विकिपुस्तकानि sawikibooks https://sa.wikibooks.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.23 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिपुस्तकानि विकिपुस्तकानिसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk सदस्यः:Saurabhusbondre 2 3735 7498 2026-10-11T13:35:40Z Saurabhusbondre 3052 पृष्ठम् आरब्धम् । 7498 wikitext text/x-wiki सौरभः बोन्द्रे बहुभाषाविद् बहुलिपिविद् kvaptk6v8snt7o8ugsvyj3rp4is9mb0 7499 7498 2026-10-11T13:37:05Z Saurabhusbondre 3052 7499 wikitext text/x-wiki सौरभः बोन्द्रे । बहुभाषाविद् । बहुलिपिविद् । rx4v5nqnpho9v34ba1dvdggo4rdznym त्रेधा परीक्ष्य वक्तव्यम् 0 3736 7500 2026-10-11T13:55:10Z Saurabhusbondre 3052 '''त्रेधा परीक्ष्य वक्तव्यम् ।''' रचयिता – सौरभः । प्रथमरचना – 11 जन्वरी 2022 सर्वाब्दम् । अन्तिमशोधः – 26 मार्चः 2025 सर्वाब्दम् । ( एतस्मिन् काव्ये धातुरूपाणि यथेष्टं पर... नवीन पृष्ठं निर्मीत अस्ती 7500 wikitext text/x-wiki '''त्रेधा परीक्ष्य वक्तव्यम् ।''' रचयिता – सौरभः । प्रथमरचना – 11 जन्वरी 2022 सर्वाब्दम् । अन्तिमशोधः – 26 मार्चः 2025 सर्वाब्दम् । ( एतस्मिन् काव्ये धातुरूपाणि यथेष्टं परस्मैपदे वा आत्मनेपदे वा प्रयुक्तानि सन्ति । ) एकदा गौतमं बुद्धं गच्छमानमथ क्वचित् । मार्गे निरुध्य विज्ञातो युवा व्याजादुवाच तम् ॥ 1 ॥ भगवंस्तव शिष्यस्य राहुलस्य हि धीमतः । कथयामि च किञ्चित्ते कौतूहलकरं श्रुधि ॥ 2 ॥ गौतमस्तिष्ठ भद्रेति प्रत्युवाचावरुध्य तम् । त्रीनादौ ब्रूहि मे प्रश्नान् विवक्षोर्राहुलस्य ते ॥ 3 ॥ सम्भ्रमेणानुपश्यन्तं पप्रच्छ गौतमस्तदा । अपि सत्यप्रमाणेयं राहुलस्य कथा वद ॥ 4 ॥ प्रत्युवाच गतव्याजो न हि सत्यप्रमाणिता । केनचित्क्वचिदन्यस्मै कथ्यमाना श्रुता मया ॥ 5 ॥ प्रत्यूदे गौतमस्तं च युवानं सस्मितं तदा । श्रोष्यामि च तथापि त्वां यदि साधु विवक्षसे ॥ 6 ॥ व्यथोदितमुखो बुद्धं प्रत्युवाच युवा तदा । दुष्टैव च कथा काचिद् राहुलस्य श्रुता मया ॥ 7 ॥ यदि दुष्टा कथा भ्रातर् विवक्षसि तथापि ताम् । अवश्यं कथनं स्यात्ते राहुलस्य च मे हितम् ॥ 8 ॥ अवधार्य वचो बौद्धं लज्जालम्बिशिरो युवा । प्रत्युवाच तदा काचित् कस्यापि न हिता कथा ॥ 9 ॥ बभाषे गौतमो बन्धो सारहीनामिमां कथाम् । असाध्वीमभिजानीषे चाहितामपि वेत्सि ताम् ॥ 10 ॥ प्राप्यं न कथनात्किञ्चिद् राहुलस्य न ते न मे । तस्मात्तामयोग्यां ते विवक्षां त्यज सर्वथा ॥ 11 ॥ मृदुवाक्योपदेशेन गौतमस्यानुबोधितः । समाश्वस्तः स्वकार्याय प्रतस्थे तत्रतो युवा ॥ 12 ॥ अवबोध्यं परं तत्त्वं गौतमस्योपदेशतः । त्रेधा परीक्ष्य वक्तव्यं सत्यसाधुहितं सदा ॥ 13 ॥ स्पष्टीकरणम् – '''एकदा गौतमं बुद्धं गच्छमानमथ क्वचित् । मार्गे निरुध्य विज्ञातो युवा व्याजादुवाच तम् ॥ 