विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.16
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
कजाखस्थानम्
0
1433
500261
499491
2026-08-23T23:48:30Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
500261
wikitext
text/x-wiki
[[चित्रम्:Flag of Kazakhstan.svg|thumb|right|200px]]
[[चित्रम्:Kazakhstan_(orthographic_projection).svg|thumb|right|200px]]
[[चित्रम्:Kazakhstan-CIA WFB Map.png|300px|right|thumb|कझकस्थानस्य मानचित्रम्]]
'''कजाखस्थान''' मध्य-जम्बुद्वीपे विद्यमानः कश्चन यवनदेशः । जगति अयं नवमः बृहत्तमः देशः । अस्य विस्तारः अस्ति २,७२७,३०० चतुरस्र किलोमीटर्मितः । पौरात्ययुरोपदेशस्य अपेक्षया बृहत् वर्तते । अस्य प्रतिवेशिदेशाः उत्तरतः प्रदक्षिणाकारेण एवं वर्तन्ते - रषिया, चीना, किर्गिस्थान्, उझ्बेकिस्थान्, तर्क्मेनिस्थान् च । अस्मात् देशात् ३८ कि मी मिते दूरे एव मङ्गोलियादेशस्य पूर्वबिन्दुः विद्यते । {{formatnum:१६६०००००}} जनसङ्ख्यायुक्तः अयं देशः जगति ६२ तमे स्थाने विद्यते जनसङ्ख्यानुगुणम् । १९९८ तमे वर्षे अस्य राजधानी अल्मटितः बृहत्तमं नगरम् अस्टनं प्रति परिवर्तिता जाता ।
इतिहासे अस्मिन् देशे अधिकांशाः सञ्चरणशीलाः वनवासिनः एव निवसन्ति स्म । १६ शतके कझक्जनाः विशिष्टसमूहत्वेन अभिज्ञाताः । १८ शतके रशियन्-जनाः इमं प्रदेशम् आक्रान्तुम् आरब्धवन्तः । १९ शतके सम्पूर्णः कझकस्थानं रशियन्साम्राज्यस्य भागः जातः आसीत् । १९१७ तमे वर्षे जाते रशियन्-क्रान्तेः अनन्तरम् अयं प्रदेशः कझक् सोवियत् सोशियलिस्त् रिपब्लिक् नाम्ना यु एस् एस् आर्-भागत्वेन परिगणितः ।
१९९१ तमस्य वर्षस्य डिसेम्बर्मासस्य १६ दिनाङ्के कझकस्थान् स्वतन्त्रदेशत्वेन उद्घोषितः । नर्सुल्तान् नझर्वयेव् अस्य देशस्य प्रथमः अध्यक्षः जातः । देशस्य राजनैतिकीं स्थितिं सम्पूर्णतया निगृह्णाति अयम् अध्यक्षः । स्वातन्त्र्यस्य प्राप्तेः अनन्तरं देशस्य आर्थिकस्थितेः वर्धनाय परिश्रमः क्रियमाणः अस्ति । विदेशीयव्यवहारेषु अपि प्रगतिः दृश्यते । अयं देशः विभिन्नासंस्कृतैः युक्तः अस्ति । ६३% जनाः कझक्जनाः विद्यन्ते । ७०% जनाः इस्लामधर्मस्य अनुयायिनः । अवशिष्टेषु अधिकांशाः क्रिस्तमतावलम्बिनः । कझक्भाषा एव देशस्य भाषा । कार्यालयेषु रशियन्भाषा अपि उपयुज्यते ।
[[चित्रम्:Kazakhstan Republican Guard.JPEG|right|thumb|कझकस्थानस्य सेना]]
== राजनैतिकी व्यवस्था ==
कझकस्थानम् अध्यक्षशासनयुतम् । अस्य देशस्य एकमेवाद्वितीयः अध्यक्षः अस्ति नर्सुल्तान् नझर्बयेवः । अध्यक्षः समग्रायाः सेनायाः प्रमुखः च । कझकस्थानस्य सर्वकारे प्रधानमन्त्री अन्ये मन्त्रिणश्च विद्यन्ते । लोकसभायां त्रयः उपप्रधानमन्त्रिणः १६ मन्त्रिणश्च विद्यन्ते । २००७ तमस्य वर्षस्य जनवरीमासस्य १० दिनाङ्कतः करिम् मसिमोवः प्रधानमन्त्रिरूपेन कार्यं कुर्वाणः अस्ति । लोकसभायाम् अधोगृहम् (मजिलिस्) उपरिगृहम् (सेनेट्) च विद्येते । मजिलिस्मध्ये १०७ स्थानानि विद्यन्ते । सेनेट्मध्ये ४७ सदस्याः विद्यन्ते । अध्यक्षः ७ सेनेट्जनानां नियुक्तिं करोति ।
== भूगोलम् ==
अयं जगति बृहत्तमः स्थलरुद्धप्रदेशः विद्यते । अस्य देशस्य ६,८४६ कि मीटर्मितः सीमाभागः रशियादेशेन सह, २२०३ कि मीटर्मितः सीमाभागः उझबेकिस्थान्देशेन सह, १५३३ कि मीटर्मितः सीमाभागः चीनादेशेन सह, १०५१ कि मीटर्मितः सीमाभागः किर्गिस्थान्देशेन सह, ३७९ कि मीटर्मितः सीमाभागः तुर्क्मेनिस्थान्देशेन सह च संविभक्तः अस्ति । अस्तन, अल्मटि, करगण्डि, शिम्केण्ट्, अत्यरौ, ओस्केमेन् इत्येतानि प्रमुखानि नगराणि । अयं देशः ४०<sup>०</sup>- ५६<sup>०</sup> उत्तर-अक्षांशे, ४६<sup>०</sup>-८८<sup>०</sup> पूर्व-रेखांशे च विद्यते । देशस्य महान् भागः एशियाखण्डे विद्यते, अल्पश्च भागः पूर्व-युरोपखण्डे विद्यते ।
{{formatnum:८०४५००}} चतुरस्रकिलोमीटर्मिता कझक्-समभूमिः देशस्य त्रिषु एकांशः अस्ति । जगति बृहत्तमशुष्कसमप्रदेशः विद्यते । अत्र विद्यमानाः प्रमुखाः नद्यः सरोवराश्च - अराल्-सी, इलि-नदी, इषिम्-नदी, उरल्-नदी, सिर्-दर्य, चर्यन्-नदी, जार्ज्, बल्खाष्-सरोवरः, झाय्सन्-सरोवरश्च ।
[[चित्रम्:Almaty, Kok-tobe exposition 2.jpg|thumb|250px|left|अद्यतनीयम् आल्मटिनगरम्]]
== आर्थिकव्यवस्था ==
युरेनियम्-बहिर्वाणिज्ये अग्रेसरः अस्ति अयं देशः । गोधूमः, वस्त्रोद्यमः इत्यादिषु अपि वाणिज्यम् अधिकम् ।
२००० तमे वर्षे कझकस्थानेन अन्ताराष्ट्रिय-धनसाहाय-संस्थायै (International Monetary Fund (IMF)) ऋणप्रत्यर्पणम् अकरोत् निश्चितावधितः सप्तभ्यः वर्षेभ्यः पूर्वमेव । २००२ तमस्य वर्षस्य मार्च्मासे अमेरिकादेशस्य वाणिज्यविभागेन अमेरिकावाणिज्यविधेः अनुसारं कझकस्थानाय विपणि-वाणिज्यानुमतिः प्रदत्ता । एतेन महान् लाभः जातः ।
== कृषिः ==
कझकस्थानस्य आर्थिकतायां १०.३% भागः भवति कृषिक्षेत्रस्य । देशस्य {{formatnum:८४६०००}} चतुरस्रकिलोमीटर्मितः भागः कृषिभूम्या युक्तः अस्ति । देशस्य मुख्यफलोदयाः - गोधूमः, बार्लि, कार्पासः, व्रीहिश्च ।
== बाह्यशृङ्खला ==
* [http://northkazakhstan.com Kazakhstan national tour operator, Official website of KAZAKHSTAN-REISEN] {{Webarchive|url=https://web.archive.org/web/20170527144226/http://northkazakhstan.com/ |date=2017-05-27 }}
* [http://repository.library.georgetown.edu/handle/10822/552643 Caspian Pipeline Controversy] from the [http://repository.library.georgetown.edu/handle/10822/552494 Dean Peter Krogh Foreign Affairs Digital Archives]
* [http://news.bbc.co.uk/2/hi/asia-pacific/country_profiles/1298071.stm Country Profile] from [[BBC News]]
* {{CIA World Factbook link|kz|Kazakhstan}}
* [http://www.state.gov/p/sca/ci/kz/ Kazakhstan] information from the [[United States Department of State]]
* [http://www.loc.gov/rr/international/amed/kazakhstan/kazakhstan.html Portals to the World] from the United States [[Library of Congress]]
* [http://ucblibraries.colorado.edu/govpubs/for/kazakhstan.htm Kazakhstan] at ''UCB Libraries GovPubs''
* [http://mfa.kz/ Ministry of Foreign Affairs of the Republic of Kazakhstan] {{Webarchive|url=https://web.archive.org/web/20110929145154/http://mfa.kz/ |date=2011-09-29 }}
* [http://www.worldbank.org.kz/WBSITE/EXTERNAL/COUNTRIES/ECAEXT/KAZAKHSTANEXTN/0,,contentMDK:20212143~menuPK:361895~pagePK:1497618~piPK:217854~theSitePK:361869,00.html World Bank Data & Statistics for Kazakhstan]
* [http://en.encyclopedia.kz/ Kazakhstan Internet Encyclopedia] {{Webarchive|url=https://web.archive.org/web/20210222042315/http://en.toikazan.kz/index.php/Main_Page |date=2021-02-22 }}
* [http://www.economist.com/node/21541853 Kazakhstan at 20 years of independence, The Economist, Dec 17th 2011]
* [http://www.economist.com/blogs/banyan/2011/12/unrest-kazakhstan "Blowing the lid off" - Unrest in Kazakhstan, The Economist, Dec 20th 2011]
* [http://www.jw-media.org/kaz/20111101.htm New Religion Law restricts religious freedom in Kazakhstan]
* [http://www.theregionaltourism.org The Region Initiative (TRI)] {{Webarchive|url=https://web.archive.org/web/20181208204551/http://www.theregionaltourism.org/ |date=2018-12-08 }}
* {{dmoz|Regional/Asia/Kazakhstan}}
*{{Wikiatlas|Kazakhstan}}
*{{osmrelation-inline|214665}}
*{{Wikivoyage|Kazakhstan}}
* [http://www.kazakhstandiscovery.com/kazakhstan-facts.html Country Facts] from [http://www.kazakhstandiscovery.com/ Kazakhstan Discovery]
* [http://www.state.gov/g/drl/rls/hrrpt/2008/sca/119135.htm 2008 Human Rights Report: Kazakhstan. Department of State; Bureau of Democracy, Human Rights and Labor]
* [http://www.ifs.du.edu/ifs/frm_CountryProfile.aspx?Country=KZ Key Development Forecasts for Kazakhstan] from [[International Futures]]
; Government
* [http://www.mfa.kz/ Ministry of Foreign Affairs of the Republic of Kazakhstan] {{Webarchive|url=https://web.archive.org/web/20110929145154/http://www.mfa.kz/ |date=2011-09-29 }}
* [http://e.gov.kz/wps/portal?lang=en E-Government of the Republic of Kazakhstan] {{Webarchive|url=https://web.archive.org/web/20130126100131/http://e.gov.kz/wps/portal?lang=en |date=2013-01-26 }}
* [http://en.government.kz/ Government of Kazakhstan] {{Webarchive|url=https://web.archive.org/web/20190810182052/http://en.government.kz/ |date=2019-08-10 }}
* [http://www.akorda.kz/www/www_akorda_kz.nsf/index?OpenForm&lang=en President of the Republic of Kazakhstan] {{Webarchive|url=https://web.archive.org/web/20080927012949/http://www.akorda.kz/www/www_akorda_kz.nsf/index?openform&lang=en |date=2008-09-27 }}
* [https://www.cia.gov/library/publications/world-leaders-1/world-leaders-k/kazakhstan.html Chief of State and Cabinet Members] {{Webarchive|url=https://web.archive.org/web/20130917225116/https://www.cia.gov/library/publications/world-leaders-1/world-leaders-k/kazakhstan.html |date=2013-09-17 }}
{{एशियाखण्डस्य देशाः}}
[[वर्गः:एशियाखण्डस्य राष्ट्राणि]]
[[वर्गः:सारमञ्जूषा योजनीया]]
afozcdlfsmr49boxhwe280pt9sdwx62
भोपालमण्डलम्
0
10843
500262
480734
2026-08-24T01:06:17Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
500262
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox settlement
| name = भोपालमण्डलम्
| native_name = Bhopal District
| other_name =
| settlement_type = भोपाल जिला
| image_map = MP Bhopal district map.svg
| map_caption = मध्यप्रदेश राज्यस्य मानचित्रे भोपाल मण्डलम्
| image_skyline = भोपालमण्डलम्.jpg
| image_alt = भोपालमण्डलम्
| image_caption = '''भोपालमण्डलस्य नयनाभिरामदृश्यम्'''
| established_title = <!-- Established -->
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[मध्यप्रदेशः]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = हुजुर, बेरासिया
| subdivision_type3 = विस्तारः
| subdivision_name3 = २,७७२ च. कि. मी.
