विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.3 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk सदस्यः:V(g) 2 25211 415893 415858 2026-05-19T13:18:40Z EmausBot 3495 स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना। 415893 wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]] 9vhg30k1e6nvvz0wv8aqv2lym7zg53g 415900 415893 2026-05-20T08:51:52Z EmausBot 3495 [[सदस्यः:G(x)]] को दोहरे पुननिर्देशित ठीक किया। 415900 wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यः:G(x)]] 95d6euwz5uasoehai0z4cdinzeslj5p पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१० 104 67522 415897 151939 2026-05-20T05:56:08Z Swaminathan sitapathi 4227 /* शोधितम् */ 415897 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>{{c|{{x-larger|'''शाकुंतलनाटकसारसंग्रह।'''}}}} {{Css image crop |Image = %E0%A4%85%E0%A4%AD%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%B6%E0%A4%BE%E0%A4%95%E0%A5%81%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B2%E0%A4%AE%E0%A5%8D_%28%E0%A4%B8%E0%A4%9F%E0%A5%80%E0%A4%95%E0%A4%BE%29.pdf |Page = 10 |bSize = 381 |cWidth = 105 |cHeight = 30 |oTop = 62 |oLeft = 131 |Location = center |Description = }} {{gap}}'''प्रथमांके'''-नान्दीपठनम् । ततः प्रस्तावनायां सूत्रधारेण नाटकीयस्य वस्तुन उपक्षेपः । मृगयाविहारी पार्थिवो दुष्यन्तः केनाप्यतिरंहसा सारद्रेण दूरं हृतोऽनुमालिनीतिरं कुलपतेः कप्पस्याश्रमं निकषा प्राप । यावच्च कृष्णसारस्य वधार्थे धनुषि शरं संदधाते तावत्केचित्तपस्विन उपेत्योच्चै राजानमब्रुवन् ‘आश्रममृगोऽयं न हन्तव्यः' इति । तद्वचनानु रोधाप्रतिसंहृतसायकस्तैधाभिनन्द्य “ चक्रवर्तिनं पुत्रवभाप्नु हि ’ इति कृताशीर्वचनस्तन्निदिष्टं कण्वाश्रमं प्रवेष्टुमैच्छद्राजा दुष्यन्तो विनीतवेषेण तपोवनं प्रविवेश । वृक्षसेचनव्यापृतमद्भुतरूपसंपत्कन्यकात्रयं ददर्श । तासां विश्रम्भालापेषु सख्योस्तन्नामग्रहणाच्छकुन्तलां ज्ञात्वा तस्या अव्याजमनोहरं रूपं दृष्ट्वा विस्मितो बभूव । पश्चात्ताभ्यां कथाप्रसंगेन शकुन्तलाया जन्मावृत्तान्तमुपलभ्य राजा तस्याः प्राप्तिं प्रति जाताशोऽभवत् । शकुन्तलापि राजानं दृष्ट्वा तपोवनाविरोधिनो विकारस्य गमनीया संवृत्ता । अत्रान्तरे नृपस्यन्दनालोकभीतस्य वन्यगजस्य केनापि वनौकसोच्चैरुद्धोषितं वनप्रवेशं श्रुत्वा सभ्रान्ताः कन्यका उत्तस्थुः । राजापि दर्शनेनैवै भवतीनां पुरस्कृतोऽस्मि तद्यथाश्रमवाधा न भवति तथा यतिष्य इत्युक्त्वा निष्क्रान्तः । {{gap}}'''द्वितीयांके'''-पूर्वोकोक्तस्य बीजस्य कामं प्रिया न सुलभेत्यादिना बहुलीकरणानन्तरमेतां प्रवृत्ति विदूषकोऽन्तःपुरे निवेदयेति संशय्य राजा परिहासाविजल्पितं सखे इत्यादिं वाक्येन स्वाभिमतगोपनपूर्वकं स्वनगरं प्रति विदुषकप्रस्थापनम् । {{gap}}'''तृतीयांके'''-नायकदर्शनसमुल्लासितमनोभवायाः शकुंतलाया विविधमद नावस्थानुभवः, राज्ञश्च स्वविषयानुरागनिश्चयेन तस्या उपळ्ळनपूर्वकमु भयमनोरथसंपादनं चाभ्यषार्णि । {{gap}}'''चतुर्थोंके'''-नायकैकायतचित्तत्वेनाकृतातिथिसत्कारायाः शकुंतलायाः दुर्वासशापप्राप्तिः, तस्यांगुलीयकदर्शननिवत्येवरूपानुग्रहप्राप्तिः, ततः कण्वमहर्षिणा सौसुक्यवात्सल्यानुबंधं कुळपालिकाजनोचितधर्मानुशासनाशीर्वचनाद्यभिनंदनपूर्वकं शकुंतलाया भर्तृनगरप्रेषणं चाभ्यधायि ।<noinclude></noinclude> kus151die69s42haml8toanet4gks7u पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६ 104 67586 415899 251953 2026-05-20T07:14:54Z Swaminathan sitapathi 4227 415899 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Suchetaa" /></noinclude> {{c|{{bold|<big>'''श्रीः ।'''</big>}}}} {{c|'''<big><big><big>अभिज्ञानशाकुन्तलनाटकम् ।</big></big></big>'''}} {{c|'''<big><big>टीकाद्वयोपेतम् ।</big></big>'''}} {{Css image crop |Image = %E0%A4%85%E0%A4%AD%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%B6%E0%A4%BE%E0%A4%95%E0%A5%81%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B2%E0%A4%AE%E0%A5%8D_%28%E0%A4%B8%E0%A4%9F%E0%A5%80%E0%A4%95%E0%A4%BE%29.pdf |Page = 16 |bSize = 381 |cWidth = 102 |cHeight = 26 |oTop = 135 |oLeft = 134 |Location = center |Description = }} {{c|<big>'''प्रस्तावना ।'''</big>}} {{block center|{{bold|<poem>या सृष्टिः स्रष्टुराद्या वहतेि विधिहुतं या हविर्या च होत्री ::ये द्वे कालं विधत्त: श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः ::प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टभिरीशः ॥ १ ॥</poem>}}}} {{rule}} {{block center|<poem>यत्त्रेधाजनि दशधा द्विधागतं यद्यज्जातं दशविधमेति षोडशत्वम् । यद्गीतं सममहदादिकस्य चाद्यं तेजस्तज्जयति हिमोष्णरूपमग्र्यम्॥१॥</poem>}} {{block center|<poem>उद्दिश्यामरनिम्नगां गतवतोः श्रुत्वा कलिं शैशवे ::यः साक्षात्करवाणि तामिति जटाजूटोपकण्ठं गतः । पीत्वा पुष्कलपुष्करेण न किमप्यत्रेति विस्मापयन्''' ::पित्रोर्विग्रहवग्रहं विहितवान्पायाद्गजास्य: स व: ॥ २ ॥</poem>}} {{rule}} {{block center|<poem>लक्ष्मीं वः सुतरां तनोतु मधुकृल्लक्ष्मीमुखांभोरुहो । भक्ताभीष्टवरप्रदाननिपुणः श्रीवेंकटेशो विभुः । लीलापंकजमध्यगं मधुकरं संबदुमंके स्थिता । नेत्रं श्रीः पिदधति यस्य कुतुकात्सव्येतरं पाणिना ॥ १ ॥ वैखानसान्वयपयोधिमृगांकमूर्तिः । श्रीकैशिको विजयते स हि तिंमयाख्य: श्रीवेंकटेशचरणाम्बुजनित्यपूजा- पूताकृतिर्गुणनिधिर्महितो मनीषी ॥ २ ॥</poem>}} {{rule}}<noinclude></noinclude> 09329iaflnaue1vas3yn4g0tor2ueig पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८ 104 67592 415896 415849 2026-05-20T05:36:31Z Swaminathan sitapathi 4227 /* शोधितम् */ 415896 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>{{c|( ५ )}}न च नैतत्रख्यातवृत्तमिति भ्रमितव्यं विष्णुपुराणे कथांशस्यास्य प्रार्थितस्यात् । न चैतत्कालिदासप्रणीतमिति तु अममात्रं प्रमाणाभावात् । न च वर्णनात्येवात्र प्रमाणमिति वाच्यम् । एतस्य कालिदासप्रणीतत्वेऽपि तस्या एत्र प्रमाणभूतधात् । दृश्यंते ह्यत्र तथा विधानि कियन्ति गद्यानि च यानि खुवनिच्छतोऽपि बशदिव प्रत्याययन्न्यासः कालिदासप्रणीतस्वम् । तानि चात्र मालविकाया यतदवसानात्रस्थानवर्णनादिप्रस्तावे स्वयमेव दृश्यन्तां रसिकैः । विस्तरभयात्तु नात्र तान्युदाहर्तुमिच्छामः हति । {{gap}}एतद्विरचितेषु स्वशेषेष्वपि प्रबन्धेषु सुनिपुणं समालोच्यमानेषु प्रती यते महाकवित्वमिव पण्डियमपि श्रीमतः कालिदासस्योत विभाव्यतां प्रीौरीति शिवम् । {{c|'''इति महाकविश्रीकालिदास चरितसङ्क्षेपः''' ।}}<noinclude></noinclude> chcnzshnar3axydkret2f7n2xcx6i9u पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/११ 104 67595 415898 154160 2026-05-20T06:29:29Z Swaminathan sitapathi 4227 /* शोधितम् */ 415898 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>{{c| २ }} {{gap}}'''पञ्चमांके'''-दुर्वासःशापविस्मृतशतलावृत्तांततया कण्वाश्रमागतशकुंतळादिदर्शनतद्वच श्रवणनिरानंदन मनसा तां प्रत्याख्यायापि सतः स्वस्य परितोषालाभात् प्रत्याययतीव मे हृदयमिते राज्ञः परिचितनम् ।<br> {{gap}}'''षष्ठाके'''-शापानेवर्तकस्वांगुलीयकदर्शनेन शकुंतलासंबंधियावधृत्तांतसंततेः स्मृतैौ जागरूकतया पश्चात्तप्तहृदयस्य शकुंतलाप्रतिकृतिलेखनवीक्षणादिना स्वात्मानं विनोदयतः तत्प्रत्याख्यानमहापराधसंभावितस्वसंतानप्रत्यूहस्य स्वीयविभवेषु नैराश्यात्तत्सर्वमपि प्रजार्थे विनियुज्यतामिति मंत्रिणोऽनुशास्य शकुंतलैकायत्ताचित्तस्य राज्ञः कथंचिन्मातलिसंदर्शनेन स्वप्रभावं दुर्जयासुरविजयायेन्द्ररथारोहणं प्रतिपादितम् ।<br> {{gap}}'''सप्तमाक'''-इन्द्रप्रार्थनया स्वर्गलोके कृतप्रत्यर्थिविजयस्य प्रत्यागमनसमये मारीचसेवार्थं तदाश्रमं प्रविष्टस्य निरतिशयवरोित्कर्षत्रियार्भकदर्शनेन तत्प्रसक्त्या स्वविरहव्रताचरणकृशतनोः स्वप्राणप्रेयस्याः शकुंतलाया दर्शनेन च समुल्लसितहृदयाह्रादस्य मारीचानुशासनविदितभवितव्यताबलसंप्राप्तपरस्परविक्ष्लेषज्ञाननिःसंकोचविकसितपरस्परानंदमुदांपत्यस्य राज्ञ इष्टदेवताभूतमारीचप्रसादात्सर्वाभष्टसिद्धिर्निर्वहणे निरूपिता ।<noinclude></noinclude> gxl5pqjwmumzr8qrg6wodghfhvp99o4 पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८ 104 67634 415901 253188 2026-05-20T10:15:46Z Swaminathan sitapathi 4227 /* शोधितम् */ 415901 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=अङ्कः १]|center=टीकाद्वयसहितम्।|right=( ३ )}}</noinclude>व्यज्यते । अविधिहुतं भस्मीभवतेि । अत एव विधिहुतमित्युक्तिः । अन्यथा हवनीयस्यैतदव्यभिचारार्थेणौनुरूप्यं स्यात् । एतेनातिशयो ध्वनितः । अथ च वह्निरित्यौणादिके निप्रत्यये सिद्धम् । तदपि सूचितम् । या च होत्री यजमानरूपा । जुहोतीतेि होत्रीतीन्द्रादीनामपि तर्पकत्वादतिशयो व्यज्यते । अत एव नात्मादिपदप्रयोगः । ये च द्वे कालं रात्रिंदिवरूपं विधत्तः कुरुतः। विपूर्वो धाञ् करणार्थे वर्तेते । चन्द्रार्कावित्यर्थः । नित्यस्यापि कालस्यैतौ कारणत्वेनोक्ताविति स एव । या च श्रुतिः श्रवणेन्द्रियं तस्य विषयो गोचरो गुणः शब्दाख्यौ यस्याः सा । श्रुतिः श्रोत्रे तथाम्नाये वार्तायां श्रोत्रकर्मणि ' इतेि विश्वः । विश्वं जगद्वयाप्य स्थिता तेनाकाशः । अत्रापि अगद्धापकास्थित्या स व्यज्यते । अत एव श्रुतिविषयगुणेत्येतावन्मात्रं नोरात्तम् । तावत्युच्यप्राने प्रक्रान्तातिशयव्यङ्गयभङ्गः स्यात् । किं च ‘ शब्दैकगुण आकश शब्दस्पर्शगुणो मरुत् ' इत्यादिना सांख्यमते मरूदादीनामपि शब्दगुणत्वस्योक्तेर्विवक्षितार्थ (र्था) लाभश्च । पारिशेप्यात्तल्लाभ इति चेत् । आदिवाक्येन तल्लाभोऽन्तेन वेति संदेहस्य दुर्निरासत्त्वात्सूक्तं विश्वमित्यादि । अत एव {{rule}} आद्या । सर्जनं सृष्टिः । अनेन जलमयी तनुरुक्ता "अप एव व्यसर्जादौ तासु वीर्यमपासृजत् " इत्युक्तवान्। एवं गुणद्वारा गुणिप्रत्यायने सति गुणिनां व्यंवटत्त्त्रैन व्यंग्यप्राधान्यादस्योत्तमकाव्यता प्रकाश्यते । तदुक्तं काव्यप्रकाशे "इदमुत्तममतिशयिनि व्यंग्ये वाच्याद्ध्वानंर्वुवैः काधेनः हाते । इक्षुखंडस्थानीयं हि कव्वैकल्पनीनं तत्र रसनिध्यंदस्थानीयं व्यङ्गयम् त्र्क्ष्ग्नीपैप्रायं वारुरम्। तस्याग्निपुणेन फदिनः वाच्नदधि व्यङ्गधस्य चमत्कारार्थणप्रावाण्यं कर्तव्यै तत्काठत्मुतमम् । यदाह - प्रध्वन तुध्वनवुषभावभ्यां व्यङ्गथस्योतममध्यमे । काव्वे ध्वनिर्गुणांभ्तव्यङ्गथभिन्युदिते उभे “शत । यस्मिन् काव्ये वाच्यार्थात् व्यङ्गथार्थो प्राधा यं तत्काव्यमुत्तमं ध्वान्र्रिति च अग्रपदिश्यते । यत्र व्यङ्गथार्थो वाच्यादेरुपसर्जनी भवाति तन्मध्यमं गुणीचूतव्यमिति चोच्यते । यत्र पुनव्यंङ्गथ र्यस्फुटत्वं चित्रशब्दार्थाविएबाक्षतप्राधान्यवतकाव्यमघमं शब्दचित्रमर्थचित्रनिति च द्विधा प्रतिपादितम् । घीमद नंदवर्धनाचार्याभिनयगुप्तपादास्तु काव्यस्यनवे ध्वनिं शरीरत्ववेतध्वनि शरीरत्वेन शब्दार्यै क्ष्रात्नभूपरसादिघर्भत्वेन दोषगुणालंकाराणामवस्थानं युकिमदेव शब्दार्थयोर्वैनिमुखेन वैशिष्टयं प्रत्वपादयन् । भामहस्तु अःव्ररूपधर्ममुखेन । वामनो हि गृणरूपधत्ममु न । तश्च वक्रतिव्यपदेशेन भणितेवैचित्र्येण व्याफारण । भनायकः किल भोकृत्वेन वाघशरेण शब्दार्थ {{rule}}<noinclude>{{c|१ ऋजूष-अपूपादप बनgrशभयादिः ।}}</noinclude> e9c9c21hj2vevv5jjwp53aixd5mal6n पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९ 104 67636 415902 152060 2026-05-20T11:14:03Z Swaminathan sitapathi 4227 /* शोधितम् */ 415902 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=( ४ )|center=अभिज्ञानशाकुन्तलम् ।|right=[ प्रथमः}}</noinclude>येत्यस्य नस्थानस्थपदत्वम् । यां च सर्वेषां बीजानां प्रकृतिर्योनिरित्याहुः।अनेन पृथिवी । ‘प्रकृतिः सहजे योनावमात्ये परमात्मनि' इति विश्वः । अत्रापि सर्वबीजोत्पत्तिहेतुत्वेनेतिन कर्मण उक्तवान्प्रकृतिरितेि प्रथमा । तथा च वामनः-`निपातेनाप्यभिहते कर्मणि न कर्मविभक्तिः । परिगणनस्य प्रायिकत्वात्’ इति । यया च प्राणिनः प्राणवन्त इत्यत्र प्राणिनो जन्मिन इति । ‘प्राणी तु चेतन जन्मी' इत्यमरः ? रूढथा सामान्यमुद्दिश्य प्रणवन्त इति विशिष्टस्य विधानम् । अन्यथा पर्यायोच्चारण एकस्य पौनरुक्त्यं स्यात् । प्राशम्ये चात्र मतुप् । “ भूमनिन्दाप्रशंसासु ’ इत्याधुक्तेः । हृदि प्राणवायुर्जीवात्मन आश्रयस्तद्वन्तः । ‘हंस: प्राणाश्रयो नित्यम् ’ इत्युक्तः । तेन जीववन्तश्च बलवन्तश्चेत्यर्थः । एतेन सर्वातिशयो व्यज्यते । ‘प्राणो हृन्मारुते वाले काव्ये जीवऽनिले बले । पूरित वाच्यवस्प्राणं प्राणाश्वसुषु कीर्तिताः ? इति विश्वः । अतश्च न {{rule}} योवैशिपृयं प्रत्यपादयन् । इह काव्ये चेदशन्नगणव्यतिरेकेण वा चकलाक्षणिकत्र्यंजकव्यपदेशभाजः शब्दान्निविधा भवति । याचकलक्षणैकः शब्दः सर्वेपां साधरणो व्यंजकः शब्दस्वीकारः पुनरसाधारणः । अभिधालक्षणाव्यापारगम्ययोरर्थयोरभिधेयलययोरुपरि रसादिरूपः कश्चिदर्थः काव्ये समुपलभ्यने । स तु स्थक्षयार्थं एव । केचित्सृज्यत इति ग्रांप्रीति भृग्ष्टरिति कर्मण्युत्पत्ति वदन्ति । अत्र व्युत्पत्तौ केचिदेनं पारंचोदयंति "स्त्रिया क्तिन्' इति क्तिनों घत्रपवादरय भावार्थकारस्वाद्भावग्न्पग्न्भेव प्रोद्गीयते, सिद्धिः शुद्धिरेिक्ष्यदिवत् " अकर्तरि च करके संज्ञायाम्" इति एतद्वञपवादत्वे क्तिनोऽपि संज्ञायामेव पर्यवसानं स्याद् यथा श्रुतिः स्मृतेरिति । इदं नु श्रुटेिशब्दैन न कस्यापि मृत्यवस्तुनः संज्ञा गम्यत इति कर्मव्युत्पत्त्यनुपपत्तिरिति। अत्रोच्यते अत्रोच्यते "अकर्तरि च कारके ” इत्यत्र संज्ञायामित्युपाधिवचनं प्रायिकाभिप्रायं चशब्दाय संज्ञायामिवासंज्ञायामपि कर्मत्वादिः संपनीप्रद्यत इति यमुर्रव्याख्यातृभिः सेवन्भुमनुवर्तिष्यत इति फणिपतिफणितौ संबध्यत इति संबंधः कर्मणि घजिति न्यायाथि अतस्तदपवादत्वात् क्त्तिनोऽपि कर्मादिव्युत्पत्तिः सूपपादेति सृष्टिशब्देनेह सृष्टमेव दरवभिधीयते तच सृष्टिपदं त्वाद्यपदविशेषणत्रिशिष्टं सद्वचफमेव जलस्येति । विधिहुतमिति । विधिः प्रेरणा तद्वचछिष्टादिविशिष्टं विद्युद्देशवाक्यमवयवावयविसंबन्धजन्य लक्षणय विधिरित्यभिधीयते । एतद्विध्युद्देशकांक्षित लदेशद्रव्यकर्मादिप्रतिपादकं दर्शपूर्णमासादिप्रकरणमपि लक्षतलक्ष्णया विधरिषभाणि । अथवा वाक्यैकवाक्यभ्यायेनावान्तरवावयभूताधिकार विधिवनियेगविधिप्रयोगविधियावयविशिष्टपूर्वचिथिवषयगतलिडादिविधिरित्युच्यते । तेन विधिना करणभूतेन हुतं प्रक्षिप्तं हविः पुरोडाशादिकं<noinclude></noinclude> euwd5cm1yds8a4avrligjaa72yo9ehg प्रासादमण्डनम् 0 164242 415894 2026-05-20T05:29:33Z Shubha 190 {{header | title = प्रासादमण्डनम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00170 Uniform title: prāsādamaṇḍana Author : sūtradhāramaṇḍana Editor :... नवीन पृष्ठं निर्मीत अस्ती 415894 wikitext text/x-wiki {{header | title = प्रासादमण्डनम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00170 Uniform title: prāsādamaṇḍana Author : sūtradhāramaṇḍana Editor : śāstrī j z Description: Photographic facsimiles from vol 72 of the Kashmir Series of Texts and Studies. Notes: Etext created by the staff of Muktabodha under the direction of Anirban Dash. Revision 0: Sept. 21, 2024 Publisher : Research Department Jammu and Kashmir State Publication year : 1947 Publication city : Srinigar Publication country : India ---- प्रासादमण्डनम् श्रीसूत्रधारमण्डनविरचितम् श्रीराजराजेश्वर-महाराजाधिराज-कश्मीरनरेन्द्र श्रीहरिसिंहजी बहादुराज्ञया रिसर्चकार्यालयाध्यक्ष पण्डितजगद्धरजाडूशास्त्रिणा उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन संशोधनादिसंस्करणोत्तरं संपाद्य श्रीनगरे दुर्गाप्रेस नाम्नि मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतम् | संवत् २००४ सन्न ईस्वी १९४७ कश्मीर-श्रीनगर अस्य ग्रन्थस्य मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्ययैः स्वायत्तीकृताः सन्ति | विषयानुक्रमणी संख्या विषयः पार्श्वे १. ग्रन्थावतरणिका १ २. ग्रन्थकृन्नामनिरूपणम् १ ३. देवप्रार्थनया शिवस्य प्रासादनिरू० २ ४. भूपरीक्षण् २ ५. भूसेकः २ ६. वास्तुलेखननिरू० २ ७. तदधिष्टातृदेवपूजा २ ८. त्याज्यदिनानि २ ९. खातविधिविधानम् ३ १०. कूर्मस्थापनम् ३ ११. शिलास्थापने पूजाबलिदानम् ३ १२. शिलाविन्यासयोगाः ४ १३. देवायतननिरू० ४ १४. तत्तद्द्रव्यजे तत्तत्फलानि ४ १५. प्रासादप्रमाणनिरू० ४ द्वितीयोऽध्यायः | १६. प्रासादनिर्माणनिरू० ५ १७. प्रासादप्रकारनिरू० ६ १८. प्रासादे देवप्रतिष्ठा० ७ १९. देवप्रदक्षिणानिरू० ८ २०. देवदृष्टिदोषनिरू० ८ २१. गणेशायतनम् ८ २२. विष्णोरायतनम् ९ २३. चण्डिकायतनम् ९ २४. शिवायतनम् ९ २५. त्रिपुरुषन्यासनिरू० ९ तृतीयोऽध्यायः | २६. भिदृनिरूपणम् ९ २७. पीठस्थापननिरू० १० २८. मण्डोवरः ११ २९. मेरुमण्डोवरः ११ ३०. सामान्यमण्डोवरः १२ ३१. मण्डोवरप्रकारान्तरम् १२ ३२. गर्भगृहोदयप्रमाणम् १२ ३३. उटुम्बरनिरूपणम् १३ ३४. अर्धचन्द्रनिरू० १३ ३५. नागरप्रासादद्वारनिरू० १३ ३६. भूमिजद्धारनिरू० १४ ३७. द्राविडद्वारनिरू० १४ ३८. द्वारप्रमाणनिरू० १४ ३९. त्रिशाखानिरू० १४ ४०. पञ्चशाखानिरू० १५ ४१. सप्तशाखानिरू० १५ ४२. नवशाखानिरू० १५ चतुर्थोऽध्यायः | ४३. प्रतिमाप्रमाणदृष्टिपदनिरू० १६ ४४. प्रासादस्योर्ध्वलक्षणम् १६ ४५. कलशनिरू० १९ ४६. ध्वजवक्षणपुण्याधिकारः १९ पञ्चमोऽध्यायः | ४७. सूत्रधारलक्षणम् २० ४८. नन्दननिरूपणम्० २१ ४९. सिंहकनिरू० २२ ५०. पञ्चाङ्गतिलकनिरू० २२ ५१. सप्ताङ्गतिलकनिरू० २२ ५२. भद्रप्रमाणनिरू० २३ षष्ठोध्यायः | ५३. पञ्चविंशतिप्रासादनिरू० २४ ५४. पञ्चक्षेत्रनिरू० २६ ५५. प्रासादानां जातयः २६ ५६. मेरुभेदनिरू० २६ ५७. सुरवल्लभनामनिर्देशः २७ ५८. भुवनमण्डननिर्देशः २७ ५९. रत्नशीर्षनिरू० २७ ६०. कमलहंसनिरू० २७ ६१. नवमेरुनिरू० २८ सप्तमोऽध्यायः | ६२. मण्डपनिरू० २९ ६३. अष्टगूढमण्डपाः २९ ६४. द्वादशमण्डपनिरू० ३० ६५. सामान्यमण्डपनिरू० ३० ६६. पञ्चविधवलानकनिरू० ३१ ६७. मण्डपस्योर्ध्वसंवर्णाः ३१ अष्टमोऽध्यायः | ६८. वास्तुनिरूपणम् ३२ ६९. जीर्णोद्धारनिरू० ३३ ७०. अचाल्यलिङ्गनिरू० ३३ ७१. भिन्नदोषनिरू० ३३ ७२. स्तम्भदोषनिरू० ३४ ७३. देवपुरराजपुरनिरू० ३४ ७४. मठनिरूपणम् ३४ ७५. प्रतिष्ठाविधिः ३५ ७६. मण्डपनिरू० ३६ ७७. कुण्डनिरूपणम् ३६ ७८. होमप्रमाणम् ३७ ७९. मण्डलप्रमाणम् ३७ ८०. स्थण्डिलमानम् ३७ ८१. स्थण्डिलपरिषेकः ३८ ८२. दिग्देवतास्थितिनिरू० ३८ ८३. स्थण्डिलार्चानिरू० ३९ ८४. स्थावरप्रतिष्ठा ४० ८५. सूत्रधा**रार्चा ४० ८६. प्रतिष्ठाविधिः ४० ८७. जिनप्रतिष्ठा ४० ८८. वास्तूत्पत्तिनिरू० ४१ ८९. चतुष्षष्टिवास्त्वर्चा ४२ ९०. वास्तुपुरुषन्यासः ४३ ९१. ग्रन्थसमाप्तिः ४३ पृ० १) प्रासादमण्डनं श्रीसूत्रधारमण्डनविरचितम् | श्रीगणेशाय नमः | श्रीकरञ्जेश्वर्घ्यै नमः || गणेशाय नमस्तस्मै निर्विघ्नं सिद्धिहेतवे | आदिगौरीसमुद्भूततेजसोंशभवाय वै || १ || महामायेति या गीता चिन्मयी मुनिसत्तमैः | तनोतु वाग्विलासं मे जिह्वायां सा सरस्वती || २ || सृष्टं श्रीसूत्रधारस्य प्रसादाद् विश्वकर्मणा | प्रासादमण्डनं ब्रूते सूत्रधारेषु मण्डनः || ३ || गृहेषु यो विधिः प्रोक्तो विनिवेशप्रवेशने | स एव विधिना कार्यो देवतायतनेष्वपि || ४ || हिमाद्रेरुत्तरे पार्श्वे देवदारुवनं परम् | पावनं शङ्करस्थानं तत्र सर्वैः शिवोऽर्चितः || ५ || ------------ १ वेश्म इति पाठान्तरम् | पृ० २) प्रासादाकारपूजाभिर्देवदैत्यादिभिः क्रमात् | चतुर्दश समुत्पन्नाः प्रासादानां च जातयः || ६ || नागरा द्राविडाश्चैव भूमिजा लविनास्तथा | सार्वधारा विमानादिनागराः पुष्पकाङ्किताः || ७ || प्रासादमिश्रकाश्चैवमष्टौ जातिषु चोत्तमाः | सर्वदेवेषु कर्तव्याः शिवस्यापि विशेषतः || ८ || प्रासादानां च सर्वेषां जातयो देशभेदतः | चतुर्दश प्रवर्तन्ते ज्ञेया लोकानुसारतः || ९ || लक्ष्यलक्षणतोऽभ्यासाद् गुरुमार्गानुसारतः | प्रासादभवनादीनां सर्वज्ञानमवाप्यते || १० || शुभलग्ने शुभर्क्षें च पञ्चग्रहबलान्विते | माससङ्क्रान्तिवत्सादिनिषेधे कालवर्जिते || ११ || सर्वदिक्षु प्लवां वा प्रागुदक्शङ्करदिक्प्लवाम् | भुवं परीक्ष्य सिञ्चेत् तु पञ्चगव्येन कोविदः || १२ || मणिना स्वर्णरूप्येण विद्रुमेण फलेन वा | चतुःषष्टिपदैर्वास्तुं लिखेद्वापि शतांशकैः || १३ || पिष्टेन वाक्षतैरूर्ध्वं ततो वास्तुं समर्चयेत् | पूर्वोक्तेन विधानेन बलिपुष्पादिपूजनैः || १४ || इन्द्रो वह्निः पितृपतिर्नैरृतिर्वरुणो मरुत् | कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् || १५ || दिक्पालाः क्षेत्रपालाश्च गणेशश्चण्डिका तथा | इत्येषां विधिवत्पूजां कृत्वा कर्म समारभेत् || १६ || धनुर्मीनस्थिते सूर्ये गुरौ शुक्रेऽस्तगे विधौ | वैधृतौ व्यतिपाते भेदग्धे नेष्टं कदाचन || १७ || पृ० ३) कन्यादित्रित्रिगे सूर्ये द्वारं पूर्वादिषु त्यजेत् | सृष्ट्या वत्समुखं तत्र स्वामिनो हानिकृद्यतः || १८ || आयो व्ययर्क्षमंशस्य भित्तिबाह्ये सुरालये | ध्वजायो देवनक्षत्रं व्ययांशौ प्रथमौ शुभौ || १९ || केषां च मरुतां गेहे वृष सिंह गजाः शुभाः | हीन आयाद् व्ययः श्रेष्ठः पिशाचस्तु समोऽधिकः || २० || देवतानां गृहे चिन्त्यमायाद्यङ्गचतुष्टयम् | नवाङ्गं नाडिवेद्यादिस्थापकाभ . . . . योर्मिथः || २१ || आयादिचिन्तनं भूमिलक्षणं वास्तुमण्डलम् | मासनक्षत्रलग्नादिचिन्तनं पूर्वशास्त्रतः || २२ || रात्रौ दिक्साधनं कुर्याद् दीपसूत्रध्रुवैक्यतः | समे भूमिप्रदेशे तु शङ्कुना दिवसेऽथवा || २३ || नागवास्तुं समालोक्य कुर्यात् खातविधिं सुधीः | पाषाणान्तं जलान्तं वा ततः कूर्मं निवेशयेत् || २४ || अर्धाङ्गुलो भवेत्कूर्म एकहस्ते सुरालये | अर्धाङ्गुला ततो वृद्धिः कार्या तिथिकरावधिः || २५ || एकत्रिशत्करान्तं च तदर्धा वृद्धिरिष्यते | ततोऽर्द्धादि शतार्द्धान्तं कूर्मो मन्वङ्गुलो मतः || २६ || चतुर्थांशाधिको ज्येष्ठः कनिष्ठो हीनयोगतः | सौवर्णो रूप्यजो वापि स्नाप्यः पञ्चासृतेन हि || २७ || तिलैर्यवैस्तथा होमं पूर्णां चैव प्रदापयेत् | ईशानादग्निकोणाद्वा शिलाः स्थाप्याः प्रदक्षिणाः || २८ || मध्ये कूर्मशिला पश्चाद्गीतवादित्रमङ्गलैः | बलिदानं च नैवेद्यं विविधान्नं घृतप्लुतम् || २९ || पृ० ४) देवताभ्यः सुधीर्दद्यात् कूर्मन्यासे शिलासु च | इति कूमस्थापनम् | सूत्रारम्भो गृहादीनामुत्तरायां करत्रये | ब्राह्मे पुष्ये मृगे मैत्रे पौष्णवासववारुणे || ३० || शिलान्यासस्तु रोहिण्यां श्रवणे हस्तपुष्ययोः | मृगशीर्षे च रेवत्यामुत्तरात्रितये शुभः || ३१ || नद्यां सिद्धाश्रमे तीर्थे पुरे ग्रामे च गह्वरे | वाटीवापितडागादिस्थाने कार्यं मुरालयम् || ३२ || शक्त्या काष्ठमृत्स्नेष्टकाशैलधातुजरत्नजम् | देवतायतनं कुर्याद्धर्मार्थकाममोक्षदम् || ३३ || देवानां स्थापनं पूजा पापहृद्दर्शनादिकम् | धर्मवृद्धिर्भवेदथः कामो मोक्षस्ततो नृणाम् || ३४ || कोटिघ्नं तृणजे पुण्यं मृन्मये दशसंगुणम् | ऐष्टके शतकोटिघ्नं शैलेऽनन्तं फलं गृहे || ३५ || कूर्मसंस्थापने द्वारे पद्माख्यायां तु पौरुषे | घटे ध्वजे प्रतिष्ठायामेवं पुण्याहसप्तकम् || ३६ || भूम्यारम्भे तथा कूर्मे शिलायां सूत्रपातने | खुरे द्वारोच्छ्रये कुम्भे पट्टे पद्मशिलासु च || ३७ || शुक्रनासे च पुरुषे घण्टायां कलशे तथा | ध्वजोच्छ्राय च कुर्वीत शान्तिकानि चतुर्दशं || ३८ || एकहस्तादिप्रासादो यावद्धस्तशतार्धकम् | प्रमाणं कुम्भके मूलनासिके भित्तिबाह्यतः || ३९ || कुम्भादिस्थावराणां च निर्गमः समसूत्रतः | पीठस्य निर्गमो बाह्यस्तथैव च्छाद्यकस्य च || ४० || पृ० ५) त्रिपञ्चसप्तनवभिः फालनाभिर्विभाजयेत् | प्रासादमङ्गस्रंख्या च वारिमार्गान्तरस्थिताः || ४१ || फालना कर्णतुल्या स्याद्भद्रं तु द्विगुणं समम् | सामान्योऽयं विधिस्तुल्यो हस्ताङ्गुलश्च निर्गमः || ४२ || इति श्रीसूत्रधारमण्डनविरचिते प्रासादमण्डने वास्तुशास्त्रे मिश्रकलक्षणे प्रथमोऽध्यायः || १ || अथ द्वितीयोऽध्यायः | प्रासादानामधिष्ठानं जगती सा निगद्यते | यथा सिंहासनं राज्ञां प्रासादस्य तथैव सा || १ || चतुरस्रायताष्टास्रा वृत्ता वृत्तायता तथा | जगती पञ्चधा प्रोक्ता प्रासादस्यानुरूप्यतः || २ || प्रासादपृथुमाना च त्रिगुणा च चतुर्गुणा | क्रमात् पञ्चगुणा प्रोक्ता ज्येष्ठा मध्या कनीयसी || ३ || कन्यसे कन्यसा ज्येष्ठा ज्येष्ठे मध्ये च मध्यमा | प्रासादे जगती कार्या सुरूपा लक्षणान्विता || ४ || रससप्तगुणाख्याता निजे पर्यायसंस्थिता | द्वारकायां तु कर्तव्या तथैव पुरुषत्रये || ५ || मण्डपानुक्रमेणैव सपादांशेन सार्द्धतः | द्विगुणा वायता कार्या सहस्रायतने विधिः || ६ || त्रिद्व्येकभ्रमसंयुक्ता ज्येष्ठा मध्या कनीयसी | उच्छ्रयः स्वत्रिभागेन भ्रमणीनां समुच्छ्रयः || ७ || चतुष्कोणैस्तथा सूर्यकोणैर्विंशतिकोणकैः | अष्टाविंशतिषट्त्रिंशत्कोणैः स्युः पञ्च फालनाः || ८ || पृ० ६) प्रासादादर्कहस्तान्तं त्रिंशोच्चा विंशती च सा | द्वात्रिंशती चतुर्थांशो भूतांशोच्चा शतार्द्धक || ९ || एकहस्ते करेणोच्चा साध्यार्धं सा चतुष्करे | सूर्यजैनशतार्द्धान्तं क्रमाद्द्वित्रियुगांशकैः || १० || तदुच्छ्रायं भजेत् प्राज्ञस्त्वष्टाविंशतिभिः पदैः | त्रिपदो जाड्यकुम्भश्च द्विपदं कणकं तथा || ११ || पद्मपत्रसमायुक्ता त्रिपदा सरपट्टिका | द्विपदं खुरकं कुर्यात् सप्तभागं च कुम्भकम् || १२ || कलशस्त्रिपदः प्रोक्तो भागेनान्तरपत्रकम् | कपोतालिस्त्रिभागे च पुष्पकण्ठो युगांशकैः || १३ || पुष्पको जाड्यकुम्भश्च निर्गमश्चाष्टभिः पदैः | कर्णेषु च दिशांपालाः प्राच्यादिषु प्रदक्षिणाः || १४ || प्राकारैर्मण्डिता कार्या चतुर्भिर्द्वारमण्डपैः | प्राकारैर्जलनिष्कासैः सोपानैस्तोरणादिभिः || १५ || मण्डपाग्रे प्रतोल्यग्रे सोपानं शुण्डिकाग्रतः | तोरणं कारयेत् तस्य पट्टं पट्टानुसारतः || १६ || तोरणस्योमयोः स्तंभविस्तरं गर्भमानतः | भित्तिगर्भप्रमाणेन तयोर्मध्येऽथवा भवेत् || १७ || वेदिकापीठरूपैश्च शोभाभिर्बहुभिर्युता | विचित्रं तोरणं कुर्याद् दोला देवस्य तत्र च || १८ || प्रासादाद्वाहनस्थाने करणीया चतुष्किका | एकद्वित्रिचतुष्पञ्चरससप्तपदान्तरे || १९ || अर्चाया नवमांशे तु पञ्चषट्सप्तभागिकः | गुह्यनाभिस्तनान्तं वा त्रिविधो वाहनोदयः || २० || पृ० ७) पादजानुकटीयावदर्चायां वाहनस्य दृक् | वृषस्य विष्णुभागान्ते सूर्ये व्योमस्तनान्तकम् || २१ || जिनाग्रे समवर्णाग्रं शुकाग्रे गूढमण्डपे | गूढस्याग्रे चतुष्का स्यात्तदग्रे नृत्यमण्डपम् || २२ || द्विसप्तत्या द्विबाणैर्वा चतुर्विंशतितोऽपिवा | जिनालये चतुर्दिक्षु सहितं जिनमन्दिरम् || २३ || मण्डपाद् गर्भसूत्रेण वामदक्षिणयोर्दिशोः | अष्टापदं प्रकर्तव्यं त्रिशाला वा वराणकम् || २४ || अपरे रथशाला च मठं याम्ये प्रकीर्तितम् | उत्तरे रथरन्ध्रं च प्रोक्तं श्रीविश्वकर्मणा || २५ || जगतीं तादृशीं कुर्यात्प्रासादो यादृशो भवेत् | भिन्नच्छन्दा न कर्तव्या प्रासादासनसंस्थिस्ता || २६ || इति प्रासादजगती | अग्रतः पृष्ठतश्चैव वामदक्षिणतोऽपिवा | प्रासादं कारयेदन्तर्नाभिवेधविवर्जितम् || २७ || लिङ्गाग्रे नतु कर्तव्या अर्चारूपेण देवता | प्रभा नष्टा न भोगाय यथा तारा दिवाकरे || २८ || शिवस्याग्रे शिवं कुर्याद् ब्रह्माणं ब्रह्मणोऽग्रतः | विष्णोरग्रे भवेद्विष्णुर्जिनो जैने रवौ रविः || २९ || ब्रह्मविष्णुरेकनाभिर्द्वाभ्यां दोषो न विद्यते | शिवस्याग्रेऽन्यदेवस्य दृष्टिवेधे महद्भयम् || ३० || प्रसिद्धराजमार्गस्य प्राकारस्यान्तरेऽपिवा | स्थापयेदन्यदेवांश्च तत्र दोषो न विद्यते || ३१ || शिवस्नानोदकं गूढमार्गं चण्डीमुखे क्षिपेत् | पृ० ८) दृष्टं न लङ्घयेत् तत्र हन्ति पुण्यं पुराकृतम् || ३२ || एका चण्ड्या रवेः सप्त तिस्रो दद्याद्विनायके | चतस्रो वासुदेवस्य शिवस्यार्धा प्रदक्षिणा || ३३ || अग्रतो जिनदेवस्य स्तोत्रमन्त्रार्चनादिकम् | कुर्यान्न दर्शयेत्पृष्ठं संमुखं द्वारलङ्घनम् || ३४ || पूर्वापरामुखद्वारे प्रणालं शुभमुत्तरे | इति शास्त्रविचारोऽयमुत्तरेशानदेवताः || ३५ || मण्डपे ये स्थिता देवास्तेषां वामे च दक्षिणे | प्रणालं कारयेद्धीमान् जगत्यां च चतुर्दिशम् || ३६ || पूर्वापरास्यं देवानां कुर्यान्नो दक्षणोत्तरम् | ब्रह्मविष्णुशिवार्केन्द्रगुहाः पूर्वापराङ्मुखाः || ३७ || नगराभिमुखाः श्रेष्ठा मध्ये बाह्ये च देवताः | गणेशो धनदो लक्ष्मीः पुरद्वारे सुखावहाः || ३८ || विघ्नेशो भैरवश्चण्डी नकुलीशो ग्रहास्तथा | मातरो धनदश्चैव शुभा दक्षिणदिङ्मुखाः || ३९ || निरृत्यभिमुखः कार्यो हनुमान् वानरेश्वरः | अन्ये विदिङ्मुखा देवा न कर्तव्याः कदाचन || ४० || इति देवानां दृष्टिदोषदिग्विभागः | सूर्याद्गणेशो विष्णुश्च चण्डी शम्भुः प्रदक्षिणे || ४१ || भानोगृहे ग्रहास्तस्य गणा द्वादश मूर्तयः | श्रीसूर्यः . . . . . . . . . . . . | गणेशस्य गृहे तद्वच्चण्डी शंभुर्हरी रविः || ४२ || मूर्तयो द्वादशान्येऽपि गणाः स्थाप्या हिताश्च येः | इति गणेशायतनम् || ४३ || पृ० ९) विष्णोः प्रदक्षिणेनैव गणेशोऽर्कोऽम्बिका शिवः | स्थाप्यास्तस्थावतारस्य मूर्तयो द्वारकां तथा || ४४ || इति विष्णोवायतनम् | चण्ड्याः शंभुर्गणेशोऽर्को विष्णुःस्थाप्याः प्रदक्षिणाः | मातरो मूर्तयो देवा योगिन्यो भैरवादयः || ४५ || इति चण्डिकायतनम् | शंभोः सूर्यो गणेशश्च चण्डी विष्णुः प्रदक्षिणे | स्थाप्याः सर्वे शिवस्थाने दृष्टिवेधविवर्जिताः || ४६ || इति शिवायतनम् | रुद्रस्त्रिपुरुषो मध्ये रुद्राद्वामगतो हरिः | दक्षिणाङ्गे भवेद्ब्रह्मा विपर्यासे भयावहाः || ४७ || रुद्रवक्त्रत्रिभागेन हरिरर्द्धे पितामहः | तत्तुल्या पार्वतीदेवी सुखदा सर्वकामदा || ४८ || इति त्रिपुरुषन्यासः || इति प्रासादमण्डने जगतीदृष्टिदोषायतनाधिकारे द्वितीयोऽध्यायः || २ || अथ तृतीयोऽध्यायः | अतिस्थूलातिविस्तीर्णा प्रासादाधारिणी शिला | अतीव सुदृढा कार्या इष्टिकाचूर्णवारिभिः || १ || शिलोपरि भवेद्भिट्टमेकहस्ते युगाङ्गुलम् | अर्धाङ्गुला भवेद्वृद्धिर्यावद्धस्तशतार्धकम् || २ || अङ्गुलेनांशहीनेन अर्धेनार्धेन च क्रमात् | पृ० १०) पञ्चदिग् विंशतिर्यावच्छतार्धं च विवर्धयेत् || ३ || एकद्वित्रीणि भिट्टानि हीनहीनानि कारयेत् | स्वस्वोदयप्रमाणस्य चर्तुर्थांशेन निर्गमः || ४ || इति भिट्टः | पीठमर्धं त्रिपादांशैरेवं द्वित्रिकरे गृहे | चतुर्हस्ते त्रिसार्द्धांशं पादांशं पञ्चहस्तके || ५ || दशविंशतिषट्त्रिंशच्शतार्द्धं हस्तकावधि | वृद्धिर्वेदत्रियुग्मैकसंख्या स्यादङ्गुलैः क्रमात् || ६ || पञ्चांशहीनमाधिक्यमेकैकं तु त्रिधा पुनः | त्रिपञ्चाशत् समुत्सेधे द्वाविंत्यंशनिर्गमे || ७ || नवांशो जाड्यकुम्भश्च सप्तांशं कणकं भवेत् | सान्तरालं कपोतालिः सप्तांशा ग्रासपट्टिका || ८ || सूर्यदिग्वसुभागैश्च गजवाजिनराः क्रमात् | वाजिस्थानेऽथवा कार्यं स्वं स्वं देवस्य वाहनम् || ९ || पञ्चांशा कणिकाग्रे तु निर्गमो जाड्यकुम्भकम् | त्रिसार्द्धं कणकं सार्द्धं चतुर्भिर्ग्रासपट्टिका || १० || कुम्भराश्च नरा वेदा रामयुग्मांशनिर्गमः | अन्तरालमधस्तेषामूर्ध्वार्धकर्णयुग्मकम् || ११ || गजपीठं विना स्वल्पद्रव्ये पुण्यं महत्तरम् | जाड्यकुम्भः कणाली च ग्रासपट्टी तदा भवेत् || १२ || कामदं कणपीठं च जाड्यकुम्भः कणालिका | लतिने निर्गमे हीने साधारे निर्गमाधिकम् || १३ || सर्वेषां पीठमाधारः पीठहीनं निराश्रयम् | पीठहीनं विनाशाय प्रासादभुवनादिकम् || १४ || पृ० ११) इति पीठम् | हस्तादिपञ्चपर्यन्तं विस्तारेणोदयः समः | स क्रमान्नवसप्तेषुरामचंद्रौङ्गुलोऽधिकः || १५ || पञ्चादिदशपर्यन्तं त्रिंशद्यावच्छताधकम् | हस्ते हस्ते क्रमाद्वृद्धिर्मनुसूर्यनवाङ्गुला || १६ || एकहस्तादिपञ्चान्तं पृथुत्वेनोदयः समः | हस्ते सूर्याङ्गुला वृद्धिर्यावत्त्रिंशत्करावधि || १७ || नवाङ्गुला करे वृद्धिर्यावद्धस्तशतार्द्धकम् | पीठोर्द्धे उदयश्चैव छाद्यान्ते नागरोधिकम् || १८ || एकविंशत्पञ्चभक्तेः प्रासादस्य समुच्छ्रयः | पञ्चादिनवभागान्तं पीठस्य पञ्चधोदयः || १९ || वेदवेदेन्दुभक्ते तु छाद्यान्ते पीठमस्तकात् | खुरकः पञ्चभागं स्याद्विंशतिःकुम्भकस्तथा || २० || कलशोऽष्टौ द्विसार्धं तु कर्तव्यमन्तरालकम् | कपोतिकाष्टौ मञ्ची स्यात् कर्तव्या नवभागिका || २१ || पञ्चत्रिंशत्पदा जङ्घा तिथ्यंशैरुद्गमो भवेत् | वसुभिर्भरणि कार्या शिरापट्टी दशांशिका || २२ || अष्टांशोर्ध्वा कपोतालिर्द्धिसार्धमन्तरालकम् | छाद्यं त्रयोदशांशोच्चं दशभागैर्विनिर्गमः || २३ || इति मण्डोवरः | मेरुमण्डोवरे मञ्ची भरण्यूर्द्धेऽष्टभागिका | पञ्चविंशतिका जङ्घा उदग्मश्च त्रयोदश || २४ || अष्टांशा भरणी शेषं पूर्ववत्कल्पयेत्सुधी | सप्तभागा भवेन्मञ्ची कूटछाद्यस्य मस्तके || २५ || पृ० १२) षोडशांशा पुनर्जङ्घा भरणी सप्तभागिका | शिरावटी चतुर्भागा पट्टःस्यात्पञ्चभागिकः || २६ || सूर्यांशैः कूटछाद्यञ्च