विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.5
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
गौड़राज्ञाम् अभिलेखानि/देवपालस्य मुङ्गेर ताम्रशासनम्
0
121131
416026
325467
2026-06-07T09:11:45Z
Hrishikes
1376
416026
wikitext
text/x-wiki
{{शीर्षकम्
| शिरोनाम = [[../]]
| ग्रन्थकर्ता =
| अनुवादकः =
| ग्रन्थारम्भः =
| अध्यायः = '''देवपालस्य मुङ्गेर ताम्रशासनम्'''
| पूर्ववर्ती = [[../धर्मपालस्य खालिमपुर ताम्रशासनम्/]]
| परवर्ती = [[../देवपालस्य नालन्दा ताम्रशासनम्/]]
| वर्षम् =
| टीका = राज्ञः देवपालस्य ३३ राज्याङ्के (आ॰ ८३९ खृ॰) उत्कीर्णम् । इदम् अभिलेखं युरोपीयानां पण्डितानां दृष्टिषु आनीतवान् प्रथमं संस्कृतम् अभिलेखम् आसीत् ।
पूर्वप्रकाशितानि पाठानि:
{{gap|4em}}१. Wilkins, Charles, ''A Royal Grant of Land, engraved on a copper-plate, bearing date twenty-three years before Christ; and discovered among the Ruins at Mongueer'', Asiatick Researches, Vol. I, 1788, pp. 122-30 (English translation only, with lithographs).
{{gap|4em}}२. Kielhorn, Lorenz Franz, ''The Mungir Copper-Plate Grant of Devapaladeva'', The Indian Antiquary, Vol. XXI, 1892, pp. 253-58.
{{gap|4em}}३. मैत्रेय, अक्षयकुमार, ''देवपालदेवेर ताम्रशासन (मुङ्गेर-लिपि)'', गौड़लेखमाला (१९१२), पृ॰ ३३-४४ ।
{{gap|4em}}४. Barnett, Lionel David, ''The Mungir Plate of Devapaladeva: Samvat 33'', Epigraphia Indica, Vol. XVIII, 1925-26, p. 304-07.
{{gap|4em}}५. मुखोपाध्याय, रमारञ्जन एवं माइति, शचीन्द्रकुमार, ''Monghyr Copper-plate grant of Devapāla'', Corpus of Bengal Inscriptions bearing on History and Civilization of Bengal, 1967, pp. 114-131.
{{gap|4em}}६. चट्टोपाध्याय शास्त्री, अशोक, मुङ्गेर ताम्रशासनोपरि निबन्धम्, पाल अभिलेख संग्रह, १९९२
| प्रवेशद्वारम् =

{{c|[[सञ्चिका:Munger Inscription Obverse.jpg|400px]]
सम्मुखभागम्}}
{{dhr}}
{{c|[[सञ्चिका:Munger Inscription Reverse.jpg|400px]]
पश्चाद्भागम्}}
{{block center|<poem>
सिद्धं स्वस्ति ॥
सिद्धार्थस्य परार्थ-सुस्थितमतेः सन्मार्गमभ्यस्यतः सिद्धिः सिद्धिम्-अनुत्तराम्-भगवतस्तस्य प्रजासु क्रियात् ।
यस्त्रैधातुक-सत्त्व-सिद्धि-पदवीरत्युग्र-वीर्योदयाज्जित्वा निर्वृतिम्-आससाद सुगतः संसर्व-भूमीश्वरः ॥ (१)
सौभाग्यन्दधदतुलं श्रियः सपत्न्या गोपालः पतिरभवद्-वसुन्धरायाः ।
दृष्टान्ते सति कृतिनां सुराज्ञि यस्मिन् श्रद्धेयाः पृथु-सगरादयोऽप्यभूवन् ॥ (२)
विजित्य येनाजलधेर्वसुन्धरां विमोचिता मोघ-परिग्रहा इति ।
सवाष्पम्-उद्वाष्प-विलोचनान् पुनर्वनेषु बन्धून् ददृशुर्मतङ्गजाः ॥ (३)
चलत्स्वनन्तेषु बलेषु यस्य विश्वम्भराया निचितं रजोभिः ।
पादप्रचार-क्षमम्-अन्तरीक्षं विहङ्गमानां सुचिरम् बभूव ॥ (४)
शास्त्रार्थभाजा चलतोऽनुशास्य वर्णान् प्रतिष्ठापयता स्वधर्मे ।
श्री-धर्मपालेन सुतेन सोऽभूत् स्वर्ग-स्थितानाम्-अनृणः पितॄणाम् ॥ (५)
अचलैरिव जङ्गमैर्यदीयैर्विचलद्भिर्द्विरदैः कदर्थ्यमाना ।
निरुपप्लवम्-अम्बरं प्रपेदे शरणं रेणुनिभेन भूतधात्री ॥ (६)
केदारे विधिनोपयुक्त-पयसां गङ्गा-समेताम्बुधौ गोकर्णादिषु चाप्यनुष्ठितवतां तीर्थेषु धर्म्याः क्रियाः ।
भृत्यानां सुखमेव यस्य सकलानुद्धृत्य दुष्टानिमान् लोकान् साधयतोऽनुषङ्ग-जनिता सिद्धिः परत्राप्यभूत् ॥ (७)
तैस्तैर्दिग्विजयावसान-समये सम्प्रेषितानाम् परैः सत्कारैरपनीय खेदम्-अखिलं स्वां स्वाङ्गतानां भुवम् ।
कृत्यम् भावयतां यदीयम्-उचितं प्रीत्या नृपाणाम्-अभूत् सोत्कण्ठं हृदयं दिवश्च्युतवतां जातिस्मराणामिव ॥ (८)
श्री-परबलस्य दुहितुः क्षितिपतिना राष्ट्रकूट-तिलकस्य ।
रण्णादेव्याः पाणिर्जगृहे गृह-मेधिना तेन ॥ (९)
धृत-तनुरियं लक्ष्मीः साक्षात् क्षितिर्नु शरीरिणी किम्-अवनिपतेः कीर्तिर्मूर्ताऽथवा गृहदेवता ।
इति विदधती शुच्याचारा वितर्कवतीः प्रजाः प्रकृति-गुरुभिर्या शुद्धान्तं गुणैरकरोदधः ॥ (१०)
श्लाघ्या पतिव्रतासौ मुक्ता-रत्नं समुद्र-शुक्तिरिव ।
श्री-देवपालदेवं प्रसन्न-वृत्तं सुतम्-असूत ॥ (११)
निर्मलो मनसि वाचि संयतः काय-कर्मणि च यः स्थितः शुचौ ।
राज्यम्-आप निरुपप्लवं पितुर्बोधिसत्त्व इव सौगतं पदम् ॥ (१२)
भ्राम्यद्भिर्विजय-क्रमेण करिभिस्तामेव विन्ध्याटवीम्-उद्दाम-प्लवमान-वाष्प-पयसो दृष्टाः पुनर्बान्धवाः ।
काम्बोजेषु च यस्य वाजि-युवभिर्ध्वस्तान्य-राजौजसो हेषामिश्रित-हारि-हेषितरवाः कान्ताश्चिरं वीक्षिताः ॥ (१३)
यः पूर्वम्-बलिना कृतः कृत-युगे येनागमद्भार्गवस्त्रेतायां प्रहतः प्रिय-प्रणयिना कर्णेन यो द्वापरे ।
विच्छिन्नः कलिना शक-द्विषि गते कालेन लोकान्तरं येन त्याग-पथः स एव हि पुनर्विस्पष्टम्-उन्मीलितः ॥ (१४)
आ-गङ्गागम-महितात् सपत्न-शून्याम्-आ-सेतु-प्रथित-दशस्य-केतु-कीर्तेः ।
उर्वीम्-आ-वरुण-निकेतनाच्च सिन्धोरा-लक्ष्मी-कुल-भवनाच्च यो बुभोज ॥ (१५)
</poem>}}
स खलु भागीरथी-पथ-प्रवर्तमान नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैलशिखर-श्रेणी-विभ्रमान् निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासरलक्ष्मी-समारब्ध-सन्तत-जलदसमय-सन्देहात् । उदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खरखुरोत्खात-धूलीधूसरित-दिगन्तरालात् । परमेश्वर-सेवा-समायाताशेष-जम्बूद्वीप-भूपाल-पादात-भर-नमदवनेः । श्री-मुद्गगिरि-समावासित-श्रीमज्जयस्कन्धावारात् परमसौगत-परमेश्वर-परमभट्टारक-महाराजाधिराज-श्री-धर्मपालदेव-पादानुध्यातः परमसौगतः परमेश्वर-परमभट्टारको महाराजाधिराजः श्रीमान् देवपालदेवः कुशली । श्री-नगरभुक्तौ क्रिमिला-विषयान्तःपाति-स्व-सम्बद्धाविच्छिन्न-तलोपेत-मेषिका-ग्रामे समुपगतान् सर्वानेव राणक । राजपुत्र । अमात्य । महाकार्तकृतिक । महादण्डनायक । महाप्रतीहार । महासामन्त । महादौःसाधसाधनिक । महाकुमारामात्य । प्रमातृ । सरभङ्ग । राजस्थानीय । उपरिक । दाशापराधिक । चौरोद्धरणिक । दाण्डिक । दाण्डपाशिाक । शौल्किक । गौल्मिक । क्षेत्रप । प्रान्तपाल । कोट्टपाल । खण्डरक्ष । तदायुक्तक । विनियुक्तक । हस्त्यश्वोष्ट्रबल-व्यापृतक । किशोर-वड़वा-गो-महिष्यजाविकाध्यक्ष । दूतप्रैषणिक । गमागमिक । अभित्वरमाण । विषयपति । तरपति । तरिक । गौड़-मालव-खश-हूण-कुलिक-कर्णाट-लाट-चाट-भट-सेवकादीन् अन्यांश्चाकीर्तितान् स्वपादपद्मोपजीविनः प्रतिवासिनश्च ब्राह्मणोत्तरान् महत्तर-कुटुम्बि-पुरोग-मेदान्ध्रक-चण्डाल-पर्यन्तान् समाज्ञापयति । विदितमस्तु भवतां यथोपरिलिखित-मेषिकाग्रामः स्वसीमा-तृणयूति-गोचरपर्यन्तः सतलः सोद्देशः साम्रमधूकः सजलस्थलः समत्स्यः सतृणः सोपरिकरः सदशापराधः सचौरोद्धरणः परिहृत-सर्वपीड़ः । अ-चाट-भट-प्रवेशोऽकिञ्चित्-प्रग्राह्यो राजकुलीय-समस्त-प्रत्याय-समेतो भूमिच्छिद्र-न्यायेनाचन्द्रार्क-क्षिति-समकालः पूर्वदत्त-भुक्त-भुज्यमान-देवब्रह्म-देयवर्जितो मया मातापित्रोरात्मनश्च पुण्य-यशोऽभिवृद्धये वेदार्थविदो यज्वनो भट्ट-विश्वरातस्य पौत्राय विद्यावदात-चेतसो भट्ट-श्री-वराहरातस्य पुत्राय । पदवाक्य-प्रमाण-विद्या-पारङ्गताय । औपमन्यव-सगोत्राय । आश्वलायन-सब्रह्मचारिणे । भट्ट-प्रवर-वीहेकरात-मिश्राय शासनीकृत्य प्रतिपादितः । यतो भवद्भिः सर्वैरेव भूमेर्दानफल-गौरवादपहरणे महानरकपात-भयाच्च दानमिदमनुमोद्य पालनीयं प्रतिवासिभिः क्षेत्रकरैश्चाज्ञा-श्रवण-विधेयैर्भूत्वा समुचित-करहिरण्यादेयादि-सर्व-प्रत्यायोपनयः कार्य इति । संवत् ३३ मार्ग-दिने २१ । तथा च धर्मानुशासन-श्लोकाः ।
{{block center|<poem>
सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयो भूयः प्रार्थयत्येष रामः ।
सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयः क्रमेण ॥ (१६)
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (१७)
स्वदत्ताम्-परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (१८)
इति कमलदलाम्बु-विन्दुलोलां श्रियमनुचिन्त्य मनुष्य-जीवितञ्च ।
सकलमिदम्-उदाहृतञ्च बुद्ध्वा न हि पुरुषैः परकीर्तयो विलोप्याः ॥ (१९)
श्रेयोविधावुभयवंश-विशुद्धिभाजं राजाकरोदधिगतात्मगुणं गुणज्ञः ।
आत्मानुरूप-चरितं स्थिर-यौवराज्यं श्री-राज्यपालम्-इह दूतकम्-आत्मपुत्रम् ॥ (२०)
</poem>}}
'''छन्दांसि'''

