विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.4
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
सदस्यः:V(g)
2
25211
415940
415926
2026-05-29T02:11:47Z
EmausBot
3495
स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना।
415940
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]]
9vhg30k1e6nvvz0wv8aqv2lym7zg53g
अमृतेशतन्त्रम्
0
163523
415941
408714
2026-05-29T11:21:41Z
~2026-31795-51
10503
415941
wikitext
text/x-wiki
{{header
| title = अमृतेशतन्त्रम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
ओं नमः शिवादिभ्यो गुरुभ्यः ।
यस्तृधा त्रिष्ववस्था सुरूपमास्थाय शक्तिमान् ।
उद्भवस्थितिसंहारकृत्स्नं विश्वस्य शक्तितः ।।
विदधाति नमस्तस्मै शुद्धामृतमयात्मने ।
शिवाय ब्रह्मविष्ण्वेश पराय परमात्मने ।।
कैलासशिखरासीनं देवदेवं महेश्वरं ।
क्रीडंतं च गणैः सार्द्धं पार्वत्या सहितं हरं ।।
दृष्ट्वा प्रमुदितं दैवं प्राणिनां हितकाम्यया ।
उत्संगादवतीर्याशु पादौ जग्राह पार्वती ।।
पप्रच्छ परया भक्त्या सन्तोष्य परमेश्वरं ।
श्रीदेव्युवाच ।।
भगवन् देवदेवेश लोकनाथ जगत्पते ।
यं त्वया महदाश्चर्यं कृतं विस्मयकारकं ।।
सर्वस्य जगतो देव किंतु मे परमेश्वर ।
दुर्विज्ञेयं दुराराध्यं रहस्यं न प्रकाशितं ।।
कार्तिके यस्य न मया न सुरेषु गणेषु च ।
योगेश्वरीणां मात्रीणां ऋषीणां योगिनां न हि ।।
तदद्य मे जगन्नाथ सुप्रसन्नो यदि प्रभो ।
१ब्)
प्रार्थयामि प्रपन्नाहं निःशेषं वक्तुमर्हसि ।।
एवं देव्या वचः श्रुत्वा प्रसन्नवदनो व्रवीन् ।
भगवानुवाच ।।
किं किं वदसि सुश्रोणि रहस्यान्ते हृदि स्थितं ।।
सर्वं वक्ष्याम्यसंदेहि तोषितो ऽहं त्वया ऽनघे ।
देव्युवाच ।।
भगवन् देवदेवेश चित्राश्चर्य विधायकं ।
आश्चर्यमीदृशं रम्यं न श्रुतं तच्छृणोम्यहं ।।
विभो प्रसन्नवदन परमानंदकारक ।
अमात्सर्येण भगवन् कथनीयं त्वया मम ।।
यत् तदापोमयं देव चक्षुः सर्वत्र दृश्यते ।
तस्मादग्निः कथं रौद्र उत्पन्नः कालदाहकः ।।
येन वै दृष्टमात्रेण पित्रीषा भस्मसात् कृतः ।
किं तद्रौद्रं कृतं देव वह्निः कालदिदृक्षया ।।
प्रज्वालित जगत्सर्वं ब्रह्मादिच्छा वरान्तिकं ।
कामस्तथैव निर्दग्धो लीलया परमेश्वर ।।
क्रोधनेत्रानले नाथ दृश्यते यन्न कस्यचित् ।
२अ)
कृतं तद् देवदेवेन महाविस्मयकारकं ।।
देवनेत्रांतरे ह्यग्निस्त्वदृते कस्य दृश्यते ।
किं वा वह्निमयं चक्षुस्तत्कथं न विभाव्यते ।।
येन वै चक्षुषा कृत्स्नं प्रसरस्त्वं जगत्पते ।
सर्वामृतमयेनैव जगदाप्यायकृत् क्षणात् ।।
ममानंदयसे देव प्रसन्नेनैव चक्षुषा ।
अमृताकारसंशुभ्रं जगदाप्यायकारकं ।।
तस्मात् कालानलप्रख्यं कुतो वह्निः प्रजायते ।
एतत् सर्वं समासेन भगवन् वक्तुमर्हसि ।।
भगवानुवाच ।।
अतिकौतूहलाविष्टा पृच्छस्येतच्छृणु प्रिये ।
यन्मे नेत्रांतरे ह्यग्नि यद्वामृतमनुत्तमं ।।
तत्सर्वं संप्रवक्ष्यामि योगयुक्त्या शृणु प्रिये ।
यत्स्वरूपं निजं शुद्धं व्यापकं सर्वतोमुखं ।।
सर्वभूतान्तरावस्थं सर्वप्राणिषु जीवनं ।
योगगम्यं दुराराध्यं दुष्प्रापंमकृतात्मभिः ।।
स्वसंवेद्यं स्ववीर्यं च ममैव परमं पदं ।
तद्वीर्यं सर्ववीर्याणां तद्वै बलवतां बलं ।।
२ब्)
तदोजस्तेजसां सर्वं शाश्वतं ह्यचलं ब्रुवं ।
साममेच्छा पराशक्तिर्ह्यवियुक्ता स्वभावजा ।।
वह्नि ऊष्मे च विज्ञेया रविरूपा रवेरिव ।
सर्वस्य जगतो वापि सा शक्तिः कारणात्मिका ।।
सर्वज्ञादि गुणास्तत्र व्यक्ताव्यक्ताश्च संस्थिता ।
सैवेच्छा ज्ञानरूपा च ज्ञानादि गुणविस्मृताः ।।
ज्ञानादि षट्गुणा ये च तत्रस्थाः प्रभवन्ति च ।
सा वै क्रिया महारूपा संस्थितैका क्रिया मता ।।
अणिमादि गुणानष्टौ करोति विकरोति सा ।
एवं ममेच्छा ज्ञानाज्ञा क्रियाख्या शक्तिरुच्यते ।।
सूर्याचंद्रमसौ वह्निस्त्रिधामपरिकल्पना ।
त्रिनेत्रकल्पनामह्यं तदर्थमिह दृश्यते ।।
दहनाप्यायनन्तेन प्रकाश्य विदधाम्यहं ।
सृष्टिस्थितिं संहृतिं च तनुर्विधाम्यहं ।।
तद्वीर्या पूरितं सर्वं मत्तेज उपबृहितं ।
इच्छाज्ञानक्रियारूपं नेत्रामृतमनुत्तमं ।।
तद्वीर्यं परमं धाम यत् परामृतरूपकं ।
३अ)
स एष परमानंदो देहे तत् परमं पदं ।
तदेतन्निष्कलं ज्ञानं विशुद्धं नेत्रमुत्तमं ।।
मृत्युजित् तेन चाख्यातं सर्वेषा मोक्षदायकं ।
तत् सिद्धिदं परं देवि सर्वदुःखविमोक्षदं ।।
सर्वव्याधि हरं देवं सर्वाहरमयं शिवं ।
दारिद्र्य दमनं नित्यं मृत्युजित् सर्वतो मुखं ।।
अमोघममलं शान्तं सर्वगं सर्वसंस्थितं ।
सूर्यकोटिसहस्राणां वह्न्यायुतसहस्रशः ।।
यत् तेजसा समस्तस्य कलानार्घंन्ति षोडशी ।
सर्वन्तेजोमयं तस्मादप्रधृष्यं सुरासुरैः ।।
तेन नेत्राग्निना सर्वं निर्दहानि क्षणाद्ध्रुवं ।
तेनैवाप्यायनं भूयः प्राकाश्य विदधाम्यहं ।।
तस्मात् परतरं नान्यत् किं विद्वीर्य प्रदृश्यते ।
तदेवास्त्रमयं रौद्रं अणोः सन्तारणं परं ।।
क्षयकृत् सा शत्रूणां अस्त्रंस्त्वेतदुदाहृतं ।
सर्वेषामेव भूतानां आयुद्धान्ते तदायुधं ।।
तदेकं बहुधा वीर्यं भेदानंतविसर्पितं ।
महापाशुपतं मह्यं विष्णोस्तच्च सुदर्शनं ।।
३ब्)
ब्रह्मणो ब्रह्मदंडश्च सर्वेषां स्वस्वमायुध ।
अनेकाकाररूपेण आयुधं तदनेकधा ।।
सुराणां सुस्वरूपेण मयावीर्यं समर्पितं ।
ज्ञानशक्त्या तु योगेश्या तेन व्याप्तमिदं जगत् ।।
भीतानां सा परा रक्षात्र स्नानां अभयं परं ।
शत्रुभिश्चार्दितानां तु मोक्षदं परमं ध्रुवं ।।
किं वा विस्तरणोक्तेन पौनपुण्येन सुंदरि ।
यद्यन्निव्रतरं रौद्रं श्रीमद्वर्जितमेव वा ।।
प्रसादं वरदं श्रेयः प्रकाश्यन्तत्तदेव हि ।
तद् ज्ञेयमप्रमेयं च ज्ञानं मन्त्रं महाबलं ।।
त्रातारं सर्वभूतानां गुप्तगोप्यं सदा मया ।
तवाद्य कथितं देवि भूयः परिपृच्छसि ।।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृत्तिशविधाने तंत्रावताराधिकारो नाम
प्रथमः पटलः ।। १ ।।
श्रीदेव्युवाच ।।
यद्येवं परमं शान्तं अप्रमेयं गुणालयं ।
सर्वानुग्रहकं वीर्यं देवदेव मुखाच्छ्रुतं ।।
४अ)
भगवं देवदेवेश लोकानुग्रहकारक ।
त्रियोनिजमिदं सर्वं देवमानुष तिर्यगं ।।
आधिव्याधि भयो द्विग्नं विषभूतभयार्दितं ।
अपमृत्यु शतां कर्णं ज्वरकासक्षयान्वितं ।।
भूतजं मानुषे लोके विप्राद्याः प्राणिनस्तथा ।
दुःखदोषशताकीर्णं कुतंस्तेषां सुखं विभो ।।
युगानुरूपभावेन तेषामायुं स्वमानतः ।
जिघांसन्ति बलोपेतास्त्वत्तेजबलबृंहिताः ।।
अनेकशतभेदैस्तु व्याधादि विनिपीडिताः ।
तेषामनुग्रहार्थाय कृपया प्राणिनां हितं ।।
उपायस्तु जगन्नाथमुच्यन्ते येन सर्वतः ।
येन येन प्रकारेण ज्ञानयोगेन मंत्रतः ।।
यत् तत् पश्यति देवेश तमुपायं वदस्व मे ।
एवं देव्या वचः श्रुत्वा प्रहस्यो वारशंकरः ।।
ईश्वर उवाच ।।
अतिकारुण्यया विष्टा देवित्वं पृच्छसे मम ।
न केन विदहं पृष्ठो नाख्यातं कस्य चिन्मया ।।
यत् तत् सर्वेषु नेत्रेषु नेत्रभूतं(?) प्रकीर्तितं ।
४ब्)
ममांशकेन केनापि लक्षितं तु सुदुर्लभैः ।
तवाद्य कथयिष्यामि तृप्रकारं परं ध्रुवं ।।
मंत्रयोगज्ञानगम्यं मोक्षदं सिद्धिदं परं ।
आदौ मंत्रमयं वक्ष्ये सिद्धत्रयसमन्वितं ।।
सांगं स्वमुद्रया युक्तं सर्वत्राणकरं परं ।
भूतयक्षग्रहोन्माद शाकिनी योगिनी गणैः ।।
भगिनी रुद्रमात्रीभि डाव्याडामरकादिभिः ।
रूपिकाभिरपस्मारैः पिशाचैश्चाप्यनेकशैः ।।
ब्रह्मरक्षोग्रहादिभ्यः कोटिशो यदि मुद्रिताः ।
अपमृत्युभिराक्रान्ताः कालपाशजिघांसता ।।
राजानो राजतनया राजपत्न्यो ह्यनेकशः ।
विप्रादि प्राणिनः सर्वे सर्वदोष भयार्दिताः ।।
येन वै स्मृतमात्रेण मुच्यते तद् ब्रवीमिते ।
भूय प्रदेशे समे रम्ये चंदनागुरु चर्चिते ।।
कर्पूरामोदगंधाढ्ये कुंकुमोदक चर्चिते ।
आचार्य सुप्रहृष्टात्मा चंदनागुरु चर्चितः ।।
उष्णीराद्यैराभरणैर्भूषितः सुमहामतिः ।
५अ)
पद्ममष्टदलं कृत्वा मात्रिकां तत्र चालिखेत् ।
त्रितनुं मध्यतो लेख्यं वर्गाष्टौ प्राग्विषो लिखेत् ।।
पूजयेत् परया भक्त्या पुष्पधूपार्घविस्तरैः ।
मंत्रमाता ततो देवि प्रोद्धरेत् मंत्रमुत्तमं ।।
विश्वाद्यं विश्वरूपान्त विश्वहामृतकं दलं ।
स्वेति ध्वनि पराशक्तिः शिवमेकत्र योजयेत् ।।
अनेन ग्रथितं सर्वं सूत्रेमणि गणा इव ।
अस्मात्मंत्रासमुत्पन्ना सप्तकोट्याधिकारिणः ।।
चित्रभानु पदान्तस्थं शशांकशकलोदरं ।
तदंकुशोर्ध्वविन्यस्तं तिर्यगं तूर्ध्वयोजितं ।।
एतत् तत् परमं ज्योतिरेतत् तत् परमामृतं ।
एतत् परममुद्दिष्टं अमृतं लोकविश्रुतं ।।
पेयूष कलया युक्तं पूर्णचंद्रनिभोपमं ।
एतत् परतमं धाम एतत् परतमं पदं ।।
एतत् परतमं वीर्यं एतत् परमामृतं ।
तेजसां परमं तेजं ज्योतिषां ज्योतिरुत्तमं ।।
सर्वस्य जगतो देव ईश्वरं कारणं ध्रुवं ।
स्रष्टा कर्ता च हर्ता च नास्त्यस्य जगतो वली ।।
५ब्)
मंत्राणामालयं ह्येष सर्वसिद्धिगुणास्पदः ।
अधुनांगानि वक्ष्यामि सन्नद्धोयैस्तु सिध्यति ।।
कृतान्तमध्यमं वर्णं सुररा *? च मानुगं ।
प्रभंजनान्त शिरसं हृअदया सर्वसंस्थितं ।।
सामान्तमनलाद्येन युक्तं प्रणवयोजितं ।
शिरो ह्येषो निलान्तेन युक्तो माया शिखा स्मृता ।।
प्रशान्तमीश्वरोर्ध्वं च द्वादशार्द्धनियोजितं ।
शिवशक्तिस्तथा नादयुक्तं तद्वत्मनोत्तमं ।।
सभैरवाद्यं प्रणवं सदागति शिर स्थितां ।
नेत्रमंत्र महोदग्रं सर्वकिल्विष नाशनं ।।
अजीवकटसंयुक्तं अस्त्रमेतत् प्रकीर्तितं ।
अंगषट्क समाख्यात मंत्रराजस्य निसृतं ।।
इति सर्वस्रोतसंग्रहसारे अमृतीशविधाने मृत्युंजये
मंत्रोद्धारविधिर्द्वितीयः पटलः ।।
ईश्वर उवाच ।।
अधुना यजनं वक्ष्ये येन सिद्ध्यन्ति मंत्रराट् ।
आदौ स्नान प्रकुर्वीत सर्वकिल्विषनाशनं ।।
६अ)
अस्त्रमंत्रेण देवेशि मृदमुद्धृत्य मंत्रवित् ।
शौचं यथोदितं कृत्वा स्नानं पश्चात् समाचरेत् ।।
पादौ जंघे कटी चैव पूवद्भिः त्रिभिस्तृभिः ।
त्रिभिरंतरयोगेन सप्तभिः शुद्ध्यते मनः ।।
सप्ताभिमंत्रितं कृत्वा मृदमस्त्रेण मंत्रवित् ।
प्रतांप्यार्क मुखे पश्चाच्छरीरमनुलेपयेत् ।।
विघ्नोपशमनार्थं तु क्षाल्यमंतर्जलं जपेत् ।
वामहस्ते ततो भागान् मृदयात्रींस्तु कारयेत् ।।
अस्त्रजप्तं क्षिपेद् दिक्षु मूले तीर्थं प्रकल्पयेत् ।
अंगैः शरीरमालिप्य क्षाल्यमन्तर्जलं जपेत् ।।
मूलं शक्त्या समुत्तीर्य संध्यां वंदेदनुक्रमात् ।
शिखांबद्ध्वा शिखास्मृत्वा मंत्राणां तर्पणं ततः ।।
देवान् पितॄनृषींश्चैव मनुजान् भूतसंयुतान् ।
सन्तर्पतीर्थं संगृह्य यागोक्तविधिना विशेत् ।।
आशामात्री गणं लक्ष्मी नंदिगंगे प्रपूजयेत् ।
महाकालं तु यमुनां देहलीं पूजयेत् ततः ।।
६ब्)
विघ्न प्रोच्चाटनं कृत्वा दिग्बंधं कवचास्त्रयोः ।
स्वासनार्थं प्रकल्प्येत शक्तिमाधारपूर्विकां ।।
उपविश्य ततः कुर्यात् प्राणायाममनुक्रमात् ।
धारणामारभेत् तत्र युगपच्छोषणादिभिः ।।
षाङ्कोषिकं(?) तु मलिनं दिग्बंधं तत्र भावयेत् ।
विज्ञानं केवलन्तत्र शून्यन्तत्रगतं स्मरेत् ।।
नाहमस्ति न चान्योस्ति ध्येयं चात्र निवेद्यते ।
आनंदपदसल्लीनं मनः समरसी गतं ।।
पश्चादाधारशक्तिस्थं स्था?सनं परिभावयेत् ।
धात्रीपयोगिवं पद्मां चंद्रबिंवावभासितं ।।
पश्चात् कलाकलापोत्थं पेयूषेन तु सिंचितं ।
मूर्ति पूर्वं तृतत्वे तु मूले नैव प्रकल्पयेत् ।।
ततोंगानि कराभ्यां तु शरीरे विन्यसेत् पुनः ।
मंत्रं चैवाभिमानं तु चिन्तये ध्यानयोगतः ।।
धेनुमुद्रा ततो बद्ध्वा पद्ममुद्रा तथापि वा ।
ध्यायेदात्मनि देवेशं चंद्रकोटिसमप्रभं ।।
स्वच्छमुक्ता फलप्रख्यं स्फटिकाह्नि समप्रभं ।
७अ)
कुंदेंदु गोक्षिरे निभं हि मादृशं विभुं ।
शुभ्राद्वारेंदु कांतादि सितभूषणभूषितं ।।
सितचंदनलिप्तांगं कर्पूरक्षोदधूसरं ।
स्फुरचंद्रामृतस्फार बहुलोर्मिपरिप्लुतं ।।
सोममंदलमध्यस्थं एकवक्त्रं त्रिलोचनं ।
सितपद्मोपविष्टं च बद्धपद्मासनस्थितः ।।
चतुर्भुजं विशालाक्षं वदराभयपाणिनं ।
पूर्णचंद्रनिभं शुभ्रं मृतेनैव पूरितं ।।
कलशं धारयन्तं हि जगदाप्याय कारकं ।
परिपूर्णं तथा चंद्रं वामहस्ते विचिन्तयेत् ।।
सर्वश्वेतोपचारेण पूजितं तमनुस्मरेत् ।
बहुनात्र किमुक्तेन साक्षादमृतसागरं ।।
तस्मादेव समुत्पन्नममृतं विश्वजीवनं ।
अथ चिन्तामणि प्रख्यं भावभेदेन संस्मरेत् ।।
सौम्यं रौद्रं तथा भीमं विकृतं भावभेदतः ।
सदाशिवं भैरवं र?न्तं चुंरुं वीरनायकं ।।
येन येन हि रूपेण साधकंस्संस्मरे तदा ।
तस्य तन्मयतां याति चिन्तामणि रिवेश्वरः ।।
७ब्)
एवं ध्यात्वा यजेद् देवं मानसैः कुसुमैः शुभैः ।
हृत्पद्मे सर्वसिद्ध्यर्थं पश्चाद् बाह्ये प्रपूजयेत् ।।
मानसैः कुसुमैरर्चा साधकेन शुभामता ।
अनिर्माल्य पराशुद्धा मोक्षदा सिद्धिदा शुभा ।।
तस्मात् सर्वप्रयत्नेन मानसं यजनं ध्रुवं ।
आदावे प्रकर्तव्यं पश्चाद् द्रव्यैस्तु विस्तरैः ।।
स्वगृहे देवतागारे संगमे गिरिमूर्द्धनि ।
सुप्रशस्ते तु भूभागे पद्मशंडे सुशोभने ।।
आलिखेत् मंडलं चित्रं सितरेखोपशोभितं ।
चतुर्द्वारं चतुष्कोणं सुसमं तु मतोरमं ।।
शोभापशोभसंपन्नं तन्मध्ये शशिमंडलं ।
पूर्णचंद्रसमप्रख्यं रश्मिमालावली युतं ।।
तन्मध्येष्टदलं पद्मं सुसितं चंद्रसन्निभं ।
विचित्रकेसरोपेतं हेमकर्णिकमुत्तमं ।।
तन्मध्ये चैव देवेशं स्वस्थानादवतारयेत् ।
आवाहयेत् ततो देवं त्रिदेहपरिकल्पितम् ।।
८अ)
आग्नेयादि विभागेन दलेष्वंगानि विन्यसेत् ।
पूज्यश्वेतोपचारेण पुष्पांवरविलेपनैः ।।
नैवेद्यैर्विविधैश्चित्रैर्धूपैः श्रेष्ठैः सुधूपितैः ।
हृद्यैः पानैश्चर्विविधैर्भावभेदेन पूजयेत् ।।
सर्वश्वेतोपचारेण शान्त्यर्थं पूजयेत् पृये ।
पुष्ट्यर्थं बहुभिर्मिश्रैः संभारः संस्कृतं यजेत् ।।
पश्चाद्धोमं प्रकुर्वीत यथाकर्मानुरूपतः ।
त्रिमेखले वर्तुले च चतुरश्रे सुशोभने ।।
हस्तमात्रे ततः कुंडे षडंगेनोर्द्धमेखले ।
मध्यमादि चतुष्केण द्वादशांगेन चाधमा ।।
हस्तमात्रं ततः खातं ओष्ठमेकांगुलायतं ।
अश्वत्थपत्त्र सदृशी नाभिः कुर्यान्नवांगुला ।।
दैर्घ्यात् तु पार्श्वतस्तद्वतत्मध्याग्रांगुलन्वयं ।
उक्तं साहस्रिके होम द्विगुणं चायुते मतं ।।
त्रिपंच युत होमेन त्रिगुणं तद्विधीयते ।
कुंडं वै लक्षणोपेतं लक्षहोमे प्रशस्यते ।।
नित्यनैमित्तिके काम्ये शान्तौ पुष्टौ तु वर्तुलं ।
८ब्)
सर्वदिक्षु प्रशाम्येत श्रीकामे चतुरश्रकं ।
शस्यते पूर्वमानेन यं दृष्ट्वा कर्मभेदतः ।।
संस्कारान्वस्य कुंडस्य कर्तव्या अस्त्रमंत्रतः ।
अधःकरणमुद्धारं अभिक्षेपं प्रपूरणं ।।
सेचनं कुट्टनं चैव मार्जनं लेपनं तथा ।
प्रणवेन तु कर्तव्यं कुंडस्य परिकल्पना ।।
चतुष्पथं चाक्षवाटं वागेश्या गृहकल्पनं ।
असिना प्रणवेनैव वागेश्या वाहनं पुन ।।
अर्वनं चैव कर्तव्यं त्रितत्वेनन्त प्रोक्षणं ।
अस्त्रेण ताडनं चैव संस्कृत्यविधिपूर्वकं ।।
क्रियाशक्ति स्वरूपेण कौंडिल्या कुंडकल्पना ।
ज्ञानशक्तिस्वरूपं तु वह्निन्तत्र प्रकल्पयेत् ।।
वह्निमादाय पात्रस्थं पंचसंस्कारसंस्कृतं ।
निरीक्षणादि चास्त्रेण कवचेनावगुंठनं ।।
प्रणवेनाहुतिः पंच हुत्वा द्रव्यादि शुद्धितः ।
विश्वाग्न्यापादनं पश्चात् कुर्वीत भ्रामये तृधा ।।
बीजरूपं ततो वह्निमात्माने परमेश्वरं ।
९अ)
माया चैव तु योगेशी योनौ संक्षोभ्य संक्षिपेत् ।
वर्तुलीकृत विश्वाग्नौ पूजनं प्रणवेन तु ।।
कर्तव्यं तन्मुखे पश्चात् संस्कारस्तु ततो नले ।
गर्भाधानं पुंसवनं सीमन्तोन्नयं तथा ।।
वक्त्रकल्पनविश्वाग्नौ सीमाग्रीवादि कल्पन ।
जातकर्म तथैवात्र निष्क्रामोनामकल्पना ।।
हृदयाद्यंग षट्केन कर्तव्यमनुपूर्वशः ।
चूडाद्या ये तु संस्कारा पूर्णाहुत्येकया पुनः ।।
संस्काराणि तु सर्वाणि वह्नौ मूलेन कारयेत् ।
शिवशक्ति मयन्तत्र कल्पये तु विधानवित् ।।
स्रुक्स्रुवौ तु दृढौ कार्यौ क्षीरवृक्षसमुद्भवौ ।
शस्यते शान्तिपुष्टौ तु शस्तद्रुमसमुद्भवौ ।।
अन्यत्र भावभेदेन कार्यौकमानुरूपतः ।
षट्तृंशदंगुलं मानं स्रुग्वावाहु प्रमाणतः ।।
षडंशपरिणाहेन दंडः कुंभात् समुत्थितः ।
चतुरंगुलपीठाग्रं तत्पीठं कमलोदरं ।।
कर्तव्यं दंडमध्ये तु द्व्यंगुलायतवर्तुलं ।
९ब्)
अर्द्धांगुलसमुत्सेध विचित्ररचनाकुलं ।
वेदिकाष्टांगुलाकार्या चतुरासुशोभना ।।
अधः पद्मा निविष्टान्त ऊर्ध्वि? पंचांगुलायुत ।
खातं तं अंगुलं कार्यं तदूर्ध्वं वर्तुलभ्रमं ।
अर्द्धांगुलप्रमाणेन तिलकैरुपशोभितं ।।
तस्य पार्श्व चतुष्कं तु चतुष्कोणसमन्वितं ।
शिल्पिविज्ञानरचना नाना भिरचितं मतं ।।
कंथ एका.उग्लः कार्यस्त त्रिभागविकल्पितः ।
पार्श्वयोश्च ततः कार्यं मुखं सप्तांगुलं शुभं ।।
दैर्घ्यां तु पार्श्वयोष्टौ तु द्वौ भागौ ह्रासयेत् क्रमात् ।
मुखाग्रं तत् त्रिभागे तु द्वौ भागौ पार्श्वयोस्तथा ।।
वर्तयेद्वेदयेतां तु कनिष्ठांगुलिमानतः ।
निम्नं निम्नतरं कुर्याद् यावच्चाग्रमुखान्तरं ।।
पार्श्वयोस्तु तथा कार्या विचित्र रचना शुभा ।
स्वतृभागविवर्त स्यात् पार्श्वयोस्तु तथैव च ।।
हस्तमात्र स्रुवः कार्यो मूलपीठे त्रिशाखिकं ।
मध्याग्रपीठपद्मांक कंठाचांगुलवर्तुलं ।।
१०अ)
चतुरंगुलदीर्घं तु द्विपुटाग्रं सुवर्तितं ।
अंगुष्ठपर्ववत् खातं गोष्पदाकृतिकारयेत् ।।
कनिष्ठांगुलमानेन प्रतिष्ठा खातु वर्तुला ।
वर्तयेद्रवचनायुक्तं कर्षापूरितवक्त्रकं ।।
चतुष्पला भवेत् पूर्णा स्रुवाशक्तिः स्रुवः शिव ।
क्रियाशक्तिस्तु वै कुंडं ज्ञानशक्तिस्तथा नलं ।।
एवं निष्पाद्य विधिवत् पश्चाद्धोमं समाचरेत् ।
तिलैःक्षीरयुतैर्होमं शर्कराघृतमिश्रितैः ।।
महाशान्तिप्रजायेत तत्क्षणात् नात्रसंशयः ।
आदौ चैवाज्य?संस्कारंन् कुर्याद्धोममथापरं ।।
अधिश्रयणमुद्धारं भ्रामणं स्थापनं ततः ।
निरीक्षणं ततोस्त्रेण नैराजनमतः परं ।।
पर्यग्नि करणं चैव तथैवोत्प्लवसंप्लवौ ।
अस्त्रे चैवार्चनं मूले नामृतीकरणं तथा ।।
दर्भास्तरं विष्टराणि परिधी नस्त्रमंत्रतः ।
सूर्याचंद्रमसौवह्नि कल्पयेत् प्रणवेन तु ।।
भावयेत् तवजिह्वा तु पूर्णां मूलेन पातयेत् ।
१०ब्)
पश्चात्तूतं मंत्रं सागं मध्यमतं यजेत् ।
एवं कृत्वा तु जुहुयान्मंत्री कर्मानुसारतः ।।
पयसाघृतयुक्तेन पुष्टिर्भवतिशाश्वती ।
घृतगुग्गुलुहोमेन पूर्णायुर्भवते ध्रुवं ।।
श्रीकामं जुहुयात् पश्चान् घृतक्षीरसमन्वितं ।
राज्यकामोस्ततो बिल्वा त्रिसंधाक्तात् सुसिद्धिदात् ।।
क्षीरवृक्षसमिद्भिस्तु होमाचारो गृ?तां भभेत् ।
प्रशस्तसमिधा होमात् प्रशस्त तरुजे नले ।।
सर्वकामानवाप्नोति सत्यमेव नवान्यथा ।
ब्रीहिसप्तकहोमेन धनार्थी लभते धनं ।।
ईहितं काममुद्दिश्य ईहितं होममाचरेत् ।
पयसा केवले नैव होमान्मृत्युंजये ध्रुवं ।।
क्षीरवृक्षसमिद्भिस्तु होमादाराम्व?तो लभेत् ।
प्रशस्त समिधा होमात् प्रशस्तेन जले नलं ।।
सर्वकामानवाप्नोति सत्यमेतं न चान्यथा ।
इति सर्वस्रोतसंग्रहं सारे मृत्युजिदमृतीशविधाने यजनाधिकार तृतीयः
पटलः ।।
११अ)
ईश्वर उवाच ।।
अथ दीक्षां प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदां ।
भूततन्मात्रदशकं मनोबुद्धिरहंकृतं ।।
प्रकृतिं पुरुषं चैव ईश्वरं च सदाशिवं ।
शिवमष्टादशं नाम तत्कार्येवविशोधयेत् ।।
प्रकृतिं पुरुषश्चैव निपतिः काल एव च ।
माया विद्या तथैशं च सदाशिवशिवस्तथा ।।
तत्वानि नवधा सम्यक् शोधयेद्दैशिकोत्तमः ।
तत्वैशट्तृंशदर्द्धेन तदर्द्धे नाथ पंचभिः ।।
त्रिभिरेकेन वा कार्या परापरविभूतये ।
या कलाभिः पंचभिर्वाथ पदैर्दीक्षाथवा पुनः ।।