सर्वकामफलप्रदम् | कुम्भकस्य युगांशेन स्थावराणां प्रवेशकः || २७ || इति मेरूमण्डोवरः | शिरावट्युद्गमो मञ्ची जङ्घारूपाणि वर्जयेत् | अल्पद्रव्ये महत्पुण्यं कथितं विश्वकर्मणा || २८ || इति सामान्यमण्डोवरः | पीठतः छाद्यपर्यन्तं सप्तविंशतिभाजिते | द्वादशानां खुरादीनां भागसंख्या क्रमेण तु || २९ || स्यादेकवेदसार्धाद्धं सार्धस्यार्द्धाष्टमिस्त्रिभिः | सार्द्धस्यार्धार्धभागैः स्याद्द्विसार्धैर्द्व्यंशनिर्गमः || ३० || इति प्रकारान्तरेण मण्डोवरः | पादांशेनैष्टक पञ्चषडंशैः शैलदारुजे | साधारऽष्टांशतो भित्तिर्दशांशैर्धातुरत्नजे || ३१ || मध्ये युगास्रं भद्रार्द्धा सुभद्रं प्रदिभद्रकम् | फालनीयं गर्भगृह दोषदं गर्भमायतम् || ३२ || कुम्भकेन समा कुम्भी स्तम्भप्रान्तज उद्गमः | भरण्या भरणं शीर्षं कपोताल्या समं भवेत् || ३३ || पेटके कटुछाद्यस्य कुर्यात्पट्टस्य पेटकम् | सषडंशः सपादस्य सार्धो गर्भस्य विस्तरात् || ३४ || बृहद्देवालये पट्टे पेटान्तं हि त्रिधोदयः | भवेदष्टाभिरेकांशा कुम्भस्तम्भोऽर्द्धपञ्चभिः || ३५ || अर्धेन भरणि शीर्षमेकः पट्टस्तु सार्द्धकम् | पृ० १३) व्यासार्धेन करोटं स्यादर्द्धयोविषमाश्रुता || ३६ || इति गर्भगृहोदयप्रमाणम् | मूलकर्णैश्च सूत्रेण कुम्भेनोदुम्बरः समः | तदधः पञ्चरत्नानि स्थापयेत् शिल्पिपूजनात् || ३७ || द्वारन्यासे त्रिभागेन मध्ये मन्दारको भवेत् | वृत्तं मन्दारकं कुर्यात् मृणालं पद्मसंयुतम् || ३८ || जाड्यकुम्भः कणाली च कीर्तिवक्त्र द्वयं तथा | उदुम्बरस्य पार्श्वे च शाखायां स्तलरूपकम् || ३९ || कुम्भस्यार्धे त्रिभागे वा पादेहीन उदुम्बरः | तद्द्वयं कणकं मध्ये पीठके बाह्यभूमिका || ४० || इति उदुम्बरः | खुरकेन समं कुर्यादर्धचन्द्रस्य चोच्छ्रितिः | द्वारव्याससम दैर्घ्यं निर्गमञ्च तदर्धतः || ४१ || द्विभागमर्धचंद्रं च भागेन द्वौ गगारकौ | शङ्खपत्रसमायुक्तं पद्माकारैरलङ्कृतम् || ४२ || इति अर्धचन्द्रः | एकहस्ते तु प्रासादे द्वारं स्यात्षोडशाङ्गुलम् | षोडशाङ्गुलिका वृद्धिर्यावद्धस्तचतुष्टयम् || ४३ || अष्टहस्तान्तकं यावद्दीर्घे वृद्धिर्गुणाङ्गुला | द्व्यङ्गुलमतिहस्तञ्च यावद्धस्तशतार्धकम् || ४४ || यावद् वाहनपर्यङ्कद्वारं प्रासादसद्मनाम् | दैध्यार्धेन पृथुत्वे स्याच्छोभनं तत्कलाधिकम् || ४५ || इति नागरप्रासादद्वारम् | एकहस्ते सुरागारे द्वारं सूर्याङ्गुलोदयम् | पृ० १४) सूर्याङ्गुला प्रतिकरं वृद्धिःपञ्चकरावधिः || ४६ || पञ्चाङ्गुला च सप्तान्त द्व्यङ्गुला तु शतार्धके | नवान्तं स्याद्युगाङ्गुलं वृद्धिः कार्या करं प्रति || ४७ || इति भूमिजे द्वारम् | प्रासादे चैकहस्ते तु द्धारं कुर्याद्दशाङ्गुलम् | रसहस्तान्तकं यावत् तावता वृद्धिरिष्यते || ४८ || पञ्चाङ्गुलाद्दशान्तं च द्वयङ्गुलं वा शतार्धकम् | . . . . . . . . . . . . . . . || ४९ || इति द्राविडे द्वारम् | विमाने भौमजं मानं विराटेषु तथैव च | मिश्रके लतिने चैव प्रशस्तं नागरोद्भवम् || ५० || विमाननगरछन्दे कुर्यात् विमानपुष्पके | सिंहावलोकने द्वारं नागरं शोभनं मतम् || ५१ || वलभ्यां भौमजं मानं फासाकारेषु द्राविडे | धातुजे रत्नजे चैव दारुजे च रथारुहे || ५२ || इति द्वारप्रमाणम् | नवशाखं महेशस्य देवानां सप्तशाखिकम् | पञ्चशखं सावभौमे त्रिशाखं मण्डलेश्वरे || ५३ || एकशाखं भवेद्द्वारं वैश्ये शूद्रे द्विजे सदा | समशाखं धूमाय . . . श्वानरासभवायसे || ५४ || त्रिपञ्चसप्तनन्दाङ्गे शाखाःस्युरङ्गतुल्यकाः | हीनशाखं न कर्तव्यमधिकार्द्धं सुखावहम् || ५५ || अङ्गुल सार्धमर्द्धञ्च कुर्याद्धीनं तथाधिकम् | आपद्दोषविशुद्ध्यर्थं ह्रासो वृद्धिर्न दुष्यति || ५६ || पृ० १५) चतुर्भागाङ्कितं कुर्यात् शाखाविस्तारमानकम् | मध्ये द्विभागिकं कुर्यात् स्तम्भं पुरुषसंज्ञकम् || ५७ || त्रिसंज्ञका भवेत् शाखा पार्श्वतो भागभागिका | निर्गमे चैकभागेन रूपस्तम्भः प्रशस्यते || ५८ || एकांशं सार्द्धभागञ्च पादोनद्वयमेव च | द्विभागं निर्गमे कुर्यात् स्तम्भं द्रव्यानुसारतः || ५९ || पेटके विस्तरं कार्यं प्रवेशस्तु युगांशकम् | कोणिका स्तम्भमध्ये तु भूषणार्था हि पार्श्वतः || ६० || द्वारदैर्घ्यचतुर्थांशे द्वारपालो विधीयते | स्तम्भं शाखादिकं शेषे त्रिशाखावद्विभाजयेत् || ६१ || इति त्रिशाखम् | पत्रशाखा च गन्धर्वा रूपस्तम्भतृतीयके | चतुर्थी स्वल्पशाखा च सिंहशाखा च पञ्चमी || ६२ || इति पञ्चशाखा | प्रथमा पत्रशाखा च गन्धर्वा रूपशाखिका | चतुर्थी स्तम्भशाखा च रूपशाखा च पञ्चमी || ६३ || षष्ठी तु शल्यशाखा च सिंहशाखा च सप्तमी | स्तम्भशाखा भवेन्मध्ये रूपशाखाग्रसूत्रतः || ६४ || इति सप्तशाखाः || पत्रगन्धर्वसंज्ञा च रूपस्तम्भतृतीयके | चतुर्थी शल्यशाखा च गन्धर्वा त्वथ पञ्चमी || ६५ || रूपस्तम्भस्तथा षष्ठी रूपशाखा ततः परा | शल्यशाखा च सिंहाख्या मूलकर्णेन संमिता || ६६ || यस्य देवस्य या मूर्तिः सैव कार्योत्तराङ्गके | पृ० १६) शाखायाञ्च परीवारो गणेशश्चोत्तराङ्गके || ६७ || इति नवशाखा | इति प्रासादमण्डने वास्तुशास्त्रे पीठमण्डोवरगर्भगृह उदुम्बरप्रमाणं तृतीयोऽध्यायः || ३ || अथ चतुर्थोऽध्यायः | द्वारोच्छ्रायोऽष्टनवधा भागमेकं परित्यजेत् | शेषे त्र्यंशे द्विभागार्च्चा त्र्यंशोना द्वारतोऽथवा || १ || द्वारदैर्घ्ये तु तिथ्यंशो तिथिशक्रकलांशकैः | ऊर्ध्वार्चा आसनस्था च मनुविश्वार्कभागतः || २ || चतुरस्रीकृते क्षेत्रे दशभागविभाजिते | भित्तिर्द्विभागा कर्तव्या षट्भागं गर्भमन्दिरम् || ३ || तृतीयांशेन गर्भस्य प्रासादे प्रतिमोत्तमा | मध्यमा स्वदशांशोना पञ्चांशोना कनीयसी || ४ || आयभागैर्मजेद्द्वारमष्टमं तूर्द्धतस्त्यजेत् | सप्तमे सप्तमे दृष्टिर्वृषे सिंहे ध्वजे शुभा || ५ || षष्टभागस्य पञ्चांशो लक्ष्मीनारायणादिदृक् | शयनार्चेशलिङ्गानि द्वारार्धं न व्यतिक्रमेत् || ६ || पट्टाधो यक्षभूताद्याः पट्टाग्रे सर्वदेवताः | तदग्रे वैष्णवं ब्राह्मं मध्ये लिङ्ग शिवस्य च || ७ || इति प्रतिमाप्रमाणदृष्टिपदस्थापनम् | छाद्यस्योर्धे प्रहारः स्यात् शृङ्गे शृङ्ग तथैव च | प्रासादशृङ्गशृङ्गेषु अधोभागे तु छाद्यकम् || ८ || पृ० १७) छाद्यं भागद्वयं सार्द्धं सार्द्धभागं च पालवम् | मुण्डलीकं भागमेकं भागेन तिलकस्तथा || ९ || मूलकर्णे रथादौ वा एकद्वित्रिक्रमान्न्यसेत् | निराधारे मूलभित्तौ साधारे भ्रमभित्तिषु || १० || उरुशृङ्गाणि भद्रे स्युरेकादिग्रहसंख्यया | त्रयोदशोर्द्धे सप्तार्द्धे लुप्तानि चोरुशृङ्गकैः || ११ || रेखामूलेन दिग्भागं कुर्यादग्रे षडंशकम् | षड्बाह्ये दोषदं प्रोक्तं पञ्चमध्ये न शोभनम् || १२ || सपादं शिखरं कार्यं सकर्णं शिखरोदयम् | सपादकर्णयोर्मध्ये उदये पञ्चविंशतिः || १३ || प्रोक्ता रेखा कलाभेदैर्वलणैः पञ्चविंशतिः | पञ्चादिनवयुग्मान्तं खण्डानि तेष्वनुक्रमात् || १४ || अंशवृद्ध्या कलाः कार्या दैर्घ्ये स्कन्धेऽपि तत्समाः | अष्टादावष्टषष्ठ्यन्तं चतुर्वृद्ध्या तु षोडश || १५ || दैर्घ्यतुल्याः कलाः स्कन्धे एकहीनास्तु षोडश | ऊर्ध्वा अष्टदशांशाः स्युस्तिर्यक्षोडश एव च || १६ || चक्रेऽस्मिन्संभवन्त्येव रेखाणां षट्शतद्वयम् | त्रिखंडात् खण्डवृद्धिश्च यावदष्टादशैव हि || १७ || एकैकांशे कलाष्टौ च समाचारस्तु षोडश | द्वितीयप्रथमे खण्डे कलाष्टौ द्वितीये नव || १८ || तृतीये दशखंडेषु शेषेषूर्ध्वेष्वयं क्रमः | अष्टदिक्षु सुभागैश्च त्रिखण्डा तृतीया भवेत् || १९ || अनेन क्रमयोगेन कोष्ठानङ्कैः प्रपूरयेत् | रेखाणां जायते संख्या षट्पञ्चाशच्छतद्वयम् || २० || पृ० १८) सव्यासं शिखरं कार्यं सकर्णं शिखरोदयम् | व्यासस्य कर्णयोर्मध्ये रेखाः स्युः पञ्चविंशतिः || २१ || विंशद्भिर्विभजेद्भागैः शिलातः कलशान्तकम् | मण्डो वरोऽष्टसार्द्धाष्टनवांशैः शिखरोदयम् || २२ || रेखामूलस्य विस्तारे पद्मकोशं समालिखेत् | चतुर्गुणेन सूत्रेण सपादः शिखरोदयः || २३ || स्कन्धकोशान्तरे सप्तभक्ते ग्रीवात्रिभागतः | सार्धमामलसारञ्च पद्मप्रत्रन्तु सार्द्धकम् || २४ || त्रिभाग उच्चकलशो द्विभागं तस्य विस्तरम् | प्रासादस्याष्टमांशेन पृथुत्वकलशाण्डके || २५ || छाद्यतः स्कन्धपर्यन्तमेकविंशतिभाजिते | अङ्कदिग्रुद्रसूर्यांशैर्विश्वांशैस्तस्य चोच्छ्रयः || २६ || शुकनासस्य संस्थानं छाद्योर्ध्वे प्रञ्चधा मतम् | एकत्रिपञ्चसप्ताङ्कसिंहस्थानानि कल्पयेत् || २७ || द्वारस्य दक्षिणे वामे कपिली षट्विधा मता | तदूर्ध्वे शुकनासा स्यात् सैव प्रासादनासिका || २८ || प्रासादो दशभागश्च द्वित्रिवेदांशसंमिता | प्रासादेनार्द्धपादेन त्रिभागनाथ निर्मिता || २९ || शृङ्गोरशृङ्गप्रत्यङ्गैः खण्डकान् गणयेत्सुधीः | तवाङ्गं तिलकं कर्णे कुर्यात्प्रासादभूषणम् || ३० || दशांशे शिखरेमूले अग्रे तत्र नवांशके | सार्धांशकौ रथौ कोणौ द्वौशेषं भद्रमिष्यते || ३१ || रथयोरुभयोर्मध्ये वृत्तमामलसारकम् | पृ० १९) उत्सेधो विस्तरार्धेन चतुर्भागर्विभाजयेत् || ३२ || ग्रीवा चामलसारश्च पादोनञ्च सपादकम् | चन्द्रिकाभागमानेन भागेनामलसारिका || ३३ || घृतपात्रं न्यसेन्मध्ये ताम्रपात्रं सुवर्णजम् | सौवर्णं पुरुषं तत्र तुली?पर्यङ्कशायिनम् || ३४ || प्रमाणं पुरुषं सार्धाङ्गुलं कुर्यात्करं प्रति | त्रिपताकं करे वामे हृदिस्थं दक्षिण करम् || ३५ || प्रासादपृष्ठदेशे तु दक्षिणे प्रतिरर्थके | ध्वजाधारस्तु कर्तव्य ईशाने नैरृतेऽथवा || ३६ || इति प्रासादस्योर्द्धं लक्षणम् | क्षीरार्णवसमुत्पन्नं प्रासादस्याग्रजातकम् | माङ्गल्येषु च सर्वेषु कलशं स्थापयेद्बुधः || ३७ || पूर्वोक्तमानतो ज्येष्ठः षोडशांशाधिको भवेत् | ग्रीवापीठं भवेद्भागं त्रिभागेनाण्डकं तथा || ३८ || कर्णिकाभागतुल्ये च त्रिभागं बीजपूरकम् | एकांशमग्रे द्वौ मूले वह्निवेदांशकर्णिके || ३९ || ग्रीवा द्वौ पीठमर्धं द्वौ षड्भागं विस्तराण्डकम् | इति कलशः | दण्डस्तत्तृतीयांशेन शिलान्तकलशान्तकम् || ४० || मर्ध्येष्टांशेन हीनोऽसौ ज्येष्ठपादोऽन्यकन्यसः | प्रासादपृथुमानेन दण्डो ज्येष्ठः प्रकीर्तितः || ४१ || मध्यो हीनो दशांशेन पञ्चमांशेन कन्यसः | एकहस्ते तु प्रासादे दण्डः पादोनमङ्गुलम् || ४२ || कुर्यादर्धाङ्गुलं वृद्धिर्यावत्पञ्चदशाहतम् | पृ० २०) सुवृत्तः सारदारुश्च ग्रन्थिकण्टकवर्जितः || ४३ || पर्वभिर्विषमैः कार्यःसमग्रन्थिः सुखावहः | दण्डदीर्घषडंशेन मर्कट्य ? र्धेनविस्तरः || ४४ || अर्धचन्द्राकृतिः पार्श्वे घण्ट द्वे कलशस्तथा | ध्वजो दण्डप्रमाणेन धैर्घ्येंऽष्टांशेन विस्तरे || ४५ || नानावस्त्रविचित्राणि त्रिपञ्चाग्रशिखोपमा | पुरे च नगरे कोट्टे रथे राजगृहे तथा || ४६ || वापीकूपतडागेषु ध्वजाः कार्याः सुशोभनाः | निष्पन्नं शिखरं दृष्ट्वा ध्वजहीनं न कारयेत् || ४७ || असुरा वासमिच्छन्ति ध्वजहीने सुरालये | ध्वजोच्छ्रायेण तुष्यन्ति देवाश्च पितरस्तथा || ४८ || दशाश्वमेधिकं पुण्यं सर्वतीर्थधरादिकम् | पञ्चशत्पूर्वतः पश्चादात्मानञ्च तथाधिकम् || ४९ || शतमेकोत्तरं सोऽपि तारयेन्नरकार्णवात् | इति ध्वजलक्षणपुण्याधिकारः | इति प्रतिमादृष्टिपदस्थानशिखरध्वजकलशलक्षणाधिकारश्चतुर्थोऽध्यायः || ४ || अथ पञ्चमोऽध्यायः | नानाविधमिदं विश्वं विचित्रं येन सूत्रितम् | सूत्रधारः स एव स्यात् सर्वेषां पालनक्षमः || १ || न्यूनाधिकं प्रसिद्धञ्च यकिञ्चिन्मण्डनोदितम् | विश्वकर्मप्रसादेन शिल्पिभिर्मन्यतांवचः || २ || पृ० २१) चतुर्भागं समारभ्य यावत्सूर्योत्तरशतम् | भागसंख्येति विख्याता फालना कर्णबाह्यतः || ३ || अष्टोत्तरशतं भेदा अंशवृद्धया भवन्ति ते | समांशैर्विषमैः कार्या नन्दमेदैश्च फालनाः || ४ || एकस्यापि तलस्योर्ध्वे शिखराणि बहून्यपि | नामानि जातयस्तेषामूर्ध्वमार्गानुसारतः || ५ || दशहस्तादधो नास्ति प्रासादो भ्रमसंयुतः | नवाष्टदशभागेन भ्रमो भित्तिर्विधीयते || ६ || वैराज्यश्चतुरस्रस्तु चतुर्द्वारचतुष्किका | प्रासादो ब्रह्मणः प्रोक्तो धीमता विश्वकर्मणा || ७ || सपादं शिखरं कार्यं घण्टाकुलिशभूषितम् | चतुर्भिः शुकनासैस्तु सिंहकर्णैर्विराजितम् || ८ || एकद्वारं भवेत्पूर्वं द्विद्वारं पूर्वपश्चिमम् | त्रिद्वारे मध्यजं द्वारं दक्षिणास्यं विवर्जयेत् || ९ || चतुर्द्वारं चतुर्दिक्षु शिवब्रह्मजिनालये | होमशाला चतुर्द्वारा क्वचिद्राजगृहे तथा || १० || वैराज्यादिसमुत्पन्नाः प्रासादा ब्रह्मणार्चिताः | एकत्रिपञ्चसप्ताङ्कशाखान्तैः पञ्चविंशतिः || ११ || चतुर्भक्ते भवेत् कोणो भागो भद्रं द्विभागिकम् | भागार्धं निर्गमं भद्रे प्रकुर्यान्मुखभद्रकम् || १२ || शृङ्गमेकं भवेत् कर्णे द्वे द्वे भद्रे च नन्दनम् | इति नन्दनम् | तथाचोक्तम् | मुखभद्रे पतिभद्रमुद्गमो रथिकोपरि || १३ || पृ० २२) कर्णशृङ्गे सिंहकर्णं सिंहनामा स उच्यते | देवानां तु प्रकर्तव्यं सिंहस्तत्रैव शाश्वतः || १४ || तुष्यते गिरिजा तस्य सौभाग्यधनपुत्रकैः | रथिकां सिंहकर्णं च भद्रे शृङ्गे च सिंहकः || १५ || इति सिंहः | कर्णे शृङ्गं तु पञ्चाण्डकश्रीनन्दन उच्यते | अगा इति षड्भागैश्च चतुरस्रं विभाजयेत् || १६ || कर्णं प्रतिरथं कुर्याद्भद्रार्द्धं भागभागिकम् | समनिर्गममस्माच्च भद्रं भागार्द्धनिर्गमः || १७ || द्वे द्वे कर्णे तथा भद्रे चैकं च प्रतिरथ्यकम् | मन्दिरं तृतीयं भद्रमलयोर्भद्रजं त्यजेत् || १८ || प्रत्येकं तिलकं कुर्यात् प्रतिरथ्ये विमानकः | भद्रोरुशृङ्गवैशालप्रतिरथ्ये सुभूषणः || १९ || इति पञ्चाङ्गाः पञ्च | चतुरस्रेऽष्टभिर्भक्ते कर्णे प्रतिरथं रथम् | भद्रार्धं भागभागं च भागार्धेन विनिर्गमम् || २० || वारिमार्गान्तरयुता रथाश्च तुल्यनिर्गमाः | शृङ्गयुग्मे च तिलकं कर्णे द्वे प्रतिरथ्यकः || २१ || एकं चोपरथे भद्रे त्रीणि त्रित्रिचतुर्दिशम् | शिखरं पञ्चविस्तारं महेन्द्रो राज्यदो नृणाम् || २२ || कर्णे शृङ्गत्रयं शेषं पूर्ववद्रत्र शीर्षकम् | त्यक्त्वैकशृङ्गभद्रस्य मतालम्बं न कारयेत् || २३ || मस्तके तस्य च्छाद्यस्य शृङ्गयुग्मं प्रदापयेत् | सितशृङ्गस्तदा नाम ईश्वरस्य सदा प्रियः || २४ || पृ० २३) तिलकं चोपरथ्य तु भूधरो नाम नामतः | छाद्यशृङ्गे तु तिलकं नाम्ना भुवनमण्डनः || २४*** || [ष्ह्लोक नुम्बेरिन्ग् मिस्तके fओउन्द् fरोम् हेरे लिके २३, ६१, २४ थेन् २५ अन्द् चोन्तिनु..] शृङ्गद्वयं चोपरथे तिलकं कारयेत् सुधीः | त्रैलोक्यविजयो भद्रशृङ्गे न क्षितिवल्लभः || २५ || इति सप्ताङ्गः | दशभागकृते क्षेत्रे भद्रार्धं भागमानतः | त्रयं प्रतिरथः कर्णे भागो भागसमो भवेत् || २६ || कर्णे प्रतिरथे भद्रे द्वे द्वे शृङ्गे प्रकारयेत् | रथोपरथे तिलकं प्रत्यङ्गं च रथोपरि || २७ || मतात्न(ल)म्बयुतं भद्रं प्रासादोऽयं महीधरः | भद्रे शृङ्गं तृतीयं च कैलासो नाम नामतः || २८ || भद्रं त्यक्त्वा रथे शृङ्गं नवमङ्गल उच्यते | तथा भद्रे पुनर्दद्यात् तदासौ गन्धमादनः || २९ || भद्रे त्यक्त्वा चोपरथे शृङ्गं सर्वाङ्गसुन्दरः | भद्रे दद्यात् पुनः शृङ्गे विजयानन्द उच्यते || ३० || मतालम्बयुतं भद्रमुरुशृङ्गं परित्यजेत् | शृङ्गद्वयं च च्छाद्योर्ध्वे सर्वाङ्गतिलकस्तदा || ३१ || उरुशृङ्गं ततो दद्यान्मतालम्बसमन्वितम् | महाभागस्तदा नाम सर्वकामफलप्रदः || ३२ || कर्णे प्रतिरथे रथे चैकं तपरथादिषु | मेरुश्चापि समाख्यातः सर्वदेवेषु पूजितः || ३३ || प्रदक्षिणात्रये स्वर्णमेरौ पुंसां च यत् फलम् | इष्टकाशैलजामेरुतत्फलं प्रदक्षिणाकृते || ३४ || वैराज्यप्रमुखा येऽत्र नागरा ब्रह्मणोदिताः | पृ० २४) इति वैराज्यादिप्रासादपञ्चविंशत्यधिकारे पञ्चमोऽध्यायः || ५ || अथ षष्ठोऽध्यायः | केसरी सर्वतोभद्रो नन्दनो नन्दिशालकः | नन्दीशो मन्दरश्चैव श्रीवृक्षश्चामृतोद्भवः || १ || हिमवान् हेमकूटश्च कैलासः पृथिवीजयः | इन्द्रनीलो महानीलो भूधरो रत्नकूटकः || २ || वैदूर्यः पद्मरागश्च वज्रको मुकुटोज्ज्वलः | ऐरावतो राजहंसो गरुडो वृषभध्वजः || ३ || मेरुः प्रासादराजश्च देवानामालयो हि सः | ब्रह्मविष्णुशिवार्काणामन्येषां न कदाचन || ४ || आद्यः पञ्चाण्डको देयः किसरी नाम नामतः | चतुर्णां क्रमतो वृद्धिर्यावदेकोत्तरं शतम् || ५ || क्षेत्रेऽष्टांशे विभक्ते तु कर्णो भागद्वयं भवेत् | भद्रार्धं कर्णतुल्यं च भागेनैकेन निर्गमः || ६ || दशांशे सार्धभागं च भद्रार्धं च प्रतिरथे | कर्णो द्विभागः सूर्यांशे भद्रार्धं प्रतिरथके || ७ || चतुर्दशविभक्ते तु कर्णोर्ध्वंद्वादशांशवत् | भद्रपार्श्वद्वये कार्या भागभागेन नन्दिका || ८ || षोडशांशे प्रकर्तव्यः कर्णः प्रतिरथेऽन्तरे | कोणिका भागतुल्या च शेषं चतुर्दशांशवत् || ९ || चतुस्रीकृते क्षेत्रे विंशत्यंशविभाजिते | पृ० २५) कर्णो द्विभागः कोणी च सार्द्धांशा पृथुविस्तरैः || १० || द्विभागस्तु प्रतिरथो नन्दिका सार्द्धभागिका | भद्रनंदी भवेद्भागा भद्रार्धं युग्मभागिकम् || ११ || द्वाविंशत्यंशके नंदी भागैका भद्रपार्श्वयोः | त्रयः प्रतिरथाः कर्णे भद्रार्धं च द्विभागिकम् || १२ || एकद्वित्रि त्रिकं त्रीणि वेदाश्चत्वारि पञ्च च | तलेषु क्रमतोऽष्टासु केऽप्याहुः शिखराणि हि || १३ || अष्टादशांशभद्रस्य पार्श्वे द्वे द्वे च नन्दिके | कर्तव्यैर्भागभगैश्च शेषं स्यात्षोडशांशवत् || १४ || शिखरं त्वेकवैदैकषट्त्रिवेदयुगद्वयम् | तलेषु क्रमतः प्रोक्तो मूलसूत्रे पराजिते || १५ || तलेष्वष्टासु विहिताः प्रासादाः पञ्चविंशतिः | त्रयस्त्रयः क्रमेणैव चत्वारश्चाष्टमे तले || १६ || त्रीणि त्रीणि स्वकीयानि द्वे द्वे परः परस्य च | शिखराणि विधेयानि विश्वकर्मवचो यथा || १७ || द्वित्र्येकषट्त्रयोऽष्टादितलेषु पञ्चसु क्रमात् | सप्तैव सप्तमे षष्ठे शिरांसि त्रीणि चाष्टमे || १८ || भेदाः पञ्चाशदेकैकं प्रोक्ताः श्रीविश्वकर्मणा | तेनैकस्मिंस्तलेऽपि स्युः शिखराणि बहून्यपि || १९ || रथिकां सिंहकर्णं च भद्रे कुर्याद्गवाक्षकान् | प्रत्यङ्गैस्तिलकाढ्यैश्च शोभितं सुरमन्दिरम् || २० || प्रासादाः केसरिमुखाः सर्वदेवेषु पूजिताः | पुरराज्ञोः प्रजादीनां कर्तुः कल्याणकारकाः || २१ || इति केसर्यादिप्रासादाः पञ्चविंशतिः | पृ० २६) षट्त्रिंशत्करतोऽधस्ताद्यावद्धस्तचतुष्टयम् | विना भ्रमैर्निराधाराः कर्तव्याः शान्तिमिच्छता || २२ || वास्तोः पञ्चविधं क्षेत्रं चतुरस्रमथायतम् | वृत्तं वृत्तायत चैवाष्टास्रं देवायलादिषु || २३ || विस्तारे तु चतुर्भागमायामे पञ्चभागिकम् | ऊर्ध्वं? तिकलशानां कुर्यात् पृष्ठ्यग्रे सिंहकर्णकम् || २४ || वृत्तायतं प्रकर्तव्यं व्यासार्धं वामदक्षिणे | कर्णयोर्भ्रामयेत् वृत्तं वृत्तं भद्राणि चाष्ट हि || २५ || प्रासादो वर्तुलाष्टास्रः प्रायेणैकाण्डकः शुभः | कर्णे वा श्रेणयोऽण्डानां मण्डपं तत्स्वरूपकम् || २६ || इति पञ्च क्षेत्राणि | विचित्रैरुपसंघातैर्भद्रैर्गवाक्षभूषितैः | वितानफालनाशृङ्गैरनेकैर्नागरा मताः || २७ || पीठोपरि भवेद्वेदी पीठानि त्रीणि पञ्च च | पीठतो द्राविडे रेखा लताशृङ्गादिसंयुता || २८ || भूमिकोपरि भूमिश्च ह्रस्वारर्क नवान्तकम् | विभक्तिदलसंयुक्ता मूर्ध्नि शृङ्गेण भूमिजा || २९ || शृङ्गेणैकेन लनिता श्रीवत्सा वारिसंयुता | नागरा भ्रमसंयुक्ताः साधारास्ते प्रकीर्तिताः || ३० || इति प्रासादानां जातयः | पञ्चहस्तो भवेन्मेरुरेकोत्तरशताण्डकः | भेदाः पञ्चोनपञ्चाशत्करवृद्ध्या भवन्ति ते || ३१ || हस्ते हस्ते भवेत् द्विर्द्विर्ह्यण्डकानां च विंशतिः | एकोत्तरसहस्रं स्यात् शृङ्गाणां च शतार्द्धके || ३२ || पृ० २७) केसरिप्रमुखाः कर्णे विमानं चोरुशृङ्गकम् | तथैव मूलशिखरं पञ्चभूमिविमानकम् || ३३ || विमानं नागरा जातिस्तदा प्राज्ञैरुदाहृता | एकशृङ्गेषु शृङ्गाणि संभवन्ति बहून्यपि || ३४ || श्रीमेरुपृष्ठभागः स्यादेकोत्तरशताण्डकः | हिमशीर्षो दशांशः स्यात् युगसार्धशताण्डके || ३५ || भागैर्द्वादशभिर्युक्तः सार्द्धद्वित्सेन? संयुतः | सुरवल्लभनामा तु प्रोक्तः श्रीविश्वकर्मणा || ३६ || कोणे द्विभाग एकांशा कोणी सार्द्धप्रतीरथः | अर्धांशा नन्दिका भद्रे साधभागेन संमितम् || ३७ || त्रिशतं पञ्चसप्तत्याधिकं यस्याण्डकानि हि | भक्तश्चतुर्दशांशैस्तु नाम्ना भुवनमण्डनः || ३८ || कोणकोणी प्रतिरथो नन्दी भद्रार्धमेव च | द्व्येकद्व्यर्द्धांशे सार्द्धाशैश्चतुर्दशविभाजिते || ३९ || बाणैकवेदयुग्मांशा वेदाः कर्णादिभागतः | रत्नशीर्षो भवेन्मेरुः पञ्चाशतैकशृङ्गकैः || ४० || गुणैकयुग्मचन्द्रादौ पुराणांशविभाजिते | किरणोद्भवमेरुश्च सपादः षट्शताण्डकः || ४१ || रामचन्द्रद्वियुग्मांशनेत्रे विंशतिभाजिते | नाम्ना कमलहंसः स्यात्सार्द्ध**सप्तशताण्डकः || ४२ || भागैकनिर्गमा भित्तिर्वेदसार्द्ध**त्रिसार्धकैः | द्वाभ्यां तै स्वर्णकेतुश्च पञ्चसप्ताष्टशृङ्गकैः || ४३ || संभ्रमो भ्रमहीनश्च महामेरुभ्रमद्वयम् | साधारेषु प्रकर्तव्यं भद्रे भद्राविलोकनम् || ४४ || पृ० २८) वेदैकरामयुग्मांशनेत्रे जिनविभाजिते | वृषभद्वजमेरुश्च सैकाण्डकसहस्रवान् || ४५ || संभ्रमो भ्रमहीनश्च महामेरुभ्रमद्वयम् | साधारेषु प्रकर्तव्यं भद्रे भद्राविलोकनम् || ४६ || राज्ञश्च प्रथमो मेरुस्ततो हीनोऽन्यवर्णजः | विना राज्ञोऽन्यवर्णेन कृते मेरौ महाभयम् || ४७ || इति नवमेरुलक्षणम् | इति केसर्यादिप्रासादजातिलक्षणे पञ्चचत्वारिंशन्मेरुलक्षणे षष्ठोऽध्यायः || ६ || अथ सप्तमोऽध्यायः | रत्नगर्भाङ्कनं सूर्यचन्द्रतारावितानकम् | विचित्रं मण्डपं येन कृतं तस्मै नमः सदा || १ || कर्णगूढो विलोक्यः स्यादेकत्रिद्वारसंयुताः | प्रासादाग्रे प्रकर्तव्याः सर्वदेवेषु मण्डपाः || २ || गूढस्त्रीकास्तथा नृत्यक्रमेण मण्डपास्त्रयः | जिनस्याग्रे प्रकर्तव्याः सर्वेषां तु बलाणकम् || ३ || समं सपादं प्रासादात्सार्द्धपादोनतद्द्वयम् | द्विगुणं वा प्रकर्तव्याः मण्डपाः पञ्चधा मताः || ४ || समं सपादं पञ्चाशत्पर्यन्तं दशहस्तकम् | दशान्तं पञ्चतः सार्द्धद्विपादोनं चतुष्करे || ५ || त्रिहस्ते द्विगुणं द्व्येकहस्ते कुर्याच्चतुष्किकाम् | प्रायेण मण्डपं सार्द्धं द्विगुणं प्रत्यलिन्दकैः || ६ || पृ० २९) मण्डपे स्तंभपट्टार्थमध्यपट्टानुसारतः | शुकनासा समा घण्टा न्यूना श्रेष्ठा नचाधिका || ७ || मुखमण्डपसङ्घातो पदा भित्त्यन्तरे भवेत् | न दोषःस्तंभपादाद्यैः समं वा विषमं तलम् || ८ || नवाष्टदशभागेषु त्रिभिश्चन्द्रावलोकनम् | हस्तकमङ्गुलोनं वा तदूर्ध्वं मत्तवारणम् || ९ || सार्द्धं पञ्चांशकैर्भक्तैः सपादं राजसेनकम् | सपादं त्र्यंशका वेदिर्भागेनासनपेटकम् || १० || तदूर्ध्वं सप्तसार्द्धांशे यावत्पट्टस्य पेटकम् | सार्द्धपञ्चांशकैः स्तंभः पादोनं भरणं भवेत् || ११ || भागार्धं भरणं चापि सपादं सार्धतः शरः | पादो द्विभागस्तस्योर्द्धे कर्तव्यश्छाद्यकोदयः || १२ || त्रिभागे तलतः श्छाद्यं तत्पेटं पट्टपेटके | अर्धांशोर्द्धा कपोतालिर्द्विभागे पट्टविस्तरे || १३ || प्रासाददशरुद्राक्षः भागेन स्तंभविस्तरः | व**दाष्टरविविंशत्या कर्णे वृत्तस्तु पञ्चधा || १४ || द्वाराग्रे स्तम्भवेद्याद्या प्राग्ग्रीवो मण्डपो भवेत् | द्विद्विस्तंभविवृद्ध्या च षोडशोऽयं प्रकीर्तितः || १५ || भित्तिः प्रासादवद्गेहे मण्डपेऽष्टविधेषु च | चतुरस्रशुभस्तस्य तथा प्रतिरथान्वितः || १६ || मुखभद्रयुतो वापि द्वित्रिप्रतिरथैर्युतः | कर्णोदकान्तरेणाथ भद्रोदकविभूषितः || १७ || कर्णतो द्विगुणं भद्रं पादोनप्रतिरर्थकम् | भद्रार्धं मुखभद्रं च शेषं षट्वसुभाजिते || १८ || पृ० ३०) दलेनार्धेन पादेन दलस्य निर्गमो भवेत् | मूलप्रासादवद् ब्राह्मे पीठजङ्घादिमेखला || १९ || गवाक्षेनान्वितं भद्रमथ जालकसंयुतम् | गुहश्च कर्णगुहे वा भद्रे चन्द्रावलोकनम् || २० || त्रिद्वारे चैकचक्त्रेऽथ मुखे कार्या चतुष्किका | गुहे प्रकाशके वृद्धमर्धोदयकरोटकम् || २१ || इत्यष्टगूढमण्डपाः || एकत्रिवेदसप्ताङ्कचतुष्काश्च त्रिकं त्रये | अर्धभाद्रं विभागेन पार्श्वयोरग्रतस्तथा || २२ || अग्रतस्रिचतुष्कस्य तथा पार्श्वे द्वयेऽपि च | मुक्तकोणे चतुष्के द्वे इति द्वादशमण्डपाः || २३ || गुहस्याग्रे प्रकर्तव्यास्तथा नानाचतुष्किका | चतुरस्रादिभेदेन वितानैर्बहुभिर्युता || २४ || इति द्वादशमण्डपाः | त्रिकाग्रे रङ्गभूमाथ तत्र वै नृत्यमण्डपाः | सप्तविंशतिरुक्ता ये मण्डपा विश्वकर्मणा || २५ || तलैस्तु विषमैस्तुल्यैः क्षणैः स्तम्भैः समैस्तथा | प्रथमो द्वादशस्तंभो द्विद्विस्तंभविवर्धनात् || २६ || यावत्षष्टिचतुर्युक्ताः सप्तविंशतिमण्डपाः | क्षेत्रार्धस्य षडंशोना चैकास्राष्टास्रमुच्यते || २७ || कलास्रे क्षेत्रषड्भागस्तत्षडंशेन संयुतः | अष्टास्रे षोडशास्रे च वृत्तं कुर्यात्तदूर्ध्वतः || २८ || उदयं विस्तरार्द्धेन तं षंद्यंवाशभाजयेत्? | कर्णदर्दरिका सप्तभागेन निर्गमो तुच्छता || २९ || पृ० ३१) रूपकण्ठं तु पञ्चांशं द्विभागेनात्र निर्गमम् | विद्याधरैः समायुक्तं षोडशाष्टदिवाकरैः || ३० || जिनसंख्यामितैर्वापि दन्ततुल्यैर्विराजतैः | विद्याधरः पृथुत्वेन सप्तांशो निर्गमोदयः || ३१ || तदूर्ध्वे चित्ररूपाश्च नर्तक्यो नृत्यशोभिताः | गजतालस्तु षट्सार्द्धा प्रथमा द्वितीया तु षट् || ३२ || तृतीया सार्धपञ्चांशा कोलानि त्रीणि पञ्च च | मध्ये वितानं कर्तव्यं चित्रवर्णविराजितम् || ३३ || नाटकादिकथारूपैर्नानाकारर्विराजितम् | एकादशशतान्येव वितानानां त्रयोदश || ३४ || शुद्धसंघाटमिश्राणि क्षिप्ताक्षिप्तानि यानिच | वितानानि विचित्राणि वस्त्रचित्रादिभेदतः || ३५ || तानि लोके प्रवर्तन्ते तस्मादूध्ननिलोकतः? | मण्डपेषु च सर्वेषु पीठान्ते रङ्गभूमिका || ३६ || कुर्याद् तानपादेन? चित्रपाषाणजेन च | इति मण्डपाः || बलाणदेवगेहाग्रे राजद्वारे गृहे पुरे | जलाशयेऽथ कर्तव्यं सर्वेषां मुखमण्डपम् || ३७ || जगतीपादविस्तीर्णं पादपादेन वर्जितम् | शालापादेन गर्भेण प्रासादेन समं भवेत् || ३८ || उत्तमे कन्यसं मध्ये मध्यं ज्येष्ठे तु कन्यसम् | एकद्वित्रिचतुःपञ्चरससप्तपदान्तरे || ३९ || मूलप्रासादवद्द्वारं मण्डपे च बलाणके | पृ० ३२) न्यूनाधिकं न कर्तव्यं दैर्घ्ये हस्ताङ्गुलादिकम् || ४० || पेटकं चोत्तराङ्गानां सर्वेषां समसूत्रतः | अङ्गणा तु समं पेटं जगत्याश्चान्तराङ्गजम् || ४१ || जगत्यग्रे चतुष्कीयां वामनं तद्वलाणकम् | वामेऽथ? दक्षिणद्वाराद्वादिका मत्तवारणम् || ४२ || ऊर्ध्वा भूमिः प्रकर्तव्या नृत्यमण्डपसूत्रतः | मत्तवारणकं वेदी वितानतोरणैर्युता || ४३ || राजद्वारे बलाणे च पञ्च वा सप्तभूमिका | दद्विमानं बुधैः प्रोक्तं पुष्करं वारिमध्यतः || ४४ || हर्म्यराजगृहे वापि कर्तव्यं गोपुरामितः | एकभूमौ त्रिभूम्यन्तं गृहद्वारस्य मस्तके || ४५ || इति पञ्चविधबलाणकम् | संवर्णञ्च प्रकर्तव्यं प्रथमा पञ्चघण्टिका | चतुर्घण्टाभिवृद्ध्या च यावदेकोत्तरं शतम् || ४६ || पञ्चविंशतिरित्युक्ता प्रथमा वसुभागिका | वेदोत्तरशतं यावत् वेदांशा वृद्विरिष्यते || ४७ || भद्रार्धे रथिकार्धेन तवङ्गं वामदक्षिणे | अर्धोदयेन रथिका घण्टाकूटं तवङ्गकम् || ४८ || कलाकूटान्विता पूर्वा पञ्चभिः कलशैर्युतः | भागतुल्यैस्तथा सिंहैरेवमन्याश्च लक्षिताः || ४९ || इति मण्डपस्योर्ध्वसंवर्णाः || इति श्रीमण्डपबलाणकं संवर्णाधिकारः सप्तमोऽध्यायः || ७ || पृ० ३३) अथ अष्टमोऽध्यायः | अथ साधारणोऽध्यायः सर्वलक्षणसंयुतः | विश्वकर्मप्रसादेन विशेषेण प्रकथ्यते || १ || मानं न्यूनाधिकं वापि स्वयम्भूबाणरत्नजे | घटितेषु विधातव्यमर्चालिङ्गेषु शास्त्रतः || २ || बहुसमं सन्धिशिरो गुरुः . . . . . . . . . . . . . . . | स्वशल्यं पादहीनं तु तच्च वास्तु विनश्यति || ३ || अन्यवास्तुचिते द्रव्ये ह्यन्यवास्तुनिवेशिते | प्रासादे न भवेत्पूजा गृहे तु न व . . . . त्पत्तिः || ४ || स्वस्थाने संस्थितं यच्च विप्रवास्तु शिवालयम् | अचाल्यं सर्वदेशेषु चालिते राष्ट्रविभ्रमः || ५ || वापीकूपतडागानि प्रासादभवनानि च | जीर्णान्युद्धरते यस्तु पुण्यमष्टगुणं लभेत् || ६ || तद्रूपं तत्प्रमाणं स्यात्पूर्वसूत्रं न चालयेत् | हीने तु जायते हानिरधिके तु धनक्षयः || ७ || वास्तुद्रव्याधिकं कुर्यात्काष्ठजे शैलजेऽपि वा | शैलजे धातुजे चैव धातुजे रत्नजेऽथवा || ८ || पूर्वोत्तरदिश मूहमूहं पश्चिमदक्षिणे | तत्र मूहममूहं वा यत्र तीर्थं समाहितम् || ९ || सिद्धायतनतीर्थेषु नदीनां सङ्गमेषु च | स्वयम्भूबाणलिङ्गेषु तत्र दोषो न विद्यते || १० || अव्यक्तं मृन्मय चाल्यं त्रिहस्तान्तं तु शैलजम् | दारुजं पुरुषार्थं च अत ऊध्वं न चालयेत् || ११ || पृ० ३४) विषमस्थानमाश्रित्य भग्नं यत्स्थापितं सुरैः | तत्र स्थानस्थिता देवा भग्नाः पूजाफलप्रदाः || १२ || यद्यथा स्थापितं वास्तु तत्तथैव हि कारयेत् | अव्यङ्गं चालितं नॄणां दारुणं कुरुते भयम् || १३ || अर्थतश्चालतः प्रज्ञां जीर्णव्यङ्गं च दूषितम् | आचार्यः शिल्पिभिः प्राज्ञैः शास्त्रदृष्ट्यासमुद्धरेत् || १४ || स्वर्णजं रौप्यजं वापि कुर्यान्नागमथो वृषः | तस्य शृङ्गेण दन्तेन पतितं पातयेत्सुधिः || १५ || इति जीर्णोद्धारविधिः || तन्दुलं जालकं चैव कीलकं सुशिरं तथा | छिद्रसन्धिश्च काराश्च महादोषा इति स्मृताः || १६ || भिन्न दोषकर यस्मात्प्रासादमठमन्दिरम् | शिखाभिर्जालकैर्द्वारै रश्मिवातप्रभेदिदम् || १७ || ब्रह्मविष्णुशिवार्काणां भिन्नं दोषकरं न हि | जिनगौरीगणेशानां गृहं भिन्नं विवर्जयेत् || १८ || व्यक्ताव्यक्तं गृहं कुर्याद् भिन्नं भिन्नानुमूर्तिकम् | अथ स्वामिशरीरं स्यात्प्रासादमपि तादृशम् || १९ || इति भिन्नदोषाः | भिन्नं चतुर्विधं ज्ञेयमवृद्धामिश्रकं मतम् | मिश्रकं पूजितं तत्र भिन्नं वै दोषकारणम् || २० || छन्दोभेदो न कर्तव्यो जातिभेदस्तथा पुनः | उत्पद्यते महामर्म जातिभेदे कृते सति || २१ || द्वारहीने हरेच्चक्षुर्नालहीने धनक्षयम् | अपदस्थापिते स्तम्भे महारोगं विनिर्दिशेत् || २२ || पृ० ३५) स्तम्भव्यासोदये हीने कर्ता तत्र विनश्यति | प्रासादे पीठहीने तु नश्यन्ति गजवाजिनः || २३ || रथोपरथहीने तु कर्ता तत्र विनश्यति | प्रासादे पीठहीने तु नश्यन्ति गजवाजिनः || २४ || रथोपरथहीने तु प्रजापीडां विनिर्दिशेत् | कर्णहीने सुरागारे फलं तत्र न विद्यते || २५ || जङ्घाहीने हरेद्बन्धून् कर्तृकान् कारकादिकान् | शिखरे हीनमाने तु पुत्रपौत्रधनक्षयः || २६ || अतिदीर्घे कुलच्छेदो ह्रस्वे व्याधिसमुद्भवः | तस्माच्छास्त्रीयमानेन सुखदं सर्वकामदम् || २७ || जगत्यां रोपयेच्छालां शालायां चैव मण्डपम् | मण्डपेन च प्रासादो ग्रस्तो वै दोषकारकः || २८ || इति दोषाः | प्रासादोच्छ्रायविस्ताराज्जगती वामदक्षिणे | छायाभेदेन कर्तव्या तथा लिङ्गस्य पीठिका || २९ || जगत्यां त्रिचतुःष्पञ्चगुणं देवपुरं त्रिधा | एकद्विवेदसाहस्रहस्तैः स्याद्राजमन्दिरम् || ३० || कलाष्टवेदसाहस्त्रैर्हस्तै राजपुरं समम् | दैर्घ्यतुल्यं सपादाष्टं सार्धांशेनाधिकं शुभम् || ३१ || द्वादश त्रिपुराणि स्युर्देवस्थानानि चोत्तरे | षट्त्रिंशत् षट्विवृध्या च यावदेकोत्तरं शतम् || ३२ || पुरं प्रासादगेहः स्यात्सौधैर्जालगवाक्षकैः | कीर्तिस्तम्भैर्जलारामैर्गेहैर्मण्डैः सुशोभितम् || ३३ || इति देवपुरराजपुराणि || पृ० ३६) प्रासादस्योत्तरे याम्ये तथाग्नौ पश्चिमेऽपि च | यदि नामाश्रमं कुर्यात्सततं द्वित्रिभूमिकम् || ३४ || द्विशालं मध्य षट्दारुपट्टशालाग्रशोभितम् | मत्तवारणमग्रे च तदूर्ध्वं पट्टभूमिषु || ३५ || कोष्ठागारं च वायव्ये वह्निभागे महानसम् | पुष्यगेहं तथेशाने नैरृत्येशान्तमायुधम् || ३६ || छात्रागारं च पुरतो वारुण्यां च जलाश्रयम् | मठस्योपरितः कुर्याद्विद्याव्याख्यानमण्डपम् || ३७ || इति मठः || पूर्वोक्ता ........ पुण्याहप्रतिष्ठा सर्वसिद्धिदा | रवेः सौम्यायने कुर्याद्देवानां स्थापनादिकम् || ३८ || प्रतिष्ठा चोत्तरामूल आर्द्रायां च पुनर्वसौ | पुष्ये हस्ते मृगे स्वातौ रौहिण्यां श्रुतिमैत्रभे || ३९ || तिथिं रिक्तां कुजं धिष्ण्यं क्रूरं विधुयुतं तथा | दग्धां तिथिं च गण्डान्तं चारभोपग्रहं त्यजेत् || ४० || सुदिने सुमुहूर्ते च लग्ने सौम्ययुतेक्षिते | अभिषेकः प्रतिष्ठा च प्रवेशादिकमिष्यते || ४१ || प्रासादाग्रे तथैशाने उत्तरे मण्डपं शुभम् | त्रिपञ्चसप्तनन्दैकादशविश्वकराननम् || ४२ || मण्डपः स्यात्करैरष्टादशसूर्यकलामितैः | षोडश हस्ततः कुण्ड वशादधिक इष्यते || ४३ || स्तम्भैः षोडशभिर्युक्तं तोरणादिविराजितम् | मण्डपं वेदिकामध्ये पञ्चाष्टनवकुण्डकम् || ४४ || हस्तमात्रं भवेत्कुण्डं मेखलायोनिसंयुतम् | पृ० ३७) आगमैर्वेदमन्त्रैश्च होमं कुर्याद्विधानतः || ४५ || अयुतं हस्तमात्रे च लक्षार्धे तु द्विहस्तकम् | त्रिहस्तं लक्षहोमे स्याद्दशलक्षे चतुष्करम् || ४६ || विंशलक्षे पञ्चहस्तं कोट्यर्धं षट्करं मतम् | अशीतिलक्षेऽद्रिकरं कोटिहोमेऽष्टहस्तकम् || ४७ || ग्रहपूजाविधाने च कुण्डमेककरं भवेत् | मेखलात्रितयं वेद रामयुग्माङ्गुलैः क्रमात् || ४८ || एकद्वित्रिकरं कुर्याद्वेदिकोपरि मण्डलम् | ब्रह्मविष्णुरवीनां तु सर्वतोभद्रमिष्यते || ४९ || भद्रं तु सर्वदेवानां नवनामिस्तथा त्रयम् | लिङ्गोद्भवं शिवस्यापि लतालिङ्गोद्भवं तथा || ५० || भद्रं च गौरीतिलकं देवीनां पूजने हितम् | अर्धचन्द्रं तडागेषु चापाकारं तथैव च || ५१ || टङ्काभं स्वस्तिक चैव वापीकूपेषु पूजयेत् | पीठिकाजलपादेषु योन्याकारं तु कामदम् || ५२ || गजदन्तं महादुर्गे प्रशस्तं मण्डलं भवेत् | टङ्काभं चतुरस्रं च गजदन्तमिहायतम् || ५३ || विख्यातं सर्वतोभद्रं ज्ञेयान्यन्यानि लोकतः | पूर्वादितोरणं प्लक्षयज्ञाङ्गवटपिप्पलैः || ५४ || द्वात्रिंशत्षोडशाष्टौ च ह्युत्तमान् वेदपारगान् | कुलीनानङ्गसर्वज्ञान्यज्ञार्थमभिमन्त्रयेत् || ५५ || मण्डपस्थ त्रिभागेन उत्तरे स्नानमण्डपम् | स्थण्डिलं बालुकं कृत्वा शम्यया स्नापयेत्सुरम् || ५६ || पृ० ३८) पञ्चगव्यैः कषायैश्च वल्कलैः क्षीरवृक्षजैः | स्नापयेत्पञ्चकलशैः शतवारं जलेन च || ५७ || वेदमन्त्रादिवादित्रगीतमङ्गलनिःस्वनैः | वस्त्रेणाच्छादयेद्देवं वेद्यांतं मण्डपं नयेत् || ५८ || तल्पमारोपयेद्वेद्यामुत्तराशह्णे न्यसेत्ततः | कलशं तु शिरोदेशे पादस्थाने कमण्डलुम् || ५९ || वज्रं वैदूर्यकं मुक्तामिन्द्रनीलं सुनीलकम् | पुष्परागं च गोमेदं चंद्रं पूर्वादितो न्यसेत् || ६० || व्यजनं दक्षिणे देशे दर्पणं वामतः शुभम् | रत्नन्यासं ततः कुर्याद्दिक्पालादिकपूजनम् || ६१ || आग्नेययां गणपं विद्यादीशाने ग्रहमण्डलम् | नैरृत्ये वास्तुपूजा च वायव्ये मातरः स्मृताः || ६२ || वज्रं वैडूर्यकं मुक्तामिन्द्रनीलं सुनीलकम् | पुष्परागं च गोमेदं चन्द्रं पूर्वादिषु यजेत् || ६३ || सुवर्णं रजतं ताम्रं कांस्यं रीतिं च सीसकम् | वङ्गं लोहं च पूर्वादिदिक्षु धातूनिह न्यसेत् || ६४ || वज्रं वह्निः सहदेवी विष्णुक्रान्तेन्द्रवारुणी | शङ्खिनीज्योतिष्मती चैव स्वरिक्तानि क्रमान्न्यसेत् || ६५ || यवव्रीहिस्तथा कङ्गुर्जूर्णाख्या च तिलैर्युता | शालिमुद्राः समाख्याता गोधूमाश्च क्रमेण तु || ६६ || यद्देवाभरणं पूजावस्त्रालङ्कारभूषणम् | तत्सर्वं शिल्पिने देयमाचार्याय तु याज्ञिकम् || ६७ || ततो महोत्सवं कुर्यान्नृत्यगीतैरनेकशः | नैवेद्यारार्तिकं पूजामङ्गन्यासादिकं तथा || ६८ || पृ० ३९) क्षीरं क्षौद्रं घृतं खण्डपक्वान्नानि बहून्यपि | षड्रसाः स्वादुभक्षाणि समन्तात् परिकल्पयेत् || ६९ || विप्राणां सम्प्रदायाच्च वेदमन्त्रैस्तथागमैः | सकलीकरणं जीवन्यासं कृत्वा प्रतिष्ठयेत् || ७० || प्रासादे देवतान्यासं स्थावरेषु पृथक्पृथक् | खरशिलायां च वाराहं पौल्यां नागकुलानि च || ७१ || प्रकुम्भे जलदेवाश्च पुष्कके किंसुरास्तथा | नन्दिनी जाड्यकुम्भे च कल्याण्यां स्थापयेद्धरिम् || ७२ || गणेशं गजपीठे च अश्वपीठे तथाश्विनौ | नरपीठे नरांश्चैव क्षमां च खुरके यजेत् || ७३ || भद्रे सिद्धित्रयं कुम्भे पार्वतीं कलशे स्थिताम् | कपोताल्यां च गन्धर्वान्मञ्चिकायां सरस्वतीम् || ७४ || जङ्घायां च दिशापालानिन्द्रमुद्गमसंस्थितम् | सावित्रीं भरणे देशे शिरावद्यां च देविकाम् || ७५ || विद्याधरान् कपोताल्यामन्तराले सुरांस्तथा | पर्यङ्ककुंठच्छाद्ये च ततो मध्ये प्रतिष्ठयेत् || ७६ || शाखयोश्चन्द्रसूर्यौ च त्रिमूर्तिश्चोत्तराङ्गके | उदुम्बरे स्थितं यक्षमश्विनावर्धचन्द्रके || ७७ || कौलिकायां धराधारं क्षितिं चोत्रं नृपट्टके | स्तम्भेषु पर्वतांश्चैवमाकाशं च करोटके || ७८ || मध्ये प्रतिष्ठयेद्देवं सकरे जाह्नवीं तथा | शिखरस्योरुशृङ्गेषु पञ्च पञ्च प्रतिष्ठयेत् || ७९ || ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः | शिखरे चेश्वरं देवं शिखायां तु सुराधिपम् || ८० || पृ० ४०) ग्रीवायाममरे देवं मण्डपे च निशाकरम् | पद्माक्षं पद्मपत्रं च कलशे च सदाशिवम् || ८१ || सद्यो वाम अघोरस्तत्पुरुष ईश एव च | कर्णादिभद्रपर्यन्तं पञ्चाङ्गे तान् प्रतिष्ठयेत् || ८२ || इति स्थावरप्रतिष्ठा || प्रथमं देवतादृष्टेर्दर्शयेंदन्नपर्वतकम् | विप्रं कुमारिकां वास्तुं ततो लोकान्प्रदर्शयेत् || ८३ || ईज्यानन्तरतः कुर्यात्सूत्रधारस्य पूजनम् | वस्त्रालङ्कारभूवित्तगोमहिष्याश्ववाहनैः || ८४ || अन्येषां शिल्पिनां पूजा कर्तव्या कर्मकारिणाम् | स्वाधिकारानुसारेण वस्त्रताम्बूलभोजनैः || ८५ || काष्ठपाषाणनिर्माणकारिणो यत्र मन्दिरे | भुञ्जते तत्र भोक्तासौ शङ्करस्त्रिदशैः सह || ८६ || पुण्यं प्रासादजं स्वामी प्रार्थयेत्सूत्रधारतः | सूत्रधारो वदेत् स्वामिन्न क्षयं भवतात् तव || ८७ || इति सूत्रधारपूजा | आचार्यपूजनं कृत्वा वस्त्रस्वर्णधनैः सह | दानं दद्याद्द्विजातिभ्यो दीनान्धदुर्बलेषु च || ८८ || सर्वेषां धनमाधारः प्राणिनां जीवनं परम् | वित्ते दत्ते प्रतुष्यन्ति मानुष्याः पितरः सुराः || ८९ || इति प्रतिष्ठाविधिः | प्रतिष्ठा वित्तरागस्य जिनशासनमार्गतः | नवकारैः सूरमन्त्रैश्च सिद्धिः केवलभाषितम् || ९० || ग्रहाः सर्वज्ञदेवाश्च पादपीठे प्रतिष्ठिताः | पृ० ४१) येनानन्तविभेदेन मुक्तिमार्ग उदाहृतः || ९१ || जिनानां मातरो यत्र यक्षिणी गौतमी तथा | सिद्ध कालत्रयो जाताश्चतुर्विंशतिमूर्तयः || ९२ || इति स्थाप्यं जिनाचारे त्रिप्राकारं गृहं तथा | सावन्तशिखरं? मन्दिरमष्टापदादिकम् || ९३ || प्रासादो वीतरागस्य पुरमध्ये सुखावहः | कल्याणकारिवर्गस्य चतुर्दिक्षु प्रकल्पयेत् || ९४ || इति जिनप्रतिष्ठा | माघादिपञ्चमासेषु वापीकूपादि संस्मृतम् | तडागस्य चतुर्मासं कुर्यादाषाढमार्गयोः || ९५ || असंस्कृतं जलं देवाः पितरो न पिबन्ति ते | संस्कृते तृप्तिमायान्ति तस्मात्संस्कारमाचरेत् || ९६ || जीवनं वृक्षजन्तूनां यः करोति जलाशयम् | दत्ते वा स लभेत्सौख्यमुर्व्यां स्वर्गे च मानवः || ९७ || पुरान्धकवधे रुद्रललाटात्पतितः क्षितौ | स्वेदस्तस्मात्समुद्भूतं भूतमत्यन्तदुःसहम् || ९८ || गृहीत्वा सहसा देवैर्न्यस्तं भूमावधोमुखम् | जानुनी कोणयो पादौ रक्षो दिशि शिवे शिरः || ९९ || चत्वारिंशद्युता पञ्च वास्तुदेहे स्थिताः मुराः | देव्योऽष्टौ बाह्यगास्तेषां वसनाद्वास्तुरुच्यते || १०० || अधोमुखेन विज्ञप्तैस्त्रिदशैर्विहितो बलिः | तेनैव बलिना शान्ति कुरुते हानिमन्यथा || १०१ || प्रासादभवनादीनां प्रारम्भे परिवर्तने | वास्तुकर्मसु सर्वेषु पूजिताः सौख्यदो भवेत् || १०२ || पृ० ४२) एकपदादितो वास्तु यावत्पदसहस्रकम् | द्वात्रिंशन्मण्डलानि स्युः क्षेत्रतुल्याकृतीनि च || १०३ || एकाशीतिपदो वस्तुश्चतुषष्टिपदोऽथवा | सर्ववास्तुविभागेषु पूजयेन्मण्डलद्वयम् || १०४ || ईशो मूर्द्धनि पर्जन्यो दक्षिणं कर्णमाश्रितः | जयःस्कन्धे महेन्द्राद्याः पञ्च दक्षिणबाहुगाः || १०५ || महेन्द्रः सूर्यः सत्यश्च भृश आकाशमेव च | वायुर्जानुनि पूषाद्याः सप्तपादतले स्थिताः || १०६ || पूषा च वितथश्चैव गृहक्षतयमावुभौ | गन्धर्वो भृङ्गराजश्च मृगः सप्त सुरा इति || १०७ || पादयोः पितरस्तस्मात्सप्तपादतलस्थिताः | दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः || १०८ || असुरः शोष पापौ च रोगो जानुनि संस्थितः | अहिर्मुख्यश्च भल्लाटः सोमसर्पौच बाहुगौ || १०९ || अदितिस्त्वधोदेशे च वामे कर्णे दितिः स्थितः | द्वात्रिंशद्बाह्यगा देवा नाभिपृष्ठे स्थितो विधिः || ११० || अर्यमा दक्षिणे वामे स्तने तु पृथिवीधरः | विवस्वानऽथ मित्रश्च दक्षवामोरुगावुभौ || १११ || रुद्रश्च राजयक्ष्मा च आपवत्सो हृदि स्थितः | सावित्रः सविता तद्वत्करं दक्षिणमाश्रितौ || ११२ || इन्द्र इन्द्रजयो मेढ्रे भद्रौऽसौ वामहस्तके | भद्रदासोऽपि तत्रैव इति देवमयं वपुः || ११३ || ईशाने चरकी बाह्ये पिलिंपिच्छस्तु पूर्वतः | विदारिकाग्निकोणे च विजृम्भापांदिगास्थिता || ११४ || पृ० ४३) नैरृत्यें पूतना स्कन्धे पश्चिमे वायुकोणके | पापराक्षसिका सौम्येऽर्यमा वै सर्वतोऽर्चयेत् || ११५ || हेरुकादिबलिर्देयो माषान्नैः सुरयामिषः | अपरान् वटकान्नैश्च सर्वान् स्वर्णसुगन्धिभिः || ११६ || इति वास्तुषुरुषन्यासः | एकेन शास्त्रेण गुणाधिकेन विना द्वितीये न पदार्थसिद्धिः | तस्मात्प्रकारान्तरतो विलोक्य मणीगुणाढ्योऽपि सहायकांक्षी || श्रीविश्वकर्मगणनाथमेशचण्डी- श्रीविश्वरूपजगदीश्वरसुप्रसादात् | प्रासादमण्डनमिदं रुचिरं चकार श्रीमण्डनो गुणवतां भुवि सूत्रधारः | इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे प्रासादमण्डनेऽष्टमोऽध्यायः || ८ || इति प्रासादमण्डनं समाप्तम् | </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] 2w2rpy4y42j9fpw8joxpeec0gbcau82 415895 415894 2026-05-20T05:30:13Z Shubha 190 415895 wikitext text/x-wiki {{header | title = प्रासादमण्डनम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00170 Uniform title: prāsādamaṇḍana Author : sūtradhāramaṇḍana Editor : śāstrī j z Description: Photographic facsimiles from vol 72 of the Kashmir Series of Texts and Studies. Notes: Etext created by the staff of Muktabodha under the direction of Anirban Dash. Revision 0: Sept. 21, 2024 Publisher : Research Department Jammu and Kashmir State Publication year : 1947 Publication city : Srinigar Publication country : India ---- प्रासादमण्डनम् श्रीसूत्रधारमण्डनविरचितम् श्रीराजराजेश्वर-महाराजाधिराज-कश्मीरनरेन्द्र श्रीहरिसिंहजी बहादुराज्ञया रिसर्चकार्यालयाध्यक्ष पण्डितजगद्धरजाडूशास्त्रिणा उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन संशोधनादिसंस्करणोत्तरं संपाद्य श्रीनगरे दुर्गाप्रेस नाम्नि मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतम् । संवत् २००४ सन्न ईस्वी १९४७ कश्मीर-श्रीनगर अस्य ग्रन्थस्य मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्ययैः स्वायत्तीकृताः सन्ति । विषयानुक्रमणी संख्या विषयः पार्श्वे १. ग्रन्थावतरणिका १ २. ग्रन्थकृन्नामनिरूपणम् १ ३. देवप्रार्थनया शिवस्य प्रासादनिरू० २ ४. भूपरीक्षण् २ ५. भूसेकः २ ६. वास्तुलेखननिरू० २ ७. तदधिष्टातृदेवपूजा २ ८. त्याज्यदिनानि २ ९. खातविधिविधानम् ३ १०. कूर्मस्थापनम् ३ ११. शिलास्थापने पूजाबलिदानम् ३ १२. शिलाविन्यासयोगाः ४ १३. देवायतननिरू० ४ १४. तत्तद्द्रव्यजे तत्तत्फलानि ४ १५. प्रासादप्रमाणनिरू० ४ द्वितीयोऽध्यायः । १६. प्रासादनिर्माणनिरू० ५ १७. प्रासादप्रकारनिरू० ६ १८. प्रासादे देवप्रतिष्ठा० ७ १९. देवप्रदक्षिणानिरू० ८ २०. देवदृष्टिदोषनिरू० ८ २१. गणेशायतनम् ८ २२. विष्णोरायतनम् ९ २३. चण्डिकायतनम् ९ २४. शिवायतनम् ९ २५. त्रिपुरुषन्यासनिरू० ९ तृतीयोऽध्यायः । २६. भिदृनिरूपणम् ९ २७. पीठस्थापननिरू० १० २८. मण्डोवरः ११ २९. मेरुमण्डोवरः ११ ३०. सामान्यमण्डोवरः १२ ३१. मण्डोवरप्रकारान्तरम् १२ ३२. गर्भगृहोदयप्रमाणम् १२ ३३. उटुम्बरनिरूपणम् १३ ३४. अर्धचन्द्रनिरू० १३ ३५. नागरप्रासादद्वारनिरू० १३ ३६. भूमिजद्धारनिरू० १४ ३७. द्राविडद्वारनिरू० १४ ३८. द्वारप्रमाणनिरू० १४ ३९. त्रिशाखानिरू० १४ ४०. पञ्चशाखानिरू० १५ ४१. सप्तशाखानिरू० १५ ४२. नवशाखानिरू० १५ चतुर्थोऽध्यायः । ४३. प्रतिमाप्रमाणदृष्टिपदनिरू० १६ ४४. प्रासादस्योर्ध्वलक्षणम् १६ ४५. कलशनिरू० १९ ४६. ध्वजवक्षणपुण्याधिकारः १९ पञ्चमोऽध्यायः । ४७. सूत्रधारलक्षणम् २० ४८. नन्दननिरूपणम्० २१ ४९. सिंहकनिरू० २२ ५०. पञ्चाङ्गतिलकनिरू० २२ ५१. सप्ताङ्गतिलकनिरू० २२ ५२. भद्रप्रमाणनिरू० २३ षष्ठोध्यायः । ५३. पञ्चविंशतिप्रासादनिरू० २४ ५४. पञ्चक्षेत्रनिरू० २६ ५५. प्रासादानां जातयः २६ ५६. मेरुभेदनिरू० २६ ५७. सुरवल्लभनामनिर्देशः २७ ५८. भुवनमण्डननिर्देशः २७ ५९. रत्नशीर्षनिरू० २७ ६०. कमलहंसनिरू० २७ ६१. नवमेरुनिरू० २८ सप्तमोऽध्यायः । ६२. मण्डपनिरू० २९ ६३. अष्टगूढमण्डपाः २९ ६४. द्वादशमण्डपनिरू० ३० ६५. सामान्यमण्डपनिरू० ३० ६६. पञ्चविधवलानकनिरू० ३१ ६७. मण्डपस्योर्ध्वसंवर्णाः ३१ अष्टमोऽध्यायः । ६८. वास्तुनिरूपणम् ३२ ६९. जीर्णोद्धारनिरू० ३३ ७०. अचाल्यलिङ्गनिरू० ३३ ७१. भिन्नदोषनिरू० ३३ ७२. स्तम्भदोषनिरू० ३४ ७३. देवपुरराजपुरनिरू० ३४ ७४. मठनिरूपणम् ३४ ७५. प्रतिष्ठाविधिः ३५ ७६. मण्डपनिरू० ३६ ७७. कुण्डनिरूपणम् ३६ ७८. होमप्रमाणम् ३७ ७९. मण्डलप्रमाणम् ३७ ८०. स्थण्डिलमानम् ३७ ८१. स्थण्डिलपरिषेकः ३८ ८२. दिग्देवतास्थितिनिरू० ३८ ८३. स्थण्डिलार्चानिरू० ३९ ८४. स्थावरप्रतिष्ठा ४० ८५. सूत्रधा**रार्चा ४० ८६. प्रतिष्ठाविधिः ४० ८७. जिनप्रतिष्ठा ४० ८८. वास्तूत्पत्तिनिरू० ४१ ८९. चतुष्षष्टिवास्त्वर्चा ४२ ९०. वास्तुपुरुषन्यासः ४३ ९१. ग्रन्थसमाप्तिः ४३ पृ० १) प्रासादमण्डनं श्रीसूत्रधारमण्डनविरचितम् । श्रीगणेशाय नमः । श्रीकरञ्जेश्वर्घ्यै नमः ।। गणेशाय नमस्तस्मै निर्विघ्नं सिद्धिहेतवे । आदिगौरीसमुद्भूततेजसोंशभवाय वै ।। १ ।। महामायेति या गीता चिन्मयी मुनिसत्तमैः । तनोतु वाग्विलासं मे जिह्वायां सा सरस्वती ।। २ ।। सृष्टं श्रीसूत्रधारस्य प्रसादाद् विश्वकर्मणा । प्रासादमण्डनं ब्रूते सूत्रधारेषु मण्डनः ।। ३ ।। गृहेषु यो विधिः प्रोक्तो विनिवेशप्रवेशने । स एव विधिना कार्यो देवतायतनेष्वपि ।। ४ ।। हिमाद्रेरुत्तरे पार्श्वे देवदारुवनं परम् । पावनं शङ्करस्थानं तत्र सर्वैः शिवोऽर्चितः ।। ५ ।। ------------ १ वेश्म इति पाठान्तरम् । पृ० २) प्रासादाकारपूजाभिर्देवदैत्यादिभिः क्रमात् । चतुर्दश समुत्पन्नाः प्रासादानां च जातयः ।। ६ ।। नागरा द्राविडाश्चैव भूमिजा लविनास्तथा । सार्वधारा विमानादिनागराः पुष्पकाङ्किताः ।। ७ ।। प्रासादमिश्रकाश्चैवमष्टौ जातिषु चोत्तमाः । सर्वदेवेषु कर्तव्याः शिवस्यापि विशेषतः ।। ८ ।। प्रासादानां च सर्वेषां जातयो देशभेदतः । चतुर्दश प्रवर्तन्ते ज्ञेया लोकानुसारतः ।। ९ ।। लक्ष्यलक्षणतोऽभ्यासाद् गुरुमार्गानुसारतः । प्रासादभवनादीनां सर्वज्ञानमवाप्यते ।। १० ।। शुभलग्ने शुभर्क्षें च पञ्चग्रहबलान्विते । माससङ्क्रान्तिवत्सादिनिषेधे कालवर्जिते ।। ११ ।। सर्वदिक्षु प्लवां वा प्रागुदक्शङ्करदिक्प्लवाम् । भुवं परीक्ष्य सिञ्चेत् तु पञ्चगव्येन कोविदः ।। १२ ।। मणिना स्वर्णरूप्येण विद्रुमेण फलेन वा । चतुःषष्टिपदैर्वास्तुं लिखेद्वापि शतांशकैः ।। १३ ।। पिष्टेन वाक्षतैरूर्ध्वं ततो वास्तुं समर्चयेत् । पूर्वोक्तेन विधानेन बलिपुष्पादिपूजनैः ।। १४ ।। इन्द्रो वह्निः पितृपतिर्नैरृतिर्वरुणो मरुत् । कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।। १५ ।। दिक्पालाः क्षेत्रपालाश्च गणेशश्चण्डिका तथा । इत्येषां विधिवत्पूजां कृत्वा कर्म समारभेत् ।। १६ ।। धनुर्मीनस्थिते सूर्ये गुरौ शुक्रेऽस्तगे विधौ । वैधृतौ व्यतिपाते भेदग्धे नेष्टं कदाचन ।। १७ ।। पृ० ३) कन्यादित्रित्रिगे सूर्ये द्वारं पूर्वादिषु त्यजेत् । सृष्ट्या वत्समुखं तत्र स्वामिनो हानिकृद्यतः ।। १८ ।। आयो व्ययर्क्षमंशस्य भित्तिबाह्ये सुरालये । ध्वजायो देवनक्षत्रं व्ययांशौ प्रथमौ शुभौ ।। १९ ।। केषां च मरुतां गेहे वृष सिंह गजाः शुभाः । हीन आयाद् व्ययः श्रेष्ठः पिशाचस्तु समोऽधिकः ।। २० ।। देवतानां गृहे चिन्त्यमायाद्यङ्गचतुष्टयम् । नवाङ्गं नाडिवेद्यादिस्थापकाभ . . . . योर्मिथः ।। २१ ।। आयादिचिन्तनं भूमिलक्षणं वास्तुमण्डलम् । मासनक्षत्रलग्नादिचिन्तनं पूर्वशास्त्रतः ।। २२ ।। रात्रौ दिक्साधनं कुर्याद् दीपसूत्रध्रुवैक्यतः । समे भूमिप्रदेशे तु शङ्कुना दिवसेऽथवा ।। २३ ।। नागवास्तुं समालोक्य कुर्यात् खातविधिं सुधीः । पाषाणान्तं जलान्तं वा ततः कूर्मं निवेशयेत् ।। २४ ।। अर्धाङ्गुलो भवेत्कूर्म एकहस्ते सुरालये । अर्धाङ्गुला ततो वृद्धिः कार्या तिथिकरावधिः ।। २५ ।। एकत्रिशत्करान्तं च तदर्धा वृद्धिरिष्यते । ततोऽर्द्धादि शतार्द्धान्तं कूर्मो मन्वङ्गुलो मतः ।। २६ ।। चतुर्थांशाधिको ज्येष्ठः कनिष्ठो हीनयोगतः । सौवर्णो रूप्यजो वापि स्नाप्यः पञ्चासृतेन हि ।। २७ ।। तिलैर्यवैस्तथा होमं पूर्णां चैव प्रदापयेत् । ईशानादग्निकोणाद्वा शिलाः स्थाप्याः प्रदक्षिणाः ।। २८ ।। मध्ये कूर्मशिला पश्चाद्गीतवादित्रमङ्गलैः । बलिदानं च नैवेद्यं विविधान्नं घृतप्लुतम् ।। २९ ।। पृ० ४) देवताभ्यः सुधीर्दद्यात् कूर्मन्यासे शिलासु च । इति कूमस्थापनम् । सूत्रारम्भो गृहादीनामुत्तरायां करत्रये । ब्राह्मे पुष्ये मृगे मैत्रे पौष्णवासववारुणे ।। ३० ।। शिलान्यासस्तु रोहिण्यां श्रवणे हस्तपुष्ययोः । मृगशीर्षे च रेवत्यामुत्तरात्रितये शुभः ।। ३१ ।। नद्यां सिद्धाश्रमे तीर्थे पुरे ग्रामे च गह्वरे । वाटीवापितडागादिस्थाने कार्यं मुरालयम् ।। ३२ ।। शक्त्या काष्ठमृत्स्नेष्टकाशैलधातुजरत्नजम् । देवतायतनं कुर्याद्धर्मार्थकाममोक्षदम् ।। ३३ ।। देवानां स्थापनं पूजा पापहृद्दर्शनादिकम् । धर्मवृद्धिर्भवेदथः कामो मोक्षस्ततो नृणाम् ।। ३४ ।। कोटिघ्नं तृणजे पुण्यं मृन्मये दशसंगुणम् । ऐष्टके शतकोटिघ्नं शैलेऽनन्तं फलं गृहे ।। ३५ ।। कूर्मसंस्थापने द्वारे पद्माख्यायां तु पौरुषे । घटे ध्वजे प्रतिष्ठायामेवं पुण्याहसप्तकम् ।। ३६ ।। भूम्यारम्भे तथा कूर्मे शिलायां सूत्रपातने । खुरे द्वारोच्छ्रये कुम्भे पट्टे पद्मशिलासु च ।। ३७ ।। शुक्रनासे च पुरुषे घण्टायां कलशे तथा । ध्वजोच्छ्राय च कुर्वीत शान्तिकानि चतुर्दशं ।। ३८ ।। एकहस्तादिप्रासादो यावद्धस्तशतार्धकम् । प्रमाणं कुम्भके मूलनासिके भित्तिबाह्यतः ।। ३९ ।। कुम्भादिस्थावराणां च निर्गमः समसूत्रतः । पीठस्य निर्गमो बाह्यस्तथैव च्छाद्यकस्य च ।। ४० ।। पृ० ५) त्रिपञ्चसप्तनवभिः फालनाभिर्विभाजयेत् । प्रासादमङ्गस्रंख्या च वारिमार्गान्तरस्थिताः ।। ४१ ।। फालना कर्णतुल्या स्याद्भद्रं तु द्विगुणं