सूतके मूलकं चैव || ५३७ || ते ते तथैत्य || ७७८ |- | यतु क्षेत्रगतं || ४८० || सूतके सूतिकावर्ज || २९९ || तोर्थं पाणि || ६६५ |- | यतु राखीकृतं || ५६ || सूत्रातरेण यत् || ५७८ || दृष्टे वाङ्घथवा || ८०६ |- | यत्पूर्वं मनुना || ६ || स्नानं रजस्वलायास्तु || २७६ || द्विया स्वार्थं न || ५५१ |- | यदा मनसि || १७३ || स्वपाद्ये यत्तु || २४६ || दैवमार्षे ततो || १७७ |- | यदि कश्चिल्लमादेन || ४८७ || स्वसुश्चे प्रियमाणे || ५७८ || न तावद्मुष्यते || ११६ |- | यद्यप्रपत्रपत्तुडो || ५०९ || स्वामिभार्यकृतं || ३६२ || न मूत्रभ्यानि || ७८९ |- | यस्तु छाया श्वपाकस्य || २६६ || || ५०९, ५५४ || न श्वेनोपोषसेन || १५८ |- | वस्य संवत्सरान् || ६५२ || '''अङ्गिरा स्मृतिः''' || ६८८ || नोपतिष्ठेन पे || ३१२ |- | वा स्त्री ब्राह्मणजातीया || ११२ || '''आङ्गरः''' || || पावंणं च तथा || १०७ |- | यूकशिवाणं || १३५ || || || पिता पितामहो || ७६९ |- | यो द्यात्कांचर्नं || ३६४ || अंगुलीभ्यां तु || २३० || पिता भ्राता स्वसा || २०६ |- | यः कश्चिन्नीरितं || ५२६ || अंगुल्या दन्तकाष्ठं च || २०१ || पुत्रो भ्राताथ || ३९९ |- | रजस्त्र्यर्थे नोय || २७३ || अगोधूमं च || ७८९ || यथा मेधो निवास || ७७८ |- | लौकिके वैदिके || २९६ || अनिर्यं वै || २०२ || मातामुली पृतामाभे || ६२७ |- | वयोधिका नोपपद्यते || ३२५ || अपरार्ध ततः || ७९६ || नैनार्थं सूतकान्ते || ६७८ |- | विमे म्यूने || ५०९ || अवः पाणिग्रहेश्वरः || २२३ || भिन्नमातृभ्रातृभ्यः || ५२८ |- | विरकः संन्यसेत् || ५७३ || अविकोष्ठयोश्च || ८२८ || भूम्यां पादो मनिद्वात्य || ५९८ |- | शयनासनयानानि || ५६९ || अधिकोष्ठयोश्च || ८८२ || मधुर्ब्रह्म च सोमे || २३५ |- | शवस्थाभ्योंकृत्वायाम् || २६३ || अक्षुद्धः स्वयमप्यन्ने || ५२८ || मातामहपितृभ्याणां || ५८९ |- | शालाभी तु पञ्चेत् || २५६ || असति त्रियवन्धे || २०६ || मासमोकेषु || ७३४ |- | शुद्धा भर्तुश्चतुर्थेन्हि || २७७ || असन्नाशी मलं भुंके || २५५ || मासमोकेषु कार्येषु || ६९२ |- | शुद्रस्य भेतसः || ५४३ || अहिंसा सत्यम् || १९० || मुझे पर्षुविते || २७० |- | षष्टि कुलाम्पतीतानि || १७५ || आकेशापात्रं || ३२४ || मौनवतं महाकृष्टं || ५३३ |- | षड्रे तथा द्वाद्रशो || ८७ || आचातोऽप्यशुचिः || ५१३ || यदि कर्ता मतरश्चः || ५९४ |- | संन्यसेद् यस् || १७२ || आसंवा यदि || २७५ || रजस्वलायां स्नातायां || २७७ |- | || || आस्वेन न सिवेत् || ४२९ || वपनानंतरं || २७५ |}<noinclude></noinclude> s0c1stssu3kuyr2gsg1tj2xd76z9b0s 420031 420030 2026-11-11T08:18:35Z Myauthworks 10864 420031 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh|९४६|'''सूचीः'''|}} {{rule}} ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम् | ऋषिः | पृष्ठम्
'''अंगिराः—''' | - | संन्यासं चैव | २०७, १९९ | उभाभ्यामेव हस्ताभ्याम् | २३०
