विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.2 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk श्रीमहालक्ष्मी अष्टकं 0 11205 415865 399505 2026-05-16T11:57:31Z ~2026-29388-64 10477 415865 wikitext text/x-wiki || श्रीमहालक्ष्मी अष्टकं|| श्रीगणेशाय नमः ''इंद्र उवाच'' - नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते | शंखचक्रगदाहस्ते महालक्ष्मी नमोस्तुते || १ || नमस्ते गरुडारूढे, कोलासुरभयंकरी | सर्वपापहरे देवी महालक्ष्मी नमोस्तुते || २ || सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरी | सर्वदु:खहरे देवी महालक्ष्मी नमोस्तुते || ३ || सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी | मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तुते || ४ || आद्यन्तरहिते देवी आद्यशक्ति महेश्वरी | योगज्ञे योगसंभूते महालक्ष्मी नमोस्तुते || ५ || स्थूलसुक्ष्महारौद्रे महाशक्ते महोदरे | महापापहरे देवी महालक्ष्मी नमोस्तुते || ६ || पद्मासनस्थिते देवी परब्रह्मस्वरूपिणी | परमेशि जगन्मातर्महालक्ष्मी नमोस्तुते || ७ || श्वेताम्बरधरे देवी नानालंकारभूषिते | जगतस्थिते जगन्मातर्महालक्ष्मी नमोस्तुते || ८ || ''फलश्रृति'' - महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः | सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा || १ || एककाले पठेन्नित्यं महापाप विनाशनं | द्विकालं यः पठेन्नित्यं धनधान्यं समन्वितः || २ || त्रिकालं यः पठेन्नित्यं महाशत्रु विनाशनं | महालक्ष्मीर्भ्हवेन्नित्यं प्रसन्ना वरदा शुभा || ३ || ae5i3aj49t4hcx6n0zrco2y1idwsvyg हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ००३ 0 64095 415864 346625 2026-05-16T02:06:26Z ~2026-29489-75 10476 वर्तनी शुद्ध की 415864 wikitext text/x-wiki {{header | title = [[../../]] | author = वेदव्यासः | translator = | section = अध्यायः ००३ | previous = [[../अध्यायः ००२|अध्यायः ००२]] | next = [[../अध्यायः ००४|अध्यायः ००४]] | notes = व्यासेन कलियुगस्य स्थित्याः वर्णनम् }} तृतीयोऽध्यायः <poem><span style="font-size: 14pt; line-height:200%">जनमेजय उवाच आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे । तस्माद् द्वापरसंविद्धं युगान्तं स्पृहयाम्यहम् ।। १ ।। प्राप्ता वयं तु तत् कालमनया धर्मतृष्णया । आदद्यात् परमं धर्मं सुखमल्पेन कर्मणा ।। २ ।। शौनक उवाच प्रजासमुद्वेगकरं युगान्तं समुपस्थितम् । प्रणष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि ।। ३ ।। सौतिरुवाच पृष्ट एवं भविष्यस्य गतिं तत्त्वेन चिन्तयन् । युगान्ते सर्वभूतानां भगवानब्रवीत् तदा ।। ४ ।। व्यास उवाच अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः । युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ।। ५ ।। अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः । शूद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये ।। ६ ।। काण्डे स्पृष्टाः श्रोत्रियाश्च निष्क्रियाणि हवींष्यथ । एकपङ्क्त्यामशिष्यन्ति युगान्ते जनमेजय ।। ७ ।। शिल्पवन्तोऽनृतपरा नरा मद्यामिषप्रियाः । मित्रभार्या भविष्यन्ति युगान्ते जनमेजय ।। ८ ।। राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः । भृत्याश्चानिर्दिष्टभुजो भविष्यन्ति युगक्षये ।। ९ ।। धनानि श्लाघनीयानि सतां वृत्तमपूजितम्। अकुत्सना च पतिते भविष्यन्ति युगक्षये ।। 3.3.