विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.4
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
गौड़राज्ञाम् अभिलेखानि/प्रथम शूरपालस्य मिर्ज़ापुर ताम्रशासनम्
0
120991
415942
325582
2026-05-30T05:00:36Z
Hrishikes
1376
415942
wikitext
text/x-wiki
{{शीर्षकम्
| शिरोनाम = [[../]]
| ग्रन्थकर्ता =
| अनुवादकः =
| ग्रन्थारम्भः =
| अध्यायः = '''प्रथम शूरपालस्य मिर्ज़ापुर ताम्रशासनम्'''
| पूर्ववर्ती = [[../महेन्द्रपालस्य जगज्जीवनपुर ताम्रशासनम्/]]
| परवर्ती = [[../द्वितीय गोपालस्य सुवर्णकारिका-दण्ड ताम्रशासने/]]
| वर्षम् =
| टीका = राज्ञः प्रथम शूरपालस्य ३ राज्याङ्के (आ॰ ८६३ खृ॰) सामन्ताभ्यां दक्कदासेन वैरोचनदासेन च उत्कीर्णम् ।<p>पूर्वप्रकाशितानि पाठानि:<p>{{gap|4em}}१. सरकार, दीनेशचन्द्र, ''Lucknow Museum Copper-Plate Inscription of Surapala I, Regnal Year 3'', Epigraphia Indica, Vol 40, 1973-74, pp. 4-16.<br>{{gap|4em}}२. चट्टोपाध्याय शास्त्री, अशोक, मिर्ज़ापुर ताम्रशासनोपरि निबन्धम्, पाल अभिलेख संग्रह, १९९२
| प्रवेशद्वारम् =
}}
{{c|[[सञ्चिका:Mirzapur Copper Plate of Śūrapāla I Obverse.jpg|400px]]<br>सम्मुखभागम्}}
{{dhr}}
{{c|[[सञ्चिका:Mirzapur Copper Plate of Śūrapāla I Reverse.jpg|400px]]<br>पश्चाद्भागम्}}
{{block center|<poem>
सिद्धं स्वस्ति ॥
श्रीमद्-गोपाल-वंशोज्ज्वल-तिलकतया ख्यातिमान् सार्वभौमो बिभ्रद्-वीर्यम्-बलञ्च प्रशमित-विषमोद्दाम-कन्दर्प-दोषः ।
शंसन्-नित्यं प्रजानां करम्-उभय-करं दर्शयन् धर्म-मार्गं श्रीमान् सर्वार्थसिद्धो जयति जिनवरः शूरपालश्च देवः ॥ (१)
श्रीमान् गोपाल-नामा धवल-निज-यशो-धौत-दिक्चक्रवालः क्ष्मापालः शेष-कल्प-प्रबल-भुज-शिलास्तम्भ-विश्रान्त-विश्वः ।
आसीद्-यस्य प्रयाणे स्व-बल-पद-भरोद्धूत-धूली-निरोधाद्-उष्णांशुः प्रोषितोष्मा शशि-रुचिरकरोज्-जागरूकान्-उलूकान् ॥ (२)
राज्ञां प्रणाम-सुहृदां मुकुटारुणाश्म-रश्मिच्छटा-परिचय-व्यतिकीर्ण-वर्णाः ।
यस्माद्-विनिर्मल-नख-द्युतयः स-वृन्त-शेफालिका-कुसुम-शेखरताम्-अवापुः ॥ (३)
लक्ष्मी-जन्म-निकेतनं स-मकरो वोढुं क्षमः क्ष्माभरं पक्षच्छेद-भयाद्-उपस्थितवताम्-एक-आश्रयो भूभृताम् ।
मर्यादा-परिपालनैक-निरतः शौर्यालयोऽभूत् सुतस्तस्याम्भोधि-विलास-हास-महिमा श्री-धर्मपालो नृपः ॥ (४)
सद्-धर्मोऽयमिति क्वचित्-क्वचिद्-अयं धर्मः खरारेरिति शम्भोर्धर्म इति क्वचित्-क्वचिद्-अयन्धर्मो मुरारेरिति ।
