विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.11 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk मनुस्मृतिः/द्वादशोध्यायः 0 5226 417813 41900 2026-07-16T05:03:59Z ~2026-39988-22 10592 417813 wikitext text/x-wiki {{header | title = [[मनुस्मृतिः]] | author = मनुः | translator = | section = '''द्वादशोध्यायः''' | previous = [[मनुस्मृतिः/एकादशोध्यायः|एकादशोध्यायः]] | next = | notes = }} {{मनुस्मृतिः}}

चातुर्वर्ण्यस्य कृत्स्नोऽयं उक्तो धर्मस्त्वयानघः ।
कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम् । । १२.१ । ।

स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः ।
अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् । । १२.२ । ।

शुभाशुभफलं कर्म मनोवाग्देहसंभवम् ।
कर्मजा गतयो नॄणां उत्तमाधममध्यमः । । १२.३ । ।

तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः ।
दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम् । । १२.४ । ।

परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् । । १२.५ । ।

पारुष्यं अनृतं चैव पैशुन्यं चापि सर्वशः ।
असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् । । १२.६ । ।

अदत्तानां उपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् । । १२.७ । ।

मानसं मनसैवायं उपभुङ्क्ते शुभाशुभम् ।
वाचा वाचा कृतं कर्म कायेनैव च कायिकम् । । १२.८ । ।

शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् । । १२.९ । ।

वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते । । १२.१० । ।

त्रिदण्डं एतन्निक्षिप्य सर्वभूतेषु मानवः ।
कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति । । १२.११ । ।

योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः । । १२.१२ । ।

जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् ।
येन वेदयते सर्वं सुखं दुःखं च जन्मसु । । १२.१३ । ।

तावुभौ भूतसंपृक्तौ महान्क्षेत्रज्ञ एव च ।
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः । । १२.१४ । ।

असंख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः ।
उच्चावचानि भूतानि सततं चेष्टयन्ति याः । । १२.१५ । ।

पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् ।
शरीरं यातनार्थीयं अन्यदुत्पद्यते ध्रुवम् । । १२.१६ । ।

तेनानुभूय ता यामीः शरीरेणेह यातनाः ।
तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः । । १२.१७ । ।

सोऽनुभूयासुखोदर्कान्दोषान्विषयसङ्गजान् ।
व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ । । १२.१८ । ।

तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह ।
याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम् । । १२.१९ । ।

यद्याचरति धर्मं स प्रायशोऽधर्मं अल्पशः ।
तैरेव चावृतो भूतैः स्वर्गे सुखं उपाश्नुते । । १२.२० । ।

यदि तु प्रायशोऽधर्मं सेवते धर्मं अल्पशः ।
तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः । । १२.२१ । ।

यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः ।
तान्येव पञ्च भूतानि पुनरप्येति भागशः । । १२.२२ । ।

एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा ।
धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः । । १२.२३ । ।

सत्त्वं रजस्तमश्चैव त्रीन्विद्यादात्मनो गुणान् ।
यैर्व्याप्येमान्स्थितो भावान्महान्सर्वानशेषतः । । १२.२४ । ।

यो यदैषां गुणो देहे साकल्येनातिरिच्यते ।
स तदा तद्गुणप्रायं तं करोति शरीरिणम् । । १२.२५ । ।

सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् ।
एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः । । १२.२६ । ।

तत्र यत्प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् ।
प्रशान्तं इव शुद्धाभं सत्त्वं तदुपधारयेत् । । १२.२७ । ।

यत्तु दुःखसमायुक्तं अप्रीतिकरं आत्मनः ।
तद्रजो प्रतीपं विद्यात्सततं हारि देहिनाम् । । १२.२८ । ।

यत्तु स्यान्मोहसंयुक्तं अव्यक्तं विषयात्मकम् ।
अप्रतर्क्यं अविज्ञेयं तमस्तदुपधारयेत् । । १२.२९ । ।

त्रयाणां अपि चैतेषां गुणानां यः फलोदयः ।
अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः । । १२.३० । ।

वेदाभ्यासस्तपो ज्ञानं शौचं इन्द्रियनिग्रहः ।
धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम् । । १२.३१ । ।

आरम्भरुचिताऽधैर्यं असत्कार्यपरिग्रहः ।
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् । । १२.३२ । ।

लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता ।
याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् । । १२.३३ । ।

त्रयाणां अपि चैतेषां गुणानां त्रिषु तिष्ठताम् ।
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् । । १२.३४ । ।

यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति ।
तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् । । १२.३५ । ।

येनास्मिन्कर्मना लोके ख्यातिं इच्छति पुष्कलाम् ।
न च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम् । । १२.३६ । ।

यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन् ।
येन तुष्यति चात्मास्य तत्सत्त्वगुणलक्षणम् । । १२.३७ । ।

तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते ।
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यं एषां यथोत्तरम् । । १२.३८ । ।

येन यस्तु गुणेनैषां संसरान्प्रतिपद्यते ।
तान्समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् । । १२.३९ । ।

देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः ।
तिर्यक्त्वं तामसा नित्यं इत्येषा त्रिविधा गतिः । । १२.४० । ।

त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः । । १२.४१ । ।

स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः ।
पशवश्च मृगाश्चैव जघन्या तामसी गतिः । । १२.४२ । ।

हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः ।
सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः । । १२.४३ । ।

चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः ।
रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः । । १२.४४ । ।

झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः ।
द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः । । १२.४५ । ।

राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः ।
वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः । । १२.४६ । ।

गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये ।
तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः । । १२.४७ । ।

तापसा यतयो विप्रा ये च वैमानिका गणाः ।
नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः । । १२.४८ । ।

यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः ।
पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः । । १२.४९ । ।

ब्रह्मा विश्वसृजो धर्मो महानव्यक्तं एव च ।
उत्तमां सात्त्विकीं एतां गतिं आहुर्मनीषिणः । । १२.५० । ।

एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः ।
त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः । । १२.५१ । ।

इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।
पापान्संयान्ति संसारानविद्वांसो नराधमाः । । १२.५२ । ।

यां यां योनिं तु जीवोऽयं येन येनेह कर्मणा ।
क्रमशो याति लोकेऽस्मिंस्तत्तत्सर्वं निबोधत । । १२.५३ । ।

बहून्वर्षगणान्घोरान्नरकान्प्राप्य तत्क्षयात् ।
संसारान्प्रतिपद्यन्ते महापातकिनस्त्विमान् । । १२.५४ । ।

श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् ।
चण्डालपुक्कसानां च ब्रह्महा योनिं ऋच्छति । । १२.५५ । ।

कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् ।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् । । १२.५६ । ।

लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः । । १२.५७ । ।

तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणां अपि ।
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः । । १२.५८ । ।

हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः ।
परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः । । १२.५९ । ।

संयोगं पतितैर्गत्वा परस्यैव च योषितम् ।
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः । । १२.६० । ।

मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
विविधाणि च रत्नानि जायते हेमकर्तृषु । । १२.६१ । ।

धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः ।
मधु दंशः पयः काको रसं श्वा नकुलो घृतम् । । १२.६२ । ।

मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः ।
चीरीवाकस्तु लवणं बलाका शकुनिर्दधि । । १२.६३ । ।

कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः ।
कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् । । १२.६४ । ।

छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं तु बर्हिणः ।
श्वावित्कृतान्नं विविधं अकृतान्नं तु शल्यकः । । १२.६५ । ।

बको भवति हृत्वाग्निं गृहकारी ह्युपस्करम् ।
रक्तानि हृत्वा वासांसि जायते जीवजीवकः । । १२.६६ । ।

वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः ।
स्त्रीं ऋक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः । । १२.६७ । ।

यद्वा तद्वा परद्रव्यं अपहृत्य बलान्नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः । । १२.६८ । ।

स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषं अवाप्नुयुः ।
एतेषां एव जन्तूनां भार्यात्वं उपयान्ति ताः । । १२.६९ । ।

स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि ।
पापान्संसृत्य संसारान्प्रेष्यतां यान्ति शत्रुषु । । १२.७० । ।

वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः ।
अमेध्यकुणपाशी च क्षत्रियः कटपूतनः । । १२.७१ । ।

मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्च्युतः । । १२.७२ । ।

यथा यथा निषेवन्ते विषयान्विषयात्मकाः ।
तथा तथा कुशलता तेषां तेषूपजायते । । १२.७३ । ।

तेऽभ्यासात्कर्मणां तेषां पापानां अल्पबुद्धयः ।
संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु । । १२.७४ । ।

तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ।
असिपत्रवनादीनि बन्धनछेदनानि च । । १२.७५ । ।

विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् ।
करम्भवालुकातापान्कुम्भीपाकांश्च दारुणान् । । १२.७६ । ।

संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः ।
शीतातपाभिघातांश्च विविधानि भयानि च । । १२.७७ । ।

असकृद्गर्भवासेषु वासं जन्म च दारुणम् ।
बन्धनानि च काष्ठानि परप्रेष्यत्वं एव च । । १२.७८ । ।

बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः ।
द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् । । १२.७९ । ।

जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् ।
क्लेशांश्च विविधांस्तांस्तान्मृत्युं एव च दुर्जयम् । । १२.८० । ।

यादृशेन तु भावेन यद्यत्कर्म निषेवते ।
तादृशेन शरीरेण तत्तत्फलं उपाश्नुते । । १२.८१ । ।

एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।
नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत । । १२.८२ । ।

वेदाभ्यासस्तपो ज्ञानं इन्द्रियाणां च संयमः ।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम् । । १२.८३ । ।

सर्वेषां अपि चैतेषां शुभानां इह कर्मणाम् ।
किं चिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति । । १२.८४ । ।

सर्वेषां अपि चैतेषां आत्मज्ञानं परं स्मृतम् ।
तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः । । १२.८५ । ।

षण्णां एषां तु सर्वेषां कर्मणां प्रेत्य चेह च ।
श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् । । १२.८६ । ।

वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः ।
अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन्क्रियाविधौ । । १२.८७ । ।

सुखाभ्युदयिकं चैव नैःश्रेयसिकं एव च ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । । १२.८८ । ।

इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
निष्कामं ज्ञातपूर्वं तु निवृत्तं उपदिश्यते । । १२.८९ । ।

प्रवृत्तं कर्म संसेव्यं देवानां एति साम्यताम् ।
निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै । । १२.९० । ।

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
समं पश्यन्नात्मयाजी स्वाराज्यं अधिगच्छति । । १२.९१ । ।

यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् । । १२.९२ । ।

एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा । । १२.९३ । ।

पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ।
अशक्यं चाप्रमेयं च वेदशास्त्रं इति स्थितिः । । १२.९४ । ।

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः । । १२.९५ । ।

उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् ।
तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च । । १२.९६ । ।

चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यं च सर्वं वेदात्प्रसिध्यति । । १२.९७ । ।

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः । । १२.९८ । ।

बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ।
तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम् । । १२.९९ । ।

सेनापत्यं च राज्यं च दण्डनेतृत्वं एव च ।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति । । १२.१०० । ।

यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् ।
तथा दहति वेदज्ञः कर्मजं दोषं आत्मनः । । १२.१०१ । ।

वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।
इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते । । १२.१०२ । ।

अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः । । १२.१०३ । ।

तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।
तपसा किल्बिषं हन्ति विद्ययामृतं अश्नुते । । १२.१०४ । ।

प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिं अभीप्सता । । १२.१०५ । ।

आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः । । १२.१०६ । ।

नैःश्रेयसं इदं कर्म यथोदितं अशेषतः ।
मानवस्यास्य शास्त्रस्य रहस्यं उपदिश्यते । । १२.१०७ । ।

अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् ।
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः । । १२.१०८ । ।

धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः । । १२.१०९ । ।

दशावरा वा परिषद्यं धर्मं परिकल्पयेत् ।
त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् । । १२.११० । ।

त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः ।
त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा । । १२.१११ । ।

ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च ।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये । । १२.११२ । ।

एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः ।
स विज्ञेयः परो धर्मो नाज्ञानां उदितोऽयुतैः । । १२.११३ । ।

अव्रतानां अमन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते । । १२.११४ । ।

यं वदन्ति तमोभूता मूर्खा धर्मं अतद्विदः ।
तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति । । १२.११५ । ।

एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम् ।
अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् । । १२.११६ । ।

एवं स भगवान्देवो लोकानां हितकाम्यया ।
धर्मस्य परमं गुह्यं ममेदं सर्वं उक्तवान् । । १२.११७ । ।

सर्वं आत्मनि संपश्येत्सच्चासच्च समाहितः ।
सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः । । १२.११८ । ।

आत्मैव देवताः सर्वाः सर्वं आत्मन्यवस्थितम् ।
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् । । १२.११९ । ।

खं संनिवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम् ।
पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु । । १२.१२० । ।

मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।
वाच्यग्निं मित्रं उत्सर्गे प्रजने च प्रजापतिम् । । १२.१२१ । ।

प्रशासितारं सर्वेषां अणीयांसं अणोरपि ।
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् । । १२.१२२ । ।

एतं एके वदन्त्यग्निं मनुं अन्ये प्रजापतिम् ।
इन्द्रं एके परे प्राणं अपरे ब्रह्म शाश्वतम् । । १२.१२३ । ।

एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः ।
जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् । । १२.१२४ । ।

एवं यः सर्वभूतेषु पश्यत्यात्मानं आत्मना ।
स सर्वसमतां एत्य ब्रह्माभ्येति परं पदम् । । १२.१२५ । ।

इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन्द्विजः ।
भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम् । । १२.१२६ । ।