समम् । सामान्योऽयं विधिस्तुल्यो हस्ताङ्गुलश्च निर्गमः ।। ४२ ।। इति श्रीसूत्रधारमण्डनविरचिते प्रासादमण्डने वास्तुशास्त्रे मिश्रकलक्षणे प्रथमोऽध्यायः ।। १ ।। अथ द्वितीयोऽध्यायः । प्रासादानामधिष्ठानं जगती सा निगद्यते । यथा सिंहासनं राज्ञां प्रासादस्य तथैव सा ।। १ ।। चतुरस्रायताष्टास्रा वृत्ता वृत्तायता तथा । जगती पञ्चधा प्रोक्ता प्रासादस्यानुरूप्यतः ।। २ ।। प्रासादपृथुमाना च त्रिगुणा च चतुर्गुणा । क्रमात् पञ्चगुणा प्रोक्ता ज्येष्ठा मध्या कनीयसी ।। ३ ।। कन्यसे कन्यसा ज्येष्ठा ज्येष्ठे मध्ये च मध्यमा । प्रासादे जगती कार्या सुरूपा लक्षणान्विता ।। ४ ।। रससप्तगुणाख्याता निजे पर्यायसंस्थिता । द्वारकायां तु कर्तव्या तथैव पुरुषत्रये ।। ५ ।। मण्डपानुक्रमेणैव सपादांशेन सार्द्धतः । द्विगुणा वायता कार्या सहस्रायतने विधिः ।। ६ ।। त्रिद्व्येकभ्रमसंयुक्ता ज्येष्ठा मध्या कनीयसी । उच्छ्रयः स्वत्रिभागेन भ्रमणीनां समुच्छ्रयः ।। ७ ।। चतुष्कोणैस्तथा सूर्यकोणैर्विंशतिकोणकैः । अष्टाविंशतिषट्त्रिंशत्कोणैः स्युः पञ्च फालनाः ।। ८ ।। पृ० ६) प्रासादादर्कहस्तान्तं त्रिंशोच्चा विंशती च सा । द्वात्रिंशती चतुर्थांशो भूतांशोच्चा शतार्द्धक ।। ९ ।। एकहस्ते करेणोच्चा साध्यार्धं सा चतुष्करे । सूर्यजैनशतार्द्धान्तं क्रमाद्द्वित्रियुगांशकैः ।। १० ।। तदुच्छ्रायं भजेत् प्राज्ञस्त्वष्टाविंशतिभिः पदैः । त्रिपदो जाड्यकुम्भश्च द्विपदं कणकं तथा ।। ११ ।। पद्मपत्रसमायुक्ता त्रिपदा सरपट्टिका । द्विपदं खुरकं कुर्यात् सप्तभागं च कुम्भकम् ।। १२ ।। कलशस्त्रिपदः प्रोक्तो भागेनान्तरपत्रकम् । कपोतालिस्त्रिभागे च पुष्पकण्ठो युगांशकैः ।। १३ ।। पुष्पको जाड्यकुम्भश्च निर्गमश्चाष्टभिः पदैः । कर्णेषु च दिशांपालाः प्राच्यादिषु प्रदक्षिणाः ।। १४ ।। प्राकारैर्मण्डिता कार्या चतुर्भिर्द्वारमण्डपैः । प्राकारैर्जलनिष्कासैः सोपानैस्तोरणादिभिः ।। १५ ।। मण्डपाग्रे प्रतोल्यग्रे सोपानं शुण्डिकाग्रतः । तोरणं कारयेत् तस्य पट्टं पट्टानुसारतः ।। १६ ।। तोरणस्योमयोः स्तंभविस्तरं गर्भमानतः । भित्तिगर्भप्रमाणेन तयोर्मध्येऽथवा भवेत् ।। १७ ।। वेदिकापीठरूपैश्च शोभाभिर्बहुभिर्युता । विचित्रं तोरणं कुर्याद् दोला देवस्य तत्र च ।। १८ ।। प्रासादाद्वाहनस्थाने करणीया चतुष्किका । एकद्वित्रिचतुष्पञ्चरससप्तपदान्तरे ।। १९ ।। अर्चाया नवमांशे तु पञ्चषट्सप्तभागिकः । गुह्यनाभिस्तनान्तं वा त्रिविधो वाहनोदयः ।। २० ।। पृ० ७) पादजानुकटीयावदर्चायां वाहनस्य दृक् । वृषस्य विष्णुभागान्ते सूर्ये व्योमस्तनान्तकम् ।। २१ ।। जिनाग्रे समवर्णाग्रं शुकाग्रे गूढमण्डपे । गूढस्याग्रे चतुष्का स्यात्तदग्रे नृत्यमण्डपम् ।। २२ ।। द्विसप्तत्या द्विबाणैर्वा चतुर्विंशतितोऽपिवा । जिनालये चतुर्दिक्षु सहितं जिनमन्दिरम् ।। २३ ।। मण्डपाद् गर्भसूत्रेण वामदक्षिणयोर्दिशोः । अष्टापदं प्रकर्तव्यं त्रिशाला वा वराणकम् ।। २४ ।। अपरे रथशाला च मठं याम्ये प्रकीर्तितम् । उत्तरे रथरन्ध्रं च प्रोक्तं श्रीविश्वकर्मणा ।। २५ ।। जगतीं तादृशीं कुर्यात्प्रासादो यादृशो भवेत् । भिन्नच्छन्दा न कर्तव्या प्रासादासनसंस्थिस्ता ।। २६ ।। इति प्रासादजगती । अग्रतः पृष्ठतश्चैव वामदक्षिणतोऽपिवा । प्रासादं कारयेदन्तर्नाभिवेधविवर्जितम् ।। २७ ।। लिङ्गाग्रे नतु कर्तव्या अर्चारूपेण देवता । प्रभा नष्टा न भोगाय यथा तारा दिवाकरे ।। २८ ।। शिवस्याग्रे शिवं कुर्याद् ब्रह्माणं ब्रह्मणोऽग्रतः । विष्णोरग्रे भवेद्विष्णुर्जिनो जैने रवौ रविः ।। २९ ।। ब्रह्मविष्णुरेकनाभिर्द्वाभ्यां दोषो न विद्यते । शिवस्याग्रेऽन्यदेवस्य दृष्टिवेधे महद्भयम् ।। ३० ।। प्रसिद्धराजमार्गस्य प्राकारस्यान्तरेऽपिवा । स्थापयेदन्यदेवांश्च तत्र दोषो न विद्यते ।। ३१ ।। शिवस्नानोदकं गूढमार्गं चण्डीमुखे क्षिपेत् । पृ० ८) दृष्टं न लङ्घयेत् तत्र हन्ति पुण्यं पुराकृतम् ।। ३२ ।। एका चण्ड्या रवेः सप्त तिस्रो दद्याद्विनायके । चतस्रो वासुदेवस्य शिवस्यार्धा प्रदक्षिणा ।। ३३ ।। अग्रतो जिनदेवस्य स्तोत्रमन्त्रार्चनादिकम् । कुर्यान्न दर्शयेत्पृष्ठं संमुखं द्वारलङ्घनम् ।। ३४ ।। पूर्वापरामुखद्वारे प्रणालं शुभमुत्तरे । इति शास्त्रविचारोऽयमुत्तरेशानदेवताः ।। ३५ ।। मण्डपे ये स्थिता देवास्तेषां वामे च दक्षिणे । प्रणालं कारयेद्धीमान् जगत्यां च चतुर्दिशम् ।। ३६ ।। पूर्वापरास्यं देवानां कुर्यान्नो दक्षणोत्तरम् । ब्रह्मविष्णुशिवार्केन्द्रगुहाः पूर्वापराङ्मुखाः ।। ३७ ।। नगराभिमुखाः श्रेष्ठा मध्ये बाह्ये च देवताः । गणेशो धनदो लक्ष्मीः पुरद्वारे सुखावहाः ।। ३८ ।। विघ्नेशो भैरवश्चण्डी नकुलीशो ग्रहास्तथा । मातरो धनदश्चैव शुभा दक्षिणदिङ्मुखाः ।। ३९ ।। निरृत्यभिमुखः कार्यो हनुमान् वानरेश्वरः । अन्ये विदिङ्मुखा देवा न कर्तव्याः कदाचन ।। ४० ।। इति देवानां दृष्टिदोषदिग्विभागः । सूर्याद्गणेशो विष्णुश्च चण्डी शम्भुः प्रदक्षिणे ।। ४१ ।। भानोगृहे ग्रहास्तस्य गणा द्वादश मूर्तयः । श्रीसूर्यः . . . . . . . . . . . . । गणेशस्य गृहे तद्वच्चण्डी शंभुर्हरी रविः ।। ४२ ।। मूर्तयो द्वादशान्येऽपि गणाः स्थाप्या हिताश्च येः । इति गणेशायतनम् ।। ४३ ।। पृ० ९) विष्णोः प्रदक्षिणेनैव गणेशोऽर्कोऽम्बिका शिवः । स्थाप्यास्तस्थावतारस्य मूर्तयो द्वारकां तथा ।। ४४ ।। इति विष्णोवायतनम् । चण्ड्याः शंभुर्गणेशोऽर्को विष्णुःस्थाप्याः प्रदक्षिणाः । मातरो मूर्तयो देवा योगिन्यो भैरवादयः ।। ४५ ।। इति चण्डिकायतनम् । शंभोः सूर्यो गणेशश्च चण्डी विष्णुः प्रदक्षिणे । स्थाप्याः सर्वे शिवस्थाने दृष्टिवेधविवर्जिताः ।। ४६ ।। इति शिवायतनम् । रुद्रस्त्रिपुरुषो मध्ये रुद्राद्वामगतो हरिः । दक्षिणाङ्गे भवेद्ब्रह्मा विपर्यासे भयावहाः ।। ४७ ।। रुद्रवक्त्रत्रिभागेन हरिरर्द्धे पितामहः । तत्तुल्या पार्वतीदेवी सुखदा सर्वकामदा ।। ४८ ।। इति त्रिपुरुषन्यासः ।। इति प्रासादमण्डने जगतीदृष्टिदोषायतनाधिकारे द्वितीयोऽध्यायः ।। २ ।। अथ तृतीयोऽध्यायः । अतिस्थूलातिविस्तीर्णा प्रासादाधारिणी शिला । अतीव सुदृढा कार्या इष्टिकाचूर्णवारिभिः ।। १ ।। शिलोपरि भवेद्भिट्टमेकहस्ते युगाङ्गुलम् । अर्धाङ्गुला भवेद्वृद्धिर्यावद्धस्तशतार्धकम् ।। २ ।। अङ्गुलेनांशहीनेन अर्धेनार्धेन च क्रमात् । पृ० १०) पञ्चदिग् विंशतिर्यावच्छतार्धं च विवर्धयेत् ।। ३ ।। एकद्वित्रीणि भिट्टानि हीनहीनानि कारयेत् । स्वस्वोदयप्रमाणस्य चर्तुर्थांशेन निर्गमः ।। ४ ।। इति भिट्टः । पीठमर्धं त्रिपादांशैरेवं द्वित्रिकरे गृहे । चतुर्हस्ते त्रिसार्द्धांशं पादांशं पञ्चहस्तके ।। ५ ।। दशविंशतिषट्त्रिंशच्शतार्द्धं हस्तकावधि । वृद्धिर्वेदत्रियुग्मैकसंख्या स्यादङ्गुलैः क्रमात् ।। ६ ।। पञ्चांशहीनमाधिक्यमेकैकं तु त्रिधा पुनः । त्रिपञ्चाशत् समुत्सेधे द्वाविंत्यंशनिर्गमे ।। ७ ।। नवांशो जाड्यकुम्भश्च सप्तांशं कणकं भवेत् । सान्तरालं कपोतालिः सप्तांशा ग्रासपट्टिका ।। ८ ।। सूर्यदिग्वसुभागैश्च गजवाजिनराः क्रमात् । वाजिस्थानेऽथवा कार्यं स्वं स्वं देवस्य वाहनम् ।। ९ ।। पञ्चांशा कणिकाग्रे तु निर्गमो जाड्यकुम्भकम् । त्रिसार्द्धं कणकं सार्द्धं चतुर्भिर्ग्रासपट्टिका ।। १० ।। कुम्भराश्च नरा वेदा रामयुग्मांशनिर्गमः । अन्तरालमधस्तेषामूर्ध्वार्धकर्णयुग्मकम् ।। ११ ।। गजपीठं विना स्वल्पद्रव्ये पुण्यं महत्तरम् । जाड्यकुम्भः कणाली च ग्रासपट्टी तदा भवेत् ।। १२ ।। कामदं कणपीठं च जाड्यकुम्भः कणालिका । लतिने निर्गमे हीने साधारे निर्गमाधिकम् ।। १३ ।। सर्वेषां पीठमाधारः पीठहीनं निराश्रयम् । पीठहीनं विनाशाय प्रासादभुवनादिकम् ।। १४ ।। पृ० ११) इति पीठम् । हस्तादिपञ्चपर्यन्तं विस्तारेणोदयः समः । स क्रमान्नवसप्तेषुरामचंद्रौङ्गुलोऽधिकः ।। १५ ।। पञ्चादिदशपर्यन्तं त्रिंशद्यावच्छताधकम् । हस्ते हस्ते क्रमाद्वृद्धिर्मनुसूर्यनवाङ्गुला ।। १६ ।। एकहस्तादिपञ्चान्तं पृथुत्वेनोदयः समः । हस्ते सूर्याङ्गुला वृद्धिर्यावत्त्रिंशत्करावधि ।। १७ ।। नवाङ्गुला करे वृद्धिर्यावद्धस्तशतार्द्धकम् । पीठोर्द्धे उदयश्चैव छाद्यान्ते नागरोधिकम् ।। १८ ।। एकविंशत्पञ्चभक्तेः प्रासादस्य समुच्छ्रयः । पञ्चादिनवभागान्तं पीठस्य पञ्चधोदयः ।। १९ ।। वेदवेदेन्दुभक्ते तु छाद्यान्ते पीठमस्तकात् । खुरकः पञ्चभागं स्याद्विंशतिःकुम्भकस्तथा ।। २० ।। कलशोऽष्टौ द्विसार्धं तु कर्तव्यमन्तरालकम् । कपोतिकाष्टौ मञ्ची स्यात् कर्तव्या नवभागिका ।। २१ ।। पञ्चत्रिंशत्पदा जङ्घा तिथ्यंशैरुद्गमो भवेत् । वसुभिर्भरणि कार्या शिरापट्टी दशांशिका ।। २२ ।। अष्टांशोर्ध्वा कपोतालिर्द्धिसार्धमन्तरालकम् । छाद्यं त्रयोदशांशोच्चं दशभागैर्विनिर्गमः ।। २३ ।। इति मण्डोवरः । मेरुमण्डोवरे मञ्ची भरण्यूर्द्धेऽष्टभागिका । पञ्चविंशतिका जङ्घा उदग्मश्च त्रयोदश ।। २४ ।। अष्टांशा भरणी शेषं पूर्ववत्कल्पयेत्सुधी । सप्तभागा भवेन्मञ्ची कूटछाद्यस्य मस्तके ।। २५ ।। पृ० १२) षोडशांशा पुनर्जङ्घा भरणी सप्तभागिका । शिरावटी चतुर्भागा पट्टःस्यात्पञ्चभागिकः ।। २६ ।। सूर्यांशैः कूटछाद्यञ्च सर्वकामफलप्रदम् । कुम्भकस्य युगांशेन स्थावराणां प्रवेशकः ।। २७ ।। इति मेरूमण्डोवरः । शिरावट्युद्गमो मञ्ची जङ्घारूपाणि वर्जयेत् । अल्पद्रव्ये महत्पुण्यं कथितं विश्वकर्मणा ।। २८ ।। इति सामान्यमण्डोवरः । पीठतः छाद्यपर्यन्तं सप्तविंशतिभाजिते । द्वादशानां खुरादीनां भागसंख्या क्रमेण तु ।। २९ ।। स्यादेकवेदसार्धाद्धं सार्धस्यार्द्धाष्टमिस्त्रिभिः । सार्द्धस्यार्धार्धभागैः स्याद्द्विसार्धैर्द्व्यंशनिर्गमः ।। ३० ।। इति प्रकारान्तरेण मण्डोवरः । पादांशेनैष्टक पञ्चषडंशैः शैलदारुजे । साधारऽष्टांशतो भित्तिर्दशांशैर्धातुरत्नजे ।। ३१ ।। मध्ये युगास्रं भद्रार्द्धा सुभद्रं प्रदिभद्रकम् । फालनीयं गर्भगृह दोषदं गर्भमायतम् ।। ३२ ।। कुम्भकेन समा कुम्भी स्तम्भप्रान्तज उद्गमः । भरण्या भरणं शीर्षं कपोताल्या समं भवेत् ।। ३३ ।। पेटके कटुछाद्यस्य कुर्यात्पट्टस्य पेटकम् । सषडंशः सपादस्य सार्धो गर्भस्य विस्तरात् ।। ३४ ।। बृहद्देवालये पट्टे पेटान्तं हि त्रिधोदयः । भवेदष्टाभिरेकांशा कुम्भस्तम्भोऽर्द्धपञ्चभिः ।। ३५ ।। अर्धेन भरणि शीर्षमेकः पट्टस्तु सार्द्धकम् । पृ० १३) व्यासार्धेन करोटं स्यादर्द्धयोविषमाश्रुता ।। ३६ ।। इति गर्भगृहोदयप्रमाणम् । मूलकर्णैश्च सूत्रेण कुम्भेनोदुम्बरः समः । तदधः पञ्चरत्नानि स्थापयेत् शिल्पिपूजनात् ।। ३७ ।। द्वारन्यासे त्रिभागेन मध्ये मन्दारको भवेत् । वृत्तं मन्दारकं कुर्यात् मृणालं पद्मसंयुतम् ।। ३८ ।। जाड्यकुम्भः कणाली च कीर्तिवक्त्र द्वयं तथा । उदुम्बरस्य पार्श्वे च शाखायां स्तलरूपकम् ।। ३९ ।। कुम्भस्यार्धे त्रिभागे वा पादेहीन उदुम्बरः । तद्द्वयं कणकं मध्ये पीठके बाह्यभूमिका ।। ४० ।। इति उदुम्बरः । खुरकेन समं कुर्यादर्धचन्द्रस्य चोच्छ्रितिः । द्वारव्याससम दैर्घ्यं निर्गमञ्च तदर्धतः ।। ४१ ।। द्विभागमर्धचंद्रं च भागेन द्वौ गगारकौ । शङ्खपत्रसमायुक्तं पद्माकारैरलङ्कृतम् ।। ४२ ।। इति अर्धचन्द्रः । एकहस्ते तु प्रासादे द्वारं स्यात्षोडशाङ्गुलम् । षोडशाङ्गुलिका वृद्धिर्यावद्धस्तचतुष्टयम् ।। ४३ ।। अष्टहस्तान्तकं यावद्दीर्घे वृद्धिर्गुणाङ्गुला । द्व्यङ्गुलमतिहस्तञ्च यावद्धस्तशतार्धकम् ।। ४४ ।। यावद् वाहनपर्यङ्कद्वारं प्रासादसद्मनाम् । दैध्यार्धेन पृथुत्वे स्याच्छोभनं तत्कलाधिकम् ।। ४५ ।। इति नागरप्रासादद्वारम् । एकहस्ते सुरागारे द्वारं सूर्याङ्गुलोदयम् । पृ० १४) सूर्याङ्गुला प्रतिकरं वृद्धिःपञ्चकरावधिः ।। ४६ ।। पञ्चाङ्गुला च सप्तान्त द्व्यङ्गुला तु शतार्धके । नवान्तं स्याद्युगाङ्गुलं वृद्धिः कार्या करं प्रति ।। ४७ ।। इति भूमिजे द्वारम् । प्रासादे चैकहस्ते तु द्धारं कुर्याद्दशाङ्गुलम् । रसहस्तान्तकं यावत् तावता वृद्धिरिष्यते ।। ४८ ।। पञ्चाङ्गुलाद्दशान्तं च द्वयङ्गुलं वा शतार्धकम् । . . . . . . . . . . . . . . . ।। ४९ ।। इति द्राविडे द्वारम् । विमाने भौमजं मानं विराटेषु तथैव च । मिश्रके लतिने चैव प्रशस्तं नागरोद्भवम् ।। ५० ।। विमाननगरछन्दे कुर्यात् विमानपुष्पके । सिंहावलोकने द्वारं नागरं शोभनं मतम् ।। ५१ ।। वलभ्यां भौमजं मानं फासाकारेषु द्राविडे । धातुजे रत्नजे चैव दारुजे च रथारुहे ।। ५२ ।। इति द्वारप्रमाणम् । नवशाखं महेशस्य देवानां सप्तशाखिकम् । पञ्चशखं सावभौमे त्रिशाखं मण्डलेश्वरे ।। ५३ ।। एकशाखं भवेद्द्वारं वैश्ये शूद्रे द्विजे सदा । समशाखं धूमाय . . . श्वानरासभवायसे ।। ५४ ।। त्रिपञ्चसप्तनन्दाङ्गे शाखाःस्युरङ्गतुल्यकाः । हीनशाखं न कर्तव्यमधिकार्द्धं सुखावहम् ।। ५५ ।। अङ्गुल सार्धमर्द्धञ्च कुर्याद्धीनं तथाधिकम् । आपद्दोषविशुद्ध्यर्थं ह्रासो वृद्धिर्न दुष्यति ।। ५६ ।। पृ० १५) चतुर्भागाङ्कितं कुर्यात् शाखाविस्तारमानकम् । मध्ये द्विभागिकं कुर्यात् स्तम्भं पुरुषसंज्ञकम् ।। ५७ ।। त्रिसंज्ञका भवेत् शाखा पार्श्वतो भागभागिका । निर्गमे चैकभागेन रूपस्तम्भः प्रशस्यते ।। ५८ ।। एकांशं सार्द्धभागञ्च पादोनद्वयमेव च । द्विभागं निर्गमे कुर्यात् स्तम्भं द्रव्यानुसारतः ।। ५९ ।। पेटके विस्तरं कार्यं प्रवेशस्तु युगांशकम् । कोणिका स्तम्भमध्ये तु भूषणार्था हि पार्श्वतः ।। ६० ।। द्वारदैर्घ्यचतुर्थांशे द्वारपालो विधीयते । स्तम्भं शाखादिकं शेषे त्रिशाखावद्विभाजयेत् ।। ६१ ।। इति त्रिशाखम् । पत्रशाखा च गन्धर्वा रूपस्तम्भतृतीयके । चतुर्थी स्वल्पशाखा च सिंहशाखा च पञ्चमी ।। ६२ ।। इति पञ्चशाखा । प्रथमा पत्रशाखा च गन्धर्वा रूपशाखिका । चतुर्थी स्तम्भशाखा च रूपशाखा च पञ्चमी ।। ६३ ।। षष्ठी तु शल्यशाखा च सिंहशाखा च सप्तमी । स्तम्भशाखा भवेन्मध्ये रूपशाखाग्रसूत्रतः ।। ६४ ।। इति सप्तशाखाः ।। पत्रगन्धर्वसंज्ञा च रूपस्तम्भतृतीयके । चतुर्थी शल्यशाखा च गन्धर्वा त्वथ पञ्चमी ।। ६५ ।। रूपस्तम्भस्तथा षष्ठी रूपशाखा ततः परा । शल्यशाखा च सिंहाख्या मूलकर्णेन संमिता ।। ६६ ।। यस्य देवस्य या मूर्तिः सैव कार्योत्तराङ्गके । पृ० १६) शाखायाञ्च परीवारो गणेशश्चोत्तराङ्गके ।। ६७ ।। इति नवशाखा । इति प्रासादमण्डने वास्तुशास्त्रे पीठमण्डोवरगर्भगृह उदुम्बरप्रमाणं तृतीयोऽध्यायः ।। ३ ।। अथ चतुर्थोऽध्यायः । द्वारोच्छ्रायोऽष्टनवधा भागमेकं परित्यजेत् । शेषे त्र्यंशे द्विभागार्च्चा त्र्यंशोना द्वारतोऽथवा ।। १ ।। द्वारदैर्घ्ये तु तिथ्यंशो तिथिशक्रकलांशकैः । ऊर्ध्वार्चा आसनस्था च मनुविश्वार्कभागतः ।। २ ।। चतुरस्रीकृते क्षेत्रे दशभागविभाजिते । भित्तिर्द्विभागा कर्तव्या षट्भागं गर्भमन्दिरम् ।। ३ ।। तृतीयांशेन गर्भस्य प्रासादे प्रतिमोत्तमा । मध्यमा स्वदशांशोना पञ्चांशोना कनीयसी ।। ४ ।। आयभागैर्मजेद्द्वारमष्टमं तूर्द्धतस्त्यजेत् । सप्तमे सप्तमे दृष्टिर्वृषे सिंहे ध्वजे शुभा ।। ५ ।। षष्टभागस्य पञ्चांशो लक्ष्मीनारायणादिदृक् । शयनार्चेशलिङ्गानि द्वारार्धं न व्यतिक्रमेत् ।। ६ ।। पट्टाधो यक्षभूताद्याः पट्टाग्रे सर्वदेवताः । तदग्रे वैष्णवं ब्राह्मं मध्ये लिङ्ग शिवस्य च ।। ७ ।। इति प्रतिमाप्रमाणदृष्टिपदस्थापनम् । छाद्यस्योर्धे प्रहारः स्यात् शृङ्गे शृङ्ग तथैव च । प्रासादशृङ्गशृङ्गेषु अधोभागे तु छाद्यकम् ।। ८ ।। पृ० १७) छाद्यं भागद्वयं सार्द्धं सार्द्धभागं च पालवम् । मुण्डलीकं भागमेकं भागेन तिलकस्तथा ।। ९ ।। मूलकर्णे रथादौ वा एकद्वित्रिक्रमान्न्यसेत् । निराधारे मूलभित्तौ साधारे भ्रमभित्तिषु ।। १० ।। उरुशृङ्गाणि भद्रे स्युरेकादिग्रहसंख्यया । त्रयोदशोर्द्धे सप्तार्द्धे लुप्तानि चोरुशृङ्गकैः ।। ११ ।। रेखामूलेन दिग्भागं कुर्यादग्रे षडंशकम् । षड्बाह्ये दोषदं प्रोक्तं पञ्चमध्ये न शोभनम् ।। १२ ।। सपादं शिखरं कार्यं सकर्णं शिखरोदयम् । सपादकर्णयोर्मध्ये उदये पञ्चविंशतिः ।। १३ ।। प्रोक्ता रेखा कलाभेदैर्वलणैः पञ्चविंशतिः । पञ्चादिनवयुग्मान्तं खण्डानि तेष्वनुक्रमात् ।। १४ ।। अंशवृद्ध्या कलाः कार्या दैर्घ्ये स्कन्धेऽपि तत्समाः । अष्टादावष्टषष्ठ्यन्तं चतुर्वृद्ध्या तु षोडश ।। १५ ।। दैर्घ्यतुल्याः कलाः स्कन्धे एकहीनास्तु षोडश । ऊर्ध्वा अष्टदशांशाः स्युस्तिर्यक्षोडश एव च ।। १६ ।। चक्रेऽस्मिन्संभवन्त्येव रेखाणां षट्शतद्वयम् । त्रिखंडात् खण्डवृद्धिश्च यावदष्टादशैव हि ।। १७ ।। एकैकांशे कलाष्टौ च समाचारस्तु षोडश । द्वितीयप्रथमे खण्डे कलाष्टौ द्वितीये नव ।। १८ ।। तृतीये दशखंडेषु शेषेषूर्ध्वेष्वयं क्रमः । अष्टदिक्षु सुभागैश्च त्रिखण्डा तृतीया भवेत् ।। १९ ।। अनेन क्रमयोगेन कोष्ठानङ्कैः प्रपूरयेत् । रेखाणां जायते संख्या षट्पञ्चाशच्छतद्वयम् ।। २० ।। पृ० १८) सव्यासं शिखरं कार्यं सकर्णं शिखरोदयम् । व्यासस्य कर्णयोर्मध्ये रेखाः स्युः पञ्चविंशतिः ।। २१ ।। विंशद्भिर्विभजेद्भागैः शिलातः कलशान्तकम् । मण्डो वरोऽष्टसार्द्धाष्टनवांशैः शिखरोदयम् ।। २२ ।। रेखामूलस्य विस्तारे पद्मकोशं समालिखेत् । चतुर्गुणेन सूत्रेण सपादः शिखरोदयः ।। २३ ।। स्कन्धकोशान्तरे सप्तभक्ते ग्रीवात्रिभागतः । सार्धमामलसारञ्च पद्मप्रत्रन्तु सार्द्धकम् ।। २४ ।। त्रिभाग उच्चकलशो द्विभागं तस्य विस्तरम् । प्रासादस्याष्टमांशेन पृथुत्वकलशाण्डके ।। २५ ।। छाद्यतः स्कन्धपर्यन्तमेकविंशतिभाजिते । अङ्कदिग्रुद्रसूर्यांशैर्विश्वांशैस्तस्य चोच्छ्रयः ।। २६ ।। शुकनासस्य संस्थानं छाद्योर्ध्वे प्रञ्चधा मतम् । एकत्रिपञ्चसप्ताङ्कसिंहस्थानानि कल्पयेत् ।। २७ ।। द्वारस्य दक्षिणे वामे कपिली षट्विधा मता । तदूर्ध्वे शुकनासा स्यात् सैव प्रासादनासिका ।। २८ ।। प्रासादो दशभागश्च द्वित्रिवेदांशसंमिता । प्रासादेनार्द्धपादेन त्रिभागनाथ निर्मिता ।। २९ ।। शृङ्गोरशृङ्गप्रत्यङ्गैः खण्डकान् गणयेत्सुधीः । तवाङ्गं तिलकं कर्णे कुर्यात्प्रासादभूषणम् ।। ३० ।। दशांशे शिखरेमूले अग्रे तत्र नवांशके । सार्धांशकौ रथौ कोणौ द्वौशेषं भद्रमिष्यते ।। ३१ ।। रथयोरुभयोर्मध्ये वृत्तमामलसारकम् । पृ० १९) उत्सेधो विस्तरार्धेन चतुर्भागर्विभाजयेत् ।। ३२ ।। ग्रीवा चामलसारश्च पादोनञ्च सपादकम् । चन्द्रिकाभागमानेन भागेनामलसारिका ।। ३३ ।। घृतपात्रं न्यसेन्मध्ये ताम्रपात्रं सुवर्णजम् । सौवर्णं पुरुषं तत्र तुली?