प्रव्रज्या-प्रतिपन्नम्-अप्यनुदिनं यन्-नाम-वर्ण-श्रुतैः प्रौढ़ाराति-कदम्बकम्-भय-चलच्छेतो न लेभे धृतिम् ॥ (५)
अम्भोधीनां प्रकृति-धवला फेन-राजिश्चतुर्णां शत्रु-स्त्रीणां वदन-कमल-प्लोष-नीहार-वृष्टिः ।
पातालान्तर-द्विगुणित-फणि-ग्रामणी-काय-कान्तिः कीर्तिर्यस्य प्रसरति जगत्-पञ्जरे राजहंसी ॥ (६)
कालोऽस्मिन्-गमितो जरा स्मर-जिता बाणो गणोऽस्मिन्-कृतो विष्णुः कंसम्-इहावधिन्-निहितवान्-भीमोऽत्र दुःशासनम् ।
रामः सेतुमिहाकरोदिति जयन्नाशाः पराक्रम्य यः सूत-श्रावित-सत्कथायतिकरो देशान्-अपश्यद्-बभून् ॥ (७)
ये स्वीकुर्वन्ति शौरेः श्वसित-परिमलं योग-निद्रा-शयालो यैश्चक्रे चण्ड-वेला-वलन-कलकलः कन्दरे मन्दराद्रेः ।
येऽभूवन् स्फार-लक्ष्मी-नयन-कुवलय-स्रग्विनस्ते तरङ्गाः क्षीराब्धेर्याचमानाः श्रम-जलमपिबन्-स्वानीलैः शीकरार्द्रैः ॥ (८)
प्रेयस्-सत्यमनन्त-भोग-निलयं गोपाल-धर्म-क्रम-प्राप्ताङ्गाम्-परिपालयन्तम्-अजितं स प्राप लक्ष्मी-पतिः ।
श्रीमत्-पाद-नखेन्दु-दीधिति-भरोदन्वन्-निमग्नाखिल-क्षोणीभृन्-मुकुटान्त-पत्र-मकरं श्री-देवपालं सुतम् ॥ (९)
श्वासस्ताण्डवित-श्लथालक-शिखाः शेते कपोल-स्थली-तल्पे पाणिमये स्तनौ स्तबकयन्त्यक्ष्णोरपाम्-बिन्दवः ।
चेतः प्राण-विसृष्टये स्पृहयत्-इत्याच्छादित-स्वामिनो यद्-वैरि-प्रमदा-जनस्य न कदाप्येषा दशा प्रोषिता ॥ (१०)
निर्भर-भरित-विहायसि यद्-यशसि क्षण-मदीधरत्-तुरङ्गान् ।
क्षीरोद-तरण-शङ्का-समाकुलः सारथिस्तरणेः ॥ (११)
यो जातरूपमयम्-आयतनं जिनस्य जाम्बूनदादि-शिखर-प्रतिपक्ष-लक्ष्मी ।
नेपालनाथ-विजयी विदधे सुवर्ण-द्वीपाधिप-प्रणति-लम्भित-तुङ्ग-कीर्तिः ॥ (१२)
आ-विन्ध्यात् शवरी-रातोत्सव-सुहृद्-वङ्गी-वन-श्यामलात् आ-प्रालेय-गिरेरुमा-स्मित-सुधा-स्रोतः-प्लुताधित्यकात् ।
आ-सूर्योदय-साक्षिणो जलनिधेः सारस्वतीनाम्-अपां पूर्णाद्-आ च यद्-अङ्घ्रि-पङ्कज-युगे भृङ्गत्वम्-आपुर्नृपाः ॥ (१३)
श्रीमद्-दुर्लभराज-राजतनया श्री-माहटाख्याभवद्-देवी तस्य कर-ग्राह-प्रणयिनी श्लाघ्या द्वितीयेव भूः ।
प्रत्येतव्य-पतिव्रता-गुणकथाः शैलात्मजारुन्धती सावित्रीरपि या चकार चरितैः पुण्यामृत स्यन्दिभिः ॥ (१४)
आर्याम्-असौ राम-पराजितां सतीं जयानुजाताम्-अथ सर्व-मङ्गलाम् ।
सद्-गोत्र-जन्मां सुभगां सदाशिवो यां प्राप्य सोऽभूत्-परमेश्वरः सुखी ॥ (१५)
नाप्नुवन्ति गतिं यस्या मनोरथ-शतैरपि ।
