विकिपीडिया sawiki https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.48.0-wmf.5 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिपीडिया विकिपीडियासम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk फिन्लैण्ड् 0 1044 502332 498206 2026-11-19T23:23:39Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead. #IABot (v2.0.9.7) 502332 wikitext text/x-wiki [[चित्रम्:Flag of Finland.svg|thumb|right|200px]] [[चित्रम्:EU-Finland.svg|thumb|right|200px]] '''फिन्लैण्ड''' यूरोप- महाद्वीपे देश: अस्‍ति. एतत [[यूरोप-संघ]]स्‍य भागं अस्‍ति. इदम्‌ [[स्‍केंडेनेविया]] क्षेत्रे मन्‍यते.राजधानी - [[हेल्सिन्की]] फिन्लैण्ड्देशः सौना, लैप्लैण्ड्, समग्रतया सुखस्य च कृते प्रसिद्धः अस्ति तथा च अनेके । इदं विश्वयुद्धस्य द्वितीयस्य अक्षशक्तयोः भागः आसीत् युद्धस्य समाप्तेः अनन्तरं सम्पूर्णे देशे आधारभूतसंरचनायाः पार्श्वे शिक्षणीय-स्वास्थ्यक्षेत्रयोः परिष्कारं कर्तुं आरब्धवान् अद्यत्वे (NATO- Northern Atlantic Treaty Organisation) तथा (EU- European Union) इत्येतयोः द्वयोः अपि भागः अस्ति । === सम्‍बद्घ विषय: === * [[स्वीडेन्]] * [[रास्या]] * [[एस्टोनिया]] *[https://web.archive.org/web/20080906140404/http://virtual.finland.fi/ Virtual Finland] - Main portal to Finland *[http://www.government.fi Government.fi] {{Webarchive|url=https://web.archive.org/web/20050203000119/http://government.fi/ |date=2005-02-03 }} - Official governmental site *[http://www.eduskunta.fi/efakta/index01.htm Eduskunta.fi] - Official parliamentary site *[http://www.tpk.fi/english/ Presidentti] {{Webarchive|url=https://web.archive.org/web/20040416050641/http://www.tpk.fi/english/ |date=2004-04-16 }} - Official presidential site *[http://www.sls.fi/fmu/indexeng.htm Diplomatarium Fennicum] {{Webarchive|url=https://web.archive.org/web/20060221131426/http://www.sls.fi/fmu/indexeng.htm |date=2006-02-21 }} - Publishing of medieval documents. The National Archives of Finland [[वर्गः:यूरोपखण्डस्य देशाः]] [[वर्गः:विभिन्नदेशसम्बद्धाः स्टब्स्]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[वर्गः:सारमञ्जूषा योजनीया‎]] eep8qgj5skox4vb7hms1yb6n4bfpa5g सचिन तेण्डुलकर 0 5664 502334 473908 2026-11-20T00:32:54Z InternetArchiveBot 31833 Rescuing 0 sources and tagging 1 as dead. #IABot (v2.0.9.7) 502334 wikitext text/x-wiki {{Infobox cricketer | playername = सचिन् तेण्डुल्कर्<br /> | image = Sachin Tendulkar.jpg | image_size = 250px | country = भारतम् | fullname = सचिन् रमेशतेण्डुल्करः | nickname = लिट्ल् मास्टर्, टेण्ड्ल्य | living = true | dayofbirth = 24 | monthofbirth = 4 | yearofbirth = 1973 | placeofbirth = [[बाम्बे]] (अधुना [[मुम्बई]]), [[महाराष्ट्रराज्यम्]] <!----Do not change without discussing on talk page----> | countryofbirth = भारतम् | heightft = 5 | heightinch = 5 | heightm = 1.66 | role = [[ताडकः]] | oneIT20 = true | batting = दक्षिणहस्तेन | bowling = दक्षिणस्कन्धः (लेग् स्पिन्, आफ् स्पिन्, मध्यमवेगः) | international = true | testdebutdate = १५ नवेम्बर् | testdebutyear = 1989 | testdebutagainst = पाकिस्थानम् | testcap = 187 | lasttestdate = २४ जनवरी | lasttestyear = 2012 | lasttestagainst = आस्ट्रेलिया | odidebutdate = १८ डिसेम्बर् | odidebutyear = १९८९ | odidebutagainst = पाकिस्थानम् | odicap = ७४ | odishirt = १० | lastodidate = २६ फेब्रवरी | lastodiyear = २०१२ | lastodiagainst = आस्ट्रेलिया | oneT20I = true | T20Idebutdate = 1 December | T20Idebutyear = 2006 | T20Idebutagainst = South Africa | club1 = [[Cricket Club of India]] | year1 = 1988 | club2 = [[Mumbai cricket team|Mumbai]] | year2 = 1988–present | club3 = [[Mumbai Indians]] | year3 = 2008–present | club4 = [[Yorkshire County Cricket Club|Yorkshire]] | year4 = 1992 | | columns = 4 | column1 = [[Test cricket|Test]] | matches1 = 188 | runs1 = 15,470 | bat avg1 = 55.44 | 100s/50s1 = 51/65 | top score1 = 248* | deliveries1 = 4,174 | wickets1 = 45 | bowl avg1 = 54.33 | fivefor1 = 0 | tenfor1 = 0 | best bowling1 = 3/10 | catches/stumpings1 = 113/– | column2 = [[One Day International|ODI]] | matches2 = 453 | runs2 = 18,111 | bat avg2 = 45.16 | 100s/50s2 = 48/95 | top score2 = 200* | deliveries2 = 8,032 | wickets2 = 154 | bowl avg2 = 44.32 | fivefor2 = 2 | tenfor2 = n/a | best bowling2 = 5/32 | catches/stumpings2 = 136/– | column3 = [[First-class cricket|FC]] | matches3 = 292 | runs3 = 24,389 | bat avg3 = 58.62 | 100s/50s3 = 78/111 | top score3 = 248* | deliveries3 = 7,539 | wickets3 = 70 | bowl avg3 = 61.95 | fivefor3 = 0 | tenfor3 = 0 | best bowling3 = 3/10 | catches/stumpings3 = 181/– | column4 = [[List A cricket|LA]] | matches4 = 541 | runs4 = 21,684 | bat avg4 = 45.84 | 100s/50s4 = 59/113 | top score4 = 200* | deliveries4 = 10,220 | wickets4 = 201 | bowl avg4 = 42.11 | fivefor4 = 2 | tenfor4 = n/a | best bowling4 = 5/32 | catches/stumpings4 = 171/– | date= 28 January | year = 2012 | source = http://www.espncricinfo.com/ci/content/player/35320.html Cricinfo }} [[चित्रं:Sachin Tendulkar.jpg|thumb|200px|सचिनतेण्डुलकरः]] '''सचिनतेण्डुलकरः''' (Sachin Tendulkar) प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः [[मोहमदालिः]] आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् '[[क्रिकेट्-क्रीडा|क्रिकेट्]]क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र [[आस्ट्रेलिया]] [[भारतम्|भारतयोः]] द्वितीयं टेस्ट् प्रवृत्तम् । [[वेस्ट्-इण्डीस्देशः|वेस्ट-इण्डिस]]देशीयेन [[ब्रियानलारः|ब्रियानलारेण]] ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । [[पीटरसिडलः|पीटरसिडलस्य]] प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्। सः टेस्ट्क्रीडासु (५१) ओ.डि.ऐ.