| subdivision_type4 = जनसङ्ख्या (२०११)
| subdivision_name4 = २३,७१,०६१
| timezone1 = भारतीयमानसमयः (IST)
| utc_offset1 = +५:३०
| blank_name_sec2 = लिङ्गानुपातः
| blank_info_sec2 = पु.-५०%, स्त्री.-४६%
| blank2_name = साक्षरता
| blank2_info = ८०.३७%
| blank3_name = भाषाः
| blank3_info = [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| website = http://bhopal.nic.in/
| footnotes =
}}
'''भोपालमण्डलम्''' ({{IPA audio link|{{PAGENAME}}udit.ogg}} {{IPAc-en|ˈ|b|h|oː|p|aː|l|ə|m|ə|n|d|ə|l|ə|m}}) ({{lang-hi|भोपाल जिला}}, {{lang-en|Bhopal district}}) इत्येतत् [[भारतम्|भारतस्य]] मध्यभागे स्थितस्य [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[भोपालनगरम्|भोपाल]] इति नगरम् ।
== भौगोलिकम् ==
भोपालमण्डलस्य विस्तारः २,७७२ चतुरस्रकिलोमीटर्मितः अस्ति । [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[रायसेनमण्डलम्|रायसेनमण्डलं]], पश्चिमे [[सिहोरमण्डलम्]], उत्तरे [[गुनामण्डलम्|गुनामण्डलं]], दक्षिणे [[सिहोरमण्डलम्]] अस्ति ।
== जनसङ्ख्या ==
२०११ जनगणनानुगुणं भोपालमण्डलस्य जनसङ्ख्या २३,७१,०६१ अस्ति । अत्र १२,३६,१३० पुरुषाः, ११,३४,९३१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८५५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८५५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.६२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१८ अस्ति । अत्र साक्षरता ८०.३७% अस्ति ।
== उपमण्डलानि ==
अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते - हुजुर, बेरासिया ।
==वीक्षणीयस्थलानि==
===भोजपुर===
भोजपुर-नगरं भोपालमण्डलस्य नगरम् अस्ति । अस्मिन् नगरे एकं भव्यं मन्दिरम् अस्ति । तस्य नाम भोजपुरेश्वर-मन्दिरम् इति । इदं मन्दिरं १००० वर्षप्राचीनम् अस्ति । इदं भगवतः शिवस्य मन्दिरमस्ति । मन्दिरेऽस्मिन् सुन्दरं शिवलिङ्गम् अस्ति । अस्य लिङ्गस्य उच्चता ७.५ फीट अस्ति । महाशिवरात्रिपर्वणि बहवः भक्ताः तत्र दर्शनाय गच्छन्ति ।
===इस्लाम-नगरम्===
इस्लाम-नगरं [[भोपाल]]नगरात् ११ कि. मी. दूरे अस्ति । अस्मिन् [[हिन्दु]]-[[इस्लाम्-मतम्|इस्लामी]] सज्जीकलाः सन्ति । अस्य स्थलस्य निर्माणं अफगान-शासकेन दोस्त मोहम्मद खान इत्यनेन कारितम् ।
भीमबेटका, सामसगढ, मनुआ भान की टेकरी इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।
{{Geographic location
|Center = {{PAGENAME}}
|North = [[गुनामण्डलम्]]
|South = [[सिहोरमण्डलम्]]
|East = [[रायसेनमण्डलम्]]
|West = [[सिहोरमण्डलम्]]
}}
{{मध्यप्रदेशराज्यम्}}
== बाह्यानुबन्धाः ==
{{commons|Category:Bhopal district|{{PAGENAME}}}}
* http://bhopal.nic.in/ <br>
* http://www.census2011.co.in/census/district/311-bhopal.html
* [http://www.bhopalmunicipal.com/ Bhopal Municipal Corporation]
* [http://www.bhopal.nic.in/ Bhopal District] {{Webarchive|url=https://web.archive.org/web/20190616100149/http://www.bhopal.nic.in/ |date=2019-06-16 }}
* [http://www.bhopal.com bhopal.com, Union Carbide's web site about the Bhopal accident] {{Webarchive|url=https://web.archive.org/web/20131218214224/http://www.bhopal.com/ |date=2013-12-18 }}
* [http://www.bhopal.org bhopal.org, The Sambhavna Trust & Bhopal Medical Appeal's web site]
* [http://www.bhopal.net International Campaign for Justice in Bhopal (ICJB)]
* [http://www.epcobpl.org/bwl-main.html Bhoj Wetland Project] {{Webarchive|url=https://web.archive.org/web/20061008211305/http://www.epcobpl.org/bwl-main.html |date=2006-10-08 }}
* [http://home.iae.nl/users/triangle/country/bhopal/ Stamps of former Bhopal state]
{{Authority control}}
[[वर्गः:मध्यप्रदेशराज्यस्य मण्डलानि]]
{{शिखरं गच्छतु}}
ffevtp7d71arzlvu9kht8pwxgs01wfh
अङ्ग् सन् सू ची
0
24803
500260
492047
2026-08-23T23:23:14Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
500260
wikitext
text/x-wiki
{{Infobox officeholder
|name = अङ्ग् सन् सू ची
|native_name = {{lang-my|အောင်ဆန်းစုကြည်၊ ဒေါ်|label=[[:en:Burmese language|ब्रह्मी]]}}
|image = Aung San Suu Kyi 17 November 2011.jpg
|native_name_lang=my}}
'''अङ्ग् सन् सू ची''' ({{lang-my|အောင်ဆန်းစုကြည်၊ ဒေါ်|label=[[:en:Burmese language|ब्रह्मी]]}}) [[ब्रह्मदेशः|ब्रह्मदेशस्य]] विरोधपक्षस्य नायिका अस्ति। सामाजिकसामरस्यविषये आग्रहवती एषा [[भारतम्|भारतस्य]] अभिमानिनी अस्ति। अङ्ग् सन् सू ची एषा "[[ब्रह्मदेशः|मयन्मार्]] देशस्य न्याषनल् लीग् फार् डेमोक्रसिपक्षस्य" प्रसिद्धा नायिका । [[महात्मा गान्धी|माहात्मा गान्धीमहोदयस्य]] [[अहिंसा|अहिंसातत्वेन]] प्रभाविता एषा । २२ वार्षाणि एषा गृहबन्धने आसीत् । [[१९८९]]तमे वर्षे जुलाय्मासस्य २० दिनाङ्कतः [[२०१०]] तमे वर्षे नवेम्बर्मासस्य १३ दिनाङ्कपर्यन्तं गृहबन्धने आसीत् । सर्वाधिकारस्य विरुद्धं विरोधं कुर्वती एषा सामाजोन्मुखा सञ्जाता ।
==जन्म बाल्यञ्च==
अङ्ग् सन् सू ची जून् १९ [[१९४५]] तमे वर्षे प्रसिद्धे बर्मि कुटुम्बे जन्म प्राप्नोत् । तस्याः पिता बोगियोके अङ्ग् सन् । माता खिन्कियि । बोगियोके अङ्ग् सन् वर्यः अस्य देशस्य स्वातन्त्र्यसङ्ग्रामस्य प्रमुखः आसीत् । [[१९४८]] तमे वर्षे शत्रुपक्षेण मारितः एषः । एनाम् अस्याः माता खिन्कियि एव पालितवती । माता सार्वजनिकवैद्यालये कार्यं कुर्वती अस्याः पालनं कृतवती । अस्याः द्वौ सहोदरौ आस्ताम्, एकः "अङ्ग् सन् लीन्" अपरः "अङ्ग् सन् ऊ" इति । रङ्गून्-प्रदेशे एते वसन्ति स्म । अस्याः अष्टमे वयसि लीन् अकालमरणं प्राप्तवान् । ऊ [[संयुक्तराज्यानि|अमेरिकादेशस्य]] पौरत्वं प्राप्य तत्रैव वसति ।
==अध्ययनम्==
प्राथमिकशिक्षणम् एषा क्याथोलिक् आङ्ग्लशालासु प्राप्तवती । अस्याः माता [[ब्रह्मदेशः|ब्रह्मदेशस्य]] नूतनसर्वकारस्य प्रमुखा नायिका जाता । [[१९६०]] तमे वर्षे खिन्कियि [[ब्रह्मदेशः|ब्रह्मदेशस्य]] शासनधररूपेण [[भारतम्]] आगतवती। तस्मिन् काले अङ्ग् सन् सू ची [[देहली|देहल्यां]] स्थिते "लेडि श्रीरां विद्यालये" [[१९४६]] तमे वर्षे स्नातकपदवीं प्राप्तवती। "आक्सफर्ड सेण्ट ह्य़ूस् विद्यालये" तत्वशास्त्रम्, राज्यशास्त्रम् अर्थशास्त्रेषु च बि. ए पदवीं प्राप्तवती । समनन्तरं [[न्यू यार्क्|न्यूयार्कदेशे]] [[१९६९]] तः [[१९७०]] पर्यन्तम् अध्ययनं कृतवती । अध्ययनान्तरम् एषा विश्वसंस्थायाः सचिवालयस्य शासन-आयव्ययसमितेः सहकार्यदर्शित्वेन नियुक्ता । [[लन्डन्|लण्डन्]]-देशस्य "स्कूल् आफ् ओरियण्टल् आण्ड आप्रिकन् स्टडीस् विश्वविद्यालयद्वारा" विद्यावारिधिः (पि. एच्. डि.) इति उपाधिं प्राप्तवती ।
==वैय्यक्तिकजीवनम्==
सचिवालये कार्यकरणावसरे विरामेषु समयेषु वैद्यालये अपि स्वयंसेविकारूपेण कार्यं कुर्वती आसीत् । एषा तत्रत्यरोगिणां कृते वार्तां श्रावयति स्म । रोगिणां कृते यावत् शक्यं साहाय्यं करोति स्म । [[१९८५]] तमे वर्षे "कियोटो विश्वविद्यालये" सन्दर्शक-उपन्यासिकारूपेण कार्यं कृतवती । [[१९८७]] तमे वर्षे [[भारतम्|भारतस्य]] "सिम्ला इण्डियन् इन्स्टिट्यूट् आफ् अड्वान्सड् स्टडीस्" केन्द्रस्य गौरवसदस्यत्वं प्राप्तवती । अस्मिन् एव समये मयन्मार् संयुक्तसर्वकारस्य कृते अपि कार्यं कृतवती । [[१९७२]] तमे वर्षे जनेवरीमासस्य १ दिनाङ्के टिबेट्देशीयं पण्डितं मैकेल् विलन्कोर्ट् आरिस् वर्यं परिणीतवती । अनेन सह एषा भूतान् देशे एव वासं कृतवती । अस्मिन्नेव देशे विदेशाङ्गसचिवालये संशोधनाधिकारिरूपेण कार्यं प्राप्तवती । 'अलेक्साण्डर्' ([[१९७३]] तमे वर्षे), 'किम्' ([[१९७७]] तमे वर्षे) इति नामकं सन्तानद्वयं प्राप्तवती । दशकद्वयं कुटम्बेन सह सुखमयं जीवनं यापितवती ।
==गृहबन्धनम्==
अङ्ग् सान्सन् सू कि स्वदेशीयजनानां सेवां कर्तुम् उद्युक्ता आसीत् । [[१९८८]] तमे वर्षे स्वमातृदर्शनार्थं [[ब्रह्मदेश|बर्मादेशम्]] आगतवती । माता रोगग्रस्ता आसीत् । [[ब्रह्मदेशः|ब्रह्मदेशस्य]] नाम [[ब्रह्मदेशः|मयन्मार्]] इति परिवर्तितम् आसीत् । मयन्मार् सर्वाधिकारशासने आसीत्। जनाः कष्टम् अनुभवन्तः आसन् । शासनपद्धतिं दृष्ट्वा, सर्वाधिकारस्य विरुद्धं विरोधं कुर्वती एषा सामाजोन्मुखा सञ्जाता । एतेन कारणेन क्रुद्धः सर्वकारः तां जुलाय्मासस्य २० दिनाङ्के [[१९८९]] तमे संवत्सरे गृहबन्धने अस्थापयत् । २२ वार्षाणि यावत् गृहबन्धने अस्थापयत् । जनरल् नेविन् [[१९०२]] वर्षतः [[१९८८]] वर्षपर्यन्तं स्वाधीने एव सेनाशासनं स्थापितवान् आसीत् । कालान्तरे स्वयमेव राष्ट्रपतित्वेन उद्घोषितः जातः । ३० वर्षाणाम् अनन्तरं [[१९९०]] तमे संवत्सरे जून्मासे निर्वाचनव्यवस्था आरब्धा । तस्मिन् निर्वाचने अस्याः पक्षस्यैव बहुमतं प्राप्तम् आसीत्। किन्तु तदा एव एनां गृहबन्धने स्थापितवन्तः । अतः सा अधिकारमपि न प्राप्तवती । मॆमासस्य ६ दिनाङ्के २००२ वर्षे अस्याः विमोचनार्थं विश्वसंस्थायाः कार्यदर्शि कोफि अन्नान् सर्वकारेण सह चर्चां कृतवान्, किन्तु निष्फला सञ्जाता । २००५ तमे संवत्सरे इतोऽपि एकवर्षम् अग्रे सारितवन्तः । २००६ तम संवत्सरस्य जून्मासस्य ९ दिनाङ्कतः अतिसारेण पीडिता,वैद्यालयं प्राप्तवती । नवम्बरमासे गुणमुखा सञ्जाता । जनेवरिमासस्य १ मे दिनाङ्के २००७ तमे संवत्सरे २८३१ कारागृहजनान् मयन्मार् सर्वकारः मुक्तान् कर्तुं चिन्तितम् आसीत् । अस्मिन् सन्दर्भे कि मून् विश्वसंस्थायाः सेक्रेटरिजनरल् अस्याः विमोचनार्थं प्रार्थितवान् आसीत् । किन्तु, अस्मिन् समयेऽपि एकवर्षं यावत् अग्रे सारितवन्तः । अस्मिन् समये ५९ विश्वनायकाः अस्याः विमोचनार्थं प्रार्थितवन्तः आसन् । जिम्मिकार्टर्, जार्ज-एच्-बुष्, बिल् क्लिण्टन् तथा संयुक्तसाम्राज्यस्य प्रधानमन्त्री मार्गरेट् थ्याचर् आदयः विश्वनायकाः प्रार्थिवन्तः आसन् । किन्तु, १३ नवेम्बर्मासस्य १३ दिनाङ्के [[२०१०]] तमे संवत्सरे गृहबन्धनात् विमुक्ता एषा ।
==पुरस्काराः==