[[वर्गः:मनुस्मृतिः]] 6t4cs3bxk8b93exjq083yv735g2zoi1 तैत्तिरीयब्राह्मणम् 0 13406 417812 201331 2026-07-15T16:30:59Z ~2026-39930-13 10591 कृष्णयजुर्वेदे श्रीकृष्णार्पणमस्त्विति वाक्यं नासीत्कदाप्यस्ति भविष्यति चन। 417812 wikitext text/x-wiki
1.1.0.0 ब्रह्म॒ संध॑त्तं॒ कृत्ति॑का॒सूद्ध॑न्ति द्वाद॒शसु॑ प्र॒जाप॑तिर्वा॒चो दे॑वासु॒रास्तद॒ग्निर्नेद्घ॒र्मश्शिर॑ इ॒मे वै श॑मीग॒र्भात्प्र॒जाप॑ति॒स्स रि॑रिचा॒नस्स तप॒स्स आ॒त्मन्वी॒र्यं॑दश॑ ।। 10 ।। ब्रह्म॒ सन्ध॑त्तं॒ तौ दि॒व्यावथो॑ शं॒त्वाय॒ प्राच्ये॑षां॒ यदु॒पर्यु॑परि॒ यथ्स॒द्यस्सोऽश्वो॒ऽवारो॑ भू॒त्वा जग॑तीभि॒रशी॑तिः ।। 80 ।। ब्रह्म॒ सन्ध॑त्तमृ॒ध्नोत्ये॑नेन ।। हरिः॑ ओम् ।। कृष्णयजुर्ब्राह्मणे प्रथमाष्टके प्रथमप्रपाठकस्समाप्तः ।। 1.1.0.0 ।। श्रीरस्तु ।। ।। प्रथमाष्टके प्रथमप्रपाठक प्रारंभः ।। ।। हरिः ओम् ।। 1.1.1.0 न॒य॒न्त्व॒पा॒न सन्ध॑त्तं॒ तं मे॑ जिन्वतं प्रा॒णं य॒ज्ञाय॑ धत्तं॒ मानु॑षीर॒ग्निर्द्वे च॑ ।। 1 ।। [ब्रह्म॑ क्ष॒त्त्रं तदिष॒मूर्ज॑ र॒यिं पुष्टिं॑ प्र॒जां तां प॒शून्तान्थ्सन्ध॑त्तं॒ तत्प्रा॒णम॑पा॒नं व्या॒नं तं चक्षु॒श्श्रोत्रं॒ मन॒स्तद्वाचं॒ ताम् । इ॒षादि॒पञ्च॑के॒ वाचं॒ तां मे॑ प॒शून्थ्सन्ध॑त्तं॒ तान्मे प्रा॒णादि॒त्रित॑ये॒ तं मे॒ऽन्यत्र॒ तन्मे ।। 1.1.1.1 ब्रह्म॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । क्ष॒त्त्र सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । इष॒॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । ऊर्ज॒॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । र॒यि सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । पुष्टि॒॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । प्र॒जा सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । प॒शून्थ्सन्ध॑त्तं॒ तान्मे॑ जिन्वतम् । स्तु॒तो॑ऽसि॒ जन॑धाः । दे॒वास्त्वा॑ शुक्र॒पा प्रण॑यन्तु ।। 1 ।। 1.1.1.2१ सु॒वीरा प्र॒जा प्र॑ज॒नय॒न्परी॑हि । शु॒क्रश्शु॒क्रशो॑चिषा । स्तु॒तो॑ऽसि॒ जन॑धाः । दे॒वास्त्वा॑ मन्थि॒पा प्रण॑यन्तु । सु॒प्र॒जा प्र॒जा प्र॑ज॒नय॒न्परी॑हि । म॒न्थी म॒न्थिशो॑चिषा । सं॒ज॒ग्मा॒नौ दि॒व आपृ॑थि॒व्यायुः॑ । सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । प्रा॒ण सन्ध॑त्तं॒ तं मे॑ जिन्वतम् । अ॒पा॒न सन्ध॑त्तं॒ तं मे॑ जिन्वतम् ।। 2 ।। 1.1.1.3 व्या॒न सन्ध॑त्तं॒ तं मे॑ जिन्वतम् । चक्षु॒स्सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । श्रोत्र॒॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । मन॒स्सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । वाच॒॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । आयु॑स्स्थ॒ आयु॑र्मे धत्तम् । आयु॑र्य॒ज्ञाय॑ धत्तम् । आयु॑र्य॒ज्ञप॑तये धत्तम् । प्रा॒णस्स्थ॑ प्रा॒णं मे॑ धत्तम् । प्रा॒णं य॒ज्ञाय॑ धत्तम् ।। 3 ।। 1.1.1.4 प्रा॒णं य॒ज्ञप॑तये धत्तम् । चक्षु॑स्स्थ॒श्चक्षु॑र्मे धत्तम् । चक्षु॑र्य॒ज्ञाय॑ धत्तम् । चक्षु॑र्य॒ज्ञप॑तये धत्तम् । श्रोत्र॑ स्थ॒श्श्रोत्रं॑ मे धत्तम् । श्रोत्रं॑ य॒ज्ञाय॑ धत्तम् । श्रोत्रं॑ य॒ज्ञप॑तये धत्तम् । तौ दे॑वौ शुक्रामन्थिनौ । क॒ल्पय॑तं॒ दैवी॒र्विशः॑ । क॒ल्पय॑तं॒ मानु॑षीः ।। 4 ।। 1.1.1.5 इष॒मूर्ज॑म॒स्मासु॑ धत्तम् । प्रा॒णान्प॒शुषु॑ । प्र॒जां मयि॑ च॒ यज॑माने च । निर॑स्त॒श्शण्डः॑ । निर॑स्तो॒ मर्कः॑ । अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुना । शु॒क्रस्य॑ स॒मिद॑सि । म॒न्थिन॑स्स॒मिद॑सि । स प्र॑थ॒मस्संकृ॑तिर्वि॒श्वक॑र्मा । स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः । स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वान् । तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होमि ।। 5 ।। 1.1.2.0 खल्वा॑धिथ्सन्त॒ फल्गु॑न्योर॒ग्निमाद॑धीतासन्नपततामृतू॒नां वैश्य॑स्य॒र्तुरुत्त॑रे॒ फल्गु॑नी॒ षट्च॑ ।। 2 ।। 1.1.2.1 कृत्ति॑कास्व॒ग्निमाद॑धीत । ए॒तद्वा अ॒ग्नेर्नक्ष॑त्त्रम् । यत्कृत्ति॑काः । स्वाया॑मै॒वैनं॑ दे॒वता॑यामा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । मुखं॒ वा ए॒तन्नक्ष॑त्त्राणाम् । यत्कृत्ति॑काः । य कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते । मुख्य॑ ए॒व भ॑वति । अथो॒ खलु॑ ।। 6 ।। 1.1.2.2 अ॒ग्नि॒न॒क्ष॒त्त्रमित्यप॑चायन्ति । गृ॒हान् ह॒ दाहु॑को भवति । प्र॒जाप॑ती रोहि॒ण्याम॒ग्निम॑सृजत । तं दे॒वा रो॑हि॒ण्यामाद॑धत । ततो॒ वै ते सर्वा॒न्रोहा॑नरोहन्न् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व । सर्वा॒न्रोहान्रोहति । दे॒वा वै भ॒द्रास्सन्तो॒ऽग्निमाधि॑थ्सन्त ।। 7 ।। 1.1.2.3 तेषा॒मना॑हितो॒ऽग्निरासीत् । अथैभ्यो वा॒मं वस्वपाक्रामत् । ते पुन॑र्वस्वो॒राद॑धत । ततो॒ वै तान् वा॒मं वसू॒पाव॑र्तत । य पु॒राऽभ॒द्रस्सन्पापी॑या॒न्थ्स्यात् । स पुन॑र्वस्वोर॒ग्निमाद॑धीत । पुन॑रे॒वैनं॑ वा॒मं वसू॒पाव॑र्तते । भ॒द्रो भ॑वति । य का॒मये॑त॒ दानका॑मा मे प्र॒जास्स्यु॒रिति॑ । स पूर्व॑यो॒ फल्गु॑न्योर॒ग्निमाद॑धीत ।। 8 ।। 1.1.2.4 अ॒र्य॒म्णो वा ए॒तन्नक्ष॑त्त्रम् । यत्पूर्वे॒ फल्गु॑नी । अ॒र्य॒मेति॒ तमा॑हु॒र्यो ददा॑ति । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य का॒मये॑त भ॒गी स्या॒मिति॑ । स उत्त॑रयो॒ फल्गु॑न्योर॒ग्निमाद॑धीत । भग॑स्य॒ वा ए॒तन्नक्ष॑त्त्रम् । यदुत्त॑रे॒ फल्गु॑नी । भ॒ग्ये॑व भ॑वति । का॒ल॒क॒ञ्जा वै नामासु॑रा आसन्न् ।। 9 ।। 1.1.2.5 ते सु॑व॒र्गाय॑ लो॒काया॒ग्निम॑चिन्वत । पुरु॑ष॒ इष्ट॑का॒मुपा॑दधा॒त्पुरु॑ष॒ इष्ट॑काम् । स इन्द्रो ब्राह्म॒णो ब्रुवा॑ण॒ इष्ट॑का॒मुपा॑धत्त । ए॒षा मे॑ चि॒त्रा नामेति॑ । ते सु॑व॒र्गं लो॒कमा प्रारो॑हन्न् । स इन्द्र॒ इष्ट॑का॒मावृ॑हत् । तेऽवा॑कीर्यन्त । ये॑ऽवाकीर्यन्त । त ऊर्णा॒वभ॑योऽभवन्न् । द्वावुद॑पतताम् ।। 10 ।। 1.1.2.6 तौ दि॒व्यौ श्वाना॑वभवताम् । यो भ्रातृ॑व्यवा॒न्थ्स्यात् । स चि॒त्राया॑म॒ग्निमाद॑धीत । अ॒व॒कीर्यै॒व भ्रातृ॑व्यान् । ओजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्ध॑त्ते । व॒सन्ता ब्राह्म॒णोऽग्निमाद॑धीत । व॒स॒न्तो वै ब्राह्म॒णस्य॒र्तुः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । मुखं॒ वा ए॒तदृ॑तू॒नाम् ।। 11 ।। 1.1.2.7 यद्व॑स॒न्तः । यो व॒सन्ता॒ऽग्निमा॑ध॒त्ते । मुख्य॑ ए॒व भ॑वति । अथो॒ योनि॑मन्तमे॒वैनं॒ प्रजा॑त॒माध॑त्ते । ग्री॒ष्मे रा॑ज॒न्य॑ आद॑धीत । ग्री॒ष्मो वै रा॑ज॒न्य॑स्य॒र्तुः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । इ॒न्द्रि॒या॒वी भ॑वति । श॒रदि॒ वैश्य॒ आद॑धीत । श॒रद्वै वैश्य॑स्य॒र्तुः ।। 12 ।। 1.1.2.8 स्व ए॒वैन॑मृ॒तावा॒धाय॑ । प॒शु॒मान्भ॑वति । न पूर्व॑यो॒ फल्गु॑न्योर॒ग्निमाद॑धीत । ए॒षा वै ज॑घ॒न्या॑ रात्रि॑स्संवथ्स॒रस्य॑ । यत्पूर्वे॒ फल्गु॑नी । पृ॒ष्टि॒त ए॒व सं॑वथ्स॒रस्या॒ग्निमा॒धाय॑ । पापी॑यान्भवति । उत्त॑रयो॒रा द॑धीत । ए॒षा वै प्र॑थ॒मा रात्रि॑स्संवथ्स॒रस्य॑ । यदुत्त॑रे॒ फल्गु॑नी । मु॒ख॒त ए॒व सं॑वथ्स॒रस्या॒ग्निमा॒धाय॑ । वसी॑यान्भवति । अथो॒ खलु॑ । य॒दैवैनं॑ य॒ज्ञ उ॑प॒नमेत् । अथाद॑धीत । सैवास्यर्द्धिः॑ ।। 13 ।। 1.1.3.0 ऊषा॑ अभवन्नभवद्व॒ल्मीकोऽश्राम्य॒दप्र॑थय॒द्धृत्यै॑ बीभथ्सत॒ इत्या॑हू रुन्धे पर्ण॒त्वम॑शमयदच्छिन्द॒॒ स्त्रीणि॑ च ।। 3 ।। 1.1.3.1 उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति । अ॒पोऽवोक्षति॒ शान्त्यै । सिक॑ता॒ निव॑पति । ए॒तद्वा अ॒ग्नेर्वैश्वान॒रस्य॑ रू॒पम् । रू॒पेणै॒व वैश्वान॒रमव॑रुन्धे । ऊषा॒न्निव॑पति । पुष्टि॒र्वा ए॒षा प्र॒जन॑नम् । यदूषाः ।।14।। 1.1.3.2 पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निमाध॑त्ते । अथो॑ सं॒ज्ञान॑ ए॒व । सं॒ज्ञान॒॒ ह्ये॑तत्प॑शू॒नाम् । यदूषाः । द्यावा॑पृथि॒वी स॒हास्ताम् । ते वि॑य॒ती अ॑ब्रूताम् । अस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॑ । यद॒मुष्या॑ य॒ज्ञिय॒मासीत् । तद॒स्याम॑दधात् । त ऊषा॑ अभवन्न् ।। 15 ।। 1.1.3.3 यद॒स्या य॒ज्ञिय॒मासीत् । तद॒मुष्या॑मदधात् । तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम् । ऊषान्नि॒वप॑न्न॒दो ध्या॑येत् । द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निमाध॑त्ते । अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । आ॒खू रू॒पं कृ॒त्वा । स पृ॑थि॒वीं प्रावि॑शत् । स ऊ॒ती कु॑र्वा॒ण पृ॑थि॒वीमनु॒ सम॑चरत् । तदा॑खुकरी॒षम॑भवत् ।। 16 ।। 1.1.3.4 यदा॑खुकरी॒ष सं॑भा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्धे । ऊर्जं॒ वा ए॒त रसं॑ पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति । यद्व॒ल्मीकम् । यद्व॑ल्मीकव॒पा सं॑भा॒रो भव॑ति । ऊर्ज॑मे॒व रसं॑ पृथि॒व्या अव॑रुन्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्र॒॒ ह्ये॑तत्पृ॑थि॒व्याः । यद्व॒ल्मीकः॑ ।। 17 ।। 1.1.3.5 अब॑धिरो भवति । य ए॒वं वेद॑ । प्र॒जाप॑ति प्र॒जा अ॑सृजत । तासा॒मन्न॒मुपाक्षीयत । ताभ्य॒स्सूद॒मुप॒प्राभि॑नत् । ततो॒ वै तासा॒मन्नं॒ नाक्षी॑यत । यस्य॒ सूद॑स्संभा॒रो भव॑ति । नास्य॑ गृ॒हेऽन्नं॑ क्षीयते । आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् । तेन॑ प्र॒जाप॑तिरश्राम्यत् ।। 18 ।। 1.1.3.6 क॒थमि॒द स्या॒दिति॑ । सो॑ऽपश्यत्पुष्करप॒र्णं तिष्ठ॑त् । सो॑ऽमन्यत । अस्ति॒ वै तत् । यस्मि॑न्नि॒दमधि॒ तिष्ठ॒तीति॑ । स व॑रा॒हो रू॒पं कृ॒त्वोप॒ न्य॑मज्जत् । स पृ॑थि॒वीम॒ध आर्च्छत् । तस्या॑ उप॒हत्योद॑मज्जत् । तत्पु॑ष्करप॒र्णेऽप्रथयत् । यदप्र॑थयत् ।। 19 ।। 1.1.3.7 तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् । अभू॒द्वा इ॒दमिति॑ । तद्भूम्यै॑ भूमि॒त्वम् । तां दिशोऽनु॒ वात॒स्सम॑वहत् । ता शर्क॑राभिरदृहत् । शं वै नो॑ऽभू॒दिति॑ । तच्छर्क॑राणा शर्कर॒त्वम् । यद्व॑रा॒हवि॑हत संभा॒रो भव॑ति । अ॒स्यामे॒वाछ॑म्बट्कारम॒ग्निमाध॑त्ते । शर्क॑रा भवन्ति॒ धृत्यै ।। 20 ।। 1.1.3.8 अथो॑ शं॒त्वाय॑ । सरे॑ता अ॒ग्निरा॒धेय॒ इत्या॑हुः । आपो॒ वरु॑णस्य॒ पत्न॑य आसन्न् । ता अ॒ग्निर॒भ्य॑ध्यायत् । तास्सम॑भवत् । तस्य॒ रेत॒ परा॑ऽपतत् । तद्धिर॑ण्यमभवत् । यद्धिर॑ण्यमु॒पास्य॑ति । सरे॑तसमे॒वाग्निमाध॑त्ते । पुरु॑ष॒ इन्न्वै स्वाद्रेत॑सो बीभथ्सत॒ इत्या॑हुः ।। 21 ।। 1.1.3.9 उ॒त्त॒र॒त उपास्य॒त्यबी॑भथ्सायै । अति॒ प्रय॑च्छति । आर्ति॑मे॒वाति॒ प्रय॑च्छति । अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पं कृ॒त्वा । सोऽश्व॒त्थे सं॑वथ्स॒रम॑तिष्ठत् । तद॑श्व॒त्थस्याश्वत्थ॒त्वम् । यदाश्व॑त्थस्संभा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्धे ।। 22 ।। 1.1.3.10 दे॒वा वा ऊर्जं॒ व्य॑भजन्त । तत॑ उदु॒म्बर॒ उद॑तिष्ठत् । ऊर्ग्वा उ॑दु॒म्बरः॑ । यदौदु॑म्बरस्संभा॒रो भव॑ति । ऊर्ज॑मे॒वाव॑रुन्धे । तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । तं गा॑य॒त्र्याऽह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णो॑ऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् ।। 23 ।। 1.1.3.11 यस्य॑ पर्ण॒मय॑स्सम्भा॒रो भव॑ति । सो॒म॒पी॒थमे॒वाव॑रुन्धे । दे॒वा वै ब्रह्म॑न्नवदन्त । तत्प॒र्ण उपा॑शृणोत् । सु॒श्रवा॒ वै नाम॑ । यत्प॑र्ण॒मय॑स्सम्भा॒रो भव॑ति । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । प्र॒जाप॑तिर॒ग्निम॑सृजत । सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ । त श॒म्या॑ऽशमयत् ।। 24 ।। 1.1.3.12 तच्छ॒म्यै॑ शमि॒त्वम् । यच्छ॑मी॒मय॑स्सम्भा॒रो भव॑ति । शान्त्या॒ अप्र॑दाहाय । अ॒ग्नेस्सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कतं॒ भा आर्च्छत् । यद्वैक॑ङ्कतस्सम्भा॒रो भव॑ति । भा ए॒वाव॑ रुन्धे । सहृ॑दयो॒ऽग्निरा॒धेय॒ इत्या॑हुः । म॒रुतो॒ऽद्भिर॒ग्निम॑तमयन्न् । तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन्न् । साऽशनि॑रभवत् । यद॒शनि॑हतस्य वृ॒क्षस्य॑ सम्भा॒रो भव॑ति । सहृ॑दयमे॒वाग्निमा ध॑त्ते ।। 25 ।। 1.1.4.0 ध्या॒य॒ति॒ वै रात्रि॒श्चाव॑रुन्धे भविष्य॒न्तीत्य॑ब्रवीज्जनि॒ष्यसे॑ऽजय॒द्वसी॑यान्भवति॒ नव॑ च ।। 4 ।। 1.1.4.1 द्वा॒द॒शसु॑ विक्रा॒मेष्व॒ग्निमा द॑धीत । द्वाद॑श॒ मासास्संवथ्स॒रः । सं॒व॒थ्स॒रादे॒वैन॑मव॒रुद्ध्या ध॑त्ते । यद्द्वा॑द॒शसु॑ विक्रा॒मेष्वा॒ दधी॑त । परि॑मित॒मव॑ रुन्धीत । चक्षु॑र्निमित॒ आद॑धीत । इय॒द्द्वाद॑श विक्रा॒मा (३) इति॑ । परि॑मितं चै॒वाप॑रिमितं॒ चाव॑ रुन्धे । अनृ॑तं॒ वै वा॒चा व॑दति । अनृ॑तं॒ मन॑सा ध्यायति ।। 26 ।। 1.1.4.2 चक्षु॒र्वै स॒त्यम् । अद्रा(३)गित्या॑ह । अद॑ऱ्श॒मिति॑ । तथ्स॒त्यम् । यश्चक्षु॑र्निमिते॒ऽग्निमा॑ध॒त्ते । स॒त्य ए॒वैन॒मा ध॑त्ते । तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तं वदेत् । नास्य॑ ब्राह्म॒णोऽनाश्वान्गृ॒हे व॑सेत् । स॒त्ये ह्य॑स्या॒ग्निराहि॑तः । आ॒ग्ने॒यी वै रात्रिः॑ ।। 27 ।। 1.1.4.3 आ॒ग्ने॒या प॒शवः॑ । ऐ॒न्द्रमहः॑ । नक्तं॒ गाऱ्ह॑पत्य॒मा द॑धाति । प॒शूने॒वाव॑ रुन्धे । दिवा॑ऽऽहव॒नीयम् । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । अ॒र्धोदि॑ते॒ सूर्य॑ आहव॒नीय॒मा द॑धाति । ए॒तस्मि॒न्वै लो॒के प्र॒जाप॑ति प्र॒जा अ॑सृजत । प्र॒जा ए॒व तद्यज॑मानस्सृजते । अथो॑ भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑ रुन्धे ।। 28 ।। 1.1.4.4 इडा॒ वै मा॑न॒वी य॑ज्ञानूका॒शिन्या॑सीत् । साऽशृ॑णोत् । असु॑रा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । त आ॑हव॒नीय॒मग्र॒ आद॑धत । अथ॒ गाऱ्ह॑पत्यम् । अथान्वाहार्य॒पच॑नम् । साऽब्र॑वीत् । प्र॒तीच्ये॑षा॒॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा परा॑ भविष्य॒न्तीति॑ ।। 29 ।। 1.1.4.5 यस्यै॒वम॒ग्निरा॑धी॒यते । प्र॒तीच्य॑स्य॒ श्रीरे॑ति । भ॒द्रो भू॒त्वा परा॑भवति । साऽशृ॑णोत् । दे॒वा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । तेऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत । अथ॒ गाऱ्ह॑पत्यम् । अथा॑हव॒नीयम् । साऽब्र॑वीत् ।। 30 ।। 1.1.4.6 प्राच्ये॑षा॒॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा सु॑व॒र्गंल्लो॒कमेष्यन्ति । प्र॒जां तु न वेथ्स्यन्त॒ इति॑ । यस्यै॒वम॒ग्निरा॑धी॒यते । प्राच्य॑स्य॒ श्रीरे॑ति । भ॒द्रो भू॒त्वा सु॑व॒र्गं लो॒कमे॑ति । प्र॒जां तु न वि॑न्दते । साऽब्र॑वी॒दिडा॒ मनुम् । तथा॒ वा अ॒हं तवा॒ग्निमाधास्यामि । यथा॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्ज॑नि॒ष्यसे ।। 31 ।। 1.1.4.7 प्रत्य॒स्मिल्लोँ॒के स्था॒स्यसि॑ । अ॒भि सु॑व॒र्गं लो॒कं जे॒ष्यसीति॑ । गाऱ्ह॑पत्य॒मग्र॒ आद॑धात् । गाऱ्ह॑पत्यं॒ वा अनु॑ प्र॒जा प॒शव॒ प्रजा॑यन्ते । गाऱ्ह॑पत्येनै॒वास्मै प्र॒जां प॒शून्प्राज॑नयत् । अथान्वाहार्य॒पच॑नम् । ति॒र्यङ्ङि॑व॒ वा अ॒यं लो॒कः । अ॒स्मिन्नै॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् । अथा॑हव॒नीयम् । तेनै॒व सु॑व॒र्गं लो॒कम॒भ्य॑जयत् ।। 32 ।। 1.1.4.8 यस्यै॒वम॒ग्निरा॑धी॒यते । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । प्रत्य॒स्मिल्लोँ॒के ति॑ष्ठति । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति । यस्य॒ वा अय॑थादेवतम॒ग्निरा॑धी॒यते । आ दे॒वताभ्यो वृश्च्यते । पापी॑यान्भवति । यस्य॑ यथादेव॒तम् । न दे॒वताभ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति ।। 33 ।। भृगू॑णां॒ त्वाऽङ्गि॑रसां व्रतपते व्र॒तेनाद॑धा॒मीति॑ भृग्वङ्गि॒रसा॒माद॑ध्यात् । आ॒दि॒त्यानां त्वा दे॒वानां व्रतपते व्र॒तेनाद॑धा॒मीत्य॒न्यासां॒ ब्राह्म॑णीनां प्र॒जानाम् । वरु॑णस्य त्वा॒ राज्ञो व्रतपते व्र॒तेनाद॑धा॒मीति॒ राज्ञः॑ । इन्द्र॑स्य त्वेन्द्रि॒येण॑ व्रतपते व्र॒तेनाद॑धा॒मीति॑ राज॒न्य॑स्य । मनोस्त्वा ग्राम॒ण्यो व्रतपते व्र॒तेनाद॑धा॒मिति॒ वैश्य॑स्य । ऋ॒भू॒णां त्वा॑ दे॒वानां व्रतपते व्र॒तेनाद॑धा॒मीति॑ रथका॒रस्य॑ । य॒था॒दे॒व॒तम॒ग्निराधी॑यते । न दे॒वताभ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति ।। 34 ।। 1.1.5.0 ए॒न॒मा॒ह॒व॒नीयं॑ धत्तेऽश्व॒त्वं व॑र्तयति कुरुत॒ इति॑ रु॒द्रो द॑धाति॒ य॒दग्नये॒ शुच॑य॒ एकं॑ च ।। 5 ।। 1.1.5.1 प्र॒जाप॑तिर्वा॒चस्स॒त्यम॑पश्यत् । तेना॒ग्निमाध॑त्त । तेन॒ वै स आर्ध्नोत् । भूर्भुव॒स्सुव॒रित्या॑ह । ए॒तद्वै वा॒चस्स॒त्यम् । य ए॒तेना॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व । अथो॑ स॒त्यप्रा॑शूरे॒व भ॑वति । अथो॒ य ए॒वं वि॒द्वान॑भि॒चर॑ति । स्तृ॒णु॒त ए॒वैनम् ।। 35 ।। 1.1.5.2 भूरित्या॑ह । प्र॒जा ए॒व तद्यज॑मानस्सृजते । भुव॒ इत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । सुव॒रित्या॑ह । सु॒व॒र्ग ए॒व लो॒के प्रति॑तिष्ठति । त्रि॒भिर॒क्षरै॒र्गाऱ्ह॑पत्य॒मा द॑धाति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । सर्वै प॒ञ्चभि॑राहव॒नीयम् ।। 36 ।। 1.1.5.3 सु॒व॒र्गाय॒ वा ए॒ष लो॒कायाधी॑यते । यदा॑हव॒नीयः॑ । सु॒व॒र्ग ए॒वास्मै॑ लो॒के वा॒चस्स॒त्य सर्व॑माप्नोति । त्रि॒भिर्गाऱ्ह॑पत्य॒मा द॑धाति । प॒ञ्चभि॑राहव॒नीयम् । अ॒ष्टौ संप॑द्यन्ते । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रोऽग्निः । यावा॑ने॒वाग्निः । तमाध॑त्ते ।। 37 ।। 1.1.5.4 प्र॒जाप॑ति प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टा परा॑चीरायन्न् । ताभ्यो॒ ज्योति॒रुद॑गृह्णात् । तं ज्योति॒ पश्य॑न्ती प्र॒जा अ॒भि स॒माव॑र्तन्त । उ॒परी॑वा॒ग्निमुद्गृ॑ह्णीयादु॒द्धरन्न्॑ । ज्योति॑रे॒व पश्य॑न्ती प्र॒जा यज॑मानम॒भि स॒माव॑र्तन्ते । प्र॒जाप॑ते॒रक्ष्य॑श्वयत् । तत्परा॑ऽपतत् । तदश्वो॑ऽभवत् । तदश्व॑स्याश्व॒त्वम् ।। 38 ।। 1.1.5.5 ए॒ष वै प्र॒जाप॑तिः । यद॒ग्निः । प्रा॒जा॒प॒त्योऽश्वः॑ । यदश्वं॑ पु॒रस्ता॒न्नय॑ति । स्वमे॒व चक्षु॒ पश्य॑न्प्र॒जाप॑ति॒रनूदे॑ति । व॒ज्री वा ए॒षः । यदश्वः॑ । यदश्वं॑ पु॒रस्ता॒न्नय॑ति । जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते । पुन॒रा व॑र्तयति ।। 39 ।। 1.1.5.6 ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते । न्या॑हव॒नीयो॒ गाऱ्ह॑पत्यमकामयत । निगाऱ्ह॑पत्य आहव॒नीयम् । तौ वि॒भाजं॒ नाश॑क्नोत् । सोऽश्व॑ पूर्व॒वाड्भू॒त्वा । प्राञ्चं॒ पूर्व॒मुद॑वहत् । तत्पूर्व॒वाह॑ पूर्ववा॒ट्त्वम् । यदश्वं॑ पु॒रस्ता॒न्नय॑ति । विभ॑क्तिरे॒वैन॑यो॒स्सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते ।। 40 ।। 1.1.5.7 यदु॒पर्यु॑परि॒ शिरो॒ हरेत् । प्रा॒णान्‌विच्छि॑न्द्यात् । अ॒धो॑ऽध॒श्शिरो॑ हरति । प्रा॒णानां गोपी॒थाय॑ । इय॒त्यग्रे॑ हरति । अथेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । प्र॒जाप॑तिर॒ग्निम॑सृजत । सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ ।। 41 ।। 1.1.5.8 तस्य॑ त्रे॒धा म॑हि॒मान॒व्व्यौँ॑हत् । शान्त्या॒ अप्र॑दाहाय । यत्त्रे॒धाऽग्निरा॑धी॒यते । म॒हि॒मान॑मे॒वास्य॒ तद्व्यू॑हति । शान्त्या॒ अप्र॑दाहाय । पुन॒रा व॑र्तयति । म॒हि॒मान॑मे॒वास्य॒ संद॑धाति । प॒शुर्वा ए॒षः । यदश्वः॑ । ए॒ष रु॒द्रः ।। 42 ।। 1.1.5.9 यद॒ग्निः । यदश्व॑स्य प॒देऽग्निमा॑द॒ध्यात् । रु॒द्राय॑ प॒शूनपि॑दध्यात् । अ॒प॒शुर्यज॑मानस्स्यात् । यन्नाक्र॒मयेत् । अन॑वरुद्धा अस्य प॒शव॑स्स्युः । पा॒र्श्व॒त आक्र॑मयेत् । यथाऽऽहि॑तस्या॒ग्नेरङ्गा॑रा अभ्यव॒वर्ते॑रन्न् । अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति । न रु॒द्रायापि॑दधाति ।। 43 ।। 1.1.5.10 त्रीणि॑ ह॒वीषि॒ निर्व॑पति । वि॒राज॑ ए॒व विक्रान्तं॒ यज॑मा॒नोऽनु॒ विक्र॑मते । अ॒ग्नये॒ पव॑मानाय । अ॒ग्नये॑ पाव॒काय॑ । अ॒ग्नये॒ शुच॑ये । यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति । पु॒नात्ये॒वैनम् । यद॒ग्नये॑ पाव॒काय॑ । पू॒त ए॒वास्मि॑न्न॒न्नाद्यं॑ दधाति । यद॒ग्नये॒ शुच॑ये । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति ।। 44 ।। 1.1.6.0 आ॒दि॒त्ये तृती॑यम॒फ्स्वासी॒त्तत्तेनावा॑रुन्धत॒ स्यादाप्यते॒ रेतो॒ऽग्निरेक॑मेकमे॒तानि॑ ह॒वीषि॑ नि॒र्वपेत्प्र॒त्यव॑रोहति ददात्यध्व॒र्युर्देय॒मेकं॑ च ।। 6 ।। 1.1.6.1 दे॒वा॒सु॒रास्संय॑त्ता आसन्न् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नौ वा॒मं वसु॒ सं न्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ । तद॒ग्निर्नोथ्सह॑मशक्नोत् । तत् त्रे॒धा विन्य॑दधात् । प॒शुषु॒ तृती॑यम् । अ॒फ्सु तृती॑यम् । आ॒दि॒त्ये तृती॑यम् ।। 45 ।। 1.1.6.2 तद्दे॒वा वि॒जित्य॑ । पुन॒रवा॑रुरुथ्सन्त । तेऽग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्न् । प॒शवो॒ वा अ॒ग्नि पव॑मानः । यदे॒व प॒शुष्वासीत् । तत्तेनावा॑रुन्धत । तेऽग्नये॑ पाव॒काय॑ । आपो॒ वा अ॒ग्नि पा॑व॒कः । यदे॒वाफ्स्वासीत् । तत्तेनावा॑रुन्धत ।। 46 ।। 1.1.6.3 तेऽग्नये॒ शुच॑ये । अ॒सौ वा आ॑दि॒त्योऽग्निश्शुचिः॑ । यदे॒वादि॒त्य आसीत् । तत्तेनावा॑रुन्धत । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । त॒नुवो॒ वावैता अ॑ग्न्या॒धेय॑स्य । आ॒ग्ने॒यो वा अ॒ष्टाक॑पालोऽग्न्या॒धेय॒मिति॑ । यत्तन्नि॒र्वपेत् । नैतानि॑ । यथा॒ऽऽत्मा स्यात् ।। 47 ।। 1.1.6.4 नाङ्गा॑नि । ता॒दृगे॒व तत् । यदे॒तानि॑ नि॒र्वपेत् । न तम् । यथाऽङ्गा॑नि॒ स्युः । नात्मा । ता॒दृगे॒व तत् । उ॒भया॑नि स॒ह नि॒रुप्या॑णि । य॒ज्ञस्य॑ सात्म॒त्वाय॑ । उ॒भयं॒ वा ए॒तस्येन्द्रि॒यं वी॒र्य॑माप्यते ।। 48 ।। 1.1.6.5 योऽग्निमा॑ध॒त्ते । ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒ निर्व॑पेत् । आ॒दि॒त्यं च॒रुम् । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तमायामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यं वी॒र्य॑मव॑ रुन्धे । आ॒दि॒त्यो भ॑वति । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒न्वै वा ए॒तद्रेतः॑ ।। 49 ।। 1.1.6.6 यदाज्यम् । अ॒न॒डुह॑स्तण्डु॒लाः । मि॒थु॒नमे॒वाव॑रुन्धे । घृ॒ते भ॑वति । य॒ज्ञस्यालूक्षान्तत्वाय । च॒त्वार॑ आऱ्षे॒या प्राश्ञ॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । प॒शवो॒ वा ए॒तानि॑ ह॒वीषि॑ । ए॒ष रु॒द्रः । यद॒ग्निः ।। 50 ।। 1.1.6.7 यथ्स॒द्य ए॒तानि॑ ह॒वीषि॑ नि॒र्वपेत् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् । अ॒प॒शुर्यज॑मानस्स्यात् । यन्नानु॑नि॒र्वपेत् । अन॑वरुद्धा अस्य प॒शव॑स्स्युः । द्वा॒द॒शसु॒ रात्री॒ष्वनु॒ निर्व॑पेत् । सं॒व॒थ्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सं॒व॒थ्स॒रेणै॒वास्मै॑ रु॒द्र श॑मयि॒त्वा । प॒शूनव॑रुन्धे । यदेक॑मेकमे॒तानि॑ ह॒वीषि॑ नि॒र्वपेत् ।। 51 ।। 1.1.6.8 यथा॒ त्रीण्या॒वप॑नानि पू॒रयेत् । ता॒दृक्तत् । न प्र॒जन॑न॒मुच्छि॑षेत् । एकं॑ नि॒रुप्य॑ । उत्त॑रे॒ सम॑स्येत् । तृ॒तीय॑मे॒वास्मै॑ लो॒कमुच्छि॑षति प्र॒जन॑नाय । तं प्र॒जया॑ प॒शुभि॒रनु॒ प्रजा॑यते । अथो॑ य॒ज्ञस्यै॒वैषाऽभिक्रान्तिः । र॒थ॒च॒क्रं प्रव॑र्तयति । म॒नु॒ष्य॒र॒थेनै॒व दे॑वर॒थं प्र॒त्यव॑रोहति ।। 52 ।। 1.1.6.9 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑मग्निहो॒त्राँ (३)न हो॑त॒व्या (३) मिति॑ । यद्यजु॑षा जुहु॒यात् । अय॑थापूर्व॒माहु॑ती जुहुयात् । यन्न जु॑हु॒यात् । अ॒ग्नि परा॑ भवेत् । तू॒ष्णीमे॒व हो॑त॒व्यम् । य॒था॒पू॒र्वमाहु॑ती जु॒होति॑ । नाग्नि परा॑भवति । अ॒ग्नीधे॑ ददाति ।। 53 ।। 1.1.6.10 अ॒ग्निमु॑खाने॒वर्तून्प्री॑णाति । उ॒प॒बऱ्ह॑णं ददाति । रू॒पाणा॒मव॑रुद्ध्यै । अश्वं॑ ब्र॒ह्मणे । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । धे॒नु होत्रे । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒न॒ड्वाह॑मध्व॒र्यवे । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑रध्व॒र्युः ।। 54 ।। 1.1.6.11 वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे । मि॒थु॒नौ गावौ॑ ददाति । मि॒थु॒नस्याव॑रुद्ध्यै । वासो॑ ददाति । स॒र्व॒दे॒व॒त्यं॑ वै वासः॑ । सर्वा॑ ए॒व दे॒वता प्रीणाति । आ द्वा॑द॒शभ्यो॑ ददाति । द्वाद॑श॒ मासास्संवथ्स॒रः । सं॒व॒थ्स॒र ए॒व प्रति॑तिष्ठति । काम॑मू॒र्ध्वं देयम् । अप॑रिमित॒स्याव॑रुद्ध्यै ।। 55 ।। 1.1.7.0 चतु॑ष्पदे जिन्वतां त॒नुव॒स्त्रीणि॑ च ।। 7 ।। 1.1.7.1 घ॒र्मश्शिर॒स्तद॒यम॒ग्निः । संप्रि॑य प॒शुभि॑र्भुवत् । छ॒र्दिस्तो॒काय॒ तन॑याय यच्छ । वात॑ प्रा॒णस्तद॒यम॒ग्निः । संप्रि॑य प॒शुभि॑र्भुवत् । स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॑च । प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् । अ॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि । ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।। 56 ।। 1.1.7.2 अ॒र्कश्चक्षु॒स्तद॒सौ सूर्य॒स्तद॒यम॒ग्निः । संप्रि॑य प॒शुभि॑र्भुवत् । यत्ते॑ शुक्र शु॒क्रं वर्च॑श्शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निनाऽग्ने॒ ब्रह्म॑णा । आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र्व्या॑नशे । ये ते॑ अग्ने शि॒वे त॒नुवौ । वि॒राट्च॑ स्व॒राट्च॑ । ते मावि॑शतां॒ ते मा॑ जिन्वताम् ।। 57 ।। 1.1.7.3 ये ते॑ अग्ने शि॒वे त॒नुवौ । सं॒राट्चा॑भि॒भूश्च॑ । ते मावि॑शतां॒ ते मा॑ जिन्वताम् । ये ते॑ अग्ने शि॒वे त॒नुवौ । वि॒भूश्च॑ परि॒भूश्च॑ । ते मा वि॑शतां॒ ते मा॑ जिन्वताम् । ये ते॑ अग्ने शि॒वे त॒नुवौ । प्र॒भ्वी च॒ प्रभू॑तिश्च । ते मा वि॑शतां॒ ते मा॑ जिन्वताम् । यास्ते॑ अग्ने शि॒वास्त॒नुवः॑ । ताभि॒स्त्वाऽऽद॑धे । यास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॑र॒मुं ग॑च्छ ।। 58 ।। 1.1.8.0 लो॒को॑ऽसृजतैन॒माध॑त्तेऽन्वाहार्य॒पच॑नं दे॒वाना॒मन्न॑मेनं॒ प्रति॑ष्ठित॒माध॑त्ते॒ पञ्च॑ च ।। 8 ।। 1.1.8.1 इ॒मे वा ए॒ते लो॒का अ॒ग्नयः॑ । ते यदव्या॑वृत्ता आधी॒येरन्न्॑ । शो॒चये॑यु॒र्यज॑मानम् । घ॒र्मश्शिर॒ इति॒ गाऱ्ह॑पत्य॒मा द॑धाति । वात॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् । अ॒र्कश्चक्षु॒रित्या॑हव॒नीयम् । तेनै॒वैना॒न्व्याव॑र्तयति । तथा॒ न शो॑चयन्ति॒ यज॑मानम् । र॒थ॒न्त॒रम॒भिगा॑यते॒ गाऱ्ह॑पत्य आधी॒यमा॑ने । राथ॑न्तरो॒ वा अ॒यं लो॒कः ।। 59 ।। 1.1.8.2 अ॒स्मिन्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒मा ध॑त्ते । वा॒म॒दे॒व्यम॒भिगा॑यत उद्ध्रि॒यमा॑णे । अ॒न्तरि॑क्षं॒ वै वा॑मदे॒व्यम् । अ॒न्तरि॑क्ष ए॒वैनं॒ प्रति॑ष्ठित॒माध॑त्ते । अथो॒ शान्ति॒र्वै वा॑मदे॒व्यम् । शा॒न्तमे॒वैनं॑ पश॒व्य॑मुद्ध॑रते । बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने । बाऱ्ह॑तो॒ वा अ॒सौ लो॒कः । अ॒मुष्मि॑न्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते । प्र॒जाप॑तिर॒ग्निम॑सृजत ।। 60 ।। 1.1.8.3 सोऽश्वो॒ऽवारो॑ भू॒त्वा परा॑ङैत् । तं वा॑रव॒न्तीये॑नावारयत । तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् । श्यै॒तेन॑ श्ये॒ती अ॑कुरुत । तच्छ्यै॒तस्य॑ श्यैत॒त्वम् । यद्वा॑रव॒न्तीय॑मभि॒ गाय॑ते । वा॒र॒यि॒त्वैवैनं॒ प्रति॑ष्ठित॒मा ध॑त्ते । श्यै॒तेन॑ श्ये॒ती कु॑रुते । घ॒र्मश्शिर॒ इति॒ गाऱ्ह॑पत्य॒माद॑धाति । सशी॑ऱ्षाणमे॒वैन॒मा ध॑त्ते ।। 61 ।। 1.1.8.4 उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मति । रु॒द्रो वा ए॒षः । यद॒ग्निः । स आ॑धी॒यमा॑न ईश्व॒रो यज॑मानस्य प॒शून् हिसि॑तोः । संप्रि॑यः प॒शुभि॑र्भुव॒दित्या॑ह । प॒शुभि॑रे॒वैन॒॒ संप्रि॑यं करोति । प॒शू॒नामहि॑सायै । छ॒र्दिस्तो॒काय॒ तन॑याय य॒च्छेत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् ।। 62 ।। 1.1.8.5 सप्रा॑णमे॒वैन॒मा ध॑त्ते । स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॒चेत्या॑ह । अन्न॑मे॒वास्मै स्वदयति । प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह । विभ॑क्तिरे॒वैन॑यो॒स्सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते । ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । अ॒र्कश्चक्षु॒रित्या॑हव॒नीयम् । अ॒र्को वै दे॒वाना॒मन्नम् ।। 63 ।। 1.1.8.6 अन्न॑मे॒वाव॑ रुन्धे । तेन॑ मे दीदि॒हीत्या॑ह । समि॑न्ध ए॒वैनम् । आ॒न॒शे व्या॑नश॒ इति॒ त्रिरुदि॑ङ्गयति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒मा ध॑त्ते । तत्तथा॒ न का॒र्यम् । वीङ्गि॑त॒मप्र॑तिष्ठित॒मा द॑धीत । उ॒द्धृत्यै॒वाधाया॑भि॒मन्त्रियः॑ । अवीङ्गितमे॒वैनं॒ प्रति॑ष्ठित॒माध॑त्ते । वि॒राट्च॑ स्व॒राट्च॒ यास्ते॑ अग्ने शि॒वास्त॒नुव॒स्ताभि॒स्त्वाऽऽद॑ध॒ इत्या॑ह । ए॒ता वा अ॒ग्नेश्शि॒वास्त॒नुवः॑ । ताभि॑रे॒वैन॒॒ सम॑र्धयति । यास्ते॑ अग्ने घो॒रास्त॒नुव॒स्ताभि॑र॒मुं ग॒च्छेति॑ ब्रूया॒द्यं द्वि॒ष्यात् । ताभि॑रे॒वैनं॒ परा॑भावयति ।। 64 ।। 1.1.9.0 द्वि॒तीय॑मपचच्चतु॒र्थम॑पच॒ददि॑ती॒ रेतो॑ऽधत्त॒ संमि॑ता घृ॒तव॑तीभि॒राद॑धाति राज॒न्य॑स्स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाये॑याद्गच्छति मन्थति॒ रात्र॑यश्च॒त्वारि॑ च ।। 9 ।। 1.1.9.1 श॒मी॒ग॒र्भाद॒ग्निं म॑न्थति । ए॒षा वा अ॒ग्नेर्य॒ज्ञिया॑ त॒नूः । तामे॒वास्मै॑ जनयति । अदि॑तिः पु॒त्त्रका॑मा । सा॒ध्येभ्यो॑ दे॒वेभ्यो ब्रह्मौद॒नम॑पचत् । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञात् । सा रेतो॑ऽधत्त । तस्यै॑ धा॒ता चार्य॒मा चा॑जायेताम् । सा द्वि॒तीय॑मपचत् ।। 65 ।। 1.1.9.2 तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञात् । सा रेतो॑ऽधत्त । तस्यै॑ मि॒त्रश्च॒ वरु॑णश्चाजायेताम् । सा तृ॒तीय॑मपचत् । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञात् । सा रेतो॑ऽधत्त । तस्या॒ अश॑श्च॒ भग॑श्चाजायेताम् । सा च॑तु॒र्थम॑पचत् ।। 66 ।। 1.1.9.3 तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञात् । सा रेतो॑ऽधत्त । तस्या॒ इन्द्र॑श्च॒ विव॑स्वाश्चाजायेताम् । ब्र॒ह्मौ॒द॒नं प॑चति । रेत॑ ए॒व तद्द॑धाति । प्राश्ञ॑न्ति ब्राह्म॒णा ओ॑द॒नम् । यदाज्य॑मु॒च्छिष्य॑ते । तेन॑ स॒मिधो॒ऽभ्यज्या द॑धाति । उ॒च्छेष॑णा॒द्वा अदि॑ती॒ रेतो॑ऽधत्त ।। 67 ।। 1.1.9.4 उ॒च्छेष॑णादे॒व तद्रेतो॑ धत्ते । अस्थि॒ वा ए॒तत् । यथ्स॒मिधः॑ । ए॒तद्रेतः॑ । यदाज्यम् । यदाज्ये॑न स॒मिधो॒ऽभ्यज्या॒दधा॑ति । अस्थ्ये॒व तद्रेत॑सि दधाति । ति॒स्र आद॑धाति मिथुन॒त्वाय॑ । इय॑तीर्भवन्ति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताः ।। 68 ।। 1.1.9.5 इय॑तीर्भवन्ति । य॒ज्ञ॒प॒रुषा॒ संमि॑ताः । इय॑तीर्भवन्ति । ए॒ताव॒द्वै पुरु॑षे वी॒र्यम् । वी॒र्य॑संमिताः । आ॒र्द्रा भ॑वन्ति । आ॒र्द्रमि॑व॒ हि रेत॑स्सि॒च्यते । चित्रि॑यस्याश्व॒त्थस्याद॑धाति । चि॒त्रमे॒व भ॑वति । घृ॒तव॑तीभि॒रा द॑धाति ।। 69 ।। 1.1.9.6 ए॒तद्वा अ॒ग्ने प्रि॒यं धाम॑ । यद्घृ॒तम् । प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति । अथो॒ तेज॑सा । गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याद॑ध्यात् । गा॒य॒त्रछ॑न्दा॒ वै ब्राह्म॒णः । स्वस्य॒ छन्द॑स प्रत्ययन॒स्त्वाय॑ । त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य । त्रि॒ष्टुप्छ॑न्दा॒ वै रा॑ज॒न्यः॑ । स्वस्य॒ छन्द॑स प्रत्ययन॒स्त्वाय॑ ।। 70 ।। 1.1.9.7 जग॑तीभि॒र्वैश्य॑स्य । जग॑तीछन्दा॒ वै वैश्यः॑ । स्वस्य॒ छन्द॑स प्रत्ययन॒स्त्वाय॑ । त सं॑वथ्स॒रं गो॑पायेत् । सं॒व॒थ्स॒र हि रेतो॑ हि॒तं वर्ध॑ते । यद्ये॑न संवथ्स॒रे नोप॒नमेत् । स॒मिधः॒ पुन॒राद॑ध्यात् । रेत॑ ए॒व तद्धि॒तं वर्ध॑मानमेति । न मा॒॒सम॑श्ञीयात् । न स्त्रिय॒मुपे॑यात् ।। 71 ।। 1.1.9.8 यन्मा॒॒सम॑श्ञी॒यात् । यथ्स्त्रिय॑मुपे॒यात् । निर्वीर्यस्स्यात् । नैन॑म॒ग्निरुप॑नमेत् । श्व आ॑धा॒स्यमा॑नो ब्रह्मौद॒नं प॑चति । आ॒दि॒त्या वा इ॒त उ॑त्त॒मास्सु॑व॒र्गं लो॒कमा॑यन्न् । ते वा इ॒तो यन्तं॒ प्रति॑नुदन्ते । ए॒ते खलु॒ वावादि॒त्याः । यद्ब्राह्म॒णाः । तैरे॒व स॒न्त्वं ग॑च्छति ।। 72 ।। 1.1.9.9 नैनं॒ प्रति॑नुदन्ते । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । क्वा॑ सः । अ॒ग्निः का॒र्यः॑ । योऽस्मै प्र॒जां प॒शून्प्र॑ज॒नय॒तीति॑ । शल्कै॒स्तारात्रि॑म॒ग्निमि॑न्धीत । तस्मि॑न्नुपव्यु॒षम॒रणी॒ निष्ट॑पेत् । यथ॑ऱ्ष॒भाय॑ वाशि॒ता न्या॑विच्छा॒यति॑ । ता॒दृगे॒व तत् । अ॒पो॒दूह्य॒ भस्मा॒ग्निं म॑न्थति ।। 73 ।। 1.1.9.10 सैव साऽग्नेस्सन्त॑तिः । तं म॑थि॒त्वा प्राञ्च॒मुद्ध॑रति । सं॒व॒थ्स॒रमे॒व तद्रेतो॑ हि॒तं प्रज॑नयति । अना॑हित॒स्तस्या॒ग्निरित्या॑हुः । यस्स॒मिधोऽना॑धाया॒ग्निमा॑ध॒त्त इति॑ । तास्सं॑वथ्स॒रे पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒थ्सरादे॒वैन॑मव॒रुध्याध॑त्ते । यदि॑ संवथ्स॒रेऽनाद॒ध्यात् । द्वा॒द॒श्यां पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒थ्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सं॒व॒थ्स॒रमे॒वास्याहि॑ता भवन्ति । यदि॑ द्वाद॒श्यां नाद॒ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् । आहि॑ता ए॒वास्य॑ भवन्ति ।। 74 ।। 1.1.10.0 ए॒षा प॒शून्मे॑ गोपा॒येति॒ प्रवि॑ष्टा प॒शून्मे॑ गोपा॒येत्या॑ह॒ जुह्व॑ति तिष्ठते स॒प्त च॑ ।। 10 ।। 1.1.10.1 प्र॒जाप॑ति प्र॒जा अ॑सृजत । स रि॑रिचा॒नो॑ऽमन्यत । स तपो॑ऽतप्यत । स आ॒त्मन्वी॒र्य॑मपश्यत् । तद॑वर्धत । तद॑स्मा॒थ्सह॑सो॒र्ध्वम॑सृज्यत । सा वि॒राड॑भवत् । तां दे॑वासु॒रा व्य॑गृह्णत । सोऽब्रवीत्प्र॒जाप॑तिः । मम॒ वा ए॒षा ।। 75 ।। 1.1.10.2 दोहा॑ ए॒व यु॒ष्माक॒मिति॑ । सा तत॒ प्राच्युद॑क्रामत् । तत्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । अथ॑र्व पि॒तुं मे॑ गोपा॒येति॑ । सा द्वि॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । नर्य॑ प्र॒जां मे॑ गोपा॒येति॑ । सा तृ॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । शस्य॑ प॒शून्मे॑ गोपा॒येति॑ ।। 76 ।। 1.1.10.3 सा च॑तु॒र्थमुद॑क्रामत् । तत्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । सप्र॑थ स॒भां मे॑ गोपा॒येति॑ । सा प॑ञ्च॒ममुद॑क्रामत् । तत्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपा॒येति॑ । अ॒ग्नीन् वाव सा तान्व्य॑क्रमत । तान्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । अथो॑ प॒ङ्क्तिमे॒व । प॒ङ्क्तिर्वा ए॒षा ब्राह्म॒णे प्रवि॑ष्टा ।। 77 ।। 1.1.10.4 तामा॒त्मनोऽधि॒ निर्मि॑मीते । यद॒ग्निरा॑धी॒यते । तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॒ आधी॑यन्ते । पाङ्क्तं॒ वा इ॒द सर्वम् । पाङ्क्ते॑नै॒व पाङ्क्त॑ स्पृणोति । अथ॑र्व पि॒तुं मे॑ गोपा॒येत्या॑ह । अन्न॑मे॒वैतेन॑ स्पृणोति । नर्य॑ प्र॒जां मे॑ गोपा॒येत्या॑ह । प्र॒जामे॒वैतेन॑ स्पृणोति । शस्य॑ प॒शून्मे॑ गोपा॒येत्या॑ह ।। 78 ।। 1.1.10.5 प॒शूने॒वैतेन॑ स्पृणोति । सप्र॑थ स॒भां मे॑ गोपा॒येत्या॑ह । स॒भामे॒वैतेनेन्द्रि॒य स्पृ॑णोति । अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपा॒येत्या॑ह । मन्त्र॑मे॒वैतेन॒ श्रिय॑ स्पृणोति । यदा॑न्वाहार्य॒पच॑नेऽन्वाहा॒र्यं॑ पच॑न्ति । तेन॒ सोऽस्या॒भीष्ट॑ प्री॒तः । यद्गाऱ्ह॑पत्य॒ आज्य॑मधि॒श्रय॑न्ति॒ संपत्नीर्या॒जय॑न्ति । तेन॒ सोऽस्या॒भीष्ट॑ प्री॒तः । यदा॑हव॒नीये॒ जुह्व॑ति ।। 79 ।। 1.1.10.6 तेन॒ सोऽस्या॒भीष्ट॑ प्री॒तः । यथ्स॒भायां वि॒जय॑न्ते । तेन॒ सोऽस्या॒भीष्ट॑ प्री॒तः । यदा॑वस॒थेऽन्न॒॒ हर॑न्ति । तेन॒ सोऽस्या॒भीष्ट॑ प्री॒तः । तथाऽस्य॒ सर्वे प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते । प्र॒व॒स॒थमे॒ष्यन्ने॒वमुप॑तिष्ठे॒तैक॑मेकम् । यथा ब्राह्म॒णाय॑ गृहेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑ । ता॒दृगे॒व तत् । पुन॑रा॒गत्योप॑तिष्ठते । सा भा॑गेयमे॒वैषां॒ तत् । सा तत॑ ऊ॒र्ध्वारो॑हत् । सा रो॑हि॒ण्य॑भवत् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । रो॒हि॒ण्याम॒ग्निमाद॑धीत । स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठित॒माध॑त्ते । ऋ॒ध्नोत्ये॑नेन ।। 80 ।। 1.2.0.0 उ॒द्ध॒न्यमा॑नं॒ नवै॒तानि॒ सन्त॑तिरेकवि॒॒श ए॒षोऽप्र॑तिष्ठां प्र॒जाप॑तिर्वृ॒त्तष्षट् ।। 6 ।। उ॒द्ध॒न्यमा॑न शो॒चिष्के॒शोऽग्ने॑ स॒पत्ना॑नतिग्रा॒ह्या॑ वैश्वदे॒वमाल॑भन्ते पञ्चा॒शत् ।। 50 ।। ।। उद्ध॒न्यमा॑न॒॒ संवि॑न्दन्ते ।। हरिः॑ ओम् ।। प्रथमाष्टके द्वितीय प्रपाठकस्समाप्तः 1.2.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयप्रश्नः ।। हरिः ओम् ।। 1.2.1.0 वि॒श॒न्तु॒ नः॒ पु॒रू॒चीर्वि॑धेम नि॒धाय॒ यत्तेऽप्र॑दाहाय बृह॒त्यो ब्रह्म॑णा दुवस्यत वि॒श्ववा॑र इ॒ममृ॑ञ्जते पुरो॒गां प्रज॑नयि॒ष्यथो॑ जनि॒ष्यतेऽस्मै॒ मम॑ महि॒म्ना वर्च॑से॒ दध॑थ्सुव॒र्गो भा॑हि संबभू॒वतु॒रायु॒र्व्या॑नशे॒ चतु॑ष्सदस्स॒तां प्र॒जाप॑ते॒र्द्वे च॑ ।। 1 ।। 1.2.1.1 उ॒द्ध॒न्यमा॑नम॒स्या अ॑मे॒ध्यम् । अप॑ पा॒प्मानं॒ यज॑मानस्य हन्तु । शि॒वा न॑स्सन्तु प्र॒दिश॒श्चत॑स्रः । शं नो॑ मा॒ता पृ॑थि॒वी तोक॑साता । शं नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये । शंयोर॒भि स्र॑वन्तु नः । वै॒श्वा॒न॒रस्य॑ रू॒पम् । पृ॒थि॒व्यां प॑रि॒स्रसा । स्यो॒नमा वि॑शन्तु नः ।। 1 ।। 1.2.1.2 यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः । सं॒ज॒ज्ञा॒ने रोद॑सी संबभू॒वतुः॑ । ऊषान्कृ॒ष्णम॑वतु कृ॒ष्णमूषाः । इ॒होभयोर्य॒ज्ञिय॒माग॑मिष्ठाः । ऊ॒तीः कु॑र्वा॒णो यत्पृ॑थि॒वीमच॑रः । गु॒हा॒कार॑माखुरू॒पं प्र॒तीत्य॑ । तत्ते॒ न्य॑क्तमि॒ह सं॒भर॑न्तः । श॒तं जी॑वेम श॒रद॒स्सवी॑राः । ऊर्जं॑ पृथि॒व्या रस॑मा॒भर॑न्तः । श॒तं जी॑वेम श॒रदः॑ पुरू॒चीः ।। 2 ।। 1.2.1.3 व॒म्रीभि॒रनु॑वित्तं॒ गुहा॑सु । श्रोत्रं॑ त उ॒र्व्यब॑धिरा भवामः । प्र॒जाप॑तिसृष्टानां प्र॒जानाम् । क्षु॒धोऽप॑हत्यै सुवि॒तं नो॑ अस्तु । उप॒ प्रभि॑न्न॒मिष॒मूर्जं॑ प्र॒जाभ्यः॑ । सूदं॑ गृ॒हेभ्यो॒ रस॒माभ॑रामि । यस्य॑ रू॒पं बिभ्र॑दि॒मामवि॑न्दत् । गुहा॒ प्रवि॑ष्टा सरि॒रस्य॒ मध्ये । तस्ये॒दं विह॑तमा॒भर॑न्तः । अछ॑म्बट्कारम॒स्यां वि॑धेम ।। 3 ।। 1.2.1.4 यत्प॒र्यप॑श्यथ्सरि॒रस्य॒ मध्ये । उ॒र्वीमप॑श्य॒ज्जग॑तः प्रति॒ष्ठाम् । तत्पुष्क॑रस्या॒यत॑ना॒द्धि जा॒तम् । प॒र्णं पृ॑थि॒व्याः प्रथ॑न हरामि । याभि॒रदृ॑ह॒ज्जग॑त प्रति॒ष्ठाम् । उ॒र्वीमि॒मां वि॑श्वज॒नस्य॑ भ॒र्त्रीम् । ता न॑श्शि॒वाश्शर्क॑रास्सन्तु॒ सर्वाः । अ॒ग्ने रेत॑श्च॒न्द्र हिर॑ण्यम् । अ॒द्भ्यस्संभू॑तम॒मृतं॑ प्र॒जासु॑ । तथ्सं॒भर॑न्नुत्तर॒तो नि॒धाय॑ ।। 4 ।। 1.2.1.5 अ॒ति॒प्र॒यच्छं॒ दुरि॑तिं तरेयम् । अश्वो॑ रू॒पं कृ॒त्वा यद॑श्व॒त्थेऽति॑ष्ठः । सं॒व॒थ्स॒रं दे॒वेभ्यो॑ नि॒लाय॑ । तत्ते॒ न्य॑क्तमि॒ह सं॒भर॑न्तः । श॒तं जी॑वेम श॒रद॒स्सवी॑राः । ऊ॒र्ज पृ॑थि॒व्या अध्युत्थि॑तोऽसि । वन॑स्पते श॒तव॑ल्‌शो॒ विरो॑ह । त्वया॑ व॒यमिष॒मूर्जं॒ मद॑न्तः । रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । गा॒य॒त्रि॒या ह्रि॒यमा॑णस्य॒ यत्ते ।। 5 ।। 1.2.1.6 प॒र्णमप॑तत्तृ॒तीय॑स्यै दि॒वोऽधि॑ । सो॑ऽयं प॒र्णस्सो॑मप॒र्णाद्धि जा॒तः । ततो॑ हरामि सोमपी॒थस्याव॑रुद्ध्यै । दे॒वानां ब्रह्मवा॒दं वद॑तां॒ यत् । उ॒पाशृ॑णोस्सु॒श्रवा॒ वै श्रु॒तो॑ऽसि । ततो॒ मामावि॑शतु ब्रह्मवर्च॒सम् । तथ्सं॒भर॒॒ स्तदव॑रुन्धीय सा॒क्षात् । यया॑ ते सृ॒ष्टस्या॒ग्नेः । हे॒तिमश॑मयत्प्र॒जाप॑तिः । तामि॒मामप्र॑दाहाय ।। 6 ।। 1.2.1.7 श॒मी शान्त्यै॑ हराम्य॒हम् । यत्ते॑ सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कतं॒ भा आर्च्छज्जातवेदः । तया॑ भा॒सा संमि॑तः । उ॒रुं नो॑ लो॒कमनु॒ प्रभा॑हि । यत्ते॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दञ्जातवेदः । म॒रुतो॒ऽद्भिस्त॑मयि॒त्वा । ए॒तत्ते॒ तद॑श॒नेस्संभ॑रामि । सात्मा॑ अग्ने॒ सहृ॑दयो भवे॒ह । चित्रि॑यादश्व॒त्थाथ्संभृ॑ता बृह॒त्यः॑ ।। 7 ।। 1.2.1.8 शरी॑रम॒भि सस्कृ॑तास्स्थ । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताः । ति॒स्रस्त्रि॒वृद्भि॑र्मिथु॒ना प्रजात्यै । अ॒श्व॒त्थाद्ध॑व्यवा॒हाद्धि जा॒ताम् । अ॒ग्नेस्त॒नूं य॒ज्ञिया॒॒ संभ॑रामि । शा॒न्तयो॑नि शमीग॒र्भम् । अ॒ग्नये॒ प्रज॑नयि॒तवे । यो अ॑श्व॒त्थश्श॑मीग॒र्भः । आ॒रु॒रोह॒ त्वे सचा । तं ते॑ हरामि॒ ब्रह्म॑णा ।। 8 ।। 1.2.1.9 य॒ज्ञियैः के॒तुभि॑स्स॒ह । यं त्वा॑ स॒मभ॑रञ्जातवेदः । य॒था॒श॒री॒रं भू॒तेषु॒ न्य॑क्तम् । स संभृ॑तस्सीद शि॒वः प्र॒जाभ्यः॑ । उ॒रुं नो॑ लो॒कमनु॑नेषि वि॒द्वान् । प्रवे॒धसे॑ क॒वये॒ मेध्या॑य । वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे । यतो॑ भ॒यमभ॑यं॒ तन्नो॑ अस्तु । अव॑ दे॒वान् य॑जे॒हेड्यान्॑ । स॒मिधा॒ऽग्निं दु॑वस्यत ।। 9 ।। 1.2.1.10 घृ॒तैर्बो॑धय॒ताति॑थिम् । आऽस्मि॑न् ह॒व्या जु॑होतन । उप॑ त्वाऽग्ने ह॒विष्म॑तीः । घृ॒ताचीर्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ । तं त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य । स॒मि॒ध्यमा॑नः प्रथ॒मो नु धर्मः॑ । सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।। 10 ।। 1.2.1.11 शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः । सु॒य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् । घृ॒तप्र॑तीको घृ॒तयो॑निर॒ग्निः । घृ॒तैस्समि॑द्धो घृ॒तम॒स्यान्नम् । घृ॒त॒प्रुष॑स्त्वा स॒रितो॑ वहन्ति । घृ॒तं पिबन्थ्सु॒यजा॑ यक्षि दे॒वान् । आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः । घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यम् । पि॒तेव॑ पु॒त्रम॒भिर॑क्षतादि॒मम् ।। 11 ।। 1.2.1.12 त्वाम॑ग्ने समिधा॒नं य॑विष्ठ । दे॒वा दू॒तं च॑क्रिरे हव्य॒वाहम् । उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तम् । त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्व॑ति । त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तेन॑ । सु॒म्ना॒यव॑स्सुष॒मिधा॒ समी॑धिरे । स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तः । उ॒रु ज्रया॑सि॒ पार्थि॑वा॒ विति॑ष्ठसे । घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धूर्॒षदम् । अ॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ॑ञ्जते ।। 12 ।। 1.2.1.13 इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑त् । शु॒क्रव॑र्णा॒मुदु॑ नो यसते॒ धियम् । प्र॒जा अ॑ग्ने॒ संवा॑सय । आशाश्च प॒शुभि॑स्स॒ह । रा॒ष्ट्राण्य॑स्मा॒ आधे॑हि । यान्यासन्थ्सवि॒तुस्स॒वे । म॒ही वि॒श्पत्नी॒ सद॑ने ऋ॒तस्य॑ । अ॒र्वाची॒ एतं॑ धरुणे रयी॒णाम् । अ॒न्तर्व॑त्नी॒ जन्यं॑ जा॒तवे॑दसम् । अ॒ध्व॒राणां जनयथ पुरो॒गाम् ।। 13 ।। 1.2.1.14 आरो॑हतं द॒शत॒॒ शक्व॑री॒र्मम॑ । ऋ॒तेनाग्न॒ आयु॑षा॒ वर्च॑सा स॒ह । ज्योग्जीव॑न्त॒ उत्त॑रामुत्तरा॒॒ समाम् । दऱ्श॑म॒हं पू॒र्णमा॑सं य॒ज्ञं यथा॒ यजै । ऋत्वि॑यवती स्थो अ॒ग्निरे॑तसौ । गर्भं॑ दधाथां॒ ते वा॑म॒हं द॑दे । तथ्स॒त्यं यद्वी॒रं बि॑भृथः । वी॒रं ज॑नयि॒ष्यथः॑ । ते मत्प्रा॒त प्रज॑निष्येथे । ते मा॒ प्रजा॑ते॒ प्रज॑नयि॒ष्यथः॑ ।। 14 ।। 1.2.1.15 प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ सुव॒र्गे लो॒के । अनृ॑ताथ्स॒त्यमुपै॑मि । मा॒नु॒षाद्देव्य॒मुपै॑मि । दैवीं॒ वाचं॑ यच्छामि । शल्कै॑र॒ग्निमि॑न्धा॒नः । उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयोर्लो॒कयोर्॑ ऋ॒ध्वा । अति॑ मृ॒त्युं त॑राम्य॒हम् । जात॑वेदो॒ भुव॑नस्य॒ रेतः॑ । इ॒ह सि॑ञ्च॒ तप॑सो॒ यज्ज॑नि॒ष्यते ।। 15 ।। 1.2.1.16 अ॒ग्निम॑श्व॒त्थादधि॑ हव्य॒वाहम् । श॒मी॒ग॒र्भाज्ज॒नय॒न्॒ यो म॑यो॒भूः । अ॒यं ते॒ योनि॑र्‌ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ । येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दं य॒मो॑ऽव॒सानं॑ पृथि॒व्याः । अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै ।। 16 ।। 1.2.1.17 अ॒ग्नेर्भस्मास्य॒ग्ने पुरी॑षमसि । सं॒ज्ञान॑मसि काम॒धर॑णम् । मयि॑ ते काम॒धर॑णं भूयात् । संव॑स्सृजामि॒ हृद॑यानि । ससृ॑ष्टं॒ मनो॑ अस्तु वः । संसृ॑ष्ट प्रा॒णो अ॑स्तु वः । सं या वः॑ प्रि॒यास्त॒नुवः॑ । सं प्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु॒ संप्रि॑यः । संप्रि॑यास्त॒नुवो॒ मम॑ ।। 17 ।। 1.2.1.18 कल्पे॑तां॒ द्यावा॑पृथि॒वी । कल्प॑न्ता॒माप॒ ओष॑धीः । कल्प॑न्ताम॒ग्नय॒ पृथ॑क् । मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । येऽग्नय॒स्सम॑नसः । अ॒न्त॒रा द्यावा॑पृथि॒वी । वास॑न्तिकावृ॒तू अ॒भि कल्प॑मानाः । इन्द्र॑मिव दे॒वा अ॒भि सं वि॑शन्तु । दि॒वस्त्वा॑ वी॒र्ये॑ण । पृ॒थि॒व्यै म॑हि॒म्ना ।। 18 ।। 1.2.1.19 अ॒न्तरि॑क्षस्य॒ पोषे॑ण । स॒र्वप॑शु॒माद॑धे । अजी॑जनन्न॒मृतं॒ मर्त्या॑सः । अ॒स्रे॒माणं॑ त॒रणिं॑ वी॒डुज॑म्भम् । दश॒ स्वसा॑रो अ॒ग्रुव॑स्समी॒चीः । पुमा॑सं जा॒तम॒भि सर॑भन्ताम् । प्र॒जाप॑तेस्त्वा प्रा॒णेनाभि॒ प्राणि॑मि । पू॒ष्ण पोषे॑ण॒ मह्यम् । दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । श॒त श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से ।। 19 ।। 1.2.1.20 जी॒वात्वै पुण्या॑य । अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्र पि॒त्रे लो॑क॒कृज्जा॑तवेदः । प्रा॒णे त्वा॒ऽमृत॒माद॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तारं॒ गुप्त्यै । सु॒गा॒र्॒ह॒प॒त्यो वि॒दह॒न्नरा॑तीः । उ॒षस॒श्श्रेय॑सीश्श्रेयसी॒र्दध॑त् ।। 20 ।। 1.2.1.21 अग्ने॑ स॒पत्ना॑ अप॒ बाध॑मानः । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ धेहि । इ॒मा उ॒ मामुप॑तिष्ठन्तु॒ रायः॑ । आ॒भि प्र॒जाभि॑रि॒ह संव॑सेय । इ॒हो इडा॑ तिष्ठतु विश्वरू॒पी । मध्ये॒ वसोर्दीदिहि जातवेदः । ओज॑से॒ बला॑य॒ त्वोद्य॑च्छे । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से । स॒प॒त्न॒तूर॑सि वृत्र॒तूः । यस्ते॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः ।। 21 ।। 1.2.1.22 यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । पुष्टि॒र्या ते॑ मनु॒ष्ये॑षु पप्र॒थे । तया॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ । दि॒वः पृ॑थि॒व्याः पर्य॒न्तिरि॑क्षात् । वातात्प॒शुभ्यो॒ अध्योष॑धीभ्यः । यत्र॑ यत्र जातवेदस्संब॒भूथ॑ । ततो॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ । प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् । अ॒ग्नेर॑ग्ने पु॒रोअ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॑हि ।। 22 ।। 1.2.1.23 ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । अन्व॒ग्निरु॒षसा॒मग्र॑मख्यत् । अन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीन् । अनु॒ द्यावा॑पृथि॒वी आत॑तान । विक्र॑मस्व म॒हा अ॑सि । वे॒दि॒षन्मानु॑षेभ्यः । त्रि॒षु लो॒केषु॑ जागृहि । यदि॒दं दि॒वो यद॒द पृ॑थि॒व्याः । सं॒वि॒दा॒ने रोद॑सी सं बभू॒वतुः॑ ।। 23 ।। 1.2.1.24 तयोः पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः । शं॒भू प्र॒जाभ्य॑स्त॒नुवे स्यो॒नः । प्रा॒णं त्वा॒ऽमृत॒ आ द॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तारं॒ गुप्त्यै । यत्ते॑ शुक्र शु॒क्रं वर्च॑श्शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निनाऽग्ने॒ ब्रह्म॑णा । आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र्व्या॑नशे ।। 24 ।। 1.2.1.25 नर्य॑ प्र॒जां मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसे । जा॒तां ज॑नि॒ष्यमा॑णां च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् । अथ॑र्व पि॒तुं मे॑ गोपाय । रस॒मन्न॑मि॒हायु॑षे । अद॑ब्धा॒योऽशी॑ततनो । अवि॑षन्न पि॒तुं कृ॑णु । शस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पादो॒ ये चतु॑ष्पदः ।। 25 ।। 1.2.1.26 अ॒ष्टाश॑फाश्च॒ य इ॒हाग्ने । ये चैक॑शफा आशु॒गाः । सप्र॑थ स॒भां मे॑ गोपाय । ये च॒ सभ्यास्सभा॒सदः॑ । तानि॑न्द्रि॒याव॑त कुरु । सर्व॒मायु॒रुपा॑सताम् । अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपाय । यमृष॑यस्त्रैवि॒दा वि॒दुः । ऋच॒स्सामा॑नि॒ यजू॑षि । सा हि श्रीर॒मृता॑ स॒ताम् ।। 26 ।। 1.2.1.27 चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्यं॑ धुक्ष्व॒ यज॑मानाय॒ कामान्॑ । इ॒हैव सन्तत्र॑ स॒तो वो॑ अग्नयः । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् । ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे । प॒ञ्च॒धाऽग्नीन्व्य॑क्रामत् । वि॒राट्थ्सृ॒ष्टा प्र॒जाप॑तेः । ऊ॒र्ध्वाऽऽरो॑हद्रोहि॒णी । योनि॑र॒ग्ने प्रति॑ष्ठितिः ।। 27 ।। 1.2.2.0 का॒र्या॑ वि॒राड्गृ॑ह्यन्ते॒ पव॑माने भव॒तीन्द्र॒ एकं॑ च ।। 2 ।। 1.2.2.1 नवै॒तान्यहा॑नि भवन्ति । नव॒ वै सु॑व॒र्गा लो॒काः । यदे॒तान्यहान्युप॒यन्ति॑ । न॒वस्वे॒व तथ्सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिण॑ प्रति॒तिष्ठ॑न्तो यन्ति । अ॒ग्नि॒ष्टो॒मा पर॑स्सामान का॒र्या॑ इत्या॑हुः । अ॒ग्नि॒ष्टो॒मसं॑मितस्सुव॒र्गो लो॒क इति॑ । द्वाद॑शाग्निष्टो॒मस्य॑ स्तो॒त्राणि॑ । द्वाद॑श॒ मासास्संवथ्स॒रः । तत्तन्न सूर्क्ष्यम् । उ॒क्थ्या॑ ए॒व स॑प्तद॒शाः पर॑स्सामानः का॒र्याः ।। 28 ।। 1.2.2.2 प॒शवो॒ वा उ॒क्थानि॑ । प॒शू॒नामव॑रुद्ध्यै । वि॒श्व॒जि॒द॒भि॒जिता॑वग्निष्टो॒मौ । उ॒क्थ्यास्सप्तद॒शा पर॑स्समानः । ते सस्तु॑ता वि॒राज॑म॒भि संप॑द्यन्ते । द्वे चर्चा॒वति॑रिच्येते । एक॑या॒ गौरति॑रिक्तः । एक॒याऽऽयु॑रू॒नः । सु॒व॒र्गो वै लो॒को ज्योतिः॑ । ऊर्ग्वि॒राट् ।। 29 ।। 1.2.2.3 सु॒व॒र्गमे॒व तेन॑ लो॒कम॒भि ज॑यन्ति । यत्पर॒॒ राथ॑न्तरम् । तत्प्र॑थ॒मेऽह॑न्का॒र्यम् । बृ॒हद्द्वि॒तीये । वै॒रू॒पं तृ॒तीये । वै॒रा॒जं च॑तु॒र्थे । शा॒क्व॒रं प॑ञ्च॒मे । रै॒व॒त ष॒ष्ठे । तदु॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति । स॒न्तन॑य ए॒ते ग्रहा॑ गृह्यन्ते ।। 30 ।। 1.2.2.4 अ॒ति॒ग्रा॒ह्या पर॑स्सामसु । इ॒माने॒वैतैर्लो॒कान्थ्संत॑न्वन्ति । मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते । अ॒ति॒ग्रा॒ह्या पर॑स्सामसु । मि॒थु॒नमे॒व तैर्यज॑माना॒ अव॑रुन्धते । बृ॒हत्पृ॒ष्ठं भ॑वति । बृ॒हद्वै सु॑व॒र्गो लो॒कः । बृ॒ह॒तैव सु॑व॒र्गं लो॒कं य॑न्ति । त्र॒य॒स्त्रि॒॒शिनाम॒ साम॑ । माध्य॑न्दिने॒ पव॑माने भवति ।। 31 ।। 1.2.2.5 त्रय॑स्त्रिश॒द्वै दे॒वताः । दे॒वता॑ ए॒वाव॑रुन्धते । ये वा इ॒तः पराञ्च संवथ्स॒रमु॑प॒यन्ति॑ । न है॑नं॒ ते स्व॒स्ति सम॑श्ञुवते । अथ॒ ये॑ऽमुतो॒ऽर्वाञ्च॑मुप॒यन्ति॑ । ते है॑न स्व॒स्ति सम॑श्ञुवते । ए॒तद्वा अ॒मुतो॒ऽर्वाञ्च॒मुप॑यन्ति । यदे॒वम् । यो ह॒ खलु॒ वाव प्र॒जाप॑तिः । स उ॑वे॒वेन्द्रः॑ । तदु॑ दे॒वेभ्यो॒ नय॑न्ति ।। 32 ।। 1.2.3.0 स॒मा॒यच्छ॑त्यतिग्रा॒ह्या॑ गृह्यन्ते गृ॒ह्यते॑ संवथ्स॒रस्या॒न्योन्यो गृह्येते॒ पञ्च॑ च ।। 3 ।। 1.2.3.1 संत॑ति॒र्वा ए॒ते ग्रहाः । यत्पर॑स्सामानः । वि॒षू॒वान्दि॑वाकी॒र्त्यम् । यथा॒ शाला॑यै॒ पक्ष॑सी । ए॒व सं॑वथ्स॒रस्य॒ पक्ष॑सी । यदे॒तेन गृ॒ह्येरन्न्॑ । विषू॑ची संवथ्स॒रस्य॒ पक्ष॑सी॒ व्यव॑स्रसेयाताम् । आर्ति॒मार्च्छे॑युः । यदे॒ते गृ॒ह्यन्ते । यथा॒ शाला॑यै॒ प॑क्षसी मध्य॒मं व॒॒शम॒भि स॑मा॒यच्छ॑ति ।। 33 ।। 1.2.3.2 ए॒व सं॑वथ्स॒रस्य॒ पक्ष॑सी दिवाकी॒र्त्य॑म॒भि सं त॑न्वन्ति । नार्ति॒मार्च्छ॑न्ति । ए॒क॒वि॒॒शमह॑र्भवति । शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ । सौ॒र्य॑ ए॒तदह॑ प॒शुराल॑भ्यते । सौ॒र्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते । स॒प्तैतदह॑रतिग्रा॒ह्या॑ गृह्यन्ते ।। 34 ।। 1.2.3.3 स॒प्त वै शी॑ऱ्ष॒ण्या प्रा॒णाः । अ॒सावा॑दि॒त्यश्शिर॑ प्र॒जानाम् । शी॒र्॒षन्ने॒व प्र॒जानां प्रा॒णान्द॑धाति । तस्माथ्स॒प्त शी॒र्॒षन्प्रा॒णाः । इन्द्रो॑ वृ॒त्र ह॒त्वा । असु॑रान्परा॒भाव्य॑ । स इ॒माल्लोँ॒कान॒भ्य॑जयत् । तस्या॒सौ लो॒कोऽन॑भिजित आसीत् । तं वि॒श्वक॑र्मा भू॒त्वाऽभ्य॑जयत् । यद्वैश्वकर्म॒णो गृ॒ह्यते ।। 35 ।। 1.2.3.4 सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते । ये वैश्वकर्म॒णं गृ॒ह्णते । आ॒दि॒त्यश्श्वो गृ॑ह्यते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति । अ॒न्योन्यो गृह्येते । विश्वान्ये॒वान्येन॒ कर्मा॑णि कुर्वा॒णा य॑न्ति । अ॒स्याम॒न्येन॒ प्रति॑ तिष्ठन्ति । तावाऽप॑रा॒र्धाथ्सं॑वथ्स॒रस्या॒न्योन्यो गृह्येते । तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते । य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा । उ॒भयोर्लो॒कयो॒ प्रति॑तिष्ठन्ति । अ॒र्क्य॑मु॒क्थं भ॑वति । अ॒न्नाद्य॒स्याव॑रुध्यै ।। 36 ।। 1.2.4.0 ए॒ति॒ पव॑मानयो॒स्स्परा॑णि॒ पञ्च॑ च ।। 4 ।। 1.2.4.1 ए॒क॒वि॒॒श ए॒ष भ॑वति । ए॒तेन॒ वै दे॒वा ए॑कवि॒॒शेन॑ । आ॒दि॒त्यमि॒त उ॑त्त॒म सु॑व॒र्गं लो॒कमारो॑हयन्न् । स वा ए॒ष इ॒त ए॑कवि॒॒शः । तस्य॒ दशा॒वस्ता॒दहा॑नि । दश॑ प॒रस्तात् । स वा ए॒ष वि॒राज्यु॑भ॒यतः॒ प्रति॑ष्ठितः । वि॒राजि॒ हि वा ए॒ष उ॑भ॒यतः॒ प्रति॑ष्ठितः । तस्मा॑दन्त॒रेमौ लो॒कौ यन्न् । सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व॑भि॒तप॑न्नेति ।। 37 ।। 1.2.4.2 दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । परा॑चोऽतिपा॒दाद॑बिभयुः । तं छन्दो॑भिरदृह॒न्धृत्यै । दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । अवा॑चोऽवपा॒दाद॑बिभयुः । तं प॒ञ्चभी॑ र॒श्मिभि॒रुद॑वयन्न् । तस्मा॑देकवि॒॒शेऽ- ह॒न्पञ्च॑ दिवाकी॒र्त्या॑नि क्रियन्ते । र॒श्मयो॒ वै दि॑वाकी॒र्त्या॑नि । ये गा॑य॒त्रे । ते गा॑य॒त्रीषूत्त॑रयो॒ पव॑मानयोः ।। 38 ।। 1.2.4.3 म॒हादि॑वाकीर्त्य॒॒ होतु॑ पृ॒ष्ठम् । वि॒क॒र्णं ब्र॑ह्मसा॒मम् । भा॒सोऽग्निष्टो॒मः । अथै॒तानि॒ परा॑णि । परै॒र्वै दे॒वा आ॑दि॒त्य सु॑व॒र्गं लो॒कम॑पारयन्न् । यदपा॑रयन्न् । तत्परा॑णां पर॒त्वम् । पा॒रय॑न्त्येनं॒ परा॑णि । य ए॒वं वेद॑ । अथै॒तानि॒ स्परा॑णि । स्परै॒र्वै दे॒वा आ॑दि॒त्य सु॑व॒र्गं लो॒कम॑स्पारयन्न् । यदस्पा॑रयन्न् । तथ्स्परा॑णा स्पर॒त्वम् । स्पा॒रय॑न्त्यैन॒॒ स्परा॑णि । य ए॒वं वेद॑ ।। 39 ।। 1.2.5.0 ते ए॒वाल॑भन्ते मैत्रावरु॒णीमाल॑भ॒न्तेऽव॑रुद्ध्यै स॒प्त च॑ ।। 5 ।। 1.2.5.1 अप्र॑तिष्ठां॒ वा ए॒ते ग॑च्छन्ति । येषा॑ संवथ्स॒रेऽना॒प्तेऽथ॑ । ए॒का॒द॒शिन्या॒प्यते । वै॒ष्ण॒वं वा॑म॒नमा ल॑भन्ते । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञमे॒वाल॑भन्ते॒ प्रति॑ष्ठित्यै । ऐ॒न्द्रा॒ग्नमाल॑भन्ते । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ते ए॒वाल॑भन्ते ।। 40 ।। 1.2.5.2 वै॒श्व॒दे॒वमाल॑भन्ते । दे॒वता॑ ए॒वाव॑रुन्धते । द्या॒वा॒पृ॒थिव्यां धे॒नुमाल॑भन्ते । द्यावा॑पृथि॒व्योरे॒व प्रति॑ तिष्ठन्ति । वा॒य॒व्यं॑ व॒थ्समाल॑भन्ते । वा॒युरे॒वैभ्यो॑ यथाऽऽयत॒नाद्दे॒वता॒ अव॑रुन्धे । आ॒दि॒त्यामविं॑ व॒शामाल॑भन्ते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति । मै॒त्रा॒व॒रु॒णीमाल॑भन्ते ।। 41 ।। 1.2.5.3 मि॒त्रेणै॒व य॒ज्ञस्य॒ स्वि॑ष्ट शमयन्ति । वरु॑णेन॒ दुरि॑ष्टम् । प्रा॒जा॒प॒त्यं तू॑प॒रं म॑हाव्र॒त आल॑भन्ते । प्रा॒जा॒प॒त्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते । आ॒ग्ने॒यमा ल॑भन्ते॒ प्रति॒ प्रज्ञात्यै । अ॒ज॒पे॒त्वान् वा ए॒ते पूर्वै॒र्मासै॒रव॑ रुन्धते । यदे॒ते ग॒व्या प॒शव॑ आल॒भ्यन्ते । उ॒भये॑षां पशू॒नामव॑रुद्ध्यै ।। 42 ।। 1.2.5.4 यदति॑रिक्तामेकाद॒शिनी॑मा॒लभे॑रन्न् । अप्रि॑यं॒ भ्रातृ॑व्यम॒भ्यति॑रिच्येत । यद्द्वौद्वौ॑ प॒शू स॒मस्ये॑युः । कनी॑य॒ आयु॑ कुर्वीरन्न् । यदे॒ते ब्राह्म॑णवन्त प॒शव॑ आल॒भ्यन्ते । नाप्रि॑यं॒ भ्रातृ॑व्यम॒भ्य॑ति॒रिच्य॑ते । न कनी॑य॒ आयु॑ कुर्वते ।। 43 ।। 1.2.6.0 भ॒व॒ति॒ भ॒व॒ति॒ क्रि॒यते॒ पुरु॑षो जयत्यजयञ्जय॒त्येकं॑ च ।। 6 ।। 1.2.6.1 प्र॒जाप॑ति प्र॒जास्सृ॒ष्ट्वा वृ॒त्तो॑ऽशयत् । तं दे॒वा भू॒ताना॒॒ रसं॒ तेज॑स्सं॒भृत्य॑ । तेनै॑नमभिषज्यन्न् । म॒हान॑वव॒र्तीति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हद्व्र॒तमिति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒ह॒तो व्र॒तमिति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । प॒ञ्च॒वि॒॒शस्स्तोमो॑ भवति ।। 44 ।। 1.2.6.2 चतु॑र्विशत्यर्धमासस्संवथ्स॒रः । यद्वा ए॒तस्मिन्थ्संवथ्स॒रेऽधि॒ प्राजा॑यत । तदन्नं॑ पञ्चवि॒॒शम॑भवत् । म॒ध्य॒त क्रि॑यते । म॒ध्य॒तो ह्यन्न॑मशि॒तं धि॒नोति॑ । अथो॑ मध्य॒त ए॒व प्र॒जाना॒मूर्ग्धी॑यते । अथ॒ यद्वा इ॒दम॑न्त॒त क्रि॒यते । तस्मा॑दुद॒न्ते प्र॒जास्समे॑धन्ते । अ॒न्त॒त क्रि॑यते प्र॒जन॑नायै॒व । त्रि॒वृच्छिरो॑ भवति ।। 45 ।। 1.2.6.3 त्रे॒धा॒वि॒हि॒त हि शिरः॑ । लोम॑ छ॒वीरस्थि॑ । परा॑चा स्तुवन्ति । तस्मा॒त्तथ्स॒दृगे॒व । न मेद्य॒तोऽनु॑ मेद्यति । न कृश्य॒तोऽनु॑ कृश्यति । प॒ञ्च॒द॒शोऽन्य प॒क्षो भ॑वति । स॒प्त॒द॒शोऽन्यः । तस्मा॒द्वया॑ स्यन्यत॒रम॒र्धम॒भि प॒र्याव॑र्तन्ते । अ॒न्य॒त॒रतो॒ हि तद्गरी॑य क्रि॒यते ।। 46 ।। 1.2.6.4 प॒ञ्च॒वि॒॒श आ॒त्मा भ॑वति । तस्मान्मध्य॒त प॒शवो॒ वरि॑ष्ठाः । ए॒क॒वि॒॒शं पुच्छम् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै । सर्वे॑ण स॒ह स्तु॑वन्ति । सर्वे॑ण॒ ह्यात्मनाऽऽत्म॒न्वी । स॒होत्पत॑न्ति । एकै॑का॒मुच्छि॑षन्ति । आ॒त्मन्न् ह्यङ्गा॑नि ब॒द्धानि॑ । न वा ए॒तेन॒ सर्व॒ पुरु॑षः ।। 47 ।। 1.2.6.5 यदि॒तइ॑तो॒ लोमा॑नि द॒तो न॒खान् । प॒रि॒माद॑ क्रियन्ते । तान्ये॒व तेन॒ प्रत्यु॑प्यन्ते । औदु॑म्बर॒स्तल्पो॑ भवति । ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुध्यै । यस्य॑ तल्प॒सद्य॒मन॑भिजित॒॒ स्यात् । स दे॒वाना॒॒ साम्य॑क्षे । त॒ल्प॒सद्य॑म॒भिज॑या॒नीति॒ तल्प॑मा॒रुह्योद्गा॑येत् । त॒ल्प॒सद्य॑मे॒वाभि ज॑यति ।। 48 ।। 1.2.6.6 यस्य॑ तल्प॒सद्य॑म॒भिजि॑त॒॒ स्यात् । स दे॒वाना॒॒ साम्य॑क्षे । त॒ल्प॒सद्यं॒ मा परा॑जे॒षीति॒ तल्प॑मा॒रुह्योद्गा॑येत् । न त॑ल्प॒सद्यं॒ परा॑जयते । प्ले॒ङ्खे श॑सति । महो॒ वै प्ले॒ङ्खः । मह॑स ए॒वान्नाद्य॒स्याव॑रुद्ध्यै । दे॒वा॒सु॒रास्संय॑त्ता आसन्न् । त आ॑दि॒त्ये व्याय॑च्छन्त । तं दे॒वास्सम॑जयन्न् ।। 49 ।। 1.2.6.7 ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते व्याय॑च्छेते । दैव्यो॒ वै वर्णो ब्राह्म॒णः । अ॒सु॒र्य॑श्शू॒द्रः । इ॒मे॑ऽराथ्सुरि॒मे सु॑भू॒तम॑क्र॒न्नित्य॑न्यत॒रो ब्रू॑यात् । इ॒म उ॑द्वासीका॒रिण॑ इ॒मे दु॑र्भू॒तम॑क्र॒न्नित्य॑न्यत॒रः । यदे॒वैषा॑ सुकृ॒तं या राद्धिः॑ । तद॑न्यत॒रो॑ऽभि श्री॑णाति । यदे॒वैषां दुष्कृ॒तं याऽराद्धिः । तद॑न्यत॒रोऽप॑ हन्ति । ब्रा॒ह्म॒णस्सं ज॑यति । अ॒मुमे॒वादि॒त्यं भ्रातृ॑व्यस्य॒ संवि॑न्दन्ते ।। 50 ।। 1.3.0.0 दे॒वा॒सु॒रा अ॒ग्नीषोम॑योर्दे॒वा वै यथा॒दऱ्शं॑ दे॒वा वै यद॒न्यैर्ग्रहै॑र्ब्रह्मवा॒दिनो॒ नाग्नि॑ष्टो॒मो न सा॑वि॒त्रं दे॒वस्या॒हं ता॒र्प्य स॒प्तान्न॑हो॒मान्नृ॒षदं॒ त्वेन्द्रो॑ वृ॒त्र ह॒त्वा दश॑ ।। 10।। दे॒वा॒सु॒रा वा॒ज्ये॑वैनं॒ तस्माद्वाजपेयया॒जी दे॒वस्या॒हं वाज॒स्याव॑रुद्ध्या इन्द्रि॒यमे॒वास्मि॒न्॒ ह्लीका॒ हि पि॒तर॒ पञ्च॑षष्टिः ।। 65 ।। ।। दे॒वा॒सु॒रा यज॑मानः ।। हरिः॑ ओम् ।। इति तैत्तिरीय ब्राह्मणे प्रथमाष्टके तृतीयप्रपाठकः 1.3.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयप्रश्नः ।। हरिः ओम् ।। 1.3.1.0 अ॒रु॒न्ध॒तै॒व तद्भ॑वति॒ संभृ॑तसंभार॒ इत्या॑हुरि॒च्छति॑ पत्नीसंया॒जा नव॑ च ।। 1 ।। 1.3.1.1 दे॒वा॒सु॒रास्संय॑त्ता आसन्न् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नीषोम॑योस्तेज॒स्विनीस्त॒नूस्संन्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ । तेना॒ग्नीषोमा॒वपाक्रामताम् । ते दे॒वा वि॒जित्य॑ । अ॒ग्नीषोमा॒वन्वैच्छन्न् । तेऽग्निमन्व॑विन्दन्नृ॒तुषूथ्स॑न्नम् । तस्य॒ विभ॑क्तीभिस्तेज॒स्विनीस्त॒नूरवा॑रुन्धत ।। 1 ।। 1.3.1.2 ते सोम॒मन्व॑विन्दन्न् । तम॑घ्नन्न् । तस्य॑ यथाऽभि॒ज्ञायं॑ त॒नूर्व्य॑गृह्णत । ते ग्रहा॑ अभवन्न् । तद्ग्रहा॑णां ग्रह॒त्वम् । यस्यै॒वं वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते । तस्य॒ त्वे॑व गृ॑ही॒ताः । नानाऽऽग्नेयं पुनरा॒धेये॑ कुर्यात् । यदनाग्नेयं पुनरा॒धेये॑ कु॒र्यात् । व्यृ॑द्धमे॒व तत् ।। 2 ।। 1.3.1.3 अनाग्नेयं॒ वा ए॒तत्क्रि॑यते । यथ्स॒मिध॒स्तनू॒नपा॑तमि॒डो ब॒ऱ्हिर्य॑जति । उ॒भावाग्ने॒यावाज्य॑भागौ स्याताम् । अनाज्यभागौ भवत॒ इत्या॑हुः । यदु॒भावाग्ने॒याव॒न्वञ्चा॒विति॑ । अ॒ग्नये॒ पव॑माना॒योत्त॑रस्स्यात् । यत्पव॑मानाय । तेनाज्य॑भागः । तेन॑ सौ॒म्यः । बुध॑न्वत्याग्ने॒यस्याज्य॑भागस्य पुरोऽनुवा॒क्या॑ भवति ।। 3 ।। 1.3.1.4 यथा॑ सु॒प्तं बो॒धय॑ति । ता॒दृगे॒व तत् । अ॒ग्निन्य॑क्ताः पत्नीसंया॒जाना॒मृच॑स्स्युः । तेनाग्ने॒य सर्वं॑ भवति । ए॒क॒धा॒ ते॑ज॒स्विनीं दे॒वता॒मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ । नेति॑ ब्रूयात् । प्र॒जन॑नं॒ वा अ॒ग्निः । प्र॒जन॑नमे॒वोपै॒तीति॑ । कृ॒तय॑जु॒स्संभृ॑तसंभार॒ इत्या॑हुः ।। 4 ।। 1.3.1.5 न सं॒भृत्यास्संभा॒राः । न यजुः॑ का॒र्य॑मिति॑ । अथो॒ खलु॑ । सं॒भृत्या॑ ए॒व सं॑भा॒राः । का॒र्यं॑ यजुः॑ । पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै । तेनो॑पा॒॒शु प्रच॑रति । एष्य॑ इव॒ वा ए॒षः । यत्पु॑नरा॒धेयः॑ । यथो॑पा॒॒शु न॒ष्टमि॒च्छति॑ ।। 5 ।। 1.3.1.6 ता॒दृगे॒व तत् । उ॒च्चैस्स्वि॑ष्ट॒कृत॒मुथ्सृ॑जति । यथा॑ न॒ष्टं वि॒त्त्वा प्राहा॒यमिति॑ । ता॒दृगे॒व तत् । ए॒क॒धा ते॑ज॒स्विनीं दे॒वता॒मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ । तत्तथा॒ नोपै॑ति । प्र॒या॒जा॒नू॒या॒जेष्वे॒व विभ॑क्तीः कुर्यात् । य॒था॒पू॒र्वमाज्य॑भागौ॒ स्याताम् । ए॒वं प॑त्नीसंया॒जाः ।। 6 ।। 1.3.1.7 तद्वैश्वान॒रव॑त्प्र॒जन॑नवत्तर॒मुपै॒तीति॑ । तदा॑हुः । व्यृ॑द्धं॒ वा ए॒तत् । अनाग्नेयं॒ वा ए॒तत्क्रि॑यत॒ इति॑ । नेति॑ ब्रूयात् । अ॒ग्निं प्र॑थ॒मं विभ॑क्तीनां यजति । अ॒ग्निमु॑त्त॒मं प॑त्नीसंया॒जानाम् । तेनाग्ने॒यम् । तेन॒ समृ॑द्धं क्रियत॒ इति॑ ।। 7 ।। 1.3.2.0 धा॒वा॒मेति॒ ज्यैष्ठ्या॑य॒ वेद॑ ब्र॒ह्मा जा॑यते वाज॒पेय॒स्सुराऽऽर्त्वि॑जीन॒ एकं॑ च ।। 2 ।। 1.3.2.1 दे॒वा वै यथा॒दऱ्शं॑ य॒ज्ञानाह॑रन्त । योऽग्निष्टो॒मम् । य उ॒क्थ्यम् । यो॑ऽतिरा॒त्रम् । ते स॒हैव सर्वे॑ वाज॒पेय॑मपश्यन्न् । ते । अ॒न्योऽन्यस्मै॒ नाति॑ष्ठन्त । अ॒हम॒नेन॑ यजा॒ इति॑ । तेऽब्रुवन्न् । आ॒जिम॒स्य धा॑वा॒मेति॑ ।। 8 ।। 1.3.2.2 तस्मि॑न्ना॒जिम॑धावन्न् । तं बृह॒स्पति॒रुद॑जयत् । तेना॑यजत । स स्वाराज्यमगच्छत् । तमिन्द्रोऽब्रवीत् । माम॒नेन॑ याज॒येति॑ । तेनेन्द्र॑मयाजयत् । सोऽग्रं॑ दे॒वता॑नां॒ पर्यैत् । अग॑च्छ॒थ्स्वाराज्यम् । अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य ।। 9 ।। 1.3.2.3 य ए॒वं वि॒द्वान् वा॑ज॒पेये॑न॒ यज॑ते । गच्छ॑ति॒ स्वाराज्यम् । अग्र॑ समा॒नानां॒ पर्ये॑ति । तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य । स वा ए॒ष ब्राह्म॒णस्य॑ चै॒व रा॑ज॒न्य॑स्य च य॒ज्ञः । तं वा ए॒तं वा॑ज॒पेय॒ इत्या॑हुः । वा॒जाप्यो॒ वा ए॒षः । वाज॒॒ ह्ये॑तेन॑ दे॒वा ऐफ्सन्न्॑ । सोमो॒ वै वा॑ज॒पेयः॑ । यो वै सोमं॑ वाज॒पेयं॒ वेद॑ ।। 10 ।। 1.3.2.4 वा॒ज्ये॑वैनं॑ पी॒त्वा भ॑वति । आऽस्य॑ वा॒जी जा॑यते । अन्नं॒ वै वा॑ज॒पेयः॑ । य ए॒वं वेद॑ । अत्यन्नम् । आऽस्यान्ना॒दो जा॑यते । ब्रह्म॒ वै वा॑ज॒पेयः॑ । य ए॒वं वेद॑ । अत्ति॒ ब्रह्म॒णाऽन्नम् । आऽस्य॑ ब्र॒ह्मा जा॑यते ।।11।। 1.3.2.5 वाग्वै वाज॑स्य प्रस॒वः । य ए॒वं वेद॑ । क॒रोति॑ वा॒चा वी॒र्यम् । ऐनं॑ वा॒चा ग॑च्छति । अपि॑वतीं॒ वाचं॑ वदति । प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स आ॒त्मन्वा॑ज॒पेय॑मधत्त । तं दे॒वा अ॑ब्रुवन्न् । ए॒ष वाव य॒ज्ञः । यद्वा॑ज॒पेयः॑ ।। 12 ।। 1.3.2.6 अप्ये॒व नोऽत्रा॒स्त्विति॑ । तेभ्य॑ ए॒ता उज्जि॑ती॒ प्राय॑च्छत् । ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते । य॒ज्ञस्य॑ सर्व॒त्वाय॑ । दे॒वता॑ना॒मनि॑र्भागाय । दे॒वा वै ब्रह्म॑ण॒श्चान्न॑स्य च॒ शम॑ल॒मपाघ्नन्न् । यद्ब्रह्म॑ण॒श्शम॑ल॒मासीत् । सा गाथा॑ नाराश॒॒स्य॑भवत् । यदन्न॑स्य । सा सुरा ।। 13 ।। 1.3.2.7 तस्मा॒द्गाय॑तश्च म॒त्तस्य॑ च॒ न प्र॑ति॒गृह्यम् । यत्प्र॑तिगृह्णी॒यात् । शम॑लं॒ प्रति॑गृह्णीयात् । सर्वा॒ वा ए॒तस्य॒ वाचोऽव॑रुद्धाः । यो वा॑जपेयया॒जी । या पृ॑थि॒व्यां याऽग्नौ या र॑थन्त॒रे । याऽन्तरि॑क्षे॒ या वा॒यौ या वा॑मदे॒व्ये । या दि॒वि याऽऽदि॒त्ये या बृ॑ह॒ति । याऽफ्सु यौष॑धीषु॒ या वन॒स्पति॑षु । तस्माद्वाजपेयया॒ज्यार्त्वि॑जीनः । सर्वा॒ ह्य॑स्य॒ वाचोऽव॑रुद्धाः ।। 14 ।। 1.3.3.0 आ॒प्त्वाऽव॑रुन्धे॒ सोम॒श्शम॑लं॒ यथ्सुरा॒ ह्य॑स्यैनं॒ व्यति॑षजति॒ व्याव॑र्तयति सृजति च॒त्वारि॑ च ।। 3 ।। 1.3.3.1 दे॒वा वै यद॒न्यैर्ग्रहैर्य॒ज्ञस्य॒ नावारु॑न्धत । तद॑तिग्रा॒ह्यै॑रति॒गृह्यावा॑रुन्धत । तद॑तिग्र॒ह्या॑णामतिग्राह्य॒त्वम् । यद॑तिग्रा॒ह्या॑ गृ॒ह्यन्ते । यदे॒वान्यैर्ग्रहैर्य॒ज्ञस्य॒ नाव॑रु॒न्धे । तदे॒व तैर॑ति॒गृह्याव॑रुन्धे । पञ्च॑ गृह्यन्ते । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तमा॒प्त्वाऽव॑रुन्धे ।। 15 ।। 1.3.3.2 सर्व॑ ऐ॒न्द्रा भ॑वन्ति । ए॒क॒धैव यज॑मान इन्द्रि॒यं द॑धति । स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते । स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति । सो॒म॒ग्र॒हाश्च॑ सुराग्र॒हाश्च॑ गृह्णाति । ए॒तद्वै दे॒वानां पर॒ममन्नम् । यथ्सोमः॑ ।। 16 ।। 1.3.3.3 ए॒तन्म॑नु॒ष्या॑णाम् । यथ्सुरा । प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे । सो॒म॒ग्र॒हान्गृ॑ह्णाति । ब्रह्म॑णो॒ वा ए॒तत्तेजः॑ । यथ्सोमः॑ । ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति । सु॒रा॒ग्र॒हान्गृ॑ह्णाति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यथ्सुरा ।। 17 ।। 1.3.3.4 अन्न॑स्यै॒व शम॑लेन॒ शम॑लं॒ यज॑माना॒दप॑हन्ति । सो॒म॒ग्र॒हाश्च॑ सुराग्र॒हाश्च॑ गृह्णाति । पुमा॒न्॒ वै सोमः॑ । स्त्री सुरा । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । आ॒त्मान॑मे॒व सो॑मग्र॒हैस्स्पृ॑णोति । जा॒या सु॑राग्र॒हैः । तस्माद्वाजपेयया॒ज्य॑मुष्मि॑ल्लोँ॒के स्त्रिय॒॒ संभ॑वति । वा॒ज॒पेया॑भिजित॒॒ ह्य॑स्य ।। 18 ।। 1.3.3.5 पूर्वे॑ सोमग्र॒हा गृ॑ह्यन्ते । अप॑रे सुराग्र॒हाः । पु॒रो॒ऽक्ष सो॑मग्र॒हान्थ्सा॑दयति । प॒श्चा॒द॒क्ष सु॑राग्र॒हान् । पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै । ए॒ष वै यज॑मानः । यथ्सोमः॑ । अन्न॒॒ सुरा । सो॒म॒ग्र॒हाश्च॑ सुराग्र॒हाश्च॒ व्यति॑षजति । अ॒न्नाद्ये॑नै॒वैनं॒ व्यति॑षजति ।। 19 ।। 1.3.3.6 सं॒पृच॑स्स्थ॒ सं मा॑ भ॒द्रेण॑ पृ॒ङ्क्तेत्या॑ह । अन्नं॒ वै भ॒द्रम् । अ॒न्नाद्ये॑नै॒वैन॒॒ ससृ॑जति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यथ्सुरा । पा॒प्मेव॒ खलु॒ वै शम॑लम् । पा॒प्मना॒ वा ए॑नमे॒तच्छम॑लेन॒ व्यति॑षजति । यथ्सो॑मग्र॒हाश्च॑ सुराग्र॒हाश्च॑ व्यति॒षज॑ति । वि॒पृच॑स्स्थ॒ वि मा॑ पा॒प्मना॑ पृ॒ङ्क्तेत्या॑ह । पा॒प्मनै॒वैन॒॒ शम॑लेन॒ व्याव॑र्तयति ।। 20 ।। 1.3.3.7 तस्माद्वाजपेयया॒जी पू॒तो मेध्यो॑ दक्षि॒ण्यः॑ । प्राङुद्द्र॑वति सोमग्र॒हैः । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति । प्र॒त्यङ्ख्सु॑राग्र॒हैः । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति । प्रति॑ष्ठन्ति सोमग्र॒हैः । याव॑दे॒व स॒त्यम् । तेन॑ सूयते । वा॒ज॒सृद्भ्य॑स्सुराग्र॒हान् ह॑रन्ति । अनृ॑तेनै॒व विश॒॒ ससृ॑जति । हि॒र॒ण्य॒पा॒त्रं मधोपू॒र्णं द॑दाति । म॒ध॒व्यो॑ऽसा॒नीति॑ । ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति । ए॒क॒धैव यज॑मान॒ आयु॒स्तेजो॑ दधाति ।। 21 ।। 1.3.4.0 अ॒ति॒रा॒त्रम॒न्तरि॑क्षमु॒क्थ्ये॑न प्र॒जाप॑तिश्शमयि॒त्वोत्त॒मया॒ प्रच॑रति॒ षट् च॑ ।। 4 ।। 1.3.4.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । नाग्नि॑ष्टो॒मो नोक्थ्यः॑ । न षो॑ड॒शी नाति॑रा॒त्रः । अथ॒ कस्माद्वाज॒पेये॒ सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्त॒ इति॑ । प॒शुभि॒रिति॑ ब्रूयात् । आ॒ग्ने॒यं प॒शुमाल॑भते । अ॒ग्नि॒ष्टो॒ममे॒व तेनाव॑रुन्धे । ऐ॒न्द्रा॒ग्नेनो॒क्थ्यम् । ऐ॒न्द्रेण॑ षोड॒शिन॑स्स्तो॒त्रम् । सा॒र॒स्व॒त्याऽति॑रा॒त्रम् ।। 22 ।। 1.3.4.2 मा॒रु॒त्या बृ॑ह॒तस्स्तो॒त्रम् । ए॒ताव॑न्तो॒ वै य॑ज्ञक्र॒तवः॑ । तान्प॒शुभि॑रे॒वाव॑रुन्धे । आ॒त्मान॑मे॒व स्पृ॑णोत्यग्निष्टो॒मेन॑ । प्रा॒णा॒पा॒नावु॒क्थ्ये॑न । वी॒र्य॑ षोड॒शिन॑स्स्तो॒त्रेण॑ । वाच॑मतिरा॒त्रेण॑ । प्र॒जां बृ॑ह॒तस्स्तो॒त्रेण॑ । इ॒ममे॒व लो॒कम॒भिज॑यत्यग्निष्टो॒मेन॑ । अ॒न्तरि॑क्षमु॒क्थ्ये॑न ।। 23 ।। 1.3.4.3 सु॒व॒र्गं लो॒क षो॑ड॒शिन॑स्स्तो॒त्रेण॑ । दे॒व॒याना॑ने॒व प॒थ आरो॑हत्यतिरा॒त्रेण॑ । नाक॑ रोहति बृह॒तस्स्तो॒त्रेण॑ । तेज॑ ए॒वात्मन्ध॑त्त आग्ने॒येन॑ प॒शुना । ओजो॒ बल॑मैन्द्रा॒ग्नेन॑ । इ॒न्द्रि॒यमै॒न्द्रेण॑ । वाच॑ सारस्व॒त्या । उ॒भावे॒व दे॑वलो॒कं च॑ मनुष्यलो॒कं चा॒भिज॑यति मारु॒त्या व॒शया । स॒प्तद॑श प्राजाप॒त्यान्प॒शूनाल॑भते । स॒प्त॒द॒श प्र॒जाप॑तिः ।। 24 ।। 1.3.4.4 प्र॒जाप॑ते॒राप्त्यै । श्या॒मा एक॑रूपा भवन्ति । ए॒वमि॑व॒ हि प्र॒जाप॑ति॒स्समृ॑द्ध्यै । तान्पर्य॑ग्निकृता॒नुथ्सृ॑जति । म॒रुतो॑ य॒ज्ञम॑जिघासन्प्र॒जाप॑तेः । तेभ्य॑ ए॒तां मा॑रु॒तीं व॒शामाल॑भत । तयै॒वैना॑नशमयत् । मा॒रु॒त्या प्र॒चर्य॑ । ए॒तान्थ्संज्ञ॑पयेत् । म॒रुत॑ ए॒व श॑मयि॒त्वा ।। 25 ।। 1.3.4.5 ए॒तै प्रच॑रति । य॒ज्ञस्याघा॑ताय । ए॒क॒धा व॒पा जु॑होति । ए॒क॒दे॒व॒त्या॑ हि । ए॒ते । अथो॑ एक॒धैव यज॑माने वी॒र्यं॑ दधाति । नै॒वा॒रेण॑ स॒प्तद॑शशरावेणै॒तऱ्हि॒ प्रच॑रति । ए॒तत्पु॑रोडाशा॒ ह्ये॑ते । अथो॑ पशू॒नामे॒व छि॒द्रमपि॑दधाति । सा॒र॒स्व॒त्योत्त॒मया॒ प्रच॑रति । वाग्वै सर॑स्वती । तस्मात्प्रा॒णानां॒ वागु॑त्त॒मा । अथो प्र॒जाप॑तावे॒व य॒ज्ञं प्रति॑ष्ठापयति । प्र॒जाप॑ति॒र्‌हि वाक् । अप॑न्नदती भवति । तस्मान्मनु॒ष्यास्सर्वा॒व्वाँचं॑ वदन्ति ।। 26 ।। 1.3.5.0 स्व॒द॒य॒ति॒ प॒ल्पू॒लय॑ति॒ व्यावृ॑त्त्या॒ अनार्त्यै॒ द्वे च॑ ।। 5 ।। 1.3.5.1 सा॒वि॒त्रं जु॑होति॒ कर्म॑णकर्मण पु॒रस्तात् । कस्तद्वे॒देत्या॑हुः । यद्वा॑ज॒पेय॑स्य॒ पूर्वं॒ यदप॑र॒मिति॑ । स॒वि॒तृप्र॑सूत ए॒व य॑थापू॒र्वं कर्मा॑णि करोति । सव॑नेसवने जुहोति । आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मान कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति न॒ इत्या॑ह । वाग्वै दे॒वानां पु॒राऽन्न॑मासीत् । वाच॑मे॒वास्मा॒ अन्न॑ स्वदयति ।। 27 ।। 1.3.5.2 इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै । वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमित्या॑ह । यच्चै॒वेयम् । यच्चा॒स्यामधि॑ । तदे॒वाव॑रुन्धे । अथो॒ तस्मि॑न्ने॒वोभये॒ऽभिषि॑च्यते । अ॒फ्स्व॑न्तर॒मृत॑म॒फ्सु भे॑ष॒जमित्यश्वान्प- ल्पूलयति । अ॒फ्सु वा अश्व॑स्य॒ तृती॑यं॒ प्रवि॑ष्टम् । तद॑नु॒वेन॒न्वव॑प्लवते । यद॒फ्सु प॑ल्पू॒लय॑ति ।। 28 ।। 1.3.5.3 यदे॒वास्या॒फ्सु प्रवि॑ष्टम् । तदे॒वाव॑रुन्धे । ब॒हु वा अश्वो॑ऽमे॒ध्यमुप॑गच्छति । यद॒फ्सु प॑ल्पू॒लय॑ति । मेध्या॑ने॒वैनान्करोति । वा॒युर्वा त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह । ए॒ता वा ए॒तं दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन्न् । ताभि॑रे॒वैनान्॑ युनक्ति । स॒वस्योज्जि॑त्यै । यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै ।। 29 ।। 1.3.5.4 अपांनपादाशुहेम॒न्निति॒ संमार्ष्टि । मेध्या॑ने॒वैनान्करोति । अथो॒ स्तौत्ये॒वैना॑ना॒जि स॑रिष्य॒तः । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति । वै॒श्व॒दे॒वो वै रथः॑ । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यावित्या॑ह । या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टाः । ताभ्य॑ ए॒व नम॑स्करोति । आ॒त्मनोऽनार्त्यै । अश॑मरथंभावुकोऽस्य॒ रथो॑ भवति । य ए॒वं वेद॑ ।। 30 ।। 1.3.6.0 अ॒भिज॑यति॒ वा ए॒षा वाग्दी॑यन्तेऽस्मै युनक्ति गमयति॒ य आ॒जिं धाव॑न्ति भवति दे॒वत॑या॒ऽष्टौ च॑ ।। 6 ।। 1.3.6.1 दे॒वस्या॒ह स॑वि॒तु प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेष॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॒मुज्ज॑यति । दे॒वस्या॒ह स॑वि॒तु प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वऱ्षि॑ष्ठं॒ नाक॑ रुहेय॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वऱ्षि॑ष्ठं॒ नाक॑ रोहति । चात्वा॑ले रथच॒क्रं निमि॑त रोहति । अतो॒ वा अङ्गि॑रस उत्त॒मास्सु॑व॒र्गं लो॒कमा॑यन्न् । सा॒क्षादे॒व यज॑मानस्सुव॒र्गं लो॒कमे॑ति । आवेष्टयति । वज्रो॒ वै रथः॑ । वज्रे॑णै॒व दिशो॒ऽभिज॑यति ।। 31 ।। 1.3.6.2 वा॒जिना॒॒ साम॑ गायते । अन्नं॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । वा॒चो वर्ष्म॑ दे॒वेभ्योऽपाक्रामत् । तद्वन॒स्पती॒न्प्रावि॑शत् । सैषा वाग्वन॒स्पति॑षु वदति । या दु॑न्दु॒भौ । तस्माद्दुन्दु॒भिस्सर्वा॒ वाचोऽति॑वदति । दु॒न्दु॒भीन्थ्स॒माघ्न॑न्ति । प॒र॒मा वा ए॒षा वाक् ।। 32 ।। 1.3.6.3 या दु॑न्दु॒भौ । प॒र॒मयै॒व वा॒चाऽव॑रां॒ वाच॒म॑वरुन्धे । अथो॑ वा॒च ए॒व वर्ष्म॒ यज॑मा॒नोऽव॑रुन्धे । इन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयि॒दित्या॑ह । ए॒ष वा ए॒तऱ्हीन्द्रः॑ । यो यज॑ते । यज॑मान ए॒व वाज॒मुज्ज॑यति । स॒प्तद॑श प्रव्या॒धाना॒जिं धा॑वन्ति । स॒प्त॒द॒श स्तो॒त्रं भ॑वति । स॒प्तद॑शसप्तदश दीयन्ते ।। 33 ।। 1.3.6.4 स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जा॑पते॒राप्त्यै । अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह । अ॒ग्निर्वा अर्वा । वा॒युस्सप्तिः॑ । आ॒दि॒त्यो वा॒जी । ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भिर्देवर॒थं यु॑नक्ति । प्र॒ष्टि॒वा॒हिनं॑ युनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थमे॒वास्मै॑ युनक्ति ।। 34 ।। 1.3.6.5 वाजि॑नो॒ वाजं॑ धावत॒ काष्ठां गच्छ॒तेत्या॑ह । सु॒व॒र्गो वै लो॒क काष्ठा । सु॒व॒र्गमे॒व लो॒कं य॑न्ति । सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति । य आ॒जिं धाव॑न्ति । प्राञ्चो॑ धावन्ति । प्राङि॑व॒ हि सु॑व॒र्गो लो॒कः । च॒त॒सृभि॒रनु॑ मन्त्रयते । च॒त्वारि॒ छन्दा॑सि । छन्दो॑भिरे॒वैनान्थ्सुव॒र्गं लो॒कं ग॑मयति ।। 35 ।। 1.3.6.6 प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते । य आ॒जिं धाव॑न्ति । उद॑ञ्च॒ आव॑र्तन्ते । अ॒स्मादे॒व तेन॑ लो॒कान्नय॑न्ति । र॒थ॒वि॒मो॒च॒नीयं॑ जुहोति॒ प्रति॑ष्ठित्त्यै । आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह । अन्नं॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । य॒था॒लो॒कं वा ए॒त उज्ज॑यन्ति । य आ॒जिं धाव॑न्ति ।। 36 ।। 1.3.6.7 कृ॒ष्णलं॑कृष्णलं वाज॒सृद्भ्य॒ प्रय॑च्छति । यमे॒व ते वाजं॑ लो॒कमु॒ज्जय॑न्ति । तं प॑रि॒क्रीयाव॑रुन्धे । ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति । दे॒वा वा ओष॑धीष्वा॒जिम॑युः । ता बृह॒स्पति॒रुद॑जयत् । स नी॒वारा॒न्निर॑वृणीत । तन्नी॒वारा॑णां नीवार॒त्वम् । नै॒वा॒रश्च॒रुर्भ॑वति ।। 37 ।। 1.3.6.8 ए॒तद्वै दे॒वानां पर॒ममन्नम् । यन्नी॒वाराः । प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे । स॒प्तद॑शशरावो भवति । स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्ये । क्षी॒रे भ॑वति । रुच॑मे॒वास्मि॑न्दधाति । स॒र्पिष्वान्भवति मेध्य॒त्वाय॑ । बा॒र्॒ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या ।। 38 ।। 1.3.6.9 यो वा॑ज॒पेये॑न॒ यज॑ते । बा॒र्॒ह॒स्प॒त्य ए॒ष च॒रुः । अश्वान्थ्सरिष्य॒तस्स॒स्रुष॒श्चाव॑ घ्रापयति । यमे॒व ते वाजं॑ लो॒कमु॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे । अजी॑जिपत वनस्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्व॒मिति॑ दुन्दु॒भीन् विमु॑ञ्चति । यमे॒व ते वाजं॑ लो॒कमि॑न्द्रि॒यं दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे ।। 39 ।। 1.3.7.0 प॒रि॒धा॒पय॑ति गो॒धूमा॑ जुहोति॒ स्वं नैति॑ प्र॒त्यञ्चं घ्नन्ति लो॒को नव॑ च ।। 7 ।। 1.3.7.1 ता॒र्प्यं यज॑मानं॒ परि॑धापयति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैन॒॒ सम॑र्धयति । द॒र्भ॒मयं॒ परि॑धापयति । प॒वित्रं॒ वै द॒र्भाः । पु॒नात्ये॒वैनम् । वाजं॒ वा ए॒षोऽव॑रुरुथ्सते । यो वा॑ज॒पये॑न॒ यज॑ते । ओष॑धय॒ खलु॒ वै वाजः॑ । यद्द॑र्भ॒मयं॑ परिधा॒पय॑ति ।। 40 ।। 1.3.7.2 वाज॒स्याव॑रुद्ध्यै । जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह । पत्नि॑या ए॒वैष य॒ज्ञस्यान्वार॒म्भोऽन॑वच्छित्त्यै । स॒प्तद॑शारत्नि॒र्यूपो॑ भवति । स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । तू॒प॒रश्चतु॑रश्रिर्भवति । गौ॒धू॒मं च॒षालम् । न वा ए॒ते व्री॒हयो॒ न यवाः । यद्गो॒धूमाः ।। 41 ।। 1.3.7.3 ए॒वमि॑व॒ हि प्र॒जाप॑ति॒स्समृ॑द्ध्यै । अथो॑ अ॒मुमे॒वास्मै॑ लो॒कमन्न॑वन्तं करोति । वासो॑भिर्वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ । स॒र्व॒दे॒व॒त्यं॑ वासः॑ । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒स्सम॑र्धयति । अथो॑ आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मान कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । द्वाद॑श वाजप्रस॒वीया॑नि जुहोति ।। 42 ।। 1.3.7.4 द्वाद॑श॒ मासास्संवथ्स॒रः । सं॒व॒थ्स॒रमे॒व प्री॑णाति । अथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑दधाति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । द॒शभि॒ कल्पै॑ रोहति । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णाने॒व य॑थास्था॒नं क॑ल्पयि॒त्वा । सु॒व॒र्गं लो॒कमे॑ति । ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् ।। 43 ।। 1.3.7.5 याव॑त्प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति । सुव॑र्दे॒वा अ॑ग॒न्मेत्या॑ह । सु॒व॒र्गमे॒व लो॒कमे॑ति । अ॒मृता॑ अभू॒मेत्या॑ह । अ॒मृत॑मिव॒ हि सु॑व॒र्गो लो॒कः । प्र॒जाप॑ते प्र॒जा अ॑भू॒मेत्या॑ह । प्रा॒जा॒प॒त्यो वा अ॒यं लो॒कः । अ॒स्मादे॒व तेन॑ लो॒कान्नैति॑ ।। 44 ।। 1.3.7.6 सम॒हं प्र॒जया॒ सं मया प्र॒जेत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । आ॒स॒पु॒टैर्घ्न॑न्ति । अन्नं॒ वा इ॒यम् । अ॒न्नाद्ये॑नै॒वैन॒॒ सम॑र्धयन्ति । ऊषैर्घ्नन्ति । ए॒ते हि सा॒क्षादन्नम् । यदूषाः । सा॒क्षादे॒वैन॑म॒न्नाद्ये॑न॒ सम॑र्धयन्ति । पु॒रस्तात्प्र॒त्यञ्चं घ्नन्ति ।। 45 ।। 1.3.7.7 पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते । शी॒र्॒ष॒तो घ्न॑न्ति । शी॒र्॒ष॒तो ह्यन्न॑म॒द्यते । दि॒ग्भ्यो घ्न॑न्ति । दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒मव॑रुन्धते । ई॒श्व॒रो वा ए॒ष पराङ्प्र॒दघः॑ । यो यूप॒॒ रोह॑ति । हिर॑ण्यम॒ध्यव॑रोहति । अ॒मृतं॒ वै हिर॑ण्यम् । अ॒मृत॑ सुव॒र्गो लो॒कः ।। 46 ।। 1.3.7.8 अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति । श॒तमा॑नं भवति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । पुष्ट्यै॒ वा ए॒तद्रू॒पम् । यद॒जा । त्रिस्सं॑वथ्स॒रस्या॒न्यान्प॒शून्परि॒ प्रजा॑यते । ब॒स्ता॒जि॒नम॒ध्यव॑ रोहति । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति ।। 47 ।। 1.3.8.0 अ॒श्नी॒यादन्न॑स्यान्न॒स्याव॑रुद्ध्या॒ इन्द्र॑स्य त्वा॒ साम्राज्येना॒भिषि॑ञ्चा॒मीत्या॑ह वाज॒सृत॒श्शिपि॒स्त्रीणि॑ च ।। 8 ।। 1.3.8.1 स॒प्तान्न॑हो॒माञ्जु॑होति । स॒प्त वा अन्ना॑नि । याव॑न्त्ये॒वान्ना॑नि । तान्ये॒वाव॑रुन्धे । स॒प्त ग्रा॒म्या ओष॑धयः । स॒प्तार॒ण्याः । उ॒भयी॑षा॒मव॑रुद्ध्यै । अन्न॑स्यान्नस्य जुहोति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै । यद्वा॑जपेयया॒ज्यन॑वरुद्धस्याश्नी॒यात् ।। 48 ।। 1.3.8.2 अव॑रुद्धेन॒ व्यृ॑द्ध्येत । सर्व॑स्य समव॒दाय॑ जुहोति । अन॑वरुद्ध॒स्याव॑रुद्ध्यै । औदु॑म्बरेण स्रु॒वेण॑ जुहोति । ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिर॒भिषि॑ञ्चति । अन्न॑स्यान्नस्या॒भिषि॑ञ्चति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।। 49 ।। 1.3.8.3 पु॒रस्तात्प्र॒त्यञ्च॑म॒भिषि॑ञ्चति । पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते । शी॒र्॒ष॒तो॑ऽभिषि॑ञ्चति । शी॒र्॒ष॒तो ह्यन्न॑म॒द्यते । आ मुखा॑द॒न्वव॑स्रावयति । मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधाति । अ॒ग्नेस्त्वा॒ साम्राज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । ए॒ष वा अ॒ग्नेस्स॒वः । तेनै॒वैन॑म॒भिषि॑ञ्चति । इन्द्र॑स्य त्वा॒ साम्राज्येना॒भिषि॑ञ्चा॒मीत्या॑ह ।। 50 ।। 1.3.8.4 इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति । बृह॒स्पतेस्त्वा॒ साम्राज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैन॑म॒भिषि॑ञ्चति । सो॒म॒ग्र॒हाश्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑हरन्ति । अ॒मुमे॒व तैर्लो॒कमन्न॑वन्तं करोति । सु॒रा॒ग्र॒हाश्चा॑नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑ । इ॒ममे॒व तैर्लो॒कमन्न॑वन्तं करोति । अथो॑ उ॒भयीष्वे॒वाभिषि॑च्यते । वि॒मा॒थं कु॑र्वते वाज॒सृतः॑ ।। 51 ।। 1.3.8.5 इ॒न्द्रि॒यस्याव॑रुद्ध्यै । अनि॑रुक्ताभि प्रातस्सव॒ने स्तु॑वते । अनि॑रुक्त प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । वाज॑वतीभि॒र्माध्य॑न्दिने । अन्नं॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । शि॒पि॒वि॒ष्टव॑तीभिस्तृतीयसव॒ने । य॒ज्ञो वै विष्णुः॑ । प॒शव॒श्शिपिः॑ । य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति । बृ॒हदन्त्यं॑ भवति । अन्त॑मे॒वैन॑ श्रि॒यै ग॑मयति ।। 52 ।। 1.3.9.0 ग॒च्छ॒ति॒ सू॒यते॒ नव॑ च ।। 9 ।। 1.3.9.1 नृ॒षदं॒ त्वेत्या॑ह । प्र॒जा वै नॄन् । प्र॒जाना॑मे॒वैतेन॑ सूयते । द्रु॒षद॒मित्या॑ह । वन॒स्पत॑यो॒ वै द्रु । वन॒स्पती॑नामे॒वैतेन॑ सूयते । भु॒व॒न॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । भुव॑नमग॒न्निति॒ वै तमा॑हुः । भुव॑नमे॒वैतेन॑ गच्छति ।। 53 ।। 1.3.9.2 अ॒प्सु॒षदं॑ त्वा घृत॒सद॒मित्या॑ह । अ॒पामे॒वैतेन॑ घृ॒तस्य॑ सूयते । व्यो॒म॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । व्यो॑माग॒न्निति॒ वै तमा॑हुः । व्यो॑मै॒वैते॑न गच्छति । पृ॒थि॒वि॒षदं॑ त्वाऽन्तरिक्ष॒सद॒मित्या॑ह । ए॒षामे॒वैतेन॑ लो॒काना॑ सूयते । तस्माद्वाजपेयया॒जी न कंच॒न प्र॒त्यव॑रोहति । अपी॑व॒ हि दे॒वता॑ना सू॒यते ।। 54 ।। 1.3.9.3 ना॒क॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । नाक॑मग॒न्निति॒ वै तमा॑हुः । नाक॑मे॒वैतेन॑ गच्छति । ये ग्रहा पञ्चज॒नीना॒ इत्या॑ह । प॒ञ्च॒ज॒नाना॑मे॒वैतेन॑ सूयते । अ॒पा रस॒मुद्व॑यस॒मित्या॑ह । अ॒पामे॒वैतेन॒ रस॑स्य सूयते । सूर्य॑रश्मि स॒माभृ॑त॒मित्या॑ह सशुक्र॒त्वाय॑ ।। 55 ।। 1.3.10.0 इत्य॑श्नुते पद्यन्ते पद्यन्ते॒ षड्वा ऋ॒तवो॑ वर्त॒तेऽह॑विस्स्या॒न्नेदी॑य॒स्स्थ य॒ज्ञो यज॑मानश्चरति॒ यत्पि॒तृभ्य॑ क॒रोति॒ पञ्च॑ च ।। 10 ।। 1.3.10.1 इन्द्रो॑ वृ॒त्र ह॒त्वा । असु॑रान्परा॒भाव्य॑ । सो॑ऽमावा॒स्यां प्रत्याग॑च्छत् । ते पि॒तरः॑ पूर्वे॒द्युराग॑च्छन्न् । पि॒तॄन् य॒ज्ञो॑ऽगच्छत् । तं दे॒वा पुन॑रयाचन्त । तमेभ्यो॒ न पुन॑रददुः । तेऽब्रुव॒न्वरं॑ वृणामहै । अथ॑ व॒ पुन॑र्दास्यामः । अ॒स्मभ्य॑मे॒व पूर्वे॒द्यु क्रि॑याता॒ इति॑ ।। 56 ।। 1.3.10.2 तमेभ्यः॒ पुन॑रददुः । तस्मात्पि॒तृभ्य॑ पूर्वे॒द्यु क्रि॑यते । यत्पि॒तृभ्य॑ पूर्वे॒द्यु क॒रोति॑ । पि॒तृभ्य॑ ए॒व तद्य॒ज्ञं नि॒ष्क्रीय॒ यज॑मान॒ प्रत॑नुते । सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒ इत्या॑ह । पि॒तुरे॒वाधि॑ सोमपी॒थमव॑रुन्धे । न हि पि॒ता प्र॒मीय॑माण॒ आहै॒ष सो॑मपी॒थ इति॑ । इ॒न्द्रि॒यं वै सो॑मपी॒थः । इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे । तेनेन्द्रि॒येण॑ द्वि॒तीयां जा॒याम॒भ्य॑श्नुते ।। 57 ।। 1.3.10.3 ए॒तद्वै ब्राह्म॑णं पु॒रा वा॑जवश्रव॒सा वि॒दाम॑क्रन्न् । तस्मा॒त्ते द्वेद्वे॑ जा॒ये अ॒भ्याक्षत । य ए॒वं वेद॑ । अ॒भि द्वि॒तीयां॑ जा॒याम॑श्नुते । अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒ इत्या॑ह । य ए॒व पि॑तृ॒णाम॒ग्निः । तं प्री॑णाति । ति॒स्र आहु॑तीर्जुहोति । त्रिर्निद॑धाति । षट्थ्संप॑द्यन्ते ।। 58 ।। 1.3.10.4 षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । तू॒ष्णीं मेक्ष॑ण॒माद॑धाति । अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर्न वा । दे॒वान् वै पि॒तॄन्प्री॒तान् । म॒नु॒ष्या पि॒तरोऽनु॒ प्रपि॑पते । ति॒स्र आहु॑तीर्जुहोति । त्रिर्निद॑धाति । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ ।। 59 ।। 1.3.10.5 ऋ॒तव॒ खलु॒ वै दे॒वा पि॒तरः॑ । ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति । तान्प्री॒तान् । म॒नु॒ष्या पि॒तरोऽनु॒ प्रपि॑पते । स॒कृ॒दा॒च्छि॒न्नं ब॒ऱ्हिर्भ॑वति । स॒कृदि॑व॒ हि पि॒तरः॑ । त्रिर्निद॑धाति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । परा॒ङाव॑र्तते ।। 60 ।। 1.3.10.6 ह्लीका॒ हि पि॒तरः॑ । ओष्मणो व्या॒वृत॒ उपास्ते । ऊ॒ष्मभा॑गा॒ हि पि॒तरः॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्राश्या (3) न्न प्राश्या (3) मिति॑ । यत्प्राश्नी॒यात् । जन्य॒मन्न॑मद्यात् । प्र॒मायु॑कस्स्यात् । यन्न प्राश्नी॒यात् । अह॑विस्स्यात् ।। 61 ।। 1.3.10.7 पि॒तृभ्य॒ आवृ॑श्च्येत । अ॒व॒घ्रेय॑मे॒व । तन्नेव॒ प्राशि॑तं॒ नेवाप्रा॑शितम् । वी॒रं वा॒ वै पि॒तर॑ प्र॒यन्तो॒ हर॑न्ति । वी॒रं वा॑ ददति । द॒शां छि॑नत्ति । हर॑णभागा॒ हि पि॒तरः॑ । पि॒तॄने॒व नि॒रव॑दयते । उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत । पि॒तृ॒णा ह्ये॑तऱ्हि॒ नेदी॑यः ।। 62 ।। 1.3.10.8 नम॑स्करोति । न॒म॒स्का॒रो हि पि॑तृ॒णाम् । नमो॑ व पितरो॒ रसा॑य । नमो॑ व पितर॒श्शुष्मा॑य । नमो॑ व पितरो जी॒वाय॑ । नमो॑ व पितरस्स्व॒धायै । नमो॑ व पितरो म॒न्यवे । नमो॑ व पितरो घो॒राय॑ । पित॑रो॒ नमो॑ वः । य ए॒तस्मि॑ल्लोँ॒के स्थ ।। 63 ।। 1.3.10.9 यु॒ष्मास्तेऽनु॑ । येऽस्मिल्लोँ॒के । मां तेऽनु॑ । य ए॒तस्मि॑ल्लोँ॒के स्थ । यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त । येऽस्मिल्लोँ॒के । अ॒हं तेषां॒ वसि॑ष्ठो भूयास॒मित्या॑ह । वसि॑ष्ठस्समा॒नानां भवति । य ए॒वं वि॒द्वान्पि॒तृभ्य॑ क॒रोति॑ । ए॒ष वै म॑नु॒ष्या॑णां य॒ज्ञः ।। 64 ।। 1.3.10.10 दे॒वानां॒ वा इत॑रे य॒ज्ञाः । तेन॒ वा ए॒तत्पि॑तृलो॒के च॑रति । यत्पि॒तृभ्य॑ क॒रोति॑ । स ईश्व॒र प्रमे॑तोः । प्रा॒जा॒प॒त्यय॒र्चा पुन॒रैति॑ । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञेनै॒व स॒ह पुन॒रैति॑ । न प्र॒मायु॑को भवति । पि॒तृ॒लो॒के वा ए॒तद्यज॑मानश्चरति । यत्पि॒तृभ्य॑ क॒रोति॑ । स ईश्व॒र आर्ति॒मार्तोः । प्र॒जाप॑ति॒स्त्वावैनं॒ तत॒ उन्ने॑तुमऱ्ह॒तीत्या॑हुः । यत्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ । प्र॒जाप॑तिरे॒वैनं॒ तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ।। 65 ।। 1.4.0.0 उ॒भये॑ यु॒व सु॒राम॒मुद॑स्था॒न्नि वै यस्य॑ प्रातस्सव॒न एकै॑कोऽसु॒र्यं॑ पव॑मान प्र॒जा वै स॒त्रमा॑सता॒ग्निर्वाव सँ॑व्वथ्स॒रो दश॑ ।। 10 ।। उ॒भये॒ वा उद॑स्था॒थ्सर्वा॑भिर्मध्य॒तोऽत्र॒ वाव ब्राह्म॒णेष्वथ॑ गृहमे॒धिन॒॒ षट्थ्ष॑ष्टिः ।। उ॒भये॒ वा वैषः ।। 66 ।। हरिः॑ ओम् ।। चतुर्थ प्रपाठकस्समाप्तः 1.4.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थ प्रपाठक प्रारंभः । हरिः ओम् ।। 1.4.1.0 ग्र॒ह॒त्वं ग्रहाञ्जु॒होत्य॑कुर्वतादुह्रन्नाग्रयणस्था॒ली भव॑ति॒ नव॑ च ।। 1 ।। 1.4.1.1 उ॒भये॒ वा ए॒ते प्र॒जाप॑ते॒रध्य॑सृज्यन्त । दे॒वाश्चासु॑राश्च । तान्न व्य॑जानात् । इ॒मेऽन्य इ॒मेऽन्य इति॑ । स दे॒वान॒॒शून॑करोत् । तान॒भ्य॑षुणोत् । तान्प॒वित्रे॑णापुनात् । तान्प॒रस्तात्प॒वित्र॑स्य॒ व्य॑गृह्णात् । ते ग्रहा॑ अभवन्न् । तद्ग्रहा॑णां ग्रह॒त्वम् ।। 1 ।। 1.4.1.2 दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते । यद्ग्रहाः । वि॒दुरे॑नं दे॒वाः । यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते । ए॒षा वै सोम॒स्याहु॑तिः । यदु॑पा॒॒शुः । सोमे॑न दे॒वास्त॑र्पया॒णीति॒ खलु॒ वै सोमे॑न यजते । यदु॑पा॒॒शुं जु॒होति॑ । सोमे॑नै॒व तद्दे॒वास्त॑र्पयति । यद्ग्रहाञ्जु॒होति॑ ।। 2 ।। 1.4.1.3 दे॒वा ए॒व तद्दे॒वान्ग॑च्छन्ति । यच्च॑म॒साञ्जु॒होति॑ । तेनै॒वानु॑रूपेण॒ यज॑मानस्सुव॒र्गं लो॒कमे॑ति । किं न्वे॑तदग्र॑ आसी॒दित्या॑हुः । यत्पात्रा॒णीति॑ । इ॒यं वा ए॒तदग्र॑ आसीत् । मृ॒न्मया॑नि॒ वा ए॒तान्या॑सन्न् । तैर्दे॒वा न व्या॒वृत॑मगच्छन्न् । त ए॒तानि॑ दारु॒मया॑णि॒ पात्राण्यपश्यन्न् । तान्य॑कुर्वत ।। 3 ।। 1.4.1.4 तैर्वै ते व्या॒वृत॑मगच्छन्न् । यद्दा॑रु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । व्या॒वृत॑मे॒व तैर्यज॑मानो गच्छति । यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति । यानि॑ मृ॒न्मया॑नि । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । काश्चत॑स्रस्स्था॒लीर्वा॑य॒व्यास्सोम॒ग्रह॑णी॒रिति॑ । दे॒वा वै पृश्ञि॑मदुह्रन्न् ।। 4 ।। 1.4.1.5 तस्या॑ ए॒ते स्तना॑ आसन्न् । इ॒यं वै पृश्ञिः॑ । तामा॑दि॒त्या आ॑दित्यस्था॒ल्या चतु॑ष्पद प॒शून॑दुह्रन्न् । यदा॑दित्यस्था॒ली भव॑ति । चतु॑ष्पद ए॒व तया॑ प॒शून् यज॑मान इ॒मां दु॑हे । तामिन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम॑दुहत् । यदु॑क्थ्यस्था॒ली भव॑ति । इ॒न्द्रि॒यमे॒व तया॒ यज॑मान इ॒मां दु॑हे । तां विश्वे॑ दे॒वा आग्रयणस्था॒ल्योर्ज॑मदुह्रन्न् । यदाग्रयणस्था॒ली भव॑ति ।। 5 ।। 1.4.1.6 ऊर्ज॑मे॒व तया॒ यज॑मान इ॒मां दु॑हे । तां म॑नु॒ष्या ध्रुवस्था॒ल्याऽऽयु॑रदुह्रन्न् । यद्ध्रु॑वस्था॒ली भव॑ति । आयु॑रे॒व तया॒ यज॑मान इ॒मां दु॑हे । स्था॒ल्या गृ॒ह्णाति॑ । वा॒य॒व्ये॑न जुहोति । तस्मा॑द॒न्येन॒ पात्रे॑ण प॒शून्दु॒हन्ति॑ । अ॒न्येन॒ प्रति॑गृह्णन्ति । अथो व्या॒वृत॑मे॒व तद्यज॑मानो गच्छति ।। 6 ।। 1.4.2.0 सोम॑ आवि॒शन् य॑जे रा॒ज्यायैकं॑ च ।। 2 ।। 1.4.2.1 यु॒व सु॒राम॑मश्विना । नमु॑चावासु॒रे सचा । वि॒पि॒पा॒ना शु॑भस्पती । इन्द्रं॒ कर्म॑ स्वावतम् । पु॒त्त्रमि॑व पि॒तरा॑व॒श्विनो॒भा । इन्द्राव॑तं॒ कर्म॑णा द॒॒सना॑भिः । यथ्सु॒रामं॒ व्यपि॑ब॒श्शची॑भिः । सर॑स्वती त्वा मघवन्नभीष्णात् । अहाव्यग्ने ह॒विरा॒स्ये॑ते । स्रु॒चीव॑ घृ॒तं च॒मू इ॑व॒ सोमः॑ ।। 7 ।। 1.4.2.2 वा॒ज॒सनि॑ र॒यिम॒स्मे सु॒वीरम् । प्र॒श॒स्तं धे॑हि य॒शसं॑ बृ॒हन्तम् । यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणः॑ । व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे । हृ॒दा म॒तिं ज॑नय॒ चारु॑म॒ग्नये । नाना॒ हि वां दे॒वहि॑त॒॒ सदो॑ मि॒तम् । मा ससृ॑क्षाथां पर॒मे व्यो॑मन्न् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिसी॒स्स्वां योनि॑मावि॒शन्न् ।। 8 ।। 1.4.2.3 यदत्र॑ शि॒ष्ट र॒सिन॑स्सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॑ । सोम॒॒ राजा॑नमि॒ह भ॑क्षयामि । द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम् । अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दं विश्वं॒ भुव॑न॒॒ समे॑ति । अ॒न्त॒रा पूर्व॒मप॑रं च के॒तुम् । यस्ते॑ देव वरुण गाय॒त्रछ॑न्दा॒ पाशः॑ । तं त॑ ए॒तेनाव॑ यजे ।। 9 ।। 1.4.2.4 यस्ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दा॒ पाशः॑ । तं त॑ ए॒तेनाव॑ यजे । यस्ते॑ देव वरुण॒ जग॑तीछन्दा॒ पाशः॑ । तं त॑ ए॒तेनाव॑ यजे । सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते । दे॒व॒सु॒वामे॒तानि॑ ह॒वीषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वाना॑ स॒वाः । त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति । त ए॑नं॒ पुन॑स्सुवन्ते रा॒ज्याय॑ । दे॒व॒सू राजा॑ भवति ।। 10 ।। 1.4.3.0 वै दे॒व्यदि॑तिर्मुञ्चति सृजति करोति करोत्याभ्या॒मपि॑ दध्या॒त् पञ्च॑ च ।। 3 ।। 1.4.3.1 उद॑स्थाद्दे॒व्यदि॑तिर्विश्वरू॒पी । आयु॑र्य॒ज्ञप॑तावधात् । इन्द्रा॑य कृण्व॒ती भा॒गम् । मि॒त्राय॒ वरु॑णाय च । इ॒यं वा अ॑ग्निहो॒त्री । इ॒यं वा ए॒तस्य॒ निषी॑दति । यस्याग्निहो॒त्री नि॒षीद॑ति । तामुत्था॑पयेत् । उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑ । इ॒यं वै दे॒व्यदि॑तिः ।। 11 ।। 1.4.3.2 इ॒मामे॒वास्मा॒ उत्था॑पयति । आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । इन्द्रा॑य कृण्व॒ती भा॒गं मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । अव॑र्तिं॒ वा ए॒षैतस्य॑ पा॒प्मानं॑ प्रति॒ख्याय॒ निषी॑दति । यस्याग्निहो॒त्र्युप॑सृष्टा नि॒षीद॑ति । तां दु॒ग्ध्वा ब्राह्म॒णाय॑ दद्यात् । यस्यान्नं॒ नाद्यात् । अव॑र्तिमे॒वास्मि॑न्पा॒प्मानं॒ प्रति॑मुञ्चति ।। 12 ।। 1.4.3.3 दु॒ग्ध्वा द॑दाति । न ह्यदृ॑ष्टा॒ दक्षि॑णा दी॒यते । पृ॒थि॒वीं वा ए॒तस्य॒ पय॒ प्रवि॑शति । यस्याग्निहो॒त्रं दु॒ह्यमा॑न॒॒ स्कन्द॑ति । यद॒द्य दु॒ग्धं पृ॑थि॒वीमस॑क्त । यदोष॑धीर॒प्यस॑र॒द्यदापः॑ । पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ । पयो॑ व॒थ्सेषु॒ पयो॑ अस्तु॒ तन्मयीत्या॑ह । पय॑ ए॒वात्मन्गृ॒हेषु॑ प॒शुषु॑ धत्ते । अ॒प उप॑सृजति ।। 13 ।। 1.4.3.4 अ॒द्भिरे॒वैन॑दाप्नोति । यो वै य॒ज्ञस्यार्ते॒ नानार्त स सृ॒जति॑ । उ॒भे वै ते तर्ह्यार्च्छ॑तः । आर्च्छ॑ति॒ खलु॒ वा ए॒तद॑ग्निहो॒त्रम् । यद्दु॒ह्यमा॑न॒॒ स्कन्द॑ति । यद॑भिदु॒ह्यात् । आर्ते॒ नानार्तं य॒ज्ञस्य॒ ससृ॑जेत् । तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्यम् । अथा॒न्यां दु॒ग्ध्वा पुन॑ऱ्होत॒व्यम् । अनार्तेनै॒वार्तं॑ य॒ज्ञस्य॒ निष्क॑रोति ।। 14 ।। 1.4.3.5 यद्युद्द्रु॑तस्य॒ स्कन्देत् । यत्ततोऽहु॑त्वा॒ पुन॑रे॒यात् । य॒ज्ञं विच्छि॑न्द्यात् । यत्र॒ स्कन्देत् । तन्नि॒षद्य॒ पुन॑र्गृह्णीयात् । यत्रै॒व स्कन्द॑ति । तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति । तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्यम् । अथा॒न्यां दु॒ग्ध्वा पुन॑ऱ्होत॒व्यम् । अनार्तेनै॒वार्तं॑ य॒ज्ञस्य॒ निष्क॑रोति ।। 15 ।। 1.4.3.6 वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते । यस्याग्निहो॒त्रे॑ऽधिश्रि॑ते॒ श्वाऽन्त॒रा धाव॑ति । रु॒द्रः खलु॒ वा ए॒षः । यद॒ग्निः । यद्गाम॑न्वत्या व॒र्तयेत् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् । अ॒प॒शुर्यज॑मानस्स्यात् । यद॒पोऽन्वतिषि॒ञ्चेत् । अ॒ना॒द्यम॒ग्नेरापः॑ । अ॒ना॒द्यमाभ्या॒मपि॑ दध्यात् । गाऱ्ह॑पत्या॒द्भस्मा॒दाय॑ । इ॒दं विष्णु॒र्विच॑क्रम॒ इति॑ वैष्ण॒व्यर्चाऽऽह॑व॒नीयाद्ध्व॒॒सय॒न्नुद्र॑वेत् । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञेनै॒व य॒ज्ञ संत॑नोति । भस्म॑ना प॒दमपि॑ वपति॒ शान्त्यै ।। 16 ।। 1.4.4.0 हर॒त्यथाग्निहो॒त्रं नि॒म्रोच॑ति हरेद्दे॒वता॑ गच्छत्यु॒द्वायेन्मन्थेद्रमस्व बृ॒हद्वि॒राडिति॒ नव॑ च ।। 4 ।। (नि वै पूर्वं॒ त्रीणि॑ नि॒म्रोच॑ति द॒र्भेण॒ यद्धिर॑ण्यमग्निहो॒त्रं पुन॒र्वरु॑णो वारु॒णं नि वा ए॒तस्या॒भ्यु॑देति॑ चतुर्गृही॒तमाज्यं॒ यदाज्यं॒ पराच्यु॒षा पुन॑र्मि॒त्रो मै॒त्रं यस्या॑हव॒नीयेऽनु॑द्वाते॒ गाऱ्ह॑पत्यो॒ यद्वै म॑न्थे॒दुद्ध॑रेत् ।। ) 1.4.4.1 नि वा ए॒तस्या॑हव॒नीयो॒ गाऱ्ह॑पत्यं कामयते । निगाऱ्ह॑पत्य आहव॒नीयम् । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभि नि॒म्रोच॑ति । द॒र्भेण॒ हिर॑ण्यं प्र॒बद्ध्य॑ पु॒रस्ताद्धरेत् । अथा॒ग्निम् । अथाग्निहो॒त्रम् । यद्धिर॑ण्यं पु॒रस्ता॒द्धर॑ति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वैनं॒ पश्य॒न्नुद्ध॑रति । यद॒ग्निं पूर्व॒॒ हर॒त्यथाग्निहो॒त्रम् ।। 17 ।। 1.4.4.2 भा॒ग॒धेये॑नै॒वैनं॒ प्रण॑यति । ब्रा॒ह्म॒ण आ॑ऱ्षे॒य उद्ध॑रेत् । ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति । अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत । व्र॒तमे॒व ह॒तमनु॑ म्रियते । अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति । यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निमनु॑द्धृ॒त॒ सूर्यो॒ऽभि नि॒म्रोच॑ति ।। 18 ।। 1.4.4.3 पुन॑स्स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॒ निष्क॑रोति । वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभि नि॒म्रोच॑ति । वा॒रु॒णं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं निष्क्री॑णीते । नि वा ए॒तस्या॑हव॒नीयो॒ गाऱ्ह॑पत्यं कामयते । नि गाऱ्ह॑पत्य आहव॒नीयम् । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभ्यु॑देति॑ । च॒तु॒र्गृ॒ही॒तमाज्यं॑ पु॒रस्ताद्धरेत् ।। 19 ।। 1.4.4.4 अथा॒ग्निम् । अथाग्निहो॒त्रम् । यदाज्यं॑ पु॒रस्ता॒द्धर॑ति । ए॒तद्वा अ॒ग्ने प्रि॒यं धाम॑ । यदाज्यम् । प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति । यद॒ग्निं पूर्व॒॒ हर॒त्यथाग्निहो॒त्रम् । भा॒ग॒धेये॑नै॒वैनं॒ प्रण॑यति । ब्रा॒ह्म॒ण आ॑ऱ्षे॒य उद्ध॑रेत् । ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः ।। 20 ।। 1.4.4.5 सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति । परा॑ची॒ वा ए॒तस्मै व्यु॒च्छन्ती॒ व्यु॑च्छति । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभ्यु॑देति॑ । उ॒षाः के॒तुना॑ जुषताम् । य॒ज्ञं दे॒वेभि॑रिन्वि॒तम् । दे॒वेभ्यो॒ मधु॑मत्तम॒॒ स्वाहेति॑ प्र॒त्यङ्नि॒षद्याज्ये॑न जुहुयात् । प्र॒तीची॑मे॒वास्मै॒ विवा॑सयति । अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत । व्र॒तमे॒व ह॒तमनु॑ म्रियते । अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति ।। 21 ।। 1.4.4.6 यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभ्यु॑देति॑ । पुन॑स्स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॒ निष्क॑रोति । मि॒त्रो वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभ्यु॑देति॑ । मै॒त्रं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं निष्क्री॑णीते । यस्या॑हव॒नीयेऽ नु॑द्वाते॒ गाऱ्ह॑पत्य उ॒द्वायेत् ।।22।। 1.4.4.7 यदा॑हव॒नीय॒मनु॑द्वाप्य॒ गाऱ्ह॑पत्यं॒ मन्थेत् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यद्वै य॒ज्ञस्य॑ वास्त॒व्यं॑ क्रि॒यते । तदनु॑ रु॒द्रोऽव॑चरति । यत्पूर्व॑मन्वव॒स्येत् । वा॒स्त॒व्य॑म॒ग्निमुपा॑सीत । रु॒द्रोऽस्य प॒शून्घातु॑कस्स्यात् । आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ । गाऱ्ह॑पत्यं मन्थेत् ।। 23 ।। 1.4.4.8 इ॒त प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः । स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या । दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्निति॑ । छन्दो॑भिरे॒वैन॒॒ स्वाद्योने॒ प्रज॑नयति । गाऱ्ह॑पत्यं मन्थति । गाऱ्ह॑पत्यं॒ वा अन्वाहि॑ताग्ने प॒शव॒ उप॑ तिष्ठन्ते । स यदु॒द्वाय॑ति । तदनु॑ प॒शवोऽप॑ क्रामन्ति । इ॒षे र॒य्यै र॑मस्व ।। 24 ।। 1.4.4.9 सह॑से द्यु॒म्नाय॑ । ऊ॒र्जेऽपत्या॒येत्या॑ह । प॒शवो॒ वै र॒यिः । प॒शूने॒वास्मै॑ रमयति । सा॒र॒स्व॒तौ त्वोथ्सौ॒ समि॑न्धाता॒मित्या॑ह । ऋ॒ख्सा॒मे वै सा॑रस्व॒तावुथ्सौ । ऋ॒ख्सा॒माभ्या॑मे॒वैन॒॒ समि॑न्धे । स॒म्राड॑सि वि॒राड॒सीत्या॑ह । र॒थ॒न्त॒रं वै स॒म्राट् । बृ॒हद्वि॒राट् । 25 ।। 1.4.4.10 ताभ्या॑मे॒वैन॒॒ समि॑न्धे । वज्रो॒ वै च॒क्रम् । वज्रो॒ वा ए॒तस्य॑ य॒ज्ञं विच्छि॑नत्ति । यस्यानो॑ वा॒ रथो॑ वाऽन्त॒राऽग्नी याति॑ । आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ । गाऱ्ह॑पत्या॒दुद्ध॑रेत् । यद॑ग्ने॒ पूर्वं॒ प्रभृ॑तं प॒द हि ते । सूर्य॑स्य र॒श्मीनन्वा॑त॒तान॑ । तत्र॑ रयि॒ष्ठामनु॒ सं भ॑रै॒तम् । सं न॑स्सृज सुम॒त्या वाज॑व॒त्येति॑ ।। 26 ।। 1.4.4.11 पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒ संत॑नोति । त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह । अ॒ग्निस्सर्वा॑ दे॒वताः । दे॒वता॑भिरे॒व य॒ज्ञ संत॑नोति । अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् । अ॒ग्निमे॒व प॑थि॒कृत॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति । स ए॒वैनं॑ य॒ज्ञियं॒ पन्था॒मपि॑ नयति । अ॒न॒ड्वान्दक्षि॑णा । व॒ही ह्ये॑ष समृ॑द्ध्यै ।। 27 ।। 1.4.5.0 य॒न्ति॒ सव॑नस्याति॒रिच्य॑ते शसति दाधारा॒ष्टौ च॑ ।। 5 ।। 1.4.5.1 यस्य॑ प्रातस्सव॒ने सोमो॑ऽति॒रिच्य॑ते । माध्य॑न्दिन॒॒ सव॑नं का॒मय॑मानो॒ऽभ्यति॑रिच्यते । गौर्ध॑यति म॒रुता॒मिति॒ धय॑द्वतीषु कुर्वन्ति । हि॒नस्ति॒ वै स॒न्ध्यधी॑तम् । स॒न्धीव॒ खलु॒ वा ए॒तत् । यथ्सव॑नस्याति॒रिच्य॑ते । यद्धय॑द्वतीषु कु॒र्वन्ति॑ । स॒न्धेश्शान्त्यै । गा॒य॒त्र साम॑ भवति पञ्चद॒शस्स्तोमः॑ । तेनै॒व प्रा॑तस्सव॒नान्नय॑न्ति ।। 28 ।। 1.4.5.2 म॒रुत्व॑तीषु कुर्वन्ति । तेनै॒व माध्य॑न्दिना॒थ्सव॑ना॒न्नय॑न्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑ शसति । म॒ध्य॒त ए॒व य॒ज्ञ स॒माद॑धाति । यस्य॒ माध्य॑न्दिने॒ सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते । आ॒दि॒त्यं तृ॑तीयसव॒नं का॒मय॑मानो॒ऽभ्यति॑रिच्यते । गौ॒रि॒वी॒त साम॑ भवति । अति॑रिक्तं॒ वै गौ॑रिवी॒तम् । अति॑रिक्तं॒ यथ्सव॑नस्याति॒रिच्य॑ते ।। 29 ।। 1.4.5.3 अति॑रिक्तस्य॒ शान्त्यै । बण्म॒हा अ॑सि सू॒र्येति॑ कुर्वन्ति । यस्यै॒वादि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒रिच्य॑ते । तेनै॒वैनं॒ कामे॑न॒ सम॑र्धयन्ति । गौ॒रि॒वी॒त साम॑ भवति । तेनै॒व माध्य॑न्दिना॒थ्सव॑ना॒न्नय॑न्ति । स॒प्त॒द॒शस्स्तोमः॑ । तेनै॒व तृ॑तीयसव॒नान्नय॑न्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑ शसति ।। 30 ।। 1.4.5.4 म॒ध्य॒त ए॒व य॒ज्ञ स॒माद॑धाति । यस्य॑ तृतीयसव॒ने सोमो॑ऽति॒रिच्ये॑त । उ॒क्थ्यं॑ कुर्वीत । यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्रं कु॑र्वीत । यस्या॑तिरा॒त्रे॑ऽति॒रिच्य॑ते । तत्त्वै दु॑ष्प्रज्ञा॒नम् । यज॑मानं॒ वा ए॒तत्प॒शव॑ आ॒साह्य॑यन्ति । बृ॒हथ्साम॑ भवति । बृ॒हद्वा इ॒माल्लोँ॒कान्दा॑धार । बाऱ्ह॑ता प॒शवः॑ । बृ॒ह॒तैवास्मै॑ प॒शून्दा॑धार । शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वानां पु॒ष्टम् । पुष्ट्यै॒वैन॒॒ सम॑र्धयन्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑शसति । म॒ध्य॒त ए॒व य॒ज्ञ स॒माद॑धाति ।। 31 ।। 1.4.6.0 अ॒भिजि॑त्यै पृथि॒व्याश्च॒ स्याद॑ध्व॒र्युर्ब्रू॑याल्लो॒कयो॒ परि॑ददति कुर्वीर॒॒स्त्रीणि॑ च ।। 6 ।। 1.4.6.1 एकै॑को॒ वै ज॒नता॑या॒मिन्द्रः॑ । एकं॒ वा ए॒ताविन्द्र॑म॒भि ससु॑नुतः । यौ द्वौ स॑ सुनु॒तः । प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते । यद्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ताः । अ॒न्य॒त॒रं वा ए॒ते स॑सुन्व॒तोर्निर्ब॑फ्सति । पूर्वे॑णोप॒सृत्या॑ दे॒वता॒ इत्या॑हुः । पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेयान्भवति । एति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै ।। 32 ।। 1.4.6.2 म॒रुत्व॑ती प्रति॒पदः॑ । म॒रुतो॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम् । दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते । उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः । इ॒यं वाव र॑थन्त॒रम् । अ॒सौ बृ॒हत् । आ॒भ्यामे॒वैन॑म॒न्तरे॑ति । वा॒चश्च॒ मन॑सश्च । प्रा॒णाच्चा॑पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्याश्च॑ ।। 33 ।। 1.4.6.3 सर्व॑स्माद्वि॒त्ताद्वेद्यात् । अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मं भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै । अ॒भि॒जिद्भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । वि॒श्व॒जिद्भ॑वति । विश्व॑स्य॒ जित्यै । यस्य॒ भूया॑सो यज्ञक्र॒तव॒ इत्या॑हुः । स दे॒वता॑ वृङ्क्त॒ इति॑ । यद्य॑ग्निष्टो॒मस्सोम॑ प॒रस्ता॒थ्स्यात् ।। 34 ।। 1.4.6.4 उ॒क्थ्यं॑ कुर्वीत । यद्यु॒क्थ॑स्स्यात् । अ॒ति॒रा॒त्रं कु॑र्वीत । य॒ज्ञ॒क्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते । यो वै छन्दो॑भिरभि॒भव॑ति । स स॑सुन्व॒तोर॒भिभ॑वति । सं॒वे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह । छन्दा॑सि॒ वै सं॑वे॒श उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दा॑स्य॒भिभ॑वति । इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑मध्व॒र्युः ।। 35 ।। 1.4.6.5 इ॒ष्टर्ग॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यते । प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒मित्या॑ह । प्रा॒णा॒पा॒नयो॑रे॒व श्र॑यते । प्राणा॑पानौ॒ मा मा॑हासिष्ट॒मित्या॑ह । नैनं॑ पु॒राऽऽयु॑ष प्राणापा॒नौ ज॑हितः । आर्तिं॒ वा ए॒ते निय॑न्ति । येषां दीक्षि॒तानां प्र॒मीय॑ते । तं यद॑व॒वर्जे॑युः । क्रू॒र॒कृता॑मिवैषां लो॒कस्स्यात् । आह॑र द॒हेति॑ ब्रूयात् ।। 36 ।। 1.4.6.6 तं द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑युः । इ॒यं वै सर्प॑तो॒ राज्ञी । अ॒स्या ए॒वैनं॒ परि॑ददति । व्यृ॑द्धं॒ तदित्या॑हुः । यथ्स्तु॒तमन॑नुशस्त॒मिति॑ । होता प्रथ॒म प्रा॑चीनावी॒ती मार्जा॒लीयं॒ परी॑यात् । या॒मीर॑नुब्रु॒वन्न् । स॒र्प॒रा॒ज्ञीनां कीर्तयेत् । उ॒भयो॑रे॒वैनं॑ लो॒कयो॒ परि॑ददति ।। 37 ।। 1.4.6.7 अथो॑ धु॒वन्त्ये॒वैनम् । अथो॒ न्ये॑वास्मै ह्नुवते । त्रि परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ धुवते । त्रि पुन॒परि॑यन्ति । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑ धुवते । अग्न॒ आयू॑षि पवस॒ इति॑ प्रति॒पदं॑ कुर्वीरन्न् । र॒थ॒न्त॒रसा॑मैषा॒॒ सोम॑स्स्यात् । आयु॑रे॒वात्मन्द॑धते । अथो॑ पा॒प्मान॑मे॒व वि॒जह॑तो यन्ति ।। 38 ।। 1.4.7.0 उ॒द्वाय॑ति मन्थेन्मन्थत्यक्रामत्प॒राऽप॑तन्म॒ध्यन्दि॑न आगु॒रते॒ पञ्च॑ च ।। 7 ।। 1.4.7.1 अ॒सु॒र्यं॑ वा ए॒तस्मा॒द्वर्णं॑ कृ॒त्वा । प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति । यस्य॒ यूपो॑ वि॒रोह॑ति । त्वा॒ष्ट्रं ब॑हुरू॒पमाल॑भेत । त्वष्टा॒ वै रू॒पाणा॑मीशे । य ए॒व रू॒पाणा॒मीशे । सोऽस्मिन्प॒शून् वी॒र्यं॑ यच्छति । नास्मात्प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति । आर्तिं॒ वा ए॒ते निय॑न्ति । येषां दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति ।। 39 ।। 1.4.7.2 यदा॑हव॒नीय॑ उ॒द्वायेत् । यत्तं मन्थेत् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उ॒द्वायेत् । आग्नीद्ध्रा॒दुद्ध॑रेत् । यदाग्नीद्ध्र उ॒द्वायेत् । गाऱ्ह॑पत्या॒दुद्ध॑रेत् । यद्गाऱ्ह॑पत्य उ॒द्वायेत् । अत॑ ए॒व पुन॑र्मन्थेत् ।। 40 ।। 1.4.7.3 अत्र॒ वाव स निल॑यते । यत्र॒ खलु॒ वै निली॑नमुत्त॒मं पश्य॑न्ति । तदे॑नमिच्छन्ति । यस्मा॒द्दारो॑रु॒द्वायेत् । तस्या॒रणी॑ कुर्यात् । क्रु॒मु॒कमपि॑ कुर्यात् । ए॒षा वा अ॒ग्ने प्रि॒या त॒नूः । यत्क्रु॑मु॒कः । प्रि॒ययै॒वैन॑न्त॒नुवा॒ सम॑र्धयति । गाऱ्ह॑पत्यं मन्थति ।। 41 ।। 1.4.7.4 गाऱ्ह॑पत्यो॒ वा अ॒ग्नेर्योनिः॑ । स्वादे॒वैन॒य्योँनेर्जनयति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । यस्य॒ सोम॑ उप॒दस्येत् । सु॒वर्ण॒॒ हिर॑ण्यन्द्वे॒धा वि॒च्छिद्य॑ । ऋ॒जी॒षेऽन्यदा॑धूनु॒यात् । जु॒हु॒याद॒न्यत् । सोम॑मे॒वाभि॑षु॒णोति॑ । सोम॑ञ्जुहोति । सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नूरुद॑क्रामत् ।। 42 ।। 1.4.7.5 तथ्सु॒वर्ण॒॒ हिर॑ण्यमभवत् । यथ्सु॒वर्ण॒॒ हिर॑ण्यङ्कु॒र्वन्ति॑ । प्रि॒ययै॒वैन॑न्त॒नुवा॒ सम॑र्धयन्ति । यस्याक्री॑त॒॒ सोम॑मप॒हरे॑युः । क्री॒णी॒यादे॒व । सैव तत॒ प्राय॑श्चित्तिः । यस्य॑ क्री॒तम॑प॒हरे॑युः । आ॒दा॒राश्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात् । गा॒य॒त्री य सोम॒माह॑रत् । तस्य॒ योऽ॑शु प॒राऽप॑तत् ।। 43 ।। 1.4.7.6 त आ॑दा॒रा अ॑भवन्न् । इन्द्रो॑ वृ॒त्रम॑हन्न् । तस्य॑ व॒ल्क परा॑ऽपतत् । तानि॑ फाल्गु॒नान्य॑भवन्न् । प॒शवो॒ वै फाल्गु॒नानि॑ । प॒शव॒स्सोमो॒ राजा । यदा॑दा॒राश्च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति । शृ॒तेन॑ प्रातस्सव॒ने श्री॑णीयात् । द॒ध्ना म॒ध्यन्दि॑ने ।। 44 ।। 1.4.7.7 नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने । अ॒ग्नि॒ष्टो॒मस्सोम॑स्स्याद्रथन्त॒रसा॑मा । य ए॒वर्त्विजो॑ वृ॒तास्स्युः । त ए॑नय्याँजयेयुः । एका॒ङ्गान्दक्षि॑णान्दद्या॒त्तेभ्य॑ ए॒व । पुन॒स्सोम॑ङ्क्रीणीयात् । य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति । सैव ततः॒ प्राय॑श्चित्तिः । सर्वाभ्यो॒ वा ए॒ष दे॒वताभ्य॒स्सर्वेभ्य पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागु॑रते । यस्स॒त्त्राया॑गु॒रते । ए॒तावा॒न्खलु॒ वै पुरु॑षः । याव॑दस्य वि॒त्तम् । स॒र्व॒वे॒द॒सेन॑ यजेत । सर्व॑पृष्ठोऽस्य॒ सोम॑स्स्यात् । सर्वाभ्य ए॒व दे॒वताभ्य॒स्सर्वेभ्य पृ॒ष्ठेभ्य॑ आ॒त्मान॒न्निष्क्री॑णीते ।। 45 ।। 1.4.8.0 अनु॑ रयी॒णां ब्रह्म॑णा स्व॒स्त्यय॑नीस्सु॒दुघा॒ हि घृ॑त॒श्चुत॒ ऋषि॑भि॒स्सम्भृ॑तो॒ रस॑ पुनातु॒ त्रीणि॑ च ।। 8 ।। 1.4.8.1 पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑ऱ्षणिः । य पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ । जात॑वेद प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शू॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ रनु॑ ।। 46 ।। 1.4.8.2 यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यान्देव सवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे । वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागात् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तस्सध॒माद्ये॑षु । व॒य स्या॑म॒ पत॑यो रयी॒णाम् ।। 47 ।। 1.4.8.3 वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वात॑ प्रा॒णेने॑षि॒रो म॑यो॒भूः । द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् । बृ॒हद्भि॑स्सवित॒स्तृभिः॑ । वऱ्षि॑ष्ठैर्देव॒ मन्म॑भिः । अग्ने॒ दक्षै पुनाहि मा । येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्यङ्कशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा ।। 48 ।। 1.4.8.4 इ॒दं ब्रह्म॑ पुनीमहे । य पा॑वमा॒नीर॒ध्येति॑ । ऋषि॑भि॒स्संभृ॑त॒॒ रसम् । सर्व॒॒ स पू॒तम॑श्ञाति । स्व॒दि॒तं मा॑त॒रिश्व॑ना । पा॒व॒मा॒नीर्यो अ॒ध्येति॑ । ऋषि॑भि॒स्संभृ॑त॒॒ रसम् । तस्मै॒ सर॑स्वती दुहे । क्षी॒र स॒र्पिर्मधू॑द॒कम् । पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः ।। 49 ।। 1.4.8.5 सु॒दुघा॒ हि पय॑स्वतीः । ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृत॑ हि॒तम् । पा॒व॒मानीर्दि॑शन्तु नः । इ॒मल्लोँ॒कमथो॑ अ॒मुम् । कामा॒न्थ्सम॑र्धयन्तु नः । दे॒वीर्दे॒वैस्स॒माभृ॑ताः । पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒ हि घृ॑त॒श्चुतः॑ । ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ ।। 50 ।। 1.4.8.6 ब्रा॒ह्म॒णेष्व॒मृत॑ हि॒तम् । येन॑ दे॒वा प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा । तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्य पु॑नन्तु मा । प्रा॒जा॒प॒त्यं प॒वित्रम् । श॒तोद्या॑म हिर॒ण्मयम् । तेन॑ ब्रह्म॒विदो॑ व॒यम् । पू॒तं ब्रह्म॑ पुनीमहे । इन्द्र॑स्सुनी॒ती स॒ह मा॑ पुनातु । सोम॑स्स्व॒स्त्या वरु॑णस्स॒मीच्या । य॒मो राजा प्रमृ॒णाभि॑ पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ।। 51 ।। 1.4.9.0 म॒नु॒ष्या॑ अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धामसु॑रा अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धामसु॑रा॒ ददात्यतिष्ठच्च॒त्वारि॑ च ।। 9 ।। 1.4.9.1 प्र॒जा वै स॒त्रमा॑सत॒ तप॒स्तप्य॑माना॒ अजु॑ह्वतीः । दे॒वा अ॑पश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेनार्धमा॒स ऊर्ज॒मवा॑रुन्धत । तस्मा॑दर्धमा॒से दे॒वा इ॑ज्यन्ते । पि॒तरो॑ऽपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत । तस्मान्मा॒सि पि॒तृभ्य॑ क्रियते । म॒नु॒ष्या॑ अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् ।। 52 ।। 1.4.9.2 तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ द्व॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒द्द्विरह्नो॑ मनु॒ष्येभ्य॒ उप॑ह्रियते । प्रा॒तश्च॑ सा॒यञ्च॑ । प॒शवो॑ऽपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ त्र॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒त्त्रिरह्न॑ प॒शव॒ प्रेर॑ते । प्रा॒तस्स॑ङ्ग॒वे सा॒यम् । असु॑रा अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् ।। 53 ।। 1.4.9.3 तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ सवँथ्स॒र ऊर्ज॒मवा॑रुन्धत । ते दे॒वा अ॑मन्यन्त । अ॒मी वा इ॒दम॑भूवन्न् । यद्व॒य स्म इति॑ । त ए॒तानि॑ चातुर्मा॒स्यान्य॑पश्यन्न् । तानि॒ निर॑वपन्न् । तैरे॒वैषा॒न्तामूर्ज॑मवृञ्जत । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः ।। 54 ।। 1.4.9.4 यद्यज॑ते । यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यत्पि॒तृभ्य॑ क॒रोति॑ । यामे॒व पि॒तर॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यदा॑वस॒थेऽन्न॒॒ हर॑न्ति । यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यद्दक्षि॑णा॒न्ददा॑ति ।। 55 ।। 1.4.9.5 यामे॒व प॒शव॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यच्चा॑तुर्मा॒स्यैर्यज॑ते । यामे॒वासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । भव॑त्या॒त्मना । परास्य॒ भ्रातृ॑व्यो भवति । वि॒राजो॒ वा ए॒षा विक्रान्तिः । यच्चा॑तुर्मा॒स्यानि॑ । वै॒श्व॒दे॒वेना॒स्मिल्लोँ॒के प्रत्य॑तिष्ठत् । व॒रु॒ण॒प्र॒घा॒सैर॒न्तरि॑क्षे । सा॒क॒मे॒धैर॒मुष्मि॑ल्लोँ॒के । ए॒ष ह॒ त्वावैतथ्सर्वं॑ भवति । य ए॒वव्विँ॒द्वाश्चा॑तुर्मा॒स्यैर्यज॑ते ।। 56 ।। 1.4.10.0 प॒रि॒व॒थ्स॒रमाप्नोति शुनासी॒रीये॑ण॒ यज॑तेऽजयन्थ्सहस्रया॒जिन॑मा॒प्नोति॑ वैश्वदेव॒त्व सा॑कमे॒धैर॑यजत स॒मैध॑न्त पितृयज्ञ॒त्वञ्ज॑यति॒ यस्मि॑न्वा॒युऱ्हे॑म॒न्तस्त्रीणि॑ च ।। 10 ।। 1.4.10.1 अ॒ग्निर्वाव स॑व्वँथ्स॒रः । आ॒दि॒त्यः प॑रिवथ्स॒रः । च॒न्द्रमा॑ इदावथ्स॒रः । वा॒युर॑नुवथ्स॒रः । यद्वैश्वदे॒वेन॒ यज॑ते । अ॒ग्निमे॒व तथ्सँ॑व्वथ्स॒रमाप्नोति । तस्माद्वैश्वदे॒वेन॒ यज॑मानः । स॒व्वँ॒थ्स॒रीणा॑ स्व॒स्तिमाशास्त॒ इत्याशा॑सीत । यद्व॑रुणप्रघा॒सैर्यज॑ते । आ॒दि॒त्यमे॒व तत्प॑रिवथ्स॒रमाप्नोति ।। 57 ।। 1.4.10.2 तस्माद्वरुणप्रघा॒सैर्यज॑मानः । प॒रि॒व॒थ्स॒रीणा॑ स्व॒स्तिमाशास्त॒ इत्याशा॑सीत । यथ्सा॑कमे॒धैर्यज॑ते । च॒न्द्रम॑समे॒व तदि॑दावथ्स॒रमाप्नोति । तस्मात्साकमे॒धैर्यज॑मानः । इ॒दा॒व॒थ्स॒रीणा॑ स्व॒स्तिमाशास्त॒ इत्याशा॑सीत । यत्पि॑तृय॒ज्ञेन॒ यज॑ते । दे॒वाने॒व तद॒न्वव॑स्यति । अथ॒वा अ॑स्य वा॒युश्चा॑नुवथ्स॒रश्चाप्री॑ता॒वुच्छि॑ष्येते । यच्छु॑नासी॒रीये॑ण॒ यज॑ते ।। 58 ।। 1.4.10.3 वा॒युमे॒व तद॑नुवथ्स॒रमाप्नोति । तस्माच्छुनासी॒रीये॑ण॒ यज॑मानः । अ॒नु॒व॒थ्स॒रीणा॑ स्व॒स्तिमाशास्त॒ इत्याशा॑सीत । स॒व्वँ॒थ्स॒रव्वाँ ए॒ष ईफ्स॒तीत्या॑हुः । यश्चा॑तुर्मा॒स्यैर्यज॑त॒ इति॑ । ए॒ष ह॒ त्वै स॑व्वँथ्स॒रमाप्नोति । य ए॒वव्विँ॒द्वाश्चा॑तुर्मा॒स्यैर्यज॑ते । विश्वे॑ दे॒वास्सम॑यजन्त । तेऽग्निमे॒वाय॑जन्त । त ए॒तल्लोँ॒कम॑जयन्न् ।। 59 ।। 1.4.10.4 यस्मि॑न्न॒ग्निः । यद्वैश्वदे॒वेन॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्न॒ग्निः । अ॒ग्नेरे॒व सायु॑ज्य॒मुपै॑ति । य॒दा वैश्वदे॒वेन॒ यज॑ते । अथ॑ सव्वँथ्स॒रस्य॑ गृ॒हप॑तिमाप्नोति । य॒दा सँ॑व्वथ्स॒रस्य॑ गृ॒हप॑तिमा॒प्नोति॑ । अथ॑ सहस्रया॒जिन॑माप्नोति । य॒दा स॑हस्रया॒जिन॑मा॒प्नोति॑ ।। 60 ।। 1.4.10.5 अथ॑ गृहमे॒धिन॑माप्नोति । य॒दा गृ॑हमे॒धिन॑मा॒प्नोति॑ । अथा॒ग्निर्भ॑वति । य॒दाग्निर्भव॑ति । अथ॒ गौर्भ॑वति । ए॒षा वै वैश्वदे॒वस्य॒ मात्रा । ए॒तद्वा ए॒तेषा॑मव॒मम् । अतो॑तो॒ वा उत्त॑राणि॒ श्रेया॑सि भवन्ति । यद्विश्वे॑ दे॒वास्स॒मय॑जन्त । तद्वैश्वदे॒वस्य॑ वैश्वदेव॒त्वम् ।। 61 ।। 1.4.10.6 अथा॑दि॒त्यो वरु॑ण॒॒ रा॑जानव्वँरुणप्रघा॒सैर॑यजत । स ए॒तल्लोँ॒कम॑जयत् । यस्मि॑न्नादि॒त्यः । यद्व॑रुणप्रघा॒सैर्यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्नादि॒त्यः । आ॒दि॒त्यस्यै॒व सायु॑ज्य॒मुपै॑ति । यदा॑दि॒त्यो वरु॑ण॒॒ राजा॑नव्वँरुण- प्रघा॒सैरय॑जत । तद्व॑रुणप्रघा॒सानाव्वँरुणप्रघास॒त्वम् । अथ॒ सोमो॒ राजा॒ छन्दा॑सि साकमे॒धैर॑यजत ।। 62 ।। 1.4.10.7 स ए॒तल्लोँ॒कम॑जयत् । यस्मि॑श्च॒न्द्रमा॑ वि॒भाति॑ । यथ्सा॑कमे॒धैर्यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑श्च॒न्द्रमा॑ वि॒भाति॑ । च॒न्द्रम॑स ए॒व सायु॑ज्य॒मुपै॑ति । सोमो॒ वै च॒न्द्रमाः । ए॒ष ह॒ त्वै सा॒क्षाथ्सोमं॑ भक्षयति । य ए॒वव्विँ॒द्वान्थ्सा॑कमे॒धैर्यज॑ते । यथ्सोम॑श्च॒ राजा॒ छन्दा॑सि च स॒मैध॑न्त ।। 63 ।। 1.4.10.8 तथ्सा॑कमे॒धाना॑ साकमेध॒त्वम् । अथ॒र्तव॑ पि॒तर॑ प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेना॑यजन्त । त ए॒तल्लोँ॒कम॑जयन्न् । यस्मि॑न्नृ॒तवः॑ । यत्पि॑तृय॒ज्ञेन॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्नृ॒तवः॑ । ऋ॒तू॒नामे॒व सायु॑ज्य॒मुपै॑ति । यदृ॒तव॑ पि॒तर॑ प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेनाय॑जन्त । तत्पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम् ।। 64 ।। 1.4.10.9 अथौष॑धय इ॒मन्दे॒वन्त्र्य॑म्बकैरयजन्त॒ प्रथे॑म॒हीति॑ । ततो॒ वै ता अ॑प्रथन्त । य ए॒वव्विँ॒द्वा स्त्र्य॑म्बकै॒र्यज॑ते । प्रथ॑ते प्र॒जया॑ प॒शुभिः॑ । अथ॑ वा॒यु प॑रमे॒ष्ठिन॑ शुनासी॒रीये॑णायजत । स ए॒तल्लोँ॒कम॑जयत् । यस्मि॑न्वा॒युः । यच्छु॑नासी॒रीये॑ण॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्वा॒युः ।। 65 ।। 1.4.10.10 वा॒योरे॒व सायु॑ज्य॒मुपै॑ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्र चा॑तुर्मास्यया॒जी मी॑य॒ता (३) न प्रमी॑य॒ता (३) इति॑ । जीव॒न्वा ए॒ष ऋ॒तूनप्ये॑ति । यदि॑ व॒सन्ता प्र॒मीय॑ते । व॒स॒न्तो भ॑वति । यदि॑ ग्री॒ष्मे ग्री॒ष्मः । यदि॑ व॒र्॒षासु॑ व॒र्॒षाः । यदि॑ श॒रदि॑ श॒रत् । यदि॒ हेम॑न् हेम॒न्तः । ऋ॒तुर्भू॒त्वा स॑व्वँथ्स॒रमप्ये॑ति । स॒व्वँ॒थ्स॒र प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावैषः ।। 66 ।। 1.5.0.0 अ॒ग्ने कृत्ति॑का॒ यत्पुण्य॑न्दे॒वस्य॑ सवि॒तुर्ब्र॑ह्मवा॒दिन॒ कत्यृ॒तमे॒व दे॒वा वा आयु॑षप्रा॒णमिन्द्रो॑ दधी॒चो दे॑वासु॒रास्स प्र॒जाप॑ति॒स्स स॑मु॒द्रो ये वै च॒त्वार॒स्तस्यावा॑चो॒ द्वाद॑श ।। 12 ।। अ॒ग्ने कृत्ति॑का देवगृ॒हा ऋ॒तमे॒वर्ध्यामे॒व ति॒स्रः परा॑ची॒र्ये वै च॒त्वारो॒ नव॑पञ्चा॒शत् ।। 59 ।। अ॒ग्ने कृत्ति॑का॒ य उ॑ चैनमे॒वव्वेँद॑ ।। हरिः॑ ओम् ।। 1.5.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके पंचमप्रपाठक प्रारंभः । हरिः ओम् । 1.5.1.0 आ॒र्द्रम॒वस्ता॒द्वह॑माना अ॒वस्ता॑द॒भ्यारू॑ढम॒वस्ता॒त्पन्था॑ अ॒वस्ताद्व॒थ्सा अ॒वस्ता॒त्पञ्च॑ च ।। 1 ।। 1.5.1.1 अ॒ग्ने कृत्ति॑काः । शु॒क्रं प॒रस्ता॒ज्ज्योति॑र॒वस्तात् । प्र॒जाप॑ते रोहि॒णी । आप॑ प॒रस्ता॒दोष॑धयो॒ऽवस्तात् । सोम॑स्येन्व॒का वित॑तानि । प॒रस्ता॒द्वय॑न्तो॒ऽवस्तात् । रु॒द्रस्य॑ बा॒हू । मृ॒ग॒यव॑ प॒रस्ताद्विक्षा॒रो॑ऽवस्तात् । आदि॑त्यै॒ पुन॑र्वसू । वातः॑ प॒रस्ता॑दा॒र्द्रम॒वस्तात् ।। 1 ।। 1.5.1.2 बृह॒स्पतेस्ति॒ष्यः॑ । जुह्व॑त प॒रस्ता॒द्यज॑माना अ॒वस्तात् । स॒र्पाणा॑माश्रे॒षाः । अ॒भ्या॒गच्छ॑न्त प॒रस्ता॑दभ्या॒नृत्य॑न्तो॒ऽवस्तात् । पि॒तृ॒णां म॒घाः । रु॒दन्त॑ प॒रस्ता॑दपभ्र॒॒शो॑ऽवस्तात् । अ॒र्य॒म्ण पूर्वे॒ फल्गु॑नी । जा॒या प॒रस्ता॑दृष॒भो॑ऽवस्तात् । भग॒स्योत्त॑रे । व॒ह॒तव॑प॒रस्ता॒द्वह॑माना अ॒वस्तात् ।। 2 ।। 1.5.1.3 दे॒वस्य॑ सवि॒तुर् हस्तः॑ । प्र॒स॒व प॒रस्ताथ्स॒निर॒वस्तात् । इन्द्र॑स्य चि॒त्रा । ऋ॒तं प॒रस्ताथ्स॒त्यम॒वस्तात् । वा॒योर्निष्ट्या व्र॒ततिः॑ । प॒रस्ता॒दसि॑द्धिर॒वस्तात् । इ॒न्द्रा॒ग्नि॒योर्विशा॑खे । यु॒गानि॑ प॒रस्तात्कृ॒षमा॑णा अ॒वस्तात् । मि॒त्रस्या॑नूरा॒धाः । अ॒भ्या॒रोह॑त्प॒रस्ता॑द॒भ्यारू॑ढम॒वस्तात् ।। 3 ।। 1.5.1.4 इन्द्र॑स्य रोहि॒णी । शृ॒णत्प॒रस्तात्प्रतिशृ॒णद॒वस्तात् । निऱ्ऋ॑त्यै मूल॒वऱ्ह॑णी । प्र॒ति॒भ॒ञ्जन्त॑ प॒रस्तात्प्रतिशृ॒णन्तो॒ऽवस्तात् । अ॒पां पूर्वा॑ अषा॒ढाः । वर्च॑ प॒रस्ता॒थ्समि॑तिर॒वस्तात् । विश्वे॑षान्दे॒वाना॒मुत्त॑राः । अ॒भि॒जय॑त्प॒रस्ता॑द॒भिजि॑तम॒वस्तात् । विष्णोश्श्रो॒णा पृ॒च्छमा॑नाः । प॒रस्ता॒त्पन्था॑ अ॒वस्तात् ।। 4 ।। 1.5.1.5 वसू॑ना॒॒ श्रवि॑ष्ठाः । भू॒तं प॒रस्ता॒द्भूति॑र॒वस्तात् । इन्द्र॑स्य श॒तभि॑षक् । वि॒श्वव्य॑चाप॒रस्ताद्वि॒श्वक्षि॑तिर॒वस्तात् । अ॒जस्यैक॑पद॒पूर्वे प्रोष्ठप॒दाः । वै॒श्वा॒न॒रं प॒रस्ताद्वैश्वावस॒वम॒वस्तात् । अहेर्बु॒ध्निय॒स्योत्त॑रे । अ॒भि॒षि॒ञ्चन्त॑ प॒रस्ता॑दभिषु॒ण्वन्तो॒ऽवस्तात् । पू॒ष्णो रे॒वती । गाव॑प॒रस्ताद्व॒थ्सा अ॒वस्तात् । अ॒श्विनो॑रश्व॒युजौ । ग्राम॑ प॒रस्ता॒थ्सेना॒ऽवस्तात् । य॒मस्या॑प॒भर॑णीः । अ॒प॒कऱ्ष॑न्त प॒रस्ता॑दप॒वह॑न्तो॒ऽवस्तात् । पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः ।। 5 ।। 1.5.2.0 च॒का॒रै॒वव्वेँदो॒भयो॑रेनल्लोँ॒कयोर्विदुरजयन्रे॒वती॒मुपा॑तिष्ठन्त नक्षत्र॒त्वम॒न्यानि॒ यानि॑ यमनक्ष॒त्राण्यश्लो॑णद्यमनक्ष॒त्राणि॒ त्रीणि॑ च ।। 2 ।। 1.5.2.1 यत्पुण्य॒न्नक्ष॑त्रम् । तद्बट्कु॑र्वीतोपव्यु॒षम् । य॒दा वै सूर्य॑ उ॒देति॑ । अथ॒ नक्ष॑त्र॒न्नैति॑ । याव॑ति॒ तत्र॒ सूर्यो॒ गच्छेत् । यत्र॑ जघ॒न्यं॑ पश्येत् । ताव॑ति कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते । ए॒व ह॒ वै य॒ज्ञेषु॑ञ्च श॒तद्यु॑म्नञ्च मा॒थ्स्यो नि॑रवसाय॒याञ्च॑कार ।। 6 ।। 1.5.2.2 यो वै न॑क्ष॒त्रियं॑ प्र॒जाप॑ति॒व्वेँद॑ । उ॒भयो॑रेनल्लोँ॒कयोर्विदुः । हस्त॑ ए॒वास्य॒ हस्तः॑ । चि॒त्रा शिरः॑ । निष्ट्या॒ हृद॑यम् । ऊ॒रू विशा॑खे । प्र॒ति॒ष्ठाऽनू॑रा॒धाः । ए॒ष वै न॑क्ष॒त्रिय॑ प्र॒जाप॑तिः । य ए॒वव्वेँद॑ । उ॒भयो॑रेनल्लोँ॒कयोर्विदुः ।। 7।। 1.5.2.3 अ॒स्मिश्चा॒मुष्मि॑श्च । याङ्का॒मये॑त दुहि॒तरं॑ प्रि॒या स्या॒दिति॑ । तान्निष्ट्या॑यान्दद्यात् । प्रि॒यैव भ॑वति । नेव॒ तु पुन॒रा ग॑च्छति । अ॒भि॒जिन्नाम॒ नक्ष॑त्रम् । उ॒परि॑ष्टादषा॒ढानाम् । अ॒वस्ताच्छ्रो॒णायै । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । ते दे॒वास्तस्मि॒न्नक्ष॑त्रे॒ऽभ्य॑जयन्न् ।। 8 ।। 1.5.2.4 यद॒भ्यज॑यन्न् । तद॑भि॒जितो॑ऽभिजि॒त्त्वम् । यङ्का॒मये॑तानपज॒य्यञ्ज॑ये॒दिति॑ । तमे॒तस्मि॒न्नक्ष॑त्रे यातयेत् । अ॒न॒प॒ज॒य्यमे॒व ज॑यति । पा॒पप॑राजितमिव॒ तु । प्र॒जाप॑ति प॒शून॑सृजत । ते नक्ष॑त्त्रन्नक्षत्त्र॒मुपा॑तिष्ठन्त । ते स॒माव॑न्त ए॒वाभ॑वन्न् । ते रे॒वती॒मुपा॑तिष्ठन्त ।। 9 ।। 1.5.2.5 ते रे॒वत्यां॒ प्राभ॑वन्न् । तस्माद्रे॒वत्यां पशू॒नाङ्कु॑र्वीत । यत्किञ्चार्वा॒चीन॒॒ सोमात् । प्रैव भ॑वन्ति । स॒लि॒लव्वाँ इ॒दम॑न्त॒रासीत् । यदत॑रन्न् । तत्तार॑काणान्तारक॒त्वम् । यो वा इ॒ह यज॑ते । अ॒मु स लो॒कन्न॑क्षते । तन्नक्ष॑त्राणान्नक्षत्र॒त्वम् ।। 10 ।। 1.5.2.6 दे॒व॒गृ॒हा वै नक्ष॑त्राणि । य ए॒वव्वेँद॑ । गृ॒ह्ये॑व भ॑वति । यानि॒ वा इ॒मानि॑ पृथि॒व्याश्चि॒त्राणि॑ । तानि॒ नक्ष॑त्राणि । तस्मा॑दश्ली॒लना॑म श्चि॒त्रे । नाव॑स्ये॒न्न य॑जेत । यथा॑ पापा॒हे कु॑रु॒ते । ता॒दृगे॒व तत् । दे॒व॒न॒क्ष॒त्राणि॒ वा अ॒न्यानि॑ ।। 11 ।। 1.5.2.7 य॒म॒न॒क्ष॒त्राण्य॒न्यानि॑ । कृत्ति॑का प्रथ॒मम् । विशा॑खे उत्त॒मम् । तानि॑ देवनक्ष॒त्राणि॑ । अ॒नू॒रा॒धा प्र॑थ॒मम् । अ॒प॒भर॑णीरुत्त॒मम् । तानि॑ यमनक्ष॒त्राणि॑ । यानि॑ देवनक्ष॒त्राणि॑ । तानि॒ दक्षि॑णेन॒ परि॑यन्ति । यानि॑ यमनक्ष॒त्राणि॑ ।। 12 ।। 1.5.2.8 तान्युत्त॑रेण । अन्वे॑षामरा॒थ्स्मेति॑ । तद॑नूरा॒धाः । ज्ये॒ष्ठमे॑षामवधि॒ष्मेति॑ । तज्ज्येष्ठ॒घ्नी । मूल॑मेषावृक्षा॒मेति॑ । तन्मू॑ल॒वऱ्ह॑णी । यन्नास॑हन्त । तद॑षा॒ढाः । यदश्लो॑णत् ।। 13 ।। 1.5.2.9 तच्छ्रो॒णा । यदशृ॑णोत् । तच्छ्रवि॑ष्ठाः । यच्छ॒तमभि॑षज्यन्न् । तच्छ॒तभि॑षक् । प्रो॒ष्ठ॒प॒देषूद॑यच्छन्त । रे॒वत्या॑मरवन्त । अ॒श्व॒युजो॑रयुञ्जत । अ॒प॒भर॑णी॒ष्वपा॑वहन्न् । तानि॒ वा ए॒तानि॑ यमनक्ष॒त्राणि॑ । यान्ये॒व दे॑वनक्ष॒त्राणि॑ । तेषु॑ कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते ।। 14 ।। 1.5.3.0 स॒ङ्ग॒वाथ्षो॑ड॒शिन॒न्निर॑मिमत॒ तत्तदात्त॑वीर्यन्निर्मा॒र्गो व॑देद्भवति समा॒नस्याह्न॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राण्य॒ष्टौ च॑ ।। 3 ।। 1.5.3.1 दे॒वस्य॑ सवि॒तु प्रा॒त प्र॑स॒व प्रा॒णः । वरु॑णस्य सा॒यमा॑स॒वो॑ऽपा॒नः । यत्प्र॑ती॒चीनं॑ प्रात॒स्तनात् । प्रा॒चीन॑ सङ्ग॒वात् । ततो॑ दे॒वा अ॑ग्निष्टो॒मन्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः । मि॒त्रस्य॑ सङ्ग॒वः । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॒त्तऱ्हि॑ प॒शव॑स्स॒माय॑न्ति । यत्प्र॑ती॒चीन॑ सङ्ग॒वात् ।। 15 ।। 1.5.3.2 प्रा॒चीनं॑ म॒ध्यन्दि॑नात् । ततो॑ दे॒वा उ॒क्थ्य॑न्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः । बृह॒स्पतेर्म॒ध्यन्दि॑नः । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॒त्तऱ्हि॒ तेक्ष्णि॑ष्ठन्तपति । यत्प्र॑ती॒चीनं॑ म॒ध्यन्दि॑नात् । प्रा॒चीन॑मपरा॒ह्णात् । ततो॑ दे॒वाष्षो॑ड॒शिन॒न्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः ।। 16 ।। 1.5.3.3 भग॑स्यापरा॒ह्णः । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॑दपरा॒ह्णे कु॑मा॒र्यो॑ भग॑मि॒च्छमा॑नाश्चरन्ति । यत्प्र॑ती॒चीन॑मपरा॒ह्णात् । प्रा॒चीन॑ सा॒यात् । ततो॑ दे॒वा अ॑तिरा॒त्रन्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः । वरु॑णस्य सा॒यम् । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॒त्तऱ्हि॒ नानृ॑तव्वँदेत् ।। 17 ।। 1.5.3.4 ब्रा॒ह्म॒णो वा अ॑ष्टावि॒॒शो नक्ष॑त्राणाम् । स॒मा॒नस्याह्न॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणा॒य्यँच्चा॒वस्तात् । तान्येका॑दश । ब्रा॒ह्म॒णो द्वा॑द॒शः । य ए॒वव्विँ॒द्वान्थ्स॑व्वँथ्स॒रव्व्रँ॒तञ्चर॑ति । स॒व्वँ॒थ्स॒रेणै॒वास्य॑ व्र॒तङ्गु॒प्तं भ॑वति । स॒मा॒नस्याह्न॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । आ॒ग्ने॒यी रात्रिः॑ । ऐ॒न्द्रमहः॑ । तान्येका॑दश । आ॒दि॒त्यो द्वा॑द॒शः । य ए॒वव्विँ॒द्वान्थ्स॑व्वँथ्स॒रव्व्रँ॒तञ्चर॑ति । स॒व्वँ॒थ्स॒रेणै॒वास्य॑ व्र॒तङ्गु॒प्तं भ॑वति ।। 18 ।। 1.5.4.0 उ॒पा॒॒श्व॒न्त॒र्या॒मौ निर॑मिमीतामिमीत॒ षट्च॑ ।। 4 ।। 1.5.4.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कति॒ पात्रा॑णि य॒ज्ञं व॑ह॒न्तीति॑ । त्रयो॑द॒शेति॑ ब्रूयात् । स यद्ब्रू॒यात् । कस्तानि॒ निर॑मिमी॒तेति॑ । प्र॒जाप॑ति॒रिति॑ ब्रूयात् । स यद्ब्रू॒यात् । कुत॒स्तानि॒ निर॑मिमी॒तेति॑ । आ॒त्मन॒ इति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वोपा॑श्वन्तर्या॒मौ निर॑मिमीत ।। 19 ।। 1.5.4.2 व्या॒नादु॑पाशु॒सव॑नम् । वा॒च ऐन्द्रवाय॒वम् । द॒क्ष॒क्र॒तुभ्यां मैत्रावरु॒णम् । श्रोत्रा॑दाश्वि॒नम् । चक्षु॑षश्शु॒क्राम॒न्थिनौ । आ॒त्मन॑ आग्रय॒णम् । अङ्गेभ्य उ॒क्थ्यम् । आयु॑षो ध्रु॒वम् । प्र॒ति॒ष्ठाया॑ ऋतुपा॒त्रे । य॒ज्ञं वाव तं प्र॒जाप॑ति॒र्निर॑मिमीत । स निर्मि॑तो॒ नाद्ध्रि॑यत॒ सम॑व्लीयत । स ए॒तान्प्र॒जाप॑तिरपिवा॒पान॑पश्यत् । तान्निर॑वपत् । तैर्वै स य॒ज्ञमप्य॑वपत् । यद॑पिवा॒पा भव॑न्ति । य॒ज्ञस्य॒ धृत्या॒ अस॑व्व्लँयाय ।। 20 ।। 1.5.5.0 (परि॑वर्तये स॒हाभिव॑र्तय उ॒ष्णिहा॑ राध्यास॒न्न्यव॑र्तय॒न्नुप॑वर्तये च॒त्वारि॑ च) । ऋ॒तमे॒व षोड॑श । यद्घ॒र्मो यो अ॒स्याः सप्तद॑शसप्तदश । एकं॒ मासं॒ चतु॑र्विशतिः ।। 5 ।। 1.5.5.1 ऋ॒तमे॒व प॑रमे॒ष्ठि । ऋ॒तन्नात्ये॑ति॒ किञ्च॒न । ऋ॒ते स॑मु॒द्र आहि॑तः । ऋ॒ते भूमि॑रि॒यश्रि॒ता । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा । तप॒ आक्रान्तमु॒ष्णिहा । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेनास्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेनास्या॒भि व॑र्तये । तदृ॒तन्तथ्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ।। 21 ।। 1.5.5.2 यद्घ॒र्म प॒र्यव॑र्तयत् । अन्तान्पृथि॒व्या दि॒वः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभि॑स्स॒ह । इन्द्रो॑ म॒रुद्भि॒स्सखि॑भिस्स॒ह । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा । तप॒ आक्रान्तमु॒ष्णिहा । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेनास्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेनास्या॒भि व॑र्तये । तदृ॒तन्तथ्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ।। 22 ।। 1.5.5.3 यो अ॒स्या पृ॑थि॒व्यास्त्व॒चि । नि॒व॒र्तय॒त्योष॑धीः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभि॑स्स॒ह । इन्द्रो॑ म॒रुद्भि॒स्सखि॑भिस्स॒ह । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा । तप॒ आक्रान्तमु॒ष्णिहा । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेनास्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेनास्या॒भि व॑र्तये । तदृ॒तन्तथ्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ।। 23 ।। 1.5.5.4 एकं॒ मास॒मुद॑सृजत् । प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ । तेनाभ्यो॒ मह॒ आव॑हत् । अ॒मृतं॒ मर्त्याभ्यः । प्र॒जामनु॒ प्र जा॑यसे । तदु॑ ते मर्त्या॒मृतम् । येन॒ मासा॑ अर्धमा॒साः । ऋ॒तव॑ परिवथ्स॒राः । येन॒ ते ते प्रजापते । ई॒जा॒नस्य॒ न्यव॑र्तयन्न् । तेना॒हम॒स्य ब्रह्म॑णा । निव॑र्तयामि जी॒वसे । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा । तप॒ आक्रान्तमु॒ष्णिहा । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेनास्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेनास्या॒भि व॑र्तये । तदृ॒तन्तथ्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ।। 24 ।। 1.5.6.0 ए॒त्ये॒त्य॒यु॒ञ्ज॒तासु॑रा एति लो॒का म॑न्यते ।। 6 ।। 1.5.6.1 दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत । तदसु॑रा अकुर्वत । तेऽसु॑रा ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॒ नाप॑श्यन्न् । ते केशा॒नग्रे॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथो॑पप॒क्षौ । तत॒स्तेऽवाञ्च आयन्न् । परा॑ऽभवन्न् । यस्यै॒वव्वँप॑न्ति । अवा॑ङेति ।। 25 ।। 1.5.6.2 अथो॒ परै॒व भ॑वति । अथ॑ दे॒वा ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॑ऽपश्यन्न् । त उ॑पप॒क्षावग्रे॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथ॒ केशान्॑ । तत॒स्ते॑ऽभवन्न् । सु॒व॒र्गल्लोँ॒कमा॑यन्न् । यस्यै॒वव्वँप॑न्ति । भव॑त्या॒त्मना । अथो॑ सुव॒र्गल्लोँ॒कमे॑ति ।। 26 ।। 1.5.6.3 अथै॒तन्मनु॑र्व॒प्त्रे मि॑थु॒नम॑पश्यत् । स श्मश्रू॒ण्यग्रे॑ऽवपत । अथो॑पप॒क्षौ । अथ॒ केशान्॑ । ततो॒ वै स प्राजा॑यत प्र॒जया॑ प॒शुभिः॑ । यस्यै॒वव्वँप॑न्ति । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । ते स॑व्वँथ्स॒रे व्याय॑च्छन्त । तान्दे॒वाश्चा॑तुर्मा॒स्यैरे॒वाभि प्रायु॑ञ्जत ।। 27 ।। 1.5.6.4 वै॒श्व॒दे॒वेन॑ च॒तुरो॑ मा॒सो॑ऽवृञ्ज॒तेन्द्र॑राजानः । ताञ्छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । व॒रु॒ण॒प्र॒घा॒सैश्च॒तुरो॑ मा॒सो॑ऽवृञ्जत॒ वरु॑णराजानः । ताञ्छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । सा॒क॒मे॒धैश्च॒तुरो॑ मा॒सो॑ऽवृञ्जत॒ सोम॑राजानः । ताञ्छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । या स॑व्वँथ्स॒र उ॑पजी॒वाऽऽसीत् । तामे॑षामवृञ्जत । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः ।। 28 ।। 1.5.6.5 य ए॒वव्विँ॒द्वाश्चा॑तुर्मा॒स्यैर्यज॑ते । भ्रातृ॑व्यस्यै॒व मा॒सो वृ॒क्त्वा । शी॒र्॒षन्नि च॑ व॒र्तय॑ते॒ परि॑ च । यैषा स॑व्वँथ्स॒र उ॑पजी॒वा । वृ॒ङ्क्ते तां भ्रातृ॑व्यस्य । क्षु॒धाऽस्य॒ भ्रातृ॑व्य॒ परा॑ भवति । लो॒हि॒ता॒य॒सेन॒ नि व॑र्तयते । यद्वा इ॒माम॒ग्निर्ऋ॒तावाग॑ते निव॒र्तय॑ति । ए॒तदे॒वैना॑ रू॒पङ्कृ॒त्वा निव॑र्तयति । सा तत॒श्श्वश्वो॒ भूय॑सी॒ भव॑न्त्येति ।। 29 ।। 1.5.6.6 प्र जा॑यते । य ए॒वव्विँ॒द्वाल्लोँ॑हिताय॒सेन॑ निव॒र्तय॑ते । ए॒तदे॒व रू॒पङ्कृ॒त्वा नि व॑र्तयते । स तत॒श्श्वश्वो॒ भूया॒न्भव॑न्नेति । प्रैव जा॑यते । त्रे॒ण्या श॑ल॒ल्या नि व॑र्तयेत । त्रीणि॑त्रीणि॒ वै दे॒वाना॑मृ॒द्धानि॑ । त्रीणि॒ छन्दा॑सि । त्रीणि॒ सव॑नानि । त्रय॑ इ॒मे लो॒काः ।। 30 ।। 1.5.6.7 ऋ॒ध्यामे॒व तद्वी॒र्य॑ ए॒षु लो॒केषु॒ प्रति॑ तिष्ठति । यच्चा॑तुर्मास्यया॒ज्यात्मनो॒ नाव॒द्येत् । दे॒वेभ्य॒ आवृ॑श्च्येत । च॒तृ॒षुच॑तृषु॒ मासे॑षु॒ नि व॑र्तयेत । प॒रोक्ष॑मे॒व तद्दे॒वेभ्य॑ आ॒त्मनोऽव॑द्य॒त्यनाव्रस्काय । दे॒वाना॒व्वाँ ए॒ष आनी॑तः । यश्चा॑तुर्मास्यया॒जी । य ए॒वव्विँ॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च । दे॒वता॑ ए॒वाप्ये॑ति । नास्य॑ रु॒द्र प्र॒जां प॒शून॒भि म॑न्यते ।। 31 ।। 1.5.7.0 अ॒न्तरि॑क्ष॒॒ सन्त॑नु॒ द्वे च॑ ।। 7 ।। 1.5.7.1 आयु॑ष प्रा॒ण सन्त॑नु । प्रा॒णाद॑पा॒न सन्त॑नु । अ॒पा॒नाद्व्या॒न सन्त॑नु । व्या॒नाच्चक्षु॒स्सन्त॑नु । चक्षु॑ष॒श्श्रोत्र॒॒ सन्त॑नु । श्रोत्रा॒न्मन॒स्सन्त॑नु । मन॑सो॒ वाच॒॒ सन्त॑नु । वा॒च आ॒त्मान॒॒ सन्त॑नु । आ॒त्मन॑पृथि॒वी सन्त॑नु । पृ॒थि॒व्या अ॒न्तरि॑क्ष॒॒ सन्त॑नु । अ॒न्तरि॑क्षा॒द्दिव॒ ॒सन्त॑नु । दिव॒स्सुव॒स्सन्त॑नु ।। 32 ।। 1.5.8.0 बृ॒हच्चास्तृ॑तः ।। 8 ।। 1.5.8.1 इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ । वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ । इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितम् । तद्वि॑दच्छर्य॒णाव॑ति । अत्राह॒ गोरम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्यम् । इ॒त्था च॒न्द्रम॑सो गृ॒हे । इन्द्र॒मिद्गा॒थिनो॑ बृ॒हत् ।। 33 ।। 1.5.8.2 इन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्र॒व्वाँणी॑रनूषत । इन्द्र॒ इद्धर्यो॒स्सचा । संमि॑श्ल॒ आव॑चो॒ युजा । इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ । इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से । आ सूर्य॑ रोहयद्दि॒वि । वि गोभि॒रद्रि॑मैरयत् । इन्द्र॒ वाजे॑षु नो अव । स॒हस्र॑प्रधनेषु च ।। 34 ।। 1.5.8.3 उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ । तमिन्द्र॑व्वाँजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् । इन्द्र॒स्स दाम॑ने कृ॒तः । ओजि॑ष्ठ॒स्स बले॑ हि॒तः । द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ । गि॒रा वज्रो॒ न सम्भृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षुरु॒ग्रो अस्तृ॑तः ।। 35 ।। 1.5.9.0 ऐ॒च्छ॒न्न॒न॒य॒॒स्ति॒ष्ठ॒न्ते॒ऽनूच्या॒नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ रात्रि॑या ए॒व तद्दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जिघ्निरे मि॒त्रावरु॑णौ॒ नव॑ च ।। 9 ।। (दे॒वा यज॑मानो दे॒वा दे॒वा यज॑मानो॒ यज॑मानोऽलभन्त॒ प्राच॑रल्लँभेत॒ प्रच॑रे॒दाल॑भ॒न्ताल॑भेत मृ॒त्युमप॑जघ्निरे॒ भ्रातृ॑व्यान् ।। ) 1.5.9.1 दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । स प्र॒जाप॑ति॒रिन्द्र॑ञ्ज्ये॒ष्ठं पु॒त्रमप॒ न्य॑धत्त । नेदे॑न॒मसु॑रा॒ बली॑यासोऽहन॒न्निति॑ । प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑न॒॒ स्वं पु॒त्रमप॒ न्य॑धत्त । नेदे॑नन्दे॒वा अ॑हन॒न्निति॑ । ते दे॒वा प्र॒जाप॑तिमुपस॒मेत्यो॑चुः । नारा॒जक॑स्य यु॒द्धम॑स्ति । इन्द्र॒मन्वि॑च्छा॒मेति॑ । तय्यँ॑ज्ञक्र॒तुभि॒रन्वैच्छन्न् ।। 36 ।। 1.5.9.2 तय्यँ॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दन्न् । तमिष्टि॑भि॒रन्वैच्छन्न् । तमिष्टि॑भि॒रन्व॑विन्दन्न् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । तस्मा॑ ए॒तमाग्नावैष्ण॒वमेका॑दशकपाल- न्दीक्ष॒णीय॒न्निर॑वपन्न् । तद॑प॒द्रुत्या॑तन्वत । तान्प॑त्नीसय्याँ॒जान्त॒ उपा॑नयन्न् ।। 37 ।। 1.5.9.3 ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्न् । ते प्रा॑य॒णीय॑म॒भि स॒मारो॑हन्न् । तद॑प॒द्रुत्या॑तन्वत । ताञ्छ॒य्य्वँ॑न्त॒ उपा॑नयन्न् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्न् । त आ॑ति॒थ्यम॒भि स॒मारो॑हन्न् । तद॑प॒द्रुत्या॑तन्वत । तानिडान्त॒ उपा॑नयन्न् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्न् । तस्मा॑दे॒ता ए॒तद॑न्ता॒ इष्ट॑य॒स्सन्ति॑ष्ठन्ते ।। 38 ।। 1.5.9.4 ए॒व हि दे॒वा अकु॑र्वत । इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै म॑नु॒ष्याः कुर्वते । ते दे॒वा ऊ॑चुः । यद्वा इ॒दमु॒च्चैर्य॒ज्ञेन॒ चरा॑म । तन्नोऽसु॑राः पा॒प्माऽनु॑विन्दन्ति । उ॒पा॒॒शू॑प॒सदा॑ चराम । तथा॒ नोऽसु॑रा पा॒प्मा नानु॑वेथ्स्य॒न्तीति॑ । त उ॑पा॒॒शू॑प॒सद॑मतन्वत । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ ।। 39 ।। 1.5.9.5 स्रु॒वेणा॑घा॒रमा॒घार्य॑ । ति॒स्र परा॑ची॒राहु॑तीर् हु॒त्वा । स्रु॒वेणो॑प॒सद॑ञ्जुह॒वाञ्च॑क्रुः । उ॒ग्रव्वँचो॒ अपा॑वधीन्त्वे॒षव्वँचो॒ अपा॑वधी॒॒स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रव्वँचः॑ । एन॑श्च॒ वैर॑हत्यञ्च त्वे॒षव्वँचः॑ । ए॒त ह॒ वाव तच्च॑तुर्धाविहि॒तं पा॒प्मान॑न्दे॒वा अप॑जघ्निरे । तथो॑ ए॒वैतदे॑व॒व्विँद्यज॑मानः । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ । स्रु॒वेणा॑घा॒रमा॒घार्य॑ ।। 40 ।। 1.5.9.6 ति॒स्र परा॑ची॒राहु॑तीऱ्हु॒त्वा । स्रु॒वेणो॑प॒सद॑ञ्जुहोति । उ॒ग्रव्वँचो॒ अपा॑वधीन्त्वे॒षव्वँचो॒ अपा॑वधी॒॒ स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रव्वँचः॑ । एन॑श्च॒ वैर॑हत्यञ्च त्वे॒षव्वँचः॑ । ए॒तमे॒व तच्च॑तुर्धाविहि॒तं पा॒प्मान॒य्यँज॑मा॒नोऽप॑ हते । ते॑ऽभि॒नीयै॒वाह॑ प॒शुमाऽल॑भन्त । अह्न॑ ए॒व तद्दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीये॑व॒ रात्रे॒ प्राच॑रन्न् । रात्रि॑या ए॒व तद्दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे ।। 41 ।। 1.5.9.7 तस्मा॑दभि॒नीयै॒वाह॑ प॒शुमा ल॑भेत । अह्न॑ ए॒व तद्यज॑मा॒नोऽव॑र्तिं पा॒प्मानं॒ भ्रातृ॑व्या॒नप॑ नुदते । तेना॑भि॒नीये॑व॒ रात्रे॒ प्रच॑रेत् । रात्रि॑या ए॒व तद्यज॑मा॒नोऽव॑र्तिं पा॒प्मानं॒ भ्रातृ॑व्या॒नप॑ नुदते । स ए॒ष उ॑पवस॒थीयेऽह॑न्द्विदेव॒त्य॑ प॒शुरा ल॑भ्यते । द्व॒यव्वाँ अ॒स्मिल्लोँ॒के यज॑मानः । अस्थि॑ च मा॒॒सञ्च॑ । अस्थि॑ चै॒व तेन॑ मा॒॒सञ्च॒ यज॑मान॒स्सस्कु॑रुते । ता वा ए॒ता पञ्च॑ दे॒वताः । अ॒ग्नीषोमा॑व॒ग्निर्मि॒त्रावरु॑णौ ।। 42 ।। 1.5.9.8 प॒ञ्च॒प॒ञ्ची वै यज॑मानः । त्वङ्मा॒॒स स्नावाऽस्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्चधाविहि॒तमा॒त्मान॑व्वँरुणपा॒शान्मु॑ञ्चति । भे॒ष॒जता॑यै निर्वरुण॒त्वाय॑ । त स॒प्तभि॒श्छन्दो॑भि प्रा॒तर॑ह्वयन्न् । तस्माथ्स॒प्त च॑तुरुत्त॒राणि॒ छन्दा॑सि प्रातरनुवा॒केऽनूच्यन्ते । तमे॒तयो॑पस॒मेत्योपा॑सीदन्न् । उपास्मै गायता नर॒ इति॑ । तस्मा॑दे॒तया॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ ।। 43 ।। 1.5.10.0 आ॒दि॒त्य प॑ञ्चद॒शस्य॒ मात्रा स्तु॒वते॑ पञ्चद॒शेनै॒व तद्यज॑मान॒माद॑दते सप्तद॒शेनै॒व ह॑रन्त्यादि॒त्यस्यै॒वैनं॒ तद्वि॑शति च॒त्वारि॑ च ।। 10 ।। 1.5.10.1 स स॑मु॒द्र उ॑त्तर॒त प्राज्व॑लद्भूम्य॒न्तेन॑ । ए॒ष वाव स स॑मु॒द्रः । यच्चात्वा॑लः । ए॒ष उ॑वे॒व स भूम्य॒न्तः । यद्वेद्य॒न्तः । तदे॒तत्त्रि॑श॒लन्त्रि॑पूरु॒षम् । तस्मा॒त्तन्त्रि॑वित॒स्तङ्ख॑नन्ति । स सु॑वर्णरज॒ताभ्याङ्कु॒शीभ्यां॒ परि॑गृहीत आसीत् । तय्यँद॒स्या अध्य॒जन॑यन्न् । तस्मा॑दादि॒त्यः ।। 44 ।। 1.5.10.2 अथ॒ यथ्सु॑वर्णरज॒ताभ्याङ्कु॒शीभ्यां॒ परि॑गृहीत॒ आसीत् । साऽस्य॑ कौशि॒कता । तन्त्रि॒वृता॒ऽभि प्रास्तु॑वत । तन्त्रि॒वृताऽद॑दत । तन्त्रि॒वृताऽह॑रन्न् । याव॑ती त्रि॒वृतो॒ मात्रा । तं प॑ञ्चद॒शेना॒भि प्रास्तु॑वत । तं प॑ञ्चद॒शेनाद॑दत । तं प॑ञ्चद॒शेनाह॑रन्न् । याव॑ती पञ्चद॒शस्य॒ मात्रा ।। 45 ।। 1.5.10.3 त स॑प्तद॒शेना॒भि प्रास्तु॑वत । त स॑प्तद॒शेनाद॑दत । त स॑प्तद॒शेनाह॑रन्न् । याव॑ती सप्तद॒शस्य॒ मात्रा । तस्य॑ सप्तद॒शेन॑ ह्रि॒यमा॑णस्य॒ तेजो॒ हरो॑ऽपतत् । तमे॑कवि॒॒शेना॒भि प्रास्तु॑वत । तमे॑कवि॒॒शेनाद॑दत । तमे॑कवि॒॒शेनाह॑रन्न् । याव॑त्येकवि॒॒शस्य॒ मात्रा । ते यत्त्रि॒वृता स्तु॒वते ।। 46 ।। 1.5.10.4 त्रि॒वृतै॒व तद्यज॑मान॒माद॑दते । तन्त्रि॒वृतै॒व ह॑रन्ति । याव॑ती त्रि॒वृतो॒ मात्रा । अ॒ग्निर्वै त्रि॒वृत् । याव॒द्वा अ॒ग्नेर्दह॑तो धू॒म उ॒देत्यानु॒ व्येति॑ । ताव॑ती त्रि॒वृतो॒ मात्रा । अ॒ग्नेरे॒वैन॒न्तत् । मात्रा॒॒ सायु॑ज्य सलो॒कताङ्गमयन्ति । अथ॒ यत्प॑ञ्चद॒शेन॑ स्तु॒वते । प॒ञ्च॒द॒शेनै॒व तद्यज॑मान॒माद॑दते ।। 47 ।। 1.5.10.5 तं प॑ञ्चद॒शेनै॒व ह॑रन्ति । याव॑ती पञ्चद॒शस्य॒ मात्रा । च॒न्द्रमा॒ वै प॑ञ्चद॒शः । ए॒ष हि प॑ञ्चद॒श्याम॑पक्षी॒यते । प॒ञ्च॒द॒श्यामा॑पू॒र्यते । च॒न्द्रम॑स ए॒वैन॒न्तत् । मात्रा॒॒ सायु॑ज्य सलो॒कताङ्गमयन्ति । अथ॒ यथ्स॑प्तद॒शेन॑ स्तु॒वते । स॒प्त॒द॒शेनै॒व तद्यज॑मान॒माद॑दते । त स॑प्तद॒शेनै॒व ह॑रन्ति ।। 48 ।। 1.5.10.6 याव॑ती सप्तद॒शस्य॒ मात्रा । प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तेरे॒वैन॒न्तत् । मात्रा॒॒ सायु॑ज्य सलो॒कताङ्गमयन्ति । अथ॒ यदे॑कवि॒॒शेन॑ स्तु॒वते । ए॒क॒वि॒॒शेनै॒व तद्यज॑मान॒माद॑दते । तमे॑कवि॒॒शेनै॒व ह॑रन्ति । याव॑त्येकवि॒॒शस्य॒ मात्रा । अ॒सौ वा आ॑दि॒त्य ए॑कवि॒॒शः । आ॒दि॒त्यस्यै॒वैन॒न्तत् ।। 49 ।। 1.5.10.7 मात्रा॒॒ सायु॑ज्य सलो॒कताङ्गमयन्ति । ते कु॒श्यौ । व्य॑घ्नन्न् । ते अ॑होरा॒त्रे अ॑भवताम् । अह॑रे॒व सु॒वर्णा॑ऽभवत् । र॒ज॒ता रात्रिः॑ । स यदा॑दि॒त्य उ॒देति॑ । ए॒तामे॒व तथ्सु॒वर्णाङ्कु॒शीमनु॒ समे॑ति । अथ॒ यद॑स्त॒मेति॑ । ए॒तामे॒व तद्र॑ज॒ताङ्कु॒शीमनु॒सव्विँ॑शति । प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑न॒॒ स्वं पु॒त्रमुदास्यत् । स प्र॑द॒रो॑ऽभवत् । तस्मात्प्रद॒रादु॑द॒कन्नाचा॑मेत् ।। 50 ।। 1.5.11.0 ए॒क॒वि॒॒श आ॑हुस्तृतीयसव॒ने प्रा॑तस्सव॒नं पञ्च॑ च ।। 11 ।। 1.5.11.1 ये वै च॒त्वार॒स्स्तोमाः । कृ॒तन्तत् । अथ॒ ये पञ्च॑ । कलि॒स्सः । तस्मा॒च्चतु॑ष्टोमः । तच्चतु॑ष्टोमस्य चतुष्टोम॒त्वम् । तदा॑हुः । क॒त॒मानि॒ तानि॒ ज्योती॑षि । य ए॒तस्य॒ स्तोमा॒ इति॑ । त्रि॒वृत्प॑ञ्चद॒शस्स॑प्तद॒श ए॑कवि॒॒शः ।। 51 ।। 1.5.11.2 ए॒तानि॒ वाव तानि॒ ज्योती॑षि । य ए॒तस्य॒ स्तोमाः । सोऽब्रवीत् । स॒प्त॒द॒शेन॑ ह्रि॒यमा॑णो॒ व्य॑लेशिषि । भि॒षज्य॑त॒ मेति॑ । तम॒श्विनौ॑ धा॒नाभि॑रभिषज्यताम् । पू॒षा क॑र॒म्भेण॑ । भार॑ती परिवा॒पेण॑ । मि॒त्रावरु॑णौ पय॒स्य॑या । तदा॑हुः ।। 52 ।। 1.5.11.3 यद॒श्विभ्यान्धा॒नाः । पू॒ष्ण क॑र॒म्भः । भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयो पय॒स्याऽथ॑ । कस्मा॑दे॒तेषा॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑नन्दे॒वता॒ इति॑ ब्रूयात् । ए॒तैऱ्ह॒विर्भि॒रभि॑षज्य॒॒ स्तस्मा॒दिति॑ । तव्वँस॑वो॒ऽष्टाक॑पालेन प्रातस्सव॒ने॑ऽभिषज्यन्न् । रु॒द्रा एका॑दशकपालेन॒ माध्य॑न्दिने॒ सव॑ने । विश्वे॑ दे॒वा द्वाद॑शकपालेन तृतीयसव॒ने ।। 53 ।। 1.5.11.4 स यद॒ष्टाक॑पालान्प्रातस्सव॒ने कु॒र्यात् । एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने । द्वाद॑शकपालास्तृतीयसव॒ने । विलो॑म॒ तद्य॒ज्ञस्य॑ क्रियेत । एका॑दशकपालाने॒व प्रा॑तस्सव॒ने कु॑र्यात् । एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने । एका॑दशकपालास्तृतीयसव॒ने । य॒ज्ञस्य॑ सलोम॒त्वाय॑ । तदा॑हुः । यद्वसू॑नां प्रातस्सव॒नम् । रु॒द्राणां॒ माध्य॑न्दिन॒॒ सव॑नम् । विश्वे॑षान्दे॒वानान्तृतीयसव॒नम् । अथ॒ कस्मा॑दे॒तेषा॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑नन्दे॒वता॒ इति॑ ब्रूयात् । ए॒तैऱ्ह॒विर्भि॒रभि॑षज्य॒॒ स्तस्मा॒दिति॑ ।। 54 ।। 1.5.12.0 अ॒भ॒व॒न्वाव सा दे॒वाक्ष॑रा बृह॒त्य॑दधा॒द्द्वाद॑शा॒क्षराण्यप॒च्छिद्या॑दधादा॒स्थाय॒ षट्च॑ ।। 12 ।। 1.5.12.1 तस्यावा॑चोऽवपा॒दाद॑बिभयुः । तमे॒तेषु॑ स॒प्तसु॒ छन्द॑स्स्वश्रयन्न् । यदश्र॑यन्न् । तच्छ्रा॑य॒न्तीय॑स्य श्रायन्तीय॒त्वम् । यदवा॑रयन्न् । तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् । तस्यावा॑च ए॒वाव॑पा॒दाद॑बिभयुः । तस्मा॑ ए॒तानि॑ स॒प्त च॑तुरुत्त॒राणि॒ छन्दा॒॒स्युपा॑दधुः । तेषा॒मति॒ त्रीण्य॑रिच्यन्त । न त्रीण्युद॑भवन्न् ।। 55 ।। 1.5.12.2 स बृ॑ह॒तीमे॒वास्पृ॑शत् । द्वाभ्या॑म॒क्षराभ्याम् । अ॒हो॒रा॒त्राभ्या॑मे॒व । तदा॑हुः । क॒त॒मा सा दे॒वाक्ष॑रा बृह॒ती । यस्या॒न्तत्प्र॒त्यति॑ष्ठत् । द्वाद॑श पौर्णमा॒स्यः॑ । द्वाद॒शाष्ट॑काः । द्वाद॑शामावा॒स्याः । ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती ।। 56 ।। 1.5.12.3 यस्या॒न्तत्प्र॒त्यति॑ष्ठ॒दिति॑ । यानि॑ च॒ छन्दा॑स्य॒त्यरि॑च्यन्त । यानि॑ च॒ नोदभ॑वन्न् । तानि॒ निर्वीर्याणि ही॒नान्य॑मन्यन्त । साऽब्र॑वीद्बृह॒ती । मामे॒व भू॒त्वा । मामुप॒ सश्र॑य॒तेति॑ । च॒तुर्भि॑र॒क्षरै॑रनु॒ष्टुग्बृ॑ह॒तीन्नोद॑भवत् । च॒तुर्भि॑र॒क्षरै प॒ङ्क्तिर्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॑ च॒त्वार्य॒क्षराण्यप॒च्छिद्या॑दधात् ।। 57 ।। 1.5.12.4 ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । अ॒ष्टा॒भिर॒क्षरै॑रु॒ष्णिग्बृ॑ह॒तीन्नोद॑भवत् । अ॒ष्टा॒भिर॒क्षरैस्त्रि॒ष्टुग्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तान्य॒ष्टाव॒क्षराण्यप॒च्छिद्या॑दधात् । ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । द्वा॒द॒शभि॑र॒क्षरैर्गाय॒त्री बृ॑ह॒तीन्नोद॑भवत् । द्वा॒द॒शभि॑र॒क्षरै॒र्जग॑ती बृह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॒ द्वाद॑शा॒क्षराण्यप॒च्छिद्या॑दधात् ।। 58 ।। 1.5.12.5 ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । सोऽब्रवीत्प्र॒जाप॑तिः । छन्दा॑सि॒ रथो॑ मे भवत । यु॒ष्माभि॑र॒हमे॒तमध्वा॑न॒मनु॒ सञ्च॑रा॒णीति॑ । तस्य॑ गाय॒त्री च॒ जग॑ती च प॒क्षाव॑भवताम् । उ॒ष्णिक्च॑ त्रि॒ष्टुप्च॒ प्रष्ट्यौ । अ॒नु॒ष्टुप्च॑ प॒ङ्क्तिश्च॒ धुर्यौ । बृ॒ह॒त्ये॑वोद्धिर॑भवत् । स ए॒तञ्छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमध्वा॑न॒मनु॒ सम॑चरत् । ए॒त ह॒ वै छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमध्वा॑न॒मनु॒ सञ्च॑रति । येनै॒ष ए॒तथ्स॒ञ्चर॑ति । य ए॒वव्विँ॒द्वान्थ्सोमे॑न॒ यज॑ते । य उ॑ चैनमे॒वँव्वेद॑ ।। 59 ।। 1.6.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठप्रपाठक प्रारंभः । हरिः ओम् ।। 1.6.0.0 अनु॑मत्यै वैश्वदे॒वेन॒ तास्सृ॒ष्टास्त्रि॒वृत्प्र॒जाप॑तिस्सवि॒तोत्त॑रस्यान्देवासु॒रास्सोऽग्निर्यत्पत्नी॑ वैश्वदे॒वेन॒ ता व॑रुणप्रघा॒सैर॒ग्नये॑ दे॒वेभ्य॑ प्रतिपूरु॒षन्दश॑ ।। 10 ।। अनु॑मत्यै प्रथम॒जो व॒थ्सो ब॑हुरू॒पा हि प॒शव॒स्तस्मात्पृथमा॒त्रय्यँद॒ग्नयेऽनी॑कवत उद्धा॒रव्वाँ अ॒ग्नये॑ दे॒वेभ्य॑ प्रतिपूरु॒षं पञ्च॑सप्ततिः ।। 75 ।। अनु॑मत्यै॒ प्रति॑तिष्ठन्ति ।। हरिः॑ ओम् ।। तैत्तिरीयकृष्णयजुर्ब्राह्मणे प्रथमाष्टके षष्ठप्रपाठकस्समाप्तः । 1.6.1.0 ई॒युर्नि॒रव॑दयतेऽङ्गु॒ष्ठाभ्याञ्जुहो॒त्यनु॑मतिर्दे॒वता॑ नि॒र्वप॑ति व॒ही दक्षि॑णा॒ यदै॒न्द्रन्दध्यप॑राभावाय स्वदयति॒ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै॒ षट्च॑ ।। 1 ।। 1.6.1.1 अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पति । ये प्र॒त्यञ्च॒श्शम्या॑या अव॒शीय॑न्ते । तन्नैर्॑ऋ॒तमेक॑कपालम् । इ॒यव्वाँ अनु॑मतिः । इ॒यन्निऱ्ऋ॑तिः । नै॒र्॒ऋ॒तेन॒ पूर्वे॑ण॒ प्रच॑रति । पा॒प्मान॑मे॒व निऱ्ऋ॑तिं॒ पूर्वान्नि॒रव॑दयते । एक॑कपालो भवति । ए॒क॒धैव निऱ्ऋ॑तिन्नि॒रव॑दयते । यदहु॑त्वा॒ गाऱ्ह॑पत्य ई॒युः ।। 1 ।। 1.6.1.2 रु॒द्रो भू॒त्वाऽग्निर॑नू॒त्थाय॑ । अ॒ध्व॒र्युञ्च॒ यज॑मानञ्च हन्यात् । वीहि॒ स्वाहाऽऽहु॑तिञ्जुषा॒ण इत्या॑ह । आहु॑त्यै॒वैन॑ शमयति । नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः । ए॒को॒ल्मु॒केन॑ यन्ति । तद्धि निऱ्ऋ॑त्यै भाग॒धेयम् । इ॒मान्दिश॑य्यँन्ति । ए॒षा वै निऱ्ऋ॑त्यै॒ दिक् । स्वाया॑मे॒व दि॒शि निऱ्ऋ॑तिन्नि॒रव॑दयते ।। 2 ।। 1.6.1.3 स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा । ए॒तद्वै निऱ्ऋ॑त्या आ॒यत॑नम् । स्व ए॒वायत॑ने॒ निऱ्ऋ॑तिन्नि॒रव॑दयते । ए॒ष ते॑ निर्‌ऋते भा॒ग इत्या॑ह । निर्दि॑शत्ये॒वैनाम् । भूते॑ ह॒विष्म॑त्य॒सीत्या॑ह । भूति॑मे॒वोपाव॑र्तते । मु॒ञ्चेममह॑स॒ इत्या॑ह । अह॑स ए॒वैनं॑ मुञ्चति । अ॒ङ्गु॒ष्ठाभ्याञ्जुहोति ।। 3 ।। 1.6.1.4 अ॒न्त॒त ए॒व निऱ्ऋ॑तिन्नि॒रव॑दयते । कृ॒ष्णव्वाँस॑ कृ॒ष्णतू॑ष॒न्दक्षि॑णा । ए॒तद्वै निऱ्ऋ॑त्यै रू॒पम् । रू॒पेणै॒व निऱ्ऋ॑तिन्नि॒रव॑दयते । अप्र॑तीक्ष॒माय॑न्ति । निऱ्ऋ॑त्या अ॒न्तऱ्हि॑त्यै । स्वाहा॒ नमो॒ य इ॒दञ्च॒कारेति॒ पुन॒रेत्य॒ गाऱ्ह॑पत्ये जुहोति । आहु॑त्यै॒व न॑म॒स्यन्तो॒ गाऱ्ह॑पत्यमु॒पाव॑र्तन्ते । आ॒नु॒म॒तेन॒ प्रच॑रति । इ॒यव्वाँ अनु॑मतिः ।। 4 ।। 1.6.1.5 इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते । धे॒नुर्दक्षि॑णा । इ॒मामे॒व धे॒नुङ्कु॑रुते । आ॒दि॒त्यञ्च॒रुन्निर्व॑पति । उ॒भयीष्वे॒व प्र॒जास्व॒भिषि॑च्यते । दैवी॑षु च॒ मानु॑षीषु च । वरो॒ दक्षि॑णा । वरो॒ हि रा॒ज्य समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पति । अ॒ग्निस्सर्वा॑ दे॒वताः ।। 5 ।। 1.6.1.6 विष्णु॑र्य॒ज्ञः । दे॒वताश्चै॒व य॒ज्ञञ्चाव॑ रुन्धे । वा॒म॒नो व॒ही दक्षि॑णा । यद्व॒ही । तेनाग्ने॒यः । यद्वा॑म॒नः । तेन॑ वैष्ण॒वस्समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पति । अ॒ग्नीषोमाभ्या॒व्वाँ इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॑ । यद॑ग्नीषो॒मीय॒मेका॑दशकपालन्नि॒र्वप॑ति ।। 6 ।। 1.6.1.7 वार्त्र॑घ्नमे॒व विजि॑त्यै । हिर॑ण्य॒न्दक्षि॑णा॒ समृ॑द्ध्यै । इन्द्रो॑ वृ॒त्र ह॒त्वा । दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्यार्ध्यत । स ए॒तमैन्द्रा॒ग्नमेका॑दशकपालमपश्यत् । तन्निर॑वपत् । तेन॒ वै स दे॒वताश्चेन्द्रि॒यञ्चावा॑रुन्ध । यदैन्द्रा॒ग्नमेका॑दशकपालन्नि॒र्वप॑ति । दे॒वताश्चै॒व तेनेन्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑रुन्धे । ऋ॒ष॒भो व॒ही दक्षि॑णा ।। 7 ।। 1.6.1.8 यद्व॒ही । तेनाग्ने॒यः । यदृ॑ष॒भः । तेनै॒न्द्रस्समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति । ऐ॒न्द्रन्दधि॑ । यदाग्ने॒यो भव॑ति । अ॒ग्निर्वै य॑ज्ञमु॒खम् । य॒ज्ञ॒मु॒खमे॒वर्द्धिं॑ पु॒रस्ताद्धत्ते । यदै॒न्द्रन्दधि॑ ।। 8 ।। 1.6.1.9 इ॒न्द्रि॒यमे॒वाव॑रुन्धे । ऋ॒ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेनाग्ने॒यः । यदृ॑ष॒भः । तेनै॒न्द्रस्समृ॑द्ध्यै । याव॑ती॒र्वै प्र॒जा ओष॑धीना॒महु॑ताना॒माश्ञन्न्॑ । ता परा॑ऽभवन्न् । आ॒ग्र॒य॒णं भ॑वति हु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय ।। 9 ।। 1.6.1.10 दे॒वा वा ओष॑धीष्वा॒जिम॑युः । ता इ॑न्द्रा॒ग्नी उद॑जयताम् । तावे॒तमैन्द्रा॒ग्नन्द्वाद॑शकपाल॒न्निर॑वृणाताम् । यदैन्द्रा॒ग्नो भव॒त्युज्जि॑त्यै । द्वाद॑शकपालो भवति । द्वाद॑श॒ मासास्सव्वँथ्स॒रः । स॒व्वँ॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । वै॒श्व॒दे॒वश्च॒रुर्भ॑वति । वै॒श्व॒दे॒वव्वाँ अन्नम् । अन्न॑मे॒वास्मै स्वदयति ।। 10 ।। 1.6.1.11 प्र॒थ॒म॒जो व॒थ्सो दक्षि॑णा॒ समृ॑द्ध्यै । सौ॒म्य श्या॑मा॒कञ्च॒रुन्निर्व॑पति । सोमो॒ वा अ॑कृष्टप॒च्यस्य॒ राजा । अ॒कृ॒ष्ट॒प॒च्यमे॒वास्मै स्वदयति । वासो॒ दक्षि॑णा । सौ॒म्य हि दे॒वत॑या॒ वास॒स्समृ॑द्ध्यै । सर॑स्वत्यै च॒रुन्निर्व॑पति । सर॑स्वते च॒रुम् । मि॒थु॒नमे॒वाव॑ रुन्धे । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । एति॒ वा ए॒ष य॑ज्ञमु॒खादृध्याः । योऽग्नेर्दे॒वता॑या॒ एति॑ । अ॒ष्टावे॒तानि॑ ह॒वीषि॑ भवन्ति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रोऽग्निः । तेनै॒व य॑ज्ञमु॒खादृध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैति॑ ।। 11 ।। 1.6.2.0 ऐ॒दित्य॑शोचद्व्यु॒द्धर॑त्यब्रवीत्प्रति॒ष्ठया॑ जेष्य॒थेत्ये॒तऱ्हि॑ प॒शवः॑ ।। 2 ।। 1.6.2.1 वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑ति प्र॒जा अ॑सृजत । तास्सृ॒ष्टा न प्राजा॑यन्त । सोऽग्निर॑कामयत । अ॒हमि॒मा प्रज॑नयेय॒मिति॑ । स प्र॒जाप॑तये॒ शुच॑मदधात् । सो॑ऽशोचत्प्र॒जामि॒च्छमा॑नः । तस्मा॒द्यञ्च॑ प्र॒जा भु॒नक्ति॒ यञ्च॒ न । तावु॒भौ शो॑चत प्र॒जामि॒च्छमा॑नौ । तास्व॒ग्निमप्य॑सृजत् । ता अ॒ग्निरध्यैत् ।। 12 ।। 1.6.2.2 सोमो॒ रेतो॑ऽदधात् । स॒वि॒ता प्राज॑नयत् । सर॑स्वती॒ वाच॑मदधात् । पू॒षाऽपो॑षयत् । ते वा ए॒ते त्रिस्स॑व्वँथ्स॒रस्य॒ प्रयु॑ज्यन्ते । ये दे॒वा पुष्टि॑पतयः । स॒व्वँ॒थ्स॒रो वै प्र॒जाप॑तिः । स॒व्वँ॒थ्स॒रेणै॒वास्मै प्र॒जा प्राज॑नयत् । ता प्र॒जा जा॒ता म॒रुतोऽघ्नन्न् । अ॒स्मानपि॒ न प्रायु॑क्ष॒तेति॑ ।। 13 ।। 1.6.2.3 स ए॒तं प्र॒जाप॑तिर्मारु॒त स॒प्तक॑पालमपश्यत् । तन्निर॑वपत् । ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत । यन्मा॑रु॒तो नि॑रु॒प्यते । य॒ज्ञस्य॒ कॢप्त्यै । प्र॒जाना॒मघा॑ताय । स॒प्तक॑पालो भवति । स॒प्तग॑णा॒ वै म॒रुतः॑ । ग॒ण॒श ए॒वास्मै॒ विश॑ङ्कल्पयति । स प्र॒जाप॑तिरशोचत् ।। 14 ।। 1.6.2.4 या पूर्वा प्र॒जा असृ॑क्षि । म॒रुत॒स्ता अ॑वधिषुः । क॒थमप॑रास्सृजे॒येति॑ । तस्य॒ शुष्म॑ आ॒ण्डं भू॒तन्निर॑वर्तत । तद्व्युद॑हरत् । तद॑पोषयत् । तत्प्राजा॑यत । आ॒ण्डस्य॒ वा ए॒तद्रू॒पम् । यदा॒मिक्षा । यद्व्यु॒द्धर॑ति ।। 15 ।। 1.6.2.5 प्र॒जा ए॒व तद्यज॑मान पोषयति । वै॒श्व॒दे॒व्या॑मिक्षा॑ भवति । वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । प्र॒जा ए॒वास्मै॒ प्रज॑नयति । वाजि॑न॒मान॑यति । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति । द्या॒वा॒पृ॒थि॒व्य॑ एक॑कपालो भवति । प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यतः॒ परि॑ गृह्णाति । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । सोऽग्निर॑ब्रवीत् ।। 16 ।। 1.6.2.6 मामग्रे॑ यजत । मया॒ मुखे॒नासु॑राञ्जेष्य॒थेति॑ । मान्द्वि॒तीय॒मिति॒ सोमोऽब्रवीत् । मया॒ राज्ञा॑ जेष्य॒थेति॑ । मान्तृ॒तीय॒मिति॑ सवि॒ता । मया॒ प्रसू॑ता जेष्य॒थेति॑ । माञ्च॑तु॒र्थीमिति॒ सर॑स्वती । इ॒न्द्रि॒यव्वोँ॒ऽहन्धास्या॒मीति॑ । मां प॑ञ्च॒ममिति॑ पू॒षा । मया प्रति॒ष्ठया॑ जेष्य॒थेति॑ ।। 17 ।। 1.6.2.7 तेऽग्निना॒ मुखे॒नासु॑रानजयन्न् । सोमे॑न॒ राज्ञा । स॒वि॒त्रा प्रसू॑ताः । सर॑स्वतीन्द्रि॒यम॑दधात् । पू॒षा प्र॑ति॒ष्ठाऽऽसीत् । ततो॒ वै दे॒वा व्य॑जयन्त । यदे॒तानि॑ ह॒वीषि॑ निरु॒प्यन्ते॒ विजि॑त्यै । नोत्त॑रवे॒दिमुप॑वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । अजा॑ता इव॒ ह्ये॑तऱ्हि॑ प॒शवः॑ ।। 18 ।। 1.6.3.0 लो॒को ब॑हुरू॒पं भ॑व॒त्याज्य॑भागौ प॒शव॒ आज्य॑मव॒द्येदा॑हव॒नीय॑ प्र॒त्यक्तस्मा॒त्प्रति॑ष्ठितो होत॒व्यो॑ भाग॒धेय॑मे॒ते च॒त्वारि॑ च ।। 3 ।। 1.6.3.1 त्रि॒वृद्ब॒र्॒हिर्भ॑वति । मा॒ता पि॒ता पु॒त्रः । तदे॒व तन्मि॑थु॒नम् । उल्ब॒ङ्गर्भो॑ ज॒रायु॑ । तदे॒व तन्मि॑थु॒नम् । त्रे॒धा ब॒र्॒हिस्सन्न॑द्धं भवति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति । ए॒क॒धा पुन॒स्सन्न॑द्धं भवति । एक॑ इव॒ ह्य॑यल्लोँ॒कः ।। 19 ।। 1.6.3.2 अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑तिष्ठति । प्र॒सुवो॑ भवन्ति । प्र॒थ॒म॒जामे॒व पुष्टि॒मव॑रुन्धे । प्र॒थ॒म॒जो व॒थ्सो दक्षि॑णा॒ समृ॑द्ध्यै । पृ॒ष॒दा॒ज्यङ्गृ॑ह्णाति । प॒शवो॒ वै पृ॑षदा॒ज्यम् । प॒शूने॒वाव॑ रुन्धे । प॒ञ्च॒गृ॒ही॒तं भ॑वति । पाङ्क्ता॒ हि प॒शवः॑ । ब॒हु॒रू॒पं भ॑वति ।। 20 ।। 1.6.3.3 ब॒हु॒रू॒पा हि प॒शव॒स्समृ॑द्ध्यै । अ॒ग्निं म॑न्थन्ति । अ॒ग्निमु॑खा॒ वै प्र॒जाप॑ति प्र॒जा अ॑सृजत । यद॒ग्निं मन्थ॑न्ति । अ॒ग्निमु॑खा ए॒व तत्प्र॒जा यज॑मानस्सृजते । नव॑ प्रया॒जा इ॑ज्यन्ते । नवा॑नूया॒जाः । अ॒ष्टौ ह॒वीषि॑ । द्वावा॑घा॒रौ । द्वावाज्य॑भागौ ।। 21 ।। 1.6.3.4 त्रि॒॒शथ्संप॑द्यन्ते । त्रि॒॒शद॑क्षरा वि॒राट् । अन्न॑व्विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । यज॑मानो॒ वा एक॑कपालः । तेज॒ आज्यम् । यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति । यज॑मानो॒ वा एक॑कपालः । प॒शव॒ आज्यम् ।। 22 ।। 1.6.3.5 यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व प॒शुभि॒स्सम॑र्धयति । यदल्प॑मा॒नयेत् । अल्पा॑ एनं प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेरन्न् । यद्ब॒ह्वा॑नयेत् । ब॒हव॑ एनं प॒शवोऽभु॑ञ्जन्त॒ उप॑तिष्ठेरन्न् । ब॒ह्वा॑नीया॒वि पृ॑ष्ठं कुर्यात् । ब॒हव॑ ए॒वैनं॑ प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते । यज॑मानो॒ वा एक॑कपालः । यदेक॑कपालस्याव॒द्येत् ।। 23 ।। 1.6.3.6 यज॑मान॒स्याव॑द्येत् । उद्वा॒ माद्ये॒द्यज॑मानः । प्र वा॑ मीयेत । स॒कृदे॒व हो॑त॒व्यः॑ । स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः । हु॒त्वाऽभि जु॑होति । यज॑मानमे॒व सु॑व॒र्गल्लोँ॒कङ्ग॑मयि॒त्वा । तेज॑सा॒ सम॑र्धयति । यज॑मानो॒ वा एक॑कपालः । सु॒व॒र्गो लो॒क आ॑हव॒नीयः॑ ।। 24 ।। 1.6.3.7 यदेक॑कपालमाहव॒नीये॑ जु॒होति॑ । यज॑मानमे॒व सु॑व॒र्गल्लोँ॒कङ्ग॑मयति । यद्धस्ते॑न जुहु॒यात् । सु॒व॒र्गाल्लो॒काद्यज॑मान॒मव॑विध्येत् । स्रु॒चा जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । यत्प्राङ्पद्ये॑त । दे॒व॒लो॒कम॒भिज॑येत् । यद्द॑क्षि॒णा पि॑तृलो॒कम् । यत्प्र॒त्यक् ।। 25 ।। 1.6.3.8 रक्षा॑सि य॒ज्ञ ह॑न्युः । यदुदङ्ङ्॑ । म॒नु॒ष्य॒लो॒कम॒भिज॑येत् । प्रति॑ष्ठितो होत॒व्यः॑ । एक॑कपाल॒व्वैँ प्र॑ति॒तिष्ठ॑न्त॒न्द्यावा॑पृथि॒वी अनु॒ प्रति॑तिष्ठतः । द्यावा॑पृथि॒वी ऋ॒तवः॑ । ऋ॒तून् य॒ज्ञः । य॒ज्ञय्यँज॑मानः । यज॑मानं प्र॒जाः । तस्मा॒त्प्रति॑ष्ठितो होत॒व्यः॑ ।। 26 ।। 1.6.3.9 वा॒जिनो॑ यजति । अ॒ग्निर्वा॒युस्सूर्यः॑ । ते वै वा॒जिनः॑ । ताने॒व तद्य॑जति । अथो॒ खल्वा॑हुः । छन्दा॑सि॒ वै वा॒जिन॒ इति॑ । तान्ये॒व तद्य॑जति । ऋ॒ख्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ । तयो परि॒धय॑ आ॒धानम् । वाजि॑नं भाग॒धेयम् ।। 27 ।। 1.6.3.10 यदप्र॑हृत्य परि॒धीञ्जु॑हु॒यात् । अ॒न्तरा॑धानाभ्याङ्घा॒सं प्रय॑च्छेत् । प्र॒हृत्य॑ परि॒धीञ्जु॑होति । निरा॑धानाभ्यामे॒व घा॒सं प्रय॑च्छति । ब॒र्॒हिषि॑ विषि॒ञ्चन्वाजि॑न॒मा न॑यति । प्र॒जा वै ब॒र्॒हिः । रेतो॒ वाजि॑नम् । प्र॒जास्वे॒व रेतो॑ दधाति । स॒मु॒प॒हूय॑ भक्षयन्ति । ए॒तथ्सो॑मपीथा॒ ह्ये॑ते । अथो॑ आ॒त्मन्ने॒व रेतो॑ दधते । यज॑मान उत्त॒मो भ॑क्षयति । प॒शवो॒ वै वाजि॑नम् । यज॑मान ए॒व प॒शून्प्रति॑ष्ठापयन्ति ।। 28 ।। 1.6.4.0 नि॒रु॒प्यन्ते॑ भवतो॒ भव॑ति मेध्य॒त्वाय॑ रुन्धे॒ षट्च॑ ।। 4 ।। 1.6.4.1 प्र॒जाप॑तिस्सवि॒ता भू॒त्वा प्र॒जा अ॑सृजत । ता ए॑न॒मत्य॑मन्यन्त । ता अ॑स्मा॒दपाक्रामन्न् । ता वरु॑णो भू॒त्वा प्र॒जा वरु॑णेनाग्राहयत् । ता प्र॒जा वरु॑णगृहीताः । प्र॒जाप॑तिं॒ पुन॒रुपा॑धावन्ना॒थमि॒च्छमा॑नाः । स ए॒तान्प्र॒जाप॑तिर्वरुणप्रघा॒सान॑पश्यत् । तान्निर॑वपत् । तैर्वै स प्र॒जा व॑रुणपा॒शाद॑मुञ्चत् । यद्व॑रुणप्रघा॒सा नि॑रु॒प्यन्ते ।। 29 ।। 1.6.4.2 प्र॒जाना॒मव॑रुणग्राहाय । तासा॒न्दक्षि॑णो बा॒हुर्न्य॑क्न॒ आसीत् । स॒व्य प्रसृ॑तः । स ए॒तान्द्वि॒तीयान्दक्षिण॒तो वेदि॒मुद॑हन्न् । ततो॒ वै स प्र॒जाना॒न्दक्षि॑णं बा॒हुं प्रासा॑रयत् । यद्द्वि॒तीयान्दक्षिण॒तो वेदि॑मु॒द्धन्ति॑ । प्र॒जाना॑मे॒व तद्यज॑मानो॒ दक्षि॑णं बा॒हुं प्रसा॑रयति । तस्माच्चातुर्मास्यया॒ज्य॑मुष्मि॑ल्लोँ॒क उ॑भ॒याबा॑हुः । य॒ज्ञाभि॑जित॒॒ ह्य॑स्य । पृ॒थ॒मा॒त्राद्वैदी॒ असं॑भिन्ने भवतः ।। 30 ।। 1.6.4.3 तस्मात्पृथमा॒त्रव्व्यँसौ । उत्त॑रस्या॒व्वेँद्या॑मुत्तरवे॒दिमुप॑ वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । प॒शूने॒वाव॑रुन्धे । अथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै । ए॒तद्ब्राह्मणान्ये॒व पञ्च॑ ह॒वीषि॑ । अथै॒ष ऐन्द्रा॒ग्नो भ॑वति । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वानाम् । यदि॑न्द्रा॒ग्नी । यदैन्द्रा॒ग्नो भव॑ति ।। 31 ।। 1.6.4.4 प्रा॒णा॒पा॒नावे॒वाव॑ रुन्धे । ओजो॒ बल॒व्वाँ ए॒तौ दै॒वानाम् । यदि॑न्द्रा॒ग्नी । यदैन्द्रा॒ग्नो भव॑ति । ओजो॒ बल॑मे॒वाव॑ रुन्धे । मा॒रु॒त्या॑मिक्षा॑ भवति । वा॒रु॒ण्या॑मिक्षा । मे॒षी च॑ मे॒षश्च॑ भवतः । मि॒थु॒ना ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । लो॒म॒शौ भ॑वतो मेध्य॒त्वाय॑ ।। 32 ।। 1.6.4.5 श॒मी॒प॒र्णान्युप॑ वपति । घा॒समे॒वाभ्या॒मपि॑ यच्छति । प्र॒जाप॑तिम॒न्नाद्य॒न्नोपा॑नमत् । स ए॒तेन॑ श॒तेध्मे॑न ह॒विषा॒ऽन्नाद्य॒मवा॑रुन्ध । यत्प॑रश्श॒तानि॑ शमीप॒र्णानि॒ भव॑न्ति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । सौ॒म्यानि॒ वै क॒रीरा॑णि । सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टि॑ञ्च्यावयति । यत्क॒रीरा॑णि॒ भव॑न्ति । सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑रुन्धे । का॒य एक॑कपालो भवति । प्र॒जानाङ्क॒न्त्वाय॑ । प्र॒ति॒पू॒रु॒षङ्क॑रम्भपा॒त्राणि॑ भवन्ति । जा॒ता ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति ।। 33 ।। 1.6.5.0 क॒रोति॑ ग्राहयत्याहव॒नीय॒स्तिष्ठ॑ञ्जुहोत्य॒पो॑ऽवभृ॒थमवै॑ति धत्ते ।। 5 ।। 1.6.5.1 उत्त॑रस्या॒व्वेँद्या॑म॒न्यानि॑ ह॒वीषि॑ सादयति । दक्षि॑णायां मारु॒तीम् । अ॒प॒धु॒रमे॒वैना॑ युनक्ति । अथो॒ ओज॑ ए॒वासा॒मव॑ हरति । तस्मा॒द्ब्रह्म॑णश्च क्ष॒त्राच्च॒ विशोऽन्यतोऽपक्र॒मिणीः । मा॒रु॒त्या पूर्व॑या॒ प्रच॑रति । अनृ॑तमे॒वाव॑ यजते । वा॒रु॒ण्योत्त॑रया । अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते । यदे॒वाध्व॒र्यु क॒रोति॑ ।। 34 ।। 1.6.5.2 तत्प्र॑तिप्रस्था॒ता क॑रोति । तस्मा॒द्यच्छ्रेयान्क॒रोति॑ । तत्पापी॑यान्करोति । पत्नीव्वाँचयति । मेध्या॑मे॒वैनाङ्करोति । अथो॒ तप॑ ए॒वैना॒मुप॑ नयति । यज्जा॒र सन्त॒न्न प्र॑ब्रू॒यात् । प्रि॒यं ज्ञा॒ति रु॑न्ध्यात् । अ॒सौ मे॑ जा॒र इति॒ निर्दि॑शेत् । नि॒र्दिश्यै॒वैनं॑ वरुणपा॒शेन॑ ग्राहयति ।। 35 ।। 1.6.5.3 प्र॒घा॒स्यान्॑ हवामह॒ इति॒ पत्नी॑मु॒दान॑यति । अह्व॑तै॒वैनाम् । यत्पत्नी॑ पुरोनुवा॒क्या॑मनुब्रू॒यात् । निर्वीर्यो॒ यज॑मानस्स्यात् । यज॑मा॒नोऽन्वा॑ह । आ॒त्मन्ने॒व वी॒र्य॑न्धत्ते । उ॒भौ या॒ज्या॑ सवीर्य॒त्वाय॑ । यद्ग्रामे॒ यदर॑ण्य॒ इत्या॑ह । य॒थो॒दि॒तमे॒व वरु॑ण॒मव॑ यजते । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वा आ॑हव॒नीयः॑ ।। 36 ।। 1.6.5.4 भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑ दक्षि॑णः । यदा॑हव॒नीये॑ जुहु॒यात् । यज॑मानव्वँरुणपा॒शेन॑ ग्राहयेत् । दक्षि॑णे॒ऽग्नौ जु॑होति । भ्रातृ॑व्यमे॒व व॑रुणपा॒शेन॑ ग्राहयति । शूर्पे॑ण जुहोति । अन्य॑मे॒व वरु॑ण॒मव॑ यजते । शी॒र्॒षन्न॑धि नि॒धाय॑ जुहोति । शी॒ऱ्ष॒त ए॒व वरु॑ण॒मव॑ यजते । प्र॒त्यङ्तिष्ठ॑ञ्जुहोति ।। 37 ।। 1.6.5.5 प्र॒त्यङ्ङे॒व व॑रुणपा॒शान्निर्मु॑च्यते । अक्र॒न्कर्म॑ कर्म॒कृत॒ इत्या॑ह । दे॒वानृ॒णन्नि॑रव॒दाय॑ । अ॒नृ॒णा गृ॒हानुप॒ प्रेतेति॒ वावैतदा॑ह । वरु॑णगृहीत॒व्वाँ ए॒तद्य॒ज्ञस्य॑ । यद्यजु॑षा गृही॒तस्या॑ति॒रिच्य॑ते । तुषाश्च निष्का॒सश्च॑ । तुषैश्च निष्का॒सेन॑ चावभृ॒थमवै॑ति । वरु॑णगृहीतेनै॒व वरु॑ण॒मव॑यजते । अ॒पो॑ऽवभृ॒थमवै॑ति ।। 38 ।। 1.6.5.6 अ॒फ्सु वै वरु॑णः । सा॒क्षादे॒व वरु॑ण॒मव॑यजते । प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह । व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते । अप्र॑तीक्ष॒मा य॑न्ति । वरु॑णस्या॒न्तऱ्हि॑त्यै । एधोऽष्येधिषी॒महीत्या॑ह । स॒मिधै॒वाग्निन्न॑म॒स्यन्त॑ उ॒पाय॑न्ति । तेजो॑ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह । तेज॑ ए॒वात्मन्ध॑त्ते ।। 39 ।। 1.6.6.0 असु॑रा अश्रयन्गृहमे॒धीय॑ञ्च॒रुन्निर॑वपन्नजुहवुर॒न्वाहेडान्तो भवति॒ द्वे च॑ ।। 6 ।। 1.6.6.1 दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । सोऽग्निर॑ब्रवीत् । ममे॒यमनी॑कवती त॒नूः । तां प्री॑णीत । अथासु॑रान॒भि भ॑विष्य॒थेति॑ । ते दे॒वा अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन्न् । सोऽग्निरनी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धाऽनी॑कान्यजनयत । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः ।। 40 ।। 1.6.6.2 यद॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालन्नि॒र्वप॑ति । अ॒ग्निमे॒वानी॑कवन्त॒॒ स्वेन॑ भाग॒धेये॑न प्रीणाति । सोऽग्निरनी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धाऽनी॑कानि जनयते । अ॒सौ वा आ॑दि॒त्योऽग्निरनी॑कवान् । तस्य॑ र॒श्मयोऽनी॑कानि । सा॒क सूर्ये॑णोद्य॒ता निर्व॑पति । सा॒क्षादे॒वास्मा॒ अनी॑कानि जनयति । तेऽसु॑राः॒ परा॑जिता॒ यन्तः॑ । द्यावा॑पृथि॒वी उपाश्रयन्न् ।। 41 ।। 1.6.6.3 ते दे॒वा म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्निर॑वपन्न् । तान्द्यावा॑पृथि॒वीभ्या॑मे॒वोभ॒यत॒ सम॑तपन् । यन्म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्नि॒र्वप॑ति । द्यावा॑पृथि॒वीभ्या॑मे॒व तदु॑भ॒यतो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्थ्सन्त॑पति । म॒ध्यन्दि॑ने॒ निर्व॑पति । तऱ्हि॒ हि तेख्ष्णि॑ष्ठ॒न्तप॑ति । च॒रुर्भ॑वति । स॒र्वत॑ ए॒वैना॒न्थ्सन्त॑पति । ते दे॒वाश्श्वो॑विज॒यिन॒स्सन्तः॑ । सर्वा॑सान्दु॒ग्धे गृ॑हमे॒धीय॑ञ्च॒रुन्निर॑वपन्न् ।। 42 ।। 1.6.6.4 आशि॑ता ए॒वाद्योप॑वसाम । कस्य॒ वाऽहे॒दम् । कस्य॑ वा॒ श्वो भ॑वि॒तेति॑ । स शृ॒तो॑ऽभवत् । तस्याहु॑तस्य॒ नाश्ञन्न्॑ । न हि दे॒वा अहु॑तस्या॒श्ञन्ति॑ । तेऽब्रुवन्न् । कस्मा॑ इ॒म होष्याम॒ इति॑ । म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒ इत्य॑ब्रुवन्न् । तं म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ऽजुहवुः ।। 43 ।। 1.6.6.5 ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः । यस्यै॒वव्विँ॒दुषो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति । भव॑त्या॒त्मना । पराऽस्य॒ भ्रातृ॑व्यो भवति । यद्वै य॒ज्ञस्य॑ पाक॒त्रा क्रि॒यते । प॒श॒व्य॑न्तत् । पा॒क॒त्रा वा ए॒तत्क्रि॑यते । यन्नेध्माब॒र्॒हिर्भव॑ति । न सा॑मिधे॒नीर॒न्वाह॑ ।। 44 ।। 1.6.6.6 न प्र॑या॒जा इ॒ज्यन्ते । नानू॑या॒जाः । य ए॒वव्वेँद॑ । प॒शु॒मान्भ॑वति । आज्य॑भागौ यजति । य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति । म॒रुतो॑ गृहमे॒धिनो॑ यजति । भा॒ग॒धेये॑नै॒वैना॒न्थ्सम॑र्धयति । अ॒ग्निस्वि॑ष्ट॒कृत॑य्यँजति॒ प्रति॑ष्ठित्यै । इडान्तो भवति । प॒शवो॒ वा इडा । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ।। 45 ।। 1.6.7.0 ऋ॒द्ध्य॒ते॒ऽभ्य॑ञ्जते जुहोति वृणामहै भवत्य॒ष्टौ च॑ ।। 7 ।। 1.6.7.1 यत्पत्नी॑ गृहमे॒धीय॑स्याश्ञी॒यात् । गृ॒ह॒मे॒ध्ये॑व स्यात् । वि त्व॑स्य य॒ज्ञ ऋ॑ध्येत । यन्नाश्ञी॒यात् । अगृ॑हमेधी स्यात् । नास्य॑ य॒ज्ञो व्यृ॑द्ध्येत । प्रति॑वेशं पचेयुः । तस्याश्ञीयात् । गृ॒ह॒मे॒ध्ये॑व भ॑वति । नास्य॑ य॒ज्ञो व्यृ॑द्ध्यते ।। 46 ।। 1.6.7.2 ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । आशि॑ता अभवन्न् । आञ्ज॑ता॒भ्य॑ञ्जत । अनु॑ व॒थ्सान॑वासयन्न् । तेभ्योऽसु॑राः॒ ख्षुधं॒ प्राहि॑ण्वन्न् । सा दे॒वेषु॑ लो॒कमवि॑त्वा । असु॑रा॒न्पुन॑रगच्छत् । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता भवन्ति । आञ्ज॑ते॒ऽभ्य॑ञ्जते ।। 47 ।। 1.6.7.3 अनु॑ व॒थ्सान् वा॑सयन्ति । भ्रातृ॑व्यायै॒व तद्यज॑मानः॒ ख्षुधं॒ प्रहि॑णोति । ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सन्न्य॑दधुः । अ॒स्माने॒व श्व इन्द्रो॒ निहि॑तभाग उपावर्ति॒तेति॑ । तानिन्द्रो॒ निहि॑तभाग उ॒पाव॑र्तत । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सन्निद॑ध्यात् । इन्द्र॑ ए॒वैन॒न्निहि॑तभाग उ॒पाव॑र्तते । गाऱ्ह॑पत्ये जुहोति ।। 48 ।। 1.6.7.4 भा॒ग॒धेये॑नै॒वैन॒॒ सम॑र्धयति । ऋ॒ष॒भमाह्व॑यति । व॒ष॒ट्का॒र ए॒वास्य॒ सः । अथो॑ इन्द्रि॒यमे॒व तद्वी॒र्यँ॑य्यज॑मानो॒ भ्रातृव्य॑स्य वृङ्क्ते । इन्द्रो॑ वृ॒त्र ह॒त्वा । परां परा॒वत॑मगच्छत् । अपा॑राध॒मिति॒ मन्य॑मानः । सोऽब्रवीत् । क इ॒दव्वे॑दिँष्य॒तीति॑ । तेऽब्रुवन्म॒रुतो॒ वर॑व्वृँणामहै ।। 49 ।। 1.6.7.5 अथ॑ व॒यव्वेँ॑दाम । अ॒स्मभ्य॑मे॒व प्र॑थ॒म ह॒विर्निरु॑प्याता॒ इति॑ । त ए॑न॒मध्य॑क्रीडन्न् । तत्क्री॒डिनाङ्क्रीडि॒त्वम् । यन्म॒रुद्भ्य॑ क्री॒डिभ्य॑ प्रथ॒म ह॒विर्नि॑रु॒प्यते॒ विजि॑त्यै । सा॒क सूर्ये॑णोद्य॒ता निर्व॑पति । ए॒तस्मि॒न्वै लो॒क इन्द्रो॑ वृ॒त्रम॑ह॒न्थ्समृ॑द्ध्यै । ए॒तद्ब्राह्मणान्ये॒व पञ्च॑ ह॒वीषि॑ । ए॒तद्ब्राह्मण ऐन्द्रा॒ग्नः । अथै॒ष ऐ॒न्द्रश्च॒रुर्भ॑वति ।। 50 ।। 1.6.7.6 उ॒द्धारव्वाँ ए॒तमिन्द्र॒ उद॑हरत । वृ॒त्र ह॒त्वा । अ॒न्यासु॑ दे॒वता॒स्वधि॑ । यदे॒ष ऐ॒न्द्रश्च॒रुर्भव॑ति । उ॒द्धा॒रमे॒व तय्यँज॑मान॒ उद्ध॑रते । अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण एक॑कपालो भवति । विश्वान्ये॒व तेन॒ कर्मा॑णि॒ यज॑मा॒नोऽव॑रुन्धे ।। 51 ।। 1.6.8.0 नि॒रव॑दयते पितृ॒मान॑ग्निष्वा॒त्ता एक॒योप॑ मन्थ॒त्यखा॑ता भवति मनु॒ष्या॑णां पद्यन्ते परिद॒ध्यान्मी॑यते॒ पञ्च॑ च ।। 8 ।। 1.6.8.1 वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता व॑रुणप्रघा॒सैर्व॑रुणपा॒शाद॑मुञ्चत् । सा॒क॒मे॒धै प्रत्य॑स्थापयत् । त्र्य॑म्बकै रु॒द्रन्नि॒रवा॑दयत । पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्लोँ॒कम॑गमयत् । यद्वैश्वदे॒वेन॒ यज॑ते । प्र॒जा ए॒व तद्यज॑मानस्सृजते । ता व॑रुणप्रघा॒सैर्व॑रुणपा॒शान्मु॑ञ्चति । सा॒क॒मे॒धै प्रति॑ष्ठापयति । त्र्य॑म्बकै रु॒द्रन्नि॒रव॑दयते ।। 52 ।। 1.6.8.2 पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्लोँ॒कङ्ग॑मयति । द॒क्षि॒ण॒त प्रा॑चीनावी॒ती निर्व॑पति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । अना॑दृत्य॒ तत् । उ॒त्त॒र॒त ए॒वोप॒वीय॒ निर्व॑पेत् । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते । अथो॒ यदे॒व द॑क्षिणा॒र्धे॑ऽधि॒ श्रय॑ति । तेन॑ दक्षि॒णावृ॑त् । सोमा॑य पितृ॒मते॑ पुरो॒डाश॒॒ षट्क॑पाल॒न्निर्व॑पति । स॒व्वँ॒थ्स॒रो वै सोम॑ पितृ॒मान् ।। 53 ।। 1.6.8.3 स॒व्वँ॒थ्स॒रमे॒व प्री॑णाति । पि॒तृभ्यो॑ बऱ्हि॒षद्भ्यो॑ धा॒नाः । मासा॒ वै पि॒तरो॑ बऱ्हि॒षदः॑ । मासा॑ने॒व प्री॑णाति । यस्मि॒न्वा ऋ॒तौ पुरु॑ष प्र॒मीय॑ते । सोऽस्या॒मुष्मि॑ल्लोँ॒के भ॑वति । ब॒हु॒रू॒पा धा॒ना भ॑वन्ति । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । पि॒तृभ्योऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् । अ॒र्ध॒मा॒सा वै पि॒तरोऽग्निष्वा॒त्ताः ।। 54 ।। 1.6.8.4 अ॒र्ध॒मा॒साने॒व प्री॑णाति । अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति । सा हि पि॑तृदेव॒त्य॑न्दु॒हे । यत्पू॒र्णम् । तन्म॑नु॒ष्या॑णाम् । उ॒प॒र्य॒र्धो दे॒वानाम् । अ॒र्ध पि॑तृ॒णाम् । अ॒र्ध उप॑मन्थति । अ॒र्धो हि पि॑तृ॒णाम् । एक॒योप॑मन्थति ।। 55 ।। 1.6.8.5 एका॒ हि पि॑तृ॒णाम् । द॒क्षि॒णोप॑मन्थति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । अना॑र॒भ्योप॑मन्थति । तद्धि पि॒तॄन्गच्छ॑ति । इ॒मान्दिश॒व्वेँदि॒मुद्ध॑न्ति । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते । चतु॑स्स्रक्तिर्भवति । सर्वा॒ ह्यनु॒ दिश॑ पि॒तरः॑ । अखा॑ता भवति ।। 56 ।। 1.6.8.6 खा॒ता हि दे॒वानाम् । म॒ध्य॒तोऽग्निराधी॑यते । अ॒न्त॒तो हि दे॒वाना॑माधी॒यते । वऱ्षी॑यानि॒ध्म इ॒ध्माद्भ॑वति॒ व्यावृ॑त्त्यै । परि॑श्रयति । अ॒न्तऱ्हि॑तो॒ हि पि॑तृलो॒को म॑नुष्यलो॒कात् । यत्परु॑षि दि॒नम् । तद्दे॒वानाम् । यद॑न्त॒रा । तन्म॑नु॒ष्या॑णाम् ।। 57 ।। 1.6.8.7 यथ्समू॑लम् । तत्पि॑तृ॒णाम् । समू॑लं ब॒र्॒हिर्भ॑वति॒ व्यावृ॑त्त्यै । द॒क्षि॒णा स्तृ॑णाति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । त्रि पर्ये॑ति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । त्रि पुन॒ पर्ये॑ति । षट्थ्सं प॑द्यन्ते ।। 58 ।। 1.6.8.8 षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । यत्प्र॑स्त॒रय्यँजु॑षा गृह्णी॒यात् । प्र॒मायु॑को॒ यज॑मानस्स्यात् । यन्न गृ॑ह्णी॒यात् । अ॒ना॒य॒त॒नस्स्यात् । तू॒ष्णीमे॒व न्य॑स्येत् । न प्र॒मायु॑को॒ भव॑ति । नाना॑यत॒नः । यत्त्रीन्प॑रि॒धीन्प॑रिद॒ध्यात् ।। 59 ।। 1.6.8.9 मृ॒त्युना॒ यज॑मानं॒ परि॑गृह्णीयात् । यन्न प॑रिद॒ध्यात् । रक्षा॑सि य॒ज्ञ ह॑न्युः । द्वौ प॑रि॒धी परि॑दधाति । रक्ष॑सा॒मप॑हत्यै । अथो॑ मृ॒त्योरे॒व यज॑मान॒मुथ्सृ॑जति । यत्त्रीणि॑ त्रीणि ह॒वीष्यु॑दा॒हरे॑युः । त्रय॑स्त्रय एषा सा॒कं प्रमी॑येरन्न् । एकै॑कमनू॒चीनान्यु॒दाह॑रन्ति । एकै॑क ए॒वैषा॑म॒न्वञ्च॒ प्रमी॑यते । क॒शिपु॑ कशिप॒व्या॑य । उ॒प॒बऱ्ह॑णमुपबऱ्ह॒ण्या॑य । आञ्ज॑नमाञ्ज॒न्या॑य । अ॒भ्यञ्ज॑नमभ्यञ्ज॒न्या॑य । य॒था॒भा॒गमे॒वैनान्प्रीणाति ।। 60 ।। 1.6.9.0 होता॑र॒माज्य॑भागौ यजति॒ सन्त॑त॒मव॑द्यति॒ व्यावृ॑त्त्यै बऱ्हि॒षदो॑ यजति॒ तमे॒व तद्य॑ज॒त्यनु॒ निष्क्रा॑मन्त्याहैनानृ॒तवो॒ नव॑ च ।। 9 ।। 1.6.9.1 अ॒ग्नये॑ दे॒वेभ्य॑ पि॒तृभ्य॑स्समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह । उ॒भये॒ हि दै॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते । एका॒मन्वा॑ह । एका॒ हि पि॑तृ॒णाम् । त्रिरन्वा॑ह । त्रिऱ्हि दे॒वानाम् । आ॒घा॒रावाघा॑रयति । य॒ज्ञ॒प॒रुषो॒रन॑न्तरित्यै । नाऱ्षे॒यव्वृँ॑णीते । न होता॑रम् ।। 61 ।। 1.6.9.2 यदा॑ऱ्षे॒यं वृ॑णी॒त । यद्धोता॑रम् । प्र॒मायु॑को॒ यज॑मानस्स्यात् । प्र॒मायु॑को॒ होता । तस्मा॒न्न वृ॑णीते । यज॑मानस्य॒ होतु॑र्गोपी॒थाय॑ । अप॑ बऱ्हिष प्रया॒जान् य॑जति । प्र॒जा वै ब॒र्॒हिः । प्र॒जा ए॒व मृ॒त्योरुथ्सृ॑जति । आज्य॑भागौ यजति ।। 62 ।। 1.6.9.3 य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति । प्रा॒ची॒ना॒वी॒ती सोम॑य्यँजति । पि॒तृ॒दे॒व॒त्या॑ हि । ए॒षाऽऽहु॑तिः । पञ्च॒कृत्वोऽव॑ द्यति । पञ्च॒ ह्ये॑ता दे॒वताः । द्वे पु॑रोऽनुवा॒क्ये । या॒ज्या॑ दे॒वता॑ वषट्का॒रः । ता ए॒व प्री॑णाति । सन्त॑त॒मव॑ द्यति ।। 63 ।। 1.6.9.4 ऋ॒तू॒ना सन्त॑त्यै । प्रैवैभ्य॒ पूर्व॑या पुरोऽनुवा॒क्य॑याऽऽह । प्रण॑यति द्वि॒तीय॑या । ग॒मय॑ति या॒ज्य॑या । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । अह्न॑ ए॒वैना॒न्पूर्व॑या पुरोऽनुवा॒क्य॑या॒ऽत्यान॑यति । रात्रि॑यै द्वि॒तीय॑या । ऐवैनान्॑ या॒ज्य॑या गमयति । द॒क्षि॒ण॒तो॑ऽव॒दाय॑ । उद॒ङ्ङति॑ क्रामति॒ व्यावृ॑त्त्यै ।। 64 ।। 1.6.9.5 आ स्व॒धेत्याश्रा॑वयति । अस्तु॑ स्व॒धेति॑ प्र॒त्याश्रा॑वयति । स्व॒धा नम॒ इति॒ वष॑ट्करोति । स्व॒धा॒का॒रो हि पि॑तृ॒णाम् । सोम॒मग्रे॑ यजति । सोम॑प्रयाजा॒ हि पि॒तरः॑ । सोमं॑ पितृ॒मन्त॑य्यँजति । स॒व्वँ॒थ्स॒रो वै सोम॑ पितृ॒मान् । स॒व्वँ॒थ्स॒रमे॒व तद्य॑जति । पि॒तॄन्ब॑ऱ्हि॒षदो॑ यजति ।। 65 ।। 1.6.9.6 ये वै यज्वा॑नः । ते पि॒तरो॑ बऱ्हि॒षदः॑ । ताने॒व तद्य॑जति । पि॒तॄन॑ग्निष्वा॒त्तान् य॑जति । ये वा अय॑ज्वानो गृहमे॒धिनः॑ । ते पि॒तरोऽग्निष्वा॒त्ताः । ताने॒व तद्य॑जति । अ॒ग्निङ्क॑व्य॒वाह॑नय्यँजति । य ए॒व पि॑तृ॒णाम॒ग्निः । तमे॒व तद्य॑जति ।। 66 ।। 1.6.9.7 अथो॒ यथा॒ऽग्नि स्वि॑ष्ट॒कृत॒य्यँज॑ति । ता॒दृगे॒व तत् । ए॒तत्ते॑ तत॒ ये च॒ त्वामन्विति॑ ति॒सृषु॑ स्र॒क्तीषु॒ निद॑धाति । तस्मा॒दा तृ॒तीया॒त्पुरु॑षा॒न्नाम॒ न गृ॑ह्णन्ति । ए॒ताव॑न्तो॒ हीज्यन्ते । अत्र॑ पितरो यथाभा॒गं म॑न्दध्व॒मित्या॑ह । ह्लीका॒ हि पि॒तरः॑ । उद॑ञ्चो॒ निष्क्रा॑मन्ति । ए॒षा वै म॑नु॒ष्या॑णा॒न्दिक् । स्वामे॒व तद्दिश॒मनु॒ निष्क्रा॑मन्ति ।। 67 ।। 1.6.9.8 आ॒ह॒व॒नीय॒मुप॑तिष्ठन्ते । न्ये॑वास्मै॒ तद्ध्नु॑वते । यथ्स॒त्या॑हव॒नीये । अथा॒न्यत्र॒ चर॑न्ति । आतमि॑तो॒रुप॑तिष्ठन्ते । अ॒ग्निमे॒वोप॑द्र॒ष्टार॑ङ्कृ॒त्वा । पि॒तॄन्नि॒रव॑दयन्ते । अन्त॒व्वाँ ए॒ते प्रा॒णानाङ्गच्छन्ति । य आतमि॑तोरुप॒ तिष्ठ॑न्ते । सु॒स॒न्दृश॑न्त्वा व॒यमित्या॑ह ।। 68 ।। 1.6.9.9 प्रा॒णो वै सु॑स॒न्दृक् । प्रा॒णमे॒वात्मन्द॑धते । योजा॒ न्वि॑न्द्र ते॒ हरी॒ इत्या॑ह । प्रा॒णमे॒व पुन॑रयुक्त । अक्ष॒न्नमी॑मदन्त॒ हीति॒ गाऱ्ह॑पत्य॒मुप॑तिष्ठन्ते । अक्ष॒न्नमी॑मद॒न्ताथ॒ त्वोप॑तिष्ठामह॒ इति॒ वावैतदा॑ह । अमी॑मदन्त पि॒तर॑स्सो॒म्या इत्य॒भि प्रप॑द्यन्ते । अमी॑मदन्त पि॒तरोऽथ॑ त्वा॒ऽभि प्रप॑द्यामह॒ इति॒ वावैतदा॑ह । अ॒प परि॑षिञ्चति । मा॒र्जय॑त्ये॒वैनान्॑ ।। 69 ।। 1.6.9.10 अथो॑ त॒र्पय॑त्ये॒व । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । य ए॒वव्वेँद॑ । अप॑ बऱ्हिषावनूया॒जौ य॑जति । प्र॒जा वै ब॒र्॒हिः । प्र॒जा ए॒व मृ॒त्योरुथ्सृ॑जति । च॒तुर॑ प्रया॒जान् य॑जति । द्वाव॑नूया॒जौ । षट्थ्सं प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । न पत्न्यन्वास्ते । न सय्याँ॑जयन्ति । यत्पत्न्य॒न्वासी॑त । यथ्स॑य्याँ॒जये॑युः । प्र॒मायु॑का स्यात् । तस्मा॒न्नान्वास्ते । न सय्याँ॑जयन्ति । पत्नि॑यै गोपी॒थाय॑ ।। 70 ।। 1.6.10.0 य॒न्ति॒ ब्रू॒या॒न्नि॒रव॑दयते शास्ते सिञ्चति॒ षट्च॑ ।। 10 ।। 1.6.10.1 प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॑कपाला भवन्ति । ए॒क॒धैव रु॒द्रन्नि॒रव॑दयते । नाभिघा॑रयति । यद॑भिघा॒रयेत् । अ॒न्त॒र॒व॒चा॒रिण॑ रु॒द्रङ्कु॑र्यात् । ए॒को॒ल्मु॒केन॑ यन्ति ।। 71 ।। 1.6.10.2 तद्धि रु॒द्रस्य॑ भाग॒धेयम् । इ॒मान्दिश॑य्यँन्ति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते । रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यन्द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ । तम॑स्मै प॒शुन्निर्दि॑शति । यदि॒ न द्वि॒ष्यात् । आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् ।। 72 ।। 1.6.10.3 न ग्रा॒म्यान्प॒शून् हि॒नस्ति॑ । नार॒ण्यान् । च॒तु॒ष्प॒थे जु॑होति । ए॒ष वा अ॑ग्नी॒नां पड्बी॑शो॒ नाम॑ । अ॒ग्नि॒वत्ये॒व जु॑होति । म॒ध्य॒मेन॑ प॒र्णेन॑ जुहोति । स्रुग्घ्ये॑षा । अथो॒ खलु॑ । अ॒न्त॒मेनै॒व हो॑त॒व्यम् । अ॒न्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते ।। 73 ।। 1.6.10.4 ए॒ष ते॑ रुद्र भा॒गस्स॒ह स्वस्राऽम्बि॑क॒येत्या॑ह । श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा । तया॒ वा ए॒ष हि॑नस्ति । य हि॒नस्ति॑ । तयै॒वैन॑ स॒ह श॑मयति । भे॒ष॒जङ्गव॒ इत्या॑ह । याव॑न्त ए॒व ग्रा॒म्या प॒शवः॑ । तेभ्यो॑ भेष॒जङ्क॑रोति । अवाम्ब रु॒द्रम॑दिम॒हीत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते ।। 74 ।। 1.6.10.5 त्र्य॑म्बकय्यँजामह॒ इत्या॑ह । मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒दिति॒ वावैतदा॑ह । उत्कि॑रन्ति । भग॑स्य लीफ्सन्ते । मूते॑कृ॒त्वाऽऽस॑जन्ति । यथा॒ जन॑य्यँ॒ते॑ऽव॒सङ्क॒रोति॑ । ता॒दृगे॒व तत् । ए॒ष ते॑ रुद्र भा॒ग इत्या॑ह नि॒रव॑त्त्यै । अप्र॑तीक्ष॒मा य॑न्ति । अ॒प परि॑षिञ्चति । रु॒द्रस्या॒न्तऱ्हि॑त्यै । प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते । ये त्र्य॑म्बकै॒श्चर॑न्ति । आ॒दि॒त्यञ्च॒रुं पुन॒रेत्य॒ निर्व॑पति । इ॒यव्वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति ।। 75 ।। 1.7.0.0 ए॒तद्ब्राह्मणानि धा॒त्रे र॒त्निनान्देवसु॒वाम॒र्थेतो॒ देवी॒र्दिश॒स्सोम॒स्येन्द्र॑स्य मि॒त्रो दश॑ ।। 10 ।। ए॒तद्ब्राह्मणानि वैष्ण॒वन्त्रि॑कपा॒लमन्न॒व्वैँ पू॒षा वाशा॒स्स्थेत्या॑ह॒ दिशो॒ व्यास्था॑पय॒त्युद॑ङ्प॒रेत्य॒ ब्रह्मा ३ न्त्व रा॑ज॒॒श्चतु॑ष्षष्टिः ।। ए॒तद्ब्राह्मणानि॒ प्रति॑तिष्ठति ।। 64 ।। हरिः॑ ओम् ।। सप्तम प्रपाठकस्समाप्तः 1.7.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमप्रपाठक प्रारंभः । हरिः ओम् ।। 1.7.1.0 य॒च्छ॒ति॒ वरु॑ण॒न्तृती॑य॒व्विँजि॑त्या असृजत॒ समृ॑द्ध्यै हनो॒ मित्र॑द्रु॒गिति॑ हन्ति॒ स्तृत्यै॒ त्रीणि॑ च ।। 1 ।। 1.7.1.1 ए॒तद्ब्राह्मणान्ये॒व पञ्च॑ ह॒वीषि॑ । अथेन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाश॒न्द्वाद॑शकपाल॒न्निर्व॑पति । स॒व्वँ॒थ्स॒रो वा इन्द्रा॒शुना॒सीरः॑ । स॒व्वँ॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे । वा॒य॒व्यं॑ पयो॑ भवति । वा॒युर्वै वृष्ट्यै प्रदापयि॒ता । स ए॒वास्मै॒ वृष्टिं॒ प्रदा॑पयति । सौ॒र्य॑ एक॑कपालो भवति । सूर्ये॑ण॒ वा अ॒मुष्मिँ॑ल्लो॒के वृष्टि॑र्धृ॒ता । स ए॒वास्मै॒ वृष्टि॒न्निय॑च्छति ।। 1 ।। 1.7.1.2 द्वा॒द॒श॒ग॒व सीर॒न्दक्षि॑णा॒ समृ॑द्ध्यै । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । ते दे॒वा अ॒ग्निम॑ब्रुवन्न् । त्वया॑ वी॒रेणासु॑रान॒भिभ॑वा॒मेति॑ । सोऽब्रवीत् । त्रे॒धाऽहमा॒त्मान॒व्विँक॑रिष्य॒ इति॑ । स त्रे॒धाऽऽत्मान॒व्व्यँ॑कुरुत । अ॒ग्निन्तृती॑यम् । रु॒द्रन्तृती॑यम् । वरु॑ण॒न्तृती॑यम् ।। 2 ।। 1.7.1.3 सोऽब्रवीत् । क इ॒दन्तु॒रीय॒मिति॑ । अ॒हमितीन्द्रोऽब्रवीत् । सन्तु सृ॑जावहा॒ इति॑ । तौ सम॑सृजेताम् । स इन्द्र॑स्तु॒रीय॑मभवत् । यदिन्द्र॑स्तु॒रीय॒मभ॑वत् । तदि॑न्द्रतुरी॒यस्येन्द्रतुरीय॒त्वम् । ततो॒ वै दे॒वा व्य॑जयन्त । यदि॑न्द्रतुरी॒यन्नि॑रु॒प्यते॒ विजि॑त्यै ।। 3 ।। 1.7.1.4 व॒हिनी॑ धे॒नुर्दक्षि॑णा । यद्व॒हिनी । तेनाग्ने॒यी । यद्गौः । तेन॑ रौ॒द्री । यद्धे॒नुः । तेनै॒न्द्री । यथ्स्त्री स॒ती दा॒न्ता । तेन॑ वारु॒णी समृ॑द्ध्यै । प्र॒जाप॑तिर्य॒ज्ञम॑सृजत ।। 4 ।। 1.7.1.5 त सृ॒ष्ट रक्षा॑स्यजिघासन्न् । स ए॒ता प्र॒जाप॑तिरा॒त्मनो॑ दे॒वता॒ निर॑मिमीत । ताभि॒र्वै स दि॒ग्भ्यो रक्षा॑सि॒ प्राणु॑दत । यत्प॑ञ्चाव॒त्तीय॑ञ्जु॒होति॑ । दि॒ग्भ्य ए॒व तद्यज॑मानो॒ रक्षा॑सि॒ प्रणु॑दते । समू॑ढ॒॒ रक्ष॒स्सन्द॑ग्ध॒॒ रक्ष॒ इत्या॑ह । रक्षा॑स्ये॒व सन्द॑हति । अ॒ग्नये॑ रक्षो॒घ्ने स्वाहेत्या॑ह । दे॒वताभ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेय॑ङ्करोति । प्र॒ष्टि॒वा॒ही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै ।। 5 ।। 1.7.1.6 इन्द्रो॑ वृ॒त्र ह॒त्वा । असु॑रान्परा॒भाव्य॑ । नमु॑चिमासु॒रन्नाल॑भत । तश॒च्या॑ऽगृह्णात् । तौ सम॑लभेताम् । सोऽस्माद॒भिशु॑नतरोऽभवत् । सोऽब्रवीत् । स॒न्धा सन्द॑धावहै । अथ॒ त्वाऽव॑ स्रक्ष्यामि । न मा॒ शुष्के॑ण॒ नार्द्रेण॑ हनः ।। 6 ।। 1.7.1.7 न दिवा॒ न नक्त॒मिति॑ । स ए॒तम॒पां फेन॑मसिञ्चत् । न वा ए॒ष शुष्को॒ नार्द्रो व्यु॑ष्टाऽऽसीत् । अनु॑दित॒स्सूर्यः॑ । न वा ए॒तद्दिवा॒ न नक्तम् । तस्यै॒तस्मि॑ल्लोँ॒के । अ॒पां फेने॑न॒ शिर॒ उद॑वर्तयत् । तदे॑न॒मन्व॑वर्तत । मित्र॑द्रु॒गति॑ ।।7 ।। 1.7.1.8 स ए॒तान॑पामा॒र्गान॑जनयत् । तान॑जुहोत् । तैर्वै स रक्षा॒॒स्यपा॑हत । यद॑पामार्गहो॒मो भव॑ति । रक्ष॑सा॒मप॑हत्यै । ए॒को॒ल्मु॒केन॑ यन्ति । तद्धि रक्ष॑सां भाग॒धेयम् । इ॒मान्दिश॑य्यँन्ति । ए॒षा वै रक्ष॑सा॒न्दिक् । स्वाया॑मे॒व दि॒शि रक्षा॑सि हन्ति ।। 8 ।। 1.7.1.9 स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा । ए॒तद्वै रक्ष॑सामा॒यतन॑म् । स्व ए॒वायत॑ने॒ रक्षा॑सि हन्ति । प॒र्ण॒मये॑न स्रु॒वेण॑ जुहोति । ब्रह्म॒ वै प॒र्णः । ब्रह्म॑णै॒व रक्षा॑सि हन्ति । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒व रक्षा॑सि हन्ति । ह॒त रक्षोऽव॑धिष्म॒ रक्ष॒ इत्या॑ह । रक्ष॑सा॒॒ स्तृत्यै । यद्वस्ते॒ तद्दक्षि॑णा नि॒रव॑त्यै । अप्र॑तीक्ष॒माय॑न्ति । रक्ष॑साम॒न्तर्‌हि॑त्यै ।। 9 ।। 1.7.2.0 ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपाल॒य्यँदृ॑ष॒भो दधा॑ति पू॒षा प॒शून्प्रज॑नयति॒ हिर॑ण्य॒न्दख्षि॑णा॒ दख्षि॒णैक॑ञ्च ।। 2 ।। 1.7.2.1 धा॒त्रे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर्व॑पति । स॒व्वँ॒थ्स॒रो वै धा॒ता । स॒व्वँ॒थ्स॒रेणै॒वास्मै प्र॒जा प्रज॑नयति । अन्वे॒वास्मा॒ अनु॑मतिर्मन्यते । रा॒ते रा॒का । प्र सि॑नीवा॒ली ज॑नयति । प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाच॑न्दधाति । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पति । ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालम् ।। 10 ।। 1.7.2.2 वै॒ष्ण॒वन्त्रि॑कपा॒लम् । वी॒र्य॑व्वाँ अ॒ग्निः । वी॒र्य॑मिन्द्रः॑ । वी॒र्य॑व्विँष्णुः॑ । प्र॒जा ए॒व प्रजा॑ता वी॒र्ये प्रति॑ष्ठापयति । तस्मात्प्र॒जा वी॒र्या॑वतीः । वा॒म॒न ऋ॑ष॒भो व॒ही दख्षि॑णा । यद्व॒ही । तेनाग्ने॒यः । यदृ॑ष॒भः ।। 11 ।। 1.7.2.3 तेनै॒न्द्रः । यद्वा॑म॒नः । तेन॑ वैष्ण॒वस्समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पति । इ॒न्द्रा॒सो॒मीय॒मेका॑दशकपालम् । सौ॒म्यञ्च॒रुम् । सोमो॒ वै रे॑तो॒धाः । अ॒ग्नि प्र॒जानां प्रजनयि॒ता । वृ॒द्धाना॒मिन्द्र॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।। 12 ।। 1.7.2.4 अ॒ग्नि प्र॒जां प्रज॑नयति । वृ॒द्धामिन्द्र॒ प्रय॑च्छति । ब॒भ्रुर्दख्षि॑णा॒ समृ॑द्ध्यै । सो॒मा॒पौ॒ष्णञ्च॒रुन्निर्व॑पति । ऐ॒न्द्रा॒पौ॒ष्णञ्च॒रुम् । सोमो॒ वै रे॑तो॒धाः । पू॒षा प॑शू॒नां प्र॑जनयि॒ता । वृ॒द्धाना॒मिन्द्र॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति । पू॒षा प॒शून्प्रज॑नयति ।। 13 ।। 1.7.2.5 वृ॒द्धानिन्द्र॒ प्रय॑च्छति । पौ॒ष्णश्च॒रुर्भ॑वति । इ॒यव्वैँ पू॒षा । अ॒स्यामे॒व प्रति॑तिष्ठति । श्या॒मो दख्षि॑णा॒ समृ॑द्ध्यै । ब॒हु वै पुरु॑षो मे॒ध्यमुप॑गच्छति । वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पति । स॒व्वँ॒थ्स॒रो वा अ॒ग्निर्वैश्वान॒रः । स॒व्वँथ्स॒रेणै॒वैन॑ स्वदयति । हिर॑ण्य॒न्दख्षि॑णा ।। 14 ।। 1.7.2.6 प॒वित्र॒व्वैँ हिर॑ण्यम् । पु॒नात्ये॒वैनम् । ब॒हु वै रा॑ज॒न्योऽनृ॑तङ्करोति । उप॑ जा॒म्यै हर॑ते । जि॒नाति॑ ब्राह्म॒णम् । वद॒त्यनृ॑तम् । अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति । वा॒रु॒णय्यँ॑व॒मय॑ञ्च॒रुन्निर्व॑पति । व॒रु॒ण॒पा॒शादे॒वैनं॑ मुञ्चति । अश्वो॒ दख्षि॑णा । वा॒रु॒णो हि दे॒वत॒याऽश्व॒स्समृ॑द्ध्यै ।। 15 ।। 1.7.3.0 र॒त्नि॒त्वाय॒ समृ॑द्ध्यै पष्ठौ॒ही दख्षि॑णा॒ समृ॑द्ध्यै ग्राम॒ण्यो॑ गृ॒हे भा॑गदु॒घस्य॑ गृ॒हे भ॑वति दु॒ग्धे॑ऽभिजि॑त्यै॒ द्वे च॑ ।। 3 ।। 1.7.3.1 र॒त्निना॑मे॒तानि॑ ह॒वीषि॑ भवन्ति । ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ए॒ते॑ऽपादा॒तारः॑ । य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ये॑ऽपादा॒तारः॑ । त ए॒वास्मै॑ रा॒ष्ट्रं प्रय॑च्छन्ति । रा॒ष्ट्रमे॒व भ॑वति । यथ्स॑मा॒हृत्य॑ नि॒र्वपेत् । अर॑त्निनस्स्युः । य॒था॒य॒थन्निर्व॑पति रत्नि॒त्वाय॑ ।। 16 ।। 1.7.3.2 यथ्स॒द्यो नि॒र्वपेत् । याव॑ती॒मेके॑न ह॒विषा॒ऽऽशिष॑मव रु॒न्धे । ताव॑ती॒मव॑रुन्धीत । अ॒न्व॒हन्निर्व॑पति । भूय॑सीमे॒वाशिष॒मव॑ रुन्धे । भूय॑सो यज्ञक्र॒तूनुपै॑ति । बा॒र्॒ह॒स्प॒त्यञ्च॒रुन्निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सश्य॑ति । अथो॒ ब्रह्म॑न्ने॒व ख्ष॒त्त्रम॒न्वार॑म्भयति । शि॒ति॒पृ॒ष्ठो दख्षि॑णा॒ समृ॑द्ध्यै ।। 17 ।। 1.7.3.3 ऐ॒न्द्रमेका॑दशकपाल राज॒न्य॑स्य गृ॒हे । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । ऋ॒ष॒भो दख्षि॑णा॒ समृ॑द्ध्यै । आ॒दि॒त्यञ्च॒रुं महि॑ष्यै गृ॒हे । इ॒यव्वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒नुर्दख्षि॑णा॒ समृ॑द्ध्यै । भगा॑य च॒रुव्वाँ॒वाता॑यै गृ॒हे । भग॑मे॒वास्मि॑न्दधाति । विचि॑त्तगर्भा पष्ठौ॒ही दख्षि॑णा॒ समृ॑द्ध्यै ।। 18 ।। 1.7.3.4 नै॒र्॒ऋ॒तञ्च॒रुं प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां व्रीही॒णान्न॒खनि॑र्भिन्नम् । पा॒प्मान॑मे॒व निऱ्ऋ॑तिन्नि॒रव॑दयते । कृ॒ष्णा कू॒टा दख्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पाल सेना॒न्यो॑ गृ॒हे । सेना॑मे॒वास्य॒ सश्य॑ति । हिर॑ण्य॒न्दख्षि॑णा॒ समृ॑द्ध्यै । वा॒रु॒णन्दश॑कपाल सू॒तस्य॑ गृ॒हे । व॒रु॒ण॒स॒वमे॒वाव॑ रुन्धे । म॒हानि॑रष्टो॒ दख्षि॑णा॒ समृ॑द्ध्यै । मा॒रु॒त स॒प्तक॑पालङ्ग्राम॒ण्यो॑ गृ॒हे ।। 19 ।। 1.7.3.5 अन्न॒व्वैँ म॒रुतः॑ । अन्न॑मे॒वाव॑ रुन्धे । पृश्ञि॒र्दख्षि॑णा॒ समृ॑द्ध्यै । सा॒वि॒त्रन्द्वाद॑शकपालङ्ख्ष॒त्तुर्गृ॒हे प्रसूत्यै । उ॒प॒ध्व॒स्तो दख्षि॑णा॒ समृ॑द्ध्यै । आ॒श्वि॒नन्द्वि॑कपा॒ल स॑ङ्ग्रही॒तुर्गृ॒हे । अ॒श्विनौ॒ वै दे॒वानां भि॒षजौ । ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति । स॒वा॒त्यौ॑ दख्षि॑णा॒ समृ॑द्ध्यै । पौ॒ष्णञ्च॒रुं भा॑गदु॒घस्य॑ गृ॒हे ।। 20 ।। 1.7.3.6 अन्न॒व्वैँ पू॒षा । अन्न॑मे॒वाव॑ रुन्धे । श्या॒मो दख्षि॑णा॒ समृ॑द्ध्यै । रौ॒द्रङ्गा॑वीधु॒कञ्च॒रुम॑क्षावा॒पस्य॑ गृ॒हे । अ॒न्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते । श॒बल॒ उद्वा॑रो॒ दख्षि॑णा॒ समृ॑द्ध्यै । द्वाद॑शै॒तानि॑ ह॒वीषि॑ भवन्ति । द्वाद॑श॒ मासास्सव्वँथ्स॒रः । स॒व्वँ॒थ्स॒रेणै॒वास्मै॑ रा॒ष्ट्रमव॑रुन्धे । रा॒ष्ट्रमे॒व भ॑वति ।। 21 ।। 1.7.3.7 यन्न प्र॑ति नि॒र्वपेत् । र॒त्निन॑ आ॒शिषोऽव॑रुन्धीरन्न् । प्रति॒निर्व॑पति । इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालम् । इन्द्रा॑याहो॒मुचे । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒यन्नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रव्वँ॑ध्या॒दित्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । मै॒त्रा॒बा॒र्॒ह॒स्प॒त्यं भ॑वति । श्वे॒तायै श्वे॒तव॑थ्सायै दु॒ग्धे ।। 22 ।। 1.7.3.8 बा॒र्॒ह॒स्प॒त्ये मै॒त्रमपि॑ दधाति । ब्रह्म॑ चै॒वास्मै ख्ष॒त्रञ्च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व ख्ष॒त्रं प्रति॑ष्ठापयति । बा॒र्॒ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सश्य॑ति । अथो॒ ब्रह्म॑न्ने॒व ख्ष॒त्रम॒न्वार॑म्भयति । स्व॒य॒ङ्कृ॒ता वेदि॑र्भवति । स्व॒य॒न्दि॒नं ब॒र्॒हिः । स्व॒य॒ङ्कृ॒त इ॒ध्मः । अन॑भिजितस्या॒भिजि॑त्यै । तस्मा॒द्राज्ञा॒मर॑ण्यम॒भिजि॑तम् । सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दख्षि॑णा॒ समृ॑द्ध्यै ।। 23 ।। 1.7.4.0 स॒त्याना॑मधा॒यीत्या॑हातारी॒दित्या॑ह क्रमत॒ एक॑ञ्च ।। 4 ।। 1.7.4.1 दे॒व॒सु॒वामे॒तानि॑ ह॒वीषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वाना॑ स॒वाः । त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति । त ए॑न सुवन्ते । अ॒ग्निरे॒वैन॑ङ्गृ॒हप॑तीना सुवते । सोमो॒ वन॒स्पती॑नाम् । रु॒द्र प॑शू॒नाम् । बृह॒स्पति॑र्वा॒चाम् । इन्द्रो ज्ये॒ष्ठानाम् । मि॒त्रस्स॒त्यानाम् ।। 24 ।। 1.7.4.2 वरु॑णो॒ धर्म॑पतीनाम् । ए॒तदे॒व सर्वं॑ भवति । स॒वि॒ता त्वा प्रस॒वाना॑ सुवता॒मिति॒ हस्त॑ङ्गृह्णाति॒ प्रसूत्यै । ये दे॑वा देव॒स्सुव॒स्स्थेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । म॒ह॒ते ख्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒॒ राजेत्या॑ह । तस्मा॒थ्सोम॑राजानो ब्राह्म॒णाः । प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धा॒यीत्या॑ह ।। 25 ।। 1.7.4.3 रा॒ज्यमे॒वास्मि॒न्प्रति॑दधाति । स्वान्त॒नुव॒व्वँरु॑णो अशिश्रे॒दित्या॑ह । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । शुचेर्मि॒त्रस्य॒ व्रत्या॑ अभू॒मेत्या॑ह । शुचि॑मे॒वैन॒व्व्रँत्य॑ङ्करोति । अम॑न्महि मह॒त ऋ॒तस्य॒ नामेत्या॑ह । म॒नु॒त ए॒वैनम् । सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्नित्या॑ह । सर्व॑व्रातमे॒वैन॑ङ्करोति । वि मि॒त्र एवै॒ररा॑तिमतारी॒दित्या॑ह ।। 26 ।। 1.7.4.4 अरा॑तिमै॒वैन॑न्तारयति । असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेनेत्या॑ह । स्व॒दय॑त्ये॒वैनम् । व्यु॑ त्रि॒तो ज॑रि॒माण॑न्न आन॒डित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । द्वाभ्या॒व्विँमृ॑ष्टे । द्वि॒पाद्यज॑मान॒ प्रति॑ष्ठित्यै । अ॒ग्नी॒षो॒मीय॑स्य॒ चैका॑दशकपालस्य देवसु॒वाञ्च॑ ह॒विषा॑म॒ग्नये स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑मुभ॒यत॒ परि॑गृह्णाति । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति ।। 27 ।। 1.7.5.0 ऊ॒र्मिरित्या॑ह॒ सूर्य॑वर्चस॒स्स्थेत्या॑ह ब्रह्मवर्च॒स्य॑कस्तेज॒स्यास्स्थेत्या॑है॒व पुरु॑ष॒ष्षट् च॑ ।। 5 ।। 1.7.5.1 अ॒र्थेत॒स्स्थेति॑ जुहोति । आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति । अथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानाङ्गृह्णाति । वह॑न्तीनाङ्गृह्णाति । ए॒ता वा अ॒पा रा॒ष्ट्रम् । रा॒ष्ट्रमे॒वास्मै॑ गृह्णाति । अथो॒ श्रिय॑मे॒वैन॑म॒भिव॑हन्ति । अ॒पां पति॑र॒सीत्या॑ह । मि॒थु॒नमे॒वाकः॑ । वृषाऽस्यू॒र्मिरित्या॑ह ।। 28 ।। 1.7.5.2 ऊ॒र्मि॒मन्त॑मे॒वैन॑ङ्करोति । वृ॒ष॒से॒नो॑ऽसीत्या॑ह । सेना॑मे॒वास्य॒ सश्य॑ति । व्र॒ज॒क्षित॒स्स्थेत्या॑ह । ए॒ता वा अ॒पाव्विँशः॑ । विश॑मे॒वास्मै॒ पर्यू॑हति । म॒रुता॒मोज॒स्स्थेत्या॑ह । अन्न॒व्वैँ म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । सूर्य॑वर्चस॒स्स्थेत्या॑ह ।। 29 ।। 1.7.5.3 रा॒ष्ट्रमे॒व व॑र्च॒स्व्य॑कः । सूर्य॑त्वचस॒स्स्थेत्या॑ह । स॒त्यव्वाँ ए॒तत् । यद्वऱ्ष॑ति । अनृ॑त॒य्यँदा॒तप॑ति॒ वऱ्ष॑ति । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे । नैन॑ सत्यानृ॒ते उ॑दि॒ते हि॑स्तः । य ए॒वव्वेँद॑ । मान्दा॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व ब्र॑ह्मवर्च॒स्य॑कः ।। 30 ।। 1.7.5.4 वाशा॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व व॒श्य॑कः । शक्व॑री॒स्स्थेत्या॑ह । प॒शवो॒ वै शक्व॑रीः । प॒शूने॒वाव॑रुन्धे । वि॒श्व॒भृत॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व प॑य॒स्व्य॑कः । ज॒न॒भृत॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग्नेस्ते॑ज॒स्यास्स्थेत्या॑ह ।।31।। 1.7.5.5 रा॒ष्ट्रमे॒व ते॑ज॒स्व्य॑कः । अ॒पामोष॑धीना॒॒ रस॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व म॑ध॒व्य॑मकः । सा॒र॒स्व॒तङ्ग्रह॑ङ्गृह्णाति । ए॒षा वा अ॒पाम्पृ॒ष्ठम् । यथ्सर॑स्वती । पृ॒ष्ठमे॒वैन॑ समा॒नानाङ्करोति । षो॒ड॒शभि॑र्गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः । यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्य॑न्दधाति । षो॒ड॒शभि॑र्जु॒होति॑ षोड॒शभि॑र्गृह्णाति । द्वात्रि॑श॒थ्संप॑द्यन्ते । द्वात्रि॑शदक्षराऽनु॒ष्टुक् । वाग॑नु॒ष्टुफ्सर्वा॑णि॒ छन्दा॑सि । वा॒चैवैन॒॒ सर्वे॑भि॒श्छन्दो॑भिर॒भिषि॑ञ्चति ।। 32 ।। 1.7.6.0 व्यावृ॑त्त्यै दा॒त्रम॒सीत्या॑हा॒मृत॒॒ हिर॑ण्यमेकश॒तो ग॑मय॒न्त्याह॑ ब्राह्म॒णा ना॒ष्ट्राभ्य॑ पा॒तेत्या॑ह च॒त्वारि॑ च ।। 6 ।। 1.7.6.1 देवी॑राप॒स्सं मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒मित्या॑ह । ब्रह्म॑णै॒वैना॒स्स सृ॑जति । अना॑धृष्टास्सीद॒तेत्या॑ह । ब्रह्म॑णै॒वैनास्सादयति । अ॒न्त॒रा होतु॑श्च॒ धिष्णि॑यं ब्राह्मणाच्छ॒॒सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता । ऐ॒न्द्रो ब्राह्मणाच्छ॒॒सी । तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ रा॒ष्ट्रं परि॑गृह्णाति । हिर॑ण्ये॒नोत्पु॑नाति । आहु॑त्यै॒ हि प॒वित्राभ्यामुत्पु॒नन्ति॒ व्यावृ॑त्त्यै ।। 33 ।। 1.7.6.2 श॒तमा॑नं भवति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । अनि॑भृष्टम॒सीत्या॑ह । अनि॑भृष्ट॒॒ ह्ये॑तत् । वा॒चो बन्धु॒रित्या॑ह । वा॒चो ह्ये॑ष बन्धुः॑ । त॒पो॒जा इत्या॑ह । त॒पो॒जा ह्ये॑तत् । सोम॑स्य दा॒त्रम॒सीत्या॑ह ।। 34 ।। 1.7.6.3 सोम॑स्य॒ ह्ये॑तद्दा॒त्रम् । शु॒क्रा व॑श्शु॒क्रेणोत्पु॑ना॒मीत्या॑ह । शु॒क्रा ह्यापः॑ । शु॒क्र हिर॑ण्यम् । च॒न्द्राश्च॒न्द्रेणेत्या॑ह । च॒न्द्रा ह्यापः॑ । च॒न्द्र हिर॑ण्यम् । अ॒मृता॑ अ॒मृते॒नेत्या॑ह । अ॒मृता॒ ह्यापः॑ । अ॒मृत॒॒ हिर॑ण्यम् ।। 35 ।। 1.7.6.4 स्वाहा॑ राज॒सूया॒येत्या॑ह । रा॒ज॒सूया॑य॒ ह्ये॑ना उत्पु॒नाति॑ । स॒ध॒मादो द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । एक॑या गृह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति । ख्ष॒त्त्रस्योल्ब॑मसि ख्ष॒त्त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्यञ्चो॒ष्णीष॑ञ्च॒ प्रय॑च्छति सयोनि॒त्वाय॑ । एक॑शतेन दर्भपुञ्जी॒लै प॑वयति । श॒तायु॒र्वै पुरु॑षश्श॒तवीर्यः । आ॒त्मैक॑श॒तः ।। 36 ।। 1.7.6.5 यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्य॑न्दधाति । दध्या॑शयति । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । उ॒दु॒म्बर॑माशयति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । शष्पाण्याशयति । सुरा॑बलिमे॒वैन॑ङ्करोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑ङ्गमयन्ति ।। 37 ।। 1.7.6.6 अ॒ग्निरे॒वैन॒ङ्गाऱ्ह॑पत्येनावति । इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभिः॑ । मि॒त्रावरु॑णौ प्राणापा॒नाभ्याम् । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स दिव॑मलिखत् । सोऽर्य॒म्ण पन्था॑ अभवत् । स आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ द्यावा॑पृथि॒वी उपा॑धावत् । स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑रत् । आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ यदाह॑ ।। 38 ।। 1.7.6.7 आ॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्रं॒ भ्रातृ॑व्याय॒ प्रह॑रति । आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒पीत्या॑ह । इ॒यव्वैँ दे॒व्यदि॑तिर्विश्वरू॒पी । अ॒स्यामे॒व प्रति॑ तिष्ठति । आवि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णोऽस्याव्विँ॒श्य॑स्मिन्रा॒ष्ट्र इत्या॑ह । वि॒शैवैन॑ रा॒ष्ट्रेण॒ सम॑र्धयति । म॒ह॒ते ख्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒॒ राजेत्या॑ह । तस्मा॒थ्सोम॑राजानो ब्राह्म॒णाः ।। 39 ।। 1.7.6.8 इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ धनु॒ प्रय॑च्छति॒ विजि॑त्यै । श॒त्रु॒बाध॑ना॒स्स्थेतीषून्॑ । शत्रू॑ने॒वास्य॑ बाधन्ते । पा॒त मा प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पा॒तेत्या॑ह । ति॒स्रो वै श॑र॒व्याः । प्र॒तीची॑ ति॒रश्च्य॒नूची । ताभ्य॑ ए॒वैनं॑ पान्ति । दि॒ग्भ्यो मा॑ पा॒तेत्या॑ह । दि॒ग्भ्य ए॒वैनं॑ पान्ति । विश्वाभ्यो मा ना॒ष्ट्राभ्य॑ पा॒तेत्या॑ह । अप॑रिमितादे॒वैनं॑ पान्ति । हिर॑ण्यवर्णावु॒षसाव्विँरो॒क इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्गृ॑ह्णाति । इ॒न्द्रि॒यव्वैँ वी॒र्य॑न्त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ।। 40 ।। 1.7.7.0 रु॒न्धे॒ सम॑ष्ट्या असिच्यत स्थापयति॒ जाय॑ते॒ पञ्च॑ च ।। 7 ।। 1.7.7.1 दिशो॒ व्यास्था॑पयति । दि॒शाम॒भिजि॑त्त्यै । यद॑नु प्र॒क्रामेत् । अ॒भि दिशो॑ जयेत् । उत्तु माद्येत् । मन॒साऽनु॒ प्रक्रा॑मति । अ॒भि दिशो॑ जयति । नोन्माद्यति । स॒मिध॒मा ति॒ष्ठेत्या॑ह । तेज॑ ए॒वाव॑रुन्धे ।। 41 ।। 1.7.7.2 उ॒ग्रामा ति॒ष्ठेत्या॑ह । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । वि॒राज॒माति॒ष्ठेत्या॑ह । अ॒न्नाद्य॑मे॒वाव॑रुन्धे । उदी॑ची॒मा ति॒ष्ठेत्या॑ह । प॒शूने॒वाव॑रुन्धे । ऊ॒र्ध्वामाति॒ष्ठेत्या॑ह । सु॒व॒र्गमे॒व लो॒कम॒भिज॑यति । अनूज्जि॑हीते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 42 ।। 1.7.7.3 मा॒रु॒त ए॒ष भ॑वति । अन्न॒व्वैँ म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । एक॑विशतिकपालो भवति॒ प्रति॑ष्ठित्यै । यो॑ऽरण्येऽनुवा॒क्यो॑ ग॒णः । तं म॑ध्य॒त उप॑दधाति । ग्रा॒म्यैरे॒व प॒शुभि॑रार॒ण्यान्प॒शून्परि॑ गृह्णाति । तस्माद्ग्रा॒म्यै प॒शुभि॑रार॒ण्या प॒शव॒ परि॑गृहीताः । पृथि॑र्वै॒न्यः । अ॒भ्य॑षिच्यत ।। 43 ।। 1.7.7.4 स रा॒ष्ट्रन्नाभ॑वत् । स ए॒तानि॑ पा॒र्थान्य॑पश्यत् । तान्य॑जुहोत् । तैर्वै स रा॒ष्ट्रम॑भवत् । यत्पा॒र्थानि॑ जु॒होति॑ । रा॒ष्ट्रमे॒व भ॑वति । बा॒र्॒ह॒स्प॒त्यं पूर्वे॑षामुत्त॒मं भ॑वति । ऐ॒न्द्रमुत्त॑रेषां प्रथ॒मम् । ब्रह्म॑ चै॒वास्मै ख्ष॒त्त्रञ्च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व ख्ष॒त्त्रं प्रति॑ष्ठापयति ।। 44 ।। 1.7.7.5 षट्पु॒रस्ता॑दभिषे॒कस्य॑ जुहोति । षडु॒परि॑ष्टात् । द्वाद॑श॒ संप॑द्यन्ते । द्वाद॑श॒ मासास्सव्वँथ्स॒रः । स॒व्वँ॒थ्स॒र खलु॒ वै दै॒वानां॒ पूः । दे॒वाना॑मे॒व पुरं॑ मध्य॒तो व्यव॑सर्पति । तस्य॒ न कुत॑श्च॒नोपाव्या॒धो भ॑वति । भू॒ताना॒मवेष्टीर्जुहोति । अत्रात्र॒ वै मृ॒त्युर्जा॑यते । यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते । तत॑ ए॒वैन॒मव॑यजते । तस्माद्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै । प्र॒त्यगे॑नमभिचा॒रस्स्तृ॑णुते ।। 45 ।। 1.7.8.0 भ॒व॒त्या॒हु॒ पुरु॑ष॒ ओज॒सेत्या॑ह नि॒रव॑दयते यजते॒ जन्यो॒ द्वे च॑ ।। 8 ।। 1.7.8.1 सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒र्मोप॑स्तृणाति । यैव सोमे॒ त्विषिः॑ । या शार्दू॒ले । तामे॒वाव॑रुन्धे । मृ॒त्योर्वा ए॒ष वर्णः॑ । यच्छार्दू॒लः । अ॒मृत॒॒ हिर॑ण्यम् । अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॒ हिर॑ण्य॒मुपास्यति । अ॒मृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्ते । श॒तमा॑नं भवति ।। 46 ।। 1.7.8.2 श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । दि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॒ निद॑धाति । उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति । अवेष्टा दन्द॒शूका॒ इति॑ क्ली॒ब सीसे॑न विध्यति । द॒न्द॒शूका॑ने॒वाव॑यजते । तस्मात्क्ली॒बन्द॑न्द॒शूका॒ दशु॑काः । निर॑स्त॒न्नमु॑चे॒श्शिर॒ इति॑ लोहिताय॒सन्निर॑स्यति । पा॒प्मान॑मे॒व नमु॑चिन्नि॒रव॑दयते । प्रा॒णा आ॒त्मन॒ पूर्वे॑ऽभि॒षिच्या॒ इत्या॑हुः ।। 47 ।। 1.7.8.3 सोमो॒ राजा॒ वरु॑णः । दै॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाच॑ सुवन्ता॒न्ते ते प्रा॒ण सु॑वन्ता॒मित्या॑ह । प्रा॒णाने॒वात्मन॒ पूर्वा॑न॒भिषि॑ञ्चति । यद्ब्रू॒यात् । अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चा॒मीति॑ । ते॒ज॒स्व्ये॑व स्यात् । दु॒श्चर्मा॒ तु भ॑वेत् । सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चा॒मीत्या॑ह । सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ।। 48 ।। 1.7.8.4 स्वयै॒वैन॑न्दे॒वत॑या॒ऽभिषि॑ञ्चति । अ॒ग्नेस्तेज॒सेत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । सूर्य॑स्य॒ वर्च॒सेत्या॑ह । वर्च॑ ए॒वास्मि॑न्दधाति । इन्द्र॑स्येन्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति । मि॒त्रावरु॑णयोर्वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑न्दधाति । म॒रुता॒मोज॒सेत्या॑ह ।। 49 ।। 1.7.8.5 ओज॑ ए॒वास्मि॑न्दधाति । ख्ष॒त्त्राणाङ्ख्ष॒त्त्रप॑तिर॒सीत्या॑ह । ख्ष॒त्त्राणा॑मे॒वैन॑ङ्ख्ष॒त्त्रप॑तिङ्करोति । अति॑ दि॒वस्पा॒हीत्या॑ह । अत्य॒न्यान्पा॒हीति॒ वावैतदा॑ह । स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रित्या॑ह । रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः । उ॒च्छेष॑णेन जुहोति । उ॒च्छेष॑णभागो॒ वै रु॒द्रः । भा॒ग॒धेये॑नै॒व रु॒द्रन्नि॒रव॑दयते ।। 50 ।। 1.7.8.6 उद॑ङ्प॒रेत्याग्नीद्ध्रे जुहोति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते । रुद्र॒ यत्ते॒ क्रयी॒ पर॒न्नामेत्या॑ह । यद्वा अ॑स्य॒ क्रयी॒ पर॒न्नाम॑ । तेन॒ वा ए॒ष हि॑नस्ति । य हि॒नस्ति॑ । तेनै॒वैन॑ स॒ह श॑मयति । तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सीत्या॑ह । य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते ।। 51 ।। 1.7.8.7 प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् । याङ्का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ । रा॒ष्ट्रमे॒वास्यै प्र॒जा भ॑वति । प॒र्ण॒मये॑नाध्व॒र्युर॒भिषि॑ञ्चति । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्त्विषि॑न्दधाति । औदु॑म्बरेण राज॒न्यः॑ । ऊर्ज॑मे॒वास्मि॑न्न॒न्नाद्य॑न्दधाति । आश्व॑त्थेन॒ वैश्यः॑ । विश॑मे॒वास्मि॒न्पुष्टि॑न्दधाति । नैय॑ग्रोधेन॒ जन्यः॑ । मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै ।। 52 ।। 1.7.9.0 प॒द्य॒न्ते॒ द॒धा॒ति॒ वी॒र्ये॑णेत्या॒हानात्यै॒ प्रति॑ष्ठित्यै॒ ब्रह्म॒णाऽऽद॑धाति स॒प्त च॑ ।। 9 ।। 1.7.9.1 इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै । मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रो प्र॒शिषा॑ युन॒ज्मीत्या॑ह । ब्रह्म॑णै॒वैन॑न्दे॒वताभ्याय्युँनक्ति । प्र॒ष्टि॒वा॒हिन॑य्युँनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थमे॒वास्मै॑ युनक्ति । त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । द्वौ स॑व्येष्ठसार॒थी । षट्थ्सं प॑द्यन्ते ।। 53 ।। 1.7.9.2 षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैन॑य्युँनक्ति । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति । यः ख्ष॒त्रिय॒ प्रति॑हितः । सोऽन्वार॑भते । रा॒ष्ट्रमे॒व भ॑वति । त्रि॒ष्टुभा॒ऽन्वार॑भते । इ॒न्द्रि॒यव्वैँ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।। 54 ।। 1.7.9.3 म॒रुतां प्रस॒वे जे॑ष॒मित्या॑ह । म॒रुद्भि॑रे॒व प्रसू॑त॒ उज्ज॑यति । आ॒प्तं मन॒ इत्या॑ह । यदे॒व मन॒सैफ्सीत् । तदा॑पत् । रा॒ज॒न्य॑ञ्जिनाति । अनाक्रान्त ए॒वाक्र॑मते । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यो रा॑ज॒न्य॑ञ्जि॒नाति॑ । सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णेत्या॑ह ।। 55 ।। 1.7.9.4 इ॒न्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्ध॑त्ते । प॒शू॒नां म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒दिति॒ वारा॑ही उपा॒नहा॒वुप॑ मुञ्चते । प॒शू॒नाव्वाँ ए॒ष म॒न्युः । यद्व॑रा॒हः । तेनै॒व प॑शू॒नां म॒न्युमा॒त्मन्ध॑त्ते । अ॒भि वा इ॒य सु॑षुवा॒णङ्का॑मयते । तस्येश्व॒रेन्द्रि॒यव्वीँ॒र्य॑मादा॑तोः । वारा॑ही उपा॒नहा॒वुप॑मुञ्चते । अ॒स्या ए॒वान्तर्ध॑त्ते । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्यानात्यै ।। 56 ।। 1.7.9.5 नमो॑ मा॒त्रे पृ॑थि॒व्या इत्या॒हाहि॑सायै । इय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒हीत्या॑ह । आयु॑रे॒वात्मन्ध॑त्ते । ऊर्ग॒स्यूर्जं॑ मे धे॒हीत्या॑ह । ऊर्ज॑मे॒वात्मन्ध॑त्ते । युङ्ङ॑सि॒ वर्चो॑सि॒ वर्चो॒ मयि॑ धे॒हीत्या॑ह । वर्च॑ ए॒वात्मन्ध॑त्ते । ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑मान॒ आयु॒रूर्ज॒व्वँर्चो॑ दधाति । र॒थ॒वि॒मो॒च॒नीया॑ जुहोति॒ प्रति॑ष्ठित्यै ।। 57 ।। 1.7.9.6 त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । तस्माच्च॒तुर्जु॑होति । यदु॒भौ स॒हाव॒तिष्ठे॑ताम् । स॒मा॒नल्लोँ॒कमि॑याताम् । स॒ह स॑ङ्ग्रही॒त्रा र॑थ॒वाह॑ने॒ रथ॒माद॑धाति । सु॒व॒र्गादे॒वैन॑ल्लोँ॒काद॒न्तर्द॑धाति । ह॒॒सश्शु॑चि॒षदित्याद॑धाति । ब्रह्म॑णै॒वैन॑मुपाव॒हर॑ति । ब्रह्म॒णाऽऽद॑धाति । अति॑च्छन्द॒साऽऽद॑धाति । अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दा॑सि । सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भि॒राद॑धाति । वर्ष्म॒ वा ए॒षा छन्द॑साम् । यदति॑च्छन्दाः । यदति॑च्छन्दसा॒ दधा॑ति । वर्ष्मै॒वैन॑ समा॒नानाङ्करोति ।। 58 ।। 1.7.10.0 दे॒वैरित्या॑ह स॒त्यस॑वङ्करोति त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति सत्यानृ॒ते ए॒वाव॑रुन्धे करोति श॒तेन्द्रि॑य॒ष्षट् च॑ ।। 10 ।। 1.7.10.1 मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह । मै॒त्रव्वाँ अहः॑ । वा॒रु॒णी रात्रिः॑ । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॑मु॒पाव॑हरति । मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह । मै॒त्रो वै दक्षि॑णः । वा॒रु॒णस्स॒व्यः । वै॒श्व॒दे॒व्या॑मिक्षा । स्वमे॒वैनौ॑ भाग॒धेय॑मु॒पाव॑हरति । सम॒हव्विँश्वैर्दे॒वैरित्या॑ह ।। 59 ।। 1.7.10.2 वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । ता ए॒वाद्या कुरुते । ख्ष॒त्त्रस्य॒ नाभि॑रसि ख्ष॒त्त्रस्य॒ योनि॑र॒सीत्य॑धीवा॒समास्तृ॑णाति सयोनि॒त्वाय॑ । स्यो॒नामा सी॑द सु॒षदा॒मा सी॒देत्या॑ह । य॒था॒य॒जुरे॒वैतत् । मा त्वा॑ हिसी॒न्मा मा॑ हिसी॒दित्या॒हाहि॑सायै । निष॑साद धृ॒तव्र॑तो॒ वरु॑ण प॒स्त्यास्वा साम्राज्याय सु॒क्रतु॒रित्या॑ह । साम्राज्यमे॒वैन॑ सु॒क्रतु॑ङ्करोति । ब्रह्मा(३)न्त्व रा॑जन्ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह । स॒वि॒तार॑मे॒वैन॑ स॒त्यस॑वङ्करोति ।। 60 ।। 1.7.10.3 ब्रह्मा(३)न्त्व रा॑जन्ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । इन्द्र॑मे॒वैन॑ स॒त्यौज॑सङ्करोति । ब्रह्मा(३)न्त्व रा॑जन्ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह । मि॒त्रमे॒वैन॑ सु॒शेव॑ङ्करोति । ब्रह्मा(३)न्त्व रा॑जन्ब्र॒ह्मासि॒ वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह । वरु॑णमे॒वैन॑ स॒त्यध॑र्माणङ्करोति । स॒वि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह । गा॒य॒त्रीमे॒वैतेना॑भि॒ व्याह॑रति । इन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति ।। 61 ।। 1.7.10.4 मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह । जग॑तीमे॒वैतेना॑भि॒ व्याह॑रति । स॒त्यमे॒ता दे॒वताः । स॒त्यमे॒तानि॒ छन्दा॑सि । स॒त्यमे॒वाव॑रुन्धे । वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह । अ॒नु॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति । स॒त्या॒नृ॒ते वा अ॑नु॒ष्टुप् । स॒त्या॒नृ॒ते वरु॑णः । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे ।। 62 ।। 1.7.10.5 नैन॑ सत्यानृ॒ते उ॑दि॒ते हि॑स्तः । य ए॒वव्वेँद॑ । इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्यं प्रय॑च्छति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒वास्मा॑ अवरप॒र र॑न्धयति । ए॒व हि तच्छ्रेयः॑ । यद॑स्मा ए॒ते रध्ये॑युः । दिशो॒ऽभ्य॑य राजा॑ऽभू॒दिति॒ पञ्चा॒क्षान्प्रय॑च्छति । ए॒ते वै सर्वेऽयाः । अप॑राजायिनमे॒वैन॑ङ्करोति ।। 63 ।। 1.7.10.6 ओ॒द॒नमुद्ब्रु॑वते । प॒र॒मे॒ष्ठी वा ए॒षः । यदो॑द॒नः । प॒र॒मामे॒वैन॒॒ श्रिय॑ङ्गमयति । सुश्लो॒काँ 4 सुम॑ङ्ग॒लाँ 4 सत्य॑रा॒जा ३ नित्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । शौ॒न॒श्शे॒पमाख्या॑पयते । व॒रु॒ण॒पा॒शादे॒वैनं॑ मुञ्चति । प॒र॒श्श॒तं भ॑वति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । मा॒रु॒तस्य॒ चैक॑विशतिकपालस्य वैश्वदे॒व्यै चा॒मिक्षा॑या अ॒ग्नये स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑मुभ॒यत॒ परि॑ गृह्णाति । अ॒पान्नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहेति॑ ति॒स्र आहु॑तीर्जुहोति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ।। 64 ।। 1.8.0.0 वरु॑णस्य जा॒मि वा ईश्व॒र आग्ने॒यमिन्द्र॑स्य॒ यत्त्रि॒ष्व॑ग्निष्टो॒ममुप॑ त्वे॒यँव्वै र॑ज॒ताऽप्र॑तिष्ठितो॒ दश॑ ।। 10 ।। वरु॑णस्य॒ यद॒श्विभ्या॒य्यँत्त्रि॒षु तस्मा॒दुद्व॑तीस्स॒प्तत्रि॑शत् ।। 37 ।। वरु॑णस्य॒ प्रति॑तिष्ठति ।। हरिः॑ ओम् ।। प्रथमाष्टके अष्टमप्रपाठकः, प्रथमाष्टकं च समाप्तम् ।। 1.8.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके अष्टम प्रपाठक प्रारम्भः । हरिः ओम् ।। 1.8.1.0 स॒प्त॒मे द॑धाति॒ पञ्च॑ च ।। 1 ।। 1.8.1.1 वरु॑णस्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्वीँ॒र्यं॑ परा॑ऽपतत् । तथ्स॒॒सृद्भि॒रनु॒ सम॑सर्पत् । तथ्स॒॒सृपा॑ ससृ॒त्त्वम् । अ॒ग्निना॑ दे॒वेन॑ प्रथ॒मेऽह॒न्ननु॒ प्रायु॑ङ्क्त । सर॑स्वत्या वा॒चा द्वि॒तीये । स॒वि॒त्रा प्र॑स॒वेन॑ तृ॒तीये । पू॒ष्णा प॒शुभि॑श्चतु॒र्थे । बृह॒स्पति॑ना॒ ब्रह्म॑णा पञ्च॒मे । इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे । वरु॑णेन॒ स्वया॑ दे॒वत॑या सप्त॒मे ।। 1 ।। 