क्रीडासु, अन्ताराष्ट्रिय-एकदिवसीयक्रीडासु(४९) च आहत्य १८,४२६ <ref>https://sportsjagran.com/stats/stats-most-odi-runs {{Dead link|date=November 2026 |bot=InternetArchiveBot |fix-attempted=yes }}</ref> धावनाङ्कान् पाप्य जागतिकविक्रमं निर्मितवान् अस्ति । क्रीडाजीवनस्य आरम्भावसरे सः आसीत् षोडाशवर्षीयः । तदा '''लिटल् मास्टर्''' इति प्रीत्या सः सर्वैः निर्दिष्टः भवति स्म । [[मुम्बई|मुम्बयी]]नगरे जातः अयम् एतावता २५ टेस्टक्रीडासु नायकत्वं निरूढवानस्ति । तेण्डुलकरस्य द्दढाग्रहः निष्ठायुता परिश्रमशीलता च तस्य यशसः कारणानि । एकदिनात्मिकायां क्रीडायां तेन १०० क्रीडापटवः बाह्यीकृताः, १०० कन्दुक-ग्रहणानि कृतानि च सन्ति । प्रसिद्धस्य वीक्षकविवरणकर्तुः [[हर्षाभोग्ले]]वर्यः वदति -‘सचिनः क्रिकेटरूपस्य [[हिमालयः|गौरीशङ्कर]]पर्वतस्य शिखरे एव स्थितः अस्ति’ इति । सचिन् रमेश् तेण्डुल्कर् एप्रिल्मासस्य २४ तमे दिने १९७३ तमे वर्षे जातः। अयं भारतीयक्रिकेट्-क्रीडालुः विश्वस्य क्रिकेट्-इतिहासे अतिश्रेष्ठक्रिकेट्-ब्याट्स्मन् वर्तते । सः क्रिकेट्-इतिहासे एव अत्यधिकशतकानि अपि साधितवानस्ति, पञ्चदिवसीय क्रिकेट् क्रीडास्पर्धायां (टेस्ट् इति कथ्यते) एकदिवसीयायाम् अन्ताराष्ट्रिय-क्रिकेट्-क्रीडायां च । एकदिवसीयक्रीडायां द्विशतकं धावनाङ्कान् साधितवत्सु क्रीडालुषु एषः प्रथमः अस्ति । २००२ तमे वर्षे यदैषः १२ वर्षाणिमात्रं क्रीडितवानासीत् तदा एव क्रिकेट्-क्रीडासम्बद्धा [[विस्डेन्पत्रिका|विस्डेन्]]नामिका पत्रिका उदघोषयत् यत् 'एषः विश्वस्य अतिश्रेष्ठेषु दाण्डिकक्रीडालुषु सार्वकालिकद्वितीयायां श्रेण्यां तिष्ठति, टेस्ट्-क्रिकेट्-क्रीडायां प्रसिद्धस्य क्रीडालोः [[डोनाल्ड् ब्राड्मन्]]स्य समनन्तरमिति, एकदिवसीय-क्रिकेट्-स्पर्धायामपि क्रीडालोः [[विवियन् रिचर्ड्स्]]स्य समनन्तरम् एषः एव तिष्ठति इति । २००७ तमे वर्षे सेप्टम्बर्मासे [[आस्ट्रेलिया]]देशस्य ख्यातः कन्दुकक्षेपकः(bowler) [[शेन् वार्न्]] अवदत् यत् 'तेण्डुल्करः स्वेन साकं क्रीडितवत्सु अतिश्रेष्ठः क्रीडालुः' इति । २०११ तमे वर्षे भारतीयक्रिकेट्-गणेन विश्वप्रशस्तिस्पर्धायां यः विक्रमः प्राप्तः तस्य प्राप्तौ तेण्डुल्करस्य पात्रं मुख्यम् आसीत् । सचिनः विश्वप्रशस्ति-क्रिकेट्-स्पर्धायां षड्वारं भागम् ऊढवान् अस्ति । {{भारतरत्नपुरस्कारभाजः}} ==छायाचित्राणि== <gallery> File:Sachin tendulkar.jpg File:Sachin Tendulkar 1.jpg File:Sachin Tendulkar 3.jpg File:Sachin Tendulkar 2.jpg File:Sachin Tendulkar fielding.jpg File:Tendulkar batting against Australia, October 2010 (1), cropped.jpg File:Sachin at the other end.jpg File:Tendulkar six.jpg File:Tendulkar batting against Australia, October 2010 (1).jpg File:Tendulkar goes to 14,000 Test runs.jpg File:A Cricket fan at the Chepauk stadium, Chennai.jpg File:Cricket Partnership.jpg File:Tendulkar's.jpg File:Tendulkar shot.JPG File:Tendulkar closup.jpg File:Master Blaster at work.jpg </gallery> == बाह्यसम्पर्कतन्तु == {{reflist}} {{Authority control}} [[वर्गः:भारतीयक्रिकेट्-क्रीडापटवः|सचिनतेण्डुलकरः]] [[वर्गः:भारतरत्नपुरस्कारभाजः]] [[वर्गः:भारतीयक्रीडापटुसम्बद्धाः स्टब्स्]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[वर्गः:१९७३ जननम्]] f22jepc9jdliyltsouvkd0us93i3api लूयी पास्तग् 0 15458 502333 486285 2026-11-20T00:07:12Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead. #IABot (v2.0.9.7) 502333 wikitext text/x-wiki {{Infobox scientist | name = लूयी पास्तग् | image = Louis Pasteur, foto av Paul Nadar, Crisco edit.jpg | caption = नाडरेण कल्पितम् | birth_date = {{birth date|1822|12|27|mf=y}} | birth_place = [[Dole, Jura|Dole]], [[France]] | death_date = {{death date and age|1895|9|28|1822|12|27|mf=y}} | death_place = [[Marnes-la-Coquette]], [[France]] | nationality = [[French people|French]] | fields = [[Chemistry]]<br>[[Microbiology]] | workplaces = [[University of Strasbourg]]<br>[[Lille University of Science and Technology]]<br>''[[École Normale Supérieure]]''<br>[[Pasteur Institute]] | alma_mater = ''[[École Normale Supérieure]]'' | notable_students = [[Charles Friedel]]<ref>Asimov, ''[[Asimov's Biographical Encyclopedia of Science and Technology]]'' 2nd Revised edition</ref> | awards = [[Rumford Medal]] {{small|(1856, 1892)}}<br>[[Copley Medal]] {{small|(1874)}}<br>[[Albert Medal (Royal Society of Arts)|Albert Medal]] {{small|(1882)}}<br>[[Leeuwenhoek Medal]] {{small|(1895)}} | signature = Louis Pasteur Signature.svg }} [[चित्रम्:Louis Pasteur by Pierre Lamy Petit.jpg|thumb|150px|right]] (कालः – २७.१२.१८२२ तः २८.०९.१८९५) अयं '''लूयी पास्तग्''' रोगनिरोधकक्रमस्य अन्वेषकः । अयं फ्रान्स्-देशस्य डूल् इति ग्रामे १८२२तमे वर्षे डिसेम्बरमासस्य २७तमे दिनाङ्के जन्म प्राप्नोत् । अस्य पिता [[चर्मकारः]] आसीत् । अत्यन्तं निर्धनः चेत् अपि लूयी पास्तग् अत्यन्तं कष्टेन विद्याभ्यासं कृत्वा [[रसायनशास्त्रम्|रसायनशास्त्रे]] पाण्डित्यं सम्पादितवान् । पुत्रः कस्याञ्चित् प्रौढशालायाम् [[अध्यापकः]] भवेत् इति तस्य पितुः इच्छा आसीत् । लूयी पास्तग् पञ्चविंशतितमे वयसि डाक्टरेट् प्राप्य डैजान् इत्यत्र शिक्षकपदं प्राप्नोत् । तस्य कार्यनिष्ठतायाः, संशोधनस्य फलरूपेण बहुशीघ्रं स्ट्रास्बरोविश्वविद्यालये उद्योगं प्राप्नोत् । तदनन्तरं ३० वर्षाणि यावत् बहूनि अत्यद्भुतानि संशोधनानि अकरोत् । लघु वयसि एव लूयी पास्तग् बहूनि संशोधनानि यशस्वितया कृत्वा सर्वकारस्य दृष्ट्या अपि आदरं प्राप्नोत् । [[चित्रम्:Louis Pasteur Geburtshaus in Dole.jpg|thumb|150px|left|"डूल्"ग्रामे विद्यमानं लूयी पास्तग् यत्र जन्म प्राप्नोत् तत् गृहम्]] अयं लूयी पास्तग् रसायनविज्ञानसम्बद्धं [[स्फतिकम्|स्फटिकस्य]] ध्रुवणं परीक्ष्य तत्र द्विविधं स्फटिकं संशोधितवान् । तस्मात् कारणात् सावयवानां रासायनिकानां संरचनायाः अध्ययनस्य साहाय्यम् अभवत् । बीट्रूट्शर्करया निर्मीयमाणं [[मद्यं]] तदा तदा नष्टं भवति स्म । अयं लूयी पास्तग् तत् परीक्ष्य तस्य नाशार्थम् “ईस्ट्” इत्याख्याः सूक्ष्माणुजीविनः एव कारणम् इति सूक्ष्मदर्शकस्य साहाय्येन संशोधितवान् । १२० डिग्रि फ्यारन् हीट् इत्याख्ये औष्ण्ये मन्दं मद्यम् उष्णीकृतं चेत् तस्य नाशकाः ईस्ट्सूक्ष्मजीविनः मरणं प्राप्नुवन्ति इत्यपि संशोधनेन ज्ञातवान् । तथा उष्णीकरस्य क्रमस्य “पास्तगैसेषन्” इति नामकरणम् अपि अकरोत् लूयी पास्तग् । तम् एव क्रमम् इदानीं [[दुग्धम्|क्षीरस्य]] उष्णीकरणे अनुसरन्ति । एतं लूयी पास्तग् इत्यनेन संशोधितं “पास्तगैसेषन्” क्रमं [[जोसेफ् लिस्टर्]] नामकः आङ्लविज्ञानी वैद्यविज्ञाने