|१, ७, ८, १७, १४{{gap}} || शार्दूलविक्रीड़ित

|२ || प्रहर्षिणी

|३ || वंशस्थविल

|४ || उपजाति

|५ || इन्द्रवज्रा

|६ || औपच्छन्दसिक

|९, ११ || आर्या

|१० || हरिणी

|१२, १५ || रथोद्धता

|१६ || शालिनी

|१७, १८ || अनुष्टुभ्

|१९ || पुष्पिताग्रा

|२० || वसन्ततिलका

i54t0a31bx8949f7kl09fklgc890be4
गौड़राज्ञाम् अभिलेखानि/द्वितीय गोपालस्य सुवर्णकारिका-दण्ड ताम्रशासने
0
121193
416025
415979
2026-06-07T07:15:36Z
Hrishikes
1376
416025
wikitext
text/x-wiki
{{शीर्षकम्
| शिरोनाम = [[../]]
| ग्रन्थकर्ता =
| अनुवादकः =
| ग्रन्थारम्भः =
| अध्यायः = '''द्वितीय गोपालस्य सुवर्णकारिका-दण्ड ताम्रशासने'''
| पूर्ववर्ती = [[../द्वितीय गोपालस्य महीपुर ताम्रशासनम्/]]
| परवर्ती = [[../नारायणपालस्य भागलपुर ताम्रशासनम्/]]
| वर्षम् =
| टीका = राज्ञः द्वितीय गोपालस्य ४ राज्याङ्के उत्कीर्णेऽभवताम् ।
पूर्वप्रकाशितानि पाठानि:
{{gap|4em}}१. मुखोपाध्याय, श्यामचाँद, ''Two New Copper-plate Inscriptions (Nos. 1 and 2) of King Gopāla II, Pāla Dynasty of Bengal and Bihar, regnal year 4 (Circa 878 A.D.)'', प्रत्न समीक्षा, ख॰ ६-८, १९९७-९९, पृ॰ ७१-८० ।
{{gap|4em}}२. Furui, Ryosuke, ''Re-reading Two Copper Plate Inscriptions of Gopāla II, Year 4'', प्रज्ञाधर (Essays in Honour of Gouriswar Bhattacharya), 2009, pp 319-330.
| प्रवेशद्वारम् =