1.8.1.2 सोमे॑न॒ राज्ञाऽष्ट॒मे । त्वष्ट्रा॑ रू॒पेण॑ नव॒मे । विष्णु॑ना य॒ज्ञेनाप्नोत् । यथ्स॒॒सृपो॒ भव॑न्ति । इ॒न्द्रि॒यमे॒व तद्वी॒र्य॑य्यँज॑मान आप्नोति । पूर्वा॑पूर्वा॒ वेदि॑र्भवति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । पु॒रस्ता॑दुप॒सदा॑ सौ॒म्येन॒ प्रच॑रति । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । अ॒न्त॒रा त्वा॒ष्ट्रेण॑ । रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ विक॑रोति । उ॒परि॑ष्टाद्वैष्ण॒वेन॑ । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒त प्रति॑ तिष्ठति ।। 2 ।। 1.8.2.0 वि॒राट्प्र॒जाप॑ति॒रश्व॑ प्र॒जाप॑ते॒राप्त्यै॑ यजते ब्रह्मसा॒मं भ॑वति स॒प्त च॑ ।। 2 ।। 1.8.2.1 जा॒मि वा ए॒तत्कु॑र्वन्ति । यथ्स॒द्यो दी॒ख्षय॑न्ति स॒द्यस्सोम॑ङ्क्री॒णन्ति॑ । पु॒ण्ड॒रि॒स्र॒जां प्रय॑च्छ॒त्यजा॑मित्वाय । अङ्गि॑रसस्सुव॒र्गल्लोँ॒कय्यँन्तः॑ । अ॒फ्सु दीख्षात॒पसी॒ प्रावे॑शयन्न् । तत्पु॒ण्डरी॑कमभवत् । यत्पु॑ण्डरिस्र॒जां प्र॒यच्छ॑ति । सा॒ख्षादे॒व दीख्षात॒पसी॒ अव॑रुन्धे । द॒शभि॑र्वथ्सत॒रैस्सोम॑ङ्क्रीणाति । दशाख्षरा वि॒राट् ।। 3 ।। 1.8.2.2 अन्न॑व्विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । मु॒ष्क॒रा भ॑वन्ति सेन्द्र॒त्वाय॑ । द॒श॒पेयो॑ भवति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । श॒तं ब्राह्म॒णा पि॑बन्ति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । स॒प्त॒द॒श स्तो॒त्रं भ॑वति । स॒प्त॒द॒श प्र॒जाप॑तिः ।। 4 ।। 1.8.2.3 प्र॒जाप॑ते॒राप्त्यै । प्रा॒का॒शाव॑ध्व॒र्यवे॑ ददाति । प्र॒का॒शमे॒वैन॑ङ्गमयति । स्रज॑मुद्गा॒त्रे । व्ये॑वास्मै॑ वासयति । रु॒क्म होत्रे । आ॒दि॒त्यमे॒वास्मा॒ उन्न॑यति । अश्वं॑ प्रस्तोतृप्रतिह॒र्तृभ्याम् । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑ते॒राप्त्यै ।। 5 ।। 1.8.2.4 द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे । आयु॑रे॒वाव॑रुन्धे । व॒शां मैत्रावरु॒णाय॑ । रा॒ष्ट्रमे॒व व॒श्य॑कः । ऋ॒ष॒भं ब्राह्मणाच्छ॒॒सिने । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । वास॑सी नेष्टापो॒तृभ्याम् । प॒वित्रे॑ ए॒वास्यै॒ते । स्थूरि॑ यवाचि॒तम॑च्छावा॒काय॑ । अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते ।। 6 ।। 1.8.2.5 अ॒नड्वाह॑म॒ग्नीधे । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑र॒ग्नीत् । वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे । इन्द्र॑स्य सुषुवा॒णस्य॑ त्रे॒धेन्द्रि॒यव्वीँ॒र्यं॑ परा॑ऽपतत् । भृगु॒स्तृती॑यमभवत् । श्रा॒य॒न्तीय॒न्तृती॑यम् । सर॑स्वती॒ तृती॑यम् । भा॒र्ग॒वो होता॑ भवति । श्रा॒य॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति । वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् । सा॒र॒स्व॒तीर॒पो गृ॑ह्णाति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । श्रा॒य॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति । इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्य॑ श्रयति । वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् । इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्य॑व्वाँरयति ।। 7 ।। 1.8.3.0 अ॒र्ध॒य॒ति॒ भ॒व॒त्य॒रु॒न्ध॒त॒ ग॒म॒य॒न्ति॒ द्वे च॑ ।। 3 ।। 1.8.3.1 ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः । यन्दिशोऽनु॑ व्यास्था॒पय॑न्ति । दि॒शामवेष्टयो भवन्ति । दि॒ख्ष्वे॑व प्रति॑ तिष्ठ॒त्यनु॑न्मादाय । पञ्च॑ दे॒वता॑ यजति । पञ्च॒ दिशः॑ । दि॒ख्ष्वे॑व प्रति॑ तिष्ठति । ह॒विषो॑हविष इ॒ष्ट्वा बा॑ऱ्हस्प॒त्यम॒भिघा॑रयति । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै बृह॒स्पतिः॑ । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति ।। 8 ।। 1.8.3.2 आ॒दि॒त्यां म॒ल्॒हाङ्ग॒र्भिणी॒मा ल॑भते । मा॒रु॒तीं पृश्ञिं॑ पष्ठौ॒हीम् । विश॑ञ्चैवास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । आ॒दि॒त्यया॒ पूर्व॑या॒ प्रच॑रति । मा॒रु॒त्योत्त॑रया । रा॒ष्ट्र ए॒व विश॒मनु॑बध्नाति । उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति । उ॒पा॒॒शु मा॑रु॒त्यै । तस्माद्रा॒ष्ट्रव्विँश॒मति॑वदति । ग॒र्भिण्या॑दि॒त्या भ॑वति ।। 9 ।। 1.8.3.3 इ॒न्द्रि॒यव्वैँ गर्भः॑ । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग॒र्भा मा॑रु॒ती । विड्वै म॒रुतः॑ । विश॑मे॒व निरि॑न्द्रियामकः । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । ते दे॒वा अ॒श्विनो पू॒षन्वा॒चस्स॒त्य स॑न्नि॒धाय॑ । अनृ॑ते॒नासु॑रान॒भ्य॑भवन्न् । तेऽश्विभ्यां पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपन्न् । ततो॒ वै ते वा॒चस्स॒त्यमवा॑रुन्धत ।। 10 ।। 1.8.3.4 यद॒श्विभ्यां पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपालन्नि॒र्वप॑ति । अनृ॑तेनै॒व भ्रातृ॑व्यानभि॒भूय॑ । वा॒चस्स॒त्यमव॑रुन्धे । सर॑स्वते सत्य॒वाचे॑ च॒रुम् । पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भि गृ॑णाति । स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒न्द्वाद॑शकपालं॒ प्रसूत्यै । दू॒तान्प्रहि॑णोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑ङ्गमयन्ति । अथो॑ दू॒तेभ्य॑ ए॒व न छि॑द्यते । ति॒सृ॒ध॒न्व शु॑ष्कदृ॒तिर्दख्षि॑णा॒ समृ॑द्ध्यै ।। 11 ।। 1.8.4.0 त्वा॒ष्ट्रम॒ष्टाक॑पालन्दधते युन॒क्त्येक॑ञ्च ।। 4 ।। 1.8.4.1 आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति । तस्मा॒च्छिशि॑रे कुरुपञ्चा॒ला प्राञ्चो॑ यान्ति । सौ॒म्यञ्च॒रुम् । तस्माद्वस॒न्तव्व्यँ॑व॒साया॑दयन्ति । सा॒वि॒त्रन्द्वाद॑शकपालम् । तस्मात्पु॒रस्ता॒द्यवा॑ना सवि॒त्रा विरु॑न्धते । बा॒र्॒ह॒स्प॒त्यञ्च॒रुम् । स॒वि॒त्रैव वि॒रुध्य॑ । ब्रह्म॑णा॒ यवा॒नाद॑धते । त्वा॒ष्ट्रम॒ष्टाक॑पालम् ।। 12 ।। 1.8.4.2 रू॒पाण्ये॒व तेन॑ कुर्वते । वै॒श्वा॒न॒रन्द्वाद॑शकपालम् । तस्माज्जघ॒न्ये॑ नैदा॑घे प्र॒त्यञ्च॑ कुरुपञ्चा॒ला यान्ति । सा॒र॒स्व॒तञ्च॒रुन्निर्व॑पति । तस्मात्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति । पौ॒ष्णेन॒ व्यव॑स्यन्ति । मै॒त्रेण॑ कृषन्ते । वा॒रु॒णेन॒ विधृ॑ता आसते । ख्षै॒त्र॒प॒त्येन॑ पाचयन्ते । आ॒दि॒त्येनाद॑धते ।। 13 ।। 1.8.4.3 मा॒सिमास्ये॒तानि॑ ह॒वीषि॑ नि॒रुप्या॒णीत्या॑हुः । तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑ । अथो॒ खल्वा॑हुः । कस्स॑व्वँथ्स॒रञ्जी॑विष्य॒तीति॑ । षडे॒व पूर्वे॒द्युर्नि॒रुप्या॑णि । षडु॑त्तरे॒द्युः । तेनै॒वर्तून्प्रयु॑ङ्क्ते । दख्षि॑णो रथवाहनवा॒ह पूर्वे॑षा॒न्दख्षि॑णा । उत्त॑र॒ उत्त॑रेषाम् । स॒व्वँ॒थ्स॒रस्यै॒वान्तौ॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 14 ।। 1.8.5.0 अख्ष्यो॒र्लोमा॑नि॒ हिर॑ण्यव्वँसति गृह्णाति भिषज्य॒त्येक॑ञ्च ।। 5 ।। 1.8.5.1 इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्वीँ॒र्यं॑ परा॑ऽपतत् । स यत्प्र॑थ॒मन्नि॒रष्ठी॑वत् । तत्क्व॑लमभवत् । यद्द्वि॒तीयम् । तद्बद॑रम् । यत्तृ॒तीयम् । तत्क॒र्कन्धु॑ । यन्न॒स्तः । स सि॒॒हः । यदख्ष्योः ।। 15 ।। 1.8.5.2 स शार्दू॒लः । यत्कर्ण॑योः । स वृकः॑ । य ऊ॒र्ध्वः । स सोमः॑ । याऽवा॑ची । सा सुरा । त्र॒यास्सक्त॑वो भवन्ति । इ॒न्द्रि॒यस्याव॑रुद्ध्यै । त्र॒याणि॒ लोमा॑नि ।। 16 ।। 1.8.5.3 त्विषि॑मे॒वाव॑रुन्धे । त्रयो॒ ग्रहाः । वी॒र्य॑मे॒वाव॑रुन्धे । नाम्ना॑ दश॒मी । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णा इ॑न्द्रि॒यव्वीँ॒र्यम् । प्रा॒णाने॒वेन्द्रि॒यव्वीँ॒र्य॑य्यँज॑मान आ॒त्मन्ध॑त्ते । सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति । न वा ए॒तदयो॒ न हिर॑ण्यम् ।। 17 ।। 1.8.5.4 यथ्सीसम् । न स्त्री न पुमान्॑ । यत्क्ली॒बः । न सोमो॒ न सुरा । यथ्सौत्राम॒णी समृ॑द्ध्यै । स्वा॒द्वीन्त्वा स्वा॒दुनेत्या॑ह । सोम॑मे॒वैनाङ्करोति । सोमोऽस्य॒श्विभ्यां पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्य॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा दे॒वताभ्य॒ पच्य॑ते । ति॒स्रस्ससृ॑ष्टा वसति ।। 18 ।। 1.8.5.5 ति॒स्रो हि रात्री क्री॒तस्सोमो॒ वस॑ति । पु॒नातु॑ ते परि॒स्रुत॒मिति॒ यजु॑षा पुनाति॒ व्यावृ॑त्त्यै । प॒वित्रे॑ण पुनाति । प॒वित्रे॑ण॒ हि सोमं॑ पु॒नन्ति॑ । वारे॑ण॒ शश्व॑ता॒ तनेत्या॑ह । वारे॑ण॒ हि सोमं॑ पु॒नन्ति॑ । वा॒यु पू॒त प॒वित्रे॒णेति॒ नैतया॑ पुनीयात् । व्यृ॑द्धा॒ ह्ये॑षा । अ॒ति॒प॒वि॒तस्यै॒तया॑ पुनी॒यात् । कु॒विद॒ङ्गेत्यनि॑रुक्तया प्राजाप॒त्यया॑ गृह्णाति ।। 19 ।। 1.8.5.6 अनि॑रुक्त प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति । आ॒श्वि॒नन्धू॒म्रमाल॑भते । अ॒श्विनौ॒ वै दे॒वानां भि॒षजौ । ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति । सा॒र॒स्व॒तं मे॒षम् । वाग्वै सर॑स्वती । वा॒चैवैनं॑ भिषज्यति । ऐ॒न्द्रमृ॑ष॒भ सेन्द्र॒त्वाय॑ ।। 20 ।। 1.8.6.0 प्री॒णा॒ति॒ प्र॒थ॒मो दख्षि॑णा स॒मव॑नयति धा॒रय॑तीन्द्रि॒याणि॑ च॒त्वारि॑ च ।। 6 ।। 1.8.6.1 यत्त्रि॒षु यूपेष्वा॒लभे॑त । ब॒हि॒र्धाऽस्मा॑दिन्द्रि॒यव्वीँ॒र्य॑न्दध्यात् । भ्रातृ॑व्यमस्मै जनयेत् । ए॒क॒यू॒प आल॑भते । ए॒क॒धैवास्मि॑न्निन्द्रि॒यव्वीँ॒र्य॑न्दधाति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । नैतेषां पशू॒नां पु॑रो॒डाशा॑ भवन्ति । ग्रह॑पुरोडाशा॒ ह्ये॑ते । यु॒व सु॒राम॑मश्वि॒नेति॑ सर्वदेव॒त्ये॑ याज्यानुवा॒क्ये॑ भवतः । सर्वा॑ ए॒व दे॒वता प्रीणाति ।। 21 ।। 1.8.6.2 ब्रा॒ह्म॒णं परि॑क्रीणीयादु॒च्छेष॑णस्य पा॒तारम् । ब्रा॒ह्म॒णो ह्याहु॑त्या उ॒च्छेष॑णस्य पा॒ता । यदि॑ ब्राह्म॒णन्न वि॒न्देत् । व॒ल्मी॒क॒व॒पाया॒मव॑ नयेत् । सैव तत॒ प्राय॑श्चित्तिः । यद्वै सौत्राम॒ण्यै व्यृ॑द्धम् । तद॑स्यै॒ समृ॑द्धम् । ना॒ना॒दे॒व॒त्या प॒शव॑श्च पुरो॒डाशाश्च भवन्ति॒ समृ॑द्ध्यै । ऐ॒न्द्र प॑शू॒नामु॑त्त॒मो भ॑वति । ऐ॒न्द्र पु॑रो॒डाशा॑नां प्रथ॒मः ।। 22 ।। 1.8.6.3 इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति । पु॒रस्ता॑दनूया॒जानां पुरो॒डाशै॒ प्रच॑रति । प॒शवो॒ वै पु॑रो॒डाशाः । प॒शूने॒वाव॑ रुन्धे । ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पति । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । सा॒वि॒त्रन्द्वाद॑शकपालं॒ प्रसूत्यै । वा॒रु॒णन्दश॑कपालम् । अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते । वड॑बा॒ दख्षि॑णा ।। 23 ।। 1.8.6.4 उ॒त वा ए॒षाऽश्व॑ सू॒ते । उ॒ताऽश्व॑त॒रम् । उ॒त सोम॑ उ॒त सुरा । यथ्सौत्राम॒णी समृ॑द्ध्यै । बा॒र्॒ह॒स्प॒त्यं प॒शुञ्च॑तु॒र्थम॑तिपवि॒तस्या ल॑भते । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति । पु॒रो॒डाश॑वाने॒ष प॒शुर्भ॑वति । न ह्ये॑तस्य॒ ग्रह॑ङ्गृ॒ह्णन्ति॑ । सोम॑प्रतीका पितरस्तृप्णु॒तेति॑ शतातृ॒ण्णाया॑ स॒मव॑नयति ।। 24 ।। 1.8.6.5 श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । दख्षि॑णे॒ऽग्नौ जु॑होति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै । हिर॑ण्यमन्त॒रा धा॑रयति । पू॒तामे॒वैनाञ्जुहोति । श॒तमा॑नं भवति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । यत्रै॒व श॑तातृ॒ण्णान्धा॒रय॑ति ।। 25 ।। 1.8.6.6 तन्निद॑धाति॒ प्रति॑ष्ठित्यै । पि॒तॄन् वा ए॒तस्येन्द्रि॒यव्वीँ॒र्य॑ङ्गच्छति । य सोमो॑ऽति॒ पव॑ते । पि॒तृ॒णाय्याँज्यानुवा॒क्या॑भि॒रुप॑ तिष्ठते । यदे॒वास्य॑ पि॒तॄनि॑न्द्रि॒यव्वीँ॒र्य॑ङ्गच्छ॑ति । तदे॒वाव॑ रुन्धे । ति॒सृभि॒रुप॑ तिष्ठते । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । अथो॒ त्रीणि॒ वै य॒ज्ञस्येन्द्रि॒याणि॑ । अ॒ध्व॒र्युर् होता ब्र॒ह्मा । त उप॑तिष्ठन्ते । यान्ये॒व य॒ज्ञस्येन्द्रि॒याणि॑ । तैरे॒वास्मै॑ भेष॒जङ्क॑रोति ।। 26 ।। 1.8.7.0 स्तोमा प॒शव॑ उ॒क्थान्येक॑ञ्च ।। 7 ।। 1.8.7.1 अ॒ग्नि॒ष्टो॒ममग्र॒ आह॑रति । य॒ज्ञ॒मु॒खव्वाँ अ॑ग्निष्टो॒मः । य॒ज्ञ॒मु॒खमे॒वारभ्य॑ स॒वमा क्र॑मते । अथै॒षो॑ऽभिषेच॒नीय॑श्चतुस्त्रि॒॒शप॑वमानो भवति । त्रय॑स्त्रिश॒द्वै दे॒वताः । ता ए॒वाप्नो॑ति । प्र॒जाप॑तिश्चतुस्त्रि॒॒शः । तमे॒वाप्नो॑ति । स॒॒श॒र ए॒ष स्तोमा॑ना॒मय॑थापूर्वम् । यद्विष॑मा॒स्स्तोमाः ।। 27 ।। 1.8.7.2 ए॒तावा॒न् वै य॒ज्ञः । यावा॒न्पव॑मानाः । अ॒न्त॒श्श्लेष॑ण॒न्त्वा अ॒न्यत् । यथ्स॒मा पव॑मानाः । तेनाऽस॑शरः । तेन॑ यथापू॒र्वम् । आ॒त्मनै॒वाग्नि॑ष्टो॒मेन॒र्ध्नोति॑ । आ॒त्मना॒ पुण्यो॑ भवति । प्र॒जा वा उ॒क्थानि॑ । प॒शव॑ उ॒क्थानि॑ । यदु॒क्थ्यो॑ भव॒त्यनु॒ सन्त॑त्त्यै ।। 28 ।। 1.8.8.0 अक्र॑न्राज॒न्यो॑ भव॑न्ति दश॒पेयो॑ माद्ये॒त्त्रीणि॑ च ।। 8 ।। 1.8.8.1 उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रति॒पद्भ॑वति । वाग्वै वा॒युः । वा॒च ए॒वैषो॑ऽभिषे॒कः । सर्वा॑सामे॒व प्र॒जाना॑ सूयते । सर्वा॑ एनं प्र॒जा राजेति॑ वदन्ति । ए॒तमु॒ त्यन्दश॒ ख्षिप॒ इत्या॑ह । आ॒दि॒त्या वै प्र॒जाः । प्र॒जाना॑मे॒वैतेन॑ सूयते । यन्ति॒ वा ए॒ते य॑ज्ञमु॒खात् । ये स॑म्भा॒र्या॑ अक्रन्न्॑ ।। 29 ।। 1.8.8.2 यदाह॒ पव॑स्व वा॒चो अ॑ग्रिय॒ इति॑ । तेनै॒व य॑ज्ञमु॒खान्नय॑न्ति । अ॒नु॒ष्टुक्प्र॑थ॒मा भ॑वति । अ॒नु॒ष्टुगु॑त्त॒मा । वाग्वा अ॑नु॒ष्टुक् । वा॒चैव प्र॒यन्ति॑ । वा॒चोद्य॑न्ति । उद्व॑तीर्भवन्ति । उद्व॒द्वा अ॑नु॒ष्टुभो॑ रू॒पम् । आनु॑ष्टुभो राज॒न्यः॑ ।। 30 ।। 1.8.8.3 तस्मा॒दुद्व॑तीर्भवन्ति । सौ॒र्य॑नु॒ष्टुगु॑त्त॒मा भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै । यो वै स॒वादेति॑ । नैन॑ स॒व उप॑नमति । यस्साम॑भ्य॒ एति॑ । पापी॑यान्थ्सुषुवा॒णो भ॑वति । ए॒तानि॒ खलु॒ वै सामा॑नि । यत्पृ॒ष्ठानि॑ । यत्पृ॒ष्ठानि॒ भव॑न्ति ।। 31 ।। 1.8.8.4 तैरे॒व स॒वान्नैति॑ । यानि॑ देवरा॒जाना॒॒ सामा॑नि । तैर॒मुष्मि॑ल्लोँ॒क ऋ॑ध्नोति । यानि॑ मनुष्यरा॒जाना॒॒ सामा॑नि । तैर॒स्मिल्लोँ॒क ऋ॑ध्नोति । उ॒भयो॑रे॒व लो॒कयोर्॑ ऋध्नोति । दे॒व॒लो॒के च॑ मनुष्यलो॒के च॑ । ए॒क॒वि॒॒शो॑ऽभिषेच॒नीय॑स्योत्त॒मो भ॑वति । ए॒क॒वि॒॒श के॑शवप॒नीय॑स्य प्रथ॒मः । स॒प्त॒द॒शो द॑श॒पेयः॑ ।। 32 ।। 1.8.8.5 विड्वा ए॑कवि॒॒शः । रा॒ष्ट्र स॑प्तद॒शः । विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते । तस्मा॒द्वा ए॒ष वि॒शां प्रि॒यः । वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते । यद्वा ए॑नम॒दो दिशोऽनु॑ व्यास्था॒पय॑न्ति । तथ्सु॑व॒र्गल्लो॒कम॒भ्या रो॑हति । यदि॒मल्लोँ॒कन्न प्र॑त्यव॒रोहेत् । अ॒ति॒ज॒नव्वेँ॒यात् । उद्वा॑ माद्येत् । यदे॒ष प्र॑ती॒चीन॑स्स्तोमो॒ भव॑ति । इ॒ममे॒व तेन॑ लो॒कं प्र॒त्यव॑रोहति । अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यनु॑न्मादाय ।। 33 ।। 1.8.9.0 श॒तख्ष॑रो॒ऽष्टौ च॑ ।। 9 ।। 1.8.9.1 इ॒यव्वैँ॒ र॑ज॒ता । अ॒सौ हरि॑णी । यद्रु॒क्मौ भव॑तः । आ॒भ्यामे॒वैन॑मुभ॒यत॒ परि॑ गृह्णाति । वरु॑णस्य॒ वा अ॑भिषि॒च्यमा॑न॒स्यापः॑ । इ॒न्द्रि॒यव्वीँ॒र्य॑न्निर॑घ्नन्न् । तथ्सु॒वर्ण॒॒ हिर॑ण्यमभवत् । यद्रु॒क्मम॑न्त॒र्दधा॑ति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय । श॒तमा॑नो भवति श॒तख्ष॑रः । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । आयु॒र्वै हिर॑ण्यम् । आ॒यु॒ष्या॑ ए॒वैन॑म॒भ्यति॑ ख्षरन्ति । तेजो॒ वै हिर॑ण्यम् । ते॒ज॒स्या॑ ए॒वैन॑म॒भ्यति॑ ख्षरन्ति । वर्चो॒ वै हिर॑ण्यम् । व॒र्च॒स्या॑ ए॒वैन॑म॒भ्यति॑ ख्षरन्ति ।। 34 ।। 1.8.10.0 उत्त॑रं॒ प्रति॑ष्ठित्यै पश॒व्य॑स्स॒प्त च॑ ।। 10 ।। 1.8.10.1 अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः । यो रा॑ज॒सूये॑न॒ यज॑त॒ इति॑ । य॒दा वा ए॒ष ए॒तेन॑ द्विरा॒त्रेण॒ यज॑ते । अथ॑ प्रति॒ष्ठा । अथ॑ सव्वँथ्स॒रमाप्नोति । याव॑न्ति सव्वँथ्स॒रस्या॑होरा॒त्राणि॑ । ताव॑तीरे॒तस्य॑ स्तो॒त्रीयाः । अ॒हो॒रा॒त्रेष्वे॒व प्रति॑ तिष्ठति । अ॒ग्नि॒ष्टो॒म पूर्व॒मह॑र्भवति । अ॒ति॒रा॒त्र उत्त॑रम् ।। 35 ।। 1.8.10.2 नानै॒वाहो॑रा॒त्रयो॒ प्रति॑ तिष्ठति । पौ॒र्ण॒मा॒स्यां पूर्व॒मह॑र्भवति । व्य॑ष्टकाया॒मुत्त॑रम् । नानै॒वार्ध॑मा॒सयो॒ प्रति॑तिष्ठति । अ॒मा॒वा॒स्या॑यां॒ पूर्व॒मह॑र्भवति । उद्दृ॑ष्ट॒ उत्त॑रम् । नानै॒व मास॑यो॒ प्रति॑तिष्ठति । अथो॒ खलु॑ । ये ए॒व स॑मानप॒ख्षे पु॑ण्या॒हे स्याताम् । तयो का॒र्यं॑ प्रति॑ष्ठित्यै ।। 36 ।। 1.8.10.3 अ॒प॒श॒व्यो द्वि॑रा॒त्र इत्या॑हुः । द्वे ह्ये॑ते छन्द॑सी । गा॒य॒त्रञ्च॒ त्रैष्टु॑भञ्च । जग॑तीम॒न्तर्य॑न्ति । न तेन॒ जग॑ती कृ॒तेत्या॑हुः । यदे॑नान्तृतीयसव॒ने कु॒र्वन्तीति॑ । य॒दा वा ए॒षाऽहीन॒स्याह॒र्भज॑ते । सा॒ह्नस्य॑ वा॒ सव॑नम् । अथै॒व जग॑ती कृ॒ता । अथ॑ पश॒व्यः॑ । व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः । य ए॒वव्विँ॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते । व्ये॑वास्मा॑ उच्छति । अथो॒ तम॑ ए॒वाप॑ हते । अ॒ग्नि॒ष्टो॒मम॑न्त॒त आ ह॑रति । अ॒ग्निस्सर्वा॑ दे॒वताः । दे॒वतास्वे॒व प्रति॑ तिष्ठति ।। 37 ।। 2.1.0.0 कृष्ण यजुर्ब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठकप्रारम्भः । हरिः ओम् ।। 2.1.0.0 अङ्गि॑रस प्र॒जाप॑तिर॒ग्नि रु॒द्र उ॑त्त॒राव॑तीं ब्रह्मवा॒दिनोऽग्निहो॒त्रप्रा॑यणा य॒ज्ञा प्र॒जाप॑तिरकामयतात्म॒न्वद्रौ॒द्रङ्गवि॑ दख्षिण॒तस्त्रयो॒ वै यद॒ग्निमृ॒तन्त्वा॑ स॒त्येनैका॑दश ।। 11 ।। अङ्गि॑रस॒ प्रैव तेन॑ प॒शूने॒व यन्नि॒मार्ष्टि॒ यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॑ दक्षिण॒तष्ष॒ष्टिः ।। 60 ।। अङ्गि॑रसो॒ य उ॑चैनदे॒वँव्वेद॑ ।। हरिः॑ ओम् ।। कृष्णयजुर्ब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठकस्समाप्तः ।। 2.1.1.0 अ॒लि॒म्प॒न्वेद॒ घातु॑क॒ एक॑ञ्च ।। 1 ।। 2.1.1.1 अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत । तेषां॒ पृश़्ञि॑र्घर्म॒धुगा॑सीत् । सर्जी॒षेणा॑जीवत् । तेऽब्रुवन्न् । कस्मै॒ नु स॒त्रमास्महे । येऽस्या ओष॑धी॒र्न ज॒नया॑म॒ इति॑ । ते दि॒वो वृष्टि॑मसृजन्त । याव॑न्तस्स्तो॒का अ॒वाप॑द्यन्त । ताव॑ती॒रोष॑धयोऽजायन्त । ता जा॒ता पि॒तरो॑ वि॒षेणा॑लिम्पन्न् ।। 1 ।। 2.1.1.2 तासाञ्ज॒ग्ध्वा रुप्य॒न्त्यैत् । तेऽब्रुवन्न् । क इ॒दमि॒त्थम॑क॒रिति॑ । व॒यं भा॑ग॒धेय॑मि॒च्छमा॑ना॒ इति॑ पि॒तरोऽब्रुवन्न् । किव्वोँ॑ भाग॒धेय॒मिति॑ । अ॒ग्नि॒हो॒त्र ए॒व नोऽप्य॒स्त्वित्य॑ब्रुवन्न् । तेभ्य॑ ए॒तद्भा॑ग॒धेयं॒ प्राय॑च्छन्न् । यद्धु॒त्वा नि॒मार्ष्टि॑ । ततो॒ वै त ओष॑धीरस्वदयन्न् । य ए॒वव्वेँद॑ ।। 2 ।। 2.1.1.3 स्वद॑न्तेऽस्मा॒ ओष॑धयः । ते व॒थ्समु॒पावा॑सृजन्न् । इ॒दन्नो॑ ह॒व्यं प्रदा॑प॒येति॑ । सोऽब्रवी॒द्वरं॑ वृणै । दश॑ मा॒ रात्रीर्जा॒तन्न दो॑हन्न् । आ॒स॒ङ्ग॒वं मा॒त्रा स॒ह च॑रा॒णीति॑ । तस्माद्व॒थ्सञ्जा॒तन्दश॒ रात्री॒र्न दु॑हन्ति । आ॒स॒ङ्ग॒वं मा॒त्रा स॒ह च॑रति । वारे॑वृत॒॒ ह्य॑स्य । तस्माद्व॒थ्स स॑सृष्टध॒य रु॒द्रो घातु॑कः । अति॒ हि स॒न्धान्धय॑ति ।। 3 ।। 2.1.2.0 अ॒मृ॒ष्ट॒ वि॒चि॒किथ्स॑ति॒ जुह्व॑त्य॒जाम॑सृजताग्निहो॒त्र सूर्या॑य प्रा॒तर्जु॒होति॒ जुह्व॑ति सं॒पद्ये॑ते हूयते स्थापयति संप्र॒ति द्वे च॑ ।। 2 ।। 2.1.2.1 प्र॒जाप॑तिर॒ग्निम॑सृजत । तं प्र॒जा अन्व॑सृज्यन्त । तम॑भा॒ग उपास्त । सोऽस्य प्र॒जाभि॒रपाक्रामत् । तम॑व॒रुरु॑थ्समा॒नोऽन्वैत् । तम॑व॒रुध॒न्नाश॑क्नोत् । स तपो॑ऽतप्यत । सोऽग्निरुपा॑रम॒ताता॑पि॒ वै स्य प्र॒जाप॑ति॒रिति॑ । स र॒राटा॒दुद॑मृष्ट ।। 4 ।। 2.1.2.2 तद्घृ॒तम॑भवत् । तस्मा॒द्यस्य॑ दख्षिण॒त केशा॒ उन्मृ॑ष्टाः । ताञ्ज्येष्ठल॒ख्ष्मी प्रा॑जाप॒त्येत्या॑हुः । यद्र॒राटा॑दु॒दमृ॑ष्ट । तस्माद्र॒राटे॒ केशा॒ न स॑न्ति । तद॒ग्नौ प्रागृ॑ह्णात् । तद्व्य॑चिकिथ्सत् । जु॒हवा॒नी ३ मा हौ॒षा ३ मिति॑ । तद्वि॑चिकि॒थ्सायै॒ जन्म॑ । य ए॒वव्विँ॒द्वान् वि॑चि॒किथ्स॑ति ।। 5 ।। 2.1.2.3 वसी॑य ए॒व चे॑तयते । तव्वाँग॒भ्य॑वदज्जु॒हुधीति॑ । सोऽब्रवीत् । कस्त्वम॒सीति॑ । स्वैव ते॒ वागित्य॑ब्रवीत् । सो॑ऽजुहो॒थ्स्वाहेति॑ । तथ्स्वा॑हाका॒रस्य॒ जन्म॑ । य ए॒वस्वा॑हाका॒रस्य॒ जन्म॒ वेद॑ । क॒रोति॑ स्वाहाका॒रेण॑ वी॒र्यम् । यस्यै॒वँव्वि॒दुष॑स्स्वाहाका॒रेण॒ जुह्व॑ति ।। 6 ।। 2.1.2.4 भोगा॑यै॒वास्य॑ हु॒तं भ॑वति । तस्या॒ आहु॑त्यै॒ पुरु॑षमसृजत । द्वि॒तीय॑मजुहोत् । सोऽश्व॑मसृजत । तृ॒तीय॑मजुहोत् । स गाम॑सृजत । च॒तु॒र्थम॑जुहोत् । सोऽवि॑मसृजत । प॒ञ्च॒मम॑जुहोत् । सो॑ऽजाम॑सृजत ।। 7 ।। 2.1.2.5 सोऽग्निर॑बिभेत् । आहु॑तीभि॒र्वै माऽऽप्नो॒तीति॑ । स प्र॒जाप॑तिं॒ पुन॒ प्रावि॑शत् । तं प्र॒जाप॑तिरब्रवीत् । जाय॒स्वेति॑ । सोऽब्रवीत् । किं भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑ । तुभ्य॑मे॒वेद हू॑याता॒ इत्य॑ब्रवीत् । स ए॒तद्भा॑ग॒धेय॑म॒भ्य॑जायत । यद॑ग्निहो॒त्रम् ।। 8 ।। 2.1.2.6 तस्मा॑दग्निहो॒त्रमु॑च्यते । तद्धू॒यमा॑नमादि॒त्योऽब्रवीत् । मा हौ॑षीः । उ॒भयो॒र्वै ना॑वे॒तदिति॑ । सोऽग्निर॑ब्रवीत् । क॒थन्नौ॑ होष्य॒न्तीति॑ । सा॒यमे॒व तुभ्य॑ञ्जु॒हुवन्न्॑ । प्रा॒तर्मह्य॒मित्य॑ब्रवीत् । तस्मा॑द॒ग्नये॑ सा॒य हू॑यते । सूर्या॑य प्रा॒तः ।। 9 ।। 2.1.2.7 आ॒ग्ने॒यी वै रात्रिः॑ । ऐ॒न्द्रमहः॑ । यदनु॑दिते॒ सूर्ये प्रा॒तर्जु॑हु॒यात् । उ॒भय॑मे॒वाग्ने॒य स्यात् । उदि॑ते॒ सूर्ये प्रा॒तर्जु॑होति । तथा॒ग्नये॑ सा॒य हू॑यते । सूर्या॑य प्रा॒तः । रात्रि॒व्वाँ अनु॑ प्र॒जा प्र जा॑यन्ते । अह्ना॒ प्रति॑ तिष्ठन्ति । यथ्सा॒यञ्जु॒होति॑ ।। 10 ।। 2.1.2.8 प्रैव तेन॑ जायते । उदि॑ते॒ सूर्ये प्रा॒तर्जु॑होति । प्रत्ये॒व तेन॑ तिष्ठति । प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ । स ए॒तद॑ग्निहो॒त्रं मि॑थु॒नम॑पश्यत् । तदुदि॑ते॒ सूर्ये॑ऽजुहोत् । यजु॑षा॒ऽन्यत् । तू॒ष्णीम॒न्यत् । ततो॒ वै स प्राजा॑यत । यस्यै॒वव्विँ॒दुष॒ उदि॑ते॒ सूर्येऽग्निहो॒त्रञ्जुह्व॑ति ।। 11 ।। 2.1.2.9 प्रैव जा॑यते । अथो॒ यथा॒ दिवा प्रजा॒नन्नेति॑ । ता॒दृगे॒व तत् । अथो॒ खल्वा॑हुः । यस्य॒ वै द्वौ पुण्यौ॑ गृ॒हे वस॑तः । यस्तयो॑र॒न्य रा॒धय॑त्य॒न्यन्न । उ॒भौ वाव स तावृ॑च्छ॒तीति॑ । अ॒ग्निव्वाँवादि॒त्यस्सा॒यं प्र वि॑शति । तस्मा॑द॒ग्निर्दू॒रान्नक्त॑न्ददृशे । उ॒भे हि तेज॑सी सं॒ पद्ये॑ते ।। 12 ।। 2.1.2.10 उ॒द्यन्त॒व्वाँवादि॒त्यम॒ग्निरनु॑ स॒मारो॑हति । तस्माद्धू॒म ए॒वाग्नेर्दिवा॑ ददृशे । यद॒ग्नये॑ सा॒यञ्जु॑हु॒यात् । आ सूर्या॑य वृश्च्येत । यथ्सूर्या॑य प्रा॒तर्जु॑हु॒यात् । आऽग्नये॑ वृश्च्येत । दे॒वताभ्यस्स॒मद॑न्दध्यात् । अ॒ग्निर्ज्योति॒र्ज्योति॒स्सूर्य॒स्स्वा- हेत्ये॒व सा॒य हो॑त॒व्यम् । सूर्यो॒ ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहेति॑ प्रा॒तः । तथो॒भाभ्या॑ सा॒य हू॑यते ।। 13 ।। 2.1.2.11 उ॒भाभ्यां प्रा॒तः । न दे॒वताभ्यस्स॒मद॑न्दधाति । अ॒ग्निर्ज्योति॒रित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । प्र॒जा ज्योति॒रित्या॑ह । प्र॒जा ए॒वास्मै॒ प्र ज॑नयति । सूर्यो॒ ज्योति॒रित्या॑ह । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति । ज्योति॑र॒ग्निस्स्वाहेत्या॑ह । प्र॒जा ए॒व प्रजा॑ता अ॒स्यां प्रति॑ष्ठापयति ।। 14 ।। 2.1.2.12 तू॒ष्णीमुत्त॑रा॒माहु॑तिञ्जुहोति । मि॒थु॒न॒त्वाय॒ प्रजात्यै । यदुदि॑ते॒ सूर्ये प्रा॒तर्जु॑हु॒यात् । यथाऽति॑थये॒ प्रद्रु॑ताय शू॒न्याया॑वस॒थाया॑हा॒र्य॑ हर॑न्ति । ता॒दृगे॒व तत् । क्वाह॒ तत॒स्तद्भव॒तीत्या॑हुः । यथ्स न वेद॑ । यस्मै॒ तद्धर॒न्तीति॑ । तस्मा॒द्यदौ॑ष॒सञ्जु॒होति॑ । तदे॒व सं॑प्र॒ति । अथो॒ यथा॒ प्रार्थ॑मौष॒सं प॑रि॒वेवेष्टि । ता॒दृगे॒व तत् ।। 15 ।। 2.1.3.0 भ॒व॒ति॒ प्र॒ति॒षि॒ञ्चति॑ गमयति प्र॒त्यक्प॒शव॑ उपनि॒धायाध्रिय॒न्तेति॒ तच्च॒त्वारि॑ च ।। 3 ।। 2.1.3.1 रु॒द्रो वा ए॒षः । यद॒ग्निः । पत्नी स्था॒ली । यन्मध्ये॒ऽग्नेर॑धि॒श्रयेत् । रु॒द्राय॒ पत्नी॒मपि॑ दध्यात् । प्र॒मायु॑का स्यात् । उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति । पत्नि॑यै गोपी॒थाय॑ । व्य॑न्तान्करोति । तथा॒ पत्न्यप्र॑मायुका भवति ।। 16 ।। 2.1.3.2 घ॒र्मो वा ए॒षोऽशान्तः । अह॑रह॒ प्र वृ॑ज्यते । यद॑ग्निहो॒त्रम् । प्रति॑षिञ्चेत्प॒शुका॑मस्य । शा॒न्तमि॑व॒ हि प॑श॒व्यम् । न प्रति॑षिञ्चेद्ब्रह्मवर्च॒सका॑मस्य । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् । अथो॒ खलु॑ । प्र॒ति॒षिच्य॑मे॒व । यत्प्र॑तिषि॒ञ्चति॑ ।। 17 ।। 2.1.3.3 तत्प॑श॒व्यम् । यज्जु॒होति॑ । तद्ब्र॑ह्मवर्च॒सि । उ॒भय॑मे॒वाकः॑ । प्रच्यु॑त॒व्वाँ ए॒तद॒स्माल्लो॒कात् । अग॑तन्देवलो॒कम् । यच्छृ॒त ह॒विरन॑भिघारितम् । अ॒भि द्यो॑तयति । अ॒भ्ये॑वैन॑द्घारयति । अथो॑ देव॒त्रैवैन॑द्गमयति ।। 18 ।। 2.1.3.4 पर्य॑ग्नि करोति । रख्ष॑सा॒मप॑हत्यै । त्रि पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । यत्प्रा॒चीन॑मुद्वा॒सयेत् । यज॑मान शु॒चाऽर्प॑येत् । यद्द॑ख्षि॒णा । पि॒तृ॒दे॒व॒त्य॑ स्यात् । यत्प्र॒त्यक् ।। 19 ।। 2.1.3.5 पत्नी॑ शु॒चाऽर्प॑येत् । उ॒दी॒चीन॒मुद्वा॑सयति । ए॒षा वै दे॑वमनु॒ष्याणा॑ शा॒न्ता दिक् । तामे॒वैन॒दनूद्वा॑सयति॒ शान्त्यै । वर्त्म॑ करोति । य॒ज्ञस्य॒ सन्त॑त्यै । निष्ट॑पति । उपै॒व तथ्स्तृ॑णाति । च॒तुरुन्न॑यति । चतु॑ष्पाद प॒शवः॑ ।। 20 ।। 2.1.3.6 प॒शूने॒वाव॑रुन्धे । सर्वान्पू॒र्णानुन्न॑यति । सर्वे॒ हि पुण्या॑ रा॒द्धाः । अ॒नूच॒ उन्न॑यति । प्र॒जाया॑ अनूचीन॒त्वाय॑ । अ॒नूच्ये॒वास्य॑ प्र॒जाऽर्धु॑का भवति । संमृ॑शति॒ व्यावृ॑त्त्यै । नाहोष्य॒न्नुप॑ सादयेत् । यदहोष्यन्नुपसा॒दयेत् । यथा॒ऽन्यस्मा॑ उपनि॒धाय॑ ।। 21 ।। 2.1.3.7 अ॒न्यस्मै प्र॒यच्छ॑ति । ता॒दृगे॒व तत् । आऽस्मै॑ वृश्च्येत । यदे॒व गाऱ्ह॑पत्येऽधि॒ श्रय॑ति । तेन॒ गाऱ्ह॑पत्यं प्रीणाति । अ॒ग्निर॑बिभेत् । आहु॑तयो॒ माऽत्येष्य॒न्तीति॑ । स ए॒ता स॒मिध॑मपश्यत् । तामाऽध॑त्त । ततो॒ वा अ॒ग्नावाहु॑तयोऽध्रियन्त ।। 22 ।। 2.1.3.8 यदे॑न स॒मय॑च्छत् । तथ्स॒मिध॑स्समि॒त्त्वम् । स॒मिध॒मा द॑धाति । समे॒वैन॑य्यँच्छति । आहु॑तीना॒न्धृत्यै । अथो॑ अग्निहो॒त्रमे॒वेध्मव॑त्करोति । आहु॑तीनां॒ प्रति॑ष्ठित्यै । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यदेका॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होति॑ । अथ॒ कस्या॑ स॒मिधि॑ द्वि॒तीया॒माहु॑तिञ्जुहो॒तीति॑ ।। 23 ।। 2.1.3.9 यद्द्वे स॒मिधा॑वा द॒ध्यात् । भ्रातृ॑व्यमस्मै जनयेत् । एका॑ स॒मिध॑मा॒धाय॑ । यजु॑षा॒ऽन्यामाहु॑तिञ्जुहोति । उ॒भे ए॒व स॒मिद्व॑ती॒ आहु॑ती जुहोति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । आदीप्तायाञ्जुहोति । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् । अथो॒ यथाऽति॑थि॒ञ्ज्योति॑ष्कृ॒त्वा प॑रि॒ वेवेष्टि । ता॒दृगे॒व तत् । च॒तुरुन्न॑यति । द्विर्जु॑होति । तस्माद्द्वि॒पाच्चतु॑ष्पादमत्ति । अथो द्वि॒पद्ये॒व चतु॑ष्पद॒ प्रति॑ ष्ठापयति ।। 24 ।। 2.1.4.0 अ॒भ॒व॒न्भ॒व॒ति॒ जु॒हु॒यान्न॑यति मार्ष्टि॒ द्विप्राश्ञा॑ति प्राजाप॒त्यमाचा॑मतीन्धेऽकः ।। 4 ।। 2.1.4.1 उ॒त्त॒राव॑तीँ॒व्वै दे॒वा आहु॑ति॒मजु॑हवुः । अवा॑ची॒मसु॑राः । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः । यङ्का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॑ । कनी॑य॒स्तस्य॒ पूर्व॑ हु॒त्वा । उत्त॑रं॒ भूयो॑ जुहुयात् । ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः । तान्दे॒वा अ॑जुहवुः । तत॒स्ते॑ऽभवन्न् ।। 25 ।। 2.1.4.2 यस्यै॒वञ्जुह्व॑ति । भव॑त्ये॒व । यङ्का॒मये॑त॒ पापी॑यान्थ्स्या॒दिति॑ । भूय॒स्तस्य॒ पूर्व॑ हु॒त्वा । उत्त॑र॒ङ्कनी॑यो जुहुयात् । ए॒षा वा अवा॒च्याहु॑तिः । तामसु॑रा अजुहवुः । तत॒स्ते परा॑ऽभवन्न् । यस्यै॒वञ्जुह्व॑ति । परै॒व भ॑वति ।। 26 ।। 2.1.4.3 हु॒त्वोप॑ सादय॒त्यजा॑मित्वाय । अथो॒ व्यावृ॑त्त्यै । गाऱ्ह॑पत्यं॒ प्रतीख्षते । अन॑नुध्यायिनमे॒वैन॑ङ्करोति । अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति । तय्यँ ऋ॒च्छेत् । य॒ज्ञ॒स्था॒णुमृ॑च्छेत् । ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुः । यत्पूर्वाऽऽहु॑तिः । ताय्यँदुत्त॑रया॒ऽभि जु॑हु॒यात् ।। 27 ।। 2.1.4.4 य॒ज्ञ॒स्था॒णुमृ॑च्छेत् । अ॒ति॒हाय॒ पूर्वा॒माहु॑तिञ्जुहोति । य॒ज्ञ॒स्था॒णुमे॒व परि॑ वृणक्ति । अथो॒ भ्रातृ॑व्यमे॒वाप्त्वाऽति॑ क्रामति । अ॒वा॒चीन॑ सा॒यमुप॑मार्ष्टि । रेत॑ ए॒व तद्द॑धाति । ऊ॒र्ध्वं प्रा॒तः । प्र ज॑नयत्ये॒व तत् । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । च॒तुरुन्न॑यति ।। 28 ।। 2.1.4.5 द्विर्जु॑होति । अथ॒ क्व॑ द्वे आहु॑ती भवत॒ इति॑ । अ॒ग्नौ वैश्वान॒र इति॑ ब्रूयात् । ए॒ष वा अ॒ग्निर्वैश्वान॒रः । यद्ब्राह्म॒णः । हु॒त्वा द्वि प्राश्ञा॑ति । अ॒ग्नावे॒व वैश्वान॒रे द्वे आहु॑ती जुहोति । द्विर्जु॒होति॑ । द्विर्निमार्ष्टि । द्वि प्राश्ञा॑ति ।। 29 ।। 2.1.4.6 षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कि॒न्दे॒व॒त्य॑मग्निहो॒त्रमिति॑ । वै॒श्व॒दे॒वमिति॑ ब्रूयात् । यद्यजु॑षा जु॒होति॑ । तदैन्द्रा॒ग्नम् । यत्तू॒ष्णीम् । तत्प्रा॑जाप॒त्यम् ।। 30 ।। 2.1.4.7 यन्नि॒मार्ष्टि॑ । तदोष॑धीनाम् । यद्द्वि॒तीयम् । तत्पि॑तृ॒णाम् । यत्प्राश्ञा॑ति । तद्गर्भा॑णाम् । तस्मा॒द्गर्भा॒ अन॑श्ञन्तो वर्धन्ते । यदा॒चाम॑ति । तन्म॑नु॒ष्या॑णाम् । उद॑ङ्पर्या॒वृत्याचा॑मति ।। 31 ।। 2.1.4.8 आ॒त्मनो॑ गोपी॒थाय॑ । निर्णे॑नेक्ति॒ शुद्ध्यै । निष्ट॑पति स्व॒गाकृ॑त्यै । उद्दि॑शति । स॒प्त॒र्॒षीने॒व प्री॑णाति । द॒ख्षि॒णा प॒र्याव॑र्तते । स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते । तस्मा॒द्दख्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः । अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते । हु॒त्वोप॒ समि॑न्धे ।। 32 ।। 2.1.4.9 ब्र॒ह्म॒व॒र्च॒सस्य॒ समि॑द्ध्यै । न ब॒र्॒हिरनु॒ प्र ह॑रेत् । अस॑स्थितो॒ वा ए॒ष य॒ज्ञः । यद॑ग्निहो॒त्रम् । यद॑नु प्र॒हरेत् । य॒ज्ञव्विँच्छि॑न्द्यात् । तस्मा॒न्नानु॑ प्र॒हृत्यम् । य॒ज्ञस्य॒ सन्त॑त्यै । अ॒पो नि न॑यति । अ॒व॒भृ॒थस्यै॒व रू॒पम॑कः ।। 33 ।। 2.1.5.0 ब॒र्॒हि प्रा॒तऱ्हु॒ताद्या॑य जायते रुन्धेऽसा॒मा क॑रोत्ये॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॑ वषट्का॒रश्च॑ प्रात॒र्यावा॑णो॒ वज्र॒स्त्रीणि॑ च ।। 5 ।। 2.1.5.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः । किंप्रा॑यणमग्निहो॒त्रमिति॑ । व॒थ्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम् । अ॒ग्नि॒हो॒त्रय्यँ॒ज्ञानाम् । तस्य॑ पृथि॒वी सदः॑ । अ॒न्तरि॑क्ष॒माग्नीद्ध्रम् । द्यौऱ्ह॑वि॒र्धानम् । दि॒व्या आप॒ प्रोख्ष॑णयः । ओष॑धयो ब॒र्॒हिः ।। 34 ।। 2.1.5.2 वन॒स्पत॑य इ॒ध्मः । दिश॑ परि॒धयः॑ । आ॒दि॒त्यो यूपः॑ । यज॑मान प॒शुः । स॒मु॒द्रो॑ऽवभृ॒थः । स॒व्वँ॒थ्स॒रस्स्व॑गाका॒रः । तस्मा॒दाहि॑ताग्ने॒स्सर्व॑मे॒व ब॑ऱ्हि॒ष्य॑न्द॒त्तं भ॑वति । यथ्सा॒यञ्जु॒होति॑ । रात्रि॑मे॒व तेन॑ दख्षि॒ण्याङ्कुरुते । यत्प्रा॒तः ।। 35 ।। 2.1.5.3 अह॑रे॒व तेन॑ दख्षि॒ण्य॑ङ्कुरुते । यत्ततो॒ ददा॑ति । सा दख्षि॑णा । याव॑न्तो॒ वै दे॒वा अहु॑त॒मादन्न्॑ । ते परा॑ऽभवन्न् । त ए॒तद॑ग्निहो॒त्र सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः । तस्मा॑दाहुः । अ॒ग्नि॒हो॒त्रव्वैँ दे॒वा गृ॒हाणा॒न्निष्कृ॑तिमपश्य॒न्निति॑ । यथ्सा॒यञ्जु॒होति॑ । रात्रि॑या ए॒व तद्धु॒ताद्या॑य ।। 36 ।। 2.1.5.4 यज॑मान॒स्याप॑राभावाय । यत्प्रा॒तः । अह्न॑ ए॒व तद्धु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय । यत्ततो॒ऽश़्ञाति॑ । हु॒तमे॒व तत् । द्वयो॒ पय॑सा जुहुयात्प॒शुका॑मस्य । ए॒तद्वा अ॑ग्निहो॒त्रं मि॑थु॒नम् । य ए॒वव्वेँद॑ । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।। 37 ।। 2.1.5.5 इ॒मामे॒व पूर्व॑या दु॒हे । अ॒मूमुत्त॑रया । अ॒धि॒श्रित्योत्त॑र॒मा न॑यति । योना॑वे॒व तद्रेत॑स्सिञ्चति प्र॒जन॑ने । आज्ये॑न जुहुया॒त्तेज॑स्कामस्य । तेजो॒ वा आज्यम् । ते॒ज॒स्व्ये॑व भ॑वति । पय॑सा प॒शुका॑मस्य । ए॒तद्वै प॑शू॒ना रू॒पम् । रू॒पेणै॒वास्मै॑ प॒शूनव॑रुन्धे ।। 38 ।। 2.1.5.6 प॒शु॒माने॒व भ॑वति । द॒ध्नेन्द्रि॒यका॑मस्य । इ॒न्द्रि॒यव्वैँ दधि॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति । य॒वा॒ग्वा ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः । भा॒ग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑ रुन्धे । ग्रा॒म्ये॑व भ॑वति । अय॑ज्ञो॒ वा ए॒षः । यो॑ऽसा॒मा ।। 39 ।। 2.1.5.7 च॒तुरुन्न॑यति । चतु॑रख्षर रथन्त॒रम् । र॒थ॒न्त॒रस्यै॒ष वर्णः॑ । उ॒परी॑व हरति । अ॒न्तरि॑ख्षव्वाँमदे॒व्यम् । वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ । द्विर्जु॑होति । द्व्य॑ख्षरं बृ॒हत् । बृ॒ह॒त ए॒ष वर्णः॑ । अ॒ग्नि॒हो॒त्रमे॒व तथ्साम॑न्वत्करोति ।। 40 ।। 2.1.5.8 यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॒ वेद॑ । उपै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तारम् । उ॒न्नीयोप॑ सादयति । पृ॒थि॒वीमे॒व प्री॑णाति । हो॒ष्यन्नुप॑सादयति । अ॒न्तरि॑ख्षमे॒व प्री॑णाति । हु॒त्वोप॑ सादयति । दिव॑मे॒व प्री॑णाति । ए॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदः॑ ।। 41 ।। 2.1.5.9 य ए॒वव्वेँद॑ । उपै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तारम् । यो वा अ॑ग्निहो॒त्रस्याश्रा॑वितं प्र॒त्याश्रा॑वित॒॒ होता॑रं ब्र॒ह्माण॑व्वँषट्का॒रव्वेँद॑ । तस्य॒ त्वे॑व हु॒तम् । प्रा॒णो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम् । अ॒पा॒न प्र॒त्याश्रा॑वितम् । मनो॒ होता । चख्षु॑र्ब्र॒ह्मा । नि॒मे॒षो व॑षट्का॒रः ।। 42 ।। 2.1.5.10 य ए॒वव्वेँद॑ । तस्य॒ त्वे॑व हु॒तम् । सा॒य॒य्याँवा॑नश्च॒ वै दे॒वा प्रा॑त॒र्यावा॑णश्चाग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति । तान् यन्न त॒र्पयेत् । प्र॒जयाऽस्य प॒शुभि॒र्वि ति॑ष्ठेरन्न् । यत्त॒र्पयेत् । तृ॒प्ता ए॑नं प्र॒जया॑ प॒शुभि॑स्तर्पयेयुः । स॒जूर्दे॒वैस्सा॒यय्याँव॑भि॒रिति॑ सा॒य संमृ॑शति । स॒जूर्दे॒वै प्रा॒तर्याव॑भि॒रिति॑ प्रा॒तः । ये चै॒व दे॒वास्सा॑य॒य्याँवा॑नो॒ ये च॑ प्रात॒र्यावा॑णः ।। 43 ।। 2.1.5.11 ताने॒वोभया॑ स्तर्पयति । त ए॑नन्तृ॒प्ता प्र॒जया॑ प॒शुभि॑स्तर्पयन्ति । अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः । अ॒ग्नि॒हो॒त्र ए॒वाह सा॒यंप्रा॑त॒र्वज्रं॒ भ्रातृ॑व्येभ्य॒ प्र ह॑रामि । तस्मा॒न्मत्पापी॑यासो॒ भ्रातृ॑व्या॒ इति॑ । च॒तुरुन्न॑यति । द्विर्जु॑होति । स॒मिथ्स॑प्त॒मी । स॒प्तप॑दा॒ शक्व॑री । शा॒क्व॒रो वज्रः॑ । अ॒ग्नि॒हो॒त्र ए॒व तथ्सा॒यंप्रा॑त॒र्वज्र॒य्यँज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति । भव॑त्या॒त्मना । पराऽस्य॒ भ्रातृ॑व्यो भवति ।। 44 ।। 2.1.6.0 त॒नुवै॑ वा॒युर॒ग्निर्भ॑व॒त्यवि॑त्वा भव॒त्येक॑ञ्च ।। 6 ।। 2.1.6.1 प्र॒जाप॑तिरकामयतात्म॒न्वन्मे॑ जाये॒तेति॑ । सो॑ऽजुहोत् । तस्मात्म॒न्वद॑जायत । अ॒ग्निर्वा॒युरा॑दि॒त्यः । तेऽब्रुवन्न् । प्र॒जाप॑तिरहौषीदात्म॒न्वन्मे॑ जाये॒तेति॑ । तस्य॑ व॒यम॑जनिष्महि । जाय॑तान्न आत्म॒न्वदिति॒ ते॑ऽजुहवुः । प्रा॒णाना॑म॒ग्निः । त॒नुवै॑ वा॒युः ।। 45 ।। 2.1.6.2 चख्षु॑ष आदि॒त्यः । तेषा॑ हु॒ताद॑जायत॒ गौरे॒व । तस्यै॒ पय॑सि॒ व्याय॑च्छन्त । मम॑ हु॒ताद॑जनि॒ ममेति॑ । ते प्र॒जाप॑तिं प्र॒श्ञमा॑यन्न् । स आ॑दि॒त्योऽग्निम॑ब्रवीत् । य॒त॒रो नौ॒ जयात् । तन्नौ॑ स॒हास॒दिति॑ । कस्यै कोऽहौ॑षी॒दिति॑ प्र॒जाप॑तिरब्रवी॒त्कस्यै क॒ इति॑ । प्रा॒णाना॑म॒हमित्य॒ग्निः ।। 46 ।। 2.1.6.3 त॒नुवा॑ अ॒हमिति॑ वा॒युः । चख्षु॑षो॒ऽहमित्या॑दि॒त्यः । य ए॒व प्रा॒णाना॒महौ॑षीत् । तस्य॑ हु॒ताद॑ज॒नीति॑ । अ॒ग्नेऱ्हु॒ताद॑ज॒नीति॑ । तद॑ग्निहो॒त्रस्याग्निहोत्र॒त्वम् । गौर्वा अ॑ग्निहो॒त्रम् । य ए॒वव्वेँद॒ गौर॑ग्निहो॒त्रमिति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वाग्नि सम॑र्धयति । अव्य॑र्धुक प्राणापा॒नाभ्यां भवति ।। 47 ।। 2.1.6.4 य ए॒वव्वेँद॑ । तौ वा॒युर॑ब्रवीत् । अनु॒ मा भ॑जत॒मिति॑ । यदे॒व गाऱ्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रवान्॑ । तेन॒ त्वां प्री॑णा॒नित्य॑ब्रूताम् । तस्मा॒द्यद्गाऱ्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रव॑ति । वा॒युमे॒व तेन॑ प्रीणाति । प्र॒जाप॑तिर्दे॒वतास्सृ॒जमा॑नः । अ॒ग्निमे॒व दे॒वता॑नां प्रथ॒मम॑सृजत । सोऽन्यदा॑ल॒म्भ्य॑मवि॑त्वा ।। 48 ।। 2.1.6.5 प्र॒जाप॑तिम॒भि प॒र्याव॑र्तत । स मृ॒त्योर॑बिभेत् । सो॑ऽमुमा॑दि॒त्यमा॒त्मनो॒ निर॑मिमीत । त हु॒त्वा पराङ्प॒र्याव॑र्तत । ततो॒ वै स मृ॒त्युमपा॑जयत् । अप॑ मृ॒त्युञ्ज॑यति । य ए॒वव्वेँद॑ । तस्मा॒द्यस्यै॒वव्विँ॒दुषः॑ । उ॒तैका॒हमु॒त द्व्य॒हन्न जुह्व॑ति । हु॒तमे॒वास्य॑ भवति । अ॒सौ ह्या॑दि॒त्योऽग्निहो॒त्रम् ।। 49 ।। 2.1.7.0 उद्वा॑सित स॒प्त च॑ ।। 7 ।। 2.1.7.1 रौ॒द्रङ्गवि॑ । वा॒य॒व्य॑मुप॑सृष्टम् । आ॒श्वि॒नन्दु॒ह्यमा॑नम् । सौ॒म्यन्दु॒ग्धम् । वा॒रु॒णमधि॑ श्रितम् । वै॒श्व॒दे॒वा भि॒न्दवः॑ । पौ॒ष्णमुद॑न्तम् । सा॒र॒स्व॒तव्विँ॒ष्यन्द॑मानम् । मै॒त्र शरः॑ । धा॒तुरुद्वा॑सितम् । बृह॒स्पते॒रुन्नी॑तम् । स॒वि॒तु प्र क्रान्तम् । द्या॒वा॒पृ॒थि॒व्य॑ ह्रि॒यमा॑णम् । ऐ॒न्द्रा॒ग्नमुप॑सन्नम् । अ॒ग्ने पूर्वाऽऽहु॑तिः । प्र॒जाप॑ते॒रुत्त॑रा । ऐ॒न्द्र हु॒तम् ।। 50 ।। 2.1.8.0 बुभू॑षेद्ध्रि॒यमा॑णञ्जायते॒ द्वे च॑ ।। 8 ।। 2.1.8.1 द॒ख्षि॒ण॒त उप॑ सृजति । पि॒तृ॒लो॒कमे॒व तेन॑ जयति । प्राची॒मा व॑र्तयति । दे॒व॒लो॒कमे॒व तेन॑ जयति । उदी॑चीमा॒वृत्य॑ दोग्धि । म॒नु॒ष्य॒लो॒कमे॒व तेन॑ जयति । पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑ । यो वा॑ ग॒तश्री॒स्स्यात् । अप॑रौ दुह्यात्कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑ । यो वा॒ बुभू॑षेत् ।। 51 ।। 2.1.8.2 न सं मृ॑शति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै । वा॒य॒व्य॑व्वाँ ए॒तदुप॑सृष्टम् । आ॒श्वि॒नन्दु॒ह्यमा॑नम् । मै॒त्रन्दु॒ग्धम् । अ॒र्य॒म्ण उ॑द्वा॒स्यमा॑नम् । त्वा॒ष्ट्रमु॑न्नी॒यमा॑नम् । बृह॒स्पते॒रुन्नी॑तम् । स॒वि॒तु प्रक्रान्तम् । द्या॒वा॒पृ॒थि॒व्य॑ ह्रि॒यमा॑णम् ।। 52 ।। 2.1.8.3 ऐ॒न्द्रा॒ग्नमुप॑ सादितम् । सर्वाभ्यो॒ वा ए॒ष दे॒वताभ्यो जुहोति । योऽग्निहो॒त्रञ्जु॒होति॑ । यथा॒ खलु॒ वै धे॒नुन्ती॒र्थे त॒र्पय॑ति । ए॒वम॑ग्निहो॒त्री यज॑मानन्तर्पयति । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । प्र सु॑व॒र्गल्लोँ॒कञ्जा॑नाति । पश्य॑ति पु॒त्रम् । पश्य॑ति॒ पौत्त्रम् । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । यस्यै॒वव्विँ॒दुषोऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑ चैनदे॒वव्वेँद॑ ।। 53 ।। 2.1.9.0 तू॒ष्णीञ्जा॑यते॒ यज॑मानः ।। 9 ।। 2.1.9.1 त्रयो॒ वै प्रै॑यमे॒धा आ॑सन्न् । तेषा॒न्त्रिरेकोऽग्निहो॒त्रम॑जुहोत् । द्विरेकः॑ । स॒कृदेकः॑ । तेषा॒य्यँस्त्रिरजु॑होत् । स ऋ॒चाऽजु॑होत् । यो द्विः । स यजु॑षा । यस्स॒कृत् । स तू॒ष्णीम् ।। 54 ।। 2.1.9.2 यश्च॒ यजु॒षाऽजु॑हो॒द्यश्च॑ तू॒ष्णीम् । तावु॒भावार्ध्नुताम् । तस्मा॒द्यजु॒षाऽऽहु॑ति॒ पूर्वा॑ होत॒व्या । तू॒ष्णीमुत्त॑रा । उ॒भे ए॒वर्धी अव॑रुन्धे । अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहेति॑ सा॒यञ्जु॑होति । रेत॑ ए॒व तद्द॑धाति । सूर्यो॒ ज्योति॒र्ज्योति॒- स्सूर्य॒स्स्वाहेति॑ प्रा॒तः । रेत॑ ए॒व हि॒तं प्र ज॑नयति । रेतो॒ वा ए॒तस्य॑ हि॒तन्न प्र जा॑यते ।। 55 ।। 2.1.9.3 यस्याग्निहो॒त्रमहु॑त॒॒ सूर्यो॒ऽभ्यु॑देति॑ । यद्यन्ते॒ स्यात् । उ॒न्नीय॒ प्राङु॒दाद्र॑वेत् । स उ॑प॒साद्यातमि॑तोरासीत । स य॒दा ताम्येत् । अथ॒ भूस्स्वाहेति॑ जुहुयात् । प्र॒जाप॑ति॒र्वै भू॒तः । तमे॒वोपा॑सरत् । स ए॒वैन॒न्तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ।। 56 ।। 2.1.10.0 आ॒दि॒त्यास्तर्ह्य॒ग्निरिन्द्र॑ ए॒वास्याग्निहो॒त्र हु॒तं भ॑वति दे॒वेषु॑ च॒त्वारि॑ च ।। 10 ।। (यद॒ग्निन्निहि॑त प्रथ॒म सर्व॑ ए॒व नि॑त॒रामङ्गा॑रा॒श्शरोऽङ्गा॑रा॒ ब्रह्म॒ वसु॑ष्व॒ष्टौ ।। ) 2.1.10.1 यद॒ग्निमु॒द्धर॑ति । वस॑व॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । वसु॑ष्वे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । निहि॑तो धूपा॒यञ्छे॑ते । रु॒द्रास्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । रु॒द्रे॒ष्वे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । प्र॒थ॒ममि॒ध्मम॒र्चिरा ल॑भते । आ॒दि॒त्यास्तर्ह्य॒ग्निः ।। 57 ।। 2.1.10.2 तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । आ॒दि॒त्येष्वे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । सर्व॑ ए॒व स॑र्व॒श इ॒ध्म आदीप्तो भवति । विश्वे॑ दे॒वास्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । विश्वेष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्र हु॒तं भ॑वति । नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भवति । इन्द्र॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । इन्द्र॑ ए॒वास्याग्निहो॒त्र हु॒तं भ॑वति ।। 58 ।। 2.1.10.3 अङ्गा॑रा भवन्ति । तेभ्योऽङ्गा॑रेभ्यो॒ऽर्चिरुदे॑ति । प्र॒जाप॑ति॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । प्र॒जाप॑तावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । शरोऽङ्गा॑रा॒ अध्यू॑हन्ते । ब्रह्म॒ तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । ब्रह्म॑न्ने॒वास्याग्निहो॒त्र हु॒तं भ॑वति । वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेषु॑ । इन्द्रे प्र॒जाप॑तौ॒ ब्रह्मन्न्॑ । अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तं भ॑वति । यस्यै॒वव्विँ॒दुषोऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑ चैनदे॒वव्वेँद॑ ।। 59 ।। 2.1.11.0 अ॒स्ति॒ द्वे च॑ ।। 11 ।। 2.1.11.1 ऋ॒तन्त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मीति॑ सा॒यं परि॑षिञ्चति । स॒त्यन्त्व॒र्तेन॒ परि॑षिञ्चा॒मीति॑ प्रा॒तः । अ॒ग्निर्वा ऋ॒तम् । अ॒सावा॑दि॒त्यस्स॒त्यम् । अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒यं परि॑षिञ्चति । अ॒ग्निना॑ऽऽदि॒त्यं प्रा॒तस्सः । याव॑दहोरा॒त्रे भव॑तः । ताव॑दस्य लो॒कस्य॑ । नार्ति॒र्न रिष्टिः॑ । नान्तो॒ न प॑र्य॒न्तोऽस्ति । यस्यै॒वव्विँ॒दुषोऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑चैनदे॒वव्वेँद॑ ।। 60 ।। 2.2.0.0 प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॑ प्र॒जाप॑तिरकामयत दर्‌शपूर्णमा॒सौ सृ॑जे॒येति॑ प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॒ स तप॒स्स त्रि॒वृतं॑ प्र॒जाप॑तिरकामयत॒ दश॑होतारं॒ तेन॑ दश॒धाऽऽत्मान॑न्दे॒वा वै वरु॑ण॒मन्तो॒ वै प्र॒जाप॑ति॒स्तास्सृ॒ष्टा- स्सम॑श्लिष्यन्दे॒वा वै चतु॑र्‌होतृभिरि॒दव्वाँ अग्रे प्र॒जाप॑ति॒रिन्द्रं॑ प्र॒जाप॑तिरकामयत ब॒होर्भूया॒नेका॑दश ।। 11 ।। प्र॒जाप॑ति॒स्तद्ग्रह॑स्य प्र॒जाप॑तिरकामयता॒नयै॒वैन॒त्तस्य॒ वा इ॒यङ्कॢप्ति॒स्तस्मात्तेपा॒नाज्ज्योति॒र्यद॒स्मिन्ना॑दि॒त्ये स षड्ढो॑तुस्स॒प्तहो॑तार॒न्त्रिस॑प्ततिः ।। 73 ।। प्र॒जाप॑तिरकामयत नि॒दान॑वान्भवति ।। ।। हरिः॑ ओम् ।। द्वितीय प्रपाठकस्समाप्तः 2.2.0.0 तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठक प्रारम्भः । हरिः ओम् ।। 2.2.1.0 दश॑होता॒ सृष्ट्या॑ ऋ॒च्छेद्व्याच॑प्टे रुन्ध ए॒व त॑नुते॒ निर्‌ऋ॑तिगृहीतं॒ पञ्च॑ च ।। 1 ।। 2.2.1.1 प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॑ । स ए॒तन्दश॑होतारमपश्यत् । तं मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे॑ऽजुहोत् । ततो॒ वै स प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टा अपाक्रामन्न् । ता ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । य का॒मये॑त॒ प्रजा॑ये॒येति॑ । स दश॑होतारं॒ मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे जु॑हुयात् । प्र॒जाप॑ति॒र्वै दश॑होता ।। 1 ।। 2.2.1.2 प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते । मन॑सा जुहोति । मन॑ इव॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । पू॒र्णया॑ जुहोति । पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । न्यू॑नया जुहोति । न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत । प्र॒जाना॒॒ सृष्ट्यै ।। 2 ।। 2.2.1.3 द॒र्भ॒स्त॒म्बे जु॑होति । ए॒तस्मा॒द्वै योने प्र॒जाप॑ति प्र॒जा अ॑सृजत । यस्मा॑दे॒व योने प्र॒जाप॑ति प्र॒जा असृ॑जत । तस्मा॑दे॒व योने॒ प्रजा॑यते । ब्रा॒ह्म॒णो द॑ख्षिण॒त उपास्ते । ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा । उ॒प॒द्र॒ष्टु॒मत्ये॒व प्रजा॑यते । ग्रहो॑ भवति । प्र॒जाना॑ सृ॒ष्टाना॒न्धृत्यै । यं ब्राह्म॒णव्विँ॒द्याव्विँ॒द्वास॒य्यँशो॒ नर्च्छेत् ।। 3 ।। 2.2.1.4 सोऽर॑ण्यं प॒रेत्य॑ । द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॑ । ब्रा॒ह्म॒णन्द॑ख्षिण॒तो नि॒षाद्य॑ । चतु॑र्होतॄ॒न्व्याच॑ख्षीत । ए॒तद्वै दे॒वानां पर॒मङ्गुह्यं॒ ब्रह्म॑ । यच्चतु॑र्‌होतारः । तदे॒व प्र॑का॒शङ्ग॑मयति । तदे॑नं प्रका॒शङ्ग॒तम् । प्र॒का॒शं प्र॒जानाङ्गमयति । द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॒ व्याच॑ष्टे ।। 4 ।। 2.2.1.5 अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः । अ॒ग्नि॒वत्ये॒व व्याच॑ष्टे । ब्रा॒ह्म॒णो द॑ख्षिण॒त उपास्ते । ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा । उ॒प॒द्र॒ष्टु॒मत्ये॒वैन॒य्यँश॑ ऋच्छति । ई॒श्व॒रन्तय्यँशोर्तो॒रित्या॑हुः । यस्यान्ते व्या॒चष्ट॒ इति॑ । वर॒स्तस्मै॒ देयः॑ । यदे॒वैन॒न्तत्रो॑प॒नम॑ति । तदे॒वाव॑ रुन्धे ।। 5 ।। 2.2.1.6 अ॒ग्निमा॒दधा॑नो॒ दश॑होत्रा॒ऽरणि॒मव॑ दध्यात् । प्रजा॑तमे॒वैन॒मा ध॑त्ते । तेनै॒वोद्द्रुत्याग्निहो॒त्रञ्जु॑हुयात् । प्रजा॑तमे॒वैन॑ज्जुहोति । ह॒विर्नि॑र्व॒फ्स्यन्दश॑होतार॒व्य्याँच॑ख्षीत । प्रजा॑तमे॒वैन॒न्निर्व॑पति । सा॒मि॒धे॒नीर॑नुव॒क्ष्यन्दश॑होतार॒- व्व्याँच॑क्षीत । सा॒मि॒धे॒नीरे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते । अथो॑ य॒ज्ञो वै दश॑होता । य॒ज्ञमे॒व त॑नुते ।। 6 ।। 2.2.1.7 अ॒भि॒चर॒न्दश॑होतारञ्जुहुयात् । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । सप्रा॑णमे॒वैन॑म॒भि च॑रति । ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् । याव॑त्प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तद॒भि च॑रति । स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा । ए॒तद्वा अ॒स्यै निर्‌ऋ॑तिगृहीतम् । निर्‌ऋ॑तिगृहीत ए॒वैन॒न्निर्‌ऋ॑त्या ग्राहयति । यद्वा॒च क्रू॒रम् । तेन॒ वष॑ट्करोति । वा॒च ए॒वैन॑ङ्क्रू॒रेण॒ प्र वृ॑श्चति । ता॒जगार्ति॒मार्च्छ॑ति ।। 7 ।। 2.2.2.0 त॒नु॒त॒ आ॒लभ॑मानोऽगृह्णादसृजताभरञ्जायेर॒न्थ्षट्च॑ ।। 2 ।। 2.2.2.1 प्र॒जाप॑तिरकामयत दर्‌शपूर्णमा॒सौ सृ॑जे॒येति॑ । स ए॒तञ्चतु॑र्‌होतारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स द॑र्‌शपूर्णमा॒साव॑सृजत । ताव॑स्माथ्सृ॒ष्टावपाक्रामताम् । तौ ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । द॒र्श॒पू॒र्ण॒मा॒सावा॒लभ॑मानः । चतु॑र्‌होतारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । द॒र्श॒पू॒र्ण॒मा॒सावे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते ।। 8 ।। 2.2.2.2 ग्रहो॑ भवति । द॒र्‌श॒पू॒र्ण॒मा॒सयोस्सृ॒ष्टयो॒र्धृत्यै । सो॑ऽकामयत चातुर्मा॒स्यानि॑ सृजे॒येति॑ । स ए॒तं पञ्च॑होतारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स चा॑तुर्मा॒स्यान्य॑सृजत । तान्य॑स्माथ्सृ॒ष्टान्यपाक्रामन्न् । तानि॒ ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । चा॒तु॒र्मा॒स्यान्या॒लभ॑मानः ।। 9 ।। 2.2.2.3 पञ्च॑होतारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । चा॒तु॒र्मा॒स्यान्ये॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते । ग्रहो॑ भवति । चा॒तु॒र्मा॒स्याना॑ सृ॒ष्टाना॒न्धृत्यै । सो॑ऽकामयत पशुब॒न्ध सृ॑जे॒येति॑ । स ए॒त षड्ढो॑तारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स प॑शुब॒न्धम॑सृजत । सोस्माथ्सृ॒ष्टोऽपाक्रामत् । तङ्ग्रहे॑णागृह्णात् ।। 10 ।। 2.2.2.4 तद्ग्रह॑स्य ग्रह॒त्वम् । प॒शु॒ब॒न्धेन॑ य॒ख्ष्यमा॑णः । षड्ढो॑तारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । प॒शु॒ब॒न्धमे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते । ग्रहो॑ भवति । प॒शु॒ब॒न्धस्य॑ सृ॒ष्टस्य॒ धृत्यै । सो॑ऽकामयत सौ॒म्यम॑ध्व॒र सृ॑जे॒येति॑ । स ए॒त स॒प्तहो॑तारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स सौ॒म्यम॑ध्व॒रम॑सृजत ।। 11 ।। 2.2.2.5 सोऽस्माथ्सृ॒ष्टोऽपाक्रामत् । तङ्ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । दी॒ख्षि॒ष्यमा॑णः । स॒प्तहो॑तारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । सौ॒म्यमे॒वाध्व॒र सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते । ग्रहो॑ भवति । सौ॒म्यस्याध्व॒रस्य॑ सृ॒ष्टस्य॒ धृत्यै । दे॒वेभ्यो॒ वै य॒ज्ञो न प्राभ॑वत् । तमे॑ताव॒च्छस्सम॑भरन्न् ।। 12 ।। 2.2.2.6 यथ्सं॑भा॒राः । ततो॒ वै तेभ्यो॑ य॒ज्ञ प्राभ॑वत् । यथ्सं॑भा॒रा भव॑न्ति । य॒ज्ञस्य॒ प्रभूत्यै । आ॒ति॒थ्यमा॒साद्य॒ व्याच॑ष्टे । य॒ज्ञ॒मु॒खव्वाँ आ॑ति॒थ्यम् । मु॒ख॒त ए॒व य॒ज्ञ सं॒भृत्य॒ प्र त॑नुते । अय॑ज्ञो॒ वा ए॒षः । यो॑ऽप॒त्नीकः॑ । न प्र॒जा प्रजा॑येरन्न् । पत्नी॒र्व्याच॑ष्टे । य॒ज्ञमे॒वाकः॑ । प्र॒जानां प्र॒जन॑नाय । उ॒प॒सथ्सु॒ व्याच॑ष्टे । ए॒तद्वै पत्नी॑नामा॒यत॑नम् । स्व ए॒वैना॑ आ॒यत॒नेऽव॑कल्पयति ।। 13 ।। 2.2.3.0 स्या॒दिति॑ सव्वँथ्स॒रो ज॑नयध्व॒मितीत्य॑ब्रवी॒त्पूर्व॒ इत्या॑दि॒त्यानृ॒तव॒ष्षट्च॑ ।। 3 ।। 2.2.3.1 प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । स त्रि॒वृत॒॒ स्तोम॑मसृजत । तं प॑ञ्चद॒शः स्तोमो॑ मध्य॒त उद॑तृणत् । तौ पूर्वप॒ख्षश्चा॑परप॒ख्षश्चा॑भवताम् । पू॒र्व॒प॒ख्षन्दे॒वा अन्वसृ॑ज्यन्त । अ॒प॒र॒प॒ख्षमन्वसु॑राः । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः । यङ्का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॑ ।। 14 ।। 2.2.3.2 तं पूर्वप॒ख्षे या॑जयेत् । वसी॑याने॒व भ॑वति । यङ्का॒मये॑त॒ पापी॑यान्थ्स्या॒दिति॑ । तम॑परप॒ख्षे या॑जयेत् । पापी॑याने॒व भ॑वति । तस्मात्पूर्वप॒ख्षो॑ऽपरप॒ख्षात्क॑रु॒ण्य॑तरः । प्र॒जाप॑ति॒र्वै दश॑होता । चतु॑र्‌होता॒ पञ्च॑होता । षड्ढो॑ता स॒प्तहो॑ता । ऋ॒तव॑स्सव्वँथ्स॒रः ।। 15 ।। 2.2.3.3 प्र॒जा प॒शव॑ इ॒मे लो॒काः । य ए॒वं प्र॒जाप॑तिं ब॒होर्भूया॑स॒व्वेँद॑ । ब॒होरे॒व भूयान्भवति । प्र॒जाप॑तिर्देवासु॒रान॑सृजत । स इन्द्र॒मपि॒ नासृ॑जत । तन्दे॒वा अ॑ब्रुवन्न् । इन्द्र॑न्नो जन॒येति॑ । सोऽब्रवीत् । यथा॒ऽहय्युँ॒ष्मास्तप॒साऽसृ॑ख्षि । ए॒वमिन्द्र॑ञ्जनयध्व॒मिति॑ ।। 16 ।। 2.2.3.4 ते तपो॑ऽतप्यन्त । त आ॒त्मन्निन्द्र॑मपश्यन्न् । तम॑ब्रुवन्न् । जाय॒स्वेति॑ । सोऽब्रवीत् । किं भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑ । ऋ॒तून्थ्स॑वँथ्स॒रम् । प्र॒जा प॒शून् । इ॒माल्लोँ॒कानित्य॑ब्रुवन्न् । तव्वैँ माऽऽहु॑त्या॒ प्र ज॑नय॒तेत्य॑ब्रवीत् ।। 17 ।। 2.2.3.5 तञ्चतु॑र्‌होत्रा॒ प्राज॑नयन्न् । य का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ । स चतु॑र्‌होतारञ्जुहुयात् । प्र॒जाप॑ति॒र्वै चतु॑र्होता । प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते । ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहेति॒ ग्रहे॑ण जुहोति । आऽस्य॑ वी॒रो जा॑यते । वी॒र हि दे॒वा ए॒तयाऽऽहु॑त्या॒ प्राज॑नयन्न् । आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒केऽस्पर्धन्त । व॒यं पूर्वे॑ सुव॒र्गल्लोँ॒कमि॑याम व॒यं पूर्व॒ इति॑ ।। 18 ।। 2.2.3.6 त आ॑दि॒त्या ए॒तं पञ्च॑होतारमपश्यन्न् । तं पु॒रा प्रा॑तरनुवा॒कादाग्नीध्रेऽजुहवुः । ततो॒ वै ते पूर्वे॑ सुव॒र्गल्लोँ॒कमा॑यन्न् । यस्सु॑व॒र्गका॑म॒स्स्यात् । स पञ्च॑होतारं पु॒रा प्रा॑तरनुवा॒कादाग्नीध्रे जुहुयात् । स॒व्वँ॒थ्स॒रो वै पञ्च॑होता । स॒व्वँ॒थ्स॒रस्सु॑व॒र्गो लो॒कः । स॒व्वँ॒थ्स॒र ए॒वर्तुषु॑ प्रति॒ष्ठाय॑ । सु॒व॒र्गल्लोँ॒कमे॑ति । तेऽब्रुव॒न्नङ्गि॑रस आदि॒त्यान् ।। 19 ।। 2.2.3.7 क्व॑ स्थ । क्व॑ वस्स॒द्भ्यो ह॒व्यव्वँ॑ख्ष्याम॒ इति॑ । छन्द॒स्स्वित्य॑ब्रुवन्न् । गा॒य॒त्रि॒यान्त्रि॒ष्टुभि॒ जग॑त्या॒मिति॑ । तस्मा॒च्छन्द॑स्सु स॒द्भ्य आ॑दि॒त्येभ्यः॑ । आ॒ङ्गी॒र॒सी प्र॒जा ह॒व्यव्वँ॑हन्ति । वह॑न्त्यस्मै प्र॒जा ब॒लिम् । ऐन॒मप्र॑तिख्यातङ्गच्छति । य ए॒वव्वेँद॑ । द्वाद॑श॒ मासा॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒॒शः । ए॒तस्मि॒न्वा ए॒ष श्रि॒तः । ए॒तस्मि॒न्प्रति॑ष्ठितः । य ए॒वमे॒त श्रि॒तं प्रति॑ष्ठित॒व्वेँद॑ । प्रत्ये॒व ति॑ष्ठति ।। 20 ।। 2.2.4.0 अ॒न॒न्द॒द्भुव॒ इति॒ व्याह॑र॒द्वेदा॑सी॒द्वेदा॑धत्त॒ प्रजात्यै ।। 4 ।। 2.2.4.1 प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ । स ए॒तन्दश॑होतारमपश्यत् । तेन॑ दश॒धाऽऽत्मान॑व्विँ॒धाय॑ । दश॑होत्राऽतप्यत । तस्य॒ चित्ति॒स्स्रुगासीत् । चि॒त्तमाज्यम् । तस्यै॒ताव॑त्ये॒व वागासीत् । ए॒तावान्॑ यज्ञक्र॒तुः । स चतु॑र्‌होतारमसृजत । सो॑ऽनन्दत् ।। 21 ।। 2.2.4.2 असृ॑ख्षि॒ वा इ॒ममिति॑ । तस्य॒ सामो॑ ह॒विरासीत् । स चतु॑र्‌होत्राऽतप्यत । सो॑ऽताम्यत् । स भूरिति॒ व्याह॑रत् । स भूमि॑मसृजत । अ॒ग्नि॒हो॒त्रन्द॑र्‌शपूर्णमा॒सौ यजू॑षि । स द्वि॒तीय॑मतप्यत । सो॑ऽताम्यत् । स भुव॒ इति॒ व्याह॑रत् ।। 22 ।। 2.2.4.3 सोऽन्तरि॑ख्षमसृजत । चा॒तु॒र्मा॒स्यानि॒ सामा॑नि । स तृ॒तीय॑मतप्यत । सो॑ऽताम्यत् । स सुव॒रिति॒ व्याह॑रत् । स दिव॑मसृजत । अ॒ग्नि॒ष्टो॒ममु॒क्थ्य॑मतिरा॒त्रमृचः॑ । ए॒ता वै व्याहृ॑तय इ॒मे लो॒काः । इ॒मान्खलु॒ वै लो॒काननु॑ प्र॒जा प॒शव॒श्छन्दा॑सि॒ प्राजा॑यन्त । य ए॒वमे॒ता प्र॒जाप॑ते प्रथ॒मा व्याहृ॑ती॒ प्रजा॑ता॒ वेद॑ ।। 23 ।। 2.2.4.4 प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । स पञ्च॑होतारमसृजत । स ह॒विर्नावि॑न्दत । तस्मै॒ सोम॑स्त॒नुवं॒ प्राय॑च्छत् । ए॒तत्ते॑ ह॒विरिति॑ । स पञ्च॑होत्राऽतप्यत । सो॑ऽताम्यत् । स प्र॒त्यङ्ङ॑बाधत । सोऽसु॑रानसृजत । तद॒स्याप्रि॑यमासीत् ।। 24 ।। 2.2.4.5 तद्दु॒र्वर्ण॒॒ हिर॑ण्यमभवत् । तद्दु॒र्वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ । स द्वि॒तीय॑मतप्यत । सो॑ऽताम्यत् । स प्राङ॑बाधत । स दे॒वान॑सृजत । तद॑स्य प्रि॒यमा॑सीत् । तथ्सु॒वर्ण॒॒ हिर॑ण्यमभवत् । तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ । य ए॒व सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वेद॑ ।। 25 ।। 2.2.4.6 सु॒वर्ण॑ आ॒त्मना॑ भवति । दु॒र्वर्णोऽस्य॒ भ्रातृ॑व्यः । तस्माथ्सु॒वर्ण॒॒ हिर॑ण्यं भा॒र्यम् । सु॒वर्ण॑ ए॒व भ॑वति । ऐनं॑ प्रि॒यङ्ग॑च्छति॒ नाप्रि॑यम् । स स॒प्तहो॑तारमसृजत । स स॒प्तहोत्रै॒व सु॑व॒र्गल्लोँ॒कमैत् । त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत । त्र॒य॒स्त्रि॒॒शेन॒ प्रत्य॑तिष्ठत् । ए॒क॒वि॒॒शेन॒ रुच॑मधत्त ।। 26 ।। 2.2.4.7 स॒प्त॒द॒शेन॒ प्राजा॑यत । य ए॒वव्विँ॒द्वान्थ्सोमे॑न॒ यज॑ते । स॒प्तहोत्रै॒व सु॑व॒र्गल्लोँ॒कमे॑ति । त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्यो॒ भ्रातृ॑व्या॒न्प्रणु॑दते । त्र॒य॒स्त्रि॒॒शेन॒ प्रति॑तिष्ठति । ए॒क॒वि॒॒शेन॒ रुच॑न्धत्ते । स॒प्त॒द॒शेन॒ प्र जा॑यते । तस्माथ्सप्तद॒श- स्स्तोमो॒ न नि॒र्॒हृत्यः॑ । प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तिमे॒व म॑ध्य॒तो ध॑त्ते॒ प्रजात्यै ।। 27 ।। 2.2.5.0 व्ली॒ना॒त्यश्व॒मित्या॑हाङ्गीर॒स प्र॑तिग्रही॒त्र इत्या॑ह प्रतिग्रही॒तेत्या॑ह॒ दख्षि॒णेत्या॑ह च॒त्वारि॑ च ।। 5 ।। 2.2.5.1 दे॒वा वै वरु॑णमयाजयन्न् । स यस्यै॑यस्यै दे॒वता॑यै॒ दख्षि॑णा॒मन॑यत् । ताम॑व्लीनात् । तेऽब्रुवन्न् । व्या॒वृत्य॒ प्रति॑ गृह्णाम । तथा॑ नो॒ दख्षि॑णा॒ न व्लेष्य॒तीति॑ । ते व्या॒वृत्य॒ प्रत्य॑गृह्णन्न् । ततो॒ वै तान्दख्षि॑णा॒ नाव्ली॑नात् । य ए॒वव्विँ॒द्वान्व्या॒वृत्य॒ दख्षि॑णां प्रतिगृ॒ह्णाति॑ । नैन॒न्दख्षि॑णा व्लीनाति ।। 28 ।। 2.2.5.2 राजा त्वा॒ वरु॑णो नयतु देवि दख्षिणे॒ऽग्नये॒ हिर॑ण्य॒मित्या॑ह । आ॒ग्ने॒यव्वैँ हिर॑ण्यम् । स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑ गृह्णाति । सोमा॑य॒ वास॒ इत्या॑ह । सौ॒म्यव्वैँ वासः॑ । स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑ गृह्णाति । रु॒द्राय॒ गामित्या॑ह । रौ॒द्री वै गौः । स्वयै॒वैनान्दे॒वत॑या॒ प्रति॑गृह्णाति । वरु॑णा॒याश्व॒मित्या॑ह ।। 29 ।। 2.2.5.3 वा॒रु॒णो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑गृह्णाति । प्र॒जाप॑तये॒ पुरु॑ष॒मित्या॑ह । प्रा॒जा॒प॒त्यो वै पुरु॑षः । स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑ गृह्णाति । मन॑वे॒ तल्प॒मित्या॑ह । मा॒न॒वो वै तल्पः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑ गृह्णाति । उ॒त्ता॒नायाङ्गीर॒सायान॒ इत्या॑ह । इ॒यव्वाँ उ॑त्ता॒न आङ्गीर॒सः ।। 30 ।। 2.2.5.4 अ॒नयै॒वैन॒त्प्रति॑ गृह्णाति । वै॒श्वा॒न॒र्यर्चा रथं॒ प्रति॑ गृह्णाति । वै॒श्वा॒न॒रो वै दे॒वत॑या॒ रथः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑ गृह्णाति । तेना॑मृत॒त्वम॑श्या॒मित्या॑ह । अ॒मृत॑मे॒वात्मन्ध॑त्ते । वयो॑ दा॒त्र इत्या॑ह । वय॑ ए॒वैन॑ङ्कृ॒त्वा । सु॒व॒र्गल्लोँ॒कङ्ग॑मयति । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्र इत्या॑ह ।। 31 ।। 2.2.5.5 यद्वै शि॒वम् । तन्मयः॑ । आ॒त्मन॑ ए॒वैषा परीत्तिः । क इ॒दङ्कस्मा॑ अदा॒दित्या॑ह । प्र॒जाप॑ति॒र्वै कः । स प्र॒जाप॑तये ददाति । काम॒ कामा॒येत्या॑ह । कामे॑न॒ हि ददा॑ति । कामे॑न प्रतिगृ॒ह्णाति॑ । कामो॑ दा॒ता काम॑ प्रतिग्रही॒तेत्या॑ह ।। 32 ।। 2.2.5.6 कामो॒ हि दा॒ता । काम॑ प्रतिग्रही॒ता । काम॑ समु॒द्रमावि॒शेत्या॑ह । स॒मु॒द्र इ॑व॒ हि कामः॑ । नेव॒ हि काम॒स्यान्तोऽस्ति॑ । न स॑मु॒द्रस्य॑ । कामे॑न त्वा॒ प्रति॑गृह्णा॒मीत्या॑ह । येन॒ कामे॑न प्रतिगृ॒ह्णाति॑ । स ए॒वैन॑म॒मुष्मि॑ल्लोँ॒के काम॒ आग॑च्छति । कामै॒तत्त॑ ए॒षा ते॑ काम॒ दख्षि॒णेत्या॑ह । काम॑ ए॒व तद्यज॑मानो॒ऽमुष्मि॑ल्लोँ॒के दख्षि॑णामिच्छति । न प्र॑तिग्रही॒तरि॑ । य ए॒वव्विँ॒द्वान्दख्षि॑णां प्रतिगृ॒ह्णाति॑ । अ॒नृ॒णामे॒वैनां॒ प्रति॑ गृह्णाति ।। 33 ।। 2.2.6.0 पृश्ञि॑ तिष्ठन्ति गमयति शिषे॒त्पञ्च॑ च ।। 6 ।। 2.2.6.1 अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ । यद्द॑श॒ममहः॑ । द॒श॒मेऽहन्थ्सर्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑वन्ति । य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा । अ॒न्नाद्य॒मव॑ रुन्धते । ति॒सृभि॑स्स्तुवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॒ऽन्नाद्य॒मव॑ रुन्धते । पृश्ञि॑वतीर्भवन्ति । अन्न॒व्वैँ पृश्ञि॑ ।। 34 ।। 2.2.6.2 अन्न॑मे॒वाव॑ रुन्धते । मन॑सा॒ प्रस्तौ॑ति । मन॒सोद्गा॑यति । मन॑सा॒ प्रति॑ हरति । मन॑ इव॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । दे॒वा वै स॒र्पाः । तेषा॑मि॒य राज्ञी । यथ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॒वन्ति॑ । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति ।। 35 ।। 2.2.6.3 चतु॑र्‌होतॄ॒न्॒ होता॒ व्याच॑ष्टे । स्तु॒तमनु॑शसति॒ शान्त्यै । अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ । यद्द॑श॒ममहः॑ । ए॒तत्खलु॒ वै दे॒वानां पर॒मङ्गुह्यं॒ ब्रह्म॑ । यच्चतु॑र्होतारः । द॒श॒मेऽह॒॒ श्चतु॑र्‌होतॄ॒न्व्याच॑ष्टे । य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा । प॒र॒मन्दे॒वाना॒ङ्गुह्यं॒ ब्रह्माव॑ रुन्धे । तदे॒व प्र॑का॒शङ्ग॑मयति ।। 36 ।। 2.2.6.4 तदे॑नं प्रका॒शङ्ग॒तम् । प्र॒का॒शं प्र॒जानाङ्गमयति । वाच॑य्यँच्छति । य॒ज्ञस्य॒ धृत्यै । य॒ज॒मा॒न॒दे॒व॒त्य॑व्वाँ अहः॑ । भ्रा॒तृ॒व्य॒दे॒व॒त्या॑ रात्रिः॑ । अह्ना॒ रात्रि॑न्ध्यायेत् । भ्रातृ॑व्यस्यै॒व तल्लो॒कव्वृँ॑ङ्क्ते । यद्दिवा॒ वाच॑व्विँसृ॒जेत् । अह॒र्भ्रातृ॑व्या॒योच्छि॑षेत् । यन्नक्त॑व्विँसृ॒जेत् । रात्रिं॒ भ्रातृ॑व्या॒योच्छि॑षेत् । अ॒धि॒वृ॒ख्ष॒सू॒र्ये वाच॒व्विँसृ॑जति । ए॒ताव॑न्तमे॒वास्मै॑ लो॒कमुच्छि॑षति । याव॑दादि॒त्योऽस्त॒मेति॑ ।। 37 ।। 2.2.7.0 ह्वये॑ते अभवत्कल्प॒येतीति॑ च॒त्वारि॑ च ।। 7 ।। 2.2.7.1 प्र॒जाप॑ति प्र॒जा अ॑सृजत । तास्सृ॒ष्टास्सम॑श्लिष्यन्न् । ता रू॒पेणानु॒प्रावि॑शत् । तस्मा॑दाहुः । रू॒पव्वैँ प्र॒जाप॑ति॒रिति॑ । ता नाम्नाऽनु॒ प्रावि॑शत् । तस्मा॑दाहुः । नाम॒ वै प्र॒जाप॑ति॒रिति॑ । तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑ । नाम्ना॒ चेद्ध्वये॑ते ।। 38 ।। 2.2.7.2 मि॒त्रमे॒व भ॑वतः । प्र॒जाप॑तिर्देवासु॒रान॑सृजत । स इन्द्र॒मपि॒ नासृ॑जत । तन्दे॒वा अ॑ब्रुवन्न् । इन्द्र॑न्नो जन॒येति॑ । स आ॒त्मन्निन्द्र॑मपश्यत् । तम॑सृजत । तन्त्रि॒ष्टुग्वी॒र्यं॑ भू॒त्वाऽनु॒ प्रावि॑शत् । तस्य॒ वज्र॑ पञ्चद॒शो हस्त॒ आप॑द्यत । तेनो॒दय्यासु॑रान॒भ्य॑भवत् ।। 39 ।। 2.2.7.3 य ए॒वव्वेँद॑ । अ॒भि भ्रातृ॑व्यान्भवति । ते दे॒वा असु॑रैर्वि॒जित्य॑ । सु॒व॒र्गल्लोँ॒कमा॑यन्न् । ते॑ऽमुष्मि॑ल्लोँ॒के व्य॑ख्षुध्यन्न् । तेऽब्रुवन्न् । अ॒मुत॑ प्रदान॒व्वाँ उप॑जिजीवि॒मेति॑ । ते स॒प्तहो॑तारय्यँ॒ज्ञव्विँ॒धाया॒यास्यम् । आ॒ङ्गी॒र॒सं प्राहि॑ण्वन्न् । ए॒तेना॒मुत्र॑ कल्प॒येति॑ ।। 40 ।। 2.2.7.4 तस्य॒ वा इ॒यङ्कॢप्तिः॑ । यदि॒दङ्किञ्च॑ । य ए॒वव्वेँद॑ । कल्प॑तेऽस्मै । स वा अ॒यं म॑नु॒ष्ये॑षु य॒ज्ञस्स॒प्तहो॑ता । अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यव्वँ॑हति । य ए॒वव्वेँद॑ । उपै॑नय्यँ॒ज्ञो न॑मति । सो॑ऽमन्यत । अ॒भि वा इ॒मेऽस्माल्लो॒काद॒मुल्लोँ॒कङ्क॑मिष्यन्त॒ इति॑ । स वाच॑स्पते॒ हृदिति॒ व्याह॑रत् । तस्मात्पु॒त्त्रो हृद॑यम् । तस्मा॑द॒स्माल्लो॒काद॒मुल्लोँ॒कन्नाभि का॑मयन्ते । पु॒त्त्रो हि हृद॑यम् ।। 41 ।। 2.2.8.0 अ॒भि॒षु॒ण्वन्ति॑ स॒प्तहो॑ता तर्पयति॒ षड्ढोत्रा निवि॒त्त्वमभूत्तिष्ठति॒ प्राहेति॒ द्वे च॑ ।। 8 ।। 2.2.8.1 दे॒वा वै चतु॑र्‌होतृभिर्य॒ज्ञम॑तन्वत । ते वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाज॑यन्त । अ॒भि सु॑व॒र्गल्लोँ॒कम॑जयन्न् । य ए॒वव्विँ॒द्वा श्चतु॑र्होतृभिर्य॒ज्ञन्त॑नु॒ते । वि पा॒प्मना॒ भ्रातृ॑व्येण जयते । अ॒भि सु॑व॒र्गल्लोँ॒कञ्ज॑यति । षड्ढोत्रा प्राय॒णीय॒मा सा॑दयति । अ॒मुष्मै॒ वै लो॒काय॒ षड्ढो॑ता । घ्नन्ति॒ खलु॒ वा ए॒तथ्सोमम् । यद॑भिषु॒ण्वन्ति॑ ।। 42 ।। 2.2.8.2 ऋ॒जु॒धैवैन॑म॒मुल्लोँ॒कङ्ग॑मयति । चतु॑र्‌होत्राऽऽति॒थ्यम् । यशो॒ वै चतु॑र्‌होता । यश॑ ए॒वात्मन्ध॑त्ते । पञ्च॑होत्रा प॒शुमुप॑सादयति । सु॒व॒र्ग्यो॑ वै पञ्च॑होता । यज॑मान प॒शुः । यज॑मानमे॒व सु॑व॒र्गल्लोँ॒कङ्ग॑मयति । ग्रहान्गृही॒त्वा स॒प्तहो॑तारञ्जुहोति । इ॒न्द्रि॒यव्वैँ स॒प्तहो॑ता ।। 43 ।। 2.2.8.3 इ॒न्द्रि॒यमे॒वात्मन्ध॑त्ते । यो वै चतु॑र्‌होतॄननुसव॒नन्त॒र्पय॑ति । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑न सोमपी॒थो न॑मति । ब॒हि॒ष्प॒व॒मा॒ने दश॑होतार॒व्व्याँच॑ख्षीत । माध्य॑न्दिने॒ पव॑माने॒ चतु॑र्‌होतारम् । आर्भ॑वे॒ पव॑माने॒ पञ्च॑होतारम् । पि॒तृ॒य॒ज्ञे षड्ढो॑तारम् । य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे स॒प्तहो॑तारम् । अ॒नु॒स॒व॒नमे॒वैना॑ स्तर्पयति ।। 44 ।। 2.2.8.4 तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑न सोमपी॒थो न॑मति । दे॒वा वै चतु॑र्‌होतृभिस्स॒त्त्रमा॑सत । ऋद्धि॑परिमित॒य्यँश॑स्कामाः । तेऽब्रुवन्न् । यन्न॑ प्रथ॒मय्यँश॑ ऋ॒च्छात् । सर्वे॑षान्न॒स्तथ्स॒हास॒दिति॑ । सोम॒श्चतु॑र्‌होत्रा । अ॒ग्नि पञ्च॑होत्रा । धा॒ता षड्ढोत्रा ।। 45 ।। 2.2.8.5 इन्द्र॑स्स॒प्तहोत्रा । प्र॒जाप॑ति॒र्दश॑होत्रा । तेषा॒॒ सोम॒॒ राजा॑न॒य्यँश॑ आर्च्छत् । तन्न्य॑कामयत । तेनापाक्रामत् । तेन॑ प्र॒लाय॑मचरत् । तन्दे॒वा प्रै॒षै प्रैष॑मैच्छन्न् । तत्प्रै॒षाणां प्रैष॒त्वम् । नि॒विद्भि॒र्न्य॑वेदयन्न् । तन्नि॒विदान्निवि॒त्त्वम् ।। 46 ।। 2.2.8.6 आ॒प्रीभि॑राप्नुवन्न् । तदा॒प्रीणा॑माप्रि॒त्वम् । तम॑घ्नन्न् । तस्य॒ यशो॒ व्य॑गृह्णत । ते ग्रहा॑ अभवन्न् । तद्ग्रहा॑णाङ्ग्रह॒त्वम् । यस्यै॒वव्विँ॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते । तस्य॒ त्वे॑व गृ॑ही॒ताः । तेऽब्रुवन्न् । यो वै नः॒ श्रेष्ठोऽभूत् ।। 47 ।। 2.2.8.7 तम॑वधिष्म । पुन॑रि॒म सु॑वामहा॒ इति॑ । तञ्छन्दो॑भिरसुवन्त । तच्छन्द॑साञ्छन्द॒स्त्वम् । साम्ना॒ समान॑यन्न् । तथ्साम्न॑स्साम॒त्वम् । उ॒क्थैरुद॑स्थापयन्न् । तदु॒क्थाना॑मुक्थ॒त्वम् । य ए॒वव्वेँद॑ । प्रत्ये॒व ति॑ष्ठति ।। 48 ।। 2.2.8.8 सर्व॒मायु॑रेति । सोमो॒ वै यशः॑ । य ए॒वव्विँ॒द्वान्थ्सोम॑मा॒गच्छ॑ति । यश॑ ए॒वैन॑मृच्छति । तस्मा॑दाहुः । यश्चै॒वव्वेँद॒ यश्च॒ न । तावु॒भौ सोम॒माग॑च्छतः । सोमो॒ हि यशः॑ । तन्त्वाऽव यश॑ ऋच्छ॒तीत्या॑हुः । यस्सोमे॒ सोमं॒ प्राहेति॑ । तस्मा॒थ्सोमे॒ सोम॒ प्रोच्यः॑ । यश॑ ए॒वैन॑मृच्छति ।। 49 ।। 2.2.9.0 अ॒ग्निर॑जायत॒ तद्भूयो॑ऽतप्यताभिनदरोदीत्प्र॒जाप॑तीरोद॒स्त्वम॑सृज॒तासृ॑जत घृ॒तम॑दुह॒द्याऽस्य॒ सा त॒नूरासी॒दह॑रभवदृच्छति॒ वेद॑ ।। 9 ।। (इ॒दं धू॒मोऽग्निर्ज्योति॑र॒र्चिर्मरी॑चय उदा॒रास्तद॒ब्भ्र स ज॒घना॒थ्सा तमि॑स्रा॒ स प्र॒जन॑ना॒थ्सा जोथ्स्ना॒ स उ॑पप॒ख्षाभ्या॒॒ सो॑ऽहोरा॒त्रयोस्स॒न्धिस्स मुखा॒त्तदह॑र्दे॒ववान्मृ॒न्मये॑ दारु॒मये॑ रज॒ते हरि॑ते॒ तेभ्य॒स्ताभ्यो॒ द्वे तेऽन्नं॒ पयो॑ घृ॒त सोमम् ।। ) 2.2.9.1 इ॒दव्वाँ अग्रे॒ नैव किञ्च॒ नासीत् । न द्यौरा॑सीत् । न पृ॑थि॒वी । नान्तरि॑ख्षम् । तदस॑दे॒व सन्मनो॑ऽकुरुत॒ स्यामिति॑ । तद॑तप्यत । तस्मात्तेपा॒नाद्धू॒मो॑ऽजायत । तद्भूयो॑ऽतप्यत । तस्मात्तेपा॒नाद॒ग्निर॑जायत । तद्भूयो॑ऽतप्यत ।। 50 ।। 2.2.9.2 तस्मात्तेपा॒नाज्ज्योति॑रजायत । तद्भूयो॑ऽतप्यत । तन्मात्तेपा॒नाद॒र्चिर॑जायत । तद्भूयो॑ऽतप्यत । तस्मात्तेपा॒नान्मरी॑चयोऽजायन्त । तद्भूयो॑ऽतप्यत । तस्मात्तेपा॒नादु॑दा॒रा अ॑जायन्त । तद्भूयो॑ऽतप्यत । तद॒भ्रमि॑व॒ सम॑हन्यत । तद्व॒स्तिम॑भिनत् ।। 51 ।। 2.2.9.3 स स॑मु॒द्रो॑ऽभवत् । तस्माथ्समु॒द्रस्य॒ न पि॑बन्ति । प्र॒जन॑नमिव॒ हि मन्य॑न्ते । तस्मात्प॒शोर्जाय॑माना॒दाप॑ पु॒रस्ताद्यन्ति । तद्दश॑हो॒ताऽन्व॑सृज्यत । प्र॒जाप॑ति॒र्वै दश॑होता । य ए॒वन्तप॑सो वी॒र्य॑व्विँ॒द्वा स्तप्य॑ते । भव॑त्ये॒व । तद्वा इ॒दमाप॑स्सलि॒लमा॑सीत् । सो॑ऽरोदीत्प्र॒जाप॑तिः ।। 52 ।। 2.2.9.4 स कस्मा॑ अज्ञि । यद्य॒स्या अप्र॑तिष्ठाया॒ इति॑ । यद॒फ्स्व॑वाप॑द्यत । सा पृ॑थि॒व्य॑भवत् । यद्व्यमृ॑ष्ट । तद॒न्तरि॑ख्षमभवत् । यदू॒र्ध्वमु॒दमृ॑ष्ट । सा द्यौर॑भवत् । यदरो॑दीत् । तद॒नयो॑ रोद॒स्त्वम् ।। 53 ।। 2.2.9.5 य ए॒वव्वेँद॑ । नास्य॑ गृ॒हे रु॑दन्ति । ए॒तद्वा ए॒षाल्लोँ॒काना॒ञ्जन्म॑ । य ए॒वमे॒षाल्लोँ॒काना॒ञ्जन्म॒ वेद॑ । नैषु लो॒केष्वार्ति॒मार्च्छ॑ति । स इ॒मां प्र॑ति॒ष्ठाम॑विन्दत । स इ॒मां प्र॑ति॒ष्ठाव्विँ॒त्वाऽका॑मयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सोऽन्तर्वा॑नभवत् । स ज॒घना॒दसु॑रानसृजत ।। 54 ।। 2.2.9.6 तेभ्यो॑ मृ॒न्मये॒ पात्रेऽन्न॑मदुहत् । याऽस्य॒ सा त॒नूरासीत् । तामपा॑हत । सा तमि॑स्राऽभवत् । सो॑कामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सोन्तर्वा॑नभवत् । स प्र॒जन॑नादे॒व प्र॒जा अ॑सृजत । तस्मा॑दि॒मा भूयि॑ष्ठाः । प्र॒जन॑ना॒द्ध्ये॑ना॒ असृ॑जत ।। 55 ।। 2.2.9.7 ताभ्यो॑ दारु॒मये॒ पात्रे॒ पयो॑ऽदुहत् । याऽस्य॒ सा त॒नूरासीत् । तामपा॑हत । सा जोथ्स्ना॑ऽभवत् । सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सोऽन्तर्वा॑नभवत् । स उ॑पप॒ख्षाभ्या॑मे॒वर्तून॑सृजत । तेभ्यो॑ रज॒ते पात्रे॑ घृ॒तम॑दुहत् । याऽस्य॒ सा त॒नूरासीत् ।। 56 ।। 2.2.9.8 तामपा॑हत । सो॑ऽहोरा॒त्रयोस्स॒न्धिर॑भवत् । सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सोऽन्तर्वा॑नभवत् । स मुखाद्दे॒वान॑सृजत । तेभ्यो॒ हरि॑ते॒ पात्रे॒ सोम॑मदुहत् । याऽस्य॒ सा त॒नूरासीत् । तामपा॑हत । तदह॑रभवत् ।। 57 ।। 2.2.9.9 ए॒ते वै प्र॒जाप॑ते॒र्दोहाः । य ए॒वव्वेँद॑ । दु॒ह ए॒व प्र॒जाः । दिवा॒ वै नो॑ऽभू॒दिति॑ । तद्दे॒वानान्देव॒त्वम् । य ए॒वन्दे॒वानान्देव॒त्वव्वेँद॑ । दे॒ववा॑ने॒व भ॑वति । ए॒तद्वा अ॑होरा॒त्राणा॒ञ्जन्म॑ । य ए॒वम॑होरा॒त्राणा॒ञ्जन्म॒ वेद॑ । नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति ।। 58 ।। 2.2.9.10 अस॒तोऽधि॒ मनो॑ऽसृज्यत । मनः॑ प्र॒जाप॑तिमसृजत । प्र॒जाप॑ति प्र॒जा अ॑सृजत । तद्वा इ॒दं मन॑स्ये॒व प॑र॒मं प्रति॑ष्ठितम् । यदि॒दङ्किञ्च॑ । तदे॒तच्छ्वो॑वस्य॒सन्नाम॒ ब्रह्म॑ । व्यु॒च्छन्तीव्युच्छन्त्यस्मै॒ वस्य॑सीवस्यसी॒ व्यु॑च्छति । प्रजा॑यते प्र॒जया॑ प॒शुभिः॑ । प्र प॑रमे॒ष्ठिनो॒ मात्रा॑माप्नोति । य ए॒वव्वेँद॑ ।। 59 ।। 2.2.10.0 आ॒सी॒द्वेद॑ चन्द्रम॒स्त्वय्यँ ए॒वव्वेँदेन्द्रिया॒व्ये॑व भ॑वति प्र॒त्यञ्चं॒ मुख॑न्दख्षिण॒तो मुखं॑ प॒श्चान्नव॑ च ।। 10 ।। 2.2.10.1 प्र॒जाप॑ति॒रिन्द्र॑मसृजतानुजाव॒रन्दे॒वानाम् । तं प्राहि॑णोत् । परे॑हि । ए॒तेषान्दे॒वाना॒मधि॑पतिरे॒धीति॑ । तन्दे॒वा अ॑ब्रुवन्न् । कस्त्वमसि॑ । व॒यव्वैँ त्वच्छ्रेया॑सः स्म॒ इति॑ । सोऽब्रवीत् । कस्त्वमसि॑ व॒यव्वैँ त्वच्छ्रेया॑सः स्म॒ इति॑ मा दे॒वा अ॑वोच॒न्निति॑ । अथ॒ वा इ॒दन्तर्‌हि॑ प्र॒जाप॑तौ॒ हर॑ आसीत् ।। 60 ।। 2.2.10.2 यद॒स्मिन्ना॑दि॒त्ये । तदे॑नमब्रवीत् । ए॒तन्मे॒ प्रय॑च्छ । अथा॒हमे॒तेषान्दे॒वाना॒मधि॑पतिर्भविष्या॒मीति॑ । को॑ऽह स्या॒मित्य॑ब्रवीत् । ए॒तत्प्र॒दायेति॑ । ए॒तथ्स्या॒ इत्य॑ब्रवीत् । यदे॒तद्ब्रवी॒षीति॑ । को ह॒ वै नाम॑ प्र॒जाप॑तिः । य ए॒वव्वेँद॑ ।। 61 ।। 2.2.10.3 वि॒दुरे॑न॒न्नाम्ना । तद॑स्मै रु॒क्मङ्कृ॒त्वा प्रत्य॑मुञ्चत् । ततो॒ वा इन्द्रो॑ दे॒वाना॒मधि॑पतिरभवत् । य ए॒वव्वेँद॑ । अधि॑पतिरे॒व स॑मा॒नानां भवति । सो॑ऽमन्यत । किङ्कि॒व्वाँ अ॑कर॒मिति॑ । स च॒न्द्रं म॒ आह॒रेति॒ प्राल॑पत् । तच्च॒न्द्रम॑सश्चन्द्रम॒स्त्वम् । य ए॒वव्वेँद॑ ।। 62 ।। 2.2.10.4 च॒न्द्रवा॑ने॒व भ॑वति । तन्दे॒वा अ॑ब्रुवन्न् । सु॒वीर्यो॑ मर्या॒ यथा॑ गोपा॒यत॒ इति॑ । तथ्सूर्य॑स्य सूर्य॒त्वम् । य ए॒वव्वेँद॑ । नैन॑न्दभ्नोति । कश्च॒ नास्मि॒न्वा इ॒दमि॑न्द्रि॒यं प्रत्य॑स्था॒दिति॑ । तदिन्द्र॑स्येन्द्र॒त्वम् । य ए॒वव्वेँद॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति ।। 63 ।। 2.2.10.5 अ॒यव्वाँ इ॒दं प॑र॒मो॑ऽभू॒दिति॑ । तत्प॑रमे॒ष्ठिन॑ परमेष्ठि॒त्वम् । य ए॒वव्वेँद॑ । प॒र॒मामे॒व काष्ठाङ्गच्छति । तन्दे॒वास्स॑म॒न्तं पर्य॑विशन्न् । वस॑व पु॒रस्तात् । रु॒द्रा द॑ख्षिण॒तः । आ॒दि॒त्या प॒श्चात् । विश्वे॑ दे॒वा उ॑त्तर॒तः । अङ्गि॑रस प्र॒त्यञ्चम् ।। 64 ।। 2.2.10.6 सा॒ध्या पराञ्चम् । य ए॒वव्वेँद॑ । उपै॑न समा॒नास्सव्विँ॑शन्ति । स प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा आव॑यत् । ता अ॑स्मै॒ नाति॑ष्ठन्ता॒न्नाद्या॑य । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । द॒ख्षि॒ण॒त पर्या॑यन्न् । स द॑ख्षिण॒त पर्य॑वर्तयत । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । मुख॑न्दख्षिण॒तः ।। 65 ।। 2.2.10.7 प॒श्चात्पर्या॑यन्न् । स प॒श्चात्पर्य॑वर्तयत । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । मुख॑न्दख्षिण॒तः । मुखं॑ प॒श्चात् । उ॒त्त॒र॒त पर्या॑यन्न् । स उ॑त्तर॒त पर्य॑वर्तयत । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । मुख॑न्दष्खिण॒तः । मुखं॑ प॒श्चात् ।। 66 ।। 2.2.10.8 मुख॑मुत्तर॒तः । ऊ॒र्ध्वा उदा॑यन्न् । स उ॒परि॑ष्टा॒न्न्य॑वर्तयत । तास्स॒र्वतो॑मुखो भू॒त्वाऽऽव॑यत् । ततो॒ वै तस्मै प्र॒जा अति॑ष्ठन्ता॒न्नाद्या॑य । य ए॒वव्विँ॒द्वान्परि॑ च व॒र्तय॑ते॒ नि च॑ । प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा अ॑त्ति । तिष्ठ॑न्तेऽस्मै प्र॒जा अ॒न्नाद्या॑य । अ॒न्ना॒द ए॒व भव॑ति ।। 67 ।। 2.2.11.0 अ॒मि॒मी॒त॒ तं प्रायु॑ङ्क्त॒ पञ्च॑होतारं॒ प्र यु॑ञ्जीत जाये॒तेति॑ तिष्ठति॒ कॢप्ति॒र्दश॑होतुर्नि॒दान॑ स॒प्त च॑ ।। 11 ।। 2.2.11.1 प्र॒जाप॑तिरकामयत ब॒होर्भूयान्थ्स्या॒मिति॑ । स ए॒तन्दश॑होतारमपश्यत् । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति ब॒होर्भूया॑नभवत् । य का॒मये॑त ब॒होर्भूयान्थ्स्या॒मिति॑ । स दश॑होतारं॒ प्रयु॑ञ्जीत । ब॒होरे॒व भूयान्भवति । सो॑ऽकामयत वी॒रो म॒ आजा॑ये॒तेति॑ । स दश॑होतु॒श्चतु॑र्‌होतार॒न्निर॑मिमीत । तं प्रायु॑ङ्क्त ।। 68 ।। 2.2.11.2 तस्य॒ प्रयु॒क्तीन्द्रो॑ऽजायत । य का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ । स चतु॑र्‌होतारं॒ प्रयु॑ञ्जीत । आऽस्य॑ वी॒रो जा॑यते । सो॑ऽकामयत पशु॒मान्थ्स्या॒मिति॑ । स चतु॑र्‌होतु॒ पञ्च॑होतार॒न्निर॑मिमीत । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति पशु॒मान॑भवत् । य का॒मये॑त पशु॒मान्थ्स्या॒मिति॑ । स पञ्च॑होतारं॒ प्रयु॑ञ्जीत ।। 69 ।। 2.2.11.3 प॒शु॒माने॒व भ॑वति । सो॑ऽकामयत॒र्तवो॑ मे कल्पेर॒न्निति॑ । स पञ्च॑होतु॒ष्षड्ढो॑तार॒न्निर॑मिमीत । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्त्यृ॒तवोऽस्मा अकल्पन्त । यः का॒मये॑त॒र्तवो॑ मे कल्पेर॒न्निति॑ । स षड्ढो॑तारं॒ प्रयु॑ञ्जीत । कल्प॑न्तेऽस्मा ऋ॒तवः॑ । सो॑ऽकामयत सोम॒पस्सो॑मया॒जी स्याम् । आ मे॑ सोम॒पस्सो॑मया॒जी जा॑ये॒तेति॑ ।। 70 ।। 2.2.11.4 स षड्ढो॑तुस्स॒प्तहो॑तार॒न्निर॑मिमीत । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति सोम॒पस्सो॑मया॒ज्य॑भवत् । आऽस्य॑ सोम॒पस्सो॑मया॒ज्य॑जायत । यः का॒मये॑त सोम॒पस्सो॑मया॒जी स्याम् । आ मे॑ सोम॒पस्सो॑मया॒जी जा॑ये॒तेति॑ । स स॒प्तहो॑तारं॒ प्रयु॑ञ्जीत । सो॒म॒प ए॒व सो॑मया॒जी भ॑वति । आऽस्य॑ सोम॒पस्सो॑मया॒जी जा॑यते । स वा ए॒ष प॒शु प॑ञ्च॒धा प्रति॑तिष्ठति ।। 71 ।। 2.2.11.5 प॒द्भिर्मुखे॑न । ते दे॒वा प॒शून् वि॒त्वा । सु॒व॒र्गल्लोँ॒कमा॑यन्न् । ते॑ऽमुष्मि॑ल्लोँ॒के व्य॑ख्षुध्यन्न् । तेऽब्रुवन्न् । अ॒मुत॑प्रदान॒व्वाँ उप॑जिजीवि॒मेति॑ । ते स॒प्तहो॑तारय्यँ॒ज्ञव्विँ॒धाया॒यास्यम् । आ॒ङ्गी॒र॒सं प्राहि॑ण्वन्न् । ए॒तेना॒मुत्र॑ कल्प॒येति॑ । तस्य॒ वा इ॒यङ्कॢप्तिः॑ ।। 72 ।। 2.2.11.6 यदि॒दङ्किञ्च॑ । य ए॒वव्वेँद॑ । कल्प॑तेऽस्मै । स वा अ॒यं म॑नु॒ष्ये॑षु य॒ज्ञस्स॒प्तहो॑ता । अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यव्वँ॑हति । य ए॒वव्वेँद॑ । उपै॑नय्यँ॒ज्ञो न॑मति । यो वै चतु॑र्‌होतृणान्नि॒दान॒व्वेँद॑ । नि॒दान॑वान्भवति । अ॒ग्नि॒हो॒त्रव्वैँ दश॑होतुर्नि॒दानम् । द॒र्‌श॒पू॒र्ण॒मासौ चतु॑र्‌होतुः । चा॒तु॒र्मा॒स्यानि॒ पञ्च॑होतुः । प॒शु॒ब॒न्धष्षड्ढो॑तुः । सौ॒म्योऽध्व॒रस्स॒प्तहो॑तुः । ए॒तद्वै चतु॑र्‌होतृणान्नि॒दानम् । य ए॒वव्वेँद॑ । नि॒दान॑वान्भवति ।। 73 ।। 2.3.0.0 ब्र॒ह्म॒वा॒दिन॒ किन्दख्षि॑णा॒य्योँ वा अवि॑द्वा॒न्तस्य॒ वै ब्र॑ह्मवा॒दिनो॒ यद्दश॑होतार प्र॒जाप॑ति॒र्व्य॑स्रं प्र॒जाप॑ति॒ पुरु॑षं प्र॒जाप॑तिरकामयत॒ स तप॒स्सोऽन्तर्वान्ब्रह्मवा॒दिनो॒ यो वा इ॒मव्विँ॒द्यात्प्र॒जाप॑ति॒स्सोम॒॒ राजा॑नं॒ ब्रह्मात्म॒न्वदेका॑दश ।। 11 ।। ब्र॒ह्म॒वा॒दिन॒स्तस्य॒ वा अ॒ग्नेर्यद्वा इ॒दङ्किञ्च॑ प्र॒जाप॑तिरकामयत॒ य ए॒वास्य॑ दख्षिण॒त प॑ञ्चा॒शत् ।। 50 ।। ब्र॒ह्म॒वा॒दिनो॒ य ए॒वव्वेँद॑ ।। हरिः॑ ओम् ।। तृतीयप्रपाठकस्समाप्तः । 2.3.0.0 तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीय प्रपाठक प्रारम्भः ।। हरिः ओम् ।। 2.3.1.0 स॒प्तहो॑ता प्रति॒ष्ठाव्वेँद॑ बुध्यन्ते॒ षट्च॑ ।। 1 ।। 2.3.1.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । किञ्चतु॑र्‌होतृणाञ्चतुर्‌होतृ॒त्वमिति॑ । यदे॒वैषु च॑तु॒र्धा होता॑रः । तेन॒ चतु॑र्‌होतारः । तस्मा॒च्चतु॑र्‌होतार उच्यन्ते । तच्चतुर्॑होतृणाञ्चतुर्‌होतृ॒त्वम् । सोमो॒ वै चतु॑र्‌होता । अ॒ग्नि पञ्च॑होता । धा॒ता षड्ढो॑ता । इन्द्र॑स्स॒प्तहो॑ता ।। 1 ।। 2.3.1.2 प्र॒जाप॑ति॒र्दश॑होता । य ए॒वञ्चतु॑र्‌होतृणा॒मृद्धिं॒ वेद॑ । ऋ॒ध्नोत्ये॒व । य ए॑षामे॒वं ब॒न्धुता॒व्वेँद॑ । बन्धु॑मान्भवति । य ए॑षामे॒वं कॢप्ति॒व्वेँद॑ । कल्प॑तेऽस्मै । य ए॑षामे॒वमा॒यत॑न॒व्वेँद॑ । आ॒यत॑नवान्भवति । य ए॑षामे॒वं प्र॑ति॒ष्ठाव्वेँद॑ ।। 2 ।। 2.3.1.3 प्रत्ये॒व ति॑ष्ठति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । दश॑होता॒ चतु॑र्‌होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । अथ॒ कस्मा॒च्चतु॑र्‌होतार उच्यन्त॒ इति॑ । इन्द्रो॒ वै चतु॑र्‌होता । इन्द्र॒ खलु॒ वै श्रेष्ठो॑ दे॒वता॑नामुप॒देश॑नात् । य ए॒वमिन्द्र॒॒ श्रेष्ठ॑न्दे॒वता॑नामुप॒देश॑ना॒द्वेद॑ । वसि॑ष्ठस्समा॒नानां भवति । तस्मा॒च्छ्रेष्ठ॑मा॒यन्तं॑ प्रथ॒मेनै॒वानु॑ बुध्यन्ते । अ॒यमागन्न्॑ । अ॒यमवा॑सा॒दिति॑ । की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः । अथो॑ एनं प्रथ॒मेनै॒वानु॑ बुध्यन्ते । अ॒यमागन्न्॑ । अ॒यमवा॑सा॒दिति॑ ।। 3 ।। 2.3.2.0 वि॒ग्राह॑मृ॒तव॒स्तदाऽल॑भ॒तेन्द्र॑ङ्गृह्णीया॒थ्षट्च॑ ।। 2 ।। 2.3.2.1 दख्षि॑णां प्रतिग्रही॒ष्यन्थ्स॒प्तद॑श॒कृत्वोऽपान्यात् । आ॒त्मान॑मे॒व समि॑न्धे । तेज॑से वी॒र्या॑य । अथो प्र॒जाप॑तिरे॒वैनां भू॒त्वा प्रति॑ गृह्णाति । आ॒त्मनोऽनार्त्यै । यद्ये॑न॒मार्त्वि॑ज्याद्वृ॒त सन्त॑न्नि॒र्‌हरे॑रन्न् । आग्नीध्रे जुहुया॒द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । पु॒रस्तात्प्र॒त्यङ्तिष्ठन्न्॑ । प्र॒ति॒लो॒मव्विँ॒ग्राहम् ।। 4 ।। 2.3.2.2 प्रा॒णाने॒वास्योप॑ दासयति । यद्ये॑नं॒ पुन॑रुप॒ शिख्षे॑युः । आग्नीध्र ए॒व जु॑हुया॒द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । प॒श्चात्प्राङासी॑नः । अ॒नु॒लो॒ममवि॑ग्राहम् । प्रा॒णाने॒वास्मै॑ कल्पयति । प्राय॑श्चित्ती॒ वाग्घोतेत्यृ॑तुमु॒खऋ॑तुमुखे जुहोति । ऋ॒तूने॒वास्मै॑ कल्पयति । कल्प॑न्तेऽस्मा ऋ॒तवः॑ ।। 5 ।। 2.3.2.3 कॢ॒प्ता अ॑स्मा ऋ॒तव॒ आय॑न्ति । षड्ढो॑ता॒ वै भू॒त्वा प्र॒जाप॑तिरि॒द सर्व॑मसृजत । स मनो॑ऽसृजत । मन॒सोऽधि॑ गाय॒त्रीम॑सृजत । तद्गा॑य॒त्रीय्यँश॑ आर्च्छत् । तामाऽल॑भत । गा॒य॒त्रि॒या अधि॒ छन्दा॑स्यसृजत । छन्दो॒भ्योऽधि॒ साम॑ । तथ्साम॒ यश॑ आर्च्छत् । तदाऽल॑भत ।। 6 ।। 2.3.2.4 साम्नोऽधि॒ यजू॑ष्यसृजत । यजु॒र्भ्योऽधि॒ विष्णुम् । तद्विष्णु॒य्यँश॑ आर्च्छत् । तमाऽल॑भत । विष्णो॒रध्योष॑धीरसृजत । ओष॑धी॒भ्योऽधि॒ सोमम् । तथ्सोम॒य्यँश॑ आर्च्छत् । तमाऽल॑भत । सोमा॒दधि॑ प॒शून॑सृजत । प॒शुभ्योऽधीन्द्रम् ।। 7 ।। 2.3.2.5 तदिन्द्र॒य्यँश॑ आर्च्छत् । तदे॑न॒न्नाति॒ प्राच्य॑वत । इन्द्र॑ इव यश॒स्वी भ॑वति । य ए॒वव्वेँद॑ । नैन॒य्यँशोऽति॒ प्रच्य॑वते । यद्वा इ॒दङ्किञ्च॑ । तथ्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒स प्रत्य॑गृह्णात् । तदे॑नं॒ प्रति॑गृहीत॒न्नाहि॑नत् । यत्किञ्च॑ प्रतिगृह्णी॒यात् । तथ्सर्व॑मुत्ता॒नस्त्वाङ्गीर॒स प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । इ॒यव्वाँ उ॑त्ता॒न आङ्गीर॒सः । अ॒नयै॒वैन॒त्प्रति॑ गृह्णाति । नैन॑ हिनस्ति । ब॒र्॒हिषा॒ प्रती॑या॒द्गाव्वाँऽश्वं॑ वा । ए॒तद्वै प॑शू॒नां प्रि॒यं धाम॑ । प्रि॒येणै॒वैनं॒ धाम्ना॒ प्रत्ये॑ति ।। 8 ।। 2.3.3.0 अ॒पु॒ष्य॒न्नख्ष॑त्त्रैरपुष्य॒त्पञ्च॑ च ।। 3 ।। 2.3.3.1 यो वा अवि॑द्वान्निव॒र्तय॑ते । विशी॑र्‌षा॒ सपाप्मा॒ऽमुष्मि॑ल्लोँ॒के भ॑वति । अथ॒ यो वि॒द्वान्नि॑व॒र्तय॑ते । सशी॑र्‌षा॒ विपाप्मा॒ऽमुष्मि॑ल्लोँ॒के भ॑वति । दे॒वता॒ वै स॒प्त पुष्टि॑कामा॒ न्य॑वर्तयन्त । अ॒ग्निश्च॑ पृथि॒वी च॑ । वा॒युश्चा॒न्तरि॑ख्षञ्च । आ॒दि॒त्यश्च॒ द्यौश्च॑ च॒न्द्रमाः । अ॒ग्निर्न्य॑वर्तयत । स सा॑ह॒स्रम॑पुष्यत् ।। 9 ।। 2.3.3.2 पृ॒थि॒वी न्य॑वर्तयत । सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत् । वा॒युर्न्य॑वर्तयत । स मरी॑चीभिरपुष्यत् । अ॒न्तरि॑ख्ष॒न्न्य॑वर्तयत । तद्वयो॑भिरपुष्यत् । आ॒दि॒त्यो न्य॑वर्तयत । स र॒श्मिभि॑रपुष्यत् । द्यौर्न्य॑वर्तयत । सा नख्ष॑त्रैरपुष्यत् । च॒न्द्रमा॒ न्य॑वर्तयत । सौ॑ऽहोरा॒त्रैर॑र्धमा॒सैर्मासैर्॑ऋ॒तुभि॑स्सव्वँथ्स॒रेणा॑पुष्यत् । तान्पोषान्पुष्यति । यास्तेऽपु॑ष्यन्न् । य ए॒वव्विँ॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च ।। 10 ।। 2.3.4.0 तृती॑यमिन्द्रि॒यस्यापाक्रामच्चतु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॒त्ताश्वं॑ प्रतिगृ॒ह्णाति॑ ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑क्रामत्यष्ट॒ममि॑न्द्रि॒यस्यापाक्रामत्प्रतिगृह्णी॒याच्च॒त्वारि॑ च ।। 4 ।। (तस्य॒ वा अ॒ग्नेर्‌हिर॑ण्य॒॒ सोम॑स्य॒ वास॒स्तदे॒तेन॑ रु॒द्रस्य॒ गान्तामे॒तेन॒ वरु॑ण॒स्याश्वं॑ प्र॒जाप॑ते॒ पुरु॑षं॒ मनो॒स्तल्प॒न्तमे॒तेनोत्ता॒नस्य॒ तदे॒तेनाप्रा॑ण॒द्यद्वै । अ॒र्धं तृती॑यमष्ट॒मं तच्च॑तु॒र्थं तां प॑ञ्च॒म ष॒ष्ठ स॑प्त॒मन्तम् । तदे॒तेन॒ द्वे तामे॒तेनैकं॒ तमे॒तेन॒ त्रीणि॒ तदे॒तेनैकम् ।। ) 2.3.4.1 तस्य॒ वा अ॒ग्नेर्‌हिर॑ण्यं प्रतिजग्र॒हुषः॑ । अ॒र्धमि॑न्द्रि॒यस्यापाक्रामत् । तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सोऽर्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । अ॒र्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान् हिर॑ण्यं प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रति गृ॒ह्णाति॑ । अ॒र्धम॑स्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वै सोम॑स्य॒ वास॑ प्रतिजग्र॒हुषः॑ । तृती॑यमिन्द्रि॒यस्यापाक्रामत् ।। 11 ।। 2.3.4.2 तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान् वास॑प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रति गृ॒ह्णाति॑ । तृती॑यमस्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वै रु॒द्रस्य॒ गां प्र॑तिजग्र॒हुषः॑ । च॒तु॒र्थमि॑न्द्रि॒यस्यापाक्रामत् । तामे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स च॑तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।। 12 ।। 2.3.4.3 च॒तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान्गां प्र॑तिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । च॒तु॒र्थम॑स्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वै वरु॑ण॒स्याश्वं॑ प्रतिजग्र॒हुषः॑ । प॒ञ्च॒ममि॑न्द्रि॒यस्यापाक्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स प॑ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । प॒ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वानश्वं॑ प्रतिगृ॒ह्णाति॑ ।। 13 ।। 2.3.4.4 अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । प॒ञ्च॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वै प्र॒जाप॑ते॒ पुरु॑षं प्रतिजग्र॒हुषः॑ । ष॒ष्ठमि॑न्द्रि॒यस्यापाक्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान्पुरु॑षं प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑ क्रामति ।। 14 ।। 2.3.4.5 तस्य॒ वै मनो॒स्तल्पं॑ प्रतिजग्र॒हुषः॑ । स॒प्त॒ममि॑न्द्रि॒यस्यापाक्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । स॒प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वास्तल्पं॑ प्रति गृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रति गृ॒ह्णाति॑ । स॒प्त॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वा उ॑त्ता॒नस्याङ्गीर॒सस्याप्रा॑णत्प्रतिजग्र॒हुषः॑ । अ॒ष्ट॒ममि॑न्द्रि॒यस्यापाक्रामत् ।। 15 ।। 2.3.4.6 तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सोऽष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । अ॒ष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वानप्रा॑णत्प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । अ॒ष्ट॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति । यद्वा इ॒दङ्किञ्च॑ । तथ्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒स प्रत्य॑गृह्णात् । तदे॑नं॒ प्रति॑गृहीत॒न्नाहि॑नत् । यत्किञ्च॑ प्रतिगृह्णी॒यात् । तथ्सर्व॑मुत्ता॒नस्त्वाङ्गीर॒स प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । इ॒यव्वाँ उ॑त्ता॒न आङ्गीर॒सः । अ॒नयै॒वैन॒त्प्रति॑ गृह्णाति । नैन॑ हिनस्ति ।। 16 ।। 2.3.5.0 आ॒र्ध्नु॒व॒न्ना॒र्ध्नु॒व॒न्नित्ये॒वव्वेँदात्ति सर्वा॒ दिशो॒ऽभि ज॑यति ।। 5 ।। (वै तेन॑ स॒त्रङ्केन॑ ।। ) 2.3.5.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यद्दश॑होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । केन॑ प्र॒जा अ॑सृज॒न्तेति॑ । प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । तेन॑ प्र॒जा अ॑सृजन्त । यच्चतु॑र्‌होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । केनौष॑धीरसृज॒न्तेति॑ । सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ।। 17 ।। 2.3.5.2 तेनौष॑धीरसृजन्त । यत्पञ्च॑होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । केनै॑षां प॒शून॑वृञ्ज॒तेति॑ । अ॒ग्निना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । तेनै॑षां प॒शून॑वृञ्जत । यथ्षड्ढो॑तारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ।। 18 ।। 2.3.5.3 केन॒र्तून॑कल्पय॒न्तेति॑ । धा॒त्रा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । तेन॒र्तून॑कल्पयन्त । यथ्स॒प्तहो॑तारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । केन॒ सुव॑रायन्न् । केने॒माल्लोँ॒कान्थ्सम॑तन्व॒न्निति॑ । अ॒र्य॒म्णा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । तेन॒ सुव॑रायन्न् । तेने॒माल्लोँ॒कान्थ्सम॑तन्व॒न्निति॑ ।। 19 ।। 2.3.5.4 ए॒ते वै दे॒वा गृ॒हप॑तयः । तान् य ए॒वव्विँ॒द्वान् । अप्य॒न्यस्य॑ गार्‌हप॒ते दीख्ष॑ते । अ॒वा॒न्त॒रमे॒व स॒त्रिणा॑मृध्नोति । यो वा अ॑र्य॒मण॒व्वेँद॑ । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य॒ज्ञो वा अ॑र्य॒मा । आर्या॑वस॒तिरिति॒ वै तमा॑हु॒र्यं प्र॒शस॑न्ति । आर्या॑वस॒तिर्भ॑वति । य ए॒वव्वेँद॑ ।। 20 ।। 2.3.5.5 यद्वा इ॒दङ्किञ्च॑ । तथ्सर्व॒ञ्चतु॑ऱ्होतारः । चतु॑र्‌होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः । स य ए॒वव्विँ॒द्वान्‌ वि॒वदे॑त । अ॒हमे॒व भूयो॑ वेद । यश्चतु॑र्‌होतॄ॒न् वेदेति॑ । स ह्ये॑व भूयो॒ वेद॑ । यश्चतु॑र्‌होतॄ॒न् वेद॑ । यो वै चतु॑र्‌होतृणा॒॒ होतॄ॒न् वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति ।। 21 ।। 2.3.5.6 सर्वा॒ दिशो॒ऽभि ज॑यति । प्र॒जाप॑ति॒र्वै दश॑होतृणा॒॒ होता । सोम॒श्चतु॑र्‌होतृणा॒॒ होता । अ॒ग्नि पञ्च॑होतृणा॒॒ होता । धा॒ता षड्ढो॑तृणा॒॒ होता । अ॒र्य॒मा स॒प्तहो॑तृणा॒॒ होता । ए॒ते वै चतु॑ऱ्होतृणा॒॒ होता॑रः । तान् य ए॒वव्वेँद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒ऽभि ज॑यति ।। 22 ।। 2.3.6.0 च॒न्द्रमाश्चातुर्मा॒स्यानाय्यँज्ञक्र॒तोर॑ध्व॒रेण॑ यज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त स॒प्तहो॑ता च॒त्वारि॑ च ।। 6 ।। 2.3.6.1 प्र॒जाप॑ति प्र॒जास्सृ॒ष्ट्वा व्य॑स्रसत । स हृद॑यं भू॒तो॑ऽशयत् । आत्म॒न्॒ हा ३ इत्यह्व॑यत् । आप॒ प्रत्य॑शृण्वन्न् । ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । ता कुसि॑न्ध॒मुपौ॑हन्न् । तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तोः । एक॑ ऋ॒त्विक् । च॒तु॒ष्कृत्वोऽह्व॑यत् । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः ।। 23 ।। 2.3.6.2 ते प्रत्य॑शृण्वन्न् । ते द॑र्‌शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । त उपौ॑हश्च॒त्वार्यङ्गा॑नि । तस्माद्दर्‌शपूर्णमा॒सयोर्यज्ञक्र॒तोः । च॒त्वार॑ ऋ॒त्विजः॑ । प॒ञ्च॒कृत्वोऽह्व॑यत् । प॒शव॒ प्रत्य॑शृण्वन्न् । ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । त उपौ॑ह॒ल्लोँम॑ छ॒वीं मा॒॒समस्थि॑ म॒ज्जानम् । तस्माच्चातुर्मा॒स्यानाय्यँज्ञक्र॒तोः ।। 24 ।। 2.3.6.3 पञ्च॒र्त्विजः॑ । ष॒ट्कृत्वोऽह्व॑यत् । ऋ॒तवः॒ प्रत्य॑शृण्वन्न् । ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त । त उपौ॑ह॒न्थ्स्तना॑वा॒ण्डौ शि॒श्ञमवाञ्चं प्रा॒णम् । तस्मात्पशुब॒न्धस्य॑ यज्ञक्र॒तोः । षडृ॒त्विजः॑ । स॒प्त॒कृत्वोऽह्व॑यत् । होत्रा॒ प्रत्य॑शृण्वन्न् । तास्सौ॒म्येनै॒वाध्व॒रेण॑ यज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ।। 25 ।। 2.3.6.4 ता उपौ॑हन्थ्स॒प्त शी॑र्‌ष॒ण्यान्प्रा॒णान् । तस्माथ्सौ॒म्यस्याध्व॒रस्य॑ यज्ञक्र॒तोः । स॒प्त होत्रा॒ प्राची॒र्वष॑ट्कुर्वन्ति । द॒श॒कृत्वोऽह्व॑यत् । तप॒ प्रत्य॑शृणोत् । तत्कर्म॑णै॒व स॑व्वँथ्स॒रेण॒ सर्वैर्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत । तथ्सर्व॑मा॒त्मान॒मप॑रिवर्ग॒मुपौ॑हत् । तस्माथ्सव्वँथ्स॒रे सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्ते । तस्मा॒द्दश॑होता॒ चतु॑र्‌होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । एक॑होत्रे ब॒लि ह॑रन्ति । हर॑न्त्यस्मै प्र॒जा ब॒लिम् । ऐन॒मप्र॑तिख्यातङ्गच्छति । य ए॒वव्वेँद॑ ।। 26 ।। 2.3.7.0 अ॒ग्नि॒हो॒त्रं म॒ज्जान॒न्द्विर्जु॑हो॒त्यप॑रिवर्ग स्पृ॒णोत्येक॑ञ्च ।। 7 ।। 2.3.7.1 प्र॒जाप॑ति॒ पुरु॑षमसृजत । सोऽग्निर॑ब्रवीत् । ममा॒यमन्न॑म॒स्त्विति॑ । सो॑ऽबिभेत् । सर्व॒व्वैँ मा॒ऽयं प्र ध॑ख्ष्य॒तीति॑ । स ए॒ताश्चतु॑ऱ्होतॄनात्म॒स्पर॑णानपश्यत् । तान॑जुहोत् । तैर्वै स आ॒त्मान॑मस्पृणोत् । यद॑ग्निहो॒त्रञ्जु॒होति॑ । एक॑होतारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोत्यग्निहो॒त्रम् ।। 27 ।। 2.3.7.2 कुसि॑न्धञ्चा॒त्मन॑स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सा॑युज्यङ्गच्छति । च॒तुरुन्न॑यति । चतु॑र्‌होतारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोति दर्‌शपूर्णमा॒सौ । च॒त्वारि॑ चा॒त्मनोऽङ्गा॑नि स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । स॒मित्प॑ञ्च॒मी । पञ्च॑होतारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोति चातुर्मा॒स्यानि॑ । लोम॑ छ॒वीं मा॒॒समस्थि॑ म॒ज्जानम् ।। 28 ।। 2.3.7.3 तानि॑ चा॒त्मन॑स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । द्विर्जु॑होति । षड्ढो॑तारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोति पशुब॒न्धम् । स्तना॑वा॒ण्डौ शि॒श्ञमवाञ्चं प्रा॒णम् । तानि॑ चा॒त्मन॑स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । द्विर्जु॑होति ।। 29 ।। 2.3.7.4 स॒मिथ्स॑प्त॒मी । स॒प्तहो॑तारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोति सौ॒म्यम॑ध्व॒रम् । स॒प्त चा॒त्मन॑श्शीऱ्ष॒ण्यान्प्रा॒णान्थ्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । द्विर्जु॒होति॑ । द्विर्निमार्ष्टि । द्वि प्राश्ञा॑ति । दश॑होतारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोति सव्वँथ्स॒रम् । सर्व॑ञ्चा॒त्मान॒मप॑रिवर्ग स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ।। 30 ।। 2.3.8.0 अ॒जी॒व॒थ्स्वानां भवति दे॒वान॑सृजत स॒प्त च॑ ।। 8 ।। 2.3.8.1 प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ । स तपो॑ऽतप्यत । सोऽन्तर्वा॑नभवत् । स हरि॑तश्श्या॒वो॑ऽभवत् । तस्मा॒थ्स्त्र्य॑न्तर्व॑त्नी । हरि॑णी स॒ती श्या॒वा भ॑वति । स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत् । स ता॒न्त कृ॒ष्णश्श्या॒वो॑ऽभवत् । तस्मात्ता॒न्त कृ॒ष्णश्श्या॒वो भ॑वति । तस्यासु॑रे॒वाजी॑वत् ।। 31 ।। 2.3.8.2 तेनासु॒नाऽसु॑रानसृजत । तदसु॑राणामसुर॒त्वम् । य ए॒वमसु॑राणामसुर॒त्वव्वेँद॑ । असु॑माने॒व भ॑वति । नैन॒मसु॑र्जहाति । सोऽसु॑रान्थ्सृ॒ष्ट्वा पि॒तेवा॑मन्यत । तदनु॑ पि॒तॄन॑सृजत । तत्पि॑तृ॒णां पि॑तृ॒त्वम् । य ए॒वं पि॑तृ॒णां पि॑तृ॒त्वव्वेँद॑ । पि॒तेवै॒व स्वानां भवति ।। 32 ।। 2.3.8.3 यन्त्य॑स्य पि॒तरो॒ हवम् । स पि॒तॄन्थ्सृ॒ष्ट्वाऽऽम॑नस्यत् । तदनु॑ मनु॒ष्या॑नसृजत । तन्म॑नु॒ष्या॑णां मनुष्य॒त्वम् । य ए॒वं म॑नु॒ष्या॑णां मनुष्य॒त्वव्वेँद॑ । म॒न॒स्व्ये॑व भ॑वति । नैनं॒ मनु॑र्जहाति । तस्मै॑ मनु॒ष्यान्थ्ससृजा॒नाय॑ । दिवा॑ देव॒त्राऽभ॑वत् । तदनु॑ दे॒वान॑सृजत । तद्दे॒वानान्देव॒त्वम् । य ए॒वन्दे॒वानान्देव॒त्वव्वेँद॑ । दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति । तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भा॑सि । दे॒वा म॑नु॒ष्या पि॒तरोऽसु॑राः । तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति । य ए॒वव्वेँद॑ ।। 33 ।। 2.3.9.0 वेद॒ सं प॑वत आदि॒त्यात्प॑वते वा॒त्या वात्ये॒ष पव॑मान ए॒व द॑ख्षिण॒त आ॒यन्त॑मुप॒ वद॑न्त्युत्तर॒त पा॒प्मान॒स्ता स्तेप॑ घ्न॒न्तीत्य॒ष्टौ च॑ ।। 9 ।। 2.3.9.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यो वा इ॒मव्विँ॒द्यात् । यतो॒ऽयं पव॑ते । यद॑भि॒ पव॑ते । यद॑भि सं॒पव॑ते । सर्व॒मायु॑रियात् । न पु॒राऽऽयु॑ष॒ प्र मी॑येत । प॒शु॒मान्थ्स्यात् । वि॒न्देत॑ प्र॒जाम् । यो वा इ॒मव्वेँद॑ ।। 34 ।। 2.3.9.2 यतो॒ऽयं पव॑ते । यद॑भि॒ पव॑ते । यद॑भि सं॒पव॑ते । सर्व॒मायु॑रेति । न पु॒राऽऽयु॑ष॒ प्र मी॑यते । प॒शु॒मान्भ॑वति । वि॒न्दते प्र॒जाम् । अ॒द्भ्य प॑वते । अ॒पो॑ऽभि प॑वते । अ॒पो॑ऽभि संप॑वते ।। 35 ।। 2.3.9.3 अ॒स्या प॑वते । इ॒माम॒भि प॑वते । इ॒माम॒भि संप॑वते । अ॒ग्ने प॑वते । अ॒ग्निम॒भि प॑वते । अ॒ग्निम॒भि सं प॑वते । अ॒न्तरि॑ख्षात्पवते । अ॒न्तरि॑ख्षम॒भि प॑वते । अ॒न्तरि॑ख्षम॒भि सं प॑वते । आ॒दि॒त्यात्प॑वते ।। 36 ।। 2.3.9.4 आ॒दि॒त्यम॒भि प॑वते । आ॒दि॒त्यम॒भि सं प॑वते । द्यो प॑वते । दिव॑म॒भि प॑वते । दिव॑म॒भि सं प॑वते । दि॒ग्भ्य प॑वते । दिशो॒ऽभि प॑वते । दिशो॒ऽभि संप॑वते । स यत्पु॒रस्ता॒द्वाति॑ । प्रा॒ण ए॒व भू॒त्वा पु॒रस्ताद्वाति ।। 37 ।। 2.3.9.5 तस्मात्पु॒रस्ता॒द्वान्तम् । सर्वा प्र॒जा प्रति॑ नन्दन्ति । प्रा॒णो हि प्रि॒य प्र॒जानाम् । प्रा॒ण इ॑व प्रि॒य प्र॒जानां भवति । य ए॒वव्वेँद॑ । स वा ए॒ष प्रा॒ण ए॒व । अथ॒ यद्द॑ख्षिण॒तो वाति॑ । मा॒त॒रिश्वै॒व भू॒त्वा द॑ख्षिण॒तो वा॑ति । तस्माद्दख्षिण॒तो वान्त॑व्विँ॒द्यात् । सर्वा॒ दिश॒ आ वा॑ति ।। 38 ।। 2.3.9.6 सर्वा॒ दिशोऽनु॒ वि वा॑ति । सर्वा॒ दिशोऽनु॒ सव्वाँ॒तीति॑ । स वा ए॒ष मा॑त॒रिश्वै॒व । अथ॒ यत्प॒श्चाद्वाति॑ । पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति । पू॒तम॑स्मा॒ आह॑रन्ति । पू॒तमुप॑हरन्ति । पू॒तम॑श्ञाति । य ए॒वव्वेँद॑ । स वा ए॒ष पव॑मान ए॒व ।। 39 ।। 2.3.9.7 अथ॒ यदु॑त्तर॒तो वाति॑ । स॒वि॒तैव भू॒त्त्वोत्त॑र॒तो वा॑ति । स॒वि॒तेव॒ स्वानां भवति । य ए॒वव्वेँद॑ । स वा ए॒ष स॑वि॒तैव । ते य ए॑नं पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति । य ए॒वास्य॑ पु॒रस्तात्पा॒प्मानः॑ । तास्तेऽप॑ घ्नन्ति । पु॒रस्ता॒दित॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नन्दख्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति ।। 40 ।। 2.3.9.8 य ए॒वास्य॑ दख्षिण॒त पा॒प्मानः॑ । तास्तेऽप॑ घ्नन्ति । द॒ख्षि॒ण॒त इत॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नं प॒श्चादा॒यन्त॑मुप॒ वद॑न्ति । य ए॒वास्य॑ प॒श्चात्पा॒प्मानः॑ । तास्तेऽप॑ घ्नन्ति । प॒श्चादित॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒ वद॑न्ति । य ए॒वास्योत्तर॒त पा॒प्मानः॑ । तास्तेऽप॑ घ्नन्ति ।। 41 ।। 2.3.9.9 उ॒त्त॒र॒त इत॑रान्पा॒प्मन॑स्सचन्ते । तस्मा॑दे॒वव्विँ॒द्वान् । वीव॑ नृत्येत् । प्रेव॑ चलेत् । व्यस्ये॑वा॒ख्ष्यौ भा॑षेत । म॒ण्टये॑दिव । क्रा॒थये॑दिव । शृ॒ङ्गा॒येते॑व । उ॒त मोप॑ वदेयुः । उ॒त मे॑ पा॒प्मान॒मप॑ हन्यु॒रिति॑ । स यान्दिश॑ स॒निमे॒ष्यन्थ्स्यात् । य॒दा तान्दिश॒व्वाँतो॑ वा॒यात् । अथ॒ प्रवे॒यात् । प्र वा॑ धावयेत् । सा॒तमे॒व र॑दि॒तव्व्यूँ॑ढङ्ग॒न्धम॒भि प्रच्य॑वते । आऽस्य॒ तञ्ज॑नप॒दं पूर्वा॑ की॒र्तिर्ग॑च्छति । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य ए॒वव्वेँद॑ ।। 42 ।। 2.3.10.0 अ॒या॒न्य॒ल॒ङ्कृत्य॑ स्या॒मिति॑ भवति ।। 10 ।। 2.3.10.1 प्र॒जाप॑ति॒स्सोम॒॒ राजा॑नमसृजत । तन्त्रयो॒ वेदा॒ अन्व॑सृज्यन्त । तान् हस्ते॑ऽकुरुत । अथ॒ ह सीता॑ सावि॒त्री । सोम॒॒ राजा॑नञ्चकमे । श्र॒द्धामु॒ स च॑कमे । साऽऽह॑ पि॒तरं॑ प्र॒जाप॑ति॒मुप॑ससार । त हो॑वाच । नम॑स्ते अस्तु भगवः । उप॑ त्वाऽयानि ।। 43 ।। 2.3.10.2 प्र त्वा॑ पद्ये । सोम॒व्वैँ राजा॑नङ्कामये । श्र॒द्धामु॒ स का॑मयत॒ इति॑ । तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा । दश॑होतारं पु॒रस्ताद्व्या॒ख्याय॑ । चतु॑ऱ्होतारन्दख्षिण॒तः । पञ्च॑होतारं प॒श्चात् । षड्ढो॑तारमुत्तर॒तः । स॒प्तहो॑तारमु॒परि॑ष्टात् । स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ ।। 44 ।। 2.3.10.3 आऽस्यार्धव्वँ॑व्राज । ता हो॒दीख्ष्यो॑वाच । उप॒ मा व॑र्त॒स्वेति॑ । त हो॑वाच । भोग॒न्तु म॒ आच॑ख्ष्व । ए॒तन्म॒ आच॑ख्ष्व । यत्ते॑ पा॒णाविति॑ । तस्या॑ उ॒ ह त्रीन् वेदा॒न्प्रद॑दौ । तस्मा॒दुह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते । स य का॒मये॑त प्रि॒यस्स्या॒मिति॑ ।। 45 ।। 2.3.10.4 यव्वाँ का॒मये॑त प्रि॒यस्स्या॒दिति॑ । तस्मा॑ ए॒त स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा । दश॑होतारं पु॒रस्ताद्व्या॒ख्याय॑ । चतु॑ऱ्होतारन्दख्षिण॒तः । पञ्च॑होतारं प॒श्चात् । षड्ढो॑तारमुत्तर॒तः । स॒प्तहो॑तारमु॒परि॑ष्टात् । सं॒भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ । आस्यार्धव्व्रँ॑जेत् । प्रि॒यो है॒व भ॑वति ।। 46 ।। 2.3.11.0 दे॒वाष्षड्ढू॑तोऽभव॒त्पञ्च॑हो॒तेत्याच॑ख्षते प॒रोख्षे॑णाश्रौषी॒ष्षट्च॑ ।। 11 ।। 2.3.11.1 ब्रह्मात्म॒न्वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ दश॒म हू॒त प्रत्य॑शृणोत् । स दश॑हूतोऽभवत् । दश॑हूतो ह॒ वै नामै॒षः । तव्वाँ ए॒तन्दश॑हूत॒॒ सन्तम् । दश॑हो॒तेत्याच॑ख्षते प॒रोख्षे॑ण । प॒रोख्ष॑प्रिया इव॒ हि दे॒वाः ।। 47 ।। 2.3.11.2 आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ सप्त॒म हू॒त प्रत्य॑शृणोत् । स स॒प्तहू॑तोऽभवत् । स॒प्तहू॑तो ह॒ वै नामै॒षः । तव्वाँ ए॒त स॒प्तहू॑त॒॒ सन्तम् । स॒प्तहो॒तेत्याच॑ख्षते प॒रोख्षे॑ण । प॒रोख्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ ष॒ष्ठ हू॒त प्रत्य॑शृणोत् । स षड्ढू॑तोऽभवत् ।। 48 ।। 2.3.11.3 षड्ढू॑तो ह॒ वै नामै॒षः । तव्वाँ ए॒त षड्ढू॑त॒॒ सन्तम् । षड्ढो॒तेत्याच॑ख्षते प॒रोख्षे॑ण । प॒रोख्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ पञ्च॒म हू॒त प्रत्य॑शृणोत् । स पञ्च॑हूतोऽभवत् । पञ्च॑हूतो ह॒ वै नामै॒षः । तव्वाँ ए॒तं पञ्च॑हूत॒॒ सन्तम् । पञ्च॑हो॒तेत्याच॑ख्षते प॒रोख्षे॑ण ।। 49 ।। 2.3.11.4 प॒रोख्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ चतु॒र्थ हू॒त प्रत्य॑शृणोत् । स चतु॑ऱ्हूतोऽभवत् । चतु॑र्‌हूतो ह॒ वै नामै॒षः । तव्वाँ ए॒तञ्चतु॑र्‌हूत॒॒ सन्तम् । चतु॑र्हो॒तेत्याच॑ख्षते प॒रोख्षे॑ण । प॒रोख्ष॑प्रिया इव॒ हि दे॒वाः । तम॑ब्रवीत् । त्वव्वैँ मे॒ नेदि॑ष्ठ हू॒त प्रत्य॑श्रौषीः । त्वयै॑नानाख्या॒तार॒ इति॑ । तस्मा॒न्नु है॑ना॒॒श्चतु॑र्‌होतार॒ इत्याच॑ख्षते । तस्माच्छुश्रू॒षु पु॒त्राणा॒॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः । नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वव्वेँद॑ ।। 50 ।। 2.4.0.0 जुष्ट॒श्चख्षु॑षो॒ जुष्टी॑नरो नक्तञ्जा॒ता वृषा॒स उ॒त नो॒ वृषाऽस्य॒॒शुस्सप्र॑त्न॒वद॒ष्टौ ।। 8 ।। जुष्टो॑ म॒न्युर्भगो॒ जुष्टी॑ नरो॒ हरि॑वर्पस॒ङ्गिर॒श्शिप्रि॑न्वाजानामु॒त नः॑ प्रि॒या यद्वाग्वद॑न्ती॒ विश्वा॒ आशा॒ अशी॑तिः ।। 80 ।। जुष्ट॑स्सु॒दान॑वः ।। हरिः॑ ओम् ।। चतुर्थप्रपाठकस्समाप्तः ।। 2.4.0.0 तैत्तिरीयब्राह्मणे द्वितीयाष्टके चतुर्थप्रपाठक प्रारम्भः । हरिः ओम् ।। 2.4.1.0 जिघा॑सत्य॒मित्राञ्जघ॒न्वानी॑डते॒ सर्वा॒ अह॑सो वातो हृ॒दे रा॑जत्य॒ग्निरू॑पास्सुविदा॒नो अ॑ग्न॒ एक॑ञ्च ।। 1 ।। 2.4.1.1 जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒णे । इ॒मन्नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् । विश्वा॑ अग्नेऽभि॒युजो॑ वि॒हत्य॑ । श॒त्रू॒य॒तामा भ॑रा॒ भोज॑नानि । अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सञ्जास्प॒त्य सु॒यम॒मा कृ॑णुष्व । श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महा॑ सि । अग्ने॒ यो नो॒ऽभितो॒ जनः॑ । वृको॒ वारो॒ जिघा॑सति ।। 1 ।। 2.4.1.2 तास्त्वव्वृँ॑त्रहञ्जहि । वस्व॒स्मभ्य॒मा भ॑र । अग्ने॒ यो नो॑ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒ध्मस्ये॑व प्र॒ख्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । त्वमि॑न्द्राभि॒भूर॑सि । दे॒वो विज्ञा॑तवीर्यः । वृ॒त्र॒हा पु॑रु॒चेत॑नः । अप॒ प्राच॑ इन्द्र॒ विश्वा॑ अ॒मित्रान्॑ ।। 2 ।। 2.4.1.3 अपापा॑चो अभिभूते नुदस्व । अपोदी॑चो॒ अप॑शूराध॒रा च॑ ऊ॒रौ । यथा॒ तव॒ शर्म॒न्मदे॑म । तमिन्द्र॑व्वाँजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् । यु॒जे रथ॑ङ्ग॒वेष॑ण॒॒ हरि॑भ्याम् । उप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः । विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा । इन्द्रो॑ वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान् ।। 3 ।। 2.4.1.4 ह॒व्य॒वाह॑मभिमाति॒षाहम् । र॒ख्षो॒हणं॒ पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्त॒न्दीद्य॑तं॒ पुर॑न्धिम् । अ॒ग्नि स्वि॑ष्ट॒कृत॒मा हु॑वेम । स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भि ष्य । उ॒रुन्न॒ पन्थां प्रदि॒शन्विभा॑हि । ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ । त्वाम॑ग्ने ह॒विष्म॑न्तः । दे॒वं मर्ता॑स ईडते ।। 4 ।। 2.4.1.5 मन्ये त्वा जा॒तवे॑दसम् । स ह॒व्या व॑ख्ष्यानु॒षक् । विश्वा॑नि नो दु॒र्गहा॑ जातवेदः । सिन्धु॒न्न ना॒वा दु॑रि॒ताऽति॑ पर्‌षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नः । अ॒स्माकं॑ बोध्यवि॒ता त॒नूनाम् । पू॒षा गा अन्वे॑तु नः । पू॒षा र॑ख्ष॒त्वर्व॑तः । पू॒षा वाज॑ सनोतु नः । पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः ।। 5 ।। 2.4.1.6 सो अ॒स्मा अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वीरः । अप्र॑युच्छन्पु॒र ए॑तु॒ प्रजा॒नन्न् । त्वम॑ग्ने स॒प्रथा॑ असि । जुष्टो॒ होता॒ वरेण्यः । त्वया॑ य॒ज्ञव्विँत॑न्वते । अ॒ग्नी रख्षा॑सि सेधति । शु॒क्रशो॑चि॒रम॑र्त्यः । शुचि॑ पाव॒क ईड्यः॑ । अग्ने॒ रख्षा॑ णो॒ अह॑सः ।। 6 ।। 2.4.1.7 प्रति॑ ष्म देव॒ रीष॑तः । तपि॑ष्ठैर॒जरो॑ दह । अग्ने॒ हसि॒ न्य॑त्रिणम् । दीद्य॒न्मर्त्ये॒ष्वा । स्वे ख्षये॑ शुचिव्रत । आ वा॑त वाहि भेष॒जम् । वि वा॑त वाहि॒ यद्रपः॑ । त्व हि वि॒श्वभे॑षजः । दे॒वानान्दू॒त ईय॑से । द्वावि॒मौ वातौ॑ वातः ।। 7 ।। 2.4.1.8 आ सिन्धो॒रा प॑रा॒वतः॑ । दख्षं॑ मे अ॒न्य आ॒वातु॑ । परा॒न्यो वा॑तु॒ यद्रपः॑ । यद॒दो वा॑त ते गृ॒हे । अ॒मृत॑स्य नि॒धिऱ्हि॒तः । ततो॑ नो देहि जी॒वसे । ततो॑ नो धेहि भेष॒जम् । ततो॑ नो॒ मह॒ आव॑ह । वात॒ आवा॑तु भेष॒जम् । श॒म्भूर्म॑यो॒भूर्नो॑ हृ॒दे ।। 8 ।। 2.4.1.9 प्र ण॒ आयू॑षि तारिषत् । त्वम॑ग्ने अ॒यासि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सन् ह॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जम् । इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृत पिपर्तु नः । स्व॒गा दे॒वेभ्य॑ इ॒दन्नमः॑ । कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ विरा॑जति ।। 9 ।। 2.4.1.10 स इ॒दं प्रति॑ पप्रथे । ऋ॒तूनुथ्सृ॑जते व॒शी । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेत॑ प्रथ॒मय्यँदासीत् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा । त्वया॑ मन्यो स॒रथ॑मारु॒जन्तः॑ । हर्‌ष॑माणासो धृष॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा स॒॒शिशा॑नाः । उप॒ प्रय॑न्ति॒ नरो॑ अ॒ग्निरू॑पाः ।। 10 ।। 2.4.1.11 म॒न्युर्भगो॑ म॒न्युरे॒वास॑ दे॒वः । म॒न्युर्‌होता॒ वरु॑णो वि॒श्ववे॑दाः । म॒न्युव्विँश॑ ईडते देव॒यन्तीः । पा॒हि नो॑ मन्यो॒ तप॑सा॒ श्रमे॑ण । त्वम॑ग्ने व्रत॒भृच्छुचिः॑ । दे॒वा आसा॑दया इ॒ह । अग्ने॑ ह॒व्याय॒ वोढ॑वे । व्र॒तानुबिभ्र॑द्व्रत॒पा अदाभ्यः । यजा॑ नो दे॒वा अ॒जर॑स्सु॒वीरः॑ । दध॒द्रत्ना॑नि सुविदा॒नो अ॑ग्ने । गो॒पा॒य नो॑ जी॒वसे॑ जातवेदः ।। 11 ।। 2.4.2.0 ह॒विर्भि॑रा॒स्य॑मभि॒ दास॑तो विप॒श्चित॒मप्र॑यावञ्जी॒वसे॒ ददा॑ना व्यथिष्ठा ब्रव॒न्नेक॑ञ्च ।। 2 ।। 2.4.2.1 चख्षु॑षो हेते॒ मन॑सो हेते । वाचो॑ हेते॒ ब्रह्म॑णो हेते । यो मा॑ऽघा॒युर॑भि॒दास॑ति । तम॑ग्ने मे॒न्या मे॒निङ्कृ॑णु । यो मा॒ चख्षु॑षा॒ यो मन॑सा । यो वा॒चा ब्रह्म॑णाऽघा॒युर॑भि॒दास॑ति । तयाऽग्ने॒ त्वं मे॒न्या । अ॒मुम॑मे॒निङ्कृ॑णु । यत्किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा । य॒ज्ञैर्जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ।। 12 ।। 2.4.2.2 तन्मृ॒त्युर्निऱ्ऋ॑त्या सव्विँदा॒नः । पु॒रादि॒ष्टादाहु॑तीरस्य हन्तु । या॒तु॒धाना॒ निऱ्ऋ॑ति॒रादु॒रख्षः॑ । ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम् । इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु । मा तथ्समृ॑द्धि॒ यद॒सौ क॒रोति॑ । हन्मि॑ ते॒ऽहङ्कृ॒त ह॒विः । यो मे॑ घो॒रमची॑कृतः । अपाञ्चौ त उ॒भौ बा॒हू । अप॑नह्याम्या॒स्यम् ।। 13 ।। 2.4.2.3 अप॑ नह्यामि ते बा॒हू । अप॑ नह्याम्या॒स्यम् । अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा । सर्व॑न्तेऽवधिषङ्कृ॒तम् । पु॒राऽमुष्य॑ वषट्का॒रात् । य॒ज्ञन्दे॒वेषु॑ नस्कृधि । स्वि॑ष्टम॒स्माकं॑ भूयात् । माऽस्मान्प्राप॒न्नरा॑तयः । अन्ति॑ दू॒रे स॒तो अ॑ग्ने । भ्रातृ॑व्यस्याभि॒दास॑तः ।। 14 ।। 2.4.2.4 व॒ष॒ट्का॒रेण॒ वज्रे॑ण । कृ॒त्या ह॑न्मि कृ॒ताम॒हम् । यो मा॒ नक्त॒न्दिवा॑ सा॒यम् । प्रा॒तश्चाह्नो॑ नि॒पीय॑ति । अ॒द्या तमि॑न्द्र॒ वज्रे॑ण । भातृ॑व्यं पादयामसि । इन्द्र॑स्य गृ॒हो॑ऽसि॒ तन्त्वा । प्रप॑द्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ । ईडे॑ अ॒ग्निव्विँ॑प॒श्चितम् ।। 15 ।। 2.4.2.5 गि॒रा य॒ज्ञस्य॒ साध॑नम् । श्रु॒ष्टी॒वान॑न्धि॒तावा॑नम् । अग्ने॑ श॒केम॑ ते व॒यम् । यम॑न्दे॒वस्य॑ वा॒जिनः॑ । अति॒ द्वेषा॑सि तरेम । अव॑तं मा॒ सम॑नसौ॒ समो॑कसौ । सचे॑तसौ॒ सरे॑तसौ । उ॒भौ माम॑वतञ्जातवेदसौ । शि॒वौ भ॑वतम॒द्य नः॑ । स्व॒यङ्कृ॑ण्वा॒नस्सु॒गमप्र॑यावम् ।। 16 ।। 2.4.2.6 ति॒ग्मशृ॑ङ्गो वृष॒भश्शोशु॑चानः । प्र॒त्न स॒धस्थ॒मनु॒ पश्य॑मानः । आ तन्तु॑म॒ग्निर्दि॒व्यन्त॑तान । त्वन्न॒स्तन्तु॑रु॒त सेतु॑रग्ने । त्वं पन्था॑ भवसि देव॒यानः॑ । त्वयाऽग्ने पृ॒ष्ठव्वँ॒यमारु॑हेम । अथा॑ दे॒वैस्स॑ध॒मादं॑ मदेम । उदु॑त्त॒मं मु॑मुग्धि नः । वि पाशं॑ मध्य॒मञ्चृ॑त । अवा॑ध॒मानि॑ जी॒वसे ।। 17 ।। 2.4.2.7 व॒य सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तो अशीमहि । इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी । उदशे॑न पति॒विद्ये॑ जिगाय । त्रि॒॒शद॑स्या ज॒घन॒य्योँज॑नानि । उ॒पस्थ॒ इन्द्र॒॒ स्थवि॑रं बिभर्ति । सेना॑ ह॒ नाम॑ पृथि॒वी ध॑नञ्ज॒या । वि॒श्वव्य॑चा॒ अदि॑ति॒स्सूर्य॑त्वक् । इ॒न्द्रा॒णी दे॒वी प्रा॒सहा॒ ददा॑ना ।। 18 ।। 2.4.2.8 सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु । आत्वा॑ऽहार्‌षम॒न्तर॑भूः । ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् । ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी । ध्रु॒वव्विँश्व॑मि॒दञ्जग॑त् । ध्रु॒वा ह॒ पर्व॑ता इ॒मे । ध्रु॒वो राजा॑ वि॒शाम॒यम् । इ॒हैवैधि॒ मा व्य॑थिष्ठाः ।। 19 ।। 2.4.2.9 पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठ । इ॒ह रा॒ष्ट्रमु॑ धारय । अ॒भिति॑ष्ठ पृतन्य॒तः । अध॑रे सन्तु॒ शत्र॑वः । इन्द्र॑ इव वृत्र॒हा ति॑ष्ठ । अ॒पः ख्षेत्रा॑णि स॒ञ्जयन्न्॑ । इन्द्र॑ एणमदीधरत् । ध्रु॒वन्ध्रु॒वेण॑ ह॒विषा । तस्मै॑ दे॒वा अधि॑ब्रवन्न् । अ॒यञ्च॒ ब्रह्म॑ण॒स्पतिः॑ ।। 20 ।। 2.4.3.0 चा॒श्व॒जिद्यो ग॑च्छतन्नो॒ दाश॒न्नामा॑भि॒श्रीर्ग॑मेम स॒प्रथा॑ भजामहे विशन्तु या॒ह्य॑र्वाङच्छ॑ पिबाथ॒ष्षट्च॑ ।। 3 ।। 2.4.3.1 जुष्टी॑ नरो॒ ब्रह्म॑णा व पितृ॒णाम् । अख्ष॑मव्यय॒न्न किला॑रिषाथ । यच्छक्व॑रीषु बृह॒ता रवे॑ण । इन्द्रे॒ शुष्म॒मद॑धाथा वसिष्ठाः । पा॒व॒का न॒स्सर॑स्वती । वाजे॑भिर्वा॒जिनी॑वती । य॒ज्ञव्वँ॑ष्टु धि॒या व॑सुः । सर॑स्वत्य॒भिनो॑ नेषि॒ वस्यः॑ । मा प॑स्फरी॒ पय॑सा॒ मा न॒ आध॑क् । जु॒षस्व॑ नस्स॒ख्या॑ वे॒श्या॑ च ।। 21 ।। 2.4.3.2 मा त्वख्षेत्रा॒ण्यर॑णानि गन्म । वृ॒ञ्जे ह॒विर्नम॑सा ब॒र्॒हिर॒ग्नौ । अया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः । अम्य॑ख्षि॒ सद्म॒ सद॑ने पृथि॒व्याः । अश्रा॑यि य॒ज्ञस्सूर्ये॒ न चख्षुः॑ । इ॒हार्वाञ्च॒मति॑ ह्वये । इन्द्र॒ञ्जैत्रा॑य॒ जेत॑वे । अ॒स्माक॑मस्तु॒ केव॑लः । अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे । यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः ।। 22 ।। 2.4.3.3 इ॒मन्नो॑ य॒ज्ञव्विँ॑ह॒वे जु॑षस्व । अ॒स्य कु॑र्मो हरिवो मे॒दिन॑न्त्वा । असं॑मृष्टो जायसे मातृ॒वोश्शुचिः॑ । म॒न्द्र क॒विरुद॑तिष्ठो॒ विव॑स्वतः । घृ॒तेन॑ त्वा वर्धयन्नग्न आहुत । धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः । अ॒ग्निरग्रे प्रथ॒मो दे॒वता॑नाम् । सय्याँ॑तानामुत्त॒मो विष्णु॑रासीत् । यज॑मानाय परि॒गृह्य॑ दे॒वान् । दी॒ख्षये॒द ह॒विरा ग॑च्छतन्नः ।। 23 ।। 2.4.3.4 अ॒ग्निश्च॑ विष्णो॒ तप॑ उत्त॒मं म॒हः । दी॒ख्षा॒पा॒लेभ्यो॒ऽवन॑त॒॒ हि श॑क्रा । विश्वैर्दे॒वैर्य॒ज्ञियैस्सव्विँदा॒नौ । दी॒ख्षाम॒स्मै यज॑मानाय धत्तम् । प्र तद्विष्णु॑स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒म कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑ ख्षि॒यन्ति॒ भुव॑नानि॒ विश्वा । नूमर्तो॑ दयते सनि॒ष्यन् यः । विष्ण॑व उरुगा॒याय॒ दाश॑त् ।। 24 ।। 2.4.3.5 प्र यस्स॒त्राचा॒ मन॑सा॒ यजा॑तै । ए॒ताव॑न्त॒न्नर्य॑मा॒ विवा॑सात् । विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । ख्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन्न् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । उ॒रु॒ख्षि॒ति सु॒जनि॑मा चकार । त्रिर्दे॒व पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑सं महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् । त्वे॒ष ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ।। 25 ।। 2.4.3.6 होता॑रञ्चि॒त्रर॑थमध्व॒रस्य॑ । य॒ज्ञस्य॑यज्ञस्य के॒तु रुश॑न्तम् । प्रत्य॑र्धिन्दे॒वस्य॑देवस्य म॒ह्ना । श्रि॒या त्व॑ग्निमति॑थि॒ञ्जना॑नाम् । आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः । ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒थ्स्थवि॑रेभिस्सुशिप्र । अ॒स्मे दध॒द्वृष॑ण॒॒ शुष्म॑मिन्द्र । इन्द्र॑स्सुव॒र्॒षा ज॒नय॒न्नहा॑नि । जि॒गायो॒शिग्भि॒ पृत॑ना अभि॒ श्रीः ।। 26 ।। 2.4.3.7 प्रारो॑चय॒न्मन॑वे के॒तुमह्नाम् । अवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य । अश्वि॑ना॒वव॑से॒ निह्व॑ये वाम् । आ नू॒नय्याँ॑त सुकृ॒ताय॑ विप्रा । प्रा॒त॒र्यु॒क्तेन॑ सु॒वृता॒ रथे॑न । उ॒पाग॑च्छत॒मव॒साग॑तन्नः । अ॒वि॒ष्टन्धी॒ष्वश्वि॑ना न आ॒सु । प्र॒जाव॒द्रेतो॒ अह्र॑यन्नो अस्तु । आवान्तो॒के तन॑ये॒ तूतु॑जानाः । सु॒रत्ना॑सो दे॒ववी॑तिङ्गमेम ।। 27 ।। 2.4.3.8 त्व सो॑म॒ क्रतु॑भिस्सु॒क्रतु॑र्भूः । त्वदन्दख्षैस्सु॒दख्षो॑ वि॒श्ववे॑दाः । त्वव्वृँषा॑ वृष॒त्वेभि॑र्महि॒त्वा । द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चख्षाः । अषा॑ढय्युँ॒थ्सु पृत॑नासु॒ पप्रिम् । सु॒व॒र्॒षाम॒प्स्वाव्वृँ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जा सु॑ख्षि॒ति सु॒श्रव॑सम् । जय॑न्त॒न्त्वामनु॑ मदेम सोम । भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑तिः । विभू॑तद्युम्न एव॒ या उ॑ स॒प्रथाः ।। 28 ।। 2.4.3.9 अधा॑ ते विष्णो वि॒दुषा॑ चि॒दृध्यः॑ । स्तोमो॑ य॒ज्ञस्य॒ राध्यो॑ ह॒विष्म॑तः । य पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे । सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति । यो जा॒तम॒स्य म॑ह॒तो म॒हि ब्रवात् । सेदु॒ श्रवो॑भिर्यु॒ज्य॑ञ्चिद॒भ्य॑सत् । तमु॑ स्तोतार पू॒र्व्यय्यँथा॑ वि॒द ऋ॒तस्य॑ । गर्भ॑ ह॒विषा॑ पिपर्तन । आऽस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन । बृ॒हत्ते॑ विष्णो सुम॒तिं भ॑जामहे ।। 29 ।। 2.4.3.10 इ॒मा धा॒ना घृ॑त॒स्नुवः॑ । हरी॑ इ॒होप॑वख्षतः । इन्द्र॑ सु॒खत॑मे॒ रथे । ए॒ष ब्र॒ह्मा प्रते॑म॒हे । वि॒दथे॑ शसिष॒॒ हरी । य ऋ॒त्विय॒ प्रते॑ वन्वे । व॒नुषो॑ हर्य॒तं मदम् । इन्द्रो॒ नाम॑ घृ॒तन्नयः । हरि॑भि॒श्चारु॒ सेच॑ते । श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ।। 30 ।। 2.4.3.11 हरि॑वर्पस॒ङ्गिरः॑ । आच॑र्‌षणि॒प्रा वृ॑ष॒भो जना॑नाम् । राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ । स्तु॒तश्र॑व॒स्यन्नव॒सोप॑म॒द्रिक् । यु॒क्त्वा हरी॒ वृष॒णायाह्य॒र्वाङ् । प्र यथ्सिन्ध॑व प्रस॒वय्यँदायन्न्॑ । आप॑स्समु॒द्र र॒थ्ये॑व जग्मुः । अत॑श्चि॒दिन्द्र॒स्सद॑सो॒ वरी॑यान् । यदी॒॒ सोम॑ पृ॒णति॑ दु॒ग्धो अ॒॒शुः । ह्वया॑मसि॒ त्वेन्द्र॑ या॒ह्य॑र्वाङ् ।। 31 ।। 2.4.3.12 अर॑न्ते॒ सोम॑स्त॒नुवे॑ भवाति । शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॑ । प्रास्मा अ॑व॒ पृत॑नासु॒ प्रयु॒थ्सु । इन्द्रा॑य॒ सोमा प्र॒दिवो॒ विदा॑नाः । ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः । प्र॒य॒म्यमा॑णा॒न्प्रति॒ षू गृ॑भाय । इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ । अहे॑डमान॒ उप॑याहि य॒ज्ञम् । तुभ्यं॑ पवन्त॒ इन्द॑वस्सु॒तासः॑ । गावो॒ न व॑ज्रिन्थ्स्व॒मोको॒ अच्छ॑ ।। 32 ।। 2.4.3.13 इन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् । या ते॑ का॒कुथ्सुकृ॑ता॒ या वरि॑ष्ठा । यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् । तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्थात् । सन्ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः । प्रा॒त॒र्युजा॒ वि बो॑धय । अश्वि॑ना॒वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये । प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वम् । पु॒रा गृध्रा॒दर॑रुष पिबाथः । प्रा॒तऱ्हि य॒ज्ञम॒श्विना॒ दधा॑ते । प्रश॑सन्ति क॒वय॑ पूर्व॒भाजः॑ । प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत । न सा॒यम॑स्ति देव॒या अजु॑ष्टम् । उ॒तान्यो अ॒स्मद्य॑जते॒ विचा॑यः । पूर्व॑ पूर्वो॒ यज॑मानो॒ वनी॑यान् ।। 33 ।। 2.4.4.0 तव॑ कृधि॒ वन॒स्पतीञ्जानता॒मस॑ति व॒यं भ॑रादित्याश्च॒ नव॑ च ।। 4 ।। 2.4.4.1 न॒क्त॒ञ्जा॒ताऽस्यो॑षधे । रामे॒ कृष्णे॒ असि॑क्नि च । इ॒द र॑जनि रजय । कि॒लासं॑ पलि॒तञ्च॒ यत् । कि॒लास॑ञ्च पलि॒तञ्च॑ । निरि॒तो ना॑शया॒ पृष॑त् । आ न॒स्स्वो अ॑श्ञुता॒व्वँर्णः॑ । परा श्वे॒तानि॑ पातय । असि॑तन्ते नि॒लय॑नम् । आ॒स्थान॒मसि॑त॒न्तव॑ ।। 34 ।। 2.4.4.2 असि॑क्नियस्योषधे । निरि॒तो ना॑शया॒ पृष॑त् । अ॒स्थि॒जस्य॑ कि॒लास॑स्य । त॒नू॒जस्य॑ च॒ यत्त्व॒चि । कृ॒त्यया॑ कृ॒तस्य॒ ब्रह्म॑णा । लख्ष्म॑ श्वे॒तम॑नीनशम् । सरू॑पा॒ नाम॑ ते मा॒ता । सरू॑पो॒ नाम॑ ते पि॒ता । सरू॑पाऽस्योषधे॒ सा । सरू॑पमि॒दङ्कृ॑धि ।। 35 ।। 2.4.4.3 शु॒न हु॑वेम म॒घवा॑न॒मिन्द्रम् । अ॒स्मिन्भरे॒ नृत॑म॒व्वाँज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मथ्सु॑ । घ्नन्त॑व्वृँ॒त्राणि॑ स॒ञ्जित॒न्धना॑नाम् । धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॑ । नि वो॒ वना॑ जिहते॒ याम॑ नो भि॒या । को॒पय॑थ पृथि॒वीं पृ॑श्ञिमातरः । यु॒धे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् । प्रवे॑पयन्ति॒ पर्व॑तान् । विवि॑ञ्चन्ति॒ वन॒स्पतीन्॑ ।। 36 ।। 2.4.4.4 प्रोवा॑रत मरुतो दु॒र्मदा॑ इव । देवा॑स॒स्सर्व॑या वि॒शा । पु॒रु॒त्रा हि स॒दृङ्ङसि॑ । विशो॒ विश्वा॒ अनु॑ प्र॒भु । स॒मथ्सु॑ त्वा हवामहे । स॒मथ्स्व॒ग्निमव॑से । वा॒ज॒यन्तो॑ हवामहे । वाजे॑षु चि॒त्ररा॑धसम् । सङ्ग॑च्छध्व॒॒ सव्वँ॑दध्वम् । सव्वोँ॒ मना॑सि जानताम् ।। 37 ।। 2.4.4.5 दे॒वा भा॒गय्यँथा॒ पूर्वे । स॒ञ्जा॒ना॒ना उ॒पास॑त । स॒मा॒नो मन्त्र॒स्समि॑तिस्समा॒नी । स॒मा॒नं मन॑स्स॒ह चि॒त्तमे॑षाम् । स॒मा॒नङ्केतो॑ अ॒भि स र॑भध्वम् । सं॒ज्ञाने॑न वो ह॒विषा॑ यजामः । स॒मा॒नी व॒ आकू॑तिः । स॒मा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनः॑ । यथा॑ व॒स्सुस॒हास॑ति ।। 38 ।। 2.4.4.6 सं॒ज्ञान॑न्न॒स्स्वैः । सं॒ज्ञान॒मर॑णैः । सं॒ज्ञान॑मश्विना यु॒वम् । इ॒हास्मासु॒ निय॑च्छतम् । सं॒ज्ञानं॑ मे॒ बृह॒स्पतिः॑ । सं॒ज्ञान॑ सवि॒ता क॑रत् । सं॒ज्ञान॑मश्विना यु॒वम् । इ॒ह मह्य॒न्नि य॑च्छतम् । उप॑ च्छा॒यामि॑व॒ घृणेः । अग॑न्म॒ शर्म॑ ते व॒यम् ।। 39 ।। 2.4.4.7 अग्ने॒ हिर॑ण्यसन्दृशः । अद॑ब्धेभिस्सवित पा॒युभि॒ष्ट्वम् । शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गयम् । हिर॑ण्यजिह्वस्सुवि॒ताय॒ नव्य॑से । रख्षा॒ माकि॑र्नो अ॒घश॑स ईशत । मदे॑मदे॒ हि नो॑ द॒दुः । यू॒था गवा॑मृजु॒क्रतुः॑ । सङ्गृ॑भाय पु॒रूश॒ता । उ॒भ॒या ह॒स्त्या वसु॑ । शि॒शी॒हि रा॒य आ भ॑र ।। 40 ।। 2.4.4.8 शिप्रि॑न्वाजानां पते । शची॑व॒स्तव॑ द॒॒सना । आ तू न॑ इन्द्र भाजय । गोष्वश्वे॑षु शु॒भ्रुषु॑ । स॒हस्रे॑षु तुवीमघ । यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मान्मा यू॒यम् । ऋ॒तस्य॒र्तेन॑ मुञ्चत । ऋ॒तस्य॒र्तेना॑दित्याः ।। 41 ।। 2.4.4.9 यज॑त्रा मु॒ञ्चते॒ह मा । य॒ज्ञैर्वो॑ यज्ञवाहसः । आ॒शिख्ष॑न्तो॒ न शे॑किम । मेद॑स्वता॒ यज॑मानाः । स्रु॒चाऽऽज्ये॑न॒ जुह्व॑तः । अ॒का॒मा वो॑ विश्वेदेवाः । शिख्ष॑न्तो॒ नोप॑ शेकिम । यदि॒ दिवा॒ यदि॒ नक्तम् । एन॑ एन॒स्योक॑रत् । भू॒तं मा॒ तस्मा॒द्भव्य॑ञ्च ।। 42 ।। 2.4.4.10 द्रु॒प॒दादि॑व मुञ्चतु । द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः । स्वि॒न्नस्स्ना॒त्वी मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्यम् । विश्वे॑ मुञ्चन्तु॒ मैन॑सः । उद्व॒यन्तम॑स॒स्परि॑ । पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वन्दे॑व॒त्रा सूर्यम् । अग॑न्म॒ ज्योति॑रुत्त॒मम् ।। 43 ।। 2.4.5.0 मन॒ इन्द्रो॒ गवि॑ष्टिषु॒ तन्तु॒ङ्गर्भ॒॒ सुजा॑ता॒स्सखा॑ स॒प्त च॑ ।। 5 ।। 2.4.5.1 वृषा॒सो अ॒॒शु प॑वते ह॒विष्मा॒न्थ्सोमः॑ । इन्द्र॑स्य भा॒ग ऋ॑त॒युश्श॒तायुः॑ । स मा॒ वृषा॑णव्वृँष॒भङ्कृ॑णोतु । प्रि॒यव्विँ॒शा सर्व॑वीर सु॒वीरम् । कस्य॒ वृषा॑ सु॒ते सचा । नि॒युत्वान्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये । यस्ते॑ शृङ्ग वृषोनपात् । प्रण॑पात्कुण्ड॒पाय्यः॑ । न्य॑स्मिन्दध्र॒ आ मनः॑ ।। 44 ।। 2.4.5.2 त स॒ध्रीची॑रू॒तयो॒ वृष्णि॑यानि । पौस्या॑नि नि॒युत॑स्सश्चु॒रिन्द्रम् । स॒मु॒द्रन्न सिन्ध॑व उ॒क्थशु॑ष्माः । उ॒रु॒व्यच॑स॒ङ्गिर॒ आ वि॑शन्ति । इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गाः । अ॒प प्रैर॑य॒न्थ्सग॑रस्य बु॒ध्नात् । यो अख्षे॑णेव च॒क्रिया॒ शची॑भिः । विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् । अख्षो॑दय॒च्छव॑सा॒ ख्षाम॑बु॒ध्नम् । वार्णवा॑त॒स्तवि॑षीभि॒रिन्द्रः॑ ।। 45 ।। 2.4.5.3 दृ॒ढान्यौघ्नादु॒शमा॑न॒ ओजः॑ । अवा॑भिनत्क॒कुभ॒ पर्व॑तानाम् । आ नो॑ अग्ने सुके॒तुना । र॒यिव्विँ॒श्वायु॑पोषसम् । मा॒र्डी॒कन्धे॑हि जी॒वसे । त्व सो॑म म॒हे भगम् । त्वय्यूँन॑ ऋताय॒ते । दख्ष॑न्दधासि जी॒वसे । रथ॑य्युँञ्जते म॒रुत॑श्शु॒भे सु॒गम् । सूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ।। 46 ।। 2.4.5.4 रजा॑सि चि॒त्रा विच॑रन्ति त॒न्यवः॑ । दि॒वस्स॑म्राजा॒ पय॑सा न उख्षतम् । वाच॒॒ सुमि॑त्रावरुणा॒विरा॑वतीम् । प॒र्जन्य॑श्चि॒त्राव्वँ॑दति॒ त्विषी॑मतीम् । अ॒भ्रा व॑सत मरुतस्सुमा॒यया । द्याव्वँ॑र्‌षयतमरु॒णाम॑रे॒पसम् । अयु॑क्त स॒प्त शु॒न्ध्युवः॑ । सूरो॒ रथ॑स्य न॒प्त्रियः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः । वहि॑ष्ठेभिऱ्वि॒हर॑न् यासि॒ तन्तुम् ।। 47 ।। 2.4.5.5 अ॒व॒व्यय॒न्नसि॑तन्देव॒ वस्वः॑ । दवि॑ध्वतो र॒श्मय॒स्सूर्य॑स्य । चर्मे॒वावा॑धु॒स्तमो॑ अ॒फ्स्व॑न्तः । प॒र्जन्या॑य॒ प्र गा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे । स नो॑ य॒वस॑मिच्छतु । अच्छा॑ वद त॒वस॑ङ्गी॒र्भिरा॒भिः । स्तु॒हि प॒र्जन्य॒न्नम॒साऽऽवि॑वास । कनि॑क्रदद्वृष॒भो जी॒रदा॑नुः । रेतो॑ दधा॒त्वोष॑धीषु॒ गर्भम् ।। 48 ।। 2.4.5.6 यो गर्भ॒मोष॑धीनाम् । गवाङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्य॑ पुरु॒षीणाम् । तस्मा॒ इदा॒स्ये॑ ह॒विः । जू॒होता॒ मधु॑मत्तमम् । इडान्नस्स॒य्यँत॑ङ्करत् । ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामित् । शुचि॑ङ्घृ॒तेन॒ शुच॑यस्सप॒र्यन्न् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । असू॑दयन्त त॒नुव॒स्सुजा॑ताः ।। 49 ।। 2.4.5.7 इन्द्र॑श्च नश्शुनासीरौ । इ॒मय्यँ॒ज्ञं मि॑मिख्षतम् । गर्भ॑न्धत्त स्व॒स्तये । ययो॑रि॒दव्विँश्वं॒ भुव॑नमा वि॒वेश॑ । ययो॑रान॒न्दो निहि॑तो॒ मह॑श्च । शुना॑सीरावृ॒तुभि॑स्सव्विँदा॒नौ । इन्द्र॑वन्तौ ह॒विरि॒दञ्जु॑षेथाम् । आघा॒ये अ॒ग्निमि॑न्ध॒ते । स्तृ॒णन्ति॑ ब॒र्॒हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा । अग्न॒ इन्द्र॑श्च मे॒दिना । ह॒थो वृ॒त्राण्य॑प्र॒ति । यु॒व हि वृ॑त्र॒हन्त॑मा । याभ्या॒॒ सुव॒रज॑य॒न्नग्र॑ ए॒व । यावा॑तस्थ॒तुर्भुव॑नस्य॒ मध्ये । प्रच॑र्‌ष॒णी वृ॑षणा॒ वज्र॑बाहू । अ॒ग्नी इन्द्रा॑वृत्र॒हणा॑ हुवे वाम् ।। 50 ।। 2.4.6.0 धा॒रय॑न्पुरो॒डाशं॒ बृह॒स्पति॑ञ्ज॒घन॑च्युतिमान॒न्दो भग॑स्य तृप्याण्य॒ग्ने पृ॑थि॒वी यज्व॑न एतु प्र॒दिश॒श्चत॑स्रो॒ वाज॑सातौ च॒त्वारि॑ च ।। 6 ।। 2.4.6.1 उ॒त न॑ प्रि॒या प्रि॒यासु॑ । स॒प्तस्वसा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या॑ऽभूत् । इ॒मा जुह्वा॑नायु॒ष्मदा नमो॑भिः । प्रति॒ स्तोम॑ सरस्वति जुषस्व । तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑नाः । उप॑स्थेयाम शर॒णन्न वृ॒ख्षम् । त्रिणि॑ प॒दा विच॑क्रमे । विष्णु॑र्गो॒पा अदाभ्यः । ततो॒ धर्मा॑णि धा॒रयन्न्॑ ।। 51 ।। 2.4.6.2 तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम् । नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णो प॒दे प॑र॒मे मध्व॒ उथ्सः॑ । क्र॒त्वा॒दा अ॑स्थु॒ श्रेष्ठः॑ । अ॒द्य त्वा॑ व॒न्वन्थ्सु॒रेक्णाः । मर्त॑ आनाश सुवृ॒क्तिम् । इ॒मा ब्र॑ह्म ब्रह्मवाह । प्रि॒या त॒ आ ब॒र्॒हिस्सी॑द । वी॒हि सू॑र पुरो॒डाशम् ।। 52 ।। 2.4.6.3 उप॑ नस्सू॒नवो॒ गिरः॑ । शृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मृ॒डी॒का भ॑वन्तु नः । अ॒द्या नो॑ देव सवितः । प्र॒जाव॑थ्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑य सुव । विश्वा॑नि देव सवितः । दु॒रि॒तानि॒ परा॑ सुव । यद्भ॒द्रन्तन्म॒ आ सु॑व । शुचि॑म॒र्कैर्बृह॒स्पतिम् ।। 53 ।। 2.4.6.4 अ॒ध्व॒रेषु॑ नमस्यत । अ॒ना॒म्योज॒ आ च॑के । या धा॒रय॑न्त दे॒वा सु॒दख्षा॒ दख्ष॑पितारा । अ॒सु॒र्या॑य॒ प्रम॑हसा । स इत् ख्षेति॒ सुधि॑त॒ ओक॑सि॒ स्वे । तस्मा॒ इडा॑ पिन्वते विश्व॒दानी । तस्मै॒ विश॑स्स्व॒यमे॒वान॑मन्ति । यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ । सकू॑तिमिन्द्र॒ सच्यु॑तिम् । सच्यु॑तिञ्ज॒घन॑च्युतिम् ।। 54 ।। 2.4.6.5 क॒नात्का॒भान्न॒ आ भ॑र । प्र॒य॒फ्स्यन्नि॑व स॒क्थ्यौ । वि न॑ इन्द्र॒ मृधो॑ जहि । कनी॑खुनदिव सा॒पयन्न्॑ । अ॒भि न॒स्सुष्टु॑तिन्नय । प्र॒जाप॑तिस्स्त्रि॒याय्यँशः॑ । मु॒ष्कयो॑रदधा॒थ्सपम् । काम॑स्य॒ तृप्ति॑मान॒न्दम् । तस्याग्ने भाजये॒ह मा । मोद॑ प्रमो॒द आ॑न॒न्दः ।। 55 ।। 2.4.6.6 मु॒ष्कयो॒र्निहि॑त॒स्सपः॑ । सृ॒त्वेव॒ काम॑स्य तृप्याणि । दख्षि॑णानां प्रतिग्र॒हे । मन॑सश्चि॒त्तमाकू॑तिम् । वा॒चस्स॒त्यम॑शीमहि । प॒शू॒ना रू॒पमन्न॑स्य । यश॒श्श्रीश्श्र॑यतां॒ मयि॑ । यथा॒ऽहम॒स्या अतृ॑प स्त्रि॒यै पुमान्॑ । यथा॒ स्त्री तृप्य॑ति पु॒॒सि प्रि॒ये प्रि॒या । ए॒वं भग॑स्य तृप्याणि ।। 56 ।। 2.4.6.7 य॒ज्ञस्य॒ काम्य॑ प्रि॒यः । ददा॒मीत्य॒ग्निर्व॑दति । तथेति॑ वा॒युरा॑ह॒ तत् । हन्तेति॑ स॒त्यञ्च॒न्द्रमाः । आ॒दि॒त्यस्स॒त्यमोमिति॑ । आप॒स्तथ्स॒त्यमा भ॑रन्न् । यशो॑ य॒ज्ञस्य॒ दख्षि॑णाम् । अ॒सौ मे॒ काम॒स्समृ॑द्ध्यताम् । न हि स्पश॒मवि॑दन्न॒न्यम॒स्मात् । वै॒श्वा॒न॒रात्पु॑रए॒तार॑म॒ग्नेः ।। 57 ।। 2.4.6.8 अथे॑ममन्थन्न॒मृत॒ममू॑राः । वै॒श्वा॒न॒रङ्ख्षेत्र॒जित्या॑य दे॒वाः । येषा॑मि॒मे पूर्वे॒ अर्मा॑स॒ आसन्न्॑ । अ॒यू॒पास्सद्म॒ विभृ॑ता पु॒रूणि॑ । वैश्वा॑नर॒ त्वया॒ ते नु॒त्ताः । पृ॒थि॒वीम॒न्याम॒भित॑स्थु॒र्जना॑सः । पृ॒थि॒वीं मा॒तरं॑ म॒हीम् । अ॒न्तरि॑ख्ष॒मुप॑ ब्रुवे । बृ॒ह॒तीमू॒तये॒ दिवम् । विश्वं॑ बिभर्ति पृथि॒वी ।। 58 ।। 2.4.6.9 अ॒न्तरि॑ख्ष॒व्विँ प॑प्रथे । दु॒हे द्यौर्बृ॑ह॒ती पयः॑ । न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः । नैना॑ अमि॒त्रो व्यथि॒राद॑धर्‌षति । दे॒वाश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च । ज्योगित्ताभि॑स्सचते॒ गोप॑तिस्स॒ह । न ता अर्वा॑ रे॒णुक॑काटो अश्ञुते । न स॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑य॒न्तस्य॒ ता अनु॑ । गावो॒ मर्त्य॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ।। 59 ।। 2.4.6.10 रात्री॒ व्य॑ख्यदाय॒ती । पु॒रु॒त्रा दे॒व्य॑ख्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑ऽधित । उप॑ ते॒ गा इ॒वाक॑रम् । वृ॒णी॒ष्व दु॑हितर्दिवः । रात्री॒ स्तोम॒न्न जि॒ग्युषी । दे॒वीव्वाँच॑मजनयन्त दे॒वाः । ताव्विँ॒श्वरू॑पा प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्ज॒न्दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ।। 60 ।। 2.4.6.11 यद्वाग्वद॑न्त्यविचेत॒नानि॑ । राष्ट्री॑ दे॒वानान्निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्ज॑न्दुदुहे॒ पया॑सि । क्व॑ स्विदस्या पर॒मञ्ज॑गाम । गौ॒री मि॑माय सलि॒लानि॒ तख्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी । स॒हस्राख्षरा पर॒मे व्यो॑मन्न् । तस्या॑ समु॒द्रा अधि॒ विख्ष॑रन्ति । तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ।। 61 ।। 2.4.6.12 ततः॑ ख्षरत्य॒ख्षरम् । तद्विश्व॒मुप॑ जीवति । इन्द्रा॒सूरा॑ ज॒नय॑न्वि॒श्वक॑र्मा । म॒रुत्वा॑ अस्तु ग॒णवान्थ्सजा॒तवान्॑ । अ॒स्य स्नु॒षा श्वशु॑रस्य॒ प्रशि॑ष्टिम् । स॒पत्ना॒ वाचं॒ मन॑सा॒ उपा॑सताम् । इन्द्र॒स्सूरो॑ अतर॒द्रजा॑सि । स्नु॒षा स॒पत्ना॒ श्वशु॑रो॒ऽयम॑स्तु । अ॒य शत्रूञ्जयतु॒ जर्‌हृ॑षाणः । अ॒यव्वाँज॑ञ्जयतु॒ वाज॑सातौ । अ॒ग्निः ख्ष॑त्र॒भृदनि॑भृष्ट॒मोजः॑ । स॒ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन्न् । वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः । आऽन्तरि॑ख्षमरुह॒दग॒न्द्याम् ।। 62 ।। 2.4.7.0 वि॒शाञ्ज॑यामसि जीरदानो॒ हर्या॒ विश्वा॒ दिवि॑ष्टिषु॒ वसू॑नि जिगी॒वान्थ्सहो॑भिर्मि॒ता न॑श्च॒त्वारि॑ च ।। 7 ।। 2.4.7.1 वृषाऽस्य॒॒शुर्वृ॑ष॒भाय॑ गृह्यसे । वृषा॒ऽयमु॒ग्रो नृ॒चख्ष॑से । दि॒व्य क॑र्म॒ण्यो॑ हि॒तो बृ॒हन्नाम॑ । वृ॒ष॒भस्य॒ या क॒कुत् । वि॒षू॒वान् वि॑ष्णो भवतु । अ॒यय्योँ मा॑म॒को वृषा । अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ । वि ब्र॑वीतु॒ जनेभ्यः । आयु॑ष्मन्त॒व्वँर्च॑स्वन्तम् । अथो॒ अधि॑पतिव्विँ॒शाम् ।। 63 ।। 2.4.7.2 अ॒स्या पृ॑थि॒व्या अध्य॑ख्षम् । इ॒ममि॑न्द्र वृष॒भङ्कृ॑णु । यस्सु॒शृङ्ग॑स्सुवृष॒भः । क॒ल्याणो॒ द्रोण॒ आहि॑तः । कार्‌षी॑वल प्रगाणेन । वृ॒ष॒भेण॑ यजामहे । वृ॒ष॒भेण॒ यज॑मानाः । अक्रू॑रेणेव स॒र्पिषा । मृध॑श्च॒ सर्वा॒ इन्द्रे॑ण । पृत॑नाश्च जयामसि ।। 64 ।। 2.4.7.3 यस्या॒यमृ॑ष॒भो ह॒विः । इन्द्रा॑य परिणी॒यते । जया॑ति॒ शत्रु॑मा॒यन्तम् । अथो॑ हन्ति पृतन्य॒तः । नृ॒णामह॑ प्र॒णीरस॑त् । अग्र॑ उद्भिन्द॒ताम॑सत् । इन्द्र॒ शुष्म॑न्त॒नुवा॒ मेर॑यस्व । नी॒चा विश्वा॑ अ॒भिति॑ष्ठा॒भिमा॑तीः । नि शृ॑णीह्याबा॒धय्योँ॒ नो॒ अस्ति॑ । उ॒रुन्नो॑ लो॒कङ्कृ॑णुहि जीरदानो ।। 65 ।। 2.4.7.4 प्रेह्य॒भि प्रेहि॒ प्र भ॑रा॒ सह॑स्व । मा विवे॑नो॒ वि शृ॑णुष्वा॒ जने॑षु । उदी॑डि॒तो वृ॑षभ॒ तिष्ठ॒ शुष्मैः । इन्द्र॒ शत्रून्पु॒रो अ॒स्माक॑ युध्य । अग्ने॒ जेता॒ त्वञ्ज॑य । शत्रून्थ्सहस॒ ओज॑सा । वि शत्रू॒न्॒ विमृधो॑ नुद । ए॒तन्ते॒ स्तोम॑न्तुविजात॒ विप्रः॑ । रथ॒न्न धीर॒स्स्वपा॑ अतख्षम् । यदीद॑ग्ने॒ प्रति॒त्वन्दे॑व॒ हर्याः ।। 66 ।। 2.4.7.5 सुव॑र्वतीर॒प ए॑ना जयेम । यो घृ॒तेना॒भिमा॑नितः । इन्द्र॒ जैत्रा॑य जज्ञिषे । स न॒स्सङ्का॑सु पारय । पृ॒त॒ना॒साह्ये॑षु च । इन्द्रो॑ जिगाय पृथि॒वीम् । अ॒न्तरि॑ख्ष॒॒ सुव॑र्म॒हत् । वृ॒त्र॒हा पु॑रु॒चेत॑नः । इन्द्रो॑ जिगाय॒ सह॑सा॒ सहा॑सि । इन्द्रो॑ जिगाय॒ पृत॑नानि॒ विश्वा ।। 67 ।। 2.4.7.6 इन्द्रो॑ जा॒तो वि पुरो॑ रुरोज । स न॑ पर॒स्पा वरि॑व कृणोतु । अ॒यङ्कृ॒त्नुरगृ॑भीतः । वि॒श्व॒जिदु॒द्भिदिथ्सोमः॑ । ऋषि॒र्विप्र॒ काव्ये॑न । वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः । सा॒कङ्ग॒न्मन॑सा य॒ज्ञम् । शि॒वो नि॒युद्भि॑श्शि॒वाभिः॑ । वायो॑ शु॒क्रो अ॑यामि ते । मध्वो॒ अग्र॒न्दिवि॑ष्टिषु ।। 68 ।। 2.4.7.7 आ या॑हि॒ सोम॑ पीतये । स्वा॒रु॒हो दे॑व नि॒युत्व॑ता । इ॒ममि॑न्द्र वर्धय ख्ष॒त्रिया॑णाम् । अ॒यव्विँ॒शाव्विँ॒श्पति॑रस्तु॒ राजा । अ॒स्मा इ॑न्द्र॒ महि॒ वर्चा॑सि धेहि । अ॒व॒र्चस॑ङ्कणुहि॒ शत्रु॑मस्य । इ॒ममा भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॑ । निर॒मुं भ॑ज॒ यो॑ऽमित्रो॑ अस्य । वर्ष्म॑न् ख्ष॒त्रस्य॑ क॒कुभि॑ श्रयस्व । ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ।। 69 ।। 2.4.7.8 अ॒स्मे द्या॑वापृथिवी॒ भूरि॑ वा॒मम् । सन्दु॑हाथाङ्घर्म॒दुघे॑व धे॒नुः । अ॒य राजा प्रि॒य इन्द्र॑स्य भूयात् । प्रि॒यो गवा॒मोष॑धीनामु॒तापाम् । यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रम् । येन॒ जया॑सि॒ न परा॒ जया॑सै । स त्वा॑ऽकरेकवृष॒भ स्वानाम् । अथो॑ राजन्नुत्त॒मं मा॑न॒वानाम् । उत्त॑र॒स्त्वमध॑रे ते स॒पत्नाः । एक॑वृषा॒ इन्द्र॑सखा जिगी॒वान् ।। 70 ।। 2.4.7.9 विश्वा॒ आशा॒ पृत॑नास्स॒ञ्जय॒ञ्जयन्न्॑ । अ॒भि ति॑ष्ठ शत्रूय॒तस्स॑हस्व । तुभ्यं॑ भरन्ति ख्षि॒तयो॑ यविष्ठ । ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒तिञ्चि॑किद्धि । बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् । यो दे॒ह्यो अन॑मयद्वध॒स्नैः । यो अर्य॑पत्नीरु॒षस॑श्च॒कार॑ । स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः । विश॑श्चक्रे बलि॒हृत॒स्सहो॑भिः ।। 71 ।। 2.4.7.10 प्र स॒द्यो अ॑ग्ने॒ अत्येष्य॒न्यान् । आ॒विर्यस्मै॒ चारु॑तरो ब॒भूथ॑ । ई॒डेन्यो॑ वपु॒ष्यो॑ वि॒भावा । प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् । ब्रह्म॑ज्येष्ठा वी॒र्या॑ संभृ॑तानि । ब्रह्माग्रे॒ ज्येष्ठ॒न्दिव॒मा त॑तान । ऋ॒तस्य॒ ब्रह्म॑ प्रथ॒मोत ज॑ज्ञे । तेना॑र्‌हति॒ ब्रह्म॑णा॒ स्पर्धि॑तु॒ङ्कः । ब्रह्म॒ स्रुचो॑ घृ॒तव॑तीः । ब्रह्म॑णा॒ स्वर॑वो मि॒ताः ।। 72 ।। 2.4.7.11 ब्रह्म॑ य॒ज्ञस्य॒ तन्त॑वः । ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑ । शृङ्गा॑णी॒वेच्छृ॒ङ्गिणा॒॒ सन्द॑दृश्रिरे । च॒षाल॑वन्त॒स्स्वर॑व पृथि॒व्याम् । ते दे॒वास॒स्स्वर॑वस्तस्थि॒वासः॑ । नम॒स्सखि॑भ्यस्स॒न्नान्माऽव॑गात । अ॒भि॒भूर॒ग्निर॑तर॒द्रजा॑सि । स्पृधो॑ वि॒हत्य॒ पृत॑ना अभि॒श्रीः । जु॒षा॒णो म॒ आहु॑तिं मामहिष्ट । ह॒त्वा स॒पत्ना॒न्॒ वरि॑वस्करन्नः । ईशा॑नन्त्वा॒ भुव॑नानामभि॒श्रियम् । स्तौम्य॑ग्न उरु॒कृत॑ सु॒वीरम् । ह॒विर्जु॑षा॒णस्स॒पत्ना॑ अभि॒भूर॑सि । ज॒हि शत्रू॒॒ रप॒ मृधो॑ नुदस्व ।। 73 ।। 2.4.8.0 पु॒र॒ए॒ता वृ॑णीमहे जु॒षेथान्तर्पयता॒मृत॒न्नवे॑न मीयसे स्यो॒नश्च॒त्वारि॑ च ।। 8 ।। 2.4.8.1 स प्र॑त्न॒वन्नवी॑यसा । अग्ने द्यु॒म्नेन॑ स॒य्यँता । बृ॒हत्त॑तन्थ भा॒नुना । नव॒न्नु स्तोम॑म॒ग्नये । दि॒वश्श्ये॒नाय॑ जीजनम् । वसो कु॒विद्व॒नाति॑ नः । स्वा॒रु॒हा यस्य॒ श्रियो॑ दृ॒शे । र॒यिर्वी॒रव॑तो यथा । अग्रे॑ य॒ज्ञस्य॒ चेत॑तः । अदाभ्य पुरए॒ता ।। 74 ।। 2.4.8.2 अ॒ग्निर्वि॒शां मानु॑षीणाम् । तूर्णी॒ रथ॒स्सदा॒ नवः॑ । नव॒॒ सोमा॑य वा॒जिने । आज्यं॒ पय॑सोऽजनि । जुष्ट॒॒ शुचि॑तम॒व्वँसु॑ । नव॑ सोम जुषस्व नः । पी॒यूष॑स्ये॒ह तृ॑प्णुहि । यस्ते॑ भा॒ग ऋ॒ता व॒यम् । नव॑स्य सोम ते व॒यम् । आ सु॑म॒तिव्वृँ॑णीमहे ।। 75 ।। 2.4.8.3 स नो॑ रास्व सह॒स्रिणः॑ । नव॑ ह॒विर्जु॑षस्व नः । ऋ॒तुभि॑स्सोम॒ भूत॑मम् । तद॒ङ्ग प्रति॑हर्य नः । राजन्थ्सोम स्व॒स्तये । नव॒॒स्तोम॒न्नव॑ ह॒विः । इ॒न्द्रा॒ग्निभ्या॒न्नि वे॑दय । तज्जु॑षेता॒॒ सचे॑तसा । शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्य । इन्द्राग्नी वृत्रहणा जु॒षेथाम् ।। 76 ।। 2.4.8.4 उ॒भा हि वा॑ सु॒हवा॒ जोह॑वीमि । ता वाज॑ स॒द्य उ॑श॒ते धेष्ठा । अ॒ग्निरिन्द्रो॒ नव॑स्य नः । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । इ॒ह दे॒वौ स॑ह॒स्रिणौ । य॒ज्ञन्न॒ आ हि गच्छ॑ताम् । वसु॑मन्त सुव॒र्विदम् । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । अ॒ग्निरिन्द्रो॒ नव॑स्य नः । विश्वान्दे॒वास्त॑र्पयत ।। 77 ।। 2.4.8.5 ह॒विषो॒ऽस्य नव॑स्य नः । सु॒व॒र्विदो॒ हि ज॑ज्ञि॒रे । एदं ब॒र्॒हिस्सु॒ष्टरी॑मा॒ नवे॑न । अ॒यय्यँ॒ज्ञो यज॑मानस्य भा॒गः । अ॒यं ब॑भूव॒ भुव॑नस्य॒ गर्भः॑ । विश्वे॑ दे॒वा इ॒दम॒द्याग॑मिष्ठाः । इ॒मे नु द्यावा॑पृथि॒वी स॒मीची । त॒न्वा॒ने य॒ज्ञं पु॑रु॒पेश॑सन्धि॒या । आऽस्मै॑ पृणीतां॒ भुव॑नानि॒ विश्वा । प्र॒जां पुष्टि॑म॒मृत॒न्नवे॑न ।। 78 ।। 2.4.8.6 इ॒मे धे॒नू अ॒मृत॒य्येँ दु॒हाते । पय॑स्वत्युत्त॒रामे॑तु॒ पुष्टिः॑ । इ॒मय्यँ॒ज्ञञ्जु॒षमा॑णे॒ नवे॑न । स॒मीची॒ द्यावा॑पृथि॒वी घृ॒ताची । यवि॑ष्ठो हव्य॒वाह॑नः । चि॒त्रभा॑नुर्घु॒तासु॑तिः । नव॑जातो॒ वि रो॑चसे । अग्ने॒ तत्ते॑ महित्व॒नम् । त्वम॑ग्ने दे॒वताभ्यः । भा॒गे दे॑व॒ न मी॑यसे ।। 79 ।। 2.4.8.7 स ए॑ना वि॒द्वान् य॑ख्ष्यसि । नव॒॒ स्तोम॑ञ्जुषस्व नः । अ॒ग्नि प्र॑थ॒म प्राश्ञा॑तु । स हि वेद॒ यथा॑ ह॒विः । शि॒वा अ॒स्मभ्य॒मोष॑धीः । कृ॒णोतु॑ वि॒श्वच॑र्‌षणिः । भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवाः । त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भू पि॑तो॒ आ वि॑शस्व । शन्तो॒काय॑ त॒नुवे स्यो॒नः । ए॒तमु॒ त्यं मधु॑ना॒ सय्युँ॑त॒य्यँवम् । सर॑स्वत्या॒ अधि॑म॒नाव॑चर्कृषुः । इन्द्र॑ आसी॒थ्सीर॑पतिश्श॒तक्र॑तुः । की॒नाशा॑ आसन्म॒रुत॑स्सु॒दान॑वः ।। 80 ।। 2.5.0.0 प्रा॒ण उ॒देहि॒ पुन॒रा नो॑ भर य॒ज्ञो रा॒यो वार्त्र॑हत्याय॒ वसू॑ना॒॒ स ईं पाह्य॒ष्टौ ।। 8 ।। प्रा॒णो र॑क्ष॒त्यगृ॑भीता धाराव॒रा म॒रुतो॑ दीर्घायु॒त्वाय॒ ज्योति॑षा त्वा॒ पञ्च॑चत्वारिशत् ।। 45 ।। प्रा॒णश्शु॒न हु॑वेम । हरिः॑ ओम् ।। पञ्चमप्रपाठकस्समाप्तः ।। 2.5.0.0 ।। तैत्तिरीयब्राह्मणे द्वितीयाष्टके पञ्चम प्रपाठक प्रारम्भः ।। हरिः ओम् ।। 2.5.1.0 अ॒ग्रि॒यमन॑पस्फुरन्ती स॒त्य स॒प्त च॑ ।। 1 ।। 2.5.1.1 प्रा॒णो र॑ख्षति॒ विश्व॒मेज॑त् । इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ । स इथ्सर्व॒व्व्याँ॑नशे । यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः । आवृ॑दू॒दात् ख्षेत्रिय॑ध्व॒गद्वृषा । तमित्प्रा॒णं मन॒सोप॑ शिख्षत । अग्र॑न्दे॒वाना॑मि॒दम॑त्तु नो ह॒विः । मन॑स॒श्चित्ते॒दम् । भू॒तं भव्य॑ञ्च गुप्यते । तद्धि दे॒वेष्व॑ग्रि॒यम् ।। 1 ।। 2.5.1.2 आ न॑ एतु पुरश्च॒रम् । स॒ह दे॒वैरि॒म हवम् । मन॒श्श्रेय॑सिश्रेयसि । कर्म॑न् य॒ज्ञप॑ति॒न्दध॑त् । जु॒षतां मे॒ वागि॒द ह॒विः । वि॒राड्दे॒वी पु॒रोहि॑ता । ह॒व्य॒वा़डन॑पायिनी । यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति । पेशा॑सि दे॒वा प॑र॒मे ज॒नित्रे । सा नो॑ वि॒राडन॑पस्फुरन्ती ।। 2 ।। 2.5.1.3 वाग्दे॒वी जु॑षतामि॒द ह॒विः । चख्षु॑र्दे॒वाना॒ञ्ज्योति॑र॒मृते॒ न्य॑क्तम् । अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते । तस्य॑ सु॒म्नम॑शीमहि । मा नो॑ हासीद्विचख्ष॒णम् । आयु॒रिन्न॒ प्रतीर्यताम् । अन॑न्धा॒श्चख्षु॑षा व॒यम् । जी॒वा ज्योति॑रशीमहि । सुव॒र्ज्योति॑रु॒तामृतम् । श्रोत्रे॑ण भ॒द्रमु॒त शृ॑ण्वन्ति स॒त्यम् । श्रोत्रे॑ण॒ वाचं॑ बहु॒धोद्यमा॑नाम् । श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते । श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आ शृ॑णोमि । येन॒ प्राच्या॑ उ॒त द॑ख्षि॒णा । प्र॒तीच्यै॑ दि॒शश्शृ॒ण्वन्त्यु॑त्त॒रात् । तदिच्छ्रोत्रं॑ बहु॒धोद्यमा॑नम् । अ॒रान्न ने॒मि परि॒ सर्वं॑ बभूव ।। 3 ।। 2.5.2.0 अ॒स्त्वे॒तु॒ रोहि॑तो॒ नाको॒ महा॑सि ।। 2 ।। 2.5.2.1 उ॒देहि॑ वाजि॒न्यो अ॑स्य॒फ्स्व॑न्तः । इ॒द रा॒ष्ट्रमा वि॑श सू॒नृता॑वत् । यो रोहि॑तो॒ विश्व॑मि॒दञ्ज॒जान॑ । स नो॑ रा॒ष्ट्रेषु॒ सुधि॑तान्दधातु । रोह॑रोह॒॒ रोहि॑त॒ आरु॑रोह । प्र॒जाभि॒र्वृद्धि॑ञ्ज॒नुषा॑मु॒पस्थम् । ताभि॒स्सर॑ब्धो अविद॒थ्षडु॒र्वीः । गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाऽहाः । आऽहा॑ऱ्षीद्रा॒ष्ट्रमि॒ह रोहि॑तः । मृधो॒ व्यास्थ॒दभ॑यन्नो अस्तु ।।4।। 2.5.2.2 अ॒स्मभ्य॑न्द्यावापृथिवी॒ शक्व॑रीभिः । रा॒ष्ट्रन्दु॑हाथामि॒ह रे॒वती॑भिः । विम॑मऱ्श॒ रोहि॑तो वि॒श्वरू॑पः । स॒मा॒च॒क्रा॒ण प्र॒रुहो॒ रुह॑श्च । दिव॑ङ्ग॒त्वाय॑ मह॒ता म॑हि॒म्ना । वि नो॑ रा॒ष्ट्रमु॑नत्तु॒ पय॑सा॒ स्वेन॑ । यास्ते॒ विश॒स्तप॑सा सं बभू॒वुः । गा॒य॒त्रव्वँ॒थ्समनु॒ तास्त॒ आऽगुः॑ । तास्त्वा वि॑शन्तु॒ मह॑सा॒ स्वेन॑ । सं मा॑ता पु॒त्रो अ॒भ्ये॑तु॒ रोहि॑तः ।। 5 ।। 2.5.2.3 यू॒यमु॑ग्रा मरुत पृश्ञिमातरः । इन्द्रे॑ण स॒युजा॒ प्रमृ॑णीथ॒ शत्रून्॑ । आ वो॒ रोहि॑तो अशृणोदभिद्यवः । त्रिस॑प्तासो मरुतस्स्वादुसम्मुदः । रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान । तस्मि॒॒स्तन्तुं॑ परमे॒ष्ठी त॑तान । तस्मि॑ञ्छिश्रिये अ॒ज एक॑पात् । अदृ॑ह॒द्द्यावा॑पृथि॒वी बले॑न । रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृहत् । तेन॒ सुव॑स्स्तभि॒तन्तेन॒ नाकः॑ ।। 6 ।। 2.5.2.4 सो अ॒न्तरि॑ख्षे॒ रज॑सो वि॒मानः॑ । तेन॑ दे॒वास्सुव॒रन्व॑विन्दन्न् । सु॒शेव॑न्त्वा भा॒नवो॑ दीदि॒वासम् । सम॑ग्रासो जु॒ह्वो॑ जातवेदः । उ॒ख्षन्ति॑ त्वा वा॒जिन॒मा घृ॒तेन॑ । सस॑मग्ने युवसे॒ भोज॑नानि । अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सञ्जास्प॒त्य सु॒यम॒मा कृ॑णुष्व । श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महा॑सि ।। 7 ।। 2.5.3.0 क॒र॒न्निवि॑ष्टमस्यता॒न्नव॑ च ।। 3 ।। 2.5.3.1 पुन॑र्न॒ इन्द्रो॑ म॒घवा॑ ददातु । धना॑नि श॒क्रो धन्य॑स्सु॒राधाः । अ॒र्वा॒चीन॑ङ्कृणुताय्याँचि॒तो मनः॑ । श्रु॒ष्टी नो॑ अ॒स्य ह॒विषो॑ जुषा॒णः । यानि॑ नोऽजि॒नन्धना॑नि । ज॒हर्थ॑ शूर म॒न्युना । इन्द्रानु॑विन्द न॒स्तानि॑ । अ॒नेन॑ ह॒विषा॒ पुनः॑ । इन्द्र॒ आशाभ्य॒ परि॑ । सर्वा॒भ्योऽभ॑यङ्करत् ।। 8 ।। 2.5.3.2 जेता॒ शत्रू॒न्॒ विच॑ऱ्षणिः । आकूत्यै त्वा॒ कामा॑य त्वा स॒मृधे त्वा । पु॒रो द॑धे अमृत॒त्वाय॑ जी॒वसे । आकू॑तिम॒स्याव॑से । काम॑मस्य॒ समृ॑द्ध्यै । इन्द्र॑स्य युञ्जते॒ धियः॑ । आकू॑तिन्दे॒वीं मन॑स पु॒रो द॑धे । य॒ज्ञस्य॑ मा॒ता सु॒हवा॑ मे अस्तु । यदि॒च्छामि॒ मन॑सा॒ सका॑मः । वि॒देय॑मेन॒द्धृद॑ये॒ निवि॑ष्टम् ।। 9 ।। 2.5.3.3 सेद॒ग्निर॒ग्नीरत्येत्य॒न्यान् । यत्र॑ वा॒जी तन॑यो वी॒डुपा॑णिः । स॒हस्र॑पाथा अ॒ख्षरा॑ स॒मेति॑ । आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृतेभ्यः । इ॒दं भू॒तस्याध्य॑ख्षेभ्यः । वि॒धेम॑ ह॒विषा॑ व॒यम् । विश्वा॒ आशा॒ मधु॑ना॒ स सृ॑जामि । अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु । अ॒यय्यँज॑मानो॒ मृधो॒ व्य॑स्यताम् ।। 10 ।। 2.5.3.4 अगृ॑भीता प॒शव॑स्सन्तु॒ सर्वे । अ॒ग्निस्सोमो॒ वरु॑णो मि॒त्र इन्द्रः॑ । बृह॒स्पति॑स्सवि॒ता यस्स॑ह॒स्री । पू॒षा नो॒ गोभि॒रव॑सा॒ सर॑स्वती । त्वष्टा॑ रू॒पाणि॒ सम॑नक्तु य॒ज्ञैः । त्वष्टा॑ रू॒पाणि॒ दध॑ती॒ सर॑स्वती । पू॒षा भग॑ सवि॒ता नो॑ ददातु । बृह॒स्पति॒र्दद॒दिन्द्र॑स्स॒हस्रम् । मि॒त्रो दा॒ता वरु॑ण॒स्सोमो॑ अ॒ग्निः ।। 11 ।। 2.5.4.0 व॒ज्र्यही॑नामृजी॒षं व्यृ॑ण्वति रख्षतु नो र॒यि सौभ॑गा॒न्येक॑ञ्च ।। 4 ।। 2.5.4.1 आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्तम् । नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के । उ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे । तमापृ॑णा वसुपते॒ वसू॑नाम् । इ॒मङ्कामं॑ मन्दया॒ गोभि॒रश्वैः । च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । सु॒व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्राः । इन्द्रा॑य॒ वाह॑ कुशि॒कासो॑ अक्रन्न् । इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् । यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ।। 12 ।। 2.5.4.2 अह॒न्नहि॒मन्व॒पस्त॑तर्द । प्रव॒ख्षणा॑ अभिन॒त्पर्व॑तानाम् । अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णम् । त्वष्टाऽस्मै॒ वज्र॑ स्व॒र्य॑न्ततख्ष । वा॒श्रा इ॑व धे॒नव॒स्स्यन्द॑मानाः । अञ्ज॑स्समु॒द्रमव॑ जग्मु॒रापः॑ । वृ॒षा॒यमा॑णोऽवृणीत॒ सोमम् । त्रिक॑द्रुकेष्वपिबथ्सु॒तस्य॑ । आ साय॑कं म॒घवा॑ दत्त॒ वज्रम् । अह॑न्नेनं प्रथम॒जा मही॑नाम् ।। 13 ।। 2.5.4.3 यदिन्द्राह॑न्प्रथम॒जा मही॑नाम् । आन्मा॒यिना॒ममि॑ना॒ प्रोत मा॒याः । आथ्सूर्य॑ञ्ज॒नय॒न्द्यामु॒षासम् । ता॒दीक्ना॒ शत्रू॒न्न किला॑विविथ्से । अह॑न्वृ॒त्रव्वृँ॑त्र॒तरं॒ व्यसम् । इन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कन्धा॑सीव॒ कुलि॑शेना॒विवृ॑क्णा । अहि॑श्शयत उप॒पृक्पृ॑थि॒व्याम् । अ॒यो॒ध्येव दु॒र्मद॒ आ हि जु॒ह्वे । म॒हा॒वी॒रन्तु॑विबा॒धमृ॑जी॒षम् ।। 14 ।। 2.5.4.4 नाता॑रीरस्य॒ समृ॑तिं व॒धानाम् । स रु॒जानाः पिपिष॒ इन्द्र॑शत्रुः । विश्वो॒ विहा॑या अर॒तिः । वसु॑र्दधे॒ हस्ते॒ दख्षि॑णे । त॒रणि॒र्न शि॑श्रथत् । श्र॒व॒स्य॑या॒ न शि॑श्रथत् । विश्व॑स्मा॒ इदि॑षुध्य॒से । दे॒व॒त्रा ह॒व्यमूहि॑षे । विश्व॑स्मा॒ इथ्सु॒कृते॒ वार॑मृण्वति । अ॒ग्निर्द्वारा॒ व्यृ॑ण्वति ।। 15 ।। 2.5.4.5 उदु॒ज्जिहा॑नो अ॒भि काम॑मी॒रयन्न्॑ । प्र॒पृ॒ञ्चन्विश्वा॒ भुव॑नानि पू॒र्वथा । आ के॒तुना॒ सुष॑मिद्धो॒ यजि॑ष्ठः । काम॑न्नो अग्ने अ॒भिह॑र्य दि॒ग्भ्यः । जु॒षा॒णो ह॒व्यम॒मृते॑षु दू॒ढ्यः॑ । आ नो॑ र॒यिं ब॑हु॒लाङ्गोम॑ती॒मिषम् । नि धे॑हि॒ यख्ष॑द॒मृते॑षु॒ भूषन्न्॑ । अश्वि॑ना य॒ज्ञमाग॑तम् । दा॒शुष॒ पुरु॑दससा । पू॒षा र॑ख्षतु नो र॒यिम् ।। 16 ।। 2.5.4.6 इ॒मय्यँ॒ज्ञम॒श्विना॑ व॒र्धय॑न्ता । इ॒मौ र॒यिय्यँज॑मानाय धत्तम् । इ॒मौ प॒शून्र॑ख्षताव्विँ॒श्वतो॑ नः । पू॒षा न॑ पातु॒ सद॒मप्र॑यच्छन्न् । प्रते॑ म॒हे स॑रस्वति । सुभ॑गे॒ वाजि॑नीवति । स॒त्य॒वाचे॑ भरे म॒तिम् । इ॒दन्नो॑ ह॒व्यङ्घृ॒तव॑थ्सरस्वति । स॒त्य॒वाचे॒ प्रभ॑रेमा ह॒वीषि॑ । इ॒मानि॑ ते दुरि॒ता सौभ॑गानि । तेभि॑र्व॒य सु॒भगा॑सस्स्याम ।। 17 ।। 2.5.5.0 स्या॒म॒ रु॒रो॒ह॒ यु॒वा॒न॒श्शु॒न्ध्यूरि॒च्छमा॑नो दृश्यते॒ निप॑द्यते च॒त्वारि॑ च ।। 5 ।। 2.5.5.1 य॒ज्ञो रा॒यो य॒ज्ञ ई॑शे॒ वसू॑नाम् । य॒ज्ञस्स॒स्याना॑मु॒त सु॑ख्षिती॒नाम् । य॒ज्ञ इ॒ष्ट पू॒र्वचि॑त्तिन्दधातु । य॒ज्ञो ब्र॑ह्म॒ण्वा अप्ये॑तु दे॒वान् । अ॒यय्यँ॒ज्ञो व॑र्धता॒ङ्गोभि॒रश्वैः । इ॒यव्वेँदि॑स्स्वप॒त्या सु॒वीरा । इ॒दं ब॒र्॒हिरति॑ ब॒र्॒हीष्य॒न्या । इ॒मय्यँ॒ज्ञव्विँश्वे॑ अवन्तु दे॒वाः । भग॑ ए॒व भग॑वा अस्तु देवाः । तेन॑ व॒यं भग॑वन्तस्स्याम ।। 18 ।। 2.5.5.2 तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुरए॒ता भ॑वे॒ह । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः । भग॒ प्र नृभि॑र्नृ॒वन्त॑स्स्याम । शश्व॑ती॒स्समा॒ उप॑यन्ति लो॒काः । शश्व॑ती॒स्समा॒ उप॑य॒न्त्यापः॑ । इ॒ष्टं पू॒र्त शश्व॑तीना॒॒ समा॑ना शाश्व॒तेन॑ । ह॒विषे॒ष्ट्वाऽन॒न्तल्लोँ॒कं पर॒मा रु॑रोह ।।19 ।। 2.5.5.3 इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑त् । सा रू॒पाणि॑ कुरुते॒ पञ्च॑ दे॒वी । द्वे स्वसा॑रौ वयत॒स्तन्त्र॑मे॒तत् । स॒ना॒तन॒व्विँत॑त॒॒ षण्म॑यूखम् । अवा॒न्यास्तन्तून्कि॒रतो॑ ध॒त्तो अ॒न्यान् । नाव॑पृ॒ज्याते॒ न ग॑माते॒ अन्तम् । आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य । वृष्टि॒य्येँ विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । अ॒यय्योँ अ॒ग्निर्म॑रुत॒स्समि॑द्धः । ए॒तञ्जु॑षध्वङ्कवयो युवानः ।। 20 ।। 2.5.5.4 धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्णुवो॑जसः । मृ॒गा न भी॒मास्त॑वि॒षेभि॑रू॒र्मिभिः॑ । अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणः॑ । भ्रुमि॒न्धम॑न्त॒ उप॒ गा अ॑वृण्वत । वि च॑क्रमे॒ त्रिर्दे॒वः । आ वे॒धस॒न्नील॑पृष्ठं बृ॒हन्तम् । बृह॒स्पति॒॒ सद॑ने सादयध्वम् । सा॒दद्यो॑नि॒न्दम॒ आ दी॑दि॒वासम् । हिर॑ण्यवर्णमरु॒ष स॑पेम । स हि शुचि॑श्श॒तप॑त्र॒स्स शु॒न्ध्यूः ।।21 ।। 2.5.5.5 हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्॒षाः । बृह॒स्पति॒स्स स्वा॑वे॒श ऋ॒ष्वाः । पू॒रू सखि॑भ्य आसु॒तिङ्क॑रिष्ठः । पूष॒॒ स्तव॑ व्र॒ते व॒यम् । नरि॑ष्येम क॒दाच॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि । यास्ते॑ पूष॒न्ना वो॑ अ॒न्तस्स॑मु॒द्रे । हि॒र॒ण्ययी॑र॒न्तरि॑ख्षे॒ चर॑न्ति । याभि॑र्यासि दू॒त्या सूर्य॑स्य । कामे॑न कृ॒तश्रव॑ इ॒च्छमा॑नः ।। 22 ।। 2.5.5.6 अर॑ण्या॒न्यर॑ण्यान्य॒सौ । या प्रेव॒ नश्य॑सि । क॒था ग्राम॒न्न पृ॑च्छसि । न त्वा॒भीरि॑व विन्दती ३ । वृ॒षा॒र॒वाय॒ वद॑ते । यदु॒पाव॑ति चिच्चि॒कः । आ॒घा॒टीभि॑रिव धा॒वयन्न्॑ । अ॒र॒ण्या॒निर्म॑हीयते । उ॒त गाव॑ इवादन्न् । उ॒तो वेश्मे॑व दृश्यते ।। 23 ।। 2.5.5.7 उ॒तो अ॑रण्या॒निस्सा॒यम् । श॒क॒टीरि॑व सर्जति । गाम॒ङ्गैष॒ आ ह्व॑यति । दार्व॒ङ्गैष॒ उपा॑वधीत् । वस॑न्नरण्या॒न्या सा॒यम् । अक्रु॑क्ष॒दिति॑ मन्यते । न वा अ॑रण्या॒निऱ्ह॑न्ति । अ॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दो फल॑स्य ज॒ग्ध्वा । यत्र॒ कामं॒ नि प॑द्यते । आञ्ज॑नगन्धी सुर॒भीम् । ब॒ह्व॒न्नामकृ॑षीवलाम् । प्राहं मृ॒गाणां मा॒तरम् । अ॒र॒ण्या॒नीम॑शसिषम् ।। 24 ।। 2.5.6.0 क॒रो॒म्यव॑र्त्यै चिच्छुभ्रेऽश्ञवामहै च॒त्वारि॑ च ।। 6 ।। 2.5.6.1 वार्त्र॑हत्याय॒ शव॑से । पृ॒त॒ना॒साह्या॑य च । इन्द्र॒ त्वा व॑र्तयामसि । सु॒ब्रह्मा॑णं वी॒रव॑न्तं बृ॒हन्तम् । उ॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र । श्रु॒तऱ्षि॑मु॒ग्रम॑भिमाति॒षाहम् । अ॒स्मभ्यं॑ चि॒त्रं वृष॑ण र॒यिं दाः । क्षे॒त्रि॒यै त्वा॒ निऱ्ऋ॑त्यै त्वा । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशात् । अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि ।। 25 ।। 2.5.6.2 शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । शं ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु । शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः । शम॒न्तरि॑क्ष स॒ह वाते॑न ते । शं ते॒ चत॑स्र प्र॒दिशो॑ भवन्तु । या दैवी॒श्चत॑स्र प्र॒दिशः॑ । वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे । तासान्त्वा ज॒रस॒ आ द॑धामि । प्र यक्ष्म॑ एतु॒ निऱ्ऋ॑तिं परा॒चैः । अमो॑चि॒ यक्ष्माद्दुरि॒तादव॑र्त्यै ।। 26 ।। 2.5.6.3 द्रु॒ह पाशा॒न्निऱ्ऋ॑त्यै॒ चोद॑मोचि । अहा॒ अव॑र्ति॒मवि॑दथ्स्यो॒नम् । अप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के । सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ यत् । दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः । ए॒वम॒हमि॒मं क्षेत्रि॒याज्जा॑मिश॒॒सात् । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशात् । बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वः॑ । दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्त र॒यि स्तु॑व॒ते की॒रये॑चित् ।। 27 ।। 2.5.6.4 यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । दे॒वा॒युध॒मिन्द्र॒मा जोहु॑वानाः । वि॒श्वा॒वृध॑म॒भि ये रक्ष॑माणाः । येन॑ ह॒ता दी॒र्घमध्वा॑न॒मायन्न्॑ । अ॒न॒न्तमर्थ॒मनि॑वर्थ्स्यमानाः । यत्ते॑ सुजाते हि॒मव॑थ्सु भेष॒जम् । म॒यो॒भूश्शन्त॑मा॒ यद्धृ॒दोसि॑ । ततो॑ नो देहि सीबले । अ॒दो गि॒रिभ्यो॒ अधि॒ यत्प्र॒धाव॑सि । स॒॒शोभ॑माना क॒न्ये॑व शुभ्रे ।। 28 ।। 2.5.6.5 तां त्वा॒ मुद्ग॑ला ह॒विषा॑ वर्धयन्ति । सा न॑स्सीबले र॒यिमा भा॑जये॒ह । पूर्वं॑ देवा॒ अप॑रेणानु॒पश्य॒ञ्जन्म॑भिः । जन्मा॒न्यव॑रै॒ परा॑णि । वेदा॑नि देवा अ॒यम॒स्मीति॒ माम् । अ॒ह हि॒त्वा शरी॑रं ज॒रस॑ प॒रस्तात् । प्रा॒णा॒पा॒नौ चक्षु॒श्श्रोत्रम् । वाचं॒ मन॑सि॒ संभृ॑ताम् । हि॒त्वा शरी॑रं ज॒रस॑ प॒रस्तात् । आ भूतिं॒भूतिं॑ व॒यम॑श्ञवामहै । इ॒मा ए॒व ता उ॒षसो॒ या प्र॑थ॒मा व्यौच्छन्न्॑ । ता दे॒व्य॑ कुर्वते॒ पञ्च॑रू॒पा । शश्व॑ती॒र्नाव॑पृज्यन्ति । न ग॑म॒न्त्यन्तम् ।। 29 ।। 2.5.7.0 च॒ स्वाहा॒ साम्राज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॒ विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ च॒त्वारि॑ च ।। 7 ।। (अ॒ग्निस्सोमो॒ वरु॑णो मि॒त्र इन्द्रो॒ बृह॒स्पति॑स्सवि॒ता पू॒षा सर॑स्वती॒ त्वष्टा॒ दश॑ ।। ) 2.5.7.1 वसू॑नां॒ त्वाऽधी॑तेन । रु॒द्राणा॑मू॒र्म्या । आ॒दि॒त्यानां॒ तेज॑सा । विश्वे॑षां दे॒वानां॒ क्रतु॑ना । म॒रुता॒मेम्ना॑ जुहोमि॒ स्वाहा । अ॒भिभू॑तिर॒हमाग॑मम् । इन्द्र॑सखा स्वा॒युधः॑ । आस्वाशा॑सु दु॒ष्षहः॑ । इ॒दं वर्चो॑ अ॒ग्निना॑ द॒त्तमागात् । यशो॒ भर्ग॒स्सह॒ ओजो॒ बलं॑ च ।। 30 ।। 2.5.7.2 दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । प्रति॑गृभ्णामि मह॒ते वी॒र्या॑य । आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । सर्व॑म्म॒ आयु॑र्भूयात् । सर्व॒मायु॑र्गेषम् । भूर्भुव॒स्सुवः॑ । अ॒ग्निर्धर्मे॑णान्ना॒दः । मृ॒त्युर्धर्मे॒णान्न॑पतिः । ब्रह्म॑ क्ष॒त्र स्वाहा ।। 31 ।। 2.5.7.3 प्र॒जाप॑ति प्रणे॒ता । बृह॒स्पतिः॑ पुरए॒ता । य॒म पन्थाः । च॒न्द्रमाः पुनर॒सुस्स्वाहा । अ॒ग्निर॑न्ना॒दोऽन्न॑पतिः । अ॒न्नाद्य॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । सोमो॒ राजा॒ राज॑पतिः । रा॒ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । वरु॑णस्स॒म्राट्थ्स॒म्राट्प॑तिः । साम्राज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा ।। 32 ।। 2.5.7.4 मि॒त्रः क्ष॒त्रं क्ष॒त्रप॑तिः । क्ष॒त्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । इन्द्रो॒ बलं॒ बल॑पतिः । बल॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । बृह॒स्पति॒र्ब्रह्म॒ ब्रह्म॑पतिः । ब्रह्मा॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । स॒वि॒ता रा॒ष्ट्र रा॒ष्ट्रप॑तिः । रा॒ष्ट्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । पू॒षा वि॒शां विट्प॑तिः । विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । सर॑स्वती॒ पुष्टि॒ पुष्टि॑पत्नी । पुष्टि॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । त्वष्टा॑ पशू॒नां मि॑थु॒नाना॑ रूप॒कृद्रू॒पप॑तिः । रु॒पेणा॒स्मिन् य॒ज्ञे यज॑मानाय प॒शून्द॑दातु॒ स्वाहा ।। 33 ।। 2.5.8.0 अ॒र्च॒त॒ ह॒विर्गा॑यत यसच्चऱ्षणी॒नां वै॑शम्भ॒ल्या हा॑सी॒त्त्वमु॒रुं दे॒वहू॑तौ न॒स्त्मना॒ षट्च॑ ।। 8 ।। 2.5.8.1 स ईं पाहि॒ य ऋ॑जी॒षी तरु॑त्रः । यश्शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् । यो गोत्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः । स इ॑न्द्र चि॒त्रा अ॒भि तृ॑न्धि॒ वाजान्॑ । आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्तात् । आ वि॒श्वतो॑ अ॒भिसमेत्व॒र्वाङ् । इन्द्र॑ द्यु॒म्न सुव॑र्वद्धेह्य॒स्मे । प्रोष्व॑स्मै पुरोर॒थम् । इन्द्रा॑य शू॒षम॑र्चत ।। 34 ।। 2.5.8.2 अ॒भीके॑ चिदु लोक॒कृत् । स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा । अ॒स्माकं॑ बोधि चोदि॒ता । नभ॑न्तामन्य॒केषाम् । ज्या॒का अधि॒ धन्व॑सु । इन्द्रं॑ व॒य शु॑ना॒सीरम् । अ॒स्मिन् य॒ज्ञे ह॑वामहे । आ वाजै॒रुप॑ नो गमत् । इन्द्रा॑य॒ शुना॒सीरा॑य । स्रु॒चा जु॑हुत नो ह॒विः ।। 35 ।। 2.5.8.3 जु॒षतां॒ प्रति॒ मेधि॑रः । प्र ह॒व्यानि॑ घृ॒तव॑न्त्यस्मै । हर्य॑श्वाय भरता स॒जोषाः । इन्द्र॒र्तुभि॒र्ब्रह्म॑णा वावृधा॒नः । शु॒ना॒सी॒री ह॒विरि॒दं जु॑षस्व । वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्रम् । प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमूर्णु॒हि पू॒र्धि चक्षुः॑ । मु॒मु॒ग्ध्य॑स्मान्नि॒धये॑ऽव ब॒द्धान् । बृ॒हदिन्द्रा॑य गायत ।। 36 ।। 2.5.8.4 मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधः॑ । दे॒वं दे॒वाय॒ जागृ॑वि । कामि॒हैका॒ क इ॒मे प॑त॒ङ्गाः । मा॒न्था॒ला कुलि॒परि॑मापतन्ति । अना॑वृतैना॒न्प्रध॑मन्तु दे॒वाः । सौप॑र्णं॒ चक्षु॑स्त॒नुवा॑ विदेय । ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तम् । न॒म॒स्याधीर॑म॒मृत॑स्य गो॒पाम् । स न॒श्शर्म॑ त्रि॒वरू॑थं॒ विय॑सत् ।। 37 ।। 2.5.8.5 यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तम् । हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तम् । य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् । शं नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये । शय्योँर॒भि स्र॑वन्तु नः । ईशा॑ना॒ वार्या॑णाम् । क्षय॑न्तीश्चऱ्षणी॒नाम् ।। 38 ।। 2.5.8.6 अ॒पो या॑चामि भेष॒जम् । अ॒फ्सु मे॒ सोमो॑ अब्रवीत् । अ॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वश॑म्भुवम् । आप॑श्च वि॒श्वभे॑षजीः । यद॒फ्सु ते॑ सरस्वति । गोष्वश्वे॑षु॒ यन्मधु॑ । तेन॑ मे वाजिनीवति । मुख॑मङ्ग्धि सरस्वति । या सर॑स्वती वैशम्भ॒ल्या ।। 39 ।। 2.5.8.7 तस्यां मे रास्व । तस्यास्ते भक्षीय । तस्यास्ते भूयिष्ठ॒भाजो॑ भूयास्म । अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्र पि॒त्रे लो॑क॒कृज्जा॑तवेदः । इ॒हैव सन्तत्र॒ सन्तं॑ त्वाऽग्ने । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् ।। 40 ।। 2.5.8.8 ज्योति॑षा त्वा वैश्वान॒रेणोप॑तिष्ठे । अ॒यं ते॒ योनि॑र् ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मानम् । अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ । य॒ज्ञो भू॒त्वा य॒ज्ञमा सी॑द॒ स्वां योनिम् । जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑ । उ॒पाव॑रोह जातवेद॒ पुन॒स्त्वम् ।। 41 ।। 2.5.8.9 दे॒वेभ्यो॑ ह॒व्यं व॑ह न प्रजा॒नन्न् । आयु॑ प्र॒जा र॒यिम॒स्मासु॑ धेहि । अज॑स्रो दीदिहि नो दुरो॒णे । तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रम् । स॒त्रा दधा॑न॒मप्र॑तिष्कुत॒॒ शवा॑सि । महि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ऽव॒वर्त॑त् । रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री । त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत् । सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाऽव॑शत् । स ईं ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुम् ।। 42 ।। 2.5.8.10 सैन॑ सश्चद्दे॒वं दे॒वस्स॒त्यमिन्दु॑ स॒त्य इन्द्रः॑ । वि॒दद्यती॑ स॒रमा॑ रु॒ग्णमद्रेः । महि॒ पाथ॑ पू॒र्व्य स॒द्ध्रिय॑क्कः । अग्रं॑ नयथ्सु॒पद्यक्ष॑राणाम् । अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒तीगात् । वि॒दद्गव्य॑ स॒रमा॑ दृ॒ढमू॒र्वम् । येना॒नुकं॒ मानु॑षी॒ भोज॑ते॒ विट् । आ ये विश्वास्स्वप॒त्यानि॑ च॒क्रुः । कृ॒ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् । त्वं नृभि॑र्नृपते दे॒वहू॑तौ ।।43 ।। 2.5.8.11 भूरी॑णि वृ॒त्वा ह॑र्यश्व हसि । त्वन्निद॑स्यु॒ञ्चुमु॑रिम् । धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ । ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा । श्रु॒धि ब्रह्म॑ वावृधस्वो॒त गी॒र्भिः । आ॒विस्सुर्यं॑ कृणु॒हि पी॒पिही॒षः । ज॒हि शत्रू॑ र॒भि गा इ॑न्द्र तृन्धि । अग्ने॒ बाध॑स्व॒ वि मृधो॑ नुदस्व । अपामी॑वा॒ अप॒ रक्षा॑सि सेध । अ॒स्माथ्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नः॑ ।। 44 ।। 2.5.8.12 अ॒पां भू॒मान॒मुप॑ नस्सृजे॒ह । यज्ञ॒ प्रति॑तिष्ठ सुम॒तौ सु॒शेवा॒ आ त्वा । वसू॑नि पुरु॒धा वि॑शन्तु । दी॒र्घमायु॒र्यज॑मानाय कृ॒ण्वन्न् । अधा॒मृते॑न जरि॒तार॑मङ्ग्धि । इन्द्र॑श्शु॒नाव॒द्वित॑नोति॒ सीरम् । सं॒व॒थ्स॒रस्य॑ प्रति॒माण॑मे॒तत् । अ॒र्कस्य॒ ज्योति॒स्तदिदा॑स॒ ज्येष्ठम् । सं॒व॒थ्स॒र शु॒नव॒थ्सीर॑मे॒तत् । इन्द्र॑स्य॒ राध॒ प्रय॑तं पु॒रु त्मना । तद॑र्करू॒पं वि॒मिमा॑नमेति । द्वाद॑शारे॒ प्रति॑तिष्ठ॒तीद्वृषा । अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तः । हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ । आ॒भूष॑न्तस्त्वा सुम॒तौ नवा॑याम् । व॒यमि॑न्द्र त्वा शु॒न हु॑वेम ।। 45 ।। 2.6.0.0 स्वा॒द्वीन्त्वा॒ सोम॒स्सुरा॑वन्त॒ सीसे॑न मि॒त्रो॑ऽसि॒ यद्दे॑वा॒ होता॑ यख्षथ्स॒मिधेन्द्र॒॒ समि॑द्ध॒ इन्द्र॒ आच॑र्‌षणि॒प्रा दे॒वं ब॒र्॒हिर्‌होता॑ यख्षथ्स॒मिधा॒ऽग्नि समि॑द्धो अ॒ग्निर॑श्विना॒ऽश्विना॑ ह॒विरि॑न्द्रि॒यन्दे॒वं ब॒र्॒हिस्सर॑स्वत्य॒ग्निम॒द्योशन्तो॒ होता॑ यख्षदि॒डस्प॒दे समि॑द्धो अ॒ग्निस्स॒मिधा॑ वस॒न्तेन॒र्तुना॑ दे॒वं ब॒र्॒हिरिन्द्र॑व्वँयो॒धसं॑ विश॒तिः ।। 20 ।। स्वा॒द्वीन्त्वाऽमी॑मदन्त पि॒तर॒स्साम्राज्याय पू॒तं प॒वित्रे॑णो॒षासा॒नक्ता॒ बद॑रै॒रधा॑तान्दे॒व इन्द्रो॒ वन॒स्पति॑ पष्ठ॒वाह॒ङ्गान्दे॒वी दे॒वव्वँ॑यो॒धस॒ञ्चतु॑र्नवतिः ।। 94 ।। स्वा॒द्वीन्त्वा॑ वेतु॒ यज॑ ।। हरिः॑ ओम् ।। षष्ठ प्रपाठकस्समाप्तः 2.6.0.0 ।। तैत्तिरीयब्राह्मणे द्वितीयाष्टके षष्ठ प्रपाठक प्रारम्भः ।। हरिः ओम् ।। 2.6.1.0 ह॒वि प्र॒त्यङ्ख्सोमो॒ अति॑द्रुतो गृह्णाम्यावि॒शन्विषू॑चिका॒ पञ्च॑ च ।। 1 ।। 2.6.1.1 स्वा॒द्वीं त्वा स्वा॒दुना । ती॒व्रां ती॒व्रेण॑ । अ॒मृता॑म॒मृते॑न । मधु॑मतीं॒ मधु॑मता । सृ॒जामि॒ स सोमे॑न । सोमोऽस्य॒श्विभ्यां पच्यस्व । सर॑स्वत्यै पच्यस्व । इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व । परी॒तो षि॑ञ्चता सु॒तम् । सोमो॒ य उ॑त्त॒म ह॒विः ।। 1 ।। 2.6.1.2 द॒ध॒न्वा यो नर्यो॑ अ॒प्स्व॑न्तरा । सु॒षाव॒ सोम॒मद्रि॑भिः । पु॒नातु॑ ते परि॒स्रुतम् । सोम॒॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना । वा॒यु पू॒त प॒वित्रे॑ण । प्राङ्ख्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्य॒स्सखा । वा॒यु पू॒त प॒वित्रे॑ण । प्र॒त्यङ्ख्सोमो॒ अति॑द्रुतः ।। 2 ।। 2.6.1.3 इन्द्र॑स्य॒ युज्य॒स्सखा । ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒यम् । सुर॑या॒ सोम॑स्सु॒त आसु॑तो॒ मदा॑य । शु॒क्रेण॑ देव दे॒वता पिपृग्धि । रसे॒नान्नं॒ यज॑मानाय धेहि । कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑चित् । यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि । ये ब॒र्‌हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां त्वा॒ जुष्टं॑ गृह्णामि ।। 3 ।। 2.6.1.4 सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे । ए॒ष ते॒ योनि॒स्तेज॑से त्वा । वी॒र्या॑य त्वा॒ बला॑य त्वा । तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि । वी॒र्य॑मसि वी॒र्यं॑ मयि॑ धेहि । बल॑मसि॒ बलं॒ मयि॑ धेहि । नाना॒ हि वां दे॒वहि॑त॒॒ सद॑ कृ॒तम् । मा ससृ॑क्षाथां पर॒मे व्यो॑मन्न् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिसी॒स्स्वां योनि॑मावि॒शन्न् ।। 4 ।। 2.6.1.5 उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नं तेजः॑ । सा॒र॒स्व॒तं वी॒र्यम् । ऐ॒न्द्रं बलम् । ए॒ष ते॒ योनि॒र्मोदा॑य त्वा । आ॒न॒न्दाय॑ त्वा॒ मह॑से त्वा । ओजो॒ऽस्योजो॒ मयि॑ धेहि । म॒न्युर॑सि म॒न्युं मयि॑ धेहि । महो॑ऽसि॒ महो॒ मयि॑ धेहि । सहो॑ऽसि॒ सहो॒ मयि॑ धेहि । या व्या॒घ्रं विषू॑चिका । उ॒भौ वृकं॑ च॒ रक्ष॑ति । श्ये॒नं प॑त॒त्रिण॑ सि॒॒हम् । सेमं पा॒त्वह॑सः । सं॒पृच॑स्स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त । वि॒पृच॑स्स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ।। 5 ।। 2.6.2.0 अ॒द्भ्यः ख्षी॒रव्व्यँ॑पिब॒ज्जन्म॑न॒र्तेन॑ स॒त्यमि॑न्द्रि॒य श्र॒द्धा स॒त्ये प्र॒जाप॑तिर॒ष्टौ च॑ ।। 2 ।। 2.6.2.1 सोमो॒ राजा॒ऽमृत॑ सु॒तः । ऋ॒जी॒षेणा॑जहान्मृ॒त्युम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपान॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒दं पयो॒ऽमृतं॒ मधु॑ । सोम॑म॒द्भ्यो व्य॑पिबत् । छन्द॑सा ह॒॒सश्शु॑चि॒षत् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अ॒द्भ्यः ख्षी॒रव्व्यँ॑पिबत् ।। 6 ।। 2.6.2.2 क्रुङ्ङाङ्गिर॒सो धि॒या । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अन्नात्परि॒स्रुतो॒ रसम् । ब्रह्म॑णा॒ व्य॑पिबत् ख्ष॒त्रम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । रेतो॒ मूत्र॒व्विँज॑हाति । योनिं॑ प्रवि॒शदि॑न्द्रि॒यम् । गर्भो॑ ज॒रायु॒णाऽऽवृ॑तः । उल्ब॑ञ्जहाति॒ जन्म॑ना । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।। 7 ।। 2.6.2.3 वेदे॑न रू॒पे व्य॑करोत् । स॒ता॒स॒ती प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । सोमे॑न॒ सोमौ॒ व्य॑पिबत् । सु॒ता॒सु॒तौ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । दृ॒ष्ट्वा रू॒पे व्याक॑रोत् । स॒त्या॒नृ॒ते प्र॒जाप॑तिः । अश्र॑द्धा॒मनृ॒तेऽद॑धात् । श्र॒द्धा स॒त्ये प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रसम् । शु॒क्रेण॑ शु॒क्रव्व्यँ॑पिबत् । पय॒स्सोमं॑ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपान॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒दं पयो॒ऽमृतं॒ मधु॑ ।। 8 ।। 2.6.3.0 इ॒न्द्रि॒याय॑ पि॒तर॑श्श॒तायु॑षा पु॒नन्तु॑ मा पिताम॒हा पु॒नन्तु॒ प्रपि॑तामहा कल्पता स्व॒स्तये॒ पञ्च॑ च ।। 3 ।। 2.6.3.1 सुरा॑वन्तं बर्‌हि॒षद॑ सु॒वीरम् । य॒ज्ञ हि॑न्वन्ति महि॒षा नमो॑भिः । दधा॑ना॒स्सोम॑न्दि॒वि दे॒वता॑सु । मदे॒मेन्द्र॒य्यँज॑मानास्स्व॒र्काः । यस्ते॒ रस॒स्सम्भृ॑त॒ ओष॑धीषु । सोम॑स्य॒ शुष्म॒स्सुर॑या सु॒तस्य॑ । तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न । सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् । यम॒श्विना॒ नमु॑चेरासु॒रादधि॑ । सर॑स्व॒त्यस॑नोदिन्द्रि॒याय॑ ।। 9 ।। 2.6.3.2 इ॒मन्त शु॒क्रं मधु॑मन्त॒मिन्दुम् । सोम॒॒ राजा॑नमि॒ह भ॑ख्षयामि । यदत्र॑ रि॒प्त र॒सिन॑स्सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हन्तद॑स्य॒ मन॑सा शि॒वेन॑ । सोम॒॒ राजा॑नमि॒ह भ॑ख्षयामि । पि॒तृभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । पि॒ता॒म॒हेभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । प्रपि॑तामहेभ्यस्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । अख्ष॑न्पि॒तरः॑ ।। 10 ।। 2.6.3.3 अमी॑मदन्त पि॒तरः॑ । अती॑तृपन्त पि॒तरः॑ । अमी॑मृजन्त पि॒तरः॑ । पित॑र॒श्शुन्ध॑ध्वम् । पु॒नन्तु॑ मा पि॒तर॑स्सो॒म्यासः॑ । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः ।। 11 ।। 2.6.3.4 प॒वित्रे॑ण श॒तायु॑षा । विश्व॒मायु॒र्व्य॑श्ञवै । अग्न॒ आयू॑षि पव॒सेऽग्ने॒ पव॑स्व । पव॑मान॒स्सुव॒र्जन॑ पु॒नन्तु॑ मा देवज॒नाः । जात॑वेद प॒वित्र॑व॒द्यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । उ॒भाभ्यान्देव सवितर्वैश्वदे॒वी पु॑न॒ती । ये स॑मा॒नास्सम॑नसः । पि॒तरो॑ यम॒राज्ये । तेषाल्लोँ॒कस्स्व॒धा नमः॑ । य॒ज्ञो दे॒वेषु॑ कल्पताम् ।। 12 ।। 2.6.3.5 ये स॑जा॒तास्सम॑नसः । जी॒वा जी॒वेषु॑ माम॒काः । तेषा॒॒ श्रीर्मयि॑ कल्पताम् । अ॒स्मिल्लोँ॒के श॒त समाः । द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम् । अ॒हन्दे॒वाना॑मु॒त मर्त्या॑नाम् । याभ्या॑मि॒दव्विँश्व॒मेज॒थ्समे॑ति । यद॑न्त॒रा पि॒तरं॑ मा॒तर॑ञ्च । इ॒द ह॒वि प्र॒जन॑नं मे अस्तु । दश॑वीर स॒र्वग॑ण स्व॒स्तये । आ॒त्म॒सनि॑ प्रजा॒सनि॑ । प॒शु॒सन्य॑भय॒सनि॑ लोक॒सनि॑ । अ॒ग्नि प्र॒जां ब॑हु॒लां मे॑ करोतु । अन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ दीधर॒थ्स्वाहा ।। 13 ।। 2.6.4.0 अन्त॑र आ॒राद॒न्तर्व॑साते व्याघ्रलो॒म राजा॑ च॒त्वारि॑ च ।। 4 ।। 2.6.4.1 सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिणः॑ । ऊ॒र्णा॒सू॒त्रेण॑ क॒वयो॑ वयन्ति । अ॒श्विना॑ य॒ज्ञ स॑वि॒ता सर॑स्वती । इन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन्न् । तद॑स्य रू॒पम॒मृत॒॒ शची॑भिः । ति॒स्रोऽद॑धुर्दे॒वतास्सररा॒णाः । लोमा॑नि॒ शष्पैर्बहु॒धा न तोक्म॑भिः । त्वग॑स्य मा॒॒सम॑भव॒न्न ला॒जाः । तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी । सर॑स्वती वयति॒ पेशो॒ अन्त॑रः ।। 14 ।। 2.6.4.2 अस्थि॑ म॒ज्जानं॒ मास॑रैः । का॒रो॒त॒रेण॒ दध॑तो॒ गवान्त्व॒चि । सर॑स्वती॒ मन॑सा पेश॒लव्वँसु॑ । नास॑त्याभ्यां वयति दर्‌श॒तव्वँपुः॑ । रसं॑ परि॒स्रुता॒ न रोहि॑तम् । न॒ग्नहु॒र्धीर॒स्तस॑र॒न्न वेम॑ । पय॑सा शु॒क्रम॒मृत॑ञ्ज॒नित्रम् । सुर॑या॒ मूत्राज्जनयन्ति॒ रेतः॑ । अपाम॑तिन्दुर्म॒तिं बाध॑मानाः । ऊव॑ध्य॒व्वाँत॑ स॒बुव॒न्तदा॒रात् ।। 15 ।। 2.6.4.3 इन्द्र॑स्सु॒त्रामा॒ हृद॑येन स॒त्यम् । पु॒रो॒डाशे॑न सवि॒ता ज॑जान । यकृ॑त्क्लो॒मान॒व्वँरु॑णो भिष॒ज्यन्न् । मत॑स्ने वाय॒व्यैर्न मि॑नाति पि॒त्तम् । आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना । गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः । श्ये॒नस्य॒ पत्र॒न्न प्ली॒हा शची॑भिः । आ॒स॒न्दी नाभि॑रु॒दर॒न्न मा॒ता । कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भिः । यस्मि॒न्नग्रे॒ योन्या॒ङ्गर्भो॑ अ॒न्तः ।।16।। 2.6.4.4 प्ला॒शीर्व्य॑क्तश्श॒तधा॑र॒ उथ्सः॑ । दु॒हे न कु॒म्भी स्व॒धां पि॒तृभ्यः॑ । मुख॒॒ सद॑स्य॒ शिर॒ इथ्सदे॑न । जि॒ह्वा प॒वित्र॑म॒श्विना॒ स सर॑स्वती । चप्प॒न्न पा॒युर्भि॒षग॑स्य॒ वालः॑ । व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी । अ॒श्विभ्या॒ञ्चख्षु॑र॒मृतं॒ ग्रहाभ्याम् । छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ । पख्ष्मा॑णि गो॒धूमै॒ क्व॑लैरु॒तानि॑ । पेशो॒ न शु॒क्लमसि॑तव्वँसाते ।। 17 ।। 2.6.4.5 अवि॒र्न मे॒षो न॒सि वी॒र्या॑य । प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहाभ्याम् । सर॑स्व॒त्युप॒वाकैर्व्या॒नम् । नस्या॑नि ब॒र्॒हिर्बद॑रैर्जजान । इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य । कर्णाभ्या॒ श्रोत्र॑म॒मृत॒ङ्ग्रहाभ्याम् । यवा॒ न ब॒र्॒हिर्भ्रु॒वि केस॑राणि । क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखात् । आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॑ । मुखे॒ श्मश्रू॑णि॒ न व्याघ्रलो॒मम् ।। 18 ।। 2.6.4.6 केशा॒ न शी॒र्॒षन्‌ यश॑से श्रि॒यै शिखा । सि॒॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ । अङ्गान्या॒त्मन्भि॒षजा॒ तद॒श्विना । आ॒त्मान॒मङ्गै॒स्सम॑धा॒थ्सर॑स्वती । इन्द्र॑स्य रू॒प श॒तमा॑न॒मायुः॑ । च॒न्द्रेण॒ ज्योति॑र॒मृत॒न्दधा॑ना । सर॑स्वती॒ योन्या॒ङ्गर्भ॑म॒न्तः । अ॒श्विभ्यां॒ पत्नी॒ सुकृ॑तं बिभर्ति । अ॒पा रसे॑न॒ वरु॑णो॒ न साम्ना । इन्द्र॑ श्रि॒यै ज॒नय॑न्न॒प्सु राजा । तेज॑ पशू॒ना ह॒विरि॑न्द्रि॒याव॑त् । प॒रि॒स्रुता॒ पय॑सा सार॒घं मधु॑ । अ॒श्विभ्यान्दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्याम् । अ॒मृत॒स्सोम॒ इन्दुः॑ ।। 19 ।। 2.6.5.0 प॒स्त्यास्वा सर॑स्वत्यै॒ भैष॑ज्येन॒ श्रीरङ्गा॑नि भ॒सद्य॒ज्ञे य॒ज्ञो यजु॑र्भि॒रुप॑नति॒र्द्वे च॑ ।। 5 ।। 2.6.5.1 मि॒त्रो॑ऽसि॒ वरु॑णोऽसि । सम॒हं विश्वैर्दे॒वैः । ख्ष॒त्रस्य॒ नाभि॑रसि । ख्ष॒त्रस्य॒ योनि॑रसि । स्यो॒नामा सी॑द । सु॒षदा॒मा सी॑द । मा त्वा॑ हिसीत् । मा मा॑ हिसीत् । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः । प॒स्त्यास्वा ।। 20 ।। 2.6.5.2 साम्राज्याय सु॒क्रतुः॑ । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वे । अ॒श्विनोर्बा॒हुभ्याम् । पू॒ष्णो हस्ताभ्याम् । अ॒श्विनो॒र्भैष॑ज्येन । तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वे । अ॒श्विनोर्बा॒हुभ्याम् । पू॒ष्णो हस्ताभ्याम् । सर॑स्वत्यै॒ भैष॑ज्येन ।। 21 ।। 2.6.5.3 वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वे । अ॒श्विनोर्बा॒हुभ्याम् । पू॒ष्णो हस्ताभ्याम् । इन्द्र॑स्येन्द्रि॒येण॑ । श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि । को॑ऽसि कत॒मो॑ऽसि । कस्मै त्वा॒ काय॑ त्वा । सुश्लो॒काँ (4) सुम॑ङ्ग॒लाँ (4) सत्य॑रा॒जा (३) न् । शिरो॑ मे॒ श्रीः ।। 22 ।। 2.6.5.4 यशो॒ मुखम् । त्विषि॒ केशाश्च॒ श्मश्रू॑णि । राजा॑ मे प्रा॒णो॑ऽमृतम् । स॒म्राट्चख्षुः॑ । वि॒राट्छ्रोत्रम् । जि॒ह्वा मे॑ भ॒द्रम् । वाङ्महः॑ । मनो॑ म॒न्युः । स्व॒राड्भामः॑ । मोदा प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि ।। 23 ।। 2.6.5.5 चि॒त्तं मे॒ सहः॑ । बा॒हू मे॒ बल॑मिन्द्रि॒यम् । हस्तौ॑ मे॒ कर्म॑ वी॒र्यम् । आ॒त्मा ख्ष॒त्रमुरो॒ मम॑ । पृ॒ष्टीर्मे॑ रा॒ष्ट्रमु॒दर॒मसौ । ग्री॒वाश्च॒ श्रोण्यौ । ऊ॒रू अ॑र॒त्नी जानु॑नी । विशो॒ मेऽङ्गा॑नि स॒र्वतः॑ । नाभि॑र्मे चि॒त्तव्विँ॒ज्ञानम् । पा॒युर्मेऽप॑चितिर्भ॒सत् ।। 24 ।। 2.6.5.6 आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे । भग॒स्सौभाग्यं॒ पसः॑ । जङ्घाभ्यां प॒द्भ्यां धर्मोऽस्मि । वि॒शि राजा॒ प्रति॑ष्ठितः । प्रति॑ ख्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे । प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रत्यङ्गे॑षु॒ प्रति॑तिष्ठाम्या॒त्मन्न् । प्रति॑ प्रा॒णेषु॒ प्रति॑तिष्ठामि पु॒ष्टे । प्रति॒ द्यावा॑पृथि॒व्योः । प्रति॑तिष्ठामि य॒ज्ञे ।। 25 ।। 2.6.5.7 त्र॒या दे॒वा एका॑दश । त्र॒य॒स्त्रि॒॒शास्सु॒राध॑सः । बृह॒स्पति॑पुरोहिताः । दे॒वस्य॑ सवि॒तुस्स॒वे । दे॒वा दे॒वैर॑वन्तु मा । प्र॒थ॒मा द्वि॒तीयैः । द्वि॒तीयास्तृ॒तीयैः । तृ॒तीयास्स॒त्येन॑ । स॒त्यय्यँ॒ज्ञेन॑ । य॒ज्ञो यजु॑र्भिः ।। 26 ।। 2.6.5.8 यजू॑षि॒ साम॑भिः । सामान्यृ॒ग्भिः । ऋचो॑ या॒ज्या॑भिः । या॒ज्या॑ वषट्का॒रैः । व॒ष॒ट्का॒रा आहु॑तिभिः । आहु॑तयो मे॒ कामा॒न्थ्सम॑र्धयन्तु । भूस्स्वाहा । लोमा॑नि॒ प्रय॑ति॒र्मम॑ । त्वङ्म॒ आन॑ति॒राग॑तिः । मा॒॒सं म॒ उप॑नतिः । वस्वस्थि॑ । म॒ज्जा म॒ आन॑तिः ।। 27 ।। 2.6.6.0 स्वप्न॒ एना॑सि चकृ॒मा व॒यं मु॑ञ्च॒ मला॑दिव स॒मिद॑सि॒ जग॒त्त्रीणि॑ च ।। 6 ।। 2.6.6.1 यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । विश्वान्मुञ्च॒त्वह॑सः । यदि॒ दिवा॒ यदि॒ नक्तम् । एना॑सि चकृ॒मा व॒यम् । वा॒युर्मा॒ तस्मा॒देन॑सः । विश्वान्मुञ्च॒त्वह॑सः । यदि॒ जाग्र॒द्यदि॒ स्वप्ने । एना॑सि चकृ॒मा व॒यम् ।। 28 ।। 2.6.6.2 सूर्यो॑ मा॒ तस्मा॒देन॑सः । विश्वान्मुञ्च॒त्वह॑सः । यद्ग्रामे॒ यदर॑ण्ये । यथ्स॒भाया॒य्यँदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्ये । एन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒ धर्म॑णि । तस्या॑व॒यज॑नमसि । यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे । ततो॑ वरुण नो मुञ्च ।। 29 ।। 2.6.6.3 अव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कुण । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयाट् । अव॒ मर्त्यै॒र्मर्त्य॑कृतम् । उ॒रोरा नो॑ देव रि॒षस्पा॑हि । सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु । दु॒र्मि॒त्रास्तस्मै॑ भूयासुः । योऽस्मान्द्वेष्टि॑ । यञ्च॑ व॒यन्द्वि॒ष्मः । द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः । स्वि॒न्नस्स्ना॒त्वी मला॑दिव ।। 30 ।। 2.6.6.4 पू॒तं प॒वित्रे॑णे॒वाज्यम् । आप॑श्शुन्धन्तु॒ मैन॑सः । उद्व॒यन्तम॑स॒स्परि॑ । पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वन्दे॑व॒त्रा सूर्यम् । अग॑न्म॒ ज्योति॑रुत्त॒मम् । प्रति॑युतो॒ वरु॑णस्य॒ पाशः॑ । प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ । एधोऽस्येधिषी॒महि॑ । स॒मिद॑सि ।।31।। 2.6.6.5 तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि । अ॒पो अन्व॑चारिषम् । रसे॑न॒ सम॑सृख्ष्महि । पय॑स्वा अग्न॒ आग॑मम् । तं मा॒ ससृ॑ज॒ वर्च॑सा । प्र॒जया॑ च॒ धने॑न च । स॒माव॑वर्ति पृथि॒वी । समु॒षाः । समु॒ सूर्यः॑ । समु॒ विश्व॑मि॒दञ्जग॑त् । वै॒श्वा॒न॒रज्यो॑तिर्भूयासम् । वि॒भुङ्काम॒व्व्यँ॑श्ञवै । भूस्स्वाहा ।। 32 ।। 2.6.7.0 तेज॑साऽऽसददवर्धतां॒ भार॑तीन्द्रि॒यञ्जु॑षा॒णा द्वे च॑ ।। 7 ।। (स॒मिधेन्द्र॒न्तनू॒नपा॑त॒मिडा॑भिर्ब॒र्॒हिष्योज॑ उ॒षे दैव्या॑ ति॒स्रस्त्वष्टा॑र॒व्वँन॒स्पति॒मिन्द्रम् ।। स॒मिधेन्द्र॑ञ्च॒तुर्वेत्वेको॑ वि॒यन्तु॒ द्विर्वी॒तामेको॑ वि॒यन्तु॒ द्विर्वेत्वेको॑ वि॒यन्तु॒ होत॒र्यज॑ ।। ) 2.6.7.1 होता॑ यख्षथ्स॒मिधेन्द्र॑मि॒डस्प॒दे । नाभा॑ पृथि॒व्या अधि॑ । दि॒वो वर्ष्म॒न्थ्समि॑ध्यते । ओजि॑ष्ठश्चर्‌षणी॒ सहान्॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्तनू॒नपा॑तम् । ऊ॒तिभि॒र्जेता॑र॒मप॑राजितम् । इन्द्र॑न्दे॒व सु॑व॒र्विदम् । प॒थिभि॒र्मधु॑मत्तमैः । नरा॒शसे॑न॒ तेज॑सा ।। 33 ।। 2.6.7.2 वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒दिडा॑भि॒रिन्द्र॑मीडि॒तम् । आ॒जुह्वा॑न॒मम॑र्त्यम् । दे॒वो दे॒वैस्सवीर्यः । वज्र॑हस्त पुरन्द॒रः । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑यख्षद्ब॒र्॒हिषीन्द्र॑न्निषद्व॒रम् । वृ॒ष॒भन्नर्या॑पसम् । वसु॑भीरु॒द्रैरा॑दि॒त्यैः । स॒युग्भि॑र्ब॒र्॒हिरास॑दत् ।। 34 ।। 2.6.7.3 वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒दोजो॒ न वी॒र्यम् । सहो॒ द्वार॒ इन्द्र॑मवर्धयन्न् । सु॒प्रा॒य॒णा विश्र॑यन्तामृता॒वृधः॑ । द्वार॒ इन्द्रा॑य मी॒ढुषे । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षदु॒षे इन्द्र॑स्य धे॒नू । सु॒दुघे॑ मा॒तरौ॑ म॒ही । सवा॒तरौ॒ न तेज॑सी । व॒थ्समिन्द्र॑मवर्धताम् ।। 35 ।। 2.6.7.4 वी॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्दैव्या॒ होता॑रा । भि॒षजा॒ सखा॑या । ह॒विषेन्द्रं॑ भिषज्यतः । क॒वी दे॒वौ प्रचे॑तसौ । इन्द्रा॑य धत्त इन्द्रि॒यम् । वी॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षत्ति॒स्रो दे॒वीः । त्रय॑स्त्रि॒धात॑वो॒पसः॑ । इडा॒ सर॑स्वती॒ भार॑ती ।। 36 ।। 2.6.7.5 म॒हीन्द्र॑पत्नीर्‌ह॒विष्म॑तीः । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्त्वष्टा॑र॒मिन्द्र॑न्दे॒वम् । भि॒षज॑ सु॒यज॑ङ्घृत॒श्रियम् । पु॒रु॒रूप॑ सु॒रेत॑सं म॒घोनिम् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्वन॒स्पतिम् । श॒मि॒तार॑ श॒तक्र॑तुम् । धि॒यो जो॒ष्टार॑मिन्द्रि॒यम् ।। 37 ।। 2.6.7.6 मध्वा॑ सम॒ञ्जन्प॒थिभि॑स्सु॒गेभिः॑ । स्वदा॑ति ह॒व्यं मधु॑ना घृ॒तेन॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒दिन्द्र॒॒ स्वाहाऽऽज्य॑स्य । स्वाहा॒ मेद॑सः । स्वाहा स्तो॒कानाम् । स्वाहा॒ स्वाहा॑कृतीनाम् । स्वाहा॑ ह॒व्यसूक्तीनाम् । स्वाहा॑ दे॒वा आज्य॒पान् । स्वाहेन्द्र॑ हो॒त्राज्जु॑षा॒णाः । इन्द्र॒ आज्य॑स्य वियन्तु । होत॒र्यज॑ ।। 38 ।। 2.6.8.0 शर्ध॑मानो॒ महो॑भि॒ पत्नीर्घृ॒तेन॑ च॒त्वारि॑ च ।। 8 ।। 2.6.8.1 समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के । पु॒रो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः । त्रि॒भिर्दे॒वैस्त्रि॒॒शता॒ वज्र॑बाहुः । ज॒घान॑ वृ॒त्रव्विँ दुरो॑ ववार । नरा॒शस॒ प्रति॒शूरो॒ मिमा॑नः । तनू॒नपा॒त्प्रति॑ य॒ज्ञस्य॒ धाम॑ । गोभि॑र्व॒पावा॒न्मधु॑ना सम॒ञ्जन्न् । हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः । ई॒डि॒तो दे॒वैर्‌हरि॑वा अभि॒ष्टिः । आ॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः ।। 39 ।। 2.6.8.2 पु॒र॒न्द॒रो म॒घवा॒न् वज्र॑बाहुः । आया॑तु य॒ज्ञमुप॑नो जुषा॒णः । जु॒षा॒णो ब॒र्‌हिर्हरि॑वान्न॒ इन्द्रः॑ । प्रा॒चीन॑ सीदत्प्र॒दिशा॑ पृथि॒व्याः । उ॒रु॒व्यचा॒ प्रथ॑मान स्यो॒नम् । आ॒दि॒त्यैर॒क्तव्वँसु॑भिस्स॒जोषाः । इन्द्र॒न्दुर॑ कव॒ष्यो॑ धाव॑मानाः । वृषा॑णय्यँन्तु॒ जन॑यस्सु॒पत्नीः । द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ताम् । सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः ।। 40 ।। 2.6.8.3 उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तम् । पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्रम् । पेश॑स्वती॒ तन्तु॑ना स॒व्व्यँय॑न्ती । दै॒वानान्दे॒वय्यँ॑जतः सुरु॒क्मे । दैव्या॒ मिमा॑ना॒ मन॑सा पुरु॒त्रा । होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा । मू॒र्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना । प्रा॒चीन॒ञ्ज्योति॑र् ह॒विषा॑ वृधातः । ति॒स्रो दे॒वीर्‌ ह॒विषा॒ वर्ध॑मानाः । इन्द्र॑ञ्जुषा॒णा वृष॑ण॒न्न पत्नीः ।। 41 ।। 2.6.8.4 अच्छि॑न्न॒न्तन्तुं॒ पय॑सा॒ सर॑स्वती । इडा॑ दे॒वी भार॑ती वि॒श्वतूर्तिः । त्वष्टा॒ दध॒दिन्द्रा॑य॒ शुष्मम् । अपा॒कोचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ । वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेताः । मू॒र्धन् य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् । वन॒स्पति॒रव॑सृष्टो॒ न पाशैः । त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः । इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः । स्वदा॑ति ह॒व्यं मधु॑ना घृ॒तेन॑ । स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ इन्द्रः॑ । वृ॒षा॒यमा॑णो वृष॒भस्तु॑रा॒षाट् । घृ॒त॒प्रुषा॒ मधु॑ना ह॒व्यमु॒न्दन्न् । मू॒र्धन् य॒ज्ञस्य॑ जुषता॒॒ स्वाहा ।। 42 ।। 2.6.9.0 रे॒वती॑नाञ्च॒त्वारि॑ च ।। 9 ।। 2.6.9.1 आच॑र्‌षणि॒प्रा वि॒वेष॒ यन्मा । त स॒ध्रीचीः । स॒त्यमित्तन्न त्वावा॑ अ॒न्यो अस्ति॑ । इन्द्र॑ दे॒वो न मर्त्यो॒ ज्यायान्॑ । अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॑ । अवा॑सृजो॒ऽपो अच्छा॑ समु॒द्रम् । प्रस॑साहिषे पुरुहूत॒ शत्रून्॑ । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दख्षि॑णेना॒ वसू॑नि । पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् । स शेवृ॑ध॒मधि॑ धाद्द्यु॒म्नम॒स्मे । महि॑ ख्ष॒त्रञ्ज॑ना॒षाडि॑न्द्र॒ तव्यम् । रख्षा॑ च नो म॒घोन॑ पा॒हि सू॒रीन् । रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः ।। 43 ।। 2.6.10.0 वि॒य॒न्तु॒ यज॑ शिख्षि॒ते शि॑ख्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीताँ॒य्यज॑ गृ॒हान् वे॑तु॒ यजा॑भू॒थ्षट्च॑ ।। 10 ।। (दे॒वं ब॒र्॒हिर्दे॒वीर्द्वारो॑ दे॒वी उ॒षासा॒नक्ता॑ दे॒वी जोष्ट्री॑ दे॒वी ऊ॒र्जाहु॑ती दे॒वा दैव्या॒ होता॑रा शिख्षि॒तौ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्दे॒व इन्द्रो॒ नरा॒शसो॑ दे॒व इन्द्रो॒ वन॒स्पति॑र्दे॒वं ब॒र्॒हिर्वारि॑तीनान्दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वम् । वे॒तु॒ वि॒य॒न्तु॒ च॒तुर्वी॑ता॒मेको॑ वियन्तु च॒तुर्वेत्ववर्धयदवर्धय॒न्त्रिर॑वर्धता॒मेको॑ऽ वर्धयश्च॒तुर॑वर्धयत् । वस्तो॒रा व॒थ्सेन॒ दैवी॒रया॒वीष॑ह॒ताऽस्पृ॑ख्षच्छ॒तेन॒ दिव॑ स्वास॒स्थ स्वि॑ष्ट शिख्षि॒ते शि॑ख्षि॒ते शि॑ख्षि॒तौ ।। ) 2.6.10.1 दे॒वं ब॒र्॒हिरिन्द्र॑ सुदे॒वन्दे॒वैः । वी॒रव॑थ्स्ती॒र्णव्वेँद्या॑मवर्धयत् । वस्तोर्वृ॒तं प्राक्तोर्भृ॒तम् । रा॒या ब॒र्॒हिष्म॒तोऽत्य॑गात् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वार॒ इन्द्र॑ सङ्घा॒ते । वि॒ड्वीर्याम॑न्नवर्धयन्न् । आ व॒थ्सेन॒ तरु॑णेन कुमा॒रेण॑ चमीवि॒ता अपार्वा॑णम् । रे॒णुक॑काटन्नुदन्ताम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 44 ।। 2.6.10.2 दे॒वी उ॒षासा॒नक्ता । इन्द्र॑य्यँ॒ज्ञे प्र॑य॒त्य॑ह्वेताम् । दैवी॒र्विश॒ प्राया॑सिष्टाम् । सुप्री॑ते॒ सुधि॑ते अभूताम् । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वी जोष्ट्री॒ वसु॑धिती । दे॒वमिन्द्र॑मवर्धताम् । अयाव्य॒न्याघा द्वेषा॑सि । आन्यावाख्षी॒द्वसु॒ वार्या॑णि । यज॑मानाय शिख्षि॒ते ।। 45 ।। 2.6.10.3 व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे । पय॒सेन्द्र॑मवर्धताम् । इष॒मूर्ज॑म॒न्याऽवाख्षीत् । सग्धि॒॒ सपी॑तिम॒न्या । नवे॑न॒ पूर्व॒न्दय॑माने । पु॒रा॒णेन॒ नवम् । अधा॑ता॒मूर्ज॑मू॒र्जाहु॑ती॒ वसु॒ वार्या॑णि । यज॑मानाय शिख्षि॒ते । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ ।। 46 ।। 2.6.10.4 दे॒वा दैव्या॒ होता॑रा । दे॒वमिन्द्र॑मवर्धताम् । ह॒ताघ॑शसा॒वाभार्ष्टा॒व्वँसु॒वार्या॑णि । यज॑मानाय शिख्षि॒तौ । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । पति॒मिन्द्र॑मवर्धयन्न् । अस्पृ॑ख्ष॒द्भार॑ती॒ दिवम् । रु॒द्रैर्य॒ज्ञ सर॑स्वती । इडा॒ वसु॑मती गृ॒हान् ।। 47 ।। 2.6.10.5 व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒व इन्द्रो॒ नरा॒शसः॑ । त्रि॒व॒रू॒थस्त्रि॑वन्धु॒रः । दे॒वमिन्द्र॑मवर्धयत् । श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः । स॒हस्रे॑ण॒ प्रव॑र्तते । मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्‌ह॑तः । बृह॒स्पतिः॑ स्तो॒त्रम् । अ॒श्विनाऽऽध्व॑र्यवम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। 48 ।। 2.6.10.6 दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यवर्णो॒ मधु॑शाखस्सुपिप्प॒लः । दे॒वमिन्द्र॑मवर्धयत् । दिव॒मग्रे॑णाप्रात् । आऽन्तरि॑ख्षं पृथि॒वीम॑दृहीत् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनाम् । दे॒वमिन्द्र॑मवर्धयत् । स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम् । अ॒न्या ब॒र्॒हीष्य॒भ्य॑भूत् । व॒सु॒वने॑ वसु॒धेयस्य॑ वेतु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । दे॒वमिन्द्र॑मवर्धयत् । स्वि॑ष्टङ्कु॒र्वन्थ्स्वि॑ष्ट॒कृत् । स्वि॑ष्टम॒द्य क॑रोतु नः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। 49 ।। 2.6.11.0 वी॒र्य॑व्विँ॒यन्त्वाज्य॑स्य॒ होत॒र्यज॒ नास॑त्या॒ सर॑स्वती॒ मधु॑ हिर॒ण्ययं॑ भेष॒जव्विँ॒यन्त्वाज्य॑स्य॒ होत॒र्यजाज्य॒पान॒मृता॒ पञ्च॑ च ।। 11 ।। (स॒मिधा॒ऽग्नि षट् । तनू॒नपाथ्स॒प्त । नरा॒शस॒मृषिः॑ । इ॒डेडि॒तो यवै॑र॒ष्टौ । ब॒र्‌हि॒स्स॒प्त । दुरो॒ऽश्विना॒ नव॑ । सु॒पेश॒सर्‌षिः॑ । दैव्या॒ होता॑रा॒ सीसे॑न॒ रसः॑ । ति॒स्रस्त्वष्टा॑रम॒ष्टाव॑ष्टौ । वन॒स्पति॒मृषिः॑ । अ॒ग्निन्त्रयो॑दश । अ॒श्विना॒ द्वाद॑श त्रयोदश । स॒मिधा॒ऽग्निं बद॑रै॒र्बद॑रै॒र्यवै॑र॒श्विना॒ त्विषि॑म॒श्विना॒ न भे॑ष॒ज रू॒पम॒श्विना॑ भी॒मं भामम् ।। ) 2.6.11.1 होता॑ यख्षथ्स॒मिधा॒ऽग्निमि॒डस्प॒दे । अ॒श्विनेन्द्र॒॒ सर॑स्वतीम् । अ॒जो धू॒म्रो न गो॒धूमै॒ क्व॑लैर्भेष॒जम् । मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्तनू॒नपा॒थ्सर॑स्वती । अवि॑र्मे॒षो न भे॑ष॒जम् । प॒था मधु॑म॒ताभ॑रन्न् । अ॒श्विनेन्द्रा॑य वी॒र्यम् ।। 50 ।। 2.6.11.2 बद॑रैरुप॒वाका॑भिर्भेष॒जन्तोक्म॑भिः । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒न्नरा॒शसं॒ न न॒ग्नहुम् । पति॒॒ सुरा॑यै भेष॒जम् । मे॒षस्सर॑स्वती भि॒षक् । रथो॒ न च॒न्द्र्य॑श्विनोर्व॒पा इन्द्र॑स्य वी॒र्यम् । बद॑रैरुप॒वाका॑भिर्भेष॒जन्तोक्म॑भिः । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। 51 ।। 2.6.11.3 होता॑ यख्षदि॒डेडि॒त आ॒जुह्वा॑न॒स्सर॑स्वतीम् । इन्द्रं॒ बले॑न व॒र्धयन्न्॑ । ऋ॒ष॒भेण॒ गवेन्द्रि॒यम् । अ॒श्विनेन्द्रा॑य वी॒र्यम् । यवै क॒र्कन्धु॑भिः । मधु॑ ला॒जैर्न मास॑रम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षद्ब॒र्॒हिस्सु॒ष्टरी॒मोर्ण॑म्रदाः । भि॒षङ्नास॑त्या ।। 52 ।। 2.6.11.4 भि॒षजा॒ऽश्विनाऽश्वा॒ शिशु॑मती । भि॒षग्धे॒नुस्सर॑स्वती । भि॒षग्दु॒ह इन्द्रा॑य भेष॒जम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्दुरो॒ दिशः॑ । क॒व॒ष्यो॑ न व्यच॑स्वतीः । अ॒श्विभ्या॒न्न दुरो॒ दिशः॑ । इन्द्रो॒ न रोद॑सी॒ दुघे । दु॒हे कामा॒न्थ्सर॑स्वती ।। 53 ।। 2.6.11.5 अ॒श्विनेन्द्रा॑य भेष॒जम् । शु॒क्रन्न ज्योति॑रिन्द्रि॒यम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षथ्सु॒पेश॑सो॒षे नक्त॒न्दिवा । अ॒श्विना॑ सञ्जाना॒ने । सम॑ञ्जाते॒ सर॑स्वत्या । त्विषि॒मिन्द्रे॒ न भे॑ष॒जम् । श्ये॒नो न रज॑सा हृ॒दा । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ ।। 54 ।। 2.6.11.6 वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ऽश्विना । इन्द्र॒न्न जागृ॑वी॒ दिवा॒ नक्त॒न्न भे॑ष॒जैः । शूष॒॒ सर॑स्वती भि॒षक् । सीसे॑न दुह इन्द्रि॒यम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जम् । त्रय॑स्त्रि॒धात॑वो॒ऽपसः॑ । रू॒पमिन्द्रे॑ हिर॒ण्ययम् ।। 55 ।। 2.6.11.7 अ॒श्विनेडा॒ न भार॑ती । वा॒चा सर॑स्वती । मह॒ इन्द्रा॑य दधुरिन्द्रि॒यम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्त्वष्टा॑र॒मिन्द्र॑म॒श्विना । भि॒षज॒न्न सर॑स्वतीम् । ओजो॒ न जू॒तिरि॑न्द्रि॒यम् । वृको॒ न र॑भ॒सो भि॒षक् । यश॒स्सुर॑या भेष॒जम् ।। 56 ।। 2.6.11.8 श्रि॒या न मास॑रम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्वन॒स्पतिम् । श॒मि॒तार॑ श॒तक्र॑तुम् । भी॒मन्न म॒न्यु राजा॑नव्व्याँ॒घ्रन्नम॑सा॒ऽश्विना॒ भामम् । सर॑स्वती भि॒षक् । इन्दा॑य दुह इन्द्रि॒यम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। 57 ।। 2.6.11.9 होता॑ यख्षद॒ग्नि स्वाहाऽऽज्य॑स्य स्तो॒कानाम् । स्वाहा॒ मेद॑सां॒ पृथ॑क् । स्वाहा॒ छाग॑म॒श्विभ्याम् । स्वाहा॑ मे॒ष सर॑स्वत्यै । स्वाह॑र्‌ष॒भमिन्द्रा॑य सि॒॒हाय॒ सह॑सेन्द्रि॒यम् । स्वाहा॒ऽग्निन्न भे॑ष॒जम् । स्वाहा॒ सोम॑मिन्द्रि॒यम् । स्वाहेन्द्र॑ सु॒त्रामा॑ण सवि॒तार॒व्वँरु॑णं भि॒षजां॒ पतिम् । स्वाहा॒ वन॒स्पतिं॑ प्रि॒यं पाथो॒ न भे॑ष॒जम् । स्वाहा॑ दे॒वा आज्य॒पान् ।। 58 ।। 2.6.11.10 स्वाहा॒ऽग्नि हो॒त्राज्जु॑षा॒णो अ॒ग्निर्भे॑ष॒जम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षद॒श्विना॒ सर॑स्वती॒मिन्द्र॑ सु॒त्रामा॑णम् । इ॒मे सोमास्सु॒रामा॑णः । छागै॒र्न मे॒षैऱ्ऋ॑ष॒भैस्सु॒ताः । शष्पै॒र्न तोक्म॑भिः । ला॒जैर्मह॑स्वन्तः । मदा॒ मास॑रेण॒ परि॑ष्कृताः । शु॒क्रा पय॑स्वन्तो॒ऽमृताः । प्रस्थि॑ता वो मधु॒श्चुतः॑ । तान॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा । जु॒षन्ता॑ सौ॒म्यं मधु॑ । पिब॑न्तु॒ मद॑न्तु वि॒यन्तु॒ सोमम् । होत॒र्यज॑ ।। 59 ।। 2.6.12.0 न॒ग्नहु॒ पात॑वे सरस्वत्यधुस्सु॒तेऽष्टौ च॑ ।। 12 ।। 2.6.12.1 समि॑द्धो अ॒ग्निर॑श्विना । त॒प्तो घ॒र्मो वि॒राट्थ्सु॒तः । दु॒हे धे॒नुस्सर॑स्वती । सोम॑ शु॒क्रमि॒हेन्द्रि॒यम् । त॒नू॒पा भि॒षजा॑ सु॒ते । अ॒श्विनो॒भा सर॑स्वती । मध्वा॒ रजा॑सीन्द्रि॒यम् । इन्द्रा॑य प॒थिभि॑र्वहान् । इन्द्रा॒येन्दु॒॒ सर॑स्वती । नरा॒शसे॑न न॒ग्नहुः॑ ।। 60 ।। 2.6.12.2 अधा॑ताम॒श्विना॒ मधु॑ । भे॒ष॒जं भि॒षजा॑ सु॒ते । आ॒जुह्वा॑ना॒ सर॑स्वती । इन्द्रा॑येन्द्रि॒याणि॑ वी॒र्यम् । इडा॑भिर॒श्विना॒विषम् । समूर्ज॒ स र॒यिन्द॑धुः । अश्वि॑ना॒ नमु॑चेस्सु॒तम् । सोम॑ शु॒क्रं प॑रि॒स्रुता । सर॑स्वती॒ तमाभ॑रत् । ब॒र्॒हिषेन्द्रा॑य॒ पात॑वे ।। 61 ।। 2.6.12.3 क॒व॒ष्यो॑ न व्यच॑स्वतीः । अ॒श्विभ्यां॒ न दु॒रो दिशः॑ । इन्द्रो॒ न रोद॑सी॒ दुघे । दु॒हे कामा॒न्थ्सर॑स्वती । उ॒षासा॒ नक्त॑मश्विना । दिवेन्द्र॑ सा॒यमि॑न्द्रि॒यैः । स॒ञ्जा॒ना॒ने सु॒पेश॑सा । सम॑ञ्जाते॒ सर॑स्वत्या । पा॒तन्नो॑ अश्विना॒ दिवा । पा॒हि नक्त॑ सरस्वति ।। 62 ।। 2.6.12.4 दैव्या॑ होतारा भिषजा । पा॒तमिन्द्र॒॒ सचा॑ सु॒ते । ति॒स्रस्त्रे॒धा सर॑स्वती । अ॒श्विना॒ भार॒तीडा । ती॒व्रं प॑रि॒स्रुता॒ सोमम् । इन्द्रा॑य सुषवु॒र्मदम् । अश्वि॑ना भेष॒जं मधु॑ । भे॒ष॒जन्न॒स्सर॑स्वती । इन्द्रे॒ त्वष्टा॒ यश॒श्श्रियम् । रू॒प रू॑पमधुस्सु॒ते । ऋ॒तु॒थेन्द्रो॒ वन॒स्पतिः॑ । श॒श॒मा॒न प॑रि॒स्रुता । की॒लाल॑म॒श्विभ्यां॒ मधु॑ । दु॒हे धे॒नुस्सर॑स्वती । गोभि॒र्न सोम॑मश्विना । मास॑रेण परि॒ष्कृता । सम॑धाता॒॒ सर॑स्वत्या । स्वाहेन्द्रे॑ सु॒तं मधु॑ ।। 63 ।। 2.6.13.0 उ॒भा सर॑स्वती॒ बल॑मिन्द्रि॒यन्नरा॒ षट्च॑ ।। 13 ।। 2.6.13.1 अ॒श्विना॑ ह॒विरि॑न्द्रि॒यम् । नमु॑चेर्धि॒या सर॑स्वती । आ शु॒क्रमा॑सु॒राद्व॒सु । म॒घमिन्द्रा॑य जभ्रिरे । यम॒श्विना॒ सर॑स्वती । ह॒विषेन्द्र॒मव॑र्धयन्न् । स बि॑भेद व॒लं म॒घम् । नमु॑चावासु॒रे सचा । तमिन्द्रं॑ प॒शव॒स्सचा । अ॒श्विनो॒भा सर॑स्वती ।। 64 ।। 2.6.13.2 दधा॑ना अ॒भ्य॑नूषत । ह॒विषा॑ य॒ज्ञमि॑न्द्रि॒यम् । य इन्द्र॑ इन्द्रि॒यन्द॒धुः । स॒वि॒ता वरु॑णो॒ भगः॑ । स सु॒त्रामा॑ ह॒विष्प॑तिः । यज॑मानाय सश्चत । स॒वि॒ता वरु॑णो॒ऽदध॑त् । यज॑मानाय दा॒शुषे । आद॑त्त॒ नमु॑चे॒र्वसु॑ । सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ।। 65 ।। 2.6.13.3 वरु॑णः ख्ष॒त्रमि॑न्द्रि॒यम् । भगे॑न सवि॒ता श्रियम् । सु॒त्रामा॒ यश॑सा॒ बलम् । दधा॑ना य॒ज्ञमा॑शत । अश्वि॑ना॒ गोभि॑रिन्द्रि॒यम् । अश्वे॑भिर्वी॒र्यं॑ बलम् । ह॒विषेन्द्र॒॒ सर॑स्वती । यज॑मानमवर्धयन्न् । ता नास॑त्या सु॒पेश॑सा । हिर॑ण्यवर्तनी॒ नरा । सर॑स्वती ह॒विष्म॑ती । इन्द्र॒ कर्म॑सु नोऽवत । ता भि॒षजा॑ सु॒कर्म॑णा । सा सु॒दुघा॒ सर॑स्वती । स वृ॑त्र॒हा श॒तक्र॑तुः । इन्द्रा॑य दधुरिन्द्रि॒यम् ।। 66 ।। 2.6.14.0 द्वारो॑ दधुरिन्द्रि॒यव्वँ॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ जोष्ट्रीभ्यान्दधुरिन्द्रि॒यव्वँ॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ होतृ॑भ्यान्दधुरिन्द्रि॒यव्वँ॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यजेन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ सर॑स्वत्या॒ वन॒स्पति॒ष्षट्च॑ ।। 14 ।। (दे॒वं ब॒र्॒हिर्दे॒वीर्द्वारो॑ दे॒वी उ॒षासा॑व॒श्विना॑ दे॒वी जोष्ट्री॑ दे॒वी ऊ॒र्जाहु॑ती दे॒वा दे॒वानां भि॒षजा॑ वषट्का॒रैर्दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्दे॒व इन्द्रो॒ नरा॒शसो॑ दे॒व इन्द्रो॒ वन॒स्पति॑र्दे॒वं ब॒र्॒हिर्वारि॑तीनान्दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृद्दे॒वान् । स॒मिधा॒ऽग्निन्दे॒वं ब॒र्॒हिस्सर॑स्वत्य॒श्विना॒ सर्व॑ वियन्तु । द्वार॑स्ति॒स्रस्सर्व॑वियन्तु । अ॒ज इन्द्र॒मोजो॒ऽग्निं पर॒स्सर॑स्वतीम् । नक्तं॒ पूर्व॒स्सर॑स्वति । अ॒न्यत्र॒ सर॑स्वती । भि॒षक्पूर्व॑न्दुह इन्द्रि॒यम् । अ॒न्यत्र॑ दधुरिन्द्रि॒यम् । सौ॒त्रा॒म॒ण्या सु॑तासु॒ती । अ॒ञ्जन्त्य॒यय्यँज॑मानः ।। ) 2.6.14.1 दे॒वं ब॒र्॒हिस्स॑रस्वती । सु॒दे॒वमिन्द्रे॑ अ॒श्विना । तेजो॒ न चख्षु॑र॒ख्ष्योः । ब॒र्॒हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वीर्द्वारो॑ अ॒श्विना । भि॒षजेन्द्रे॒ सर॑स्वती । प्रा॒णन्न वी॒र्य॑न्न॒सि । द्वारो॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 67 ।। 2.6.14.2 दे॒वी उ॒षासा॑व॒श्विना । भि॒षजेन्द्रे॒ सर॑स्वती । बल॒न्न वाच॑मा॒स्ये । उ॒षाभ्यान्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वी जोष्ट्री॑ अ॒श्विना । सु॒त्रामेन्द्रे॒ सर॑स्वती । श्रोत्र॒न्न कर्ण॑यो॒र्यशः॑ । जोष्ट्रीभ्यान्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 68 ।। 2.6.14.3 दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे । पय॒सेन्द्र॒॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑वत । शु॒क्रन्न ज्योति॒स्स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वा दे॒वानां भि॒षजा । होता॑रा॒विन्द्र॑म॒श्विना । व॒ष॒ट्का॒रैस्सर॑स्वती । त्विषि॒न्न हृद॑ये म॒तिम् । होतृ॑भ्यान्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 69 ।। 2.6.14.4 दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । सर॑स्वत्य॒श्विना॒ भार॒तीडा । शूष॒न्न मध्ये॒ नाभ्याम् । इन्द्रा॑य दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒व इन्द्रो॒ नरा॒शसः॑ । त्रि॒व॒रू॒थस्सर॑स्वत्या॒ऽश्विभ्या॑मीयते॒ रथः॑ । रेतो॒ न रू॒पम॒मृत॑ञ्ज॒नित्रम् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 70 ।। 2.6.14.5 दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यपर्णो अ॒श्विभ्याम् । सर॑स्वत्यास्सुपिप्प॒लः । इन्द्रा॑य पच्यते॒ मधु॑ । ओजो॒ न जू॒तिमृ॑ष॒भो न भामम् । वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनाम् । अ॒ध्व॒रे स्ती॒र्णम॒श्विभ्याम् । ऊर्ण॑म्रदा॒स्सर॑स्वत्याः ।। 71 ।। 2.6.14.6 स्यो॒नमि॑न्द्र ते॒ सदः॑ । ई॒शायै॑ म॒न्यु राजा॑नं ब॒र्॒हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । दे॒वान् य॑ख्षद्यथाय॒थम् । होता॑रा॒विन्द्र॑म॒श्विना । वा॒चा वाच॒॒ सर॑स्वतीम् । अ॒ग्नि सोम॑ स्विष्ट॒कृत् । स्वि॑ष्ट॒ इन्द्र॑स्सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षक् । इ॒ष्टो दे॒वो वन॒स्पतिः॑ । स्वि॑ष्टा दे॒वा आज्य॒पाः । इ॒ष्टो अ॒ग्निर॒ग्निना । होता॑ हो॒त्रे स्वि॑ष्ट॒कृत् । यशो॒ न दध॑दिन्द्रि॒यम् । ऊर्ज॒मप॑चिति स्व॒धाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 72 ।। 2.6.15.0 इन्द्रा॑य॒ यज॑मानस्स॒प्त च॑ ।। 15 ।। 2.6.15.1 अ॒ग्निम॒द्य होता॑रमवृणीत । अ॒य सु॑तासु॒ती यज॑मानः । पच॑न्प॒क्तीः । पच॑न्पुरो॒डाशान्॑ । गृ॒ह्णन्ग्रहान्॑ । ब॒ध्नन्न॒श्विभ्या॒ञ्छाग॒॒ सर॑स्वत्या॒ इन्द्रा॑य । ब॒ध्नन्थ्सर॑स्वत्यै मे॒षमिन्द्रा॑या॒श्विभ्याम् । ब॒ध्नन्निन्द्रा॑यर्‌ष॒भम॒श्विभ्या॒॒ सर॑स्वत्यै । सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवत् । अ॒श्विभ्या॒ञ्छागे॑न॒ सर॑स्वत्या॒ इन्द्रा॑य ।। 73 ।। 2.6.15.2 सर॑स्वत्यै मे॒षेणेन्द्रा॑या॒श्विभ्याम् । इन्द्रा॑यर्‌ष॒भेणा॒श्विभ्या॒॒ सर॑स्वत्यै । अख्ष॒॒ स्तान्मे॑द॒स्त प्रति॑पच॒ताग्र॑भीषुः । अवी॑वृधन्त॒ ग्रहैः । अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा । सोमान्थ्सु॒राम्णः॑ । उपो॑ उक्थाम॒दाः श्रौ॒द्विमदा॑ अदन्न् । अवी॑वृधन्ताङ्गू॒षैः । त्वाम॒द्यर्‌ष॑ आर्‌षेयर्‌षीणान्नपादवृणीत । अ॒य सु॑तासु॒ती यज॑मानः । ब॒हुभ्य॒ आ सङ्ग॑तेभ्यः । ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑ख्ष्यत॒ इति॑ । ता या दे॒वा दे॑व॒दाना॒न्यदुः॑ । तान्य॑स्मा॒ आ च॒ शास्व॑ । आ च॑ गुरस्व । इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः । सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि ।। 74 ।। 2.6.16.0 अन॑ग्निष्वात्ता॒ जेह॑मानास्स॒प्त च॑ ।। 16 ।। 2.6.16.1 उ॒शन्त॑स्त्वा हवामह॒ आ नो॑ अग्ने सुके॒तुना । त्व सो॑म म॒हे भग॒न्त्व सो॑म॒ प्रचि॑कितो मनी॒षा । त्वया॒ हि न॑ पि॒तर॑स्सोम॒ पूर्वे॒ त्व सो॑म पि॒तृभि॑स्सव्विँदा॒नः । बर्‌हि॑षद पितर॒ आऽहं पि॒तॄन् । उप॑हूता पि॒तरोऽग्नि॑ष्वात्ता पितरः । अ॒ग्निष्वा॒त्तानृ॑तु॒मतो॑ हवामहे । नरा॒शसे॑ सोमपी॒थय्यँ आ॒शुः । ते नो॒ अर्व॑न्तस्सु॒हवा॑ भवन्तु । शन्नो॑ भवन्तु द्वि॒पदे॒ शञ्चतु॑ष्पदे । ये अ॑ग्निष्वा॒त्ता येऽन॑ग्निष्वात्ताः ।। 75 ।। 2.6.16.2 अ॒॒हो॒मुच॑ पि॒तर॑स्सो॒म्यासः॑ । परेऽव॑रे॒ऽमृता॑सो॒ भव॑न्तः । अधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् । वा॒न्या॑यै दु॒ग्धे जु॒षमा॑णा कर॒म्भम् । उ॒दीरा॑णा॒ अव॑रे॒ परे॑ च । अ॒ग्नि॒ष्वा॒त्ता ऋ॒तुभि॑स्सव्विँदा॒नाः । इन्द्र॑वन्तो ह॒विरि॒दञ्जु॑षन्ताम् । यद॑ग्ने कव्यवाहन॒ त्वम॑ग्न ईडि॒तो जा॑तवेदः । मात॑ली क॒व्यैः । ये ता॑तृ॒पुर्दे॑व॒त्रा जेह॑मानाः । हो॒त्रा॒वृध॒स्स्तोम॑तष्टासो अ॒र्कैः । आऽग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ् । स॒त्यै क॒व्यै पि॒तृभि॑र्घर्म॒सद्भिः॑ । ह॒व्य॒वाह॑म॒जरं॑ पुरुप्रि॒यम् । अ॒ग्निङ्घृ॒तेन॑ ह॒विषा॑ सप॒र्यन्न् । उपा॑सदङ्कव्य॒वाहं॑ पितृ॒णाम् । स न॑ प्र॒जाव्वीँ॒रव॑ती॒॒ समृ॑ण्वतु ।। 76 ।। 2.6.17.0 द॒धे दध॑दृता॒वृध॑ इन्द्रि॒यं पेश॑स्वतीर्वयो॒धसं॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ स॒प्त च॑ ।। 17 ।। (इ॒डस्प॒देऽग्निङ्गा॑य॒त्रीन्त्र्यविम् । शुचि॑व्रत॒॒ शुचि॑मु॒ष्णिह॑न्दित्य॒वाहम् । ई॒डेन्य॒॒ सोम॑मनु॒ष्टुभ॑न्त्रिव॒थ्सम् । सु॒ब॒र्॒हि॒षद॑म॒मृतेन्द्रं॑ बृह॒तीं पञ्चा॑विम् । व्यच॑स्वतीस्सुप्राय॒णा द्वारो ब्र॒ह्माण॑ प॒ङ्क्तिमि॒ह तु॑र्य॒वाहम् । सु॒पेश॑से॒ विश्व॒मिन्द्र॑न्त्रि॒ष्टुभं॑ पष्ठ॒वाहम् । प्रचे॑तसा स॒युजेन्द्र॒ञ्जग॑तीमि॒हान॒ड्वाहम् । पेश॑स्वतीस्ति॒स्र पतिँ॑व्वि॒राज॑मि॒ह धे॒नुन्न । सु॒रेत॑स॒न्त्वष्टा॑रं॒ पुष्टि॒मिन्द्र॑न्द्वि॒पद॑मि॒होख्षाण॒न्न । श॒तक्र॑तुं॒ भग॒मिन्द्र॑ङ्क॒कुभ॑मि॒ह व॒शान्न । स्वाहा॑कृतीः ख्ष॒त्रमति॑च्छन्दसं बृ॒हदृ॑ष॒भङ्गाव्वँयो॒ दध॑दिन्द्रि॒यमृषि॑ वसु॒ नव॑ द॒शेहेन्द्रि॒यमष्ट॑ नव दश॒ गान्न वयो॒ दध॑दि॒डस्प॒दे सर्व॑ वेतु ।। ) 2.6.17.1 होता॑ यख्षदि॒डस्प॒दे । स॒मि॒धा॒नं म॒हद्यशः॑ । सुष॑मिद्ध॒व्वँरेण्यम् । अ॒ग्निमिन्द्र॑व्वँयो॒धसम् । गा॒य॒त्रीञ्छन्द॑ इन्द्रि॒यम् । त्र्यवि॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒च्छुचि॑व्रतम् । तनू॒नपा॑तमु॒द्भिदम् । यङ्गर्भ॒मदि॑तिर्द॒धे ।। 77 ।। 2.6.17.2 शुचि॒मिन्द्र॑व्वँयो॒धसम् । उ॒ष्णिह॒ञ्छन्द॑ इन्द्रि॒यम् । दि॒त्य॒वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षदी॒डेन्यम् । ई॒डि॒तव्वृँ॑त्र॒हन्त॑मम् । इडा॑भि॒रीड्य॒॒ सहः॑ । सोम॒मिन्द्र॑व्वँयो॒धसम् । अ॒नु॒ष्टुभ॒ञ्छन्द॑ इन्द्रि॒यम् । त्रि॒व॒थ्सङ्गाव्वँयो॒ दध॑त् ।। 78 ।। 2.6.17.3 वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षथ्सुबऱ्हि॒षदम् । पू॒ष॒ण्वन्त॒मम॑र्त्यम् । सीद॑न्तं ब॒र्॒हिषि॑ प्रि॒ये । अ॒मृतेन्द्र॑व्वँयो॒धसम् । बृ॒ह॒तीञ्छन्द॑ इन्द्रि॒यम् । पञ्चा॑वि॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑यख्ष॒द्व्यच॑स्वतीः । सु॒प्रा॒य॒णा ऋ॑ता॒वृधः॑ ।। 79 ।। 2.6.17.4 द्वारो॑ दे॒वीर्‌हि॑र॒ण्ययीः । ब्र॒ह्माण॒ इन्द्र॑व्वँयो॒धसम् । प॒ङ्क्तिञ्छन्द॑ इ॒हेन्द्रि॒यम् । तु॒र्य॒वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षथ्सु॒पेश॑से । सु॒शि॒ल्पे बृ॑ह॒ती उ॒भे । नक्तो॒षासा॒ न द॑र्‌श॒ते । विश्व॒मिन्द्र॑व्वँयो॒धसम् । त्रि॒ष्टुभ॒ञ्छन्द॑ इन्द्रि॒यम् ।। 80 ।। 2.6.17.5 प॒ष्ठ॒वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्प्रचे॑तसा । दे॒वाना॑मुत्त॒मय्यँशः॑ । होता॑रा॒ दैव्या॑ क॒वी । स॒युजेन्द्र॑व्वँयो॒धसम् । जग॑ती॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । अ॒न॒ड्वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्पेश॑स्वतीः ।। 81 ।। 2.6.17.6 ति॒स्रो दे॒वीर्‌हि॑र॒ण्ययीः । भार॑तीर्बृह॒तीर्म॒हीः । पति॒मिन्द्र॑व्वँयो॒धसम् । वि॒राज॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । धे॒नुङ्गान्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षथ्सु॒रेत॑सम् । त्वष्टा॑रं पुष्टि॒वर्ध॑नम् । रू॒पाणि॒ बिभ्र॑तं॒ पृथ॑क् । पुष्टि॒मिन्द्र॑व्वँयो॒धसम् ।। 82 ।। 2.6.17.7 द्वि॒पद॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । उ॒ख्षाण॒ङ्गान्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षच्छ॒तक्र॑तुम् । हिर॑ण्यपर्णमु॒क्थिनम् । र॒श॒नां बिभ्र॑तव्वँ॒शिम् । भग॒मिन्द्र॑व्वँयो॒धसम् । क॒कुभ॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । व॒शाव्वेँ॒हत॒ङ्गान्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒थ्स्वाहा॑कृतीः । अ॒ग्निङ्गृ॒हप॑तिं॒ पृथ॑क् । वरु॑णं भेष॒जङ्क॒विम् । ख्ष॒त्रमिन्द्र॑व्वँयो॒धसम् । अति॑च्छन्दस॒ञ्छन्द॑ इन्द्रि॒यम् । बृ॒हदृ॑ष॒भङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। 83 ।। 2.6.18.0 अम॑र्त्यस्तुर्य॒वाड्गौर्वयो॑ दधु॒र्विशो॑ व॒शा वे॒हद्गौर्न वयो॑ दधुश्च॒त्वारि॑ च ।। 18 ।। 2.6.18.1 समि॑द्धो अ॒ग्निस्स॒मिधा । सुष॑मिद्धो॒ वरेण्यः । गा॒य॒त्री छन्द॑ इन्द्रि॒यम् । त्र्यवि॒र्गौर्वयो॑ दधुः । तनू॒नपा॒च्छुचि॑व्रतः । त॒नू॒पाच्च॒ सर॑स्वती । उ॒ष्णिक्छन्द॑ इन्द्रि॒यम् । दि॒त्य॒वाड्गौर्वयो॑ दधुः । इडा॑भिर॒ग्निरीड्यः॑ । सोमो॑ दे॒वो अम॑र्त्यः ।। 84 ।। 2.6.18.2 अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यम् । त्रि॒व॒थ्सो गौर्वयो॑ दधुः । सु॒ब॒र्॒हिर॒ग्नि पू॑ष॒ण्वान् । स्ती॒र्णब॑र्‌हि॒रम॑र्त्यः । बृ॒ह॒ती छन्द॑ इन्द्रि॒यम् । पञ्चा॑वि॒र्गौर्वयो॑ दधुः । दुरो॑ दे॒वीर्दिशो॑ म॒हीः । ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑ । प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यम् । तु॒र्य॒वाड्गौर्वयो॑ दधुः ।। 85 ।। 2.6.18.3 उ॒षे य॒ह्वी सु॒पेश॑सा । विश्वे॑ दे॒वा अम॑र्त्याः । त्रि॒ष्टुप्छन्द॑ इन्द्रि॒यम् । प॒ष्ठ॒वाद्गौर्वयो॑ दधुः । दैव्या॑ होतारा भिषजा । इन्द्रे॑ण स॒युजा॑ यु॒जा । जग॑ती॒ छन्द॑ इ॒हेन्द्रि॒यम् । अ॒न॒ड्वान्गौर्वयो॑ दधुः । ति॒स्र इडा॒ सर॑स्वती । भार॑ती म॒रुतो॒ विशः॑ ।। 86 ।। 2.6.18.4 वि॒राट्छन्द॑ इ॒हेन्द्रि॒यम् । धे॒नुर्गौर्न वयो॑ दधुः । त्वष्टा॑ तु॒रीपो॒ अद्भु॑तः । इ॒न्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना । द्वि॒पाच्छन्द॑ इ॒हेन्द्रि॒यम् । उ॒ख्षा गौर्न वयो॑ दधुः । श॒मि॒ता नो॒ वन॒स्पतिः॑ । स॒वि॒ता प्र॑सु॒वन्भगम् । क॒कुच्छन्द॑ इ॒हेन्द्रि॒यम् । व॒शा वे॒हद्गौर्न वयो॑ दधुः । स्वाहा॑ य॒ज्ञव्वँरु॑णः । सु॒ख्ष॒त्रो भे॑ष॒जङ्क॑रत् । अति॑च्छन्दा॒श्छन्द॑ इन्द्रि॒यम् । बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः ।। 87 ।। 2.6.19.0 स्तोमे॑ सप्तद॒शे स्तु॒त सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुश्च॒त्वारि॑ च ।। 19 ।। (व॒स॒न्तेन॑ ग्री॒ष्मेण॑ व॒र्‌षाभि॑श्शार॒देन॑ हेम॒न्तेन॑ शैशि॒रेण॒ षट् ।। ) 2.6.19.1 व॒स॒न्तेन॒र्तुना॑ दे॒वाः । वस॑वस्त्रि॒वृता स्तु॒तम् । र॒थ॒न्त॒रेण॒ तेज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः । ग्री॒ष्मेण॑ दे॒वा ऋ॒तुना । रु॒द्रा प॑ञ्चद॒शे स्तु॒तम् । बृ॒ह॒ता यश॑सा॒ बलम् । ह॒विरिन्द्रे॒ वयो॑ दधुः । व॒र्॒षाभि॑ऱ्ऋ॒तुना॑ऽऽदि॒त्याः । स्तोमे॑ सप्तद॒शे स्तु॒तम् ।। 88 ।। 2.6.19.2 वै॒रू॒पेण॑ वि॒शौज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः । शा॒र॒देन॒र्तुना॑ दे॒वाः । ए॒क॒वि॒॒श ऋ॒भव॑स्स्तु॒तम् । वै॒रा॒जेन॑ श्रि॒या श्रियम् । ह॒विरिन्द्रे॒ वयो॑ दधुः । हे॒म॒न्तेन॒र्तुना॑ दे॒वाः । म॒रुत॑स्त्रिण॒वे स्तु॒तम् । बले॑न॒ शक्व॑री॒स्सहः॑ । ह॒विरिन्द्रे॒ वयो॑ दधुः । शै॒शि॒रेण॒र्तुना॑ दे॒वाः । त्र॒य॒स्त्रि॒॒शे॑ऽमृत॑ स्तु॒तम् । स॒त्येन॑ रे॒वतीः ख्ष॒त्रम् । ह॒विरिन्द्रे॒ वयो॑ दधुः ।। 89 ।। 2.6.20.0 वि॒य॒न्तु॒ यज॑ वीता॒य्यँज॑ वीता॒य्यँज॑ वेतु॒ यज॑ वेतु॒ यज॒ पञ्च॑ च ।। 20 ।। (दे॒वं ब॒र्॒हिर्गा॑यत्रि॒या तेजः॑ । दे॒वीर्द्वार॑ उ॒ष्णिहा प्रा॒णम् । दे॒वी दे॒वमु॒षे अ॑नु॒ष्टुभा॒ वाचम् । दे॒वी जोष्ट्री॑ बृह॒त्या श्रोत्रम् । दे॒वी ऊ॒र्जाहु॑ती प॒ङ्क्त्या शु॒क्रम् । दे॒वा दैव्या॒ होता॑रा त्रि॒ष्टुभा॒ त्विषिम् । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वी पति॒ञ्जग॑त्या॒ बलम् । दे॒वो नरा॒शसो॑ वि॒राजा॒ रेतः॑ । दे॒वो वन॒स्पति॑र्द्वि॒पदा॒ भगम् । दे॒वं ब॒र्॒हिर्वारि॑तीनाङ्क॒कुभा॒ यशः॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृदति॑च्छन्दसा क्ष॒त्रम् । वे॒तु॒ वि॒य॒न्तु॒ च॒तुर्वी॑ता॒मेको॑ वियन्तु च॒तुर्वेत्ववर्धयदवर्धयश्च॒तुर॑वर्धता॒मेको॑ऽवर्धय श्च॒तुर॑वर्धयत् ।। ) 2.6.20.1 दे॒वं ब॒र्॒हिरिन्द्र॑व्वँयो॒धसम् । दे॒वन्दे॒वम॑वर्धयत् । गा॒य॒त्रि॒या छन्द॑सेन्द्रि॒यम् । तेज॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वारो॑ दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वीर्दे॒वम॑वर्धयन्न् । उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यम् । प्रा॒णमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 90 ।। 2.6.20.2 दे॒वी दे॒वव्वँ॑यो॒धसम् । उ॒षे इन्द्र॑मवर्धताम् । अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । वाच॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वी जोष्ट्री॑ दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वी दे॒वम॑वर्धताम् । बृ॒ह॒त्या छन्द॑सेन्द्रि॒यम् । श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ ।। 91 ।। 2.6.20.3 दे॒वी ऊ॒र्जाहु॑ती दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वी दे॒वम॑वर्धताम् । प॒ङ्क्त्या छन्द॑सेन्द्रि॒यम् । शु॒क्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वा दे॒वम॑वर्धताम् । त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । त्विषि॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ ।। 92 ।। 2.6.20.4 दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धसम् । पति॒मिन्द्र॑मवर्धयन्न् । जग॑त्या॒ छन्द॑सेन्द्रि॒यम् । बल॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒व॒ने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो नरा॒शसो॑ दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वो दे॒वम॑वर्धयत् । वि॒राजा॒ छन्द॑सेन्द्रि॒यम् । रेत॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। 93 ।। 2.6.20.5 दे॒वो वन॒स्पति॑र्दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वो दे॒वम॑वर्धयत् । द्वि॒पदा॒ छन्द॑सेन्द्रि॒यम् । भग॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनान्दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वन्दे॒वम॑वर्धयत् । क॒कुभा॒ छन्द॑सेन्द्रि॒यम् । यश॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृद्दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वो दे॒वम॑वर्धयत् । अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यम् । ख्ष॒त्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। 94 ।। 2.7.0.0 त्रि॒वृद्यदाग्ने॒योऽग्निमु॑खा॒ ह्यृद्धि॒र्यदाग्ने॒य आग्ने॒यो न वै सोमे॑न॒ यो वै सोमे॑नै॒ष गो॑स॒वस्सि॒॒हे॑ऽभि प्रेहि॑ मित्र॒वर्ध॑नः प्र॒जाप॑ति॒स्ता ओ॑द॒नं प्र॒जाप॑तिरकामयत ब॒होर्भूया॑न॒गस्त्यो॒स्या जरा॑स॒स्तिष्ठा॒ हरी प्र॒जाप॑तिप॒शून्व्या॒घ्रो॑ऽयम॒भिप्रेहि॑ वृत्र॒हन्त॑मो॒ ये के॒शिन॒ इन्द्र॒व्वाँ अ॒ष्टाद॑श ।। 18 । त्रि॒वृद्यो वै सोमे॒नायु॑रसि ब॒हुर्भ॑वति॒ तिष्ठा॒ हरी॒रथ॒ आयं भा॑तु॒ तेभ्यो॑ नि॒धान॒॒ षट्थ्ष॑ष्टिः ।। 66 ।। त्रि॒वृत्पा॒प्मनो॑ नुदते ।। हरिः॑ओम् ।। सप्तमप्पाठकस्समाप्तः । 2.7.0.0 ।। तैत्तिरीयब्राह्मणे द्वितीयाष्टके सप्तम प्रपाठक प्रारम्भः ।। हरिःओम् ।। 2.7.1.0 होता॑ भवति यजेत॒ वा अश्वो॑ दधाति ।। 1 ।। 2.7.1.1 त्रि॒वृथ्स्तोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सव्वैँ त्रि॒वृत् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । अ॒ग्नि॒ष्टो॒मस्सोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सव्वाँ अ॑ग्निष्टो॒मः । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । र॒थ॒न्त॒र साम॑ भवति । ब्र॒ह्म॒व॒र्च॒सव्वैँ र॑थन्त॒रम् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । प॒रि॒स्र॒जी होता॑ भवति ।। 1 ।। 2.7.1.2 अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः । ए॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् । रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे । बृह॒स्पति॑रकामयत दे॒वानां पुरो॒धाङ्ग॑च्छेय॒मिति॑ । स ए॒तं बृ॑हस्पतिस॒वम॑पश्यत् । तमाऽह॑रत् । तेना॑यजत । ततो॒ वै स दे॒वानां पुरो॒धाम॑गच्छत् । य पु॑रो॒धाका॑म॒स्स्यात् । स बृ॑हस्पतिस॒वेन॑ यजेत ।। 2 ।। 2.7.1.3 पु॒रो॒धामे॒व ग॑च्छति । तस्य॑ प्रातस्सव॒ने स॒न्नेषु॑ नाराश॒॒सेषु॑ । एका॑दश॒ दख्षि॑णा नीयन्ते । एका॑दश॒ माध्य॑न्दिने॒ सव॑ने स॒न्नेषु॑ नाराश॒॒सेषु॑ । एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराश॒॒सेषु॑ । त्रय॑स्त्रिश॒थ्संप॑द्यन्ते । त्रय॑स्त्रिश॒द्वै दे॒वताः । दे॒वता॑ ए॒वाव॑रुन्धे । अश्व॑श्चतुस्त्रि॒॒शः । प्रा॒जा॒प॒त्यो वा अश्वः॑ ।। 3 ।। 2.7.1.4 प्र॒जाप॑तिश्चतुस्त्रि॒॒शो दे॒वता॑नाम् । याव॑तीरे॒व दे॒वताः । ता ए॒वाव॑रुन्धे । कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तद्रू॒पम् । यत्कृ॑ष्णाजि॒नम् । ब्र॒ह्म॒व॒र्च॒सेनै॒वैन॒॒ सम॑र्धयति । आज्ये॑ना॒भिषि॑ञ्चति । तेजो॒ वा आज्यम् । तेज॑ ए॒वास्मि॑न्दधाति ।। 4 ।। 2.7.2.0 वा॒रु॒णो विड्वै म॒रुतो॒ऽष्टौ च॑ ।। 2 ।। 2.7.2.1 यदाग्ने॒यो भव॑ति । अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ । अथ॒ यत्पौ॒ष्णः । पुष्टि॒र्वै पू॒षा । पुष्टि॒र्वैश्य॑स्य । पुष्टि॑मे॒वाव॑ रुन्धे । प्र॒स॒वाय॑ सावि॒त्रः । अथ॒ यत्त्वा॒ष्ट्रः । त्वष्टा॒ हि रू॒पाणि॑ विक॒रोति॑ । नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णः ।। 5 ।। 2.7.2.2 अथो॒ य ए॒व कश्च॒ सन्थ्सू॒यते । स हि वा॑रु॒णः । अथ॒ यद्वैश्वदे॒वः । वै॒श्व॒दे॒वो हि वैश्यः॑ । अथ॒ यन्मा॑रु॒तः । मा॒रु॒तो हि वैश्यः॑ । स॒प्तैतानि॑ ह॒वीषि॑ भवन्ति । स॒प्तग॑णा॒ वै म॒रुतः॑ । पृश्ञि॑ पष्ठौ॒ही मा॑रु॒त्या ल॑भ्यते । विड्वै म॒रुतः॑ । विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते । तस्मा॒द्वा ए॒ष वि॒श प्रि॒यः । वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते । ऋ॒ष॒भ॒च॒र्मेऽध्य॒भिषि॑ञ्चति । स हि प्र॑जनयि॒ता । द॒ध्नाऽभिषि॑ञ्चति । ऊर्ग्वा अ॒न्नाद्य॒न्दधि॑ । ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति ।। 6 ।। 2.7.3.0 स॒ङ्गच्छे॑ते भाग॒धेये॒नान्व॑मन्येता रू॒पञ्च॒त्वारि॑ च ।। 3 ।। 2.7.3.1 यदाग्ने॒यो भव॑ति । आ॒ग्ने॒यो वै ब्राह्म॒णः । अथ॒ यथ्सौ॒म्यः । सौ॒म्यो हि ब्राह्म॒णः । प्र॒स॒वायै॒व सा॑वि॒त्रः । अथ॒ यद्बा॑ऱ्हस्प॒त्यः । ए॒तद्वै ब्राह्म॒णस्य॑ वाक्प॒तीयम् । अथ॒ यद॑ग्नीषो॒मीयः॑ । आ॒ग्ने॒यो वै ब्राह्म॒णः । तौ य॒दा स॒ङ्गच्छे॑ते ।।7।। 2.7.3.2 अथ॑ वी॒र्या॑वत्तरो भवति । अथ॒ यथ्सा॑रस्व॒तः । ए॒तद्धि प्र॒त्यख्षं॑ ब्राह्म॒णस्य॑ वाक्प॒तीयम् । नि॒र्व॒रु॒ण॒त्वायै॒व वा॑रु॒णः । अथो॒ य ए॒व कश्च॒ सन्थ्सू॒यते । स हि वा॑रु॒णः । अथ॒ यद्द्या॑वापृथि॒व्यः॑ । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । तन्द्यावा॑पृथि॒वी नान्व॑मन्येताम् । तमे॒तेनै॒व भा॑ग॒धेये॒नान्व॑मन्येताम् ।। 8 ।। 2.7.3.3 वज्र॑स्य॒ वा ए॒षो॑ऽनुमा॒नाय॑ । अनु॑मतवज्रस्सूयाता॒ इति॑ । अ॒ष्टावे॒तानि॑ ह॒वीषि॑ भवन्ति । अ॒ष्टाख्ष॑रा गाय॒त्री । गा॒य॒त्री ब्र॑ह्मवर्च॒सम् । गा॒य॒त्रि॒यैव ब॑ह्मवर्च॒समव॑ रुन्धे । हिर॑ण्येन घृ॒तमुत्पु॑नाति । तेज॑स ए॒व रु॒चे । कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तदृ॑ख्सा॒मयो॑ रू॒पम् । यत्कृ॑ष्णाजि॒नम् । ब्रह्म॑न्ने॒वैन॑मृख्सा॒मयो॒रध्य॒भिषि॑ञ्चति । घृ॒तेना॒भिषि॑ञ्चति । तथा॑ वी॒र्या॑वत्तरो भवति ।। 9 ।। 2.7.4.0 रेत॒स्सोम॑स्स॒प्त च॑ ।। 4 ।। 2.7.4.1 न वै सोमे॑न॒ सोम॑स्य स॒वोऽस्ति । ह॒तो ह्ये॑षः । अ॒भिषु॑तो॒ ह्ये॑षः । न हि ह॒तस्सू॒यते । सौ॒मी सू॒तव॑शा॒मा ल॑भते । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । सौ॒म्यर्चाऽभिषि॑ञ्चति । रे॒तो॒धा ह्ये॑षा । रेत॒स्सोमः॑ । रेत॑ ए॒वास्मि॑न्दधाति । यत्किञ्च॑ राज॒सूय॑मृ॒ते सोमम् । तथ्सर्वं॑ भवति । अषा॑ढय्युँ॒थ्सु पृत॑नासु॒ पप्रिम् । सु॒व॒र्॒षाम॒फ्स्वाव्वृँ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जा सु॑ख्षि॒ति सु॒श्रव॑सम् । जय॑न्त॒न्त्वामनु॑ मदेम सोम ।। 