प्राक् स्नानात् | ४९९ | संपूर्णा दशमी | ८३७ | ऊर्ध्वपुंड्रे विहीने | २१३
प्राते वेदानुबचने | ११३ | सतिलं दर्भैषवावेतत् | ५१५ | एकादशगुणान् | ३४९, ९३५
प्रायो नाम तपः | ८५१ | सत्यशौचे तु | ४८१ | एकोद्दिष्टे सपिंडे | ७९१
प्रथमेश्नि तृतीये | ६०५ | सर्वे वर्णाः सूतके | २७२, ४८५ | कोपीनयुगलं | १८५
यद्भिः पिण्डप्रदानं | ६०१ | सर्वेषामेव वर्णानि | ४९५ | क्षमं पार्श्वं च | २०३
यज्ञचरी ध्रुवा | २७, १०४ | सर्वो वर्णः सूतके | ७१७ | क्षीरं लवणसंयुक्तं | ४२७
यज्ञवर्षेकामस्य | ८७ | साम्वाचारा न तावत् | २७७ | गोत्रसंबंध | ८०५
ब्राह्मणी तु शुना | १०५ | सावीनामेव | १६२ | घृतं वा यदि वा | ४३०
मुनिप्रदानं | ८७२ | सायं संगोपनाथे | ८७६ | चतुरोध्यं दसेत् | २०५
मातामहमातुल्— | ५२६ | सायमायन्तयो | ८३८ | जन्मम्मे जन्मदिवसे | १४७
मौंजीनिबन्धनम् | १४७ | सूतके सुतकं चेत् | ५३० | ते तं तथेत्य् | ७७८
यज्ञोपवीतं कर्णै च | २१२ | सूतके सूतिकावर्जे | ४९९ | तोयं पाणि | ८६५
यत्तु क्षेत्रगतं | ४८० | सूत्रान्तरेण यत् | ५७८ | दत्ते वाऽड्यव्यवस्था | ८०६
यत्तु राशीकृतं | ५६ | स्नानं रजस्वालास्तु | २७६ | दिशा स्पर्शं न | १५४
यत्पूर्व मनुना | ६ | स्वपात्रे यत् | ४४६ | देवमार्गे ततो | १७७
यदा मनसि | १७३ | स्वसूत्रे शिष्यमाने | ५७८ | न तावन्मुच्यते | १७६
यदि कश्चिन्महादेन | ४८० | स्वाभिमयफतं | ३६४ | न मुन्मयानि | ७८९
यद्यव्यरुतचूडो | ५०५ | — | ५०५, ५५४ | न व्रतेनोपवासेन | १५८
यस्तु छायां श्वपाकस्य | २६६ | '''अङ्गिरा स्मृतिः''' | ८६८ | नोपतिष्ठन्ति ये | ३१४
यस्य संवत्सरान् | ६५२ | '''आत्रिः—''' | - | पार्वणं च यथा | १७७
या स्त्री ब्राह्मणजातीया | १६२ | अंगुलीमूलदेशे तु | २३० | पिता पितामहो | ७६९
युक्तक्षिपपवन | ९९ | अंगुल्या दन्तकाष्ठं च | २४१ | पिता भ्राता स्वसा | २०६
यो दयात्कांचनं | ३६६ | अगोधूमं च | ८८१ | पुत्रो धाताथ | ३९९
यः कश्चिन्निर्देरित् | ५४६ | अनित्यं वै | २०२ | प्रथमेष्टि निवास | ७७८
रजश्चतुर्ध्वे क्षेत्रं | २७७ | अपरूरूपं ततः | ७१९ | प्राणाहुतो घृताभावे | ४२७
लौकिके वैदिकी | ३१६ | अपः पाणिनाग्नेभ्यः | २२३ | प्रेतार्थं सूतकान्ते | ६४८
वयोधिका नोपयच्छेत् | ३२५ | अविक्रोष्ट्रोश्च | ४३८ | भिन्नमातृषुः | ५२८
विमे न्यूने | ५०५ | अविक्रोष्ट्राश्च | ८८२ | भूम्या पादौ प्रतिष्ठाप्य | ४१८
विरक्तः संन्यसेत् | १७३ | अशुद्धः स्वयमध्यन्ने | ४२६ | मधुपर्के च सोमे | २३९
शयनासनयानाानि | ४६१ | असति प्रतिबन्धे | २०६ | मातामहपितृणां | ५८९
शवस्पर्शमथोदक्याम् | २६५ | अस्मानाशरी मलं भुंक्ते | २४५ | मासमोकेषु | ७३४
शालाग्नौ तु पयेत् | ३१६ | अहिंसा सत्यम् | १९० | मासमोकेषु कार्येषु | ६१२
शुद्धा भर्तुश्चतुर्थेऽह्नि | २७७ | आकेशाप्रात् | ३२४ | मुसे पर्युदिते | २४०