वर्णैः पंचाशतो वापि मंत्रैर्वा भुवनैस्तथा ।
एतैः सर्वैः प्रकर्तव्या कार्या एकतमाथवा ।।
सर्वैस्तु समुदायेन व्यक्तिशक्ति स्वरूपतः ।
यथा विभवसारेण कर्तव्यादैशिकोत्तमैः ।।
वागेश्याः पूजनं कार्यं तद्गर्भे योजयेत् पशुं ।
गर्भाधानं तु जननं अधिकार लयं तथा ।।
११ब्)
भोगः कर्मार्जनं चैव निष्कृतिस्तदनन्तरं ।
मूलमंत्रेण कर्तव्यं पाशच्छैदस्तथा स्मृतः ।।
अस्त्रमंत्रेण दाहस्तूतं भस्मीकरण स्थितिः ।
शिखाच्छेदं तथा होमं मूलेनैव तु योजयेत् ।।
संयोज्य परमे तत्वे संस्थानं चैव कारयेत् ।
अधिकारार्थमाचार्ये परापर पदे स्थितिः ।।
शिवतत्वे स्वधाकारां विद्यादीक्षा सदाशिवे ।
पुत्रके परमे तत्वे समयिन्येश्वरे तथा ।।
एवमुद्देशतो दीक्षा कथिता विस्तरेन्यतः ।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने दीक्षाधिकारश्चतुर्थः
पटलः ।।
ईश्वर उवाच ।।
अभिषेकं प्रवक्ष्यामि यथा यस्यैव दीयते ।
अष्टभिः कलशैर्देयमाचार्यस्य विधानतः ।।
ते तु विद्येश्वराः प्रोक्ता समुद्राश्च सगर्भगाः ।
पंचभिर्भूतसंख्यैर्वा त्रिभिर्वा तत्वरूपकैः ।।
आत्मविद्या शिवाख्यैस्तु एकेनापि शिवात्मना ।
अधिकारार्थमाचार्ये साधके सिद्धिकामतः ।।
१२अ)
अभिषिक्तो ह्यनुज्ञातः प्रकुर्यान्मंत्रसाधनं ।
तद्व्रतस्तमसाचारस्तद्भक्तस्तत्परायणः ।।
पवित्राहारनिरतो लघ्वाशी संयतेंद्रितः ।
एकान्ते पुण्यक्षेत्रे तु तीर्थायतन गोचरे ।।
सर्वसंगोज्झितमनाः साधको जपमारभेत् ।
लक्षमेक जपेन्मंत्री पूर्वमेव समाहितः ।।
तेन सामान्य कर्माणि सिद्ध्यन्ते साधकस्य तु ।
भौमीं सिद्धिमवाप्नोति दशलक्ष जपेन तु ।।
अन्तरिक्षीं लभेत् सिद्धि लक्षपंचाशतोद्ध्रुवं ।
दिव्यां सिद्धिं तु लभते साधको नात्रसंशयः ।।
यथा कोटि कृतेर्जप्यै ईश्वरी सिद्धिमावहेत् ।
व्यापकस्तु शिवो भूत्वा निग्रहानुग्रहक्षमः ।।
यथेच्छां कुरुते सर्वां धारयेत् संहरेद्भृशं ।
सर्वगस्सर्ववेत्ता च सर्वज्ञो भवते ध्रुवं ।।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधान अभिषेकसाधनाधिकारः
पंचमः पटलः ।।
१२ब्)
श्रीदेव्युवाच ।।
श्रुतं मया महादेव मृत्युजित् सिद्धिमोक्षदं ।
अधुनाश्रोतुमिच्छामि सिद्धि त्रय समन्वितं ।।
अमृतीशं महात्मानं सर्वप्राणिषु जीवनं ।
यदा सिद्धि प्रदो लोके मानुषाणां हितं करं ।।
पूर्वोक्त दुष्टशमनं अपमृत्युविनाशनं ।
आप्यायनं शरीरस्य शान्तिपुष्टिप्रदं शुभम् ।।
श्रीभैरव उवाच ।।
श्रूयतां संप्रवक्ष्यामि रहस्यं परमाद्भुतं ।
यथातरंति मनुजा दुःखो दधि परिप्लुता ।।
अपमृत्युशताक्रान्ता जरादारिद्र्यसंयुता ।
आधिव्याधिभयोद्विग्ना पापौघैर्विनिपीडिताः ।।
मुच्यन्ते तु यथा सर्वे पूर्वोक्तैर्मारणैः पृये ।
त्रिविधं तदुपायं तु स्थूलं सूक्ष्मं परं च यत् ।।
१३अ)
स्थूलं च यजनं होमं जप ध्यानं समौद्रकं ।
मंत्राणि संपुटादीनि मंत्रराट् कुरुते भृशं ।।
सूक्ष्मं चक्राभियोगेन कलानाद्यादयेन च ।
परं सर्वात्मकं देवं मोक्षदं मृत्युजिद् भवेत् ।।
यदा मृत्युभया घ्रातं कालेन कलितं पृये ।
दृष्टस्तत्प्रतिघानार्थममृतेशं यजेत् तदा ।।
सर्वश्वेतोपचारेण पूर्वोक्तेन विधानतः ।
यस्य नामं समुदिश्य पूजयेत् मृत्युजिद् विभुः ।।
मृत्योरुत्तरते शीघ्रं सत्यं मेनानृतं वचः ।
सितशर्कर या युक्तो घृतक्षीर प्लुतैस्तिलैः ।।
पुण्यदार्विधने वह्नौ कुंडे वृत्ते त्रिमेखले ।
महारक्षा विधानेन यस्य नामांकितो हुनेत् ।।
महाशक्तिर्भवेत् क्षिप्रं गतस्यापि यमालयं ।
१३ब्)
अथवा शर्करायुक्तं पयसा केवलेन तु ।
होमान्मृत्युंजये च्छीघ्रं मृत्युंजिन्नात्रसंशयः ।।
सुगंधघृतहोमेन क्षीरवृक्षमये नले ।
जुहुयान्नाशयेन्मृत्युं मृत्युजिन्नात्रसंशयः ।।
क्षीरवृक्षसमिद्धो वा ज्वरं नाशयते क्षणात् ।
तिलतंडुलमक्षीक आज्यंक्षीरसमन्वितं ।।
एष पंचामृतो होम सर्वदुष्ट निवारणं ।
गुग्गुलांगुलिकाभिश्च त्र्यक्ताश्च शक्रमात्रया ।।
होमात्पुष्टिर्भवत्याशु क्षीणदेहस्य सुव्रते ।
यदा व्याधिशा कीर्णा ह्यबलो दृश्यते नरः ।।
तदा तु संपुटी कृत्य नामजप्त्वा विमुच्यते ।
यं यं मंत्रं जपेद् विद्वानमृतीशेन संपुटं ।।
स तस्य सिद्ध्यते क्षिप्रं भाग्यहीनोपि यो भवेत् ।
क्षीणगात्रस्य देवेशि भेषजं मंत्रसंपुटं ।।
दीयते तत्क्षणा देवि सपुष्टिं लभते बली ।
१४अ)
हृत्पद्ममध्यगं जीवंच्चंद्रसंपुटमध्यगं ।
साध्यर्णरोषितं कृत्वा मृत्युरुन्तरते भृशं ।।
साध्यर्ण रोधितं नित्यं ध्यायेद् देहं स योगवित् ।
सर्वव्याधिविनिर्मुक्तो सभवेन्नात्रसंशयः ।।
क्षीरोदमध्यपद्मस्थं अमृतोर्मिभिराकुलं ।
ऊर्द्ध्वाधः शक्तिरुद्धं तु साध्यर्णसंपुटीकृतं ।।
यो ध्यायति सदृष्टात्मा ह्यात्मनस्य परस्य वा ।
सबाह्याभ्यन्तरं शुभ्रं स्वधापूरितविग्रहणं ।।
अमुद्विग्नमनायश्च सर्वभोगैः प्रमुच्यते ।
रोचना कुंकुमेनैव क्षीरेण च समन्वितं ।।
सितपद्मेष्ट पत्रे तु मध्यसाध्यं निरोधितः ।
सर्वव्याधि पराक्रान्तं चंद्रमंडलवेष्टितं ।।
चतुष्कोणे पराक्रान्तो वज्रभृद्वज्ररोधितः ।
मुच्यते नात्रसंदेहो सर्वव्याधि प्रपीडितः ।।
षोडशारे महापद्मे षोडशस्वरभूषिते ।
आद्यन्तमंत्ररोधेन साध्यनामं विलेखयेत् ।।
जीवान्तं सावमध्यस्थं वर्णांतांतेन रक्षितं ।
१४ब्)
प्रत्यर्णममृतीशेन संपुटि त्वानुसर्वतः ।
मध्ये दलेषु सर्वेषु शशिमंडलमध्यगं ।।
बाह्ये तु द्विगुणं पद्मं कादिसान्तं क्रमेण तु ।
पूर्ववत् तु लिखेन्मंत्री प्रतिसाध्यर्ण रोधितं ।।
वर्णे तदनु साध्यस्य नामबाह्येर्कमंडलं ।
पुरंदर पुरे पश्चात् समन्तात् परिवारयेत् ।।
श्वेतचंदनयुक्तायां रोचनाक्षीरयुक्तया ।
लिखित्वा मंत्रवाजानां कर्पूरक्षोदधूसरं ।।
महारक्षाविधानं तु सुखसौभाग्यदायकं ।
एतच्चक्र महादेवि सितपुष्पैः प्रपूजयेत् ।।
सर्वश्वेतोपचारेण मधुमध्ये निधापयेत् ।
अनेनैव विधानेन सप्ताहान् मृत्युजिद् भवेत् ।।
राजरक्षाविधानं तु भूभृतामप्रकाशयेत् ।
संग्रामकाले वरदं ऋपुदर्पापहं भवेत् ।।
शिवादिनवतत्वानि प्रत्येकं शशिमंडले ।
मध्ये पूर्वादिमीशान्तं अमृतीशेन मंत्रवित् ।।
यदा व्याधि शताक्रान्ता अपमृत्युभिरेव च ।
१५अ)
तदा श्वेतोपचारेण पूज्यं क्षीरघृतेन च ।।
तिलैः क्षीरसमिद्भिर्वा होमाच्छान्तिं समश्नुते ।
एवसंपूज्य कुंभे तु सर्वौषधि समन्वितः ।।
सितगर्भमये शुभ्रे रन्नगर्भांबुपूरिते ।
सर्वमंगलघोषेण शिरसि ह्यभिषेचयेत् ।।
समुच्यतेन संदेहो सर्वव्याधि प्रपीडितः ।
ध्यात्वा परामृतं नित्यं नित्योदितमनामयं ।।
प्रकृद्यान्तस्सममृतं अवतार्य पराशिवान् ।
चतुर्णवामृताधार नवधान च पूरितं ।।
शतार्द्धक्षोभिता नित्यं षट्पंचैक समन्वितं ।
अनन्ताधारगंभीरं अष्टत्रिंशविभूषितं ।।
पंचभिर्वा प्रसिद्ध्यर्थं पूर्णन्तेन निरुन्तरं ।
एवं ध्यानपरो यस्तु सबाह्याभ्यन्तरामृतं ।।
विक्षोभ्यकलशं मूर्द्ध्नि दैशिको मंत्र तत्परः ।
अनुग्रह सदावस्थस्त्वभिषिंचेत् प्रयत्नतः ।।
समुच्यतेन संदेहो संसाराद्दुरति क्रमात् ।
आयुर्बलं यशः कीर्ति धृतिर्मेधा यशः श्रियः ।।
१५ब्)
सर्वं प्रवर्द्धते यस्य भूभृतोराज्यमुत्तमं ।
दुःखान्वितो विदुःखस्तु व्याधिमान्निमुजो भवेत् ।।
बंध्यापि लभते पुत्रं कन्या तु पतिमावहेत् ।
ययत्समीहते कामं तं तं तस्य ध्रुवं भवेत् ।।
अभिषेकस्य माहात्म्यं विधान विहितस्य च ।
कथितं ते मया देवि पूजनं हितकाम्यया ।।
अन्यशास्त्रोपचारेण सर्वशान्त्यारहो भवेत् ।
एवं स्थूलविधानं तु सूक्ष्मं चैवाधुना शृणु ।।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतेशविधाने स्थलधिकार षष्ठमः
पटलः ।।
ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि ध्यानं सूक्ष्ममनुत्तमं ।
ऋतु षष्ट्य स्वराधारं त्रिलक्षं व्योमपंचकं ।।
ग्रंथिद्वादशसंयुक्तं शक्तित्रयसमन्वितम् ।
धामत्रय पथाक्रान्तं नाडित्रयसमन्वितं ।।
ज्ञात्वा शरीरं सुश्रोणि दशनाडि पथानुगं ।
१६अ)
द्वासप्तति सहस्रैस्तु सप्तकोट्यार्द्धसंयुतं ।
नाडिवृंदैः समाक्रान्तं अनले व्याधिभिः कृतं ।।
सूक्ष्मध्यानामृतेनैव परेणैवोदितेन तु ।
आप्यायं कुरुते योगी आत्मानोथ परस्य वा ।।
दिव्यदेहस्तु भवति सर्वव्याधिविवर्जितः ।
यत् स्वरूपं स्वसंवेद्यं स्वस्थस्वव्याप्ति संभवं ।।
स्वोदिता तु पराशक्ति स्वस्था तद्गर्भगः शिवः ।
तां वद्वेन्मध्यमे प्राणे प्राणापानांतरे ध्रुवं ।।
अहं भूत्वा ततो मंत्रं तत्स्थं तच्चक्रगं ध्रुवं ।
स्वोदितेन वरारोहे स्पंदनं स्पदनेन तु ।।
कृत्वा तदभिमानं तु जन्मस्थाने निधापयेत् ।
भावभेदेन तत्स्थानाम्मूलाधारे प्रयोजयेत् ।।
नादसूच्याप्रयोगेन वेधयेत् सूक्ष्मयोगतः ।
आधारः षोडशं भित्वा ग्रंथिद्वादशकं तथा ।।
मध्यनाडिपथारूढो वेधयेत् परमं ध्रुवं ।
तत्प्रविष्टस्तदा भूत्वा तत्समो व्यापकः शिवः ।।
सर्वामयपरित्यागान्निष्कलं क्षोभ्यशक्तितः ।
१६ब्)
पुनराप्यायतेनैव मार्गेण हृदयान्तरं ।
तत्र प्रविष्टमात्रस्तु ध्यानालब्धं रसायनं ।।
विश्राम्या तु भवं प्राप्य तस्मात् स्थानात् प्रवाहयेत् ।
सर्वं तदमृतं वेगान् सर्वत्रैव निरोधयेत् ।।
अनन्तनाडि भेदेन ह्यनन्तामृतमुत्तमं ।
अनन्त ध्यानयोगेन परिपूर्यस्वकंपुरं ।।
भुक्त्वा जरामरस्तद्वत् सबाह्याभ्यन्तरं प्रिये ।
एवं मृत्युजितात् सर्वं सूक्ष्मनादेन पूरितं ।।
तदासौ सिद्ध्यते क्षिप्रं सत्यं देवि न चान्यथा ।
जन्मस्थानं समाशृत्य स्पंदस्थं मध्यमां कलां ।।
तत्स्थं कृत्वा तदात्मानं कालाग्निं तु समाश्रयेत् ।
गत्वा गृहीत विज्ञानं वीर्यं तत्रैव निक्षिपेत् ।।
तद्वीर्यात् परमां शक्तिं क्रियाख्या मध्यमोदिता ।
विज्ञानेनोर्ध्वतो भिन्ना ग्रंथिभेदेन चेच्छया ।।
मूलस्पंदं समाशृत्य त्यक्त्वा बाहु द्वयं ततः ।
प्रथ?मार्गप्रवाहेन सुषुम्नाख्यं समाश्रयेत् ।।
१७अ)
तदेवाशृत्य विरमेत् तत् सर्वेंद्रिय गोचरे ।
तदा प्रत्यस्तमे नैव विज्ञानेनोर्द्धतः क्रमात् ।।
ब्रह्मादि कारणानां तु त्यागं कृत्वा शनैःशनैः ।
षष्ट्यांशक्तिमतः प्राप्य कुंडलाख्यां निरोधिकां ।।
मायादि ग्रंथिभेदेन हृद्यादौव्यमपंचकं ।
जन्ममूले समयाख्या ग्रंथिजन्मनि पाशतः ।।
ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ।
कारणस्था तु पंचैवं ग्रंथादौ समुदाहृतं ।।
इंदिकाख्या तु या ग्रंथिर्विमार्गेस्तन्मना तु सा ।
तदूर्द्ध्वं दीपिका चैव तदूर्धे चैव वै दधी ।।
नादाख्या तु महाग्रंथि शक्तिग्रंथिस्त्वतः परम् ।
ग्रंथिर्द्वादशकं भित्वा प्रविशेत् परमं शिवं ।।
ब्रह्माणं च तथा विष्णुं रुद्रं चैवेश्वरस्तथा ।
सदाशिवं तथा शक्तिं शिवस्थानं प्रभेदयेत् ।।
खमनंतं तु जन्माख्ये नाभौ व्योम द्वितीयकं ।
तृतीयं तु हृदि स्थाने चतुर्थीं चंद्रमध्यतः ।।
नादाख्यं तु समुद्दिष्टं षट्चक्रमधुनोच्यते ।
१७ब्)
जन्माख्यं नाडिचक्रं तु नाभौ मायाख्यमुत्तमं ।
हृदिस्थं योगिचक्रं तु ता ईलुस्थं भेदनं स्मृतं ।।
विंदुस्थं भेदचक्रं च नादस्थं शान्तमुच्यते ।
पूर्वोक्तानि च सर्वाणि ज्ञानशूलेन भेदयेत् ।।
आक्रम्याधार जन्माख्यं तन्मूलं पीडयेच्छनैः ।
तस्याधारस्य सुश्रोणि पर्यायाच्छृण्वतः परं ।।
जन्मस्थानं तु कूर्माख्यं कूमाख्यं स्थानपंचकं ।
मत्स्योदरं तथैवं हि मूलाधारं तदुच्यते ।।
तस्मात् तां खेचराख्यां तु मुद्रां विंदेत योगवित् ।
मुद्राया तु तदा देवि आत्मा वै मुद्रितो यदा ।।
तदा चोर्ध्वं तु विचरेद्विज्ञाने नोर्ध्वतः क्रमात् ।
विद्व्याद्भिंद्यात्परं यावत् स्थानं सुरवरार्चितं ।।
तस्थानं देवि संप्राप्य योगिनी समरसी भवेत् ।
निष्कलं भावमापन्नो व्यापकः परमः शिवः ।।
एवं भूत्वा समं सर्वं निस्पंदं सर्वतोदित ।
ततः प्रवर्तते शक्तिर्लक्षहीना निरामया ।।
१८अ)
इच्छामात्रविनिर्दिष्टा ज्ञानरूपा क्रियात्मिका ।
एका सा भावभेदेन तस्य भेदेन संस्थिता ।।
खेचरी मुद्रया पूर्य शक्त्यन्तं तत्र सर्वतः ।
यावच्चनोदितश्चंद्रस्तावन् शून्यं निरंजनं ।।
भावग्राह्यसमाकीर्णं सर्वावस्थोज्झितं परं ।
व्यापकं परमेशानं अनौपम्य मनामयं ।।
भवन्ति योगिनस्तत्र तदारूढा वरानने ।
सा योनिः सर्वदेवानां शक्तीनां व्याप्यसर्वतः ।।
अग्नीषोमात्मिका योनि तस्मात् सर्वं प्रवर्तते ।
तत्र संग्रंथिता मंत्रा त्राणवन्तो भवन्ति ते ।।
सर्वेषां चैव संहारं तदेव परमं पदं ।
तस्मात् प्रवर्तते सृष्टि विक्षोभ्य परमं शिवं ।।
अनौपम्यामृतं प्राप्य बिंदुं विक्षोभ्य लीलया ।
चंद्रोदयं तथा ख्यातं परमामृतमुत्तमं ।।
वहलामृतकल्लोल अनन्तं तत्र संस्मरेत् ।
तस्मात् प्राप्यामृतं शुभ्रं स्वशक्त्या चैव कर्षयेत् ।।
मध्यमार्गेण सुश्रोणि कारणानि प्रभेदयेत् ।
आप्यायनं प्रकुर्वीत स्थाने स्थानेप्यनुक्रमात् ।।
१८ब्)
यावद्ब्रह्मपदं प्राप्तं तस्मादाप्याययेदधः ।
जन्मस्थान पदा चैव कालाग्नौ च प्रचक्रमेत् ।।
तदा पूर्यसमतां तु परिपूर्णं स्मरेत् पुनः ।
सुषुम्नामृतेनाखिलं तु परिपूर्णं विभावयेत् ।।
अनन्त नाडिभिस्तत्र रोमकूपैः समन्ततः ।
निष्क्राम्य व्यापको भूत्वा खमृतोर्मि भिराकुलं ।।
अमृतार्णवसंरूढो मज्जन्तममृतार्णवे ।
तदूर्धे ह्यमृतार्णं तु प्रद्रुतं व्यापकं शिवं ।।
एवं समरसी भूत्वा ह्यमृतं सर्वतो मुखं ।
इच्छाज्ञानक्रियारूपं शिवमात्मस्वकं विभुम् ।।
निरामयमनुप्राप्य स्वानुभूतं विभावयेत् ।
अमृतेश पदं सूक्ष्मं संप्राप्ये वामृती भवेत् ।।
तदासौ ह्यमृती भूत्वा मृत्युजिन्नात्रसंशयः ।
कालजित् सुभगो वीरो मृत्युस्तस्य न बाधते ।।
कालस्य वंचनं सूक्ष्मं मया ते प्रकटीकृतं ।
न कस्य चिन्मया ख्यातं त्वदृते भक्तिवत्सले ।।
१९अ)
इति अमृतेशविधाने सूक्ष्मध्यानाधिकारः सप्तमः पटलः ।।
भगवानुवाच ।।
अथ मृत्युंजय नित्यं परचैवाधुनोच्यते ।
यं प्राप्य न निवर्तन्ते संसारे तृविधे प्रिये ।।
योगी सर्वगतो भाति सर्वदृक् सर्वकृच्छिवः ।
तमहं कथयिष्यामि यस्मादन्यन्न विद्यते ।।
यं प्राप्यते तन्मयत्वेन भवते ह्यजरामरः ।
पन्नवाग्वदते नित्यं यन्न दृश्येत चक्षुषा ।।
यन्न संश्रूयते कर्णैर्भासायश्च न जिघ्रति ।
न चार्द्धं(?) स्वादयते जिह्वा न स्पर्शेत त्वगिंदृयं ।।
न चेतसा चिन्तनीयं सर्ववर्ण रसोज्झितं ।
सर्ववर्ण रसैर्युक्तमप्रमेयमतींद्रियं ।।
यं प्राप्ययोगिनो देवि भवन्ति ह्यजरामराः ।
तदभ्यासेन महता वैराग्येन परेण च ।।
रागद्वेषपरित्यागा लोभमोहक्षयात् प्रिये ।
मदमात्सर्य संत्यागान्मानगर्वतमोज्झितान् ।।
लभते शाश्वतो नित्यं शिवमध्ययमुत्तमं ।
१९ब्)
निमिषोन्मेषमात्रं तु यदि चैलोपलभ्यते ।
ततः प्रभृति मुक्तोसौ न पुनर्जन्ममाप्नुयात् ।।
अष्टांगेन तु योगेन प्राप्नुयानान्यथा क्वचित् ।
संसारे विरतिर्नित्यं यमः परमुदाहृतः ।।
भावना तु परे तत्वे नित्यं नियम उच्यते ।
मध्यमप्राणमाश्रित्य प्राणापानपथान्तरं ।।
आलंव्यज्ञानशक्तिं च तत्स्थं चैवासनं भवेत् ।
प्राणादि स्थूल भावं तु त्यक्त्वा सूक्ष्मं पथांतरं ।।
सूक्ष्मातीतं तु परमं स्पंदनं लभ्यते यतः ।
प्राणायामसमुद्दिष्टो यस्मान्न च्यवते मनः ।।
शब्दादि गुणं वृत्तिर्या चेतसा ह्यनुभूयते ।
त्यक्त्वा तां परमं धाम प्रविशेत् तत् स्वचेतसा ।।
प्रत्याहारमिति प्रोक्तं भवपाशनिकृन्तनं ।
धीर्गुणात्समतिं क्रम्य निर्गुणं चाव्ययं विभु ।।
ध्यात्वा ध्येयं स्वसंवेद्यं ध्यानं तच्च विदुर्बुधाः ।
धारणा परमात्मानं धार्यते येन सर्वदा ।।
धारणा सा विनिर्दिष्टा भववंधविनाशनी ।
२०अ)
समस्सर्वेषु भूतेषु आधारं चिन्तविग्रहं ।
समाधानमिति प्रोक्तमन्यथा लोकदांभिकं ।।
स्वपरस्थेषु भूतेषु जगत्यस्मिन्समानधीः ।
शिवोहम द्वितीयोहं समाधिस्स परस्मृत ।।
सम्यक् स्वरूपं संवेद्यं संविद्रूपं स्वभावजं ।
स्वसंवेद्यं स्वरूपं च समाधानं परं विदुः ।।
राशिभ्यां विज्जडाभ्यां च विचार्य निपुणं पदं ।
यदेवं शाश्वतं रूपं समाधानं तु तं विदुः ।।
एवमष्टांग योगेन स्वभावस्थं परं ध्रुवं ।
दृष्ट्वांवचयते कालं ममृतेशं परं विभुं ।।
मृत्युजित् स भवेद् देवि न कालः कलयेच्च तं ।
तत्त्व षट्तृंश तस्त्यागाद्भूवनानंत्यवर्जनात् ।।
एकाशीति पदोर्ध्वं वै वर्णपंचाशतः परं ।
व्यापकं सर्वतंत्रेषु सर्वेष्वेव हि जीवनं ।।
अष्टातृंशत्कलोर्ध्वे तु सर्वान्तस्सर्वमध्यगः ।
आदि मध्यं न चैवान्तं लभ्यते यस्य कस्यचित् ।।
तम प्रमेयमतुलं प्राप्यसर्वं न विद्यते ।
येनैकेन जगत्सर्वं मरमेयेन पूरितं ।।
२०ब्)
तं ज्ञात्वा मुच्यते क्षिप्रं घोरात् संसारबंधनात् ।
तत्वत्रयविनिर्मुक्तं शाश्वतं ह्यचलं ध्रुवं ।।
दिव्येन योगमार्गेण दृष्ट्वा भूयो न जायते ।
सर्वेंद्रियविनिर्मुक्तं विश्वरूपमनामयं ।।
परमात्मस्वरूपं तु सर्वोपाधिविवर्जितं ।
चैतन्यमात्मनोरूपं सर्वशास्त्रेषु कथ्यते ।।
निर्मलं न भवेद् देवि यावच्छक्त्या न शोधितं ।
दीक्षा ज्ञानाग्निना शोध्यमात्मानं चैव निर्मलं ।।
ये विंदंति न चैवान्यं विंदन्ति परमं पदं ।
तेनात्मोपासकाश्चैव गच्छन्ति परमं शिवं ।।
यदा तु परमाशक्तिस्सर्वज्ञादिषु गुणान्विता ।
आपादादि विकासिन्या न विकाम्येति निर्मला ।।
यावन्न निर्मलो ह्यात्मा बद्धः शैवे तदुच्यते ।
२१अ)
यत्रस्थः पुरुषः सर्वं वेत्यतीतमनागतं ।
सन्नियम्येंदृयग्रामं तत्तत्वं शक्तिलक्षणं ।।
यत्र यत्र भवेदिच्छा ज्ञानं वापि प्रवर्तते ।
कृयाकृत्य स्वरूपा वा तत्तत्वं शक्ति लक्षणं ।।
व्यापकस्य सतो देवि चिद्रूपस्यात्मनः शिवान् ।
प्रसरत्यद्भूतानंदा सा शक्तिः परमाद्भूता ।।
विप्रसार्यतवात्मानं सर्वज्ञादि गुणैर्गुणी ।
साभासः कथ्यते देवि शिवः परमकारणः ।।
सर्वज्ञः परितृप्तश्च यश्च बोधो ह्यवादिमान् ।
स्वतंत्रो ह्यप्रलुप्तश्च यश्च वानन्तशक्तितः ।।
शक्तिमान् गुणभेदेन सगुणान्विंदते गुणी ।
पृथग्भेदविभेदेन नानात्वं विचरेदिह ।।
सर्वाभास इति प्रोक्तो निराभासस्तु कथ्यते ।
२१ब्)
नाहमस्ति न चैदान्यो(?) निराभासो यथा भवेत् ।
सावस्था परमा प्रोक्ता शिवस्य परमात्मनः ।।
नाहमस्ति न चान्योस्ति ध्येयं चात्र विद्यते ।
आनंदपदसंलीनं ज्ञानं समरसी गतं ।।
नोर्ध्वे ध्यानं प्रयुंजीत नाधस्तान्न च मध्यतः ।
नाग्रतः पृष्ठतः किंचित् पार्श्वयोरुभयोरपि ।।
नान्तः शरीरसंस्थं तु न बाह्ये भावयेत् क्वचित् ।
नाकाशे बध्यते लक्षं नाधो दृष्टिं निवेशयेत् ।।
न चक्षुर्मीलनं किंचि न किंचि दृष्टि बंधनं ।
अवलंबं निरालंबं सावलंबं न भावयेत् ।।
नंदृयाणि भूतानि शब्दस्पर्शरसादिना ।
सर्वं त्यक्त्वा समाधिस्थः केवलन्मयो भवेत् ।।
सावस्था परमा प्रोक्ता शिवस्य परमात्मनः ।
निराभास पदे तं तु तं प्राप्य विनिवर्तते ।।
एवं भावितमात्मानमात्मनो भावना बलात् ।
स भवेत् परमं शान्तं शिवमत्यंत निर्मलं ।।
तदेक तत्वं सर्व च भवते मृत्युजिच्छिवं ।
२२अ)
स चामृतीशं परमं तृतीयं पदमुत्तमं ।
आख्यातं तव देवेशि किमन्यत् कथयामि ते ।।
एवं मृत्युजितात् सर्वं व्याप्तं ज्ञात्वा विमुच्यते ।
सर्वकाले तु कालस्य वंचनं कथितं पृये ।।
एवं तु त्रिविधं देवि मयाते प्रकटीकृतं ।
कालस्य वंचनं नाम योगं परमदुर्लभं ।।
अनेनाभ्यासयोगेन मृत्युजिद्भवते नरः ।
अनेनैव तु योगेन लोकानुग्रहकाम्यया ।।
मृत्युजिद्भवते योगी सर्वप्राणिषु सर्वदा ।
एवं मृत्युंजयं ख्यातं शाश्वतं परमं ध्रुवं ।।
अस्मात् परतरं नास्ति सत्यमेतदुदाहृतं ।
यत्परामृतरूपं तु त्रिविधं चोदितं मया ।।
तदभ्यासाद् भवे जंतुरात्मनोपि परस्य वा ।
अमृतीश समोदेवि मृत्युजिन्नात्रसंशयः ।।
येन येन प्रकारेण यत्र यत्रैव संस्मरेत् ।
तेन तेन प्रकारेण स योगीकालजिद्भवेत् ।।
