विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.17
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
अमरकोशः
0
12659
500278
488098
2026-08-26T23:40:55Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
500278
wikitext
text/x-wiki
'''अमरकोशः''' ([[आङ्ग्लभाषा]]:Amarakosha) कश्चन प्रसिद्धः शब्दार्थकोशोऽस्ति । शब्दार्थकोशा [[निघण्टुः|निघण्टु]]<nowiki/>रिति कथ्यते । नि+घटि(भाषार्थे) + णिच् "कुः" (उ १।३७) । 'अर्थान् निघण्ट्यत्यस्मान् निघण्टुः परिकीर्तितः' । अत्र शब्दानां सङ्ग्रहः समानार्थकाः पर्यायशब्दा अनेकार्थकाः शब्दाश्चात्रोपलभ्यन्ते । [[संस्कृतम्|संस्कृते]] सर्वविधानां कोशानां मूलमस्ति वैदिकनिघण्टुः । [[यास्कः|यास्के]]न रचितो [[निरुक्तः|निरुक्तो]]ऽस्य वैदिकनिघण्टोर्भाष्यम्।
:अमरकोशस्य कर्ता[[अमरसिंहः|मरसिंहः]] । एष चतुर्थे शतके द्वितीय[[चन्द्रगुप्तः|चन्द्रगुप्तस्या]]<nowiki/>स्थाने विद्यमानेषु [[नवरत्नानि|नवरत्नेष्व]]न्यतम आसीदिति श्रूयते । केचन वदन्त्ययं सप्तमे शतके [[विक्रमादित्यः|विक्रमादित्यस्या]]स्थानयासीदिति । नामलिङ्गानुशासनमित्येतदस्यापरं नाम वर्तते। अत्र शब्दानामर्थेन सह लिङ्गनिर्देशोऽपि कृतोऽस्तीति कारणतोऽयं ग्रन्थोऽत्युपयुक्तो वर्तते ।
==ग्रन्थस्वरूपम्==
अमरकोशः श्लोकरूपेण रचितोऽस्ति । अतः कण्ठपाठार्थं बहुसुलभं भवति । अमरकोशे त्रीणि काण्डानि सन्ति। स्वर्गादिकाण्डं भूवर्गादिकाण्डं सामान्यादिकाण्डं चेति । एकैकस्मिन् काण्डेऽनेके वर्गाः सन्ति। विषयानुगुणं शब्दा अत्र वर्गीकृताः सन्ति । नानार्थवर्गे विषयविभागोऽशक्य इत्यतोऽत्रान्त्यव्यञ्जनानुगुणं शब्दसंयोजनं कृतमस्ति । शब्देन सहात्र लिङ्गनिर्देशोऽपि कृतोऽस्तीति कारणतोऽयं कोशोऽत्यन्तमुपयुक्तोऽस्ति ।
===स्वर्गादिकाण्डम्===
स्वर्गादिकाण्डयेकादशवर्गाः सन्ति ।
यथा १ स्वर्गवर्गः २ व्योमवर्गः ३ दिग्वर्गः
: ४ कालवर्गः ५ धीवर्गः ६ वाग्वर्गः
: ७ शब्दादिवर्गः ८ नाट्यवर्गः ९ पातालभोगिवर्गः
: १० नरकवर्गः ११ वारिवर्ग इति ।
===भूवर्गादिकाण्डम्===
अस्मिन् काण्डे दशवर्गाः सन्ति।
यथा १ भूमिवर्गः २ पुरवर्गः ३ शैलवर्गः
४ वनौषधिवर्गः ५ सिंहादिवर्गः ६ मनुष्यवर्गः
: ७ ब्रह्मवर्गः ८ क्षत्रियवर्गः ९ वैश्यवर्गः
: १० शूद्रवर्ग इति ।
===सामान्यादिकाण्डम्===
अस्मिन् षड्वर्गाः सन्ति।
यथा १ विशेष्यनिघ्नवर्गः २ सङ्कीर्णवर्गः ३ नानार्थवर्गः
: ४ नानार्थाव्ययवर्गः ५ अव्ययवर्गः ६ लिङ्गादिसङ्ग्रहवर्ग इति
==वैशिष्ट्यानि==
अष्टाध्यायी जगन्मातामरकोशो जगत्पितेत्येषोक्तिरमरकोशस्य श्रेष्ठतां दर्शयति । संस्कृतभाषायाः साम्प्रदायिकाध्ययनक्रमेऽमरकोशस्य कण्ठपाठोऽनिवार्यरूपेण योजित आसीत् । अमरसिंहस्तस्मिन् समये विद्यमानान् सर्वान् निघण्टूञ्च्छास्त्रान्तराणि च परिशील्यैवैतं ग्रन्थं रचितवानस्ति। अत एव ग्रन्थस्यारम्भे स लिखति समाहृत्यान्यतन्त्राणीति। [[व्याकरणम्|व्याकरण]]शास्त्रे तस्य विशेषाभिरुचिरासीत् । [[पाणिनिः|पाणिने]]<nowiki/>रष्टाध्याय्याः सूत्रवार्तिकभाष्यादीनि सम्यक् परिशील्य ताञ्च्छब्दानमरकोशे योजितवानस्ति। अत एवामरसिंहो हि पापीयान् सर्वं भाष्यमचूचरदिति व्याजस्तुतिः पण्डितगोष्ठीषु प्रसिद्धास्ति (अमरसिंहो व्याकरणभाष्यं समग्रं चोरितवान्) ।
==व्याख्यानानि==
अमरकोशस्य चत्वारिंशद्व्याख्यानान्युपलभ्यन्ते । तेषु प्रमुखानि क्षीरस्वामिना विरचितममरकोशोद्घाटनं
भानुदीक्षितेन विरचितं व्याख्यासुधा वन्ध्यघटीयसर्वानन्देन विरचितं टीकासर्वस्वं रायमुक्तेन विरचितं पदचरितं
जिनेन्द्रभूदिना विरचितं काशिकाविवरणपञ्जिका ।
==अमरकोशस्थाः केचन श्लोकाः==
'''पीठिकाश्लोकाः'''
::: यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः।
::: सेव्यतामक्षयो धीरास्स श्रिय्यै चामृताय च॥
::: समाहृत्यान्यतन्त्राणि संक्षिप्त्यैः प्रतिसंस्कृतैः।
::: सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्॥
::: प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित्।
::: स्त्रीनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित्॥
::: भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः।
::: कृतोत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते॥
::: त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति।
::: निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्॥
'''स्वर्गः'''
::: स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः।
::: सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे तिविष्टपम्॥
'''बुद्धिः'''
::: बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः।
::: प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः॥
'''भूमिः'''
::: भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा।
::: धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः॥
::: सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा।
::: गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥
'''नमस्कृतम्'''
::: स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्।
'''पूजितम्'''
::: वरिवसिते वरिवस्यितमुपासितं चोपचरितं च॥
'''ककारान्ताः'''
::: पद्ये यशसि च श्लोकश्शरे खड्गे च सायकः।
::: जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ॥
==बाह्यसम्पर्कतन्तुः==
* [http://www.sanskritebooks.org/2009/07/amara-kosa-the-sanskrit-thesaurus-with-notes-index/ अमरकोषः] {{Webarchive|url=https://web.archive.org/web/20140718074044/http://www.sanskritebooks.org/2009/07/amara-kosa-the-sanskrit-thesaurus-with-notes-index/ |date=2014-07-18 }}
----
{{Wikisourcecat}}
[[वर्गः:संस्कृतकोषाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
iewmmn90zpxate5lysc8ndzj3czndat
दीपावलिः
0
13643
500280
499857
2026-08-27T02:16:17Z
InternetArchiveBot
31833
Rescuing 2 sources and tagging 0 as dead.) #IABot (v2.0.9.5
500280
wikitext
text/x-wiki
{{Infobox holiday
|holiday_name = Deepawali
|observedby = [[हिंदू]], [[बुद्ध]], [[जैन]], [[सिख]] च
|image = The Rangoli of Lights.jpg
|caption = रंगोलीका (रंगीत चुरणेन कृत) भवति प्रसिद्धम् दीपावल्ये
|nickname = दीपावली, दीवाली, Thee Vazhi, प्रकाशोत्सवम्
|longtype = धार्मिकम्
|begins = [[धनत्रयोदशीवासरे]], दीपावल्या द्वेदिनपार्श्वे
|ends = [[Bhau-beej|Bhai Dooj]], 2 days after Diwali
|date = Decided by the Hindu [[Lunisolar calendar]]
|celebrations = [[Diya (light)|Diya]] and Lighting, Home decoration, Shopping, Fireworks, [[Puja (Hinduism)|Puja]] (Prayers), Gifts, Feast and Sweets
|type = हिंदू
|date2014 = 23 October (Thursday)<ref>[http://india.gov.in/calendar/2014-10 Holiday Calendar] Government of India</ref>
|date2015 = 11 November (Wednesday)
|date2016 = 30 October (Sunday)
|date2017 = 19 October (Thursday)
|date2018 = 7 November (Wednesday)
|date2019 = 28 October (Sunday)
|date2020 = 15 November (Saturday)
|date2021 = 4 November (Thursday)