एषा यदा गृहबन्धने आसीत् तदैव [[१९९०]] तमे संवत्सरे “सखरोव्” पुरस्कारं प्राप्तवती [[१९९०]] तमे संवत्सरे थरोल् राफ्ट स्मारकपुरस्कारं प्राप्तवती । [[१९९१]] तमे संवत्सरे विश्वविख्यातं “नोबेल्” पुरस्कारं प्राप्तवती । [[१९९२]] तमे संवत्सरे “अन्ताराष्ट्रीय सैमन् बोलिवार्” पुरस्कारं प्राप्तवती । [[१९९३]] तमे संवत्सरे जवहरलाल् नेहरू पुरस्कारं प्राप्तवती । [[१९९५]] तमे संवत्सरे “प्रैज् फार् फ्रीडम् आफ् दि लिबरल् इण्टर्न्याशनल्” पुरस्कारं प्राप्तवती । [[१९९६]] तमे संवत्सरे कम्पानियन् आफ् दि आर्डर् आफ् आस्ट्रेलिया पुरस्कारं प्राप्तवती । [[१९९९]] तमे संवत्सरे ऎर्ल्याण्ड सार्वकारस्य “फ्रीडं आफ् डब्लिन् सिटि” पुरस्कारं प्राप्तवती । [[२०००]] तमे संवत्सरे प्रेसिडेन्षियल् मेडल् आफ् फ्रीडं पुरस्कारं प्राप्तवती । [[२००२]] तमे संवत्सरे युनेस्को मदन्जित् सिङ्ग् पुरस्कारं प्राप्तवती । [[२००४]] तमे संवत्सरे ग्वाङ्ग्जु ह्यूमन् रैट्स पुरस्कारं प्राप्तवती । [[२००४]] तमे संवत्सरे न्यूजिलेण्डदेशस्य मेमोरियल् विश्वविद्यालयस्य गौरव डाक्टरेट् प्राप्तवती । [[2007]] तमे संवत्सरे गौरवप्रजापुरस्कारं प्राप्तवती । [[२००९]] तमे संवत्सरे फ्रीडम् आफ् ग्लास्को पुरस्कारं प्राप्तवती । [[महात्मा गान्धी]] अन्ताराष्ट्रीय पुरस्कारमपि प्राप्तवती ।
==वीथिका==
<gallery>
Edgardo Boeninger en Myanmar junto a Aung San Suu Kyi.jpg
Jim Webb with Aung San Suu Kyi.jpg
Secretary Clinton Meets Daw Aung San Suu Kyi for Dinner (6437451337).jpg
DASSK Europe conference.JPG
Aung San Suu Kyi greeting supporters from Bago State.jpg
Barack Obama meets with Aung San Suu Kyi Sept. 19, 2012.jpg
Ms. magazine Cover - Winter 2012.jpg
</gallery>
==बाह्यानुबन्धः==
*[https://web.archive.org/web/20110202230504/http://www.dassk.org/ Aung San Suu Kyi's website via the Internet Archive]
*[http://www.nobelprize.org/nobel_prizes/peace/laureates/1991/ Nobel Peace Prize 1991, Aung San Suu Kyi] at [[NobelPrize.org]]
* [http://gury.orgfree.com/suukyi1.htm Aung San Suu Kyi – Summary, biography, excerpts from books]
* [http://www.spiegel.de/fotostrecke/fotostrecke-61677.html Burma's Suu Kyi, Free at Last] – slideshow by ''[[Der Spiegel]]''
*[http://news.outlookindia.com/items.aspx?artid=758222 Peace Prize 2012 from India by Sarhad organisation PUNE City ] {{Webarchive|url=https://web.archive.org/web/20120719183512/http://news.outlookindia.com/items.aspx?artid=758222 |date=2012-07-19 }}
*[http://www.thisismyanmar.com/mb/assk.htm Awards Received by Daw Aung San Suu Kyi ] {{Webarchive|url=https://web.archive.org/web/20120902042506/http://www.thisismyanmar.com/mb/assk.htm |date=2012-09-02 }}
*[http://i.dailymail.co.uk/i/pix/2012/11/19/article-2235048-161C817A000005DC-46_634x427.jpg Aung San Suu Kyi and Clinton]
[[वर्गः:बर्मादेशः]]
qpm34gzmzw4nzxhwxebq9nhvl2zp2zo
सदस्यसम्भाषणम्:Renamed user 5ed1716b0f90fda12abd9ab559708b95
3
70825
500259
452440
2026-08-23T15:33:20Z
Veritas Sapientiae
36583
पुनर्निर्देशनम् अत्यक्त्वा Veritas Sapientiae इत्यनेन [[सदस्यसम्भाषणम्:Меридианец]] तः [[सदस्यसम्भाषणम्:Renamed user 5ed1716b0f90fda12abd9ab559708b95]] पृष्ठं स्थानान्तरितं: "[[Special:CentralAuth/Меридианец|Меридианец]]" का नाम "[[Special:CentralAuth/Renamed user 5ed1716b0f90fda12abd9ab559708b95|Renamed user 5ed1716b0f90fda12abd9ab559708b95]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ
452440
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Меридианец}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १०:५२, ७ मे २०२० (UTC)
axoxrn5y5913s3v6584hrxlxkbl0lgx
ज्योतिषशास्त्रस्य विकासक्रमः
0
79805
500271
474819
2026-08-24T11:45:10Z
108Gopal verma
40203
/* जीवनपरिचयः वंशश्च */ भास्कराचार्यः (द्वितीयः)
500271
wikitext
text/x-wiki
'''ज्योतिषशास्त्रस्य विकासक्रमः''' ग्रहाणां विज्ञानिकतायाः इतिहासः एव। (ज्योतिषामयनं चक्षुः) शास्त्रमर्मज्ञाः विद्वांसो विदन्ति यत् पड् वेदाङ्गेषु ज्योतिषं चरमं वेदाङ्गमस्ति । यथा वेदपुरुषस्य व्याकरणं मुखमस्ति तद्वत् ज्योतिपं नयनं स्मृतम । नेवाश्यांना यथा कोऽपि मानवः स्वयमेव पदात्पदमपि चलितुं न शक्नोति तद्वत ज्योतिषशा विना वेदपूरुषस्यान्धता समापतिष्यति । वेदस्य प्रवृत्तिविशेपेण यज्ञसम्पादनाय भवति । यज्ञस्य च विधानं विशिष्ट कालानामपेक्षां स्थापयति ।
यज्ञ-याग-सम्पादनाय समय शुद्धे महती आवश्यकता भवति । कानिचित् कर्मकाण्डविधानान्येतादशानि सन्ति येषां सम्बन्धः सम्वत्सरेण भवति कस्यचिच्च ऋतुना। एतदुदाहरणञ्च यथा--तैत्तिरीय ब्राह्मणस्य कथनमस्ति ---- 'वसन्ते ब्राह्मणोऽग्निमादधीत, ग्रीप्मे राजन्य आदधीत । शरदि वैश्य आदधीत' । अत्रायमाशयः-ब्राह्मणः वसन्ते ( चैत्र वैशाखयोः ) अग्नेः आधानं ( स्थापनम् ) कुर्यात्, क्षत्रिय: ग्रीष्मे ( ज्येष्ठ-आषाढयो: ), वैश्यश्च शरदतो ( आश्विन-कार्तिकयोः ) आधानं कुर्यात् । ताण्डयब्राह्मणे ( सामवेदस्य ) कतिपय यज्ञस्य सम्पादनं विशिष्टमासेषु विशिष्टपक्षेषु च प्राप्यते । तथा च तत्र- 'एकाष्ट कायां दीक्षेरन् फाल्गुनी पूर्णमासे दीक्षेरन्' इति नियमात् ।
अपरञ्च- प्रातःकाले सायंकाले च प्रत्येक नियमितमग्निहोत्रिण मग्नी दुग्धेन घृतेन वा हवनं कुर्युः, इति विधानं तैत्तिरीयब्राह्मणे विद्यते—'प्रातर्जुहोति सायं जुहोति' । अत्रायमाशयो यत् सुचिन्तितरूपेण नक्षत्रस्य, तिथेः, पक्षस्य, मासस्य, ऋतोः, सम्वत्सरस्य च कालस्य समस्तखण्डैस्सह यज्ञ-यागस्य विधानं वेदेषु प्राप्यते । तत्रैव महती प्रतिष्ठा । तस्मादे तेषां नियमानां परिपालनाय यथार्थरूपेण निर्वाहाय च ज्योतिषशास्त्रस्य ज्ञानं नितान्त मावश्यकमस्ति । उपादेयता च तत्रैव सिद्धयति ।
अतएव विद्वांसः कथयन्ति ज्योतिष कालविज्ञापकं शास्त्रम्, यतोहि--'मुहूत्तं शोधयित्वा क्रियमाणा यज्ञादि क्रिया विशेषाः फलाय कल्पन्ते' नान्यथा, तन्मुहूर्तज्ञानञ्च ज्यौतिषायत्तमतोऽस्य ज्योतिपशास्त्रस्य वेदाङ्गत्वमुररीकृतम् । अतएव वेदाङ्गज्यौतिषस्य तु परमाग्रहोऽयं यत्--यो जनः ज्यौतिषं सम्यक्तया विजानाति स एव यज्ञस्य यथार्थरूपेण ज्ञानं दधाति । वेदाङ्गज्यौतिषस्यत्वयमेव डिण्डिमघोषः जनान् उद्बोधयति--
'''वेदा हि यज्ञार्थमभिप्रवृत्ताः कालाभिपूर्वा विहिताश्च यज्ञाः ।'''
'''तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञम् ॥'''
यज्ञस्य साफल्यं न केवलं समुचितविधानाचरणे एव प्रत्युत उचिते निर्दिष्टनक्षत्रे समुचिते काले एव विधानाद्भवति । अतएव--असुराणां परिभाषा विषये श्रुतेर्वचनं ध्यातव्यम् यत्-
''''ते असुरा अयज्ञा अदक्षिणा अनक्षत्राः । यच्च किञ्चाकुर्वत तां कृत्या मेवाकुर्वत' ।'''
अत्रेदमवधेयम् ---असुराः यज्ञेन हीनाः भवन्ति, दक्षिणादानेन विरहिताः भवन्ति, नक्षत्रेण रहिताश्च भवन्ति । अतएव यत्किञ्चित् कुर्वन्ति समर्पयन्ति । परञ्च देवानामेतद्विपरीतास्थितर्भवति–ते समुचिते समये सदक्षि सम्पादनं कुर्वन्ति ।
==ज्योतिषस्य वेदाङ्गत्वम्==
वैदिकयश विधानाय ज्योतिषस्य महन्महत्त्वं हर ज्योतिषमार्तण्डेन सुविख्यातेन भास्कराचार्येण स्पष्टमुद्घोषितं स्वीयेसिद्धान्तशि यथा--
'''वेदास्तावद् यज्ञकर्मप्रवृत्ता यशाः प्रोक्तास्ते तु कालाश्रयेण ।'''
'''शास्त्रादस्मात् कालबोधो यतः स्यात् वेदाङ्गत्वं ज्योतिषस्योक्तमस्मात ।।'''
अपरञ्च-वेदाङ्गज्योतिषस्य सम्मती ज्योतिषशास्त्रं समग्रवेदाङ्गेषु मर्धस्थानीयमस्ति, तथा च तत्र-
'''यथा शिखा मयूराणां नागानां मणयो यथा।'''
'''तद्वद् वेदाङ्गशास्त्राणां गणितं मूर्धनि स्थितम् ।।'''
अत्रायं निष्कर्षार्थ:--यथा मयूराणां शिखा तस्य शिरस्येव तिष्ठति, सर्पाणां मणिः तेषां मस्तके एव विराजते ( रात्री सर्पाः मस्तकाद् मणिमुद्धत्य भूमौ स्थापयित्वा क्षेत्रेषु इतस्ततः विचरन्ति पुनः क्रीडायाः सम्पन्ने सति मस्तके मणि धारयन्ति इति लौकिकप्रवादः ) तेनैव प्रकारेण शिक्षा-कल्पादि वेदाङ्गषडङ्गेषु ज्योतिषस्य सर्वश्रेष्ठं स्थान प्राप्तमस्ति ।
ज्योतिष वेदपुरुषस्य चक्षुरस्ति--'शिक्षाघ्राणं तु वेदस्य ज्योतिष नयन स्मृतमिति, पाणिनीय शिक्षायामुद्घोषितमस्ति । यथा--चक्षुविहीन: पुरुषः ( अन्ध: ) स्वकार्यसम्पादनेऽसमर्थो भवति तद्वत् ज्योतिषशास्त्रज्ञानेन विरहितः पुरुषः वैदिककर्मकाण्डेषु सर्वथा अन्ध एव तिष्ठति ।
ज्योतिषशास्त्रस्येतिहासे एष उल्लेखो मिलति यत्--पुराकाले चतुर्णामपि वेदानां पृथक् पृथक् ज्योतिषशास्त्रमासीत्, तेषु ( अधुना ) सामवेदस्य ज्योतिषशास्त्रं नोपलभ्यते । अवशिष्टानां त्रयाणामितरेषां वेदानां ज्योतिषाणि प्राप्यन्ते, तद्यथा क्रमेण -
(१) ऋग्वेदस्य ज्योतिषम्-आर्य ज्योतिषम्, षट्त्रिंशत् पद्यात्मकम् ।
(२) यजुर्वेदस्य ज्योतिषम् -बाजुष ज्योतिषम्, ऊनचत्वारिंशत् पद्यात्मकम् ।
( ३ ) अथर्ववेदस्य ज्योतिषम्-आयर्षण ज्यौतिषम्, द्विषष्टयुत्तरशतपद्यात्मकम् ।
वस्तुतः आर्चज्योतिष-याजुषज्यौतिषयोः सामानाधिकरण्यं प्रतीयते । यतो ह्यनेकत्र द्वयोः साम्यं विद्यते । क्वचिदितिहासे द्वयोरेव नामोल्लेखः आथर्वणस्य चर्चेव नास्ति । संख्या विषयेऽपि मतैक्यं न तिष्ठति, याजुषज्योतिषस्य पद्यसंख्या उपरि 'ऊन चत्वारिंशत् ( ३९ ) निर्दिष्टा विद्यते, क्वचिच्चेतिहासे सैषा संख्या ऊनपञ्चाशद (४९) विद्यते । एवमेव आथर्वणज्योतिषस्थाने 'अथर्वज्योतिषम्' इत्यपि मिलति ।
==वेदाङ्गज्यौतिषम् ==
अस्मिन् वेदाङ्ग ज्योतिषे वेदकालीनस्य प्राचीनज्यौतिषशास्त्रस्य वर्णनं विद्यते। तद्युगस्य सर्वाः वार्ताः इयत्यः अज्ञाता: सन्ति यत् वेदाङ्गज्योतिषस्य रहस्यानां स्फटीकरणमद्यत्वे विद्वद्भ्योऽपि विषमा समस्योत्पद्यते । श्रूयते इतिहासे पठ्यते च यद बहभिर्वः प्राच्याः पाश्चात्याश्च विद्वांसः एषां श्लोकानां रहस्योद्घाटने प्रयत्न शीलाः सन्ति, परन्त्वद्यापि-वेदांगज्योतिषस्य कतिपयानि पद्यानि-एतादशानि सन्ति-येषां रहस्यार्थोद्घाटनमद्यापि समुचितरूपेण न ज्ञायते ।