{{c|'''प्रथम-पट्टम्'''
'''राजमुद्रा: श्री-गोपाल-देवः'''}}
{{block center|<poem>
सिद्धं स्वस्ति ॥
मैत्रीङ्कारुण्यरत्न-प्रमुदितहृदयः प्रेयसीं सन्दधानः सम्यक्-सम्बोधि-विद्या-सरिदमलजल-क्षालिताज्ञानपङ्कः ।
जित्वा यः कामकारि-प्रभवमभिभवं शाश्वतीम् प्राप शान्तिं स श्रीमान् लोकनाथो जयति दशबलोऽन्यश्च गोपालदेवः ॥ (१)
लक्ष्मी-जन्म-निकेतनं सम-करो वोढुं क्षमः क्ष्माभरं पक्षच्छेद-भयाद् उपस्थितवताम् एकाश्रयो भूभृताम् ।
मर्यादा-परिपालनैक-निरतः शौर्यालयो योऽभवत् दुग्धाम्भोधि-विलास-हासि-महिमा श्री-धर्मपालो नृपः ॥ (२)
यैर्ग्रामैः स-कुशस्थल-प्रभृतिभिः सन्धिं ययाचे हरिः गान्धार्यस्तनयो जहौ सुखमसून् भ्रातॄन् नतान् नामकान् ।
निर्जित्याहव-शालिना प्रणयिनो नप्तुर्यशोवर्मणस्ते ग्रामा रिपु-घस्मरेण हसता येन प्रसादीकृताः ॥ (३)
प्रेयः सत्यमनन्त-भोग-निलयं गोपाल-धर्म-क्रम-प्राप्ताङ्गाम् परिपालयन्तम् अजितं स प्राप लक्ष्मीपतिम् ।
श्रीमत्-पाद-नखेन्दु-दीधिति-भरोदन्वन्-निमग्नाखिल-क्षोणीभृन्-मुकुटान्त-पत्र-मकरं श्री-देवपालं सुतम् ॥ (४)
पुत्रस्तस्माद्-वृषाङ्कादिव जगति गतः स्वामि-भावात् प्रतिष्ठाम् उर्वीभृद्-गर्व-खर्वीकरण-पटुतरां शक्तिम् उग्रान् दधानः ।
देवानाम् भीतिभाजाम् अभय-वितरणैकाध्वर-प्राप्त-दीक्षो देवः श्री-शूरपालः किम् अपरम् अपरोऽभून् महासेन एव ॥ (५)
दौहित्री त्रमणाधिपस्य नृपतेरामन्तकस्यात्मजा तस्यासीद् गुणवच्छलस्य महिषी माणिक्यदेवीति या ।
तस्यान् तस्य बभूव भूतल-गुरोर्गोपालदेवः सुतो नाचारेण विना-कृतं कुलमिति प्रत्यक्षयन्नात्मनि ॥ (६)
यस्याभिषेक-सलिल-प्लुति-मात्र-जन्मा भानोरिव प्रतिदिशं विततः प्रतापः ।
हर्षाश्रु-कम्प-पुलकोद्गम-विभ्रमाणां यात्री चकार भुवनानि स-विस्मयानि ॥ (७)
वेला-सिन्धु-तटेषु शङ्ख-धवला हंसावली दिङ्मुखे ज्योत्स्ना व्योम्नि हिमाचलस्य शिखरोत्सङ्गेषु भागीरथी ।
यत्-कीर्तिः कृत-सप्तसिन्धु-तरण-व्यासक्त-फेनच्छटा सिद्धान् स्मारयतीव भैरव-महारम्भाट्टहास-श्रियम् ॥ (८)
</poem>}}
स खलु भागीरथी-पथ-प्रवर्तमान-नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैल-शिखर-श्रेणि-विभ्रमात् । निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासर-लक्ष्मी-समारब्ध-सन्तत-जलद-समय-सन्देहात् । उदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खर-खुरोत्खात-धूली-धूसरित-दिगन्तरालात् परमेश्वर-सेवा-समायाताशेष-जम्बुद्वीप-भूपालानन्त-पादात-भर-नमदवनेः । महासाल-समावासित-श्रीमज्जयस्कन्धावारात् । परमसौगत-परमेश्वर-परमभट्टारक-महाराजाधिराज-श्री-शूरपालदेव-पादानुध्यातः परमसौगतः परमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमान् गोपालदेवः कुशली ॥ श्री-पुण्ड्रवर्धन-भुक्तौ । चण्डग्राम-विषय-सम्बद्ध-सुवर्णकारिका-दण्डात् चतुःसहस्र-प्रमाणादंशे दश-गण्डकाधिका-नव-पणोपेत-सप्तपञ्चाशदन्वित-चतुःशत-प्रमाणे । भूतह्रदात् पादाधिक-सार्ध-नव-कुल्य-प्रमाणादंशे काकिनी-द्वयाधिकोदमाण-त्रयोपेत-पाद-द्वयान्विताढ़वाप-युत-द्रोण-सहित-कुल्य-प्रमाणे ॥ समुपगतान् सर्वानेव राजपुरुषान् राजराजनक-राजपुत्र-राजामात्य-महासामन्त-महासेनापति । महासान्धिविग्रहिक । महाक्षपटलिक ... (उपहतम्) । महाप्रतीहार । महादण्डनायक । राजस्थानीयोपरिक । दशापराधिक । चौरोद्धरणिक । दण्डिक । दण्डपाशिक । शौल्किक । गौल्मिक । क्षेत्रप । प्रान्तपाल-कोट्टपाल । खण्डपाल । तदायुक्तक । विनियुक्तक । हस्त्यश्वोष्ट्र-नौ-बल-व्यापृतक । किशोर-बड़वा-गो-महिष्यजाविकाध्यक्ष-दूतप्रेषणिक । गमागमिक-अभित्वरमाण । विषयपति । तरपति । तरिक । गौड़-मालव-खश-हूण-कुलिक । कर्णाट-लाट-चाट-भट-सेवकादीन् । अन्यांश्चाकीर्तितान् । राज-पादोपजीविनः प्रतिवासिनश्च ब्राह्मणोत्तरान् । महत्तर-तत्सहित । कुटुम्बि-पुरोग-मेदान्ध्र-कैवर्त-चण्डाल-पर्यन्तान् यथार्हं मानयति बोधयति समादिशति च । विदितमस्तु भवताम् । यथोपरि-लिखित । अंशौ स्व-सीमा-तृणयूति-गोचर-पर्यन्तान् । सतल सोद्देश । सोपरिकर । साम्र-पनस । स-जलस्थल । स-गर्तोषर । स-दशापराध । स-चौरोद्धरण । परिहृत-सर्वपीड़ अ-चाट-भट-प्रवेश । अ-किञ्चित्-प्रग्राह्य राजकुलीय-प्रत्याय-समेत भूमिच्छिद्र-न्यायेन-चन्द्रार्क-क्षिति-समकाल-यावत् । माता-पित्रोरात्मनश्च पुण्य-यशोऽभिवृद्धये । अथर्ववेद-साङ्ग-पैप्पलाद-शाखाय कौठरि-गोत्राय पञ्चार्षय-भार्गव-च्यावनाप्नुवान्-और्व-जामदग्नि-प्रवराय । चम्पा-विनिर्गत-समुद्रोच्चालि-वास्तव्य-भट्ट-दिनकर-पौत्राय । भट्ट-यशस्कर-पुत्राय शान्ति-गृह-प्रतिबद्ध-शान्तिवारिक-भट्टपुत्र-श्री-लीलाकराय शासनीकृत्य दत्तः यतो भवद्भिः सर्वैरेव दानम् इदम् अनुमन्तव्यं भाविभिरपि भूपतिभिर्भूमेर्दान-फल-गौरवादपहरणे महानरकपात-भयाच्चानुमोद्य परिपालनीयं । प्रतिवासिभिः क्षेत्रकरैश्चाज्ञा-श्रवण-विधेयी-भूय सर्व-प्रत्यायोपनयः कार्य इति । संवत् ४ फाल्गुन-दिने ४ तथाऽत्र धर्मानुशासन-श्लोकाः ।
{{block center|<poem>
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (९)
षष्टिं वर्ष-सहस्राणि स्वर्गे मोदति भूमिदः ।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत् ॥ (१०)
स्वदत्ताम् परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (११)
इति कमल-दलाम्बु-बिन्दु-लोलां श्रियमनुचिन्त्य मनुष्य-जीवितञ्च ।
सकलम् इदम् उदाहृतञ्च बुद्ध्वा न हि पुरुषैः परकीर्तयो विलोप्याः ॥ (१२)
</poem>}}
'''छन्दांसि'''