यत्र यत्र स्थितो वापि येन येन व्रतेन च ।
२२ब्)
येन येन हि योगेन भावभेदेन सिद्ध्यति ।
तदेकं बहुधा देवि विध्यातं वै सिद्धिदं भवेत् ।।
द्वैताद्वैते विमिश्रे वा एकवीरेथयामले ।
सर्वस्सर्वप्रकारेण सर्वथा सिद्धो भवेत् ।।
चिन्तरन्तं यथा लोके चिन्तितार्थ फलप्रदं ।
तथैषमंत्रराजस्तु चिन्तितार्थविधायकः ।।
मंत्राणां सप्तकोटीनां मालयः परमो बली ।
भावहीनास्तु ये मंत्रा शक्तिहीनास्तु कीलिताः ।।
वर्णमात्रविहीनास्तु गुर्वागमनविवर्जिताः ।
भ्रष्टाम्नायविहीनायेप्यागमोज्झितविघ्निताः ।।
न सिद्ध्यन्ति यथा देवि जप्त्वा यष्ट्वा सहस्रशः ।
असिद्धा ऋपवो ये च सर्वशंकाविवर्जिताः ।।
आद्यन्तसंपुटे नैव साध्यर्णेन तु रोदिताः ।
मंत्रेनानेन देवेशि अमृतीशेन दीपिताः ।।
सिद्ध्यन्ति ह्यप्रयत्नेन यष्टाजप्ता न संशयः ।
ध्याता सर्वप्रदा देवि भवन्तेनानृतं वचः ।।
२३अ)
इति ते सर्वमाख्यातं रहस्यं परमं पृये ।।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने कालवंचनो नामाष्टमः
पटलः ।।
श्रीदेव्युवाच ।।
श्रुतं मया महादेव माहात्म्यं मंत्रनायकं ।
अधुना श्रोतुमिच्छामि यदुक्तं विधुना मम ।।
सर्वागमविधानेन भावभेदेन सिद्धिदं ।
वामदक्षिणसिद्धान्त सौरवैष्णववैदिके ।।
यथेष्टसिद्धिदो देवो यथेष्टाचरयोगतः ।
तदाख्या हि सुरेशान चिन्तारन्तफलोदयं ।।
भगवानुवाच ।।
शृणु सुंदरि तत्वेन परमार्थं वदामि ते ।
अमृतीशविधानेन मृत्युजित् कथितं मया ।।
तदेव परमं देवि शिवं सूक्ष्ममनामयं ।
स्वभावतत्समुद्दिष्टं व्यापकं शाश्वतं ध्रुवं ।।
न तस्य रूपं वर्णं वा परमार्थ वदामि ते ।
यस्मात् सर्वगतं देवं सर्वागममयं शुभं ।।
व्यापकं सर्वमंत्राणां सर्वसि * फलप्रदं ।
निर्मलं स्फटिकं यद्वत् तं तु प्रोक्तं सितादिकं ।।
२३ब्)
प्रतिचिंचेतसर्वत्रये नयेन हिरंजितः ।
तत्तदर्शयतीत्येवं नस्त्व? भावेन रंजितं ।।
यथा तथैव देवेशि सर्वागम नियोजितः ।
फलं ददाति सर्वेषां साधकानां हि सर्वतः ।।
तस्मात् स्रोतः सुसर्वेषु चिन्तामणिरिवोज्वलः ।
भावभेदेन वै ध्यातस्सर्वकामफलप्रदः ।।
शिवस्सदाशिवश्चैव भैरवस्तुंबुरुस्तथा ।
सोमसूर्यस्वरूपेण वह्निरूपधरोविभुः ।।
यतो ज्ञानमयं देवं ज्ञेयं च बहुधा स्थितं ।
नियंत्रितानां बद्धानां त्राणन्तन्नेत्र मुच्यते ।।
मृत्योरुन्तारयेद् यस्मात् मृत्युजितेन बोध्यते ।
अमृतत्वंदयत्ये(?) तदमृतीश इति स्मृतः ।।
एवं सर्वगतो देवो बहूरूपो मणिर्यथा ।
सर्वैचाराधितो देवि स्वसिद्धफलवांछया ।।
सर्वेषां फलदो देव प्रार्थितार्थविधायकः ।
२४अ)
तस्माद्भावानुरूपेण साधकस्साधने स्थितः ।
येन येनैव भावेन तस्य तत्फलदो भवेत् ।।
यत्सदाशिवरूपेण सदा ध्यायति साधकः ।
सदाशिव तनुस्तस्य भवते परमेश्वरि ।।
सर्वसाधारणो ह्येष सर्वानुग्रहकारकः ।
सद्यो वामो ह्यघोरश्च पुरुषेशानविग्रहः ।।
अनेन हृदयादीनिन्यस्तव्यानि वरानने ।
अनेनैव तु मंत्रेण स्वासनं परिकल्पयेत् ।।
चंद्रार्बुदप्रतीकाशं हि माद्रिनिचयोपमं ।
पंचवक्त्रं विशालाक्षं दशबाहुं त्रिलोचनं ।।
नागयज्ञोपवीतं तु व्याघ्रचर्मांबरच्छदं ।
बद्धपद्मासनासीनं सितपद्मोपरिस्थितं ।।
त्रिशूलमुत्पलं वाणमक्षसूत्रं च मुद्गरं ।
दक्षिणेषु कारेष्वेवं वामेष्वेवमतः परं ।।
खेटकादर्षचापोग्रं मातुलुंगं कमंडलुं ।
२४ब्)
चंद्रार्द्धमौलिनं देवमापीतं पूर्ववक्त्रतः ।
दक्षिणं कृष्णन्तीमोग्रं दंष्ट्रालंबिकृताननं ।।
कपालमालाभरणं जगत्संत्रासकारकं ।
पश्चिमं हिमकुंदाभं वामं रक्तोत्पलं प्रभं ।।
ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् ।
एवं ध्यात्वा तु देवेशं पूजयेद् विधि पूर्वकं ।।
स्वमूर्तौ स्थंडिले लिंगे जले वा कमलोपरि ।
ईशानाद्यादि सद्यान्ता स्वदिक्षु प्रतिपूजयेत् ।।
आग्नेयया हृदादीनि न्यस्त्वा पूज्यान्विधानतः ।
तदा सिद्ध्यत्य संदेहः सत्यमेतद् ब्रवीमिते ।।
इति मृत्युजिदमृतीशविधाने सदाशिवाधिकारो नाम नवमः पटलः ।।
भगवानुवाच ।।
अथेदानीं प्रवक्ष्यामि भैरवागम भेदितं ।
भिन्नांजन वयप्रख्यं कल्पान्त दहनात्मकं ।।
पंचवक्त्रं शवारूढं दशबाहुं भयानकं ।
क्षपामुखं घोरतरं गर्जं तं भीषणस्वरं ।।
२५अ)
दंष्ट्राकरालवदनं भृकुटीकुटिले क्षणं ।
सिंहचर्मपरीधानं व्यालहारैर्विभूषितं ।।
कपालमालाभरणं दारितास्यं महातनुं ।
गजत्वाघ्राच्चत(?) तनुं शशांककृतशेखरं ।।
कपालखट्वांगधरं खड्ग खेटकधारिणं ।
पाशांकुशधरं देवं वरदाभय पाणिनं ।।
वज्रहस्तां महावीरं परश्वायुधपाणिमं ।
भैरवं पूजयित्वा तु तस्मात् संगगतां स्मरेत् ।।
प्रलयाग्नि समाकारां लाक्षासिंहरसप्रभां ।
ऊर्ध्वकेशां महाकायां विकरालां सुभीषणां ।।
महोदरीं पंचवक्त्रां नेत्रत्रयविभूषिता ।
नखरालां कोटराक्षीं मुंडमालाविभूषितां ।।
भैरवोक्त भुजां देवो भैरवायुधधारिणीं ।
इच्छाशक्तिरितिख्यातां स्वच्छंदोत्संगगामिनीं ।।
अघोरेश्वरीति विख्यातांमीदृग्रूपधरां स्मरेत् ।।
सर्वतंत्रेषु या प्रोक्ता प्रच्छन्ना न स्फुटीकृता ।
ममाशयो(?) ततो(?) नाभि लक्षितो भुवि दुर्लभः ।।
२५ब्)
व्याधि ग्रहणाद्येषु(?) पद्मनेषु(?) क्षय हेतवे ।
गोब्राह्मणेषु रक्षार्थं शान्तिपुष्टौ सदा यजेत् ।।
अथवा हेमकुंदेंदु मुक्ताफलसमद्युतिं ।
चंद्रकोटिसमप्रख्यं स्फटिकाबलसन्निभं ।।
कल्पान्त दहनप्रख्यं जपाकिंशुकसन्निभं ।
सूर्यकोटिसमाकारं रक्तं वा तमनुस्मरेत् ।।
अथवा पद्मरागाभं हरितात्मसमद्युतिं ।
इच्छारूपधरं देवमिच्छासिद्धिप्रदायकं ।।
यादृशे नैव वर्णध्वा साधकस्तु मनुस्मरेत् ।
तादृशं भवते रूपं तादृक् सिद्धि प्रदं शुभं ।।
पद्ममध्ये स्थितं ध्याये पूजयेद् विधिना ततः ।
यथानुरूप नैवेद्य पुष्पधूपा सदै?र्विभुं ।।
या क्षीरसदृशीं देवीं हरहाससमप्रभां ।
विशुद्धस्फटिकप्रख्यां कुंदेंदु शशिनिर्मलं ।।
चतुर्भुजां त्रिनेत्रां तु चक्रैकेन विभूषितां ।
सितांबरधरां देवीं सितहारविभूषितां ।।
२६अ)
सारंगासनसंस्था तु वज्रहस्तां महाबलां ।
पाशांकुशधरीं देवीं घंटाध्वनि निनादितां ।।
पूर्वस्यां दिशि संस्था तु देवदेवस्य सन्मुखं ।
ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति साधकः ।।
सूर्यकोटिसमप्रख्यां ज्वलिताग्नि समप्रभं ।
सिंदूरराशिसदृशीं विद्युद्रूपां भयंकरीं ।।
त्रिनेत्रां भीमवदनां स्थूलकायां महोदरीं ।
लंबोदरीं लंबकुचां प्रेतारूढां महाबलां ।।
कपालमाला भरणां व्याघ्रचर्मकटिस्थलां ।
गजचर्मोत्तरीयां च मुंडमालाविभूषितां ।।
महोक्लेवविराजदन्तीं भासयन्तीं दिशोम्बरं ।
चतुर्भुजैकवक्त्रां तु खड्गखेटकधारिणीं ।।
कपालखट्वांगधरीं दक्ष दिक्संस्थितां स्मरेत् ।
कृष्णारुणां महादीप्तां निर्मांसां विकृताननां ।।
सुशुस्ककोटराक्षींर एकवक्त्रां चतुर्भुजां ।
त्रिनेत्रां भीमवदनां व्यालहारैर्विभूषितं ।।
ऊर्ध्वकेशां महाकायां मुंडमालाविभूषितां ।
२६ब्)
स्नायुरज्जु निबद्ध्वांगीं नरचर्मकटिस्थला ।
व्याघ्रचर्मांबर धरां खड्गखेटकधारिणीं ।।
अंत्रासृङ्मांससंपूर्णं पिटिकां धारयेत् सदा ।
त्रोटयन्तीं महांत्राणि पश्चिमायां दिशि स्मरेत् ।।
कुंभीरासनसंस्था तु? स? चैवमधुनोच्यते ।
उष्ट्रग्रीवं गजस्कंधमश्वकर्णं हुडाननं ।।
व्याडजंघसमाकारं नखावज्रायुधोपमाः ।
कूर्मपृष्ठं मीनपुच्छं कुंभीरं परिकीर्तितं ।।
नीलोत्पलदलश्यामां शरदंबुदसन्निभां ।
त्रिनेत्रां चैक वक्त्रां च नीलांबरविभूषितां ।।
सिंहपृष्ठे समारूढां शरचाप करोद्यतां ।
शक्तिहस्तां महादेवीं तथा चोत्पलहस्तिका ।।
दिश्युत्तरस्यां देवेशी ध्यातां यष्टां फलप्रदां ।
सिद्धारक्ता तथा शुष्का तथैवोत्पलमालिनी ।।
चतुर्दिक्षु स्थिता ह्येता भैरवापातुगाः प्रिये ।
विदिक्षु दूत्योदिन्यस्य(?) वह्नादीशं दिगन्ततः ।।
२७अ)
काली चैव कराली च महाकाली तथैव * ।
भद्रकालीति विख्याता देवी रूपेण संस्थिता ।।
किं त्वेता द्विभुजादेव्य पद्मासनमवस्थिताः ।
कर्तृका मुंडधारिण्यः किंकरा द्वारदेशतः ।।
क्रोधनोवृत्तकश्चैव कर्षणोथ गजाननः ।
द्विभुजा विकृतास्यास्तु खड्गखेटकपाणयः ।।
शान्त्यर्थे तु सिताः सर्वे रूपं वा कर्मभेदतः ।
अथातः संप्रवक्ष्यामि राजरज्याविधानतः ।।
मंत्रसंपुटयोगेन मध्ये नामसमालिखेत् ।
तद्धर्थि भैरवं देवममृतेशं यजेत् पृये ।।
देव्योदलेषु तेनैव तथैवाद्यंत्वयोजितां ।
दूत्यस्तथा नियोज्यन्ते मूलमंत्रेण किं कराः ।।
पद्मबाह्ये सुशुक्लं तु लिखेत्रु?शशिमंडलं ।
चतुष्कोणं ततो बाह्ये वक्तलांछनलांछितं ।।
रोचना कुंकुमेनैव क्षीरेण सितया पिव ।
लिखित्वा पूजयेच्छांतौ सर्वश्वेतोपचारतः ।।
यथा तु रूपैर्नैवेद्यैर्घस्मरैर्वलिरासवैः ।
२७ब्)
सितचंदनसंमिश्रं कर्पूरक्षोदधूसरं ।
साक्षतातंद्रुलतिलात्सितशर्करया सह ।।
घृतक्षीरसमायुक्तान् होमयेद्यंस्तुयन्तीः(?) ।
महाशान्तिर्भवेत् क्षिप्रं गृहीतो यदि मृत्युना ।।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतेशविधाने दक्षिणवक्त्राधिकारो नाम
दशमः पटलः ।।
भगवानुवाच ।।
अथेदानीं प्रवक्ष्यामि तन्त्रोत्तरमनुत्तमं ।
मंत्रेणानेन यष्टव्यं सर्वसिद्धिफलोदयं ।।
सर्वोपद्रव शान्त्यर्थमष्टपत्रे कुशेशये ।
पूर्वोक्तमंडले देवि मध्ये देवं तु तुंबुरुं ।।
दशबाहुं सुराशानं पंचवक्त्रं त्रिलोचनं ।
सदाशिवेन वपुषा वक्त्रान्येवं प्रकल्पयेत् ।।
तमर्द्धचंद्रशिरसं राजीवासनसंस्थितं ।
हिमकुंदेंदु धवलं तु दि?नाबलसन्निभं ।।
नागयज्ञोपवीतं च सर्वभूषण्भूषितं ।
सर्वाभरणसंयुक्तं व्याघ्रचर्म कटिस्थलं ।।
२८अ)
गजचर्मपरीधानं वृषारूढं महाबलं ।
खड्गचर्मधरं देवं टंककंदलभूषितं ।।
पाशांकुशधरं देवं चक्रहस्ताक्ष सूत्रधृक् ।
वरदाभयहस्तं च सर्वकिल्विषनाशनं ।।
चतुर्दिक्षु स्थिता देव्यः पूर्वाद्या दूतयस्तथा ।
आग्नेयादि विदिक्ष्वेवं किंकरा द्वारदेशतः ।।
जंभनी मोहनी चैव सुभगा दुर्भगान्तिमाः ।
दूतयस्तु समाख्याता किंकराः शृणुतः पृये ।।
क्रोधनो नृत्तकश्चैव गजकर्णो महाबलः ।
सव्यापसव्ये गायत्री सावित्री विनिवेशयेत् ।।
अधोर्ध्वे चांकुशं मायां विन्यसेत् तदनन्तरं ।
सर्वाद्येतानि योज्यानि मूलमंत्रेण सर्वदा ।।
सितरक्तपीतकृष्णा देव्यो वै चतुरानना ।
चतुर्भुजाः त्रिनेत्रा च टंककंदलधारिणी ।।
दंडाश्च सूत्रहस्ताश्च प्रेतोपरिविराजते ।
जया देवी च विजया वक्त्रवर्णा चतुर्भुजा ।।
चतुवक्त्रास्त्रिनेत्रा च शरकार्मुक धारिणी ।
२८ब्)
खड्गचर्मधरी देवी ह्युल्रो?कोपरिसंस्थिता ।
जयन्ती पद्मगर्भाश्च चतुर्वस्त्रा चतुर्भुजा ।।
शक्तिघंटाधरी देवी चर्मपट्टिसधारिणी ।
अश्वारूढा महादेवी सर्वाभरणभूषिता ।।
अजिता च चतुवक्त्रा कृष्णवर्णा महाबला ।
चतुर्भुजा त्रिनेत्रा च पाशांकुशधरा तथा ।।
रत्नपात्र गदाहस्ता दिव्यासनसुसंस्थिता ।
सौवर्णां चरधारिण्यो स्वर्णभूषण भूषिताः ।।
स्वदिक्षुसंस्थिता यष्टा ध्यातासिद्धिफलप्रदा ।
दूत्यस्तद्रूपधारिण्यो किंतु वक्त्रैक भूषिताः ।।
द्विभुजाश्च त्रिनेत्राश्च मुंडकर्तरिभूषिताः ।
मत्स्यः कूर्मोथमकरोभेकमासां तथासनं ।।
किंकराः खड्गहस्ताश्च द्विभुजाश्चर्मधारिणः ।
एकवक्त्रास्त्रिनेत्राश्च भृकुटी कुटिलेक्षणाः ।।
सितादि वर्णभेदेन ध्यातासिद्धिप्रदां शुभां ।
गायत्री रक्तवर्णा च वक्त्रैकेन विभूषिता ।।
वद्वपद्मासनासीना ध्यानान्मीलित लोचना ।
२९अ)
सावित्रीसितवर्णेन ध्यानान्तर्गत लोचना ।
तथैवा वयवा देवी मायाकृष्णा चतुर्भुजा ।।
महापट्टावगूहिन्या संपुटाकारयुग्मतः ।
अंकुशं भैरवाकारं पाशांकुशधरं विभुं ।।
कपालखट्वांगधरं वसासृङ्मांस लंपटं ।
रावंक्षीरार्णवं वोर्वी शक्तिमाधारिकां शुभां ।।
आसनार्थं प्रयुंजीत सर्वशान्त्यर्थसाधकं ।
सर्वाण्येतानि वा देवि सुशुक्लाः शान्तिकारकाः ।।
रक्तापीतास्तथा कृष्णा ध्यातव्याः कर्मभेदतः ।
तद्वत् पूजां प्रकुर्वीत यदासिद्धिफलप्रदाः ।।
अथान्यं संप्रवक्ष्यामि चक्रराजं महाबलं ।
आद्यन्तसंपुटे चैव मध्ये नाम समालिखेत् ।।
एवं देव्यश्च दूत्यश्च पूर्ववद् विधिना स्मरेत् ।
मध्ये दलेषु विदलेष्वन्यतः सर्वतः सुधीः ।।
यथानुरूप नैवेद्यैर्भूरिशान्त्यर्थमात्मनः ।
अन्यस्य चात्रयोक्तव्यं यष्टव्यं शान्तिकर्मणि ।।
२९ब्)
तिलतंडुलमध्वाज्य क्षीरशर्करया सह ।
होमयेत् पूर्ववत् कुंडे प्रशस्तेंधन दीपिते ।।
महाशान्तिः प्रजायेत *? मेनानृतं वचः ।
सर्वरक्षाविधानेस्तु योज्यादेव्यः सुसिद्धिदाः ।।
पंक्तिस्था वायजेद् देवीं मध्ये देवं तु तुंबुरुं ।
सर्वश्रेयस्समाप्नोति साधकः संय *? दृयः ।।
अन्यस्य वा प्रयुंजानो जयत्यनं संशयः ।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशं विधाने उत्तरतन्त्राधिकारे
एकादशः पटलः ।।
भगवानुवाच ।।
अथातः संप्रवक्ष्यामि कुलाम्नाय निदर्शनं ।
यागहोमं जपं कार्यं येन सर्वमवाप्नुयात् ।।
पद्ममध्ये तु संपू *? भैरवः पूर्वचोदितः ।
पूर्वादि दिग्दलान्तस्था ह्यष्टौ देव्य स्वभावतः ।।
ब्रह्म्यादि देवतानां च स्वरूपायुधवाहनाः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैषणवी तथा ।।
३०अ)
वाराही चैव माहेंद्री चामुंडा बहुरूपिणी ।
ब्रह्मादि बहुरूपान्तं रूपमासां स्ववाहनं ।।
हंसो वृषो मयूरश्च वैनतेयश्च सीकरः ।
* *? नैत्योवाहनानि प्रोक्ता न्यासां क्रमेण तु ।।
स्वायुधं चैव सर्वासां स्वरूपांकुशभूषितां ।
कपालखट्वांग धरा वरदा भयहस्तिका ।।
पंक्तिस्था वा * जे देवि सर्वाभीष्टफलप्रदा ।
सर्वेषां चैव शान्त्यर्थं प्राणिनां भूतिमिच्छता ।।
भूरियागेन यष्टव्या यथाकर्मानुरूपतः ।
विशेषेन तु षष्ट्यव्य भूभृतानां तु दैशिकैः ।।
आसामेव प्रसादेन राज्यं निहतकंटकम् ।
भुंजते सर्वराजान सुभगा ह्यवनीतले ।।
यस्मादेत जगत्सर्वं देवीनां भावजं ।
एता योनि स्वरूपास्तु देवादि जगतः प्रिये ।।
सर्वास्ताः सर्वदुःखौघ हारिण्यः प्राणिनां पृये ।
रक्षन्ति मातृवच्चैताः पालयन्ति * *? त्सदा ।।
३०ब्)
कोष्ठे वै कार्षिकान्यद्वच्छक्ति रूपं जगत् प्रिये ।
प्रलयेधारयन्तिस्ससृजन्तीह पुनश्चताः ।।
यद्वच्च कार्षकाः काले बीजवापं प्रकुर्वति ।
फलार्थं फलदं तद्वद्ब्रह्मकल्पसिसृक्षया ।।
कल्पादौ कल्पमध्यान्ते व्यापयन्ति जगद्धिताः ।
तस्मात् सर्वप्रयत्नेन शान्त्यर्थं हितकाम्यया ।।
यष्टव्याश्चैव होतव्या ध्यातव्यास्सिद्धिकामतः ।
सर्वबीजैस्त्रिमधोक्तैस्तिलैर्वा श्रीफलैः शुभैः ।।
पुष्पैर्वा सुप्रशस्तैश्च फलैरन्यैः सुहोमि *? तैः ।
सर्वसिद्धिप्रदादेव्यः सर्वकामफलप्रदाः ।।
इति सर्वस्रोतसंग्रहसारे मृत्युंजिदमृतीशविधाने कुलाम्नायाधिकारो
द्वादशमः पटलः ।।
ईश्वर उवाच ।।
एवं वै मंत्रराजस्य कौलिकं विधिचोदितं ।
पुनरन्यं प्रवक्ष्यामि विधानं यत्फलं प्रदं ।।
नारायणं चतुर्वाहुं पद्मपत्रयते क्षणं ।
३१अ)
अतसी पुष्पसंकाशमेकवक्त्रं द्विलोचनं ।
शंखचक्रगदापद्म सर्वाभरणभूषिणं ।।
दिव्यांवरधरं देवं दिव्यपुष्पोपशोभितं ।
स्फुरन्मुत्त?माणिक्य किंकिणी जालमंडितं ।।
दिव्यकुंडलधारी च उत्थितं तु सदास्मरेत् ।
अथवा पक्षिराजस्थं सुश्वेतं तु मनोरमं ।।
त्रिवक्त्रं सौम्यवदनं वराहरिभूषितं ।
भुजैः षट्भिसमायुक्तं वराभयसमन्वितं ।।
उत्संगे स्प?शृयं ध्यायेत् तद्वर्णायुधधारिणीं ।
लावण्यकान्ति सदृशी देवदेवस्य सन्मुखां ।।
*? तुर्दिक्षु स्थिता देव्यो विदिक्ष्वंगानि पूजयेत् ।
जयालक्ष्मीस्तथा कीर्माया वैदिग्नता यजेत् ।।
पाशांकुशधरां देवीं वरदाभयपाणिनीं ।
देवस्य सन्मुखा ध्याये श्रीवर्णारूपधारिणी ।।
देवस्य सदृशान्यंगाष्टद्वर्णायुधधारकां ।
अथवाष्टभुजं देवं पीतवर्णसुशोभनम् ।।
३१ब्)
मेषोपरिस्थितं देवं दिग्वासंमूर्द्धलिंगिनं ।
शृंगवटा? * *? केन चोयानोव्य?तपाणिनं ।।
बालरूपं यजे नित्यं क्रीडमानं हि योषितां ।
चतुर्दिक्षु न्यसेद् देवीं दिग्वासास्तु मनोरमाः ।।
कर्पूरी चंदनी चैव कस्तूरी? कुंकुमी तथा ।
तद्रूपधारिणीं देवीं इच्छासिद्धिफलप्रदा ।।
बहुनात्रकिमुक्तेन विश्र?भुग्वा सदास्मरेत् ।
अनेकवक्त्रसंघातैरनेकास्त भुजैस्तथा ।।
शयनं वा विवाहस्थं ह्यधे लक्ष्मि युतं तथा ।
केवलं नरसिंहं वा वाराहं वाथवा स्मरेत् ।।
कपिलाननोपि वा ध्यायेदव्यक्तं वापि निष्कलं ।
येन येन प्रकारेण भावभेदेन संस्मरेत् ।।
तस्य तन्मयतां याति इत्याज्ञा पारमेश्वरी ।
तेजोमयमतोवक्ष्ये येन सिद्धिर्भवेर्नृणां ।।
रक्तपद्मनिभाकारं लाक्षारससमप्रभं ।
सिंदूररासिवर्णाभं पद्मरागसमप्रभं ।।
कुसुंभरससंकाशं दाडिमी कुसुमप्रभं ।
३२अ)
कल्पान्तवह्निसदृशमेकवद्वक्त्रं द्विलोचनं ।
चतुर्भुजं महात्मान वरदाभयपाणिकं ।।
वज्रमेकेन हस्तेन पद्ममेकेन धारयेत् ।
सप्ताश्च रथमारूढं नागयज्ञोपवीतनं ।।
रक्तमाल्यांबरधरं रक्त स्रगनुलेपनं ।
अथवाष्टभुजं देवं लोकपालायुधान्वितम् ।।
त्रिवक्त्रं घोरवदनं त्रिनेत्रं विकृताननम् ।
अश्वोपरिसमारूढं पद्ममध्ये सदायजेत् ।।
हृच्छिरश्च शिखावर्म लोचनास्त्रं प्रपूजयेत् ।
मध्यपद्मे यजेद् देवं ग्रहाष्टौ तु द्वितीयके ।।
नक्षत्राणि तृतीये तु य *? संख्यं त्रिभिस्त्रिभिः ।
दलाग्रे तृतयं पूज्यं लोकपालांस्ततो यजेत् ।।
पंचमे पद्मसंस्थाने अस्त्राण्यष्टौ प्रपूजयेत् ।
केवलं सुत्थितं वापि द्विभुजं रश्मि संयुतं ।।
विश्वकर्मस्वरूपं वा विश्वकर्ता जगत्पत्तिः ।
चतुर्भुजं महात्मानं टंकपुस्तकधारिणं ।।
३२ब्)
सादर्षं वामहस्तेन सूत्रं वै दक्षिणेन तु ।
देवैः सिद्धैश्च गंधर्वैस्तूयमानं विचिन्तयेत् ।।
स्थले नले जले चैव पर्वताग्रेषु पूजयेत् ।
यत्र वा रोचते चित्तमिच्छासिद्धिफलप्रदं ।।
शंखकुंदेंदु धवलं त्रिवक्त्रं रुद्ररूपिणं ।
सदाशिवेन रूपेण वृषारूढं विचिन्तयेत् ।।
चतुर्भुजं महात्मानं शूलाभयसमन्वितं ।
मातुलुंगधरं देवं अक्षसूत्रधरं प्रभुं ।।
अथवा बहुबाहुं च नाद्यस्थं चिन्तयेत् प्रभुं ।
उमार्द्धधारिणं देवं विष्णुरेवार्द्धधारिणं ।।
विवाहं च वा ध्यायेत् समीपस्थं प्रपूजयेत् ।
ब्रह्मा चतुर्मुखः सौम्यो रक्तवर्णः सुलोचनं ।।
लंबकूर्चः सुतेजस्कौ हंसारूढश्चतुर्भुजः ।
दंडाक्षसूत्रहस्तश्च कमंडलुभयप्रदः ।।
३३अ)
वेदैश्चतुर्भिः संयुक्तः सर्वसिद्धिफलप्रदः ।
बुद्धः पद्मासनगतः प्रलंवः श्रुतिवीवरः ।।
पद्माक्षः पद्मचिह्नश्च मणिवद्धो जगद्धितः ।
समाधिस्थो महायोगी वरदाभयपाणिकः ।।
अक्षसूवधरोदेवः पद्महस्तः सुलोचनः ।
ध्यात्वा ह्येवं प्रपूज्येतस्त्रीणां मोक्षफलप्रदः ।।
बहुनात्र किमुक्तेन पौनः पुण्येन सुंदरि ।
कान्तिकेयश्च कामश्च सोमसूर्यविनायकाः ।।
लोकपालाश्च वै सर्वे ह्यन्येवै देवयोनयः ।
गारुडे भूततंत्रे च वाग्विधानेषु पूजयेत् ।।
न्यायारहन्वसांख्यैश्च वैदिकानां च सर्वशः ।
यामले एकवीरे च नवके तृकभेदतः ।।
उमार्द्धधारिणे चैव विषुरेवार्द्धधारिणे ।
३३ब्)
तत्समीपस्थ देव्यो वा दुर्गाख्ये विंध्यवासिनी ।
चंडिकाद्याश्च शुष्काद्याः स्वयंभुस्ते महेश्वरे ।।
प्राक्प्रतिष्ठितरूपे वा ऋषिर्मनुजयोजिते ।
आयुधेषु च सर्वेषु विद्यापीठेषु सर्वतः ।।
पातालमंत्रतंत्रेषु नागेंद्रद्रावितेषु च ।
शक्तयो वाप्यनन्ताश्व मंत्रेनानेन सुव्रते ।।
विधानेन तु यष्टव्या सर्वसिद्धिफलप्रदाः ।
भवंन्त्य वितथं भद्रे सत्यं मेनानृतं वचः ।।
सर्वं साधारणो देवः सर्वसिद्धिफलप्रदः ।
सर्वेषामेव वर्णानां जीवभूतो यत स्मृतः ।।
प्रतिष्ठा पूजने चैव भद्रपीठार्घपात्रकं ।
बाह्यस्थिते सकृत् पूज्ये सकृचंद्रार्क मूर्तिषु ।।
अग्निसंस्करणे चैव न्यासध्यानादि वाहनैः ।
विकल्यो नैव कर्तव्यो सर्वसाधारणो यतः ।।