पाश्चात्य विद्वद्भिः डॉ० थीवो महाशयः प्राच्यैश्च शंकरबालकृष्णदीक्षितैः, लोकमान्य बालगंगाधरतिलक; महामहोपाध्यायसुधाकरद्विवेद्यादिभिर्विश्रुतमनीषिभिः काले काले वेदाङ्गज्यौतिषस्योपरि गूढार्थव्याख्याः कृता । डॉ० थीवो महाशयेन १८७७ ईशवीये एशियाटिकसोसाइटी कलिकातायाः शोधपत्रिकायाम्, शंकरबाल कृष्णदीक्षितेन 'भारतीयज्योतिषशास्त्रनामके मराठीग्रन्थे, लोकमान्यतिलकेन स्ववेदाङ्ग ज्यौतिष' नामके आंग्लभाषामये पुस्तके, म० म० सुधाकरद्विवेदिना च वेदाङ्ग ज्योतिषस्य स्वनिर्मिते संस्कृतभाष्ये एषां श्लोकानां सुस्पष्टतया सारगर्भिता व्याख्याः कृता।
वेदाङ्गज्योतिषस्योपर्येकम् प्राचीनं भाष्यमपि प्रकाशितमस्ति । यस्य रचना शेषकुलोत्पन्नेन काशीनिवासिना सोमाकरनामकेन केनापि दाक्षिणात्येन विचक्षणेन विदुषाकृताऽऽसीत् । सोमाकरपदाभिधाना विद्वांसः ज्योतिषशास्त्रस्य प्रकर्षपाण्डित्य शीला: मर्मज्ञाः आसन् । नापसन्देह लेशोऽपि । परञ्च खेदस्य विषयोऽयं यत्तेषां जीवन चरितस्य समयस्य च परिज्ञानं न जायते ।
वेदाङ्गज्योतिषस्य - ( आर्चज्यौतिषस्य, याजुषज्यौतिषस्य, आथर्वणज्यौतिषस्य च ) कर्तुर्नाम लगध इति आसीत् । आर्चज्योतिषस्य द्वितीयेन इलोकेनतद् ज्ञायते । तथा च तत्रोक्तम् -
''''प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् ।'''
'''कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥'''
अत्रैतद् वैशिष्टयं विद्यते यत्-अस्मिन् ग्रन्थे पञ्चवर्षात्मको युगः स्वीकृतः, वर्षाणा मेषां नामानि यथा-सम्वत्सरः, परिवत्सरः, इदावत्सरः अनुवत्सरश्चेति । एतन्नामानि प्रकरणवशात् तैत्तिरीये ब्राह्मणेऽपि प्राप्यन्ते । तस्मिन् काले वर्षारम्भः ( सम्वत्सारा रम्भः ) माघमासादारभ्यतेस्म ज्योतिषस्य सिद्धान्तग्रन्थेषु द्वादश राशिभिः ( मेष, वृप, मिथुन, कर्क, सिंह, कन्या, तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन नामकः ) गणना भवति । परञ्चास्मिन् वेदांगज्योतिषे राशीनां क्वापि नाम निर्देशो नास्ति ।
प्रस्तुतायाः गणनायाः आधारभूमिः अश्विन्यादि-सप्तविंशति-नक्षत्राण्येव सन्ति । श्रीमता शंकरबालकृष्ण-दीक्षितेन बहुप्रयत्नेन सप्रमाणं सुनिश्चितं यत् अस्य वेदाङ्गज्योतिषस्य रचनाकाल: ईशवीयशतकात् पूर्व १४०० वर्षे एव संजातः इति । अति प्राचीनकाला देव सम्बद्धत्वात् ग्रन्थोऽयं दुरूहो दुर्योधश्च जातः । महनीयस्य प्रत्यक्षस्यास्य ज्योतिष शास्त्रस्य त्रयो मार्गाः भवन्ति । तस्मादिदं शास्त्रं त्रिस्कन्धमित्युच्यते बुधैः । तदुक्तं यथा -
''''सिद्धान्त-संहिता-होरा-रूपं स्कन्धत्रयात्मकम् ।'''
'''वेदस्य निर्मलं चक्षुर्योतिश्शास्त्रमनुत्तमम्' ।।'''
अस्य त्रिस्कन्धात्मकस्य ज्योतिषस्याधोलिखिताऽष्टादशमहर्षयः प्रवर्तकाः र दिताः सन्ति । एते समये समये ज्यौतिषस्य विकासाय प्रयत्नानि चक्रः । एतेषां गणना पद्याभ्यां यथा--
''''सूर्यः पितामहो व्यासो वशिष्ठोऽत्रि: पराशरः ।'''
'''कश्यपो नारदो गर्गो मरीचिमनुरङ्गिराः ॥'''
'''लोमशः पुलिशश्चैव च्यवनो यवनो भृगुः ।'''
'''शौनकोऽष्टादशश्चैते ज्योतिःशास्त्रप्रवर्तकाः ॥'''
एतत् स्पष्टम् । अपरञ्च सिद्धान्ततत्त्वविवेके श्रीमता कमलाकरभट्रेन अस्य शास्त्रस्य विकासक्रमःप्रशस्तिश्च निम्नाङ्कितेन पद्येन कृताऽस्ति । एतच्च ध्यातव्यम् -
''''ब्रह्मा प्राह च नारदाय हिमगुर्यच्छौनकायामलं,'''
'''माण्डव्याय वशिष्ठसंज्ञकमुनिः सूर्योमयायाह यत् ।'''
'''प्रत्यक्षागमयुक्तिशालि तदिदं शास्त्रं विहायान्यथा,'''
'''यत् कुर्वन्ति नराधमास्तु तदसद्वेदोक्तिशून्याभृशम् ॥'''
उपर्युक्तानामेतेषां सिद्धान्ता अपि तदारभ्य प्रचलिताः सन्ति स एष सिद्धान्तयुगः ।
==सिद्धान्तयुगः==
समीक्षका: विद्वांसः कथयन्ति–वेदाङ्गज्यौतिषादारभ्य यो युगः वराहमिहिर पर्यन्तमायाति तं वयं सिद्धान्तयुगस्य नाम्ना जानीमः । यतो ह्यस्मिन् युगे सिद्धान्तानां प्रवर्तनं प्रचलनं वा सविशेषरूपेणाभूत् । युगोऽयमस्मभ्य: तमसावृतः स्याद्यदि सुवि ख्यातो वराहमिहिरस्तस्मिन् युगे प्रचलितानां पञ्च सिद्धान्तग्रन्थानां सारांशं स्वपञ्च सिद्धान्तिकायां प्रचारितं न कुर्यात् । वराहमिहिरः स्वयमेव सर्वतन्त्रस्वतन्त्रः प्रतिभासम्पन्नः ज्योतिविदासीत् । इत्येव नहि ते चैकस्य स्वतन्त्रस्य सिद्धान्तग्रन्थस्य रचनायाः वैचक्षण्यं स्वस्मिन् स्थापयन्ति स्म। परञ्च तैः व्यापकबुद्धया तद्युगस्य सिद्धान्त ग्रन्थानां परिचय: समुपस्थापितः । ऐतिहासिकदृष्ट्या महत्त्वपूर्णमिदं कार्यम् ।
विद्वांसः कथयन्ति यत्-पञ्चसिद्धान्तिकग्रन्थस्य या प्रतिः सम्प्रत्युपलब्धाऽस्ति, या च डॉ० थीवो महाशयेन महामहोपाध्याय-पण्डितसुधाकर-द्विवेदिना च आंग्लानुवादेन संस्कृतटीकया च सह १८८९ ईशवीये वर्षे प्रकाशिताऽऽसीत् सा प्रतिः अनेकषु स्थलेषु अशुद्धा भ्रष्टा च विद्यते । तथापि सम्पादकयोः अश्रान्तपरिश्रमेण कृतमेतत् दुष्करं कार्य ज्योतिषशास्येतिहासे महत्त्वपूर्णमासीत् । एषां पञ्चसिद्धान्तानां नामानि सन्ति (१) पोलिशः, ( २ ) रोमकः, ( ३ ) वांशिष्ठः, ( ४ ) सौरः, ( ५ ) पैतामहश्च । एतेषां विषये आचार्यवराहमिहिरेण स्वयमेव लिखितं यत्-एषु पञ्चसु सिद्धान्तेषु पोलिश-रोमकयोश्च व्याख्याकाराः लाटदेव-महाशयाः सन्ति । पोलिशसिद्धान्तः सुस्पष्टोऽस्ति । रोमकसिद्धान्तोऽपि तस्यैव साहचर्य धत्ते । सूर्यसिद्धान्तः सर्वतोऽधिक:
सुस्पष्टः । अवशिष्टौ च वाशिष्ठ-पैतामहसिद्धान्तौ-अतीवभ्रष्टौ स्तः । अस्य ग्रन्थस्य रचनाकालः प्रथमशतक:।
एषु सिद्धान्तग्रन्थेषु सूर्यसिद्धान्तनामको ग्रन्थः पृथगप्युपलब्धो भवति । अस्य च सारांशः पञ्चसिद्धान्तिकायामपि प्रदत्तोऽस्ति । द्वयोस्तुलनया द्वयोरन्तरं प्रतीयते । ज्ञायते यत् प्राचीन सूर्यसिद्धान्ते नवीनानि संशोधनानि कृतानि सन्ति । येषां लक्ष्यमासीत् यत् सूर्याचन्द्रमसोः ग्रहयोः चंक्रमणस्य काल: (यस्य पारिभाषिकीसंज्ञा भगणो विद्यते।) नेत्राभ्यां दृष्टानां यन्त्रश्च मापितानां मानानां यथासम्भवं नेकटयं प्राप्नुयात् । अनेन प्रकारेण संशोधितः सूर्यसिद्धान्तः प्राचीनसंस्करणापेक्षयाऽधिकं फलं ददाति ।
(१) पितामहसिद्धान्तः - पञ्चसिद्धान्तिकाया: द्वादशाध्याये केवलं पञ्चश्लोके ध्वस्य परिचयो विद्यते । तेन ज्ञायते यत् एतन्मतं वेदाङ्गज्यौतिषेन सह प्रचुर साम्यं दधाति ।
(२) रोमकसिद्धान्तः - अस्य सिद्धान्तस्य लेखकः श्रीपेणः कथ्यते । परञ्च डॉ० थीवो महाशयस्य मतमस्ति यत् श्रीषेणेन न कोऽपि मौलिकः ग्रन्थः विरचितः अपितु प्राचीनरोमकसिद्धान्तस्य केवलं नवीनं स्वरूपमेव प्रदत्तम् । रोमकसिद्धान्तः यवनज्यौतिषेन सह साम्यं स्थापयति, परञ्चानेकत्र भिन्नता अपि प्रतीयते। अतो वयं रोमकसिद्धान्तं यूनानीज्योतिषस्यान्धानुकरणं नैव मन्यामहे। वराहमिहिरात्पूर्व भारते यूनाने चावागमनं विशेषरूपेणासीत् । अतः यूनानीज्योतिषस्यागमनमप्यस्यैव विचारविनिमयस्यैकं स्फुटरूपं विद्यते ।
( ३ ) पुलिशसिद्धान्तः- पञ्चसिद्धान्तिकायामस्य सिद्धान्तानां परिचय: पाठा नामशुद्धया विशुद्धरूपेण न मिलति । अत्र ग्रहणानां गणनायै अपि नियमाः सन्ति, परञ्च ते सूर्य सिद्धान्तस्य रोमकसिद्धान्तस्य चापेक्षयाऽतिस्थूलाः सन्ति । भट्टोत्पलेन वृहत्संहितायाष्टीकायां पृथूदकस्वामिना च ब्राह्मस्फुटसिद्धान्तस्य टीकायां पुलिश सिद्धान्तस्योल्लेखः कृतः । यश्चास्मात् ग्रन्थात् सर्वथा भिन्नः प्रतीयते ।
( ४ ) वशिष्ठसिद्धान्तः-अस्यातिसंक्षेपतमं विवरणं प्राप्यते । अस्य कतिपय सिद्धान्ता पितामहसिद्धान्तेन सह मिलन्ति । वराहमिहिराचार्याः स्वयमेवैनं भ्रष्टमाम नन्ति । ब्रह्मगुप्तेन स्फुटसिद्धान्ते विष्णुचन्द्रेण लिखितस्य वशिष्ठसिद्धान्तस्यकं संशोधितं संस्करणमुपस्थापितमासीत् यद्धि ब्रह्मगुप्तेनातिहीनं कथितम् । साम्प्रतं लघुवशिष्ठ सिद्धान्तस्य नाम्ना य: ग्रन्थः प्रकाशितः स तु अस्माद् भिन्नः ।
==सूर्यसिद्धान्तः==
विख्यातेन वराहमिहिराचार्येण स्वयमेव सूर्यसिद्धान्ताय सर्वतोऽ धिकमुच्चं स्थानं प्रदत्तमस्ति । अद्यापि सूर्यसिद्धान्तः समुपलब्धोऽस्ति । यस्यांग्लहिन्दी भापयोः अनुवादः प्रकाशितोऽस्ति । ग्रन्थोऽयं प्राचीनग्रन्थादनेकत्र भिन्नतां स्थापयति । अस्मिन् संशोधिते सूर्यसिद्धान्ते १४ चतुर्दशाधिकारा अध्यायाः वा सन्ति । तत्र प्रथमेऽध्याये ग्रन्थस्यास्य रहस्योद्घाटनकर्तारः स्वयमेव भगवन्तः सूर्यदेवाः कथिताः सन्ति तदुपदेशञ्च श्रुत्वा मयनामकेनासुरेणास्य निर्माणं कृतम् । अस्य मूलरचयितुर्नाम अज्ञातावस्थायामस्ति । अत्र ग्रहाणां मध्यगतीनां वर्णनमस्ति । दिवाकर-शशीबुधादयो ग्रहाः समानकोणीयवेगेन नहि प्रचलन्ति ।
अस्याः कल्पनाया अनसारंग या स्थितिरुत्पद्यते तां स्थिति 'मध्यमज्या' मध्यमस्थितिर्वा कथयन्ति । ग्रहगी वर्णनानन्तरं बीजसंस्कारकरणस्योपदेशोऽस्ति । गणनायां वेधे चान्तरेण बी संस्कारः परमापेक्षितः संजातः । अतो युगे सूर्यस्य चन्द्रमसः ग्रहाणाञ्च भगणाना संख्यायां परिवर्तनं विहितम् । प्रकारान्तरेण तेषां दैनिकी गतिः परिवर्तिता। एतत्मा षोडशे शतके कृतं भवेत् । सूर्याचन्द्रमसो: या सारिणी 'बरजेसेनेन' स्वकीयेऽनुदिते ग्रन्ये प्रदत्ता, तया सारिण्या ज्ञायते--सूर्यसिद्धान्तस्य मानं पर्याप्तं शुद्धमस्ति । आधुनिकस्य सूर्य-वर्षमानं २६५ दिवसाः ( दिनानि ), ६ होरा, ९ मि० १०८ पलानि ।
सूर्यसिद्धान्ते एतन्मानं ३६५ दिनानि, ६ होरा, १२ मिनटानि, ३६'६ पलानि-विद्यन्ते । अनेन प्रकारेण वयं जानीमो यत्-अद्यापि वैज्ञानिकगणनायाः समकक्षतया सूर्य सिद्धान्तस्य गणना पर्याप्तरूपेण शुद्धा प्रामाणिकी यथार्था च विद्यते एतदर्थमेवास्याः गणनायाः आधारे निर्मिताः पञ्चाङ्गादयोऽपि मान्या भवन्ति ।
द्वितीयेऽध्याये ग्रहाणां स्पष्टस्थिते: वर्णनं विद्यते, एतदर्थञ्च ज्यासिद्धान्तस्योपयोगो विहितोऽस्ति । ग्रहणस्य विषये चन्द्रमसः व्यासः ४८० योजनानि कथितानि सन्ति । पृथिव्याः निदिष्टव्यासेन ( १६०० योजनानि ) तुलनायां चन्द्रमसः व्यासः पृथिव्याः व्यासस्य ०'३३ इत्यस्ति । यद्धि वास्तविकात् मापनात्--अधिकं भिन्नं नास्ति । परश्च सूर्यव्यासस्य वर्णनं नितान्तमशुद्ध मस्ति सूर्यस्य व्यासः पृथिव्याः व्यासात् चतुर्गुणोऽत्र प्रतिपादितोऽस्ति । यः वास्तविकेन व्यासेन अत्यधिकोऽशुद्धो विद्यते ।
