विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.17
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
वेङ्कटरामन् रामकृष्णन्
0
22985
500302
480981
2026-08-30T01:30:14Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
500302
wikitext
text/x-wiki
{{Infobox person
|image = Nobel Prize 2009-Press Conference KVA-08.jpg
|caption= वेङ्कटरामन् रामकृष्णन्
|birth_date= क्रि.श. १९५२तमवर्षम् ।
|birth_place= [[चिदम्बरम्]], [[तमिळुनाडुराज्यम्]], [[भारतम्]]
|death_date=
|death_place=
|nationality = भारतीयः
|caption= वेङ्कटरामन् रामकृष्णन्
|name= '''वेङ्कटरामन् रामकृष्णन्'''
|parents = (माता)<br /> (पिता)
|alma_mater = [[महाराजः सैयाजिराव् विश्वविद्यालयः]], [[बरोडा]]<br />[[ओहायोविश्वविद्यालयः]]
|occupation = विज्ञानी
|religion = [[हिन्दुधर्मः]]
|organization =
}}
विङ्कि इत्येव प्रथितः '''वेङ्कटरामन् रामकृष्णन्''' (तमिळुभाषा : வெங்கட்ராமன் ராமகிருஷ்ணன்;) भारतीयमूलः [[अमेरिकादेशः|अमेरिकादेशस्य]] पौरत्वयुतः जीवरसायनशास्त्रस्य विज्ञानी । क्रि.श. १९५२तमवर्षे [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्यस्य]] चिदम्बरम् इति स्थाने जातः एषः अधुना ब्रिटन् देशस्य केम्ब्रेज् विश्वविद्यालये एम्.आर्.सि.अणुजीवविज्ञानस्य संस्थायाः वैद्यकीयसंशोधनप्रयोगालये विज्ञानी सन् कार्यरतोऽस्ति ।<ref>{{cite web|url=http://www.mrc-lmb.cam.ac.uk/ramak/|title=Venki Ramakrishnan|date=2004|publisher=Laboratory of Molecular Biology|accessdate=२००९-१०-०७|archive-date=2009-10-10|archive-url=https://web.archive.org/web/20091010071033/http://www.mrc-lmb.cam.ac.uk/ramak/|deadurl=yes}}</ref>.एषः क्रि.श. २००९तमे वर्षे रसायनशास्त्रस्यविषये अमेरिकदेशस्य थामस् ए. स्टीट्ज् तथा इस्रेल् देशस्य आड योनाट् इत्येताभ्यं सह नोबेल् प्रशास्तिं स्वीकृतवान् ।<ref>{{cite news|url=http://www.sciencecentric.com/news/article.php?q=09100741-the-nobel-prize-chemistry-is-going-ramakrishnan-steitz-yonath|title=The Nobel Prize in chemistry is going to Ramakrishnan, Steitz, Yonath|last=Abadjiev|first=Stanislav P.|date=7 October 2009|publisher=Science Centric|accessdate=7 October 2009|archive-date=10 October 2009|archive-url=https://web.archive.org/web/20091010074028/http://www.sciencecentric.com/news/article.php?q=09100741-the-nobel-prize-chemistry-is-going-ramakrishnan-steitz-yonath|deadurl=yes}}</ref>
==DNA इत्यस्य अन्तरङ्गरहस्यं बहिरानयनस्य अध्ययनं रैबोसम्==
क्रि.श. २००९तमे वर्षे रसायनशास्त्रविभागस्य नोबेल् प्रशस्तिं भारतमूलः ५७वर्षीयः अमेरिकादेशेरूढमूलः वेङ्कटरामन् रामकृष्णन् प्राप्तवान् । क्रि.श. २०११तमे वर्षे तमिळुनाडुराज्यस्य चेन्नैमहानगरे प्रचालिते ९८तमे सैन्स् काङ्गेस् इति वैज्ञानिकमहासम्मेलने जीवनस्य कस्याश्चित् प्रमुखक्रियायाः अध्ययनम् अभवत् । रैबोसम् नाम जीवकोशगतस्य प्रोटिन् तथा आर्.एन्.ए.अणुभिः निर्मितं लघुगोलकाकारस्य रचनम् । कोशे प्रोटिन् निर्माणस्य हेतुः एतदेव । (अस्य रूपं २० न्यानोमीटर् व्यासयुतम् ) डि.एन्.ए. सूचनाः कथं जीवायते इति एतद्वदति ।.