संकरत्वं न जायेत तस्माच्छंकां परित्यजेत् ।
सकृजप्तशरीरस्थः संकृज्जप्तोर्घपात्रके ।।
३४अ)
सकृद्धस्तेषु विन्यासो मानसे तु सकृज्जपे ।
बाह्यस्थितस्सकृत्पूज्यस्सकृचंद्रार्क मूर्तिषु ।।
सकृहोमे सकृज्जप्ये उदके तु सकृद्यजेत् ।
सकृत्सकृच्च सर्वत्र पूजयेत् परमेश्वरं ।।
प्राणायामादिकं क्लेश धारणामुद्रयोगतः ।
नैवोपयुज्यते ह्यस्य मंत्रराजस्य सुव्रते ।।
व्यवसायैः प्रकर्तव्यं अन्यथा नैव सिद्ध्यति ।
निच्छिद्रं साधकेंद्रस्य राज्ये राष्ट्रविवृद्धये ।।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने
सर्वविद्याधिकारस्त्रयोदशमः पटलः ।।
श्रीदेव्युवाच ।।
यदि देव परत्वेन वर्णितं मंत्रमुत्तमम् ।
सर्वेषामेव देवानां देवीनां चैव सर्वतः ।।
हृदयं परमं ह्येष मंत्रराट्सर्वसिद्धिदं ।
किमन्यैर्मंत्रमुख्यैश्च यष्टैर्जप्तैर्व्रवीहितं ।।
भगवानुवाच ।।
साधुसाधुमहेशानि पृष्टोहं यत्त्वयानघे ।
३४ब्)
तदहं संप्रवक्ष्यामि यत्सारं परमं ध्रुवं ।
आसीदिदं शक्तिरूपं अनौपम्यमनामयं ।।
शिवं सर्वगतं शुद्धंमप्रमेयमतींद्रियं ।
सिसृक्षुच्चेच्छया देवि ज्ञानशक्त्या क्रियात्मकः ।।
प्रथमो ह्येषदेवेशि सर्वज्ञः सर्वगः शिवः ।
सर्वस्सर्वात्मको देव आदिसृष्टिप्रवर्तकः ।।
ततो तु मंत्रसृष्टि वै शिवेन परमात्मना ।
नाना प्रकार रचिता पृथग्भेद व्यवस्थया ।।
यथा तथैव देवेशि सर्वः सर्वात्मकः परः ।
साधारणो मंत्रनाथः सर्वेषां चैव वाचकः ।।
यदा तदा हि सर्वेषांमात्मरूपो ह्यलेपकः ।
मंत्रकोट्यो ह्यसंख्याता व्यक्ताव्यक्ताश्च संस्थिता ।।
सर्वे ते सिद्धिदास्तेन आद्यन्तेन तु रोधिताः ।
एतत् संपुटयोगेन जप्त्वासिद्धिफलप्रदाः ।।
तदर्धं तव सुश्रोणि स्नेहेन प्रकटीकृतं ।
रहस्यं परमं सत्यं न श्राव्यं यस्य कस्यचित् ।।
गुप्तः सुसिद्धिदो ह्येष प्रकटः सिद्धिहा भवेत् ।
३५अ)
प्रथमो ह्येष देवेशि सर्वज्ञः सर्वतः शिवः ।
सर्वः सर्वात्मको देवो आदि सृष्टिकरः प्रभुः ।।
तदेव मंत्रसृष्टिं वै शिवं वै परमात्मनः ।
नानाप्रकार रचिता प्रेषंते देव्यवस्थिता ।।
तत् तत् तथैव देवेशि सर्वसर्वात्मकं परं ।
तस्मात् सुगुप्तं कर्तव्यं संप्रदाय मुखागमः ।।
इति मृत्युजिदमृतीशविधाने सर्वाधिकारो नाम चतुर्दशमः पटलः ।।
भगवानुवाच ।।
अतः परं प्रवक्ष्यामि सर्वरक्षाकरं यथा ।
मंत्रनाथं महोग्रं च धूपं रक्षोघ्न चोदितं ।।
सप्तवाराभिजप्तं तु रक्षोघ्नं यस्य दीयते ।
शिरस्थं धारयेन्नित्यं सर्वदोषैः प्रमुच्यते ।।
सर्वदैत्य क्षयार्थं तु समुक्तेनैव ब्रह्मणा ।
सेर्षाणां चैव सर्वेषांमभिचारो यथाकृतः ।।
सदा वै सर्षपा प्रोक्ता पाति रक्षति सर्वतः ।
यदा रक्षांसि सर्वाणि प्राग्विव्रुतहतानि च ।।
मया देवि यदा प्रोक्ता रक्षोघ्ना प्रथिता भुवि ।
३५ब्)
आहवेषु च सर्वेषु दैत्येस्सह सुरोत्तमैः ।
नियुक्ता दुष्टहन्तारों सिद्ध्यर्थं रिपुनाशनं ।।
तेषामर्थं यदासिद्धं तदासिद्धार्थकं भुवि ।
ख्यातं दर्पापहं देवि भूतानां दुष्टचेतसां ।।
यदा सर्वेषु भूतेषु भयत्रस्तेष्ट्र? सर्वतः ।
नैराजनविधानेन नामांकं जुहुयात् पृये ।।
वह्नौ संक्रुद्धमनसा मंत्री रक्षार्थमुद्यतः ।
तदा नैराजनं ख्यातं सर्वश्रेयस्करं परं ।।
सितादि युगभेदेन वर्तते तु ग्रहो बली ।
शुक्लः सर्वप्रदः ख्यातो रक्ते राज्यविधायकः ।।
पीतोरक्षाकरः प्रोक्तः शत्रुविनाशकृत् ।
चतुर्युगे तु सर्वत्र पीतकृष्णौ द्वितीयके ।।
राजसर्षपगौराख्यो रूपौ द्वौ तु हितौ प्रिये ।
यदा मृत्युवशाघ्रातस्सर्वतै तु कृष्णपद्रुतः ।।
तदा तु घृतसंयुक्तं गोक्षीरसितशर्करं ।
तिलैविमिश्रितं कृत्वा जुहुयात् सर्वशान्तिदं ।।
तिलैः कृष्णैः समायुक्तं राजसर्षपमुत्तमं ।
३६अ)
त्र्यक्ते वै जुहुयात् सम्यक् सर्वशान्ति प्रदं शुभं ।।
अनेनैवाभिमंत्रित्वाद्यस्य हस्ते तु दीयते ।
सौभाग्यमतुलं देवि जयिते(?) द्या?वसंशयः ।।
सप्ताभिमंत्रितं कृत्वा मंत्रेनानेन मंत्रवित् ।
मूर्ध्नि प्रदापयेद् यस्य सर्वदोषैः समुच्यते ।।
अभिमंत्र्य तथा धूपं पुष्पं वासांसि वौषधं ।
समालभनपानं वा भोजनं वाभिमंत्रितं ।।
दीयते(?) यस्य तस्यैव न हिंसंतितीतिहिंसकाः ।
दिविदिक्षु क्षिपेद् यस्य रक्षार्थं प्रयतात्मनः ।।
दिवा वा यदि वा रात्रौ सुप्ते वा जाग्रतोपि वा ।
अवधस्सर्वभूतेषु भुवितिष्ठत्यसौ नरः ।।
राजरक्षाविधानं तु मयैवं प्रकटी कृतं ।
तव स्नेहात् प्रशस्तं तु रहस्यं सर्वसिद्धिदं ।।
नृपाणां नृपपत्नीनां तत्सुतानां द्विजातिषु ।
आचार्यः कुरुते यस्तु सर्वानुग्रहकारकः ।।
मंत्रज्ञः साधको वाथ स पूज्यस्सर्वथा प्रभुः ।
सम्मानैवमनैर्नित्यं(?) दारैर्विविध विस्तरैः ।।
३६ब्)
यथा मंत्रार्थसंयुक्त स्वाहा होमे फलप्रदः ।
तथा सर्वेषु कार्येषु दीक्षितो मंत्रवित्सदा ।।
फलप्रदो भवेत् सम्यक् सर्वशक्ति प्रदः शुभः ।
सुधा यथा च नागानां पितॄणां च स्वधा यथा ।।
नमस्कारोक्ति देवानां वौषट् शांतौ प्रशस्यते ।
मंत्रज्ञानां तथा नित्यं? दानसन्मानमुत्तमं(?) ।।
फलप्रदं भवत्यासु? सर्वसिद्धि प्रदायकं ।
ज्ञानशक्ति स्थिता मंत्रास्तं ज्ञानं चेतसि स्थितं ।।
तच्चितं पूजितं तुष्टं सात्विकं भवते सदा ।
सत्वस्था तु शृयो नित्यं लक्ष्मीस्तत्र प्रवर्द्धते ।।
रजस्तमो विनाशेन मंत्राः सत्वोदये सदा ।
सिद्धि प्रदा भवंत्याशु यतोतीव सुनिर्मलाः ।।
३७अ)
तस्मात् सर्वप्रयत्नेन आज्ञैषा पारमेश्वरी ।
परिपाल्या प्रयत्नेन सिद्धिमुक्तिर्न दूरतः ।।
अनुत्तर विधानं तु न दद्यात् परदीक्षिते ।
स्वशिष्ये दीक्षिते दद्यान्नान्यथा सर्वथा प्रिये ।।
इति सर्वस्रोतसंग्रहसारे मृत्युंजिदमृतीशविधाने पंचदशमः पटलः ।।
श्रीदेव्युवाच ।।
कथितं देवदेवेन रहस्यं परमाद्भुतम् ।
सर्वागम मयं देवं एकवीरं महाबलं ।।
वामदक्षिणसिद्धान्तं भेदत्रयविभेदितं ।
वैष्णवादि समायुक्तं रहस्यं समुदाहृतं ।।
सर्वदेव मयो ह्येष मृत्युजिद् व्यापकः शिवः ।
बहुभिः संप्रदाद्यैश्च यष्टव्यो भाव भेदतः ।।
नाना कृयोपचारेण नानासिद्धि फलप्रदं ।
अधुना श्रोतुमिच्छामि संयम हृदि स्थितं ।।
३७ब्)
त्वदृते संशयस्यास्य च्छेत्तान ह्युपपद्यते ।
पृथक्पृथक्समाचारं सर्वं देवेन भाषितं ।।
कथमस्मिन्समाचारं सामान्यं सर्वतोदितं ।
कथमेकेन मंत्रेण सर्वेसिद्ध्यंति पूजिताः ।।
बीजैः कूटैस्तथा पिंडैर्मालामंत्रैरनेकशः ।
वाच्यवाचक भेदेन सर्वसिद्धिफलप्रदं ।।
कथमेकेन मंत्रेण पूजनार्हो नरो भवेत् ।
भवन्तीह सुराः सर्वे स्वावारस्यं प्रभावतः ।।
मानवानां हितार्थाय कारुण्यात् परमेश्वर ।
कलिमासाद्य सिद्ध्यन्ति मनुजा दुःखमोहिताः ।।
दारिद्र्यानलसंतप्ता जरामृत्युभयान्विताः ।
पायैकनिरताः क्रूरास्तपस्सत्य विवर्जिताः ।।
हिंसा पैशुन्य चेतस्का शौचाचार बहिष्कृताः ।
योगिनी शाकिनीभिश्च डाद्यों डामरिकादिभिः ।।
भूतैर्यक्षैरपस्मारैर्मुद्रिताः प्राणिनो यथा ।
३८अ)
सिद्ध्यंति विगता यासास्तथा ब्रूहि महेश्वर ।
श्रीभैरव उवाच ।।
साधु साधु महाभागे यथापृष्टं वदाम्यहं ।
भविष्यन्ति महादेवि कलिः कष्टतरं यतः ।।
तदर्थें परमार्थेन मया ते प्रकटी कृतं ।
परमाथ परत्वेन मृत्युजित्सर्वतो मुखः ।।
भावभेदेन यष्टव्यो मोक्षसिद्धिं समीहते ।
यस्मिन् यस्मिन् यदाचारं मयाशस्त्रेषु भाषितं ।।
स्रोतस्सुतत् तथा कार्यं विशेषाद्याग होमयोः ।
अन्ये सामान्यतो देवि न सिद्ध्यन्ति कदाचन ।।
किन्तस्मिन्नाधिकारोस्ति त्रिविधे सर्वसिद्धिदे ।
द्वैताद्वैत विमिश्रे च यष्टं वै सिद्धिदो भवेत् ।।
यस्मात् सर्वगतं देवं विश्वरूपो मणिर्यथा ।
साधकस्येच्छया यष्टं सिद्धिदं भवते ध्रुवं ।।
यतः सर्वगतं देवं सर्वंश्वन्तर्गतं विभुं ।
तत्सिद्धि मुक्ति दातारं न वर्णाः परमार्थतः ।।
३८ब्)
तस्मात् सर्वं सदा देवि यष्टव्यं भावभेदतः ।
यागमस्य प्रवक्ष्यामि कृयते तु यथेच्छया ।।
पर्वताग्रे नदीतीरे गवां गोष्ठेथ चत्वरे ।
वने चोपवने रम्ये देशकालानुरूपतः ।।
सर्वशल्यविनिर्मुक्ते दुष्टसत्वविवर्जिते ।
पुण्यधर्मे स्वसंवासे पापाचार वहिं कृते ।।
यत्र निंदा पराः पौरा न दृश्यन्ति कदाचन ।
यत्र पश्यन्ति ते दुष्टा संकीर्णं सर्वशंकरैः ।।
तस्मिं यजेन् महामंत्रं गीतिभिः परिवर्जितं ।
गृहे यागः प्रकर्तव्यः आचार्यैस्तत्व दर्शिभिः ।।
सुगुप्तं तु प्रकर्तव्यं विशेषां शान्तिकर्मणि ।
दीक्षाकाले तु कर्तव्यं मंडलं यत्र तत्र हि ।।
शान्तौ पुष्टौ प्रयत्नेन सुगुप्तं यजनं ध्रुवं ।
यस्माद्विंसापरालोके दृश्यन्ते सिद्धि हिंसकाः ।।
कीलनं चैव मंत्राणां भेदनं मोहनं तथा ।
मंत्र संताडनं चैव जंभनं स्तंभनं तथा ।।
रिपु त्वकरणं चान्यं प्रत्यंगैरत्वमेव हि ।
३९अ)
सर्वहानि करत्वं च कृयते दुष्टमंत्रिभिः ।
एवं दशप्रकारेण प्रपतंते हि हिंसकाः ।।
तस्मात् सर्वप्रयत्नेन सुगुप्ते शरणोपरि ।
स्वगृहे कारयेद्यन्नाद्यागहोमं जपं तथा ।।
अत्यंत फलं श्रेष्ठ सुगुप्तं मृत्युजित्सदा ।
मंडले स्थंडिले कुंभे निर्विशं न चेतसा ।।
हर्म्योपरि तथा होमं विशेषाच्छान्ति पुष्टिदं ।
न विकल्पोत्र देवेशि विकल्पाद्रौरवं ब्रजेत् ।।
यागं होमं च तत्रैव सर्वसिद्धिफलप्रदं ।
तस्करन्तं विजानीयात् सिद्धि हानि करोति यः ।।
नाधिकारी भवेत् सोपि तन्त्रे वै पारमेश्वरे ।
सर्वतः स भवेद् देवि तत्वविच्चाध्वविद्गुरुं ।।
एवं व्याप्तिं तु यो वेत्ति परापरविभागशः ।
सभवेन्मोचकः साक्षान् शिवः परमकारणः ।।
शिवतत्वमविज्ञाय दीक्षादौ कुरुते तु यः ।
अंधेनैव यष्टांधाश्च उभयोश्च भ्रपातिनः ।।
आत्मानं च तथा शिष्यं नीत्वा निरयसंकटे ।
३९ब्)
तस्मात् तत्व विदः श्रीमानाचार्यः सर्वगो भवेत् ।
यावन्न तत्व विच्छ्रेष्ठः कथं कर्माणि कारयेत् ।।
मंत्रज्ञो ब्रह्मयोगज्ञो परस्यैवात्मनो यथा ।
यावन्न निर्मलो मंत्रस्तावत्सिद्धिः कथं भवेत् ।।
निर्मलं तु भवेद् देवि तत्स्था मंत्राः सुनिर्मलाः ।
तदुद्भूतास्तत्समाश्च भवन्ते सर्वसिद्धिदा ।।
शिवशक्ति नियोगाच्च मंत्राणामुदयं शुभं ।
सर्वत्र फलदा मंत्रा यतस्ते च शिवास्मृताः ।।
तस्मात् शिव मयाः सर्वे नित्यानुग्रहकारिणः ।
शिवश्चाचार्य रूपेण तेन ते फलदा स्मृताः ।।
यावन्न तत्व विन्मंत्री गुरुं वा साधको पि वा ।
तावन्न फलदो देवि सत्यमेतद्ब्रवीमिते ।।
अन्यथा भोगसंयुक्तं आचार्यफलदं न हि ।
तस्मात् तत्व विदश्रेष्ठः सर्वदा सर्वकर्मसु ।।
तेन यो दीक्षितो जंतुर्ब्रह्महापि शिवो भवेत् ।
यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेत् ।।
४०अ)
येन येनोपचारेण भवभेदेन येन वा ।
सामान्येन विशेषेण कौलिकेनाथ सुव्रते ।।
तत्तत्साधयते शीघ्रं यदि देवः सदाशिवः ।
चतुरश्रे वर्तुले तु हस्तमात्रेधिकेथवा ।।
आचार्यस्येच्छया सर्वं सिध्यन्ति व्याप्ति वेदनां ।
क्रियाशक्तिस्वरूपेण कौंडिल्या व्याप्ति भेदना ।।
तत् कुंडं व्यापकं ज्ञात्वा सर्वदस्तु भवेद् गुरुः ।
यावन्न विंदते व्याप्ति कुंडस्यैवात्मनो पि च ।।
साध्यश्चैव पशुश्चैव पाषानां च षडध्ववित् ।
बालवत् क्रीडते तावत् कार्यं तस्य कथं भवेत् ।।
यः पुनर्वेत्ति चात्मानं शिवशक्ति स्वरूपकं ।
ससर्वफलदश्रेष्ठः सकर्ता सर्वगः शिवः ।।
ज्ञानशक्तिमयो वह्नि व्याप्यव्यापक भेदतः ।
सजाता सर्वकर्ता च मोक्षदः फलदो गुरुः ।।
षडध्वातीतयागं तु यजते यस्तु दैशिकः ।
मायोदधौ शनोद्भूतं सर्वत्राणकरः शिवः ।।
४०ब्)
अध्वमध्यगतं योगं यः करोत्यविचारतः ।
नासौ मोचयितुं शक्तः परस्यैवात्मनो पि वा ।।
नैव सिद्धिं तु लभते न कार्य करणे क्षमः ।
षडध्वाध्वानतो नैव बंधनं तु मलं स्मृतं ।।
मायीयाणव कर्मोत्र विसरे बंधकारणं ।
पशुश्चैव न तत्रस्थं शक्तौ वै मोचने गुरुः ।।
अध्वमध्यगताः पाशा प्ररोहंति सदात्मनः ।
तदातीतं परं ज्ञात्वा कोन मुच्येत बंधनात् ।।
कोपि वा मोक्षदो न स्यात् कस्सिद्धिं लभते सदा ।
कोन दाता भवेन् मंत्री कः कार्येन क्षमः पृये ।।
स परः सर्वतो भद्र तं ज्ञात्वा तन्मयो भवेत् ।
मानोन्मान प्रमानेन विंदते यो ध्वनेद् गुरुः ।।
शिल्पिवद् भवते दक्षो विचित्राकारकारकः ।
न मोक्षदस्तु भवते नसौ सिद्धिफलप्रदः ।।
तस्मात् शिव समास्सर्वे द्रष्टव्या तत्ववेदिभिः ।
४१अ)
कार्मी ज्ञानी तथा योगी आचार्यस्त्रिविध स्मृतः ।
कर्मयोगौ तु स देवेशि ज्ञाने योगफलप्रदः ।।
पृथग्भेदेन दृश्येत ज्ञाना द्वे योग कर्मणा ।
तस्मादार्य मुख्ये तु ज्ञानवां सर्वदो भवेत् ।।
शिवाश्रयः शिवस्थस्तु शिवशक्ति प्रचोदितः ।
निर्ममेतजगत्सर्वं शिवरूपो यतस्थितः ।।
इच्छाज्ञानक्रिया युक्तः शिवतत्व विशारदः ।
यः करोति शिवेच्छा तु ज्ञानव्याप्य व्यवस्थितः ।।
अचिन्त्या मंत्रशक्तिर्वै परमेश मुखोद्भवा ।
यव्यत्प्रकुरुते ज्ञानी शिवशक्ति समाश्रयात् ।।
तत्तन्निष्पद्यते तस्य शिवशक्तिप्रभावतः ।
तस्यैव सम्मुखा मंत्रा दृष्टप्रत्ययकारिका ।।
शान्तिकादीनि कर्माणि विषभूतग्रहादिषु ।
क्षणेन कुरुते सर्वं शिवः परमकारणः ।।
तं प्रबोधयते यस्तु ज्ञानयोग बलान्वितः ।
मंत्रशक्ति प्रभावेन स दीक्षां दीक्षयेत् पृये ।।
४१ब्)
क्षयन्नयत्यशौ पाशां दद्यादेवं परं पदं ।
योजनाद्योजयेत् शक्तिः शिवशक्ति प्रभावतः ।।
तस्यैव सन्मुखा मंत्रा दृष्टप्रत्ययकारकाः ।
शान्तिकादीनि कर्माणि विषभूतग्रहादिषु ।।
प्रत्ययस्तस्य भवते दृष्टं नान्यस्य कस्यचित् ।
गारुडे भूततंत्रे च वामस्रोते च दक्षिणे ।।
ज्येष्ठे चंडासि धारे च प्रत्यक्षफलदा क्रिया ।
अत्यंतमलिनस्यास्य पुंसो बद्धस्य मायया ।।
कर्मणा भोगसक्तस्य अभिलाषान्वितस्य च ।
मोक्षं ददाति दीक्षासौ क्रियाज्ञानस्वरूपिणी ।।
तन्मना तु पराशक्ति ज्ञानरूपावधूतिका ।
सा कृयेत्यभिधीयेत न क्रियावाध्वमध्यगा ।।
योगशक्तिर्ज्ञानशक्तिः सर्वशास्त्रेषु गीयते ।
सा शक्तिः परमेशस्य शिवस्या शिवहारिणी ।।
बंधमोक्षकरी पुंसां न स्वतंत्रा स्वभावतः ।
अनेनैवा तु मानेन शिवः सर्वप्रदः शुभः ।।
४२अ)
शिवादि गुरुपंक्तिर्या रुद्रकोट्यो ह्यनेकशः ।
आप्तोपदेशमार्गेण पारंपर्येणसंस्थिता ।।
शिवज्ञानं यतो देवि सर्वै चाप्तागमस्मृतः(?) ।
ब्रह्मादिस्तं च पर्यन्तं शिवशक्ति समन्वितं ।।
एवं शक्ति मयं सर्वं जगत्स्थावरजंगमं ।
शक्तिमान्सर्वकर्माणि कुरुतेनात्रसंशयः ।।
शान्तिकादीनि कर्माणि कर्माण्येवान्यथा न हि ।
शक्तिहीना न सिद्ध्यन्ते युगकोटिशतैरपि ।।
जपकोटिसहस्रैस्तु होमलक्षैः सुविस्तरैः ।
तस्मात्सर्वप्रयत्नेन शिवज्ञानं समभ्यसेत् ।।
तदासिद्ध्यन्ति कर्माणि सर्वाण्येतान्यथा न हि ।
शान्तिकादीनि कर्माणि कुरुतेसौ तदा गुरुः ।।
यागे होमे जपे चैव तथा लेख्य क्रमेण तु ।
आपदायदिवोत्पना यथोक्तं यागमारभेत् ।।
साध्यनामेन तद्र्वयं संभारेण तु संभृतः ।
यागं तु कुरुते यस्य तस्य शान्तिः प्रजायते ।।
४२ब्)
तिलक्षीरघृतेनैव सितशर्करया सह ।
होमयेद्यस्य नामेन महाशान्तिमवाप्नुयात् ।।
क्षीरवृक्षसमिद्भिस्तु क्षीराक्तैः सुसमाहितः ।
होमयेद्यस्य नामेन तस्य शान्तिर्भवेध्रुवं ।।
सुमनाघृतसंयुक्ता होमयेद्यस्य नामतः ।
तस्य शान्तिर्भवेत् क्षिप्रं नात्रकार्यविचारणा ।।
श्रीकामैः श्रीफलं हुत्वा श्रियामाप्नोति पुष्कलां ।
घृतगुग्गूलुहोमेन पुष्टिर्भवति शाश्वती ।।
मृत्युजित्संपुटं कृत्वा साध्यनामं जपेद् यदि ।
आत्मनो वा परस्यापि मृत्युस्तस्य न बाधते ।।
अष्टपत्रे तु कमले कर्णिकायां निवेशयेत् ।
साध्यर्णरोधितं नाम ततोर्ध्वं मृत्युजिद् भवेत् ।।
आग्नेयादि विभागेन तलेष्ठंगानि विन्यसेत् ।
द्विरष्टदलसंपूर्णं बाह्ये तत्कमलं लिखेत् ।।
स्वरशोडशकेनैव पूर्वादौ पूरयेत् तदा ।
द्वातृंशदलसंयुक्तं तद्बाह्ये पंकजं न्यसेत् ।।
४३अ)
कादिसान्त * मेणैव पूर्वादीशानगं क्रमात् ।
साध्यर्ण रोहिताः सर्वे वर्णाश्चक्र त्रये स्थिताः ।।
सर्वेषामध्यतः संज्ञा साध्यस्यैव तु रोधयेत् ।
जीवमध्यगतं नामकर्णिकायां निवेशयेत् ।।
प्राणान्ते कल्पये जीवं प्राणवर्णान्तमध्यगं ।
बाह्ये तु मंडलसौम्यं सुसंपूर्णं प्रकल्पयेत् ।।
तद्बाह्ये तु पुरं चैंद्रं वज्रदृग्वज्रभेदितं ।
भूर्जपत्रे तु संलिख्य चक्रमेतद्वरानने ।।
सुशुक्ले निर्व्रणेश्लाक्ष्ण रोचना कुंकुमेन वा ।
मलयक्षीरयुक्तेन कर्पूरक्षोदधूसरं ।।
संवेष्ट्यसितसूत्रेण कर्पासेन नवेन च ।
मधुमध्ये निधाप्येवं सुगंधघृतमिश्रितैः ।।
मृद्भांडे सन्निधाप्येव सितपुष्पैः प्रपूजयेत् ।
पायसैर्घृतमिश्रैश्च भक्षैर्नानाविधैस्तथा ।।
मृष्टैर्धूपैपयित्वा पूजयेद्भूतिसंभृतैः ।
बाह्ये तु कलशा नष्टौ पूर्वादौ पूजयेत् ततः ।।
सितचंदनकर्पूरसुधूपोदसंस्रुता ।
४३ब्)
रत्नगर्भांबुसंपूर्णां सर्वौषधिसमन्वितां ।
सौवर्णां राजतां ताम्रां मृन्मयां वा सुशोभनां ।।
अकालमूलां सुशुभां प्रसस्तां लक्षणान्वितं ।
संपूज्य तेषां मध्ये तु लोकपाला क्रमेण तु ।।
तेषां शिवाज्ञादा तथा रक्षध्वंसाध्यमुत्तमं ।
प्रातर्मध्याह्ने सायाह्ने निशार्द्धे पूजयेत् ततः ।।
सप्तरात्रे व्यतिक्रान्ते मृत्युजिद्भवते नरः ।
सर्वव्याधिविनिर्मुक्तः सर्वदोषविवर्जितः ।।
सर्वरोगैर्विमुच्येत ज्वरैः सर्वैर्न संशयः ।
सर्वदुःखपरित्यक्तः ईतिभिः परिवर्जितः ।।
तिष्ठते च नरोभूमौ कंचुयुक्तो यथाफणिः ।
यदि नान्यमनो देवि साधकस्तत्परायणः ।।
जपहोमरतः शान्तः अस्मिन् स्थाने तु तिष्ठति ।
सत्ववांधैर्य संपन्नो दयादाक्षिण्यसंयुतः ।।
सप्तरात्रे व्यतिक्रान्ते मृतश्चैवानयेद्वलात् ।
गोभूहिरण्यवस्त्राणि केयूरकटकादिभिः ।।
४४अ)
पूज्योसौ परया भक्त्या शान्तिपुष्टिर्विशेषतः ।
यस्मात् मंत्रमयः सोवै शिवः साक्षां तु दैशिकः ।।
तेन पूजितमात्रेण सर्वे मंत्राः फलप्रदाः ।
भवत्यवितथं भद्रे सत्यमेतन्नसंशयः ।।
अन्यथा सिद्धिहानिः स्यात् कृतं चैव निरर्थकं ।
आचार्यश्चैव साध्यस्य कृत्या(?) चोत्पद्यते भृशं ।।
तस्मात् सर्वप्रयत्नेन मंत्रवित् पूजयेद् गुरुः ।
भवन्ति पूजिता मंत्रा सर्वसिद्धिफलप्रदाः ।।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने
व्याप्त्याधिकारः षोडशमः ।।
भगवानुवाच ।।
अथातः संप्रवक्ष्यामि चक्रराजं महाबलं ।
पूर्ववत् मध्यतो नाम जीवान्तं कल्पयेत् पृये ।।
प्राणान्ते तु ततः कृत्वा वर्णान्तांतर्व्यवस्थितं ।
अंतिमं तु ततो बाह्ये तद्बाह्ये मध्यमन्यसेत् ।।
प्रथमा तु ततो बाह्ये कर्णिकायां ततो न्यसेत् ।
केसरेषु स्वराः योज्या दलेष्वंगा पूजयेत् ।।
४४ब्)
बाह्ये तु कलशं लेख्यं कलशो भयमध्यगं ।
पूजयेत् पूर्वविधिना जपहोमार्चने रतः ।।
साधयत्य चिरेणैव चिंतितं नात्रसंशयः ।
सर्वशान्तिप्रदं चक्रं पुष्टिसौभाग्यदायकं ।।
आयुर्वीर्यप्रदं पुण्यं ज्वररोगविनाशनं ।
परराष्ट्रविभीतानां नृपाणां विजयावहं ।।
राजस्त्रीणां सुतानां च विप्रादीनां च सर्वशः ।
रक्षा ह्येषा प्रयोक्तव्या सर्वोपद्रवनाशनी ।।
पंड्त्या?चैव लिखेन्नाम अक्षरान्तरितं प्रिये ।
आद्यं तु मूलमंत्रं तु वौषड् जाति युत न्यसेत् ।।
पूर्ववत् पूजयेद् भूरि पाशे चैव सिते शुभे ।
तत्क्षणान् मुच्यते रोगैराघ्रातो यदि मृत्युना ।।
वौषड् जाति युतं मंत्रं दिक्ष्वष्टौ सुलिखेसिते ।
भूर्जवल्कलके रम्ये मध्ये नामं तु पूर्ववत् ।।
रक्षापदसमायुक्तं तद्बाह्ये शशिमंडले ।
मंत्रान्तं वर्णममृतं कलाषोडशसंयुतं ।।
ताडिर्मंडलमापूर्य बाह्ये तु कमलं न्यसेत् ।
४५अ)
तद्बाह्ये चंद्रसूर्ये तु पुरंदरपुरे स्थितौ ।
रोचना कुंकुमेनैव क्षीरशर्करया लिखेत् ।।
पूजयित्वा विधानेन पूर्ववंशान्त्यतस्थितः ।
राजरक्ता तु वै प्रोक्ता सर्वोपद्रवनाशनी ।।
राजरक्षाविधानं तु होमये क्षीरसंयुतं ।