अनेनैव प्रकारेण सूर्यग्रहणज्ञापनस्य पद्धतावपि महत्या बुद्धिमत्तया कतिपयनियमाः प्रसारिताः सन्ति, यद्यप्यनेकसंशोधनानां परित्यागेनान्तिमः परिणामः समुचितो न निःसरति । एतदनन्तरं ग्रहयुतेः, नक्षत्रयुतेश्च वर्णनं विद्यते । एकस्मिन् अध्याये यन्त्राणां निर्माणस्य वर्णनं विद्यते । अन्तिमे मानाध्याये अयनस्य, संक्रान्तेः, उत्तरायणस्य, . दक्षिणायनस्य चान्द्र-सावनवर्षयोश्च कालविवेचनं कृतमस्ति । अत्र सूचितमस्ति यत् - सावनदिनम् सूर्यस्यैकस्मादुदयादारभ्यान्योदयपर्यन्तस्य कालं कथयन्ति ।
==आर्यभटः==
आर्यभटः तु सुनिश्चितं विद्यते यत्-भारतीयज्योतिषशास्त्रस्येतिहासस्या विच्छिन्नापरम्परासु निश्चितरूपेणार्यभटादारम्भो भवति । वेदांगज्योतिषस्य रचना सामान्यतः पञ्चदशशतकात् पूर्वमामनन्ति विद्वज्जनाः। तदनन्तरं सहस्रवर्षपर्यन्तं कस्यापि ज्योतिर्विद: स्थितिनं ज्ञायते । कौटिल्यस्यार्थशास्त्रस्यानुशीलनेन परिज्ञानं भवति यत्-तस्मिन् काले ३०० ईशवीये पूर्वे ज्योतिषस्य सविशेषोन्नतिरासीत् ।
जनमतावलम्बिना 'सूर्यप्रज्ञप्ति'-चन्द्रप्रज्ञप्तिश्चेति नामको द्वौ ग्रन्थी समुपलब्धौ स्तः यो कौटिल्यस्यकशताब्दीपूर्ववतिनो स्तः । तयोविषय:-विश्वस्य ( सृष्टेः ) रचना विद्यते तथा चानयोः सूर्यचन्द्रविषयिकाः कल्पना: जैनधर्ममतानुसारं निर्दिष्टाः सन्ति । . आर्यभटस्य जनिः ४७६ ईशवीयेवत्सरे कुसुमपुरे (पाटलिपुत्रे) अभूत् । अनेन अयोविंशतितमे वयसि ४९९ ईशवीये स्वमहत्त्वपूर्ण: ग्रन्थः विरचितः । यो हि तन्नाम्नव 'आर्यभटीय' इति कथ्यते । अस्मिन् ग्रन्थे शककालस्य वैक्रमसम्वत्सरस्य वा चर्चा नास्ति ग्रहाणां गणनाय च ३६०० कलिसंवत्सरं ( ४९९ ई० ) निश्चितमस्ति ।
पञ्चशतकस्य मध्ये 'महासिद्धान्तस्य' रचयिता एकोऽन्यो ज्योतिविदस्यैव नाम्नो बभव. तस्मादेनं पृथककरणाय अयमार्यभटः प्रथमः' इति कथनं समुचितं भविष्यति । इमे सनिश्चितमतीवप्रतिभाशालिनो ज्योतिविद आसन्, यः प्राचीनग्रन्थेषु लिखितान सिद्धान्तान् स्वानुभवः शोधयित्वाऽस्यार्यभटीय ग्रन्थस्य रचना कृता। आज रचना पद्धतिरतीववैज्ञानिकी विद्यते भाषाचातिसंक्षिप्ता, येनैपां सिद्धान्ता हा. संजाताः । तथाचोक्तं गोलपादे -
'''सदसज्ज्ञानसमुद्रात् समुद्धतं देवताप्रसादेन ।'''
'''सज्ज्ञानोत्तमरत्नं मया निमग्नं स्वमतिना वा ॥'''
===आर्यभटस्य सिद्धान्ता===
आर्यभटीये १२१ सम्पूर्णश्लोकाः सन्ति, ये चतुर्पु खण्डेषु विभाजिताः सन्ति-(१) गीतिकापादः, (२) गणितपादः, ( ३ ) कालक्रिया पादः, ( ४ ) गोलपादश्चेति । गीतिकापादः केवलं ११ श्लोकानामस्ति, ये विषया श्चात्र वणिताः सन्ति ते सूर्यसिद्धान्तस्यानेकेष्वधिकारेषु सन्ति । एभिरक्षरः संख्या प्रकटनस्यकानवीनारीतिरुद्भाविता। येन श्लोकेषु महतीनां संख्यानां नियमने सोविध्यं संजातम् । एतदनुसारं 'क' वर्णादारभ्य' म' पर्यन्तस्थिता: वर्णाः क्रमशः १ इत्यारभ्य २५ पर्यन्तसंख्यानां द्योतकाः सन्ति ।।
(२) आर्यभटस्य मूलसिद्धान्तोऽस्ति यत् पृथिव्याः दैनिकं भ्रमणं भवति । नौकागतिरिव पृथिव्यपि नैरन्तर्येण भ्रमति सूर्यश्च स्वयं स्थिर एवास्ति । अनेन सिद्धान्तेनास्य विचारस्वातन्त्र्यस्य परिचयो मिलति । एतेषामस्य सिद्धान्तस्य कारणात् वराहमिहिर-ब्रह्मगुप्ताभ्यां ज्योतिर्विद्भयामेतेषां निन्दा विहिता।
(३ ) युगानां परिमाणेऽपि-एषां नवीनं मतमस्ति, यत्र प्रत्येकस्मिन् महायुगे सत्य-त्रेता-द्वापर-कलियुगाश्च विभिन्न परिमाणात्मका: स्वीक्रियन्ते तत्रतैः सर्वे समान कालिकाः स्वीकृताः ।
आर्यभटेन स्वग्रन्थस्य तृतीयेऽध्याये विविधज्यौतिषसम्बन्धिनो विषयाः लिखिताः, ययिते यत्-चैत्रशुक्लप्रतिपत्तः युगाना, वर्षस्य, मासस्य, दिवसस्य च गणनायाः शुभारम्भो भवति । अत्र ग्रहाणां मध्यमगतेः स्पष्टगतेश्च नियमानामुल्लेखो विद्यते । ग्रन्यस्यान्तिमेऽध्याये ( गोलपादे ) पञ्चाशत् श्लोकाः सन्ति, येषु गोलविषयका अनेके नियमाः, युगसम्बन्धिता: नवीनाः कल्पना:, सूर्याचन्द्रमसोः ग्रहणानां गणनादयः विविध ज्योतिष सम्बन्धितानां नियमानां. समीक्षा विद्यते । पृथिव्याः दैनिकभ्रमणस्य विषये आर्यभटेन कमनीयमुदाहरणं प्रस्तूय लिखितं यत्-यथा प्रचलन्त्यां नौकायां स्थितो मनुष्य: तटस्थितान् स्थिरान् वृक्षान् विपरीतदिशायां चलन्निव पश्यति तद्वत् लङ्कायां ( भूमध्यरेखायां ) स्थिराः ताराः पश्चिमस्यां दिशि प्रचलन्त्यः दृश्यन्ते ।
एतदतिरिक्तं स्वगोलसम्बन्धिताः अनेके विषयाः अत्र ग्रथिताः सन्ति । आर्यभटीय स्योपरि चतस्रष्टीकाः उपलभ्यन्ते । यासां रचयितृणां नामानि सन्ति-(१) भास्कर प्रथमः, (२) सूर्यदेवयज्वा, (३) परमेश्वरः, (४) नीलकण्ठश्चेति । तत्र परमेश्वरस्य 'भट्टदीपिकया' सह–उदयनारायणसिंहेन हिन्दीभाषायां टीका की विद्यते । सूर्यदेवयज्वनः अप्रकाशितायां टीकायाम् आर्यभटप्रकाशस्यापि चर्चा विद्यते ।
==वराहमिहिरः==
अवन्तिकायाः सूर्यभक्तस्य वराहमिहिरस्य स्थानं ज्योतिष-जगति सूर्यसदृशोपममस्ति । इमे अवन्तिपुर्याः निवासिन आसन् । एतैः स्वसमयस्य सुस्पष्टा चर्चा न कृताऽस्ति । तथाप्यनेकैः प्रमाणः वराहमिहिरस्य जीवनकाल: षष्ठशतकस्य पूर्वार्द्ध स्वीक्रियते । एषां पितुर्नाम- आदित्यदास आसीत्, ये एषां विद्यागुरवोऽ प्यासन् । एवञ्च 'कापित्थकः' वासस्थानमासीत् । एतत् स्थानमद्यापि 'उज्जयिन्याः' पार्वे 'कामथा' नाम्ना प्रख्यातमस्ति । एतैः सूर्य प्रसाद्याशेषं ज्ञानं सम्प्राप्तम् । एषां पृथुयशसा पुत्रेण 'षट्पञ्चाशिकाया' रचना कृता, या अद्यापि प्रचलिता विद्यते ।
'''ग्रन्थाः-''' एषां ग्रन्थाः स्वविषयस्य प्रौढासु, प्रमाणसमन्वितासु रचनासु विद्यन्ते । मुख्यग्रन्थानां नामानि सन्ति--( क ) पञ्चसिद्धान्तिका, ( ख ) बृहज्जातकः ( ग ) बृहयात्रा, बृहद्विवाहपटलयात्रा च, (घ ) बृहत्संहिताचेति ।
==लाटदेयः==
ज्यौतिविदांवरेण वराहमिहिरेण पञ्चसिद्धान्तिकायां येषां पञ्च ग्रन्थानां समाहारः कृतस्तेषु द्वयोः पोलिशरोमकयोश्चेमे रचयितारः सन्तीति तज्ज्ञाः कथयन्ति । भास्करप्रथमेन विरचिताद् 'महाभास्करीयात्' ज्ञायते यत्-इमे आर्य भटस्य शिष्या आसन् । एषां काल: वै० सं० ५६२ तः ६६५ इत्यस्य मध्ये स्वीकर्तव्यः । रोमकसिद्धान्तस्य रचनाशेल्या एतद् ज्ञायते यत् अयं ग्रन्थः ग्रीक ( यूनान ) सिद्धान्तेष्वाश्रितः । कतिपयविदुषां मतमस्ति सिकन्दरियायाः सुप्रसिद्धस्य ज्योतिविदः 'तालोमी' इत्यस्य सिद्धान्तानामाधारे अस्य ( रोमकसिद्धान्तस्य ) रचना बभूव ।
अस्य प्रमाणं ते यवनपुरस्य मध्यकालीने सिद्धं साधितं वा अहर्गणं स्थापयन्ति । ब्रह्मगुप्तेन तु अस्य सिद्धान्तानां भूयसी निन्दा कृता। पुलिशसिद्धान्तनामकस्य ग्रन्थ स्योल्लेखः भट्टोत्पलेन वाराहमिहिरस्य 'बृहत्संहितायाः' टीकायां 'पृथूदकस्वामिना' च ब्रह्मगुप्तस्य 'स्फुटसिद्धान्तस्य टीकायां कृतः । अयं सिद्धान्तग्रन्थः रोमकसिद्धान्तस्या पेक्षयाऽतीव स्थूलः । गणनायाः सुविधाये सन्निकटनिनियमैश्च साधितोऽयं ग्रन्थः । प्राचीनमूलग्रन्थोऽद्याप्यनुपलब्ध एवेति ।
==भास्कर-प्रथमः==
इमे भास्कराः लीलावत्याः विख्यात रचयितुर्भास्कराचार्यात भिन्ना आसन् । एतेषां द्वौ ग्रन्थौ साम्प्रतमुपलब्धौ स्तः । तो च-( १ ) महा भास्करीयः, ( २ ) लघुभास्करीयश्च । अनयोः ग्रन्थयोः एतैः आर्यभटस्य सिद्धान्तः प्रमाणत्वेनोपन्यस्तः। एतेषां जन्मस्थानं 'अश्मक' इति कथ्यते । अस्य स्थानस्य स्थितिः नर्मदा-गोदारीनद्योर्मध्ये क्वाप्यासीत् । अनयोयो ग्रन्थयोः उपयोगः दक्षिणभारते पश्चदशशतकं यावत् बाहुल्येनासीत् ।
==ब्रह्मगुप्तः==
ज्योतिषाचार्येषु ब्रह्मगुप्तस्य स्थानमतीवोज्ज्वलमुच्चं चास्ति सुप्रसिद्धन भास्कराचार्येणायं 'गणकचक्रचूडामणि' इति कथितः । इत्येव नहि एषां मूलांकान् स्वरचनायाः सिद्धान्तशिरोमण्याः आधारभूमिः स्वीकृता। एषां जनिः ईशवीये ५९८ यत्सरे पचनदप्रदेशस्य 'मिलनालका' स्थाने बभूवेति । एतेषां द्वौ ग्रन्थो स्तः---
( १ ) ब्राह्मस्फुटसिद्धान्तः, ( २ ) खण्डखाद्यकश्चेति । अनयोः ग्रन्थयोः अनुवादोऽरबी भाषायामप्यभूत् । यस्मिन् 'अस-सिन्ध-हिन्द' ब्राह्मस्फुटसिद्धान्तस्य तथा च 'अल अर्कन्द' खण्डखाद्यकस्यानुवादोऽप्यस्ति । एतैः विभिन्नस्थानेषु एतन्निर्देशः कृतो यत आर्यभट-श्रीषेण-विष्णुचन्द्रादीनां गणनायां ग्रहाणां स्पष्टस्थानं न शुद्धिमायाति अतस्तानि ग्राह्योपयुक्तानि न सन्ति । पश्चाच्चभवद्भिरेतदपि लिखितं यत्--ब्राह्मस्फुट सिद्धान्तेन दग्गणितैक्यं भवति । अत: मान्योऽयं ग्रन्थः । तथा चोक्तम् -
'''तन्त्रभ्रंशे प्रतिदिनमेवं विज्ञाय धीमता यत्नः ।'''
'''कार्यस्तस्मिन् यस्मिन् दृग्गणितैक्यं सदा भवति ।'''
अनेन कथनेनैतद् सुस्पष्टं भवति यत्तः ग्रन्थानां रचना ग्रहाणां प्रत्यक्षवेधं विधायव कृताऽऽसीत् । ते एव प्रथमकल्पाः एतादृशाः ज्योतिर्विद आसन् ये प्रयोगेषु दृढामास्थां स्थापयन्ति स्म । एकत्रतैः कथितमपि यत्-यदा-कदा गणनायां वेधे चान्तरस्यात्तदा वेधेन गणनायाः शुद्धिः कर्त्तव्या।
ब्राह्मस्फुटसिद्धान्ते चतुर्विशत्यध्यायाः सन्ति, ते च यथा-मध्यमाधिकारः, स्पष्टा धिकारः, त्रिप्रश्नाधिकारः, चन्द्रग्रहणाधिकारः, सूर्यग्रहणाधिकारः, उदयास्ताधिकारः, चन्द्रशृङ्गोन्नत्यधिकारः, चन्द्रच्छायाधिकारः, ग्रहयुत्यधिकारः, भग्रहयुत्यधिकारः, तन्त्रपरीक्षाध्यायः, गणिताध्यायः, मध्यगति-उत्तराध्यायः, स्फुटगति-उत्तराध्यायः, त्रिप्रश्नोत्तराध्यायः, ग्रहणोत्तराध्यायः, शृङ्गोन्नत्युत्तराध्यायः, कुट्टकाध्यायः, शंकु च्छायादिज्ञानाध्यायः, छन्दश्चित्युत्तराध्यायः, गोलाध्यायः, मन्त्राध्यायः, मानाध्यायः संज्ञाध्यायश्चेति ।
.अस्मिन् ग्रन्थे न केवलं ज्योतिपस्य, अपि तु बीजगणितस्य, अंकगणितस्य क्षेत्रमितेश्चापि प्रामाणिकं विवरणं वयं प्राप्नुमः । एप्वध्यायेषु ग्रहाणां मध्यमगतेः गणनायाः, एषां स्पष्टगतिर्ज्ञानस्य रीतीनां दिशः, देशस्य कालस्य च ज्ञानस्य रीतयः, चन्द्र-सूर्यग्रहणयोः गणनायाः ग्रहाणामेकोऽन्यस्य पार्वे आगमनस्य, चन्द्रमस: वेधेन छायायाः ज्ञानस्य, नक्षत्रैः सह ग्रहाणां युत्यादीनां विवरणं सम्यक्तया शास्त्रीयपद्धत्या कृतमस्ति ।
गोलाध्याय-नामकेऽध्याये भूगोलखगोलयोः सम्बन्धिता गणना विद्यते । अस्मिन्नप्य नेके भागाः सन्ति–तद्यथा-ज्याप्रकरणम्, स्फुटगतिवासना, ग्रहणवासना, गोल बन्धाधिकारश्चेति । एषु भूगोल-खगोलयोः सम्बन्धितानां परिभाषाणां ग्रहाणाञ्च विम्बानां व्यासादिज्ञानस्य रीतयः प्रदर्शिताः सन्ति । ब्रह्मगुप्तस्यान्या रचना 'खण्ड खाद्यक' इत्यस्ति । एभिः सेयं .रचना ६६५ ईशवीये वत्सरे स्व एकोनसप्ततितमे वयसि कृता । अयं ग्रन्थः आर्यभटस्य सिद्धान्तानामंशतः पक्षपाती विद्यते ।