|date2022 = 25 October (Tuesday)
|date2023 = 29 November (Sunday)
|date2024 = 30 November (Monday)
|relatedto = [[Kali Puja]], [[Diwali (Jainism)]], [[Bandi Chhor Divas]]
}}
[[File:Diwali lamp.jpg|thumb|'''तमसो मा ज्योतिर्गमय अस्योदाहरणम् दीपावली''']]
दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासस्य अमावस्यायां भवति । [[कार्त्तिकमासः|कार्त्तिकमासस्य]] कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, [[समुद्रः|समुद्रतीरे]] एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: [[आकाशदीपः|आकाशदीप:]] प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।
[[File:Diwali Ganesh Laxmi Puja 001.jpg|thumb|श्री गणेश-लक्ष्मी पूजा ]]
इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति ।
:'''नीराजयेयुदेर्वांस्तु विप्रान् गावतुरङ्गमान् ।'''
:'''ज्येष्ठान्पूज्यान् जघन्यां मातृमुख्या योषित: ॥''' इति उक्तम् अस्ति ।
दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । '''सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् [[विष्णुः|विष्णु]]रध्यात्मदीप: ।''' इति वदति [[भागवतम्]] । '''हृदयकमलमध्ये दीपवद्वेदसारम्''' इति उच्यते गुरुगीतायां [[स्कन्दपुराणम्|स्कान्दपुराणे]] च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महा[[लक्ष्मीः|लक्ष्म्या:]], धनाध्यक्षस्य [[कुबेरः|कुबेरस्य]] च पूजां कुर्वन्ति ।
:'''पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।'''
:'''सुखरायां प्रदोषे तु कुबेरं पूजयन्ति हि ॥'''
एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्ये]] चतुर्दशीदिनं दीपावली इति, [[कर्णाटके|कर्णातके]] चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति ।
त्रयोदश्यां सायङ्काले स्नानगृहं तत्रत्यानि पात्राणि च स्वच्छीकृत्य शुद्धं [[जलम्|जलं]]पूरयन्ति । तत् जलपूरणपर्व इति वदन्ति । तद्दिने रात्रौ अपमृत्युनिवारणाय [[यमः|यम]]धर्मराजस्य सन्तोषाय च गृहस्य बहिर्भागे दीप: प्रज्वालनीय: इति वदति स्कान्दपुराणम् । तस्य दीपस्य नाम एव यमदीप: इति ।
:'''कार्त्तीकस्यासिते पक्षे त्रयोदश्यां निशामुखे ।'''
:'''यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति ॥''' (स्कान्दपुराणम्)
:'''मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह ।'''
:'''त्रयोदश्यां दीपदानात् सूर्यज: प्रियतां मम ॥''' (स्कान्द-[[पद्मपुराणम्|पद्म]]-पुराणे)
चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्री[[कृष्णः|कृष्ण:]] [[नरकासुरः|नरकासुरं]] संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले [[तैलम्|तैले]] लक्ष्मी:, [[जलम्|जले]] च [[गङ्गा]] निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।
:'''”तैले लक्ष्मीर्जले गङ्गा दीपावल्याचतुर्दशीम् ।'''
:'''प्रात:काले तु य: कुर्यात् यमलोकं न पश्यति ॥“''' (पद्मपुराणम् - ४-१२४)
:'''”अलक्ष्मीपरिहारार्थम् अभ्यङ्गस्नानमाचरेत् ।”''' (नारदसंहिता)
तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति ।
:'''”अत्र आचारात् चतुर्दशशाकभक्षणं च कर्तव्यम् ॥''' इति उक्तिरपि श्रूयते ।
रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति । [[File:Diwalicha pharal.JPG|thumb|'''दीपावलीभक्ष्यानि''']]
:'''यमाय धर्मराजाय मृत्यवे चान्तकाय च ।'''
:'''वैवस्वताय कालाय सर्वभूतक्षयाय च ॥'''
:'''औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।'''
:'''वृकोदराय चित्राय चित्रगुप्ताय वै नम: ॥'''
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै [[तिलः|तिल]]तर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, [[अश्वः|अश्व]]शालासु, [[गजः|गज]]शालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, [[शिवः|शिवं]], महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।
अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले [[उदुम्बरः|उदुम्बर]]-[[अश्वत्थः|अश्वत्थ]]-[[आम्रः|आम्र]]-[[वटः|वट]]-[[प्लक्षः|प्लक्ष]]वृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति [[भेरिः|भेरि]] [[पणवानकः|पणवानकै:]] महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि [[ताम्बूलम्|ताम्बूलं]] च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं [[कुबेरः|कुबेरम्]] अपि पूजयन्ति ।
[[File:Cows decorated for Diwali.jpg|thumb|'''गोपूजापर्व''']]
कार्त्तीकशुद्धप्रतिपत् एव [[बलिः|बलि]]पूजादिनम् । दीपावलीपर्वणि एतत् प्रमुखं दिनम् । तद्दिने स्वातिनक्षत्रम् अस्ति चेत् अत्यन्तं प्रशस्तम् इति उच्यते । तद्दिने अपि प्रात:काले अभ्यङ्गस्नानं कुर्वन्ति । रात्रौ बलिपूजां कुर्वन्ति । बलिचक्रवर्तिन: चित्रं ५ वर्णै: लिखन्ति अथवा तस्य विग्रहस्य प्रतिष्ठापनं कुर्वन्ति । तस्य राज्ञ्या: विन्ध्यावल्या:, परिवारस्य, बाण-कूष्माण्ड-मुरनामकानां राक्षसानाम् अपि चित्राणि लिखन्ति । कर्णकुण्डलकिरीटै: शोभमानं बलिं विभिन्नै: [[कमलम्|कमल]]पुष्पै:, गन्ध-धूप-दीप-नैवेद्यै: पूजयन्ति । स्वर्णेन अथवा स्वर्णवर्णपुष्पै: तस्य पूजां कुर्वन्ति ।
:'''”बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।'''
:'''भविष्येन्द्र सुराराते विष्णुसान्निध्यदो भव ॥“'''
पूजेयं प्रतिगृह्यताम् इति प्रार्थयन्ति । एतद्दिने महादानी बलिचक्रवर्ती [[वामनावतारः|वामनावतारिण:]] [[विष्णुः|विष्णो:]] सकाशात् प्राप्तस्य वरस्य अनुगुणं भूलोकं द्रष्टुम् आगच्छति इति । अत: बलिम् उद्दिश्य तद्दिने यानि दानानि दीयन्ते तानि अक्षयफलदायकानि भवन्ति, नारायणस्य सन्तोषम् अपि जनयन्ति इति वदति [[भविष्योत्तरपुराणम्]] ।
:'''”बलिमुद्दिश्य दीयन्ते बलय: कुरुनन्दन ।'''
:'''यानि तान्यक्षयाण्याहु: मय्येवं सम्प्रदर्शितम् ॥“''' (भविष्योत्तरपुराणम् - १४०-५७)
एतद्दिने पार्वतीशिवौ द्यूतं कीडितवन्तौ । तत्र [[पार्वती|पार्वत्या]] जय: प्राप्त: इति वदति [[ब्रह्मपुराणम्]] । तस्य स्मरणार्थं तद्दिने द्यूतम् अपि क्रीडन्ति कुत्रचित् । तत्र य: जयं प्राप्नोति स: वर्षपूर्णं जयं प्राप्नोति इति विश्वास: ।
:'''”तस्मात् द्यूतं प्रकर्तव्यं प्रभाते तत्र मानवै: ।'''
:'''तस्मिन् द्यूते जयो यस्य तस्य संवत्सर: शुभ: ॥“'''
एतद्दिने एव श्रीकृष्ण: [[गोवर्धनपर्वतः|गोवर्धनपर्वतम्]] उन्नीय गोकुलस्य रक्षणं कृतवान् इति । अत: तस्य दिनस्य स्मरणार्थं गोपूजाम् आचरन्ति । तद्दिने गोवृषभेभ्य: विश्रान्तिं यच्छन्ति । गोवृषभान् स्नापयित्वा अलङ्कुर्वन्ति । तेषां पूजां कृत्वा नैवेद्यं समर्पयन्ति । गोवर्धनपर्वतस्य गोपालकृष्णस्य च पूजां कुर्वन्ति । पर्वतं गन्तुम् अशक्ता: तस्य विग्रहं, चित्रं वा पूजयन्ति । गोवर्धनपूजाम् अन्नकूट: इति वदन्ति । गोपालेभ्य: नैवेद्यरूपेण अन्नसन्तर्पणं व्यवस्थापयन्ति च एतद्दिने ।
अग्रिमं दिनम् अस्ति कार्त्तीकशुद्धद्वितीया । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।
:'''”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।'''
:'''अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“'''
[[File:Lanterns-at-Durpan-stores.gif|thumb|'''आकाशदीपौ सुशोभिते स्त.''']]