उपयुक्तवान् । कार्बालिका-आम्लसदृशैः पूतिनाशकैः क्षालनेन वातावरणे विद्यमानाः क्रिमयः व्रणं यत् प्रविशन्ति तत् निवारयितुं शक्यते इत्यपि सः अदर्शयत् । ईस्ट्-सूक्ष्माणुजीविनां परीक्षणानन्तरं लूयी पास्तग् ब्याक्टीरियासदृशाणां सूक्ष्मजीविनां विषये विस्तृतरूपेण अध्ययनम् अकरोत् । लूयी पास्तग् १८६५तमे वर्षे फ्रान्स् गत्वा रोगकारणां ब्याक्टीरियाणां मारणपद्धतिं पाठितवान् । आरोग्यकरेभ्यः अण्डेभ्यः अनारोग्यकराणि अण्डानि पृथक् करणक्रमं बोधयित्वा कौशेयस्य उद्यमं रक्षितवान् । तदनन्तरं तस्य अभिरुचिः साङ्क्रामिकरोगाणां विषये उत्पन्ना । सः १८८०तमे वर्षे [[कुक्कुटः|कुक्कुटा]]नां कालरारोगस्य कारणीभूतान् ब्याक्टीरियान् संशोधितवान् । दुर्बलान् रोगाणून् आरोग्यमतेषु कक्कुटेषु प्रवाह्य तेषां कुक्कुटानां रोगनिरोधकशक्तेः जागरणम् अकरोत् । तस्मात् कुक्कुटाः तस्मात् कालरारोगात् रक्षिताः अभवन् । एतम् एव क्रमम् [[अजाः|अजान्]], गोवृषभान् च अन्थ्राक्स्-रोगात् रक्षणाय अनुसृतवान् । लूयी पास्तग् यदा बालकः आसीत् तदा तस्य ग्रामे अष्टाधिकाः जनाः उन्मत्तस्य [[शुनकः|शुनकस्य]] दशनेन प्राणवियुक्ताः आसन् । तान् समीपात् दृष्टवतः लूयी पास्तग् इत्यस्य मनसि तदर्थं किमपि औषधं संशोधनीयम् इति इच्छा प्रबलरूपेण उत्पन्ना आसीत् । तदर्थं सः सहस्रशः प्रयोगान् अकरोत् । केचन प्रयोगाः तु अपायकराः आसन् । दुर्बलीकृतं विषं (वैरस्) अरोगवतां शुनकानां शरीरे प्रवेश्य तेषां रोगनिरोधशक्तेः वर्धनं दृष्टवान् आसीत् । तम् एव प्रयोगं प्रथमवारं मानवानां विषये कृतवान् । सः कस्यचित् बालकस्य शरीरे तत् दुर्बलीकृतं विषं प्रावेशयत् । दश दिनानि यावत् क्रमशः दुर्बलतः किञ्चित् किञ्चित् प्रबलं विषं बालकस्य शरीरे प्रावेशयत् । आश्चर्यं नाम बालकः मरणं न प्राप्तवान् । अनेन प्रयोगेण उन्मत्तानां शुनकानां दशनस्य निमित्तम् औषधस्य संशोधनम् अकरोत् । एतत् एव तस्य लूयी पास्तग् इत्यस्य प्रमुखं संशोधनम् इति मन्यते । अनेन लूयी पास्तग् इत्यनेन प्राणिनां मानवानां च विषये ये प्रयोगाः कृताः ते सर्वे अपि अस्मासु आश्चर्यं जनयन्ति । यतः सः यद्यपि वैद्यः नासीत् तथापि तेन आविष्कृतानि तत्त्वानि अग्रे वैद्यकीये क्षेत्रे महतीं क्रान्तिम् एव अजनयन् । पार्श्ववायुरोगेण अङ्गविकलः चेदपि, ज्येष्ठः पुत्रः मृतः चेदपि सः लूयी पास्तग् स्वकार्यात् विमुखः नाभवत् । ७३ वर्षाणि यावत् जीवितवान् एषः लूयी पास्तग् १८९५तमे वर्षे सप्टेम्बर्-मासस्य २८तमे दिनाङ्के निद्रावसरे एव इहकोकम् अत्यजत् । ==बाह्यसम्पर्कतन्तुः== * [http://www.pasteur.fr/english.html The Institut Pasteur] – Foundation Dedicated to the prevention and treatment of diseases through biological research, education and public health activities * [http://www.pasteurfoundation.org The Pasteur Foundation] – A US nonprofit organization dedicated to promoting the mission of the [[Institut Pasteur]] in Paris. Full archive of newsletters available online containing examples of US Tributes to Louis Pasteur. * [http://biotech.law.lsu.edu/cphl/history/articles/pasteur.htm Pasteur's Papers on the Germ Theory] * [http://www.pasteurbrewing.com The Life and Work of Louis Pasteur], Pasteur Brewing * [https://web.archive.org/web/20080407182558/http://php.pasteur.net/index.php?newlang=english The Pasteur Galaxy] * [http://www-personal.umich.edu/~jbourj/money5.htm Louis Pasteur featured on the 5 French Franc banknote from 1966.] {{Webarchive|url=https://web.archive.org/web/20090416151301/http://www-personal.umich.edu/~jbourj/money5.htm |date=2009-04-16 }} * [http://www.fordham.edu/halsall/mod/1878pasteur-germ.html Germ Theory and Its Applications to Medicine and Surgery, 1878] {{Webarchive|url=https://web.archive.org/web/20140915135641/http://www.fordham.edu/halsall/mod/1878pasteur-germ.html |date=2014-09-15 }} *[http://www.accessexcellence.org/RC/AB/BC/Louis_Pasteur.html Louis Pasteur (1822–1895)] profile, AccessExcellence.org [[वर्गः:अन्यदेशीयवैज्ञानिकाः]] [[वर्गः:विदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] [[वर्गः:सर्वे अपूर्णलेखाः]] 7o9auha0sv29hkufr6cqhebu0r1mseq स्वामी रामदेवः 0 22494 502335 487707 2026-11-20T00:46:12Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead. #IABot (v2.0.9.7) 502335 wikitext text/x-wiki {{Infobox Hindu leader | name= स्वामी रामदेवः | image= Babaramdev.jpg | caption= | birth_date= | birth_place= सैयदलिपुरम्,[[महेन्द्रगडमण्डलम्]], [[हरियाणाराज्यम्]], [[भारतम्]] | birth_name= गुन्नु रामकिशन यदवः | death_date= | death_place= | guru= [[आचार्यः कर्मवीरः, आचार्यः बालकृष्णः च]] | disciple= सहस्रशः शिष्याः | philosophy= [[सनातनधर्मः]] | honors= | founder=[[दिव्ययोगमन्दिरम्]] | Literary works= | influenced = | quote = जागृत भारत! | signature= | footnotes= }} बाबा रामदेवः इति ख्यातः '''स्वामी रामदेवः''' [[भारतम्|भारतस्य]] प्रसिद्धः कश्चित् [[सनातनधर्मः|सनातनधर्मरक्षकः]] साधुः । एषः [[पातञ्जलयोगसूत्राणि|पातञ्जलयोगसूत्रेषु]] प्रतिपादितयोगप्राणायामान् प्रचारेण प्रसारेण च प्रसिद्धिमापन्नः । [[योगः|योगं]] जनप्रियं कारयितुम् [[आयुर्वेदः|आयुर्वेदस्य]] चिकित्साविधानस्य दिव्ययोगमन्दिर ट्रस्ट् इति संस्थायाः स्थापकेषु अन्यतमः । अस्य सार्वजनिकशिबिरेषु अत्यधिकप्रमाणेन जनाः सम्मिलन्ति । एतावता कालेन ८.५कोट्यधिकजनाः भागम् अवहन् ।<ref>{{cite web |url=http://www.dnaindia.com/report.asp?NewsID=1107155 |title=Ramdev's yog brand launched in America}}</ref> [[दूरदर्शनम्|दूरदर्शनवाहिन्या]] योगप्रात्यक्षिकायाः दर्शनेन जनाः अनुसरन्ति । तस्य योगप्रशिक्षा सामान्यजनां कृते निश्शुल्कं भवति । जीवने सर्वजनसहायः भवेयम् इति तस्य आशयः । ==बाल्यं शिक्षा च== बाबा रामदेवस्य जन्म [[हरियाणाराज्यम्|हरियाणाराज्यस्य]] महेन्द्रगडमण्डलस्य सैयदलिपुरे अभवत् । गुन्नु रामकिशन यदवः इति अस्य पूर्वनाम आसीत् । बाल्ये पार्श्ववायुव्याधिना पीडितः योगद्वारा एव रोगोपशमनम् अभवत् । इमं विषयं आकाशवाणीप्रसारे बाबा स्वयम् उक्तवान् । शहभाज़ नगरस्य शलायाम् अष्टमकक्ष्यां समापितवान् । पश्चात् [[संस्कृतम्|संस्कृतं]] [[योगः|योगं]] च अध्येतुं खान्पुरग्रामे आर्षगुरुकुलं प्राविशत् । कालान्तरेण एषः संयासम् आश्रित्य लोकान्तात् एकान्तम् अगच्छत् । पश्चात् अस्य नाम बाबा रामदेवः इति विख्यातम् । जिन्दोपमण्डलस्य कल्बा आर्षगुरुकुलं गत्वा [[हरियाणाराज्यम्|हरियाणाराज्यस्य]] ग्रामीणानां निश्शुल्कयोगशिबिरं समारभत । ==उपलब्धयः== स्वामी रामदेवः क्रि.