शूद्रस्य प्रेतस्य | ५४२ | आचार्योऽप्य्युभिः | ५१३ | मौनव्रतं महाफलं | ४२३
षष्टि कुलान्यतीतानि | १७५ | आच्छंपा यदि | २०९ | यदि कर्ता मतरथः | ५१२
षष्ठे तथा द्वादशे | ८७ | आश्येन न निषेत् | २२९ | रजस्वलायां स्नातायां | २७७
संन्यसेद् ब्रह्मण | १७२ | उभाभ्यामेव पाणिभ्यां | २३० | वपनानंतरं | २०५
{{rule}}<noinclude></noinclude> ekj5k1nluqbnjq61e8rs8fs2hf3f75o 420035 420031 2026-11-11T08:32:54Z Myauthworks 10864 420035 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सूचिः'''|}} {{rule}} {| class="wikitable" style="width:100%; text-align:left;" ! ऋषिः !! पृष्ठम् !! ऋषिः !! पृष्ठम् !! ऋषिः !! पृष्ठम् |- | '''अंगिराः''' || || संन्यासं चैव || २०७, ६११ || उमाभ्यामेव इस्ताभ्यां || २३० |- | माकू स्नानात् || ४९९ || संपूर्णा दृशमी || ८३७ || ऊर्ध्वपुंड्र विहीने || २६३ |- | प्राप्ते वेदानुवचने || ११३ || सतिले दुर्बेष्यसंवेतत् || ५५७ || एकद्वादशगुणान् || ३७९, २९६ |- | मायो नाम तपः || ८५९ || सत्यश्चौचे तु || ४८१ || एकोद्दिष्टे सपिण्डे || ७९१ |- | मथनेडिद्ध तूनीयं || ६०५ || सर्वे वर्णाः सूतके || २७२, ४८५ || कोपिनयुगलं || ९८५ |- | वह्निः पिण्डप्रदानं || ६०१ || सर्वेषामेव वर्णानां || ४९५ || क्षमां पार्श्व च || २०३ |- | ब्रह्मचारी शुना || २७०, ९०१ || सर्वो वर्णः सूतके || ७१७ || क्षीरं लवणसंयुक्तं || ४२७ |- | ब्रह्मवर्णकमास्य || ८४ || साभ्यावारं न तावत् || २७७ || गोजसंबंधं || ८०५ |- | ब्राह्मणी तु शुना || ९०६ || साभ्यावानामेव || ९६२ || घृतं वा यदि वा || ४३० |- | सूमिदानं || ८७६ || सार्थं सगोपनार्थं || ८७६ || चतुरोर्थे वसेत् || २०५ |- | मातामहमातुल- || ५२६ || सावमादन्तयो || ८३८ || जन्मे जन्मदिवसे || ९७७ |- | मौंगिलिबन्धनं || १४७ || सूतके सूतकं चैव || ५७० || ते तै सत्येत्य || ७७८ |- | यज्ञोपवीतं कर्णे च || ३९२ || सूतके सूतिकावर्जं || ४९९ || तोये पाणि || ८६५ |- | वतु क्षेत्र्यगतं || ४८० || सूत्रातिरेण यत् || ५७८ || द्वे वाड्यध्वथा || ८०६ |- | वत्सः राजिगर्त || ५६ || स्नाने रजस्वलायास्तु || २७६ || द्विवा स्वार्थं न || ५५२ |- | यत्पूर्व मनुना || ६ || स्वपात्रे यत्तु || ४९६ || देवमार्थे ततो || १७७ |- | यदा मनसि || १७३ || स्वसुश्चे दियमाने || ५७८ || न तावन्मुख्यते || १७६ |- | यदि कश्चिन्भादेन || ८०७ || स्वामिभार्यास्तु || ३६९ || न सम्मयानि || ८८९ |- | यद्यवृतचूडो || ५०९ || — || ५०९, ५५९ || न व्रतेनोपपाशेन || १५७ |- | यस्तु छाया शपाकस्य || २६६ || '''अङ्गिरा स्मृतिः''' || ८६८ || नोपतिष्ठन्ति ये || ३९२ |- | वस्य संवत्सराद् || ६५२ || '''अत्रिः''' || || पार्वणं च यथा || १७० |- | वा खौ ब्राह्मणजातीया || १६२ || अंगुलीमूलदेशे तु || २३० || पिता पितामहो || ६६९ |- | युक्तिक्षिपणा || ९३६ || अंगुल्या दन्तकाष्ठं च || २४१ || पिता भ्राता