एतद्दिने एव यमदेव: भगिन्या: [[यमुना|यमुनादेव्या:]] गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्त्वा ता: सन्तोषयन्ति च । [[मार्कण्डेयः|मार्कण्डेयादीनां]] चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् । एवं ५ दिनानि आचरन्ति दीपावलीपर्व ।
:'''”उपशमित मेघनादं प्रज्वलित दशाननं रमितरामम् ।'''
:'''रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥“''' (भविष्योत्तरपुराणम् - १४० - ७१)
[[रामायणम्|रामायणे]] [[मेघनादः|मेघनाद:]] (इन्द्रजित्) यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुख[[रावणः|रावण:]] यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं (वर्त्तिका) दहति । रामायणे [[रामः|राम:]] यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ।
==बाह्यसम्पर्कतन्तुः==
{{Commonscat|Dipavali|दीपावलिः}}
* [http://kids.nationalgeographic.com/kids/stories/peopleplaces/diwali/ Diwali] National Geographic Kids
* [http://orissa.gov.in/e-magazine/Orissareview/2013/nov/engpdf/19-20.pdf Diwali in Odisha] Government of Odisha, Odisha Review Magazine
* [http://mea.gov.in/articles-in-foreign-media.htm?dtl/22417/Diwali+does+not+end+when+the+lights+go+out Diwali] Ministry of External Affairs, Government of India
* [http://hinducouncil.com.au/deepavali/deepavali-2012/ Deepavali in Australia] {{Webarchive|url=https://web.archive.org/web/20140903024236/http://hinducouncil.com.au/deepavali/deepavali-2012/ |date=2014-09-03 }} Hindu Council of Australia
* [http://diwalifest.ca/about-us/ Diwali in Canada] Diwalifest - Diwali Celebration Society, Canada
* [http://www.leicester.gov.uk/your-council-services/lc/events/major-events/diwali2012/ Diwali in United Kingdom] {{Webarchive|url=https://web.archive.org/web/20141031235348/http://www.leicester.gov.uk/your-council-services/lc/events/major-events/diwali2012/ |date=2014-10-31 }} Leicester City Council, The largest celebration of Diwali in UK
* [http://www.yokohamajapan.com/things-to-do/events/diwali/ Diwali in Yokohama] {{Webarchive|url=https://web.archive.org/web/20140827152911/http://www.yokohamajapan.com/things-to-do/events/diwali/ |date=2014-08-27 }} The largest Indian festival in Japan observed every year, hosted by City of Yokohama (in [http://www.diwaliyokohama.org/ Japanese] {{Webarchive|url=https://web.archive.org/web/20141020034131/http://www.diwaliyokohama.org/ |date=2014-10-20 }})
* [http://www.yoursingapore.com/content/traveller/en/browse/whats-on/festivals-and-events/deepavali.html Deepavali] Public Holiday and Local Celebrations, Singapore
* [https://msnews18.com/festivals/diwali-2024/ दीपावली 2024] {{Webarchive|url=https://web.archive.org/web/20250613201720/https://msnews18.com/festivals/diwali-2024/ |date=2025-06-13 }} msnew18
* [http://chicago.baps.org/events/tours-2/ Diwali Mahotsav in Chicago] {{Webarchive|url=https://web.archive.org/web/20141221202524/http://chicago.baps.org/events/tours-2/ |date=2014-12-21 }} BAPS Temple, Chicago, United States
* [http://www.deepavali.net/ Deepavali 2014] {{Webarchive|url=https://web.archive.org/web/20131102064145/http://www.deepavali.net/ |date=2013-11-02 }} Deepavali Festival Worldwide
{{भारतीयपर्वाणि}}
[[वर्गः:हिन्दु-उत्सवाः]]
c6bhmu13p2ikduwx2lifggub9uu912t
कार्त्तिकेयः
0
23213
500279
499833
2026-08-27T00:46:36Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
500279
wikitext
text/x-wiki
{{Infobox deity
| type = Hindu
| Image = Murugan by Raja Ravi Varma.jpg
| alt = Subramanya, Murugan
| Caption = Kartikeya with his wives by [[Raja Ravi Varma]]
| Name = Kartikeya
| Affiliation = [[Deva (Hinduism)|Deva]]
| Tamil_transliteration = முருகன் <br/> கார்த்திகேயன் <br/> சுப்பிரமணியன்
| God_of = [[Hinduism|Hindu]] God of war and victory, <br /> Commander of the Gods
| Abode = [[Arupadaiveedu]] ([[Six Abodes of Murugan]]), [[Skandaloka]]
| Mantra = *oṃ śaravaṇa bhavāya namaḥ
* Muruganukku Arohara
* Vetrivel Veeravel
| Weapon = [[Vel]], [[Bow and arrow]]
| Consort = [[Devasena]] and [[Valli]]
| Mount = [[Peafowl|Peacock]]
| father = [[Shiva]] or Agni
}}
[[चित्रम्:Murugan by Raja Ravi Varma.jpg|thumb|200px]]
'''कार्तिकेयः''' (तमिलुभाषायां मुरुगन्) तमिलुहैन्दवसमाजे कश्चित् प्रसिद्धः देवता पुरुषः । विशेषतः तमिलुप्रान्ते एनं पूजयन्ति । एवं दक्षिणभारते, [[सिङ्गापुरम्|सिन्गपूर्]]-[[श्रीलङ्का]]-, [[मलेष्या]]-[[मारिषस्]]-देशेषु पूजयन्ति। श्रीलङ्कादेशस्य दक्षिणे भागे विद्यमानं कार्तिकेयस्य अत्यन्तं श्रेष्ठं पवित्रतमं कतरगामामन्दिरं बौद्धाः हैन्दवाश्च् पूज्यभावेन पश्यन्ति । एवमेव मलेषियादेशस्य पिनाङ्ग्, क्वाललुम्पूर्प्रान्तस्य चीनजनाः च ताय्पूसाम्-अवधौ कार्तिकेयं पूजयन्ति । [[कर्णाटक|कर्णाटके]] दक्षिणजनपदे विद्यमानं सुब्रह्मण्यक्षेत्रमपि बहु प्रसिद्धिं प्राप्तमस्ति ।
==इतिहासः ==