10 ।। 2.7.5.0 सू॒य॒ते॒ स॒धस्तु॑ति॒स्त्रीणि॑ च ।। 5 ।। 2.7.5.1 यो वै सोमे॑न सू॒यते । स दे॑वस॒वः । य प॒शुना॑ सू॒यते । स दे॑वस॒वः । य इष्ट्या॑ सू॒यते । स म॑नुष्यस॒वः । ए॒तव्वैँ पृथ॑ये दे॒वा प्राय॑च्छन्न् । ततो॒ वै सोऽप्या॑र॒ण्यानां पशू॒नाम॑सूयत । याव॑ती॒ किय॑तीश्च प्र॒जा वाच॒व्वँद॑न्ति । तासा॒॒ सर्वा॑सा सूयते ।। 11 ।। 2.7.5.2 य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । ना॒रा॒श॒स्यर्चाऽभिषि॑ञ्चति । म॒नु॒ष्या॑ वै नरा॒शसः॑ । नि॒ह्नुत्य॒ वावैतत् । अथा॒भिषि॑ञ्चति । यत्किञ्च॑ राज॒सूय॑मनुत्तरवे॒दीकम् । तथ्सर्वं॑ भवति । ये मे॑ पञ्चा॒शत॑न्द॒दुः । अश्वा॑ना स॒धस्तु॑तिः । द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑ । बृ॒हत्कृ॑धि म॒घोनाम् । नृ॒वद॑मृत नृ॒णाम् ।। 12 ।। 2.7.6.0 इ॒व॒ भ॒व॒ति॒ र॒थ॒न्त॒रमा॒हैक॑ञ्च ।। 6 ।। 2.7.6.1 ए॒ष गो॑स॒वः । ष॒ट्त्रि॒॒श उ॒क्थ्यो॑ बृ॒हथ्सा॑मा । पव॑माने कण्वरथन्त॒रं भ॑वति । यो वै वा॑ज॒पेयः॑ । स स॑म्राट्थ्स॒वः । यो रा॑ज॒सूयः॑ । स व॑रुणस॒वः । प्र॒जाप॑ति॒स्स्वाराज्यं परमे॒ष्ठी । स्वाराज्य॒ङ्गौरे॒व । गौरि॑व भवति ।। 13 ।। 2.7.6.2 य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः । तद्धि स्वाराज्यम् । अ॒युत॒न्दख्षि॑णाः । तद्धि स्वाराज्यम् । प्र॒ति॒धुषा॒ऽभिषि॑ञ्चति । तद्धि स्वाराज्यम् । अनु॑द्धते॒ वेद्यै॑ दख्षिण॒त आ॑हव॒नीय॑स्य बृह॒तस्स्तो॒त्रं प्रत्य॒भिषि॑ञ्चति । इ॒यव्वाँव र॑थन्त॒रम् ।। 14 ।। 2.7.6.3 अ॒सौ बृ॒हत् । अ॒नयो॑रे॒वैन॒मन॑न्तऱ्हितम॒भिषि॑ञ्चति । प॒शु॒स्तो॒मो वा ए॒षः । तेन॑ गोस॒वः । ष॒ट्त्रि॒॒शस्सर्वः॑ । रे॒वज्जा॒तस्सह॑सा वृ॒द्धः । ख्ष॒त्राणाङ्खत्र॒भृत्त॑मो वयो॒धाः । म॒हान्म॑हि॒त्वे त॑स्तभा॒नः । ख्ष॒त्रे रा॒ष्ट्रे च॑ जागृहि । प्र॒जाप॑तेस्त्वा परमे॒ष्ठिन॒स्स्वाराज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । स्वाराज्यमे॒वैन॑ङ्गमयति ।। 15 ।। 2.7.7.0 गोष्वोज॑स्वन्त श्रीणा॒म्योजो॑ऽसि॒ तत्ते॒ प्रय॑च्छामि॒ पय॑सा॒ संपि॑पृग्धि॒ माऽस॑द्वि॒भूर्य॒ज्ञियो॒ रसो॒ द्वे च॑ ।। 7 ।। 2.7.7.1 सि॒॒हे व्या॒घ्र उ॒त या पृदा॑कौ । त्विषि॑र॒ग्नौ ब्राह्म॒णे सूर्ये॒ या । इन्द्र॒य्याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् । अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ । इन्द्र॒य्याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये । त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ।। 16 ।। 2.7.7.2 इन्द्र॒य्याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । रथे॑ अ॒ख्षेषु॑ वृष॒भस्य॒ वाजे । वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे । इन्द्र॒य्याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । राड॑सि वि॒राड॑सि । स॒म्राड॑सि स्व॒राड॑सि । इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्त श्रीणामि । इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्त श्रीणामि ।। 17 ।। 2.7.7.3 इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्त श्रीणामि । इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्त श्रीणामि । तेजो॑ऽसि । तत्ते॒ प्र य॑च्छामि । तेज॑स्वदस्तु मे॒ मुखम् । तेज॑स्व॒च्छिरो॑ अस्तु मे । तेज॑स्वान् वि॒श्वत॑ प्र॒त्यङ्ङ् । तेज॑सा॒ संपि॑पृग्धि मा । ओजो॑ऽसि । तत्ते॒ प्र य॑च्छामि ।। 18 ।। 2.7.7.4 ओज॑स्वदस्तु मे॒ मुखम् । ओज॑स्व॒च्छिरो॑ अस्तु मे । ओज॑स्वान् वि॒श्वत॑ प्र॒त्यङ्ङ् । ओज॑सा॒ सं पि॑पृग्धि मा । पयो॑ऽसि । तत्ते॒ प्र य॑च्छामि । पय॑स्वदस्तु मे॒ मुखम् । पय॑स्व॒च्छिरो॑ अस्तु मे । पय॑स्वान् वि॒श्वत॑ प्र॒त्यङ्ङ् । पय॑सा॒ सं पि॑पृग्धि मा ।। 19 ।। 2.7.7.5 आयु॑रसि । तत्ते॒ प्र य॑च्छामि । आयु॑ष्मदस्तु मे॒ मुखम् । आयु॑ष्म॒च्छिरो॑ अस्तु मे । आयु॑ष्मान् वि॒श्वत॑ प्र॒त्यङ्ङ् । आयु॑षा॒ सं पि॑पृग्धि मा । इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि । प्रि॒य रेतो॑ वरुण सोम राजन्न् । मा॒तेवास्मा अदिते॒ शर्म॑ यच्छ । विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ।। 20 ।। 2.7.7.6 आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । यतो॒ वातो॒ मनो॑जवाः । यतः॒ ख्षर॑न्ति॒ सिन्ध॑वः । तासान्त्वा॒ सर्वा॑सा रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा । स॒मु॒द्र इ॑वासि ग॒ह्मना । सोम॑ इवा॒स्यदाभ्यः । अ॒ग्निरि॑व वि॒श्वत॑ प्र॒त्यङ्ङ् । सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ।। 21 ।। 2.7.7.7 अ॒पाय्योँ द्रव॑णे॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि । अ॒पाय्यँ ऊ॒र्मौ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । ओज॑से वी॒र्या॑य गृह्णामि । अ॒पाय्योँ म॑ध्य॒तो रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । पुष्ट्यै प्र॒जन॑नाय गृह्णामि । अ॒पाय्योँ य॒ज्ञियो॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ।। 22 ।। 2.7.8.0 बृह॒स्पति॒स्सोमो॑ अ॒ग्निरेक॑ञ्च ।। 8 ।। 2.7.8.1 अ॒भिप्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा । आति॑ष्ठ मित्र॒वर्ध॑नः । तुभ्य॑न्दे॒वा अधि॑ब्रवन्न् । अ॒ङ्कौ न्य॒ङ्काव॒भित॒ आति॑ष्ठ वृत्रह॒न्रथम् । आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषन्न् । श्रिय॒व्वँसा॑नश्चरति॒ स्वरो॑चाः । म॒हत्तद॒स्यासु॑रस्य॒ नाम॑ । आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑ ।। 23 ।। 2.7.8.2 अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् । अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु । अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः । अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम् । अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु । च॒न्द्रमा॒ नख्ष॑त्रै॒रनु॑ त्वाऽवतु । द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒हद्दख्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चि॑किता॒॒ सोमो॑ अ॒ग्निः । आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थम् ।। 24 ।। 2.7.9.0 भ॒व॒न्त्यष्ट्रा॑मव॒रुध्य॑ वदन्ति द॒र्भा यद्द॑र्भपुञ्जी॒लै प॒वय॒त्येक॑ञ्च ।। 9 ।। 2.7.9.1 प्र॒जाप॑ति प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टा परा॑चीरायन्न् । स ए॒तं प्र॒जाप॑तिरोद॒नम॑पश्यत् । सोऽन्नं॑ भू॒तो॑ऽतिष्ठत् । ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्वा । प्र॒जाप॑तिं प्र॒जा उ॒पाव॑र्तन्त । अन्न॑मे॒वैनं॑ भू॒तं पश्य॑न्ती प्र॒जा उ॒पाव॑र्तन्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । सर्वा॒ण्यन्ना॑नि भवन्ति ।। 25 ।। 2.7.9.2 सर्वे॒ पुरु॑षाः । सर्वाण्ये॒वान्ना॒न्यव॑ रुन्धे । सर्वा॒न्पुरु॑षान् । राड॑सि वि॒राड॒सीत्या॑ह । स्वाराज्यमे॒वैन॑ङ्गमयति । यद्धिर॑ण्य॒न्ददा॑ति । तेज॒स्तेनाव॑रुन्धे । यत्ति॑सृध॒न्वम् । वी॒र्य॑न्तेन॑ । यदष्ट्राम् ।। 26 ।। 2.7.9.3 पुष्टि॒न्तेन॑ । यत्क॑म॒ण्डलुम् । आयु॒ष्टेन॑ । यद्धिर॑ण्यमा ब॒ध्नाति॑ । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वास्मि॑न्दधाति । अथो॒ तेजो॒ वै हिर॑ण्यम् । तेज॑ ए॒वात्मन्ध॑त्ते । यदो॑द॒नं प्रा॒श्ञाति॑ । ए॒तदे॒व सर्व॑मव॒रुध्य॑ ।। 27 ।। 2.7.9.4 तद॑स्मिन्नेक॒धाऽधात् । रो॒हि॒ण्याङ्का॒र्यः॑ । यद्ब्राह्म॒ण ए॒व रो॑हि॒णी । तस्मा॑दे॒व । अथो॒ वर्ष्मै॒वैन॑ समा॒नानाङ्करोति । उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑ । उ॒द्यन्त॒व्वाँ ए॒त सर्वा प्र॒जा प्रति॑नन्दन्ति । दि॒दृ॒ख्षेण्यो॑ दऱ्श॒नीयो॑ भवति । य ए॒वव्वेँद॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।। 28 ।। 2.7.9.5 अ॒वेत्यो॑ऽवभृ॒था ३ ना ३ इति॑ । यद्द॑र्भपुञ्जी॒लै प॒वय॑ति । तथ्स्वि॑दे॒वावै॑ति । तन्नावै॑ति । त्रि॒भि प॑वयति । त्रय॑ इ॒मे लो॒काः । ए॒भिरे॒वैन॑ल्लोँ॒कै प॑वयति । अथो॑ अ॒पाव्वाँ ए॒तत्तेजो॒ वर्चः॑ । यद्द॒र्भाः । यद्द॑र्भपुञ्जी॒लै प॒वय॑ति । अ॒पामे॒वैन॒न्तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति ।। 29 ।। 2.7.10.0 भूयि॑ष्ठा यन्ति॒ द्वे च॑ ।। 10 ।। 2.7.10.1 प्र॒जाप॑तिरकामयत ब॒होर्भूयान्थ्स्या॒मिति॑ । स ए॒तं प॑ञ्चशार॒दीय॑मपश्यत् । तमाऽह॑रत् । तेना॑यजत । ततो॒ वै स ब॒होर्भूया॑नभवत् । य का॒मये॑त ब॒होर्भूयान्थ्स्या॒मिति॑ । स प॑ञ्चशार॒दीये॑न यजेत । ब॒होरे॒व भूयान्भवति । म॒रु॒थ्स्तो॒मो वा ए॒षः । म॒रुतो॒ हि दे॒वानां॒ भूयि॑ष्ठाः ।। 30 ।। 2.7.10.2 ब॒हुर्भ॑वति । य ए॒तेन॒ यज॑ते । य उ॑चैनमे॒वव्वेँद॑ । प॒ञ्च॒शा॒र॒दीयो॑ भवति । पञ्च॒ वा ऋ॒तव॑स्सव्वँथ्स॒रः । ऋ॒तुष्वे॒व स॑व्वँथ्स॒रे प्रति॑तिष्ठति । अथो॒ पञ्चाख्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑ रुन्धे । स॒प्त॒द॒श स्तोमा॒ नाति॑ यन्ति । स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै ।। 31 ।। 2.7.11.0 तृ॒तीये॑ गच्छति॒ य ए॒तेन॒ यज॑तेऽत्ति॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्वेँद॒ त्रीणि॑ च ।। 11 ।। (अ॒गस्त्य॒स्स्वाराज्यं मारु॒त प॑ञ्चशार॒दीयो॒ वा ए॒ष य॒ज्ञस्स॑प्तद॒शं प्र॒जाप॑तेरे॒व नैति॑ ।। ) 2.7.11.1 अ॒गस्त्यो॑ म॒रुद्भ्य॑ उ॒ख्ष्ण प्रौख्ष॑त् । तानिन्द्र॒ आद॑त्त । त ए॑न॒व्वँज्र॑मु॒द्यत्या॒भ्या॑यन्त । तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम् । ताञ्छा॒न्तानुपाह्वयत । यत्क॑याशु॒भीयं॒ भव॑ति॒ शान्त्यै । तस्मा॑दे॒त ऐन्द्रामारु॒ता उ॒ख्षाण॑स्सव॒नीया॑ भवन्ति । त्रय॑ प्रथ॒मेऽह॒न्ना ल॑भ्यन्ते । ए॒वन्द्वि॒तीये । ए॒वन्तृ॒तीये ।। 32 ।। 2.7.11.2 ए॒वञ्च॑तु॒र्थे । पञ्चोत्त॒मेऽह॒न्ना ल॑भ्यन्ते । वऱ्षि॑ष्ठमिव॒ ह्ये॑तदहः॑ । वऱ्षि॑ष्ठस्समा॒नानां भवति । य ए॒तेन॒ यज॑ते । य उ॑चैनमे॒वव्वेँद॑ । स्वाराज्य॒व्वाँ ए॒ष य॒ज्ञः । ए॒तेन॒ वा एक॒या वा॑ कान्द॒मस्स्वाराज्यमगच्छत् । स्वराज्यङ्गच्छति । य ए॒तेन॒ यज॑ते ।। 33 ।। 2.7.11.3 य उ॑ चैनमे॒वव्वेँद॑ । मा॒रु॒तो वा ए॒ष स्तोमः॑ । ए॒तेन॒ वै म॒रुतो॑ दे॒वानां॒ भूयि॑ष्ठा अभवन्न् । भूयि॑ष्ठस्समा॒नानां भवति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । प॒ञ्च॒शा॒र॒दीयो॒ वा ए॒ष य॒ज्ञः । आ प॑ञ्च॒मात्पुरु॑षा॒दन्न॑मत्ति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । स॒प्त॒द॒श स्तोमा॒ नाति॑ यन्ति । स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जाप॑तेरे॒व नैति॑ ।। 34 ।। 2.7.12.0 य॒ज्ञ॒वा॒ह॒सा॒स॒प॒र्य॒न्व॒यमृ॑द्ध्यां॒ भिख्ष॑माणाः॒ प्रचे॑तस॒मेक॑ञ्च ।। 12 ।। 2.7.12.1 अ॒स्या जरा॑सो द॒मा म॒रित्राः । अ॒र्चद्धू॑मासो अ॒ग्नय॑ पाव॒काः । श्वि॒ची॒चय॑श्श्वा॒त्रासो॑ भुर॒ण्यवः॑ । व॒न॒र्॒षदो॑ वा॒यवो॒ न सोमाः । यजा॑ नो मि॒त्रावरु॑णा । यजा॑ दे॒वा ऋ॒तं बृ॒हत् । अग्ने॒ यख्षि॒ स्वन्दमम् । अश्वि॑ना॒ पिब॑त सु॒तम् । दीद्य॑ग्नी शुचिव्रता । ऋ॒तुना॑ यज्ञवाहसा ।। 35 ।। 2.7.12.2 द्वे विरू॑पे चरत॒स्स्वर्थे । अ॒न्याऽन्या॑ व॒थ्समुप॑ धापयेते । हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावान्॑ । शु॒क्रो अ॒न्यस्यान्ददृशे सु॒वर्चाः । पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम् । विश्वान्य॒न्यो भुव॑नाऽभि॒ चष्टे । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ । त्रीणि॑ श॒ता त्रीष॒हस्राण्य॒ग्निम् । त्रि॒॒शच्च॑ दे॒वा नव॑ चाऽसपर्यन्न् ।। 36 ।। 2.7.12.3 औख्ष॑न्घृ॒तैरास्तृ॑णन्ब॒र्॒हिर॑स्मै । आदिद्धोता॑र॒न्न्य॑षादयन्त । अ॒ग्निना॒ऽग्निस्समि॑ध्यते । क॒विर्गृ॒हप॑ति॒र्युवा । ह॒व्य॒वाड्जु॒ह्वास्यः । अ॒ग्निर्दे॒वानाञ्ज॒ठरम् । पू॒तद॑ख्ष क॒विक्र॑तुः । दे॒वो दे॒वेभि॒रा ग॑मत् । अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टयः । आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ।। 37 ।। 2.7.12.4 ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्॒षनि॑र्णिजः । सि॒॒हा न हे॒षक्र॑तवस्सु॒दान॑वः । यदु॑त्त॒मे म॑रुतो मध्य॒मे वा । यद्वा॑ऽव॒मे सु॑भगासो दि॒वि ष्ठ । ततो॑ नो रुद्रा उ॒त वा॒ऽन्वस्य॑ । अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑मः । ईडे॑ अ॒ग्नि स्वव॑स॒न्नमो॑भिः । इ॒ह प्र॑स॒प्तो वि च॑ यत्कृ॒तन्नः॑ । रथै॑रिव॒ प्रभ॑रे वाज॒यद्भिः॑ । प्र॒द॒ख्षि॒णिन्म॒रुता॒॒ स्तोम॑मृद्ध्याम् ।। 38 ।। 2.7.12.5 श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिः । दे॒वैर॑ग्ने स॒याव॑भिः । आसी॑दन्तु ब॒र्॒हिषि॑ । मि॒त्रो वरु॑णो अर्य॒मा । प्रा॒त॒र्यावा॑णो अध्व॒रम् । विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नाम् । विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् । अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः । सु॒मृ॒डी॒को भवतु वि॒श्ववे॑दाः । त्वे अ॑ग्ने सुम॒तिं भिख्ष॑माणाः ।। 39 ।। 2.7.12.6 दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः । नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे । कृ॒ष्णञ्च॒ वर्ण॑मरु॒णञ्च॒ सन्धुः॑ । त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यम् । त्वाञ्जि॒ह्वा शुच॑यश्चक्रिरे कवे । त्वा रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे । त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् । नि त्वा॑ य॒ज्ञस्य॒ साध॑नम् । अग्ने॒ होता॑रमृ॒त्विजम् । व॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसम् । जी॒रन्दू॒तमम॑र्त्यम् ।। 40 ।। 2.7.13.0 व॒ज्रिण॑मयथ्स्व॒स्ति जो॑जयुर्नस्स॒प्त च॑ ।। 13 ।। 2.7.13.1 तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि । वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ । पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे । इन्द्र॒स्स्वाहा॑ ररि॒मा ते॒ मदा॑य । कस्य॒ वृषा॑ सु॒ते सचा । नि॒युत्वान्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये । इन्द्र॑व्वँ॒यम्म॑हाध॒ने । इन्द्र॒मर्भे॑ हवामहे । युज॑व्वृँ॒त्रेषु॑ व॒ज्रिणम् ।। 41 ।। 2.7.13.2 द्वि॒ता यो वृ॑त्र॒हन्त॑मः । वि॒द इन्द्र॑श्श॒तक्र॑तुः । उप॑ नो॒ हरि॑भिस्सु॒तम् । स सूर॒ आज॒नय॒ञ्ज्योति॒रिन्द्रम् । अ॒या धि॒या त॒रणि॒रद्रि॑बऱ्हाः । ऋ॒तेन॑ शु॒ष्मी नव॑मानो अ॒र्कैः । व्यु॑स्रिधो॑ अ॒स्रो अद्रि॑र्बिभेद । उ॒तत्यदा॒श्वश्वि॑यम् । यदि॑न्द्र॒ नाहु॑षी॒ष्वा । अग्रे॑ वि॒ख्षु प्रतीद॑यत् ।। 42 ।। 2.7.13.3 भरे॒ष्विन्द्र॑ सु॒हव॑ हवामहे । अ॒॒हो॒मुच॑ सु॒कृत॒न्दैव्य॒ञ्जनम् । अ॒ग्निम्मि॒त्रव्वँरु॑ण सा॒तये॒ भगम् । द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये । म॒हि ख्षेत्रं॑ पु॒रुश्च॒न्द्रव्विँ वि॒द्वान् । आदिथ्सखि॑भ्यश्च॒रथ॒॒ समै॑रत् । इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नस्सा॒कम् । सूर्य॑मु॒षस॑ङ्गा॒तुम॒ग्निम् । उ॒रुन्नो॑ लो॒कमनु॑ नेषि वि॒द्वान् । सुव॑र्व॒ज्ज्योति॒रभ॑य स्व॒स्ति ।। 43 ।। 2.7.13.4 ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू । उप॑स्थेयाम शर॒णा बृ॒हन्ता । आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः । ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒थ्स्थवि॑रेभिस्सुशिप्र । अ॒स्मे दध॒द्वृष॑ण॒॒ शुष्म॑मिन्द्र । इन्द्रा॑य॒ गाव॑ आ॒शिरम् । दु॒दु॒ह्रे व॒ज्रिणे॒ मधु॑ । यथ्सी॑मुपह्व॒रे वि॒दत् । तास्ते॑ वज्रिन्धे॒नवो॑ जोजयुर्नः ।। 44 ।। 2.7.13.5 गभ॑स्तयो नि॒युतो॑ वि॒श्ववा॑राः । अह॑रह॒र्भूय॒ इज्जोगु॑वानाः । पू॒र्णा इ॑न्द्र ख्षु॒मतो॒ भोज॑नस्य । इ॒मान्ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम् । अ॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑थ्स॒वे च॑ प्रस॒वे च॑ सास॒हिम् । इन्द्र॑न्दे॒वास॒श्शव॑सा मद॒न्ननु॑ ।। 45 ।। 2.7.14.0 स्तोमे॑न॒ नाप्नो॑दवारयत॒ नव॑ च ।। 14 ।। 2.7.14.1 प्र॒जाप॑ति प॒शून॑सृजत । तेऽस्माथ्सृ॒ष्टा पराञ्च आयन्न् । तान॑ग्निष्टो॒मेन॒ नाप्नोत् । तानु॒क्थ्ये॑न॒ नाप्नोत् । तान्थ्षो॑ड॒शिना॒ नाप्नोत् । तान्रात्रि॑या॒ नाप्नोत् । तान्थ्स॒न्धिना॒ नाप्नोत् । सोऽग्निम॑ब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाप्नोत् ।। 46 ।। 2.7.14.2 स इन्द्र॑मब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । तानिन्द्रः॑ पञ्चद॒शेन॒ स्तोमे॑न॒ नाप्नोत् । स विश्वान्दे॒वान॑ब्रवीत् । इ॒मान्म॑ ईप्स॒तेति॑ । तान् विश्वे॑दे॒वास्स॑प्तद॒शेन॒ स्तोमे॑न॒ नाप्नु॑वन्न् । स विष्णु॑मब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । ताऩ् विष्णु॑रेकवि॒॒शेन॒ स्तोमे॑नाप्नोत् । वा॒र॒व॒न्तीये॑नावारयत ।। 47 ।। 2.7.14.3 इ॒दव्विँष्णु॒र्वि च॑क्रम॒ इति॒ व्य॑क्रमत । यस्मात्प॒शव॒ प्रप्रेव॒ भ्रशे॑रन्न् । स ए॒तेन॑ यजेत । यदाप्नोत् । तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम् । ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा । यङ्काम॒मका॑मयन्त॒ तमाप्नुवन्न् । यङ्काम॑ङ्का॒मय॑ते । तमे॒तेनाप्नोति ।। 48 ।। 2.7.15.0 ब॒भू॒वाव्य॑य॒त्तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि॒ वैया॒घ्रेऽधि॑ राष्ट्र॒वर्ध॑न॒पाङ्क्ते॑न॒ छन्द॑सो॒पाव॑हरामि ।। 15 ।। 2.7.15.1 व्या॒घ्रो॑ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः । ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा अ॒यम् । न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि । मा दे॒वानाम्मिथु॒याक॑र्म भा॒गम् । सावी॒र्॒हि दे॑व प्रस॒वाय॑ पित्रे । व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै । अथा॒स्मभ्य॑ सवितस्स॒र्वता॑ता । दि॒वेदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः । भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः । स भू॒ताना॒मधि॑पतिर्बभूव ।। 49 ।। 2.7.15.2 तस्य॑ मृ॒त्यौ च॑रति राज॒सूयम् । स राजा॑ रा॒ज्यमनु॑ मन्यतामि॒दम् । येभि॒श्शिल्पै पप्रथा॒नामदृ॑हत् । येभि॒र्द्याम॒भ्यपि॑शत्प्र॒जाप॑तिः । येभि॒र्वाच॑व्विँ॒श्वरू॑पा स॒मव्य॑यत् । तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि । येभि॑रादि॒त्यस्तप॑ति॒ प्र के॒तुभिः॑ । येभि॒स्सूर्यो॑ ददृ॒शे चि॒त्रभा॑नुः । येभि॒र्वाचं॑ पुष्क॒लेभि॒रव्य॑यत् । तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ।। 50 ।। 2.7.15.3 आऽयं भा॑तु॒ शव॑सा॒ पञ्च॑ कृ॒ष्टीः । इन्द्र॑ इव ज्ये॒ष्ठो भ॑वतु प्र॒जावान्॑ । अ॒स्मा अ॑स्तु पुष्क॒लञ्चि॒त्रभा॑नु । आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थम् । यत्ते॒ शिल्प॑ङ्कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त्पुष्क॒लञ्चि॒त्रभा॑नु । यस्मि॒न्थ्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् । तस्मि॒न्राजा॑न॒मधि॒ विश्र॑ये॒मम् । द्यौर॑सि पृथि॒व्य॑सि । व्या॒घ्रो वैया॒घ्रेऽधि॑ ।।51।। 2.7.15.4 विश्र॑यस्व॒ दिशो॑ म॒हीः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् । या दि॒व्या आप॒ पय॑सा संबभू॒वुः । या अ॒न्तरि॑ख्ष उ॒त पार्थि॑वी॒र्याः । तासान्त्वा॒ सर्वा॑सा रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा । अ॒भि त्वा॒ वर्च॑साऽसिचन्दि॒व्येन॑ । पय॑सा स॒ह । यथासा॑ राष्ट्र॒वर्ध॑नः ।। 52 ।। 2.7.15.5 तथा त्वा सवि॒ता क॑रत् । इन्द्र॒व्विँश्वा॑ अवीवृधन्न् । स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ । र॒थीत॑म रथी॒नाम् । वाजा॑ना॒॒ सत्प॑तिं॒ पतिम् । वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा । रु॒द्रास्त्वा॑ दख्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा । आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा । विश्वे त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा । बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ।। 53 ।। 2.7.15.6 अ॒रु॒णन्त्वा॒ वृक॑मु॒ग्रङ्ख॑जङ्क॒रम् । रोच॑मानं म॒रुता॒मग्रे॑ अ॒र्चिषः॑ । सूर्य॑वन्तं म॒घवा॑नव्विँषास॒हिम् । इन्द्र॑मु॒क्थेषु॑ नाम॒हूत॑म हुवेम । प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुख्षतङ्घृ॒तेन॑ । आ नो॒ जने श्रवयतय्युँवाना । श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा । इन्द्र॑स्य ते वीर्य॒कृतः॑ । बा॒हू उ॒पाव॑ हरामि ।। 54 ।। 2.7.16.0 स्व॒धायै त्वा स॒वेन॒ द्यौस्सूर्य स॒प्त च॑ ।। 16 ।। 2.7.16.1 अ॒भि प्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा । आति॑ष्ठ वृत्र॒हन्त॑मः । तुभ्य॑न्दे॒वा अधि॑ब्रवन्न् । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथ॒य्यौँ । ध्वा॒न्तव्वाँ॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ । दू॒रेहे॑तिरिन्द्रि॒यावान्पत॒त्री । ते नो॒ऽग्नय॒ पप्र॑य पारयन्तु । नम॑स्त ऋषे गद । अव्य॑थायै त्वा स्व॒धायै त्वा ।। 55 ।। 2.7.16.2 मा न॑ इन्द्रा॒भित॒स्त्वदृ॒ष्वारि॑ष्टासः । ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु । तिष्ठा॒ रथे॒ अधि॒ यद्वज्र॑हस्तः । आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑ । आ ति॑ष्ठ वृत्रहन्ना॒तिष्ठ॑न्तं॒ परि॑ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॑ त्वा मि॒त्रावरु॑णौ । द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒द्दख्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चि॑किता॒॒ सोमो॑ अ॒ग्निः । अनु॑ त्वाऽवतु सवि॒ता स॒वेन॑ ।। 56 ।। 2.7.16.3 इन्द्र॒व्विँश्वा॑ अवीवृधन्न् । स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ । र॒थीत॑म रथी॒नाम् । वाजा॑ना॒॒ सत्प॑तिं॒ पतिम् । परि॑मा से॒न्या घोषाः । ज्यानाव्वृँञ्जन्तु गृ॒ध्नवः॑ । मे॒थि॒ष्ठा पिन्व॑माना इ॒ह । माङ्गोप॑तिम॒भि सव्विँ॑शन्तु । तन्मेऽनु॑मति॒रनु॑ मन्यताम् । तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।। 57 ।। 2.7.16.4 तद्ग्रावा॑णस्सोम॒सुतो॑ मयो॒भुवः॑ । तद॑श्विना शृणुत सौभगा यु॒वम् । अव॑ ते॒ हेड॒ उदु॑त्त॒मम् । ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः । सि॒॒ह हि॑न्वन्ति मह॒ते सौभ॑गाय । स॒मु॒द्रन्न सु॒हव॑न्तस्थि॒वासम् । म॒र्मृ॒ज्यन्ते द्वी॒पिन॑म॒फ्स्व॑न्तः । उद॒सावे॑तु॒ सूर्यः॑ । उदि॒दं मा॑म॒कव्वँचः॑ । उदि॑हि देव सूर्य । स॒ह व॒ग्नुना॒ मम॑ । अ॒हव्वाँ॒चो वि॒वाच॑नम् । मयि॒ वाग॑स्तु धर्ण॒सिः । यन्तु॑ न॒दयो॒ वऱ्ष॑न्तु प॒र्जन्याः । सु॒पि॒प्प॒ला ओष॑धयो भवन्तु । अन्न॑वतामोद॒नव॑तामा॒मिख्ष॑वताम् । ए॒षा राजा॑ भूयसाम् ।। 58 ।। 2.7.17.0 अवास्राग्दी॒ख्षा व॒शिनी॒ ह्यु॑ग्राऽद॑धाद्व॒वर्ज॒ वप॑ स्ते॒ द्वे च॑ ।। 17 ।। 2.7.17.1 ये के॒शिन॑ प्रथ॒मास्स॒त्रमास॑त । येभि॒राभृ॑त॒य्यँदि॒दव्विँ॒रोच॑ते । तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑ । रा॒यस्पोषे॑णे॒मव्वँर्च॑सा॒ स सृ॑जाथ । नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः । द्वि॒नाम्नी॑ दी॒ख्षा व॒शिनी॒ ह्यु॑ग्रा । प्र केशास्सु॒वते॑ का॒ण्डिनो॑ भवन्ति । तेषां ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः । आ रो॑ह॒ प्रोष्ठ॒व्विँष॑हस्व॒ शत्रून्॑ । अवास्राग्दी॒ख्षा व॒शिनी॒ ह्यु॑ग्रा ।। 59 ।। 2.7.17.2 दे॒हि दख्षि॑णां॒ प्रति॑र॒स्वायुः॑ । अथा॑मुच्यस्व॒ वरु॑णस्य॒ पाशात् । येनाव॑पथ्सवि॒ता ख्षु॒रेण॑ । सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् । तेन॑ ब्रह्माणो वपते॒दम॒स्योर्जेमम् । र॒य्या वर्च॑सा॒ स सृ॑जाथ । मा ते॒ केशा॒ननु॑ गा॒द्वर्च॑ ए॒तत् । तथा॑ धा॒ता क॑रोतु ते । तुभ्य॒मिन्द्रो॒ बृह॒स्पतिः॑ । स॒वि॒ता वर्च॒ आद॑धात् ।। 60 ।। 2.7.17.3 तेभ्यो॑ नि॒धानं॑ बहु॒धा व्यैच्छन्न्॑ । अ॒न्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ । द॒र्भ॒स्त॒म्बे वी॒र्य॑कृते नि॒धाय॑ । पौस्ये॑ने॒मव्वँर्च॑सा॒ स सृ॑जाथ । बल॑न्ते बाहु॒वोस्स॑वि॒ता द॑धातु । सोम॑स्त्वाऽनक्तु॒ पय॑सा घृ॒तेन॑ । स्त्री॒षु रू॒पम॑श्विनै॒तन्नि ध॑त्तम् । पौस्ये॑ने॒मव्वँर्च॑सा॒ ससृ॑जाथ । यथ्सी॒मन्त॒ङ्कङ्क॑तस्ते लि॒लेख॑ । यद्वा ख्षु॒र प॑रिव॒वर्ज॒ वप॑स्ते । स्त्री॒षु रू॒पम॑श्विनै॒तन्नि ध॑त्तम् । पौस्ये॑ने॒म स सृ॑जाथो वी॒र्ये॑ण ।। 61 ।। 2.7.18.0 वेद॒ हर॑न्त्येनमे॒वव्वेँदा॒भ्यू॑ढ पा॒प्मभि॒रेक॑ञ्च ।। 18 ।। 2.7.18.1 इन्द्र॒व्वैँ स्वाविशो॑ म॒रुतो॒ नापा॑चायन्न् । सोऽन॑पचाय्यमान ए॒तव्विँ॑घ॒नम॑पश्यत् । तमाऽह॑रत् । तेना॑यजत । तेनै॒वासा॒न्त स॑ स्त॒म्भव्व्यँ॑हन्न् । यद्व्यहन्न्॑ । तद्वि॑घ॒नस्य॑ विघन॒त्वम् । वि पा॒प्मानं॒ भ्रातृ॑व्य हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ।। 62 ।। 2.7.18.2 य राजा॑न॒व्विँशो॒ नाप॒चाये॑युः । यो वा ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑त॒स्स्यात् । स ए॒तेन॑ यजेत । वि॒घ॒नेनै॒वैन॑द्वि॒हत्य॑ । वि॒शामाधि॑पत्यङ्गच्छति । तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः । द्वे च॑तुर्वि॒॒शे । औद्भि॑द्यमे॒व तत् । ए॒तद्वै ख्ष॒त्रस्यौद्भि॑द्यम् । यद॑स्मै॒ स्वाविशो॑ ब॒लि हर॑न्ति ।। 63 ।। 2.7.18.3 हर॑न्त्यस्मै॒ विशो॑ ब॒लिम् । ऐन॒मप्र॑तिख्यातङ्गच्छति । य ए॒वव्वेँद॑ । प्र॒बाहु॒ग्वा अग्रे ख्ष॒त्राण्याते॑पुः । तेषा॒मिन्द्रः॑ ख्ष॒त्राण्याद॑त्त । न वा इ॒मानि॑ ख्ष॒त्राण्य॑भूव॒न्निति॑ । तन्नख्ष॑त्राणन्नख्षत्र॒त्वम् । आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यन्द॑त्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ।। 64 ।। 2.7.18.4 तद्यथा॑ ह॒ वै स॑च॒क्रिणौ॒ कप्ल॑कावु॒पाव॑हितौ॒ स्याताम् । ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमौ । अ॒युख्षु॒ स्तोमे॑षु क्रियेते । पा॒प्मनोऽप॑हत्यै । अप॑ पा॒प्मानं॒ भ्रातृ॑व्य हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । तद्यथा॑ ह॒ वै सू॑तग्राम॒ण्यः॑ । ए॒वञ्छन्दा॑सि । तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः ।। 65 ।। 2.7.18.5 स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन्न् । प्र॒जया॑ प॒शुभि॑रसा॒नीत्ये॒व । व्यति॑षक्ताभिस्स्तुवते । व्यति॑षक्त॒व्वैँ ख्ष॒त्रव्विँ॒शा । वि॒शैवैन॑ङ्ख्ष॒त्रेण॒ व्यति॑षजति । व्यति॑षक्ताभिस्स्तुवते । व्यति॑षक्तो॒ वै ग्रा॑म॒णीस्स॑जा॒तैः । स॒जा॒तैरे॒वैन॒व्व्यँति॑षजति । व्यति॑षक्ताभिस्स्तुवते । व्यति॑षक्तो॒ वै पुरु॑ष पा॒प्मभिः॑ । व्यति॑षक्ताभिरे॒वास्य॑ पा॒प्मनो॑ नुदते ।। 66 ।। 2.8.0.0 पीवोन्ना॒न्ते शु॒क्रास॒स्सोमो॑ धे॒नुमिन्द्र॒स्तर॑स्वा॒ञ्छुचि॒मा दे॒वो या॑तु॒ सूर्यो॑ दे॒वीम॒हम॑स्मि॒ ता सूर्याचन्द्र॒मसा॒ नव॑ ।।9।। पीवोन्ना॒मग्ने॒ त्वं पा॑रयानाधृ॒ष्यश्शुचि॒न्नु वि॒श्रय॑माणो दि॒वो रु॒क्मोऽन्नं॑ प्रा॒णमन्न॒न्ता सूर्याचन्द्र॒मसा॒ नव॑सप्ततिः ।।79 ।। पीवोन्नाय्यूँ॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।। हरिः॑ ओम् ।। कृष्णयजुर्ब्राह्मणे द्वितीयाष्टके अष्टम प्रपाठकः द्वितीयाष्टकञ्च समाप्तम् । 2.8.0.0 तैत्तिरीयब्राह्मणे द्वितीयाष्टके अष्टमप्रपाठकप्रारम्भः । हरिः ओम् ।। 2.8.1.0 म॒नी॒षाऽस्तु॑ च॒र्तस्या॒स्मे कि॑त॒वास॑श्च॒त्वारि॑ च ।। 1 ।। 2.8.1.1 पीवोन्ना रयि॒वृध॑स्सुमे॒धाः । श्वे॒तस्सि॑षक्ति नि॒युता॑मभि॒श्रीः । ते वा॒यवे॒ सम॑नसो॒ वित॑स्थुः । विश्वेन्नर॑स्स्वप॒त्यानि॑ चक्रुः । रा॒येऽनु यञ्ज॒ज्ञतू॒ रोद॑सी उ॒भे । रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् । अधा॑ वा॒युन्नि॒युत॑स्सश्चत॒ स्वाः । उ॒त श्वे॒तव्वँसु॑धितिन्निरे॒के । आ वा॑यो॒ प्र याभिः॑ । प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा ।। 1 ।। 2.8.1.2 बृ॒हद्र॑यिव्विँ॒श्ववा॑रा रथ॒प्राम् । द्यु॒तद्या॑मा नि॒युत॒ पत्य॑मानः । क॒वि क॒विमि॑यख्षसि प्रयज्यो । आ नो॑ नि॒युद्भि॑श्श॒तिनी॑भिरध्व॒रम् । स॒ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ।। 2 ।। 2.8.1.3 व॒य स्या॑म॒ पत॑यो रयी॒णाम् । र॒यी॒णां पति॑य्यँज॒तं बृ॒हन्तम् । अ॒स्मिन्भरे॒ नृत॑म॒व्वाँज॑सातौ । प्र॒जाप॑तिं प्रथम॒जामृ॒तस्य॑ । यजा॑म दे॒वमधि॑ नो ब्रवीतु । प्रजा॑पते॒ त्वन्नि॑धि॒पा पु॑रा॒णः । दे॒वानां पि॒ता ज॑नि॒ता प्र॒जानाम् । पति॒र्विश्व॑स्य॒ जग॑त पर॒स्पाः । ह॒विर्नो॑ देव विह॒वे जु॑षस्व । तवे॒मे लो॒का प्र॒दिशो॒ दिश॑श्च ।। 3 ।। 2.8.1.4 प॒रा॒वतो॑ नि॒वत॑ उ॒द्वत॑श्च । प्रजा॑पते विश्व॒सृज्जी॒वध॑न्य इ॒दन्नो॑ देव । प्रति॑हर्य ह॒व्यम् । प्र॒जाप॑तिं प्रथ॒मय्यँ॒ज्ञिया॑नाम् । दे॒वाना॒मग्रे॑ यज॒तय्यँ॑जध्वम् । स नो॑ ददातु॒ द्रवि॑ण सु॒वीर्यम् । रा॒यस्पोष॒व्विँ ष्य॑तु॒ नाभि॑म॒स्मे । यो रा॒य ईशे॑ शतदा॒य उ॒क्थ्यः॑ । य प॑शू॒ना र॑ख्षि॒ता विष्ठि॑तानाम् । प्र॒जाप॑ति प्रथम॒जा ऋ॒तस्य॑ ।। 4 ।। 2.8.1.5 स॒हस्र॑धामा जुषता ह॒विर्नः॑ । सोमा॑पूषणे॒मौ दे॒वौ । सोमा॑पूषणा॒ रज॑सो वि॒मानम् । स॒प्तच॑क्र॒॒ रथ॒मवि॑श्वमिन्वम् । वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नम् । तञ्जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् । दि॒व्य॑न्यस्सद॑नञ्च॒क्र उ॒च्चा । पृ॒थि॒व्याम॒न्यो अध्य॒न्तरि॑ख्षे । ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒ख्षुम् । रा॒यस्पोष॒व्विँष्य॑ता॒न्नाभि॑म॒स्मे ।। 5 ।। 2.8.1.6 धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वः । र॒यि सोमो॑ रयि॒पति॑र्दधातु । अव॑तु दे॒व्यदि॑तिरन॒र्वा । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः । विश्वान्य॒न्यो भुव॑ना ज॒जान॑ । विश्व॑म॒न्यो अ॑भि॒चख्षा॑ण एति । सोमा॑पूषणा॒वव॑त॒न्धियं॑ मे । यु॒वभ्या॒व्विँश्वा॒ पृत॑ना जयेम । उदु॑त्त॒मव्वँ॑रु॒णास्त॑भ्ना॒द्द्याम् । यत्किञ्चे॒दङ्कि॑त॒वासः॑ । अव॑ ते॒ हेड॒स्तत्त्वा॑ यामि । आ॒दि॒त्याना॒मव॑सा॒ न द॑ख्षि॒णा । धा॒रय॑न्त आदि॒त्यास॑स्ति॒स्रो भूमीर्धारयन्न् । य॒ज्ञो दे॒वाना॒॒ शुचि॑र॒पः ।। 6 ।। 2.8.2.0 दे॒व॒यानैर्दे॒वास्सुपू॑तय्यँजत्र॒ हस्त॒मस्ति॒ तमा॑स्यू॒र्मिभि॒र्द्वे च॑ ।। 2 ।। 2.8.2.1 ते शु॒क्रास॒श्शुच॑यो रश्मि॒वन्तः॑ । सीद॑न्नादि॒त्या अधि॑ ब॒र्॒हिषि॑ प्रि॒ये । कामे॑न दे॒वास्स॒रथ॑न्दि॒वो नः॑ । आ यान्तु य॒ज्ञमुप॑ नो जुषा॒णाः । ते सू॒नवो॒ अदि॑ते पीव॒सामिषम् । घृ॒तं पिन्व॒त्प्रति॑हर्यन्नृते॒जाः । प्र य॒ज्ञिया॒ यज॑मानाय येमुरे । आ॒दि॒त्या कामं॑ पितु॒मन्त॑म॒स्मे । आ न॑ पु॒त्रा अदि॑तेर्यान्तु य॒ज्ञम् । आ॒दि॒त्यास॑ प॒थिभि॑र्देव॒यानैः ।।7 ।। 2.8.2.2 अ॒स्मे काम॑न्दा॒शुषे॑ स॒न्नम॑न्तः । पुरो॒डाश॑ङ्घृ॒तव॑न्तञ्जुषन्ताम् । स्क॒भा॒यत॒ निऱ्ऋ॑ति॒॒ सेध॒ताम॑तिम् । प्र र॒श्मिभि॒र्यत॑माना अमृध्राः । आदि॑त्या॒ काम॒ प्रय॑ता॒व्वँष॑ट्कृतिम् । जु॒षध्व॑न्नो ह॒व्यदा॑तिय्यँजत्राः । आ॒दि॒त्यान्काम॒मव॑से हुवेम । ये भू॒तानि॑ ज॒नय॑न्तो विचि॒ख्युः । सीद॑न्तु पु॒त्रा अदि॑तेरु॒पस्थम् । स्ती॒र्णं ब॒र्॒हिऱ्ह॑वि॒रद्या॑य दे॒वाः ।। 8 ।। 2.8.2.3 स्ती॒र्णं ब॒र्॒हिस्सी॑दता य॒ज्ञे अ॒स्मिन्न् । ध्रा॒जास्सेध॑न्तो॒ अम॑तिन्दु॒रेवाम् । अ॒स्मभ्यं॑ पुत्रा अदिते॒ प्र य॑सत । आदि॑त्या॒ काम॑ ह॒विषो॑ जुषा॒णाः । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ । भूयि॑ष्ठान्ते॒ नम॑ उक्तिव्विँधेम । प्र व॑श्शु॒क्राय॑ भा॒नवे॑ भरध्वम् । ह॒व्यं म॒तिञ्चा॒ग्नये॒ सुपू॑तम् ।। 9 ।। 2.8.2.4 यो दैव्या॑नि॒ मानु॑षा ज॒नूषि॑ । अ॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति । अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्तीः । अ॒ग्निय्यँ॑न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः । सु॒स॒न्दृश॑ सु॒प्रती॑क॒॒ स्वञ्चम् । ह॒व्य॒वाह॑मर॒तिं मानु॑षाणाम् । अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वाः । अन॑ग्नित्रा अ॒भ्य॑मन्त कृ॒ष्टीः । पुन॑र॒स्मभ्य॑ सुवि॒ताय॑ देव । ख्षाव्विँश्वे॑भिर॒जरे॑भिर्यजत्र ।। 10 ।। 2.8.2.5 अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् । स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी । भवा॑ तो॒काय॒ तन॑याय॒ शय्योँः । प्रका॑रवो मन॒ना व॒च्यमा॑नाः । दे॒व॒द्रीचीन्नयथ देव॒यन्तः॑ । द॒ख्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति । ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची । इन्द्र॒न्नरो॑ यु॒जे रथम् । ज॒गृ॒भ्णाते॒ दख्षि॑णमिन्द्र॒ हस्तम् ।। 11 ।। 2.8.2.6 व॒सू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑ति शूर॒ गोनाम् । अ॒स्मभ्य॑ञ्चि॒त्रव्वृँष॑ण र॒यिन्दाः । तवे॒दव्विँश्व॑म॒भित॑ पश॒व्यम् । यत्पश्य॑सि॒ चख्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र । भ॒ख्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ । समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॑ । स सू॒रिभि॑र्मघव॒न्थ्स स्व॒स्त्या । सं ब्रह्म॑णा दे॒वकृ॑त॒य्यँदस्ति॑ ।। 12 ।। 2.8.2.7 सन्दे॒वाना॑ सुम॒त्या य॒ज्ञिया॑नाम् । आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रम् । उ॒ग्रो यश्शम्ब॑ पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र । कृ॒धीधिय॑ञ्जरि॒त्रे वाज॑रत्नाम् । आ वे॒धस॒॒ स हि शुचिः॑ । बृह॒स्पति॑ प्रथ॒मञ्जाय॑मानः । म॒हो ज्योति॑ष पर॒मे व्यो॑मन्न् । स॒प्तास्य॑स्तुविजा॒तो रवे॑ण । वि स॒प्तर॑श्मिरधम॒त्तमा॑सि ।। 13 ।। 2.8.2.8 बृह॒स्पति॒स्सम॑जय॒द्वसू॑नि । म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः । अ॒पस्सिषा॑स॒न्थ्सुव॒रप्र॑तीत्तः । बृह॒स्पति॒र्॒हन्त्य॒मित्र॑म॒र्कैः । बृह॑स्पते॒ पर्ये॒वा पि॒त्रे । आ नो॑ दि॒व पावी॑रवी । इ॒मा जुह्वा॑ना॒ यस्ते॒ स्तनः॑ । सर॑स्वत्य॒भि नो॑ नेषि । इ॒य शुष्मे॑भिर्बिस॒खा इ॑वारुजत् । सानु॑ गिरी॒णान्त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒द॒घ्नीमव॑से सुवृ॒क्तिभिः॑ । सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ।। 14 ।। 2.8.3.0 व॒व॒र्थ॒ वि॒थ्स॒ इन्द्र॑स्तु॒रायास्तु वृत्र॒तूर्ये॒ वज्र॑बाहु पृथि॒व्यान्त्रीणि॑ च ।। 3 ।। 2.8.3.1 सोमो॑ धे॒नु सोमो॒ अर्व॑न्तमा॒शुम् । सोमो॑ वी॒रङ्क॑र्म॒ण्य॑न्ददातु । सा॒द॒न्य॑व्विँद॒थ्य॑ स॒भेयम् । पि॒तु॒श्श्रव॑ण॒य्योँ ददा॑शदस्मै । अषा॑ढय्युँ॒थ्सु त्व सो॑म॒ क्रतु॑भिः । या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति । त्वमि॒मा ओष॑धीस्सोम॒ विश्वाः । त्वम॒पो अ॑जनय॒स्त्वङ्गाः । त्वमात॑तन्थो॒र्व॑न्तरि॑ख्षम् । त्वञ्ज्योति॑षा॒ वि तमो॑ ववर्थ ।। 15 ।। 2.8.3.2 या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याम् । या पर्व॑ते॒ष्वोष॑धीष्व॒फ्सु । तेभि॑र्नो॒ विश्वैस्सु॒मना॒ अहे॑डन्न् । राजन्थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय । विष्णो॒र्नुक॒न्तद॑स्य प्रि॒यम् । प्र तद्विष्णुः॑ । प॒रो मात्र॑या त॒नुवा॑ वृधान । न ते॑ महि॒त्वमन्व॑श्ञुवन्ति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम् । प॒र॒मस्य॑ विथ्से ।। 16 ।। 2.8.3.3 विच॑क्रमे॒ त्रिर्दे॒वः । आ ते॑ म॒हो यो जा॒त ए॒व । अ॒भि गो॒त्राणि॑ । आभि॒स्स्पृधो॑ मिथ॒तीररि॑षण्यन्न् । अ॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र । आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑चीः । आर्या॑य॒ विशोव॑तारी॒र्दासीः । अ॒य शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न् । अ॒यमु॒त प्र कृ॑णुते यु॒धा गाः । य॒दा स॒त्यङ्कृ॑णु॒ते म॒न्युमिन्द्रः॑ ।। 17 ।। 2.8.3.4 विश्व॑न्दृ॒ढं भ॑यत॒ एज॑दस्मात् । अनु॑ स्व॒धाम॑ख्षर॒न्नापो॑ अस्य । अव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् । स॒ध्री॒चीने॑न॒ मन॑सा॒ तमि॑न्द्र॒ ओजि॑ष्ठेन । हन्म॑नाहन्न॒भिद्यून् । म॒रुत्व॑न्तव्वृँष॒भव्वाँ॑वृधा॒नम् । अक॑वारिन्दि॒व्य शा॒समिन्द्रम् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नाय । उ॒ग्र स॑हो॒दामि॒ह त हु॑वेम । जनि॑ष्ठा उ॒ग्रस्सह॑से तु॒राय॑ ।। 18 ।। 2.8.3.5 म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ । मा॒ता यद्वी॒रन्द॒धन॒द्धनि॑ष्ठा । क्व॑स्यावो॑ मरुतस्स्व॒धाऽऽसीत् । यन्मामेक॑ स॒मध॑त्ताहि॒हत्ये । अ॒ह ह्यु॑ग्रस्त॑वि॒षस्तुवि॑ष्मान् । विश्व॑स्य॒ शत्रो॒रन॑मव्वँध॒स्नैः । वृ॒त्रस्य॑ त्वा श्व॒सथा॒ दीष॑माणाः । विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्यन्ते॑ अस्तु ।। 19 ।। 2.8.3.6 अथे॒मा विश्वा॒ पृत॑ना जयासि । वधीव्वृँ॒त्रं म॑रुत इन्द्रि॒येण॑ । स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः । सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः । स यो वृषा॒ वृष्णि॑येभि॒स्समो॑काः । म॒हो दि॒व पृ॑थि॒व्याश्च॑ स॒म्राट् । स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु । म॒रुत्वान्नो भव॒त्विन्द्र॑ ऊ॒ती । इन्द्रो॑ वृ॒त्रम॑तरद्वृत्र॒तूर्ये ।। 20 ।। 2.8.3.7 अ॒ना॒धृ॒ष्यो म॒घवा॒ शूर॒ इन्द्रः॑ । अन्वे॑न॒व्विँशो॑ अमदन्त पू॒र्वीः । अ॒य राजा॒ जग॑तश्चऱ्षणी॒नाम् । स ए॒व वी॒रस्स उ॑ वी॒र्या॑वान् । स ए॑करा॒जो जग॑त पर॒स्पाः । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथा॑भवद्दमि॒ताभिक्र॑तूनाम् । इन्द्रो॑ य॒ज्ञव्वँ॒र्धय॑न्वि॒श्ववे॑दाः । पु॒रो॒डाश॑स्य जुषता ह॒विर्नः॑ । वृ॒त्रन्ती॒र्त्वा दा॑न॒वव्वँज्र॑बाहुः ।। 21 ।। 2.8.3.8 दिशो॑ऽदृहद्दृहि॒ता दृह॑णेन । इ॒मय्यँ॒ज्ञव्वँ॒र्धय॑न्वि॒श्ववे॑दाः । पु॒रो॒डाशं॒ प्रति॑ गृभ्णा॒त्विन्द्रः॑ । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथै॑करा॒जो अ॑भव॒ज्जना॑नाम् । इन्द्रो॑ दे॒वाञ्छ॑म्बर॒हत्य॑ आवत् । इन्द्रो॑ दे॒वाना॑मभवत्पुरो॒गाः । इन्द्रो॑ य॒ज्ञे ह॒विषा॑ वावृधा॒नः । वृ॒त्र॒तूर्नो॒ अभ॑य॒॒ शर्म॑ यसत् । यस्स॒प्त सिन्धू॒॒ रद॑धात्पृथि॒व्याम् । यस्स॒प्त लो॒कानकृ॑णो॒द्दिश॑श्च । इन्द्रो॑ ह॒विष्मा॒न्थ्सग॑णो म॒रुद्भिः॑ । वृ॒त्र॒तूर्नो॑ य॒ज्ञमि॒होप॑ यासत् ।। 22 ।। 2.8.4.0 ह॒विर्नो॑ दाद्भभूव रा॒तिं पू॒र्वहू॑ताव॒र्कैरै॑रद॒स्मिन्पञ्च॑ च ।। 4 ।। 2.8.4.1 इन्द्र॒स्तर॑स्वानभिमाति॒होग्रः । हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्॒षाः । तस्य॑ व॒य सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म । हिर॑ण्यवर्णो॒ अभ॑यङ्कृणोतु । अ॒भि॒मा॒ति॒हेन्द्र॒ पृत॑नासु जि॒ष्णुः । स न॒श्शर्म॑ त्रि॒वरू॑थ॒व्विँ य॑सत् । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । इन्द्र॑ स्तुहि व॒ज्रिण॒॒ स्तोम॑पृष्ठम् । पु॒रो॒डाश॑स्य जुषता ह॒विर्नः॑ ।। 23 ।। 2.8.4.2 ह॒त्वाभिमा॑ती॒ पृत॑ना॒स्सह॑स्वान् । अथाभ॑यङ्कृणुहि वि॒श्वतो॑ नः । स्तु॒हि शूर॑व्वँ॒ज्रिण॒मप्र॑तीत्तम् । अ॒भि॒मा॒ति॒हनं॑ पुरुहू॒तमिन्द्रम् । य एक॒ इच्छ॒तप॑ति॒र्जने॑षु । तस्मा॒ इन्द्रा॑य ह॒विरा जु॑होत । इन्द्रो॑ दे॒वाना॑मधि॒पा पु॒रोहि॑तः । दि॒शां पति॑रभवद्वा॒जिनी॑वान् । अ॒भि॒मा॒ति॒हा त॑वि॒षस्तुवि॑ष्मान् । अ॒स्मभ्य॑ञ्चि॒त्रव्वृँष॑ण र॒यिन्दात् ।। 24 ।। 2.8.4.3 य इ॒मे द्यावा॑पृथि॒वी म॑हि॒त्वा । बले॒नादृ॑हदभिमाति॒हेन्द्रः॑ । स नो॑ ह॒वि प्रति॑ गृभ्णातु रा॒तये । दे॒वानान्दे॒वो नि॑धि॒पा नो॑ अव्यात् । अन॑वस्ते॒ रथ॒व्वृँष्णे॒ यत्ते । इन्द्र॑स्य॒ नु वी॒र्याण्यह॒न्नहिम् । इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा । शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा ख्षेति चऱ्षणी॒नाम् । अ॒रान्न ने॒मि परि॒ ता ब॑भूव ।। 25 ।। 2.8.4.4 अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रून्॑ । विति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑भेत् । सव्वँज्रे॑णासृजद्वृ॒त्रमिन्द्रः॑ । प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः । विष्णु॑न्दे॒वव्वँरु॑णमू॒तये॒ भगम् । मेद॑सा दे॒वा व॒पया॑ यजध्वम् । ता नो॑ य॒ज्ञमाग॑तव्विँ॒श्वधे॑ना । प्र॒जाव॑द॒स्मे द्रवि॑णे॒ह ध॑त्तम् । मेद॑सा दे॒वा व॒पया॑ यजध्वम् । विष्णु॑ञ्च दे॒वव्वँरु॑णञ्च रा॒तिम् ।। 26 ।। 2.8.4.5 ता नो॒ अमी॑वा अप॒ बाध॑मानौ । इ॒मय्यँ॒ज्ञञ्जु॒षमा॑णा॒वुपेतम् । विष्णू॑वरुणा यु॒वम॑ध्व॒राय॑ नः । वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्ज्यू ह॒विषा॑ वृधा॒ना । ज्योति॒षाऽरा॑तीर्दहत॒न्तमा॑सि । ययो॒रोज॑सा स्कभि॒ता रजा॑सि । वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा । याऽपत्ये॑ ते॒ अप्र॑तीत्ता॒ सहो॑भिः । विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ।। 27 ।। 2.8.4.6 विष्णू॑वरुणावभिशस्ति॒पावाम् । दे॒वा य॑जन्त ह॒विषा॑ घृ॒तेन॑ । अपामी॑वा सेधत र॒ख्षस॑श्च । अथा॑धत्त॒य्यँज॑मानाय॒ शय्योँः । अ॒॒हो॒मुचा॑ वृष॒भा सु॒प्रतूर्ती । दे॒वानान्दे॒वत॑मा॒ शचि॑ष्ठा । विष्णू॑वरुणा॒ प्रति॑हर्यतन्नः । इ॒दन्नरा॒ प्रय॑तमू॒तये॑ ह॒विः । म॒ही नु द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे । रु॒चा भ॑वता शु॒चय॑द्भिर॒र्कैः ।। 28 ।। 2.8.4.7 यथ्सी॒व्वँरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्न् । नृ॒वद्भ्यो॒ख्षा प॑प्रथा॒नेभि॒रेवैः । प्रपूर्व॒जे पि॒तरा॒ नव्य॑सीभिः । गी॒र्भि कृ॑णुध्व॒॒ सद॑ने ऋ॒तस्य॑ । आ नो द्यावापृथिवी॒ दैव्ये॑न । जने॑न यातं॒ महि॑ वा॒व्वँरू॑थम् । स इथ्स्वपा॒ भुव॑नेष्वास । य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ । उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके । अ॒व॒॒शे धीर॒श्शच्या॒ समै॑रत् ।। 29 ।। 2.8.4.8 भूरि॒न्द्वे अच॑रन्ती॒ चर॑न्तम् । प॒द्वन्त॒ङ्गर्भ॑म॒पदी॑दधाते । नित्य॒न्न सू॒नुं पि॒त्रोरु॒पस्थे । तं पि॑पृत रोदसी सत्य॒वाचम् । इ॒दन्द्या॑वापृथिवी स॒त्यम॑स्तु । पित॒र्मात॒र्यदि॒होप॑ ब्रु॒वे वाम् । भू॒तन्दे॒वाना॑मव॒मे अवो॑भिः । विद्यामे॒षव्वृँ॒जन॑ञ्जी॒र- दा॑नुम् । उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे अ॑न्ते । उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन्न् । दधा॑ते॒ ये सु॒भगे॑ सु॒प्रतूर्ती । द्यावा॒ रख्ष॑तं पृथि॒वी नो॒ अभ्वात् । या जा॒ता ओष॑ध॒योऽति॒ विश्वा परि॒ष्ठाः । या ओष॑धय॒स्सोम॑राज्ञीरश्वाव॒ती सो॑मव॒तीम् । ओष॑धी॒रिति॑ मातरो॒ऽन्या वो॑ अ॒न्याम॑वतु ।। 30 ।। 2.8.5.0 व॒राहैर्वि॒श्वहा॑ऽजनिष्ट पू॒षोद्वरी॑वृजत्खा॒दयो॑ व पा॒न्त्यस्त्या॒भिर्नव॑ च ।। 5 ।। 2.8.5.1 शुचि॒न्नु स्तोम॒॒ श्ञथ॑द्वृ॒त्रम् । उ॒भा वा॑मिन्द्राग्नी॒ प्र च॑ऱ्ष॒णिभ्यः॑ । आ वृ॑त्रहणा गी॒र्भिर्विप्रः॑ । ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता । सू॒क्तस्य॑ बोधि॒ तन॑यञ्च जिन्व । विश्व॒न्तद्भ॒द्रय्यँद॒वन्ति॑ दे॒वाः । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः । स ई॑ स॒त्येभि॒स्सखि॑भिश्शु॒चद्भिः॑ । गोधा॑यस॒व्विँध॑न॒सैर॑तर्दत् । ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहैः ।। 31 ।। 2.8.5.2 घ॒र्मस्वे॑देभि॒र्द्रवि॑ण॒व्व्याँ॑नट् । ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शम् । स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः । यो गा उ॒दाज॒थ्स दि॒वे वि चा॑भजत् । म॒हीव॑ री॒तिश्शव॑सा सर॒त्पृथ॑क् । इन्धा॑नो अ॒ग्निँव्व॑नवद्वनुष्य॒तः । कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒सृत्प्र सृ॑सते । यय्यँ॒य्युँज॑ङ्कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ । ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा ।। 32 ।। 2.8.5.3 रा॒यस्स्या॑म र॒थ्यो॑ विव॑स्वतः । वी॒रेषु॑ वी॒रा उप॑पृङ्ग्धि न॒स्त्वम् । यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हवम् । स इज्जने॑न॒ स वि॒शा स जन्म॑ना । स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ । दे॒वाना॒य्यँ पि॒तर॑मा॒ विवा॑सति । श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिम् । यास्ते॑ पूष॒न्नावो॑ अ॒न्तः । शु॒क्रन्ते॑ अ॒न्यत्पू॒षेमा आशाः । प्रप॑थे प॒थाम॑जनिष्ट पू॒षा ।।33 ।। 2.8.5.4 प्रप॑थे दि॒व प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे । आ च॒ परा॑ च चरति प्रजा॒नन्न् । पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्याः । इ॒डस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः । तन्दे॒वासो॒ अद॑दुस्सू॒र्यायै । कामे॑न कृ॒तन्त॒वस॒॒ स्वञ्चम् । अ॒जाऽश्व॑ पशु॒पा वाज॑बस्त्यः । धि॒य॒ञ्जि॒न्वो विश्वे॒ भुव॑ने॒ अर्पि॑तः । अष्ट्रां पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत् ।। 34 ।। 2.8.5.5 स॒ञ्चख्षा॑णो॒ भुव॑ना दे॒व ई॑यते । शुची॑ वो ह॒व्या म॑रुत॒श्शुची॑नाम् । शुचि॑ हिनोम्यध्व॒र शुचि॑भ्यः । ऋ॒तेन॑ स॒त्यमृत॒साप॑ आयन्न् । शुचि॑जन्मान॒श्शुच॑य पाव॒काः । प्र चि॒त्रम॒र्कङ्गृ॑ण॒ते तु॒राय॑ । मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहा॑सि॒ सह॑सा॒ सह॑न्ते । रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ । असे॒ष्वा म॑रुत खा॒दयो॑ वः ।। 35 ।। 2.8.5.6 वख्ष॑स्सुरु॒क्मा उप॑ शिश्रिया॒णाः । वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒नाः । अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः । या व॒श्शर्म॑ शशमा॒नाय॒ सन्ति॑ । त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्य॒न्तानि॑ मरुतो॒ विय॑न्त । र॒यिन्नो॑ धत्त वृषणस्सु॒वीरम् । इ॒मे तु॒रं म॒रुतो॑ रामयन्ति । इ॒मे सह॒स्सह॑स॒ आ न॑मन्ति । इ॒मे शस॑व्वँनुष्य॒तो नि पान्ति ।। 36 ।। 2.8.5.7 गु॒रुद्वेषो॒ अर॑रुषे दधन्ति । अ॒रा इ॒वेदच॑रमा॒ अहे॑व । प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः । पृश्ञे प्रु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः । स्वया॑ म॒त्या म॒रुत॒स्सं मि॑मिख्षुः । अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ । स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये । अनु॑ ख्ष॒त्रमनु॒ सहो॑ यजत्र । इन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये । य इन्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॑ ।। 37 ।। 2.8.5.8 शिख्षा॒ सखि॑भ्य पुरुहूत॒ नृभ्यः॑ । त्व हि दृ॒ढा म॑घव॒न्विचे॑ताः । अपा॑वृधि॒ परि॑वृति॒न्न राधः॑ । इन्द्रो॒ राजा॒ जग॑तश्चर्‌षणी॒नाम् । अ॒धि॒ख्षमि॒ विषु॑रूप॒य्यँदस्ति॑ । ततो॑ ददातु दा॒शुषे॒ वसू॑नि । चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् । तमु॑ष्टुहि॒ यो अ॒भिभूत्योजाः । व॒न्वन्नवा॑त पुरुहू॒त इन्द्रः॑ । अषा॑ढमु॒ग्र सह॑मानमा॒भिः ।। 38 ।। 2.8.5.9 गी॒र्भिर्व॑र्ध वृष॒भञ्च॑ऱ्षणी॒नाम् । स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे । तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्रम् । यो वा॒युना॒ जय॑ति॒ गोम॑तीषु । प्र धृ॑ष्णु॒या न॑यति॒ वस्यो॒ अच्छ॑ । आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्तात् । आ वि॒श्वतो॑ अ॒भिसमेत्व॒र्वाङ् । इन्द्र॑ द्यु॒म्न सुव॑र्वद्धेह्य॒स्मे ।। 39 ।। 2.8.6.0 वसू॑नि ततानास्तु॒ विश्वान्॑ ववृत्याव्वँवर्ति घृ॒तेन॒ विषू॑चीश्श्रु॒तन्द्वे च॑ ।। 6 ।। 2.8.6.1 आ दे॒वो या॑तु सवि॒ता सु॒रत्नः॑ । अ॒न्त॒रि॒ख्ष॒प्रा वह॑मानो॒ अश्वैः । हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ । नि॒वे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ । अ॒भीवृ॑त॒ङ्कृश॑नैर्वि॒श्वरू॑पम् । हिर॑ण्यशम्यय्यँज॒तो बृ॒हन्तम् । आस्था॒द्रथ॑ सवि॒ता चि॒त्रभा॑नुः । कृ॒ष्णा रजा॑ सि॒ तवि॑षी॒न्दधा॑नः । सघा॑ नो दे॒वस्स॑वि॒ता स॒वाय॑ । आ सा॑विष॒द्वसु॑पति॒र्वसू॑नि ।। 40 ।। 2.8.6.2 वि॒श्रय॑माणो॒ अम॑तिमुरू॒चीम् । म॒र्त॒भोज॑न॒मध॑रासतेन । विजनाञ्छ्या॒वाश्शि॑ति॒पादो॑ अख्यन्न् । रथ॒॒ हिर॑ण्यप्रउग॒व्वँह॑न्तः । शश्व॒द्दिश॑स्सवि॒तुर्दैव्य॑स्य । उ॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः । वि सु॑प॒र्णो अ॒न्तरि॑ख्षाण्यख्यत् । ग॒भी॒रवे॑पा॒ असु॑रस्सुनी॒थः । क्वे॑दानी॒॒ सूर्य॒ कश्चि॑केत । क॒त॒मान्द्या र॒श्मिर॒स्या त॑तान ।। 41 ।। 2.8.6.3 भग॒न्धिय॑व्वाँ॒जय॑न्त॒ पुर॑न्धिम् । नरा॒शसो॒ ग्नास्पति॑र्नो अव्यात् । आ ये वा॒मस्य॑ सङ्ग॒थे र॑यी॒णाम् । प्रि॒या दे॒वस्य॑ सवि॒तुस्स्या॑म । आ नो॒ विश्वे॒ अस्क्रा॑गमन्तु दे॒वाः । मि॒त्रो अ॑र्य॒मा वरु॑णस्स॒जोषाः । भुव॒न्॒ यथा॑ नो॒ विश्वे॑ वृ॒धासः॑ । करन्थ्सु॒षाहा॑ विथु॒रन्न शवः॑ । शन्नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु । श सर॑स्वती स॒ह धी॒भिर॑स्तु ।। 42 ।। 2.8.6.4 शम॑भि॒षाच॒श्शमु॑ राति॒षाचः॑ । शन्नो॑ दि॒व्या पार्थि॑वा॒श्शन्नो॒ अप्याः । ये स॑वि॒तुस्स॒त्यस॑वस्य॒ विश्वे । मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गँव्वी॒रव॒द्गोम॒दप्नः॑ । दधा॑तन॒ द्रवि॑णञ्चि॒त्रम॒स्मे । अग्ने॑ या॒हि दू॒त्य॑व्वाँरि॑षेण्यः । दे॒वा अच्छा ब्रह्म॒कृता॑ ग॒णेन॑ । सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒पः । य॒ख्षि॒ दे॒वान्र॑त्न॒धेया॑य॒ विश्वान्॑ ।। 43 ।। 2.8.6.5 द्यौ पि॑त॒ पृथि॑वि॒ मात॒रध्रु॑क् । अग्ने भ्रातर्वसवो मृ॒डता॑ नः । विश्व॑ आदित्या अदिते स॒जोषाः । अ॒स्मभ्य॒॒ शर्म॑ बहु॒लव्विँ य॑न्त । विश्वे॑ देवाश्शृणु॒तेम हवं॑ मे । ये अ॒न्तरि॑ख्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्राः । आ॒सद्या॒स्मिन्ब॒र्॒हिषि॑ मादयध्वम् । आ वां मित्रावरुणा ह॒व्यजु॑ष्टिम् । नम॑सा देवा॒वव॑साववृत्याम् ।। 44 ।। 2.8.6.6 अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकम् । वृ॒ष्टिर्दि॒व्या सु॑पा॒रा । यु॒वव्वँस्त्रा॑णि पीव॒सा व॑साथे । यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः । अवा॑तिरत॒मनृ॑तानि॒ विश्वा । ऋ॒तेन॑ मित्रावरुणा सचेथे । तथ्सु वां मित्रावरुणा महि॒त्वम् । ई॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे । विश्वा पिन्वथ॒ स्वस॑रस्य॒ धेनाः । अनु॑ वा॒मेक॑ प॒विरा व॑वर्ति ।। 45 ।। 2.8.6.7 यद्बहि॑ष्ठ॒न्नाति॒ विदे॑ सुदानू । अच्छि॑द्र॒॒ शर्म॒ भुव॑नस्य गोपा । ततो॑ नो मित्रावरुणाववीष्टम् । सिषा॑सन्तो जी(जि?)गि॒वास॑स्स्याम । आ नो मित्रावरुणा ह॒व्यदा॑तिम् । घृ॒तैर्गव्यू॑तिमुख्षत॒मिडा॑भिः । प्रति॑ वा॒मत्र॒ वर॒मा जना॑य । पृ॒णी॒तमु॒द्नो दि॒व्यस्य॒ चारोः । प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुख्षतङ्घृ॒तेन॑ ।। 46 ।। 2.8.6.8 आ नो॒ जने श्रवयतय्युँवाना । श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा । इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ । ख्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे । ति॒ग्मायु॑धाय भरता शृ॒णोत॑न । त्वाद॑त्तेभी रुद्र॒ शन्त॑मेभिः । श॒त हिमा॑ अशीय भेष॒जेभिः॑ । व्य॑स्मद्द्वेषो॑ वित॒रव्व्यँहः॑ । व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ।। 47 ।। 2.8.6.9 अऱ्ह॑न्बिभऱ्षि॒ मा न॑स्तो॒के । आ ते॑ पितर्मरुता सु॒म्नमे॑तु । मा न॒स्सूर्य॑स्य स॒न्दृशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति ख्षमेत । प्र जा॑येमहि रुद्र प्र॒जाभिः॑ । ए॒वा ब॑भ्रो वृषभ चेकितान । यथा॑ देव॒ न हृ॑णी॒षे न हसि॑ । हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः । परि॑ णो रु॒द्रस्य॑ हे॒तिस्स्तु॒हि श्रु॒तम् । मीढु॑ष्ट॒माऱ्ह॑न्बिभऱ्षि । त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम् ।। 48 ।। 2.8.7.0 ज॒भा॒र॒ द्यौर॒ग्नेरु॒पस्थ॑ उप॒ख्ष्यन्तो॑ बद्बधा॒नो व॒ध्वा॑ याद॑मानस्समु॒द्रेऽह॑स॒ प्रस्थि॑तस्य ।। 7 ।। 2.8.7.1 सूर्यो॑ दे॒वीमु॒षस॒॒ रोच॑माना॒मर्यः॑ । न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ । वि॒त॒न्वते॒ प्रति॑ भ॒द्राय॑ भ॒द्रम् । भ॒द्रा अश्वा॑ ह॒रित॒स्सूर्य॑स्य । चि॒त्रा एद॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः । परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः । तथ्सूर्य॑स्य देव॒त्वन्तन्म॑हि॒त्वम् । म॒ध्या कर्तो॒र्वित॑त॒॒ सञ्ज॑भार ।। 49 ।। 2.8.7.2 य॒देदयु॑क्त ह॒रित॑स्स॒धस्थात् । आद्रात्री॒ वास॑स्तनुते सि॒मस्मै । तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चख्षे । सूर्यो॑ रू॒पङ्कृ॑णुते॒ द्योरु॒पस्थे । अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ । कृ॒ष्णम॒न्यद्ध॒रित॒स्सं भ॑रन्ति । अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य । निरह॑स पिपृ॒तान्निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ताम् । अदि॑ति॒स्सिन्धु॑ पृथि॒वी उ॒त द्यौः ।। 50 ।। 2.8.7.3 दि॒वो रु॒क्म उ॑रु॒चख्षा॒ उदे॑ति । दू॒रे अ॑र्थस्त॒रणि॒र्भ्राज॑मानः । नू॒नञ्जना॒स्सूर्ये॑ण॒ प्रसू॑ताः । आयन्नर्था॑नि कृ॒णव॒न्नपा॑सि । शन्नो॑ भव॒ चख्ष॑सा॒ शन्नो॒ अह्ना । शं भा॒नुना॒ श हि॒मा शङ्घृ॒णेन॑ । यथा॒ शम॒स्मै शमस॑द्दुरो॒णे । तथ्सूर्य॒ द्रवि॑णन्धे॒हि चि॒त्रम् । चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑कम् । चख्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।। 51 ।। 2.8.7.4 आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑ख्षम् । सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च । त्वष्टा॒ दध॒त्तन्न॑स्तु॒रीपम् । त्वष्टा॑ वी॒रं पि॒शङ्ग॑रूपः । दशे॒मन्त्वष्टु॑र्जनयन्त॒ गर्भम् । अत॑न्द्रासो युव॒तयो॒ बिभ॑र्त्रम् । ति॒ग्मानी॑क॒॒ स्वय॑शस॒ञ्जने॑षु । वि॒रोच॑मानं॒ परि॑षीन्नयन्ति । आविष्ट्यो॑ वर्धते॒ चारु॑रासु । जि॒ह्माना॑मू॒र्ध्वस्वय॑शा उ॒पस्थे ।। 52 ।। 2.8.7.5 उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात् । प्र॒तीची॑ सि॒॒हं प्रति॑जोषयेते । मि॒त्रो जना॒न्प्र स मि॑त्र । अ॒यं मि॒त्रो न॑म॒स्य॑स्सु॒शेवः॑ । राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः । तस्य॑ व॒य सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म । अ॒न॒मी॒वास॒ इड॑या॒ मद॑न्तः । मि॒तज्म॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः । आ॒दि॒त्यस्य॑ व्र॒तमु॑प॒ख्ष्यन्तः॑ ।। 53 ।। 2.8.7.6 व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म । मि॒त्रन्न ई शिम्या॒ गोषु॑ ग॒व्यव॑त् । स्वा॒धियो॑ वि॒दथे॑ अ॒फ्स्वजी॑जनन्न् । अरे॑जयता॒॒ रोद॑सी॒ पाज॑सा गि॒रा । प्रति॑ प्रि॒यय्यँ॑ज॒तञ्ज॒नुषा॒मवः॑ । म॒हा आ॑दि॒त्यो नम॑सोप॒सद्यः॑ । या॒त॒यज्ज॑नो गृण॒ते सु॒शेवः॑ । तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्टम् । अ॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत । आ वा॒॒ रथो॒ रोद॑सी बद्बधा॒नः ।। 54 ।। 2.8.7.7 हि॒र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः । घृ॒तव॑र्तनि प॒विभी॑रुचा॒नः । इ॒षाव्वोँ॒ढा नृ॒पति॑र्वा॒जिनी॑वान् । स प॑प्रथा॒नो अ॒भि पञ्च॒ भूम॑ । त्रि॒व॒न्धु॒रो मन॒साया॑तु यु॒क्तः । विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः । कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना । स्वश्वा॑ य॒शसाऽऽया॑तम॒र्वाक् । दस्रा॑ नि॒धिं मधु॑मन्तं पिबाथः । वि वा॒॒ रथो॑ व॒ध्वा॑ याद॑मानः ।। 55 ।। 2.8.7.8 अन्तान्दि॒वो बा॑धते वर्त॒निभ्याम् । यु॒वोश्श्रियं॒ परि॒ योषा॑वृणीत । सूरो॑ दुहि॒ता परि॑तक्मियायाम् । यद्दे॑व॒यन्त॒मव॑थ॒श्शची॑भिः । परि॑घ्र॒॒ सवां॒ मना॑वा॒व्वँयो॑गाम् । यो ह॒स्यवा॑ रथिरा॒वस्त॑ उ॒स्राः । रथो॑ युजा॒न प॑रि॒याति॑ व॒र्तिः । तेन॑ न॒श्शँय्योरु॒षसो॒ व्यु॑ष्टौ । न्य॑श्विना वहतय्यँ॒ज्ञे अ॒स्मिन्न् । यु॒वं भु॒ज्युमव॑विद्ध समु॒द्रे ।। 56 ।। 2.8.7.9 उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः । प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभिः॑ । द॒॒सना॑भिरश्विना पा॒रय॑न्ता । अग्नी॑षोमा॒ यो अ॒द्य वाम् । इ॒दव्वँच॑स्सप॒र्यति॑ । तस्मै॑ धत्त सु॒वीर्यम् । गवां॒ पोष॒॒ स्वश्वि॑यम् । यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्यात् । दे॒व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒त र॑ख्षतं पा॒तमह॑सः ।। 57 ।। 2.8.7.10 वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । अग्नी॑षोमा॒ य आहु॑तिम् । यो वा॒न्दाशाद्ध॒विष्कृ॑तिम् । स प्र॒जया॑ सु॒वीर्यम् । विश्व॒मायु॒र्व्य॑श्ञवत् । अग्नी॑षोमा॒ चेति॒ तद्वी॒र्य॑व्वाँम् । यदमु॑ष्णीतमव॒सं प॒णिङ्गोः । अवा॑तिरतं॒ प्रथ॑यस्य॒ शेषः॑ । अवि॑न्दत॒ञ्ज्योति॒रेकं॑ ब॒हुभ्यः॑ । अग्नी॑षोमावि॒म सु मेऽग्नी॑षोमा ह॒विष॒ प्रस्थि॑तस्य ।। 58 ।। 2.8.8.0 च॒रा॒मि॒ कनी॑यो॒ऽन्यानर्पि॑ता प॒दानि॒ यज्व॑सु हवामहे वि॒ष्ठा लो॒कास्सु॒वीर॒मर्वा॒ पिब॑न्ती॒ष्षट्च॑ ।। 8 ।। 2.8.8.1 अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ । पूर्व॑न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ । यो मा॒ ददा॑ति॒ स इदे॒वमावाः । अ॒हमन्न॒मन्न॑न॒दन्त॑मद्मि । पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्नम् । य॒त्तौ हा॑साते अहमुत्त॒रेषु॑ । व्यात्त॑मस्य प॒शव॑स्सु॒जम्भम् । पश्य॑न्ति॒ धीराः॒ प्रच॑रन्ति॒ पाकाः । जहाम्य॒न्यन्न ज॑हाम्य॒न्यम् । अ॒हमन्न॒व्वँश॒मिच्च॑रामि ।। 59 ।। 2.8.8.2 स॒मा॒नमर्थं॒ पर्ये॑मि भु॒ञ्जत् । को मामन्नं॑ मनु॒ष्यो॑ दयेत । परा॑के॒ अन्न॒न्निहि॑तल्लोँ॒क ए॒तत् । विश्वैर्दे॒वै पि॒तृभि॑र्गु॒प्तमन्नम् । यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते । श॒त॒त॒मी सा त॒नूर्मे॑ बभूव । म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ । दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वीञ्च॑ सा॒कम् । तथ्सं॒पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ । नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ।। 60 ।। 2.8.8.3 अन्नं॑ प्रा॒णमन्न॑मपा॒नमा॑हुः । अन्नं॑ मृ॒त्युन्तमु॑ जी॒वातु॑माहुः । अन्नं॑ ब्र॒ह्माणो॑ ज॒रस॑व्वँदन्ति । अन्न॑माहु प्र॒जन॑नं प्र॒जानाम् । मोघ॒मन्न॑व्विँन्दते॒ अप्र॑चेताः । स॒त्यं ब्र॑वीमि व॒ध इथ्स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यम् । केव॑लाघो भवति केवला॒दी । अ॒हं मे॒घस्स्त॒नय॒न्वऱ़्ष॑न्नस्मि । माम॑दन्त्य॒हम॑द्म्य॒न्यान् ।। 61 ।। 2.8.8.4 अ॒ह सद॒मृतो॑ भवामि । मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति । दे॒वीव्वाँच॑मजनयन्त॒ यद्वाग्वद॑न्ती । अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑तां म॒हीम् । यस्यान्दे॒वा अ॑दधु॒र्भोज॑नानि । एकाख्षरान्द्वि॒पदा॒॒ षट्प॑दाञ्च । वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे । वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे । वाच॑ङ्गन्ध॒र्वा प॒शवो॑ मनु॒ष्याः । वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता ।। 62 ।। 2.8.8.5 सा नो॒ हव॑ञ्जुषता॒मिन्द्र॑पत्नी । वाग॒ख्षरं॑ प्रथम॒जा ऋ॒तस्य॑ । वेदा॑नां मा॒ताऽमृत॑स्य॒ नाभिः॑ । सा नो॑ जुषा॒णोप॑ य॒ज्ञमागात् । अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु । यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ । अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण । तान्दे॒वीव्वाँच॑ ह॒विषा॑ यजामहे । सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के । च॒त्वारि॒ वाक्परि॑मिता प॒दानि॑ ।। 63 ।। 2.8.8.6 तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति । तु॒रीय॑व्वाँ॒चो म॑नु॒ष्या॑ वदन्ति । श्र॒द्धया॒ऽग्निस्समि॑ध्यते । श्र॒द्धया॑ विन्दते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॑ । वच॒सा वे॑दयामसि । प्रि॒य श्र॑द्धे॒ दद॑तः । प्रि॒य श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑सु ।। 64 ।। 2.8.8.7 इ॒दं म॑ उदि॒तङ्कृ॑धि । यथा॑ दे॒वा असु॑रेषु । श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑मुदि॒तङ्कृ॑धि । श्र॒द्धान्दे॑वा॒ यज॑मानाः । वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धा हृ॑द॒य्य॑याऽऽकूत्या । श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां प्रा॒तऱ्ह॑वामहे ।। 65 ।। 2.8.8.8 श्र॒द्धां म॒ध्यन्दि॑नं॒ परि॑ । श्र॒द्धा सूर्य॑स्य नि॒म्रुचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ह मा । श्र॒द्धा दे॒वानधि॑ वस्ते । श्र॒द्धा विश्व॑मि॒दञ्जग॑त् । श्र॒द्धाङ्काम॑स्य मा॒तरम् । ह॒विषा॑ वर्धयामसि । ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्तात् । वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒ मा अ॑स्य वि॒ष्ठाः ।। 66 ।। 2.8.8.9 स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अ॒न्तरि॑ख्षव्विँ॒श्वरू॑प॒ आवि॑वेश । तम॒र्कैर॒भ्य॑र्चन्ति व॒थ्सम् । ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्धय॑न्तः । ब्रह्म॑ दे॒वान॑जनयत् । ब्रह्म॒ विश्व॑मि॒दञ्जग॑त् । ब्रह्म॑णः ख्ष॒त्रन्निर्मि॑तम् । ब्रह्म॑ ब्राह्म॒ण आ॒त्मना । अ॒न्तर॑स्मिन्नि॒मे लो॒काः ।। 67 ।। 2.8.8.10 अ॒न्तर्विश्व॑मि॒दञ्जग॑त् । ब्रह्मै॒व भू॒ताना॒ञ्ज्येष्ठम् । तेन॒ को॑ऽऱ्हति॒ स्पर्धि॑तुम् । ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिशत् । ब्रह्म॑न्निन्द्रप्रजाप॒ती । ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ । ना॒वीवा॒न्तस्स॒माहि॑ता । चत॑स्र॒ आशा॒ प्रच॑रन्त्व॒ग्नयः॑ । इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्न् । घृ॒तं पिन्व॑न्न॒जर॑ सु॒वीरम् ।। 68 ।। 2.8.8.12 ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् । आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन्न् । सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑ती पुरु॒रूपा॑ इ॒ह स्युः । इन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः । इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिख्षति । उपेद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑भूयो र॒यमिद॑स्य व॒र्धयन्न्॑ । अभि॑न्ने खि॒ल्ले नि द॑धाति देव॒युम् । न ता न॑शन्ति॒ न ता अर्वा ।। 69 ।। 2.8.8.13 गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् । गाव॒स्सोम॑स्य प्रथ॒मस्य॑ भ॒ख्षः । इ॒मा या गाव॒स्सज॑नास॒ इन्द्रः॑ । इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्रम् । यू॒यङ्गा॑वो मेदयथा कृ॒शञ्चि॑त् । अ॒श्ली॒लञ्चि॑त्कृणुथा सु॒प्रती॑कम् । भ॒द्रङ्गृ॒हङ्कृ॑णुथ भद्रवाचः । बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ । प्र॒जाव॑तीस्सू॒यव॑स रि॒शन्तीः । शु॒द्धा अ॒पस्सु॑प्रपा॒णे पिब॑न्तीः । मा व॑स्स्ते॒न ई॑शत॒ माऽघश॑सः । परि॑ वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात् । उपे॒दमु॑प॒पर्च॑नम् । आ॒सु गोषूप॑पृच्यताम् । उप॑ऱ्ष॒भस्य॒ रेत॑सि । उपेन्द्र॒ तव॑ वी॒र्ये ।। 70 ।। 2.8.9.0 वि॒च॒ख्ष॒णा वि॑चर्तु॒र शर्म॒न्नधि॑ वि॒सर्ज॑नाय॒ ब्रह्म॒ वनं॒ ब्रह्म॒ स वृ॒ख्ष आ॑सीत्तु॒रश्चि॑द्देवा॒ प्रपी॑ना॒ एक॑ञ्च ।। 9 ।। 2.8.9.1 ता सूर्याचन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत् । तेजो॒ वसु॑मद्राजतो दि॒वि । सामात्माना चरतस्सामचा॒रिणा । ययोर्व्र॒तन्न म॒मे जातु॑ दे॒वयोः । उ॒भावन्तौ॒ परि॑ यात॒ अर्म्या । दि॒वो न र॒श्मी स्त॑नु॒तो व्य॑र्ण॒वे । उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू । सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती । पती द्यु॒मद्वि॑श्व॒विदा॑ उ॒भा दि॒वः । सूर्या॑ उ॒भा च॒न्द्रम॑सा विचख्ष॒णा ।। 71 ।। 2.8.9.2 वि॒श्ववा॑रा वरिवो॒भा वरेण्या । ता नो॑ऽवतं मति॒मन्ता॒ महि॑व्रता । वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता । सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी । सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒षद॑र्शता । म॒न॒स्विनो॒भानु॑चर॒तोनु॒ सन्दिवम् । अ॒स्य श्रवो॑ न॒द्य॑स्स॒प्त बि॑भ्रति । द्यावा॒ ख्षामा॑ पृथि॒वी द॑ऱ्श॒तव्वँपुः॑ । अ॒स्मे सूर्याचन्द्र॒मसा॑ऽभि॒चख्षे । श्र॒द्धेकमि॑न्द्र चरतो विचर्तु॒रम् ।। 72 ।। 2.8.9.3 पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम् । विश्वान्य॒न्यो भुव॑नाऽभि॒ चष्टे । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ । हिर॑ण्यवर्णा॒श्शुच॑य पाव॒का यासा॒॒ राजा । यासान्दे॒वाश्शि॒वेन॑ मा॒ चख्षु॑षा पश्यत । आपो॑ भ॒द्रा आदित्प॑श्यामि । नास॑दासी॒न्नो सदा॑सीत्त॒दानीम् । नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रीवः॒ कुह॒ कस्य॒ शर्मन्न्॑ ।। 73 ।। 2.8.9.4 अम्भ॒ किमा॑सी॒द्गह॑नङ्गभी॒रम् । न मृ॒त्युर॒मृत॒न्तऱ्हि॒ न । रात्रि॑या॒ अह्न॑ आसीत्प्रके॒तः । आनी॑दवा॒त स्व॒धया॒ तदेकम् । तस्माद्धा॒न्यन्न प॒र किञ्च॒नास॑ । तम॑ आसी॒त्तम॑सा गू॒ढमग्रे प्रके॒तम् । स॒लि॒ल सर्व॑मा इ॒दम् । तु॒च्छेना॒भ्वपि॑हित॒य्यँदासीत् । तम॑स॒स्तन्म॑हि॒ना जा॑य॒तैकम् । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ ।। 74 ।। 2.8.9.5 मन॑सो॒ रेत॑ प्रथ॒मय्यँदासीत् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा । ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम् । अ॒धस्स्वि॑दा॒सी ३ दु॒परि॑ स्विदासी ३ त् । रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्न् । स्व॒धा अ॒वस्ता॒त्प्रय॑ति प॒रस्तात् । को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चत् । कुत॒ आजा॑ता॒ कुत॑ इ॒यव्विँसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑नाय ।। 75 ।। 2.8.9.6 अथा॒ को वे॑द॒ यत॑ आब॒भूव॑ । इ॒यव्विँसृ॑ष्टि॒र्यत॑ आब॒भूव॑ । यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याध्य॑ख्ष पर॒मे व्यो॑मन्न् । सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ । किस्वि॒द्वन॒ङ्क उ॒ स वृ॒ख्ष आ॑सीत् । यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒ख्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒तत् । यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्न्॑ । ब्रह्म॒ वनं॒ ब्रह्म॒ स वृ॒ख्ष आ॑सीत् ।। 76 ।। 2.8.9.7 यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒ख्षुः । मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः । ब्रह्मा॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्न्॑ । प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ हवामहे । प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिम् । प्रा॒तस्सोम॑मु॒त रु॒द्र हु॑वेम । प्रा॒त॒र्जितं॒ भग॑मु॒ग्र हु॑वेम । व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॑त् ।। 77 ।। 2.8.9.8 राजा॑ चि॒द्यं भगं॑ भ॒ख्षीत्याह॑ । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः । भग॒ प्र नृभि॑र्नृ॒वन्त॑स्स्याम । उ॒तेदानीं॒ भग॑वन्तस्स्याम । उ॒त प्रपि॒त्व उ॒त मध्ये॒ अह्नाम् । उ॒तोदि॑ता मघव॒न्थ्सूर्य॑स्य । व॒यन्दे॒वाना॑ सुम॒तौ स्या॑म । भग॑ ए॒व भग॑वा अस्तु देवाः ।। 78 ।। 2.8.9.9 तेन॑ व॒यं भग॑वन्तः स्याम । तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुरए॒ता भ॑वे॒ह । सम॑ध्व॒रायो॒षसो॑ नमन्त । द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नव्वँ॑सु॒विदं॒ भग॑न्नः । रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु । अश्वा॑वती॒र्गोम॑तीर्न उ॒षासः॑ । वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः । घृ॒तन्दुहा॑ना वि॒श्वत॒ प्रपी॑नाः । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।। 79 ।। 3.1.0.0 ।। श्रीरस्तु ।। कृष्णयजुर्ब्राह्मणे तृतीयाष्टके प्रथम प्रपाठक प्रारम्भः । हरिःओम् ।। 3.1.0.0 अ॒ग्निर्न॑ ऋ॒ध्यास्म॒ नवो॑नवो॒ऽग्निर्मि॒त्रश्च॒न्द्रमा॒ष्षट् ।। 6 ।। अ॒ग्निर्न॒स्तन्नो॑ वा॒युरहि॑र्बु॒ध्निय॑ ऋ॒ख्षा वा इ॒यमथै॒तत्पौर्णमा॒स्या अ॒जो वा एक॑पा॒थ्सूर्य॒स्त्रिष॑ष्टिः ।। 63 ।। अ॒ग्निर्न॑ पातु प्रति॒ष्ठायै॒ स्वाहेति॑ ।। हरिः॑ओम् ।। कृष्णयजुर्ब्राह्मणे-तृतीयाष्टके प्रथमप्रपाठकस्समाप्तः ।। 3.1.1.0 चि॒त्रभा॑नु॒र्यज॑माने दधातु ह॒विर्न॒ पाथ॒श्चेतो॑ जुषन्ता॒ञ्चेतो॑ मदेम॒ रोच॑माना॒मरा॑तीर्गो॒पौ य॒ज्ञम् ।। 1 ।। 3.1.1.1 अ॒ग्निर्न॑ पातु॒ कृत्ति॑काः । नख्ष॑त्रन्दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑साँव्विचख्ष॒णम् । ह॒विरा॒सञ्जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा । स कृत्ति॑काभिर॒भि स॒व्वँसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु । प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ।। 1 ।। 3.1.1.2 सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः । रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्तात् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना । प्र॒जाप॑ति ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् । सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ । शि॒वन्नख्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ । आ॒प्याय॑मानो बहु॒धा जने॑षु । रेत॑ प्र॒जाय्यँज॑माने दधातु ।। 2 ।। 3.1.1.3 यत्ते॒ न॑ख्षत्रं मृगशी॒र्‌षमस्ति॑ । प्रि॒य रा॑जन्प्रि॒यत॑मं प्रि॒याणाम् । तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे । आ॒र्द्रया॑ रु॒द्र प्रथ॑मान एति । श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒यानाम् । नख्ष॑त्रमस्य ह॒विषा॑ विधेम । मा न॑ प्र॒जा री॑रिष॒न्मोत वी॒रान् । हे॒ती रु॒द्रस्य॒ परि॑ णो वृणक्तु । आ॒र्द्रा नख्ष॑त्रञ्जुषता ह॒विर्नः॑ ।। 3 ।। 3.1.1.4 प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा । अपा॒घश॑सन्नुदता॒मरा॑तिम् । पुन॑र्नो दे॒व्यदि॑तिस्स्पृणोतु । पुन॑र्वसू नः॒ पुन॒रेताँय्य॒ज्ञम् । पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे । पुन॑पुनर्वो ह॒विषा॑ यजामः । ए॒वा न दे॒व्यदि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑त प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒यन्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ।। 4 ।। 3.1.1.5 बृह॒स्पति॑ प्रथ॒मञ्जाय॑मानः । ति॒ष्य॑न्नख्ष॑त्रम॒भिसं ब॑भूव । श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः । दिशोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु । ति॒ष्य॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र्न॒ परि॑ पातु प॒श्चात् । बाधे॑ता॒न्द्वेषो॒ अभ॑यङ्कृणुताम् । सु॒वीर्य॑स्य॒ पत॑यस्स्याम । इ॒द स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम् । आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ।। 5 ।। 3.1.1.6 ये अ॒न्तरि॑ख्षं पृथि॒वीङ्ख्षि॒यन्ति॑ । ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः । ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिव॑न्दे॒वीमनु॑ स॒ञ्चर॑न्ति । येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामम् । तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि । उप॑हूता पि॒तरो॒ ये म॒घासु॑ । मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः । ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र्य॒ज्ञं प्रय॑तञ्जुषन्ताम् ।। 6 ।। 3.1.1.7 ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः । ये॑ऽमुल्लोँ॒कं पि॒तरः॑ ख्षि॒यन्ति॑ । याश्च॑ वि॒द्म या उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञ सुकृ॑तञ्जुषन्ताम् । गवां॒ पति॒ फल्गु॑नीनामसि॒ त्वम् । तद॑र्यमन्वरुण मित्र॒ चारु॑ । तन्त्वा॑ व॒य स॑नि॒तार॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒ सव्विँ॑शेम । येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दे॒वा अ॑नु स॒य्यँन्ति॒ चेतः॑ ।। 7 ।। 3.1.1.8 अ॒र्य॒मा राजा॒ऽजर॒स्तुवि॑ष्मान् । फल्गु॑नीनामृष॒भो रो॑रवीति । श्रेष्ठो॑ दे॒वानां भगवो भगासि । तत्त्वा॑ विदु॒ फल्गु॑नी॒स्तस्य॑ वित्तात् । अ॒स्मभ्य॑ङ्ख्ष॒त्रम॒जर॑ सु॒वीर्यम् । गोम॒दश्व॑व॒दुप॒ सन्नु॑दे॒ह । भगो॑ ह दा॒ता भग॒ इत्प्र॑दा॒ता । भगो॑ दे॒वी फल्गु॑नी॒रा वि॑वेश । भग॒स्येत्तं प्र॑स॒वङ्ग॑मेम । यत्र॑ दे॒वैस्स॑ध॒मादं॑ मदेम ।। 8 ।। 3.1.1.9 आया॑तु दे॒वस्स॑वि॒तोप॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न । वह॒न्॒ हस्त॑ सु॒भग॑व्विँद्म॒नाप॑सम् । प्र॒यच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ । हस्त॒ प्रय॑च्छत्व॒मृत॒व्वँसी॑यः । दख्षि॑णेन॒ प्रति॑गृभ्णीम एनत् । दा॒तार॑म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् । त्वष्टा॒ नख्ष॑त्रम॒भ्ये॑ति चि॒त्राम् । सु॒भस॑सय्युँव॒ति रोच॑मानाम् ।। 9 ।। 3.1.1.10 नि॒वे॒शय॑न्न॒मृता॒न्मर्त्या॑श्च । रू॒पाणि॑ पि॒॒शन्भुव॑नानि॒ विश्वा । तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् । तन्नख्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम् । तन्न॑ प्र॒जाव्वीँ॒रव॑ती सनोतु । गोभि॑र्नो॒ अश्वै॒स्सम॑नक्तु य॒ज्ञम् । वा॒युर्नख्ष॑त्त्रम॒भ्ये॑ति॒ निष्ट्याम् । ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः । स॒मी॒रय॒न्भुव॑ना मात॒रिश्वा । अप॒ द्वेषा॑सि नुदता॒मरा॑तीः ।। 10 ।। 3.1.1.11 तन्नो॑ वा॒युस्तदु॒ निष्ट्या॑ शृणोतु । तन्नख्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम् । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम् । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा । दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुता॒न्तद्विशा॑खे । तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चात्पु॒रस्ता॒दभ॑यन्नो अस्तु । नख्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे । श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ।। 11 ।। 3.1.1.12 विषू॑च॒श्शत्रू॑नप॒ बाध॑मानौ । अप॒ ख्षुध॑न्नुदता॒मरा॑तिम् । पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्तात् । उन्म॑ध्य॒त पौर्णमा॒सी जि॑गाय । तस्यान्दे॒वा अधि॑ स॒व्वँस॑न्तः । उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । पृ॒थ्वी सु॒वर्चा॑ युव॒तिस्स॒जोषाः । पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना । आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा । उ॒रुन्दुहा॒य्यँज॑मानाय य॒ज्ञम् ।। 12 ।। 3.1.2.0 त॒तार॒ मह्यं॑ प्रास॒चीर्या यान्तु य॒ज्ञव्वाँच॑ स्व॒स्ति दे॒वा अनु॑यन्ति॒ सर्वे॒ वाज॑बस्त्यौ॒ सम॑क्तौ दे॒वास्त्रीणि॑ च ।। 2 ।। 3.1.2.1 ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ । मि॒त्रन्दे॒वं मि॑त्र॒धेय॑न्नो अस्तु । अ॒नू॒रा॒धान् ह॒विषा॑ व॒र्धय॑न्तः । श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः । चि॒त्रन्नख्ष॑त्र॒मुद॑गात्पु॒रस्तात् । अ॒नू॒रा॒धास॒ इति॒ यद्वद॑न्ति । तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानैः । हि॒र॒ण्ययै॒र्वित॑तैर॒न्तरि॑ख्षे । इन्द्रो ज्ये॒ष्ठामनु॒ नख्ष॑त्रमेति । यस्मि॑न्वृ॒त्रव्वृँ॑त्र॒तूर्ये॑ त॒तार॑ ।। 13 ।। 3.1.2.2 तस्मि॑न्व॒यम॒मृत॒न्दुहा॑नाः । ख्षुध॑न्तरेम॒ दुरि॑ति॒न्दुरि॑ष्टिम् । पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे । इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रुङ्कृ॑णोतु॒ यज॑मानाय लो॒कम् । मूलं॑ प्र॒जाव्वीँ॒रव॑तीव्विँदेय । पराच्येतु॒ निर्‌ऋ॑ति परा॒चा । गोभि॒र्नख्ष॑त्रं प॒शुभि॒स्सम॑क्तम् । अह॑र्भूया॒द्यज॑मानाय॒ मह्यम् ।। 14 ।। 3.1.2.3 अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु । मूल॒न्नख्ष॑त्र॒मिति॒ यद्वद॑न्ति । परा॑चीव्वाँ॒चा निर्‌ऋ॑तिन्नुदामि । शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्यम् । या दि॒व्या आप॒ पय॑सा संबभू॒वुः । या अ॒न्तरि॑ख्ष उ॒त पार्थि॑वी॒र्याः । यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामम् । ता न॒ आप॒श्श स्यो॒ना भ॑वन्तु । याश्च॒ कूप्या॒ याश्च॑ ना॒द्यास्समु॒द्रियाः । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ।। 15 ।। 3.1.2.4 यासा॑मषा॒ढा मधु॑ भ॒ख्षय॑न्ति॒ । ता न॒ आप॒श्श स्यो॒ना भ॑वन्तु । तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भिसय्यँ॑न्तु य॒ज्ञम् । तन्नख्ष॑त्त्रं प्रथतां प॒शुभ्यः॑ । कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् । शु॒भ्रा क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः । क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः । विश्वान्दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः । अ॒षा॒ढाकाम॒मुप॑ यान्तु य॒ज्ञम् ।। 16 ।। 3.1.2.5 यस्मि॒न्ब्रह्मा॒ऽभ्यज॑य॒थ्सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒कमि॒दमू॑ च॒ सर्वम् । तन्नो॒ नख्ष॑त्रमभि॒जिद्वि॒जित्य॑ । श्रिय॑न्दधा॒त्वहृ॑णीयमानम् । उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नख्ष॑त्रमभि॒जिद्विच॑ष्टाम् । तस्मि॑न्व॒यं पृत॑ना॒स्सञ्ज॑येम । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम् । शृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाचम् ।। 17 ।। 3.1.2.6 म॒हीन्दे॒वीव्विँष्णु॑पत्नीमजू॒र्याम् । प्र॒तीची॑मेना ह॒विषा॑ यजामः । त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे । म॒हीन्दिवं॑ पृथि॒वीम॒न्तरि॑ख्षम् । तच्छ्रो॒णैति॒ श्रव॑ इ॒च्छमा॑ना । पुण्य॒॒ श्लोक॒य्यँज॑मानाय कृण्व॒ती । अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ । चत॑स्रो दे॒वीर॒जरा॒श्श्रवि॑ष्ठाः । ते य॒ज्ञं पान्तु॒ रज॑स प॒रस्तात् । स॒व्वँ॒थ्स॒रीण॑म॒मृत॑ स्व॒स्ति ।। 18 ।। 3.1.2.7 य॒ज्ञन्न॑ पान्तु॒ वस॑व पु॒रस्तात् । द॒ख्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः । पुण्य॒न्नख्ष॑त्रम॒भि सव्विँ॑शाम । मा नो॒ अरा॑तिर॒घश॒॒साऽगन्न्॑ । ख्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नख्ष॑त्राणा श॒तभि॑ष॒ग्वसि॑ष्ठः । तौ दे॒वेभ्य॑ कृणुतो दी॒र्घमायुः॑ । श॒त स॒हस्रा॑ भेष॒जानि॑ धत्तः । य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु । तन्नो॒ विश्वे॑ अ॒भि सय्यँ॑न्तु दे॒वाः ।। 19 ।। 3.1.2.8 तन्नो॒ नख्ष॑त्र श॒तभि॑षग्जुषा॒णम् । दी॒र्घमायु॒ प्रति॑रद्भेष॒जानि॑ । अ॒ज एक॑पा॒दुद॑गात्पु॒रस्तात् । विश्वा॑ भू॒तानि॑ प्रति॒मोद॑मानः । तस्य॑ दे॒वा प्र॑स॒वय्यँ॑न्ति॒ सर्वे । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः । वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः । आऽन्तरि॑ख्षमरुह॒दग॒न्द्याम् । त सूर्य॑न्दे॒वम॒जमेक॑पादम् । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे ।। 20 ।। 3.1.2.9 अहि॑र्बु॒ध्निय॒ प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् । तं ब्राह्म॒णास्सो॑म॒पास्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भि र॑ख्षन्ति॒ सर्वे । च॒त्वार॒ एक॑म॒भिकर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दास॒ इति॒ यान् वद॑न्ति । ते बु॒ध्नियं॑ परि॒षद्य॑ स्तु॒वन्तः॑ । अहि॑ रख्षन्ति॒ नम॑सोप॒सद्य॑ । पू॒षा रे॒वत्यन्वे॑ति॒ पन्थाम् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ।। 21 ।। 3.1.2.10 इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑याताय्यँ॒ज्ञम् । ख्षु॒द्रान्प॒शून्र॑ख्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वा॒॒ अन्वे॑तु पू॒षा । अन्न॒॒ रख्ष॑न्तौ बहु॒धा विरू॑पम् । वाज॑ सनुता॒य्यँज॑मानाय य॒ज्ञम् । तद॒श्विना॑वश्व॒युजोप॑याताम् । शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः । स्वन्नख्ष॑त्र ह॒विषा॒ यज॑न्तौ । मध्वा॒ संपृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ।। 22 ।। 3.1.2.11 यौ दे॒वानां भि॒षजौ॑ हव्यवा॒हौ । विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ । तौ नख्ष॑त्रञ्जुजुषा॒णोप॑याताम् । नमो॒ऽश्विभ्याङ्कृणुमोऽश्व॒युग्भ्याम् । अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु । तद्य॒मो राजा॒ भग॑वा॒न्॒ विच॑ष्टाम् । लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि । सु॒गन्नपन्था॒मभ॑यङ्कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा । यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्र ह॒विषा॑ यजाम । अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु । नि॒वेश॑नी॒ यत्ते॑ दे॒वा अद॑धुः ।। 23 ।। 3.1.3.0 आ॒य॒त्य॑गम॒थ्स्वि॑ष्टम् ।। 3 ।। 3.1.3.1 नवो॑नवो भवति॒ जाय॑मानो॒ यमा॑दि॒त्या अ॒॒शुमाप्या॒यय॑न्ति । ये विरू॑पे॒ सम॑नसा स॒व्व्यँय॑न्ती । स॒मा॒नन्तन्तुं॑ परितात॒ना ते । वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे । ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मेतम् । व॒यन्दे॒वी ब्रह्म॑णा सव्विँदा॒नाः । सु॒रत्ना॑सो दे॒ववी॑ति॒न्दधा॑नाः । अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः । अति॑ पा॒प्मान॒मति॑ मुक्त्या गमेम । प्रत्यु॑वदृश्याय॒ती ।। 24 ।। 3.1.3.2 व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः । अ॒पो म॒ही वृ॑णुते॒ चख्षु॑षा । तमो॒ ज्योति॑ष्कृणोति सू॒नरी । उदु॒स्रियास्सचते॒ सूर्यः॑ । सचा॑ उ॒द्यन्नक्ष॑त्रमर्चि॒मत् । तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च । सं भ॒क्तेन॑ गमेमहि । तन्नो॒ नक्ष॑त्रमर्चि॒मत् । भा॒नु॒मत्तेज॑ उ॒च्चर॑त् । उप॑य॒ज्ञमि॒हाग॑मत् ।। 25 ।। 3.1.3.3 प्र नख्ष॑त्राय दे॒वाय॑ । इन्द्रा॒येन्दु॑ हवामहे । सन॑स्सवि॒ता सु॑वथ्स॒निम् । पु॒ष्टि॒दाव्वीँ॒रव॑त्तमम् । उदु॒त्यञ्चि॒त्रम् । अदि॑तिर्न उरुष्यतु म॒हीमू॒ षु मा॒तरम् । इ॒दव्विँष्णु॒ प्रतद्विष्णुः॑ । अ॒ग्निर्मू॒र्धा भुवः॑ । अनु॑नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् । ह॒व्य॒वाह॒॒ स्वि॑ष्टम् ।। 26 ।। 3.1.4.0 अ॒ग्निः पञ्च॑दश प्र॒जाप॑ति॒ष्षोड॑श॒ सोम॒ एका॑दश रु॒द्रो दश॒र्ख्षैका॑दश॒ बृह॒स्पति॒र्दश॑ देवासु॒रा नव॑ पि॒तर॒ एका॑दशार्य॒मा भगो॒ दश॑ दश सवि॒ता चतु॑र्दश॒ त्वष्टा॑ वा॒युरि॑न्द्रा॒ग्नी दश॑ द॒शाथै॒तत्पौर्णमा॒स्या अ॒ष्टौ पञ्च॑दश ।। 4 ।। 3.1.4.1 अ॒ग्निर्वा अ॑कामयत । अ॒न्ना॒दो दे॒वाना॑ स्या॒मिति॑ । स ए॒तम॒ग्नये॒ कृत्ति॑काभ्य पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपत् । ततो॒ वै सोऽन्ना॒दो दे॒वाना॑मभवत् । अ॒ग्निर्वै दे॒वाना॑मन्ना॒दः । यथा॑ ह॒ वा अ॒ग्निर्दे॒वाना॑मन्ना॒दः । ए॒व ह॒ वा ए॒ष म॑नु॒ष्या॑णां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्य॒स्स्वाहा । अ॒म्बायै॒ स्वाहा॑ दु॒लायै॒ स्वाहा । नि॒त॒त्न्यै स्वाहा॒ऽभ्रय॑न्त्यै॒ स्वाहा । मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र्॒षय॑न्त्यै॒ स्वाहा । चु॒पु॒णीका॑यै॒ स्वाहेति॑ ।। 27 ।। 3.1.4.2 प्र॒जाप॑ति प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टाः परा॑चीरायन्न् । तासा॑ रोहि॒णीम॒भ्य॑ध्यायत् । सो॑ऽकामयत । उप॒ मा व॑र्तेत । समे॑नया गच्छे॒येति॑ । स ए॒तं प्र॒जाप॑तये रोहि॒ण्यै च॒रुन्निर॑वपत् । ततो॒ वै सा तमु॒पाव॑र्तत । समे॑नयागच्छत । उप॑ ह॒ वा ए॑नं प्रि॒यमाव॑र्तते । सं प्रि॒येण॑ गच्छते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा । रोच॑मानायै॒ स्वाहा प्र॒जाभ्य॒स्स्वाहेति॑ ।। 28 ।। 3.1.4.3 सोमो॒ वा अ॑कामयत । ओष॑धीना रा॒ज्यम॒भिज॑येय॒मिति॑ । स ए॒त सोमा॑य मृगशी॒र्॒षाय॑ श्यामा॒कञ्च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स ओष॑धीना रा॒ज्यम॒भ्य॑जयत् । स॒मा॒नाना॑ ह॒ वै रा॒ज्यम॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । सोमा॑य॒ स्वाहा॑ मृगशी॒र्‌षाय॒ स्वाहा । इ॒न्व॒काभ्य॒स्स्वाहौष॑धीभ्य॒स्स्वाहा । रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।। 29 ।। 3.1.4.4 रु॒द्रो वा अ॑कामयत । प॒शु॒मान्थ्स्या॒मिति॑ । स ए॒त रु॒द्राया॒र्द्रायै॒ प्रैय्य॑ङ्गवञ्च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । रु॒द्राय॒ स्वाहा॒ऽर्द्रायै॒ स्वाहा । पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहेति॑ ।। 30 ।। 3.1.4.5 ऋ॒ख्षा वा इ॒यम॑लो॒मका॑ऽऽसीत् । साऽका॑मयत । ओष॑धीभि॒र्वन॒स्पति॑भि॒ प्रजा॑ये॒येति॑ । सैतमदि॑त्यै॒ पुन॑र्वसुभ्याञ्च॒रुन्निर॑वपत् । ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒ प्राजा॑यत । प्रजा॑यते ह॒ वै प्र॒जया॑ प॒शुभिः॑ । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम् । स्वाहा भूत्यै॒ स्वाहा॒ प्रजात्यै॒ स्वाहेति॑ ।। 31 ।। 3.1.4.6 बृह॒स्पति॒र्वा अ॑कामयत । ब्र॒ह्म॒व॒र्च॒सी स्या॒मिति॑ । स ए॒तं बृह॒स्पत॑ये ति॒ष्या॑य नैवा॒रञ्च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भवत् । ब्र॒ह्म॒व॒र्च॒सी ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहेति॑ ।। 32 ।। 3.1.4.7 दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । ते दे॒वास्स॒र्पेभ्य॑ आश्रे॒षाभ्य॒ आज्ये॑ कर॒म्भन्निर॑वपन्न् । ताने॒ताभि॑रे॒वदे॒वता॑भि॒रुपा॑नयन्न् । ए॒ताभि॑र्‌ह॒ वै दे॒वता॑भिर्द्वि॒षन्तं॒ भ्रातृ॑व्य॒मुप॑नयति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । स॒र्पेभ्य॒स्स्वाहाऽऽश्रे॒षाभ्य॒स्स्वाहा । द॒न्द॒शूकेभ्य॒स्स्वाहेति॑ ।। 33 ।। 3.1.4.8 पि॒तरो॒ वा अ॑कामयन्त । पि॒तृ॒लो॒क ऋ॑ध्नुया॒मेति॑ । त ए॒तं पि॒तृभ्यो॑ म॒घाभ्यः॑ पुरो॒डाश॒॒ षट्क॑पाल॒न्निर॑वपन्न् । ततो॒ वै ते पि॑तृलो॒क आर्ध्नुवन्न् । पि॒तृ॒लो॒के ह॒ वा ऋ॑ध्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । पि॒तृभ्य॒स्स्वाहा॑ म॒घाभ्यः॑ । स्वाहा॑ऽन॒घाभ्य॒स्स्वाहा॑ग॒दाभ्यः॑ । स्वाहा॑ऽरुन्ध॒तीभ्य॒स्स्वाहेति॑ ।। 34 ।। 3.1.4.9 अ॒र्य॒मा वा अ॑कामयत । प॒शु॒मान्थ्स्या॒मिति॑ । स ए॒तम॑र्य॒म्णे फल्गु॑नीभ्याञ्च॒रुन्निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शुमान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒॒ स्वाहा । प॒शुभ्य॒स्स्वाहेति॑ ।। 35 ।। 3.1.4.10 भगो॒ वा अ॑कामयत । भ॒गी श्रे॒ष्ठी दे॒वाना॑ स्या॒मिति॑ । स ए॒तं भगा॑य॒ फल्गु॑नीभ्याञ्च॒रुन्निर॑वपत् । ततो॒ वै स भ॒गी श्रे॒ष्ठी दे॒वाना॑मभवत् । भ॒गी ह॒ वै श्रे॒ष्ठी स॑मा॒नानां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒॒ स्वाहा । श्रैष्ठ्या॑य॒ स्वाहेति॑ ।। 36 ।। 3.1.4.11 स॒वि॒ता वा अ॑कामयत । श्रन्मे॑ दे॒वा दधी॑रन्न् । स॒वि॒ता स्या॒मिति॑ । स ए॒त स॑वि॒त्रे हस्ता॑य पुरो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपदाशू॒नाव्व्रीँ॑ही॒णाम् । ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑धत । स॒वि॒ताऽभ॑वत् । श्रद्ध॒वा अ॑स्मै मनु॒ष्या॑ दधते । स॒वि॒ता स॑मा॒नानां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । स॒वि॒त्रे स्वाहा॒ हस्ता॑य । स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते । स्वाहा प्र॒यच्छ॑ते॒ स्वाहा प्रतिगृभ्ण॒ते स्वाहेति॑ ।।37 ।। 3.1.4.12 त्वष्टा॒ वा अ॑कामयत । चि॒त्रं प्र॒जाव्विँ॑न्दे॒येति॑ । स ए॒तन्त्वष्ट्रे॑ चि॒त्रायै॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपत् । ततो॒ वै स चि॒त्रं प्र॒जाम॑विन्दत । चि॒त्र ह॒ वै प्र॒जाव्विँ॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा । चैत्रा॑य॒ स्वाहा प्र॒जायै॒ स्वाहेति॑ ।। 38 ।। 3.1.4.13 वा॒युर्वा अ॑कामयत । का॒म॒चार॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ । स ए॒तद्वा॒यवे॒ निष्ट्या॑यै गृ॒ष्ट्यै दु॒ग्धं पयो॒ निर॑वपत् । ततो॒ वै स का॑म॒चार॑मे॒षु लो॒केष्व॒भ्य॑जयत् । का॒म॒चार॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा । का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।। 39 ।। 3.1.4.14 इ॒न्द्रा॒ग्नी वा अ॑कामयेताम् । श्रैष्ठ्य॑न्दे॒वाना॑म॒भिज॑ये॒वेति॑ । तावे॒तमि॑न्द्रा॒ग्निभ्या॒व्विँशा॑खाभ्यां पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वपताम् । ततो॒ वै तौ श्रैष्ठ्य॑न्दे॒वाना॑म॒भ्य॑जयताम् । श्रैष्ठ्य॑ ह॒ वै स॑मा॒नाना॑म॒भि ज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । इ॒न्द्रा॒ग्निभ्या॒॒ स्वाहा॒ विशा॑खाभ्या॒॒ स्वाहा । श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।। 40 ।। 3.1.4.15 अथै॒तत्पौर्णमा॒स्या आज्य॒न्निर्व॑पति । कामो॒ वै पौर्णमा॒सी । काम॒ आज्यम् । कामे॑नै॒व काम॒॒ सम॑र्धयति । ख्षि॒प्रमे॑न॒॒ सकाम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सोऽत्र॑ जुहोति । पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहेति॑ ।। 41 ।। 3.1.5.0 मि॒त्र इन्द्र॑ प्र॒जाप॑ति॒र्दश॑ द॒शाप॒ एका॑दश॒ विश्वे॒ ब्रह्म॒ दश॑दश॒ विष्णु॒स्त्रयो॑दश॒ वस॑व॒ इन्द्रो॒ऽजोऽहि॒र्वै बु॒ध्निय॑ पू॒षाऽश्विनौ॑ य॒मो दश॑ द॒शाथै॒तद॑मावा॒स्या॑या अ॒ष्टौ पञ्च॑दश ।। 5 ।। 3.1.5.1 मि॒त्रो वा अ॑कामयत । मि॒त्र॒धेय॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ । स ए॒तं मि॒त्राया॑नूरा॒धेभ्य॑श्च॒रुन्निर॑वपत् । ततो॒ वै स मि॑त्र॒धेय॑मे॒षुलो॒केष्व॒भ्य॑जयत् । मि॒त्र॒धेय॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । मि॒त्राय॒ स्वाहा॑ऽनूरा॒धेभ्य॒स्स्वाहा । मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।। 42 ।। 3.1.5.2 इन्द्रो॒ वा अ॑कामयत । ज्यैष्ठ्य॑न्दे॒वाना॑म॒भिज॑येय॒मिति॑ । स ए॒तमिन्द्रा॑य ज्ये॒ष्ठायै॑ पुरो॒डाश॒मेका॑दशकपाल॒- न्निर॑वपन्म॒हाव्री॑हीणाम् । ततो॒ वै स ज्यैष्ठ्य॑न्दे॒वाना॑म॒भ्य॑जयत् । ज्यैष्ठ्य॑ ह॒ वै स॑मा॒नाना॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । इन्द्रा॑य॒ स्वाहा ज्ये॒ष्ठायै॒ स्वाहा । ज्यैष्ठ्या॑य॒ स्वाहा॒भिजि॑त्यै॒ स्वाहेति॑ ।। 43 ।। 3.1.5.3 प्र॒जाप॑ति॒र्वा अ॑कामयत । मूलं॑ प्र॒जाँव्वि॑न्दे॒येति॑ । स ए॒तं प्र॒जाप॑तये॒ मूला॑य च॒रुन्निर॑वपत् । ततो॒ वै स मूलं॑ प्र॒जाम॑विन्दत । मूल॑ ह॒ वै प्र॒जाव्विँ॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा । प्र॒जायै॒ स्वाहेति॑ ।। 44 ।। 3.1.5.4 आपो॒ वा अ॑कामयन्त । स॒मु॒द्रङ्काम॑म॒भिज॑ये॒मेति॑ । ता ए॒तम॒द्भ्यो॑ऽषा॒ढाभ्य॑श्च॒रुन्निर॑वपन्न् । ततो॒ वै तास्स॑मु॒द्रङ्काम॑म॒भ्य॑जयन्न् । स॒मु॒द्र ह॒ वै काम॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒द्भ्यस्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा । स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा । अ॒भिजि॑त्यै॒ स्वाहेति॑ ।। 45 ।। 3.1.5.5 विश्वे॒ वै दे॒वा अ॑कामयन्त । अ॒न॒प॒ज॒य्यञ्ज॑ये॒मेति॑ । त ए॒तव्विँश्वेभ्यो दे॒वेभ्यो॑ऽषा॒ढाभ्य॑श्च॒रुन्निर॑वपन्न् । ततो॒ वै ते॑ऽनपज॒य्यम॑जयन्न् । अ॒न॒प॒ज॒य्य ह॒ वै ज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । विश्वेभ्यो दे॒वेभ्य॒स्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहेति॑ ।। 46 ।। 3.1.5.6 ब्रह्म॒ वा अ॑कामयत । ब्र॒ह्म॒लो॒कम॒भिज॑येय॒मिति॑ । तदे॒तं ब्रह्म॑णेऽभि॒जिते॑ च॒रुन्निर॑वपत् । ततो॒ वै तद्ब्र॑ह्मलो॒कम॒भ्य॑जयत् । ब्र॒ह्म॒लो॒क ह॒ वा अ॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । ब्रह्म॑णे॒ स्वाहा॑ऽभि॒जिते॒ स्वाहा । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।। 47 ।। 3.1.5.7 विष्णु॒र्वा अ॑कामयत । पुण्य॒ श्लोक॑ शृण्वीय । न मा॑ पा॒पी की॒र्तिराग॑च्छे॒दिति॑ । स ए॒तव्विँष्ण॑वे श्रो॒णायै॑ पुरो॒डाश॑न्त्रिकपा॒लन्निर॑वपत् । ततो॒ वै स पुण्य॒॒ श्लोक॑मशृणुत । नैनं॑ पा॒पी की॒र्तिराग॑च्छत् । पुण्य॑ ह॒ वै श्लोक॑ शृणुते । नैनं॑ पा॒पी की॒र्तिराग॑च्छति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । विष्ण॑वे॒ स्वाहा श्रो॒णायै॒ स्वाहा । श्लोका॑य॒ स्वाहा श्रु॒ताय॒ स्वाहेति॑ ।। 48 ।। 3.1.5.8 वस॑वो॒ वा अ॑कामयन्त । अग्र॑न्दे॒वता॑नां॒ परी॑या॒मेति॑ । त ए॒तं वसु॑भ्य॒श्श्रवि॑ष्ठाभ्य पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन्न् । ततो॒ वै तेऽग्र॑न्दे॒वता॑नां॒ पर्या॑यन्न् । अग्र॑ ह॒ वै स॑मा॒नानां॒ पर्ये॑ति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । वसु॑भ्य॒स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒स्स्वाहा । अग्रा॑य॒ स्वाहा॒ परीत्यै॒ स्वाहेति॑ ।। 49 ।। 3.1.5.9 इन्द्रो॒ वा अ॑कामयत । दृ॒ढोऽशि॑थिलस्स्या॒मिति॑ । स ए॒तं वरु॑णाय श॒तभि॑षजे भेष॒जेभ्य॑ पुरो॒डाश॒न्दश॑कपाल॒न्निर॑वपत्कृ॒ष्णानाँव्व्रीही॒णाम् । ततो॒ वै स दृ॒ढोऽशि॑थिलोऽभवत् । दृ॒ढो ह॒ वा अशि॑थिलो भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा । भे॒ष॒जेभ्य॒स्स्वाहेति॑ ।। 50 ।। 3.1.5.10 अ॒जो वा एक॑पादकामयत । ते॒ज॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ । स ए॒तम॒जायैक॑पदे प्रोष्ठप॒देभ्य॑श्च॒रुन्निर॑वपत् । ततो॒ वै स ते॑ज॒स्वी ब्र॑ह्मवर्च॒स्य॑भवत् । ते॒ज॒स्वी ह॒ वै ब्र॑ह्मवर्च॒सी भ॑वति । य ए॒तेन॑ ह॒विषा॒ यजते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒जायैक॑पदे॒ स्वाहा प्रोष्ठप॒देभ्य॒स्स्वाहा । तेज॑से॒ स्वाहा ब्रह्मवर्च॒साय॒ स्वाहेति॑ ।। 51 ।। 3.1.5.11 अहि॒र्वै बु॒ध्नियो॑ऽकामयत । इ॒मां प्र॑ति॒ष्ठाव्विँ॑न्दे॒येति॑ । स ए॒तमह॑ये बु॒ध्निया॑य प्रोष्ठप॒देभ्य॑ पुरो॒डाशं॒ भूमि॑कपाल॒न्निर॑वत् । ततो॒ वै स इ॒मां प्र॑ति॒ष्ठाम॑विन्दत । इ॒मा ह॒ वै प्र॑ति॒ष्ठाव्विँ॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अह॑ये बु॒ध्निया॑य॒ स्वाहा प्रोष्ठप॒देभ्य॒स्स्वाहा । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ।। 52 ।। 3.1.5.12 पू॒षा वा अ॑कामयत । प॒शु॒मान्थ्स्या॒मिति॑ । स ए॒तं पू॒ष्णे रे॒वत्यै॑ च॒रुन्निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा । प॒शुभ्य॒स्स्वाहेति॑ ।। 53 ।। 3.1.5.13 अ॒श्विनौ॒ वा अ॑कामयेताम् । श्रो॒त्र॒स्विना॒वब॑धिरौ स्या॒वेति॑ । तावे॒तम॒श्विभ्या॑मश्व॒युग्भ्यां पुरो॒डाश॑न्द्विकपा॒ल- न्निर॑वपताम् । ततो॒ वै तौ श्रोत्र॒स्विना॒वब॑धिरावभवताम् । श्रो॒त्र॒स्वी ह॒ वा अब॑धिरो भवति । य एते॒न॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒श्विभ्या॒॒ स्वाहाऽश्व॒युग्भ्या॒॒ स्वाहा । श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहेति॑ ।। 54 ।। 3.1.5.14 य॒मो वा अ॑कामयत । पि॒तृ॒णा रा॒ज्यम॒भिज॑येय॒मिति॑ । स ए॒तय्यँ॒माया॑प॒भर॑णीभ्यश्च॒रुन्निर॑पवत् । ततो॒ वै स पि॑तृ॒णा रा॒ज्यम॒भ्य॑जयत् । स॒मा॒नाना॑ ह॒ वै रा॒ज्यम॒भि ज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । य॒माय॒ स्वाहा॑ऽप॒भर॑णीभ्य॒स्स्वाहा । रा॒ज्याय॒ स्वाहा॒भिजि॑त्यै॒ स्वाहेति॑ ।। 55 ।। 3.1.5.15 अथै॒तद॑मावा॒स्या॑या॒ आज्य॒न्निर्व॑पति । कामो॒ वा अ॑मावा॒स्या । काम॒ आज्यम् । कामे॑नै॒व काम॒॒ सम॑र्धयति । ख्षि॒प्रमे॑न॒॒ सकाम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सोऽत्र॑ जुहोति । अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहेति॑ ।। 56 ।। 3.1.6.0 च॒न्द्रमा॒ पञ्च॑दशाहोरा॒त्रे स॒प्तद॑शो॒षा एका॑द॒शाथै॒तस्मै॒ नक्ष॑त्त्राय॒ त्रयो॑दश॒ सूर्यो॒ दशाथै॒तमदि॑त्यै॒ पञ्चाथै॒तव्विँष्ण॑वे॒ षट्थ्स॒प्त ।। 6 ।। (स॒वि॒ताऽऽशू॒नाव्व्रीँ॑ही॒णामिन्द्रो॑ म॒हाव्री॑हीणा॒मिन्द्र॑कृ॒ष्णानाव्व्रीँही॒णाम॑होरा॒त्रे द्व॒यानाव्व्रीँही॒णाम् । पि॒तर॒ष्षट्क॑पाल सवि॒ता द्वाद॑शकपालमिन्द्रा॒ग्नी एका॑दशकपाल॒मिन्द्र॒ एका॑दशकपाल॒मिन्द्रो॒ दश॑कपाल॒व्विँष्णु॑स्त्रिकपा॒लमहि॒र्भूमि॑- कपालम॒श्विनौ द्विकपा॒लञ्च॒न्द्रमा॒ पञ्च॑दशकपालम॒ग्निस्त्वष्टा॒ वस॑वो॒ऽष्टाक॑पालम॒न्यत्र॑ च॒रुम् । रु॒द्रोऽर्य॒मा पू॒षा प॑शु॒मान्थ्स्या॒॒ सोमो॑ रु॒द्रो बृह॒स्पति॒ पय॑सि वा॒यु पय॒स्सोमो॑ वा॒युरि॑न्द्रा॒ग्नी मि॒त्र इन्द्र॒ आपो॒ ब्रह्म॑ य॒मो॑ऽभिजि॑त्यै॒ त्वष्टा प्र॒जाप॑तिप्र॒जायै॑ पौर्णमा॒स्या अ॑मावा॒स्या॑या॒ अग॑त्यै॒ विश्वे॒ जित्या॑ अ॒श्विनौ॒ श्रुत्यै । ब्रह्म॒ तदे॒तव्विँष्णु॒स्स ए॒तव्वाँ॒युस्स ए॒तदाप॒स्ताः । पि॒तरो॒ विश्वे॒ वस॑वोऽकामयन्त॒ मेति॒ त ए॒तन्निर॑वपन्न् । आपो॑ऽकामयन्त॒ मेति॒ ता ए॒तन्निर॑वपन्न् । इ॒न्द्रा॒ग्नी अ॒श्विना॑वकामयेता॒व्वेँति॒ तावे॒तन्निर॑वपताम् । अ॒हो॒रा॒त्रे वा अ॑कामयेता॒मिति॒ ते ए॒तन्निर॑वपताम् । अ॒न्यत्रा॑कामय॒तेति॒ स ए॒तन्निर॑वपत् । इ॒न्द्रा॒ग्नी श्रैष्ठ्य॒मिन्द्रो॒ ज्यैष्ठ्य॒मिन्द्रो॑ दृ॒ढः । अहि॒स्सूर्योऽदि॑त्यै॒ विष्ण॑वे प्रति॒ष्ठायै । सोमो॑ य॒मस्स॑मा॒नानाम् । अ॒ग्निर्नो॑ रीरिषद॒न्यत्र॑ रीरिषः ।। ) 3.1.6.1 च॒न्द्रमा॒ वा अ॑कामयत । अ॒होरा॒त्रान॑र्धमा॒सान्मासा॑नृ॒तून्थ्स॑व्वँथ्स॒रमा॒प्त्वा । च॒न्द्रम॑स॒स्सायु॑ज्य सलो॒कता॑माप्नुया॒मिति॑ । स ए॒तञ्च॒न्द्रम॑से प्रती॒दृश्या॑यै पुरो॒डाशं॒ पञ्च॑दशकपाल॒न्निर॑वपत् । ततो॒ वै सो॑ऽहोरा॒त्रान॑र्धमा॒सान्मासा॑नृ॒तून्थ्स॑व्वँथ्स॒रमा॒प्त्वा । च॒न्द्रम॑स॒स्सायु॑ज्य सलो॒कता॑माप्नोत् । अ॒हो॒रा॒त्रान् ह॒ वा अ॑र्धमा॒सान्मासा॑नृ॒तून्थ्स॑व्वँथ्स॒रमा॒प्त्वा । च॒न्द्रम॑स॒स्सायु॑ज्य सलो॒कता॑माप्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । च॒न्द्रम॑से॒ स्वाहा प्रती॒दृश्या॑यै॒ स्वाहा । अ॒हो॒रा॒त्रेभ्य॒स्स्वाहाऽर्धमा॒सेभ्य॒स्स्वाहा । मासेभ्य॒स्स्वाह॒र्तुभ्य॒स्स्वाहा । स॒व्वँ॒थ्स॒राय॒ स्वाहेति॑ ।। 57 ।। 3.1.6.2 अ॒हो॒रा॒त्रे वा अ॑कामयेताम् । अत्य॑होरा॒त्रे मु॑च्येवहि । न ना॑वहोरा॒त्रे आप्नुयाता॒मिति॑ । ते ए॒तम॑होरा॒त्राभ्या- ञ्च॒रुन्निर॑वपताम् । द्व॒यानाव्व्रीँही॒णाम् । शु॒क्लानाञ्च कृ॒ष्णानाञ्च । स॒वा॒त्योर्दु॒ग्धे । श्वे॒तायै॑ च कृ॒ष्णायै॑ च । ततो॒ वै ते अत्य॑होरा॒त्रे अ॑मुच्येते । नैने॑ अहोरा॒त्रे आप्नुताम् । अति॑ ह॒ वा अ॑होरा॒त्रे मु॑च्यते । नैन॑महोरा॒त्रे आप्नुतः । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा । अति॑मुक्त्यै॒ स्वाहेति॑ ।। 58 ।। 3.1.6.3 उ॒षा वा अ॑कामयत । प्रि॒याऽऽदि॒त्यस्य॑ सु॒भगा स्या॒मिति॑ । सैतमु॒षसे॑ च॒रुन्निर॑वपत् । ततो॒ वै सा प्रि॒याऽऽ- दि॒त्यस्य॑ सु॒भगा॑ऽभवत् । प्रि॒यो ह॒ वै स॑मा॒नाना॑ सु॒भगो॑ भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा । व्यू॒षुष्यै॒ स्वाहा व्यु॒च्छन्त्यै॒ स्वाहा । व्यु॑ष्टायै॒ स्वाहेति॑ ।। 59 ।। 3.1.6.4 अथै॒तस्मै॒ नख्ष॑त्राय च॒रुनिर्व॑पति । यथा॒ त्वन्दे॒वाना॒मसि॑ । ए॒वम॒हं म॑नु॒ष्या॑णां भूयास॒मिति॑ । यथा॑ ह॒ वा ए॒तद्दे॒वानाम् । ए॒व ह॒ वा ए॒ष म॑नु॒ष्या॑णां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । नख्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा । हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा । तप॑से॒ स्वाहा ब्रह्मवर्च॒साय॒ स्वाहेति॑ ।। 60 ।। 3.1.6.5 सूर्यो॒ वा अ॑कामयत । नख्ष॑त्राणां प्रति॒ष्ठा स्या॒मिति॑ । स ए॒त सूर्या॑य॒ नख्ष॑त्रेभ्यश्च॒रुन्निर॑वपत् । ततो॒ वै स नख्ष॑त्राणां प्रति॒ष्ठाऽभ॑वत् । प्र॒ति॒ष्ठा ह॒ वै स॑मा॒नानां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । सूर्या॑य॒ स्वाहा॒ नख्ष॑त्रेभ्य॒स्स्वाहा । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ।। 61 ।। 3.1.6.6 अथै॒तमदि॑त्यै च॒रुन्निर्व॑पति । इ॒यव्वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । सोऽत्र॑ जुहोति । अदि॑त्यै॒ स्वाहा प्रति॒ष्ठायै॒ स्वाहेति॑ ।। 62 ।। 3.1.6.7 अथै॒तव्विँष्ण॑वे च॒रुन्निर्व॑पति । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒त प्रति॑तिष्ठति । सोऽत्र॑ जुहोति । विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ।। 63 ।। 3.2.0.0 तृ॒तीय॑स्यां दे॒वस्याश्वप॒ऱ्शुं यो वै पूर्वे॒द्यु कर्म॑णे वा॒मिन्द्रो॑ वृ॒त्रम॑ह॒न्थ्सो॑ऽपोऽव॑धूत॒न्धृष्टि॑र्दे॒वस्येत्या॑ह॒ सव्वँ॑पामि दे॒वस्य॒ स्फ्यमा द॑दे॒ वज्रो॒ वै स्फ्यो दश॑ ।। 10 ।। तृ॒तीय॑स्यां य॒ज्ञस्यान॑तिरेकाय प॒वित्र॑वत्यध्व॒र्युं चा॑धि॒षव॑णमस्य॒न्तरि॑क्ष ए॒व रक्ष॑साम॒न्तऱ्हि॑त्यै॒ द्वौ वाव पुरु॑षौ॒ यद॒दश्च॒न्द्रम॑सि॒ मेध्यं॒ पञ्चाशी॑तिः ।। 85 ।। तृ॒तीय॑स्या॒य्यँज॑मानः ।। हरिः॑ओम् ।। कृष्णयजुर्ब्राह्मणे तृतीयाष्टके द्वितीयप्रपाठकस्समाप्तः ।। 3.2.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके द्वितीयप्रपाठक प्रारम्भः । हरिः ओम् ।। 3.2.1.0 प॒शव॑ करोति प॒शवो॑ देवभा॒गमित्या॑ह करोति॒ नव॑ च ।। 1 ।। 3.2.1.1 तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । तङ्गा॑य॒त्र्याऽह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णो॑ऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् । ब्रह्म॒ वै प॒र्णः । यत्प॑र्णशा॒खया॑ व॒थ्सान॑पाक॒रोति॑ । ब्रह्म॑णै॒वैना॑न॒पाक॑रोति । गा॒य॒त्रो वै प॒र्णः । गा॒य॒त्रा प॒शवः॑ ।। 1 ।। 3.2.1.2 तस्मा॒त्त्रीणि॑त्रीणि प॒र्णस्य॑ पला॒शानि॑ । त्रि॒पदा॑ गाय॒त्री । यत्प॑र्णशा॒खया॒ गा प्रा॒र्पय॑ति । स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति । यङ्का॒मये॑ताप॒शुस्स्या॒दिति॑ । अ॒प॒र्णान्तस्मै॒ शुष्काग्रा॒माह॑रेत् । अ॒प॒शुरे॒व भ॑वति । यङ्का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ । ब॒हु॒प॒र्णान्तस्मै॑ बहुशा॒खामाह॑रेत् । प॒शु॒मन्त॑मे॒वैन॑ङ्करोति ।। 2 । 3.2.1.3 यत्प्राची॑मा॒ हरेत् । दे॒व॒लो॒कम॒भि ज॑येत् । यदुदी॑चीं मनुष्यलो॒कम् । प्राची॒मुदी॑ची॒मा ह॑रति । उ॒भयोर्लो॒कयो॑र॒भिजि॑त्यै । इ॒षे त्वो॒र्जे त्वेत्या॑ह । इष॑मे॒वोर्ज॒य्यँज॑माने दधाति । वा॒यव॒स्स्थेत्या॑ह । वा॒युर्वा अ॒न्तरि॑ख्ष॒स्याध्य॑ख्षाः । अ॒न्त॒रि॒ख्ष॒दे॒व॒त्या खलु॒ वै प॒शवः॑ ।। 3 ।। 3.2.1.4 वा॒यव॑ ए॒वैना॒न्परि॑ ददाति । प्र वा ए॑नाने॒तदा क॑रोति । यदाह॑ । वा॒यव॒स्स्थेत्यु॑पा॒यव॒स्स्थेत्या॑ह । यज॑मानायै॒व प॒शूनुप॑ ह्वयते । दे॒वो व॑स्सवि॒ता प्रार्प॑य॒त्वित्या॑ह॒ प्रसूत्यै । श्रेष्ठ॑तमाय॒ कर्म॑ण॒ इत्या॑ह । य॒ज्ञो हि श्रेष्ठ॑तम॒ङ्कर्म॑ । तस्मा॑दे॒वमा॑ह । आप्या॑यध्वमघ्निया देवभा॒गमित्या॑ह ।। 4 ।। 3.2.1.5 व॒थ्सेभ्य॑श्च॒ वा ए॒ता पु॒रा म॑नु॒ष्येभ्य॒श्चाप्या॑यन्त । दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑ययति । ऊर्ज॑स्वती॒ पय॑स्वती॒रित्या॑ह । ऊर्ज॒॒ हि पय॑स्स॒म्भर॑न्ति । प्र॒जाव॑तीरनमी॒वा अ॑य॒ख्ष्मा इत्या॑ह॒ प्रजात्यै । मा व॑स्स्ते॒न ई॑शत॒ माऽघश॑स॒ इत्या॑ह॒ गुप्त्यै । रु॒द्रस्य॑ हे॒तिपरि॑ वो वृण॒क्त्वित्या॑ह । रु॒द्रादे॒वैनास्त्रायते । ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीरित्या॑ह । ध्रु॒वा ए॒वास्मि॑न्ब॒ह्वी क॑रोति ।। 5 ।। 3.2.1.6 यज॑मानस्य प॒शून्पा॒हीत्या॑ह । प॒शू॒नाङ्गो॑पी॒थाय॑ । तन्माथ्सा॒यं प॒शव॒ उप॑स॒माव॑र्तन्ते । अन॑धस्सादयति । गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भा प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 6 ।। 3.2.2.0 स॒यो॒नि॒त्वाय॑ स्व॒धाकृ॑ता॒ऽसीत्या॑ह दाया॒द्वेद॑ भरति जायन्ते॒ बृह॒स्पति॒स्सम॑ष्ट्यै ।। 2 ।। 3.2.2.1 दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्य॑श्वप॒र्॒शुमाद॑त्ते॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै । यो वा ओष॑धी पर्व॒शो वेद॑ । नैना॒स्स हि॑नस्ति । प्र॒जाप॑ति॒र्वा ओष॑धी पर्व॒शो वे॑द । स ए॑ना॒ न हि॑नस्ति । अ॒श्व॒प॒र्श्वा ब॒र्॒हिरच्छै॑ति । प्रा॒जा॒प॒त्यो वा अश्व॑स्सयोनि॒त्वाय॑ ।। 7 ।। 3.2.2.2 ओष॑धीना॒महि॑सायै । य॒ज्ञस्य॑ घो॒षद॒सीत्या॑ह । यज॑मान ए॒व र॒यिन्द॑धाति । प्रत्यु॑ष्ट॒॒ रख्ष॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रख्ष॑सा॒मप॑हत्यै । प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छेत्या॑ह । वि॒द्या वै धि॒षणा । वि॒द्ययै॒वैन॒दच्छै॑ति । मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टेत्या॑ह । मा॒न॒वी हि पऱ्शु॑स्स्व॒धाकृ॑ता ।। 8 ।। 3.2.2.3 त आव॑हन्ति क॒वय॑ पु॒रस्ता॒दित्या॑ह । शु॒श्रु॒वासो॒ वै क॒वयः॑ । य॒ज्ञ पु॒रस्तात् । मु॒ख॒त ए॒व य॒ज्ञमा र॑भते । अथो॒ यदे॒तदु॒क्त्वा यत॒ कुत॑श्चा॒ हर॑ति । तत्प्राच्या॑ ए॒व दि॒शो भ॑वति । दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सद॒ इत्या॑ह । ब॒ऱ्हिष॒स्समृ॑द्ध्यै । कर्म॒णोऽन॑पराधाय । दे॒वानां परिषू॒तम॒सीत्या॑ह ।। 9 ।। 3.2.2.4 यद्वा इ॒दङ्किञ्च॑ । तद्दे॒वानां परिषू॒तम् । अथो॒ यथा॒ वस्य॑से प्रति॒प्रोच्याहे॒दङ्क॑रिष्या॒मीति॑ । ए॒वमे॒व तद॑ध्व॒र्युर्दे॒वेभ्य॑ प्रति॒प्रोच्य॑ ब॒र्॒हिर्दा॑ति । आ॒त्मनोऽहि॑सायै । याव॑तस्स्त॒म्बान्प॑रिदि॒शेत् । यत्तेषा॑मुच्छि॒॒ष्यात् । अति॒ तद्य॒ज्ञस्य॑ रेचयेत् । एक॑ स्त॒म्बं परि॑दिशेत् । त सर्व॑न्दायात् ।। 10 ।। 3.2.2.5 य॒ज्ञस्यान॑तिरेकाय । व॒र्॒षवृ॑द्धम॒सीत्या॑ह । व॒र्॒षवृ॑द्धा॒ वा ओष॑धयः । देव॑बऱ्हि॒रित्या॑ह । दे॒वेभ्य॑ ए॒वैन॑त्करोति । मा त्वा॒ऽन्वङ्मा ति॒र्यगित्या॒हाहि॑सायै । पर्व॑ ते राध्यास॒मित्या॒हर्ध्यै । आ॒च्छे॒त्ता ते॒ मा रि॑ष॒मित्या॑ह । नास्या॒त्मनो॑ मीयते । य ए॒वव्वेँद॑ ।। 11 ।। 3.2.2.6 देव॑बऱ्हिश्श॒तव॑ल़््श॒व्विँरो॒हेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । प्र॒जानां प्र॒जन॑नाय । स॒हस्र॑वल्‌शा॒ वि व॒य रु॑हे॒मेत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । पृ॒थि॒व्यास्सं॒पृच॑ पा॒हीत्या॑ह॒ प्रति॑ष्ठित्यै । अयु॑ङ्गायुङ्गान्मु॒ष्टील्लुँ॑नोति । मि॒थु॒न॒त्वाय॒ प्रजात्यै । सु॒सं॒भृता त्वा॒ संभ॑रा॒मीत्या॑ह । ब्रह्म॑णै॒वैन॒थ्संभ॑रति ।। 12 ।। 3.2.2.7 अदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह । इ॒यव्वाँ अदि॑तिः । अ॒स्या ए॒वैन॒द्रास्नाङ्करोति । इ॒न्द्रा॒ण्यै स॒न्नह॑न॒मित्या॑ह । इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑ना॒॒ सम॑नह्यत । साऽऽर्ध्नोत् । ऋद्ध्यै॒ सन्न॑ह्यति । प्र॒जा वै ब॒र्॒हिः । प्र॒जाना॒मप॑रावापाय । तस्मा॒थ्स्नाव॑सन्तता प्र॒जा जा॑यन्ते ।। 13 ।। 3.2.2.8 पू॒षा ते ग्र॒न्थिङ्ग्र॑थ्ना॒त्वित्या॑ह । पुष्टि॑मे॒व यज॑माने दधाति । स ते॒ मास्था॒दित्या॒हाहि॑सायै । प॒श्चात्प्राञ्च॒मुप॑गूहति । प॒श्चाद्वै प्रा॒चीन॒॒ रेतो॑ धीयते । प॒श्चादे॒वास्मै प्रा॒चीन॒॒ रेतो॑ दधाति । इन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छ॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । बृह॒स्पतेर्मू॒र्ध्ना ह॑रा॒मीत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ ।। 14 ।। 3.2.2.9 ब्रह्म॑णै॒वैन॑द्धरति । उ॒र्व॑न्तरि॑ख्ष॒मन्वि॒हीत्या॑ह॒ गत्यै । दे॒व॒ङ्ग॒मम॒सीत्या॑ह । दे॒वाने॒वैन॑द्गमयति । अन॑धस्सादयति । गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भा प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ नि द॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 15 ।। 3.2.3.0 अ॒सीत्या॑ह॒ धृत्यै॒ यज॑माने दधा॒त्यजा॑मित्वाय स्थापयति दुहे दुहन्ति दु॒ह्याद्दोग्धीति॒ दधीत्या॑ह स्याथ्सादयति॒ पञ्च॑ च ।। 3 ।। 3.2.3.1 पू॒र्वे॒द्युरि॒ध्माब॒र्॒हि क॑रोति । य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑वसति । प्र॒जाप॑तिर्य॒ज्ञम॑सृजत । तस्यो॒खे अ॑स्रसेताम् । य॒ज्ञो वै प्र॒जाप॑तिः । यथ्सान्नाय्यो॒खे भव॑तः । य॒ज्ञस्यै॒व तदु॒खे उप॑दधा॒त्यप्र॑स्रसाय । शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । मा॒त॒रिश्व॑नो घ॒र्मो॑ऽसीत्या॑ह ।। 16 ।। 3.2.3.2 अ॒न्तरि॑ख्ष॒व्वैँ मा॑त॒रिश्व॑नो घ॒र्मः । ए॒षाल्लोँ॒काना॒व्विँधृ॑त्यै । द्यौर॑सि पृथि॒व्य॑सीत्या॑ह । दि॒वश्च॒ ह्ये॑षा पृ॑थि॒व्याश्च॒ संभृ॑ता । यदु॒खा । तस्मा॑दे॒वमा॑ह । वि॒श्वधा॑या असि पर॒मेण॒ धाम्नेत्या॑ह । वृष्टि॒र्वै वि॒श्वधा॑याः । वृष्टि॑मे॒वाव॑रुन्धे । दृह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै ।। 17 ।। 3.2.3.3 वसू॑नां प॒वित्र॑म॒सीत्या॑ह । प्रा॒णा वै वस॑वः । तेषा॒व्वाँ ए॒तद्भा॑ग॒धेयम् । यत्प॒वित्रम् । तेभ्य॑ ए॒वैन॑त्करोति । श॒तधा॑र स॒हस्र॑धार॒मित्या॑ह । प्रा॒णेष्वे॒वायु॑र्दधाति सर्व॒त्वाय॑ । त्रि॒वृत्प॑लाशशा॒खायान्दर्भ॒मयं॑ भवति । त्रि॒वृद्वै प्रा॒णः । त्रि॒वृत॑मे॒व प्रा॒णं म॑ध्य॒तो यज॑माने दधाति ।। 18 ।। 3.2.3.4 सौ॒म्य प॒र्णस्स॑योनि॒त्वाय॑ । सा॒ख्षात्प॒वित्र॑न्द॒र्भाः । प्राख्सा॒यमधि॒नि द॑धाति । तत्प्रा॑णापा॒नयो॑ रू॒पम् । ति॒र्यक्प्रा॒तः । तद्दर्श॑स्य रू॒पम् । दा॒र्श्य ह्ये॑तदहः॑ । अन्न॒व्वैँ च॒न्द्रमाः । अन्नं॑ प्रा॒णाः । उ॒भय॑मे॒वोपै॒त्यजा॑मित्वाय ।। 19 ।। 3.2.3.5 तस्मा॑द॒य स॒र्वत॑ पवते । हु॒तस्स्तो॒को हु॒तो द्र॒प्स इत्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । न हि हु॒त स्वाहा॑कृत॒ स्कन्द॑ति । दि॒वि नाको॒ नामा॒ग्निः । तस्य॑ वि॒प्रुषो॑ भाग॒धेयम् । अ॒ग्नये॑ बृह॒ते नाका॒येत्या॑ह । नाक॑मे॒वाग्निं भा॑ग॒धेये॑न॒ सम॑र्धयति । स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह । द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ।। 20 ।। 3.2.3.6 प॒वित्र॑व॒त्यान॑यति । अ॒पाञ्चै॒वौष॑धीनाञ्च॒ रस॒॒ ससृ॑जति । अथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ष्ठापयति । अ॒न्वा॒रभ्य॒ वाच॑य्यँच्छति । य॒ज्ञस्य॒ धृत्यै । धा॒रय॑न्नास्ते । धा॒रय॑न्त इव॒ हि दु॒हन्ति॑ । काम॑धुख्ष॒ इत्या॒हातृ॒तीय॑स्यै । त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कान्‌यज॑मानो दुहे ।। 21 ।। 3.2.3.7 अ॒मूमिति॒ नाम॑ गृह्णाति । भ॒द्रमे॒वासा॒ङ्कर्मा॒ विष्क॑रोति । सा वि॒श्वायु॒स्सा वि॒श्वव्य॑चा॒स्सा वि॒श्वक॒र्मेत्या॑ह । इ॒यव्वैँ वि॒श्वायुः॑ । अ॒न्तरि॑ख्षव्विँ॒श्वव्य॑चाः । अ॒सौ वि॒श्वक॑र्मा । इ॒माने॒वैताभि॑र्लो॒कान्‌ य॑थापू॒र्वन्दु॑हे । अथो॒ यथा प्रदा॒त्रे पुण्य॑मा॒शास्ते । ए॒वमे॒वैना॑ ए॒तदुप॑स्तौति । तस्मा॒त्प्रादा॒दित्यु॒न्नीय॒ वन्द॑माना उपस्तु॒वन्त॑ प॒शून्दु॑हन्ति ।। 22 ।। 3.2.3.8 ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यो॑ ह॒विरिति॒ वाच॒व्विँसृ॑जते । य॒था॒दे॒व॒तमे॒व प्रसौ॑ति । दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्यै । त्रिरा॑ह । त्रिष॑त्या॒ हि दे॒वाः । अवा॑चय्यँ॒मोऽन॑न्वार॒भ्योत्त॑राः । अप॑रिमितमे॒वाव॑ रुन्धे । न दा॑रुपा॒त्रेण॑ दुह्यात् । अ॒ग्नि॒वद्वै दा॑रुपा॒त्रम् । यद्दा॑रुपा॒त्रेण॑ दु॒ह्यात् ।। 23 ।। 3.2.3.9 या॒तयाम्ना ह॒विषा॑ यजेत । अथो॒ खल्वा॑हुः । पु॒रो॒डाश॑मुखानि॒ वै ह॒वीषि॑ । नेत इ॑त पुरो॒डाश॑ ह॒विषो॒ यामो॒ऽस्तीति॑ । काम॑मे॒व दा॑रुपा॒त्रेण॑ दुह्यात् । शू॒द्र ए॒व न दु॑ह्यात् । अस॑तो॒ वा ए॒ष संभू॑तः । यच्छू॒द्रः । अह॑विरे॒व तदित्या॑हुः । यच्छू॒द्रो दोग्धीति॑ ।। 24 ।। 3.2.3.10 अ॒ग्नि॒हो॒त्रमे॒व न दु॑ह्याच्छू॒द्रः । तद्धि नोत्पु॒नन्ति॑ । य॒दा खलु॒ वै प॒वित्र॑म॒त्येति॑ । अथ॒ तद्ध॒विरिति॑ । संपृ॑च्यध्वमृतावरी॒रित्या॑ह । अ॒पाञ्चै॒वौष॑धीनाञ्च॒ रस॒॒ स सृ॑जति । तस्मा॑द॒पाञ्चौष॑धीनाञ्च॒ रस॒मुप॑जीवामः । म॒न्द्रा धन॑स्य सा॒तय॒ इत्या॑ह । पुष्टि॑मे॒व यज॑माने दधाति । सोमे॑न॒ त्वात॑न॒च्मीन्द्रा॑य॒ दधीत्या॑ह ।। 25 ।। 3.2.3.11 सोम॑मे॒वैन॑त्करोति । यो वै सोमं॑ भख्षयि॒त्वा । स॒व्वँ॒थ्स॒र सोम॒न्न पिब॑ति । पु॒न॒र्भख्ष्योऽस्य सोमपी॒थो भ॑वति । सोम॒ खलु॒ वै सान्ना॒य्यम् । य ए॒वव्विँ॒द्वान्थ्सान्ना॒य्यं पिब॑ति । अ॒पु॒न॒र्भख्ष्योऽस्य सामपी॒थो भ॑वति । न मृ॒न्मये॒नापि॑ दध्यात् । यन्मृ॒न्मयो॑नापिद॒ध्यात् । पि॒तृ॒दे॒व॒त्य॑ स्यात् ।। 26 ।। 3.2.3.12 अ॒य॒स्पा॒त्रेण॑ वा दारुपा॒त्रेण॒ वाऽपि॑ दधाति । तद्धि सदे॑वम् । उ॒द॒न्वद्भ॑वति । आपो॒ वै र॑ख्षो॒घ्नीः । रख्ष॑सा॒मप॑हत्यै । अद॑स्तमसि॒ विष्ण॑वे॒ त्वे॒त्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञायै॒वैन॒दद॑स्तङ्करोति । विष्णो॑ ह॒व्य र॑ख्ष॒स्वेत्या॑ह॒ गुप्त्यै । अन॑धस्सादयति । गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भा प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 27 ।। 3.2.4.0 य॒ज्ञो वा आपो॒ धाम॑ प्र॒णीय॒ प्रच॑रत्यती॒यादे॒तद्बा॒हुभ्या॒मित्या॑ह ह॒वीषि॒ निर्व॑पति॒ गत्यै॑ च॒त्वारि॑ च ।। 4 ।। 3.2.4.1 कर्म॑णे वान्दे॒वेभ्य॑श्शकेय॒मित्या॑ह॒ शक्त्यै । य॒ज्ञस्य॒ वै सन्त॑ति॒मनु॑ प्र॒जा प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते । य॒ज्ञस्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जा प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते । य॒ज्ञस्य॒ सन्त॑तिरसि य॒ज्ञस्य॑ त्वा॒ सन्त॑त्यै स्तृणामि॒ सन्त॑त्यै त्वा य॒ज्ञस्येत्याह॑व॒नीया॒थ्सन्त॑नोति । यज॑मानस्य प्र॒जायै॑ पशू॒ना सन्त॑त्यै । अ॒प प्रण॑यति । श्र॒द्धा वा आपः॑ । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒प प्रण॑यति । य॒ज्ञो वा आपः॑ ।। 28 ।। 3.2.4.2 य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒प प्रण॑यति । वज्रो॒ वा आपः॑ । वज्र॑मे॒व भ्रातृ॑व्येभ्य प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति । अ॒प प्रण॑यति । आपो॒ वै र॑ख्षो॒घ्नीः । रख्ष॑सा॒मप॑हत्यै । अ॒प प्रण॑यति । आपो॒ वै दे॒वानां प्रि॒यन्धाम॑ । दे॒वाना॑मे॒व प्रि॒यन्धाम॑ प्र॒णीय॒ प्रच॑रति ।। 29 ।। 3.2.4.3 अ॒प प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः । दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । वेषा॑य॒ त्वेत्या॑ह । वेषा॑य॒ ह्ये॑नदाद॒त्ते । प्रत्यु॑ष्ट॒॒ रख्ष॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रख्ष॑सा॒मप॑हत्यै । धूर॒सीत्या॑ह । ए॒ष वै धुर्यो॒ऽग्निः । तय्यँदनु॑पस्पृश्याती॒यात् ।। 30 ।। 3.2.4.4 अ॒ध्व॒र्युञ्च॒ यज॑मानञ्च॒ प्रद॑हेत् । उ॒प॒स्पृश्यात्ये॑ति । अ॒ध्व॒र्योश्च॒ यज॑मानस्य॒ चाप्र॑दाहाय । धूर्व॒ तय्योँस्मान्धूर्व॑ति॒ तन्धूर्व॒ यव्वँ॒यन्धूर्वा॑म॒ इत्या॑ह । द्वौ वाव पुरु॑षौ । यञ्चै॒व धूर्व॑ति । यश़्चै॑न॒न्धूर्व॑ति । तावु॒भौ शु॒चाऽर्प॑यति । त्वन्दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तम॒ञ्जुष्ट॑तमं॒ वह्नि॑तमन्देव॒हूत॑म॒मित्या॑ह । य॒था॒य॒जुरे॒वैतत् ।। 31 ।। 3.2.4.5 अह्रु॑तमसि हवि॒र्धान॒मित्या॒हानार्त्यै । दृह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै । मि॒त्रस्य॑ त्वा॒ चख्षु॑षा॒ प्रेख्ष॒ इत्या॑ह मित्र॒त्वाय॑ । मा भेर्मा सव्विँ॑क्था॒ मा त्वा॑ हिसिष॒मित्या॒हाहि॑सायै । यद्वै किञ्च॒ वातो॒ नाभि॒ वाति॑ । तथ्सर्व॑व्वँरुणदेव॒त्यम् । उ॒रु वाता॒येत्या॑ह । अवा॑रुणमे॒वैन॑त्करोति । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्या॑ह॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह ।। 32 ।। 3.2.4.6 अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै । अ॒ग्नये॒ जुष्ट॒न्निर्व॑पा॒मीत्या॑ह । अ॒ग्नय॑ ए॒वैना॒ञ्जुष्ट॒न्निर्व॑पति । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः । ए॒षाल्लोँ॒काना॒माप्त्यै । तू॒ष्णीञ्च॑तु॒र्थम् । अप॑रिमितमे॒वाव॑रुन्धे । स ए॒वमे॒वानु॑पू॒र्व ह॒वीषि॒ निर्व॑पति ।। 33 ।। 3.2.4.7 इ॒दन्दे॒वाना॑मि॒दमु॑ नस्स॒हेत्या॑ह॒ व्यावृ॑त्यै । स्फा॒त्यै त्वा॒ नारात्या॒ इत्या॑ह॒ गुप्त्यै । तम॑सीव॒ वा ए॒षोऽन्तश्च॑रति । य प॑री॒णहि॑ । सुव॑र॒भि वि ख्ये॑षव्वैँश्वान॒रञ्ज्योति॒रित्या॑ह । सुव॑रे॒वाभि वि प॑श्यति वैश्वान॒रञ्ज्योतिः॑ । द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम् । दृह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरित्या॑ह । गृ॒हाणा॒न्द्यावा॑पृथि॒व्योर्धृत्यै । उ॒र्व॑न्तरि॑ख्ष॒मन्वि॒हीत्या॑ह॒ गत्यै । अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मीत्या॑ह । इ॒यव्वाँ अदि॑तिः । अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति । अग्ने॑ ह॒व्य र॑ख्ष॒स्वेत्या॑ह॒ गुप्त्यै ।। 34 ।। 3.2.5.0 द्वाभ्या॒मुत्पु॑नाति र॒श्मयो॑ नय॒न्त्यग्रे॑ य॒ज्ञप॑तिय्यँ॒ज्ञोऽदि॑ति॒रस्क॑न्दाय गृह्णा॒मीत्या॑ह व॒देत्या॑ह॒ विजि॑त्या॒ अप॑हत्या॒ अस्क॑न्दाय॒ त्रीणि॑ च ।। 5 ।। 3.2.5.1 इन्द्रो॑ वृ॒त्रम॑हन्न् । सो॑ऽपः । अ॒भ्य॑म्रियत । तासा॒य्यँन्मेध्य॑य्यँ॒ज्ञिय॒॒ सदे॑व॒मासीत् । तदपोद॑क्रामत् । ते द॒र्भा अ॑भवन्न् । यद्द॒र्भैर॒प उ॑त्पु॒नाति॑ । या ए॒व मेध्या॑ य॒ज्ञिया॒स्सदे॑वा॒ आपः॑ । ताभि॑रे॒वैना॒ उत्पु॑नाति । द्वाभ्या॒मुत्पु॑नाति ।। 35 ।। 3.2.5.2 द्वि॒पाद्यज॑मान॒ प्रति॑ष्ठित्यै । दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति । अच्छि॑द्रेण प॒वित्रे॒णेत्या॑ह । अ॒सौ वा आ॑दि॒त्योऽच्छि॑द्रं प॒वित्रम् । तेनै॒वैना॒ उत्पु॑नाति । वसो॒स्सूर्य॑स्य र॒श्मिभि॒रित्या॑ह । प्रा॒णा वा आपः॑ । प्रा॒णा वस॑वः । प्रा॒णा र॒श्मयः॑ ।। 36 ।। 3.2.5.3 प्रा॒णैरे॒व प्रा॒णान्थ्सं पृ॑णक्ति । सा॒वि॒त्रि॒यर्चा । स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑ । स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति । प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ । आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह । रू॒पमे॒वासा॑मे॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । अग्र॑ इ॒मं य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह । अग्र॑ ए॒व य॒ज्ञं न॑यन्ति । अग्रे॑ य॒ज्ञप॑तिम् ।। 37 ।। 3.2.5.4 यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्य॒ इत्या॑ह । वृ॒त्र ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे । आपो॒ हेन्द्रं॑ वव्रिरे । सं॒ज्ञामे॒वासा॑मे॒तथ्सामा॑नं॒ व्याच॑ष्टे । प्रोक्षि॑ता॒स्स्थेत्या॑ह । तेनाप॒ प्रोक्षि॑ताः । अ॒ग्नये॑ वो॒ जुष्टं॒ प्रोक्षाम्य॒ग्नीषोमाभ्या॒मित्या॑ह । य॒था॒दे॒व॒तमे॒वैना॒न्प्रोक्ष॑ति । त्रि प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः ।। 38 ।। 3.2.5.5 अथो॒ रक्ष॑सा॒मप॑हत्यै । शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । त्रि प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । अव॑धूत॒॒ रक्षोऽव॑धूता॒ आरा॑तय॒ इत्या॑ह । रख्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यव्वाँ अदि॑तिः ।। 39 ।। 3.2.5.6 अ॒स्या ए॒वैन॒त्त्वच॑ङ्करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै । पु॒रस्तात्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ । तस्मात्पु॒रस्तात्प्र॒त्यञ्च॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मात्प्र॒जा मृ॒गं ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत । कृष्णो॑ रू॒पं कृ॒त्वा । यत्कृ॑ष्णाजि॒ने ह॒विर॑ध्यव॒हन्ति॑ । य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय ।। 40 ।। 3.2.5.7 अ॒धि॒षव॑णमसि वानस्प॒त्यमित्या॑ह । अ॒धि॒षव॑णमे॒वैन॑त्करोति । प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह सय॒त्वाय॑ । अ॒ग्नेस्त॒नूर॒सीत्या॑ह । अ॒ग्नेर्वा ए॒षा त॒नूः । यदोष॑धयः । वा॒चो वि॒सर्ज॑न॒मित्या॑ह । य॒दा हि प्र॒जा ओष॑धीनाम॒श्ञन्ति॑ । अथ॒ वाचं॒ विसृ॑जन्ते । दे॒ववी॑तये त्वा गृह्णा॒मीत्या॑ह ।। 41 ।। 3.2.5.8 दे॒वता॑भिरे॒वैन॒थ्सम॑र्धयति । अद्रि॑रसि वानस्प॒त्य इत्या॑ह । ग्रावा॑णमे॒वैन॑त्करोति । स इ॒दं दे॒वेभ्यो॑ ह॒व्य सु॒शमि॑ शमि॒ष्वेत्या॑ह॒ शान्त्यै । हवि॑ष्कृ॒देहीत्या॑ह । य ए॒व दे॒वाना॑ हवि॒ष्कृतः॑ । तान्‌ ह्व॑यति । त्रिर्ह्व॑यति । त्रिष॑त्या॒ हि दे॒वाः । इष॒माव॒दोर्ज॒माव॒देत्या॑ह ।। 42 ।। 3.2.5.9 इष॑मे॒वोर्जं॒ यज॑माने दधाति । द्यु॒मद्व॑दत व॒य सं॑घा॒तं जे॒ष्मेत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै । मनोश्श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक् । य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टाऽऽसीत् । तेऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑तामु॒पाशृ॑ण्वन्न् । ते परा॑भवन्न् । तस्मा॒थ्स्वानां॒ मध्ये॑ऽव॒साय॑ यजेत । याव॑न्तोऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑मु॒द्वद॑तामुपशृ॒ण्वन्ति॑ । ते परा॑ भवन्ति । उ॒च्चैस्स॒माह॑न्त॒ वा आ॑ह॒ विजि॑त्यै ।। 43 ।। 3.2.5.10 वृ॒ङ्क्त ए॑षामिन्द्रि॒यव्वीँ॒र्यम् । श्रेष्ठ॑ एषां भवति । व॒ऱ्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒ऱ्॒षवृ॑द्धव्वेँ॒त्त्वित्या॑ह । व॒ऱ्॒षवृ॑द्धा॒ वा ओष॑धयः । व॒ऱ्॒षवृ॑द्धा इ॒षीका॒स्समृ॑द्ध्यै । य॒ज्ञ रख्षा॒॒स्यनु॒ प्रावि॑शन्न् । तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त । तुषै॒रोष॑धीभ्यः । परा॑पूत॒॒ रख्ष॒ परा॑पूता॒ अरा॑तय॒ इत्या॑ह । रख्ष॑सा॒मप॑हत्यै ।। 44 ।। 3.2.5.11 रख्ष॑सां भा॒गो॑ऽसीत्या॑ह । तुषै॑रे॒व रख्षा॑सि नि॒रव॑दयते । अ॒प उप॑स्पृशति मेध्य॒त्वाय॑ । वा॒युर्वो॒ विवि॑न॒क्त्वित्या॑ह । प॒वित्र॒व्वैँ वा॒युः । पु॒नात्ये॒वैनान्॑ । अ॒न्तरि॑ख्षादिव॒ वा ए॒ते प्रस्क॑न्दन्ति । ये शूर्पात् । दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । त्रिष्फ॒लीक॑र्त॒वा आ॑ह । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ ।। 45 ।। 3.2.6.0 निला॑यत॒ विधृ॑त्यै वी॒र्ये॑ण स्कन्दन्ति च॒त्वारि॑ च ।। 6 ।। 3.2.6.1 अव॑धूत॒॒ रख्षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह । रख्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यव्वाँ अदि॑तिः । अ॒स्या ए॒वैन॒त्त्वच॑ङ्करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै । पु॒रस्तात्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ । तस्मात्पु॒रस्तात्प्र॒त्यञ्च॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मात्प्र॒जा मृ॒गं ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत ।। 46 ।। 3.2.6.2 कृष्णो॑ रू॒पं कृ॒त्वा । यत्कृ॑ष्णाजि॒ने ह॒विर॑धिपि॒नष्टि॑ । य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय । द्यावा॑पृथि॒वी स॒हास्ताम् । ते श॑म्यामा॒त्रमेक॒मह॒र्व्यैता॑ शम्यामा॒त्रमेक॒महः॑ । दि॒वस्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्वीत्यै । धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वस्स्क॑म्भ॒निर्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्विधृ॑त्यै ।। 47 ।। 3.2.6.3 धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्धृत्यै । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्या॑ह॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह । अ॒श्वि॒नौ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्त्ये । अधि॑वपा॒मीत्या॑ह । य॒था॒दे॒व॒तमे॒वैना॒नधि॑ वपति । धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह । ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण ।। 48 ।। 3.2.6.4 याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका । ताव॒दाहु॑ति प्रथते । न हि तदस्ति॑ । यत्ताव॑दे॒व स्यात् । याव॑ज्जु॒होति॑ । प्रा॒णाय॑ त्वाऽपा॒नाय॒ त्वेत्या॑ह । प्रा॒णाने॒व यज॑माने दधाति । दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धा॒मित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । अ॒न्तरि॑क्षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति । यानि॑ दृ॒षदः॑ । दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । अस॑व्वँपन्ती पिषा॒णूनि॑ कुरुता॒दित्या॑ह मेध्य॒त्वाय॑ ।। 49 ।। 3.2.7.0 व॒र्त॒य॒ति॒ दिव॑मे॒वैतेन॑ दृहति स॒म्भव॑ति॒ त सस्कृ॑तमा॒त्मान॒न्द्वाद॑श॒ सस्थि॑ते॒ त्रीणि॑ च ।। 7 ।। 3.2.7.1 धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छेत्या॑ह॒ धृत्यै । अपाग्ने॒ऽग्निमा॒मादं॑ जहि॒ निष्क्र॒व्याद॑ से॒धा दे॑व॒यजं॑ व॒हेत्या॑ह । य ए॒वामात्क्र॒व्यात् । तम॑प॒हत्य॑ । मेध्ये॒ऽग्नौ क॒पाल॒मुप॑दधाति । निर्द॑ग्ध॒॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒ इत्या॑ह । रक्षा॑स्ये॒व निर्द॑हति । अ॒ग्नि॒वत्युप॑दधाति । अ॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्ते । अङ्गा॑र॒मधि॑ वर्तयति ।। 50 ।। 3.2.7.2 अ॒न्तरि॑क्ष ए॒व ज्योति॑र्धत्ते । आ॒दि॒त्यमे॒वामुष्मि॑ल्लोँ॒के ज्योति॑र्धत्ते । ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति । य ए॒वं वेद॑ । ध्रु॒वम॑सि पृथि॒वीं दृ॒॒हेत्या॑ह । पृ॒थि॒वीमे॒वैतेन॑ दृ॒हति । ध॒र्त्रम॑स्य॒न्तरि॑क्षं दृ॒॒हेत्या॑ह । अ॒न्तरि॑क्षमे॒वैतेन॑ दृहति । ध॒रुण॑मसि॒ दिवं॑ दृ॒॒हेत्या॑ह । दिव॑मे॒वैतेन॑ दृहति ।। 51 ।। 3.2.7.3 धर्मा॑सि॒ दिशो॑ दृ॒॒हेत्या॑ह । दिश॑ ए॒वैतेन॑ दृहति । इ॒माने॒वैतैर्लो॒कान्दृ॑हति । दृह॑न्तेऽस्मा इ॒मे लो॒का प्र॒जया॑ प॒शुभिः॑ । य ए॒वं वेद॑ । त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति । त्रय॑ इ॒मे लो॒काः । ए॒षां लो॒काना॒माप्त्यै । एक॒मग्रे॑ क॒पाल॒मुप॑ दधाति । एकं॒ वा अग्रे॑ क॒पालं॒ पुरु॑षस्य सं॒भव॑ति ।। 52 ।। 3.2.7.4 अथ॒ द्वे । अथ॒ त्रीणि॑ । अथ॑ च॒त्वारि॑ । अथा॒ष्टौ । तस्मा॑द॒ष्टाक॑पालं॒ पुरु॑षस्य॒ शिरः॑ । यदे॒वं क॒पालान्युप॒दधा॑ति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑ति॒॒ सस्क॑रोति । आ॒त्मान॑मे॒व तथ्सस्क॑रोति । त सस्कृ॑तमा॒त्मानम् ।। 53 ।। 3.2.7.5 अ॒मुष्मि॑ल्लोँ॒केऽनु॒ परै॑ति । यद॒ष्टावु॑प॒दधा॑ति । गा॒य॒त्रि॒या तथ्संमि॑तम् । यन्नव॑ । त्रि॒वृता॒ तत् । यद्दश॑ । वि॒राजा॒ तत् । यदेका॑दश । त्रि॒ष्टुभा॒ तत् । यद्द्वाद॑श ।। 54 ।। 3.2.7.6 जग॑त्या॒ तत् । छन्द॑स्संमितानि॒ स उ॑प॒दध॑त्क॒पाला॑नि । इ॒माल्लोँ॒कान॑नुपू॒र्वन्दिशो॒ विधृ॑त्यै दृहति । अथायु॑ प्रा॒णान्प्र॒जां प॒शून् यज॑माने दधाति । स॒जा॒तान॑स्मा अ॒भितो॑ बहु॒लान्क॑रोति । चित॒स्स्थेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । भृगू॑णा॒मङ्गि॑रसा॒न्तप॑सा तप्यध्व॒मित्या॑ह । दे॒वता॑नामे॒वैना॑नि॒ तप॑सा तपति । तानि॒ तत॒स्सस्थि॑ते । यानि॑ घ॒र्मे क॒पालान्युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा वि मु॑ञ्चति । चतु॑ष्पाद प॒शवः॑ । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑ तिष्ठति ।। 55 ।। 3.2.8.0 अ॒न्या जि॑न्वन्त्यनु वि॒सृत्यै॒वमा॒हाशान्त आह॒ गुप्त्यै॑ छ॒न्नं ब्रह्माब्रवीद्द्वि॒तीय॑म॒भ्य॑पातय॒थ्सूर्या॑भिनिम्रुक्ते दे॒वाः ।। 8 ।। 3.2.8.1 दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्या॑ह॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै । सव्वँ॑पा॒मीत्या॑ह । य॒था॒दे॒व॒तमे॒वैना॑नि॒ सव्वँ॑पति । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह । आपो॒ वा ओष॑धीर्जिन्वन्ति । ओष॑धयो॒ऽपो जि॑न्वन्ति । अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति ।। 56 ।। 3.2.8.2 तस्मा॑दे॒वमा॑ह । स रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒मित्या॑ह । आपो॒ वै रे॒वतीः । प॒शवो॒ जग॑तीः । ओष॑धयो॒ मधु॑मतीः । आप॒ ओष॑धी प॒शून् । ताने॒वास्मा॑ एक॒धा स॒॒सृज्य॑ । मधु॑मत करोति । अ॒द्भ्य परि॒ प्रजा॑तास्स्थ॒ सम॒द्भि पृ॑च्यध्व॒मिति॑ प॒र्याप्ला॑वयति । यथा॒ सुवृ॑ष्ट इ॒माम॑नुवि॒सृत्य॑ ।। 57 ।। 3.2.8.3 आप॒ ओष॑धीर्म॒हय॑न्ति । ता॒दृगे॒व तत् । जन॑यत्यै त्वा॒ संयौ॒मीत्या॑ह । प्र॒जा ए॒वैतेन॑ दाधार । अ॒ग्नये त्वा॒ऽग्नीषोमाभ्या॒मित्या॑ह॒ व्यावृ॑त्त्यै । म॒खस्य॒ शिरो॒ऽसीत्या॑ह । य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । यत्पु॑रो॒डाशः॑ । तस्मा॑दे॒वमा॑ह ।। 58 ।। 3.2.8.4 घ॒र्मो॑ऽसि वि॒श्वायु॒रित्या॑ह । विश्व॑मे॒वायु॒र्यज॑माने दधाति । उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑ति प्रथता॒मित्या॑ह । यज॑मानमे॒व प्र॒जया॑ प॒शुभि॑ प्रथयति । त्वचं॑ गृह्णी॒ष्वेत्या॑ह । सर्व॑मे॒वैन॒॒ सत॑नुं करोति । अथा॒प आ॒नीय॒ परि॑मार्ष्टि । मा॒॒स ए॒व तत्त्वचं॑ दधाति । तस्मात्त्व॒चा मा॒॒सं छ॒न्नम् । घ॒र्मो वा ए॒षोऽशान्तः ।।59।। 3.2.8.5 अ॒र्ध॒मा॒सेऽर्धमासे॒ प्रवृ॑ज्यते । यत्पु॑रो॒डाशः॑ । स ईश्व॒रो यज॑मान शु॒चा प्र॒दहः॑ । पर्य॑ग्नि करोति । प॒शुमे॒वैन॑मकः । शान्त्या॒ अप्र॑दाहाय । त्रि पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॒ रक्ष॑सा॒मप॑हत्यै । अ॒न्तरि॑त॒॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तय॒ इत्या॑ह ।। 60 ।। 3.2.8.6 रक्ष॑साम॒न्तऱ्हि॑त्यै । पु॒रो॒डाशं॒ वा अधि॑श्रित॒॒ रक्षा॑स्यजिघासन्न् । दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा । स ए॒वास्मा॒द्रक्षा॒॒स्यपा॑हन्न् । दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैन॑ श्रपयति । वऱ्षि॑ष्ठे॒ अधि॒ नाक॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अ॒ग्निस्ते॑ त॒नुवं॒ माऽति॑धा॒गित्या॒हाऽन॑तिदाहाय । अग्ने॑ ह॒व्य र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै ।। 61 ।। 3.2.8.7 अवि॑दहन्तः श्रपय॒तेति॒ वाचं॒ विसृ॑जते । य॒ज्ञमे॒व ह॒वीष्य॑भिव्या॒हृत्य॒ प्रत॑नुते । पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्त्यै॑ करोति । म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ । तय्यँन्नाभि॑ वा॒सयेत् । आ॒विर्म॒स्तिष्क॑स्स्यात् । अ॒भिवा॑सयति । तस्मा॒द्गुहा॑ म॒स्तिष्कः॑ । भस्म॑ना॒ऽभिवा॑सयति । तस्मान्मा॒॒सेनास्थि॑ छ॒न्नम् ।। 62 ।। 3.2.8.8 वे॒देना॒भिवा॑सयति । तस्मा॒त्केशै॒श्शिर॑श्छ॒न्नम् । अख॑लतिभावुको भवति । य ए॒वव्वेँद॑ । प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑ । स नाय॒जुष्क॑मभि॒वास्यः॑ । वृथे॑व स्यात् । ई॒श्व॒रा यज॑मानस्य प॒शव॒ प्रमे॑तोः । सं ब्रह्म॑णा पृच्य॒स्वेत्या॑ह । प्रा॒णा वै ब्रह्म॑ ।। 63 ।। 3.2.8.9 प्रा॒णा प॒शवः॑ । प्रा॒णैरे॒व प॒शून्थ्संपृ॑णक्ति । न प्र॒मायु॑का भवन्ति । यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा प॒शव॒ पुरी॑षम् । यदे॒वम॑भिघा॒रय॑ति । यज॑मानमे॒व प्र॒जया॑ प॒शुभि॒स्सम॑र्धयति । दे॒वा वै ह॒विर्भृ॒त्वाऽब्रु॑वन्न् । कस्मि॑न्नि॒दं म्र॑क्ष्यामह॒ इति॑ । सोऽग्निर॑ब्रवीत् ।। 64 ।। 3.2.8.10 मयि॑ त॒नूस्सं निध॑ध्वम् । अ॒हं व॒स्तं ज॑नयिष्यामि । यस्मि॑न्म्र॒क्ष्यध्व॒ इति॑ । ते दे॒वा अ॒ग्नौ त॒नूस्संन्य॑दधत । तस्मा॑दाहुः । अ॒ग्निस्सर्वा॑ दे॒वता॒ इति॑ । सोऽङ्गा॑रेणा॒पः । अ॒भ्य॑पातयत् । तत॑ एक॒तो॑ऽजायत । स द्वि॒तीय॑म॒भ्य॑पातयत् ।। 65 ।। 3.2.8.11 ततो द्वि॒तो॑ऽजायत । स तृ॒तीय॑म॒भ्य॑पातयत् । तत॑स्त्रि॒तो॑ऽजायत । यद॒द्भ्योऽजा॑यन्त । तदा॒प्याना॑माप्य॒त्वम् । यदा॒त्मभ्योऽजा॑यन्त । तदा॒त्म्याना॑मात्म्य॒त्वम् । ते दे॒वा आ॒प्येष्व॑मृजत । आ॒प्या अ॑मृजत॒ सूर्याभ्युदिते । सूर्याभ्युदित॒स्सूर्या॑भिनिम्रुक्ते ।। 66 ।। 3.2.8.12 सूर्या॑भिनिम्रुक्त कुन॒खिनि॑ । कु॒न॒खी श्या॒वद॑ति । श्या॒वद॑न्नग्रदिधि॒षौ । अ॒ग्र॒दि॒धि॒षु प॑रिवि॒त्ते । प॒रि॒वि॒त्तो वी॑र॒हणि॑ । वी॒र॒हा ब्र॑ह्म॒हणि॑ । तद्ब्र॑ह्म॒हणं॒ नात्य॑च्यवत । अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुध्यै । उल्मु॑केना॒भि गृ॑ह्णाति शृत॒त्वाय॑ । शृ॒तका॑मा इव॒ हि दे॒वाः ।। 67 ।। 3.2.9.0 वै वा॒युरा॑ह परा॒वतीत्या॒हाह॑ द्वि॒तीय॑ हर॒तीति॑ परिगृ॒ह्णन्ति॑ देव॒यज॑नीं करोति भवन्ति खनत्यकरे॒तत्कृ॒त्वा र॑क्षो॒घ्नीर॑र्पयति ।। 9 ।। 3.2.9.1 दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै । आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । स॒हस्र॑भृष्टिश्श॒तते॑जा॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । वा॒युर॑सि ति॒ग्मते॑जा॒ इत्या॑ह । तेजो॒ वै वा॒युः ।। 68 ।। 3.2.9.2 तेज॑ ए॒वास्मि॑न्दधाति । वि॒षाद्वै नामा॑सु॒र आ॑सीत् । सो॑ऽबिभेत् । य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्तीति॑ । स पृ॑थि॒वीम॒भ्य॑वमीत् । सा मे॒ध्याऽभ॑वत् । अथो॒ यदिन्द्रो॑ वृ॒त्रमहन्न्॑ । तस्य॒ लोहि॑तं पृथि॒वीमनु॒ व्य॑धावत् । सा मे॒ध्याऽभ॑वत् । पृथि॑वि देवयज॒नीत्या॑ह ।। 69 ।। 3.2.9.3 मेध्या॑मे॒वैनां देव॒यज॑नीं करोति । ओष॑ध्यास्ते॒ मूलं॒ मा हि॑सिष॒मित्या॑ह । ओष॑धीना॒महि॑सायै । व्र॒जं ग॑च्छ गो॒स्थान॒मित्या॑ह । छन्दा॑सि॒ वै व्र॒जो गो॒स्थानः॑ । छन्दा॑स्ये॒वास्मै व्र॒जं गो॒स्थानं॑ करोति । वऱ्ष॑तु ते॒ द्यौरित्या॑ह । वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑ रुन्धे । ब॒धा॒न दे॑व सवित पर॒मस्यां परा॒वतीत्या॑ह ।। 70 ।। 3.2.9.4 द्वौ वाव पुरु॑षौ । यं चै॒व द्वेष्टि॑ । यश्चै॑नं॒ द्वेष्टि॑ । तावु॒भौ ब॑ध्नाति पर॒मस्यां परा॒वति॑ श॒तेन॒ पाशैः । योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गित्या॒हानि॑म्रुक्त्ये । अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत् । स पृ॑थि॒व्यामुप॑म्लुप्तोऽशयत् । तं दे॒वा अप॑हतो॒ऽररु॑ पृथि॒व्या इति॑ पृथि॒व्या अपाघ्नन्न् । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अप॑हतो॒ऽररु॑ पृथि॒व्या इति॒ यदाह॑ ।। 71 ।। 3.2.9.5 भ्रातृ॑व्यमे॒व पृ॑थि॒व्या अप॑हन्ति । ते॑ऽमन्यन्त । दिव॒व्वाँ अ॒यमि॒त प॑तिष्य॒तीति॑ । तम॒ररु॑स्ते॒ दिवं॒ माऽस्का॒निति॑ दि॒वपर्य॑बाधन्त । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अ॒ररु॑स्ते॒ दिवं॒ मा स्का॒निति॒ यदाह॑ । भ्रातृ॑व्यमे॒व दि॒व परि॑बाधते । स्त॒म्ब॒य॒जुर्‌ह॑रति । पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒मप॑हन्ति । द्वि॒तीय॑ हरति ।। 72 ।। 3.2.9.6 अ॒न्तरि॑क्षादे॒वैन॒मप॑हन्ति । तृ॒तीय॑ हरति । दि॒व ए॒वैन॒मप॑हन्ति । तू॒ष्णीं च॑तु॒र्थ ह॑रति । अप॑रिमितादे॒वैन॒मप॑हन्ति । असु॑राणा॒व्वाँ इ॒यमग्र॑ आसीत् । याव॒दासी॑न परा॒पश्य॑ति । ताव॑द्दे॒वानाम् । ते दे॒वा अ॑ब्रुवन्न् । अस्त्वे॒व नो॒ऽस्यामपीति॑ ।। 73 ।। 3.2.9.7 क्य॑न्नो दास्य॒थेति॑ । याव॑थ्स्व॒यं प॑रिगृह्णी॒थेति॑ । ते वस॑व॒स्त्वेति॑ दक्षिण॒त पर्य॑गृह्णन्न् । रु॒द्रास्त्वेति॑ प॒श्चात् । आ॒दि॒त्यास्त्वेत्यु॑त्तर॒तः । तेऽग्निना॒ प्राञ्चो॑ऽजयन्न् । वसु॑भिर्दक्षि॒णा । रु॒द्रै प्र॒त्यञ्चः॑ । आ॒दि॒त्यैरुद॑ञ्चः । यस्यै॒वं वि॒दुषो॒ वेदिं॑ परिगृ॒ह्णन्ति॑ ।। 74 ।। 3.2.9.8 भव॑त्या॒त्मना । पराऽस्य॒ भ्रातृ॑व्यो भवति । दे॒वस्य॑ सवि॒तुस्स॒व इत्या॑ह॒ प्रसूत्यै । कर्म॑ कृण्वन्ति वे॒धस॒ इत्या॑ह । इ॒षि॒त हि कर्म॑ क्रि॒यते । पृ॒थि॒व्यै मेध्यं॑ चामे॒ध्यं च॒ व्युद॑क्रामताम् । प्रा॒चीन॑मुदी॒चीनं॒ मेध्यम् । प्र॒ती॒चीनं॑ दक्षि॒णाऽमे॒ध्यम् । प्राची॒मुदी॑चीं प्रव॒णां क॑रोति । मेध्या॑मे॒वैनां देव॒यज॑नीं करोति ।। 75 ।। 3.2.9.9 प्राञ्चौ॑ वेद्य॒॒सावुन्न॑यति । आ॒ह॒व॒नीय॑स्य॒ परि॑गृहीत्यै । प्र॒तीची॒ श्रोणी । गार्ह॑पत्यस्य॒ परि॑गृहीत्यै । अथो॑ मिथुन॒त्वाय॑ । उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति । उद्ध॑न्ति । तस्मा॒दोष॑धय॒ परा॑भवन्ति ।। 76 ।। 3.2.9.10 मूलं॑ छिनत्ति । भ्रातृ॑व्यस्यै॒व मूलं॑ छिनत्ति । मूल॒व्वाँ अ॑ति॒तिष्ठ॒द्रक्षा॒॒स्यनूत्पि॑पते । यद्धस्ते॑न छि॒न्द्यात् । कु॒न॒खिनी प्र॒जास्स्युः॑ । स्फ्येन॑ छिनत्ति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञाद्रक्षा॒॒स्यप॑हन्ति । पि॒तृ॒दे॒व॒त्याऽति॑खाता । इय॑तीं खनति ।। 77 ।। 3.2.9.11 प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताम् । वेदि॑र्दे॒वेभ्यो॒ निला॑यत । तां च॑तुरङ्गु॒लेऽन्व॑विन्दन्न् । तस्माच्चतुरङ्गु॒लं खेया । च॒तु॒र॒ङ्गु॒लं ख॑नति । च॒तु॒र॒ङ्गु॒ले ह्योष॑धय प्रति॒तिष्ठ॑न्ति । आ प्र॑ति॒ष्ठायै॑ खनति । यज॑मानमे॒व प्र॑ति॒ष्ठां ग॑मयति । द॒क्षि॒ण॒तो वऱ्षी॑यसीं करोति । दे॒व॒यज॑नस्यै॒व रू॒पम॑कः ।। 78 ।। 3.2.9.12 पुरी॑षवतीं करोति । प्र॒जा वै प॒शव॒ पुरी॑षम् । प्र॒जयै॒वैनं॑ प॒शुभि॒ पुरी॑षवन्तं करोति । उत्त॑रं परिग्रा॒हं परि॑गृह्णाति । ए॒ताव॑ती॒ वै पृ॑थि॒वी । याव॑ती॒ वेदिः॑ । तस्या॑ ए॒तावत॑ ए॒व भ्रातृ॑व्यं नि॒र्भज्य॑ । आ॒त्मन॒ उत्त॑रं परिग्रा॒हं परि॑गृह्णाति । ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॒सीत्या॑ह । य॒था॒य॒जुरे॒वैतत् ।। 79 ।। 3.2.9.13 क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति । यद्वेदिं॑ क॒रोति॑ । धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै । उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह । उ॒र्वीमे॒वैना॒व्वँस्वीं करोति । पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शि॒न्नित्या॑ह मेध्य॒त्वाय॑ । उ॒दा॒दाय॑ पृथि॒वीं जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒रित्या॑ह । यदे॒वास्या॑ अमे॒ध्यम् । तद॑प॒हत्य॑ । मेध्यां देव॒यज॑नीं कृ॒त्वा ।। 80 ।। 3.2.9.14 यद॒दश्च॒न्द्रम॑सि॒ मेध्यम् । तद॒स्यामेर॑यति । तां धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै । प्रोक्ष॑णी॒रा सा॑दय । इ॒ध्माब॒ऱ्हिरुप॑सादय । स्रु॒वं च॒ स्रुच॑श्च॒ संमृ॑ड्ढि । पत्नी॒॒ संन॑ह्य । आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै । प्रोक्ष॑णी॒रा सा॑दयति । आपो॒ वै र॑क्षो॒घ्नीः ।। 81 ।। 3.2.9.15 रक्ष॑सा॒मप॑हत्यै । स्फ्यस्य॒ वर्त्मन्थ्सादयति । य॒ज्ञस्य॒ संत॑त्यै । उ॒वाच॒ हासि॑तो दैव॒लः । ए॒ताव॑ती॒र्वा अ॒मुष्मि॑ल्लोँ॒क आप॑ आसन्न् । याव॑ती॒ प्रोक्ष॑णी॒रिति॑ । तस्माद्ब॒ह्वीरा॒साद्याः । स्फ्यमु॒दस्यन्न्॑ । यं द्वि॒ष्यात्तं ध्या॑येत् । शु॒चैवैन॑मर्पयति ।। 82 ।। 3.2.10.0 वृ॒श्च॒ति॒ सा॒द॒ये॒दि॒ध्म पञ्च॑ च ।। 10 ।। 3.2.10.1 वज्रो॒ वै स्फ्यः । यद॒न्वञ्चं॑ धा॒रयेत् । वज्रेऽध्व॒र्युः क्ष॑ण्वीत । पु॒रस्तात्ति॒र्यञ्चं॑ धारयति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षा॒॒स्यप॑हन्ति । अ॒ग्निभ्यां॒ प्राच॑श्च प्र॒तीच॑श्च । स्फ्येनोदी॑चश्चाध॒राच॑श्च । स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मानं॒ भ्रातृ॑व्यमप॒हत्य॑ । उ॒त्क॒रेऽधि॒ प्रवृ॑श्चति ।। 83 ।। 3.2.10.2 यथो॑प॒धाय॑ वृ॒श्चन्त्ये॒वम् । हस्ता॒वव॑ नेनिक्ते । आ॒त्मान॑मे॒व प॑वयते । स्फ्यं प्रक्षा॑लयति मेध्य॒त्वाय॑ । अथो॑ पा॒प्मन॑ ए॒व भ्रातृ॑व्यस्य न्य॒ङ्गं छि॑नत्ति । इ॒ध्माब॒ऱ्हिरुप॑सादयति॒ युक्त्यै । य॒ज्ञस्य॑ मिथुन॒त्वाय॑ । अथो॑ पुरो॒रुच॑मे॒वैतां द॑धाति । उत्त॑रस्य॒ कर्म॒णोऽनु॑ख्यात्यै । न पु॒रस्तात्प्र॒त्यगुप॑सादयेत् ।। 84 ।। 3.2.10.3 यत्पु॒रस्तात्प्र॒त्यगु॑पसा॒दयेत् । अ॒न्यत्रा॑हुतिप॒थादि॒ध्मं प्रति॑पादयेत् । प्र॒जा वै ब॒र्॒हिः । अप॑राध्नुयाद्ब॒र्॒हिषा प्र॒जानां प्र॒जन॑नम् । प॒श्चात्प्रागुप॑सादयति । आ॒हु॒ति॒प॒थेने॒ध्मं प्रति॑पादयति । सं॒प्र॒त्ये॑व ब॒र्॒हिषा प्र॒जानां प्र॒जन॑न॒मुपै॑ति । दक्षि॑णमि॒ध्मम् । उत्त॑रं ब॒र्॒हिः । आ॒त्मा वा इ॒ध्मः । प्र॒जा ब॒र्॒हिः । प्र॒जा ह्यात्मन॒ उत्त॑रतरा ती॒र्थे । ततो॒ मेध॑मुप॒नीय॑ । य॒था॒दे॒व॒तमे॒वैन॒त्प्रति॑ष्ठापयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।। 85 ।। 3.3.0.0 प्रत्यु॑ष्टन्दि॒वश्शिल्प॒मय॑ज्ञो घृ॒तञ्च॑ देवासु॒रास्स ए॒तमिन्द्र आपो॑ देवीर॒ग्निना॒ धिष्णि॑या॒ अथ॒ स्रुचौ॒ यो वा अय॑थादेवतं परिवे॒षो वा एका॑दश ।। 11 ।। प्रत्यु॑ष्ट॒मय॑ज्ञ ए॒षा हि विश्वे॑षान्दे॒वाना॑मू॒र्जा पृ॑थि॒वीमथो॒ रख्ष॑सा॒न्तां प्रजा॑ति॒न्द्वाभ्या॒न्तङ्का॒लेका॑ले॒ नव॑सप्ततिः ।। 79 ।। प्रत्यु॑ष्टमर्पयति ।। हरिः॑ ओम् ।। तृतीयप्रपाठकस्समाप्तः। 3.3.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके तृतीय प्रपाठक प्रारम्भः ।। हरिः ओम् ।। 3.3.1.0 जु॒हूर्मृ॑ज्याद्भव॒तीति॑ प्र॒त्यञ्च्य॒धस्तान्मार्ष्टि॒ पञ्च॑ च ।। 1 ।। 3.3.1.1 प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अ॒ग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पा॒मीत्या॑ह मेध्य॒त्वाय॑ । स्रुच॒स्संमार्ष्टि । स्रु॒वमग्रे । पुमा॑समे॒वाभ्य॒स्सश्य॑ति मिथुन॒त्वाय॑ । अथ॑ जु॒हूम् । अथो॑प॒भृतम् । अथ॑ ध्रु॒वाम् । अ॒सौ वै जु॒हूः ।। 1 ।। 3.3.1.2 अ॒न्तरि॑क्षमुप॒भृत् । पृ॒थि॒वी ध्रु॒वा । इ॒मे वै लो॒कास्स्रुचः॑ । वृष्टि॑स्सं॒मार्ज॑नानि । वृष्टि॒र्वा इ॒माल्लोँ॒कान॑नुपू॒र्वं क॑ल्पयति । ते तत॑ कॢ॒प्तास्समे॑धन्ते । समे॑धन्तेऽस्मा इ॒मे लो॒का प्र॒जया॑ प॒शुभिः॑ । य ए॒वव्वेँद॑ । यदि॑ का॒मये॑त॒ वर्‌षु॑क प॒र्जन्य॑स्स्या॒दिति॑ । अ॒ग्र॒तस्संमृ॑ज्यात् ।। 2 ।। 3.3.1.3 वृष्टि॑मे॒व नि य॑च्छति । अ॒वा॒चीनाग्रा॒ हि वृष्टिः॑ । यदि॑ का॒मये॒ताव॑र्‌षुकस्स्या॒दिति॑ । मू॒ल॒तस्संमृ॑ज्यात् । वृष्टि॑मे॒वोद्य॑च्छति । तदु॒ वा आ॑हुः । अ॒ग्र॒त ए॒वोपरि॑ष्टा॒थ्संमृ॑ज्यात् । मू॒ल॒तो॑ऽधस्तात् । तद॑नुपू॒र्वं क॑ल्पते । वर्‌षु॑को भव॒तीति॑ ।। 3 ।। 3.3.1.4 प्राची॑मभ्या॒कारम् । अग्रै॑रन्तर॒तः । ए॒वमि॑व॒ ह्यन्न॑म॒द्यते । अथो॒ अग्रा॒द्वा ओष॑धीना॒मूर्जं॑ प्र॒जा उप॑जीवन्ति । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै । अ॒धस्तात्प्र॒तीचीम् । द॒ण्डमु॑त्तम॒तः । मूले॑न॒ मूलं॒ प्रति॑ष्ठित्यै । तस्मा॑दर॒त्नौ प्राञ्च्यु॒परि॑ष्टा॒ल्लोमा॑नि । प्र॒त्यञ्च्य॒धस्तात् ।। 4 ।। 3.3.1.5 स्रुग्घ्ये॑षा । प्रा॒णो वै स्रु॒वः । जु॒हूर्दक्षि॑णो॒ हस्तः॑ । उ॒प॒भृथ्स॒व्यः । आ॒त्मा ध्रु॒वा । अन्न॑ सं॒मार्ज॑नानि । मु॒ख॒तो वै प्रा॒णो॑ऽपा॒नो भू॒त्वा । आ॒त्मान॒मन्नं॑ प्र॒विश्य॑ । बा॒ह्य॒तस्त॒नुव॑ शुभयति । तस्माथ्स्रु॒वमे॒वाग्रे॒ संमार्ष्टि । मु॒ख॒तो हि प्रा॒णो॑ऽपा॒नो भू॒त्वा । आ॒त्मान॒मन्न॑मावि॒शति॑ । तौ प्रा॑णापा॒नौ । अव्य॑र्धुक प्राणापा॒नाभ्यां भवति । य ए॒वं वेद॑ ।। 5 ।। 3.3.2.0 वे॒दस्याग्र॑ स्रुख्सं॒मार्ज॑नानि विदो॒हो ग॑मयति प॒शवो॑ रमन्ते हिसी॒ष्षट् च॑ ।। 2 ।। 3.3.2.1 दि॒वश्शिल्प॒मव॑ततम् । पृ॒थि॒व्या क॒कुभि॑ श्रि॒तम् । तेन॑ व॒य स॒हस्र॑वल्‌शेन । स॒पत्नं॑ नाशयामसि॒ स्वाहेति॑ स्रुख्सं॒मार्ज॑नान्य॒ग्नौ प्र ह॑रति । आपो॒ वै द॒र्भाः । रू॒पमे॒वैषा॑मे॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । अ॒नु॒ष्टुभ॒र्चा । आनु॑ष्टुभ प्र॒जाप॑तिः । प्रा॒जा॒प॒त्यो वे॒दः । वे॒दस्याग्र॑ स्रुख्सं॒मार्ज॑नानि ।। 6 ।। 3.3.2.2 स्वेनै॒वैना॑नि॒ छन्द॑सा । स्वया॑ दे॒वत॑या॒ सम॑र्धयति । अथो॒ ऋग्वाव योषा । द॒र्भो वृषा । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । प्रजा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः । तान्येके॒ वृथै॒वापास्यन्ति । तत्तथा॒ न का॒र्यम् । आर॑ब्धस्य य॒ज्ञिय॑स्य॒ कर्म॑ण॒स्सवि॑दो॒हः ।। 7 ।। 3.3.2.3 यद्ये॑नानि प॒शवो॑ऽभि॒ तिष्ठे॑युः । न तत्प॒शुभ्य॒ कम् । अ॒द्भिर्मार्जयि॒त्वोत्क॒रे न्य॑स्येत् । यद्वै य॒ज्ञिय॑स्य॒ कर्म॑णो॒ऽन्यत्राहु॑तीभ्यस्सं॒तिष्ठ॑ते । उ॒त्क॒रो वाव तस्य॑ प्रति॒ष्ठा । ए॒ता हि तस्मै प्रति॒ष्ठां दे॒वास्स॒मभ॑रन्न् । यद॒द्भिर्मा॒र्जय॑ति । तेन॑ शा॒न्तम् । यदु॑त्क॒रे न्य॒स्यति॑ । प्र॒ति॒ष्ठामे॒वैना॑नि॒ तद्ग॑मयति ।। 8 ।। 3.3.2.4 प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः । अथो स्त॒म्बस्य॒ वा ए॒तद्रू॒पम् । यथ्स्रु॑ख्सं॒मार्ज॑नानि । स्त॒म्ब॒शो वा ओष॑धयः । तासां जरत्क॒क्षे प॒शवो॒ न र॑मन्ते । अप्रि॑यो॒ ह्ये॑षां जरत्क॒क्षः । याव॑दप्रियो ह॒ वै ज॑रत्क॒क्ष प॑शू॒नाम् । ताव॑दप्रिय पशू॒नां भ॑वति । यस्यै॒तान्य॒न्यत्रा॒ग्नेर्दध॑ति । न॒व॒दाव्या॑सु॒ वा ओष॑धीषु प॒शवो॑ रमन्ते ।। 9 ।। 3.3.2.5 न॒व॒दा॒वो ह्ये॑षां प्रि॒यः । याव॑त्प्रियो ह॒ वै न॑वदा॒व प॑शू॒नाम् । ताव॑त्प्रिय पशू॒नां भ॑वति । यस्यै॒तान्य॒ग्नौ प्र॒हर॑न्ति । तस्मा॑दे॒तान्य॒ग्नावे॒व प्रह॑रेत् । य॒त॒रस्मिन्थ्संमृ॒ज्यात् । प॒शू॒नां धृत्यै । यो भू॒ताना॒मधि॑पतिः । रु॒द्रस्त॑न्तिच॒रो वृषा । प॒शून॒स्माकं॒ मा हि॑सीः । ए॒तद॑स्तु हु॒तं तव॒ स्वाहेत्य॑ग्निसं॒मार्ज॑न्य॒ग्नौ प्रह॑रति । ए॒षा वा ए॒तेषां॒ योनिः॑ । ए॒षा प्र॑ति॒ष्ठा । स्वामे॒वैना॑नि॒ योनिम् । स्वां प्र॑ति॒ष्ठां ग॑मयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।। 10 ।। 3.3.3.0 क॒रोति॑ व्रतोप॒नय॑नं॒ क्षेमो॒ यज॑मानश्शास्ते ।। 3 ।। 3.3.3.1 अय॑ज्ञो॒ वा ए॒षः । यो॑ऽप॒त्नीकः॑ । न प्र॒जा प्रजा॑येरन्न् । पत्न्यन्वास्ते । य॒ज्ञमे॒वाकः॑ । प्र॒जानां प्र॒जन॑नाय । यत्तिष्ठ॑न्ती स॒न्नह्ये॑त । प्रि॒यं ज्ञा॒ति रु॑न्ध्यात् । आसी॑ना॒ सन्न॑ह्यते । आसी॑ना॒ ह्ये॑षा वी॒र्य॑ङ्क॒रोति॑ ।। 11 ।। 3.3.3.2 यत्प॒श्चात्प्राच्य॒न्वासी॑त । अ॒नया॑ स॒मद॑न्दधीत । दे॒वानां॒ पत्नि॑या स॒मद॑न्दधीत । देशाद्दख्षिण॒त उदी॒च्यन्वास्ते । आ॒त्मनो॑ गोपी॒थाय॑ । आ॒शासा॑ना सौमन॒समित्या॑ह । मेध्या॑मे॒वैना॒ङ्केव॑लीङ्कृ॒त्वा । आ॒शिषा॒ सम॑र्धयति । अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कमित्या॑ह । ए॒तद्वै पत्नि॑यै व्रतोप॒नय॑नम् ।। 12 ।। 3.3.3.3 तेनै॒वैनां व्र॒तमुप॑नयति । तस्मा॑दाहुः । यश्चै॒वव्वेँद॒ यश्च॒ न । योक्त्र॑मे॒व यु॑ते । यम॒न्वास्ते । तस्या॒मुष्मिल्लोँ॒के भ॑व॒तीति॒ योक्त्रे॑ण । यद्योक्त्रम् । स योगः॑ । यदास्ते । स ख्षेमः॑ ।। 13 ।। 3.3.3.4 यो॒ग॒ख्षे॒मस्य॒ कॢप्त्यै । यु॒क्तङ्क्रि॑याता आ॒शी कामे॑ युज्याता॒ इति॑ । आ॒शिष॒स्समृ॑द्ध्यै । ग्र॒न्थिङ्ग्र॑थ्नाति । आ॒शिष॑ ए॒वास्यां॒ परि॑ गृह्णाति । पुमा॒न्॒ वै ग्र॒न्थिः । स्त्री पत्नी । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । प्र जा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।। 14 ।। 3.3.3.5 अथो॑ अ॒र्धो वा ए॒ष आ॒त्मनः॑ । यत्पत्नी । य॒ज्ञस्य॒ धृत्या॒ अशि॑थिलंभावाय । सु॒प्र॒जस॑स्त्वा व॒य सु॒पत्नी॒रुप॑ सेदि॒मेत्या॑ह । य॒ज्ञमे॒व तन्मि॑थु॒नीक॑रोति । ऊ॒नेऽति॑रिक्तन्धीयाता॒ इति॒ प्रजात्यै । म॒ही॒नां पयो॒ऽस्योष॑धीना॒॒ रस॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । तस्य॒ तेऽक्षी॑यमाणस्य॒ निर्व॑पामि देवय॒ज्याया॒ इत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते ।। 15 ।। 3.3.4.0 ई॒क्ष॒त॒ आ॒ह॒ शा॒स्ते॒ लो॒का दे॒वता॑ भवति॒ षट् च॑ ।। 4 ।। 3.3.4.1 घृ॒तं च॒ वै मधु॑ च प्र॒जाप॑तिरासीत् । यतो॒ मध्वा॑सीत् । तत॑ प्र॒जा अ॑सृजत । तस्मा॒न्मधु॑षि प्र॒जन॑नमिवास्ति । तस्मा॒न्मधु॑षा॒ न प्रच॑रन्ति । या॒तया॑म॒ हि । आज्ये॑न॒ प्रच॑रन्ति । य॒ज्ञो वा आज्यम् । य॒ज्ञेनै॒व य॒ज्ञं प्रच॑र॒न्त्यया॑तयामत्वाय । पत्न्यवेक्षते ।। 16 ।। 3.3.4.2 मि॒थु॒न॒त्वाय॒ प्रजात्यै । यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ । मि॒थु॒नं तत् । अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्यान्वार॒म्भोऽन॑वच्छित्त्यै । अ॒मे॒ध्यं वा ए॒तत्क॑रोति । यत्पत्न्य॒वेक्ष॑ते । गार्‌ह॑प॒त्येऽधि॑ श्रयति मेध्य॒त्वाय॑ । आ॒ह॒व॒नीय॑म॒भ्युद्द्र॑वति । य॒ज्ञस्य॒ सन्त॑त्यै । तेजो॑ऽसि॒ तेजोऽनु॒ प्रेहीत्या॑ह ।। 17 ।। 3.3.4.3 तेजो॒ वा अ॒ग्निः । तेज॒ आज्यम् । तेज॑सै॒व तेज॒स्सम॑र्धयति । अ॒ग्निस्ते॒ तेजो॒ मा विनै॒दित्या॒हाहि॑सायै । स्फ्यस्य॒ वर्त्मन्थ्सादयति । य॒ज्ञस्य॒ सन्त॑त्यै । अ॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒मित्या॑ह । य॒था॒य॒जुरे॒वैतत् । धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भ॒वेत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते ।। 18 ।। 3.3.4.4 तद्वा अत॑ प॒वित्राभ्यामे॒वोत्पु॑नाति । यज॑मानो॒ वा आज्यम् । प्रा॒णा॒पा॒नौ प॒वित्रे । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति । पु॒न॒रा॒हारम् । ए॒वमि॑व॒ हि प्रा॑णापा॒नौ सं॒चर॑तः । शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॒ऽसीत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः ।। 19 ।। 3.3.4.5 ए॒षां लो॒काना॒माप्त्यै । त्रिः । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । अथाज्य॑वतीभ्याम॒पः । रू॒पमे॒वासा॑मे॒तद्वर्णं॑ दधाति । अपि॒ वा उ॒ताहुः॑ । यथा॑ ह॒ वै योषा॑ सु॒वर्ण॒॒ हिर॑ण्यं पेश॒लं बिभ्र॑ती रू॒पाण्यास्ते । ए॒वमे॒ता ए॒तऱ्हीति॑ । आपो॒ वै सर्वा दे॒वताः ।। 20 ।। 3.3.4.6 ए॒षा हि विश्वे॑षां दे॒वानां त॒नूः । यदाज्यम् । तत्रो॒भयोर्मीमा॒॒सा । जा॒मि स्यात् । यद्यजु॒षाऽऽज्यं॒ यजु॑षा॒ऽप उ॑त्पुनी॒यात् । छन्द॑सा॒ऽप उत्पु॑ना॒त्यजा॑मित्वाय । अथो॑ मिथुन॒त्वाय॑ । सा॒वि॒त्रि॒यर्चा । स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑ । स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति । प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ । अ॒द्भिरे॒वौष॑धी॒स्सं न॑यति । ओष॑धीभि प॒शून् । प॒शुभि॒र्यज॑मानम् । शु॒क्रं त्वा॑ शु॒क्रायां॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषीत्या॑ह सर्व॒त्वाय॑ । पर्याप्त्या॒ अन॑न्तरायाय ।। 21 ।। 3.3.5.0 अ॒भि॒घा॒रय॑ति गृह्णाति ध्रु॒वाया॒ञ्चतु॑ष्पदी प्रयाजानूया॒जेभ्य॒स्तद्द्वे च॑ ।। 5 ।। 3.3.5.1 दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । स ए॒तमिन्द्र॒ आज्य॑स्यावका॒शम॑पश्यत् । तेनावैक्षत । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः । य ए॒वं वि॒द्वानाज्य॑म॒वेक्ष॑ते । भव॑त्या॒त्मना । पराऽस्य॒ भ्रातृ॑व्यो भवति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यदाज्ये॑ना॒न्यानि॑ ह॒वीष्य॑भिघा॒रय॑ति ।। 22 ।। 3.3.5.2 अथ॒ केनाज्य॒मिति॑ । स॒त्येनेति॑ ब्रूयात् । चख्षु॒र्वै स॒त्यम् । स॒त्येनै॒वैन॑द॒भि घा॑रयति । ई॒श्व॒रो वा ए॒षोऽन्धो भवि॑तोः । यश्चख्षु॒षाऽऽज्य॑म॒वेख्ष॑ते । नि॒मील्यावेख्षेत । दा॒धारा॒त्मञ्चख्षुः॑ । अ॒भ्याज्य॑ङ्घारयति । आज्य॑ङ्गृह्णाति ।। 23 ।। 3.3.5.3 छन्दा॑सि॒ वा आज्यम् । छन्दा॑स्ये॒व प्री॑णाति । च॒तुर्जु॒ह्वाङ्गृ॑ह्णाति । चतु॑ष्पाद प॒शवः॑ । प॒शूने॒वाव॑ रुन्धे । अ॒ष्टावु॑प॒भृति॑ । अ॒ष्टाख्ष॑रा गाय॒त्री । गा॒य॒त्र प्रा॒णः । प्रा॒णमे॒व प॒शुषु॑ दधाति । च॒तुर्ध्रु॒वायाम् ।। 24 ।। 3.3.5.4 चतु॑ष्पाद प॒शवः॑ । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑ तिष्ठति । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् । च॒तुर्जु॒ह्वाङ्गृ॒ह्णन्भूयो॑ गृह्णीयात् । अ॒ष्टावु॑प॒भृति॑ गृ॒ह्णन्कनी॑यः । यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिङ्करोति । गौर्वै स्रुचः॑ । च॒तुर्जु॒ह्वाङ्गृ॑ह्णाति । तस्मा॒च्चतु॑ष्पदी ।। 25 ।। 3.3.5.5 अ॒ष्टावु॑प॒भृति॑ । तस्मा॑द॒ष्टाश॑फा । च॒तुर्ध्रु॒वायाम् । तस्मा॒च्चतु॑स्स्तना । गामे॒व तथ्सस्क॑रोति । सास्मै॒ सस्कृ॒तेष॒मूर्ज॑न्दुहे । यज्जु॒ह्वाङ्गृ॒ह्णाति॑ । प्र॒या॒जेभ्य॒स्तत् । यदु॑प॒भृति॑ । प्र॒या॒जा॒नू॒या॒जेभ्य॒स्तत् । सर्व॑स्मै॒ वा ए॒तद्य॒ज्ञाय॑ गृह्यते । य॒द्ध्रु॒वाया॒माज्यम् ।। 26 ।। 3.3.6.0 स्थेत्या॑ह पृथि॒वी वेदि॒र्यन्ति॑ क्रि॒यते॒ वीणु॑र्वी॒र्य॑संमितङ्करोत्याह पाति॒ नाम्नेत्या॑ह लो॒के सा॑दयति॒ षट् च॑ ।। 6 ।। 3.3.6.1 आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह । रू॒पमे॒वासा॑मे॒तन्म॑हि॒मान॒व्व्याँच॑ष्टे । अग्र॑ इ॒मय्यँ॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह । अग्र॑ ए॒व य॒ज्ञन्न॑यन्ति । अग्रे॑ य॒ज्ञप॑तिम् । यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्वृँत्र॒तूर्य॒ इत्या॑ह । वृ॒त्र ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे । आपो॒ हेन्द्र॑व्वँव्रिरे । सं॒ज्ञामे॒वासा॑मे॒तथ्सामा॑न॒व्व्याँच॑ष्टे । प्रोख्षि॑ता॒स्स्थेत्या॑ह ।। 27 ।। 3.3.6.2 तेनाप॒ प्रोख्षि॑ताः । अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । कृष्णो॑ रू॒पङ्कृ॒त्वा । स वन॒स्पती॒न्प्रावि॑शत् । कृष्णोऽस्याखरे॒ष्ठोऽग्नये त्वा॒ स्वाहेत्या॑ह । अ॒ग्नय॑ ए॒वैन॒ञ्जुष्ट॑ङ्करोति । अथो॑ अ॒ग्नेरे॒व मेध॒मव॑ रुन्धे । वेदि॑रसि ब॒र्॒हिषे त्वा॒ स्वाहेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । पृ॒थि॒वी वेदिः॑ ।। 28 ।। 3.3.6.3 प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापयति । ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । यज॑मान॒स्स्रुचः॑ । यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति । दि॒वे त्वा॒ऽन्तरि॑ख्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्॒हिरा॒साद्य॒ प्रोख्ष॑ति । ए॒भ्य ए॒वैन॑ल्लो॒केभ्य॒ प्रोख्ष॑ति । अथ॒ तत॑स्स॒ह स्रु॒चा पु॒रस्तात्प्र॒त्यञ्च॑ङ्ग्र॒न्थिं प्रत्यु॑ख्षति । प्र॒जा वै ब॒र्॒हिः । यथा॒ सूत्यै॑ का॒ल आप॑ पु॒रस्ता॒द्यन्ति॑ ।। 29 ।। 3.3.6.4 ता॒दृगे॒व तत् । स्व॒धा पि॒तृभ्य॒ इत्या॑ह । स्व॒धा॒का॒रो हि पि॑तृ॒णाम् । ऊर्ग्भ॑व बर्‌हि॒षद्भ्य॒ इति॒ दख्षि॑णायै॒ श्रोणे॒रोत्त॑रस्यै॒ निन॑यति॒ सन्त॑त्यै । मासा॒ वै पि॒तरो॑ बर्‌हि॒षदः॑ । मासा॑ने॒व प्री॑णाति । मासा॒ वा ओष॑धीर्व॒र्धय॑न्ति । मासा पचन्ति॒ समृ॑द्ध्यै । अन॑तिस्कन्दन् ह प॒र्जन्यो॑ वर्‌षति । यत्रै॒तदे॒वङ्क्रि॒यते ।। 30 ।। 3.3.6.5 ऊ॒र्जा पृ॑थि॒वीङ्ग॑च्छ॒तेत्या॑ह । पृ॒थि॒व्यामे॒वोर्ज॑न्दधाति । तस्मात्पृथि॒व्या ऊ॒र्जा भु॑ञ्जते । ग्र॒न्थिव्विँ स्र॑सयति । प्रज॑नयत्ये॒व तत् । ऊ॒र्ध्वं प्राञ्च॒मुद्गू॑ढं प्र॒त्यञ्च॒मा य॑च्छति । तस्मात्प्रा॒चीन॒॒ रेतो॑ धीयते । प्र॒तीची प्र॒जा जा॑यन्ते । विष्णो॒स्स्तूपो॒ऽसीत्या॑ह । य॒ज्ञो वै विष्णुः॑ ।। 31 ।। 3.3.6.6 य॒ज्ञस्य॒ धृत्यै । पु॒रस्तात्प्रस्त॒रङ्गृ॑ह्णाति । मुख्य॑मे॒वैन॑ङ्करोति । इय॑न्तङ्गृह्णाति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑तम् । इय॑न्तङ्गृह्णाति । य॒ज्ञ॒प॒रुषा॒ संमि॑तम् । इय॑न्तङ्गृह्णाति । ए॒ताव॒द्वै पुरु॑षे वी॒र्यम् । वी॒र्य॑संमितम् ।। 32 ।। 3.3.6.7 अप॑रिमितङ्गृह्णाति । अप॑रिमित॒स्याव॑रुद्ध्यै । तस्मि॑न्प॒वित्रे॒ अपि॑ सृजति । यज॑मानो॒ वै प्र॑स्त॒रः । प्रा॒णा॒पा॒नौ प॒वित्रे । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति । ऊर्णाम्रदसन्त्वा स्तृणा॒मीत्या॑ह । य॒था॒य॒जुरे॒वैतत् । स्वा॒स॒स्थन्दे॒वेभ्य॒ इत्या॑ह । दे॒वेभ्य॑ ए॒वैन॑थ्स्वास॒स्थङ्क॑रोति ।। 33 ।। 3.3.6.8 ब॒र्॒हिस्स्तृ॑णाति । प्र॒जा वै ब॒र्॒हिः । पृ॒थि॒वी वेदिः॑ । प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापयति । अन॑तिदृश्ञ स्तृणाति । प्र॒जयै॒वैनं॑ प॒शुभि॒रन॑तिदृश्ञङ्करोति । धा॒रय॑न्प्रस्त॒रं प॑रि॒धीन्परि॑ दधाति । यज॑मानो॒ वै प्र॑स्त॒रः । यज॑मान ए॒व तथ्स्व॒यं प॑रि॒धीन्परि॑ दधाति । ग॒न्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒रित्या॑ह ।। 34 ।। 3.3.6.9 विश्व॑मे॒वायु॒र्यज॑माने दधाति । इन्द्र॑स्य बा॒हुर॑सि॒ दख्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । मि॒त्रावरु॑णौ त्वोत्तर॒त परि॑धत्ता॒मित्या॑ह । प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ । प्रा॒णा॒पा॒नावे॒वास्मि॑न्दधाति । सूर्य॑स्त्वा पु॒रस्तात् पा॒त्वित्या॑ह । रख्ष॑सा॒मप॑हत्यै । कस्याश्चिद॒भिश॑स्त्या॒ इत्या॑ह । अप॑रिमितादे॒वैनं॑ पाति ।। 35 ।। 3.3.6.10 वी॒तिहोत्रन्त्वा कव॒ इत्या॑ह । अ॒ग्निमे॒व हो॒त्रेण॒ सम॑र्धयति । द्यु॒मन्त॒॒ समि॑धीम॒हीत्या॑ह॒ समि॑द्ध्यै । अग्ने॑ बृ॒हन्त॑मध्व॒र इत्या॑ह॒ वृद्ध्यै । वि॒शो य॒न्त्रे स्थ॒ इत्या॑ह । वि॒शाय्यँत्यै । उ॒दी॒चीनाग्रे॒ नि द॑धाति॒ प्रति॑ष्ठित्यै । वसू॑ना रु॒द्राणा॑मादि॒त्याना॒॒ सद॑सि सी॒देत्या॑ह । दे॒वता॑नामे॒व सद॑ने प्रस्त॒र सा॑दयति । जु॒हूर॑सि घृ॒ताची॒ नाम्नेत्या॑ह ।। 36 ।। 3.3.6.11 अ॒सौ वै जु॒हूः । अ॒न्तरि॑ख्षमुप॒भृत् । पृ॒थि॒वी ध्रु॒वा । तासा॑मे॒तदे॒व प्रि॒यन्नाम॑ । यद्घृ॒ताचीति॑ । यद्घृ॒ताचीत्याह॑ । प्रि॒येणै॒वैना॒ नाम्ना॑ सादयति । ए॒ता अ॑सदन्थ्सुकृ॒तस्य॑ लो॒क इत्या॑ह । स॒त्यव्वैँ सु॑कृ॒तस्य॑ लो॒कः । स॒त्य ए॒वैनास्सुकृ॒तस्य॑ लो॒के सा॑दयति । ता वि॑ष्णो पा॒हीत्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञस्य॒ धृत्यै । पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि माय्यँ॑ज्ञ॒निय॒मित्या॑ह । य॒ज्ञाय॒ यज॑मानाया॒त्मने । तेभ्य॑ ए॒वाशिष॒माशा॒स्तेऽनार्त्यै ।। 37 ।। 3.3.7.0 परि॑दधाति प्रा॒णन्द॑धाति॒ हि य॒ज्ञो घा॑रयति॒ नम॒ इत्या॑ह प॒श्चाद्वी॒र्या॑णीत्या॑ह॒ भा इत्या॑ह भ॒जेत्या॑ह ध्रु॒वैवास्मि॑न्दधाति॒ त्रीणि॑ च ।। 7 ।। 3.3.7.1 अ॒ग्निना॒ वै होत्रा । दे॒वा असु॑रान॒भ्य॑भवन्न् । अ॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै । एक॑विशतिमिध्मदा॒रूणि॑ भवन्ति । ए॒क॒वि॒॒शो वै पुरु॑षः । पुरु॑ष॒स्याप्त्यै । पञ्च॑दशेध्मदा॒रूण्य॒भ्या द॑धाति । पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अ॒र्ध॒मा॒स॒शस्स॑व्वँथ्स॒र आप्यते । त्रीन्प॑रि॒धीन्परि॑ दधाति ।। 38 ।। 3.3.7.2 ऊ॒र्ध्वे स॒मिधा॒वा द॑धाति । अ॒नू॒या॒जेभ्य॑स्स॒मिध॒मति॑ शिनष्टि । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । वे॒देनोप॑ वाजयति । प्रा॒जा॒प॒त्यो वै वे॒दः । प्रा॒जा॒प॒त्य प्रा॒णः । यज॑मान आहव॒नीयः॑ । यज॑मान ए॒व प्रा॒णन्द॑धाति ।। 39 ।। 3.3.7.3 त्रिरुप॑ वाजयति । त्रयो॒ वै प्रा॒णाः । प्रा॒णाने॒वास्मि॑न्दधाति । वे॒देनो॑प॒यत्य॑ स्रु॒वेण॑ प्राजाप॒त्यमा॑घा॒रमा घा॑रयति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑तिं मुख॒त आर॑भते । अथो प्र॒जाप॑ति॒स्सर्वा॑ दे॒वताः । सर्वा॑ ए॒व दे॒वता प्रीणाति । अ॒ग्निम॑ग्नी॒त्त्रिस्त्रि॒स्सं मृ॒ड्ढीत्या॑ह । त्र्या॑वृ॒द्धि य॒ज्ञः ।। 40 ।। 3.3.7.4 अथो॒ रख्ष॑सा॒मप॑हत्यै । प॒रि॒धीन्थ्सं मार्ष्टि । पु॒नात्ये॒वैनान्॑ । त्रिस्त्रि॒स्सं मार्ष्टि । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । अथो॑ ए॒ते वै दे॑वा॒श्वाः । दे॒वा॒श्वाने॒व तथ्सं मार्ष्टि । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । आसी॑नो॒ऽन्यमा॑घा॒रमा घा॑रयति ।। 41 ।। 3.3.7.5 तिष्ठ॑न्न॒न्यम् । यथाऽनो॑ वा॒ रथ॑व्वाँ यु॒ञ्ज्यात् । ए॒वमे॒व तद॑ध्व॒र्युर्य॒ज्ञय्युँ॑नक्ति । सु॒व॒र्गस्य॑ लो॒कस्या॒भ्यूढ्यै । वह॑न्त्येनङ्ग्रा॒म्या प॒शवः॑ । य ए॒वव्वेँद॑ । भुव॑नमसि॒ वि प्र॑थ॒स्वेत्या॑ह । य॒ज्ञो वै भुव॑नम् । य॒ज्ञ ए॒व यज॑मानं प्र॒जया॑ प॒शुभि॑ प्रथयति । अग्ने॒ यष्ट॑रि॒दन्नम॒ इत्या॑ह ।। 42 ।। 3.3.7.6 अ॒ग्निर्वै दे॒वाना॒य्यँष्टा । य ए॒व दे॒वाना॒य्यँष्टा । तस्मा॑ ए॒व नम॑स्करोति । जुह्वेह्य॒ग्निस्त्वा ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ इत्या॑ह । आ॒ग्ने॒यी वै जु॒हूः । सा॒वि॒त्र्यु॑प॒भृत् । ताभ्या॑मे॒वैने॒ प्रसू॑त॒ आद॑त्ते । अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिष॒मित्या॑ह । अ॒ग्नि पु॒रस्तात् । विष्णु॑र्य॒ज्ञ प॒श्चात् ।। 43 ।। 3.3.7.7 ताभ्या॑मे॒व प्र॑ति॒प्रोच्या॒त्या क्रा॑मति । विजि॑हाथां॒ मा मा॒ सन्ताप्त॒मित्या॒हाहि॑सायै । लो॒कं मे॑ लोककृतौ कृणुत॒मित्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । विष्णो॒स्स्थान॑म॒सीत्या॑ह । य॒ज्ञो वै विष्णुः॑ । ए॒तत्खलु॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम् । यद्य॒ज्ञः । दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने तिष्ठति । इ॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णीत्या॑ह ।। 44 ।। 3.3.7.8 इ॒न्द्रि॒यमे॒व यज॑माने दधाति । स॒मा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒मित्या॑ह॒ वृद्ध्यै । आ॒घा॒रमा॑घा॒र्यमा॑ण॒मनु॑ समा॒रभ्य॑ । ए॒तस्मि॑न्का॒ले दे॒वास्सु॑व॒र्गल्लोँ॒कमा॑यन्न् । सा॒ख्षादे॒व यज॑मानस्सुव॒र्गल्लोँ॒कमे॑ति । अथो॒ समृ॑द्धेनै॒व य॒ज्ञेन॒ यज॑मानस्सुव॒र्गल्लोँ॒कमे॑ति । अह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रित्या॒हानार्त्यै । इन्द्रा॑वा॒न्थ्स्वाहेत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । बृ॒हद्भा इत्या॑ह ।। 45 ।। 3.3.7.9 सु॒व॒र्गो वै लो॒को बृ॒हद्भाः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् । प्रा॒ण आ॑घा॒रः । यथ्स॑स्प॒र्॒शयेत् । भ्रातृ॑व्येऽस्य प्रा॒णन्द॑ध्यात् । अस॑स्पर्‌शयन्न॒त्या क्रा॑मति । यज॑मान ए॒व प्रा॒णन्द॑धाति । पा॒हि माऽग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भ॒जेत्या॑ह ।। 46 ।। 3.3.7.10 अ॒ग्निर्वाव प॒वित्रम् । वृ॒जि॒नमनृ॑त॒न्दुश्च॑रितम् । ऋ॒जु॒क॒र्म स॒त्य सुच॑रितम् । अ॒ग्निरे॒वैन॑व्वृँजि॒नादनृ॑ता॒द्दुश्च॑रितात्पाति । ऋ॒जु॒क॒र्मे स॒त्ये सुच॑रिते भजति । तस्मा॑दे॒वमा शास्ते । आ॒त्मनो॑ गोपी॒थाय॑ । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यदा॑घा॒रः । आ॒त्मा ध्रु॒वा ।। 47 ।। 3.3.7.11 आ॒घा॒रमा॒घार्य॑ ध्रु॒वा सम॑नक्ति । आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ प्रति॑ दधाति । द्विस्सम॑नक्ति । द्वौ हि प्रा॑णापा॒नौ । तदा॑हुः । त्रिरे॒व सम॑ञ्ज्यात् । त्रिधा॑तु॒ हि शिर॒ इति॑ । शिर॑ इवै॒तद्य॒ज्ञस्य॑ । अथो॒ त्रयो॒ वै प्रा॒णाः । प्रा॒णाने॒वास्मि॑न्दधाति । म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ता॒मित्या॑ह । ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।। 48 ।। 3.3.8.0 च॒र॒त्य॒ध्व॒र्यु प्रजा॑तिर्ह्वयते॒ वेदाब्रवीद्बर्‌हि॒षद॑ङ्करोत्यृ॒त्विजो॑ दधाति ब्र॒ह्माऽनु॑करोति च॒त्वारि॑ च ।। 8 ।। 3.3.8.1 धिष्णि॑या॒ वा ए॒ते न्यु॑प्यन्ते । यद्ब्र॒ह्मा । यद्धोता । यद॑ध्व॒र्युः । यद॒ग्नीत् । यद्यज॑मानः । तान् यद॑न्तरे॒यात् । यज॑मानस्य प्रा॒णान्थ्सङ्क॑र्‌षेत् । प्र॒मायु॑कस्स्यात् । पु॒रो॒डाश॑मप॒गृह्य॒ सञ्च॑रत्यध्व॒र्युः ।। 49 ।। 3.3.8.2 यज॑मानायै॒व तल्लो॒क शि॑षति । नास्य॑ प्रा॒णान्थ्सङ्क॑र्‌षति । न प्र॒मायु॑को भवति । पु॒रस्तात् प्र॒त्यङ्ङासी॑नः । इडा॑या॒ इडा॒मा द॑धाति । हस्त्या॒॒ होत्रे । प॒शवो॒ वा इडा । प॒शव॒ पुरु॑षः । प॒शुष्वे॒व प॒शून्प्रति॑ष्ठापयति । इडा॑यै॒ वा ए॒षा प्रजा॑तिः ।। 50 ।। 3.3.8.3 तां प्रजा॑ति॒य्यँज॑मा॒नोऽनु॒ प्र जा॑यते । द्विर॒ङ्गुला॑वनक्ति॒ पर्व॑णोः । द्वि॒पाद्यज॑मान॒ प्रति॑ष्ठित्यै । स॒कृदुप॑ स्तृणाति । द्विरा द॑धाति । स॒कृद॒भि घा॑रयति । च॒तुस्संप॑द्यते । च॒त्वारि॒ वै प॒शो प्र॑ति॒ष्ठाना॑नि । यावा॑ने॒व प॒शुः । तमुप॑ह्वयते ।। 51 ।। 3.3.8.4 मुख॑मिव॒ प्रत्युप॑ह्वयेत । सं॒मु॒खाने॒व प॒शूनुप॑ ह्वयते । प॒शवो॒ वा इडा । तस्मा॒थ्साऽन्वा॒रभ्या । अ॒ध्व॒र्युणा॑ च॒ यज॑मानेन च । उप॑हूत पशु॒मान॑सा॒नीत्या॑ह । उप॒ ह्ये॑नौ॒ ह्वय॑ते॒ होता । इडा॑यै दे॒वता॑नामुपह॒वे । उप॑हूत पशु॒मान्भ॑वति । य ए॒वव्वेँद॑ ।। 52 ।। 3.3.8.5 याव्वैँ हस्त्या॒मिडा॑मा॒दधा॑ति । वा॒चस्सा भा॑ग॒धेयम् । यामु॑प॒ह्वय॑ते । प्रा॒णाना॒॒ सा । वाच॑ञ्चै॒व प्रा॒णाश्चाव॑ रुन्धे । अथ॒ वा ए॒तर्ह्युप॑हूताया॒मिडा॑याम् । पु॒रो॒डाश॑स्यै॒व ब॑र्‌हि॒षदो॑ मीमा॒॒सा । यज॑मानन्दे॒वा अ॑ब्रुवन्न् । ह॒विर्नो॒ निर्व॒पेति॑ । नाहम॑भा॒गो निर्व॑फ्स्या॒मीत्य॑ब्रवीत् ।। 53 ।। 3.3.8.6 न मया॑ऽभा॒गयाऽनु॑वख्ष्य॒थेति॒ वाग॑ब्रवीत् । नाहम॑भा॒गा पु॑रोनुवा॒क्या॑ भविष्या॒मीति॑ पुरोनुवा॒क्या । नाहम॑भा॒गा या॒ज्या॑ भविष्या॒मीति॑ या॒ज्या । न मया॑ऽभा॒गेन॒ वष॑ट्करिष्य॒थेति॑ वषट्का॒रः । यद्य॑जमानभा॒गन्नि॒धाय॑ पुरो॒डाशं॑ बर्‌हि॒षद॑ङ्क॒रोति॑ । ताने॒व तद्भा॒गिन॑ करोति । च॒तु॒र्धा क॑रोति । चत॑स्रो॒ दिशः॑ । दि॒ख्ष्वे॑व प्रति॑तिष्ठति । ब॒र्॒हि॒षद॑ङ्करोति ।। 54 ।। 3.3.8.7 यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा ब॒र्॒हिः । यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति । तस्मा॑द॒स्थ्नाऽन्या प्र॒जा प्र॑ति॒तिष्ठ॑न्ति । मा॒॒सेना॒न्याः । अथो॒ खल्वा॑हुः । दख्षि॑णा॒ वा ए॒ता ह॑विर्य॒ज्ञस्यान्तर्वे॒द्यव॑ रुध्यन्ते । यत्पु॑रो॒डाशं॑ बर्‌हि॒षद॑ङ्क॒रोतीति॑ । च॒तु॒र्धा क॑रोति । च॒त्वारो॒ ह्ये॑ते ह॑विर्य॒ज्ञस्य॒र्त्विजः॑ ।। 55 ।। 3.3.8.8 ब्र॒ह्मा होताऽध्व॒र्युर॒ग्नीत् । तम॒भि मृ॑शेत् । इ॒दं ब्र॒ह्मणः॑ । इ॒द होतुः॑ । इ॒दम॑ध्व॒र्योः । इ॒दम॒ग्नीध॒ इति॑ । यथै॒वादस्सौ॒म्येऽध्व॒रे । आ॒देश॑मृ॒त्विग्भ्यो॒ दख्षि॑णा नी॒यन्ते । ता॒दृगे॒व तत् । अ॒ग्नीधे प्रथ॒माया द॑धाति ।। 56 ।। 3.3.8.9 अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ । अ॒ग्निमु॑खामे॒वर्द्धि॒य्यँज॑मान ऋध्नोति । स॒कृदु॑प॒स्तीर्य॒ द्विरा॒दध॑त् । उ॒प॒स्तीर्य॒ द्विर॒भि घा॑रयति । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । वे॒देन॑ ब्र॒ह्मणे ब्रह्मभा॒गं परि॑हरति । प्रा॒जा॒प॒त्यो वै वे॒दः । प्रा॒जा॒प॒त्यो ब्र॒ह्मा ।। 57 ।। 3.3.8.10 स॒वि॒ता य॒ज्ञस्य॒ प्रसूत्यै । अथ॒ काम॑म॒न्येन॑ । ततो॒ होत्रे । मध्य॒व्वाँ ए॒तद्य॒ज्ञस्य॑ । यद्धोता । म॒ध्य॒त ए॒व य॒ज्ञं प्री॑णाति । अथाध्व॒र्यवे । प्र॒ति॒ष्ठा वा ए॒षा य॒ज्ञस्य॑ । यद॑ध्व॒र्युः । तस्माद्धविर्य॒ज्ञस्यै॒तामे॒वावृत॒मनु॑ ।। 58 ।। 3.3.8.11 अ॒न्या दख्षि॑णा नीयन्ते । य॒ज्ञस्य॒ प्रति॑ष्ठित्यै । अ॒ग्निम॑ग्नीथ्स॒कृथ्स॑कृ॒थ्सं मृ॒ड्ढीत्या॑ह । परा॑ङिव॒ ह्ये॑तर्‌हि॑ य॒ज्ञः । इ॒षि॒ता दैव्या॒ होता॑र॒ इत्या॑ह । इ॒षि॒त हि कर्म॑ क्रि॒यते । भ॒द्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्सूक्तवा॒काय॑ सू॒क्ता ब्रू॒हीत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । स्व॒गा दैव्या॒ होतृ॑भ्य॒ इत्या॑ह । य॒ज्ञमे॒व तथ्स्व॒गा क॑रोति । स्व॒स्तिर्मानु॑षेभ्य॒ इत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । श॒य्योँर्ब्रू॒हीत्या॑ह । श॒य्युँमे॒व बा॑र्‌हस्प॒त्यं भा॑ग॒धेये॑न॒ सम॑र्धयति ।। 59 ।। 3.3.9.0 ति॒ष्ठ॒ती॒मे लो॒का ग॑मयति॒ द्यौर्वृष्टि॑मे॒वाव॑रुन्धे प॒र्यध॑त्था॒ इत्या॑ह॒ समि॑ष्ट्यै भाग॒धेय॑न्धत्त॒मित्या॑ह॒ वा इ॑ध्मस॒व्वृँश्च॑ना॒न्यनु॑वित्त्यै लभते॒ यज॑मानः ।। 9 ।। 3.3.9.1 अथ॒ स्रुचा॑वनु॒ष्टुग्भ्या॒व्वाँज॑वतीभ्या॒व्व्यूँ॑हति । प्र॒ति॒ष्ठा वा अ॑नु॒ष्टुक् । अन्न॒व्वाँजः॒ प्रति॑ष्ठित्यै । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । प्राचीञ्जु॒हूमू॑हति । जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते । प्र॒तीची॑मुप॒भृतम् । ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते । सविषू॑च ए॒वापोह्य॑ स॒पत्ना॒न्॒ यज॑मानः । अ॒स्मिल्लोँ॒के प्रति॑तिष्ठति ।। 60 ।। 3.3.9.2 द्वाभ्याम् । द्विप्र॑तिष्ठो॒ हि । वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॒स्त्वेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । स्रु॒ख्षु प्र॑स्त॒रम॑नक्ति । इ॒मे वै लो॒कास्स्रुचः॑ । यज॑मान प्रस्त॒रः । यज॑मानमे॒व तेज॑साऽनक्ति । त्रे॒धाऽन॑क्ति । त्रय॑ इ॒मे लो॒काः ।। 61 ।। 3.3.9.3 ए॒भ्य ए॒वैन॑ल्लोँ॒केभ्यो॑ऽनक्ति । अ॒भि॒पू॒र्वम॑नक्ति । अ॒भि॒पू॒र्वमे॒व यज॑मान॒न्तेज॑साऽनक्ति । अ॒क्त रिहा॑णा॒ इत्या॑ह । तेजो॒ वा आज्यम् । यज॑मान प्रस्त॒रः । यज॑मानमे॒व तेज॑साऽनक्ति । वि॒यन्तु॒ वय॒ इत्या॑ह । वय॑ ए॒वैन॑ङ्कृ॒त्वा । सु॒व॒र्गल्लोँ॒कङ्ग॑मयति ।। 62 ।। 3.3.9.4 प्र॒जाय्योँनिं॒ मा निर्मृ॑ख्ष॒मित्या॑ह । प्र॒जायै॑ गोपी॒थाय॑ । आप्या॑यन्ता॒माप॒ ओष॑धय॒ इत्या॑ह । आप॑ ए॒वौष॑धी॒रा प्या॑ययति । म॒रुतां॒ पृष॑तय॒स्स्थेत्या॑ह । म॒रुतो॒ वै वृष्ट्या॑ ईशते । वृष्टि॑मे॒वाव॑ रुन्धे । दिव॑ङ्गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॒येत्या॑ह । वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑ रुन्धे ।। 63 ।। 3.3.9.5 याव॒द्वा अ॑ध्व॒र्यु प्र॑स्त॒रं प्र॒हर॑ति । ताव॑द॒स्यायु॑र्मीयते । आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पा॒हीत्या॑ह । आयु॑रे॒वात्मन्ध॑त्ते । याव॒द्वा अ॑ध्व॒र्यु प्र॑स्त॒रं प्र॒हर॑ति । ताव॑दस्य॒ चख्षु॑र्मीयते । च॒ख्षु॒ष्पा अ॑ग्नेऽसि॒ चख्षु॑र्मे पा॒हीत्या॑ह । चख्षु॑रे॒वात्मन्ध॑त्ते । ध्रु॒वाऽसीत्या॑ह॒ प्रति॑ष्ठित्यै । यं प॑रि॒धिं प॒र्यध॑त्था॒ इत्या॑ह ।। 64 ।। 3.3.9.6 य॒था॒य॒जुरे॒वैतत् । अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑ण॒ इत्या॑ह । अ॒ग्नय॑ ए॒वैन॒ञ्जुष्ट॑ङ्करोति । तन्त॑ ए॒तमनु॒ जोषं॑ भरा॒मीत्या॑ह । स॒जा॒ताने॒वास्मा॒ अनु॑कान्करोति । नेदे॒ष त्वद॑पचे॒तया॑ता॒ इत्या॒हानु॑ख्यात्यै । य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त॒मित्या॑ह । भू॒मान॑मे॒वोपै॑ति । प॒रि॒धीन्प्र ह॑रति । य॒ज्ञस्य॒ समि॑ष्ट्यै ।। 65 ।। 3.3.9.7 स्रुचौ॒ सं प्रस्रा॑वयति । यदे॒व तत्र॑ क्रू॒रम् । तत्तेन॑ शमयति । जु॒ह्वामु॑प॒भृतम् । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् । यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिङ्करोति । स॒॒स्रा॒वभा॑गा॒स्स्थेत्या॑ह । वस॑वो॒ वै रु॒द्रा आ॑दि॒त्यास्स॑स्रा॒वभा॑गाः । तेषा॒न्तद्भा॑ग॒धेयम् ।। 66 ।। 3.3.9.8 ताने॒व तेन॑ प्रीणाति । वै॒श्व॒दे॒व्यर्चा । ए॒ते हि विश्वे॑ दे॒वाः । त्रि॒ष्टुग्भ॑वति । इ॒न्द्रि॒यव्वैँ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । अ॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादया॒मीत्या॑ह । इ॒यव्वाँ अ॒ग्निरप॑न्नगृहः । अ॒स्या ए॒वैने॒ सद॑ने सादयति । सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त॒मित्या॑ह ।। 67 ।। 3.3.9.9 प्र॒जा वै प॒शव॑स्सु॒म्नम् । प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते । धु॒रि धु॒र्यौ॑ पात॒मित्या॑ह । जा॒या॒प॒त्योर्गो॑पी॒थाय॑ । अग्ने॑ऽदब्धायोऽशीततनो॒ इत्या॑ह । य॒था॒य॒जुरे॒वैतत् । पा॒हि मा॒ऽद्य दि॒व पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दित्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । अवि॑षन्न पि॒तुङ्कृ॑णु सु॒षदा॒ योनि॒॒ स्वाहेतीध्मस॒व्वृँश्च॑नान्यन्वाहार्य॒पच॑नेऽभ्या॒धाय॑ फलीकरणहो॒मञ्जु॑होति । अति॑रिक्तानि॒ वा इ॑ध्मस॒व्वृँश्च॑नानि ।। 68 ।। 3.3.9.10 अति॑रिक्ता फली॒कर॑णाः । अति॑रिक्तमाज्योच्छेष॒णम् । अति॑रिक्त ए॒वाति॑रिक्तन्दधाति । अथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाऽव॑ रुन्धे । वेदि॑र्दे॒वेभ्यो॒ निला॑यत । ताव्वेँ॒देनान्व॑विन्दन्न् । वे॒देन॒ वेदि॑व्विँविदु पृथि॒वीम् । सा प॑प्रथे पृथि॒वी पार्थि॑वानि । गर्भं॑ बिभर्ति॒ भुव॑नेष्व॒न्तः । ततो॑ य॒ज्ञो जा॑यते विश्व॒दानि॒रिति॑ पु॒रस्ताथ्स्तम्बय॒जुषो॑ वे॒देन॒ वेदि॒॒ संमा॒र्ष्ट्यनु॑वित्त्यै ।। 69 ।। 3.3.9.11 अथो॒ यद्वे॒दश्च॒ वेदि॑श्च॒ भव॑तः । मि॒थु॒न॒त्वाय॒ प्रजात्यै । प्र॒जाप॑ते॒र्वा ए॒तानि॒ श्मश्रू॑णि । यद्वे॒दः । पत्नि॑या उ॒पस्थ॒ आस्य॑ति । मि॒थु॒नमे॒व क॑रोति । वि॒न्दते प्र॒जाम् । वे॒द होताऽऽह॑व॒नीयाथ्स्तृ॒णन्ने॑ति । य॒ज्ञमे॒व तथ्सन्त॑नो॒त्योत्त॑रस्मादर्धमा॒सात् । त सन्त॑त॒मुत्त॑रेऽर्धमा॒स आल॑भते ।। 70 ।। 3.3.9.12 तङ्का॒लेका॑ल॒ आग॑ते यजते । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । स त्वा अ॑ध्व॒र्युस्स्यात् । यो यतो॑ य॒ज्ञं प्र॑यु॒ङ्क्ते । तदे॑नं प्रतिष्ठा॒पय॒तीति॑ । वाता॒द्वा अ॑ध्व॒र्युर्य॒ज्ञं प्रयु॑ङ्क्ते । देवा॑ गातुविदो गा॒तुव्विँ॒त्वा गा॒तुमि॒तेत्या॑ह । यत॑ ए॒व य॒ज्ञं प्र॑यु॒ङ्क्ते । तदे॑नं॒ प्रति॑ष्ठापयति । प्रति॑ तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।। 71 ।। 3.3.10.0 स॒वि॒तृप्र॑सूतो यथादेव॒तं प्र॒जयेत्या॑ह सि॒ञ्चन्मृ॑ष्ट॒ एक॑ञ्च ।। 10 ।। 3.3.10.1 यो वा अय॑थादेवतय्यँ॒ज्ञमु॑प॒चर॑ति । आ दे॒वताभ्यो वृश्च्यते । पापी॑यान्भवति । यो य॑थादेव॒तम् । न दे॒वताभ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । वा॒रु॒णो वै पाशः॑ । इ॒मव्विँष्या॑मि॒ वरु॑णस्य॒ पाश॒मित्या॑ह । व॒रु॒ण॒पा॒शादे॒वैनां मुञ्चति । स॒वि॒तृप्र॑सूतो यथादेव॒तम् ।। 72 ।। 3.3.10.2 न दे॒वताभ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒क इत्या॑ह । अ॒ग्निर्वै धा॒ता । पुण्य॒ङ्कर्म॑ सुकृ॒तस्य॑ लो॒कः । अ॒ग्निरे॒वैनान्धा॒ता । पुण्ये॒ कर्म॑णि सुकृ॒तस्य॑ लो॒के द॑धाति । स्यो॒नं मे॑ स॒ह पत्या॑ करो॒मीत्या॑ह । आ॒त्मन॑श्च॒ यज॑मानस्य॒ चानात्यै स॒न्त्वाय॑ । समायु॑षा॒ सं प्र॒जयेत्या॑ह ।। 73 ।। 3.3.10.3 आ॒शिष॑मे॒वैतामा शास्ते पूर्णपा॒त्रे । अ॒न्त॒तो॑ऽनु॒ष्टुभा । चतु॑ष्प॒द्वा ए॒तच्छन्द॒ प्रति॑ष्ठितं॒ पत्नि॑यै पूर्णपा॒त्रे भ॑वति । अ॒स्मिल्लोँ॒के प्रति॑तिष्ठा॒नीति॑ । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । अथो॒ वाग्वा अ॑नु॒ष्टुक् । वाङ्मि॑थु॒नम् । आपो॒ रेत॑ प्र॒जन॑नम् । ए॒तस्मा॒द्वै मि॑थु॒नाद्वि॒द्योत॑मानस्स्त॒नय॑न्वर्‌षति । रेत॑स्सि॒ञ्चन्न् ।। 74 ।। 3.3.10.4 प्र॒जा प्र॑ज॒नयन्न्॑ । यद्वै य॒ज्ञस्य॒ ब्रह्म॑णा यु॒ज्यते । ब्रह्म॑णा॒ वै तस्य॑ विमो॒कः । अ॒द्भिश्शान्तिः॑ । विमु॑क्त॒व्वाँ ए॒तर्‌हि॒ योक्त्रं॒ ब्रह्म॑णा । आ॒दायै॑न॒त्पत्नी॑ स॒हाप उप॑गृह्णीते॒ शान्त्यै । अ॒ञ्ज॒लौ पूर्णपा॒त्रमा न॑यति । रेत॑ ए॒वास्यां प्र॒जान्द॑धाति । प्र॒जया॒ हि म॑नु॒ष्य॑ पू॒र्णः । मुख॒व्विँ मृ॑ष्टे । अ॒व॒भृ॒थस्यै॒व रू॒पङ्कृ॒त्वोत्ति॑ष्ठति ।। 75 ।। 3.3.11.0 नो॒ द्वि॒ष्म इति॑ परा॒वत॑मर्पयति ।। 11 ।। 3.3.11.1 प॒रि॒वे॒षो वा ए॒ष वन॒स्पती॑नाम् । यदु॑पवे॒षः । य ए॒वव्वेँद॑ । वि॒न्दते॑ परिवे॒ष्टारम् । तमु॑त्क॒रे । यन्दे॒वा म॑नु॒ष्ये॑षु । उ॒प॒वे॒षमधा॑रयन्न् । ये अ॒स्मदप॑ चेतसः । तान॒स्मभ्य॑मि॒हा कु॑रु । उप॑वे॒षोप॑ विड्ढि नः ।। 76 ।। 3.3.11.2 प्र॒जां पुष्टि॒मथो॒ धनम् । द्वि॒पदो॑ न॒श्चतु॑ष्पदः । ध्रु॒वानन॑पगान्कु॒र्विति॑ पु॒रस्तात्प्र॒त्यञ्च॒मुप॑ गूहति । तस्मात्पु॒रस्तात्प्र॒त्यञ्च॑श्शू॒द्रा अव॑स्यन्ति । स्थ॒वि॒म॒त उप॑गूहति । अप्र॑तिवादिन ए॒वैनान्कुरुते । धृष्टि॒र्वा उ॑पवे॒षः । शु॒चर्तो वज्रो॒ ब्रह्म॑णा॒ सशि॑तः । योप॑वे॒षे शुक् । साऽमुमृ॑च्छतु॒ यन्द्वि॒ष्म इति॑ ।। 77 ।। 3.3.11.3 अथास्मै नाम॒ गृह्य॒ प्रह॑रति । निर॒मुन्नु॑द॒ ओक॑सः । स॒पत्नो॒ य पृ॑त॒न्यति॑ । नि॒र्बा॒ध्ये॑न ह॒विषा । इन्द्र॑ एणं॒ परा॑शरीत् । इ॒हि ति॒स्र प॑रा॒वतः॑ । इ॒हि पञ्च॒ जना॒॒ अति॑ । इ॒हि ति॒स्रोऽति॑ रोच॒नायाव॑त् । सूर्यो॒ अस॑द्दि॒वि । प॒र॒मान्त्वा॑ परा॒वतम् ।। 78 ।। 3.3.11.4 इन्द्रो॑ नयतु वृत्र॒हा । यतो॒ न पुन॒राय॑सि । श॒श्व॒तीभ्य॒स्समाभ्य॒ इति॑ । त्रि॒वृद्वा ए॒ष वज्रो॒ ब्रह्म॑णा॒ सशि॑तः । शु॒चैवैन॑व्विँ॒ध्वा । ए॒भ्यो लो॒केभ्यो॑ नि॒र्णुद्य॑ । वज्रे॑ण॒ ब्रह्म॑णा स्तृणुते । ह॒तो॑ऽसावव॑धिष्मा॒मुमित्या॑ह॒ स्तृत्यै । यन्द्वि॒ष्यात्तन्ध्या॑येत् । शु॒चैवैन॑मर्पयति ।। 79 ।। 3.4.0.0 ब्रह्म॑णे गी॒ताय॒ श्रमा॑य स॒न्धये॑ न॒दीभ्य॑ उथ्सा॒देभ्य॒ ऋत्यै॒ भाया॒ अर्मेभ्यो म॒न्यवे॑ य॒म्यै॑ दश॑दश॒ सरोभ्यो॒ द्वाद॑श प्रति॒श्रुत्का॑यै बीभ॒थ्सायै॒ दश॑दश॒ हसा॑य स॒प्ताख्ष॑रा॒जाय॒ त्रयो॑दश॒ भूम्यै॒ दश॑ वा॒चे षडथ॒ नवैका॒न्नवि॑शतिः ।। 19 ।। ब्रह्म॑णे य॒म्यै॑ नव॑दश ।। 19 ।। ब्रह्म॑णे कुमा॒रीम् ।। हरिः॑ ओम् । चतुर्थप्रपाठकस्समाप्तः ।। 3.4.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके चतुर्थप्रपाठक प्रारम्भः । हरिः ओम् ।। 3.4.1.1 ब्रह्म॑णे ब्राह्म॒णमाल॑भते । ख्ष॒त्त्राय॑ राज॒न्यम् । म॒रुद्भ्यो॒ वैश्यम् । तप॑से शू॒द्रम् । तम॑से॒ तस्क॑रम् । नार॑काय वीर॒हणम् । पा॒प्मने क्ली॒बम् । आ॒क्र॒याया॑यो॒गूम् । कामा॑य पुश्च॒लूम् । अति॑क्रुष्टाय माग॒धम् ।। 1 ।। 3.4.2.1 गी॒ताय॑ सू॒तम् । नृ॒त्ताय॑ शैलू॒षम् । धर्मा॑य सभाच॒रम् । न॒र्माय॑ रे॒भम् । नरि॑ष्ठायै भीम॒लम् । हसा॑य॒ कारिम् । आ॒न॒न्दाय॑ स्त्रीष॒खम् । प्रमुदे॑ कुमारीपु॒त्रम् । मे॒धायै॑ रथका॒रम् । धैर्या॑य॒ तख्षा॑णम् ।। 2 ।। 3.4.3.1 श्रमा॑य कौला॒लम् । मा॒यायै॑ कार्मा॒रम् । रू॒पाय॑ मणिका॒रम् । शुभे॑ व॒पम् । श॒र॒व्या॑या इषुका॒रम् । हे॒त्यै ध॑न्वका॒रम् । कर्म॑णे ज्याका॒रम् । दि॒ष्टाय॑ रज्जुस॒र्गम् । मृ॒त्य॑वे मृग॒युम् । अन्त॑काय श्व॒नितम् ।। 3 ।। 3.4.4.1 स॒न्धये॑ जा॒रम् । गे॒हायो॑पप॒तिम् । निऱ्ऋ॑त्यै परिवि॒त्तम् । आर्त्यै॑ परिविविदा॒नम् । अराध्यै दिधिषू॒पतिम् । प॒वित्रा॑य भि॒षजम् । प्र॒ज्ञाना॑य नख्षत्रद॒र्॒शम् । निष्कृ॑त्यै पेशस्का॒रीम् । बला॑योप॒दाम् । वर्णा॑यानू॒रुधम् ।। 4 ।। 3.4.5.1 न॒दीभ्य॑ पौञ्जि॒ष्टम् । ऋ॒ख्षीकाभ्यो॒ नैषा॑दम् । पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मदम् । प्र॒युद्भ्य॒ उन्म॑त्तम् । ग॒न्ध॒र्वा॒प्स॒राभ्यो॒ व्रात्यम् । स॒र्प॒दे॒व॒ज॒नेभ्योऽप्र॑तिपदम् । अवेभ्य कित॒वम् । इ॒र्यता॑या॒ अकि॑तवम् । पि॒शा॒चेभ्यो॑ बिदलका॒रम् । या॒तु॒धानेभ्य कण्टकका॒रम् ।। 5 ।। 3.4.6.1 उ॒थ्सा॒देभ्य॑ कु॒ब्जम् । प्र॒मुदे॑ वाम॒नम् । द्वा॒र्भ्यस्स्रा॒मम् । स्वप्ना॑या॒न्धम् । अध॑र्माय बधि॒रम् । सं॒ज्ञाना॑य स्मरका॒रीम् । प्र॒का॒मोद्या॑योप॒सदम् । आ॒शि॒ख्षायै प्र॒श्ञिनम् । उ॒प॒शि॑ख्षाया॑ अभिप्र॒श्ञिनम् । म॒र्यादा॑यै प्रश्ञविवा॒कम् ।। 6 ।। 3.4.7.1 ऋत्यै स्ते॒नहृ॑दयम् । वैर॑हत्याय॒ पिशु॑नम् । विवि॑त्त्यै ख्ष॒त्तारम् । औप॑द्रष्टाय सङ्ग्रही॒तारम् । बला॑यानुच॒रम् । भू॒म्ने प॑रिष्क॒न्दम् । प्रि॒याय॑ प्रियवा॒दिनम् । अरि॑ष्ट्या अश्वसा॒दम् । मेधा॑य वासपल्पू॒लीम् । प्र॒का॒माय॑ रजयि॒त्रीम् ।। 7 ।। 3.4.8.1 भायै॑ दार्वाहा॒रम् । प्र॒भाया॑ आग्ने॒न्धम् । नाक॑स्य पृ॒ष्ठाया॑भिषे॒क्तारम् । ब्र॒ध्नस्य॑ वि॒ष्टपा॑य पात्रनिर्णे॒गम् । दे॒व॒लो॒काय॑ पेशि॒तारम् । म॒नु॒ष्य॒लो॒काय॑ प्रकरि॒तारम् । सर्वेभ्यो लो॒केभ्य॑ उपसे॒क्तारम् । अव॑र्त्यै व॒धायो॑पमन्थि॒तारम् । सु॒व॒र्गाय॑ लो॒काय॑ भाग॒दुघम् । वऱ्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टारम् ।। 8 ।। 3.4.9.1 अर्मेभ्यो हस्ति॒पम् । ज॒वायाश्व॒पम् । पुष्ट्यै॑ गोपा॒लम् । तेज॑सेऽजपा॒लम् । वी॒र्या॑याविपा॒लम् । इरा॑यै की॒नाशम् । की॒लाला॑य सुराका॒रम् । भ॒द्राय॑ गृह॒पम् । श्रेय॑से वित्त॒धम् । अध्य॑ख्षायानुख्ष॒त्तारम् ।। 9 ।। 3.4.10.1 म॒न्यवे॑ऽयस्ता॒पम् । क्रोधा॑य निस॒रम् । शोका॑याभिस॒रम् । उ॒त्कू॒ल॒वि॒कू॒लाभ्यान्त्रि॒स्थिनम् । योगा॑य यो॒क्तारम् । ख्षेमा॑य विमो॒क्तारम् । वपु॑षे मानस्कृ॒तम् । शीला॑याञ्जनीका॒रम् । निऱ्ऋ॑त्यै कोशका॒रीम् । य॒माया॒सूम् ।। 10 ।। 3.4.11.1 य॒म्यै॑ यम॒सूम् । अथ॑र्व॒भ्योऽव॑तोकाम् । स॒व्वँ॒थ्स॒राय॑ पर्या॒रिणीम् । प॒रि॒व॒थ्स॒रायावि॑जाताम् । इ॒दा॒व॒थ्स॒राया॑प॒स्कद्व॑रीम् । इ॒द्व॒थ्स॒राया॒तीत्व॑वरीम् । व॒थ्स॒राय॒ विज॑र्जराम् । स॒र्व॒न्थ्स॒राय॒ पलि॑क्नीम् । वना॑य वन॒पम् । अ॒न्यतो॑रण्याय दाव॒पम् ।। 11 ।। 3.4.12.1 सरोभ्यो धैव॒रम् । वेश॑न्ताभ्यो॒ दाशम् । उ॒प॒स्थाव॑रीभ्यो॒ बैन्दम् । न॒ड्व॒लाभ्य॑श्शौष्क॒लम् । पा॒र्या॑य कैव॒र्तम् । अ॒वा॒र्या॑य मार्गा॒रम् । ती॒र्थेभ्य॑ आ॒न्दम् । विष॑मेभ्यो मैना॒लम् । स्वनेभ्य॒ पर्ण॑कम् । गुहाभ्य॒ किरा॑तम् । सानु॑भ्यो॒ जम्भ॑कम् । पर्व॑तेभ्य॒ किंपू॑रुषम् ।। 12 ।। 3.4.13.1 प्र॒ति॒श्रुत्का॑या ऋतु॒लम् । घोषा॑य भ॒षम् । अन्ता॑य बहुवा॒दिनम् । अ॒न॒न्ताय॒ मूकम् । मह॑से वीणावा॒दम् । क्रोशा॑य तूणव॒ध्मम् । आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् । अ॒व॒र॒स्प॒राय॑ शङ्ख॒ध्मम् । ऋ॒भुभ्यो॑जिनसन्धा॒यम् । सा॒ध्येभ्य॑श्चर्म॒म्णम् । ।। 13 ।। 3.4.14.1 बी॒भ॒थ्सायै॑ पौल्क॒सम् । भूत्यै॑ जागर॒णम् । अभूत्यै स्वप॒नम् । तु॒लायै॑ वाणि॒जम् । वर्णा॑य हिरण्यका॒रम् । विश्वेभ्यो दे॒वेभ्य॑स्सिध्म॒लम् । प॒श्चा॒द्दो॒षाय॑ ग्ला॒वम् । ऋत्यै॑ जनवा॒दिनम् । व्यृ॑द्ध्या अपग॒ल्भम् । स॒॒श॒राय॑ प्र॒च्छिदम् ।। 14 ।। 3.4.15.1 हसा॑य पुश्च॒लूमा ल॑भते । वी॒णा॒वा॒दङ्गण॑कङ्गी॒ताय॑ । याद॑से शाबु॒ल्याम् । न॒र्माय॑ भद्रव॒तीम् । तू॒ण॒व॒ध्मङ्ग्रा॑म॒ण्यं॑ पाणिसङ्घा॒तन्नृ॒त्ताय॑ । मोदा॑यानु॒क्रोश॑कम् । आ॒न॒न्दाय॑ तल॒वम् ।। 15 ।। 3.4.16.1 अ॒ख्ष॒रा॒जाय॑ कित॒वम् । कृ॒ताय॑ सभा॒विनम् । त्रेता॑या आदिनवद॒र्॒शम् । द्वा॒प॒राय॑ बहि॒स्सदम् । कल॑ये सभास्था॒णुम् । दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् । अध्व॑ने ब्रह्मचा॒रिणम् । पि॒शा॒चेभ्य॑स्सैल॒गम् । पि॒पा॒सायै॑ गोव्य॒च्छम् । निऱ्ऋ॑त्यै गोघा॒तम् । ख्षु॒धे गो॑विक॒र्तम् । ख्षु॒त्तृ॒ष्णाभ्या॒न्तम् । यो गाव्विँ॒कृन्त॑न्तं मा॒॒सं भिख्ष॑माण उप॒तिष्ठ॑ते ।। 16 ।। 3.4.17.1 भूम्यै॑ पीठस॒र्पिण॒मा ल॑भते । अ॒ग्नयेऽ॑स॒लम् । वा॒यवे॑ चाण्डा॒लम् । अ॒न्तरि॑ख्षाय वशन॒र्तिनम् । दि॒वे ख॑ल॒तिम् । सूर्या॑य हर्य॒ख्षम् । च॒न्द्रम॑से मिर्मि॒रम् । नख्ष॑त्रेभ्य कि॒लासम् । अह्ने॑ शु॒क्लं पि॑ङ्ग॒लम् । रात्रि॑यै कृ॒ष्णं पि॑ङ्गा॒ख्षम् ।। 17 ।। 3.4.18.1 वा॒चे पुरु॑ष॒मा ल॑भते । प्रा॒णम॑पा॒नव्व्याँ॒नमु॑दा॒न स॑मा॒नन्तान् वा॒यवे । सूर्या॑य॒ चख्षु॒रा ल॑भते । मन॑श्च॒न्द्रम॑से । दि॒ग्भ्यश्श्रोत्रम् । प्र॒जाप॑तये॒ पुरु॑षम् ।। 18 ।। 3.4.19.1 अथै॒तानरू॑पेभ्य॒ आल॑भते । अति॑ह्रस्व॒मति॑दीर्घम् । अतिकृ॑श॒मत्य॑सलम् । अति॑शुक्ल॒मति॑कृष्णम् । अति॑श्लख्ष्ण॒मति॑लोमशम् । अति॑किरिट॒मति॑दन्तुरम् । अति॑मिर्मिर॒मति॑मेमिषम् । आ॒शायै॑ जा॒मिम् । प्र॒ती॒ख्षायै॑ कुमा॒रीम् ।। 19 ।। 3.5.0.0 तृतीयाष्टके पञ्चम प्रपाठकप्रारम्भः । हरिःओम् । 3.5.0.0 स॒त्यं प्रवोऽग्ने॑ म॒हान॒ग्निर् होता॑ स॒मिधो॒ऽग्निर्वृ॒त्राण्य॒ग्निर्मू॒र्धोप॑हूतन्दे॒वं ब॒र्॒हिरि॒दन्द्या॑वापृथिवी॒ तच्छ॒य्योँरा प्या॑य॒स्वोप॑हूत॒न्त्रयो॑दश ।। 13 ।। स॒त्यव्वँ॒य स्या॑म वृ॒ष्टिद्या॑वा त्रि॒॒शत् । स॒त्यमुप॑हूता ।। 30 ।। हरिः॑ ओम् ।। कृष्णयजुर्ब्राह्मणे तृतीयाष्टके पञ्चम प्रपाठकस्समाप्तः ।। 3.5.1.0 स॒त्यन्दश॑ ।। 1 ।। 3.5.1.1 स॒त्यं प्रप॑द्ये । ऋ॒तं प्रप॑द्ये । अ॒मृतं॒ प्रप॑द्ये । प्र॒जाप॑ते प्रि॒यान्त॒नुव॒मनार्तां॒ प्रप॑द्ये । इ॒दम॒हं प॑ञ्चद॒शेन॒ वज्रे॑ण । द्वि॒षन्तं॒ भ्रातृ॑व्य॒मव॑ क्रामामि । योऽस्मान्द्वेष्टि॑ । यञ्च॑ व॒यन्द्वि॒ष्मः । भूर्भुव॒स्सुवः॑ । हिम् ।। 1 ।। 3.5.2.0 श्र॒वाय्य॑मिधीम॒ह्यसि॑ स॒प्त च॑ ।। 2 ।। 3.5.2.1 प्र वो॒ वाजा॑ अ॒भिद्य॑वः । ह॒विष्म॑न्तो घृ॒ताच्या । दे॒वाञ्जि॑गाति सुम्न॒युः । अग्न॒ आया॑हि वी॒तये । गृ॒णा॒नो ह॒व्यदा॑तये । नि होता॑ सथ्सि ब॒र्॒हिषि॑ । तन्त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य । स न॑ पृ॒थुश्श्र॒वाय्यम् ।। 2 ।। 3.5.2.2 अच्छा॑ देव विवाससि । बृ॒हद॑ग्ने सु॒वीर्यम् । ई॒डेन्यो॑ नम॒स्य॑स्ति॒रः । तमा॑सि दर्‌श॒तः । सम॒ग्निरि॑ध्यते॒ वृषा । वृषो॑ अ॒ग्निस्समि॑ध्यते । अश्वो॒ न दे॑व॒वाह॑नः । त ह॒विष्म॑न्त ईडते । वृष॑णन्त्वा व॒यव्वृँषन्न्॑ । वृषा॑ण॒स्समि॑धीमहि ।। 3 ।। 3.5.2.3 अग्ने॒ दीद्य॑तं बृ॒हत् । अ॒ग्निन्दू॒तव्वृँ॑णीमहे । होता॑रव्विँ॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुम् । स॒मि॒ध्यमा॑नो अध्व॒रे । अ॒ग्नि पा॑व॒क ईड्यः॑ । शो॒चिष्के॑श॒स्तमी॑महे । समि॑द्धो अग्न आहुत । दे॒वान् य॑ख्षि स्वध्वर । त्व हि ह॑व्य॒वाडसि॑ । आ जु॑होत दुव॒स्यत॑ । अ॒ग्निं प्र॑य॒त्य॑ध्व॒रे । वृ॒णीध्व ह॑व्य॒वाह॑नम् । त्वव्वँरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वाव्वँ॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।।4।। 3.5.3.0 दे॒वाना॒मिन्द्र॒मा व॑ह॒ षट् च॑ ।। 3 ।। 3.5.3.1 अग्ने॑ म॒हा अ॑सि ब्राह्मण भारत । असा॒वसौ । दे॒वेद्धो॒ मन्वि॑द्धः । ऋषि॑ष्टुतो॒ विप्रा॑नुमदितः । क॒वि॒श॒स्तो ब्रह्म॑सशितो घृ॒ताह॑वनः । प्र॒णीर्य॒ज्ञानाम् । र॒थीर॑ध्व॒राणाम् । अ॒तूर्तो॒ होता । तूर्णि॑र्‌हव्य॒वाट् । आस्पात्र॑ञ्जु॒हूर्दे॒वानाम् ।। 5 ।। 3.5.3.2 च॒म॒सो दे॑व॒पानः॑ । अ॒रा इ॑वाग्ने ने॒मिर्दे॒वास्त्वं प॑रि॒भूर॑सि । आ व॑ह दे॒वान् यज॑मानाय । अ॒ग्निम॑ग्न॒ आव॑ह । सोम॒माव॑ह । अ॒ग्निमाव॑ह । प्र॒जाप॑ति॒माव॑ह । अ॒ग्नीषोमा॒वाव॑ह । इ॒न्द्रा॒ग्नी आव॑ह । इन्द्र॒माव॑ह । म॒हे॒न्द्रमाव॑ह । दे॒वा आज्य॒पा आव॑ह । अ॒ग्नि हो॒त्रायाव॑ह । स्वं म॑हि॒मान॒मा व॑ह । आ चाग्ने दे॒वान् वह॑ । सु॒यजा॑ च यज जातवेदः ।। 6 ।। 3.5.4.0 अ॒ग्निर्‌होता॒ नव॑ ।। 4 ।। 3.5.4.1 अ॒ग्निर् होता॒ वेत्व॒ग्निः । हो॒त्रव्वेँत्तु प्रावि॒त्रम् । स्मो व॒यम् । सा॒धु ते॑ यजमान दे॒वता । घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॑स्व । दे॒वा॒युव॑व्विँ॒श्ववा॑राम् । ईडा॑महै दे॒वा ई॒डेन्यान्॑ । न॒म॒स्याम॑ नम॒स्यान्॑ । यजा॑म य॒ज्ञियान्॑ ।। 7 ।। 3.5.5.0 इ॒न्द्रा॒ग्नी पञ्च॑ च ।। 5 ।। 3.5.5.1 स॒मिधो॑ अग्न॒ आज्य॑स्य वियन्तु । तनू॒नपा॑दग्न॒ आज्य॑स्य वेतु । इ॒डो अ॑ग्न॒ आज्य॑स्य वियन्तु । ब॒र्॒हिर॑ग्न॒ आज्य॑स्य वेतु । स्वाहा॒ऽग्निम् । स्वाहा॒ सोमम् । स्वाहा॒ऽग्निम् । स्वाहा प्र॒जाप॑तिम् । स्वाहा॒ऽग्नीषोमौ । स्वाहेन्द्रा॒ग्नी । स्वाहेन्द्रम् । स्वाहा॑ महे॒न्द्रम् । स्वाहा॑ दे॒वा आज्य॒पान् । स्वाहा॒ऽग्नि हो॒त्राज्जु॑षा॒णाः । अग्न॒ आज्य॑स्य वियन्तु ।। 8 ।। 3.5.6.0 स्वा षट् च॑ ।। 6 ।। 3.5.6.1 अ॒ग्निर्वृ॒त्राणि॑ जङ्घनत् । द्र॒वि॒ण॒स्युर्वि॑प॒न्यया । समि॑द्धश्शु॒क्र आहु॑तः । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । त्व सो॑मासि॒ सत्प॑तिः । त्व राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ । जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु । अ॒ग्नि प्र॒त्नेन॒ जन्म॑ना । शुम्भा॑नस्त॒नुव॒ स्वाम् । क॒विर्विप्रे॑ण वावृधे । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । सोम॑ गी॒र्भिष्ट्वा॑ व॒यम् । व॒र्धया॑मो वचो॒विदः॑ । सु॒मृ॒डी॒को न॒ आवि॑श । जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ।। 9 ।। 3.5.7.0 अ॒स्त्व॒ध॒त्त॒॒ र॒यिञ्च॑र्‌षणि॒प्रास्सोम॑स्य प्रि॒या धामा॒नीष॒ष्षट्च॑ ।। 7 ।। 3.5.7.1 अ॒ग्निर्मू॒र्धा दि॒व क॒कुत् । पति॑ पृथि॒व्या अ॒यम् । अ॒पा रेता॑सि जिन्वति । भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता । यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्॒षाम् । जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहम् । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जहु॒मस्तन्नो॑ अस्तु ।। 10 ।। 3.5.7.2 व॒य स्या॑म॒ पत॑यो रयी॒णाम् । स वे॑द पु॒त्र पि॒तर॒॒ स मा॒तरम् । स सू॒नुर्भु॑व॒थ्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑ख्ष॒॒ स सुवः॑ । स विश्वा॒ भुवो॑ अभव॒थ्स आभ॑वत् । अग्नी॑षोमा॒ सवे॑दसा । सहू॑ती वनत॒ङ्गिरः॑ । सन्दे॑व॒त्रा ब॑भूवथुः । यु॒वमे॒तानि॑ दि॒वि रो॑च॒नानि॑ । अ॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।। 11 ।। 3.5.7.3 यु॒व सिन्धू॑ र॒भिश॑स्तेरव॒द्यात् । अग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान् । इन्द्राग्नी रोच॒ना दि॒वः । परि॒ वाजे॑षु भूषथः । तद्वाञ्चेति॒ प्रवी॒र्यम् । श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाजम् । इन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः । सह॑स्तमा॒ सह॑सा वाज॒यन्ता । एन्द्र॑ सान॒सि र॒यिम् ।। 12 ।। 3.5.7.4 स॒जित्वा॑न सदा॒सहम् । वर्‌षि॑ष्ठमू॒तये॑ भर । प्रस॑साहिषे पुरुहूत॒ शत्रून्॑ । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दख्षि॑णेना॒ वसू॑नि । पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् । म॒हा इन्द्रो॒ य ओज॑सा । प॒र्जन्यो॑ वृष्टि॒मा इ॑व । स्तोमैर्व॒थ्सस्य॑ वावृधे । म॒हा इन्द्रो॑ नृ॒वदाच॑र्‌षणि॒प्राः ।। 13 ।। 3.5.7.5 उ॒त द्वि॒बर्‌हा॑ अमि॒नस्सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑य । उ॒रु पृ॒थुस्सुकृ॑त क॒र्तृभि॑र्भूत् । पि॒प्री॒हि दे॒वा उ॑श॒तो य॑विष्ठ । वि॒द्वा ऋ॒तूऱ्ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने । त्व होतॄ॑णाम॒स्याय॑जिष्ठः । अ॒ग्नि स्वि॑ष्ट॒कृतम् । अया॑ड॒ग्निर॒ग्ने प्रि॒या धामा॑नि । अया॒ट्थ्सोम॑स्य प्रि॒या धामा॑नि ।। 14 ।। 3.5.7.6 अया॑ड॒ग्ने प्रि॒या धामा॑नि । अयाट्प्र॒जाप॑ते प्रि॒या धामा॑नि । अया॑ड॒ग्नीषोम॑यो प्रि॒या धामा॑नि । अया॑डिन्द्राग्नि॒योः प्रि॒या धामा॑नि । अया॒डिन्द्र॑स्य प्रि॒या धामा॑नि । अयाण्महे॒न्द्रस्य॑ प्रि॒या धामा॑नि । अयाड्दे॒वाना॑माज्य॒पानां प्रि॒या धामा॑नि । यख्ष॑द॒ग्नेर्‌होतु॑ प्रि॒या धामा॑नि । यख्ष॒थ्स्वं म॑हि॒मानम् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षता॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः । पाव॑क शोचे॒ वेष्ट्व हि यज्वा । ऋ॒ता य॑जासि महि॒ना वियद्भूः । ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ।। 15 ।। 3.5.8.0 स॒हर्‌ष॑भा ह्वयता॒मुप॑हूत हवि॒ष्कर॑ण॒ उप॑हूतश्च॒त्वारि॑ च ।। 8 ।। 3.5.8.1 उप॑हूत रथन्त॒र स॒ह पृ॑थि॒व्या । उप॑ मा रथन्त॒र स॒ह पृ॑थि॒व्या ह्व॑यताम् । उप॑हूतव्वाँमदे॒व्य स॒हान्तरि॑ख्षेण । उप॑ मा वामदे॒व्य स॒हान्तरि॑ख्षेण ह्वयताम् । उप॑हूतं बृ॒हथ्स॒ह दि॒वा । उप॑ मा बृ॒हथ्स॒ह दि॒वा ह्व॑यताम् । उप॑हूतास्स॒प्त होत्राः । उप॑ मा स॒प्त होत्रा ह्वयन्ताम् । उप॑हूता धे॒नुस्स॒हर्‌ष॑भा । उप॑ मा धे॒नुस्स॒हर्‌ष॑भा ह्वयताम् ।। 16 ।। 3.5.8.2 उप॑हूतो भ॒ख्षस्सखा । उप॑ मा भ॒ख्षस्सखा ह्वयताम् । उप॑हू॒ताँ(4)हो । इडोप॑हूता । उप॑हू॒तेडा । उपो॑ अ॒स्मा इडा ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी । ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ।। 17 ।। 3.5.8.3 दैव्या॑ अध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः । य इ॒मय्यँ॒ज्ञमवान्॑ । ये य॒ज्ञप॑ति॒व्वँर्धान्॑ । उप॑हूते॒ द्यावा॑पृथि॒वी । पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूतो॒ऽयय्यँज॑मानः । उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूतः । भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतः । दि॒व्ये धाम॒न्नुप॑हूतः । इ॒दं मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूतः । विश्व॑मस्य प्रि॒यमुप॑हूतम् । विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूतः ।। 18 ।। 3.5.9.0 अपि॑प्रे॒ पञ्च॑ च ।। 9 ।। 3.5.9.1 दे॒वं ब॒र्‌हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो नरा॒शसः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्र क॒विः । स॒त्यम॑न्माय॒जी होता । होतु॑र्‌होतु॒राय॑जीयान् । अग्ने॒ यान् दे॒वानयाट् । या अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑थ्सत । ता स॑स॒नुषी॒॒ होत्रान्देवङ्ग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः । व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ।। 19 ।। 3.5.10.0 अ॒भ॒य॒ङ्कृता॑वकृता॒ग्निरि॒द ह॒विर॑जुषत महे॒न्द्र इ॒द ह॒विर॑जुषत सजातवन॒स्यामा शास्ते वी॒तञ्च॒ त्रीणि॑ च ।। 10 ।। 3.5.10.1 इ॒दन्द्या॑वापृथिवी भ॒द्रम॑भूत् । आर्ध्म॑ सूक्तवा॒कम् । उ॒त न॑मोवा॒कम् । ऋ॒ध्यास्म॑ सू॒क्तोच्य॑मग्ने । त्व सूक्त॒वाग॑सि । उप॑श्रितो दि॒व पृ॑थि॒व्योः । ओम॑न्वती ते॒ऽस्मिन् य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी स्ताम् । श॒ङ्ग॒ये जी॒रदा॑नू । अत्र॑स्नू॒ अप्र॑वेदे । उ॒रुग॑व्यूती अभय॒ङ्कृतौ ।। 20 ।। 3.5.10.2 वृ॒ष्टिद्या॑वा री॒त्या॑पा । श॒म्भुवौ॑ मयो॒भुवौ । ऊर्ज॑स्वती च॒ पय॑स्वती च । सू॒प॒च॒र॒णा च॑ स्वधिचर॒णा च॑ । तयो॑रा॒विदि॑ । अ॒ग्निरि॒द ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । सोम॑ इ॒दह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । अ॒ग्निरि॒द ह॒विर॑जुषत ।। 21 ।। 3.5.10.3 अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । प्र॒जाप॑तिरि॒द ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । अ॒ग्नीषोमा॑वि॒द ह॒विर॑जुषेताम् । अवी॑वृधेतां॒ महो॒ ज्यायोऽक्राताम् । इ॒न्द्रा॒ग्नी इ॒द ह॒विर॑जुषेताम् । अवी॑वृधेतां॒ महो॒ ज्यायोऽक्राताम् । इन्द्र॑ इ॒द ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । म॒हे॒न्द्र इ॒द ह॒विर॑जुषत ।। 22 ।। 3.5.10.4 अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । दे॒वा आज्य॒पा आज्य॑मजुषन्त । अवी॑वृधन्त॒ महो॒ ज्यायोऽक्रत । अ॒ग्निर्‌हो॒त्रेणे॒द ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । अ॒स्यामृध॒द्धोत्रा॑यान्देवङ्ग॒मायाम् । आशास्ते॒ऽयय्यँज॑मानो॒ऽसौ । आयु॒रा शास्ते । सु॒प्र॒जा॒स्त्वमा शास्ते । स॒जा॒त॒व॒न॒स्यामा शास्ते ।। 23 ।। 3.5.10.5 उत्त॑रान्देवय॒ज्यामा शास्ते । भूयो॑ हवि॒ष्कर॑ण॒मा शास्ते । दि॒व्यन्धामा शास्ते । विश्वं॑ प्रि॒यमा शास्ते । यद॒नेन॑ ह॒विषाऽऽशास्ते । तद॑श्या॒त्तदृ॑ध्यात् । तद॑स्मै दे॒वा रा॑सन्ताम् । तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते । व॒यम॒ग्नेर्मानु॑षाः । इ॒ष्टञ्च॑ वी॒तञ्च॑ । उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अह॑सस्पाताम् । इ॒ह गति॑र्वा॒मस्ये॒दञ्च॑ । नमो॑ दे॒वेभ्यः॑ ।। 24 ।। 3.5.11.0 तच्छ॒य्योँर॒ष्टौ ।। 11 ।। 3.5.11.1 तच्छ॒य्योँरा वृ॑णीमहे । गा॒तुय्यँ॒ज्ञाय॑ । गा॒तुय्यँ॒ज्ञप॑तये । दैवी स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वञ्जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे । शञ्चतु॑ष्पदे ।। 25 ।। 3.5.12.0 जनी॑नाम॒ष्टौ च॑ ।। 12 ।। 3.5.12.1 आप्या॑यस्व॒ सन्ते । इ॒ह त्वष्टा॑रमग्रि॒यन्तन्न॑स्तु॒रीपम् । दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः । प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । या पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते । ता नो॑ देवीस्सुहवा॒श्शर्म॑ यच्छत । उ॒त ग्ना वि॑यन्तु दे॒वप॑त्नीः । इ॒न्द्रा॒ण्य॑ग्नाय्य॒श्विनी॒ राट् । आ रोद॑सी वरुणा॒नी शृ॑णोतु । वि॒यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ।। 26 ।। 3.5.12.2 अ॒ग्निर्‌होता॑ गृ॒हप॑ति॒स्स राजा । विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः । दे॒वाना॑मु॒त यो मर्त्या॑नाम् । यजि॑ष्ठ॒स्स प्र य॑जतामृ॒तावा । व॒यमु॑ त्वा गृहपते॒ जना॑नाम् । अग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्तम् । अ॒स्थू॒रि णो॒ गार्‌ह॑पत्यानि सन्तु । ति॒ग्मेन॑ न॒स्तेज॑सा॒ सशि॑शाधि ।। 27 ।। 3.5.13.0 स॒हऱ्ष॑भा ह्वयता॒मुप॑हूत सुपु॒त्रा षट्च॑ ।। 13 ।। 3.5.13.1 उप॑हूत रथन्त॒र स॒ह पृ॑थि॒व्या । उप॑ मा रथन्त॒र स॒ह पृ॑थि॒व्या ह्व॑यताम् । उप॑हूतव्वाँमदे॒व्य स॒हान्तरि॑ख्षेण । उप॑ मा वामदे॒व्य स॒हान्तरि॑ख्षेण ह्वयताम् । उप॑हूतं बृ॒हथ्स॒ह दि॒वा । उप॑ मा बृ॒हथ्स॒ह दि॒वा ह्व॑यताम् । उप॑हूतास्स॒प्त होत्राः । उप॑ मा स॒प्त होत्रा ह्वयन्ताम् । उप॑हूता धे॒नुस्स॒हर्ष॑भा । उप॑ मा धे॒नुस्स॒हर्‌ष॑भा ह्वयताम् ।। 28 ।। 3.5.13.2 उप॑हूतो भ॒ख्षस्सखा । उप॑ मा भ॒ख्षस्सखा ह्वयताम् । उप॑हू॒ताँ(4)हो । इडोप॑हूता । उप॑हू॒तेडा । उपो॑ अ॒स्मा इडा ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी । ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ।। 29 ।। 3.5.13.3 दैव्या॑ अध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः । य इ॒मय्यँ॒ज्ञमवान्॑ । ये य॒ज्ञप॑त्नी॒व्वँर्धान्॑ । उप॑हूते॒ द्यावा॑पृथि॒वी । पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूते॒यय्यँज॑माना । इ॒न्द्राणीवा॑ऽविध॒वा । अदि॑तिरिव सुपु॒त्रा । उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूता । भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूता । दि॒व्ये धाम॒न्नुप॑हूता । इ॒दं मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूता । विश्व॑मस्या प्रि॒यमुप॑हूतम् । विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूता ।। 30 ।। 3.6.0.0 अ॒ञ्जन्ति॒ होता॑ यख्ष॒थ्समि॑द्धो अ॒द्याग्निरजै॒द्दैव्या॑ जु॒षस्वा वृ॑त्रहणा गी॒र्भिस्त्व ह्याभ॑रत॒मुपो॑ह॒ यद्दे॒वं ब॒र्॒हिस्सु॑दे॒वन्दे॒वं ब॒र्॒हिर॒ग्निम॒द्य पञ्च॑दश ।। 15 ।। अ॒ञ्जन्त्य॒ग्निऱ्होता॑ नो गी॒र्भिरुपो॑ ह॒ यद्वि॒दथं॑ वा॒जिन॑स्स॒प्तत्रि॑शत् ।। 37 ।। अ॒ञ्जन्ति॑ सू॒क्ताब्रू॑हि ।। हरिः॑ओम् ।। षष्ठ प्रपाठकस्समाप्तः ।। 3.6.0.0 तृतीयाष्टके षष्ठप्रपाठक प्रारम्भः हरिःओम् ।। 3.6.1.0 सु॒वीर॒न्दुव॒स्स्वा॑हुतो॒ऽष्टौ च॑ ।। 1 ।। 3.6.1.1 अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तः॑ । वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्ध्वस्ति॑ष्ठा॒द्द्रवि॑णे॒ह ध॑त्तात् । यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे । उच्छ्र॑यस्व वनस्पते । वर्ष्म॑न्पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नः । वर्चो॑धा य॒ज्ञवा॑हसे । समि॑द्धस्य॒ श्रय॑माण पु॒रस्तात् । ब्रह्म॑ वन्वा॒नो अ॒जर॑ सु॒वीरम् ।। 1 ।। 3.6.1.2 आ॒रे अ॒स्मदम॑तिं॒ बाध॑मानः । उच्छ्र॑यस्व मह॒ते सौभ॑गाय । ऊ॒र्ध्व ऊ॒षुण॑ ऊ॒तये । तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभिः॑ । वा॒घद्भि॑र्वि॒ह्वया॑महे । ऊ॒र्ध्वो न॑ पा॒ह्यह॑सो॒ नि के॒तुना । विश्व॒॒ सम॒त्रिण॑न्दह । कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒ रथा॑य जी॒वसे । वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ।। 2 ।। 3.6.1.3 जा॒तो जा॑यते सुदिन॒त्वे अह्नाम् । सम॒र्य आ वि॒दथे॒ वर्ध॑मानः । पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा । दे॒व॒या विप्र॒ उदि॑यर्ति॒ वाचम् । युवा॑ सु॒वासा॒ परि॑वीत॒ आगात् । स उ॒ श्रेयान्भवति॒ जाय॑मानः । तन्धीरा॑स क॒वय॒ उन्न॑यन्ति । स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ । पृ॒थु॒पाजा॒ अम॑र्त्यः । घृ॒तनि॑र्णि॒ख्स्वा॑हुतः । अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् । त स॒बाधो॑ य॒तस्स्रु॑चः । इ॒त्था धि॒या य॒ज्ञव॑न्तः । आच॑क्रुर॒ग्निमू॒तये । त्वव्वँरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वाव्वँ॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।। 3 ।। 3.6.2.0 प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ च॒त्वारि॑ च ।। 2 ।। (अ॒ग्निन्तनू॒नपा॑त॒न्नरा॒शस॑म॒ग्निमि॒ड ई॑डि॒तो ब॒र्‌हिर्दुर॑ उ॒षासा॒नक्ता॒ दैव्या॑ ति॒स्रस्त्वष्टा॑र॒व्वँन॒स्पति॑म॒ग्निम् । पञ्च॒ वेत्वेको॑ वि॒यन्तु॒ द्विर्वी॒तामेको॑ वि॒यन्तु॒ द्विर्वेत्वेको॑ वियन्तु॒ होत॒र्यज॑ ।। ) 3.6.2.1 होता॑ यख्षद॒ग्नि स॒मिधा॑ सुष॒मिधा॒ समि॑द्धं॒ नाभा॑ पृथि॒व्यास्स॑ङ्ग॒थे वा॒मस्य॑ । वर्ष्म॑न्दि॒व इ॒डस्प॒दे वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्तनू॒नपा॑त॒मदि॑ते॒र्गर्भं॒ भुव॑नस्य गो॒पाम् । मध्वा॒द्य दे॒वो दे॒वेभ्यो॑ देव॒यानान्प॒थो अ॑नक्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒न्नरा॒शसं॑ नृश॒स्त्रं नॄ प्र॑णेत्रम् । गोभि॑र्व॒पावा॒न्थ्स्याद्वी॒रैश्शक्ती॑वा॒न्रथै प्रथम॒या वा॒ हिर॑ण्यैश्च॒न्द्री वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षद॒ग्निमि॒ड ई॑डि॒तो दे॒वो दे॒वा आव॑क्षद्दू॒तो ह॑व्य॒वाडमू॑रः । उपे॒मय्यँ॒ज्ञमुपे॒मां दे॒वो दे॒वहू॑तिमवतु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षद्ब॒र्‌हिस्सु॒ष्टरी॒मोर्णं॑म्रदा अ॒स्मिन् य॒ज्ञे वि च॒ प्र च॑ प्रथता स्वास॒स्थं दे॒वेभ्यः॑ । एमे॑नद॒द्य वस॑वो रु॒द्रा आ॑दि॒त्यास्स॑दन्तु प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्याज्य॑स्य॒ होत॒र्यज॑ ।। 4 ।। 3.6.2.2 होता॑ यख्ष॒द्दुर॑ ऋ॒ष्वा क॑व॒ष्यो को॑षधावनी॒रुदाता॑भी॒र्जिह॑ता॒व्विँपख्षो॑भिः श्रयन्ताम् । सु॒प्रा॒य॒णा अ॒स्मिन् य॒ज्ञे विश्र॑यन्तामृता॒वृधो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षदु॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ नॄ पति॑भ्यो॒ योनि॑ङ्कृण्वा॒ने । स॒॒स्मय॑माने॒ इन्द्रे॑ण दे॒वैरेदं ब॒र्॒हिस्सी॑दताव्वीँ॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्दैव्या॒ होता॑रा म॒न्द्रा पोता॑रा क॒वी प्रचे॑तसा । स्वि॑ष्टम॒द्यान्य क॑रदि॒षा स्व॑भिगूर्तम॒न्य ऊ॒र्जा सत॑वसे॒मय्यँ॒ज्ञं दि॒वि दे॒वेषु॑ धत्ताव्वीँ॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षत्ति॒स्रो दे॒वीर॒पसा॑म॒पस्त॑मा॒ अच्छि॑द्रम॒द्येदमप॑स्तन्वताम् । दे॒वेभ्यो॑ दे॒वीर्दे॒वमपो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्त्वष्टा॑र॒मचि॑ष्टु॒मपा॑क रेतो॒धां विश्र॑वसय्यँशो॒धाम् । पु॒रु॒रूप॒मका॑मकर्‌शन सु॒पोष॒ पोषै॒स्स्याथ्सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्वन॒स्पति॑मु॒पाव॑स्रख्षद्धि॒यो जो॒ष्टार॑ श॒शम॒न्नरः॑ । स्वदा॒थ्स्वधि॑तिर् ऋतु॒थाद्य दे॒वो दे॒वेभ्यो॑ ह॒व्यावा॒ड्वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षद॒ग्नि स्वाहाऽऽज्य॑स्य॒ स्वाहा॒ मेद॑स॒स्स्वाहा स्तो॒काना॒॒ स्वाहा॒ स्वाहा॑कृतीना॒॒ स्वाहा॑ ह॒व्यसूक्तीनाम् । स्वाहा॑ दे॒वा आज्य॒पान्थ्स्वाहा॒ऽग्नि हो॒त्राज्जु॑षा॒णा अग्न॒ आज्य॑स्य वियन्तु॒ होत॒र्यज॑ ।। 5 ।। 3.6.3.0 य॒ज्ञैस्स्यो॒नं यज॑ध्यै वि॒द्वान॒ष्टौ च॑ ।। 3 ।। 3.6.3.1 समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे । दे॒वो दे॒वान् य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् । त्वन्दू॒त क॒विर॑सि॒ प्रचे॑ताः । तनू॑नपात्प॒थ ऋ॒तस्य॒ यानान्॑ । मध्वा॑ सम॒ञ्जन्थ्स्व॑दया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्न् । दे॒व॒त्रा च॑ कृणुह्यध्व॒रन्नः॑ । नरा॒शस॑स्य महि॒मान॑मेषाम् । उप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः ।। 6 ।। 3.6.3.2 ते सु॒क्रत॑व॒श्शुच॑यो धिय॒न्धाः । स्वद॑न्तु दे॒वा उ॒भया॑नि ह॒व्या । आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॑श्च । आयाह्यग्ने॒ वसु॑भिस्स॒जोषाः । त्वं दे॒वाना॑मसि यह्व॒ होता । स ए॑नान् यख्षीषि॒तो यजी॑यान् । प्रा॒चीनं॑ ब॒र्‌हि प्र॒दिशा॑ पृथि॒व्याः । वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्नाम् । व्यु॑ प्रथते वित॒रव्वँरी॑यः । दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ।। 7 ।। 3.6.3.3 व्यच॑स्वतीरुर्वि॒या विश्र॑यन्ताम् । पति॑भ्यो॒ न जन॑य॒श्शुम्भ॑मानाः । देवीर्द्वारो बृहतीर्विश्वमिन्वाः । दे॒वेभ्यो॑ भवथ सुप्राय॒णाः । आसु॒ष्वय॑न्ती यज॒ते उपा॑के । उ॒षासा॒नक्ता॑ सदता॒न्नि योनौ । दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे । अधि॒ श्रिय॑ शुक्र॒पिश॒न्दधा॑ने । दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा । मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै ।। 8 ।। 3.6.3.4 प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू । प्रा॒चीन॒ञ्ज्योति॑ प्र॒दिशा॑ दि॒शन्ता । आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मेतु । इडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती । ति॒स्रो दे॒वीर्ब॒र्‌हिरेद स्यो॒नम् । सर॑स्वती॒ स्वप॑सस्सदन्तु । य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री । रू॒पैरपि॑श॒द्भुव॑नानि॒ विश्वा । तम॒द्य हो॑तरिषि॒तो यजी॑यान् । दे॒वन्त्वष्टा॑रमि॒ह य॑ख्षि वि॒द्वान् ।। 9 ।। 3.6.3.5 उ॒पाव॑सृज॒त्मन्या॑ सम॒ञ्जन्न् । दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वीषि॑ । वन॒स्पति॑श्शमि॒ता दे॒वो अ॒ग्निः । स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ । स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम् । अ॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः । अ॒स्य होतु॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि । स्वाहा॑कृत ह॒विर॑दन्तु दे॒वाः ।। 10 ।। 3.6.4.0 अ॒ग्निर्‌होता॑ नो॒ नव॑ ।। 4 ।। 3.6.4.1 अ॒ग्निर्‌होता॑ नो अध्व॒रे । वा॒जी सन्परि॑णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ । परि॑त्रिवि॒ष्ट्य॑ध्व॒रम् । यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् । परि॒ वाज॑पति क॒विः । अ॒ग्निर्‌ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे ।। 11 ।। 3.6.5.0 अजै॑द॒ष्टौ ।। 5 ।। 3.6.5.1 अजै॑द॒ग्निः । अस॑न॒द्वाज॒न्नि । दे॒वो दे॒वेभ्यो॑ ह॒व्यावाट् । प्राञ्जो॑भिर्‌हिन्वा॒नः । धेना॑भि॒ कल्प॑मानः । य॒ज्ञस्यायु॑ प्रति॒रन्न् । उप॒ प्रेष्य॑ होतः । ह॒व्या दे॒वेभ्यः॑ ।। 12 ।। 3.6.6.0 ध॒त्ता॒द्बा॒हू मा रा॑विष्ट॒ तथा॑तथा ।। 6 ।। 3.6.6.1 दैव्याश्शमितार उ॒त म॑नुष्या॒ आर॑भध्वम् । उप॑नयत॒ मेध्या॒ दुरः॑ । आ॒शासा॑ना॒ मेध॑पतिभ्यां॒ मेधम् । प्रास्मा॑ अ॒ग्निं भ॑रत । स्तृ॒णी॒त ब॒र्॒हिः । अन्वे॑नं मा॒ता म॑न्यताम् । अनु॑ पि॒ता । अनु॒ भ्राता॒ सग॑र्भ्यः । अनु॒ सखा॒ सयूथ्यः । उ॒दी॒चीना॑ अस्य प॒दो निध॑त्तात् ।। 13 ।। 3.6.6.2 सूर्य॒ञ्चख्षु॑र्गमयतात् । वातं॑ प्रा॒णम॒न्वव॑सृजतात् । दिश॒श्श्रोत्रम् । अ॒न्तरि॑ख्ष॒मसुम् । पृ॒थि॒वी शरी॑रम् । ए॒क॒धाऽस्य॒ त्वच॒माच्छ्य॑तात् । पु॒रा नाभ्या॑ अपि॒शसो॑ व॒पामुत्खि॑दतात् । अ॒न्तरे॒वोष्माण॑व्वाँरयतात् । श्ये॒नम॑स्य॒ वख्ष॑ कृणुतात् । प्र॒शसा॑ बा॒हू ।। 14 ।। 3.6.6.3 श॒ला दो॒षणी । क॒श्यपे॒वासा । अच्छि॑द्रे॒ श्रोणी । क॒वषो॒रू स्रे॒कप॑र्णाष्ठी॒वन्ता । षड्वि॑शतिरस्य॒ वङ्क्र॑यः । ता अ॑नु॒ष्ठ्योच्च्या॑वयतात् । गात्र॑ङ्गात्रम॒स्यानू॑नङ्कृणुतात् । ऊ॒व॒ध्य॒गो॒हं पार्थि॑वङ्खनतात् । अ॒स्ना रख्ष॒स्ससृ॑जतात् । व॒नि॒ष्ठुम॑स्य॒ मा रा॑विष्ट ।। 15 ।। 3.6.6.4 उरू॑कं॒ मन्य॑मानाः । नेद्व॑स्तो॒के तन॑ये । रवि॑ता॒रव॑च्छमितारः । अध्रि॑गो शमी॒ध्वम् । सु॒शमि॑ शमीध्वम् । श॒मी॒ध्वम॑ध्रिगो । अध्रि॑गु॒श्चापा॑पश्च । उ॒भौ दे॒वाना॑ शमि॒तारौ । तावि॒मं प॒शु श्र॑पयतां प्रवि॒द्वासौ । यथा॑यथाऽस्य॒ श्रप॑ण॒न्तथा॑तथा ।। 16 ।। 3.6.7.0 दे॒ववी॑तय॒ उद्भृ॑त॒न्त्रीणि॑ च ।। 7 ।। 3.6.7.1 जु॒षस्व॑ स॒प्रथ॑स्तमम् । वचो॑ दे॒वफ्स॑रस्तमम् । ह॒व्या जुह्वा॑न आ॒सनि॑ । इ॒मन्नो॑ य॒ज्ञम॒मृते॑षु धेहि । इ॒मा ह॒व्या जा॑तवेदो जुषस्व । स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॑ । होत॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ । घृ॒तव॑न्तः पावक ते । स्तो॒काश्श्चो॑तन्ति॒ मेद॑सः । स्वध॑र्मन्दे॒ववी॑तये ।। 17 ।। 3.6.7.2 श्रेष्ठ॑न्नो धेहि॒ वार्यम् । तुभ्य॑ स्तो॒का घृ॑त॒श्चुतः॑ । अग्ने॒ विप्रा॑य सन्त्य । ऋषि॒श्श्रेष्ठ॒स्समि॑ध्यसे । य॒ज्ञस्य॑ प्रावि॒ता भ॑व । तुभ्य॑ श्चोतन्त्यध्रिगो शचीवः । स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ । क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागाः । ह॒व्या जु॑षस्व मेधिर । ओजि॑ष्ठन्ते मध्य॒तो मेद॒ उद्भृ॑तम् । प्र ते॑ व॒यन्द॑दामहे । श्चोत॑न्ति ते वसो स्तो॒का अधि॑त्व॒चि । प्रति॒ तान्दे॑व॒शोवि॑हि ।। 18 ।। 3.6.8.0 स॒जा॒तान॒ग्निन्द्वे च॑ ।। 8 ।। 3.6.8.1 आवृ॑त्रहणा वृत्र॒हभि॒श्शुष्मैः । इन्द्र॑ या॒तन्नमो॑भिरग्ने अ॒र्वाक् । यु॒व राधो॑भि॒रक॑वेभिरिन्द्र । अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ । होता॑ यख्षदिन्द्रा॒ग्नी । छाग॑स्य व॒पाया॒ मेद॑सः । जु॒षेता॑ ह॒विः । होत॒र्यज॑ । विह्यख्य॒न्मन॑सा॒ वस्य॑ इ॒च्छन्न् । इन्द्राग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ।। 19 ।। 3.6.8.2 नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यम् । स वा॒न्धिय॑व्वाँज॒यन्ती॑मतख्षम् । होता॑ यख्षदिन्द्रा॒ग्नी । पु॒रो॒डाश॑स्य जु॒षेता॑ ह॒विः । होत॒र्यज॑ । त्वामी॑डते अजि॒रन्दू॒त्या॑य । ह॒विष्म॑न्त॒स्सद॒मिन्मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्‌हि॒र॑ग्ने । अहान्यस्मै सु॒दिना॑ भवन्तु । होता॑ यख्षद॒ग्निम् । पु॒रो॒डाश॑स्य जु॒षता॑ ह॒विः । होत॒र्यज॑ ।। 20 ।। 3.6.9.0 जा॒त॒वे॒दो॒ द्वे च॑ ।। 9 ।। 3.6.9.1 गी॒र्भिर्विप्र॒ प्रम॑तिमि॒च्छमा॑नः । ईट्टे॑ र॒यिय्यँ॒शसं॑ पूर्व॒भाजम् । इन्द्राग्नी वृत्रहणा सुवज्रा । प्र णो॒ नव्ये॑भिस्तिरतन्दे॒ष्णैः । माच्छेद्म र॒श्मीरिति॒ नाध॑मानाः । पि॒तृ॒णा शक्ती॑रनु॒यच्छ॑मानाः । इ॒न्द्रा॒ग्निभ्या॒ङ्कव्वृँष॑णो मदन्ति । ताह्यद्री॑ धि॒षणा॑या उ॒पस्थे । अ॒ग्नि सु॑दी॒ति सु॒दृश॑ङ्गृ॒णन्तः॑ । न॒म॒स्याम॒स्त्वेड्य॑ञ्जातवेदः । त्वान्दू॒तम॑र॒ति ह॑व्य॒वाहम् । दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिम् ।। 21 ।। 3.6.10.0 जा॒गृ॒वासो॒ अनु॑ग्म॒न्मानु॑षाणाञ्चर्‌षणी॒नाय्यँ॑तेमाश्या॒न्द्वे च॑ ।। 10 ।। 3.6.10.1 त्व ह्य॑ग्ने प्रथ॒मो म॒नोता । अ॒स्या धि॒यो अभ॑वो दस्म॒होता । त्व सीव्वृँषन्नकृणोर्दु॒ष्टरी॑तु । सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै । अधा॒ होता॒ न्य॑सीदो॒ यजी॑यान् । इ॒डस्प॒द इ॒षय॒न्नीड्य॒स्सन्न् । तन्त्वा॒ नर॑ प्रथ॒मन्दे॑व॒यन्तः॑ । म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ग्मन्न् । वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्वस॒व्यैः । त्वे र॒यिञ्जा॑गृ॒वासो॒ अनु॑ग्मन्न् ।। 22 ।। 3.6.10.2 रुश॑न्तम॒ग्निन्द॑र्‌श॒तम्बृ॒हन्तम् । व॒पाव॑न्तव्विँ॒श्वहा॑ दीदि॒वासम् । प॒दन्दे॒वस्य॒ नम॑सा वि॒यन्तः॑ । श्र॒व॒स्यव॒श्श्रव॑ आप॒न्नमृ॑क्तम् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । भ॒द्रायान्ते रणयन्त॒ सन्दृ॑ष्टौ । त्वाव्वँ॑र्धन्ति ख्षि॒तय॑ पृथि॒व्याम् । त्व राय॑ उ॒भया॑सो॒ जना॑नाम् । त्वन्त्रा॒ता त॑रणे॒ चेत्यो॑भूः । पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ।। 23 ।। 3.6.10.3 सप॒र्येण्य॒स्स प्रि॒यो वि॒ख्ष्व॑ग्निः । होता॑ म॒न्द्रो निष॑सादा॒ यजी॑यान् । तन्त्वा॑ व॒यन्दम॒ आ दी॑दि॒वासम् । उप॑ज्ञु॒बाधो॒ नम॑सा सदेम । तन्त्वा॑ व॒य सु॒धियो॒ नव्य॑मग्ने । सु॒म्ना॒यव॑ ईमहे देव॒यन्तः॑ । त्वव्विँशो॑ अनयो॒ दीद्या॑नः । दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ । वि॒शाङ्क॒विव्विँ॒श्पति॒॒ शश्व॑तीनाम् । नि॒तोश॑नव्वृँष॒भञ्च॑र्‌षणी॒नाम् ।। 24 ।। 3.6.10.4 प्रेती॑षणि मि॒षय॑न्तं पाव॒कम् । राज॑न्तम॒ग्निय्यँ॑ज॒त र॑यी॒णाम् । सो अ॑ग्न ईजे शश॒मे च॒ मर्तः॑ । यस्त॒ आन॑ट्थ्स॒मिधा॑ ह॒व्यदा॑तिम् । य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भिः । विश्वेथ्सवा॒मा द॑धते॒ त्वोतः॑ । अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम । नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः । वेदी॑सूनो सहसो गी॒र्भिरु॒क्थैः । आ ते भ॒द्राया॑ सुम॒तौ य॑तेम ।। 25 ।। 3.6.10.5 आ॒ यस्त॒तन्थ॒ रोद॑सी॒ विभा॒सा । श्रवो॑भिश्च श्रव॒स्य॑स्तरु॑त्रः । बृ॒हद्भि॒र्वाजै॒स्स्थवि॑रेभिर॒स्मे । रे॒वद्भि॑रग्ने वित॒रव्विँ भा॑हि । नृ॒वद्व॑सो॒ सद॒मिद्धेह्य॒स्मे । भूरि॑तो॒काय॒ तन॑याय प॒श्वः । पू॒र्वीरिषो॑ बृह॒तीरा॒रे अ॑घाः । अ॒स्मे भ॒द्रा सौश्रव॒सानि॑ सन्तु । पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या । वसू॑नि राजन्व॒सुता॑ते अश्याम् । पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्ति॑ । अग्ने॒ वसु॑ विध॒ते राज॑नि॒त्वे ।। 26 ।। 3.6.11.0 नू॒नमर्थ॑ङ्कृ॒त्वी पाथा॑सि स॒प्त च॑ ।। 11 ।। 3.6.11.1 आभ॑रत शिख्षतव्वँज्रबाहू । अ॒स्मा इ॑न्द्राग्नी अवत॒॒ शची॑भिः । इ॒मे नु ते र॒श्मय॒स्सूर्य॑स्य । येभि॑स्सपि॒त्वं पि॒तरो॑ न॒ आयन्न्॑ । होता॑ यख्षदिन्द्रा॒ग्नी । छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य । म॒ध्य॒तो मेद॒ उद्भृ॑तम् । पु॒रा द्वेषोभ्यः । पु॒रा पौरु॑षेय्या गृ॒भः । घस्तान्नू॒नम् ।। 27 ।। 3.6.11.2 घा॒से अ॑ज्राणा॒य्यँव॑सप्रथमानाम् । सु॒मत्ख्ष॑राणा श॒तरु॑द्रियाणाम् । अ॒ग्नि॒ष्वा॒त्तानां॒ पीवो॑पवसनानाम् । पा॒र्श्व॒तः श्रो॑णि॒तश्शि॑ताम॒त उ॑थ्साद॒तः । अङ्गा॑दङ्गा॒दव॑त्तानाम् । कर॑त ए॒वेन्द्रा॒ग्नी । जु॒षेता॑ ह॒विः । होत॒र्यज॑ । दे॒वेभ्यो॑ वनस्पते ह॒वीषि॑ । हिर॑ण्यपर्ण प्र॒दिव॑स्ते॒ अर्थम् । ।। 28 ।। 3.6.11.3 प्र॒द॒ख्षि॒णिद्र॑श॒नया॑ नि॒यूय॑ । ऋ॒तस्य॑ वख्षि प॒थिभी॒ रजि॑ष्ठैः । होता॑ यख्षद्वन॒स्पति॑म॒भिहि । पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त । यत्रेन्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ प्रि॒या धामा॑नि । यत्र॒ वन॒स्पते प्रि॒या पाथा॑सि । यत्र॑ दे॒वाना॑माज्य॒पानां प्रि॒या धामा॑नि । यत्रा॒ग्नेर्‌होतु॑ प्रि॒या धामा॑नि । तत्रै॒तं प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑ वो॒पाव॑स्रख्षत् । रभी॑यासमिव कृ॒त्वी ।। 29 ।। 3.6.11.4 कर॑दे॒वन्दे॒वो वन॒स्पतिः॑ । जु॒षता॑ ह॒विः । होत॒र्यज॑ । पि॒प्री॒हि दे॒वा उ॑श॒तो य॑विष्ठ । वि॒द्वा ऋ॒तूऱ्ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने । त्व होतॄ॑णाम॒स्याय॑जिष्ठः । होता॑ यख्षद॒ग्नि स्वि॑ष्ट॒कृतम् । अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ प्रि॒या धामा॑नि । अया॒ड्वन॒स्पते प्रि॒या पाथा॑सि । अयाड्दे॒वाना॑माज्य॒पानां प्रि॒या धामा॑नि । यख्ष॑द॒ग्नेर्‌होतु॑ प्रि॒या धामा॑नि । यख्ष॒थ्स्वं म॑हि॒मानम् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षता॑ ह॒विः । होत॒र्यज॑ ।।