श्रीसूक्त
From Wikipedia
[संपादन] लक्ष्मीची स्तुती
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् |
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो मआवह ||१||
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् |
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ||२||
अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् |
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ||३||
कांसोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् |
पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ||४||
चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् |
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ||५||
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः |
तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ||६||
उपैतु मां देवसखः कीर्तिश्च मणिना सह |
प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे ||७||
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् |
अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् ||८||
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् |
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ||९||
मनसः काममाकूतिं वाचः सत्यमशीमहि |
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ||१०||
कर्दमेन प्रजाभूतामयि सम्भवकर्दम |
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ||११||
आपः सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे |
निचदेवीं मातरं श्रियं वासय मे कुले ||१२||
आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् |
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ||१३||
आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् |
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ||१४||
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् |
यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहम् ||१५||
पुनरावृत्ति करीत असल्यास १-१५ श्र्लोकांचे पुनराचरण करावे. ईच्छित/संकल्पित वेळा पुनराचरण झाल्यावर १६-२८ श्र्लोक एकदा म्हणावे.
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् |
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ||१६||
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे |
तन्मेभजसि पद्माक्षी येन सौख्यं लभाम्यहम् ||१७||
अश्वदायी गोदायी धनदायी महाधने |
धनं मे जुषतां देवी सर्वकामांश्च देहि मे ||१८||
पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि |
विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व ||१९||
पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् |
प्रजानां भवसि माता आयुष्मन्तं करोतु मे ||२०||
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः |
धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते ||२१||
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा |
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ||२३||
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः |
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ||२४||
सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे |
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ||२५||
विष्णुपत्नीं क्षमादेवीं माधवीं माधवप्रियाम् |
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ||२६||
महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि |
तन्नो लक्ष्मीः प्रचोदयात् ||२७||
श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते |
धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ||२८||