1 ॥''' सन्धिविन्यासः – एकदा गौतमम् बुद्धम् गच्छमानम् अथ क्वचित् । मार्गे निरुध्य विज्ञातः युवा व्याजात् उवाच तम् ॥ अन्वयः – अथ एकदा क्वचित् गच्छमानम् गौतमम् बुद्धम् मार्गे निरुध्य , विज्ञातः युवा तम् व्याजात् उवाच । विशेषप्रयोगः - गच्छमानम् = गच्छन्तम् । उवाच = अब्रवीत् । व्याजात् = व्याजेन , व्याजभावेन । सरलार्थः – एकदा कुत्रचित् ( क्वचित् ) गच्छन्तम् ( गच्छमानम् ) गौतमबुद्धम् कश्चित् परिचितः ( विज्ञातः ) युवकः ( युवा ) मार्गे एव अवरुध्य तम् व्याजभावेन ( व्याजात् ) किञ्चित् अब्रवीत् । एकदा गौतम बुद्ध कुठेतरी जात असता एक ओळखीचा तरुण त्यांना वाटेत थाम्बवून लबाडपणे हसत त्यांना काही म्हणाला. एक बार गौतम बुद्ध कहीं जा रहे थे , जब एक परिचित युवक ने राह में उन्हें रोक कर खींसते हुए उनसे कुछ कहा । Once, Gautama Buddha was going somewhere, when a familiar young boy stopped him on the way and smirkily said something to him. '''भगवंस्तव शिष्यस्य राहुलस्य हि धीमतः । कथयामि च किञ्चित्ते कौतूहलकरं श्रुधि ॥ 2 ॥''' सन्धिविन्यासः – भगवन् तव शिष्यस्य राहुलस्य हि धीमतः । कथयामि च किञ्चित् ते कौतूहलकरम् श्रुधि ॥ अन्वयः – भगवन् , तव धीमतः शिष्यस्य राहुलस्य हि किञ्चित् कौतूहलकरम् ते कथयामि , श्रुधि च । विशेषप्रयोगः - श्रुधि = शृणु । सरलार्थः – “भगवन् , तव धीमतः शिष्यस्य राहुलस्य विषये कौतूहलकरम् किञ्चित् तुभ्यम् (ते) कथयामि । त्वम् च तत् शृणु (श्रुधि)” इति । “भगवन , तुमचा बुद्धिमान शिष्य राहुल याच्याविषयी कुतूहलजनक असे काही मी साङ्गतो, ते तुम्ही ऐका”. “भगवन , तुम्हारे बुद्धिमान शिष्य राहुल के विषय में कुतूहल जगानेवाली कुछ बात मैं बताता हूँ , उसे तुम सुनो” । “Lord, I want to tell you some curious thing about your intelligent student Rahul. Please listen.” '''गौतमस्तिष्ठ भद्रेति प्रत्युवाचावरुध्य तम् । त्रीनादौ ब्रूहि मे प्रश्नान् विवक्षोर्राहुलस्य ते ॥ 3 ॥''' सन्धिविन्यासः – गौतमः तिष्ठ भद्र इति प्रत्युवाच अवरुध्य तम् । त्रीन् आदौ ब्रूहि मे प्रश्नान् विवक्षोः राहुलस्य ते ॥ अन्वयः – गौतमः तम् अवरुध्य प्रत्युवाच भद्र तिष्ठ । आदौ राहुलस्य विवक्षोः ते त्रीन् मे प्रश्नान् ब्रूहि इति ॥ विशेषप्रयोगः - प्रत्युवाच = प्रत्यवक् / प्रत्यब्रवीत् । विवक्षुः = वक्तुम् इच्छति इति । सरलार्थः – गौतमः तम् (युवकम्) अवरुध्य प्रत्यब्रवीत् (प्रत्युवाच), “भद्र , तिष्ठ । आदौ राहुलस्य विषये वक्तुम् इच्छतः (विवक्षोः) तव विषये (ते) मम (मे) त्रीन् प्रश्नान् प्रतिवद (ब्रूहि)” इति । गौतमांनी त्याला अडवत प्रतिसाद दिला, “भल्या माणसा, थाम्ब. राहुलाविषयी साङ्गू इच्छिणार्‍या तुझ्याबाबत माझ्या तीन