30।। 3.6.12.0 धामा॑नि॒ भूरेक॑ञ्च ।। 12 ।। 3.6.12.1 उपो॑ ह॒ यद्वि॒दथ॑व्वाँ॒जिनो॒ गूः । गी॒र्भिर्विप्रा॒ प्रम॑तिमि॒च्छमा॑नाः । अ॒र्वन्तो॒ न काष्ठा॒न्नख्ष॑माणाः । इ॒न्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते । वन॑स्पते रश॒नया॑ऽभि॒धाय॑ । पि॒ष्टत॑मया व॒युना॑नि वि॒द्वान् । वह॑ देव॒त्रा दि॑धिषो ह॒वीषि॑ । प्र च॑दा॒तार॑म॒मृते॑षु वोचः । अ॒ग्नि स्वि॑ष्ट॒कृतम् । अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छग॑स्य ह॒विष॑ प्रि॒या धामा॑नि ।। 31 ।। 3.6.12.2 अया॒ड्वन॒स्पते प्रि॒या पाथा॑सि । अयाड्दे॒वाना॑माज्य॒पानां प्रि॒या धामा॑नि । यख्ष॑द॒ग्नेर्‌होतु॑ प्रि॒या धामा॑नि । यख्ष॒थ्स्वं म॑हि॒मानम् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षता॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः । पाव॑क शोचे॒ वेष्ट्व हि यज्वा । ऋ॒ता य॑जासि महि॒ना वियद्भूः । ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ।। 32 ।। 3.6.13.0 यजैक॑ञ्च ।। 13 ।। 3.6.13.1 दे॒वं ब॒र्॒हिस्सु॑दे॒वन्दे॒वैस्स्याथ्सु॒वीर॑व्वीँ॒रैर्वस्तोर्वृ॒ज्येता॒क्तो प्रभ्रि॑ये॒तात्य॒न्यान्रा॒या ब॒र्॒हिष्म॑तो मदेम वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वार॑स्सङ्घा॒ते वि॒ड्वीर्याम॑ञ्छिथि॒रा ध्रु॒वा दे॒वहू॑तौ व॒थ्स ई॑मेना॒स्तरु॑ण॒ आमि॑मीयात्कुमा॒रो वा॒ नव॑जातो॒ मैना॒ अर्वा॑ रे॒णुक॑काट॒ पृण॑ग्वसु॒वने॑ वसु॒धेय॑स्य वियन्तु यज॑ । दे॒वी उ॒षासा॒नक्ताऽद्या॒स्मिन्‌य॒ज्ञे प्र॑य॒त्य॑ह्वेता॒मपि॑ नू॒नन्दैवी॒र्विश॒ प्राया॑सिष्टा॒॒ सुप्री॑ते॒ सुधि॑ते वसु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वी जोष्ट्री॒ वसु॑धिती॒ ययो॑र॒न्याऽघाद्द्वेषा॑सि यू॒यव॒दान्याव॑ख्ष॒द्वसु॒ वार्या॑णि॒ यज॑मानाय वसु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वी ऊ॒र्जाहु॑ती॒ इष॒मूर्ज॑म॒न्याव॑ख्ष॒थ्सग्धि॒॒ सपी॑तिम॒न्या नवे॑न॒ पूर्व॒न्दय॑माना॒स्स्याम॑ पुरा॒णेन॒ नव॒न्तामूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने अधाताव्वँसु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वा दैव्या॒ होता॑रा॒ नेष्टा॑रा॒ पोता॑रा ह॒ताघ॑शसावाभ॒रद्व॑सू वसु॒वने वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीरिडा॒ सर॑स्वती॒ भार॑ती॒ द्यां भार॑त्यादि॒त्यैर॑स्पृख्ष॒थ्सर॑स्वती॒म रु॒द्रैर्य॒ज्ञमा॑वीदि॒हैवेड॑या॒ वसु॑मत्या सध॒मादं॑ मदेम वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो नरा॒शस॑स्त्रिशी॒र्॒षा ष॑ड॒ख्षश्श॒तमिदे॑नशितिपृ॒ष्ठा आद॑धति स॒हस्र॑मीं॒ प्रव॑हन्ति मि॒त्रावरु॒णेद॑स्य हो॒त्रमऱ्ह॑तो॒ बृह॒स्पति॑स्स्तो॒त्रम॒श्विनाऽऽ- ध्व॑र्यवव्वँसु॒वने॑वसु॒धेयस्य॑ वेतु॒ यज॑ । दे॒वो वन॒स्पति॑र्व॒र्॒षप्रा॑वा घृ॒तनि॑र्णि॒ग्द्यामग्रे॒णास्पृ॑ख्ष॒दान्तरि॑ख्षं॒ मध्ये॑नाप्रा पृथि॒वीमुप॑रेणादृहीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनान्नि॒धेधा॑ऽसि॒ प्रच्यु॑तीना॒मप्र॑च्युतन्निकाम॒धर॑णं पुरुस्पा॒र्॒हय्यँश॑स्वदे॒ना ब॒र्॒हिषा॒ऽन्या ब॒र्॒हीष्य॒भि ष्या॑म वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृ- थ्सु॒द्रवि॑णा म॒न्द्र क॒विस्स॒त्यम॑न्माऽऽय॒जी होता॒ होतु॑र्॒होतु॒राय॑जीया॒नग्ने॒ यान्दे॒वानया॒ड्या अपि॑प्रे॒र्ये ते॑ हो॒त्रे अम॑थ्सत॒ ता स॑स॒नुषी॒॒ होत्रान्देवङ्ग॒मान्दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒म स्वि॑ष्ट॒कृच्चाग्ने॒ होताऽभूर्वसु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॒ यज॑ ।।33।। 3.6.14.0 वी॒ता॒व्वेँ॒त्वभू॒रेक॑ञ्च ।। 14 ।। 3.6.14.1 दे॒वं ब॒र्॒हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वीर्द्वारः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वी उ॒षासा॒नक्ता । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी जोष्ट्री । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी ऊ॒र्जाहु॑ती । व॒सु॒वने॑ वसु॒धेयस्य॑ वीताम् ।। 34 ।। 3.6.14.2 दे॒वा दैव्या॒ होता॑रा । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वो नरा॒शसः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो वन॒स्पतिः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वं ब॒र्॒हिर्वारि॑तीनाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।। 35 ।। 3.6.14.3 दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्र क॒विः । स॒त्यम॑न्माय॒जी होता । होतु॑र्‌होतु॒राय॑जीयान् । अग्ने॒ यान्दे॒वानयाट् । या अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑थ्सत । ता स॑स॒नुषी॒॒ होत्रान्देवङ्ग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः । व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ।। 36 ।। 3.6.15.0 अ॒ग्निम॒द्यैकम् ।। 15 ।। 3.6.15.1 अ॒ग्निम॒द्य होता॑रमवृणीता॒यय्यँज॑मान॒ पच॑न्प॒क्ती पच॑न्पुरो॒डाशं॑ ब॒ध्नन्नि॑न्द्रा॒ग्निभ्या॒ञ्छाग॑ सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवदिन्द्रा॒ग्निभ्या॒ञ्छागे॒नाघ॑स्ता॒न्तं मे॑द॒स्त प्रति॑पच॒ताग्र॑भीष्टा॒मवी॑वृधेतां पुरो॒डाशे॑न॒ त्वाम॒द्यऱ्ष॑ आऱ्षेय ऋषीणान्नपादवृणीता॒यय्यँज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑ख्ष्यत॒ इति॒ ता या दे॒वा दे॑व॒दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ।।37।। 3.7.0.0 सर्वा॒न्॒ यद्विष्ष॑ण्णेन॒ वि वै या पु॒रस्ता॒द्देवा॑ दे॒वेषु॒ परि॑स्तृणीत॒ सख्षे॒दय्यँद॒स्य पा॒रे॑ऽना॒गस॒ उद॑स्तांफ्सी॒द्ब्रह्म॑ प्रति॒ष्ठा यद्दे॑वा॒ यत्ते॒ ग्राव्ण्णा॒ यद्दि॑दी॒ख्षे चतु॑र्दश ।। 14 ।। सर्वा॒न्भूति॑मे॒व यामे॒वाफ्स्वाहु॑तिव्व्रँ॒तानां पर्णव॒ल्कस्सो॒म्याना॑म॒स्मिन्‌य॒ज्ञेऽग्ने॒ यो नो॒ ज्योग्जी॒वा प॒रोर॑जा॒ प्रते॑महे॒ ब्रह्म॑ प्रति॒ष्ठा गार्‌ह॑पत्यस्त्रि॒॒शदु॑त्तरश॒तम् ।। 130 ।। सर्वा॒ञ्छची॒पतिः॑ ।। ।। हरिः॑ओम् ।। सप्तम प्रपाठकस्समाप्तः ।। 3.7.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके सप्तम प्रपाठक प्रारम्भः । हरिःओम् । 3.7.1.0 द॒धा॒ति॒ य॒ज्ञ उ॑त॒ एक॒न्धय॑न्ति रुन्धे कुर्यादा॒र्च्छत्य॒पाकु॑र्यात्पृथि॒वी त्वम॒ष्टौ च॑ ।। 1 ।। (सर्वा॒न्॒ वि वै यदि॑ परस्त॒रामोष॑धीरन्यत॒रानु॒भया॑न॒र्धो वै ।। ) 3.7.1.1 सर्वा॒न्॒ वा ए॒षोऽग्नौ कामा॒न्प्रवे॑शयति । योऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ । सयदनि॑ष्ट्वा प्रया॒यात् । अका॑मप्रीता एन॒ङ्कामा॒ नानु॒प्रया॑युः । अ॒ते॒जा अ॑वी॒र्य॑स्स्यात् । स जु॑हुयात् । तुभ्य॒न्ता अ॑ङ्गिरस्तम । विश्वास्सुख्षि॒तय॒ पृथ॑क् । अग्ने॒ कामा॑य येमिर॒ इति॑ । कामा॑ने॒वास्मि॑न्दधाति ।। 1 ।। 3.7.1.2 काम॑प्रीता एन॒ङ्कामा॒ अनु॒ प्रयान्ति । ते॒ज॒स्वी वी॒र्या॑वान्भवति । सन्त॑ति॒र्वा ए॒षा य॒ज्ञस्य॑ । योऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ । स यदु॒द्वाय॑ति । विच्छि॑त्तिरे॒वास्य॒ सा । तं प्राञ्च॑मु॒द्धृत्य॑ । मन॒सोप॑तिष्ठेत । मनो॒ वै प्र॒जाप॑तिः । प्रा॒जा॒प॒त्यो य॒ज्ञः ।। 2 ।। 3.7.1.3 मन॑सै॒व य॒ज्ञ सन्त॑नोति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः । भूति॑मे॒वोपै॑ति । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यस्याहि॑ताग्नेर॒ग्निर॑प॒ख्षाय॑ति । याव॒च्छम्य॑या प्र॒विध्येत् । यदि॒ ताव॑दप॒ख्षायेत् । त संभ॑रेत् । इ॒दन्त॒ एकं॑ प॒र उ॑त॒ एकम् ।। 3 ।। 3.7.1.4 तृ॒तीये॑न॒ ज्योति॑षा॒ सव्विँ॑शस्व । स॒व्वेँश॑नस्त॒नुवै॒ चारु॑रेधि । प्रि॒ये दे॒वानां पर॒मे ज॒नित्र॒ इति॑ । ब्रह्म॑णै॒वैन॒॒ संभ॑रति । सैव तत॒ प्राय॑श्चित्तिः । यदि॑ परस्त॒राम॑प॒ख्षायेत् । अ॒नु॒प्र॒यायाव॑स्येत् । सो ए॒व तत॒ प्राय॑श्चित्तिः । ओष॑धी॒र्वा ए॒तस्य॑ प॒शून्पय॒ प्रवि॑शति । यस्य॑ ह॒विषे॑ व॒थ्सा अ॒पाकृ॑ता॒ धय॑न्ति ।। 4 ।। 3.7.1.5 तान् यद्दु॒ह्यात् । या॒तयाम्ना ह॒विषा॑ यजेत । यन्न दु॒ह्यात् । य॒ज्ञ॒प॒रुर॒न्तरि॑यात् । वा॒य॒व्याय्यँवा॒गून्निर्व॑पेत् । वा॒युर्वै पय॑स प्रदापयि॒ता । स ए॒वास्मै॒ पय॒ प्रदा॑पयति । पयो॒ वा ओष॑धयः । पय॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ।। 5 ।। 3.7.1.6 अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पाकु॑र्यात् । सैव तत॒ प्राय॑श्चित्तिः । अ॒न्य॒त॒रान् वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति । ये यज॑मानस्य सा॒यङ्गृ॒हमा॒ गच्छ॑न्ति । यस्य॑ सायन्दु॒ग्ध ह॒विरार्ति॑मा॒र्च्छति॑ । इन्द्रा॑य व्री॒हीन्नि॒रुप्योप॑ वसेत् । पयो॒ वा ओष॑धयः । पय॑ ए॒वारभ्य॑ गृही॒त्वोप॑ वसति । यत्प्रा॒तस्स्यात् । तच्छृ॒तङ्कु॑र्यात् ।। 6 ।। 3.7.1.7 अथेत॑र ऐ॒न्द्र पु॑रो॒डाश॑स्स्यात् । इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति । पयो॒ वा ओष॑धयः । पय॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे । अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पाकु॑र्यात् । सैव तत॒ प्राय॑श्चित्तिः । उ॒भया॒न्॒ वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति । ये यज॑मानस्य सा॒यञ्च॑ प्रा॒तश्च॑ गृ॒हमा॒ गच्छ॑न्ति । यस्यो॒भय॑ ह॒विरार्ति॑मा॒र्च्छति॑ ।। 7 ।। 3.7.1.8 ऐ॒न्द्रं पञ्च॑शरावमोद॒नन्निर्व॑पेत् । अ॒ग्निं दे॒वता॑नां प्रथ॒मय्यँ॑जेत् । अ॒ग्निमु॑खा ए॒व दे॒वता प्रीणाति । अ॒ग्निव्वाँ अन्व॒न्या दे॒वताः । इन्द्र॒मन्व॒न्याः । ता ए॒वोभयी प्रीणाति । पयो॒ वा ओष॑धयः । पय॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे । अथोत्तर॑स्मै ह॒विषे॑ व॒थ्सान॒पाकु॑र्यात् ।। 8 ।। 3.7.1.9 सैव तत॒ प्राय॑श्चित्तिः । अ॒र्धो वा ए॒तस्य॑ य॒ज्ञस्य॑ मीयते । यस्य॒ व्रत्येऽह॒न्पत्न्य॑नालम्भु॒का भव॑ति । ताम॑प॒रुध्य॑ यजेत । सर्वे॑णै॒व य॒ज्ञेन॑ यजते । तामि॒ष्ट्वोप॑ ह्वयेत । अमू॒हम॑स्मि । सा त्वम् । द्यौर॒हम् । पृ॒थि॒वी त्वम् । सामा॒हम् । ऋक्त्वम् । तावेहि॒ संभ॑वाव । स॒ह रेतो॑ दधावहै । पु॒॒से पु॒त्राय॒ वेत्त॑वै । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॒येति॑ । अ॒र्ध ए॒वैना॒मुप॑ ह्वयते । सैव तत॒ प्राय॑श्चित्तिः ।। 9 ।। 3.7.2.0 वै प्र॒जाप॑तिस्स्थापयति प्रजा॒नन्न॒भि जु॑हु॒याथ्स्याद्ध्रियेत॒ जहा॑म॒ त्रीणि॑ च ।। 2 ।। (यद्विष्ष॑ण्णेन प्राजाप॒त्यया॒ यत्की॒टा म॑ध्य॒मेन॒ यदव॑वृष्टेन॒ यत्पूर्व॑स्या॒य्यँत्पु॒रा प्र॑या॒जेभ्य॒ प्राङङ्गा॑रो॒ यद्द॑ख्षि॒णा यत्प्र॒त्यग्यदुदङ्ङ्॑ ।। ) 3.7.2.1 यद्विष्ष॑ण्णेन जुहु॒यात् । अप्र॑जा अप॒शुर्यज॑मानस्स्यात् । यदना॑यतने नि॒नयेत् । अ॒ना॒य॒त॒नस्स्यात् । प्रा॒जा॒प॒त्यय॒र्चा व॑ल्मीकव॒पाया॒मव॑ नयेत् । प्रा॒जा॒प॒त्यो वै व॒ल्मीकः॑ । य॒ज्ञ प्र॒जाप॑तिः । प्र॒जाप॑तावे॒व य॒ज्ञं प्रति॑ष्ठापयति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः ।। 10 ।। 3.7.2.2 भूति॑मे॒वोपै॑ति । तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑र्‌होत॒व्यम् । सैव तत॒ प्राय॑श्चित्तिः । यत्की॒टाव॑पन्नेन जुहु॒यात् । अप्र॑जा अप॒शुर्यज॑मानस्स्यात् । यदना॑यतने नि॒नयेत् । अ॒ना॒य॒त॒नस्स्यात् । म॒ध्य॒मेन॑ प॒र्णेन॑ द्यावापृथि॒व्य॑य॒र्चाऽन्त॑ परि॒धि निन॑येत् । द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ।। 11 ।। 3.7.2.3 तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑ऱ्होत॒व्यम् । सैव तत॒ प्राय॑श्चित्तिः । यदव॑वृष्टेन जुहु॒यात् । अप॑रूपमस्या॒त्मञ्जा॑येत । कि॒लासो॑ वा॒स्याद॑ऱ्श॒सो वा । यत्प्रत्ये॒यात् । य॒ज्ञव्विँच्छि॑न्द्यात् । स जु॑हुयात् । मि॒त्रो जनान्कल्पयति प्रजा॒नन्न् ।। 12 ।। 3.7.2.4 मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्र कृ॒ष्टीरनि॑मिषा॒ऽभि च॑ष्टे । स॒त्याय॑ ह॒व्यङ्घृ॒तव॑ज्जुहो॒तेति॑ । मि॒त्रेणै॒वैन॑त्कल्पयति । तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑ऱ्होत॒व्यम् । सैव तत॒ प्राय॑श्चित्तिः । यत्पूर्व॑स्या॒माहु॑त्या हु॒ताया॒मुत्त॒राऽऽहु॑तिः॒ स्कन्देत् । द्वि॒पाद्भि॑ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत । यदुत्त॑रया॒ऽभि जु॑हु॒यात् ।। 13 ।। 3.7.2.5 चतु॑ष्पाद्भि प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध़्येत । यत्र॒ वेत्थ॑ वनस्पते दे॒वाना॒ङ्गुह्या॒ नामा॑नि । तत्र॑ ह॒व्यानि॑ गाम॒येति॑ वानस्प॒त्यय॒र्चा स॒मिध॑मा॒धाय॑ । तू॒ष्णीमे॒व पुन॑र्जुहुयात् । वन॒स्पति॑नै॒व य॒ज्ञस्यार्ता॒ञ्चानार्ता॒ञ्चाहु॑ती॒ वि दा॑धार । तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑ऱ्होत॒व्यम् । सैव तत॒ प्राय॑श्चित्तिः । यत्पु॒रा प्र॑या॒जेभ्य॒ प्राङङ्गा॑र॒स्स्कन्देत् । अ॒ध्व॒र्यवे॑ च॒ यज॑मानाय॒ चाक॑ स्यात् ।। 14 ।। 3.7.2.6 यद्द॑ख्षि॒णा । ब्र॒ह्मणे॑ च॒ यज॑मानाय॒ चाक॑ स्यात् । यत्प्र॒त्यक् । होत्रे॑ च॒ पत्नि॑यै च॒ यज॑मानाय॒ चाक॑ स्यात् । यदुदङ्ङ्॑ । अ॒ग्नीधे॑ च प॒शुभ्य॑श्च॒ यज॑मानाय॒ चाक॑ स्यात् । यद॑भिजुहु॒यात् । रु॒द्रोस्य प॒शून्घातु॑कस्स्यात् । यन्नाभि॑जुहु॒यात् । अशान्त॒ प्रह्रि॑येत ।। 15 ।। 3.7.2.7 स्रु॒वस्य॒ बुध्ने॑नाभि॒निद॑ध्यात् । मा त॑मो॒ मा य॒ज्ञस्त॑म॒न्मा यज॑मानस्तमत् । नम॑स्ते अस्त्वाय॒ते । नमो॑ रुद्र पराय॒ते । नमो॒ यत्र॑ नि॒षीद॑सि । अ॒मुं मा हि॑सीर॒मुं मा हि॑सी॒रिति॒ येन॒ स्कन्देत् । तं प्रह॑रेत् । स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दाः । स्तोम॑पृष्ठो घृ॒तवान्थ्सु॒प्रती॑कः । मा नो॑ हासीन्मेत्थि॒तो नेत्त्वा॒ जहा॑म । गो॒पो॒षन्नो॑ वीरपो॒षञ्च॑ य॒च्छेति॑ । ब्रह्म॑णै॒वैनं॒ प्र ह॑रति । सैव तत॒ प्राय॑श्चित्तिः ।। 16 ।। 3.7.3.0 अ॒जाऽग्नावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति भवत्यासीत परि॒चख्षी॑त लम्भयति दधाति दे॒वानां॒ बृह॒स्पति॒ पञ्च॑ च ।।3।। (वि वै यद्य॒न्यम॒जायां ब्राह्म॒णस्य॑ दर्भस्त॒म्बेऽप्सु हो॑त॒व्यम् ।। ) 3.7.3.1 वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यस्याहि॑ताग्नेर॒ग्निर्म॒थ्यमा॑नो॒ न जाय॑ते । यत्रा॒न्यं पश्येत् । तत॑ आ॒हृत्य॑ होत॒व्यम् । अ॒ग्नावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । यद्य॒न्यन्न वि॒न्देत् । अ॒जाया॑ होत॒व्यम् । आ॒ग्ने॒यी वा ए॒षा । यद॒जा । अ॒ग्नावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति ।। 17 ।। 3.7.3.2 अ॒जस्य॒ तु नाश्ञी॑यात् । यद॒जस्याश्ञी॒यात् । यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् । ताम॑द्यात् । तस्मा॑द॒जस्य॒ नाश्यम् । यद्य॒जान्न वि॒न्देत् । ब्रा॒ह्म॒णस्य॒ दख्षि॑णे॒ हस्ते॑ होत॒व्यम् । ए॒ष वा अ॒ग्निर्वैश्वान॒रः । यद्ब्राह्म॒णः । अ॒ग्नावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति ।। 18 ।। 3.7.3.3 ब्रा॒ह्म॒णन्तु व॑स॒त्यै॑ नाप॑ रुन्ध्यात् । यद्ब्राह्म॒णव्वँ॑स॒त्या अ॑परु॒न्ध्यात् । यस्मि॑न्ने॒वाग्नावाहु॑तिञ्जुहु॒यात् । तम्भा॑ग॒धेये॑न॒ व्य॑र्धयेत् । तस्माद्ब्राह्म॒णो व॑स॒त्यै॑ नाप॒रुध्यः॑ । यदि॑ ब्राह्म॒णन्न वि॒न्देत् । द॒र्भ॒स्त॒म्बे हो॑त॒व्यम् । अ॒ग्नि॒वाऩ््वै द॑र्भस्त॒म्बः । अ॒ग्नावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । द॒र्भास्तु नाध्या॑सीत ।। 19 ।। 3.7.3.4 यद्द॒र्भान॒ध्यासी॑त । यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् । तामध्या॑सीत । तस्माद्द॒र्भा नाध्या॑सित॒व्याः । यदि॑ द॒र्भान्न वि॒न्देत् । अ॒प्सु हो॑त॒व्यम् । आपो॒ वै सर्वा॑ दे॒वताः । दे॒वतास्वे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । आप॒स्तु न परि॑चख्षीत । यदाप॑ परि॒चख्षी॑त ।। 20 ।। 3.7.3.5 यामे॒वाफ्स्वाहु॑तिञ्जुहु॒यात् । तां परि॑चख्षीत । तस्मा॒दापो॒ न प॑रि॒चख्ष्याः । मेध्या॑ च॒ वा ए॒तस्या॑मे॒ध्या च॑ त॒नुवौ॒ स सृ॑ज्येते । यस्याहि॑ताग्नेर॒न्यैर॒ग्निभि॑र॒ग्नय॑स्ससृ॒ज्यन्ते । अ॒ग्नये॒ विवि॑चये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् । मेध्याञ्चै॒वास्या॑मे॒ध्याञ्च॑ त॒नुवौ॒ व्याव॑र्तयति । अ॒ग्नये व्र॒तप॑तये पु॒रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् । अ॒ग्निमे॒व व्र॒तप॑ति॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति । स ए॒वैन॑व्व्रँ॒तमा ल॑म्भयति ।। 21 ।। 3.7.3.6 गर्भ॒॒ स्रव॑न्तमग॒दम॑कः । अ॒ग्निरिन्द्र॒स्त्वष्टा॒ बृह॒स्पतिः॑ । पृ॒थि॒व्यामव॑ चुश्चोतै॒तत् । नाभिप्राप्नो॑ति॒ निर्‌ऋ॑तिं परा॒चैः । रेतो॒ वा ए॒तद्वाजि॑न॒माहि॑ताग्नेः । यद॑ग्निहो॒त्रम् । तद्यथ्स्रवेत् । रेतोऽस्य॒ वाजि॑न स्रवेत् । गर्भ॒॒ स्रव॑न्तमग॒दम॑क॒रित्या॑ह । रेत॑ ए॒वास्मि॒न्वाजि॑नन्दधाति ।। 22 ।। 3.7.3.7 अ॒ग्निरित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । इन्द्र॒ इत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति । त्वष्टेत्या॑ह । त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नाना॑ रूप॒कृत् । रू॒पमे॒व प॒शुषु॑ दधाति । बृह॒स्पति॒रित्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वास्मै प्र॒जा प्र ज॑नयति । पृ॒थि॒व्यामव॑ चुश्चोतै॒तदित्या॑ह । अ॒स्यामे॒वैन॒त्प्रति॑ष्ठापयति । नाभिप्राप्नो॑ति॒ निर्‌ऋ॑तिं पराचै॒रित्या॑ह । रख्ष॑सा॒मप॑हत्यै ।। 23 ।। 3.7.4.0 आभृ॑त इ॒मङ्गृ॑ह्णामि॒ पूर्व॒स्ता पूर्व॒ परि॑गृह्णामि सभापा॒ला इन्द्र॑ज्येष्ठेभ्य॒ आदि॑त्य व्रतपते सुसं॒भृता॑ मे स॒ह पु॑नातु गहि नो वि॒श्वरू॑पा दधातु॒ पुन॑र्गच्छतु प॒शून् ।। 4 ।। (यापु॒रस्ता॑दि॒मामूर्ज॑मि॒ह प्र॒जा इ॒ह प॒शवो॒ऽयं पि॑तृ॒णाम॒ग्निः । ) 3.7.4.1 या पु॒रस्तात्प्र॒स्रव॑न्ति । उ॒परि॑ष्टाथ्स॒र्वत॑श्च॒ याः । ताभी॑ र॒श्मिप॑वित्राभिः । श्र॒द्धाय्यँ॒ज्ञमा र॑भे । देवा॑ गातुविदः । गा॒तुय्यँ॒ज्ञाय॑ विन्दत । मन॑स॒स्पति॑ना दे॒वेन॑ । वाताद्य॒ज्ञ प्र यु॑ज्यताम् । तृ॒तीय॑स्यै दि॒वः । गा॒य॒त्रि॒या सोम॒ आभृ॑तः ।। 24 ।। 3.7.4.2 सो॒म॒पी॒थाय॒ सन्न॑यितुम् । वक॑ल॒मन्त॑र॒मा द॑दे । आपो॑ देवीश्शु॒द्धास्स्थ॑ । इ॒मा पात्रा॑णि शुन्धत । उ॒पा॒त॒ङ्क्या॑य दे॒वानाम् । प॒र्ण॒व॒ल्कमु॒त शु॑न्धत । पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ । पयो॑ व॒थ्सेषु॒ पय॒ इन्द्रा॑य ह॒विषे ध्रियस्व । गा॒य॒त्री प॑र्णव॒ल्केन॑ । पय॒स्सोम॑ङ्करोत्वि॒मम् ।। 25 ।। 3.7.4.3 अ॒ग्निङ्गृ॑ह्णामि सु॒रथ॒य्योँ म॑यो॒भूः । य उ॒द्यन्त॑मा॒रोह॑ति॒ सूर्य॒मह्ने । आ॒दि॒त्यञ्ज्योति॑षा॒ञ्ज्योति॑रुत्त॒मम् । श्वो य॒ज्ञाय॑ रमतान्दे॒वताभ्यः । वसून्रु॒द्राना॑दि॒त्यान् । इन्द्रे॑ण स॒ह दे॒वताः । ता पूर्व॒ परि॑ गृह्णामि । स्व आ॒यत॑ने मनी॒षया । इ॒मामूर्जं॑ पञ्चद॒शींय्येँ प्रवि॑ष्टाः । तान्दे॒वान्परि॑ गृह्णामि॒ पूर्वः॑ ।। 26 ।। 3.7.4.4 अ॒ग्निर्‌ह॑व्य॒वाडि॒ह ताना व॑हतु । पौ॒र्णमा॒स ह॒विरि॒दमे॑षां॒ मयि॑ । आ॒मा॒वा॒स्य॑ ह॒विरि॒दमे॑षां॒ मयि॑ । अ॒न्त॒राऽग्नी प॒शवः॑ । दे॒व॒स॒॒सद॒मा ग॑मन्न् । तान्पूर्व॒ परि॑ गृह्णामि । स्व आ॒यत॑ने मनी॒षया । इ॒ह प्र॒जा वि॒श्वरू॑पा रमन्ताम् । अ॒ग्निङ्गृ॒हप॑तिम॒भि स॒व्वँसा॑नाः । ता पूर्व॒ परि॑ गृह्णामि ।। 27 ।। 3.7.4.5 स्व आ॒यत॑ने मनी॒षया । इ॒ह प॒शवो॑ वि॒श्वरू॑पा रमन्ताम् । अ॒ग्निङ्गृ॒हप॑तिम॒भि स॒व्वँसा॑नाः । तान्पूर्व॒ परि॑ गृह्णामि । स्व आ॒यत॑ने मनी॒षया । अ॒यं पि॑तृ॒णाम॒ग्निः । अवाड्ढ॒व्या पि॒तृभ्य॒ आ । तं पूर्व॒ परि॑ गृह्णामि । अवि॑षन्न पि॒तुङ्क॑रत् । अज॑स्र॒न्त्वा स॑भापा॒लाः ।। 28 ।। 3.7.4.6 वि॒ज॒यभा॑ग॒॒ समि॑न्धताम् । अग्ने॑ दी॒दा॑य मे सभ्य । विजि॑त्यै श॒रद॑श्श॒तम् । अन्न॑मावस॒थीयम् । अ॒भि ह॑राणि श॒रद॑श्श॒तम् । आ॒व॒स॒थे श्रियं॒ मन्त्रम् । अहि॑र्बु॒ध्नियो॒ नि य॑च्छतु । इ॒दम॒हम॒ग्निज्येष्ठेभ्यः । वसु॑भ्यो य॒ज्ञं प्रब्र॑वीमि । इ॒दम॒हमिन्द्र॑ज्येष्ठेभ्यः ।। 29 ।। 3.7.4.7 रु॒द्रेभ्यो॑ य॒ज्ञं प्र ब्र॑वीमि । इ॒दम॒हं वरु॑णज्येष्ठेभ्यः । आ॒दि॒त्येभ्यो॑ य॒ज्ञं प्र ब्र॑वीमि । पय॑स्वती॒रोष॑धयः । पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पयः॑ । तेन॒ मामि॑न्द्र॒ स सृ॑ज । अग्ने व्रतपते व्र॒तञ्च॑रिष्यामि । तच्छ॑केय॒न्तन्मे॑ राध्यताम् । वायो व्रतपत॒ आदि॑त्य व्रतपते ।। 30 ।। 3.7.4.8 व्र॒तानाव्व्रँतपते व्र॒तञ्च॑रिष्यामि । तच्छ॑केय॒न्तन्मे॑ राध्यताम् । इ॒मां प्राची॒मुदी॑चीम् । इष॒मूर्ज॑म॒भि सस्कृ॑ताम् । ब॒हु॒प॒र्णामशु॑ष्काग्राम् । हरा॑मि पशु॒पाम॒हम् । यत्कृष्णो॑ रू॒पङ्कृ॒त्वा । प्रावि॑श॒स्त्वव्वँन॒स्पतीन्॑ । तत॒स्त्वामे॑कविशति॒धा । संभ॑रामि सुसं॒भृता ।। 31 ।। 3.7.4.9 त्रीन्प॑रि॒धी स्ति॒स्रस्स॒मिधः॑ । य॒ज्ञायु॑रनुसञ्च॒रान् । उ॒प॒वे॒षं मेख्ष॑ण॒न्धृष्टिम् । सं भ॑रामि सुसं॒भृता । या जा॒ता ओष॑धयः । दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । तासां॒ पर्व॑ राध्यासम् । प॒रि॒स्त॒रमा॒हरन्न्॑॑ । अ॒पां मेध्य॑य्यँ॒ज्ञियम् । सदे॑व शि॒वम॑स्तु मे ।। 32 ।। 3.7.4.10 आ॒च्छे॒त्ता वो॒ मा रि॑षम् । जीवा॑नि श॒रद॑श्श॒तम् । अप॑रिमितानां॒ परि॑मिताः । सन्न॑ह्ये सुकृ॒ताय॒ कम् । एनो॒ मा निगाङ्कत॒मच्च॒नाहम् । पुन॑रु॒त्थाय॑ बहु॒ला भ॑वन्तु । स॒कृ॒दा॒च्छि॒न्नं ब॒र्॒हिरूर्णा॑मृदु । स्यो॒नं पि॒तृभ्य॑स्त्वा भराम्य॒हम् । अ॒स्मिन्थ्सी॑दन्तु मे पि॒तर॑स्सो॒म्याः । पि॒ता॒म॒हा प्रपि॑तामहाश्चानु॒गैस्स॒ह ।। 33 ।। 3.7.4.11 त्रि॒वृत्प॑ला॒शे द॒र्भः । इयान्प्रादे॒शस॑म्मितः । य॒ज्ञे प॒वित्रं॒ पोतृ॑तमम् । पयो॑ ह॒व्यङ्क॑रोतु मे । इ॒मौ प्रा॑णापा॒नौ । य॒ज्ञस्याङ्गा॑नि सर्व॒शः । आ॒प्या॒यय॑न्तौ॒ सञ्च॑रताम् । प॒वित्रे॑ हव्य॒शोध॑ने । प॒वित्रे स्थो वैष्ण॒वी । वा॒युर्वां॒ मन॑सा पुनातु ।। 34 ।। 3.7.4.12 अ॒यं प्रा॒णश्चा॑पा॒नश्च॑ । यज॑मान॒मपि॑ गच्छताम् । य॒ज्ञे ह्यभू॑तां॒ पोता॑रौ । प॒वित्रे॑ हव्य॒शोध॑ने । त्वया॒ वेदि॑व्विँविदु पृथि॒वीम् । त्वया॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑ । अच्छि॑द्रय्यँ॒ज्ञमन्वे॑षि वि॒द्वान् । त्वया॒ होता॒ सन्त॑नोत्यर्धमा॒सान् । त्र॒य॒स्त्रि॒॒शो॑ऽसि॒ तन्तू॑नाम् । प॒वित्रे॑ण स॒हाग॑हि ।। 35 ।। 3.7.4.13 शि॒वेय रज्जु॑रभि॒धानी । अ॒घ्नि॒यामुप॑ सेवताम् । अप्र॑स्रसाय य॒ज्ञस्य॑ । उ॒खे उप॑दधाम्य॒हम् । प॒शुभि॒स्सन्नी॑तं बिभृताम् । इन्द्रा॑य शृ॒तन्दधि॑ । उ॒प॒वे॒षो॑ऽसि य॒ज्ञाय॑ । त्वां प॑रिवे॒षम॑धारयन्न् । इन्द्रा॑य ह॒वि कृ॒ण्वन्तः॑ । शि॒वश्श॒ग्मो भ॑वासि नः ।। 36 ।। 3.7.4.14 अमृ॑न्मयन्देवपा॒त्रम् । य॒ज्ञस्यायु॑षि॒ प्र यु॑ज्यताम् । ति॒र॒प॒वि॒त्रमति॑नीताः । आपो॑ धारय॒ माति॑गुः । दे॒वेन॑ सवि॒त्रोत्पू॑ताः । वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ । गान्दो॑हपवि॒त्रे रज्जुम् । सर्वा॒ पात्रा॑णि शुन्धत । ए॒ता आ च॑रन्ति॒ मधु॑म॒द्दुहा॑नाः । प्र॒जाव॑तीर्य॒शसो॑ वि॒श्वरू॑पाः ।। 37 ।। 3.7.4.15 ब॒ह्वीर्भव॑न्ती॒रुप॒जाय॑मानाः । इ॒ह व॒ इन्द्रो॑ रमयतु गावः । पू॒षा स्थ॑ । अ॒य॒ख्ष्मा व॑ प्र॒जया॒ स सृ॑जामि । रा॒यस्पोषे॑ण बहु॒लाभव॑न्तीः । ऊर्जं॒ पय॒ पिन्व॑माना घृ॒तञ्च॑ । जी॒वो जीव॑न्ती॒रुप॑वस्सदेयम् । द्यौश्चे॒मय्यँ॒ज्ञं पृ॑थि॒वी च॒ सन्दु॑हाताम् । धा॒ता सोमे॑न स॒ह वाते॑न वा॒युः । यज॑मानाय॒ द्रवि॑णन्दधातु ।। 38 ।। 3.7.4.16 उथ्स॑न्दुहन्ति क॒लश॒ञ्चतु॑र्बिलम् । इडान्दे॒वीम्मधु॑मती सुव॒र्विदम् । तदि॑न्द्रा॒ग्नी जि॑न्वत सू॒नृता॑वत् । तद्यज॑मानममृत॒त्वे द॑धातु । काम॑धुख्ष॒ प्र णो ब्रूहि । इन्द्रा॑य ह॒विरि॑न्द्रि॒यम् । अ॒मूय्यँस्यान्दे॒वानाम् । म॒नु॒ष्या॑णां॒ पयो॑ हि॒तम् । ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यः॑ । ह॒व्यमा प्या॑यतां॒ पुनः॑ ।। 39 ।। 3.7.4.17 व॒थ्सेभ्यो॑ मनु॒ष्येभ्यः । पु॒न॒र्दो॒हाय॑ कल्पताम् । य॒ज्ञस्य॒ सन्त॑तिरसि । य॒ज्ञस्य॑ त्वा॒ सन्त॑ति॒मनु॒ सन्त॑नोमि । अद॑स्तमसि॒ विष्ण॑वे त्वा । य॒ज्ञायापि॑ दधाम्य॒हम् । अ॒द्भिररि॑क्तेन॒ पात्रे॑ण । या पू॒ता प॑रि॒शेर॑ते । अ॒यं पय॒स्सोम॑ङ्कृ॒त्वा । स्वाय्योँनि॒मपि॑ गच्छतु ।। 40 ।। 3.7.4.18 प॒र्ण॒व॒ल्क प॒वित्रम् । सौ॒म्यस्सोमा॒द्धि निर्मि॑तः । इ॒मौ प॒र्णञ्च॑ द॒र्भञ्च॑ । दे॒वाना॑ हव्य॒शोध॑नौ । प्रा॒त॒र्वे॒षाय॑ गोपाय । विष्णो॑ ह॒व्य हि रख्ष॑सि । उ॒भाव॒ग्नी उ॑पस्तृण॒ते । दे॒वता॒ उप॑वसन्तु मे । अ॒हङ्ग्रा॒म्यानुप॑ वसामि । मह्य॒ङ्गोप॑तये प॒शून् ।। 41 ।। 3.7.5.0 अ॒भीत्व॑र्यै करोमि क्रमीत्पि॒ताऽऽत्मन॑ एक॒तो मु॑खां मे॒ दिशोऽध्य॑ख्षेभ्यो ह॒विर्गा॑र्‌हपत्या कल्पय॒न्नश॑स्ति॒स्सा नो॑ दोहता सु॒वीर्य॑ स॒प्त च॑ ।। 5 ।। 3.7.5.1 देवा॑ दे॒वेषु॒ पराक्रमध्वम् । प्रथ॑मा द्वि॒तीये॑षु । द्विती॑यास्तृ॒तीये॑षु । त्रिरे॑कादशा इ॒ह मा॑ऽवत । इ॒द श॑केय॒य्यँदि॒दङ्क॒रोमि॑ । आ॒त्मा क॑रोत्वा॒त्मने । इ॒दङ्क॑रिष्ये भेष॒जम् । इ॒दम्मे॑ विश्वभेषजा । अश्वि॑ना॒ प्राव॑तय्युँ॒वम् । इ॒दम॒ह सेना॑या अ॒भीत्व॑र्यै ।। 42 ।। 3.7.5.2 मुख॒मपो॑हामि । सूर्य॑ ज्योति॒र्वि भा॑हि । म॒ह॒त इ॑न्द्रि॒याय॑ । आ प्या॑यताङ्घृ॒तयो॑निः । अ॒ग्निर्‌ह॒व्याऽनु॑ मन्यताम् । खम॑ङ्ख्ष्व॒ त्वच॑मङ्ख्ष्व । सु॒रू॒पन्त्वा॑ वसु॒विदम् । प॒शू॒नान्तेज॑सा । अ॒ग्नये॒ जुष्ट॑म॒भि घा॑रयामि । स्यो॒नन्ते॒ सद॑नङ्करोमि ।। 43 ।। 3.7.5.3 घृ॒तस्य॒ धार॑या सु॒शेव॑ङ्कल्पयामि । तस्मिन्थ्सीदा॒मृते॒ प्रति॑तिष्ठ । व्री॒ही॒णाम्मे॑ध सुमन॒स्यमा॑नः । आ॒र्द्र प्र॑थस्नु॒र्भुव॑नस्य गो॒पाः । शृ॒त उथ्स्ना॑ति जनि॒ता म॑ती॒नाम् । यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । दे॒वानाव्विँ॒ष्ठामनु॒ यो वि॑त॒स्थे । आ॒त्म॒न्वान्थ्सो॑म घृ॒तवा॒न्॒ हि भू॒त्वा । दे॒वान्ग॑च्छ॒ सुव॑र्विन्द॒ यज॑मानाय॒ मह्यम् । इरा॒ भूति॑ पृथि॒व्यै रसो॒ मोत्क्र॑मीत् ।। 44 ।। 3.7.5.4 देवा पितर॒ पित॑रो देवाः । यो॑ऽहम॑स्मि॒ स सन् य॑जे । यस्यास्मि॒ न तम॒न्तरे॑मि । स्वं म॑ इ॒ष्ट स्वन्द॒त्तम् । स्वं पू॒र्त स्व श्रा॒न्तम् । स्व हु॒तम् । तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा । वा॒युरु॑पश्रो॒ता । आ॒दि॒त्यो॑ऽनुख्या॒ता । द्यौ पि॒ता ।। 45 ।। 3.7.5.5 पृ॒थि॒वी मा॒ता । प्र॒जाप॑ति॒र्बन्धुः॑ । य ए॒वास्मि॒ स सन् य॑जे । मा भेर्मा सव्विँ॑क्था॒ मा त्वा॑ हिसिषम् । मा ते॒ तेजोऽप॑ क्रमीत् । भ॒र॒तमुद्ध॑रे॒मनु॑ षिञ़्च । अ॒व॒दाना॑नि ते प्र॒त्यव॑दास्यामि । नम॑स्ते अस्तु॒ मा मा॑ हिसीः । यद॑व॒दाना॑नि तेऽव॒द्यन्न् । विलो॒माका॑र्‌षमा॒त्मनः॑ ।। 46 ।। 3.7.5.6 आज्ये॑न॒ प्रत्य॑नज्म्येनत् । तत्त॒ आ प्या॑यतां॒ पुनः॑ । अज्या॑यो यवमा॒त्रात् । आ॒व्या॒धात्कृ॑त्यतामि॒दम् । मा रू॑रुपाम य॒ज्ञस्य॑ । शु॒द्ध स्वि॑ष्टमि॒द ह॒विः । मनु॑ना दृ॒ष्टाङ्घृतप॑दीम् । मि॒त्रावरु॑णसमीरिताम् । द॒ख्षि॒णा॒र्धादसं॑भिन्दन्न् । अव॑द्याम्येक॒तोमु॑खाम् ।। 47 ।। 3.7.5.7 इडे॑ भा॒गं जु॑षस्व नः । जिन्व॒ गा जिन्वार्व॑तः । तस्यास्ते भख्षि॒वाण॑स्स्याम । स॒र्वात्मा॑नस्स॒र्वग॑णाः । ब्रध्न॒ पिन्व॑स्व । दद॑तो मे॒ मा ख्षा॑यि । कु॒र्व॒तो मे॒ मोप॑दसत् । दि॒शाङ्कॢप्ति॑रसि । दिशो॑ मे कल्पन्ताम् । कल्प॑न्ताम्मे॒ दिशः॑ ।। 48 ।। 3.7.5.8 दैवीश्च॒ मानु॑षीश्च । अ॒हो॒रा॒त्रे मे॑ कल्पेताम् । अ॒र्ध॒मा॒सा मे॑ कल्पन्ताम् । मासा॑ मे कल्पन्ताम् । ऋ॒तवो॑ मे कल्पन्ताम् । स॒व्वँ॒थ्स॒रो मे॑ कल्पताम् । कॢप्ति॑रसि॒ कल्प॑तां मे । आशा॑नां त्वाऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृतेभ्यः । इ॒दं भू॒तस्याध्य॑ख्षेभ्यः ।। 49 ।। 3.7.5.9 वि॒धेम॑ ह॒विषा॑ व॒यम् । भज॑तां भा॒गी भा॒गम् । मा भा॒गोऽभ॑क्त । निर॑भा॒गं भ॑जामः । अ॒पस्पि॑न्व । ओष॑धीर्जिन्व । द्वि॒पात्पा॑हि । चतु॑ष्पादव । दि॒वो वृष्टि॒मेर॑य । ब्रा॒ह्म॒णाना॑मि॒द ह॒विः ।। 50 ।। 3.7.5.10 सो॒म्याना॑ सोमपी॒थिनाम् । निर्भ॒क्तो ब्राह्मणः । नेहा ब्राह्मणस्यास्ति । सम॑ङ्क्तां ब॒र्॒हिर्‌ह॒विषा॑ घृ॒तेन॑ । समा॑दि॒त्यैर्वसु॑भि॒स्सम्म॒रुद्भिः॑ । समिन्द्रे॑ण॒ विश्वे॑भिर्दे॒वेभि॑रङ्क्ताम् । दि॒व्यं नभो॑ गच्छतु॒ यथ्स्वाहा । इ॒न्द्रा॒णीवा॑ऽविध॒वा भू॑यासम् । अदि॑तिरिव सुपु॒त्रा । अ॒स्थू॒रि त्वा॑ गार्‌हपत्य ।। 51 ।। 3.7.5.11 उप॒निष॑दे सुप्रजा॒स्त्वाय॑ । सं पत्नी॒ पत्या॑ सुकृ॒तेन॑ गच्छताम् । य॒ज्ञस्य॑ यु॒क्तौ धुर्या॑वभूताम् । सं॒जा॒ना॒नौ विज॑हता॒मरा॑तीः । दि॒वि ज्योति॑र॒जर॒मा र॑भेताम् । दश॑ते त॒नुवो॑ यज्ञ य॒ज्ञियाः । ता प्री॑णातु॒ यज॑मानो घृ॒तेन॑ । ना॒रि॒ष्ठयो प्र॒शिष॒मीड॑मानः । दे॒वानां॒ दैव्येऽपि॒ यज॑मानो॒ऽमृतो॑ऽभूत् । यव्वाँन्दे॒वा अ॑कल्पयन्न् ।। 52 ।। 3.7.5.12 ऊ॒र्जो भा॒ग श॑तक्रतू । ए॒तद्वां॒ तेन॑ प्रीणानि । तेन॑ तृप्यतमहहौ । अ॒हन्दे॒वाना॑ सु॒कृता॑मस्मि लो॒के । ममे॒दमि॒ष्टन्न मिथु॑र्भवाति । अ॒हन्ना॑रि॒ष्ठावनु॑ यजामि वि॒द्वान् । यदाभ्या॒मिन्द्रो॒ अद॑धाद्भाग॒धेय॑म् । अदा॑रसृद्भवत देवसोम । अ॒स्मिन् य॒ज्ञे म॑रुतो मृडता नः । मा नो॑ विदद॒भिभा॒मो अश॑स्तिः ।। 53 ।। 3.7.5.13 मा नो॑ विदद्वृ॒जना॒ द्वेष्या॒ या । ऋ॒ष॒भव्वाँ॒जिन॑व्वँ॒यम् । पू॒र्णमा॑सय्यँजामहे । स नो॑ दोहता सु॒वीर्यम् । रा॒यस्पोष॑ सह॒स्रिणम् । प्रा॒णाय॑ सु॒राध॑से । पू॒र्णमा॑साय॒ स्वाहा । अ॒मा॒वा॒स्या॑ सु॒भगा॑ सु॒शेवा । धे॒नुरि॑व॒ भूय॑ आ॒प्याय॑माना । सा नो॑ दोहता सु॒वीर्यम् । रा॒यस्पोष॑ सह॒स्रिणम् । अ॒पा॒नाय॑ सु॒राध॑से । अ॒मा॒वा॒स्या॑यै॒ स्वाहा । अ॒भि स्तृ॑णीहि॒ परि॑ धेहि॒ वेदिम् । जा॒मिम्मा हि॑सीरमु॒या शया॑ना । हो॒तृ॒षद॑ना॒ हरि॑तास्सु॒वर्णाः । नि॒ष्का इ॒मे यज॑मानस्य ब्र॒ध्ने ।। 54 ।। 3.7.6.0 पति॑ प्र॒जाप॑तये तप॒स्वी वा॒चा सौभ॑गाय प॒शून्मे॑ पिन्वस्व दुर्मरा॒युन्दे॑व॒याना॑नग्ने॒ऽन्तरि॑ख्षे॒ऽहमुत्त॑रो भूयासं प्र॒जाप॑तिरसि स॒र्वत॑श्श्रि॒त प्रवि॑ष्टन्दे॒वता॑भिर्वाज॒जितं॑ पृथि॒वी ह्व॑यताम॒ग्निराग्नीध्राद्वृश्चत ससृ॒वास॑ हु॒ते स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्वे॒त कृ॑धि दध्मस्यूहताम॒ष्टौ च॑ ।। 6 ।। 3.7.6.1 परि॑स्तृणीत॒ परि॑धत्ता॒ग्निम् । परि॑हितो॒ऽग्निर्यज॑मानं भुनक्तु । अ॒पा रस॒ ओष॑धीना सु॒वर्णः॑ । नि॒ष्का इ॒मे यज॑मानस्य सन्तु काम॒दुघाः । अ॒मुत्रा॒मुष्मि॑ल्लोँ॒के । भूप॑ते॒ भुव॑नपते । म॒ह॒तो भू॒तस्य॑ पते । ब्र॒ह्माण॑न्त्वा वृणीमहे । अ॒हं भूप॑तिर॒हं भुव॑नपतिः । अ॒हं म॑ह॒तो भू॒तस्य॒ पतिः॑ ।। 55 ।। 3.7.6.2 दे॒वेन॑ सवि॒त्रा प्रसू॑त॒ आर्त्वि॑ज्यङ्करिष्यामि । देव॑ सवितरे॒तन्त्वा॑ वृणते । बृह॒स्पतिं॒ दैव्यं॑ ब्र॒ह्माणम् । तद॒हं मन॑से॒ प्र ब्र॑वीमि । मनो॑ गायत्रि॒यै । गा॒य॒त्री त्रि॒ष्टुभे । त्रि॒ष्टुब्जग॑त्यै । जग॑त्यनु॒ष्टुभे । अ॒नु॒ष्टुक्प॒ङ्क्त्यै । प॒ङ्क्ति प्र॒जाप॑तये ।। 56 ।। 3.7.6.3 प्र॒जाप॑ति॒र्विश्वेभ्यो दे॒वेभ्यः॑ । विश्वे॑ देवा॒ बृह॒स्पत॑ये । बृह॒स्पति॒र्ब्रह्म॑णे । ब्रह्म॒ भूर्भुव॒स्सुवः॑ । बृह॒स्पति॑र्दे॒वानां ब्र॒ह्मा । अ॒हं म॑नु॒ष्या॑णाम् । बृह॑स्पते य॒ज्ञङ्गो॑पाय । इ॒दं तस्मै॑ ह॒र्म्यङ्क॑रोमि । यो वो॑ देवा॒श्चर॑ति ब्रह्म॒चर्यम् । मे॒धा॒वी दि॒ख्षु मन॑सा तप॒स्वी ।। 57 ।। 3.7.6.4 अ॒न्तर्दू॒तश्च॑रति॒ मानु॑षीषु । चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्य॑न्धुख्ष्व॒ यज॑मानाय॒ कामान्॑ । भूमि॑र्भू॒त्वा म॑हि॒मानं॑ पुपोष । ततो॑ दे॒वी व॑र्धयते॒ पया॑सि । य॒ज्ञिया॑ य॒ज्ञव्विँ च॒ यन्ति॒ शञ्च॑ । ओष॑धी॒राप॑ इ॒ह शक्व॑रीश्च । यो मा॑ हृ॒दा मन॑सा॒ यश्च॑ वा॒चा ।। 58 ।। 3.7.6.5 यो ब्रह्म॑णा॒ कर्म॑णा॒ द्वेष्टि॑ देवाः । यश्श्रु॒तेन॒ हृद॑येनेष्ण॒ता च॑ । तस्येन्द्र॒ वज्रे॑ण॒ शिर॑श्छिनद्मि । ऊर्णा॑मृदु॒ प्रथ॑मान स्यो॒नम् । दे॒वेभ्यो॒ जुष्ट॒॒ सद॑नाय ब॒र्॒हिः । सु॒व॒र्गे लो॒के यज॑मान॒ हि धे॒हि । मां नाक॑स्य पृ॒ष्ठे प॑र॒मे व्यो॑मन् । चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः । घृ॒तप्र॑तीका व॒युना॑नि वस्ते । साऽऽस्ती॒र्यमा॑णा मह॒ते सौभ॑गाय ।।59 ।। 3.7.6.6 सा मे॑ धुख्ष्व॒ यज॑मानाय॒ कामान्॑ । शि॒वा च॑ मे श॒ग्मा चै॑धि । स्यो॒ना च॑ मे सु॒षदा॑ चैधि । ऊर्ज॑स्वती च मे॒ पय॑स्वती चैधि । इष॒मूर्जं॑ मे पिन्वस्व । ब्रह्म॒ तेजो॑ मे पिन्वस्व । ख्ष॒त्रमोजो॑ मे पिन्वस्व । विशं॒ पुष्टिं॑ मे पिन्वस्व । आयु॑र॒न्नाद्य॑म्मे पिन्वस्व । प्र॒जां प॒शून्मे॑ पिन्वस्व ।। 60 ।। 3.7.6.7 अ॒स्मिन् य॒ज्ञ उप॒ भूय॒ इन्नु मे । अवि॑ख्षोभाय परि॒धीन्द॑धामि । ध॒र्ता ध॒रुणो॒ धरी॑यान् । अ॒ग्निर्द्वेषा॑सि॒ निरि॒तो नु॑दातै । विच्छि॑नद्मि॒ विधृ॑तीभ्या स॒पत्नान्॑ । जा॒तान्भ्रातृ॑व्या॒न्॒ ये च॑ जनि॒ष्यमा॑णाः । वि॒शो य॒न्त्राभ्या॒व्विँध॑माम्येनान् । अ॒ह स्वाना॑मुत्त॒मो॑ऽसानि देवाः । वि॒शो य॒न्त्रे नु॒दमा॑ने॒ अरा॑तिम् । विश्वं॑ पा॒प्मान॒मम॑तिन्दुर्मरा॒युम् ।। 61 ।। 3.7.6.8 सीद॑न्ती दे॒वी सु॑कृ॒तस्य॑ लो॒के । धृती स्थो॒ विधृ॑ती॒ स्वधृ॑ती । प्रा॒णान्मयि॑ धारयतम् । प्र॒जाम्मयि॑ धारयतम् । प॒शून्मयि॑ धारयतम् । अ॒यं प्र॑स्त॒र उ॒भय॑स्य ध॒र्ता । ध॒र्ता प्र॑या॒जाना॑मु॒तानू॑या॒जानाम् । स दा॑धार स॒मिधो॑ वि॒श्वरू॑पाः । तस्मि॒न्थ्स्रुचो॒ अध्या सा॑दयामि । आ रो॑ह प॒थो जु॑हु देव॒यानान्॑ ।। 62 ।। 3.7.6.9 यत्रर्‌ष॑य प्रथम॒जा ये पु॑रा॒णाः । हिर॑ण्यपख्षाऽजि॒रा सम्भृ॑ताङ्गा । वहा॑सि मा सु॒कृता॒य्यँत्र॑ लो॒काः । अवा॒हं बा॑ध उप॒भृता॑ स॒पत्नान्॑ । जा॒तान्भ्रातृ॑व्या॒न्॒ ये च॑ जनि॒ष्यमा॑णाः । दोहै॑ य॒ज्ञ सु॒दुघा॑मिव धे॒नुम् । अ॒हमुत्त॑रो भूयासम् । अध॑रे॒ मथ्स॒पत्नाः । यो मा॑ वा॒चा मन॑सा दुर्मरा॒युः । हृ॒दाऽरा॑ती॒याद॑भि॒दास॑दग्ने ।। 63 ।। 3.7.6.10 इ॒दम॑स्य चि॒त्तमध॑रन्ध्रु॒वायाः । अ॒हमुत्त॑रो भूयासम् । अध॑रे॒ मथ्स॒पत्नाः । ऋ॒ष॒भो॑ऽसि शाक्व॒रः । घृ॒ताची॑ना सू॒नुः । प्रि॒येण॒ नाम्ना प्रि॒ये सद॑सि सीद । स्यो॒नो मे॑ सीद सु॒षद॑ पृथि॒व्याम् । प्रथ॑यि प्र॒जया॑ प॒शुभि॑स्सुव॒र्गे लो॒के । दि॒वि सी॑द पृथि॒व्याम॒न्तरि॑ख्षे । अ॒हमुत्त॑रो भूयासम् ।। 64 ।। 3.7.6.11 अध॑रे॒ मथ्स॒पत्नाः । इ॒य स्था॒ली घृ॒तस्य॑ पू॒र्णा । अच्छि॑न्नपयाश्श॒तधा॑र॒ उत्सः॑ । मा॒रु॒तेन॒ शर्म॑णा॒ दैव्ये॑न । य॒ज्ञो॑ऽसि स॒र्वत॑श्श्रि॒तः । स॒र्वतो॒ मां भू॒तं भ॑वि॒ष्यच्छ्र॑यताम् । श॒तम्मे॑ सन्त्वा॒शिषः॑ । स॒हस्र॑म्मे सन्तु सू॒नृताः । इरा॑वती पशु॒मतीः । प्र॒जाप॑तिरसि स॒र्वत॑श्श्रि॒तः ।। 65 ।। 3.7.6.12 स॒र्वतो॒ मां भू॒तं भ॑वि॒ष्यच्छ्र॑यताम् । श॒तं मे॑ सन्त्वा॒शिषः॑ । स॒हस्रं॑ मे सन्तु सू॒नृताः । इरा॑वती पशु॒मतीः । इ॒दमि॑न्द्रि॒यम॒मृत॑व्वीँ॒र्यम् । अ॒नेनेन्द्रा॑य प॒शवो॑ऽचिकिथ्सन्न् । तेन॑ देवा अव॒तोप॒ माम् । इ॒हेष॒मूर्ज॒य्यँश॒स्सह॒ ओज॑स्सनेयम् । शृ॒तं मयि॑ श्रयताम् । यत्पृ॑थि॒वीमच॑र॒त्तत्प्रवि॑ष्टम् ।। 66 ।। 3.7.6.13 येनासि॑ञ्च॒द्बल॒मिन्द्रे प्र॒जाप॑तिः । इ॒दन्तच्छु॒क्रं मधु॑ वा॒जिनी॑वत् । येनो॒परि॑ष्टा॒दधि॑नोन्महे॒न्द्रम् । दधि॒ मान्धि॑नोतु । अ॒यव्वेँ॒द पृ॑थि॒वीमन्व॑विन्दत् । गुहा॑ स॒तीङ्गह॑ने॒ गह्व॑रेषु । स वि॑न्दतु॒ यज॑मानाय लो॒कम् । अच्छि॑द्रय्यँ॒ज्ञं भूरि॑कर्मा करोतु । अ॒यय्यँ॒ज्ञस्सम॑सदद्ध॒विष्मान्॑ । ऋ॒चा साम्ना॒ यजु॑षा दे॒वता॑भिः ।। 67 ।। 3.7.6.14 तेन॑ लो॒कान्थ्सूर्य॑वतो जयेम । इन्द्र॑स्य स॒ख्यम॑मृत॒त्वम॑श्याम् । यो न॒ कनी॑य इ॒ह का॒मया॑तै । अ॒स्मिन् य॒ज्ञे यज॑मानाय॒ मह्यम् । अप॒ तमि॑न्द्रा॒ग्नी भुव॑नान्नुदेताम् । अ॒हं प्र॒जाव्वीँ॒रव॑तीव्विँदेय । अग्ने॑ वाजजित् । वाज॑न्त्वा सरि॒ष्यन्तम् । वाज॑ञ्जे॒ष्यन्तम् । वा॒जिन॑व्वाँज॒जितम् ।। 68 ।। 3.7.6.15 वा॒ज॒जि॒त्यायै॒ सं मार्ज्मि । अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य । उप॑हूतो॒ द्यौ पि॒ता । उप॒ मान्द्यौ पि॒ता ह्व॑यताम् । अ॒ग्निराग्नीध्रात् । आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य । उप॑हूता पृथि॒वी मा॒ता । उप॒ मां मा॒ता पृ॑थि॒वी ह्व॑यताम् । अ॒ग्निराग्नीध्रात् ।। 69 ।। 3.7.6.16 आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य । मनो॒ ज्योति॑र्जुषता॒माज्यम् । विच्छि॑न्नय्यँ॒ज्ञ समि॒मन्द॑धातु । बृह॒स्पति॑स्तनुतामि॒मन्नः॑ । विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् । यन्ते॑ अग्न आवृ॒श्चामि॑ । अ॒हव्वाँ ख्षिपि॒तश्चरन्न्॑ । प्र॒जाञ्च॒ तस्य॒ मूल॑ञ्च । नी॒चैर्दे॑वा॒ नि वृ॑श्चत ।। 70 ।। 3.7.6.17 अग्ने॒ यो नो॑ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒ध्मस्ये॑व प्र॒ख्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । यो मान्द्वेष्टि॑ जातवेदः । यञ्चा॒हन्द्वेष्मि॒ यश्च॒ माम् । सर्वा॒॒ स्तान॑ग्ने॒ सन्द॑ह । या श्चा॒हन्द्वेष्मि॒ ये च॒ माम् । अग्ने॑ वाजजित् । वाज॑न्त्वा ससृ॒वासम् ।। 71 ।। 3.7.6.18 वाज॑ञ्जिगि॒वासम् । वा॒जिन॑व्वाँज॒जितम् । वा॒ज॒जि॒त्यायै॒ सम्मार्ज्मि । अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य । वेदि॑र्ब॒र्॒हिश्शृ॒त ह॒विः । इ॒ध्म प॑रि॒धय॒स्स्रुचः॑ । आज्य॑य्यँ॒ज्ञ ऋचो॒ यजुः॑ । या॒ज्याश्च वषट्का॒राः । सम्मे॒ सन्न॑तयो नमन्ताम् । इ॒ध्म॒स॒न्नह॑ने हु॒ते ।। 72 ।। 3.7.6.19 दि॒व खीलोऽव॑ततः । पृ॒थि॒व्या अध्युत्थि॑तः । तेना॑ स॒हस्र॑काण्डेन । द्वि॒षन्त॑ शोचयामसि । द्वि॒षन्मे॑ ब॒हु शो॑चतु । ओष॑धे॒ मो अ॒ह शु॑चम् । यज्ञ॒ नम॑स्ते यज्ञ । नमो॒ नम॑श्च ते यज्ञ । शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व । स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व ।। 73 ।। 3.7.6.20 सु॒भू॒तेन॑ मे॒ सन्ति॑ष्ठस्व । ब्र॒ह्म॒व॒र्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व । य॒ज्ञस्यर्द्धि॒मनु॒ सन्ति॑ष्ठस्व । उप॑ ते यज्ञ॒ नमः॑ । उप॑ ते॒ नमः॑ । उप॑ ते॒ नमः॑ । त्रिष्फ॒लीक्रि॒यमा॑णानाम् । यो न्य॒ङ्गो अ॑व॒शिष्य॑ते । रख्ष॑सां भाग॒धेयम् । आप॒स्तत्प्र व॑हतादि॒तः ।। 74 ।। 3.7.6.21 उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्पे । आ॒शि॒श्लेष॑ दृ॒षदि॒ यत्क॒पाले । अ॒व॒प्रुषो॑ वि॒प्रुष॒स्सय्यँ॑जामि । विश्वे॑ दे॒वा ह॒विरि॒दञ्जु॑षन्ताम् । य॒ज्ञे या वि॒प्रुष॒स्सन्ति॑ ब॒ह्वीः । अ॒ग्नौ तास्सर्वा॒स्स्वि॑ष्टा॒स्सुहु॑ता जुहोमि । उ॒द्यन्न॒द्यमि॑त्र महः । स॒पत्नान्मे अनीनशः । दिवै॑नान् वि॒द्युता॑ जहि । नि॒म्रोच॒न्नध॑रान्कृधि ।। 75 ।। 3.7.6.22 उ॒द्यन्न॒द्य वि नो॑ भज । पि॒ता पु॒त्रेभ्यो॒ यथा । दी॒र्घा॒यु॒त्वस्य॑ हेशिषे । तस्य॑ नो देहि सूर्य । उ॒द्यन्न॒द्य मि॑त्रमहः । आ॒रोह॒न्नुत्त॑रा॒न्दिवम् । हृ॒द्रो॒गम्मम॑ सूर्य । ह॒रि॒माण॑ञ्च नाशय । शुके॑षु मे हरि॒माणम् । रो॒प॒णाका॑सु दध्मसि ।।76 ।। 3.7.6.23 अथो॑ हारिद्र॒वेषु॑ मे । ह॒रि॒माण॒न्नि द॑ध्मसि । उद॑गाद॒यमा॑दि॒त्यः । विश्वे॑न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मम॑ र॒न्धयन्न्॑ । मो अ॒हन्द्वि॑ष॒तो र॑धम् । यो न॒श्शपा॒दश॑पतः । यश्च॑ न॒श्शप॑त॒श्शपात् । उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॑ । सर्वं॑ पा॒प समू॑हताम् ।। 77 ।। 3.7.6.24 यो न॑स्स॒पत्नो॒ यो रणः॑ । मर्तो॑ऽभि॒दास॑ति देवाः । इ॒ध्मस्ये॑व प्र॒ख्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । अव॑सृष्ट॒ परा॑पत । श॒रो ब्रह्म॑सशितः । गच्छा॒ऽमित्रा॒न्प्र वि॑श । मैषा॒ङ्कञ्च॒नोच्छि॑षः ।। 78 ।। 3.7.7.0 ब्रह्म॑णो॒ योनि॒रह॑स प॒ङ्क्तिं प्रप॑द्ये दी॒ख्षा यया॑ऽऽदि॒त्यो दी॒ख्षया॑ दीख्षि॒तस्तया त्वा दी॒ख्षया॑ दीख्षया॒म्योष॑धयो दी॒ख्षा द्यौस्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षता॒मप॑चिति॒श्चाख्षि॑ति॒रुत्त॑रस्मिन्गमेय॒न्दिश॒ पाद॑ आदि॒त्यव॑तीव्वँर्तय॒ पञ्च॑ च ।। 7 ।। 3.7.7.1 सख्षे॒दं प॑श्य । विध॑र्तरि॒दं प॑श्य । नाके॒दं प॑श्य । र॒मति॒ पनि॑ष्ठा । ऋ॒तव्वँर्‌षि॑ष्ठम् । अ॒मृता॒यान्या॒हुः । सूर्यो॒ वरि॑ष्ठो अ॒ख्षभि॒र्विभा॑ति । अनु॒ द्यावा॑पृथि॒वी दे॒वपु॑त्रे । दी॒ख्षाऽसि॒ तप॑सो॒ योनिः॑ । तपो॑ऽसि॒ ब्रह्म॑णो॒ योनिः॑ ।।79 ।। 3.7.7.2 ब्रह्मा॑सि ख्ष॒त्रस्य॒ योनिः॑ । ख्ष॒त्रम॑स्यृ॒तस्य॒ योनिः॑ । ऋ॒तम॑सि॒ भूरा र॑भे । श्र॒द्धां मन॑सा । दी॒ख्षान्तप॑सा । विश्व॑स्य॒ भुव॑न॒स्याधि॑पत्नीम् । सर्वे॒ कामा॒ यज॑मानस्य सन्तु । वातं॑ प्रा॒णं मन॑सा॒ऽन्वा र॑भामहे । प्र॒जाप॑ति॒य्योँ भुव॑नस्य गो॒पाः । स नो॑ मृ॒त्योस्त्रा॑यतां॒ पात्वह॑सः ।। 80 ।। 3.7.7.3 ज्योग्जी॒वा ज॒राम॑शीमहि । इन्द्र॑ शाक्वर गाय॒त्रीं प्र प॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वर त्रि॒ष्टुभं॒ प्र प॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वर॒ जग॑तीं॒ प्र प॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वरानु॒ष्टुभं॒ प्र प॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वर प॒ङ्क्तिं प्रप॑द्ये ।। 81 ।। 3.7.7.4 तान्ते॑ युनज्मि । आऽहन्दी॒ख्षाम॑रुहमृ॒तस्य॒ पत्नीम् । गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च । ऋ॒त स॒त्ये॑ऽधायि । स॒त्यमृ॒ते॑ऽधायि । ऋ॒तञ्च॑ मे स॒त्यञ्चा॑भूताम् । ज्योति॑रभूव॒॒ सुव॑रगमम् । सु॒व॒र्गल्लोँ॒कन्नाक॑स्य पृ॒ष्ठम् । ब्र॒ध्नस्य॑ वि॒ष्टप॑मगमम् । पृ॒थि॒वी दी॒ख्षा ।। 82 ।। 3.7.7.5 तया॒ऽग्निर्दी॒ख्षया॑ दीख्षि॒तः । यया॒ऽग्निर्दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । अ॒न्तरि॑ख्षन्दी॒ख्षा । तया॑ वा॒युर्दी॒ख्षया॑ दीख्षि॒तः । यया॑ वा॒युर्दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । द्यौर्दी॒ख्षा । तया॑ऽऽदि॒त्यो दी॒ख्षया॑ दीख्षि॒तः । यया॑ऽऽदि॒त्यो दी॒ख्षया॑ दीख्षि॒तः ।। 83 ।। 3.7.7.6 तया त्वा दी॒ख्षया॑ दीख्षयामि । दिशो॑ दी॒ख्षा । तया॑ च॒न्द्रमा॑ दी॒ख्षया॑ दीख्षि॒तः । यया॑ च॒न्द्रमा॑ दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । आपो॑ दी॒ख्षा । तया॒ वरु॑णो॒ राजा॑ दी॒ख्षया॑ दीख्षि॒तः । यया॒ वरु॑णो॒ राजा॑ दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । ओष॑धयो दी॒ख्षा ।। 84 ।। 3.7.7.7 तया॒ सोमो॒ राजा॑ दी॒ख्षया॑ दीख्षि॒तः । यया॒ सोमो॒ राजा॑ दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । वाग्दी॒ख्षा । तया प्रा॒णो दी॒ख्षया॑ दीख्षि॒तः । यया प्रा॒णो दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । पृ॒थि॒वी त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षताम् । अ॒न्तरि॑ख्षन्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षताम् । द्यौस्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षताम् ।। 85 ।। 3.7.7.8 दिश॑स्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । आप॑स्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । ओष॑धयस्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । वाक्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षताम् । ऋच॑स्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । सामा॑नि त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । यजू॑षि त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चाप॑चितिश्च ।। 86 ।। 3.7.7.9 अप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च । तास्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । स्वे दख्षे॒ दख्ष॑पिते॒ह सी॑द । दे॒वाना॑ सु॒म्नो म॑ह॒ते रणा॑य । स्वा॒स॒स्थस्त॒नुवा॒ सव्विँ॑शस्व । पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवः॑ । शि॒वो मा॑ शि॒वमा वि॑श । स॒त्यम्म॑ आ॒त्मा । श्र॒द्धा मेऽख्षि॑तिः ।। 87 ।। 3.7.7.10 तपो॑ मे प्रति॒ष्ठा । स॒वि॒तृप्र॑सूता मा॒ दिशो॑ दीख्षयन्तु । स॒त्यम॑स्मि । अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्र पि॒त्रे लो॑क॒कृज्जा॑तवेदः । आ॒जुह्वा॑नस्सु॒प्रती॑क पु॒रस्तात् । अग्ने॒ स्वाय्योँनि॒मा सी॑द सा॒ध्या । अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मिन्न् ।। 88 ।। 3.7.7.11 विश्वे॑ देवा॒ यज॑मानश्च सीदत । एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु । द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु । त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु । च॒त्वारि॒ मायो॑भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु । पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु । षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु । स॒प्त स॒प्तभ्यो॒ होत्राभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु । सखा॑यस्स॒प्तप॑दा अभूम । स॒ख्यन्ते॑ गमेयम् ।।89 ।। 3.7.7.12 स॒ख्यात्ते॒ मा यो॑षम् । स॒ख्यान्मे॒ मा योष्ठाः । साऽसि॑ सुब्रह्मण्ये । तस्यास्ते पृथि॒वी पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्यास्ते॒ऽन्तरि॑ख्षं॒ पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्यास्ते॒ द्यौ पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्यास्ते॒ दिश॒ पादः॑ ।। 90 ।। 3.7.7.13 प॒रोर॑जास्ते पञ्च॒म पादः॑ । सा न॒ इष॒मूर्ज॑न्धुख्ष्व । तेज॑ इन्द्रि॒यम् । ब्र॒ह्म॒व॒र्च॒सम॒न्नाद्यम् । वि मि॑मे त्वा॒ पय॑स्वतीम् । दे॒वानान्धे॒नु सु॒दुघा॒मन॑पस्फुरन्तीम् । इन्द्र॒स्सोमं॑ पिबतु । ख्षेमो॑ अस्तु नः । इ॒मान्न॑रा कृणुत॒ वेदि॒मेत्य॑ । वसु॑मती रु॒द्रव॑तीमादि॒त्यव॑तीम् ।। 91 ।। 3.7.7.14 वर्ष्म॑न्दि॒वः । नाभा॑ पृथि॒व्याः । यथा॒ऽयय्यँज॑मानो॒ न रिष्येत् । दे॒वस्य॑ सवि॒तुस्स॒वे । चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये । तस्या॑ सुप॒र्णावधि॒ यौ निवि॑ष्टौ । तयोर्दे॒वाना॒मधि॑ भाग॒धेयम् । अ॒प जन्य॑म्भ॒यन्नु॑द । अप॑ च॒क्राणि॑ वर्तय । गृ॒ह सोम॑स्य गच्छतम् । न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि । दे॒वा इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।। 92 ।। 3.7.8.0 कृ॒धि॒ मी॒ढुषेऽहु॑तस्य च स॒प्त च॑ ।। 8 ।। 3.7.8.1 यद॒स्य पा॒रे रज॑सः । शु॒क्रञ्ज्योति॒रजा॑यत । तन्न॑ पर्‌ष॒दति॒ द्विषः॑ । अग्ने॑ वैश्वानर॒ स्वाहा । यस्माद्भी॒षाऽवा॑शिष्ठाः । ततो॑ नो॒ अभ॑यङ्कृधि । प्र॒जाभ्य॒स्सर्वाभ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे । यस्माद्भी॒षा न्यष॑दः । ततो॑ नो॒ अभ॑यङ्कृधि ।। 93 ।। 3.7.8.2 प्र॒जाभ्य॒स्सर्वाभ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे । उदु॑स्र तिष्ठ॒ प्रति॑तिष्ठ॒ मारि॑षः । मेमय्यँ॒ज्ञय्यँज॑मानञ्च रीरिषः । सु॒व॒र्गे लो॒के यज॑मान॒॒ हि धे॒हि । शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे । यस्माद्भी॒षाऽवे॑पिष्ठा प॒लायि॑ष्ठास्स॒मज्ञास्थाः । ततो॑ नो॒ अभ॑यङ्कृधि । प्र॒जाभ्य॒स्सर्वाभ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे ।। 94 ।। 3.7.8.3 य इ॒दमकः॑ । तस्मै॒ नमः॑ । तस्मै॒ स्वाहा । न वा उ॑वे॒तन्म्रि॑यसे । आशा॑नान्त्वा॒ विश्वा॒ आशाः । य॒ज्ञस्य॒ हि स्थ ऋ॒त्वियौ । इन्द्राग्नी॒ चेत॑नस्य च । हु॒ता॒हु॒तस्य॑ तृप्यतम् । अहु॑तस्य हु॒तस्य॑ च । हु॒तस्य॒ चाहु॑तस्य च । अहु॑तस्य हु॒तस्य॑ च । इन्द्राग्नी अ॒स्य सोम॑स्य । वी॒तं पि॑बतञ्जु॒षेथाम् । मा यज॑मान॒न्तमो॑ विदत् । मर्त्विजो॒ मो इ॒मा प्र॒जाः । मा यस्सोम॑मि॒मं पिबात् । ससृ॑ष्टमु॒भय॑ङ्कृ॒तम् ।। 95 ।। 3.7.9.0 चा॒त॒य॒त॒ श्री॒णी॒ता॒॒ स॒त्यमा॒हुर॑शीमहि ग॒णे कु॑रु वि॒द्रव॑णे पितृ॒याणा॑ अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च ।। 9 ।। 3.7.9.1 अ॒ना॒गस॑स्त्वा व॒यम् । इन्द्रे॑ण॒ प्रेषि॑ता॒ उप॑ । वा॒युष्टे॑ अस्त्वश॒भूः । मि॒त्रस्ते॑ अस्त्वश॒भूः । वरु॑णस्ते अस्त्वश॒भूः । अपांख्षया॒ ऋत॑स्य गर्भाः । भुव॑नस्य गोपा॒श्श्येना॑ अतिथयः । पर्व॑तानाङ्ककुभ प्र॒युतो॑ नपातारः । व॒ग्नुनेन्द्र॑ ह्वयत । घोषे॒णामी॑वा श्चातयत ।। 96 ।। 3.7.9.2 यु॒क्तास्स्थ॒ वह॑त । दे॒वा ग्रावा॑ण॒ इन्दु॒रिन्द्र॒ इत्य॑वादिषुः । एन्द्र॑मचुच्यवु पर॒मस्या परा॒वतः॑ । आऽस्माथ्स॒धस्थात् । ओरोर॒न्तरि॑ख्षात् । आ सु॑भू॒तम॑सुषवुः । ब्र॒ह्म॒व॒र्च॒सम्म॒ आसु॑षवुः । स॒म॒रे रख्षा॑स्यवधिषुः । अप॑हतं ब्रह्म॒ज्यस्य॑ । वाक्च॑ त्वा॒ मन॑श्च श्रीणीताम् ।। 97 ।। 3.7.9.3 प्रा॒णश्च॑ त्वाऽपा॒नश्च॑ श्रीणीताम् । चख्षु॑श्च त्वा॒ श्रोत्र॑ञ्च श्रीणीताम् । दख्ष॑श्चत्वा॒ बल॑ञ्च श्रीणीताम् । ओज॑श्च त्वा॒ सह॑श्च श्रीणीताम् । आयु॑श्च त्वाऽज॒रा च॑ श्रीणीताम् । आ॒त्मा च॑ त्वा त॒नूश्च॑ श्रीणीताम् । शृ॒तो॑ऽसि शृ॒तङ्कृ॑तः । शृ॒ताय॑ त्वा शृ॒तेभ्य॑स्त्वा । यमिन्द्र॑मा॒हुर्वरु॑ण॒य्यँमा॒हुः । यम्मि॒त्रमा॒हुर्यमु॑ स॒त्यमा॒हुः ।। 98 ।। 3.7.9.4 यो दे॒वानान्दे॒वत॑मस्तपो॒जाः । तस्मै त्वा॒ तेभ्य॑स्त्वा । मयि॒ त्यदि॑न्द्रि॒यम्मह॒त् । मयि॒ दख्षो॒ मयि॒ क्रतुः॑ । मयि॑ धायि सु॒वीर्यम् । त्रिशु॑ग्घ॒र्मो वि भा॑तु मे । आकूत्या॒ मन॑सा स॒ह । वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । तस्य॒ दोह॑मशीमहि ।। 99 ।। 3.7.9.5 तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒ख्षम॑शीमहि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु । मि॒त्रो जना॒न्प्र स मि॑त्र । यस्मा॒न्न जा॒त परो॑ अ॒न्यो अस्ति॑ । य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा । प्र॒जाप॑ति प्र॒जया॑ सव्विँदा॒नः । त्रीणि॒ ज्योती॑षि सचते॒ स षो॑ड॒शी । ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ । इन्द्रो॒ नाम॑ श्रु॒तो ग॒णे ।। 100 ।। 3.7.9.6 प्र ते॑ म॒हे वि॒दथे॑ शसिष॒॒ हरी । य ऋ॒त्विय॒ प्र ते॑ वन्वे । व॒नुषो॑ हर्य॒तम्मदम् । इन्द्रो॒ नाम॑ घृ॒तन्नयः । हरि॑भि॒श्चारु॒ सेच॑ते । श्रु॒तो ग॒ण आ त्वा॑ विशन्तु । हरि॑वर्पस॒ङ्गिरः॑ । इन्द्राधि॑प॒तेऽधि॑पति॒स्त्वन्दे॒वाना॑मसि । अधि॑पति॒म्माम् । आयु॑ष्मन्त॒व्वँर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु ।। 101 ।। 3.7.9.7 इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा । तौ ते॑ भ॒ख्षञ्च॑क्रतु॒रग्र॑ ए॒तम् । तयो॒रनु॑ भ॒ख्षं भ॑ख्षयामि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु । प्र॒जाप॑तिर्वि॒श्वक॑र्मा । तस्य॒ मनो॑ दे॒वय्यँ॒ज्ञेन॑ राध्यासम् । अ॒र्थे॒गा अ॒स्य ज॑हितः । अ॒व॒सान॑पतेऽव॒सान॑म्मे विन्द । नमो॑ रु॒द्राय॑ वास्तो॒ष्पत॑ये । आय॑ने वि॒द्रव॑णे ।। 102 ।। 3.7.9.8 उ॒द्याने॒ यत्प॒राय॑णे । आ॒वर्त॑ने वि॒वर्त॑ने । यो गो॑पा॒यति॒ त हु॑वे । यान्य॑पा॒मित्या॒न्यप्र॑तीत्ता॒न्यस्मि॑ । य॒मस्य॑ ब॒लिना॒ चरा॑मि । इ॒हैव सन्त॒ प्रति॒ तद्या॑तयामः । जी॒वा जी॒वेभ्यो॒ नि ह॑राम एनत् । अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णा पर॑स्मिन्न् । तृ॒तीये॑ लो॒के अ॑नृ॒णास्स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः ।। 103 ।। 3.7.9.9 सर्वान्प॒थो अ॑नृ॒णा आख्षी॑येम । इ॒दमू॒नु श्रेयो॑ऽव॒सान॒मा ग॑न्म । शि॒वे नो॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । गोम॒द्धन॑व॒दश्व॑व॒दूर्ज॑स्वत् । सु॒वीरा॑ वी॒रैरनु॒ सञ्च॑रेम । अ॒र्क प॒वि॒त्र॒॒ रज॑सो वि॒मानः॑ । पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा । द्यावा॑पृथि॒वी पय॑सा सव्विँदा॒ने । घृ॒तन्दु॑हाते अ॒मृतं॒ प्रपी॑ने । प॒वित्र॑म॒र्को रज॑सो वि॒मानः॑ । पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा । सुव॒र्ज्योति॒र्यशो॑ म॒हत् । अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठाम् ।। 104 ।। 3.7.10.0 उ॒द॒र्॒ष इ॑न्द्रि॒येण॒ गा म॒तिर॑र॒पा अ॑गा॒त्त्रीणि॑ च ।। 10 ।। 3.7.10.1 उद॑स्तांफ्सीथ्सवि॒ता मि॒त्रो अ॑र्य॒मा । सर्वा॑न॒मित्रा॑नवधीद्यु॒गेन॑ । बृ॒हन्त॒म्माम॑करद्वी॒रव॑न्तम् । र॒थ॒न्त॒रे श्र॑यस्व॒ स्वाहा॑ पृथि॒व्याम् । वा॒म॒दे॒व्ये श्र॑यस्व॒ स्वाहा॒ऽन्तरि॑ख्षे । बृ॒ह॒ति श्र॑यस्व॒ स्वाहा॑ दि॒वि । बृ॒ह॒ता त्वोप॑स्तभ्नोमि । आ त्वा॑ ददे॒ यश॑से वी॒र्या॑य च । अ॒स्मास्व॑घ्निया यू॒यन्द॑धाथेन्द्रि॒यं पयः॑ । यस्ते द्र॒फ्सो यस्त॑ उद॒र्॒षः ।।105।। 3.7.10.2 दैव्य॑ के॒तुर्विश्व॒म्भुव॑नमावि॒वेश॑ । स न॑ पा॒ह्यरि॑ष्ट्यै॒ स्वाहा । अनु॑ मा॒ सर्वो॑ य॒ज्ञो॑ऽयमे॑तु । विश्वे॑ दे॒वा म॒रुत॒स्सामा॒र्कः । आ॒प्रिय॒श्छन्दा॑सि नि॒विदो॒ यजू॑षि । अ॒स्यै पृ॑थि॒व्यै यद्य॒ज्ञियम् । प्र॒जाप॑तेर्वर्त॒निमनु॑ वर्तस्व । अनु॑वी॒रैरनु॑ राध्याम॒ गोभिः॑ । अन्वश्वै॒रनु॒ सर्वै॑रु पु॒ष्टैः । अनु॑ प्र॒जयाऽन्वि॑न्द्रि॒येण॑ ।। 106 ।। 3.7.10.3 दे॒वा नो॑ य॒ज्ञमृ॑जु॒धा न॑यन्तु । प्रति॑ख्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे । प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रति॑ प्र॒जायां॒ प्रति॑तिष्ठामि॒ भव्ये । विश्व॑म॒न्याऽभि॑ वावृ॒धे । तद॒न्यस्या॒मधि॑श्रि॒तम् । दि॒वे च॑ वि॒श्वक॑र्मणे । पृ॒थि॒व्यै चा॑कर॒न्नमः॑ । अस्का॒न्द्यौ पृ॑थि॒वीम् । अस्का॑नृष॒भो युवा॒गाः ।। 107 ।। 3.7.10.4 स्क॒न्नेमा विश्वा॒ भुव॑ना । स्क॒न्नो य॒ज्ञ प्र ज॑नयतु । अस्का॒नज॑नि॒ प्राज॑नि । आ स्क॒न्नाज्जा॑यते॒ वृषा । स्क॒न्नात्प्र ज॑निषीमहि । ये दे॒वा येषा॑मि॒दम्भा॑ग॒धेय॑म्ब॒भूव॑ । येषां प्रया॒जा उ॒तानू॑या॒जाः । इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः । अ॒ग्निहो॑तृभ्यो दे॒वेभ्य॒स्स्वाहा । उ॒त त्या नो॒ दिवा॑ म॒तिः ।। 108 ।। 3.7.10.5 अदि॑तिरू॒त्या ग॑मत् । सा शन्ता॑ची॒ मय॑स्करत् । अप॒ स्रिधः॑ । उ॒त त्या दैव्या॑ भि॒षजा । शन्न॑स्करतो अ॒श्विना । यू॒याता॑म॒स्मद्रपः॑ । अप॒ स्रिधः॑ । शम॒ग्निर॒ग्निभि॑स्करत् । शन्न॑स्तपतु॒ सूर्यः॑ । शव्वाँतो॑ वात्वर॒पाः ।। 109 ।। 3.7.10.6 अप॒ स्रिधः॑ । तदित्प॒दन्न विचि॑केत वि॒द्वान् । यन्मृ॒त पुन॑र॒प्येति॑ जी॒वान् । त्रि॒वृद्यद्भुव॑नस्य रथ॒वृत् । जी॒वो गर्भो॒ न मृ॒तस्स जी॑वात् । प्रत्य॑स्मै॒ पिपी॑षते । विश्वा॑नि वि॒दुषे॑ भर । अ॒र॒ङ्ग॒माय॒ जग्म॑वे । अप॑श्चाद्दघ्वने॒ नरे । इन्दु॒रिन्दु॒मवा॑गात् । इन्दो॒रिन्द्रो॑ऽपात् । तस्य॑ त इन्द॒विन्द्र॑पीतस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भख्षयामि ।।110 ।। 3.7.11.0 दे॒वा श्चि॒त्रं त॒नूभ्य॒स्स्वाहो॒नं पुरु॑षसम्मि॒तोऽग्ने॒ तद॑स्य कल्पय॒ पञ्च॑ च ।। 11 ।। 3.7.11.1 ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः । ब्रह्म॑ य॒ज्ञाना॑ ह॒विषा॒माज्य॑स्य । अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्न्॑ । स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् । आश्रा॑वितम॒त्याश्रा॑वितम् । वष॑ट्कृतम॒त्यनूक्तञ्च य॒ज्ञे । अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्न्॑ । स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् ।। 111 ।। 3.7.11.2 यद्वो॑ देवा अतिपा॒दया॑नि । वा॒चा चि॒त्प्रय॑तन्देव॒हेड॑नम् । अ॒रा॒यो अ॒स्मा अ॒भिदु॑च्छुना॒यते । अ॒न्यत्रा॒स्मन्म॑रुत॒स्तन्निधे॑तन । त॒तम्म॒ आप॒स्तदु॑ तायते॒ पुनः॑ । स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते । अ॒य स॑मु॒द्र उ॒त वि॒श्वभे॑षजः । स्वाहा॑कृतस्य॒ समु॑तृप्णुतर्भुवः । उद्व॒यन्तम॑स॒स्परि॑ । उदु॒त्यञ्चि॒त्रम् ।। 112 ।। 3.7.11.3 इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि । त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने । त्वम॑ग्ने अ॒यासि॒ प्रजा॑पते । इ॒मञ्जी॒वेभ्य॑ परि॒धिन्द॑धामि । मैषान्नु॑गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒तञ्जी॑वन्तु श॒रद॑ पुरू॒चीः । ति॒रो मृ॒त्युन्द॑धतां॒ पर्व॑तेन । इ॒ष्टेभ्य॒स्स्वाहा॒ वष॒डनि॑ष्टेभ्य॒स्स्वाहा । भे॒ष॒जन्दुरि॑ष्ट्यै॒ स्वाहा॒ निष्कृ॑त्यै॒ स्वाहा । दौरार्ध्यै॒ स्वाहा॒ दैवीभ्यस्त॒नूभ्य॒स्स्वाहा ।। 113 ।। 3.7.11.4 ऋद्ध्यै॒ स्वाहा॒ समृ॑द्ध्यै॒ स्वाहा । यत॑ इन्द्र॒ भया॑महे । ततो॑ नो॒ अभ॑यङ्कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये । वि द्विषो॒ वि मृधो॑ जहि । स्व॒स्ति॒दा वि॒शस्पतिः॑ । वृ॒त्र॒हा वि मृधो॑ व॒शी । वृषेन्द्र॑ पु॒र ए॑तु नः । स्व॒स्ति॒दा अ॑भयङ्क॒रः । आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नम् ।। 114 ।। 3.7.11.5 आप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ । भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम । अनाज्ञात॒य्यँदाज्ञा॑तम् । य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ । अग्ने॒ तद॑स्य कल्पय । त्व हि वेत्थ॑ यथात॒थम् । पुरु॑षसम्मितो य॒ज्ञः । य॒ज्ञ पुरु॑षसम्मितः । अग्ने॒ तद॑स्य कल्पय । त्व हि वेत्थ॑ यथात॒थम् । यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्षा॒ न । य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः । अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्न् । यजि॑ष्ठो दे॒वा ऋ॑तु॒शो य॑जाति ।। 115 ।। 3.7.12.0 अ॒ने॒नस॑मष्ठी॒वद्भ्या॑ स॒ति प॑रा॒शसा॑ऽऽन॒शेऽग्निर्मा॒ तस्मा॒देन॑स पुनीत न॒स्त्रीणि॑ च ।। 12 ।। (यद्दे॑वा॒ देवा॑ ऋ॒तेन॑ सजातश॒॒साद्यद्वा॒चा यद्धस्ताभ्या॒मदीव्य॒य्यँन्मयि॑ मा॒ता यदा॑ पि॒पेष॒ यद॒न्तरि॑ख्ष॒य्यँदा॒शसाऽति॑ क्रामामि त्रि॒ते दे॒वा दि॒वि जा॒ता अ॒प्सु जा॒ता यदाप॑ इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने॒ त्वम॑ग्ने अ॒यासि॑ । ) 3.7.12.1 यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मान्मा मुञ्चत । ऋ॒तस्य॒र्तेन॒ मामु॒त । देवा॑ जीवनका॒म्या यत् । वा॒चाऽनृ॑तमूदि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्‌ह॑पत्य॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसम् ।। 116 ।। 3.7.12.2 ऋ॒तेन॑ द्यावापृथिवी । ऋ॒तेन॒ त्व स॑रस्वति । ऋ॒तान्मा॑ मुञ्च॒ताह॑सः । यद॒न्यकृ॑तमारि॒म । स॒जा॒त॒श॒॒सादु॒त वा॑ जामिश॒॒सात् । ज्याय॑स॒श्शसा॑दु॒त वा॒ कनी॑यसः । अनाज्ञातन्दे॒वकृ॑त॒य्यँदेनः॑ । तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि । यद्वा॒चा यन्मन॑सा । बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्याम् ।। 117 ।। 3.7.12.3 शि॒श्ञैर्यदनृ॑तञ्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यद्धस्ताभ्याञ्च॒कर॒ किल्बि॑षाणि । अ॒ख्षाणाव्वँ॒ग्नुमु॑प॒जिघ्न॑मानः । दू॒रे॒प॒श्या च॑ राष्ट्र॒भृच्च॑ । तान्य॑फ्स॒रसा॒वनु॑दत्तामृ॒णानि॑ । अदी॑व्यन्नृ॒णय्यँद॒हञ्च॒कार॑ । यद्वादास्यन्थ्सञ्ज॒गारा॒ जनेभ्यः । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यन्मयि॑ मा॒ता गर्भे॑ स॒ति ।। 118 ।। 3.7.12.4 एन॑श्च॒कार॒ यत्पि॒ता । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यदा॑ पि॒पेष॑ मा॒तरं॑ पि॒तरम् । पु॒त्र प्रमु॑दितो॒ धयन्न्॑ । अहि॑सितौ पि॒तरौ॒ मया॒ तत् । तद॑ग्ने अनृ॒णो भ॑वामि । यद॒न्तरि॑ख्षं पृथि॒वीमु॒त द्याम् । यन्मा॒तरं॑ पि॒तर॑व्वाँ जिहिसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा ।। 119 ।। 3.7.12.5 यदेन॑श्चकृ॒मा नूत॑न॒य्यँत्पु॑रा॒णम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । अति॑ क्रामामि दुरि॒तय्यँदेनः॑ । जहा॑मि रि॒प्रं प॑र॒मे स॒धस्थे । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तमा रो॑हामि सु॒कृता॒न्नु लो॒कम् । त्रि॒ते दे॒वा अ॑मृजतै॒तदेनः॑ । त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे । ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।। 120 ।। 3.7.12.6 गार्‌ह॑पत्य॒ प्र मु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसम् । दि॒वि जा॒ता अ॒प्सु जा॒ताः । या जा॒ता ओष॑धीभ्यः । अथो॒ या अ॑ग्नि॒जा आपः॑ । ता न॑श्शुन्धन्तु॒ शुन्ध॑नीः । यदापो॒ नक्त॑न्दुरि॒तञ्चरा॑म । यद्वा॒ दिवा॒ नूत॑न॒य्यँत्पु॑रा॒णम् । हिर॑ण्यवर्णा॒स्तत॒ उत्पु॑नीत नः । इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि । त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने । त्वम॑ग्ने अ॒यासि॑ ।। 121 ।। 3.7.13.0 त्मना॒ जाय॑मानोऽस्य॒ दध॒त्पञ्च॑ च ।। 13 ।। 3.7.13.1 यत्ते॒ ग्राव्ण्णा॑ चिच्छि॒दुस्सो॑म राजन्न् । प्रि॒याण्यङ्गा॑नि॒ स्वधि॑ता॒ परू॑षि । तथ्सन्ध॒थ्स्वाज्ये॑नो॒त व॑र्धयस्व । अ॒ना॒गसो॒ अध॒मिथ्स॒ङ्ख्षये॑म । यत्ते॒ ग्रावा॑ बा॒हुच्यु॑तो॒ अचु॑च्यवुः । नरो॒ यत्ते॑ दुदु॒हुर्दख्षि॑णेन । तत्त॒ आप्या॑यता॒न्तत्ते । निष्ट्या॑यतान्देव सोम । यत्ते॒ त्वच॑म्बिभि॒दुर्यच्च॒ योनिम् । यदा॒स्थाना॒त्प्रच्यु॑तो॒ वेन॑सि॒ त्मना ।।122 ।। 3.7.13.2 त्वया॒ तथ्सो॑म गु॒प्तम॑स्तु नः । सा न॑स्स॒न्धास॑त्पर॒मे व्यो॑मन्न् । अहा॒च्छरी॑रं॒ पय॑सा स॒मेत्य॑ । अ॒न्योन्यो भवति॒ वर्णो॑ अस्य । तस्मि॑न्व॒यमुप॑हूता॒स्तव॑ स्मः । आ नो॑ भज॒ सद॑सि वि॒श्वरू॑पे । नृ॒चख्षा॒स्सोम॑ उ॒त शु॒श्रुग॑स्तु । मा नो॒ वि हा॑सी॒द्गिर॑ आवृणा॒नः । अना॑गास्त॒नुवो॑ वावृधा॒नः । आ नो॑ रू॒पव्वँ॑हतु॒ जाय॑मानः ।। 123 ।। 3.7.13.3 उप॑ ख्षरन्ति जु॒ह्वो॑ घृ॒तेन॑ । प्रि॒याण्यङ्गा॑नि॒ तव॑ व॒र्धय॑न्तीः । तस्मै॑ ते सोम॒ नम॒ इद्वष॑ट्च । उप॑ मा राजन्थ्सुकृ॒ते ह्व॑यस्व । सं प्रा॑णापा॒नाभ्या॒॒ समु॒ चख्षु॑षा॒ त्वम् । स श्रोत्रे॑ण गच्छस्व सोम राजन्न् । यत्त॒ आस्थि॑त॒॒ शमु॒ तत्ते॑ अस्तु । जा॒नी॒तान्न॑स्स॒ङ्गम॑ने पथी॒नाम् । ए॒तञ्जा॑नीतात्पर॒मे व्यो॑मन्न् । वृकास्सधस्था वि॒द रू॒पम॑स्य ।।124 ।। 3.7.13.4 यदा॒गच्छात्प॒थिभि॑र्देव॒यानैः । इ॒ष्टा॒पू॒र्ते कृ॑णुतादा॒विर॑स्मै । अरि॑ष्टो राजन्नग॒द परे॑हि । नम॑स्ते अस्तु॒ चख्ष॑से रघूय॒ते । नाक॒मारो॑ह स॒ह यज॑मानेन । सूर्य॑ङ्गच्छतात्पर॒मे व्यो॑मन्न् । अभूद्दे॒वस्स॑वि॒ता वन्द्यो॒नु नः॑ । इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ । वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॑ । श्रेष्ठ॑न्नो॒ अत्र॒ द्रवि॑ण॒य्यँथा॒ दध॑त् । उप॑ नो मित्रावरुणावि॒हाव॑तम् । अ॒न्वादीध्याथामि॒ह न॑स्सखाया । आ॒दि॒त्यानां॒ प्रसि॑तिर् हे॒तिः । उ॒ग्रा श॒तापाष्ठा घ॒विषा॒ परि॑ णो वृणक्तु । आप्या॑यस्व॒ सन्ते ।। 125 ।। 3.7.14.0 वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यन्धामा॑शीमहीवा॒भिन॑श्शीयता र॒यिरेक॑ञ्च ।। 14 ।। 3.7.14.1 यद्दि॑दी॒ख्षे मन॑सा॒ यच्च॑ वा॒चा । यद्वा प्रा॒णैश्चख्षु॑षा॒ यच्च॒ श्रोत्रे॑ण । यद्रेत॑सा मिथु॒नेनाप्या॒त्मना । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् । शु॒क्रा दी॒ख्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । यदृ॒चा साम्ना॒ यजु॑षा । प॒शू॒नाञ्चर्म॑न् ह॒विषा॑ दिदी॒ख्षे । यच्छन्दो॑भि॒रोष॑धीभि॒र्वन॒स्पतौ । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ।।126 ।। 3.7.14.2 शु॒क्रा दी॒ख्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । येन॒ ब्रह्म॒ येन॑ ख्ष॒त्रम् । येनेन्द्रा॒ग्नी प्र॒जाप॑ति॒स्सोमो॒ वरु॑णो॒ येन॒ राजा । विश्वे॑ दे॒वा ऋष॑यो॒ येन॑ प्रा॒णाः । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् । शु॒क्रा दी॒ख्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । अ॒पां पुष्प॑म॒स्योष॑धीना॒॒ रसः॑ । सोम॑स्य प्रि॒यन्धाम॑ ।। 127 ।। 3.7.14.3 अ॒ग्ने प्रि॒यत॑म ह॒विस्स्वाहा । अ॒पां पुष्प॑म॒स्योष॑धीना॒॒ रसः॑ । सोम॑स्य प्रि॒यन्धाम॑ । इन्द्र॑स्य प्रि॒यत॑म ह॒विस्स्वाहा । अ॒पां पुष्प॑म॒स्योष॑धीना॒॒ रसः॑ । सोम॑स्य प्रि॒यन्धाम॑ । विश्वे॑षान्दे॒वानां प्रि॒यत॑म ह॒विस्स्वाहा । व॒य सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ पिप्र॑तः । प्र॒जाव॑न्तो अशीमहि ।। 128 ।। 3.7.14.4 दे॒वेभ्य॑ पि॒तृभ्य॒स्स्वाहा । सो॒म्येभ्य॑ पि॒तृभ्य॒स्स्वाहा । क॒व्येभ्य॑ पि॒तृभ्य॒स्स्वाहा । देवा॑स इ॒ह मा॑दयध्वम् । सोम्या॑स इ॒ह मा॑दयध्वम् । कव्या॑स इ॒ह मा॑दयध्वम् । अ॒न॑न्तरिता पि॒तर॑स्सो॒म्यास्सो॑मपी॒थात् । अपै॑तु मृ॒त्युर॒मृत॑न्न॒ आगन्न्॑ । वै॒व॒स्व॒तो नो॒ अभ॑यङ्कृणोतु । प॒र्णव्वँन॒स्पते॑रिव ।। 129 ।। 3.7.14.5 अ॒भि न॑श्शीयता र॒यिः । सच॑तान्न॒श्शची॒पतिः॑ । पर॑म्मृत्यो॒ अनु॒ परे॑हि॒ पन्थाम् । यस्ते॒ स्व इत॑रो देव॒यानात् । चख्षु॑ष्मते शृण्व॒ते ते ब्रवीमि । मा न॑ प्र॒जा री॑रिषो॒ मोत वी॒रान् । इ॒दमू॒नु श्रेयो॑व॒सान॒माग॑न्म । यद्गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यत् । प॒र्णव्वँन॒स्पते॑रिव । अ॒भि न॑श्शीयता र॒यिः । सच॑तान्न॒श्शची॒पतिः॑ ।। 130 ।। 3.8.0.0 सा॒ङ्ग्र॒ह॒ण्या चतु॑ष्टय्यो॒ यो वै य पि॒तुश्च॒त्वारो॒ यथा॑ नि॒क्तं प्र॒जाप॑तये त्वा॒ यथा॒ प्रोख्षि॑तव्विँ॒भूरा॑ह प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ प्र॒जाप॑ति॒र्न किञ्च॒न सा॑वि॒त्रमा ब्रह्म॑न्प्र॒जाप॑तिर्दे॒वैभ्य॑ प्र॒जाप॑ती॒ रख्षा॑सि प्र॒जाप॑तिमीफ्सति वि॒भूर॑श्वना॒मान्यम्भा॑स्येकयू॒पो राज्जु॑दालमेकवि॒॒शो दे॒वा पुरु॑ष॒स्त्रयो॑विशतिः ।। 23 ।। सा॒ङ्ग्रह॒ण्या तस्मा॑दश्वमेधया॒जी यत्परि॑मिता॒ यद्य॑ज्ञमु॒खे यो दी॒ख्षान्दे॒वाने॒व त्रय॑ इ॒मे सि॒ताय॑ प्राणापा॒नावे॒वास्मि॒न्तस्माद्राज॒न्य॑ एक॑नवतिः ।। 91 ।। सा॒ङ्ग्र॒ह॒ण्या सश्र॑यन्ति ।। हरिः॑ ओम् ।। श्री कृष्णार्पणमस्तु । अष्टमप्रपाठकस्समाप्तः । 3.8.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके अष्टम प्रपाठक प्रारम्भः । हरिः ओम् ।। 3.8.1.0 कर्म॑ धत्ते॒ पञ्च॑ च ।। 1 ।। 3.8.1.1 सा॒ङ्ग्र॒ह॒ण्येष्ट्या॑ यजते । इ॒माञ्ज॒नता॒॒ सङ्गृ॑ह्णा॒नीति॑ । द्वाद॑शारत्नी रश॒ना भ॑वति । द्वाद॑श॒ मासास्सव्वँथ्स॒रः । स॒व्वँ॒थ्स॒रमे॒वाव॑ रुन्धे । मौ॒ञ्जी भ॑वति । ऊर्ग्वै मुञ्जाः । ऊर्ज॑मे॒वाव॑ रुन्धे । चि॒त्रा नख्ष॑त्रम्भवति । चि॒त्रव्वाँ ए॒तत्कर्म॑ ।। 1 ।। 3.8.1.2 यद॑श्वमे॒धस्समृ॑द्ध्यै । पुण्य॑नाम देव॒यज॑नम॒ध्यव॑स्यति । पुण्या॑मे॒व तेन॑ की॒र्तिम॒भि ज॑यति । अप॑दातीनृ॒त्विज॑स्स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्यायाः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । के॒श॒श्म॒श्रु व॑पते । न॒खानि॒ नि कृ॑न्तते । द॒तो धा॑वते । स्नाति॑ । अह॑त॒व्वाँस॒ परि॑धत्ते । पा॒प्मनोऽप॑हत्यै । वाच॑य्यँ॒त्वोप॑ वसति । सु॒व॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै । रात्रि॑ञ्जाग॒रय॑न्त आसते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 2 ।। 3.8.2.0 द॒धा॒ति॒ रु॒न्धे॒ द॒र्भा अ॑भव॒थ्षट् च॑ ।। 2 ।। 3.8.2.1 चतु॑ष्टय्य॒ आपो॑ भवन्ति । चतु॑श्शफो॒ वा अश्व॑ प्राजाप॒त्यस्समृ॑द्ध्यै । ता दि॒ग्भ्यस्स॒माभृ॑ता भवन्ति । दि॒ख्षु वा आपः॑ । अन्न॒व्वाँ आपः॑ । अ॒द्भ्यो वा अन्न॑ञ्जायते । यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते । तदव॑ रुन्धे । तासु॑ ब्रह्मौद॒नं प॑चति । रेत॑ ए॒व तद्द॑धाति ।। 3 ।। 3.8.2.2 चतु॑श्शरावो भवति । दि॒ख्ष्वे॑व प्रति॑तिष्ठति । उ॒भ॒यतो॑रु॒क्मौ भ॑वतः । उ॒भ॒यत॑ ए॒वास्मि॒न्रुच॑न्दधाति । उद्ध॑रति शृत॒त्वाय॑ । स॒र्पिष्वान्भवति मेध्य॒त्वाय॑ । च॒त्वार॑ आऱ्षे॒या प्राश्ञ॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । च॒त्वारि॒ हिर॑ण्यानि ददाति । दि॒शामे॒व ज्योती॒॒ष्यव॑ रुन्धे ।। 4 ।। 3.8.2.3 यदाज्य॑मु॒च्छिष्य॑ते । तस्मि॑न्रश॒नान्यु॑नत्ति । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । रेत॒ आज्यम् । यदाज्ये॑ रश॒नान्यु॒नत्ति॑ । प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑र्धयति । द॒र्भ॒मयी॑ रश॒ना भ॑वति । ब॒हु वा ए॒ष कु॑च॒रो॑ मे॒ध्यमुप॑गच्छति । यदश्वः॑ । प॒वित्र॒व्वैँ द॒र्भाः ।। 5 ।। 3.8.2.4 यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति । पु॒नात्ये॒वैनम् । पू॒तमे॑न॒म्मेध्य॒मा ल॑भते । अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑क्रामत् । स म॒हर्त्वि॑ज॒ प्रावि॑शत् । तन्म॒हर्त्वि॑जाम्महर्त्वि॒क्त्वम् । यन्म॒हर्त्वि॑ज प्रा॒श्ञन्ति॑ । म॒हि॒मान॑मे॒वास्मि॒न्तद्द॑धति । अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत् । तथ्सु॒वर्ण॒॒ हिर॑ण्यमभवत् । यथ्सु॒वर्ण॒॒ हिर॑ण्य॒न्ददा॑ति । रेत॑ ए॒व तद्द॑धाति । ओ॒द॒ने द॑दाति । रेतो॒ वा ओ॑द॒नः । रेतो॒ हिर॑ण्यम् । रेत॑सै॒वास्मि॒न्रेतो॑ दधाति ।। 6 ।। 3.8.3.0 ब॒ध्ना॒ति॒ समृ॑द्ध्या उ॒पाद॑धात्य॒सीत्या॑ह॒ सप्र॑थस॒मित्या॑ह दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च ।। 3 ।। 3.8.3.1 यो वै ब्रह्म॑णे दे॒वेभ्य॑ प्र॒जाप॑त॒येऽप्र॑तिप्रो॒च्याश्व॒म्मेध्य॑म्ब॒ध्नाति॑ । आ दे॒वताभ्यो वृश्च्यते । पापी॑यान्भवति । य प्र॑ति॒प्रोच्य॑ । न दे॒वताभ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । यदाह॑ । ब्रह्म॒न्नश्व॒म्मेध्य॑म्भन्थ्स्यामि दे॒वेभ्य॑ प्र॒जाप॑तये॒ तेन॑ राध्यास॒मिति॑ । ब्रह्म॒ वै ब्र॒ह्मा । ब्रह्म॑ण ए॒व दे॒वेभ्य॑ प्र॒जाप॑तये प्रति॒प्रोच्याश्व॒म्मेध्य॑म्बध्नाति ।। 7 ।। 3.8.3.2 न दे॒वताभ्य॒ आ वृ॑श्च्यते । वसी॑यान्भवति । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै । व्यृ॑द्ध॒व्वाँ ए॒तद्य॒ज्ञस्य॑ । यद॑य॒जुष्के॑ण क्रि॒यते । इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्यधि॑ वदति॒ यजु॑ष्कृत्यै । य॒ज्ञस्य॒ समृ॑द्ध्यै ।। 8 ।। 3.8.3.3 तदा॑हुः । द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या ३ त्रयो॑दशार॒त्नी ३ रिति॑ । ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् । यथ्स॑व्वँथ्स॒रः । तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टपम् । ऋ॒ष॒भ ए॒ष य॒ज्ञानाम् । यद॑श्वमे॒धः । यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टपम् । ए॒वमे॒तस्य॑ वि॒ष्टपम् । त्र॒यो॒द॒शम॑र॒त्नि र॑श॒नाया॑मु॒पा द॑धाति ।। 9 ।। 3.8.3.4 यथ॑ऱ्ष॒भस्य॑ वि॒ष्टप॑ सस्क॒रोति॑ । ता॒दृगे॒व तत् । पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्येत्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । तया॑ दे॒वास्सु॒तमा ब॑भूवु॒रित्या॑ह । भूति॑मे॒वोपाव॑र्तते । ऋ॒तस्य॒ सामन्थ्स॒रमा॒रप॒न्तीत्या॑ह । स॒त्यव्वाँ ऋ॒तम् । स॒त्येनै॒वैन॑मृ॒तेनार॑भते । अ॒भि॒धा अ॒सीत्या॑ह ।। 10 ।। 3.8.3.5 तस्मा॑दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भि भ॑वति । भुव॑नम॒सीत्या॑ह । भू॒मान॑मे॒वोपै॑ति । य॒न्ताऽसीत्या॑ह । य॒न्तार॑मे॒वैन॑ङ्करोति । ध॒र्तासीत्या॑ह । ध॒र्तार॑मे॒वैन॑ङ्करोति । सोऽग्निव्वैँश्वान॒रमित्या॑ह । अ॒ग्नावे॒वैन॑व्वैँश्वान॒रे जु॑होति । सप्र॑थस॒मित्या॑ह ।। । 11 ।। 3.8.3.6 प्र॒जयै॒वैनं॑ प॒शुभि॑ प्रथयति । स्वाहा॑कृत॒ इत्या॑ह । होम॑ ए॒वास्यै॒षः । पृ॒थि॒व्यामित्या॑ह । अ॒स्यामे॒वैनं॒ प्रति॑ष्ठापयति । य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो ध॒र्तासि॑ ध॒रुण॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्याँच॑ष्टे । कृ॒ष्यै त्वा॒ ख्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वेत्या॑ह । आ॒शिष॑मे॒वैतामाशास्ते । स्व॒गा त्वा॑ दे॒वेभ्य॒ इत्या॑ह । दे॒वेभ्य॑ ए॒वैन॑ स्व॒गा क॑रोति । स्वाहा त्वा प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । यस्या॑ ए॒व दे॒वता॑या आल॒भ्यते । तयै॒वैन॒॒ सम॑र्धयति ।। 12 ।। 3.8.4.0 भ॒व॒ति॒ प्ला॒व॒य॒ति॒ मि॒मी॒ते॒ पञ्च॑ च ।। 4 ।। 3.8.4.1 य पि॒तुर॑नु॒जाया पु॒त्रः । स पु॒रस्तान्नयति । यो मा॒तुर॑नु॒जाया पु॒त्रः । स प॒श्चान्न॑यति । विष्व॑ञ्चमे॒वास्मात्पा॒प्मान॒व्विँवृ॑हतः । यो अर्व॑न्त॒ञ्जिघा॑सति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वान॑ञ्चतुर॒ख्षं प्रसौ॑ति । प॒रो मर्त॑ प॒रश्श्वेति॒ शुन॑श्चतुर॒ख्षस्य॒ प्रह॑न्ति । श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः । पा॒प्मान॑मे॒वास्य॒ भ्रातृ॑व्य हन्ति । सै॒ध्र॒कम्मुस॑लम्भवति ।। 13 ।। 3.8.4.2 कर्म॑कर्मै॒वास्मै॑ साधयति । पौ॒॒श्च॒ले॒यो ह॑न्ति । पु॒॒श्च॒ल्वाव्वैँ दे॒वाश्शुच॒न्न्य॑दधुः । शु॒चैवास्य॒ शुच॑ हन्ति । पा॒प्मा वा ए॒तमीफ्स॒तीत्या॑हुः । योऽश्वमे॒धेन॒ यज॑त॒ इति॑ । अश्व॑स्याधस्प॒दमुपास्यति । व॒ज्री वा अश्व॑ प्राजाप॒त्यः । वज्रे॑णै॒व पा॒प्मान॒म्भ्रातृ॑व्य॒मव॑ क्रामति । द॒ख्षि॒णाऽप॑ प्लावयति ।। 14 ।। 3.8.4.3 पा॒प्मान॑मे॒वास्मा॒च्छम॑ल॒मप॑ प्लावयति । ऐ॒षी॒क उ॑दू॒हो भ॑वति । आयु॒र्वा इ॒षीकाः । आयु॑रे॒वास्मि॑न्दधति । अ॒मृत॒व्वाँ इ॒षीकाः । अ॒मृत॑मे॒वास्मि॑न्दधति । वे॒त॒स॒शा॒खोप॒सम्ब॑द्धा भवति । अ॒फ्सुयो॑नि॒र्वा अश्वः॑ । अ॒फ्सु॒जो वे॑त॒सः । स्वादे॒वैन॒य्योँने॒र्निर्मि॑मीते । पु॒रस्तात्प्र॒त्यञ्च॑म॒भ्युदू॑हति । पु॒रस्ता॑दे॒वास्मि॑न्प्र॒तीच्य॒मृत॑न्दधाति । अ॒हञ्च॒ त्वञ्च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्त॑ङ्गृह्णाति । ब्र॒ह्म॒ख्ष॒त्रे ए॒व सन्द॑धाति । अ॒भिक्रत्वेन्द्र भू॒रध॒ज्मन्नित्य॑ध्व॒र्युर्यज॑मानव्वाँचयत्य॒भिजि॑त्यै ।। 15 ।। 3.8.5.0 ब्र॒ह्मा वि॒श उ॑ख्षति॒ दिश॒ एक॑ञ्च ।। 5 ।। 3.8.5.1 च॒त्वार॑ ऋ॒त्विज॒स्समु॑ख्षन्ति । आ॒भ्य ए॒वैन॑ञ्चत॒सृभ्यो॑ दि॒ग्भ्यो॑ऽभि समी॑रयन्ति । श॒तेन॑ राजपु॒त्रैस्स॒हाध्व॒र्युः । पु॒रस्तात्प्र॒त्यङ्तिष्ठ॒न्प्रोख्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒य राजा॑ वृ॒त्रव्वँ॑ध्या॒दिति॑ । रा॒ज्यव्वाँ अ॑ध्व॒र्युः । ख्ष॒त्र रा॑जपु॒त्रः । रा॒ज्येनै॒वास्मि॑न्ख्ष॒त्रन्द॑धाति । श॒तेना॑ रा॒जभि॑रु॒ग्रैस्स॒ह ब्र॒ह्मा ।। 16 ।। 3.8.5.2 द॒ख्षि॒ण॒त उद॒ङ्तिष्ठ॒न्प्रोख्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒य राजाप्रतिधृ॒ष्योऽस्त्विति॑ । बल॒व्वैँ ब्र॒ह्मा । बल॑मरा॒जोग्रः । बले॑नै॒वास्मि॒न्बल॑न्दधाति । श॒तेन॑ सूतग्राम॒णिभि॑स्स॒ह होता । प॒श्चात्प्राङ्तिष्ठ॒न्प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒य राजा॒ऽस्यै वि॒शः ।। 17 ।। 3.8.5.3 ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै । ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै । ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै । ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै । ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒स्त्विति॑ । भू॒मा वै होता । भू॒मा सू॑तग्राम॒ण्यः॑ । भू॒म्नैवास्मि॑न्भू॒मान॑न्दधाति । श॒तेन॑ ख्षत्तसङ्ग्रही॒तृभि॑स्स॒होद्गा॒ता । उ॒त्त॒र॒तो द॑ख्षि॒णा तिष्ठ॒न्प्रोख्ष॑ति ।। 18 ।। 3.8.5.4 अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒य राजा॒ सर्व॒मायु॑रे॒त्विति॑ । आयु॒र्वा उ॑द्गा॒ता । आयुः॑ ख्षत्तसङ्ग्रही॒तारः॑ । आयु॑षै॒वास्मि॒न्नायु॑र्दधाति । श॒तश॑तम्भवन्ति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । च॒तु॒श्श॒ता भ॑वन्ति । चत॑स्रो॒ दिशः॑ । दि॒ख्ष्वे॑व प्रति॑ तिष्ठति ।। 19 ।। 3.8.6.0 अ॒भिजि॑त्यै वैश्वान॒रस्स॑वि॒त्र ए॒वैनं॑ जुहोति वा॒यव॑ ए॒वैनं॑ जुहोति च्यवते॒ षट् च॑ ।। 6 ।। 3.8.6.1 यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वव्वाँ ए॒तदश्व॑स्य स्कन्दति । यन्नि॒क्तमना॑लब्धमुथ्सृ॒जन्ति॑ । यथ्स्तोक्या॑ अ॒न्वाह॑ । स॒र्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय । अस्क॑न्न॒॒ हि तत् । यद्धु॒तस्य॒ स्कन्द॑ति । स॒हस्र॒मन्वा॑ह । स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।। 20 ।। 3.8.6.2 यत्परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑ रुन्धीत । अप॑रिमिता॒ अन्वा॑ह । अप॑रिमितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । स्तोक्या॑ जुहोति । या ए॒व वर्ष्या॒ आपः॑ । ता अव॑ रुन्धे । अ॒स्याञ्जु॑होति । इ॒यव्वाँ अ॒ग्निर्वैश्वान॒रः ।। 21 ।। 3.8.6.3 अ॒स्यामे॒वैना॒ प्रति॑ष्ठापयति । उ॒वाच॑ ह प्र॒जाप॑तिः । स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒ध सस्था॑पयामि । तेन॒ तत॒स्सस्थि॑तेन चरा॒मीति॑ । अ॒ग्नये॒ स्वाहेत्या॑ह । अ॒ग्नय॑ ए॒वैन॑ञ्जुहोति । सोमा॑य॒ स्वाहेत्या॑ह । सोमा॑यै॒वैन॑ञ्जुहोति । स॒वि॒त्रे स्वाहेत्या॑ह । स॒वि॒त्र ए॒वैन॑ञ्जुहोति ।। 22 ।। 3.8.6.4 सर॑स्वत्यै॒ स्वाहेत्या॑ह । सर॑स्वत्या ए॒वैन॑ञ्जुहोति । पू॒ष्णे स्वाहेत्या॑ह । पू॒ष्ण ए॒वैन॑ञ्जुहोति । बृह॒स्पत॑ये॒ स्वाहेत्या॑ह । बृह॒स्पत॑य ए॒वैन॑ञ्जुहोति । अ॒पाम्मोदा॑य॒ स्वाहेत्या॑ह । अ॒द्भ्य ए॒वैन॑ञ्जुहोति । वा॒यवे॒ स्वाहेत्या॑ह । वा॒यव॑ ए॒वैनं॑ जुहोति ।। 23 ।। 3.8.6.5 मि॒त्राय॒ स्वाहेत्या॑ह । मि॒त्रायै॒वैनं॑ जुहोति । वरु॑णाय॒ स्वाहेत्या॑ह । वरु॑णायै॒वैनं॑ जुहोति । ए॒ताभ्य॑ ए॒वैन॑न्दे॒वताभ्यो जुहोति । दश॑दश सं॒पादं॑ जुहोति । दशाख्षरा वि॒राट् । अन्न॑व्विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । प्र वा ए॒षोऽस्माल्लो॒काच्च्य॑वते । य परा॑ची॒राहु॑तीर्जु॒होति॑ । पुनः॑पुनरभ्या॒वर्तं॑ जुहोति । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । ए॒ता ह वाव सोऽश्वमे॒धस्य॒ सस्थि॑तिमुवा॒चास्क॑न्दाय । अस्क॑न्न॒ हि तत् । यद्य॒ज्ञस्य॒ सस्थि॑तस्य॒ स्कन्द॑ति ।। 24 ।। 3.8.7.0 सा॒र॒सा॒रित॒मोऽप॑चिततम प्राजाप॒त्योऽश्व॒ पञ्च॑ च ।। 7 ।। 3.8.7.1 प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोख्षा॒मीति॑ पु॒रस्तात्प्र॒त्यङ्तिष्ठ॒न्प्रोख्ष॑ति । प्र॒जाप॑ति॒र्वै दे॒वाना॑मन्ना॒दो वी॒र्या॑वान् । अ॒न्नाद्य॑मे॒वास्मि॑न्वी॒र्य॑न्दधाति । तस्मा॒दश्व॑ पशू॒नाम॑न्ना॒दो वी॒र्या॑वत्तमः । इ॒न्द्रा॒ग्निभ्या॒न्त्वेति॑ दख्षिण॒तः । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ । ओज॑ ए॒वास्मि॒न्बल॑न्दधाति । तस्मा॒दश्व॑ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः । वा॒यवे॒ त्वेति॑ प॒श्चात् । वा॒युर्वै दे॒वाना॑मा॒शुस्सा॑रसा॒रित॑मः ।। 25 ।। 3.8.7.2 ज॒वमे॒वास्मि॑न्दधाति । तस्मा॒दश्व॑ पशू॒नामा॒शुस्सा॑रसा॒रित॑मः । विश्वेभ्यस्त्वा दे॒वेभ्य॒ इत्यु॑त्तर॒तः । विश्वे॒ वै दे॒वा दे॒वानाय्यँश॒स्वित॑माः । यश॑ ए॒वास्मि॑न्दधाति । तस्मा॒दश्व॑ पशू॒नाय्यँ॑श॒स्वित॑मः । दे॒वेभ्य॒स्त्वेत्य॒धस्तात् । दे॒वा वै दे॒वाना॒मप॑चिततमाः । अप॑चितिमे॒वास्मि॑न्दधाति । तस्मा॒दश्व॑ पशू॒नामप॑चिततमः ।। 26 ।। 3.8.7.3 सर्वेभ्यस्त्वा दे॒वेभ्य॒ इत्यु॒परि॑ष्टात् । सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑ । त्विषि॑मे॒वास्मि॒न्॒ हरो॑ दधाति । तस्मा॒दश्व॑ पशू॒नान्त्विषि॑मान्‌हर॒स्वित॑मः । दि॒वे त्वा॒ऽन्तरि॑ख्षाय त्वा पृथि॒व्यै त्वेत्या॑ह । ए॒भ्य ए॒वैन॑ल्लोँ॒केभ्य॒ प्रोख्ष॑ति । स॒ते त्वाऽस॑ते त्वा॒ऽद्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वेभ्यस्त्वा भू॒तेभ्य॒ इत्या॑ह । तस्मा॑दश्वमेधया॒जिन॒॒ सर्वा॑णि भू॒तान्युप॑जीवन्ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यत्प्रा॑जाप॒त्योऽश्वः॑ । अथ॒ कस्मा॑देनम॒न्याभ्यो॑ दे॒वता॒भ्योऽपि॒ प्रोख्ष॒तीति॑ । अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः । तय्यँद्विश्वेभ्यस्त्वा भू॒तेभ्य॒ इति॑ प्रो॒ख्षति॑ । दे॒वता॑ ए॒वास्मि॑न्न॒न्वा या॑तयति । तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ।। 27 ।। 3.8.8.0 अ॒र्ध॒य॒ति॒ ज॒न॒य॒ति॒ खल्वा॑हु॒र्जग॑ती॒ त्रीणि॑ च ।। 8 ।। 3.8.8.1 यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वव्वाँ ए॒तदश्व॑स्य स्कन्दति । यत्प्रोख्षि॑त॒मना॑लब्धमुथ्सृ॒जन्ति॑ । यद॑श्वचरि॒तानि॑ जु॒होति॑ । स॒र्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय । अस्क॑न्न॒॒ हि तत् । यद्धु॒तस्य॒ स्कन्द॑ति । ई॒ङ्का॒राय॒ स्वाहेङ्कृ॑ताय॒ स्वाहेत्या॑ह । ए॒तानि॒ वा अ॑श्वचरि॒तानि॑ । च॒रि॒तैरे॒वैन॒॒ सम॑र्धयति ।। 28 ।। 3.8.8.2 तदा॑हुः । अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॑ । नैता हो॑त॒व्या॑ इति॑ । अथो॒ खल्वा॑हुः । हो॒त॒व्या॑ ए॒व । अत्र॒ वावैवव्विँ॒द्वान॑श्वमे॒ध सस्था॑पयति । यद॑श्वचरि॒तानि॑ जु॒होति॑ । तस्माद्धोत॒व्या॑ इति॑ । ब॒हि॒र्धा वा ए॑नमे॒तदा॒यत॑नाद्दधाति । भ्रातृ॑व्यमस्मै जनयति ।। 29 ।। 3.8.8.3 यस्या॑नायत॒नेऽन्यत्रा॒ग्नेराहु॑तीर्जु॒होति॑ । सा॒वि॒त्रि॒या इष्ट्या पु॒रस्ताथ्स्विष्ट॒कृतः॑ । आ॒ह॒व॒नीयेऽश्वचरि॒तानि॑ जुहोति । आ॒यत॑न ए॒वास्याहु॑तीर्जुहोति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । तदा॑हुः । य॒ज्ञ॒मु॒खेय॑ज्ञमुखे होत॒व्याः । य॒ज्ञस्य॒ कॢप्त्यै । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या॒ इति॑ । अथो॒ खल्वा॑हुः ।। 30 ।। 3.8.8.4 यद्य॑ज्ञमु॒खेय॑ज्ञमुखे जुहु॒यात् । प॒शुभि॒र्यज॑मान॒व्व्यँ॑र्धयेत् । अव॑ सुव॒र्गाल्लो॒कात्प॑द्येत । पापी॑यान्थ्स्या॒दिति॑ । स॒कृदे॒व हो॑त॒व्याः । न यज॑मानं प॒शुभि॒र्व्य॑र्धयति । अ॒भि सु॑व॒र्गल्लोँ॒कञ्ज॑यति । न पापी॑यान्भवति । अ॒ष्टाच॑त्वारिशतमश्वरू॒पाणि॑ जुहोति । अ॒ष्टाच॑त्वारिशदख्षरा॒ जग॑ती । जाग॒तोऽश्व॑ प्राजाप॒त्यस्समृ॑द्ध्यै । ए॒कमति॑रिक्तञ्जुहोति । तस्मा॒देक॑ प्र॒जास्वर्धु॑कः ।। 31 ।। 3.8.9.0 ग॒च्छ॒ति॒ भ॒व॒तः॒ प॒थ्सु जु॑होति॒ न गच्छ॑न्ति॒ नव॑ च ।। 9 ।। 3.8.9.1 वि॒भूर्मा॒त्रा प्र॒भू पि॒त्रेत्या॑ह । इ॒यव्वैँ मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैनं॒ परि॑ददाति । अश्वो॑ऽसि॒ हयो॒ऽसीत्या॑ह । शास्त्ये॒वैन॑मे॒तत् । तस्माच्छि॒ष्टा प्र॒जा जा॑यन्ते । अत्यो॒ऽसीत्या॑ह । तस्मा॒दश्व॒स्सर्वान्प॒शूनत्ये॑ति । तस्मा॒दश्व॒स्सर्वे॑षां पशू॒ना श्रैष्ठ्य॑ङ्गच्छति ।। 32 ।। 3.8.9.2 प्र यश॒श्श्रैष्ठ्य॑माप्नोति । य ए॒वव्वेँद॑ । नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्याँच॑ष्टे । ययु॒र्नामा॒ऽसीत्या॑ह । ए॒तद्वा अश्व॑स्य प्रि॒यन्ना॑म॒धेयम् । प्रि॒येणै॒वैन॑न्नाम॒धेये॑ना॒भि व॑दति । तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑ । नाम्ना॒ चेद्ध्वये॑ते । मि॒त्रमे॒व भ॑वतः ।। 33 ।। 3.8.9.3 आ॒दि॒त्यानां॒ पत्वाऽन्वि॒हीत्या॑ह । आ॒दि॒त्याने॒वैन॑ङ्गमयति । अ॒ग्नये॒ स्वाहा॒ स्वाहेन्द्रा॒ग्निभ्या॒मिति॑ पूर्वहो॒माञ्जु॑होति । पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑ क्रामति । भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वेत्युथ्सृ॑जति सर्व॒त्वाय॑ । देवा॑ आशापाला ए॒तन्दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोख्षि॑तङ्गोपाय॒तेत्या॑ह । श॒तव्वैँ तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः । तेभ्य॑ ए॒वैनं॒ परि॑ ददाति । ई॒श्व॒रो वा अश्व॒ प्रमु॑क्त॒ परां परा॒वत॒ङ्गन्तोः । इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहेति॑ चतृ॒षु प॒थ्सु जु॑होति ।। 34 ।। 3.8.9.4 ए॒ता वा अश्व॑स्य॒ बन्ध॑नम् । ताभि॑रे॒वैन॑म्बध्नाति । तस्मा॒दश्व॒ प्रमु॑क्तो॒ बन्ध॑न॒मा ग॑च्छति । तस्मा॒दश्व॒ प्रमु॑क्तो॒ बन्ध॑न॒न्न ज॑हाति । रा॒ष्ट्रव्वाँ अ॑श्वमे॒धः । रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते । येऽश्व॒म्मेध्य॒॒ रख्ष॑न्ति । तेषा॒य्यँ उ॒दृच॒ङ्गच्छ॑न्ति । रा॒ष्ट्रादे॒व ते रा॒ष्ट्रङ्ग॑च्छन्ति । अथ॒ य उ॒दृच॒न्न गच्छ॑न्ति ।। 35 ।। 3.8.9.5 रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते । परा॒ वा ए॒ष सि॑च्यते । यो॑ऽब॒लोऽश्वमे॒धेन॒ यज॑ते । यद॒मित्रा॒ अश्व॑व्विँ॒न्देरन्न्॑ । ह॒न्येतास्य य॒ज्ञः । च॒तु॒श्श॒ता र॑ख्षन्ति । य॒ज्ञस्याघा॑ताय । अथा॒न्यमा॒नीय॒ प्रोख्षे॑युः । सैव ततः॒ प्राय॑श्चित्तिः ।। 36 ।। 3.8.10.0 रु॒न्धे॒ प्रा॒णान्दी॒क्षामव॑ रुन्ध उच्यते क्रामन्ति तिष्ठति ।। 10 ।। 3.8.10.1 प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ यजे॒येति॑ । स तपो॑ऽतप्यत । तस्य॑ तेपा॒नस्य॑ । स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन्न् । सा दी॒ख्षाऽभ॑वत् । स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत् । तान्य॑जुहोत् । तैर्वै स दी॒ख्षामवा॑रुन्ध । यद्वैश्वदे॒वानि॑ जु॒होति॑ । दी॒ख्षामे॒व तैर्यज॑मा॒नोऽव॑ रुन्धे ।। 37 ।। 3.8.10.2 स॒प्त जु॑होति । स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन्न् । अ॒न्व॒हञ्जु॑होति । अ॒न्व॒हमे॒व दी॒क्षामव॑ रुन्धे । त्रीणि॑ वैश्वदे॒वानि॑ जुहोति । च॒त्वार्यौद्ग्रह॒णानि॑ । स॒प्त संप॑द्यन्ते । स॒प्त वै शी॑र्‌ष॒ण्या प्रा॒णाः । प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑ रुन्धे ।। 38 ।। 3.8.10.3 एक॑विशतिव्वैँश्वदे॒वानि॑ जुहोति । एक॑विशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासा॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒॒शः । ए॒ष सु॑व॒र्गो लो॒कः । तद्दैव्यं॑ क्ष॒त्रम् । सा श्रीः । तद्ब्र॒ध्नस्य॑ वि॒ष्टपम् । तथ्स्वाराज्यमुच्यते ।। 39 ।। 3.8.10.4 त्रि॒॒शत॑मौद्ग्रह॒णानि॑ जुहोति । त्रि॒॒शद॑क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । त्रे॒धा वि॒भज्य॑ दे॒वतां जुहोति । त्र्या॑वृतो॒ वै दे॒वाः । त्र्या॑वृत इ॒मे लो॒काः । ए॒षां लो॒काना॒माप्त्यै । ए॒षां लो॒कानां॒ कॢप्त्यै । अप॒ वा ए॒तस्मात्प्रा॒णा क्रा॑मन्ति ।। 40 ।। 3.8.10.5 यो दी॒क्षाम॑तिरे॒चय॑ति । स॒प्ता॒हं प्रच॑रन्ति । स॒प्त वै शी॑ऱ्ष॒ण्या प्रा॒णाः । प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑ रुन्धे । पू॒र्णा॒हु॒तिमु॑त्त॒मां जु॑होति । सर्वं॒ वै पूर्णाहु॒तिः । सर्व॑मे॒वाप्नो॑ति । अथो॑ इ॒यं वै पूर्णाहु॒तिः । अ॒स्यामे॒व प्रति॑ तिष्ठति ।। 41 ।। 3.8.11.0 य॒च्छ॒ते॒ पु॒रु॒रूपा॑य॒ स्वाहेत्या॑हा॒ष्टौ च॑ ।। 11 ।। 3.8.11.1 प्र॒जाप॑तिरश्वमे॒धम॑सृजत । त सृ॒ष्टं न किञ्च॒नोद॑यच्छत् । तं वैश्वदे॒वान्ये॒वोद॑यच्छन्न् । यद्वैश्वदे॒वानि॑ जु॒होति॑ । य॒ज्ञस्योद्य॑त्यै । स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा । स्वाहाऽधी॑तं॒ मन॑से॒ स्वाहा । स्वाहा॒ मन॑ प्र॒जाप॑तये॒ स्वाहा । काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहेति॑ प्राजाप॒त्ये मुख्ये॑ भवतः । प्र॒जाप॑तिमुखाभिरे॒वैनं॑ दे॒वता॑भि॒रुद्य॑च्छते ।। 42 ।। 3.8.11.2 अदि॑त्यै॒ स्वाहाऽदि॑त्यै म॒ह्यै स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहेत्या॑ह । इ॒यं वा अदि॑तिः । अ॒स्या ए॒वैनं॑ प्रति॒ष्ठायोद्य॑च्छते । सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहेत्या॑ह । वाग्वै सर॑स्वती । वा॒चैवैन॒मुद्य॑च्छते । पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहेत्या॑ह । प॒शवो॒ वै पू॒षा । प॒शुभि॑रे॒वैन॒मुद्य॑च्छते । त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहेत्या॑ह । त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नाना॑ रूप॒कृत् । रू॒पमे॒व प॒शुषु॑ दधाति । अथो॑ रू॒पैरे॒वैन॒मुद्य॑च्छते । विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहेत्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञायै॒वैन॒मुद्य॑च्छते । पू॒र्णा॒हु॒तिमु॑त्त॒मां जु॑होति । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ।। 43 ।। 3.8.12.0 त्रि॒ष्टुभ॒श्छन्द॒सोऽधि॒ निर्मि॑मीते जुहोति॒ नव॑ च ।। 12 ।। 3.8.12.1 सा॒वि॒त्रम॒ष्टाक॑पालं प्रा॒तर्निर्व॑पति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रं प्रा॑तस्सव॒नम् । प्रा॒त॒स्स॒व॒नादे॒वैनं॑ गायत्रि॒याश्छन्द॒सोऽधि॒ निर्मि॑मीते । अथो प्रातस्सव॒नमे॒व तेनाप्नोति । गा॒य॒त्रीं छन्दः॑ । स॒वि॒त्रे प्र॑सवि॒त्र एका॑दशकपालं म॒ध्यन्दि॑ने । एका॑दशाक्षरा त्रि॒ष्टुप् । त्रैष्टु॑भं॒ माध्य॑न्दिन॒॒ सव॑नम् । माध्य॑न्दिनादे॒वैन॒॒ सव॑नात्त्रि॒ष्टुभ॒श्छन्द॒सोऽधि॒ निर्मि॑मीते ।। 44 ।। 3.8.12.2 अथो॒ माध्य॑न्दिनमे॒व सव॑नं॒ तेनाप्नोति । त्रि॒ष्टुभं॒ छन्दः॑ । स॒वि॒त्र आ॑सवि॒त्रे द्वाद॑शकपालमपरा॒ह्णे । द्वाद॑शाक्षरा॒ जग॑ती । जाग॑तं तृतीयसव॒नम् । तृ॒ती॒य॒स॒व॒नादे॒वैनं॒ जग॑त्या॒श्छन्द॒सोऽधि॒ निर्मि॑मीते । अथो॑ तृतीयसव॒नमे॒व तेनाप्नोति । जग॑तीं॒ छन्दः॑ । ई॒श्व॒रो वा अश्व॒ प्रमु॑क्त॒ परां परा॒वतं॒ गन्तोः । इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहेति॒ चत॑स्र॒ आहु॑तीर्जुहोति ।। 45 ।। 3.8.12.3 चत॑स्रो॒ दिशः॑ । दि॒ग्भिरे॒वैनं॒ परि॑गृह्णाति । आश्व॑त्थो व्र॒जो भ॑वति । प्र॒जाप॑तिर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पं कृ॒त्वा । सोऽश्व॒त्थे सं॑वथ्स॒रम॑तिष्ठत् । तद॑श्व॒त्थस्याश्वत्थ॒त्वम् । यदाश्व॑त्थो व्र॒जो भव॑ति । स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठापयति ।। 46 ।। 3.8.13.0 अ॒न॒ड्वानित्या॑ह जायते वर्‌षति स॒प्त च॑ ।। 13 ।। 3.8.13.1 आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मित्या॑ह । ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सं द॑धाति । तस्मात्पु॒रा ब्राह्म॒णो ब्र॑ह्मवर्च॒स्य॑जायत । आऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यता॒मित्या॑ह । रा॒ज॒न्य॑ ए॒व शौ॒र्यं म॑हि॒मानं॑ दधाति । तस्मात्पु॒रा रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो॑ऽजायत । दोग्ध्री॑ धे॒नुरित्या॑ह । धे॒न्वामे॒व पयो॑ दधाति । तस्मात्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत । वोढा॑ऽन॒ड्वानित्या॑ह ।। 47 ।। 3.8.13.2 अ॒न॒डुह्ये॒व वी॒र्यं॑ दधाति । तस्मात्पु॒रा वोढा॑ऽन॒ड्वान॑जायत । आ॒शुस्सप्ति॒रित्या॑ह । अश्व॑ ए॒व ज॒वं द॑धाति । तस्मात्पु॒राऽऽशुरश्वो॑ऽजायत । पुर॑न्धि॒र्योषेत्या॑ह । यो॒षित्ये॒व रू॒पं द॑धाति । तस्मा॒थ्स्त्री यु॑व॒ति प्रि॒या भावु॑का । जि॒ष्णू र॑थे॒ष्ठा इत्या॑ह । आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते ।। 48 ।। 3.8.13.3 यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । स॒भेयो॒ युवेत्या॑ह । यो वै पूर्ववय॒सी । स स॒भेयो॒ युवा । तस्मा॒द्युवा॒ पुमान्प्रि॒यो भावु॑कः । आऽस्य यज॑मानस्य वी॒रो जा॑यता॒मित्या॑ह । आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । नि॒का॒मेनि॑कामे न प॒र्जन्यो॑ वऱ्ष॒त्वित्या॑ह । नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वऱ्षति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । फ॒लिन्यो॑ न॒ ओष॑धय पच्यन्ता॒मित्या॑ह । फ॒लिन्यो॑ ह॒ वै तत्रौष॑धय पच्यन्ते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । यो॒ग॒क्षे॒मो न॑ कल्पता॒मित्या॑ह । कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।।49 ।। 3.8.14.0 जु॒होति॒ मधु॑ना जु॒होति॒ पृथु॑कैर्जु॒होति॑ क॒रम्बैर्जु॒होति॒ सक्तु॑भिर्जु॒होति॑ प्रियङ्गुतण्डु॒लैर्जु॒होति॑ च॒त्वारि॑ च ।। 14 ।। (अ॒न्नहो॒मानाज्ये॑ना॒ग्नेर्मधु॑ना तण़्डु॒लै पृथु॑कैर्ला॒जै क॒रम्बैर्धा॒नाभि॒स्सक्तु॑भिर्म॒सूस्यै प्रियङ्गुतण्डु॒लैर्द॒शान्ना॑नि॒ द्वाद॑श । ) 3.8.14.1 प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स आ॒त्मन्न॑श्वमे॒धम॑धत्त । तं दे॒वा अ॑ब्रुवन्न् । ए॒ष वाव य॒ज्ञः । यद॑श्वमे॒धः । अप्ये॒व नोत्रा॒स्त्विति॑ । तेभ्य॑ ए॒तान॑न्नहो॒मान्प्राय॑च्छत् । तान॑जुहोत् । तैर्वै स दे॒वान॑प्रीणात् । यद॑न्नहो॒माञ्जु॒होति॑ ।। 50 ।। 3.8.14.2 दे॒वाने॒व तैर्यज॑मान प्रीणाति । आज्ये॑न जुहोति । अ॒ग्नेर्वा ए॒तद्रू॒पम् । यदाज्यम् । यदाज्ये॑न जु॒होति॑ । अ॒ग्निमे॒व तत्प्री॑णाति । मधु॑ना जुहोति । म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम् । यन्मधु॑ । यन्मधु॑ना जु॒होति॑ ।। 51 ।। 3.8.14.3 म॒ह॒तीमे॒व तद्दे॒वतां प्रीणाति । त॒ण्डु॒लैर्जु॑होति । वसू॑नां॒ वा ए॒तद्रू॒पम् । यत्त॑ण्डु॒लाः । यत्त॑ण्डु॒लैर्जु॒होति॑ । वसू॑ने॒व तत्प्री॑णाति । पृथु॑कैर्जुहोति । रु॒द्राणां॒ वा ए॒तद्रू॒पम् । यत्पृथु॑काः । यत्पृथु॑कैर्जु॒होति॑ । ।। 52 ।। 3.8.14.4 रु॒द्राने॒व तत्प्री॑णाति । ला॒जैर्जु॑होति । आ॒दि॒त्यानां॒ वा ए॒तद्रू॒पम् । यल्ला॒जाः । यल्ला॒जैर्जु॒होति॑ । आ॒दि॒त्याने॒व तत्प्री॑णाति । क॒रम्बैर्जुहोति । विश्वे॑षां॒ वा ए॒तद्दे॒वाना॑ रू॒पम् । यत्क॒रम्बाः । यत्क॒रम्बैर्जु॒होति॑ ।। 53 ।। 3.8.14.5 विश्वा॑ने॒व तद्दे॒वान्प्री॑णाति । धा॒नाभि॑र्जुहोति । नक्ष॑त्त्राणां॒ वा ए॒तद्रू॒पम् । यद्धा॒नाः । यद्धा॒नाभि॑र्जु॒होति॑ । नक्ष॑त्त्राण्ये॒व तत्प्री॑णाति । सक्तु॑भिर्जुहोति । प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम् । यथ्सक्त॑वः । यथ्सक्तु॑भिर्जु॒होति॑ ।। 54 ।। 3.8.14.6 प्र॒जा॑पतिमे॒व तत्प्री॑णाति । म॒सूस्यैर्जुहोति । सर्वा॑सां॒ वा ए॒तद्दे॒वता॑ना रू॒पम् । यन्म॒सूस्या॑नि । यन्म॒सूस्यैर्जु॒होति॑ । सर्वा॑ ए॒व तद्दे॒वता प्रीणाति । प्रि॒य॒ङ्गु॒त॒ण्डु॒लैर्जु॑होति । प्रि॒याङ्गा॑ ह॒ वै नामै॒ते । ए॒तैर्वै दे॒वा अश्व॒स्याङ्गा॑नि॒ सम॑दधुः । यत्प्रि॑यङ्गुतण्डु॒लैर्जु॒होति॑ । अश्व॑स्यै॒वाङ्गा॑नि॒ संद॑धाति । दशान्ना॑नि जुहोति । दशाक्षरा वि॒राट् । वि॒राट्कृ॒थ्स्नस्या॒न्नाद्य॒स्याव॑रुध्यै ।। 55 ।। 3.8.15.0 ए॒व य॒ज्ञाद्रक्षा॒॒स्यप॑हन्त्यन्त॒तो जु॑होति श॒ताय॒ स्वाहेत्या॑ह स॒प्त च॑ ।। 15 ।। 3.8.15.1 प्र॒जाप॑तिरश्वमे॒धम॑सृजत । त सृ॒ष्ट रक्षा॑स्यजिघासन्न् । स ए॒तान्प्र॒जाप॑तिर्न॒क्त हो॒मान॑पश्यत् । तान॑जुहोत् । तैर्वै स य॒ज्ञाद्रक्षा॒॒स्यपा॑हन्न् । यन्न॑क्त हो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षा॒॒स्यप॑ हन्ति । आज्ये॑न जुहोति । वज्रो॒ वा आज्यम् । वज्रे॑णै॒व य॒ज्ञाद्रक्षा॒॒स्यप॑ हन्ति ।। 56 ।। 3.8.15.2 आज्य॑स्य प्रति॒पदं॑ करोति । प्रा॒णो वा आज्यम् । मु॒ख॒त ए॒वास्य॑ प्रा॒णं द॑धाति । अ॒न्न॒हो॒माञ्जु॑होति । शरी॑रवदे॒वाव॑ रुन्धे । व्य॒त्यासं॑ जुहोति । उ॒भय॒स्याव॑रुध्यै । नक्तं॑ जुहोति । रक्ष॑सा॒मप॑हत्यै । आज्ये॑नान्त॒तो जु॑होति ।। 57 ।। 3.8.15.3 प्रा॒णो वा आज्यम् । उ॒भ॒यत॑ ए॒वास्य॑ प्रा॒णं द॑धाति । पु॒रस्ताच्चो॒परि॑ष्टाच्च । एक॑स्मै॒ स्वाहेत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । द्वाभ्या॒॒ स्वाहेत्या॑ह । अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑ तिष्ठति । उ॒भयो॑रे॒व लो॒कयो॒ प्रति॑ तिष्ठति । अ॒स्मिश्चा॒मुष्मि॑श्च । श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑षश्श॒तवीर्यः । आयु॑रे॒व वी॒र्य॑मव॑ रुन्धे । स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्रम् । आयु॑रे॒वाव॑ रुन्धे । सर्व॑स्मै॒ स्वाहेत्या॑ह । अप॑रिमितमे॒वाव॑ रुन्धे ।। 58 ।। 3.8.16.0 ए॒को॒त्त॒रं जु॑होति प्र॒युता॑य॒ स्वाहेत्या॑ह समु॒द्राय॒ स्वाहेत्या॒हाह॒र्व्यु॑ष्टिस्स॒प्त च॑ ।। 16 ।। 3.8.16.1 प्र॒जाप॑तिं॒ वा ए॒ष ईफ्स॒तीत्या॑हुः । योऽश्वमे॒धेन॒ यज॑त॒ इति॑ । अथो॑ आहुः । सर्वा॑णि भू॒तानीति॑ । एक॑स्मै॒ स्वाहेत्या॑ह । प्र॒जाप॑ति॒र्वा एकः॑ । तमे॒वाप्नो॑ति । एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति । अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गं लो॒कमे॑ति । ए॒को॒त्त॒रं जु॑होति ।। 59 ।। 3.8.16.2 ए॒क॒वदे॒व सु॑व॒र्गं लो॒कमे॑ति । सन्त॑तं जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै । श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑षश्श॒तवीर्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे । स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्रम् । आयु॑रे॒वाव॑ रुन्धे । अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा प्र॒युता॑य॒ स्वाहेत्या॑ह ।। 60 ।। 3.8.16.3 त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कानव॑ रुन्धे । अर्बु॑दाय॒ स्वाहेत्या॑ह । वाग्वा अर्बु॑दम् । वाच॑मे॒वाव॑ रुन्धे । न्य॑र्बुदाय॒ स्वाहेत्या॑ह । यो वै वा॒चो भू॒मा । तन्न्य॑र्बुदम् । वा॒च ए॒व भू॒मान॒मव॑ रुन्धे । स॒मु॒द्राय॒ स्वाहेत्या॑ह ।।61 ।। 3.8.16.4 स॒मु॒द्रमे॒वाप्नो॑ति । मध्या॑य॒ स्वाहेत्या॑ह । मध्य॑मे॒वाप्नो॑ति । अन्ता॑य॒ स्वाहेत्या॑ह । अन्त॑मे॒वाप्नो॑ति । प॒रा॒र्धाय॒ स्वाहेत्या॑ह । प॒रा॒र्धमे॒वाप्नो॑ति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्या॑ह । रात्रि॒र्वा उ॒षाः । अह॒र्व्यु॑ष्टिः । अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे । अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति । ता यदु॒भयी॒र्दिवा॑ वा॒ नक्तं॑ वा जुहु॒यात् । अ॒हो॒रा॒त्रे मो॑हयेत् । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहोद्य॒ते स्वाहेत्यनु॑दिते जुहोति । उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहेत्युदि॑ते जुहोति । अ॒हो॒रा॒त्रयो॒रव्य॑तिमोहाय ।। 62 ।। 3.8.17.0 पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑ क्राम॒त्यन॑न्तरित्यै क्रामति रुन्धे॒ जाय॑त॒ एकं॑ च ।। 17 ।। 3.8.17.1 वि॒भूर्मा॒त्रा प्र॒भू पि॒त्रेत्य॑श्वना॒मानि॑ जुहोति । उ॒भयो॑रे॒वैनं॑ लो॒कयोर्नाम॒धेयं॑ गमयति । आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहेत्यु॑द्द्रा॒वाञ्जु॑होति । सर्व॑मे॒वैन॒मस्क॑न्न सुव॒र्गं लो॒कं ग॑मयति । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वहो॒माञ्जु॑होति । पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑ क्रामति । पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वदी॒क्षा जु॑होति । पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑ क्रामति ।।63।। 3.8.17.2 पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्ये॑कवि॒॒शिनीं दी॒क्षां जु॑होति । एक॑विशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒॒शः । ए॒ष सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । भुवो॑ दे॒वानां॒ कर्म॒णेत्यृ॑तुदी॒क्षा जु॑होति । ऋ॒तूने॒वास्मै॑ कल्पयति । अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहेति॑ जुहो॒त्यन॑न्तरित्यै ।। 64 ।। 3.8.17.3 अ॒र्वाङ्य॒ज्ञस्संक्रा॑म॒त्वित्याप्तीर्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्याप्त्यै । भू॒तं भव्यं॑ भवि॒ष्यदिति॒ पर्याप्तीर्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ पर्याप्त्यै । आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भूर्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्याभूत्यै । अ॒ग्निना॒ तपोऽन्व॑भव॒दित्य॑नु॒भूर्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑भूत्यै । स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति । सम॑स्तमे॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑ क्रामति ।। 65 ।। 3.8.17.4 द॒द्भ्यस्स्वाहा॒ हनूभ्या॒॒ स्वाहेत्य॑ङ्गहो॒माञ्जु॑होति । अङ्गे॑अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः । अङ्गा॑दङ्गादे॒वैनं॑ पा॒प्मन॒स्तेन॑ मुञ्चति । अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा श्वे॒ताय॒ स्वाहेत्य॑श्वरू॒पाणि॑ जुहोति । रू॒पैरे॒वैन॒॒ सम॑र्धयति । ओष॑धीभ्य॒स्स्वाहा॒ मूलेभ्य॒स्स्वाहेत्यो॑षधिहो॒माञ्जु॑होति । द्व॒य्यो वा ओष॑धयः । पुष्पेभ्यो॒ऽन्या फलं॑ गृ॒ह्णन्ति॑ । मूलेभ्यो॒ऽन्याः । ता ए॒वोभयी॒रव॑ रुन्धे ।। 66 ।। 3.8.17.5 वन॒स्पति॑भ्य॒स्स्वाहेति॑ वनस्पतिहो॒माञ्जु॑होति । आ॒र॒ण्यस्या॒न्नाद्य॒स्याव॑रुध्यै । मे॒षस्त्वा॑ पच॒तैर॑व॒त्वित्यपाव्यानि जुहोति । प्रा॒णा वै दे॒वा अपाव्याः । प्रा॒णाने॒वाव॑ रुन्धे । कूप्याभ्य॒स्स्वाहा॒द्भ्यस्स्वाहेत्य॒पा होमाञ्जुहोति । अ॒प्सु वा आपः॑ । अन्नं॒ वा आपः॑ । अ॒द्भ्यो वा अन्नं॑ जायते । यदे॒वाद्भ्योऽन्नं॒ जाय॑ते । तदव॑ रुन्धे ।। 67 ।। 3.8.18.0 वै नभा॑सि॒ सूर्यो॒ ज्योति॒स्सन्त॑त्यै॒ सम॑ष्ट्यै भू॒तं यज॑ते॒ नव॑ च ।। 18 ।। 3.8.18.1 अम्भा॑सि जुहोति । अ॒यं वै लो॒कोऽम्भा॑सि । तस्य॒ वस॒वोऽधि॑पतयः । अ॒ग्निर्ज्योतिः॑ । यदम्भा॑सि जु॒होति॑ । इ॒ममे॒व लो॒कमव॑ रुन्धे । वसू॑ना॒॒ सायु॑ज्यं गच्छति । अ॒ग्निं ज्योति॒रव॑ रुन्धे । नभा॑सि जुहोति । अ॒न्तरि॑क्षं॒ वै नभा॑सि ।। 68 ।। 3.8.18.2 तस्य॑ रु॒द्रा अधि॑पतयः । वा॒युर्ज्योतिः॑ । यन्नभा॑सि जु॒होति॑ । अ॒न्तरि॑क्षमे॒वाव॑ रुन्धे । रु॒द्राणा॒॒ सायु॑ज्यं गच्छति । वा॒युं ज्योति॒रव॑ रुन्धे । महा॑सि जुहोति । अ॒सौ वै लो॒को महा॑सि । तस्या॑दि॒त्या अधि॑पतयः । सूर्यो॒ ज्योतिः॑ ।। 69 ।। 3.8.18.3 यन्महा॑सि जु॒होति॑ । अ॒मुमे॒व लो॒कमव॑ रुन्धे । आ॒दि॒त्याना॒॒ सायु॑ज्यं गच्छति । सूर्यं॒ ज्योति॒रव॑ रुन्धे । नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति । अ॒न्नाद्य॒स्याव॑रुध्यै । म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति । प॒शू॒नामव॑रुध्यै । प्रा॒णाय॒ स्वाहा व्या॒नाय॒ स्वाहेति॑ संततिहो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ संत॑त्यै ।।70 ।। 3.8.18.4 सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहेति॒ प्रमु॑क्तीर्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै । पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । द॒त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहेति॑ शरीरहो॒माञ्जु॑होति । पि॒तृ॒लो॒कमे॒व तैर्यज॑मानो॒ऽव॑ रुन्धे । कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन् यु॑नक्ति । इ॒मे वै लो॒का प॑रि॒धयः॑ । इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 71 ।। 3.8.18.5 य प्रा॑ण॒तो य आत्म॒दा इति॑ महि॒मानौ॑ जुहोति । सु॒व॒र्गो वै लो॒को महः॑ । सु॒व॒र्गमे॒व ताभ्यां लो॒कं यज॑मा॒नोऽव॑ रुन्धे । आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मिति॒ सम॑स्तानि ब्रह्मवर्च॒सानि॑ जुहोति । ब्र॒ह्म॒व॒र्चसमे॒व तैर्यज॑मा॒नोऽव॑ रुन्धे । जज्ञि॒ बीज॒मिति॑ जुहो॒त्यन॑न्तरित्यै । अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒दिति॑ सन्नतिहो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्न॑त्यै । भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति । अ॒यं वै लो॒को भू॒तम् ।। 72 ।। 3.8.18.6 अ॒सौ भ॑वि॒ष्यत् । अ॒नयो॑रे॒व लो॒कयो॒ प्रति॑तिष्ठति । सर्व॒स्याप्त्यै । सर्व॒स्याव॑रुध्यै । यदक्र॑न्द प्रथ॒मं जाय॑मान॒ इत्य॑श्वस्तो॒मीयं॑ जुहोति । सर्व॒स्याप्त्यै । सर्व॑स्य॒ जित्यै । सर्व॑मे॒व तेनाप्नोति । सर्वं॑ जयति । योऽश्वमे॒धेन॒ यज॑ते ।। 73 ।। 3.8.18.7 य उ॑ चैनमे॒वं वेद॑ । य॒ज्ञ रक्षा॑स्यजिघासन्न् । स ए॒तान्प्र॒जाप॑तिर्नक्तहो॒मान॑पश्यत् । तान॑जुहोत् । तैर्वै स य॒ज्ञाद्रक्षा॒॒स्यपा॑हन्न् । यन्न॑क्तहो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षा॒॒स्यप॑हन्ति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 74 ।। 3.8.19.0 अश्व॑स्य॒ व्यावृ॑त्त्यै॒ त्रीणि॑ च ।। 19 ।। 3.8.19.1 ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा । अ॒न्येषां य॒ज्ञानां॒ यूपा॑ भवन्ति । ए॒क॒वि॒॒शिन्य॑श्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । बै॒ल्॒वो वा॑ खादि॒रो वा॑ पाला॒शो वा । अ॒न्येषां यज्ञक्रतू॒नां यूपा॑ भवन्ति । राज्जु॑दाल॒ एक॑विशत्यरत्निरश्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । नान्येषां पशू॒नां ते॑ज॒न्या अ॑व॒द्यन्ति॑ । अव॑द्य॒न्त्यश्व॑स्य ।। 75 ।। 3.8.19.2 पा॒प्मा वै ते॑ज॒नी । पा॒प्मनोऽप॑हत्यै । प्ल॒क्ष॒शा॒खाया॑म॒न्येषां पशू॒नाम॑व॒द्यन्ति॑ । वे॒त॒स॒शा॒खाया॒मश्व॑स्य । अ॒प्सुयो॑नि॒र्वा अश्वः॑ । अ॒प्सु॒जो वे॑त॒सः । स्व ए॒वास्य॒ योना॒वव॑ द्यति । यूपे॑षु ग्रा॒म्यान्प॒शून्नि॑यु॒ञ्जन्ति॑ । आ॒रो॒केष्वा॑र॒ण्यान्धा॑रयन्ति । प॒शू॒नां व्यावृ॑त्त्यै । आ ग्रा॒म्यान्प॒शूल्लँभ॑न्ते । प्रार॒ण्यान्थ्सृ॑जन्ति । पा॒प्मनोऽप॑हत्यै ।। 76 ।। 3.8.20.0 तेज॒सोऽव॑रुध्यै भव॒न्त्यश्वो॑ गोमृ॒गमि॑लु॒वर्द॑श्च॒त्वारि॑ च ।। 20 ।। 3.8.20.1 राज्जु॑दालमग्नि॒ष्ठं मि॑नोति । भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै । पौतु॑द्रवाव॒भितो॑ भवतः । पुण्य॑स्य ग॒न्धस्याव॑रुध्यै । भ्रू॒ण॒ह॒त्यामे॒वास्मा॑दप॒हत्य॑ । पुण्ये॑न ग॒न्धेनो॑भ॒यतः॒ परि॑ गृह्णाति । षड्बै॒ल्॒वा भ॑वन्ति । ब्र॒ह्म॒व॒र्च॒सस्याव॑रुध्यै । षट्खा॑दि॒राः । तेज॒सोऽव॑रुध्यै ।। 77 ।। 3.8.20.2 षट्पा॑ला॒शाः । सो॒म॒पी॒थस्याव॑रुध्यै । एक॑विशति॒स्संप॑द्यन्ते । एक॑विशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य एक॑वि॒॒शः । ए॒ष सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । श॒तं प॒शवो॑ भवन्ति ।। 78 ।। 3.8.20.3 श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । सर्वं॒ वा अ॑श्वमे॒ध्याप्नो॑ति । अप॑रिमिता भवन्ति । अप॑रिमित॒स्याव॑रुध्यै । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्माथ्स॒त्यात् । द॒क्षि॒ण॒तोऽन्येषां पशू॒नाम॑व॒द्यन्ति॑ । उ॒त्त॒र॒तोऽश्व॒स्येति॑ । वा॒रुणो॒ वा अश्वः॑ ।। 79 ।। 3.8.20.4 ए॒षा वै वरु॑णस्य॒ दिक् । स्वाया॑मे॒वास्य॑ दि॒श्यव॑द्यति । यदित॑रेषां पशू॒नाम॑व॒द्यति॑ । श॒त॒दे॒व॒त्यं॑ तेनाव॑ रुन्धे । चि॒तेऽग्नावधि॑ वैत॒से कटेऽश्वं॑ चिनोति । अ॒प्सुयो॑नि॒र्वा अश्वः॑ । अ॒प्सु॒जो वे॑त॒सः । स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठापयति । पु॒रस्तात्प्र॒त्यञ्चं॑ तूप॒रं चि॑नोति । प॒श्चात्प्रा॒चीनं॑ गोमृ॒गम् ।। 80 ।। 3.8.20.5 प्रा॒णा॒पा॒नावे॒वास्मिन्थ्स॒म्यञ्चौ॑ दधाति । अश्वं॑ तूप॒रं गो॑मृ॒गमिति॑ सर्व॒हुत॑ ए॒ताञ्जु॑होति । ए॒षां लो॒काना॑म॒भिजि॑त्यै । आ॒त्मना॒ऽभि जु॑होति । सात्मा॑नमे॒वैन॒॒ सत॑नुं करोति । सात्मा॒ऽमुष्मि॑ल्लोँ॒के भ॑वति । य ए॒वं वेद॑ । अथो॒ वसो॑रे॒व धारां॒ तेनाव॑ रुन्धे । इ॒लु॒वर्दा॑य॒ स्वाहा॑ बलि॒वर्दा॑य॒ स्वाहेत्या॑ह । सं॒व॒थ्स॒रो वा इ॑लु॒वर्दः॑ । प॒रि॒व॒थ्स॒रो ब॑लि॒वर्दः॑ । सं॒व॒थ्स॒रादे॒व प॑रिवथ्स॒रादायु॒रव॑ रुन्धे । आयु॑रे॒वास्मि॑न्दधाति । तस्मा॑दश्वमेधया॒जी ज॒रसा॑ वि॒स्रसा॒मुं लो॒कमे॑ति ।। 81 ।। 3.8.21.0 द्वा॒द॒शस्स्तोम॒स्स ए॒व तच्छिरो॑ ह॒ राज्ञां भवति॒ षट् च॑ ।। 21 ।। 3.8.21.1 ए॒क॒वि॒शोऽग्निर्भ॑वति । ए॒क॒वि॒॒शस्स्तोमः॑ । एक॑विशति॒र्यूपाः । यथा॒ वा अश्वा॑ वऱ्ष॒भा वा॒ वृषा॑णस्सस्फु॒रेरन्न्॑ । ए॒वमे॒व तथ्स्तोमा॒स्सस्फु॑रन्ते । यदे॑कवि॒॒शाः । ते यथ्स॑मृ॒च्छेरन्न्॑ । ह॒न्येतास्य य॒ज्ञः । द्वा॒द॒श ए॒वाग्निस्स्या॒दित्या॑हुः । द्वा॒द॒शस्स्तोमः॑ ।। 82 ।। 3.8.21.2 एका॑दश॒ यूपाः । यद्द्वा॑द॒शोऽग्निर्भव॑ति । द्वाद॑श॒ मासास्संवथ्स॒रः । सं॒व॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे । यद्दश॒ यूपा॒ भव॑न्ति । दशाक्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । य ए॑काद॒शः । स्तन॑ ए॒वास्यै॒ सः ।। 83 ।। 3.8.21.3 दु॒ह ए॒वैनां॒ तेन॑ । तदा॑हुः । यद्द्वा॑द॒शोऽग्निस्स्याद्द्वाद॒शस्स्तोम॒ एका॑दश॒ यूपाः । यथा॒ स्थूरि॑णा या॒यात् । ता॒दृक्तत् । ए॒क॒वि॒॒श ए॒वाग्निस्स्या॒दित्या॑हुः । ए॒क॒वि॒॒शस्स्तोमः॑ । एक॑विशति॒र्यूपाः । यथा॒ प्रष्टि॑भि॒र्याति॑ । ता॒दृगे॒व तत् ।। 84 ।। 3.8.21.4 यो वा अ॑श्वमे॒धे ति॒स्र क॒कुभो॒ वेद॑ । क॒कुद्ध॒ राज्ञां भवति । ए॒क॒वि॒॒शोऽग्निर्भ॑वति । ए॒क॒वि॒॒शस्स्तोमः॑ । एक॑विशति॒र्यूपाः । ए॒ता वा अ॑श्वमे॒धे ति॒स्र क॒कुभः॑ । य ए॒वं वेद॑ । क॒कुद्ध॒ राज्ञां भवति । यो वा अश्व॑मे॒धे त्रीणि॑ शी॒र्॒षाणि॒ वेद॑ । शिरो॑ ह॒ राज्ञां भवति । ए॒क॒वि॒॒शोऽग्निर्भ॑वति । ए॒क॒वि॒॒शस्स्तोमः॑ । एक॑विशति॒र्यूपाः । ए॒तानि॒ वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्॒षाणि॑ । य ए॒वं वेद॑ । शिरो॑ ह॒ राज्ञां भवति ।। 85 ।। 3.8.22.0 तथ्स उ॒पाक॑रोति च॒त्वारि॑ च ।। 22 ।। 3.8.22.1 दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गं लो॒कं न प्राजा॑नन्न् । तमश्व॒ प्राजा॑नात् । यद॑श्वमे॒धेऽश्वे॑न॒ मेध्ये॒नोद॑ञ्चो बहिष्पवमा॒न सर्प॑न्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञात्यै । न वै म॑नु॒ष्य॑स्सुव॒र्गं लो॒कमञ्ज॑सा वेद । अश्वो॒ वै सु॑व॒र्गं लो॒कमञ्ज॑सा वेद । यदु॑द्गा॒तोद्गायेत् । यथा क्षेत्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दयेत् । ता॒दृक्तत् ।। 86 ।। 3.8.22.2 उ॒द्गा॒तार॑मप॒रुध्य॑ । अश्व॑मुद्गी॒थाय॑ वृणीते । यथा क्षेत्र॒ज्ञोऽञ्ज॑सा॒ नय॑ति । ए॒वमे॒वैन॒मश्व॑स्सुव॒र्गं लो॒कमञ्ज॑सा नयति । पुच्छ॑म॒न्वा र॑भन्ते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । हिं क॑रोति । सामै॒वाकः॑ । हिं क॑रोति । उ॒द्गी॒थ ए॒वास्य॒ सः ।। 87 ।। 3.8.22.3 वड॑बा॒ उप॑ रुन्धन्ति । मि॒थु॒न॒त्वाय॒ प्रजात्यै । अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति । ता॒दृगे॒व तत् । उद॑गासी॒दश्वो॒ मेध्य॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑तिरुद्गी॒थः । उ॒द्गी॒थमे॒वाव॑ रुन्धे । अथो॑ ऋक्सा॒मयो॑रे॒व प्रति॑ तिष्ठति । हिर॑ण्येनो॒पाक॑रोति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒व मु॑ख॒तो द॑धाति । यज॑माने च प्र॒जासु॑ च । अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मानस्सुव॒र्गं लो॒कमे॑ति ।। 88 ।। 3.8.23.0 कु॒रु॒ते॒ ध॒त्ते॒ कु॒रु॒ते॒ पञ्च॑ च ।। 23 ।। 3.8.23.1 पुरु॑षो॒ वै य॒ज्ञः । य॒ज्ञ प्र॒जाप॑तिः । यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑ । य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते । अश्वं॑ तूप॒रं गो॑मृ॒गम् । तान॑ग्नि॒ष्ठ आल॑भते । से॒ना॒मु॒खमे॒व तथ्सश्य॑ति । तस्माद्राजमु॒खं भी॒ष्मं भावु॑कम् । आ॒ग्ने॒यं कृ॒ष्णग्री॑वं पु॒रस्ताल्ल॒लाटे । पू॒र्वा॒ग्निमे॒व तं कु॑रुते ।। 89 ।। 3.8.23.2 तस्मात्पूर्वा॒ग्निं पु॒रस्तात्स्थापयन्ति । पौ॒ष्णम॒न्वञ्चम् । अन्नं॒ वै पू॒षा । तस्मात्पूर्वा॒ग्नावा॑हा॒र्य॑मा ह॑रन्ति । ऐ॒न्द्रा॒पौ॒ष्णमु॒परि॑ष्टात् । ऐ॒न्द्रो वै रा॑ज॒न्योऽन्नं॑ पू॒षा । अ॒न्नाद्ये॑नै॒वैन॑मुभ॒यत॒ परि॑ गृह्णाति । तस्माद्राज॒न्योऽन्ना॒दो भावु॑कः । आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ बाहु॒वोः । बा॒हु॒वोरे॒व वी॒र्यं धत्ते ।। 90 ।। 3.8.23.3 तस्माद्राज॒न्यो॑ बाहुब॒लीभावु॑कः । त्वा॒ष्ट्रौ लो॑मशस॒क्थौ स॒क्थ्योः । स॒क्थ्योरे॒व वी॒र्यं॑ धत्ते । तस्माद्राज॒न्य॑ ऊरुब॒लीभावु॑कः । शि॒ति॒पृ॒ष्ठौ बा॑ऱ्हस्प॒त्यौ पृ॒ष्ठे । ब्र॒ह्म॒व॒र्च॒समे॒वोपरि॑ष्टाद्धत्ते । अथो॑ क॒वचे॑ ए॒वैते अ॒भित॒ पर्यू॑हते । तस्माद्राज॒न्य॑स्सन्न॑द्धो वी॒र्यं॑ करोति । धा॒त्रे पृ॑षोद॒रम॒धस्तात् । प्र॒ति॒ष्ठामे॒वैतां कु॑रुते । अथो॑ इ॒यं वै धा॒ता । अ॒स्यामे॒व प्रति॑ तिष्ठति । सौ॒र्यं ब॒लक्षं॒ पुच्छे । उ॒थ्से॒धमे॒व तङ्कु॑रुते । तम्मा॑दुथ्से॒धम्भ॒ये प्र॒जा अ॒भिसश्र॑यन्ति ।। 91 ।। 3.9.0.0 प्र॒जाप॑ति॒स्तम॑ष्टादशिभि॑ प्र॒जाप॑तिरकामयतो॒भाव॒स्मै यु॒ञ्जन्ति॒ तेज॒साऽप॑प्राणा अप॒श्रीरू॒र्ध्वां प्र॒जाप॑ति प्रे॒णाऽनु॑ प्रथ॒मेन॑ प्र॒जाप॑तिरकामयत म॒हान्वैश्वदे॒वो वा अश्वोऽश्व॑स्य प्र॒जाप॑ति॒स्तय्यँ॑ज्ञक्र॒तुभि॒रप॒श्रीर्ब्राह्म॒णौ सर्वे॑षु वारु॒णो यद्यश्व॒न्तदा॑हुरे॒ष वै वि॒भूस्ता॒र्प्येणा॑दि॒त्या प्र॒जाप॑तिं पि॒तर॒य्योँ वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ त्रयो॑विशतिः ।। 23 ।। प्र॒जाप॑तिर॒स्मिँल्लो॒क उ॑त्तर॒तश्श्रिय॑मे॒व प्र॒जाप॑तिरकामयत म॒हान्यत्प्रा॒त प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॒स्सर्व॑ ह॒ वै तत्र॒ पय॑स्स्व॒द्य उ॑ चैनमे॒वव्वेँद॑ च॒त्वार्यशी॑तिः ।। 84 ।। प्र॒जाप॑तिरश्वमे॒धञ्जु॑ह्वति ।। ।। हरिः॑ ओम् ।। कृष्णयजुर्ब्राह्मणे तृतीयाष्टके नवमप्रपाठकस्समाप्तः ।। 3.9.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके नवमप्रपाठक प्रारम्भः । हरिःओम् ।। 3.9.1.0 ऋ॒तव॑स्स्यातामुथ्सृ॒जेथ्स्य॑त॒स्त्रीणि॑ च ।। 1 ।। 3.9.1.1 प्र॒जाप॑तिरश्वमे॒धम॑सृजत । सोऽस्माथ्सृ॒ष्टोऽपाक्रामत् । तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तमाप्नोत् । तमा॒प्त्वाऽष्टा॑द॒शिभि॒रवा॑रुन्ध । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते । य॒ज्ञमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । स॒व्वँ॒थ्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा । यद॑ष्टाद॒शिनः॑ । द्वाद॑श॒ मासा॒ पञ्च॒र्तवः॑ ।। 1 ।। 3.9.1.2 स॒व्वँ॒थ्स॒रोऽष्टाद॒शः । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते । स॒व्वँ॒थ्स॒रमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । अ॒ग्नि॒ष्ठेऽन्यान्प॒शूनु॑पाक॒रोति॑ । इत॑रेषु॒ यूपेष्वष्टाद॒शिनोऽजा॑मित्वाय । नव॑न॒वाल॑भ्यन्ते सवीर्य॒त्वाय॑ । यदा॑र॒ण्यैस्स॑स्था॒पयेत् । व्यव॑स्येतां पितापु॒त्रौ । व्यध्वा॑न क्रामेयुः । विदू॑र॒ङ्ग्राम॑योर्ग्रामा॒न्तौ स्या॑ताम् ।। 2 ।। 3.9.1.3 ऋ॒ख्षीका पुरुषव्या॒घ्रा प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑येरन्न् । तदा॑हुः । अप॑शवो॒ वा ए॒ते । यदा॑र॒ण्याः । यदा॑र॒ण्यैस्स॑स्था॒पयेत् । ख्षि॒प्रे यज॑मान॒मर॑ण्यं मृ॒त ह॑रेयुः । अर॑ण्यायतना॒ ह्या॑र॒ण्या प॒शव॒ इति॑ । यत्प॒शून्नालभे॑त । अन॑वरुद्धा अस्य प॒शव॑स्स्युः । यत्पर्य॑ग्निकृतानुथ्सृ॒जेत् ।। 3 ।। 3.9.1.4 य॒ज्ञ॒वे॒श॒सङ्कु॑र्यात् । यत्प॒शूना॒लभ॑ते । तेनै॒व प॒शूनव॑रुन्धे । यत्पर्य॑ग्निकृतानुथ्सृ॒जत्यय॑ज्ञवेशसाय । अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति । न य॑ज्ञवेश॒सम्भ॑वति । न यज॑मान॒मर॑ण्यम्मृ॒त ह॑रन्ति । ग्रा॒म्यैस्स स्था॑पयति । ए॒ते वै प॒शवः॒ ख्षेमो॒ नाम॑ । सं पि॑तापु॒त्रावव॑स्यतः । समध्वा॑न क्रामन्ति । स॒म॒न्ति॒कङ्ग्राम॑योर्ग्रामा॒न्तौ भ॑वतः । नर्ख्षीका पुरुषव्या॒घ्रा प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑यन्ते ।। 4 ।। 3.9.2.0 आ॒र॒ण्याल्लोँ॒को द॒शिन॑ आल॒भ्यन्ते॒ नाना॑रूपा प॒शवो॒ द्वे च॑ ।। 2 ।। 3.9.2.1 प्र॒जाप॑तिरकामयतो॒भौ लो॒कावव॑ रुन्धी॒येति॑ । स ए॒तानु॒भयान्प॒शून॑पश्यत् । ग्रा॒म्याश्चा॑र॒ण्याश्च॑ । तानाल॑भत । तैर्वै स उ॒भौ लो॒काववा॑रुन्ध । ग्रा॒म्यैरे॒व प॒शुभि॑रि॒मल्लोँ॒कमवा॑रुन्ध । आ॒र॒ण्यैर॒मुम् । यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते । इ॒ममे॒व तैर्लो॒कमव॑ रुन्धे । यदा॑र॒ण्यान् ।। 5 ।। 3.9.2.2 अ॒मुन्तैः । अन॑वरुद्धो॒ वा ए॒तस्य॑ सव्वँथ्स॒र इत्या॑हुः । य इ॒तइ॑तश्चातुर्मा॒स्यानि॑ सव्वँथ्स॒रं प्र॑यु॒ङ्क्त इति॑ । ए॒तावा॒न्॒ वै स॑व्वँथ्स॒रः । यच्चा॑तुर्मा॒स्यानि॑ । यदे॒ते चा॑तुर्मा॒स्या प॒शव॑ आल॒भ्यन्ते । प्र॒त्यख्ष॑मे॒व तैस्स॑व्वँथ्स॒रय्यँज॑मा॒नोऽव॑रुन्धे । वि वा ए॒ष प्र॒जया॑ प॒शुभि॑र्‌ऋध्यते । यस्स॑व्वँथ्स॒रं प्र॑यु॒ङ्क्ते । स॒व्वँ॒थ्स॒रस्सु॑व॒र्गो लो॒कः ।। 6 ।। 3.9.2.3 सु॒व॒र्गन्तु लो॒कन्नाप॑राध्नोति । प्र॒जा वै प॒शव॑ एकाद॒शिनी । यदे॒त ऐ॑कादशि॒ना प॒शव॑ आल॒भ्यन्ते । सा॒ख्षादे॒व प्र॒जां प॒शून् यज॑मा॒नोऽव॑रुन्धे । प्र॒जाप॑तिर्वि॒राज॑मसृजत । सा सृ॒ष्टाऽश्व॑मे॒धं प्रावि॑शत् । तान्द॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तामाप्नोत् । तामा॒प्त्वा द॒शिभि॒रवा॑रुन्ध । यद्द॒शिन॑ आल॒भ्यन्ते ।। 7 ।। 3.9.2.4 वि॒राज॑मे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । एका॑दश द॒शत॒ आल॑भ्यन्ते । एका॑दशाख्षरा त्रि॒ष्टुप् । त्रैष्टु॑भा प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । वै॒श्व॒दे॒वो वा अश्वः॑ । ना॒ना॒दे॒व॒त्याः प॒शवो॑ भवन्ति । अश्व॑स्य सर्व॒त्वाय॑ । नाना॑रूपा भवन्ति । तस्मा॒न्नाना॑रूपा प॒शवः॑ । ब॒हु॒रू॒पा भ॑वन्ति । तस्माद्बहुरू॒पा प॒शव॒स्समृ॑द्ध्यै ।। 8 ।। 3.9.3.0 अव॑रुद्ध्या उ॒भयान्प॒शूनाल॑भते स॒त्यादहि॑सायै ।। 3 ।। 3.9.3.1 अ॒स्मै वै लो॒काय॑ ग्रा॒म्या प॒शव॒ आल॑भ्यन्ते । अ॒मुष्मा॑ आर॒ण्याः । यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते । इ॒ममे॒व तैर्लो॒कमव॑रुन्धे । यदा॑र॒ण्यान् । अ॒मुन्तैः । उ॒भयान्प॒शूनाल॑भते । गा॒म्याश्चा॑र॒ण्याश्च॑ । उ॒भयोर्लो॒कयो॒रव॑रुद्ध्यै । उ॒भयान्प॒शूनाल॑भते ।। 9 ।। 3.9.3.2 ग्रा॒म्याश्चा॑र॒ण्याश्च॑ । उ॒भय॑स्या॒न्नाद्य॒स्याव॑रुद्ध्यै । उ॒भयान्प॒शूनाल॑भते । ग्रा॒म्याश्चा॑र॒ण्याश्च॑ । उ॒भये॑षां पशू॒नामव॑रुद्ध्यै । त्रय॑स्त्रयो भवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒षाल्लोँ॒काना॒माप्त्यै । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्माथ्स॒त्यात् ।। 10 ।। 3.9.3.3 अ॒स्मिल्लोँ॒के ब॒हव॒ कामा॒ इति॑ । यथ्स॑मा॒नीभ्यो॑ दे॒वताभ्यो॒ऽन्येऽन्ये प॒शव॑ आल॒भ्यन्ते । अ॒स्मिन्ने॒व तल्लो॒के कामान्दधाति । तस्मा॑द॒स्मिल्लोँ॒के ब॒हव॒ कामाः । त्र॒या॒णान्त्र॑याणा स॒ह व॒पा जु॑होति । त्र्या॑वृतो॒ वै दे॒वाः । त्र्या॑वृत इ॒मे लो॒काः । ए॒षाल्लोँ॒काना॒माप्त्यै । ए॒षाल्लोँ॒काना॒ङ्कॢप्त्यै । पर्य॑ग्निकृतानार॒ण्यानुथ्सृ॑ज॒न्त्यहि॑सायै ।। 11 ।। 3.9.4.0 परि॑त॒स्थुष॒ इत्या॑हे॒मे ए॒वास्मै॑ युनक्त्य॒भिजि॑त्यै भरन्त्यश्वमे॒धो रु॑न्धे रू॒पञ्जि॑घ्रति॒ त्रीणि॑ च ।। 4 ।। 3.9.4.1 यु॒ञ्जन्ति॑ ब्र॒ध्नमित्या॑ह । अ॒सौ वा आ॑दि॒त्यो ब्र॒ध्नः । आ॒दि॒त्यमे॒वास्मै॑ युनक्ति । अ॒रु॒षमित्या॑ह । अ॒ग्निर्वा अ॑रु॒षः । अ॒ग्निमे॒वास्मै॑ युनक्ति । चर॑न्त॒मित्या॑ह । वा॒युर्वै चरन्न्॑ । वा॒युमे॒वास्मै॑ युनक्ति । परि॑त॒स्थुष॒ इत्या॑ह ।। 12 ।। 3.9.4.2 इ॒मे वै लो॒का परि॑त॒स्थुषः॑ । इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति । रोच॑न्ते रोच॒ना दि॒वीत्या॑ह । नख्ष॑त्राणि॒ वै रो॑च॒ना दि॒वि । नख्ष॑त्राण्ये॒वास्मै॑ रोचयति । यु॒ञ्जन्त्य॑स्य॒ काम्येत्या॑ह । कामा॑ने॒वास्मै॑ युनक्ति । हरी॒ विप॑ख्ष॒सेत्या॑ह । इ॒मे वै हरी॒ विप॑ख्षसा । इ॒मे ए॒वास्मै॑ युनक्ति ।। 13 ।। 3.9.4.3 शोणा॑ धृ॒ष्णू नृ॒वाह॒सेत्या॑ह । अ॒हो॒रा॒त्रे वै नृ॒वाह॑सा । अ॒हो॒रा॒त्रे ए॒वास्मै॑ युनक्ति । ए॒ता ए॒वास्मै॑ दे॒वता॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । के॒तुङ्कृ॒ण्वन्न॑के॒तव॒ इति॑ ध्व॒जं प्रति॑मुञ्चति । यश॑ ए॒वैन॒॒ राज्ञाङ्गमयति । जी॒मूत॑स्येव भवति॒ प्रती॑क॒मित्या॑ह । य॒था॒य॒जुरे॒वैतत् । ये ते॒ पन्था॑नस्सवित पू॒र्व्यास॒ इत्य॑ध्व॒र्युर्यज॑मानव्वाँचयत्य॒भिजि॑त्यै ।। 14 ।। 3.9.4.4 परा॒ वा ए॒तस्य॑ य॒ज्ञ ए॑ति । यस्य॑ प॒शुरु॒पाकृ॑तो॒ऽन्यत्र॒ वेद्या॒ एति॑ । ए॒तस्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि न॒ इत्या॑ह । वा॒युर्वै स्तोता । वा॒युमे॒वास्य॑ प॒रस्ताद्दधा॒त्यावृ॑त्त्यै । यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वव्वाँ ए॒तदश्व॑स्य स्कन्दति । यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते । यद्वाले॑षु का॒चाना॒वय॑न्ति । लोमान्ये॒वास्य॒ तथ्सम्भ॑रन्ति ।। 15 ।। 3.9.4.5 भूर्भुव॒स्सुव॒रिति॑ प्राजाप॒त्याभि॒राव॑यन्ति । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयन्ति । भूरिति॒ महि॑षी । भुव॒ इति॑ वा॒वाता । सुव॒रिति॑ परिवृ॒क्ती । ए॒षाल्लोँ॒काना॑म॒भिजि॑त्यै । हि॒र॒ण्यया का॒चा भ॑वन्ति । ज्योति॒र्वै हिर॑ण्यम् । रा॒ष्ट्रम॑श्वमे॒धः ।। 16 ।। 3.9.4.6 ज्योति॑श्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । स॒हस्र॑म्भवन्ति । स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । अप॒ वा ए॒तस्मा॒त्तेज॑ इन्द्रि॒यं प॒शव॒श्श्री क्रा॑मन्ति । योऽश्वमे॒धेन॒ यज॑ते । वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छन्द॒सेति॒ महि॑ष्य॒भ्य॑नक्ति । तेजो॒ वा आज्यम् । तेजो॑ गाय॒त्री । तेज॑सै॒वास्मै॒ तेजोऽव॑रुन्धे ।। 17 ।। 3.9.4.7 रु॒द्रास्त्वाञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेति॑ वा॒वाता । तेजो॒ वा आज्यम् । इ॒न्द्रि॒यन्त्रि॒ष्टुप् । तेज॑सै॒वास्मा॑ इन्द्रि॒यमव॑रुन्धे । आ॒दि॒त्यास्त्वाऽञ्जन्तु॒ जाग॑तेन॒ छन्द॒सेति॑ परिवृ॒क्ती । तेजो॒ वा आज्यम् । प॒शवो॒ जग॑ती । तेज॑सै॒वास्मे॑ प॒शूनव॑रुन्धे । पत्न॑यो॒ऽभ्य॑ञ्जन्ति । श्रि॒या वा ए॒तद्रू॒पम् ।। 18 ।। 3.9.4.8 यत्पत्न॑यः । श्रिय॑मे॒वास्मि॒न्तद्द॑धति । नास्मा॒त्तेज॑ इन्द्रि॒यं प॒शव॒श्श्रीरप॑ क्रामन्ति । लाजी ३ ञ्छाची ३ न् यशो॑म॒माँ (4) इत्यति॑रिक्त॒मन्न॒मश्वा॑यो॒पाह॑रन्ति । प्र॒जामे॒वान्ना॒दीङ्कु॑र्वते । ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापत॒ इत्या॑ह । प्र॒जाया॑मे॒वान्नाद्य॑न्दधते । यदि॒ नाव॒जिघ्रेत् । अ॒ग्नि प॒शुरा॑सी॒दित्यव॑घ्रापयेत् । अव॑ है॒व जि॑घ्रति । आक्रान्॑ वा॒जी क्रमै॒रत्य॑क्रमीद्वा॒जी द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॒मित्यश्व॒मनु॑मन्त्रयते । ए॒षाल्लोँ॒काना॑म॒भिजि॑त्यै । समि॑द्धो अ॒ञ्जन्कृद॑रं मती॒नामित्यश्व॑स्या॒प्रियो॑ भवन्ति सरूप॒त्याय॑ ।। 19 ।। 3.9.5.0 होता॑ भवति॒ वै वृष्टि॑ पू॒र्वचि॑त्तिर॒न्नाद्य॑मे॒वाव॑रुन्धे म॒हदित्या॑ह॒ सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च ।। 5 ।। 3.9.5.1 तेज॑सा॒ वा ए॒ष ब्र॑ह्मवर्च॒सेन॒ व्यृ॑द्ध्यते । योऽश्वमे॒धेन॒ यज॑ते । होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्य॑व्वँदतः । तेज॑सा चै॒वैनं॑ ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः । द॒ख्षि॒ण॒तो ब्र॒ह्मा भ॑वति । द॒ख्षि॒ण॒तआ॑यतनो॒ वै ब्र॒ह्मा । बा॒र्॒ह॒स्प॒त्यो वै ब्र॒ह्मा । ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दख्षिण॒तो द॑धाति । तस्मा॒द्दख्षि॒णोऽर्धो ब्रह्मवर्च॒सित॑रः । उ॒त्त॒र॒तो होता॑ भवति ।। 20 ।। 3.9.5.2 उ॒त्त॒र॒तआ॑यतनो॒ वै होता । आ॒ग्ने॒यो वै होता । तेजो॒ वा अ॒ग्निः । तेज॑ ए॒वास्योत्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑स्तेज॒स्वित॑रः । यूप॑म॒भितो॑ वदतः । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑ । यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः । कि स्वि॑दासीत्पू॒र्वचि॑त्ति॒रित्या॑ह । द्यौर्वै वृष्टि॑ पू॒र्वचि॑त्तिः ।। 21 ।। 3.9.5.3 दिव॑मे॒व वृष्टि॒मव॑रुन्धे । कि स्वि॑दासीद्बृ॒हद्वय॒ इत्या॑ह । अश्वो॒ वै बृ॒हद्वयः॑ । अश्व॑मे॒वाव॑रुन्धे । कि स्वि॑दासीत्पिशङ्गि॒लेत्या॑ह । रात्रि॒र्वै पि॑शङ्गि॒ला । रात्रि॑मे॒वाव॑रुन्धे । कि स्वि॑दासीत्पिलिप्पि॒लेत्या॑ह । श्रीर्वै पि॑लिप्पि॒ला । अ॒न्नाद्य॑मे॒वाव॑रुन्धे ।। 22 ।। 3.9.5.4 कस्स्वि॑देका॒की च॑र॒तीत्या॑ह । अ॒सौ वा आ॑दि॒त्य ए॑का॒की च॑रति । तेज॑ ए॒वाव॑रुन्धे । क उ॑स्विज्जायते॒ पुन॒रित्या॑ह । च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑ । आयु॑रे॒वाव॑रुन्धे । कि स्वि॑द्धि॒मस्य॑ भेष॒जमित्या॑ह । अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम् । ब्र॒ह्म॒व॒र्च॒समेवाव॑रुन्धे । कि स्वि॑दा॒वप॑नं म॒हदित्या॑ह ।। 23 ।। 3.9.5.5 अ॒यव्वैँ लो॒क आ॒वप॑नम्म॒हत् । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्या इत्या॑ह । वेदि॒र्वै परोऽन्त॑ पृथि॒व्याः । वेदि॑मे॒वाव॑रुन्धे । पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒मित्या॑ह । य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑ । य॒ज्ञमे॒वाव॑रुन्धे । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒ इत्या॑ह । सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑ । सो॒म॒पी॒थमे॒वाव॑रुन्धे । पृ॒च्छामि॑ वा॒च प॑र॒मं व्यो॑मेत्या॑ह । ब्रह्म॒ वै वा॒च प॑र॒मं व्यो॑म । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ।। 24 ।। 3.9.6.0 ह्नु॒व॒ते॒ क्रा॒म॒न्त्यू॒र्ण्वा॒था॒मित्या॑ह॒ जग॒तीत्या॑ह कल्पय॒त्येक॑ञ्च ।। 6 ।। 3.9.6.1 अप॒ वा ए॒तस्मात्प्रा॒णा क्रा॑मन्ति । योऽश्वमे॒धेन॒ यज॑ते । प्रा॒णाय॒ स्वाहा व्या॒नाय॒ स्वाहेति॑ संज्ञ॒प्यमा॑न॒ आहु॑तीर्जुहोति । प्रा॒णाने॒वास्मि॑न्दधाति । नास्मात्प्रा॒णा अप॑क्रामन्ति । अव॑न्ती॒स्स्थाव॑न्तीस्त्वाऽवन्तु । प्रि॒यन्त्वा प्रि॒याणाम् । वर्‌षि॑ष्ठ॒माप्या॑नाम् । नि॒धी॒नान्त्वा॑ निधि॒पति॑ हवामहे वसो म॒मेत्या॑ह । अपै॒वास्मै॒ तद्ध्नु॑वते ।। 25 ।। 3.9.6.2 अथो॑ धु॒वन्त्ये॒वैनम् । अथो॒ न्ये॑वास्मै ह्नुवते । त्रि परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैन॑ल्लोँ॒केभ्यो॑ धुवते । त्रि पुन॒ परि॑यन्ति । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैन॑न्धुवते । अप॒ वा ए॒तेभ्य॑ प्रा॒णा क्रा॑मन्ति ।। 26 ।। 3.9.6.3 ये य॒ज्ञे धुव॑नन्त॒न्वते । न॒व॒कृत्व॒ परि॑यन्ति । नव॒ वै पुरु॑षे प्रा॒णाः । प्रा॒णाने॒वात्मन्द॑धते । नैभ्य॑ प्रा॒णा अप॑क्रामन्ति । अम्बे॒ अम्बा॒ल्यम्बि॑क॒ इति॒ पत्नी॑मु॒दान॑यति । अह्व॑तै॒वैनाम् । सुभ॑गे॒ काम्पी॑लवासि॒नीत्या॑ह । तप॑ ए॒वैना॒मुप॑नयति । सु॒व॒र्गे लो॒के संप्रोर्ण्वा॑था॒मित्या॑ह ।। 27 ।। 3.9.6.4 सु॒व॒र्गमे॒वैनाल्लोँ॒कङ्ग॑मयति । आऽहम॑जानि गर्भ॒धमा त्वम॑जाऽसि गर्भ॒धमित्या॑ह । प्र॒जा वै प॒शवो॒ गर्भः॑ । प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते । दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गल्लोँ॒कं न प्राजा॑नन्न् । तमश्व॒ प्राजा॑नात् । यथ्सू॒चीभि॑रसिप॒थान्क॒ल्पय॑न्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञात्यै । गा॒य॒त्री त्रि॒ष्टुब्जग॒तीत्या॑ह ।। 28 ।। 3.9.6.5 य॒था॒य॒जुरे॒वैतत् । त्र॒य्यस्सू॒च्यो॑ भवन्ति । अ॒य॒स्मय्यो॑ रज॒ता हरि॑ण्यः । अ॒स्य वै लो॒कस्य॑ रू॒पम॑य॒स्मय्यः॑ । अ॒न्तरि॑ख्षस्य रज॒ताः । दि॒वो हरि॑ण्यः । दिशो॒ वा अ॑य॒स्मय्यः॑ । अ॒वा॒न्त॒र॒दि॒शा र॑ज॒ताः । ऊ॒र्ध्वा हरि॑ण्यः । दिश॑ ए॒वास्मै॑ कल्पयति । कस्त्वा छ्यति॒ कस्त्वा॒ विशा॒स्तीत्या॒हाहि॑सायै ।। 29 ।। 3.9.7.0 रा॒ष्ट्रस्य॒ मध्यं॒ पुष्य॑ति॒ गभो॑ रुन्धे दधते च॒त्वारि॑ च ।। 7 ।। 3.9.7.1 अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति । योऽश्वमे॒धेन॒ यज॑ते । ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यता॒दित्या॑ह । श्रीर्वै रा॒ष्ट्रम॑श्वमे॒धः । श्रिय॑मे॒वास्मै॑ रा॒ष्ट्रमू॒र्ध्वमुच्छ्र॑यति । वे॒णु॒भा॒रङ्गि॒रावि॒वेत्या॑ह । रा॒ष्ट्रव्वैँ भा॒रः । रा॒ष्ट्रमे॒वास्मै॒ पर्यू॑हति । अथास्या॒ मध्य॑मेधता॒मित्या॑ह । श्रीर्वै रा॒ष्ट्रस्य॒ मध्यम् ।। 30 ।। 3.9.7.2 श्रिय॑मे॒वाव॑रुन्धे । शी॒ते वाते॑ पु॒नन्नि॒वेत्या॑ह । ख्षेमो॒ वै रा॒ष्ट्रस्य॑ शी॒तो वातः॑ । ख्षेम॑मे॒वाव॑रुन्धे । यद्ध॑रि॒णी यव॒मत्तीत्या॑ह । विड्वै ह॑रि॒णी । रा॒ष्ट्रय्यँवः॑ । विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । न पु॒ष्टं प॒शु म॑न्यत॒ इत्या॑ह । तस्मा॒द्राजा॑ प॒शून्न पुष्य॑ति ।। 31 ।। 3.9.7.3 शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनाय॒तीत्या॑ह । तस्माद्वैशीपु॒त्रन्नाभिषि॑ञ्चन्ते । इ॒यय्यँ॒का श॑कुन्ति॒केत्या॑ह । विड्वै श॑कुन्ति॒का । रा॒ष्ट्रम॑श्वमे॒धः । विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । आ॒हल॒मिति॒ सर्प॒तीत्या॑ह । तस्माद्रा॒ष्ट्राय॒ विश॑स्सर्पन्ति । आह॑तङ्ग॒भे पस॒ इत्या॑ह । विड्वै गभः॑ ।। 32 ।। 3.9.7.4 रा॒ष्ट्रं पसः॑ । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति । तस्माद्रा॒ष्ट्रव्विँश॒ङ्घातु॑कम् । मा॒ता च॑ ते पि॒ता च॑ त॒ इत्या॑ह । इ॒यव्वैँ मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैनं॒ परि॑ददाति । अग्र॑व्वृँ॒ख्षस्य॑ रोहत॒ इत्या॑ह । श्रीर्वै वृ॒ख्षस्याग्रम् । श्रि॒यमे॒वाव॑ रुन्धे ।। 33 ।। 3.9.7.5 प्रसु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तसय॒दित्या॑ह । विड्वै गभः॑ । रा॒ष्ट्रम्मु॒ष्टिः । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति । तस्माद्रा॒ष्ट्रव्विँश॒ङ्घातु॑कम् । अप॒ वा ए॒तेभ्य॑ प्रा॒णा क्रा॑मन्ति । ये य॒ज्ञेऽपू॑त॒व्वँद॑न्ति । द॒धि॒क्राव्ण्णो॑ अकारिष॒मिति॑ सुरभि॒मती॒मृच॑व्वँदन्ति । प्रा॒णा वै सु॑र॒भयः॑ । प्रा॒णाने॒वात्मन्द॑धते । नैभ्य॑ प्रा॒णा अप॑क्रामन्ति । आपो॒ हि ष्ठा म॑यो॒भुव॒ इत्य॒द्भिर्मार्जयन्ते । आपो॒ वै सर्वा॑ दे॒वताः । दे॒वता॑भिरे॒वात्मानं॑ पवयन्ते ।। 34 ।। 3.9.8.0 ल॒भ॒ते॒ गामाल॑भते पर॒मोऽष्टौ च॑ ।। 8 ।। 3.9.8.1 प्र॒जाप॑ति प्र॒जास्सृ॒ष्ट्वा प्रे॒णाऽनु॒ प्रावि॑शत् । ताभ्य॒ पुन॒स्सम्भ॑वितु॒न्नाश॑क्नोत् । सोऽब्रवीत् । ऋ॒ध्नव॒दिथ्सः । यो मे॒त पुन॑स्स॒म्भर॒दिति॑ । तन्दे॒वा अ॑श्वमे॒धेनै॒व सम॑भरन्न् । ततो॒ वै त आर्ध्नुवन्न् । योऽश्वमे॒धेन॒ यज॑ते । प्र॒जाप॑तिमे॒व सम्भ॑रत्यृ॒ध्नोति॑ । पुरु॑ष॒माल॑भते ।। 35 ।। 3.9.8.2 वै॒रा॒जो वै पुरु॑षः । वि॒राज॑मे॒वाल॑भते । अथो॒ अन्नं॒ वै वि॒राट् । अन्न॑मे॒वाव॑रुन्धे । अश्व॒माल॑भते । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑तिमे॒वाल॑भते । अथो॒ श्रीर्वा एक॑शफम् । श्रिय॑मे॒वाव॑रुन्धे । गामाल॑भते ।। 36 ।। 3.9.8.3 य॒ज्ञो वै गौः । य॒ज्ञमे॒वाल॑भते । अथो॒ अन्न॒व्वैँ गौः । अन्न॑मे॒वाव॑रुन्धे । अ॒जा॒वी आल॑भते भू॒म्ने । अथो॒ पुष्टि॒र्वै भू॒मा । पुष्टि॑मे॒वाव॑रुन्धे । पर्य॑ग्निकृतं॒ पुरु॑षञ्चार॒ण्याश्चोथ्सृ॑ज॒न्त्यहि॑सायै । उ॒भौ वा ए॒तौ प॒शू आल॑भ्येते । यश्चा॑व॒मो यश्च॑ पर॒मः । तेऽस्यो॒भये॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता भवन्ति । नैन॑न्द॒ङ्ख्ष्णव॑ प॒शवो॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता हिसन्ति । योऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ।। 37 ।। 3.9.9.0 ल॒भ्य॒न्ते॒ ल॒भ॒ते॒ त्वा॒ष्ट्रान्प॒शूनाल॑भते॒ऽष्टौ च॑ ।। 9 ।। 3.9.9.1 प्र॒थ॒मेन॒ वा ए॒ष स्तोमे॑न रा॒ध्वा । च॒तु॒ष्टो॒मेन॑ कृ॒तेनाया॑ना॒मुत्त॒रेहन्न्॑ । ए॒क॒वि॒॒शे प्र॑ति॒ष्ठायां॒ प्रति॑ तिष्ठति । ए॒क॒वि॒॒शात्प्र॑ति॒ष्ठाया॑ ऋ॒तून॒न्वारो॑हति । ऋ॒तवो॒ वै पृ॒ष्ठानि॑ । ऋ॒तव॑स्सव्वँथ्स॒रः । ऋ॒तुष्वे॒व स॑व्वँथ्स॒रे प्र॑ति॒ष्ठाय॑ । दे॒वता॑ अ॒भ्यारो॑हति । शक्व॑रय पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दः॑ । अ॒न्येऽन्ये॒ वा ए॒ते प॒शव॒ आल॑भ्यन्ते ।। 38 ।। 3.9.9.2 उ॒तेव॑ ग्रा॒म्याः । उ॒तेवा॑र॒ण्याः । अह॑रे॒व रू॒पेण॒ सम॑र्धयति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्‌ह्रि॑यते । तदा॑हुः । अप॑शवो॒ वा ए॒ते । यद॑जा॒वय॑श्चार॒ण्याश्च॑ । ए॒ते वै सर्वे॑ प॒शवः॑ । यद्ग॒व्या इति॑ । ग॒व्यान्प॒शूनु॑त्त॒मेऽह॒न्नाल॑भते ।। 39 ।। 3.9.9.3 तेनै॒वोभयान्प॒शूनव॑रुन्धे । प्रा॒जा॒प॒त्या भ॑वन्ति । अन॑भिजितस्या॒भिजि॑त्यै । सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्ति । अ॒न्त॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे । सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॒विति॑ द्व॒न्द्विन॑ प॒शूनाल॑भते । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । प॒शुभि॒र्वा ए॒ष व्यृ॑ध्यते । योऽश्वमे॒धेन॒ यज॑ते । छ॒ग॒लङ्क॒ल्माष॑ङ्किकिदी॒विव्विँ॑दी॒गय॒मिति॑ त्वा॒ष्ट्रान्प॒शूना ल॑भते । प॒शुभि॑रे॒वात्मान॒॒ सम॑र्धयति । ऋ॒तुभि॒र्वा ए॒ष व्यृ॑ध्यते । योऽश्वमे॒धेन॒ यज॑ते । पि॒शङ्गा॒स्त्रयो॑ वास॒न्ता इत्यृ॑तुप॒शूनाल॑भते । ऋ॒तुभि॑रे॒वात्मान॒॒ सम॑र्धयति । आ वा ए॒ष प॒शुभ्यो॑ वृश्च्यते । योऽश्वमे॒धेन॒ यज॑ते । पर्य॑ग्निकृता॒ उथ्सृ॑ज॒न्त्यनाव्रस्काय ।। 40 ।। 3.9.10.0 प॒रि॒यज॑ति॒ षट्च॑ ।। 10 ।। 3.9.10.1 प्र॒जाप॑तिरकामयत म॒हान॑न्ना॒दस्स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत् । ताव॑गृह्णीत । ततो॒ वै स म॒हान॑न्ना॒दो॑ऽभवत् । य का॒मये॑त म॒हान॑न्ना॒दस्स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत । म॒हाने॒वान्ना॒दो भ॑वति । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा । राजा॑ महि॒मा । यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ परि॒यज॑ति । यज॑मानमे॒व रा॒ज्येनो॑भ॒यत॒ परि॑गृह्णाति । पु॒रस्ताथ्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः । उ॒परि॑ष्टाथ्स्वाहाकारा अ॒न्ये । ते वा ए॒तेऽश्व॑ ए॒व मेध्य॑ उ॒भयेऽव॑रुध्यन्ते । यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ परि॒यज॑ति । ताने॒वोभयान्प्रीणाति ।। 41 ।। 3.9.11.0 द॒धा॒त्यभ॑वन्मन्यते प्र॒जा अ॒न्तर्द॑धाति॒ द्वे च॑ ।।11।। 3.9.11.1 वै॒श्व॒दे॒वो वा अश्वः॑ । तय्यँत्प्रा॑जाप॒त्यङ्कु॒र्यात् । या दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ व्य॑र्धयेत् । दे॒वताभ्यस्स॒मद॑न्दध्यात् । स्ते॒गान्दष्ट्राभ्याम्म॒ण्डूका॒ञ्जम्भ्ये॑भि॒रिति॑ । आज्य॑मव॒दान॑ङ्कृ॒त्वा प्र॑तिस॒ङ्ख्याय॒माहु॑तीर्जुहोति । या ए॒व दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ सम॑र्धयति । न दे॒वताभ्यस्स॒मद॑न्दधाति ।। 42 ।। 3.9.11.2 चतु॑र्दशै॒तान॑नुवा॒काञ्जु॑हो॒त्यन॑न्तरित्यै । प्र॒या॒साय॒ स्वाहेति॑ पञ्चद॒शम् । पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अ॒र्ध॒मा॒स॒शस्स॑व्वँथ्स॒र आप्यते । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । तेऽब्रुवन्न॒ग्नय॑स्स्विष्ट॒कृतः॑ । अश्व॑स्य॒ मेध्य॑स्य व॒यमु॑द्धा॒रमुद्ध॑रामहै । अथै॒तान॒भि भ॑वा॒मेति॑ । ते लोहि॑त॒मुद॑हरन्त । ततो॑ दे॒वा अभ॑वन्न् ।। 43 ।। 3.9.11.3 पराऽसु॑राः । यथ्स्वि॑ष्ट॒कृद्भ्यो॒ लोहि॑तञ्जु॒होति॒ भ्रातृ॑व्याभिभूत्यै । भव॑त्या॒त्मना । पराऽस्य॒ भ्रातृ॑व्यो भवति । गो॒मृ॒ग॒क॒ण्ठेन॑ प्रथ॒मामाहु॑तिञ्जुहोति । प॒शवो॒ वै गो॑मृ॒गः । रु॒द्रोऽग्निस्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्‌हू॒यते । न तत्र॑ रु॒द्र प॒शून॒भिम॑न्यते ।। 44 ।। 3.9.11.4 अ॒श्व॒श॒फेन॑ द्वि॒तीया॒माहु॑तिञ्जुहोति । प॒शवो॒ वा एक॑शफम् । रु॒द्रोऽग्निस्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्‌हू॒यते । न तत्र॑ रु॒द्र प॒शून॒भिम॑न्यते । अ॒य॒स्मये॑न कम॒ण्डलु॑ना तृ॒तीयाम् । आहु॑तिञ्जुहोत्याया॒स्यो॑ वै प्र॒जाः । रु॒द्रोऽग्निस्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प्र॒जा अ॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्‌हू॒यते । न तत्र॑ रु॒द्र प्र॒जा अ॒भिम॑न्यते ।। 45 ।। 3.9.12.0 बृ॒ह॒त्य॑र्धयति स्थापयति॒ पञ्च॑ च ।। 12 ।। 3.9.12.1 अश्व॑स्य॒ वा आल॑ब्धस्य॒ मेध॒ उद॑क्रामत् । तद॑श्वस्तो॒मीय॑मभवत् । यद॑श्वस्तो॒मीय॑ञ्जु॒होति॑ । समे॑धमे॒वैन॒माल॑भते । आज्ये॑न जुहोति । मेधो॒ वा आज्यम् । मेधोऽश्वस्तो॒मीयम् । मेधे॑नै॒वास्मि॒न्मेध॑न्दधाति । षट्त्रि॑शतञ्जुहोति । षट्त्रि॑शदख्षरा बृह॒ती ।। 46 ।। 3.9.12.2 बार्‌ह॑ता प॒शवः॑ । सा प॑शू॒नाम्मात्रा । प॒शूने॒व मात्र॑या॒ सम॑र्धयति । तायद्भूय॑सीर्वा॒ कनी॑यसीर्वा जुहु॒यात् । प॒शून्मात्र॑या॒ व्य॑र्धयेत् । षट्त्रि॑शतञ्जुहोति । षट्त्रि॑शदख्षरा बृह॒ती । बार्‌ह॑ता प॒शवः॑ । सा प॑शू॒नाम्मात्रा । प॒शूने॒व मात्र॑या॒ सम॑र्धयति ।। 47 ।। 3.9.12.3 अ॒श्व॒स्तो॒मीय॑ हु॒त्वा द्वि॒पदा॑ जुहोति । द्वि॒पाद्वै पुरु॑षो॒ द्विप्र॑तिष्ठः । तदे॑नं प्रति॒ष्ठया॒ सम॑र्धयति । तदा॑हुः । अ॒श्व॒स्तो॒मीयं॒ पूर्व॑ होत॒व्याँ ३ न्द्वि॒पदाँ ३ इति॑ । अश्वो॒ वा अ॑श्वस्तो॒मीयम् । पुरु॑षो द्वि॒पदाः । अ॒श्व॒स्तो॒मीय॑ हु॒त्वा द्वि॒पदा॑ जुहोति । तस्माद्द्वि॒पाच्चतु॑ष्पादमत्ति । अथो द्वि॒पद्ये॒व चतु॑ष्पद॒ प्रति॑ष्ठायपति । द्वि॒पदा॑ हु॒त्वा । नान्यामुत्त॑रा॒माहु॑तिञ्जुहुयात् । यद॒न्यामुत्त॑रा॒माहु॑तिञ्जुहु॒यात् । प्र प्र॑ति॒ष्ठायाश्च्यवेत । द्वि॒पदा॑ अन्त॒तो जु॑होति॒ प्रति॑ष्ठित्यै ।। 48 ।। 3.9.13.0 भ॒व॒न्ति॒ धृत्या॑ एन॒मन्वि॑च्छ॒त्येक॑ञ्च ।। 13 ।। 3.9.13.1 प्र॒जाप॑तिरश्वमे॒धम॑सृजत । सोऽस्माथ्सृ॒ष्टोऽपाक्रामत् । तय्यँ॑ज्ञक्र॒तुभि॒रन्वैच्छत् । तय्यँ॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् । तमिष्टि॑भि॒रन्वैच्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् । यथ्स॑व्वँथ्स॒रमिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । सा॒वि॒त्रियो॑ भवन्ति ।। 49 ।। 3.9.13.2 इ॒यव्वैँ स॑वि॒ता । यो वा अ॒स्यान्नश्य॑ति॒ यो नि॒लय॑ते । अ॒स्याव्वाँव तव्विँ॑न्दन्ति । न वा इ॒माङ्कश्च॒नेत्या॑हुः । ति॒र्यङ्नोर्ध्वोत्ये॑तुमर्ह॒तीति॑ । यथ्सा॑वि॒त्रियो॒ भव॑न्ति । स॒वि॒तृप्र॑सूत ए॒वैन॑मिच्छति । ई॒श्व॒रो वा अश्व॒ प्रमु॑क्त॒ परां परा॒वत॒ङ्गन्तोः । यथ्सा॒यन्धृतीर्जु॒होति॑ । अश्व॑स्यै॒व यत्यै॒ धृत्यै ।। 50 ।। यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । यथ्सा॒यन्धृतीर्जु॒होति॑ । अश्व॑स्यै॒व यत्यै॒ धृत्यै । तस्माथ्सा॒यं प्र॒जा ख्षे॒म्या॑ भवन्ति । यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । तस्मा॒द्दिवा॑ नष्टै॒ष ए॑ति । यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते सा॒यन्धृतीर्जु॒होति॑ । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॒मन्वि॑च्छति । अथो॑ अहोरा॒त्राभ्या॑मे॒वास्मै॑ योगख्षे॒मङ्क॑ल्पयति ।। 51 ।। 3.9.14.0 गाये॑ताङ्क्रामेद्ब्राह्म॒णस्य॑ कल्पयतश्च॒त्वारि॑ च ।। 14 ।। 3.9.14.1 अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति । योऽश्वमे॒धेन॒ यज॑ते । ब्रा॒ह्म॒णौ वी॑णागा॒थिनौ॑ गायतः । श्रि॒या वा ए॒तद्रू॒पम् । यद्वीणा । श्रिय॑मे॒वास्मि॒न्तद्ध॑त्तः । य॒दा खलु॒ वै पुरु॑ष॒श्श्रिय॑मश्ञु॒ते । वीणाऽस्मै वाद्यते । तदा॑हुः । यदु॒भौ ब्राह्म॒णौ गाये॑ताम् ।। 52 ।। 3.9.14.2 प्र॒भ्रशु॑कास्मा॒च्छ्रीस्स्यात् । न वै ब्राह्म॒णे श्री र॑मत॒ इति॑ । ब्रा॒ह्म॒णोऽन्यो गायेत् । रा॒ज॒न्योऽन्यः । ब्रह्म॒ वै ब्राह्म॒णः । ख्ष॒त्र रा॑ज॒न्यः॑ । तथा॑ हास्य॒ ब्रह्म॑णा च ख्ष॒त्रेण॑ चोभ॒यत॒श्श्री परि॑गृहीता भवति । तदा॑हुः । यदु॒भौ दिवा॒ गाये॑ताम् । अपास्माद्रा॒ष्ट्रङ्क्रा॑मेत् ।। 53 ।। 3.9.14.3 न वै ब्रा॑ह्म॒णे रा॒ष्ट्र र॑मत॒ इति॑ । य॒दा खलु॒ वै राजा॑ का॒मय॑ते । अथ॑ ब्राह्म॒णञ्जि॑नाति । दिवा ब्राह्म॒णो गा॑येत् । नक्त॑ राज॒न्यः॑ । ब्रह्म॑णो॒ वै रू॒पमहः॑ । ख्ष॒त्रस्य॒ रात्रिः॑ । तथा॑ हास्य॒ ब्रह्म॑णा च ख्ष॒त्रेण॑ चोभ॒यतो॑ रा॒ष्ट्रं परि॑गृहीतम्भवति । इत्य॑ददा॒ इत्य॑यजथा॒ इत्य॑पच॒ इति॑ ब्राह्म॒णो गायेत् । इ॒ष्टा॒पू॒र्तव्वैँ ब्राह्म॒णस्य॑ ।। 54 ।। 3.9.14.4 इ॒ष्टा॒पू॒र्तेनै॒वैन॒॒ स सम॑र्धयति । इत्य॑जिना॒ इत्य॑युध्यथा॒ इत्य॒मु स॑ङ्ग्रा॒मम॑ह॒न्निति॑ राज॒न्यः॑ । यु॒द्धव्वैँ रा॑ज॒न्य॑स्य । यु॒द्धेनै॒वैन॒॒ स सम॑र्धयति । अकॢ॑प्ता॒ वा ए॒तस्य॒र्तव॒ इत्या॑हुः । योऽश्वमे॒धेन॒ यज॑त॒ इति॑ । ति॒स्रोऽन्यो गाय॑ति ति॒स्रोऽन्यः । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒वास्मै॑ कल्पयतः । ताभ्या॑ स॒॒स्थायाम् । अ॒नो॒यु॒क्ते च॑ श॒ते च॑ ददाति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।। 55 ।। 3.9.15.0 लो॒के मृ॒त्युर्जु॒होति॑ मू॒र्धञ्जु॑होति॒ द्वे च॑ ।। 15 ।। 3.9.15.1 सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒ऽन्वाय॑त्ताः । तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् । लो॒केलो॑क एनं मृ॒त्युर्वि॑न्देत् । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति । लो॒काल्लो॑कादे॒व मृ॒त्युमव॑यजते । नैन॑ल्लोँ॒केलो॑के मृ॒त्युर्वि॑न्दति । यद॒मुष्मै॒ स्वाहा॒ऽमुष्मै॒ स्वाहेति॒ जुह्व॑थ्स॒ञ्चख्षी॑त । ब॒हुं मृ॒त्युम॒मित्र॑ङ्कुर्वीत । मृ॒त्यवे॒ स्वाहेत्येक॑स्मा ए॒वैकाञ्जुहुयात् । एको॒ वा अ॒मुष्मि॑ल्लोँ॒के मृ॒त्युः ।। 56 ।। 3.9.15.2 अ॒श॒न॒या॒ मृ॒त्युरे॒व । तमे॒वामुष्मि॑ल्लोँ॒केऽव॑यजते । भ्रू॒ण॒ह॒त्यायै स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जुहोति । भ्रू॒ण॒ह॒त्यामे॒वाव॑ यजते । तदा॑हुः । यद्भ्रू॑णह॒त्या पा॒त्र्याऽथ॑ । कस्माद्य॒ज्ञेऽपि॑ क्रियत॒ इति॑ । अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः । भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑ । यद्भ्रू॑णह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जु॒होति॑ ।। 57 ।। 3.9.15.3 मृ॒त्युमे॒वाहु॑त्या तर्पयि॒त्वा प॑रि॒पाण॑ङ्कृ॒त्वा । भ्रू॒ण॒घ्ने भे॑ष॒जङ्क॑रोति । ए॒ता ह॒ वै मु॑ण्डि॒भ औ॑दन्य॒वः । भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिव्विँ॒दाञ्च॑कार । यो हा॒स्यापि॑ प्र॒जायां ब्राह्म॒ण हन्ति॑ । सर्व॑स्मै॒ तस्मै॑ भेष॒जङ्क॑रोति । जु॒म्ब॒काय॒ स्वाहेत्य॑वभृ॒थ उ॑त्त॒मामाहु॑तिञ्जुहोति । वरु॑णो॒ वै जु॑म्ब॒कः । अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते । ख॒ल॒तेर्वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒ख्षस्य॑ मू॒र्धञ्जु॑होति । ए॒तद्वै वरु॑णस्य रू॒पम् । रू॒पेणै॒व वरु॑ण॒मव॑यजते ।। 58 ।। 3.9.16.0 अधि॑पतय॒ इत्या॑हा॒भि॑जित्या ऐन्द्रा॒ग्नो भव॑ति रुन्ध॒ एक॑ञ्च ।। 16 ।। 3.9.16.1 वा॒रु॒णो वा अश्वः॑ । तन्दे॒वत॑या॒ व्य॑र्धयति । यत्प्रा॑जाप॒त्यङ्क॒रोति॑ । नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येत्या॑ह । वा॒रु॒णो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति । नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति । नमोऽधि॑पतय॒ इत्या॑ह ।। 59 ।। 3.9.16.2 धर्मो॒ वा अधि॑पतिः । धर्म॑मे॒वाव॑रुन्धे । अधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हं प्र॒जानाम्भूयास॒मित्या॑ह । अधि॑पतिमे॒वैन॑ समा॒नानाङ्करोति । मान्धे॑हि॒ मयि॑ धे॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशास्ते । उ॒पाकृ॑ताय॒ स्वाहेत्यु॒पाकृ॑ते जुहोति । आल॑ब्धाय॒ स्वाहेति॒ नियु॑क्ते जुहोति । हु॒ताय॒ स्वाहेति॑ हु॒ते जु॑होति । ए॒षाल्लोँ॒काना॑म॒भिजि॑त्यै ।। 60 ।। 3.9.16.3 प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॑श्च्यवते । योऽश्वमे॒धेन॒ यज॑ते । आ॒ग्ने॒यमैन्द्रा॒ग्नमाश्वि॒नम् । तान्प॒शूल॑भते॒ प्रति॑ष्ठित्यै । यदाग्ने॒यो भव॑ति । अ॒ग्निस्सर्वा॑ दे॒वताः । दे॒वता॑ ए॒वाव॑रुन्धे । ब्रह्म॒ वा अ॒ग्निः । ख्ष॒त्रमिन्द्रः॑ । यदैन्द्रा॒ग्नो भव॑ति ।। 61 ।। 3.9.16.4 ब्र॒ह्म॒ख्ष॒त्रे ए॒वाव॑रुन्धे । यदाश्वि॒नो भव॑ति । आ॒शिषा॒मव॑रुद्ध्यै । त्रयो॑ भवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति । अ॒ग्नयेऽ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इति॒ दश॑हविष॒मिष्टि॒न्निर्व॑पति । दशाख्षरा वि॒राट् । अन्न॑व्विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तस॒ इति॑ याज्यानुवा॒क्या॑ भवन्ति सर्व॒त्वाय॑ ।।62 ।। 3.9.17.0 वि॒न्दत्यश्लो॑णो है॒व भ॑वत्यधी॒यादृ॑ध्यते॒ गर्भै॑रे॒वैन॒॒ स सम॑र्धयति॒ द्वे च॑ ।। 17 ।। 3.9.17.1 यद्यश्व॑मुप॒तप॑द्वि॒न्देत् । आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत् । सौ॒म्यञ्च॒रुम् । सा॒वि॒त्रम॒ष्टाक॑पालम् । यदाग्ने॒यो भव॑ति । अ॒ग्निस्सर्वा॑ दे॒वताः । दे॒वता॑भिरे॒वैन॑म्भिषज्यति । यथ्सौ॒म्यो भव॑ति । सोमो॒ वा ओष॑धीना॒॒ राजा । याभ्य॑ ए॒वैनव्विँ॒न्दति॑ ।। 63 ।। 3.9.17.2 ताभि॑रे॒वैन॑म्भिषज्यति । यथ्सा॑वि॒त्रो भव॑ति । स॒वि॒तृप्र॑सूत ए॒वैन॑म्भिषज्यति । ए॒ताभि॑रे॒वैन॑न्दे॒वता॑भिर्भिषज्यति । अ॒ग॒दो है॒व भ॑वति । पौ॒ष्णञ्च॒रुन्निर्व॑पेत् । यदि॑ श्लो॒णस्स्यात् । पू॒षा वै श्लौण्य॑स्य भि॒षक् । स ए॒वैन॑म्भिषज्यति । अश्लो॑णो है॒व भ॑वति ।। 64 ।। 3.9.17.3 रौ॒द्रञ्च॒रुन्निर्व॑पेत् । यदि॑ मह॒ती दे॒वता॑ऽभि॒मन्ये॑त । ए॒त॒द्दे॒व॒त्यो॑ वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या भिषज्यति । अ॒ग॒दो है॒व भ॑वति । वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेन्मृगाख॒रे यदि॒ नागच्छेत् । इ॒यव्वाँ अ॒ग्निर्वैश्वान॒रः । इ॒यमे॒वैन॑म॒र्चिभ्यां परि॒रोध॒मान॑यति । आहै॒व सुत्य॒मह॑र्गच्छति । यद्य॑धी॒यात् ।। 65 ।। 3.9.17.4 अ॒ग्नयेऽ॑हो॒मुचे॒ऽष्टाक॑पालः । सौ॒र्यं पयः॑ । वा॒य॒व्य॑ आज्य॑भागः । यज॑मानो॒ वा अश्वः॑ । अह॑सा॒ वा ए॒ष गृ॑ही॒तः । यस्याश्वो॒ मेधा॑य॒ प्रोख्षि॑तो॒ऽध्येति॑ । यद॑हो॒मुचे॑ नि॒र्वप॑ति । अह॑स ए॒व तेन॑ मुच्यते । यज॑मानो॒ वा अश्वः॑ । रेत॑सा॒ वा ए॒ष व्यृ॑ध्यते ।। 66 ।। 3.9.17.5 यस्याश्वो॒ मेधा॑य॒ प्रोख्षि॑तो॒ऽध्येति॑ । सौ॒र्य रेतः॑ । यथ्सौ॒र्यं पयो॒ भव॑ति । रेत॑सै॒वैन॒॒ स सम॑र्धयति । यज॑मानो॒ वा अश्वः॑ । गर्भै॒र्वा ए॒ष व्यृ॑ध्यते । यस्याश्वो॒ मेधा॑य॒ प्रोख्षि॑तो॒ऽध्येति॑ । वा॒य॒व्या॑ गर्भाः । यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति । गर्भै॑रे॒वैन॒ स सम॑र्धयति । अथो॒ यस्यै॒षाऽश्व॑मे॒धे प्राय॑श्चित्ति क्रि॒यते । इ॒ष्ट्वा वसी॑यान्भवति ।। 67 ।। 3.9.18.0 आ॒प्य॒ते॒ स॒व्वँ॒थ्स॒र एक॑ञ्च ।। 18 ।। 3.9.18.1 तदा॑हुः । द्वाद॑श ब्रह्मौद॒नान्थ्सस्थि॑ते॒ निर्व॑पेत् । द्वा॒द॒शभि॒र्वेष्टि॑भिर्यजे॒तेति॑ । यदिष्टि॑भि॒र्यजे॑त । उ॒प॒नामु॑क एनय्यँ॒ज्ञस्स्यात् । पापी॑या॒॒स्तु स्यात् । आ॒प्तानि॒ वा ए॒तस्य॒ छन्दा॑सि । य ई॑जा॒नः । तानि॒ क ए॒ताव॑दाशु॒ पुन॒ प्रयु॑ञ्जी॒तेति॑ । सर्वा॒ वै सस्थि॑ते य॒ज्ञे वागाप्यते ।। 68 ।। 3.9.18.2 साप्ता भ॑वति या॒तयाम्नी । क्रू॒रीकृ॑तेव॒ हि भव॒त्यरु॑ष्कृता । सा न पुन॑ प्र॒युज्येत्या॑हुः । द्वाद॑शै॒व ब्र॑ह्मौद॒नान्थ्सस्थि॑ते॒ निर्व॑पेत् । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । य॒ज्ञ प्र॒जाप॑तिः । उ॒प॒नामु॑क एनय्यँ॒ज्ञो भ॑वति । न पापी॑यान्भवति । द्वाद॑श भवन्ति । द्वाद॑श॒मासास्सव्वँथ्स॒रः । स॒व्वँ॒थ्स॒र ए॒व प्रति॑तिष्ठति ।। 69 ।। 3.9.19.0 पय॑स्वा॒न्नाम॑ य॒ज्ञः प्रति॑ष्ठितम्भवति॒ यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते॒ षट्च॑ ।। 19 ।। (ए॒ष वै विभू प्र॒भूरूर्ज॑स्वा॒न्पय॑स्वा॒न् विधृ॑तो॒ व्यावृ॑त्त॒प्रति॑ष्ठितस्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑तिव्या॒धी दी॒र्घ कॢ॒प्तो द्वाद॑श ।। ) 3.9.19.1 ए॒ष वै वि॒भूर्नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॑ वि॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै प्र॒भूर्नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॑ प्र॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वा ऊर्ज॑स्वा॒न्नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्रोर्ज॑स्वद्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै पय॑स्वा॒न्नाम॑ य॒ज्ञः ।। 70 ।। 3.9.19.2 सर्व॑ ह॒ वै तत्र॒ पय॑स्वद्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै विधृ॑तो॒ नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॒ विधृ॑तम्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै व्यावृ॑त्तो॒ नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॒ व्यावृ॑त्तम्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै प्रति॑ष्ठितो॒ नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॒ प्रति॑ष्ठितम्भवति ।। 71 ।। 3.9.19.3 यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै ते॑ज॒स्वी नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॑ तेज॒स्वि भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै ब्र॑ह्मवर्च॒सी नाम॑ य॒ज्ञः । आ ह॒ तत्र॑ ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वा अ॑तिव्या॒धी नाम॑ य॒ज्ञः । आ ह॒ वै तत्र॑ राज॒न्यो॑ऽतिव्या॒धी जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै दी॒र्घो नाम॑ य॒ज्ञः । दी॒र्घायु॑षो ह॒ वै तत्र॑ मनु॒ष्या॑ भवन्ति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै कॢ॒प्तो नाम॑ य॒ज्ञः । कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगख्षे॒मः । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।। 72 ।। 3.9.20.0 अव॑रुध्या आप्नोत्य॒ष्टौ च॑ ।। 20 ।। 3.9.20.1 ता॒र्प्येणाश्व॒॒ संज्ञ॑पयन्ति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैन॒॒ सम॑र्धयन्ति । या॒मेन॒ साम्ना प्रस्तो॒ताऽनूप॑तिष्ठते । य॒म॒लो॒कमे॒वैन॑ङ्गमयति । ता॒र्प्ये च॑ कृत्यधीवा॒से चाश्व॒॒ संज्ञ॑पयन्ति । ए॒तद्वै प॑शू॒ना रू॒पम् । रू॒पेणै॒व प॒शूनव॑रुन्धे । हि॒र॒ण्य॒क॒शि॒पु भ॑वति । तेज॒सोऽव॑रुद्ध्यै ।। 73 ।। 3.9.20.2 रु॒क्मो भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै । अश्वो॑ भवति । प्र॒जाप॑ते॒राप्त्यै । अ॒स्य वै लो॒कस्य॑ रू॒पन्ता॒र्प्यम् । अ॒न्तरि॑ख्षस्य कृत्यधीवा॒सः । दि॒वो हि॑रण्यकशि॒पु । आ॒दि॒त्यस्य॑ रु॒क्मः । प्र॒जाप॑ते॒रश्वः॑ । इ॒ममे॒व लो॒कन्ता॒र्प्येणाप्तोति ।। 74 ।। 3.9.20.3 अ॒न्तरि॑ख्षङ्कृत्यधीवा॒सेन॑ । दिव॑ हिरण्यकशि॒पुना । आ॒दि॒त्य रु॒क्मेण॑ । अश्वे॑नै॒व मेध्ये॑न प्र॒जाप॑ते॒स्सायु॑ज्य सलो॒कता॑माप्नोति । ए॒तासा॑मे॒व दे॒वता॑ना॒॒ सायु॑ज्यम् । सा॒र्ष्टिता॑ समानलो॒कता॑माप्नोति । योऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ।। 75 ।। 3.9.21.0 नाम॑ करोति॒ सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नञ्च॒त्वारि॑ च ।। 21 ।। 3.9.21.1 आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒केऽस्पर्धन्त । तेऽङ्गि॑रस आदि॒त्येभ्यः॑ । अ॒मुमा॑दि॒त्यमश्व॑ श्वे॒तम्भू॒तन्दख्षि॑णामनयन्न् । तेऽब्रुवन्न् । यन्नोनेष्ट । स वर्यो॑ भू॒दिति॑ । तस्मा॒दश्व॒ सव॒र्येत्याह्व॑यन्ति । तस्माद्य॒ज्ञे वरो॑ दीयते । यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्वो॒ नाम॑ ।। 76 ।। 3.9.21.2 यच्छ्वय॒दरु॒रासीत् । तस्मा॒दर्वा॒ नाम॑ । यथ्स॒द्यो वाजान्थ्स॒मज॑यत् । तस्माद्वा॒जी नाम॑ । यदसु॑राणाल्लोँ॒कानाद॑त्त । तस्मा॑दादि॒त्यो नाम॑ । अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् । सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नम् । यद॑श्वमे॒धेऽग्नौ चित्य॑ उत्तरवे॒दिमु॑प॒वप॑ति । योनि॑मन्तमे॒वैन॑मा॒यत॑नवन्तङ्करोति ।। 77 ।। 3.9.21.3 योनि॑माना॒यत॑नवान्भवति । य ए॒वव्वेँद॑ । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वानाम् । यद॑र्काश्वमे॒धौ । प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे । ओजो॒ बल॒व्वाँ ए॒तौ दे॒वानाम् । यद॑र्काश्वमे॒धौ । ओजो॒ बल॑मे॒वाव॑रुन्धे । अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् । सूर्यो॒ग्नेर्योनि॑रा॒यत॑नम् । यद॑श्वमे॒धेऽग्नौ चित्य॑ उत्तरवे॒दिञ्चि॒नोति॑ । ताव॑र्काश्वमे॒धौ । अ॒र्का॒श्व॒मे॒धावे॒वाव॑रुन्धे । अथो॑ अर्काश्वमे॒धयो॑रे॒व प्रति॑तिष्ठति ।। 78 ।। 3.9.22.0 मेधोऽभ॑व॒द्यज॑त एति॒ वेद॑ ।। 22 ।। 3.9.22.1 प्र॒जाप॑ति॒व्वैँ दे॒वा पि॒तरम् । प॒शुम्भू॒तम्मेधा॒याल॑भन्त । तमा॒लभ्योपा॑वसन्न् । प्रा॒तर्यष्टास्मह॒ इति॑ । एक॒व्वाँ ए॒तद्दे॒वाना॒महः॑ । यथ्स॑व्वँथ्स॒रः । तस्मा॒दश्व॑ पु॒रस्ताथ्सव्वँथ्स॒र आल॑भ्यते । यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्वः॑ । यथ्स॒द्यो मेधोऽभ॑वत् ।। 79 ।। 3.9.22.2 तस्मा॑दश्वमे॒धः । वेदु॒कोऽश्व॑मा॒शुम्भ॑वति । य ए॒वव्वेँद॑ । यद्वै तत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्व॑ प्र॒जाप॑ते पशू॒नामनु॑रूपतमः । आऽस्य॑ पु॒त्र प्रति॑रूपो जायते । य ए॒वव्वेँद॑ । सर्वा॑णि भू॒तानि॑ स॒म्भृत्याल॑भते । समे॑नन्दे॒वास्तेज॑से ब्रह्मवर्च॒साय॑ भरन्ति । योऽश्वमे॒धेन॒ यज॑ते ।। 80 ।। 3.9.22.3 य उ॑ चैनमे॒वव्वेँद॑ । ए॒तद्वै तद्दे॒वा ए॒तान्दे॒वताम् । प॒शुम्भू॒तम्मेधा॒याल॑भन्त । य॒ज्ञमे॒व । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । का॒म॒प्रय्यँ॒ज्ञम॑कुर्वत । ते॑ऽमृत॒त्वम॑कामयन्त । ते॑ऽमृत॒त्वम॑गच्छन्न् । योऽश्वमे॒धेन॒ यज॑ते । दे॒वाना॑मे॒वाय॑नेनैति ।। 81 ।। 3.9.22.4 प्रा॒जा॒प॒त्येनै॒व य॒ज्ञेन॑ यजते काम॒प्रेण॑ । अपु॑नर्मारमे॒व ग॑च्छति । ए॒तस्य॒ वै रू॒पेण॑ पु॒रस्तात्प्राजाप॒त्यमृ॑ष॒भन्तू॑प॒रम्ब॑हुरू॒पमाल॑भते । सर्वे॑भ्य॒ कामेभ्यः । सर्व॒स्याप्त्यै । सर्व॑स्य॒ जित्यै । सर्व॑मे॒व तेनाप्नोति । सर्व॑ञ्जयति । योऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ।। 82 ।। 3.9.23.0 प॒दे अ॑ग्निहो॒त्रञ्जु॒होति॒ त्रीणि॑ च ।। 23 ।। 3.9.23.1 यो वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य॒ लोम॑ल्लोँमञ्जुहोति । अ॒हो॒रा॒त्रे वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी । यथ्सा॒यंप्रा॑तर्जु॒होति॑ । अश्व॑स्यै॒व मेध्य॑स्य॒ लोम॑ल्लोँमञ्जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑ल्लोँमञ्जुह्वति । यो वा अश्व॑स्य॒ मेध्य॑स्य प॒दे वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति । द॒र्॒श॒पू॒र्ण॒मा॒सौ वा अश्व॑स्य॒ मेध्य॑स्य प॒दे ।। 83 ।। 3.9.23.2 यद्द॑र्‌शपूर्णमा॒सौ यज॑ते । अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य प॒देप॑दे जुह्वति । यो वा अश्व॑स्य॒ मेध्य॑स्य वि॒वर्त॑न॒व्वेँद॑ । अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति । अ॒सौ वा आ॑दि॒त्योऽश्वः॑ । स आ॑हव॒नीय॒माग॑च्छति । तद्विव॑र्तते । यद॑ग्निहो॒त्रञ्जु॒होति॑ । अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अ॑श्वस्य॒ मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुह्वति ।। 84 ।।
[[वर्गः:यजुर्वेद]] ldtidz2z7a4z0fmogxk3d6crsu9gl4i 417814 417812 2026-07-16T05:47:45Z ~2026-39930-13 10591 417814 wikitext text/x-wiki
1.1.0.0 ब्रह्म॒ संध॑त्तं॒ कृत्ति॑का॒सूद्ध॑न्ति द्वाद॒शसु॑ प्र॒जाप॑तिर्वा॒चो दे॑वासु॒रास्तद॒ग्निर्नेद्घ॒र्मश्शिर॑ इ॒मे वै श॑मीग॒र्भात्प्र॒जाप॑ति॒स्स रि॑रिचा॒नस्स तप॒स्स आ॒त्मन्वी॒र्यं॑दश॑ ।। 10 ।। ब्रह्म॒ सन्ध॑त्तं॒ तौ दि॒व्यावथो॑ शं॒त्वाय॒ प्राच्ये॑षां॒ यदु॒पर्यु॑परि॒ यथ्स॒द्यस्सोऽश्वो॒ऽवारो॑ भू॒त्वा जग॑तीभि॒रशी॑तिः ।। 80 ।। ब्रह्म॒ सन्ध॑त्तमृ॒ध्नोत्ये॑नेन ।। हरिः॑ ओम् ।। कृष्णयजुर्ब्राह्मणे प्रथमाष्टके प्रथमप्रपाठकस्समाप्तः ।। 1.1.0.0 ।। श्रीरस्तु ।। ।। प्रथमाष्टके प्रथमप्रपाठक प्रारंभः ।। ।। हरिः ओम् ।। 1.1.1.0 न॒य॒न्त्व॒पा॒न सन्ध॑त्तं॒ तं मे॑ जिन्वतं प्रा॒णं य॒ज्ञाय॑ धत्तं॒ मानु॑षीर॒ग्निर्द्वे च॑ ।। 1 ।। [ब्रह्म॑ क्ष॒त्त्रं तदिष॒मूर्ज॑ र॒यिं पुष्टिं॑ प्र॒जां तां प॒शून्तान्थ्सन्ध॑त्तं॒ तत्प्रा॒णम॑पा॒नं व्या॒नं तं चक्षु॒श्श्रोत्रं॒ मन॒स्तद्वाचं॒ ताम् । इ॒षादि॒पञ्च॑के॒ वाचं॒ तां मे॑ प॒शून्थ्सन्ध॑त्तं॒ तान्मे प्रा॒णादि॒त्रित॑ये॒ तं मे॒ऽन्यत्र॒ तन्मे ।। 1.1.1.1 ब्रह्म॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । क्ष॒त्त्र सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । इष॒॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । ऊर्ज॒॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । र॒यि सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । पुष्टि॒॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । प्र॒जा सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । प॒शून्थ्सन्ध॑त्तं॒ तान्मे॑ जिन्वतम् । स्तु॒तो॑ऽसि॒ जन॑धाः । दे॒वास्त्वा॑ शुक्र॒पा प्रण॑यन्तु ।। 1 ।। 1.1.1.2१ सु॒वीरा प्र॒जा प्र॑ज॒नय॒न्परी॑हि । शु॒क्रश्शु॒क्रशो॑चिषा । स्तु॒तो॑ऽसि॒ जन॑धाः । दे॒वास्त्वा॑ मन्थि॒पा प्रण॑यन्तु । सु॒प्र॒जा प्र॒जा प्र॑ज॒नय॒न्परी॑हि । म॒न्थी म॒न्थिशो॑चिषा । सं॒ज॒ग्मा॒नौ दि॒व आपृ॑थि॒व्यायुः॑ । सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । प्रा॒ण सन्ध॑त्तं॒ तं मे॑ जिन्वतम् । अ॒पा॒न सन्ध॑त्तं॒ तं मे॑ जिन्वतम् ।। 2 ।। 1.1.1.3 व्या॒न सन्ध॑त्तं॒ तं मे॑ जिन्वतम् । चक्षु॒स्सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । श्रोत्र॒॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । मन॒स्सन्ध॑त्तं॒ तन्मे॑ जिन्वतम् । वाच॒॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम् । आयु॑स्स्थ॒ आयु॑र्मे धत्तम् । आयु॑र्य॒ज्ञाय॑ धत्तम् । आयु॑र्य॒ज्ञप॑तये धत्तम् । प्रा॒णस्स्थ॑ प्रा॒णं मे॑ धत्तम् । प्रा॒णं य॒ज्ञाय॑ धत्तम् ।। 3 ।। 1.1.1.4 प्रा॒णं य॒ज्ञप॑तये धत्तम् । चक्षु॑स्स्थ॒श्चक्षु॑र्मे धत्तम् । चक्षु॑र्य॒ज्ञाय॑ धत्तम् । चक्षु॑र्य॒ज्ञप॑तये धत्तम् । श्रोत्र॑ स्थ॒श्श्रोत्रं॑ मे धत्तम् । श्रोत्रं॑ य॒ज्ञाय॑ धत्तम् । श्रोत्रं॑ य॒ज्ञप॑तये धत्तम् । तौ दे॑वौ शुक्रामन्थिनौ । क॒ल्पय॑तं॒ दैवी॒र्विशः॑ । क॒ल्पय॑तं॒ मानु॑षीः ।। 4 ।। 1.1.1.5 इष॒मूर्ज॑म॒स्मासु॑ धत्तम् । प्रा॒णान्प॒शुषु॑ । प्र॒जां मयि॑ च॒ यज॑माने च । निर॑स्त॒श्शण्डः॑ । निर॑स्तो॒ मर्कः॑ । अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुना । शु॒क्रस्य॑ स॒मिद॑सि । म॒न्थिन॑स्स॒मिद॑सि । स प्र॑थ॒मस्संकृ॑तिर्वि॒श्वक॑र्मा । स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः । स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वान् । तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होमि ।। 5 ।। 1.1.2.0 खल्वा॑धिथ्सन्त॒ फल्गु॑न्योर॒ग्निमाद॑धीतासन्नपततामृतू॒नां वैश्य॑स्य॒र्तुरुत्त॑रे॒ फल्गु॑नी॒ षट्च॑ ।। 2 ।। 1.1.2.1 कृत्ति॑कास्व॒ग्निमाद॑धीत । ए॒तद्वा अ॒ग्नेर्नक्ष॑त्त्रम् । यत्कृत्ति॑काः । स्वाया॑मै॒वैनं॑ दे॒वता॑यामा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । मुखं॒ वा ए॒तन्नक्ष॑त्त्राणाम् । यत्कृत्ति॑काः । य कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते । मुख्य॑ ए॒व भ॑वति । अथो॒ खलु॑ ।। 6 ।। 1.1.2.2 अ॒ग्नि॒न॒क्ष॒त्त्रमित्यप॑चायन्ति । गृ॒हान् ह॒ दाहु॑को भवति । प्र॒जाप॑ती रोहि॒ण्याम॒ग्निम॑सृजत । तं दे॒वा रो॑हि॒ण्यामाद॑धत । ततो॒ वै ते सर्वा॒न्रोहा॑नरोहन्न् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व । सर्वा॒न्रोहान्रोहति । दे॒वा वै भ॒द्रास्सन्तो॒ऽग्निमाधि॑थ्सन्त ।। 7 ।। 1.1.2.3 तेषा॒मना॑हितो॒ऽग्निरासीत् । अथैभ्यो वा॒मं वस्वपाक्रामत् । ते पुन॑र्वस्वो॒राद॑धत । ततो॒ वै तान् वा॒मं वसू॒पाव॑र्तत । य पु॒राऽभ॒द्रस्सन्पापी॑या॒न्थ्स्यात् । स पुन॑र्वस्वोर॒ग्निमाद॑धीत । पुन॑रे॒वैनं॑ वा॒मं वसू॒पाव॑र्तते । भ॒द्रो भ॑वति । य का॒मये॑त॒ दानका॑मा मे प्र॒जास्स्यु॒रिति॑ । स पूर्व॑यो॒ फल्गु॑न्योर॒ग्निमाद॑धीत ।। 8 ।। 1.1.2.4 अ॒र्य॒म्णो वा ए॒तन्नक्ष॑त्त्रम् । यत्पूर्वे॒ फल्गु॑नी । अ॒र्य॒मेति॒ तमा॑हु॒र्यो ददा॑ति । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य का॒मये॑त भ॒गी स्या॒मिति॑ । स उत्त॑रयो॒ फल्गु॑न्योर॒ग्निमाद॑धीत । भग॑स्य॒ वा ए॒तन्नक्ष॑त्त्रम् । यदुत्त॑रे॒ फल्गु॑नी । भ॒ग्ये॑व भ॑वति । का॒ल॒क॒ञ्जा वै नामासु॑रा आसन्न् ।। 9 ।। 1.1.2.5 ते सु॑व॒र्गाय॑ लो॒काया॒ग्निम॑चिन्वत । पुरु॑ष॒ इष्ट॑का॒मुपा॑दधा॒त्पुरु॑ष॒ इष्ट॑काम् । स इन्द्रो ब्राह्म॒णो ब्रुवा॑ण॒ इष्ट॑का॒मुपा॑धत्त । ए॒षा मे॑ चि॒त्रा नामेति॑ । ते सु॑व॒र्गं लो॒कमा प्रारो॑हन्न् । स इन्द्र॒ इष्ट॑का॒मावृ॑हत् । तेऽवा॑कीर्यन्त । ये॑ऽवाकीर्यन्त । त ऊर्णा॒वभ॑योऽभवन्न् । द्वावुद॑पतताम् ।। 10 ।। 1.1.2.6 तौ दि॒व्यौ श्वाना॑वभवताम् । यो भ्रातृ॑व्यवा॒न्थ्स्यात् । स चि॒त्राया॑म॒ग्निमाद॑धीत । अ॒व॒कीर्यै॒व भ्रातृ॑व्यान् । ओजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्ध॑त्ते । व॒सन्ता ब्राह्म॒णोऽग्निमाद॑धीत । व॒स॒न्तो वै ब्राह्म॒णस्य॒र्तुः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । मुखं॒ वा ए॒तदृ॑तू॒नाम् ।। 11 ।। 1.1.2.7 यद्व॑स॒न्तः । यो व॒सन्ता॒ऽग्निमा॑ध॒त्ते । मुख्य॑ ए॒व भ॑वति । अथो॒ योनि॑मन्तमे॒वैनं॒ प्रजा॑त॒माध॑त्ते । ग्री॒ष्मे रा॑ज॒न्य॑ आद॑धीत । ग्री॒ष्मो वै रा॑ज॒न्य॑स्य॒र्तुः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । इ॒न्द्रि॒या॒वी भ॑वति । श॒रदि॒ वैश्य॒ आद॑धीत । श॒रद्वै वैश्य॑स्य॒र्तुः ।। 12 ।। 1.1.2.8 स्व ए॒वैन॑मृ॒तावा॒धाय॑ । प॒शु॒मान्भ॑वति । न पूर्व॑यो॒ फल्गु॑न्योर॒ग्निमाद॑धीत । ए॒षा वै ज॑घ॒न्या॑ रात्रि॑स्संवथ्स॒रस्य॑ । यत्पूर्वे॒ फल्गु॑नी । पृ॒ष्टि॒त ए॒व सं॑वथ्स॒रस्या॒ग्निमा॒धाय॑ । पापी॑यान्भवति । उत्त॑रयो॒रा द॑धीत । ए॒षा वै प्र॑थ॒मा रात्रि॑स्संवथ्स॒रस्य॑ । यदुत्त॑रे॒ फल्गु॑नी । मु॒ख॒त ए॒व सं॑वथ्स॒रस्या॒ग्निमा॒धाय॑ । वसी॑यान्भवति । अथो॒ खलु॑ । य॒दैवैनं॑ य॒ज्ञ उ॑प॒नमेत् । अथाद॑धीत । सैवास्यर्द्धिः॑ ।। 13 ।। 1.1.3.0 ऊषा॑ अभवन्नभवद्व॒ल्मीकोऽश्राम्य॒दप्र॑थय॒द्धृत्यै॑ बीभथ्सत॒ इत्या॑हू रुन्धे पर्ण॒त्वम॑शमयदच्छिन्द॒॒ स्त्रीणि॑ च ।। 3 ।। 1.1.3.1 उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति । अ॒पोऽवोक्षति॒ शान्त्यै । सिक॑ता॒ निव॑पति । ए॒तद्वा अ॒ग्नेर्वैश्वान॒रस्य॑ रू॒पम् । रू॒पेणै॒व वैश्वान॒रमव॑रुन्धे । ऊषा॒न्निव॑पति । पुष्टि॒र्वा ए॒षा प्र॒जन॑नम् । यदूषाः ।।14।। 1.1.3.2 पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निमाध॑त्ते । अथो॑ सं॒ज्ञान॑ ए॒व । सं॒ज्ञान॒॒ ह्ये॑तत्प॑शू॒नाम् । यदूषाः । द्यावा॑पृथि॒वी स॒हास्ताम् । ते वि॑य॒ती अ॑ब्रूताम् । अस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॑ । यद॒मुष्या॑ य॒ज्ञिय॒मासीत् । तद॒स्याम॑दधात् । त ऊषा॑ अभवन्न् ।। 15 ।। 1.1.3.3 यद॒स्या य॒ज्ञिय॒मासीत् । तद॒मुष्या॑मदधात् । तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम् । ऊषान्नि॒वप॑न्न॒दो ध्या॑येत् । द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निमाध॑त्ते । अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । आ॒खू रू॒पं कृ॒त्वा । स पृ॑थि॒वीं प्रावि॑शत् । स ऊ॒ती कु॑र्वा॒ण पृ॑थि॒वीमनु॒ सम॑चरत् । तदा॑खुकरी॒षम॑भवत् ।। 16 ।। 1.1.3.4 यदा॑खुकरी॒ष सं॑भा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्धे । ऊर्जं॒ वा ए॒त रसं॑ पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति । यद्व॒ल्मीकम् । यद्व॑ल्मीकव॒पा सं॑भा॒रो भव॑ति । ऊर्ज॑मे॒व रसं॑ पृथि॒व्या अव॑रुन्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्र॒॒ ह्ये॑तत्पृ॑थि॒व्याः । यद्व॒ल्मीकः॑ ।। 17 ।। 1.1.3.5 अब॑धिरो भवति । य ए॒वं वेद॑ । प्र॒जाप॑ति प्र॒जा अ॑सृजत । तासा॒मन्न॒मुपाक्षीयत । ताभ्य॒स्सूद॒मुप॒प्राभि॑नत् । ततो॒ वै तासा॒मन्नं॒ नाक्षी॑यत । यस्य॒ सूद॑स्संभा॒रो भव॑ति । नास्य॑ गृ॒हेऽन्नं॑ क्षीयते । आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् । तेन॑ प्र॒जाप॑तिरश्राम्यत् ।। 18 ।। 1.1.3.6 क॒थमि॒द स्या॒दिति॑ । सो॑ऽपश्यत्पुष्करप॒र्णं तिष्ठ॑त् । सो॑ऽमन्यत । अस्ति॒ वै तत् । यस्मि॑न्नि॒दमधि॒ तिष्ठ॒तीति॑ । स व॑रा॒हो रू॒पं कृ॒त्वोप॒ न्य॑मज्जत् । स पृ॑थि॒वीम॒ध आर्च्छत् । तस्या॑ उप॒हत्योद॑मज्जत् । तत्पु॑ष्करप॒र्णेऽप्रथयत् । यदप्र॑थयत् ।। 19 ।। 1.1.3.7 तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् । अभू॒द्वा इ॒दमिति॑ । तद्भूम्यै॑ भूमि॒त्वम् । तां दिशोऽनु॒ वात॒स्सम॑वहत् । ता शर्क॑राभिरदृहत् । शं वै नो॑ऽभू॒दिति॑ । तच्छर्क॑राणा शर्कर॒त्वम् । यद्व॑रा॒हवि॑हत संभा॒रो भव॑ति । अ॒स्यामे॒वाछ॑म्बट्कारम॒ग्निमाध॑त्ते । शर्क॑रा भवन्ति॒ धृत्यै ।। 20 ।। 1.1.3.8 अथो॑ शं॒त्वाय॑ । सरे॑ता अ॒ग्निरा॒धेय॒ इत्या॑हुः । आपो॒ वरु॑णस्य॒ पत्न॑य आसन्न् । ता अ॒ग्निर॒भ्य॑ध्यायत् । तास्सम॑भवत् । तस्य॒ रेत॒ परा॑ऽपतत् । तद्धिर॑ण्यमभवत् । यद्धिर॑ण्यमु॒पास्य॑ति । सरे॑तसमे॒वाग्निमाध॑त्ते । पुरु॑ष॒ इन्न्वै स्वाद्रेत॑सो बीभथ्सत॒ इत्या॑हुः ।। 21 ।। 1.1.3.9 उ॒त्त॒र॒त उपास्य॒त्यबी॑भथ्सायै । अति॒ प्रय॑च्छति । आर्ति॑मे॒वाति॒ प्रय॑च्छति । अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पं कृ॒त्वा । सोऽश्व॒त्थे सं॑वथ्स॒रम॑तिष्ठत् । तद॑श्व॒त्थस्याश्वत्थ॒त्वम् । यदाश्व॑त्थस्संभा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्धे ।। 22 ।। 1.1.3.10 दे॒वा वा ऊर्जं॒ व्य॑भजन्त । तत॑ उदु॒म्बर॒ उद॑तिष्ठत् । ऊर्ग्वा उ॑दु॒म्बरः॑ । यदौदु॑म्बरस्संभा॒रो भव॑ति । ऊर्ज॑मे॒वाव॑रुन्धे । तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । तं गा॑य॒त्र्याऽह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णो॑ऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् ।। 23 ।। 1.1.3.11 यस्य॑ पर्ण॒मय॑स्सम्भा॒रो भव॑ति । सो॒म॒पी॒थमे॒वाव॑रुन्धे । दे॒वा वै ब्रह्म॑न्नवदन्त । तत्प॒र्ण उपा॑शृणोत् । सु॒श्रवा॒ वै नाम॑ । यत्प॑र्ण॒मय॑स्सम्भा॒रो भव॑ति । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । प्र॒जाप॑तिर॒ग्निम॑सृजत । सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ । त श॒म्या॑ऽशमयत् ।। 24 ।। 1.1.3.12 तच्छ॒म्यै॑ शमि॒त्वम् । यच्छ॑मी॒मय॑स्सम्भा॒रो भव॑ति । शान्त्या॒ अप्र॑दाहाय । अ॒ग्नेस्सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कतं॒ भा आर्च्छत् । यद्वैक॑ङ्कतस्सम्भा॒रो भव॑ति । भा ए॒वाव॑ रुन्धे । सहृ॑दयो॒ऽग्निरा॒धेय॒ इत्या॑हुः । म॒रुतो॒ऽद्भिर॒ग्निम॑तमयन्न् । तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन्न् । साऽशनि॑रभवत् । यद॒शनि॑हतस्य वृ॒क्षस्य॑ सम्भा॒रो भव॑ति । सहृ॑दयमे॒वाग्निमा ध॑त्ते ।। 25 ।। 1.1.4.0 ध्या॒य॒ति॒ वै रात्रि॒श्चाव॑रुन्धे भविष्य॒न्तीत्य॑ब्रवीज्जनि॒ष्यसे॑ऽजय॒द्वसी॑यान्भवति॒ नव॑ च ।। 4 ।। 1.1.4.1 द्वा॒द॒शसु॑ विक्रा॒मेष्व॒ग्निमा द॑धीत । द्वाद॑श॒ मासास्संवथ्स॒रः । सं॒व॒थ्स॒रादे॒वैन॑मव॒रुद्ध्या ध॑त्ते । यद्द्वा॑द॒शसु॑ विक्रा॒मेष्वा॒ दधी॑त । परि॑मित॒मव॑ रुन्धीत । चक्षु॑र्निमित॒ आद॑धीत । इय॒द्द्वाद॑श विक्रा॒मा (३) इति॑ । परि॑मितं चै॒वाप॑रिमितं॒ चाव॑ रुन्धे । अनृ॑तं॒ वै वा॒चा व॑दति । अनृ॑तं॒ मन॑सा ध्यायति ।। 26 ।। 1.1.4.2 चक्षु॒र्वै स॒त्यम् । अद्रा(३)गित्या॑ह । अद॑ऱ्श॒मिति॑ । तथ्स॒त्यम् । यश्चक्षु॑र्निमिते॒ऽग्निमा॑ध॒त्ते । स॒त्य ए॒वैन॒मा ध॑त्ते । तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तं वदेत् । नास्य॑ ब्राह्म॒णोऽनाश्वान्गृ॒हे व॑सेत् । स॒त्ये ह्य॑स्या॒ग्निराहि॑तः । आ॒ग्ने॒यी वै रात्रिः॑ ।। 27 ।। 1.1.4.3 आ॒ग्ने॒या प॒शवः॑ । ऐ॒न्द्रमहः॑ । नक्तं॒ गाऱ्ह॑पत्य॒मा द॑धाति । प॒शूने॒वाव॑ रुन्धे । दिवा॑ऽऽहव॒नीयम् । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । अ॒र्धोदि॑ते॒ सूर्य॑ आहव॒नीय॒मा द॑धाति । ए॒तस्मि॒न्वै लो॒के प्र॒जाप॑ति प्र॒जा अ॑सृजत । प्र॒जा ए॒व तद्यज॑मानस्सृजते । अथो॑ भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑ रुन्धे ।। 28 ।। 1.1.4.4 इडा॒ वै मा॑न॒वी य॑ज्ञानूका॒शिन्या॑सीत् । साऽशृ॑णोत् । असु॑रा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । त आ॑हव॒नीय॒मग्र॒ आद॑धत । अथ॒ गाऱ्ह॑पत्यम् । अथान्वाहार्य॒पच॑नम् । साऽब्र॑वीत् । प्र॒तीच्ये॑षा॒॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा परा॑ भविष्य॒न्तीति॑ ।। 29 ।। 1.1.4.5 यस्यै॒वम॒ग्निरा॑धी॒यते । प्र॒तीच्य॑स्य॒ श्रीरे॑ति । भ॒द्रो भू॒त्वा परा॑भवति । साऽशृ॑णोत् । दे॒वा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । तेऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत । अथ॒ गाऱ्ह॑पत्यम् । अथा॑हव॒नीयम् । साऽब्र॑वीत् ।। 30 ।। 1.1.4.6 प्राच्ये॑षा॒॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा सु॑व॒र्गंल्लो॒कमेष्यन्ति । प्र॒जां तु न वेथ्स्यन्त॒ इति॑ । यस्यै॒वम॒ग्निरा॑धी॒यते । प्राच्य॑स्य॒ श्रीरे॑ति । भ॒द्रो भू॒त्वा सु॑व॒र्गं लो॒कमे॑ति । प्र॒जां तु न वि॑न्दते । साऽब्र॑वी॒दिडा॒ मनुम् । तथा॒ वा अ॒हं तवा॒ग्निमाधास्यामि । यथा॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्ज॑नि॒ष्यसे ।। 31 ।। 1.1.4.7 प्रत्य॒स्मिल्लोँ॒के स्था॒स्यसि॑ । अ॒भि सु॑व॒र्गं लो॒कं जे॒ष्यसीति॑ । गाऱ्ह॑पत्य॒मग्र॒ आद॑धात् । गाऱ्ह॑पत्यं॒ वा अनु॑ प्र॒जा प॒शव॒ प्रजा॑यन्ते । गाऱ्ह॑पत्येनै॒वास्मै प्र॒जां प॒शून्प्राज॑नयत् । अथान्वाहार्य॒पच॑नम् । ति॒र्यङ्ङि॑व॒ वा अ॒यं लो॒कः । अ॒स्मिन्नै॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् । अथा॑हव॒नीयम् । तेनै॒व सु॑व॒र्गं लो॒कम॒भ्य॑जयत् ।। 32 ।। 1.1.4.8 यस्यै॒वम॒ग्निरा॑धी॒यते । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । प्रत्य॒स्मिल्लोँ॒के ति॑ष्ठति । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति । यस्य॒ वा अय॑थादेवतम॒ग्निरा॑धी॒यते । आ दे॒वताभ्यो वृश्च्यते । पापी॑यान्भवति । यस्य॑ यथादेव॒तम् । न दे॒वताभ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति ।। 33 ।। भृगू॑णां॒ त्वाऽङ्गि॑रसां व्रतपते व्र॒तेनाद॑धा॒मीति॑ भृग्वङ्गि॒रसा॒माद॑ध्यात् । आ॒दि॒त्यानां त्वा दे॒वानां व्रतपते व्र॒तेनाद॑धा॒मीत्य॒न्यासां॒ ब्राह्म॑णीनां प्र॒जानाम् । वरु॑णस्य त्वा॒ राज्ञो व्रतपते व्र॒तेनाद॑धा॒मीति॒ राज्ञः॑ । इन्द्र॑स्य त्वेन्द्रि॒येण॑ व्रतपते व्र॒तेनाद॑धा॒मीति॑ राज॒न्य॑स्य । मनोस्त्वा ग्राम॒ण्यो व्रतपते व्र॒तेनाद॑धा॒मिति॒ वैश्य॑स्य । ऋ॒भू॒णां त्वा॑ दे॒वानां व्रतपते व्र॒तेनाद॑धा॒मीति॑ रथका॒रस्य॑ । य॒था॒दे॒व॒तम॒ग्निराधी॑यते । न दे॒वताभ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति ।। 34 ।। 1.1.5.0 ए॒न॒मा॒ह॒व॒नीयं॑ धत्तेऽश्व॒त्वं व॑र्तयति कुरुत॒ इति॑ रु॒द्रो द॑धाति॒ य॒दग्नये॒ शुच॑य॒ एकं॑ च ।। 5 ।। 1.1.5.1 प्र॒जाप॑तिर्वा॒चस्स॒त्यम॑पश्यत् । तेना॒ग्निमाध॑त्त । तेन॒ वै स आर्ध्नोत् । भूर्भुव॒स्सुव॒रित्या॑ह । ए॒तद्वै वा॒चस्स॒त्यम् । य ए॒तेना॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व । अथो॑ स॒त्यप्रा॑शूरे॒व भ॑वति । अथो॒ य ए॒वं वि॒द्वान॑भि॒चर॑ति । स्तृ॒णु॒त ए॒वैनम् ।। 35 ।। 1.1.5.2 भूरित्या॑ह । प्र॒जा ए॒व तद्यज॑मानस्सृजते । भुव॒ इत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । सुव॒रित्या॑ह । सु॒व॒र्ग ए॒व लो॒के प्रति॑तिष्ठति । त्रि॒भिर॒क्षरै॒र्गाऱ्ह॑पत्य॒मा द॑धाति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । सर्वै प॒ञ्चभि॑राहव॒नीयम् ।। 36 ।। 1.1.5.3 सु॒व॒र्गाय॒ वा ए॒ष लो॒कायाधी॑यते । यदा॑हव॒नीयः॑ । सु॒व॒र्ग ए॒वास्मै॑ लो॒के वा॒चस्स॒त्य सर्व॑माप्नोति । त्रि॒भिर्गाऱ्ह॑पत्य॒मा द॑धाति । प॒ञ्चभि॑राहव॒नीयम् । अ॒ष्टौ संप॑द्यन्ते । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रोऽग्निः । यावा॑ने॒वाग्निः । तमाध॑त्ते ।। 37 ।। 1.1.5.4 प्र॒जाप॑ति प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टा परा॑चीरायन्न् । ताभ्यो॒ ज्योति॒रुद॑गृह्णात् । तं ज्योति॒ पश्य॑न्ती प्र॒जा अ॒भि स॒माव॑र्तन्त । उ॒परी॑वा॒ग्निमुद्गृ॑ह्णीयादु॒द्धरन्न्॑ । ज्योति॑रे॒व पश्य॑न्ती प्र॒जा यज॑मानम॒भि स॒माव॑र्तन्ते । प्र॒जाप॑ते॒रक्ष्य॑श्वयत् । तत्परा॑ऽपतत् । तदश्वो॑ऽभवत् । तदश्व॑स्याश्व॒त्वम् ।। 38 ।। 1.1.5.5 ए॒ष वै प्र॒जाप॑तिः । यद॒ग्निः । प्रा॒जा॒प॒त्योऽश्वः॑ । यदश्वं॑ पु॒रस्ता॒न्नय॑ति । स्वमे॒व चक्षु॒ पश्य॑न्प्र॒जाप॑ति॒रनूदे॑ति । व॒ज्री वा ए॒षः । यदश्वः॑ । यदश्वं॑ पु॒रस्ता॒न्नय॑ति । जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते । पुन॒रा व॑र्तयति ।। 39 ।। 1.1.5.6 ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते । न्या॑हव॒नीयो॒ गाऱ्ह॑पत्यमकामयत । निगाऱ्ह॑पत्य आहव॒नीयम् । तौ वि॒भाजं॒ नाश॑क्नोत् । सोऽश्व॑ पूर्व॒वाड्भू॒त्वा । प्राञ्चं॒ पूर्व॒मुद॑वहत् । तत्पूर्व॒वाह॑ पूर्ववा॒ट्त्वम् । यदश्वं॑ पु॒रस्ता॒न्नय॑ति । विभ॑क्तिरे॒वैन॑यो॒स्सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते ।। 40 ।। 1.1.5.7 यदु॒पर्यु॑परि॒ शिरो॒ हरेत् । प्रा॒णान्‌विच्छि॑न्द्यात् । अ॒धो॑ऽध॒श्शिरो॑ हरति । प्रा॒णानां गोपी॒थाय॑ । इय॒त्यग्रे॑ हरति । अथेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । प्र॒जाप॑तिर॒ग्निम॑सृजत । सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ ।। 41 ।। 1.1.5.8 तस्य॑ त्रे॒धा म॑हि॒मान॒व्व्यौँ॑हत् । शान्त्या॒ अप्र॑दाहाय । यत्त्रे॒धाऽग्निरा॑धी॒यते । म॒हि॒मान॑मे॒वास्य॒ तद्व्यू॑हति । शान्त्या॒ अप्र॑दाहाय । पुन॒रा व॑र्तयति । म॒हि॒मान॑मे॒वास्य॒ संद॑धाति । प॒शुर्वा ए॒षः । यदश्वः॑ । ए॒ष रु॒द्रः ।। 42 ।। 1.1.5.9 यद॒ग्निः । यदश्व॑स्य प॒देऽग्निमा॑द॒ध्यात् । रु॒द्राय॑ प॒शूनपि॑दध्यात् । अ॒प॒शुर्यज॑मानस्स्यात् । यन्नाक्र॒मयेत् । अन॑वरुद्धा अस्य प॒शव॑स्स्युः । पा॒र्श्व॒त आक्र॑मयेत् । यथाऽऽहि॑तस्या॒ग्नेरङ्गा॑रा अभ्यव॒वर्ते॑रन्न् । अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति । न रु॒द्रायापि॑दधाति ।। 43 ।। 1.1.5.10 त्रीणि॑ ह॒वीषि॒ निर्व॑पति । वि॒राज॑ ए॒व विक्रान्तं॒ यज॑मा॒नोऽनु॒ विक्र॑मते । अ॒ग्नये॒ पव॑मानाय । अ॒ग्नये॑ पाव॒काय॑ । अ॒ग्नये॒ शुच॑ये । यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति । पु॒नात्ये॒वैनम् । यद॒ग्नये॑ पाव॒काय॑ । पू॒त ए॒वास्मि॑न्न॒न्नाद्यं॑ दधाति । यद॒ग्नये॒ शुच॑ये । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति ।। 44 ।। 1.1.6.0 आ॒दि॒त्ये तृती॑यम॒फ्स्वासी॒त्तत्तेनावा॑रुन्धत॒ स्यादाप्यते॒ रेतो॒ऽग्निरेक॑मेकमे॒तानि॑ ह॒वीषि॑ नि॒र्वपेत्प्र॒त्यव॑रोहति ददात्यध्व॒र्युर्देय॒मेकं॑ च ।। 6 ।। 1.1.6.1 दे॒वा॒सु॒रास्संय॑त्ता आसन्न् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नौ वा॒मं वसु॒ सं न्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ । तद॒ग्निर्नोथ्सह॑मशक्नोत् । तत् त्रे॒धा विन्य॑दधात् । प॒शुषु॒ तृती॑यम् । अ॒फ्सु तृती॑यम् । आ॒दि॒त्ये तृती॑यम् ।। 45 ।। 1.1.6.2 तद्दे॒वा वि॒जित्य॑ । पुन॒रवा॑रुरुथ्सन्त । तेऽग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्न् । प॒शवो॒ वा अ॒ग्नि पव॑मानः । यदे॒व प॒शुष्वासीत् । तत्तेनावा॑रुन्धत । तेऽग्नये॑ पाव॒काय॑ । आपो॒ वा अ॒ग्नि पा॑व॒कः । यदे॒वाफ्स्वासीत् । तत्तेनावा॑रुन्धत ।। 46 ।। 1.1.6.3 तेऽग्नये॒ शुच॑ये । अ॒सौ वा आ॑दि॒त्योऽग्निश्शुचिः॑ । यदे॒वादि॒त्य आसीत् । तत्तेनावा॑रुन्धत । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । त॒नुवो॒ वावैता अ॑ग्न्या॒धेय॑स्य । आ॒ग्ने॒यो वा अ॒ष्टाक॑पालोऽग्न्या॒धेय॒मिति॑ । यत्तन्नि॒र्वपेत् । नैतानि॑ । यथा॒ऽऽत्मा स्यात् ।। 47 ।। 1.1.6.4 नाङ्गा॑नि । ता॒दृगे॒व तत् । यदे॒तानि॑ नि॒र्वपेत् । न तम् । यथाऽङ्गा॑नि॒ स्युः । नात्मा । ता॒दृगे॒व तत् । उ॒भया॑नि स॒ह नि॒रुप्या॑णि । य॒ज्ञस्य॑ सात्म॒त्वाय॑ । उ॒भयं॒ वा ए॒तस्येन्द्रि॒यं वी॒र्य॑माप्यते ।। 48 ।। 1.1.6.5 योऽग्निमा॑ध॒त्ते । ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒ निर्व॑पेत् । आ॒दि॒त्यं च॒रुम् । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तमायामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यं वी॒र्य॑मव॑ रुन्धे । आ॒दि॒त्यो भ॑वति । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒न्वै वा ए॒तद्रेतः॑ ।। 49 ।। 1.1.6.6 यदाज्यम् । अ॒न॒डुह॑स्तण्डु॒लाः । मि॒थु॒नमे॒वाव॑रुन्धे । घृ॒ते भ॑वति । य॒ज्ञस्यालूक्षान्तत्वाय । च॒त्वार॑ आऱ्षे॒या प्राश्ञ॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । प॒शवो॒ वा ए॒तानि॑ ह॒वीषि॑ । ए॒ष रु॒द्रः । यद॒ग्निः ।। 50 ।। 1.1.6.7 यथ्स॒द्य ए॒तानि॑ ह॒वीषि॑ नि॒र्वपेत् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् । अ॒प॒शुर्यज॑मानस्स्यात् । यन्नानु॑नि॒र्वपेत् । अन॑वरुद्धा अस्य प॒शव॑स्स्युः । द्वा॒द॒शसु॒ रात्री॒ष्वनु॒ निर्व॑पेत् । सं॒व॒थ्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सं॒व॒थ्स॒रेणै॒वास्मै॑ रु॒द्र श॑मयि॒त्वा । प॒शूनव॑रुन्धे । यदेक॑मेकमे॒तानि॑ ह॒वीषि॑ नि॒र्वपेत् ।। 51 ।। 1.1.6.8 यथा॒ त्रीण्या॒वप॑नानि पू॒रयेत् । ता॒दृक्तत् । न प्र॒जन॑न॒मुच्छि॑षेत् । एकं॑ नि॒रुप्य॑ । उत्त॑रे॒ सम॑स्येत् । तृ॒तीय॑मे॒वास्मै॑ लो॒कमुच्छि॑षति प्र॒जन॑नाय । तं प्र॒जया॑ प॒शुभि॒रनु॒ प्रजा॑यते । अथो॑ य॒ज्ञस्यै॒वैषाऽभिक्रान्तिः । र॒थ॒च॒क्रं प्रव॑र्तयति । म॒नु॒ष्य॒र॒थेनै॒व दे॑वर॒थं प्र॒त्यव॑रोहति ।। 52 ।। 1.1.6.9 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑मग्निहो॒त्राँ (३)न हो॑त॒व्या (३) मिति॑ । यद्यजु॑षा जुहु॒यात् । अय॑थापूर्व॒माहु॑ती जुहुयात् । यन्न जु॑हु॒यात् । अ॒ग्नि परा॑ भवेत् । तू॒ष्णीमे॒व हो॑त॒व्यम् । य॒था॒पू॒र्वमाहु॑ती जु॒होति॑ । नाग्नि परा॑भवति । अ॒ग्नीधे॑ ददाति ।। 53 ।। 1.1.6.10 अ॒ग्निमु॑खाने॒वर्तून्प्री॑णाति । उ॒प॒बऱ्ह॑णं ददाति । रू॒पाणा॒मव॑रुद्ध्यै । अश्वं॑ ब्र॒ह्मणे । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । धे॒नु होत्रे । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒न॒ड्वाह॑मध्व॒र्यवे । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑रध्व॒र्युः ।। 54 ।। 1.1.6.11 वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे । मि॒थु॒नौ गावौ॑ ददाति । मि॒थु॒नस्याव॑रुद्ध्यै । वासो॑ ददाति । स॒र्व॒दे॒व॒त्यं॑ वै वासः॑ । सर्वा॑ ए॒व दे॒वता प्रीणाति । आ द्वा॑द॒शभ्यो॑ ददाति । द्वाद॑श॒ मासास्संवथ्स॒रः । सं॒व॒थ्स॒र ए॒व प्रति॑तिष्ठति । काम॑मू॒र्ध्वं देयम् । अप॑रिमित॒स्याव॑रुद्ध्यै ।। 55 ।। 1.1.7.0 चतु॑ष्पदे जिन्वतां त॒नुव॒स्त्रीणि॑ च ।। 7 ।। 1.1.7.1 घ॒र्मश्शिर॒स्तद॒यम॒ग्निः । संप्रि॑य प॒शुभि॑र्भुवत् । छ॒र्दिस्तो॒काय॒ तन॑याय यच्छ । वात॑ प्रा॒णस्तद॒यम॒ग्निः । संप्रि॑य प॒शुभि॑र्भुवत् । स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॑च । प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् । अ॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि । ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।। 56 ।। 1.1.7.2 अ॒र्कश्चक्षु॒स्तद॒सौ सूर्य॒स्तद॒यम॒ग्निः । संप्रि॑य प॒शुभि॑र्भुवत् । यत्ते॑ शुक्र शु॒क्रं वर्च॑श्शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निनाऽग्ने॒ ब्रह्म॑णा । आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र्व्या॑नशे । ये ते॑ अग्ने शि॒वे त॒नुवौ । वि॒राट्च॑ स्व॒राट्च॑ । ते मावि॑शतां॒ ते मा॑ जिन्वताम् ।। 57 ।। 1.1.7.3 ये ते॑ अग्ने शि॒वे त॒नुवौ । सं॒राट्चा॑भि॒भूश्च॑ । ते मावि॑शतां॒ ते मा॑ जिन्वताम् । ये ते॑ अग्ने शि॒वे त॒नुवौ । वि॒भूश्च॑ परि॒भूश्च॑ । ते मा वि॑शतां॒ ते मा॑ जिन्वताम् । ये ते॑ अग्ने शि॒वे त॒नुवौ । प्र॒भ्वी च॒ प्रभू॑तिश्च । ते मा वि॑शतां॒ ते मा॑ जिन्वताम् । यास्ते॑ अग्ने शि॒वास्त॒नुवः॑ । ताभि॒स्त्वाऽऽद॑धे । यास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॑र॒मुं ग॑च्छ ।। 58 ।। 1.1.8.0 लो॒को॑ऽसृजतैन॒माध॑त्तेऽन्वाहार्य॒पच॑नं दे॒वाना॒मन्न॑मेनं॒ प्रति॑ष्ठित॒माध॑त्ते॒ पञ्च॑ च ।। 8 ।। 1.1.8.1 इ॒मे वा ए॒ते लो॒का अ॒ग्नयः॑ । ते यदव्या॑वृत्ता आधी॒येरन्न्॑ । शो॒चये॑यु॒र्यज॑मानम् । घ॒र्मश्शिर॒ इति॒ गाऱ्ह॑पत्य॒मा द॑धाति । वात॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् । अ॒र्कश्चक्षु॒रित्या॑हव॒नीयम् । तेनै॒वैना॒न्व्याव॑र्तयति । तथा॒ न शो॑चयन्ति॒ यज॑मानम् । र॒थ॒न्त॒रम॒भिगा॑यते॒ गाऱ्ह॑पत्य आधी॒यमा॑ने । राथ॑न्तरो॒ वा अ॒यं लो॒कः ।। 59 ।। 1.1.8.2 अ॒स्मिन्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒मा ध॑त्ते । वा॒म॒दे॒व्यम॒भिगा॑यत उद्ध्रि॒यमा॑णे । अ॒न्तरि॑क्षं॒ वै वा॑मदे॒व्यम् । अ॒न्तरि॑क्ष ए॒वैनं॒ प्रति॑ष्ठित॒माध॑त्ते । अथो॒ शान्ति॒र्वै वा॑मदे॒व्यम् । शा॒न्तमे॒वैनं॑ पश॒व्य॑मुद्ध॑रते । बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने । बाऱ्ह॑तो॒ वा अ॒सौ लो॒कः । अ॒मुष्मि॑न्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते । प्र॒जाप॑तिर॒ग्निम॑सृजत ।। 60 ।। 1.1.8.3 सोऽश्वो॒ऽवारो॑ भू॒त्वा परा॑ङैत् । तं वा॑रव॒न्तीये॑नावारयत । तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् । श्यै॒तेन॑ श्ये॒ती अ॑कुरुत । तच्छ्यै॒तस्य॑ श्यैत॒त्वम् । यद्वा॑रव॒न्तीय॑मभि॒ गाय॑ते । वा॒र॒यि॒त्वैवैनं॒ प्रति॑ष्ठित॒मा ध॑त्ते । श्यै॒तेन॑ श्ये॒ती कु॑रुते । घ॒र्मश्शिर॒ इति॒ गाऱ्ह॑पत्य॒माद॑धाति । सशी॑ऱ्षाणमे॒वैन॒मा ध॑त्ते ।। 61 ।। 1.1.8.4 उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मति । रु॒द्रो वा ए॒षः । यद॒ग्निः । स आ॑धी॒यमा॑न ईश्व॒रो यज॑मानस्य प॒शून् हिसि॑तोः । संप्रि॑यः प॒शुभि॑र्भुव॒दित्या॑ह । प॒शुभि॑रे॒वैन॒॒ संप्रि॑यं करोति । प॒शू॒नामहि॑सायै । छ॒र्दिस्तो॒काय॒ तन॑याय य॒च्छेत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् ।। 62 ।। 1.1.8.5 सप्रा॑णमे॒वैन॒मा ध॑त्ते । स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॒चेत्या॑ह । अन्न॑मे॒वास्मै स्वदयति । प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह । विभ॑क्तिरे॒वैन॑यो॒स्सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते । ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । अ॒र्कश्चक्षु॒रित्या॑हव॒नीयम् । अ॒र्को वै दे॒वाना॒मन्नम् ।। 63 ।। 1.1.8.6 अन्न॑मे॒वाव॑ रुन्धे । तेन॑ मे दीदि॒हीत्या॑ह । समि॑न्ध ए॒वैनम् । आ॒न॒शे व्या॑नश॒ इति॒ त्रिरुदि॑ङ्गयति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒मा ध॑त्ते । तत्तथा॒ न का॒र्यम् । वीङ्गि॑त॒मप्र॑तिष्ठित॒मा द॑धीत । उ॒द्धृत्यै॒वाधाया॑भि॒मन्त्रियः॑ । अवीङ्गितमे॒वैनं॒ प्रति॑ष्ठित॒माध॑त्ते । वि॒राट्च॑ स्व॒राट्च॒ यास्ते॑ अग्ने शि॒वास्त॒नुव॒स्ताभि॒स्त्वाऽऽद॑ध॒ इत्या॑ह । ए॒ता वा अ॒ग्नेश्शि॒वास्त॒नुवः॑ । ताभि॑रे॒वैन॒॒ सम॑र्धयति । यास्ते॑ अग्ने घो॒रास्त॒नुव॒स्ताभि॑र॒मुं ग॒च्छेति॑ ब्रूया॒द्यं द्वि॒ष्यात् । ताभि॑रे॒वैनं॒ परा॑भावयति ।। 64 ।। 1.1.9.0 द्वि॒तीय॑मपचच्चतु॒र्थम॑पच॒ददि॑ती॒ रेतो॑ऽधत्त॒ संमि॑ता घृ॒तव॑तीभि॒राद॑धाति राज॒न्य॑स्स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाये॑याद्गच्छति मन्थति॒ रात्र॑यश्च॒त्वारि॑ च ।। 9 ।। 1.1.9.1 श॒मी॒ग॒र्भाद॒ग्निं म॑न्थति । ए॒षा वा अ॒ग्नेर्य॒ज्ञिया॑ त॒नूः । तामे॒वास्मै॑ जनयति । अदि॑तिः पु॒त्त्रका॑मा । सा॒ध्येभ्यो॑ दे॒वेभ्यो ब्रह्मौद॒नम॑पचत् । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञात् । सा रेतो॑ऽधत्त । तस्यै॑ धा॒ता चार्य॒मा चा॑जायेताम् । सा द्वि॒तीय॑मपचत् ।। 65 ।। 1.1.9.2 तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञात् । सा रेतो॑ऽधत्त । तस्यै॑ मि॒त्रश्च॒ वरु॑णश्चाजायेताम् । सा तृ॒तीय॑मपचत् । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञात् । सा रेतो॑ऽधत्त । तस्या॒ अश॑श्च॒ भग॑श्चाजायेताम् । सा च॑तु॒र्थम॑पचत् ।। 66 ।। 1.1.9.3 तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञात् । सा रेतो॑ऽधत्त । तस्या॒ इन्द्र॑श्च॒ विव॑स्वाश्चाजायेताम् । ब्र॒ह्मौ॒द॒नं प॑चति । रेत॑ ए॒व तद्द॑धाति । प्राश्ञ॑न्ति ब्राह्म॒णा ओ॑द॒नम् । यदाज्य॑मु॒च्छिष्य॑ते । तेन॑ स॒मिधो॒ऽभ्यज्या द॑धाति । उ॒च्छेष॑णा॒द्वा अदि॑ती॒ रेतो॑ऽधत्त ।। 67 ।। 1.1.9.4 उ॒च्छेष॑णादे॒व तद्रेतो॑ धत्ते । अस्थि॒ वा ए॒तत् । यथ्स॒मिधः॑ । ए॒तद्रेतः॑ । यदाज्यम् । यदाज्ये॑न स॒मिधो॒ऽभ्यज्या॒दधा॑ति । अस्थ्ये॒व तद्रेत॑सि दधाति । ति॒स्र आद॑धाति मिथुन॒त्वाय॑ । इय॑तीर्भवन्ति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताः ।। 68 ।। 1.1.9.5 इय॑तीर्भवन्ति । य॒ज्ञ॒प॒रुषा॒ संमि॑ताः । इय॑तीर्भवन्ति । ए॒ताव॒द्वै पुरु॑षे वी॒र्यम् । वी॒र्य॑संमिताः । आ॒र्द्रा भ॑वन्ति । आ॒र्द्रमि॑व॒ हि रेत॑स्सि॒च्यते । चित्रि॑यस्याश्व॒त्थस्याद॑धाति । चि॒त्रमे॒व भ॑वति । घृ॒तव॑तीभि॒रा द॑धाति ।। 69 ।। 1.1.9.6 ए॒तद्वा अ॒ग्ने प्रि॒यं धाम॑ । यद्घृ॒तम् । प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति । अथो॒ तेज॑सा । गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याद॑ध्यात् । गा॒य॒त्रछ॑न्दा॒ वै ब्राह्म॒णः । स्वस्य॒ छन्द॑स प्रत्ययन॒स्त्वाय॑ । त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य । त्रि॒ष्टुप्छ॑न्दा॒ वै रा॑ज॒न्यः॑ । स्वस्य॒ छन्द॑स प्रत्ययन॒स्त्वाय॑ ।। 70 ।। 1.1.9.7 जग॑तीभि॒र्वैश्य॑स्य । जग॑तीछन्दा॒ वै वैश्यः॑ । स्वस्य॒ छन्द॑स प्रत्ययन॒स्त्वाय॑ । त सं॑वथ्स॒रं गो॑पायेत् । सं॒व॒थ्स॒र हि रेतो॑ हि॒तं वर्ध॑ते । यद्ये॑न संवथ्स॒रे नोप॒नमेत् । स॒मिधः॒ पुन॒राद॑ध्यात् । रेत॑ ए॒व तद्धि॒तं वर्ध॑मानमेति । न मा॒॒सम॑श्ञीयात् । न स्त्रिय॒मुपे॑यात् ।। 71 ।। 1.1.9.8 यन्मा॒॒सम॑श्ञी॒यात् । यथ्स्त्रिय॑मुपे॒यात् । निर्वीर्यस्स्यात् । नैन॑म॒ग्निरुप॑नमेत् । श्व आ॑धा॒स्यमा॑नो ब्रह्मौद॒नं प॑चति । आ॒दि॒त्या वा इ॒त उ॑त्त॒मास्सु॑व॒र्गं लो॒कमा॑यन्न् । ते वा इ॒तो यन्तं॒ प्रति॑नुदन्ते । ए॒ते खलु॒ वावादि॒त्याः । यद्ब्राह्म॒णाः । तैरे॒व स॒न्त्वं ग॑च्छति ।। 72 ।। 1.1.9.9 नैनं॒ प्रति॑नुदन्ते । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । क्वा॑ सः । अ॒ग्निः का॒र्यः॑ । योऽस्मै प्र॒जां प॒शून्प्र॑ज॒नय॒तीति॑ । शल्कै॒स्तारात्रि॑म॒ग्निमि॑न्धीत । तस्मि॑न्नुपव्यु॒षम॒रणी॒ निष्ट॑पेत् । यथ॑ऱ्ष॒भाय॑ वाशि॒ता न्या॑विच्छा॒यति॑ । ता॒दृगे॒व तत् । अ॒पो॒दूह्य॒ भस्मा॒ग्निं म॑न्थति ।। 73 ।। 1.1.9.10 सैव साऽग्नेस्सन्त॑तिः । तं म॑थि॒त्वा प्राञ्च॒मुद्ध॑रति । सं॒व॒थ्स॒रमे॒व तद्रेतो॑ हि॒तं प्रज॑नयति । अना॑हित॒स्तस्या॒ग्निरित्या॑हुः । यस्स॒मिधोऽना॑धाया॒ग्निमा॑ध॒त्त इति॑ । तास्सं॑वथ्स॒रे पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒थ्सरादे॒वैन॑मव॒रुध्याध॑त्ते । यदि॑ संवथ्स॒रेऽनाद॒ध्यात् । द्वा॒द॒श्यां पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒थ्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सं॒व॒थ्स॒रमे॒वास्याहि॑ता भवन्ति । यदि॑ द्वाद॒श्यां नाद॒ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् । आहि॑ता ए॒वास्य॑ भवन्ति ।। 74 ।। 1.1.10.0 ए॒षा प॒शून्मे॑ गोपा॒येति॒ प्रवि॑ष्टा प॒शून्मे॑ गोपा॒येत्या॑ह॒ जुह्व॑ति तिष्ठते स॒प्त च॑ ।। 10 ।। 1.1.10.1 प्र॒जाप॑ति प्र॒जा अ॑सृजत । स रि॑रिचा॒नो॑ऽमन्यत । स तपो॑ऽतप्यत । स आ॒त्मन्वी॒र्य॑मपश्यत् । तद॑वर्धत । तद॑स्मा॒थ्सह॑सो॒र्ध्वम॑सृज्यत । सा वि॒राड॑भवत् । तां दे॑वासु॒रा व्य॑गृह्णत । सोऽब्रवीत्प्र॒जाप॑तिः । मम॒ वा ए॒षा ।। 75 ।। 1.1.10.2 दोहा॑ ए॒व यु॒ष्माक॒मिति॑ । सा तत॒ प्राच्युद॑क्रामत् । तत्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । अथ॑र्व पि॒तुं मे॑ गोपा॒येति॑ । सा द्वि॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । नर्य॑ प्र॒जां मे॑ गोपा॒येति॑ । सा तृ॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । शस्य॑ प॒शून्मे॑ गोपा॒येति॑ ।। 76 ।। 1.1.10.3 सा च॑तु॒र्थमुद॑क्रामत् । तत्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । सप्र॑थ स॒भां मे॑ गोपा॒येति॑ । सा प॑ञ्च॒ममुद॑क्रामत् । तत्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपा॒येति॑ । अ॒ग्नीन् वाव सा तान्व्य॑क्रमत । तान्प्र॒जाप॑ति॒ पर्य॑गृह्णात् । अथो॑ प॒ङ्क्तिमे॒व । प॒ङ्क्तिर्वा ए॒षा ब्राह्म॒णे प्रवि॑ष्टा ।। 77 ।। 1.1.10.4 तामा॒त्मनोऽधि॒ निर्मि॑मीते । यद॒ग्निरा॑धी॒यते । तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॒ आधी॑यन्ते । पाङ्क्तं॒ वा इ॒द सर्वम् । पाङ्क्ते॑नै॒व पाङ्क्त॑ स्पृणोति । अथ॑र्व पि॒तुं मे॑ गोपा॒येत्या॑ह । अन्न॑मे॒वैतेन॑ स्पृणोति । नर्य॑ प्र॒जां मे॑ गोपा॒येत्या॑ह । प्र॒जामे॒वैतेन॑ स्पृणोति । शस्य॑ प॒शून्मे॑ गोपा॒येत्या॑ह ।। 78 ।। 1.1.10.5 प॒शूने॒वैतेन॑ स्पृणोति । सप्र॑थ स॒भां मे॑ गोपा॒येत्या॑ह । स॒भामे॒वैतेनेन्द्रि॒य स्पृ॑णोति । अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपा॒येत्या॑ह । मन्त्र॑मे॒वैतेन॒ श्रिय॑ स्पृणोति । यदा॑न्वाहार्य॒पच॑नेऽन्वाहा॒र्यं॑ पच॑न्ति । तेन॒ सोऽस्या॒भीष्ट॑ प्री॒तः । यद्गाऱ्ह॑पत्य॒ आज्य॑मधि॒श्रय॑न्ति॒ संपत्नीर्या॒जय॑न्ति । तेन॒ सोऽस्या॒भीष्ट॑ प्री॒तः । यदा॑हव॒नीये॒ जुह्व॑ति ।। 79 ।। 1.1.10.6 तेन॒ सोऽस्या॒भीष्ट॑ प्री॒तः । यथ्स॒भायां वि॒जय॑न्ते । तेन॒ सोऽस्या॒भीष्ट॑ प्री॒तः । यदा॑वस॒थेऽन्न॒॒ हर॑न्ति । तेन॒ सोऽस्या॒भीष्ट॑ प्री॒तः । तथाऽस्य॒ सर्वे प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते । प्र॒व॒स॒थमे॒ष्यन्ने॒वमुप॑तिष्ठे॒तैक॑मेकम् । यथा ब्राह्म॒णाय॑ गृहेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑ । ता॒दृगे॒व तत् । पुन॑रा॒गत्योप॑तिष्ठते । सा भा॑गेयमे॒वैषां॒ तत् । सा तत॑ ऊ॒र्ध्वारो॑हत् । सा रो॑हि॒ण्य॑भवत् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । रो॒हि॒ण्याम॒ग्निमाद॑धीत । स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठित॒माध॑त्ते । ऋ॒ध्नोत्ये॑नेन ।। 80 ।। 1.2.0.0 उ॒द्ध॒न्यमा॑नं॒ नवै॒तानि॒ सन्त॑तिरेकवि॒॒श ए॒षोऽप्र॑तिष्ठां प्र॒जाप॑तिर्वृ॒त्तष्षट् ।। 6 ।। उ॒द्ध॒न्यमा॑न शो॒चिष्के॒शोऽग्ने॑ स॒पत्ना॑नतिग्रा॒ह्या॑ वैश्वदे॒वमाल॑भन्ते पञ्चा॒शत् ।। 50 ।। ।। उद्ध॒न्यमा॑न॒॒ संवि॑न्दन्ते ।। हरिः॑ ओम् ।। प्रथमाष्टके द्वितीय प्रपाठकस्समाप्तः 1.2.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयप्रश्नः ।। हरिः ओम् ।। 1.2.1.0 वि॒श॒न्तु॒ नः॒ पु॒रू॒चीर्वि॑धेम नि॒धाय॒ यत्तेऽप्र॑दाहाय बृह॒त्यो ब्रह्म॑णा दुवस्यत वि॒श्ववा॑र इ॒ममृ॑ञ्जते पुरो॒गां प्रज॑नयि॒ष्यथो॑ जनि॒ष्यतेऽस्मै॒ मम॑ महि॒म्ना वर्च॑से॒ दध॑थ्सुव॒र्गो भा॑हि संबभू॒वतु॒रायु॒र्व्या॑नशे॒ चतु॑ष्सदस्स॒तां प्र॒जाप॑ते॒र्द्वे च॑ ।। 1 ।। 1.2.1.1 उ॒द्ध॒न्यमा॑नम॒स्या अ॑मे॒ध्यम् । अप॑ पा॒प्मानं॒ यज॑मानस्य हन्तु । शि॒वा न॑स्सन्तु प्र॒दिश॒श्चत॑स्रः । शं नो॑ मा॒ता पृ॑थि॒वी तोक॑साता । शं नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये । शंयोर॒भि स्र॑वन्तु नः । वै॒श्वा॒न॒रस्य॑ रू॒पम् । पृ॒थि॒व्यां प॑रि॒स्रसा । स्यो॒नमा वि॑शन्तु नः ।। 1 ।। 1.2.1.2 यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः । सं॒ज॒ज्ञा॒ने रोद॑सी संबभू॒वतुः॑ । ऊषान्कृ॒ष्णम॑वतु कृ॒ष्णमूषाः । इ॒होभयोर्य॒ज्ञिय॒माग॑मिष्ठाः । ऊ॒तीः कु॑र्वा॒णो यत्पृ॑थि॒वीमच॑रः । गु॒हा॒कार॑माखुरू॒पं प्र॒तीत्य॑ । तत्ते॒ न्य॑क्तमि॒ह सं॒भर॑न्तः । श॒तं जी॑वेम श॒रद॒स्सवी॑राः । ऊर्जं॑ पृथि॒व्या रस॑मा॒भर॑न्तः । श॒तं जी॑वेम श॒रदः॑ पुरू॒चीः ।। 2 ।। 1.2.1.3 व॒म्रीभि॒रनु॑वित्तं॒ गुहा॑सु । श्रोत्रं॑ त उ॒र्व्यब॑धिरा भवामः । प्र॒जाप॑तिसृष्टानां प्र॒जानाम् । क्षु॒धोऽप॑हत्यै सुवि॒तं नो॑ अस्तु । उप॒ प्रभि॑न्न॒मिष॒मूर्जं॑ प्र॒जाभ्यः॑ । सूदं॑ गृ॒हेभ्यो॒ रस॒माभ॑रामि । यस्य॑ रू॒पं बिभ्र॑दि॒मामवि॑न्दत् । गुहा॒ प्रवि॑ष्टा सरि॒रस्य॒ मध्ये । तस्ये॒दं विह॑तमा॒भर॑न्तः । अछ॑म्बट्कारम॒स्यां वि॑धेम ।। 3 ।। 1.2.1.4 यत्प॒र्यप॑श्यथ्सरि॒रस्य॒ मध्ये । उ॒र्वीमप॑श्य॒ज्जग॑तः प्रति॒ष्ठाम् । तत्पुष्क॑रस्या॒यत॑ना॒द्धि जा॒तम् । प॒र्णं पृ॑थि॒व्याः प्रथ॑न हरामि । याभि॒रदृ॑ह॒ज्जग॑त प्रति॒ष्ठाम् । उ॒र्वीमि॒मां वि॑श्वज॒नस्य॑ भ॒र्त्रीम् । ता न॑श्शि॒वाश्शर्क॑रास्सन्तु॒ सर्वाः । अ॒ग्ने रेत॑श्च॒न्द्र हिर॑ण्यम् । अ॒द्भ्यस्संभू॑तम॒मृतं॑ प्र॒जासु॑ । तथ्सं॒भर॑न्नुत्तर॒तो नि॒धाय॑ ।। 4 ।। 1.2.1.5 अ॒ति॒प्र॒यच्छं॒ दुरि॑तिं तरेयम् । अश्वो॑ रू॒पं कृ॒त्वा यद॑श्व॒त्थेऽति॑ष्ठः । सं॒व॒थ्स॒रं दे॒वेभ्यो॑ नि॒लाय॑ । तत्ते॒ न्य॑क्तमि॒ह सं॒भर॑न्तः । श॒तं जी॑वेम श॒रद॒स्सवी॑राः । ऊ॒र्ज पृ॑थि॒व्या अध्युत्थि॑तोऽसि । वन॑स्पते श॒तव॑ल्‌शो॒ विरो॑ह । त्वया॑ व॒यमिष॒मूर्जं॒ मद॑न्तः । रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । गा॒य॒त्रि॒या ह्रि॒यमा॑णस्य॒ यत्ते ।। 5 ।। 1.2.1.6 प॒र्णमप॑तत्तृ॒तीय॑स्यै दि॒वोऽधि॑ । सो॑ऽयं प॒र्णस्सो॑मप॒र्णाद्धि जा॒तः । ततो॑ हरामि सोमपी॒थस्याव॑रुद्ध्यै । दे॒वानां ब्रह्मवा॒दं वद॑तां॒ यत् । उ॒पाशृ॑णोस्सु॒श्रवा॒ वै श्रु॒तो॑ऽसि । ततो॒ मामावि॑शतु ब्रह्मवर्च॒सम् । तथ्सं॒भर॒॒ स्तदव॑रुन्धीय सा॒क्षात् । यया॑ ते सृ॒ष्टस्या॒ग्नेः । हे॒तिमश॑मयत्प्र॒जाप॑तिः । तामि॒मामप्र॑दाहाय ।। 6 ।। 1.2.1.7 श॒मी शान्त्यै॑ हराम्य॒हम् । यत्ते॑ सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कतं॒ भा आर्च्छज्जातवेदः । तया॑ भा॒सा संमि॑तः । उ॒रुं नो॑ लो॒कमनु॒ प्रभा॑हि । यत्ते॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दञ्जातवेदः । म॒रुतो॒ऽद्भिस्त॑मयि॒त्वा । ए॒तत्ते॒ तद॑श॒नेस्संभ॑रामि । सात्मा॑ अग्ने॒ सहृ॑दयो भवे॒ह । चित्रि॑यादश्व॒त्थाथ्संभृ॑ता बृह॒त्यः॑ ।। 7 ।। 1.2.1.8 शरी॑रम॒भि सस्कृ॑तास्स्थ । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताः । ति॒स्रस्त्रि॒वृद्भि॑र्मिथु॒ना प्रजात्यै । अ॒श्व॒त्थाद्ध॑व्यवा॒हाद्धि जा॒ताम् । अ॒ग्नेस्त॒नूं य॒ज्ञिया॒॒ संभ॑रामि । शा॒न्तयो॑नि शमीग॒र्भम् । अ॒ग्नये॒ प्रज॑नयि॒तवे । यो अ॑श्व॒त्थश्श॑मीग॒र्भः । आ॒रु॒रोह॒ त्वे सचा । तं ते॑ हरामि॒ ब्रह्म॑णा ।। 8 ।। 1.2.1.9 य॒ज्ञियैः के॒तुभि॑स्स॒ह । यं त्वा॑ स॒मभ॑रञ्जातवेदः । य॒था॒श॒री॒रं भू॒तेषु॒ न्य॑क्तम् । स संभृ॑तस्सीद शि॒वः प्र॒जाभ्यः॑ । उ॒रुं नो॑ लो॒कमनु॑नेषि वि॒द्वान् । प्रवे॒धसे॑ क॒वये॒ मेध्या॑य । वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे । यतो॑ भ॒यमभ॑यं॒ तन्नो॑ अस्तु । अव॑ दे॒वान् य॑जे॒हेड्यान्॑ । स॒मिधा॒ऽग्निं दु॑वस्यत ।। 9 ।। 1.2.1.10 घृ॒तैर्बो॑धय॒ताति॑थिम् । आऽस्मि॑न् ह॒व्या जु॑होतन । उप॑ त्वाऽग्ने ह॒विष्म॑तीः । घृ॒ताचीर्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ । तं त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य । स॒मि॒ध्यमा॑नः प्रथ॒मो नु धर्मः॑ । सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।। 10 ।। 1.2.1.11 शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः । सु॒य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् । घृ॒तप्र॑तीको घृ॒तयो॑निर॒ग्निः । घृ॒तैस्समि॑द्धो घृ॒तम॒स्यान्नम् । घृ॒त॒प्रुष॑स्त्वा स॒रितो॑ वहन्ति । घृ॒तं पिबन्थ्सु॒यजा॑ यक्षि दे॒वान् । आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः । घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यम् । पि॒तेव॑ पु॒त्रम॒भिर॑क्षतादि॒मम् ।। 11 ।। 1.2.1.12 त्वाम॑ग्ने समिधा॒नं य॑विष्ठ । दे॒वा दू॒तं च॑क्रिरे हव्य॒वाहम् । उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तम् । त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्व॑ति । त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तेन॑ । सु॒म्ना॒यव॑स्सुष॒मिधा॒ समी॑धिरे । स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तः । उ॒रु ज्रया॑सि॒ पार्थि॑वा॒ विति॑ष्ठसे । घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धूर्॒षदम् । अ॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ॑ञ्जते ।। 12 ।। 1.2.1.13 इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑त् । शु॒क्रव॑र्णा॒मुदु॑ नो यसते॒ धियम् । प्र॒जा अ॑ग्ने॒ संवा॑सय । आशाश्च प॒शुभि॑स्स॒ह । रा॒ष्ट्राण्य॑स्मा॒ आधे॑हि । यान्यासन्थ्सवि॒तुस्स॒वे । म॒ही वि॒श्पत्नी॒ सद॑ने ऋ॒तस्य॑ । अ॒र्वाची॒ एतं॑ धरुणे रयी॒णाम् । अ॒न्तर्व॑त्नी॒ जन्यं॑ जा॒तवे॑दसम् । अ॒ध्व॒राणां जनयथ पुरो॒गाम् ।। 13 ।। 1.2.1.14 आरो॑हतं द॒शत॒॒ शक्व॑री॒र्मम॑ । ऋ॒तेनाग्न॒ आयु॑षा॒ वर्च॑सा स॒ह । ज्योग्जीव॑न्त॒ उत्त॑रामुत्तरा॒॒ समाम् । दऱ्श॑म॒हं पू॒र्णमा॑सं य॒ज्ञं यथा॒ यजै । ऋत्वि॑यवती स्थो अ॒ग्निरे॑तसौ । गर्भं॑ दधाथां॒ ते वा॑म॒हं द॑दे । तथ्स॒त्यं यद्वी॒रं बि॑भृथः । वी॒रं ज॑नयि॒ष्यथः॑ । ते मत्प्रा॒त प्रज॑निष्येथे । ते मा॒ प्रजा॑ते॒ प्रज॑नयि॒ष्यथः॑ ।। 14 ।। 1.2.1.15 प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ सुव॒र्गे लो॒के । अनृ॑ताथ्स॒त्यमुपै॑मि । मा॒नु॒षाद्देव्य॒मुपै॑मि । दैवीं॒ वाचं॑ यच्छामि । शल्कै॑र॒ग्निमि॑न्धा॒नः । उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयोर्लो॒कयोर्॑ ऋ॒ध्वा । अति॑ मृ॒त्युं त॑राम्य॒हम् । जात॑वेदो॒ भुव॑नस्य॒ रेतः॑ । इ॒ह सि॑ञ्च॒ तप॑सो॒ यज्ज॑नि॒ष्यते ।। 15 ।। 1.2.1.16 अ॒ग्निम॑श्व॒त्थादधि॑ हव्य॒वाहम् । श॒मी॒ग॒र्भाज्ज॒नय॒न्॒ यो म॑यो॒भूः । अ॒यं ते॒ योनि॑र्‌ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ । येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दं य॒मो॑ऽव॒सानं॑ पृथि॒व्याः । अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै ।। 16 ।। 1.2.1.17 अ॒ग्नेर्भस्मास्य॒ग्ने पुरी॑षमसि । सं॒ज्ञान॑मसि काम॒धर॑णम् । मयि॑ ते काम॒धर॑णं भूयात् । संव॑स्सृजामि॒ हृद॑यानि । ससृ॑ष्टं॒ मनो॑ अस्तु वः । संसृ॑ष्ट प्रा॒णो अ॑स्तु वः । सं या वः॑ प्रि॒यास्त॒नुवः॑ । सं प्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु॒ संप्रि॑यः । संप्रि॑यास्त॒नुवो॒ मम॑ ।। 17 ।। 1.2.1.18 कल्पे॑तां॒ द्यावा॑पृथि॒वी । कल्प॑न्ता॒माप॒ ओष॑धीः । कल्प॑न्ताम॒ग्नय॒ पृथ॑क् । मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । येऽग्नय॒स्सम॑नसः । अ॒न्त॒रा द्यावा॑पृथि॒वी । वास॑न्तिकावृ॒तू अ॒भि कल्प॑मानाः । इन्द्र॑मिव दे॒वा अ॒भि सं वि॑शन्तु । दि॒वस्त्वा॑ वी॒र्ये॑ण । पृ॒थि॒व्यै म॑हि॒म्ना ।। 18 ।। 1.2.1.19 अ॒न्तरि॑क्षस्य॒ पोषे॑ण । स॒र्वप॑शु॒माद॑धे । अजी॑जनन्न॒मृतं॒ मर्त्या॑सः । अ॒स्रे॒माणं॑ त॒रणिं॑ वी॒डुज॑म्भम् । दश॒ स्वसा॑रो अ॒ग्रुव॑स्समी॒चीः । पुमा॑सं जा॒तम॒भि सर॑भन्ताम् । प्र॒जाप॑तेस्त्वा प्रा॒णेनाभि॒ प्राणि॑मि । पू॒ष्ण पोषे॑ण॒ मह्यम् । दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । श॒त श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से ।। 19 ।। 1.2.1.20 जी॒वात्वै पुण्या॑य । अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्र पि॒त्रे लो॑क॒कृज्जा॑तवेदः । प्रा॒णे त्वा॒ऽमृत॒माद॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तारं॒ गुप्त्यै । सु॒गा॒र्॒ह॒प॒त्यो वि॒दह॒न्नरा॑तीः । उ॒षस॒श्श्रेय॑सीश्श्रेयसी॒र्दध॑त् ।। 20 ।। 1.2.1.21 अग्ने॑ स॒पत्ना॑ अप॒ बाध॑मानः । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ धेहि । इ॒मा उ॒ मामुप॑तिष्ठन्तु॒ रायः॑ । आ॒भि प्र॒जाभि॑रि॒ह संव॑सेय । इ॒हो इडा॑ तिष्ठतु विश्वरू॒पी । मध्ये॒ वसोर्दीदिहि जातवेदः । ओज॑से॒ बला॑य॒ त्वोद्य॑च्छे । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से । स॒प॒त्न॒तूर॑सि वृत्र॒तूः । यस्ते॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः ।। 21 ।। 1.2.1.22 यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । पुष्टि॒र्या ते॑ मनु॒ष्ये॑षु पप्र॒थे । तया॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ । दि॒वः पृ॑थि॒व्याः पर्य॒न्तिरि॑क्षात् । वातात्प॒शुभ्यो॒ अध्योष॑धीभ्यः । यत्र॑ यत्र जातवेदस्संब॒भूथ॑ । ततो॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ । प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् । अ॒ग्नेर॑ग्ने पु॒रोअ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॑हि ।। 22 ।। 1.2.1.23 ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । अन्व॒ग्निरु॒षसा॒मग्र॑मख्यत् । अन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीन् । अनु॒ द्यावा॑पृथि॒वी आत॑तान । विक्र॑मस्व म॒हा अ॑सि । वे॒दि॒षन्मानु॑षेभ्यः । त्रि॒षु लो॒केषु॑ जागृहि । यदि॒दं दि॒वो यद॒द पृ॑थि॒व्याः । सं॒वि॒दा॒ने रोद॑सी सं बभू॒वतुः॑ ।। 23 ।। 1.2.1.24 तयोः पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः । शं॒भू प्र॒जाभ्य॑स्त॒नुवे स्यो॒नः । प्रा॒णं त्वा॒ऽमृत॒ आ द॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तारं॒ गुप्त्यै । यत्ते॑ शुक्र शु॒क्रं वर्च॑श्शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निनाऽग्ने॒ ब्रह्म॑णा । आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र्व्या॑नशे ।। 24 ।। 1.2.1.25 नर्य॑ प्र॒जां मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसे । जा॒तां ज॑नि॒ष्यमा॑णां च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् । अथ॑र्व पि॒तुं मे॑ गोपाय । रस॒मन्न॑मि॒हायु॑षे । अद॑ब्धा॒योऽशी॑ततनो । अवि॑षन्न पि॒तुं कृ॑णु । शस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पादो॒ ये चतु॑ष्पदः ।। 25 ।। 1.2.1.26 अ॒ष्टाश॑फाश्च॒ य इ॒हाग्ने । ये चैक॑शफा आशु॒गाः । सप्र॑थ स॒भां मे॑ गोपाय । ये च॒ सभ्यास्सभा॒सदः॑ । तानि॑न्द्रि॒याव॑त कुरु । सर्व॒मायु॒रुपा॑सताम् । अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपाय । यमृष॑यस्त्रैवि॒दा वि॒दुः । ऋच॒स्सामा॑नि॒ यजू॑षि । सा हि श्रीर॒मृता॑ स॒ताम् ।। 26 ।। 1.2.1.27 चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्यं॑ धुक्ष्व॒ यज॑मानाय॒ कामान्॑ । इ॒हैव सन्तत्र॑ स॒तो वो॑ अग्नयः । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् । ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे । प॒ञ्च॒धाऽग्नीन्व्य॑क्रामत् । वि॒राट्थ्सृ॒ष्टा प्र॒जाप॑तेः । ऊ॒र्ध्वाऽऽरो॑हद्रोहि॒णी । योनि॑र॒ग्ने प्रति॑ष्ठितिः ।। 27 ।। 1.2.2.0 का॒र्या॑ वि॒राड्गृ॑ह्यन्ते॒ पव॑माने भव॒तीन्द्र॒ एकं॑ च ।। 2 ।। 1.2.2.1 नवै॒तान्यहा॑नि भवन्ति । नव॒ वै सु॑व॒र्गा लो॒काः । यदे॒तान्यहान्युप॒यन्ति॑ । न॒वस्वे॒व तथ्सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिण॑ प्रति॒तिष्ठ॑न्तो यन्ति । अ॒ग्नि॒ष्टो॒मा पर॑स्सामान का॒र्या॑ इत्या॑हुः । अ॒ग्नि॒ष्टो॒मसं॑मितस्सुव॒र्गो लो॒क इति॑ । द्वाद॑शाग्निष्टो॒मस्य॑ स्तो॒त्राणि॑ । द्वाद॑श॒ मासास्संवथ्स॒रः । तत्तन्न सूर्क्ष्यम् । उ॒क्थ्या॑ ए॒व स॑प्तद॒शाः पर॑स्सामानः का॒र्याः ।। 28 ।। 1.2.2.2 प॒शवो॒ वा उ॒क्थानि॑ । प॒शू॒नामव॑रुद्ध्यै । वि॒श्व॒जि॒द॒भि॒जिता॑वग्निष्टो॒मौ । उ॒क्थ्यास्सप्तद॒शा पर॑स्समानः । ते सस्तु॑ता वि॒राज॑म॒भि संप॑द्यन्ते । द्वे चर्चा॒वति॑रिच्येते । एक॑या॒ गौरति॑रिक्तः । एक॒याऽऽयु॑रू॒नः । सु॒व॒र्गो वै लो॒को ज्योतिः॑ । ऊर्ग्वि॒राट् ।। 29 ।। 1.2.2.3 सु॒व॒र्गमे॒व तेन॑ लो॒कम॒भि ज॑यन्ति । यत्पर॒॒ राथ॑न्तरम् । तत्प्र॑थ॒मेऽह॑न्का॒र्यम् । बृ॒हद्द्वि॒तीये । वै॒रू॒पं तृ॒तीये । वै॒रा॒जं च॑तु॒र्थे । शा॒क्व॒रं प॑ञ्च॒मे । रै॒व॒त ष॒ष्ठे । तदु॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति । स॒न्तन॑य ए॒ते ग्रहा॑ गृह्यन्ते ।। 30 ।। 1.2.2.4 अ॒ति॒ग्रा॒ह्या पर॑स्सामसु । इ॒माने॒वैतैर्लो॒कान्थ्संत॑न्वन्ति । मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते । अ॒ति॒ग्रा॒ह्या पर॑स्सामसु । मि॒थु॒नमे॒व तैर्यज॑माना॒ अव॑रुन्धते । बृ॒हत्पृ॒ष्ठं भ॑वति । बृ॒हद्वै सु॑व॒र्गो लो॒कः । बृ॒ह॒तैव सु॑व॒र्गं लो॒कं य॑न्ति । त्र॒य॒स्त्रि॒॒शिनाम॒ साम॑ । माध्य॑न्दिने॒ पव॑माने भवति ।। 31 ।। 1.2.2.5 त्रय॑स्त्रिश॒द्वै दे॒वताः । दे॒वता॑ ए॒वाव॑रुन्धते । ये वा इ॒तः पराञ्च संवथ्स॒रमु॑प॒यन्ति॑ । न है॑नं॒ ते स्व॒स्ति सम॑श्ञुवते । अथ॒ ये॑ऽमुतो॒ऽर्वाञ्च॑मुप॒यन्ति॑ । ते है॑न स्व॒स्ति सम॑श्ञुवते । ए॒तद्वा अ॒मुतो॒ऽर्वाञ्च॒मुप॑यन्ति । यदे॒वम् । यो ह॒ खलु॒ वाव प्र॒जाप॑तिः । स उ॑वे॒वेन्द्रः॑ । तदु॑ दे॒वेभ्यो॒ नय॑न्ति ।। 32 ।। 1.2.3.0 स॒मा॒यच्छ॑त्यतिग्रा॒ह्या॑ गृह्यन्ते गृ॒ह्यते॑ संवथ्स॒रस्या॒न्योन्यो गृह्येते॒ पञ्च॑ च ।। 3 ।। 1.2.3.1 संत॑ति॒र्वा ए॒ते ग्रहाः । यत्पर॑स्सामानः । वि॒षू॒वान्दि॑वाकी॒र्त्यम् । यथा॒ शाला॑यै॒ पक्ष॑सी । ए॒व सं॑वथ्स॒रस्य॒ पक्ष॑सी । यदे॒तेन गृ॒ह्येरन्न्॑ । विषू॑ची संवथ्स॒रस्य॒ पक्ष॑सी॒ व्यव॑स्रसेयाताम् । आर्ति॒मार्च्छे॑युः । यदे॒ते गृ॒ह्यन्ते । यथा॒ शाला॑यै॒ प॑क्षसी मध्य॒मं व॒॒शम॒भि स॑मा॒यच्छ॑ति ।। 33 ।। 1.2.3.2 ए॒व सं॑वथ्स॒रस्य॒ पक्ष॑सी दिवाकी॒र्त्य॑म॒भि सं त॑न्वन्ति । नार्ति॒मार्च्छ॑न्ति । ए॒क॒वि॒॒शमह॑र्भवति । शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ । सौ॒र्य॑ ए॒तदह॑ प॒शुराल॑भ्यते । सौ॒र्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते । स॒प्तैतदह॑रतिग्रा॒ह्या॑ गृह्यन्ते ।। 34 ।। 1.2.3.3 स॒प्त वै शी॑ऱ्ष॒ण्या प्रा॒णाः । अ॒सावा॑दि॒त्यश्शिर॑ प्र॒जानाम् । शी॒र्॒षन्ने॒व प्र॒जानां प्रा॒णान्द॑धाति । तस्माथ्स॒प्त शी॒र्॒षन्प्रा॒णाः । इन्द्रो॑ वृ॒त्र ह॒त्वा । असु॑रान्परा॒भाव्य॑ । स इ॒माल्लोँ॒कान॒भ्य॑जयत् । तस्या॒सौ लो॒कोऽन॑भिजित आसीत् । तं वि॒श्वक॑र्मा भू॒त्वाऽभ्य॑जयत् । यद्वैश्वकर्म॒णो गृ॒ह्यते ।। 35 ।। 1.2.3.4 सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते । ये वैश्वकर्म॒णं गृ॒ह्णते । आ॒दि॒त्यश्श्वो गृ॑ह्यते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति । अ॒न्योन्यो गृह्येते । विश्वान्ये॒वान्येन॒ कर्मा॑णि कुर्वा॒णा य॑न्ति । अ॒स्याम॒न्येन॒ प्रति॑ तिष्ठन्ति । तावाऽप॑रा॒र्धाथ्सं॑वथ्स॒रस्या॒न्योन्यो गृह्येते । तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते । य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा । उ॒भयोर्लो॒कयो॒ प्रति॑तिष्ठन्ति । अ॒र्क्य॑मु॒क्थं भ॑वति । अ॒न्नाद्य॒स्याव॑रुध्यै ।। 36 ।। 1.2.4.0 ए॒ति॒ पव॑मानयो॒स्स्परा॑णि॒ पञ्च॑ च ।। 4 ।। 1.2.4.1 ए॒क॒वि॒॒श ए॒ष भ॑वति । ए॒तेन॒ वै दे॒वा ए॑कवि॒॒शेन॑ । आ॒दि॒त्यमि॒त उ॑त्त॒म सु॑व॒र्गं लो॒कमारो॑हयन्न् । स वा ए॒ष इ॒त ए॑कवि॒॒शः । तस्य॒ दशा॒वस्ता॒दहा॑नि । दश॑ प॒रस्तात् । स वा ए॒ष वि॒राज्यु॑भ॒यतः॒ प्रति॑ष्ठितः । वि॒राजि॒ हि वा ए॒ष उ॑भ॒यतः॒ प्रति॑ष्ठितः । तस्मा॑दन्त॒रेमौ लो॒कौ यन्न् । सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व॑भि॒तप॑न्नेति ।। 37 ।। 1.2.4.2 दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । परा॑चोऽतिपा॒दाद॑बिभयुः । तं छन्दो॑भिरदृह॒न्धृत्यै । दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । अवा॑चोऽवपा॒दाद॑बिभयुः । तं प॒ञ्चभी॑ र॒श्मिभि॒रुद॑वयन्न् । तस्मा॑देकवि॒॒शेऽ- ह॒न्पञ्च॑ दिवाकी॒र्त्या॑नि क्रियन्ते । र॒श्मयो॒ वै दि॑वाकी॒र्त्या॑नि । ये गा॑य॒त्रे । ते गा॑य॒त्रीषूत्त॑रयो॒ पव॑मानयोः ।। 38 ।। 1.2.4.3 म॒हादि॑वाकीर्त्य॒॒ होतु॑ पृ॒ष्ठम् । वि॒क॒र्णं ब्र॑ह्मसा॒मम् । भा॒सोऽग्निष्टो॒मः । अथै॒तानि॒ परा॑णि । परै॒र्वै दे॒वा आ॑दि॒त्य सु॑व॒र्गं लो॒कम॑पारयन्न् । यदपा॑रयन्न् । तत्परा॑णां पर॒त्वम् । पा॒रय॑न्त्येनं॒ परा॑णि । य ए॒वं वेद॑ । अथै॒तानि॒ स्परा॑णि । स्परै॒र्वै दे॒वा आ॑दि॒त्य सु॑व॒र्गं लो॒कम॑स्पारयन्न् । यदस्पा॑रयन्न् । तथ्स्परा॑णा स्पर॒त्वम् । स्पा॒रय॑न्त्यैन॒॒ स्परा॑णि । य ए॒वं वेद॑ ।। 39 ।। 1.2.5.0 ते ए॒वाल॑भन्ते मैत्रावरु॒णीमाल॑भ॒न्तेऽव॑रुद्ध्यै स॒प्त च॑ ।। 5 ।। 1.2.5.1 अप्र॑तिष्ठां॒ वा ए॒ते ग॑च्छन्ति । येषा॑ संवथ्स॒रेऽना॒प्तेऽथ॑ । ए॒का॒द॒शिन्या॒प्यते । वै॒ष्ण॒वं वा॑म॒नमा ल॑भन्ते । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञमे॒वाल॑भन्ते॒ प्रति॑ष्ठित्यै । ऐ॒न्द्रा॒ग्नमाल॑भन्ते । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ते ए॒वाल॑भन्ते ।। 40 ।। 1.2.5.2 वै॒श्व॒दे॒वमाल॑भन्ते । दे॒वता॑ ए॒वाव॑रुन्धते । द्या॒वा॒पृ॒थिव्यां धे॒नुमाल॑भन्ते । द्यावा॑पृथि॒व्योरे॒व प्रति॑ तिष्ठन्ति । वा॒य॒व्यं॑ व॒थ्समाल॑भन्ते । वा॒युरे॒वैभ्यो॑ यथाऽऽयत॒नाद्दे॒वता॒ अव॑रुन्धे । आ॒दि॒त्यामविं॑ व॒शामाल॑भन्ते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति । मै॒त्रा॒व॒रु॒णीमाल॑भन्ते ।। 41 ।। 1.2.5.3 मि॒त्रेणै॒व य॒ज्ञस्य॒ स्वि॑ष्ट शमयन्ति । वरु॑णेन॒ दुरि॑ष्टम् । प्रा॒जा॒प॒त्यं तू॑प॒रं म॑हाव्र॒त आल॑भन्ते । प्रा॒जा॒प॒त्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते । आ॒ग्ने॒यमा ल॑भन्ते॒ प्रति॒ प्रज्ञात्यै । अ॒ज॒पे॒त्वान् वा ए॒ते पूर्वै॒र्मासै॒रव॑ रुन्धते । यदे॒ते ग॒व्या प॒शव॑ आल॒भ्यन्ते । उ॒भये॑षां पशू॒नामव॑रुद्ध्यै ।। 42 ।। 1.2.5.4 यदति॑रिक्तामेकाद॒शिनी॑मा॒लभे॑रन्न् । अप्रि॑यं॒ भ्रातृ॑व्यम॒भ्यति॑रिच्येत । यद्द्वौद्वौ॑ प॒शू स॒मस्ये॑युः । कनी॑य॒ आयु॑ कुर्वीरन्न् । यदे॒ते ब्राह्म॑णवन्त प॒शव॑ आल॒भ्यन्ते । नाप्रि॑यं॒ भ्रातृ॑व्यम॒भ्य॑ति॒रिच्य॑ते । न कनी॑य॒ आयु॑ कुर्वते ।। 43 ।। 1.2.6.0 भ॒व॒ति॒ भ॒व॒ति॒ क्रि॒यते॒ पुरु॑षो जयत्यजयञ्जय॒त्येकं॑ च ।। 6 ।। 1.2.6.1 प्र॒जाप॑ति प्र॒जास्सृ॒ष्ट्वा वृ॒त्तो॑ऽशयत् । तं दे॒वा भू॒ताना॒॒ रसं॒ तेज॑स्सं॒भृत्य॑ । तेनै॑नमभिषज्यन्न् । म॒हान॑वव॒र्तीति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हद्व्र॒तमिति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒ह॒तो व्र॒तमिति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । प॒ञ्च॒वि॒॒शस्स्तोमो॑ भवति ।। 44 ।। 1.2.6.2 चतु॑र्विशत्यर्धमासस्संवथ्स॒रः । यद्वा ए॒तस्मिन्थ्संवथ्स॒रेऽधि॒ प्राजा॑यत । तदन्नं॑ पञ्चवि॒॒शम॑भवत् । म॒ध्य॒त क्रि॑यते । म॒ध्य॒तो ह्यन्न॑मशि॒तं धि॒नोति॑ । अथो॑ मध्य॒त ए॒व प्र॒जाना॒मूर्ग्धी॑यते । अथ॒ यद्वा इ॒दम॑न्त॒त क्रि॒यते । तस्मा॑दुद॒न्ते प्र॒जास्समे॑धन्ते । अ॒न्त॒त क्रि॑यते प्र॒जन॑नायै॒व । त्रि॒वृच्छिरो॑ भवति ।। 45 ।। 1.2.6.3 त्रे॒धा॒वि॒हि॒त हि शिरः॑ । लोम॑ छ॒वीरस्थि॑ । परा॑चा स्तुवन्ति । तस्मा॒त्तथ्स॒दृगे॒व । न मेद्य॒तोऽनु॑ मेद्यति । न कृश्य॒तोऽनु॑ कृश्यति । प॒ञ्च॒द॒शोऽन्य प॒क्षो भ॑वति । स॒प्त॒द॒शोऽन्यः । तस्मा॒द्वया॑ स्यन्यत॒रम॒र्धम॒भि प॒र्याव॑र्तन्ते । अ॒न्य॒त॒रतो॒ हि तद्गरी॑य क्रि॒यते ।। 46 ।। 1.2.6.4 प॒ञ्च॒वि॒॒श आ॒त्मा भ॑वति । तस्मान्मध्य॒त प॒शवो॒ वरि॑ष्ठाः । ए॒क॒वि॒॒शं पुच्छम् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै । सर्वे॑ण स॒ह स्तु॑वन्ति । सर्वे॑ण॒ ह्यात्मनाऽऽत्म॒न्वी । स॒होत्पत॑न्ति । एकै॑का॒मुच्छि॑षन्ति । आ॒त्मन्न् ह्यङ्गा॑नि ब॒द्धानि॑ । न वा ए॒तेन॒ सर्व॒ पुरु॑षः ।। 47 ।। 1.2.6.5 यदि॒तइ॑तो॒ लोमा॑नि द॒तो न॒खान् । प॒रि॒माद॑ क्रियन्ते । तान्ये॒व तेन॒ प्रत्यु॑प्यन्ते । औदु॑म्बर॒स्तल्पो॑ भवति । ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुध्यै । यस्य॑ तल्प॒सद्य॒मन॑भिजित॒॒ स्यात् । स दे॒वाना॒॒ साम्य॑क्षे । त॒ल्प॒सद्य॑म॒भिज॑या॒नीति॒ तल्प॑मा॒रुह्योद्गा॑येत् । त॒ल्प॒सद्य॑मे॒वाभि ज॑यति ।। 48 ।। 1.2.6.6 यस्य॑ तल्प॒सद्य॑म॒भिजि॑त॒॒ स्यात् । स दे॒वाना॒॒ साम्य॑क्षे । त॒ल्प॒सद्यं॒ मा परा॑जे॒षीति॒ तल्प॑मा॒रुह्योद्गा॑येत् । न त॑ल्प॒सद्यं॒ परा॑जयते । प्ले॒ङ्खे श॑सति । महो॒ वै प्ले॒ङ्खः । मह॑स ए॒वान्नाद्य॒स्याव॑रुद्ध्यै । दे॒वा॒सु॒रास्संय॑त्ता आसन्न् । त आ॑दि॒त्ये व्याय॑च्छन्त । तं दे॒वास्सम॑जयन्न् ।। 49 ।। 1.2.6.7 ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते व्याय॑च्छेते । दैव्यो॒ वै वर्णो ब्राह्म॒णः । अ॒सु॒र्य॑श्शू॒द्रः । इ॒मे॑ऽराथ्सुरि॒मे सु॑भू॒तम॑क्र॒न्नित्य॑न्यत॒रो ब्रू॑यात् । इ॒म उ॑द्वासीका॒रिण॑ इ॒मे दु॑र्भू॒तम॑क्र॒न्नित्य॑न्यत॒रः । यदे॒वैषा॑ सुकृ॒तं या राद्धिः॑ । तद॑न्यत॒रो॑ऽभि श्री॑णाति । यदे॒वैषां दुष्कृ॒तं याऽराद्धिः । तद॑न्यत॒रोऽप॑ हन्ति । ब्रा॒ह्म॒णस्सं ज॑यति । अ॒मुमे॒वादि॒त्यं भ्रातृ॑व्यस्य॒ संवि॑न्दन्ते ।। 50 ।। 1.3.0.0 दे॒वा॒सु॒रा अ॒ग्नीषोम॑योर्दे॒वा वै यथा॒दऱ्शं॑ दे॒वा वै यद॒न्यैर्ग्रहै॑र्ब्रह्मवा॒दिनो॒ नाग्नि॑ष्टो॒मो न सा॑वि॒त्रं दे॒वस्या॒हं ता॒र्प्य स॒प्तान्न॑हो॒मान्नृ॒षदं॒ त्वेन्द्रो॑ वृ॒त्र ह॒त्वा दश॑ ।। 10।। दे॒वा॒सु॒रा वा॒ज्ये॑वैनं॒ तस्माद्वाजपेयया॒जी दे॒वस्या॒हं वाज॒स्याव॑रुद्ध्या इन्द्रि॒यमे॒वास्मि॒न्॒ ह्लीका॒ हि पि॒तर॒ पञ्च॑षष्टिः ।। 65 ।। ।। दे॒वा॒सु॒रा यज॑मानः ।। हरिः॑ ओम् ।। इति तैत्तिरीय ब्राह्मणे प्रथमाष्टके तृतीयप्रपाठकः 1.3.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयप्रश्नः ।। हरिः ओम् ।। 1.3.1.0 अ॒रु॒न्ध॒तै॒व तद्भ॑वति॒ संभृ॑तसंभार॒ इत्या॑हुरि॒च्छति॑ पत्नीसंया॒जा नव॑ च ।। 1 ।। 1.3.1.1 दे॒वा॒सु॒रास्संय॑त्ता आसन्न् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नीषोम॑योस्तेज॒स्विनीस्त॒नूस्संन्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ । तेना॒ग्नीषोमा॒वपाक्रामताम् । ते दे॒वा वि॒जित्य॑ । अ॒ग्नीषोमा॒वन्वैच्छन्न् । तेऽग्निमन्व॑विन्दन्नृ॒तुषूथ्स॑न्नम् । तस्य॒ विभ॑क्तीभिस्तेज॒स्विनीस्त॒नूरवा॑रुन्धत ।। 1 ।। 1.3.1.2 ते सोम॒मन्व॑विन्दन्न् । तम॑घ्नन्न् । तस्य॑ यथाऽभि॒ज्ञायं॑ त॒नूर्व्य॑गृह्णत । ते ग्रहा॑ अभवन्न् । तद्ग्रहा॑णां ग्रह॒त्वम् । यस्यै॒वं वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते । तस्य॒ त्वे॑व गृ॑ही॒ताः । नानाऽऽग्नेयं पुनरा॒धेये॑ कुर्यात् । यदनाग्नेयं पुनरा॒धेये॑ कु॒र्यात् । व्यृ॑द्धमे॒व तत् ।। 2 ।। 1.3.1.3 अनाग्नेयं॒ वा ए॒तत्क्रि॑यते । यथ्स॒मिध॒स्तनू॒नपा॑तमि॒डो ब॒ऱ्हिर्य॑जति । उ॒भावाग्ने॒यावाज्य॑भागौ स्याताम् । अनाज्यभागौ भवत॒ इत्या॑हुः । यदु॒भावाग्ने॒याव॒न्वञ्चा॒विति॑ । अ॒ग्नये॒ पव॑माना॒योत्त॑रस्स्यात् । यत्पव॑मानाय । तेनाज्य॑भागः । तेन॑ सौ॒म्यः । बुध॑न्वत्याग्ने॒यस्याज्य॑भागस्य पुरोऽनुवा॒क्या॑ भवति ।। 