पर्यङ्कशायिनम् ।। ३४ ।। प्रमाणं पुरुषं सार्धाङ्गुलं कुर्यात्करं प्रति । त्रिपताकं करे वामे हृदिस्थं दक्षिण करम् ।। ३५ ।। प्रासादपृष्ठदेशे तु दक्षिणे प्रतिरर्थके । ध्वजाधारस्तु कर्तव्य ईशाने नैरृतेऽथवा ।। ३६ ।। इति प्रासादस्योर्द्धं लक्षणम् । क्षीरार्णवसमुत्पन्नं प्रासादस्याग्रजातकम् । माङ्गल्येषु च सर्वेषु कलशं स्थापयेद्बुधः ।। ३७ ।। पूर्वोक्तमानतो ज्येष्ठः षोडशांशाधिको भवेत् । ग्रीवापीठं भवेद्भागं त्रिभागेनाण्डकं तथा ।। ३८ ।। कर्णिकाभागतुल्ये च त्रिभागं बीजपूरकम् । एकांशमग्रे द्वौ मूले वह्निवेदांशकर्णिके ।। ३९ ।। ग्रीवा द्वौ पीठमर्धं द्वौ षड्भागं विस्तराण्डकम् । इति कलशः । दण्डस्तत्तृतीयांशेन शिलान्तकलशान्तकम् ।। ४० ।। मर्ध्येष्टांशेन हीनोऽसौ ज्येष्ठपादोऽन्यकन्यसः । प्रासादपृथुमानेन दण्डो ज्येष्ठः प्रकीर्तितः ।। ४१ ।। मध्यो हीनो दशांशेन पञ्चमांशेन कन्यसः । एकहस्ते तु प्रासादे दण्डः पादोनमङ्गुलम् ।। ४२ ।। कुर्यादर्धाङ्गुलं वृद्धिर्यावत्पञ्चदशाहतम् । पृ० २०) सुवृत्तः सारदारुश्च ग्रन्थिकण्टकवर्जितः ।। ४३ ।। पर्वभिर्विषमैः कार्यःसमग्रन्थिः सुखावहः । दण्डदीर्घषडंशेन मर्कट्य ? र्धेनविस्तरः ।। ४४ ।। अर्धचन्द्राकृतिः पार्श्वे घण्ट द्वे कलशस्तथा । ध्वजो दण्डप्रमाणेन धैर्घ्येंऽष्टांशेन विस्तरे ।। ४५ ।। नानावस्त्रविचित्राणि त्रिपञ्चाग्रशिखोपमा । पुरे च नगरे कोट्टे रथे राजगृहे तथा ।। ४६ ।। वापीकूपतडागेषु ध्वजाः कार्याः सुशोभनाः । निष्पन्नं शिखरं दृष्ट्वा ध्वजहीनं न कारयेत् ।। ४७ ।। असुरा वासमिच्छन्ति ध्वजहीने सुरालये । ध्वजोच्छ्रायेण तुष्यन्ति देवाश्च पितरस्तथा ।। ४८ ।। दशाश्वमेधिकं पुण्यं सर्वतीर्थधरादिकम् । पञ्चशत्पूर्वतः पश्चादात्मानञ्च तथाधिकम् ।। ४९ ।। शतमेकोत्तरं सोऽपि तारयेन्नरकार्णवात् । इति ध्वजलक्षणपुण्याधिकारः । इति प्रतिमादृष्टिपदस्थानशिखरध्वजकलशलक्षणाधिकारश्चतुर्थोऽध्यायः ।। ४ ।। अथ पञ्चमोऽध्यायः । नानाविधमिदं विश्वं विचित्रं येन सूत्रितम् । सूत्रधारः स एव स्यात् सर्वेषां पालनक्षमः ।। १ ।। न्यूनाधिकं प्रसिद्धञ्च यकिञ्चिन्मण्डनोदितम् । विश्वकर्मप्रसादेन शिल्पिभिर्मन्यतांवचः ।। २ ।। पृ० २१) चतुर्भागं समारभ्य यावत्सूर्योत्तरशतम् । भागसंख्येति विख्याता फालना कर्णबाह्यतः ।। ३ ।। अष्टोत्तरशतं भेदा अंशवृद्धया भवन्ति ते । समांशैर्विषमैः कार्या नन्दमेदैश्च फालनाः ।। ४ ।। एकस्यापि तलस्योर्ध्वे शिखराणि बहून्यपि । नामानि जातयस्तेषामूर्ध्वमार्गानुसारतः ।। ५ ।। दशहस्तादधो नास्ति प्रासादो भ्रमसंयुतः । नवाष्टदशभागेन भ्रमो भित्तिर्विधीयते ।। ६ ।। वैराज्यश्चतुरस्रस्तु चतुर्द्वारचतुष्किका । प्रासादो ब्रह्मणः प्रोक्तो धीमता विश्वकर्मणा ।। ७ ।। सपादं शिखरं कार्यं घण्टाकुलिशभूषितम् । चतुर्भिः शुकनासैस्तु सिंहकर्णैर्विराजितम् ।। ८ ।। एकद्वारं भवेत्पूर्वं द्विद्वारं पूर्वपश्चिमम् । त्रिद्वारे मध्यजं द्वारं दक्षिणास्यं विवर्जयेत् ।। ९ ।। चतुर्द्वारं चतुर्दिक्षु शिवब्रह्मजिनालये । होमशाला चतुर्द्वारा क्वचिद्राजगृहे तथा ।। १० ।। वैराज्यादिसमुत्पन्नाः प्रासादा ब्रह्मणार्चिताः । एकत्रिपञ्चसप्ताङ्कशाखान्तैः पञ्चविंशतिः ।। ११ ।। चतुर्भक्ते भवेत् कोणो भागो भद्रं द्विभागिकम् । भागार्धं निर्गमं भद्रे प्रकुर्यान्मुखभद्रकम् ।। १२ ।। शृङ्गमेकं भवेत् कर्णे द्वे द्वे भद्रे च नन्दनम् । इति नन्दनम् । तथाचोक्तम् । मुखभद्रे पतिभद्रमुद्गमो रथिकोपरि ।। १३ ।। पृ० २२) कर्णशृङ्गे सिंहकर्णं सिंहनामा स उच्यते । देवानां तु प्रकर्तव्यं सिंहस्तत्रैव शाश्वतः ।। १४ ।। तुष्यते गिरिजा तस्य सौभाग्यधनपुत्रकैः । रथिकां सिंहकर्णं च भद्रे शृङ्गे च सिंहकः ।। १५ ।। इति सिंहः । कर्णे शृङ्गं तु पञ्चाण्डकश्रीनन्दन उच्यते । अगा इति षड्भागैश्च चतुरस्रं विभाजयेत् ।। १६ ।। कर्णं प्रतिरथं कुर्याद्भद्रार्द्धं भागभागिकम् । समनिर्गममस्माच्च भद्रं भागार्द्धनिर्गमः ।। १७ ।। द्वे द्वे कर्णे तथा भद्रे चैकं च प्रतिरथ्यकम् । मन्दिरं तृतीयं भद्रमलयोर्भद्रजं त्यजेत् ।। १८ ।। प्रत्येकं तिलकं कुर्यात् प्रतिरथ्ये विमानकः । भद्रोरुशृङ्गवैशालप्रतिरथ्ये सुभूषणः ।। १९ ।। इति पञ्चाङ्गाः पञ्च । चतुरस्रेऽष्टभिर्भक्ते कर्णे प्रतिरथं रथम् । भद्रार्धं भागभागं च भागार्धेन विनिर्गमम् ।। २० ।। वारिमार्गान्तरयुता रथाश्च तुल्यनिर्गमाः । शृङ्गयुग्मे च तिलकं कर्णे द्वे प्रतिरथ्यकः ।। २१ ।। एकं चोपरथे भद्रे त्रीणि त्रित्रिचतुर्दिशम् । शिखरं पञ्चविस्तारं महेन्द्रो राज्यदो नृणाम् ।। २२ ।। कर्णे शृङ्गत्रयं शेषं पूर्ववद्रत्र शीर्षकम् । त्यक्त्वैकशृङ्गभद्रस्य मतालम्बं न कारयेत् ।। २३ ।। मस्तके तस्य च्छाद्यस्य शृङ्गयुग्मं प्रदापयेत् । सितशृङ्गस्तदा नाम ईश्वरस्य सदा प्रियः ।। २४ ।। पृ० २३) तिलकं चोपरथ्य तु भूधरो नाम नामतः । छाद्यशृङ्गे तु तिलकं नाम्ना भुवनमण्डनः ।। २४*** ।। [ष्ह्लोक नुम्बेरिन्ग् मिस्तके fओउन्द् fरोम् हेरे लिके २३, ६१, २४ थेन् २५ अन्द् चोन्तिनु..] शृङ्गद्वयं चोपरथे तिलकं कारयेत् सुधीः । त्रैलोक्यविजयो भद्रशृङ्गे न क्षितिवल्लभः ।। २५ ।। इति सप्ताङ्गः । दशभागकृते क्षेत्रे भद्रार्धं भागमानतः । त्रयं प्रतिरथः कर्णे भागो भागसमो भवेत् ।। २६ ।। कर्णे प्रतिरथे भद्रे द्वे द्वे शृङ्गे प्रकारयेत् । रथोपरथे तिलकं प्रत्यङ्गं च रथोपरि ।। २७ ।। मतात्न(ल)म्बयुतं भद्रं प्रासादोऽयं महीधरः । भद्रे शृङ्गं तृतीयं च कैलासो नाम नामतः ।। २८ ।। भद्रं त्यक्त्वा रथे शृङ्गं नवमङ्गल उच्यते । तथा भद्रे पुनर्दद्यात् तदासौ गन्धमादनः ।। २९ ।। भद्रे त्यक्त्वा चोपरथे शृङ्गं सर्वाङ्गसुन्दरः । भद्रे दद्यात् पुनः शृङ्गे विजयानन्द उच्यते ।। ३० ।। मतालम्बयुतं भद्रमुरुशृङ्गं परित्यजेत् । शृङ्गद्वयं च च्छाद्योर्ध्वे सर्वाङ्गतिलकस्तदा ।। ३१ ।। उरुशृङ्गं ततो दद्यान्मतालम्बसमन्वितम् । महाभागस्तदा नाम सर्वकामफलप्रदः ।। ३२ ।। कर्णे प्रतिरथे रथे चैकं तपरथादिषु । मेरुश्चापि समाख्यातः सर्वदेवेषु पूजितः ।। ३३ ।। प्रदक्षिणात्रये स्वर्णमेरौ पुंसां च यत् फलम् । इष्टकाशैलजामेरुतत्फलं प्रदक्षिणाकृते ।। ३४ ।। वैराज्यप्रमुखा येऽत्र नागरा ब्रह्मणोदिताः । पृ० २४) इति वैराज्यादिप्रासादपञ्चविंशत्यधिकारे पञ्चमोऽध्यायः ।। ५ ।। अथ षष्ठोऽध्यायः । केसरी सर्वतोभद्रो नन्दनो नन्दिशालकः । नन्दीशो मन्दरश्चैव श्रीवृक्षश्चामृतोद्भवः ।। १ ।। हिमवान् हेमकूटश्च कैलासः पृथिवीजयः । इन्द्रनीलो महानीलो भूधरो रत्नकूटकः ।। २ ।। वैदूर्यः पद्मरागश्च वज्रको मुकुटोज्ज्वलः । ऐरावतो राजहंसो गरुडो वृषभध्वजः ।। ३ ।। मेरुः प्रासादराजश्च देवानामालयो हि सः । ब्रह्मविष्णुशिवार्काणामन्येषां न कदाचन ।। ४ ।। आद्यः पञ्चाण्डको देयः किसरी नाम नामतः । चतुर्णां क्रमतो वृद्धिर्यावदेकोत्तरं शतम् ।। ५ ।। क्षेत्रेऽष्टांशे विभक्ते तु कर्णो भागद्वयं भवेत् । भद्रार्धं कर्णतुल्यं च भागेनैकेन निर्गमः ।। ६ ।। दशांशे सार्धभागं च भद्रार्धं च प्रतिरथे । कर्णो द्विभागः सूर्यांशे भद्रार्धं प्रतिरथके ।। ७ ।। चतुर्दशविभक्ते तु कर्णोर्ध्वंद्वादशांशवत् । भद्रपार्श्वद्वये कार्या भागभागेन नन्दिका ।। ८ ।। षोडशांशे प्रकर्तव्यः कर्णः प्रतिरथेऽन्तरे । कोणिका भागतुल्या च शेषं चतुर्दशांशवत् ।। ९ ।। चतुस्रीकृते क्षेत्रे विंशत्यंशविभाजिते । पृ० २५) कर्णो द्विभागः कोणी च सार्द्धांशा पृथुविस्तरैः ।। १० ।। द्विभागस्तु प्रतिरथो नन्दिका सार्द्धभागिका । भद्रनंदी भवेद्भागा भद्रार्धं युग्मभागिकम् ।। ११ ।। द्वाविंशत्यंशके नंदी भागैका भद्रपार्श्वयोः । त्रयः प्रतिरथाः कर्णे भद्रार्धं च द्विभागिकम् ।। १२ ।। एकद्वित्रि त्रिकं त्रीणि वेदाश्चत्वारि पञ्च च । तलेषु क्रमतोऽष्टासु केऽप्याहुः शिखराणि हि ।। १३ ।। अष्टादशांशभद्रस्य पार्श्वे द्वे द्वे च नन्दिके । कर्तव्यैर्भागभगैश्च शेषं स्यात्षोडशांशवत् ।। १४ ।। शिखरं त्वेकवैदैकषट्त्रिवेदयुगद्वयम् । तलेषु क्रमतः प्रोक्तो मूलसूत्रे पराजिते ।। १५ ।। तलेष्वष्टासु विहिताः प्रासादाः पञ्चविंशतिः । त्रयस्त्रयः क्रमेणैव चत्वारश्चाष्टमे तले ।। १६ ।। त्रीणि त्रीणि स्वकीयानि द्वे द्वे परः परस्य च । शिखराणि विधेयानि विश्वकर्मवचो यथा ।। १७ ।। द्वित्र्येकषट्त्रयोऽष्टादितलेषु पञ्चसु क्रमात् । सप्तैव सप्तमे षष्ठे शिरांसि त्रीणि चाष्टमे ।। १८ ।। भेदाः पञ्चाशदेकैकं प्रोक्ताः श्रीविश्वकर्मणा । तेनैकस्मिंस्तलेऽपि स्युः शिखराणि बहून्यपि ।। १९ ।। रथिकां सिंहकर्णं च भद्रे कुर्याद्गवाक्षकान् । प्रत्यङ्गैस्तिलकाढ्यैश्च शोभितं सुरमन्दिरम् ।। २० ।। प्रासादाः केसरिमुखाः सर्वदेवेषु पूजिताः । पुरराज्ञोः प्रजादीनां कर्तुः कल्याणकारकाः ।। २१ ।। इति केसर्यादिप्रासादाः पञ्चविंशतिः । पृ० २६) षट्त्रिंशत्करतोऽधस्ताद्यावद्धस्तचतुष्टयम् । विना भ्रमैर्निराधाराः कर्तव्याः शान्तिमिच्छता ।। २२ ।। वास्तोः पञ्चविधं क्षेत्रं चतुरस्रमथायतम् । वृत्तं वृत्तायत चैवाष्टास्रं देवायलादिषु ।। २३ ।। विस्तारे तु चतुर्भागमायामे पञ्चभागिकम् । ऊर्ध्वं? तिकलशानां कुर्यात् पृष्ठ्यग्रे सिंहकर्णकम् ।। २४ ।। वृत्तायतं प्रकर्तव्यं व्यासार्धं वामदक्षिणे । कर्णयोर्भ्रामयेत् वृत्तं वृत्तं भद्राणि चाष्ट हि ।। २५ ।। प्रासादो वर्तुलाष्टास्रः प्रायेणैकाण्डकः शुभः । कर्णे वा श्रेणयोऽण्डानां मण्डपं तत्स्वरूपकम् ।। २६ ।। इति पञ्च क्षेत्राणि । विचित्रैरुपसंघातैर्भद्रैर्गवाक्षभूषितैः । वितानफालनाशृङ्गैरनेकैर्नागरा मताः ।। २७ ।। पीठोपरि भवेद्वेदी पीठानि त्रीणि पञ्च च । पीठतो द्राविडे रेखा लताशृङ्गादिसंयुता ।। २८ ।। भूमिकोपरि भूमिश्च ह्रस्वारर्क नवान्तकम् । विभक्तिदलसंयुक्ता मूर्ध्नि शृङ्गेण भूमिजा ।। २९ ।। शृङ्गेणैकेन लनिता श्रीवत्सा वारिसंयुता । नागरा भ्रमसंयुक्ताः साधारास्ते प्रकीर्तिताः ।। ३० ।। इति प्रासादानां जातयः । पञ्चहस्तो भवेन्मेरुरेकोत्तरशताण्डकः । भेदाः पञ्चोनपञ्चाशत्करवृद्ध्या भवन्ति ते ।। ३१ ।। हस्ते हस्ते भवेत् द्विर्द्विर्ह्यण्डकानां च विंशतिः । एकोत्तरसहस्रं स्यात् शृङ्गाणां च शतार्द्धके ।। ३२ ।। पृ० २७) केसरिप्रमुखाः कर्णे विमानं चोरुशृङ्गकम् । तथैव मूलशिखरं पञ्चभूमिविमानकम् ।। ३३ ।। विमानं नागरा जातिस्तदा प्राज्ञैरुदाहृता । एकशृङ्गेषु शृङ्गाणि संभवन्ति बहून्यपि ।। ३४ ।। श्रीमेरुपृष्ठभागः स्यादेकोत्तरशताण्डकः । हिमशीर्षो दशांशः स्यात् युगसार्धशताण्डके ।। ३५ ।। भागैर्द्वादशभिर्युक्तः सार्द्धद्वित्सेन? संयुतः । सुरवल्लभनामा तु प्रोक्तः श्रीविश्वकर्मणा ।। ३६ ।। कोणे द्विभाग एकांशा कोणी सार्द्धप्रतीरथः । अर्धांशा नन्दिका भद्रे साधभागेन संमितम् ।। ३७ ।। त्रिशतं पञ्चसप्तत्याधिकं यस्याण्डकानि हि । भक्तश्चतुर्दशांशैस्तु नाम्ना भुवनमण्डनः ।। ३८ ।। कोणकोणी प्रतिरथो नन्दी भद्रार्धमेव च । द्व्येकद्व्यर्द्धांशे सार्द्धाशैश्चतुर्दशविभाजिते ।। ३९ ।। बाणैकवेदयुग्मांशा वेदाः कर्णादिभागतः । रत्नशीर्षो भवेन्मेरुः पञ्चाशतैकशृङ्गकैः ।। ४० ।। गुणैकयुग्मचन्द्रादौ पुराणांशविभाजिते । किरणोद्भवमेरुश्च सपादः षट्शताण्डकः ।। ४१ ।। रामचन्द्रद्वियुग्मांशनेत्रे विंशतिभाजिते । नाम्ना कमलहंसः स्यात्सार्द्ध**सप्तशताण्डकः ।। ४२ ।। भागैकनिर्गमा भित्तिर्वेदसार्द्ध**त्रिसार्धकैः । द्वाभ्यां तै स्वर्णकेतुश्च पञ्चसप्ताष्टशृङ्गकैः ।। ४३ ।। संभ्रमो भ्रमहीनश्च महामेरुभ्रमद्वयम् । साधारेषु प्रकर्तव्यं भद्रे भद्राविलोकनम् ।। ४४ ।। पृ० २८) वेदैकरामयुग्मांशनेत्रे जिनविभाजिते । वृषभद्वजमेरुश्च सैकाण्डकसहस्रवान् ।। ४५ ।। संभ्रमो भ्रमहीनश्च महामेरुभ्रमद्वयम् । साधारेषु प्रकर्तव्यं भद्रे भद्राविलोकनम् ।। ४६ ।। राज्ञश्च प्रथमो मेरुस्ततो हीनोऽन्यवर्णजः । विना राज्ञोऽन्यवर्णेन कृते मेरौ महाभयम् ।। ४७ ।। इति नवमेरुलक्षणम् । इति केसर्यादिप्रासादजातिलक्षणे पञ्चचत्वारिंशन्मेरुलक्षणे षष्ठोऽध्यायः ।। ६ ।। अथ सप्तमोऽध्यायः । रत्नगर्भाङ्कनं सूर्यचन्द्रतारावितानकम् । विचित्रं मण्डपं येन कृतं तस्मै नमः सदा ।। १ ।। कर्णगूढो विलोक्यः स्यादेकत्रिद्वारसंयुताः । प्रासादाग्रे प्रकर्तव्याः सर्वदेवेषु मण्डपाः ।। २ ।। गूढस्त्रीकास्तथा नृत्यक्रमेण मण्डपास्त्रयः । जिनस्याग्रे प्रकर्तव्याः सर्वेषां तु बलाणकम् ।। ३ ।। समं सपादं प्रासादात्सार्द्धपादोनतद्द्वयम् । द्विगुणं वा प्रकर्तव्याः मण्डपाः पञ्चधा मताः ।। ४ ।। समं सपादं पञ्चाशत्पर्यन्तं दशहस्तकम् । दशान्तं पञ्चतः सार्द्धद्विपादोनं चतुष्करे ।। ५ ।। त्रिहस्ते द्विगुणं द्व्येकहस्ते कुर्याच्चतुष्किकाम् । प्रायेण मण्डपं सार्द्धं द्विगुणं प्रत्यलिन्दकैः ।। ६ ।। पृ० २९) मण्डपे स्तंभपट्टार्थमध्यपट्टानुसारतः । शुकनासा समा घण्टा न्यूना श्रेष्ठा नचाधिका ।। ७ ।। मुखमण्डपसङ्घातो पदा भित्त्यन्तरे भवेत् । न दोषःस्तंभपादाद्यैः समं वा विषमं तलम् ।। ८ ।। नवाष्टदशभागेषु त्रिभिश्चन्द्रावलोकनम् । हस्तकमङ्गुलोनं वा तदूर्ध्वं मत्तवारणम् ।। ९ ।। सार्द्धं पञ्चांशकैर्भक्तैः सपादं राजसेनकम् । सपादं त्र्यंशका वेदिर्भागेनासनपेटकम् ।। १० ।। तदूर्ध्वं सप्तसार्द्धांशे यावत्पट्टस्य पेटकम् । सार्द्धपञ्चांशकैः स्तंभः पादोनं भरणं भवेत् ।। ११ ।। भागार्धं भरणं चापि सपादं सार्धतः शरः । पादो द्विभागस्तस्योर्द्धे कर्तव्यश्छाद्यकोदयः ।। १२ ।। त्रिभागे तलतः श्छाद्यं तत्पेटं पट्टपेटके । अर्धांशोर्द्धा कपोतालिर्द्विभागे पट्टविस्तरे ।। १३ ।। प्रासाददशरुद्राक्षः भागेन स्तंभविस्तरः । व**दाष्टरविविंशत्या कर्णे वृत्तस्तु पञ्चधा ।। १४ ।। द्वाराग्रे स्तम्भवेद्याद्या प्राग्ग्रीवो मण्डपो भवेत् । द्विद्विस्तंभविवृद्ध्या च षोडशोऽयं प्रकीर्तितः ।। १५ ।। भित्तिः प्रासादवद्गेहे मण्डपेऽष्टविधेषु च । चतुरस्रशुभस्तस्य तथा प्रतिरथान्वितः ।। १६ ।। मुखभद्रयुतो वापि द्वित्रिप्रतिरथैर्युतः । कर्णोदकान्तरेणाथ भद्रोदकविभूषितः ।। १७ ।। कर्णतो द्विगुणं भद्रं पादोनप्रतिरर्थकम् । भद्रार्धं मुखभद्रं च शेषं षट्वसुभाजिते ।। १८ ।। पृ० ३०) दलेनार्धेन पादेन दलस्य निर्गमो भवेत् । मूलप्रासादवद् ब्राह्मे पीठजङ्घादिमेखला ।। १९ ।। गवाक्षेनान्वितं भद्रमथ जालकसंयुतम् । गुहश्च कर्णगुहे वा भद्रे चन्द्रावलोकनम् ।। २० ।। त्रिद्वारे चैकचक्त्रेऽथ मुखे कार्या चतुष्किका । गुहे प्रकाशके वृद्धमर्धोदयकरोटकम् ।। २१ ।। इत्यष्टगूढमण्डपाः ।। एकत्रिवेदसप्ताङ्कचतुष्काश्च त्रिकं त्रये । अर्धभाद्रं विभागेन पार्श्वयोरग्रतस्तथा ।। २२ ।। अग्रतस्रिचतुष्कस्य तथा पार्श्वे द्वयेऽपि च । मुक्तकोणे चतुष्के द्वे इति द्वादशमण्डपाः ।। २३ ।। गुहस्याग्रे प्रकर्तव्यास्तथा नानाचतुष्किका । चतुरस्रादिभेदेन वितानैर्बहुभिर्युता ।। २४ ।। इति द्वादशमण्डपाः । त्रिकाग्रे रङ्गभूमाथ तत्र वै नृत्यमण्डपाः । सप्तविंशतिरुक्ता ये मण्डपा विश्वकर्मणा ।। २५ ।। तलैस्तु विषमैस्तुल्यैः क्षणैः स्तम्भैः समैस्तथा । प्रथमो द्वादशस्तंभो द्विद्विस्तंभविवर्धनात् ।। २६ ।। यावत्षष्टिचतुर्युक्ताः सप्तविंशतिमण्डपाः । क्षेत्रार्धस्य षडंशोना चैकास्राष्टास्रमुच्यते ।। २७ ।। कलास्रे क्षेत्रषड्भागस्तत्षडंशेन संयुतः । अष्टास्रे षोडशास्रे च वृत्तं कुर्यात्तदूर्ध्वतः ।। २८ ।। उदयं विस्तरार्द्धेन तं षंद्यंवाशभाजयेत्? । कर्णदर्दरिका सप्तभागेन निर्गमो तुच्छता ।। २९ ।। पृ० ३१) रूपकण्ठं तु पञ्चांशं द्विभागेनात्र निर्गमम् । विद्याधरैः समायुक्तं षोडशाष्टदिवाकरैः ।। ३० ।। जिनसंख्यामितैर्वापि दन्ततुल्यैर्विराजतैः । विद्याधरः पृथुत्वेन सप्तांशो निर्गमोदयः ।। ३१ ।। तदूर्ध्वे चित्ररूपाश्च नर्तक्यो नृत्यशोभिताः । गजतालस्तु षट्सार्द्धा प्रथमा द्वितीया तु षट् ।। ३२ ।। तृतीया सार्धपञ्चांशा कोलानि त्रीणि पञ्च च । मध्ये वितानं कर्तव्यं चित्रवर्णविराजितम् ।। ३३ ।। नाटकादिकथारूपैर्नानाकारर्विराजितम् । एकादशशतान्येव वितानानां त्रयोदश ।। ३४ ।। शुद्धसंघाटमिश्राणि क्षिप्ताक्षिप्तानि यानिच । वितानानि विचित्राणि वस्त्रचित्रादिभेदतः ।। ३५ ।। तानि लोके प्रवर्तन्ते तस्मादूध्ननिलोकतः? । मण्डपेषु च सर्वेषु पीठान्ते रङ्गभूमिका ।। ३६ ।। कुर्याद् तानपादेन? चित्रपाषाणजेन च । इति मण्डपाः ।। बलाणदेवगेहाग्रे राजद्वारे गृहे पुरे । जलाशयेऽथ कर्तव्यं सर्वेषां मुखमण्डपम् ।। ३७ ।। जगतीपादविस्तीर्णं पादपादेन वर्जितम् । शालापादेन गर्भेण प्रासादेन समं भवेत् ।। ३८ ।। उत्तमे कन्यसं मध्ये मध्यं ज्येष्ठे तु कन्यसम् । एकद्वित्रिचतुःपञ्चरससप्तपदान्तरे ।। ३९ ।। मूलप्रासादवद्द्वारं मण्डपे च बलाणके । पृ० ३२) न्यूनाधिकं न कर्तव्यं दैर्घ्ये हस्ताङ्गुलादिकम् ।। ४० ।। पेटकं चोत्तराङ्गानां सर्वेषां समसूत्रतः । अङ्गणा तु समं पेटं जगत्याश्चान्तराङ्गजम् ।। ४१ ।। जगत्यग्रे चतुष्कीयां वामनं तद्वलाणकम् । वामेऽथ? दक्षिणद्वाराद्वादिका मत्तवारणम् ।। ४२ ।। ऊर्ध्वा भूमिः प्रकर्तव्या नृत्यमण्डपसूत्रतः । मत्तवारणकं वेदी वितानतोरणैर्युता ।। ४३ ।। राजद्वारे बलाणे च पञ्च वा सप्तभूमिका । दद्विमानं बुधैः प्रोक्तं पुष्करं वारिमध्यतः ।। ४४ ।। हर्म्यराजगृहे वापि कर्तव्यं गोपुरामितः । एकभूमौ त्रिभूम्यन्तं गृहद्वारस्य मस्तके ।। ४५ ।। इति पञ्चविधबलाणकम् । संवर्णञ्च प्रकर्तव्यं प्रथमा पञ्चघण्टिका । चतुर्घण्टाभिवृद्ध्या च यावदेकोत्तरं शतम् ।। ४६ ।। पञ्चविंशतिरित्युक्ता प्रथमा वसुभागिका । वेदोत्तरशतं यावत् वेदांशा वृद्विरिष्यते ।। ४७ ।। भद्रार्धे रथिकार्धेन तवङ्गं वामदक्षिणे । अर्धोदयेन रथिका घण्टाकूटं तवङ्गकम् ।। ४८ ।। कलाकूटान्विता पूर्वा पञ्चभिः कलशैर्युतः । भागतुल्यैस्तथा सिंहैरेवमन्याश्च लक्षिताः ।। ४९ ।। इति मण्डपस्योर्ध्वसंवर्णाः ।। इति श्रीमण्डपबलाणकं संवर्णाधिकारः सप्तमोऽध्यायः ।। ७ ।। पृ० ३३) अथ अष्टमोऽध्यायः । अथ साधारणोऽध्यायः सर्वलक्षणसंयुतः । विश्वकर्मप्रसादेन विशेषेण प्रकथ्यते ।। १ ।। मानं न्यूनाधिकं वापि स्वयम्भूबाणरत्नजे । घटितेषु विधातव्यमर्चालिङ्गेषु शास्त्रतः ।। २ ।। बहुसमं सन्धिशिरो गुरुः . . . . . . . . . . . . . . . । स्वशल्यं पादहीनं तु तच्च वास्तु विनश्यति ।। ३ ।। अन्यवास्तुचिते द्रव्ये ह्यन्यवास्तुनिवेशिते । प्रासादे न भवेत्पूजा गृहे तु न व . . . . त्पत्तिः ।। ४ ।। स्वस्थाने संस्थितं यच्च विप्रवास्तु शिवालयम् । अचाल्यं सर्वदेशेषु चालिते राष्ट्रविभ्रमः ।। ५ ।। वापीकूपतडागानि प्रासादभवनानि च । जीर्णान्युद्धरते यस्तु पुण्यमष्टगुणं लभेत् ।। ६ ।। तद्रूपं तत्प्रमाणं स्यात्पूर्वसूत्रं न चालयेत् । हीने तु जायते हानिरधिके तु धनक्षयः ।। ७ ।। वास्तुद्रव्याधिकं कुर्यात्काष्ठजे शैलजेऽपि वा । शैलजे धातुजे चैव धातुजे रत्नजेऽथवा ।। ८ ।। पूर्वोत्तरदिश मूहमूहं पश्चिमदक्षिणे । तत्र मूहममूहं वा यत्र तीर्थं समाहितम् ।। ९ ।। सिद्धायतनतीर्थेषु नदीनां सङ्गमेषु च । स्वयम्भूबाणलिङ्गेषु तत्र दोषो न विद्यते ।। १० ।। अव्यक्तं मृन्मय चाल्यं त्रिहस्तान्तं तु शैलजम् । दारुजं पुरुषार्थं च अत ऊध्वं न चालयेत् ।। ११ ।। पृ० ३४) विषमस्थानमाश्रित्य भग्नं यत्स्थापितं सुरैः । तत्र स्थानस्थिता देवा भग्नाः पूजाफलप्रदाः ।। १२ ।। यद्यथा स्थापितं वास्तु तत्तथैव हि कारयेत् । अव्यङ्गं चालितं नॄणां दारुणं कुरुते भयम् ।। १३ ।। अर्थतश्चालतः प्रज्ञां जीर्णव्यङ्गं च दूषितम् । आचार्यः शिल्पिभिः प्राज्ञैः शास्त्रदृष्ट्यासमुद्धरेत् ।। १४ ।। स्वर्णजं रौप्यजं वापि कुर्यान्नागमथो वृषः । तस्य शृङ्गेण दन्तेन पतितं पातयेत्सुधिः ।। १५ ।। इति जीर्णोद्धारविधिः ।। तन्दुलं जालकं चैव कीलकं सुशिरं तथा । छिद्रसन्धिश्च काराश्च महादोषा इति स्मृताः ।। १६ ।। भिन्न दोषकर यस्मात्प्रासादमठमन्दिरम् । शिखाभिर्जालकैर्द्वारै रश्मिवातप्रभेदिदम् ।। १७ ।। ब्रह्मविष्णुशिवार्काणां भिन्नं दोषकरं न हि । जिनगौरीगणेशानां गृहं भिन्नं विवर्जयेत् ।। १८ ।। व्यक्ताव्यक्तं गृहं कुर्याद् भिन्नं भिन्नानुमूर्तिकम् । अथ स्वामिशरीरं स्यात्प्रासादमपि तादृशम् ।। १९ ।। इति भिन्नदोषाः । भिन्नं चतुर्विधं ज्ञेयमवृद्धामिश्रकं मतम् । मिश्रकं पूजितं तत्र भिन्नं वै दोषकारणम् ।। २० ।। छन्दोभेदो न कर्तव्यो जातिभेदस्तथा पुनः । उत्पद्यते महामर्म जातिभेदे कृते सति ।। २१ ।। द्वारहीने हरेच्चक्षुर्नालहीने धनक्षयम् । अपदस्थापिते स्तम्भे महारोगं विनिर्दिशेत् ।। २२ ।। पृ० ३५) स्तम्भव्यासोदये हीने कर्ता तत्र विनश्यति । प्रासादे पीठहीने तु नश्यन्ति गजवाजिनः ।। २३ ।। रथोपरथहीने तु कर्ता तत्र विनश्यति । प्रासादे पीठहीने तु नश्यन्ति गजवाजिनः ।। २४ ।। रथोपरथहीने तु प्रजापीडां विनिर्दिशेत् । कर्णहीने सुरागारे फलं तत्र न विद्यते ।। २५ ।। जङ्घाहीने हरेद्बन्धून् कर्तृकान् कारकादिकान् । शिखरे हीनमाने तु पुत्रपौत्रधनक्षयः ।। २६ ।। अतिदीर्घे कुलच्छेदो ह्रस्वे व्याधिसमुद्भवः । तस्माच्छास्त्रीयमानेन सुखदं सर्वकामदम् ।। २७ ।। जगत्यां रोपयेच्छालां शालायां चैव मण्डपम् । मण्डपेन च प्रासादो ग्रस्तो वै दोषकारकः ।। २८ ।। इति दोषाः । प्रासादोच्छ्रायविस्ताराज्जगती वामदक्षिणे । छायाभेदेन कर्तव्या तथा लिङ्गस्य पीठिका ।। २९ ।। जगत्यां त्रिचतुःष्पञ्चगुणं देवपुरं त्रिधा । एकद्विवेदसाहस्रहस्तैः स्याद्राजमन्दिरम् ।। ३० ।। कलाष्टवेदसाहस्त्रैर्हस्तै राजपुरं समम् । दैर्घ्यतुल्यं सपादाष्टं सार्धांशेनाधिकं शुभम् ।। ३१ ।। द्वादश त्रिपुराणि स्युर्देवस्थानानि चोत्तरे । षट्त्रिंशत् षट्विवृध्या च यावदेकोत्तरं शतम् ।। ३२ ।। पुरं प्रासादगेहः स्यात्सौधैर्जालगवाक्षकैः । कीर्तिस्तम्भैर्जलारामैर्गेहैर्मण्डैः सुशोभितम् ।। ३३ ।। इति देवपुरराजपुराणि ।। पृ० ३६) प्रासादस्योत्तरे याम्ये तथाग्नौ पश्चिमेऽपि च । यदि नामाश्रमं कुर्यात्सततं द्वित्रिभूमिकम् ।। ३४ ।। द्विशालं मध्य षट्दारुपट्टशालाग्रशोभितम् । मत्तवारणमग्रे च तदूर्ध्वं पट्टभूमिषु ।। ३५ ।। कोष्ठागारं च वायव्ये वह्निभागे महानसम् । पुष्यगेहं तथेशाने नैरृत्येशान्तमायुधम् ।। ३६ ।। छात्रागारं च पुरतो वारुण्यां च जलाश्रयम् । मठस्योपरितः कुर्याद्विद्याव्याख्यानमण्डपम् ।। ३७ ।। इति मठः ।। पूर्वोक्ता ........ पुण्याहप्रतिष्ठा सर्वसिद्धिदा । रवेः सौम्यायने कुर्याद्देवानां स्थापनादिकम् ।। ३८ ।। प्रतिष्ठा चोत्तरामूल आर्द्रायां च पुनर्वसौ । पुष्ये हस्ते मृगे स्वातौ रौहिण्यां श्रुतिमैत्रभे ।। ३९ ।। तिथिं रिक्तां कुजं धिष्ण्यं क्रूरं विधुयुतं तथा । दग्धां तिथिं च गण्डान्तं चारभोपग्रहं त्यजेत् ।। ४० ।। सुदिने सुमुहूर्ते च लग्ने सौम्ययुतेक्षिते । अभिषेकः प्रतिष्ठा च प्रवेशादिकमिष्यते ।। ४१ ।। प्रासादाग्रे तथैशाने उत्तरे मण्डपं शुभम् । त्रिपञ्चसप्तनन्दैकादशविश्वकराननम् ।। ४२ ।। मण्डपः स्यात्करैरष्टादशसूर्यकलामितैः । षोडश हस्ततः कुण्ड वशादधिक इष्यते ।। ४३ ।। स्तम्भैः षोडशभिर्युक्तं तोरणादिविराजितम् । मण्डपं वेदिकामध्ये पञ्चाष्टनवकुण्डकम् ।। ४४ ।। हस्तमात्रं भवेत्कुण्डं मेखलायोनिसंयुतम् । पृ० ३७) आगमैर्वेदमन्त्रैश्च होमं कुर्याद्विधानतः ।। ४५ ।। अयुतं हस्तमात्रे च लक्षार्धे तु द्विहस्तकम् । त्रिहस्तं लक्षहोमे स्याद्दशलक्षे चतुष्करम् ।। ४६ ।। विंशलक्षे पञ्चहस्तं कोट्यर्धं षट्करं मतम् । अशीतिलक्षेऽद्रिकरं कोटिहोमेऽष्टहस्तकम् ।। ४७ ।। ग्रहपूजाविधाने च कुण्डमेककरं भवेत् । मेखलात्रितयं वेद रामयुग्माङ्गुलैः क्रमात् ।। ४८ ।। एकद्वित्रिकरं कुर्याद्वेदिकोपरि मण्डलम् । ब्रह्मविष्णुरवीनां तु सर्वतोभद्रमिष्यते ।। ४९ ।। भद्रं तु सर्वदेवानां नवनामिस्तथा त्रयम् । लिङ्गोद्भवं शिवस्यापि लतालिङ्गोद्भवं तथा ।। ५० ।। भद्रं च गौरीतिलकं देवीनां पूजने हितम् । अर्धचन्द्रं तडागेषु चापाकारं तथैव च ।। ५१ ।। टङ्काभं स्वस्तिक चैव वापीकूपेषु पूजयेत् । पीठिकाजलपादेषु योन्याकारं तु कामदम् ।। ५२ ।। गजदन्तं महादुर्गे प्रशस्तं मण्डलं भवेत् । टङ्काभं चतुरस्रं च गजदन्तमिहायतम् ।। ५३ ।। विख्यातं सर्वतोभद्रं ज्ञेयान्यन्यानि लोकतः । पूर्वादितोरणं प्लक्षयज्ञाङ्गवटपिप्पलैः ।। ५४ ।। द्वात्रिंशत्षोडशाष्टौ च ह्युत्तमान् वेदपारगान् । कुलीनानङ्गसर्वज्ञान्यज्ञार्थमभिमन्त्रयेत् ।। ५५ ।। मण्डपस्थ त्रिभागेन उत्तरे स्नानमण्डपम् । स्थण्डिलं बालुकं कृत्वा शम्यया स्नापयेत्सुरम् ।। ५६ ।। पृ० ३८) पञ्चगव्यैः कषायैश्च वल्कलैः क्षीरवृक्षजैः । स्नापयेत्पञ्चकलशैः शतवारं जलेन च ।। ५७ ।। वेदमन्त्रादिवादित्रगीतमङ्गलनिःस्वनैः । वस्त्रेणाच्छादयेद्देवं वेद्यांतं मण्डपं नयेत् ।। ५८ ।। तल्पमारोपयेद्वेद्यामुत्तराशह्णे न्यसेत्ततः । कलशं तु शिरोदेशे पादस्थाने कमण्डलुम् ।। ५९ ।। वज्रं वैदूर्यकं मुक्तामिन्द्रनीलं सुनीलकम् । पुष्परागं च गोमेदं चंद्रं पूर्वादितो न्यसेत् ।। ६० ।। व्यजनं दक्षिणे देशे दर्पणं वामतः शुभम् । रत्नन्यासं ततः कुर्याद्दिक्पालादिकपूजनम् ।। ६१ ।। आग्नेययां गणपं विद्यादीशाने ग्रहमण्डलम् । नैरृत्ये वास्तुपूजा च वायव्ये मातरः स्मृताः ।। ६२ ।। वज्रं वैडूर्यकं मुक्तामिन्द्रनीलं सुनीलकम् । पुष्परागं च गोमेदं चन्द्रं पूर्वादिषु यजेत् ।। ६३ ।। सुवर्णं रजतं ताम्रं कांस्यं रीतिं च सीसकम् । वङ्गं लोहं च पूर्वादिदिक्षु धातूनिह न्यसेत् ।। ६४ ।। वज्रं वह्निः सहदेवी विष्णुक्रान्तेन्द्रवारुणी । शङ्खिनीज्योतिष्मती चैव स्वरिक्तानि क्रमान्न्यसेत् ।। ६५ ।। यवव्रीहिस्तथा कङ्गुर्जूर्णाख्या च तिलैर्युता । शालिमुद्राः समाख्याता गोधूमाश्च क्रमेण तु ।। ६६ ।। यद्देवाभरणं पूजावस्त्रालङ्कारभूषणम् । तत्सर्वं शिल्पिने देयमाचार्याय तु याज्ञिकम् ।। ६७ ।। ततो महोत्सवं कुर्यान्नृत्यगीतैरनेकशः । नैवेद्यारार्तिकं पूजामङ्गन्यासादिकं तथा ।। ६८ ।। पृ० ३९) क्षीरं क्षौद्रं घृतं खण्डपक्वान्नानि बहून्यपि । षड्रसाः स्वादुभक्षाणि समन्तात् परिकल्पयेत् ।। ६९ ।। विप्राणां सम्प्रदायाच्च वेदमन्त्रैस्तथागमैः । सकलीकरणं जीवन्यासं कृत्वा प्रतिष्ठयेत् ।। ७० ।। प्रासादे देवतान्यासं स्थावरेषु पृथक्पृथक् । खरशिलायां च वाराहं पौल्यां नागकुलानि च ।। ७१ ।। प्रकुम्भे जलदेवाश्च पुष्कके किंसुरास्तथा । नन्दिनी जाड्यकुम्भे च कल्याण्यां स्थापयेद्धरिम् ।। ७२ ।। गणेशं गजपीठे च अश्वपीठे तथाश्विनौ । नरपीठे नरांश्चैव क्षमां च खुरके यजेत् ।। ७३ ।। भद्रे सिद्धित्रयं कुम्भे पार्वतीं कलशे स्थिताम् । कपोताल्यां च गन्धर्वान्मञ्चिकायां सरस्वतीम् ।। ७४ ।। जङ्घायां च दिशापालानिन्द्रमुद्गमसंस्थितम् । सावित्रीं भरणे देशे शिरावद्यां च देविकाम् ।। ७५ ।। विद्याधरान् कपोताल्यामन्तराले सुरांस्तथा । पर्यङ्ककुंठच्छाद्ये च ततो मध्ये प्रतिष्ठयेत् ।। ७६ ।। शाखयोश्चन्द्रसूर्यौ च त्रिमूर्तिश्चोत्तराङ्गके । उदुम्बरे स्थितं यक्षमश्विनावर्धचन्द्रके ।। ७७ ।। कौलिकायां धराधारं क्षितिं चोत्रं नृपट्टके । स्तम्भेषु पर्वतांश्चैवमाकाशं च करोटके ।। ७८ ।। मध्ये प्रतिष्ठयेद्देवं सकरे जाह्नवीं तथा । शिखरस्योरुशृङ्गेषु पञ्च पञ्च प्रतिष्ठयेत् ।। ७९ ।। ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः । शिखरे चेश्वरं देवं शिखायां तु सुराधिपम् ।। ८० ।। पृ० ४०) ग्रीवायाममरे देवं मण्डपे च निशाकरम् । पद्माक्षं पद्मपत्रं च कलशे च सदाशिवम् ।। ८१ ।। सद्यो वाम अघोरस्तत्पुरुष ईश एव च । कर्णादिभद्रपर्यन्तं पञ्चाङ्गे तान् प्रतिष्ठयेत् ।। ८२ ।। इति स्थावरप्रतिष्ठा ।। प्रथमं देवतादृष्टेर्दर्शयेंदन्नपर्वतकम् । विप्रं कुमारिकां वास्तुं ततो लोकान्प्रदर्शयेत् ।। ८३ ।। ईज्यानन्तरतः कुर्यात्सूत्रधारस्य पूजनम् । वस्त्रालङ्कारभूवित्तगोमहिष्याश्ववाहनैः ।। ८४ ।। अन्येषां शिल्पिनां पूजा कर्तव्या कर्मकारिणाम् । स्वाधिकारानुसारेण वस्त्रताम्बूलभोजनैः ।। ८५ ।। काष्ठपाषाणनिर्माणकारिणो यत्र मन्दिरे । भुञ्जते तत्र भोक्तासौ शङ्करस्त्रिदशैः सह ।। ८६ ।। पुण्यं प्रासादजं स्वामी प्रार्थयेत्सूत्रधारतः । सूत्रधारो वदेत् स्वामिन्न क्षयं भवतात् तव ।। ८७ ।। इति सूत्रधारपूजा । आचार्यपूजनं कृत्वा वस्त्रस्वर्णधनैः सह । दानं दद्याद्द्विजातिभ्यो दीनान्धदुर्बलेषु च ।। ८८ ।। सर्वेषां धनमाधारः प्राणिनां जीवनं परम् । वित्ते दत्ते प्रतुष्यन्ति मानुष्याः पितरः सुराः ।। ८९ ।। इति प्रतिष्ठाविधिः । प्रतिष्ठा वित्तरागस्य जिनशासनमार्गतः । नवकारैः सूरमन्त्रैश्च सिद्धिः केवलभाषितम् ।। ९० ।। ग्रहाः सर्वज्ञदेवाश्च पादपीठे प्रतिष्ठिताः । पृ० ४१) येनानन्तविभेदेन मुक्तिमार्ग उदाहृतः ।। ९१ ।। जिनानां मातरो यत्र यक्षिणी गौतमी तथा । सिद्ध कालत्रयो जाताश्चतुर्विंशतिमूर्तयः ।। ९२ ।। इति स्थाप्यं जिनाचारे त्रिप्राकारं गृहं तथा । सावन्तशिखरं? मन्दिरमष्टापदादिकम् ।। ९३ ।। प्रासादो वीतरागस्य पुरमध्ये सुखावहः । कल्याणकारिवर्गस्य चतुर्दिक्षु प्रकल्पयेत् ।। ९४ ।। इति जिनप्रतिष्ठा । माघादिपञ्चमासेषु वापीकूपादि संस्मृतम् । तडागस्य चतुर्मासं कुर्यादाषाढमार्गयोः ।। ९५ ।। असंस्कृतं जलं देवाः पितरो न पिबन्ति ते । संस्कृते तृप्तिमायान्ति तस्मात्संस्कारमाचरेत् ।। ९६ ।। जीवनं वृक्षजन्तूनां यः करोति जलाशयम् । दत्ते वा स लभेत्सौख्यमुर्व्यां स्वर्गे च मानवः ।। ९७ ।। पुरान्धकवधे रुद्रललाटात्पतितः क्षितौ । स्वेदस्तस्मात्समुद्भूतं भूतमत्यन्तदुःसहम् ।। ९८ ।। गृहीत्वा सहसा देवैर्न्यस्तं भूमावधोमुखम् । जानुनी कोणयो पादौ रक्षो दिशि शिवे शिरः ।। ९९ ।। चत्वारिंशद्युता पञ्च वास्तुदेहे स्थिताः मुराः । देव्योऽष्टौ बाह्यगास्तेषां वसनाद्वास्तुरुच्यते ।। १०० ।। अधोमुखेन विज्ञप्तैस्त्रिदशैर्विहितो बलिः । तेनैव बलिना शान्ति कुरुते हानिमन्यथा ।। १०१ ।। प्रासादभवनादीनां प्रारम्भे परिवर्तने । वास्तुकर्मसु सर्वेषु पूजिताः सौख्यदो भवेत् ।। १०२ ।। पृ० ४२) एकपदादितो वास्तु यावत्पदसहस्रकम् । द्वात्रिंशन्मण्डलानि स्युः क्षेत्रतुल्याकृतीनि च ।। १०३ ।। एकाशीतिपदो वस्तुश्चतुषष्टिपदोऽथवा । सर्ववास्तुविभागेषु पूजयेन्मण्डलद्वयम् ।। १०४ ।। ईशो मूर्द्धनि पर्जन्यो दक्षिणं कर्णमाश्रितः । जयःस्कन्धे महेन्द्राद्याः पञ्च दक्षिणबाहुगाः ।। १०५ ।। महेन्द्रः सूर्यः सत्यश्च भृश आकाशमेव च । वायुर्जानुनि पूषाद्याः सप्तपादतले स्थिताः ।। १०६ ।। पूषा च वितथश्चैव गृहक्षतयमावुभौ । गन्धर्वो भृङ्गराजश्च मृगः सप्त सुरा इति ।। १०७ ।। पादयोः पितरस्तस्मात्सप्तपादतलस्थिताः । दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ।। १०८ ।। असुरः शोष पापौ च रोगो जानुनि संस्थितः । अहिर्मुख्यश्च भल्लाटः सोमसर्पौच बाहुगौ ।। १०९ ।। अदितिस्त्वधोदेशे च वामे कर्णे दितिः स्थितः । द्वात्रिंशद्बाह्यगा देवा नाभिपृष्ठे स्थितो विधिः ।। ११० ।। अर्यमा दक्षिणे वामे स्तने तु पृथिवीधरः । विवस्वानऽथ मित्रश्च दक्षवामोरुगावुभौ ।। १११ ।। रुद्रश्च राजयक्ष्मा च आपवत्सो हृदि स्थितः । सावित्रः सविता तद्वत्करं दक्षिणमाश्रितौ ।। ११२ ।। इन्द्र इन्द्रजयो मेढ्रे भद्रौऽसौ वामहस्तके । भद्रदासोऽपि तत्रैव इति देवमयं वपुः ।। ११३ ।। ईशाने चरकी बाह्ये पिलिंपिच्छस्तु पूर्वतः । विदारिकाग्निकोणे च विजृम्भापांदिगास्थिता ।। ११४ ।। पृ० ४३) नैरृत्यें पूतना स्कन्धे पश्चिमे वायुकोणके । पापराक्षसिका सौम्येऽर्यमा वै सर्वतोऽर्चयेत् ।। ११५ ।। हेरुकादिबलिर्देयो माषान्नैः सुरयामिषः । अपरान् वटकान्नैश्च सर्वान् स्वर्णसुगन्धिभिः ।। ११६ ।। इति वास्तुषुरुषन्यासः । एकेन शास्त्रेण गुणाधिकेन विना द्वितीये न पदार्थसिद्धिः । तस्मात्प्रकारान्तरतो विलोक्य मणीगुणाढ्योऽपि सहायकांक्षी ।। श्रीविश्वकर्मगणनाथमेशचण्डी- श्रीविश्वरूपजगदीश्वरसुप्रसादात् । प्रासादमण्डनमिदं रुचिरं चकार श्रीमण्डनो गुणवतां भुवि सूत्रधारः । इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे प्रासादमण्डनेऽष्टमोऽध्यायः ।। ८ ।। इति प्रासादमण्डनं समाप्तम् । </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] frmo77b0u48wsyzamykyjs4ri88b343