प्रश्नांची आधी उत्तरे दे.” गौतम ने उसे रोककर प्रत्युत्तर दिया, “अरे सज्जन , ठहरो । तुम राहुल के विषय में कुछ कहना चाहते हो , किन्तु पहले तुम्हारे बारे में मेरे तीन प्रश्नों के उत्तर दो” । Gautama interrupted him and responded, “Gentleman, wait. Before you say something about Rahul, answer three questions that I have about you.” '''सम्भ्रमेणानुपश्यन्तं पप्रच्छ गौतमस्तदा । अपि सत्यप्रमाणेयं राहुलस्य कथा वद ॥ 4 ॥''' सन्धिविन्यासः – सम्भ्रमेण अनुपश्यन्तम् पप्रच्छ गौतमः तदा । अपि सत्यप्रमाणा इयम् राहुलस्य कथा वद ॥ अन्वयः – तदा सम्भ्रमेण अनुपश्यन्तम् गौतमः पप्रच्छ, वद, अपि इयम् राहुलस्य कथा सत्यप्रमाणा । विशेषप्रयोगः - पप्रच्छ = अपृच्छत् । सरलार्थः – तदा सम्भ्रमेण अनुपश्यन्तम् तम् युवकम् गौतमः अपृच्छत् , “वद , अपि इयम् राहुलस्य कथा सत्यप्रमाणिता भवति ?” इति । तेव्हां गोन्धळून पाहणार्‍या त्या युवकाला गौतमांनी विचारले, “साङ्ग बरं, राहुलाविषयी हे जे काही आहे ते खरे असल्याची तुझी खातरी आहे काय?” तब उलझने से देखनेवाले उस युवक को गौतम ने पूछा, “कहो, क्या तुम्हें विश्वास है कि राहुल के विषय में यह जो बात है, वह पूरी सच है?” Then Gautama asked the baffled youngster, “Tell me, are you sure that this thing about Rahul is completely true?” '''प्रत्युवाच गतव्याजो न हि सत्यप्रमाणिता । केनचित्क्वचिदन्यस्मै कथ्यमाना श्रुता मया ॥ 5 ॥''' सन्धिविन्यासः – प्रत्युवाच गतव्याजः न हि सत्यप्रमाणिता । केनचित् क्वचित् अन्यस्मै कथ्यमाना श्रुता मया ॥ अन्वयः – गतव्याजः प्रत्युवाच क्वचित् केनचिद् अन्यस्मै एषा कथ्यमाना मया श्रुता । न हि सत्यप्रमाणिता । विशेषप्रयोगः – प्रत्युवाच = प्रत्यब्रवीत् । क्वचित् = कुत्रचित् । गतव्याजः = गतं व्याजं यस्य सः । सरलार्थः – गतव्याजः (सः युवकः) प्रत्यवदत् , “कुत्रचित् (क्वचित्) केनचित् जनेन अन्यस्मै जनाय राहुलस्य विषये कथ्यमाना एषा कथा, मया केवलम् श्रुता, नैव सत्यप्रमाणिता” इति । त्या युवकाचा खट्याळपणा गेला आणि तो म्हणाला, “राहुलाविषयी ही गोष्ट कुठेतरी, कुणीतरी अन्य कुणालातरी बोलताना मी ऐकली, ती खरी असल्याची पडताळणी मी केलेली नाही.” उस युवक की खींस चली गई और वह बोला, “मैंने कहीं किसी और ने किसी और को राहुल के बारे में यह बात कहते हुए सुनी, मगर इसकी सच्चाई के बारे में मैंने पड़ताल नहीं की है ।” The boy’s smirk faded and he replied, “Somewhere, I heard someone saying this about Rahul to somebody else, but I have not verified if it’s true.” '''प्रत्यूदे गौतमस्तं च युवानं सस्मितं तदा । श्रोष्यामि च तथापि त्वां यदि साधु विवक्षसे ॥ 