स्वसा || २०६ |- | यो दयात्कांचनं || ३६६ || अगोधूम च || ७८९ || पुत्रो भ्रातायाः || ३९९ |- | यः कश्यिन्नश्रिरेत || ५५६ || अनिर्यं वै || २०२ || यथामेहि निवास || ७७८ |- | रजस्वलर्धिः स्त्रेयं || २७७ || अपसर्पे ततः || ७९९ || नाणाहुती घृताभावे || ५२७ |- | लौकिके वैदिके || ३६६ || अपः पाणिनिशांधेभ्यः || ५२३ || नेनायैः सूतकान्ते || ६५८ |- | वयोधिका नोत्यचक्ते || १२५ || अभिकोष्टुधोश्च || ७३८ || भिन्नमांसगुणमुः || ५२८ |- | विप्रे म्लेने || ५०९ || अभिकोष्ठधाश्च || ८८२ || भूम्या पादों मनिहाश्च || ४१८ |- | दिरकः संन्यसेत् || ७७३ || अश्वुद्रः स्वयमत्यन्ने || ५२६ || मधुवर्के च सोमे || २३९ |- | शयनासनयानानि || ५६९ || असतिं सविधन्ये || २०६ || मातामहदिवृत्त्याणा || ५८९ |- | शस्त्रशर्मामधोद्यम् || २६७ || अस्नानाशौ मले मुंके || २७५ || मासमोके || ७७४ |- | शालाभी तु पचेत् || २१६ || अहिंसा सत्यम् || १९० || मासमोकेषु कार्येषु || ६९२ |- | शुद्धा भर्तृरूपांत्र || २७७ || आकोशयाचन् || ३२४ || मुखे पर्षुवितौ || २७० |- | शूद्रस्य भेतस्य || ५२३ || आचितोऽप्युपचुचिः || ५४३ || मौनव्रतं महाकृच्छं || ४२३ |- | षष्टिं कुलाम्यतीतानि || १७५ || आर्त्विा यदि || २७५ || यदि कर्ता मतरथः || ५९७ |- | षडे तथा द्वादशे || ८७ || आस्वेन न सिर्वेत् || ४२९ || रजस्वलायां स्नातायां || २७७ |- | संन्यसेद् यस् || १७२ || उभाभ्यामेव पाणिभ्यां || २३० || वषनांतरं || २०५ |} {{rule}}<noinclude></noinclude> 7p0slii76kzlrj0wn4ctnvvag8o9f1a पृष्ठम्:Smriti mukta phalam.pdf/९९५ 104 166998 420036 2026-11-11T08:35:04Z Myauthworks 10864 /* अपरिष्कृतम् */ {{rh||'''सूचिः'''|९२७}} {{rule}} {| class="wikitable" style="width:100%; text-align:left;" ! ऋषिः !! पृष्ठम् !! ऋषिः !! पृष्ठम् !! ऋषिः !! पृष्ठम् |- | विशेष्ठ वितते || १३७ || देशान्तरमते || ९६२ || '''आथर्वणम्''' || |- | शब्दैनापः पवः || ९२... नवीन पृष्ठं निर्मीत अस्ती 420036 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Myauthworks" />स्मृतिमुक्ताफलम्</noinclude>{{rh||'''सूचिः'''|९२७}} {{rule}} {| class="wikitable" style="width:100%; text-align:left;" ! ऋषिः !! पृष्ठम् !! ऋषिः !! पृष्ठम् !! ऋषिः !! पृष्ठम् |- | विशेष्ठ वितते || १३७ || देशान्तरमते || ९६२ || '''आथर्वणम्''' || |- | शब्दैनापः पवः || ९२२ || नष्टे चन्द्रग्रहे || ८८ || नगवं देवा || २९ |- | शाकमक्षाः पयोभक्षा || ९६ || न स्वयंषेषु || ७७ || यस्याग्निशेष || २१ |- | शिखिनल्लु स्नातः || १७४ || निन्दा मृत्युपदं || ९६५ || हरेः पादाकृतिः— || २९२ |- | शुचौ देशे तथा || १९९ || मंत्रवत्संस्कृतस्यापि || ६२८ || '''आथर्वणिकम्''' || |- | शुद्रान्नं सूलकान्नं || २४८ || विप्रे चाग्निहीनस्य || ५८३ || यस्यान्निहोत्रं || ३३३ |- | षड्विंशं परतो || ७६९ || शुचि देवाश्च रक्षन्ति || २२० || '''आथर्वणी श्रुतिः''' || |- | षोडशोद्वाहगर्भान्ते || ५६३ || — || ६६२ || मच्छसूत्रमहम् || १७९ |- | संव्यात्रयं तु || ३९२, ३९५ || '''अमरसिंहः''' (अमरकोशः) || || हसा ना गोपाय || ९८० |- | संपर्कात्प्रायते || ५०० || ९।