विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.4
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
द्वितीयविश्वयुद्धम्
0
9161
499379
498522
2026-05-30T00:50:06Z
PHC201013
46560
[[Special:Contributions/~2026-17278-26|~2026-17278-26]] ([[User talk:~2026-17278-26|talk]]) द्वारा कृता [[Special:Diff/498522|498522]] पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
499379
wikitext
text/x-wiki
{{WW2InfoBox}}
द्वितीयविश्वयुद्धं विश्वस्तरीययुद्धम् अस्ति।
== बाह्यसम्पर्कतन्तुः ==
* [http://www.dean.usma.edu/history/Atlases/WorldWarTwoEurope/WWII_Europe.html West Point Maps of the European War]{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
* [http://www.dean.usma.edu/history/Atlases/WorldWarTwoAsia/WorldWarTwoAsia.html West Point Maps of the Asian-Pacific War]{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
* [http://www.otr.net/?p=news Radio News From 1938 to 1945]
* [http://www.psywar.org/leaflets.php World War II Propaganda Leaflet Archive] {{Webarchive|url=https://web.archive.org/web/20140326040930/http://www.psywar.org/leaflets.php |date=2014-03-26 }}
* [http://www.nationalarchives.gov.uk/theartofwar/ The Art of War Online Exhibition at the UK National Archive]
* [http://www.dw-world.de/dw/0,,8150,00.html Deutsche Welle special section on World War II] created by a German public broadcaster on both the war and the world 60 years after.
<references group="nb"/>
[[वर्गः:युद्धम्|द्वितीयविश्वयुद्धम्]]
[[वर्गः:समाजसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
o9z6uqq80dhzmtcaz0hmf7cqi5uypbp
सुश्रुतः
0
15263
499378
426938
2026-05-29T21:03:18Z
~2026-32124-66
46558
टङ्कणदोषः परिष्कृतः
499378
wikitext
text/x-wiki
{{Infobox person
|name = सुश्रुतः
|image = Shushrut statue.jpg
|image_size = 200px
|caption = हरिद्वारनगरे 'पतञ्जलीयोगपीठे' सुश्रुतमहर्षेः प्रतिमा
|birth_name =
|birth_date = ८०० ई.पू.
|birth_place = [[भारतम्]]
|death_date =
|death_place =
|body_discovered =
|death_cause =
|resting_place =
|resting_place_coordinates = <!-- {{coord|LAT|LONG|display=inline,title}} -->
|residence =
|nationality =
|ethnicity =
|citizenship =
|other_names =
|known_for = [[आयुर्वेदः]], शल्यचिकित्सा
|education =
|alma_mater =
|employer =
|occupation = चिकित्सा
|years_active =
|home_town =
|salary =
|networth =
|height =
|weight =
|title =
|term =
|predecessor = [[धन्वन्तरी]]
|successor = [[चरकः]]
|party =
|opponents =
|boards =
|religion = [[हिन्दूधर्मः]]
|spouse =
|partner =
|children =
|parents =
|relations =
|callsign =
|awards =
|signature =
|website =
|footnotes =
|box_width =
}}
(कालः – क्रि.पू. ६००)
'''सुश्रुतः''' (suśrutaḥ) [[भारतम्|भारतीय]] [[आयुर्वेदः|आयुर्वेदस्य]] प्रवर्तकः सुप्रसिद्धः वैध्यश्च । अद्यतने जगति “प्लास्टिक् सर्जरि” इति यत् उच्यते तस्याः शस्त्रचिकित्सायाः प्रवर्तकः । प्रायः २००० वर्षेभ्यः पूर्वम् एव [[प्लास्टिक शल्यचिकित्सा|“प्लास्टिक् सर्जरि”]] (सरूपचिकित्सा) सदृशीं शस्त्रचिकित्सां यशस्वितया अकरोत् । तदवसरे विच्छिन्नं कर्णं समीकर्तुं शरीरस्य अन्यस्मात् भागात् चर्म स्वीकृतवान् आसीत् सुश्रुतः ।