[[कुक्केसुब्रह्मण्यम्|कुक्केसुब्रह्मण्यक्षेत्रं]] धारानदीतीरे अस्ति । [[पुराणानि|हिन्दुपुराणग्रन्थानाम्]] आधारेण ज्ञायते यत् देवसेनापतिः कुमारस्वामी तारकशूरपद्मासुरादि राक्षसान् मारयित्वा अत्र आगतवान् इति । तस्य रक्तसिक्तम् आयुधम् अस्यां नद्यां धारायां प्रक्षालितवान् । एतदनन्तरं धारा कुमारधारा इति प्रसिद्धिं प्राप्तवती । युद्धसमाप्तेः अनन्तरं सहोदरः [[गणेशः]], अन्यैः वीरबाह्वादिभिः सहचरैः साकं मिलित्वा कुमारपर्वतस्य शिखरभागं प्रति आगतवान् । देवेन्द्रप्रभृतयः एतस्य स्वागतं कृतवन्तः । राक्षसैः सह जाते युद्धे सः विजयं प्राप्तवान् इत्यतः देवेन्द्रः 'देवसेनानामिकां मम कन्यकां वृणोतु’ इति प्रार्थनां क्रुतवान् । अस्तु इति अङ्गीकारं प्रदर्शितवान् कुमारस्वामी । विवाहस्तु मार्गशीर्षशुद्धषष्ठ्यां सुसम्पन्नः । अस्मिन् विवाहे एवं सिंहासनारोहणसमारम्भे च [[ब्रह्मा]], [[विष्णुः]], महेश्वरादि देवताः उपस्थिताः आसन् । अस्मिन्न् शुभे कार्यक्रमे विविध नदीनां जलम् अनीतमासीत् । इदं पवित्रं [[जलम्]] भूस्पर्शं क्रुत्वा नदिस्वरूपं सम्प्राप्य 'कुमारधारा’ इति प्रसिद्धिं प्राप्तवती ।
गरुडस्य पीडाम् असहमानः महाशिवभक्तः नागराजः वासुकिः, [[कुक्केसुब्रह्मण्यम्|कुक्केसुब्रह्मणय़क्षेत्रस्य]] बिल्वद्वारानामिकायां गुहायां तपसः आचरणम् अकरोत् । तस्मै नागराजाय (वासुक्याः कृते) दर्शनभाग्यं दत्तवान् कुमारः । एवं परमभक्तस्य साकं शाश्वतरूपेण अत्रैव वासं करोमि इति अभयं दत्तवान् । अतः यत् वासुकेः कृते अर्चनादिकं समर्प्येत तत् सर्वमपि सुब्रह्मण्याय समर्पितमेव भवति ।
अत्र प्रतिवर्षं मार्गशीर्षशुद्धषष्ठ्यां रथोत्सवः भवति । एवं विशेषपूजा अपि भवति । अस्यैव दिनस्य 'चम्पाषष्ठी’ इति व्यवहारः।
==बाह्यसम्पर्कतन्तुः==
* [http://www.pttemple.com/ Registered Trustees Nattukottai Chettiars' Temple, Penang, Malaysia] {{Webarchive|url=https://web.archive.org/web/20121029024243/http://www.pttemple.com/ |date=2012-10-29 }}
* [http://www.sydneymurugan.org.au/murugan/] {{Webarchive|url=https://web.archive.org/web/20110823015908/http://www.sydneymurugan.org.au/murugan/ |date=2011-08-23 }}
* [http://www.perthmurugan.org.au/ Perth Bala Murugan Temple in Mandogalup, Western Australia, Australia] {{Webarchive|url=https://web.archive.org/web/20120616143152/http://www.perthmurugan.org.au/ |date=2012-06-16 }}
* http://www.palanitemples.com/ {{Webarchive|url=https://web.archive.org/web/20190727071506/http://palanitemples.com/ |date=2019-07-27 }} Lord Muruga Portal
* [http://www.murugan.org/ Murugan Bhakti Website]
* [http://www.a1tamilnadu.com/murugan_mp3_songs.asp Murugan Devotional Songs]
* [http://www.payyanur.com/subrahmanya.htm Subrahmanya Swami Temple of Payyanur] {{Webarchive|url=https://web.archive.org/web/20120208005748/http://www.payyanur.com/subrahmanya.htm |date=2012-02-08 }}
* http://www.highgatehillmurugan.org/ {{Webarchive|url=https://web.archive.org/web/20120102180549/http://www.highgatehillmurugan.org/ |date=2012-01-02 }}
* http://www.leicestersrimurugantemple.org.uk/ {{Webarchive|url=https://web.archive.org/web/20100701162113/http://www.leicestersrimurugantemple.org.uk/ |date=2010-07-01 }} Leicester Sri Siva Murugan Temple Official Website
* [http://www.dlshq.org/download/shanmukha.htm Swami Sivananda's book on Lord Kartikeya; also available on PDF.]
* [http://www.kataragama.org/ Skanda worship in Katirkamam, Sri Lanka]
* [http://www.kaumaram.com/contents.html Kaumaram Murugan Info]{{Dead link|date=July 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
* [http://www.youtube.com/user/Murugabhaktan YouTube video lectures praising Lord Muruga and explaining Kandhar Anubudhi by the "YouTube Pugal Muruga Bhaktan"]
* [http://www.youtube.com/view_play_list?p=59D259AF1022AE03 Murugan devotional video songs - YouTube Playlist]
* [[Murugan Temple of North America]]
* [http://www.montrealmurugan.org/ Murugan Temple in D.D.O., Montreal, Canada]
* [http://www.lordmurugantemples.com/ Lord Murugan Temples in Tamil Nadu, India ] {{Webarchive|url=https://web.archive.org/web/20140427195506/http://lordmurugantemples.com/ |date=2014-04-27 }}
* [http://www.kartikswami.com/ Kartik Swami, Rudraprayag Uttarakhand ]
* [http://www.inuvilkanthan.com/ Inuvil Kanthan Temple,Jaffna Srilanka]
[[वर्गः:हिन्दुदेवताः]]
[[वर्गः:अन्यभाषायां सारमञ्जूषा]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
lj26yb45efj8cy5uua3ya1l1hylzw1t
वैश्विकस्थितिसूचकपद्धतिः
0
30732
500282
492872
2026-08-27T05:04:21Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
500282
wikitext
text/x-wiki
'''वैश्विकस्थितिसूचकपद्धतिः''' (Global Positioning System (GPS)) इत्येषा जागतिकस्थाननिर्णयोपेता दिक्सूचीव्यवस्था विद्यते । कृतकोपग्रहैः प्राप्यमाणां सूचनाम् उपयुज्य प्रतिग्राहियन्त्राणि स्वीयं स्थानं वेगं दिशां च निश्चिन्वन्ति । सर्वेषु अपि ऋतुषु भूमौ भूमेः समीपे वा यत्र चतुर्णां तदधिकानां वैश्विकस्थितिसूचकोपग्रहाणाम् अनवरुद्धपरिधौ विद्यते चेत् तत्रत्यं स्थानं समयञ्च निर्दुष्टं ज्ञापयति इयं व्यवस्था ।<ref>{{cite web | url=http://www.loc.gov/rr/scitech/mysteries/global.html | title=जि पि एस् इति किम् ? | accessdate=3 अप्रैल 2014}}</ref> इयं व्यवस्था आप्रपञ्चे सेनायाः, नागरिकाणां वाणिज्योद्यमीनाञ्च सामर्थ्यम् अवर्धयत । इयं व्यवस्था अमेरिकादेशस्य प्रशासनेन निरूह्यते । वैश्विकस्थितिसूचकपद्धतेः प्रतिग्राहियन्त्रयुतेन केनापि इयं व्यवस्था निश्शुल्कं प्राप्तुं शक्या ।