3 ।। 1.3.1.4 यथा॑ सु॒प्तं बो॒धय॑ति । ता॒दृगे॒व तत् । अ॒ग्निन्य॑क्ताः पत्नीसंया॒जाना॒मृच॑स्स्युः । तेनाग्ने॒य सर्वं॑ भवति । ए॒क॒धा॒ ते॑ज॒स्विनीं दे॒वता॒मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ । नेति॑ ब्रूयात् । प्र॒जन॑नं॒ वा अ॒ग्निः । प्र॒जन॑नमे॒वोपै॒तीति॑ । कृ॒तय॑जु॒स्संभृ॑तसंभार॒ इत्या॑हुः ।। 4 ।। 1.3.1.5 न सं॒भृत्यास्संभा॒राः । न यजुः॑ का॒र्य॑मिति॑ । अथो॒ खलु॑ । सं॒भृत्या॑ ए॒व सं॑भा॒राः । का॒र्यं॑ यजुः॑ । पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै । तेनो॑पा॒॒शु प्रच॑रति । एष्य॑ इव॒ वा ए॒षः । यत्पु॑नरा॒धेयः॑ । यथो॑पा॒॒शु न॒ष्टमि॒च्छति॑ ।। 5 ।। 1.3.1.6 ता॒दृगे॒व तत् । उ॒च्चैस्स्वि॑ष्ट॒कृत॒मुथ्सृ॑जति । यथा॑ न॒ष्टं वि॒त्त्वा प्राहा॒यमिति॑ । ता॒दृगे॒व तत् । ए॒क॒धा ते॑ज॒स्विनीं दे॒वता॒मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ । तत्तथा॒ नोपै॑ति । प्र॒या॒जा॒नू॒या॒जेष्वे॒व विभ॑क्तीः कुर्यात् । य॒था॒पू॒र्वमाज्य॑भागौ॒ स्याताम् । ए॒वं प॑त्नीसंया॒जाः ।। 6 ।। 1.3.1.7 तद्वैश्वान॒रव॑त्प्र॒जन॑नवत्तर॒मुपै॒तीति॑ । तदा॑हुः । व्यृ॑द्धं॒ वा ए॒तत् । अनाग्नेयं॒ वा ए॒तत्क्रि॑यत॒ इति॑ । नेति॑ ब्रूयात् । अ॒ग्निं प्र॑थ॒मं विभ॑क्तीनां यजति । अ॒ग्निमु॑त्त॒मं प॑त्नीसंया॒जानाम् । तेनाग्ने॒यम् । तेन॒ समृ॑द्धं क्रियत॒ इति॑ ।। 7 ।। 1.3.2.0 धा॒वा॒मेति॒ ज्यैष्ठ्या॑य॒ वेद॑ ब्र॒ह्मा जा॑यते वाज॒पेय॒स्सुराऽऽर्त्वि॑जीन॒ एकं॑ च ।। 2 ।। 1.3.2.1 दे॒वा वै यथा॒दऱ्शं॑ य॒ज्ञानाह॑रन्त । योऽग्निष्टो॒मम् । य उ॒क्थ्यम् । यो॑ऽतिरा॒त्रम् । ते स॒हैव सर्वे॑ वाज॒पेय॑मपश्यन्न् । ते । अ॒न्योऽन्यस्मै॒ नाति॑ष्ठन्त । अ॒हम॒नेन॑ यजा॒ इति॑ । तेऽब्रुवन्न् । आ॒जिम॒स्य धा॑वा॒मेति॑ ।। 8 ।। 1.3.2.2 तस्मि॑न्ना॒जिम॑धावन्न् । तं बृह॒स्पति॒रुद॑जयत् । तेना॑यजत । स स्वाराज्यमगच्छत् । तमिन्द्रोऽब्रवीत् । माम॒नेन॑ याज॒येति॑ । तेनेन्द्र॑मयाजयत् । सोऽग्रं॑ दे॒वता॑नां॒ पर्यैत् । अग॑च्छ॒थ्स्वाराज्यम् । अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य ।। 9 ।। 1.3.2.3 य ए॒वं वि॒द्वान् वा॑ज॒पेये॑न॒ यज॑ते । गच्छ॑ति॒ स्वाराज्यम् । अग्र॑ समा॒नानां॒ पर्ये॑ति । तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य । स वा ए॒ष ब्राह्म॒णस्य॑ चै॒व रा॑ज॒न्य॑स्य च य॒ज्ञः । तं वा ए॒तं वा॑ज॒पेय॒ इत्या॑हुः । वा॒जाप्यो॒ वा ए॒षः । वाज॒॒ ह्ये॑तेन॑ दे॒वा ऐफ्सन्न्॑ । सोमो॒ वै वा॑ज॒पेयः॑ । यो वै सोमं॑ वाज॒पेयं॒ वेद॑ ।। 10 ।। 1.3.2.4 वा॒ज्ये॑वैनं॑ पी॒त्वा भ॑वति । आऽस्य॑ वा॒जी जा॑यते । अन्नं॒ वै वा॑ज॒पेयः॑ । य ए॒वं वेद॑ । अत्यन्नम् । आऽस्यान्ना॒दो जा॑यते । ब्रह्म॒ वै वा॑ज॒पेयः॑ । य ए॒वं वेद॑ । अत्ति॒ ब्रह्म॒णाऽन्नम् । आऽस्य॑ ब्र॒ह्मा जा॑यते ।।11।। 1.3.2.5 वाग्वै वाज॑स्य प्रस॒वः । य ए॒वं वेद॑ । क॒रोति॑ वा॒चा वी॒र्यम् । ऐनं॑ वा॒चा ग॑च्छति । अपि॑वतीं॒ वाचं॑ वदति । प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स आ॒त्मन्वा॑ज॒पेय॑मधत्त । तं दे॒वा अ॑ब्रुवन्न् । ए॒ष वाव य॒ज्ञः । यद्वा॑ज॒पेयः॑ ।। 12 ।। 1.3.2.6 अप्ये॒व नोऽत्रा॒स्त्विति॑ । तेभ्य॑ ए॒ता उज्जि॑ती॒ प्राय॑च्छत् । ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते । य॒ज्ञस्य॑ सर्व॒त्वाय॑ । दे॒वता॑ना॒मनि॑र्भागाय । दे॒वा वै ब्रह्म॑ण॒श्चान्न॑स्य च॒ शम॑ल॒मपाघ्नन्न् । यद्ब्रह्म॑ण॒श्शम॑ल॒मासीत् । सा गाथा॑ नाराश॒॒स्य॑भवत् । यदन्न॑स्य । सा सुरा ।। 13 ।। 1.3.2.7 तस्मा॒द्गाय॑तश्च म॒त्तस्य॑ च॒ न प्र॑ति॒गृह्यम् । यत्प्र॑तिगृह्णी॒यात् । शम॑लं॒ प्रति॑गृह्णीयात् । सर्वा॒ वा ए॒तस्य॒ वाचोऽव॑रुद्धाः । यो वा॑जपेयया॒जी । या पृ॑थि॒व्यां याऽग्नौ या र॑थन्त॒रे । याऽन्तरि॑क्षे॒ या वा॒यौ या वा॑मदे॒व्ये । या दि॒वि याऽऽदि॒त्ये या बृ॑ह॒ति । याऽफ्सु यौष॑धीषु॒ या वन॒स्पति॑षु । तस्माद्वाजपेयया॒ज्यार्त्वि॑जीनः । सर्वा॒ ह्य॑स्य॒ वाचोऽव॑रुद्धाः ।। 14 ।। 1.3.3.0 आ॒प्त्वाऽव॑रुन्धे॒ सोम॒श्शम॑लं॒ यथ्सुरा॒ ह्य॑स्यैनं॒ व्यति॑षजति॒ व्याव॑र्तयति सृजति च॒त्वारि॑ च ।। 3 ।। 1.3.3.1 दे॒वा वै यद॒न्यैर्ग्रहैर्य॒ज्ञस्य॒ नावारु॑न्धत । तद॑तिग्रा॒ह्यै॑रति॒गृह्यावा॑रुन्धत । तद॑तिग्र॒ह्या॑णामतिग्राह्य॒त्वम् । यद॑तिग्रा॒ह्या॑ गृ॒ह्यन्ते । यदे॒वान्यैर्ग्रहैर्य॒ज्ञस्य॒ नाव॑रु॒न्धे । तदे॒व तैर॑ति॒गृह्याव॑रुन्धे । पञ्च॑ गृह्यन्ते । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तमा॒प्त्वाऽव॑रुन्धे ।। 15 ।। 1.3.3.2 सर्व॑ ऐ॒न्द्रा भ॑वन्ति । ए॒क॒धैव यज॑मान इन्द्रि॒यं द॑धति । स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते । स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति । सो॒म॒ग्र॒हाश्च॑ सुराग्र॒हाश्च॑ गृह्णाति । ए॒तद्वै दे॒वानां पर॒ममन्नम् । यथ्सोमः॑ ।। 16 ।। 1.3.3.3 ए॒तन्म॑नु॒ष्या॑णाम् । यथ्सुरा । प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे । सो॒म॒ग्र॒हान्गृ॑ह्णाति । ब्रह्म॑णो॒ वा ए॒तत्तेजः॑ । यथ्सोमः॑ । ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति । सु॒रा॒ग्र॒हान्गृ॑ह्णाति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यथ्सुरा ।। 17 ।। 1.3.3.4 अन्न॑स्यै॒व शम॑लेन॒ शम॑लं॒ यज॑माना॒दप॑हन्ति । सो॒म॒ग्र॒हाश्च॑ सुराग्र॒हाश्च॑ गृह्णाति । पुमा॒न्॒ वै सोमः॑ । स्त्री सुरा । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । आ॒त्मान॑मे॒व सो॑मग्र॒हैस्स्पृ॑णोति । जा॒या सु॑राग्र॒हैः । तस्माद्वाजपेयया॒ज्य॑मुष्मि॑ल्लोँ॒के स्त्रिय॒॒ संभ॑वति । वा॒ज॒पेया॑भिजित॒॒ ह्य॑स्य ।। 18 ।। 1.3.3.5 पूर्वे॑ सोमग्र॒हा गृ॑ह्यन्ते । अप॑रे सुराग्र॒हाः । पु॒रो॒ऽक्ष सो॑मग्र॒हान्थ्सा॑दयति । प॒श्चा॒द॒क्ष सु॑राग्र॒हान् । पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै । ए॒ष वै यज॑मानः । यथ्सोमः॑ । अन्न॒॒ सुरा । सो॒म॒ग्र॒हाश्च॑ सुराग्र॒हाश्च॒ व्यति॑षजति । अ॒न्नाद्ये॑नै॒वैनं॒ व्यति॑षजति ।। 19 ।। 1.3.3.6 सं॒पृच॑स्स्थ॒ सं मा॑ भ॒द्रेण॑ पृ॒ङ्क्तेत्या॑ह । अन्नं॒ वै भ॒द्रम् । अ॒न्नाद्ये॑नै॒वैन॒॒ ससृ॑जति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यथ्सुरा । पा॒प्मेव॒ खलु॒ वै शम॑लम् । पा॒प्मना॒ वा ए॑नमे॒तच्छम॑लेन॒ व्यति॑षजति । यथ्सो॑मग्र॒हाश्च॑ सुराग्र॒हाश्च॑ व्यति॒षज॑ति । वि॒पृच॑स्स्थ॒ वि मा॑ पा॒प्मना॑ पृ॒ङ्क्तेत्या॑ह । पा॒प्मनै॒वैन॒॒ शम॑लेन॒ व्याव॑र्तयति ।। 20 ।। 1.3.3.7 तस्माद्वाजपेयया॒जी पू॒तो मेध्यो॑ दक्षि॒ण्यः॑ । प्राङुद्द्र॑वति सोमग्र॒हैः । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति । प्र॒त्यङ्ख्सु॑राग्र॒हैः । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति । प्रति॑ष्ठन्ति सोमग्र॒हैः । याव॑दे॒व स॒त्यम् । तेन॑ सूयते । वा॒ज॒सृद्भ्य॑स्सुराग्र॒हान् ह॑रन्ति । अनृ॑तेनै॒व विश॒॒ ससृ॑जति । हि॒र॒ण्य॒पा॒त्रं मधोपू॒र्णं द॑दाति । म॒ध॒व्यो॑ऽसा॒नीति॑ । ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति । ए॒क॒धैव यज॑मान॒ आयु॒स्तेजो॑ दधाति ।। 21 ।। 1.3.4.0 अ॒ति॒रा॒त्रम॒न्तरि॑क्षमु॒क्थ्ये॑न प्र॒जाप॑तिश्शमयि॒त्वोत्त॒मया॒ प्रच॑रति॒ षट् च॑ ।। 4 ।। 1.3.4.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । नाग्नि॑ष्टो॒मो नोक्थ्यः॑ । न षो॑ड॒शी नाति॑रा॒त्रः । अथ॒ कस्माद्वाज॒पेये॒ सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्त॒ इति॑ । प॒शुभि॒रिति॑ ब्रूयात् । आ॒ग्ने॒यं प॒शुमाल॑भते । अ॒ग्नि॒ष्टो॒ममे॒व तेनाव॑रुन्धे । ऐ॒न्द्रा॒ग्नेनो॒क्थ्यम् । ऐ॒न्द्रेण॑ षोड॒शिन॑स्स्तो॒त्रम् । सा॒र॒स्व॒त्याऽति॑रा॒त्रम् ।। 22 ।। 1.3.4.2 मा॒रु॒त्या बृ॑ह॒तस्स्तो॒त्रम् । ए॒ताव॑न्तो॒ वै य॑ज्ञक्र॒तवः॑ । तान्प॒शुभि॑रे॒वाव॑रुन्धे । आ॒त्मान॑मे॒व स्पृ॑णोत्यग्निष्टो॒मेन॑ । प्रा॒णा॒पा॒नावु॒क्थ्ये॑न । वी॒र्य॑ षोड॒शिन॑स्स्तो॒त्रेण॑ । वाच॑मतिरा॒त्रेण॑ । प्र॒जां बृ॑ह॒तस्स्तो॒त्रेण॑ । इ॒ममे॒व लो॒कम॒भिज॑यत्यग्निष्टो॒मेन॑ । अ॒न्तरि॑क्षमु॒क्थ्ये॑न ।। 23 ।। 1.3.4.3 सु॒व॒र्गं लो॒क षो॑ड॒शिन॑स्स्तो॒त्रेण॑ । दे॒व॒याना॑ने॒व प॒थ आरो॑हत्यतिरा॒त्रेण॑ । नाक॑ रोहति बृह॒तस्स्तो॒त्रेण॑ । तेज॑ ए॒वात्मन्ध॑त्त आग्ने॒येन॑ प॒शुना । ओजो॒ बल॑मैन्द्रा॒ग्नेन॑ । इ॒न्द्रि॒यमै॒न्द्रेण॑ । वाच॑ सारस्व॒त्या । उ॒भावे॒व दे॑वलो॒कं च॑ मनुष्यलो॒कं चा॒भिज॑यति मारु॒त्या व॒शया । स॒प्तद॑श प्राजाप॒त्यान्प॒शूनाल॑भते । स॒प्त॒द॒श प्र॒जाप॑तिः ।। 24 ।। 1.3.4.4 प्र॒जाप॑ते॒राप्त्यै । श्या॒मा एक॑रूपा भवन्ति । ए॒वमि॑व॒ हि प्र॒जाप॑ति॒स्समृ॑द्ध्यै । तान्पर्य॑ग्निकृता॒नुथ्सृ॑जति । म॒रुतो॑ य॒ज्ञम॑जिघासन्प्र॒जाप॑तेः । तेभ्य॑ ए॒तां मा॑रु॒तीं व॒शामाल॑भत । तयै॒वैना॑नशमयत् । मा॒रु॒त्या प्र॒चर्य॑ । ए॒तान्थ्संज्ञ॑पयेत् । म॒रुत॑ ए॒व श॑मयि॒त्वा ।। 25 ।। 1.3.4.5 ए॒तै प्रच॑रति । य॒ज्ञस्याघा॑ताय । ए॒क॒धा व॒पा जु॑होति । ए॒क॒दे॒व॒त्या॑ हि । ए॒ते । अथो॑ एक॒धैव यज॑माने वी॒र्यं॑ दधाति । नै॒वा॒रेण॑ स॒प्तद॑शशरावेणै॒तऱ्हि॒ प्रच॑रति । ए॒तत्पु॑रोडाशा॒ ह्ये॑ते । अथो॑ पशू॒नामे॒व छि॒द्रमपि॑दधाति । सा॒र॒स्व॒त्योत्त॒मया॒ प्रच॑रति । वाग्वै सर॑स्वती । तस्मात्प्रा॒णानां॒ वागु॑त्त॒मा । अथो प्र॒जाप॑तावे॒व य॒ज्ञं प्रति॑ष्ठापयति । प्र॒जाप॑ति॒र्‌हि वाक् । अप॑न्नदती भवति । तस्मान्मनु॒ष्यास्सर्वा॒व्वाँचं॑ वदन्ति ।। 26 ।। 1.3.5.0 स्व॒द॒य॒ति॒ प॒ल्पू॒लय॑ति॒ व्यावृ॑त्त्या॒ अनार्त्यै॒ द्वे च॑ ।। 5 ।। 1.3.5.1 सा॒वि॒त्रं जु॑होति॒ कर्म॑णकर्मण पु॒रस्तात् । कस्तद्वे॒देत्या॑हुः । यद्वा॑ज॒पेय॑स्य॒ पूर्वं॒ यदप॑र॒मिति॑ । स॒वि॒तृप्र॑सूत ए॒व य॑थापू॒र्वं कर्मा॑णि करोति । सव॑नेसवने जुहोति । आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मान कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति न॒ इत्या॑ह । वाग्वै दे॒वानां पु॒राऽन्न॑मासीत् । वाच॑मे॒वास्मा॒ अन्न॑ स्वदयति ।। 27 ।। 1.3.5.2 इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै । वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमित्या॑ह । यच्चै॒वेयम् । यच्चा॒स्यामधि॑ । तदे॒वाव॑रुन्धे । अथो॒ तस्मि॑न्ने॒वोभये॒ऽभिषि॑च्यते । अ॒फ्स्व॑न्तर॒मृत॑म॒फ्सु भे॑ष॒जमित्यश्वान्प- ल्पूलयति । अ॒फ्सु वा अश्व॑स्य॒ तृती॑यं॒ प्रवि॑ष्टम् । तद॑नु॒वेन॒न्वव॑प्लवते । यद॒फ्सु प॑ल्पू॒लय॑ति ।। 28 ।। 1.3.5.3 यदे॒वास्या॒फ्सु प्रवि॑ष्टम् । तदे॒वाव॑रुन्धे । ब॒हु वा अश्वो॑ऽमे॒ध्यमुप॑गच्छति । यद॒फ्सु प॑ल्पू॒लय॑ति । मेध्या॑ने॒वैनान्करोति । वा॒युर्वा त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह । ए॒ता वा ए॒तं दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन्न् । ताभि॑रे॒वैनान्॑ युनक्ति । स॒वस्योज्जि॑त्यै । यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै ।। 29 ।। 1.3.5.4 अपांनपादाशुहेम॒न्निति॒ संमार्ष्टि । मेध्या॑ने॒वैनान्करोति । अथो॒ स्तौत्ये॒वैना॑ना॒जि स॑रिष्य॒तः । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति । वै॒श्व॒दे॒वो वै रथः॑ । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यावित्या॑ह । या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टाः । ताभ्य॑ ए॒व नम॑स्करोति । आ॒त्मनोऽनार्त्यै । अश॑मरथंभावुकोऽस्य॒ रथो॑ भवति । य ए॒वं वेद॑ ।। 30 ।। 1.3.6.0 अ॒भिज॑यति॒ वा ए॒षा वाग्दी॑यन्तेऽस्मै युनक्ति गमयति॒ य आ॒जिं धाव॑न्ति भवति दे॒वत॑या॒ऽष्टौ च॑ ।। 6 ।। 1.3.6.1 दे॒वस्या॒ह स॑वि॒तु प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेष॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॒मुज्ज॑यति । दे॒वस्या॒ह स॑वि॒तु प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वऱ्षि॑ष्ठं॒ नाक॑ रुहेय॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वऱ्षि॑ष्ठं॒ नाक॑ रोहति । चात्वा॑ले रथच॒क्रं निमि॑त रोहति । अतो॒ वा अङ्गि॑रस उत्त॒मास्सु॑व॒र्गं लो॒कमा॑यन्न् । सा॒क्षादे॒व यज॑मानस्सुव॒र्गं लो॒कमे॑ति । आवेष्टयति । वज्रो॒ वै रथः॑ । वज्रे॑णै॒व दिशो॒ऽभिज॑यति ।। 31 ।। 1.3.6.2 वा॒जिना॒॒ साम॑ गायते । अन्नं॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । वा॒चो वर्ष्म॑ दे॒वेभ्योऽपाक्रामत् । तद्वन॒स्पती॒न्प्रावि॑शत् । सैषा वाग्वन॒स्पति॑षु वदति । या दु॑न्दु॒भौ । तस्माद्दुन्दु॒भिस्सर्वा॒ वाचोऽति॑वदति । दु॒न्दु॒भीन्थ्स॒माघ्न॑न्ति । प॒र॒मा वा ए॒षा वाक् ।। 32 ।। 1.3.6.3 या दु॑न्दु॒भौ । प॒र॒मयै॒व वा॒चाऽव॑रां॒ वाच॒म॑वरुन्धे । अथो॑ वा॒च ए॒व वर्ष्म॒ यज॑मा॒नोऽव॑रुन्धे । इन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयि॒दित्या॑ह । ए॒ष वा ए॒तऱ्हीन्द्रः॑ । यो यज॑ते । यज॑मान ए॒व वाज॒मुज्ज॑यति । स॒प्तद॑श प्रव्या॒धाना॒जिं धा॑वन्ति । स॒प्त॒द॒श स्तो॒त्रं भ॑वति । स॒प्तद॑शसप्तदश दीयन्ते ।। 33 ।। 1.3.6.4 स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जा॑पते॒राप्त्यै । अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह । अ॒ग्निर्वा अर्वा । वा॒युस्सप्तिः॑ । आ॒दि॒त्यो वा॒जी । ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भिर्देवर॒थं यु॑नक्ति । प्र॒ष्टि॒वा॒हिनं॑ युनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थमे॒वास्मै॑ युनक्ति ।। 34 ।। 1.3.6.5 वाजि॑नो॒ वाजं॑ धावत॒ काष्ठां गच्छ॒तेत्या॑ह । सु॒व॒र्गो वै लो॒क काष्ठा । सु॒व॒र्गमे॒व लो॒कं य॑न्ति । सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति । य आ॒जिं धाव॑न्ति । प्राञ्चो॑ धावन्ति । प्राङि॑व॒ हि सु॑व॒र्गो लो॒कः । च॒त॒सृभि॒रनु॑ मन्त्रयते । च॒त्वारि॒ छन्दा॑सि । छन्दो॑भिरे॒वैनान्थ्सुव॒र्गं लो॒कं ग॑मयति ।। 35 ।। 1.3.6.6 प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते । य आ॒जिं धाव॑न्ति । उद॑ञ्च॒ आव॑र्तन्ते । अ॒स्मादे॒व तेन॑ लो॒कान्नय॑न्ति । र॒थ॒वि॒मो॒च॒नीयं॑ जुहोति॒ प्रति॑ष्ठित्त्यै । आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह । अन्नं॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । य॒था॒लो॒कं वा ए॒त उज्ज॑यन्ति । य आ॒जिं धाव॑न्ति ।। 36 ।। 1.3.6.7 कृ॒ष्णलं॑कृष्णलं वाज॒सृद्भ्य॒ प्रय॑च्छति । यमे॒व ते वाजं॑ लो॒कमु॒ज्जय॑न्ति । तं प॑रि॒क्रीयाव॑रुन्धे । ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति । दे॒वा वा ओष॑धीष्वा॒जिम॑युः । ता बृह॒स्पति॒रुद॑जयत् । स नी॒वारा॒न्निर॑वृणीत । तन्नी॒वारा॑णां नीवार॒त्वम् । नै॒वा॒रश्च॒रुर्भ॑वति ।। 37 ।। 1.3.6.8 ए॒तद्वै दे॒वानां पर॒ममन्नम् । यन्नी॒वाराः । प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे । स॒प्तद॑शशरावो भवति । स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्ये । क्षी॒रे भ॑वति । रुच॑मे॒वास्मि॑न्दधाति । स॒र्पिष्वान्भवति मेध्य॒त्वाय॑ । बा॒र्॒ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या ।। 38 ।। 1.3.6.9 यो वा॑ज॒पेये॑न॒ यज॑ते । बा॒र्॒ह॒स्प॒त्य ए॒ष च॒रुः । अश्वान्थ्सरिष्य॒तस्स॒स्रुष॒श्चाव॑ घ्रापयति । यमे॒व ते वाजं॑ लो॒कमु॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे । अजी॑जिपत वनस्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्व॒मिति॑ दुन्दु॒भीन् विमु॑ञ्चति । यमे॒व ते वाजं॑ लो॒कमि॑न्द्रि॒यं दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे ।। 39 ।। 1.3.7.0 प॒रि॒धा॒पय॑ति गो॒धूमा॑ जुहोति॒ स्वं नैति॑ प्र॒त्यञ्चं घ्नन्ति लो॒को नव॑ च ।। 7 ।। 1.3.7.1 ता॒र्प्यं यज॑मानं॒ परि॑धापयति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैन॒॒ सम॑र्धयति । द॒र्भ॒मयं॒ परि॑धापयति । प॒वित्रं॒ वै द॒र्भाः । पु॒नात्ये॒वैनम् । वाजं॒ वा ए॒षोऽव॑रुरुथ्सते । यो वा॑ज॒पये॑न॒ यज॑ते । ओष॑धय॒ खलु॒ वै वाजः॑ । यद्द॑र्भ॒मयं॑ परिधा॒पय॑ति ।। 40 ।। 1.3.7.2 वाज॒स्याव॑रुद्ध्यै । जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह । पत्नि॑या ए॒वैष य॒ज्ञस्यान्वार॒म्भोऽन॑वच्छित्त्यै । स॒प्तद॑शारत्नि॒र्यूपो॑ भवति । स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । तू॒प॒रश्चतु॑रश्रिर्भवति । गौ॒धू॒मं च॒षालम् । न वा ए॒ते व्री॒हयो॒ न यवाः । यद्गो॒धूमाः ।। 41 ।। 1.3.7.3 ए॒वमि॑व॒ हि प्र॒जाप॑ति॒स्समृ॑द्ध्यै । अथो॑ अ॒मुमे॒वास्मै॑ लो॒कमन्न॑वन्तं करोति । वासो॑भिर्वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ । स॒र्व॒दे॒व॒त्यं॑ वासः॑ । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒स्सम॑र्धयति । अथो॑ आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मान कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । द्वाद॑श वाजप्रस॒वीया॑नि जुहोति ।। 42 ।। 1.3.7.4 द्वाद॑श॒ मासास्संवथ्स॒रः । सं॒व॒थ्स॒रमे॒व प्री॑णाति । अथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑दधाति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । द॒शभि॒ कल्पै॑ रोहति । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णाने॒व य॑थास्था॒नं क॑ल्पयि॒त्वा । सु॒व॒र्गं लो॒कमे॑ति । ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् ।। 43 ।। 1.3.7.5 याव॑त्प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति । सुव॑र्दे॒वा अ॑ग॒न्मेत्या॑ह । सु॒व॒र्गमे॒व लो॒कमे॑ति । अ॒मृता॑ अभू॒मेत्या॑ह । अ॒मृत॑मिव॒ हि सु॑व॒र्गो लो॒कः । प्र॒जाप॑ते प्र॒जा अ॑भू॒मेत्या॑ह । प्रा॒जा॒प॒त्यो वा अ॒यं लो॒कः । अ॒स्मादे॒व तेन॑ लो॒कान्नैति॑ ।। 44 ।। 1.3.7.6 सम॒हं प्र॒जया॒ सं मया प्र॒जेत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । आ॒स॒पु॒टैर्घ्न॑न्ति । अन्नं॒ वा इ॒यम् । अ॒न्नाद्ये॑नै॒वैन॒॒ सम॑र्धयन्ति । ऊषैर्घ्नन्ति । ए॒ते हि सा॒क्षादन्नम् । यदूषाः । सा॒क्षादे॒वैन॑म॒न्नाद्ये॑न॒ सम॑र्धयन्ति । पु॒रस्तात्प्र॒त्यञ्चं घ्नन्ति ।। 45 ।। 1.3.7.7 पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते । शी॒र्॒ष॒तो घ्न॑न्ति । शी॒र्॒ष॒तो ह्यन्न॑म॒द्यते । दि॒ग्भ्यो घ्न॑न्ति । दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒मव॑रुन्धते । ई॒श्व॒रो वा ए॒ष पराङ्प्र॒दघः॑ । यो यूप॒॒ रोह॑ति । हिर॑ण्यम॒ध्यव॑रोहति । अ॒मृतं॒ वै हिर॑ण्यम् । अ॒मृत॑ सुव॒र्गो लो॒कः ।। 46 ।। 1.3.7.8 अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति । श॒तमा॑नं भवति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । पुष्ट्यै॒ वा ए॒तद्रू॒पम् । यद॒जा । त्रिस्सं॑वथ्स॒रस्या॒न्यान्प॒शून्परि॒ प्रजा॑यते । ब॒स्ता॒जि॒नम॒ध्यव॑ रोहति । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति ।। 47 ।। 1.3.8.0 अ॒श्नी॒यादन्न॑स्यान्न॒स्याव॑रुद्ध्या॒ इन्द्र॑स्य त्वा॒ साम्राज्येना॒भिषि॑ञ्चा॒मीत्या॑ह वाज॒सृत॒श्शिपि॒स्त्रीणि॑ च ।। 8 ।। 1.3.8.1 स॒प्तान्न॑हो॒माञ्जु॑होति । स॒प्त वा अन्ना॑नि । याव॑न्त्ये॒वान्ना॑नि । तान्ये॒वाव॑रुन्धे । स॒प्त ग्रा॒म्या ओष॑धयः । स॒प्तार॒ण्याः । उ॒भयी॑षा॒मव॑रुद्ध्यै । अन्न॑स्यान्नस्य जुहोति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै । यद्वा॑जपेयया॒ज्यन॑वरुद्धस्याश्नी॒यात् ।। 48 ।। 1.3.8.2 अव॑रुद्धेन॒ व्यृ॑द्ध्येत । सर्व॑स्य समव॒दाय॑ जुहोति । अन॑वरुद्ध॒स्याव॑रुद्ध्यै । औदु॑म्बरेण स्रु॒वेण॑ जुहोति । ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिर॒भिषि॑ञ्चति । अन्न॑स्यान्नस्या॒भिषि॑ञ्चति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।। 49 ।। 1.3.8.3 पु॒रस्तात्प्र॒त्यञ्च॑म॒भिषि॑ञ्चति । पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते । शी॒र्॒ष॒तो॑ऽभिषि॑ञ्चति । शी॒र्॒ष॒तो ह्यन्न॑म॒द्यते । आ मुखा॑द॒न्वव॑स्रावयति । मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधाति । अ॒ग्नेस्त्वा॒ साम्राज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । ए॒ष वा अ॒ग्नेस्स॒वः । तेनै॒वैन॑म॒भिषि॑ञ्चति । इन्द्र॑स्य त्वा॒ साम्राज्येना॒भिषि॑ञ्चा॒मीत्या॑ह ।। 50 ।। 1.3.8.4 इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति । बृह॒स्पतेस्त्वा॒ साम्राज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैन॑म॒भिषि॑ञ्चति । सो॒म॒ग्र॒हाश्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑हरन्ति । अ॒मुमे॒व तैर्लो॒कमन्न॑वन्तं करोति । सु॒रा॒ग्र॒हाश्चा॑नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑ । इ॒ममे॒व तैर्लो॒कमन्न॑वन्तं करोति । अथो॑ उ॒भयीष्वे॒वाभिषि॑च्यते । वि॒मा॒थं कु॑र्वते वाज॒सृतः॑ ।। 51 ।। 1.3.8.5 इ॒न्द्रि॒यस्याव॑रुद्ध्यै । अनि॑रुक्ताभि प्रातस्सव॒ने स्तु॑वते । अनि॑रुक्त प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । वाज॑वतीभि॒र्माध्य॑न्दिने । अन्नं॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । शि॒पि॒वि॒ष्टव॑तीभिस्तृतीयसव॒ने । य॒ज्ञो वै विष्णुः॑ । प॒शव॒श्शिपिः॑ । य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति । बृ॒हदन्त्यं॑ भवति । अन्त॑मे॒वैन॑ श्रि॒यै ग॑मयति ।। 52 ।। 1.3.9.0 ग॒च्छ॒ति॒ सू॒यते॒ नव॑ च ।। 9 ।। 1.3.9.1 नृ॒षदं॒ त्वेत्या॑ह । प्र॒जा वै नॄन् । प्र॒जाना॑मे॒वैतेन॑ सूयते । द्रु॒षद॒मित्या॑ह । वन॒स्पत॑यो॒ वै द्रु । वन॒स्पती॑नामे॒वैतेन॑ सूयते । भु॒व॒न॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । भुव॑नमग॒न्निति॒ वै तमा॑हुः । भुव॑नमे॒वैतेन॑ गच्छति ।। 53 ।। 1.3.9.2 अ॒प्सु॒षदं॑ त्वा घृत॒सद॒मित्या॑ह । अ॒पामे॒वैतेन॑ घृ॒तस्य॑ सूयते । व्यो॒म॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । व्यो॑माग॒न्निति॒ वै तमा॑हुः । व्यो॑मै॒वैते॑न गच्छति । पृ॒थि॒वि॒षदं॑ त्वाऽन्तरिक्ष॒सद॒मित्या॑ह । ए॒षामे॒वैतेन॑ लो॒काना॑ सूयते । तस्माद्वाजपेयया॒जी न कंच॒न प्र॒त्यव॑रोहति । अपी॑व॒ हि दे॒वता॑ना सू॒यते ।। 54 ।। 1.3.9.3 ना॒क॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । नाक॑मग॒न्निति॒ वै तमा॑हुः । नाक॑मे॒वैतेन॑ गच्छति । ये ग्रहा पञ्चज॒नीना॒ इत्या॑ह । प॒ञ्च॒ज॒नाना॑मे॒वैतेन॑ सूयते । अ॒पा रस॒मुद्व॑यस॒मित्या॑ह । अ॒पामे॒वैतेन॒ रस॑स्य सूयते । सूर्य॑रश्मि स॒माभृ॑त॒मित्या॑ह सशुक्र॒त्वाय॑ ।। 55 ।। 1.3.10.0 इत्य॑श्नुते पद्यन्ते पद्यन्ते॒ षड्वा ऋ॒तवो॑ वर्त॒तेऽह॑विस्स्या॒न्नेदी॑य॒स्स्थ य॒ज्ञो यज॑मानश्चरति॒ यत्पि॒तृभ्य॑ क॒रोति॒ पञ्च॑ च ।। 10 ।। 1.3.10.1 इन्द्रो॑ वृ॒त्र ह॒त्वा । असु॑रान्परा॒भाव्य॑ । सो॑ऽमावा॒स्यां प्रत्याग॑च्छत् । ते पि॒तरः॑ पूर्वे॒द्युराग॑च्छन्न् । पि॒तॄन् य॒ज्ञो॑ऽगच्छत् । तं दे॒वा पुन॑रयाचन्त । तमेभ्यो॒ न पुन॑रददुः । तेऽब्रुव॒न्वरं॑ वृणामहै । अथ॑ व॒ पुन॑र्दास्यामः । अ॒स्मभ्य॑मे॒व पूर्वे॒द्यु क्रि॑याता॒ इति॑ ।। 56 ।। 1.3.10.2 तमेभ्यः॒ पुन॑रददुः । तस्मात्पि॒तृभ्य॑ पूर्वे॒द्यु क्रि॑यते । यत्पि॒तृभ्य॑ पूर्वे॒द्यु क॒रोति॑ । पि॒तृभ्य॑ ए॒व तद्य॒ज्ञं नि॒ष्क्रीय॒ यज॑मान॒ प्रत॑नुते । सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒ इत्या॑ह । पि॒तुरे॒वाधि॑ सोमपी॒थमव॑रुन्धे । न हि पि॒ता प्र॒मीय॑माण॒ आहै॒ष सो॑मपी॒थ इति॑ । इ॒न्द्रि॒यं वै सो॑मपी॒थः । इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे । तेनेन्द्रि॒येण॑ द्वि॒तीयां जा॒याम॒भ्य॑श्नुते ।। 57 ।। 1.3.10.3 ए॒तद्वै ब्राह्म॑णं पु॒रा वा॑जवश्रव॒सा वि॒दाम॑क्रन्न् । तस्मा॒त्ते द्वेद्वे॑ जा॒ये अ॒भ्याक्षत । य ए॒वं वेद॑ । अ॒भि द्वि॒तीयां॑ जा॒याम॑श्नुते । अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒ इत्या॑ह । य ए॒व पि॑तृ॒णाम॒ग्निः । तं प्री॑णाति । ति॒स्र आहु॑तीर्जुहोति । त्रिर्निद॑धाति । षट्थ्संप॑द्यन्ते ।। 58 ।। 1.3.10.4 षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । तू॒ष्णीं मेक्ष॑ण॒माद॑धाति । अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर्न वा । दे॒वान् वै पि॒तॄन्प्री॒तान् । म॒नु॒ष्या पि॒तरोऽनु॒ प्रपि॑पते । ति॒स्र आहु॑तीर्जुहोति । त्रिर्निद॑धाति । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ ।। 59 ।। 1.3.10.5 ऋ॒तव॒ खलु॒ वै दे॒वा पि॒तरः॑ । ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति । तान्प्री॒तान् । म॒नु॒ष्या पि॒तरोऽनु॒ प्रपि॑पते । स॒कृ॒दा॒च्छि॒न्नं ब॒ऱ्हिर्भ॑वति । स॒कृदि॑व॒ हि पि॒तरः॑ । त्रिर्निद॑धाति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । परा॒ङाव॑र्तते ।। 60 ।। 1.3.10.6 ह्लीका॒ हि पि॒तरः॑ । ओष्मणो व्या॒वृत॒ उपास्ते । ऊ॒ष्मभा॑गा॒ हि पि॒तरः॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्राश्या (3) न्न प्राश्या (3) मिति॑ । यत्प्राश्नी॒यात् । जन्य॒मन्न॑मद्यात् । प्र॒मायु॑कस्स्यात् । यन्न प्राश्नी॒यात् । अह॑विस्स्यात् ।। 61 ।। 1.3.10.7 पि॒तृभ्य॒ आवृ॑श्च्येत । अ॒व॒घ्रेय॑मे॒व । तन्नेव॒ प्राशि॑तं॒ नेवाप्रा॑शितम् । वी॒रं वा॒ वै पि॒तर॑ प्र॒यन्तो॒ हर॑न्ति । वी॒रं वा॑ ददति । द॒शां छि॑नत्ति । हर॑णभागा॒ हि पि॒तरः॑ । पि॒तॄने॒व नि॒रव॑दयते । उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत । पि॒तृ॒णा ह्ये॑तऱ्हि॒ नेदी॑यः ।। 62 ।। 1.3.10.8 नम॑स्करोति । न॒म॒स्का॒रो हि पि॑तृ॒णाम् । नमो॑ व पितरो॒ रसा॑य । नमो॑ व पितर॒श्शुष्मा॑य । नमो॑ व पितरो जी॒वाय॑ । नमो॑ व पितरस्स्व॒धायै । नमो॑ व पितरो म॒न्यवे । नमो॑ व पितरो घो॒राय॑ । पित॑रो॒ नमो॑ वः । य ए॒तस्मि॑ल्लोँ॒के स्थ ।। 63 ।। 1.3.10.9 यु॒ष्मास्तेऽनु॑ । येऽस्मिल्लोँ॒के । मां तेऽनु॑ । य ए॒तस्मि॑ल्लोँ॒के स्थ । यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त । येऽस्मिल्लोँ॒के । अ॒हं तेषां॒ वसि॑ष्ठो भूयास॒मित्या॑ह । वसि॑ष्ठस्समा॒नानां भवति । य ए॒वं वि॒द्वान्पि॒तृभ्य॑ क॒रोति॑ । ए॒ष वै म॑नु॒ष्या॑णां य॒ज्ञः ।। 64 ।। 1.3.10.10 दे॒वानां॒ वा इत॑रे य॒ज्ञाः । तेन॒ वा ए॒तत्पि॑तृलो॒के च॑रति । यत्पि॒तृभ्य॑ क॒रोति॑ । स ईश्व॒र प्रमे॑तोः । प्रा॒जा॒प॒त्यय॒र्चा पुन॒रैति॑ । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञेनै॒व स॒ह पुन॒रैति॑ । न प्र॒मायु॑को भवति । पि॒तृ॒लो॒के वा ए॒तद्यज॑मानश्चरति । यत्पि॒तृभ्य॑ क॒रोति॑ । स ईश्व॒र आर्ति॒मार्तोः । प्र॒जाप॑ति॒स्त्वावैनं॒ तत॒ उन्ने॑तुमऱ्ह॒तीत्या॑हुः । यत्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ । प्र॒जाप॑तिरे॒वैनं॒ तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ।। 65 ।। 1.4.0.0 उ॒भये॑ यु॒व सु॒राम॒मुद॑स्था॒न्नि वै यस्य॑ प्रातस्सव॒न एकै॑कोऽसु॒र्यं॑ पव॑मान प्र॒जा वै स॒त्रमा॑सता॒ग्निर्वाव सँ॑व्वथ्स॒रो दश॑ ।। 10 ।। उ॒भये॒ वा उद॑स्था॒थ्सर्वा॑भिर्मध्य॒तोऽत्र॒ वाव ब्राह्म॒णेष्वथ॑ गृहमे॒धिन॒॒ षट्थ्ष॑ष्टिः ।। उ॒भये॒ वा वैषः ।। 66 ।। हरिः॑ ओम् ।। चतुर्थ प्रपाठकस्समाप्तः 1.4.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थ प्रपाठक प्रारंभः । हरिः ओम् ।। 1.4.1.0 ग्र॒ह॒त्वं ग्रहाञ्जु॒होत्य॑कुर्वतादुह्रन्नाग्रयणस्था॒ली भव॑ति॒ नव॑ च ।। 1 ।। 1.4.1.1 उ॒भये॒ वा ए॒ते प्र॒जाप॑ते॒रध्य॑सृज्यन्त । दे॒वाश्चासु॑राश्च । तान्न व्य॑जानात् । इ॒मेऽन्य इ॒मेऽन्य इति॑ । स दे॒वान॒॒शून॑करोत् । तान॒भ्य॑षुणोत् । तान्प॒वित्रे॑णापुनात् । तान्प॒रस्तात्प॒वित्र॑स्य॒ व्य॑गृह्णात् । ते ग्रहा॑ अभवन्न् । तद्ग्रहा॑णां ग्रह॒त्वम् ।। 1 ।। 1.4.1.2 दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते । यद्ग्रहाः । वि॒दुरे॑नं दे॒वाः । यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते । ए॒षा वै सोम॒स्याहु॑तिः । यदु॑पा॒॒शुः । सोमे॑न दे॒वास्त॑र्पया॒णीति॒ खलु॒ वै सोमे॑न यजते । यदु॑पा॒॒शुं जु॒होति॑ । सोमे॑नै॒व तद्दे॒वास्त॑र्पयति । यद्ग्रहाञ्जु॒होति॑ ।। 2 ।। 1.4.1.3 दे॒वा ए॒व तद्दे॒वान्ग॑च्छन्ति । यच्च॑म॒साञ्जु॒होति॑ । तेनै॒वानु॑रूपेण॒ यज॑मानस्सुव॒र्गं लो॒कमे॑ति । किं न्वे॑तदग्र॑ आसी॒दित्या॑हुः । यत्पात्रा॒णीति॑ । इ॒यं वा ए॒तदग्र॑ आसीत् । मृ॒न्मया॑नि॒ वा ए॒तान्या॑सन्न् । तैर्दे॒वा न व्या॒वृत॑मगच्छन्न् । त ए॒तानि॑ दारु॒मया॑णि॒ पात्राण्यपश्यन्न् । तान्य॑कुर्वत ।। 3 ।। 1.4.1.4 तैर्वै ते व्या॒वृत॑मगच्छन्न् । यद्दा॑रु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । व्या॒वृत॑मे॒व तैर्यज॑मानो गच्छति । यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति । यानि॑ मृ॒न्मया॑नि । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । काश्चत॑स्रस्स्था॒लीर्वा॑य॒व्यास्सोम॒ग्रह॑णी॒रिति॑ । दे॒वा वै पृश्ञि॑मदुह्रन्न् ।। 4 ।। 1.4.1.5 तस्या॑ ए॒ते स्तना॑ आसन्न् । इ॒यं वै पृश्ञिः॑ । तामा॑दि॒त्या आ॑दित्यस्था॒ल्या चतु॑ष्पद प॒शून॑दुह्रन्न् । यदा॑दित्यस्था॒ली भव॑ति । चतु॑ष्पद ए॒व तया॑ प॒शून् यज॑मान इ॒मां दु॑हे । तामिन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम॑दुहत् । यदु॑क्थ्यस्था॒ली भव॑ति । इ॒न्द्रि॒यमे॒व तया॒ यज॑मान इ॒मां दु॑हे । तां विश्वे॑ दे॒वा आग्रयणस्था॒ल्योर्ज॑मदुह्रन्न् । यदाग्रयणस्था॒ली भव॑ति ।। 5 ।। 1.4.1.6 ऊर्ज॑मे॒व तया॒ यज॑मान इ॒मां दु॑हे । तां म॑नु॒ष्या ध्रुवस्था॒ल्याऽऽयु॑रदुह्रन्न् । यद्ध्रु॑वस्था॒ली भव॑ति । आयु॑रे॒व तया॒ यज॑मान इ॒मां दु॑हे । स्था॒ल्या गृ॒ह्णाति॑ । वा॒य॒व्ये॑न जुहोति । तस्मा॑द॒न्येन॒ पात्रे॑ण प॒शून्दु॒हन्ति॑ । अ॒न्येन॒ प्रति॑गृह्णन्ति । अथो व्या॒वृत॑मे॒व तद्यज॑मानो गच्छति ।। 6 ।। 1.4.2.0 सोम॑ आवि॒शन् य॑जे रा॒ज्यायैकं॑ च ।। 2 ।। 1.4.2.1 यु॒व सु॒राम॑मश्विना । नमु॑चावासु॒रे सचा । वि॒पि॒पा॒ना शु॑भस्पती । इन्द्रं॒ कर्म॑ स्वावतम् । पु॒त्त्रमि॑व पि॒तरा॑व॒श्विनो॒भा । इन्द्राव॑तं॒ कर्म॑णा द॒॒सना॑भिः । यथ्सु॒रामं॒ व्यपि॑ब॒श्शची॑भिः । सर॑स्वती त्वा मघवन्नभीष्णात् । अहाव्यग्ने ह॒विरा॒स्ये॑ते । स्रु॒चीव॑ घृ॒तं च॒मू इ॑व॒ सोमः॑ ।। 7 ।। 1.4.2.2 वा॒ज॒सनि॑ र॒यिम॒स्मे सु॒वीरम् । प्र॒श॒स्तं धे॑हि य॒शसं॑ बृ॒हन्तम् । यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणः॑ । व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे । हृ॒दा म॒तिं ज॑नय॒ चारु॑म॒ग्नये । नाना॒ हि वां दे॒वहि॑त॒॒ सदो॑ मि॒तम् । मा ससृ॑क्षाथां पर॒मे व्यो॑मन्न् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिसी॒स्स्वां योनि॑मावि॒शन्न् ।। 8 ।। 1.4.2.3 यदत्र॑ शि॒ष्ट र॒सिन॑स्सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॑ । सोम॒॒ राजा॑नमि॒ह भ॑क्षयामि । द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम् । अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दं विश्वं॒ भुव॑न॒॒ समे॑ति । अ॒न्त॒रा पूर्व॒मप॑रं च के॒तुम् । यस्ते॑ देव वरुण गाय॒त्रछ॑न्दा॒ पाशः॑ । तं त॑ ए॒तेनाव॑ यजे ।। 9 ।। 1.4.2.4 यस्ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दा॒ पाशः॑ । तं त॑ ए॒तेनाव॑ यजे । यस्ते॑ देव वरुण॒ जग॑तीछन्दा॒ पाशः॑ । तं त॑ ए॒तेनाव॑ यजे । सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते । दे॒व॒सु॒वामे॒तानि॑ ह॒वीषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वाना॑ स॒वाः । त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति । त ए॑नं॒ पुन॑स्सुवन्ते रा॒ज्याय॑ । दे॒व॒सू राजा॑ भवति ।। 10 ।। 1.4.3.0 वै दे॒व्यदि॑तिर्मुञ्चति सृजति करोति करोत्याभ्या॒मपि॑ दध्या॒त् पञ्च॑ च ।। 3 ।। 1.4.3.1 उद॑स्थाद्दे॒व्यदि॑तिर्विश्वरू॒पी । आयु॑र्य॒ज्ञप॑तावधात् । इन्द्रा॑य कृण्व॒ती भा॒गम् । मि॒त्राय॒ वरु॑णाय च । इ॒यं वा अ॑ग्निहो॒त्री । इ॒यं वा ए॒तस्य॒ निषी॑दति । यस्याग्निहो॒त्री नि॒षीद॑ति । तामुत्था॑पयेत् । उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑ । इ॒यं वै दे॒व्यदि॑तिः ।। 11 ।। 1.4.3.2 इ॒मामे॒वास्मा॒ उत्था॑पयति । आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । इन्द्रा॑य कृण्व॒ती भा॒गं मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । अव॑र्तिं॒ वा ए॒षैतस्य॑ पा॒प्मानं॑ प्रति॒ख्याय॒ निषी॑दति । यस्याग्निहो॒त्र्युप॑सृष्टा नि॒षीद॑ति । तां दु॒ग्ध्वा ब्राह्म॒णाय॑ दद्यात् । यस्यान्नं॒ नाद्यात् । अव॑र्तिमे॒वास्मि॑न्पा॒प्मानं॒ प्रति॑मुञ्चति ।। 12 ।। 1.4.3.3 दु॒ग्ध्वा द॑दाति । न ह्यदृ॑ष्टा॒ दक्षि॑णा दी॒यते । पृ॒थि॒वीं वा ए॒तस्य॒ पय॒ प्रवि॑शति । यस्याग्निहो॒त्रं दु॒ह्यमा॑न॒॒ स्कन्द॑ति । यद॒द्य दु॒ग्धं पृ॑थि॒वीमस॑क्त । यदोष॑धीर॒प्यस॑र॒द्यदापः॑ । पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ । पयो॑ व॒थ्सेषु॒ पयो॑ अस्तु॒ तन्मयीत्या॑ह । पय॑ ए॒वात्मन्गृ॒हेषु॑ प॒शुषु॑ धत्ते । अ॒प उप॑सृजति ।। 13 ।। 1.4.3.4 अ॒द्भिरे॒वैन॑दाप्नोति । यो वै य॒ज्ञस्यार्ते॒ नानार्त स सृ॒जति॑ । उ॒भे वै ते तर्ह्यार्च्छ॑तः । आर्च्छ॑ति॒ खलु॒ वा ए॒तद॑ग्निहो॒त्रम् । यद्दु॒ह्यमा॑न॒॒ स्कन्द॑ति । यद॑भिदु॒ह्यात् । आर्ते॒ नानार्तं य॒ज्ञस्य॒ ससृ॑जेत् । तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्यम् । अथा॒न्यां दु॒ग्ध्वा पुन॑ऱ्होत॒व्यम् । अनार्तेनै॒वार्तं॑ य॒ज्ञस्य॒ निष्क॑रोति ।। 14 ।। 1.4.3.5 यद्युद्द्रु॑तस्य॒ स्कन्देत् । यत्ततोऽहु॑त्वा॒ पुन॑रे॒यात् । य॒ज्ञं विच्छि॑न्द्यात् । यत्र॒ स्कन्देत् । तन्नि॒षद्य॒ पुन॑र्गृह्णीयात् । यत्रै॒व स्कन्द॑ति । तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति । तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्यम् । अथा॒न्यां दु॒ग्ध्वा पुन॑ऱ्होत॒व्यम् । अनार्तेनै॒वार्तं॑ य॒ज्ञस्य॒ निष्क॑रोति ।। 15 ।। 1.4.3.6 वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते । यस्याग्निहो॒त्रे॑ऽधिश्रि॑ते॒ श्वाऽन्त॒रा धाव॑ति । रु॒द्रः खलु॒ वा ए॒षः । यद॒ग्निः । यद्गाम॑न्वत्या व॒र्तयेत् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् । अ॒प॒शुर्यज॑मानस्स्यात् । यद॒पोऽन्वतिषि॒ञ्चेत् । अ॒ना॒द्यम॒ग्नेरापः॑ । अ॒ना॒द्यमाभ्या॒मपि॑ दध्यात् । गाऱ्ह॑पत्या॒द्भस्मा॒दाय॑ । इ॒दं विष्णु॒र्विच॑क्रम॒ इति॑ वैष्ण॒व्यर्चाऽऽह॑व॒नीयाद्ध्व॒॒सय॒न्नुद्र॑वेत् । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञेनै॒व य॒ज्ञ संत॑नोति । भस्म॑ना प॒दमपि॑ वपति॒ शान्त्यै ।। 16 ।। 1.4.4.0 हर॒त्यथाग्निहो॒त्रं नि॒म्रोच॑ति हरेद्दे॒वता॑ गच्छत्यु॒द्वायेन्मन्थेद्रमस्व बृ॒हद्वि॒राडिति॒ नव॑ च ।। 4 ।। (नि वै पूर्वं॒ त्रीणि॑ नि॒म्रोच॑ति द॒र्भेण॒ यद्धिर॑ण्यमग्निहो॒त्रं पुन॒र्वरु॑णो वारु॒णं नि वा ए॒तस्या॒भ्यु॑देति॑ चतुर्गृही॒तमाज्यं॒ यदाज्यं॒ पराच्यु॒षा पुन॑र्मि॒त्रो मै॒त्रं यस्या॑हव॒नीयेऽनु॑द्वाते॒ गाऱ्ह॑पत्यो॒ यद्वै म॑न्थे॒दुद्ध॑रेत् ।। ) 1.4.4.1 नि वा ए॒तस्या॑हव॒नीयो॒ गाऱ्ह॑पत्यं कामयते । निगाऱ्ह॑पत्य आहव॒नीयम् । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभि नि॒म्रोच॑ति । द॒र्भेण॒ हिर॑ण्यं प्र॒बद्ध्य॑ पु॒रस्ताद्धरेत् । अथा॒ग्निम् । अथाग्निहो॒त्रम् । यद्धिर॑ण्यं पु॒रस्ता॒द्धर॑ति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वैनं॒ पश्य॒न्नुद्ध॑रति । यद॒ग्निं पूर्व॒॒ हर॒त्यथाग्निहो॒त्रम् ।। 17 ।। 1.4.4.2 भा॒ग॒धेये॑नै॒वैनं॒ प्रण॑यति । ब्रा॒ह्म॒ण आ॑ऱ्षे॒य उद्ध॑रेत् । ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति । अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत । व्र॒तमे॒व ह॒तमनु॑ म्रियते । अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति । यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निमनु॑द्धृ॒त॒ सूर्यो॒ऽभि नि॒म्रोच॑ति ।। 18 ।। 1.4.4.3 पुन॑स्स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॒ निष्क॑रोति । वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभि नि॒म्रोच॑ति । वा॒रु॒णं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं निष्क्री॑णीते । नि वा ए॒तस्या॑हव॒नीयो॒ गाऱ्ह॑पत्यं कामयते । नि गाऱ्ह॑पत्य आहव॒नीयम् । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभ्यु॑देति॑ । च॒तु॒र्गृ॒ही॒तमाज्यं॑ पु॒रस्ताद्धरेत् ।। 19 ।। 1.4.4.4 अथा॒ग्निम् । अथाग्निहो॒त्रम् । यदाज्यं॑ पु॒रस्ता॒द्धर॑ति । ए॒तद्वा अ॒ग्ने प्रि॒यं धाम॑ । यदाज्यम् । प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति । यद॒ग्निं पूर्व॒॒ हर॒त्यथाग्निहो॒त्रम् । भा॒ग॒धेये॑नै॒वैनं॒ प्रण॑यति । ब्रा॒ह्म॒ण आ॑ऱ्षे॒य उद्ध॑रेत् । ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः ।। 20 ।। 1.4.4.5 सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति । परा॑ची॒ वा ए॒तस्मै व्यु॒च्छन्ती॒ व्यु॑च्छति । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभ्यु॑देति॑ । उ॒षाः के॒तुना॑ जुषताम् । य॒ज्ञं दे॒वेभि॑रिन्वि॒तम् । दे॒वेभ्यो॒ मधु॑मत्तम॒॒ स्वाहेति॑ प्र॒त्यङ्नि॒षद्याज्ये॑न जुहुयात् । प्र॒तीची॑मे॒वास्मै॒ विवा॑सयति । अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत । व्र॒तमे॒व ह॒तमनु॑ म्रियते । अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति ।। 21 ।। 1.4.4.6 यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभ्यु॑देति॑ । पुन॑स्स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॒ निष्क॑रोति । मि॒त्रो वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निमनु॑द्धृत॒॒ सूर्यो॒ऽभ्यु॑देति॑ । मै॒त्रं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं निष्क्री॑णीते । यस्या॑हव॒नीयेऽ नु॑द्वाते॒ गाऱ्ह॑पत्य उ॒द्वायेत् ।।22।। 1.4.4.7 यदा॑हव॒नीय॒मनु॑द्वाप्य॒ गाऱ्ह॑पत्यं॒ मन्थेत् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यद्वै य॒ज्ञस्य॑ वास्त॒व्यं॑ क्रि॒यते । तदनु॑ रु॒द्रोऽव॑चरति । यत्पूर्व॑मन्वव॒स्येत् । वा॒स्त॒व्य॑म॒ग्निमुपा॑सीत । रु॒द्रोऽस्य प॒शून्घातु॑कस्स्यात् । आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ । गाऱ्ह॑पत्यं मन्थेत् ।। 23 ।। 1.4.4.8 इ॒त प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः । स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या । दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्निति॑ । छन्दो॑भिरे॒वैन॒॒ स्वाद्योने॒ प्रज॑नयति । गाऱ्ह॑पत्यं मन्थति । गाऱ्ह॑पत्यं॒ वा अन्वाहि॑ताग्ने प॒शव॒ उप॑ तिष्ठन्ते । स यदु॒द्वाय॑ति । तदनु॑ प॒शवोऽप॑ क्रामन्ति । इ॒षे र॒य्यै र॑मस्व ।। 24 ।। 1.4.4.9 सह॑से द्यु॒म्नाय॑ । ऊ॒र्जेऽपत्या॒येत्या॑ह । प॒शवो॒ वै र॒यिः । प॒शूने॒वास्मै॑ रमयति । सा॒र॒स्व॒तौ त्वोथ्सौ॒ समि॑न्धाता॒मित्या॑ह । ऋ॒ख्सा॒मे वै सा॑रस्व॒तावुथ्सौ । ऋ॒ख्सा॒माभ्या॑मे॒वैन॒॒ समि॑न्धे । स॒म्राड॑सि वि॒राड॒सीत्या॑ह । र॒थ॒न्त॒रं वै स॒म्राट् । बृ॒हद्वि॒राट् । 25 ।। 1.4.4.10 ताभ्या॑मे॒वैन॒॒ समि॑न्धे । वज्रो॒ वै च॒क्रम् । वज्रो॒ वा ए॒तस्य॑ य॒ज्ञं विच्छि॑नत्ति । यस्यानो॑ वा॒ रथो॑ वाऽन्त॒राऽग्नी याति॑ । आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ । गाऱ्ह॑पत्या॒दुद्ध॑रेत् । यद॑ग्ने॒ पूर्वं॒ प्रभृ॑तं प॒द हि ते । सूर्य॑स्य र॒श्मीनन्वा॑त॒तान॑ । तत्र॑ रयि॒ष्ठामनु॒ सं भ॑रै॒तम् । सं न॑स्सृज सुम॒त्या वाज॑व॒त्येति॑ ।। 26 ।। 1.4.4.11 पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒ संत॑नोति । त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह । अ॒ग्निस्सर्वा॑ दे॒वताः । दे॒वता॑भिरे॒व य॒ज्ञ संत॑नोति । अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् । अ॒ग्निमे॒व प॑थि॒कृत॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति । स ए॒वैनं॑ य॒ज्ञियं॒ पन्था॒मपि॑ नयति । अ॒न॒ड्वान्दक्षि॑णा । व॒ही ह्ये॑ष समृ॑द्ध्यै ।। 27 ।। 1.4.5.0 य॒न्ति॒ सव॑नस्याति॒रिच्य॑ते शसति दाधारा॒ष्टौ च॑ ।। 5 ।। 1.4.5.1 यस्य॑ प्रातस्सव॒ने सोमो॑ऽति॒रिच्य॑ते । माध्य॑न्दिन॒॒ सव॑नं का॒मय॑मानो॒ऽभ्यति॑रिच्यते । गौर्ध॑यति म॒रुता॒मिति॒ धय॑द्वतीषु कुर्वन्ति । हि॒नस्ति॒ वै स॒न्ध्यधी॑तम् । स॒न्धीव॒ खलु॒ वा ए॒तत् । यथ्सव॑नस्याति॒रिच्य॑ते । यद्धय॑द्वतीषु कु॒र्वन्ति॑ । स॒न्धेश्शान्त्यै । गा॒य॒त्र साम॑ भवति पञ्चद॒शस्स्तोमः॑ । तेनै॒व प्रा॑तस्सव॒नान्नय॑न्ति ।। 28 ।। 1.4.5.2 म॒रुत्व॑तीषु कुर्वन्ति । तेनै॒व माध्य॑न्दिना॒थ्सव॑ना॒न्नय॑न्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑ शसति । म॒ध्य॒त ए॒व य॒ज्ञ स॒माद॑धाति । यस्य॒ माध्य॑न्दिने॒ सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते । आ॒दि॒त्यं तृ॑तीयसव॒नं का॒मय॑मानो॒ऽभ्यति॑रिच्यते । गौ॒रि॒वी॒त साम॑ भवति । अति॑रिक्तं॒ वै गौ॑रिवी॒तम् । अति॑रिक्तं॒ यथ्सव॑नस्याति॒रिच्य॑ते ।। 29 ।। 1.4.5.3 अति॑रिक्तस्य॒ शान्त्यै । बण्म॒हा अ॑सि सू॒र्येति॑ कुर्वन्ति । यस्यै॒वादि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒रिच्य॑ते । तेनै॒वैनं॒ कामे॑न॒ सम॑र्धयन्ति । गौ॒रि॒वी॒त साम॑ भवति । तेनै॒व माध्य॑न्दिना॒थ्सव॑ना॒न्नय॑न्ति । स॒प्त॒द॒शस्स्तोमः॑ । तेनै॒व तृ॑तीयसव॒नान्नय॑न्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑ शसति ।। 30 ।। 1.4.5.4 म॒ध्य॒त ए॒व य॒ज्ञ स॒माद॑धाति । यस्य॑ तृतीयसव॒ने सोमो॑ऽति॒रिच्ये॑त । उ॒क्थ्यं॑ कुर्वीत । यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्रं कु॑र्वीत । यस्या॑तिरा॒त्रे॑ऽति॒रिच्य॑ते । तत्त्वै दु॑ष्प्रज्ञा॒नम् । यज॑मानं॒ वा ए॒तत्प॒शव॑ आ॒साह्य॑यन्ति । बृ॒हथ्साम॑ भवति । बृ॒हद्वा इ॒माल्लोँ॒कान्दा॑धार । बाऱ्ह॑ता प॒शवः॑ । बृ॒ह॒तैवास्मै॑ प॒शून्दा॑धार । शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वानां पु॒ष्टम् । पुष्ट्यै॒वैन॒॒ सम॑र्धयन्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑शसति । म॒ध्य॒त ए॒व य॒ज्ञ स॒माद॑धाति ।। 31 ।। 1.4.6.0 अ॒भिजि॑त्यै पृथि॒व्याश्च॒ स्याद॑ध्व॒र्युर्ब्रू॑याल्लो॒कयो॒ परि॑ददति कुर्वीर॒॒स्त्रीणि॑ च ।। 6 ।। 1.4.6.1 एकै॑को॒ वै ज॒नता॑या॒मिन्द्रः॑ । एकं॒ वा ए॒ताविन्द्र॑म॒भि ससु॑नुतः । यौ द्वौ स॑ सुनु॒तः । प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते । यद्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ताः । अ॒न्य॒त॒रं वा ए॒ते स॑सुन्व॒तोर्निर्ब॑फ्सति । पूर्वे॑णोप॒सृत्या॑ दे॒वता॒ इत्या॑हुः । पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेयान्भवति । एति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै ।। 32 ।। 1.4.6.2 म॒रुत्व॑ती प्रति॒पदः॑ । म॒रुतो॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम् । दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते । उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः । इ॒यं वाव र॑थन्त॒रम् । अ॒सौ बृ॒हत् । आ॒भ्यामे॒वैन॑म॒न्तरे॑ति । वा॒चश्च॒ मन॑सश्च । प्रा॒णाच्चा॑पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्याश्च॑ ।। 33 ।। 1.4.6.3 सर्व॑स्माद्वि॒त्ताद्वेद्यात् । अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मं भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै । अ॒भि॒जिद्भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । वि॒श्व॒जिद्भ॑वति । विश्व॑स्य॒ जित्यै । यस्य॒ भूया॑सो यज्ञक्र॒तव॒ इत्या॑हुः । स दे॒वता॑ वृङ्क्त॒ इति॑ । यद्य॑ग्निष्टो॒मस्सोम॑ प॒रस्ता॒थ्स्यात् ।। 34 ।। 1.4.6.4 उ॒क्थ्यं॑ कुर्वीत । यद्यु॒क्थ॑स्स्यात् । अ॒ति॒रा॒त्रं कु॑र्वीत । य॒ज्ञ॒क्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते । यो वै छन्दो॑भिरभि॒भव॑ति । स स॑सुन्व॒तोर॒भिभ॑वति । सं॒वे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह । छन्दा॑सि॒ वै सं॑वे॒श उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दा॑स्य॒भिभ॑वति । इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑मध्व॒र्युः ।। 35 ।। 1.4.6.5 इ॒ष्टर्ग॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यते । प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒मित्या॑ह । प्रा॒णा॒पा॒नयो॑रे॒व श्र॑यते । प्राणा॑पानौ॒ मा मा॑हासिष्ट॒मित्या॑ह । नैनं॑ पु॒राऽऽयु॑ष प्राणापा॒नौ ज॑हितः । आर्तिं॒ वा ए॒ते निय॑न्ति । येषां दीक्षि॒तानां प्र॒मीय॑ते । तं यद॑व॒वर्जे॑युः । क्रू॒र॒कृता॑मिवैषां लो॒कस्स्यात् । आह॑र द॒हेति॑ ब्रूयात् ।। 36 ।। 1.4.6.6 तं द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑युः । इ॒यं वै सर्प॑तो॒ राज्ञी । अ॒स्या ए॒वैनं॒ परि॑ददति । व्यृ॑द्धं॒ तदित्या॑हुः । यथ्स्तु॒तमन॑नुशस्त॒मिति॑ । होता प्रथ॒म प्रा॑चीनावी॒ती मार्जा॒लीयं॒ परी॑यात् । या॒मीर॑नुब्रु॒वन्न् । स॒र्प॒रा॒ज्ञीनां कीर्तयेत् । उ॒भयो॑रे॒वैनं॑ लो॒कयो॒ परि॑ददति ।। 37 ।। 1.4.6.7 अथो॑ धु॒वन्त्ये॒वैनम् । अथो॒ न्ये॑वास्मै ह्नुवते । त्रि परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ धुवते । त्रि पुन॒परि॑यन्ति । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑ धुवते । अग्न॒ आयू॑षि पवस॒ इति॑ प्रति॒पदं॑ कुर्वीरन्न् । र॒थ॒न्त॒रसा॑मैषा॒॒ सोम॑स्स्यात् । आयु॑रे॒वात्मन्द॑धते । अथो॑ पा॒प्मान॑मे॒व वि॒जह॑तो यन्ति ।। 38 ।। 1.4.7.0 उ॒द्वाय॑ति मन्थेन्मन्थत्यक्रामत्प॒राऽप॑तन्म॒ध्यन्दि॑न आगु॒रते॒ पञ्च॑ च ।। 7 ।। 1.4.7.1 अ॒सु॒र्यं॑ वा ए॒तस्मा॒द्वर्णं॑ कृ॒त्वा । प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति । यस्य॒ यूपो॑ वि॒रोह॑ति । त्वा॒ष्ट्रं ब॑हुरू॒पमाल॑भेत । त्वष्टा॒ वै रू॒पाणा॑मीशे । य ए॒व रू॒पाणा॒मीशे । सोऽस्मिन्प॒शून् वी॒र्यं॑ यच्छति । नास्मात्प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति । आर्तिं॒ वा ए॒ते निय॑न्ति । येषां दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति ।। 39 ।। 1.4.7.2 यदा॑हव॒नीय॑ उ॒द्वायेत् । यत्तं मन्थेत् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उ॒द्वायेत् । आग्नीद्ध्रा॒दुद्ध॑रेत् । यदाग्नीद्ध्र उ॒द्वायेत् । गाऱ्ह॑पत्या॒दुद्ध॑रेत् । यद्गाऱ्ह॑पत्य उ॒द्वायेत् । अत॑ ए॒व पुन॑र्मन्थेत् ।। 40 ।। 1.4.7.3 अत्र॒ वाव स निल॑यते । यत्र॒ खलु॒ वै निली॑नमुत्त॒मं पश्य॑न्ति । तदे॑नमिच्छन्ति । यस्मा॒द्दारो॑रु॒द्वायेत् । तस्या॒रणी॑ कुर्यात् । क्रु॒मु॒कमपि॑ कुर्यात् । ए॒षा वा अ॒ग्ने प्रि॒या त॒नूः । यत्क्रु॑मु॒कः । प्रि॒ययै॒वैन॑न्त॒नुवा॒ सम॑र्धयति । गाऱ्ह॑पत्यं मन्थति ।। 41 ।। 1.4.7.4 गाऱ्ह॑पत्यो॒ वा अ॒ग्नेर्योनिः॑ । स्वादे॒वैन॒य्योँनेर्जनयति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । यस्य॒ सोम॑ उप॒दस्येत् । सु॒वर्ण॒॒ हिर॑ण्यन्द्वे॒धा वि॒च्छिद्य॑ । ऋ॒जी॒षेऽन्यदा॑धूनु॒यात् । जु॒हु॒याद॒न्यत् । सोम॑मे॒वाभि॑षु॒णोति॑ । सोम॑ञ्जुहोति । सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नूरुद॑क्रामत् ।। 42 ।। 1.4.7.5 तथ्सु॒वर्ण॒॒ हिर॑ण्यमभवत् । यथ्सु॒वर्ण॒॒ हिर॑ण्यङ्कु॒र्वन्ति॑ । प्रि॒ययै॒वैन॑न्त॒नुवा॒ सम॑र्धयन्ति । यस्याक्री॑त॒॒ सोम॑मप॒हरे॑युः । क्री॒णी॒यादे॒व । सैव तत॒ प्राय॑श्चित्तिः । यस्य॑ क्री॒तम॑प॒हरे॑युः । आ॒दा॒राश्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात् । गा॒य॒त्री य सोम॒माह॑रत् । तस्य॒ योऽ॑शु प॒राऽप॑तत् ।। 43 ।। 1.4.7.6 त आ॑दा॒रा अ॑भवन्न् । इन्द्रो॑ वृ॒त्रम॑हन्न् । तस्य॑ व॒ल्क परा॑ऽपतत् । तानि॑ फाल्गु॒नान्य॑भवन्न् । प॒शवो॒ वै फाल्गु॒नानि॑ । प॒शव॒स्सोमो॒ राजा । यदा॑दा॒राश्च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति । शृ॒तेन॑ प्रातस्सव॒ने श्री॑णीयात् । द॒ध्ना म॒ध्यन्दि॑ने ।। 44 ।। 1.4.7.7 नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने । अ॒ग्नि॒ष्टो॒मस्सोम॑स्स्याद्रथन्त॒रसा॑मा । य ए॒वर्त्विजो॑ वृ॒तास्स्युः । त ए॑नय्याँजयेयुः । एका॒ङ्गान्दक्षि॑णान्दद्या॒त्तेभ्य॑ ए॒व । पुन॒स्सोम॑ङ्क्रीणीयात् । य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति । सैव ततः॒ प्राय॑श्चित्तिः । सर्वाभ्यो॒ वा ए॒ष दे॒वताभ्य॒स्सर्वेभ्य पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागु॑रते । यस्स॒त्त्राया॑गु॒रते । ए॒तावा॒न्खलु॒ वै पुरु॑षः । याव॑दस्य वि॒त्तम् । स॒र्व॒वे॒द॒सेन॑ यजेत । सर्व॑पृष्ठोऽस्य॒ सोम॑स्स्यात् । सर्वाभ्य ए॒व दे॒वताभ्य॒स्सर्वेभ्य पृ॒ष्ठेभ्य॑ आ॒त्मान॒न्निष्क्री॑णीते ।। 45 ।। 1.4.8.0 अनु॑ रयी॒णां ब्रह्म॑णा स्व॒स्त्यय॑नीस्सु॒दुघा॒ हि घृ॑त॒श्चुत॒ ऋषि॑भि॒स्सम्भृ॑तो॒ रस॑ पुनातु॒ त्रीणि॑ च ।। 8 ।। 1.4.8.1 पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑ऱ्षणिः । य पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ । जात॑वेद प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शू॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ रनु॑ ।। 46 ।। 1.4.8.2 यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यान्देव सवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे । वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागात् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तस्सध॒माद्ये॑षु । व॒य स्या॑म॒ पत॑यो रयी॒णाम् ।। 47 ।। 1.4.8.3 वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वात॑ प्रा॒णेने॑षि॒रो म॑यो॒भूः । द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् । बृ॒हद्भि॑स्सवित॒स्तृभिः॑ । वऱ्षि॑ष्ठैर्देव॒ मन्म॑भिः । अग्ने॒ दक्षै पुनाहि मा । येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्यङ्कशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा ।। 48 ।। 1.4.8.4 इ॒दं ब्रह्म॑ पुनीमहे । य पा॑वमा॒नीर॒ध्येति॑ । ऋषि॑भि॒स्संभृ॑त॒॒ रसम् । सर्व॒॒ स पू॒तम॑श्ञाति । स्व॒दि॒तं मा॑त॒रिश्व॑ना । पा॒व॒मा॒नीर्यो अ॒ध्येति॑ । ऋषि॑भि॒स्संभृ॑त॒॒ रसम् । तस्मै॒ सर॑स्वती दुहे । क्षी॒र स॒र्पिर्मधू॑द॒कम् । पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः ।। 49 ।। 1.4.8.5 सु॒दुघा॒ हि पय॑स्वतीः । ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृत॑ हि॒तम् । पा॒व॒मानीर्दि॑शन्तु नः । इ॒मल्लोँ॒कमथो॑ अ॒मुम् । कामा॒न्थ्सम॑र्धयन्तु नः । दे॒वीर्दे॒वैस्स॒माभृ॑ताः । पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒ हि घृ॑त॒श्चुतः॑ । ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ ।। 50 ।। 1.4.8.6 ब्रा॒ह्म॒णेष्व॒मृत॑ हि॒तम् । येन॑ दे॒वा प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा । तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्य पु॑नन्तु मा । प्रा॒जा॒प॒त्यं प॒वित्रम् । श॒तोद्या॑म हिर॒ण्मयम् । तेन॑ ब्रह्म॒विदो॑ व॒यम् । पू॒तं ब्रह्म॑ पुनीमहे । इन्द्र॑स्सुनी॒ती स॒ह मा॑ पुनातु । सोम॑स्स्व॒स्त्या वरु॑णस्स॒मीच्या । य॒मो राजा प्रमृ॒णाभि॑ पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ।। 51 ।। 1.4.9.0 म॒नु॒ष्या॑ अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धामसु॑रा अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धामसु॑रा॒ ददात्यतिष्ठच्च॒त्वारि॑ च ।। 9 ।। 1.4.9.1 प्र॒जा वै स॒त्रमा॑सत॒ तप॒स्तप्य॑माना॒ अजु॑ह्वतीः । दे॒वा अ॑पश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेनार्धमा॒स ऊर्ज॒मवा॑रुन्धत । तस्मा॑दर्धमा॒से दे॒वा इ॑ज्यन्ते । पि॒तरो॑ऽपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत । तस्मान्मा॒सि पि॒तृभ्य॑ क्रियते । म॒नु॒ष्या॑ अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् ।। 52 ।। 1.4.9.2 तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ द्व॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒द्द्विरह्नो॑ मनु॒ष्येभ्य॒ उप॑ह्रियते । प्रा॒तश्च॑ सा॒यञ्च॑ । प॒शवो॑ऽपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ त्र॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒त्त्रिरह्न॑ प॒शव॒ प्रेर॑ते । प्रा॒तस्स॑ङ्ग॒वे सा॒यम् । असु॑रा अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् ।। 53 ।। 1.4.9.3 तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ सवँथ्स॒र ऊर्ज॒मवा॑रुन्धत । ते दे॒वा अ॑मन्यन्त । अ॒मी वा इ॒दम॑भूवन्न् । यद्व॒य स्म इति॑ । त ए॒तानि॑ चातुर्मा॒स्यान्य॑पश्यन्न् । तानि॒ निर॑वपन्न् । तैरे॒वैषा॒न्तामूर्ज॑मवृञ्जत । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः ।। 54 ।। 1.4.9.4 यद्यज॑ते । यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यत्पि॒तृभ्य॑ क॒रोति॑ । यामे॒व पि॒तर॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यदा॑वस॒थेऽन्न॒॒ हर॑न्ति । यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यद्दक्षि॑णा॒न्ददा॑ति ।। 55 ।। 1.4.9.5 यामे॒व प॒शव॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यच्चा॑तुर्मा॒स्यैर्यज॑ते । यामे॒वासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । भव॑त्या॒त्मना । परास्य॒ भ्रातृ॑व्यो भवति । वि॒राजो॒ वा ए॒षा विक्रान्तिः । यच्चा॑तुर्मा॒स्यानि॑ । वै॒श्व॒दे॒वेना॒स्मिल्लोँ॒के प्रत्य॑तिष्ठत् । व॒रु॒ण॒प्र॒घा॒सैर॒न्तरि॑क्षे । सा॒क॒मे॒धैर॒मुष्मि॑ल्लोँ॒के । ए॒ष ह॒ त्वावैतथ्सर्वं॑ भवति । य ए॒वव्विँ॒द्वाश्चा॑तुर्मा॒स्यैर्यज॑ते ।। 56 ।। 1.4.10.0 प॒रि॒व॒थ्स॒रमाप्नोति शुनासी॒रीये॑ण॒ यज॑तेऽजयन्थ्सहस्रया॒जिन॑मा॒प्नोति॑ वैश्वदेव॒त्व सा॑कमे॒धैर॑यजत स॒मैध॑न्त पितृयज्ञ॒त्वञ्ज॑यति॒ यस्मि॑न्वा॒युऱ्हे॑म॒न्तस्त्रीणि॑ च ।। 10 ।। 1.4.10.1 अ॒ग्निर्वाव स॑व्वँथ्स॒रः । आ॒दि॒त्यः प॑रिवथ्स॒रः । च॒न्द्रमा॑ इदावथ्स॒रः । वा॒युर॑नुवथ्स॒रः । यद्वैश्वदे॒वेन॒ यज॑ते । अ॒ग्निमे॒व तथ्सँ॑व्वथ्स॒रमाप्नोति । तस्माद्वैश्वदे॒वेन॒ यज॑मानः । स॒व्वँ॒थ्स॒रीणा॑ स्व॒स्तिमाशास्त॒ इत्याशा॑सीत । यद्व॑रुणप्रघा॒सैर्यज॑ते । आ॒दि॒त्यमे॒व तत्प॑रिवथ्स॒रमाप्नोति ।। 57 ।। 1.4.10.2 तस्माद्वरुणप्रघा॒सैर्यज॑मानः । प॒रि॒व॒थ्स॒रीणा॑ स्व॒स्तिमाशास्त॒ इत्याशा॑सीत । यथ्सा॑कमे॒धैर्यज॑ते । च॒न्द्रम॑समे॒व तदि॑दावथ्स॒रमाप्नोति । तस्मात्साकमे॒धैर्यज॑मानः । इ॒दा॒व॒थ्स॒रीणा॑ स्व॒स्तिमाशास्त॒ इत्याशा॑सीत । यत्पि॑तृय॒ज्ञेन॒ यज॑ते । दे॒वाने॒व तद॒न्वव॑स्यति । अथ॒वा अ॑स्य वा॒युश्चा॑नुवथ्स॒रश्चाप्री॑ता॒वुच्छि॑ष्येते । यच्छु॑नासी॒रीये॑ण॒ यज॑ते ।। 58 ।। 1.4.10.3 वा॒युमे॒व तद॑नुवथ्स॒रमाप्नोति । तस्माच्छुनासी॒रीये॑ण॒ यज॑मानः । अ॒नु॒व॒थ्स॒रीणा॑ स्व॒स्तिमाशास्त॒ इत्याशा॑सीत । स॒व्वँ॒थ्स॒रव्वाँ ए॒ष ईफ्स॒तीत्या॑हुः । यश्चा॑तुर्मा॒स्यैर्यज॑त॒ इति॑ । ए॒ष ह॒ त्वै स॑व्वँथ्स॒रमाप्नोति । य ए॒वव्विँ॒द्वाश्चा॑तुर्मा॒स्यैर्यज॑ते । विश्वे॑ दे॒वास्सम॑यजन्त । तेऽग्निमे॒वाय॑जन्त । त ए॒तल्लोँ॒कम॑जयन्न् ।। 59 ।। 1.4.10.4 यस्मि॑न्न॒ग्निः । यद्वैश्वदे॒वेन॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्न॒ग्निः । अ॒ग्नेरे॒व सायु॑ज्य॒मुपै॑ति । य॒दा वैश्वदे॒वेन॒ यज॑ते । अथ॑ सव्वँथ्स॒रस्य॑ गृ॒हप॑तिमाप्नोति । य॒दा सँ॑व्वथ्स॒रस्य॑ गृ॒हप॑तिमा॒प्नोति॑ । अथ॑ सहस्रया॒जिन॑माप्नोति । य॒दा स॑हस्रया॒जिन॑मा॒प्नोति॑ ।। 60 ।। 1.4.10.5 अथ॑ गृहमे॒धिन॑माप्नोति । य॒दा गृ॑हमे॒धिन॑मा॒प्नोति॑ । अथा॒ग्निर्भ॑वति । य॒दाग्निर्भव॑ति । अथ॒ गौर्भ॑वति । ए॒षा वै वैश्वदे॒वस्य॒ मात्रा । ए॒तद्वा ए॒तेषा॑मव॒मम् । अतो॑तो॒ वा उत्त॑राणि॒ श्रेया॑सि भवन्ति । यद्विश्वे॑ दे॒वास्स॒मय॑जन्त । तद्वैश्वदे॒वस्य॑ वैश्वदेव॒त्वम् ।। 61 ।। 1.4.10.6 अथा॑दि॒त्यो वरु॑ण॒॒ रा॑जानव्वँरुणप्रघा॒सैर॑यजत । स ए॒तल्लोँ॒कम॑जयत् । यस्मि॑न्नादि॒त्यः । यद्व॑रुणप्रघा॒सैर्यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्नादि॒त्यः । आ॒दि॒त्यस्यै॒व सायु॑ज्य॒मुपै॑ति । यदा॑दि॒त्यो वरु॑ण॒॒ राजा॑नव्वँरुण- प्रघा॒सैरय॑जत । तद्व॑रुणप्रघा॒सानाव्वँरुणप्रघास॒त्वम् । अथ॒ सोमो॒ राजा॒ छन्दा॑सि साकमे॒धैर॑यजत ।। 62 ।। 1.4.10.7 स ए॒तल्लोँ॒कम॑जयत् । यस्मि॑श्च॒न्द्रमा॑ वि॒भाति॑ । यथ्सा॑कमे॒धैर्यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑श्च॒न्द्रमा॑ वि॒भाति॑ । च॒न्द्रम॑स ए॒व सायु॑ज्य॒मुपै॑ति । सोमो॒ वै च॒न्द्रमाः । ए॒ष ह॒ त्वै सा॒क्षाथ्सोमं॑ भक्षयति । य ए॒वव्विँ॒द्वान्थ्सा॑कमे॒धैर्यज॑ते । यथ्सोम॑श्च॒ राजा॒ छन्दा॑सि च स॒मैध॑न्त ।। 63 ।। 1.4.10.8 तथ्सा॑कमे॒धाना॑ साकमेध॒त्वम् । अथ॒र्तव॑ पि॒तर॑ प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेना॑यजन्त । त ए॒तल्लोँ॒कम॑जयन्न् । यस्मि॑न्नृ॒तवः॑ । यत्पि॑तृय॒ज्ञेन॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्नृ॒तवः॑ । ऋ॒तू॒नामे॒व सायु॑ज्य॒मुपै॑ति । यदृ॒तव॑ पि॒तर॑ प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेनाय॑जन्त । तत्पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम् ।। 64 ।। 1.4.10.9 अथौष॑धय इ॒मन्दे॒वन्त्र्य॑म्बकैरयजन्त॒ प्रथे॑म॒हीति॑ । ततो॒ वै ता अ॑प्रथन्त । य ए॒वव्विँ॒द्वा स्त्र्य॑म्बकै॒र्यज॑ते । प्रथ॑ते प्र॒जया॑ प॒शुभिः॑ । अथ॑ वा॒यु प॑रमे॒ष्ठिन॑ शुनासी॒रीये॑णायजत । स ए॒तल्लोँ॒कम॑जयत् । यस्मि॑न्वा॒युः । यच्छु॑नासी॒रीये॑ण॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्वा॒युः ।। 65 ।। 1.4.10.10 वा॒योरे॒व सायु॑ज्य॒मुपै॑ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्र चा॑तुर्मास्यया॒जी मी॑य॒ता (३) न प्रमी॑य॒ता (३) इति॑ । जीव॒न्वा ए॒ष ऋ॒तूनप्ये॑ति । यदि॑ व॒सन्ता प्र॒मीय॑ते । व॒स॒न्तो भ॑वति । यदि॑ ग्री॒ष्मे ग्री॒ष्मः । यदि॑ व॒र्॒षासु॑ व॒र्॒षाः । यदि॑ श॒रदि॑ श॒रत् । यदि॒ हेम॑न् हेम॒न्तः । ऋ॒तुर्भू॒त्वा स॑व्वँथ्स॒रमप्ये॑ति । स॒व्वँ॒थ्स॒र प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावैषः ।। 66 ।। 1.5.0.0 अ॒ग्ने कृत्ति॑का॒ यत्पुण्य॑न्दे॒वस्य॑ सवि॒तुर्ब्र॑ह्मवा॒दिन॒ कत्यृ॒तमे॒व दे॒वा वा आयु॑षप्रा॒णमिन्द्रो॑ दधी॒चो दे॑वासु॒रास्स प्र॒जाप॑ति॒स्स स॑मु॒द्रो ये वै च॒त्वार॒स्तस्यावा॑चो॒ द्वाद॑श ।। 12 ।। अ॒ग्ने कृत्ति॑का देवगृ॒हा ऋ॒तमे॒वर्ध्यामे॒व ति॒स्रः परा॑ची॒र्ये वै च॒त्वारो॒ नव॑पञ्चा॒शत् ।। 59 ।। अ॒ग्ने कृत्ति॑का॒ य उ॑ चैनमे॒वव्वेँद॑ ।। हरिः॑ ओम् ।। 1.5.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके पंचमप्रपाठक प्रारंभः । हरिः ओम् । 1.5.1.0 आ॒र्द्रम॒वस्ता॒द्वह॑माना अ॒वस्ता॑द॒भ्यारू॑ढम॒वस्ता॒त्पन्था॑ अ॒वस्ताद्व॒थ्सा अ॒वस्ता॒त्पञ्च॑ च ।। 1 ।। 1.5.1.1 अ॒ग्ने कृत्ति॑काः । शु॒क्रं प॒रस्ता॒ज्ज्योति॑र॒वस्तात् । प्र॒जाप॑ते रोहि॒णी । आप॑ प॒रस्ता॒दोष॑धयो॒ऽवस्तात् । सोम॑स्येन्व॒का वित॑तानि । प॒रस्ता॒द्वय॑न्तो॒ऽवस्तात् । रु॒द्रस्य॑ बा॒हू । मृ॒ग॒यव॑ प॒रस्ताद्विक्षा॒रो॑ऽवस्तात् । आदि॑त्यै॒ पुन॑र्वसू । वातः॑ प॒रस्ता॑दा॒र्द्रम॒वस्तात् ।। 1 ।। 1.5.1.2 बृह॒स्पतेस्ति॒ष्यः॑ । जुह्व॑त प॒रस्ता॒द्यज॑माना अ॒वस्तात् । स॒र्पाणा॑माश्रे॒षाः । अ॒भ्या॒गच्छ॑न्त प॒रस्ता॑दभ्या॒नृत्य॑न्तो॒ऽवस्तात् । पि॒तृ॒णां म॒घाः । रु॒दन्त॑ प॒रस्ता॑दपभ्र॒॒शो॑ऽवस्तात् । अ॒र्य॒म्ण पूर्वे॒ फल्गु॑नी । जा॒या प॒रस्ता॑दृष॒भो॑ऽवस्तात् । भग॒स्योत्त॑रे । व॒ह॒तव॑प॒रस्ता॒द्वह॑माना अ॒वस्तात् ।। 2 ।। 1.5.1.3 दे॒वस्य॑ सवि॒तुर् हस्तः॑ । प्र॒स॒व प॒रस्ताथ्स॒निर॒वस्तात् । इन्द्र॑स्य चि॒त्रा । ऋ॒तं प॒रस्ताथ्स॒त्यम॒वस्तात् । वा॒योर्निष्ट्या व्र॒ततिः॑ । प॒रस्ता॒दसि॑द्धिर॒वस्तात् । इ॒न्द्रा॒ग्नि॒योर्विशा॑खे । यु॒गानि॑ प॒रस्तात्कृ॒षमा॑णा अ॒वस्तात् । मि॒त्रस्या॑नूरा॒धाः । अ॒भ्या॒रोह॑त्प॒रस्ता॑द॒भ्यारू॑ढम॒वस्तात् ।। 3 ।। 1.5.1.4 इन्द्र॑स्य रोहि॒णी । शृ॒णत्प॒रस्तात्प्रतिशृ॒णद॒वस्तात् । निऱ्ऋ॑त्यै मूल॒वऱ्ह॑णी । प्र॒ति॒भ॒ञ्जन्त॑ प॒रस्तात्प्रतिशृ॒णन्तो॒ऽवस्तात् । अ॒पां पूर्वा॑ अषा॒ढाः । वर्च॑ प॒रस्ता॒थ्समि॑तिर॒वस्तात् । विश्वे॑षान्दे॒वाना॒मुत्त॑राः । अ॒भि॒जय॑त्प॒रस्ता॑द॒भिजि॑तम॒वस्तात् । विष्णोश्श्रो॒णा पृ॒च्छमा॑नाः । प॒रस्ता॒त्पन्था॑ अ॒वस्तात् ।। 4 ।। 1.5.1.5 वसू॑ना॒॒ श्रवि॑ष्ठाः । भू॒तं प॒रस्ता॒द्भूति॑र॒वस्तात् । इन्द्र॑स्य श॒तभि॑षक् । वि॒श्वव्य॑चाप॒रस्ताद्वि॒श्वक्षि॑तिर॒वस्तात् । अ॒जस्यैक॑पद॒पूर्वे प्रोष्ठप॒दाः । वै॒श्वा॒न॒रं प॒रस्ताद्वैश्वावस॒वम॒वस्तात् । अहेर्बु॒ध्निय॒स्योत्त॑रे । अ॒भि॒षि॒ञ्चन्त॑ प॒रस्ता॑दभिषु॒ण्वन्तो॒ऽवस्तात् । पू॒ष्णो रे॒वती । गाव॑प॒रस्ताद्व॒थ्सा अ॒वस्तात् । अ॒श्विनो॑रश्व॒युजौ । ग्राम॑ प॒रस्ता॒थ्सेना॒ऽवस्तात् । य॒मस्या॑प॒भर॑णीः । अ॒प॒कऱ्ष॑न्त प॒रस्ता॑दप॒वह॑न्तो॒ऽवस्तात् । पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः ।। 5 ।। 1.5.2.0 च॒का॒रै॒वव्वेँदो॒भयो॑रेनल्लोँ॒कयोर्विदुरजयन्रे॒वती॒मुपा॑तिष्ठन्त नक्षत्र॒त्वम॒न्यानि॒ यानि॑ यमनक्ष॒त्राण्यश्लो॑णद्यमनक्ष॒त्राणि॒ त्रीणि॑ च ।। 2 ।। 1.5.2.1 यत्पुण्य॒न्नक्ष॑त्रम् । तद्बट्कु॑र्वीतोपव्यु॒षम् । य॒दा वै सूर्य॑ उ॒देति॑ । अथ॒ नक्ष॑त्र॒न्नैति॑ । याव॑ति॒ तत्र॒ सूर्यो॒ गच्छेत् । यत्र॑ जघ॒न्यं॑ पश्येत् । ताव॑ति कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते । ए॒व ह॒ वै य॒ज्ञेषु॑ञ्च श॒तद्यु॑म्नञ्च मा॒थ्स्यो नि॑रवसाय॒याञ्च॑कार ।। 6 ।। 1.5.2.2 यो वै न॑क्ष॒त्रियं॑ प्र॒जाप॑ति॒व्वेँद॑ । उ॒भयो॑रेनल्लोँ॒कयोर्विदुः । हस्त॑ ए॒वास्य॒ हस्तः॑ । चि॒त्रा शिरः॑ । निष्ट्या॒ हृद॑यम् । ऊ॒रू विशा॑खे । प्र॒ति॒ष्ठाऽनू॑रा॒धाः । ए॒ष वै न॑क्ष॒त्रिय॑ प्र॒जाप॑तिः । य ए॒वव्वेँद॑ । उ॒भयो॑रेनल्लोँ॒कयोर्विदुः ।। 7।। 1.5.2.3 अ॒स्मिश्चा॒मुष्मि॑श्च । याङ्का॒मये॑त दुहि॒तरं॑ प्रि॒या स्या॒दिति॑ । तान्निष्ट्या॑यान्दद्यात् । प्रि॒यैव भ॑वति । नेव॒ तु पुन॒रा ग॑च्छति । अ॒भि॒जिन्नाम॒ नक्ष॑त्रम् । उ॒परि॑ष्टादषा॒ढानाम् । अ॒वस्ताच्छ्रो॒णायै । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । ते दे॒वास्तस्मि॒न्नक्ष॑त्रे॒ऽभ्य॑जयन्न् ।। 8 ।। 1.5.2.4 यद॒भ्यज॑यन्न् । तद॑भि॒जितो॑ऽभिजि॒त्त्वम् । यङ्का॒मये॑तानपज॒य्यञ्ज॑ये॒दिति॑ । तमे॒तस्मि॒न्नक्ष॑त्रे यातयेत् । अ॒न॒प॒ज॒य्यमे॒व ज॑यति । पा॒पप॑राजितमिव॒ तु । प्र॒जाप॑ति प॒शून॑सृजत । ते नक्ष॑त्त्रन्नक्षत्त्र॒मुपा॑तिष्ठन्त । ते स॒माव॑न्त ए॒वाभ॑वन्न् । ते रे॒वती॒मुपा॑तिष्ठन्त ।। 9 ।। 1.5.2.5 ते रे॒वत्यां॒ प्राभ॑वन्न् । तस्माद्रे॒वत्यां पशू॒नाङ्कु॑र्वीत । यत्किञ्चार्वा॒चीन॒॒ सोमात् । प्रैव भ॑वन्ति । स॒लि॒लव्वाँ इ॒दम॑न्त॒रासीत् । यदत॑रन्न् । तत्तार॑काणान्तारक॒त्वम् । यो वा इ॒ह यज॑ते । अ॒मु स लो॒कन्न॑क्षते । तन्नक्ष॑त्राणान्नक्षत्र॒त्वम् ।। 10 ।। 1.5.2.6 दे॒व॒गृ॒हा वै नक्ष॑त्राणि । य ए॒वव्वेँद॑ । गृ॒ह्ये॑व भ॑वति । यानि॒ वा इ॒मानि॑ पृथि॒व्याश्चि॒त्राणि॑ । तानि॒ नक्ष॑त्राणि । तस्मा॑दश्ली॒लना॑म श्चि॒त्रे । नाव॑स्ये॒न्न य॑जेत । यथा॑ पापा॒हे कु॑रु॒ते । ता॒दृगे॒व तत् । दे॒व॒न॒क्ष॒त्राणि॒ वा अ॒न्यानि॑ ।। 11 ।। 1.5.2.7 य॒म॒न॒क्ष॒त्राण्य॒न्यानि॑ । कृत्ति॑का प्रथ॒मम् । विशा॑खे उत्त॒मम् । तानि॑ देवनक्ष॒त्राणि॑ । अ॒नू॒रा॒धा प्र॑थ॒मम् । अ॒प॒भर॑णीरुत्त॒मम् । तानि॑ यमनक्ष॒त्राणि॑ । यानि॑ देवनक्ष॒त्राणि॑ । तानि॒ दक्षि॑णेन॒ परि॑यन्ति । यानि॑ यमनक्ष॒त्राणि॑ ।। 12 ।। 1.5.2.8 तान्युत्त॑रेण । अन्वे॑षामरा॒थ्स्मेति॑ । तद॑नूरा॒धाः । ज्ये॒ष्ठमे॑षामवधि॒ष्मेति॑ । तज्ज्येष्ठ॒घ्नी । मूल॑मेषावृक्षा॒मेति॑ । तन्मू॑ल॒वऱ्ह॑णी । यन्नास॑हन्त । तद॑षा॒ढाः । यदश्लो॑णत् ।। 13 ।। 1.5.2.9 तच्छ्रो॒णा । यदशृ॑णोत् । तच्छ्रवि॑ष्ठाः । यच्छ॒तमभि॑षज्यन्न् । तच्छ॒तभि॑षक् । प्रो॒ष्ठ॒प॒देषूद॑यच्छन्त । रे॒वत्या॑मरवन्त । अ॒श्व॒युजो॑रयुञ्जत । अ॒प॒भर॑णी॒ष्वपा॑वहन्न् । तानि॒ वा ए॒तानि॑ यमनक्ष॒त्राणि॑ । यान्ये॒व दे॑वनक्ष॒त्राणि॑ । तेषु॑ कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते ।। 14 ।। 1.5.3.0 स॒ङ्ग॒वाथ्षो॑ड॒शिन॒न्निर॑मिमत॒ तत्तदात्त॑वीर्यन्निर्मा॒र्गो व॑देद्भवति समा॒नस्याह्न॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राण्य॒ष्टौ च॑ ।। 3 ।। 1.5.3.1 दे॒वस्य॑ सवि॒तु प्रा॒त प्र॑स॒व प्रा॒णः । वरु॑णस्य सा॒यमा॑स॒वो॑ऽपा॒नः । यत्प्र॑ती॒चीनं॑ प्रात॒स्तनात् । प्रा॒चीन॑ सङ्ग॒वात् । ततो॑ दे॒वा अ॑ग्निष्टो॒मन्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः । मि॒त्रस्य॑ सङ्ग॒वः । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॒त्तऱ्हि॑ प॒शव॑स्स॒माय॑न्ति । यत्प्र॑ती॒चीन॑ सङ्ग॒वात् ।। 15 ।। 1.5.3.2 प्रा॒चीनं॑ म॒ध्यन्दि॑नात् । ततो॑ दे॒वा उ॒क्थ्य॑न्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः । बृह॒स्पतेर्म॒ध्यन्दि॑नः । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॒त्तऱ्हि॒ तेक्ष्णि॑ष्ठन्तपति । यत्प्र॑ती॒चीनं॑ म॒ध्यन्दि॑नात् । प्रा॒चीन॑मपरा॒ह्णात् । ततो॑ दे॒वाष्षो॑ड॒शिन॒न्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः ।। 16 ।। 1.5.3.3 भग॑स्यापरा॒ह्णः । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॑दपरा॒ह्णे कु॑मा॒र्यो॑ भग॑मि॒च्छमा॑नाश्चरन्ति । यत्प्र॑ती॒चीन॑मपरा॒ह्णात् । प्रा॒चीन॑ सा॒यात् । ततो॑ दे॒वा अ॑तिरा॒त्रन्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः । वरु॑णस्य सा॒यम् । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॒त्तऱ्हि॒ नानृ॑तव्वँदेत् ।। 17 ।। 1.5.3.4 ब्रा॒ह्म॒णो वा अ॑ष्टावि॒॒शो नक्ष॑त्राणाम् । स॒मा॒नस्याह्न॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणा॒य्यँच्चा॒वस्तात् । तान्येका॑दश । ब्रा॒ह्म॒णो द्वा॑द॒शः । य ए॒वव्विँ॒द्वान्थ्स॑व्वँथ्स॒रव्व्रँ॒तञ्चर॑ति । स॒व्वँ॒थ्स॒रेणै॒वास्य॑ व्र॒तङ्गु॒प्तं भ॑वति । स॒मा॒नस्याह्न॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । आ॒ग्ने॒यी रात्रिः॑ । ऐ॒न्द्रमहः॑ । तान्येका॑दश । आ॒दि॒त्यो द्वा॑द॒शः । य ए॒वव्विँ॒द्वान्थ्स॑व्वँथ्स॒रव्व्रँ॒तञ्चर॑ति । स॒व्वँ॒थ्स॒रेणै॒वास्य॑ व्र॒तङ्गु॒प्तं भ॑वति ।। 18 ।। 1.5.4.0 उ॒पा॒॒श्व॒न्त॒र्या॒मौ निर॑मिमीतामिमीत॒ षट्च॑ ।। 4 ।। 1.5.4.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कति॒ पात्रा॑णि य॒ज्ञं व॑ह॒न्तीति॑ । त्रयो॑द॒शेति॑ ब्रूयात् । स यद्ब्रू॒यात् । कस्तानि॒ निर॑मिमी॒तेति॑ । प्र॒जाप॑ति॒रिति॑ ब्रूयात् । स यद्ब्रू॒यात् । कुत॒स्तानि॒ निर॑मिमी॒तेति॑ । आ॒त्मन॒ इति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वोपा॑श्वन्तर्या॒मौ निर॑मिमीत ।। 19 ।। 1.5.4.2 व्या॒नादु॑पाशु॒सव॑नम् । वा॒च ऐन्द्रवाय॒वम् । द॒क्ष॒क्र॒तुभ्यां मैत्रावरु॒णम् । श्रोत्रा॑दाश्वि॒नम् । चक्षु॑षश्शु॒क्राम॒न्थिनौ । आ॒त्मन॑ आग्रय॒णम् । अङ्गेभ्य उ॒क्थ्यम् । आयु॑षो ध्रु॒वम् । प्र॒ति॒ष्ठाया॑ ऋतुपा॒त्रे । य॒ज्ञं वाव तं प्र॒जाप॑ति॒र्निर॑मिमीत । स निर्मि॑तो॒ नाद्ध्रि॑यत॒ सम॑व्लीयत । स ए॒तान्प्र॒जाप॑तिरपिवा॒पान॑पश्यत् । तान्निर॑वपत् । तैर्वै स य॒ज्ञमप्य॑वपत् । यद॑पिवा॒पा भव॑न्ति । य॒ज्ञस्य॒ धृत्या॒ अस॑व्व्लँयाय ।। 20 ।। 1.5.5.0 (परि॑वर्तये स॒हाभिव॑र्तय उ॒ष्णिहा॑ राध्यास॒न्न्यव॑र्तय॒न्नुप॑वर्तये च॒त्वारि॑ च) । ऋ॒तमे॒व षोड॑श । यद्घ॒र्मो यो अ॒स्याः सप्तद॑शसप्तदश । एकं॒ मासं॒ चतु॑र्विशतिः ।। 5 ।। 1.5.5.1 ऋ॒तमे॒व प॑रमे॒ष्ठि । ऋ॒तन्नात्ये॑ति॒ किञ्च॒न । ऋ॒ते स॑मु॒द्र आहि॑तः । ऋ॒ते भूमि॑रि॒यश्रि॒ता । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा । तप॒ आक्रान्तमु॒ष्णिहा । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेनास्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेनास्या॒भि व॑र्तये । तदृ॒तन्तथ्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ।। 21 ।। 1.5.5.2 यद्घ॒र्म प॒र्यव॑र्तयत् । अन्तान्पृथि॒व्या दि॒वः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभि॑स्स॒ह । इन्द्रो॑ म॒रुद्भि॒स्सखि॑भिस्स॒ह । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा । तप॒ आक्रान्तमु॒ष्णिहा । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेनास्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेनास्या॒भि व॑र्तये । तदृ॒तन्तथ्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ।। 22 ।। 1.5.5.3 यो अ॒स्या पृ॑थि॒व्यास्त्व॒चि । नि॒व॒र्तय॒त्योष॑धीः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभि॑स्स॒ह । इन्द्रो॑ म॒रुद्भि॒स्सखि॑भिस्स॒ह । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा । तप॒ आक्रान्तमु॒ष्णिहा । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेनास्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेनास्या॒भि व॑र्तये । तदृ॒तन्तथ्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ।। 23 ।। 1.5.5.4 एकं॒ मास॒मुद॑सृजत् । प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ । तेनाभ्यो॒ मह॒ आव॑हत् । अ॒मृतं॒ मर्त्याभ्यः । प्र॒जामनु॒ प्र जा॑यसे । तदु॑ ते मर्त्या॒मृतम् । येन॒ मासा॑ अर्धमा॒साः । ऋ॒तव॑ परिवथ्स॒राः । येन॒ ते ते प्रजापते । ई॒जा॒नस्य॒ न्यव॑र्तयन्न् । तेना॒हम॒स्य ब्रह्म॑णा । निव॑र्तयामि जी॒वसे । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा । तप॒ आक्रान्तमु॒ष्णिहा । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेनास्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेनास्या॒भि व॑र्तये । तदृ॒तन्तथ्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ।। 24 ।। 1.5.6.0 ए॒त्ये॒त्य॒यु॒ञ्ज॒तासु॑रा एति लो॒का म॑न्यते ।। 6 ।। 1.5.6.1 दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत । तदसु॑रा अकुर्वत । तेऽसु॑रा ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॒ नाप॑श्यन्न् । ते केशा॒नग्रे॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथो॑पप॒क्षौ । तत॒स्तेऽवाञ्च आयन्न् । परा॑ऽभवन्न् । यस्यै॒वव्वँप॑न्ति । अवा॑ङेति ।। 25 ।। 1.5.6.2 अथो॒ परै॒व भ॑वति । अथ॑ दे॒वा ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॑ऽपश्यन्न् । त उ॑पप॒क्षावग्रे॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथ॒ केशान्॑ । तत॒स्ते॑ऽभवन्न् । सु॒व॒र्गल्लोँ॒कमा॑यन्न् । यस्यै॒वव्वँप॑न्ति । भव॑त्या॒त्मना । अथो॑ सुव॒र्गल्लोँ॒कमे॑ति ।। 26 ।। 1.5.6.3 अथै॒तन्मनु॑र्व॒प्त्रे मि॑थु॒नम॑पश्यत् । स श्मश्रू॒ण्यग्रे॑ऽवपत । अथो॑पप॒क्षौ । अथ॒ केशान्॑ । ततो॒ वै स प्राजा॑यत प्र॒जया॑ प॒शुभिः॑ । यस्यै॒वव्वँप॑न्ति । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । ते स॑व्वँथ्स॒रे व्याय॑च्छन्त । तान्दे॒वाश्चा॑तुर्मा॒स्यैरे॒वाभि प्रायु॑ञ्जत ।। 27 ।। 1.5.6.4 वै॒श्व॒दे॒वेन॑ च॒तुरो॑ मा॒सो॑ऽवृञ्ज॒तेन्द्र॑राजानः । ताञ्छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । व॒रु॒ण॒प्र॒घा॒सैश्च॒तुरो॑ मा॒सो॑ऽवृञ्जत॒ वरु॑णराजानः । ताञ्छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । सा॒क॒मे॒धैश्च॒तुरो॑ मा॒सो॑ऽवृञ्जत॒ सोम॑राजानः । ताञ्छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । या स॑व्वँथ्स॒र उ॑पजी॒वाऽऽसीत् । तामे॑षामवृञ्जत । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः ।। 28 ।। 1.5.6.5 य ए॒वव्विँ॒द्वाश्चा॑तुर्मा॒स्यैर्यज॑ते । भ्रातृ॑व्यस्यै॒व मा॒सो वृ॒क्त्वा । शी॒र्॒षन्नि च॑ व॒र्तय॑ते॒ परि॑ च । यैषा स॑व्वँथ्स॒र उ॑पजी॒वा । वृ॒ङ्क्ते तां भ्रातृ॑व्यस्य । क्षु॒धाऽस्य॒ भ्रातृ॑व्य॒ परा॑ भवति । लो॒हि॒ता॒य॒सेन॒ नि व॑र्तयते । यद्वा इ॒माम॒ग्निर्ऋ॒तावाग॑ते निव॒र्तय॑ति । ए॒तदे॒वैना॑ रू॒पङ्कृ॒त्वा निव॑र्तयति । सा तत॒श्श्वश्वो॒ भूय॑सी॒ भव॑न्त्येति ।। 29 ।। 1.5.6.6 प्र जा॑यते । य ए॒वव्विँ॒द्वाल्लोँ॑हिताय॒सेन॑ निव॒र्तय॑ते । ए॒तदे॒व रू॒पङ्कृ॒त्वा नि व॑र्तयते । स तत॒श्श्वश्वो॒ भूया॒न्भव॑न्नेति । प्रैव जा॑यते । त्रे॒ण्या श॑ल॒ल्या नि व॑र्तयेत । त्रीणि॑त्रीणि॒ वै दे॒वाना॑मृ॒द्धानि॑ । त्रीणि॒ छन्दा॑सि । त्रीणि॒ सव॑नानि । त्रय॑ इ॒मे लो॒काः ।। 30 ।। 1.5.6.7 ऋ॒ध्यामे॒व तद्वी॒र्य॑ ए॒षु लो॒केषु॒ प्रति॑ तिष्ठति । यच्चा॑तुर्मास्यया॒ज्यात्मनो॒ नाव॒द्येत् । दे॒वेभ्य॒ आवृ॑श्च्येत । च॒तृ॒षुच॑तृषु॒ मासे॑षु॒ नि व॑र्तयेत । प॒रोक्ष॑मे॒व तद्दे॒वेभ्य॑ आ॒त्मनोऽव॑द्य॒त्यनाव्रस्काय । दे॒वाना॒व्वाँ ए॒ष आनी॑तः । यश्चा॑तुर्मास्यया॒जी । य ए॒वव्विँ॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च । दे॒वता॑ ए॒वाप्ये॑ति । नास्य॑ रु॒द्र प्र॒जां प॒शून॒भि म॑न्यते ।। 31 ।। 1.5.7.0 अ॒न्तरि॑क्ष॒॒ सन्त॑नु॒ द्वे च॑ ।। 7 ।। 1.5.7.1 आयु॑ष प्रा॒ण सन्त॑नु । प्रा॒णाद॑पा॒न सन्त॑नु । अ॒पा॒नाद्व्या॒न सन्त॑नु । व्या॒नाच्चक्षु॒स्सन्त॑नु । चक्षु॑ष॒श्श्रोत्र॒॒ सन्त॑नु । श्रोत्रा॒न्मन॒स्सन्त॑नु । मन॑सो॒ वाच॒॒ सन्त॑नु । वा॒च आ॒त्मान॒॒ सन्त॑नु । आ॒त्मन॑पृथि॒वी सन्त॑नु । पृ॒थि॒व्या अ॒न्तरि॑क्ष॒॒ सन्त॑नु । अ॒न्तरि॑क्षा॒द्दिव॒ ॒सन्त॑नु । दिव॒स्सुव॒स्सन्त॑नु ।। 32 ।। 1.5.8.0 बृ॒हच्चास्तृ॑तः ।। 8 ।। 1.5.8.1 इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ । वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ । इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितम् । तद्वि॑दच्छर्य॒णाव॑ति । अत्राह॒ गोरम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्यम् । इ॒त्था च॒न्द्रम॑सो गृ॒हे । इन्द्र॒मिद्गा॒थिनो॑ बृ॒हत् ।। 33 ।। 1.5.8.2 इन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्र॒व्वाँणी॑रनूषत । इन्द्र॒ इद्धर्यो॒स्सचा । संमि॑श्ल॒ आव॑चो॒ युजा । इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ । इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से । आ सूर्य॑ रोहयद्दि॒वि । वि गोभि॒रद्रि॑मैरयत् । इन्द्र॒ वाजे॑षु नो अव । स॒हस्र॑प्रधनेषु च ।। 34 ।। 1.5.8.3 उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ । तमिन्द्र॑व्वाँजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् । इन्द्र॒स्स दाम॑ने कृ॒तः । ओजि॑ष्ठ॒स्स बले॑ हि॒तः । द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ । गि॒रा वज्रो॒ न सम्भृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षुरु॒ग्रो अस्तृ॑तः ।। 35 ।। 1.5.9.0 ऐ॒च्छ॒न्न॒न॒य॒॒स्ति॒ष्ठ॒न्ते॒ऽनूच्या॒नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ रात्रि॑या ए॒व तद्दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जिघ्निरे मि॒त्रावरु॑णौ॒ नव॑ च ।। 9 ।। (दे॒वा यज॑मानो दे॒वा दे॒वा यज॑मानो॒ यज॑मानोऽलभन्त॒ प्राच॑रल्लँभेत॒ प्रच॑रे॒दाल॑भ॒न्ताल॑भेत मृ॒त्युमप॑जघ्निरे॒ भ्रातृ॑व्यान् ।। ) 1.5.9.1 दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । स प्र॒जाप॑ति॒रिन्द्र॑ञ्ज्ये॒ष्ठं पु॒त्रमप॒ न्य॑धत्त । नेदे॑न॒मसु॑रा॒ बली॑यासोऽहन॒न्निति॑ । प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑न॒॒ स्वं पु॒त्रमप॒ न्य॑धत्त । नेदे॑नन्दे॒वा अ॑हन॒न्निति॑ । ते दे॒वा प्र॒जाप॑तिमुपस॒मेत्यो॑चुः । नारा॒जक॑स्य यु॒द्धम॑स्ति । इन्द्र॒मन्वि॑च्छा॒मेति॑ । तय्यँ॑ज्ञक्र॒तुभि॒रन्वैच्छन्न् ।। 36 ।। 1.5.9.2 तय्यँ॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दन्न् । तमिष्टि॑भि॒रन्वैच्छन्न् । तमिष्टि॑भि॒रन्व॑विन्दन्न् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । तस्मा॑ ए॒तमाग्नावैष्ण॒वमेका॑दशकपाल- न्दीक्ष॒णीय॒न्निर॑वपन्न् । तद॑प॒द्रुत्या॑तन्वत । तान्प॑त्नीसय्याँ॒जान्त॒ उपा॑नयन्न् ।। 37 ।। 1.5.9.3 ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्न् । ते प्रा॑य॒णीय॑म॒भि स॒मारो॑हन्न् । तद॑प॒द्रुत्या॑तन्वत । ताञ्छ॒य्य्वँ॑न्त॒ उपा॑नयन्न् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्न् । त आ॑ति॒थ्यम॒भि स॒मारो॑हन्न् । तद॑प॒द्रुत्या॑तन्वत । तानिडान्त॒ उपा॑नयन्न् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्न् । तस्मा॑दे॒ता ए॒तद॑न्ता॒ इष्ट॑य॒स्सन्ति॑ष्ठन्ते ।। 38 ।। 1.5.9.4 ए॒व हि दे॒वा अकु॑र्वत । इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै म॑नु॒ष्याः कुर्वते । ते दे॒वा ऊ॑चुः । यद्वा इ॒दमु॒च्चैर्य॒ज्ञेन॒ चरा॑म । तन्नोऽसु॑राः पा॒प्माऽनु॑विन्दन्ति । उ॒पा॒॒शू॑प॒सदा॑ चराम । तथा॒ नोऽसु॑रा पा॒प्मा नानु॑वेथ्स्य॒न्तीति॑ । त उ॑पा॒॒शू॑प॒सद॑मतन्वत । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ ।। 39 ।। 1.5.9.5 स्रु॒वेणा॑घा॒रमा॒घार्य॑ । ति॒स्र परा॑ची॒राहु॑तीर् हु॒त्वा । स्रु॒वेणो॑प॒सद॑ञ्जुह॒वाञ्च॑क्रुः । उ॒ग्रव्वँचो॒ अपा॑वधीन्त्वे॒षव्वँचो॒ अपा॑वधी॒॒स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रव्वँचः॑ । एन॑श्च॒ वैर॑हत्यञ्च त्वे॒षव्वँचः॑ । ए॒त ह॒ वाव तच्च॑तुर्धाविहि॒तं पा॒प्मान॑न्दे॒वा अप॑जघ्निरे । तथो॑ ए॒वैतदे॑व॒व्विँद्यज॑मानः । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ । स्रु॒वेणा॑घा॒रमा॒घार्य॑ ।। 40 ।। 1.5.9.6 ति॒स्र परा॑ची॒राहु॑तीऱ्हु॒त्वा । स्रु॒वेणो॑प॒सद॑ञ्जुहोति । उ॒ग्रव्वँचो॒ अपा॑वधीन्त्वे॒षव्वँचो॒ अपा॑वधी॒॒ स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रव्वँचः॑ । एन॑श्च॒ वैर॑हत्यञ्च त्वे॒षव्वँचः॑ । ए॒तमे॒व तच्च॑तुर्धाविहि॒तं पा॒प्मान॒य्यँज॑मा॒नोऽप॑ हते । ते॑ऽभि॒नीयै॒वाह॑ प॒शुमाऽल॑भन्त । अह्न॑ ए॒व तद्दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीये॑व॒ रात्रे॒ प्राच॑रन्न् । रात्रि॑या ए॒व तद्दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे ।। 41 ।। 1.5.9.7 तस्मा॑दभि॒नीयै॒वाह॑ प॒शुमा ल॑भेत । अह्न॑ ए॒व तद्यज॑मा॒नोऽव॑र्तिं पा॒प्मानं॒ भ्रातृ॑व्या॒नप॑ नुदते । तेना॑भि॒नीये॑व॒ रात्रे॒ प्रच॑रेत् । रात्रि॑या ए॒व तद्यज॑मा॒नोऽव॑र्तिं पा॒प्मानं॒ भ्रातृ॑व्या॒नप॑ नुदते । स ए॒ष उ॑पवस॒थीयेऽह॑न्द्विदेव॒त्य॑ प॒शुरा ल॑भ्यते । द्व॒यव्वाँ अ॒स्मिल्लोँ॒के यज॑मानः । अस्थि॑ च मा॒॒सञ्च॑ । अस्थि॑ चै॒व तेन॑ मा॒॒सञ्च॒ यज॑मान॒स्सस्कु॑रुते । ता वा ए॒ता पञ्च॑ दे॒वताः । अ॒ग्नीषोमा॑व॒ग्निर्मि॒त्रावरु॑णौ ।। 42 ।। 1.5.9.8 प॒ञ्च॒प॒ञ्ची वै यज॑मानः । त्वङ्मा॒॒स स्नावाऽस्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्चधाविहि॒तमा॒त्मान॑व्वँरुणपा॒शान्मु॑ञ्चति । भे॒ष॒जता॑यै निर्वरुण॒त्वाय॑ । त स॒प्तभि॒श्छन्दो॑भि प्रा॒तर॑ह्वयन्न् । तस्माथ्स॒प्त च॑तुरुत्त॒राणि॒ छन्दा॑सि प्रातरनुवा॒केऽनूच्यन्ते । तमे॒तयो॑पस॒मेत्योपा॑सीदन्न् । उपास्मै गायता नर॒ इति॑ । तस्मा॑दे॒तया॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ ।। 43 ।। 1.5.10.0 आ॒दि॒त्य प॑ञ्चद॒शस्य॒ मात्रा स्तु॒वते॑ पञ्चद॒शेनै॒व तद्यज॑मान॒माद॑दते सप्तद॒शेनै॒व ह॑रन्त्यादि॒त्यस्यै॒वैनं॒ तद्वि॑शति च॒त्वारि॑ च ।। 10 ।। 1.5.10.1 स स॑मु॒द्र उ॑त्तर॒त प्राज्व॑लद्भूम्य॒न्तेन॑ । ए॒ष वाव स स॑मु॒द्रः । यच्चात्वा॑लः । ए॒ष उ॑वे॒व स भूम्य॒न्तः । यद्वेद्य॒न्तः । तदे॒तत्त्रि॑श॒लन्त्रि॑पूरु॒षम् । तस्मा॒त्तन्त्रि॑वित॒स्तङ्ख॑नन्ति । स सु॑वर्णरज॒ताभ्याङ्कु॒शीभ्यां॒ परि॑गृहीत आसीत् । तय्यँद॒स्या अध्य॒जन॑यन्न् । तस्मा॑दादि॒त्यः ।। 44 ।। 1.5.10.2 अथ॒ यथ्सु॑वर्णरज॒ताभ्याङ्कु॒शीभ्यां॒ परि॑गृहीत॒ आसीत् । साऽस्य॑ कौशि॒कता । तन्त्रि॒वृता॒ऽभि प्रास्तु॑वत । तन्त्रि॒वृताऽद॑दत । तन्त्रि॒वृताऽह॑रन्न् । याव॑ती त्रि॒वृतो॒ मात्रा । तं प॑ञ्चद॒शेना॒भि प्रास्तु॑वत । तं प॑ञ्चद॒शेनाद॑दत । तं प॑ञ्चद॒शेनाह॑रन्न् । याव॑ती पञ्चद॒शस्य॒ मात्रा ।। 45 ।। 1.5.10.3 त स॑प्तद॒शेना॒भि प्रास्तु॑वत । त स॑प्तद॒शेनाद॑दत । त स॑प्तद॒शेनाह॑रन्न् । याव॑ती सप्तद॒शस्य॒ मात्रा । तस्य॑ सप्तद॒शेन॑ ह्रि॒यमा॑णस्य॒ तेजो॒ हरो॑ऽपतत् । तमे॑कवि॒॒शेना॒भि प्रास्तु॑वत । तमे॑कवि॒॒शेनाद॑दत । तमे॑कवि॒॒शेनाह॑रन्न् । याव॑त्येकवि॒॒शस्य॒ मात्रा । ते यत्त्रि॒वृता स्तु॒वते ।। 46 ।। 1.5.10.4 त्रि॒वृतै॒व तद्यज॑मान॒माद॑दते । तन्त्रि॒वृतै॒व ह॑रन्ति । याव॑ती त्रि॒वृतो॒ मात्रा । अ॒ग्निर्वै त्रि॒वृत् । याव॒द्वा अ॒ग्नेर्दह॑तो धू॒म उ॒देत्यानु॒ व्येति॑ । ताव॑ती त्रि॒वृतो॒ मात्रा । अ॒ग्नेरे॒वैन॒न्तत् । मात्रा॒॒ सायु॑ज्य सलो॒कताङ्गमयन्ति । अथ॒ यत्प॑ञ्चद॒शेन॑ स्तु॒वते । प॒ञ्च॒द॒शेनै॒व तद्यज॑मान॒माद॑दते ।। 47 ।। 1.5.10.5 तं प॑ञ्चद॒शेनै॒व ह॑रन्ति । याव॑ती पञ्चद॒शस्य॒ मात्रा । च॒न्द्रमा॒ वै प॑ञ्चद॒शः । ए॒ष हि प॑ञ्चद॒श्याम॑पक्षी॒यते । प॒ञ्च॒द॒श्यामा॑पू॒र्यते । च॒न्द्रम॑स ए॒वैन॒न्तत् । मात्रा॒॒ सायु॑ज्य सलो॒कताङ्गमयन्ति । अथ॒ यथ्स॑प्तद॒शेन॑ स्तु॒वते । स॒प्त॒द॒शेनै॒व तद्यज॑मान॒माद॑दते । त स॑प्तद॒शेनै॒व ह॑रन्ति ।। 48 ।। 1.5.10.6 याव॑ती सप्तद॒शस्य॒ मात्रा । प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तेरे॒वैन॒न्तत् । मात्रा॒॒ सायु॑ज्य सलो॒कताङ्गमयन्ति । अथ॒ यदे॑कवि॒॒शेन॑ स्तु॒वते । ए॒क॒वि॒॒शेनै॒व तद्यज॑मान॒माद॑दते । तमे॑कवि॒॒शेनै॒व ह॑रन्ति । याव॑त्येकवि॒॒शस्य॒ मात्रा । अ॒सौ वा आ॑दि॒त्य ए॑कवि॒॒शः । आ॒दि॒त्यस्यै॒वैन॒न्तत् ।। 49 ।। 1.5.10.7 मात्रा॒॒ सायु॑ज्य सलो॒कताङ्गमयन्ति । ते कु॒श्यौ । व्य॑घ्नन्न् । ते अ॑होरा॒त्रे अ॑भवताम् । अह॑रे॒व सु॒वर्णा॑ऽभवत् । र॒ज॒ता रात्रिः॑ । स यदा॑दि॒त्य उ॒देति॑ । ए॒तामे॒व तथ्सु॒वर्णाङ्कु॒शीमनु॒ समे॑ति । अथ॒ यद॑स्त॒मेति॑ । ए॒तामे॒व तद्र॑ज॒ताङ्कु॒शीमनु॒सव्विँ॑शति । प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑न॒॒ स्वं पु॒त्रमुदास्यत् । स प्र॑द॒रो॑ऽभवत् । तस्मात्प्रद॒रादु॑द॒कन्नाचा॑मेत् ।। 50 ।। 1.5.11.0 ए॒क॒वि॒॒श आ॑हुस्तृतीयसव॒ने प्रा॑तस्सव॒नं पञ्च॑ च ।। 11 ।। 1.5.11.1 ये वै च॒त्वार॒स्स्तोमाः । कृ॒तन्तत् । अथ॒ ये पञ्च॑ । कलि॒स्सः । तस्मा॒च्चतु॑ष्टोमः । तच्चतु॑ष्टोमस्य चतुष्टोम॒त्वम् । तदा॑हुः । क॒त॒मानि॒ तानि॒ ज्योती॑षि । य ए॒तस्य॒ स्तोमा॒ इति॑ । त्रि॒वृत्प॑ञ्चद॒शस्स॑प्तद॒श ए॑कवि॒॒शः ।। 51 ।। 1.5.11.2 ए॒तानि॒ वाव तानि॒ ज्योती॑षि । य ए॒तस्य॒ स्तोमाः । सोऽब्रवीत् । स॒प्त॒द॒शेन॑ ह्रि॒यमा॑णो॒ व्य॑लेशिषि । भि॒षज्य॑त॒ मेति॑ । तम॒श्विनौ॑ धा॒नाभि॑रभिषज्यताम् । पू॒षा क॑र॒म्भेण॑ । भार॑ती परिवा॒पेण॑ । मि॒त्रावरु॑णौ पय॒स्य॑या । तदा॑हुः ।। 52 ।। 1.5.11.3 यद॒श्विभ्यान्धा॒नाः । पू॒ष्ण क॑र॒म्भः । भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयो पय॒स्याऽथ॑ । कस्मा॑दे॒तेषा॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑नन्दे॒वता॒ इति॑ ब्रूयात् । ए॒तैऱ्ह॒विर्भि॒रभि॑षज्य॒॒ स्तस्मा॒दिति॑ । तव्वँस॑वो॒ऽष्टाक॑पालेन प्रातस्सव॒ने॑ऽभिषज्यन्न् । रु॒द्रा एका॑दशकपालेन॒ माध्य॑न्दिने॒ सव॑ने । विश्वे॑ दे॒वा द्वाद॑शकपालेन तृतीयसव॒ने ।। 53 ।। 1.5.11.4 स यद॒ष्टाक॑पालान्प्रातस्सव॒ने कु॒र्यात् । एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने । द्वाद॑शकपालास्तृतीयसव॒ने । विलो॑म॒ तद्य॒ज्ञस्य॑ क्रियेत । एका॑दशकपालाने॒व प्रा॑तस्सव॒ने कु॑र्यात् । एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने । एका॑दशकपालास्तृतीयसव॒ने । य॒ज्ञस्य॑ सलोम॒त्वाय॑ । तदा॑हुः । यद्वसू॑नां प्रातस्सव॒नम् । रु॒द्राणां॒ माध्य॑न्दिन॒॒ सव॑नम् । विश्वे॑षान्दे॒वानान्तृतीयसव॒नम् । अथ॒ कस्मा॑दे॒तेषा॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑नन्दे॒वता॒ इति॑ ब्रूयात् । ए॒तैऱ्ह॒विर्भि॒रभि॑षज्य॒॒ स्तस्मा॒दिति॑ ।। 54 ।। 1.5.12.0 अ॒भ॒व॒न्वाव सा दे॒वाक्ष॑रा बृह॒त्य॑दधा॒द्द्वाद॑शा॒क्षराण्यप॒च्छिद्या॑दधादा॒स्थाय॒ षट्च॑ ।। 12 ।। 1.5.12.1 तस्यावा॑चोऽवपा॒दाद॑बिभयुः । तमे॒तेषु॑ स॒प्तसु॒ छन्द॑स्स्वश्रयन्न् । यदश्र॑यन्न् । तच्छ्रा॑य॒न्तीय॑स्य श्रायन्तीय॒त्वम् । यदवा॑रयन्न् । तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् । तस्यावा॑च ए॒वाव॑पा॒दाद॑बिभयुः । तस्मा॑ ए॒तानि॑ स॒प्त च॑तुरुत्त॒राणि॒ छन्दा॒॒स्युपा॑दधुः । तेषा॒मति॒ त्रीण्य॑रिच्यन्त । न त्रीण्युद॑भवन्न् ।। 55 ।। 1.5.12.2 स बृ॑ह॒तीमे॒वास्पृ॑शत् । द्वाभ्या॑म॒क्षराभ्याम् । अ॒हो॒रा॒त्राभ्या॑मे॒व । तदा॑हुः । क॒त॒मा सा दे॒वाक्ष॑रा बृह॒ती । यस्या॒न्तत्प्र॒त्यति॑ष्ठत् । द्वाद॑श पौर्णमा॒स्यः॑ । द्वाद॒शाष्ट॑काः । द्वाद॑शामावा॒स्याः । ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती ।। 56 ।। 1.5.12.3 यस्या॒न्तत्प्र॒त्यति॑ष्ठ॒दिति॑ । यानि॑ च॒ छन्दा॑स्य॒त्यरि॑च्यन्त । यानि॑ च॒ नोदभ॑वन्न् । तानि॒ निर्वीर्याणि ही॒नान्य॑मन्यन्त । साऽब्र॑वीद्बृह॒ती । मामे॒व भू॒त्वा । मामुप॒ सश्र॑य॒तेति॑ । च॒तुर्भि॑र॒क्षरै॑रनु॒ष्टुग्बृ॑ह॒तीन्नोद॑भवत् । च॒तुर्भि॑र॒क्षरै प॒ङ्क्तिर्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॑ च॒त्वार्य॒क्षराण्यप॒च्छिद्या॑दधात् ।। 57 ।। 1.5.12.4 ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । अ॒ष्टा॒भिर॒क्षरै॑रु॒ष्णिग्बृ॑ह॒तीन्नोद॑भवत् । अ॒ष्टा॒भिर॒क्षरैस्त्रि॒ष्टुग्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तान्य॒ष्टाव॒क्षराण्यप॒च्छिद्या॑दधात् । ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । द्वा॒द॒शभि॑र॒क्षरैर्गाय॒त्री बृ॑ह॒तीन्नोद॑भवत् । द्वा॒द॒शभि॑र॒क्षरै॒र्जग॑ती बृह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॒ द्वाद॑शा॒क्षराण्यप॒च्छिद्या॑दधात् ।। 58 ।। 1.5.12.5 ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । सोऽब्रवीत्प्र॒जाप॑तिः । छन्दा॑सि॒ रथो॑ मे भवत । यु॒ष्माभि॑र॒हमे॒तमध्वा॑न॒मनु॒ सञ्च॑रा॒णीति॑ । तस्य॑ गाय॒त्री च॒ जग॑ती च प॒क्षाव॑भवताम् । उ॒ष्णिक्च॑ त्रि॒ष्टुप्च॒ प्रष्ट्यौ । अ॒नु॒ष्टुप्च॑ प॒ङ्क्तिश्च॒ धुर्यौ । बृ॒ह॒त्ये॑वोद्धिर॑भवत् । स ए॒तञ्छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमध्वा॑न॒मनु॒ सम॑चरत् । ए॒त ह॒ वै छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमध्वा॑न॒मनु॒ सञ्च॑रति । येनै॒ष ए॒तथ्स॒ञ्चर॑ति । य ए॒वव्विँ॒द्वान्थ्सोमे॑न॒ यज॑ते । य उ॑ चैनमे॒वँव्वेद॑ ।। 59 ।। 1.6.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठप्रपाठक प्रारंभः । हरिः ओम् ।। 1.6.0.0 अनु॑मत्यै वैश्वदे॒वेन॒ तास्सृ॒ष्टास्त्रि॒वृत्प्र॒जाप॑तिस्सवि॒तोत्त॑रस्यान्देवासु॒रास्सोऽग्निर्यत्पत्नी॑ वैश्वदे॒वेन॒ ता व॑रुणप्रघा॒सैर॒ग्नये॑ दे॒वेभ्य॑ प्रतिपूरु॒षन्दश॑ ।। 10 ।। अनु॑मत्यै प्रथम॒जो व॒थ्सो ब॑हुरू॒पा हि प॒शव॒स्तस्मात्पृथमा॒त्रय्यँद॒ग्नयेऽनी॑कवत उद्धा॒रव्वाँ अ॒ग्नये॑ दे॒वेभ्य॑ प्रतिपूरु॒षं पञ्च॑सप्ततिः ।। 75 ।। अनु॑मत्यै॒ प्रति॑तिष्ठन्ति ।। हरिः॑ ओम् ।। तैत्तिरीयकृष्णयजुर्ब्राह्मणे प्रथमाष्टके षष्ठप्रपाठकस्समाप्तः । 1.6.1.0 ई॒युर्नि॒रव॑दयतेऽङ्गु॒ष्ठाभ्याञ्जुहो॒त्यनु॑मतिर्दे॒वता॑ नि॒र्वप॑ति व॒ही दक्षि॑णा॒ यदै॒न्द्रन्दध्यप॑राभावाय स्वदयति॒ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै॒ षट्च॑ ।। 1 ।। 1.6.1.1 अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पति । ये प्र॒त्यञ्च॒श्शम्या॑या अव॒शीय॑न्ते । तन्नैर्॑ऋ॒तमेक॑कपालम् । इ॒यव्वाँ अनु॑मतिः । इ॒यन्निऱ्ऋ॑तिः । नै॒र्॒ऋ॒तेन॒ पूर्वे॑ण॒ प्रच॑रति । पा॒प्मान॑मे॒व निऱ्ऋ॑तिं॒ पूर्वान्नि॒रव॑दयते । एक॑कपालो भवति । ए॒क॒धैव निऱ्ऋ॑तिन्नि॒रव॑दयते । यदहु॑त्वा॒ गाऱ्ह॑पत्य ई॒युः ।। 1 ।। 1.6.1.2 रु॒द्रो भू॒त्वाऽग्निर॑नू॒त्थाय॑ । अ॒ध्व॒र्युञ्च॒ यज॑मानञ्च हन्यात् । वीहि॒ स्वाहाऽऽहु॑तिञ्जुषा॒ण इत्या॑ह । आहु॑त्यै॒वैन॑ शमयति । नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः । ए॒को॒ल्मु॒केन॑ यन्ति । तद्धि निऱ्ऋ॑त्यै भाग॒धेयम् । इ॒मान्दिश॑य्यँन्ति । ए॒षा वै निऱ्ऋ॑त्यै॒ दिक् । स्वाया॑मे॒व दि॒शि निऱ्ऋ॑तिन्नि॒रव॑दयते ।। 2 ।। 1.6.1.3 स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा । ए॒तद्वै निऱ्ऋ॑त्या आ॒यत॑नम् । स्व ए॒वायत॑ने॒ निऱ्ऋ॑तिन्नि॒रव॑दयते । ए॒ष ते॑ निर्‌ऋते भा॒ग इत्या॑ह । निर्दि॑शत्ये॒वैनाम् । भूते॑ ह॒विष्म॑त्य॒सीत्या॑ह । भूति॑मे॒वोपाव॑र्तते । मु॒ञ्चेममह॑स॒ इत्या॑ह । अह॑स ए॒वैनं॑ मुञ्चति । अ॒ङ्गु॒ष्ठाभ्याञ्जुहोति ।। 3 ।। 1.6.1.4 अ॒न्त॒त ए॒व निऱ्ऋ॑तिन्नि॒रव॑दयते । कृ॒ष्णव्वाँस॑ कृ॒ष्णतू॑ष॒न्दक्षि॑णा । ए॒तद्वै निऱ्ऋ॑त्यै रू॒पम् । रू॒पेणै॒व निऱ्ऋ॑तिन्नि॒रव॑दयते । अप्र॑तीक्ष॒माय॑न्ति । निऱ्ऋ॑त्या अ॒न्तऱ्हि॑त्यै । स्वाहा॒ नमो॒ य इ॒दञ्च॒कारेति॒ पुन॒रेत्य॒ गाऱ्ह॑पत्ये जुहोति । आहु॑त्यै॒व न॑म॒स्यन्तो॒ गाऱ्ह॑पत्यमु॒पाव॑र्तन्ते । आ॒नु॒म॒तेन॒ प्रच॑रति । इ॒यव्वाँ अनु॑मतिः ।। 4 ।। 1.6.1.5 इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते । धे॒नुर्दक्षि॑णा । इ॒मामे॒व धे॒नुङ्कु॑रुते । आ॒दि॒त्यञ्च॒रुन्निर्व॑पति । उ॒भयीष्वे॒व प्र॒जास्व॒भिषि॑च्यते । दैवी॑षु च॒ मानु॑षीषु च । वरो॒ दक्षि॑णा । वरो॒ हि रा॒ज्य समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पति । अ॒ग्निस्सर्वा॑ दे॒वताः ।। 5 ।। 1.6.1.6 विष्णु॑र्य॒ज्ञः । दे॒वताश्चै॒व य॒ज्ञञ्चाव॑ रुन्धे । वा॒म॒नो व॒ही दक्षि॑णा । यद्व॒ही । तेनाग्ने॒यः । यद्वा॑म॒नः । तेन॑ वैष्ण॒वस्समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पति । अ॒ग्नीषोमाभ्या॒व्वाँ इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॑ । यद॑ग्नीषो॒मीय॒मेका॑दशकपालन्नि॒र्वप॑ति ।। 6 ।। 1.6.1.7 वार्त्र॑घ्नमे॒व विजि॑त्यै । हिर॑ण्य॒न्दक्षि॑णा॒ समृ॑द्ध्यै । इन्द्रो॑ वृ॒त्र ह॒त्वा । दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्यार्ध्यत । स ए॒तमैन्द्रा॒ग्नमेका॑दशकपालमपश्यत् । तन्निर॑वपत् । तेन॒ वै स दे॒वताश्चेन्द्रि॒यञ्चावा॑रुन्ध । यदैन्द्रा॒ग्नमेका॑दशकपालन्नि॒र्वप॑ति । दे॒वताश्चै॒व तेनेन्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑रुन्धे । ऋ॒ष॒भो व॒ही दक्षि॑णा ।। 7 ।। 1.6.1.8 यद्व॒ही । तेनाग्ने॒यः । यदृ॑ष॒भः । तेनै॒न्द्रस्समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति । ऐ॒न्द्रन्दधि॑ । यदाग्ने॒यो भव॑ति । अ॒ग्निर्वै य॑ज्ञमु॒खम् । य॒ज्ञ॒मु॒खमे॒वर्द्धिं॑ पु॒रस्ताद्धत्ते । यदै॒न्द्रन्दधि॑ ।। 8 ।। 1.6.1.9 इ॒न्द्रि॒यमे॒वाव॑रुन्धे । ऋ॒ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेनाग्ने॒यः । यदृ॑ष॒भः । तेनै॒न्द्रस्समृ॑द्ध्यै । याव॑ती॒र्वै प्र॒जा ओष॑धीना॒महु॑ताना॒माश्ञन्न्॑ । ता परा॑ऽभवन्न् । आ॒ग्र॒य॒णं भ॑वति हु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय ।। 9 ।। 1.6.1.10 दे॒वा वा ओष॑धीष्वा॒जिम॑युः । ता इ॑न्द्रा॒ग्नी उद॑जयताम् । तावे॒तमैन्द्रा॒ग्नन्द्वाद॑शकपाल॒न्निर॑वृणाताम् । यदैन्द्रा॒ग्नो भव॒त्युज्जि॑त्यै । द्वाद॑शकपालो भवति । द्वाद॑श॒ मासास्सव्वँथ्स॒रः । स॒व्वँ॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । वै॒श्व॒दे॒वश्च॒रुर्भ॑वति । वै॒श्व॒दे॒वव्वाँ अन्नम् । अन्न॑मे॒वास्मै स्वदयति ।। 10 ।। 1.6.1.11 प्र॒थ॒म॒जो व॒थ्सो दक्षि॑णा॒ समृ॑द्ध्यै । सौ॒म्य श्या॑मा॒कञ्च॒रुन्निर्व॑पति । सोमो॒ वा अ॑कृष्टप॒च्यस्य॒ राजा । अ॒कृ॒ष्ट॒प॒च्यमे॒वास्मै स्वदयति । वासो॒ दक्षि॑णा । सौ॒म्य हि दे॒वत॑या॒ वास॒स्समृ॑द्ध्यै । सर॑स्वत्यै च॒रुन्निर्व॑पति । सर॑स्वते च॒रुम् । मि॒थु॒नमे॒वाव॑ रुन्धे । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । एति॒ वा ए॒ष य॑ज्ञमु॒खादृध्याः । योऽग्नेर्दे॒वता॑या॒ एति॑ । अ॒ष्टावे॒तानि॑ ह॒वीषि॑ भवन्ति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रोऽग्निः । तेनै॒व य॑ज्ञमु॒खादृध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैति॑ ।। 11 ।। 1.6.2.0 ऐ॒दित्य॑शोचद्व्यु॒द्धर॑त्यब्रवीत्प्रति॒ष्ठया॑ जेष्य॒थेत्ये॒तऱ्हि॑ प॒शवः॑ ।। 2 ।। 1.6.2.1 वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑ति प्र॒जा अ॑सृजत । तास्सृ॒ष्टा न प्राजा॑यन्त । सोऽग्निर॑कामयत । अ॒हमि॒मा प्रज॑नयेय॒मिति॑ । स प्र॒जाप॑तये॒ शुच॑मदधात् । सो॑ऽशोचत्प्र॒जामि॒च्छमा॑नः । तस्मा॒द्यञ्च॑ प्र॒जा भु॒नक्ति॒ यञ्च॒ न । तावु॒भौ शो॑चत प्र॒जामि॒च्छमा॑नौ । तास्व॒ग्निमप्य॑सृजत् । ता अ॒ग्निरध्यैत् ।। 12 ।। 1.6.2.2 सोमो॒ रेतो॑ऽदधात् । स॒वि॒ता प्राज॑नयत् । सर॑स्वती॒ वाच॑मदधात् । पू॒षाऽपो॑षयत् । ते वा ए॒ते त्रिस्स॑व्वँथ्स॒रस्य॒ प्रयु॑ज्यन्ते । ये दे॒वा पुष्टि॑पतयः । स॒व्वँ॒थ्स॒रो वै प्र॒जाप॑तिः । स॒व्वँ॒थ्स॒रेणै॒वास्मै प्र॒जा प्राज॑नयत् । ता प्र॒जा जा॒ता म॒रुतोऽघ्नन्न् । अ॒स्मानपि॒ न प्रायु॑क्ष॒तेति॑ ।। 13 ।। 1.6.2.3 स ए॒तं प्र॒जाप॑तिर्मारु॒त स॒प्तक॑पालमपश्यत् । तन्निर॑वपत् । ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत । यन्मा॑रु॒तो नि॑रु॒प्यते । य॒ज्ञस्य॒ कॢप्त्यै । प्र॒जाना॒मघा॑ताय । स॒प्तक॑पालो भवति । स॒प्तग॑णा॒ वै म॒रुतः॑ । ग॒ण॒श ए॒वास्मै॒ विश॑ङ्कल्पयति । स प्र॒जाप॑तिरशोचत् ।। 14 ।। 1.6.2.4 या पूर्वा प्र॒जा असृ॑क्षि । म॒रुत॒स्ता अ॑वधिषुः । क॒थमप॑रास्सृजे॒येति॑ । तस्य॒ शुष्म॑ आ॒ण्डं भू॒तन्निर॑वर्तत । तद्व्युद॑हरत् । तद॑पोषयत् । तत्प्राजा॑यत । आ॒ण्डस्य॒ वा ए॒तद्रू॒पम् । यदा॒मिक्षा । यद्व्यु॒द्धर॑ति ।। 15 ।। 1.6.2.5 प्र॒जा ए॒व तद्यज॑मान पोषयति । वै॒श्व॒दे॒व्या॑मिक्षा॑ भवति । वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । प्र॒जा ए॒वास्मै॒ प्रज॑नयति । वाजि॑न॒मान॑यति । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति । द्या॒वा॒पृ॒थि॒व्य॑ एक॑कपालो भवति । प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यतः॒ परि॑ गृह्णाति । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । सोऽग्निर॑ब्रवीत् ।। 16 ।। 1.6.2.6 मामग्रे॑ यजत । मया॒ मुखे॒नासु॑राञ्जेष्य॒थेति॑ । मान्द्वि॒तीय॒मिति॒ सोमोऽब्रवीत् । मया॒ राज्ञा॑ जेष्य॒थेति॑ । मान्तृ॒तीय॒मिति॑ सवि॒ता । मया॒ प्रसू॑ता जेष्य॒थेति॑ । माञ्च॑तु॒र्थीमिति॒ सर॑स्वती । इ॒न्द्रि॒यव्वोँ॒ऽहन्धास्या॒मीति॑ । मां प॑ञ्च॒ममिति॑ पू॒षा । मया प्रति॒ष्ठया॑ जेष्य॒थेति॑ ।। 17 ।। 1.6.2.7 तेऽग्निना॒ मुखे॒नासु॑रानजयन्न् । सोमे॑न॒ राज्ञा । स॒वि॒त्रा प्रसू॑ताः । सर॑स्वतीन्द्रि॒यम॑दधात् । पू॒षा प्र॑ति॒ष्ठाऽऽसीत् । ततो॒ वै दे॒वा व्य॑जयन्त । यदे॒तानि॑ ह॒वीषि॑ निरु॒प्यन्ते॒ विजि॑त्यै । नोत्त॑रवे॒दिमुप॑वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । अजा॑ता इव॒ ह्ये॑तऱ्हि॑ प॒शवः॑ ।। 18 ।। 1.6.3.0 लो॒को ब॑हुरू॒पं भ॑व॒त्याज्य॑भागौ प॒शव॒ आज्य॑मव॒द्येदा॑हव॒नीय॑ प्र॒त्यक्तस्मा॒त्प्रति॑ष्ठितो होत॒व्यो॑ भाग॒धेय॑मे॒ते च॒त्वारि॑ च ।। 3 ।। 1.6.3.1 त्रि॒वृद्ब॒र्॒हिर्भ॑वति । मा॒ता पि॒ता पु॒त्रः । तदे॒व तन्मि॑थु॒नम् । उल्ब॒ङ्गर्भो॑ ज॒रायु॑ । तदे॒व तन्मि॑थु॒नम् । त्रे॒धा ब॒र्॒हिस्सन्न॑द्धं भवति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति । ए॒क॒धा पुन॒स्सन्न॑द्धं भवति । एक॑ इव॒ ह्य॑यल्लोँ॒कः ।। 19 ।। 1.6.3.2 अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑तिष्ठति । प्र॒सुवो॑ भवन्ति । प्र॒थ॒म॒जामे॒व पुष्टि॒मव॑रुन्धे । प्र॒थ॒म॒जो व॒थ्सो दक्षि॑णा॒ समृ॑द्ध्यै । पृ॒ष॒दा॒ज्यङ्गृ॑ह्णाति । प॒शवो॒ वै पृ॑षदा॒ज्यम् । प॒शूने॒वाव॑ रुन्धे । प॒ञ्च॒गृ॒ही॒तं भ॑वति । पाङ्क्ता॒ हि प॒शवः॑ । ब॒हु॒रू॒पं भ॑वति ।। 20 ।। 1.6.3.3 ब॒हु॒रू॒पा हि प॒शव॒स्समृ॑द्ध्यै । अ॒ग्निं म॑न्थन्ति । अ॒ग्निमु॑खा॒ वै प्र॒जाप॑ति प्र॒जा अ॑सृजत । यद॒ग्निं मन्थ॑न्ति । अ॒ग्निमु॑खा ए॒व तत्प्र॒जा यज॑मानस्सृजते । नव॑ प्रया॒जा इ॑ज्यन्ते । नवा॑नूया॒जाः । अ॒ष्टौ ह॒वीषि॑ । द्वावा॑घा॒रौ । द्वावाज्य॑भागौ ।। 21 ।। 1.6.3.4 त्रि॒॒शथ्संप॑द्यन्ते । त्रि॒॒शद॑क्षरा वि॒राट् । अन्न॑व्विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । यज॑मानो॒ वा एक॑कपालः । तेज॒ आज्यम् । यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति । यज॑मानो॒ वा एक॑कपालः । प॒शव॒ आज्यम् ।। 22 ।। 1.6.3.5 यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व प॒शुभि॒स्सम॑र्धयति । यदल्प॑मा॒नयेत् । अल्पा॑ एनं प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेरन्न् । यद्ब॒ह्वा॑नयेत् । ब॒हव॑ एनं प॒शवोऽभु॑ञ्जन्त॒ उप॑तिष्ठेरन्न् । ब॒ह्वा॑नीया॒वि पृ॑ष्ठं कुर्यात् । ब॒हव॑ ए॒वैनं॑ प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते । यज॑मानो॒ वा एक॑कपालः । यदेक॑कपालस्याव॒द्येत् ।। 23 ।। 1.6.3.6 यज॑मान॒स्याव॑द्येत् । उद्वा॒ माद्ये॒द्यज॑मानः । प्र वा॑ मीयेत । स॒कृदे॒व हो॑त॒व्यः॑ । स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः । हु॒त्वाऽभि जु॑होति । यज॑मानमे॒व सु॑व॒र्गल्लोँ॒कङ्ग॑मयि॒त्वा । तेज॑सा॒ सम॑र्धयति । यज॑मानो॒ वा एक॑कपालः । सु॒व॒र्गो लो॒क आ॑हव॒नीयः॑ ।। 24 ।। 1.6.3.7 यदेक॑कपालमाहव॒नीये॑ जु॒होति॑ । यज॑मानमे॒व सु॑व॒र्गल्लोँ॒कङ्ग॑मयति । यद्धस्ते॑न जुहु॒यात् । सु॒व॒र्गाल्लो॒काद्यज॑मान॒मव॑विध्येत् । स्रु॒चा जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । यत्प्राङ्पद्ये॑त । दे॒व॒लो॒कम॒भिज॑येत् । यद्द॑क्षि॒णा पि॑तृलो॒कम् । यत्प्र॒त्यक् ।। 25 ।। 1.6.3.8 रक्षा॑सि य॒ज्ञ ह॑न्युः । यदुदङ्ङ्॑ । म॒नु॒ष्य॒लो॒कम॒भिज॑येत् । प्रति॑ष्ठितो होत॒व्यः॑ । एक॑कपाल॒व्वैँ प्र॑ति॒तिष्ठ॑न्त॒न्द्यावा॑पृथि॒वी अनु॒ प्रति॑तिष्ठतः । द्यावा॑पृथि॒वी ऋ॒तवः॑ । ऋ॒तून् य॒ज्ञः । य॒ज्ञय्यँज॑मानः । यज॑मानं प्र॒जाः । तस्मा॒त्प्रति॑ष्ठितो होत॒व्यः॑ ।। 26 ।। 1.6.3.9 वा॒जिनो॑ यजति । अ॒ग्निर्वा॒युस्सूर्यः॑ । ते वै वा॒जिनः॑ । ताने॒व तद्य॑जति । अथो॒ खल्वा॑हुः । छन्दा॑सि॒ वै वा॒जिन॒ इति॑ । तान्ये॒व तद्य॑जति । ऋ॒ख्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ । तयो परि॒धय॑ आ॒धानम् । वाजि॑नं भाग॒धेयम् ।। 27 ।। 1.6.3.10 यदप्र॑हृत्य परि॒धीञ्जु॑हु॒यात् । अ॒न्तरा॑धानाभ्याङ्घा॒सं प्रय॑च्छेत् । प्र॒हृत्य॑ परि॒धीञ्जु॑होति । निरा॑धानाभ्यामे॒व घा॒सं प्रय॑च्छति । ब॒र्॒हिषि॑ विषि॒ञ्चन्वाजि॑न॒मा न॑यति । प्र॒जा वै ब॒र्॒हिः । रेतो॒ वाजि॑नम् । प्र॒जास्वे॒व रेतो॑ दधाति । स॒मु॒प॒हूय॑ भक्षयन्ति । ए॒तथ्सो॑मपीथा॒ ह्ये॑ते । अथो॑ आ॒त्मन्ने॒व रेतो॑ दधते । यज॑मान उत्त॒मो भ॑क्षयति । प॒शवो॒ वै वाजि॑नम् । यज॑मान ए॒व प॒शून्प्रति॑ष्ठापयन्ति ।। 28 ।। 1.6.4.0 नि॒रु॒प्यन्ते॑ भवतो॒ भव॑ति मेध्य॒त्वाय॑ रुन्धे॒ षट्च॑ ।। 4 ।। 1.6.4.1 प्र॒जाप॑तिस्सवि॒ता भू॒त्वा प्र॒जा अ॑सृजत । ता ए॑न॒मत्य॑मन्यन्त । ता अ॑स्मा॒दपाक्रामन्न् । ता वरु॑णो भू॒त्वा प्र॒जा वरु॑णेनाग्राहयत् । ता प्र॒जा वरु॑णगृहीताः । प्र॒जाप॑तिं॒ पुन॒रुपा॑धावन्ना॒थमि॒च्छमा॑नाः । स ए॒तान्प्र॒जाप॑तिर्वरुणप्रघा॒सान॑पश्यत् । तान्निर॑वपत् । तैर्वै स प्र॒जा व॑रुणपा॒शाद॑मुञ्चत् । यद्व॑रुणप्रघा॒सा नि॑रु॒प्यन्ते ।। 29 ।। 1.6.4.2 प्र॒जाना॒मव॑रुणग्राहाय । तासा॒न्दक्षि॑णो बा॒हुर्न्य॑क्न॒ आसीत् । स॒व्य प्रसृ॑तः । स ए॒तान्द्वि॒तीयान्दक्षिण॒तो वेदि॒मुद॑हन्न् । ततो॒ वै स प्र॒जाना॒न्दक्षि॑णं बा॒हुं प्रासा॑रयत् । यद्द्वि॒तीयान्दक्षिण॒तो वेदि॑मु॒द्धन्ति॑ । प्र॒जाना॑मे॒व तद्यज॑मानो॒ दक्षि॑णं बा॒हुं प्रसा॑रयति । तस्माच्चातुर्मास्यया॒ज्य॑मुष्मि॑ल्लोँ॒क उ॑भ॒याबा॑हुः । य॒ज्ञाभि॑जित॒॒ ह्य॑स्य । पृ॒थ॒मा॒त्राद्वैदी॒ असं॑भिन्ने भवतः ।। 30 ।। 1.6.4.3 तस्मात्पृथमा॒त्रव्व्यँसौ । उत्त॑रस्या॒व्वेँद्या॑मुत्तरवे॒दिमुप॑ वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । प॒शूने॒वाव॑रुन्धे । अथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै । ए॒तद्ब्राह्मणान्ये॒व पञ्च॑ ह॒वीषि॑ । अथै॒ष ऐन्द्रा॒ग्नो भ॑वति । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वानाम् । यदि॑न्द्रा॒ग्नी । यदैन्द्रा॒ग्नो भव॑ति ।। 31 ।। 1.6.4.4 प्रा॒णा॒पा॒नावे॒वाव॑ रुन्धे । ओजो॒ बल॒व्वाँ ए॒तौ दै॒वानाम् । यदि॑न्द्रा॒ग्नी । यदैन्द्रा॒ग्नो भव॑ति । ओजो॒ बल॑मे॒वाव॑ रुन्धे । मा॒रु॒त्या॑मिक्षा॑ भवति । वा॒रु॒ण्या॑मिक्षा । मे॒षी च॑ मे॒षश्च॑ भवतः । मि॒थु॒ना ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । लो॒म॒शौ भ॑वतो मेध्य॒त्वाय॑ ।। 32 ।। 1.6.4.5 श॒मी॒प॒र्णान्युप॑ वपति । घा॒समे॒वाभ्या॒मपि॑ यच्छति । प्र॒जाप॑तिम॒न्नाद्य॒न्नोपा॑नमत् । स ए॒तेन॑ श॒तेध्मे॑न ह॒विषा॒ऽन्नाद्य॒मवा॑रुन्ध । यत्प॑रश्श॒तानि॑ शमीप॒र्णानि॒ भव॑न्ति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । सौ॒म्यानि॒ वै क॒रीरा॑णि । सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टि॑ञ्च्यावयति । यत्क॒रीरा॑णि॒ भव॑न्ति । सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑रुन्धे । का॒य एक॑कपालो भवति । प्र॒जानाङ्क॒न्त्वाय॑ । प्र॒ति॒पू॒रु॒षङ्क॑रम्भपा॒त्राणि॑ भवन्ति । जा॒ता ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति ।। 33 ।। 1.6.5.0 क॒रोति॑ ग्राहयत्याहव॒नीय॒स्तिष्ठ॑ञ्जुहोत्य॒पो॑ऽवभृ॒थमवै॑ति धत्ते ।। 5 ।। 1.6.5.1 उत्त॑रस्या॒व्वेँद्या॑म॒न्यानि॑ ह॒वीषि॑ सादयति । दक्षि॑णायां मारु॒तीम् । अ॒प॒धु॒रमे॒वैना॑ युनक्ति । अथो॒ ओज॑ ए॒वासा॒मव॑ हरति । तस्मा॒द्ब्रह्म॑णश्च क्ष॒त्राच्च॒ विशोऽन्यतोऽपक्र॒मिणीः । मा॒रु॒त्या पूर्व॑या॒ प्रच॑रति । अनृ॑तमे॒वाव॑ यजते । वा॒रु॒ण्योत्त॑रया । अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते । यदे॒वाध्व॒र्यु क॒रोति॑ ।। 34 ।। 1.6.5.2 तत्प्र॑तिप्रस्था॒ता क॑रोति । तस्मा॒द्यच्छ्रेयान्क॒रोति॑ । तत्पापी॑यान्करोति । पत्नीव्वाँचयति । मेध्या॑मे॒वैनाङ्करोति । अथो॒ तप॑ ए॒वैना॒मुप॑ नयति । यज्जा॒र सन्त॒न्न प्र॑ब्रू॒यात् । प्रि॒यं ज्ञा॒ति रु॑न्ध्यात् । अ॒सौ मे॑ जा॒र इति॒ निर्दि॑शेत् । नि॒र्दिश्यै॒वैनं॑ वरुणपा॒शेन॑ ग्राहयति ।। 35 ।। 1.6.5.3 प्र॒घा॒स्यान्॑ हवामह॒ इति॒ पत्नी॑मु॒दान॑यति । अह्व॑तै॒वैनाम् । यत्पत्नी॑ पुरोनुवा॒क्या॑मनुब्रू॒यात् । निर्वीर्यो॒ यज॑मानस्स्यात् । यज॑मा॒नोऽन्वा॑ह । आ॒त्मन्ने॒व वी॒र्य॑न्धत्ते । उ॒भौ या॒ज्या॑ सवीर्य॒त्वाय॑ । यद्ग्रामे॒ यदर॑ण्य॒ इत्या॑ह । य॒थो॒दि॒तमे॒व वरु॑ण॒मव॑ यजते । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वा आ॑हव॒नीयः॑ ।। 36 ।। 1.6.5.4 भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑ दक्षि॑णः । यदा॑हव॒नीये॑ जुहु॒यात् । यज॑मानव्वँरुणपा॒शेन॑ ग्राहयेत् । दक्षि॑णे॒ऽग्नौ जु॑होति । भ्रातृ॑व्यमे॒व व॑रुणपा॒शेन॑ ग्राहयति । शूर्पे॑ण जुहोति । अन्य॑मे॒व वरु॑ण॒मव॑ यजते । शी॒र्॒षन्न॑धि नि॒धाय॑ जुहोति । शी॒ऱ्ष॒त ए॒व वरु॑ण॒मव॑ यजते । प्र॒त्यङ्तिष्ठ॑ञ्जुहोति ।। 37 ।। 1.6.5.5 प्र॒त्यङ्ङे॒व व॑रुणपा॒शान्निर्मु॑च्यते । अक्र॒न्कर्म॑ कर्म॒कृत॒ इत्या॑ह । दे॒वानृ॒णन्नि॑रव॒दाय॑ । अ॒नृ॒णा गृ॒हानुप॒ प्रेतेति॒ वावैतदा॑ह । वरु॑णगृहीत॒व्वाँ ए॒तद्य॒ज्ञस्य॑ । यद्यजु॑षा गृही॒तस्या॑ति॒रिच्य॑ते । तुषाश्च निष्का॒सश्च॑ । तुषैश्च निष्का॒सेन॑ चावभृ॒थमवै॑ति । वरु॑णगृहीतेनै॒व वरु॑ण॒मव॑यजते । अ॒पो॑ऽवभृ॒थमवै॑ति ।। 38 ।। 1.6.5.6 अ॒फ्सु वै वरु॑णः । सा॒क्षादे॒व वरु॑ण॒मव॑यजते । प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह । व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते । अप्र॑तीक्ष॒मा य॑न्ति । वरु॑णस्या॒न्तऱ्हि॑त्यै । एधोऽष्येधिषी॒महीत्या॑ह । स॒मिधै॒वाग्निन्न॑म॒स्यन्त॑ उ॒पाय॑न्ति । तेजो॑ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह । तेज॑ ए॒वात्मन्ध॑त्ते ।। 39 ।। 1.6.6.0 असु॑रा अश्रयन्गृहमे॒धीय॑ञ्च॒रुन्निर॑वपन्नजुहवुर॒न्वाहेडान्तो भवति॒ द्वे च॑ ।। 6 ।। 1.6.6.1 दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । सोऽग्निर॑ब्रवीत् । ममे॒यमनी॑कवती त॒नूः । तां प्री॑णीत । अथासु॑रान॒भि भ॑विष्य॒थेति॑ । ते दे॒वा अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन्न् । सोऽग्निरनी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धाऽनी॑कान्यजनयत । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः ।। 40 ।। 1.6.6.2 यद॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालन्नि॒र्वप॑ति । अ॒ग्निमे॒वानी॑कवन्त॒॒ स्वेन॑ भाग॒धेये॑न प्रीणाति । सोऽग्निरनी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धाऽनी॑कानि जनयते । अ॒सौ वा आ॑दि॒त्योऽग्निरनी॑कवान् । तस्य॑ र॒श्मयोऽनी॑कानि । सा॒क सूर्ये॑णोद्य॒ता निर्व॑पति । सा॒क्षादे॒वास्मा॒ अनी॑कानि जनयति । तेऽसु॑राः॒ परा॑जिता॒ यन्तः॑ । द्यावा॑पृथि॒वी उपाश्रयन्न् ।। 41 ।। 1.6.6.3 ते दे॒वा म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्निर॑वपन्न् । तान्द्यावा॑पृथि॒वीभ्या॑मे॒वोभ॒यत॒ सम॑तपन् । यन्म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्नि॒र्वप॑ति । द्यावा॑पृथि॒वीभ्या॑मे॒व तदु॑भ॒यतो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्थ्सन्त॑पति । म॒ध्यन्दि॑ने॒ निर्व॑पति । तऱ्हि॒ हि तेख्ष्णि॑ष्ठ॒न्तप॑ति । च॒रुर्भ॑वति । स॒र्वत॑ ए॒वैना॒न्थ्सन्त॑पति । ते दे॒वाश्श्वो॑विज॒यिन॒स्सन्तः॑ । सर्वा॑सान्दु॒ग्धे गृ॑हमे॒धीय॑ञ्च॒रुन्निर॑वपन्न् ।। 42 ।। 1.6.6.4 आशि॑ता ए॒वाद्योप॑वसाम । कस्य॒ वाऽहे॒दम् । कस्य॑ वा॒ श्वो भ॑वि॒तेति॑ । स शृ॒तो॑ऽभवत् । तस्याहु॑तस्य॒ नाश्ञन्न्॑ । न हि दे॒वा अहु॑तस्या॒श्ञन्ति॑ । तेऽब्रुवन्न् । कस्मा॑ इ॒म होष्याम॒ इति॑ । म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒ इत्य॑ब्रुवन्न् । तं म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ऽजुहवुः ।। 43 ।। 1.6.6.5 ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः । यस्यै॒वव्विँ॒दुषो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति । भव॑त्या॒त्मना । पराऽस्य॒ भ्रातृ॑व्यो भवति । यद्वै य॒ज्ञस्य॑ पाक॒त्रा क्रि॒यते । प॒श॒व्य॑न्तत् । पा॒क॒त्रा वा ए॒तत्क्रि॑यते । यन्नेध्माब॒र्॒हिर्भव॑ति । न सा॑मिधे॒नीर॒न्वाह॑ ।। 44 ।। 1.6.6.6 न प्र॑या॒जा इ॒ज्यन्ते । नानू॑या॒जाः । य ए॒वव्वेँद॑ । प॒शु॒मान्भ॑वति । आज्य॑भागौ यजति । य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति । म॒रुतो॑ गृहमे॒धिनो॑ यजति । भा॒ग॒धेये॑नै॒वैना॒न्थ्सम॑र्धयति । अ॒ग्निस्वि॑ष्ट॒कृत॑य्यँजति॒ प्रति॑ष्ठित्यै । इडान्तो भवति । प॒शवो॒ वा इडा । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ।। 45 ।। 1.6.7.0 ऋ॒द्ध्य॒ते॒ऽभ्य॑ञ्जते जुहोति वृणामहै भवत्य॒ष्टौ च॑ ।। 7 ।। 1.6.7.1 यत्पत्नी॑ गृहमे॒धीय॑स्याश्ञी॒यात् । गृ॒ह॒मे॒ध्ये॑व स्यात् । वि त्व॑स्य य॒ज्ञ ऋ॑ध्येत । यन्नाश्ञी॒यात् । अगृ॑हमेधी स्यात् । नास्य॑ य॒ज्ञो व्यृ॑द्ध्येत । प्रति॑वेशं पचेयुः । तस्याश्ञीयात् । गृ॒ह॒मे॒ध्ये॑व भ॑वति । नास्य॑ य॒ज्ञो व्यृ॑द्ध्यते ।। 46 ।। 1.6.7.2 ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । आशि॑ता अभवन्न् । आञ्ज॑ता॒भ्य॑ञ्जत । अनु॑ व॒थ्सान॑वासयन्न् । तेभ्योऽसु॑राः॒ ख्षुधं॒ प्राहि॑ण्वन्न् । सा दे॒वेषु॑ लो॒कमवि॑त्वा । असु॑रा॒न्पुन॑रगच्छत् । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता भवन्ति । आञ्ज॑ते॒ऽभ्य॑ञ्जते ।। 47 ।। 1.6.7.3 अनु॑ व॒थ्सान् वा॑सयन्ति । भ्रातृ॑व्यायै॒व तद्यज॑मानः॒ ख्षुधं॒ प्रहि॑णोति । ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सन्न्य॑दधुः । अ॒स्माने॒व श्व इन्द्रो॒ निहि॑तभाग उपावर्ति॒तेति॑ । तानिन्द्रो॒ निहि॑तभाग उ॒पाव॑र्तत । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सन्निद॑ध्यात् । इन्द्र॑ ए॒वैन॒न्निहि॑तभाग उ॒पाव॑र्तते । गाऱ्ह॑पत्ये जुहोति ।। 48 ।। 1.6.7.4 भा॒ग॒धेये॑नै॒वैन॒॒ सम॑र्धयति । ऋ॒ष॒भमाह्व॑यति । व॒ष॒ट्का॒र ए॒वास्य॒ सः । अथो॑ इन्द्रि॒यमे॒व तद्वी॒र्यँ॑य्यज॑मानो॒ भ्रातृव्य॑स्य वृङ्क्ते । इन्द्रो॑ वृ॒त्र ह॒त्वा । परां परा॒वत॑मगच्छत् । अपा॑राध॒मिति॒ मन्य॑मानः । सोऽब्रवीत् । क इ॒दव्वे॑दिँष्य॒तीति॑ । तेऽब्रुवन्म॒रुतो॒ वर॑व्वृँणामहै ।। 49 ।। 1.6.7.5 अथ॑ व॒यव्वेँ॑दाम । अ॒स्मभ्य॑मे॒व प्र॑थ॒म ह॒विर्निरु॑प्याता॒ इति॑ । त ए॑न॒मध्य॑क्रीडन्न् । तत्क्री॒डिनाङ्क्रीडि॒त्वम् । यन्म॒रुद्भ्य॑ क्री॒डिभ्य॑ प्रथ॒म ह॒विर्नि॑रु॒प्यते॒ विजि॑त्यै । सा॒क सूर्ये॑णोद्य॒ता निर्व॑पति । ए॒तस्मि॒न्वै लो॒क इन्द्रो॑ वृ॒त्रम॑ह॒न्थ्समृ॑द्ध्यै । ए॒तद्ब्राह्मणान्ये॒व पञ्च॑ ह॒वीषि॑ । ए॒तद्ब्राह्मण ऐन्द्रा॒ग्नः । अथै॒ष ऐ॒न्द्रश्च॒रुर्भ॑वति ।। 50 ।। 1.6.7.6 उ॒द्धारव्वाँ ए॒तमिन्द्र॒ उद॑हरत । वृ॒त्र ह॒त्वा । अ॒न्यासु॑ दे॒वता॒स्वधि॑ । यदे॒ष ऐ॒न्द्रश्च॒रुर्भव॑ति । उ॒द्धा॒रमे॒व तय्यँज॑मान॒ उद्ध॑रते । अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण एक॑कपालो भवति । विश्वान्ये॒व तेन॒ कर्मा॑णि॒ यज॑मा॒नोऽव॑रुन्धे ।। 51 ।। 1.6.8.0 नि॒रव॑दयते पितृ॒मान॑ग्निष्वा॒त्ता एक॒योप॑ मन्थ॒त्यखा॑ता भवति मनु॒ष्या॑णां पद्यन्ते परिद॒ध्यान्मी॑यते॒ पञ्च॑ च ।। 8 ।। 1.6.8.1 वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता व॑रुणप्रघा॒सैर्व॑रुणपा॒शाद॑मुञ्चत् । सा॒क॒मे॒धै प्रत्य॑स्थापयत् । त्र्य॑म्बकै रु॒द्रन्नि॒रवा॑दयत । पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्लोँ॒कम॑गमयत् । यद्वैश्वदे॒वेन॒ यज॑ते । प्र॒जा ए॒व तद्यज॑मानस्सृजते । ता व॑रुणप्रघा॒सैर्व॑रुणपा॒शान्मु॑ञ्चति । सा॒क॒मे॒धै प्रति॑ष्ठापयति । त्र्य॑म्बकै रु॒द्रन्नि॒रव॑दयते ।। 52 ।। 1.6.8.2 पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्लोँ॒कङ्ग॑मयति । द॒क्षि॒ण॒त प्रा॑चीनावी॒ती निर्व॑पति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । अना॑दृत्य॒ तत् । उ॒त्त॒र॒त ए॒वोप॒वीय॒ निर्व॑पेत् । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते । अथो॒ यदे॒व द॑क्षिणा॒र्धे॑ऽधि॒ श्रय॑ति । तेन॑ दक्षि॒णावृ॑त् । सोमा॑य पितृ॒मते॑ पुरो॒डाश॒॒ षट्क॑पाल॒न्निर्व॑पति । स॒व्वँ॒थ्स॒रो वै सोम॑ पितृ॒मान् ।। 53 ।। 1.6.8.3 स॒व्वँ॒थ्स॒रमे॒व प्री॑णाति । पि॒तृभ्यो॑ बऱ्हि॒षद्भ्यो॑ धा॒नाः । मासा॒ वै पि॒तरो॑ बऱ्हि॒षदः॑ । मासा॑ने॒व प्री॑णाति । यस्मि॒न्वा ऋ॒तौ पुरु॑ष प्र॒मीय॑ते । सोऽस्या॒मुष्मि॑ल्लोँ॒के भ॑वति । ब॒हु॒रू॒पा धा॒ना भ॑वन्ति । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । पि॒तृभ्योऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् । अ॒र्ध॒मा॒सा वै पि॒तरोऽग्निष्वा॒त्ताः ।। 54 ।। 1.6.8.4 अ॒र्ध॒मा॒साने॒व प्री॑णाति । अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति । सा हि पि॑तृदेव॒त्य॑न्दु॒हे । यत्पू॒र्णम् । तन्म॑नु॒ष्या॑णाम् । उ॒प॒र्य॒र्धो दे॒वानाम् । अ॒र्ध पि॑तृ॒णाम् । अ॒र्ध उप॑मन्थति । अ॒र्धो हि पि॑तृ॒णाम् । एक॒योप॑मन्थति ।। 55 ।। 1.6.8.5 एका॒ हि पि॑तृ॒णाम् । द॒क्षि॒णोप॑मन्थति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । अना॑र॒भ्योप॑मन्थति । तद्धि पि॒तॄन्गच्छ॑ति । इ॒मान्दिश॒व्वेँदि॒मुद्ध॑न्ति । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते । चतु॑स्स्रक्तिर्भवति । सर्वा॒ ह्यनु॒ दिश॑ पि॒तरः॑ । अखा॑ता भवति ।। 56 ।। 1.6.8.6 खा॒ता हि दे॒वानाम् । म॒ध्य॒तोऽग्निराधी॑यते । अ॒न्त॒तो हि दे॒वाना॑माधी॒यते । वऱ्षी॑यानि॒ध्म इ॒ध्माद्भ॑वति॒ व्यावृ॑त्त्यै । परि॑श्रयति । अ॒न्तऱ्हि॑तो॒ हि पि॑तृलो॒को म॑नुष्यलो॒कात् । यत्परु॑षि दि॒नम् । तद्दे॒वानाम् । यद॑न्त॒रा । तन्म॑नु॒ष्या॑णाम् ।। 57 ।। 1.6.8.7 यथ्समू॑लम् । तत्पि॑तृ॒णाम् । समू॑लं ब॒र्॒हिर्भ॑वति॒ व्यावृ॑त्त्यै । द॒क्षि॒णा स्तृ॑णाति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । त्रि पर्ये॑ति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । त्रि पुन॒ पर्ये॑ति । षट्थ्सं प॑द्यन्ते ।। 58 ।। 1.6.8.8 षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । यत्प्र॑स्त॒रय्यँजु॑षा गृह्णी॒यात् । प्र॒मायु॑को॒ यज॑मानस्स्यात् । यन्न गृ॑ह्णी॒यात् । अ॒ना॒य॒त॒नस्स्यात् । तू॒ष्णीमे॒व न्य॑स्येत् । न प्र॒मायु॑को॒ भव॑ति । नाना॑यत॒नः । यत्त्रीन्प॑रि॒धीन्प॑रिद॒ध्यात् ।। 59 ।। 1.6.8.9 मृ॒त्युना॒ यज॑मानं॒ परि॑गृह्णीयात् । यन्न प॑रिद॒ध्यात् । रक्षा॑सि य॒ज्ञ ह॑न्युः । द्वौ प॑रि॒धी परि॑दधाति । रक्ष॑सा॒मप॑हत्यै । अथो॑ मृ॒त्योरे॒व यज॑मान॒मुथ्सृ॑जति । यत्त्रीणि॑ त्रीणि ह॒वीष्यु॑दा॒हरे॑युः । त्रय॑स्त्रय एषा सा॒कं प्रमी॑येरन्न् । एकै॑कमनू॒चीनान्यु॒दाह॑रन्ति । एकै॑क ए॒वैषा॑म॒न्वञ्च॒ प्रमी॑यते । क॒शिपु॑ कशिप॒व्या॑य । उ॒प॒बऱ्ह॑णमुपबऱ्ह॒ण्या॑य । आञ्ज॑नमाञ्ज॒न्या॑य । अ॒भ्यञ्ज॑नमभ्यञ्ज॒न्या॑य । य॒था॒भा॒गमे॒वैनान्प्रीणाति ।। 60 ।। 1.6.9.0 होता॑र॒माज्य॑भागौ यजति॒ सन्त॑त॒मव॑द्यति॒ व्यावृ॑त्त्यै बऱ्हि॒षदो॑ यजति॒ तमे॒व तद्य॑ज॒त्यनु॒ निष्क्रा॑मन्त्याहैनानृ॒तवो॒ नव॑ च ।। 9 ।। 1.6.9.1 अ॒ग्नये॑ दे॒वेभ्य॑ पि॒तृभ्य॑स्समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह । उ॒भये॒ हि दै॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते । एका॒मन्वा॑ह । एका॒ हि पि॑तृ॒णाम् । त्रिरन्वा॑ह । त्रिऱ्हि दे॒वानाम् । आ॒घा॒रावाघा॑रयति । य॒ज्ञ॒प॒रुषो॒रन॑न्तरित्यै । नाऱ्षे॒यव्वृँ॑णीते । न होता॑रम् ।। 61 ।। 1.6.9.2 यदा॑ऱ्षे॒यं वृ॑णी॒त । यद्धोता॑रम् । प्र॒मायु॑को॒ यज॑मानस्स्यात् । प्र॒मायु॑को॒ होता । तस्मा॒न्न वृ॑णीते । यज॑मानस्य॒ होतु॑र्गोपी॒थाय॑ । अप॑ बऱ्हिष प्रया॒जान् य॑जति । प्र॒जा वै ब॒र्॒हिः । प्र॒जा ए॒व मृ॒त्योरुथ्सृ॑जति । आज्य॑भागौ यजति ।। 62 ।। 1.6.9.3 य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति । प्रा॒ची॒ना॒वी॒ती सोम॑य्यँजति । पि॒तृ॒दे॒व॒त्या॑ हि । ए॒षाऽऽहु॑तिः । पञ्च॒कृत्वोऽव॑ द्यति । पञ्च॒ ह्ये॑ता दे॒वताः । द्वे पु॑रोऽनुवा॒क्ये । या॒ज्या॑ दे॒वता॑ वषट्का॒रः । ता ए॒व प्री॑णाति । सन्त॑त॒मव॑ द्यति ।। 63 ।। 1.6.9.4 ऋ॒तू॒ना सन्त॑त्यै । प्रैवैभ्य॒ पूर्व॑या पुरोऽनुवा॒क्य॑याऽऽह । प्रण॑यति द्वि॒तीय॑या । ग॒मय॑ति या॒ज्य॑या । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । अह्न॑ ए॒वैना॒न्पूर्व॑या पुरोऽनुवा॒क्य॑या॒ऽत्यान॑यति । रात्रि॑यै द्वि॒तीय॑या । ऐवैनान्॑ या॒ज्य॑या गमयति । द॒क्षि॒ण॒तो॑ऽव॒दाय॑ । उद॒ङ्ङति॑ क्रामति॒ व्यावृ॑त्त्यै ।। 64 ।। 1.6.9.5 आ स्व॒धेत्याश्रा॑वयति । अस्तु॑ स्व॒धेति॑ प्र॒त्याश्रा॑वयति । स्व॒धा नम॒ इति॒ वष॑ट्करोति । स्व॒धा॒का॒रो हि पि॑तृ॒णाम् । सोम॒मग्रे॑ यजति । सोम॑प्रयाजा॒ हि पि॒तरः॑ । सोमं॑ पितृ॒मन्त॑य्यँजति । स॒व्वँ॒थ्स॒रो वै सोम॑ पितृ॒मान् । स॒व्वँ॒थ्स॒रमे॒व तद्य॑जति । पि॒तॄन्ब॑ऱ्हि॒षदो॑ यजति ।। 65 ।। 1.6.9.6 ये वै यज्वा॑नः । ते पि॒तरो॑ बऱ्हि॒षदः॑ । ताने॒व तद्य॑जति । पि॒तॄन॑ग्निष्वा॒त्तान् य॑जति । ये वा अय॑ज्वानो गृहमे॒धिनः॑ । ते पि॒तरोऽग्निष्वा॒त्ताः । ताने॒व तद्य॑जति । अ॒ग्निङ्क॑व्य॒वाह॑नय्यँजति । य ए॒व पि॑तृ॒णाम॒ग्निः । तमे॒व तद्य॑जति ।। 66 ।। 1.6.9.7 अथो॒ यथा॒ऽग्नि स्वि॑ष्ट॒कृत॒य्यँज॑ति । ता॒दृगे॒व तत् । ए॒तत्ते॑ तत॒ ये च॒ त्वामन्विति॑ ति॒सृषु॑ स्र॒क्तीषु॒ निद॑धाति । तस्मा॒दा तृ॒तीया॒त्पुरु॑षा॒न्नाम॒ न गृ॑ह्णन्ति । ए॒ताव॑न्तो॒ हीज्यन्ते । अत्र॑ पितरो यथाभा॒गं म॑न्दध्व॒मित्या॑ह । ह्लीका॒ हि पि॒तरः॑ । उद॑ञ्चो॒ निष्क्रा॑मन्ति । ए॒षा वै म॑नु॒ष्या॑णा॒न्दिक् । स्वामे॒व तद्दिश॒मनु॒ निष्क्रा॑मन्ति ।। 67 ।। 1.6.9.8 आ॒ह॒व॒नीय॒मुप॑तिष्ठन्ते । न्ये॑वास्मै॒ तद्ध्नु॑वते । यथ्स॒त्या॑हव॒नीये । अथा॒न्यत्र॒ चर॑न्ति । आतमि॑तो॒रुप॑तिष्ठन्ते । अ॒ग्निमे॒वोप॑द्र॒ष्टार॑ङ्कृ॒त्वा । पि॒तॄन्नि॒रव॑दयन्ते । अन्त॒व्वाँ ए॒ते प्रा॒णानाङ्गच्छन्ति । य आतमि॑तोरुप॒ तिष्ठ॑न्ते । सु॒स॒न्दृश॑न्त्वा व॒यमित्या॑ह ।। 68 ।। 1.6.9.9 प्रा॒णो वै सु॑स॒न्दृक् । प्रा॒णमे॒वात्मन्द॑धते । योजा॒ न्वि॑न्द्र ते॒ हरी॒ इत्या॑ह । प्रा॒णमे॒व पुन॑रयुक्त । अक्ष॒न्नमी॑मदन्त॒ हीति॒ गाऱ्ह॑पत्य॒मुप॑तिष्ठन्ते । अक्ष॒न्नमी॑मद॒न्ताथ॒ त्वोप॑तिष्ठामह॒ इति॒ वावैतदा॑ह । अमी॑मदन्त पि॒तर॑स्सो॒म्या इत्य॒भि प्रप॑द्यन्ते । अमी॑मदन्त पि॒तरोऽथ॑ त्वा॒ऽभि प्रप॑द्यामह॒ इति॒ वावैतदा॑ह । अ॒प परि॑षिञ्चति । मा॒र्जय॑त्ये॒वैनान्॑ ।। 69 ।। 1.6.9.10 अथो॑ त॒र्पय॑त्ये॒व । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । य ए॒वव्वेँद॑ । अप॑ बऱ्हिषावनूया॒जौ य॑जति । प्र॒जा वै ब॒र्॒हिः । प्र॒जा ए॒व मृ॒त्योरुथ्सृ॑जति । च॒तुर॑ प्रया॒जान् य॑जति । द्वाव॑नूया॒जौ । षट्थ्सं प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । न पत्न्यन्वास्ते । न सय्याँ॑जयन्ति । यत्पत्न्य॒न्वासी॑त । यथ्स॑य्याँ॒जये॑युः । प्र॒मायु॑का स्यात् । तस्मा॒न्नान्वास्ते । न सय्याँ॑जयन्ति । पत्नि॑यै गोपी॒थाय॑ ।। 70 ।। 1.6.10.0 य॒न्ति॒ ब्रू॒या॒न्नि॒रव॑दयते शास्ते सिञ्चति॒ षट्च॑ ।। 10 ।। 1.6.10.1 प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॑कपाला भवन्ति । ए॒क॒धैव रु॒द्रन्नि॒रव॑दयते । नाभिघा॑रयति । यद॑भिघा॒रयेत् । अ॒न्त॒र॒व॒चा॒रिण॑ रु॒द्रङ्कु॑र्यात् । ए॒को॒ल्मु॒केन॑ यन्ति ।। 71 ।। 1.6.10.2 तद्धि रु॒द्रस्य॑ भाग॒धेयम् । इ॒मान्दिश॑य्यँन्ति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते । रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यन्द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ । तम॑स्मै प॒शुन्निर्दि॑शति । यदि॒ न द्वि॒ष्यात् । आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् ।। 72 ।। 1.6.10.3 न ग्रा॒म्यान्प॒शून् हि॒नस्ति॑ । नार॒ण्यान् । च॒तु॒ष्प॒थे जु॑होति । ए॒ष वा अ॑ग्नी॒नां पड्बी॑शो॒ नाम॑ । अ॒ग्नि॒वत्ये॒व जु॑होति । म॒ध्य॒मेन॑ प॒र्णेन॑ जुहोति । स्रुग्घ्ये॑षा । अथो॒ खलु॑ । अ॒न्त॒मेनै॒व हो॑त॒व्यम् । अ॒न्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते ।। 73 ।। 1.6.10.4 ए॒ष ते॑ रुद्र भा॒गस्स॒ह स्वस्राऽम्बि॑क॒येत्या॑ह । श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा । तया॒ वा ए॒ष हि॑नस्ति । य हि॒नस्ति॑ । तयै॒वैन॑ स॒ह श॑मयति । भे॒ष॒जङ्गव॒ इत्या॑ह । याव॑न्त ए॒व ग्रा॒म्या प॒शवः॑ । तेभ्यो॑ भेष॒जङ्क॑रोति । अवाम्ब रु॒द्रम॑दिम॒हीत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते ।। 74 ।। 1.6.10.5 त्र्य॑म्बकय्यँजामह॒ इत्या॑ह । मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒दिति॒ वावैतदा॑ह । उत्कि॑रन्ति । भग॑स्य लीफ्सन्ते । मूते॑कृ॒त्वाऽऽस॑जन्ति । यथा॒ जन॑य्यँ॒ते॑ऽव॒सङ्क॒रोति॑ । ता॒दृगे॒व तत् । ए॒ष ते॑ रुद्र भा॒ग इत्या॑ह नि॒रव॑त्त्यै । अप्र॑तीक्ष॒मा य॑न्ति । अ॒प परि॑षिञ्चति । रु॒द्रस्या॒न्तऱ्हि॑त्यै । प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते । ये त्र्य॑म्बकै॒श्चर॑न्ति । आ॒दि॒त्यञ्च॒रुं पुन॒रेत्य॒ निर्व॑पति । इ॒यव्वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति ।। 75 ।। 1.7.0.0 ए॒तद्ब्राह्मणानि धा॒त्रे र॒त्निनान्देवसु॒वाम॒र्थेतो॒ देवी॒र्दिश॒स्सोम॒स्येन्द्र॑स्य मि॒त्रो दश॑ ।। 10 ।। ए॒तद्ब्राह्मणानि वैष्ण॒वन्त्रि॑कपा॒लमन्न॒व्वैँ पू॒षा वाशा॒स्स्थेत्या॑ह॒ दिशो॒ व्यास्था॑पय॒त्युद॑ङ्प॒रेत्य॒ ब्रह्मा ३ न्त्व रा॑ज॒॒श्चतु॑ष्षष्टिः ।। ए॒तद्ब्राह्मणानि॒ प्रति॑तिष्ठति ।। 64 ।। हरिः॑ ओम् ।। सप्तम प्रपाठकस्समाप्तः 1.7.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमप्रपाठक प्रारंभः । हरिः ओम् ।। 1.7.1.0 य॒च्छ॒ति॒ वरु॑ण॒न्तृती॑य॒व्विँजि॑त्या असृजत॒ समृ॑द्ध्यै हनो॒ मित्र॑द्रु॒गिति॑ हन्ति॒ स्तृत्यै॒ त्रीणि॑ च ।। 1 ।। 1.7.1.1 ए॒तद्ब्राह्मणान्ये॒व पञ्च॑ ह॒वीषि॑ । अथेन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाश॒न्द्वाद॑शकपाल॒न्निर्व॑पति । स॒व्वँ॒थ्स॒रो वा इन्द्रा॒शुना॒सीरः॑ । स॒व्वँ॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे । वा॒य॒व्यं॑ पयो॑ भवति । वा॒युर्वै वृष्ट्यै प्रदापयि॒ता । स ए॒वास्मै॒ वृष्टिं॒ प्रदा॑पयति । सौ॒र्य॑ एक॑कपालो भवति । सूर्ये॑ण॒ वा अ॒मुष्मिँ॑ल्लो॒के वृष्टि॑र्धृ॒ता । स ए॒वास्मै॒ वृष्टि॒न्निय॑च्छति ।। 1 ।। 1.7.1.2 द्वा॒द॒श॒ग॒व सीर॒न्दक्षि॑णा॒ समृ॑द्ध्यै । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । ते दे॒वा अ॒ग्निम॑ब्रुवन्न् । त्वया॑ वी॒रेणासु॑रान॒भिभ॑वा॒मेति॑ । सोऽब्रवीत् । त्रे॒धाऽहमा॒त्मान॒व्विँक॑रिष्य॒ इति॑ । स त्रे॒धाऽऽत्मान॒व्व्यँ॑कुरुत । अ॒ग्निन्तृती॑यम् । रु॒द्रन्तृती॑यम् । वरु॑ण॒न्तृती॑यम् ।। 2 ।। 1.7.1.3 सोऽब्रवीत् । क इ॒दन्तु॒रीय॒मिति॑ । अ॒हमितीन्द्रोऽब्रवीत् । सन्तु सृ॑जावहा॒ इति॑ । तौ सम॑सृजेताम् । स इन्द्र॑स्तु॒रीय॑मभवत् । यदिन्द्र॑स्तु॒रीय॒मभ॑वत् । तदि॑न्द्रतुरी॒यस्येन्द्रतुरीय॒त्वम् । ततो॒ वै दे॒वा व्य॑जयन्त । यदि॑न्द्रतुरी॒यन्नि॑रु॒प्यते॒ विजि॑त्यै ।। 3 ।। 1.7.1.4 व॒हिनी॑ धे॒नुर्दक्षि॑णा । यद्व॒हिनी । तेनाग्ने॒यी । यद्गौः । तेन॑ रौ॒द्री । यद्धे॒नुः । तेनै॒न्द्री । यथ्स्त्री स॒ती दा॒न्ता । तेन॑ वारु॒णी समृ॑द्ध्यै । प्र॒जाप॑तिर्य॒ज्ञम॑सृजत ।। 4 ।। 1.7.1.5 त सृ॒ष्ट रक्षा॑स्यजिघासन्न् । स ए॒ता प्र॒जाप॑तिरा॒त्मनो॑ दे॒वता॒ निर॑मिमीत । ताभि॒र्वै स दि॒ग्भ्यो रक्षा॑सि॒ प्राणु॑दत । यत्प॑ञ्चाव॒त्तीय॑ञ्जु॒होति॑ । दि॒ग्भ्य ए॒व तद्यज॑मानो॒ रक्षा॑सि॒ प्रणु॑दते । समू॑ढ॒॒ रक्ष॒स्सन्द॑ग्ध॒॒ रक्ष॒ इत्या॑ह । रक्षा॑स्ये॒व सन्द॑हति । अ॒ग्नये॑ रक्षो॒घ्ने स्वाहेत्या॑ह । दे॒वताभ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेय॑ङ्करोति । प्र॒ष्टि॒वा॒ही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै ।। 5 ।। 1.7.1.6 इन्द्रो॑ वृ॒त्र ह॒त्वा । असु॑रान्परा॒भाव्य॑ । नमु॑चिमासु॒रन्नाल॑भत । तश॒च्या॑ऽगृह्णात् । तौ सम॑लभेताम् । सोऽस्माद॒भिशु॑नतरोऽभवत् । सोऽब्रवीत् । स॒न्धा सन्द॑धावहै । अथ॒ त्वाऽव॑ स्रक्ष्यामि । न मा॒ शुष्के॑ण॒ नार्द्रेण॑ हनः ।। 6 ।। 1.7.1.7 न दिवा॒ न नक्त॒मिति॑ । स ए॒तम॒पां फेन॑मसिञ्चत् । न वा ए॒ष शुष्को॒ नार्द्रो व्यु॑ष्टाऽऽसीत् । अनु॑दित॒स्सूर्यः॑ । न वा ए॒तद्दिवा॒ न नक्तम् । तस्यै॒तस्मि॑ल्लोँ॒के । अ॒पां फेने॑न॒ शिर॒ उद॑वर्तयत् । तदे॑न॒मन्व॑वर्तत । मित्र॑द्रु॒गति॑ ।।7 ।। 1.7.1.8 स ए॒तान॑पामा॒र्गान॑जनयत् । तान॑जुहोत् । तैर्वै स रक्षा॒॒स्यपा॑हत । यद॑पामार्गहो॒मो भव॑ति । रक्ष॑सा॒मप॑हत्यै । ए॒को॒ल्मु॒केन॑ यन्ति । तद्धि रक्ष॑सां भाग॒धेयम् । इ॒मान्दिश॑य्यँन्ति । ए॒षा वै रक्ष॑सा॒न्दिक् । स्वाया॑मे॒व दि॒शि रक्षा॑सि हन्ति ।। 8 ।। 1.7.1.9 स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा । ए॒तद्वै रक्ष॑सामा॒यतन॑म् । स्व ए॒वायत॑ने॒ रक्षा॑सि हन्ति । प॒र्ण॒मये॑न स्रु॒वेण॑ जुहोति । ब्रह्म॒ वै प॒र्णः । ब्रह्म॑णै॒व रक्षा॑सि हन्ति । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒व रक्षा॑सि हन्ति । ह॒त रक्षोऽव॑धिष्म॒ रक्ष॒ इत्या॑ह । रक्ष॑सा॒॒ स्तृत्यै । यद्वस्ते॒ तद्दक्षि॑णा नि॒रव॑त्यै । अप्र॑तीक्ष॒माय॑न्ति । रक्ष॑साम॒न्तर्‌हि॑त्यै ।। 9 ।। 1.7.2.0 ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपाल॒य्यँदृ॑ष॒भो दधा॑ति पू॒षा प॒शून्प्रज॑नयति॒ हिर॑ण्य॒न्दख्षि॑णा॒ दख्षि॒णैक॑ञ्च ।। 2 ।। 1.7.2.1 धा॒त्रे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर्व॑पति । स॒व्वँ॒थ्स॒रो वै धा॒ता । स॒व्वँ॒थ्स॒रेणै॒वास्मै प्र॒जा प्रज॑नयति । अन्वे॒वास्मा॒ अनु॑मतिर्मन्यते । रा॒ते रा॒का । प्र सि॑नीवा॒ली ज॑नयति । प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाच॑न्दधाति । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पति । ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालम् ।। 10 ।। 1.7.2.2 वै॒ष्ण॒वन्त्रि॑कपा॒लम् । वी॒र्य॑व्वाँ अ॒ग्निः । वी॒र्य॑मिन्द्रः॑ । वी॒र्य॑व्विँष्णुः॑ । प्र॒जा ए॒व प्रजा॑ता वी॒र्ये प्रति॑ष्ठापयति । तस्मात्प्र॒जा वी॒र्या॑वतीः । वा॒म॒न ऋ॑ष॒भो व॒ही दख्षि॑णा । यद्व॒ही । तेनाग्ने॒यः । यदृ॑ष॒भः ।। 11 ।। 1.7.2.3 तेनै॒न्द्रः । यद्वा॑म॒नः । तेन॑ वैष्ण॒वस्समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पति । इ॒न्द्रा॒सो॒मीय॒मेका॑दशकपालम् । सौ॒म्यञ्च॒रुम् । सोमो॒ वै रे॑तो॒धाः । अ॒ग्नि प्र॒जानां प्रजनयि॒ता । वृ॒द्धाना॒मिन्द्र॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।। 12 ।। 1.7.2.4 अ॒ग्नि प्र॒जां प्रज॑नयति । वृ॒द्धामिन्द्र॒ प्रय॑च्छति । ब॒भ्रुर्दख्षि॑णा॒ समृ॑द्ध्यै । सो॒मा॒पौ॒ष्णञ्च॒रुन्निर्व॑पति । ऐ॒न्द्रा॒पौ॒ष्णञ्च॒रुम् । सोमो॒ वै रे॑तो॒धाः । पू॒षा प॑शू॒नां प्र॑जनयि॒ता । वृ॒द्धाना॒मिन्द्र॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति । पू॒षा प॒शून्प्रज॑नयति ।। 13 ।। 1.7.2.5 वृ॒द्धानिन्द्र॒ प्रय॑च्छति । पौ॒ष्णश्च॒रुर्भ॑वति । इ॒यव्वैँ पू॒षा । अ॒स्यामे॒व प्रति॑तिष्ठति । श्या॒मो दख्षि॑णा॒ समृ॑द्ध्यै । ब॒हु वै पुरु॑षो मे॒ध्यमुप॑गच्छति । वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पति । स॒व्वँ॒थ्स॒रो वा अ॒ग्निर्वैश्वान॒रः । स॒व्वँथ्स॒रेणै॒वैन॑ स्वदयति । हिर॑ण्य॒न्दख्षि॑णा ।। 14 ।। 1.7.2.6 प॒वित्र॒व्वैँ हिर॑ण्यम् । पु॒नात्ये॒वैनम् । ब॒हु वै रा॑ज॒न्योऽनृ॑तङ्करोति । उप॑ जा॒म्यै हर॑ते । जि॒नाति॑ ब्राह्म॒णम् । वद॒त्यनृ॑तम् । अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति । वा॒रु॒णय्यँ॑व॒मय॑ञ्च॒रुन्निर्व॑पति । व॒रु॒ण॒पा॒शादे॒वैनं॑ मुञ्चति । अश्वो॒ दख्षि॑णा । वा॒रु॒णो हि दे॒वत॒याऽश्व॒स्समृ॑द्ध्यै ।। 15 ।। 1.7.3.0 र॒त्नि॒त्वाय॒ समृ॑द्ध्यै पष्ठौ॒ही दख्षि॑णा॒ समृ॑द्ध्यै ग्राम॒ण्यो॑ गृ॒हे भा॑गदु॒घस्य॑ गृ॒हे भ॑वति दु॒ग्धे॑ऽभिजि॑त्यै॒ द्वे च॑ ।। 3 ।। 1.7.3.1 र॒त्निना॑मे॒तानि॑ ह॒वीषि॑ भवन्ति । ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ए॒ते॑ऽपादा॒तारः॑ । य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ये॑ऽपादा॒तारः॑ । त ए॒वास्मै॑ रा॒ष्ट्रं प्रय॑च्छन्ति । रा॒ष्ट्रमे॒व भ॑वति । यथ्स॑मा॒हृत्य॑ नि॒र्वपेत् । अर॑त्निनस्स्युः । य॒था॒य॒थन्निर्व॑पति रत्नि॒त्वाय॑ ।। 16 ।। 1.7.3.2 यथ्स॒द्यो नि॒र्वपेत् । याव॑ती॒मेके॑न ह॒विषा॒ऽऽशिष॑मव रु॒न्धे । ताव॑ती॒मव॑रुन्धीत । अ॒न्व॒हन्निर्व॑पति । भूय॑सीमे॒वाशिष॒मव॑ रुन्धे । भूय॑सो यज्ञक्र॒तूनुपै॑ति । बा॒र्॒ह॒स्प॒त्यञ्च॒रुन्निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सश्य॑ति । अथो॒ ब्रह्म॑न्ने॒व ख्ष॒त्त्रम॒न्वार॑म्भयति । शि॒ति॒पृ॒ष्ठो दख्षि॑णा॒ समृ॑द्ध्यै ।। 17 ।। 1.7.3.3 ऐ॒न्द्रमेका॑दशकपाल राज॒न्य॑स्य गृ॒हे । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । ऋ॒ष॒भो दख्षि॑णा॒ समृ॑द्ध्यै । आ॒दि॒त्यञ्च॒रुं महि॑ष्यै गृ॒हे । इ॒यव्वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒नुर्दख्षि॑णा॒ समृ॑द्ध्यै । भगा॑य च॒रुव्वाँ॒वाता॑यै गृ॒हे । भग॑मे॒वास्मि॑न्दधाति । विचि॑त्तगर्भा पष्ठौ॒ही दख्षि॑णा॒ समृ॑द्ध्यै ।। 18 ।। 1.7.3.4 नै॒र्॒ऋ॒तञ्च॒रुं प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां व्रीही॒णान्न॒खनि॑र्भिन्नम् । पा॒प्मान॑मे॒व निऱ्ऋ॑तिन्नि॒रव॑दयते । कृ॒ष्णा कू॒टा दख्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पाल सेना॒न्यो॑ गृ॒हे । सेना॑मे॒वास्य॒ सश्य॑ति । हिर॑ण्य॒न्दख्षि॑णा॒ समृ॑द्ध्यै । वा॒रु॒णन्दश॑कपाल सू॒तस्य॑ गृ॒हे । व॒रु॒ण॒स॒वमे॒वाव॑ रुन्धे । म॒हानि॑रष्टो॒ दख्षि॑णा॒ समृ॑द्ध्यै । मा॒रु॒त स॒प्तक॑पालङ्ग्राम॒ण्यो॑ गृ॒हे ।। 19 ।। 1.7.3.5 अन्न॒व्वैँ म॒रुतः॑ । अन्न॑मे॒वाव॑ रुन्धे । पृश्ञि॒र्दख्षि॑णा॒ समृ॑द्ध्यै । सा॒वि॒त्रन्द्वाद॑शकपालङ्ख्ष॒त्तुर्गृ॒हे प्रसूत्यै । उ॒प॒ध्व॒स्तो दख्षि॑णा॒ समृ॑द्ध्यै । आ॒श्वि॒नन्द्वि॑कपा॒ल स॑ङ्ग्रही॒तुर्गृ॒हे । अ॒श्विनौ॒ वै दे॒वानां भि॒षजौ । ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति । स॒वा॒त्यौ॑ दख्षि॑णा॒ समृ॑द्ध्यै । पौ॒ष्णञ्च॒रुं भा॑गदु॒घस्य॑ गृ॒हे ।। 20 ।। 1.7.3.6 अन्न॒व्वैँ पू॒षा । अन्न॑मे॒वाव॑ रुन्धे । श्या॒मो दख्षि॑णा॒ समृ॑द्ध्यै । रौ॒द्रङ्गा॑वीधु॒कञ्च॒रुम॑क्षावा॒पस्य॑ गृ॒हे । अ॒न्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते । श॒बल॒ उद्वा॑रो॒ दख्षि॑णा॒ समृ॑द्ध्यै । द्वाद॑शै॒तानि॑ ह॒वीषि॑ भवन्ति । द्वाद॑श॒ मासास्सव्वँथ्स॒रः । स॒व्वँ॒थ्स॒रेणै॒वास्मै॑ रा॒ष्ट्रमव॑रुन्धे । रा॒ष्ट्रमे॒व भ॑वति ।। 21 ।। 1.7.3.7 यन्न प्र॑ति नि॒र्वपेत् । र॒त्निन॑ आ॒शिषोऽव॑रुन्धीरन्न् । प्रति॒निर्व॑पति । इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालम् । इन्द्रा॑याहो॒मुचे । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒यन्नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रव्वँ॑ध्या॒दित्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । मै॒त्रा॒बा॒र्॒ह॒स्प॒त्यं भ॑वति । श्वे॒तायै श्वे॒तव॑थ्सायै दु॒ग्धे ।। 22 ।। 1.7.3.8 बा॒र्॒ह॒स्प॒त्ये मै॒त्रमपि॑ दधाति । ब्रह्म॑ चै॒वास्मै ख्ष॒त्रञ्च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व ख्ष॒त्रं प्रति॑ष्ठापयति । बा॒र्॒ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सश्य॑ति । अथो॒ ब्रह्म॑न्ने॒व ख्ष॒त्रम॒न्वार॑म्भयति । स्व॒य॒ङ्कृ॒ता वेदि॑र्भवति । स्व॒य॒न्दि॒नं ब॒र्॒हिः । स्व॒य॒ङ्कृ॒त इ॒ध्मः । अन॑भिजितस्या॒भिजि॑त्यै । तस्मा॒द्राज्ञा॒मर॑ण्यम॒भिजि॑तम् । सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दख्षि॑णा॒ समृ॑द्ध्यै ।। 23 ।। 1.7.4.0 स॒त्याना॑मधा॒यीत्या॑हातारी॒दित्या॑ह क्रमत॒ एक॑ञ्च ।। 4 ।। 1.7.4.1 दे॒व॒सु॒वामे॒तानि॑ ह॒वीषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वाना॑ स॒वाः । त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति । त ए॑न सुवन्ते । अ॒ग्निरे॒वैन॑ङ्गृ॒हप॑तीना सुवते । सोमो॒ वन॒स्पती॑नाम् । रु॒द्र प॑शू॒नाम् । बृह॒स्पति॑र्वा॒चाम् । इन्द्रो ज्ये॒ष्ठानाम् । मि॒त्रस्स॒त्यानाम् ।। 24 ।। 1.7.4.2 वरु॑णो॒ धर्म॑पतीनाम् । ए॒तदे॒व सर्वं॑ भवति । स॒वि॒ता त्वा प्रस॒वाना॑ सुवता॒मिति॒ हस्त॑ङ्गृह्णाति॒ प्रसूत्यै । ये दे॑वा देव॒स्सुव॒स्स्थेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । म॒ह॒ते ख्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒॒ राजेत्या॑ह । तस्मा॒थ्सोम॑राजानो ब्राह्म॒णाः । प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धा॒यीत्या॑ह ।। 25 ।। 1.7.4.3 रा॒ज्यमे॒वास्मि॒न्प्रति॑दधाति । स्वान्त॒नुव॒व्वँरु॑णो अशिश्रे॒दित्या॑ह । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । शुचेर्मि॒त्रस्य॒ व्रत्या॑ अभू॒मेत्या॑ह । शुचि॑मे॒वैन॒व्व्रँत्य॑ङ्करोति । अम॑न्महि मह॒त ऋ॒तस्य॒ नामेत्या॑ह । म॒नु॒त ए॒वैनम् । सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्नित्या॑ह । सर्व॑व्रातमे॒वैन॑ङ्करोति । वि मि॒त्र एवै॒ररा॑तिमतारी॒दित्या॑ह ।। 26 ।। 1.7.4.4 अरा॑तिमै॒वैन॑न्तारयति । असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेनेत्या॑ह । स्व॒दय॑त्ये॒वैनम् । व्यु॑ त्रि॒तो ज॑रि॒माण॑न्न आन॒डित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । द्वाभ्या॒व्विँमृ॑ष्टे । द्वि॒पाद्यज॑मान॒ प्रति॑ष्ठित्यै । अ॒ग्नी॒षो॒मीय॑स्य॒ चैका॑दशकपालस्य देवसु॒वाञ्च॑ ह॒विषा॑म॒ग्नये स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑मुभ॒यत॒ परि॑गृह्णाति । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति ।। 27 ।। 1.7.5.0 ऊ॒र्मिरित्या॑ह॒ सूर्य॑वर्चस॒स्स्थेत्या॑ह ब्रह्मवर्च॒स्य॑कस्तेज॒स्यास्स्थेत्या॑है॒व पुरु॑ष॒ष्षट् च॑ ।। 5 ।। 1.7.5.1 अ॒र्थेत॒स्स्थेति॑ जुहोति । आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति । अथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानाङ्गृह्णाति । वह॑न्तीनाङ्गृह्णाति । ए॒ता वा अ॒पा रा॒ष्ट्रम् । रा॒ष्ट्रमे॒वास्मै॑ गृह्णाति । अथो॒ श्रिय॑मे॒वैन॑म॒भिव॑हन्ति । अ॒पां पति॑र॒सीत्या॑ह । मि॒थु॒नमे॒वाकः॑ । वृषाऽस्यू॒र्मिरित्या॑ह ।। 28 ।। 1.7.5.2 ऊ॒र्मि॒मन्त॑मे॒वैन॑ङ्करोति । वृ॒ष॒से॒नो॑ऽसीत्या॑ह । सेना॑मे॒वास्य॒ सश्य॑ति । व्र॒ज॒क्षित॒स्स्थेत्या॑ह । ए॒ता वा अ॒पाव्विँशः॑ । विश॑मे॒वास्मै॒ पर्यू॑हति । म॒रुता॒मोज॒स्स्थेत्या॑ह । अन्न॒व्वैँ म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । सूर्य॑वर्चस॒स्स्थेत्या॑ह ।। 29 ।। 1.7.5.3 रा॒ष्ट्रमे॒व व॑र्च॒स्व्य॑कः । सूर्य॑त्वचस॒स्स्थेत्या॑ह । स॒त्यव्वाँ ए॒तत् । यद्वऱ्ष॑ति । अनृ॑त॒य्यँदा॒तप॑ति॒ वऱ्ष॑ति । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे । नैन॑ सत्यानृ॒ते उ॑दि॒ते हि॑स्तः । य ए॒वव्वेँद॑ । मान्दा॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व ब्र॑ह्मवर्च॒स्य॑कः ।। 30 ।। 1.7.5.4 वाशा॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व व॒श्य॑कः । शक्व॑री॒स्स्थेत्या॑ह । प॒शवो॒ वै शक्व॑रीः । प॒शूने॒वाव॑रुन्धे । वि॒श्व॒भृत॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व प॑य॒स्व्य॑कः । ज॒न॒भृत॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग्नेस्ते॑ज॒स्यास्स्थेत्या॑ह ।।31।। 1.7.5.5 रा॒ष्ट्रमे॒व ते॑ज॒स्व्य॑कः । अ॒पामोष॑धीना॒॒ रस॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व म॑ध॒व्य॑मकः । सा॒र॒स्व॒तङ्ग्रह॑ङ्गृह्णाति । ए॒षा वा अ॒पाम्पृ॒ष्ठम् । यथ्सर॑स्वती । पृ॒ष्ठमे॒वैन॑ समा॒नानाङ्करोति । षो॒ड॒शभि॑र्गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः । यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्य॑न्दधाति । षो॒ड॒शभि॑र्जु॒होति॑ षोड॒शभि॑र्गृह्णाति । द्वात्रि॑श॒थ्संप॑द्यन्ते । द्वात्रि॑शदक्षराऽनु॒ष्टुक् । वाग॑नु॒ष्टुफ्सर्वा॑णि॒ छन्दा॑सि । वा॒चैवैन॒॒ सर्वे॑भि॒श्छन्दो॑भिर॒भिषि॑ञ्चति ।। 32 ।। 1.7.6.0 व्यावृ॑त्त्यै दा॒त्रम॒सीत्या॑हा॒मृत॒॒ हिर॑ण्यमेकश॒तो ग॑मय॒न्त्याह॑ ब्राह्म॒णा ना॒ष्ट्राभ्य॑ पा॒तेत्या॑ह च॒त्वारि॑ च ।। 6 ।। 1.7.6.1 देवी॑राप॒स्सं मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒मित्या॑ह । ब्रह्म॑णै॒वैना॒स्स सृ॑जति । अना॑धृष्टास्सीद॒तेत्या॑ह । ब्रह्म॑णै॒वैनास्सादयति । अ॒न्त॒रा होतु॑श्च॒ धिष्णि॑यं ब्राह्मणाच्छ॒॒सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता । ऐ॒न्द्रो ब्राह्मणाच्छ॒॒सी । तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ रा॒ष्ट्रं परि॑गृह्णाति । हिर॑ण्ये॒नोत्पु॑नाति । आहु॑त्यै॒ हि प॒वित्राभ्यामुत्पु॒नन्ति॒ व्यावृ॑त्त्यै ।। 33 ।। 1.7.6.2 श॒तमा॑नं भवति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । अनि॑भृष्टम॒सीत्या॑ह । अनि॑भृष्ट॒॒ ह्ये॑तत् । वा॒चो बन्धु॒रित्या॑ह । वा॒चो ह्ये॑ष बन्धुः॑ । त॒पो॒जा इत्या॑ह । त॒पो॒जा ह्ये॑तत् । सोम॑स्य दा॒त्रम॒सीत्या॑ह ।। 34 ।। 1.7.6.3 सोम॑स्य॒ ह्ये॑तद्दा॒त्रम् । शु॒क्रा व॑श्शु॒क्रेणोत्पु॑ना॒मीत्या॑ह । शु॒क्रा ह्यापः॑ । शु॒क्र हिर॑ण्यम् । च॒न्द्राश्च॒न्द्रेणेत्या॑ह । च॒न्द्रा ह्यापः॑ । च॒न्द्र हिर॑ण्यम् । अ॒मृता॑ अ॒मृते॒नेत्या॑ह । अ॒मृता॒ ह्यापः॑ । अ॒मृत॒॒ हिर॑ण्यम् ।। 35 ।। 1.7.6.4 स्वाहा॑ राज॒सूया॒येत्या॑ह । रा॒ज॒सूया॑य॒ ह्ये॑ना उत्पु॒नाति॑ । स॒ध॒मादो द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । एक॑या गृह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति । ख्ष॒त्त्रस्योल्ब॑मसि ख्ष॒त्त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्यञ्चो॒ष्णीष॑ञ्च॒ प्रय॑च्छति सयोनि॒त्वाय॑ । एक॑शतेन दर्भपुञ्जी॒लै प॑वयति । श॒तायु॒र्वै पुरु॑षश्श॒तवीर्यः । आ॒त्मैक॑श॒तः ।। 36 ।। 1.7.6.5 यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्य॑न्दधाति । दध्या॑शयति । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । उ॒दु॒म्बर॑माशयति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । शष्पाण्याशयति । सुरा॑बलिमे॒वैन॑ङ्करोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑ङ्गमयन्ति ।। 37 ।। 1.7.6.6 अ॒ग्निरे॒वैन॒ङ्गाऱ्ह॑पत्येनावति । इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभिः॑ । मि॒त्रावरु॑णौ प्राणापा॒नाभ्याम् । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स दिव॑मलिखत् । सोऽर्य॒म्ण पन्था॑ अभवत् । स आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ द्यावा॑पृथि॒वी उपा॑धावत् । स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑रत् । आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ यदाह॑ ।। 38 ।। 1.7.6.7 आ॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्रं॒ भ्रातृ॑व्याय॒ प्रह॑रति । आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒पीत्या॑ह । इ॒यव्वैँ दे॒व्यदि॑तिर्विश्वरू॒पी । अ॒स्यामे॒व प्रति॑ तिष्ठति । आवि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णोऽस्याव्विँ॒श्य॑स्मिन्रा॒ष्ट्र इत्या॑ह । वि॒शैवैन॑ रा॒ष्ट्रेण॒ सम॑र्धयति । म॒ह॒ते ख्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒॒ राजेत्या॑ह । तस्मा॒थ्सोम॑राजानो ब्राह्म॒णाः ।। 39 ।। 1.7.6.8 इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ धनु॒ प्रय॑च्छति॒ विजि॑त्यै । श॒त्रु॒बाध॑ना॒स्स्थेतीषून्॑ । शत्रू॑ने॒वास्य॑ बाधन्ते । पा॒त मा प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पा॒तेत्या॑ह । ति॒स्रो वै श॑र॒व्याः । प्र॒तीची॑ ति॒रश्च्य॒नूची । ताभ्य॑ ए॒वैनं॑ पान्ति । दि॒ग्भ्यो मा॑ पा॒तेत्या॑ह । दि॒ग्भ्य ए॒वैनं॑ पान्ति । विश्वाभ्यो मा ना॒ष्ट्राभ्य॑ पा॒तेत्या॑ह । अप॑रिमितादे॒वैनं॑ पान्ति । हिर॑ण्यवर्णावु॒षसाव्विँरो॒क इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्गृ॑ह्णाति । इ॒न्द्रि॒यव्वैँ वी॒र्य॑न्त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ।। 40 ।। 1.7.7.0 रु॒न्धे॒ सम॑ष्ट्या असिच्यत स्थापयति॒ जाय॑ते॒ पञ्च॑ च ।। 7 ।। 1.7.7.1 दिशो॒ व्यास्था॑पयति । दि॒शाम॒भिजि॑त्त्यै । यद॑नु प्र॒क्रामेत् । अ॒भि दिशो॑ जयेत् । उत्तु माद्येत् । मन॒साऽनु॒ प्रक्रा॑मति । अ॒भि दिशो॑ जयति । नोन्माद्यति । स॒मिध॒मा ति॒ष्ठेत्या॑ह । तेज॑ ए॒वाव॑रुन्धे ।। 41 ।। 1.7.7.2 उ॒ग्रामा ति॒ष्ठेत्या॑ह । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । वि॒राज॒माति॒ष्ठेत्या॑ह । अ॒न्नाद्य॑मे॒वाव॑रुन्धे । उदी॑ची॒मा ति॒ष्ठेत्या॑ह । प॒शूने॒वाव॑रुन्धे । ऊ॒र्ध्वामाति॒ष्ठेत्या॑ह । सु॒व॒र्गमे॒व लो॒कम॒भिज॑यति । अनूज्जि॑हीते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 42 ।। 1.7.7.3 मा॒रु॒त ए॒ष भ॑वति । अन्न॒व्वैँ म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । एक॑विशतिकपालो भवति॒ प्रति॑ष्ठित्यै । यो॑ऽरण्येऽनुवा॒क्यो॑ ग॒णः । तं म॑ध्य॒त उप॑दधाति । ग्रा॒म्यैरे॒व प॒शुभि॑रार॒ण्यान्प॒शून्परि॑ गृह्णाति । तस्माद्ग्रा॒म्यै प॒शुभि॑रार॒ण्या प॒शव॒ परि॑गृहीताः । पृथि॑र्वै॒न्यः । अ॒भ्य॑षिच्यत ।। 43 ।। 1.7.7.4 स रा॒ष्ट्रन्नाभ॑वत् । स ए॒तानि॑ पा॒र्थान्य॑पश्यत् । तान्य॑जुहोत् । तैर्वै स रा॒ष्ट्रम॑भवत् । यत्पा॒र्थानि॑ जु॒होति॑ । रा॒ष्ट्रमे॒व भ॑वति । बा॒र्॒ह॒स्प॒त्यं पूर्वे॑षामुत्त॒मं भ॑वति । ऐ॒न्द्रमुत्त॑रेषां प्रथ॒मम् । ब्रह्म॑ चै॒वास्मै ख्ष॒त्त्रञ्च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व ख्ष॒त्त्रं प्रति॑ष्ठापयति ।। 44 ।। 1.7.7.5 षट्पु॒रस्ता॑दभिषे॒कस्य॑ जुहोति । षडु॒परि॑ष्टात् । द्वाद॑श॒ संप॑द्यन्ते । द्वाद॑श॒ मासास्सव्वँथ्स॒रः । स॒व्वँ॒थ्स॒र खलु॒ वै दै॒वानां॒ पूः । दे॒वाना॑मे॒व पुरं॑ मध्य॒तो व्यव॑सर्पति । तस्य॒ न कुत॑श्च॒नोपाव्या॒धो भ॑वति । भू॒ताना॒मवेष्टीर्जुहोति । अत्रात्र॒ वै मृ॒त्युर्जा॑यते । यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते । तत॑ ए॒वैन॒मव॑यजते । तस्माद्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै । प्र॒त्यगे॑नमभिचा॒रस्स्तृ॑णुते ।। 45 ।। 1.7.8.0 भ॒व॒त्या॒हु॒ पुरु॑ष॒ ओज॒सेत्या॑ह नि॒रव॑दयते यजते॒ जन्यो॒ द्वे च॑ ।। 8 ।। 1.7.8.1 सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒र्मोप॑स्तृणाति । यैव सोमे॒ त्विषिः॑ । या शार्दू॒ले । तामे॒वाव॑रुन्धे । मृ॒त्योर्वा ए॒ष वर्णः॑ । यच्छार्दू॒लः । अ॒मृत॒॒ हिर॑ण्यम् । अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॒ हिर॑ण्य॒मुपास्यति । अ॒मृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्ते । श॒तमा॑नं भवति ।। 46 ।। 1.7.8.2 श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । दि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॒ निद॑धाति । उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति । अवेष्टा दन्द॒शूका॒ इति॑ क्ली॒ब सीसे॑न विध्यति । द॒न्द॒शूका॑ने॒वाव॑यजते । तस्मात्क्ली॒बन्द॑न्द॒शूका॒ दशु॑काः । निर॑स्त॒न्नमु॑चे॒श्शिर॒ इति॑ लोहिताय॒सन्निर॑स्यति । पा॒प्मान॑मे॒व नमु॑चिन्नि॒रव॑दयते । प्रा॒णा आ॒त्मन॒ पूर्वे॑ऽभि॒षिच्या॒ इत्या॑हुः ।। 47 ।। 1.7.8.3 सोमो॒ राजा॒ वरु॑णः । दै॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाच॑ सुवन्ता॒न्ते ते प्रा॒ण सु॑वन्ता॒मित्या॑ह । प्रा॒णाने॒वात्मन॒ पूर्वा॑न॒भिषि॑ञ्चति । यद्ब्रू॒यात् । अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चा॒मीति॑ । ते॒ज॒स्व्ये॑व स्यात् । दु॒श्चर्मा॒ तु भ॑वेत् । सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चा॒मीत्या॑ह । सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ।। 48 ।। 1.7.8.4 स्वयै॒वैन॑न्दे॒वत॑या॒ऽभिषि॑ञ्चति । अ॒ग्नेस्तेज॒सेत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । सूर्य॑स्य॒ वर्च॒सेत्या॑ह । वर्च॑ ए॒वास्मि॑न्दधाति । इन्द्र॑स्येन्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति । मि॒त्रावरु॑णयोर्वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑न्दधाति । म॒रुता॒मोज॒सेत्या॑ह ।। 49 ।। 1.7.8.5 ओज॑ ए॒वास्मि॑न्दधाति । ख्ष॒त्त्राणाङ्ख्ष॒त्त्रप॑तिर॒सीत्या॑ह । ख्ष॒त्त्राणा॑मे॒वैन॑ङ्ख्ष॒त्त्रप॑तिङ्करोति । अति॑ दि॒वस्पा॒हीत्या॑ह । अत्य॒न्यान्पा॒हीति॒ वावैतदा॑ह । स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रित्या॑ह । रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः । उ॒च्छेष॑णेन जुहोति । उ॒च्छेष॑णभागो॒ वै रु॒द्रः । भा॒ग॒धेये॑नै॒व रु॒द्रन्नि॒रव॑दयते ।। 50 ।। 1.7.8.6 उद॑ङ्प॒रेत्याग्नीद्ध्रे जुहोति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते । रुद्र॒ यत्ते॒ क्रयी॒ पर॒न्नामेत्या॑ह । यद्वा अ॑स्य॒ क्रयी॒ पर॒न्नाम॑ । तेन॒ वा ए॒ष हि॑नस्ति । य हि॒नस्ति॑ । तेनै॒वैन॑ स॒ह श॑मयति । तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सीत्या॑ह । य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते ।। 51 ।। 1.7.8.7 प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् । याङ्का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ । रा॒ष्ट्रमे॒वास्यै प्र॒जा भ॑वति । प॒र्ण॒मये॑नाध्व॒र्युर॒भिषि॑ञ्चति । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्त्विषि॑न्दधाति । औदु॑म्बरेण राज॒न्यः॑ । ऊर्ज॑मे॒वास्मि॑न्न॒न्नाद्य॑न्दधाति । आश्व॑त्थेन॒ वैश्यः॑ । विश॑मे॒वास्मि॒न्पुष्टि॑न्दधाति । नैय॑ग्रोधेन॒ जन्यः॑ । मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै ।। 52 ।। 1.7.9.0 प॒द्य॒न्ते॒ द॒धा॒ति॒ वी॒र्ये॑णेत्या॒हानात्यै॒ प्रति॑ष्ठित्यै॒ ब्रह्म॒णाऽऽद॑धाति स॒प्त च॑ ।। 9 ।। 1.7.9.1 इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै । मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रो प्र॒शिषा॑ युन॒ज्मीत्या॑ह । ब्रह्म॑णै॒वैन॑न्दे॒वताभ्याय्युँनक्ति । प्र॒ष्टि॒वा॒हिन॑य्युँनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थमे॒वास्मै॑ युनक्ति । त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । द्वौ स॑व्येष्ठसार॒थी । षट्थ्सं प॑द्यन्ते ।। 53 ।। 1.7.9.2 षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैन॑य्युँनक्ति । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति । यः ख्ष॒त्रिय॒ प्रति॑हितः । सोऽन्वार॑भते । रा॒ष्ट्रमे॒व भ॑वति । त्रि॒ष्टुभा॒ऽन्वार॑भते । इ॒न्द्रि॒यव्वैँ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।। 54 ।। 1.7.9.3 म॒रुतां प्रस॒वे जे॑ष॒मित्या॑ह । म॒रुद्भि॑रे॒व प्रसू॑त॒ उज्ज॑यति । आ॒प्तं मन॒ इत्या॑ह । यदे॒व मन॒सैफ्सीत् । तदा॑पत् । रा॒ज॒न्य॑ञ्जिनाति । अनाक्रान्त ए॒वाक्र॑मते । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यो रा॑ज॒न्य॑ञ्जि॒नाति॑ । सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णेत्या॑ह ।। 55 ।। 1.7.9.4 इ॒न्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्ध॑त्ते । प॒शू॒नां म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒दिति॒ वारा॑ही उपा॒नहा॒वुप॑ मुञ्चते । प॒शू॒नाव्वाँ ए॒ष म॒न्युः । यद्व॑रा॒हः । तेनै॒व प॑शू॒नां म॒न्युमा॒त्मन्ध॑त्ते । अ॒भि वा इ॒य सु॑षुवा॒णङ्का॑मयते । तस्येश्व॒रेन्द्रि॒यव्वीँ॒र्य॑मादा॑तोः । वारा॑ही उपा॒नहा॒वुप॑मुञ्चते । अ॒स्या ए॒वान्तर्ध॑त्ते । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्यानात्यै ।। 56 ।। 1.7.9.5 नमो॑ मा॒त्रे पृ॑थि॒व्या इत्या॒हाहि॑सायै । इय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒हीत्या॑ह । आयु॑रे॒वात्मन्ध॑त्ते । ऊर्ग॒स्यूर्जं॑ मे धे॒हीत्या॑ह । ऊर्ज॑मे॒वात्मन्ध॑त्ते । युङ्ङ॑सि॒ वर्चो॑सि॒ वर्चो॒ मयि॑ धे॒हीत्या॑ह । वर्च॑ ए॒वात्मन्ध॑त्ते । ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑मान॒ आयु॒रूर्ज॒व्वँर्चो॑ दधाति । र॒थ॒वि॒मो॒च॒नीया॑ जुहोति॒ प्रति॑ष्ठित्यै ।। 57 ।। 1.7.9.6 त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । तस्माच्च॒तुर्जु॑होति । यदु॒भौ स॒हाव॒तिष्ठे॑ताम् । स॒मा॒नल्लोँ॒कमि॑याताम् । स॒ह स॑ङ्ग्रही॒त्रा र॑थ॒वाह॑ने॒ रथ॒माद॑धाति । सु॒व॒र्गादे॒वैन॑ल्लोँ॒काद॒न्तर्द॑धाति । ह॒॒सश्शु॑चि॒षदित्याद॑धाति । ब्रह्म॑णै॒वैन॑मुपाव॒हर॑ति । ब्रह्म॒णाऽऽद॑धाति । अति॑च्छन्द॒साऽऽद॑धाति । अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दा॑सि । सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भि॒राद॑धाति । वर्ष्म॒ वा ए॒षा छन्द॑साम् । यदति॑च्छन्दाः । यदति॑च्छन्दसा॒ दधा॑ति । वर्ष्मै॒वैन॑ समा॒नानाङ्करोति ।। 58 ।। 1.7.10.0 दे॒वैरित्या॑ह स॒त्यस॑वङ्करोति त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति सत्यानृ॒ते ए॒वाव॑रुन्धे करोति श॒तेन्द्रि॑य॒ष्षट् च॑ ।। 10 ।। 1.7.10.1 मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह । मै॒त्रव्वाँ अहः॑ । वा॒रु॒णी रात्रिः॑ । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॑मु॒पाव॑हरति । मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह । मै॒त्रो वै दक्षि॑णः । वा॒रु॒णस्स॒व्यः । वै॒श्व॒दे॒व्या॑मिक्षा । स्वमे॒वैनौ॑ भाग॒धेय॑मु॒पाव॑हरति । सम॒हव्विँश्वैर्दे॒वैरित्या॑ह ।। 59 ।। 1.7.10.2 वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । ता ए॒वाद्या कुरुते । ख्ष॒त्त्रस्य॒ नाभि॑रसि ख्ष॒त्त्रस्य॒ योनि॑र॒सीत्य॑धीवा॒समास्तृ॑णाति सयोनि॒त्वाय॑ । स्यो॒नामा सी॑द सु॒षदा॒मा सी॒देत्या॑ह । य॒था॒य॒जुरे॒वैतत् । मा त्वा॑ हिसी॒न्मा मा॑ हिसी॒दित्या॒हाहि॑सायै । निष॑साद धृ॒तव्र॑तो॒ वरु॑ण प॒स्त्यास्वा साम्राज्याय सु॒क्रतु॒रित्या॑ह । साम्राज्यमे॒वैन॑ सु॒क्रतु॑ङ्करोति । ब्रह्मा(३)न्त्व रा॑जन्ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह । स॒वि॒तार॑मे॒वैन॑ स॒त्यस॑वङ्करोति ।। 60 ।। 1.7.10.3 ब्रह्मा(३)न्त्व रा॑जन्ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । इन्द्र॑मे॒वैन॑ स॒त्यौज॑सङ्करोति । ब्रह्मा(३)न्त्व रा॑जन्ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह । मि॒त्रमे॒वैन॑ सु॒शेव॑ङ्करोति । ब्रह्मा(३)न्त्व रा॑जन्ब्र॒ह्मासि॒ वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह । वरु॑णमे॒वैन॑ स॒त्यध॑र्माणङ्करोति । स॒वि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह । गा॒य॒त्रीमे॒वैतेना॑भि॒ व्याह॑रति । इन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति ।। 61 ।। 1.7.10.4 मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह । जग॑तीमे॒वैतेना॑भि॒ व्याह॑रति । स॒त्यमे॒ता दे॒वताः । स॒त्यमे॒तानि॒ छन्दा॑सि । स॒त्यमे॒वाव॑रुन्धे । वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह । अ॒नु॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति । स॒त्या॒नृ॒ते वा अ॑नु॒ष्टुप् । स॒त्या॒नृ॒ते वरु॑णः । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे ।। 62 ।। 1.7.10.5 नैन॑ सत्यानृ॒ते उ॑दि॒ते हि॑स्तः । य ए॒वव्वेँद॑ । इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्यं प्रय॑च्छति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒वास्मा॑ अवरप॒र र॑न्धयति । ए॒व हि तच्छ्रेयः॑ । यद॑स्मा ए॒ते रध्ये॑युः । दिशो॒ऽभ्य॑य राजा॑ऽभू॒दिति॒ पञ्चा॒क्षान्प्रय॑च्छति । ए॒ते वै सर्वेऽयाः । अप॑राजायिनमे॒वैन॑ङ्करोति ।। 63 ।। 1.7.10.6 ओ॒द॒नमुद्ब्रु॑वते । प॒र॒मे॒ष्ठी वा ए॒षः । यदो॑द॒नः । प॒र॒मामे॒वैन॒॒ श्रिय॑ङ्गमयति । सुश्लो॒काँ 4 सुम॑ङ्ग॒लाँ 4 सत्य॑रा॒जा ३ नित्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । शौ॒न॒श्शे॒पमाख्या॑पयते । व॒रु॒ण॒पा॒शादे॒वैनं॑ मुञ्चति । प॒र॒श्श॒तं भ॑वति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । मा॒रु॒तस्य॒ चैक॑विशतिकपालस्य वैश्वदे॒व्यै चा॒मिक्षा॑या अ॒ग्नये स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑मुभ॒यत॒ परि॑ गृह्णाति । अ॒पान्नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहेति॑ ति॒स्र आहु॑तीर्जुहोति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ।। 64 ।। 1.8.0.0 वरु॑णस्य जा॒मि वा ईश्व॒र आग्ने॒यमिन्द्र॑स्य॒ यत्त्रि॒ष्व॑ग्निष्टो॒ममुप॑ त्वे॒यँव्वै र॑ज॒ताऽप्र॑तिष्ठितो॒ दश॑ ।। 10 ।। वरु॑णस्य॒ यद॒श्विभ्या॒य्यँत्त्रि॒षु तस्मा॒दुद्व॑तीस्स॒प्तत्रि॑शत् ।। 37 ।। वरु॑णस्य॒ प्रति॑तिष्ठति ।। हरिः॑ ओम् ।। प्रथमाष्टके अष्टमप्रपाठकः, प्रथमाष्टकं च समाप्तम् ।। 1.8.0.0 तैत्तिरीयब्राह्मणे प्रथमाष्टके अष्टम प्रपाठक प्रारम्भः । हरिः ओम् ।। 1.8.1.0 स॒प्त॒मे द॑धाति॒ पञ्च॑ च ।। 1 ।। 1.8.1.1 वरु॑णस्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्वीँ॒र्यं॑ परा॑ऽपतत् । तथ्स॒॒सृद्भि॒रनु॒ सम॑सर्पत् । तथ्स॒॒सृपा॑ ससृ॒त्त्वम् । अ॒ग्निना॑ दे॒वेन॑ प्रथ॒मेऽह॒न्ननु॒ प्रायु॑ङ्क्त । सर॑स्वत्या वा॒चा द्वि॒तीये । स॒वि॒त्रा प्र॑स॒वेन॑ तृ॒तीये । पू॒ष्णा प॒शुभि॑श्चतु॒र्थे । बृह॒स्पति॑ना॒ ब्रह्म॑णा पञ्च॒मे । इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे । वरु॑णेन॒ स्वया॑ दे॒वत॑या सप्त॒मे ।। 1 ।। 1.8.1.2 सोमे॑न॒ राज्ञाऽष्ट॒मे । त्वष्ट्रा॑ रू॒पेण॑ नव॒मे । विष्णु॑ना य॒ज्ञेनाप्नोत् । यथ्स॒॒सृपो॒ भव॑न्ति । इ॒न्द्रि॒यमे॒व तद्वी॒र्य॑य्यँज॑मान आप्नोति । पूर्वा॑पूर्वा॒ वेदि॑र्भवति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । पु॒रस्ता॑दुप॒सदा॑ सौ॒म्येन॒ प्रच॑रति । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । अ॒न्त॒रा त्वा॒ष्ट्रेण॑ । रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ विक॑रोति । उ॒परि॑ष्टाद्वैष्ण॒वेन॑ । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒त प्रति॑ तिष्ठति ।। 2 ।। 1.8.2.0 वि॒राट्प्र॒जाप॑ति॒रश्व॑ प्र॒जाप॑ते॒राप्त्यै॑ यजते ब्रह्मसा॒मं भ॑वति स॒प्त च॑ ।। 2 ।। 1.8.2.1 जा॒मि वा ए॒तत्कु॑र्वन्ति । यथ्स॒द्यो दी॒ख्षय॑न्ति स॒द्यस्सोम॑ङ्क्री॒णन्ति॑ । पु॒ण्ड॒रि॒स्र॒जां प्रय॑च्छ॒त्यजा॑मित्वाय । अङ्गि॑रसस्सुव॒र्गल्लोँ॒कय्यँन्तः॑ । अ॒फ्सु दीख्षात॒पसी॒ प्रावे॑शयन्न् । तत्पु॒ण्डरी॑कमभवत् । यत्पु॑ण्डरिस्र॒जां प्र॒यच्छ॑ति । सा॒ख्षादे॒व दीख्षात॒पसी॒ अव॑रुन्धे । द॒शभि॑र्वथ्सत॒रैस्सोम॑ङ्क्रीणाति । दशाख्षरा वि॒राट् ।। 3 ।। 1.8.2.2 अन्न॑व्विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । मु॒ष्क॒रा भ॑वन्ति सेन्द्र॒त्वाय॑ । द॒श॒पेयो॑ भवति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । श॒तं ब्राह्म॒णा पि॑बन्ति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । स॒प्त॒द॒श स्तो॒त्रं भ॑वति । स॒प्त॒द॒श प्र॒जाप॑तिः ।। 4 ।। 1.8.2.3 प्र॒जाप॑ते॒राप्त्यै । प्रा॒का॒शाव॑ध्व॒र्यवे॑ ददाति । प्र॒का॒शमे॒वैन॑ङ्गमयति । स्रज॑मुद्गा॒त्रे । व्ये॑वास्मै॑ वासयति । रु॒क्म होत्रे । आ॒दि॒त्यमे॒वास्मा॒ उन्न॑यति । अश्वं॑ प्रस्तोतृप्रतिह॒र्तृभ्याम् । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑ते॒राप्त्यै ।। 5 ।। 1.8.2.4 द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे । आयु॑रे॒वाव॑रुन्धे । व॒शां मैत्रावरु॒णाय॑ । रा॒ष्ट्रमे॒व व॒श्य॑कः । ऋ॒ष॒भं ब्राह्मणाच्छ॒॒सिने । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । वास॑सी नेष्टापो॒तृभ्याम् । प॒वित्रे॑ ए॒वास्यै॒ते । स्थूरि॑ यवाचि॒तम॑च्छावा॒काय॑ । अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते ।। 6 ।। 1.8.2.5 अ॒नड्वाह॑म॒ग्नीधे । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑र॒ग्नीत् । वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे । इन्द्र॑स्य सुषुवा॒णस्य॑ त्रे॒धेन्द्रि॒यव्वीँ॒र्यं॑ परा॑ऽपतत् । भृगु॒स्तृती॑यमभवत् । श्रा॒य॒न्तीय॒न्तृती॑यम् । सर॑स्वती॒ तृती॑यम् । भा॒र्ग॒वो होता॑ भवति । श्रा॒य॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति । वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् । सा॒र॒स्व॒तीर॒पो गृ॑ह्णाति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । श्रा॒य॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति । इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्य॑ श्रयति । वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् । इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्य॑व्वाँरयति ।। 7 ।। 1.8.3.0 अ॒र्ध॒य॒ति॒ भ॒व॒त्य॒रु॒न्ध॒त॒ ग॒म॒य॒न्ति॒ द्वे च॑ ।। 3 ।। 1.8.3.1 ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः । यन्दिशोऽनु॑ व्यास्था॒पय॑न्ति । दि॒शामवेष्टयो भवन्ति । दि॒ख्ष्वे॑व प्रति॑ तिष्ठ॒त्यनु॑न्मादाय । पञ्च॑ दे॒वता॑ यजति । पञ्च॒ दिशः॑ । दि॒ख्ष्वे॑व प्रति॑ तिष्ठति । ह॒विषो॑हविष इ॒ष्ट्वा बा॑ऱ्हस्प॒त्यम॒भिघा॑रयति । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै बृह॒स्पतिः॑ । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति ।। 8 ।। 1.8.3.2 आ॒दि॒त्यां म॒ल्॒हाङ्ग॒र्भिणी॒मा ल॑भते । मा॒रु॒तीं पृश्ञिं॑ पष्ठौ॒हीम् । विश॑ञ्चैवास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । आ॒दि॒त्यया॒ पूर्व॑या॒ प्रच॑रति । मा॒रु॒त्योत्त॑रया । रा॒ष्ट्र ए॒व विश॒मनु॑बध्नाति । उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति । उ॒पा॒॒शु मा॑रु॒त्यै । तस्माद्रा॒ष्ट्रव्विँश॒मति॑वदति । ग॒र्भिण्या॑दि॒त्या भ॑वति ।। 9 ।। 1.8.3.3 इ॒न्द्रि॒यव्वैँ गर्भः॑ । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग॒र्भा मा॑रु॒ती । विड्वै म॒रुतः॑ । विश॑मे॒व निरि॑न्द्रियामकः । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । ते दे॒वा अ॒श्विनो पू॒षन्वा॒चस्स॒त्य स॑न्नि॒धाय॑ । अनृ॑ते॒नासु॑रान॒भ्य॑भवन्न् । तेऽश्विभ्यां पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपन्न् । ततो॒ वै ते वा॒चस्स॒त्यमवा॑रुन्धत ।। 10 ।। 1.8.3.4 यद॒श्विभ्यां पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपालन्नि॒र्वप॑ति । अनृ॑तेनै॒व भ्रातृ॑व्यानभि॒भूय॑ । वा॒चस्स॒त्यमव॑रुन्धे । सर॑स्वते सत्य॒वाचे॑ च॒रुम् । पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भि गृ॑णाति । स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒न्द्वाद॑शकपालं॒ प्रसूत्यै । दू॒तान्प्रहि॑णोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑ङ्गमयन्ति । अथो॑ दू॒तेभ्य॑ ए॒व न छि॑द्यते । ति॒सृ॒ध॒न्व शु॑ष्कदृ॒तिर्दख्षि॑णा॒ समृ॑द्ध्यै ।। 11 ।। 1.8.4.0 त्वा॒ष्ट्रम॒ष्टाक॑पालन्दधते युन॒क्त्येक॑ञ्च ।। 4 ।। 1.8.4.1 आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति । तस्मा॒च्छिशि॑रे कुरुपञ्चा॒ला प्राञ्चो॑ यान्ति । सौ॒म्यञ्च॒रुम् । तस्माद्वस॒न्तव्व्यँ॑व॒साया॑दयन्ति । सा॒वि॒त्रन्द्वाद॑शकपालम् । तस्मात्पु॒रस्ता॒द्यवा॑ना सवि॒त्रा विरु॑न्धते । बा॒र्॒ह॒स्प॒त्यञ्च॒रुम् । स॒वि॒त्रैव वि॒रुध्य॑ । ब्रह्म॑णा॒ यवा॒नाद॑धते । त्वा॒ष्ट्रम॒ष्टाक॑पालम् ।। 12 ।। 1.8.4.2 रू॒पाण्ये॒व तेन॑ कुर्वते । वै॒श्वा॒न॒रन्द्वाद॑शकपालम् । तस्माज्जघ॒न्ये॑ नैदा॑घे प्र॒त्यञ्च॑ कुरुपञ्चा॒ला यान्ति । सा॒र॒स्व॒तञ्च॒रुन्निर्व॑पति । तस्मात्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति । पौ॒ष्णेन॒ व्यव॑स्यन्ति । मै॒त्रेण॑ कृषन्ते । वा॒रु॒णेन॒ विधृ॑ता आसते । ख्षै॒त्र॒प॒त्येन॑ पाचयन्ते । आ॒दि॒त्येनाद॑धते ।। 13 ।। 1.8.4.3 मा॒सिमास्ये॒तानि॑ ह॒वीषि॑ नि॒रुप्या॒णीत्या॑हुः । तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑ । अथो॒ खल्वा॑हुः । कस्स॑व्वँथ्स॒रञ्जी॑विष्य॒तीति॑ । षडे॒व पूर्वे॒द्युर्नि॒रुप्या॑णि । षडु॑त्तरे॒द्युः । तेनै॒वर्तून्प्रयु॑ङ्क्ते । दख्षि॑णो रथवाहनवा॒ह पूर्वे॑षा॒न्दख्षि॑णा । उत्त॑र॒ उत्त॑रेषाम् । स॒व्वँ॒थ्स॒रस्यै॒वान्तौ॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 14 ।। 1.8.5.0 अख्ष्यो॒र्लोमा॑नि॒ हिर॑ण्यव्वँसति गृह्णाति भिषज्य॒त्येक॑ञ्च ।। 5 ।। 1.8.5.1 इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्वीँ॒र्यं॑ परा॑ऽपतत् । स यत्प्र॑थ॒मन्नि॒रष्ठी॑वत् । तत्क्व॑लमभवत् । यद्द्वि॒तीयम् । तद्बद॑रम् । यत्तृ॒तीयम् । तत्क॒र्कन्धु॑ । यन्न॒स्तः । स सि॒॒हः । यदख्ष्योः ।। 15 ।। 1.8.5.2 स शार्दू॒लः । यत्कर्ण॑योः । स वृकः॑ । य ऊ॒र्ध्वः । स सोमः॑ । याऽवा॑ची । सा सुरा । त्र॒यास्सक्त॑वो भवन्ति । इ॒न्द्रि॒यस्याव॑रुद्ध्यै । त्र॒याणि॒ लोमा॑नि ।। 16 ।। 1.8.5.3 त्विषि॑मे॒वाव॑रुन्धे । त्रयो॒ ग्रहाः । वी॒र्य॑मे॒वाव॑रुन्धे । नाम्ना॑ दश॒मी । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णा इ॑न्द्रि॒यव्वीँ॒र्यम् । प्रा॒णाने॒वेन्द्रि॒यव्वीँ॒र्य॑य्यँज॑मान आ॒त्मन्ध॑त्ते । सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति । न वा ए॒तदयो॒ न हिर॑ण्यम् ।। 17 ।। 1.8.5.4 यथ्सीसम् । न स्त्री न पुमान्॑ । यत्क्ली॒बः । न सोमो॒ न सुरा । यथ्सौत्राम॒णी समृ॑द्ध्यै । स्वा॒द्वीन्त्वा स्वा॒दुनेत्या॑ह । सोम॑मे॒वैनाङ्करोति । सोमोऽस्य॒श्विभ्यां पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्य॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा दे॒वताभ्य॒ पच्य॑ते । ति॒स्रस्ससृ॑ष्टा वसति ।। 18 ।। 1.8.5.5 ति॒स्रो हि रात्री क्री॒तस्सोमो॒ वस॑ति । पु॒नातु॑ ते परि॒स्रुत॒मिति॒ यजु॑षा पुनाति॒ व्यावृ॑त्त्यै । प॒वित्रे॑ण पुनाति । प॒वित्रे॑ण॒ हि सोमं॑ पु॒नन्ति॑ । वारे॑ण॒ शश्व॑ता॒ तनेत्या॑ह । वारे॑ण॒ हि सोमं॑ पु॒नन्ति॑ । वा॒यु पू॒त प॒वित्रे॒णेति॒ नैतया॑ पुनीयात् । व्यृ॑द्धा॒ ह्ये॑षा । अ॒ति॒प॒वि॒तस्यै॒तया॑ पुनी॒यात् । कु॒विद॒ङ्गेत्यनि॑रुक्तया प्राजाप॒त्यया॑ गृह्णाति ।। 19 ।। 1.8.5.6 अनि॑रुक्त प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति । आ॒श्वि॒नन्धू॒म्रमाल॑भते । अ॒श्विनौ॒ वै दे॒वानां भि॒षजौ । ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति । सा॒र॒स्व॒तं मे॒षम् । वाग्वै सर॑स्वती । वा॒चैवैनं॑ भिषज्यति । ऐ॒न्द्रमृ॑ष॒भ सेन्द्र॒त्वाय॑ ।। 20 ।। 1.8.6.0 प्री॒णा॒ति॒ प्र॒थ॒मो दख्षि॑णा स॒मव॑नयति धा॒रय॑तीन्द्रि॒याणि॑ च॒त्वारि॑ च ।। 6 ।। 1.8.6.1 यत्त्रि॒षु यूपेष्वा॒लभे॑त । ब॒हि॒र्धाऽस्मा॑दिन्द्रि॒यव्वीँ॒र्य॑न्दध्यात् । भ्रातृ॑व्यमस्मै जनयेत् । ए॒क॒यू॒प आल॑भते । ए॒क॒धैवास्मि॑न्निन्द्रि॒यव्वीँ॒र्य॑न्दधाति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । नैतेषां पशू॒नां पु॑रो॒डाशा॑ भवन्ति । ग्रह॑पुरोडाशा॒ ह्ये॑ते । यु॒व सु॒राम॑मश्वि॒नेति॑ सर्वदेव॒त्ये॑ याज्यानुवा॒क्ये॑ भवतः । सर्वा॑ ए॒व दे॒वता प्रीणाति ।। 21 ।। 1.8.6.2 ब्रा॒ह्म॒णं परि॑क्रीणीयादु॒च्छेष॑णस्य पा॒तारम् । ब्रा॒ह्म॒णो ह्याहु॑त्या उ॒च्छेष॑णस्य पा॒ता । यदि॑ ब्राह्म॒णन्न वि॒न्देत् । व॒ल्मी॒क॒व॒पाया॒मव॑ नयेत् । सैव तत॒ प्राय॑श्चित्तिः । यद्वै सौत्राम॒ण्यै व्यृ॑द्धम् । तद॑स्यै॒ समृ॑द्धम् । ना॒ना॒दे॒व॒त्या प॒शव॑श्च पुरो॒डाशाश्च भवन्ति॒ समृ॑द्ध्यै । ऐ॒न्द्र प॑शू॒नामु॑त्त॒मो भ॑वति । ऐ॒न्द्र पु॑रो॒डाशा॑नां प्रथ॒मः ।। 22 ।। 1.8.6.3 इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति । पु॒रस्ता॑दनूया॒जानां पुरो॒डाशै॒ प्रच॑रति । प॒शवो॒ वै पु॑रो॒डाशाः । प॒शूने॒वाव॑ रुन्धे । ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पति । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । सा॒वि॒त्रन्द्वाद॑शकपालं॒ प्रसूत्यै । वा॒रु॒णन्दश॑कपालम् । अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते । वड॑बा॒ दख्षि॑णा ।। 23 ।। 1.8.6.4 उ॒त वा ए॒षाऽश्व॑ सू॒ते । उ॒ताऽश्व॑त॒रम् । उ॒त सोम॑ उ॒त सुरा । यथ्सौत्राम॒णी समृ॑द्ध्यै । बा॒र्॒ह॒स्प॒त्यं प॒शुञ्च॑तु॒र्थम॑तिपवि॒तस्या ल॑भते । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति । पु॒रो॒डाश॑वाने॒ष प॒शुर्भ॑वति । न ह्ये॑तस्य॒ ग्रह॑ङ्गृ॒ह्णन्ति॑ । सोम॑प्रतीका पितरस्तृप्णु॒तेति॑ शतातृ॒ण्णाया॑ स॒मव॑नयति ।। 24 ।। 1.8.6.5 श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । दख्षि॑णे॒ऽग्नौ जु॑होति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै । हिर॑ण्यमन्त॒रा धा॑रयति । पू॒तामे॒वैनाञ्जुहोति । श॒तमा॑नं भवति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । यत्रै॒व श॑तातृ॒ण्णान्धा॒रय॑ति ।। 25 ।। 1.8.6.6 तन्निद॑धाति॒ प्रति॑ष्ठित्यै । पि॒तॄन् वा ए॒तस्येन्द्रि॒यव्वीँ॒र्य॑ङ्गच्छति । य सोमो॑ऽति॒ पव॑ते । पि॒तृ॒णाय्याँज्यानुवा॒क्या॑भि॒रुप॑ तिष्ठते । यदे॒वास्य॑ पि॒तॄनि॑न्द्रि॒यव्वीँ॒र्य॑ङ्गच्छ॑ति । तदे॒वाव॑ रुन्धे । ति॒सृभि॒रुप॑ तिष्ठते । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । अथो॒ त्रीणि॒ वै य॒ज्ञस्येन्द्रि॒याणि॑ । अ॒ध्व॒र्युर् होता ब्र॒ह्मा । त उप॑तिष्ठन्ते । यान्ये॒व य॒ज्ञस्येन्द्रि॒याणि॑ । तैरे॒वास्मै॑ भेष॒जङ्क॑रोति ।। 26 ।। 1.8.7.0 स्तोमा प॒शव॑ उ॒क्थान्येक॑ञ्च ।। 7 ।। 1.8.7.1 अ॒ग्नि॒ष्टो॒ममग्र॒ आह॑रति । य॒ज्ञ॒मु॒खव्वाँ अ॑ग्निष्टो॒मः । य॒ज्ञ॒मु॒खमे॒वारभ्य॑ स॒वमा क्र॑मते । अथै॒षो॑ऽभिषेच॒नीय॑श्चतुस्त्रि॒॒शप॑वमानो भवति । त्रय॑स्त्रिश॒द्वै दे॒वताः । ता ए॒वाप्नो॑ति । प्र॒जाप॑तिश्चतुस्त्रि॒॒शः । तमे॒वाप्नो॑ति । स॒॒श॒र ए॒ष स्तोमा॑ना॒मय॑थापूर्वम् । यद्विष॑मा॒स्स्तोमाः ।। 27 ।। 1.8.7.2 ए॒तावा॒न् वै य॒ज्ञः । यावा॒न्पव॑मानाः । अ॒न्त॒श्श्लेष॑ण॒न्त्वा अ॒न्यत् । यथ्स॒मा पव॑मानाः । तेनाऽस॑शरः । तेन॑ यथापू॒र्वम् । आ॒त्मनै॒वाग्नि॑ष्टो॒मेन॒र्ध्नोति॑ । आ॒त्मना॒ पुण्यो॑ भवति । प्र॒जा वा उ॒क्थानि॑ । प॒शव॑ उ॒क्थानि॑ । यदु॒क्थ्यो॑ भव॒त्यनु॒ सन्त॑त्त्यै ।। 28 ।। 1.8.8.0 अक्र॑न्राज॒न्यो॑ भव॑न्ति दश॒पेयो॑ माद्ये॒त्त्रीणि॑ च ।। 8 ।। 1.8.8.1 उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रति॒पद्भ॑वति । वाग्वै वा॒युः । वा॒च ए॒वैषो॑ऽभिषे॒कः । सर्वा॑सामे॒व प्र॒जाना॑ सूयते । सर्वा॑ एनं प्र॒जा राजेति॑ वदन्ति । ए॒तमु॒ त्यन्दश॒ ख्षिप॒ इत्या॑ह । आ॒दि॒त्या वै प्र॒जाः । प्र॒जाना॑मे॒वैतेन॑ सूयते । यन्ति॒ वा ए॒ते य॑ज्ञमु॒खात् । ये स॑म्भा॒र्या॑ अक्रन्न्॑ ।। 29 ।। 1.8.8.2 यदाह॒ पव॑स्व वा॒चो अ॑ग्रिय॒ इति॑ । तेनै॒व य॑ज्ञमु॒खान्नय॑न्ति । अ॒नु॒ष्टुक्प्र॑थ॒मा भ॑वति । अ॒नु॒ष्टुगु॑त्त॒मा । वाग्वा अ॑नु॒ष्टुक् । वा॒चैव प्र॒यन्ति॑ । वा॒चोद्य॑न्ति । उद्व॑तीर्भवन्ति । उद्व॒द्वा अ॑नु॒ष्टुभो॑ रू॒पम् । आनु॑ष्टुभो राज॒न्यः॑ ।। 30 ।। 1.8.8.3 तस्मा॒दुद्व॑तीर्भवन्ति । सौ॒र्य॑नु॒ष्टुगु॑त्त॒मा भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै । यो वै स॒वादेति॑ । नैन॑ स॒व उप॑नमति । यस्साम॑भ्य॒ एति॑ । पापी॑यान्थ्सुषुवा॒णो भ॑वति । ए॒तानि॒ खलु॒ वै सामा॑नि । यत्पृ॒ष्ठानि॑ । यत्पृ॒ष्ठानि॒ भव॑न्ति ।। 31 ।। 1.8.8.4 तैरे॒व स॒वान्नैति॑ । यानि॑ देवरा॒जाना॒॒ सामा॑नि । तैर॒मुष्मि॑ल्लोँ॒क ऋ॑ध्नोति । यानि॑ मनुष्यरा॒जाना॒॒ सामा॑नि । तैर॒स्मिल्लोँ॒क ऋ॑ध्नोति । उ॒भयो॑रे॒व लो॒कयोर्॑ ऋध्नोति । दे॒व॒लो॒के च॑ मनुष्यलो॒के च॑ । ए॒क॒वि॒॒शो॑ऽभिषेच॒नीय॑स्योत्त॒मो भ॑वति । ए॒क॒वि॒॒श के॑शवप॒नीय॑स्य प्रथ॒मः । स॒प्त॒द॒शो द॑श॒पेयः॑ ।। 32 ।। 1.8.8.5 विड्वा ए॑कवि॒॒शः । रा॒ष्ट्र स॑प्तद॒शः । विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते । तस्मा॒द्वा ए॒ष वि॒शां प्रि॒यः । वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते । यद्वा ए॑नम॒दो दिशोऽनु॑ व्यास्था॒पय॑न्ति । तथ्सु॑व॒र्गल्लो॒कम॒भ्या रो॑हति । यदि॒मल्लोँ॒कन्न प्र॑त्यव॒रोहेत् । अ॒ति॒ज॒नव्वेँ॒यात् । उद्वा॑ माद्येत् । यदे॒ष प्र॑ती॒चीन॑स्स्तोमो॒ भव॑ति । इ॒ममे॒व तेन॑ लो॒कं प्र॒त्यव॑रोहति । अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यनु॑न्मादाय ।। 33 ।। 1.8.9.0 श॒तख्ष॑रो॒ऽष्टौ च॑ ।। 9 ।। 1.8.9.1 इ॒यव्वैँ॒ र॑ज॒ता । अ॒सौ हरि॑णी । यद्रु॒क्मौ भव॑तः । आ॒भ्यामे॒वैन॑मुभ॒यत॒ परि॑ गृह्णाति । वरु॑णस्य॒ वा अ॑भिषि॒च्यमा॑न॒स्यापः॑ । इ॒न्द्रि॒यव्वीँ॒र्य॑न्निर॑घ्नन्न् । तथ्सु॒वर्ण॒॒ हिर॑ण्यमभवत् । यद्रु॒क्मम॑न्त॒र्दधा॑ति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय । श॒तमा॑नो भवति श॒तख्ष॑रः । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । आयु॒र्वै हिर॑ण्यम् । आ॒यु॒ष्या॑ ए॒वैन॑म॒भ्यति॑ ख्षरन्ति । तेजो॒ वै हिर॑ण्यम् । ते॒ज॒स्या॑ ए॒वैन॑म॒भ्यति॑ ख्षरन्ति । वर्चो॒ वै हिर॑ण्यम् । व॒र्च॒स्या॑ ए॒वैन॑म॒भ्यति॑ ख्षरन्ति ।। 34 ।। 1.8.10.0 उत्त॑रं॒ प्रति॑ष्ठित्यै पश॒व्य॑स्स॒प्त च॑ ।। 10 ।। 1.8.10.1 अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः । यो रा॑ज॒सूये॑न॒ यज॑त॒ इति॑ । य॒दा वा ए॒ष ए॒तेन॑ द्विरा॒त्रेण॒ यज॑ते । अथ॑ प्रति॒ष्ठा । अथ॑ सव्वँथ्स॒रमाप्नोति । याव॑न्ति सव्वँथ्स॒रस्या॑होरा॒त्राणि॑ । ताव॑तीरे॒तस्य॑ स्तो॒त्रीयाः । अ॒हो॒रा॒त्रेष्वे॒व प्रति॑ तिष्ठति । अ॒ग्नि॒ष्टो॒म पूर्व॒मह॑र्भवति । अ॒ति॒रा॒त्र उत्त॑रम् ।। 35 ।। 1.8.10.2 नानै॒वाहो॑रा॒त्रयो॒ प्रति॑ तिष्ठति । पौ॒र्ण॒मा॒स्यां पूर्व॒मह॑र्भवति । व्य॑ष्टकाया॒मुत्त॑रम् । नानै॒वार्ध॑मा॒सयो॒ प्रति॑तिष्ठति । अ॒मा॒वा॒स्या॑यां॒ पूर्व॒मह॑र्भवति । उद्दृ॑ष्ट॒ उत्त॑रम् । नानै॒व मास॑यो॒ प्रति॑तिष्ठति । अथो॒ खलु॑ । ये ए॒व स॑मानप॒ख्षे पु॑ण्या॒हे स्याताम् । तयो का॒र्यं॑ प्रति॑ष्ठित्यै ।। 36 ।। 1.8.10.3 अ॒प॒श॒व्यो द्वि॑रा॒त्र इत्या॑हुः । द्वे ह्ये॑ते छन्द॑सी । गा॒य॒त्रञ्च॒ त्रैष्टु॑भञ्च । जग॑तीम॒न्तर्य॑न्ति । न तेन॒ जग॑ती कृ॒तेत्या॑हुः । यदे॑नान्तृतीयसव॒ने कु॒र्वन्तीति॑ । य॒दा वा ए॒षाऽहीन॒स्याह॒र्भज॑ते । सा॒ह्नस्य॑ वा॒ सव॑नम् । अथै॒व जग॑ती कृ॒ता । अथ॑ पश॒व्यः॑ । व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः । य ए॒वव्विँ॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते । व्ये॑वास्मा॑ उच्छति । अथो॒ तम॑ ए॒वाप॑ हते । अ॒ग्नि॒ष्टो॒मम॑न्त॒त आ ह॑रति । अ॒ग्निस्सर्वा॑ दे॒वताः । दे॒वतास्वे॒व प्रति॑ तिष्ठति ।। 37 ।। 2.1.0.0 कृष्ण यजुर्ब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठकप्रारम्भः । हरिः ओम् ।। 2.1.0.0 अङ्गि॑रस प्र॒जाप॑तिर॒ग्नि रु॒द्र उ॑त्त॒राव॑तीं ब्रह्मवा॒दिनोऽग्निहो॒त्रप्रा॑यणा य॒ज्ञा प्र॒जाप॑तिरकामयतात्म॒न्वद्रौ॒द्रङ्गवि॑ दख्षिण॒तस्त्रयो॒ वै यद॒ग्निमृ॒तन्त्वा॑ स॒त्येनैका॑दश ।। 11 ।। अङ्गि॑रस॒ प्रैव तेन॑ प॒शूने॒व यन्नि॒मार्ष्टि॒ यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॑ दक्षिण॒तष्ष॒ष्टिः ।। 60 ।। अङ्गि॑रसो॒ य उ॑चैनदे॒वँव्वेद॑ ।। हरिः॑ ओम् ।। कृष्णयजुर्ब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठकस्समाप्तः ।। 2.1.1.0 अ॒लि॒म्प॒न्वेद॒ घातु॑क॒ एक॑ञ्च ।। 1 ।। 2.1.1.1 अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत । तेषां॒ पृश़्ञि॑र्घर्म॒धुगा॑सीत् । सर्जी॒षेणा॑जीवत् । तेऽब्रुवन्न् । कस्मै॒ नु स॒त्रमास्महे । येऽस्या ओष॑धी॒र्न ज॒नया॑म॒ इति॑ । ते दि॒वो वृष्टि॑मसृजन्त । याव॑न्तस्स्तो॒का अ॒वाप॑द्यन्त । ताव॑ती॒रोष॑धयोऽजायन्त । ता जा॒ता पि॒तरो॑ वि॒षेणा॑लिम्पन्न् ।। 1 ।। 2.1.1.2 तासाञ्ज॒ग्ध्वा रुप्य॒न्त्यैत् । तेऽब्रुवन्न् । क इ॒दमि॒त्थम॑क॒रिति॑ । व॒यं भा॑ग॒धेय॑मि॒च्छमा॑ना॒ इति॑ पि॒तरोऽब्रुवन्न् । किव्वोँ॑ भाग॒धेय॒मिति॑ । अ॒ग्नि॒हो॒त्र ए॒व नोऽप्य॒स्त्वित्य॑ब्रुवन्न् । तेभ्य॑ ए॒तद्भा॑ग॒धेयं॒ प्राय॑च्छन्न् । यद्धु॒त्वा नि॒मार्ष्टि॑ । ततो॒ वै त ओष॑धीरस्वदयन्न् । य ए॒वव्वेँद॑ ।। 2 ।। 2.1.1.3 स्वद॑न्तेऽस्मा॒ ओष॑धयः । ते व॒थ्समु॒पावा॑सृजन्न् । इ॒दन्नो॑ ह॒व्यं प्रदा॑प॒येति॑ । सोऽब्रवी॒द्वरं॑ वृणै । दश॑ मा॒ रात्रीर्जा॒तन्न दो॑हन्न् । आ॒स॒ङ्ग॒वं मा॒त्रा स॒ह च॑रा॒णीति॑ । तस्माद्व॒थ्सञ्जा॒तन्दश॒ रात्री॒र्न दु॑हन्ति । आ॒स॒ङ्ग॒वं मा॒त्रा स॒ह च॑रति । वारे॑वृत॒॒ ह्य॑स्य । तस्माद्व॒थ्स स॑सृष्टध॒य रु॒द्रो घातु॑कः । अति॒ हि स॒न्धान्धय॑ति ।। 3 ।। 2.1.2.0 अ॒मृ॒ष्ट॒ वि॒चि॒किथ्स॑ति॒ जुह्व॑त्य॒जाम॑सृजताग्निहो॒त्र सूर्या॑य प्रा॒तर्जु॒होति॒ जुह्व॑ति सं॒पद्ये॑ते हूयते स्थापयति संप्र॒ति द्वे च॑ ।। 2 ।। 2.1.2.1 प्र॒जाप॑तिर॒ग्निम॑सृजत । तं प्र॒जा अन्व॑सृज्यन्त । तम॑भा॒ग उपास्त । सोऽस्य प्र॒जाभि॒रपाक्रामत् । तम॑व॒रुरु॑थ्समा॒नोऽन्वैत् । तम॑व॒रुध॒न्नाश॑क्नोत् । स तपो॑ऽतप्यत । सोऽग्निरुपा॑रम॒ताता॑पि॒ वै स्य प्र॒जाप॑ति॒रिति॑ । स र॒राटा॒दुद॑मृष्ट ।। 4 ।। 2.1.2.2 तद्घृ॒तम॑भवत् । तस्मा॒द्यस्य॑ दख्षिण॒त केशा॒ उन्मृ॑ष्टाः । ताञ्ज्येष्ठल॒ख्ष्मी प्रा॑जाप॒त्येत्या॑हुः । यद्र॒राटा॑दु॒दमृ॑ष्ट । तस्माद्र॒राटे॒ केशा॒ न स॑न्ति । तद॒ग्नौ प्रागृ॑ह्णात् । तद्व्य॑चिकिथ्सत् । जु॒हवा॒नी ३ मा हौ॒षा ३ मिति॑ । तद्वि॑चिकि॒थ्सायै॒ जन्म॑ । य ए॒वव्विँ॒द्वान् वि॑चि॒किथ्स॑ति ।। 5 ।। 2.1.2.3 वसी॑य ए॒व चे॑तयते । तव्वाँग॒भ्य॑वदज्जु॒हुधीति॑ । सोऽब्रवीत् । कस्त्वम॒सीति॑ । स्वैव ते॒ वागित्य॑ब्रवीत् । सो॑ऽजुहो॒थ्स्वाहेति॑ । तथ्स्वा॑हाका॒रस्य॒ जन्म॑ । य ए॒वस्वा॑हाका॒रस्य॒ जन्म॒ वेद॑ । क॒रोति॑ स्वाहाका॒रेण॑ वी॒र्यम् । यस्यै॒वँव्वि॒दुष॑स्स्वाहाका॒रेण॒ जुह्व॑ति ।। 6 ।। 2.1.2.4 भोगा॑यै॒वास्य॑ हु॒तं भ॑वति । तस्या॒ आहु॑त्यै॒ पुरु॑षमसृजत । द्वि॒तीय॑मजुहोत् । सोऽश्व॑मसृजत । तृ॒तीय॑मजुहोत् । स गाम॑सृजत । च॒तु॒र्थम॑जुहोत् । सोऽवि॑मसृजत । प॒ञ्च॒मम॑जुहोत् । सो॑ऽजाम॑सृजत ।। 7 ।। 2.1.2.5 सोऽग्निर॑बिभेत् । आहु॑तीभि॒र्वै माऽऽप्नो॒तीति॑ । स प्र॒जाप॑तिं॒ पुन॒ प्रावि॑शत् । तं प्र॒जाप॑तिरब्रवीत् । जाय॒स्वेति॑ । सोऽब्रवीत् । किं भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑ । तुभ्य॑मे॒वेद हू॑याता॒ इत्य॑ब्रवीत् । स ए॒तद्भा॑ग॒धेय॑म॒भ्य॑जायत । यद॑ग्निहो॒त्रम् ।। 8 ।। 2.1.2.6 तस्मा॑दग्निहो॒त्रमु॑च्यते । तद्धू॒यमा॑नमादि॒त्योऽब्रवीत् । मा हौ॑षीः । उ॒भयो॒र्वै ना॑वे॒तदिति॑ । सोऽग्निर॑ब्रवीत् । क॒थन्नौ॑ होष्य॒न्तीति॑ । सा॒यमे॒व तुभ्य॑ञ्जु॒हुवन्न्॑ । प्रा॒तर्मह्य॒मित्य॑ब्रवीत् । तस्मा॑द॒ग्नये॑ सा॒य हू॑यते । सूर्या॑य प्रा॒तः ।। 9 ।। 2.1.2.7 आ॒ग्ने॒यी वै रात्रिः॑ । ऐ॒न्द्रमहः॑ । यदनु॑दिते॒ सूर्ये प्रा॒तर्जु॑हु॒यात् । उ॒भय॑मे॒वाग्ने॒य स्यात् । उदि॑ते॒ सूर्ये प्रा॒तर्जु॑होति । तथा॒ग्नये॑ सा॒य हू॑यते । सूर्या॑य प्रा॒तः । रात्रि॒व्वाँ अनु॑ प्र॒जा प्र जा॑यन्ते । अह्ना॒ प्रति॑ तिष्ठन्ति । यथ्सा॒यञ्जु॒होति॑ ।। 10 ।। 2.1.2.8 प्रैव तेन॑ जायते । उदि॑ते॒ सूर्ये प्रा॒तर्जु॑होति । प्रत्ये॒व तेन॑ तिष्ठति । प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ । स ए॒तद॑ग्निहो॒त्रं मि॑थु॒नम॑पश्यत् । तदुदि॑ते॒ सूर्ये॑ऽजुहोत् । यजु॑षा॒ऽन्यत् । तू॒ष्णीम॒न्यत् । ततो॒ वै स प्राजा॑यत । यस्यै॒वव्विँ॒दुष॒ उदि॑ते॒ सूर्येऽग्निहो॒त्रञ्जुह्व॑ति ।। 11 ।। 2.1.2.9 प्रैव जा॑यते । अथो॒ यथा॒ दिवा प्रजा॒नन्नेति॑ । ता॒दृगे॒व तत् । अथो॒ खल्वा॑हुः । यस्य॒ वै द्वौ पुण्यौ॑ गृ॒हे वस॑तः । यस्तयो॑र॒न्य रा॒धय॑त्य॒न्यन्न । उ॒भौ वाव स तावृ॑च्छ॒तीति॑ । अ॒ग्निव्वाँवादि॒त्यस्सा॒यं प्र वि॑शति । तस्मा॑द॒ग्निर्दू॒रान्नक्त॑न्ददृशे । उ॒भे हि तेज॑सी सं॒ पद्ये॑ते ।। 12 ।। 2.1.2.10 उ॒द्यन्त॒व्वाँवादि॒त्यम॒ग्निरनु॑ स॒मारो॑हति । तस्माद्धू॒म ए॒वाग्नेर्दिवा॑ ददृशे । यद॒ग्नये॑ सा॒यञ्जु॑हु॒यात् । आ सूर्या॑य वृश्च्येत । यथ्सूर्या॑य प्रा॒तर्जु॑हु॒यात् । आऽग्नये॑ वृश्च्येत । दे॒वताभ्यस्स॒मद॑न्दध्यात् । अ॒ग्निर्ज्योति॒र्ज्योति॒स्सूर्य॒स्स्वा- हेत्ये॒व सा॒य हो॑त॒व्यम् । सूर्यो॒ ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहेति॑ प्रा॒तः । तथो॒भाभ्या॑ सा॒य हू॑यते ।। 13 ।। 2.1.2.11 उ॒भाभ्यां प्रा॒तः । न दे॒वताभ्यस्स॒मद॑न्दधाति । अ॒ग्निर्ज्योति॒रित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । प्र॒जा ज्योति॒रित्या॑ह । प्र॒जा ए॒वास्मै॒ प्र ज॑नयति । सूर्यो॒ ज्योति॒रित्या॑ह । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति । ज्योति॑र॒ग्निस्स्वाहेत्या॑ह । प्र॒जा ए॒व प्रजा॑ता अ॒स्यां प्रति॑ष्ठापयति ।। 14 ।। 2.1.2.12 तू॒ष्णीमुत्त॑रा॒माहु॑तिञ्जुहोति । मि॒थु॒न॒त्वाय॒ प्रजात्यै । यदुदि॑ते॒ सूर्ये प्रा॒तर्जु॑हु॒यात् । यथाऽति॑थये॒ प्रद्रु॑ताय शू॒न्याया॑वस॒थाया॑हा॒र्य॑ हर॑न्ति । ता॒दृगे॒व तत् । क्वाह॒ तत॒स्तद्भव॒तीत्या॑हुः । यथ्स न वेद॑ । यस्मै॒ तद्धर॒न्तीति॑ । तस्मा॒द्यदौ॑ष॒सञ्जु॒होति॑ । तदे॒व सं॑प्र॒ति । अथो॒ यथा॒ प्रार्थ॑मौष॒सं प॑रि॒वेवेष्टि । ता॒दृगे॒व तत् ।। 15 ।। 2.1.3.0 भ॒व॒ति॒ प्र॒ति॒षि॒ञ्चति॑ गमयति प्र॒त्यक्प॒शव॑ उपनि॒धायाध्रिय॒न्तेति॒ तच्च॒त्वारि॑ च ।। 3 ।। 2.1.3.1 रु॒द्रो वा ए॒षः । यद॒ग्निः । पत्नी स्था॒ली । यन्मध्ये॒ऽग्नेर॑धि॒श्रयेत् । रु॒द्राय॒ पत्नी॒मपि॑ दध्यात् । प्र॒मायु॑का स्यात् । उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति । पत्नि॑यै गोपी॒थाय॑ । व्य॑न्तान्करोति । तथा॒ पत्न्यप्र॑मायुका भवति ।। 16 ।। 2.1.3.2 घ॒र्मो वा ए॒षोऽशान्तः । अह॑रह॒ प्र वृ॑ज्यते । यद॑ग्निहो॒त्रम् । प्रति॑षिञ्चेत्प॒शुका॑मस्य । शा॒न्तमि॑व॒ हि प॑श॒व्यम् । न प्रति॑षिञ्चेद्ब्रह्मवर्च॒सका॑मस्य । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् । अथो॒ खलु॑ । प्र॒ति॒षिच्य॑मे॒व । यत्प्र॑तिषि॒ञ्चति॑ ।। 17 ।। 2.1.3.3 तत्प॑श॒व्यम् । यज्जु॒होति॑ । तद्ब्र॑ह्मवर्च॒सि । उ॒भय॑मे॒वाकः॑ । प्रच्यु॑त॒व्वाँ ए॒तद॒स्माल्लो॒कात् । अग॑तन्देवलो॒कम् । यच्छृ॒त ह॒विरन॑भिघारितम् । अ॒भि द्यो॑तयति । अ॒भ्ये॑वैन॑द्घारयति । अथो॑ देव॒त्रैवैन॑द्गमयति ।। 18 ।। 2.1.3.4 पर्य॑ग्नि करोति । रख्ष॑सा॒मप॑हत्यै । त्रि पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । यत्प्रा॒चीन॑मुद्वा॒सयेत् । यज॑मान शु॒चाऽर्प॑येत् । यद्द॑ख्षि॒णा । पि॒तृ॒दे॒व॒त्य॑ स्यात् । यत्प्र॒त्यक् ।। 19 ।। 2.1.3.5 पत्नी॑ शु॒चाऽर्प॑येत् । उ॒दी॒चीन॒मुद्वा॑सयति । ए॒षा वै दे॑वमनु॒ष्याणा॑ शा॒न्ता दिक् । तामे॒वैन॒दनूद्वा॑सयति॒ शान्त्यै । वर्त्म॑ करोति । य॒ज्ञस्य॒ सन्त॑त्यै । निष्ट॑पति । उपै॒व तथ्स्तृ॑णाति । च॒तुरुन्न॑यति । चतु॑ष्पाद प॒शवः॑ ।। 20 ।। 2.1.3.6 प॒शूने॒वाव॑रुन्धे । सर्वान्पू॒र्णानुन्न॑यति । सर्वे॒ हि पुण्या॑ रा॒द्धाः । अ॒नूच॒ उन्न॑यति । प्र॒जाया॑ अनूचीन॒त्वाय॑ । अ॒नूच्ये॒वास्य॑ प्र॒जाऽर्धु॑का भवति । संमृ॑शति॒ व्यावृ॑त्त्यै । नाहोष्य॒न्नुप॑ सादयेत् । यदहोष्यन्नुपसा॒दयेत् । यथा॒ऽन्यस्मा॑ उपनि॒धाय॑ ।। 21 ।। 2.1.3.7 अ॒न्यस्मै प्र॒यच्छ॑ति । ता॒दृगे॒व तत् । आऽस्मै॑ वृश्च्येत । यदे॒व गाऱ्ह॑पत्येऽधि॒ श्रय॑ति । तेन॒ गाऱ्ह॑पत्यं प्रीणाति । अ॒ग्निर॑बिभेत् । आहु॑तयो॒ माऽत्येष्य॒न्तीति॑ । स ए॒ता स॒मिध॑मपश्यत् । तामाऽध॑त्त । ततो॒ वा अ॒ग्नावाहु॑तयोऽध्रियन्त ।। 22 ।। 2.1.3.8 यदे॑न स॒मय॑च्छत् । तथ्स॒मिध॑स्समि॒त्त्वम् । स॒मिध॒मा द॑धाति । समे॒वैन॑य्यँच्छति । आहु॑तीना॒न्धृत्यै । अथो॑ अग्निहो॒त्रमे॒वेध्मव॑त्करोति । आहु॑तीनां॒ प्रति॑ष्ठित्यै । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यदेका॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होति॑ । अथ॒ कस्या॑ स॒मिधि॑ द्वि॒तीया॒माहु॑तिञ्जुहो॒तीति॑ ।। 23 ।। 2.1.3.9 यद्द्वे स॒मिधा॑वा द॒ध्यात् । भ्रातृ॑व्यमस्मै जनयेत् । एका॑ स॒मिध॑मा॒धाय॑ । यजु॑षा॒ऽन्यामाहु॑तिञ्जुहोति । उ॒भे ए॒व स॒मिद्व॑ती॒ आहु॑ती जुहोति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । आदीप्तायाञ्जुहोति । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् । अथो॒ यथाऽति॑थि॒ञ्ज्योति॑ष्कृ॒त्वा प॑रि॒ वेवेष्टि । ता॒दृगे॒व तत् । च॒तुरुन्न॑यति । द्विर्जु॑होति । तस्माद्द्वि॒पाच्चतु॑ष्पादमत्ति । अथो द्वि॒पद्ये॒व चतु॑ष्पद॒ प्रति॑ ष्ठापयति ।। 24 ।। 2.1.4.0 अ॒भ॒व॒न्भ॒व॒ति॒ जु॒हु॒यान्न॑यति मार्ष्टि॒ द्विप्राश्ञा॑ति प्राजाप॒त्यमाचा॑मतीन्धेऽकः ।। 4 ।। 2.1.4.1 उ॒त्त॒राव॑तीँ॒व्वै दे॒वा आहु॑ति॒मजु॑हवुः । अवा॑ची॒मसु॑राः । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः । यङ्का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॑ । कनी॑य॒स्तस्य॒ पूर्व॑ हु॒त्वा । उत्त॑रं॒ भूयो॑ जुहुयात् । ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः । तान्दे॒वा अ॑जुहवुः । तत॒स्ते॑ऽभवन्न् ।। 25 ।। 2.1.4.2 यस्यै॒वञ्जुह्व॑ति । भव॑त्ये॒व । यङ्का॒मये॑त॒ पापी॑यान्थ्स्या॒दिति॑ । भूय॒स्तस्य॒ पूर्व॑ हु॒त्वा । उत्त॑र॒ङ्कनी॑यो जुहुयात् । ए॒षा वा अवा॒च्याहु॑तिः । तामसु॑रा अजुहवुः । तत॒स्ते परा॑ऽभवन्न् । यस्यै॒वञ्जुह्व॑ति । परै॒व भ॑वति ।। 26 ।। 2.1.4.3 हु॒त्वोप॑ सादय॒त्यजा॑मित्वाय । अथो॒ व्यावृ॑त्त्यै । गाऱ्ह॑पत्यं॒ प्रतीख्षते । अन॑नुध्यायिनमे॒वैन॑ङ्करोति । अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति । तय्यँ ऋ॒च्छेत् । य॒ज्ञ॒स्था॒णुमृ॑च्छेत् । ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुः । यत्पूर्वाऽऽहु॑तिः । ताय्यँदुत्त॑रया॒ऽभि जु॑हु॒यात् ।। 27 ।। 2.1.4.4 य॒ज्ञ॒स्था॒णुमृ॑च्छेत् । अ॒ति॒हाय॒ पूर्वा॒माहु॑तिञ्जुहोति । य॒ज्ञ॒स्था॒णुमे॒व परि॑ वृणक्ति । अथो॒ भ्रातृ॑व्यमे॒वाप्त्वाऽति॑ क्रामति । अ॒वा॒चीन॑ सा॒यमुप॑मार्ष्टि । रेत॑ ए॒व तद्द॑धाति । ऊ॒र्ध्वं प्रा॒तः । प्र ज॑नयत्ये॒व तत् । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । च॒तुरुन्न॑यति ।। 28 ।। 2.1.4.5 द्विर्जु॑होति । अथ॒ क्व॑ द्वे आहु॑ती भवत॒ इति॑ । अ॒ग्नौ वैश्वान॒र इति॑ ब्रूयात् । ए॒ष वा अ॒ग्निर्वैश्वान॒रः । यद्ब्राह्म॒णः । हु॒त्वा द्वि प्राश्ञा॑ति । अ॒ग्नावे॒व वैश्वान॒रे द्वे आहु॑ती जुहोति । द्विर्जु॒होति॑ । द्विर्निमार्ष्टि । द्वि प्राश्ञा॑ति ।। 29 ।। 2.1.4.6 षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कि॒न्दे॒व॒त्य॑मग्निहो॒त्रमिति॑ । वै॒श्व॒दे॒वमिति॑ ब्रूयात् । यद्यजु॑षा जु॒होति॑ । तदैन्द्रा॒ग्नम् । यत्तू॒ष्णीम् । तत्प्रा॑जाप॒त्यम् ।। 30 ।। 2.1.4.7 यन्नि॒मार्ष्टि॑ । तदोष॑धीनाम् । यद्द्वि॒तीयम् । तत्पि॑तृ॒णाम् । यत्प्राश्ञा॑ति । तद्गर्भा॑णाम् । तस्मा॒द्गर्भा॒ अन॑श्ञन्तो वर्धन्ते । यदा॒चाम॑ति । तन्म॑नु॒ष्या॑णाम् । उद॑ङ्पर्या॒वृत्याचा॑मति ।। 31 ।। 2.1.4.8 आ॒त्मनो॑ गोपी॒थाय॑ । निर्णे॑नेक्ति॒ शुद्ध्यै । निष्ट॑पति स्व॒गाकृ॑त्यै । उद्दि॑शति । स॒प्त॒र्॒षीने॒व प्री॑णाति । द॒ख्षि॒णा प॒र्याव॑र्तते । स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते । तस्मा॒द्दख्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः । अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते । हु॒त्वोप॒ समि॑न्धे ।। 32 ।। 2.1.4.9 ब्र॒ह्म॒व॒र्च॒सस्य॒ समि॑द्ध्यै । न ब॒र्॒हिरनु॒ प्र ह॑रेत् । अस॑स्थितो॒ वा ए॒ष य॒ज्ञः । यद॑ग्निहो॒त्रम् । यद॑नु प्र॒हरेत् । य॒ज्ञव्विँच्छि॑न्द्यात् । तस्मा॒न्नानु॑ प्र॒हृत्यम् । य॒ज्ञस्य॒ सन्त॑त्यै । अ॒पो नि न॑यति । अ॒व॒भृ॒थस्यै॒व रू॒पम॑कः ।। 33 ।। 2.1.5.0 ब॒र्॒हि प्रा॒तऱ्हु॒ताद्या॑य जायते रुन्धेऽसा॒मा क॑रोत्ये॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॑ वषट्का॒रश्च॑ प्रात॒र्यावा॑णो॒ वज्र॒स्त्रीणि॑ च ।। 5 ।। 2.1.5.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः । किंप्रा॑यणमग्निहो॒त्रमिति॑ । व॒थ्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम् । अ॒ग्नि॒हो॒त्रय्यँ॒ज्ञानाम् । तस्य॑ पृथि॒वी सदः॑ । अ॒न्तरि॑क्ष॒माग्नीद्ध्रम् । द्यौऱ्ह॑वि॒र्धानम् । दि॒व्या आप॒ प्रोख्ष॑णयः । ओष॑धयो ब॒र्॒हिः ।। 34 ।। 2.1.5.2 वन॒स्पत॑य इ॒ध्मः । दिश॑ परि॒धयः॑ । आ॒दि॒त्यो यूपः॑ । यज॑मान प॒शुः । स॒मु॒द्रो॑ऽवभृ॒थः । स॒व्वँ॒थ्स॒रस्स्व॑गाका॒रः । तस्मा॒दाहि॑ताग्ने॒स्सर्व॑मे॒व ब॑ऱ्हि॒ष्य॑न्द॒त्तं भ॑वति । यथ्सा॒यञ्जु॒होति॑ । रात्रि॑मे॒व तेन॑ दख्षि॒ण्याङ्कुरुते । यत्प्रा॒तः ।। 35 ।। 2.1.5.3 अह॑रे॒व तेन॑ दख्षि॒ण्य॑ङ्कुरुते । यत्ततो॒ ददा॑ति । सा दख्षि॑णा । याव॑न्तो॒ वै दे॒वा अहु॑त॒मादन्न्॑ । ते परा॑ऽभवन्न् । त ए॒तद॑ग्निहो॒त्र सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः । तस्मा॑दाहुः । अ॒ग्नि॒हो॒त्रव्वैँ दे॒वा गृ॒हाणा॒न्निष्कृ॑तिमपश्य॒न्निति॑ । यथ्सा॒यञ्जु॒होति॑ । रात्रि॑या ए॒व तद्धु॒ताद्या॑य ।। 36 ।। 2.1.5.4 यज॑मान॒स्याप॑राभावाय । यत्प्रा॒तः । अह्न॑ ए॒व तद्धु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय । यत्ततो॒ऽश़्ञाति॑ । हु॒तमे॒व तत् । द्वयो॒ पय॑सा जुहुयात्प॒शुका॑मस्य । ए॒तद्वा अ॑ग्निहो॒त्रं मि॑थु॒नम् । य ए॒वव्वेँद॑ । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।। 37 ।। 2.1.5.5 इ॒मामे॒व पूर्व॑या दु॒हे । अ॒मूमुत्त॑रया । अ॒धि॒श्रित्योत्त॑र॒मा न॑यति । योना॑वे॒व तद्रेत॑स्सिञ्चति प्र॒जन॑ने । आज्ये॑न जुहुया॒त्तेज॑स्कामस्य । तेजो॒ वा आज्यम् । ते॒ज॒स्व्ये॑व भ॑वति । पय॑सा प॒शुका॑मस्य । ए॒तद्वै प॑शू॒ना रू॒पम् । रू॒पेणै॒वास्मै॑ प॒शूनव॑रुन्धे ।। 38 ।। 2.1.5.6 प॒शु॒माने॒व भ॑वति । द॒ध्नेन्द्रि॒यका॑मस्य । इ॒न्द्रि॒यव्वैँ दधि॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति । य॒वा॒ग्वा ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः । भा॒ग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑ रुन्धे । ग्रा॒म्ये॑व भ॑वति । अय॑ज्ञो॒ वा ए॒षः । यो॑ऽसा॒मा ।। 39 ।। 2.1.5.7 च॒तुरुन्न॑यति । चतु॑रख्षर रथन्त॒रम् । र॒थ॒न्त॒रस्यै॒ष वर्णः॑ । उ॒परी॑व हरति । अ॒न्तरि॑ख्षव्वाँमदे॒व्यम् । वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ । द्विर्जु॑होति । द्व्य॑ख्षरं बृ॒हत् । बृ॒ह॒त ए॒ष वर्णः॑ । अ॒ग्नि॒हो॒त्रमे॒व तथ्साम॑न्वत्करोति ।। 40 ।। 2.1.5.8 यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॒ वेद॑ । उपै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तारम् । उ॒न्नीयोप॑ सादयति । पृ॒थि॒वीमे॒व प्री॑णाति । हो॒ष्यन्नुप॑सादयति । अ॒न्तरि॑ख्षमे॒व प्री॑णाति । हु॒त्वोप॑ सादयति । दिव॑मे॒व प्री॑णाति । ए॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदः॑ ।। 41 ।। 2.1.5.9 य ए॒वव्वेँद॑ । उपै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तारम् । यो वा अ॑ग्निहो॒त्रस्याश्रा॑वितं प्र॒त्याश्रा॑वित॒॒ होता॑रं ब्र॒ह्माण॑व्वँषट्का॒रव्वेँद॑ । तस्य॒ त्वे॑व हु॒तम् । प्रा॒णो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम् । अ॒पा॒न प्र॒त्याश्रा॑वितम् । मनो॒ होता । चख्षु॑र्ब्र॒ह्मा । नि॒मे॒षो व॑षट्का॒रः ।। 42 ।। 2.1.5.10 य ए॒वव्वेँद॑ । तस्य॒ त्वे॑व हु॒तम् । सा॒य॒य्याँवा॑नश्च॒ वै दे॒वा प्रा॑त॒र्यावा॑णश्चाग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति । तान् यन्न त॒र्पयेत् । प्र॒जयाऽस्य प॒शुभि॒र्वि ति॑ष्ठेरन्न् । यत्त॒र्पयेत् । तृ॒प्ता ए॑नं प्र॒जया॑ प॒शुभि॑स्तर्पयेयुः । स॒जूर्दे॒वैस्सा॒यय्याँव॑भि॒रिति॑ सा॒य संमृ॑शति । स॒जूर्दे॒वै प्रा॒तर्याव॑भि॒रिति॑ प्रा॒तः । ये चै॒व दे॒वास्सा॑य॒य्याँवा॑नो॒ ये च॑ प्रात॒र्यावा॑णः ।। 43 ।। 2.1.5.11 ताने॒वोभया॑ स्तर्पयति । त ए॑नन्तृ॒प्ता प्र॒जया॑ प॒शुभि॑स्तर्पयन्ति । अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः । अ॒ग्नि॒हो॒त्र ए॒वाह सा॒यंप्रा॑त॒र्वज्रं॒ भ्रातृ॑व्येभ्य॒ प्र ह॑रामि । तस्मा॒न्मत्पापी॑यासो॒ भ्रातृ॑व्या॒ इति॑ । च॒तुरुन्न॑यति । द्विर्जु॑होति । स॒मिथ्स॑प्त॒मी । स॒प्तप॑दा॒ शक्व॑री । शा॒क्व॒रो वज्रः॑ । अ॒ग्नि॒हो॒त्र ए॒व तथ्सा॒यंप्रा॑त॒र्वज्र॒य्यँज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति । भव॑त्या॒त्मना । पराऽस्य॒ भ्रातृ॑व्यो भवति ।। 44 ।। 2.1.6.0 त॒नुवै॑ वा॒युर॒ग्निर्भ॑व॒त्यवि॑त्वा भव॒त्येक॑ञ्च ।। 6 ।। 2.1.6.1 प्र॒जाप॑तिरकामयतात्म॒न्वन्मे॑ जाये॒तेति॑ । सो॑ऽजुहोत् । तस्मात्म॒न्वद॑जायत । अ॒ग्निर्वा॒युरा॑दि॒त्यः । तेऽब्रुवन्न् । प्र॒जाप॑तिरहौषीदात्म॒न्वन्मे॑ जाये॒तेति॑ । तस्य॑ व॒यम॑जनिष्महि । जाय॑तान्न आत्म॒न्वदिति॒ ते॑ऽजुहवुः । प्रा॒णाना॑म॒ग्निः । त॒नुवै॑ वा॒युः ।। 45 ।। 2.1.6.2 चख्षु॑ष आदि॒त्यः । तेषा॑ हु॒ताद॑जायत॒ गौरे॒व । तस्यै॒ पय॑सि॒ व्याय॑च्छन्त । मम॑ हु॒ताद॑जनि॒ ममेति॑ । ते प्र॒जाप॑तिं प्र॒श्ञमा॑यन्न् । स आ॑दि॒त्योऽग्निम॑ब्रवीत् । य॒त॒रो नौ॒ जयात् । तन्नौ॑ स॒हास॒दिति॑ । कस्यै कोऽहौ॑षी॒दिति॑ प्र॒जाप॑तिरब्रवी॒त्कस्यै क॒ इति॑ । प्रा॒णाना॑म॒हमित्य॒ग्निः ।। 46 ।। 2.1.6.3 त॒नुवा॑ अ॒हमिति॑ वा॒युः । चख्षु॑षो॒ऽहमित्या॑दि॒त्यः । य ए॒व प्रा॒णाना॒महौ॑षीत् । तस्य॑ हु॒ताद॑ज॒नीति॑ । अ॒ग्नेऱ्हु॒ताद॑ज॒नीति॑ । तद॑ग्निहो॒त्रस्याग्निहोत्र॒त्वम् । गौर्वा अ॑ग्निहो॒त्रम् । य ए॒वव्वेँद॒ गौर॑ग्निहो॒त्रमिति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वाग्नि सम॑र्धयति । अव्य॑र्धुक प्राणापा॒नाभ्यां भवति ।। 47 ।। 2.1.6.4 य ए॒वव्वेँद॑ । तौ वा॒युर॑ब्रवीत् । अनु॒ मा भ॑जत॒मिति॑ । यदे॒व गाऱ्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रवान्॑ । तेन॒ त्वां प्री॑णा॒नित्य॑ब्रूताम् । तस्मा॒द्यद्गाऱ्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रव॑ति । वा॒युमे॒व तेन॑ प्रीणाति । प्र॒जाप॑तिर्दे॒वतास्सृ॒जमा॑नः । अ॒ग्निमे॒व दे॒वता॑नां प्रथ॒मम॑सृजत । सोऽन्यदा॑ल॒म्भ्य॑मवि॑त्वा ।। 48 ।। 2.1.6.5 प्र॒जाप॑तिम॒भि प॒र्याव॑र्तत । स मृ॒त्योर॑बिभेत् । सो॑ऽमुमा॑दि॒त्यमा॒त्मनो॒ निर॑मिमीत । त हु॒त्वा पराङ्प॒र्याव॑र्तत । ततो॒ वै स मृ॒त्युमपा॑जयत् । अप॑ मृ॒त्युञ्ज॑यति । य ए॒वव्वेँद॑ । तस्मा॒द्यस्यै॒वव्विँ॒दुषः॑ । उ॒तैका॒हमु॒त द्व्य॒हन्न जुह्व॑ति । हु॒तमे॒वास्य॑ भवति । अ॒सौ ह्या॑दि॒त्योऽग्निहो॒त्रम् ।। 49 ।। 2.1.7.0 उद्वा॑सित स॒प्त च॑ ।। 7 ।। 2.1.7.1 रौ॒द्रङ्गवि॑ । वा॒य॒व्य॑मुप॑सृष्टम् । आ॒श्वि॒नन्दु॒ह्यमा॑नम् । सौ॒म्यन्दु॒ग्धम् । वा॒रु॒णमधि॑ श्रितम् । वै॒श्व॒दे॒वा भि॒न्दवः॑ । पौ॒ष्णमुद॑न्तम् । सा॒र॒स्व॒तव्विँ॒ष्यन्द॑मानम् । मै॒त्र शरः॑ । धा॒तुरुद्वा॑सितम् । बृह॒स्पते॒रुन्नी॑तम् । स॒वि॒तु प्र क्रान्तम् । द्या॒वा॒पृ॒थि॒व्य॑ ह्रि॒यमा॑णम् । ऐ॒न्द्रा॒ग्नमुप॑सन्नम् । अ॒ग्ने पूर्वाऽऽहु॑तिः । प्र॒जाप॑ते॒रुत्त॑रा । ऐ॒न्द्र हु॒तम् ।। 50 ।। 2.1.8.0 बुभू॑षेद्ध्रि॒यमा॑णञ्जायते॒ द्वे च॑ ।। 8 ।। 2.1.8.1 द॒ख्षि॒ण॒त उप॑ सृजति । पि॒तृ॒लो॒कमे॒व तेन॑ जयति । प्राची॒मा व॑र्तयति । दे॒व॒लो॒कमे॒व तेन॑ जयति । उदी॑चीमा॒वृत्य॑ दोग्धि । म॒नु॒ष्य॒लो॒कमे॒व तेन॑ जयति । पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑ । यो वा॑ ग॒तश्री॒स्स्यात् । अप॑रौ दुह्यात्कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑ । यो वा॒ बुभू॑षेत् ।। 51 ।। 2.1.8.2 न सं मृ॑शति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै । वा॒य॒व्य॑व्वाँ ए॒तदुप॑सृष्टम् । आ॒श्वि॒नन्दु॒ह्यमा॑नम् । मै॒त्रन्दु॒ग्धम् । अ॒र्य॒म्ण उ॑द्वा॒स्यमा॑नम् । त्वा॒ष्ट्रमु॑न्नी॒यमा॑नम् । बृह॒स्पते॒रुन्नी॑तम् । स॒वि॒तु प्रक्रान्तम् । द्या॒वा॒पृ॒थि॒व्य॑ ह्रि॒यमा॑णम् ।। 52 ।। 2.1.8.3 ऐ॒न्द्रा॒ग्नमुप॑ सादितम् । सर्वाभ्यो॒ वा ए॒ष दे॒वताभ्यो जुहोति । योऽग्निहो॒त्रञ्जु॒होति॑ । यथा॒ खलु॒ वै धे॒नुन्ती॒र्थे त॒र्पय॑ति । ए॒वम॑ग्निहो॒त्री यज॑मानन्तर्पयति । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । प्र सु॑व॒र्गल्लोँ॒कञ्जा॑नाति । पश्य॑ति पु॒त्रम् । पश्य॑ति॒ पौत्त्रम् । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । यस्यै॒वव्विँ॒दुषोऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑ चैनदे॒वव्वेँद॑ ।। 53 ।। 2.1.9.0 तू॒ष्णीञ्जा॑यते॒ यज॑मानः ।। 9 ।। 2.1.9.1 त्रयो॒ वै प्रै॑यमे॒धा आ॑सन्न् । तेषा॒न्त्रिरेकोऽग्निहो॒त्रम॑जुहोत् । द्विरेकः॑ । स॒कृदेकः॑ । तेषा॒य्यँस्त्रिरजु॑होत् । स ऋ॒चाऽजु॑होत् । यो द्विः । स यजु॑षा । यस्स॒कृत् । स तू॒ष्णीम् ।। 54 ।। 2.1.9.2 यश्च॒ यजु॒षाऽजु॑हो॒द्यश्च॑ तू॒ष्णीम् । तावु॒भावार्ध्नुताम् । तस्मा॒द्यजु॒षाऽऽहु॑ति॒ पूर्वा॑ होत॒व्या । तू॒ष्णीमुत्त॑रा । उ॒भे ए॒वर्धी अव॑रुन्धे । अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहेति॑ सा॒यञ्जु॑होति । रेत॑ ए॒व तद्द॑धाति । सूर्यो॒ ज्योति॒र्ज्योति॒- स्सूर्य॒स्स्वाहेति॑ प्रा॒तः । रेत॑ ए॒व हि॒तं प्र ज॑नयति । रेतो॒ वा ए॒तस्य॑ हि॒तन्न प्र जा॑यते ।। 55 ।। 2.1.9.3 यस्याग्निहो॒त्रमहु॑त॒॒ सूर्यो॒ऽभ्यु॑देति॑ । यद्यन्ते॒ स्यात् । उ॒न्नीय॒ प्राङु॒दाद्र॑वेत् । स उ॑प॒साद्यातमि॑तोरासीत । स य॒दा ताम्येत् । अथ॒ भूस्स्वाहेति॑ जुहुयात् । प्र॒जाप॑ति॒र्वै भू॒तः । तमे॒वोपा॑सरत् । स ए॒वैन॒न्तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ।। 56 ।। 2.1.10.0 आ॒दि॒त्यास्तर्ह्य॒ग्निरिन्द्र॑ ए॒वास्याग्निहो॒त्र हु॒तं भ॑वति दे॒वेषु॑ च॒त्वारि॑ च ।। 10 ।। (यद॒ग्निन्निहि॑त प्रथ॒म सर्व॑ ए॒व नि॑त॒रामङ्गा॑रा॒श्शरोऽङ्गा॑रा॒ ब्रह्म॒ वसु॑ष्व॒ष्टौ ।। ) 2.1.10.1 यद॒ग्निमु॒द्धर॑ति । वस॑व॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । वसु॑ष्वे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । निहि॑तो धूपा॒यञ्छे॑ते । रु॒द्रास्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । रु॒द्रे॒ष्वे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । प्र॒थ॒ममि॒ध्मम॒र्चिरा ल॑भते । आ॒दि॒त्यास्तर्ह्य॒ग्निः ।। 57 ।। 2.1.10.2 तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । आ॒दि॒त्येष्वे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । सर्व॑ ए॒व स॑र्व॒श इ॒ध्म आदीप्तो भवति । विश्वे॑ दे॒वास्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । विश्वेष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्र हु॒तं भ॑वति । नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भवति । इन्द्र॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । इन्द्र॑ ए॒वास्याग्निहो॒त्र हु॒तं भ॑वति ।। 58 ।। 2.1.10.3 अङ्गा॑रा भवन्ति । तेभ्योऽङ्गा॑रेभ्यो॒ऽर्चिरुदे॑ति । प्र॒जाप॑ति॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । प्र॒जाप॑तावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । शरोऽङ्गा॑रा॒ अध्यू॑हन्ते । ब्रह्म॒ तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । ब्रह्म॑न्ने॒वास्याग्निहो॒त्र हु॒तं भ॑वति । वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेषु॑ । इन्द्रे प्र॒जाप॑तौ॒ ब्रह्मन्न्॑ । अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तं भ॑वति । यस्यै॒वव्विँ॒दुषोऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑ चैनदे॒वव्वेँद॑ ।। 59 ।। 2.1.11.0 अ॒स्ति॒ द्वे च॑ ।। 11 ।। 2.1.11.1 ऋ॒तन्त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मीति॑ सा॒यं परि॑षिञ्चति । स॒त्यन्त्व॒र्तेन॒ परि॑षिञ्चा॒मीति॑ प्रा॒तः । अ॒ग्निर्वा ऋ॒तम् । अ॒सावा॑दि॒त्यस्स॒त्यम् । अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒यं परि॑षिञ्चति । अ॒ग्निना॑ऽऽदि॒त्यं प्रा॒तस्सः । याव॑दहोरा॒त्रे भव॑तः । ताव॑दस्य लो॒कस्य॑ । नार्ति॒र्न रिष्टिः॑ । नान्तो॒ न प॑र्य॒न्तोऽस्ति । यस्यै॒वव्विँ॒दुषोऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑चैनदे॒वव्वेँद॑ ।। 60 ।। 2.2.0.0 प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॑ प्र॒जाप॑तिरकामयत दर्‌शपूर्णमा॒सौ सृ॑जे॒येति॑ प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॒ स तप॒स्स त्रि॒वृतं॑ प्र॒जाप॑तिरकामयत॒ दश॑होतारं॒ तेन॑ दश॒धाऽऽत्मान॑न्दे॒वा वै वरु॑ण॒मन्तो॒ वै प्र॒जाप॑ति॒स्तास्सृ॒ष्टा- स्सम॑श्लिष्यन्दे॒वा वै चतु॑र्‌होतृभिरि॒दव्वाँ अग्रे प्र॒जाप॑ति॒रिन्द्रं॑ प्र॒जाप॑तिरकामयत ब॒होर्भूया॒नेका॑दश ।। 11 ।। प्र॒जाप॑ति॒स्तद्ग्रह॑स्य प्र॒जाप॑तिरकामयता॒नयै॒वैन॒त्तस्य॒ वा इ॒यङ्कॢप्ति॒स्तस्मात्तेपा॒नाज्ज्योति॒र्यद॒स्मिन्ना॑दि॒त्ये स षड्ढो॑तुस्स॒प्तहो॑तार॒न्त्रिस॑प्ततिः ।। 73 ।। प्र॒जाप॑तिरकामयत नि॒दान॑वान्भवति ।। ।। हरिः॑ ओम् ।। द्वितीय प्रपाठकस्समाप्तः 2.2.0.0 तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठक प्रारम्भः । हरिः ओम् ।। 2.2.1.0 दश॑होता॒ सृष्ट्या॑ ऋ॒च्छेद्व्याच॑प्टे रुन्ध ए॒व त॑नुते॒ निर्‌ऋ॑तिगृहीतं॒ पञ्च॑ च ।। 1 ।। 2.2.1.1 प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॑ । स ए॒तन्दश॑होतारमपश्यत् । तं मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे॑ऽजुहोत् । ततो॒ वै स प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टा अपाक्रामन्न् । ता ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । य का॒मये॑त॒ प्रजा॑ये॒येति॑ । स दश॑होतारं॒ मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे जु॑हुयात् । प्र॒जाप॑ति॒र्वै दश॑होता ।। 1 ।। 2.2.1.2 प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते । मन॑सा जुहोति । मन॑ इव॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । पू॒र्णया॑ जुहोति । पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । न्यू॑नया जुहोति । न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत । प्र॒जाना॒॒ सृष्ट्यै ।। 2 ।। 2.2.1.3 द॒र्भ॒स्त॒म्बे जु॑होति । ए॒तस्मा॒द्वै योने प्र॒जाप॑ति प्र॒जा अ॑सृजत । यस्मा॑दे॒व योने प्र॒जाप॑ति प्र॒जा असृ॑जत । तस्मा॑दे॒व योने॒ प्रजा॑यते । ब्रा॒ह्म॒णो द॑ख्षिण॒त उपास्ते । ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा । उ॒प॒द्र॒ष्टु॒मत्ये॒व प्रजा॑यते । ग्रहो॑ भवति । प्र॒जाना॑ सृ॒ष्टाना॒न्धृत्यै । यं ब्राह्म॒णव्विँ॒द्याव्विँ॒द्वास॒य्यँशो॒ नर्च्छेत् ।। 3 ।। 2.2.1.4 सोऽर॑ण्यं प॒रेत्य॑ । द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॑ । ब्रा॒ह्म॒णन्द॑ख्षिण॒तो नि॒षाद्य॑ । चतु॑र्होतॄ॒न्व्याच॑ख्षीत । ए॒तद्वै दे॒वानां पर॒मङ्गुह्यं॒ ब्रह्म॑ । यच्चतु॑र्‌होतारः । तदे॒व प्र॑का॒शङ्ग॑मयति । तदे॑नं प्रका॒शङ्ग॒तम् । प्र॒का॒शं प्र॒जानाङ्गमयति । द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॒ व्याच॑ष्टे ।। 4 ।। 2.2.1.5 अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः । अ॒ग्नि॒वत्ये॒व व्याच॑ष्टे । ब्रा॒ह्म॒णो द॑ख्षिण॒त उपास्ते । ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा । उ॒प॒द्र॒ष्टु॒मत्ये॒वैन॒य्यँश॑ ऋच्छति । ई॒श्व॒रन्तय्यँशोर्तो॒रित्या॑हुः । यस्यान्ते व्या॒चष्ट॒ इति॑ । वर॒स्तस्मै॒ देयः॑ । यदे॒वैन॒न्तत्रो॑प॒नम॑ति । तदे॒वाव॑ रुन्धे ।। 5 ।। 2.2.1.6 अ॒ग्निमा॒दधा॑नो॒ दश॑होत्रा॒ऽरणि॒मव॑ दध्यात् । प्रजा॑तमे॒वैन॒मा ध॑त्ते । तेनै॒वोद्द्रुत्याग्निहो॒त्रञ्जु॑हुयात् । प्रजा॑तमे॒वैन॑ज्जुहोति । ह॒विर्नि॑र्व॒फ्स्यन्दश॑होतार॒व्य्याँच॑ख्षीत । प्रजा॑तमे॒वैन॒न्निर्व॑पति । सा॒मि॒धे॒नीर॑नुव॒क्ष्यन्दश॑होतार॒- व्व्याँच॑क्षीत । सा॒मि॒धे॒नीरे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते । अथो॑ य॒ज्ञो वै दश॑होता । य॒ज्ञमे॒व त॑नुते ।। 6 ।। 2.2.1.7 अ॒भि॒चर॒न्दश॑होतारञ्जुहुयात् । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । सप्रा॑णमे॒वैन॑म॒भि च॑रति । ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् । याव॑त्प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तद॒भि च॑रति । स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा । ए॒तद्वा अ॒स्यै निर्‌ऋ॑तिगृहीतम् । निर्‌ऋ॑तिगृहीत ए॒वैन॒न्निर्‌ऋ॑त्या ग्राहयति । यद्वा॒च क्रू॒रम् । तेन॒ वष॑ट्करोति । वा॒च ए॒वैन॑ङ्क्रू॒रेण॒ प्र वृ॑श्चति । ता॒जगार्ति॒मार्च्छ॑ति ।। 7 ।। 2.2.2.0 त॒नु॒त॒ आ॒लभ॑मानोऽगृह्णादसृजताभरञ्जायेर॒न्थ्षट्च॑ ।। 2 ।। 2.2.2.1 प्र॒जाप॑तिरकामयत दर्‌शपूर्णमा॒सौ सृ॑जे॒येति॑ । स ए॒तञ्चतु॑र्‌होतारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स द॑र्‌शपूर्णमा॒साव॑सृजत । ताव॑स्माथ्सृ॒ष्टावपाक्रामताम् । तौ ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । द॒र्श॒पू॒र्ण॒मा॒सावा॒लभ॑मानः । चतु॑र्‌होतारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । द॒र्श॒पू॒र्ण॒मा॒सावे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते ।। 8 ।। 2.2.2.2 ग्रहो॑ भवति । द॒र्‌श॒पू॒र्ण॒मा॒सयोस्सृ॒ष्टयो॒र्धृत्यै । सो॑ऽकामयत चातुर्मा॒स्यानि॑ सृजे॒येति॑ । स ए॒तं पञ्च॑होतारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स चा॑तुर्मा॒स्यान्य॑सृजत । तान्य॑स्माथ्सृ॒ष्टान्यपाक्रामन्न् । तानि॒ ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । चा॒तु॒र्मा॒स्यान्या॒लभ॑मानः ।। 9 ।। 2.2.2.3 पञ्च॑होतारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । चा॒तु॒र्मा॒स्यान्ये॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते । ग्रहो॑ भवति । चा॒तु॒र्मा॒स्याना॑ सृ॒ष्टाना॒न्धृत्यै । सो॑ऽकामयत पशुब॒न्ध सृ॑जे॒येति॑ । स ए॒त षड्ढो॑तारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स प॑शुब॒न्धम॑सृजत । सोस्माथ्सृ॒ष्टोऽपाक्रामत् । तङ्ग्रहे॑णागृह्णात् ।। 10 ।। 2.2.2.4 तद्ग्रह॑स्य ग्रह॒त्वम् । प॒शु॒ब॒न्धेन॑ य॒ख्ष्यमा॑णः । षड्ढो॑तारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । प॒शु॒ब॒न्धमे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते । ग्रहो॑ भवति । प॒शु॒ब॒न्धस्य॑ सृ॒ष्टस्य॒ धृत्यै । सो॑ऽकामयत सौ॒म्यम॑ध्व॒र सृ॑जे॒येति॑ । स ए॒त स॒प्तहो॑तारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स सौ॒म्यम॑ध्व॒रम॑सृजत ।। 11 ।। 2.2.2.5 सोऽस्माथ्सृ॒ष्टोऽपाक्रामत् । तङ्ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । दी॒ख्षि॒ष्यमा॑णः । स॒प्तहो॑तारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । सौ॒म्यमे॒वाध्व॒र सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते । ग्रहो॑ भवति । सौ॒म्यस्याध्व॒रस्य॑ सृ॒ष्टस्य॒ धृत्यै । दे॒वेभ्यो॒ वै य॒ज्ञो न प्राभ॑वत् । तमे॑ताव॒च्छस्सम॑भरन्न् ।। 12 ।। 2.2.2.6 यथ्सं॑भा॒राः । ततो॒ वै तेभ्यो॑ य॒ज्ञ प्राभ॑वत् । यथ्सं॑भा॒रा भव॑न्ति । य॒ज्ञस्य॒ प्रभूत्यै । आ॒ति॒थ्यमा॒साद्य॒ व्याच॑ष्टे । य॒ज्ञ॒मु॒खव्वाँ आ॑ति॒थ्यम् । मु॒ख॒त ए॒व य॒ज्ञ सं॒भृत्य॒ प्र त॑नुते । अय॑ज्ञो॒ वा ए॒षः । यो॑ऽप॒त्नीकः॑ । न प्र॒जा प्रजा॑येरन्न् । पत्नी॒र्व्याच॑ष्टे । य॒ज्ञमे॒वाकः॑ । प्र॒जानां प्र॒जन॑नाय । उ॒प॒सथ्सु॒ व्याच॑ष्टे । ए॒तद्वै पत्नी॑नामा॒यत॑नम् । स्व ए॒वैना॑ आ॒यत॒नेऽव॑कल्पयति ।। 13 ।। 2.2.3.0 स्या॒दिति॑ सव्वँथ्स॒रो ज॑नयध्व॒मितीत्य॑ब्रवी॒त्पूर्व॒ इत्या॑दि॒त्यानृ॒तव॒ष्षट्च॑ ।। 3 ।। 2.2.3.1 प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । स त्रि॒वृत॒॒ स्तोम॑मसृजत । तं प॑ञ्चद॒शः स्तोमो॑ मध्य॒त उद॑तृणत् । तौ पूर्वप॒ख्षश्चा॑परप॒ख्षश्चा॑भवताम् । पू॒र्व॒प॒ख्षन्दे॒वा अन्वसृ॑ज्यन्त । अ॒प॒र॒प॒ख्षमन्वसु॑राः । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः । यङ्का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॑ ।। 14 ।। 2.2.3.2 तं पूर्वप॒ख्षे या॑जयेत् । वसी॑याने॒व भ॑वति । यङ्का॒मये॑त॒ पापी॑यान्थ्स्या॒दिति॑ । तम॑परप॒ख्षे या॑जयेत् । पापी॑याने॒व भ॑वति । तस्मात्पूर्वप॒ख्षो॑ऽपरप॒ख्षात्क॑रु॒ण्य॑तरः । प्र॒जाप॑ति॒र्वै दश॑होता । चतु॑र्‌होता॒ पञ्च॑होता । षड्ढो॑ता स॒प्तहो॑ता । ऋ॒तव॑स्सव्वँथ्स॒रः ।। 15 ।। 2.2.3.3 प्र॒जा प॒शव॑ इ॒मे लो॒काः । य ए॒वं प्र॒जाप॑तिं ब॒होर्भूया॑स॒व्वेँद॑ । ब॒होरे॒व भूयान्भवति । प्र॒जाप॑तिर्देवासु॒रान॑सृजत । स इन्द्र॒मपि॒ नासृ॑जत । तन्दे॒वा अ॑ब्रुवन्न् । इन्द्र॑न्नो जन॒येति॑ । सोऽब्रवीत् । यथा॒ऽहय्युँ॒ष्मास्तप॒साऽसृ॑ख्षि । ए॒वमिन्द्र॑ञ्जनयध्व॒मिति॑ ।। 16 ।। 2.2.3.4 ते तपो॑ऽतप्यन्त । त आ॒त्मन्निन्द्र॑मपश्यन्न् । तम॑ब्रुवन्न् । जाय॒स्वेति॑ । सोऽब्रवीत् । किं भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑ । ऋ॒तून्थ्स॑वँथ्स॒रम् । प्र॒जा प॒शून् । इ॒माल्लोँ॒कानित्य॑ब्रुवन्न् । तव्वैँ माऽऽहु॑त्या॒ प्र ज॑नय॒तेत्य॑ब्रवीत् ।। 17 ।। 2.2.3.5 तञ्चतु॑र्‌होत्रा॒ प्राज॑नयन्न् । य का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ । स चतु॑र्‌होतारञ्जुहुयात् । प्र॒जाप॑ति॒र्वै चतु॑र्होता । प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते । ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहेति॒ ग्रहे॑ण जुहोति । आऽस्य॑ वी॒रो जा॑यते । वी॒र हि दे॒वा ए॒तयाऽऽहु॑त्या॒ प्राज॑नयन्न् । आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒केऽस्पर्धन्त । व॒यं पूर्वे॑ सुव॒र्गल्लोँ॒कमि॑याम व॒यं पूर्व॒ इति॑ ।। 18 ।। 2.2.3.6 त आ॑दि॒त्या ए॒तं पञ्च॑होतारमपश्यन्न् । तं पु॒रा प्रा॑तरनुवा॒कादाग्नीध्रेऽजुहवुः । ततो॒ वै ते पूर्वे॑ सुव॒र्गल्लोँ॒कमा॑यन्न् । यस्सु॑व॒र्गका॑म॒स्स्यात् । स पञ्च॑होतारं पु॒रा प्रा॑तरनुवा॒कादाग्नीध्रे जुहुयात् । स॒व्वँ॒थ्स॒रो वै पञ्च॑होता । स॒व्वँ॒थ्स॒रस्सु॑व॒र्गो लो॒कः । स॒व्वँ॒थ्स॒र ए॒वर्तुषु॑ प्रति॒ष्ठाय॑ । सु॒व॒र्गल्लोँ॒कमे॑ति । तेऽब्रुव॒न्नङ्गि॑रस आदि॒त्यान् ।। 19 ।। 2.2.3.7 क्व॑ स्थ । क्व॑ वस्स॒द्भ्यो ह॒व्यव्वँ॑ख्ष्याम॒ इति॑ । छन्द॒स्स्वित्य॑ब्रुवन्न् । गा॒य॒त्रि॒यान्त्रि॒ष्टुभि॒ जग॑त्या॒मिति॑ । तस्मा॒च्छन्द॑स्सु स॒द्भ्य आ॑दि॒त्येभ्यः॑ । आ॒ङ्गी॒र॒सी प्र॒जा ह॒व्यव्वँ॑हन्ति । वह॑न्त्यस्मै प्र॒जा ब॒लिम् । ऐन॒मप्र॑तिख्यातङ्गच्छति । य ए॒वव्वेँद॑ । द्वाद॑श॒ मासा॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒॒शः । ए॒तस्मि॒न्वा ए॒ष श्रि॒तः । ए॒तस्मि॒न्प्रति॑ष्ठितः । य ए॒वमे॒त श्रि॒तं प्रति॑ष्ठित॒व्वेँद॑ । प्रत्ये॒व ति॑ष्ठति ।। 20 ।। 2.2.4.0 अ॒न॒न्द॒द्भुव॒ इति॒ व्याह॑र॒द्वेदा॑सी॒द्वेदा॑धत्त॒ प्रजात्यै ।। 4 ।। 2.2.4.1 प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ । स ए॒तन्दश॑होतारमपश्यत् । तेन॑ दश॒धाऽऽत्मान॑व्विँ॒धाय॑ । दश॑होत्राऽतप्यत । तस्य॒ चित्ति॒स्स्रुगासीत् । चि॒त्तमाज्यम् । तस्यै॒ताव॑त्ये॒व वागासीत् । ए॒तावान्॑ यज्ञक्र॒तुः । स चतु॑र्‌होतारमसृजत । सो॑ऽनन्दत् ।। 21 ।। 2.2.4.2 असृ॑ख्षि॒ वा इ॒ममिति॑ । तस्य॒ सामो॑ ह॒विरासीत् । स चतु॑र्‌होत्राऽतप्यत । सो॑ऽताम्यत् । स भूरिति॒ व्याह॑रत् । स भूमि॑मसृजत । अ॒ग्नि॒हो॒त्रन्द॑र्‌शपूर्णमा॒सौ यजू॑षि । स द्वि॒तीय॑मतप्यत । सो॑ऽताम्यत् । स भुव॒ इति॒ व्याह॑रत् ।। 22 ।। 2.2.4.3 सोऽन्तरि॑ख्षमसृजत । चा॒तु॒र्मा॒स्यानि॒ सामा॑नि । स तृ॒तीय॑मतप्यत । सो॑ऽताम्यत् । स सुव॒रिति॒ व्याह॑रत् । स दिव॑मसृजत । अ॒ग्नि॒ष्टो॒ममु॒क्थ्य॑मतिरा॒त्रमृचः॑ । ए॒ता वै व्याहृ॑तय इ॒मे लो॒काः । इ॒मान्खलु॒ वै लो॒काननु॑ प्र॒जा प॒शव॒श्छन्दा॑सि॒ प्राजा॑यन्त । य ए॒वमे॒ता प्र॒जाप॑ते प्रथ॒मा व्याहृ॑ती॒ प्रजा॑ता॒ वेद॑ ।। 23 ।। 2.2.4.4 प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । स पञ्च॑होतारमसृजत । स ह॒विर्नावि॑न्दत । तस्मै॒ सोम॑स्त॒नुवं॒ प्राय॑च्छत् । ए॒तत्ते॑ ह॒विरिति॑ । स पञ्च॑होत्राऽतप्यत । सो॑ऽताम्यत् । स प्र॒त्यङ्ङ॑बाधत । सोऽसु॑रानसृजत । तद॒स्याप्रि॑यमासीत् ।। 24 ।। 2.2.4.5 तद्दु॒र्वर्ण॒॒ हिर॑ण्यमभवत् । तद्दु॒र्वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ । स द्वि॒तीय॑मतप्यत । सो॑ऽताम्यत् । स प्राङ॑बाधत । स दे॒वान॑सृजत । तद॑स्य प्रि॒यमा॑सीत् । तथ्सु॒वर्ण॒॒ हिर॑ण्यमभवत् । तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ । य ए॒व सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वेद॑ ।। 25 ।। 2.2.4.6 सु॒वर्ण॑ आ॒त्मना॑ भवति । दु॒र्वर्णोऽस्य॒ भ्रातृ॑व्यः । तस्माथ्सु॒वर्ण॒॒ हिर॑ण्यं भा॒र्यम् । सु॒वर्ण॑ ए॒व भ॑वति । ऐनं॑ प्रि॒यङ्ग॑च्छति॒ नाप्रि॑यम् । स स॒प्तहो॑तारमसृजत । स स॒प्तहोत्रै॒व सु॑व॒र्गल्लोँ॒कमैत् । त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत । त्र॒य॒स्त्रि॒॒शेन॒ प्रत्य॑तिष्ठत् । ए॒क॒वि॒॒शेन॒ रुच॑मधत्त ।। 26 ।। 2.2.4.7 स॒प्त॒द॒शेन॒ प्राजा॑यत । य ए॒वव्विँ॒द्वान्थ्सोमे॑न॒ यज॑ते । स॒प्तहोत्रै॒व सु॑व॒र्गल्लोँ॒कमे॑ति । त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्यो॒ भ्रातृ॑व्या॒न्प्रणु॑दते । त्र॒य॒स्त्रि॒॒शेन॒ प्रति॑तिष्ठति । ए॒क॒वि॒॒शेन॒ रुच॑न्धत्ते । स॒प्त॒द॒शेन॒ प्र जा॑यते । तस्माथ्सप्तद॒श- स्स्तोमो॒ न नि॒र्॒हृत्यः॑ । प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तिमे॒व म॑ध्य॒तो ध॑त्ते॒ प्रजात्यै ।। 27 ।। 2.2.5.0 व्ली॒ना॒त्यश्व॒मित्या॑हाङ्गीर॒स प्र॑तिग्रही॒त्र इत्या॑ह प्रतिग्रही॒तेत्या॑ह॒ दख्षि॒णेत्या॑ह च॒त्वारि॑ च ।। 5 ।। 2.2.5.1 दे॒वा वै वरु॑णमयाजयन्न् । स यस्यै॑यस्यै दे॒वता॑यै॒ दख्षि॑णा॒मन॑यत् । ताम॑व्लीनात् । तेऽब्रुवन्न् । व्या॒वृत्य॒ प्रति॑ गृह्णाम । तथा॑ नो॒ दख्षि॑णा॒ न व्लेष्य॒तीति॑ । ते व्या॒वृत्य॒ प्रत्य॑गृह्णन्न् । ततो॒ वै तान्दख्षि॑णा॒ नाव्ली॑नात् । य ए॒वव्विँ॒द्वान्व्या॒वृत्य॒ दख्षि॑णां प्रतिगृ॒ह्णाति॑ । नैन॒न्दख्षि॑णा व्लीनाति ।। 28 ।। 2.2.5.2 राजा त्वा॒ वरु॑णो नयतु देवि दख्षिणे॒ऽग्नये॒ हिर॑ण्य॒मित्या॑ह । आ॒ग्ने॒यव्वैँ हिर॑ण्यम् । स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑ गृह्णाति । सोमा॑य॒ वास॒ इत्या॑ह । सौ॒म्यव्वैँ वासः॑ । स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑ गृह्णाति । रु॒द्राय॒ गामित्या॑ह । रौ॒द्री वै गौः । स्वयै॒वैनान्दे॒वत॑या॒ प्रति॑गृह्णाति । वरु॑णा॒याश्व॒मित्या॑ह ।। 29 ।। 2.2.5.3 वा॒रु॒णो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑गृह्णाति । प्र॒जाप॑तये॒ पुरु॑ष॒मित्या॑ह । प्रा॒जा॒प॒त्यो वै पुरु॑षः । स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑ गृह्णाति । मन॑वे॒ तल्प॒मित्या॑ह । मा॒न॒वो वै तल्पः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑ गृह्णाति । उ॒त्ता॒नायाङ्गीर॒सायान॒ इत्या॑ह । इ॒यव्वाँ उ॑त्ता॒न आङ्गीर॒सः ।। 30 ।। 2.2.5.4 अ॒नयै॒वैन॒त्प्रति॑ गृह्णाति । वै॒श्वा॒न॒र्यर्चा रथं॒ प्रति॑ गृह्णाति । वै॒श्वा॒न॒रो वै दे॒वत॑या॒ रथः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑ गृह्णाति । तेना॑मृत॒त्वम॑श्या॒मित्या॑ह । अ॒मृत॑मे॒वात्मन्ध॑त्ते । वयो॑ दा॒त्र इत्या॑ह । वय॑ ए॒वैन॑ङ्कृ॒त्वा । सु॒व॒र्गल्लोँ॒कङ्ग॑मयति । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्र इत्या॑ह ।। 31 ।। 2.2.5.5 यद्वै शि॒वम् । तन्मयः॑ । आ॒त्मन॑ ए॒वैषा परीत्तिः । क इ॒दङ्कस्मा॑ अदा॒दित्या॑ह । प्र॒जाप॑ति॒र्वै कः । स प्र॒जाप॑तये ददाति । काम॒ कामा॒येत्या॑ह । कामे॑न॒ हि ददा॑ति । कामे॑न प्रतिगृ॒ह्णाति॑ । कामो॑ दा॒ता काम॑ प्रतिग्रही॒तेत्या॑ह ।। 32 ।। 2.2.5.6 कामो॒ हि दा॒ता । काम॑ प्रतिग्रही॒ता । काम॑ समु॒द्रमावि॒शेत्या॑ह । स॒मु॒द्र इ॑व॒ हि कामः॑ । नेव॒ हि काम॒स्यान्तोऽस्ति॑ । न स॑मु॒द्रस्य॑ । कामे॑न त्वा॒ प्रति॑गृह्णा॒मीत्या॑ह । येन॒ कामे॑न प्रतिगृ॒ह्णाति॑ । स ए॒वैन॑म॒मुष्मि॑ल्लोँ॒के काम॒ आग॑च्छति । कामै॒तत्त॑ ए॒षा ते॑ काम॒ दख्षि॒णेत्या॑ह । काम॑ ए॒व तद्यज॑मानो॒ऽमुष्मि॑ल्लोँ॒के दख्षि॑णामिच्छति । न प्र॑तिग्रही॒तरि॑ । य ए॒वव्विँ॒द्वान्दख्षि॑णां प्रतिगृ॒ह्णाति॑ । अ॒नृ॒णामे॒वैनां॒ प्रति॑ गृह्णाति ।। 33 ।। 2.2.6.0 पृश्ञि॑ तिष्ठन्ति गमयति शिषे॒त्पञ्च॑ च ।। 6 ।। 2.2.6.1 अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ । यद्द॑श॒ममहः॑ । द॒श॒मेऽहन्थ्सर्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑वन्ति । य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा । अ॒न्नाद्य॒मव॑ रुन्धते । ति॒सृभि॑स्स्तुवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॒ऽन्नाद्य॒मव॑ रुन्धते । पृश्ञि॑वतीर्भवन्ति । अन्न॒व्वैँ पृश्ञि॑ ।। 34 ।। 2.2.6.2 अन्न॑मे॒वाव॑ रुन्धते । मन॑सा॒ प्रस्तौ॑ति । मन॒सोद्गा॑यति । मन॑सा॒ प्रति॑ हरति । मन॑ इव॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै । दे॒वा वै स॒र्पाः । तेषा॑मि॒य राज्ञी । यथ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॒वन्ति॑ । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति ।। 35 ।। 2.2.6.3 चतु॑र्‌होतॄ॒न्॒ होता॒ व्याच॑ष्टे । स्तु॒तमनु॑शसति॒ शान्त्यै । अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ । यद्द॑श॒ममहः॑ । ए॒तत्खलु॒ वै दे॒वानां पर॒मङ्गुह्यं॒ ब्रह्म॑ । यच्चतु॑र्होतारः । द॒श॒मेऽह॒॒ श्चतु॑र्‌होतॄ॒न्व्याच॑ष्टे । य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा । प॒र॒मन्दे॒वाना॒ङ्गुह्यं॒ ब्रह्माव॑ रुन्धे । तदे॒व प्र॑का॒शङ्ग॑मयति ।। 36 ।। 2.2.6.4 तदे॑नं प्रका॒शङ्ग॒तम् । प्र॒का॒शं प्र॒जानाङ्गमयति । वाच॑य्यँच्छति । य॒ज्ञस्य॒ धृत्यै । य॒ज॒मा॒न॒दे॒व॒त्य॑व्वाँ अहः॑ । भ्रा॒तृ॒व्य॒दे॒व॒त्या॑ रात्रिः॑ । अह्ना॒ रात्रि॑न्ध्यायेत् । भ्रातृ॑व्यस्यै॒व तल्लो॒कव्वृँ॑ङ्क्ते । यद्दिवा॒ वाच॑व्विँसृ॒जेत् । अह॒र्भ्रातृ॑व्या॒योच्छि॑षेत् । यन्नक्त॑व्विँसृ॒जेत् । रात्रिं॒ भ्रातृ॑व्या॒योच्छि॑षेत् । अ॒धि॒वृ॒ख्ष॒सू॒र्ये वाच॒व्विँसृ॑जति । ए॒ताव॑न्तमे॒वास्मै॑ लो॒कमुच्छि॑षति । याव॑दादि॒त्योऽस्त॒मेति॑ ।। 