श. १९९५तमे वर्षे आचार्येण कर्मवीरेण आचार्येण बालकृष्णेन च सह [[दिव्ययोगमन्दिरम्]] अस्थापयत् । आचार्यः कर्मवीरः योगे वेदे च निष्णातः आसीत् । बालकृष्णः दैहिकज्ञः [[आयुर्वेदः|आयुर्वेदज्ञः]] चासीत् ।<ref name="knowyoga">{{cite web |publisher=knowyoga.org |title=Swami Ramdev |url=http://knowyoga.org/tiki-index.php?page=Swami%20Ramdev |dateformat=dmy |accessdate=21 March 2007 |archive-date=27 September 2007 |archive-url=https://web.archive.org/web/20070927123917/http://knowyoga.org/tiki-index.php?page=Swami%20Ramdev |deadurl=yes }}</ref>.स्वामिनः रामदेवस्य दूरदर्शनस्य योगप्राणायामदर्शनानि सार्वजनिकयोगशिबिराणि च अतीवजनप्रियानि सन्ति । तस्य सर्वसामान्ययोगशिबिरेषु २०सहस्राधिकाः स्वास्थेच्छुकाः भागं वहन्ति ।<ref name="lifepositive"/>[[भारतम्|भारतदेशे]] बहुत्र योगशिबिराणि कृत्वा भारतस्य राष्ट्रपतिभवने अपि आयोजितवान् ।<ref name="lifepositive">{{cite web | url=http://www.lifepositive.com/Spirit/Swami_Ram_Dev/The_Messiah_of_Yoga72006.asp | title=Life Positive | accessdate=2012-05-17 | archive-date=2010-01-18 | archive-url=https://web.archive.org/web/20100118074743/http://www.lifepositive.com/Spirit/Swami_Ram_Dev/The_Messiah_of_Yoga72006.asp | deadurl=yes }}</ref> अस्य दूरदर्शनमाध्यमेन योगबोधनं जगतः विविधखण्डेषु प्रसार्यमाणम् अस्ति । तेषु [[आफ्रिकाखण्डः|आफ्रिका]], [[आस्ट्रेलिया|आस्ट्रेलिया]], एष्या, यूरोफ्. अमेरिका च अन्तर्गतानि । अस्य कार्यक्रमस्य अभ्यर्थना सर्वदा भवति एव अतः दूरदर्शनस्य विविधवाहिन्यः अस्य कार्यक्रमाणां दृश्यावलीः मुद्राप्य प्रसारयन्ति ।<ref name="lifepositive"/> २०दशलक्षजनाः अस्य कार्यक्रमाणां निरन्तरवीक्षकाः सन्ति ।<ref name="lifepositive"/> एतेषु कार्यक्रमेषु भागमूड्वा फलानुभविनः वदन्ति यत् अस्माकं देहस्य रुधिरनिपीडः, मधुमेहः, कशेरुकवेदना, यकृद्दौर्बल्यम्,देहस्थौल्यम्, इत्यादयः समस्याः नितरां परिहृताः अभवन् इति ।<ref name="lifepositive"/> स्वामी रामदेवः अन्ययोगबोधकानाम् अपेक्षया पृथक् तिष्ठति । एषः प्राणायामविषये आद्यतां कल्पयति । एतत् सामान्यजनान् बोधयित्वा अभ्यस्तुम् अवकाशान् परिकल्पयति ।<ref name="lifepositive"/> किन्तु अन्यशिक्षकाः आसनानि आद्यत्यास्वयोगकेन्द्रेषु बोधयन्ति ।<ref name="lifepositive"/>[http://video.google.com प्राणायामकार्यक्रमस्य प्रदर्शनचित्रणम्] बाबा रामदेवस्य स्वास्थ्यसंरक्षणार्थं प्राणायामः प्रत्याहारः च भारतीयसंस्कृतेः भागः एव ।<ref>भगवत्पादस्य [[शङ्कराचार्यः|शङ्कराचार्यस्य]] [[मोहमुद्गरस्त्रित्रम्]]</ref>,विख्यातः अध्यात्मगुरुः [[श्री श्री रविशङ्करः]] बाबारामदेवस्य विषये एवं वदति अस्मिन् देशे [[भारतम्|भारते]] योगस्य पुनरुज्जिवयितुः किञ्चित् नाम अस्ति चेत् तत् रामदेवस्य एव । योगः प्राणान्तकरोगान् अपि निर्मूलयति इति बहुवारं रामदेवः दर्शितवान् तदग्रे अनुवर्तते अपि, इति<ref name="lifepositive"/> ==पतञ्जलियोगपीठम्== [[चित्रम्:Patanjali center.jpg|left|thumb|पतञ्जलियोगपीठम्]] क्रि.श २००६तमे वर्षे अगस्ट मासे षष्टे दिने स्वामी रामदेवस्य अत्यन्तं प्रमुखां योजनां [[पदञ्जलियोगपीठम्]] उद्घाटितम् । अस्य लक्ष्यं तु चिकित्सा, संशोधनम्, प्रशिक्षणम् इति प्रकल्पयुक्तं आयुर्वेदयोगयोः बृहद्विश्वविद्यालयस्य निर्माणम् ।<ref name="lifepositive"/><ref>{{cite web |url=http://www.divyayoga.com/introduction.htm |title=Patanjali Yog Peeth - Introduction |accessdate=2012-05-17 |archive-date=2010-01-14 |archive-url=https://web.archive.org/web/20100114193808/http://divyayoga.com/introduction.htm |deadurl=yes }}</ref>. इयं संस्था दीनानाम् अशक्तानां च निश्शुल्कं चिकित्सां करोति । अन्यसामान्यानाम् अन्यचिकित्सालयानाम् अपेक्षया न्यूनशुल्केन उत्तमा चिकित्सा लभ्यते । स्वामी रामदेवः पिवैपिद्वारा अन्यान्यसंस्थाभिः सहयोगेन सेवां कुर्वाणः अस्ति । एवमेव मधुमेहः, रुधिरनिपीडनम्, कायस्थौल्यम्, एतेषु रोगेषु अपि योगः प्रभावं करोति इति चिन्तनं प्रसारयन् अस्ति । ==राष्ट्रियविषयानां चर्चा== स्वामी रामदेवः स्वस्य योगशिबिरमाध्यमेन राष्ट्रियस्तरस्य नैकान् विषयान् मन्त्रयते । एतावति काले समाजोत्थनस्य अनेकान् अंशान् विचर्च्य बहूनां लक्ष्यम् आकृष्टवान् । तेषु [[भारतसर्वकारः|भारतसर्वकारस्य]] प्रशासनिकनीतिः सामान्यजनानां जीवनशैली च परिवर्तनीया इति अस्य प्रमुखम् अभ्यर्थनम् । अन्ये विषयाः ये सर्वत्रिकचर्चानुगताः ... ===कृषिक्षेत्रे परिवर्तनम्=== स्वामी रावदेवः वदति यथा कृषकाः फलचयस्य प्रमाणं वर्धयितुम् अधिकलाभेच्छया च रसायनिकदोहदं क्रिमिनाशकानि च उपयोजयन्ति । अनेन् अक्रमेण संवर्धितैः शकैः अन्याहारवस्तुभिः च नानविधाः रोगाः उत्पादिताः । ===सिद्धपानीयाहारविरोधः=== बहुसङ्खाकाः जनाः विपणिषु लभमानानि सिद्धपानीयानि पोटलितान् सिद्धाहारान् उपयोजयन्ति । अयं विषयः रामदेवस्य शिबिरेषु बहुचर्च्यमानः विषयः । एतेषु पदार्थेषु रोगोत्पादकांशाः अपौष्टिकांशाः च भवन्ति । अतः तेषां पनां भक्षणं वा अस्वास्थ्यकारं भवति । सिद्धपानीयेषु विशेषतः बहुकालसंरक्षणार्थं क्रिमिनाशकविषं भवति । ===कृषकबलवर्धनम्=== भ्रष्टाः [[राजनीतिः|राजनीतिपक्षाः]] कृषकान् न पोषयन्ति । तेषां समस्याः न श्रुण्वन्ति । अधिकारिणां समाजस्य अविकसितजनानं विषये लक्ष्यं नास्ति । [[भारतम्|भारतस्य]] आर्थिकतायं [[कृषिः|कृषेः]] योगदानम् अधिकम् । किन्तु कृषकः एव दरिद्रः सञ्जातः इति विपर्यासः । देशस्य कशेरुकः इव विद्यमानः कृषकः अद्यतया परिगणनीयः सर्वकारेण इति अस्य आग्रहः । ===स्वदेशोद्यमानां प्रोत्साहनम्=== सर्वकारस्य शिथिलनियमानां कारणेनैव उद्यमक्षेतेषु देशः अविकसितः अस्ति । अनेन कारणेन एव अन्यदेशीयाः समवायाः अत्रागत्य व्यभिचरन्ति । विदेशेषु निर्मितानि विविधाङ्कितानि वस्तूनि भारतीयविपणिषु आधिक्येन सन्ति । अनेन देशीयौद्ममिकसंस्थानानि प्रक्षीणानि सन्ति । इति वदन् [[भारतसर्वकारः|भारतसर्वकास्य]] उपरि वाक्प्रहारं कृतवान् । केन्द्रसर्वकारेण राज्यसर्वकारैः च देशीयानि औद्यमिकसंस्थानानि उद्दीप्य उत्पाद्यानि संवृध्य विदेशीयवस्तूनां व्यवहारः न्यूनीकर्तव्यः । इति रामदेवस्य बलवान् आग्रहः अस्ति । ===स्विस् देशेरक्षितभारतीयकालधनस्य आयातः=== स्विस् वित्तकोशेषु भारतीयानम् अन्यायसम्पादिता अपारा सम्पत् रहस्येन न्यस्ता अस्ति । एतद्धनं तु [[भारतम्|भारतस्य]] राष्ट्रिया सम्पत् भवति । अतः [[भारतसर्वकारः]] एतद्धनम् आनेतुं गभीरतया प्रयत्नं कुर्यात् । इति स्वामी रामदेवः[http://timesofindia.indiatimes.com/India/Pick-party-which-brings-back-black-money-Baba-Ramdev/articleshow/4342173.cms ] अधिकृतसमीक्षानुगुणं देशस्य अस्य ८४कोटिजनाः (७५%प्रजाः) प्रतिदिनं २०रूप्यकैः जीवन्ति । बाबा रामदेवः एतादृशजनानां कल्याणार्थमेव भारतस्वाभिमानान्दोलनम् अरब्धवान् । अस्य प्रथमलक्ष्यम् एव ८४कोटिजनानां क्षेमाभिवृद्धिः । ==भारतस्वाभिमानान्दोलनम्== आन्दोलनस्य पञ्चलक्षानि । :* १००% मतदानम् । :* १००% राष्ट्रियतावादस्य चिन्तनम् । :* १००% विदेशीयोत्पादनं तिरस्कृत्य स्वदेशीयोद्ममावलम्बनम् । :* १००% देशजनसङ्घटनम् । :* १००% योगदृष्टिदेशः । '''भारतस्वाभिमानान्दोलनस्य प्रतिज्ञाविधिः''' * देशाभिमानः, निष्ठा, शौर्यम्, दूरदृष्टिः, धिर्यम्, सम्पर्ककौशलम् इत्यादयः नायकत्वगुणाः येषु सन्ति तेभ्यः एव मतदानं कुर्मः । * नवस्वातन्त्रं, नवव्यवस्थाः, नूतनपरिवर्तनं, आनेतव्याः, वयं सर्वे देशाभिमानेन, विश्वासेन, सूक्ष्मप्रज्ञया, निष्ठया युक्तजनान् मेलयामः । सर्वे मिलित्वा १००%राष्ट्रियशक्तेः सञ्चयनं कुर्मः । [[भारतम्|भारतं]] जगद्गुरुं कुर्मः । * शून्यतन्त्रज्ञनेन सिद्धानि विदेशियवस्तूनि सम्पूर्णतया बहिष्कुर्मः । अपि देशीयोत्पादनानि उपयुञ्जामहे । * राष्ट्रियतावदस्य चिन्तनानि १००% अङ्गीकृत्य अनुष्ठने अनयामः । [[इस्लाम्-मतम्|इस्लाम्]], [[क्रैस्तमतम्|क्रिश्चियन्]], इत्यादीनि मतानि पश्यामः ताथापि वयं यथार्थे भारतीयाः इति जीवमः । * समग्रं राष्ट्रं १००५ योगयुकं कर्तुम्, प्रत्येकं पौरं स्वस्थं कुर्मः । प्रत्येकं वञ्चनं, भ्रष्टता, निराशस्थितिः, अविश्वासः, द्वन्द्वमनोभावः इत्यादीनां कारणं परिशील्य दौर्वल्यं विमोचय्य आत्माभिमानेन जीवितुम् अवकाशं परिकल्पयामः । राष्ट्रियभावं जगरय्य भारतस्य प्रसुप्तगौरवं वर्धयामः । ==भ्रष्ठाचारनिर्मूलनध्येयः== अन्यायः, अत्याचारः, उत्कोचग्रहणम् इत्यादीन् नीतिशसनविरुद्धान् दुराचारान् निर्मूलयितुं बाबा रामदेवः भारतस्वाभिमानान्दोलनम् इति सामूहिकप्रतिरोधयात्राम् आरब्धवान् । एतत् आन्दोलनं सर्वकारस्य सर्वेषु विभागेषु भ्रष्टाचारं विरुद्ध्य विप्लवं करोति । भारसर्वकारीयानम् अधिकारिणाम् उत्कोचदुराशया सामाजिकोद्यमक्षेते वैदेशिकसमवायाः प्रविशन्ति । अनेन भारतीयसामाजिकार्थिकव्यवस्थायां विपरीतपरिणामः भवति । रामदेवस्य भारतस्वाभिमानसंस्थया सञ्चालितं भारतदेशस्य भ्रष्टां व्यवस्थां विरुद्ध्य जनान्दोलनम् प्रवर्तते । देशस्य दारिद्र्यं दूरयितुम् एतत् प्रथमं सोपानं भवति । अस्याः संस्थायाः उद्देशं पूरयितुं देशे संस्कृतिविस्मृतिवतः सर्वान् अस्मिन् आन्दोलने योजयेत् । अनेन [[भारतम्|भारतं]] बलिष्ठं राष्ट्रं कर्तुं शक्यते इति रामदेवस्य दृढाभिप्रायः । शिक्षाव्यवस्थायाः विषये मुख्योद्देशद्वयम् अस्ति । आद्यः स्वदेशीया शिक्षा नाम भारतीयमूलतत्त्वयुक्ता विद्यादानव्यवस्था । अपरा स्वदेशीया वैद्यशिक्षा । इत्युक्ते भारतीयमूलतत्त्वयुक्ता वैद्यकीयशिक्षाव्यवस्था अनेतव्या । सर्वकारेण प्रादेशिकभाषाः आदरणियाः । भारतीयभाषाः सर्वकारीयव्यवहारस्य प्राथमिकभाषाः भवेयुः । एताभिः एव भाषाभिः न्यायाङ्गव्यवहारः शिक्षा सञ्चालनीया । [[हिन्दीभाषा]]भाषिकानां सङ्ख्या देशे अधिका अस्ति । समग्रे विश्वे एव चीनीभाषाभाषिकानां सङ्क्यायाः पश्चात् हिन्दीभाषिकाः एव सन्ति । तथापि देशे आङ्ग्लभाषायाः प्रामुख्यम् अस्ति हिन्दी द्वीतीयस्थाने एव अस्ति । इति विषये रामदेवः [[भारतसर्वकारः|भारतसर्वकारस्य]] अवधानम् आकृष्टवान् । भारतदेशं विना अन्यः यः कोऽपि देशः स्वभाषां त्यक्त्वा विदेशभाषां नोपयोजयति । ==सलिङ्गरतिविरोधः== क्रि.श. २००९तमे वर्षे [[देहली|देहल्याः]] [[भारतीयसर्वोच्चन्यायालयः|उच्चन्यायालयः]] भारते सलिङ्गरतिः अनपराधः इति निर्णयम् अश्रावयत् । तदा रामदेवः प्रसारमाध्यमानां पुरतः अयं निर्णयः अपराधं मानसिकास्वस्थ्यं च पोषयति । भारतस्य कुटुम्बव्यवस्थामेव उन्मूलयति । लज्जास्पदः अवमानकरः च विचारः एषः । विदेशीयानाम् अन्धनुकरणस्य फलमेतत्। इति बहुधा आक्षिप्तवान् । यदि सर्वकारः शासननियमं करोति तर्हि वीथ्यां विप्लवं करोमीति गर्जितवान् ।<ref>{{cite web |url=http://www.dnaindia.com/india/report_gay-is-bad-chorus-maulanas-saffron-brigade-and-church_1270429 |title=Gay is bad, chorus maulanas, saffron brigade & Church |publisher=DNA }}</ref> ==प्रशस्तिपुरस्काराः== * क्रि.श. २००७तमे वर्षे जनवरिमासे [[के.ऐ.ऐ.टि.विश्वविद्यालयः]] रामदेवायाय डाक्टरेट् गौरवपदम् अयच्छत् वेदविज्ञनयोगस्य जनप्रियतानिर्माणार्थम् ।<ref>{{cite web |publisher=punjabnewsline.com |title=Doctorate degree for Yoga Guru Ramdev |url=http://www.punjabnewsline.com/content/view/2664/39/ |dateformat=dmy |accessdate=21 March 2007 |archive-date=29 August 2007 |archive-url=https://web.archive.org/web/20070829053514/http://www.punjabnewsline.com/content/view/2664/39/ |deadurl=yes }}</ref> ==उल्लेखाः== {{reflist|30em}} ==बाह्यानुबन्धा== * [http://www.divyayoga.com/दिव्ययोगमन्दिरं विश्वस्थः]{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} * [http://pypt.org/पतञ्जलियोगपीठं यु.के.विश्वस्थः]{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} * [http://pyptusa.org/ पतञ्जलियोगपीठं यु.एस्.ए.विश्वस्थः] * [http://www.myyog.com/swami-ramdev/187-baba-ramdev-ji-maharaj.htmlबाबा रामदेवस्य जीवनगाथा] * [http://www.facebook.com/pages/Baba-Ramdev/49218554014 बाबा रामदेवस्य फेस् बुक् अभिमानिपुटम्] * [http://www.bharat-swabhiman.com/भारतस्वाभिमानान्दोलनम्] {{Webarchive|url=https://web.archive.org/web/20160305095523/http://www.bharat-swabhiman.com/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AD%E0%A4%BF%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8B%E0%A4%B2%E0%A4%A8%E0%A4%AE%E0%A5%8D |date=2016-03-05 }} * [http://totalbhakti.com www.totalbhakti.com रामदेवस्य योगदृश्यावली] * [http://www.yogacamphouston.com/टेक्सास् हास्टिन्नगरे रामदेवस्य योगशिबिरम्।]{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} * [http://www.bbc.co.uk/hindi/regionalnews/story/2007/01/070106_ramdev_ekmulaqat.shtml हिन्दीभाषया रामदेवस्य बिबिसि साक्षात्कारः] * पि.