|१, ५ || स्रग्धरा

|२-४, ६, ८{{gap}} || शार्दूलविक्रीड़ित

|७ || वसन्ततिलका

|९-११ || अनुष्टुभ्

|१२ || पुष्पिताग्रा

{{c|'''द्वितीय-पट्टम्'''
'''राजमुद्रा: श्री-गोपाल-देवः'''}}
{{block center|<poem>
सिद्धं स्वस्ति ॥
मैत्रीं कारुण्यरत्न-प्रमुदित-हृदयः प्रेयसीं सन्दधानः सम्यक्-सम्बोधि-विद्या-सरिदमल-जल-क्षालिताज्ञान-पङ्कः ।
जित्वा यः कामकारि-प्रभवमभिभवं शाश्वतीं प्राप शान्तिं स श्रीमान् लोकनाथो जयति दशबलोऽन्यश्च गोपालदेवः ॥ (१)
लक्ष्मी-जन्म-निकेतनं सम-करो वोढुं क्षमः क्ष्माभरं पक्षच्छेद-भयाद् उपस्थितवताम् एकाश्रयो भूभृताम् ।
मर्यादा-परिपालनैक-निरतः शौर्यालयो योऽभवत् दुग्धाम्भोधि-विलास-हासि-महिमा श्री-धर्मपालो नृपः ॥ (२)
यैर्ग्रामैः स-कुशस्थल-प्रभृतिभिः सन्धिं ययाचे हरिः गान्धार्यस्तनयो जहौ सुखमसून् भ्रातॄन् नतान् नामकान् ।
निर्जित्याहव-शालिना प्रणयिनो नप्तुर्यशोवर्मणस्ते ग्रामा रिपु-घस्मरेण हसता येन प्रसादीकृताः ॥ (३)
प्रेयः-सत्यमनन्त-भोग-निलयं गोपाल-धर्म-क्रम-प्राप्ताङ्गाम् परिपालयन्तम् अजितं स प्राप लक्ष्मीपतिम् ।
श्रीमत्-पाद-नखेन्दु-दीधिति-भरोदन्वन्-निमग्नाखिल-क्षोणीभृन्-मुकुटान्त-पत्र-मकरं श्री-देवपालं सुतम् ॥ (४)
पुत्रस्तस्माद्-वृषाङ्कादिव जगति गतः स्वामि-भवात् प्रतिष्ठाम् उर्वीभृद्-गर्व-खर्वीकरण-पटुतरां शक्तिम् उग्रान् दधानः ।
देवानाम् भीतिभाजाम् अभय-वितरणैकाध्वर-प्राप्त-दीक्षो देवः श्री-शूरपालः किम् अपरम् अपरोऽभून् महासेन एव ॥ (५)
दौहित्री त्रमणाधिपस्य नृपतेरामन्तकस्यात्मजा तस्यासीद् गुणवच्छलस्य महिषी माणिक्यदेवीति या ।
तस्यान् तस्य बभूव भूतल-गुरोर्गोपालदेवः सुतो नाचारेण विना-कृत-कुलमिति प्रत्यक्षयन्नात्मनि ॥ (६)
यस्याभिषेक-सलिल-प्लुति-मात्र-जन्मा भानोरिव प्रतिदिशं विततः प्रतापः ।
हर्षाश्रु-कम्प-पुलकोद्गम-विभ्रमाणां यात्री चकार भुवनानि स-विस्मयानि ॥ (७)
वेला-सिन्धु-तटेषु शङ्ख-धवला हंसावली दिङ्मुखे ज्योत्स्ना व्योम्नि हिमाचलस्य शिखरोत्सङ्गेषु भागीरथी ।
यत्-कीर्तिः कृत-सप्तसिन्धु-तरण-व्यासक्त-फेनच्छटा सिद्धान् स्मारयतीव भैरव-महारम्भाट्टहास-श्रियम् ॥ (८)
</poem>}}
स खलु भागीरथी-पथ-प्रवर्तमान-नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैल-शिखर-श्रेणि-विभ्रमात् । निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासर-लक्ष्मी-समारब्ध-सन्तत-जलद-समय-सन्देहात् । उदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खर-खुरोत्खात-धूली-धूसरित-दिगन्तरालात् परमेश्वर-सेवा-समायाताशेष-जम्बुद्वीप-भूपालानन्त-पादात-भर-नमदवनेः । महासाल-समावासित-श्रीमज्जयस्कन्धावारात् । परमसौगत-परमेश्वर-परमभट्टारक-महाराजाधिराज-श्री-शूरपालदेव-पादानुध्यातः परमसौगतः परमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमान् गोपालदेवः कुशली ॥ श्री-पुण्ड्रवर्धन-भुक्तौ । चण्डग्राम-विषय-सम्बद्ध-सुवर्णकारिका-दण्डात् चतुःसहस्र-प्रमाणादंशे पादोन-षट्शत-प्रमाणे । समुपगतान् सर्वानेव राजपुरुषान् राजराजनक-राजपुत्र-राजामात्य-महासामन्त । महासेनापति । महाक्षपटलिक । महासान्धिविग्रहिक । महाप्रतीहार । महाकुमारामात्य । महादण्डनायक । राजस्थानीयोपरिक । दशापराधिक । चौरोद्धरणिक । दण्डिक । दण्डपाशिक । शौल्किक । गौल्मिक । क्षेत्रप-प्रान्तपाल-कोट्टपाल । खण्डपाल । तदायुक्तक । विनियुक्तक । हस्त्यश्वोष्ट्र-नौ-बल-व्यापृतक । किशोर-बड़वा-गो-महिष्यजाविकाध्यक्ष-दूतप्रेषणिक । गमागमिक-अभित्वरमाण । विषयपति । तरपति । तरिक । गौड़-मालव-खश-हूण-कुलिक । कर्णाट । लाट-चाट-भट-सेवकादीन् । अन्यांश्च । अकीर्तितान् राज-पादोपजीविनः प्रतिवासिनः ब्राह्मणोत्तम-महत्तर-कुटुम्बि-पुरोग-मद्राञ्च चण्डाल-पर्यन्तान् यथार्हं मानयति बोधयति समादिशति च । विदितमस्तु भवताम् । यथोपरिलिखितांशेय स्व-सीमा-पर्यन्तः स-तलः सोद्देशः स-पादपः स-जलस्थलः स-गर्तोषरः सोपरिकरः स-दशापराधः स-चौरोद्धरणः परिहृत-सर्वपीड़ः अ-चाट-भट-प्रवेशः अकिञ्चित्-प्रग्राह्यः समस्त-राज-भाग-भोग-कर-हिरण्य-प्रत्याय-समेतः भूमिच्छिद्र-न्यायेना-चन्द्रार्क-क्षिति-समकाल यावत् माता-पित्रोरात्मनश्च पुण्य-यशोऽभिवृद्धये । अथर्व-साङ्ग-पैप्पलाद-शाखाय कौठरि-गोत्राय पञ्चार्षय-भार्गव-च्यावनाप्नुवान्-और्व-जामदग्नि-प्रवराय चम्पा-विनिर्गत-समुद्रोच्चालि-वास्तव्य-भट्ट-यशस्कर-पौत्राय भट्ट-पुरोहित-श्री-शान्तिकर-पुत्राय शान्ति-गृह-प्रतिबद्ध-शान्तिवारिक-भट्टपुत्र-श्री-अत्थकराय । शासनीकृत्य प्रदत्तः यतो भवद्भिः सर्वैरेव दानम्-इदम्-अनुमन्तव्यं भाविभिरपि भूपतिभिर्भूमेर्दान-फल-गौरवादपहरणे महानरकपात-भयाच्चानुमोद्य परिपालनीयम् प्रतिवासिभिः क्षेत्रकरैश्चाज्ञा-श्रवण-विधेयी-भूय सर्व-प्रत्यायोपनयः कार्य इति । संवत् ४ फाल्गुन-दिने ४ । तथाऽत्र धर्मानुशासन-श्लोकाः ।
{{block center|<poem>
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (९)
षष्टिं वर्ष-सहस्राणि स्वर्गे मोदति भूमिदः ।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत् ॥ (१०)
स्वदत्ताम् परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायाङ्कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (११)
श्रीमद्-गोपालदेवेन जगद्विजय-शालिना ।
शुद्धाशयः कृतः श्रीमान् वज्रवर्माऽत्र दूतकः ॥ (१२)
यशोऽंशुभिः प्रांशुभिरस्तदापः प्रकाशयन् दिग्-वनिता-मुखानि ।
द्विजोपदिष्टे पथि सन्निधिष्ठो यशस्करो ह्वा-स्तव-तुल्य आसीत् ॥ (१३)
पुत्रस्तदीयः कृतधीः स्व-वेद-क्रियानतः श्री-शान्तिकरो बभूव ।
श्री-शूरपालस्य नराधिराज-तुल्य-श्रियो यो गुरुवात् पुरोधाः ॥ (१४)
शीतांशु-मौलेर्गिरिजेव तस्य पत्नी प्रसिद्धैव धियायिदेति ।
तौ दम्पती मत्पितरावितीव शक्तिं दधे यः सदृशो गुहस्य ॥ (१५)
कला-सम्पूर्णापि स्फुटम् अधिक-कार्तापि तदपि प्रतापी चाप्याविष्कृत-विपुल-पद्मोन्नतिरपि ।
जड़ः प्रालेयांशुः प्रकृति-खर उष्ट-द्युति-रिरि द्वयोस्तुल्यानो यः सकल-जगदालात्यपि तथा ॥ (१६)
गोपानन्दि-गुणंश्चिराय बलिजित् साक्षादनत्तत्-स्थिति-लक्ष्मीमान् अभिराम-रूपमुचितं यो विभ्रदप्यञ्चकैः ।
मायाढ्यं बहुदोषम् उद्धत-गदं चक्र-प्रधानं हरिं जानानौ नवाभरेन तुलयापेक्षाश्रयो धीमताम् ॥ (१७)
विशुद्धो भूय पन्यस्य राजहंसस्य मानसे ।
रममाणस्य स प्राप श्रीमां ह्यत्थकरस्तुलाम् ॥ (१८)
</poem>}}
'''छन्दांसि'''