अस्मिन् दशाध्यायाः सन्ति, येषु प्रारम्भिकाष्टाध्यायास्तु केवलमार्यभटस्यानुकरणमात्रमेवास्ति, उत्तरभागस्य च त्रिष्वध्यायेष्वार्यभटस्यालोचनासंशोधनेन सह कृता विद्यते । पूर्वखण्ड खाद्य कस्याष्टावध्यायाः इत्थम् सन्ति, तिथीनां नक्षत्रादीनाञ्च गणना, पञ्चताराग्रहाणां मध्यस्य स्पष्टस्य च गणना, त्रिप्रश्नाधिकारः, सूर्यग्रहणाधिकारः, उदयास्ताधिकारः, चन्द्रशृंगोन्नत्यधिकारः, ग्रहयुत्यधिकारश्चेति ।
==कल्याणवर्मा==
एषां काल: ५७८ ईशवीये वर्षे स्वीक्रियते । एभिर्यवनानां होरा शास्त्रस्य सारः ‘सारावली' नामके ग्रन्थे प्रतिपादितः । अयं ग्रन्थः सूविशाल: जाता शास्त्रे च महत्त्वपूर्ण स्थानं दधाति । अस्मिन् ग्रन्थे ४२ अध्यायाः सन्ति । अनि मासहस्रद्वयश्लोकाः सन्ति । श्रीमता भट्टोत्पलेन बृहज्जातकस्य टीकायामस्य ग्रन्थस्यो ल्लेखः कृतः।
==लल्ल:==
अस्य पितुर्नामभट्टत्रिविक्रम आसीत् । आर्यभट्टः ( प्रथमः ) एषां गुरुः ख्यातः । एषां सुप्रसिद्धः ग्रन्थः 'शिष्यधीवृद्धिः' अस्ति, यः आर्यभटस्य सिद्धान्तानाम नुसरणं करोति । अस्मिन् गणिताध्याय-गोलाध्यायनामकं प्रकरणद्वयमस्ति । अस्य ग्रन्थस्य रचनाबीजमुक्तं निम्नाङ्किते पद्ये -
'''विज्ञाय शास्त्रमलमार्यभटप्रणीतं तंत्राणि यद्यपि कृतानि तदीयशिष्यैः ।'''
'''कर्मक्रमो न खलु सम्यगुदीरितस्तैः कर्म बीम्यहमतः क्रमशस्तदुक्तम् ।।'''
लल्लस्य कालविषये विद्वत्सु पर्याप्तो मतभेदस्तिष्ठति । म० म० पं० सुधाकर द्विवेदिना-एषां काल: ४२१ शकसं० निर्धारितः ।
==आर्यभटः द्वितीयः==
आर्यभट-द्वितीयस्य ज्योतिष-गणितयोरुभयोरपि महत्त्वपूर्ण स्थानमस्ति । एषां काल: ९५० ईशवीयस्य पार्वे स्वीक्रियते । एषां सुप्रसिद्धा रचना 'महासिद्धान्तः' विद्यते, यस्मिन् ज्योतिषगणितयोरुभयोरपि समावेशो विद्यते । अस्मिन् ग्रन्थेऽष्टादशाधिकाराः सन्ति । येषु ६२५ आर्याछन्दांसि सन्ति । गोलाध्यायनामके चतुर्दशेऽधिकारे पाटीगणितस्य प्रश्नाः सन्ति । पञ्चदशेऽध्याये क्षेत्रफल-घनफलादयो विषयाः संग्रहीताः सन्ति । एतदतिरिक्त प्रश्नोत्तराध्याय---कुट्टकाध्यायोचापि स्तः ययोः ग्रहाणां मध्यगति-कुट्टकसम्बन्धितेषु प्रश्नेषु क्रमशः विचारः प्रवर्तते ।
==मुंजाल:==
एषां काल: ८५४ शकस्य निकटे स्वीक्रियते । यतो ह्येतैः स्वपुस्तके 'लघुमानसे' ग्रहाणां ध्रुवकाल: ८५४ शकः प्रख्यापितः । अनन्तरं भास्कराचार्य द्वितीयेन मुनीश्वरेण च मुंजालेन निर्दिष्टस्यायनगतेः वर्णनं कृतम् । एभिः प्रमाणः एतद् सुनिश्चितं भवति यत्ते ९३२ ईशवीये वत्सरे विद्यमानाः आसन् । स्वकालस्येमे प्रख्याताः ज्योतिर्विदः आसन् । अत्रैतद् वैशिष्ट्यमस्त्येषां यत्--तारकाणां निरीक्षणं विधाय नव-नवानां विचाराणामेभिः प्रस्तुतीकरणं कृतम् । लघुमानसेऽष्टाधिकाराः सन्ति ।
==उत्पल:==
ज्योतिषग्रन्थानां टीकाकारेषु उत्पलस्य नाम सुविख्यातमस्ति । बृहज्जा तकस्य टीकायां-टीकालेखनकाल: ९६६ ईशवीयस्य चत्रशुक्लपञ्चमी इति निर्दिष्टो ऽस्ति । अनेन ज्ञायते यदिमे दशमशतके आविर्भूता आसन् । एषां पञ्चसंख्यकार्टीकाः समुपलब्धाः सन्ति । (१) बृहज्जातकस्य टीका, (२) बृहत्संहितायाष्टीका, (३) खण्डखाद्यकस्य टीका, ( ४ ) षट्पञ्चाशिकायाष्टीका, ( ५ ) लघुजातकस्य टीकाचेति ।
==पृयूवकस्वामी==
एभिः ब्रह्मगुप्तस्य ब्राह्मस्फुटसिद्धान्ते एका टीका विरचिता, अपि चैषां मतस्योल्लेखो भास्कराचार्येण ( द्वितीयेन ) स्वग्रन्थेषु अनेकत्र कृतोऽस्ति । दीक्षितस्य मतानुसारमिमे उत्पलस्य समकालीनाः सन्ति । अपि चैतः ब्रह्मगुप्तस्यान्य ग्रन्थस्य 'खण्डखाद्यकस्यापि' टीका लिखिता। एतेन स्पष्टं भवति यत् यथा उत्पलेन वराहमिहिरस्य मताना स्वटीकाभिरभिव्यक्तीकृतस्तथैव पृथूदकस्वामिना ब्रह्मगुप्तस्य काठिन्ययुक्तानां ग्रन्थानां स्वव्याख्याभिः सुबोधः सरलश्वविहितः । एषा मुदयः १० दशमशताब्द्यामनुमीयते ।
==श्रीपतिः==
इमे महाशयाः स्वकालस्याद्वितीयाः ज्योतिर्विद आसन् । एषां मुख्य ग्रन्थाः सन्ति-(१) गणिततिलकः, (२) बीजगणितम्, ( ३ ) धीकोटिकरणम, (४) सिद्धान्तशेखरः, (५) ज्योतिषरत्नमाला, (६) जातकपद्धतिः, (७) दैवज्ञवल्लभः, (८) श्रीपतिनिबन्धः, (९) ध्रुवमानसकरणं, .( १०) श्रीपति समुच्चयश्च ।
एषां पाटीगणितस्योपरि. सिंहतिलकनामकस्य जैनाचार्यस्य एका 'तिलक नाम्नी टीकाविद्यते। ईमे गणितस्यैव विशेषज्ञाः नहि-आसन्, अपितु ग्रहवेधक्रिययाऽपि परिचिता आसन् । एतेषां प्रधानग्रन्थ: सिद्धान्तशेखरः वेधक्रियया ग्रहगणितस्य वस्तु स्थिति ज्ञात्वा लिखितोऽस्ति । एषां काल: प्रमाणः प्रमाणितः एकादशशतकस्य मध्य कालः स्थिरीभवति ।
==शतानन्दः==
एषां ग्रन्थः 'भास्वतीकरणं' वराहमिहिरस्य सूर्यसिद्धान्तस्याधारे १०९९ ईशवीये वत्सरे लिखित आसीत् । ग्रन्थोऽयमतीवसुप्रसिद्ध आसीत् । अत एवास्यानेकाष्टीकाः संस्कृते हिन्दीभाषायाञ्चोपलब्धाः भवन्ति । अस्मिन् ग्रन्थेऽष्टा वधिकाराः अध्यायाः वा सन्ति, येषु ग्रहाणां गतेः वर्णनातिरिक्तं सूर्यग्रहणयोश्च वर्णनं पृथगध्यायेषु कृतमस्ति ।
{| class="infobox" style="width:25em; text-align:left; font-size:95%; border:1px solid #a2a9b1; background-color:#f8f9fa; padding:5px; float:right; margin-left:15px;"
|+ style="font-size:130%; font-weight:bold; background-color:#c3d6ef; padding:5px; border-radius:5px;" | भास्कराचार्यः (द्वितीयः)
|-
| colspan="2" style="text-align:center; padding:10px;" | ''प्राचीनभारतस्य महान् गणितज्ञः खगोलशास्त्री च''
|-
! style="background-color:#e6e6fa;" | जन्म
| १११४ ई. (विज्जलवीड, महाराष्ट्रम्)
|-
! style="background-color:#e6e6fa;" | मृत्युः
| ११८५ ई. (उज्जयिनी)
|-
! style="background-color:#e6e6fa;" | मुख्यविषयाः
| गणितशास्त्रम्, खगोलशास्त्रम्
|-
! style="background-color:#e6e6fa;" | प्रसिद्धाः कृतयः
| सिद्धान्तशिरोमणिः, करणकुतूहलम्
|-
! style="background-color:#e6e6fa;" | मुख्योपलब्धयः
| गुरुत्वाकर्षणम्, चक्रवाल-विधिः, कलनशास्त्रम्
|}
'''भास्कराचार्यः''' (जन्म: १११४ ई., मृत्यु: ११८५ ई.) प्राचीनभारतस्य सुप्रसिद्धः गणितज्ञः, खगोलशास्त्री, यन्त्रनिर्माता च आसीत्। सः '''भास्करः द्वितीयः''' इति नाम्ना अपि ज्ञायते। प्राचीनभारतस्य वैज्ञानिकेतिहासस्य स्वर्णिमपृष्ठेषु तस्य नाम अग्रगण्यम् अस्ति। तस्य सिद्धान्ताः अद्यापि गणितशास्त्रे खगोलविज्ञाने च अतीव महत्त्वपूर्णाः सन्ति।
== जीवनपरिचयः वंशश्च ==
तस्य जन्म क्रिस्तवीये १११४ तमे वर्षे (१०३६ शकसंवत्सरे) सह्याद्रिपर्वतक्षेत्रे स्थिते 'विज्जलवीड' (अथवा विज्जडवीड) नामके ग्रामे अभवत्। तस्य पितुर्नाम महेश्वरभट्टः आसीत्, यः स्वयं महान् विद्वान् ज्योतिषी च आसीत्। भास्कराचार्यः शाण्डिल्यगोत्रोत्पन्नः ब्राह्मणः आसीत्। स्वग्रन्थे '''सिद्धान्तशिरोमणौ''' तेन स्वपरिचयः एवम् प्रदत्तः अस्ति -
<div style="background-color:#fef9e7; padding:15px; border-left:5px solid #ff9800; margin:15px 0; font-size:110%; font-style:italic;">
"आसीत् सह्यकुलाचलाश्रितपुरे त्रैविद्यविद्वज्जने<br>
नानाज्जनिते मठे विजडविडे शाण्डिल्यगोत्रो द्विजः।"
</div>
भास्कराचार्येण गणितस्य प्रारम्भिकं शिक्षणं स्वपितुः एव प्राप्तम्। ऐतिहासिकप्रमाणानुसारं भास्कराचार्यस्य पुत्रः लक्ष्मीधरः अपि गणितज्ञः आसीत्। तस्य पौत्रेण चङ्गदेवेन भास्कराचार्यस्य सिद्धान्तानां प्रचारार्थम् एकः विद्यामठः स्थापितः, यस्य स्पष्टः उल्लेखः ऐतिहासिके 'पाटण-शिलालेखे' (१२०७ ई.) प्राप्यते।
== प्रमुखाः ग्रन्थाः ==
भास्कराचार्येण अनेके ग्रन्थाः रचिताः, तेषु ११५० ख्रीष्टाब्दे (३६ वर्षवयसि) रचितः '''सिद्धान्तशिरोमणिः''' सर्वोत्कृष्टः अस्ति। अयं मुख्यग्रन्थः चतुर्षु भागेषु विभक्तः अस्ति:
* <span style="color:#d35400; font-weight:bold;">लीलावती:</span> अयं पाटीगणितस्य अङ्कगणितस्य च ग्रन्थः अस्ति। अत्र गणितस्य जटिलप्रश्नाः, क्षेत्रमितिः, भिन्नसङ्ख्याः च श्लोकमाध्यमेन प्रस्तुताः सन्ति।
* <span style="color:#d35400; font-weight:bold;">बीजगणितम्:</span> अस्मिन् खण्डे अज्ञातराशीनां, समीकरणस्य च विस्तृतम् अध्ययनम् अस्ति। 'चक्रवाल-विधिः' इति वर्ग-समीकरण-समाधानस्य विधिः तस्य महती उपलब्धिः अस्ति।
* <span style="color:#d35400; font-weight:bold;">ग्रहगणितम्:</span> अत्र ग्रहाणां गतेः, स्थितेः, ग्रहणानां च सटीकं गणितीयं विश्लेषणम् अस्ति।
* <span style="color:#d35400; font-weight:bold;">गोलाध्यायः:</span> अस्मिन् खण्डे भूमण्डलस्य, खगोलस्य, यन्त्राणां च सिद्धान्ताः वर्णिताः सन्ति।
अस्मात् अतिरिक्तम् अष्टषष्टितमे वयसि (११८३ ख्रीष्टाब्दे) तेन '''करणकुतूहलम्''' इति ग्रन्थः अपि रचितः, यस्य उपयोगः पञ्चाङ्गनिर्माणे भवति।
== वैज्ञानिकं योगदानम् ==
* '''गुरुत्वाकर्षणम् (Gravity):''' आधुनिकविज्ञाने न्यूटन-महोदयात् पूर्वम् एव भास्कराचार्येण गोलाध्याये गुरुत्वाकर्षणस्य सिद्धान्तः स्पष्टरूपेण प्रतिपादितः। सः लिखति -
<div style="background-color:#e8f8f5; padding:15px; border-left:5px solid #1abc9c; margin:15px 0; font-size:110%; font-style:italic;">
"आकृष्टिशक्तिश्च मही तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्त्या।<br>
आकृष्यते तत्पततीव भाति समे समन्तात् क्व पतत्वियं खे॥"
</div>
* '''कलनशास्त्रम् (Calculus):''' भास्कराचार्येण कलनशास्त्रस्य आरम्भिकसूत्राणि दत्तानि। 'तात्कालिकी गतिः' तेन एव प्रथमं निरूपिता। शून्येण कस्यापि सङ्ख्यायाः विभाजनेन 'अनन्तं' प्राप्यते, यत् तेन 'खहर' इति संज्ञया अभिहितम्।
== उपसंहारः ==
भास्कराचार्यः उज्जयिन्याः प्रसिद्धवेधशालायाः प्रमुखः आसीत्। तत्कालीनविद्वांसः तं 'गणितानन्दः' 'विद्यापतिः' च इति उपाधिभिः अलङ्कृतवन्तः। १५८७ तमे वर्षे मुगलसम्राजः अकबरस्य आदेशेन फैजी-नामकः विद्वान् 'लीलावती' ग्रन्थस्य फारसी-भाषायाम् अनुवादम् अकरोत्। क्रिस्तवीये ११८५ तमे वर्षे तस्य देहावसानम् अभवत्।
== सन्दर्भाः ==
* ''सिद्धान्तशिरोमणिः'' (गोलाध्यायः तथा लीलावती) - भास्कराचार्यः।
* ''करणकुतूहलम्'' - भास्कराचार्यः।
* ''पाटण-शिलालेखः'' (१२०७ ई.) - चङ्गदेवेन स्थापितः।
* ''History of Hindu Mathematics'' - B. Datta and A. N. Singh.