सायीनाथस्य [http://www.hindu.com/2006/01/27/stories/2006012704131000.htm दि रिपब्लिक् एण्ड् दि वेवार्ड् रेषनास्लिस्ट्] {{Webarchive|url=https://web.archive.org/web/20060524140003/http://www.hindu.com/2006/01/27/stories/2006012704131000.htm |date=2006-05-24 }}- प्रबन्धः । * [https://web.archive.org/web/20110726102131/http://www.theuniversalwisdom.org/category/speakers/swami-ramdev/ समाजे स्त्रीणां भूमिका इति विषये ] - बाबा रामदेवस्य भाषणम् । * [http://www.baba-ramdev.info/बाबा रामदेवस्य योगः]{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} * [http://www.bbc.co.uk/leicester/content/articles/2006/07/26/swamiyoga_feature.shtml स्वामिनः रामदेवस्य बिबिसि साक्षात्कारः ] * [http://news.bbc.co.uk/1/hi/world/south_asia/4786114.stm बिबिसि वार्ता - योगिक् क्लियर्ड् आफ् अनिमल् पार्ट् रा- क्रि.श. २००६मार्च अष्टमदिनम् ] {{सनातनधर्मगुरवः}} [[वर्गः:आधुनिकगुरवः]] [[वर्गः:आधुनिकधार्मिकव्यक्तयः]] [[वर्गः:योगगुरवः]] 0v8fo2xg40721y5idv3ohzdm06k07s5 मृगव्याध 0 92765 502330 2026-11-19T14:51:05Z 2540306adwaithgnath 46747 मृगव्याधः इति लेखः रचितः: सूचिपत्रम्, मृगव्याधव्यवस्था, गतिः, व्युत्पत्तिः, ऐतिहासिकं महत्त्वम्, भारतीयज्योतिषम्, अन्यसंस्कृतयः, आधुनिकसंस्कृतिः च योजिताः। 502330 wikitext text/x-wiki [[सञ्चिका:Sirius A and B Hubble photo.editted.PNG|लघुचित्रम्]] '''मृगव्याधः''' (अपरनाम '''लुब्धकः'''; आङ्ग्लभाषायां ''सिरियस्'', ''श्वानतारकः'') रात्रिकाशे दृश्यमानेषु तारकेषु सर्वाधिकदीप्तिमान् तारकः। अयं '''बृहच्छ्वानमण्डले''' विद्यमानः युग्मतारकव्यवस्थारूपः। अस्मिन् श्वेतवर्णः मुख्यक्रमतारकः एकः, क्षीणदीप्तिः श्वेतवामनः सहचरश्च वर्तेते। {| class="wikitable" ! ! |- |'''तारामण्डलम्''' |बृहच्छ्वानम् |- |'''बायर-नाम''' |आल्फा-बृहच्छ्वानस्य |- |'''आभासी कान्तिमात्रा''' |−१.४६ (रात्रिकाशे सर्वाधिका) |- |'''दूरता''' |प्रायः ८.६ प्रकाशवर्षाणि (२.६४ पार्सेक्) |- |'''वर्णपटलवर्गः''' |मृगव्याध-अ: ए१-वी; मृगव्याध-ब: डी-ए२ (श्वेतवामनः) |- |'''द्रव्यमानम्''' |अ: प्रायः २.०६ सौरद्रव्यमानानि; ब: प्रायः १.०२ सौरद्रव्यमानानि |- |'''त्रिज्या''' |अ: प्रायः १.७ सौरत्रिज्याः |- |'''दीप्तिः''' |अ: प्रायः २५ सौरदीप्तयः |- |'''पृष्ठतापमानम्''' |अ: प्रायः ९,९०० केल्विन् |- |'''वयः''' |प्रायः २००–३०० दशलक्षवर्षाणि |- |'''परिक्रमाकालः''' |प्रायः ५० वर्षाणि |- |'''संस्कृतनामानि''' |मृगव्याधः, लुब्धकः |} == दर्शनविशेषाः == मृगव्याधस्य आभासी कान्तिमात्रा प्रायः −१.४६ अस्ति। अगस्त्यतारकात्, यः द्वितीयं दीप्तिमान् तारकः, अयं प्रायः द्विगुणं दीप्तिमान् दृश्यते। अस्य कारणद्वयम्: स्वाभाविकी उच्चा दीप्तिः, सूर्यसमीपवर्तित्वं च। अयं सूर्यस्य निकटतमेषु तारकेषु अन्यतमः। मृगव्याधः, आर्द्रा, प्रोसियोन् इत्येतैः सह '''हेमन्तत्रिकोणं''' रचयति। उत्तरगोलार्धे मृगशीर्षस्य इषुत्रिकाण्डरेखाम् अधोदिशि अनुसृत्य अयं सुखेन ज्ञातुं शक्यते। क्षितिजसमीपे अयं नानावर्णैः स्फुरन् दृश्यते। एषः वायुमण्डलीयस्य क्षोभस्य प्रभावः। == मृगव्याधव्यवस्था == '''मृगव्याध-अ''' सूर्यात् प्रायः द्विगुणद्रव्यमानः, प्रायः पञ्चविंशतिगुणदीप्तिमान् च मुख्यक्रमतारकः। '''मृगव्याध-ब''' श्वेतवामनः; सूर्यतुल्यं द्रव्यमानं पृथिवीतुल्ये आकारे संहतम्, अतः अतीव सान्द्रः। उभौ परस्परं प्रायः ५० वर्षेषु परिक्रामतः, तयोः मध्यमम् अन्तरं प्रायः २० खगोलीयैकानि। १८४४ तमे वर्षे फ्रीड्रिख् बेस्सेल् इत्याख्यः विद्वान् मृगव्याधस्य स्वगतिविचलनात् अदृश्यः सहचरः अस्तीति अनुमितवान्। १८६२ तमे वर्षे आल्वन् ग्राहम् क्लार्क् इत्यनेन सः सहचरः प्रथमं दृष्टः। मृगव्याध-ब आविष्कृतेषु प्रथमेषु श्वेतवामनेषु अन्यतमः; तस्य गुणधर्माः अपभ्रष्टद्रव्यस्य भौतिकीं स्थापयितुम् उपकृतवन्तः। [[सञ्चिका:Sirius.jpg|लघुचित्रम्]] == गतिः == मृगव्याधः सूर्यं प्रति प्रायः ५.५ कि.मी./से. वेगेन समीपम् आगच्छति। सहस्रशः वर्षाणि यावत् एवम् आगत्य, न्यूनतमं व्यवधानं प्राप्य, पश्चात् दूरं गमिष्यति। अतिदीर्घकाले अस्य दीप्तिक्रमे किञ्चित् परिवर्तनं भविष्यति। == व्युत्पत्तिः == आङ्ग्लनाम ''सिरियस्'' ग्रीकशब्दात् ''सेइरिओस्'' इत्यस्मात् आगतम्, यस्य अर्थः "दहन्" अथवा "ज्वलन्" इति। ग्रीष्मस्य '''"श्वानदिवसाः"''' इत्यभिधानं मृगव्याधस्य सूर्योदयात् प्राग्दर्शनेन भूमध्यसागरप्रदेशे प्रचण्डतमस्य उष्णकालस्य सम्बन्धात् जातम्। == ऐतिहासिकं महत्त्वम् == प्राचीने मिस्रदेशे मृगव्याधस्य (तत्र ''सोप्देत्'', ग्रीकभाषायां ''सोथिस्'') सूर्योदयात् प्राग्दर्शनं नीलनद्याः वार्षिकप्लावनेन प्रायः सह सङ्गतम् आसीत्, वर्षारम्भसूचकं च गण्यते स्म। मिस्रदेशीयकालगणनायां सोथिक्-चक्रं मुख्यं भवति। == भारतीयज्योतिषे संस्कृतौ च == भारतीयपरम्परायां सिरियस् '''मृगव्याधः''' (मृगस्य व्याधः) '''लुब्धकः''' इति च प्रसिद्धः। आर्द्रा इव अयं कस्यचित् नक्षत्रस्य योगतारा न, किन्तु स्वतन्त्रतया प्रसिद्धः तारकः। * '''ऐतरेयब्राह्मणस्य आख्यानम्:''' प्रसिद्धे वैदिके आख्याने प्रजापतिः स्वदुहितरं मृगीरूपां धारयन्तीम् अनुससार। तदा देवाः रुद्ररूपं (ग्रन्थे ''भूतवान्'' इति) जीवम् असृजन्, यः प्रजापतिं शरेण विव्याध। उत्तरकाले व्याख्यानेषु आकाशे एवं योजनं क्रियते: '''मृगः''' = मृगशीर्षमण्डलम्, '''व्याधः''' = मृगव्याधः, '''इषुः''' = मृगशीर्षमध्ये त्रयः तारकाः (इषुत्रिकाण्डम्)। * '''रुद्रेण सम्बन्धः:''' मृगव्याधः व्याधरूपस्य रुद्रस्य सङ्केतः, अतः रुद्रदेवताकया आर्द्रानक्षत्रेण अस्य निकटः सम्बन्धः। * '''ज्योतिषग्रन्थाः:''' भारतीयेषु खगोलग्रन्थेषु, सूर्यसिद्धान्तादिषु सिद्धान्तपरम्परायां च, मृगव्याधः प्रमुखतारकत्वेन निर्दिश्यते। === अन्यसंस्कृतिषु मृगव्याधः === * '''मिस्रदेशे:''' ''सोप्देत्'' (ग्रीकभाषायां ''सोथिस्'') इति प्रसिद्धः; इसिस्-देव्या सह सम्बद्धः। अस्य सूर्योदयात् प्राग्दर्शनं नीलनदीप्लावनस्य वर्षारम्भस्य च सूचकम् आसीत्। * '''ग्रीसरोमदेशयोः:''' ''सेइरिओस्'' ("दहन्") इति नाम। "श्वानदिवसाः" इत्यभिधानस्य कारणम्; बृहच्छ्वानमण्डलस्य प्रमुखतारकत्वात् श्वानतारकः इति ख्यातः। * '''पारसीकपरम्परायाम्:''' ''तिष्ट्र्य'' इति, जरथुष्ट्रीयधर्मे वृष्टेः तारकदेवता। * '''अरबीयखगोलशास्त्रे:''' ''अश्-शिʿरा'' इति नाम। * '''चीनदेशे:''' ''तियान्लाङ्'' ("दिव्यवृकः") इति नाम। * '''भारते:''' ''मृगव्याधः'', ''लुब्धकः'' इति च प्रसिद्धः; वैदिकपरम्परायां रुद्रेण, मृगस्य व्याधस्य इषोश्च आकाशीयकथया च सम्बद्धः। === दिशा स्थानं च === सिरियसः आल्फा-बृहच्छ्वानः, एच्-आर् २४९१, एच्-डी ४८९१५, एच्-आइ-पी ३२३४९, ग्लीसे २४४ इति नामभिः सूचीषु निर्दिष्टः। अस्य विषुवांशः प्रायः ०६ होरा ४५ निमेषाः ०९ विकलाः, क्रान्तिः प्रायः −१६° ४३′। उत्तरे प्रायः ७३° अक्षांशात् परतः