[[file:ConstellationGPS.gif|thumb|150px|frame|भ्रमन्तीं भूमिं परितः २४ वैश्विकस्थितिसूचकोपग्रहाणां सञ्चारः]]
वैश्विकस्थितिसूचकव्यवस्था अमेरिकादेशस्य सेनाविभागेन अभिवृद्धा व्यवस्था । अस्याः अधिकृतं नाम विद्यते ''न्याव्स्टार् जिपिएस्'' इति । अस्याः निर्वहणं नियन्त्रणं च अमेरिकादेशस्थायाः वायुसेनायाः । अस्याः निर्वहणाय (उपग्रहपरिवर्तनं संशोधनम् अभिवृद्धिः इत्येतेषां निमित्तम्) ७५० यु एस् डालर्मितः व्ययः क्रियमाणः विद्यते । इयं व्यवस्था मूलतया अमेरिकादेशस्य सैनिकानाम् उपयोगाय विनिर्मितः चेदपि जगति सार्वजनिकोपयोगाय निश्शुल्कं प्रदत्ता वर्तते ।
इयं व्यवस्था दिक्सूचीरूपेणमात्रं न अपि तु भूचित्रनिर्माणाय, सर्वेक्षणकार्याय, वाणिज्यवैज्ञानिककार्येभ्यः च उपयुज्यते । निर्दुष्टसमयावगमाय अपि अस्य उपयोगः क्रियते ।
==वैश्विकस्थितिसूचकस्य मूलसिद्धान्ताः==
[[चित्रम्:Good gdop.png|150px|right|thumb| उपग्रहाणां द्वारा सङ्केतसङ्ग्रहणम्]]
वैश्विकस्थितिसूचकव्यवस्थायाः प्रतिग्राहियन्त्राणि उपग्रहैः प्रसार्यमाणाः सङ्केतान् गृह्णन्ति । एताः सङ्केताः उपग्रहात् प्रतिग्राहियन्त्राणि प्राप्तुं कियान् कालः स्वीकृतः इत्येतस्याः गणनायाः आधारेण स्वीयं स्थानम् ऊहन्ते । सङ्केताः विद्युन्मानतरङ्गरूपेण विद्यन्ते । एतेषां तरङ्गाणां वेगः पूर्वज्ञातः विद्यते इत्यतः गणना भवति निर्दुष्टा । त्रिषु आयामेषु स्वस्य स्थानं निर्णेतुं त्रिभिः उपग्रहैः प्रसारितान् सङ्केतान् अपि च तस्य निर्णयस्य निर्दुष्टतायै अपेक्षितायाः समकालीनतायाः (Time Synchronisation) प्राप्त्यै च चतुर्थोपग्रहस्य सङ्केतान् उपयुङ्क्ते । त्रिभिः उपग्रहैः प्राप्तान् सङ्केतान् उपयुज्य क्रियमाणः स्थाननिर्णयः '''त्रिकोणीकरणम्''' (Triangulation)<ref>{{cite web | url=http://searchnetworking.techtarget.com/definition/triangulation | title=त्रिकोणीकरणम् | accessdate=3 अप्रैल 2014 | archive-date=2014-05-18 | archive-url=https://web.archive.org/web/20140518143714/http://searchnetworking.techtarget.com/definition/triangulation | deadurl=yes }}</ref> इति कुत्रचित् उल्लिख्यते चेदपि तस्य निर्देशाय '''<ref>{{cite web | url=http://www.mio.com/technology-trilateration.htm | title=त्रिपार्श्वीकरणम् | publisher=Mio Global | accessdate=2014-04-03 | archive-date=2014-02-23 | archive-url=https://web.archive.org/web/20140223172205/http://www.mio.com/technology-trilateration.htm | deadurl=yes }}</ref>''' (Trilateration) इत्येषः शब्दः एव समीचीनः इति तत्तज्ञानाम् अभिप्रायः ।
==वैश्विकस्थितिसूचकव्यवस्था==
इयं वैश्विकस्थितिसूचकव्यवस्था त्रिसृभिः उपव्यवस्थाभिः युक्ता वर्तते -
# अन्तरिक्षोपव्यवस्था
# नियन्त्रणोपव्यवस्था
# ग्राहकोपव्यवस्था चेति ।
अन्तरिक्ष-नियन्त्रणोपव्यवस्थयोः निर्माणं निर्वहणं कार्याचरणं च अमेरिकादेशस्य वायुसेनाविभागेन क्रियते । वैश्विकस्थितिसूचकव्यवस्थान्तर्गताः उपग्रहाः आकाशात् सङ्केतान् प्रेषयन्ति । <ref>{{cite web | url=http://www.gps.gov/systems/gps/index.html | title=वैश्विकस्थितिसूचकव्यवस्था | publisher=Gps.gov | accessdate=3 अप्रैल 2014 | archive-date=2012-05-18 | archive-url=https://web.archive.org/web/20120518042020/http://www.gps.gov/systems/gps/index.html | deadurl=yes }}</ref>याः प्रतिग्राहियन्त्राणि एतेषां सङ्केतानां द्वारा स्वीयम् आयामत्रयोपेतं स्थानम् (अक्षांशः, रेखांशः, औन्नत्यम्) स्पष्टं समयञ्च निश्हिन्वन्ति ।
===अन्तरिक्षोपव्यवस्था===
विश्विकस्थितिसूचकव्यवस्थायाः निर्वाहाय २४ तः ३२ उपग्रहाः कार्यनिरताः भवन्ति । प्रत्येकम् उपग्रहः स्वीयं दिक्सूचिसन्देशं द्विविधसङ्केतानां द्वारा प्रेषयन्ति – स्थूलांशप्राप्तिसङ्केतः(Coarse Acquisition Code – C/A Code) यथार्थसङ्केतः(Precision Code – P Code) च । स्थूलांशप्राप्तिसङ्केतः ग्राहकेभ्यः निश्शुल्कम् उपलभ्यते । यथार्थसङ्केतः गुप्तरूपेण उपलभ्यते यश्च अमेरिकासेनाविभागेनैव उपयुज्यते ।
२०१२ तमस्य वर्षस्य डिसेम्बर्-मासतः ३२ उपग्रहाः अस्यां व्यवस्थायां कार्यरताः सन्ति ।<ref>{{cite web | url=http://tycho.usno.navy.mil/gpscurr.html | title=इदानीन्तनी उपग्रहव्यवस्था | publisher=U.S. Naval Observatory | accessdate=3 अप्रैल 2014 | archive-date=2013-02-22 | archive-url=https://web.archive.org/web/20130222020139/http://tycho.usno.navy.mil/gpscurr.html | deadurl=yes }}</ref> अतिरिक्तोपग्रहाः व्यवस्थायाः विश्वासार्हतां प्राप्तिञ्च अवर्धयन् । भूमौ निश्चितबिन्धुतः नव उपग्रहाः दृश्यन्ते इत्यतः यथार्थसूचनाः प्राप्तुं शक्याः ।
===नियन्त्रणोपव्यवस्था===
नियन्त्रणोपव्यवस्था चतुर्भिः भागैः युक्ता -