|१, ५ || स्रग्धरा

|२-४, ६, ८, १७{{gap}} || शार्दूलविक्रीड़ित

|७ || वसन्ततिलका

|९-१२, १८ || अनुष्टुभ्

|१३ || उपेन्द्रवज्रा

|१४ || उपजाति

|१५ || इन्द्रवज्रा

|१६ || शिखरिणी

r99a18qi65w2uxrnbn9jx7a27xk0b8f
गौड़राज्ञाम् अभिलेखानि/नारायणपालस्य भागलपुर ताम्रशासनम्
0
164259
416017
2026-06-06T16:14:07Z
Hrishikes
1376
{{शीर्षकम् | शिरोनाम = [[../]] | ग्रन्थकर्ता = | अनुवादकः = | ग्रन्थारम्भः = | अध्यायः = '''नारायणपालस्य भागलपुर ताम्रशासनम्''' | पूर्ववर्ती = ../द्वितीय गोपालस्य सुवर्णकार... नवीन पृष्ठं निर्मीत अस्ती
416017
wikitext
text/x-wiki
{{शीर्षकम्
| शिरोनाम = [[../]]
| ग्रन्थकर्ता =
| अनुवादकः =
| ग्रन्थारम्भः =
| अध्यायः = '''नारायणपालस्य भागलपुर ताम्रशासनम्'''
| पूर्ववर्ती = [[../द्वितीय गोपालस्य सुवर्णकारिका-दण्ड ताम्रशासने/]]
| परवर्ती =
| वर्षम् =
| टीका = राज्ञः नारायणपालस्य १७ राज्याङ्के (आ॰ ८८८ खृ॰) मङ्घदासेन उत्कीर्णम्।
पूर्वप्रकाशितानि पाठानि:
{{gap|4em}}१. मित्र, राजेन्द्रलाल, ''On the Pála and Sena Rájas of Bengal'', Journal of the Asiatic Society of Bengal, Vol. 47, Part 1 (1878), pp. 384-410.
{{gap|4em}}२. Hultzsch, Eugen Julius Theodor, ''The Bhagalpur Plate of Narayanapala'', The Indian Antiquary, Vol. 15 (1886), pp. 304-310.
{{gap|4em}}३. मैत्रेय, अक्षयकुमार, ''नारायणपालदेवेर ताम्रशासन (भागलपुर-लिपि)'', गौड़लेखमाला (१९१२), पृ॰ ५५-६९ ।
{{gap|4em}}४. मुखोपाध्याय, रमारञ्जन एवं माइति, शचीन्द्रकुमार, ''Bhagalpur Copper-plate Inscription of Nārāyaṇapāladeva'', Corpus of Bengal Inscriptions bearing on History and Civilization of Bengal, 1967, pp. 163-184.
{{gap|4em}}५. सरकार, दीनेशचन्द्र, ''Bhāgalpur Copper-plate Inscription of Nārāyaṇapāla (c. 855-910 A.D.), Regnal year 17'', Select Inscriptions bearing on Indian History and Civilization, Vol. 2, 1983, pp. 80-86.
{{gap|4em}}६. चट्टोपाध्याय शास्त्री, अशोक, भागलपुर ताम्रशासनोपरि निबन्धम्, पाल अभिलेख संग्रह, १९९२ ।
| प्रवेशद्वारम् =

{{c|[[सञ्चिका:Bhagalpur Copper Plate of Narayanapala Obverse.png|400px]]
सम्मुखभागम्}}
{{dhr}}
{{c|[[सञ्चिका:Bhagalpur Copper Plate of Narayanapala Reverse.png|400px]]
पश्चाद्भागम्}}
a91izvi8e0nrqk9kb4fvawdrgxhpn95
416018
416017
2026-06-06T16:33:34Z
Hrishikes
1376
416018
wikitext
text/x-wiki
{{शीर्षकम्
| शिरोनाम = [[../]]
| ग्रन्थकर्ता =
| अनुवादकः =
| ग्रन्थारम्भः =
| अध्यायः = '''नारायणपालस्य भागलपुर ताम्रशासनम्'''
| पूर्ववर्ती = [[../द्वितीय गोपालस्य सुवर्णकारिका-दण्ड ताम्रशासने/]]
| परवर्ती =
| वर्षम् =
| टीका = राज्ञः नारायणपालस्य १७ राज्याङ्के (आ॰ ८७२ खृ॰) मङ्घदासेन उत्कीर्णम्।
पूर्वप्रकाशितानि पाठानि:
{{gap|4em}}१. मित्र, राजेन्द्रलाल, ''On the Pála and Sena Rájas of Bengal'', Journal of the Asiatic Society of Bengal, Vol. 47, Part 1 (1878), pp. 384-410. (पुनःप्रकाशम्: ''On the Pála and the Sena Dynasties of Bengal'', Indo-Aryans: contributions towards the elucidation of their ancient and mediæval history, Vol. 2, 1881, pp. 217-275)