6 ॥''' सन्धिविन्यासः – प्रत्यूदे गौतमः तम् च युवानम् सस्मितम् तदा । श्रोष्यामि च तथा अपि त्वाम् यदि साधु विवक्षसे ॥ अन्वयः – तदा च तम् युवानम् गौतमः सस्मितम् प्रत्यूदे, तथापि, यदि साधु विवक्षसे (तर्हि) त्वाम् श्रोष्यामि ॥ विशेषप्रयोगः – प्रत्यूदे = प्रत्यवदत् । विवक्षसे = वक्तुम् इच्छसि । सरलार्थः – तदा तम् युवकम् (युवानम्) गौतमः सस्मितम् प्रत्यवदत् , “तथापि, यदि त्वम् किञ्चित् साधु कथयितुम् इच्छसि, तर्हि ताम् कथाम् श्रोष्यामि” । तेव्हां त्या युवकाला गौतम स्मितपूर्वक म्हणाले, “तरीही तुला काही चाङ्गले साङ्गायचे असल्यास मी ऐकीन” । तब उस युवक को गौतम मुस्कुराकर बोले, “फिर भी यदि तुम कुछ अच्छी बात बताना चाहते हो तो मैं उसे सुनूँगा” । Gautama smiled and said to the young boy, “Yet, if you wish to say something good, I shall listen to you.” '''व्यथोदितमुखो बुद्धं प्रत्युवाच युवा तदा । दुष्टैव च कथा काचिद् राहुलस्य श्रुता मया ॥ 7 ॥''' सन्धिविन्यासः – व्यथोदितमुखः बुद्धम् प्रत्युवाच युवा तदा । दुष्टा एव च कथा काचित् राहुलस्य श्रुता मया ॥ अन्वयः – तदा व्यथोदितमुखः युवा बुद्धम् प्रत्युवाच, राहुलस्य दुष्टा एव काचित् कथा मया श्रुता । विशेषप्रयोगः - व्यथोदितमुखः = व्यथा उदिता मुखे यस्य सः । सरलार्थः – तदा व्यथोदितेन मुखेन सः युवकः बुद्धम् प्रत्यवदत्, “राहुलस्य विषये दुष्टा एव काचित् कथा मया श्रुता अस्ति” इति । मग जराश्या अवघडलेल्या चेहर्‍याने तो युवक बुद्धांना म्हणाला, “राहुलाबद्दल मी जे काही ऐकलेय ते वाईटच आहे.” तब ज़रासे व्यथित चहरे से वह युवक बुद्ध को बोला, “राहुल के बारे में मैंने सुनी हुई बात बुरी ही है” । The boy responded to Buddha with a slight discomfort, “I have indeed heard something bad about Rahul.” '''यदि दुष्टा कथा भ्रातर्विवक्षसि तथापि ताम् । अवश्यं कथनं स्यात्ते राहुलस्य च मे हितम् ॥ 8 ॥''' सन्धिविन्यासः – यदि दुष्टा कथा भ्रातर् विवक्षसि तथापि ताम् । अवश्यम् कथनम् स्यात् ते राहुलस्य च मे हितम् ॥ अन्वयः – भ्रातर् , यदि दुष्टा कथा, तथापि ताम् विवक्षसि । अवश्यम् ते कथनम् राहुलस्य च मे च हितम् स्यात् । विशेषप्रयोगः - विवक्षसि = वक्तुम् इच्छसि । सरलार्थः – (गौतमः तम् युवकम् अवदत् ), “भ्रातर् , यद्यपि सा कथा दुष्टा , तथापि त्वम् मह्यम् कथयितुम् इच्छसि । अतः तव कथनम् मत्कृते राहुलस्य च कृते हितकरम् एव स्यात् इति मन्ये” । (गौतम त्याला म्हणाले) “मित्रा, वाईट गोष्ट असूनही तू साङ्गू इच्छितोस, म्हणजे नक्कीच ती माझ्या व राहुलाच्या हिताची असेल”. (गौतम ने उसे कहा) “भाई, बात बुरी होते हुए भी तुम कहना चाहते हो , तो वह अवश्य मेरे और राहुल के हित की होगी” । (Gautama said to him) “Dear, despite knowing the thing to be bad, you wish to say it, so, I trust, it would be for Rahul’s and my wellbeing.” '''अवधार्य वचो बौद्धं लज्जालम्बिशिरो युवा । प्रत्युवाच तदा काचित् कस्यापि न हिता कथा ॥ 