सितशर्करसंयुक्तम् सुगंधघृतसंयुतम् ।।
क्षीरवृक्षेंधने वह्नौ तिलैः शान्तिर्भवेद्ध्रुवं ।
यदासौ मृत्युना प्रातं कालेन कलिता नराः ।।
यष्ट्वा तु पूर्ववद् यागं मंडलं तु यथोदितं ।
कर्तव्यं द्रव्यसंभारैः संभृतो मृत्युनाशनः ।।
मृत्युरुन्तरते शीघ्रं मंत्रस्यास्य प्रभावतः ।
तदेव भूर्जपत्रे तु सितशर्करया सह ।।
क्षीरेण रोचना युक्तं कुंकुमेन च्युतं लिखेत् ।
रुक्मकुंभे तु मध्वाक्ते स्थापयेत् तु सुगोपितं ।।
तदूर्ध्वे तु द्वितीयं तु क्षीरपूर्णसुशोभनं ।
स्रवन्तममृतं ध्यात्वा स्थापयेत् पुष्टि कामतः ।।
४५ब्)
सप्तरात्रप्रयोगेन मृत्युजिद् भवते नरः ।
क्षीणकायो भवेत् पूर्णं पक्षान्ते तु यथा शशी ।।
न मृत्युवशगः सौरै सत्यं मेनांनृतंवचः ।
साध्यर्णरोधितं नाम रक्षापदसमन्वितं ।।
मध्ये संयोजयेत् साध्यं पूर्ववच्चामृतीकृतं ।
तदात्मानं तु संवेष्ट्य वारुणेन तु वै पुनः ।।
कलाशेषेण तद्बाह्ये संपूर्णेन तु वेष्टयेत् ।
पुरंदरं ततो बाह्ये द्वाचतुर्दिक्षु गोचरे ।।
तन्मंडलांते योज्येत वक्त्रसंपुटमध्यगं ।
रक्षितं चामृतीशेन न तस्य भयदं क्वचित् ।।
भवति योगिनी भूतरक्षराक्षसहिंसकैः ।
ब्रह्मराक्षसकाः सर्वे डाव्योडामरिकास्तथा ।।
तेषां वै रक्षणार्थं तु यागरक्षासुशोभने ।
कुंभान्तस्थं लिखेन्नाम तं स्थाप्य कमलोपरि ।।
अधोमुखं ततो पुष्टिकमलं पूर्ववल्लिखेत् ।
तत्कर्णिकस्थं विमलं अधोवक्त्रं प्रयोगतः ।।
स्रवमानं ततो ध्यायेदमृतं सर्वतो मुखं ।
४६अ)
अमृतीशंकरं धेनु प्रविष्टं तु विभावयेत् ।
हृदिस्थं तत्प्रविष्टं तु सर्वनाड्यः प्रपूरयेत् ।।
तत्क्षणाद् भवते पुष्टि क्षीणकायश्च यो नरः ।
पंक्त्या तु वै लिखेन् मंत्रं प्रत्येकं वर्णमध्यगं ।।
नामं साध्यस्य वै लेख्यं दिग्विदिङ्मृत्युजिल्लिखेत् ।
पूर्ववत् कमलं लिख्य षडंगं पूर्ववत् प्रिये ।।
संयोज्य पूजयेत् शक्त्या यथाविभवविस्तरं ।
सर्वश्वेतोपचारेण सर्वदुःखनिवर्हणं ।।
भवते मंत्रमुख्यैस्तु नात्रकार्यविचारणा ।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने यंत्राधिकारो नाम
सप्तदशमः पटलः ।।
श्रीदेव्युवाच ।।
भगवं देवदेवेश सर्वसत्वं हितेरत ।
व्रातास्त्वं तु सुरेशान सर्वानुग्रहकारक ।।
उक्तं त्वया महेशान व्याप्ति मंत्रेषु चाध्वनः ।
आख्या हि मे जगन्नाथ यदि तुष्टोसिते प्रभुः ।।
४६ब्)
मंत्राणां कीलनादौ तु योजनं सूचितं प्रभुं ।
नाख्यातं देवदेवेश यथायोज्यन्ति साधकाः ।।
चूर्णलोपांजनादीनि कुहिकानि तु यानि हि ।
यथा मंत्रस्तथा जप्यै ध्यानधारणयोरपि ।।
अन्येन मुक्तदोषेस्तु विषादिगरसंभवे ।
योजितं मंत्रराजानं कथं ज्ञास्यन्ति दैशिकाः ।।
परदेहे स्वदेहे वा लक्षणैः कैश्चि दृश्यते ।
दृसंहिति कुतः कार्यं रक्षाया परमेश्वर ।।
ईश्वर उवाच ।।
यो विंद्यात् समिदं ज्ञानं सर्वकृत् साधकोत्तमः ।
परप्रयुक्तमंत्रस्य लक्षणं सुरसुंदरि ।।
रागद्वेषाभिभूतं तु अपिमानश्च योगिनः ।
कार्यार्थं राजकार्ये वा परिभूतं यतस्ततः ।।
योजयेत् मंत्रराजानं येन यत् सविभास्सदा ।
सेविते मंत्रनाथेन त्रैलोक्यं हस्तगं भवेत् ।।
किं पुनर्मानुषे लोके वश्याकर्षणमारणं ।
करोति लीलया पूर्वं मंत्रराजप्रभावतः ।।
४७अ)
ध्यानेन मंत्रयुक्तेन तथा लेख्य क्रमेण च ।
होमेन लोहचूर्णैश्च तथा संक्रमणौषधैः ।।
विवादिगव(?) दोषैश्च खानपान विलेपनैः ।
एकान्ते निर्जने रात्रौ निःशब्दे तु वनेपि वा ।।
पूजयेद् देवदेवेशं महाभैरव रूपिणं ।
महासंहारसंयुक्तं नैवेद्यैर्विविधैस्तथा ।।
पानैश्च विविधैश्चैव धूपदीपानुलेपनैः ।
वस्याग्रतस्थितो मंत्री ध्यायेद् भैरव रूपिणं ।।
महाकरालवदनं दंष्ट्रानं विकृताननं ।
उर्ध्वदृष्टि विरूपाक्षिं महाश्मश्रु भ्यानकं ।।
आयुधैर्विविधैश्चैव नानाप्रहरणोद्यतं ।
ग्रसमानं हि भूतानां कालरूपे स्वरूपतः ।।
ध्यानयुक्तं महामंत्रं योजद्येद्वृद्धि(?) मध्यतः ।
महामंत्रवरंघोरं वर्णरूपं विचिन्तयेत् ।।
भ्रममानं देहमध्ये अक्षरामंत्रनायके ।
द्रूतास्ते हेमवत् तत्र वह्निरूप विचिंतयेत् ।।
भ्रममानं देहमध्ये अक्षरामंत्रनायके ।
४७ब्)
द्रुतास्ते हेमवत् तत्र वह्निरूपं विचिन्तयेत् ।
ताम्रवद्रसरूपं तु हृदिस्था परिकल्पयेत् ।।
सुस्वरूपं भवेत् तत्र तत्रान्तः कारणं क्षिपेत् ।
शक्तिर्मायाधिकास्तेषा एकभावं विकल्पयेत् ।।
वीजांकुरवशेकं तु महानंदं प्रवर्तयेत् ।
अनन्ताशक्ति संक्षोभा च(?) कुरेव(?) समुत्थिता ।।
प्रज्वलन्तं तृशूलं तु ध्यायमानं स्वशक्तितः ।
निष्क्रान्तं कनिकाभासं स्फुरज्वाला बलायुतं ।।
सुवक्त्र यंत्रमार्गेण प्रेरितं शक्ति वेगतः ।
सव्यस्य वक्त्ररंध्रेण प्रविशन्तं विचिन्तयेत् ।।
दीप्तहाटकवर्णाभं वह्निज्वालासमायुतं ।
स्फुरन्तं वायुवेगेन ध्यायमानं महाबलं ।।
चित्तशक्त्या तु देवेशि मृत्युरूपेण चोदितः ।
ततः संक्षोभितं शूलं पतितं हृदिमध्यगः ।।
तेनाक्रान्तस्तु मंत्रेण तीव्रं हृत्पद्ममध्यगः ।
आयुधैः प्रेतसत्यस्य नानाप्रहरणोद्यतैः ।।
४८अ)
इति ध्यायेन्महाक्रूरात् पतितोसौ ममाग्रतः ।
शूलेन संपुटी भूतं गृहीतं परिचिन्तयेत् ।।
चैतन्यं ग्राहयेत् तत्र साध्य हृन्मध्यसंस्थितं ।
स्वशक्त्योच्चारयेद्वेगाद्ध्यानं मंत्रप्रयोगतः ।।
नीयते सममासीध्ये मंत्रस्यास्य प्रभावतः ।
शरीरविंवशी भूत नानामंत्रप्रयोगतः ।।
इति ध्यानपरो यस्तु सप्ताहान्मारयेतसः ।
मृयते नात्रसंदेहो यदि साक्षात् पुरंदरः ।।
सप्तरात्र प्रयोगेन देविनास्त्यत्रसंशयः ।
अथवामरणं नेच्छेत् प्रविशेतस्ववक्त्रतः ।।
साध्यचिन्तं समाध्याय सततो ह्यधिमध्यतः ।
साध्यामृत महोघे सिंचमानं हृदिस्थितः ।।
अनेनैव प्रयोगेन आकर्षे तृदशान्वलान् ।
संहृतः सर्ववीरैश्च का कथा मनुजेषु च ।।
स्वराज्यं स्वधनं चैव स्वदारात् स्वसुतं तथा ।
ददंति मंत्रिणे सर्वं आकृश्या मंत्र तेजसा ।।
४८ब्)
ऋपूंदासत्वमायान्ति क्लिन्न योन्यस्तथांबु या ।
पूर्ववत् संप्रयोक्तव्यं त्रिशूलं साध्यविग्रहे ।।
तत्रस्थं चिन्तयेत् साध्यं चाल्पमानं मुहुर्मुहुः ।
स्वस्थानात् प्लाव्यते वेगान्नीतः कल्पान्त वायुना ।।
उच्चाटयति तत्साध्यं मेरु मध्यादि संस्थितः ।
अनेनैव प्रयोगेन प्रीति विद्वेषलक्षणं ।।
निष्क्रान्तं तद्विधा चिन्त्य उभौ तेषां प्रपूजयेत् ।
उच्चारण प्रयोगेन विमुक्ता यान्ति वेगतः ।।
विद्वेषे दहनं लक्ष्मी किं पुनर्मनुजा भुवि ।
एवमेवान्व योगेन प्रविष्टः साध्यविग्रहे ।।
तत्रस्थं देवदेवेशं चिच्चेतनसमन्वितं ।
आक्रम्य हृदयं तिष्ठेत् पिबे द्रव्य गमं क्रमात् ।।
द्रावयेत् परदेहं तु सूर्यवद्विसमन्वितं ।
प्रत्येकं द्रावयेद् द्रव्यं पूरयित्वा स्वविग्रहं ।।
आपूर्य देहं सकलं चंद्रवत् तिष्ठते ततः ।
क्षीणं साध्यं विचिंत्यं च सर्वक्षीणं स्वविग्रहं ।।
४९अ)
किंचित्काले तु तिष्ठेत यावत् पूर्वं निरन्तरं ।
वेगेनागच्छते पूर्णं प्रविशत् स हृदान्तरे ।।
अमृतात् प्लव्यमात्मानं देवेशं तत्र पूजयेत् ।
तैर्द्रव्यैरमृती भूतं परिपूर्णं प्रकल्पयेत् ।।
सप्ताहाभ्यासयोगेन आनयेन्निर्विकल्पतः ।
ब्रह्मविष्केश्वराद्यैस्तु रक्षितं यदि नित्यशः ।।
अनेनैव प्रयोगेन हृदि चिन्तं करिष्यति ।
उन्मत्तः क्रियते वापि स्तंभितं वा प्रकल्पयेत् ।।
मूको वा तिष्ठते साग्र्य ग्राहयेद् वा यदिच्छया ।
ज्वरभूतविशादिभ्यो व्याधिशोकभयावहं ।।
शूलमुन्मेलदुःखैश्च नानाव्याधिशतैरपि ।
यादृशं चेच्छते साध्यं तादृशं कृयते बला ।।
अनेनैव प्रयोगेन साध्यं वा ग्राहयेद् विषैः ।
नागैश्च दस्युभिस्साध्यै सप्ताहान्नात्रसंशयः ।।
ततः प्रभृति साध्यस्य दुःखशोकाश्च जायते ।
अनुत्साहं ततो द्वेगं बंधुपुत्रक्षयान्वितः ।।
४९ब्)
दारांभृत्यांस्तथा भ्रातॄं प्रजा सर्वं च यौवनं ।
नोच्यते क्रमशस्साध्यो दुःस्वप्नं पश्यते सदा ।।
अतिक्लेश सहो नेह(?) वचिन्तो भवते क्वचित् ।
अनुच्छाहमनाश्चासो भवत्रासं च जिह्मकं ।।
कार्यहानिं राजभयं विदेशगमनं तथा ।
दुःखितं राज्यभ्रंशं वा देशादेश परिभ्रमं ।।
एवमादि सहस्रैश्च दुःखदोषैः समन्वितं ।
तिष्ठते च परो भूमौ व्यभिचारे कृते सति ।।
अथवा होमयेत् साध्यं फलं द्रव्यं तथौषधं ।
खदिराग्नौ कंटकैश्च चित्यग्नौ वापि होमयेत् ।।
कार्या तु सारहोमैर्वा तुषांगारसमन्वितैः ।
पुष्पकं कणकैर्वापि महाफल्गुषमेव वा ।।
कृष्णांजसंभवं कार्यं होमसिद्ध्यानुसारतः ।
तदद्भावात् प्रकुर्वीत फलैः सद्यैस्तृकंटकैः ।।
रक्तास्तु कुसुमान्वश्ये उच्चाटे कृष्णवर्णकं ।
५०अ)
मरणे कंटकैर्युक्ता विद्वेषे गंधदूषिता ।
उच्चाटे कटु तैलोक्ता आकर्षे घृतसंयुतां ।।
का कस्य संयुतं कृत्वा मारणे कुसुमं हुनेत् ।
विद्वेषे कटु तैलैश्च लवणेन हुतौ यजेत् ।।
एवमेव फलं हुत्वा बीजांश्च विविधा क्रमात् ।
करोति विविधं च्छिद्रं साधको दुष्टहिंसकात् ।।
अथवा लेखयेद्वापि नानामंत्रप्रयोगतः ।
मंत्रनाथेन देवेशि साध्यनामं विदर्भितं ।।
अनलां कायेथेच्छासौ साध्यार्णेषु नियोजयेत् ।
आग्नेययं मंडलांतस्थं वायुमंडलवेष्टितं ।।
ज्वलंतं चिन्तयेत् साध्यं दिनानां सप्तकं यदि ।
तत्क्षणानां जायते दाघं यदि शक्रसमो भवेत् ।।
मंत्रराजं निवद्व्येतस्मरेण पटमध्यगं ।
श्मशानांगारके लिख्य विषरक्तान्वितेन तु ।।
यस्य नामं वरारोहे हूं फट्कारं विदर्भितं ।
मारयेत् तत्क्षणावेगात् करजातिसमन्वितं ।।
५०ब्)
मृयते सप्तरात्रेण अथ शत्रु भयं भवेत् ।
मंत्रनाथ महादेवि अधोर्ध प्राक् स्वसंस्थितं ।।
साध्यनामदेवेशि कार्यत्वं शपदे लिखेत् ।
विगतं श्रेयमाप्नोति मानुश्रीयस्य या भवेत् ।।
तृरक्षमवमाने तु यन्नामं तु समालिखेत् ।
यकाराद्यंत संरुद्धंमतः फट् स्त्रितयान्वितं ।।
प्रेत स्थाने निधाप्येवं भैरवं तत्र पूजयेत् ।
अर्कपुष्पैर्वरारोहे तद्दिशाभिमुखस्थितः ।।
तमुच्चाटयते क्षिप्रं विद्वेशो भव जायते ।
नियोग भवदे ह्येष मातामित्रो यदि भीवन् ।।
पंचागेन पिशाचस्य क्रुद्धराजवसानकं ।
नाम्ना समालिखेद् यस्य उन्मत्तं ज्वरदाघ कृत् ।।
काकोलूकस्य पक्षाणि खरोष्ट्रं मूत्रमृत्तिका ।
कृत्वा पतिकृतं कार्यं काकरक्तेन लेखयेत् ।।
काकोलूकस्य पक्षाणि गुदयाता विनिक्षिपेत् ।
५१अ)
चतुष्पथे निखने श्मशानाग्निं ततोपरि ।
प्रज्वाल्य होमयेत् प्राज्ञः काकपक्षांश्च सुव्रते ।।
उद्भ्रान्तपत्रसहिता खरमूत्रेण भाविता ।
यस्य नामं समुद्दिश्य यकाराद्यं तु रोधितं ।।
मंत्रावसाने विन्यस्यस्तं विसर्गान्तं विचारयेत् ।
भ्रमते काकवत् पृथ्वी शत्रुव्याधि प्रपीडितं ।।
पिष्ट्याकं निंबपत्राणि मृतकेश तुषानि च ।
शत्रोः प्रतिकृतिं कुर्यादर्कपुष्पैस्तु वेष्टयेत् ।।
श्मशाने निखने तत्र वह्नेः प्रज्वाल्य चोपरि ।
पुष्पैर्विभीततरुजैर्यस्य नाम्ना तु होमयेत् ।।
विद्वेषो भवते शत्रुः कामदेव समोपि यः ।
अथ चेन्मारयेत् क्षिप्रं शत्रु वै निश्चितात्मनः ।।
अपकारशतैर्युक्तौ कृतघ्नो दुष्ट चेतसः ।
कपाल द्वितयं ग्राह्यं नामं शत्रो समालिखेत् ।।
कपालहस्तकस्तत्र विषांगारेण भावितः ।
रुधिरेण समायुक्तं फट्कारांत विदर्भितः ।।
५१ब्)
महापितृवनं गत्वा भैरवं पूजयेत् ततः ।
कृष्णमाल्योपहारैस्तु ततः कर्मसमारभेत् ।।
विज्ञप्तं देवदेवेश शत्रुमेवं निपातयेत् ।
अनुज्ञातस्तु देवेशिं गृहीत्वा तु शिरो द्वयं ।।
तत्र गत्वा महादेवि कपालासनसंस्थितः ।
तत्रस्थो रूपवर्णस्तु दक्षिणाभिमुख स्थितः ।।
आत्मानं भैरवं रूपं ध्यात्वा घोरं स्वभीषणं ।
क्रूद्धः समुच्चरेन् मंत्रं विलोमेन महामतिः ।।
हूं फट् स्वमुच्चार्य काद्यश्चास्फालयेद्भृशं ।
खंडश * *? तो यावत् तावच्छत्रुः प्रनश्यते ।।
सप्तरात्रेण देवेशि प्रयोगस्त्व निवर्तकः ।
अन्ये शतसहस्राणि अन्यकालोच्छितानि तु ।।
प्रयोगानि करोत्येशः पूजितो मंत्रनायकं ।
स्थावरं जंगमं चैव योगजं शंकयापि वा ।।
कृत्त्रिमं वा प्रकुर्वीत सच्चिन्तं प्राणहानिकं ।
मूत्रं रक्तं तथा केशं वलास्थिं वानसीषु च ।।
५२अ)
गोस्थिष्यास्थिभृगालांस्थि तथा मेषाविलोचनं ।
गोधूम हाटके युक्तो गृध्रवृष्ट्या च लेपयेत् ।।
भक्षैपानै प्रदातव्या यागं कृत्वा सुपूजितं ।
स्नाने विलेपने धूपे गंधवस्त्रे तथौषधे ।।
मृयते नात्रसंदेहं तृसप्तेन समो यदि ।
वनकामाषमुद्गाणि अपानेन विनिर्गता ।।
धान्यं शृतं तथा रक्तं स्त्रीरक्तं निर्मलं तथा ।
मूलं रक्तं तथा केशं लाला चैव वरानने ।।
मूत्रं जारीकृताह्वावनागेंद्रमदसंयुता ।
मोहनी विष्णुक्रान्ता च धात्री चैवकतस्थिता ।।
पुष्यरिक्षे तु युंजीत गर्वितानां यशस्विनि ।
भक्षेपानेषु दातव्यं यावदायुर्वशी भवेत् ।।
इति संक्षेपतः प्रोक्तं प्रयुक्तं मंत्रनायकं ।
करोति विविधा वाधां पूर्वसेवा यदा कृता ।।
साधको योजयेद् देवि मंत्रा मंत्रेषु जायते ।
खादकास्त्रादि मंत्राणां परस्पर नियोजनात् ।।
तीव्रातीव्राभियोगेन दूर्णितानिःखषा गता ।
५२ब्)
परस्परं सिद्धिहानि जपस्य हरणं तथा ।।
जंभनं स्तंभनं चैव मोहनं कीलनं तथा ।
बलाबलवियोगेन साधकाये यजंति च ।।
इत्यमृतीषविधाने वश्याकर्षणाधिकारोष्टा दशमः पटलः ।।
श्रीदेव्युवाच ।।
भगवं देवदेवेश सर्वभूत हितेरत ।
*? णं कृत्वा सुरेशान सर्वानुग्रहकारक ।।
उक्तान्वया महादेव व्याप्तिमंत्रेण चाध्वनः ।
आख्याहितं जगन्नाथ यदि तुष्टोसि मे प्रभो ।।
मंत्राणां काल(?) नादौ तु योजनं सूचितं विभुः ।
नाख्यातं देवदेवेश यथा सिद्ध्यन्ति साधक ।।
परयुक्ता नश्यन्ति कृत्या खार्खोदकानि च ।
प्रत्यंगिरा प्रयोगेन हंतिरिष्टान्यनेकशः ।।
यथा तथा महादेव ब्रूहि निःसंशयं मम ।
ईश्वर उवाच ।।
वादिनामेव सर्वेषा मंत्रवादं तु चोत्तमं ।
आज्ञा नियोजयेत् मंत्रं मंत्रलिंगानि सुव्रते ।।
५३अ)
दीपनं बोधनं चैव ताडनं चाभिषेचनं ।
विमलीकरणं चैव तथेंधन निवेशनं ।।
सन्तर्पणं गुप्तिभावं आप्यायं नवमं तथा ।
एवं नवप्रकारेण मंत्रवादमशेषतः ।।
योजानाति स जानाति मंत्रसाधनसाधनं ।
एकादशं विधो मंत्रो ज्ञातव्यो हि पुनः पृये ।।
येन सम्यक् प्रयोगाश्च सिद्ध्यन्ते साधकेश्वराः ।
ते च वै संप्रवक्ष्यामि सर्वशास्त्रेषु सम्मतं ।।
संपुटं ग्रथितग्रस्तं समस्तं च विदर्भितं ।
आक्रान्वमथमाद्यन्तगर्भस्थं सर्वतोद्धृतं ।।
तथा युक्ति विदर्भं च विदर्भ ग्रथितं तथा ।
इत्येकादशधा मंत्रा भवन्ति फलदा पृये ।।
सिद्धं साद्ध्यसुसिद्धं च तथैवारित्वमेव च ।
ज्ञात्वा सर्वमशेषेण मंत्र वा * * *? चरेत् ।।
उदयास्तमनं व्याप्तिं ध्यानमुद्रा स्वरूपतः ।
यो वेत्येवमवेदज्ञो सर्वकृत् सर्वकोत्तमः ।।
एवमाद्यैरशेषैश्च भावभेदः सुरेश्वरि ।
भावितव्या(?) महामंत्रा भवन्ति फलदा प्रिये ।।
५३ब्)
तस्मात् सर्वप्रयत्नेन ज्ञात्वा सर्वं नियोजयेत् ।
अस्य वै मंत्रराजस्य नास्ति देवि विचारणा ।।
सर्वेषामेव मंत्राणां वृंहकः परमेश्वरः ।
अनेन ग्रंथिता मंत्राः सूत्रेमणि गणा इव ।।
अस्य गर्भे स्थिता मंत्राः भवन्ति सिद्धिमोक्षदाः ।
यस्मात् सर्वगतं देवं सर्वसिद्धिफलोदयं ।।
व्यापकं सर्वतो भद्रं सर्वतो सुखमव्ययं ।
पूरणं सर्वमंत्राणां रक्षणं परमं बलं ।।
मंत्राणां योनि भूतं तु मोक्षदं सिद्धिदं शुभं ।
यतस्ततोस्य मंत्रस्य नास्ति देवि विचारणा ।।
एभिर्दोष सहस्रैश्च छिद्रितं साधकं यदि ।
विनायकैश्च ये ग्रस्ता आधिव्याधि प्रपीडिताः ।।
राज्यभ्रष्टास्तु राजानः परराष्ट्रनिपीडिताः ।
विरक्तपौरान्निर्वृत्या अपुत्राश्च सुदुःखिताः ।।
मृतपुत्रामृतादारा स भयाविगत शृयः ।
आचार्यः साधको वापि मंत्रसिद्धि परांमुखा ।।
विप्रुत्रा दुर्भगानार्यो बंध्या विद्विष्टभर्तृकां ।।
५४अ)
एवमादि सहस्रैश्च दुःखदोषैश्च संयुता ।
दृष्ट्वान्त मानवां लोके उक्तौर्दोषैश्च दूषिताः ।।
तथा चैवग्र कर्तव्यं यागभाग्यरुहांपरां ।
श्रीवागं परमेशानि मंत्रेणानेन मंत्रिणा ।।
महालक्ष्मी कृते यागे भाग्यभाग्भवते नरः ।
पूर्वोक्त दोषनिर्मुक्तो प्राप्नोति परमसुखं ।।
कलशे नाभिषिक्तोसौ पूजयित्वा महाश्रियां ।
प्राप्नोति चिन्तितां कामान् ब्रह्मविष्णुशिवोपमान् ।।
एवं ज्ञात्वा तु मेधावी यागं कुर्यात् सुशोभनं ।
कर्तव्यं सर्वथा देवि सर्वश्रेयकरं परं ।।
पूर्वोक्तेनूप्रदेशे तु सर्वलक्षणलक्षिते ।
सर्वशल्योद्वृति(?) रम्ये महापद्मवने तथा ।।
प्रछन्नेषु च शस्तेषु सुगुप्ते शरणोपरि ।
आलिखे मंडलं तत्र चतुरश्रं समन्ततः ।।
एकोन विंशसूत्राणि पतयेद् वैंद्र वारुणे ।
तथा दक्ष कुबेराभ्यां(?) सूत्राणि सुसमां कुरु ।।
५४ब्)
भागेष्टादशभिर्भागैश्चतुर्दिक्षु समन्ततः ।
कोष्ठकानां शतात्रीणि चतुर्विंशाधिकानि तु ।।
तन्मध्ये तु लिखेत् पद्मं अष्टपत्रं सुशोभनं ।
भागाष्टकं तु तन्मध्ये चतुर्था विभजेत् ततः ।।
प्रथमे कर्णिका कार्या केसराणि द्वितीयके ।
संधयश्च तृतीये तु दलायाणि चतुर्थकं ।।
भ्रामयेच्चतुरौ वृत्ता सुसमासुसमानतः ।
दिक्षुसुत्राष्टकं दद्याद् विदिक्षुः पातयेत् तथा ।।
ऐंद्र्या दिशि गृहीत्वा तु मध्यसूत्रप्रमाणतः ।
किं जल्कस्थंभवेत्पत्रं तन्मध्ये कर्णिका लिखेत् ।।
दलसंधि स्थितेः सूत्रे स्थाप्यपार्श्वे तु भ्रामयेत् ।
द्वाभ्यामुभयपाश्वाभ्यां पुर्वपत्रप्रसाधयेत् ।।
इतरान्येवमेवं तु पद्मपत्रदलं भवेत् ।
पीता तु कर्णिका कार्या पुष्करा हरिता स्मृता ।।
केसराणि विचित्राणि चतुर्विंशकसंख्यया ।
सितारक्ता तथा पीता मूलमध्याग्र योजिता ।।
५५अ)
सुश्वेताश्च दलाकायां व्योमरेखा तु वर्तुला ।
बाह्ये चांगुष्ठमानेन श्वेतवर्णासुशोभना ।।
दलान्तराणि रक्तानि तद्बाह्ये चतुरश्रकं ।
तथैवांगुलमानेन सितरेखा तु पीतला ।।
गात्रकानि ततो बाह्ये भागाभ्यां चैव पार्श्वतः ।
सितादि वर्णभेदेन कोणेष्ठाग्नेयमादिभिः ।।
गात्रकाः पीतवर्णाद्याः पूर्वादि क्रममालिखेत् ।
द्वौ द्वौ भागौ ततो लोप्य वीत्यर्ये चैव सर्वतः ।।
कृष्णेन रजसा पूर्य शंखपद्मविभूषिताः ।
द्वारशुक्लादि कुर्वीत द्विभागेनैव पार्श्वतः ।।
वीथिमानेन विस्तारं वीथ्यर्धेन तु कारयेत् ।
कंठं तथोपकंठं च तथा शोभोपशोभितं ।।
एवं निष्पाद्यते द्वारं संवृत्ता त्रीणि कारयेत् ।
पश्चिमं विवृतं कार्यं पार्श्वाभ्यां विलेखयेत् ।।
शोभाश्चैवोपशोभाश्च रक्तवर्णाश्च पीतकाः ।
प्रतिकुर्याच्चतुर्दिक्षु कोष्टकैरधरोत्तरैः ।।
५५ब्)
कोणान्तेषु लिखेद् देवि पद्मशंखौ समं ततः ।
तस्मिन् बाह्ये समन्ताच्चु? भूतरेखा प्रपातयेत् ।।
सितादि वर्णभेदेन निवृत्त्याद्याश्च ताः कलाः ।
बाह्ये तु पत्त्रवल्यब्जैः स्वस्तिकैरुपशोभितं ।।
आलिखेत् मंडलं मुख्यं तन्मध्ये तु यजेच्छृयं ।
पूर्वाधिवासः कर्तव्यो यथाविभवविस्तरैः ।।
यागहर्म्यं प्रकर्तव्यं शक्त्याद्रव्यानुसारतः ।
वेदीतोरणसंयुक्तं नाना ध्वजविभूषितं ।।
छत्रपादुकशयादि नाना शोभसमन्वितं ।
गृहोपस्करणाद्यैश्च भोगैर्नानाविधैस्तथा ।।
वितानोपरिकर्तव्यं सुश्वेतं तु मनोरमं ।
जवनी चतुरंगा च दीपाष्टौ दिक्षुदापयेत् ।।
बालव्यंजनघंटाश्च तथा दर्श चतुष्टयं ।
पताकाष्टौ तवाश्रेष्ठा नानारंगसमुद्भवाः ।।
कलशाष्टौ तथारोप्या ताम्राया मृन्मयापि वा ।
समुद्राष्टौ तथा पूज्या सर्वौषधि समन्विताः ।।
भूतपल्लवयुक्ताश्च स हिरण्याश्च पूजयेत् ।
५६अ)
कांडाष्टौ पंचरंगाश्च चतुर्दिक्षु निवेशयेत् ।
लोकपालास्तथा पूज्या पटेषु स्वाकृति स्थिताः ।।
तथा ह्यस्त्रा कृतिः कार्या दशदिक्षुसमन्ततः ।
द्वाराध्यक्षांस्ततो बाह्ये कर्तव्याम्नाय दर्शनं ।।
सर्वसाधारनत्वाश्च पटे कार्यास्तु या दृशा ।
वेदमंगलनिर्घोषैर्जयपुण्याहसंयुतै ।।
नृत्तवादित्रगीतैश्च स्तोत्रैर्नानाविधैस्तथा ।