==रैबोसम् इति प्रोटिन् निर्माणस्य यन्त्रम्==
रैबोसोम् प्रोटिन् उत्पादनस्य यन्त्रं भवति । तादृशः प्रोटिन् सर्वजीवरासायनिकक्रियाः नियन्त्रयति । जीवस्य अत्यावश्यकः रैबोसोम् भवती नूतनविषहारकानम् एतत् मुख्यलक्ष्यम् अपि । रैबोसोम् सूक्ष्मदर्शकयन्त्रेण कथं दृग्गोचरः भवति इति ते त्रयः विज्ञानिनः अपि बोधितवन्तः । तादृशः लक्षाधिकाः अणवः रैबोसोम् उत्पादयन्ति इति ज्ञातुं एक्स् रे क्रिस्टिलोग्रफि इति विधानम् उपयुज्य एते त्रयः प्राज्ञाः स्वीयविशिष्टरीत्या संशोधनं पृथक् कृतवन्तः । अस्य संशोधनस्य तथ्येन अणोः स्थानं ज्ञातम् । एम्.आर्.सि. प्रयोगालयतः स्नेहितवलये वेङ्कि इत्येव प्रसिद्धः रामकृष्णन् त्रयोदशः साधकः अस्ति । केम्ब्रेज् विश्वविद्यालयस्य अणुजीवशास्त्रस्य प्रयोगालये कृतस्य अनुपमसंशोधनार्थं क्रि.श. २००९तमे वर्षे नोबेल् प्रशस्तिः प्राप्ता ।
.
==जन्म बाल्यं च==
वेङ्कटरामन् वर्यस्य जननं तमिळुनाडुराज्यस्य चिदम्बरम् इति ग्रामे क्रि.श. १९५२तमे वर्षे । अस्य पिता सि.वि.रामकृष्णन् माता राजलक्ष्मीः । यदा एषः वर्षद्वयस्य आसीत् तदा अस्य कुटुम्बः वडोदर इति स्थानम् आगच्छत् । तत्र आङ्ग्लमाध्यमस्य बालिकानां शालायाम् अस्य शिक्षा आरब्धा । अतः क्रीडायाः अपेक्षया पठने एव अनिवार्यतया आसक्तिः संवृद्धा । गृहे रसायनशास्त्रस्य भौतविज्ञानस्य च पुस्तकानां राशिः आसीत् । मातापितरौ अन्ये च गृहबान्धवाः अपि संशोधनविषये चर्चां कुर्वन्ति स्म । गृहस्य कोणे कोणे अपि पठनस्य विश्लेषणस्य वैज्ञानिकवातावरणम् आसीत् । तस्मिन् हितकरे परिसरे पित्रोः वात्सल्यमयेन पालनेन संवर्धितः वेङ्कटरामन् सहजतया विज्ञानस्य सर्वप्रकारेषु अपि आसक्तः अभवत् । पिता एम्.एस्.विश्वविद्यालये जीवरसायनशास्त्रस्य प्राध्यापकः सन् पश्चात् विभागप्रमुखः अभवत् । माता अपि तमिन् एव विश्वविद्यालये सेवां करोति स्म । वेङ्कटरामन् क्रि.श.१९५५तमे वर्षे पदवीपूर्वपरिक्षां अण्णामलै महाविद्यालये समापितवान् । अस्य बाल्यस्य अधिकदिनानि बरोडानगरे यापितम् । अतः तत्रस्थः परिसरः वयस्याः शिक्षकाः च अस्य निकटवर्तिनः । अस्य पिता रामकृष्णन् अमेरिकस्य सियाटल् नगरे तस्य पुत्र्याः गृहे निवसति ।
==विद्यार्जनवृत्तिजीवनयोः मुख्यबिन्दवः==
:* १९७१तमे वर्षे बरोडानगरे सय्यजीराव् गयकवाडविश्वविद्यालये भौतविज्ञाने बि.एस्.सि.पदवी ।
:* १९७६ तमे वर्षे अमेराकदेशे ओहैविश्वविद्यालये पि.एच् डि पदवी ।
:* १९७६-७८ तमवर्षेषु स्याण्डिगो क्यालिफोर्निया विश्वविद्यालये जीवशास्स्त्रस्य पदवीप्राप्तिः ।
:* १९७८-८२ येल् विश्वविद्यालयतः रसायनशास्त्रे पोस्ट् डाक्टरल् फेलो ।
:* १९८३-९५तमवर्षेषु ब्रूक् हेवेन्स् न्याशन्ल् प्रयोगालये जीवशास्त्रविभागे कार्यम् ।
:* १९८३-८५तमवर्षेषु सहायकः जीवभौतशास्त्रज्ञः ।
:* १९८५-८८ तमवर्षेषु सहायकभौतशास्त्रज्ञः जीवशास्त्रज्ञः च ।
:* १९८५-९०तमवर्षेषु भौतशास्त्रज्ञः ।
:* १९९४-९५तमवर्षेषु ज्येष्ठः भौतविज्ञानी ।
:* १९९५-९९तमवर्षेषु उटा विश्वविद्यालये जैविकरसायनशास्त्रे महोपाध्यायः ।