विहाय पृथिव्याः प्रायः सर्वेषु वासयोग्येषु प्रदेशेषु अयं दृश्यते। उत्तरगोलार्धे हेमन्तसायङ्काले अयं उच्चतमः, जनवरीमासस्य प्रारम्भे अर्धरात्रे मध्याह्नरेखां व्रजति। === दिवादर्शनम् === अतिनिर्मले आकाशे, स्थानं सम्यग् ज्ञात्वा, मृगव्याधः दिवाऽपि नग्नाक्ष्णा द्रष्टुं शक्यते। क्षितिजसमीपे वायुमण्डलक्षोभात् अस्य वर्णदीप्त्योः शीघ्रपरिवर्तनं दृश्यते। === स्वगतिः === १७१८ तमे वर्षे एड्मण्ड् हैली इत्याख्यः मृगव्याधः, प्रोसियोन्, स्वातिः, रोहिणी च तारकाः टॉलेमिना लिखितेभ्यः स्थानेभ्यः चलिताः इति दर्शितवान्। एतत् "स्थिरतारकाः" वस्तुतः स्थिराः न इत्यस्य प्रारम्भिकं प्रमाणम्। === मृगव्याध-बः सापेक्षतासिद्धान्तश्च === १९२५ तमे वर्षे वॉल्टर् आडम्स् इत्याख्येन मृगव्याध-बस्य प्रकाशस्य गुरुत्वीयः रक्तविस्थापनः मापितः। एतत् आइन्स्टाइनस्य सामान्यसापेक्षतासिद्धान्तस्य प्रारम्भिकं निरीक्षणात्मकं परीक्षणम्। फलेन श्वेतवामनानाम् अतिसान्द्रता अपि दृढीकृता। === मृगव्याधस्य वर्णप्रश्नः === टॉलेमिः सेनेका च इत्यादयः प्राचीनलेखकाः मृगव्याधं रक्ताभम् इति वर्णितवन्तः, यद्यपि अद्य सः श्वेतः नीलश्वेतः वा दृश्यते। अस्य व्याख्यानेषु क्षितिजसमीपवर्तिवायुमण्डलप्रभावः, ग्रन्थपरम्परायां दोषाश्च परिगण्यन्ते। मृगव्याध-बः रक्तदानवावस्थां गतवान् इति मतम् ताराविकासविज्ञानेन अस्वीकृतम्। === अविज्ञानीयानि मतानि === मालीदेशस्य डोगोन्-जनाः मृगव्याध-बस्य उन्नतं ज्ञानं धारयन्ति इति १९७६ तमे वर्षे रॉबर्ट् टेम्पल् इत्यस्य ग्रन्थेन प्रसारितं मतम् खगोलज्ञैः मानवशास्त्रज्ञैश्च अस्वीकृतम्। तस्य कारणं पाश्चात्त्यसम्पर्कः, मूलक्षेत्रकार्यदोषाश्च इति व्याख्यायते। === आधुनिकसंस्कृतौ === * जे. के. रोलिङ्ग् इत्यस्याः हैरी-पॉटर्-कथामालायां मृगव्याधनामकः पात्रविशेषः अस्ति; सः श्वानरूपेण सम्बद्धः, "श्वानतारकः" इत्यस्य सङ्केतः। * उत्तरामेरिकादेशे उपग्रहरेडियोसंस्थायाः नाम मृगव्याधस्य नाम्ना ज्ञायते। * १७८८ तमे वर्षे ऑस्ट्रेलियादेशं गतस्य प्रथमनौकासमूहस्य एका नौका मृगव्याधनाम्ना प्रसिद्धा आसीत्। kt62639vsoey0bq8m636y7gfkolyo11 न्यायिकदस्तावेजीकरणं हस्तलेखं च 0 92766 502331 2026-11-19T15:12:50Z 2541107ananyashrivastava 46751 === '''आमुख''' === [[सञ्चिका:Forensic Mindset.png|लघुचित्रम्]] '''न्यायिकदस्तावेजीकरणं हस्तलेखपरीक्षणं च''' (Forensic Document and Handwriting Examination) न्यायिकविज्ञानस्य (Forensic Science) एका अतीव महत्त्वपूर्णा विशिष्... नवीनं पृष्ठं निर्मितमस्ति 502331 wikitext text/x-wiki === '''आमुख''' === [[सञ्चिका:Forensic Mindset.png|लघुचित्रम्]] '''न्यायिकदस्तावेजीकरणं हस्तलेखपरीक्षणं च''' (Forensic Document and Handwriting Examination) न्यायिकविज्ञानस्य (Forensic Science) एका अतीव महत्त्वपूर्णा विशिष्टशाखा अस्ति। अस्यां शाखायां विवादितानां संदिग्धानां च दस्तावेजानां वैज्ञानिकपद्धत्या सूक्ष्मपरीक्षणं क्रियते। न्यायालयस्य समक्षं प्रस्तुतानां लिखितप्रमाणानां सत्यतायाः, प्रामाणिकतायाः, उत्पत्तेः च निर्धारणम् अस्य विज्ञानस्य मुख्यम् उद्देश्यम् अस्ति। यदा कस्यापि पत्रस्य, हस्ताक्षरस्य, इच्छापत्रस्य (Will), धनपत्रस्य (Cheque), अनुबन्धपत्रस्य, अथवा टङ्कितसामग्र्याः विषये सन्देहः उत्पद्यते, तदा न्यायिकदस्तावेजपरीक्षकाः वैज्ञानिकोपकरणानां साहाय्येन सत्यम् अन्विषन्ति। === इतिहासः विकासश्च === दस्तावेजानां हस्तलेखस्य च परीक्षणस्य इतिहासः अतीव प्राचीनः अस्ति। प्राचीनकाले रोमनसाम्राज्ये तथा च भारतस्य प्राचीनन्यायव्यवस्थायाम् अपि राजकीयादेशानां मुद्राणां च सत्यतायाः परीक्षणं क्रियते स्म। कौटिल्यस्य अर्थशास्त्रे अपि राजमुद्राणां तथा च लिखितशासनपत्राणां कपटपूर्णनिर्माणस्य दण्डविधानं वर्णितम् अस्ति। परन्तु आधुनिकवैज्ञानिकरूपेण अस्य शास्त्रस्य विकासः ऊनविंशतितमे विंशतितमे च शताब्दे अभवत्। अस्मिन् क्षेत्रे अल्बर्ट् एस्. ओस्बोर्न् (Albert S. Osborn) महोदयस्य योगदानम् अत्यन्तं महत्त्वपूर्णं मन्यते। सः स्वकीये 'क्वेश्चन्ड् डॉक्युमेण्ट्स्' (Questioned Documents) इति प्रसिद्धग्रन्थे दस्तावेजपरीक्षणस्य वैज्ञानिकसिद्धान्तान् प्रतिपादितवान्। तस्य प्रयत्नैः एव न्यायालयैः हस्तलेखपरीक्षणं वैज्ञानिकप्रमाणरूपेण स्वीकृतम्। कालान्तरे सूक्ष्मदर्शकयन्त्रस्य (Microscope), छायाचित्रकलायाः (Photography), रासायनिकविश्लेषणस्य, आधुनिकप्रकाशीययन्त्राणां च विकासेन अस्य क्षेत्रस्य क्षमता अत्यन्तं वर्धिता अस्ति। === न्यायिकदस्तावेजानां प्रकाराः === न्यायिकप्रक्रियायाम् आगताः संदिग्धदस्तावेजाः विविधप्रकारकाः भवितुम् अर्हन्ति। तेषु प्रमुखाः अधोलिखिताः सन्ति: * '''वित्तीयदस्तावेजाः:''' वित्तकोशस्य धनादेशाः (Cheques), विनिमयपत्राणि (Promissory notes), ऋणपत्राणि, तथा च लेखापुस्तकानि। * '''विधिकदस्तावेजाः:''' सम्पत्तेः विक्रयपत्राणि, इच्छापत्राणि (Wills), शपथपत्राणि (Affidavits), तथा च पारिवारिकानुबन्धाः। * '''परिचयपत्राणि:''' पारपत्राणि (Passports), वाहनचालनानुज्ञप्तिपत्राणि, शैक्षणिकप्रमाणपत्राणि, जन्ममृत्युपञ्जीकरणपत्राणि च। * '''अज्ञातपत्राणि:''' धमकियुक्तानि पत्राणि, अपहरणसम्बद्धानि पत्राणि, आत्महत्यायाः पूर्वं लिखितानि पत्राणि (Suicide notes), तथा च गोपनीयसन्देशाः। * [[सञ्चिका:Morrison killing Warren.jpg|लघुचित्रम्|269x269अणवः]]'''मुद्रितसामग्री:''' कूटमुद्राः (Counterfeit currency), मुद्रणालये मुद्रितानि कपटपूर्णानि पत्राणि, तथा च टङ्कणयन्त्रेण अथवा संगणकेन मुद्रितानि प्रपत्राणि। === हस्तलेखपरीक्षणस्य आधारभूतसिद्धान्ताः === हस्तलेखपरीक्षणं केवलम् अनुमानस्य विषयः न अपितु तस्य पृष्ठतः सुदृढाः वैज्ञानिकसिद्धान्ताः सन्ति। हस्तलेखः मानवमस्तिष्कस्य स्नायुतन्त्रस्य च समन्वितक्रियायाः परिणामः भवति। अस्य मुख्यसिद्धान्ताः निम्नानुसारं सन्ति: * '''व्यक्तिगतविशिष्टता:''' संसारस्य द्वयोः व्यक्त्योः हस्तलेखः कदापि पूर्णतया समानः न भवति। प्रत्येकस्य व्यक्तिस्य लेखनशैल्यां किञ्चित् विशिष्टं वैशिष्ट्यं भवति, यत् तं सर्वभ्यः पृथक् करोति। * '''स्वाभाविकपरिवर्तनम्:''' एकस्य एव व्यक्तिस्य हस्तलेखः अपि सर्वदा यन्त्रवत् एकरूपः न तिष्ठति। आयुः, स्वास्थ्यम्, मानसिकस्थितिः, लेखनस्य गतिः, लेखनी, पत्रस्य गुणवत्ता च इत्येतेषां कारणानां प्रभावेण लेखने किञ्चित् स्वाभाविकं परिवर्तनं दृश्यते। परीक्षकः एतत् स्वाभाविकपरिवर्तनं कूटलेखनात् पृथक् करोति। * '''लेखनक्षमतायाः सीमा:''' कोऽपि व्यक्तिः स्वकीयात् स्वाभाविकलेखनकौशलात् अधिकं सुन्दरं वा तीव्रं वा लेखितुं न शक्नोति। कूटलेखनसमये लेखनस्य गतिः मन्दा भवति तथा च अस्वाभाविककम्पनं