37 ।। 2.2.7.0 ह्वये॑ते अभवत्कल्प॒येतीति॑ च॒त्वारि॑ च ।। 7 ।। 2.2.7.1 प्र॒जाप॑ति प्र॒जा अ॑सृजत । तास्सृ॒ष्टास्सम॑श्लिष्यन्न् । ता रू॒पेणानु॒प्रावि॑शत् । तस्मा॑दाहुः । रू॒पव्वैँ प्र॒जाप॑ति॒रिति॑ । ता नाम्नाऽनु॒ प्रावि॑शत् । तस्मा॑दाहुः । नाम॒ वै प्र॒जाप॑ति॒रिति॑ । तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑ । नाम्ना॒ चेद्ध्वये॑ते ।। 38 ।। 2.2.7.2 मि॒त्रमे॒व भ॑वतः । प्र॒जाप॑तिर्देवासु॒रान॑सृजत । स इन्द्र॒मपि॒ नासृ॑जत । तन्दे॒वा अ॑ब्रुवन्न् । इन्द्र॑न्नो जन॒येति॑ । स आ॒त्मन्निन्द्र॑मपश्यत् । तम॑सृजत । तन्त्रि॒ष्टुग्वी॒र्यं॑ भू॒त्वाऽनु॒ प्रावि॑शत् । तस्य॒ वज्र॑ पञ्चद॒शो हस्त॒ आप॑द्यत । तेनो॒दय्यासु॑रान॒भ्य॑भवत् ।। 39 ।। 2.2.7.3 य ए॒वव्वेँद॑ । अ॒भि भ्रातृ॑व्यान्भवति । ते दे॒वा असु॑रैर्वि॒जित्य॑ । सु॒व॒र्गल्लोँ॒कमा॑यन्न् । ते॑ऽमुष्मि॑ल्लोँ॒के व्य॑ख्षुध्यन्न् । तेऽब्रुवन्न् । अ॒मुत॑ प्रदान॒व्वाँ उप॑जिजीवि॒मेति॑ । ते स॒प्तहो॑तारय्यँ॒ज्ञव्विँ॒धाया॒यास्यम् । आ॒ङ्गी॒र॒सं प्राहि॑ण्वन्न् । ए॒तेना॒मुत्र॑ कल्प॒येति॑ ।। 40 ।। 2.2.7.4 तस्य॒ वा इ॒यङ्कॢप्तिः॑ । यदि॒दङ्किञ्च॑ । य ए॒वव्वेँद॑ । कल्प॑तेऽस्मै । स वा अ॒यं म॑नु॒ष्ये॑षु य॒ज्ञस्स॒प्तहो॑ता । अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यव्वँ॑हति । य ए॒वव्वेँद॑ । उपै॑नय्यँ॒ज्ञो न॑मति । सो॑ऽमन्यत । अ॒भि वा इ॒मेऽस्माल्लो॒काद॒मुल्लोँ॒कङ्क॑मिष्यन्त॒ इति॑ । स वाच॑स्पते॒ हृदिति॒ व्याह॑रत् । तस्मात्पु॒त्त्रो हृद॑यम् । तस्मा॑द॒स्माल्लो॒काद॒मुल्लोँ॒कन्नाभि का॑मयन्ते । पु॒त्त्रो हि हृद॑यम् ।। 41 ।। 2.2.8.0 अ॒भि॒षु॒ण्वन्ति॑ स॒प्तहो॑ता तर्पयति॒ षड्ढोत्रा निवि॒त्त्वमभूत्तिष्ठति॒ प्राहेति॒ द्वे च॑ ।। 8 ।। 2.2.8.1 दे॒वा वै चतु॑र्‌होतृभिर्य॒ज्ञम॑तन्वत । ते वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाज॑यन्त । अ॒भि सु॑व॒र्गल्लोँ॒कम॑जयन्न् । य ए॒वव्विँ॒द्वा श्चतु॑र्होतृभिर्य॒ज्ञन्त॑नु॒ते । वि पा॒प्मना॒ भ्रातृ॑व्येण जयते । अ॒भि सु॑व॒र्गल्लोँ॒कञ्ज॑यति । षड्ढोत्रा प्राय॒णीय॒मा सा॑दयति । अ॒मुष्मै॒ वै लो॒काय॒ षड्ढो॑ता । घ्नन्ति॒ खलु॒ वा ए॒तथ्सोमम् । यद॑भिषु॒ण्वन्ति॑ ।। 42 ।। 2.2.8.2 ऋ॒जु॒धैवैन॑म॒मुल्लोँ॒कङ्ग॑मयति । चतु॑र्‌होत्राऽऽति॒थ्यम् । यशो॒ वै चतु॑र्‌होता । यश॑ ए॒वात्मन्ध॑त्ते । पञ्च॑होत्रा प॒शुमुप॑सादयति । सु॒व॒र्ग्यो॑ वै पञ्च॑होता । यज॑मान प॒शुः । यज॑मानमे॒व सु॑व॒र्गल्लोँ॒कङ्ग॑मयति । ग्रहान्गृही॒त्वा स॒प्तहो॑तारञ्जुहोति । इ॒न्द्रि॒यव्वैँ स॒प्तहो॑ता ।। 43 ।। 2.2.8.3 इ॒न्द्रि॒यमे॒वात्मन्ध॑त्ते । यो वै चतु॑र्‌होतॄननुसव॒नन्त॒र्पय॑ति । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑न सोमपी॒थो न॑मति । ब॒हि॒ष्प॒व॒मा॒ने दश॑होतार॒व्व्याँच॑ख्षीत । माध्य॑न्दिने॒ पव॑माने॒ चतु॑र्‌होतारम् । आर्भ॑वे॒ पव॑माने॒ पञ्च॑होतारम् । पि॒तृ॒य॒ज्ञे षड्ढो॑तारम् । य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे स॒प्तहो॑तारम् । अ॒नु॒स॒व॒नमे॒वैना॑ स्तर्पयति ।। 44 ।। 2.2.8.4 तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑न सोमपी॒थो न॑मति । दे॒वा वै चतु॑र्‌होतृभिस्स॒त्त्रमा॑सत । ऋद्धि॑परिमित॒य्यँश॑स्कामाः । तेऽब्रुवन्न् । यन्न॑ प्रथ॒मय्यँश॑ ऋ॒च्छात् । सर्वे॑षान्न॒स्तथ्स॒हास॒दिति॑ । सोम॒श्चतु॑र्‌होत्रा । अ॒ग्नि पञ्च॑होत्रा । धा॒ता षड्ढोत्रा ।। 45 ।। 2.2.8.5 इन्द्र॑स्स॒प्तहोत्रा । प्र॒जाप॑ति॒र्दश॑होत्रा । तेषा॒॒ सोम॒॒ राजा॑न॒य्यँश॑ आर्च्छत् । तन्न्य॑कामयत । तेनापाक्रामत् । तेन॑ प्र॒लाय॑मचरत् । तन्दे॒वा प्रै॒षै प्रैष॑मैच्छन्न् । तत्प्रै॒षाणां प्रैष॒त्वम् । नि॒विद्भि॒र्न्य॑वेदयन्न् । तन्नि॒विदान्निवि॒त्त्वम् ।। 46 ।। 2.2.8.6 आ॒प्रीभि॑राप्नुवन्न् । तदा॒प्रीणा॑माप्रि॒त्वम् । तम॑घ्नन्न् । तस्य॒ यशो॒ व्य॑गृह्णत । ते ग्रहा॑ अभवन्न् । तद्ग्रहा॑णाङ्ग्रह॒त्वम् । यस्यै॒वव्विँ॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते । तस्य॒ त्वे॑व गृ॑ही॒ताः । तेऽब्रुवन्न् । यो वै नः॒ श्रेष्ठोऽभूत् ।। 47 ।। 2.2.8.7 तम॑वधिष्म । पुन॑रि॒म सु॑वामहा॒ इति॑ । तञ्छन्दो॑भिरसुवन्त । तच्छन्द॑साञ्छन्द॒स्त्वम् । साम्ना॒ समान॑यन्न् । तथ्साम्न॑स्साम॒त्वम् । उ॒क्थैरुद॑स्थापयन्न् । तदु॒क्थाना॑मुक्थ॒त्वम् । य ए॒वव्वेँद॑ । प्रत्ये॒व ति॑ष्ठति ।। 48 ।। 2.2.8.8 सर्व॒मायु॑रेति । सोमो॒ वै यशः॑ । य ए॒वव्विँ॒द्वान्थ्सोम॑मा॒गच्छ॑ति । यश॑ ए॒वैन॑मृच्छति । तस्मा॑दाहुः । यश्चै॒वव्वेँद॒ यश्च॒ न । तावु॒भौ सोम॒माग॑च्छतः । सोमो॒ हि यशः॑ । तन्त्वाऽव यश॑ ऋच्छ॒तीत्या॑हुः । यस्सोमे॒ सोमं॒ प्राहेति॑ । तस्मा॒थ्सोमे॒ सोम॒ प्रोच्यः॑ । यश॑ ए॒वैन॑मृच्छति ।। 49 ।। 2.2.9.0 अ॒ग्निर॑जायत॒ तद्भूयो॑ऽतप्यताभिनदरोदीत्प्र॒जाप॑तीरोद॒स्त्वम॑सृज॒तासृ॑जत घृ॒तम॑दुह॒द्याऽस्य॒ सा त॒नूरासी॒दह॑रभवदृच्छति॒ वेद॑ ।। 9 ।। (इ॒दं धू॒मोऽग्निर्ज्योति॑र॒र्चिर्मरी॑चय उदा॒रास्तद॒ब्भ्र स ज॒घना॒थ्सा तमि॑स्रा॒ स प्र॒जन॑ना॒थ्सा जोथ्स्ना॒ स उ॑पप॒ख्षाभ्या॒॒ सो॑ऽहोरा॒त्रयोस्स॒न्धिस्स मुखा॒त्तदह॑र्दे॒ववान्मृ॒न्मये॑ दारु॒मये॑ रज॒ते हरि॑ते॒ तेभ्य॒स्ताभ्यो॒ द्वे तेऽन्नं॒ पयो॑ घृ॒त सोमम् ।। ) 2.2.9.1 इ॒दव्वाँ अग्रे॒ नैव किञ्च॒ नासीत् । न द्यौरा॑सीत् । न पृ॑थि॒वी । नान्तरि॑ख्षम् । तदस॑दे॒व सन्मनो॑ऽकुरुत॒ स्यामिति॑ । तद॑तप्यत । तस्मात्तेपा॒नाद्धू॒मो॑ऽजायत । तद्भूयो॑ऽतप्यत । तस्मात्तेपा॒नाद॒ग्निर॑जायत । तद्भूयो॑ऽतप्यत ।। 50 ।। 2.2.9.2 तस्मात्तेपा॒नाज्ज्योति॑रजायत । तद्भूयो॑ऽतप्यत । तन्मात्तेपा॒नाद॒र्चिर॑जायत । तद्भूयो॑ऽतप्यत । तस्मात्तेपा॒नान्मरी॑चयोऽजायन्त । तद्भूयो॑ऽतप्यत । तस्मात्तेपा॒नादु॑दा॒रा अ॑जायन्त । तद्भूयो॑ऽतप्यत । तद॒भ्रमि॑व॒ सम॑हन्यत । तद्व॒स्तिम॑भिनत् ।। 51 ।। 2.2.9.3 स स॑मु॒द्रो॑ऽभवत् । तस्माथ्समु॒द्रस्य॒ न पि॑बन्ति । प्र॒जन॑नमिव॒ हि मन्य॑न्ते । तस्मात्प॒शोर्जाय॑माना॒दाप॑ पु॒रस्ताद्यन्ति । तद्दश॑हो॒ताऽन्व॑सृज्यत । प्र॒जाप॑ति॒र्वै दश॑होता । य ए॒वन्तप॑सो वी॒र्य॑व्विँ॒द्वा स्तप्य॑ते । भव॑त्ये॒व । तद्वा इ॒दमाप॑स्सलि॒लमा॑सीत् । सो॑ऽरोदीत्प्र॒जाप॑तिः ।। 52 ।। 2.2.9.4 स कस्मा॑ अज्ञि । यद्य॒स्या अप्र॑तिष्ठाया॒ इति॑ । यद॒फ्स्व॑वाप॑द्यत । सा पृ॑थि॒व्य॑भवत् । यद्व्यमृ॑ष्ट । तद॒न्तरि॑ख्षमभवत् । यदू॒र्ध्वमु॒दमृ॑ष्ट । सा द्यौर॑भवत् । यदरो॑दीत् । तद॒नयो॑ रोद॒स्त्वम् ।। 53 ।। 2.2.9.5 य ए॒वव्वेँद॑ । नास्य॑ गृ॒हे रु॑दन्ति । ए॒तद्वा ए॒षाल्लोँ॒काना॒ञ्जन्म॑ । य ए॒वमे॒षाल्लोँ॒काना॒ञ्जन्म॒ वेद॑ । नैषु लो॒केष्वार्ति॒मार्च्छ॑ति । स इ॒मां प्र॑ति॒ष्ठाम॑विन्दत । स इ॒मां प्र॑ति॒ष्ठाव्विँ॒त्वाऽका॑मयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सोऽन्तर्वा॑नभवत् । स ज॒घना॒दसु॑रानसृजत ।। 54 ।। 2.2.9.6 तेभ्यो॑ मृ॒न्मये॒ पात्रेऽन्न॑मदुहत् । याऽस्य॒ सा त॒नूरासीत् । तामपा॑हत । सा तमि॑स्राऽभवत् । सो॑कामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सोन्तर्वा॑नभवत् । स प्र॒जन॑नादे॒व प्र॒जा अ॑सृजत । तस्मा॑दि॒मा भूयि॑ष्ठाः । प्र॒जन॑ना॒द्ध्ये॑ना॒ असृ॑जत ।। 55 ।। 2.2.9.7 ताभ्यो॑ दारु॒मये॒ पात्रे॒ पयो॑ऽदुहत् । याऽस्य॒ सा त॒नूरासीत् । तामपा॑हत । सा जोथ्स्ना॑ऽभवत् । सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सोऽन्तर्वा॑नभवत् । स उ॑पप॒ख्षाभ्या॑मे॒वर्तून॑सृजत । तेभ्यो॑ रज॒ते पात्रे॑ घृ॒तम॑दुहत् । याऽस्य॒ सा त॒नूरासीत् ।। 56 ।। 2.2.9.8 तामपा॑हत । सो॑ऽहोरा॒त्रयोस्स॒न्धिर॑भवत् । सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सोऽन्तर्वा॑नभवत् । स मुखाद्दे॒वान॑सृजत । तेभ्यो॒ हरि॑ते॒ पात्रे॒ सोम॑मदुहत् । याऽस्य॒ सा त॒नूरासीत् । तामपा॑हत । तदह॑रभवत् ।। 57 ।। 2.2.9.9 ए॒ते वै प्र॒जाप॑ते॒र्दोहाः । य ए॒वव्वेँद॑ । दु॒ह ए॒व प्र॒जाः । दिवा॒ वै नो॑ऽभू॒दिति॑ । तद्दे॒वानान्देव॒त्वम् । य ए॒वन्दे॒वानान्देव॒त्वव्वेँद॑ । दे॒ववा॑ने॒व भ॑वति । ए॒तद्वा अ॑होरा॒त्राणा॒ञ्जन्म॑ । य ए॒वम॑होरा॒त्राणा॒ञ्जन्म॒ वेद॑ । नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति ।। 58 ।। 2.2.9.10 अस॒तोऽधि॒ मनो॑ऽसृज्यत । मनः॑ प्र॒जाप॑तिमसृजत । प्र॒जाप॑ति प्र॒जा अ॑सृजत । तद्वा इ॒दं मन॑स्ये॒व प॑र॒मं प्रति॑ष्ठितम् । यदि॒दङ्किञ्च॑ । तदे॒तच्छ्वो॑वस्य॒सन्नाम॒ ब्रह्म॑ । व्यु॒च्छन्तीव्युच्छन्त्यस्मै॒ वस्य॑सीवस्यसी॒ व्यु॑च्छति । प्रजा॑यते प्र॒जया॑ प॒शुभिः॑ । प्र प॑रमे॒ष्ठिनो॒ मात्रा॑माप्नोति । य ए॒वव्वेँद॑ ।। 59 ।। 2.2.10.0 आ॒सी॒द्वेद॑ चन्द्रम॒स्त्वय्यँ ए॒वव्वेँदेन्द्रिया॒व्ये॑व भ॑वति प्र॒त्यञ्चं॒ मुख॑न्दख्षिण॒तो मुखं॑ प॒श्चान्नव॑ च ।। 10 ।। 2.2.10.1 प्र॒जाप॑ति॒रिन्द्र॑मसृजतानुजाव॒रन्दे॒वानाम् । तं प्राहि॑णोत् । परे॑हि । ए॒तेषान्दे॒वाना॒मधि॑पतिरे॒धीति॑ । तन्दे॒वा अ॑ब्रुवन्न् । कस्त्वमसि॑ । व॒यव्वैँ त्वच्छ्रेया॑सः स्म॒ इति॑ । सोऽब्रवीत् । कस्त्वमसि॑ व॒यव्वैँ त्वच्छ्रेया॑सः स्म॒ इति॑ मा दे॒वा अ॑वोच॒न्निति॑ । अथ॒ वा इ॒दन्तर्‌हि॑ प्र॒जाप॑तौ॒ हर॑ आसीत् ।। 60 ।। 2.2.10.2 यद॒स्मिन्ना॑दि॒त्ये । तदे॑नमब्रवीत् । ए॒तन्मे॒ प्रय॑च्छ । अथा॒हमे॒तेषान्दे॒वाना॒मधि॑पतिर्भविष्या॒मीति॑ । को॑ऽह स्या॒मित्य॑ब्रवीत् । ए॒तत्प्र॒दायेति॑ । ए॒तथ्स्या॒ इत्य॑ब्रवीत् । यदे॒तद्ब्रवी॒षीति॑ । को ह॒ वै नाम॑ प्र॒जाप॑तिः । य ए॒वव्वेँद॑ ।। 61 ।। 2.2.10.3 वि॒दुरे॑न॒न्नाम्ना । तद॑स्मै रु॒क्मङ्कृ॒त्वा प्रत्य॑मुञ्चत् । ततो॒ वा इन्द्रो॑ दे॒वाना॒मधि॑पतिरभवत् । य ए॒वव्वेँद॑ । अधि॑पतिरे॒व स॑मा॒नानां भवति । सो॑ऽमन्यत । किङ्कि॒व्वाँ अ॑कर॒मिति॑ । स च॒न्द्रं म॒ आह॒रेति॒ प्राल॑पत् । तच्च॒न्द्रम॑सश्चन्द्रम॒स्त्वम् । य ए॒वव्वेँद॑ ।। 62 ।। 2.2.10.4 च॒न्द्रवा॑ने॒व भ॑वति । तन्दे॒वा अ॑ब्रुवन्न् । सु॒वीर्यो॑ मर्या॒ यथा॑ गोपा॒यत॒ इति॑ । तथ्सूर्य॑स्य सूर्य॒त्वम् । य ए॒वव्वेँद॑ । नैन॑न्दभ्नोति । कश्च॒ नास्मि॒न्वा इ॒दमि॑न्द्रि॒यं प्रत्य॑स्था॒दिति॑ । तदिन्द्र॑स्येन्द्र॒त्वम् । य ए॒वव्वेँद॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति ।। 63 ।। 2.2.10.5 अ॒यव्वाँ इ॒दं प॑र॒मो॑ऽभू॒दिति॑ । तत्प॑रमे॒ष्ठिन॑ परमेष्ठि॒त्वम् । य ए॒वव्वेँद॑ । प॒र॒मामे॒व काष्ठाङ्गच्छति । तन्दे॒वास्स॑म॒न्तं पर्य॑विशन्न् । वस॑व पु॒रस्तात् । रु॒द्रा द॑ख्षिण॒तः । आ॒दि॒त्या प॒श्चात् । विश्वे॑ दे॒वा उ॑त्तर॒तः । अङ्गि॑रस प्र॒त्यञ्चम् ।। 64 ।। 2.2.10.6 सा॒ध्या पराञ्चम् । य ए॒वव्वेँद॑ । उपै॑न समा॒नास्सव्विँ॑शन्ति । स प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा आव॑यत् । ता अ॑स्मै॒ नाति॑ष्ठन्ता॒न्नाद्या॑य । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । द॒ख्षि॒ण॒त पर्या॑यन्न् । स द॑ख्षिण॒त पर्य॑वर्तयत । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । मुख॑न्दख्षिण॒तः ।। 65 ।। 2.2.10.7 प॒श्चात्पर्या॑यन्न् । स प॒श्चात्पर्य॑वर्तयत । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । मुख॑न्दख्षिण॒तः । मुखं॑ प॒श्चात् । उ॒त्त॒र॒त पर्या॑यन्न् । स उ॑त्तर॒त पर्य॑वर्तयत । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । मुख॑न्दष्खिण॒तः । मुखं॑ प॒श्चात् ।। 66 ।। 2.2.10.8 मुख॑मुत्तर॒तः । ऊ॒र्ध्वा उदा॑यन्न् । स उ॒परि॑ष्टा॒न्न्य॑वर्तयत । तास्स॒र्वतो॑मुखो भू॒त्वाऽऽव॑यत् । ततो॒ वै तस्मै प्र॒जा अति॑ष्ठन्ता॒न्नाद्या॑य । य ए॒वव्विँ॒द्वान्परि॑ च व॒र्तय॑ते॒ नि च॑ । प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा अ॑त्ति । तिष्ठ॑न्तेऽस्मै प्र॒जा अ॒न्नाद्या॑य । अ॒न्ना॒द ए॒व भव॑ति ।। 67 ।। 2.2.11.0 अ॒मि॒मी॒त॒ तं प्रायु॑ङ्क्त॒ पञ्च॑होतारं॒ प्र यु॑ञ्जीत जाये॒तेति॑ तिष्ठति॒ कॢप्ति॒र्दश॑होतुर्नि॒दान॑ स॒प्त च॑ ।। 11 ।। 2.2.11.1 प्र॒जाप॑तिरकामयत ब॒होर्भूयान्थ्स्या॒मिति॑ । स ए॒तन्दश॑होतारमपश्यत् । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति ब॒होर्भूया॑नभवत् । य का॒मये॑त ब॒होर्भूयान्थ्स्या॒मिति॑ । स दश॑होतारं॒ प्रयु॑ञ्जीत । ब॒होरे॒व भूयान्भवति । सो॑ऽकामयत वी॒रो म॒ आजा॑ये॒तेति॑ । स दश॑होतु॒श्चतु॑र्‌होतार॒न्निर॑मिमीत । तं प्रायु॑ङ्क्त ।। 68 ।। 2.2.11.2 तस्य॒ प्रयु॒क्तीन्द्रो॑ऽजायत । य का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ । स चतु॑र्‌होतारं॒ प्रयु॑ञ्जीत । आऽस्य॑ वी॒रो जा॑यते । सो॑ऽकामयत पशु॒मान्थ्स्या॒मिति॑ । स चतु॑र्‌होतु॒ पञ्च॑होतार॒न्निर॑मिमीत । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति पशु॒मान॑भवत् । य का॒मये॑त पशु॒मान्थ्स्या॒मिति॑ । स पञ्च॑होतारं॒ प्रयु॑ञ्जीत ।। 69 ।। 2.2.11.3 प॒शु॒माने॒व भ॑वति । सो॑ऽकामयत॒र्तवो॑ मे कल्पेर॒न्निति॑ । स पञ्च॑होतु॒ष्षड्ढो॑तार॒न्निर॑मिमीत । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्त्यृ॒तवोऽस्मा अकल्पन्त । यः का॒मये॑त॒र्तवो॑ मे कल्पेर॒न्निति॑ । स षड्ढो॑तारं॒ प्रयु॑ञ्जीत । कल्प॑न्तेऽस्मा ऋ॒तवः॑ । सो॑ऽकामयत सोम॒पस्सो॑मया॒जी स्याम् । आ मे॑ सोम॒पस्सो॑मया॒जी जा॑ये॒तेति॑ ।। 70 ।। 2.2.11.4 स षड्ढो॑तुस्स॒प्तहो॑तार॒न्निर॑मिमीत । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति सोम॒पस्सो॑मया॒ज्य॑भवत् । आऽस्य॑ सोम॒पस्सो॑मया॒ज्य॑जायत । यः का॒मये॑त सोम॒पस्सो॑मया॒जी स्याम् । आ मे॑ सोम॒पस्सो॑मया॒जी जा॑ये॒तेति॑ । स स॒प्तहो॑तारं॒ प्रयु॑ञ्जीत । सो॒म॒प ए॒व सो॑मया॒जी भ॑वति । आऽस्य॑ सोम॒पस्सो॑मया॒जी जा॑यते । स वा ए॒ष प॒शु प॑ञ्च॒धा प्रति॑तिष्ठति ।। 71 ।। 2.2.11.5 प॒द्भिर्मुखे॑न । ते दे॒वा प॒शून् वि॒त्वा । सु॒व॒र्गल्लोँ॒कमा॑यन्न् । ते॑ऽमुष्मि॑ल्लोँ॒के व्य॑ख्षुध्यन्न् । तेऽब्रुवन्न् । अ॒मुत॑प्रदान॒व्वाँ उप॑जिजीवि॒मेति॑ । ते स॒प्तहो॑तारय्यँ॒ज्ञव्विँ॒धाया॒यास्यम् । आ॒ङ्गी॒र॒सं प्राहि॑ण्वन्न् । ए॒तेना॒मुत्र॑ कल्प॒येति॑ । तस्य॒ वा इ॒यङ्कॢप्तिः॑ ।। 72 ।। 2.2.11.6 यदि॒दङ्किञ्च॑ । य ए॒वव्वेँद॑ । कल्प॑तेऽस्मै । स वा अ॒यं म॑नु॒ष्ये॑षु य॒ज्ञस्स॒प्तहो॑ता । अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यव्वँ॑हति । य ए॒वव्वेँद॑ । उपै॑नय्यँ॒ज्ञो न॑मति । यो वै चतु॑र्‌होतृणान्नि॒दान॒व्वेँद॑ । नि॒दान॑वान्भवति । अ॒ग्नि॒हो॒त्रव्वैँ दश॑होतुर्नि॒दानम् । द॒र्‌श॒पू॒र्ण॒मासौ चतु॑र्‌होतुः । चा॒तु॒र्मा॒स्यानि॒ पञ्च॑होतुः । प॒शु॒ब॒न्धष्षड्ढो॑तुः । सौ॒म्योऽध्व॒रस्स॒प्तहो॑तुः । ए॒तद्वै चतु॑र्‌होतृणान्नि॒दानम् । य ए॒वव्वेँद॑ । नि॒दान॑वान्भवति ।। 73 ।। 2.3.0.0 ब्र॒ह्म॒वा॒दिन॒ किन्दख्षि॑णा॒य्योँ वा अवि॑द्वा॒न्तस्य॒ वै ब्र॑ह्मवा॒दिनो॒ यद्दश॑होतार प्र॒जाप॑ति॒र्व्य॑स्रं प्र॒जाप॑ति॒ पुरु॑षं प्र॒जाप॑तिरकामयत॒ स तप॒स्सोऽन्तर्वान्ब्रह्मवा॒दिनो॒ यो वा इ॒मव्विँ॒द्यात्प्र॒जाप॑ति॒स्सोम॒॒ राजा॑नं॒ ब्रह्मात्म॒न्वदेका॑दश ।। 11 ।। ब्र॒ह्म॒वा॒दिन॒स्तस्य॒ वा अ॒ग्नेर्यद्वा इ॒दङ्किञ्च॑ प्र॒जाप॑तिरकामयत॒ य ए॒वास्य॑ दख्षिण॒त प॑ञ्चा॒शत् ।। 50 ।। ब्र॒ह्म॒वा॒दिनो॒ य ए॒वव्वेँद॑ ।। हरिः॑ ओम् ।। तृतीयप्रपाठकस्समाप्तः । 2.3.0.0 तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीय प्रपाठक प्रारम्भः ।। हरिः ओम् ।। 2.3.1.0 स॒प्तहो॑ता प्रति॒ष्ठाव्वेँद॑ बुध्यन्ते॒ षट्च॑ ।। 1 ।। 2.3.1.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । किञ्चतु॑र्‌होतृणाञ्चतुर्‌होतृ॒त्वमिति॑ । यदे॒वैषु च॑तु॒र्धा होता॑रः । तेन॒ चतु॑र्‌होतारः । तस्मा॒च्चतु॑र्‌होतार उच्यन्ते । तच्चतुर्॑होतृणाञ्चतुर्‌होतृ॒त्वम् । सोमो॒ वै चतु॑र्‌होता । अ॒ग्नि पञ्च॑होता । धा॒ता षड्ढो॑ता । इन्द्र॑स्स॒प्तहो॑ता ।। 1 ।। 2.3.1.2 प्र॒जाप॑ति॒र्दश॑होता । य ए॒वञ्चतु॑र्‌होतृणा॒मृद्धिं॒ वेद॑ । ऋ॒ध्नोत्ये॒व । य ए॑षामे॒वं ब॒न्धुता॒व्वेँद॑ । बन्धु॑मान्भवति । य ए॑षामे॒वं कॢप्ति॒व्वेँद॑ । कल्प॑तेऽस्मै । य ए॑षामे॒वमा॒यत॑न॒व्वेँद॑ । आ॒यत॑नवान्भवति । य ए॑षामे॒वं प्र॑ति॒ष्ठाव्वेँद॑ ।। 2 ।। 2.3.1.3 प्रत्ये॒व ति॑ष्ठति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । दश॑होता॒ चतु॑र्‌होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । अथ॒ कस्मा॒च्चतु॑र्‌होतार उच्यन्त॒ इति॑ । इन्द्रो॒ वै चतु॑र्‌होता । इन्द्र॒ खलु॒ वै श्रेष्ठो॑ दे॒वता॑नामुप॒देश॑नात् । य ए॒वमिन्द्र॒॒ श्रेष्ठ॑न्दे॒वता॑नामुप॒देश॑ना॒द्वेद॑ । वसि॑ष्ठस्समा॒नानां भवति । तस्मा॒च्छ्रेष्ठ॑मा॒यन्तं॑ प्रथ॒मेनै॒वानु॑ बुध्यन्ते । अ॒यमागन्न्॑ । अ॒यमवा॑सा॒दिति॑ । की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः । अथो॑ एनं प्रथ॒मेनै॒वानु॑ बुध्यन्ते । अ॒यमागन्न्॑ । अ॒यमवा॑सा॒दिति॑ ।। 3 ।। 2.3.2.0 वि॒ग्राह॑मृ॒तव॒स्तदाऽल॑भ॒तेन्द्र॑ङ्गृह्णीया॒थ्षट्च॑ ।। 2 ।। 2.3.2.1 दख्षि॑णां प्रतिग्रही॒ष्यन्थ्स॒प्तद॑श॒कृत्वोऽपान्यात् । आ॒त्मान॑मे॒व समि॑न्धे । तेज॑से वी॒र्या॑य । अथो प्र॒जाप॑तिरे॒वैनां भू॒त्वा प्रति॑ गृह्णाति । आ॒त्मनोऽनार्त्यै । यद्ये॑न॒मार्त्वि॑ज्याद्वृ॒त सन्त॑न्नि॒र्‌हरे॑रन्न् । आग्नीध्रे जुहुया॒द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । पु॒रस्तात्प्र॒त्यङ्तिष्ठन्न्॑ । प्र॒ति॒लो॒मव्विँ॒ग्राहम् ।। 4 ।। 2.3.2.2 प्रा॒णाने॒वास्योप॑ दासयति । यद्ये॑नं॒ पुन॑रुप॒ शिख्षे॑युः । आग्नीध्र ए॒व जु॑हुया॒द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । प॒श्चात्प्राङासी॑नः । अ॒नु॒लो॒ममवि॑ग्राहम् । प्रा॒णाने॒वास्मै॑ कल्पयति । प्राय॑श्चित्ती॒ वाग्घोतेत्यृ॑तुमु॒खऋ॑तुमुखे जुहोति । ऋ॒तूने॒वास्मै॑ कल्पयति । कल्प॑न्तेऽस्मा ऋ॒तवः॑ ।। 5 ।। 2.3.2.3 कॢ॒प्ता अ॑स्मा ऋ॒तव॒ आय॑न्ति । षड्ढो॑ता॒ वै भू॒त्वा प्र॒जाप॑तिरि॒द सर्व॑मसृजत । स मनो॑ऽसृजत । मन॒सोऽधि॑ गाय॒त्रीम॑सृजत । तद्गा॑य॒त्रीय्यँश॑ आर्च्छत् । तामाऽल॑भत । गा॒य॒त्रि॒या अधि॒ छन्दा॑स्यसृजत । छन्दो॒भ्योऽधि॒ साम॑ । तथ्साम॒ यश॑ आर्च्छत् । तदाऽल॑भत ।। 6 ।। 2.3.2.4 साम्नोऽधि॒ यजू॑ष्यसृजत । यजु॒र्भ्योऽधि॒ विष्णुम् । तद्विष्णु॒य्यँश॑ आर्च्छत् । तमाऽल॑भत । विष्णो॒रध्योष॑धीरसृजत । ओष॑धी॒भ्योऽधि॒ सोमम् । तथ्सोम॒य्यँश॑ आर्च्छत् । तमाऽल॑भत । सोमा॒दधि॑ प॒शून॑सृजत । प॒शुभ्योऽधीन्द्रम् ।। 7 ।। 2.3.2.5 तदिन्द्र॒य्यँश॑ आर्च्छत् । तदे॑न॒न्नाति॒ प्राच्य॑वत । इन्द्र॑ इव यश॒स्वी भ॑वति । य ए॒वव्वेँद॑ । नैन॒य्यँशोऽति॒ प्रच्य॑वते । यद्वा इ॒दङ्किञ्च॑ । तथ्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒स प्रत्य॑गृह्णात् । तदे॑नं॒ प्रति॑गृहीत॒न्नाहि॑नत् । यत्किञ्च॑ प्रतिगृह्णी॒यात् । तथ्सर्व॑मुत्ता॒नस्त्वाङ्गीर॒स प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । इ॒यव्वाँ उ॑त्ता॒न आङ्गीर॒सः । अ॒नयै॒वैन॒त्प्रति॑ गृह्णाति । नैन॑ हिनस्ति । ब॒र्॒हिषा॒ प्रती॑या॒द्गाव्वाँऽश्वं॑ वा । ए॒तद्वै प॑शू॒नां प्रि॒यं धाम॑ । प्रि॒येणै॒वैनं॒ धाम्ना॒ प्रत्ये॑ति ।। 8 ।। 2.3.3.0 अ॒पु॒ष्य॒न्नख्ष॑त्त्रैरपुष्य॒त्पञ्च॑ च ।। 3 ।। 2.3.3.1 यो वा अवि॑द्वान्निव॒र्तय॑ते । विशी॑र्‌षा॒ सपाप्मा॒ऽमुष्मि॑ल्लोँ॒के भ॑वति । अथ॒ यो वि॒द्वान्नि॑व॒र्तय॑ते । सशी॑र्‌षा॒ विपाप्मा॒ऽमुष्मि॑ल्लोँ॒के भ॑वति । दे॒वता॒ वै स॒प्त पुष्टि॑कामा॒ न्य॑वर्तयन्त । अ॒ग्निश्च॑ पृथि॒वी च॑ । वा॒युश्चा॒न्तरि॑ख्षञ्च । आ॒दि॒त्यश्च॒ द्यौश्च॑ च॒न्द्रमाः । अ॒ग्निर्न्य॑वर्तयत । स सा॑ह॒स्रम॑पुष्यत् ।। 9 ।। 2.3.3.2 पृ॒थि॒वी न्य॑वर्तयत । सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत् । वा॒युर्न्य॑वर्तयत । स मरी॑चीभिरपुष्यत् । अ॒न्तरि॑ख्ष॒न्न्य॑वर्तयत । तद्वयो॑भिरपुष्यत् । आ॒दि॒त्यो न्य॑वर्तयत । स र॒श्मिभि॑रपुष्यत् । द्यौर्न्य॑वर्तयत । सा नख्ष॑त्रैरपुष्यत् । च॒न्द्रमा॒ न्य॑वर्तयत । सौ॑ऽहोरा॒त्रैर॑र्धमा॒सैर्मासैर्॑ऋ॒तुभि॑स्सव्वँथ्स॒रेणा॑पुष्यत् । तान्पोषान्पुष्यति । यास्तेऽपु॑ष्यन्न् । य ए॒वव्विँ॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च ।। 10 ।। 2.3.4.0 तृती॑यमिन्द्रि॒यस्यापाक्रामच्चतु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॒त्ताश्वं॑ प्रतिगृ॒ह्णाति॑ ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑क्रामत्यष्ट॒ममि॑न्द्रि॒यस्यापाक्रामत्प्रतिगृह्णी॒याच्च॒त्वारि॑ च ।। 4 ।। (तस्य॒ वा अ॒ग्नेर्‌हिर॑ण्य॒॒ सोम॑स्य॒ वास॒स्तदे॒तेन॑ रु॒द्रस्य॒ गान्तामे॒तेन॒ वरु॑ण॒स्याश्वं॑ प्र॒जाप॑ते॒ पुरु॑षं॒ मनो॒स्तल्प॒न्तमे॒तेनोत्ता॒नस्य॒ तदे॒तेनाप्रा॑ण॒द्यद्वै । अ॒र्धं तृती॑यमष्ट॒मं तच्च॑तु॒र्थं तां प॑ञ्च॒म ष॒ष्ठ स॑प्त॒मन्तम् । तदे॒तेन॒ द्वे तामे॒तेनैकं॒ तमे॒तेन॒ त्रीणि॒ तदे॒तेनैकम् ।। ) 2.3.4.1 तस्य॒ वा अ॒ग्नेर्‌हिर॑ण्यं प्रतिजग्र॒हुषः॑ । अ॒र्धमि॑न्द्रि॒यस्यापाक्रामत् । तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सोऽर्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । अ॒र्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान् हिर॑ण्यं प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रति गृ॒ह्णाति॑ । अ॒र्धम॑स्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वै सोम॑स्य॒ वास॑ प्रतिजग्र॒हुषः॑ । तृती॑यमिन्द्रि॒यस्यापाक्रामत् ।। 11 ।। 2.3.4.2 तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान् वास॑प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रति गृ॒ह्णाति॑ । तृती॑यमस्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वै रु॒द्रस्य॒ गां प्र॑तिजग्र॒हुषः॑ । च॒तु॒र्थमि॑न्द्रि॒यस्यापाक्रामत् । तामे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स च॑तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।। 12 ।। 2.3.4.3 च॒तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान्गां प्र॑तिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । च॒तु॒र्थम॑स्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वै वरु॑ण॒स्याश्वं॑ प्रतिजग्र॒हुषः॑ । प॒ञ्च॒ममि॑न्द्रि॒यस्यापाक्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स प॑ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । प॒ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वानश्वं॑ प्रतिगृ॒ह्णाति॑ ।। 13 ।। 2.3.4.4 अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । प॒ञ्च॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वै प्र॒जाप॑ते॒ पुरु॑षं प्रतिजग्र॒हुषः॑ । ष॒ष्ठमि॑न्द्रि॒यस्यापाक्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान्पुरु॑षं प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑ क्रामति ।। 14 ।। 2.3.4.5 तस्य॒ वै मनो॒स्तल्पं॑ प्रतिजग्र॒हुषः॑ । स॒प्त॒ममि॑न्द्रि॒यस्यापाक्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । स॒प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वास्तल्पं॑ प्रति गृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रति गृ॒ह्णाति॑ । स॒प्त॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वा उ॑त्ता॒नस्याङ्गीर॒सस्याप्रा॑णत्प्रतिजग्र॒हुषः॑ । अ॒ष्ट॒ममि॑न्द्रि॒यस्यापाक्रामत् ।। 15 ।। 2.3.4.6 तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सोऽष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । अ॒ष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वानप्रा॑णत्प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । अ॒ष्ट॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति । यद्वा इ॒दङ्किञ्च॑ । तथ्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒स प्रत्य॑गृह्णात् । तदे॑नं॒ प्रति॑गृहीत॒न्नाहि॑नत् । यत्किञ्च॑ प्रतिगृह्णी॒यात् । तथ्सर्व॑मुत्ता॒नस्त्वाङ्गीर॒स प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । इ॒यव्वाँ उ॑त्ता॒न आङ्गीर॒सः । अ॒नयै॒वैन॒त्प्रति॑ गृह्णाति । नैन॑ हिनस्ति ।। 16 ।। 2.3.5.0 आ॒र्ध्नु॒व॒न्ना॒र्ध्नु॒व॒न्नित्ये॒वव्वेँदात्ति सर्वा॒ दिशो॒ऽभि ज॑यति ।। 5 ।। (वै तेन॑ स॒त्रङ्केन॑ ।। ) 2.3.5.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यद्दश॑होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । केन॑ प्र॒जा अ॑सृज॒न्तेति॑ । प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । तेन॑ प्र॒जा अ॑सृजन्त । यच्चतु॑र्‌होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । केनौष॑धीरसृज॒न्तेति॑ । सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ।। 17 ।। 2.3.5.2 तेनौष॑धीरसृजन्त । यत्पञ्च॑होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । केनै॑षां प॒शून॑वृञ्ज॒तेति॑ । अ॒ग्निना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । तेनै॑षां प॒शून॑वृञ्जत । यथ्षड्ढो॑तारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ।। 18 ।। 2.3.5.3 केन॒र्तून॑कल्पय॒न्तेति॑ । धा॒त्रा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । तेन॒र्तून॑कल्पयन्त । यथ्स॒प्तहो॑तारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । केन॒ सुव॑रायन्न् । केने॒माल्लोँ॒कान्थ्सम॑तन्व॒न्निति॑ । अ॒र्य॒म्णा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् । तेन॒ सुव॑रायन्न् । तेने॒माल्लोँ॒कान्थ्सम॑तन्व॒न्निति॑ ।। 19 ।। 2.3.5.4 ए॒ते वै दे॒वा गृ॒हप॑तयः । तान् य ए॒वव्विँ॒द्वान् । अप्य॒न्यस्य॑ गार्‌हप॒ते दीख्ष॑ते । अ॒वा॒न्त॒रमे॒व स॒त्रिणा॑मृध्नोति । यो वा अ॑र्य॒मण॒व्वेँद॑ । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य॒ज्ञो वा अ॑र्य॒मा । आर्या॑वस॒तिरिति॒ वै तमा॑हु॒र्यं प्र॒शस॑न्ति । आर्या॑वस॒तिर्भ॑वति । य ए॒वव्वेँद॑ ।। 20 ।। 2.3.5.5 यद्वा इ॒दङ्किञ्च॑ । तथ्सर्व॒ञ्चतु॑ऱ्होतारः । चतु॑र्‌होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः । स य ए॒वव्विँ॒द्वान्‌ वि॒वदे॑त । अ॒हमे॒व भूयो॑ वेद । यश्चतु॑र्‌होतॄ॒न् वेदेति॑ । स ह्ये॑व भूयो॒ वेद॑ । यश्चतु॑र्‌होतॄ॒न् वेद॑ । यो वै चतु॑र्‌होतृणा॒॒ होतॄ॒न् वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति ।। 21 ।। 2.3.5.6 सर्वा॒ दिशो॒ऽभि ज॑यति । प्र॒जाप॑ति॒र्वै दश॑होतृणा॒॒ होता । सोम॒श्चतु॑र्‌होतृणा॒॒ होता । अ॒ग्नि पञ्च॑होतृणा॒॒ होता । धा॒ता षड्ढो॑तृणा॒॒ होता । अ॒र्य॒मा स॒प्तहो॑तृणा॒॒ होता । ए॒ते वै चतु॑ऱ्होतृणा॒॒ होता॑रः । तान् य ए॒वव्वेँद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒ऽभि ज॑यति ।। 22 ।। 2.3.6.0 च॒न्द्रमाश्चातुर्मा॒स्यानाय्यँज्ञक्र॒तोर॑ध्व॒रेण॑ यज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त स॒प्तहो॑ता च॒त्वारि॑ च ।। 6 ।। 2.3.6.1 प्र॒जाप॑ति प्र॒जास्सृ॒ष्ट्वा व्य॑स्रसत । स हृद॑यं भू॒तो॑ऽशयत् । आत्म॒न्॒ हा ३ इत्यह्व॑यत् । आप॒ प्रत्य॑शृण्वन्न् । ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । ता कुसि॑न्ध॒मुपौ॑हन्न् । तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तोः । एक॑ ऋ॒त्विक् । च॒तु॒ष्कृत्वोऽह्व॑यत् । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः ।। 23 ।। 2.3.6.2 ते प्रत्य॑शृण्वन्न् । ते द॑र्‌शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । त उपौ॑हश्च॒त्वार्यङ्गा॑नि । तस्माद्दर्‌शपूर्णमा॒सयोर्यज्ञक्र॒तोः । च॒त्वार॑ ऋ॒त्विजः॑ । प॒ञ्च॒कृत्वोऽह्व॑यत् । प॒शव॒ प्रत्य॑शृण्वन्न् । ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । त उपौ॑ह॒ल्लोँम॑ छ॒वीं मा॒॒समस्थि॑ म॒ज्जानम् । तस्माच्चातुर्मा॒स्यानाय्यँज्ञक्र॒तोः ।। 24 ।। 2.3.6.3 पञ्च॒र्त्विजः॑ । ष॒ट्कृत्वोऽह्व॑यत् । ऋ॒तवः॒ प्रत्य॑शृण्वन्न् । ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त । त उपौ॑ह॒न्थ्स्तना॑वा॒ण्डौ शि॒श्ञमवाञ्चं प्रा॒णम् । तस्मात्पशुब॒न्धस्य॑ यज्ञक्र॒तोः । षडृ॒त्विजः॑ । स॒प्त॒कृत्वोऽह्व॑यत् । होत्रा॒ प्रत्य॑शृण्वन्न् । तास्सौ॒म्येनै॒वाध्व॒रेण॑ यज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ।। 25 ।। 2.3.6.4 ता उपौ॑हन्थ्स॒प्त शी॑र्‌ष॒ण्यान्प्रा॒णान् । तस्माथ्सौ॒म्यस्याध्व॒रस्य॑ यज्ञक्र॒तोः । स॒प्त होत्रा॒ प्राची॒र्वष॑ट्कुर्वन्ति । द॒श॒कृत्वोऽह्व॑यत् । तप॒ प्रत्य॑शृणोत् । तत्कर्म॑णै॒व स॑व्वँथ्स॒रेण॒ सर्वैर्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत । तथ्सर्व॑मा॒त्मान॒मप॑रिवर्ग॒मुपौ॑हत् । तस्माथ्सव्वँथ्स॒रे सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्ते । तस्मा॒द्दश॑होता॒ चतु॑र्‌होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । एक॑होत्रे ब॒लि ह॑रन्ति । हर॑न्त्यस्मै प्र॒जा ब॒लिम् । ऐन॒मप्र॑तिख्यातङ्गच्छति । य ए॒वव्वेँद॑ ।। 26 ।। 2.3.7.0 अ॒ग्नि॒हो॒त्रं म॒ज्जान॒न्द्विर्जु॑हो॒त्यप॑रिवर्ग स्पृ॒णोत्येक॑ञ्च ।। 7 ।। 2.3.7.1 प्र॒जाप॑ति॒ पुरु॑षमसृजत । सोऽग्निर॑ब्रवीत् । ममा॒यमन्न॑म॒स्त्विति॑ । सो॑ऽबिभेत् । सर्व॒व्वैँ मा॒ऽयं प्र ध॑ख्ष्य॒तीति॑ । स ए॒ताश्चतु॑ऱ्होतॄनात्म॒स्पर॑णानपश्यत् । तान॑जुहोत् । तैर्वै स आ॒त्मान॑मस्पृणोत् । यद॑ग्निहो॒त्रञ्जु॒होति॑ । एक॑होतारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोत्यग्निहो॒त्रम् ।। 27 ।। 2.3.7.2 कुसि॑न्धञ्चा॒त्मन॑स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सा॑युज्यङ्गच्छति । च॒तुरुन्न॑यति । चतु॑र्‌होतारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोति दर्‌शपूर्णमा॒सौ । च॒त्वारि॑ चा॒त्मनोऽङ्गा॑नि स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । स॒मित्प॑ञ्च॒मी । पञ्च॑होतारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोति चातुर्मा॒स्यानि॑ । लोम॑ छ॒वीं मा॒॒समस्थि॑ म॒ज्जानम् ।। 28 ।। 2.3.7.3 तानि॑ चा॒त्मन॑स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । द्विर्जु॑होति । षड्ढो॑तारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोति पशुब॒न्धम् । स्तना॑वा॒ण्डौ शि॒श्ञमवाञ्चं प्रा॒णम् । तानि॑ चा॒त्मन॑स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । द्विर्जु॑होति ।। 29 ।। 2.3.7.4 स॒मिथ्स॑प्त॒मी । स॒प्तहो॑तारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोति सौ॒म्यम॑ध्व॒रम् । स॒प्त चा॒त्मन॑श्शीऱ्ष॒ण्यान्प्रा॒णान्थ्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । द्विर्जु॒होति॑ । द्विर्निमार्ष्टि । द्वि प्राश्ञा॑ति । दश॑होतारमे॒व तद्य॑ज्ञक्र॒तुमाप्नोति सव्वँथ्स॒रम् । सर्व॑ञ्चा॒त्मान॒मप॑रिवर्ग स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ।। 30 ।। 2.3.8.0 अ॒जी॒व॒थ्स्वानां भवति दे॒वान॑सृजत स॒प्त च॑ ।। 8 ।। 2.3.8.1 प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ । स तपो॑ऽतप्यत । सोऽन्तर्वा॑नभवत् । स हरि॑तश्श्या॒वो॑ऽभवत् । तस्मा॒थ्स्त्र्य॑न्तर्व॑त्नी । हरि॑णी स॒ती श्या॒वा भ॑वति । स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत् । स ता॒न्त कृ॒ष्णश्श्या॒वो॑ऽभवत् । तस्मात्ता॒न्त कृ॒ष्णश्श्या॒वो भ॑वति । तस्यासु॑रे॒वाजी॑वत् ।। 31 ।। 2.3.8.2 तेनासु॒नाऽसु॑रानसृजत । तदसु॑राणामसुर॒त्वम् । य ए॒वमसु॑राणामसुर॒त्वव्वेँद॑ । असु॑माने॒व भ॑वति । नैन॒मसु॑र्जहाति । सोऽसु॑रान्थ्सृ॒ष्ट्वा पि॒तेवा॑मन्यत । तदनु॑ पि॒तॄन॑सृजत । तत्पि॑तृ॒णां पि॑तृ॒त्वम् । य ए॒वं पि॑तृ॒णां पि॑तृ॒त्वव्वेँद॑ । पि॒तेवै॒व स्वानां भवति ।। 32 ।। 2.3.8.3 यन्त्य॑स्य पि॒तरो॒ हवम् । स पि॒तॄन्थ्सृ॒ष्ट्वाऽऽम॑नस्यत् । तदनु॑ मनु॒ष्या॑नसृजत । तन्म॑नु॒ष्या॑णां मनुष्य॒त्वम् । य ए॒वं म॑नु॒ष्या॑णां मनुष्य॒त्वव्वेँद॑ । म॒न॒स्व्ये॑व भ॑वति । नैनं॒ मनु॑र्जहाति । तस्मै॑ मनु॒ष्यान्थ्ससृजा॒नाय॑ । दिवा॑ देव॒त्राऽभ॑वत् । तदनु॑ दे॒वान॑सृजत । तद्दे॒वानान्देव॒त्वम् । य ए॒वन्दे॒वानान्देव॒त्वव्वेँद॑ । दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति । तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भा॑सि । दे॒वा म॑नु॒ष्या पि॒तरोऽसु॑राः । तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति । य ए॒वव्वेँद॑ ।। 33 ।। 2.3.9.0 वेद॒ सं प॑वत आदि॒त्यात्प॑वते वा॒त्या वात्ये॒ष पव॑मान ए॒व द॑ख्षिण॒त आ॒यन्त॑मुप॒ वद॑न्त्युत्तर॒त पा॒प्मान॒स्ता स्तेप॑ घ्न॒न्तीत्य॒ष्टौ च॑ ।। 9 ।। 2.3.9.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यो वा इ॒मव्विँ॒द्यात् । यतो॒ऽयं पव॑ते । यद॑भि॒ पव॑ते । यद॑भि सं॒पव॑ते । सर्व॒मायु॑रियात् । न पु॒राऽऽयु॑ष॒ प्र मी॑येत । प॒शु॒मान्थ्स्यात् । वि॒न्देत॑ प्र॒जाम् । यो वा इ॒मव्वेँद॑ ।। 34 ।। 2.3.9.2 यतो॒ऽयं पव॑ते । यद॑भि॒ पव॑ते । यद॑भि सं॒पव॑ते । सर्व॒मायु॑रेति । न पु॒राऽऽयु॑ष॒ प्र मी॑यते । प॒शु॒मान्भ॑वति । वि॒न्दते प्र॒जाम् । अ॒द्भ्य प॑वते । अ॒पो॑ऽभि प॑वते । अ॒पो॑ऽभि संप॑वते ।। 35 ।। 2.3.9.3 अ॒स्या प॑वते । इ॒माम॒भि प॑वते । इ॒माम॒भि संप॑वते । अ॒ग्ने प॑वते । अ॒ग्निम॒भि प॑वते । अ॒ग्निम॒भि सं प॑वते । अ॒न्तरि॑ख्षात्पवते । अ॒न्तरि॑ख्षम॒भि प॑वते । अ॒न्तरि॑ख्षम॒भि सं प॑वते । आ॒दि॒त्यात्प॑वते ।। 36 ।। 2.3.9.4 आ॒दि॒त्यम॒भि प॑वते । आ॒दि॒त्यम॒भि सं प॑वते । द्यो प॑वते । दिव॑म॒भि प॑वते । दिव॑म॒भि सं प॑वते । दि॒ग्भ्य प॑वते । दिशो॒ऽभि प॑वते । दिशो॒ऽभि संप॑वते । स यत्पु॒रस्ता॒द्वाति॑ । प्रा॒ण ए॒व भू॒त्वा पु॒रस्ताद्वाति ।। 37 ।। 2.3.9.5 तस्मात्पु॒रस्ता॒द्वान्तम् । सर्वा प्र॒जा प्रति॑ नन्दन्ति । प्रा॒णो हि प्रि॒य प्र॒जानाम् । प्रा॒ण इ॑व प्रि॒य प्र॒जानां भवति । य ए॒वव्वेँद॑ । स वा ए॒ष प्रा॒ण ए॒व । अथ॒ यद्द॑ख्षिण॒तो वाति॑ । मा॒त॒रिश्वै॒व भू॒त्वा द॑ख्षिण॒तो वा॑ति । तस्माद्दख्षिण॒तो वान्त॑व्विँ॒द्यात् । सर्वा॒ दिश॒ आ वा॑ति ।। 38 ।। 2.3.9.6 सर्वा॒ दिशोऽनु॒ वि वा॑ति । सर्वा॒ दिशोऽनु॒ सव्वाँ॒तीति॑ । स वा ए॒ष मा॑त॒रिश्वै॒व । अथ॒ यत्प॒श्चाद्वाति॑ । पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति । पू॒तम॑स्मा॒ आह॑रन्ति । पू॒तमुप॑हरन्ति । पू॒तम॑श्ञाति । य ए॒वव्वेँद॑ । स वा ए॒ष पव॑मान ए॒व ।। 39 ।। 2.3.9.7 अथ॒ यदु॑त्तर॒तो वाति॑ । स॒वि॒तैव भू॒त्त्वोत्त॑र॒तो वा॑ति । स॒वि॒तेव॒ स्वानां भवति । य ए॒वव्वेँद॑ । स वा ए॒ष स॑वि॒तैव । ते य ए॑नं पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति । य ए॒वास्य॑ पु॒रस्तात्पा॒प्मानः॑ । तास्तेऽप॑ घ्नन्ति । पु॒रस्ता॒दित॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नन्दख्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति ।। 40 ।। 2.3.9.8 य ए॒वास्य॑ दख्षिण॒त पा॒प्मानः॑ । तास्तेऽप॑ घ्नन्ति । द॒ख्षि॒ण॒त इत॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नं प॒श्चादा॒यन्त॑मुप॒ वद॑न्ति । य ए॒वास्य॑ प॒श्चात्पा॒प्मानः॑ । तास्तेऽप॑ घ्नन्ति । प॒श्चादित॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒ वद॑न्ति । य ए॒वास्योत्तर॒त पा॒प्मानः॑ । तास्तेऽप॑ घ्नन्ति ।। 41 ।। 2.3.9.9 उ॒त्त॒र॒त इत॑रान्पा॒प्मन॑स्सचन्ते । तस्मा॑दे॒वव्विँ॒द्वान् । वीव॑ नृत्येत् । प्रेव॑ चलेत् । व्यस्ये॑वा॒ख्ष्यौ भा॑षेत । म॒ण्टये॑दिव । क्रा॒थये॑दिव । शृ॒ङ्गा॒येते॑व । उ॒त मोप॑ वदेयुः । उ॒त मे॑ पा॒प्मान॒मप॑ हन्यु॒रिति॑ । स यान्दिश॑ स॒निमे॒ष्यन्थ्स्यात् । य॒दा तान्दिश॒व्वाँतो॑ वा॒यात् । अथ॒ प्रवे॒यात् । प्र वा॑ धावयेत् । सा॒तमे॒व र॑दि॒तव्व्यूँ॑ढङ्ग॒न्धम॒भि प्रच्य॑वते । आऽस्य॒ तञ्ज॑नप॒दं पूर्वा॑ की॒र्तिर्ग॑च्छति । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य ए॒वव्वेँद॑ ।। 42 ।। 2.3.10.0 अ॒या॒न्य॒ल॒ङ्कृत्य॑ स्या॒मिति॑ भवति ।। 10 ।। 2.3.10.1 प्र॒जाप॑ति॒स्सोम॒॒ राजा॑नमसृजत । तन्त्रयो॒ वेदा॒ अन्व॑सृज्यन्त । तान् हस्ते॑ऽकुरुत । अथ॒ ह सीता॑ सावि॒त्री । सोम॒॒ राजा॑नञ्चकमे । श्र॒द्धामु॒ स च॑कमे । साऽऽह॑ पि॒तरं॑ प्र॒जाप॑ति॒मुप॑ससार । त हो॑वाच । नम॑स्ते अस्तु भगवः । उप॑ त्वाऽयानि ।। 43 ।। 2.3.10.2 प्र त्वा॑ पद्ये । सोम॒व्वैँ राजा॑नङ्कामये । श्र॒द्धामु॒ स का॑मयत॒ इति॑ । तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा । दश॑होतारं पु॒रस्ताद्व्या॒ख्याय॑ । चतु॑ऱ्होतारन्दख्षिण॒तः । पञ्च॑होतारं प॒श्चात् । षड्ढो॑तारमुत्तर॒तः । स॒प्तहो॑तारमु॒परि॑ष्टात् । स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ ।। 44 ।। 2.3.10.3 आऽस्यार्धव्वँ॑व्राज । ता हो॒दीख्ष्यो॑वाच । उप॒ मा व॑र्त॒स्वेति॑ । त हो॑वाच । भोग॒न्तु म॒ आच॑ख्ष्व । ए॒तन्म॒ आच॑ख्ष्व । यत्ते॑ पा॒णाविति॑ । तस्या॑ उ॒ ह त्रीन् वेदा॒न्प्रद॑दौ । तस्मा॒दुह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते । स य का॒मये॑त प्रि॒यस्स्या॒मिति॑ ।। 45 ।। 2.3.10.4 यव्वाँ का॒मये॑त प्रि॒यस्स्या॒दिति॑ । तस्मा॑ ए॒त स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा । दश॑होतारं पु॒रस्ताद्व्या॒ख्याय॑ । चतु॑ऱ्होतारन्दख्षिण॒तः । पञ्च॑होतारं प॒श्चात् । षड्ढो॑तारमुत्तर॒तः । स॒प्तहो॑तारमु॒परि॑ष्टात् । सं॒भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ । आस्यार्धव्व्रँ॑जेत् । प्रि॒यो है॒व भ॑वति ।। 46 ।। 2.3.11.0 दे॒वाष्षड्ढू॑तोऽभव॒त्पञ्च॑हो॒तेत्याच॑ख्षते प॒रोख्षे॑णाश्रौषी॒ष्षट्च॑ ।। 11 ।। 2.3.11.1 ब्रह्मात्म॒न्वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ दश॒म हू॒त प्रत्य॑शृणोत् । स दश॑हूतोऽभवत् । दश॑हूतो ह॒ वै नामै॒षः । तव्वाँ ए॒तन्दश॑हूत॒॒ सन्तम् । दश॑हो॒तेत्याच॑ख्षते प॒रोख्षे॑ण । प॒रोख्ष॑प्रिया इव॒ हि दे॒वाः ।। 47 ।। 2.3.11.2 आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ सप्त॒म हू॒त प्रत्य॑शृणोत् । स स॒प्तहू॑तोऽभवत् । स॒प्तहू॑तो ह॒ वै नामै॒षः । तव्वाँ ए॒त स॒प्तहू॑त॒॒ सन्तम् । स॒प्तहो॒तेत्याच॑ख्षते प॒रोख्षे॑ण । प॒रोख्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ ष॒ष्ठ हू॒त प्रत्य॑शृणोत् । स षड्ढू॑तोऽभवत् ।। 48 ।। 2.3.11.3 षड्ढू॑तो ह॒ वै नामै॒षः । तव्वाँ ए॒त षड्ढू॑त॒॒ सन्तम् । षड्ढो॒तेत्याच॑ख्षते प॒रोख्षे॑ण । प॒रोख्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ पञ्च॒म हू॒त प्रत्य॑शृणोत् । स पञ्च॑हूतोऽभवत् । पञ्च॑हूतो ह॒ वै नामै॒षः । तव्वाँ ए॒तं पञ्च॑हूत॒॒ सन्तम् । पञ्च॑हो॒तेत्याच॑ख्षते प॒रोख्षे॑ण ।। 49 ।। 2.3.11.4 प॒रोख्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ चतु॒र्थ हू॒त प्रत्य॑शृणोत् । स चतु॑ऱ्हूतोऽभवत् । चतु॑र्‌हूतो ह॒ वै नामै॒षः । तव्वाँ ए॒तञ्चतु॑र्‌हूत॒॒ सन्तम् । चतु॑र्हो॒तेत्याच॑ख्षते प॒रोख्षे॑ण । प॒रोख्ष॑प्रिया इव॒ हि दे॒वाः । तम॑ब्रवीत् । त्वव्वैँ मे॒ नेदि॑ष्ठ हू॒त प्रत्य॑श्रौषीः । त्वयै॑नानाख्या॒तार॒ इति॑ । तस्मा॒न्नु है॑ना॒॒श्चतु॑र्‌होतार॒ इत्याच॑ख्षते । तस्माच्छुश्रू॒षु पु॒त्राणा॒॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः । नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वव्वेँद॑ ।। 50 ।। 2.4.0.0 जुष्ट॒श्चख्षु॑षो॒ जुष्टी॑नरो नक्तञ्जा॒ता वृषा॒स उ॒त नो॒ वृषाऽस्य॒॒शुस्सप्र॑त्न॒वद॒ष्टौ ।। 8 ।। जुष्टो॑ म॒न्युर्भगो॒ जुष्टी॑ नरो॒ हरि॑वर्पस॒ङ्गिर॒श्शिप्रि॑न्वाजानामु॒त नः॑ प्रि॒या यद्वाग्वद॑न्ती॒ विश्वा॒ आशा॒ अशी॑तिः ।। 80 ।। जुष्ट॑स्सु॒दान॑वः ।। हरिः॑ ओम् ।। चतुर्थप्रपाठकस्समाप्तः ।। 2.4.0.0 तैत्तिरीयब्राह्मणे द्वितीयाष्टके चतुर्थप्रपाठक प्रारम्भः । हरिः ओम् ।। 2.4.1.0 जिघा॑सत्य॒मित्राञ्जघ॒न्वानी॑डते॒ सर्वा॒ अह॑सो वातो हृ॒दे रा॑जत्य॒ग्निरू॑पास्सुविदा॒नो अ॑ग्न॒ एक॑ञ्च ।। 1 ।। 2.4.1.1 जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒णे । इ॒मन्नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् । विश्वा॑ अग्नेऽभि॒युजो॑ वि॒हत्य॑ । श॒त्रू॒य॒तामा भ॑रा॒ भोज॑नानि । अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सञ्जास्प॒त्य सु॒यम॒मा कृ॑णुष्व । श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महा॑ सि । अग्ने॒ यो नो॒ऽभितो॒ जनः॑ । वृको॒ वारो॒ जिघा॑सति ।। 1 ।। 2.4.1.2 तास्त्वव्वृँ॑त्रहञ्जहि । वस्व॒स्मभ्य॒मा भ॑र । अग्ने॒ यो नो॑ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒ध्मस्ये॑व प्र॒ख्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । त्वमि॑न्द्राभि॒भूर॑सि । दे॒वो विज्ञा॑तवीर्यः । वृ॒त्र॒हा पु॑रु॒चेत॑नः । अप॒ प्राच॑ इन्द्र॒ विश्वा॑ अ॒मित्रान्॑ ।। 2 ।। 2.4.1.3 अपापा॑चो अभिभूते नुदस्व । अपोदी॑चो॒ अप॑शूराध॒रा च॑ ऊ॒रौ । यथा॒ तव॒ शर्म॒न्मदे॑म । तमिन्द्र॑व्वाँजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् । यु॒जे रथ॑ङ्ग॒वेष॑ण॒॒ हरि॑भ्याम् । उप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः । विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा । इन्द्रो॑ वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान् ।। 3 ।। 2.4.1.4 ह॒व्य॒वाह॑मभिमाति॒षाहम् । र॒ख्षो॒हणं॒ पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्त॒न्दीद्य॑तं॒ पुर॑न्धिम् । अ॒ग्नि स्वि॑ष्ट॒कृत॒मा हु॑वेम । स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भि ष्य । उ॒रुन्न॒ पन्थां प्रदि॒शन्विभा॑हि । ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ । त्वाम॑ग्ने ह॒विष्म॑न्तः । दे॒वं मर्ता॑स ईडते ।। 4 ।। 2.4.1.5 मन्ये त्वा जा॒तवे॑दसम् । स ह॒व्या व॑ख्ष्यानु॒षक् । विश्वा॑नि नो दु॒र्गहा॑ जातवेदः । सिन्धु॒न्न ना॒वा दु॑रि॒ताऽति॑ पर्‌षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नः । अ॒स्माकं॑ बोध्यवि॒ता त॒नूनाम् । पू॒षा गा अन्वे॑तु नः । पू॒षा र॑ख्ष॒त्वर्व॑तः । पू॒षा वाज॑ सनोतु नः । पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः ।। 5 ।। 2.4.1.6 सो अ॒स्मा अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वीरः । अप्र॑युच्छन्पु॒र ए॑तु॒ प्रजा॒नन्न् । त्वम॑ग्ने स॒प्रथा॑ असि । जुष्टो॒ होता॒ वरेण्यः । त्वया॑ य॒ज्ञव्विँत॑न्वते । अ॒ग्नी रख्षा॑सि सेधति । शु॒क्रशो॑चि॒रम॑र्त्यः । शुचि॑ पाव॒क ईड्यः॑ । अग्ने॒ रख्षा॑ णो॒ अह॑सः ।। 6 ।। 2.4.1.7 प्रति॑ ष्म देव॒ रीष॑तः । तपि॑ष्ठैर॒जरो॑ दह । अग्ने॒ हसि॒ न्य॑त्रिणम् । दीद्य॒न्मर्त्ये॒ष्वा । स्वे ख्षये॑ शुचिव्रत । आ वा॑त वाहि भेष॒जम् । वि वा॑त वाहि॒ यद्रपः॑ । त्व हि वि॒श्वभे॑षजः । दे॒वानान्दू॒त ईय॑से । द्वावि॒मौ वातौ॑ वातः ।। 7 ।। 2.4.1.8 आ सिन्धो॒रा प॑रा॒वतः॑ । दख्षं॑ मे अ॒न्य आ॒वातु॑ । परा॒न्यो वा॑तु॒ यद्रपः॑ । यद॒दो वा॑त ते गृ॒हे । अ॒मृत॑स्य नि॒धिऱ्हि॒तः । ततो॑ नो देहि जी॒वसे । ततो॑ नो धेहि भेष॒जम् । ततो॑ नो॒ मह॒ आव॑ह । वात॒ आवा॑तु भेष॒जम् । श॒म्भूर्म॑यो॒भूर्नो॑ हृ॒दे ।। 8 ।। 2.4.1.9 प्र ण॒ आयू॑षि तारिषत् । त्वम॑ग्ने अ॒यासि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सन् ह॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जम् । इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृत पिपर्तु नः । स्व॒गा दे॒वेभ्य॑ इ॒दन्नमः॑ । कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ विरा॑जति ।। 9 ।। 2.4.1.10 स इ॒दं प्रति॑ पप्रथे । ऋ॒तूनुथ्सृ॑जते व॒शी । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेत॑ प्रथ॒मय्यँदासीत् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा । त्वया॑ मन्यो स॒रथ॑मारु॒जन्तः॑ । हर्‌ष॑माणासो धृष॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा स॒॒शिशा॑नाः । उप॒ प्रय॑न्ति॒ नरो॑ अ॒ग्निरू॑पाः ।। 10 ।। 2.4.1.11 म॒न्युर्भगो॑ म॒न्युरे॒वास॑ दे॒वः । म॒न्युर्‌होता॒ वरु॑णो वि॒श्ववे॑दाः । म॒न्युव्विँश॑ ईडते देव॒यन्तीः । पा॒हि नो॑ मन्यो॒ तप॑सा॒ श्रमे॑ण । त्वम॑ग्ने व्रत॒भृच्छुचिः॑ । दे॒वा आसा॑दया इ॒ह । अग्ने॑ ह॒व्याय॒ वोढ॑वे । व्र॒तानुबिभ्र॑द्व्रत॒पा अदाभ्यः । यजा॑ नो दे॒वा अ॒जर॑स्सु॒वीरः॑ । दध॒द्रत्ना॑नि सुविदा॒नो अ॑ग्ने । गो॒पा॒य नो॑ जी॒वसे॑ जातवेदः ।। 11 ।। 2.4.2.0 ह॒विर्भि॑रा॒स्य॑मभि॒ दास॑तो विप॒श्चित॒मप्र॑यावञ्जी॒वसे॒ ददा॑ना व्यथिष्ठा ब्रव॒न्नेक॑ञ्च ।। 2 ।। 2.4.2.1 चख्षु॑षो हेते॒ मन॑सो हेते । वाचो॑ हेते॒ ब्रह्म॑णो हेते । यो मा॑ऽघा॒युर॑भि॒दास॑ति । तम॑ग्ने मे॒न्या मे॒निङ्कृ॑णु । यो मा॒ चख्षु॑षा॒ यो मन॑सा । यो वा॒चा ब्रह्म॑णाऽघा॒युर॑भि॒दास॑ति । तयाऽग्ने॒ त्वं मे॒न्या । अ॒मुम॑मे॒निङ्कृ॑णु । यत्किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा । य॒ज्ञैर्जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ।। 12 ।। 2.4.2.2 तन्मृ॒त्युर्निऱ्ऋ॑त्या सव्विँदा॒नः । पु॒रादि॒ष्टादाहु॑तीरस्य हन्तु । या॒तु॒धाना॒ निऱ्ऋ॑ति॒रादु॒रख्षः॑ । ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम् । इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु । मा तथ्समृ॑द्धि॒ यद॒सौ क॒रोति॑ । हन्मि॑ ते॒ऽहङ्कृ॒त ह॒विः । यो मे॑ घो॒रमची॑कृतः । अपाञ्चौ त उ॒भौ बा॒हू । अप॑नह्याम्या॒स्यम् ।। 13 ।। 2.4.2.3 अप॑ नह्यामि ते बा॒हू । अप॑ नह्याम्या॒स्यम् । अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा । सर्व॑न्तेऽवधिषङ्कृ॒तम् । पु॒राऽमुष्य॑ वषट्का॒रात् । य॒ज्ञन्दे॒वेषु॑ नस्कृधि । स्वि॑ष्टम॒स्माकं॑ भूयात् । माऽस्मान्प्राप॒न्नरा॑तयः । अन्ति॑ दू॒रे स॒तो अ॑ग्ने । भ्रातृ॑व्यस्याभि॒दास॑तः ।। 14 ।। 2.4.2.4 व॒ष॒ट्का॒रेण॒ वज्रे॑ण । कृ॒त्या ह॑न्मि कृ॒ताम॒हम् । यो मा॒ नक्त॒न्दिवा॑ सा॒यम् । प्रा॒तश्चाह्नो॑ नि॒पीय॑ति । अ॒द्या तमि॑न्द्र॒ वज्रे॑ण । भातृ॑व्यं पादयामसि । इन्द्र॑स्य गृ॒हो॑ऽसि॒ तन्त्वा । प्रप॑द्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ । ईडे॑ अ॒ग्निव्विँ॑प॒श्चितम् ।। 15 ।। 2.4.2.5 गि॒रा य॒ज्ञस्य॒ साध॑नम् । श्रु॒ष्टी॒वान॑न्धि॒तावा॑नम् । अग्ने॑ श॒केम॑ ते व॒यम् । यम॑न्दे॒वस्य॑ वा॒जिनः॑ । अति॒ द्वेषा॑सि तरेम । अव॑तं मा॒ सम॑नसौ॒ समो॑कसौ । सचे॑तसौ॒ सरे॑तसौ । उ॒भौ माम॑वतञ्जातवेदसौ । शि॒वौ भ॑वतम॒द्य नः॑ । स्व॒यङ्कृ॑ण्वा॒नस्सु॒गमप्र॑यावम् ।। 16 ।। 2.4.2.6 ति॒ग्मशृ॑ङ्गो वृष॒भश्शोशु॑चानः । प्र॒त्न स॒धस्थ॒मनु॒ पश्य॑मानः । आ तन्तु॑म॒ग्निर्दि॒व्यन्त॑तान । त्वन्न॒स्तन्तु॑रु॒त सेतु॑रग्ने । त्वं पन्था॑ भवसि देव॒यानः॑ । त्वयाऽग्ने पृ॒ष्ठव्वँ॒यमारु॑हेम । अथा॑ दे॒वैस्स॑ध॒मादं॑ मदेम । उदु॑त्त॒मं मु॑मुग्धि नः । वि पाशं॑ मध्य॒मञ्चृ॑त । अवा॑ध॒मानि॑ जी॒वसे ।। 17 ।। 2.4.2.7 व॒य सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तो अशीमहि । इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी । उदशे॑न पति॒विद्ये॑ जिगाय । त्रि॒॒शद॑स्या ज॒घन॒य्योँज॑नानि । उ॒पस्थ॒ इन्द्र॒॒ स्थवि॑रं बिभर्ति । सेना॑ ह॒ नाम॑ पृथि॒वी ध॑नञ्ज॒या । वि॒श्वव्य॑चा॒ अदि॑ति॒स्सूर्य॑त्वक् । इ॒न्द्रा॒णी दे॒वी प्रा॒सहा॒ ददा॑ना ।। 18 ।। 2.4.2.8 सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु । आत्वा॑ऽहार्‌षम॒न्तर॑भूः । ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् । ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी । ध्रु॒वव्विँश्व॑मि॒दञ्जग॑त् । ध्रु॒वा ह॒ पर्व॑ता इ॒मे । ध्रु॒वो राजा॑ वि॒शाम॒यम् । इ॒हैवैधि॒ मा व्य॑थिष्ठाः ।। 19 ।। 2.4.2.9 पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठ । इ॒ह रा॒ष्ट्रमु॑ धारय । अ॒भिति॑ष्ठ पृतन्य॒तः । अध॑रे सन्तु॒ शत्र॑वः । इन्द्र॑ इव वृत्र॒हा ति॑ष्ठ । अ॒पः ख्षेत्रा॑णि स॒ञ्जयन्न्॑ । इन्द्र॑ एणमदीधरत् । ध्रु॒वन्ध्रु॒वेण॑ ह॒विषा । तस्मै॑ दे॒वा अधि॑ब्रवन्न् । अ॒यञ्च॒ ब्रह्म॑ण॒स्पतिः॑ ।। 20 ।। 2.4.3.0 चा॒श्व॒जिद्यो ग॑च्छतन्नो॒ दाश॒न्नामा॑भि॒श्रीर्ग॑मेम स॒प्रथा॑ भजामहे विशन्तु या॒ह्य॑र्वाङच्छ॑ पिबाथ॒ष्षट्च॑ ।। 3 ।। 2.4.3.1 जुष्टी॑ नरो॒ ब्रह्म॑णा व पितृ॒णाम् । अख्ष॑मव्यय॒न्न किला॑रिषाथ । यच्छक्व॑रीषु बृह॒ता रवे॑ण । इन्द्रे॒ शुष्म॒मद॑धाथा वसिष्ठाः । पा॒व॒का न॒स्सर॑स्वती । वाजे॑भिर्वा॒जिनी॑वती । य॒ज्ञव्वँ॑ष्टु धि॒या व॑सुः । सर॑स्वत्य॒भिनो॑ नेषि॒ वस्यः॑ । मा प॑स्फरी॒ पय॑सा॒ मा न॒ आध॑क् । जु॒षस्व॑ नस्स॒ख्या॑ वे॒श्या॑ च ।। 21 ।। 2.4.3.2 मा त्वख्षेत्रा॒ण्यर॑णानि गन्म । वृ॒ञ्जे ह॒विर्नम॑सा ब॒र्॒हिर॒ग्नौ । अया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः । अम्य॑ख्षि॒ सद्म॒ सद॑ने पृथि॒व्याः । अश्रा॑यि य॒ज्ञस्सूर्ये॒ न चख्षुः॑ । इ॒हार्वाञ्च॒मति॑ ह्वये । इन्द्र॒ञ्जैत्रा॑य॒ जेत॑वे । अ॒स्माक॑मस्तु॒ केव॑लः । अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे । यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः ।। 22 ।। 2.4.3.3 इ॒मन्नो॑ य॒ज्ञव्विँ॑ह॒वे जु॑षस्व । अ॒स्य कु॑र्मो हरिवो मे॒दिन॑न्त्वा । असं॑मृष्टो जायसे मातृ॒वोश्शुचिः॑ । म॒न्द्र क॒विरुद॑तिष्ठो॒ विव॑स्वतः । घृ॒तेन॑ त्वा वर्धयन्नग्न आहुत । धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः । अ॒ग्निरग्रे प्रथ॒मो दे॒वता॑नाम् । सय्याँ॑तानामुत्त॒मो विष्णु॑रासीत् । यज॑मानाय परि॒गृह्य॑ दे॒वान् । दी॒ख्षये॒द ह॒विरा ग॑च्छतन्नः ।। 23 ।। 2.4.3.4 अ॒ग्निश्च॑ विष्णो॒ तप॑ उत्त॒मं म॒हः । दी॒ख्षा॒पा॒लेभ्यो॒ऽवन॑त॒॒ हि श॑क्रा । विश्वैर्दे॒वैर्य॒ज्ञियैस्सव्विँदा॒नौ । दी॒ख्षाम॒स्मै यज॑मानाय धत्तम् । प्र तद्विष्णु॑स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒म कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑ ख्षि॒यन्ति॒ भुव॑नानि॒ विश्वा । नूमर्तो॑ दयते सनि॒ष्यन् यः । विष्ण॑व उरुगा॒याय॒ दाश॑त् ।। 24 ।। 2.4.3.5 प्र यस्स॒त्राचा॒ मन॑सा॒ यजा॑तै । ए॒ताव॑न्त॒न्नर्य॑मा॒ विवा॑सात् । विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । ख्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन्न् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । उ॒रु॒ख्षि॒ति सु॒जनि॑मा चकार । त्रिर्दे॒व पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑सं महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् । त्वे॒ष ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ।। 25 ।। 2.4.3.6 होता॑रञ्चि॒त्रर॑थमध्व॒रस्य॑ । य॒ज्ञस्य॑यज्ञस्य के॒तु रुश॑न्तम् । प्रत्य॑र्धिन्दे॒वस्य॑देवस्य म॒ह्ना । श्रि॒या त्व॑ग्निमति॑थि॒ञ्जना॑नाम् । आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः । ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒थ्स्थवि॑रेभिस्सुशिप्र । अ॒स्मे दध॒द्वृष॑ण॒॒ शुष्म॑मिन्द्र । इन्द्र॑स्सुव॒र्॒षा ज॒नय॒न्नहा॑नि । जि॒गायो॒शिग्भि॒ पृत॑ना अभि॒ श्रीः ।। 26 ।। 2.4.3.7 प्रारो॑चय॒न्मन॑वे के॒तुमह्नाम् । अवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य । अश्वि॑ना॒वव॑से॒ निह्व॑ये वाम् । आ नू॒नय्याँ॑त सुकृ॒ताय॑ विप्रा । प्रा॒त॒र्यु॒क्तेन॑ सु॒वृता॒ रथे॑न । उ॒पाग॑च्छत॒मव॒साग॑तन्नः । अ॒वि॒ष्टन्धी॒ष्वश्वि॑ना न आ॒सु । प्र॒जाव॒द्रेतो॒ अह्र॑यन्नो अस्तु । आवान्तो॒के तन॑ये॒ तूतु॑जानाः । सु॒रत्ना॑सो दे॒ववी॑तिङ्गमेम ।। 27 ।। 2.4.3.8 त्व सो॑म॒ क्रतु॑भिस्सु॒क्रतु॑र्भूः । त्वदन्दख्षैस्सु॒दख्षो॑ वि॒श्ववे॑दाः । त्वव्वृँषा॑ वृष॒त्वेभि॑र्महि॒त्वा । द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चख्षाः । अषा॑ढय्युँ॒थ्सु पृत॑नासु॒ पप्रिम् । सु॒व॒र्॒षाम॒प्स्वाव्वृँ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जा सु॑ख्षि॒ति सु॒श्रव॑सम् । जय॑न्त॒न्त्वामनु॑ मदेम सोम । भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑तिः । विभू॑तद्युम्न एव॒ या उ॑ स॒प्रथाः ।। 28 ।। 2.4.3.9 अधा॑ ते विष्णो वि॒दुषा॑ चि॒दृध्यः॑ । स्तोमो॑ य॒ज्ञस्य॒ राध्यो॑ ह॒विष्म॑तः । य पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे । सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति । यो जा॒तम॒स्य म॑ह॒तो म॒हि ब्रवात् । सेदु॒ श्रवो॑भिर्यु॒ज्य॑ञ्चिद॒भ्य॑सत् । तमु॑ स्तोतार पू॒र्व्यय्यँथा॑ वि॒द ऋ॒तस्य॑ । गर्भ॑ ह॒विषा॑ पिपर्तन । आऽस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन । बृ॒हत्ते॑ विष्णो सुम॒तिं भ॑जामहे ।। 29 ।। 2.4.3.10 इ॒मा धा॒ना घृ॑त॒स्नुवः॑ । हरी॑ इ॒होप॑वख्षतः । इन्द्र॑ सु॒खत॑मे॒ रथे । ए॒ष ब्र॒ह्मा प्रते॑म॒हे । वि॒दथे॑ शसिष॒॒ हरी । य ऋ॒त्विय॒ प्रते॑ वन्वे । व॒नुषो॑ हर्य॒तं मदम् । इन्द्रो॒ नाम॑ घृ॒तन्नयः । हरि॑भि॒श्चारु॒ सेच॑ते । श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ।। 30 ।। 2.4.3.11 हरि॑वर्पस॒ङ्गिरः॑ । आच॑र्‌षणि॒प्रा वृ॑ष॒भो जना॑नाम् । राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ । स्तु॒तश्र॑व॒स्यन्नव॒सोप॑म॒द्रिक् । यु॒क्त्वा हरी॒ वृष॒णायाह्य॒र्वाङ् । प्र यथ्सिन्ध॑व प्रस॒वय्यँदायन्न्॑ । आप॑स्समु॒द्र र॒थ्ये॑व जग्मुः । अत॑श्चि॒दिन्द्र॒स्सद॑सो॒ वरी॑यान् । यदी॒॒ सोम॑ पृ॒णति॑ दु॒ग्धो अ॒॒शुः । ह्वया॑मसि॒ त्वेन्द्र॑ या॒ह्य॑र्वाङ् ।। 31 ।। 2.4.3.12 अर॑न्ते॒ सोम॑स्त॒नुवे॑ भवाति । शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॑ । प्रास्मा अ॑व॒ पृत॑नासु॒ प्रयु॒थ्सु । इन्द्रा॑य॒ सोमा प्र॒दिवो॒ विदा॑नाः । ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः । प्र॒य॒म्यमा॑णा॒न्प्रति॒ षू गृ॑भाय । इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ । अहे॑डमान॒ उप॑याहि य॒ज्ञम् । तुभ्यं॑ पवन्त॒ इन्द॑वस्सु॒तासः॑ । गावो॒ न व॑ज्रिन्थ्स्व॒मोको॒ अच्छ॑ ।। 32 ।। 2.4.3.13 इन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् । या ते॑ का॒कुथ्सुकृ॑ता॒ या वरि॑ष्ठा । यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् । तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्थात् । सन्ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः । प्रा॒त॒र्युजा॒ वि बो॑धय । अश्वि॑ना॒वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये । प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वम् । पु॒रा गृध्रा॒दर॑रुष पिबाथः । प्रा॒तऱ्हि य॒ज्ञम॒श्विना॒ दधा॑ते । प्रश॑सन्ति क॒वय॑ पूर्व॒भाजः॑ । प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत । न सा॒यम॑स्ति देव॒या अजु॑ष्टम् । उ॒तान्यो अ॒स्मद्य॑जते॒ विचा॑यः । पूर्व॑ पूर्वो॒ यज॑मानो॒ वनी॑यान् ।। 33 ।। 2.4.4.0 तव॑ कृधि॒ वन॒स्पतीञ्जानता॒मस॑ति व॒यं भ॑रादित्याश्च॒ नव॑ च ।। 4 ।। 2.4.4.1 न॒क्त॒ञ्जा॒ताऽस्यो॑षधे । रामे॒ कृष्णे॒ असि॑क्नि च । इ॒द र॑जनि रजय । कि॒लासं॑ पलि॒तञ्च॒ यत् । कि॒लास॑ञ्च पलि॒तञ्च॑ । निरि॒तो ना॑शया॒ पृष॑त् । आ न॒स्स्वो अ॑श्ञुता॒व्वँर्णः॑ । परा श्वे॒तानि॑ पातय । असि॑तन्ते नि॒लय॑नम् । आ॒स्थान॒मसि॑त॒न्तव॑ ।। 34 ।। 2.4.4.2 असि॑क्नियस्योषधे । निरि॒तो ना॑शया॒ पृष॑त् । अ॒स्थि॒जस्य॑ कि॒लास॑स्य । त॒नू॒जस्य॑ च॒ यत्त्व॒चि । कृ॒त्यया॑ कृ॒तस्य॒ ब्रह्म॑णा । लख्ष्म॑ श्वे॒तम॑नीनशम् । सरू॑पा॒ नाम॑ ते मा॒ता । सरू॑पो॒ नाम॑ ते पि॒ता । सरू॑पाऽस्योषधे॒ सा । सरू॑पमि॒दङ्कृ॑धि ।। 35 ।। 2.4.4.3 शु॒न हु॑वेम म॒घवा॑न॒मिन्द्रम् । अ॒स्मिन्भरे॒ नृत॑म॒व्वाँज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मथ्सु॑ । घ्नन्त॑व्वृँ॒त्राणि॑ स॒ञ्जित॒न्धना॑नाम् । धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॑ । नि वो॒ वना॑ जिहते॒ याम॑ नो भि॒या । को॒पय॑थ पृथि॒वीं पृ॑श्ञिमातरः । यु॒धे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् । प्रवे॑पयन्ति॒ पर्व॑तान् । विवि॑ञ्चन्ति॒ वन॒स्पतीन्॑ ।। 36 ।। 2.4.4.4 प्रोवा॑रत मरुतो दु॒र्मदा॑ इव । देवा॑स॒स्सर्व॑या वि॒शा । पु॒रु॒त्रा हि स॒दृङ्ङसि॑ । विशो॒ विश्वा॒ अनु॑ प्र॒भु । स॒मथ्सु॑ त्वा हवामहे । स॒मथ्स्व॒ग्निमव॑से । वा॒ज॒यन्तो॑ हवामहे । वाजे॑षु चि॒त्ररा॑धसम् । सङ्ग॑च्छध्व॒॒ सव्वँ॑दध्वम् । सव्वोँ॒ मना॑सि जानताम् ।। 37 ।। 2.4.4.5 दे॒वा भा॒गय्यँथा॒ पूर्वे । स॒ञ्जा॒ना॒ना उ॒पास॑त । स॒मा॒नो मन्त्र॒स्समि॑तिस्समा॒नी । स॒मा॒नं मन॑स्स॒ह चि॒त्तमे॑षाम् । स॒मा॒नङ्केतो॑ अ॒भि स र॑भध्वम् । सं॒ज्ञाने॑न वो ह॒विषा॑ यजामः । स॒मा॒नी व॒ आकू॑तिः । स॒मा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनः॑ । यथा॑ व॒स्सुस॒हास॑ति ।। 38 ।। 2.4.4.6 सं॒ज्ञान॑न्न॒स्स्वैः । सं॒ज्ञान॒मर॑णैः । सं॒ज्ञान॑मश्विना यु॒वम् । इ॒हास्मासु॒ निय॑च्छतम् । सं॒ज्ञानं॑ मे॒ बृह॒स्पतिः॑ । सं॒ज्ञान॑ सवि॒ता क॑रत् । सं॒ज्ञान॑मश्विना यु॒वम् । इ॒ह मह्य॒न्नि य॑च्छतम् । उप॑ च्छा॒यामि॑व॒ घृणेः । अग॑न्म॒ शर्म॑ ते व॒यम् ।। 39 ।। 2.4.4.7 अग्ने॒ हिर॑ण्यसन्दृशः । अद॑ब्धेभिस्सवित पा॒युभि॒ष्ट्वम् । शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गयम् । हिर॑ण्यजिह्वस्सुवि॒ताय॒ नव्य॑से । रख्षा॒ माकि॑र्नो अ॒घश॑स ईशत । मदे॑मदे॒ हि नो॑ द॒दुः । यू॒था गवा॑मृजु॒क्रतुः॑ । सङ्गृ॑भाय पु॒रूश॒ता । उ॒भ॒या ह॒स्त्या वसु॑ । शि॒शी॒हि रा॒य आ भ॑र ।। 40 ।। 2.4.4.8 शिप्रि॑न्वाजानां पते । शची॑व॒स्तव॑ द॒॒सना । आ तू न॑ इन्द्र भाजय । गोष्वश्वे॑षु शु॒भ्रुषु॑ । स॒हस्रे॑षु तुवीमघ । यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मान्मा यू॒यम् । ऋ॒तस्य॒र्तेन॑ मुञ्चत । ऋ॒तस्य॒र्तेना॑दित्याः ।। 41 ।। 2.4.4.9 यज॑त्रा मु॒ञ्चते॒ह मा । य॒ज्ञैर्वो॑ यज्ञवाहसः । आ॒शिख्ष॑न्तो॒ न शे॑किम । मेद॑स्वता॒ यज॑मानाः । स्रु॒चाऽऽज्ये॑न॒ जुह्व॑तः । अ॒का॒मा वो॑ विश्वेदेवाः । शिख्ष॑न्तो॒ नोप॑ शेकिम । यदि॒ दिवा॒ यदि॒ नक्तम् । एन॑ एन॒स्योक॑रत् । भू॒तं मा॒ तस्मा॒द्भव्य॑ञ्च ।। 42 ।। 2.4.4.10 द्रु॒प॒दादि॑व मुञ्चतु । द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः । स्वि॒न्नस्स्ना॒त्वी मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्यम् । विश्वे॑ मुञ्चन्तु॒ मैन॑सः । उद्व॒यन्तम॑स॒स्परि॑ । पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वन्दे॑व॒त्रा सूर्यम् । अग॑न्म॒ ज्योति॑रुत्त॒मम् ।। 43 ।। 2.4.5.0 मन॒ इन्द्रो॒ गवि॑ष्टिषु॒ तन्तु॒ङ्गर्भ॒॒ सुजा॑ता॒स्सखा॑ स॒प्त च॑ ।। 5 ।। 2.4.5.1 वृषा॒सो अ॒॒शु प॑वते ह॒विष्मा॒न्थ्सोमः॑ । इन्द्र॑स्य भा॒ग ऋ॑त॒युश्श॒तायुः॑ । स मा॒ वृषा॑णव्वृँष॒भङ्कृ॑णोतु । प्रि॒यव्विँ॒शा सर्व॑वीर सु॒वीरम् । कस्य॒ वृषा॑ सु॒ते सचा । नि॒युत्वान्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये । यस्ते॑ शृङ्ग वृषोनपात् । प्रण॑पात्कुण्ड॒पाय्यः॑ । न्य॑स्मिन्दध्र॒ आ मनः॑ ।। 44 ।। 2.4.5.2 त स॒ध्रीची॑रू॒तयो॒ वृष्णि॑यानि । पौस्या॑नि नि॒युत॑स्सश्चु॒रिन्द्रम् । स॒मु॒द्रन्न सिन्ध॑व उ॒क्थशु॑ष्माः । उ॒रु॒व्यच॑स॒ङ्गिर॒ आ वि॑शन्ति । इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गाः । अ॒प प्रैर॑य॒न्थ्सग॑रस्य बु॒ध्नात् । यो अख्षे॑णेव च॒क्रिया॒ शची॑भिः । विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् । अख्षो॑दय॒च्छव॑सा॒ ख्षाम॑बु॒ध्नम् । वार्णवा॑त॒स्तवि॑षीभि॒रिन्द्रः॑ ।। 45 ।। 2.4.5.3 दृ॒ढान्यौघ्नादु॒शमा॑न॒ ओजः॑ । अवा॑भिनत्क॒कुभ॒ पर्व॑तानाम् । आ नो॑ अग्ने सुके॒तुना । र॒यिव्विँ॒श्वायु॑पोषसम् । मा॒र्डी॒कन्धे॑हि जी॒वसे । त्व सो॑म म॒हे भगम् । त्वय्यूँन॑ ऋताय॒ते । दख्ष॑न्दधासि जी॒वसे । रथ॑य्युँञ्जते म॒रुत॑श्शु॒भे सु॒गम् । सूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ।। 46 ।। 2.4.5.4 रजा॑सि चि॒त्रा विच॑रन्ति त॒न्यवः॑ । दि॒वस्स॑म्राजा॒ पय॑सा न उख्षतम् । वाच॒॒ सुमि॑त्रावरुणा॒विरा॑वतीम् । प॒र्जन्य॑श्चि॒त्राव्वँ॑दति॒ त्विषी॑मतीम् । अ॒भ्रा व॑सत मरुतस्सुमा॒यया । द्याव्वँ॑र्‌षयतमरु॒णाम॑रे॒पसम् । अयु॑क्त स॒प्त शु॒न्ध्युवः॑ । सूरो॒ रथ॑स्य न॒प्त्रियः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः । वहि॑ष्ठेभिऱ्वि॒हर॑न् यासि॒ तन्तुम् ।। 47 ।। 2.4.5.5 अ॒व॒व्यय॒न्नसि॑तन्देव॒ वस्वः॑ । दवि॑ध्वतो र॒श्मय॒स्सूर्य॑स्य । चर्मे॒वावा॑धु॒स्तमो॑ अ॒फ्स्व॑न्तः । प॒र्जन्या॑य॒ प्र गा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे । स नो॑ य॒वस॑मिच्छतु । अच्छा॑ वद त॒वस॑ङ्गी॒र्भिरा॒भिः । स्तु॒हि प॒र्जन्य॒न्नम॒साऽऽवि॑वास । कनि॑क्रदद्वृष॒भो जी॒रदा॑नुः । रेतो॑ दधा॒त्वोष॑धीषु॒ गर्भम् ।। 48 ।। 2.4.5.6 यो गर्भ॒मोष॑धीनाम् । गवाङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्य॑ पुरु॒षीणाम् । तस्मा॒ इदा॒स्ये॑ ह॒विः । जू॒होता॒ मधु॑मत्तमम् । इडान्नस्स॒य्यँत॑ङ्करत् । ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामित् । शुचि॑ङ्घृ॒तेन॒ शुच॑यस्सप॒र्यन्न् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । असू॑दयन्त त॒नुव॒स्सुजा॑ताः ।। 49 ।। 2.4.5.7 इन्द्र॑श्च नश्शुनासीरौ । इ॒मय्यँ॒ज्ञं मि॑मिख्षतम् । गर्भ॑न्धत्त स्व॒स्तये । ययो॑रि॒दव्विँश्वं॒ भुव॑नमा वि॒वेश॑ । ययो॑रान॒न्दो निहि॑तो॒ मह॑श्च । शुना॑सीरावृ॒तुभि॑स्सव्विँदा॒नौ । इन्द्र॑वन्तौ ह॒विरि॒दञ्जु॑षेथाम् । आघा॒ये अ॒ग्निमि॑न्ध॒ते । स्तृ॒णन्ति॑ ब॒र्॒हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा । अग्न॒ इन्द्र॑श्च मे॒दिना । ह॒थो वृ॒त्राण्य॑प्र॒ति । यु॒व हि वृ॑त्र॒हन्त॑मा । याभ्या॒॒ सुव॒रज॑य॒न्नग्र॑ ए॒व । यावा॑तस्थ॒तुर्भुव॑नस्य॒ मध्ये । प्रच॑र्‌ष॒णी वृ॑षणा॒ वज्र॑बाहू । अ॒ग्नी इन्द्रा॑वृत्र॒हणा॑ हुवे वाम् ।। 50 ।। 2.4.6.0 धा॒रय॑न्पुरो॒डाशं॒ बृह॒स्पति॑ञ्ज॒घन॑च्युतिमान॒न्दो भग॑स्य तृप्याण्य॒ग्ने पृ॑थि॒वी यज्व॑न एतु प्र॒दिश॒श्चत॑स्रो॒ वाज॑सातौ च॒त्वारि॑ च ।। 6 ।। 2.4.6.1 उ॒त न॑ प्रि॒या प्रि॒यासु॑ । स॒प्तस्वसा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या॑ऽभूत् । इ॒मा जुह्वा॑नायु॒ष्मदा नमो॑भिः । प्रति॒ स्तोम॑ सरस्वति जुषस्व । तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑नाः । उप॑स्थेयाम शर॒णन्न वृ॒ख्षम् । त्रिणि॑ प॒दा विच॑क्रमे । विष्णु॑र्गो॒पा अदाभ्यः । ततो॒ धर्मा॑णि धा॒रयन्न्॑ ।। 51 ।। 2.4.6.2 तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम् । नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णो प॒दे प॑र॒मे मध्व॒ उथ्सः॑ । क्र॒त्वा॒दा अ॑स्थु॒ श्रेष्ठः॑ । अ॒द्य त्वा॑ व॒न्वन्थ्सु॒रेक्णाः । मर्त॑ आनाश सुवृ॒क्तिम् । इ॒मा ब्र॑ह्म ब्रह्मवाह । प्रि॒या त॒ आ ब॒र्॒हिस्सी॑द । वी॒हि सू॑र पुरो॒डाशम् ।। 52 ।। 2.4.6.3 उप॑ नस्सू॒नवो॒ गिरः॑ । शृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मृ॒डी॒का भ॑वन्तु नः । अ॒द्या नो॑ देव सवितः । प्र॒जाव॑थ्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑य सुव । विश्वा॑नि देव सवितः । दु॒रि॒तानि॒ परा॑ सुव । यद्भ॒द्रन्तन्म॒ आ सु॑व । शुचि॑म॒र्कैर्बृह॒स्पतिम् ।। 53 ।। 2.4.6.4 अ॒ध्व॒रेषु॑ नमस्यत । अ॒ना॒म्योज॒ आ च॑के । या धा॒रय॑न्त दे॒वा सु॒दख्षा॒ दख्ष॑पितारा । अ॒सु॒र्या॑य॒ प्रम॑हसा । स इत् ख्षेति॒ सुधि॑त॒ ओक॑सि॒ स्वे । तस्मा॒ इडा॑ पिन्वते विश्व॒दानी । तस्मै॒ विश॑स्स्व॒यमे॒वान॑मन्ति । यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ । सकू॑तिमिन्द्र॒ सच्यु॑तिम् । सच्यु॑तिञ्ज॒घन॑च्युतिम् ।। 54 ।। 2.4.6.5 क॒नात्का॒भान्न॒ आ भ॑र । प्र॒य॒फ्स्यन्नि॑व स॒क्थ्यौ । वि न॑ इन्द्र॒ मृधो॑ जहि । कनी॑खुनदिव सा॒पयन्न्॑ । अ॒भि न॒स्सुष्टु॑तिन्नय । प्र॒जाप॑तिस्स्त्रि॒याय्यँशः॑ । मु॒ष्कयो॑रदधा॒थ्सपम् । काम॑स्य॒ तृप्ति॑मान॒न्दम् । तस्याग्ने भाजये॒ह मा । मोद॑ प्रमो॒द आ॑न॒न्दः ।। 55 ।। 2.4.6.6 मु॒ष्कयो॒र्निहि॑त॒स्सपः॑ । सृ॒त्वेव॒ काम॑स्य तृप्याणि । दख्षि॑णानां प्रतिग्र॒हे । मन॑सश्चि॒त्तमाकू॑तिम् । वा॒चस्स॒त्यम॑शीमहि । प॒शू॒ना रू॒पमन्न॑स्य । यश॒श्श्रीश्श्र॑यतां॒ मयि॑ । यथा॒ऽहम॒स्या अतृ॑प स्त्रि॒यै पुमान्॑ । यथा॒ स्त्री तृप्य॑ति पु॒॒सि प्रि॒ये प्रि॒या । ए॒वं भग॑स्य तृप्याणि ।। 56 ।। 2.4.6.7 य॒ज्ञस्य॒ काम्य॑ प्रि॒यः । ददा॒मीत्य॒ग्निर्व॑दति । तथेति॑ वा॒युरा॑ह॒ तत् । हन्तेति॑ स॒त्यञ्च॒न्द्रमाः । आ॒दि॒त्यस्स॒त्यमोमिति॑ । आप॒स्तथ्स॒त्यमा भ॑रन्न् । यशो॑ य॒ज्ञस्य॒ दख्षि॑णाम् । अ॒सौ मे॒ काम॒स्समृ॑द्ध्यताम् । न हि स्पश॒मवि॑दन्न॒न्यम॒स्मात् । वै॒श्वा॒न॒रात्पु॑रए॒तार॑म॒ग्नेः ।। 57 ।। 2.4.6.8 अथे॑ममन्थन्न॒मृत॒ममू॑राः । वै॒श्वा॒न॒रङ्ख्षेत्र॒जित्या॑य दे॒वाः । येषा॑मि॒मे पूर्वे॒ अर्मा॑स॒ आसन्न्॑ । अ॒यू॒पास्सद्म॒ विभृ॑ता पु॒रूणि॑ । वैश्वा॑नर॒ त्वया॒ ते नु॒त्ताः । पृ॒थि॒वीम॒न्याम॒भित॑स्थु॒र्जना॑सः । पृ॒थि॒वीं मा॒तरं॑ म॒हीम् । अ॒न्तरि॑ख्ष॒मुप॑ ब्रुवे । बृ॒ह॒तीमू॒तये॒ दिवम् । विश्वं॑ बिभर्ति पृथि॒वी ।। 58 ।। 2.4.6.9 अ॒न्तरि॑ख्ष॒व्विँ प॑प्रथे । दु॒हे द्यौर्बृ॑ह॒ती पयः॑ । न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः । नैना॑ अमि॒त्रो व्यथि॒राद॑धर्‌षति । दे॒वाश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च । ज्योगित्ताभि॑स्सचते॒ गोप॑तिस्स॒ह । न ता अर्वा॑ रे॒णुक॑काटो अश्ञुते । न स॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑य॒न्तस्य॒ ता अनु॑ । गावो॒ मर्त्य॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ।। 59 ।। 2.4.6.10 रात्री॒ व्य॑ख्यदाय॒ती । पु॒रु॒त्रा दे॒व्य॑ख्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑ऽधित । उप॑ ते॒ गा इ॒वाक॑रम् । वृ॒णी॒ष्व दु॑हितर्दिवः । रात्री॒ स्तोम॒न्न जि॒ग्युषी । दे॒वीव्वाँच॑मजनयन्त दे॒वाः । ताव्विँ॒श्वरू॑पा प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्ज॒न्दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ।। 60 ।। 2.4.6.11 यद्वाग्वद॑न्त्यविचेत॒नानि॑ । राष्ट्री॑ दे॒वानान्निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्ज॑न्दुदुहे॒ पया॑सि । क्व॑ स्विदस्या पर॒मञ्ज॑गाम । गौ॒री मि॑माय सलि॒लानि॒ तख्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी । स॒हस्राख्षरा पर॒मे व्यो॑मन्न् । तस्या॑ समु॒द्रा अधि॒ विख्ष॑रन्ति । तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ।। 61 ।। 2.4.6.12 ततः॑ ख्षरत्य॒ख्षरम् । तद्विश्व॒मुप॑ जीवति । इन्द्रा॒सूरा॑ ज॒नय॑न्वि॒श्वक॑र्मा । म॒रुत्वा॑ अस्तु ग॒णवान्थ्सजा॒तवान्॑ । अ॒स्य स्नु॒षा श्वशु॑रस्य॒ प्रशि॑ष्टिम् । स॒पत्ना॒ वाचं॒ मन॑सा॒ उपा॑सताम् । इन्द्र॒स्सूरो॑ अतर॒द्रजा॑सि । स्नु॒षा स॒पत्ना॒ श्वशु॑रो॒ऽयम॑स्तु । अ॒य शत्रूञ्जयतु॒ जर्‌हृ॑षाणः । अ॒यव्वाँज॑ञ्जयतु॒ वाज॑सातौ । अ॒ग्निः ख्ष॑त्र॒भृदनि॑भृष्ट॒मोजः॑ । स॒ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन्न् । वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः । आऽन्तरि॑ख्षमरुह॒दग॒न्द्याम् ।। 62 ।। 2.4.7.0 वि॒शाञ्ज॑यामसि जीरदानो॒ हर्या॒ विश्वा॒ दिवि॑ष्टिषु॒ वसू॑नि जिगी॒वान्थ्सहो॑भिर्मि॒ता न॑श्च॒त्वारि॑ च ।। 7 ।। 2.4.7.1 वृषाऽस्य॒॒शुर्वृ॑ष॒भाय॑ गृह्यसे । वृषा॒ऽयमु॒ग्रो नृ॒चख्ष॑से । दि॒व्य क॑र्म॒ण्यो॑ हि॒तो बृ॒हन्नाम॑ । वृ॒ष॒भस्य॒ या क॒कुत् । वि॒षू॒वान् वि॑ष्णो भवतु । अ॒यय्योँ मा॑म॒को वृषा । अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ । वि ब्र॑वीतु॒ जनेभ्यः । आयु॑ष्मन्त॒व्वँर्च॑स्वन्तम् । अथो॒ अधि॑पतिव्विँ॒शाम् ।। 63 ।। 2.4.7.2 अ॒स्या पृ॑थि॒व्या अध्य॑ख्षम् । इ॒ममि॑न्द्र वृष॒भङ्कृ॑णु । यस्सु॒शृङ्ग॑स्सुवृष॒भः । क॒ल्याणो॒ द्रोण॒ आहि॑तः । कार्‌षी॑वल प्रगाणेन । वृ॒ष॒भेण॑ यजामहे । वृ॒ष॒भेण॒ यज॑मानाः । अक्रू॑रेणेव स॒र्पिषा । मृध॑श्च॒ सर्वा॒ इन्द्रे॑ण । पृत॑नाश्च जयामसि ।। 64 ।। 2.4.7.3 यस्या॒यमृ॑ष॒भो ह॒विः । इन्द्रा॑य परिणी॒यते । जया॑ति॒ शत्रु॑मा॒यन्तम् । अथो॑ हन्ति पृतन्य॒तः । नृ॒णामह॑ प्र॒णीरस॑त् । अग्र॑ उद्भिन्द॒ताम॑सत् । इन्द्र॒ शुष्म॑न्त॒नुवा॒ मेर॑यस्व । नी॒चा विश्वा॑ अ॒भिति॑ष्ठा॒भिमा॑तीः । नि शृ॑णीह्याबा॒धय्योँ॒ नो॒ अस्ति॑ । उ॒रुन्नो॑ लो॒कङ्कृ॑णुहि जीरदानो ।। 65 ।। 2.4.7.4 प्रेह्य॒भि प्रेहि॒ प्र भ॑रा॒ सह॑स्व । मा विवे॑नो॒ वि शृ॑णुष्वा॒ जने॑षु । उदी॑डि॒तो वृ॑षभ॒ तिष्ठ॒ शुष्मैः । इन्द्र॒ शत्रून्पु॒रो अ॒स्माक॑ युध्य । अग्ने॒ जेता॒ त्वञ्ज॑य । शत्रून्थ्सहस॒ ओज॑सा । वि शत्रू॒न्॒ विमृधो॑ नुद । ए॒तन्ते॒ स्तोम॑न्तुविजात॒ विप्रः॑ । रथ॒न्न धीर॒स्स्वपा॑ अतख्षम् । यदीद॑ग्ने॒ प्रति॒त्वन्दे॑व॒ हर्याः ।। 66 ।। 2.4.7.5 सुव॑र्वतीर॒प ए॑ना जयेम । यो घृ॒तेना॒भिमा॑नितः । इन्द्र॒ जैत्रा॑य जज्ञिषे । स न॒स्सङ्का॑सु पारय । पृ॒त॒ना॒साह्ये॑षु च । इन्द्रो॑ जिगाय पृथि॒वीम् । अ॒न्तरि॑ख्ष॒॒ सुव॑र्म॒हत् । वृ॒त्र॒हा पु॑रु॒चेत॑नः । इन्द्रो॑ जिगाय॒ सह॑सा॒ सहा॑सि । इन्द्रो॑ जिगाय॒ पृत॑नानि॒ विश्वा ।। 67 ।। 2.4.7.6 इन्द्रो॑ जा॒तो वि पुरो॑ रुरोज । स न॑ पर॒स्पा वरि॑व कृणोतु । अ॒यङ्कृ॒त्नुरगृ॑भीतः । वि॒श्व॒जिदु॒द्भिदिथ्सोमः॑ । ऋषि॒र्विप्र॒ काव्ये॑न । वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः । सा॒कङ्ग॒न्मन॑सा य॒ज्ञम् । शि॒वो नि॒युद्भि॑श्शि॒वाभिः॑ । वायो॑ शु॒क्रो अ॑यामि ते । मध्वो॒ अग्र॒न्दिवि॑ष्टिषु ।। 68 ।। 2.4.7.7 आ या॑हि॒ सोम॑ पीतये । स्वा॒रु॒हो दे॑व नि॒युत्व॑ता । इ॒ममि॑न्द्र वर्धय ख्ष॒त्रिया॑णाम् । अ॒यव्विँ॒शाव्विँ॒श्पति॑रस्तु॒ राजा । अ॒स्मा इ॑न्द्र॒ महि॒ वर्चा॑सि धेहि । अ॒व॒र्चस॑ङ्कणुहि॒ शत्रु॑मस्य । इ॒ममा भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॑ । निर॒मुं भ॑ज॒ यो॑ऽमित्रो॑ अस्य । वर्ष्म॑न् ख्ष॒त्रस्य॑ क॒कुभि॑ श्रयस्व । ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ।। 69 ।। 2.4.7.8 अ॒स्मे द्या॑वापृथिवी॒ भूरि॑ वा॒मम् । सन्दु॑हाथाङ्घर्म॒दुघे॑व धे॒नुः । अ॒य राजा प्रि॒य इन्द्र॑स्य भूयात् । प्रि॒यो गवा॒मोष॑धीनामु॒तापाम् । यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रम् । येन॒ जया॑सि॒ न परा॒ जया॑सै । स त्वा॑ऽकरेकवृष॒भ स्वानाम् । अथो॑ राजन्नुत्त॒मं मा॑न॒वानाम् । उत्त॑र॒स्त्वमध॑रे ते स॒पत्नाः । एक॑वृषा॒ इन्द्र॑सखा जिगी॒वान् ।। 70 ।। 2.4.7.9 विश्वा॒ आशा॒ पृत॑नास्स॒ञ्जय॒ञ्जयन्न्॑ । अ॒भि ति॑ष्ठ शत्रूय॒तस्स॑हस्व । तुभ्यं॑ भरन्ति ख्षि॒तयो॑ यविष्ठ । ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒तिञ्चि॑किद्धि । बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् । यो दे॒ह्यो अन॑मयद्वध॒स्नैः । यो अर्य॑पत्नीरु॒षस॑श्च॒कार॑ । स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः । विश॑श्चक्रे बलि॒हृत॒स्सहो॑भिः ।। 71 ।। 2.4.7.10 प्र स॒द्यो अ॑ग्ने॒ अत्येष्य॒न्यान् । आ॒विर्यस्मै॒ चारु॑तरो ब॒भूथ॑ । ई॒डेन्यो॑ वपु॒ष्यो॑ वि॒भावा । प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् । ब्रह्म॑ज्येष्ठा वी॒र्या॑ संभृ॑तानि । ब्रह्माग्रे॒ ज्येष्ठ॒न्दिव॒मा त॑तान । ऋ॒तस्य॒ ब्रह्म॑ प्रथ॒मोत ज॑ज्ञे । तेना॑र्‌हति॒ ब्रह्म॑णा॒ स्पर्धि॑तु॒ङ्कः । ब्रह्म॒ स्रुचो॑ घृ॒तव॑तीः । ब्रह्म॑णा॒ स्वर॑वो मि॒ताः ।। 72 ।। 2.4.7.11 ब्रह्म॑ य॒ज्ञस्य॒ तन्त॑वः । ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑ । शृङ्गा॑णी॒वेच्छृ॒ङ्गिणा॒॒ सन्द॑दृश्रिरे । च॒षाल॑वन्त॒स्स्वर॑व पृथि॒व्याम् । ते दे॒वास॒स्स्वर॑वस्तस्थि॒वासः॑ । नम॒स्सखि॑भ्यस्स॒न्नान्माऽव॑गात । अ॒भि॒भूर॒ग्निर॑तर॒द्रजा॑सि । स्पृधो॑ वि॒हत्य॒ पृत॑ना अभि॒श्रीः । जु॒षा॒णो म॒ आहु॑तिं मामहिष्ट । ह॒त्वा स॒पत्ना॒न्॒ वरि॑वस्करन्नः । ईशा॑नन्त्वा॒ भुव॑नानामभि॒श्रियम् । स्तौम्य॑ग्न उरु॒कृत॑ सु॒वीरम् । ह॒विर्जु॑षा॒णस्स॒पत्ना॑ अभि॒भूर॑सि । ज॒हि शत्रू॒॒ रप॒ मृधो॑ नुदस्व ।। 73 ।। 2.4.8.0 पु॒र॒ए॒ता वृ॑णीमहे जु॒षेथान्तर्पयता॒मृत॒न्नवे॑न मीयसे स्यो॒नश्च॒त्वारि॑ च ।। 8 ।। 2.4.8.1 स प्र॑त्न॒वन्नवी॑यसा । अग्ने द्यु॒म्नेन॑ स॒य्यँता । बृ॒हत्त॑तन्थ भा॒नुना । नव॒न्नु स्तोम॑म॒ग्नये । दि॒वश्श्ये॒नाय॑ जीजनम् । वसो कु॒विद्व॒नाति॑ नः । स्वा॒रु॒हा यस्य॒ श्रियो॑ दृ॒शे । र॒यिर्वी॒रव॑तो यथा । अग्रे॑ य॒ज्ञस्य॒ चेत॑तः । अदाभ्य पुरए॒ता ।। 74 ।। 2.4.8.2 अ॒ग्निर्वि॒शां मानु॑षीणाम् । तूर्णी॒ रथ॒स्सदा॒ नवः॑ । नव॒॒ सोमा॑य वा॒जिने । आज्यं॒ पय॑सोऽजनि । जुष्ट॒॒ शुचि॑तम॒व्वँसु॑ । नव॑ सोम जुषस्व नः । पी॒यूष॑स्ये॒ह तृ॑प्णुहि । यस्ते॑ भा॒ग ऋ॒ता व॒यम् । नव॑स्य सोम ते व॒यम् । आ सु॑म॒तिव्वृँ॑णीमहे ।। 75 ।। 2.4.8.3 स नो॑ रास्व सह॒स्रिणः॑ । नव॑ ह॒विर्जु॑षस्व नः । ऋ॒तुभि॑स्सोम॒ भूत॑मम् । तद॒ङ्ग प्रति॑हर्य नः । राजन्थ्सोम स्व॒स्तये । नव॒॒स्तोम॒न्नव॑ ह॒विः । इ॒न्द्रा॒ग्निभ्या॒न्नि वे॑दय । तज्जु॑षेता॒॒ सचे॑तसा । शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्य । इन्द्राग्नी वृत्रहणा जु॒षेथाम् ।। 76 ।। 2.4.8.4 उ॒भा हि वा॑ सु॒हवा॒ जोह॑वीमि । ता वाज॑ स॒द्य उ॑श॒ते धेष्ठा । अ॒ग्निरिन्द्रो॒ नव॑स्य नः । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । इ॒ह दे॒वौ स॑ह॒स्रिणौ । य॒ज्ञन्न॒ आ हि गच्छ॑ताम् । वसु॑मन्त सुव॒र्विदम् । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । अ॒ग्निरिन्द्रो॒ नव॑स्य नः । विश्वान्दे॒वास्त॑र्पयत ।। 77 ।। 2.4.8.5 ह॒विषो॒ऽस्य नव॑स्य नः । सु॒व॒र्विदो॒ हि ज॑ज्ञि॒रे । एदं ब॒र्॒हिस्सु॒ष्टरी॑मा॒ नवे॑न । अ॒यय्यँ॒ज्ञो यज॑मानस्य भा॒गः । अ॒यं ब॑भूव॒ भुव॑नस्य॒ गर्भः॑ । विश्वे॑ दे॒वा इ॒दम॒द्याग॑मिष्ठाः । इ॒मे नु द्यावा॑पृथि॒वी स॒मीची । त॒न्वा॒ने य॒ज्ञं पु॑रु॒पेश॑सन्धि॒या । आऽस्मै॑ पृणीतां॒ भुव॑नानि॒ विश्वा । प्र॒जां पुष्टि॑म॒मृत॒न्नवे॑न ।। 78 ।। 2.4.8.6 इ॒मे धे॒नू अ॒मृत॒य्येँ दु॒हाते । पय॑स्वत्युत्त॒रामे॑तु॒ पुष्टिः॑ । इ॒मय्यँ॒ज्ञञ्जु॒षमा॑णे॒ नवे॑न । स॒मीची॒ द्यावा॑पृथि॒वी घृ॒ताची । यवि॑ष्ठो हव्य॒वाह॑नः । चि॒त्रभा॑नुर्घु॒तासु॑तिः । नव॑जातो॒ वि रो॑चसे । अग्ने॒ तत्ते॑ महित्व॒नम् । त्वम॑ग्ने दे॒वताभ्यः । भा॒गे दे॑व॒ न मी॑यसे ।। 79 ।। 2.4.8.7 स ए॑ना वि॒द्वान् य॑ख्ष्यसि । नव॒॒ स्तोम॑ञ्जुषस्व नः । अ॒ग्नि प्र॑थ॒म प्राश्ञा॑तु । स हि वेद॒ यथा॑ ह॒विः । शि॒वा अ॒स्मभ्य॒मोष॑धीः । कृ॒णोतु॑ वि॒श्वच॑र्‌षणिः । भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवाः । त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भू पि॑तो॒ आ वि॑शस्व । शन्तो॒काय॑ त॒नुवे स्यो॒नः । ए॒तमु॒ त्यं मधु॑ना॒ सय्युँ॑त॒य्यँवम् । सर॑स्वत्या॒ अधि॑म॒नाव॑चर्कृषुः । इन्द्र॑ आसी॒थ्सीर॑पतिश्श॒तक्र॑तुः । की॒नाशा॑ आसन्म॒रुत॑स्सु॒दान॑वः ।। 80 ।। 2.5.0.0 प्रा॒ण उ॒देहि॒ पुन॒रा नो॑ भर य॒ज्ञो रा॒यो वार्त्र॑हत्याय॒ वसू॑ना॒॒ स ईं पाह्य॒ष्टौ ।। 8 ।। प्रा॒णो र॑क्ष॒त्यगृ॑भीता धाराव॒रा म॒रुतो॑ दीर्घायु॒त्वाय॒ ज्योति॑षा त्वा॒ पञ्च॑चत्वारिशत् ।। 45 ।। प्रा॒णश्शु॒न हु॑वेम । हरिः॑ ओम् ।। पञ्चमप्रपाठकस्समाप्तः ।। 2.5.0.0 ।। तैत्तिरीयब्राह्मणे द्वितीयाष्टके पञ्चम प्रपाठक प्रारम्भः ।। हरिः ओम् ।। 2.5.1.0 अ॒ग्रि॒यमन॑पस्फुरन्ती स॒त्य स॒प्त च॑ ।। 1 ।। 2.5.1.1 प्रा॒णो र॑ख्षति॒ विश्व॒मेज॑त् । इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ । स इथ्सर्व॒व्व्याँ॑नशे । यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः । आवृ॑दू॒दात् ख्षेत्रिय॑ध्व॒गद्वृषा । तमित्प्रा॒णं मन॒सोप॑ शिख्षत । अग्र॑न्दे॒वाना॑मि॒दम॑त्तु नो ह॒विः । मन॑स॒श्चित्ते॒दम् । भू॒तं भव्य॑ञ्च गुप्यते । तद्धि दे॒वेष्व॑ग्रि॒यम् ।। 1 ।। 2.5.1.2 आ न॑ एतु पुरश्च॒रम् । स॒ह दे॒वैरि॒म हवम् । मन॒श्श्रेय॑सिश्रेयसि । कर्म॑न् य॒ज्ञप॑ति॒न्दध॑त् । जु॒षतां मे॒ वागि॒द ह॒विः । वि॒राड्दे॒वी पु॒रोहि॑ता । ह॒व्य॒वा़डन॑पायिनी । यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति । पेशा॑सि दे॒वा प॑र॒मे ज॒नित्रे । सा नो॑ वि॒राडन॑पस्फुरन्ती ।। 2 ।। 2.5.1.3 वाग्दे॒वी जु॑षतामि॒द ह॒विः । चख्षु॑र्दे॒वाना॒ञ्ज्योति॑र॒मृते॒ न्य॑क्तम् । अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते । तस्य॑ सु॒म्नम॑शीमहि । मा नो॑ हासीद्विचख्ष॒णम् । आयु॒रिन्न॒ प्रतीर्यताम् । अन॑न्धा॒श्चख्षु॑षा व॒यम् । जी॒वा ज्योति॑रशीमहि । सुव॒र्ज्योति॑रु॒तामृतम् । श्रोत्रे॑ण भ॒द्रमु॒त शृ॑ण्वन्ति स॒त्यम् । श्रोत्रे॑ण॒ वाचं॑ बहु॒धोद्यमा॑नाम् । श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते । श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आ शृ॑णोमि । येन॒ प्राच्या॑ उ॒त द॑ख्षि॒णा । प्र॒तीच्यै॑ दि॒शश्शृ॒ण्वन्त्यु॑त्त॒रात् । तदिच्छ्रोत्रं॑ बहु॒धोद्यमा॑नम् । अ॒रान्न ने॒मि परि॒ सर्वं॑ बभूव ।। 3 ।। 2.5.2.0 अ॒स्त्वे॒तु॒ रोहि॑तो॒ नाको॒ महा॑सि ।। 2 ।। 2.5.2.1 उ॒देहि॑ वाजि॒न्यो अ॑स्य॒फ्स्व॑न्तः । इ॒द रा॒ष्ट्रमा वि॑श सू॒नृता॑वत् । यो रोहि॑तो॒ विश्व॑मि॒दञ्ज॒जान॑ । स नो॑ रा॒ष्ट्रेषु॒ सुधि॑तान्दधातु । रोह॑रोह॒॒ रोहि॑त॒ आरु॑रोह । प्र॒जाभि॒र्वृद्धि॑ञ्ज॒नुषा॑मु॒पस्थम् । ताभि॒स्सर॑ब्धो अविद॒थ्षडु॒र्वीः । गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाऽहाः । आऽहा॑ऱ्षीद्रा॒ष्ट्रमि॒ह रोहि॑तः । मृधो॒ व्यास्थ॒दभ॑यन्नो अस्तु ।।4।। 2.5.2.2 अ॒स्मभ्य॑न्द्यावापृथिवी॒ शक्व॑रीभिः । रा॒ष्ट्रन्दु॑हाथामि॒ह रे॒वती॑भिः । विम॑मऱ्श॒ रोहि॑तो वि॒श्वरू॑पः । स॒मा॒च॒क्रा॒ण प्र॒रुहो॒ रुह॑श्च । दिव॑ङ्ग॒त्वाय॑ मह॒ता म॑हि॒म्ना । वि नो॑ रा॒ष्ट्रमु॑नत्तु॒ पय॑सा॒ स्वेन॑ । यास्ते॒ विश॒स्तप॑सा सं बभू॒वुः । गा॒य॒त्रव्वँ॒थ्समनु॒ तास्त॒ आऽगुः॑ । तास्त्वा वि॑शन्तु॒ मह॑सा॒ स्वेन॑ । सं मा॑ता पु॒त्रो अ॒भ्ये॑तु॒ रोहि॑तः ।। 5 ।। 2.5.2.3 यू॒यमु॑ग्रा मरुत पृश्ञिमातरः । इन्द्रे॑ण स॒युजा॒ प्रमृ॑णीथ॒ शत्रून्॑ । आ वो॒ रोहि॑तो अशृणोदभिद्यवः । त्रिस॑प्तासो मरुतस्स्वादुसम्मुदः । रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान । तस्मि॒॒स्तन्तुं॑ परमे॒ष्ठी त॑तान । तस्मि॑ञ्छिश्रिये अ॒ज एक॑पात् । अदृ॑ह॒द्द्यावा॑पृथि॒वी बले॑न । रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृहत् । तेन॒ सुव॑स्स्तभि॒तन्तेन॒ नाकः॑ ।। 6 ।। 2.5.2.4 सो अ॒न्तरि॑ख्षे॒ रज॑सो वि॒मानः॑ । तेन॑ दे॒वास्सुव॒रन्व॑विन्दन्न् । सु॒शेव॑न्त्वा भा॒नवो॑ दीदि॒वासम् । सम॑ग्रासो जु॒ह्वो॑ जातवेदः । उ॒ख्षन्ति॑ त्वा वा॒जिन॒मा घृ॒तेन॑ । सस॑मग्ने युवसे॒ भोज॑नानि । अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सञ्जास्प॒त्य सु॒यम॒मा कृ॑णुष्व । श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महा॑सि ।। 7 ।। 2.5.3.0 क॒र॒न्निवि॑ष्टमस्यता॒न्नव॑ च ।। 3 ।। 2.5.3.1 पुन॑र्न॒ इन्द्रो॑ म॒घवा॑ ददातु । धना॑नि श॒क्रो धन्य॑स्सु॒राधाः । अ॒र्वा॒चीन॑ङ्कृणुताय्याँचि॒तो मनः॑ । श्रु॒ष्टी नो॑ अ॒स्य ह॒विषो॑ जुषा॒णः । यानि॑ नोऽजि॒नन्धना॑नि । ज॒हर्थ॑ शूर म॒न्युना । इन्द्रानु॑विन्द न॒स्तानि॑ । अ॒नेन॑ ह॒विषा॒ पुनः॑ । इन्द्र॒ आशाभ्य॒ परि॑ । सर्वा॒भ्योऽभ॑यङ्करत् ।। 8 ।। 2.5.3.2 जेता॒ शत्रू॒न्॒ विच॑ऱ्षणिः । आकूत्यै त्वा॒ कामा॑य त्वा स॒मृधे त्वा । पु॒रो द॑धे अमृत॒त्वाय॑ जी॒वसे । आकू॑तिम॒स्याव॑से । काम॑मस्य॒ समृ॑द्ध्यै । इन्द्र॑स्य युञ्जते॒ धियः॑ । आकू॑तिन्दे॒वीं मन॑स पु॒रो द॑धे । य॒ज्ञस्य॑ मा॒ता सु॒हवा॑ मे अस्तु । यदि॒च्छामि॒ मन॑सा॒ सका॑मः । वि॒देय॑मेन॒द्धृद॑ये॒ निवि॑ष्टम् ।। 9 ।। 2.5.3.3 सेद॒ग्निर॒ग्नीरत्येत्य॒न्यान् । यत्र॑ वा॒जी तन॑यो वी॒डुपा॑णिः । स॒हस्र॑पाथा अ॒ख्षरा॑ स॒मेति॑ । आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृतेभ्यः । इ॒दं भू॒तस्याध्य॑ख्षेभ्यः । वि॒धेम॑ ह॒विषा॑ व॒यम् । विश्वा॒ आशा॒ मधु॑ना॒ स सृ॑जामि । अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु । अ॒यय्यँज॑मानो॒ मृधो॒ व्य॑स्यताम् ।। 10 ।। 2.5.3.4 अगृ॑भीता प॒शव॑स्सन्तु॒ सर्वे । अ॒ग्निस्सोमो॒ वरु॑णो मि॒त्र इन्द्रः॑ । बृह॒स्पति॑स्सवि॒ता यस्स॑ह॒स्री । पू॒षा नो॒ गोभि॒रव॑सा॒ सर॑स्वती । त्वष्टा॑ रू॒पाणि॒ सम॑नक्तु य॒ज्ञैः । त्वष्टा॑ रू॒पाणि॒ दध॑ती॒ सर॑स्वती । पू॒षा भग॑ सवि॒ता नो॑ ददातु । बृह॒स्पति॒र्दद॒दिन्द्र॑स्स॒हस्रम् । मि॒त्रो दा॒ता वरु॑ण॒स्सोमो॑ अ॒ग्निः ।। 11 ।। 2.5.4.0 व॒ज्र्यही॑नामृजी॒षं व्यृ॑ण्वति रख्षतु नो र॒यि सौभ॑गा॒न्येक॑ञ्च ।। 4 ।। 2.5.4.1 आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्तम् । नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के । उ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे । तमापृ॑णा वसुपते॒ वसू॑नाम् । इ॒मङ्कामं॑ मन्दया॒ गोभि॒रश्वैः । च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । सु॒व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्राः । इन्द्रा॑य॒ वाह॑ कुशि॒कासो॑ अक्रन्न् । इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् । यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ।। 12 ।। 2.5.4.2 अह॒न्नहि॒मन्व॒पस्त॑तर्द । प्रव॒ख्षणा॑ अभिन॒त्पर्व॑तानाम् । अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णम् । त्वष्टाऽस्मै॒ वज्र॑ स्व॒र्य॑न्ततख्ष । वा॒श्रा इ॑व धे॒नव॒स्स्यन्द॑मानाः । अञ्ज॑स्समु॒द्रमव॑ जग्मु॒रापः॑ । वृ॒षा॒यमा॑णोऽवृणीत॒ सोमम् । त्रिक॑द्रुकेष्वपिबथ्सु॒तस्य॑ । आ साय॑कं म॒घवा॑ दत्त॒ वज्रम् । अह॑न्नेनं प्रथम॒जा मही॑नाम् ।। 13 ।। 2.5.4.3 यदिन्द्राह॑न्प्रथम॒जा मही॑नाम् । आन्मा॒यिना॒ममि॑ना॒ प्रोत मा॒याः । आथ्सूर्य॑ञ्ज॒नय॒न्द्यामु॒षासम् । ता॒दीक्ना॒ शत्रू॒न्न किला॑विविथ्से । अह॑न्वृ॒त्रव्वृँ॑त्र॒तरं॒ व्यसम् । इन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कन्धा॑सीव॒ कुलि॑शेना॒विवृ॑क्णा । अहि॑श्शयत उप॒पृक्पृ॑थि॒व्याम् । अ॒यो॒ध्येव दु॒र्मद॒ आ हि जु॒ह्वे । म॒हा॒वी॒रन्तु॑विबा॒धमृ॑जी॒षम् ।। 14 ।। 2.5.4.4 नाता॑रीरस्य॒ समृ॑तिं व॒धानाम् । स रु॒जानाः पिपिष॒ इन्द्र॑शत्रुः । विश्वो॒ विहा॑या अर॒तिः । वसु॑र्दधे॒ हस्ते॒ दख्षि॑णे । त॒रणि॒र्न शि॑श्रथत् । श्र॒व॒स्य॑या॒ न शि॑श्रथत् । विश्व॑स्मा॒ इदि॑षुध्य॒से । दे॒व॒त्रा ह॒व्यमूहि॑षे । विश्व॑स्मा॒ इथ्सु॒कृते॒ वार॑मृण्वति । अ॒ग्निर्द्वारा॒ व्यृ॑ण्वति ।। 15 ।। 2.5.4.5 उदु॒ज्जिहा॑नो अ॒भि काम॑मी॒रयन्न्॑ । प्र॒पृ॒ञ्चन्विश्वा॒ भुव॑नानि पू॒र्वथा । आ के॒तुना॒ सुष॑मिद्धो॒ यजि॑ष्ठः । काम॑न्नो अग्ने अ॒भिह॑र्य दि॒ग्भ्यः । जु॒षा॒णो ह॒व्यम॒मृते॑षु दू॒ढ्यः॑ । आ नो॑ र॒यिं ब॑हु॒लाङ्गोम॑ती॒मिषम् । नि धे॑हि॒ यख्ष॑द॒मृते॑षु॒ भूषन्न्॑ । अश्वि॑ना य॒ज्ञमाग॑तम् । दा॒शुष॒ पुरु॑दससा । पू॒षा र॑ख्षतु नो र॒यिम् ।। 16 ।। 2.5.4.6 इ॒मय्यँ॒ज्ञम॒श्विना॑ व॒र्धय॑न्ता । इ॒मौ र॒यिय्यँज॑मानाय धत्तम् । इ॒मौ प॒शून्र॑ख्षताव्विँ॒श्वतो॑ नः । पू॒षा न॑ पातु॒ सद॒मप्र॑यच्छन्न् । प्रते॑ म॒हे स॑रस्वति । सुभ॑गे॒ वाजि॑नीवति । स॒त्य॒वाचे॑ भरे म॒तिम् । इ॒दन्नो॑ ह॒व्यङ्घृ॒तव॑थ्सरस्वति । स॒त्य॒वाचे॒ प्रभ॑रेमा ह॒वीषि॑ । इ॒मानि॑ ते दुरि॒ता सौभ॑गानि । तेभि॑र्व॒य सु॒भगा॑सस्स्याम ।। 17 ।। 2.5.5.0 स्या॒म॒ रु॒रो॒ह॒ यु॒वा॒न॒श्शु॒न्ध्यूरि॒च्छमा॑नो दृश्यते॒ निप॑द्यते च॒त्वारि॑ च ।। 5 ।। 2.5.5.1 य॒ज्ञो रा॒यो य॒ज्ञ ई॑शे॒ वसू॑नाम् । य॒ज्ञस्स॒स्याना॑मु॒त सु॑ख्षिती॒नाम् । य॒ज्ञ इ॒ष्ट पू॒र्वचि॑त्तिन्दधातु । य॒ज्ञो ब्र॑ह्म॒ण्वा अप्ये॑तु दे॒वान् । अ॒यय्यँ॒ज्ञो व॑र्धता॒ङ्गोभि॒रश्वैः । इ॒यव्वेँदि॑स्स्वप॒त्या सु॒वीरा । इ॒दं ब॒र्॒हिरति॑ ब॒र्॒हीष्य॒न्या । इ॒मय्यँ॒ज्ञव्विँश्वे॑ अवन्तु दे॒वाः । भग॑ ए॒व भग॑वा अस्तु देवाः । तेन॑ व॒यं भग॑वन्तस्स्याम ।। 18 ।। 2.5.5.2 तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुरए॒ता भ॑वे॒ह । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः । भग॒ प्र नृभि॑र्नृ॒वन्त॑स्स्याम । शश्व॑ती॒स्समा॒ उप॑यन्ति लो॒काः । शश्व॑ती॒स्समा॒ उप॑य॒न्त्यापः॑ । इ॒ष्टं पू॒र्त शश्व॑तीना॒॒ समा॑ना शाश्व॒तेन॑ । ह॒विषे॒ष्ट्वाऽन॒न्तल्लोँ॒कं पर॒मा रु॑रोह ।।19 ।। 2.5.5.3 इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑त् । सा रू॒पाणि॑ कुरुते॒ पञ्च॑ दे॒वी । द्वे स्वसा॑रौ वयत॒स्तन्त्र॑मे॒तत् । स॒ना॒तन॒व्विँत॑त॒॒ षण्म॑यूखम् । अवा॒न्यास्तन्तून्कि॒रतो॑ ध॒त्तो अ॒न्यान् । नाव॑पृ॒ज्याते॒ न ग॑माते॒ अन्तम् । आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य । वृष्टि॒य्येँ विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । अ॒यय्योँ अ॒ग्निर्म॑रुत॒स्समि॑द्धः । ए॒तञ्जु॑षध्वङ्कवयो युवानः ।। 20 ।। 2.5.5.4 धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्णुवो॑जसः । मृ॒गा न भी॒मास्त॑वि॒षेभि॑रू॒र्मिभिः॑ । अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणः॑ । भ्रुमि॒न्धम॑न्त॒ उप॒ गा अ॑वृण्वत । वि च॑क्रमे॒ त्रिर्दे॒वः । आ वे॒धस॒न्नील॑पृष्ठं बृ॒हन्तम् । बृह॒स्पति॒॒ सद॑ने सादयध्वम् । सा॒दद्यो॑नि॒न्दम॒ आ दी॑दि॒वासम् । हिर॑ण्यवर्णमरु॒ष स॑पेम । स हि शुचि॑श्श॒तप॑त्र॒स्स शु॒न्ध्यूः ।।21 ।। 2.5.5.5 हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्॒षाः । बृह॒स्पति॒स्स स्वा॑वे॒श ऋ॒ष्वाः । पू॒रू सखि॑भ्य आसु॒तिङ्क॑रिष्ठः । पूष॒॒ स्तव॑ व्र॒ते व॒यम् । नरि॑ष्येम क॒दाच॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि । यास्ते॑ पूष॒न्ना वो॑ अ॒न्तस्स॑मु॒द्रे । हि॒र॒ण्ययी॑र॒न्तरि॑ख्षे॒ चर॑न्ति । याभि॑र्यासि दू॒त्या सूर्य॑स्य । कामे॑न कृ॒तश्रव॑ इ॒च्छमा॑नः ।। 22 ।। 2.5.5.6 अर॑ण्या॒न्यर॑ण्यान्य॒सौ । या प्रेव॒ नश्य॑सि । क॒था ग्राम॒न्न पृ॑च्छसि । न त्वा॒भीरि॑व विन्दती ३ । वृ॒षा॒र॒वाय॒ वद॑ते । यदु॒पाव॑ति चिच्चि॒कः । आ॒घा॒टीभि॑रिव धा॒वयन्न्॑ । अ॒र॒ण्या॒निर्म॑हीयते । उ॒त गाव॑ इवादन्न् । उ॒तो वेश्मे॑व दृश्यते ।। 23 ।। 2.5.5.7 उ॒तो अ॑रण्या॒निस्सा॒यम् । श॒क॒टीरि॑व सर्जति । गाम॒ङ्गैष॒ आ ह्व॑यति । दार्व॒ङ्गैष॒ उपा॑वधीत् । वस॑न्नरण्या॒न्या सा॒यम् । अक्रु॑क्ष॒दिति॑ मन्यते । न वा अ॑रण्या॒निऱ्ह॑न्ति । अ॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दो फल॑स्य ज॒ग्ध्वा । यत्र॒ कामं॒ नि प॑द्यते । आञ्ज॑नगन्धी सुर॒भीम् । ब॒ह्व॒न्नामकृ॑षीवलाम् । प्राहं मृ॒गाणां मा॒तरम् । अ॒र॒ण्या॒नीम॑शसिषम् ।। 24 ।। 2.5.6.0 क॒रो॒म्यव॑र्त्यै चिच्छुभ्रेऽश्ञवामहै च॒त्वारि॑ च ।। 6 ।। 2.5.6.1 वार्त्र॑हत्याय॒ शव॑से । पृ॒त॒ना॒साह्या॑य च । इन्द्र॒ त्वा व॑र्तयामसि । सु॒ब्रह्मा॑णं वी॒रव॑न्तं बृ॒हन्तम् । उ॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र । श्रु॒तऱ्षि॑मु॒ग्रम॑भिमाति॒षाहम् । अ॒स्मभ्यं॑ चि॒त्रं वृष॑ण र॒यिं दाः । क्षे॒त्रि॒यै त्वा॒ निऱ्ऋ॑त्यै त्वा । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशात् । अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि ।। 25 ।। 2.5.6.2 शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । शं ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु । शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः । शम॒न्तरि॑क्ष स॒ह वाते॑न ते । शं ते॒ चत॑स्र प्र॒दिशो॑ भवन्तु । या दैवी॒श्चत॑स्र प्र॒दिशः॑ । वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे । तासान्त्वा ज॒रस॒ आ द॑धामि । प्र यक्ष्म॑ एतु॒ निऱ्ऋ॑तिं परा॒चैः । अमो॑चि॒ यक्ष्माद्दुरि॒तादव॑र्त्यै ।। 26 ।। 2.5.6.3 द्रु॒ह पाशा॒न्निऱ्ऋ॑त्यै॒ चोद॑मोचि । अहा॒ अव॑र्ति॒मवि॑दथ्स्यो॒नम् । अप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के । सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ यत् । दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः । ए॒वम॒हमि॒मं क्षेत्रि॒याज्जा॑मिश॒॒सात् । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशात् । बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वः॑ । दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्त र॒यि स्तु॑व॒ते की॒रये॑चित् ।। 27 ।। 2.5.6.4 यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । दे॒वा॒युध॒मिन्द्र॒मा जोहु॑वानाः । वि॒श्वा॒वृध॑म॒भि ये रक्ष॑माणाः । येन॑ ह॒ता दी॒र्घमध्वा॑न॒मायन्न्॑ । अ॒न॒न्तमर्थ॒मनि॑वर्थ्स्यमानाः । यत्ते॑ सुजाते हि॒मव॑थ्सु भेष॒जम् । म॒यो॒भूश्शन्त॑मा॒ यद्धृ॒दोसि॑ । ततो॑ नो देहि सीबले । अ॒दो गि॒रिभ्यो॒ अधि॒ यत्प्र॒धाव॑सि । स॒॒शोभ॑माना क॒न्ये॑व शुभ्रे ।। 28 ।। 2.5.6.5 तां त्वा॒ मुद्ग॑ला ह॒विषा॑ वर्धयन्ति । सा न॑स्सीबले र॒यिमा भा॑जये॒ह । पूर्वं॑ देवा॒ अप॑रेणानु॒पश्य॒ञ्जन्म॑भिः । जन्मा॒न्यव॑रै॒ परा॑णि । वेदा॑नि देवा अ॒यम॒स्मीति॒ माम् । अ॒ह हि॒त्वा शरी॑रं ज॒रस॑ प॒रस्तात् । प्रा॒णा॒पा॒नौ चक्षु॒श्श्रोत्रम् । वाचं॒ मन॑सि॒ संभृ॑ताम् । हि॒त्वा शरी॑रं ज॒रस॑ प॒रस्तात् । आ भूतिं॒भूतिं॑ व॒यम॑श्ञवामहै । इ॒मा ए॒व ता उ॒षसो॒ या प्र॑थ॒मा व्यौच्छन्न्॑ । ता दे॒व्य॑ कुर्वते॒ पञ्च॑रू॒पा । शश्व॑ती॒र्नाव॑पृज्यन्ति । न ग॑म॒न्त्यन्तम् ।। 29 ।। 2.5.7.0 च॒ स्वाहा॒ साम्राज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॒ विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ च॒त्वारि॑ च ।। 7 ।। (अ॒ग्निस्सोमो॒ वरु॑णो मि॒त्र इन्द्रो॒ बृह॒स्पति॑स्सवि॒ता पू॒षा सर॑स्वती॒ त्वष्टा॒ दश॑ ।। ) 2.5.7.1 वसू॑नां॒ त्वाऽधी॑तेन । रु॒द्राणा॑मू॒र्म्या । आ॒दि॒त्यानां॒ तेज॑सा । विश्वे॑षां दे॒वानां॒ क्रतु॑ना । म॒रुता॒मेम्ना॑ जुहोमि॒ स्वाहा । अ॒भिभू॑तिर॒हमाग॑मम् । इन्द्र॑सखा स्वा॒युधः॑ । आस्वाशा॑सु दु॒ष्षहः॑ । इ॒दं वर्चो॑ अ॒ग्निना॑ द॒त्तमागात् । यशो॒ भर्ग॒स्सह॒ ओजो॒ बलं॑ च ।। 30 ।। 2.5.7.2 दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । प्रति॑गृभ्णामि मह॒ते वी॒र्या॑य । आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । सर्व॑म्म॒ आयु॑र्भूयात् । सर्व॒मायु॑र्गेषम् । भूर्भुव॒स्सुवः॑ । अ॒ग्निर्धर्मे॑णान्ना॒दः । मृ॒त्युर्धर्मे॒णान्न॑पतिः । ब्रह्म॑ क्ष॒त्र स्वाहा ।। 31 ।। 2.5.7.3 प्र॒जाप॑ति प्रणे॒ता । बृह॒स्पतिः॑ पुरए॒ता । य॒म पन्थाः । च॒न्द्रमाः पुनर॒सुस्स्वाहा । अ॒ग्निर॑न्ना॒दोऽन्न॑पतिः । अ॒न्नाद्य॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । सोमो॒ राजा॒ राज॑पतिः । रा॒ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । वरु॑णस्स॒म्राट्थ्स॒म्राट्प॑तिः । साम्राज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा ।। 32 ।। 2.5.7.4 मि॒त्रः क्ष॒त्रं क्ष॒त्रप॑तिः । क्ष॒त्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । इन्द्रो॒ बलं॒ बल॑पतिः । बल॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । बृह॒स्पति॒र्ब्रह्म॒ ब्रह्म॑पतिः । ब्रह्मा॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । स॒वि॒ता रा॒ष्ट्र रा॒ष्ट्रप॑तिः । रा॒ष्ट्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । पू॒षा वि॒शां विट्प॑तिः । विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । सर॑स्वती॒ पुष्टि॒ पुष्टि॑पत्नी । पुष्टि॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा । त्वष्टा॑ पशू॒नां मि॑थु॒नाना॑ रूप॒कृद्रू॒पप॑तिः । रु॒पेणा॒स्मिन् य॒ज्ञे यज॑मानाय प॒शून्द॑दातु॒ स्वाहा ।। 33 ।। 2.5.8.0 अ॒र्च॒त॒ ह॒विर्गा॑यत यसच्चऱ्षणी॒नां वै॑शम्भ॒ल्या हा॑सी॒त्त्वमु॒रुं दे॒वहू॑तौ न॒स्त्मना॒ षट्च॑ ।। 8 ।। 2.5.8.1 स ईं पाहि॒ य ऋ॑जी॒षी तरु॑त्रः । यश्शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् । यो गोत्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः । स इ॑न्द्र चि॒त्रा अ॒भि तृ॑न्धि॒ वाजान्॑ । आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्तात् । आ वि॒श्वतो॑ अ॒भिसमेत्व॒र्वाङ् । इन्द्र॑ द्यु॒म्न सुव॑र्वद्धेह्य॒स्मे । प्रोष्व॑स्मै पुरोर॒थम् । इन्द्रा॑य शू॒षम॑र्चत ।। 34 ।। 2.5.8.2 अ॒भीके॑ चिदु लोक॒कृत् । स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा । अ॒स्माकं॑ बोधि चोदि॒ता । नभ॑न्तामन्य॒केषाम् । ज्या॒का अधि॒ धन्व॑सु । इन्द्रं॑ व॒य शु॑ना॒सीरम् । अ॒स्मिन् य॒ज्ञे ह॑वामहे । आ वाजै॒रुप॑ नो गमत् । इन्द्रा॑य॒ शुना॒सीरा॑य । स्रु॒चा जु॑हुत नो ह॒विः ।। 35 ।। 2.5.8.3 जु॒षतां॒ प्रति॒ मेधि॑रः । प्र ह॒व्यानि॑ घृ॒तव॑न्त्यस्मै । हर्य॑श्वाय भरता स॒जोषाः । इन्द्र॒र्तुभि॒र्ब्रह्म॑णा वावृधा॒नः । शु॒ना॒सी॒री ह॒विरि॒दं जु॑षस्व । वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्रम् । प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमूर्णु॒हि पू॒र्धि चक्षुः॑ । मु॒मु॒ग्ध्य॑स्मान्नि॒धये॑ऽव ब॒द्धान् । बृ॒हदिन्द्रा॑य गायत ।। 36 ।। 2.5.8.4 मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधः॑ । दे॒वं दे॒वाय॒ जागृ॑वि । कामि॒हैका॒ क इ॒मे प॑त॒ङ्गाः । मा॒न्था॒ला कुलि॒परि॑मापतन्ति । अना॑वृतैना॒न्प्रध॑मन्तु दे॒वाः । सौप॑र्णं॒ चक्षु॑स्त॒नुवा॑ विदेय । ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तम् । न॒म॒स्याधीर॑म॒मृत॑स्य गो॒पाम् । स न॒श्शर्म॑ त्रि॒वरू॑थं॒ विय॑सत् ।। 37 ।। 2.5.8.5 यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तम् । हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तम् । य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् । शं नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये । शय्योँर॒भि स्र॑वन्तु नः । ईशा॑ना॒ वार्या॑णाम् । क्षय॑न्तीश्चऱ्षणी॒नाम् ।। 38 ।। 2.5.8.6 अ॒पो या॑चामि भेष॒जम् । अ॒फ्सु मे॒ सोमो॑ अब्रवीत् । अ॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वश॑म्भुवम् । आप॑श्च वि॒श्वभे॑षजीः । यद॒फ्सु ते॑ सरस्वति । गोष्वश्वे॑षु॒ यन्मधु॑ । तेन॑ मे वाजिनीवति । मुख॑मङ्ग्धि सरस्वति । या सर॑स्वती वैशम्भ॒ल्या ।। 39 ।। 2.5.8.7 तस्यां मे रास्व । तस्यास्ते भक्षीय । तस्यास्ते भूयिष्ठ॒भाजो॑ भूयास्म । अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्र पि॒त्रे लो॑क॒कृज्जा॑तवेदः । इ॒हैव सन्तत्र॒ सन्तं॑ त्वाऽग्ने । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् ।। 40 ।। 2.5.8.8 ज्योति॑षा त्वा वैश्वान॒रेणोप॑तिष्ठे । अ॒यं ते॒ योनि॑र् ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मानम् । अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ । य॒ज्ञो भू॒त्वा य॒ज्ञमा सी॑द॒ स्वां योनिम् । जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑ । उ॒पाव॑रोह जातवेद॒ पुन॒स्त्वम् ।। 41 ।। 2.5.8.9 दे॒वेभ्यो॑ ह॒व्यं व॑ह न प्रजा॒नन्न् । आयु॑ प्र॒जा र॒यिम॒स्मासु॑ धेहि । अज॑स्रो दीदिहि नो दुरो॒णे । तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रम् । स॒त्रा दधा॑न॒मप्र॑तिष्कुत॒॒ शवा॑सि । महि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ऽव॒वर्त॑त् । रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री । त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत् । सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाऽव॑शत् । स ईं ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुम् ।। 42 ।। 2.5.8.10 सैन॑ सश्चद्दे॒वं दे॒वस्स॒त्यमिन्दु॑ स॒त्य इन्द्रः॑ । वि॒दद्यती॑ स॒रमा॑ रु॒ग्णमद्रेः । महि॒ पाथ॑ पू॒र्व्य स॒द्ध्रिय॑क्कः । अग्रं॑ नयथ्सु॒पद्यक्ष॑राणाम् । अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒तीगात् । वि॒दद्गव्य॑ स॒रमा॑ दृ॒ढमू॒र्वम् । येना॒नुकं॒ मानु॑षी॒ भोज॑ते॒ विट् । आ ये विश्वास्स्वप॒त्यानि॑ च॒क्रुः । कृ॒ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् । त्वं नृभि॑र्नृपते दे॒वहू॑तौ ।।43 ।। 2.5.8.11 भूरी॑णि वृ॒त्वा ह॑र्यश्व हसि । त्वन्निद॑स्यु॒ञ्चुमु॑रिम् । धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ । ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा । श्रु॒धि ब्रह्म॑ वावृधस्वो॒त गी॒र्भिः । आ॒विस्सुर्यं॑ कृणु॒हि पी॒पिही॒षः । ज॒हि शत्रू॑ र॒भि गा इ॑न्द्र तृन्धि । अग्ने॒ बाध॑स्व॒ वि मृधो॑ नुदस्व । अपामी॑वा॒ अप॒ रक्षा॑सि सेध । अ॒स्माथ्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नः॑ ।। 44 ।। 2.5.8.12 अ॒पां भू॒मान॒मुप॑ नस्सृजे॒ह । यज्ञ॒ प्रति॑तिष्ठ सुम॒तौ सु॒शेवा॒ आ त्वा । वसू॑नि पुरु॒धा वि॑शन्तु । दी॒र्घमायु॒र्यज॑मानाय कृ॒ण्वन्न् । अधा॒मृते॑न जरि॒तार॑मङ्ग्धि । इन्द्र॑श्शु॒नाव॒द्वित॑नोति॒ सीरम् । सं॒व॒थ्स॒रस्य॑ प्रति॒माण॑मे॒तत् । अ॒र्कस्य॒ ज्योति॒स्तदिदा॑स॒ ज्येष्ठम् । सं॒व॒थ्स॒र शु॒नव॒थ्सीर॑मे॒तत् । इन्द्र॑स्य॒ राध॒ प्रय॑तं पु॒रु त्मना । तद॑र्करू॒पं वि॒मिमा॑नमेति । द्वाद॑शारे॒ प्रति॑तिष्ठ॒तीद्वृषा । अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तः । हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ । आ॒भूष॑न्तस्त्वा सुम॒तौ नवा॑याम् । व॒यमि॑न्द्र त्वा शु॒न हु॑वेम ।। 45 ।। 2.6.0.0 स्वा॒द्वीन्त्वा॒ सोम॒स्सुरा॑वन्त॒ सीसे॑न मि॒त्रो॑ऽसि॒ यद्दे॑वा॒ होता॑ यख्षथ्स॒मिधेन्द्र॒॒ समि॑द्ध॒ इन्द्र॒ आच॑र्‌षणि॒प्रा दे॒वं ब॒र्॒हिर्‌होता॑ यख्षथ्स॒मिधा॒ऽग्नि समि॑द्धो अ॒ग्निर॑श्विना॒ऽश्विना॑ ह॒विरि॑न्द्रि॒यन्दे॒वं ब॒र्॒हिस्सर॑स्वत्य॒ग्निम॒द्योशन्तो॒ होता॑ यख्षदि॒डस्प॒दे समि॑द्धो अ॒ग्निस्स॒मिधा॑ वस॒न्तेन॒र्तुना॑ दे॒वं ब॒र्॒हिरिन्द्र॑व्वँयो॒धसं॑ विश॒तिः ।। 20 ।। स्वा॒द्वीन्त्वाऽमी॑मदन्त पि॒तर॒स्साम्राज्याय पू॒तं प॒वित्रे॑णो॒षासा॒नक्ता॒ बद॑रै॒रधा॑तान्दे॒व इन्द्रो॒ वन॒स्पति॑ पष्ठ॒वाह॒ङ्गान्दे॒वी दे॒वव्वँ॑यो॒धस॒ञ्चतु॑र्नवतिः ।। 94 ।। स्वा॒द्वीन्त्वा॑ वेतु॒ यज॑ ।। हरिः॑ ओम् ।। षष्ठ प्रपाठकस्समाप्तः 2.6.0.0 ।। तैत्तिरीयब्राह्मणे द्वितीयाष्टके षष्ठ प्रपाठक प्रारम्भः ।। हरिः ओम् ।। 2.6.1.0 ह॒वि प्र॒त्यङ्ख्सोमो॒ अति॑द्रुतो गृह्णाम्यावि॒शन्विषू॑चिका॒ पञ्च॑ च ।। 1 ।। 2.6.1.1 स्वा॒द्वीं त्वा स्वा॒दुना । ती॒व्रां ती॒व्रेण॑ । अ॒मृता॑म॒मृते॑न । मधु॑मतीं॒ मधु॑मता । सृ॒जामि॒ स सोमे॑न । सोमोऽस्य॒श्विभ्यां पच्यस्व । सर॑स्वत्यै पच्यस्व । इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व । परी॒तो षि॑ञ्चता सु॒तम् । सोमो॒ य उ॑त्त॒म ह॒विः ।। 1 ।। 2.6.1.2 द॒ध॒न्वा यो नर्यो॑ अ॒प्स्व॑न्तरा । सु॒षाव॒ सोम॒मद्रि॑भिः । पु॒नातु॑ ते परि॒स्रुतम् । सोम॒॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना । वा॒यु पू॒त प॒वित्रे॑ण । प्राङ्ख्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्य॒स्सखा । वा॒यु पू॒त प॒वित्रे॑ण । प्र॒त्यङ्ख्सोमो॒ अति॑द्रुतः ।। 2 ।। 2.6.1.3 इन्द्र॑स्य॒ युज्य॒स्सखा । ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒यम् । सुर॑या॒ सोम॑स्सु॒त आसु॑तो॒ मदा॑य । शु॒क्रेण॑ देव दे॒वता पिपृग्धि । रसे॒नान्नं॒ यज॑मानाय धेहि । कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑चित् । यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि । ये ब॒र्‌हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां त्वा॒ जुष्टं॑ गृह्णामि ।। 3 ।। 2.6.1.4 सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे । ए॒ष ते॒ योनि॒स्तेज॑से त्वा । वी॒र्या॑य त्वा॒ बला॑य त्वा । तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि । वी॒र्य॑मसि वी॒र्यं॑ मयि॑ धेहि । बल॑मसि॒ बलं॒ मयि॑ धेहि । नाना॒ हि वां दे॒वहि॑त॒॒ सद॑ कृ॒तम् । मा ससृ॑क्षाथां पर॒मे व्यो॑मन्न् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिसी॒स्स्वां योनि॑मावि॒शन्न् ।। 4 ।। 2.6.1.5 उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नं तेजः॑ । सा॒र॒स्व॒तं वी॒र्यम् । ऐ॒न्द्रं बलम् । ए॒ष ते॒ योनि॒र्मोदा॑य त्वा । आ॒न॒न्दाय॑ त्वा॒ मह॑से त्वा । ओजो॒ऽस्योजो॒ मयि॑ धेहि । म॒न्युर॑सि म॒न्युं मयि॑ धेहि । महो॑ऽसि॒ महो॒ मयि॑ धेहि । सहो॑ऽसि॒ सहो॒ मयि॑ धेहि । या व्या॒घ्रं विषू॑चिका । उ॒भौ वृकं॑ च॒ रक्ष॑ति । श्ये॒नं प॑त॒त्रिण॑ सि॒॒हम् । सेमं पा॒त्वह॑सः । सं॒पृच॑स्स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त । वि॒पृच॑स्स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ।। 5 ।। 2.6.2.0 अ॒द्भ्यः ख्षी॒रव्व्यँ॑पिब॒ज्जन्म॑न॒र्तेन॑ स॒त्यमि॑न्द्रि॒य श्र॒द्धा स॒त्ये प्र॒जाप॑तिर॒ष्टौ च॑ ।। 2 ।। 2.6.2.1 सोमो॒ राजा॒ऽमृत॑ सु॒तः । ऋ॒जी॒षेणा॑जहान्मृ॒त्युम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपान॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒दं पयो॒ऽमृतं॒ मधु॑ । सोम॑म॒द्भ्यो व्य॑पिबत् । छन्द॑सा ह॒॒सश्शु॑चि॒षत् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अ॒द्भ्यः ख्षी॒रव्व्यँ॑पिबत् ।। 6 ।। 2.6.2.2 क्रुङ्ङाङ्गिर॒सो धि॒या । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अन्नात्परि॒स्रुतो॒ रसम् । ब्रह्म॑णा॒ व्य॑पिबत् ख्ष॒त्रम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । रेतो॒ मूत्र॒व्विँज॑हाति । योनिं॑ प्रवि॒शदि॑न्द्रि॒यम् । गर्भो॑ ज॒रायु॒णाऽऽवृ॑तः । उल्ब॑ञ्जहाति॒ जन्म॑ना । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।। 7 ।। 2.6.2.3 वेदे॑न रू॒पे व्य॑करोत् । स॒ता॒स॒ती प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । सोमे॑न॒ सोमौ॒ व्य॑पिबत् । सु॒ता॒सु॒तौ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । दृ॒ष्ट्वा रू॒पे व्याक॑रोत् । स॒त्या॒नृ॒ते प्र॒जाप॑तिः । अश्र॑द्धा॒मनृ॒तेऽद॑धात् । श्र॒द्धा स॒त्ये प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रसम् । शु॒क्रेण॑ शु॒क्रव्व्यँ॑पिबत् । पय॒स्सोमं॑ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपान॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒दं पयो॒ऽमृतं॒ मधु॑ ।। 8 ।। 2.6.3.0 इ॒न्द्रि॒याय॑ पि॒तर॑श्श॒तायु॑षा पु॒नन्तु॑ मा पिताम॒हा पु॒नन्तु॒ प्रपि॑तामहा कल्पता स्व॒स्तये॒ पञ्च॑ च ।। 3 ।। 2.6.3.1 सुरा॑वन्तं बर्‌हि॒षद॑ सु॒वीरम् । य॒ज्ञ हि॑न्वन्ति महि॒षा नमो॑भिः । दधा॑ना॒स्सोम॑न्दि॒वि दे॒वता॑सु । मदे॒मेन्द्र॒य्यँज॑मानास्स्व॒र्काः । यस्ते॒ रस॒स्सम्भृ॑त॒ ओष॑धीषु । सोम॑स्य॒ शुष्म॒स्सुर॑या सु॒तस्य॑ । तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न । सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् । यम॒श्विना॒ नमु॑चेरासु॒रादधि॑ । सर॑स्व॒त्यस॑नोदिन्द्रि॒याय॑ ।। 9 ।। 2.6.3.2 इ॒मन्त शु॒क्रं मधु॑मन्त॒मिन्दुम् । सोम॒॒ राजा॑नमि॒ह भ॑ख्षयामि । यदत्र॑ रि॒प्त र॒सिन॑स्सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हन्तद॑स्य॒ मन॑सा शि॒वेन॑ । सोम॒॒ राजा॑नमि॒ह भ॑ख्षयामि । पि॒तृभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । पि॒ता॒म॒हेभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । प्रपि॑तामहेभ्यस्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । अख्ष॑न्पि॒तरः॑ ।। 10 ।। 2.6.3.3 अमी॑मदन्त पि॒तरः॑ । अती॑तृपन्त पि॒तरः॑ । अमी॑मृजन्त पि॒तरः॑ । पित॑र॒श्शुन्ध॑ध्वम् । पु॒नन्तु॑ मा पि॒तर॑स्सो॒म्यासः॑ । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः ।। 11 ।। 2.6.3.4 प॒वित्रे॑ण श॒तायु॑षा । विश्व॒मायु॒र्व्य॑श्ञवै । अग्न॒ आयू॑षि पव॒सेऽग्ने॒ पव॑स्व । पव॑मान॒स्सुव॒र्जन॑ पु॒नन्तु॑ मा देवज॒नाः । जात॑वेद प॒वित्र॑व॒द्यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । उ॒भाभ्यान्देव सवितर्वैश्वदे॒वी पु॑न॒ती । ये स॑मा॒नास्सम॑नसः । पि॒तरो॑ यम॒राज्ये । तेषाल्लोँ॒कस्स्व॒धा नमः॑ । य॒ज्ञो दे॒वेषु॑ कल्पताम् ।। 12 ।। 2.6.3.5 ये स॑जा॒तास्सम॑नसः । जी॒वा जी॒वेषु॑ माम॒काः । तेषा॒॒ श्रीर्मयि॑ कल्पताम् । अ॒स्मिल्लोँ॒के श॒त समाः । द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम् । अ॒हन्दे॒वाना॑मु॒त मर्त्या॑नाम् । याभ्या॑मि॒दव्विँश्व॒मेज॒थ्समे॑ति । यद॑न्त॒रा पि॒तरं॑ मा॒तर॑ञ्च । इ॒द ह॒वि प्र॒जन॑नं मे अस्तु । दश॑वीर स॒र्वग॑ण स्व॒स्तये । आ॒त्म॒सनि॑ प्रजा॒सनि॑ । प॒शु॒सन्य॑भय॒सनि॑ लोक॒सनि॑ । अ॒ग्नि प्र॒जां ब॑हु॒लां मे॑ करोतु । अन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ दीधर॒थ्स्वाहा ।। 13 ।। 2.6.4.0 अन्त॑र आ॒राद॒न्तर्व॑साते व्याघ्रलो॒म राजा॑ च॒त्वारि॑ च ।। 4 ।। 2.6.4.1 सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिणः॑ । ऊ॒र्णा॒सू॒त्रेण॑ क॒वयो॑ वयन्ति । अ॒श्विना॑ य॒ज्ञ स॑वि॒ता सर॑स्वती । इन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन्न् । तद॑स्य रू॒पम॒मृत॒॒ शची॑भिः । ति॒स्रोऽद॑धुर्दे॒वतास्सररा॒णाः । लोमा॑नि॒ शष्पैर्बहु॒धा न तोक्म॑भिः । त्वग॑स्य मा॒॒सम॑भव॒न्न ला॒जाः । तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी । सर॑स्वती वयति॒ पेशो॒ अन्त॑रः ।। 14 ।। 2.6.4.2 अस्थि॑ म॒ज्जानं॒ मास॑रैः । का॒रो॒त॒रेण॒ दध॑तो॒ गवान्त्व॒चि । सर॑स्वती॒ मन॑सा पेश॒लव्वँसु॑ । नास॑त्याभ्यां वयति दर्‌श॒तव्वँपुः॑ । रसं॑ परि॒स्रुता॒ न रोहि॑तम् । न॒ग्नहु॒र्धीर॒स्तस॑र॒न्न वेम॑ । पय॑सा शु॒क्रम॒मृत॑ञ्ज॒नित्रम् । सुर॑या॒ मूत्राज्जनयन्ति॒ रेतः॑ । अपाम॑तिन्दुर्म॒तिं बाध॑मानाः । ऊव॑ध्य॒व्वाँत॑ स॒बुव॒न्तदा॒रात् ।। 15 ।। 2.6.4.3 इन्द्र॑स्सु॒त्रामा॒ हृद॑येन स॒त्यम् । पु॒रो॒डाशे॑न सवि॒ता ज॑जान । यकृ॑त्क्लो॒मान॒व्वँरु॑णो भिष॒ज्यन्न् । मत॑स्ने वाय॒व्यैर्न मि॑नाति पि॒त्तम् । आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना । गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः । श्ये॒नस्य॒ पत्र॒न्न प्ली॒हा शची॑भिः । आ॒स॒न्दी नाभि॑रु॒दर॒न्न मा॒ता । कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भिः । यस्मि॒न्नग्रे॒ योन्या॒ङ्गर्भो॑ अ॒न्तः ।।16।। 2.6.4.4 प्ला॒शीर्व्य॑क्तश्श॒तधा॑र॒ उथ्सः॑ । दु॒हे न कु॒म्भी स्व॒धां पि॒तृभ्यः॑ । मुख॒॒ सद॑स्य॒ शिर॒ इथ्सदे॑न । जि॒ह्वा प॒वित्र॑म॒श्विना॒ स सर॑स्वती । चप्प॒न्न पा॒युर्भि॒षग॑स्य॒ वालः॑ । व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी । अ॒श्विभ्या॒ञ्चख्षु॑र॒मृतं॒ ग्रहाभ्याम् । छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ । पख्ष्मा॑णि गो॒धूमै॒ क्व॑लैरु॒तानि॑ । पेशो॒ न शु॒क्लमसि॑तव्वँसाते ।। 17 ।। 2.6.4.5 अवि॒र्न मे॒षो न॒सि वी॒र्या॑य । प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहाभ्याम् । सर॑स्व॒त्युप॒वाकैर्व्या॒नम् । नस्या॑नि ब॒र्॒हिर्बद॑रैर्जजान । इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य । कर्णाभ्या॒ श्रोत्र॑म॒मृत॒ङ्ग्रहाभ्याम् । यवा॒ न ब॒र्॒हिर्भ्रु॒वि केस॑राणि । क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखात् । आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॑ । मुखे॒ श्मश्रू॑णि॒ न व्याघ्रलो॒मम् ।। 18 ।। 2.6.4.6 केशा॒ न शी॒र्॒षन्‌ यश॑से श्रि॒यै शिखा । सि॒॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ । अङ्गान्या॒त्मन्भि॒षजा॒ तद॒श्विना । आ॒त्मान॒मङ्गै॒स्सम॑धा॒थ्सर॑स्वती । इन्द्र॑स्य रू॒प श॒तमा॑न॒मायुः॑ । च॒न्द्रेण॒ ज्योति॑र॒मृत॒न्दधा॑ना । सर॑स्वती॒ योन्या॒ङ्गर्भ॑म॒न्तः । अ॒श्विभ्यां॒ पत्नी॒ सुकृ॑तं बिभर्ति । अ॒पा रसे॑न॒ वरु॑णो॒ न साम्ना । इन्द्र॑ श्रि॒यै ज॒नय॑न्न॒प्सु राजा । तेज॑ पशू॒ना ह॒विरि॑न्द्रि॒याव॑त् । प॒रि॒स्रुता॒ पय॑सा सार॒घं मधु॑ । अ॒श्विभ्यान्दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्याम् । अ॒मृत॒स्सोम॒ इन्दुः॑ ।। 19 ।। 2.6.5.0 प॒स्त्यास्वा सर॑स्वत्यै॒ भैष॑ज्येन॒ श्रीरङ्गा॑नि भ॒सद्य॒ज्ञे य॒ज्ञो यजु॑र्भि॒रुप॑नति॒र्द्वे च॑ ।। 5 ।। 2.6.5.1 मि॒त्रो॑ऽसि॒ वरु॑णोऽसि । सम॒हं विश्वैर्दे॒वैः । ख्ष॒त्रस्य॒ नाभि॑रसि । ख्ष॒त्रस्य॒ योनि॑रसि । स्यो॒नामा सी॑द । सु॒षदा॒मा सी॑द । मा त्वा॑ हिसीत् । मा मा॑ हिसीत् । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः । प॒स्त्यास्वा ।। 20 ।। 2.6.5.2 साम्राज्याय सु॒क्रतुः॑ । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वे । अ॒श्विनोर्बा॒हुभ्याम् । पू॒ष्णो हस्ताभ्याम् । अ॒श्विनो॒र्भैष॑ज्येन । तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वे । अ॒श्विनोर्बा॒हुभ्याम् । पू॒ष्णो हस्ताभ्याम् । सर॑स्वत्यै॒ भैष॑ज्येन ।। 21 ।। 2.6.5.3 वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वे । अ॒श्विनोर्बा॒हुभ्याम् । पू॒ष्णो हस्ताभ्याम् । इन्द्र॑स्येन्द्रि॒येण॑ । श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि । को॑ऽसि कत॒मो॑ऽसि । कस्मै त्वा॒ काय॑ त्वा । सुश्लो॒काँ (4) सुम॑ङ्ग॒लाँ (4) सत्य॑रा॒जा (३) न् । शिरो॑ मे॒ श्रीः ।। 22 ।। 2.6.5.4 यशो॒ मुखम् । त्विषि॒ केशाश्च॒ श्मश्रू॑णि । राजा॑ मे प्रा॒णो॑ऽमृतम् । स॒म्राट्चख्षुः॑ । वि॒राट्छ्रोत्रम् । जि॒ह्वा मे॑ भ॒द्रम् । वाङ्महः॑ । मनो॑ म॒न्युः । स्व॒राड्भामः॑ । मोदा प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि ।। 23 ।। 2.6.5.5 चि॒त्तं मे॒ सहः॑ । बा॒हू मे॒ बल॑मिन्द्रि॒यम् । हस्तौ॑ मे॒ कर्म॑ वी॒र्यम् । आ॒त्मा ख्ष॒त्रमुरो॒ मम॑ । पृ॒ष्टीर्मे॑ रा॒ष्ट्रमु॒दर॒मसौ । ग्री॒वाश्च॒ श्रोण्यौ । ऊ॒रू अ॑र॒त्नी जानु॑नी । विशो॒ मेऽङ्गा॑नि स॒र्वतः॑ । नाभि॑र्मे चि॒त्तव्विँ॒ज्ञानम् । पा॒युर्मेऽप॑चितिर्भ॒सत् ।। 24 ।। 2.6.5.6 आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे । भग॒स्सौभाग्यं॒ पसः॑ । जङ्घाभ्यां प॒द्भ्यां धर्मोऽस्मि । वि॒शि राजा॒ प्रति॑ष्ठितः । प्रति॑ ख्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे । प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रत्यङ्गे॑षु॒ प्रति॑तिष्ठाम्या॒त्मन्न् । प्रति॑ प्रा॒णेषु॒ प्रति॑तिष्ठामि पु॒ष्टे । प्रति॒ द्यावा॑पृथि॒व्योः । प्रति॑तिष्ठामि य॒ज्ञे ।। 25 ।। 2.6.5.7 त्र॒या दे॒वा एका॑दश । त्र॒य॒स्त्रि॒॒शास्सु॒राध॑सः । बृह॒स्पति॑पुरोहिताः । दे॒वस्य॑ सवि॒तुस्स॒वे । दे॒वा दे॒वैर॑वन्तु मा । प्र॒थ॒मा द्वि॒तीयैः । द्वि॒तीयास्तृ॒तीयैः । तृ॒तीयास्स॒त्येन॑ । स॒त्यय्यँ॒ज्ञेन॑ । य॒ज्ञो यजु॑र्भिः ।। 26 ।। 2.6.5.8 यजू॑षि॒ साम॑भिः । सामान्यृ॒ग्भिः । ऋचो॑ या॒ज्या॑भिः । या॒ज्या॑ वषट्का॒रैः । व॒ष॒ट्का॒रा आहु॑तिभिः । आहु॑तयो मे॒ कामा॒न्थ्सम॑र्धयन्तु । भूस्स्वाहा । लोमा॑नि॒ प्रय॑ति॒र्मम॑ । त्वङ्म॒ आन॑ति॒राग॑तिः । मा॒॒सं म॒ उप॑नतिः । वस्वस्थि॑ । म॒ज्जा म॒ आन॑तिः ।। 27 ।। 2.6.6.0 स्वप्न॒ एना॑सि चकृ॒मा व॒यं मु॑ञ्च॒ मला॑दिव स॒मिद॑सि॒ जग॒त्त्रीणि॑ च ।। 6 ।। 2.6.6.1 यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । विश्वान्मुञ्च॒त्वह॑सः । यदि॒ दिवा॒ यदि॒ नक्तम् । एना॑सि चकृ॒मा व॒यम् । वा॒युर्मा॒ तस्मा॒देन॑सः । विश्वान्मुञ्च॒त्वह॑सः । यदि॒ जाग्र॒द्यदि॒ स्वप्ने । एना॑सि चकृ॒मा व॒यम् ।। 28 ।। 2.6.6.2 सूर्यो॑ मा॒ तस्मा॒देन॑सः । विश्वान्मुञ्च॒त्वह॑सः । यद्ग्रामे॒ यदर॑ण्ये । यथ्स॒भाया॒य्यँदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्ये । एन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒ धर्म॑णि । तस्या॑व॒यज॑नमसि । यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे । ततो॑ वरुण नो मुञ्च ।। 29 ।। 2.6.6.3 अव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कुण । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयाट् । अव॒ मर्त्यै॒र्मर्त्य॑कृतम् । उ॒रोरा नो॑ देव रि॒षस्पा॑हि । सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु । दु॒र्मि॒त्रास्तस्मै॑ भूयासुः । योऽस्मान्द्वेष्टि॑ । यञ्च॑ व॒यन्द्वि॒ष्मः । द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः । स्वि॒न्नस्स्ना॒त्वी मला॑दिव ।। 30 ।। 2.6.6.4 पू॒तं प॒वित्रे॑णे॒वाज्यम् । आप॑श्शुन्धन्तु॒ मैन॑सः । उद्व॒यन्तम॑स॒स्परि॑ । पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वन्दे॑व॒त्रा सूर्यम् । अग॑न्म॒ ज्योति॑रुत्त॒मम् । प्रति॑युतो॒ वरु॑णस्य॒ पाशः॑ । प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ । एधोऽस्येधिषी॒महि॑ । स॒मिद॑सि ।।31।। 2.6.6.5 तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि । अ॒पो अन्व॑चारिषम् । रसे॑न॒ सम॑सृख्ष्महि । पय॑स्वा अग्न॒ आग॑मम् । तं मा॒ ससृ॑ज॒ वर्च॑सा । प्र॒जया॑ च॒ धने॑न च । स॒माव॑वर्ति पृथि॒वी । समु॒षाः । समु॒ सूर्यः॑ । समु॒ विश्व॑मि॒दञ्जग॑त् । वै॒श्वा॒न॒रज्यो॑तिर्भूयासम् । वि॒भुङ्काम॒व्व्यँ॑श्ञवै । भूस्स्वाहा ।। 32 ।। 2.6.7.0 तेज॑साऽऽसददवर्धतां॒ भार॑तीन्द्रि॒यञ्जु॑षा॒णा द्वे च॑ ।। 7 ।। (स॒मिधेन्द्र॒न्तनू॒नपा॑त॒मिडा॑भिर्ब॒र्॒हिष्योज॑ उ॒षे दैव्या॑ ति॒स्रस्त्वष्टा॑र॒व्वँन॒स्पति॒मिन्द्रम् ।। स॒मिधेन्द्र॑ञ्च॒तुर्वेत्वेको॑ वि॒यन्तु॒ द्विर्वी॒तामेको॑ वि॒यन्तु॒ द्विर्वेत्वेको॑ वि॒यन्तु॒ होत॒र्यज॑ ।। ) 2.6.7.1 होता॑ यख्षथ्स॒मिधेन्द्र॑मि॒डस्प॒दे । नाभा॑ पृथि॒व्या अधि॑ । दि॒वो वर्ष्म॒न्थ्समि॑ध्यते । ओजि॑ष्ठश्चर्‌षणी॒ सहान्॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्तनू॒नपा॑तम् । ऊ॒तिभि॒र्जेता॑र॒मप॑राजितम् । इन्द्र॑न्दे॒व सु॑व॒र्विदम् । प॒थिभि॒र्मधु॑मत्तमैः । नरा॒शसे॑न॒ तेज॑सा ।। 33 ।। 2.6.7.2 वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒दिडा॑भि॒रिन्द्र॑मीडि॒तम् । आ॒जुह्वा॑न॒मम॑र्त्यम् । दे॒वो दे॒वैस्सवीर्यः । वज्र॑हस्त पुरन्द॒रः । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑यख्षद्ब॒र्॒हिषीन्द्र॑न्निषद्व॒रम् । वृ॒ष॒भन्नर्या॑पसम् । वसु॑भीरु॒द्रैरा॑दि॒त्यैः । स॒युग्भि॑र्ब॒र्॒हिरास॑दत् ।। 34 ।। 2.6.7.3 वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒दोजो॒ न वी॒र्यम् । सहो॒ द्वार॒ इन्द्र॑मवर्धयन्न् । सु॒प्रा॒य॒णा विश्र॑यन्तामृता॒वृधः॑ । द्वार॒ इन्द्रा॑य मी॒ढुषे । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षदु॒षे इन्द्र॑स्य धे॒नू । सु॒दुघे॑ मा॒तरौ॑ म॒ही । सवा॒तरौ॒ न तेज॑सी । व॒थ्समिन्द्र॑मवर्धताम् ।। 35 ।। 2.6.7.4 वी॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्दैव्या॒ होता॑रा । भि॒षजा॒ सखा॑या । ह॒विषेन्द्रं॑ भिषज्यतः । क॒वी दे॒वौ प्रचे॑तसौ । इन्द्रा॑य धत्त इन्द्रि॒यम् । वी॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षत्ति॒स्रो दे॒वीः । त्रय॑स्त्रि॒धात॑वो॒पसः॑ । इडा॒ सर॑स्वती॒ भार॑ती ।। 36 ।। 2.6.7.5 म॒हीन्द्र॑पत्नीर्‌ह॒विष्म॑तीः । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्त्वष्टा॑र॒मिन्द्र॑न्दे॒वम् । भि॒षज॑ सु॒यज॑ङ्घृत॒श्रियम् । पु॒रु॒रूप॑ सु॒रेत॑सं म॒घोनिम् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्वन॒स्पतिम् । श॒मि॒तार॑ श॒तक्र॑तुम् । धि॒यो जो॒ष्टार॑मिन्द्रि॒यम् ।। 37 ।। 2.6.7.6 मध्वा॑ सम॒ञ्जन्प॒थिभि॑स्सु॒गेभिः॑ । स्वदा॑ति ह॒व्यं मधु॑ना घृ॒तेन॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒दिन्द्र॒॒ स्वाहाऽऽज्य॑स्य । स्वाहा॒ मेद॑सः । स्वाहा स्तो॒कानाम् । स्वाहा॒ स्वाहा॑कृतीनाम् । स्वाहा॑ ह॒व्यसूक्तीनाम् । स्वाहा॑ दे॒वा आज्य॒पान् । स्वाहेन्द्र॑ हो॒त्राज्जु॑षा॒णाः । इन्द्र॒ आज्य॑स्य वियन्तु । होत॒र्यज॑ ।। 38 ।। 2.6.8.0 शर्ध॑मानो॒ महो॑भि॒ पत्नीर्घृ॒तेन॑ च॒त्वारि॑ च ।। 8 ।। 2.6.8.1 समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के । पु॒रो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः । त्रि॒भिर्दे॒वैस्त्रि॒॒शता॒ वज्र॑बाहुः । ज॒घान॑ वृ॒त्रव्विँ दुरो॑ ववार । नरा॒शस॒ प्रति॒शूरो॒ मिमा॑नः । तनू॒नपा॒त्प्रति॑ य॒ज्ञस्य॒ धाम॑ । गोभि॑र्व॒पावा॒न्मधु॑ना सम॒ञ्जन्न् । हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः । ई॒डि॒तो दे॒वैर्‌हरि॑वा अभि॒ष्टिः । आ॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः ।। 39 ।। 2.6.8.2 पु॒र॒न्द॒रो म॒घवा॒न् वज्र॑बाहुः । आया॑तु य॒ज्ञमुप॑नो जुषा॒णः । जु॒षा॒णो ब॒र्‌हिर्हरि॑वान्न॒ इन्द्रः॑ । प्रा॒चीन॑ सीदत्प्र॒दिशा॑ पृथि॒व्याः । उ॒रु॒व्यचा॒ प्रथ॑मान स्यो॒नम् । आ॒दि॒त्यैर॒क्तव्वँसु॑भिस्स॒जोषाः । इन्द्र॒न्दुर॑ कव॒ष्यो॑ धाव॑मानाः । वृषा॑णय्यँन्तु॒ जन॑यस्सु॒पत्नीः । द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ताम् । सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः ।। 40 ।। 2.6.8.3 उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तम् । पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्रम् । पेश॑स्वती॒ तन्तु॑ना स॒व्व्यँय॑न्ती । दै॒वानान्दे॒वय्यँ॑जतः सुरु॒क्मे । दैव्या॒ मिमा॑ना॒ मन॑सा पुरु॒त्रा । होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा । मू॒र्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना । प्रा॒चीन॒ञ्ज्योति॑र् ह॒विषा॑ वृधातः । ति॒स्रो दे॒वीर्‌ ह॒विषा॒ वर्ध॑मानाः । इन्द्र॑ञ्जुषा॒णा वृष॑ण॒न्न पत्नीः ।। 41 ।। 2.6.8.4 अच्छि॑न्न॒न्तन्तुं॒ पय॑सा॒ सर॑स्वती । इडा॑ दे॒वी भार॑ती वि॒श्वतूर्तिः । त्वष्टा॒ दध॒दिन्द्रा॑य॒ शुष्मम् । अपा॒कोचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ । वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेताः । मू॒र्धन् य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् । वन॒स्पति॒रव॑सृष्टो॒ न पाशैः । त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः । इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः । स्वदा॑ति ह॒व्यं मधु॑ना घृ॒तेन॑ । स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ इन्द्रः॑ । वृ॒षा॒यमा॑णो वृष॒भस्तु॑रा॒षाट् । घृ॒त॒प्रुषा॒ मधु॑ना ह॒व्यमु॒न्दन्न् । मू॒र्धन् य॒ज्ञस्य॑ जुषता॒॒ स्वाहा ।। 42 ।। 2.6.9.0 रे॒वती॑नाञ्च॒त्वारि॑ च ।। 9 ।। 2.6.9.1 आच॑र्‌षणि॒प्रा वि॒वेष॒ यन्मा । त स॒ध्रीचीः । स॒त्यमित्तन्न त्वावा॑ अ॒न्यो अस्ति॑ । इन्द्र॑ दे॒वो न मर्त्यो॒ ज्यायान्॑ । अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॑ । अवा॑सृजो॒ऽपो अच्छा॑ समु॒द्रम् । प्रस॑साहिषे पुरुहूत॒ शत्रून्॑ । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दख्षि॑णेना॒ वसू॑नि । पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् । स शेवृ॑ध॒मधि॑ धाद्द्यु॒म्नम॒स्मे । महि॑ ख्ष॒त्रञ्ज॑ना॒षाडि॑न्द्र॒ तव्यम् । रख्षा॑ च नो म॒घोन॑ पा॒हि सू॒रीन् । रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः ।। 43 ।। 2.6.10.0 वि॒य॒न्तु॒ यज॑ शिख्षि॒ते शि॑ख्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीताँ॒य्यज॑ गृ॒हान् वे॑तु॒ यजा॑भू॒थ्षट्च॑ ।। 10 ।। (दे॒वं ब॒र्॒हिर्दे॒वीर्द्वारो॑ दे॒वी उ॒षासा॒नक्ता॑ दे॒वी जोष्ट्री॑ दे॒वी ऊ॒र्जाहु॑ती दे॒वा दैव्या॒ होता॑रा शिख्षि॒तौ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्दे॒व इन्द्रो॒ नरा॒शसो॑ दे॒व इन्द्रो॒ वन॒स्पति॑र्दे॒वं ब॒र्॒हिर्वारि॑तीनान्दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वम् । वे॒तु॒ वि॒य॒न्तु॒ च॒तुर्वी॑ता॒मेको॑ वियन्तु च॒तुर्वेत्ववर्धयदवर्धय॒न्त्रिर॑वर्धता॒मेको॑ऽ वर्धयश्च॒तुर॑वर्धयत् । वस्तो॒रा व॒थ्सेन॒ दैवी॒रया॒वीष॑ह॒ताऽस्पृ॑ख्षच्छ॒तेन॒ दिव॑ स्वास॒स्थ स्वि॑ष्ट शिख्षि॒ते शि॑ख्षि॒ते शि॑ख्षि॒तौ ।। ) 2.6.10.1 दे॒वं ब॒र्॒हिरिन्द्र॑ सुदे॒वन्दे॒वैः । वी॒रव॑थ्स्ती॒र्णव्वेँद्या॑मवर्धयत् । वस्तोर्वृ॒तं प्राक्तोर्भृ॒तम् । रा॒या ब॒र्॒हिष्म॒तोऽत्य॑गात् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वार॒ इन्द्र॑ सङ्घा॒ते । वि॒ड्वीर्याम॑न्नवर्धयन्न् । आ व॒थ्सेन॒ तरु॑णेन कुमा॒रेण॑ चमीवि॒ता अपार्वा॑णम् । रे॒णुक॑काटन्नुदन्ताम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 44 ।। 2.6.10.2 दे॒वी उ॒षासा॒नक्ता । इन्द्र॑य्यँ॒ज्ञे प्र॑य॒त्य॑ह्वेताम् । दैवी॒र्विश॒ प्राया॑सिष्टाम् । सुप्री॑ते॒ सुधि॑ते अभूताम् । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वी जोष्ट्री॒ वसु॑धिती । दे॒वमिन्द्र॑मवर्धताम् । अयाव्य॒न्याघा द्वेषा॑सि । आन्यावाख्षी॒द्वसु॒ वार्या॑णि । यज॑मानाय शिख्षि॒ते ।। 45 ।। 2.6.10.3 व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे । पय॒सेन्द्र॑मवर्धताम् । इष॒मूर्ज॑म॒न्याऽवाख्षीत् । सग्धि॒॒ सपी॑तिम॒न्या । नवे॑न॒ पूर्व॒न्दय॑माने । पु॒रा॒णेन॒ नवम् । अधा॑ता॒मूर्ज॑मू॒र्जाहु॑ती॒ वसु॒ वार्या॑णि । यज॑मानाय शिख्षि॒ते । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ ।। 46 ।। 2.6.10.4 दे॒वा दैव्या॒ होता॑रा । दे॒वमिन्द्र॑मवर्धताम् । ह॒ताघ॑शसा॒वाभार्ष्टा॒व्वँसु॒वार्या॑णि । यज॑मानाय शिख्षि॒तौ । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । पति॒मिन्द्र॑मवर्धयन्न् । अस्पृ॑ख्ष॒द्भार॑ती॒ दिवम् । रु॒द्रैर्य॒ज्ञ सर॑स्वती । इडा॒ वसु॑मती गृ॒हान् ।। 47 ।। 2.6.10.5 व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒व इन्द्रो॒ नरा॒शसः॑ । त्रि॒व॒रू॒थस्त्रि॑वन्धु॒रः । दे॒वमिन्द्र॑मवर्धयत् । श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः । स॒हस्रे॑ण॒ प्रव॑र्तते । मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्‌ह॑तः । बृह॒स्पतिः॑ स्तो॒त्रम् । अ॒श्विनाऽऽध्व॑र्यवम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। 48 ।। 2.6.10.6 दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यवर्णो॒ मधु॑शाखस्सुपिप्प॒लः । दे॒वमिन्द्र॑मवर्धयत् । दिव॒मग्रे॑णाप्रात् । आऽन्तरि॑ख्षं पृथि॒वीम॑दृहीत् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनाम् । दे॒वमिन्द्र॑मवर्धयत् । स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम् । अ॒न्या ब॒र्॒हीष्य॒भ्य॑भूत् । व॒सु॒वने॑ वसु॒धेयस्य॑ वेतु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । दे॒वमिन्द्र॑मवर्धयत् । स्वि॑ष्टङ्कु॒र्वन्थ्स्वि॑ष्ट॒कृत् । स्वि॑ष्टम॒द्य क॑रोतु नः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। 49 ।। 2.6.11.0 वी॒र्य॑व्विँ॒यन्त्वाज्य॑स्य॒ होत॒र्यज॒ नास॑त्या॒ सर॑स्वती॒ मधु॑ हिर॒ण्ययं॑ भेष॒जव्विँ॒यन्त्वाज्य॑स्य॒ होत॒र्यजाज्य॒पान॒मृता॒ पञ्च॑ च ।। 11 ।। (स॒मिधा॒ऽग्नि षट् । तनू॒नपाथ्स॒प्त । नरा॒शस॒मृषिः॑ । इ॒डेडि॒तो यवै॑र॒ष्टौ । ब॒र्‌हि॒स्स॒प्त । दुरो॒ऽश्विना॒ नव॑ । सु॒पेश॒सर्‌षिः॑ । दैव्या॒ होता॑रा॒ सीसे॑न॒ रसः॑ । ति॒स्रस्त्वष्टा॑रम॒ष्टाव॑ष्टौ । वन॒स्पति॒मृषिः॑ । अ॒ग्निन्त्रयो॑दश । अ॒श्विना॒ द्वाद॑श त्रयोदश । स॒मिधा॒ऽग्निं बद॑रै॒र्बद॑रै॒र्यवै॑र॒श्विना॒ त्विषि॑म॒श्विना॒ न भे॑ष॒ज रू॒पम॒श्विना॑ भी॒मं भामम् ।। ) 2.6.11.1 होता॑ यख्षथ्स॒मिधा॒ऽग्निमि॒डस्प॒दे । अ॒श्विनेन्द्र॒॒ सर॑स्वतीम् । अ॒जो धू॒म्रो न गो॒धूमै॒ क्व॑लैर्भेष॒जम् । मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्तनू॒नपा॒थ्सर॑स्वती । अवि॑र्मे॒षो न भे॑ष॒जम् । प॒था मधु॑म॒ताभ॑रन्न् । अ॒श्विनेन्द्रा॑य वी॒र्यम् ।। 50 ।। 2.6.11.2 बद॑रैरुप॒वाका॑भिर्भेष॒जन्तोक्म॑भिः । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒न्नरा॒शसं॒ न न॒ग्नहुम् । पति॒॒ सुरा॑यै भेष॒जम् । मे॒षस्सर॑स्वती भि॒षक् । रथो॒ न च॒न्द्र्य॑श्विनोर्व॒पा इन्द्र॑स्य वी॒र्यम् । बद॑रैरुप॒वाका॑भिर्भेष॒जन्तोक्म॑भिः । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। 51 ।। 2.6.11.3 होता॑ यख्षदि॒डेडि॒त आ॒जुह्वा॑न॒स्सर॑स्वतीम् । इन्द्रं॒ बले॑न व॒र्धयन्न्॑ । ऋ॒ष॒भेण॒ गवेन्द्रि॒यम् । अ॒श्विनेन्द्रा॑य वी॒र्यम् । यवै क॒र्कन्धु॑भिः । मधु॑ ला॒जैर्न मास॑रम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षद्ब॒र्॒हिस्सु॒ष्टरी॒मोर्ण॑म्रदाः । भि॒षङ्नास॑त्या ।। 52 ।। 2.6.11.4 भि॒षजा॒ऽश्विनाऽश्वा॒ शिशु॑मती । भि॒षग्धे॒नुस्सर॑स्वती । भि॒षग्दु॒ह इन्द्रा॑य भेष॒जम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्दुरो॒ दिशः॑ । क॒व॒ष्यो॑ न व्यच॑स्वतीः । अ॒श्विभ्या॒न्न दुरो॒ दिशः॑ । इन्द्रो॒ न रोद॑सी॒ दुघे । दु॒हे कामा॒न्थ्सर॑स्वती ।। 53 ।। 2.6.11.5 अ॒श्विनेन्द्रा॑य भेष॒जम् । शु॒क्रन्न ज्योति॑रिन्द्रि॒यम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षथ्सु॒पेश॑सो॒षे नक्त॒न्दिवा । अ॒श्विना॑ सञ्जाना॒ने । सम॑ञ्जाते॒ सर॑स्वत्या । त्विषि॒मिन्द्रे॒ न भे॑ष॒जम् । श्ये॒नो न रज॑सा हृ॒दा । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ ।। 54 ।। 2.6.11.6 वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ऽश्विना । इन्द्र॒न्न जागृ॑वी॒ दिवा॒ नक्त॒न्न भे॑ष॒जैः । शूष॒॒ सर॑स्वती भि॒षक् । सीसे॑न दुह इन्द्रि॒यम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जम् । त्रय॑स्त्रि॒धात॑वो॒ऽपसः॑ । रू॒पमिन्द्रे॑ हिर॒ण्ययम् ।। 55 ।। 2.6.11.7 अ॒श्विनेडा॒ न भार॑ती । वा॒चा सर॑स्वती । मह॒ इन्द्रा॑य दधुरिन्द्रि॒यम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्त्वष्टा॑र॒मिन्द्र॑म॒श्विना । भि॒षज॒न्न सर॑स्वतीम् । ओजो॒ न जू॒तिरि॑न्द्रि॒यम् । वृको॒ न र॑भ॒सो भि॒षक् । यश॒स्सुर॑या भेष॒जम् ।। 56 ।। 2.6.11.8 श्रि॒या न मास॑रम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्वन॒स्पतिम् । श॒मि॒तार॑ श॒तक्र॑तुम् । भी॒मन्न म॒न्यु राजा॑नव्व्याँ॒घ्रन्नम॑सा॒ऽश्विना॒ भामम् । सर॑स्वती भि॒षक् । इन्दा॑य दुह इन्द्रि॒यम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। 57 ।। 2.6.11.9 होता॑ यख्षद॒ग्नि स्वाहाऽऽज्य॑स्य स्तो॒कानाम् । स्वाहा॒ मेद॑सां॒ पृथ॑क् । स्वाहा॒ छाग॑म॒श्विभ्याम् । स्वाहा॑ मे॒ष सर॑स्वत्यै । स्वाह॑र्‌ष॒भमिन्द्रा॑य सि॒॒हाय॒ सह॑सेन्द्रि॒यम् । स्वाहा॒ऽग्निन्न भे॑ष॒जम् । स्वाहा॒ सोम॑मिन्द्रि॒यम् । स्वाहेन्द्र॑ सु॒त्रामा॑ण सवि॒तार॒व्वँरु॑णं भि॒षजां॒ पतिम् । स्वाहा॒ वन॒स्पतिं॑ प्रि॒यं पाथो॒ न भे॑ष॒जम् । स्वाहा॑ दे॒वा आज्य॒पान् ।। 58 ।। 2.6.11.10 स्वाहा॒ऽग्नि हो॒त्राज्जु॑षा॒णो अ॒ग्निर्भे॑ष॒जम् । पय॒स्सोम॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षद॒श्विना॒ सर॑स्वती॒मिन्द्र॑ सु॒त्रामा॑णम् । इ॒मे सोमास्सु॒रामा॑णः । छागै॒र्न मे॒षैऱ्ऋ॑ष॒भैस्सु॒ताः । शष्पै॒र्न तोक्म॑भिः । ला॒जैर्मह॑स्वन्तः । मदा॒ मास॑रेण॒ परि॑ष्कृताः । शु॒क्रा पय॑स्वन्तो॒ऽमृताः । प्रस्थि॑ता वो मधु॒श्चुतः॑ । तान॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा । जु॒षन्ता॑ सौ॒म्यं मधु॑ । पिब॑न्तु॒ मद॑न्तु वि॒यन्तु॒ सोमम् । होत॒र्यज॑ ।। 59 ।। 2.6.12.0 न॒ग्नहु॒ पात॑वे सरस्वत्यधुस्सु॒तेऽष्टौ च॑ ।। 12 ।। 2.6.12.1 समि॑द्धो अ॒ग्निर॑श्विना । त॒प्तो घ॒र्मो वि॒राट्थ्सु॒तः । दु॒हे धे॒नुस्सर॑स्वती । सोम॑ शु॒क्रमि॒हेन्द्रि॒यम् । त॒नू॒पा भि॒षजा॑ सु॒ते । अ॒श्विनो॒भा सर॑स्वती । मध्वा॒ रजा॑सीन्द्रि॒यम् । इन्द्रा॑य प॒थिभि॑र्वहान् । इन्द्रा॒येन्दु॒॒ सर॑स्वती । नरा॒शसे॑न न॒ग्नहुः॑ ।। 60 ।। 2.6.12.2 अधा॑ताम॒श्विना॒ मधु॑ । भे॒ष॒जं भि॒षजा॑ सु॒ते । आ॒जुह्वा॑ना॒ सर॑स्वती । इन्द्रा॑येन्द्रि॒याणि॑ वी॒र्यम् । इडा॑भिर॒श्विना॒विषम् । समूर्ज॒ स र॒यिन्द॑धुः । अश्वि॑ना॒ नमु॑चेस्सु॒तम् । सोम॑ शु॒क्रं प॑रि॒स्रुता । सर॑स्वती॒ तमाभ॑रत् । ब॒र्॒हिषेन्द्रा॑य॒ पात॑वे ।। 61 ।। 2.6.12.3 क॒व॒ष्यो॑ न व्यच॑स्वतीः । अ॒श्विभ्यां॒ न दु॒रो दिशः॑ । इन्द्रो॒ न रोद॑सी॒ दुघे । दु॒हे कामा॒न्थ्सर॑स्वती । उ॒षासा॒ नक्त॑मश्विना । दिवेन्द्र॑ सा॒यमि॑न्द्रि॒यैः । स॒ञ्जा॒ना॒ने सु॒पेश॑सा । सम॑ञ्जाते॒ सर॑स्वत्या । पा॒तन्नो॑ अश्विना॒ दिवा । पा॒हि नक्त॑ सरस्वति ।। 62 ।। 2.6.12.4 दैव्या॑ होतारा भिषजा । पा॒तमिन्द्र॒॒ सचा॑ सु॒ते । ति॒स्रस्त्रे॒धा सर॑स्वती । अ॒श्विना॒ भार॒तीडा । ती॒व्रं प॑रि॒स्रुता॒ सोमम् । इन्द्रा॑य सुषवु॒र्मदम् । अश्वि॑ना भेष॒जं मधु॑ । भे॒ष॒जन्न॒स्सर॑स्वती । इन्द्रे॒ त्वष्टा॒ यश॒श्श्रियम् । रू॒प रू॑पमधुस्सु॒ते । ऋ॒तु॒थेन्द्रो॒ वन॒स्पतिः॑ । श॒श॒मा॒न प॑रि॒स्रुता । की॒लाल॑म॒श्विभ्यां॒ मधु॑ । दु॒हे धे॒नुस्सर॑स्वती । गोभि॒र्न सोम॑मश्विना । मास॑रेण परि॒ष्कृता । सम॑धाता॒॒ सर॑स्वत्या । स्वाहेन्द्रे॑ सु॒तं मधु॑ ।। 63 ।। 2.6.13.0 उ॒भा सर॑स्वती॒ बल॑मिन्द्रि॒यन्नरा॒ षट्च॑ ।। 13 ।। 2.6.13.1 अ॒श्विना॑ ह॒विरि॑न्द्रि॒यम् । नमु॑चेर्धि॒या सर॑स्वती । आ शु॒क्रमा॑सु॒राद्व॒सु । म॒घमिन्द्रा॑य जभ्रिरे । यम॒श्विना॒ सर॑स्वती । ह॒विषेन्द्र॒मव॑र्धयन्न् । स बि॑भेद व॒लं म॒घम् । नमु॑चावासु॒रे सचा । तमिन्द्रं॑ प॒शव॒स्सचा । अ॒श्विनो॒भा सर॑स्वती ।। 64 ।। 2.6.13.2 दधा॑ना अ॒भ्य॑नूषत । ह॒विषा॑ य॒ज्ञमि॑न्द्रि॒यम् । य इन्द्र॑ इन्द्रि॒यन्द॒धुः । स॒वि॒ता वरु॑णो॒ भगः॑ । स सु॒त्रामा॑ ह॒विष्प॑तिः । यज॑मानाय सश्चत । स॒वि॒ता वरु॑णो॒ऽदध॑त् । यज॑मानाय दा॒शुषे । आद॑त्त॒ नमु॑चे॒र्वसु॑ । सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ।। 65 ।। 2.6.13.3 वरु॑णः ख्ष॒त्रमि॑न्द्रि॒यम् । भगे॑न सवि॒ता श्रियम् । सु॒त्रामा॒ यश॑सा॒ बलम् । दधा॑ना य॒ज्ञमा॑शत । अश्वि॑ना॒ गोभि॑रिन्द्रि॒यम् । अश्वे॑भिर्वी॒र्यं॑ बलम् । ह॒विषेन्द्र॒॒ सर॑स्वती । यज॑मानमवर्धयन्न् । ता नास॑त्या सु॒पेश॑सा । हिर॑ण्यवर्तनी॒ नरा । सर॑स्वती ह॒विष्म॑ती । इन्द्र॒ कर्म॑सु नोऽवत । ता भि॒षजा॑ सु॒कर्म॑णा । सा सु॒दुघा॒ सर॑स्वती । स वृ॑त्र॒हा श॒तक्र॑तुः । इन्द्रा॑य दधुरिन्द्रि॒यम् ।। 66 ।। 2.6.14.0 द्वारो॑ दधुरिन्द्रि॒यव्वँ॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ जोष्ट्रीभ्यान्दधुरिन्द्रि॒यव्वँ॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ होतृ॑भ्यान्दधुरिन्द्रि॒यव्वँ॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यजेन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ सर॑स्वत्या॒ वन॒स्पति॒ष्षट्च॑ ।। 14 ।। (दे॒वं ब॒र्॒हिर्दे॒वीर्द्वारो॑ दे॒वी उ॒षासा॑व॒श्विना॑ दे॒वी जोष्ट्री॑ दे॒वी ऊ॒र्जाहु॑ती दे॒वा दे॒वानां भि॒षजा॑ वषट्का॒रैर्दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्दे॒व इन्द्रो॒ नरा॒शसो॑ दे॒व इन्द्रो॒ वन॒स्पति॑र्दे॒वं ब॒र्॒हिर्वारि॑तीनान्दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृद्दे॒वान् । स॒मिधा॒ऽग्निन्दे॒वं ब॒र्॒हिस्सर॑स्वत्य॒श्विना॒ सर्व॑ वियन्तु । द्वार॑स्ति॒स्रस्सर्व॑वियन्तु । अ॒ज इन्द्र॒मोजो॒ऽग्निं पर॒स्सर॑स्वतीम् । नक्तं॒ पूर्व॒स्सर॑स्वति । अ॒न्यत्र॒ सर॑स्वती । भि॒षक्पूर्व॑न्दुह इन्द्रि॒यम् । अ॒न्यत्र॑ दधुरिन्द्रि॒यम् । सौ॒त्रा॒म॒ण्या सु॑तासु॒ती । अ॒ञ्जन्त्य॒यय्यँज॑मानः ।। ) 2.6.14.1 दे॒वं ब॒र्॒हिस्स॑रस्वती । सु॒दे॒वमिन्द्रे॑ अ॒श्विना । तेजो॒ न चख्षु॑र॒ख्ष्योः । ब॒र्॒हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वीर्द्वारो॑ अ॒श्विना । भि॒षजेन्द्रे॒ सर॑स्वती । प्रा॒णन्न वी॒र्य॑न्न॒सि । द्वारो॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 67 ।। 2.6.14.2 दे॒वी उ॒षासा॑व॒श्विना । भि॒षजेन्द्रे॒ सर॑स्वती । बल॒न्न वाच॑मा॒स्ये । उ॒षाभ्यान्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वी जोष्ट्री॑ अ॒श्विना । सु॒त्रामेन्द्रे॒ सर॑स्वती । श्रोत्र॒न्न कर्ण॑यो॒र्यशः॑ । जोष्ट्रीभ्यान्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 68 ।। 2.6.14.3 दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे । पय॒सेन्द्र॒॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑वत । शु॒क्रन्न ज्योति॒स्स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वा दे॒वानां भि॒षजा । होता॑रा॒विन्द्र॑म॒श्विना । व॒ष॒ट्का॒रैस्सर॑स्वती । त्विषि॒न्न हृद॑ये म॒तिम् । होतृ॑भ्यान्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 69 ।। 2.6.14.4 दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । सर॑स्वत्य॒श्विना॒ भार॒तीडा । शूष॒न्न मध्ये॒ नाभ्याम् । इन्द्रा॑य दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒व इन्द्रो॒ नरा॒शसः॑ । त्रि॒व॒रू॒थस्सर॑स्वत्या॒ऽश्विभ्या॑मीयते॒ रथः॑ । रेतो॒ न रू॒पम॒मृत॑ञ्ज॒नित्रम् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 70 ।। 2.6.14.5 दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यपर्णो अ॒श्विभ्याम् । सर॑स्वत्यास्सुपिप्प॒लः । इन्द्रा॑य पच्यते॒ मधु॑ । ओजो॒ न जू॒तिमृ॑ष॒भो न भामम् । वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनाम् । अ॒ध्व॒रे स्ती॒र्णम॒श्विभ्याम् । ऊर्ण॑म्रदा॒स्सर॑स्वत्याः ।। 71 ।। 2.6.14.6 स्यो॒नमि॑न्द्र ते॒ सदः॑ । ई॒शायै॑ म॒न्यु राजा॑नं ब॒र्॒हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । दे॒वान् य॑ख्षद्यथाय॒थम् । होता॑रा॒विन्द्र॑म॒श्विना । वा॒चा वाच॒॒ सर॑स्वतीम् । अ॒ग्नि सोम॑ स्विष्ट॒कृत् । स्वि॑ष्ट॒ इन्द्र॑स्सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षक् । इ॒ष्टो दे॒वो वन॒स्पतिः॑ । स्वि॑ष्टा दे॒वा आज्य॒पाः । इ॒ष्टो अ॒ग्निर॒ग्निना । होता॑ हो॒त्रे स्वि॑ष्ट॒कृत् । यशो॒ न दध॑दिन्द्रि॒यम् । ऊर्ज॒मप॑चिति स्व॒धाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 72 ।। 2.6.15.0 इन्द्रा॑य॒ यज॑मानस्स॒प्त च॑ ।। 15 ।। 2.6.15.1 अ॒ग्निम॒द्य होता॑रमवृणीत । अ॒य सु॑तासु॒ती यज॑मानः । पच॑न्प॒क्तीः । पच॑न्पुरो॒डाशान्॑ । गृ॒ह्णन्ग्रहान्॑ । ब॒ध्नन्न॒श्विभ्या॒ञ्छाग॒॒ सर॑स्वत्या॒ इन्द्रा॑य । ब॒ध्नन्थ्सर॑स्वत्यै मे॒षमिन्द्रा॑या॒श्विभ्याम् । ब॒ध्नन्निन्द्रा॑यर्‌ष॒भम॒श्विभ्या॒॒ सर॑स्वत्यै । सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवत् । अ॒श्विभ्या॒ञ्छागे॑न॒ सर॑स्वत्या॒ इन्द्रा॑य ।। 73 ।। 2.6.15.2 सर॑स्वत्यै मे॒षेणेन्द्रा॑या॒श्विभ्याम् । इन्द्रा॑यर्‌ष॒भेणा॒श्विभ्या॒॒ सर॑स्वत्यै । अख्ष॒॒ स्तान्मे॑द॒स्त प्रति॑पच॒ताग्र॑भीषुः । अवी॑वृधन्त॒ ग्रहैः । अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा । सोमान्थ्सु॒राम्णः॑ । उपो॑ उक्थाम॒दाः श्रौ॒द्विमदा॑ अदन्न् । अवी॑वृधन्ताङ्गू॒षैः । त्वाम॒द्यर्‌ष॑ आर्‌षेयर्‌षीणान्नपादवृणीत । अ॒य सु॑तासु॒ती यज॑मानः । ब॒हुभ्य॒ आ सङ्ग॑तेभ्यः । ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑ख्ष्यत॒ इति॑ । ता या दे॒वा दे॑व॒दाना॒न्यदुः॑ । तान्य॑स्मा॒ आ च॒ शास्व॑ । आ च॑ गुरस्व । इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः । सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि ।। 74 ।। 2.6.16.0 अन॑ग्निष्वात्ता॒ जेह॑मानास्स॒प्त च॑ ।। 16 ।। 2.6.16.1 उ॒शन्त॑स्त्वा हवामह॒ आ नो॑ अग्ने सुके॒तुना । त्व सो॑म म॒हे भग॒न्त्व सो॑म॒ प्रचि॑कितो मनी॒षा । त्वया॒ हि न॑ पि॒तर॑स्सोम॒ पूर्वे॒ त्व सो॑म पि॒तृभि॑स्सव्विँदा॒नः । बर्‌हि॑षद पितर॒ आऽहं पि॒तॄन् । उप॑हूता पि॒तरोऽग्नि॑ष्वात्ता पितरः । अ॒ग्निष्वा॒त्तानृ॑तु॒मतो॑ हवामहे । नरा॒शसे॑ सोमपी॒थय्यँ आ॒शुः । ते नो॒ अर्व॑न्तस्सु॒हवा॑ भवन्तु । शन्नो॑ भवन्तु द्वि॒पदे॒ शञ्चतु॑ष्पदे । ये अ॑ग्निष्वा॒त्ता येऽन॑ग्निष्वात्ताः ।। 75 ।। 2.6.16.2 अ॒॒हो॒मुच॑ पि॒तर॑स्सो॒म्यासः॑ । परेऽव॑रे॒ऽमृता॑सो॒ भव॑न्तः । अधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् । वा॒न्या॑यै दु॒ग्धे जु॒षमा॑णा कर॒म्भम् । उ॒दीरा॑णा॒ अव॑रे॒ परे॑ च । अ॒ग्नि॒ष्वा॒त्ता ऋ॒तुभि॑स्सव्विँदा॒नाः । इन्द्र॑वन्तो ह॒विरि॒दञ्जु॑षन्ताम् । यद॑ग्ने कव्यवाहन॒ त्वम॑ग्न ईडि॒तो जा॑तवेदः । मात॑ली क॒व्यैः । ये ता॑तृ॒पुर्दे॑व॒त्रा जेह॑मानाः । हो॒त्रा॒वृध॒स्स्तोम॑तष्टासो अ॒र्कैः । आऽग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ् । स॒त्यै क॒व्यै पि॒तृभि॑र्घर्म॒सद्भिः॑ । ह॒व्य॒वाह॑म॒जरं॑ पुरुप्रि॒यम् । अ॒ग्निङ्घृ॒तेन॑ ह॒विषा॑ सप॒र्यन्न् । उपा॑सदङ्कव्य॒वाहं॑ पितृ॒णाम् । स न॑ प्र॒जाव्वीँ॒रव॑ती॒॒ समृ॑ण्वतु ।। 76 ।। 2.6.17.0 द॒धे दध॑दृता॒वृध॑ इन्द्रि॒यं पेश॑स्वतीर्वयो॒धसं॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ स॒प्त च॑ ।। 17 ।। (इ॒डस्प॒देऽग्निङ्गा॑य॒त्रीन्त्र्यविम् । शुचि॑व्रत॒॒ शुचि॑मु॒ष्णिह॑न्दित्य॒वाहम् । ई॒डेन्य॒॒ सोम॑मनु॒ष्टुभ॑न्त्रिव॒थ्सम् । सु॒ब॒र्॒हि॒षद॑म॒मृतेन्द्रं॑ बृह॒तीं पञ्चा॑विम् । व्यच॑स्वतीस्सुप्राय॒णा द्वारो ब्र॒ह्माण॑ प॒ङ्क्तिमि॒ह तु॑र्य॒वाहम् । सु॒पेश॑से॒ विश्व॒मिन्द्र॑न्त्रि॒ष्टुभं॑ पष्ठ॒वाहम् । प्रचे॑तसा स॒युजेन्द्र॒ञ्जग॑तीमि॒हान॒ड्वाहम् । पेश॑स्वतीस्ति॒स्र पतिँ॑व्वि॒राज॑मि॒ह धे॒नुन्न । सु॒रेत॑स॒न्त्वष्टा॑रं॒ पुष्टि॒मिन्द्र॑न्द्वि॒पद॑मि॒होख्षाण॒न्न । श॒तक्र॑तुं॒ भग॒मिन्द्र॑ङ्क॒कुभ॑मि॒ह व॒शान्न । स्वाहा॑कृतीः ख्ष॒त्रमति॑च्छन्दसं बृ॒हदृ॑ष॒भङ्गाव्वँयो॒ दध॑दिन्द्रि॒यमृषि॑ वसु॒ नव॑ द॒शेहेन्द्रि॒यमष्ट॑ नव दश॒ गान्न वयो॒ दध॑दि॒डस्प॒दे सर्व॑ वेतु ।। ) 2.6.17.1 होता॑ यख्षदि॒डस्प॒दे । स॒मि॒धा॒नं म॒हद्यशः॑ । सुष॑मिद्ध॒व्वँरेण्यम् । अ॒ग्निमिन्द्र॑व्वँयो॒धसम् । गा॒य॒त्रीञ्छन्द॑ इन्द्रि॒यम् । त्र्यवि॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒च्छुचि॑व्रतम् । तनू॒नपा॑तमु॒द्भिदम् । यङ्गर्भ॒मदि॑तिर्द॒धे ।। 77 ।। 2.6.17.2 शुचि॒मिन्द्र॑व्वँयो॒धसम् । उ॒ष्णिह॒ञ्छन्द॑ इन्द्रि॒यम् । दि॒त्य॒वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षदी॒डेन्यम् । ई॒डि॒तव्वृँ॑त्र॒हन्त॑मम् । इडा॑भि॒रीड्य॒॒ सहः॑ । सोम॒मिन्द्र॑व्वँयो॒धसम् । अ॒नु॒ष्टुभ॒ञ्छन्द॑ इन्द्रि॒यम् । त्रि॒व॒थ्सङ्गाव्वँयो॒ दध॑त् ।। 78 ।। 2.6.17.3 वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षथ्सुबऱ्हि॒षदम् । पू॒ष॒ण्वन्त॒मम॑र्त्यम् । सीद॑न्तं ब॒र्॒हिषि॑ प्रि॒ये । अ॒मृतेन्द्र॑व्वँयो॒धसम् । बृ॒ह॒तीञ्छन्द॑ इन्द्रि॒यम् । पञ्चा॑वि॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑यख्ष॒द्व्यच॑स्वतीः । सु॒प्रा॒य॒णा ऋ॑ता॒वृधः॑ ।। 79 ।। 2.6.17.4 द्वारो॑ दे॒वीर्‌हि॑र॒ण्ययीः । ब्र॒ह्माण॒ इन्द्र॑व्वँयो॒धसम् । प॒ङ्क्तिञ्छन्द॑ इ॒हेन्द्रि॒यम् । तु॒र्य॒वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षथ्सु॒पेश॑से । सु॒शि॒ल्पे बृ॑ह॒ती उ॒भे । नक्तो॒षासा॒ न द॑र्‌श॒ते । विश्व॒मिन्द्र॑व्वँयो॒धसम् । त्रि॒ष्टुभ॒ञ्छन्द॑ इन्द्रि॒यम् ।। 80 ।। 2.6.17.5 प॒ष्ठ॒वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्प्रचे॑तसा । दे॒वाना॑मुत्त॒मय्यँशः॑ । होता॑रा॒ दैव्या॑ क॒वी । स॒युजेन्द्र॑व्वँयो॒धसम् । जग॑ती॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । अ॒न॒ड्वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्पेश॑स्वतीः ।। 81 ।। 2.6.17.6 ति॒स्रो दे॒वीर्‌हि॑र॒ण्ययीः । भार॑तीर्बृह॒तीर्म॒हीः । पति॒मिन्द्र॑व्वँयो॒धसम् । वि॒राज॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । धे॒नुङ्गान्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षथ्सु॒रेत॑सम् । त्वष्टा॑रं पुष्टि॒वर्ध॑नम् । रू॒पाणि॒ बिभ्र॑तं॒ पृथ॑क् । पुष्टि॒मिन्द्र॑व्वँयो॒धसम् ।। 82 ।। 2.6.17.7 द्वि॒पद॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । उ॒ख्षाण॒ङ्गान्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षच्छ॒तक्र॑तुम् । हिर॑ण्यपर्णमु॒क्थिनम् । र॒श॒नां बिभ्र॑तव्वँ॒शिम् । भग॒मिन्द्र॑व्वँयो॒धसम् । क॒कुभ॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । व॒शाव्वेँ॒हत॒ङ्गान्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒थ्स्वाहा॑कृतीः । अ॒ग्निङ्गृ॒हप॑तिं॒ पृथ॑क् । वरु॑णं भेष॒जङ्क॒विम् । ख्ष॒त्रमिन्द्र॑व्वँयो॒धसम् । अति॑च्छन्दस॒ञ्छन्द॑ इन्द्रि॒यम् । बृ॒हदृ॑ष॒भङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। 83 ।। 2.6.18.0 अम॑र्त्यस्तुर्य॒वाड्गौर्वयो॑ दधु॒र्विशो॑ व॒शा वे॒हद्गौर्न वयो॑ दधुश्च॒त्वारि॑ च ।। 18 ।। 2.6.18.1 समि॑द्धो अ॒ग्निस्स॒मिधा । सुष॑मिद्धो॒ वरेण्यः । गा॒य॒त्री छन्द॑ इन्द्रि॒यम् । त्र्यवि॒र्गौर्वयो॑ दधुः । तनू॒नपा॒च्छुचि॑व्रतः । त॒नू॒पाच्च॒ सर॑स्वती । उ॒ष्णिक्छन्द॑ इन्द्रि॒यम् । दि॒त्य॒वाड्गौर्वयो॑ दधुः । इडा॑भिर॒ग्निरीड्यः॑ । सोमो॑ दे॒वो अम॑र्त्यः ।। 84 ।। 2.6.18.2 अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यम् । त्रि॒व॒थ्सो गौर्वयो॑ दधुः । सु॒ब॒र्॒हिर॒ग्नि पू॑ष॒ण्वान् । स्ती॒र्णब॑र्‌हि॒रम॑र्त्यः । बृ॒ह॒ती छन्द॑ इन्द्रि॒यम् । पञ्चा॑वि॒र्गौर्वयो॑ दधुः । दुरो॑ दे॒वीर्दिशो॑ म॒हीः । ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑ । प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यम् । तु॒र्य॒वाड्गौर्वयो॑ दधुः ।। 85 ।। 2.6.18.3 उ॒षे य॒ह्वी सु॒पेश॑सा । विश्वे॑ दे॒वा अम॑र्त्याः । त्रि॒ष्टुप्छन्द॑ इन्द्रि॒यम् । प॒ष्ठ॒वाद्गौर्वयो॑ दधुः । दैव्या॑ होतारा भिषजा । इन्द्रे॑ण स॒युजा॑ यु॒जा । जग॑ती॒ छन्द॑ इ॒हेन्द्रि॒यम् । अ॒न॒ड्वान्गौर्वयो॑ दधुः । ति॒स्र इडा॒ सर॑स्वती । भार॑ती म॒रुतो॒ विशः॑ ।। 86 ।। 2.6.18.4 वि॒राट्छन्द॑ इ॒हेन्द्रि॒यम् । धे॒नुर्गौर्न वयो॑ दधुः । त्वष्टा॑ तु॒रीपो॒ अद्भु॑तः । इ॒न्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना । द्वि॒पाच्छन्द॑ इ॒हेन्द्रि॒यम् । उ॒ख्षा गौर्न वयो॑ दधुः । श॒मि॒ता नो॒ वन॒स्पतिः॑ । स॒वि॒ता प्र॑सु॒वन्भगम् । क॒कुच्छन्द॑ इ॒हेन्द्रि॒यम् । व॒शा वे॒हद्गौर्न वयो॑ दधुः । स्वाहा॑ य॒ज्ञव्वँरु॑णः । सु॒ख्ष॒त्रो भे॑ष॒जङ्क॑रत् । अति॑च्छन्दा॒श्छन्द॑ इन्द्रि॒यम् । बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः ।। 87 ।। 2.6.19.0 स्तोमे॑ सप्तद॒शे स्तु॒त सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुश्च॒त्वारि॑ च ।। 19 ।। (व॒स॒न्तेन॑ ग्री॒ष्मेण॑ व॒र्‌षाभि॑श्शार॒देन॑ हेम॒न्तेन॑ शैशि॒रेण॒ षट् ।। ) 2.6.19.1 व॒स॒न्तेन॒र्तुना॑ दे॒वाः । वस॑वस्त्रि॒वृता स्तु॒तम् । र॒थ॒न्त॒रेण॒ तेज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः । ग्री॒ष्मेण॑ दे॒वा ऋ॒तुना । रु॒द्रा प॑ञ्चद॒शे स्तु॒तम् । बृ॒ह॒ता यश॑सा॒ बलम् । ह॒विरिन्द्रे॒ वयो॑ दधुः । व॒र्॒षाभि॑ऱ्ऋ॒तुना॑ऽऽदि॒त्याः । स्तोमे॑ सप्तद॒शे स्तु॒तम् ।। 88 ।। 2.6.19.2 वै॒रू॒पेण॑ वि॒शौज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः । शा॒र॒देन॒र्तुना॑ दे॒वाः । ए॒क॒वि॒॒श ऋ॒भव॑स्स्तु॒तम् । वै॒रा॒जेन॑ श्रि॒या श्रियम् । ह॒विरिन्द्रे॒ वयो॑ दधुः । हे॒म॒न्तेन॒र्तुना॑ दे॒वाः । म॒रुत॑स्त्रिण॒वे स्तु॒तम् । बले॑न॒ शक्व॑री॒स्सहः॑ । ह॒विरिन्द्रे॒ वयो॑ दधुः । शै॒शि॒रेण॒र्तुना॑ दे॒वाः । त्र॒य॒स्त्रि॒॒शे॑ऽमृत॑ स्तु॒तम् । स॒त्येन॑ रे॒वतीः ख्ष॒त्रम् । ह॒विरिन्द्रे॒ वयो॑ दधुः ।। 89 ।। 2.6.20.0 वि॒य॒न्तु॒ यज॑ वीता॒य्यँज॑ वीता॒य्यँज॑ वेतु॒ यज॑ वेतु॒ यज॒ पञ्च॑ च ।। 20 ।। (दे॒वं ब॒र्॒हिर्गा॑यत्रि॒या तेजः॑ । दे॒वीर्द्वार॑ उ॒ष्णिहा प्रा॒णम् । दे॒वी दे॒वमु॒षे अ॑नु॒ष्टुभा॒ वाचम् । दे॒वी जोष्ट्री॑ बृह॒त्या श्रोत्रम् । दे॒वी ऊ॒र्जाहु॑ती प॒ङ्क्त्या शु॒क्रम् । दे॒वा दैव्या॒ होता॑रा त्रि॒ष्टुभा॒ त्विषिम् । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वी पति॒ञ्जग॑त्या॒ बलम् । दे॒वो नरा॒शसो॑ वि॒राजा॒ रेतः॑ । दे॒वो वन॒स्पति॑र्द्वि॒पदा॒ भगम् । दे॒वं ब॒र्॒हिर्वारि॑तीनाङ्क॒कुभा॒ यशः॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृदति॑च्छन्दसा क्ष॒त्रम् । वे॒तु॒ वि॒य॒न्तु॒ च॒तुर्वी॑ता॒मेको॑ वियन्तु च॒तुर्वेत्ववर्धयदवर्धयश्च॒तुर॑वर्धता॒मेको॑ऽवर्धय श्च॒तुर॑वर्धयत् ।। ) 2.6.20.1 दे॒वं ब॒र्॒हिरिन्द्र॑व्वँयो॒धसम् । दे॒वन्दे॒वम॑वर्धयत् । गा॒य॒त्रि॒या छन्द॑सेन्द्रि॒यम् । तेज॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वारो॑ दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वीर्दे॒वम॑वर्धयन्न् । उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यम् । प्रा॒णमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।। 90 ।। 2.6.20.2 दे॒वी दे॒वव्वँ॑यो॒धसम् । उ॒षे इन्द्र॑मवर्धताम् । अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । वाच॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वी जोष्ट्री॑ दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वी दे॒वम॑वर्धताम् । बृ॒ह॒त्या छन्द॑सेन्द्रि॒यम् । श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ ।। 91 ।। 2.6.20.3 दे॒वी ऊ॒र्जाहु॑ती दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वी दे॒वम॑वर्धताम् । प॒ङ्क्त्या छन्द॑सेन्द्रि॒यम् । शु॒क्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वा दे॒वम॑वर्धताम् । त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । त्विषि॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ ।। 92 ।। 2.6.20.4 दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धसम् । पति॒मिन्द्र॑मवर्धयन्न् । जग॑त्या॒ छन्द॑सेन्द्रि॒यम् । बल॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒व॒ने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो नरा॒शसो॑ दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वो दे॒वम॑वर्धयत् । वि॒राजा॒ छन्द॑सेन्द्रि॒यम् । रेत॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। 93 ।। 2.6.20.5 दे॒वो वन॒स्पति॑र्दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वो दे॒वम॑वर्धयत् । द्वि॒पदा॒ छन्द॑सेन्द्रि॒यम् । भग॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनान्दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वन्दे॒वम॑वर्धयत् । क॒कुभा॒ छन्द॑सेन्द्रि॒यम् । यश॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृद्दे॒वमिन्द्र॑व्वँयो॒धसम् । दे॒वो दे॒वम॑वर्धयत् । अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यम् । ख्ष॒त्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। 94 ।। 2.7.0.0 त्रि॒वृद्यदाग्ने॒योऽग्निमु॑खा॒ ह्यृद्धि॒र्यदाग्ने॒य आग्ने॒यो न वै सोमे॑न॒ यो वै सोमे॑नै॒ष गो॑स॒वस्सि॒॒हे॑ऽभि प्रेहि॑ मित्र॒वर्ध॑नः प्र॒जाप॑ति॒स्ता ओ॑द॒नं प्र॒जाप॑तिरकामयत ब॒होर्भूया॑न॒गस्त्यो॒स्या जरा॑स॒स्तिष्ठा॒ हरी प्र॒जाप॑तिप॒शून्व्या॒घ्रो॑ऽयम॒भिप्रेहि॑ वृत्र॒हन्त॑मो॒ ये के॒शिन॒ इन्द्र॒व्वाँ अ॒ष्टाद॑श ।। 18 । त्रि॒वृद्यो वै सोमे॒नायु॑रसि ब॒हुर्भ॑वति॒ तिष्ठा॒ हरी॒रथ॒ आयं भा॑तु॒ तेभ्यो॑ नि॒धान॒॒ षट्थ्ष॑ष्टिः ।। 66 ।। त्रि॒वृत्पा॒प्मनो॑ नुदते ।। हरिः॑ओम् ।। सप्तमप्पाठकस्समाप्तः । 2.7.0.0 ।। तैत्तिरीयब्राह्मणे द्वितीयाष्टके सप्तम प्रपाठक प्रारम्भः ।। हरिःओम् ।। 2.7.1.0 होता॑ भवति यजेत॒ वा अश्वो॑ दधाति ।। 1 ।। 2.7.1.1 त्रि॒वृथ्स्तोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सव्वैँ त्रि॒वृत् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । अ॒ग्नि॒ष्टो॒मस्सोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सव्वाँ अ॑ग्निष्टो॒मः । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । र॒थ॒न्त॒र साम॑ भवति । ब्र॒ह्म॒व॒र्च॒सव्वैँ र॑थन्त॒रम् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । प॒रि॒स्र॒जी होता॑ भवति ।। 1 ।। 2.7.1.2 अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः । ए॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् । रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे । बृह॒स्पति॑रकामयत दे॒वानां पुरो॒धाङ्ग॑च्छेय॒मिति॑ । स ए॒तं बृ॑हस्पतिस॒वम॑पश्यत् । तमाऽह॑रत् । तेना॑यजत । ततो॒ वै स दे॒वानां पुरो॒धाम॑गच्छत् । य पु॑रो॒धाका॑म॒स्स्यात् । स बृ॑हस्पतिस॒वेन॑ यजेत ।। 2 ।। 2.7.1.3 पु॒रो॒धामे॒व ग॑च्छति । तस्य॑ प्रातस्सव॒ने स॒न्नेषु॑ नाराश॒॒सेषु॑ । एका॑दश॒ दख्षि॑णा नीयन्ते । एका॑दश॒ माध्य॑न्दिने॒ सव॑ने स॒न्नेषु॑ नाराश॒॒सेषु॑ । एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराश॒॒सेषु॑ । त्रय॑स्त्रिश॒थ्संप॑द्यन्ते । त्रय॑स्त्रिश॒द्वै दे॒वताः । दे॒वता॑ ए॒वाव॑रुन्धे । अश्व॑श्चतुस्त्रि॒॒शः । प्रा॒जा॒प॒त्यो वा अश्वः॑ ।। 3 ।। 2.7.1.4 प्र॒जाप॑तिश्चतुस्त्रि॒॒शो दे॒वता॑नाम् । याव॑तीरे॒व दे॒वताः । ता ए॒वाव॑रुन्धे । कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तद्रू॒पम् । यत्कृ॑ष्णाजि॒नम् । ब्र॒ह्म॒व॒र्च॒सेनै॒वैन॒॒ सम॑र्धयति । आज्ये॑ना॒भिषि॑ञ्चति । तेजो॒ वा आज्यम् । तेज॑ ए॒वास्मि॑न्दधाति ।। 4 ।। 2.7.2.0 वा॒रु॒णो विड्वै म॒रुतो॒ऽष्टौ च॑ ।। 2 ।। 2.7.2.1 यदाग्ने॒यो भव॑ति । अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ । अथ॒ यत्पौ॒ष्णः । पुष्टि॒र्वै पू॒षा । पुष्टि॒र्वैश्य॑स्य । पुष्टि॑मे॒वाव॑ रुन्धे । प्र॒स॒वाय॑ सावि॒त्रः । अथ॒ यत्त्वा॒ष्ट्रः । त्वष्टा॒ हि रू॒पाणि॑ विक॒रोति॑ । नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णः ।। 5 ।। 2.7.2.2 अथो॒ य ए॒व कश्च॒ सन्थ्सू॒यते । स हि वा॑रु॒णः । अथ॒ यद्वैश्वदे॒वः । वै॒श्व॒दे॒वो हि वैश्यः॑ । अथ॒ यन्मा॑रु॒तः । मा॒रु॒तो हि वैश्यः॑ । स॒प्तैतानि॑ ह॒वीषि॑ भवन्ति । स॒प्तग॑णा॒ वै म॒रुतः॑ । पृश्ञि॑ पष्ठौ॒ही मा॑रु॒त्या ल॑भ्यते । विड्वै म॒रुतः॑ । विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते । तस्मा॒द्वा ए॒ष वि॒श प्रि॒यः । वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते । ऋ॒ष॒भ॒च॒र्मेऽध्य॒भिषि॑ञ्चति । स हि प्र॑जनयि॒ता । द॒ध्नाऽभिषि॑ञ्चति । ऊर्ग्वा अ॒न्नाद्य॒न्दधि॑ । ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति ।। 6 ।। 2.7.3.0 स॒ङ्गच्छे॑ते भाग॒धेये॒नान्व॑मन्येता रू॒पञ्च॒त्वारि॑ च ।। 3 ।। 2.7.3.1 यदाग्ने॒यो भव॑ति । आ॒ग्ने॒यो वै ब्राह्म॒णः । अथ॒ यथ्सौ॒म्यः । सौ॒म्यो हि ब्राह्म॒णः । प्र॒स॒वायै॒व सा॑वि॒त्रः । अथ॒ यद्बा॑ऱ्हस्प॒त्यः । ए॒तद्वै ब्राह्म॒णस्य॑ वाक्प॒तीयम् । अथ॒ यद॑ग्नीषो॒मीयः॑ । आ॒ग्ने॒यो वै ब्राह्म॒णः । तौ य॒दा स॒ङ्गच्छे॑ते ।।7।। 2.7.3.2 अथ॑ वी॒र्या॑वत्तरो भवति । अथ॒ यथ्सा॑रस्व॒तः । ए॒तद्धि प्र॒त्यख्षं॑ ब्राह्म॒णस्य॑ वाक्प॒तीयम् । नि॒र्व॒रु॒ण॒त्वायै॒व वा॑रु॒णः । अथो॒ य ए॒व कश्च॒ सन्थ्सू॒यते । स हि वा॑रु॒णः । अथ॒ यद्द्या॑वापृथि॒व्यः॑ । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । तन्द्यावा॑पृथि॒वी नान्व॑मन्येताम् । तमे॒तेनै॒व भा॑ग॒धेये॒नान्व॑मन्येताम् ।। 8 ।। 2.7.3.3 वज्र॑स्य॒ वा ए॒षो॑ऽनुमा॒नाय॑ । अनु॑मतवज्रस्सूयाता॒ इति॑ । अ॒ष्टावे॒तानि॑ ह॒वीषि॑ भवन्ति । अ॒ष्टाख्ष॑रा गाय॒त्री । गा॒य॒त्री ब्र॑ह्मवर्च॒सम् । गा॒य॒त्रि॒यैव ब॑ह्मवर्च॒समव॑ रुन्धे । हिर॑ण्येन घृ॒तमुत्पु॑नाति । तेज॑स ए॒व रु॒चे । कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तदृ॑ख्सा॒मयो॑ रू॒पम् । यत्कृ॑ष्णाजि॒नम् । ब्रह्म॑न्ने॒वैन॑मृख्सा॒मयो॒रध्य॒भिषि॑ञ्चति । घृ॒तेना॒भिषि॑ञ्चति । तथा॑ वी॒र्या॑वत्तरो भवति ।। 9 ।। 2.7.4.0 रेत॒स्सोम॑स्स॒प्त च॑ ।। 4 ।। 2.7.4.1 न वै सोमे॑न॒ सोम॑स्य स॒वोऽस्ति । ह॒तो ह्ये॑षः । अ॒भिषु॑तो॒ ह्ये॑षः । न हि ह॒तस्सू॒यते । सौ॒मी सू॒तव॑शा॒मा ल॑भते । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । सौ॒म्यर्चाऽभिषि॑ञ्चति । रे॒तो॒धा ह्ये॑षा । रेत॒स्सोमः॑ । रेत॑ ए॒वास्मि॑न्दधाति । यत्किञ्च॑ राज॒सूय॑मृ॒ते सोमम् । तथ्सर्वं॑ भवति । अषा॑ढय्युँ॒थ्सु पृत॑नासु॒ पप्रिम् । सु॒व॒र्॒षाम॒फ्स्वाव्वृँ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जा सु॑ख्षि॒ति सु॒श्रव॑सम् । जय॑न्त॒न्त्वामनु॑ मदेम सोम ।। 10 ।। 2.7.5.0 सू॒य॒ते॒ स॒धस्तु॑ति॒स्त्रीणि॑ च ।। 5 ।। 2.7.5.1 यो वै सोमे॑न सू॒यते । स दे॑वस॒वः । य प॒शुना॑ सू॒यते । स दे॑वस॒वः । य इष्ट्या॑ सू॒यते । स म॑नुष्यस॒वः । ए॒तव्वैँ पृथ॑ये दे॒वा प्राय॑च्छन्न् । ततो॒ वै सोऽप्या॑र॒ण्यानां पशू॒नाम॑सूयत । याव॑ती॒ किय॑तीश्च प्र॒जा वाच॒व्वँद॑न्ति । तासा॒॒ सर्वा॑सा सूयते ।। 11 ।। 2.7.5.2 य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । ना॒रा॒श॒स्यर्चाऽभिषि॑ञ्चति । म॒नु॒ष्या॑ वै नरा॒शसः॑ । नि॒ह्नुत्य॒ वावैतत् । अथा॒भिषि॑ञ्चति । यत्किञ्च॑ राज॒सूय॑मनुत्तरवे॒दीकम् । तथ्सर्वं॑ भवति । ये मे॑ पञ्चा॒शत॑न्द॒दुः । अश्वा॑ना स॒धस्तु॑तिः । द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑ । बृ॒हत्कृ॑धि म॒घोनाम् । नृ॒वद॑मृत नृ॒णाम् ।। 12 ।। 2.7.6.0 इ॒व॒ भ॒व॒ति॒ र॒थ॒न्त॒रमा॒हैक॑ञ्च ।। 6 ।। 2.7.6.1 ए॒ष गो॑स॒वः । ष॒ट्त्रि॒॒श उ॒क्थ्यो॑ बृ॒हथ्सा॑मा । पव॑माने कण्वरथन्त॒रं भ॑वति । यो वै वा॑ज॒पेयः॑ । स स॑म्राट्थ्स॒वः । यो रा॑ज॒सूयः॑ । स व॑रुणस॒वः । प्र॒जाप॑ति॒स्स्वाराज्यं परमे॒ष्ठी । स्वाराज्य॒ङ्गौरे॒व । गौरि॑व भवति ।। 13 ।। 2.7.6.2 य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः । तद्धि स्वाराज्यम् । अ॒युत॒न्दख्षि॑णाः । तद्धि स्वाराज्यम् । प्र॒ति॒धुषा॒ऽभिषि॑ञ्चति । तद्धि स्वाराज्यम् । अनु॑द्धते॒ वेद्यै॑ दख्षिण॒त आ॑हव॒नीय॑स्य बृह॒तस्स्तो॒त्रं प्रत्य॒भिषि॑ञ्चति । इ॒यव्वाँव र॑थन्त॒रम् ।। 14 ।। 2.7.6.3 अ॒सौ बृ॒हत् । अ॒नयो॑रे॒वैन॒मन॑न्तऱ्हितम॒भिषि॑ञ्चति । प॒शु॒स्तो॒मो वा ए॒षः । तेन॑ गोस॒वः । ष॒ट्त्रि॒॒शस्सर्वः॑ । रे॒वज्जा॒तस्सह॑सा वृ॒द्धः । ख्ष॒त्राणाङ्खत्र॒भृत्त॑मो वयो॒धाः । म॒हान्म॑हि॒त्वे त॑स्तभा॒नः । ख्ष॒त्रे रा॒ष्ट्रे च॑ जागृहि । प्र॒जाप॑तेस्त्वा परमे॒ष्ठिन॒स्स्वाराज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । स्वाराज्यमे॒वैन॑ङ्गमयति ।। 15 ।। 2.7.7.0 गोष्वोज॑स्वन्त श्रीणा॒म्योजो॑ऽसि॒ तत्ते॒ प्रय॑च्छामि॒ पय॑सा॒ संपि॑पृग्धि॒ माऽस॑द्वि॒भूर्य॒ज्ञियो॒ रसो॒ द्वे च॑ ।। 7 ।। 2.7.7.1 सि॒॒हे व्या॒घ्र उ॒त या पृदा॑कौ । त्विषि॑र॒ग्नौ ब्राह्म॒णे सूर्ये॒ या । इन्द्र॒य्याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् । अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ । इन्द्र॒य्याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये । त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ।। 16 ।। 2.7.7.2 इन्द्र॒य्याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । रथे॑ अ॒ख्षेषु॑ वृष॒भस्य॒ वाजे । वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे । इन्द्र॒य्याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । राड॑सि वि॒राड॑सि । स॒म्राड॑सि स्व॒राड॑सि । इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्त श्रीणामि । इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्त श्रीणामि ।। 17 ।। 2.7.7.3 इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्त श्रीणामि । इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्त श्रीणामि । तेजो॑ऽसि । तत्ते॒ प्र य॑च्छामि । तेज॑स्वदस्तु मे॒ मुखम् । तेज॑स्व॒च्छिरो॑ अस्तु मे । तेज॑स्वान् वि॒श्वत॑ प्र॒त्यङ्ङ् । तेज॑सा॒ संपि॑पृग्धि मा । ओजो॑ऽसि । तत्ते॒ प्र य॑च्छामि ।। 18 ।। 2.7.7.4 ओज॑स्वदस्तु मे॒ मुखम् । ओज॑स्व॒च्छिरो॑ अस्तु मे । ओज॑स्वान् वि॒श्वत॑ प्र॒त्यङ्ङ् । ओज॑सा॒ सं पि॑पृग्धि मा । पयो॑ऽसि । तत्ते॒ प्र य॑च्छामि । पय॑स्वदस्तु मे॒ मुखम् । पय॑स्व॒च्छिरो॑ अस्तु मे । पय॑स्वान् वि॒श्वत॑ प्र॒त्यङ्ङ् । पय॑सा॒ सं पि॑पृग्धि मा ।। 19 ।। 2.7.7.5 आयु॑रसि । तत्ते॒ प्र य॑च्छामि । आयु॑ष्मदस्तु मे॒ मुखम् । आयु॑ष्म॒च्छिरो॑ अस्तु मे । आयु॑ष्मान् वि॒श्वत॑ प्र॒त्यङ्ङ् । आयु॑षा॒ सं पि॑पृग्धि मा । इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि । प्रि॒य रेतो॑ वरुण सोम राजन्न् । मा॒तेवास्मा अदिते॒ शर्म॑ यच्छ । विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ।। 20 ।। 2.7.7.6 आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । यतो॒ वातो॒ मनो॑जवाः । यतः॒ ख्षर॑न्ति॒ सिन्ध॑वः । तासान्त्वा॒ सर्वा॑सा रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा । स॒मु॒द्र इ॑वासि ग॒ह्मना । सोम॑ इवा॒स्यदाभ्यः । अ॒ग्निरि॑व वि॒श्वत॑ प्र॒त्यङ्ङ् । सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ।। 21 ।। 2.7.7.7 अ॒पाय्योँ द्रव॑णे॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि । अ॒पाय्यँ ऊ॒र्मौ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । ओज॑से वी॒र्या॑य गृह्णामि । अ॒पाय्योँ म॑ध्य॒तो रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । पुष्ट्यै प्र॒जन॑नाय गृह्णामि । अ॒पाय्योँ य॒ज्ञियो॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ।। 22 ।। 2.7.8.0 बृह॒स्पति॒स्सोमो॑ अ॒ग्निरेक॑ञ्च ।। 8 ।। 2.7.8.1 अ॒भिप्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा । आति॑ष्ठ मित्र॒वर्ध॑नः । तुभ्य॑न्दे॒वा अधि॑ब्रवन्न् । अ॒ङ्कौ न्य॒ङ्काव॒भित॒ आति॑ष्ठ वृत्रह॒न्रथम् । आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषन्न् । श्रिय॒व्वँसा॑नश्चरति॒ स्वरो॑चाः । म॒हत्तद॒स्यासु॑रस्य॒ नाम॑ । आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑ ।। 23 ।। 2.7.8.2 अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् । अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु । अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः । अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम् । अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु । च॒न्द्रमा॒ नख्ष॑त्रै॒रनु॑ त्वाऽवतु । द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒हद्दख्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चि॑किता॒॒ सोमो॑ अ॒ग्निः । आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थम् ।। 24 ।। 2.7.9.0 भ॒व॒न्त्यष्ट्रा॑मव॒रुध्य॑ वदन्ति द॒र्भा यद्द॑र्भपुञ्जी॒लै प॒वय॒त्येक॑ञ्च ।। 9 ।। 2.7.9.1 प्र॒जाप॑ति प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टा परा॑चीरायन्न् । स ए॒तं प्र॒जाप॑तिरोद॒नम॑पश्यत् । सोऽन्नं॑ भू॒तो॑ऽतिष्ठत् । ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्वा । प्र॒जाप॑तिं प्र॒जा उ॒पाव॑र्तन्त । अन्न॑मे॒वैनं॑ भू॒तं पश्य॑न्ती प्र॒जा उ॒पाव॑र्तन्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । सर्वा॒ण्यन्ना॑नि भवन्ति ।। 25 ।। 2.7.9.2 सर्वे॒ पुरु॑षाः । सर्वाण्ये॒वान्ना॒न्यव॑ रुन्धे । सर्वा॒न्पुरु॑षान् । राड॑सि वि॒राड॒सीत्या॑ह । स्वाराज्यमे॒वैन॑ङ्गमयति । यद्धिर॑ण्य॒न्ददा॑ति । तेज॒स्तेनाव॑रुन्धे । यत्ति॑सृध॒न्वम् । वी॒र्य॑न्तेन॑ । यदष्ट्राम् ।। 26 ।। 2.7.9.3 पुष्टि॒न्तेन॑ । यत्क॑म॒ण्डलुम् । आयु॒ष्टेन॑ । यद्धिर॑ण्यमा ब॒ध्नाति॑ । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वास्मि॑न्दधाति । अथो॒ तेजो॒ वै हिर॑ण्यम् । तेज॑ ए॒वात्मन्ध॑त्ते । यदो॑द॒नं प्रा॒श्ञाति॑ । ए॒तदे॒व सर्व॑मव॒रुध्य॑ ।। 27 ।। 2.7.9.4 तद॑स्मिन्नेक॒धाऽधात् । रो॒हि॒ण्याङ्का॒र्यः॑ । यद्ब्राह्म॒ण ए॒व रो॑हि॒णी । तस्मा॑दे॒व । अथो॒ वर्ष्मै॒वैन॑ समा॒नानाङ्करोति । उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑ । उ॒द्यन्त॒व्वाँ ए॒त सर्वा प्र॒जा प्रति॑नन्दन्ति । दि॒दृ॒ख्षेण्यो॑ दऱ्श॒नीयो॑ भवति । य ए॒वव्वेँद॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।। 28 ।। 2.7.9.5 अ॒वेत्यो॑ऽवभृ॒था ३ ना ३ इति॑ । यद्द॑र्भपुञ्जी॒लै प॒वय॑ति । तथ्स्वि॑दे॒वावै॑ति । तन्नावै॑ति । त्रि॒भि प॑वयति । त्रय॑ इ॒मे लो॒काः । ए॒भिरे॒वैन॑ल्लोँ॒कै प॑वयति । अथो॑ अ॒पाव्वाँ ए॒तत्तेजो॒ वर्चः॑ । यद्द॒र्भाः । यद्द॑र्भपुञ्जी॒लै प॒वय॑ति । अ॒पामे॒वैन॒न्तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति ।। 29 ।। 2.7.10.0 भूयि॑ष्ठा यन्ति॒ द्वे च॑ ।। 10 ।। 2.7.10.1 प्र॒जाप॑तिरकामयत ब॒होर्भूयान्थ्स्या॒मिति॑ । स ए॒तं प॑ञ्चशार॒दीय॑मपश्यत् । तमाऽह॑रत् । तेना॑यजत । ततो॒ वै स ब॒होर्भूया॑नभवत् । य का॒मये॑त ब॒होर्भूयान्थ्स्या॒मिति॑ । स प॑ञ्चशार॒दीये॑न यजेत । ब॒होरे॒व भूयान्भवति । म॒रु॒थ्स्तो॒मो वा ए॒षः । म॒रुतो॒ हि दे॒वानां॒ भूयि॑ष्ठाः ।। 30 ।। 2.7.10.2 ब॒हुर्भ॑वति । य ए॒तेन॒ यज॑ते । य उ॑चैनमे॒वव्वेँद॑ । प॒ञ्च॒शा॒र॒दीयो॑ भवति । पञ्च॒ वा ऋ॒तव॑स्सव्वँथ्स॒रः । ऋ॒तुष्वे॒व स॑व्वँथ्स॒रे प्रति॑तिष्ठति । अथो॒ पञ्चाख्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑ रुन्धे । स॒प्त॒द॒श स्तोमा॒ नाति॑ यन्ति । स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै ।। 31 ।। 2.7.11.0 तृ॒तीये॑ गच्छति॒ य ए॒तेन॒ यज॑तेऽत्ति॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्वेँद॒ त्रीणि॑ च ।। 11 ।। (अ॒गस्त्य॒स्स्वाराज्यं मारु॒त प॑ञ्चशार॒दीयो॒ वा ए॒ष य॒ज्ञस्स॑प्तद॒शं प्र॒जाप॑तेरे॒व नैति॑ ।। ) 2.7.11.1 अ॒गस्त्यो॑ म॒रुद्भ्य॑ उ॒ख्ष्ण प्रौख्ष॑त् । तानिन्द्र॒ आद॑त्त । त ए॑न॒व्वँज्र॑मु॒द्यत्या॒भ्या॑यन्त । तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम् । ताञ्छा॒न्तानुपाह्वयत । यत्क॑याशु॒भीयं॒ भव॑ति॒ शान्त्यै । तस्मा॑दे॒त ऐन्द्रामारु॒ता उ॒ख्षाण॑स्सव॒नीया॑ भवन्ति । त्रय॑ प्रथ॒मेऽह॒न्ना ल॑भ्यन्ते । ए॒वन्द्वि॒तीये । ए॒वन्तृ॒तीये ।। 32 ।। 2.7.11.2 ए॒वञ्च॑तु॒र्थे । पञ्चोत्त॒मेऽह॒न्ना ल॑भ्यन्ते । वऱ्षि॑ष्ठमिव॒ ह्ये॑तदहः॑ । वऱ्षि॑ष्ठस्समा॒नानां भवति । य ए॒तेन॒ यज॑ते । य उ॑चैनमे॒वव्वेँद॑ । स्वाराज्य॒व्वाँ ए॒ष य॒ज्ञः । ए॒तेन॒ वा एक॒या वा॑ कान्द॒मस्स्वाराज्यमगच्छत् । स्वराज्यङ्गच्छति । य ए॒तेन॒ यज॑ते ।। 33 ।। 2.7.11.3 य उ॑ चैनमे॒वव्वेँद॑ । मा॒रु॒तो वा ए॒ष स्तोमः॑ । ए॒तेन॒ वै म॒रुतो॑ दे॒वानां॒ भूयि॑ष्ठा अभवन्न् । भूयि॑ष्ठस्समा॒नानां भवति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । प॒ञ्च॒शा॒र॒दीयो॒ वा ए॒ष य॒ज्ञः । आ प॑ञ्च॒मात्पुरु॑षा॒दन्न॑मत्ति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । स॒प्त॒द॒श स्तोमा॒ नाति॑ यन्ति । स॒प्त॒द॒श प्र॒जाप॑तिः । प्र॒जाप॑तेरे॒व नैति॑ ।। 34 ।। 2.7.12.0 य॒ज्ञ॒वा॒ह॒सा॒स॒प॒र्य॒न्व॒यमृ॑द्ध्यां॒ भिख्ष॑माणाः॒ प्रचे॑तस॒मेक॑ञ्च ।। 12 ।। 2.7.12.1 अ॒स्या जरा॑सो द॒मा म॒रित्राः । अ॒र्चद्धू॑मासो अ॒ग्नय॑ पाव॒काः । श्वि॒ची॒चय॑श्श्वा॒त्रासो॑ भुर॒ण्यवः॑ । व॒न॒र्॒षदो॑ वा॒यवो॒ न सोमाः । यजा॑ नो मि॒त्रावरु॑णा । यजा॑ दे॒वा ऋ॒तं बृ॒हत् । अग्ने॒ यख्षि॒ स्वन्दमम् । अश्वि॑ना॒ पिब॑त सु॒तम् । दीद्य॑ग्नी शुचिव्रता । ऋ॒तुना॑ यज्ञवाहसा ।। 35 ।। 2.7.12.2 द्वे विरू॑पे चरत॒स्स्वर्थे । अ॒न्याऽन्या॑ व॒थ्समुप॑ धापयेते । हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावान्॑ । शु॒क्रो अ॒न्यस्यान्ददृशे सु॒वर्चाः । पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम् । विश्वान्य॒न्यो भुव॑नाऽभि॒ चष्टे । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ । त्रीणि॑ श॒ता त्रीष॒हस्राण्य॒ग्निम् । त्रि॒॒शच्च॑ दे॒वा नव॑ चाऽसपर्यन्न् ।। 36 ।। 2.7.12.3 औख्ष॑न्घृ॒तैरास्तृ॑णन्ब॒र्॒हिर॑स्मै । आदिद्धोता॑र॒न्न्य॑षादयन्त । अ॒ग्निना॒ऽग्निस्समि॑ध्यते । क॒विर्गृ॒हप॑ति॒र्युवा । ह॒व्य॒वाड्जु॒ह्वास्यः । अ॒ग्निर्दे॒वानाञ्ज॒ठरम् । पू॒तद॑ख्ष क॒विक्र॑तुः । दे॒वो दे॒वेभि॒रा ग॑मत् । अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टयः । आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ।। 37 ।। 2.7.12.4 ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्॒षनि॑र्णिजः । सि॒॒हा न हे॒षक्र॑तवस्सु॒दान॑वः । यदु॑त्त॒मे म॑रुतो मध्य॒मे वा । यद्वा॑ऽव॒मे सु॑भगासो दि॒वि ष्ठ । ततो॑ नो रुद्रा उ॒त वा॒ऽन्वस्य॑ । अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑मः । ईडे॑ अ॒ग्नि स्वव॑स॒न्नमो॑भिः । इ॒ह प्र॑स॒प्तो वि च॑ यत्कृ॒तन्नः॑ । रथै॑रिव॒ प्रभ॑रे वाज॒यद्भिः॑ । प्र॒द॒ख्षि॒णिन्म॒रुता॒॒ स्तोम॑मृद्ध्याम् ।। 38 ।। 2.7.12.5 श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिः । दे॒वैर॑ग्ने स॒याव॑भिः । आसी॑दन्तु ब॒र्॒हिषि॑ । मि॒त्रो वरु॑णो अर्य॒मा । प्रा॒त॒र्यावा॑णो अध्व॒रम् । विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नाम् । विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् । अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः । सु॒मृ॒डी॒को भवतु वि॒श्ववे॑दाः । त्वे अ॑ग्ने सुम॒तिं भिख्ष॑माणाः ।। 39 ।। 2.7.12.6 दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः । नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे । कृ॒ष्णञ्च॒ वर्ण॑मरु॒णञ्च॒ सन्धुः॑ । त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यम् । त्वाञ्जि॒ह्वा शुच॑यश्चक्रिरे कवे । त्वा रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे । त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् । नि त्वा॑ य॒ज्ञस्य॒ साध॑नम् । अग्ने॒ होता॑रमृ॒त्विजम् । व॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसम् । जी॒रन्दू॒तमम॑र्त्यम् ।। 40 ।। 2.7.13.0 व॒ज्रिण॑मयथ्स्व॒स्ति जो॑जयुर्नस्स॒प्त च॑ ।। 13 ।। 2.7.13.1 तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि । वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ । पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे । इन्द्र॒स्स्वाहा॑ ररि॒मा ते॒ मदा॑य । कस्य॒ वृषा॑ सु॒ते सचा । नि॒युत्वान्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये । इन्द्र॑व्वँ॒यम्म॑हाध॒ने । इन्द्र॒मर्भे॑ हवामहे । युज॑व्वृँ॒त्रेषु॑ व॒ज्रिणम् ।। 41 ।। 2.7.13.2 द्वि॒ता यो वृ॑त्र॒हन्त॑मः । वि॒द इन्द्र॑श्श॒तक्र॑तुः । उप॑ नो॒ हरि॑भिस्सु॒तम् । स सूर॒ आज॒नय॒ञ्ज्योति॒रिन्द्रम् । अ॒या धि॒या त॒रणि॒रद्रि॑बऱ्हाः । ऋ॒तेन॑ शु॒ष्मी नव॑मानो अ॒र्कैः । व्यु॑स्रिधो॑ अ॒स्रो अद्रि॑र्बिभेद । उ॒तत्यदा॒श्वश्वि॑यम् । यदि॑न्द्र॒ नाहु॑षी॒ष्वा । अग्रे॑ वि॒ख्षु प्रतीद॑यत् ।। 42 ।। 2.7.13.3 भरे॒ष्विन्द्र॑ सु॒हव॑ हवामहे । अ॒॒हो॒मुच॑ सु॒कृत॒न्दैव्य॒ञ्जनम् । अ॒ग्निम्मि॒त्रव्वँरु॑ण सा॒तये॒ भगम् । द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये । म॒हि ख्षेत्रं॑ पु॒रुश्च॒न्द्रव्विँ वि॒द्वान् । आदिथ्सखि॑भ्यश्च॒रथ॒॒ समै॑रत् । इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नस्सा॒कम् । सूर्य॑मु॒षस॑ङ्गा॒तुम॒ग्निम् । उ॒रुन्नो॑ लो॒कमनु॑ नेषि वि॒द्वान् । सुव॑र्व॒ज्ज्योति॒रभ॑य स्व॒स्ति ।। 43 ।। 2.7.13.4 ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू । उप॑स्थेयाम शर॒णा बृ॒हन्ता । आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः । ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒थ्स्थवि॑रेभिस्सुशिप्र । अ॒स्मे दध॒द्वृष॑ण॒॒ शुष्म॑मिन्द्र । इन्द्रा॑य॒ गाव॑ आ॒शिरम् । दु॒दु॒ह्रे व॒ज्रिणे॒ मधु॑ । यथ्सी॑मुपह्व॒रे वि॒दत् । तास्ते॑ वज्रिन्धे॒नवो॑ जोजयुर्नः ।। 44 ।। 2.7.13.5 गभ॑स्तयो नि॒युतो॑ वि॒श्ववा॑राः । अह॑रह॒र्भूय॒ इज्जोगु॑वानाः । पू॒र्णा इ॑न्द्र ख्षु॒मतो॒ भोज॑नस्य । इ॒मान्ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम् । अ॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑थ्स॒वे च॑ प्रस॒वे च॑ सास॒हिम् । इन्द्र॑न्दे॒वास॒श्शव॑सा मद॒न्ननु॑ ।। 45 ।। 2.7.14.0 स्तोमे॑न॒ नाप्नो॑दवारयत॒ नव॑ च ।। 14 ।। 2.7.14.1 प्र॒जाप॑ति प॒शून॑सृजत । तेऽस्माथ्सृ॒ष्टा पराञ्च आयन्न् । तान॑ग्निष्टो॒मेन॒ नाप्नोत् । तानु॒क्थ्ये॑न॒ नाप्नोत् । तान्थ्षो॑ड॒शिना॒ नाप्नोत् । तान्रात्रि॑या॒ नाप्नोत् । तान्थ्स॒न्धिना॒ नाप्नोत् । सोऽग्निम॑ब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाप्नोत् ।। 46 ।। 2.7.14.2 स इन्द्र॑मब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । तानिन्द्रः॑ पञ्चद॒शेन॒ स्तोमे॑न॒ नाप्नोत् । स विश्वान्दे॒वान॑ब्रवीत् । इ॒मान्म॑ ईप्स॒तेति॑ । तान् विश्वे॑दे॒वास्स॑प्तद॒शेन॒ स्तोमे॑न॒ नाप्नु॑वन्न् । स विष्णु॑मब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । ताऩ् विष्णु॑रेकवि॒॒शेन॒ स्तोमे॑नाप्नोत् । वा॒र॒व॒न्तीये॑नावारयत ।। 47 ।। 2.7.14.3 इ॒दव्विँष्णु॒र्वि च॑क्रम॒ इति॒ व्य॑क्रमत । यस्मात्प॒शव॒ प्रप्रेव॒ भ्रशे॑रन्न् । स ए॒तेन॑ यजेत । यदाप्नोत् । तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम् । ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा । यङ्काम॒मका॑मयन्त॒ तमाप्नुवन्न् । यङ्काम॑ङ्का॒मय॑ते । तमे॒तेनाप्नोति ।। 48 ।। 2.7.15.0 ब॒भू॒वाव्य॑य॒त्तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि॒ वैया॒घ्रेऽधि॑ राष्ट्र॒वर्ध॑न॒पाङ्क्ते॑न॒ छन्द॑सो॒पाव॑हरामि ।। 15 ।। 2.7.15.1 व्या॒घ्रो॑ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः । ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा अ॒यम् । न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि । मा दे॒वानाम्मिथु॒याक॑र्म भा॒गम् । सावी॒र्॒हि दे॑व प्रस॒वाय॑ पित्रे । व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै । अथा॒स्मभ्य॑ सवितस्स॒र्वता॑ता । दि॒वेदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः । भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः । स भू॒ताना॒मधि॑पतिर्बभूव ।। 49 ।। 2.7.15.2 तस्य॑ मृ॒त्यौ च॑रति राज॒सूयम् । स राजा॑ रा॒ज्यमनु॑ मन्यतामि॒दम् । येभि॒श्शिल्पै पप्रथा॒नामदृ॑हत् । येभि॒र्द्याम॒भ्यपि॑शत्प्र॒जाप॑तिः । येभि॒र्वाच॑व्विँ॒श्वरू॑पा स॒मव्य॑यत् । तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि । येभि॑रादि॒त्यस्तप॑ति॒ प्र के॒तुभिः॑ । येभि॒स्सूर्यो॑ ददृ॒शे चि॒त्रभा॑नुः । येभि॒र्वाचं॑ पुष्क॒लेभि॒रव्य॑यत् । तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ।। 50 ।। 2.7.15.3 आऽयं भा॑तु॒ शव॑सा॒ पञ्च॑ कृ॒ष्टीः । इन्द्र॑ इव ज्ये॒ष्ठो भ॑वतु प्र॒जावान्॑ । अ॒स्मा अ॑स्तु पुष्क॒लञ्चि॒त्रभा॑नु । आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थम् । यत्ते॒ शिल्प॑ङ्कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त्पुष्क॒लञ्चि॒त्रभा॑नु । यस्मि॒न्थ्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् । तस्मि॒न्राजा॑न॒मधि॒ विश्र॑ये॒मम् । द्यौर॑सि पृथि॒व्य॑सि । व्या॒घ्रो वैया॒घ्रेऽधि॑ ।।51।। 2.7.15.4 विश्र॑यस्व॒ दिशो॑ म॒हीः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् । या दि॒व्या आप॒ पय॑सा संबभू॒वुः । या अ॒न्तरि॑ख्ष उ॒त पार्थि॑वी॒र्याः । तासान्त्वा॒ सर्वा॑सा रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा । अ॒भि त्वा॒ वर्च॑साऽसिचन्दि॒व्येन॑ । पय॑सा स॒ह । यथासा॑ राष्ट्र॒वर्ध॑नः ।। 52 ।। 2.7.15.5 तथा त्वा सवि॒ता क॑रत् । इन्द्र॒व्विँश्वा॑ अवीवृधन्न् । स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ । र॒थीत॑म रथी॒नाम् । वाजा॑ना॒॒ सत्प॑तिं॒ पतिम् । वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा । रु॒द्रास्त्वा॑ दख्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा । आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा । विश्वे त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा । बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ।। 53 ।। 2.7.15.6 अ॒रु॒णन्त्वा॒ वृक॑मु॒ग्रङ्ख॑जङ्क॒रम् । रोच॑मानं म॒रुता॒मग्रे॑ अ॒र्चिषः॑ । सूर्य॑वन्तं म॒घवा॑नव्विँषास॒हिम् । इन्द्र॑मु॒क्थेषु॑ नाम॒हूत॑म हुवेम । प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुख्षतङ्घृ॒तेन॑ । आ नो॒ जने श्रवयतय्युँवाना । श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा । इन्द्र॑स्य ते वीर्य॒कृतः॑ । बा॒हू उ॒पाव॑ हरामि ।। 54 ।। 2.7.16.0 स्व॒धायै त्वा स॒वेन॒ द्यौस्सूर्य स॒प्त च॑ ।। 16 ।। 2.7.16.1 अ॒भि प्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा । आति॑ष्ठ वृत्र॒हन्त॑मः । तुभ्य॑न्दे॒वा अधि॑ब्रवन्न् । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथ॒य्यौँ । ध्वा॒न्तव्वाँ॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ । दू॒रेहे॑तिरिन्द्रि॒यावान्पत॒त्री । ते नो॒ऽग्नय॒ पप्र॑य पारयन्तु । नम॑स्त ऋषे गद । अव्य॑थायै त्वा स्व॒धायै त्वा ।। 55 ।। 2.7.16.2 मा न॑ इन्द्रा॒भित॒स्त्वदृ॒ष्वारि॑ष्टासः । ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु । तिष्ठा॒ रथे॒ अधि॒ यद्वज्र॑हस्तः । आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑ । आ ति॑ष्ठ वृत्रहन्ना॒तिष्ठ॑न्तं॒ परि॑ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॑ त्वा मि॒त्रावरु॑णौ । द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒द्दख्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चि॑किता॒॒ सोमो॑ अ॒ग्निः । अनु॑ त्वाऽवतु सवि॒ता स॒वेन॑ ।। 56 ।। 2.7.16.3 इन्द्र॒व्विँश्वा॑ अवीवृधन्न् । स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ । र॒थीत॑म रथी॒नाम् । वाजा॑ना॒॒ सत्प॑तिं॒ पतिम् । परि॑मा से॒न्या घोषाः । ज्यानाव्वृँञ्जन्तु गृ॒ध्नवः॑ । मे॒थि॒ष्ठा पिन्व॑माना इ॒ह । माङ्गोप॑तिम॒भि सव्विँ॑शन्तु । तन्मेऽनु॑मति॒रनु॑ मन्यताम् । तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।। 57 ।। 2.7.16.4 तद्ग्रावा॑णस्सोम॒सुतो॑ मयो॒भुवः॑ । तद॑श्विना शृणुत सौभगा यु॒वम् । अव॑ ते॒ हेड॒ उदु॑त्त॒मम् । ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः । सि॒॒ह हि॑न्वन्ति मह॒ते सौभ॑गाय । स॒मु॒द्रन्न सु॒हव॑न्तस्थि॒वासम् । म॒र्मृ॒ज्यन्ते द्वी॒पिन॑म॒फ्स्व॑न्तः । उद॒सावे॑तु॒ सूर्यः॑ । उदि॒दं मा॑म॒कव्वँचः॑ । उदि॑हि देव सूर्य । स॒ह व॒ग्नुना॒ मम॑ । अ॒हव्वाँ॒चो वि॒वाच॑नम् । मयि॒ वाग॑स्तु धर्ण॒सिः । यन्तु॑ न॒दयो॒ वऱ्ष॑न्तु प॒र्जन्याः । सु॒पि॒प्प॒ला ओष॑धयो भवन्तु । अन्न॑वतामोद॒नव॑तामा॒मिख्ष॑वताम् । ए॒षा राजा॑ भूयसाम् ।। 58 ।। 2.7.17.0 अवास्राग्दी॒ख्षा व॒शिनी॒ ह्यु॑ग्राऽद॑धाद्व॒वर्ज॒ वप॑ स्ते॒ द्वे च॑ ।। 17 ।। 2.7.17.1 ये के॒शिन॑ प्रथ॒मास्स॒त्रमास॑त । येभि॒राभृ॑त॒य्यँदि॒दव्विँ॒रोच॑ते । तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑ । रा॒यस्पोषे॑णे॒मव्वँर्च॑सा॒ स सृ॑जाथ । नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः । द्वि॒नाम्नी॑ दी॒ख्षा व॒शिनी॒ ह्यु॑ग्रा । प्र केशास्सु॒वते॑ का॒ण्डिनो॑ भवन्ति । तेषां ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः । आ रो॑ह॒ प्रोष्ठ॒व्विँष॑हस्व॒ शत्रून्॑ । अवास्राग्दी॒ख्षा व॒शिनी॒ ह्यु॑ग्रा ।। 59 ।। 2.7.17.2 दे॒हि दख्षि॑णां॒ प्रति॑र॒स्वायुः॑ । अथा॑मुच्यस्व॒ वरु॑णस्य॒ पाशात् । येनाव॑पथ्सवि॒ता ख्षु॒रेण॑ । सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् । तेन॑ ब्रह्माणो वपते॒दम॒स्योर्जेमम् । र॒य्या वर्च॑सा॒ स सृ॑जाथ । मा ते॒ केशा॒ननु॑ गा॒द्वर्च॑ ए॒तत् । तथा॑ धा॒ता क॑रोतु ते । तुभ्य॒मिन्द्रो॒ बृह॒स्पतिः॑ । स॒वि॒ता वर्च॒ आद॑धात् ।। 60 ।। 2.7.17.3 तेभ्यो॑ नि॒धानं॑ बहु॒धा व्यैच्छन्न्॑ । अ॒न्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ । द॒र्भ॒स्त॒म्बे वी॒र्य॑कृते नि॒धाय॑ । पौस्ये॑ने॒मव्वँर्च॑सा॒ स सृ॑जाथ । बल॑न्ते बाहु॒वोस्स॑वि॒ता द॑धातु । सोम॑स्त्वाऽनक्तु॒ पय॑सा घृ॒तेन॑ । स्त्री॒षु रू॒पम॑श्विनै॒तन्नि ध॑त्तम् । पौस्ये॑ने॒मव्वँर्च॑सा॒ ससृ॑जाथ । यथ्सी॒मन्त॒ङ्कङ्क॑तस्ते लि॒लेख॑ । यद्वा ख्षु॒र प॑रिव॒वर्ज॒ वप॑स्ते । स्त्री॒षु रू॒पम॑श्विनै॒तन्नि ध॑त्तम् । पौस्ये॑ने॒म स सृ॑जाथो वी॒र्ये॑ण ।। 61 ।। 2.7.18.0 वेद॒ हर॑न्त्येनमे॒वव्वेँदा॒भ्यू॑ढ पा॒प्मभि॒रेक॑ञ्च ।। 18 ।। 2.7.18.1 इन्द्र॒व्वैँ स्वाविशो॑ म॒रुतो॒ नापा॑चायन्न् । सोऽन॑पचाय्यमान ए॒तव्विँ॑घ॒नम॑पश्यत् । तमाऽह॑रत् । तेना॑यजत । तेनै॒वासा॒न्त स॑ स्त॒म्भव्व्यँ॑हन्न् । यद्व्यहन्न्॑ । तद्वि॑घ॒नस्य॑ विघन॒त्वम् । वि पा॒प्मानं॒ भ्रातृ॑व्य हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ।। 62 ।। 2.7.18.2 य राजा॑न॒व्विँशो॒ नाप॒चाये॑युः । यो वा ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑त॒स्स्यात् । स ए॒तेन॑ यजेत । वि॒घ॒नेनै॒वैन॑द्वि॒हत्य॑ । वि॒शामाधि॑पत्यङ्गच्छति । तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः । द्वे च॑तुर्वि॒॒शे । औद्भि॑द्यमे॒व तत् । ए॒तद्वै ख्ष॒त्रस्यौद्भि॑द्यम् । यद॑स्मै॒ स्वाविशो॑ ब॒लि हर॑न्ति ।। 63 ।। 2.7.18.3 हर॑न्त्यस्मै॒ विशो॑ ब॒लिम् । ऐन॒मप्र॑तिख्यातङ्गच्छति । य ए॒वव्वेँद॑ । प्र॒बाहु॒ग्वा अग्रे ख्ष॒त्राण्याते॑पुः । तेषा॒मिन्द्रः॑ ख्ष॒त्राण्याद॑त्त । न वा इ॒मानि॑ ख्ष॒त्राण्य॑भूव॒न्निति॑ । तन्नख्ष॑त्राणन्नख्षत्र॒त्वम् । आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यन्द॑त्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ।। 64 ।। 2.7.18.4 तद्यथा॑ ह॒ वै स॑च॒क्रिणौ॒ कप्ल॑कावु॒पाव॑हितौ॒ स्याताम् । ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमौ । अ॒युख्षु॒ स्तोमे॑षु क्रियेते । पा॒प्मनोऽप॑हत्यै । अप॑ पा॒प्मानं॒ भ्रातृ॑व्य हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । तद्यथा॑ ह॒ वै सू॑तग्राम॒ण्यः॑ । ए॒वञ्छन्दा॑सि । तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः ।। 65 ।। 2.7.18.5 स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन्न् । प्र॒जया॑ प॒शुभि॑रसा॒नीत्ये॒व । व्यति॑षक्ताभिस्स्तुवते । व्यति॑षक्त॒व्वैँ ख्ष॒त्रव्विँ॒शा । वि॒शैवैन॑ङ्ख्ष॒त्रेण॒ व्यति॑षजति । व्यति॑षक्ताभिस्स्तुवते । व्यति॑षक्तो॒ वै ग्रा॑म॒णीस्स॑जा॒तैः । स॒जा॒तैरे॒वैन॒व्व्यँति॑षजति । व्यति॑षक्ताभिस्स्तुवते । व्यति॑षक्तो॒ वै पुरु॑ष पा॒प्मभिः॑ । व्यति॑षक्ताभिरे॒वास्य॑ पा॒प्मनो॑ नुदते ।। 66 ।। 2.8.0.0 पीवोन्ना॒न्ते शु॒क्रास॒स्सोमो॑ धे॒नुमिन्द्र॒स्तर॑स्वा॒ञ्छुचि॒मा दे॒वो या॑तु॒ सूर्यो॑ दे॒वीम॒हम॑स्मि॒ ता सूर्याचन्द्र॒मसा॒ नव॑ ।।9।। पीवोन्ना॒मग्ने॒ त्वं पा॑रयानाधृ॒ष्यश्शुचि॒न्नु वि॒श्रय॑माणो दि॒वो रु॒क्मोऽन्नं॑ प्रा॒णमन्न॒न्ता सूर्याचन्द्र॒मसा॒ नव॑सप्ततिः ।।79 ।। पीवोन्नाय्यूँ॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।। हरिः॑ ओम् ।। कृष्णयजुर्ब्राह्मणे द्वितीयाष्टके अष्टम प्रपाठकः द्वितीयाष्टकञ्च समाप्तम् । 2.8.0.0 तैत्तिरीयब्राह्मणे द्वितीयाष्टके अष्टमप्रपाठकप्रारम्भः । हरिः ओम् ।। 2.8.1.0 म॒नी॒षाऽस्तु॑ च॒र्तस्या॒स्मे कि॑त॒वास॑श्च॒त्वारि॑ च ।। 1 ।। 2.8.1.1 पीवोन्ना रयि॒वृध॑स्सुमे॒धाः । श्वे॒तस्सि॑षक्ति नि॒युता॑मभि॒श्रीः । ते वा॒यवे॒ सम॑नसो॒ वित॑स्थुः । विश्वेन्नर॑स्स्वप॒त्यानि॑ चक्रुः । रा॒येऽनु यञ्ज॒ज्ञतू॒ रोद॑सी उ॒भे । रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् । अधा॑ वा॒युन्नि॒युत॑स्सश्चत॒ स्वाः । उ॒त श्वे॒तव्वँसु॑धितिन्निरे॒के । आ वा॑यो॒ प्र याभिः॑ । प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा ।। 1 ।। 2.8.1.2 बृ॒हद्र॑यिव्विँ॒श्ववा॑रा रथ॒प्राम् । द्यु॒तद्या॑मा नि॒युत॒ पत्य॑मानः । क॒वि क॒विमि॑यख्षसि प्रयज्यो । आ नो॑ नि॒युद्भि॑श्श॒तिनी॑भिरध्व॒रम् । स॒ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ।। 2 ।। 2.8.1.3 व॒य स्या॑म॒ पत॑यो रयी॒णाम् । र॒यी॒णां पति॑य्यँज॒तं बृ॒हन्तम् । अ॒स्मिन्भरे॒ नृत॑म॒व्वाँज॑सातौ । प्र॒जाप॑तिं प्रथम॒जामृ॒तस्य॑ । यजा॑म दे॒वमधि॑ नो ब्रवीतु । प्रजा॑पते॒ त्वन्नि॑धि॒पा पु॑रा॒णः । दे॒वानां पि॒ता ज॑नि॒ता प्र॒जानाम् । पति॒र्विश्व॑स्य॒ जग॑त पर॒स्पाः । ह॒विर्नो॑ देव विह॒वे जु॑षस्व । तवे॒मे लो॒का प्र॒दिशो॒ दिश॑श्च ।। 3 ।। 2.8.1.4 प॒रा॒वतो॑ नि॒वत॑ उ॒द्वत॑श्च । प्रजा॑पते विश्व॒सृज्जी॒वध॑न्य इ॒दन्नो॑ देव । प्रति॑हर्य ह॒व्यम् । प्र॒जाप॑तिं प्रथ॒मय्यँ॒ज्ञिया॑नाम् । दे॒वाना॒मग्रे॑ यज॒तय्यँ॑जध्वम् । स नो॑ ददातु॒ द्रवि॑ण सु॒वीर्यम् । रा॒यस्पोष॒व्विँ ष्य॑तु॒ नाभि॑म॒स्मे । यो रा॒य ईशे॑ शतदा॒य उ॒क्थ्यः॑ । य प॑शू॒ना र॑ख्षि॒ता विष्ठि॑तानाम् । प्र॒जाप॑ति प्रथम॒जा ऋ॒तस्य॑ ।। 4 ।। 2.8.1.5 स॒हस्र॑धामा जुषता ह॒विर्नः॑ । सोमा॑पूषणे॒मौ दे॒वौ । सोमा॑पूषणा॒ रज॑सो वि॒मानम् । स॒प्तच॑क्र॒॒ रथ॒मवि॑श्वमिन्वम् । वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नम् । तञ्जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् । दि॒व्य॑न्यस्सद॑नञ्च॒क्र उ॒च्चा । पृ॒थि॒व्याम॒न्यो अध्य॒न्तरि॑ख्षे । ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒ख्षुम् । रा॒यस्पोष॒व्विँष्य॑ता॒न्नाभि॑म॒स्मे ।। 5 ।। 2.8.1.6 धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वः । र॒यि सोमो॑ रयि॒पति॑र्दधातु । अव॑तु दे॒व्यदि॑तिरन॒र्वा । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः । विश्वान्य॒न्यो भुव॑ना ज॒जान॑ । विश्व॑म॒न्यो अ॑भि॒चख्षा॑ण एति । सोमा॑पूषणा॒वव॑त॒न्धियं॑ मे । यु॒वभ्या॒व्विँश्वा॒ पृत॑ना जयेम । उदु॑त्त॒मव्वँ॑रु॒णास्त॑भ्ना॒द्द्याम् । यत्किञ्चे॒दङ्कि॑त॒वासः॑ । अव॑ ते॒ हेड॒स्तत्त्वा॑ यामि । आ॒दि॒त्याना॒मव॑सा॒ न द॑ख्षि॒णा । धा॒रय॑न्त आदि॒त्यास॑स्ति॒स्रो भूमीर्धारयन्न् । य॒ज्ञो दे॒वाना॒॒ शुचि॑र॒पः ।। 6 ।। 2.8.2.0 दे॒व॒यानैर्दे॒वास्सुपू॑तय्यँजत्र॒ हस्त॒मस्ति॒ तमा॑स्यू॒र्मिभि॒र्द्वे च॑ ।। 2 ।। 2.8.2.1 ते शु॒क्रास॒श्शुच॑यो रश्मि॒वन्तः॑ । सीद॑न्नादि॒त्या अधि॑ ब॒र्॒हिषि॑ प्रि॒ये । कामे॑न दे॒वास्स॒रथ॑न्दि॒वो नः॑ । आ यान्तु य॒ज्ञमुप॑ नो जुषा॒णाः । ते सू॒नवो॒ अदि॑ते पीव॒सामिषम् । घृ॒तं पिन्व॒त्प्रति॑हर्यन्नृते॒जाः । प्र य॒ज्ञिया॒ यज॑मानाय येमुरे । आ॒दि॒त्या कामं॑ पितु॒मन्त॑म॒स्मे । आ न॑ पु॒त्रा अदि॑तेर्यान्तु य॒ज्ञम् । आ॒दि॒त्यास॑ प॒थिभि॑र्देव॒यानैः ।।7 ।। 2.8.2.2 अ॒स्मे काम॑न्दा॒शुषे॑ स॒न्नम॑न्तः । पुरो॒डाश॑ङ्घृ॒तव॑न्तञ्जुषन्ताम् । स्क॒भा॒यत॒ निऱ्ऋ॑ति॒॒ सेध॒ताम॑तिम् । प्र र॒श्मिभि॒र्यत॑माना अमृध्राः । आदि॑त्या॒ काम॒ प्रय॑ता॒व्वँष॑ट्कृतिम् । जु॒षध्व॑न्नो ह॒व्यदा॑तिय्यँजत्राः । आ॒दि॒त्यान्काम॒मव॑से हुवेम । ये भू॒तानि॑ ज॒नय॑न्तो विचि॒ख्युः । सीद॑न्तु पु॒त्रा अदि॑तेरु॒पस्थम् । स्ती॒र्णं ब॒र्॒हिऱ्ह॑वि॒रद्या॑य दे॒वाः ।। 8 ।। 2.8.2.3 स्ती॒र्णं ब॒र्॒हिस्सी॑दता य॒ज्ञे अ॒स्मिन्न् । ध्रा॒जास्सेध॑न्तो॒ अम॑तिन्दु॒रेवाम् । अ॒स्मभ्यं॑ पुत्रा अदिते॒ प्र य॑सत । आदि॑त्या॒ काम॑ ह॒विषो॑ जुषा॒णाः । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ । भूयि॑ष्ठान्ते॒ नम॑ उक्तिव्विँधेम । प्र व॑श्शु॒क्राय॑ भा॒नवे॑ भरध्वम् । ह॒व्यं म॒तिञ्चा॒ग्नये॒ सुपू॑तम् ।। 9 ।। 2.8.2.4 यो दैव्या॑नि॒ मानु॑षा ज॒नूषि॑ । अ॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति । अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्तीः । अ॒ग्निय्यँ॑न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः । सु॒स॒न्दृश॑ सु॒प्रती॑क॒॒ स्वञ्चम् । ह॒व्य॒वाह॑मर॒तिं मानु॑षाणाम् । अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वाः । अन॑ग्नित्रा अ॒भ्य॑मन्त कृ॒ष्टीः । पुन॑र॒स्मभ्य॑ सुवि॒ताय॑ देव । ख्षाव्विँश्वे॑भिर॒जरे॑भिर्यजत्र ।। 10 ।। 2.8.2.5 अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् । स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी । भवा॑ तो॒काय॒ तन॑याय॒ शय्योँः । प्रका॑रवो मन॒ना व॒च्यमा॑नाः । दे॒व॒द्रीचीन्नयथ देव॒यन्तः॑ । द॒ख्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति । ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची । इन्द्र॒न्नरो॑ यु॒जे रथम् । ज॒गृ॒भ्णाते॒ दख्षि॑णमिन्द्र॒ हस्तम् ।। 11 ।। 2.8.2.6 व॒सू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑ति शूर॒ गोनाम् । अ॒स्मभ्य॑ञ्चि॒त्रव्वृँष॑ण र॒यिन्दाः । तवे॒दव्विँश्व॑म॒भित॑ पश॒व्यम् । यत्पश्य॑सि॒ चख्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र । भ॒ख्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ । समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॑ । स सू॒रिभि॑र्मघव॒न्थ्स स्व॒स्त्या । सं ब्रह्म॑णा दे॒वकृ॑त॒य्यँदस्ति॑ ।। 12 ।। 2.8.2.7 सन्दे॒वाना॑ सुम॒त्या य॒ज्ञिया॑नाम् । आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रम् । उ॒ग्रो यश्शम्ब॑ पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र । कृ॒धीधिय॑ञ्जरि॒त्रे वाज॑रत्नाम् । आ वे॒धस॒॒ स हि शुचिः॑ । बृह॒स्पति॑ प्रथ॒मञ्जाय॑मानः । म॒हो ज्योति॑ष पर॒मे व्यो॑मन्न् । स॒प्तास्य॑स्तुविजा॒तो रवे॑ण । वि स॒प्तर॑श्मिरधम॒त्तमा॑सि ।। 13 ।। 2.8.2.8 बृह॒स्पति॒स्सम॑जय॒द्वसू॑नि । म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः । अ॒पस्सिषा॑स॒न्थ्सुव॒रप्र॑तीत्तः । बृह॒स्पति॒र्॒हन्त्य॒मित्र॑म॒र्कैः । बृह॑स्पते॒ पर्ये॒वा पि॒त्रे । आ नो॑ दि॒व पावी॑रवी । इ॒मा जुह्वा॑ना॒ यस्ते॒ स्तनः॑ । सर॑स्वत्य॒भि नो॑ नेषि । इ॒य शुष्मे॑भिर्बिस॒खा इ॑वारुजत् । सानु॑ गिरी॒णान्त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒द॒घ्नीमव॑से सुवृ॒क्तिभिः॑ । सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ।। 14 ।। 2.8.3.0 व॒व॒र्थ॒ वि॒थ्स॒ इन्द्र॑स्तु॒रायास्तु वृत्र॒तूर्ये॒ वज्र॑बाहु पृथि॒व्यान्त्रीणि॑ च ।। 3 ।। 2.8.3.1 सोमो॑ धे॒नु सोमो॒ अर्व॑न्तमा॒शुम् । सोमो॑ वी॒रङ्क॑र्म॒ण्य॑न्ददातु । सा॒द॒न्य॑व्विँद॒थ्य॑ स॒भेयम् । पि॒तु॒श्श्रव॑ण॒य्योँ ददा॑शदस्मै । अषा॑ढय्युँ॒थ्सु त्व सो॑म॒ क्रतु॑भिः । या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति । त्वमि॒मा ओष॑धीस्सोम॒ विश्वाः । त्वम॒पो अ॑जनय॒स्त्वङ्गाः । त्वमात॑तन्थो॒र्व॑न्तरि॑ख्षम् । त्वञ्ज्योति॑षा॒ वि तमो॑ ववर्थ ।। 15 ।। 2.8.3.2 या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याम् । या पर्व॑ते॒ष्वोष॑धीष्व॒फ्सु । तेभि॑र्नो॒ विश्वैस्सु॒मना॒ अहे॑डन्न् । राजन्थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय । विष्णो॒र्नुक॒न्तद॑स्य प्रि॒यम् । प्र तद्विष्णुः॑ । प॒रो मात्र॑या त॒नुवा॑ वृधान । न ते॑ महि॒त्वमन्व॑श्ञुवन्ति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम् । प॒र॒मस्य॑ विथ्से ।। 16 ।। 2.8.3.3 विच॑क्रमे॒ त्रिर्दे॒वः । आ ते॑ म॒हो यो जा॒त ए॒व । अ॒भि गो॒त्राणि॑ । आभि॒स्स्पृधो॑ मिथ॒तीररि॑षण्यन्न् । अ॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र । आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑चीः । आर्या॑य॒ विशोव॑तारी॒र्दासीः । अ॒य शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न् । अ॒यमु॒त प्र कृ॑णुते यु॒धा गाः । य॒दा स॒त्यङ्कृ॑णु॒ते म॒न्युमिन्द्रः॑ ।। 17 ।। 2.8.3.4 विश्व॑न्दृ॒ढं भ॑यत॒ एज॑दस्मात् । अनु॑ स्व॒धाम॑ख्षर॒न्नापो॑ अस्य । अव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् । स॒ध्री॒चीने॑न॒ मन॑सा॒ तमि॑न्द्र॒ ओजि॑ष्ठेन । हन्म॑नाहन्न॒भिद्यून् । म॒रुत्व॑न्तव्वृँष॒भव्वाँ॑वृधा॒नम् । अक॑वारिन्दि॒व्य शा॒समिन्द्रम् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नाय । उ॒ग्र स॑हो॒दामि॒ह त हु॑वेम । जनि॑ष्ठा उ॒ग्रस्सह॑से तु॒राय॑ ।। 18 ।। 2.8.3.5 म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ । मा॒ता यद्वी॒रन्द॒धन॒द्धनि॑ष्ठा । क्व॑स्यावो॑ मरुतस्स्व॒धाऽऽसीत् । यन्मामेक॑ स॒मध॑त्ताहि॒हत्ये । अ॒ह ह्यु॑ग्रस्त॑वि॒षस्तुवि॑ष्मान् । विश्व॑स्य॒ शत्रो॒रन॑मव्वँध॒स्नैः । वृ॒त्रस्य॑ त्वा श्व॒सथा॒ दीष॑माणाः । विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्यन्ते॑ अस्तु ।। 19 ।। 2.8.3.6 अथे॒मा विश्वा॒ पृत॑ना जयासि । वधीव्वृँ॒त्रं म॑रुत इन्द्रि॒येण॑ । स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः । सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः । स यो वृषा॒ वृष्णि॑येभि॒स्समो॑काः । म॒हो दि॒व पृ॑थि॒व्याश्च॑ स॒म्राट् । स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु । म॒रुत्वान्नो भव॒त्विन्द्र॑ ऊ॒ती । इन्द्रो॑ वृ॒त्रम॑तरद्वृत्र॒तूर्ये ।। 20 ।। 2.8.3.7 अ॒ना॒धृ॒ष्यो म॒घवा॒ शूर॒ इन्द्रः॑ । अन्वे॑न॒व्विँशो॑ अमदन्त पू॒र्वीः । अ॒य राजा॒ जग॑तश्चऱ्षणी॒नाम् । स ए॒व वी॒रस्स उ॑ वी॒र्या॑वान् । स ए॑करा॒जो जग॑त पर॒स्पाः । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथा॑भवद्दमि॒ताभिक्र॑तूनाम् । इन्द्रो॑ य॒ज्ञव्वँ॒र्धय॑न्वि॒श्ववे॑दाः । पु॒रो॒डाश॑स्य जुषता ह॒विर्नः॑ । वृ॒त्रन्ती॒र्त्वा दा॑न॒वव्वँज्र॑बाहुः ।। 21 ।। 2.8.3.8 दिशो॑ऽदृहद्दृहि॒ता दृह॑णेन । इ॒मय्यँ॒ज्ञव्वँ॒र्धय॑न्वि॒श्ववे॑दाः । पु॒रो॒डाशं॒ प्रति॑ गृभ्णा॒त्विन्द्रः॑ । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथै॑करा॒जो अ॑भव॒ज्जना॑नाम् । इन्द्रो॑ दे॒वाञ्छ॑म्बर॒हत्य॑ आवत् । इन्द्रो॑ दे॒वाना॑मभवत्पुरो॒गाः । इन्द्रो॑ य॒ज्ञे ह॒विषा॑ वावृधा॒नः । वृ॒त्र॒तूर्नो॒ अभ॑य॒॒ शर्म॑ यसत् । यस्स॒प्त सिन्धू॒॒ रद॑धात्पृथि॒व्याम् । यस्स॒प्त लो॒कानकृ॑णो॒द्दिश॑श्च । इन्द्रो॑ ह॒विष्मा॒न्थ्सग॑णो म॒रुद्भिः॑ । वृ॒त्र॒तूर्नो॑ य॒ज्ञमि॒होप॑ यासत् ।। 22 ।। 2.8.4.0 ह॒विर्नो॑ दाद्भभूव रा॒तिं पू॒र्वहू॑ताव॒र्कैरै॑रद॒स्मिन्पञ्च॑ च ।। 4 ।। 2.8.4.1 इन्द्र॒स्तर॑स्वानभिमाति॒होग्रः । हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्॒षाः । तस्य॑ व॒य सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म । हिर॑ण्यवर्णो॒ अभ॑यङ्कृणोतु । अ॒भि॒मा॒ति॒हेन्द्र॒ पृत॑नासु जि॒ष्णुः । स न॒श्शर्म॑ त्रि॒वरू॑थ॒व्विँ य॑सत् । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । इन्द्र॑ स्तुहि व॒ज्रिण॒॒ स्तोम॑पृष्ठम् । पु॒रो॒डाश॑स्य जुषता ह॒विर्नः॑ ।। 23 ।। 2.8.4.2 ह॒त्वाभिमा॑ती॒ पृत॑ना॒स्सह॑स्वान् । अथाभ॑यङ्कृणुहि वि॒श्वतो॑ नः । स्तु॒हि शूर॑व्वँ॒ज्रिण॒मप्र॑तीत्तम् । अ॒भि॒मा॒ति॒हनं॑ पुरुहू॒तमिन्द्रम् । य एक॒ इच्छ॒तप॑ति॒र्जने॑षु । तस्मा॒ इन्द्रा॑य ह॒विरा जु॑होत । इन्द्रो॑ दे॒वाना॑मधि॒पा पु॒रोहि॑तः । दि॒शां पति॑रभवद्वा॒जिनी॑वान् । अ॒भि॒मा॒ति॒हा त॑वि॒षस्तुवि॑ष्मान् । अ॒स्मभ्य॑ञ्चि॒त्रव्वृँष॑ण र॒यिन्दात् ।। 24 ।। 2.8.4.3 य इ॒मे द्यावा॑पृथि॒वी म॑हि॒त्वा । बले॒नादृ॑हदभिमाति॒हेन्द्रः॑ । स नो॑ ह॒वि प्रति॑ गृभ्णातु रा॒तये । दे॒वानान्दे॒वो नि॑धि॒पा नो॑ अव्यात् । अन॑वस्ते॒ रथ॒व्वृँष्णे॒ यत्ते । इन्द्र॑स्य॒ नु वी॒र्याण्यह॒न्नहिम् । इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा । शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा ख्षेति चऱ्षणी॒नाम् । अ॒रान्न ने॒मि परि॒ ता ब॑भूव ।। 25 ।। 2.8.4.4 अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रून्॑ । विति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑भेत् । सव्वँज्रे॑णासृजद्वृ॒त्रमिन्द्रः॑ । प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः । विष्णु॑न्दे॒वव्वँरु॑णमू॒तये॒ भगम् । मेद॑सा दे॒वा व॒पया॑ यजध्वम् । ता नो॑ य॒ज्ञमाग॑तव्विँ॒श्वधे॑ना । प्र॒जाव॑द॒स्मे द्रवि॑णे॒ह ध॑त्तम् । मेद॑सा दे॒वा व॒पया॑ यजध्वम् । विष्णु॑ञ्च दे॒वव्वँरु॑णञ्च रा॒तिम् ।। 26 ।। 2.8.4.5 ता नो॒ अमी॑वा अप॒ बाध॑मानौ । इ॒मय्यँ॒ज्ञञ्जु॒षमा॑णा॒वुपेतम् । विष्णू॑वरुणा यु॒वम॑ध्व॒राय॑ नः । वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्ज्यू ह॒विषा॑ वृधा॒ना । ज्योति॒षाऽरा॑तीर्दहत॒न्तमा॑सि । ययो॒रोज॑सा स्कभि॒ता रजा॑सि । वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा । याऽपत्ये॑ ते॒ अप्र॑तीत्ता॒ सहो॑भिः । विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ।। 27 ।। 2.8.4.6 विष्णू॑वरुणावभिशस्ति॒पावाम् । दे॒वा य॑जन्त ह॒विषा॑ घृ॒तेन॑ । अपामी॑वा सेधत र॒ख्षस॑श्च । अथा॑धत्त॒य्यँज॑मानाय॒ शय्योँः । अ॒॒हो॒मुचा॑ वृष॒भा सु॒प्रतूर्ती । दे॒वानान्दे॒वत॑मा॒ शचि॑ष्ठा । विष्णू॑वरुणा॒ प्रति॑हर्यतन्नः । इ॒दन्नरा॒ प्रय॑तमू॒तये॑ ह॒विः । म॒ही नु द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे । रु॒चा भ॑वता शु॒चय॑द्भिर॒र्कैः ।। 28 ।। 2.8.4.7 यथ्सी॒व्वँरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्न् । नृ॒वद्भ्यो॒ख्षा प॑प्रथा॒नेभि॒रेवैः । प्रपूर्व॒जे पि॒तरा॒ नव्य॑सीभिः । गी॒र्भि कृ॑णुध्व॒॒ सद॑ने ऋ॒तस्य॑ । आ नो द्यावापृथिवी॒ दैव्ये॑न । जने॑न यातं॒ महि॑ वा॒व्वँरू॑थम् । स इथ्स्वपा॒ भुव॑नेष्वास । य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ । उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके । अ॒व॒॒शे धीर॒श्शच्या॒ समै॑रत् ।। 29 ।। 2.8.4.8 भूरि॒न्द्वे अच॑रन्ती॒ चर॑न्तम् । प॒द्वन्त॒ङ्गर्भ॑म॒पदी॑दधाते । नित्य॒न्न सू॒नुं पि॒त्रोरु॒पस्थे । तं पि॑पृत रोदसी सत्य॒वाचम् । इ॒दन्द्या॑वापृथिवी स॒त्यम॑स्तु । पित॒र्मात॒र्यदि॒होप॑ ब्रु॒वे वाम् । भू॒तन्दे॒वाना॑मव॒मे अवो॑भिः । विद्यामे॒षव्वृँ॒जन॑ञ्जी॒र- दा॑नुम् । उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे अ॑न्ते । उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन्न् । दधा॑ते॒ ये सु॒भगे॑ सु॒प्रतूर्ती । द्यावा॒ रख्ष॑तं पृथि॒वी नो॒ अभ्वात् । या जा॒ता ओष॑ध॒योऽति॒ विश्वा परि॒ष्ठाः । या ओष॑धय॒स्सोम॑राज्ञीरश्वाव॒ती सो॑मव॒तीम् । ओष॑धी॒रिति॑ मातरो॒ऽन्या वो॑ अ॒न्याम॑वतु ।। 30 ।। 2.8.5.0 व॒राहैर्वि॒श्वहा॑ऽजनिष्ट पू॒षोद्वरी॑वृजत्खा॒दयो॑ व पा॒न्त्यस्त्या॒भिर्नव॑ च ।। 5 ।। 2.8.5.1 शुचि॒न्नु स्तोम॒॒ श्ञथ॑द्वृ॒त्रम् । उ॒भा वा॑मिन्द्राग्नी॒ प्र च॑ऱ्ष॒णिभ्यः॑ । आ वृ॑त्रहणा गी॒र्भिर्विप्रः॑ । ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता । सू॒क्तस्य॑ बोधि॒ तन॑यञ्च जिन्व । विश्व॒न्तद्भ॒द्रय्यँद॒वन्ति॑ दे॒वाः । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः । स ई॑ स॒त्येभि॒स्सखि॑भिश्शु॒चद्भिः॑ । गोधा॑यस॒व्विँध॑न॒सैर॑तर्दत् । ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहैः ।। 31 ।। 2.8.5.2 घ॒र्मस्वे॑देभि॒र्द्रवि॑ण॒व्व्याँ॑नट् । ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शम् । स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः । यो गा उ॒दाज॒थ्स दि॒वे वि चा॑भजत् । म॒हीव॑ री॒तिश्शव॑सा सर॒त्पृथ॑क् । इन्धा॑नो अ॒ग्निँव्व॑नवद्वनुष्य॒तः । कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒सृत्प्र सृ॑सते । यय्यँ॒य्युँज॑ङ्कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ । ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा ।। 32 ।। 2.8.5.3 रा॒यस्स्या॑म र॒थ्यो॑ विव॑स्वतः । वी॒रेषु॑ वी॒रा उप॑पृङ्ग्धि न॒स्त्वम् । यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हवम् । स इज्जने॑न॒ स वि॒शा स जन्म॑ना । स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ । दे॒वाना॒य्यँ पि॒तर॑मा॒ विवा॑सति । श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिम् । यास्ते॑ पूष॒न्नावो॑ अ॒न्तः । शु॒क्रन्ते॑ अ॒न्यत्पू॒षेमा आशाः । प्रप॑थे प॒थाम॑जनिष्ट पू॒षा ।।33 ।। 2.8.5.4 प्रप॑थे दि॒व प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे । आ च॒ परा॑ च चरति प्रजा॒नन्न् । पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्याः । इ॒डस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः । तन्दे॒वासो॒ अद॑दुस्सू॒र्यायै । कामे॑न कृ॒तन्त॒वस॒॒ स्वञ्चम् । अ॒जाऽश्व॑ पशु॒पा वाज॑बस्त्यः । धि॒य॒ञ्जि॒न्वो विश्वे॒ भुव॑ने॒ अर्पि॑तः । अष्ट्रां पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत् ।। 34 ।। 2.8.5.5 स॒ञ्चख्षा॑णो॒ भुव॑ना दे॒व ई॑यते । शुची॑ वो ह॒व्या म॑रुत॒श्शुची॑नाम् । शुचि॑ हिनोम्यध्व॒र शुचि॑भ्यः । ऋ॒तेन॑ स॒त्यमृत॒साप॑ आयन्न् । शुचि॑जन्मान॒श्शुच॑य पाव॒काः । प्र चि॒त्रम॒र्कङ्गृ॑ण॒ते तु॒राय॑ । मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहा॑सि॒ सह॑सा॒ सह॑न्ते । रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ । असे॒ष्वा म॑रुत खा॒दयो॑ वः ।। 35 ।। 2.8.5.6 वख्ष॑स्सुरु॒क्मा उप॑ शिश्रिया॒णाः । वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒नाः । अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः । या व॒श्शर्म॑ शशमा॒नाय॒ सन्ति॑ । त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्य॒न्तानि॑ मरुतो॒ विय॑न्त । र॒यिन्नो॑ धत्त वृषणस्सु॒वीरम् । इ॒मे तु॒रं म॒रुतो॑ रामयन्ति । इ॒मे सह॒स्सह॑स॒ आ न॑मन्ति । इ॒मे शस॑व्वँनुष्य॒तो नि पान्ति ।। 36 ।। 2.8.5.7 गु॒रुद्वेषो॒ अर॑रुषे दधन्ति । अ॒रा इ॒वेदच॑रमा॒ अहे॑व । प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः । पृश्ञे प्रु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः । स्वया॑ म॒त्या म॒रुत॒स्सं मि॑मिख्षुः । अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ । स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये । अनु॑ ख्ष॒त्रमनु॒ सहो॑ यजत्र । इन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये । य इन्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॑ ।। 37 ।। 2.8.5.8 शिख्षा॒ सखि॑भ्य पुरुहूत॒ नृभ्यः॑ । त्व हि दृ॒ढा म॑घव॒न्विचे॑ताः । अपा॑वृधि॒ परि॑वृति॒न्न राधः॑ । इन्द्रो॒ राजा॒ जग॑तश्चर्‌षणी॒नाम् । अ॒धि॒ख्षमि॒ विषु॑रूप॒य्यँदस्ति॑ । ततो॑ ददातु दा॒शुषे॒ वसू॑नि । चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् । तमु॑ष्टुहि॒ यो अ॒भिभूत्योजाः । व॒न्वन्नवा॑त पुरुहू॒त इन्द्रः॑ । अषा॑ढमु॒ग्र सह॑मानमा॒भिः ।। 38 ।। 2.8.5.9 गी॒र्भिर्व॑र्ध वृष॒भञ्च॑ऱ्षणी॒नाम् । स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे । तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्रम् । यो वा॒युना॒ जय॑ति॒ गोम॑तीषु । प्र धृ॑ष्णु॒या न॑यति॒ वस्यो॒ अच्छ॑ । आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्तात् । आ वि॒श्वतो॑ अ॒भिसमेत्व॒र्वाङ् । इन्द्र॑ द्यु॒म्न सुव॑र्वद्धेह्य॒स्मे ।। 39 ।। 2.8.6.0 वसू॑नि ततानास्तु॒ विश्वान्॑ ववृत्याव्वँवर्ति घृ॒तेन॒ विषू॑चीश्श्रु॒तन्द्वे च॑ ।। 6 ।। 2.8.6.1 आ दे॒वो या॑तु सवि॒ता सु॒रत्नः॑ । अ॒न्त॒रि॒ख्ष॒प्रा वह॑मानो॒ अश्वैः । हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ । नि॒वे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ । अ॒भीवृ॑त॒ङ्कृश॑नैर्वि॒श्वरू॑पम् । हिर॑ण्यशम्यय्यँज॒तो बृ॒हन्तम् । आस्था॒द्रथ॑ सवि॒ता चि॒त्रभा॑नुः । कृ॒ष्णा रजा॑ सि॒ तवि॑षी॒न्दधा॑नः । सघा॑ नो दे॒वस्स॑वि॒ता स॒वाय॑ । आ सा॑विष॒द्वसु॑पति॒र्वसू॑नि ।। 40 ।। 2.8.6.2 वि॒श्रय॑माणो॒ अम॑तिमुरू॒चीम् । म॒र्त॒भोज॑न॒मध॑रासतेन । विजनाञ्छ्या॒वाश्शि॑ति॒पादो॑ अख्यन्न् । रथ॒॒ हिर॑ण्यप्रउग॒व्वँह॑न्तः । शश्व॒द्दिश॑स्सवि॒तुर्दैव्य॑स्य । उ॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः । वि सु॑प॒र्णो अ॒न्तरि॑ख्षाण्यख्यत् । ग॒भी॒रवे॑पा॒ असु॑रस्सुनी॒थः । क्वे॑दानी॒॒ सूर्य॒ कश्चि॑केत । क॒त॒मान्द्या र॒श्मिर॒स्या त॑तान ।। 41 ।। 2.8.6.3 भग॒न्धिय॑व्वाँ॒जय॑न्त॒ पुर॑न्धिम् । नरा॒शसो॒ ग्नास्पति॑र्नो अव्यात् । आ ये वा॒मस्य॑ सङ्ग॒थे र॑यी॒णाम् । प्रि॒या दे॒वस्य॑ सवि॒तुस्स्या॑म । आ नो॒ विश्वे॒ अस्क्रा॑गमन्तु दे॒वाः । मि॒त्रो अ॑र्य॒मा वरु॑णस्स॒जोषाः । भुव॒न्॒ यथा॑ नो॒ विश्वे॑ वृ॒धासः॑ । करन्थ्सु॒षाहा॑ विथु॒रन्न शवः॑ । शन्नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु । श सर॑स्वती स॒ह धी॒भिर॑स्तु ।। 42 ।। 2.8.6.4 शम॑भि॒षाच॒श्शमु॑ राति॒षाचः॑ । शन्नो॑ दि॒व्या पार्थि॑वा॒श्शन्नो॒ अप्याः । ये स॑वि॒तुस्स॒त्यस॑वस्य॒ विश्वे । मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गँव्वी॒रव॒द्गोम॒दप्नः॑ । दधा॑तन॒ द्रवि॑णञ्चि॒त्रम॒स्मे । अग्ने॑ या॒हि दू॒त्य॑व्वाँरि॑षेण्यः । दे॒वा अच्छा ब्रह्म॒कृता॑ ग॒णेन॑ । सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒पः । य॒ख्षि॒ दे॒वान्र॑त्न॒धेया॑य॒ विश्वान्॑ ।। 43 ।। 2.8.6.5 द्यौ पि॑त॒ पृथि॑वि॒ मात॒रध्रु॑क् । अग्ने भ्रातर्वसवो मृ॒डता॑ नः । विश्व॑ आदित्या अदिते स॒जोषाः । अ॒स्मभ्य॒॒ शर्म॑ बहु॒लव्विँ य॑न्त । विश्वे॑ देवाश्शृणु॒तेम हवं॑ मे । ये अ॒न्तरि॑ख्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्राः । आ॒सद्या॒स्मिन्ब॒र्॒हिषि॑ मादयध्वम् । आ वां मित्रावरुणा ह॒व्यजु॑ष्टिम् । नम॑सा देवा॒वव॑साववृत्याम् ।। 44 ।। 2.8.6.6 अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकम् । वृ॒ष्टिर्दि॒व्या सु॑पा॒रा । यु॒वव्वँस्त्रा॑णि पीव॒सा व॑साथे । यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः । अवा॑तिरत॒मनृ॑तानि॒ विश्वा । ऋ॒तेन॑ मित्रावरुणा सचेथे । तथ्सु वां मित्रावरुणा महि॒त्वम् । ई॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे । विश्वा पिन्वथ॒ स्वस॑रस्य॒ धेनाः । अनु॑ वा॒मेक॑ प॒विरा व॑वर्ति ।। 45 ।। 2.8.6.7 यद्बहि॑ष्ठ॒न्नाति॒ विदे॑ सुदानू । अच्छि॑द्र॒॒ शर्म॒ भुव॑नस्य गोपा । ततो॑ नो मित्रावरुणाववीष्टम् । सिषा॑सन्तो जी(जि?)गि॒वास॑स्स्याम । आ नो मित्रावरुणा ह॒व्यदा॑तिम् । घृ॒तैर्गव्यू॑तिमुख्षत॒मिडा॑भिः । प्रति॑ वा॒मत्र॒ वर॒मा जना॑य । पृ॒णी॒तमु॒द्नो दि॒व्यस्य॒ चारोः । प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुख्षतङ्घृ॒तेन॑ ।। 46 ।। 2.8.6.8 आ नो॒ जने श्रवयतय्युँवाना । श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा । इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ । ख्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे । ति॒ग्मायु॑धाय भरता शृ॒णोत॑न । त्वाद॑त्तेभी रुद्र॒ शन्त॑मेभिः । श॒त हिमा॑ अशीय भेष॒जेभिः॑ । व्य॑स्मद्द्वेषो॑ वित॒रव्व्यँहः॑ । व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ।। 47 ।। 2.8.6.9 अऱ्ह॑न्बिभऱ्षि॒ मा न॑स्तो॒के । आ ते॑ पितर्मरुता सु॒म्नमे॑तु । मा न॒स्सूर्य॑स्य स॒न्दृशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति ख्षमेत । प्र जा॑येमहि रुद्र प्र॒जाभिः॑ । ए॒वा ब॑भ्रो वृषभ चेकितान । यथा॑ देव॒ न हृ॑णी॒षे न हसि॑ । हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः । परि॑ णो रु॒द्रस्य॑ हे॒तिस्स्तु॒हि श्रु॒तम् । मीढु॑ष्ट॒माऱ्ह॑न्बिभऱ्षि । त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम् ।। 48 ।। 2.8.7.0 ज॒भा॒र॒ द्यौर॒ग्नेरु॒पस्थ॑ उप॒ख्ष्यन्तो॑ बद्बधा॒नो व॒ध्वा॑ याद॑मानस्समु॒द्रेऽह॑स॒ प्रस्थि॑तस्य ।। 7 ।। 2.8.7.1 सूर्यो॑ दे॒वीमु॒षस॒॒ रोच॑माना॒मर्यः॑ । न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ । वि॒त॒न्वते॒ प्रति॑ भ॒द्राय॑ भ॒द्रम् । भ॒द्रा अश्वा॑ ह॒रित॒स्सूर्य॑स्य । चि॒त्रा एद॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः । परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः । तथ्सूर्य॑स्य देव॒त्वन्तन्म॑हि॒त्वम् । म॒ध्या कर्तो॒र्वित॑त॒॒ सञ्ज॑भार ।। 49 ।। 2.8.7.2 य॒देदयु॑क्त ह॒रित॑स्स॒धस्थात् । आद्रात्री॒ वास॑स्तनुते सि॒मस्मै । तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चख्षे । सूर्यो॑ रू॒पङ्कृ॑णुते॒ द्योरु॒पस्थे । अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ । कृ॒ष्णम॒न्यद्ध॒रित॒स्सं भ॑रन्ति । अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य । निरह॑स पिपृ॒तान्निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ताम् । अदि॑ति॒स्सिन्धु॑ पृथि॒वी उ॒त द्यौः ।। 50 ।। 2.8.7.3 दि॒वो रु॒क्म उ॑रु॒चख्षा॒ उदे॑ति । दू॒रे अ॑र्थस्त॒रणि॒र्भ्राज॑मानः । नू॒नञ्जना॒स्सूर्ये॑ण॒ प्रसू॑ताः । आयन्नर्था॑नि कृ॒णव॒न्नपा॑सि । शन्नो॑ भव॒ चख्ष॑सा॒ शन्नो॒ अह्ना । शं भा॒नुना॒ श हि॒मा शङ्घृ॒णेन॑ । यथा॒ शम॒स्मै शमस॑द्दुरो॒णे । तथ्सूर्य॒ द्रवि॑णन्धे॒हि चि॒त्रम् । चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑कम् । चख्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।। 51 ।। 2.8.7.4 आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑ख्षम् । सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च । त्वष्टा॒ दध॒त्तन्न॑स्तु॒रीपम् । त्वष्टा॑ वी॒रं पि॒शङ्ग॑रूपः । दशे॒मन्त्वष्टु॑र्जनयन्त॒ गर्भम् । अत॑न्द्रासो युव॒तयो॒ बिभ॑र्त्रम् । ति॒ग्मानी॑क॒॒ स्वय॑शस॒ञ्जने॑षु । वि॒रोच॑मानं॒ परि॑षीन्नयन्ति । आविष्ट्यो॑ वर्धते॒ चारु॑रासु । जि॒ह्माना॑मू॒र्ध्वस्वय॑शा उ॒पस्थे ।। 52 ।। 2.8.7.5 उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात् । प्र॒तीची॑ सि॒॒हं प्रति॑जोषयेते । मि॒त्रो जना॒न्प्र स मि॑त्र । अ॒यं मि॒त्रो न॑म॒स्य॑स्सु॒शेवः॑ । राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः । तस्य॑ व॒य सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म । अ॒न॒मी॒वास॒ इड॑या॒ मद॑न्तः । मि॒तज्म॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः । आ॒दि॒त्यस्य॑ व्र॒तमु॑प॒ख्ष्यन्तः॑ ।। 53 ।। 2.8.7.6 व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म । मि॒त्रन्न ई शिम्या॒ गोषु॑ ग॒व्यव॑त् । स्वा॒धियो॑ वि॒दथे॑ अ॒फ्स्वजी॑जनन्न् । अरे॑जयता॒॒ रोद॑सी॒ पाज॑सा गि॒रा । प्रति॑ प्रि॒यय्यँ॑ज॒तञ्ज॒नुषा॒मवः॑ । म॒हा आ॑दि॒त्यो नम॑सोप॒सद्यः॑ । या॒त॒यज्ज॑नो गृण॒ते सु॒शेवः॑ । तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्टम् । अ॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत । आ वा॒॒ रथो॒ रोद॑सी बद्बधा॒नः ।। 54 ।। 2.8.7.7 हि॒र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः । घृ॒तव॑र्तनि प॒विभी॑रुचा॒नः । इ॒षाव्वोँ॒ढा नृ॒पति॑र्वा॒जिनी॑वान् । स प॑प्रथा॒नो अ॒भि पञ्च॒ भूम॑ । त्रि॒व॒न्धु॒रो मन॒साया॑तु यु॒क्तः । विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः । कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना । स्वश्वा॑ य॒शसाऽऽया॑तम॒र्वाक् । दस्रा॑ नि॒धिं मधु॑मन्तं पिबाथः । वि वा॒॒ रथो॑ व॒ध्वा॑ याद॑मानः ।। 55 ।। 2.8.7.8 अन्तान्दि॒वो बा॑धते वर्त॒निभ्याम् । यु॒वोश्श्रियं॒ परि॒ योषा॑वृणीत । सूरो॑ दुहि॒ता परि॑तक्मियायाम् । यद्दे॑व॒यन्त॒मव॑थ॒श्शची॑भिः । परि॑घ्र॒॒ सवां॒ मना॑वा॒व्वँयो॑गाम् । यो ह॒स्यवा॑ रथिरा॒वस्त॑ उ॒स्राः । रथो॑ युजा॒न प॑रि॒याति॑ व॒र्तिः । तेन॑ न॒श्शँय्योरु॒षसो॒ व्यु॑ष्टौ । न्य॑श्विना वहतय्यँ॒ज्ञे अ॒स्मिन्न् । यु॒वं भु॒ज्युमव॑विद्ध समु॒द्रे ।। 56 ।। 2.8.7.9 उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः । प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभिः॑ । द॒॒सना॑भिरश्विना पा॒रय॑न्ता । अग्नी॑षोमा॒ यो अ॒द्य वाम् । इ॒दव्वँच॑स्सप॒र्यति॑ । तस्मै॑ धत्त सु॒वीर्यम् । गवां॒ पोष॒॒ स्वश्वि॑यम् । यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्यात् । दे॒व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒त र॑ख्षतं पा॒तमह॑सः ।। 57 ।। 2.8.7.10 वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । अग्नी॑षोमा॒ य आहु॑तिम् । यो वा॒न्दाशाद्ध॒विष्कृ॑तिम् । स प्र॒जया॑ सु॒वीर्यम् । विश्व॒मायु॒र्व्य॑श्ञवत् । अग्नी॑षोमा॒ चेति॒ तद्वी॒र्य॑व्वाँम् । यदमु॑ष्णीतमव॒सं प॒णिङ्गोः । अवा॑तिरतं॒ प्रथ॑यस्य॒ शेषः॑ । अवि॑न्दत॒ञ्ज्योति॒रेकं॑ ब॒हुभ्यः॑ । अग्नी॑षोमावि॒म सु मेऽग्नी॑षोमा ह॒विष॒ प्रस्थि॑तस्य ।। 58 ।। 2.8.8.0 च॒रा॒मि॒ कनी॑यो॒ऽन्यानर्पि॑ता प॒दानि॒ यज्व॑सु हवामहे वि॒ष्ठा लो॒कास्सु॒वीर॒मर्वा॒ पिब॑न्ती॒ष्षट्च॑ ।। 8 ।। 2.8.8.1 अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ । पूर्व॑न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ । यो मा॒ ददा॑ति॒ स इदे॒वमावाः । अ॒हमन्न॒मन्न॑न॒दन्त॑मद्मि । पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्नम् । य॒त्तौ हा॑साते अहमुत्त॒रेषु॑ । व्यात्त॑मस्य प॒शव॑स्सु॒जम्भम् । पश्य॑न्ति॒ धीराः॒ प्रच॑रन्ति॒ पाकाः । जहाम्य॒न्यन्न ज॑हाम्य॒न्यम् । अ॒हमन्न॒व्वँश॒मिच्च॑रामि ।। 59 ।। 2.8.8.2 स॒मा॒नमर्थं॒ पर्ये॑मि भु॒ञ्जत् । को मामन्नं॑ मनु॒ष्यो॑ दयेत । परा॑के॒ अन्न॒न्निहि॑तल्लोँ॒क ए॒तत् । विश्वैर्दे॒वै पि॒तृभि॑र्गु॒प्तमन्नम् । यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते । श॒त॒त॒मी सा त॒नूर्मे॑ बभूव । म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ । दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वीञ्च॑ सा॒कम् । तथ्सं॒पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ । नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ।। 60 ।। 2.8.8.3 अन्नं॑ प्रा॒णमन्न॑मपा॒नमा॑हुः । अन्नं॑ मृ॒त्युन्तमु॑ जी॒वातु॑माहुः । अन्नं॑ ब्र॒ह्माणो॑ ज॒रस॑व्वँदन्ति । अन्न॑माहु प्र॒जन॑नं प्र॒जानाम् । मोघ॒मन्न॑व्विँन्दते॒ अप्र॑चेताः । स॒त्यं ब्र॑वीमि व॒ध इथ्स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यम् । केव॑लाघो भवति केवला॒दी । अ॒हं मे॒घस्स्त॒नय॒न्वऱ़्ष॑न्नस्मि । माम॑दन्त्य॒हम॑द्म्य॒न्यान् ।। 61 ।। 2.8.8.4 अ॒ह सद॒मृतो॑ भवामि । मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति । दे॒वीव्वाँच॑मजनयन्त॒ यद्वाग्वद॑न्ती । अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑तां म॒हीम् । यस्यान्दे॒वा अ॑दधु॒र्भोज॑नानि । एकाख्षरान्द्वि॒पदा॒॒ षट्प॑दाञ्च । वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे । वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे । वाच॑ङ्गन्ध॒र्वा प॒शवो॑ मनु॒ष्याः । वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता ।। 62 ।। 2.8.8.5 सा नो॒ हव॑ञ्जुषता॒मिन्द्र॑पत्नी । वाग॒ख्षरं॑ प्रथम॒जा ऋ॒तस्य॑ । वेदा॑नां मा॒ताऽमृत॑स्य॒ नाभिः॑ । सा नो॑ जुषा॒णोप॑ य॒ज्ञमागात् । अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु । यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ । अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण । तान्दे॒वीव्वाँच॑ ह॒विषा॑ यजामहे । सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के । च॒त्वारि॒ वाक्परि॑मिता प॒दानि॑ ।। 63 ।। 2.8.8.6 तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति । तु॒रीय॑व्वाँ॒चो म॑नु॒ष्या॑ वदन्ति । श्र॒द्धया॒ऽग्निस्समि॑ध्यते । श्र॒द्धया॑ विन्दते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॑ । वच॒सा वे॑दयामसि । प्रि॒य श्र॑द्धे॒ दद॑तः । प्रि॒य श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑सु ।। 64 ।। 2.8.8.7 इ॒दं म॑ उदि॒तङ्कृ॑धि । यथा॑ दे॒वा असु॑रेषु । श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑मुदि॒तङ्कृ॑धि । श्र॒द्धान्दे॑वा॒ यज॑मानाः । वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धा हृ॑द॒य्य॑याऽऽकूत्या । श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां प्रा॒तऱ्ह॑वामहे ।। 65 ।। 