9 ॥''' सन्धिविन्यासः – अवधार्य वचः बौद्धम् लज्जालम्बिशिरः युवा । प्रत्युवाच तदा काचित् कस्य अपि न हिता कथा ॥ अन्वयः – तदा बौद्धम् वचः अवधार्य लज्जालम्बिशिरः युवा प्रत्युवाच कथा न कस्य अपि काचिद् हिता । विशेषप्रयोगः - बौद्धम् = बुद्धस्य । लज्जालम्बिशिरः युवा = लज्जया लम्बते शिरः यस्य, सः युवा । सरलार्थः – तदा बुद्धस्य वचः अवधार्य तस्य युवकस्य शिरः लज्जया अवालम्बत, सः च प्रत्युवाच “एषा कथा न कस्यापि काचिद् अपि हितावहा” इति । बुद्धांचे बोलणे ऐकून त्या युवकाची मान लाजेने खाली गेली. तो म्हणाला, “ही गोष्ट कुणाच्याही जराही हिताची नाही.” बुद्ध का कहना सुनकर उस युवक का शीष शर्म से झुक गया । वह बोला, “यह बात किसी के भी कोई हित की नहीं है” । Upon hearing Buddha’s words, the boy hung his head down in shame and admitted that the matter wouldn’t do any good to anybody. '''बभाषे गौतमो बन्धो सारहीनामिमां कथाम् । असाध्वीमभिजानीषे चाहितामपि वेत्सि ताम् ॥ 10 ॥''' सन्धिविन्यासः – बभाषे गौतमः बन्धो सारहीनाम् इमाम् कथाम् । असाध्वीम् अभिजानीषे च अहिताम् अपि वेत्सि ताम् ॥ अन्वयः – गौतमः बभाषे बन्धो इमाम् कथाम् सारहीनाम् असाध्वीम् च अभिजानीषे ताम् अहिताम् अपि वेत्सि । विशेषप्रयोगः - बभाषे = अभाषत । सारहीना = तथ्यहीना । सरलार्थः – गौतमः अभाषत, “बन्धो , त्वम् एतत् अभिजानीषे, वेत्सि अपि, यद् इयम् कथा तथ्यहीना असाध्वी अहिता च अस्ति । गौतम त्याला म्हणाले, “मित्रा, तू हे जाणतोस आणि समजतोस की ती गोष्ट तथ्यहीन, वाईट आहे आणि हितावहदेखील नाही. गौतम उसे बोले, “भाई, तुम जानते हो और समझते भी हो कि वह बात तथ्यहीन और बुरी है और हितकारक भी नहीं है । Gautama said to him, “Dear, you understand and realize, whatever you want to say isn’t true, good or even beneficial. '''प्राप्यं न कथनात्किञ्चिद् राहुलस्य न ते न मे । तस्मात्तामयोग्यां ते विवक्षां त्यज सर्वथा ॥ 11 ॥''' सन्धिविन्यासः – प्राप्यम् न कथनात् किञ्चिद् राहुलस्य न ते न मे । तस्मात् ताम् अयोग्याम् ते विवक्षाम् त्यज सर्वथा ॥ अन्वयः – कथनात् न राहुलस्य, न मे, न ते अपि किञ्चिद् प्राप्यम् । तस्मात् ते अयोग्याम् ताम् विवक्षाम् सर्वथा त्यज । सरलार्थः – अस्याः कथायाः कथनात् न राहुलस्य, न मम, न तव अपि किञ्चित् प्राप्यम् । अतः तव एताम् अयोग्याम् कथनेच्छाम् (विवक्षाम्) सर्वथा परित्यज” । ती गोष्ट साङ्गण्याने राहुलास, मला किंवा तुलाही, काही प्राप्त होणार नाही. त्यामुळे अशी अयोग्य गोष्ट साङ्गण्याचा विचार पूर्णपणे सोडून दे.” इस बात को कहने से न राहुल को, न मुझे, न ही तुम्हें, कुछ प्राप्त होगा । इसलिए तुम इस अयोग्य बात को कहने का विचार बिल्कुल छोड़ दो” । Neither Rahul, nor I, nor you, are to gain anything out of saying it. So, give up your undue desire to say it”. '''मृदुवाक्योपदेशेन गौतमस्यानुबोधितः । समाश्वस्तः स्वकार्याय प्रतस्थे तत्रतो युवा ॥ 