आचार्यश्च स्रुशुचिर्दक्षश्चंदनागुरुचर्चितः ।।
धौतपौतिकया युक्तं उष्णीषांगुलि भूषितः ।
कटकादिभिहारैश्च पुष्पं स्रग्दामभूषितः ।।
मूर्तिपैर्धूपबाहैश्च अर्घवाहैस्तथैव च ।
सर्वसंभारसंयुक्तं अधिवासनपूर्वकं ।।
कुंभोस्त्रवर्द्धनी चैव तथा क्षेत्रपरिग्रहं ।
पश्चाद्वैरजपातं तु कर्तव्यं दैशिकेन तु ।।
पूर्वोक्त वपुषा ध्यात्वा मृत्युजित् मध्यतो यजेत् ।
तदुत्संगे स्थितां देवीं श्रियं वै विश्वमातरं ।।
५६ब्)
विशुद्धस्फटिकप्रख्याहिमकुंदेंदु सप्रभां ।
चंद्रार्बुदप्रतीकाशं गोक्षीर सदृशं प्रभां ।।
मुक्ताफलनिभां श्वेतां श्वेतवस्त्राविभूषितां ।
सितचंदनलिप्तांगीं कर्पूरक्षोदधूसरां ।।
शुभ्रहारेंदु कांतादि रत्नोज्वलविमंडितां ।
सितस्रग्दाममालाभिः कमलैः सुविभूषितां ।।
हरहाससुशुभ्रांगी सिंहहासांमनौरमां ।
सुशुक्लमुकुटोपेतां एकवक्त्रां त्रिलोचनं ।।
बद्धपद्मासनासीनां योगपट्टविभूषितां ।
शंखपद्मकरां सौम्यां वरदाभयपाणिनीं ।।
चतुर्भुजां महादेवीं सर्वलक्षणलक्षितां ।
ध्यातव्यां भावभेदेन रूपायुधविभूषितां ।।
अमृतीशविधानेन तथैवांगानि विकल्पयेत् ।
सर्वश्वेतोपचारेण पूजयेत् सर्वसिद्धिदां ।।
अनेनैव विधानेन श्रीधरं वा शृया सह ।
पूजयेद् भक्तितो देवि सर्वकामफलप्रदं ।।
५७अ)
पाद्यार्घकुसुमैः शुभ्रैर्मृष्टधूपैश्च धूपयेत् ।
लेहैः पेयैस्तथा वोष्पैर्भक्षैर्नानाविधैः शुभैः ।।
पूजयेत् परमेशानं सर्वसिद्धिफलप्रदं ।
पूर्वैवनिर्मितं कुंडे होमं पूर्वोदितेन च ।।
तर्पये देवदेवेशीं भक्तियुक्तेन चेतसा ।
अथवाष्ट भुजां देवीं चितां रत्नकरां शुभां ।।
कलशं धारयेन्नित्यं अमृतेन समन्वितं ।
सोमसूर्यकरां देवीं सितपद्मोपरिस्थितं ।।
निधीनां चोपरिष्टा तु गजमंगलभूषितां ।
ब्रह्माद्यैः सुरसंघातैः पूजितां संस्तुतां सदा ।।
ध्यातां जप्तां महेशानि सिद्धिमुक्तिफलप्रदां ।
यष्ट्वा तु देवदेवेशीं कुंभस्थां प्रपूजयेत् ।।
पूर्वोक्तेन विधानेन यागे पूर्वोदिते शुभे ।
पूर्ववद्ध्यानयोगेन कुंभमध्यगतां यजेत् ।।
जप्त्वा चाष्टोत्तरशतं त्वभिषिंचेतपूर्ववत् ।
तस्या बला महालक्ष्मी राज्यं वायदभीप्सितां ।।
५७ब्)
भौमांतरिक्षसिद्धीनि दिव्यां चैवेश्वरी शुभां ।
ईहितं कामयेत् किंचित् सुप्रसन्नो प्रयच्छति ।।
आयुर्बलं यशः कीर्ति मेधाकांति शृयं वपुः ।
सर्वं विवर्द्धते यस्य यस्य वेश्मनि पूजिता ।।
यः कश्चिदभिषिक्तो वा यस्य वा साधयेत् प्रिये ।
पूर्वोक्तं सर्वमाप्नोति शान्तिं पुष्टिं सुखानि च ।।
पटे तु लिखितां देवीं यस्य वेश्मनि पूज्यते ।
पूर्वोक्तेन विधानेन तस्य सर्वं प्रयच्छति ।।
बहुनात्र किमुक्तेन सिंहस्यैव यथामृगाः ।
प्रपलायन्ति सर्वे दुष्टादोषां सहस्रशः ।।
किमन्यैर्मंत्रबृंदैश्च देवताराधनेन वा ।
यत्रैषा देवदेवेशी ध्याता जप्ता तु पूजिता ।।
संग्रामकाले ध्यातव्या खड्गपत्रलता स्थिता ।
जयं प्रयच्छते वश्यं रिपुदर्पापहा भवेत् ।।
संग्रामाग्रे सदायोज्या रिपुदर्पापहा भवेत् ।
अवश्यं जयमाप्नोति देवदेव्या प्रसादतः ।।
५८अ)
अपि व्याधिशतार्तो वा दुःखशोकैः प्रपीडिताः ।
सर्वव्याधिविलिप्तो वा कृत्या खार्खोदपीडिताः ।।
मंत्रैर्यंत्रैस्तथा ध्यानैर्जपहोमविशादिकैः ।
चूर्णलेपांजनादीनि कुहकानि तु यानि वै ।।
करिष्यन्ति रिपो यत्र स्त्रियौ वा पुरुषोपि वा ।
पूजितानेन विधिना तेषां प्रत्यंगिरा भवेत् ।।
आश्रित्य परमां देवीं भक्त्यासंपूजयेत् तु यः ।
यथा न दृश्यते दुष्टैः पापाचार रतैर्नरैः ।।
मंत्रसिद्धैस्तथा धूर्तैः समयघ्नैश्च कंटकैः ।
तथा गुप्तानुयष्टव्या गोपिता सिद्धिदा भवेत् ।।
यागा होमे तथा जप्ये मुद्रायां ध्यानयोगतः ।
सुगुप्तां ध्यायते देवी यस्य सौभाग्य भाग्भवेत् ।।
यस्मादुष्टाश्च वहवो जिघांसन्ति सुखानि च ।
अन्य सौभाग्य संत्यक्ता दौर्भाग्येन प्रपीडिताः ।।
पश्यन्ति यागे होमे च जपध्यानविधौ सदा ।
५८ब्)
जनयन्ति महाविघ्नां तस्माद्गुप्त तमो विधिः ।
भावभेदेन यष्टव्या साधकेन विपश्चिता ।।
एकवीरक्रमेणाथ पूजिता वा सुरेश्वरी ।
ददाति सर्वकामांश्च प्रसन्नापरमेश्वरी ।।
शैवे वैष्णवसिद्धान्ते भेदेनैव सुपूजिता ।
भक्तानां चित्तभेदेन फलदा परमेश्वरी ।।
चिन्तामणिर्यथा लोके चिन्तितार्थफलप्रदा ।
तथैषानुमहालक्ष्मी सर्वकामफलप्रदा ।।
देवासुरमनुष्याश्च नागागंधर्वकिन्नराः ।
ऋषयोप्सर सा यक्षा राक्षसाश्च पिशाचकाः ।।
भूतवेतालयोगिन्यो मातरो गुह्यकास्तथा ।
डाव्योडामरिका देव्यो भगिन्यो दूतयस्तथा ।।
तत्रायोगेश्वराः सर्वे योगसिद्धाश्च सर्वशः ।
महाश्रिया प्रसादा च सर्वे सिद्धाश्च सिद्धिदः ।।
आकारं सर्वसिद्धीनां महालक्ष्मी महाबला ।
आशृतानां च भक्तानां साधकानां वरप्रदा ।।
५९अ)
अस्याः परा हि जगतो नान्या कीचित् सुखप्रदा ।
अणिमादि गुणा ये च सर्वज्ञा द्यास्तु ये परा ।।
ते सर्वेस्याः पुमां देवि सिध्यन्ते नान्यथा पृये ।
मोक्षार्थी वा प्रकथ? एकवीरां तु पूर्ववत् ।।
अथवा शक्तिसंयुक्तं प्रतिष्ठापयते विभुं ।
सर्वसंभारसंयुक्तं प्रासादे तु मनोरमे ।।
शक्तिशक्तिमतो योगात् स्थापयित्वा विधानतः ।
जन्मान्तर सहस्रैस्तु यत्पापं समुपार्जितं ।।
तत्क्षणान्न पश्यते देवि तूलराशि रिवानलत् ।
वेष्टमात्रेण देवेशः स्थापितो वापि दीक्षितः ।।
कुलां चोद्धरते सर्वां दशपूर्वां दशापरान् ।
यावत् प्रासाद लिंगं वा प्रतिमा चित्रभित्तयः ।।
पाषाणधातवश्चैव ध्वजो वा ध्वजयष्टयः ।
समुद्रा सरितो याव मेरुचंद्रार्क भूमयः ।।
संख्या तत्परमाणूनां तावत्कालं भुनक्ति सः ।
भोगात् सदाशिवे तत्वे भुक्त्वानिर्वाणमाप्नुयात् ।।
५९ब्)
यथा समुद्रसंप्राप्य सिंधुः समरसी गतः ।
तथा शिवत्वमापन्नः पशुर्मुक्तो भवार्णवात् ।।
प्रतिष्ठाफलमेतद्धि प्राप्नुयान्नात्रसंशयः ।
अदीक्षितानां नृपतौ तत्सुतानां द्विजातिषु ।।
भोगालस्याथवा देवि कर्मदोषाश्च विघ्नतः ।
न यष्टं नपस्तप्तं न ध्यानं न प्रतिष्ठितं ।।
पातित्येन मृतानां तु येषां नरकसंस्थितिः ।
निदानैर्वहुभिर्देवि बालस्त्रीवृद्धमानुषैः ।।
मृतस्योद्धरणार्थाय दीक्षार्थं परमेश्वरं ।
यष्टव्यं पूर्वदेवेशं विशेषस्तत्र वा कृतिः ।।
कर्तव्या रजतावश्यं सदृशाद्वादशांगुला ।
कार्या वा गोपये देवि कुशैर्वा स्नानशोधिता ।।
दीक्षैव तत्र संस्कारां व्याप्त्या यत्र समं नयेत् ।
अणुं च योजयेत् तस्मिं पूर्णाहुत्या क्षिपे नले ।।
योजन्या शिवतत्वे तु ततः सा योज्यतां लभेत् ।
श्राद्धे संपूजयेद् देवं मंतेष्टि त्वेति वा यजेत् ।।
६०अ)
प्रतिष्ठाप्यस्तथा देवि दग्धपिंडे श्मशानके ।
पूर्वोक्त द्रव्यसंभारैः पूर्वोक्तविधिना गुरुः ।।
पूर्वोक्तं भीषणं रूपं शक्तिद्वयसमन्वितं ।
चतुश्चाष्टौथवा देवि पूर्वध्यानावलोकितं ।।
पूर्वोक्तं फलमाप्नोति इत्याज्ञा पारमेश्वरी ।।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधानो एकोन विंशतिमः पटलः ।।
श्रीदेव्युवाच ।।
कथितं देवदेवेन प्राणिनां हितकामया ।
अमृतेशविधानं तु सर्वरक्षाकरं परं ।।
इदानीं श्रोतुमिच्छामि संशयं मे हृदिस्थितं ।
दृष्टिपातं प्रकुर्वन्ति जंतूनां मातरः सदा ।।
असंख्यातास्तुता देव्यो अप्रमेय बलान्विताः ।
छायाच्छिद्रेण बाध्यन्ते योगिन्यौ बलवत्तराः ।।
अत्यन्त वलिनस्तीव्रा निस्तृंशानिर्भया दृढाः ।
हिंसकाः सर्वजंनूनां चालानां च विशेषतः ।।
६०ब्)
न संख्या विद्यते तासां तत्रोपायं वदस्व मे ।
छायारूपं फलं यत्तदृष्टिपातछलं तथा ।।
प्रकुर्वन्ति सदा देव च्छायास्तास्तु कति स्मृताः ।
दृष्टिपातभयं किं वा कथं वापि निवर्तते ।।
एतत्सर्वं समासेन प्रसादाद्वदशूलधृक् ।
भगवानुवाच ।।
श्रूयतां संप्रवक्ष्यामि छायायाश्चैव लक्षणं ।
अप्रमेया ह्यनन्ताश्च मातरो बलवत्तराः ।।
भूताश्च विविधाकारा ह्यनन्ताश्च महाबलाः ।
यक्षरक्षपिशाचांश्च ये चान्ये हिंसका शठाः ।।
न संख्या विद्यते तेषां कोटि भेदेन संस्थिताः ।
संक्षेपतः प्रवक्ष्यामि येन मुच्यन्ति बालकाः ।।
स्तृयश्च मनुजा वापि नृपपन्यश्च तत्सुताः ।
यथात्यजन्ति बलिनो यागव्रतपरायणाः ।।
मंत्रसन्नद्ध देहाश्च सुप्रमेय बलान्विताः ।
पुराकल्पे समुत्पन्ना नानाजसहस्रशः ।।
६१अ)
सर्वत्र हिंसकाः क्रूराः सर्वकालजिघांसकाः ।
यागार्थमुद्यताः सर्वे भैरवानुचराः सदा ।।
तच्छक्त्या बलिनः सर्वे तत्तेजो बलबृंहिताः ।
महापशूपहारेण तोषयन्ति महाव्रताः ।।
महाभैरवरूपं यत्स्वच्छंदं कृतवाहनं ।
दैत्यानां तु वधार्थाय देवानां स्थापनाय च ।।
इंद्रादयो यदा देवा सदादित्यैरुपद्रुताः ।
विद्राविता यदा दैत्यै तदाहंसंस्तुतः सुरैः ।।
ब्रह्माद्यैर्विविधैस्तोत्रै माया तेषां हितार्थतः ।
महाभैरवरूपं तु स्वच्छंदं तु कृतं मया ।।
विद्रावणं तु दैत्यानां देवानां स्थापनाय च ।
तदर्थंनुग्रहा भूता मातरो निर्मिता मया ।।
जित्वातैः शत्रुदर्पं कृतार्थास्ते मदंतिकं ।
आगताः प्रार्थयन्तिस्म विनाशभयभीरवः ।।
भगवं देवदेवेश अस्माभिस्तोषितो ह्यसि ।
तुष्टेन देवदेवेन यत्कार्यं तत्प्रसादतः ।।
कुरु देवेति चोक्तं तैस्तदा ते चरिता मया ।
६१ब्)
अजेया वरदानेन प्रार्थयन्तो महाबलाः ।
एवं भवन्ति मे सर्वे यथासृष्टा मयापुरा ।।
ततः प्रभृति तैः सर्व जगत्स्थावरजंगमं ।
आक्रम्यपीडितं सर्वं देवमानुष तिर्यगं ।।
देवानां तु जिघांसन्ति भूताः स्वर्गे महाबलाः ।
मानुषान्येव वलिनो जिघांसन्ति समन्ततः ।।
तिर्यग्योन्यश्च विविधा जिघांसन्ति तथापरां ।
असंख्यातास्तु ते प्रोक्ता अप्रमेय वलोत्कटाः ।।
पुनःस्तुतोहं देवैश्च प्रजापति पुरंदरैः ।
तदाक्षिप्ता मयासर्वे भूताश्च बलवत्तराः ।।
मातरो भीमरूपाश्च भयभीतामदन्तिकं ।
आज्ञाविधायिनः सर्वे किंकुर्वाणात् समागतान् ।।
तदा क्रुद्धेन देवेशि मंत्रकोट्यो ह्यनेकशः ।
अवतार्य विनाशार्थं मातॄणां च गृहेषु च ।।
शिवशक्ति प्रभावेन मननत्राणधर्मिणः ।
६२अ)
मंत्रकाद्या ह्यनन्ताश्च मया सर्वेधिकारिकाः ।
विद्याबलभयाद्भीता आगतास्ते मदंतिकं ।।
तदा मया ते विक्षिप्ताः स्थलेषु च जलेषु च ।
दिगंतरेषु शून्येषु ममाज्ञावशवर्तिनः ।।
बलिकामास्तथा चान्ये भोक्तुकामाः परे तथा ।
रतिकामाहं तु कामा वातजाश्चापि पित्तजा ।।
श्लेष्मजाः सन्निपातान्ये भूता विविधरूपकाः ।
मयोक्तास्तेपि बलिनो मयादावशवर्तिनः ।।
मदुक्तमंत्रमुद्राभि ध्यानैश्च विविधैर्युतान् ।
पंचस्रोतो विनिर्भिन्नं शृण्वन्तो हि पदां पृये ।।
तदा सर्वे विद्रवन्ति भयभीतादिशोदश ।
निधानै बहुभिस्सर्वैजिघांसंति नरं पशुं ।।
दुराचारं दुरात्मानं अशुचिं पुरुषाधमं ।
मातापित्रो रसं माना तथायनवर्जनात् ।।
अति स्त्री संगशमना निबंधाश्च विशेषतः ।
अकालमैथुनान्मोहाद् भयात् संभ्रमणं तथा ।।
६२ब्)
संध्याविवर्जिता ये च संध्यामैथुन सेवकाः ।
भोजना ध्ययने निद्रा संध्यायां योनि सेवकां ।।
अकामिनीः कामयन्ति गुरुदारादि ये पृये ।
प्रध्वंसयन्ति बलिनो बला चैवाति योषितः ।।
तथान्ये सत्य वक्तारः प्रभुद्रोहकृतो शुभाः ।
अनुक्तैः पापरचितै ये नरा सम्यमाधवाः ।।
एतैरन्यैर्निदानैश्च गृह्यन्ते मानुषा ग्रहैः ।
स्त्रीणां चैव तु दौःशील्यादशौचा भक्ष्यभक्षणात् ।।
तथोभयगुरुद्वेषाद्भर्तारव्यभिचारतः ।
अन्यैरनुक्त दोषैश्च दूषिता मुद्रयंति च ।।
रुंदंतां चैव बालानां रात्रौ जागरणां तथा ।
रात्रौ संत्रासना चैव दुष्टच्छायासुदूषिता ।।
रजस्वला दूतिकाश्च पापिष्ठा ह्यशुचिस्तदा ।
उन्मत्ता विद्रुताभीतास्त्रस्तादोषैश्च दूषिताः ।।
रुदंती क्रोशमानाश्च मुक्तकेशास्तदा रुणा ।
६३अ)
दुष्टपुक्कसचंडाल स्पर्शेनैव तु दूषिताः ।
शवस्पर्शान्तर्गमना तत्रस्थ स्पर्शनात् तथा ।।
तद्दुष्टसाहचर्याच्च तद्वार्तानुगमं तथा ।
अशौचादि तथानेकै अस्पर्शैरपि दूषणात् ।।
दुष्टा स्त्री पुरुषो वाथ स्नात्वां च्छायां प्रदापयेत् ।
बालानां भूपतीनां च तत्पत्नींनां तपस्विनां ।।
च्छायाच्छिद्रेण भूताश्च मातरो बलवत्तरा ।
दृष्टिपातं प्रकुर्वन्ति लध्वच्छिद्राश्च हिंसकाः ।।
रौद्रां दृष्टिं पातयन्ति बालानां च जिघांसकाः ।
पापिष्ठाश्च दुराचारा भूतद्यस्ता ज्वरादिकैः ।।
ततोन्मत्ता दुष्टचेता पापाचाराः सुदुःखिताः ।
बुभुक्षिताअ मत्सराश्च शत्रवो वैरगर्विताः ।।
एताश्चान्याश्च बहवो दृष्टिं संपातभीषणां ।
पश्यन्ति यदि बालानां पूर्वोक्तानां च सर्वशः ।।
दृष्टिपातं ततो जाये ज्ञात्वा श्रेयसमाचरेत् ।
तत्क्षणान्न विलंवेत स्वल्पे नैव कृतेन हि ।।
६३ब्)
न बाधयंते दोषानि उषित्वा वाध यन्तिताः ।
न विलंव्य तदा कालं सव्य एव समाचरेत् ।।
स वौषधैस्सुप्रशस्तैर्बहुभिर्मंगलान्वितैः ।
पंचगव्येन वा तत्र मंत्रयुक्तेन कारयेत् ।।
स्नानं सौभाग्य जननं सर्वदोष भयापहं ।
आचार्यो मंत्रकलशै पूर्ववद्विचोदितै ।।
सदाति सद्यो बालानां पूर्वोक्तानां च सर्वशः ।
सद्यः श्रेयस्करं पुण्यं पुष्टिदं कांतिदं शुभं ।।
यदा ह्यनन्तास्तत्रस्था मातरः संनिधाः पृये ।
जिघांसन्ति तदा सद्यो महामात्रीषु पूजयेत् ।।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेंद्राणी चामुंडा सप्तमातरः ।।
एतास्तु मातराः सप्त पूजयित्वा शिवं भवेत् ।
समस्तमातृचक्रस्य योनयस्ताः प्रकीर्तिताः ।।
ताभिः पूजितमात्राभिरुपहारैः पृथग्विधैः ।
कृत्स्नं मातृ समुहं तु तुष्टो भवति तत्क्षणात् ।।
६४अ)
प्रधानाः सर्वमातॄणां एताः सप्त प्रकीर्तिताः ।
सितपीतरक्तकृष्णैः पुष्पैर्नानाविधैस्तथा ।।
पायसैः कृसरैर्मात्स्यर्लेह्यैः रेपैरशेषतः ।
चतुर्विधेन मांसेन घस्मरैर्बलिभिस्तथा ।।
पूजयित्वा तु मालानां सद्यः श्रेयो भविष्यति ।
तस्मात् प्रदानयागेन गुणभूतास्तु देवताः ।।
त्रिप्ता भवन्ति सर्वत्र सर्वश्रेयो ह्यवाप्नुयात् ।
त्रिंशत्कोटिसहस्राणि स्वांगुष्ठा निर्मिता मया ।।
विनायकानां घोराणांमग्निज्वलित चेतसां ।
यदितैर्विघ्नितः कश्चिदभिभूतो भवे नरः ।।
तत्राधिदैवतं पूज्यं विघ्नेशं तु विनायकं ।
अन्य तंत्रोपचारेण ध्यानयोगेन पूजयेत् ।।
हेमं रत्नानि धारूनि बीजान्येव प्रदापयेत् ।
स्वेन स्वेनैव रूपेण सर्वं सर्वेषु दापयेत् ।।
विघ्नैः प्रमुच्यते साध्यं तत्क्षणान्नात्रसंशयः ।
६४ब्)
यदि भूतैर्गहैर्घोरैर्मुद्रितां बलिनैर्नरं ।
तदा भूतेश्वरं योज्यं पूर्वोक्तेन विधानतः ।।
राक्षसैः विविधैर्यत्र प्राणिनो वाधिता ध्रुवं ।
इष्ट्वा रक्षोधिपस्तत्र सर्वश्रेयमवाप्नुयात् ।।
यदा यक्षैरसंख्यातैरति भूतं क्वचिन्नरं ।
तदा वै श्रवणं शीघ्रं यष्ट्वा मोक्षमवाप्नुयात् ।।
अष्टयोन्यस्तथा दिव्यौ विरुद्धा यदि कुत्रचित् ।
तदा तु भैरवं यागं कुर्याच्छ्रेयमवाप्नुयात् ।।
अन्तर्बलिस्तु सर्वेषां दातव्यो भूरि घस्मरं ।
तदा बाह्यबलिं क्षेत्रे दातव्यः श्रेयमिच्छताः ।।
आरण्यको बलिश्चान्यं महिशाद्यैस्तथाजिनैः ।
विविधैश्च बलिं कुर्यात् सर्वेषां तु प्रदापयेत् ।।
नदीतटे श्मशाने वा अटव्यां मातृमंडले ।
प्रातर्मध्याह्नकाले च सायं चैवार्द्ध रात्रतः ।।
बलिस्तेषु प्रदातव्यास्तेन तृप्ता भवन्ति ते ।
उदकं ह्यन्नमिश्रं तु भूरितेषां प्रदापयेत् ।।
येन तृप्तास्तु ते सर्वे सर्वश्रेय फलप्रदाः ।
६५अ)
भवन्त्य वितथं भद्रे मातृवत् पालयन्ति ते ।
स्मृतिर्मेधा जयं वृद्धि वपुरायुर्यशः सुखं ।।
नष्टं बलं तु सर्वेषां ददत्येन बलि स्मृतः ।
एवं मृत्युजिता सर्वं कर्तव्यं सर्वसिद्धिदं ।।
स्कंदग्रहागृहीतानां बालानां पीडितात्मनां ।
रति ग्रहैस्तथा नार्योरभिभूता भवेत् क्वचित् ।।
कार्तिकेयं ततो यष्ट्वा पूर्वोक्त विधिना ध्रुवं ।
क्षिप्रं ता च प्रमुच्यन्ति स्कंदाद्या ये शिशु ग्रहाः ।।
यस्मिन् कुलेयं दशे तु मुद्रितं कीलितं क्वचित् ।
तत्कुले नैव यष्टेत सर्वदोषैर्विमुच्यते ।।
तदर्द्धं तु मया सर्वं रहस्य प्रकटीकृतं ।
अस्मिन्तंत्रे तु सर्वेषां अमृतेश विधानतः ।।
सर्वतं म्लषु सामान्यं मृत्युजित् प्रकटीकृतं ।
सर्वेषां हृदयं गुप्तमप्रकाश्यं महाद्भुतं ।।
न केन चिदहं पृष्टो नाख्यातं कस्य चिन्मया ।
रहस्यं संप्रदायं च सर्वश्रेयः सुखावहं ।।
साधकस्य प्रयत्ना ये भक्त्या ह्याराधयन्ति च ।
६५ब्)
सर्वदुःखैर्विमुक्तास्ते सत्यं मेनानृतं वचः ।
अनेनैवात्मनः कार्यं सर्वदुःखनिवर्हणं ।।
भक्तानां स्वसुतानां च स्वदाराणां तु कारयेत् ।
स्वशिष्याणां तु भक्तानां नान्यथा तु प्रयोजयेत् ।।
सर्वाश्रमं गुरुत्वाच्च भूपतीनां च सर्वदा ।
तत्सूतानां च पत्नीनां कर्तव्यं तु हितार्थिना ।।
नित्ये नैमित्तिके काम्ये शांत्यर्थे कारयेत् सदा ।
मुखे प्रक्षालिते नित्यं तिलकं श्वेत चंदनं ।।
सप्ताभिमंत्रितं कार्यं दोषनिवृत्तयेत् तदा ।
स्नानकाले तथा कार्यं तिलकं श्वेतभस्मना ।।
स्मालभन पुष्पं वा तांबूलं वाभिमंत्रितं ।
दीयते यस्य तस्येह न हिंसंतीह हिंसकाः ।।
भोजनं चाभिमंत्रैव मंत्रेणानेन मंत्रवित् ।
उभयोश्चंद्रयोर्मध्ये भुंजानो मृतमश्नुते ।।
सर्वव्याधिविनिर्मुक्तस्तिष्ठते नृपतिः क्षितौ ।
अथ क्रीडनकालेषु गजाश्च महिषेषु च ।।
अस्त्र क्रीडासु सर्वासु रक्षार्थं कलशं यजेत् ।
६६अ)
क्रीडार्थं विजयार्थं तु रक्षार्थं हिंसकादिषु ।
यस्माद्दुष्टाश्च वहवो जिघांसन्ति नृपेषु च ।।
तस्माद्रक्षा प्रयोक्तव्या सर्वश्रेयस्करी शुभा ।
ततः सुप्तस्य नृपतेर्निद्रा कलशमर्चयेत् ।।
रौप्यमौषधि संयुक्तं चंदनागुरुचर्चितं ।
क्षीरश्चोदक पूर्णं वा यजेत् मृत्युजितं जपेत् ।।
सर्वश्वेतोपचारेण पुष्पधूपार्घपायसैः ।
ग्रंथे स्थितां महानिद्रां जगत्संमोहकारकी ।।
सुखार्थं नृपते रात्रौ जीर्णार्थं भोजनादिके ।
आरब्धा देवदेवेन आज्ञादन्तेति भावयेत् ।।
ततो रात्रि समग्रा तु तिष्ठते निद्रया सह ।
यक्ष रक्षः पिशाचाद्या दुस्वप्ने मातरासु च ।।
भयैः संत्रासदुःखैश्च मुक्तस्तिष्ठेद्यथा सुखं ।
लोकपालेषु चास्त्रेषु रक्षार्थं नृपतेष्वपि ।।
पूजनं चार्घ पुष्पाद्यैः कलशे पूजिते सति ।
यस्यैवं सततं कुर्याज्ज्ञानवां दैशिकोत्तमः ।।
६६ब्)
पूर्वोक्तं सर्वमाप्नोति इत्याह भगवां शिवः ।
निमित्तेषु च सर्वेषु अमृतेशं यजेत् सदा ।।
कामरूपी यजेद् यस्मात् सर्वकामानवाप्नुयात् ।
प्रजानां रक्षणार्थाय शालीनां सस्यसंपदे ।।
सुतपत्नीषु रक्षार्थं आत्मनो राष्ट्रवृद्धये ।
इंद्ररूपी यजेत् तस्माद् बिजयार्थं नृपेषु च ।।
गोभूब्राह्मणरक्षार्थमात्मनः स्वजनेषु च ।
महानवम्यां पूज्येत भूरि यागेन वेश्मनि ।।
पूर्वोक्त श्रेयमाप्नोति आयुरारोग्यसंपदः ।
अस्त्रयागं प्रयत्नेन कर्तव्यं सिद्धिहेतुतः ।।
अस्त्रसिद्धिमवाप्नोति प्रयुक्ता फलमश्नुते ।
यदा मृत्युवशा प्रातःकालेन कलितं नृपं ।।
अरिष्टचिह्नितादान देशं वा तत्सुतादयः ।
ब्राह्मणादिषु सर्वेषु पौरजानपदेषु च ।।
शालिचूर्णादि शस्येषु फलमूलोदकेन च ।
दुर्भिक्षव्याधिकाद्येषु उत्पातैश्चाप्यनुत्तमैः ।।
६७अ)
तदा नैराजनं कार्यं राज्ञां राष्ट्रस्य वृद्धये ।
पूर्ववद्यजनं कृत्वा कलशेनाभिषिंचयेत् ।।
निःशंकं निर्जने रात्रौ शुभमेतत् तु दैशिकः ।
जय पुण्याह शब्देन वेदमंगलस्वस्तिकैः ।।
अभिषिंचत राजान सिद्धार्थान् होमयेद् बहून् ।
नैराजनविधानेन नामांकं जुहुयात् पृये ।।
वह्नौ संक्रुद्धमनसो अजंश्च प्रोक्षयेद्बहून् ।
तृप्त्यर्थं भूतसंघस्य मंत्रीरक्षार्थमुद्यतः ।।
शाकुनोंत्पाशगत्या वा विज्ञाय शकुनं हितं ।
यजेंद्र शिववारुण्यां निर्यातं सर्वसिद्धिदं ।।
अथ पूर्वोक्तेन विधिना गृहयागं तु कारयेत् ।
यावत् सप्ताह्निकं देवि भूरिहोमेन सिद्धिदं ।।
तस्याचला महालक्ष्मीराज्यं वा यदभीप्सितं ।