दान-धी-कीर्ति-चारित्र्य-सत्येष्वन्याः कुल-स्त्रियः ॥ (१६)
पुत्त्रस्ताभ्यां शिवाभ्यामिव जगति गतः स्वामिभावात्-प्रतिष्ठाम्-उर्वीभृद्-गर्व-खर्वीकरण-पटुतरां शक्तिम्-उग्रान्-दधानः ।
देवानां भीतिभाजाम्-अभय-वितरणैकाध्वर-प्राप्त-दीक्षो देवः श्री-शूरपालः किम्-अपरम्-अपरोऽभून्-महासेन एव ॥ (१७)
माया-मूल-गृहं पुराण-पुरुषं क्रोड़ाननं वामनं नित्योदीर्ण-गदं विनायक-युतं दिव्याङ्गनालोकितम् ।
पश्यन्त्या बहु सेर्षयमेव हि हरिं त्यक्त्वा विरागादिव श्रीमद्-योवन-रूप-सद्गुण-तृषा देव्या श्रीयाश्लेषितः ॥ (१८)
प्रस्थाने यस्य सेना-भर-विधुर-धरा-भार-निर्भुग्ण-भोग-श्राम्यत्-शेषाहि-मुक्ता विष-शिखि-परुष-श्वास-धूमच्छटेव ।
उद्गच्छन्ती समन्ताद्-बहल-विल-पथैर्व्याप दिक्चक्रवालं तत्-कालोन्मीलिताश्मा जरठ-भर-खरा धूसरा धूलि-लेखा ॥ (१९)
यस्य निस्त्रिंश-पानीये नीलोत्पल-वनोज्ज्वले ।
निमज्य राजहंसानाम्-उन्ममज्ज पुनः कुलम् ॥ (२०)
प्रालेयांशोः प्रशमित-मृग-श्यामिकैरानयद्भिर्लक्ष्मीं क्षीरोदधि-हिमवतोः शेष-सिन्धु-क्षिति-धराः ।
नागो मूर्ध-प्रतत-पलित-भ्रान्तिभिर्यद्-यशोभिः प्राग्-भूपानां वत मणि-निभाः कीर्तयः कुन्द-भासः ॥ (२१)
अन्तर्व्योम-समुद्रम्-और्व-शिखिनः काष्ठां समारोधता यस्य व्याप्त-दिशा द्विषन्-नृपतयस्तप्ताः प्रतापोष्मना ।
भेजुः सान्द्र-सुगन्धि-चन्दन-वनच्छाया-पथ-श्यामलान् उत्सङ्गान्-मलयस्य सन्तत-हिमान् प्रालेय-शैलस्य च ॥ (२२)
यस्यासि-कृत्त-रिपु-कुञ्जर-कुम्भ-पीठ-निष्ठ्यूत-मौक्तिक-सटाः समरे विरेजुः ।
लाजा इवाखिल-जगज्जयिनो जयश्री पाणि-ग्रह-प्रकरणावसरे विकीर्णाः ॥ (२३)
आ-विन्ध्याद्-दन्ति-दन्त-क्षत-विषम-शिला-शीर्ण-रेवा-तरङ्गात् आ-कैलासाद्-दशास्य-प्रकट-भुज-बल-क्षोभ-विस्रस्त-शक्तेः ।
आ शैलाभ्याम्-उभाभ्याम्-अशिशिर-किरणोत्पत्तिपातास्पदाभ्याम्-आज्ञाम् यस्योत्तमाङ्गैः स्रजमिव बिभराञ्चक्रिरे भूमिपालाः ॥ (१४)
</poem>}}
स खलु भागीरथी-पथ-प्रवर्तमान-नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैल-शिखर-श्रेणि-विभ्रमात् । निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासर-लक्ष्मी-समारब्ध-सन्तत-जलद-समय-सन्देहात् । उदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खर-खुरोत्खात-धूली-धूसरित-दिगन्तरालात् । परमेश्वर-सेवा-समायाताशेष-जम्बूद्वीप-भूपालानन्त-पादात-भर-नमदवनेः । श्री-मुद्गगिरि-समावासित-श्रीमज्जयस्कन्धावारात् परमसौगत-परमेश्वर-परमभट्टारक-महाराजाधिराज-श्री-देवपालदेव-पादानुध्यातः परमसौगतः परमेश्वरः परमभट्टारकः महाराजाधिराजः श्रीमान् शूरपालदेवः कुशली ॥ श्रीनगर-भुक्तौ । क्रौञ्चधानक-विषयान्तःपाति-अङ्गारगर्तिका-ग्राम । देवराष्ट्र-वैषयिक-वासन्ती-ग्राम । कुलपुत्र-ग्राम । कल्मषनाशपार-वैषयिक-नवल्लिका-ग्रामेषु ॥ समुपगतान् । अशेष-राजपुरुषान् । राजनक-राजपुत्र । राजामात्य । महासामन्त । महासेनापति । महासान्धिविग्रहिक । महाक्षपटलिक । महाप्रतीहार । महाकार्ताकृतिक । महादौःसाध्यसाधनिक । महादण्डनायक । महाकुमारामात्य । राजस्थानीय-उपरिक । दशपराधिक । चौरोद्धरणिक । दाण्डिक । दण्डपाशिक । शौल्किक । गौल्मिक । क्षेत्रप । प्रान्तपाल । कोट्टपाल । खण्डरक्ष । तदायुक्तक । विनियुक्तक । हस्त्यश्वोष्ट्र-बलव्यापृतक । किशोर-वड़व-गो-महिष्यजाविकाध्यक्ष । दूत-प्रेषणिक । गमागमिक । अभित्वरमाण । विषयपति । तरिक । गौड़-मालव-खश-हूण-कुलिक-कर्णाट-लाट-चाट । भट-सेवकादीन्-अन्यांश्चाकीर्तितान् । राज-पादोपजीविनः प्रतिवासिनो ब्राह्मणोत्तरान् । महत्तम-कुटुम्बि । मेदान्ध्र-चण्डाल-पर्यन्तान् यथार्हं मानयति बोधयति समादिशति च । विदितमस्तु भवताम् । महादेवी-श्री-माहटा-भट्टारिकया दूतक-मुखेन वयं श्रावितः यथास्मद्-वाराणसीय-श्री-माहटेश्वरस्य । अङ्गारगर्तिका-वासन्तिका-ग्रामौ । तथा अस्मद्-अभिप्रेत-शैवाचार्य-पर्षदः । कुलपुत्रक-नवल्लिका-ग्रामौ च अस्मत्-पुण्य-यशोऽभिवृद्धये । पूजा-सत्राद्यर्थं शासनीकृत्य श्रीमान् महाराजो ददात्विति तच्छिष्य-प्रशिष्येभ्यश्च । अतोऽस्माभिस्तदीय-श्रावणिकया एते ग्राम यथोपरिलिखिताः स्व-सीमा-तृण-युति-गोचर-पर्यन्ताः स-तलाः सोद्देशाः साम्र-मधूकाः स-जल-स्थलाः स-गर्तोषराः सोपरिकराः । स-दशापराधाः स-चौरोद्धरणः परिहृत-सर्वपीड़ा अ-चाट-भट-प्रवेशा अ-किञ्चित्-प्रग्राह्याः समस्त-राजभाग-भोग-कर-हिरण्यादि-प्रत्याय-समेता भूमिच्छिद्र-न्यायेन । चन्द्रार्क-क्षिति-सम कालं तस्मै तस्मै दत्ता इति । मत्वा चैवं भवद्भिर्दानम्-इदम्-अनुमन्तव्यम् भाविभिरपि भूपतिभिर्भूमेर्दान-फल-गौरवादपहरणे महानरकपात-भयाच्च दानम्-इदम्-अनुमोद्य परिपालनीयं प्रतिवासिभिः क्षेत्रकरैश्चाज्ञा-श्रवण-विधेयैर्भूत्वा समुचित-सर्व-प्रत्यायोपनयः कार्य इति । संवत् ३ आश्विन-शुदि २ ॥ तथा धर्मानुशंसन-श्लोकाः ॥
{{block center|<poem>
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (२५)
षष्टिं वर्ष-सहस्राणि स्वर्गे मोदति भूमिदः ।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत् ॥ (२६)