12 ॥''' सन्धिविन्यासः – मृदुवाक्योपदेशेन गौतमस्य अनुबोधितः । समाश्वस्तः स्वकार्याय प्रतस्थे तत्रतः युवा ॥ अन्वयः – गौतमस्य मृदुवाक्योपदेशेन अनुबोधितः समाश्वस्तः युवा तत्रतः स्वकार्याय प्रतस्थे ॥ विशेषप्रयोगः – प्रतस्थे – प्रातिष्ठत । सरलार्थः – गौतमस्य मृदुवचनयुक्तेन उपदेशेन अनुबोधितः समाश्वस्तः सः युवकः तत्रतः स्वकार्याय प्रातिष्ठत ॥ गौतम बुद्धांच्या कोमल शब्दांनी शान्त होऊन त्यांचा उपदेश समजून घेऊन तो युवक आपल्या कामाकरता तिथून निघून गेला. गौतम बुद्ध के मुलायम शब्दभरे उपदेश को समझकर और शान्त होकर वह युवक वहाँ से अपने काम के लिए चल पड़ा । Comforted and enlightened with Gautama Buddha’s gentle advice, the boy left for his work. '''अवबोध्यं परं तत्त्वं गौतमस्योपदेशतः । त्रेधा परीक्ष्य वक्तव्यं सत्यसाधुहितं सदा ॥ 13 ॥''' सन्धिविन्यासः – अवबोध्यम् परम् तत्त्वम् गौतमस्य उपदेशतः । त्रेधा परीक्ष्य वक्तव्यम् सत्यसाधुहितं सदा ॥ अन्वयः – गौतमस्य उपदेशतः परम् तत्त्वम् अवबोध्यम् । सदा त्रेधा परीक्ष्य सत्यसाधुहितम् वक्तव्यम् ॥ विशेषप्रयोगः – सत्यसाधुहितम् – सत्यं च साधु च हितम् च इदम् । सरलार्थः – गौतमस्य उपदेशात् वयम् एतत् परम् तत्त्वम् अवबोधेम यत् कामपि विवक्षाम् सर्वदा त्रेधा परीक्ष्य तत्र यत् सत्यम् च साधु च हितम् च अपि , तद् एव अस्माभिः वक्तव्यम् । गौतमांच्या उपदेशातून आपण हे श्रेष्ठ तत्त्व शिकलं पाहिजे, की आपण कायम अशीच गोष्ट बोलावी जी खरेपणा, चाङ्गलेपणा आणि हितकारकता अश्या तीन्ही निकषांवर खरी उतरेल. गौतम बुद्ध के उपदेश से हमने यह श्रेष्ठ तत्त्व सीखना चाहिए, कि हम हमेशा वही बात कहें जो सच्चाई, अच्छाई और भलाई, इन तीनों कसौटियों पर खरी उतरे । Thus, Gautama Buddha’s advice teaches us a great principle: We should always say only that, which passes all the three tests, viz. Truth, Goodness and Welfare. 68uq6oqww5csvozda61m631wc77kdr3 सदस्यसम्भाषणम्:Saurabhusbondre 3 3737 7501 2026-10-11T14:06:38Z QueerEcofeminist 1831 Welcomed new user with [[w:en:User:JJPMaster/OneClickWelcomer.js|OneClickWelcomer]] 7501 wikitext text/x-wiki {{subst:Welcome}} [[सदस्यः:QueerEcofeminist|QueerEcofeminist]] ([[सदस्यसम्भाषणम्:QueerEcofeminist|सम्भाषणम्]]) १४:०६, ११ अक्टोबर् २०२६ (UTC) kwtsfpfv45fufm2vsvrg3dffrlt53o9