विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.16
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
मुष्टिकाताडनक्रीडा
0
14481
500275
409585
2026-08-26T09:02:03Z
Amherst99
5421
/* */
500275
wikitext
text/x-wiki
{{Infobox martial art
|image = Boxing Tournament in Aid of King George's Fund For Sailors at the Royal Naval Air Station, Henstridge, Somerset, July 1945 A29806.jpg
|imagecaption = १९४५ तमे वर्षे प्रवृत्ता मुष्टिकाताडनक्रीडा (हेन्स्ट्रिड्ज्-ग्रामः, सामर्सेट्-देशः, इङ्ग्लेण्ड्)
|imagesize = 226px
|name = मुष्टिकाताडनक्रीडा| aka = पगिलिसम्, इङ्ग्लिष् बाक्सिङ्ग्, वेस्टर्न्-बाक्सिङ्ग्, स्वीट् सैन्स्, जण्ट्ल्मन्स् स्पोर्ट्
|focus = पञ्चिङ्, स्ट्रीकिङ्ग्
|country = युनैटेड्-किङ्डम् (आधुनिकमुष्टिताडनक्रीडा)
|olympic = क्रि पू ६८८ तः
}}
'''मुष्टिकाताडनक्रीडा'''(boxing) प्रतिघातक्रीडासु अन्यतमा ।
विश्वस्य सर्वासु प्राचीनासु क्रीडाप्रतियोगितासु '''मुष्टिकाताडनक्रीडा''' प्राचीनतमा विद्यते । यदा प्रभृति मानवः संसारे समागतस्तत एव स पशुभिरन्यैः शत्रुभिः सह युदध्वाऽऽत्मानमरक्षत । ईसातः ४००० वर्षेभ्यः पूर्वं मिस्त्र्देशस्य सैनिका मुष्टिकायुद्धे निपुणा आसन्निति ततः प्राप्तेभ्यः प्राचीनेभ्यश्चित्रेभ्यो ज्ञायते मिस्रदेशीया इमां कलां यूनानतो ज्ञातवन्तः । पुरा तत्र विधीयमानासु प्रतियोगितासु मुष्टिका-प्रयोक्तारो हस्तयोर्यौ प्रच्छदौ (ग्लब्सदस्ताने) धारयतस्तयोः सुतीक्षणाः क्रीलिका जटिता भवन्ति स्म ।
कालान्तरेण विश्वक्रीडोत्सवेषु '''पंकेशम्''' -नाम्नी निर्दयतापूर्णा मुष्टिका युद्दकला प्रारब्धा । सत्यामपि क्रूरतायां यूनानवासिनोऽस्यामतीवानुरज्यन्ति स्म । तत् एव रोमदेशेऽपीयं विस्तृता । तदनन्तरं क्रमशोऽस्यां कानिचिद् विशिष्टानि परिअर्तनान्यभवन् । अद्यापि प्रतियोगितारो हस्तयोश्चर्म-प्रच्छदान-ये चर्मणा कोमलतारहितेन वस्त्रेण च निर्मिआस्तूलपूरिताश्च् '''पंचिंग-बेग''' नाम्ना ख्याता सन्ति -तान्, धारयन्ति । इमे कीलिका रहिता भवन्ति ।
जयपराजययोर्निर्णायः पूर्वं श्रान्तिक्लान्तिभ्यामथवा भूमौ क्रीडकस्य निपातनाद भवति स्म । साम्प्रतं मुष्टिकमल्लानां वर्गीकरणं मल्लानामिवैव दशधा क्रियते । तथा सर्वाश्रेष्ठं प्रदर्शनस्तरं प्रक्रियाधारेण च प्राप्ताङ्कानां वैशिष्टय परीक्ष्य जयनिर्णयो भवति । विश्चक्रीडोत्सवेषु मुष्टिकाताडानक्रीडायां प्रथमस्थानं लब्धवता '''ओनोमास्तस'''नाम्ना क्रीडकेन सर्वप्रथमं नियमा रचिताः । तेषासनुदारतयाऽनेकेषां क्रीडकानां मृत्युरप्यभवत्, अतो यीशोर्जन्मनः ३९४ वर्षानन्तरं रोमन सम्राट् थियोदोसियस् ईदृशीं प्रतियोगितां न्यषेधीत् । परं भूयोऽपि कतिचिद् वर्षानन्तरमस्याः प्रचारोऽभूत् विश्वक्रीडाप्रतियोगितासु चास्या नियमा निर्धारितास्तथा क्रीडजगति समावेशेन क्रीडयाऽनया लोकप्रियता प्राप्ता ।
==मुष्टिकाताडनक्रीडा सम्बद्धश्लोकः==
:::'''मुष्टिका-ताडनादात्मरक्षाविधौ'''
:::'''मानवो दीर्घकालादभूत संयतः ।'''
:::'''विश्वकौटुम्बिकं जीवनं जीवयन्'''
:::'''सोऽधुना क्रीडया स्वं यशो वर्धते ॥'''
==आधारः==
अभिनवक्रीडातरंगिणी
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:क्रीडाः]]
== सम्बद्धाः लेखाः ==
* [[भारतम्]]
* [[संस्कृतम्]]
* [[भारतस्य इतिहासः]]
* [[विज्ञानम्]]
el4izr675fyd7b999hifsg5qaaj01qv