npg76wykrisse6f38kq73t5eqzgyzcc
416019
416018
2026-06-06T17:12:04Z

{{c|'''राजमुद्रा: श्री-नारायणपालदेवस्य'''}}
{{block center|<poem>
नि—नि
सिद्धं स्वस्ति ॥
मैत्रीं कारुण्यरत्न-प्रमुदितहृदयः प्रेयसीं सन्दधानः सम्यक्-सम्बोधिविद्या-सरिदमलजल क्षालिताज्ञानपङ्कः ।
जित्वा यः कामकारि प्रभव मभिभवं शाश्वतीं प्राप शान्तिं स श्रीमान् लोकनाथो जयति दशबलोऽन्यश्च गोपालदेवः ॥ (१)
लक्ष्मी-जन्मनिकेतनं समकरो वोढ़ुं क्षमः क्ष्मा-भरं पक्षच्छेदभयादुपस्थितवता मेकाश्रयो भूभृतां ।
मर्य्यादा-परिपालनैकनिरतः शौर्य्यालयो ऽस्मादभूद्दुग्धाम्भोधि-विलास-हासि-महिमा श्रीधर्म्मपालो नृपः ॥ (२)
जित्वेन्ट्रराज‑प्रभृती‑नरातीनुपार्जिता येन महोदय-श्रीः ।
दत्ता पुनः सा बलिनार्थयित्रे चक्रायुधायानति-वामनाय ॥ (३)
रामस्येव गृहीत-सत्यतपस स्तस्यानुरूपो गुणैः सौमित्रे रुदपादि तुल्य-महिमा वाक्पालनामानुजः ।
यः श्रीमान्नय-विक्रमैक-वसति र्भ्रातुः स्थितः शासने शून्याः शत्रु-पताकिनीभि रकरो देकातपत्रा दिशः ॥ (४)
तस्मादुपेन्द्रचरितै र्ज्जगतीं पुनानः पुत्रो बभूव विजयी जयपालनामा ।
धर्म्मद्विषां शमयिता युधि देवपाले यः पूर्व्वजे भुवनराज्य-सुखान्यनैषीत् ॥ (५)
यस्मिन् भ्रातु र्न्निदेशाद्बलवति परितः प्रस्थिते जेतु माशाः सीदन्नाम्नैव दूरान्निजपुर मजहादुत्कलानामधीशः ।
आसाञ्चक्रे चिराय प्रणयि-परिवृतो बिभ्रदुच्चेन मूर्द्ध्ना राजा प्राग्ज्योतिषाणा मुपशमित-समित्-संकथां यस्य चाज्ञां ॥ (६)
श्रीमान् विग्रहपाल स्तत्सूनु रजातशत्रु रिव जातः ।
शत्रुवनिता-प्रसाधन-विलोपि-विमलासि-जलधारः ॥ (७)
रिपवो येन गुर्व्वीणां विपदा मास्पदीकृताः ।
पुरुषायुष-दीर्घाणां सुहृदः सम्पदामपि ॥ (८)
लज्जेति तस्य जलधे रिव जह्नु-कन्या पत्नी बभूव कृत-हैहय-वंशभूषा ।
यस्याः शुचीनि चरितानि पितुश्व वंशे पत्युश्च पावन-विधिः परमो बभूव ॥ (९)
दिक्पालैः क्षितिपालनाय दधतं देहे विभक्ताः श्रियः श्रीनारायणपालदेव मसृजत्तस्यां स पुण्योत्तरं ।
यः क्षोणीपतिभिः शिरोमणिरुचा-श्लिष्टाङ्घ्रि-पीठोपलं न्यायोपात्त मलञ्चकार चरितैः स्वैरेव धर्म्मासनं ॥ (१०)
चेतः पुराण‑लेख्यानि चतुर्व्वर्ग्ग-निधीनि च ।
आरिप्सन्ते यतस्त्यानि चरितानि महीभृतः ॥ (११)
स्वीकृत-सुजन-मनोभिः सत्यापित-सातिवाहनः सूक्तैः ।
त्यागेन यो व्यधत्त श्रद्धेया मङ्गराज-कथां ॥ (१२)
भयादरातिभि र्यस्य रणमूर्द्धनि विस्फुरम् ।
असिरिन्दीवर-श्यामो ददृशे पीत-लोहितः ॥ (१३)
यः प्रज्ञया च धनुषा च जगद्विनीय नित्यं न्यवीविशद-नाकुल मात्म-धर्म्मे ।
यस्यार्थिनो सविध मेत्य भृशं कृतार्थाः नैवार्थितां प्रति पुन र्व्विदधु र्म्मनीषां ॥ (१४)
श्रीपति रकृष्ण-कर्म्मा विद्याधरनायको महाभोगी ।
अनल-सदृशोपि धाम्ना य श्वित्रन्नलसम श्चरितैः ॥ (१५)
व्याप्ते यस्य त्रिजगति शरच्चन्द्र गौरै र्यशोभिर्म्मन्ये शोभान्न खलु विभरामास रुद्रादृहासः ।
सिद्धस्त्रीणा मपि शिरसिजेष्वर्प्पिताः केतकीनां पत्रापीड़ाः सुचिर मभवन् भृङ्ग-श्ब्दानुमेयाः ॥ (१६)
तपो ममास्तु राज्यं ते द्वाभ्यामुक्तमिदं द्वयोः ।
यस्मिन् विग्रहपालेन सगरेण भगीरथे ॥ (१७)
</poem>}}
lj1j17zexfh54q45n9q7cql1q46k8az
416020
416019
2026-06-06T17:50:40Z
Hrishikes
1376
416020
wikitext
text/x-wiki
{{शीर्षकम्
| शिरोनाम = [[../]]
| ग्रन्थकर्ता =
| अनुवादकः =
| ग्रन्थारम्भः =
| अध्यायः = '''नारायणपालस्य भागलपुर ताम्रशासनम्'''
| पूर्ववर्ती = [[../द्वितीय गोपालस्य सुवर्णकारिका-दण्ड ताम्रशासने/]]
| परवर्ती =
| वर्षम् =
| टीका = राज्ञः नारायणपालस्य १७ राज्याङ्के (आ॰ ८७२ खृ॰) मङ्घदासेन उत्कीर्णम्।
पूर्वप्रकाशितानि पाठानि:
{{gap|4em}}१. मित्र, राजेन्द्रलाल, ''On the Pála and Sena Rájas of Bengal'', Journal of the Asiatic Society of Bengal, Vol. 47, Part 1 (1878), pp. 384-410. (पुनःप्रकाशम्: ''On the Pála and the Sena Dynasties of Bengal'', Indo-Aryans: contributions towards the elucidation of their ancient and mediæval history, Vol. 2, 1881, pp. 217-275)
{{gap|4em}}२. Hultzsch, Eugen Julius Theodor, ''The Bhagalpur Plate of Narayanapala'', The Indian Antiquary, Vol. 15 (1886), pp. 304-310.
{{gap|4em}}३. मैत्रेय, अक्षयकुमार, ''नारायणपालदेवेर ताम्रशासन (भागलपुर-लिपि)'', गौड़लेखमाला (१९१२), पृ॰ ५५-६९ ।
{{gap|4em}}४. मुखोपाध्याय, रमारञ्जन एवं माइति, शचीन्द्रकुमार, ''Bhagalpur Copper-plate Inscription of Nārāyaṇapāladeva'', Corpus of Bengal Inscriptions bearing on History and Civilization of Bengal, 1967, pp. 163-184.
{{gap|4em}}५. सरकार, दीनेशचन्द्र, ''Bhāgalpur Copper-plate Inscription of Nārāyaṇapāla (c. 855-910 A.D.), Regnal year 17'', Select Inscriptions bearing on Indian History and Civilization, Vol. 2, 1983, pp. 80-86.
{{gap|4em}}६. चट्टोपाध्याय शास्त्री, अशोक, भागलपुर ताम्रशासनोपरि निबन्धम्, पाल अभिलेख संग्रह, १९९२ ।
| प्रवेशद्वारम् =