भौमांतरिक्षसिद्धीनि प्राप्नुया नृपतिः सुखी ।।
तदा नैराजनं ख्यातं सर्वश्रेयस्करं परं ।
पूर्वोक्तं न पश्यते दोषं देविनास्त्यत्रसंशयः ।।
गोषु मध्ये यजेद् यस्मा सदावर्द्धति गोकुलं ।
६७ब्)
सिंदूरं गौरिकं वापि अभिमंत्रेत मंत्रवित् ।
योक्तव्यं गोषुरक्षार्थं शृंगोर्ध्वे सर्वदोषजित् ।।
अश्वानां रक्षणार्थाय पूर्वोक्तविधिना यजेत् ।
अभिमंत्रेत कलशं शिरस्तेषां प्रदापयेत् ।।
सिद्धार्थकां जपित्वा तु कंठे कार्यं तु मुर्द्धनि ।
सर्वदोषविनिर्मुक्तां गजांश्चैव तु रक्षयेत् ।।
अजेषु पशवो ह्येवं रक्षासर्वत्र कारयेत् ।
सर्वप्राणिषु रक्षार्थं योक्तव्यं नृपतेः सदा ।।
महाशान्तिर्भवेत् तेषां दुर्भिक्षं नश्यते सदा ।
महाभयेषु सर्वेषु उल्काभूकंप पातने ।।
अति दृष्टिरनावृष्टिः सूचितेषु भयेषु च ।
अकालोत्पन्न पुष्पादीं दैवै नष्टैश्च खंडितैः ।।
ज्वरलूतादि दोषैश्च अपमृत्युभिरेव च ।
दुःखैर्नानाविधैश्चैव आघ्रातं मंडलं यदि ।।
कर्मदोषाश्च यत्किंचि ग्रहदोषाश्च दारुणाः ।
६८अ)
तिरोभावं तु चोत्पन्नं मंत्रच्छिद्रं तथागतं ।
वटादि विशनाशेन कीटादि स्फोटकादयः ।।
वातपित्तविकारेषु श्लेष्मदोषेषु सर्वतः ।
अर्षाश्च चक्षुरोषाश्च शरवैसर्पकादयः ।।
वातजा पित्तजा दोषा धातुदोषास्तथैव च ।
व्याध्यंतराश्च ये चान्ये क्षतजातः सहस्रशः ।।
अभ्यंतरस्थो व्याध्यश्च शोकाद्याश्चिन्तनाशकाः ।
अभिशप्ताश्च ये केचिद्ब्राह्मणाद्येषु सर्वसु ।।
तदानुपूर्ववद्यागं कर्तव्यं शान्ति हेतुतः ।
प्रत्यहं हवनं कार्यं राज्ञोराष्ट्रविवृद्धये ।।
सुखेन भुंजते राज्यं नात्रकार्याविचारणा ।
सकृत् पूजितमात्रेण नश्यन्ते विघ्नकारिणः ।।
नष्टादशदिशो यान्ति सिंहस्यैव यथामृगाः ।
सतताभ्यासयोगेन दारिद्र्यं नश्यते कुलान् ।।
यस्मिन् राष्ट्रे च देशे च वसते मंत्रवित् सदा ।
ईतयो व्याधयस्तत्र खार्खोदास्तस्करा ग्रहाः ।।
शाकिन्यो विविधा यक्षाः पिशाचाराक्षसास्तथा ।
६८ब्)
बालग्रहाश्च विस्फोटा व्यंतरा ह्यंतराश्च ये ।
सर्पा विशान्ये दोशश्च दुर्भिक्षं रिपु पीडिनं ।।
सर्वेन प्रभवंत्यत्र मंत्रविद्यत्र संस्थितः ।
स पूज्यः सर्वजंतूनां भूपतीनां च सर्वदा ।।
दानपूजादि सम्मानैरसमैः पूज्यते यदि ।
तेन पूजितमात्रेण सर्वे मंत्रास्तु पूजिताः ।।
भवन्ति सुखदास्तत्र तन्मुखस्थाः प्रपूजिताः ।
सर्वत्रा च्छेदकर्तार ग्रहाहिंसन्ति साधकं ।।
तस्मात् ग्रहाणां दातव्यं सर्वदेवोदकोदनं ।
यष्ट्वा भूतानि तृप्यन्ते तृप्ता न भवन्ति ते ।।
तदा रक्षा प्रकर्तव्या दैशिकेन महात्मना ।।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाते राजरक्षाधिकारो नाम
विंशतिमः पटलः ।।
श्रीदेव्युवाच ।।
रक्षा तु कथिता देव प्राणिनामनुकम्पया ।
कीदृशी प्रोच्यते सा तु कस्य वा कृयते कथं ।।
व्यापकः पुरुषः प्रोक्तो ह्यमूर्तः सर्वदेहिनां ।
६९अ)
देही बाह्यान्तरस्थोसौ निर्गुणो ह्यशरीर कृत् ।
कथं तु कृयते तस्य रक्षा कस्मा च रक्षते ।।
शरीरं सकलं वाथ रक्षितव्यं कथं च तन् ।
पृथिव्यादि महाभूतैः निर्मितं चोदितं किल ।।
अन्य तृतीयो वा रक्षः कस्य दैवं कथं विभो ।
कस्माच्च रक्षणियोसौ केन वा वद शूलधृत् ।।
एतत् सर्वमशेषेण का रक्षा भगवन्वद ।
भगवानुवाच ।।
शृणु देवि परं गुह्यं न पृष्टोहं सुरासुरैः ।
गरुडाद्यैस्तथा शिष्यै बहुभिर्मुनिभिर्न च ।।
तदद्यन्ते प्रवक्ष्यामि शृणुष्वायत लोचने ।
व्यापकः पुरुषः सूक्ष्मो निर्गुणो निष्कृयो बलः ।।
किं त्वाणवस्तथा कर्मो मायायस्त्रिविधो मलः ।
तत्संबंधात् समलिनो ह्यस्वतंत्रो ह्यशक्तिमान् ।।
अशुद्धः प्रोच्यते तस्मात् मलत्रय विरोधतः ।
निर्मलो वा कथं प्रोक्तो भोगेषु सविरुध्यते ।।
६९ब्)
शुद्धो भोगी न सिद्ध्येत विकल्पो भोग उच्यते ।
विकल्पः स तु संसारः पशोः संसरणं सदा ।।
संसार्यस्य तु वद्धस्य निर्मलत्वं युज्यते ।
आणवं यन्मलं सूक्ष्मं कार्यतो ह्युपलभ्यते ।।
अभिलाषं तु तत्कार्यं भोगादीनां प्रवर्तकं ।
कर्मयत्करणं कार्यं देशकालशरीरतः ।।
क *? दि यत्पृथिव्यान्तं माया कार्या विदुर्बुधाः ।
एवं मलत्रयोपेतं संसारी संसरंत्यणु ।।
कोशकारकृमिर्यद्वदात्मानं वेष्टये दृढं ।
उद्वेष्टनेन शक्तस्सो(?) ताथात्मा पाशपंजरे ।।
यावन्न चेश्वरो देवो ह्यनुगृह्याति शक्तिमान् ।
तावत् मलावगूहेन गुंठितस्तिष्ठते पशुः ।।
यदि चेन्नेश्वरः कश्चित् स्वतंत्रमखिलं जगत् ।
नियमः कारणानां तु न भवेदसमंजसं ।।
बलीबंदं यदा कश्चित् बंधनं पाशवं धनः ।
तृणौः संयोजितैर्भोगैर्ह्यस्वतंत्रस्तथा पशुः ।।
७०अ)
ह्यस्य पाशहस्तस्य ग्राहकः कश्चिदुन्नतः ।
समर्थो दृश्यते यद्वत्तद्वदीशोप्यनुग्रही ।।
सर्वेषां च सकृच्छक्ता स्वशक्त्याबृंहितः शिवः ।
अवियुक्ता *? सा तस्य निजारश्मी रवेरिव ।।
दाहप्रकाशिका वह्ने ऊष्मा नैव वियुज्यते ।
तद्वदीशस्य सा शक्तिरवियुक्ता शिवात्मिका ।।
जगतः कारणं देवि सा चैका बहुधा स्थिता ।
इच्छाज्ञानकृयारूपा कृत्य भेदेन वर्तते ।।
अघोरा सा तदिच्छास्याद् व्यापिका सा मुदायिनी ।
घोराज्ञान स्वरूपा तु सा परिग्रह वर्तिनी ।।
घोराघोररता चान्या क्षोभिकाया कृयात्मिका ।
सा रक्षा सर्वभूतानां सर्वरक्षासुरक्षिणी ।।
सा च दीक्षा समुद्दिष्टा दान * पणलक्षणा ।
अनेनैव प्रकारेण सर्वदोषनिवर्हणी ।।
व्यापकस्य सतो पुंसः सा रक्षा न विधीयते ।
पुनरन्यं प्रवक्ष्यामि रक्षासर्वसुरक्षिणी ।।
७०ब्)
*? लत्रयविरोधेन नानाकर्मफलोदया ।
शब्दादीनां तु विषये इंदृयाणां प्रवर्तते ।।
हृत्पुंडरीक मध्यस्थं धर्माधर्मप्रवर्तकं ।
रागद्वेषभिभूतं च तृधान्तः करणावृतं ।।
कार्यकारणसंबंधं करणैर्भूतंरंप्रतैः ।
निबद्धं चिन्मले नैव शतशोतसहस्रशः ।।
कार्यकार्यान्त * *? तै धर्माधर्मविचिन्तितैः ।
तिजव्र?लुप्त चैतन्यं जीव इत्यभिधीयते ।।
तस्य रक्ता समुद्दिष्टा मंत्रैर्विविधविस्तरैः ।
धारणामंत्रतंत्रैश्च शिवेन परमात्मना ।।
जीवरक्षा तु सा प्रोक्ता क्रियाशक्तिर्महेश्वर ।
अन्या तृतीया रक्षा तु शरीरस्य तु रक्षणी ।।
महाभयेभ्यः सर्वेभ्यो भूतयक्षग्रहादिकैः ।
डाव्यो डामरिकाभिश्च भगिन्यो * मारस्तथा ।।
शाकिन्यो योगिनीभिश्च मुखमंडकादिभिः ।
नानाविधैरशेषैश्च हिंस *? कृयते ध्रुवं ।।
७१अ)
यद्भयं तस्य शमनं सा रक्षा शक्तिरुच्यते ।
भूतजं मलिनं देहं अध्रुवं च अशाश्वतं ।।
वातपित्तैस्तथा श्लेष्मैः सन्निपातादि * *? रैः ।
अनेकशतसंख्यातैर्दोषैर्दुष्टांशरीरकं ।।
तस्य हिंसन्ति वहवो हिंसका दुष्टबुद्धयः ।
वातपित्तरुजाभूताश्लेष्मजास्सन्निपातिकं ।।
भोक्तुकामावलिकामारतिकामास्तथा परे ।
हंतु कामाश्च वहा वा हिंसकाः सर्वजंतुषु ।।
वात स्थानं समाशृत्य वातजाः प्र *? वन्ति हि ।
क्षोभयन्ति स्वकं स्थानं पित्तजाः पित्तिकन्ततः ।।
श्लेष्मजाश्च स्वकं भावं स्थानं सान्निपातजाः ।
क्षोभयंति विनाशार्थं देहरक्षा त *? तः ।।
मंत्रौषधि क्रियायोगे रक्षा वै शिवचोदिता ।
कर्तव्या शिवदा नित्या सा शिवाशिवहारिणी ।।
बलिकामानुबलिभिर्घस्मरैस्त *? येत् पृये ।
७१ब्)
भोक्तुकामांजिघांसन्ति नश्यन्ते मंत्रयोगतः ।
रतिकामा अनेकैश्च मंत्रैस्तंत्रैस्तथौषधैः ।।
प्रोक्तोप्यनुग्रहस्तेन मंत्रे *? मंत्रयोगिना ।
हंतु कामास्तु ये प्रोक्ता दुराधर्षा महाबलां ।।
तथापि पारमेशेन मंत्रतेजो बलेन च ।
शिवशक्त्या प्रभावेन नश्यन्ते *? त्रसंशयः ।।
एवं सेक्षेपतः प्रोक्तो इदं भूतविनिर्णयं ।
प्राणिनां तु हितार्थाय विष्टरोत्यत्रदर्शितः ।।
एवं हि क्रियते रक्षा सुज्ञात *? कृता भवेत् ।
अन्यथा स्वात्मघाताय वर्ततेप्यनुयोगिनः ।।
रक्षा बहुप्रकाराश्च कर्तव्याम्नाय दर्शनात् ।
आधाररक्षा प्रथ *? जीवरक्षा द्वितीयका ।।
तृतीयागर्भरक्षा तु सूतिकाले चतुर्थिका ।
पंचमी भूतिका रक्षास्नात्वा षष्ठी तु कारयेत् ।।
बालानां सप्तमी प्रोक्ता पुरुषा?णां तथाष्टमी ।
७२अ)
भेदं तासां प्रवक्ष्यामि यथाधाराधिकारयेत् ।
मातापित्रोंपरारक्षा कार्या तत्व विचिन्तकैः ।।
दोषां कृत्वा सुपुरुषे संभवन्त्यस्य हिंस(?)काः ।
हिंसन्ति रक्षणी योसौ संभवार्थं प्रयत्नतः ।।
यदा स्त्री मुद्रिता भूतैःस्तदा गर्भो न गृह्यते ।
एषा तु प्रथमा रक्षा आधाराख्या प्रकीर्तिता ।।
* *? रक्तमयः कायः सर्वेषां प्राणिनां यतः ।
तदा तु रक्षितौ द्वौ तु कर्तव्यो मंत्रवादिभिः ।।
रतिकामग्रहाये च कामाचारा ह्यनेकशः ।
पिबन्ते रेत? *? क्तं च नक्तं संभवते कथं ।।
तस्मात् तु कारणाद्रेतो रक्षितौ संभवो भवेत् ।
संभूतं गर्भकं नेत्रं संरक्ष्यं गर्भपातनं ।।
प्रसूति काले नारीणां रक्षाग *? विशारदैः ।
कार्यारक्षा प्रयत्नेन न च हिंसन्ति हिंसकाः ।।
यावन्न सूतिका शुद्धा तद्गृहस्थं तु बालकं ।
सूतिका ग्रहदोषाद्या बाधन्ते रक्षया * *? ।।
७२ब्)
तस्मात् सुरक्षितौ कार्यौ ह्यस्त्राद्यैस्तु विचक्षणः ।
सूतिकां स्नानकाले तु बालं वायच तत्स्थितं ।।
हिंसन्ति बलिनो भूता तस्मात् स्नानं तु कार *? ।
स्नात्वा तदुत्तरं कालं बालरक्षासमात्रिका ।।
धात्री तु कारणं तस्य क्षीरस्पर्शादि पोषणैः ।
तस्माच्चैरक्षितव्यादौ धात्री बालस्तोर्ध्वतः ।।
सर्वका *? चरक्ष्य मंत्रौषधि प्रयोगतः ।
धारणाध्यानमुद्राभिमंत्रैर्धूपैरतत्रितः ।।
तिलाज्यादि कृतैर्होमैः कलशैर्विविधैः शुभैः ।
शिरसि ह्यभि * *? त रक्षणीयं तु सर्वदा ।।
बालप्रबुद्धसुप्तौ तु रुदमानं प्रहासितं ।
भुंजानं शयनस्थं तु तिष्ठन्तं क्रीडनं तथा ।।
प्रभाते चार्द्धरात्रे च मध्याह्ने सा * *? चरे ।
संध्याकालेषु सर्वेषु रक्षये तन्तु बालकं ।।
देवासुराणां भूतानां मात्रीणां भगिनीषु च ।
इष्टग्रहपिशाचानां संध्याकाले तु संगमं ।।
७३अ)
संध्यासु सर्वासु रक्षितव्यं तु बालकं ।
गच्छंस्तिष्ठत्स्वपं जाग्रत् सर्वकालं तु रक्षयेत् ।।
गच्छन्तं दर्शनाद् देवि जिघांसन्ति जिघांसकाः ।
रक्षाहीनं तु तिष्ठन् * *? यत्ते सुभीषणाः ।।
स्वस्थं कलेन सुप्तं तु त्रासयन्ति समन्ततः ।
जाग्रतः केवलं रात्रौ त्रासयन्ति ग्रहाधमाः ।।
तस्मात् सर्वप्रयत्नेन रक्षयेत् सर्वदा शिशुं ।
* *? नान्यैरुपायैश्च मंत्रवादैर्विना पृये ।।
विशेषाद्राजतनयं रक्षितव्यं हि दैशिकैः ।
भाग्य सुक् स्रु प्रशस्तं च सर्वलक्षणरक्षितं ।।
दृष्ट्वा यत्नेन दु * *? जिघांसन्ति शिशुं शुभं ।
तस्मात् सर्वप्रकारेण धारणाभिरनंतरं ।।
प्राकारास्त्रेन वा देवि मंत्रैर्वा विविधैः शुभैः ।
लिखितैर्यंत्र योगैर्वा पू * *?ः सुप्रयत्नतः ।।
वेष्टितैः कंठलग्नैर्वा सूत्रकैश्च सितादिकैः ।
धूपैर्विविधरूपैश्च धारिभिर्मणिभिस्तथा ।।
रक्षोघ्नैस्तिलकैर्वापि नीरांज * *? रः सरैः ।
७३ब्)
रक्षणीया सदा बाला राजपुत्राविशेषतः ।
राजानो राजमात् पंच सजपन्त्यस्तथा पृये ।।
अनेनैव विधानेन रक्षितव्यां सुनिश्चितैः ।
यस्म क्षुद्रा महाभूता मातरो दुष्ट चिन्तकाः ।।
जिघांसन्ति प्रयत्नेन नित्यकालमतंद्रिताः ।
तेषां प्रशमनार्थाय प्राणिनामनुकंपया ।।
मंत्रास्तौषधं यत्रा * *? हाबलपराक्रमाः ।
अनुग्रहार्थं मर्त्यानां मयासर्वेवतारिताः ।।
तेषामेव हि सर्वेषां मंत्राणां भूरितेजसा ।
बलमोजस्तथा ज्ञानं स्मृतिर्मेधा व * *? यः ।।
जीवनं प्रभु सर्वेषां मृत्युजित् कथितं मया ।
भूरिर्यागैर्जपैर्होमै तपसा संयमेव च ।।
मंत्राश्चास्त्राणि सिद्ध्यन्ति युगधर्मानुरूपतः ।
तथा *? लि युगे दुष्टे पापिष्ठा येन राधमाः ।।
तेषां ते सिद्धिदा मंत्रा भवन्ति न भवन्ति वा ।
अस्य देवाति देवस्य कृतादि युगसंस्थिति ।।
भावानुरूप नि * नां तपो न व्रत सेवनात् ।
७४अ)
सर्वभावप्रसन्नानां द्वैताद्वैतजिगीषना ।
दौर्भाग्यालस्य युक्तानां पापोपहत चेतसां ।।
भक्तिमात्राबलं बन्धा * *? ते नात्रसंशय ।
चिन्तारत्नं यथासर्वं चिन्तितार्थं प्रयच्छति ।।
तथा सर्वं तु नेत्रं वै भावितस्य करोति हि ।
सूर्यचंद्रौ यथालोके सामान्येनाव * *? कौ ।।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
सामान्यं वर्तयंत्येते ह्यन्नंत्कृद्दोष(?) हृद्यया ।।
तथा सर्वेषु भूतेषु व्यापकः परमेश्वरः ।
* * *? प्रपंचरहितः सर्वेषां सर्वदः प्रभुः ।।
मृत्युजित्परमो देव सर्वेषां सर्वसिद्धिदः ।
भक्तिमात्रावलंविन्धा?द्ध्यानधारण तत्परः ।।
योस्यवेत्ताप्रपन्नश्च * *? निष्कंप चेतसः ।
ससर्वं फलमाप्नोति सर्वसिद्ध्यारुहो भवेत् ।।
इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने इष्टपाताद्यधिकार * *?
विंशतिमः पटलः ।।
श्रीदेव्युवाच ।।
उक्तं देवेन मे सर्वं यन्मयापरिपृच्छितं ।
अधुना श्रोतुमिच्छामि संशयं मे हृदिस्थितं ।।
योगिन्ये * *? राश्चैव शाकिन्यो बलगर्विताः ।
कथं परपुरे प्राणाः क्षणादाकर्षयन्ति ताः ।।
कस्माच्च निर्घृणा रौद्रा तासां वा किं प्रयोजनं ।
एतत् सर्व * *? षेण भगवन्वक्तु मर्हसि ।।
भगवानुवाच ।।
शृणु देवि प्रवक्ष्यामि रहस्यं परमाद्भुतं ।
यथा प्राणांजिघांसन्ति पशूनां पतिशासनात् ।।
रागद्वेष * *? र्मुक्तालोभमोहविवर्जिताः ।
यागार्थं देवदेवस्य पशवः प्रोक्षयन्ति ताः ।।
न लोभेन च हिंसंति न चैव हि जिघांसया ।
महाभैरव देवस्य शास * *? लयन्तिताः ।।
यदर्थ पशवस्पृष्ट्वा स्वयमेव स्वयंभुना ।
पशवः पतियागार्थमुपयुजन्ति नान्यथा ।।
तेषामनुग्रहार्थाय पशूनां च वरानने ।
मोच * *? हि पापेभ्यः पाशौघां छेदयंति ताः ।।
७५अ)
पशूनामुपयुक्तानां नित्यमूर्द्धमतिर्भवेत् ।
त्रिविधेन तु योगेन योजयन्ति शिवाज्ञया ।।
परे नैव हि सूक्ष्मेण स्व * *? त्रितयेन तु ।
योजयंति न चैवात्र घातयन्ति बलेन ताः ।।
परः सर्वात्मके तत्वे निष्कृयो निर्मलस्तु यः ।
व्यापकः परमेशस्य सर्वं कारणकारणं ।।
* *? तान्तरालस्थं सर्वानुग्रहकारकं ।
तस्मिन्नेव नियुक्तास्ता निर्मला विगतक्लमाः ।।
एकीभावमनुप्राप्ता न वियुक्ताः कथंचन ।
तच्छक्तौ तु विलीना * *? च्छा रूपेणसंस्थिताः ।।
ज्ञातोत्कर्षाः क्रियावस्था यागयोग्यावधूतिकाः ।
तद्भावं तु समास्थाय तद्रूपा योजयन्ति यत् ।।
ते मुक्ताः शिवभूतास्तु * *? क्त्या शिवे रताः ।
निर्मला शिवभूतास्तु तत्प्रभावा भवन्ति ते ।।
यथा योगेन दीक्षायां शिवत्वमुपलभ्यते ।
तथा वै योगयोगेन शिवत्वमुपया * *? ।।
७५ब्)
अत्यन्तमलिनस्यास्य प्रागुक्तस्याधिकारिणः ।
मलप्रध्वस्तरूपस्य निर्मलत्व भजंतिताः ।।
मूलच्छेदेन हि पशोजिघांसति मलत्रयं ।
मलय * * * *? स्य शरीरं न प्ररोहति ।।
दीक्षैव योजने तस्य पशोर्नैव हि घातनं ।
व्यापकेन स्वरूपेण स्वशक्ति विभवेन च ।।
त्रोटयन्ति पाशोः पाशां शरी * * *? नष्ट्यति ।
शरीरेण प्रनष्टेन मोक्षणं न जिघांसनं ।।
दृढपाशप्ररूढस्य बद्धस्य पुरुषस्य वा ।
वियोगस्तु शरीरेण मारणन्तं बिदुर्बुधा ।।
* *? परप्रकारस्तु सूक्ष्मं चैवाधुनोच्यते ।
सूक्ष्मशक्तिमयं ज्ञानं ज्ञानशक्त्या तु शस्यते ।।
अरावारावराविष्ट्याध्वनिभासावसानगं ।
सिद्धा * *? द्धिदं ज्ञानं खेचर्योपासयन्ति ताः ।।
अज्ञानेनावृतं ज्ञानं पशूनां समलस्थितं ।
निर्मलेन तु ता देव्यो ज्ञानेनाभि भवन्ति हि ।।
यथाप्रसुप्तं बुद्ध * *? डते तु यतस्ततः ।
७६अ)
मदिरासेवमानेन यथैवोन्मादितः क्वचित् ।
क्रीडते ह्यस्वतंत्रत्वाद्वालो वा भ्राम्यते क्वचित् ।।
उन्मत्तो वा प्रमत्तेन प्रेर्यते प * * *? था ।
मातृभिर्गुह्यकैः शक्त्या स्वेन योगबलेन तु ।।
जीवमाकृश्यते क्षिप्रं पशूनां योगवीर्यतः ।
यत्तत्परममव्यक्तं शाश्वतं ह्यचलं ध्रुवं ।।
तं * * * *? योगमार्गेण प्रविश्य परदेहतः ।
परोभूत्वा स्वशक्त्या तु जीवं जीवेन वेष्टयेत् ।।
आक्रम्य तं हृदिस्थानोदध्वोर्द्धेन प्रवेशतः ।
एक * * *? त्वमापाद्य समत्वं तत्र चाभ्यसेत् ।।
परं कारणमाशृत्य स्वतंत्रत्वं समभ्यसेत् ।
व्यापकेन स्वरूपेण शक्त्याशक्तिं तु आनयेत् ।।
तदा तत्संपुट * * *? शान्तिच्छेदं तु कारयेत् ।
शक्तिरूपं ततो देवि तत्वमास्थापयोगवित् ।।
स्वतत्वसत्तारूपेण चित्सूर्यत्वेन तापयेत् ।
द्रावयेत् तत्परस्थो * * *? रश्मिषु चार्कवत् ।।
७६ब्)
योजयेद्धृदये सर्वान् शब्दादीनांद्रियाणि च ।
भूतानि रसभूतानि गुणान्येव हि सर्वशः ।।
अतः करणसंघातं गृहीत्वा * *? चेतसा ।
प्रविशेत्त तदा योगी पुरमाक्रम्यसर्वशः ।।
द्रुतं गृहीत्वा तत्सर्वं क्षिप्रमात्मस्थमानयेत् ।
तत्क्षणादानये जीवं मुद्रामंत्रप्रयो * *? ।।
अनेन विधिना सूक्ष्मं योगं योगी समभ्यसेत् ।
तत्सर्वं प्राप्नुयात् क्षिप्रं सूक्ष्मं योगेन योगवित् ।।
सूक्ष्मयोगः समाख्यातः स्थूलश्चै * *? च्यते ।
पिंडस्थन्प्रयोगेन पिंडमाकर्षये ध्रुवं ।।
मंत्रमुद्राविधानेन विधिनापाशमेव च ।
ध्यानयोगबलेनैव च्छुम्मकाद्यंगलक्षणै? ।।
* *? यंतितसंदेहः पशूनां पाशवं पुरं ।
त्रिविधेन तु योगेन योगिनो बलगर्विताः ।।
जिघासंति यदा देवि तदाश्रेयः समाचरेत् ।
मृत्यु * * *? मं देवमनृतं सर्वतोमुखं ।।
७७अ)
परेणैव स्वरूपेण व्यापकत्वेन मंत्रवित् ।
ज्ञात्वा तत्परमं योगं मंत्री व्याप्यपशोः पुरं ।।
इच्छाशक्त्यात्वधिष्ठा(?) * * * *? जीवितं शुभं ।
संरक्षोद्योगविन्मंत्री क्रमं ज्ञात्वा तु योगिनां ।।
पूर्वोक्तानां च सर्वेषां हिंसकानां यशस्विनि ।
सूक्ष्मं स्वशक्तिमार्गेण चक्र? * *? म योगतः ।।
पूर्वोक्तं ग्रंथिभेदेन सूक्ष्मध्यानेन मंत्रवित् ।
मोचयेत् सर्वदोषेभ्यो नान्यथा तु कदाचन ।।
ज्ञानयज्ञबलोपेतो मंत्रतंत्रविश * *? ।
मृत्युजित् सिद्धमंत्रश्च तपस्वी संयतेंद्रियः ।।
ध्यानमंत्रादि युक्तश्च सत्वस्था ज्ञानवान्बली ।
संतुष्टः परमो योगी अष्टमूर्तिविधौरतः ।।
रागद्वे * *? निर्मुक्तो लोभमोहविवर्जितः ।
निर्भयश्चैव निःशंको ह्यनुग्रहपरायणः ।।
पूर्वोक्तै दारुणैर्दोषै मोचकः सभव्त् प्रिये ।
अन्यथा व * * *(?) स्तु सत्तवेदात्मनाशकः ।।
७७ब्)
स्वकुलभ्रंशको दुष्टो नरके पच्यते ध्रुवं ।
भूताश्च विविधाकामा तरोदुष्ट हिंसकाः ।।
योगिन्यो गुह्यका यक्षाः पिशाचा दुरित क्र *? ।
* *? लिकामाभोक्तुमाहं तुं कामास्तथा परे ।।
रति कामाश्च साध्याश्च स्कंदाद्या ब्रह्मराक्षसा ।
असंख्यातास्तु ये केचि रौरान तेषां सह कुत्रचित् ।।
विरो * * * *? कर्तव्यो आत्मज्ञैः स्वार्थ पंडितैः ।
धनार्थिभिवालुध्वै?श्च न कुर्याचि यशोर्थिभिः ।।
स्वकुद्रं चंद्रनादीनां कारुण्या चैव कारयेत् ।
नृपाणां तत्सुतानां * * * *? नां च सर्वथा ।।
यस्मिं देशेथराष्ट्रे वा निवसे योगमंत्रवित् ।
तत्र राजा प्रभुर्देव सा देवाश्रमेणां गुरुः ।।
सर्वेषां माश्रमाणा च राजासंपद्यते गुरु(?) ।
*? कृते वर्तमानस्य सहते तास्तु मातरः ।।
पूर्वोक्ता दारुणा घोरा प्रशमं यान्ति सर्वथा ।
तेषां वल्युपहारेण भूरियागेन ते नृपा ।।
संतोषयन्ति(?) * *? द्वैत स्यात् सर्वं क्षमन्तिते ।
७८अ)
मंत्रवादं हि सर्वत्र न कार्यं शिवचिन्तकैः ।।
नानाविधैरुपायैश्च शरीरं पांचभौतिकं ।
विनाशयन्ति ये घोरा तेषां प्रश * * * *? णु ।।
स्थूलं स्थूलेन भावेन चूर्णधूपविलेपनैः ।
मंत्रौषध क्रिया योगैरावेशन पुरःसरैः ।।
यंत्रचक्रप्रयोगैश्च जीवरक्षादिभिस्तथा ।
* * *? रणयोगैश्च सिद्धमंत्रैश्च धारणात् ।।
मुद्रामंत्रविधिज्ञैश्च गमागमविचिंतकैः ।
भूततंत्रविधौर्वीरैरौषधज्ञैः सुचिन्तकैः ।।
संयतैरप्रमत्तै श्च * *? संकरवर्जितैः ।
प्रातः स्नानैः कृता पूजैर्जपध्यानपरायणैः ।।
लक्षलक्षणवेदज्ञैनिर्यपेक्षैः सुपेशलैः ।
कर्तव्यो मंत्रवादश्च नान्यथ *? चिन्तकैः ।।
यदीच्छेदुत्तमां सिद्धिं मोक्षं वा शाश्वतं ध्रुवं ।