==भास्करोत्तरकालः==
महामहनीयस्य ज्योतिविदो भास्कराय॑स्यानन्तरं ज्योतिषशास्त्रस्यानेके विद्वांसो लेखकाः समभूवन् । येषां ग्रन्थेषु फलितस्य, जातकस्य, मुहूर्तादिविषयाणाचव मिलति । समेषां वर्णनमत्रलघुकाये वेदाङ्गेतिहासेऽसंभवत्वात्, कतिपयानामतिप्रमित नामाचार्याणां तेषां ग्रन्थानाञ्च निर्देशमात्र मेवात्रोपस्थाप्यते
(१) वल्लालसेनःसुप्रसिद्धस्य राज्ञः लक्ष्मणसेनस्य जनकेन महाराजाधिराजेन वल्लालसेनेन ११६८. ईशवीये वर्षे 'अद्भुतसागर' इति नाम्न्याः संहितायारेकाया बृहत्संहिताया अनुकरणं करोति । अस्मिन् ग्रन्थे एकाधिकानां प्राचीनाचार्याणां ग्रन्था नाञ्चोद्धरणानि सन्ति । इत्येव नहि बहुविधानां विलक्षणातिघटितघटनानामुल्लेखो ऽपि वर्तते ।
( २ ) केशवार्कस्य 'विवाहवृन्दावनम्' (१३शतके रचितम्) तद् विवाहोपयुक्तानां मुहूर्तामा परिचयं प्रददाति ।
(३ ) ज्योतिविदाभरणम् - इति नामक: मुहूर्तग्रन्थः केनापि कालिदासेन विरचित इति कथ्यते ।
(४) महेन्द्रसूरेः 'यन्त्रराजः' यन्त्राणां परिज्ञानाय प्रामाणिको ग्रन्थो विद्यते ( रचनाकाल: १२९२ शकः )।
(५) मकरन्दः - एभिर्योतिविद्भिः १४७८ ईशवीये सूर्यसिद्धान्तस्यानुसारेण तिथ्यादीनां विशिष्टज्ञानाय स्वस्यैव नाम्न्यैका सारणी काश्यां विरचिता। यां सारणी माधुत्याधुनापि काश्यां मिथिलायाञ्च पञ्चाङ्गानि निर्मीयन्ते ।।
(६) गणेश-वैधज्ञः-एषां प्रमुखो ग्रन्थः 'ग्रहलाघवो'ऽस्ति, योऽद्यत्वेऽतीव प्रसिद्धः । अस्योपरि विभिन्नाष्टीकाः प्राप्यन्ते । एषां जनकः केशवस्तस्मादपि महान्त आचार्याः संशोधकाश्चासन् । सूर्यस्य, चन्द्रमसः ताराग्रहाणाञ्च वेधं कृत्वा गणना प्रस्तुतीकरणे एषां दृढं मतमस्ति । केशवस्य अपरो ग्रन्थः ‘ग्रहकोतुको'ऽस्ति, यस्यारम्भः १४९६ ईशवीये वत्सरेऽभूत् ।
(७) नीलकण्ठ:- अस्य 'ताजिकनीलकण्ठी' नामको ग्रन्थोऽतीव सुप्रसिद्धो विद्यते । वर्षफल रचनाय अस्य ग्रन्थस्य ज्योतिवित्सु महतीप्रतिष्ठा विद्यते । इमे अकबरस्य राजसभायां सभापण्डिता आसन् । एतेषामेवानुजानां 'रामदैवज्ञ' महोदयानां 'मुहूर्तचिन्तामणि' ( रचनाशकः-१५२२ ) नामकोऽतीव प्रसिद्धो ग्रन्थो विद्यते । एष ग्रन्थः मुहूर्तनिर्णयाय सर्वाधिको लोकप्रियः । अस्य ग्रन्थस्योपरि अस्य भ्रातुप्पुत्रेण गोविन्देने पीयूषधारा नाम्नी महत्त्वपूर्णा टीका विलिखिता।
(८) कमलाकरः- इमे महान्तः ज्योतिर्विदः युगप्रतिनिभूता अग्रगण्यगणका आसन् । एषां जनिः १६०८ ईशवीयस्य कस्मिन्नपि समयेऽभूदिति । इमे च 'न्यूटन' समकालीनाः सन्तीति । एषां महत्त्वपूर्णः सिद्धान्तग्रन्थोऽस्ति--सिद्धान्ततत्त्वविवेकः । ग्रन्थाऽयमेतैः काश्यां १६५८ ईशवीये वत्सरे प्रचलितसूर्यसिद्धान्तानुसारं विलिखितम् । अतद् वैशिष्टयं विद्यते यत् भारतीये ज्योतिषशास्त्रे क्वचिदपि ध्रुवतारायाः गते वर्णनं नास्ति, परञ्चेमेतान्तारां गतिशीलां मन्यन्तेस्म। या च वतंकानकालस्य वैज्ञानिक्या गणनया प्रमाणिता भवति । अंकगणितस्य, रेखागणितस्य, क्षेत्रमितेः ज्या साधनस्य च रीतयः नवीनाः इव प्रतीयन्ते ।
==आधुनिककाल: ==
(१) बापूवेवशास्त्री- इमे महानुभावाः काशीस्थराजकीयसंस्कृतमहाविद्यालय - ( क्वीन्सकालेज ) स्य प्रधानज्योतिषाचार्याः गणिताचार्याः च आसन् । एतन्निमिता: संस्कृत-हिन्दीभाषयोः अनेके ग्रन्थाः सन्ति । रेखागणित-त्रिकोणमिति-गायनवाद-तत्त्व विवेकपरीक्षा-अंकगणितादयश्च संस्कृतग्रन्थाः प्रकाशिताः सन्ति । हिन्दीभाषायामेते. अंकगणित-बीजगणितयोः रचना कृता । अपरञ्च-सिद्धान्तशिरोमणेः गोलाध्यायस्य सूर्यसिद्धान्तस्य चांग्लानुवादः विल्सनस्य सहयोगेन ( १८६१-६२ ईशवीये वर्षे ) कृतः।
( २ ) केरो लक्ष्मण छत्रे-एभिः ‘ग्रहसाधनकाण्टक' नामको ग्रन्थो मराठी भाषायाम् कांसीसी-आंग्ल-ज्योतिषग्रन्थानाञ्चाधारमाधृत्य लिखितः । अन्यच्च-नाविक पञ्चाङ्गस्यानुसारमेतैः पञ्चाङ्गमपि प्रकाशितम् ।
( ३ ) चन्द्रशेखरसिंह-सामन्तः-इमे उत्कलस्य निवासिन आसन् । स्वनिर्मितानां यन्त्राणां साहाय्येनैभिः सूर्यस्य चन्द्रमसः ग्रहाणाञ्च मूलाङ्कानां संशोधनं विहायाति शयोपयुक्तमेकं पुस्तकं लिखितं, यस्य नाम सिद्धान्तदर्पणमस्ति ।
(४) शंकरबालकृष्णदीक्षितः- इमे महानुभावाः पुण्यपत्तनस्य ( पूना ) महान्तः ज्योतिर्विद भासन् । एषां सर्वतोधिकोपयुक्तोविद्वत्तापूर्णश्च ग्रन्थः . 'भारतीय ज्योतिष शास्त्रा चा इतिहास' मराठीभाषायामस्ति। यस्मिन् प्रायः ६०० पृष्ठेषु वैदिक कालादारभ्याधुनिककालपर्यन्तानां ज्योतिषस्य ज्योतिर्विदाञ्चेतिहासः महद्विवेचनया सह विद्यते । न चात्रकेवलमितिहास एव क्रमबद्धरूपेणास्ति, अपि तु ज्योतिषशास्त्रस्य तथ्यानां सिद्धान्तानाञ्चापि विशदं वर्णनमस्ति । अस्य ग्रन्थस्य हिन्दीभाषायामनुवादः लक्ष्मणपुरात् हिन्दीसमित्या प्रकाशितः 'भारतीयज्योतिष' नाम्ना विख्यातश्च ।
'''केतकरः-''' एषां महानुभावानां पूर्ण नाम- 'वेङ्कटेश-बापूजी-केतकर' आसीत् इमे-प्राच्य-पाश्चात्ययोः ज्योतिषस्याद्वितीयाः मर्मज्ञाः ग्रन्थकाराश्च आसन् । एभिः संस्कृतेऽतिशयोपयोगिनां ग्रन्थानां रचना कृता । येषु ज्योतिर्गणित--केतकीग्रहगणिते घ मुख्ये स्तः । प्रथमोग्रन्थः सिद्धान्तज्योतिषस्य परिचायको विद्यते, द्वितीयश्च ग्रन्थः संस्कृतश्लोकेप्वर्वाचीनज्योतिषस्यानुसारं पञ्चाङ्गनिर्माणस्योपयोगी विद्यते । ग्रन्थश्चा यमर्वाचीनज्योतिषेऽद्वितीयं महत्त्वपूर्ण पुस्तकमस्ति ।।
(६ ) यालगंगाधरतिलकः -- इमे महानुभावाः न केवलं राजनीतिविदां वरिष्ठाः, भारतीयस्वतन्त्रतासंग्रामस्य प्रखरनायकाः अपितु ज्योतिषशास्त्रख्य निष्णाता: विद्वांस आसन् । एतेषां ज्योतिषविषयकः सर्वश्रेष्ठः ग्रन्थः 'ओरायन' ( आंग्लभाषा समन्वितः) इति विद्यते । यस्मिन् वेदानां कालमीमांसा महत्प्रौढ़युक्तीनां साहाय्येन कृता विद्यते । ग्रन्थस्तथा पाण्डित्यपूर्णः, शैली च तादृशी वैज्ञानिक्यस्ति यत् अपूर्णे सहमतेऽपि मोक्ष मूलर-सदृशाः पाश्चात्यविद्वांसोऽपि चमत्कृताः सन्तः तन्महत्त्वं स्वीकुर्वन्ति स्म । एषां कालः १८५६-१९२१ ईशवीयो विद्यते ।
(७) म. म. सुधाकर द्विवेदी- वाराणसेयाः महामहोपाध्यायाः पति वरेण्याः सुधाकरद्विवेदिनोऽतीव प्रतिभाशालिनो ज्योतिर्विदः गणितज्ञाशाम किम्बहुना-समस्ते उत्तरभारते ज्योतिषस्य गणितस्य च प्रचार-प्रसारयोः श्रेयस्त. मेतेषां शिष्यान् विद्यते । अपरञ्चतैः प्राचीनज्योतिषग्रन्थान् परिशोध्य नवीनाष्टीका लिखिताः अर्वाचीनोच्चगणिते चापि स्वतन्त्राः ग्रन्थाः लिखिताः । एषामधिकांश ग्रन्थाः संस्कृते सन्ति, येषु दीर्घवृत्तलक्षणम्, विचित्रप्रश्नः, वास्तव-चन्द्र-शृङ्गोन्नति साधनम्, द्युत्तरचारः, पिण्डप्रभाकरः, भाभ्रमरेखानिरूपणम्, धाराभ्रमः, ग्रहणकरणम्, गोलीयरेखागणितम्, यूक्लिडस्य षष्ठ-एकादश-द्वादश संख्यकपुस्तकानां संस्कृते श्लोक बद्धानुवादः, गणकतरङ्गिणी-मुख्याः सन्ति । एतदतिरिक्तं यन्त्रराजे, लीलावत्यां, बीजगणिते, करणकुतूहले, पञ्चसिद्धान्तिकायां सूर्य सिद्धान्ते, ब्राह्मस्फुटसिद्धान्ते, महा सिद्धान्ते, याजुषे-आर्चज्योतिषे ग्रहलाघवे च भवद्भिष्टीका विरचिताः । आसां टीका नामतिरिक्तं हिन्दी भाषायां चलनकलन, चलराशिकलन, समीकरण चादि विविध पुस्तकानां रचना-एभिः कृता । एषां प्रखर पाण्डित्यस्य चर्चा देशे एव किमु विदेशेष्वपि भवति ।
==सम्बद्धाः लेखाः==
* [[भारतम्]]
* [[संस्कृतम्]]
* [[अष्टाङ्गयोगः]]
* [[हठयोगः]]
[[वर्गः:ज्योतिषशास्त्रम्]]
[[वर्गः:वेदाङ्गानि]]
ku38490p4moiourfdwaypdreewwdcpw
तारुका वृषद्वन्द्व उत्सव
0
92421
500263
500203
2026-08-24T10:09:47Z
Ganesh Paudel
6561
/* मेलायाः विशेषताः */
500263
wikitext
text/x-wiki
<references responsive="1"></references>
{{Infobox Holiday|holiday_name=तारूका बृषभद्वन्द्व मेला|type=[[मेला|मेला]]|nickname=|image=Taruka Bullfight.JPG|caption=तारुकाक्षेत्रे मकरसंक्रान्तदिवसे आयोजितं मेलायां सहभागिनां।|official_name=मकर संक्रान्ति गोरु मेला|begins=[[मकर सङ्क्रान्ति|माघे संक्रान्ति]]|ends=|celebrations=[[१ माघ|माघ १ गते]]|relatedto=[[नुवाकोट जिल्ला|तारूका ग्राम, नुवाकोट, नेपाल]]}}
'''तारुका बृषभ द्वन्द्वोत्सव''' इति [[नुवाकोटमण्डलम्|नुवाकोटमण्डलस्य]] तारुकाग्रामे आयोजिता वृषभयुद्धप्रतियोगिता महोत्सवः च अस्ति . अयं मेला प्रतिवर्षं नुवाकोट मण्डलस्य तारुका-नगरे माघ मासस्य-प्रथमस्य-दिने अथवा [[मकरसङ्क्रमणम्|मकरसंक्रान्ति]] दिने भव्यतया आयोजितः भवति । अयं मेला नेपाले आधिकारिकतया आयोजितः एकमात्रः पशु द्वन्द्व मेला इति अपि वक्तुं शक्यते । मेलाया प्रमुख आकर्षणरूपे तारुका ग्रामपाल्या चाँदनीग्रामस्थित विशाले क्षेत्रे वृषभाणां युद्धं आयुज्यते ।
[[नुवाकोटमण्डलम्|नुवाकोट-मण्डलस्य]] मुख्यालया [[विदुरः|बिदुरतः]] २२ किलोमीटर् परिमितं दूरे स्थितस्य तारुका गाविसस्य कृते अस्य वृषभयुद्धमेलायाः विशिष्टं ऐतिहासिकं महत्त्वं वर्तते <ref>{{Cite web|title=माघेसंक्रान्ति तारूका गोरूमेला -१६ हल गोरु जुधाउने तयारी - यसरी जुधाईन्छ गोरू ,भिडियो हेर्नुहोस् ।|url=http://dearkhabar.blogspot.com/2015/01/blog-post_40.html?m=1lwebsite=दियर खबर|accessdate=२०७४ पुस ३०}}</ref> मकरसंक्रान्त्यां नदीनां घाटानां च तटे स्नानं कृत्वा चाकु, घृतं, तरुल, इत्यादीनि मिष्टान्नानि खादनस्य हिन्दुपरम्परायाः सह शताब्दशः वृषभयुद्धं मनोरञ्जनस्य पृथक् रूपं वर्तते।
== अन्येषु स्थानेषु ==
तारुके वृषभयुद्धस्य परम्परा कदा आरब्धा इति आधिकारिकतिथिः तिथयः वा अभिलेखं नास्ति | परन्तु यद्यपि तिथिः न प्राप्ता तथापि स्थानीयवृद्धानां मते अयं उत्सवः प्रायः द्विशतवर्षपुराणः इति मन्यते । स्थानीयनिवासिनः मन्यन्ते यत् कृषकाणां [[मकरसङ्क्रमणम्|मकरसंक्रान्तिः,]] मृदु मधुरं खादनं, शिशिरे विरक्तसमये वृषभैः सह युद्धं कृत्वा मनोरञ्जनं च इति परम्परायाः विकासेन सह एषा परम्परा विशेषरूपेण विकसिता।