:* १९९९तमवर्षे केम्ब्रज् विश्वविद्यालयस्य MRC अणुजीवशास्त्रप्रयोगालये गणनायकः ।
:* २೦೦६तमवर्षे संरचनम्, विश्वविद्यालयस्य संयुक्तमुख्यः ।
:* २೦೦८तमवर्षे केम्ब्रिज् विश्वविद्यलये ट्रिनिटिमाहाविद्यलयस्य फेलो ।
:* १९९१-९२तमवर्षेयोः गग्गन् हीम् फेलोशिप् ।
:* २೦೦२तमवर्षे EMBO मध्ये चयनम् ।
:* २೦೦३तमवर्षे Fellow of Royal Society सदस्यत्वेन चयनम् ।
:* २೦೦४तमवर्षे American National Academy of Science,सदस्यत्वप्राप्तिः ।
:* २೦೦७तमवर्षे औषधसंशोधनार्थं लूयिस् जीन् टेट् इति पारितोषिकम् ।
:* २೦೦७तमवर्षे वियेन्नानगरे सञ्चालिते FEBS इति वार्षिकाधिवेशने विशेषपदकप्राप्तिः उपन्यासः च ।
:* २೦೦८तमवर्षे ब्रिटिश् बयोकेमिल्स् सोसैटि इत्यस्य बहुमानितहीब्लेपदकप्राप्तिः ।
:* २೦೦८तमवर्षे Indian National Science Academy विदेशसदस्यत्वप्राप्तिः ।
:* २೦೦८तमवर्षे तमवर्षे केम्ब्रेज् ट्रिनिटि महविद्यालयस्य फेलो ।
==केम्ब्रेज् विश्वविद्यालयस्य MRC अणुजीवशास्त्रस्य प्रयोगालये त्रयोदशः नोबेल् प्रशस्तिपुरस्कृतः==
केम्भ्रेज् विश्वविद्यालयस्य MRCअणुजीवशास्त्रवलये ज्येष्ठविज्ञानी सन् सेवारतः डा.वेङ्कटरामन् क्रि.श. २००९तमे वर्षे थामस् इ स्पिट्ज् (अमेरिका) अडा इ योनात् (इस्रेल्) इत्येताभ्यां सह चितः १.४लक्षरूप्यकाणि जितवान् । रहस्यभेदनस्य रैबोसोम् इत्यस्य कार्यनिर्वहणम्, संरचनम्, इत्यादीनाम् अध्ययनार्थम् इति प्रशस्तिदानसंस्थया स्पष्टीकृतम् । रैबोसोम् इत्यनेन निर्मितेषु सहस्राधिकाणुषु प्रत्येकं सथानं मापितुं एक्स्रे क्रिस्टिलोग्रफि तत्रम् एते त्रयः अनुसन्धानकर्तारः अनुसरणं कृतवन्तः। विषहारकः रैबोसोम् इत्येतैः सह कथं संयुक्तम् इति परिशीलयितुं त्रिविमा(3D)प्रतिकृतयः निर्मीय़ प्रस्तुतवन्तः ।
==त्रयः विज्ञानिनः त्रिविमाप्रतिकृतयः==
एतासां प्रतिकृतीनाम् उपयोगेन विज्ञानिनः नूतनविषहारकानां निर्माणे उद्युक्ताः । अस्य साहाय्येन मनुकुलस्य समस्यानिवारणार्थम् अन्यजीविनाम् उत्पादने एतेषां कर्याणि महत्वयुतानि । वेङ्कटरामन् प्रायोगिकभौतशास्त्रे पादार्पणं कृत्वा वृत्तिमारब्धवान् । पदविप्राप्तेः पश्चात् भौतविज्ञानतः जीवविज्ञानपर्यन्तं अध्ययनं विस्तृतवान् । ओहै विश्वविद्यालयतः डाक्टरेट् उपधिं प्राप्य येल् विश्वविद्यालये उन्नतशिक्षाम् अधीत्य वेङ्कटरामन् अग्रे अतिप्रमुखसंशोधनानि अकरोत् । शैक्षणिकपत्रिकासु अनेकासु ज्ञनप्रचोदकलेखान् प्रकाशितवान् ।
==चेन्नैनगरे ९८तमे विज्ञानकाङ्ग्रेस् इति अधिवेशने प्रशस्तिप्रदानम् ==
क्रि.श. २०११तमे वर्षे चेन्नैनगरस्य एस्.आर्.एम्.विश्वविद्यालये [[भारतम्|भारतस्य]] प्रधानमन्त्री मनमोहनसिंहः २६विज्ञानिभ्यः विविधाः प्रशास्तयः प्रदत्तवान् । तेषु एते ५ नोबेल् प्रशस्तयः अपि आसन् । ते यथा..
:* वेङ्कटरामन् रामकृष्णन्
:* [[मार्टिन् चाल्फि]]
:* [[आर्.टिमोटि हण्ट्]]
:* [[थामस् ए.स्टीट्ज्]]
:* [[अडा इ योनात्]]
==मूलानि==
<references/>
{{नोबेल् प्रशस्तिभूषिताः भारतीयाः}}
[[वर्गः:नोबेल्-पुरस्कारभाजः]]
517jhs34wa25rzyq1ejyj638mi3gi4m