# प्रधाननिग्रहणकेन्द्रम् (MCS)
# पर्यायनिग्रहणकेन्द्रम्
# चत्वारि समर्थानि भूतलविद्युद्ग्राहकानि
# षट् समर्थानि आवेक्षकस्थानानि
प्रधाननिग्रहणकेन्द्रेण अमेरिकावायुसेनायाः उपग्रहनियन्त्रणजालस्य (AFSCN) राष्ट्रिय-जियोस्पेशियल्-इन्टेलिजेन्स्-एजेन्सि-सम्बद्धस्य आवेक्षणकेन्द्राणां च सम्पर्कः विद्यते । हवायि, क्वाजलेन् अटोल्, असेन्शन् ऐलेण्ड्, डिगो गार्सिय, कोलरडो स्प्रिङ्ग्स्, कोलरेडो अण्ड् केप् केनवरेल् इत्येतेषु विद्यमानैः अमेरिकावायुसेनावेक्षणकेन्द्रैः उपग्रहाणां सञ्चारमार्गाः आवेक्ष्यन्ते । एतैः सह इङ्ग्लेण्ड्, अर्जेण्टैन, एकुडेर्, बह्रैन्, अस्ट्रेलिया, वाशिङ्ग्टन् डि सि इत्येतेषु केन्द्रेषु विद्यमानानि आवेक्षणकेन्द्राणि सहकुर्वन्ति ।<ref>{{cite web | url=http://igs.bkg.bund.de/root_ftp/IGS/mail/igsmail/year2005/5209 | title=जि पि एस् वार्ता | date=9.9.2005 | accessdate=3 अप्रैल 2014 | archive-date=2012-07-12 | archive-url=https://archive.today/20120712041201/http://igs.bkg.bund.de/root_ftp/IGS/mail/igsmail/year2005/5209 | deadurl=yes }}</ref> २०११ तमस्य वर्षस्य सेप्टेम्बर्मासस्य १४ दिनाङ्के अमेरिकावायुसेनया घोषितं यत् वैश्विकस्थितिसूचकव्यवस्थायाः ओसिएक्स् प्राथमिकप्रारूपावलोकनं सम्पन्नम्, ओसिएक्स् तन्त्रांशः अग्रिमवर्धनाय सिद्धं विद्यते इति । २०१४ तमे वर्षे मेमासे आरप्स्यमाणायाः ’जिपिएस् ऐऐए’ कार्यस्य अनुमोदनाय सिद्धं विद्यते ओसिएक्स् तन्त्रांशः इत्येषः महत्त्वपूर्णः अंशः विद्यते ।
===ग्राहकोपव्यवस्था===
वैश्विकस्थितिसूचकव्यवस्थायाः ग्राहकयन्त्रं ग्राहकोपव्यवस्था इति निर्दिश्यते । एतानि विविधैः विन्यासैः उपलभ्यन्ते । हस्तघटीषु अपि इदं योज्यते ।
====वैश्विकस्थितिसूचकग्राहकानि====
ग्राहकयन्त्राणां प्रमुखाः भागाः - एरियल्, ग्राहक-संस्करणव्यवस्था, सूक्ष्ममानस्फटिकान्दोलकः (Crystal Oscillator) च । एतानि यन्त्राणि वैश्विकस्थितिसूचकोपग्रहैः प्रसार्यमाणान् सङ्केतान् संस्कुर्वन्ति । सकृत् द्वादशतः विंशत्युपग्रहैः प्रसार्यमाणान् सङ्केतान् ग्रहीतुं समर्थानि भवन्ति चेदपि ततः गरिष्ठान् सङ्केतान् स्थाननिर्णयाय उपयुञ्जते ।
===कार्यनिर्वहणं कथम् ?===
स्थाननिर्णयाय वैश्विकस्थितिसूचकोपग्रहाः उल्लेखबिन्दुरूपेण उपयुज्यन्ते । पूर्वोक्तरीत्या त्रिषु आयामेषु स्वस्य स्थानं निर्णेतुं त्रिभिः उपग्रहैः प्रसारितान् सङ्केतान् अपि च तस्य निर्णयस्य निर्दुष्टतायै अपेक्षितायाः समकालीनतायाः प्राप्त्यै च चतुर्थोपग्रहस्य सङ्केतान् उपयुङ्क्ते । एतत् कथमिति अधः विव्रियते ।
====प्रथमं सोपानम्-उपग्रहैः त्रिपार्श्वीकरणम्====
ग्राहकयन्त्रं कस्माच्चित् उपग्रहात् ११,००० मैल्परिमिते दूरे विद्यते इति चिन्त्यताम् । उपग्रहात् प्रसार्यमाणाः विद्युन्मानतरङ्गाः उपग्रहं परितः कस्मिंश्चित् काल्पनिकगोलरूपेण प्रसार्यते इति भाव्यताम् । अस्माकं ग्राहकयन्त्रात् ११,००० मैल्परिमिते दूरे विद्यते इत्यतः ग्राहकं ११, ००० मैल्-त्रिज्ययुतस्य गोलस्य उपरि बिन्दौ विद्यते इत्यर्थः । गोलस्य आवरणे असङ्ख्याः बिन्दवः विद्यन्ते । एषु असङ्ख्यबिन्दुषु प्रतिग्राहयन्त्रं कस्मिन् बिन्दौ विद्यते इति ज्ञातुम् अन्यस्य उपग्रहस्य सङ्केतान् उपयुज्य ततः स्वस्य दूरस्य मापनं करोति ।
ग्राहकयन्त्रम् अस्मात् उपग्रहात् १२,००० मैल्परिमिते दूरे विद्यते इति भाव्यताम् । अधुना ग्राहकयन्त्रं प्रथमे काल्पनिकगोलमात्रे एव न अपि तु १२,००० मैल्-त्रिज्ययुतस्य गोलस्य आवरणे अपि विद्यते इत्यवगतम् । इदं गोलद्वयं परस्परं छेदयतः । अस्मात् छेदात् गोलयोः उपरि यत् वृत्तं सम्भवेत् तस्य परिधौ विद्यमानेषु असङ्ख्यबिन्धुषु अन्यतमे बिन्धौ विद्यते ग्राहकयन्त्रम् । (इदं वृत्तं कल्पयितुम् एवं चिन्त्यताम् - कन्दुकद्वयं परस्परं प्रणुद्य तस्य स्पर्शबिन्धुषु लेखन्या अङ्क्यते चेत् लभ्यमानं वृत्तम् इति) अस्य वृत्तस्य परिधौ अपि असङ्ख्याः बिन्दवः भवन्ति इत्येतत् स्मर्तव्यम् । एतेषु बिन्दुषु ग्राहकयन्त्रं कस्मिन् बिन्दौ विद्यते इत्येतस्य ज्ञानाय तृतीयस्य उपग्रहस्य आवश्यकता भवति । तृतीयात् उपग्रहात् ग्राहकयन्त्रं १३,००० मैल्परिमिते दूरे विद्यते इति भावयामश्चेत् १३,००० त्रिज्ययुतं गोलं (तृतीयम्) पूर्वोक्तं वृत्तं बिन्दुद्वये छेदयति ।
कस्मिंश्चित् निर्दिष्टे काले ग्राहकयन्त्रम् एकत्रैव भवितुम् अर्हति इत्यतः अनयोः कस्मिन् बिन्दौ विद्यते इति ज्ञातुं चतुर्थस्य उपग्रहस्य साहाय्यं प्राप्तुं शक्यम् । किन्तु तन्नापेक्ष्यते यतः बिन्दुद्वये एकः बिन्दुः अत्यधिके दूरे विद्यते, असम्बद्धवेगेन चल्यते इति भासते (उपग्रहसमूहस्य कारणतः, व्यवस्था जङ्गमशीला च इति कारणतः) इत्यतः इदं भ्रमजनकं बिन्दुं ग्राहकयन्त्रान्तर्गतं गणकयन्त्रं झटिति निराकरोति । एवं ग्राहकयन्त्रं स्वीयं स्थानं त्रिषु आयामेषु निर्णिनोति । चतुर्थोपग्रहात् दूरं मीयते चेदपि तस्य उपयोगः अन्यकारणाय एव भवति ।
====द्वितीयं सोपानम्-उपग्रहैः दूरस्य मापनम्====
उपग्रहैः प्रसार्यमाणानां तरङ्गणां वेगः ज्ञातपूर्वः इत्यतः उपग्रहेभ्यः आगताः तरङ्गाः ग्राहकयन्त्रं प्राप्तुं स्वीकृतः समयः ज्ञायते चेत् उपग्रह-ग्राहकयन्त्रयोः दूरं ज्ञातुं शक्यते ।
:वेगः X समयः = दूरम् इत्येतस्य सूत्रस्य आधारेण दूरम् अत्र गण्यते । वैश्विकस्थितिसूचकव्यवस्थायाम् अवास्तव-क्रमरहित-सङ्केताः(Pseudo Random Code) उपयुज्यन्ते । दूरस्य मापनाय उपग्रहस्य सङ्केताः ग्राहकयन्त्रस्य अवास्तव-क्रमरहित-सङ्केताः च स्वीकरणीयाः । सङ्केताः युगपत् आरब्धाः इति चिन्त्यताम् । उपग्रहस्य सङ्केताः ग्राहकयन्त्रं यदा प्राप्नुवन्ति तदा उपग्रहस्य क्रमरहितसङ्केताः कियता प्रमाणेन पृष्ठतः भवन्ति इत्यस्य मापनेन उपग्रहस्य सङ्केताः ग्राहकयन्त्रं प्राप्तुं कियान् समयः आवश्यकः अभवत् इति ज्ञायते, ततः दूरस्य मापनं शक्यम् ।
====तृतीयं सोपानम्====
विद्युन्मानतरङ्गाणां वेगः १८६,००० मैल्स्/सेकण्ड् विद्यते इत्यतः मापनं भवति कष्टसाध्यम् । ग्राहकयन्त्रस्य साक्षात् उपरि विद्यमानात् उपग्रहात् तरङ्गाणाम् आगमनाय ०.०६ क्षणमात्रं भवति । अतः समयस्य मापनाय उपग्रहे ग्राहकयन्त्रे च अत्यन्तं निर्दुष्टा घटी अपेक्षिता भवति । यतः अनयोः घट्योः १ मैक्रोक्षणस्य (१/१००० क्षणम्) भेदः भवति चेदपि स्थानस्य निर्देशने २०० मैल्परिमितः भेदः सम्भवति !