मंत्रवादं न कर्तव्यं इत्याज्ञा पारमेश्वरी ।।
अनुग्रहार्थं मर्त्यानां भूपतीनां कुदुंविनां ।
अ * *? ह पदस्थेन कर्तव्यो हितमिच्छता ।।
७८ब्)
कदाचिदप्रबंधेन यदि कुर्याद् विनश्यति ।
न क्षमंति बलोपेताः शिवयागेषु भाविताः ।।
नित्य * *? वीत भया भैरवाज्ञानुपालितः ।
आज्ञातास्ते प्रकुर्वन्ति मंत्रमुद्रा प्रयोगतः ।।
नात्मार्थं ते जिघां सन्ति तेन ते बलित स्मृताः ।
पुरा देव * *? वेन शिवेन परमात्मना ।।
सृष्टा ह्यनेन विधिना पिशाचानांतादिशोदश ।
तद्बलेन समाविष्टा जनिता बलवत्तराः ।।
प्रवृत्तास्ते महा * *? पूर्वं देवि जिघांसया ।
चतुर्दशविधं सर्गं भोक्तुं दृष्ट्वा स्वयंभुवा ।।
पूर्वं यतस्ततः सृष्टा मंत्राश्चामोघशक्तयः ।
सप्तकोट्यस्तु बलिनो ब * * *? ति पक्षतः ।।
ये दुष्टा जगतो घोरा जिघांसन्ति बलोत्कटा ।
तेषां हि शमनार्थाय जगतो रक्षणार्थाय च ।।
मंत्रौषधि क्रिया योगाच्छतषोथ * * * *? ।
७९अ)
आज्ञाताः परमेशेन तदर्थं वै प्रवर्तनं ।
मंत्रवादेषु सर्वेषु नाज्ञाभंगेषु नान्यथा ।।
तत्प्रभावाच्च बलिनो मंत्राश्चामोघशक्तयः ।
तद्वीर्या पूरि * * *? शेषा वर्णास्तु केवलाः ।।
मृत्युंजयं समाख्यातं सर्वमंत्रेश्वरः प्रभुः ।
न चास्य कश्चिन् मंत्रो वा विद्या चाज्ञानुलेपयेत् ।।
स्मरणाच्चपला * * * *? स्येव यथा मृगाः ।।
इति सर्वस्रोतसंग्रहसारे मृत्युदमृतीशविधाने जीवाकर्षयाद्यधिकार
द्वाविंशतिमः पटलः ।।
श्री * *? च ।।
मंत्राः किमात्मका देव किं स्वरूपास्तु कीदृशाः ।
किं प्रभावाः कथं शक्ताः केन वै संप्रयोजिताः ।।
शिवात्मकाश्च तदेव व्यापकाः शून्यरूपि *? ।
*? या कारणहीनत्वात् कथं तेषां हि कर्तृता ।।
अमूर्तत्वा कथं तेषां कर्तृत्वं चोपपद्यते ।
विग्रहेण विना कार्यं कः करोति विभो वद ।।
न दृष्टो ह्यशरी * * *? पकः परमेश्वरः ।
७९ब्)
शरीरेण यतो बद्धः कथं बद्धस्य कर्तृता ।
मलिनत्वादस्वतंत्रो लुप्तशक्तिर्विभाव्यते ।।
शक्तिहीनस्य कर्तृत्वं विरुद्धं सर्व वस्तुषु ।
एवं शिवात्मका मंत्राः कथं सिद्ध्यन्ति वस्तुतः ।।
अस्ति चेच्छक्ति रूपस्तु कस्य शक्तिश्च कीदृशी ।
शक्तिः किं कारणं देव कार्यं वा कस्य कीदृशं ।।
* * *? शक्तिमान् कश्चित् कस्य शक्तिर्विधीयते ।
स्वतंत्र्या न प्रसिद्ध्येत्तु विना सिद्धेन केनचित् ।।
असिद्धेन तु यत्सिद्धं तदसिद्धं प्रचक्षते ।
वस्तुशूते * *? चात्र शक्तिर्वै सिद्ध्यते क्वचित् ।।
शक्तिरूपास्तु ते मंत्राः केवलास्तु विपर्ययं ।
अथ वेदाणवामंत्रा विग्रहाकररूपिणः ।।
आत्म स्वरूपा व्या * *? बलिना बलिनो न हि ।
मलिनो मलिनस्यैव प्रक्षालयति कस्य कः ।।
न सिद्धाद्ध्याणवा मंत्रीः कैवलाः परमेश्वरः ।
तत्र तृयं विनासित्वं विरु * * *? संस्थितिः ।।
८०अ)
युक्तिरेवात्र कर्तव्या प्राणिनां हितकाम्यया ।
दृश्यंते बलिनो मंत्रा ह्यप्रधृष्याः सुरासुरैः ।।
सर्वानुग्रहकत्वेन सर्वदा सर्वगा हि *? ।
*? क्षेपतो महेशान संशयं तु वदस्व मे ।।
त्वत्तः परतोनान्यदस्ति कश्चिज्जगत्पते * ।
ब्रूहि सर्वं सुरेशान यदि तुष्टोसि मे प्रभो ।।
भगवानुवाच ।।
* *? थश्नो महागूढो न पृष्टोहं न केनचित् ।
चोदितास्तु मया सर्वे सर्वशास्त्रेषु सर्वदा ।।
न विंदन्ति विमूढात्मा मायदाच्छादितः सदा ।
तत्व त्रयं विना * * *? त्रे वक्तुं न युज्यते ।।
आस्तां ताव जगत्सर्वं तत्वं यावं न सिद्ध्यति ।
त्रितत्व निर्मितं सर्वं यत्किंचिदिह दृश्यते ।।
तत्व त्रयं विनादेवि न पदार्थो हि विद्य *? ।
स्मात्तत्त्व त्रयं सर्वं परं चापरमेव च ।।
शिवात्मकाः शक्तिरूपास्तथा मंत्राण चात्मकाः ।
तत्त्व त्रय विभागेन वर्तन्ते ह्यमितौजसाः ।।
परं सर्वात्मकं * * *? नाद्यं कारणं ध्रुवं ।
अप्रपंचमनिर्देश्य मनौपम्यमनामयं ।।
८०ब्)
निराभासं परं शान्तं सर्वामयविवर्जितं ।
व्यापकं सर्वतो भद्रं सर्वज्ञादि गुणै * *? ।।
ज्ञानघनसंपूर्ण स्वानंदानंदनंदितं ।
निरानंदं निर्विकल्पं निराचारं निरक्षरं ।।
अद्वैतं कल्पना हीनं चिद्व्यनं चिन्मलापहं ।
चिदचिद्व्यापकं * * *? त्योदितमनुत्तमं ।।
निर्विकारं परं नित्यं निर्मलं निरुपप्लवं ।
सर्वो *? मानरहितं सर्वभावविवर्जितं ।।
सर्वरूपं कलातीतं अचलशाश्वतं वि *? ।
* * *? त्व कलामंत्र भुवनाक्षरवर्जितं ।।
सर्वभूतांतरस्थं तु सर्वभूतेषु संस्थितं ।
सर्वे मंत्रास्तु तत्रस्था सर्वत्रांतर्गतं विभुं ।।
सर्वदं सर्वभावस्थं सर्व * * * *? वनं ।
हृदिस्थं सर्वभूतानां प्रेरकं सर्वजंतुषु ।।
न तेन रहितं किंचि दृश्यते सुरवंदिते ।
तस्मात् सर्वगतं विश्वं स एकः परमेश्वरः ।।
सर्वज्ञो * * * * *? तस्य बोधो ह्यनादिमान् ।
८१अ)
स्वतंत्रो लुप्तशक्तिश्चानंतशक्तिर्महेश्वरः ।
तस्य चेच्छा महेशस्य निर्विकल्पः कथंचन ।।
अमेयत्वादनादि त्वात् कथं * * *? लभ्यते ।
कार्यतो ह्यनुमानेन वस्तुतः परिभाव्यते ।।
कार्य तस्य परा शक्ति यथा सूर्यस्य रश्मयः ।
वह्नि ऊष्मेव विज्ञेया ह्यविना भाव तस्थि *? ।।
* * *? दकरी भद्रा शिवस्येच्छानुवर्तिनी ।
तद्धर्मधर्मिणी शान्ता नित्यानुग्रहशालिनी ।।
विवर्तमेतत्सर्वं हि तच्छक्तेनान्यतो भवेत् ।
सानंदा तु * * * *? निरानंदः परः शिवः ।।
सर्वज्ञादि गुणा ये च शिवस्य परमात्मनः ।
शाक्तास्तेनान्यतो दृष्टा ह्यन्यथानोपपत्तितः ।।
एकः शिवस्तथैका तु श * * * *? शाश्वती ।
अभिस्था द्वैतसंस्था च सैवैका सामुदायिनी ।।
इच्छारूपा शिवस्यैषा ह्यभिन्ना सर्वतोमुखी ।
किं चिदुच्छूनतापत्तिः सर्वज्ञादि गुणास्त *? ।।
८१ब्)
न रूपे तु सैवैका यदा बोधयतेखिलं ।
बोधो ह्यनादिमान्यत्तत्परं ज्ञानं तु सा स्मृता ।।
ज्ञानशक्तिरिति ख्याता सर्वज्ञादि गुणास्पदा ।
अस्वतंत्र * * *? सा क्रिया कारणरूपिणी ।।
वष्टरूपाष्ट भेदेन स्योटादि(?) ध्वनिरूपिणी ।
मातृका सा विनिर्दिष्टा कृपाशक्तिर्महेश्वरं ।।
क्रियाख्या परमा सा तु * * * *? य रूपिणी ।
एवं क्वतेति सा प्रोक्ता एकानान्य स्वभावजा ।।
स्वभावोत्था स्वभावा तु स्वास्वतः स्वोदिता शिवा ।
व्यतिरिक्ता न चैवैषा कर्तृ * * * * च्यते ।।
शिवस्य परिपूर्णस्य स्वतंत्रस्य विभोर्यतः ।
कः कर्ता क्षोभकः कोवा तस्या तद्वैतता शिवे ।।
यत्तस्य सर्वकर्तृत्वं सा शक्ति तुपचर्यते ।
* * * *? रुते सृष्टिं स्थितिं विलयसंहृती ।।
करोति भगवान् सर्वस्तिरोभावमनुग्रहं ।
क्रियाशक्त्या तु सृजते ज्ञानशक्त्या जगत्स्थितिं ।।
संहारं रुद्र * * * *? रो भावं तु मायया ।
८२अ)
अनुग्रहं तु ज्येष्ठाया कार्यते नामसंचयः ।
कृत्यं पंचविधं शंभो जगतो विद्यतेर्यतः ।।
क्रियया न विकल्प्यं तु सर्वं ज्ञास * * *? तं ।
यतस्ततः शक्तिरेषा शिवस्यैवानुमीयते ।।
आत्मा देवो ह्यनन्तश्च मलेनैव निरोधिताः ।
ते तु गृहीताः परया परमेशस्य चेच्छया ।।
* * * *? स्तथात्मा च त्रितत्वं वेद्यमुत्तमं ।
त्रिस्वरूपस्तथा देवो रुद्रोविष्णुपितामहः ।।
करोति षट्विधां सृष्टिं चतुर्भेदविभेदितां ।
थतनारकिति * * * * *? सुरमानुषात् ।।
जरायुजांडजा देवि तथा च स्वेदजोद्भिजात् ।
शक्त्या तु भगवान् सर्वं करोति विभु शक्तितः ।।
निमित्तकारणं देवो यथासु य * * *? या ।
उपादानं तु सा शक्ति चक्षुध्वा समवायतः ।।
यथार्क रश्मि संस्पर्शात् सूर्यकान्तो मणिर्महान् ।
तेजः प्रकुरुतेप्यर्थं उभाभ्यां नैव का * *? ।।
८२ब्)
यस्कान्तमणिर्दृष्ट्वा लोहः प्रकुरुते प्रिया ।
उभयोर्नैव कामोस्ति निमित्तं तु तथा पुनः ।।
सूक्ष्मत्वानोपलभ्येत यस्ताभ्यां प्रचोदकः ।
तादृक्स्व * * * *? तो नान्त भूतोन्तकारणं ।।
उपादानं तु सा शक्ति सर्वत्रैव विभाव्यते ।
यथा सर्वं सुनिष्पन्नं कृयाशक्त्या प्रदृश्यते ।।
क्षोभ्यक्षोभकभावं तु प्रत्य * * * *? र्हरिन् ।
पार्श्वांतं समवायं तु कारणं तु विदुर्बुधाः ।।
अकामतः सृजेत्सर्वं शक्त्यासर्वं चराचरं ।
एवमुक्तेन विधिना मंत्राः सर्वेन्त्रितत्त्वजाः ।।
* * *? शक्तिरूपाश्च तथैवात्म स्वरूपकाः ।
त्रिस्वभावाः समुद्दिष्टा सर्वत्र बलशालिनः ।।
भवन्ति सर्वदाः सर्वे सर्वगासर्वरूपिणः ।
शिवो ह्यनादि * * * * *? तः प्रथमो बलः ।।
इच्छया तु यदा देव प्रसरंत्यविलंबितः ।
सा शक्तिः परमासूक्ष्मा उन्मना शिवधर्मिणी ।।
अस्तित्वमात्रमात्मानं क्षो * * * * *? यदा ।
८३अ)
समना सा विनिर्दिष्टा शक्तिः सर्वाध्ववर्तिनी ।।
क्रोडी करोति या विश्वं संहृत्य सृजते पुनः ।
कौंडिल्याख्या महाशक्तिस्तृतीया ह्यु * * * *? ।।
रूपं द्यदास्फोटं अदृष्टं शिवविग्रहं ।
प्रसरत्यति वेगेन ध्वनिना पूरयेज्जगत् ।।
सनादो देवदेवेशः प्रोक्तश्चैव सदाशिवः ।
ध्वनि र * * * * *? विश्रमत्यनुरोधतः ।।
निरोधीनामविख्यात सर्वे देव निरोधकः ।
निरुद्धस्य महेशत्वं अभिमानं प्रवर्तते ।।
असंख्यातास्तु कोट्यो वै * * * * * *? स्थिताः ।
लभंतेत्र प्रविष्टा ये तद्विंदुं चेश्वरं स्मृतं ।।
यदाशिवामृतं मूर्द्ध्नि पतते सृष्टिकारणं ।
आप्यायं भवते तेन सोर्द्धचंद्र इति स्मृतः ।।
* * * *? र्व वर्णानां सृष्टिकारण एव च ।
मकारो ह्यत्र वै रुद्रो वर्णसंघट्ट उत्तमः ।।
यदा स्थितं तु लभते सोन्मुखं सृष्टिकारणं ।
प्रतिष्ठाख्यो ह्यका * * * *? साक्षाद्भवत्यसौ ।।
८३ब्)
निवृत्तिस्तु यदा सर्वं निष्पन्नं प्रणवं विदुः ।
उंकाराख्यं परं वाम ब्रह्मासौ कमलासनं ।।
मंत्रसृष्टिर्भवेदेषा शिवस्य परमा * *? ।
* *? ष्टविधभेदेन वर्णपंचाशरूपिणी ।।
ज्ञानशक्तिः परासूक्ष्मा मातृकांतं विदुर्बुधाः ।
सायोनिः सर्वमंत्राणां सर्वमात्रारणि स्थिता ।।
जुहो * * * * *? लं सामृतं सृष्टि संयुतं ।
तेनासौ देवदेवेशो ह्यमृतेशः परापरः ।।
मृत्युरुत्तारयेद् यस्मात् मृत्युजित् तेन कथ्यते ।
भरणात् प्रकृ * * * *? भैरव इति स्मृतः ।।
एवमाद्या स्मृता मंत्राः सर्वेहामृत तेजसः ।
अधिकारं प्रकुर्वन्ति सर्वस्य जगतो प्रिये ।।
मोचयन्ति हि संसाद्यो ज * * * * * *? वे ।
मननत्राणधर्मित्वा तेन मंत्रा इति स्मृताः ।।
तस्मात् सर्वगता मंत्राः सर्वदास्तित्रितत्वजाः ।
शिवशक्त्यात्मरूपास्तु नित्यानुग्रह श * *? ।।
* * *? क्ति प्रभावाश्च शिवदा शिवहारिकाः ।
८४अ)
ज्ञातमात्रा हि फलदा भोगमोक्षप्रदायकाः ।
यत्तेषां सर्वदेवित्वं सर्वशक्तित्वमेव च ।।
तच्छिव * * * * *? शक्तित्वं सर्वकर्तृता ।
सर्वानुग्रहकर्तृत्वं सर्वत्र फलदायकं ।।
आत्मत्वे यत्स्वरूपं तु त्रिविधं साधनं स्मृतं ।
मंत्रध्यानं तथा मुद्रा सा * * * * * *? तं ।।
दीक्षामंडलसंस्कारं यजनं तपनं तथा ।
होमक्रिया तथा लेख्यं ध्यानं धारणयोः क्रिया ।।
मुद्राबंधस्तथा योगो यजनं तु कृ * * *? ।
* *? मंत्राः समाख्याताः सर्वत्रैवाधिकारिणः ।।
इति सर्वत्रस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने मंत्रविचारवर्णनो
नाम त्रयोविंशतिमः पटः ।।
श्रीदेव्युवाच ।।
असंख्यातास्तु कोट्यावै मंत्राणाममितौजसां ।
उक्ता देवेन सर्वज्ञाः सर्वदाः सर्वगाः शुभं ।।
८४ब्)
* * *? र्वेश्वराः शक्ताः सर्वत्रैवाधिकारिणः ।
तेषामेवेति सर्वेषां कथमप्यधिको बली ।।
मंत्रराद्यरमेशानः कथं मृत्युंजयः परः ।
स * * * *? मुत्पन्नं हृदि देव वदस्व मे ।।
पूर्वोक्तं मंत्रसद्भावं हृदं देवे नामकं ।
तदश्रोतुमिच्छामि परां कोतूहलं हिमे ।।
भगवानुवाच ।।
श्रूयतां * * * *? मि संशयं मे हृदि स्थितं ।
मंत्रकोट्या ह्यसंख्याताः सर्वे सर्वाधिकारिणः ।।
शिवशक्तिप्रभावाच्च सर्वशक्तिसमन्विताः ।
भोगमोक्ष * * * * *? शक्तिबलबृंहिताः ।।
किंतु देवि परः शान्तो ह्यप्रमेयो गुणान्वितः ।
शिवः सर्वात्मकः शुभ्रो भावग्राह्यो ह्यनुत्तमः ।।
आश्रयः परमस्तेषां * * * * *? मेश्वरः ।
तदिच्छया समुत्पन्ना तं च्छक्त्यासंप्रचोदिताः ।।
भवन्ति फलदाः सर्वे सर्वेत्रैवाधिकारिणः ।
यदे तत्परमं धाम सर्वेषामालय * *? ।।
८५अ)
* * *? वसमुत्पन्ना मंत्राश्वामोघशक्तयः ।
नित्यो नियामको ह्येषां नेता च निरनुप्लवः ।।
निष्प्रपंचो निराभासोस्त्रायकः कारणः शिवः ।
त्र * * * * * * *? तारणं तु स्वचेतसा ।।
नयते मोक्ष भावं तु तारयेन् महतो भयान् ।
नयनाश्च तथा भ्राणा नेत्रमित्यभिधीयते ।।
जीवनं सर्वभूतेषु नेत्रभूतं * * * *? ।
* *? स्त मंत्रजातस्य स्वामिवत्परमेश्वरः ।।
प्रणवं प्राणिनां प्राणं जीवनं संप्रतिष्ठितं ।
गृह्नाति प्रणवं सर्वं कलाभिः कलयेच्छिवं ।।
षट्प्रकारं म * * * * * *? र पदे स्थितं ।
जुहोति विद्यया सर्वं जुंकारेण प्रबोधितं ।।
स्वरूपं यत्स्वसंवेद्यं सम्यक्संतृप्तिलक्षणं ।
सर्वामृत पदाधारं सविसर्गं परं शिवं ।।
* * * * * *? तेन पूर्णाहुत्या तु मूलया ।
स्वाचारया स्वभावस्था स्वस्वरूपा सदोदिता ।।
इच्छाज्ञानक्रियारूपा या चैका शक्तिरुत्तमा ।
तया प्रकुरुते * * * * *? त्स शिव स्मृतः ।।
८५ब्)
उद्गीथाक्षरसंयुक्ता तत्त्ववर्णपदात्मकं ।
भुवनानि कलामंत्राः कारणानि षडेव तु ।।
ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः(?) ।
* *? श्चेति स्वशक्त्या तु षट्त्यागात् सप्तमे लयः ।।
अकारश्च उकारश्च मकारो बिंदुरेव च ।
अर्द्धचंद्रनिरोधी च नादोनादान्त एव च ।।
कुंडली व्यापि * * * * * *? तस्तु सा मया ।
निष्कलं चात्म तत्वं तु शक्तिश्चैव तथोन्मना ।।
सा भासंतं निराभासं परतत्वमनुत्तमं ।
षट्त्यागात् सप्तमं प्रोक्तं लयमाल * * * *? ।।
* * *? र्वे प्रलीनास्तु तत्समास्तत्प्रसादतः ।
यच्छक्ति बृंहिताः शक्ताः परिपूर्णा भवन्ति हि ।।
क्रमस्तेषां प्रवक्ष्यामि यथा लीयन्ति सुंदरि ।
अकारं * * * * * * *? तं यावदध्वनः ।।
कलाष्टकेन संयुक्तं कलयेत् सर्वं जंतुषु ।
सिद्धिरिद्धि द्युतिर्लक्ष्मी मेधाकान्तिर्धृतिः सुखं ।।
सद्या ब्रह्म कला जाते * * * * *? संस्थितं ।
८६अ)
रजोरक्षारतिः पाल्याङ्कम्पातृष्णामतिः क्रिया ।
वृद्धि माया च रात्री च भ्रामणी मोहनी तथा ।।
मनोन्मनीति विख्याता वाम दे * * * * *? ।
कंठान्तं यावत् स्वप्नस्था विष्ण्वंशे तु स्थिता इमाः ।।
तमो मोहा क्षुधा निद्रा व्याधिमृत्युभयाजरा ।
अघोरस्य कला ह्येता रौद्रांशे तु व्य * * *? ।।
* * *? यावत्सौषुप्तं तैजसी व्याप्तिरुत्तमा ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ।।
पुरुषस्य कला ह्येता ईश्वरे तु व्यवस्थिताः ।
वाद्याव(?) * * * * * * *? तं यावद्रज्वलाः ।।
शान्तावस्था तु तुर्याख्या नादाख्या संप्रचक्ष्यते ।
व्याप्तिः सदाशिवे सान्त व्योमाख्या शून्यरूपिणी ।।
वारासुतारातर * * * * * *? तारणी ।
द्वादशान्त पदारूढा तुर्यात्तान् रश्मिवस्मृता ।।
ईषानस्य कलाह्येता पंचैवं कारणात्मिका ।
स्थूलमेतत्समाख्यातं ब्रह्माणं * * * * *? ।।
८६ब्)
*? क्ष्ममेव मनोवक्ष्ये ह्यध्वानै तु यथा स्थितं ।
यदर्द्धचंद्र कथितं प्लावितं बिंदुमूर्द्धनि ।।
शक्त्यामृतं तदुदिष्टं कलायुक्तं महेश्वरि ।
ज्योत्स्ना * * * * * *? सुप्रभाविमलाशिवा ।।
अर्द्धचंद्रकला ह्येताः सर्वज्ञः परसंस्थिताः ।
विद्यावरणसंवद्धा मंत्रकोटिविभूषिताः ।।
क्रियाशक्ति स्व * * * * * *? विमलाः शुभाः ।
बंधुनी रोधनी रौद्री ज्ञानबोधा तमोपहा ।।
निरोधिका कला ह्येताः सर्वदेव निरोधिकाः ।
नित्य तृप्ता महाभागा व * * * * * *? काः ।।
इंधिका दीपिका चैव रोचिका मोचिका तथा ।
ऊर्ध्वगामिन्य इत्येताः कलानादसमुद्भवाः ।।
एता स्वतंत्रता युक्ताः सकले नि * * * *? ।
*? न शक्ति स्वरूपास्तु ज्ञाताः सर्वज्ञदायिकाः ।।
सूक्ष्मा चैव सुसूक्ष्मा च अमृतामृतसंभवा ।
व्यापिनी चैव विख्याता शक्तितत्वं समा * * *? ।।
८७अ)
* * * *? क्ति संबद्धाश्चिच्छक्त्यासनवेष्टिता ।
शक्ति तत्वे स्थिता ह्येताश्चिन्मात्रावधिलक्षिताः ।।
व्योपिनीव्योमरूपा च अनन्तानाथसंज्ञि *? ।
* * * * *? हेशानि व्यापिन्यस्तु कला स्मृता ।।
सर्वज्ञा सर्वदा भद्रा सादनास्पृहणा धृतिः ।
समना चेति विख्याता एताः शिव कला स्मृताः ।।
इच्छा * * * * * *? इच्छाशक्तिप्रदायिकाः ।
शिवतत्वं समाश्रित्य सुसंपूर्णार्णव प्रभा ।।
अनन्तशक्ति सस्थाना सूक्ष्मश्चात्यन्तनिर्मलाः ।
समनान्तं वरा * * * * * *? मनन्तकं ।।
षट्कारण पदाक्रान्तं स्थूलं सूक्ष्मं प्रभेदतः ।
शक्त्यादि समनान्तं हि सूक्ष्मविज्ञान गोचरं ।।
तदूर्ध्वे तु पराशान्तं अप्रमेय मनामयं(?) ।
* * * * * * *? विज्ञात्वा मोचयते गुरुः ।।
तत्रासौ निर्मलो ह्यात्मा स्वशक्त्याधारसंस्थितः ।
ज्ञानक्रियासमाविष्ट चिन्मात्रो निरनुप्लवः ।।
सर्वभाव पदां * * * * * *? विवर्जिताः ।
८७ब्)
निर्मलस्फटिकाकार स्वात्म आत्म व्यवस्थितः ।
तत्रस्थस्य च या शक्ति तस्यानुग्रहकारिणी ।।
यावन्न भवते देवि तावदात्मा शिवाना(?) *? ।
* * * * *? ना शुद्धकमलं नार्करश्मिभिः ।।
यावन्नाद्भासितं सर्वं तावदीशन् प्रविस्तरं ।
यथार्क रश्मि संयोगात् कमलं प्रसरे क्षणात् ।।
शिवशक्त्या तथा * * * * * * * *? शिवः ।
सर्वज्ञादि गुणैर्युक्तो भवते च शिवो यथा ।।
निराभासः परः शान्तः अप्रत *? मनुत्तमं ।
यावन्न पूर्णतां प्राप्लस्तावत्साभास(?) उच्यते ।।
य * * * * * * * *? क्त्यात्मा वै प्रसारितः ।
ततः प्रसर रश्मि(?) वा? गृहीतस्तु परस्सदा(?) ।।
शि * * * *? देवेशि *? विभागेन? सर्वशः ।
एवं ज्ञातु मंत्राणां मंत्रत्वं कुरुते सदा ।।
* * * * *? स्तः सर्वे भागमोक्षफलप्रदा ।
न विंदेत यदा मंत्री सृष्टिसंहारकारिणी ।।
उदयास्त स्वरूपेण मंत्रा ह्यल्प फलप्रदाः ।
भोगमोक्षं नवच्छन्ति(?) जप्ता(?) ध्या? * * * * *? ।।
* *? त्फलं प्रयच्छति शिवाज्ञासंप्रचोदिताः ।
यदा तु विंदते मंत्री उत्पत्ति स्थिति संहृतीः ।।
उदयास्त *? रूपेण मंत्राणां ममितौजसां ।
ईषत्फलं * * * * * * * *? विदायिनः ।।
८८)
सन्मुखाश्च भवंत्येते साधकस्य भवंति हि ।
एवं शिवाज्ञया विष्टाः शिवीभूताः शिवप्रदा ।।
भवन्ति विगता यासा निर्दोषा * * * * *? ।
* *? स्यास्य प्रभावेन शिवस्य परमात्मनः ।।
अमृतेशस्य देवस्य मृत्युजिद्भिरवस्य तु ।
परापरविभेदं च यो विंदत्यस्य सर्वशः ।।
सोचिरादमृ * * * * * *? न्नात्रसंशयः ।
ये प्रपन्नास्य मंत्रस्य कृतकृत्या भवन्ति ते ।।
येन येन हि भावेन यद्यत्फलजिगीषया ।
यद्यदा श्रयते भक्त्या तत्तत्फलमवाप्नुयात् ।।
* * * * *? माख्यातं मया तुभ्यं न चान्यथा ।
यदाहं चोदितो देवि सर्वानुग्रहकारकः ।।
गूहप्रश्नेन तत्सर्वं मया ते प्रकटीकृतं ।
इति संक्षेपतः प्रोक्तं * * * * * * * *? ।।
न देयं पापशीलानां क्रोधिनां कामिनां तथा ।
गुरु निंदा परानां च देवमंत्रविदूषिणां ।।
नास्तिकानां शठानां च कृयाधर्म बहिष्कृतं ।
देयते * * * * * * *? पुत्राभ्यां च नान्यथा ।।
८९)
स्वदीक्षितानां भक्तानां गुरुदेवाग्नि पूजनं ।
विना समय दीक्षां वै न दद्यात् सु पृयस्य च ।।
सर्वथा नैव दात्तव्यं * * * * * * * *? ।
आज्ञाभंगेन देवेशि देहपातो भविष्यति ।।
ददाति यदि मोहेन स्नेहेन धनलिप्सया ।
गच्छते नरकं घोरमित्याज्ञापारमेश्वर ।।
* * * * * *? शस्य पालनात् सिद्धिमाप्नुयात् ।
पलनाच्च भवे देवि मृत्युजित् परमेश्वरः ।।
इति मृत्युजिदमृतीशविधाने मंत्रमहात्म्य * * * *? चतुर्विंशतिमः पटलः ।।
समाप्तमिदं मृत्युजिदमृतीशविधानं संपूर्णमिति शुभम् ।।
संवत् ३२० चैत्रशुदि शनि दिवे * * * * * * *? विश्वेश्वर लिखापितमिदं
पुस्तकं ।। पंडितकीर्तिधर लिखितं मया ।। ओं नमः शिवाय ।। ओं नमो
भगवते वासुदेवाय ।।
</poem>
[[वर्गः:तन्त्रग्रन्थाः]]
qobzvbi9x5g6ht9ne19oyt7jgfoadv5