{{c|[[सञ्चिका:Bhagalpur Copper Plate of Narayanapala Obverse.png|400px]]
सम्मुखभागम्}}
{{dhr}}
{{c|[[सञ्चिका:Bhagalpur Copper Plate of Narayanapala Reverse.png|400px]]
पश्चाद्भागम्}}
{{dhr}}
{{c|'''राजमुद्रा: श्री-नारायणपालदेवस्य'''}}
{{block center|<poem>
नि—नि
सिद्धं स्वस्ति ॥
मैत्रीं कारुण्यरत्न-प्रमुदितहृदयः प्रेयसीं सन्दधानः सम्यक्-सम्बोधिविद्या-सरिदमलजल क्षालिताज्ञानपङ्कः ।
जित्वा यः कामकारि-प्रभवमभिभवं शाश्वतीं प्राप शान्तिं स श्रीमान् लोकनाथो जयति दशबलोऽन्यश्च गोपालदेवः ॥ (१)
लक्ष्मी-जन्मनिकेतनं सम-करो वोढ़ुं क्षमः क्ष्मा-भरं पक्षच्छेदभयादुपस्थितवतामेकाश्रयो भूभृताम् ।
मर्यादा-परिपालनैकनिरतः शौर्यालयोऽस्मादभूद् दुग्धाम्भोधि-विलास-हासि-महिमा श्री-धर्मपालो नृपः ॥ (२)
जित्वेन्ट्रराज‑प्रभृतीनरातीनुपार्जिता येन महोदय-श्रीः ।
दत्ता पुनः सा बलिनार्थयित्रे चक्रायुधायानति-वामनाय ॥ (३)
रामस्येव गृहीत-सत्य-तपसस्तस्यानुरूपो गुणैः सौमित्रेरुदपादि तुल्य-महिमा वाक्पालनामानुजः ।
यः श्रीमान् नय-विक्रमैक-वसतिर्भ्रातुः स्थितः शासने शून्याः शत्रु-पताकिनीभिरकरोदेकातपत्रा दिशः ॥ (४)
तस्मादुपेन्द्रचरितैर्जगतीं पुनानः पुत्रो बभूव विजयी जयपालनामा ।
धर्मद्विषां शमयिता युधि देवपाले यः पूर्वजे भुवन-राज्य-सुखान्यनैषीत् ॥ (५)
यस्मिन् भ्रातुर्निदेशाद् बलवति परितः प्रस्थिते जेतुमाशाः सीदन्नाम्नैव दूरान् निजपुरमजहादुत्कलानामधीशः ।
आसाञ्चक्रे चिराय प्रणयि-परिवृतो बिभ्रदुच्चेन मूर्ध्ना राजा प्राग्ज्योतिषाणामुपशमित-समित्-संकथां यस्य चाज्ञां ॥ (६)
श्रीमान् विग्रहपालस्तत्सूनुरजातशत्रुरिव जातः ।
शत्रुवनिता-प्रसाधन-विलोपि-विमलासि-जलधारः ॥ (७)
रिपवो येन गुर्वीणां विपदामास्पदीकृताः ।
पुरुषायुष-दीर्घाणां सुहृदः सम्पदामपि ॥ (८)
लज्जेति तस्य जलधेरिव जह्नु-कन्या पत्नी बभूव कृत-हैहय-वंशभूषा ।
यस्याः शुचीनि चरितानि पितुश्व वंशे पत्युश्च पावन-विधिः परमो बभूव ॥ (९)
दिक्पालैः क्षितिपालनाय दधतं देहे विभक्ताः श्रियः श्रीनारायणपालदेवमसृजत् तस्यां स पुण्योत्तरम् ।
यः क्षोणीपतिभिः शिरोमणिरुचा-श्लिष्टाङ्घ्रि-पीठोपलं न्यायोपात्तमलञ्चकार चरितैः स्वैरेव धर्मासनम् ॥ (१०)

ahwqa9ef5sh73razp36p67c3yk9lxv8
416021
416020
2026-06-06T18:50:53Z

चेतः पुराण‑लेख्यानि चतुर्वर्ग-निधीनि च ।
आरिप्सन्ते यतस्त्यानि चरितानि महीभृतः ॥ (११)
स्वीकृत-सुजन-मनोभिः सत्यापित-सातिवाहनः सूक्तैः ।
त्यागेन यो व्यधत्त श्रद्धेयामङ्गराज-कथाम् ॥ (१२)
भयादरातिभिर्यस्य रणमूर्धनि विस्फुरम् ।
असिरिन्दीवर-श्यामो ददृशे पीत-लोहितः ॥ (१३)
यः प्रज्ञया च धनुषा च जगद्विनीय नित्यं न्यवीविशदनाकुलमात्म-धर्मे ।
यस्यार्थिनो सविधमेत्य भृशं कृतार्थाः नैवार्थितां प्रति पुनर्विदधुर्मनीषाम् ॥ (१४)
श्रीपतिरकृष्ण-कर्मा विद्याधरनायको महाभोगी ।
अनल-सदृशोऽपि धाम्ना यश्वित्रन्नलसमश्चरितैः ॥ (१५)
व्याप्ते यस्य त्रिजगति शरच्चन्द्र-गौरैर्यशोभिर्मन्ये शोभान् न खलु विभरामास रुद्रादृहासः ।
सिद्धस्त्रीणामपि शिरसिजेष्वर्पिताः केतकीनां पत्रापीड़ाः सुचिरमभवन् भृङ्ग-श्ब्दानुमेयाः ॥ (१६)
तपो ममास्तु राज्यं ते द्वाभ्यामुक्तमिदं द्वयोः ।
यस्मिन् विग्रहपालेन सगरेण भगीरथे ॥ (१७)
</poem>}}
tngektvskup2ff8oizf826hgk7iq9iz
416022
416021
2026-06-07T06:25:36Z