सुश्रुतः [[हिन्दुधर्मः|हिन्दुधर्मे]] विद्यमानायाः शस्त्रवैद्यपद्धतेः सुभद्रम् आधारं कल्पयित्वा तां पद्धतिं विश्वविख्याताम् अकरोत् तदानीन्तने काले एव । एषः रोगनिदानस्य, चिकित्सापद्धतेः च सम्बद्धानि पुस्तकानि [[संस्कृतम्|संस्कृतेन]] अरचयत् । तादृशेषु पुस्तकेषु सः [[शस्त्रचिकित्सा|शस्त्रचिकित्सां]], [[प्रसूतिविज्ञानम्|प्रसूतिविज्ञानं]], [[स्नानम्]], [[औषधम्]], पथ्याहारं, बालानाम् [[आहारः|आहारं]], नैर्मल्यं, वैद्यविद्यां च सुदीर्घरूपेण विवृतवान् । सुश्रुतः सस्यसम्बद्धानां, प्राणिसम्बद्धानां, खनिजसम्बद्धानां च असंख्यानाम् औषधानाम् उपयोगं जानाति स्म । सः ७६० सस्यानां मूलानि, त्वक्, पर्णं, तैलं च रोगपरिहारकाणि इति लिखितवान् अस्ति । [[दत्तूरः|दत्तूरस्य]], [[कर्पूरः|कर्पूरस्य]], [[एला|एलायाः]], [[शुण्ठी|आद्रकस्य]] (शुण्ठी), [[लशुनम्|लशुनस्य]], [[मरीचम्|मरीचस्य]] च उपयोगम् अपि समीचीनतया जानाति स्म । सः १२१ विधानां शस्त्रक्रियायाः उपकरणानां विवरणं कृतवान् अस्ति स्वीयेषु ग्रन्थेषु । मानवशरीरस्य अङ्गानां रचनायाः अभ्यासार्थं तदा एव सुश्रुतः विभिन्नां विशिष्टां च काञ्चित् पद्धतिम् अनुसरति स्म । [[तृणम्|तृणानाम्]] आवरणेन बद्धं शवं सप्ताहं यावत् जले निमज्जति स्म । अनन्तरं शवं जलात् बहिः स्वीकृत्य मृदु [[चर्म]] निष्कासयति स्म सावधानेन । अनन्तरं स्वीयान् प्रयोगान्, परीक्षाः करोति स्म । सुश्रुतः स्वीयेषु ग्रन्थेषु [[अस्थि|अस्थिविषये]], [[स्नायुः|स्नायुविषये]], अङ्गानां विषये यत् विवृतवान् अस्ति तत् इदानीम् अपि स्पष्टं शुद्धं च वर्तते ।
[[मनुष्यः|मनुष्याणां]] शरीरस्य इव प्राणिनाम् अपि (मृतानाम्) चर्म निष्कास्य पुनः सीवनस्य क्रमम् अपि अभ्यस्तवान् आसीत् सुश्रुतः । तदर्थम् एव सुश्रुतः बहुविधानां [[सूची|सूचीनाम्]] उपयोगं करोति स्म । सः शस्त्रक्रियायाः पूर्वं करणीयानां सिद्धतानां विषये अपि सविवरणं नियमान् लिखितवान् अस्ति । सुश्रुतेन आरब्धः व्रणानाम् उपरि भाष्पं प्रसार्य स्वच्छीकरणस्य क्रमः एव इदानीन्तनस्य पूतिनाशकक्रमस्य प्रथमं सोपानम् । सुश्रुतः गलग्रन्थिरोगस्य उपशमने, अस्थिरोगस्य निवारणे, चर्मणः अन्तर्भागे जायमानस्य पाषाणस्य निवारणे, दुर्मांसस्य अपकरणे, भग्नस्य अस्थिनः पुनः योजने, शस्त्रचिकित्सासहितायां प्रसूतौ रक्तनालानाम् अवरोधे च बहूनि विभिन्नानि तन्त्राणि यशस्वितया प्रयुज्य, तानि तन्त्राणि सविवरणं लिखितवान् अस्ति ।
[[आयुर्वेदः|आयुर्वेदस्य]] तत्त्वानि [[वेदाः|वेदेषु]] अन्यान्येषु स्थानेषु निहितानि आसन् । सुश्रुतः तानि सर्वाणि तत्त्वानि एकत्रीकृत्य, स्वानुभवान् अपि योजयित्वा “[[सुश्रुतसंहिता]]” इत्याख्यं ग्रन्थम् अलिखत् । तस्मिन् ग्रन्थे ११२० रोगाः, तेषां रोगाणां कारणानि, तदनुगुणं करणीयाः औषधोपचाराः च विभागशः विवृताः सन्ति । सः “सुश्रुतसंहिता” ग्रन्थः इदानीं बहुभिः भाषाभिः अनूदितः अस्ति । सुश्रुतस्य विद्याभ्यासः अयुर्वेदस्य आद्यप्रवर्तकस्य [[धन्वन्तरिः|धन्वन्तरेः]] गुरुपीठस्थाने [[काशी|काश्यां]] सम्पन्नः इति ज्ञायते । काश्यां [[नरेशदेवदासः]] शस्त्रविद्याम् अबोधयत् सुश्रुतम् । “कोपः, द्वेषः, रूक्षता, उद्रेकः, कार्पण्यम्, आलस्यम्, असत्यं, दुराशा च दूरीकरणीयाः । ब्रह्मचर्यं पालनीयम् । ज्येष्ठाः गुरवः च आदरणीयाः । नखाः, केशाः च सदा कर्तयित्वा स्वच्छता रक्षणीया ।“ इति सुश्रुतः शिष्यान् बोधयति स्म । तेन लिखितायां सुश्रुतसंहितायाम् एतादृशाः नीतिविषयाः अपि निहिताः सन्ति ।
रोगाणां निवारणस्य कलाकौशलस्य वृत्तिषु शस्त्रविद्या एव प्रप्रथमा, श्रेष्ठा, पवित्रा, परिशुद्धा च । एषा विद्या भूलोके कीर्तिसम्पादनस्य साधनम् अपि । तादृश्याः वृत्तेः प्रवर्तकः आचार्यः सुश्रुतः भारतीयस्य वैद्यविज्ञानस्य मार्गे सदा ज्वलन् नन्दादीपः ।
"
[[वर्गः:आयुर्वेदः]]
[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:भारतीयवैद्याः]]
2m0ujjcol7y2dah6j0otllh82dfqnk0