दृश्यते। === हस्तलेखविश्लेषणस्य मुख्यघटकाः === हस्तलेखपरीक्षकः संदिग्धलेखस्य ज्ञातलेखेन सह तुलनां कर्तुं द्वयोः स्तरयोः विश्लेषणं करोति — सामान्यविशेषताः तथा च व्यक्तिगतविशेषताः। * '''सामान्यविशेषताः:''' अत्र लेखस्य बाह्यस्वरूपं दृश्यते। यथा — अक्षराणां विन्यासः (Layout), पङ्क्तीनां दिशा, शब्दानां मध्ये रिक्तस्थानम्, अक्षराणां आकारः, झुकावः (Slant), लेखनस्य गतिः, तथा च लेखन्याः दाबः (Pen pressure)। * '''व्यक्तिगतविशेषताः:''' एताः सूक्ष्माः विशेषताः लेखनस्य आदतैः उत्पद्यन्ते। यथा — अक्षराणाम् आरम्भस्य समाप्तेः च शैली, मात्राणां संयोजनम्, बिन्दूनां स्थानम्, विरामचिह्नानां प्रयोगः, तथा च अक्षराणां मध्ये विद्यमानाः सूक्ष्माः वक्रताः। एतासां सूक्ष्मविशेषतानाम् अनुकरणं कूटलेखकस्य कृते अतीव कठिनं भवति। === दस्तावेजपरीक्षणस्य वैज्ञानिकविधयः उपकरणानि च === आधुनिकप्रयोगशालासु दस्तावेजानां परीक्षणार्थम् अहानिकारकाणां (Non-destructive) पद्धतीनां प्रयोगः क्रियते, येन मूलदस्तावेजः सुरक्षितः तिष्ठति। * '''प्रकाशीयपरीक्षणम्:''' विभिन्नानां तरङ्गदैर्ध्यानां प्रकाशस्य (यथा — पराबैंगनी किरणानि UV, अवरक्त किरणानि Infrared) उपयोगेन मसीभेदः, गुप्तलेखनम्, अथवा मार्जनस्य (Erasure) चिह्नानि ज्ञायन्ते। एतदर्थं 'वीडियो स्पेक्ट्रल कम्पेरेटर' (VSC) इति आधुनिकयन्त्रस्य प्रयोगः भवति। * '''सूक्ष्मदर्शकपरीक्षणम्:''' त्रिविमसूक्ष्मदर्शकयन्त्रस्य (Stereomicroscope) साहाय्येन लेखन्याः गतिः, मसीप्रवाहः, रेखाणां परस्परं छेदनम् (Intersecting lines), तथा च पत्रस्य तन्तूनां स्थितिः सूक्ष्मतया अवलोक्यते। * '''स्थिरवैद्युतपरीक्षणम्:''' यदि कस्मिंश्चित् पत्रे उपरि स्थिते अन्यपत्रे लिखितस्य लेखस्य अदृश्यचिह्नानि (Indented writings) सन्ति, तर्हि 'इलेक्ट्रोस्टैटिक डिटेक्शन अपैरेटस्' (ESDA) इति यन्त्रेण तानि स्पष्टतया पठितुं शक्यन्ते। * '''रासायनिकविश्लेषणम्:''' यदा मसीनां अथवा पत्रस्य रासायनिकसंरचनायाः तुलना आवश्यकी भवति, तदा वर्णलेखनपद्धतेः (Chromatography) प्रयोगः क्रियते। अनेन ज्ञायते यत् दस्तावेजस्य निर्माणं कस्मिन् काले अभवत्। === कूटलेखनस्य प्रकाराः परीक्षणं च === कपटपूर्णरीत्या अन्यस्य हस्ताक्षरस्य वा लेखस्य वा निर्माणं कूटलेखनम् (Forgery) कथ्यते। अस्य प्रमुखाः प्रकाराः सन्ति: * '''अनुरेखणकूटलेखनम्:''' मूलहस्ताक्षरस्य उपरि पारदर्शीपत्रं संस्थाप्य अथवा प्रकाशस्य साहाय्येन रेखानाम् अनुसरणं कृत्वा कृतं कूटलेखनम्। अत्र रेखासु अस्वाभाविककम्पनं तथा च समानदाबः दृश्यते। * '''अनुकरणकूटलेखनम्:''' मूलहस्ताक्षरं दृष्ट्वा अभ्यासपूर्वकं तस्य अनुकरणं करणम्। अस्मिन् प्रकारे सामान्यरूपेण हस्ताक्षरं सदृशं दृश्यते, परन्तु सूक्ष्मविशेषतासु त्रुटयः अवशिष्यन्ते। * '''अन्धानुकूलनकूटलेखनम्:''' यत्र कूटलेखकः मूलहस्ताक्षरं न जानाति, केवलं स्वकल्पनया नाम लिखति। एतत् सरलतया अभिज्ञायते। * '''दस्तावेजपरिवर्तनम्:''' मूलदस्तावेजे रासायनिकपदार्थैः किञ्चित् मार्जयित्वा (Erasing), नूतनशब्दान् योजयित्वा, अथवा अङ्कान् परिवर्त्य कपटं करणम्। === टङ्कितदस्तावेजानां तथा च मुद्रणस्य परीक्षणम === आधुनिकयुगे हस्तलिखितदस्तावेजानाम् अपेक्षया टङ्कणयन्त्रेण (Typewriter), संगणकेन (Computer), मुद्रकेण (Printer), प्रतिलिपियन्त्रेण (Photocopier) च निर्मिताः दस्तावेजाः अधिकाः दृश्यन्ते। न्यायिकपरीक्षकाः मुद्रकस्य प्रकारं (यथा — लेजर, इङ्कजेट्, डॉट् मैट्रिक्स्) अभिज्ञातुं शक्नुवन्ति। प्रत्येकं मुद्रणयन्त्रं पत्रे सूक्ष्मानि यान्त्रिकचिह्नानि स्थापयति, येषां आधारेण संदिग्धदस्तावेजस्य स्रोतयन्त्रं निश्चितं कर्तुं शक्यते। === न्यायिकप्रक्रियायां महत्त्वं चुनौत्यश्च === न्यायिकदस्तावेजीकरणं हस्तलेखपरीक्षणं च अपराधन्वेषणे, दीवानीविवादेषु (Civil disputes), आर्थिकअपराधेषु, प्रशासनिकभ्रष्टाचारनिवारणे च अतीव महत्त्वपूर्णां भूमिकां निर्वहति। विशेषज्ञस्य प्रतिवेदनं न्यायाधीशस्य कृते सत्यनिर्णये सहायकं भवति। तथापि अस्मिन् क्षेत्रे काश्चित् चुनौत्यः अपि विद्यन्ते। अद्यत्वे अङ्कीयसञ्चारस्य (Digital communication) प्रसारणकारणात् जनानां हस्तलेखनस्य अभ्यासः न्यूनः जातः अस्ति, येन तुलनात्मकसामग्रीप्राप्तौ कठिनता भवति। अपि च अङ्कीयसंशोधनप्रौद्योगिक्याः (Digital manipulation) दुरुपयोगेन दस्तावेजानां कपटपूर्णनिर्माणम् अधिकं जटिलं जातम् अस्ति। अतः आधुनिकन्यायिकदस्तावेजपरीक्षकाणां कृते निरन्तरं नूतनप्रौद्योगिक्याः प्रशिक्षणम् अनुसंधानं च आवश्यकम् अस्ति। === उपसंहारः === निष्कर्षरूपेण वक्तुं शक्यते यत् न्यायिकदस्तावेजीकरणं हस्तलेखपरीक्षणं च सत्यस्य संरक्षणाय न्यायस्थापनाय च एकम् अनिवार्यं वैज्ञानिकमाध्यमम् अस्ति। वैज्ञानिकसिद्धान्तानाम् आधुनिकोपकरणानां च समन्वयेन एतत् शास्त्रं लिखितप्रमाणानां विश्वसनीयतां सुनिश्चितं करोति तथा च समाजे कपटपूर्णव्यवहारस्य निवारणे महत्त्वपूर्णं योगदानं ददाति। ---- haev48b473xht5bztgdjbnpwzhqq0rb तुङ्गनाथ् 0 92767 502336 2026-11-20T11:18:02Z ~2026-61005-23 47827 तुङ्गनाथ मन्दिरस्य विषये सूचना 502336 wikitext text/x-wiki तुङ्गनाथः भारतस्य प्राचीनः हिन्दुमन्दिरः शिवस्य समर्पितः अस्ति, यत्र केवलं भगवतः शिवस्य बाहूः एव पूज्यन्ते । उत्तराखण्डस्य पञ्चकेदारमन्दिरस्य अभिन्नभागः अस्ति, यस्मिन् अस्य तृतीयस्थानं वर्तते, प्रायः तृतीयकेदार इति नाम्ना प्रसिद्धम् ।<ref>[https://www.manchalamushafir.com/panch-kedar/ उत्तराखण्ड में पञ्च केदार मन्दिर]</ref> तुङ्गनाथमन्दिरं चन्द्रनाथपर्वते समुद्रतलात् १२,०७३ फीट् ऊर्ध्वतायां स्थितं विश्वस्य सर्वोच्चशिवमन्दिरत्वेन अपि लोकप्रियम् अस्ति । अत्र आगच्छन्तानाम् भक्तानां मध्ये अस्य मन्दिरस्य महत् महत्त्वं महत्त्वं च वर्तते । इदं स्थलं प्रसिद्धं पदयात्रास्थलम् अपि अस्ति, चोपतः आरभ्य, प्रायः उत्तराखण्डस्य मिनी स्विट्ज़र्ल्याण्ड् इति उच्यते<ref>[https://www.manchalamushafir.com/chopta-uttarakhand/ चोपता उपत्यका : उत्तराकस्य लघु स्विट्ज़र्ल्याण्ड्]</ref>, मन्दिरं प्राप्तुं ३.५ कि.मी. अनेकाः पदयात्रिकाः प्रायः मन्दिरात् प्रायः १.५ कि.मी दूरे चन्द्रशिल्लाशिखरपर्यन्तं पदयात्रायाः विस्तारं कुर्वन्ति, येन पदयात्रिकाः तीर्थयात्रिकाः च आकर्षयन्ति । == स्थानीय == तुङ्गनाथः गढवालक्षेत्रस्य अन्तः उत्तराखण्डस्य रुद्रप्रयागमण्डले स्थितः अस्ति । अयं स्थलः १२,०७३ पादपरिमितः, मनोहरहिमालयैः परितः स्थितः अस्ति ।<ref>[https://www.manchalamushafir.com/tungnath-temple-twelve-fascinating-facts/ तुंगनाथ महादेव मंदिर, उत्तराखंड के बारे में]</ref> 2dq325mdkouf5o9dfk1n0v7mwh72uns