उपग्रहेषु अतिनिर्दुष्टाः अणुघट्यः विद्यन्ते । किन्तु ग्राहकयन्त्रेषु अणुघट्यः योजयितुं न शक्यते यतः तेन घटीनां गात्रं मूल्यं च अत्यधिकं भविष्यति । अतः ग्राहकयन्त्रेषु विद्यमानानां स्फटिकघटीनां स्तरः केनचित् विशिष्टेन तन्त्रेण अणुघट्याः स्तरं प्रति उन्नीयते । इदं तन्त्रं वैश्विकस्थितिसूचकव्यवस्थायां प्रमुखं पात्रं वहति । वैश्विकस्थितिसूचकव्यवस्था मूलतः स्थाननिर्णयाय दिशाज्ञानाय उपयुज्यते चेदपि जगतः बहूनि ग्राहकयन्त्राणी समकालीकानि सन्ति इत्यतः अस्याः उपयोगस्य आयामाः असङ्ख्याः जाताः । गणकयन्त्रजालेषु, चलनचित्रोपकरणेषु, एटिएम् यन्त्रेषु च एककालिकतायाः प्राप्त्यर्थम् अस्याः व्यवस्थायाः उपयोगः आधिक्येन क्रियते ।
समयस्य निर्दुष्टतायाः सम्पादनाय उपयुज्यमानं तन्त्रं नाम चतुर्थोपग्रहात् दूरस्य मापनम् ! त्रिभिः उपग्रहैः दूरस्य मापनं कृत्वा आयामत्रये निर्दिष्टबिन्दोः स्थानं निर्दुष्टतया ज्ञातुं यथा शक्यं तथैव चतुर्थात् उपग्रहात् दूरमापनद्वारा ग्राहकयन्त्रस्य समयम् उपग्रहस्य समयानुगुणं योजयितुं शक्यते ।
====चतुर्थं सोपानम्-अन्तरिक्षे उपग्रहस्थानावगमनम्====
सर्वेषां ग्राहकयन्त्राणां गणकयन्त्रस्मरणकोशे पञ्चाङ्गकार्यप्रणालिः काचित् समायोजिता भवति । अनया पञ्चाङ्गकार्यप्रणाल्या अन्तरिक्षे वैश्विकस्थितिसूचकोपग्रहाणां सर्वेषां स्थितिः प्रतिक्षणमपि ग्राहकयन्त्रेण ज्ञायते ।
उपग्रहाणां भ्रमणकक्ष्या अत्यन्तं निर्दुष्टा चेदपि अमेरिकारक्षणाविभागेन एते उपग्रहाः निरन्तरं परिशील्यमानाः भवन्ति । एतदर्थं निर्दुष्टराडार्-यन्त्राणाम् उपयोगः क्रियते । अनेन उपग्रहाणाम् औन्नत्यं स्थानं वेगश्च मीयन्ते । चन्द्रस्यगुरुत्वाकर्षणशक्त्या, सौरवायोः हेतुना वा व्यत्यस्तं भवेत् इति कारणतः नैरन्तर्यपरिशीलनेन लोपदोषाः अभिज्ञायन्ते । एते दोषाः 'एफेमरीस्-दोषाः' इति निर्दिश्यन्ते । उपग्रहस्य स्वस्थानप्राप्तिपर्यन्तं यावत् एते दोषाः ग्राहकयन्त्रैः प्राप्यन्ते । एतान् दोषान् परिगणय्य एव ग्राहकयन्त्राणि स्थाननिर्णयं करिष्यन्ति ।
====पञ्चमं सोपानम्-दोषाणां समीकरणम्====
उत्तमेन ग्राहकयन्त्रेण स्थानं निर्दुष्टतया निर्णॆतुं केचन अंशाः परिगणयितव्याः । ते के इति अत्र विव्रियते -
:विद्युन्मानतरङ्गाः प्रकाशवेगेन चलन्ति । निर्वाते अयं वेगः स्थिरः भवति किन्तु वायुमण्डलद्वारा सञ्चलनावसरे अस्मिन् व्यत्ययः भवति । अतः ’वेगः X समयः = दूरम्’ इत्येतस्मिन् सूत्रे अयं व्यत्ययः यदि न परिगण्यते तर्हि स्थाननिर्णयः दोषयुक्तः भवति ।
==उपयोगाः==
वैश्विकस्थितिसूचकव्यवस्था सैनिकानाम् उपयोगाय आदौ संरचिता । ततः नागरिकाणाम् उपयोगाय च व्यवस्था परिकल्पिता ।
===सैनिकोपयोगाः===
क्षिपणीनां मार्गनिर्देशनाय इयं व्यवस्था उपयुज्यते । युद्धभूमौ सैनिकाः स्वीयं स्थानम् अवगन्तुं नियन्त्रणकेन्द्रेभ्यः स्वीयस्थानस्य ज्ञापनाय च इयम् उपयुज्यते । वैश्विकोपग्रहेषु परमाणुस्फोटव्यवस्था (United States Nuclear Detonation Detection System) विद्यते ।<ref>{{cite web | url=http://www.osti.gov/bridge/servlets/purl/10176800-S2tU7w/native/10176800.pdf | title=परमाणुस्फोटाविष्कारः | publisher=Sandia National Laboratories | accessdate=3 अप्रैल 2014 | author=Dr. Dennis D. McCrady}}</ref> परमाणुपरीक्षायाः निषेधपत्रस्य अङ्गीकरणानुरोधाय अमेरिकासर्वकारेण अस्याः व्यवस्थायाः उपयोगः क्रियते ।
===नागरिकोपयोगाः===
वैश्विकस्थितिसूचकव्यवस्थया प्राप्यमाणस्य स्थान-चलन(वेग)-समयादयः प्रायशः सर्वासु व्यवस्थासु उपयुज्यन्ते । ए टि एम् यन्त्रव्यवस्था, दिक्सूचिव्यवस्था, भूखण्डचलनम् इत्यादिषु उपयुज्यते । सि डि एम् ए चरदूरवाणितन्त्रज्ञानेषु समानसमयस्य प्राप्त्यै अस्याः उपयोगः क्रियते । पाश्चात्यदेशेषु समरेखायां कर्षणाय अपि क्षेत्रेषु अस्याः व्यवस्थायाः उपयोगः क्रियते । अस्याः उपयोगः अपरिमितः विद्यते ।
==टिप्पणी==
{{reflist|2}}
==बाह्यसम्पर्कतन्तवः==
* [http://www.schriever.af.mil/GPS/ वैश्विकस्थितिसूचकपद्धतेः कार्यनिर्वहणकेन्द्रम्] {{Webarchive|url=https://web.archive.org/web/20131017114610/http://www.schriever.af.mil/GPS/ |date=2013-10-17 }}
* {{dmoz|Science/Earth_Sciences/Geomatics/Global_Positioning_System|जागतिकस्थाननिर्देशनव्यवस्था}}
* [http://www.faa.gov/about/office_org/headquarters_offices/ato/service_units/techops/navservices/gnss/faq/gps/ एफ़् ए ए सामान्यप्रश्नाः]
* [http://www.gps.gov/ जिपिएस्]—सार्वजनिकानां शिक्षणाय अमेरिकाप्रशासनेन निर्मितं जालपुटम्
* [http://www.navcen.uscg.gov/?pageName=यु एस् सि जि सञ्चारणकेन्द्रम्]—व्यवस्थास्थितिः, प्रशासननियमाः, अन्येषाम् आकराणां सम्पर्कसूत्रञ्च
* [http://gps.losangeles.af.mil/ जिपिएस् कार्याचरणकेन्द्रम्] {{Webarchive|url=https://web.archive.org/web/20090502150818/http://gps.losangeles.af.mil/ |date=2009-05-02 }}—अमेरिकासर्वकारपरतया व्यवस्थायाः विन्यासस्य उत्तरदायिनः
* अमेरिका-सेनातन्त्रज्ञानां पाठ्यम्: [https://web.archive.org/web/20080822132227/http://www.usace.army.mil/publications/eng-manuals/em1110-1-1003/toc.htm नव्स्टार् एच्टिएमेल्] [https://web.archive.org/web/20080625111519/http://www.usace.army.mil/publications/eng-manuals/em1110-1-1003/entire.pdf पिडिएफ् (२२.६ एम्बि, ३२८ पृष्ठानि)]
[[वर्गः:भूमिशास्त्रम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
== सम्बद्धाः लेखाः ==
* [[भारतम्]]
* [[संस्कृतम्]]
* [[भारतस्य इतिहासः]]
* [[विज्ञानम्]]
2sb35m9757jem5uigrnvi3rydd94n9n
मगधीभाषा
0
78079
500281
478894
2026-08-27T03:49:49Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
500281
wikitext
text/x-wiki
{{Infobox language
| name = मगधीभाषा
| altname = मगहीभाषा
| nativename = {{hlist|
| {{nowrap|𑂧𑂏𑂯𑂲/𑂧𑂏𑂡𑂲}}
| {{nowrap|मगही/मगधी}}
| {{nowrap|মগহী/মগধী}}
}}
| image = Shukla Magahi.svg
| imagesize = 140px
| imagealt = मगही
| imagecaption = [[कैथीलिपि|कैथीलिप्या]] लिखितं ''मगही'' इति
| states = [[भारतम्]]
| region = [[बिहार]] [[झारखण्डः]] [[पश्चिमवङ्गः]] च<ref>{{Cite web|url=https://www.longdom.org/articles/magahi-and-magadh-language-and-people.pdf|title=Magahi and Magadh: Language and the People|trans_title=मगधी मगधः च– भाषा जनाः च|last=अत्रेय|first=लता|website=Global Journal of Interdisciplinary Social Sciences|access-date=2022-03-31|archive-date=2021-07-31|archive-url=https://web.archive.org/web/20210731102100/https://www.longdom.org/articles/magahi-and-magadh-language-and-people.pdf|deadurl=yes}}</ref>