स्वदत्ताम्-परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायाङ्कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (२७)
इति कमल-दलाम्बु-विन्दु-लोलां श्रियमनुचिन्त्य मनुष्य-जीवितञ्च ।
सकलम्-इदम्-उदाहृतञ्च बुद्ध्वा न हि पुरुषैः परकीर्तयो विलोप्याः ॥ (२८)
अस्मत्-कुल-क्रमम्-उदारम्-उदाहरद्भिरन्यैश्च दानम्-इदम्-अभ्यनुमोदनीयम् ।
लक्ष्म्यास्तड़ित्-सलिल-बुद्बुद-चञ्चलाया दानं फलं पर-यशः-परिपालनञ्च ॥ (२९)
यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थ-यशस्कराणि ।
निर्माल्य-वान्त-प्रतिमानि तानि को नाम साधुः पुनराददीत ॥ (३०)
श्रीमान् श्री-शूरपालेन नृप-चन्द्रमसा कृतः ।
हरिर्युधिष्ठिरेणेव बलवर्मात्र दूतकः ॥ (३१)
नि नि [= निबद्ध/निरीक्षित]
उत्कीर्णमिदं शासनं सामन्त-दक्कदास-वैरोचनदासाभ्याम् ॥
</poem>}}
'''छन्दांसि'''
{|
|१, २, ८, १७, १९, २४ || स्रग्धरा
|-
|३, १२, २३, २९ || वसन्ततिलका
|-
|४, ५, ७, ९, १०, १३, १४, १८, २२{{gap}} || शार्दूलविक्रीड़ित
|-
|६, २१ || मन्दाक्रान्ता
|-
|११ || आर्या
|-
|१५ || उपजाति
|-
|१६, २०, २५-२७, ३१ || अनुष्टुभ्
|-
|२८ || पुष्पिताग्रा
|-
|३० || इन्द्रवज्रा
|}
dbnkfifusllfkgvhrf28xbf91uz2vs7
415943
415942
2026-05-30T05:08:26Z

|३, १२, २३, २९ || वसन्ततिलक
|-
|४, ५, ७, ९, १०, १३, १४, १८, २२{{gap}} || शार्दूलविक्रीड़ित
|-
|६, २१ || मन्दाक्रान्ता
|-
|११ || आर्या
|-
|१५ || उपजाति
|-
|१६, २०, २५-२७, ३१ || अनुष्टुभ्
|-
|२८ || पुष्पिताग्रा
|-
|३० || इन्द्रवज्रा
|}
qwig3qgnybsuva1op66znhauu3seevt
गौड़राज्ञाम् अभिलेखानि/द्वितीय गोपालस्य महीपुर ताम्रशासनम्
0
164249
415944
2026-05-30T09:35:41Z
Hrishikes
1376
+
415944
wikitext
text/x-wiki
{{शीर्षकम्
| शिरोनाम = [[../]]
| ग्रन्थकर्ता =
| अनुवादकः =
| ग्रन्थारम्भः =
| अध्यायः = '''द्वितीय गोपालस्य महीपुर ताम्रशासनम्'''
| पूर्ववर्ती = [[../प्रथम शूरपालस्य मिर्ज़ापुर ताम्रशासनम्/]]
| परवर्ती = [[../द्वितीय गोपालस्य सुवर्णकारिका-दण्ड ताम्रशासने/]]
| वर्षम् =
| टीका = राज्ञः द्वितीय गोपालस्य ३ राज्याङ्के दक्कदासेन उत्कीर्णम् ।<p>पूर्वप्रकाशितानि पाठानि:<p>{{gap|4em}}१. Furui, Ryosuke, ''A New Copper Plate Inscription of Gopala II'', South Asian Studies, Vol. 24, Issue 1, 2008, p. 67.