स खलु भागीरथीपथ-प्रवर्तमान-नानाविध-नौवाट-सम्पादित-सेतुबन्धनिहित-शैलशिखरश्रेणी-विभ्रमात्, निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासरलक्षी-समारब्ध-सन्तत-जलदसमय-सन्देहात्, उदीचीनानेक-नरपति-प्राभृतीकृता-प्रमेय-हयवाहिनी-खरखुरोत्खात-धूलीधूसरित-दिगन्तरालात्, परमेश्खर-सेवा-समायाताशेष जम्बुद्वीप-भूपालानन्त-पादात-भर-नमदवनेः। श्रीमुद्गगिरि-समावासित-श्रीमज्जयस्कन्धावारात्, परमसौगतो महाराजाधिराज-श्रीविग्रहपालदेव-पादानुध्यातः परमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमन्नारायणपालदेवः कुशली। तीरभुक्तौ। कक्ष-वैषयिक-स्वसम्बद्धाविच्छुिन्न-तलोपेत-मकुतिका-ग्रामे। समुपगताशेष-राजपुरुषान्। राज-राजनक। राजपुत्र। राजामात्य। महासान्धिविग्रहिक। महाक्षपटलिक। महासामन्त्त। महासेनापति। महाप्रतीहार। महाकार्ताकृतिक। महादौःसाधसाधनिक। महादण्डनायक। महाकुमारामात्य। राजस्थानीयोपरिक। दाशापराधिक। चौरोद्धरणिक। दाण्डिक। दाण्डपाशिक। शौल्किक। गौल्मिक। क्षेत्रप। प्रान्तपाल। कोट्टपाल। खण्डरक्ष। तदायुक्तक। विनियुक्तक। हस्त्यश्वोष्ट्र-नौबल-व्यापृतक। किशोर-बड़वा-गोमहिष्यजाविकाध्यक्ष। दूतप्रेषणिक। गमागमिक। अभित्वरमाण। विषयपति-ग्रामपति। तरिक। गौड़। मालव। खश। हूण। कुलिक। कर्णाट। लाट। चाट। भट। सेवकादीन्। अन्यांश्चाकीर्तीतान्। राजपादोपजीविनः प्रतिवासिनो ब्राह्मणोत्तरान्। महत्तमोत्तम-पुरोगमेदान्ध्र-चण्डाल-पर्यन्तान्। यथार्हं मानयति। बोधयति। समादिशति च। मतमस्तु भवतां। कलशपोते। महाराजाधिराज-श्रीनारायणपालदेवेन स्वयं-कारित-सहस्रायतनस्य। तत्र प्रतिष्ठापितस्य। भगवतः शिवभट्टारकस्य। पाशुपत-आचार्य-परिषदश्व। यथार्हं पूजा-बलि-चरु-सत्र-नव-कर्माद्यर्थं। शयनासन-ग्लान-प्रत्यय-भैषज्य-परिष्काराद्यर्थं। अन्येषामपि स्वाभिमतानां। स्वपरिकल्पित-विभागेन। अनवद्य-भोगार्थञ्च। यथोपरिलिखित-मकुतिकाग्रामः। स्वसीमा-तृणपूति-गोचर-पर्यन्तः। सतलः। सोद्देशः। साम्रमधूकः। स-जलस्थलः। स-गर्तोषरः। सोपरिकरः। स-दशापचारः। स-चौरोद्धरणः। परिहृत-सर्वपीड़ः। अ-चाटभट-प्रवेशः। अकिञ्चित्-प्रग्राह्यः। समस्त-भाग-भोग-कर-हिरण्यादि-प्रत्याय-समेतः। भूमिच्छिद्रन्यायेनाचन्द्रार्क-क्षिति समकालं यावत् माता-पित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये। भगवन्तं शिव-भट्टारकमुद्दिश्य शासनीकृत्य प्रदत्तः। ततो भवद्भिः सर्वैरेवानुमन्तव्यं भाविभिरपि भूपतिभिर्भूमेर्दानफल-गौरवादपहरणे च महानरकपात-भयाद् दानमिदमनुमोद्य पालनीयं प्रतिवासिभिः क्षेत्रकरैश्चाज्ञा-श्रवण-विधेयीभूय यथाकालं समुचित-भाग-भोग-कर-हिरण्यादि-सर्वप्रत्यायोपनयः कार्य इति। संवत् १७ वैशाखदिने ५ ॥ तथा च धर्मानुशंसिनः श्लोकाः।
7g2z8d53chhccz87gkagjf6e75ixqoi
416023
416022
2026-06-07T07:01:23Z

यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (१८)
षष्टिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः ।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत् ॥ (१९)
स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (२०)
सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयो भूयः प्रार्थयत्येष रामः ।
सामान्योऽयन्धर्म-सेतुर्नृपाणां काले काले पालनीयः क्रमेण ॥ (२१)
इति कमलदलाम्बु-बिन्दुलोलां श्रियमनुचिन्त्य मनुष्य-जीवितञ्च ।
सकलमिदमुदाहृतञ्च बुद्ध्वा न हि पुरुषैः परकीर्तयो विलोप्याः ॥ (२२)
वेदान्तैरप्यसुगमतमं वेदिता ब्रह्मतार्थं यः सर्वासु श्रुतिषु परमः सार्धमङ्गैरधीती ।
यो यज्ञानां समुदित-महादक्षिणानां प्रणेता भट्टः श्रीमान् इह स गुरवो दूतकः पुण्यकीर्तिः॥ (२३)
श्रीमता मङ्घदासेन शुभदासस्य सूनुना ।
इदं शासनमुत्कीर्णंं सत्-समतट-जन्मना ॥ (१४)
</poem>}}
mh4wrmj9x0e1yftobw08tgac2rvomhl
416024
416023
2026-06-07T07:14:01Z

|१, ६ || स्रग्धरा

|२, ४, १० || शार्दूलविक्रीड़ित

|३ || उपजाति

|५, ९, १४ || वसन्ततिलका

|७, १२, १५ || आर्या

|८, ११, १३, १७-२०, २४{{gap}} || अनुष्टुभ्

|१६, २३ || मन्दाक्रान्ता

|२१ || शालिनी

|२२ || पुष्पिताग्रा

d79plcyygmz35q9805co0l9yvdldco9
गौड़राज्ञाम् अभिलेखानि/गुरवमिश्रस्य बादाल प्रशस्तिः
0
164260
416027
2026-06-07T09:19:33Z
Hrishikes
1376
{{शीर्षकम् | शिरोनाम = [[../]] | ग्रन्थकर्ता = | अनुवादकः = | ग्रन्थारम्भः = | अध्यायः = '''गुरवमिश्रस्य बादाल प्रशस्तिः''' | पूर्ववर्ती = ../नारायणपालस्य भागलपुर ताम्रशासन... नवीन पृष्ठं निर्मीत अस्ती
416027
wikitext
text/x-wiki
{{शीर्षकम्
| शिरोनाम = [[../]]
| ग्रन्थकर्ता =
| अनुवादकः =
| ग्रन्थारम्भः =
| अध्यायः = '''गुरवमिश्रस्य बादाल प्रशस्तिः'''
| पूर्ववर्ती = [[../नारायणपालस्य भागलपुर ताम्रशासनम्/]]
| परवर्ती =
| वर्षम् =
| टीका = राज्ञः नारायणपालस्य मन्त्रिणो गुरवमिश्रस्य आदेशेन विष्णुभद्रेण उत्कीर्णम्।
पूर्वप्रकाशितानि पाठानि:
{{gap|4em}}१. Wilkins, Charles, ''Inscription on a Pillar near Buddal, translated from the Sanscrit'', Asiatick Researches, Vol. 1 (1788), pp. 131-141.
{{gap|4em}}२. Hultzsch, Eugen Julius Theodor, ''The Bhagalpur Plate of Narayanapala'', The Indian Antiquary, Vol. 15 (1886), pp. 304-310.
{{gap|4em}}३. मैत्रेय, अक्षयकुमार, ''नारायणपालदेवेर ताम्रशासन (भागलपुर-लिपि)'', गौड़लेखमाला (१९१२), पृ॰ ५५-६९ ।
{{gap|4em}}४. मुखोपाध्याय, रमारञ्जन एवं माइति, शचीन्द्रकुमार, ''Bhagalpur Copper-plate Inscription of Nārāyaṇapāladeva'', Corpus of Bengal Inscriptions bearing on History and Civilization of Bengal, 1967, pp. 163-184.
{{gap|4em}}५. सरकार, दीनेशचन्द्र, ''Bhāgalpur Copper-plate Inscription of Nārāyaṇapāla (c. 855-910 A.D.), Regnal year 17'', Select Inscriptions bearing on Indian History and Civilization, Vol. 2, 1983, pp. 80-86.
{{gap|4em}}६. चट्टोपाध्याय शास्त्री, अशोक, भागलपुर ताम्रशासनोपरि निबन्धम्, पाल अभिलेख संग्रह, १९९२ ।
| प्रवेशद्वारम् =

{{c|[[सञ्चिका:Badal Pillar Inscription.jpg|400px]]
बादाल प्रस्तरलिपिः}}
{{dhr}}
{{c|[[सञ्चिका:Badal Pillar.jpg|400px]]
बादाल स्तम्भः}}
e3e7zuvj9jjur505ksht9tghjguqkf7