४।१९ || ७०३ || '''आथर्वसंहिता''' || |- | सामिकः पितृपत्नानं || ३९८ || २।५।५।५ || ५२६ || ३१३।९।९ || ९४३ |- | सिंहकर्टयोर्भस्त्ये || २६७ || २।२।१३ || ९० || '''आदित्यपुराणम्''' || |- | सुद्यदन्नं गुरोरन्नं || ७८९ || २।४।९।३ || ७८९ || अरवी पर्वताः || ७५८ |- | स्नानं त्रिषवर्ण || ९६३ || २।७।३।३ || ७६६ || आर्मात्रिसशिरस्त्र || ७८० |- | हस्तदन्ता तु || ९७ || २।७।२० || ७६६ || चार्ये गते ततः || ३६९ |- | इस्तेन मुर्छा || ८७५ || बलीनामासनं || ७८८ || त्रिपुंड्रधारी सततं || ३०३ |- | हिता मित्रे सदा || २०२ || '''अमृतबिन्दूपनिषद्''' || || दुर्वाससो मुनेः || ३७५ |- | हुंकारेणापि || ८७९, — || मनो हि द्विविधं || ९९३ || पश्चात्नरेऽपि कन्यास्ये || ७६ |- | — || ३२, ४७५, ५२८ || तद्वत्र निष्कले || ९९५ || विसृप्तंतव्य || ४७७ |- | '''अथर्वशिरस्''' || || '''अर्णलः''' || || यातृप्ततो यमः || ७४७ |- | — || ३०९ || अन्नप्राशनवैवाहे || १७३ || वाह्मण्या नार्यचा || २५६ |- | '''अनुश्रुतिविषयः''' || || '''अर्णवः''' || || मगिनयो बाधाघः || २७० |- | विप्रुरूर्थवर्णिः || ६९६ || अशक्तो वा जलाभावे || २३६ || मधुकै रामठे || ७८९ |- | '''अङ्गगीतिः''' || || '''आगमः''' || || लिंगे स्वार्यमुहे || ४९० |- | बो मामद्वशा || ५०९ || वैदिकं तु पुरा || ६२७ || बसन्ति वितरः || ८२२ |- | '''अपराकं''' || || सर्वेषामेव वर्णानां || ६२७ || सौराष्ट्रसिन्धु || १११७ |- | अधिमासस्नातानां || ७३१ || '''आचारसारः''' || || श्रीशृद्धयोरधर्ममानं || २९९ |- | अनार्यता निवृता || ८३५ || मातस्तीर्थोवगाहन- || २४६ || '''आविपुराणम्''' || |- | अनोर्ज्यं ब्राह्मणस्यान्नं || २४५ || मालती मलिका || ७८७ || अधर्मदेशं || ९ |- | अष्टाक्षरेण देवेश || ३८७ || शुचि देशं विविक्ते || ४७७ || जातश्राद्धे न दत्तात् || ७९ |- | आचार्यो ब्राह्मणेको || २१७ || '''आत्रेयः''' || || संक्रान्तायुपवासेन || ७५० |- | कांक्षिकस्य तु || २१६ || अंतश्चावो यदा || ५४९ || सुतके तु मुखे || ४९९ |- | गर्मिण्यो यस्य मार्य || ५१२ || अभिषेकेऽपि नाक्षत्रं || ७०३ || '''आनुशासनिकम्''' || |- | छाया स्वाहुसवर्ग: || ४६४ || कालेऽस्यदोषे || ६१० || आचारादक्तते || ५ |- | जातिहुष्टे क्रियादुष्टे || ४३३ || मृत्तमथान्यश्यमनयानि || १५९ || कृत्मर्षं गुरुशुश्रूषा || ७७ |- | दिवा कपिस्थ- || ४३८ || — || ३४ || गुहानाश्रयमाणस्य || ४५६ |- | दुर्मुनौ सत्य एव || ३९० || || || यदा श्राद्धे पितृभ्यः || ६९६ |} {{rule}}<noinclude></noinclude> arhm346jj7d8748y9vjqsdkt6ihqd5o