| प्रवेशद्वारम् =
}}
{{c|[[सञ्चिका:Mohipur Copper Plate of Gopāla II Obverse.jpg|400px]]<br>सम्मुखभागम्}}
{{dhr}}
{{c|[[सञ्चिका:Mohipur Copper Plate of Gopāla II Reverse.jpg|400px]]<br>पश्चाद्भागम्}}
{{c|'''राजमुद्रा: श्री-गोपालदेवः'''}}
{{block center|<poem>
सिद्धं स्वस्ति ॥
मैत्रीं कारुण्यरत्न-प्रमुदितहृदयः प्रेयसीं सन्दधानः सम्यक्-सम्बोधि-विद्या-सरिदमलजल-क्षालिताज्ञानपङ्कः ।
जित्वा यः कामकारि-प्रभवमभिभवं शाश्वतीं प्राप शान्तिं स श्रीमान् लोकनाथो जयति दशबलोऽन्यश्च गोपालदेवः ॥ (१)
लक्ष्मी-जन्म-निकेतनं स-मकरो वोढुं क्षमः क्ष्माभरं पक्षच्छेद-भयाद्-उपस्थितवताम्-एक-आश्रयो भूभृताम् ।
मर्यादा-परिपालनैक-निरतः शौर्यालयो यो-भूत् दुग्धाम्भोधि-विलास-हासि-महिमा श्री-धर्मपालो नृपः ॥ (२)
अम्भोधीनाम् प्रकृति-धवला फेनराजिश्चतुर्णां शत्रु-स्त्रीणां वदनकमल-प्लोषनी-हार-वृष्टिः ।
पातालान्तर-द्विगुणित-फणि-ग्रामणी-कायकान्तिः कीर्तिर्यस्य प्रसरति जगत्-पञ्जरे राजहंसी ॥ (३)
ये स्वि-कुर्वन्ति शौरेः श्वसित-परिमलं योगनिद्रा-शयालोः यैश्चक्रे चण्ड-वेला-वलन-कलकलः कन्दरे मन्दराद्रेः ।
ये-भूवन् स्फार-लक्ष्मी-नयन-कुवलय-स्रविनस्ते तरङ्गाः क्षीराव्धेर्यत् चमूनां श्रम-जलमपिवन् स्वानिलैः शीकरार्द्रैः ॥ (४)
यैर्ग्रामैः स-कुशस्थल-प्रभृतिभिः सन्धिं ययाचे हरिः गान्धार्यस्तनयो जहौ सुतम्-भ्रातॄन्-नतान्-नामकान् ।
निर्जित्याहव-शालिना प्रणयिनो नप्तुर्यशोवर्मणस्ते ग्रामा रिपु-घस्मरेण हसता येन प्रसादीकृताः ॥ (५)
प्रेयः सत्यमनन्त-भोग-निलयं गोपाल-धर्म-क्रम-प्राप्ताङ्गाम् परिपालयन्तम् अजितं स प्राप लक्ष्मीपति ।
श्रीमत्-पाद-नखेन्दु-दीधिति-भरोदन्वन्-निमग्नाखिल-क्षोणीभृन्-मुकुटान्त-पत्र-मकरं श्री-देवपालं सुतम् ॥ (६)
</poem>}}
0gsivyku7wuiyuqyv3b5uyfz9qlrw98