मल्लकालस्य तारुकाया चन्दनीपट्टूक्षेत्रे वृषभयुद्धस्य परम्परा अतीव पुरातना अस्ति । मल्लवंशीय राजानाम् बिर्ता इति तरुकाप्रदेशे वृषभयुद्धस्य प्रथा बझाङ्गीयराजस्य जयपृथिबहादुरसिंहस्य शासनकाले आरब्धा इति कथ्यते
== इतिहास ==
परा [[नुवाकोटमण्डलम्|नुवाकोटमण्डलस्य]] तारुका, बुधासिङ्ग, रातमाटे, थान्सिङ्ग, गेरखु, [[नुवाकोटमण्डलम्|दुइपिपाल]] इति ग्रामेषु अपि वृषभयुद्धस्य अभ्यासः आसीत् । परन्तु सम्प्रति तारुका, गेर्खुस्य बेत्रावती, थानसिंह इत्यत्र वृषभयुद्धं प्रचलति । अन्यत्र एषा परम्परा लुप्तं जातम्, केवलं तारुका एव तस्याः आयोजनं कृत्वा परम्परां निरन्तरं कुर्वन् अस्ति । तथैव [[नुवाकोटमण्डलम्|नुवाकोट]] एवं [[रसुवामण्डलम्|रसुवा-मण्डलयोः]] सीमायां बेत्रवती-नगरे अपि वृषभयुद्धं भवति ।
== पृष्ठभूमि ==
विक्रम सम्वत् २०६३ तः तरुके सुव्यवस्थित रूपेण मेला आयोजनम् प्रचलति अस्ति, तस्मिन् एकैव स्थाने वृषभयुद्धं भवति । मेला द्रष्टुं प्रतिवर्षं [[नुवाकोटमण्डलम्|नुवाकोट्]], [[रसुवामण्डलम्|रसुवा]], [[काष्ठमण्डपनगरम्|काष्ठमण्डप]], [[धादिङमण्डलम्|धादिङ्गतः]] सहस्राणि पर्यटकाः आगन्तुकाः तारुकानगरं गच्छन्ति । तारुका -नगरे धार्मिकं महत्त्वं धारयन् बेत्रावतीनद्या वृषभयुद्ध-महोत्सवस्य धार्मिक-पर्यटन-क्षेत्रे विशिष्टं महत्त्वं वर्तते
== मेलायाः विशेषताः ==
[[सञ्चिका:Bullfight_in_Taruka.JPG|लघुचित्रम्|300x300अणवः| तरुके युद्धं क्रियमाणस्य वृषभस्य चित्रम्]]
अस्य मेलायाः आयोजनं प्रबन्धनं च '''मकरसंक्रांतिगोयुद्धसंरक्षणसङ्गठन''' द्वारा क्रियते | अस्य मेलायां स्थानीयकृषकाणां शालासु पालितवृषभानां उपयोगः भवति । तदतिरिक्तं स्थानीयकृषकाः स्वस्य वृषभान् संकीर्णमार्गेषु पूर्वाभ्यासं कृत्वा अस्य मेलायाः सज्जतां कुर्वन्ति । अपि च अस्य उत्सवस्य कृते तारुकाः वधूवत् अलङ्कृतः भवति ।
वृषभद्वन्द्वस्य अतिरिक्तं अस्मिन् मेले विविधाः सांस्कृतिकाः कार्यक्रमाः च आयोज्यन्ते । तत्र स्थानीयसंस्कृतस्य प्रचाराय बहब जनजातिभि सांस्कृतिक नृत्या अपि प्रदर्शयन्ति। अस्मिन् मेले तामाङ् एवं मगर जनजातिभिः क्रियमाणाः सांस्कृतिक झाँकी अपि प्रदर्शयन्ति। पञ्चैबाजा इति नाम्ना बाद्यवादनपूर्वकं नेपाली मौलिक [[बालन नृत्य]] अपि प्रदर्शयन्ते । मौलिक वस्त्राभुषणस्य प्रदर्शनैः सह राष्ट्रस्तरीयकलाकाराः अपि मेलायां प्रदर्शनं कुर्वन्ति ।
== अपि द्रष्टव्यम् ==
*
== सन्दर्भाः ==
[[वर्गः:नेपालदेशस्य पर्यटकीयक्षेत्राणि]]
hl4xrn0qvswle4o09nn9kh4qdig1h0o
500264
500263
2026-08-24T10:18:59Z
Ganesh Paudel
6561
Ganesh Paudel इत्यनेन शीर्षकं परिवर्त्य [[सदस्यः:Ganesh Paudel/तारुका वृषद्वन्द्व उत्सव]] पृष्ठं [[तारुका वृषद्वन्द्व उत्सव]] प्रति स्थानान्तरितम्: पाण्डुलेखतः पूर्णलेखं निर्मितम्

500266
500264
2026-08-24T10:36:52Z
Ganesh Paudel
6561
added [[Category:नेपाली संस्कृति]] using [[Help:Gadget-HotCat|HotCat]]

[[वर्गः:नेपाली संस्कृति]]
1q9imvb5nvcypxfesygsk2iqxu594i9
सदस्यः:Ganesh Paudel/तारुका वृषद्वन्द्व उत्सव
2
92433
500265
2026-08-24T10:18:59Z
Ganesh Paudel
6561
Ganesh Paudel इत्यनेन शीर्षकं परिवर्त्य [[सदस्यः:Ganesh Paudel/तारुका वृषद्वन्द्व उत्सव]] पृष्ठं [[तारुका वृषद्वन्द्व उत्सव]] प्रति स्थानान्तरितम्: पाण्डुलेखतः पूर्णलेखं निर्मितम्
500265
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[तारुका वृषद्वन्द्व उत्सव]]
my0jcq1kzpqvbnc25jjntwlh5w9rbd4
वर्गः:नेपाली संस्कृति
14
92434
500267
2026-08-24T10:37:08Z
Ganesh Paudel
6561
added [[Category:नेपालदेशः]] using [[Help:Gadget-HotCat|HotCat]]
500267
wikitext
text/x-wiki
[[वर्गः:नेपालदेशः]]
dfn2lmrvh9uzscs5lsvazdvj65x9ysv
सदस्यसम्भाषणम्:वेदान्तः
3
92435
500268
2026-08-24T10:37:22Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
500268
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=वेदान्तः}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १०:३७, २४ आगस्ट् २०२६ (UTC)
8c1xj3f4duks8mzloos470svgxuyb58
सदस्यः:वेदान्तः/प्रयोगपृष्ठम्
2
92436
500269
2026-08-24T11:20:09Z
वेदान्तः
47164
पाणिनिः
500269
wikitext
text/x-wiki
phoiac9h4m842xq45sp7s6u21eteeq1
सदस्यः:108Gopal verma
2
92437
500270
2026-08-24T11:37:33Z
108Gopal verma
40203
/* */ भास्कराचार्यः (द्वितीयः)
500270
wikitext
text/x-wiki
{| class="infobox" style="width:25em; text-align:left; font-size:95%; border:1px solid #a2a9b1; background-color:#f8f9fa; padding:5px; float:right; margin-left:15px;"
|+ style="font-size:130%; font-weight:bold; background-color:#c3d6ef; padding:5px; border-radius:5px;" | भास्कराचार्यः (द्वितीयः)
|-
| colspan="2" style="text-align:center; padding:10px;" | ''प्राचीनभारतस्य महान् गणितज्ञः खगोलशास्त्री च''
|-
! style="background-color:#e6e6fa;" | जन्म
| १११४ ई. (विज्जलवीड, महाराष्ट्रम्)
|-
! style="background-color:#e6e6fa;" | मृत्युः
| ११८५ ई. (उज्जयिनी)
|-
! style="background-color:#e6e6fa;" | मुख्यविषयाः
| गणितशास्त्रम्, खगोलशास्त्रम्
|-
! style="background-color:#e6e6fa;" | प्रसिद्धाः कृतयः
| सिद्धान्तशिरोमणिः, करणकुतूहलम्
|-
! style="background-color:#e6e6fa;" | मुख्योपलब्धयः
| गुरुत्वाकर्षणम्, चक्रवाल-विधिः, कलनशास्त्रम्
|}
'''भास्कराचार्यः''' (जन्म: १११४ ई., मृत्यु: ११८५ ई.) प्राचीनभारतस्य सुप्रसिद्धः गणितज्ञः, खगोलशास्त्री, यन्त्रनिर्माता च आसीत्। सः '''भास्करः द्वितीयः''' इति नाम्ना अपि ज्ञायते। प्राचीनभारतस्य वैज्ञानिकेतिहासस्य स्वर्णिमपृष्ठेषु तस्य नाम अग्रगण्यम् अस्ति। तस्य सिद्धान्ताः अद्यापि गणितशास्त्रे खगोलविज्ञाने च अतीव महत्त्वपूर्णाः सन्ति।
== जीवनपरिचयः वंशश्च ==
तस्य जन्म क्रिस्तवीये १११४ तमे वर्षे (१०३६ शकसंवत्सरे) सह्याद्रिपर्वतक्षेत्रे स्थिते 'विज्जलवीड' (अथवा विज्जडवीड) नामके ग्रामे अभवत्। तस्य पितुर्नाम महेश्वरभट्टः आसीत्, यः स्वयं महान् विद्वान् ज्योतिषी च आसीत्। भास्कराचार्यः शाण्डिल्यगोत्रोत्पन्नः ब्राह्मणः आसीत्। स्वग्रन्थे '''सिद्धान्तशिरोमणौ''' तेन स्वपरिचयः एवम् प्रदत्तः अस्ति -
<div style="background-color:#fef9e7; padding:15px; border-left:5px solid #ff9800; margin:15px 0; font-size:110%; font-style:italic;">
"आसीत् सह्यकुलाचलाश्रितपुरे त्रैविद्यविद्वज्जने<br>
नानाज्जनिते मठे विजडविडे शाण्डिल्यगोत्रो द्विजः।"
</div>
भास्कराचार्येण गणितस्य प्रारम्भिकं शिक्षणं स्वपितुः एव प्राप्तम्। ऐतिहासिकप्रमाणानुसारं भास्कराचार्यस्य पुत्रः लक्ष्मीधरः अपि गणितज्ञः आसीत्। तस्य पौत्रेण चङ्गदेवेन भास्कराचार्यस्य सिद्धान्तानां प्रचारार्थम् एकः विद्यामठः स्थापितः, यस्य स्पष्टः उल्लेखः ऐतिहासिके 'पाटण-शिलालेखे' (१२०७ ई.) प्राप्यते।
== प्रमुखाः ग्रन्थाः ==
भास्कराचार्येण अनेके ग्रन्थाः रचिताः, तेषु ११५० ख्रीष्टाब्दे (३६ वर्षवयसि) रचितः '''सिद्धान्तशिरोमणिः''' सर्वोत्कृष्टः अस्ति। अयं मुख्यग्रन्थः चतुर्षु भागेषु विभक्तः अस्ति:
* <span style="color:#d35400; font-weight:bold;">लीलावती:</span> अयं पाटीगणितस्य अङ्कगणितस्य च ग्रन्थः अस्ति। अत्र गणितस्य जटिलप्रश्नाः, क्षेत्रमितिः, भिन्नसङ्ख्याः च श्लोकमाध्यमेन प्रस्तुताः सन्ति।
* <span style="color:#d35400; font-weight:bold;">बीजगणितम्:</span> अस्मिन् खण्डे अज्ञातराशीनां, समीकरणस्य च विस्तृतम् अध्ययनम् अस्ति। 'चक्रवाल-विधिः' इति वर्ग-समीकरण-समाधानस्य विधिः तस्य महती उपलब्धिः अस्ति।
* <span style="color:#d35400; font-weight:bold;">ग्रहगणितम्:</span> अत्र ग्रहाणां गतेः, स्थितेः, ग्रहणानां च सटीकं गणितीयं विश्लेषणम् अस्ति।
* <span style="color:#d35400; font-weight:bold;">गोलाध्यायः:</span> अस्मिन् खण्डे भूमण्डलस्य, खगोलस्य, यन्त्राणां च सिद्धान्ताः वर्णिताः सन्ति।
अस्मात् अतिरिक्तम् अष्टषष्टितमे वयसि (११८३ ख्रीष्टाब्दे) तेन '''करणकुतूहलम्''' इति ग्रन्थः अपि रचितः, यस्य उपयोगः पञ्चाङ्गनिर्माणे भवति।
== वैज्ञानिकं योगदानम् ==
* '''गुरुत्वाकर्षणम् (Gravity):''' आधुनिकविज्ञाने न्यूटन-महोदयात् पूर्वम् एव भास्कराचार्येण गोलाध्याये गुरुत्वाकर्षणस्य सिद्धान्तः स्पष्टरूपेण प्रतिपादितः। सः लिखति -
<div style="background-color:#e8f8f5; padding:15px; border-left:5px solid #1abc9c; margin:15px 0; font-size:110%; font-style:italic;">
"आकृष्टिशक्तिश्च मही तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्त्या।<br>
आकृष्यते तत्पततीव भाति समे समन्तात् क्व पतत्वियं खे॥"
</div>
* '''कलनशास्त्रम् (Calculus):''' भास्कराचार्येण कलनशास्त्रस्य आरम्भिकसूत्राणि दत्तानि। 'तात्कालिकी गतिः' तेन एव प्रथमं निरूपिता। शून्येण कस्यापि सङ्ख्यायाः विभाजनेन 'अनन्तं' प्राप्यते, यत् तेन 'खहर' इति संज्ञया अभिहितम्।
== उपसंहारः ==
भास्कराचार्यः उज्जयिन्याः प्रसिद्धवेधशालायाः प्रमुखः आसीत्। तत्कालीनविद्वांसः तं 'गणितानन्दः' 'विद्यापतिः' च इति उपाधिभिः अलङ्कृतवन्तः। १५८७ तमे वर्षे मुगलसम्राजः अकबरस्य आदेशेन फैजी-नामकः विद्वान् 'लीलावती' ग्रन्थस्य फारसी-भाषायाम् अनुवादम् अकरोत्। क्रिस्तवीये ११८५ तमे वर्षे तस्य देहावसानम् अभवत्।
== सन्दर्भाः ==
* ''सिद्धान्तशिरोमणिः'' (गोलाध्यायः तथा लीलावती) - भास्कराचार्यः।
* ''करणकुतूहलम्'' - भास्कराचार्यः।
* ''पाटण-शिलालेखः'' (१२०७ ई.) - चङ्गदेवेन स्थापितः।
* ''History of Hindu Mathematics'' - B. Datta and A. N. Singh.
08kj85m6eg4rmkv0kh0muirpyz6pz7j