| ethnicity = [[मगधीजनाः|मगधी]]
| speakers = २.०७ कोटिः
| date = २०११ जनगणना
| speakers2 = (अतिरिक्तवक्तृणां गणना हिन्दीभाषायाः अन्तर्गता)<ref name="ethnologue.com">{{Cite web |url=https://www.ethnologue.com/language/mag|title=Magahi|trans_title=मगधी|website=ethnologue}}</ref>
| ref =
| minority = {{IND}}
* [[झारखण्ड]]<ref>झारखण्डराजयस्य अतिरिक्त-आधिकारिकभाषा</ref><ref>{{Cite web|url=https://www.prabhatkhabar.com/news/ranchi/jharkhand-raghubar-das-cabinet-decision-maithili-bhojpuri-angika-magahi-second-language/1135878.html |title=झारखंड : रघुवर कैबिनेट से मगही, भोजपुरी, मैथिली व अंगिका को द्वितीय भाषा का दर्जा |trans_title=झारखण्ड – रघुवरमन्त्रिमण्डलात् मगही-भोजपुरी-मैथिली-अङ्गिका-भाषाः प्रति द्वितीयभाषायाः स्थितिः |website=प्रभात ख़बर|date=२१ मार्च २०१८ |accessdate=१७ नवम्बर २०१८ |language=हिन्दी}}</ref>
| ancestor = [[मागधीप्राकृतम्]]
| familycolor = [[हिन्द-यूरोपीयभाषाः|भारोपीय]]
| fam2 = [[हिन्द-ईरानीयभाषाः|हिन्द-ईरानीय]]
| fam3 = [[हिन्द-आर्यभाषाः|हिन्द-आर्य]]
| fam4 = [[पूर्वहिन्द-आर्यभाषाः|प्राच्य (मागधन)]]
| fam5 = [[बिहारीभाषाः|बिहारी]]
| dia1 = दाक्षिणात्यमगधी
| dia2 = औत्तरमगही
| dia3 = मध्यमगही
| dia4 = [[खोरठाभाषा|खोरठा]]
| script = [[देवनागरी]]<br/>[[कैथीलिपिः|कैथी]] (ऐतिहासिक)
| iso2 = mag
| iso3 = mag
| glotto = maga1260
| glottorefname = मगही
| map = Magahi map.png
| mapcaption = मगही भाषितप्रदेशाः
}}
'''मगधी''' ([[कैथीलिपिः|कैथी]]: 𑂧𑂏𑂡𑂲) '''मगही''' ([[कैथीलिपिः|कैथी]]: 𑂧𑂏𑂯𑂲) वा [[पूर्वभारतम्|पूर्वभारतस्य]] [[बिहार]]-[[झारखण्ड]]-[[पश्चिमवङ्ग]]-राज्येषु [[नेपालदेशः|नेपालदेशस्य]] [[तराई|तराईक्षेत्रे]] च भाष्यते । [[मागधीप्राकृतम्|मागधीप्राकृतं]] मगधीयाः पूर्वजा, यस्मात् उत्तरस्य नाम उत्पद्यते ।<ref>{{cite web|url=http://www.livemint.com/Leisure/Nl73WC1JA8d6KVybBycNlM/How-a-Bihari-lost-his-mother-tongue-to-Hindi.html|title=How a Bihari lost his mother tongue to Hindi|trans_title=कश्चन बिहारीव्यक्तिः हिन्दीभाषायाः कृते कथं स्वमातृभाषां नष्टवती|date=२२ सितम्बर २०१७}} हिन्दीनिरन्तरतायाः उपभाषा इति मन्यते ।</ref>
लोकगीतानां कथानां च अतिसमृद्धा पुराणी परम्परा वर्तते । [[बिहारराज्यम्|बिहारराज्यस्य]] नवसु मण्डलेषु ([[गयामण्डलम्|गया]]-[[पटनामण्डलम्|पटना]]-[[नालन्दामण्डलम्|नालन्दा]]-[[शेखपुरामण्डलम्|शेखपुरा]]-[[नवादामण्डलम्|नवादा]]-[[लक्खिसरायमण्डलम्|लक्खिसराय]]-[[अरवलमण्डलम्|अरवल]]मण्डलेषु) [[झारखण्डराज्यम्|झारखण्डराज्यस्य]] अष्टसु मण्डलेषु ([[हजारीबागमण्डलम्|हजारीबाग]]-[[पलामुमण्डलम्|पलामु]]-[[चतरामण्डलम्|चतरा]]-[[कोडरमामण्डलम्|कोडरमा]]-[[जमताडामण्डलम्|जमताडा]]-[[बोकारोमण्डलम्|बोकारो]]-[[धनबादमण्डलम्|धनबाद]]-[[गिरिडीहमण्डलम्|गिरिडीह]]मण्डलेषु) [[पश्चिमवङ्गराज्यम्|पश्चिमवङ्गराज्यस्य]] [[मालदामण्डलम्|मालदामण्डले]] च भाष्यते । [[खोरठाभाषा|खोरठाभाषायाः]] वक्तारः सहितं (या मगधीभाषायाः उपभाषा इति मन्यते) मगधीभाषायाः २,०७,००,००० वक्ताराः सन्ति ।
प्राचीन [[मागधीप्राकृतम्|मागधीप्राकृतभाषया]] व्युत्पादिता मगधी, या [[मगधः|मगधस्य]] प्राचीने राज्ये निर्मिता, यस्य मूलं [[गङ्गानदी|गङ्गायाः]] दक्षिणदिशि [[सोननदी|सोननद्याः]] पूर्वदिशि च क्षेत्रम् आसीत् ।
यद्यपि मगधीभाषिणां सङ्ख्या प्रायः १.२६ कोटिः, [[भारतम्|भारतवर्षे]] संवैधानिकरूपेण न स्वीकृतम् । [[बिहारराज्यम्|बिहारराज्ये]] शैक्षिक-आधिकारिक-विषयेषु [[हिन्दी|हिन्दीभाषायाः]] उपयोगः भवति ।<ref name="diehardindian.com">{{cite web|url=http://www.diehardindian.com/demogrph/moredemo/histlang.htm |title=History of Indian Languages |trans_title=भारतीयभाषाणाम् इतिहासः|publisher=Diehardindian.com |accessdate=२९ फरवरी २०१२ |deadurl=yes |archive-url=https://web.archive.org/web/20120226234832/http://www.diehardindian.com/demogrph/moredemo/histlang.htm |archive-date=२६ फरवरी २०१२ }}</ref> १९६१ जनगणनायां मगही हिन्दीभाषायाः अधीनं विधिपूर्वकं अवशोषितम् आसीत् ।
== इतिहासः ==
मगधीभाषायाः पूर्वजः, [[मागधीप्राकृतम्|मागधीप्राकृतं]] [[भारतीय उपमहाद्वीपः|भारतीय उपमहाद्वीपे]] निर्मितम् । एते प्रदेशाः [[मगधः|प्राचीनमगधराज्यस्य]] भागः आसन्, यस्य मूलं [[गङ्गानदी|गङ्गायाः]] दक्षिणदिशि [[बिहारराज्यम्|बिहारराज्यस्य]] क्षेत्रम् आसीत् ।
नाम ''मगधी'' ''मगही'' वा साक्षात् ''मागधी''-शब्दात् निष्पन्नम् । आधुनिक भाषायाः कृते मगधीभाषायाः अनेकाः शिक्षितवक्ताराः "मगही" अपेक्षया "मगधी" इति नाम प्राधान्यं ददति ।
मगधीभाषायाः वर्तमानरूपेण विकासः अज्ञातः अस्ति । तथापि भाषाविदः निष्कर्षं गतवन्तः यत् ८ तः ११ शताब्दयोः कालखण्डे मगधी [[असमियाभाषा|असमिया]]-[[ओडियाभाषा|ओडिया]]-[[बाङ्गलाभाषा|बाङ्गला]]-[[भोजपुरीभाषा|भोजपुरी]]-[[मैथिलीभाषा|मैथिली]]भाषाभिः सह [[मागधीप्राकृतम्|मागधीप्राकृतोद्भवः]] ।
== सम्बद्धाः लेखाः ==
* [[बिहारीभाषाः]]
* [[हिन्द-आर्यभाषाः]]
* [[पूर्वहिन्द-आर्यभाषाः|मागधनभाषाः]]
* [[बिहारराज्यम्]]
* [[मगधः]]
== सन्दर्भाः ==
[[वर्गः:भाषाः]]
[[वर्गः:भारतीयभाषाः]]
0c4whgeee0x87q5rs19vw7xu2stl49v
सदस्यसम्भाषणम्:TamilSelvan
3
89560
500276
494050
2026-08-26T21:22:29Z
FlightTime
38235
FlightTime इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Malayalee from India]] पृष्ठं [[सदस्यसम्भाषणम्:TamilSelvan]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Malayalee from India|Malayalee from India]]" का नाम "[[Special:CentralAuth/TamilSelvan|TamilSelvan]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ
494050
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Malayalee from India}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ११:१२, २९ जून् २०२५ (UTC)
s3aofi91vobxfmwasgbarkj6kw9c6oz
सदस्यसम्भाषणम्:Malayalee from India
3
92440
500277
2026-08-26T21:22:29Z
FlightTime
38235
FlightTime इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Malayalee from India]] पृष्ठं [[सदस्यसम्भाषणम्:TamilSelvan]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Malayalee from India|Malayalee from India]]" का नाम "[[Special:CentralAuth/TamilSelvan|TamilSelvan]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ
500277
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:TamilSelvan]]
qea6a31fx85h6bsfykw0esjm4enb0jd