१० ।। प्रणष्टचेतना मर्त्या मुक्तकेशा विचूलिनः । ऊनषोडशवर्षाश्च प्रजास्यन्ति नराः सदा ।। ११ ।। अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ।। १२।। सर्वे ब्रह्म वदिष्यन्ति सर्वे वाजसनेयिनः । शूद्रा भोवादिनश्चैव भविष्यन्ति युगक्षये ।। १३ । तपोयज्ञफलानां च विक्रेतारो द्विजातयः । ऋतवश्च भविष्यन्ति विपरीता युगक्षये ।। १४ ।। शुक्लदन्ताऽञ्जिताक्षाश्च मुण्डाः काषायवाससः। शूद्रा धर्मं चरिष्यन्ति शाक्यबुद्धोपजीविनः ।। १५ ।। श्वापदप्रचुरत्वं च गवां चैव परिक्षयः । स्वादूनां विनिवृत्तिश्च विद्यादन्तगते युगे ।। १६ ।। अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तनिवासिनः। तथा निम्नं प्रजाः सर्वा गमिष्यन्ति युगक्षये ।। १७ ।। तथा द्विहायना दम्यास्तथा पल्वलकर्षकाः । चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ।। १८ ।। सर्वे चौरकुले जाताश्चोरयानाः परस्परम् । स्वल्पेनाख्या भविष्यन्ति यत्किंचित्प्राप्य दुर्गताः ।। न ते धर्मं करिष्यन्ति मानवा निर्गते युगे । ऊषार्कबहुला भूमिः पन्थानस्तस्करावृताः ।। 3.3.२० ।। सर्वे वाणिज्यकाश्चैव भविष्यन्ति कलौ युगे । पितृदत्तानि देयानि विभजन्ते सुतास्तदा । हरणाय प्रपत्स्यन्ते लोभानृतविरोधिताः ।। २१ ।। सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते । भविष्यन्ति युगान्ते च नार्यः केशैरलंकृताः ।। २२ ।। निर्विहारस्य भूतस्य गृहस्थस्य भविष्यति । युगान्ते समनुप्राप्ते नान्या भार्या समा गतिः ।।२३ ।। कुशीलानार्यभूयिष्ठं वृथारूपसमन्वितम् । पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम् ।। २४ ।। बहुयाचनको लोको न दास्यति परस्परम् । अविचार्य ग्रहीष्यन्ति दानं वर्णान्तरात् तथा ।। २५ ।। राजचौराग्निदण्डार्तो जनः क्षयमुपैष्यति । सस्यनिष्पत्तिरफला तरुणा वृद्धशीलिनः । ईहयासुखिनो लोका भविष्यन्ति युगक्षये ।। २६ ।। वर्षासु वाताः परुषा नीचाः शर्करवर्षिणः । संदिग्धः परलोकश्च भविष्यति युगक्षये ।। २७ ।। आत्मनश्च दुराचारा ब्रह्मदूषणतत्पराः । आत्मानं बहु मन्यन्ते मन्युरेवाभ्ययाद्द्विजान्।। २८ ।। वैश्याचाराश्च राजन्या धनधान्योपजीविनः । युगापक्रमणे सर्वे भविष्यन्ति द्विजातयः ।। २९ ।। अप्रवृत्ताः प्रपत्स्यन्ते समयाः शपथास्तथा । ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ।। 3.3.३० ।। भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् । अजाश्चैवोपरोत्स्यन्ते पयसोऽर्थे युगक्षये ।। ३१ ।। अशास्त्रविदुषां पुंसामेवमेव स्वभावतः । अप्रमाणं वदिष्यन्ति नीतिं पण्डितमानिनः ।। ३२ ।। शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति युगक्षये । सर्वे सर्वं हि जानन्ति वृद्धाननुपसेव्य वै ।। ३३ ।। न कश्चिदकविर्नाम युगान्ते समुपस्थिते । न क्षत्राणि नियोक्ष्यन्ति विकर्मस्था द्विजातयः । चौरप्रायाश्च राजानो युगान्ते पर्युपस्थिते ।। ३४ ।। कुण्डावृषा नैकृतिकाः सुरापा ब्रह्मवादिनः । अश्वमेधेन यक्ष्यन्ति युगान्ते जनमेजय ।। ३५ ।। अयाज्यान् याजयिष्यन्ति तथाभक्ष्यस्य भक्षिणः । ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते ।। ३६ ।। भोशब्दमभिधास्यन्ति न च कश्चित्पठिष्यति । एकशङ्खास्तदा नार्यो गवेधुकपिनद्धकाः ।। ३७ ।। नक्षत्राणि वियोगीनि विपरीता दिशस्तथा । संध्यारागोऽथ दिग्दाहो भविष्यत्यवरे युगे ।। ३८ ।। पितॄन्पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रूश्च कर्मसु । वियोनिषु चरिष्यन्ति प्रमदासु नरास्तथा ।। ३९ ।। वाक्छरैस्तर्जयिष्यन्ति गुरूञ्छिष्यास्तथैव च । मुखेषु च प्रयोक्ष्यन्ति प्रमत्ताश्च नरास्तदा ।। 3.3.४० । अकृताग्राणि भोक्ष्यन्ति नराश्चैवाग्निहोत्रिणः । भिक्षां बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम्।। ४१ ।। पतीन्सुप्तान् वञ्चयित्वा गमिष्यन्ति स्त्रियोऽन्यतः । पुरुषाश्च प्रसुप्तासु भार्यासु च परस्त्रियम् ।। ४२ ।। नाव्याधितो नाप्यरुजो जनः सर्वोऽभ्यसूयकः । न कृतिप्रतिकर्ता च युगे क्षीणे भविष्यति ।। ४३ ।। इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कलियुगवर्णने तृतीयोऽध्यायः ।। ३ ।। </span></poem> bdusya8bay4jpzsg29nd4pse724k8sh