2.8.8.8 श्र॒द्धां म॒ध्यन्दि॑नं॒ परि॑ । श्र॒द्धा सूर्य॑स्य नि॒म्रुचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ह मा । श्र॒द्धा दे॒वानधि॑ वस्ते । श्र॒द्धा विश्व॑मि॒दञ्जग॑त् । श्र॒द्धाङ्काम॑स्य मा॒तरम् । ह॒विषा॑ वर्धयामसि । ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्तात् । वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒ मा अ॑स्य वि॒ष्ठाः ।। 66 ।। 2.8.8.9 स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अ॒न्तरि॑ख्षव्विँ॒श्वरू॑प॒ आवि॑वेश । तम॒र्कैर॒भ्य॑र्चन्ति व॒थ्सम् । ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्धय॑न्तः । ब्रह्म॑ दे॒वान॑जनयत् । ब्रह्म॒ विश्व॑मि॒दञ्जग॑त् । ब्रह्म॑णः ख्ष॒त्रन्निर्मि॑तम् । ब्रह्म॑ ब्राह्म॒ण आ॒त्मना । अ॒न्तर॑स्मिन्नि॒मे लो॒काः ।। 67 ।। 2.8.8.10 अ॒न्तर्विश्व॑मि॒दञ्जग॑त् । ब्रह्मै॒व भू॒ताना॒ञ्ज्येष्ठम् । तेन॒ को॑ऽऱ्हति॒ स्पर्धि॑तुम् । ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिशत् । ब्रह्म॑न्निन्द्रप्रजाप॒ती । ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ । ना॒वीवा॒न्तस्स॒माहि॑ता । चत॑स्र॒ आशा॒ प्रच॑रन्त्व॒ग्नयः॑ । इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्न् । घृ॒तं पिन्व॑न्न॒जर॑ सु॒वीरम् ।। 68 ।। 2.8.8.12 ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् । आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन्न् । सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑ती पुरु॒रूपा॑ इ॒ह स्युः । इन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः । इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिख्षति । उपेद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑भूयो र॒यमिद॑स्य व॒र्धयन्न्॑ । अभि॑न्ने खि॒ल्ले नि द॑धाति देव॒युम् । न ता न॑शन्ति॒ न ता अर्वा ।। 69 ।। 2.8.8.13 गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् । गाव॒स्सोम॑स्य प्रथ॒मस्य॑ भ॒ख्षः । इ॒मा या गाव॒स्सज॑नास॒ इन्द्रः॑ । इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्रम् । यू॒यङ्गा॑वो मेदयथा कृ॒शञ्चि॑त् । अ॒श्ली॒लञ्चि॑त्कृणुथा सु॒प्रती॑कम् । भ॒द्रङ्गृ॒हङ्कृ॑णुथ भद्रवाचः । बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ । प्र॒जाव॑तीस्सू॒यव॑स रि॒शन्तीः । शु॒द्धा अ॒पस्सु॑प्रपा॒णे पिब॑न्तीः । मा व॑स्स्ते॒न ई॑शत॒ माऽघश॑सः । परि॑ वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात् । उपे॒दमु॑प॒पर्च॑नम् । आ॒सु गोषूप॑पृच्यताम् । उप॑ऱ्ष॒भस्य॒ रेत॑सि । उपेन्द्र॒ तव॑ वी॒र्ये ।। 70 ।। 2.8.9.0 वि॒च॒ख्ष॒णा वि॑चर्तु॒र शर्म॒न्नधि॑ वि॒सर्ज॑नाय॒ ब्रह्म॒ वनं॒ ब्रह्म॒ स वृ॒ख्ष आ॑सीत्तु॒रश्चि॑द्देवा॒ प्रपी॑ना॒ एक॑ञ्च ।। 9 ।। 2.8.9.1 ता सूर्याचन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत् । तेजो॒ वसु॑मद्राजतो दि॒वि । सामात्माना चरतस्सामचा॒रिणा । ययोर्व्र॒तन्न म॒मे जातु॑ दे॒वयोः । उ॒भावन्तौ॒ परि॑ यात॒ अर्म्या । दि॒वो न र॒श्मी स्त॑नु॒तो व्य॑र्ण॒वे । उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू । सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती । पती द्यु॒मद्वि॑श्व॒विदा॑ उ॒भा दि॒वः । सूर्या॑ उ॒भा च॒न्द्रम॑सा विचख्ष॒णा ।। 71 ।। 2.8.9.2 वि॒श्ववा॑रा वरिवो॒भा वरेण्या । ता नो॑ऽवतं मति॒मन्ता॒ महि॑व्रता । वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता । सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी । सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒षद॑र्शता । म॒न॒स्विनो॒भानु॑चर॒तोनु॒ सन्दिवम् । अ॒स्य श्रवो॑ न॒द्य॑स्स॒प्त बि॑भ्रति । द्यावा॒ ख्षामा॑ पृथि॒वी द॑ऱ्श॒तव्वँपुः॑ । अ॒स्मे सूर्याचन्द्र॒मसा॑ऽभि॒चख्षे । श्र॒द्धेकमि॑न्द्र चरतो विचर्तु॒रम् ।। 72 ।। 2.8.9.3 पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम् । विश्वान्य॒न्यो भुव॑नाऽभि॒ चष्टे । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ । हिर॑ण्यवर्णा॒श्शुच॑य पाव॒का यासा॒॒ राजा । यासान्दे॒वाश्शि॒वेन॑ मा॒ चख्षु॑षा पश्यत । आपो॑ भ॒द्रा आदित्प॑श्यामि । नास॑दासी॒न्नो सदा॑सीत्त॒दानीम् । नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रीवः॒ कुह॒ कस्य॒ शर्मन्न्॑ ।। 73 ।। 2.8.9.4 अम्भ॒ किमा॑सी॒द्गह॑नङ्गभी॒रम् । न मृ॒त्युर॒मृत॒न्तऱ्हि॒ न । रात्रि॑या॒ अह्न॑ आसीत्प्रके॒तः । आनी॑दवा॒त स्व॒धया॒ तदेकम् । तस्माद्धा॒न्यन्न प॒र किञ्च॒नास॑ । तम॑ आसी॒त्तम॑सा गू॒ढमग्रे प्रके॒तम् । स॒लि॒ल सर्व॑मा इ॒दम् । तु॒च्छेना॒भ्वपि॑हित॒य्यँदासीत् । तम॑स॒स्तन्म॑हि॒ना जा॑य॒तैकम् । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ ।। 74 ।। 2.8.9.5 मन॑सो॒ रेत॑ प्रथ॒मय्यँदासीत् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा । ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम् । अ॒धस्स्वि॑दा॒सी ३ दु॒परि॑ स्विदासी ३ त् । रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्न् । स्व॒धा अ॒वस्ता॒त्प्रय॑ति प॒रस्तात् । को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चत् । कुत॒ आजा॑ता॒ कुत॑ इ॒यव्विँसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑नाय ।। 75 ।। 2.8.9.6 अथा॒ को वे॑द॒ यत॑ आब॒भूव॑ । इ॒यव्विँसृ॑ष्टि॒र्यत॑ आब॒भूव॑ । यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याध्य॑ख्ष पर॒मे व्यो॑मन्न् । सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ । किस्वि॒द्वन॒ङ्क उ॒ स वृ॒ख्ष आ॑सीत् । यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒ख्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒तत् । यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्न्॑ । ब्रह्म॒ वनं॒ ब्रह्म॒ स वृ॒ख्ष आ॑सीत् ।। 76 ।। 2.8.9.7 यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒ख्षुः । मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः । ब्रह्मा॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्न्॑ । प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ हवामहे । प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिम् । प्रा॒तस्सोम॑मु॒त रु॒द्र हु॑वेम । प्रा॒त॒र्जितं॒ भग॑मु॒ग्र हु॑वेम । व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॑त् ।। 77 ।। 2.8.9.8 राजा॑ चि॒द्यं भगं॑ भ॒ख्षीत्याह॑ । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः । भग॒ प्र नृभि॑र्नृ॒वन्त॑स्स्याम । उ॒तेदानीं॒ भग॑वन्तस्स्याम । उ॒त प्रपि॒त्व उ॒त मध्ये॒ अह्नाम् । उ॒तोदि॑ता मघव॒न्थ्सूर्य॑स्य । व॒यन्दे॒वाना॑ सुम॒तौ स्या॑म । भग॑ ए॒व भग॑वा अस्तु देवाः ।। 78 ।। 2.8.9.9 तेन॑ व॒यं भग॑वन्तः स्याम । तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुरए॒ता भ॑वे॒ह । सम॑ध्व॒रायो॒षसो॑ नमन्त । द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नव्वँ॑सु॒विदं॒ भग॑न्नः । रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु । अश्वा॑वती॒र्गोम॑तीर्न उ॒षासः॑ । वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः । घृ॒तन्दुहा॑ना वि॒श्वत॒ प्रपी॑नाः । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।। 79 ।। 3.1.0.0 ।। श्रीरस्तु ।। कृष्णयजुर्ब्राह्मणे तृतीयाष्टके प्रथम प्रपाठक प्रारम्भः । हरिःओम् ।। 3.1.0.0 अ॒ग्निर्न॑ ऋ॒ध्यास्म॒ नवो॑नवो॒ऽग्निर्मि॒त्रश्च॒न्द्रमा॒ष्षट् ।। 6 ।। अ॒ग्निर्न॒स्तन्नो॑ वा॒युरहि॑र्बु॒ध्निय॑ ऋ॒ख्षा वा इ॒यमथै॒तत्पौर्णमा॒स्या अ॒जो वा एक॑पा॒थ्सूर्य॒स्त्रिष॑ष्टिः ।। 63 ।। अ॒ग्निर्न॑ पातु प्रति॒ष्ठायै॒ स्वाहेति॑ ।। हरिः॑ओम् ।। कृष्णयजुर्ब्राह्मणे-तृतीयाष्टके प्रथमप्रपाठकस्समाप्तः ।। 3.1.1.0 चि॒त्रभा॑नु॒र्यज॑माने दधातु ह॒विर्न॒ पाथ॒श्चेतो॑ जुषन्ता॒ञ्चेतो॑ मदेम॒ रोच॑माना॒मरा॑तीर्गो॒पौ य॒ज्ञम् ।। 1 ।। 3.1.1.1 अ॒ग्निर्न॑ पातु॒ कृत्ति॑काः । नख्ष॑त्रन्दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑साँव्विचख्ष॒णम् । ह॒विरा॒सञ्जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा । स कृत्ति॑काभिर॒भि स॒व्वँसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु । प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ।। 1 ।। 3.1.1.2 सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः । रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्तात् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना । प्र॒जाप॑ति ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् । सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ । शि॒वन्नख्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ । आ॒प्याय॑मानो बहु॒धा जने॑षु । रेत॑ प्र॒जाय्यँज॑माने दधातु ।। 2 ।। 3.1.1.3 यत्ते॒ न॑ख्षत्रं मृगशी॒र्‌षमस्ति॑ । प्रि॒य रा॑जन्प्रि॒यत॑मं प्रि॒याणाम् । तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे । आ॒र्द्रया॑ रु॒द्र प्रथ॑मान एति । श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒यानाम् । नख्ष॑त्रमस्य ह॒विषा॑ विधेम । मा न॑ प्र॒जा री॑रिष॒न्मोत वी॒रान् । हे॒ती रु॒द्रस्य॒ परि॑ णो वृणक्तु । आ॒र्द्रा नख्ष॑त्रञ्जुषता ह॒विर्नः॑ ।। 3 ।। 3.1.1.4 प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा । अपा॒घश॑सन्नुदता॒मरा॑तिम् । पुन॑र्नो दे॒व्यदि॑तिस्स्पृणोतु । पुन॑र्वसू नः॒ पुन॒रेताँय्य॒ज्ञम् । पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे । पुन॑पुनर्वो ह॒विषा॑ यजामः । ए॒वा न दे॒व्यदि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑त प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒यन्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ।। 4 ।। 3.1.1.5 बृह॒स्पति॑ प्रथ॒मञ्जाय॑मानः । ति॒ष्य॑न्नख्ष॑त्रम॒भिसं ब॑भूव । श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः । दिशोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु । ति॒ष्य॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र्न॒ परि॑ पातु प॒श्चात् । बाधे॑ता॒न्द्वेषो॒ अभ॑यङ्कृणुताम् । सु॒वीर्य॑स्य॒ पत॑यस्स्याम । इ॒द स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम् । आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ।। 5 ।। 3.1.1.6 ये अ॒न्तरि॑ख्षं पृथि॒वीङ्ख्षि॒यन्ति॑ । ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः । ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिव॑न्दे॒वीमनु॑ स॒ञ्चर॑न्ति । येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामम् । तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि । उप॑हूता पि॒तरो॒ ये म॒घासु॑ । मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः । ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र्य॒ज्ञं प्रय॑तञ्जुषन्ताम् ।। 6 ।। 3.1.1.7 ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः । ये॑ऽमुल्लोँ॒कं पि॒तरः॑ ख्षि॒यन्ति॑ । याश्च॑ वि॒द्म या उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञ सुकृ॑तञ्जुषन्ताम् । गवां॒ पति॒ फल्गु॑नीनामसि॒ त्वम् । तद॑र्यमन्वरुण मित्र॒ चारु॑ । तन्त्वा॑ व॒य स॑नि॒तार॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒ सव्विँ॑शेम । येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दे॒वा अ॑नु स॒य्यँन्ति॒ चेतः॑ ।। 7 ।। 3.1.1.8 अ॒र्य॒मा राजा॒ऽजर॒स्तुवि॑ष्मान् । फल्गु॑नीनामृष॒भो रो॑रवीति । श्रेष्ठो॑ दे॒वानां भगवो भगासि । तत्त्वा॑ विदु॒ फल्गु॑नी॒स्तस्य॑ वित्तात् । अ॒स्मभ्य॑ङ्ख्ष॒त्रम॒जर॑ सु॒वीर्यम् । गोम॒दश्व॑व॒दुप॒ सन्नु॑दे॒ह । भगो॑ ह दा॒ता भग॒ इत्प्र॑दा॒ता । भगो॑ दे॒वी फल्गु॑नी॒रा वि॑वेश । भग॒स्येत्तं प्र॑स॒वङ्ग॑मेम । यत्र॑ दे॒वैस्स॑ध॒मादं॑ मदेम ।। 8 ।। 3.1.1.9 आया॑तु दे॒वस्स॑वि॒तोप॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न । वह॒न्॒ हस्त॑ सु॒भग॑व्विँद्म॒नाप॑सम् । प्र॒यच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ । हस्त॒ प्रय॑च्छत्व॒मृत॒व्वँसी॑यः । दख्षि॑णेन॒ प्रति॑गृभ्णीम एनत् । दा॒तार॑म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् । त्वष्टा॒ नख्ष॑त्रम॒भ्ये॑ति चि॒त्राम् । सु॒भस॑सय्युँव॒ति रोच॑मानाम् ।। 9 ।। 3.1.1.10 नि॒वे॒शय॑न्न॒मृता॒न्मर्त्या॑श्च । रू॒पाणि॑ पि॒॒शन्भुव॑नानि॒ विश्वा । तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् । तन्नख्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम् । तन्न॑ प्र॒जाव्वीँ॒रव॑ती सनोतु । गोभि॑र्नो॒ अश्वै॒स्सम॑नक्तु य॒ज्ञम् । वा॒युर्नख्ष॑त्त्रम॒भ्ये॑ति॒ निष्ट्याम् । ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः । स॒मी॒रय॒न्भुव॑ना मात॒रिश्वा । अप॒ द्वेषा॑सि नुदता॒मरा॑तीः ।। 10 ।। 3.1.1.11 तन्नो॑ वा॒युस्तदु॒ निष्ट्या॑ शृणोतु । तन्नख्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम् । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम् । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा । दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुता॒न्तद्विशा॑खे । तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चात्पु॒रस्ता॒दभ॑यन्नो अस्तु । नख्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे । श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ।। 11 ।। 3.1.1.12 विषू॑च॒श्शत्रू॑नप॒ बाध॑मानौ । अप॒ ख्षुध॑न्नुदता॒मरा॑तिम् । पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्तात् । उन्म॑ध्य॒त पौर्णमा॒सी जि॑गाय । तस्यान्दे॒वा अधि॑ स॒व्वँस॑न्तः । उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । पृ॒थ्वी सु॒वर्चा॑ युव॒तिस्स॒जोषाः । पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना । आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा । उ॒रुन्दुहा॒य्यँज॑मानाय य॒ज्ञम् ।। 12 ।। 3.1.2.0 त॒तार॒ मह्यं॑ प्रास॒चीर्या यान्तु य॒ज्ञव्वाँच॑ स्व॒स्ति दे॒वा अनु॑यन्ति॒ सर्वे॒ वाज॑बस्त्यौ॒ सम॑क्तौ दे॒वास्त्रीणि॑ च ।। 2 ।। 3.1.2.1 ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ । मि॒त्रन्दे॒वं मि॑त्र॒धेय॑न्नो अस्तु । अ॒नू॒रा॒धान् ह॒विषा॑ व॒र्धय॑न्तः । श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः । चि॒त्रन्नख्ष॑त्र॒मुद॑गात्पु॒रस्तात् । अ॒नू॒रा॒धास॒ इति॒ यद्वद॑न्ति । तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानैः । हि॒र॒ण्ययै॒र्वित॑तैर॒न्तरि॑ख्षे । इन्द्रो ज्ये॒ष्ठामनु॒ नख्ष॑त्रमेति । यस्मि॑न्वृ॒त्रव्वृँ॑त्र॒तूर्ये॑ त॒तार॑ ।। 13 ।। 3.1.2.2 तस्मि॑न्व॒यम॒मृत॒न्दुहा॑नाः । ख्षुध॑न्तरेम॒ दुरि॑ति॒न्दुरि॑ष्टिम् । पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे । इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रुङ्कृ॑णोतु॒ यज॑मानाय लो॒कम् । मूलं॑ प्र॒जाव्वीँ॒रव॑तीव्विँदेय । पराच्येतु॒ निर्‌ऋ॑ति परा॒चा । गोभि॒र्नख्ष॑त्रं प॒शुभि॒स्सम॑क्तम् । अह॑र्भूया॒द्यज॑मानाय॒ मह्यम् ।। 14 ।। 3.1.2.3 अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु । मूल॒न्नख्ष॑त्र॒मिति॒ यद्वद॑न्ति । परा॑चीव्वाँ॒चा निर्‌ऋ॑तिन्नुदामि । शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्यम् । या दि॒व्या आप॒ पय॑सा संबभू॒वुः । या अ॒न्तरि॑ख्ष उ॒त पार्थि॑वी॒र्याः । यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामम् । ता न॒ आप॒श्श स्यो॒ना भ॑वन्तु । याश्च॒ कूप्या॒ याश्च॑ ना॒द्यास्समु॒द्रियाः । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ।। 15 ।। 3.1.2.4 यासा॑मषा॒ढा मधु॑ भ॒ख्षय॑न्ति॒ । ता न॒ आप॒श्श स्यो॒ना भ॑वन्तु । तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भिसय्यँ॑न्तु य॒ज्ञम् । तन्नख्ष॑त्त्रं प्रथतां प॒शुभ्यः॑ । कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् । शु॒भ्रा क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः । क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः । विश्वान्दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः । अ॒षा॒ढाकाम॒मुप॑ यान्तु य॒ज्ञम् ।। 16 ।। 3.1.2.5 यस्मि॒न्ब्रह्मा॒ऽभ्यज॑य॒थ्सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒कमि॒दमू॑ च॒ सर्वम् । तन्नो॒ नख्ष॑त्रमभि॒जिद्वि॒जित्य॑ । श्रिय॑न्दधा॒त्वहृ॑णीयमानम् । उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नख्ष॑त्रमभि॒जिद्विच॑ष्टाम् । तस्मि॑न्व॒यं पृत॑ना॒स्सञ्ज॑येम । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम् । शृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाचम् ।। 17 ।। 3.1.2.6 म॒हीन्दे॒वीव्विँष्णु॑पत्नीमजू॒र्याम् । प्र॒तीची॑मेना ह॒विषा॑ यजामः । त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे । म॒हीन्दिवं॑ पृथि॒वीम॒न्तरि॑ख्षम् । तच्छ्रो॒णैति॒ श्रव॑ इ॒च्छमा॑ना । पुण्य॒॒ श्लोक॒य्यँज॑मानाय कृण्व॒ती । अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ । चत॑स्रो दे॒वीर॒जरा॒श्श्रवि॑ष्ठाः । ते य॒ज्ञं पान्तु॒ रज॑स प॒रस्तात् । स॒व्वँ॒थ्स॒रीण॑म॒मृत॑ स्व॒स्ति ।। 18 ।। 3.1.2.7 य॒ज्ञन्न॑ पान्तु॒ वस॑व पु॒रस्तात् । द॒ख्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः । पुण्य॒न्नख्ष॑त्रम॒भि सव्विँ॑शाम । मा नो॒ अरा॑तिर॒घश॒॒साऽगन्न्॑ । ख्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नख्ष॑त्राणा श॒तभि॑ष॒ग्वसि॑ष्ठः । तौ दे॒वेभ्य॑ कृणुतो दी॒र्घमायुः॑ । श॒त स॒हस्रा॑ भेष॒जानि॑ धत्तः । य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु । तन्नो॒ विश्वे॑ अ॒भि सय्यँ॑न्तु दे॒वाः ।। 19 ।। 3.1.2.8 तन्नो॒ नख्ष॑त्र श॒तभि॑षग्जुषा॒णम् । दी॒र्घमायु॒ प्रति॑रद्भेष॒जानि॑ । अ॒ज एक॑पा॒दुद॑गात्पु॒रस्तात् । विश्वा॑ भू॒तानि॑ प्रति॒मोद॑मानः । तस्य॑ दे॒वा प्र॑स॒वय्यँ॑न्ति॒ सर्वे । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः । वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः । आऽन्तरि॑ख्षमरुह॒दग॒न्द्याम् । त सूर्य॑न्दे॒वम॒जमेक॑पादम् । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे ।। 20 ।। 3.1.2.9 अहि॑र्बु॒ध्निय॒ प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् । तं ब्राह्म॒णास्सो॑म॒पास्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भि र॑ख्षन्ति॒ सर्वे । च॒त्वार॒ एक॑म॒भिकर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दास॒ इति॒ यान् वद॑न्ति । ते बु॒ध्नियं॑ परि॒षद्य॑ स्तु॒वन्तः॑ । अहि॑ रख्षन्ति॒ नम॑सोप॒सद्य॑ । पू॒षा रे॒वत्यन्वे॑ति॒ पन्थाम् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ।। 21 ।। 3.1.2.10 इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑याताय्यँ॒ज्ञम् । ख्षु॒द्रान्प॒शून्र॑ख्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वा॒॒ अन्वे॑तु पू॒षा । अन्न॒॒ रख्ष॑न्तौ बहु॒धा विरू॑पम् । वाज॑ सनुता॒य्यँज॑मानाय य॒ज्ञम् । तद॒श्विना॑वश्व॒युजोप॑याताम् । शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः । स्वन्नख्ष॑त्र ह॒विषा॒ यज॑न्तौ । मध्वा॒ संपृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ।। 22 ।। 3.1.2.11 यौ दे॒वानां भि॒षजौ॑ हव्यवा॒हौ । विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ । तौ नख्ष॑त्रञ्जुजुषा॒णोप॑याताम् । नमो॒ऽश्विभ्याङ्कृणुमोऽश्व॒युग्भ्याम् । अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु । तद्य॒मो राजा॒ भग॑वा॒न्॒ विच॑ष्टाम् । लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि । सु॒गन्नपन्था॒मभ॑यङ्कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा । यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्र ह॒विषा॑ यजाम । अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु । नि॒वेश॑नी॒ यत्ते॑ दे॒वा अद॑धुः ।। 23 ।। 3.1.3.0 आ॒य॒त्य॑गम॒थ्स्वि॑ष्टम् ।। 3 ।। 3.1.3.1 नवो॑नवो भवति॒ जाय॑मानो॒ यमा॑दि॒त्या अ॒॒शुमाप्या॒यय॑न्ति । ये विरू॑पे॒ सम॑नसा स॒व्व्यँय॑न्ती । स॒मा॒नन्तन्तुं॑ परितात॒ना ते । वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे । ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मेतम् । व॒यन्दे॒वी ब्रह्म॑णा सव्विँदा॒नाः । सु॒रत्ना॑सो दे॒ववी॑ति॒न्दधा॑नाः । अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः । अति॑ पा॒प्मान॒मति॑ मुक्त्या गमेम । प्रत्यु॑वदृश्याय॒ती ।। 24 ।। 3.1.3.2 व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः । अ॒पो म॒ही वृ॑णुते॒ चख्षु॑षा । तमो॒ ज्योति॑ष्कृणोति सू॒नरी । उदु॒स्रियास्सचते॒ सूर्यः॑ । सचा॑ उ॒द्यन्नक्ष॑त्रमर्चि॒मत् । तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च । सं भ॒क्तेन॑ गमेमहि । तन्नो॒ नक्ष॑त्रमर्चि॒मत् । भा॒नु॒मत्तेज॑ उ॒च्चर॑त् । उप॑य॒ज्ञमि॒हाग॑मत् ।। 25 ।। 3.1.3.3 प्र नख्ष॑त्राय दे॒वाय॑ । इन्द्रा॒येन्दु॑ हवामहे । सन॑स्सवि॒ता सु॑वथ्स॒निम् । पु॒ष्टि॒दाव्वीँ॒रव॑त्तमम् । उदु॒त्यञ्चि॒त्रम् । अदि॑तिर्न उरुष्यतु म॒हीमू॒ षु मा॒तरम् । इ॒दव्विँष्णु॒ प्रतद्विष्णुः॑ । अ॒ग्निर्मू॒र्धा भुवः॑ । अनु॑नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् । ह॒व्य॒वाह॒॒ स्वि॑ष्टम् ।। 26 ।। 3.1.4.0 अ॒ग्निः पञ्च॑दश प्र॒जाप॑ति॒ष्षोड॑श॒ सोम॒ एका॑दश रु॒द्रो दश॒र्ख्षैका॑दश॒ बृह॒स्पति॒र्दश॑ देवासु॒रा नव॑ पि॒तर॒ एका॑दशार्य॒मा भगो॒ दश॑ दश सवि॒ता चतु॑र्दश॒ त्वष्टा॑ वा॒युरि॑न्द्रा॒ग्नी दश॑ द॒शाथै॒तत्पौर्णमा॒स्या अ॒ष्टौ पञ्च॑दश ।। 4 ।। 3.1.4.1 अ॒ग्निर्वा अ॑कामयत । अ॒न्ना॒दो दे॒वाना॑ स्या॒मिति॑ । स ए॒तम॒ग्नये॒ कृत्ति॑काभ्य पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपत् । ततो॒ वै सोऽन्ना॒दो दे॒वाना॑मभवत् । अ॒ग्निर्वै दे॒वाना॑मन्ना॒दः । यथा॑ ह॒ वा अ॒ग्निर्दे॒वाना॑मन्ना॒दः । ए॒व ह॒ वा ए॒ष म॑नु॒ष्या॑णां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्य॒स्स्वाहा । अ॒म्बायै॒ स्वाहा॑ दु॒लायै॒ स्वाहा । नि॒त॒त्न्यै स्वाहा॒ऽभ्रय॑न्त्यै॒ स्वाहा । मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र्॒षय॑न्त्यै॒ स्वाहा । चु॒पु॒णीका॑यै॒ स्वाहेति॑ ।। 27 ।। 3.1.4.2 प्र॒जाप॑ति प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टाः परा॑चीरायन्न् । तासा॑ रोहि॒णीम॒भ्य॑ध्यायत् । सो॑ऽकामयत । उप॒ मा व॑र्तेत । समे॑नया गच्छे॒येति॑ । स ए॒तं प्र॒जाप॑तये रोहि॒ण्यै च॒रुन्निर॑वपत् । ततो॒ वै सा तमु॒पाव॑र्तत । समे॑नयागच्छत । उप॑ ह॒ वा ए॑नं प्रि॒यमाव॑र्तते । सं प्रि॒येण॑ गच्छते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा । रोच॑मानायै॒ स्वाहा प्र॒जाभ्य॒स्स्वाहेति॑ ।। 28 ।। 3.1.4.3 सोमो॒ वा अ॑कामयत । ओष॑धीना रा॒ज्यम॒भिज॑येय॒मिति॑ । स ए॒त सोमा॑य मृगशी॒र्॒षाय॑ श्यामा॒कञ्च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स ओष॑धीना रा॒ज्यम॒भ्य॑जयत् । स॒मा॒नाना॑ ह॒ वै रा॒ज्यम॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । सोमा॑य॒ स्वाहा॑ मृगशी॒र्‌षाय॒ स्वाहा । इ॒न्व॒काभ्य॒स्स्वाहौष॑धीभ्य॒स्स्वाहा । रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।। 29 ।। 3.1.4.4 रु॒द्रो वा अ॑कामयत । प॒शु॒मान्थ्स्या॒मिति॑ । स ए॒त रु॒द्राया॒र्द्रायै॒ प्रैय्य॑ङ्गवञ्च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । रु॒द्राय॒ स्वाहा॒ऽर्द्रायै॒ स्वाहा । पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहेति॑ ।। 30 ।। 3.1.4.5 ऋ॒ख्षा वा इ॒यम॑लो॒मका॑ऽऽसीत् । साऽका॑मयत । ओष॑धीभि॒र्वन॒स्पति॑भि॒ प्रजा॑ये॒येति॑ । सैतमदि॑त्यै॒ पुन॑र्वसुभ्याञ्च॒रुन्निर॑वपत् । ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒ प्राजा॑यत । प्रजा॑यते ह॒ वै प्र॒जया॑ प॒शुभिः॑ । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम् । स्वाहा भूत्यै॒ स्वाहा॒ प्रजात्यै॒ स्वाहेति॑ ।। 31 ।। 3.1.4.6 बृह॒स्पति॒र्वा अ॑कामयत । ब्र॒ह्म॒व॒र्च॒सी स्या॒मिति॑ । स ए॒तं बृह॒स्पत॑ये ति॒ष्या॑य नैवा॒रञ्च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भवत् । ब्र॒ह्म॒व॒र्च॒सी ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहेति॑ ।। 32 ।। 3.1.4.7 दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । ते दे॒वास्स॒र्पेभ्य॑ आश्रे॒षाभ्य॒ आज्ये॑ कर॒म्भन्निर॑वपन्न् । ताने॒ताभि॑रे॒वदे॒वता॑भि॒रुपा॑नयन्न् । ए॒ताभि॑र्‌ह॒ वै दे॒वता॑भिर्द्वि॒षन्तं॒ भ्रातृ॑व्य॒मुप॑नयति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । स॒र्पेभ्य॒स्स्वाहाऽऽश्रे॒षाभ्य॒स्स्वाहा । द॒न्द॒शूकेभ्य॒स्स्वाहेति॑ ।। 33 ।। 3.1.4.8 पि॒तरो॒ वा अ॑कामयन्त । पि॒तृ॒लो॒क ऋ॑ध्नुया॒मेति॑ । त ए॒तं पि॒तृभ्यो॑ म॒घाभ्यः॑ पुरो॒डाश॒॒ षट्क॑पाल॒न्निर॑वपन्न् । ततो॒ वै ते पि॑तृलो॒क आर्ध्नुवन्न् । पि॒तृ॒लो॒के ह॒ वा ऋ॑ध्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । पि॒तृभ्य॒स्स्वाहा॑ म॒घाभ्यः॑ । स्वाहा॑ऽन॒घाभ्य॒स्स्वाहा॑ग॒दाभ्यः॑ । स्वाहा॑ऽरुन्ध॒तीभ्य॒स्स्वाहेति॑ ।। 34 ।। 3.1.4.9 अ॒र्य॒मा वा अ॑कामयत । प॒शु॒मान्थ्स्या॒मिति॑ । स ए॒तम॑र्य॒म्णे फल्गु॑नीभ्याञ्च॒रुन्निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शुमान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒॒ स्वाहा । प॒शुभ्य॒स्स्वाहेति॑ ।। 35 ।। 3.1.4.10 भगो॒ वा अ॑कामयत । भ॒गी श्रे॒ष्ठी दे॒वाना॑ स्या॒मिति॑ । स ए॒तं भगा॑य॒ फल्गु॑नीभ्याञ्च॒रुन्निर॑वपत् । ततो॒ वै स भ॒गी श्रे॒ष्ठी दे॒वाना॑मभवत् । भ॒गी ह॒ वै श्रे॒ष्ठी स॑मा॒नानां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒॒ स्वाहा । श्रैष्ठ्या॑य॒ स्वाहेति॑ ।। 36 ।। 3.1.4.11 स॒वि॒ता वा अ॑कामयत । श्रन्मे॑ दे॒वा दधी॑रन्न् । स॒वि॒ता स्या॒मिति॑ । स ए॒त स॑वि॒त्रे हस्ता॑य पुरो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपदाशू॒नाव्व्रीँ॑ही॒णाम् । ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑धत । स॒वि॒ताऽभ॑वत् । श्रद्ध॒वा अ॑स्मै मनु॒ष्या॑ दधते । स॒वि॒ता स॑मा॒नानां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । स॒वि॒त्रे स्वाहा॒ हस्ता॑य । स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते । स्वाहा प्र॒यच्छ॑ते॒ स्वाहा प्रतिगृभ्ण॒ते स्वाहेति॑ ।।37 ।। 3.1.4.12 त्वष्टा॒ वा अ॑कामयत । चि॒त्रं प्र॒जाव्विँ॑न्दे॒येति॑ । स ए॒तन्त्वष्ट्रे॑ चि॒त्रायै॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपत् । ततो॒ वै स चि॒त्रं प्र॒जाम॑विन्दत । चि॒त्र ह॒ वै प्र॒जाव्विँ॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा । चैत्रा॑य॒ स्वाहा प्र॒जायै॒ स्वाहेति॑ ।। 38 ।। 3.1.4.13 वा॒युर्वा अ॑कामयत । का॒म॒चार॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ । स ए॒तद्वा॒यवे॒ निष्ट्या॑यै गृ॒ष्ट्यै दु॒ग्धं पयो॒ निर॑वपत् । ततो॒ वै स का॑म॒चार॑मे॒षु लो॒केष्व॒भ्य॑जयत् । का॒म॒चार॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा । का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।। 39 ।। 3.1.4.14 इ॒न्द्रा॒ग्नी वा अ॑कामयेताम् । श्रैष्ठ्य॑न्दे॒वाना॑म॒भिज॑ये॒वेति॑ । तावे॒तमि॑न्द्रा॒ग्निभ्या॒व्विँशा॑खाभ्यां पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वपताम् । ततो॒ वै तौ श्रैष्ठ्य॑न्दे॒वाना॑म॒भ्य॑जयताम् । श्रैष्ठ्य॑ ह॒ वै स॑मा॒नाना॑म॒भि ज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । इ॒न्द्रा॒ग्निभ्या॒॒ स्वाहा॒ विशा॑खाभ्या॒॒ स्वाहा । श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।। 40 ।। 3.1.4.15 अथै॒तत्पौर्णमा॒स्या आज्य॒न्निर्व॑पति । कामो॒ वै पौर्णमा॒सी । काम॒ आज्यम् । कामे॑नै॒व काम॒॒ सम॑र्धयति । ख्षि॒प्रमे॑न॒॒ सकाम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सोऽत्र॑ जुहोति । पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहेति॑ ।। 41 ।। 3.1.5.0 मि॒त्र इन्द्र॑ प्र॒जाप॑ति॒र्दश॑ द॒शाप॒ एका॑दश॒ विश्वे॒ ब्रह्म॒ दश॑दश॒ विष्णु॒स्त्रयो॑दश॒ वस॑व॒ इन्द्रो॒ऽजोऽहि॒र्वै बु॒ध्निय॑ पू॒षाऽश्विनौ॑ य॒मो दश॑ द॒शाथै॒तद॑मावा॒स्या॑या अ॒ष्टौ पञ्च॑दश ।। 5 ।। 3.1.5.1 मि॒त्रो वा अ॑कामयत । मि॒त्र॒धेय॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ । स ए॒तं मि॒त्राया॑नूरा॒धेभ्य॑श्च॒रुन्निर॑वपत् । ततो॒ वै स मि॑त्र॒धेय॑मे॒षुलो॒केष्व॒भ्य॑जयत् । मि॒त्र॒धेय॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । मि॒त्राय॒ स्वाहा॑ऽनूरा॒धेभ्य॒स्स्वाहा । मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।। 42 ।। 3.1.5.2 इन्द्रो॒ वा अ॑कामयत । ज्यैष्ठ्य॑न्दे॒वाना॑म॒भिज॑येय॒मिति॑ । स ए॒तमिन्द्रा॑य ज्ये॒ष्ठायै॑ पुरो॒डाश॒मेका॑दशकपाल॒- न्निर॑वपन्म॒हाव्री॑हीणाम् । ततो॒ वै स ज्यैष्ठ्य॑न्दे॒वाना॑म॒भ्य॑जयत् । ज्यैष्ठ्य॑ ह॒ वै स॑मा॒नाना॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । इन्द्रा॑य॒ स्वाहा ज्ये॒ष्ठायै॒ स्वाहा । ज्यैष्ठ्या॑य॒ स्वाहा॒भिजि॑त्यै॒ स्वाहेति॑ ।। 43 ।। 3.1.5.3 प्र॒जाप॑ति॒र्वा अ॑कामयत । मूलं॑ प्र॒जाँव्वि॑न्दे॒येति॑ । स ए॒तं प्र॒जाप॑तये॒ मूला॑य च॒रुन्निर॑वपत् । ततो॒ वै स मूलं॑ प्र॒जाम॑विन्दत । मूल॑ ह॒ वै प्र॒जाव्विँ॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा । प्र॒जायै॒ स्वाहेति॑ ।। 44 ।। 3.1.5.4 आपो॒ वा अ॑कामयन्त । स॒मु॒द्रङ्काम॑म॒भिज॑ये॒मेति॑ । ता ए॒तम॒द्भ्यो॑ऽषा॒ढाभ्य॑श्च॒रुन्निर॑वपन्न् । ततो॒ वै तास्स॑मु॒द्रङ्काम॑म॒भ्य॑जयन्न् । स॒मु॒द्र ह॒ वै काम॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒द्भ्यस्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा । स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा । अ॒भिजि॑त्यै॒ स्वाहेति॑ ।। 45 ।। 3.1.5.5 विश्वे॒ वै दे॒वा अ॑कामयन्त । अ॒न॒प॒ज॒य्यञ्ज॑ये॒मेति॑ । त ए॒तव्विँश्वेभ्यो दे॒वेभ्यो॑ऽषा॒ढाभ्य॑श्च॒रुन्निर॑वपन्न् । ततो॒ वै ते॑ऽनपज॒य्यम॑जयन्न् । अ॒न॒प॒ज॒य्य ह॒ वै ज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । विश्वेभ्यो दे॒वेभ्य॒स्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहेति॑ ।। 46 ।। 3.1.5.6 ब्रह्म॒ वा अ॑कामयत । ब्र॒ह्म॒लो॒कम॒भिज॑येय॒मिति॑ । तदे॒तं ब्रह्म॑णेऽभि॒जिते॑ च॒रुन्निर॑वपत् । ततो॒ वै तद्ब्र॑ह्मलो॒कम॒भ्य॑जयत् । ब्र॒ह्म॒लो॒क ह॒ वा अ॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । ब्रह्म॑णे॒ स्वाहा॑ऽभि॒जिते॒ स्वाहा । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।। 47 ।। 3.1.5.7 विष्णु॒र्वा अ॑कामयत । पुण्य॒ श्लोक॑ शृण्वीय । न मा॑ पा॒पी की॒र्तिराग॑च्छे॒दिति॑ । स ए॒तव्विँष्ण॑वे श्रो॒णायै॑ पुरो॒डाश॑न्त्रिकपा॒लन्निर॑वपत् । ततो॒ वै स पुण्य॒॒ श्लोक॑मशृणुत । नैनं॑ पा॒पी की॒र्तिराग॑च्छत् । पुण्य॑ ह॒ वै श्लोक॑ शृणुते । नैनं॑ पा॒पी की॒र्तिराग॑च्छति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । विष्ण॑वे॒ स्वाहा श्रो॒णायै॒ स्वाहा । श्लोका॑य॒ स्वाहा श्रु॒ताय॒ स्वाहेति॑ ।। 48 ।। 3.1.5.8 वस॑वो॒ वा अ॑कामयन्त । अग्र॑न्दे॒वता॑नां॒ परी॑या॒मेति॑ । त ए॒तं वसु॑भ्य॒श्श्रवि॑ष्ठाभ्य पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन्न् । ततो॒ वै तेऽग्र॑न्दे॒वता॑नां॒ पर्या॑यन्न् । अग्र॑ ह॒ वै स॑मा॒नानां॒ पर्ये॑ति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । वसु॑भ्य॒स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒स्स्वाहा । अग्रा॑य॒ स्वाहा॒ परीत्यै॒ स्वाहेति॑ ।। 49 ।। 3.1.5.9 इन्द्रो॒ वा अ॑कामयत । दृ॒ढोऽशि॑थिलस्स्या॒मिति॑ । स ए॒तं वरु॑णाय श॒तभि॑षजे भेष॒जेभ्य॑ पुरो॒डाश॒न्दश॑कपाल॒न्निर॑वपत्कृ॒ष्णानाँव्व्रीही॒णाम् । ततो॒ वै स दृ॒ढोऽशि॑थिलोऽभवत् । दृ॒ढो ह॒ वा अशि॑थिलो भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा । भे॒ष॒जेभ्य॒स्स्वाहेति॑ ।। 50 ।। 3.1.5.10 अ॒जो वा एक॑पादकामयत । ते॒ज॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ । स ए॒तम॒जायैक॑पदे प्रोष्ठप॒देभ्य॑श्च॒रुन्निर॑वपत् । ततो॒ वै स ते॑ज॒स्वी ब्र॑ह्मवर्च॒स्य॑भवत् । ते॒ज॒स्वी ह॒ वै ब्र॑ह्मवर्च॒सी भ॑वति । य ए॒तेन॑ ह॒विषा॒ यजते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒जायैक॑पदे॒ स्वाहा प्रोष्ठप॒देभ्य॒स्स्वाहा । तेज॑से॒ स्वाहा ब्रह्मवर्च॒साय॒ स्वाहेति॑ ।। 51 ।। 3.1.5.11 अहि॒र्वै बु॒ध्नियो॑ऽकामयत । इ॒मां प्र॑ति॒ष्ठाव्विँ॑न्दे॒येति॑ । स ए॒तमह॑ये बु॒ध्निया॑य प्रोष्ठप॒देभ्य॑ पुरो॒डाशं॒ भूमि॑कपाल॒न्निर॑वत् । ततो॒ वै स इ॒मां प्र॑ति॒ष्ठाम॑विन्दत । इ॒मा ह॒ वै प्र॑ति॒ष्ठाव्विँ॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अह॑ये बु॒ध्निया॑य॒ स्वाहा प्रोष्ठप॒देभ्य॒स्स्वाहा । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ।। 52 ।। 3.1.5.12 पू॒षा वा अ॑कामयत । प॒शु॒मान्थ्स्या॒मिति॑ । स ए॒तं पू॒ष्णे रे॒वत्यै॑ च॒रुन्निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा । प॒शुभ्य॒स्स्वाहेति॑ ।। 53 ।। 3.1.5.13 अ॒श्विनौ॒ वा अ॑कामयेताम् । श्रो॒त्र॒स्विना॒वब॑धिरौ स्या॒वेति॑ । तावे॒तम॒श्विभ्या॑मश्व॒युग्भ्यां पुरो॒डाश॑न्द्विकपा॒ल- न्निर॑वपताम् । ततो॒ वै तौ श्रोत्र॒स्विना॒वब॑धिरावभवताम् । श्रो॒त्र॒स्वी ह॒ वा अब॑धिरो भवति । य एते॒न॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒श्विभ्या॒॒ स्वाहाऽश्व॒युग्भ्या॒॒ स्वाहा । श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहेति॑ ।। 54 ।। 3.1.5.14 य॒मो वा अ॑कामयत । पि॒तृ॒णा रा॒ज्यम॒भिज॑येय॒मिति॑ । स ए॒तय्यँ॒माया॑प॒भर॑णीभ्यश्च॒रुन्निर॑पवत् । ततो॒ वै स पि॑तृ॒णा रा॒ज्यम॒भ्य॑जयत् । स॒मा॒नाना॑ ह॒ वै रा॒ज्यम॒भि ज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । य॒माय॒ स्वाहा॑ऽप॒भर॑णीभ्य॒स्स्वाहा । रा॒ज्याय॒ स्वाहा॒भिजि॑त्यै॒ स्वाहेति॑ ।। 55 ।। 3.1.5.15 अथै॒तद॑मावा॒स्या॑या॒ आज्य॒न्निर्व॑पति । कामो॒ वा अ॑मावा॒स्या । काम॒ आज्यम् । कामे॑नै॒व काम॒॒ सम॑र्धयति । ख्षि॒प्रमे॑न॒॒ सकाम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सोऽत्र॑ जुहोति । अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहेति॑ ।। 56 ।। 3.1.6.0 च॒न्द्रमा॒ पञ्च॑दशाहोरा॒त्रे स॒प्तद॑शो॒षा एका॑द॒शाथै॒तस्मै॒ नक्ष॑त्त्राय॒ त्रयो॑दश॒ सूर्यो॒ दशाथै॒तमदि॑त्यै॒ पञ्चाथै॒तव्विँष्ण॑वे॒ षट्थ्स॒प्त ।। 6 ।। (स॒वि॒ताऽऽशू॒नाव्व्रीँ॑ही॒णामिन्द्रो॑ म॒हाव्री॑हीणा॒मिन्द्र॑कृ॒ष्णानाव्व्रीँही॒णाम॑होरा॒त्रे द्व॒यानाव्व्रीँही॒णाम् । पि॒तर॒ष्षट्क॑पाल सवि॒ता द्वाद॑शकपालमिन्द्रा॒ग्नी एका॑दशकपाल॒मिन्द्र॒ एका॑दशकपाल॒मिन्द्रो॒ दश॑कपाल॒व्विँष्णु॑स्त्रिकपा॒लमहि॒र्भूमि॑- कपालम॒श्विनौ द्विकपा॒लञ्च॒न्द्रमा॒ पञ्च॑दशकपालम॒ग्निस्त्वष्टा॒ वस॑वो॒ऽष्टाक॑पालम॒न्यत्र॑ च॒रुम् । रु॒द्रोऽर्य॒मा पू॒षा प॑शु॒मान्थ्स्या॒॒ सोमो॑ रु॒द्रो बृह॒स्पति॒ पय॑सि वा॒यु पय॒स्सोमो॑ वा॒युरि॑न्द्रा॒ग्नी मि॒त्र इन्द्र॒ आपो॒ ब्रह्म॑ य॒मो॑ऽभिजि॑त्यै॒ त्वष्टा प्र॒जाप॑तिप्र॒जायै॑ पौर्णमा॒स्या अ॑मावा॒स्या॑या॒ अग॑त्यै॒ विश्वे॒ जित्या॑ अ॒श्विनौ॒ श्रुत्यै । ब्रह्म॒ तदे॒तव्विँष्णु॒स्स ए॒तव्वाँ॒युस्स ए॒तदाप॒स्ताः । पि॒तरो॒ विश्वे॒ वस॑वोऽकामयन्त॒ मेति॒ त ए॒तन्निर॑वपन्न् । आपो॑ऽकामयन्त॒ मेति॒ ता ए॒तन्निर॑वपन्न् । इ॒न्द्रा॒ग्नी अ॒श्विना॑वकामयेता॒व्वेँति॒ तावे॒तन्निर॑वपताम् । अ॒हो॒रा॒त्रे वा अ॑कामयेता॒मिति॒ ते ए॒तन्निर॑वपताम् । अ॒न्यत्रा॑कामय॒तेति॒ स ए॒तन्निर॑वपत् । इ॒न्द्रा॒ग्नी श्रैष्ठ्य॒मिन्द्रो॒ ज्यैष्ठ्य॒मिन्द्रो॑ दृ॒ढः । अहि॒स्सूर्योऽदि॑त्यै॒ विष्ण॑वे प्रति॒ष्ठायै । सोमो॑ य॒मस्स॑मा॒नानाम् । अ॒ग्निर्नो॑ रीरिषद॒न्यत्र॑ रीरिषः ।। ) 3.1.6.1 च॒न्द्रमा॒ वा अ॑कामयत । अ॒होरा॒त्रान॑र्धमा॒सान्मासा॑नृ॒तून्थ्स॑व्वँथ्स॒रमा॒प्त्वा । च॒न्द्रम॑स॒स्सायु॑ज्य सलो॒कता॑माप्नुया॒मिति॑ । स ए॒तञ्च॒न्द्रम॑से प्रती॒दृश्या॑यै पुरो॒डाशं॒ पञ्च॑दशकपाल॒न्निर॑वपत् । ततो॒ वै सो॑ऽहोरा॒त्रान॑र्धमा॒सान्मासा॑नृ॒तून्थ्स॑व्वँथ्स॒रमा॒प्त्वा । च॒न्द्रम॑स॒स्सायु॑ज्य सलो॒कता॑माप्नोत् । अ॒हो॒रा॒त्रान् ह॒ वा अ॑र्धमा॒सान्मासा॑नृ॒तून्थ्स॑व्वँथ्स॒रमा॒प्त्वा । च॒न्द्रम॑स॒स्सायु॑ज्य सलो॒कता॑माप्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । च॒न्द्रम॑से॒ स्वाहा प्रती॒दृश्या॑यै॒ स्वाहा । अ॒हो॒रा॒त्रेभ्य॒स्स्वाहाऽर्धमा॒सेभ्य॒स्स्वाहा । मासेभ्य॒स्स्वाह॒र्तुभ्य॒स्स्वाहा । स॒व्वँ॒थ्स॒राय॒ स्वाहेति॑ ।। 57 ।। 3.1.6.2 अ॒हो॒रा॒त्रे वा अ॑कामयेताम् । अत्य॑होरा॒त्रे मु॑च्येवहि । न ना॑वहोरा॒त्रे आप्नुयाता॒मिति॑ । ते ए॒तम॑होरा॒त्राभ्या- ञ्च॒रुन्निर॑वपताम् । द्व॒यानाव्व्रीँही॒णाम् । शु॒क्लानाञ्च कृ॒ष्णानाञ्च । स॒वा॒त्योर्दु॒ग्धे । श्वे॒तायै॑ च कृ॒ष्णायै॑ च । ततो॒ वै ते अत्य॑होरा॒त्रे अ॑मुच्येते । नैने॑ अहोरा॒त्रे आप्नुताम् । अति॑ ह॒ वा अ॑होरा॒त्रे मु॑च्यते । नैन॑महोरा॒त्रे आप्नुतः । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा । अति॑मुक्त्यै॒ स्वाहेति॑ ।। 58 ।। 3.1.6.3 उ॒षा वा अ॑कामयत । प्रि॒याऽऽदि॒त्यस्य॑ सु॒भगा स्या॒मिति॑ । सैतमु॒षसे॑ च॒रुन्निर॑वपत् । ततो॒ वै सा प्रि॒याऽऽ- दि॒त्यस्य॑ सु॒भगा॑ऽभवत् । प्रि॒यो ह॒ वै स॑मा॒नाना॑ सु॒भगो॑ भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा । व्यू॒षुष्यै॒ स्वाहा व्यु॒च्छन्त्यै॒ स्वाहा । व्यु॑ष्टायै॒ स्वाहेति॑ ।। 59 ।। 3.1.6.4 अथै॒तस्मै॒ नख्ष॑त्राय च॒रुनिर्व॑पति । यथा॒ त्वन्दे॒वाना॒मसि॑ । ए॒वम॒हं म॑नु॒ष्या॑णां भूयास॒मिति॑ । यथा॑ ह॒ वा ए॒तद्दे॒वानाम् । ए॒व ह॒ वा ए॒ष म॑नु॒ष्या॑णां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । नख्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा । हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा । तप॑से॒ स्वाहा ब्रह्मवर्च॒साय॒ स्वाहेति॑ ।। 60 ।। 3.1.6.5 सूर्यो॒ वा अ॑कामयत । नख्ष॑त्राणां प्रति॒ष्ठा स्या॒मिति॑ । स ए॒त सूर्या॑य॒ नख्ष॑त्रेभ्यश्च॒रुन्निर॑वपत् । ततो॒ वै स नख्ष॑त्राणां प्रति॒ष्ठाऽभ॑वत् । प्र॒ति॒ष्ठा ह॒ वै स॑मा॒नानां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । सूर्या॑य॒ स्वाहा॒ नख्ष॑त्रेभ्य॒स्स्वाहा । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ।। 61 ।। 3.1.6.6 अथै॒तमदि॑त्यै च॒रुन्निर्व॑पति । इ॒यव्वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । सोऽत्र॑ जुहोति । अदि॑त्यै॒ स्वाहा प्रति॒ष्ठायै॒ स्वाहेति॑ ।। 62 ।। 3.1.6.7 अथै॒तव्विँष्ण॑वे च॒रुन्निर्व॑पति । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒त प्रति॑तिष्ठति । सोऽत्र॑ जुहोति । विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ।। 63 ।। 3.2.0.0 तृ॒तीय॑स्यां दे॒वस्याश्वप॒ऱ्शुं यो वै पूर्वे॒द्यु कर्म॑णे वा॒मिन्द्रो॑ वृ॒त्रम॑ह॒न्थ्सो॑ऽपोऽव॑धूत॒न्धृष्टि॑र्दे॒वस्येत्या॑ह॒ सव्वँ॑पामि दे॒वस्य॒ स्फ्यमा द॑दे॒ वज्रो॒ वै स्फ्यो दश॑ ।। 10 ।। तृ॒तीय॑स्यां य॒ज्ञस्यान॑तिरेकाय प॒वित्र॑वत्यध्व॒र्युं चा॑धि॒षव॑णमस्य॒न्तरि॑क्ष ए॒व रक्ष॑साम॒न्तऱ्हि॑त्यै॒ द्वौ वाव पुरु॑षौ॒ यद॒दश्च॒न्द्रम॑सि॒ मेध्यं॒ पञ्चाशी॑तिः ।। 85 ।। तृ॒तीय॑स्या॒य्यँज॑मानः ।। हरिः॑ओम् ।। कृष्णयजुर्ब्राह्मणे तृतीयाष्टके द्वितीयप्रपाठकस्समाप्तः ।। 3.2.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके द्वितीयप्रपाठक प्रारम्भः । हरिः ओम् ।। 3.2.1.0 प॒शव॑ करोति प॒शवो॑ देवभा॒गमित्या॑ह करोति॒ नव॑ च ।। 1 ।। 3.2.1.1 तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । तङ्गा॑य॒त्र्याऽह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णो॑ऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् । ब्रह्म॒ वै प॒र्णः । यत्प॑र्णशा॒खया॑ व॒थ्सान॑पाक॒रोति॑ । ब्रह्म॑णै॒वैना॑न॒पाक॑रोति । गा॒य॒त्रो वै प॒र्णः । गा॒य॒त्रा प॒शवः॑ ।। 1 ।। 3.2.1.2 तस्मा॒त्त्रीणि॑त्रीणि प॒र्णस्य॑ पला॒शानि॑ । त्रि॒पदा॑ गाय॒त्री । यत्प॑र्णशा॒खया॒ गा प्रा॒र्पय॑ति । स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति । यङ्का॒मये॑ताप॒शुस्स्या॒दिति॑ । अ॒प॒र्णान्तस्मै॒ शुष्काग्रा॒माह॑रेत् । अ॒प॒शुरे॒व भ॑वति । यङ्का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ । ब॒हु॒प॒र्णान्तस्मै॑ बहुशा॒खामाह॑रेत् । प॒शु॒मन्त॑मे॒वैन॑ङ्करोति ।। 2 । 3.2.1.3 यत्प्राची॑मा॒ हरेत् । दे॒व॒लो॒कम॒भि ज॑येत् । यदुदी॑चीं मनुष्यलो॒कम् । प्राची॒मुदी॑ची॒मा ह॑रति । उ॒भयोर्लो॒कयो॑र॒भिजि॑त्यै । इ॒षे त्वो॒र्जे त्वेत्या॑ह । इष॑मे॒वोर्ज॒य्यँज॑माने दधाति । वा॒यव॒स्स्थेत्या॑ह । वा॒युर्वा अ॒न्तरि॑ख्ष॒स्याध्य॑ख्षाः । अ॒न्त॒रि॒ख्ष॒दे॒व॒त्या खलु॒ वै प॒शवः॑ ।। 3 ।। 3.2.1.4 वा॒यव॑ ए॒वैना॒न्परि॑ ददाति । प्र वा ए॑नाने॒तदा क॑रोति । यदाह॑ । वा॒यव॒स्स्थेत्यु॑पा॒यव॒स्स्थेत्या॑ह । यज॑मानायै॒व प॒शूनुप॑ ह्वयते । दे॒वो व॑स्सवि॒ता प्रार्प॑य॒त्वित्या॑ह॒ प्रसूत्यै । श्रेष्ठ॑तमाय॒ कर्म॑ण॒ इत्या॑ह । य॒ज्ञो हि श्रेष्ठ॑तम॒ङ्कर्म॑ । तस्मा॑दे॒वमा॑ह । आप्या॑यध्वमघ्निया देवभा॒गमित्या॑ह ।। 4 ।। 3.2.1.5 व॒थ्सेभ्य॑श्च॒ वा ए॒ता पु॒रा म॑नु॒ष्येभ्य॒श्चाप्या॑यन्त । दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑ययति । ऊर्ज॑स्वती॒ पय॑स्वती॒रित्या॑ह । ऊर्ज॒॒ हि पय॑स्स॒म्भर॑न्ति । प्र॒जाव॑तीरनमी॒वा अ॑य॒ख्ष्मा इत्या॑ह॒ प्रजात्यै । मा व॑स्स्ते॒न ई॑शत॒ माऽघश॑स॒ इत्या॑ह॒ गुप्त्यै । रु॒द्रस्य॑ हे॒तिपरि॑ वो वृण॒क्त्वित्या॑ह । रु॒द्रादे॒वैनास्त्रायते । ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीरित्या॑ह । ध्रु॒वा ए॒वास्मि॑न्ब॒ह्वी क॑रोति ।। 5 ।। 3.2.1.6 यज॑मानस्य प॒शून्पा॒हीत्या॑ह । प॒शू॒नाङ्गो॑पी॒थाय॑ । तन्माथ्सा॒यं प॒शव॒ उप॑स॒माव॑र्तन्ते । अन॑धस्सादयति । गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भा प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 6 ।। 3.2.2.0 स॒यो॒नि॒त्वाय॑ स्व॒धाकृ॑ता॒ऽसीत्या॑ह दाया॒द्वेद॑ भरति जायन्ते॒ बृह॒स्पति॒स्सम॑ष्ट्यै ।। 2 ।। 3.2.2.1 दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्य॑श्वप॒र्॒शुमाद॑त्ते॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै । यो वा ओष॑धी पर्व॒शो वेद॑ । नैना॒स्स हि॑नस्ति । प्र॒जाप॑ति॒र्वा ओष॑धी पर्व॒शो वे॑द । स ए॑ना॒ न हि॑नस्ति । अ॒श्व॒प॒र्श्वा ब॒र्॒हिरच्छै॑ति । प्रा॒जा॒प॒त्यो वा अश्व॑स्सयोनि॒त्वाय॑ ।। 7 ।। 3.2.2.2 ओष॑धीना॒महि॑सायै । य॒ज्ञस्य॑ घो॒षद॒सीत्या॑ह । यज॑मान ए॒व र॒यिन्द॑धाति । प्रत्यु॑ष्ट॒॒ रख्ष॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रख्ष॑सा॒मप॑हत्यै । प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छेत्या॑ह । वि॒द्या वै धि॒षणा । वि॒द्ययै॒वैन॒दच्छै॑ति । मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टेत्या॑ह । मा॒न॒वी हि पऱ्शु॑स्स्व॒धाकृ॑ता ।। 8 ।। 3.2.2.3 त आव॑हन्ति क॒वय॑ पु॒रस्ता॒दित्या॑ह । शु॒श्रु॒वासो॒ वै क॒वयः॑ । य॒ज्ञ पु॒रस्तात् । मु॒ख॒त ए॒व य॒ज्ञमा र॑भते । अथो॒ यदे॒तदु॒क्त्वा यत॒ कुत॑श्चा॒ हर॑ति । तत्प्राच्या॑ ए॒व दि॒शो भ॑वति । दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सद॒ इत्या॑ह । ब॒ऱ्हिष॒स्समृ॑द्ध्यै । कर्म॒णोऽन॑पराधाय । दे॒वानां परिषू॒तम॒सीत्या॑ह ।। 9 ।। 3.2.2.4 यद्वा इ॒दङ्किञ्च॑ । तद्दे॒वानां परिषू॒तम् । अथो॒ यथा॒ वस्य॑से प्रति॒प्रोच्याहे॒दङ्क॑रिष्या॒मीति॑ । ए॒वमे॒व तद॑ध्व॒र्युर्दे॒वेभ्य॑ प्रति॒प्रोच्य॑ ब॒र्॒हिर्दा॑ति । आ॒त्मनोऽहि॑सायै । याव॑तस्स्त॒म्बान्प॑रिदि॒शेत् । यत्तेषा॑मुच्छि॒॒ष्यात् । अति॒ तद्य॒ज्ञस्य॑ रेचयेत् । एक॑ स्त॒म्बं परि॑दिशेत् । त सर्व॑न्दायात् ।। 10 ।। 3.2.2.5 य॒ज्ञस्यान॑तिरेकाय । व॒र्॒षवृ॑द्धम॒सीत्या॑ह । व॒र्॒षवृ॑द्धा॒ वा ओष॑धयः । देव॑बऱ्हि॒रित्या॑ह । दे॒वेभ्य॑ ए॒वैन॑त्करोति । मा त्वा॒ऽन्वङ्मा ति॒र्यगित्या॒हाहि॑सायै । पर्व॑ ते राध्यास॒मित्या॒हर्ध्यै । आ॒च्छे॒त्ता ते॒ मा रि॑ष॒मित्या॑ह । नास्या॒त्मनो॑ मीयते । य ए॒वव्वेँद॑ ।। 11 ।। 3.2.2.6 देव॑बऱ्हिश्श॒तव॑ल़््श॒व्विँरो॒हेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । प्र॒जानां प्र॒जन॑नाय । स॒हस्र॑वल्‌शा॒ वि व॒य रु॑हे॒मेत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । पृ॒थि॒व्यास्सं॒पृच॑ पा॒हीत्या॑ह॒ प्रति॑ष्ठित्यै । अयु॑ङ्गायुङ्गान्मु॒ष्टील्लुँ॑नोति । मि॒थु॒न॒त्वाय॒ प्रजात्यै । सु॒सं॒भृता त्वा॒ संभ॑रा॒मीत्या॑ह । ब्रह्म॑णै॒वैन॒थ्संभ॑रति ।। 12 ।। 3.2.2.7 अदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह । इ॒यव्वाँ अदि॑तिः । अ॒स्या ए॒वैन॒द्रास्नाङ्करोति । इ॒न्द्रा॒ण्यै स॒न्नह॑न॒मित्या॑ह । इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑ना॒॒ सम॑नह्यत । साऽऽर्ध्नोत् । ऋद्ध्यै॒ सन्न॑ह्यति । प्र॒जा वै ब॒र्॒हिः । प्र॒जाना॒मप॑रावापाय । तस्मा॒थ्स्नाव॑सन्तता प्र॒जा जा॑यन्ते ।। 13 ।। 3.2.2.8 पू॒षा ते ग्र॒न्थिङ्ग्र॑थ्ना॒त्वित्या॑ह । पुष्टि॑मे॒व यज॑माने दधाति । स ते॒ मास्था॒दित्या॒हाहि॑सायै । प॒श्चात्प्राञ्च॒मुप॑गूहति । प॒श्चाद्वै प्रा॒चीन॒॒ रेतो॑ धीयते । प॒श्चादे॒वास्मै प्रा॒चीन॒॒ रेतो॑ दधाति । इन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छ॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । बृह॒स्पतेर्मू॒र्ध्ना ह॑रा॒मीत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ ।। 14 ।। 3.2.2.9 ब्रह्म॑णै॒वैन॑द्धरति । उ॒र्व॑न्तरि॑ख्ष॒मन्वि॒हीत्या॑ह॒ गत्यै । दे॒व॒ङ्ग॒मम॒सीत्या॑ह । दे॒वाने॒वैन॑द्गमयति । अन॑धस्सादयति । गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भा प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ नि द॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 15 ।। 3.2.3.0 अ॒सीत्या॑ह॒ धृत्यै॒ यज॑माने दधा॒त्यजा॑मित्वाय स्थापयति दुहे दुहन्ति दु॒ह्याद्दोग्धीति॒ दधीत्या॑ह स्याथ्सादयति॒ पञ्च॑ च ।। 3 ।। 3.2.3.1 पू॒र्वे॒द्युरि॒ध्माब॒र्॒हि क॑रोति । य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑वसति । प्र॒जाप॑तिर्य॒ज्ञम॑सृजत । तस्यो॒खे अ॑स्रसेताम् । य॒ज्ञो वै प्र॒जाप॑तिः । यथ्सान्नाय्यो॒खे भव॑तः । य॒ज्ञस्यै॒व तदु॒खे उप॑दधा॒त्यप्र॑स्रसाय । शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । मा॒त॒रिश्व॑नो घ॒र्मो॑ऽसीत्या॑ह ।। 16 ।। 3.2.3.2 अ॒न्तरि॑ख्ष॒व्वैँ मा॑त॒रिश्व॑नो घ॒र्मः । ए॒षाल्लोँ॒काना॒व्विँधृ॑त्यै । द्यौर॑सि पृथि॒व्य॑सीत्या॑ह । दि॒वश्च॒ ह्ये॑षा पृ॑थि॒व्याश्च॒ संभृ॑ता । यदु॒खा । तस्मा॑दे॒वमा॑ह । वि॒श्वधा॑या असि पर॒मेण॒ धाम्नेत्या॑ह । वृष्टि॒र्वै वि॒श्वधा॑याः । वृष्टि॑मे॒वाव॑रुन्धे । दृह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै ।। 17 ।। 3.2.3.3 वसू॑नां प॒वित्र॑म॒सीत्या॑ह । प्रा॒णा वै वस॑वः । तेषा॒व्वाँ ए॒तद्भा॑ग॒धेयम् । यत्प॒वित्रम् । तेभ्य॑ ए॒वैन॑त्करोति । श॒तधा॑र स॒हस्र॑धार॒मित्या॑ह । प्रा॒णेष्वे॒वायु॑र्दधाति सर्व॒त्वाय॑ । त्रि॒वृत्प॑लाशशा॒खायान्दर्भ॒मयं॑ भवति । त्रि॒वृद्वै प्रा॒णः । त्रि॒वृत॑मे॒व प्रा॒णं म॑ध्य॒तो यज॑माने दधाति ।। 18 ।। 3.2.3.4 सौ॒म्य प॒र्णस्स॑योनि॒त्वाय॑ । सा॒ख्षात्प॒वित्र॑न्द॒र्भाः । प्राख्सा॒यमधि॒नि द॑धाति । तत्प्रा॑णापा॒नयो॑ रू॒पम् । ति॒र्यक्प्रा॒तः । तद्दर्श॑स्य रू॒पम् । दा॒र्श्य ह्ये॑तदहः॑ । अन्न॒व्वैँ च॒न्द्रमाः । अन्नं॑ प्रा॒णाः । उ॒भय॑मे॒वोपै॒त्यजा॑मित्वाय ।। 19 ।। 3.2.3.5 तस्मा॑द॒य स॒र्वत॑ पवते । हु॒तस्स्तो॒को हु॒तो द्र॒प्स इत्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । न हि हु॒त स्वाहा॑कृत॒ स्कन्द॑ति । दि॒वि नाको॒ नामा॒ग्निः । तस्य॑ वि॒प्रुषो॑ भाग॒धेयम् । अ॒ग्नये॑ बृह॒ते नाका॒येत्या॑ह । नाक॑मे॒वाग्निं भा॑ग॒धेये॑न॒ सम॑र्धयति । स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह । द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ।। 20 ।। 3.2.3.6 प॒वित्र॑व॒त्यान॑यति । अ॒पाञ्चै॒वौष॑धीनाञ्च॒ रस॒॒ ससृ॑जति । अथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ष्ठापयति । अ॒न्वा॒रभ्य॒ वाच॑य्यँच्छति । य॒ज्ञस्य॒ धृत्यै । धा॒रय॑न्नास्ते । धा॒रय॑न्त इव॒ हि दु॒हन्ति॑ । काम॑धुख्ष॒ इत्या॒हातृ॒तीय॑स्यै । त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कान्‌यज॑मानो दुहे ।। 21 ।। 3.2.3.7 अ॒मूमिति॒ नाम॑ गृह्णाति । भ॒द्रमे॒वासा॒ङ्कर्मा॒ विष्क॑रोति । सा वि॒श्वायु॒स्सा वि॒श्वव्य॑चा॒स्सा वि॒श्वक॒र्मेत्या॑ह । इ॒यव्वैँ वि॒श्वायुः॑ । अ॒न्तरि॑ख्षव्विँ॒श्वव्य॑चाः । अ॒सौ वि॒श्वक॑र्मा । इ॒माने॒वैताभि॑र्लो॒कान्‌ य॑थापू॒र्वन्दु॑हे । अथो॒ यथा प्रदा॒त्रे पुण्य॑मा॒शास्ते । ए॒वमे॒वैना॑ ए॒तदुप॑स्तौति । तस्मा॒त्प्रादा॒दित्यु॒न्नीय॒ वन्द॑माना उपस्तु॒वन्त॑ प॒शून्दु॑हन्ति ।। 22 ।। 3.2.3.8 ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यो॑ ह॒विरिति॒ वाच॒व्विँसृ॑जते । य॒था॒दे॒व॒तमे॒व प्रसौ॑ति । दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्यै । त्रिरा॑ह । त्रिष॑त्या॒ हि दे॒वाः । अवा॑चय्यँ॒मोऽन॑न्वार॒भ्योत्त॑राः । अप॑रिमितमे॒वाव॑ रुन्धे । न दा॑रुपा॒त्रेण॑ दुह्यात् । अ॒ग्नि॒वद्वै दा॑रुपा॒त्रम् । यद्दा॑रुपा॒त्रेण॑ दु॒ह्यात् ।। 23 ।। 3.2.3.9 या॒तयाम्ना ह॒विषा॑ यजेत । अथो॒ खल्वा॑हुः । पु॒रो॒डाश॑मुखानि॒ वै ह॒वीषि॑ । नेत इ॑त पुरो॒डाश॑ ह॒विषो॒ यामो॒ऽस्तीति॑ । काम॑मे॒व दा॑रुपा॒त्रेण॑ दुह्यात् । शू॒द्र ए॒व न दु॑ह्यात् । अस॑तो॒ वा ए॒ष संभू॑तः । यच्छू॒द्रः । अह॑विरे॒व तदित्या॑हुः । यच्छू॒द्रो दोग्धीति॑ ।। 24 ।। 3.2.3.10 अ॒ग्नि॒हो॒त्रमे॒व न दु॑ह्याच्छू॒द्रः । तद्धि नोत्पु॒नन्ति॑ । य॒दा खलु॒ वै प॒वित्र॑म॒त्येति॑ । अथ॒ तद्ध॒विरिति॑ । संपृ॑च्यध्वमृतावरी॒रित्या॑ह । अ॒पाञ्चै॒वौष॑धीनाञ्च॒ रस॒॒ स सृ॑जति । तस्मा॑द॒पाञ्चौष॑धीनाञ्च॒ रस॒मुप॑जीवामः । म॒न्द्रा धन॑स्य सा॒तय॒ इत्या॑ह । पुष्टि॑मे॒व यज॑माने दधाति । सोमे॑न॒ त्वात॑न॒च्मीन्द्रा॑य॒ दधीत्या॑ह ।। 25 ।। 3.2.3.11 सोम॑मे॒वैन॑त्करोति । यो वै सोमं॑ भख्षयि॒त्वा । स॒व्वँ॒थ्स॒र सोम॒न्न पिब॑ति । पु॒न॒र्भख्ष्योऽस्य सोमपी॒थो भ॑वति । सोम॒ खलु॒ वै सान्ना॒य्यम् । य ए॒वव्विँ॒द्वान्थ्सान्ना॒य्यं पिब॑ति । अ॒पु॒न॒र्भख्ष्योऽस्य सामपी॒थो भ॑वति । न मृ॒न्मये॒नापि॑ दध्यात् । यन्मृ॒न्मयो॑नापिद॒ध्यात् । पि॒तृ॒दे॒व॒त्य॑ स्यात् ।। 26 ।। 3.2.3.12 अ॒य॒स्पा॒त्रेण॑ वा दारुपा॒त्रेण॒ वाऽपि॑ दधाति । तद्धि सदे॑वम् । उ॒द॒न्वद्भ॑वति । आपो॒ वै र॑ख्षो॒घ्नीः । रख्ष॑सा॒मप॑हत्यै । अद॑स्तमसि॒ विष्ण॑वे॒ त्वे॒त्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञायै॒वैन॒दद॑स्तङ्करोति । विष्णो॑ ह॒व्य र॑ख्ष॒स्वेत्या॑ह॒ गुप्त्यै । अन॑धस्सादयति । गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भा प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 27 ।। 3.2.4.0 य॒ज्ञो वा आपो॒ धाम॑ प्र॒णीय॒ प्रच॑रत्यती॒यादे॒तद्बा॒हुभ्या॒मित्या॑ह ह॒वीषि॒ निर्व॑पति॒ गत्यै॑ च॒त्वारि॑ च ।। 4 ।। 3.2.4.1 कर्म॑णे वान्दे॒वेभ्य॑श्शकेय॒मित्या॑ह॒ शक्त्यै । य॒ज्ञस्य॒ वै सन्त॑ति॒मनु॑ प्र॒जा प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते । य॒ज्ञस्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जा प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते । य॒ज्ञस्य॒ सन्त॑तिरसि य॒ज्ञस्य॑ त्वा॒ सन्त॑त्यै स्तृणामि॒ सन्त॑त्यै त्वा य॒ज्ञस्येत्याह॑व॒नीया॒थ्सन्त॑नोति । यज॑मानस्य प्र॒जायै॑ पशू॒ना सन्त॑त्यै । अ॒प प्रण॑यति । श्र॒द्धा वा आपः॑ । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒प प्रण॑यति । य॒ज्ञो वा आपः॑ ।। 28 ।। 3.2.4.2 य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒प प्रण॑यति । वज्रो॒ वा आपः॑ । वज्र॑मे॒व भ्रातृ॑व्येभ्य प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति । अ॒प प्रण॑यति । आपो॒ वै र॑ख्षो॒घ्नीः । रख्ष॑सा॒मप॑हत्यै । अ॒प प्रण॑यति । आपो॒ वै दे॒वानां प्रि॒यन्धाम॑ । दे॒वाना॑मे॒व प्रि॒यन्धाम॑ प्र॒णीय॒ प्रच॑रति ।। 29 ।। 3.2.4.3 अ॒प प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः । दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । वेषा॑य॒ त्वेत्या॑ह । वेषा॑य॒ ह्ये॑नदाद॒त्ते । प्रत्यु॑ष्ट॒॒ रख्ष॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रख्ष॑सा॒मप॑हत्यै । धूर॒सीत्या॑ह । ए॒ष वै धुर्यो॒ऽग्निः । तय्यँदनु॑पस्पृश्याती॒यात् ।। 30 ।। 3.2.4.4 अ॒ध्व॒र्युञ्च॒ यज॑मानञ्च॒ प्रद॑हेत् । उ॒प॒स्पृश्यात्ये॑ति । अ॒ध्व॒र्योश्च॒ यज॑मानस्य॒ चाप्र॑दाहाय । धूर्व॒ तय्योँस्मान्धूर्व॑ति॒ तन्धूर्व॒ यव्वँ॒यन्धूर्वा॑म॒ इत्या॑ह । द्वौ वाव पुरु॑षौ । यञ्चै॒व धूर्व॑ति । यश़्चै॑न॒न्धूर्व॑ति । तावु॒भौ शु॒चाऽर्प॑यति । त्वन्दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तम॒ञ्जुष्ट॑तमं॒ वह्नि॑तमन्देव॒हूत॑म॒मित्या॑ह । य॒था॒य॒जुरे॒वैतत् ।। 31 ।। 3.2.4.5 अह्रु॑तमसि हवि॒र्धान॒मित्या॒हानार्त्यै । दृह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै । मि॒त्रस्य॑ त्वा॒ चख्षु॑षा॒ प्रेख्ष॒ इत्या॑ह मित्र॒त्वाय॑ । मा भेर्मा सव्विँ॑क्था॒ मा त्वा॑ हिसिष॒मित्या॒हाहि॑सायै । यद्वै किञ्च॒ वातो॒ नाभि॒ वाति॑ । तथ्सर्व॑व्वँरुणदेव॒त्यम् । उ॒रु वाता॒येत्या॑ह । अवा॑रुणमे॒वैन॑त्करोति । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्या॑ह॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह ।। 32 ।। 3.2.4.6 अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै । अ॒ग्नये॒ जुष्ट॒न्निर्व॑पा॒मीत्या॑ह । अ॒ग्नय॑ ए॒वैना॒ञ्जुष्ट॒न्निर्व॑पति । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः । ए॒षाल्लोँ॒काना॒माप्त्यै । तू॒ष्णीञ्च॑तु॒र्थम् । अप॑रिमितमे॒वाव॑रुन्धे । स ए॒वमे॒वानु॑पू॒र्व ह॒वीषि॒ निर्व॑पति ।। 33 ।। 3.2.4.7 इ॒दन्दे॒वाना॑मि॒दमु॑ नस्स॒हेत्या॑ह॒ व्यावृ॑त्यै । स्फा॒त्यै त्वा॒ नारात्या॒ इत्या॑ह॒ गुप्त्यै । तम॑सीव॒ वा ए॒षोऽन्तश्च॑रति । य प॑री॒णहि॑ । सुव॑र॒भि वि ख्ये॑षव्वैँश्वान॒रञ्ज्योति॒रित्या॑ह । सुव॑रे॒वाभि वि प॑श्यति वैश्वान॒रञ्ज्योतिः॑ । द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम् । दृह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरित्या॑ह । गृ॒हाणा॒न्द्यावा॑पृथि॒व्योर्धृत्यै । उ॒र्व॑न्तरि॑ख्ष॒मन्वि॒हीत्या॑ह॒ गत्यै । अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मीत्या॑ह । इ॒यव्वाँ अदि॑तिः । अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति । अग्ने॑ ह॒व्य र॑ख्ष॒स्वेत्या॑ह॒ गुप्त्यै ।। 34 ।। 3.2.5.0 द्वाभ्या॒मुत्पु॑नाति र॒श्मयो॑ नय॒न्त्यग्रे॑ य॒ज्ञप॑तिय्यँ॒ज्ञोऽदि॑ति॒रस्क॑न्दाय गृह्णा॒मीत्या॑ह व॒देत्या॑ह॒ विजि॑त्या॒ अप॑हत्या॒ अस्क॑न्दाय॒ त्रीणि॑ च ।। 5 ।। 3.2.5.1 इन्द्रो॑ वृ॒त्रम॑हन्न् । सो॑ऽपः । अ॒भ्य॑म्रियत । तासा॒य्यँन्मेध्य॑य्यँ॒ज्ञिय॒॒ सदे॑व॒मासीत् । तदपोद॑क्रामत् । ते द॒र्भा अ॑भवन्न् । यद्द॒र्भैर॒प उ॑त्पु॒नाति॑ । या ए॒व मेध्या॑ य॒ज्ञिया॒स्सदे॑वा॒ आपः॑ । ताभि॑रे॒वैना॒ उत्पु॑नाति । द्वाभ्या॒मुत्पु॑नाति ।। 35 ।। 3.2.5.2 द्वि॒पाद्यज॑मान॒ प्रति॑ष्ठित्यै । दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति । अच्छि॑द्रेण प॒वित्रे॒णेत्या॑ह । अ॒सौ वा आ॑दि॒त्योऽच्छि॑द्रं प॒वित्रम् । तेनै॒वैना॒ उत्पु॑नाति । वसो॒स्सूर्य॑स्य र॒श्मिभि॒रित्या॑ह । प्रा॒णा वा आपः॑ । प्रा॒णा वस॑वः । प्रा॒णा र॒श्मयः॑ ।। 36 ।। 3.2.5.3 प्रा॒णैरे॒व प्रा॒णान्थ्सं पृ॑णक्ति । सा॒वि॒त्रि॒यर्चा । स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑ । स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति । प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ । आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह । रू॒पमे॒वासा॑मे॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । अग्र॑ इ॒मं य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह । अग्र॑ ए॒व य॒ज्ञं न॑यन्ति । अग्रे॑ य॒ज्ञप॑तिम् ।। 37 ।। 3.2.5.4 यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्य॒ इत्या॑ह । वृ॒त्र ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे । आपो॒ हेन्द्रं॑ वव्रिरे । सं॒ज्ञामे॒वासा॑मे॒तथ्सामा॑नं॒ व्याच॑ष्टे । प्रोक्षि॑ता॒स्स्थेत्या॑ह । तेनाप॒ प्रोक्षि॑ताः । अ॒ग्नये॑ वो॒ जुष्टं॒ प्रोक्षाम्य॒ग्नीषोमाभ्या॒मित्या॑ह । य॒था॒दे॒व॒तमे॒वैना॒न्प्रोक्ष॑ति । त्रि प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः ।। 38 ।। 3.2.5.5 अथो॒ रक्ष॑सा॒मप॑हत्यै । शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । त्रि प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । अव॑धूत॒॒ रक्षोऽव॑धूता॒ आरा॑तय॒ इत्या॑ह । रख्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यव्वाँ अदि॑तिः ।। 39 ।। 3.2.5.6 अ॒स्या ए॒वैन॒त्त्वच॑ङ्करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै । पु॒रस्तात्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ । तस्मात्पु॒रस्तात्प्र॒त्यञ्च॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मात्प्र॒जा मृ॒गं ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत । कृष्णो॑ रू॒पं कृ॒त्वा । यत्कृ॑ष्णाजि॒ने ह॒विर॑ध्यव॒हन्ति॑ । य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय ।। 40 ।। 3.2.5.7 अ॒धि॒षव॑णमसि वानस्प॒त्यमित्या॑ह । अ॒धि॒षव॑णमे॒वैन॑त्करोति । प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह सय॒त्वाय॑ । अ॒ग्नेस्त॒नूर॒सीत्या॑ह । अ॒ग्नेर्वा ए॒षा त॒नूः । यदोष॑धयः । वा॒चो वि॒सर्ज॑न॒मित्या॑ह । य॒दा हि प्र॒जा ओष॑धीनाम॒श्ञन्ति॑ । अथ॒ वाचं॒ विसृ॑जन्ते । दे॒ववी॑तये त्वा गृह्णा॒मीत्या॑ह ।। 41 ।। 3.2.5.8 दे॒वता॑भिरे॒वैन॒थ्सम॑र्धयति । अद्रि॑रसि वानस्प॒त्य इत्या॑ह । ग्रावा॑णमे॒वैन॑त्करोति । स इ॒दं दे॒वेभ्यो॑ ह॒व्य सु॒शमि॑ शमि॒ष्वेत्या॑ह॒ शान्त्यै । हवि॑ष्कृ॒देहीत्या॑ह । य ए॒व दे॒वाना॑ हवि॒ष्कृतः॑ । तान्‌ ह्व॑यति । त्रिर्ह्व॑यति । त्रिष॑त्या॒ हि दे॒वाः । इष॒माव॒दोर्ज॒माव॒देत्या॑ह ।। 42 ।। 3.2.5.9 इष॑मे॒वोर्जं॒ यज॑माने दधाति । द्यु॒मद्व॑दत व॒य सं॑घा॒तं जे॒ष्मेत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै । मनोश्श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक् । य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टाऽऽसीत् । तेऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑तामु॒पाशृ॑ण्वन्न् । ते परा॑भवन्न् । तस्मा॒थ्स्वानां॒ मध्ये॑ऽव॒साय॑ यजेत । याव॑न्तोऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑मु॒द्वद॑तामुपशृ॒ण्वन्ति॑ । ते परा॑ भवन्ति । उ॒च्चैस्स॒माह॑न्त॒ वा आ॑ह॒ विजि॑त्यै ।। 43 ।। 3.2.5.10 वृ॒ङ्क्त ए॑षामिन्द्रि॒यव्वीँ॒र्यम् । श्रेष्ठ॑ एषां भवति । व॒ऱ्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒ऱ्॒षवृ॑द्धव्वेँ॒त्त्वित्या॑ह । व॒ऱ्॒षवृ॑द्धा॒ वा ओष॑धयः । व॒ऱ्॒षवृ॑द्धा इ॒षीका॒स्समृ॑द्ध्यै । य॒ज्ञ रख्षा॒॒स्यनु॒ प्रावि॑शन्न् । तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त । तुषै॒रोष॑धीभ्यः । परा॑पूत॒॒ रख्ष॒ परा॑पूता॒ अरा॑तय॒ इत्या॑ह । रख्ष॑सा॒मप॑हत्यै ।। 44 ।। 3.2.5.11 रख्ष॑सां भा॒गो॑ऽसीत्या॑ह । तुषै॑रे॒व रख्षा॑सि नि॒रव॑दयते । अ॒प उप॑स्पृशति मेध्य॒त्वाय॑ । वा॒युर्वो॒ विवि॑न॒क्त्वित्या॑ह । प॒वित्र॒व्वैँ वा॒युः । पु॒नात्ये॒वैनान्॑ । अ॒न्तरि॑ख्षादिव॒ वा ए॒ते प्रस्क॑न्दन्ति । ये शूर्पात् । दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । त्रिष्फ॒लीक॑र्त॒वा आ॑ह । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ ।। 45 ।। 3.2.6.0 निला॑यत॒ विधृ॑त्यै वी॒र्ये॑ण स्कन्दन्ति च॒त्वारि॑ च ।। 6 ।। 3.2.6.1 अव॑धूत॒॒ रख्षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह । रख्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यव्वाँ अदि॑तिः । अ॒स्या ए॒वैन॒त्त्वच॑ङ्करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै । पु॒रस्तात्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ । तस्मात्पु॒रस्तात्प्र॒त्यञ्च॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मात्प्र॒जा मृ॒गं ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत ।। 46 ।। 3.2.6.2 कृष्णो॑ रू॒पं कृ॒त्वा । यत्कृ॑ष्णाजि॒ने ह॒विर॑धिपि॒नष्टि॑ । य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय । द्यावा॑पृथि॒वी स॒हास्ताम् । ते श॑म्यामा॒त्रमेक॒मह॒र्व्यैता॑ शम्यामा॒त्रमेक॒महः॑ । दि॒वस्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्वीत्यै । धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वस्स्क॑म्भ॒निर्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्विधृ॑त्यै ।। 47 ।। 3.2.6.3 धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्धृत्यै । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्या॑ह॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह । अ॒श्वि॒नौ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्त्ये । अधि॑वपा॒मीत्या॑ह । य॒था॒दे॒व॒तमे॒वैना॒नधि॑ वपति । धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह । ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण ।। 48 ।। 3.2.6.4 याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका । ताव॒दाहु॑ति प्रथते । न हि तदस्ति॑ । यत्ताव॑दे॒व स्यात् । याव॑ज्जु॒होति॑ । प्रा॒णाय॑ त्वाऽपा॒नाय॒ त्वेत्या॑ह । प्रा॒णाने॒व यज॑माने दधाति । दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धा॒मित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । अ॒न्तरि॑क्षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति । यानि॑ दृ॒षदः॑ । दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । अस॑व्वँपन्ती पिषा॒णूनि॑ कुरुता॒दित्या॑ह मेध्य॒त्वाय॑ ।। 49 ।। 3.2.7.0 व॒र्त॒य॒ति॒ दिव॑मे॒वैतेन॑ दृहति स॒म्भव॑ति॒ त सस्कृ॑तमा॒त्मान॒न्द्वाद॑श॒ सस्थि॑ते॒ त्रीणि॑ च ।। 7 ।। 3.2.7.1 धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छेत्या॑ह॒ धृत्यै । अपाग्ने॒ऽग्निमा॒मादं॑ जहि॒ निष्क्र॒व्याद॑ से॒धा दे॑व॒यजं॑ व॒हेत्या॑ह । य ए॒वामात्क्र॒व्यात् । तम॑प॒हत्य॑ । मेध्ये॒ऽग्नौ क॒पाल॒मुप॑दधाति । निर्द॑ग्ध॒॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒ इत्या॑ह । रक्षा॑स्ये॒व निर्द॑हति । अ॒ग्नि॒वत्युप॑दधाति । अ॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्ते । अङ्गा॑र॒मधि॑ वर्तयति ।। 50 ।। 3.2.7.2 अ॒न्तरि॑क्ष ए॒व ज्योति॑र्धत्ते । आ॒दि॒त्यमे॒वामुष्मि॑ल्लोँ॒के ज्योति॑र्धत्ते । ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति । य ए॒वं वेद॑ । ध्रु॒वम॑सि पृथि॒वीं दृ॒॒हेत्या॑ह । पृ॒थि॒वीमे॒वैतेन॑ दृ॒हति । ध॒र्त्रम॑स्य॒न्तरि॑क्षं दृ॒॒हेत्या॑ह । अ॒न्तरि॑क्षमे॒वैतेन॑ दृहति । ध॒रुण॑मसि॒ दिवं॑ दृ॒॒हेत्या॑ह । दिव॑मे॒वैतेन॑ दृहति ।। 51 ।। 3.2.7.3 धर्मा॑सि॒ दिशो॑ दृ॒॒हेत्या॑ह । दिश॑ ए॒वैतेन॑ दृहति । इ॒माने॒वैतैर्लो॒कान्दृ॑हति । दृह॑न्तेऽस्मा इ॒मे लो॒का प्र॒जया॑ प॒शुभिः॑ । य ए॒वं वेद॑ । त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति । त्रय॑ इ॒मे लो॒काः । ए॒षां लो॒काना॒माप्त्यै । एक॒मग्रे॑ क॒पाल॒मुप॑ दधाति । एकं॒ वा अग्रे॑ क॒पालं॒ पुरु॑षस्य सं॒भव॑ति ।। 52 ।। 3.2.7.4 अथ॒ द्वे । अथ॒ त्रीणि॑ । अथ॑ च॒त्वारि॑ । अथा॒ष्टौ । तस्मा॑द॒ष्टाक॑पालं॒ पुरु॑षस्य॒ शिरः॑ । यदे॒वं क॒पालान्युप॒दधा॑ति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑ति॒॒ सस्क॑रोति । आ॒त्मान॑मे॒व तथ्सस्क॑रोति । त सस्कृ॑तमा॒त्मानम् ।। 53 ।। 3.2.7.5 अ॒मुष्मि॑ल्लोँ॒केऽनु॒ परै॑ति । यद॒ष्टावु॑प॒दधा॑ति । गा॒य॒त्रि॒या तथ्संमि॑तम् । यन्नव॑ । त्रि॒वृता॒ तत् । यद्दश॑ । वि॒राजा॒ तत् । यदेका॑दश । त्रि॒ष्टुभा॒ तत् । यद्द्वाद॑श ।। 54 ।। 3.2.7.6 जग॑त्या॒ तत् । छन्द॑स्संमितानि॒ स उ॑प॒दध॑त्क॒पाला॑नि । इ॒माल्लोँ॒कान॑नुपू॒र्वन्दिशो॒ विधृ॑त्यै दृहति । अथायु॑ प्रा॒णान्प्र॒जां प॒शून् यज॑माने दधाति । स॒जा॒तान॑स्मा अ॒भितो॑ बहु॒लान्क॑रोति । चित॒स्स्थेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । भृगू॑णा॒मङ्गि॑रसा॒न्तप॑सा तप्यध्व॒मित्या॑ह । दे॒वता॑नामे॒वैना॑नि॒ तप॑सा तपति । तानि॒ तत॒स्सस्थि॑ते । यानि॑ घ॒र्मे क॒पालान्युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा वि मु॑ञ्चति । चतु॑ष्पाद प॒शवः॑ । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑ तिष्ठति ।। 55 ।। 3.2.8.0 अ॒न्या जि॑न्वन्त्यनु वि॒सृत्यै॒वमा॒हाशान्त आह॒ गुप्त्यै॑ छ॒न्नं ब्रह्माब्रवीद्द्वि॒तीय॑म॒भ्य॑पातय॒थ्सूर्या॑भिनिम्रुक्ते दे॒वाः ।। 8 ।। 3.2.8.1 दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इत्या॑ह॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै । सव्वँ॑पा॒मीत्या॑ह । य॒था॒दे॒व॒तमे॒वैना॑नि॒ सव्वँ॑पति । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह । आपो॒ वा ओष॑धीर्जिन्वन्ति । ओष॑धयो॒ऽपो जि॑न्वन्ति । अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति ।। 56 ।। 3.2.8.2 तस्मा॑दे॒वमा॑ह । स रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒मित्या॑ह । आपो॒ वै रे॒वतीः । प॒शवो॒ जग॑तीः । ओष॑धयो॒ मधु॑मतीः । आप॒ ओष॑धी प॒शून् । ताने॒वास्मा॑ एक॒धा स॒॒सृज्य॑ । मधु॑मत करोति । अ॒द्भ्य परि॒ प्रजा॑तास्स्थ॒ सम॒द्भि पृ॑च्यध्व॒मिति॑ प॒र्याप्ला॑वयति । यथा॒ सुवृ॑ष्ट इ॒माम॑नुवि॒सृत्य॑ ।। 57 ।। 3.2.8.3 आप॒ ओष॑धीर्म॒हय॑न्ति । ता॒दृगे॒व तत् । जन॑यत्यै त्वा॒ संयौ॒मीत्या॑ह । प्र॒जा ए॒वैतेन॑ दाधार । अ॒ग्नये त्वा॒ऽग्नीषोमाभ्या॒मित्या॑ह॒ व्यावृ॑त्त्यै । म॒खस्य॒ शिरो॒ऽसीत्या॑ह । य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । यत्पु॑रो॒डाशः॑ । तस्मा॑दे॒वमा॑ह ।। 58 ।। 3.2.8.4 घ॒र्मो॑ऽसि वि॒श्वायु॒रित्या॑ह । विश्व॑मे॒वायु॒र्यज॑माने दधाति । उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑ति प्रथता॒मित्या॑ह । यज॑मानमे॒व प्र॒जया॑ प॒शुभि॑ प्रथयति । त्वचं॑ गृह्णी॒ष्वेत्या॑ह । सर्व॑मे॒वैन॒॒ सत॑नुं करोति । अथा॒प आ॒नीय॒ परि॑मार्ष्टि । मा॒॒स ए॒व तत्त्वचं॑ दधाति । तस्मात्त्व॒चा मा॒॒सं छ॒न्नम् । घ॒र्मो वा ए॒षोऽशान्तः ।।59।। 3.2.8.5 अ॒र्ध॒मा॒सेऽर्धमासे॒ प्रवृ॑ज्यते । यत्पु॑रो॒डाशः॑ । स ईश्व॒रो यज॑मान शु॒चा प्र॒दहः॑ । पर्य॑ग्नि करोति । प॒शुमे॒वैन॑मकः । शान्त्या॒ अप्र॑दाहाय । त्रि पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॒ रक्ष॑सा॒मप॑हत्यै । अ॒न्तरि॑त॒॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तय॒ इत्या॑ह ।। 60 ।। 3.2.8.6 रक्ष॑साम॒न्तऱ्हि॑त्यै । पु॒रो॒डाशं॒ वा अधि॑श्रित॒॒ रक्षा॑स्यजिघासन्न् । दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा । स ए॒वास्मा॒द्रक्षा॒॒स्यपा॑हन्न् । दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैन॑ श्रपयति । वऱ्षि॑ष्ठे॒ अधि॒ नाक॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अ॒ग्निस्ते॑ त॒नुवं॒ माऽति॑धा॒गित्या॒हाऽन॑तिदाहाय । अग्ने॑ ह॒व्य र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै ।। 61 ।। 3.2.8.7 अवि॑दहन्तः श्रपय॒तेति॒ वाचं॒ विसृ॑जते । य॒ज्ञमे॒व ह॒वीष्य॑भिव्या॒हृत्य॒ प्रत॑नुते । पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्त्यै॑ करोति । म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ । तय्यँन्नाभि॑ वा॒सयेत् । आ॒विर्म॒स्तिष्क॑स्स्यात् । अ॒भिवा॑सयति । तस्मा॒द्गुहा॑ म॒स्तिष्कः॑ । भस्म॑ना॒ऽभिवा॑सयति । तस्मान्मा॒॒सेनास्थि॑ छ॒न्नम् ।। 62 ।। 3.2.8.8 वे॒देना॒भिवा॑सयति । तस्मा॒त्केशै॒श्शिर॑श्छ॒न्नम् । अख॑लतिभावुको भवति । य ए॒वव्वेँद॑ । प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑ । स नाय॒जुष्क॑मभि॒वास्यः॑ । वृथे॑व स्यात् । ई॒श्व॒रा यज॑मानस्य प॒शव॒ प्रमे॑तोः । सं ब्रह्म॑णा पृच्य॒स्वेत्या॑ह । प्रा॒णा वै ब्रह्म॑ ।। 63 ।। 3.2.8.9 प्रा॒णा प॒शवः॑ । प्रा॒णैरे॒व प॒शून्थ्संपृ॑णक्ति । न प्र॒मायु॑का भवन्ति । यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा प॒शव॒ पुरी॑षम् । यदे॒वम॑भिघा॒रय॑ति । यज॑मानमे॒व प्र॒जया॑ प॒शुभि॒स्सम॑र्धयति । दे॒वा वै ह॒विर्भृ॒त्वाऽब्रु॑वन्न् । कस्मि॑न्नि॒दं म्र॑क्ष्यामह॒ इति॑ । सोऽग्निर॑ब्रवीत् ।। 64 ।। 3.2.8.10 मयि॑ त॒नूस्सं निध॑ध्वम् । अ॒हं व॒स्तं ज॑नयिष्यामि । यस्मि॑न्म्र॒क्ष्यध्व॒ इति॑ । ते दे॒वा अ॒ग्नौ त॒नूस्संन्य॑दधत । तस्मा॑दाहुः । अ॒ग्निस्सर्वा॑ दे॒वता॒ इति॑ । सोऽङ्गा॑रेणा॒पः । अ॒भ्य॑पातयत् । तत॑ एक॒तो॑ऽजायत । स द्वि॒तीय॑म॒भ्य॑पातयत् ।। 65 ।। 3.2.8.11 ततो द्वि॒तो॑ऽजायत । स तृ॒तीय॑म॒भ्य॑पातयत् । तत॑स्त्रि॒तो॑ऽजायत । यद॒द्भ्योऽजा॑यन्त । तदा॒प्याना॑माप्य॒त्वम् । यदा॒त्मभ्योऽजा॑यन्त । तदा॒त्म्याना॑मात्म्य॒त्वम् । ते दे॒वा आ॒प्येष्व॑मृजत । आ॒प्या अ॑मृजत॒ सूर्याभ्युदिते । सूर्याभ्युदित॒स्सूर्या॑भिनिम्रुक्ते ।। 66 ।। 3.2.8.12 सूर्या॑भिनिम्रुक्त कुन॒खिनि॑ । कु॒न॒खी श्या॒वद॑ति । श्या॒वद॑न्नग्रदिधि॒षौ । अ॒ग्र॒दि॒धि॒षु प॑रिवि॒त्ते । प॒रि॒वि॒त्तो वी॑र॒हणि॑ । वी॒र॒हा ब्र॑ह्म॒हणि॑ । तद्ब्र॑ह्म॒हणं॒ नात्य॑च्यवत । अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुध्यै । उल्मु॑केना॒भि गृ॑ह्णाति शृत॒त्वाय॑ । शृ॒तका॑मा इव॒ हि दे॒वाः ।। 67 ।। 3.2.9.0 वै वा॒युरा॑ह परा॒वतीत्या॒हाह॑ द्वि॒तीय॑ हर॒तीति॑ परिगृ॒ह्णन्ति॑ देव॒यज॑नीं करोति भवन्ति खनत्यकरे॒तत्कृ॒त्वा र॑क्षो॒घ्नीर॑र्पयति ।। 9 ।। 3.2.9.1 दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै । आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । स॒हस्र॑भृष्टिश्श॒तते॑जा॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । वा॒युर॑सि ति॒ग्मते॑जा॒ इत्या॑ह । तेजो॒ वै वा॒युः ।। 68 ।। 3.2.9.2 तेज॑ ए॒वास्मि॑न्दधाति । वि॒षाद्वै नामा॑सु॒र आ॑सीत् । सो॑ऽबिभेत् । य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्तीति॑ । स पृ॑थि॒वीम॒भ्य॑वमीत् । सा मे॒ध्याऽभ॑वत् । अथो॒ यदिन्द्रो॑ वृ॒त्रमहन्न्॑ । तस्य॒ लोहि॑तं पृथि॒वीमनु॒ व्य॑धावत् । सा मे॒ध्याऽभ॑वत् । पृथि॑वि देवयज॒नीत्या॑ह ।। 69 ।। 3.2.9.3 मेध्या॑मे॒वैनां देव॒यज॑नीं करोति । ओष॑ध्यास्ते॒ मूलं॒ मा हि॑सिष॒मित्या॑ह । ओष॑धीना॒महि॑सायै । व्र॒जं ग॑च्छ गो॒स्थान॒मित्या॑ह । छन्दा॑सि॒ वै व्र॒जो गो॒स्थानः॑ । छन्दा॑स्ये॒वास्मै व्र॒जं गो॒स्थानं॑ करोति । वऱ्ष॑तु ते॒ द्यौरित्या॑ह । वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑ रुन्धे । ब॒धा॒न दे॑व सवित पर॒मस्यां परा॒वतीत्या॑ह ।। 70 ।। 3.2.9.4 द्वौ वाव पुरु॑षौ । यं चै॒व द्वेष्टि॑ । यश्चै॑नं॒ द्वेष्टि॑ । तावु॒भौ ब॑ध्नाति पर॒मस्यां परा॒वति॑ श॒तेन॒ पाशैः । योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गित्या॒हानि॑म्रुक्त्ये । अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत् । स पृ॑थि॒व्यामुप॑म्लुप्तोऽशयत् । तं दे॒वा अप॑हतो॒ऽररु॑ पृथि॒व्या इति॑ पृथि॒व्या अपाघ्नन्न् । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अप॑हतो॒ऽररु॑ पृथि॒व्या इति॒ यदाह॑ ।। 71 ।। 3.2.9.5 भ्रातृ॑व्यमे॒व पृ॑थि॒व्या अप॑हन्ति । ते॑ऽमन्यन्त । दिव॒व्वाँ अ॒यमि॒त प॑तिष्य॒तीति॑ । तम॒ररु॑स्ते॒ दिवं॒ माऽस्का॒निति॑ दि॒वपर्य॑बाधन्त । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अ॒ररु॑स्ते॒ दिवं॒ मा स्का॒निति॒ यदाह॑ । भ्रातृ॑व्यमे॒व दि॒व परि॑बाधते । स्त॒म्ब॒य॒जुर्‌ह॑रति । पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒मप॑हन्ति । द्वि॒तीय॑ हरति ।। 72 ।। 3.2.9.6 अ॒न्तरि॑क्षादे॒वैन॒मप॑हन्ति । तृ॒तीय॑ हरति । दि॒व ए॒वैन॒मप॑हन्ति । तू॒ष्णीं च॑तु॒र्थ ह॑रति । अप॑रिमितादे॒वैन॒मप॑हन्ति । असु॑राणा॒व्वाँ इ॒यमग्र॑ आसीत् । याव॒दासी॑न परा॒पश्य॑ति । ताव॑द्दे॒वानाम् । ते दे॒वा अ॑ब्रुवन्न् । अस्त्वे॒व नो॒ऽस्यामपीति॑ ।। 73 ।। 3.2.9.7 क्य॑न्नो दास्य॒थेति॑ । याव॑थ्स्व॒यं प॑रिगृह्णी॒थेति॑ । ते वस॑व॒स्त्वेति॑ दक्षिण॒त पर्य॑गृह्णन्न् । रु॒द्रास्त्वेति॑ प॒श्चात् । आ॒दि॒त्यास्त्वेत्यु॑त्तर॒तः । तेऽग्निना॒ प्राञ्चो॑ऽजयन्न् । वसु॑भिर्दक्षि॒णा । रु॒द्रै प्र॒त्यञ्चः॑ । आ॒दि॒त्यैरुद॑ञ्चः । यस्यै॒वं वि॒दुषो॒ वेदिं॑ परिगृ॒ह्णन्ति॑ ।। 74 ।। 3.2.9.8 भव॑त्या॒त्मना । पराऽस्य॒ भ्रातृ॑व्यो भवति । दे॒वस्य॑ सवि॒तुस्स॒व इत्या॑ह॒ प्रसूत्यै । कर्म॑ कृण्वन्ति वे॒धस॒ इत्या॑ह । इ॒षि॒त हि कर्म॑ क्रि॒यते । पृ॒थि॒व्यै मेध्यं॑ चामे॒ध्यं च॒ व्युद॑क्रामताम् । प्रा॒चीन॑मुदी॒चीनं॒ मेध्यम् । प्र॒ती॒चीनं॑ दक्षि॒णाऽमे॒ध्यम् । प्राची॒मुदी॑चीं प्रव॒णां क॑रोति । मेध्या॑मे॒वैनां देव॒यज॑नीं करोति ।। 75 ।। 3.2.9.9 प्राञ्चौ॑ वेद्य॒॒सावुन्न॑यति । आ॒ह॒व॒नीय॑स्य॒ परि॑गृहीत्यै । प्र॒तीची॒ श्रोणी । गार्ह॑पत्यस्य॒ परि॑गृहीत्यै । अथो॑ मिथुन॒त्वाय॑ । उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति । उद्ध॑न्ति । तस्मा॒दोष॑धय॒ परा॑भवन्ति ।। 76 ।। 3.2.9.10 मूलं॑ छिनत्ति । भ्रातृ॑व्यस्यै॒व मूलं॑ छिनत्ति । मूल॒व्वाँ अ॑ति॒तिष्ठ॒द्रक्षा॒॒स्यनूत्पि॑पते । यद्धस्ते॑न छि॒न्द्यात् । कु॒न॒खिनी प्र॒जास्स्युः॑ । स्फ्येन॑ छिनत्ति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञाद्रक्षा॒॒स्यप॑हन्ति । पि॒तृ॒दे॒व॒त्याऽति॑खाता । इय॑तीं खनति ।। 77 ।। 3.2.9.11 प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताम् । वेदि॑र्दे॒वेभ्यो॒ निला॑यत । तां च॑तुरङ्गु॒लेऽन्व॑विन्दन्न् । तस्माच्चतुरङ्गु॒लं खेया । च॒तु॒र॒ङ्गु॒लं ख॑नति । च॒तु॒र॒ङ्गु॒ले ह्योष॑धय प्रति॒तिष्ठ॑न्ति । आ प्र॑ति॒ष्ठायै॑ खनति । यज॑मानमे॒व प्र॑ति॒ष्ठां ग॑मयति । द॒क्षि॒ण॒तो वऱ्षी॑यसीं करोति । दे॒व॒यज॑नस्यै॒व रू॒पम॑कः ।। 78 ।। 3.2.9.12 पुरी॑षवतीं करोति । प्र॒जा वै प॒शव॒ पुरी॑षम् । प्र॒जयै॒वैनं॑ प॒शुभि॒ पुरी॑षवन्तं करोति । उत्त॑रं परिग्रा॒हं परि॑गृह्णाति । ए॒ताव॑ती॒ वै पृ॑थि॒वी । याव॑ती॒ वेदिः॑ । तस्या॑ ए॒तावत॑ ए॒व भ्रातृ॑व्यं नि॒र्भज्य॑ । आ॒त्मन॒ उत्त॑रं परिग्रा॒हं परि॑गृह्णाति । ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॒सीत्या॑ह । य॒था॒य॒जुरे॒वैतत् ।। 79 ।। 3.2.9.13 क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति । यद्वेदिं॑ क॒रोति॑ । धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै । उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह । उ॒र्वीमे॒वैना॒व्वँस्वीं करोति । पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शि॒न्नित्या॑ह मेध्य॒त्वाय॑ । उ॒दा॒दाय॑ पृथि॒वीं जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒रित्या॑ह । यदे॒वास्या॑ अमे॒ध्यम् । तद॑प॒हत्य॑ । मेध्यां देव॒यज॑नीं कृ॒त्वा ।। 80 ।। 3.2.9.14 यद॒दश्च॒न्द्रम॑सि॒ मेध्यम् । तद॒स्यामेर॑यति । तां धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै । प्रोक्ष॑णी॒रा सा॑दय । इ॒ध्माब॒ऱ्हिरुप॑सादय । स्रु॒वं च॒ स्रुच॑श्च॒ संमृ॑ड्ढि । पत्नी॒॒ संन॑ह्य । आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै । प्रोक्ष॑णी॒रा सा॑दयति । आपो॒ वै र॑क्षो॒घ्नीः ।। 81 ।। 3.2.9.15 रक्ष॑सा॒मप॑हत्यै । स्फ्यस्य॒ वर्त्मन्थ्सादयति । य॒ज्ञस्य॒ संत॑त्यै । उ॒वाच॒ हासि॑तो दैव॒लः । ए॒ताव॑ती॒र्वा अ॒मुष्मि॑ल्लोँ॒क आप॑ आसन्न् । याव॑ती॒ प्रोक्ष॑णी॒रिति॑ । तस्माद्ब॒ह्वीरा॒साद्याः । स्फ्यमु॒दस्यन्न्॑ । यं द्वि॒ष्यात्तं ध्या॑येत् । शु॒चैवैन॑मर्पयति ।। 82 ।। 3.2.10.0 वृ॒श्च॒ति॒ सा॒द॒ये॒दि॒ध्म पञ्च॑ च ।। 10 ।। 3.2.10.1 वज्रो॒ वै स्फ्यः । यद॒न्वञ्चं॑ धा॒रयेत् । वज्रेऽध्व॒र्युः क्ष॑ण्वीत । पु॒रस्तात्ति॒र्यञ्चं॑ धारयति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षा॒॒स्यप॑हन्ति । अ॒ग्निभ्यां॒ प्राच॑श्च प्र॒तीच॑श्च । स्फ्येनोदी॑चश्चाध॒राच॑श्च । स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मानं॒ भ्रातृ॑व्यमप॒हत्य॑ । उ॒त्क॒रेऽधि॒ प्रवृ॑श्चति ।। 83 ।। 3.2.10.2 यथो॑प॒धाय॑ वृ॒श्चन्त्ये॒वम् । हस्ता॒वव॑ नेनिक्ते । आ॒त्मान॑मे॒व प॑वयते । स्फ्यं प्रक्षा॑लयति मेध्य॒त्वाय॑ । अथो॑ पा॒प्मन॑ ए॒व भ्रातृ॑व्यस्य न्य॒ङ्गं छि॑नत्ति । इ॒ध्माब॒ऱ्हिरुप॑सादयति॒ युक्त्यै । य॒ज्ञस्य॑ मिथुन॒त्वाय॑ । अथो॑ पुरो॒रुच॑मे॒वैतां द॑धाति । उत्त॑रस्य॒ कर्म॒णोऽनु॑ख्यात्यै । न पु॒रस्तात्प्र॒त्यगुप॑सादयेत् ।। 84 ।। 3.2.10.3 यत्पु॒रस्तात्प्र॒त्यगु॑पसा॒दयेत् । अ॒न्यत्रा॑हुतिप॒थादि॒ध्मं प्रति॑पादयेत् । प्र॒जा वै ब॒र्॒हिः । अप॑राध्नुयाद्ब॒र्॒हिषा प्र॒जानां प्र॒जन॑नम् । प॒श्चात्प्रागुप॑सादयति । आ॒हु॒ति॒प॒थेने॒ध्मं प्रति॑पादयति । सं॒प्र॒त्ये॑व ब॒र्॒हिषा प्र॒जानां प्र॒जन॑न॒मुपै॑ति । दक्षि॑णमि॒ध्मम् । उत्त॑रं ब॒र्॒हिः । आ॒त्मा वा इ॒ध्मः । प्र॒जा ब॒र्॒हिः । प्र॒जा ह्यात्मन॒ उत्त॑रतरा ती॒र्थे । ततो॒ मेध॑मुप॒नीय॑ । य॒था॒दे॒व॒तमे॒वैन॒त्प्रति॑ष्ठापयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।। 85 ।। 3.3.0.0 प्रत्यु॑ष्टन्दि॒वश्शिल्प॒मय॑ज्ञो घृ॒तञ्च॑ देवासु॒रास्स ए॒तमिन्द्र आपो॑ देवीर॒ग्निना॒ धिष्णि॑या॒ अथ॒ स्रुचौ॒ यो वा अय॑थादेवतं परिवे॒षो वा एका॑दश ।। 11 ।। प्रत्यु॑ष्ट॒मय॑ज्ञ ए॒षा हि विश्वे॑षान्दे॒वाना॑मू॒र्जा पृ॑थि॒वीमथो॒ रख्ष॑सा॒न्तां प्रजा॑ति॒न्द्वाभ्या॒न्तङ्का॒लेका॑ले॒ नव॑सप्ततिः ।। 79 ।। प्रत्यु॑ष्टमर्पयति ।। हरिः॑ ओम् ।। तृतीयप्रपाठकस्समाप्तः। 3.3.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके तृतीय प्रपाठक प्रारम्भः ।। हरिः ओम् ।। 3.3.1.0 जु॒हूर्मृ॑ज्याद्भव॒तीति॑ प्र॒त्यञ्च्य॒धस्तान्मार्ष्टि॒ पञ्च॑ च ।। 1 ।। 3.3.1.1 प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अ॒ग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पा॒मीत्या॑ह मेध्य॒त्वाय॑ । स्रुच॒स्संमार्ष्टि । स्रु॒वमग्रे । पुमा॑समे॒वाभ्य॒स्सश्य॑ति मिथुन॒त्वाय॑ । अथ॑ जु॒हूम् । अथो॑प॒भृतम् । अथ॑ ध्रु॒वाम् । अ॒सौ वै जु॒हूः ।। 1 ।। 3.3.1.2 अ॒न्तरि॑क्षमुप॒भृत् । पृ॒थि॒वी ध्रु॒वा । इ॒मे वै लो॒कास्स्रुचः॑ । वृष्टि॑स्सं॒मार्ज॑नानि । वृष्टि॒र्वा इ॒माल्लोँ॒कान॑नुपू॒र्वं क॑ल्पयति । ते तत॑ कॢ॒प्तास्समे॑धन्ते । समे॑धन्तेऽस्मा इ॒मे लो॒का प्र॒जया॑ प॒शुभिः॑ । य ए॒वव्वेँद॑ । यदि॑ का॒मये॑त॒ वर्‌षु॑क प॒र्जन्य॑स्स्या॒दिति॑ । अ॒ग्र॒तस्संमृ॑ज्यात् ।। 2 ।। 3.3.1.3 वृष्टि॑मे॒व नि य॑च्छति । अ॒वा॒चीनाग्रा॒ हि वृष्टिः॑ । यदि॑ का॒मये॒ताव॑र्‌षुकस्स्या॒दिति॑ । मू॒ल॒तस्संमृ॑ज्यात् । वृष्टि॑मे॒वोद्य॑च्छति । तदु॒ वा आ॑हुः । अ॒ग्र॒त ए॒वोपरि॑ष्टा॒थ्संमृ॑ज्यात् । मू॒ल॒तो॑ऽधस्तात् । तद॑नुपू॒र्वं क॑ल्पते । वर्‌षु॑को भव॒तीति॑ ।। 3 ।। 3.3.1.4 प्राची॑मभ्या॒कारम् । अग्रै॑रन्तर॒तः । ए॒वमि॑व॒ ह्यन्न॑म॒द्यते । अथो॒ अग्रा॒द्वा ओष॑धीना॒मूर्जं॑ प्र॒जा उप॑जीवन्ति । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै । अ॒धस्तात्प्र॒तीचीम् । द॒ण्डमु॑त्तम॒तः । मूले॑न॒ मूलं॒ प्रति॑ष्ठित्यै । तस्मा॑दर॒त्नौ प्राञ्च्यु॒परि॑ष्टा॒ल्लोमा॑नि । प्र॒त्यञ्च्य॒धस्तात् ।। 4 ।। 3.3.1.5 स्रुग्घ्ये॑षा । प्रा॒णो वै स्रु॒वः । जु॒हूर्दक्षि॑णो॒ हस्तः॑ । उ॒प॒भृथ्स॒व्यः । आ॒त्मा ध्रु॒वा । अन्न॑ सं॒मार्ज॑नानि । मु॒ख॒तो वै प्रा॒णो॑ऽपा॒नो भू॒त्वा । आ॒त्मान॒मन्नं॑ प्र॒विश्य॑ । बा॒ह्य॒तस्त॒नुव॑ शुभयति । तस्माथ्स्रु॒वमे॒वाग्रे॒ संमार्ष्टि । मु॒ख॒तो हि प्रा॒णो॑ऽपा॒नो भू॒त्वा । आ॒त्मान॒मन्न॑मावि॒शति॑ । तौ प्रा॑णापा॒नौ । अव्य॑र्धुक प्राणापा॒नाभ्यां भवति । य ए॒वं वेद॑ ।। 5 ।। 3.3.2.0 वे॒दस्याग्र॑ स्रुख्सं॒मार्ज॑नानि विदो॒हो ग॑मयति प॒शवो॑ रमन्ते हिसी॒ष्षट् च॑ ।। 2 ।। 3.3.2.1 दि॒वश्शिल्प॒मव॑ततम् । पृ॒थि॒व्या क॒कुभि॑ श्रि॒तम् । तेन॑ व॒य स॒हस्र॑वल्‌शेन । स॒पत्नं॑ नाशयामसि॒ स्वाहेति॑ स्रुख्सं॒मार्ज॑नान्य॒ग्नौ प्र ह॑रति । आपो॒ वै द॒र्भाः । रू॒पमे॒वैषा॑मे॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । अ॒नु॒ष्टुभ॒र्चा । आनु॑ष्टुभ प्र॒जाप॑तिः । प्रा॒जा॒प॒त्यो वे॒दः । वे॒दस्याग्र॑ स्रुख्सं॒मार्ज॑नानि ।। 6 ।। 3.3.2.2 स्वेनै॒वैना॑नि॒ छन्द॑सा । स्वया॑ दे॒वत॑या॒ सम॑र्धयति । अथो॒ ऋग्वाव योषा । द॒र्भो वृषा । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । प्रजा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः । तान्येके॒ वृथै॒वापास्यन्ति । तत्तथा॒ न का॒र्यम् । आर॑ब्धस्य य॒ज्ञिय॑स्य॒ कर्म॑ण॒स्सवि॑दो॒हः ।। 7 ।। 3.3.2.3 यद्ये॑नानि प॒शवो॑ऽभि॒ तिष्ठे॑युः । न तत्प॒शुभ्य॒ कम् । अ॒द्भिर्मार्जयि॒त्वोत्क॒रे न्य॑स्येत् । यद्वै य॒ज्ञिय॑स्य॒ कर्म॑णो॒ऽन्यत्राहु॑तीभ्यस्सं॒तिष्ठ॑ते । उ॒त्क॒रो वाव तस्य॑ प्रति॒ष्ठा । ए॒ता हि तस्मै प्रति॒ष्ठां दे॒वास्स॒मभ॑रन्न् । यद॒द्भिर्मा॒र्जय॑ति । तेन॑ शा॒न्तम् । यदु॑त्क॒रे न्य॒स्यति॑ । प्र॒ति॒ष्ठामे॒वैना॑नि॒ तद्ग॑मयति ।। 8 ।। 3.3.2.4 प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः । अथो स्त॒म्बस्य॒ वा ए॒तद्रू॒पम् । यथ्स्रु॑ख्सं॒मार्ज॑नानि । स्त॒म्ब॒शो वा ओष॑धयः । तासां जरत्क॒क्षे प॒शवो॒ न र॑मन्ते । अप्रि॑यो॒ ह्ये॑षां जरत्क॒क्षः । याव॑दप्रियो ह॒ वै ज॑रत्क॒क्ष प॑शू॒नाम् । ताव॑दप्रिय पशू॒नां भ॑वति । यस्यै॒तान्य॒न्यत्रा॒ग्नेर्दध॑ति । न॒व॒दाव्या॑सु॒ वा ओष॑धीषु प॒शवो॑ रमन्ते ।। 9 ।। 3.3.2.5 न॒व॒दा॒वो ह्ये॑षां प्रि॒यः । याव॑त्प्रियो ह॒ वै न॑वदा॒व प॑शू॒नाम् । ताव॑त्प्रिय पशू॒नां भ॑वति । यस्यै॒तान्य॒ग्नौ प्र॒हर॑न्ति । तस्मा॑दे॒तान्य॒ग्नावे॒व प्रह॑रेत् । य॒त॒रस्मिन्थ्संमृ॒ज्यात् । प॒शू॒नां धृत्यै । यो भू॒ताना॒मधि॑पतिः । रु॒द्रस्त॑न्तिच॒रो वृषा । प॒शून॒स्माकं॒ मा हि॑सीः । ए॒तद॑स्तु हु॒तं तव॒ स्वाहेत्य॑ग्निसं॒मार्ज॑न्य॒ग्नौ प्रह॑रति । ए॒षा वा ए॒तेषां॒ योनिः॑ । ए॒षा प्र॑ति॒ष्ठा । स्वामे॒वैना॑नि॒ योनिम् । स्वां प्र॑ति॒ष्ठां ग॑मयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।। 10 ।। 3.3.3.0 क॒रोति॑ व्रतोप॒नय॑नं॒ क्षेमो॒ यज॑मानश्शास्ते ।। 3 ।। 3.3.3.1 अय॑ज्ञो॒ वा ए॒षः । यो॑ऽप॒त्नीकः॑ । न प्र॒जा प्रजा॑येरन्न् । पत्न्यन्वास्ते । य॒ज्ञमे॒वाकः॑ । प्र॒जानां प्र॒जन॑नाय । यत्तिष्ठ॑न्ती स॒न्नह्ये॑त । प्रि॒यं ज्ञा॒ति रु॑न्ध्यात् । आसी॑ना॒ सन्न॑ह्यते । आसी॑ना॒ ह्ये॑षा वी॒र्य॑ङ्क॒रोति॑ ।। 11 ।। 3.3.3.2 यत्प॒श्चात्प्राच्य॒न्वासी॑त । अ॒नया॑ स॒मद॑न्दधीत । दे॒वानां॒ पत्नि॑या स॒मद॑न्दधीत । देशाद्दख्षिण॒त उदी॒च्यन्वास्ते । आ॒त्मनो॑ गोपी॒थाय॑ । आ॒शासा॑ना सौमन॒समित्या॑ह । मेध्या॑मे॒वैना॒ङ्केव॑लीङ्कृ॒त्वा । आ॒शिषा॒ सम॑र्धयति । अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कमित्या॑ह । ए॒तद्वै पत्नि॑यै व्रतोप॒नय॑नम् ।। 12 ।। 3.3.3.3 तेनै॒वैनां व्र॒तमुप॑नयति । तस्मा॑दाहुः । यश्चै॒वव्वेँद॒ यश्च॒ न । योक्त्र॑मे॒व यु॑ते । यम॒न्वास्ते । तस्या॒मुष्मिल्लोँ॒के भ॑व॒तीति॒ योक्त्रे॑ण । यद्योक्त्रम् । स योगः॑ । यदास्ते । स ख्षेमः॑ ।। 13 ।। 3.3.3.4 यो॒ग॒ख्षे॒मस्य॒ कॢप्त्यै । यु॒क्तङ्क्रि॑याता आ॒शी कामे॑ युज्याता॒ इति॑ । आ॒शिष॒स्समृ॑द्ध्यै । ग्र॒न्थिङ्ग्र॑थ्नाति । आ॒शिष॑ ए॒वास्यां॒ परि॑ गृह्णाति । पुमा॒न्॒ वै ग्र॒न्थिः । स्त्री पत्नी । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । प्र जा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।। 14 ।। 3.3.3.5 अथो॑ अ॒र्धो वा ए॒ष आ॒त्मनः॑ । यत्पत्नी । य॒ज्ञस्य॒ धृत्या॒ अशि॑थिलंभावाय । सु॒प्र॒जस॑स्त्वा व॒य सु॒पत्नी॒रुप॑ सेदि॒मेत्या॑ह । य॒ज्ञमे॒व तन्मि॑थु॒नीक॑रोति । ऊ॒नेऽति॑रिक्तन्धीयाता॒ इति॒ प्रजात्यै । म॒ही॒नां पयो॒ऽस्योष॑धीना॒॒ रस॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । तस्य॒ तेऽक्षी॑यमाणस्य॒ निर्व॑पामि देवय॒ज्याया॒ इत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते ।। 15 ।। 3.3.4.0 ई॒क्ष॒त॒ आ॒ह॒ शा॒स्ते॒ लो॒का दे॒वता॑ भवति॒ षट् च॑ ।। 4 ।। 3.3.4.1 घृ॒तं च॒ वै मधु॑ च प्र॒जाप॑तिरासीत् । यतो॒ मध्वा॑सीत् । तत॑ प्र॒जा अ॑सृजत । तस्मा॒न्मधु॑षि प्र॒जन॑नमिवास्ति । तस्मा॒न्मधु॑षा॒ न प्रच॑रन्ति । या॒तया॑म॒ हि । आज्ये॑न॒ प्रच॑रन्ति । य॒ज्ञो वा आज्यम् । य॒ज्ञेनै॒व य॒ज्ञं प्रच॑र॒न्त्यया॑तयामत्वाय । पत्न्यवेक्षते ।। 16 ।। 3.3.4.2 मि॒थु॒न॒त्वाय॒ प्रजात्यै । यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ । मि॒थु॒नं तत् । अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्यान्वार॒म्भोऽन॑वच्छित्त्यै । अ॒मे॒ध्यं वा ए॒तत्क॑रोति । यत्पत्न्य॒वेक्ष॑ते । गार्‌ह॑प॒त्येऽधि॑ श्रयति मेध्य॒त्वाय॑ । आ॒ह॒व॒नीय॑म॒भ्युद्द्र॑वति । य॒ज्ञस्य॒ सन्त॑त्यै । तेजो॑ऽसि॒ तेजोऽनु॒ प्रेहीत्या॑ह ।। 17 ।। 3.3.4.3 तेजो॒ वा अ॒ग्निः । तेज॒ आज्यम् । तेज॑सै॒व तेज॒स्सम॑र्धयति । अ॒ग्निस्ते॒ तेजो॒ मा विनै॒दित्या॒हाहि॑सायै । स्फ्यस्य॒ वर्त्मन्थ्सादयति । य॒ज्ञस्य॒ सन्त॑त्यै । अ॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒मित्या॑ह । य॒था॒य॒जुरे॒वैतत् । धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भ॒वेत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते ।। 18 ।। 3.3.4.4 तद्वा अत॑ प॒वित्राभ्यामे॒वोत्पु॑नाति । यज॑मानो॒ वा आज्यम् । प्रा॒णा॒पा॒नौ प॒वित्रे । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति । पु॒न॒रा॒हारम् । ए॒वमि॑व॒ हि प्रा॑णापा॒नौ सं॒चर॑तः । शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॒ऽसीत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः ।। 19 ।। 3.3.4.5 ए॒षां लो॒काना॒माप्त्यै । त्रिः । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । अथाज्य॑वतीभ्याम॒पः । रू॒पमे॒वासा॑मे॒तद्वर्णं॑ दधाति । अपि॒ वा उ॒ताहुः॑ । यथा॑ ह॒ वै योषा॑ सु॒वर्ण॒॒ हिर॑ण्यं पेश॒लं बिभ्र॑ती रू॒पाण्यास्ते । ए॒वमे॒ता ए॒तऱ्हीति॑ । आपो॒ वै सर्वा दे॒वताः ।। 20 ।। 3.3.4.6 ए॒षा हि विश्वे॑षां दे॒वानां त॒नूः । यदाज्यम् । तत्रो॒भयोर्मीमा॒॒सा । जा॒मि स्यात् । यद्यजु॒षाऽऽज्यं॒ यजु॑षा॒ऽप उ॑त्पुनी॒यात् । छन्द॑सा॒ऽप उत्पु॑ना॒त्यजा॑मित्वाय । अथो॑ मिथुन॒त्वाय॑ । सा॒वि॒त्रि॒यर्चा । स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑ । स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति । प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ । अ॒द्भिरे॒वौष॑धी॒स्सं न॑यति । ओष॑धीभि प॒शून् । प॒शुभि॒र्यज॑मानम् । शु॒क्रं त्वा॑ शु॒क्रायां॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषीत्या॑ह सर्व॒त्वाय॑ । पर्याप्त्या॒ अन॑न्तरायाय ।। 21 ।। 3.3.5.0 अ॒भि॒घा॒रय॑ति गृह्णाति ध्रु॒वाया॒ञ्चतु॑ष्पदी प्रयाजानूया॒जेभ्य॒स्तद्द्वे च॑ ।। 5 ।। 3.3.5.1 दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । स ए॒तमिन्द्र॒ आज्य॑स्यावका॒शम॑पश्यत् । तेनावैक्षत । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः । य ए॒वं वि॒द्वानाज्य॑म॒वेक्ष॑ते । भव॑त्या॒त्मना । पराऽस्य॒ भ्रातृ॑व्यो भवति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यदाज्ये॑ना॒न्यानि॑ ह॒वीष्य॑भिघा॒रय॑ति ।। 22 ।। 3.3.5.2 अथ॒ केनाज्य॒मिति॑ । स॒त्येनेति॑ ब्रूयात् । चख्षु॒र्वै स॒त्यम् । स॒त्येनै॒वैन॑द॒भि घा॑रयति । ई॒श्व॒रो वा ए॒षोऽन्धो भवि॑तोः । यश्चख्षु॒षाऽऽज्य॑म॒वेख्ष॑ते । नि॒मील्यावेख्षेत । दा॒धारा॒त्मञ्चख्षुः॑ । अ॒भ्याज्य॑ङ्घारयति । आज्य॑ङ्गृह्णाति ।। 23 ।। 3.3.5.3 छन्दा॑सि॒ वा आज्यम् । छन्दा॑स्ये॒व प्री॑णाति । च॒तुर्जु॒ह्वाङ्गृ॑ह्णाति । चतु॑ष्पाद प॒शवः॑ । प॒शूने॒वाव॑ रुन्धे । अ॒ष्टावु॑प॒भृति॑ । अ॒ष्टाख्ष॑रा गाय॒त्री । गा॒य॒त्र प्रा॒णः । प्रा॒णमे॒व प॒शुषु॑ दधाति । च॒तुर्ध्रु॒वायाम् ।। 24 ।। 3.3.5.4 चतु॑ष्पाद प॒शवः॑ । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑ तिष्ठति । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् । च॒तुर्जु॒ह्वाङ्गृ॒ह्णन्भूयो॑ गृह्णीयात् । अ॒ष्टावु॑प॒भृति॑ गृ॒ह्णन्कनी॑यः । यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिङ्करोति । गौर्वै स्रुचः॑ । च॒तुर्जु॒ह्वाङ्गृ॑ह्णाति । तस्मा॒च्चतु॑ष्पदी ।। 25 ।। 3.3.5.5 अ॒ष्टावु॑प॒भृति॑ । तस्मा॑द॒ष्टाश॑फा । च॒तुर्ध्रु॒वायाम् । तस्मा॒च्चतु॑स्स्तना । गामे॒व तथ्सस्क॑रोति । सास्मै॒ सस्कृ॒तेष॒मूर्ज॑न्दुहे । यज्जु॒ह्वाङ्गृ॒ह्णाति॑ । प्र॒या॒जेभ्य॒स्तत् । यदु॑प॒भृति॑ । प्र॒या॒जा॒नू॒या॒जेभ्य॒स्तत् । सर्व॑स्मै॒ वा ए॒तद्य॒ज्ञाय॑ गृह्यते । य॒द्ध्रु॒वाया॒माज्यम् ।। 26 ।। 3.3.6.0 स्थेत्या॑ह पृथि॒वी वेदि॒र्यन्ति॑ क्रि॒यते॒ वीणु॑र्वी॒र्य॑संमितङ्करोत्याह पाति॒ नाम्नेत्या॑ह लो॒के सा॑दयति॒ षट् च॑ ।। 6 ।। 3.3.6.1 आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह । रू॒पमे॒वासा॑मे॒तन्म॑हि॒मान॒व्व्याँच॑ष्टे । अग्र॑ इ॒मय्यँ॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह । अग्र॑ ए॒व य॒ज्ञन्न॑यन्ति । अग्रे॑ य॒ज्ञप॑तिम् । यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्वृँत्र॒तूर्य॒ इत्या॑ह । वृ॒त्र ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे । आपो॒ हेन्द्र॑व्वँव्रिरे । सं॒ज्ञामे॒वासा॑मे॒तथ्सामा॑न॒व्व्याँच॑ष्टे । प्रोख्षि॑ता॒स्स्थेत्या॑ह ।। 27 ।। 3.3.6.2 तेनाप॒ प्रोख्षि॑ताः । अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । कृष्णो॑ रू॒पङ्कृ॒त्वा । स वन॒स्पती॒न्प्रावि॑शत् । कृष्णोऽस्याखरे॒ष्ठोऽग्नये त्वा॒ स्वाहेत्या॑ह । अ॒ग्नय॑ ए॒वैन॒ञ्जुष्ट॑ङ्करोति । अथो॑ अ॒ग्नेरे॒व मेध॒मव॑ रुन्धे । वेदि॑रसि ब॒र्॒हिषे त्वा॒ स्वाहेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । पृ॒थि॒वी वेदिः॑ ।। 28 ।। 3.3.6.3 प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापयति । ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । यज॑मान॒स्स्रुचः॑ । यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति । दि॒वे त्वा॒ऽन्तरि॑ख्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्॒हिरा॒साद्य॒ प्रोख्ष॑ति । ए॒भ्य ए॒वैन॑ल्लो॒केभ्य॒ प्रोख्ष॑ति । अथ॒ तत॑स्स॒ह स्रु॒चा पु॒रस्तात्प्र॒त्यञ्च॑ङ्ग्र॒न्थिं प्रत्यु॑ख्षति । प्र॒जा वै ब॒र्॒हिः । यथा॒ सूत्यै॑ का॒ल आप॑ पु॒रस्ता॒द्यन्ति॑ ।। 29 ।। 3.3.6.4 ता॒दृगे॒व तत् । स्व॒धा पि॒तृभ्य॒ इत्या॑ह । स्व॒धा॒का॒रो हि पि॑तृ॒णाम् । ऊर्ग्भ॑व बर्‌हि॒षद्भ्य॒ इति॒ दख्षि॑णायै॒ श्रोणे॒रोत्त॑रस्यै॒ निन॑यति॒ सन्त॑त्यै । मासा॒ वै पि॒तरो॑ बर्‌हि॒षदः॑ । मासा॑ने॒व प्री॑णाति । मासा॒ वा ओष॑धीर्व॒र्धय॑न्ति । मासा पचन्ति॒ समृ॑द्ध्यै । अन॑तिस्कन्दन् ह प॒र्जन्यो॑ वर्‌षति । यत्रै॒तदे॒वङ्क्रि॒यते ।। 30 ।। 3.3.6.5 ऊ॒र्जा पृ॑थि॒वीङ्ग॑च्छ॒तेत्या॑ह । पृ॒थि॒व्यामे॒वोर्ज॑न्दधाति । तस्मात्पृथि॒व्या ऊ॒र्जा भु॑ञ्जते । ग्र॒न्थिव्विँ स्र॑सयति । प्रज॑नयत्ये॒व तत् । ऊ॒र्ध्वं प्राञ्च॒मुद्गू॑ढं प्र॒त्यञ्च॒मा य॑च्छति । तस्मात्प्रा॒चीन॒॒ रेतो॑ धीयते । प्र॒तीची प्र॒जा जा॑यन्ते । विष्णो॒स्स्तूपो॒ऽसीत्या॑ह । य॒ज्ञो वै विष्णुः॑ ।। 31 ।। 3.3.6.6 य॒ज्ञस्य॒ धृत्यै । पु॒रस्तात्प्रस्त॒रङ्गृ॑ह्णाति । मुख्य॑मे॒वैन॑ङ्करोति । इय॑न्तङ्गृह्णाति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑तम् । इय॑न्तङ्गृह्णाति । य॒ज्ञ॒प॒रुषा॒ संमि॑तम् । इय॑न्तङ्गृह्णाति । ए॒ताव॒द्वै पुरु॑षे वी॒र्यम् । वी॒र्य॑संमितम् ।। 32 ।। 3.3.6.7 अप॑रिमितङ्गृह्णाति । अप॑रिमित॒स्याव॑रुद्ध्यै । तस्मि॑न्प॒वित्रे॒ अपि॑ सृजति । यज॑मानो॒ वै प्र॑स्त॒रः । प्रा॒णा॒पा॒नौ प॒वित्रे । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति । ऊर्णाम्रदसन्त्वा स्तृणा॒मीत्या॑ह । य॒था॒य॒जुरे॒वैतत् । स्वा॒स॒स्थन्दे॒वेभ्य॒ इत्या॑ह । दे॒वेभ्य॑ ए॒वैन॑थ्स्वास॒स्थङ्क॑रोति ।। 33 ।। 3.3.6.8 ब॒र्॒हिस्स्तृ॑णाति । प्र॒जा वै ब॒र्॒हिः । पृ॒थि॒वी वेदिः॑ । प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापयति । अन॑तिदृश्ञ स्तृणाति । प्र॒जयै॒वैनं॑ प॒शुभि॒रन॑तिदृश्ञङ्करोति । धा॒रय॑न्प्रस्त॒रं प॑रि॒धीन्परि॑ दधाति । यज॑मानो॒ वै प्र॑स्त॒रः । यज॑मान ए॒व तथ्स्व॒यं प॑रि॒धीन्परि॑ दधाति । ग॒न्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒रित्या॑ह ।। 34 ।। 3.3.6.9 विश्व॑मे॒वायु॒र्यज॑माने दधाति । इन्द्र॑स्य बा॒हुर॑सि॒ दख्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । मि॒त्रावरु॑णौ त्वोत्तर॒त परि॑धत्ता॒मित्या॑ह । प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ । प्रा॒णा॒पा॒नावे॒वास्मि॑न्दधाति । सूर्य॑स्त्वा पु॒रस्तात् पा॒त्वित्या॑ह । रख्ष॑सा॒मप॑हत्यै । कस्याश्चिद॒भिश॑स्त्या॒ इत्या॑ह । अप॑रिमितादे॒वैनं॑ पाति ।। 35 ।। 3.3.6.10 वी॒तिहोत्रन्त्वा कव॒ इत्या॑ह । अ॒ग्निमे॒व हो॒त्रेण॒ सम॑र्धयति । द्यु॒मन्त॒॒ समि॑धीम॒हीत्या॑ह॒ समि॑द्ध्यै । अग्ने॑ बृ॒हन्त॑मध्व॒र इत्या॑ह॒ वृद्ध्यै । वि॒शो य॒न्त्रे स्थ॒ इत्या॑ह । वि॒शाय्यँत्यै । उ॒दी॒चीनाग्रे॒ नि द॑धाति॒ प्रति॑ष्ठित्यै । वसू॑ना रु॒द्राणा॑मादि॒त्याना॒॒ सद॑सि सी॒देत्या॑ह । दे॒वता॑नामे॒व सद॑ने प्रस्त॒र सा॑दयति । जु॒हूर॑सि घृ॒ताची॒ नाम्नेत्या॑ह ।। 36 ।। 3.3.6.11 अ॒सौ वै जु॒हूः । अ॒न्तरि॑ख्षमुप॒भृत् । पृ॒थि॒वी ध्रु॒वा । तासा॑मे॒तदे॒व प्रि॒यन्नाम॑ । यद्घृ॒ताचीति॑ । यद्घृ॒ताचीत्याह॑ । प्रि॒येणै॒वैना॒ नाम्ना॑ सादयति । ए॒ता अ॑सदन्थ्सुकृ॒तस्य॑ लो॒क इत्या॑ह । स॒त्यव्वैँ सु॑कृ॒तस्य॑ लो॒कः । स॒त्य ए॒वैनास्सुकृ॒तस्य॑ लो॒के सा॑दयति । ता वि॑ष्णो पा॒हीत्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञस्य॒ धृत्यै । पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि माय्यँ॑ज्ञ॒निय॒मित्या॑ह । य॒ज्ञाय॒ यज॑मानाया॒त्मने । तेभ्य॑ ए॒वाशिष॒माशा॒स्तेऽनार्त्यै ।। 37 ।। 3.3.7.0 परि॑दधाति प्रा॒णन्द॑धाति॒ हि य॒ज्ञो घा॑रयति॒ नम॒ इत्या॑ह प॒श्चाद्वी॒र्या॑णीत्या॑ह॒ भा इत्या॑ह भ॒जेत्या॑ह ध्रु॒वैवास्मि॑न्दधाति॒ त्रीणि॑ च ।। 7 ।। 3.3.7.1 अ॒ग्निना॒ वै होत्रा । दे॒वा असु॑रान॒भ्य॑भवन्न् । अ॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै । एक॑विशतिमिध्मदा॒रूणि॑ भवन्ति । ए॒क॒वि॒॒शो वै पुरु॑षः । पुरु॑ष॒स्याप्त्यै । पञ्च॑दशेध्मदा॒रूण्य॒भ्या द॑धाति । पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अ॒र्ध॒मा॒स॒शस्स॑व्वँथ्स॒र आप्यते । त्रीन्प॑रि॒धीन्परि॑ दधाति ।। 38 ।। 3.3.7.2 ऊ॒र्ध्वे स॒मिधा॒वा द॑धाति । अ॒नू॒या॒जेभ्य॑स्स॒मिध॒मति॑ शिनष्टि । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । वे॒देनोप॑ वाजयति । प्रा॒जा॒प॒त्यो वै वे॒दः । प्रा॒जा॒प॒त्य प्रा॒णः । यज॑मान आहव॒नीयः॑ । यज॑मान ए॒व प्रा॒णन्द॑धाति ।। 39 ।। 3.3.7.3 त्रिरुप॑ वाजयति । त्रयो॒ वै प्रा॒णाः । प्रा॒णाने॒वास्मि॑न्दधाति । वे॒देनो॑प॒यत्य॑ स्रु॒वेण॑ प्राजाप॒त्यमा॑घा॒रमा घा॑रयति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑तिं मुख॒त आर॑भते । अथो प्र॒जाप॑ति॒स्सर्वा॑ दे॒वताः । सर्वा॑ ए॒व दे॒वता प्रीणाति । अ॒ग्निम॑ग्नी॒त्त्रिस्त्रि॒स्सं मृ॒ड्ढीत्या॑ह । त्र्या॑वृ॒द्धि य॒ज्ञः ।। 40 ।। 3.3.7.4 अथो॒ रख्ष॑सा॒मप॑हत्यै । प॒रि॒धीन्थ्सं मार्ष्टि । पु॒नात्ये॒वैनान्॑ । त्रिस्त्रि॒स्सं मार्ष्टि । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । अथो॑ ए॒ते वै दे॑वा॒श्वाः । दे॒वा॒श्वाने॒व तथ्सं मार्ष्टि । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । आसी॑नो॒ऽन्यमा॑घा॒रमा घा॑रयति ।। 41 ।। 3.3.7.5 तिष्ठ॑न्न॒न्यम् । यथाऽनो॑ वा॒ रथ॑व्वाँ यु॒ञ्ज्यात् । ए॒वमे॒व तद॑ध्व॒र्युर्य॒ज्ञय्युँ॑नक्ति । सु॒व॒र्गस्य॑ लो॒कस्या॒भ्यूढ्यै । वह॑न्त्येनङ्ग्रा॒म्या प॒शवः॑ । य ए॒वव्वेँद॑ । भुव॑नमसि॒ वि प्र॑थ॒स्वेत्या॑ह । य॒ज्ञो वै भुव॑नम् । य॒ज्ञ ए॒व यज॑मानं प्र॒जया॑ प॒शुभि॑ प्रथयति । अग्ने॒ यष्ट॑रि॒दन्नम॒ इत्या॑ह ।। 42 ।। 3.3.7.6 अ॒ग्निर्वै दे॒वाना॒य्यँष्टा । य ए॒व दे॒वाना॒य्यँष्टा । तस्मा॑ ए॒व नम॑स्करोति । जुह्वेह्य॒ग्निस्त्वा ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ इत्या॑ह । आ॒ग्ने॒यी वै जु॒हूः । सा॒वि॒त्र्यु॑प॒भृत् । ताभ्या॑मे॒वैने॒ प्रसू॑त॒ आद॑त्ते । अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिष॒मित्या॑ह । अ॒ग्नि पु॒रस्तात् । विष्णु॑र्य॒ज्ञ प॒श्चात् ।। 43 ।। 3.3.7.7 ताभ्या॑मे॒व प्र॑ति॒प्रोच्या॒त्या क्रा॑मति । विजि॑हाथां॒ मा मा॒ सन्ताप्त॒मित्या॒हाहि॑सायै । लो॒कं मे॑ लोककृतौ कृणुत॒मित्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । विष्णो॒स्स्थान॑म॒सीत्या॑ह । य॒ज्ञो वै विष्णुः॑ । ए॒तत्खलु॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम् । यद्य॒ज्ञः । दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने तिष्ठति । इ॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णीत्या॑ह ।। 44 ।। 3.3.7.8 इ॒न्द्रि॒यमे॒व यज॑माने दधाति । स॒मा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒मित्या॑ह॒ वृद्ध्यै । आ॒घा॒रमा॑घा॒र्यमा॑ण॒मनु॑ समा॒रभ्य॑ । ए॒तस्मि॑न्का॒ले दे॒वास्सु॑व॒र्गल्लोँ॒कमा॑यन्न् । सा॒ख्षादे॒व यज॑मानस्सुव॒र्गल्लोँ॒कमे॑ति । अथो॒ समृ॑द्धेनै॒व य॒ज्ञेन॒ यज॑मानस्सुव॒र्गल्लोँ॒कमे॑ति । अह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रित्या॒हानार्त्यै । इन्द्रा॑वा॒न्थ्स्वाहेत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । बृ॒हद्भा इत्या॑ह ।। 45 ।। 3.3.7.9 सु॒व॒र्गो वै लो॒को बृ॒हद्भाः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् । प्रा॒ण आ॑घा॒रः । यथ्स॑स्प॒र्॒शयेत् । भ्रातृ॑व्येऽस्य प्रा॒णन्द॑ध्यात् । अस॑स्पर्‌शयन्न॒त्या क्रा॑मति । यज॑मान ए॒व प्रा॒णन्द॑धाति । पा॒हि माऽग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भ॒जेत्या॑ह ।। 46 ।। 3.3.7.10 अ॒ग्निर्वाव प॒वित्रम् । वृ॒जि॒नमनृ॑त॒न्दुश्च॑रितम् । ऋ॒जु॒क॒र्म स॒त्य सुच॑रितम् । अ॒ग्निरे॒वैन॑व्वृँजि॒नादनृ॑ता॒द्दुश्च॑रितात्पाति । ऋ॒जु॒क॒र्मे स॒त्ये सुच॑रिते भजति । तस्मा॑दे॒वमा शास्ते । आ॒त्मनो॑ गोपी॒थाय॑ । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यदा॑घा॒रः । आ॒त्मा ध्रु॒वा ।। 47 ।। 3.3.7.11 आ॒घा॒रमा॒घार्य॑ ध्रु॒वा सम॑नक्ति । आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ प्रति॑ दधाति । द्विस्सम॑नक्ति । द्वौ हि प्रा॑णापा॒नौ । तदा॑हुः । त्रिरे॒व सम॑ञ्ज्यात् । त्रिधा॑तु॒ हि शिर॒ इति॑ । शिर॑ इवै॒तद्य॒ज्ञस्य॑ । अथो॒ त्रयो॒ वै प्रा॒णाः । प्रा॒णाने॒वास्मि॑न्दधाति । म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ता॒मित्या॑ह । ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।। 48 ।। 3.3.8.0 च॒र॒त्य॒ध्व॒र्यु प्रजा॑तिर्ह्वयते॒ वेदाब्रवीद्बर्‌हि॒षद॑ङ्करोत्यृ॒त्विजो॑ दधाति ब्र॒ह्माऽनु॑करोति च॒त्वारि॑ च ।। 8 ।। 3.3.8.1 धिष्णि॑या॒ वा ए॒ते न्यु॑प्यन्ते । यद्ब्र॒ह्मा । यद्धोता । यद॑ध्व॒र्युः । यद॒ग्नीत् । यद्यज॑मानः । तान् यद॑न्तरे॒यात् । यज॑मानस्य प्रा॒णान्थ्सङ्क॑र्‌षेत् । प्र॒मायु॑कस्स्यात् । पु॒रो॒डाश॑मप॒गृह्य॒ सञ्च॑रत्यध्व॒र्युः ।। 49 ।। 3.3.8.2 यज॑मानायै॒व तल्लो॒क शि॑षति । नास्य॑ प्रा॒णान्थ्सङ्क॑र्‌षति । न प्र॒मायु॑को भवति । पु॒रस्तात् प्र॒त्यङ्ङासी॑नः । इडा॑या॒ इडा॒मा द॑धाति । हस्त्या॒॒ होत्रे । प॒शवो॒ वा इडा । प॒शव॒ पुरु॑षः । प॒शुष्वे॒व प॒शून्प्रति॑ष्ठापयति । इडा॑यै॒ वा ए॒षा प्रजा॑तिः ।। 50 ।। 3.3.8.3 तां प्रजा॑ति॒य्यँज॑मा॒नोऽनु॒ प्र जा॑यते । द्विर॒ङ्गुला॑वनक्ति॒ पर्व॑णोः । द्वि॒पाद्यज॑मान॒ प्रति॑ष्ठित्यै । स॒कृदुप॑ स्तृणाति । द्विरा द॑धाति । स॒कृद॒भि घा॑रयति । च॒तुस्संप॑द्यते । च॒त्वारि॒ वै प॒शो प्र॑ति॒ष्ठाना॑नि । यावा॑ने॒व प॒शुः । तमुप॑ह्वयते ।। 51 ।। 3.3.8.4 मुख॑मिव॒ प्रत्युप॑ह्वयेत । सं॒मु॒खाने॒व प॒शूनुप॑ ह्वयते । प॒शवो॒ वा इडा । तस्मा॒थ्साऽन्वा॒रभ्या । अ॒ध्व॒र्युणा॑ च॒ यज॑मानेन च । उप॑हूत पशु॒मान॑सा॒नीत्या॑ह । उप॒ ह्ये॑नौ॒ ह्वय॑ते॒ होता । इडा॑यै दे॒वता॑नामुपह॒वे । उप॑हूत पशु॒मान्भ॑वति । य ए॒वव्वेँद॑ ।। 52 ।। 3.3.8.5 याव्वैँ हस्त्या॒मिडा॑मा॒दधा॑ति । वा॒चस्सा भा॑ग॒धेयम् । यामु॑प॒ह्वय॑ते । प्रा॒णाना॒॒ सा । वाच॑ञ्चै॒व प्रा॒णाश्चाव॑ रुन्धे । अथ॒ वा ए॒तर्ह्युप॑हूताया॒मिडा॑याम् । पु॒रो॒डाश॑स्यै॒व ब॑र्‌हि॒षदो॑ मीमा॒॒सा । यज॑मानन्दे॒वा अ॑ब्रुवन्न् । ह॒विर्नो॒ निर्व॒पेति॑ । नाहम॑भा॒गो निर्व॑फ्स्या॒मीत्य॑ब्रवीत् ।। 53 ।। 3.3.8.6 न मया॑ऽभा॒गयाऽनु॑वख्ष्य॒थेति॒ वाग॑ब्रवीत् । नाहम॑भा॒गा पु॑रोनुवा॒क्या॑ भविष्या॒मीति॑ पुरोनुवा॒क्या । नाहम॑भा॒गा या॒ज्या॑ भविष्या॒मीति॑ या॒ज्या । न मया॑ऽभा॒गेन॒ वष॑ट्करिष्य॒थेति॑ वषट्का॒रः । यद्य॑जमानभा॒गन्नि॒धाय॑ पुरो॒डाशं॑ बर्‌हि॒षद॑ङ्क॒रोति॑ । ताने॒व तद्भा॒गिन॑ करोति । च॒तु॒र्धा क॑रोति । चत॑स्रो॒ दिशः॑ । दि॒ख्ष्वे॑व प्रति॑तिष्ठति । ब॒र्॒हि॒षद॑ङ्करोति ।। 54 ।। 3.3.8.7 यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा ब॒र्॒हिः । यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति । तस्मा॑द॒स्थ्नाऽन्या प्र॒जा प्र॑ति॒तिष्ठ॑न्ति । मा॒॒सेना॒न्याः । अथो॒ खल्वा॑हुः । दख्षि॑णा॒ वा ए॒ता ह॑विर्य॒ज्ञस्यान्तर्वे॒द्यव॑ रुध्यन्ते । यत्पु॑रो॒डाशं॑ बर्‌हि॒षद॑ङ्क॒रोतीति॑ । च॒तु॒र्धा क॑रोति । च॒त्वारो॒ ह्ये॑ते ह॑विर्य॒ज्ञस्य॒र्त्विजः॑ ।। 55 ।। 3.3.8.8 ब्र॒ह्मा होताऽध्व॒र्युर॒ग्नीत् । तम॒भि मृ॑शेत् । इ॒दं ब्र॒ह्मणः॑ । इ॒द होतुः॑ । इ॒दम॑ध्व॒र्योः । इ॒दम॒ग्नीध॒ इति॑ । यथै॒वादस्सौ॒म्येऽध्व॒रे । आ॒देश॑मृ॒त्विग्भ्यो॒ दख्षि॑णा नी॒यन्ते । ता॒दृगे॒व तत् । अ॒ग्नीधे प्रथ॒माया द॑धाति ।। 56 ।। 3.3.8.9 अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ । अ॒ग्निमु॑खामे॒वर्द्धि॒य्यँज॑मान ऋध्नोति । स॒कृदु॑प॒स्तीर्य॒ द्विरा॒दध॑त् । उ॒प॒स्तीर्य॒ द्विर॒भि घा॑रयति । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । वे॒देन॑ ब्र॒ह्मणे ब्रह्मभा॒गं परि॑हरति । प्रा॒जा॒प॒त्यो वै वे॒दः । प्रा॒जा॒प॒त्यो ब्र॒ह्मा ।। 57 ।। 3.3.8.10 स॒वि॒ता य॒ज्ञस्य॒ प्रसूत्यै । अथ॒ काम॑म॒न्येन॑ । ततो॒ होत्रे । मध्य॒व्वाँ ए॒तद्य॒ज्ञस्य॑ । यद्धोता । म॒ध्य॒त ए॒व य॒ज्ञं प्री॑णाति । अथाध्व॒र्यवे । प्र॒ति॒ष्ठा वा ए॒षा य॒ज्ञस्य॑ । यद॑ध्व॒र्युः । तस्माद्धविर्य॒ज्ञस्यै॒तामे॒वावृत॒मनु॑ ।। 58 ।। 3.3.8.11 अ॒न्या दख्षि॑णा नीयन्ते । य॒ज्ञस्य॒ प्रति॑ष्ठित्यै । अ॒ग्निम॑ग्नीथ्स॒कृथ्स॑कृ॒थ्सं मृ॒ड्ढीत्या॑ह । परा॑ङिव॒ ह्ये॑तर्‌हि॑ य॒ज्ञः । इ॒षि॒ता दैव्या॒ होता॑र॒ इत्या॑ह । इ॒षि॒त हि कर्म॑ क्रि॒यते । भ॒द्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्सूक्तवा॒काय॑ सू॒क्ता ब्रू॒हीत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । स्व॒गा दैव्या॒ होतृ॑भ्य॒ इत्या॑ह । य॒ज्ञमे॒व तथ्स्व॒गा क॑रोति । स्व॒स्तिर्मानु॑षेभ्य॒ इत्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । श॒य्योँर्ब्रू॒हीत्या॑ह । श॒य्युँमे॒व बा॑र्‌हस्प॒त्यं भा॑ग॒धेये॑न॒ सम॑र्धयति ।। 59 ।। 3.3.9.0 ति॒ष्ठ॒ती॒मे लो॒का ग॑मयति॒ द्यौर्वृष्टि॑मे॒वाव॑रुन्धे प॒र्यध॑त्था॒ इत्या॑ह॒ समि॑ष्ट्यै भाग॒धेय॑न्धत्त॒मित्या॑ह॒ वा इ॑ध्मस॒व्वृँश्च॑ना॒न्यनु॑वित्त्यै लभते॒ यज॑मानः ।। 9 ।। 3.3.9.1 अथ॒ स्रुचा॑वनु॒ष्टुग्भ्या॒व्वाँज॑वतीभ्या॒व्व्यूँ॑हति । प्र॒ति॒ष्ठा वा अ॑नु॒ष्टुक् । अन्न॒व्वाँजः॒ प्रति॑ष्ठित्यै । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । प्राचीञ्जु॒हूमू॑हति । जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते । प्र॒तीची॑मुप॒भृतम् । ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते । सविषू॑च ए॒वापोह्य॑ स॒पत्ना॒न्॒ यज॑मानः । अ॒स्मिल्लोँ॒के प्रति॑तिष्ठति ।। 60 ।। 3.3.9.2 द्वाभ्याम् । द्विप्र॑तिष्ठो॒ हि । वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॒स्त्वेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । स्रु॒ख्षु प्र॑स्त॒रम॑नक्ति । इ॒मे वै लो॒कास्स्रुचः॑ । यज॑मान प्रस्त॒रः । यज॑मानमे॒व तेज॑साऽनक्ति । त्रे॒धाऽन॑क्ति । त्रय॑ इ॒मे लो॒काः ।। 61 ।। 3.3.9.3 ए॒भ्य ए॒वैन॑ल्लोँ॒केभ्यो॑ऽनक्ति । अ॒भि॒पू॒र्वम॑नक्ति । अ॒भि॒पू॒र्वमे॒व यज॑मान॒न्तेज॑साऽनक्ति । अ॒क्त रिहा॑णा॒ इत्या॑ह । तेजो॒ वा आज्यम् । यज॑मान प्रस्त॒रः । यज॑मानमे॒व तेज॑साऽनक्ति । वि॒यन्तु॒ वय॒ इत्या॑ह । वय॑ ए॒वैन॑ङ्कृ॒त्वा । सु॒व॒र्गल्लोँ॒कङ्ग॑मयति ।। 62 ।। 3.3.9.4 प्र॒जाय्योँनिं॒ मा निर्मृ॑ख्ष॒मित्या॑ह । प्र॒जायै॑ गोपी॒थाय॑ । आप्या॑यन्ता॒माप॒ ओष॑धय॒ इत्या॑ह । आप॑ ए॒वौष॑धी॒रा प्या॑ययति । म॒रुतां॒ पृष॑तय॒स्स्थेत्या॑ह । म॒रुतो॒ वै वृष्ट्या॑ ईशते । वृष्टि॑मे॒वाव॑ रुन्धे । दिव॑ङ्गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॒येत्या॑ह । वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑ रुन्धे ।। 63 ।। 3.3.9.5 याव॒द्वा अ॑ध्व॒र्यु प्र॑स्त॒रं प्र॒हर॑ति । ताव॑द॒स्यायु॑र्मीयते । आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पा॒हीत्या॑ह । आयु॑रे॒वात्मन्ध॑त्ते । याव॒द्वा अ॑ध्व॒र्यु प्र॑स्त॒रं प्र॒हर॑ति । ताव॑दस्य॒ चख्षु॑र्मीयते । च॒ख्षु॒ष्पा अ॑ग्नेऽसि॒ चख्षु॑र्मे पा॒हीत्या॑ह । चख्षु॑रे॒वात्मन्ध॑त्ते । ध्रु॒वाऽसीत्या॑ह॒ प्रति॑ष्ठित्यै । यं प॑रि॒धिं प॒र्यध॑त्था॒ इत्या॑ह ।। 64 ।। 3.3.9.6 य॒था॒य॒जुरे॒वैतत् । अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑ण॒ इत्या॑ह । अ॒ग्नय॑ ए॒वैन॒ञ्जुष्ट॑ङ्करोति । तन्त॑ ए॒तमनु॒ जोषं॑ भरा॒मीत्या॑ह । स॒जा॒ताने॒वास्मा॒ अनु॑कान्करोति । नेदे॒ष त्वद॑पचे॒तया॑ता॒ इत्या॒हानु॑ख्यात्यै । य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त॒मित्या॑ह । भू॒मान॑मे॒वोपै॑ति । प॒रि॒धीन्प्र ह॑रति । य॒ज्ञस्य॒ समि॑ष्ट्यै ।। 65 ।। 3.3.9.7 स्रुचौ॒ सं प्रस्रा॑वयति । यदे॒व तत्र॑ क्रू॒रम् । तत्तेन॑ शमयति । जु॒ह्वामु॑प॒भृतम् । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् । यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिङ्करोति । स॒॒स्रा॒वभा॑गा॒स्स्थेत्या॑ह । वस॑वो॒ वै रु॒द्रा आ॑दि॒त्यास्स॑स्रा॒वभा॑गाः । तेषा॒न्तद्भा॑ग॒धेयम् ।। 66 ।। 3.3.9.8 ताने॒व तेन॑ प्रीणाति । वै॒श्व॒दे॒व्यर्चा । ए॒ते हि विश्वे॑ दे॒वाः । त्रि॒ष्टुग्भ॑वति । इ॒न्द्रि॒यव्वैँ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । अ॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादया॒मीत्या॑ह । इ॒यव्वाँ अ॒ग्निरप॑न्नगृहः । अ॒स्या ए॒वैने॒ सद॑ने सादयति । सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त॒मित्या॑ह ।। 67 ।। 3.3.9.9 प्र॒जा वै प॒शव॑स्सु॒म्नम् । प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते । धु॒रि धु॒र्यौ॑ पात॒मित्या॑ह । जा॒या॒प॒त्योर्गो॑पी॒थाय॑ । अग्ने॑ऽदब्धायोऽशीततनो॒ इत्या॑ह । य॒था॒य॒जुरे॒वैतत् । पा॒हि मा॒ऽद्य दि॒व पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दित्या॑ह । आ॒शिष॑मे॒वैतामा शास्ते । अवि॑षन्न पि॒तुङ्कृ॑णु सु॒षदा॒ योनि॒॒ स्वाहेतीध्मस॒व्वृँश्च॑नान्यन्वाहार्य॒पच॑नेऽभ्या॒धाय॑ फलीकरणहो॒मञ्जु॑होति । अति॑रिक्तानि॒ वा इ॑ध्मस॒व्वृँश्च॑नानि ।। 68 ।। 3.3.9.10 अति॑रिक्ता फली॒कर॑णाः । अति॑रिक्तमाज्योच्छेष॒णम् । अति॑रिक्त ए॒वाति॑रिक्तन्दधाति । अथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाऽव॑ रुन्धे । वेदि॑र्दे॒वेभ्यो॒ निला॑यत । ताव्वेँ॒देनान्व॑विन्दन्न् । वे॒देन॒ वेदि॑व्विँविदु पृथि॒वीम् । सा प॑प्रथे पृथि॒वी पार्थि॑वानि । गर्भं॑ बिभर्ति॒ भुव॑नेष्व॒न्तः । ततो॑ य॒ज्ञो जा॑यते विश्व॒दानि॒रिति॑ पु॒रस्ताथ्स्तम्बय॒जुषो॑ वे॒देन॒ वेदि॒॒ संमा॒र्ष्ट्यनु॑वित्त्यै ।। 69 ।। 3.3.9.11 अथो॒ यद्वे॒दश्च॒ वेदि॑श्च॒ भव॑तः । मि॒थु॒न॒त्वाय॒ प्रजात्यै । प्र॒जाप॑ते॒र्वा ए॒तानि॒ श्मश्रू॑णि । यद्वे॒दः । पत्नि॑या उ॒पस्थ॒ आस्य॑ति । मि॒थु॒नमे॒व क॑रोति । वि॒न्दते प्र॒जाम् । वे॒द होताऽऽह॑व॒नीयाथ्स्तृ॒णन्ने॑ति । य॒ज्ञमे॒व तथ्सन्त॑नो॒त्योत्त॑रस्मादर्धमा॒सात् । त सन्त॑त॒मुत्त॑रेऽर्धमा॒स आल॑भते ।। 70 ।। 3.3.9.12 तङ्का॒लेका॑ल॒ आग॑ते यजते । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । स त्वा अ॑ध्व॒र्युस्स्यात् । यो यतो॑ य॒ज्ञं प्र॑यु॒ङ्क्ते । तदे॑नं प्रतिष्ठा॒पय॒तीति॑ । वाता॒द्वा अ॑ध्व॒र्युर्य॒ज्ञं प्रयु॑ङ्क्ते । देवा॑ गातुविदो गा॒तुव्विँ॒त्वा गा॒तुमि॒तेत्या॑ह । यत॑ ए॒व य॒ज्ञं प्र॑यु॒ङ्क्ते । तदे॑नं॒ प्रति॑ष्ठापयति । प्रति॑ तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।। 71 ।। 3.3.10.0 स॒वि॒तृप्र॑सूतो यथादेव॒तं प्र॒जयेत्या॑ह सि॒ञ्चन्मृ॑ष्ट॒ एक॑ञ्च ।। 10 ।। 3.3.10.1 यो वा अय॑थादेवतय्यँ॒ज्ञमु॑प॒चर॑ति । आ दे॒वताभ्यो वृश्च्यते । पापी॑यान्भवति । यो य॑थादेव॒तम् । न दे॒वताभ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । वा॒रु॒णो वै पाशः॑ । इ॒मव्विँष्या॑मि॒ वरु॑णस्य॒ पाश॒मित्या॑ह । व॒रु॒ण॒पा॒शादे॒वैनां मुञ्चति । स॒वि॒तृप्र॑सूतो यथादेव॒तम् ।। 72 ।। 3.3.10.2 न दे॒वताभ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒क इत्या॑ह । अ॒ग्निर्वै धा॒ता । पुण्य॒ङ्कर्म॑ सुकृ॒तस्य॑ लो॒कः । अ॒ग्निरे॒वैनान्धा॒ता । पुण्ये॒ कर्म॑णि सुकृ॒तस्य॑ लो॒के द॑धाति । स्यो॒नं मे॑ स॒ह पत्या॑ करो॒मीत्या॑ह । आ॒त्मन॑श्च॒ यज॑मानस्य॒ चानात्यै स॒न्त्वाय॑ । समायु॑षा॒ सं प्र॒जयेत्या॑ह ।। 73 ।। 3.3.10.3 आ॒शिष॑मे॒वैतामा शास्ते पूर्णपा॒त्रे । अ॒न्त॒तो॑ऽनु॒ष्टुभा । चतु॑ष्प॒द्वा ए॒तच्छन्द॒ प्रति॑ष्ठितं॒ पत्नि॑यै पूर्णपा॒त्रे भ॑वति । अ॒स्मिल्लोँ॒के प्रति॑तिष्ठा॒नीति॑ । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । अथो॒ वाग्वा अ॑नु॒ष्टुक् । वाङ्मि॑थु॒नम् । आपो॒ रेत॑ प्र॒जन॑नम् । ए॒तस्मा॒द्वै मि॑थु॒नाद्वि॒द्योत॑मानस्स्त॒नय॑न्वर्‌षति । रेत॑स्सि॒ञ्चन्न् ।। 74 ।। 3.3.10.4 प्र॒जा प्र॑ज॒नयन्न्॑ । यद्वै य॒ज्ञस्य॒ ब्रह्म॑णा यु॒ज्यते । ब्रह्म॑णा॒ वै तस्य॑ विमो॒कः । अ॒द्भिश्शान्तिः॑ । विमु॑क्त॒व्वाँ ए॒तर्‌हि॒ योक्त्रं॒ ब्रह्म॑णा । आ॒दायै॑न॒त्पत्नी॑ स॒हाप उप॑गृह्णीते॒ शान्त्यै । अ॒ञ्ज॒लौ पूर्णपा॒त्रमा न॑यति । रेत॑ ए॒वास्यां प्र॒जान्द॑धाति । प्र॒जया॒ हि म॑नु॒ष्य॑ पू॒र्णः । मुख॒व्विँ मृ॑ष्टे । अ॒व॒भृ॒थस्यै॒व रू॒पङ्कृ॒त्वोत्ति॑ष्ठति ।। 75 ।। 3.3.11.0 नो॒ द्वि॒ष्म इति॑ परा॒वत॑मर्पयति ।। 11 ।। 3.3.11.1 प॒रि॒वे॒षो वा ए॒ष वन॒स्पती॑नाम् । यदु॑पवे॒षः । य ए॒वव्वेँद॑ । वि॒न्दते॑ परिवे॒ष्टारम् । तमु॑त्क॒रे । यन्दे॒वा म॑नु॒ष्ये॑षु । उ॒प॒वे॒षमधा॑रयन्न् । ये अ॒स्मदप॑ चेतसः । तान॒स्मभ्य॑मि॒हा कु॑रु । उप॑वे॒षोप॑ विड्ढि नः ।। 76 ।। 3.3.11.2 प्र॒जां पुष्टि॒मथो॒ धनम् । द्वि॒पदो॑ न॒श्चतु॑ष्पदः । ध्रु॒वानन॑पगान्कु॒र्विति॑ पु॒रस्तात्प्र॒त्यञ्च॒मुप॑ गूहति । तस्मात्पु॒रस्तात्प्र॒त्यञ्च॑श्शू॒द्रा अव॑स्यन्ति । स्थ॒वि॒म॒त उप॑गूहति । अप्र॑तिवादिन ए॒वैनान्कुरुते । धृष्टि॒र्वा उ॑पवे॒षः । शु॒चर्तो वज्रो॒ ब्रह्म॑णा॒ सशि॑तः । योप॑वे॒षे शुक् । साऽमुमृ॑च्छतु॒ यन्द्वि॒ष्म इति॑ ।। 77 ।। 3.3.11.3 अथास्मै नाम॒ गृह्य॒ प्रह॑रति । निर॒मुन्नु॑द॒ ओक॑सः । स॒पत्नो॒ य पृ॑त॒न्यति॑ । नि॒र्बा॒ध्ये॑न ह॒विषा । इन्द्र॑ एणं॒ परा॑शरीत् । इ॒हि ति॒स्र प॑रा॒वतः॑ । इ॒हि पञ्च॒ जना॒॒ अति॑ । इ॒हि ति॒स्रोऽति॑ रोच॒नायाव॑त् । सूर्यो॒ अस॑द्दि॒वि । प॒र॒मान्त्वा॑ परा॒वतम् ।। 78 ।। 3.3.11.4 इन्द्रो॑ नयतु वृत्र॒हा । यतो॒ न पुन॒राय॑सि । श॒श्व॒तीभ्य॒स्समाभ्य॒ इति॑ । त्रि॒वृद्वा ए॒ष वज्रो॒ ब्रह्म॑णा॒ सशि॑तः । शु॒चैवैन॑व्विँ॒ध्वा । ए॒भ्यो लो॒केभ्यो॑ नि॒र्णुद्य॑ । वज्रे॑ण॒ ब्रह्म॑णा स्तृणुते । ह॒तो॑ऽसावव॑धिष्मा॒मुमित्या॑ह॒ स्तृत्यै । यन्द्वि॒ष्यात्तन्ध्या॑येत् । शु॒चैवैन॑मर्पयति ।। 79 ।। 3.4.0.0 ब्रह्म॑णे गी॒ताय॒ श्रमा॑य स॒न्धये॑ न॒दीभ्य॑ उथ्सा॒देभ्य॒ ऋत्यै॒ भाया॒ अर्मेभ्यो म॒न्यवे॑ य॒म्यै॑ दश॑दश॒ सरोभ्यो॒ द्वाद॑श प्रति॒श्रुत्का॑यै बीभ॒थ्सायै॒ दश॑दश॒ हसा॑य स॒प्ताख्ष॑रा॒जाय॒ त्रयो॑दश॒ भूम्यै॒ दश॑ वा॒चे षडथ॒ नवैका॒न्नवि॑शतिः ।। 19 ।। ब्रह्म॑णे य॒म्यै॑ नव॑दश ।। 19 ।। ब्रह्म॑णे कुमा॒रीम् ।। हरिः॑ ओम् । चतुर्थप्रपाठकस्समाप्तः ।। 3.4.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके चतुर्थप्रपाठक प्रारम्भः । हरिः ओम् ।। 3.4.1.1 ब्रह्म॑णे ब्राह्म॒णमाल॑भते । ख्ष॒त्त्राय॑ राज॒न्यम् । म॒रुद्भ्यो॒ वैश्यम् । तप॑से शू॒द्रम् । तम॑से॒ तस्क॑रम् । नार॑काय वीर॒हणम् । पा॒प्मने क्ली॒बम् । आ॒क्र॒याया॑यो॒गूम् । कामा॑य पुश्च॒लूम् । अति॑क्रुष्टाय माग॒धम् ।। 1 ।। 3.4.2.1 गी॒ताय॑ सू॒तम् । नृ॒त्ताय॑ शैलू॒षम् । धर्मा॑य सभाच॒रम् । न॒र्माय॑ रे॒भम् । नरि॑ष्ठायै भीम॒लम् । हसा॑य॒ कारिम् । आ॒न॒न्दाय॑ स्त्रीष॒खम् । प्रमुदे॑ कुमारीपु॒त्रम् । मे॒धायै॑ रथका॒रम् । धैर्या॑य॒ तख्षा॑णम् ।। 2 ।। 3.4.3.1 श्रमा॑य कौला॒लम् । मा॒यायै॑ कार्मा॒रम् । रू॒पाय॑ मणिका॒रम् । शुभे॑ व॒पम् । श॒र॒व्या॑या इषुका॒रम् । हे॒त्यै ध॑न्वका॒रम् । कर्म॑णे ज्याका॒रम् । दि॒ष्टाय॑ रज्जुस॒र्गम् । मृ॒त्य॑वे मृग॒युम् । अन्त॑काय श्व॒नितम् ।। 3 ।। 3.4.4.1 स॒न्धये॑ जा॒रम् । गे॒हायो॑पप॒तिम् । निऱ्ऋ॑त्यै परिवि॒त्तम् । आर्त्यै॑ परिविविदा॒नम् । अराध्यै दिधिषू॒पतिम् । प॒वित्रा॑य भि॒षजम् । प्र॒ज्ञाना॑य नख्षत्रद॒र्॒शम् । निष्कृ॑त्यै पेशस्का॒रीम् । बला॑योप॒दाम् । वर्णा॑यानू॒रुधम् ।। 4 ।। 3.4.5.1 न॒दीभ्य॑ पौञ्जि॒ष्टम् । ऋ॒ख्षीकाभ्यो॒ नैषा॑दम् । पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मदम् । प्र॒युद्भ्य॒ उन्म॑त्तम् । ग॒न्ध॒र्वा॒प्स॒राभ्यो॒ व्रात्यम् । स॒र्प॒दे॒व॒ज॒नेभ्योऽप्र॑तिपदम् । अवेभ्य कित॒वम् । इ॒र्यता॑या॒ अकि॑तवम् । पि॒शा॒चेभ्यो॑ बिदलका॒रम् । या॒तु॒धानेभ्य कण्टकका॒रम् ।। 5 ।। 3.4.6.1 उ॒थ्सा॒देभ्य॑ कु॒ब्जम् । प्र॒मुदे॑ वाम॒नम् । द्वा॒र्भ्यस्स्रा॒मम् । स्वप्ना॑या॒न्धम् । अध॑र्माय बधि॒रम् । सं॒ज्ञाना॑य स्मरका॒रीम् । प्र॒का॒मोद्या॑योप॒सदम् । आ॒शि॒ख्षायै प्र॒श्ञिनम् । उ॒प॒शि॑ख्षाया॑ अभिप्र॒श्ञिनम् । म॒र्यादा॑यै प्रश्ञविवा॒कम् ।। 6 ।। 3.4.7.1 ऋत्यै स्ते॒नहृ॑दयम् । वैर॑हत्याय॒ पिशु॑नम् । विवि॑त्त्यै ख्ष॒त्तारम् । औप॑द्रष्टाय सङ्ग्रही॒तारम् । बला॑यानुच॒रम् । भू॒म्ने प॑रिष्क॒न्दम् । प्रि॒याय॑ प्रियवा॒दिनम् । अरि॑ष्ट्या अश्वसा॒दम् । मेधा॑य वासपल्पू॒लीम् । प्र॒का॒माय॑ रजयि॒त्रीम् ।। 7 ।। 3.4.8.1 भायै॑ दार्वाहा॒रम् । प्र॒भाया॑ आग्ने॒न्धम् । नाक॑स्य पृ॒ष्ठाया॑भिषे॒क्तारम् । ब्र॒ध्नस्य॑ वि॒ष्टपा॑य पात्रनिर्णे॒गम् । दे॒व॒लो॒काय॑ पेशि॒तारम् । म॒नु॒ष्य॒लो॒काय॑ प्रकरि॒तारम् । सर्वेभ्यो लो॒केभ्य॑ उपसे॒क्तारम् । अव॑र्त्यै व॒धायो॑पमन्थि॒तारम् । सु॒व॒र्गाय॑ लो॒काय॑ भाग॒दुघम् । वऱ्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टारम् ।। 8 ।। 3.4.9.1 अर्मेभ्यो हस्ति॒पम् । ज॒वायाश्व॒पम् । पुष्ट्यै॑ गोपा॒लम् । तेज॑सेऽजपा॒लम् । वी॒र्या॑याविपा॒लम् । इरा॑यै की॒नाशम् । की॒लाला॑य सुराका॒रम् । भ॒द्राय॑ गृह॒पम् । श्रेय॑से वित्त॒धम् । अध्य॑ख्षायानुख्ष॒त्तारम् ।। 9 ।। 3.4.10.1 म॒न्यवे॑ऽयस्ता॒पम् । क्रोधा॑य निस॒रम् । शोका॑याभिस॒रम् । उ॒त्कू॒ल॒वि॒कू॒लाभ्यान्त्रि॒स्थिनम् । योगा॑य यो॒क्तारम् । ख्षेमा॑य विमो॒क्तारम् । वपु॑षे मानस्कृ॒तम् । शीला॑याञ्जनीका॒रम् । निऱ्ऋ॑त्यै कोशका॒रीम् । य॒माया॒सूम् ।। 10 ।। 3.4.11.1 य॒म्यै॑ यम॒सूम् । अथ॑र्व॒भ्योऽव॑तोकाम् । स॒व्वँ॒थ्स॒राय॑ पर्या॒रिणीम् । प॒रि॒व॒थ्स॒रायावि॑जाताम् । इ॒दा॒व॒थ्स॒राया॑प॒स्कद्व॑रीम् । इ॒द्व॒थ्स॒राया॒तीत्व॑वरीम् । व॒थ्स॒राय॒ विज॑र्जराम् । स॒र्व॒न्थ्स॒राय॒ पलि॑क्नीम् । वना॑य वन॒पम् । अ॒न्यतो॑रण्याय दाव॒पम् ।। 11 ।। 3.4.12.1 सरोभ्यो धैव॒रम् । वेश॑न्ताभ्यो॒ दाशम् । उ॒प॒स्थाव॑रीभ्यो॒ बैन्दम् । न॒ड्व॒लाभ्य॑श्शौष्क॒लम् । पा॒र्या॑य कैव॒र्तम् । अ॒वा॒र्या॑य मार्गा॒रम् । ती॒र्थेभ्य॑ आ॒न्दम् । विष॑मेभ्यो मैना॒लम् । स्वनेभ्य॒ पर्ण॑कम् । गुहाभ्य॒ किरा॑तम् । सानु॑भ्यो॒ जम्भ॑कम् । पर्व॑तेभ्य॒ किंपू॑रुषम् ।। 12 ।। 3.4.13.1 प्र॒ति॒श्रुत्का॑या ऋतु॒लम् । घोषा॑य भ॒षम् । अन्ता॑य बहुवा॒दिनम् । अ॒न॒न्ताय॒ मूकम् । मह॑से वीणावा॒दम् । क्रोशा॑य तूणव॒ध्मम् । आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् । अ॒व॒र॒स्प॒राय॑ शङ्ख॒ध्मम् । ऋ॒भुभ्यो॑जिनसन्धा॒यम् । सा॒ध्येभ्य॑श्चर्म॒म्णम् । ।। 13 ।। 3.4.14.1 बी॒भ॒थ्सायै॑ पौल्क॒सम् । भूत्यै॑ जागर॒णम् । अभूत्यै स्वप॒नम् । तु॒लायै॑ वाणि॒जम् । वर्णा॑य हिरण्यका॒रम् । विश्वेभ्यो दे॒वेभ्य॑स्सिध्म॒लम् । प॒श्चा॒द्दो॒षाय॑ ग्ला॒वम् । ऋत्यै॑ जनवा॒दिनम् । व्यृ॑द्ध्या अपग॒ल्भम् । स॒॒श॒राय॑ प्र॒च्छिदम् ।। 14 ।। 3.4.15.1 हसा॑य पुश्च॒लूमा ल॑भते । वी॒णा॒वा॒दङ्गण॑कङ्गी॒ताय॑ । याद॑से शाबु॒ल्याम् । न॒र्माय॑ भद्रव॒तीम् । तू॒ण॒व॒ध्मङ्ग्रा॑म॒ण्यं॑ पाणिसङ्घा॒तन्नृ॒त्ताय॑ । मोदा॑यानु॒क्रोश॑कम् । आ॒न॒न्दाय॑ तल॒वम् ।। 15 ।। 3.4.16.1 अ॒ख्ष॒रा॒जाय॑ कित॒वम् । कृ॒ताय॑ सभा॒विनम् । त्रेता॑या आदिनवद॒र्॒शम् । द्वा॒प॒राय॑ बहि॒स्सदम् । कल॑ये सभास्था॒णुम् । दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् । अध्व॑ने ब्रह्मचा॒रिणम् । पि॒शा॒चेभ्य॑स्सैल॒गम् । पि॒पा॒सायै॑ गोव्य॒च्छम् । निऱ्ऋ॑त्यै गोघा॒तम् । ख्षु॒धे गो॑विक॒र्तम् । ख्षु॒त्तृ॒ष्णाभ्या॒न्तम् । यो गाव्विँ॒कृन्त॑न्तं मा॒॒सं भिख्ष॑माण उप॒तिष्ठ॑ते ।। 16 ।। 3.4.17.1 भूम्यै॑ पीठस॒र्पिण॒मा ल॑भते । अ॒ग्नयेऽ॑स॒लम् । वा॒यवे॑ चाण्डा॒लम् । अ॒न्तरि॑ख्षाय वशन॒र्तिनम् । दि॒वे ख॑ल॒तिम् । सूर्या॑य हर्य॒ख्षम् । च॒न्द्रम॑से मिर्मि॒रम् । नख्ष॑त्रेभ्य कि॒लासम् । अह्ने॑ शु॒क्लं पि॑ङ्ग॒लम् । रात्रि॑यै कृ॒ष्णं पि॑ङ्गा॒ख्षम् ।। 17 ।। 3.4.18.1 वा॒चे पुरु॑ष॒मा ल॑भते । प्रा॒णम॑पा॒नव्व्याँ॒नमु॑दा॒न स॑मा॒नन्तान् वा॒यवे । सूर्या॑य॒ चख्षु॒रा ल॑भते । मन॑श्च॒न्द्रम॑से । दि॒ग्भ्यश्श्रोत्रम् । प्र॒जाप॑तये॒ पुरु॑षम् ।। 18 ।। 3.4.19.1 अथै॒तानरू॑पेभ्य॒ आल॑भते । अति॑ह्रस्व॒मति॑दीर्घम् । अतिकृ॑श॒मत्य॑सलम् । अति॑शुक्ल॒मति॑कृष्णम् । अति॑श्लख्ष्ण॒मति॑लोमशम् । अति॑किरिट॒मति॑दन्तुरम् । अति॑मिर्मिर॒मति॑मेमिषम् । आ॒शायै॑ जा॒मिम् । प्र॒ती॒ख्षायै॑ कुमा॒रीम् ।। 19 ।। 3.5.0.0 तृतीयाष्टके पञ्चम प्रपाठकप्रारम्भः । हरिःओम् । 3.5.0.0 स॒त्यं प्रवोऽग्ने॑ म॒हान॒ग्निर् होता॑ स॒मिधो॒ऽग्निर्वृ॒त्राण्य॒ग्निर्मू॒र्धोप॑हूतन्दे॒वं ब॒र्॒हिरि॒दन्द्या॑वापृथिवी॒ तच्छ॒य्योँरा प्या॑य॒स्वोप॑हूत॒न्त्रयो॑दश ।। 13 ।। स॒त्यव्वँ॒य स्या॑म वृ॒ष्टिद्या॑वा त्रि॒॒शत् । स॒त्यमुप॑हूता ।। 30 ।। हरिः॑ ओम् ।। कृष्णयजुर्ब्राह्मणे तृतीयाष्टके पञ्चम प्रपाठकस्समाप्तः ।। 3.5.1.0 स॒त्यन्दश॑ ।। 1 ।। 3.5.1.1 स॒त्यं प्रप॑द्ये । ऋ॒तं प्रप॑द्ये । अ॒मृतं॒ प्रप॑द्ये । प्र॒जाप॑ते प्रि॒यान्त॒नुव॒मनार्तां॒ प्रप॑द्ये । इ॒दम॒हं प॑ञ्चद॒शेन॒ वज्रे॑ण । द्वि॒षन्तं॒ भ्रातृ॑व्य॒मव॑ क्रामामि । योऽस्मान्द्वेष्टि॑ । यञ्च॑ व॒यन्द्वि॒ष्मः । भूर्भुव॒स्सुवः॑ । हिम् ।। 1 ।। 3.5.2.0 श्र॒वाय्य॑मिधीम॒ह्यसि॑ स॒प्त च॑ ।। 2 ।। 3.5.2.1 प्र वो॒ वाजा॑ अ॒भिद्य॑वः । ह॒विष्म॑न्तो घृ॒ताच्या । दे॒वाञ्जि॑गाति सुम्न॒युः । अग्न॒ आया॑हि वी॒तये । गृ॒णा॒नो ह॒व्यदा॑तये । नि होता॑ सथ्सि ब॒र्॒हिषि॑ । तन्त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य । स न॑ पृ॒थुश्श्र॒वाय्यम् ।। 2 ।। 3.5.2.2 अच्छा॑ देव विवाससि । बृ॒हद॑ग्ने सु॒वीर्यम् । ई॒डेन्यो॑ नम॒स्य॑स्ति॒रः । तमा॑सि दर्‌श॒तः । सम॒ग्निरि॑ध्यते॒ वृषा । वृषो॑ अ॒ग्निस्समि॑ध्यते । अश्वो॒ न दे॑व॒वाह॑नः । त ह॒विष्म॑न्त ईडते । वृष॑णन्त्वा व॒यव्वृँषन्न्॑ । वृषा॑ण॒स्समि॑धीमहि ।। 3 ।। 3.5.2.3 अग्ने॒ दीद्य॑तं बृ॒हत् । अ॒ग्निन्दू॒तव्वृँ॑णीमहे । होता॑रव्विँ॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुम् । स॒मि॒ध्यमा॑नो अध्व॒रे । अ॒ग्नि पा॑व॒क ईड्यः॑ । शो॒चिष्के॑श॒स्तमी॑महे । समि॑द्धो अग्न आहुत । दे॒वान् य॑ख्षि स्वध्वर । त्व हि ह॑व्य॒वाडसि॑ । आ जु॑होत दुव॒स्यत॑ । अ॒ग्निं प्र॑य॒त्य॑ध्व॒रे । वृ॒णीध्व ह॑व्य॒वाह॑नम् । त्वव्वँरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वाव्वँ॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।।4।। 3.5.3.0 दे॒वाना॒मिन्द्र॒मा व॑ह॒ षट् च॑ ।। 3 ।। 3.5.3.1 अग्ने॑ म॒हा अ॑सि ब्राह्मण भारत । असा॒वसौ । दे॒वेद्धो॒ मन्वि॑द्धः । ऋषि॑ष्टुतो॒ विप्रा॑नुमदितः । क॒वि॒श॒स्तो ब्रह्म॑सशितो घृ॒ताह॑वनः । प्र॒णीर्य॒ज्ञानाम् । र॒थीर॑ध्व॒राणाम् । अ॒तूर्तो॒ होता । तूर्णि॑र्‌हव्य॒वाट् । आस्पात्र॑ञ्जु॒हूर्दे॒वानाम् ।। 5 ।। 3.5.3.2 च॒म॒सो दे॑व॒पानः॑ । अ॒रा इ॑वाग्ने ने॒मिर्दे॒वास्त्वं प॑रि॒भूर॑सि । आ व॑ह दे॒वान् यज॑मानाय । अ॒ग्निम॑ग्न॒ आव॑ह । सोम॒माव॑ह । अ॒ग्निमाव॑ह । प्र॒जाप॑ति॒माव॑ह । अ॒ग्नीषोमा॒वाव॑ह । इ॒न्द्रा॒ग्नी आव॑ह । इन्द्र॒माव॑ह । म॒हे॒न्द्रमाव॑ह । दे॒वा आज्य॒पा आव॑ह । अ॒ग्नि हो॒त्रायाव॑ह । स्वं म॑हि॒मान॒मा व॑ह । आ चाग्ने दे॒वान् वह॑ । सु॒यजा॑ च यज जातवेदः ।। 6 ।। 3.5.4.0 अ॒ग्निर्‌होता॒ नव॑ ।। 4 ।। 3.5.4.1 अ॒ग्निर् होता॒ वेत्व॒ग्निः । हो॒त्रव्वेँत्तु प्रावि॒त्रम् । स्मो व॒यम् । सा॒धु ते॑ यजमान दे॒वता । घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॑स्व । दे॒वा॒युव॑व्विँ॒श्ववा॑राम् । ईडा॑महै दे॒वा ई॒डेन्यान्॑ । न॒म॒स्याम॑ नम॒स्यान्॑ । यजा॑म य॒ज्ञियान्॑ ।। 7 ।। 3.5.5.0 इ॒न्द्रा॒ग्नी पञ्च॑ च ।। 5 ।। 3.5.5.1 स॒मिधो॑ अग्न॒ आज्य॑स्य वियन्तु । तनू॒नपा॑दग्न॒ आज्य॑स्य वेतु । इ॒डो अ॑ग्न॒ आज्य॑स्य वियन्तु । ब॒र्॒हिर॑ग्न॒ आज्य॑स्य वेतु । स्वाहा॒ऽग्निम् । स्वाहा॒ सोमम् । स्वाहा॒ऽग्निम् । स्वाहा प्र॒जाप॑तिम् । स्वाहा॒ऽग्नीषोमौ । स्वाहेन्द्रा॒ग्नी । स्वाहेन्द्रम् । स्वाहा॑ महे॒न्द्रम् । स्वाहा॑ दे॒वा आज्य॒पान् । स्वाहा॒ऽग्नि हो॒त्राज्जु॑षा॒णाः । अग्न॒ आज्य॑स्य वियन्तु ।। 8 ।। 3.5.6.0 स्वा षट् च॑ ।। 6 ।। 3.5.6.1 अ॒ग्निर्वृ॒त्राणि॑ जङ्घनत् । द्र॒वि॒ण॒स्युर्वि॑प॒न्यया । समि॑द्धश्शु॒क्र आहु॑तः । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । त्व सो॑मासि॒ सत्प॑तिः । त्व राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ । जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु । अ॒ग्नि प्र॒त्नेन॒ जन्म॑ना । शुम्भा॑नस्त॒नुव॒ स्वाम् । क॒विर्विप्रे॑ण वावृधे । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । सोम॑ गी॒र्भिष्ट्वा॑ व॒यम् । व॒र्धया॑मो वचो॒विदः॑ । सु॒मृ॒डी॒को न॒ आवि॑श । जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ।। 9 ।। 3.5.7.0 अ॒स्त्व॒ध॒त्त॒॒ र॒यिञ्च॑र्‌षणि॒प्रास्सोम॑स्य प्रि॒या धामा॒नीष॒ष्षट्च॑ ।। 7 ।। 3.5.7.1 अ॒ग्निर्मू॒र्धा दि॒व क॒कुत् । पति॑ पृथि॒व्या अ॒यम् । अ॒पा रेता॑सि जिन्वति । भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता । यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्॒षाम् । जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहम् । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जहु॒मस्तन्नो॑ अस्तु ।। 10 ।। 3.5.7.2 व॒य स्या॑म॒ पत॑यो रयी॒णाम् । स वे॑द पु॒त्र पि॒तर॒॒ स मा॒तरम् । स सू॒नुर्भु॑व॒थ्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑ख्ष॒॒ स सुवः॑ । स विश्वा॒ भुवो॑ अभव॒थ्स आभ॑वत् । अग्नी॑षोमा॒ सवे॑दसा । सहू॑ती वनत॒ङ्गिरः॑ । सन्दे॑व॒त्रा ब॑भूवथुः । यु॒वमे॒तानि॑ दि॒वि रो॑च॒नानि॑ । अ॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।। 11 ।। 3.5.7.3 यु॒व सिन्धू॑ र॒भिश॑स्तेरव॒द्यात् । अग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान् । इन्द्राग्नी रोच॒ना दि॒वः । परि॒ वाजे॑षु भूषथः । तद्वाञ्चेति॒ प्रवी॒र्यम् । श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाजम् । इन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः । सह॑स्तमा॒ सह॑सा वाज॒यन्ता । एन्द्र॑ सान॒सि र॒यिम् ।। 12 ।। 3.5.7.4 स॒जित्वा॑न सदा॒सहम् । वर्‌षि॑ष्ठमू॒तये॑ भर । प्रस॑साहिषे पुरुहूत॒ शत्रून्॑ । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दख्षि॑णेना॒ वसू॑नि । पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् । म॒हा इन्द्रो॒ य ओज॑सा । प॒र्जन्यो॑ वृष्टि॒मा इ॑व । स्तोमैर्व॒थ्सस्य॑ वावृधे । म॒हा इन्द्रो॑ नृ॒वदाच॑र्‌षणि॒प्राः ।। 13 ।। 3.5.7.5 उ॒त द्वि॒बर्‌हा॑ अमि॒नस्सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑य । उ॒रु पृ॒थुस्सुकृ॑त क॒र्तृभि॑र्भूत् । पि॒प्री॒हि दे॒वा उ॑श॒तो य॑विष्ठ । वि॒द्वा ऋ॒तूऱ्ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने । त्व होतॄ॑णाम॒स्याय॑जिष्ठः । अ॒ग्नि स्वि॑ष्ट॒कृतम् । अया॑ड॒ग्निर॒ग्ने प्रि॒या धामा॑नि । अया॒ट्थ्सोम॑स्य प्रि॒या धामा॑नि ।। 14 ।। 3.5.7.6 अया॑ड॒ग्ने प्रि॒या धामा॑नि । अयाट्प्र॒जाप॑ते प्रि॒या धामा॑नि । अया॑ड॒ग्नीषोम॑यो प्रि॒या धामा॑नि । अया॑डिन्द्राग्नि॒योः प्रि॒या धामा॑नि । अया॒डिन्द्र॑स्य प्रि॒या धामा॑नि । अयाण्महे॒न्द्रस्य॑ प्रि॒या धामा॑नि । अयाड्दे॒वाना॑माज्य॒पानां प्रि॒या धामा॑नि । यख्ष॑द॒ग्नेर्‌होतु॑ प्रि॒या धामा॑नि । यख्ष॒थ्स्वं म॑हि॒मानम् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षता॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः । पाव॑क शोचे॒ वेष्ट्व हि यज्वा । ऋ॒ता य॑जासि महि॒ना वियद्भूः । ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ।। 15 ।। 3.5.8.0 स॒हर्‌ष॑भा ह्वयता॒मुप॑हूत हवि॒ष्कर॑ण॒ उप॑हूतश्च॒त्वारि॑ च ।। 8 ।। 3.5.8.1 उप॑हूत रथन्त॒र स॒ह पृ॑थि॒व्या । उप॑ मा रथन्त॒र स॒ह पृ॑थि॒व्या ह्व॑यताम् । उप॑हूतव्वाँमदे॒व्य स॒हान्तरि॑ख्षेण । उप॑ मा वामदे॒व्य स॒हान्तरि॑ख्षेण ह्वयताम् । उप॑हूतं बृ॒हथ्स॒ह दि॒वा । उप॑ मा बृ॒हथ्स॒ह दि॒वा ह्व॑यताम् । उप॑हूतास्स॒प्त होत्राः । उप॑ मा स॒प्त होत्रा ह्वयन्ताम् । उप॑हूता धे॒नुस्स॒हर्‌ष॑भा । उप॑ मा धे॒नुस्स॒हर्‌ष॑भा ह्वयताम् ।। 16 ।। 3.5.8.2 उप॑हूतो भ॒ख्षस्सखा । उप॑ मा भ॒ख्षस्सखा ह्वयताम् । उप॑हू॒ताँ(4)हो । इडोप॑हूता । उप॑हू॒तेडा । उपो॑ अ॒स्मा इडा ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी । ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ।। 17 ।। 3.5.8.3 दैव्या॑ अध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः । य इ॒मय्यँ॒ज्ञमवान्॑ । ये य॒ज्ञप॑ति॒व्वँर्धान्॑ । उप॑हूते॒ द्यावा॑पृथि॒वी । पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूतो॒ऽयय्यँज॑मानः । उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूतः । भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतः । दि॒व्ये धाम॒न्नुप॑हूतः । इ॒दं मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूतः । विश्व॑मस्य प्रि॒यमुप॑हूतम् । विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूतः ।। 18 ।। 3.5.9.0 अपि॑प्रे॒ पञ्च॑ च ।। 9 ।। 3.5.9.1 दे॒वं ब॒र्‌हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो नरा॒शसः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्र क॒विः । स॒त्यम॑न्माय॒जी होता । होतु॑र्‌होतु॒राय॑जीयान् । अग्ने॒ यान् दे॒वानयाट् । या अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑थ्सत । ता स॑स॒नुषी॒॒ होत्रान्देवङ्ग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः । व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ।। 19 ।। 3.5.10.0 अ॒भ॒य॒ङ्कृता॑वकृता॒ग्निरि॒द ह॒विर॑जुषत महे॒न्द्र इ॒द ह॒विर॑जुषत सजातवन॒स्यामा शास्ते वी॒तञ्च॒ त्रीणि॑ च ।। 10 ।। 3.5.10.1 इ॒दन्द्या॑वापृथिवी भ॒द्रम॑भूत् । आर्ध्म॑ सूक्तवा॒कम् । उ॒त न॑मोवा॒कम् । ऋ॒ध्यास्म॑ सू॒क्तोच्य॑मग्ने । त्व सूक्त॒वाग॑सि । उप॑श्रितो दि॒व पृ॑थि॒व्योः । ओम॑न्वती ते॒ऽस्मिन् य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी स्ताम् । श॒ङ्ग॒ये जी॒रदा॑नू । अत्र॑स्नू॒ अप्र॑वेदे । उ॒रुग॑व्यूती अभय॒ङ्कृतौ ।। 20 ।। 3.5.10.2 वृ॒ष्टिद्या॑वा री॒त्या॑पा । श॒म्भुवौ॑ मयो॒भुवौ । ऊर्ज॑स्वती च॒ पय॑स्वती च । सू॒प॒च॒र॒णा च॑ स्वधिचर॒णा च॑ । तयो॑रा॒विदि॑ । अ॒ग्निरि॒द ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । सोम॑ इ॒दह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । अ॒ग्निरि॒द ह॒विर॑जुषत ।। 21 ।। 3.5.10.3 अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । प्र॒जाप॑तिरि॒द ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । अ॒ग्नीषोमा॑वि॒द ह॒विर॑जुषेताम् । अवी॑वृधेतां॒ महो॒ ज्यायोऽक्राताम् । इ॒न्द्रा॒ग्नी इ॒द ह॒विर॑जुषेताम् । अवी॑वृधेतां॒ महो॒ ज्यायोऽक्राताम् । इन्द्र॑ इ॒द ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । म॒हे॒न्द्र इ॒द ह॒विर॑जुषत ।। 22 ।। 3.5.10.4 अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । दे॒वा आज्य॒पा आज्य॑मजुषन्त । अवी॑वृधन्त॒ महो॒ ज्यायोऽक्रत । अ॒ग्निर्‌हो॒त्रेणे॒द ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । अ॒स्यामृध॒द्धोत्रा॑यान्देवङ्ग॒मायाम् । आशास्ते॒ऽयय्यँज॑मानो॒ऽसौ । आयु॒रा शास्ते । सु॒प्र॒जा॒स्त्वमा शास्ते । स॒जा॒त॒व॒न॒स्यामा शास्ते ।। 23 ।। 3.5.10.5 उत्त॑रान्देवय॒ज्यामा शास्ते । भूयो॑ हवि॒ष्कर॑ण॒मा शास्ते । दि॒व्यन्धामा शास्ते । विश्वं॑ प्रि॒यमा शास्ते । यद॒नेन॑ ह॒विषाऽऽशास्ते । तद॑श्या॒त्तदृ॑ध्यात् । तद॑स्मै दे॒वा रा॑सन्ताम् । तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते । व॒यम॒ग्नेर्मानु॑षाः । इ॒ष्टञ्च॑ वी॒तञ्च॑ । उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अह॑सस्पाताम् । इ॒ह गति॑र्वा॒मस्ये॒दञ्च॑ । नमो॑ दे॒वेभ्यः॑ ।। 24 ।। 3.5.11.0 तच्छ॒य्योँर॒ष्टौ ।। 11 ।। 3.5.11.1 तच्छ॒य्योँरा वृ॑णीमहे । गा॒तुय्यँ॒ज्ञाय॑ । गा॒तुय्यँ॒ज्ञप॑तये । दैवी स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वञ्जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे । शञ्चतु॑ष्पदे ।। 25 ।। 3.5.12.0 जनी॑नाम॒ष्टौ च॑ ।। 12 ।। 3.5.12.1 आप्या॑यस्व॒ सन्ते । इ॒ह त्वष्टा॑रमग्रि॒यन्तन्न॑स्तु॒रीपम् । दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः । प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । या पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते । ता नो॑ देवीस्सुहवा॒श्शर्म॑ यच्छत । उ॒त ग्ना वि॑यन्तु दे॒वप॑त्नीः । इ॒न्द्रा॒ण्य॑ग्नाय्य॒श्विनी॒ राट् । आ रोद॑सी वरुणा॒नी शृ॑णोतु । वि॒यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ।। 26 ।। 3.5.12.2 अ॒ग्निर्‌होता॑ गृ॒हप॑ति॒स्स राजा । विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः । दे॒वाना॑मु॒त यो मर्त्या॑नाम् । यजि॑ष्ठ॒स्स प्र य॑जतामृ॒तावा । व॒यमु॑ त्वा गृहपते॒ जना॑नाम् । अग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्तम् । अ॒स्थू॒रि णो॒ गार्‌ह॑पत्यानि सन्तु । ति॒ग्मेन॑ न॒स्तेज॑सा॒ सशि॑शाधि ।। 27 ।। 3.5.13.0 स॒हऱ्ष॑भा ह्वयता॒मुप॑हूत सुपु॒त्रा षट्च॑ ।। 13 ।। 3.5.13.1 उप॑हूत रथन्त॒र स॒ह पृ॑थि॒व्या । उप॑ मा रथन्त॒र स॒ह पृ॑थि॒व्या ह्व॑यताम् । उप॑हूतव्वाँमदे॒व्य स॒हान्तरि॑ख्षेण । उप॑ मा वामदे॒व्य स॒हान्तरि॑ख्षेण ह्वयताम् । उप॑हूतं बृ॒हथ्स॒ह दि॒वा । उप॑ मा बृ॒हथ्स॒ह दि॒वा ह्व॑यताम् । उप॑हूतास्स॒प्त होत्राः । उप॑ मा स॒प्त होत्रा ह्वयन्ताम् । उप॑हूता धे॒नुस्स॒हर्ष॑भा । उप॑ मा धे॒नुस्स॒हर्‌ष॑भा ह्वयताम् ।। 28 ।। 3.5.13.2 उप॑हूतो भ॒ख्षस्सखा । उप॑ मा भ॒ख्षस्सखा ह्वयताम् । उप॑हू॒ताँ(4)हो । इडोप॑हूता । उप॑हू॒तेडा । उपो॑ अ॒स्मा इडा ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी । ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ।। 29 ।। 3.5.13.3 दैव्या॑ अध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः । य इ॒मय्यँ॒ज्ञमवान्॑ । ये य॒ज्ञप॑त्नी॒व्वँर्धान्॑ । उप॑हूते॒ द्यावा॑पृथि॒वी । पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूते॒यय्यँज॑माना । इ॒न्द्राणीवा॑ऽविध॒वा । अदि॑तिरिव सुपु॒त्रा । उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूता । भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूता । दि॒व्ये धाम॒न्नुप॑हूता । इ॒दं मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूता । विश्व॑मस्या प्रि॒यमुप॑हूतम् । विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूता ।। 30 ।। 3.6.0.0 अ॒ञ्जन्ति॒ होता॑ यख्ष॒थ्समि॑द्धो अ॒द्याग्निरजै॒द्दैव्या॑ जु॒षस्वा वृ॑त्रहणा गी॒र्भिस्त्व ह्याभ॑रत॒मुपो॑ह॒ यद्दे॒वं ब॒र्॒हिस्सु॑दे॒वन्दे॒वं ब॒र्॒हिर॒ग्निम॒द्य पञ्च॑दश ।। 15 ।। अ॒ञ्जन्त्य॒ग्निऱ्होता॑ नो गी॒र्भिरुपो॑ ह॒ यद्वि॒दथं॑ वा॒जिन॑स्स॒प्तत्रि॑शत् ।। 37 ।। अ॒ञ्जन्ति॑ सू॒क्ताब्रू॑हि ।। हरिः॑ओम् ।। षष्ठ प्रपाठकस्समाप्तः ।। 3.6.0.0 तृतीयाष्टके षष्ठप्रपाठक प्रारम्भः हरिःओम् ।। 3.6.1.0 सु॒वीर॒न्दुव॒स्स्वा॑हुतो॒ऽष्टौ च॑ ।। 1 ।। 3.6.1.1 अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तः॑ । वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्ध्वस्ति॑ष्ठा॒द्द्रवि॑णे॒ह ध॑त्तात् । यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे । उच्छ्र॑यस्व वनस्पते । वर्ष्म॑न्पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नः । वर्चो॑धा य॒ज्ञवा॑हसे । समि॑द्धस्य॒ श्रय॑माण पु॒रस्तात् । ब्रह्म॑ वन्वा॒नो अ॒जर॑ सु॒वीरम् ।। 1 ।। 3.6.1.2 आ॒रे अ॒स्मदम॑तिं॒ बाध॑मानः । उच्छ्र॑यस्व मह॒ते सौभ॑गाय । ऊ॒र्ध्व ऊ॒षुण॑ ऊ॒तये । तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभिः॑ । वा॒घद्भि॑र्वि॒ह्वया॑महे । ऊ॒र्ध्वो न॑ पा॒ह्यह॑सो॒ नि के॒तुना । विश्व॒॒ सम॒त्रिण॑न्दह । कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒ रथा॑य जी॒वसे । वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ।। 2 ।। 3.6.1.3 जा॒तो जा॑यते सुदिन॒त्वे अह्नाम् । सम॒र्य आ वि॒दथे॒ वर्ध॑मानः । पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा । दे॒व॒या विप्र॒ उदि॑यर्ति॒ वाचम् । युवा॑ सु॒वासा॒ परि॑वीत॒ आगात् । स उ॒ श्रेयान्भवति॒ जाय॑मानः । तन्धीरा॑स क॒वय॒ उन्न॑यन्ति । स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ । पृ॒थु॒पाजा॒ अम॑र्त्यः । घृ॒तनि॑र्णि॒ख्स्वा॑हुतः । अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् । त स॒बाधो॑ य॒तस्स्रु॑चः । इ॒त्था धि॒या य॒ज्ञव॑न्तः । आच॑क्रुर॒ग्निमू॒तये । त्वव्वँरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वाव्वँ॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।। 3 ।। 3.6.2.0 प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ च॒त्वारि॑ च ।। 2 ।। (अ॒ग्निन्तनू॒नपा॑त॒न्नरा॒शस॑म॒ग्निमि॒ड ई॑डि॒तो ब॒र्‌हिर्दुर॑ उ॒षासा॒नक्ता॒ दैव्या॑ ति॒स्रस्त्वष्टा॑र॒व्वँन॒स्पति॑म॒ग्निम् । पञ्च॒ वेत्वेको॑ वि॒यन्तु॒ द्विर्वी॒तामेको॑ वि॒यन्तु॒ द्विर्वेत्वेको॑ वियन्तु॒ होत॒र्यज॑ ।। ) 3.6.2.1 होता॑ यख्षद॒ग्नि स॒मिधा॑ सुष॒मिधा॒ समि॑द्धं॒ नाभा॑ पृथि॒व्यास्स॑ङ्ग॒थे वा॒मस्य॑ । वर्ष्म॑न्दि॒व इ॒डस्प॒दे वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्तनू॒नपा॑त॒मदि॑ते॒र्गर्भं॒ भुव॑नस्य गो॒पाम् । मध्वा॒द्य दे॒वो दे॒वेभ्यो॑ देव॒यानान्प॒थो अ॑नक्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒न्नरा॒शसं॑ नृश॒स्त्रं नॄ प्र॑णेत्रम् । गोभि॑र्व॒पावा॒न्थ्स्याद्वी॒रैश्शक्ती॑वा॒न्रथै प्रथम॒या वा॒ हिर॑ण्यैश्च॒न्द्री वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षद॒ग्निमि॒ड ई॑डि॒तो दे॒वो दे॒वा आव॑क्षद्दू॒तो ह॑व्य॒वाडमू॑रः । उपे॒मय्यँ॒ज्ञमुपे॒मां दे॒वो दे॒वहू॑तिमवतु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षद्ब॒र्‌हिस्सु॒ष्टरी॒मोर्णं॑म्रदा अ॒स्मिन् य॒ज्ञे वि च॒ प्र च॑ प्रथता स्वास॒स्थं दे॒वेभ्यः॑ । एमे॑नद॒द्य वस॑वो रु॒द्रा आ॑दि॒त्यास्स॑दन्तु प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्याज्य॑स्य॒ होत॒र्यज॑ ।। 4 ।। 3.6.2.2 होता॑ यख्ष॒द्दुर॑ ऋ॒ष्वा क॑व॒ष्यो को॑षधावनी॒रुदाता॑भी॒र्जिह॑ता॒व्विँपख्षो॑भिः श्रयन्ताम् । सु॒प्रा॒य॒णा अ॒स्मिन् य॒ज्ञे विश्र॑यन्तामृता॒वृधो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षदु॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ नॄ पति॑भ्यो॒ योनि॑ङ्कृण्वा॒ने । स॒॒स्मय॑माने॒ इन्द्रे॑ण दे॒वैरेदं ब॒र्॒हिस्सी॑दताव्वीँ॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्दैव्या॒ होता॑रा म॒न्द्रा पोता॑रा क॒वी प्रचे॑तसा । स्वि॑ष्टम॒द्यान्य क॑रदि॒षा स्व॑भिगूर्तम॒न्य ऊ॒र्जा सत॑वसे॒मय्यँ॒ज्ञं दि॒वि दे॒वेषु॑ धत्ताव्वीँ॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षत्ति॒स्रो दे॒वीर॒पसा॑म॒पस्त॑मा॒ अच्छि॑द्रम॒द्येदमप॑स्तन्वताम् । दे॒वेभ्यो॑ दे॒वीर्दे॒वमपो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒त्त्वष्टा॑र॒मचि॑ष्टु॒मपा॑क रेतो॒धां विश्र॑वसय्यँशो॒धाम् । पु॒रु॒रूप॒मका॑मकर्‌शन सु॒पोष॒ पोषै॒स्स्याथ्सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्ष॒द्वन॒स्पति॑मु॒पाव॑स्रख्षद्धि॒यो जो॒ष्टार॑ श॒शम॒न्नरः॑ । स्वदा॒थ्स्वधि॑तिर् ऋतु॒थाद्य दे॒वो दे॒वेभ्यो॑ ह॒व्यावा॒ड्वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यख्षद॒ग्नि स्वाहाऽऽज्य॑स्य॒ स्वाहा॒ मेद॑स॒स्स्वाहा स्तो॒काना॒॒ स्वाहा॒ स्वाहा॑कृतीना॒॒ स्वाहा॑ ह॒व्यसूक्तीनाम् । स्वाहा॑ दे॒वा आज्य॒पान्थ्स्वाहा॒ऽग्नि हो॒त्राज्जु॑षा॒णा अग्न॒ आज्य॑स्य वियन्तु॒ होत॒र्यज॑ ।। 5 ।। 3.6.3.0 य॒ज्ञैस्स्यो॒नं यज॑ध्यै वि॒द्वान॒ष्टौ च॑ ।। 3 ।। 3.6.3.1 समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे । दे॒वो दे॒वान् य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् । त्वन्दू॒त क॒विर॑सि॒ प्रचे॑ताः । तनू॑नपात्प॒थ ऋ॒तस्य॒ यानान्॑ । मध्वा॑ सम॒ञ्जन्थ्स्व॑दया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्न् । दे॒व॒त्रा च॑ कृणुह्यध्व॒रन्नः॑ । नरा॒शस॑स्य महि॒मान॑मेषाम् । उप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः ।। 6 ।। 3.6.3.2 ते सु॒क्रत॑व॒श्शुच॑यो धिय॒न्धाः । स्वद॑न्तु दे॒वा उ॒भया॑नि ह॒व्या । आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॑श्च । आयाह्यग्ने॒ वसु॑भिस्स॒जोषाः । त्वं दे॒वाना॑मसि यह्व॒ होता । स ए॑नान् यख्षीषि॒तो यजी॑यान् । प्रा॒चीनं॑ ब॒र्‌हि प्र॒दिशा॑ पृथि॒व्याः । वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्नाम् । व्यु॑ प्रथते वित॒रव्वँरी॑यः । दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ।। 7 ।। 3.6.3.3 व्यच॑स्वतीरुर्वि॒या विश्र॑यन्ताम् । पति॑भ्यो॒ न जन॑य॒श्शुम्भ॑मानाः । देवीर्द्वारो बृहतीर्विश्वमिन्वाः । दे॒वेभ्यो॑ भवथ सुप्राय॒णाः । आसु॒ष्वय॑न्ती यज॒ते उपा॑के । उ॒षासा॒नक्ता॑ सदता॒न्नि योनौ । दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे । अधि॒ श्रिय॑ शुक्र॒पिश॒न्दधा॑ने । दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा । मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै ।। 8 ।। 3.6.3.4 प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू । प्रा॒चीन॒ञ्ज्योति॑ प्र॒दिशा॑ दि॒शन्ता । आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मेतु । इडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती । ति॒स्रो दे॒वीर्ब॒र्‌हिरेद स्यो॒नम् । सर॑स्वती॒ स्वप॑सस्सदन्तु । य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री । रू॒पैरपि॑श॒द्भुव॑नानि॒ विश्वा । तम॒द्य हो॑तरिषि॒तो यजी॑यान् । दे॒वन्त्वष्टा॑रमि॒ह य॑ख्षि वि॒द्वान् ।। 9 ।। 3.6.3.5 उ॒पाव॑सृज॒त्मन्या॑ सम॒ञ्जन्न् । दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वीषि॑ । वन॒स्पति॑श्शमि॒ता दे॒वो अ॒ग्निः । स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ । स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम् । अ॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः । अ॒स्य होतु॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि । स्वाहा॑कृत ह॒विर॑दन्तु दे॒वाः ।। 10 ।। 3.6.4.0 अ॒ग्निर्‌होता॑ नो॒ नव॑ ।। 4 ।। 3.6.4.1 अ॒ग्निर्‌होता॑ नो अध्व॒रे । वा॒जी सन्परि॑णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ । परि॑त्रिवि॒ष्ट्य॑ध्व॒रम् । यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् । परि॒ वाज॑पति क॒विः । अ॒ग्निर्‌ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे ।। 11 ।। 3.6.5.0 अजै॑द॒ष्टौ ।। 5 ।। 3.6.5.1 अजै॑द॒ग्निः । अस॑न॒द्वाज॒न्नि । दे॒वो दे॒वेभ्यो॑ ह॒व्यावाट् । प्राञ्जो॑भिर्‌हिन्वा॒नः । धेना॑भि॒ कल्प॑मानः । य॒ज्ञस्यायु॑ प्रति॒रन्न् । उप॒ प्रेष्य॑ होतः । ह॒व्या दे॒वेभ्यः॑ ।। 12 ।। 3.6.6.0 ध॒त्ता॒द्बा॒हू मा रा॑विष्ट॒ तथा॑तथा ।। 6 ।। 3.6.6.1 दैव्याश्शमितार उ॒त म॑नुष्या॒ आर॑भध्वम् । उप॑नयत॒ मेध्या॒ दुरः॑ । आ॒शासा॑ना॒ मेध॑पतिभ्यां॒ मेधम् । प्रास्मा॑ अ॒ग्निं भ॑रत । स्तृ॒णी॒त ब॒र्॒हिः । अन्वे॑नं मा॒ता म॑न्यताम् । अनु॑ पि॒ता । अनु॒ भ्राता॒ सग॑र्भ्यः । अनु॒ सखा॒ सयूथ्यः । उ॒दी॒चीना॑ अस्य प॒दो निध॑त्तात् ।। 13 ।। 3.6.6.2 सूर्य॒ञ्चख्षु॑र्गमयतात् । वातं॑ प्रा॒णम॒न्वव॑सृजतात् । दिश॒श्श्रोत्रम् । अ॒न्तरि॑ख्ष॒मसुम् । पृ॒थि॒वी शरी॑रम् । ए॒क॒धाऽस्य॒ त्वच॒माच्छ्य॑तात् । पु॒रा नाभ्या॑ अपि॒शसो॑ व॒पामुत्खि॑दतात् । अ॒न्तरे॒वोष्माण॑व्वाँरयतात् । श्ये॒नम॑स्य॒ वख्ष॑ कृणुतात् । प्र॒शसा॑ बा॒हू ।। 14 ।। 3.6.6.3 श॒ला दो॒षणी । क॒श्यपे॒वासा । अच्छि॑द्रे॒ श्रोणी । क॒वषो॒रू स्रे॒कप॑र्णाष्ठी॒वन्ता । षड्वि॑शतिरस्य॒ वङ्क्र॑यः । ता अ॑नु॒ष्ठ्योच्च्या॑वयतात् । गात्र॑ङ्गात्रम॒स्यानू॑नङ्कृणुतात् । ऊ॒व॒ध्य॒गो॒हं पार्थि॑वङ्खनतात् । अ॒स्ना रख्ष॒स्ससृ॑जतात् । व॒नि॒ष्ठुम॑स्य॒ मा रा॑विष्ट ।। 15 ।। 3.6.6.4 उरू॑कं॒ मन्य॑मानाः । नेद्व॑स्तो॒के तन॑ये । रवि॑ता॒रव॑च्छमितारः । अध्रि॑गो शमी॒ध्वम् । सु॒शमि॑ शमीध्वम् । श॒मी॒ध्वम॑ध्रिगो । अध्रि॑गु॒श्चापा॑पश्च । उ॒भौ दे॒वाना॑ शमि॒तारौ । तावि॒मं प॒शु श्र॑पयतां प्रवि॒द्वासौ । यथा॑यथाऽस्य॒ श्रप॑ण॒न्तथा॑तथा ।। 16 ।। 3.6.7.0 दे॒ववी॑तय॒ उद्भृ॑त॒न्त्रीणि॑ च ।। 7 ।। 3.6.7.1 जु॒षस्व॑ स॒प्रथ॑स्तमम् । वचो॑ दे॒वफ्स॑रस्तमम् । ह॒व्या जुह्वा॑न आ॒सनि॑ । इ॒मन्नो॑ य॒ज्ञम॒मृते॑षु धेहि । इ॒मा ह॒व्या जा॑तवेदो जुषस्व । स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॑ । होत॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ । घृ॒तव॑न्तः पावक ते । स्तो॒काश्श्चो॑तन्ति॒ मेद॑सः । स्वध॑र्मन्दे॒ववी॑तये ।। 17 ।। 3.6.7.2 श्रेष्ठ॑न्नो धेहि॒ वार्यम् । तुभ्य॑ स्तो॒का घृ॑त॒श्चुतः॑ । अग्ने॒ विप्रा॑य सन्त्य । ऋषि॒श्श्रेष्ठ॒स्समि॑ध्यसे । य॒ज्ञस्य॑ प्रावि॒ता भ॑व । तुभ्य॑ श्चोतन्त्यध्रिगो शचीवः । स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ । क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागाः । ह॒व्या जु॑षस्व मेधिर । ओजि॑ष्ठन्ते मध्य॒तो मेद॒ उद्भृ॑तम् । प्र ते॑ व॒यन्द॑दामहे । श्चोत॑न्ति ते वसो स्तो॒का अधि॑त्व॒चि । प्रति॒ तान्दे॑व॒शोवि॑हि ।। 18 ।। 3.6.8.0 स॒जा॒तान॒ग्निन्द्वे च॑ ।। 8 ।। 3.6.8.1 आवृ॑त्रहणा वृत्र॒हभि॒श्शुष्मैः । इन्द्र॑ या॒तन्नमो॑भिरग्ने अ॒र्वाक् । यु॒व राधो॑भि॒रक॑वेभिरिन्द्र । अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ । होता॑ यख्षदिन्द्रा॒ग्नी । छाग॑स्य व॒पाया॒ मेद॑सः । जु॒षेता॑ ह॒विः । होत॒र्यज॑ । विह्यख्य॒न्मन॑सा॒ वस्य॑ इ॒च्छन्न् । इन्द्राग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ।। 19 ।। 3.6.8.2 नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यम् । स वा॒न्धिय॑व्वाँज॒यन्ती॑मतख्षम् । होता॑ यख्षदिन्द्रा॒ग्नी । पु॒रो॒डाश॑स्य जु॒षेता॑ ह॒विः । होत॒र्यज॑ । त्वामी॑डते अजि॒रन्दू॒त्या॑य । ह॒विष्म॑न्त॒स्सद॒मिन्मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्‌हि॒र॑ग्ने । अहान्यस्मै सु॒दिना॑ भवन्तु । होता॑ यख्षद॒ग्निम् । पु॒रो॒डाश॑स्य जु॒षता॑ ह॒विः । होत॒र्यज॑ ।। 20 ।। 3.6.9.0 जा॒त॒वे॒दो॒ द्वे च॑ ।। 9 ।। 3.6.9.1 गी॒र्भिर्विप्र॒ प्रम॑तिमि॒च्छमा॑नः । ईट्टे॑ र॒यिय्यँ॒शसं॑ पूर्व॒भाजम् । इन्द्राग्नी वृत्रहणा सुवज्रा । प्र णो॒ नव्ये॑भिस्तिरतन्दे॒ष्णैः । माच्छेद्म र॒श्मीरिति॒ नाध॑मानाः । पि॒तृ॒णा शक्ती॑रनु॒यच्छ॑मानाः । इ॒न्द्रा॒ग्निभ्या॒ङ्कव्वृँष॑णो मदन्ति । ताह्यद्री॑ धि॒षणा॑या उ॒पस्थे । अ॒ग्नि सु॑दी॒ति सु॒दृश॑ङ्गृ॒णन्तः॑ । न॒म॒स्याम॒स्त्वेड्य॑ञ्जातवेदः । त्वान्दू॒तम॑र॒ति ह॑व्य॒वाहम् । दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिम् ।। 21 ।। 3.6.10.0 जा॒गृ॒वासो॒ अनु॑ग्म॒न्मानु॑षाणाञ्चर्‌षणी॒नाय्यँ॑तेमाश्या॒न्द्वे च॑ ।। 10 ।। 3.6.10.1 त्व ह्य॑ग्ने प्रथ॒मो म॒नोता । अ॒स्या धि॒यो अभ॑वो दस्म॒होता । त्व सीव्वृँषन्नकृणोर्दु॒ष्टरी॑तु । सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै । अधा॒ होता॒ न्य॑सीदो॒ यजी॑यान् । इ॒डस्प॒द इ॒षय॒न्नीड्य॒स्सन्न् । तन्त्वा॒ नर॑ प्रथ॒मन्दे॑व॒यन्तः॑ । म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ग्मन्न् । वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्वस॒व्यैः । त्वे र॒यिञ्जा॑गृ॒वासो॒ अनु॑ग्मन्न् ।। 22 ।। 3.6.10.2 रुश॑न्तम॒ग्निन्द॑र्‌श॒तम्बृ॒हन्तम् । व॒पाव॑न्तव्विँ॒श्वहा॑ दीदि॒वासम् । प॒दन्दे॒वस्य॒ नम॑सा वि॒यन्तः॑ । श्र॒व॒स्यव॒श्श्रव॑ आप॒न्नमृ॑क्तम् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । भ॒द्रायान्ते रणयन्त॒ सन्दृ॑ष्टौ । त्वाव्वँ॑र्धन्ति ख्षि॒तय॑ पृथि॒व्याम् । त्व राय॑ उ॒भया॑सो॒ जना॑नाम् । त्वन्त्रा॒ता त॑रणे॒ चेत्यो॑भूः । पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ।। 23 ।। 3.6.10.3 सप॒र्येण्य॒स्स प्रि॒यो वि॒ख्ष्व॑ग्निः । होता॑ म॒न्द्रो निष॑सादा॒ यजी॑यान् । तन्त्वा॑ व॒यन्दम॒ आ दी॑दि॒वासम् । उप॑ज्ञु॒बाधो॒ नम॑सा सदेम । तन्त्वा॑ व॒य सु॒धियो॒ नव्य॑मग्ने । सु॒म्ना॒यव॑ ईमहे देव॒यन्तः॑ । त्वव्विँशो॑ अनयो॒ दीद्या॑नः । दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ । वि॒शाङ्क॒विव्विँ॒श्पति॒॒ शश्व॑तीनाम् । नि॒तोश॑नव्वृँष॒भञ्च॑र्‌षणी॒नाम् ।। 24 ।। 3.6.10.4 प्रेती॑षणि मि॒षय॑न्तं पाव॒कम् । राज॑न्तम॒ग्निय्यँ॑ज॒त र॑यी॒णाम् । सो अ॑ग्न ईजे शश॒मे च॒ मर्तः॑ । यस्त॒ आन॑ट्थ्स॒मिधा॑ ह॒व्यदा॑तिम् । य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भिः । विश्वेथ्सवा॒मा द॑धते॒ त्वोतः॑ । अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम । नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः । वेदी॑सूनो सहसो गी॒र्भिरु॒क्थैः । आ ते भ॒द्राया॑ सुम॒तौ य॑तेम ।। 25 ।। 3.6.10.5 आ॒ यस्त॒तन्थ॒ रोद॑सी॒ विभा॒सा । श्रवो॑भिश्च श्रव॒स्य॑स्तरु॑त्रः । बृ॒हद्भि॒र्वाजै॒स्स्थवि॑रेभिर॒स्मे । रे॒वद्भि॑रग्ने वित॒रव्विँ भा॑हि । नृ॒वद्व॑सो॒ सद॒मिद्धेह्य॒स्मे । भूरि॑तो॒काय॒ तन॑याय प॒श्वः । पू॒र्वीरिषो॑ बृह॒तीरा॒रे अ॑घाः । अ॒स्मे भ॒द्रा सौश्रव॒सानि॑ सन्तु । पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या । वसू॑नि राजन्व॒सुता॑ते अश्याम् । पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्ति॑ । अग्ने॒ वसु॑ विध॒ते राज॑नि॒त्वे ।। 26 ।। 3.6.11.0 नू॒नमर्थ॑ङ्कृ॒त्वी पाथा॑सि स॒प्त च॑ ।। 11 ।। 3.6.11.1 आभ॑रत शिख्षतव्वँज्रबाहू । अ॒स्मा इ॑न्द्राग्नी अवत॒॒ शची॑भिः । इ॒मे नु ते र॒श्मय॒स्सूर्य॑स्य । येभि॑स्सपि॒त्वं पि॒तरो॑ न॒ आयन्न्॑ । होता॑ यख्षदिन्द्रा॒ग्नी । छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य । म॒ध्य॒तो मेद॒ उद्भृ॑तम् । पु॒रा द्वेषोभ्यः । पु॒रा पौरु॑षेय्या गृ॒भः । घस्तान्नू॒नम् ।। 27 ।। 3.6.11.2 घा॒से अ॑ज्राणा॒य्यँव॑सप्रथमानाम् । सु॒मत्ख्ष॑राणा श॒तरु॑द्रियाणाम् । अ॒ग्नि॒ष्वा॒त्तानां॒ पीवो॑पवसनानाम् । पा॒र्श्व॒तः श्रो॑णि॒तश्शि॑ताम॒त उ॑थ्साद॒तः । अङ्गा॑दङ्गा॒दव॑त्तानाम् । कर॑त ए॒वेन्द्रा॒ग्नी । जु॒षेता॑ ह॒विः । होत॒र्यज॑ । दे॒वेभ्यो॑ वनस्पते ह॒वीषि॑ । हिर॑ण्यपर्ण प्र॒दिव॑स्ते॒ अर्थम् । ।। 28 ।। 3.6.11.3 प्र॒द॒ख्षि॒णिद्र॑श॒नया॑ नि॒यूय॑ । ऋ॒तस्य॑ वख्षि प॒थिभी॒ रजि॑ष्ठैः । होता॑ यख्षद्वन॒स्पति॑म॒भिहि । पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त । यत्रेन्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ प्रि॒या धामा॑नि । यत्र॒ वन॒स्पते प्रि॒या पाथा॑सि । यत्र॑ दे॒वाना॑माज्य॒पानां प्रि॒या धामा॑नि । यत्रा॒ग्नेर्‌होतु॑ प्रि॒या धामा॑नि । तत्रै॒तं प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑ वो॒पाव॑स्रख्षत् । रभी॑यासमिव कृ॒त्वी ।। 29 ।। 3.6.11.4 कर॑दे॒वन्दे॒वो वन॒स्पतिः॑ । जु॒षता॑ ह॒विः । होत॒र्यज॑ । पि॒प्री॒हि दे॒वा उ॑श॒तो य॑विष्ठ । वि॒द्वा ऋ॒तूऱ्ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने । त्व होतॄ॑णाम॒स्याय॑जिष्ठः । होता॑ यख्षद॒ग्नि स्वि॑ष्ट॒कृतम् । अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ प्रि॒या धामा॑नि । अया॒ड्वन॒स्पते प्रि॒या पाथा॑सि । अयाड्दे॒वाना॑माज्य॒पानां प्रि॒या धामा॑नि । यख्ष॑द॒ग्नेर्‌होतु॑ प्रि॒या धामा॑नि । यख्ष॒थ्स्वं म॑हि॒मानम् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षता॑ ह॒विः । होत॒र्यज॑ ।।30।। 3.6.12.0 धामा॑नि॒ भूरेक॑ञ्च ।। 12 ।। 3.6.12.1 उपो॑ ह॒ यद्वि॒दथ॑व्वाँ॒जिनो॒ गूः । गी॒र्भिर्विप्रा॒ प्रम॑तिमि॒च्छमा॑नाः । अ॒र्वन्तो॒ न काष्ठा॒न्नख्ष॑माणाः । इ॒न्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते । वन॑स्पते रश॒नया॑ऽभि॒धाय॑ । पि॒ष्टत॑मया व॒युना॑नि वि॒द्वान् । वह॑ देव॒त्रा दि॑धिषो ह॒वीषि॑ । प्र च॑दा॒तार॑म॒मृते॑षु वोचः । अ॒ग्नि स्वि॑ष्ट॒कृतम् । अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छग॑स्य ह॒विष॑ प्रि॒या धामा॑नि ।। 31 ।। 3.6.12.2 अया॒ड्वन॒स्पते प्रि॒या पाथा॑सि । अयाड्दे॒वाना॑माज्य॒पानां प्रि॒या धामा॑नि । यख्ष॑द॒ग्नेर्‌होतु॑ प्रि॒या धामा॑नि । यख्ष॒थ्स्वं म॑हि॒मानम् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षता॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः । पाव॑क शोचे॒ वेष्ट्व हि यज्वा । ऋ॒ता य॑जासि महि॒ना वियद्भूः । ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ।। 32 ।। 3.6.13.0 यजैक॑ञ्च ।। 13 ।। 3.6.13.1 दे॒वं ब॒र्॒हिस्सु॑दे॒वन्दे॒वैस्स्याथ्सु॒वीर॑व्वीँ॒रैर्वस्तोर्वृ॒ज्येता॒क्तो प्रभ्रि॑ये॒तात्य॒न्यान्रा॒या ब॒र्॒हिष्म॑तो मदेम वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वार॑स्सङ्घा॒ते वि॒ड्वीर्याम॑ञ्छिथि॒रा ध्रु॒वा दे॒वहू॑तौ व॒थ्स ई॑मेना॒स्तरु॑ण॒ आमि॑मीयात्कुमा॒रो वा॒ नव॑जातो॒ मैना॒ अर्वा॑ रे॒णुक॑काट॒ पृण॑ग्वसु॒वने॑ वसु॒धेय॑स्य वियन्तु यज॑ । दे॒वी उ॒षासा॒नक्ताऽद्या॒स्मिन्‌य॒ज्ञे प्र॑य॒त्य॑ह्वेता॒मपि॑ नू॒नन्दैवी॒र्विश॒ प्राया॑सिष्टा॒॒ सुप्री॑ते॒ सुधि॑ते वसु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वी जोष्ट्री॒ वसु॑धिती॒ ययो॑र॒न्याऽघाद्द्वेषा॑सि यू॒यव॒दान्याव॑ख्ष॒द्वसु॒ वार्या॑णि॒ यज॑मानाय वसु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वी ऊ॒र्जाहु॑ती॒ इष॒मूर्ज॑म॒न्याव॑ख्ष॒थ्सग्धि॒॒ सपी॑तिम॒न्या नवे॑न॒ पूर्व॒न्दय॑माना॒स्स्याम॑ पुरा॒णेन॒ नव॒न्तामूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने अधाताव्वँसु॒वने॑ वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वा दैव्या॒ होता॑रा॒ नेष्टा॑रा॒ पोता॑रा ह॒ताघ॑शसावाभ॒रद्व॑सू वसु॒वने वसु॒धेय॑स्य वीता॒य्यँज॑ । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीरिडा॒ सर॑स्वती॒ भार॑ती॒ द्यां भार॑त्यादि॒त्यैर॑स्पृख्ष॒थ्सर॑स्वती॒म रु॒द्रैर्य॒ज्ञमा॑वीदि॒हैवेड॑या॒ वसु॑मत्या सध॒मादं॑ मदेम वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो नरा॒शस॑स्त्रिशी॒र्॒षा ष॑ड॒ख्षश्श॒तमिदे॑नशितिपृ॒ष्ठा आद॑धति स॒हस्र॑मीं॒ प्रव॑हन्ति मि॒त्रावरु॒णेद॑स्य हो॒त्रमऱ्ह॑तो॒ बृह॒स्पति॑स्स्तो॒त्रम॒श्विनाऽऽ- ध्व॑र्यवव्वँसु॒वने॑वसु॒धेयस्य॑ वेतु॒ यज॑ । दे॒वो वन॒स्पति॑र्व॒र्॒षप्रा॑वा घृ॒तनि॑र्णि॒ग्द्यामग्रे॒णास्पृ॑ख्ष॒दान्तरि॑ख्षं॒ मध्ये॑नाप्रा पृथि॒वीमुप॑रेणादृहीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनान्नि॒धेधा॑ऽसि॒ प्रच्यु॑तीना॒मप्र॑च्युतन्निकाम॒धर॑णं पुरुस्पा॒र्॒हय्यँश॑स्वदे॒ना ब॒र्॒हिषा॒ऽन्या ब॒र्॒हीष्य॒भि ष्या॑म वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृ- थ्सु॒द्रवि॑णा म॒न्द्र क॒विस्स॒त्यम॑न्माऽऽय॒जी होता॒ होतु॑र्॒होतु॒राय॑जीया॒नग्ने॒ यान्दे॒वानया॒ड्या अपि॑प्रे॒र्ये ते॑ हो॒त्रे अम॑थ्सत॒ ता स॑स॒नुषी॒॒ होत्रान्देवङ्ग॒मान्दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒म स्वि॑ष्ट॒कृच्चाग्ने॒ होताऽभूर्वसु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॒ यज॑ ।।33।। 3.6.14.0 वी॒ता॒व्वेँ॒त्वभू॒रेक॑ञ्च ।। 14 ।। 3.6.14.1 दे॒वं ब॒र्॒हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वीर्द्वारः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वी उ॒षासा॒नक्ता । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी जोष्ट्री । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी ऊ॒र्जाहु॑ती । व॒सु॒वने॑ वसु॒धेयस्य॑ वीताम् ।। 34 ।। 3.6.14.2 दे॒वा दैव्या॒ होता॑रा । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वो नरा॒शसः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो वन॒स्पतिः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वं ब॒र्॒हिर्वारि॑तीनाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।। 35 ।। 3.6.14.3 दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्र क॒विः । स॒त्यम॑न्माय॒जी होता । होतु॑र्‌होतु॒राय॑जीयान् । अग्ने॒ यान्दे॒वानयाट् । या अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑थ्सत । ता स॑स॒नुषी॒॒ होत्रान्देवङ्ग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः । व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ।। 36 ।। 3.6.15.0 अ॒ग्निम॒द्यैकम् ।। 15 ।। 3.6.15.1 अ॒ग्निम॒द्य होता॑रमवृणीता॒यय्यँज॑मान॒ पच॑न्प॒क्ती पच॑न्पुरो॒डाशं॑ ब॒ध्नन्नि॑न्द्रा॒ग्निभ्या॒ञ्छाग॑ सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवदिन्द्रा॒ग्निभ्या॒ञ्छागे॒नाघ॑स्ता॒न्तं मे॑द॒स्त प्रति॑पच॒ताग्र॑भीष्टा॒मवी॑वृधेतां पुरो॒डाशे॑न॒ त्वाम॒द्यऱ्ष॑ आऱ्षेय ऋषीणान्नपादवृणीता॒यय्यँज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑ख्ष्यत॒ इति॒ ता या दे॒वा दे॑व॒दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ।।37।। 3.7.0.0 सर्वा॒न्॒ यद्विष्ष॑ण्णेन॒ वि वै या पु॒रस्ता॒द्देवा॑ दे॒वेषु॒ परि॑स्तृणीत॒ सख्षे॒दय्यँद॒स्य पा॒रे॑ऽना॒गस॒ उद॑स्तांफ्सी॒द्ब्रह्म॑ प्रति॒ष्ठा यद्दे॑वा॒ यत्ते॒ ग्राव्ण्णा॒ यद्दि॑दी॒ख्षे चतु॑र्दश ।। 14 ।। सर्वा॒न्भूति॑मे॒व यामे॒वाफ्स्वाहु॑तिव्व्रँ॒तानां पर्णव॒ल्कस्सो॒म्याना॑म॒स्मिन्‌य॒ज्ञेऽग्ने॒ यो नो॒ ज्योग्जी॒वा प॒रोर॑जा॒ प्रते॑महे॒ ब्रह्म॑ प्रति॒ष्ठा गार्‌ह॑पत्यस्त्रि॒॒शदु॑त्तरश॒तम् ।। 130 ।। सर्वा॒ञ्छची॒पतिः॑ ।। ।। हरिः॑ओम् ।। सप्तम प्रपाठकस्समाप्तः ।। 3.7.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके सप्तम प्रपाठक प्रारम्भः । हरिःओम् । 3.7.1.0 द॒धा॒ति॒ य॒ज्ञ उ॑त॒ एक॒न्धय॑न्ति रुन्धे कुर्यादा॒र्च्छत्य॒पाकु॑र्यात्पृथि॒वी त्वम॒ष्टौ च॑ ।। 1 ।। (सर्वा॒न्॒ वि वै यदि॑ परस्त॒रामोष॑धीरन्यत॒रानु॒भया॑न॒र्धो वै ।। ) 3.7.1.1 सर्वा॒न्॒ वा ए॒षोऽग्नौ कामा॒न्प्रवे॑शयति । योऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ । सयदनि॑ष्ट्वा प्रया॒यात् । अका॑मप्रीता एन॒ङ्कामा॒ नानु॒प्रया॑युः । अ॒ते॒जा अ॑वी॒र्य॑स्स्यात् । स जु॑हुयात् । तुभ्य॒न्ता अ॑ङ्गिरस्तम । विश्वास्सुख्षि॒तय॒ पृथ॑क् । अग्ने॒ कामा॑य येमिर॒ इति॑ । कामा॑ने॒वास्मि॑न्दधाति ।। 1 ।। 3.7.1.2 काम॑प्रीता एन॒ङ्कामा॒ अनु॒ प्रयान्ति । ते॒ज॒स्वी वी॒र्या॑वान्भवति । सन्त॑ति॒र्वा ए॒षा य॒ज्ञस्य॑ । योऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ । स यदु॒द्वाय॑ति । विच्छि॑त्तिरे॒वास्य॒ सा । तं प्राञ्च॑मु॒द्धृत्य॑ । मन॒सोप॑तिष्ठेत । मनो॒ वै प्र॒जाप॑तिः । प्रा॒जा॒प॒त्यो य॒ज्ञः ।। 2 ।। 3.7.1.3 मन॑सै॒व य॒ज्ञ सन्त॑नोति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः । भूति॑मे॒वोपै॑ति । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यस्याहि॑ताग्नेर॒ग्निर॑प॒ख्षाय॑ति । याव॒च्छम्य॑या प्र॒विध्येत् । यदि॒ ताव॑दप॒ख्षायेत् । त संभ॑रेत् । इ॒दन्त॒ एकं॑ प॒र उ॑त॒ एकम् ।। 3 ।। 3.7.1.4 तृ॒तीये॑न॒ ज्योति॑षा॒ सव्विँ॑शस्व । स॒व्वेँश॑नस्त॒नुवै॒ चारु॑रेधि । प्रि॒ये दे॒वानां पर॒मे ज॒नित्र॒ इति॑ । ब्रह्म॑णै॒वैन॒॒ संभ॑रति । सैव तत॒ प्राय॑श्चित्तिः । यदि॑ परस्त॒राम॑प॒ख्षायेत् । अ॒नु॒प्र॒यायाव॑स्येत् । सो ए॒व तत॒ प्राय॑श्चित्तिः । ओष॑धी॒र्वा ए॒तस्य॑ प॒शून्पय॒ प्रवि॑शति । यस्य॑ ह॒विषे॑ व॒थ्सा अ॒पाकृ॑ता॒ धय॑न्ति ।। 4 ।। 3.7.1.5 तान् यद्दु॒ह्यात् । या॒तयाम्ना ह॒विषा॑ यजेत । यन्न दु॒ह्यात् । य॒ज्ञ॒प॒रुर॒न्तरि॑यात् । वा॒य॒व्याय्यँवा॒गून्निर्व॑पेत् । वा॒युर्वै पय॑स प्रदापयि॒ता । स ए॒वास्मै॒ पय॒ प्रदा॑पयति । पयो॒ वा ओष॑धयः । पय॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ।। 5 ।। 3.7.1.6 अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पाकु॑र्यात् । सैव तत॒ प्राय॑श्चित्तिः । अ॒न्य॒त॒रान् वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति । ये यज॑मानस्य सा॒यङ्गृ॒हमा॒ गच्छ॑न्ति । यस्य॑ सायन्दु॒ग्ध ह॒विरार्ति॑मा॒र्च्छति॑ । इन्द्रा॑य व्री॒हीन्नि॒रुप्योप॑ वसेत् । पयो॒ वा ओष॑धयः । पय॑ ए॒वारभ्य॑ गृही॒त्वोप॑ वसति । यत्प्रा॒तस्स्यात् । तच्छृ॒तङ्कु॑र्यात् ।। 6 ।। 3.7.1.7 अथेत॑र ऐ॒न्द्र पु॑रो॒डाश॑स्स्यात् । इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति । पयो॒ वा ओष॑धयः । पय॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे । अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पाकु॑र्यात् । सैव तत॒ प्राय॑श्चित्तिः । उ॒भया॒न्॒ वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति । ये यज॑मानस्य सा॒यञ्च॑ प्रा॒तश्च॑ गृ॒हमा॒ गच्छ॑न्ति । यस्यो॒भय॑ ह॒विरार्ति॑मा॒र्च्छति॑ ।। 7 ।। 3.7.1.8 ऐ॒न्द्रं पञ्च॑शरावमोद॒नन्निर्व॑पेत् । अ॒ग्निं दे॒वता॑नां प्रथ॒मय्यँ॑जेत् । अ॒ग्निमु॑खा ए॒व दे॒वता प्रीणाति । अ॒ग्निव्वाँ अन्व॒न्या दे॒वताः । इन्द्र॒मन्व॒न्याः । ता ए॒वोभयी प्रीणाति । पयो॒ वा ओष॑धयः । पय॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे । अथोत्तर॑स्मै ह॒विषे॑ व॒थ्सान॒पाकु॑र्यात् ।। 8 ।। 3.7.1.9 सैव तत॒ प्राय॑श्चित्तिः । अ॒र्धो वा ए॒तस्य॑ य॒ज्ञस्य॑ मीयते । यस्य॒ व्रत्येऽह॒न्पत्न्य॑नालम्भु॒का भव॑ति । ताम॑प॒रुध्य॑ यजेत । सर्वे॑णै॒व य॒ज्ञेन॑ यजते । तामि॒ष्ट्वोप॑ ह्वयेत । अमू॒हम॑स्मि । सा त्वम् । द्यौर॒हम् । पृ॒थि॒वी त्वम् । सामा॒हम् । ऋक्त्वम् । तावेहि॒ संभ॑वाव । स॒ह रेतो॑ दधावहै । पु॒॒से पु॒त्राय॒ वेत्त॑वै । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॒येति॑ । अ॒र्ध ए॒वैना॒मुप॑ ह्वयते । सैव तत॒ प्राय॑श्चित्तिः ।। 9 ।। 3.7.2.0 वै प्र॒जाप॑तिस्स्थापयति प्रजा॒नन्न॒भि जु॑हु॒याथ्स्याद्ध्रियेत॒ जहा॑म॒ त्रीणि॑ च ।। 2 ।। (यद्विष्ष॑ण्णेन प्राजाप॒त्यया॒ यत्की॒टा म॑ध्य॒मेन॒ यदव॑वृष्टेन॒ यत्पूर्व॑स्या॒य्यँत्पु॒रा प्र॑या॒जेभ्य॒ प्राङङ्गा॑रो॒ यद्द॑ख्षि॒णा यत्प्र॒त्यग्यदुदङ्ङ्॑ ।। ) 3.7.2.1 यद्विष्ष॑ण्णेन जुहु॒यात् । अप्र॑जा अप॒शुर्यज॑मानस्स्यात् । यदना॑यतने नि॒नयेत् । अ॒ना॒य॒त॒नस्स्यात् । प्रा॒जा॒प॒त्यय॒र्चा व॑ल्मीकव॒पाया॒मव॑ नयेत् । प्रा॒जा॒प॒त्यो वै व॒ल्मीकः॑ । य॒ज्ञ प्र॒जाप॑तिः । प्र॒जाप॑तावे॒व य॒ज्ञं प्रति॑ष्ठापयति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः ।। 10 ।। 3.7.2.2 भूति॑मे॒वोपै॑ति । तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑र्‌होत॒व्यम् । सैव तत॒ प्राय॑श्चित्तिः । यत्की॒टाव॑पन्नेन जुहु॒यात् । अप्र॑जा अप॒शुर्यज॑मानस्स्यात् । यदना॑यतने नि॒नयेत् । अ॒ना॒य॒त॒नस्स्यात् । म॒ध्य॒मेन॑ प॒र्णेन॑ द्यावापृथि॒व्य॑य॒र्चाऽन्त॑ परि॒धि निन॑येत् । द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ।। 11 ।। 3.7.2.3 तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑ऱ्होत॒व्यम् । सैव तत॒ प्राय॑श्चित्तिः । यदव॑वृष्टेन जुहु॒यात् । अप॑रूपमस्या॒त्मञ्जा॑येत । कि॒लासो॑ वा॒स्याद॑ऱ्श॒सो वा । यत्प्रत्ये॒यात् । य॒ज्ञव्विँच्छि॑न्द्यात् । स जु॑हुयात् । मि॒त्रो जनान्कल्पयति प्रजा॒नन्न् ।। 12 ।। 3.7.2.4 मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्र कृ॒ष्टीरनि॑मिषा॒ऽभि च॑ष्टे । स॒त्याय॑ ह॒व्यङ्घृ॒तव॑ज्जुहो॒तेति॑ । मि॒त्रेणै॒वैन॑त्कल्पयति । तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑ऱ्होत॒व्यम् । सैव तत॒ प्राय॑श्चित्तिः । यत्पूर्व॑स्या॒माहु॑त्या हु॒ताया॒मुत्त॒राऽऽहु॑तिः॒ स्कन्देत् । द्वि॒पाद्भि॑ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत । यदुत्त॑रया॒ऽभि जु॑हु॒यात् ।। 13 ।। 3.7.2.5 चतु॑ष्पाद्भि प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध़्येत । यत्र॒ वेत्थ॑ वनस्पते दे॒वाना॒ङ्गुह्या॒ नामा॑नि । तत्र॑ ह॒व्यानि॑ गाम॒येति॑ वानस्प॒त्यय॒र्चा स॒मिध॑मा॒धाय॑ । तू॒ष्णीमे॒व पुन॑र्जुहुयात् । वन॒स्पति॑नै॒व य॒ज्ञस्यार्ता॒ञ्चानार्ता॒ञ्चाहु॑ती॒ वि दा॑धार । तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑ऱ्होत॒व्यम् । सैव तत॒ प्राय॑श्चित्तिः । यत्पु॒रा प्र॑या॒जेभ्य॒ प्राङङ्गा॑र॒स्स्कन्देत् । अ॒ध्व॒र्यवे॑ च॒ यज॑मानाय॒ चाक॑ स्यात् ।। 14 ।। 3.7.2.6 यद्द॑ख्षि॒णा । ब्र॒ह्मणे॑ च॒ यज॑मानाय॒ चाक॑ स्यात् । यत्प्र॒त्यक् । होत्रे॑ च॒ पत्नि॑यै च॒ यज॑मानाय॒ चाक॑ स्यात् । यदुदङ्ङ्॑ । अ॒ग्नीधे॑ च प॒शुभ्य॑श्च॒ यज॑मानाय॒ चाक॑ स्यात् । यद॑भिजुहु॒यात् । रु॒द्रोस्य प॒शून्घातु॑कस्स्यात् । यन्नाभि॑जुहु॒यात् । अशान्त॒ प्रह्रि॑येत ।। 15 ।। 3.7.2.7 स्रु॒वस्य॒ बुध्ने॑नाभि॒निद॑ध्यात् । मा त॑मो॒ मा य॒ज्ञस्त॑म॒न्मा यज॑मानस्तमत् । नम॑स्ते अस्त्वाय॒ते । नमो॑ रुद्र पराय॒ते । नमो॒ यत्र॑ नि॒षीद॑सि । अ॒मुं मा हि॑सीर॒मुं मा हि॑सी॒रिति॒ येन॒ स्कन्देत् । तं प्रह॑रेत् । स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दाः । स्तोम॑पृष्ठो घृ॒तवान्थ्सु॒प्रती॑कः । मा नो॑ हासीन्मेत्थि॒तो नेत्त्वा॒ जहा॑म । गो॒पो॒षन्नो॑ वीरपो॒षञ्च॑ य॒च्छेति॑ । ब्रह्म॑णै॒वैनं॒ प्र ह॑रति । सैव तत॒ प्राय॑श्चित्तिः ।। 16 ।। 3.7.3.0 अ॒जाऽग्नावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति भवत्यासीत परि॒चख्षी॑त लम्भयति दधाति दे॒वानां॒ बृह॒स्पति॒ पञ्च॑ च ।।3।। (वि वै यद्य॒न्यम॒जायां ब्राह्म॒णस्य॑ दर्भस्त॒म्बेऽप्सु हो॑त॒व्यम् ।। ) 3.7.3.1 वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यस्याहि॑ताग्नेर॒ग्निर्म॒थ्यमा॑नो॒ न जाय॑ते । यत्रा॒न्यं पश्येत् । तत॑ आ॒हृत्य॑ होत॒व्यम् । अ॒ग्नावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । यद्य॒न्यन्न वि॒न्देत् । अ॒जाया॑ होत॒व्यम् । आ॒ग्ने॒यी वा ए॒षा । यद॒जा । अ॒ग्नावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति ।। 17 ।। 3.7.3.2 अ॒जस्य॒ तु नाश्ञी॑यात् । यद॒जस्याश्ञी॒यात् । यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् । ताम॑द्यात् । तस्मा॑द॒जस्य॒ नाश्यम् । यद्य॒जान्न वि॒न्देत् । ब्रा॒ह्म॒णस्य॒ दख्षि॑णे॒ हस्ते॑ होत॒व्यम् । ए॒ष वा अ॒ग्निर्वैश्वान॒रः । यद्ब्राह्म॒णः । अ॒ग्नावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति ।। 18 ।। 3.7.3.3 ब्रा॒ह्म॒णन्तु व॑स॒त्यै॑ नाप॑ रुन्ध्यात् । यद्ब्राह्म॒णव्वँ॑स॒त्या अ॑परु॒न्ध्यात् । यस्मि॑न्ने॒वाग्नावाहु॑तिञ्जुहु॒यात् । तम्भा॑ग॒धेये॑न॒ व्य॑र्धयेत् । तस्माद्ब्राह्म॒णो व॑स॒त्यै॑ नाप॒रुध्यः॑ । यदि॑ ब्राह्म॒णन्न वि॒न्देत् । द॒र्भ॒स्त॒म्बे हो॑त॒व्यम् । अ॒ग्नि॒वाऩ््वै द॑र्भस्त॒म्बः । अ॒ग्नावे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । द॒र्भास्तु नाध्या॑सीत ।। 19 ।। 3.7.3.4 यद्द॒र्भान॒ध्यासी॑त । यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् । तामध्या॑सीत । तस्माद्द॒र्भा नाध्या॑सित॒व्याः । यदि॑ द॒र्भान्न वि॒न्देत् । अ॒प्सु हो॑त॒व्यम् । आपो॒ वै सर्वा॑ दे॒वताः । दे॒वतास्वे॒वास्याग्निहो॒त्र हु॒तं भ॑वति । आप॒स्तु न परि॑चख्षीत । यदाप॑ परि॒चख्षी॑त ।। 20 ।। 3.7.3.5 यामे॒वाफ्स्वाहु॑तिञ्जुहु॒यात् । तां परि॑चख्षीत । तस्मा॒दापो॒ न प॑रि॒चख्ष्याः । मेध्या॑ च॒ वा ए॒तस्या॑मे॒ध्या च॑ त॒नुवौ॒ स सृ॑ज्येते । यस्याहि॑ताग्नेर॒न्यैर॒ग्निभि॑र॒ग्नय॑स्ससृ॒ज्यन्ते । अ॒ग्नये॒ विवि॑चये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् । मेध्याञ्चै॒वास्या॑मे॒ध्याञ्च॑ त॒नुवौ॒ व्याव॑र्तयति । अ॒ग्नये व्र॒तप॑तये पु॒रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् । अ॒ग्निमे॒व व्र॒तप॑ति॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति । स ए॒वैन॑व्व्रँ॒तमा ल॑म्भयति ।। 21 ।। 3.7.3.6 गर्भ॒॒ स्रव॑न्तमग॒दम॑कः । अ॒ग्निरिन्द्र॒स्त्वष्टा॒ बृह॒स्पतिः॑ । पृ॒थि॒व्यामव॑ चुश्चोतै॒तत् । नाभिप्राप्नो॑ति॒ निर्‌ऋ॑तिं परा॒चैः । रेतो॒ वा ए॒तद्वाजि॑न॒माहि॑ताग्नेः । यद॑ग्निहो॒त्रम् । तद्यथ्स्रवेत् । रेतोऽस्य॒ वाजि॑न स्रवेत् । गर्भ॒॒ स्रव॑न्तमग॒दम॑क॒रित्या॑ह । रेत॑ ए॒वास्मि॒न्वाजि॑नन्दधाति ।। 22 ।। 3.7.3.7 अ॒ग्निरित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । इन्द्र॒ इत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति । त्वष्टेत्या॑ह । त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नाना॑ रूप॒कृत् । रू॒पमे॒व प॒शुषु॑ दधाति । बृह॒स्पति॒रित्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वास्मै प्र॒जा प्र ज॑नयति । पृ॒थि॒व्यामव॑ चुश्चोतै॒तदित्या॑ह । अ॒स्यामे॒वैन॒त्प्रति॑ष्ठापयति । नाभिप्राप्नो॑ति॒ निर्‌ऋ॑तिं पराचै॒रित्या॑ह । रख्ष॑सा॒मप॑हत्यै ।। 23 ।। 3.7.4.0 आभृ॑त इ॒मङ्गृ॑ह्णामि॒ पूर्व॒स्ता पूर्व॒ परि॑गृह्णामि सभापा॒ला इन्द्र॑ज्येष्ठेभ्य॒ आदि॑त्य व्रतपते सुसं॒भृता॑ मे स॒ह पु॑नातु गहि नो वि॒श्वरू॑पा दधातु॒ पुन॑र्गच्छतु प॒शून् ।। 4 ।। (यापु॒रस्ता॑दि॒मामूर्ज॑मि॒ह प्र॒जा इ॒ह प॒शवो॒ऽयं पि॑तृ॒णाम॒ग्निः । ) 3.7.4.1 या पु॒रस्तात्प्र॒स्रव॑न्ति । उ॒परि॑ष्टाथ्स॒र्वत॑श्च॒ याः । ताभी॑ र॒श्मिप॑वित्राभिः । श्र॒द्धाय्यँ॒ज्ञमा र॑भे । देवा॑ गातुविदः । गा॒तुय्यँ॒ज्ञाय॑ विन्दत । मन॑स॒स्पति॑ना दे॒वेन॑ । वाताद्य॒ज्ञ प्र यु॑ज्यताम् । तृ॒तीय॑स्यै दि॒वः । गा॒य॒त्रि॒या सोम॒ आभृ॑तः ।। 24 ।। 3.7.4.2 सो॒म॒पी॒थाय॒ सन्न॑यितुम् । वक॑ल॒मन्त॑र॒मा द॑दे । आपो॑ देवीश्शु॒द्धास्स्थ॑ । इ॒मा पात्रा॑णि शुन्धत । उ॒पा॒त॒ङ्क्या॑य दे॒वानाम् । प॒र्ण॒व॒ल्कमु॒त शु॑न्धत । पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ । पयो॑ व॒थ्सेषु॒ पय॒ इन्द्रा॑य ह॒विषे ध्रियस्व । गा॒य॒त्री प॑र्णव॒ल्केन॑ । पय॒स्सोम॑ङ्करोत्वि॒मम् ।। 25 ।। 3.7.4.3 अ॒ग्निङ्गृ॑ह्णामि सु॒रथ॒य्योँ म॑यो॒भूः । य उ॒द्यन्त॑मा॒रोह॑ति॒ सूर्य॒मह्ने । आ॒दि॒त्यञ्ज्योति॑षा॒ञ्ज्योति॑रुत्त॒मम् । श्वो य॒ज्ञाय॑ रमतान्दे॒वताभ्यः । वसून्रु॒द्राना॑दि॒त्यान् । इन्द्रे॑ण स॒ह दे॒वताः । ता पूर्व॒ परि॑ गृह्णामि । स्व आ॒यत॑ने मनी॒षया । इ॒मामूर्जं॑ पञ्चद॒शींय्येँ प्रवि॑ष्टाः । तान्दे॒वान्परि॑ गृह्णामि॒ पूर्वः॑ ।। 26 ।। 3.7.4.4 अ॒ग्निर्‌ह॑व्य॒वाडि॒ह ताना व॑हतु । पौ॒र्णमा॒स ह॒विरि॒दमे॑षां॒ मयि॑ । आ॒मा॒वा॒स्य॑ ह॒विरि॒दमे॑षां॒ मयि॑ । अ॒न्त॒राऽग्नी प॒शवः॑ । दे॒व॒स॒॒सद॒मा ग॑मन्न् । तान्पूर्व॒ परि॑ गृह्णामि । स्व आ॒यत॑ने मनी॒षया । इ॒ह प्र॒जा वि॒श्वरू॑पा रमन्ताम् । अ॒ग्निङ्गृ॒हप॑तिम॒भि स॒व्वँसा॑नाः । ता पूर्व॒ परि॑ गृह्णामि ।। 27 ।। 3.7.4.5 स्व आ॒यत॑ने मनी॒षया । इ॒ह प॒शवो॑ वि॒श्वरू॑पा रमन्ताम् । अ॒ग्निङ्गृ॒हप॑तिम॒भि स॒व्वँसा॑नाः । तान्पूर्व॒ परि॑ गृह्णामि । स्व आ॒यत॑ने मनी॒षया । अ॒यं पि॑तृ॒णाम॒ग्निः । अवाड्ढ॒व्या पि॒तृभ्य॒ आ । तं पूर्व॒ परि॑ गृह्णामि । अवि॑षन्न पि॒तुङ्क॑रत् । अज॑स्र॒न्त्वा स॑भापा॒लाः ।। 28 ।। 3.7.4.6 वि॒ज॒यभा॑ग॒॒ समि॑न्धताम् । अग्ने॑ दी॒दा॑य मे सभ्य । विजि॑त्यै श॒रद॑श्श॒तम् । अन्न॑मावस॒थीयम् । अ॒भि ह॑राणि श॒रद॑श्श॒तम् । आ॒व॒स॒थे श्रियं॒ मन्त्रम् । अहि॑र्बु॒ध्नियो॒ नि य॑च्छतु । इ॒दम॒हम॒ग्निज्येष्ठेभ्यः । वसु॑भ्यो य॒ज्ञं प्रब्र॑वीमि । इ॒दम॒हमिन्द्र॑ज्येष्ठेभ्यः ।। 29 ।। 3.7.4.7 रु॒द्रेभ्यो॑ य॒ज्ञं प्र ब्र॑वीमि । इ॒दम॒हं वरु॑णज्येष्ठेभ्यः । आ॒दि॒त्येभ्यो॑ य॒ज्ञं प्र ब्र॑वीमि । पय॑स्वती॒रोष॑धयः । पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पयः॑ । तेन॒ मामि॑न्द्र॒ स सृ॑ज । अग्ने व्रतपते व्र॒तञ्च॑रिष्यामि । तच्छ॑केय॒न्तन्मे॑ राध्यताम् । वायो व्रतपत॒ आदि॑त्य व्रतपते ।। 30 ।। 3.7.4.8 व्र॒तानाव्व्रँतपते व्र॒तञ्च॑रिष्यामि । तच्छ॑केय॒न्तन्मे॑ राध्यताम् । इ॒मां प्राची॒मुदी॑चीम् । इष॒मूर्ज॑म॒भि सस्कृ॑ताम् । ब॒हु॒प॒र्णामशु॑ष्काग्राम् । हरा॑मि पशु॒पाम॒हम् । यत्कृष्णो॑ रू॒पङ्कृ॒त्वा । प्रावि॑श॒स्त्वव्वँन॒स्पतीन्॑ । तत॒स्त्वामे॑कविशति॒धा । संभ॑रामि सुसं॒भृता ।। 31 ।। 3.7.4.9 त्रीन्प॑रि॒धी स्ति॒स्रस्स॒मिधः॑ । य॒ज्ञायु॑रनुसञ्च॒रान् । उ॒प॒वे॒षं मेख्ष॑ण॒न्धृष्टिम् । सं भ॑रामि सुसं॒भृता । या जा॒ता ओष॑धयः । दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । तासां॒ पर्व॑ राध्यासम् । प॒रि॒स्त॒रमा॒हरन्न्॑॑ । अ॒पां मेध्य॑य्यँ॒ज्ञियम् । सदे॑व शि॒वम॑स्तु मे ।। 32 ।। 3.7.4.10 आ॒च्छे॒त्ता वो॒ मा रि॑षम् । जीवा॑नि श॒रद॑श्श॒तम् । अप॑रिमितानां॒ परि॑मिताः । सन्न॑ह्ये सुकृ॒ताय॒ कम् । एनो॒ मा निगाङ्कत॒मच्च॒नाहम् । पुन॑रु॒त्थाय॑ बहु॒ला भ॑वन्तु । स॒कृ॒दा॒च्छि॒न्नं ब॒र्॒हिरूर्णा॑मृदु । स्यो॒नं पि॒तृभ्य॑स्त्वा भराम्य॒हम् । अ॒स्मिन्थ्सी॑दन्तु मे पि॒तर॑स्सो॒म्याः । पि॒ता॒म॒हा प्रपि॑तामहाश्चानु॒गैस्स॒ह ।। 33 ।। 3.7.4.11 त्रि॒वृत्प॑ला॒शे द॒र्भः । इयान्प्रादे॒शस॑म्मितः । य॒ज्ञे प॒वित्रं॒ पोतृ॑तमम् । पयो॑ ह॒व्यङ्क॑रोतु मे । इ॒मौ प्रा॑णापा॒नौ । य॒ज्ञस्याङ्गा॑नि सर्व॒शः । आ॒प्या॒यय॑न्तौ॒ सञ्च॑रताम् । प॒वित्रे॑ हव्य॒शोध॑ने । प॒वित्रे स्थो वैष्ण॒वी । वा॒युर्वां॒ मन॑सा पुनातु ।। 34 ।। 3.7.4.12 अ॒यं प्रा॒णश्चा॑पा॒नश्च॑ । यज॑मान॒मपि॑ गच्छताम् । य॒ज्ञे ह्यभू॑तां॒ पोता॑रौ । प॒वित्रे॑ हव्य॒शोध॑ने । त्वया॒ वेदि॑व्विँविदु पृथि॒वीम् । त्वया॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑ । अच्छि॑द्रय्यँ॒ज्ञमन्वे॑षि वि॒द्वान् । त्वया॒ होता॒ सन्त॑नोत्यर्धमा॒सान् । त्र॒य॒स्त्रि॒॒शो॑ऽसि॒ तन्तू॑नाम् । प॒वित्रे॑ण स॒हाग॑हि ।। 35 ।। 3.7.4.13 शि॒वेय रज्जु॑रभि॒धानी । अ॒घ्नि॒यामुप॑ सेवताम् । अप्र॑स्रसाय य॒ज्ञस्य॑ । उ॒खे उप॑दधाम्य॒हम् । प॒शुभि॒स्सन्नी॑तं बिभृताम् । इन्द्रा॑य शृ॒तन्दधि॑ । उ॒प॒वे॒षो॑ऽसि य॒ज्ञाय॑ । त्वां प॑रिवे॒षम॑धारयन्न् । इन्द्रा॑य ह॒वि कृ॒ण्वन्तः॑ । शि॒वश्श॒ग्मो भ॑वासि नः ।। 36 ।। 3.7.4.14 अमृ॑न्मयन्देवपा॒त्रम् । य॒ज्ञस्यायु॑षि॒ प्र यु॑ज्यताम् । ति॒र॒प॒वि॒त्रमति॑नीताः । आपो॑ धारय॒ माति॑गुः । दे॒वेन॑ सवि॒त्रोत्पू॑ताः । वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ । गान्दो॑हपवि॒त्रे रज्जुम् । सर्वा॒ पात्रा॑णि शुन्धत । ए॒ता आ च॑रन्ति॒ मधु॑म॒द्दुहा॑नाः । प्र॒जाव॑तीर्य॒शसो॑ वि॒श्वरू॑पाः ।। 37 ।। 3.7.4.15 ब॒ह्वीर्भव॑न्ती॒रुप॒जाय॑मानाः । इ॒ह व॒ इन्द्रो॑ रमयतु गावः । पू॒षा स्थ॑ । अ॒य॒ख्ष्मा व॑ प्र॒जया॒ स सृ॑जामि । रा॒यस्पोषे॑ण बहु॒लाभव॑न्तीः । ऊर्जं॒ पय॒ पिन्व॑माना घृ॒तञ्च॑ । जी॒वो जीव॑न्ती॒रुप॑वस्सदेयम् । द्यौश्चे॒मय्यँ॒ज्ञं पृ॑थि॒वी च॒ सन्दु॑हाताम् । धा॒ता सोमे॑न स॒ह वाते॑न वा॒युः । यज॑मानाय॒ द्रवि॑णन्दधातु ।। 38 ।। 3.7.4.16 उथ्स॑न्दुहन्ति क॒लश॒ञ्चतु॑र्बिलम् । इडान्दे॒वीम्मधु॑मती सुव॒र्विदम् । तदि॑न्द्रा॒ग्नी जि॑न्वत सू॒नृता॑वत् । तद्यज॑मानममृत॒त्वे द॑धातु । काम॑धुख्ष॒ प्र णो ब्रूहि । इन्द्रा॑य ह॒विरि॑न्द्रि॒यम् । अ॒मूय्यँस्यान्दे॒वानाम् । म॒नु॒ष्या॑णां॒ पयो॑ हि॒तम् । ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यः॑ । ह॒व्यमा प्या॑यतां॒ पुनः॑ ।। 39 ।। 3.7.4.17 व॒थ्सेभ्यो॑ मनु॒ष्येभ्यः । पु॒न॒र्दो॒हाय॑ कल्पताम् । य॒ज्ञस्य॒ सन्त॑तिरसि । य॒ज्ञस्य॑ त्वा॒ सन्त॑ति॒मनु॒ सन्त॑नोमि । अद॑स्तमसि॒ विष्ण॑वे त्वा । य॒ज्ञायापि॑ दधाम्य॒हम् । अ॒द्भिररि॑क्तेन॒ पात्रे॑ण । या पू॒ता प॑रि॒शेर॑ते । अ॒यं पय॒स्सोम॑ङ्कृ॒त्वा । स्वाय्योँनि॒मपि॑ गच्छतु ।। 40 ।। 3.7.4.18 प॒र्ण॒व॒ल्क प॒वित्रम् । सौ॒म्यस्सोमा॒द्धि निर्मि॑तः । इ॒मौ प॒र्णञ्च॑ द॒र्भञ्च॑ । दे॒वाना॑ हव्य॒शोध॑नौ । प्रा॒त॒र्वे॒षाय॑ गोपाय । विष्णो॑ ह॒व्य हि रख्ष॑सि । उ॒भाव॒ग्नी उ॑पस्तृण॒ते । दे॒वता॒ उप॑वसन्तु मे । अ॒हङ्ग्रा॒म्यानुप॑ वसामि । मह्य॒ङ्गोप॑तये प॒शून् ।। 41 ।। 3.7.5.0 अ॒भीत्व॑र्यै करोमि क्रमीत्पि॒ताऽऽत्मन॑ एक॒तो मु॑खां मे॒ दिशोऽध्य॑ख्षेभ्यो ह॒विर्गा॑र्‌हपत्या कल्पय॒न्नश॑स्ति॒स्सा नो॑ दोहता सु॒वीर्य॑ स॒प्त च॑ ।। 5 ।। 3.7.5.1 देवा॑ दे॒वेषु॒ पराक्रमध्वम् । प्रथ॑मा द्वि॒तीये॑षु । द्विती॑यास्तृ॒तीये॑षु । त्रिरे॑कादशा इ॒ह मा॑ऽवत । इ॒द श॑केय॒य्यँदि॒दङ्क॒रोमि॑ । आ॒त्मा क॑रोत्वा॒त्मने । इ॒दङ्क॑रिष्ये भेष॒जम् । इ॒दम्मे॑ विश्वभेषजा । अश्वि॑ना॒ प्राव॑तय्युँ॒वम् । इ॒दम॒ह सेना॑या अ॒भीत्व॑र्यै ।। 42 ।। 3.7.5.2 मुख॒मपो॑हामि । सूर्य॑ ज्योति॒र्वि भा॑हि । म॒ह॒त इ॑न्द्रि॒याय॑ । आ प्या॑यताङ्घृ॒तयो॑निः । अ॒ग्निर्‌ह॒व्याऽनु॑ मन्यताम् । खम॑ङ्ख्ष्व॒ त्वच॑मङ्ख्ष्व । सु॒रू॒पन्त्वा॑ वसु॒विदम् । प॒शू॒नान्तेज॑सा । अ॒ग्नये॒ जुष्ट॑म॒भि घा॑रयामि । स्यो॒नन्ते॒ सद॑नङ्करोमि ।। 43 ।। 3.7.5.3 घृ॒तस्य॒ धार॑या सु॒शेव॑ङ्कल्पयामि । तस्मिन्थ्सीदा॒मृते॒ प्रति॑तिष्ठ । व्री॒ही॒णाम्मे॑ध सुमन॒स्यमा॑नः । आ॒र्द्र प्र॑थस्नु॒र्भुव॑नस्य गो॒पाः । शृ॒त उथ्स्ना॑ति जनि॒ता म॑ती॒नाम् । यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । दे॒वानाव्विँ॒ष्ठामनु॒ यो वि॑त॒स्थे । आ॒त्म॒न्वान्थ्सो॑म घृ॒तवा॒न्॒ हि भू॒त्वा । दे॒वान्ग॑च्छ॒ सुव॑र्विन्द॒ यज॑मानाय॒ मह्यम् । इरा॒ भूति॑ पृथि॒व्यै रसो॒ मोत्क्र॑मीत् ।। 44 ।। 3.7.5.4 देवा पितर॒ पित॑रो देवाः । यो॑ऽहम॑स्मि॒ स सन् य॑जे । यस्यास्मि॒ न तम॒न्तरे॑मि । स्वं म॑ इ॒ष्ट स्वन्द॒त्तम् । स्वं पू॒र्त स्व श्रा॒न्तम् । स्व हु॒तम् । तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा । वा॒युरु॑पश्रो॒ता । आ॒दि॒त्यो॑ऽनुख्या॒ता । द्यौ पि॒ता ।। 45 ।। 3.7.5.5 पृ॒थि॒वी मा॒ता । प्र॒जाप॑ति॒र्बन्धुः॑ । य ए॒वास्मि॒ स सन् य॑जे । मा भेर्मा सव्विँ॑क्था॒ मा त्वा॑ हिसिषम् । मा ते॒ तेजोऽप॑ क्रमीत् । भ॒र॒तमुद्ध॑रे॒मनु॑ षिञ़्च । अ॒व॒दाना॑नि ते प्र॒त्यव॑दास्यामि । नम॑स्ते अस्तु॒ मा मा॑ हिसीः । यद॑व॒दाना॑नि तेऽव॒द्यन्न् । विलो॒माका॑र्‌षमा॒त्मनः॑ ।। 46 ।। 3.7.5.6 आज्ये॑न॒ प्रत्य॑नज्म्येनत् । तत्त॒ आ प्या॑यतां॒ पुनः॑ । अज्या॑यो यवमा॒त्रात् । आ॒व्या॒धात्कृ॑त्यतामि॒दम् । मा रू॑रुपाम य॒ज्ञस्य॑ । शु॒द्ध स्वि॑ष्टमि॒द ह॒विः । मनु॑ना दृ॒ष्टाङ्घृतप॑दीम् । मि॒त्रावरु॑णसमीरिताम् । द॒ख्षि॒णा॒र्धादसं॑भिन्दन्न् । अव॑द्याम्येक॒तोमु॑खाम् ।। 47 ।। 3.7.5.7 इडे॑ भा॒गं जु॑षस्व नः । जिन्व॒ गा जिन्वार्व॑तः । तस्यास्ते भख्षि॒वाण॑स्स्याम । स॒र्वात्मा॑नस्स॒र्वग॑णाः । ब्रध्न॒ पिन्व॑स्व । दद॑तो मे॒ मा ख्षा॑यि । कु॒र्व॒तो मे॒ मोप॑दसत् । दि॒शाङ्कॢप्ति॑रसि । दिशो॑ मे कल्पन्ताम् । कल्प॑न्ताम्मे॒ दिशः॑ ।। 48 ।। 3.7.5.8 दैवीश्च॒ मानु॑षीश्च । अ॒हो॒रा॒त्रे मे॑ कल्पेताम् । अ॒र्ध॒मा॒सा मे॑ कल्पन्ताम् । मासा॑ मे कल्पन्ताम् । ऋ॒तवो॑ मे कल्पन्ताम् । स॒व्वँ॒थ्स॒रो मे॑ कल्पताम् । कॢप्ति॑रसि॒ कल्प॑तां मे । आशा॑नां त्वाऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृतेभ्यः । इ॒दं भू॒तस्याध्य॑ख्षेभ्यः ।। 49 ।। 3.7.5.9 वि॒धेम॑ ह॒विषा॑ व॒यम् । भज॑तां भा॒गी भा॒गम् । मा भा॒गोऽभ॑क्त । निर॑भा॒गं भ॑जामः । अ॒पस्पि॑न्व । ओष॑धीर्जिन्व । द्वि॒पात्पा॑हि । चतु॑ष्पादव । दि॒वो वृष्टि॒मेर॑य । ब्रा॒ह्म॒णाना॑मि॒द ह॒विः ।। 50 ।। 3.7.5.10 सो॒म्याना॑ सोमपी॒थिनाम् । निर्भ॒क्तो ब्राह्मणः । नेहा ब्राह्मणस्यास्ति । सम॑ङ्क्तां ब॒र्॒हिर्‌ह॒विषा॑ घृ॒तेन॑ । समा॑दि॒त्यैर्वसु॑भि॒स्सम्म॒रुद्भिः॑ । समिन्द्रे॑ण॒ विश्वे॑भिर्दे॒वेभि॑रङ्क्ताम् । दि॒व्यं नभो॑ गच्छतु॒ यथ्स्वाहा । इ॒न्द्रा॒णीवा॑ऽविध॒वा भू॑यासम् । अदि॑तिरिव सुपु॒त्रा । अ॒स्थू॒रि त्वा॑ गार्‌हपत्य ।। 51 ।। 3.7.5.11 उप॒निष॑दे सुप्रजा॒स्त्वाय॑ । सं पत्नी॒ पत्या॑ सुकृ॒तेन॑ गच्छताम् । य॒ज्ञस्य॑ यु॒क्तौ धुर्या॑वभूताम् । सं॒जा॒ना॒नौ विज॑हता॒मरा॑तीः । दि॒वि ज्योति॑र॒जर॒मा र॑भेताम् । दश॑ते त॒नुवो॑ यज्ञ य॒ज्ञियाः । ता प्री॑णातु॒ यज॑मानो घृ॒तेन॑ । ना॒रि॒ष्ठयो प्र॒शिष॒मीड॑मानः । दे॒वानां॒ दैव्येऽपि॒ यज॑मानो॒ऽमृतो॑ऽभूत् । यव्वाँन्दे॒वा अ॑कल्पयन्न् ।। 52 ।। 3.7.5.12 ऊ॒र्जो भा॒ग श॑तक्रतू । ए॒तद्वां॒ तेन॑ प्रीणानि । तेन॑ तृप्यतमहहौ । अ॒हन्दे॒वाना॑ सु॒कृता॑मस्मि लो॒के । ममे॒दमि॒ष्टन्न मिथु॑र्भवाति । अ॒हन्ना॑रि॒ष्ठावनु॑ यजामि वि॒द्वान् । यदाभ्या॒मिन्द्रो॒ अद॑धाद्भाग॒धेय॑म् । अदा॑रसृद्भवत देवसोम । अ॒स्मिन् य॒ज्ञे म॑रुतो मृडता नः । मा नो॑ विदद॒भिभा॒मो अश॑स्तिः ।। 53 ।। 3.7.5.13 मा नो॑ विदद्वृ॒जना॒ द्वेष्या॒ या । ऋ॒ष॒भव्वाँ॒जिन॑व्वँ॒यम् । पू॒र्णमा॑सय्यँजामहे । स नो॑ दोहता सु॒वीर्यम् । रा॒यस्पोष॑ सह॒स्रिणम् । प्रा॒णाय॑ सु॒राध॑से । पू॒र्णमा॑साय॒ स्वाहा । अ॒मा॒वा॒स्या॑ सु॒भगा॑ सु॒शेवा । धे॒नुरि॑व॒ भूय॑ आ॒प्याय॑माना । सा नो॑ दोहता सु॒वीर्यम् । रा॒यस्पोष॑ सह॒स्रिणम् । अ॒पा॒नाय॑ सु॒राध॑से । अ॒मा॒वा॒स्या॑यै॒ स्वाहा । अ॒भि स्तृ॑णीहि॒ परि॑ धेहि॒ वेदिम् । जा॒मिम्मा हि॑सीरमु॒या शया॑ना । हो॒तृ॒षद॑ना॒ हरि॑तास्सु॒वर्णाः । नि॒ष्का इ॒मे यज॑मानस्य ब्र॒ध्ने ।। 54 ।। 3.7.6.0 पति॑ प्र॒जाप॑तये तप॒स्वी वा॒चा सौभ॑गाय प॒शून्मे॑ पिन्वस्व दुर्मरा॒युन्दे॑व॒याना॑नग्ने॒ऽन्तरि॑ख्षे॒ऽहमुत्त॑रो भूयासं प्र॒जाप॑तिरसि स॒र्वत॑श्श्रि॒त प्रवि॑ष्टन्दे॒वता॑भिर्वाज॒जितं॑ पृथि॒वी ह्व॑यताम॒ग्निराग्नीध्राद्वृश्चत ससृ॒वास॑ हु॒ते स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्वे॒त कृ॑धि दध्मस्यूहताम॒ष्टौ च॑ ।। 6 ।। 3.7.6.1 परि॑स्तृणीत॒ परि॑धत्ता॒ग्निम् । परि॑हितो॒ऽग्निर्यज॑मानं भुनक्तु । अ॒पा रस॒ ओष॑धीना सु॒वर्णः॑ । नि॒ष्का इ॒मे यज॑मानस्य सन्तु काम॒दुघाः । अ॒मुत्रा॒मुष्मि॑ल्लोँ॒के । भूप॑ते॒ भुव॑नपते । म॒ह॒तो भू॒तस्य॑ पते । ब्र॒ह्माण॑न्त्वा वृणीमहे । अ॒हं भूप॑तिर॒हं भुव॑नपतिः । अ॒हं म॑ह॒तो भू॒तस्य॒ पतिः॑ ।। 55 ।। 3.7.6.2 दे॒वेन॑ सवि॒त्रा प्रसू॑त॒ आर्त्वि॑ज्यङ्करिष्यामि । देव॑ सवितरे॒तन्त्वा॑ वृणते । बृह॒स्पतिं॒ दैव्यं॑ ब्र॒ह्माणम् । तद॒हं मन॑से॒ प्र ब्र॑वीमि । मनो॑ गायत्रि॒यै । गा॒य॒त्री त्रि॒ष्टुभे । त्रि॒ष्टुब्जग॑त्यै । जग॑त्यनु॒ष्टुभे । अ॒नु॒ष्टुक्प॒ङ्क्त्यै । प॒ङ्क्ति प्र॒जाप॑तये ।। 56 ।। 3.7.6.3 प्र॒जाप॑ति॒र्विश्वेभ्यो दे॒वेभ्यः॑ । विश्वे॑ देवा॒ बृह॒स्पत॑ये । बृह॒स्पति॒र्ब्रह्म॑णे । ब्रह्म॒ भूर्भुव॒स्सुवः॑ । बृह॒स्पति॑र्दे॒वानां ब्र॒ह्मा । अ॒हं म॑नु॒ष्या॑णाम् । बृह॑स्पते य॒ज्ञङ्गो॑पाय । इ॒दं तस्मै॑ ह॒र्म्यङ्क॑रोमि । यो वो॑ देवा॒श्चर॑ति ब्रह्म॒चर्यम् । मे॒धा॒वी दि॒ख्षु मन॑सा तप॒स्वी ।। 57 ।। 3.7.6.4 अ॒न्तर्दू॒तश्च॑रति॒ मानु॑षीषु । चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्य॑न्धुख्ष्व॒ यज॑मानाय॒ कामान्॑ । भूमि॑र्भू॒त्वा म॑हि॒मानं॑ पुपोष । ततो॑ दे॒वी व॑र्धयते॒ पया॑सि । य॒ज्ञिया॑ य॒ज्ञव्विँ च॒ यन्ति॒ शञ्च॑ । ओष॑धी॒राप॑ इ॒ह शक्व॑रीश्च । यो मा॑ हृ॒दा मन॑सा॒ यश्च॑ वा॒चा ।। 58 ।। 3.7.6.5 यो ब्रह्म॑णा॒ कर्म॑णा॒ द्वेष्टि॑ देवाः । यश्श्रु॒तेन॒ हृद॑येनेष्ण॒ता च॑ । तस्येन्द्र॒ वज्रे॑ण॒ शिर॑श्छिनद्मि । ऊर्णा॑मृदु॒ प्रथ॑मान स्यो॒नम् । दे॒वेभ्यो॒ जुष्ट॒॒ सद॑नाय ब॒र्॒हिः । सु॒व॒र्गे लो॒के यज॑मान॒ हि धे॒हि । मां नाक॑स्य पृ॒ष्ठे प॑र॒मे व्यो॑मन् । चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः । घृ॒तप्र॑तीका व॒युना॑नि वस्ते । साऽऽस्ती॒र्यमा॑णा मह॒ते सौभ॑गाय ।।59 ।। 3.7.6.6 सा मे॑ धुख्ष्व॒ यज॑मानाय॒ कामान्॑ । शि॒वा च॑ मे श॒ग्मा चै॑धि । स्यो॒ना च॑ मे सु॒षदा॑ चैधि । ऊर्ज॑स्वती च मे॒ पय॑स्वती चैधि । इष॒मूर्जं॑ मे पिन्वस्व । ब्रह्म॒ तेजो॑ मे पिन्वस्व । ख्ष॒त्रमोजो॑ मे पिन्वस्व । विशं॒ पुष्टिं॑ मे पिन्वस्व । आयु॑र॒न्नाद्य॑म्मे पिन्वस्व । प्र॒जां प॒शून्मे॑ पिन्वस्व ।। 60 ।। 3.7.6.7 अ॒स्मिन् य॒ज्ञ उप॒ भूय॒ इन्नु मे । अवि॑ख्षोभाय परि॒धीन्द॑धामि । ध॒र्ता ध॒रुणो॒ धरी॑यान् । अ॒ग्निर्द्वेषा॑सि॒ निरि॒तो नु॑दातै । विच्छि॑नद्मि॒ विधृ॑तीभ्या स॒पत्नान्॑ । जा॒तान्भ्रातृ॑व्या॒न्॒ ये च॑ जनि॒ष्यमा॑णाः । वि॒शो य॒न्त्राभ्या॒व्विँध॑माम्येनान् । अ॒ह स्वाना॑मुत्त॒मो॑ऽसानि देवाः । वि॒शो य॒न्त्रे नु॒दमा॑ने॒ अरा॑तिम् । विश्वं॑ पा॒प्मान॒मम॑तिन्दुर्मरा॒युम् ।। 61 ।। 3.7.6.8 सीद॑न्ती दे॒वी सु॑कृ॒तस्य॑ लो॒के । धृती स्थो॒ विधृ॑ती॒ स्वधृ॑ती । प्रा॒णान्मयि॑ धारयतम् । प्र॒जाम्मयि॑ धारयतम् । प॒शून्मयि॑ धारयतम् । अ॒यं प्र॑स्त॒र उ॒भय॑स्य ध॒र्ता । ध॒र्ता प्र॑या॒जाना॑मु॒तानू॑या॒जानाम् । स दा॑धार स॒मिधो॑ वि॒श्वरू॑पाः । तस्मि॒न्थ्स्रुचो॒ अध्या सा॑दयामि । आ रो॑ह प॒थो जु॑हु देव॒यानान्॑ ।। 62 ।। 3.7.6.9 यत्रर्‌ष॑य प्रथम॒जा ये पु॑रा॒णाः । हिर॑ण्यपख्षाऽजि॒रा सम्भृ॑ताङ्गा । वहा॑सि मा सु॒कृता॒य्यँत्र॑ लो॒काः । अवा॒हं बा॑ध उप॒भृता॑ स॒पत्नान्॑ । जा॒तान्भ्रातृ॑व्या॒न्॒ ये च॑ जनि॒ष्यमा॑णाः । दोहै॑ य॒ज्ञ सु॒दुघा॑मिव धे॒नुम् । अ॒हमुत्त॑रो भूयासम् । अध॑रे॒ मथ्स॒पत्नाः । यो मा॑ वा॒चा मन॑सा दुर्मरा॒युः । हृ॒दाऽरा॑ती॒याद॑भि॒दास॑दग्ने ।। 63 ।। 3.7.6.10 इ॒दम॑स्य चि॒त्तमध॑रन्ध्रु॒वायाः । अ॒हमुत्त॑रो भूयासम् । अध॑रे॒ मथ्स॒पत्नाः । ऋ॒ष॒भो॑ऽसि शाक्व॒रः । घृ॒ताची॑ना सू॒नुः । प्रि॒येण॒ नाम्ना प्रि॒ये सद॑सि सीद । स्यो॒नो मे॑ सीद सु॒षद॑ पृथि॒व्याम् । प्रथ॑यि प्र॒जया॑ प॒शुभि॑स्सुव॒र्गे लो॒के । दि॒वि सी॑द पृथि॒व्याम॒न्तरि॑ख्षे । अ॒हमुत्त॑रो भूयासम् ।। 64 ।। 3.7.6.11 अध॑रे॒ मथ्स॒पत्नाः । इ॒य स्था॒ली घृ॒तस्य॑ पू॒र्णा । अच्छि॑न्नपयाश्श॒तधा॑र॒ उत्सः॑ । मा॒रु॒तेन॒ शर्म॑णा॒ दैव्ये॑न । य॒ज्ञो॑ऽसि स॒र्वत॑श्श्रि॒तः । स॒र्वतो॒ मां भू॒तं भ॑वि॒ष्यच्छ्र॑यताम् । श॒तम्मे॑ सन्त्वा॒शिषः॑ । स॒हस्र॑म्मे सन्तु सू॒नृताः । इरा॑वती पशु॒मतीः । प्र॒जाप॑तिरसि स॒र्वत॑श्श्रि॒तः ।। 65 ।। 3.7.6.12 स॒र्वतो॒ मां भू॒तं भ॑वि॒ष्यच्छ्र॑यताम् । श॒तं मे॑ सन्त्वा॒शिषः॑ । स॒हस्रं॑ मे सन्तु सू॒नृताः । इरा॑वती पशु॒मतीः । इ॒दमि॑न्द्रि॒यम॒मृत॑व्वीँ॒र्यम् । अ॒नेनेन्द्रा॑य प॒शवो॑ऽचिकिथ्सन्न् । तेन॑ देवा अव॒तोप॒ माम् । इ॒हेष॒मूर्ज॒य्यँश॒स्सह॒ ओज॑स्सनेयम् । शृ॒तं मयि॑ श्रयताम् । यत्पृ॑थि॒वीमच॑र॒त्तत्प्रवि॑ष्टम् ।। 66 ।। 3.7.6.13 येनासि॑ञ्च॒द्बल॒मिन्द्रे प्र॒जाप॑तिः । इ॒दन्तच्छु॒क्रं मधु॑ वा॒जिनी॑वत् । येनो॒परि॑ष्टा॒दधि॑नोन्महे॒न्द्रम् । दधि॒ मान्धि॑नोतु । अ॒यव्वेँ॒द पृ॑थि॒वीमन्व॑विन्दत् । गुहा॑ स॒तीङ्गह॑ने॒ गह्व॑रेषु । स वि॑न्दतु॒ यज॑मानाय लो॒कम् । अच्छि॑द्रय्यँ॒ज्ञं भूरि॑कर्मा करोतु । अ॒यय्यँ॒ज्ञस्सम॑सदद्ध॒विष्मान्॑ । ऋ॒चा साम्ना॒ यजु॑षा दे॒वता॑भिः ।। 67 ।। 3.7.6.14 तेन॑ लो॒कान्थ्सूर्य॑वतो जयेम । इन्द्र॑स्य स॒ख्यम॑मृत॒त्वम॑श्याम् । यो न॒ कनी॑य इ॒ह का॒मया॑तै । अ॒स्मिन् य॒ज्ञे यज॑मानाय॒ मह्यम् । अप॒ तमि॑न्द्रा॒ग्नी भुव॑नान्नुदेताम् । अ॒हं प्र॒जाव्वीँ॒रव॑तीव्विँदेय । अग्ने॑ वाजजित् । वाज॑न्त्वा सरि॒ष्यन्तम् । वाज॑ञ्जे॒ष्यन्तम् । वा॒जिन॑व्वाँज॒जितम् ।। 68 ।। 3.7.6.15 वा॒ज॒जि॒त्यायै॒ सं मार्ज्मि । अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य । उप॑हूतो॒ द्यौ पि॒ता । उप॒ मान्द्यौ पि॒ता ह्व॑यताम् । अ॒ग्निराग्नीध्रात् । आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य । उप॑हूता पृथि॒वी मा॒ता । उप॒ मां मा॒ता पृ॑थि॒वी ह्व॑यताम् । अ॒ग्निराग्नीध्रात् ।। 69 ।। 3.7.6.16 आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य । मनो॒ ज्योति॑र्जुषता॒माज्यम् । विच्छि॑न्नय्यँ॒ज्ञ समि॒मन्द॑धातु । बृह॒स्पति॑स्तनुतामि॒मन्नः॑ । विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् । यन्ते॑ अग्न आवृ॒श्चामि॑ । अ॒हव्वाँ ख्षिपि॒तश्चरन्न्॑ । प्र॒जाञ्च॒ तस्य॒ मूल॑ञ्च । नी॒चैर्दे॑वा॒ नि वृ॑श्चत ।। 70 ।। 3.7.6.17 अग्ने॒ यो नो॑ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒ध्मस्ये॑व प्र॒ख्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । यो मान्द्वेष्टि॑ जातवेदः । यञ्चा॒हन्द्वेष्मि॒ यश्च॒ माम् । सर्वा॒॒ स्तान॑ग्ने॒ सन्द॑ह । या श्चा॒हन्द्वेष्मि॒ ये च॒ माम् । अग्ने॑ वाजजित् । वाज॑न्त्वा ससृ॒वासम् ।। 71 ।। 3.7.6.18 वाज॑ञ्जिगि॒वासम् । वा॒जिन॑व्वाँज॒जितम् । वा॒ज॒जि॒त्यायै॒ सम्मार्ज्मि । अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य । वेदि॑र्ब॒र्॒हिश्शृ॒त ह॒विः । इ॒ध्म प॑रि॒धय॒स्स्रुचः॑ । आज्य॑य्यँ॒ज्ञ ऋचो॒ यजुः॑ । या॒ज्याश्च वषट्का॒राः । सम्मे॒ सन्न॑तयो नमन्ताम् । इ॒ध्म॒स॒न्नह॑ने हु॒ते ।। 72 ।। 3.7.6.19 दि॒व खीलोऽव॑ततः । पृ॒थि॒व्या अध्युत्थि॑तः । तेना॑ स॒हस्र॑काण्डेन । द्वि॒षन्त॑ शोचयामसि । द्वि॒षन्मे॑ ब॒हु शो॑चतु । ओष॑धे॒ मो अ॒ह शु॑चम् । यज्ञ॒ नम॑स्ते यज्ञ । नमो॒ नम॑श्च ते यज्ञ । शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व । स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व ।। 73 ।। 3.7.6.20 सु॒भू॒तेन॑ मे॒ सन्ति॑ष्ठस्व । ब्र॒ह्म॒व॒र्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व । य॒ज्ञस्यर्द्धि॒मनु॒ सन्ति॑ष्ठस्व । उप॑ ते यज्ञ॒ नमः॑ । उप॑ ते॒ नमः॑ । उप॑ ते॒ नमः॑ । त्रिष्फ॒लीक्रि॒यमा॑णानाम् । यो न्य॒ङ्गो अ॑व॒शिष्य॑ते । रख्ष॑सां भाग॒धेयम् । आप॒स्तत्प्र व॑हतादि॒तः ।। 74 ।। 3.7.6.21 उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्पे । आ॒शि॒श्लेष॑ दृ॒षदि॒ यत्क॒पाले । अ॒व॒प्रुषो॑ वि॒प्रुष॒स्सय्यँ॑जामि । विश्वे॑ दे॒वा ह॒विरि॒दञ्जु॑षन्ताम् । य॒ज्ञे या वि॒प्रुष॒स्सन्ति॑ ब॒ह्वीः । अ॒ग्नौ तास्सर्वा॒स्स्वि॑ष्टा॒स्सुहु॑ता जुहोमि । उ॒द्यन्न॒द्यमि॑त्र महः । स॒पत्नान्मे अनीनशः । दिवै॑नान् वि॒द्युता॑ जहि । नि॒म्रोच॒न्नध॑रान्कृधि ।। 75 ।। 3.7.6.22 उ॒द्यन्न॒द्य वि नो॑ भज । पि॒ता पु॒त्रेभ्यो॒ यथा । दी॒र्घा॒यु॒त्वस्य॑ हेशिषे । तस्य॑ नो देहि सूर्य । उ॒द्यन्न॒द्य मि॑त्रमहः । आ॒रोह॒न्नुत्त॑रा॒न्दिवम् । हृ॒द्रो॒गम्मम॑ सूर्य । ह॒रि॒माण॑ञ्च नाशय । शुके॑षु मे हरि॒माणम् । रो॒प॒णाका॑सु दध्मसि ।।76 ।। 3.7.6.23 अथो॑ हारिद्र॒वेषु॑ मे । ह॒रि॒माण॒न्नि द॑ध्मसि । उद॑गाद॒यमा॑दि॒त्यः । विश्वे॑न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मम॑ र॒न्धयन्न्॑ । मो अ॒हन्द्वि॑ष॒तो र॑धम् । यो न॒श्शपा॒दश॑पतः । यश्च॑ न॒श्शप॑त॒श्शपात् । उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॑ । सर्वं॑ पा॒प समू॑हताम् ।। 77 ।। 3.7.6.24 यो न॑स्स॒पत्नो॒ यो रणः॑ । मर्तो॑ऽभि॒दास॑ति देवाः । इ॒ध्मस्ये॑व प्र॒ख्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । अव॑सृष्ट॒ परा॑पत । श॒रो ब्रह्म॑सशितः । गच्छा॒ऽमित्रा॒न्प्र वि॑श । मैषा॒ङ्कञ्च॒नोच्छि॑षः ।। 78 ।। 3.7.7.0 ब्रह्म॑णो॒ योनि॒रह॑स प॒ङ्क्तिं प्रप॑द्ये दी॒ख्षा यया॑ऽऽदि॒त्यो दी॒ख्षया॑ दीख्षि॒तस्तया त्वा दी॒ख्षया॑ दीख्षया॒म्योष॑धयो दी॒ख्षा द्यौस्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षता॒मप॑चिति॒श्चाख्षि॑ति॒रुत्त॑रस्मिन्गमेय॒न्दिश॒ पाद॑ आदि॒त्यव॑तीव्वँर्तय॒ पञ्च॑ च ।। 7 ।। 3.7.7.1 सख्षे॒दं प॑श्य । विध॑र्तरि॒दं प॑श्य । नाके॒दं प॑श्य । र॒मति॒ पनि॑ष्ठा । ऋ॒तव्वँर्‌षि॑ष्ठम् । अ॒मृता॒यान्या॒हुः । सूर्यो॒ वरि॑ष्ठो अ॒ख्षभि॒र्विभा॑ति । अनु॒ द्यावा॑पृथि॒वी दे॒वपु॑त्रे । दी॒ख्षाऽसि॒ तप॑सो॒ योनिः॑ । तपो॑ऽसि॒ ब्रह्म॑णो॒ योनिः॑ ।।79 ।। 3.7.7.2 ब्रह्मा॑सि ख्ष॒त्रस्य॒ योनिः॑ । ख्ष॒त्रम॑स्यृ॒तस्य॒ योनिः॑ । ऋ॒तम॑सि॒ भूरा र॑भे । श्र॒द्धां मन॑सा । दी॒ख्षान्तप॑सा । विश्व॑स्य॒ भुव॑न॒स्याधि॑पत्नीम् । सर्वे॒ कामा॒ यज॑मानस्य सन्तु । वातं॑ प्रा॒णं मन॑सा॒ऽन्वा र॑भामहे । प्र॒जाप॑ति॒य्योँ भुव॑नस्य गो॒पाः । स नो॑ मृ॒त्योस्त्रा॑यतां॒ पात्वह॑सः ।। 80 ।। 3.7.7.3 ज्योग्जी॒वा ज॒राम॑शीमहि । इन्द्र॑ शाक्वर गाय॒त्रीं प्र प॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वर त्रि॒ष्टुभं॒ प्र प॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वर॒ जग॑तीं॒ प्र प॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वरानु॒ष्टुभं॒ प्र प॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वर प॒ङ्क्तिं प्रप॑द्ये ।। 81 ।। 3.7.7.4 तान्ते॑ युनज्मि । आऽहन्दी॒ख्षाम॑रुहमृ॒तस्य॒ पत्नीम् । गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च । ऋ॒त स॒त्ये॑ऽधायि । स॒त्यमृ॒ते॑ऽधायि । ऋ॒तञ्च॑ मे स॒त्यञ्चा॑भूताम् । ज्योति॑रभूव॒॒ सुव॑रगमम् । सु॒व॒र्गल्लोँ॒कन्नाक॑स्य पृ॒ष्ठम् । ब्र॒ध्नस्य॑ वि॒ष्टप॑मगमम् । पृ॒थि॒वी दी॒ख्षा ।। 82 ।। 3.7.7.5 तया॒ऽग्निर्दी॒ख्षया॑ दीख्षि॒तः । यया॒ऽग्निर्दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । अ॒न्तरि॑ख्षन्दी॒ख्षा । तया॑ वा॒युर्दी॒ख्षया॑ दीख्षि॒तः । यया॑ वा॒युर्दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । द्यौर्दी॒ख्षा । तया॑ऽऽदि॒त्यो दी॒ख्षया॑ दीख्षि॒तः । यया॑ऽऽदि॒त्यो दी॒ख्षया॑ दीख्षि॒तः ।। 83 ।। 3.7.7.6 तया त्वा दी॒ख्षया॑ दीख्षयामि । दिशो॑ दी॒ख्षा । तया॑ च॒न्द्रमा॑ दी॒ख्षया॑ दीख्षि॒तः । यया॑ च॒न्द्रमा॑ दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । आपो॑ दी॒ख्षा । तया॒ वरु॑णो॒ राजा॑ दी॒ख्षया॑ दीख्षि॒तः । यया॒ वरु॑णो॒ राजा॑ दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । ओष॑धयो दी॒ख्षा ।। 84 ।। 3.7.7.7 तया॒ सोमो॒ राजा॑ दी॒ख्षया॑ दीख्षि॒तः । यया॒ सोमो॒ राजा॑ दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । वाग्दी॒ख्षा । तया प्रा॒णो दी॒ख्षया॑ दीख्षि॒तः । यया प्रा॒णो दी॒ख्षया॑ दीख्षि॒तः । तया त्वा दी॒ख्षया॑ दीख्षयामि । पृ॒थि॒वी त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षताम् । अ॒न्तरि॑ख्षन्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षताम् । द्यौस्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षताम् ।। 85 ।। 3.7.7.8 दिश॑स्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । आप॑स्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । ओष॑धयस्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । वाक्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षताम् । ऋच॑स्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । सामा॑नि त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । यजू॑षि त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चाप॑चितिश्च ।। 86 ।। 3.7.7.9 अप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च । तास्त्वा॒ दीख्ष॑माण॒मनु॑ दीख्षन्ताम् । स्वे दख्षे॒ दख्ष॑पिते॒ह सी॑द । दे॒वाना॑ सु॒म्नो म॑ह॒ते रणा॑य । स्वा॒स॒स्थस्त॒नुवा॒ सव्विँ॑शस्व । पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवः॑ । शि॒वो मा॑ शि॒वमा वि॑श । स॒त्यम्म॑ आ॒त्मा । श्र॒द्धा मेऽख्षि॑तिः ।। 87 ।। 3.7.7.10 तपो॑ मे प्रति॒ष्ठा । स॒वि॒तृप्र॑सूता मा॒ दिशो॑ दीख्षयन्तु । स॒त्यम॑स्मि । अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्र पि॒त्रे लो॑क॒कृज्जा॑तवेदः । आ॒जुह्वा॑नस्सु॒प्रती॑क पु॒रस्तात् । अग्ने॒ स्वाय्योँनि॒मा सी॑द सा॒ध्या । अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मिन्न् ।। 88 ।। 3.7.7.11 विश्वे॑ देवा॒ यज॑मानश्च सीदत । एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु । द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु । त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु । च॒त्वारि॒ मायो॑भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु । पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु । षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु । स॒प्त स॒प्तभ्यो॒ होत्राभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु । सखा॑यस्स॒प्तप॑दा अभूम । स॒ख्यन्ते॑ गमेयम् ।।89 ।। 3.7.7.12 स॒ख्यात्ते॒ मा यो॑षम् । स॒ख्यान्मे॒ मा योष्ठाः । साऽसि॑ सुब्रह्मण्ये । तस्यास्ते पृथि॒वी पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्यास्ते॒ऽन्तरि॑ख्षं॒ पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्यास्ते॒ द्यौ पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्यास्ते॒ दिश॒ पादः॑ ।। 90 ।। 3.7.7.13 प॒रोर॑जास्ते पञ्च॒म पादः॑ । सा न॒ इष॒मूर्ज॑न्धुख्ष्व । तेज॑ इन्द्रि॒यम् । ब्र॒ह्म॒व॒र्च॒सम॒न्नाद्यम् । वि मि॑मे त्वा॒ पय॑स्वतीम् । दे॒वानान्धे॒नु सु॒दुघा॒मन॑पस्फुरन्तीम् । इन्द्र॒स्सोमं॑ पिबतु । ख्षेमो॑ अस्तु नः । इ॒मान्न॑रा कृणुत॒ वेदि॒मेत्य॑ । वसु॑मती रु॒द्रव॑तीमादि॒त्यव॑तीम् ।। 91 ।। 3.7.7.14 वर्ष्म॑न्दि॒वः । नाभा॑ पृथि॒व्याः । यथा॒ऽयय्यँज॑मानो॒ न रिष्येत् । दे॒वस्य॑ सवि॒तुस्स॒वे । चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये । तस्या॑ सुप॒र्णावधि॒ यौ निवि॑ष्टौ । तयोर्दे॒वाना॒मधि॑ भाग॒धेयम् । अ॒प जन्य॑म्भ॒यन्नु॑द । अप॑ च॒क्राणि॑ वर्तय । गृ॒ह सोम॑स्य गच्छतम् । न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि । दे॒वा इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।। 92 ।। 3.7.8.0 कृ॒धि॒ मी॒ढुषेऽहु॑तस्य च स॒प्त च॑ ।। 8 ।। 3.7.8.1 यद॒स्य पा॒रे रज॑सः । शु॒क्रञ्ज्योति॒रजा॑यत । तन्न॑ पर्‌ष॒दति॒ द्विषः॑ । अग्ने॑ वैश्वानर॒ स्वाहा । यस्माद्भी॒षाऽवा॑शिष्ठाः । ततो॑ नो॒ अभ॑यङ्कृधि । प्र॒जाभ्य॒स्सर्वाभ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे । यस्माद्भी॒षा न्यष॑दः । ततो॑ नो॒ अभ॑यङ्कृधि ।। 93 ।। 3.7.8.2 प्र॒जाभ्य॒स्सर्वाभ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे । उदु॑स्र तिष्ठ॒ प्रति॑तिष्ठ॒ मारि॑षः । मेमय्यँ॒ज्ञय्यँज॑मानञ्च रीरिषः । सु॒व॒र्गे लो॒के यज॑मान॒॒ हि धे॒हि । शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे । यस्माद्भी॒षाऽवे॑पिष्ठा प॒लायि॑ष्ठास्स॒मज्ञास्थाः । ततो॑ नो॒ अभ॑यङ्कृधि । प्र॒जाभ्य॒स्सर्वाभ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे ।। 94 ।। 3.7.8.3 य इ॒दमकः॑ । तस्मै॒ नमः॑ । तस्मै॒ स्वाहा । न वा उ॑वे॒तन्म्रि॑यसे । आशा॑नान्त्वा॒ विश्वा॒ आशाः । य॒ज्ञस्य॒ हि स्थ ऋ॒त्वियौ । इन्द्राग्नी॒ चेत॑नस्य च । हु॒ता॒हु॒तस्य॑ तृप्यतम् । अहु॑तस्य हु॒तस्य॑ च । हु॒तस्य॒ चाहु॑तस्य च । अहु॑तस्य हु॒तस्य॑ च । इन्द्राग्नी अ॒स्य सोम॑स्य । वी॒तं पि॑बतञ्जु॒षेथाम् । मा यज॑मान॒न्तमो॑ विदत् । मर्त्विजो॒ मो इ॒मा प्र॒जाः । मा यस्सोम॑मि॒मं पिबात् । ससृ॑ष्टमु॒भय॑ङ्कृ॒तम् ।। 95 ।। 3.7.9.0 चा॒त॒य॒त॒ श्री॒णी॒ता॒॒ स॒त्यमा॒हुर॑शीमहि ग॒णे कु॑रु वि॒द्रव॑णे पितृ॒याणा॑ अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च ।। 9 ।। 3.7.9.1 अ॒ना॒गस॑स्त्वा व॒यम् । इन्द्रे॑ण॒ प्रेषि॑ता॒ उप॑ । वा॒युष्टे॑ अस्त्वश॒भूः । मि॒त्रस्ते॑ अस्त्वश॒भूः । वरु॑णस्ते अस्त्वश॒भूः । अपांख्षया॒ ऋत॑स्य गर्भाः । भुव॑नस्य गोपा॒श्श्येना॑ अतिथयः । पर्व॑तानाङ्ककुभ प्र॒युतो॑ नपातारः । व॒ग्नुनेन्द्र॑ ह्वयत । घोषे॒णामी॑वा श्चातयत ।। 96 ।। 3.7.9.2 यु॒क्तास्स्थ॒ वह॑त । दे॒वा ग्रावा॑ण॒ इन्दु॒रिन्द्र॒ इत्य॑वादिषुः । एन्द्र॑मचुच्यवु पर॒मस्या परा॒वतः॑ । आऽस्माथ्स॒धस्थात् । ओरोर॒न्तरि॑ख्षात् । आ सु॑भू॒तम॑सुषवुः । ब्र॒ह्म॒व॒र्च॒सम्म॒ आसु॑षवुः । स॒म॒रे रख्षा॑स्यवधिषुः । अप॑हतं ब्रह्म॒ज्यस्य॑ । वाक्च॑ त्वा॒ मन॑श्च श्रीणीताम् ।। 97 ।। 3.7.9.3 प्रा॒णश्च॑ त्वाऽपा॒नश्च॑ श्रीणीताम् । चख्षु॑श्च त्वा॒ श्रोत्र॑ञ्च श्रीणीताम् । दख्ष॑श्चत्वा॒ बल॑ञ्च श्रीणीताम् । ओज॑श्च त्वा॒ सह॑श्च श्रीणीताम् । आयु॑श्च त्वाऽज॒रा च॑ श्रीणीताम् । आ॒त्मा च॑ त्वा त॒नूश्च॑ श्रीणीताम् । शृ॒तो॑ऽसि शृ॒तङ्कृ॑तः । शृ॒ताय॑ त्वा शृ॒तेभ्य॑स्त्वा । यमिन्द्र॑मा॒हुर्वरु॑ण॒य्यँमा॒हुः । यम्मि॒त्रमा॒हुर्यमु॑ स॒त्यमा॒हुः ।। 98 ।। 3.7.9.4 यो दे॒वानान्दे॒वत॑मस्तपो॒जाः । तस्मै त्वा॒ तेभ्य॑स्त्वा । मयि॒ त्यदि॑न्द्रि॒यम्मह॒त् । मयि॒ दख्षो॒ मयि॒ क्रतुः॑ । मयि॑ धायि सु॒वीर्यम् । त्रिशु॑ग्घ॒र्मो वि भा॑तु मे । आकूत्या॒ मन॑सा स॒ह । वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । तस्य॒ दोह॑मशीमहि ।। 99 ।। 3.7.9.5 तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒ख्षम॑शीमहि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु । मि॒त्रो जना॒न्प्र स मि॑त्र । यस्मा॒न्न जा॒त परो॑ अ॒न्यो अस्ति॑ । य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा । प्र॒जाप॑ति प्र॒जया॑ सव्विँदा॒नः । त्रीणि॒ ज्योती॑षि सचते॒ स षो॑ड॒शी । ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ । इन्द्रो॒ नाम॑ श्रु॒तो ग॒णे ।। 100 ।। 3.7.9.6 प्र ते॑ म॒हे वि॒दथे॑ शसिष॒॒ हरी । य ऋ॒त्विय॒ प्र ते॑ वन्वे । व॒नुषो॑ हर्य॒तम्मदम् । इन्द्रो॒ नाम॑ घृ॒तन्नयः । हरि॑भि॒श्चारु॒ सेच॑ते । श्रु॒तो ग॒ण आ त्वा॑ विशन्तु । हरि॑वर्पस॒ङ्गिरः॑ । इन्द्राधि॑प॒तेऽधि॑पति॒स्त्वन्दे॒वाना॑मसि । अधि॑पति॒म्माम् । आयु॑ष्मन्त॒व्वँर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु ।। 101 ।। 3.7.9.7 इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा । तौ ते॑ भ॒ख्षञ्च॑क्रतु॒रग्र॑ ए॒तम् । तयो॒रनु॑ भ॒ख्षं भ॑ख्षयामि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु । प्र॒जाप॑तिर्वि॒श्वक॑र्मा । तस्य॒ मनो॑ दे॒वय्यँ॒ज्ञेन॑ राध्यासम् । अ॒र्थे॒गा अ॒स्य ज॑हितः । अ॒व॒सान॑पतेऽव॒सान॑म्मे विन्द । नमो॑ रु॒द्राय॑ वास्तो॒ष्पत॑ये । आय॑ने वि॒द्रव॑णे ।। 102 ।। 3.7.9.8 उ॒द्याने॒ यत्प॒राय॑णे । आ॒वर्त॑ने वि॒वर्त॑ने । यो गो॑पा॒यति॒ त हु॑वे । यान्य॑पा॒मित्या॒न्यप्र॑तीत्ता॒न्यस्मि॑ । य॒मस्य॑ ब॒लिना॒ चरा॑मि । इ॒हैव सन्त॒ प्रति॒ तद्या॑तयामः । जी॒वा जी॒वेभ्यो॒ नि ह॑राम एनत् । अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णा पर॑स्मिन्न् । तृ॒तीये॑ लो॒के अ॑नृ॒णास्स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः ।। 103 ।। 3.7.9.9 सर्वान्प॒थो अ॑नृ॒णा आख्षी॑येम । इ॒दमू॒नु श्रेयो॑ऽव॒सान॒मा ग॑न्म । शि॒वे नो॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । गोम॒द्धन॑व॒दश्व॑व॒दूर्ज॑स्वत् । सु॒वीरा॑ वी॒रैरनु॒ सञ्च॑रेम । अ॒र्क प॒वि॒त्र॒॒ रज॑सो वि॒मानः॑ । पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा । द्यावा॑पृथि॒वी पय॑सा सव्विँदा॒ने । घृ॒तन्दु॑हाते अ॒मृतं॒ प्रपी॑ने । प॒वित्र॑म॒र्को रज॑सो वि॒मानः॑ । पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा । सुव॒र्ज्योति॒र्यशो॑ म॒हत् । अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठाम् ।। 104 ।। 3.7.10.0 उ॒द॒र्॒ष इ॑न्द्रि॒येण॒ गा म॒तिर॑र॒पा अ॑गा॒त्त्रीणि॑ च ।। 10 ।। 3.7.10.1 उद॑स्तांफ्सीथ्सवि॒ता मि॒त्रो अ॑र्य॒मा । सर्वा॑न॒मित्रा॑नवधीद्यु॒गेन॑ । बृ॒हन्त॒म्माम॑करद्वी॒रव॑न्तम् । र॒थ॒न्त॒रे श्र॑यस्व॒ स्वाहा॑ पृथि॒व्याम् । वा॒म॒दे॒व्ये श्र॑यस्व॒ स्वाहा॒ऽन्तरि॑ख्षे । बृ॒ह॒ति श्र॑यस्व॒ स्वाहा॑ दि॒वि । बृ॒ह॒ता त्वोप॑स्तभ्नोमि । आ त्वा॑ ददे॒ यश॑से वी॒र्या॑य च । अ॒स्मास्व॑घ्निया यू॒यन्द॑धाथेन्द्रि॒यं पयः॑ । यस्ते द्र॒फ्सो यस्त॑ उद॒र्॒षः ।।105।। 3.7.10.2 दैव्य॑ के॒तुर्विश्व॒म्भुव॑नमावि॒वेश॑ । स न॑ पा॒ह्यरि॑ष्ट्यै॒ स्वाहा । अनु॑ मा॒ सर्वो॑ य॒ज्ञो॑ऽयमे॑तु । विश्वे॑ दे॒वा म॒रुत॒स्सामा॒र्कः । आ॒प्रिय॒श्छन्दा॑सि नि॒विदो॒ यजू॑षि । अ॒स्यै पृ॑थि॒व्यै यद्य॒ज्ञियम् । प्र॒जाप॑तेर्वर्त॒निमनु॑ वर्तस्व । अनु॑वी॒रैरनु॑ राध्याम॒ गोभिः॑ । अन्वश्वै॒रनु॒ सर्वै॑रु पु॒ष्टैः । अनु॑ प्र॒जयाऽन्वि॑न्द्रि॒येण॑ ।। 106 ।। 3.7.10.3 दे॒वा नो॑ य॒ज्ञमृ॑जु॒धा न॑यन्तु । प्रति॑ख्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे । प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रति॑ प्र॒जायां॒ प्रति॑तिष्ठामि॒ भव्ये । विश्व॑म॒न्याऽभि॑ वावृ॒धे । तद॒न्यस्या॒मधि॑श्रि॒तम् । दि॒वे च॑ वि॒श्वक॑र्मणे । पृ॒थि॒व्यै चा॑कर॒न्नमः॑ । अस्का॒न्द्यौ पृ॑थि॒वीम् । अस्का॑नृष॒भो युवा॒गाः ।। 107 ।। 3.7.10.4 स्क॒न्नेमा विश्वा॒ भुव॑ना । स्क॒न्नो य॒ज्ञ प्र ज॑नयतु । अस्का॒नज॑नि॒ प्राज॑नि । आ स्क॒न्नाज्जा॑यते॒ वृषा । स्क॒न्नात्प्र ज॑निषीमहि । ये दे॒वा येषा॑मि॒दम्भा॑ग॒धेय॑म्ब॒भूव॑ । येषां प्रया॒जा उ॒तानू॑या॒जाः । इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः । अ॒ग्निहो॑तृभ्यो दे॒वेभ्य॒स्स्वाहा । उ॒त त्या नो॒ दिवा॑ म॒तिः ।। 108 ।। 3.7.10.5 अदि॑तिरू॒त्या ग॑मत् । सा शन्ता॑ची॒ मय॑स्करत् । अप॒ स्रिधः॑ । उ॒त त्या दैव्या॑ भि॒षजा । शन्न॑स्करतो अ॒श्विना । यू॒याता॑म॒स्मद्रपः॑ । अप॒ स्रिधः॑ । शम॒ग्निर॒ग्निभि॑स्करत् । शन्न॑स्तपतु॒ सूर्यः॑ । शव्वाँतो॑ वात्वर॒पाः ।। 109 ।। 3.7.10.6 अप॒ स्रिधः॑ । तदित्प॒दन्न विचि॑केत वि॒द्वान् । यन्मृ॒त पुन॑र॒प्येति॑ जी॒वान् । त्रि॒वृद्यद्भुव॑नस्य रथ॒वृत् । जी॒वो गर्भो॒ न मृ॒तस्स जी॑वात् । प्रत्य॑स्मै॒ पिपी॑षते । विश्वा॑नि वि॒दुषे॑ भर । अ॒र॒ङ्ग॒माय॒ जग्म॑वे । अप॑श्चाद्दघ्वने॒ नरे । इन्दु॒रिन्दु॒मवा॑गात् । इन्दो॒रिन्द्रो॑ऽपात् । तस्य॑ त इन्द॒विन्द्र॑पीतस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भख्षयामि ।।110 ।। 3.7.11.0 दे॒वा श्चि॒त्रं त॒नूभ्य॒स्स्वाहो॒नं पुरु॑षसम्मि॒तोऽग्ने॒ तद॑स्य कल्पय॒ पञ्च॑ च ।। 11 ।। 3.7.11.1 ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः । ब्रह्म॑ य॒ज्ञाना॑ ह॒विषा॒माज्य॑स्य । अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्न्॑ । स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् । आश्रा॑वितम॒त्याश्रा॑वितम् । वष॑ट्कृतम॒त्यनूक्तञ्च य॒ज्ञे । अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्न्॑ । स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् ।। 111 ।। 3.7.11.2 यद्वो॑ देवा अतिपा॒दया॑नि । वा॒चा चि॒त्प्रय॑तन्देव॒हेड॑नम् । अ॒रा॒यो अ॒स्मा अ॒भिदु॑च्छुना॒यते । अ॒न्यत्रा॒स्मन्म॑रुत॒स्तन्निधे॑तन । त॒तम्म॒ आप॒स्तदु॑ तायते॒ पुनः॑ । स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते । अ॒य स॑मु॒द्र उ॒त वि॒श्वभे॑षजः । स्वाहा॑कृतस्य॒ समु॑तृप्णुतर्भुवः । उद्व॒यन्तम॑स॒स्परि॑ । उदु॒त्यञ्चि॒त्रम् ।। 112 ।। 3.7.11.3 इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि । त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने । त्वम॑ग्ने अ॒यासि॒ प्रजा॑पते । इ॒मञ्जी॒वेभ्य॑ परि॒धिन्द॑धामि । मैषान्नु॑गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒तञ्जी॑वन्तु श॒रद॑ पुरू॒चीः । ति॒रो मृ॒त्युन्द॑धतां॒ पर्व॑तेन । इ॒ष्टेभ्य॒स्स्वाहा॒ वष॒डनि॑ष्टेभ्य॒स्स्वाहा । भे॒ष॒जन्दुरि॑ष्ट्यै॒ स्वाहा॒ निष्कृ॑त्यै॒ स्वाहा । दौरार्ध्यै॒ स्वाहा॒ दैवीभ्यस्त॒नूभ्य॒स्स्वाहा ।। 113 ।। 3.7.11.4 ऋद्ध्यै॒ स्वाहा॒ समृ॑द्ध्यै॒ स्वाहा । यत॑ इन्द्र॒ भया॑महे । ततो॑ नो॒ अभ॑यङ्कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये । वि द्विषो॒ वि मृधो॑ जहि । स्व॒स्ति॒दा वि॒शस्पतिः॑ । वृ॒त्र॒हा वि मृधो॑ व॒शी । वृषेन्द्र॑ पु॒र ए॑तु नः । स्व॒स्ति॒दा अ॑भयङ्क॒रः । आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नम् ।। 114 ।। 3.7.11.5 आप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ । भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम । अनाज्ञात॒य्यँदाज्ञा॑तम् । य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ । अग्ने॒ तद॑स्य कल्पय । त्व हि वेत्थ॑ यथात॒थम् । पुरु॑षसम्मितो य॒ज्ञः । य॒ज्ञ पुरु॑षसम्मितः । अग्ने॒ तद॑स्य कल्पय । त्व हि वेत्थ॑ यथात॒थम् । यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्षा॒ न । य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः । अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्न् । यजि॑ष्ठो दे॒वा ऋ॑तु॒शो य॑जाति ।। 115 ।। 3.7.12.0 अ॒ने॒नस॑मष्ठी॒वद्भ्या॑ स॒ति प॑रा॒शसा॑ऽऽन॒शेऽग्निर्मा॒ तस्मा॒देन॑स पुनीत न॒स्त्रीणि॑ च ।। 12 ।। (यद्दे॑वा॒ देवा॑ ऋ॒तेन॑ सजातश॒॒साद्यद्वा॒चा यद्धस्ताभ्या॒मदीव्य॒य्यँन्मयि॑ मा॒ता यदा॑ पि॒पेष॒ यद॒न्तरि॑ख्ष॒य्यँदा॒शसाऽति॑ क्रामामि त्रि॒ते दे॒वा दि॒वि जा॒ता अ॒प्सु जा॒ता यदाप॑ इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने॒ त्वम॑ग्ने अ॒यासि॑ । ) 3.7.12.1 यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मान्मा मुञ्चत । ऋ॒तस्य॒र्तेन॒ मामु॒त । देवा॑ जीवनका॒म्या यत् । वा॒चाऽनृ॑तमूदि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्‌ह॑पत्य॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसम् ।। 116 ।। 3.7.12.2 ऋ॒तेन॑ द्यावापृथिवी । ऋ॒तेन॒ त्व स॑रस्वति । ऋ॒तान्मा॑ मुञ्च॒ताह॑सः । यद॒न्यकृ॑तमारि॒म । स॒जा॒त॒श॒॒सादु॒त वा॑ जामिश॒॒सात् । ज्याय॑स॒श्शसा॑दु॒त वा॒ कनी॑यसः । अनाज्ञातन्दे॒वकृ॑त॒य्यँदेनः॑ । तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि । यद्वा॒चा यन्मन॑सा । बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्याम् ।। 117 ।। 3.7.12.3 शि॒श्ञैर्यदनृ॑तञ्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यद्धस्ताभ्याञ्च॒कर॒ किल्बि॑षाणि । अ॒ख्षाणाव्वँ॒ग्नुमु॑प॒जिघ्न॑मानः । दू॒रे॒प॒श्या च॑ राष्ट्र॒भृच्च॑ । तान्य॑फ्स॒रसा॒वनु॑दत्तामृ॒णानि॑ । अदी॑व्यन्नृ॒णय्यँद॒हञ्च॒कार॑ । यद्वादास्यन्थ्सञ्ज॒गारा॒ जनेभ्यः । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यन्मयि॑ मा॒ता गर्भे॑ स॒ति ।। 118 ।। 3.7.12.4 एन॑श्च॒कार॒ यत्पि॒ता । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यदा॑ पि॒पेष॑ मा॒तरं॑ पि॒तरम् । पु॒त्र प्रमु॑दितो॒ धयन्न्॑ । अहि॑सितौ पि॒तरौ॒ मया॒ तत् । तद॑ग्ने अनृ॒णो भ॑वामि । यद॒न्तरि॑ख्षं पृथि॒वीमु॒त द्याम् । यन्मा॒तरं॑ पि॒तर॑व्वाँ जिहिसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा ।। 119 ।। 3.7.12.5 यदेन॑श्चकृ॒मा नूत॑न॒य्यँत्पु॑रा॒णम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । अति॑ क्रामामि दुरि॒तय्यँदेनः॑ । जहा॑मि रि॒प्रं प॑र॒मे स॒धस्थे । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तमा रो॑हामि सु॒कृता॒न्नु लो॒कम् । त्रि॒ते दे॒वा अ॑मृजतै॒तदेनः॑ । त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे । ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।। 120 ।। 3.7.12.6 गार्‌ह॑पत्य॒ प्र मु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसम् । दि॒वि जा॒ता अ॒प्सु जा॒ताः । या जा॒ता ओष॑धीभ्यः । अथो॒ या अ॑ग्नि॒जा आपः॑ । ता न॑श्शुन्धन्तु॒ शुन्ध॑नीः । यदापो॒ नक्त॑न्दुरि॒तञ्चरा॑म । यद्वा॒ दिवा॒ नूत॑न॒य्यँत्पु॑रा॒णम् । हिर॑ण्यवर्णा॒स्तत॒ उत्पु॑नीत नः । इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि । त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने । त्वम॑ग्ने अ॒यासि॑ ।। 121 ।। 3.7.13.0 त्मना॒ जाय॑मानोऽस्य॒ दध॒त्पञ्च॑ च ।। 13 ।। 3.7.13.1 यत्ते॒ ग्राव्ण्णा॑ चिच्छि॒दुस्सो॑म राजन्न् । प्रि॒याण्यङ्गा॑नि॒ स्वधि॑ता॒ परू॑षि । तथ्सन्ध॒थ्स्वाज्ये॑नो॒त व॑र्धयस्व । अ॒ना॒गसो॒ अध॒मिथ्स॒ङ्ख्षये॑म । यत्ते॒ ग्रावा॑ बा॒हुच्यु॑तो॒ अचु॑च्यवुः । नरो॒ यत्ते॑ दुदु॒हुर्दख्षि॑णेन । तत्त॒ आप्या॑यता॒न्तत्ते । निष्ट्या॑यतान्देव सोम । यत्ते॒ त्वच॑म्बिभि॒दुर्यच्च॒ योनिम् । यदा॒स्थाना॒त्प्रच्यु॑तो॒ वेन॑सि॒ त्मना ।।122 ।। 3.7.13.2 त्वया॒ तथ्सो॑म गु॒प्तम॑स्तु नः । सा न॑स्स॒न्धास॑त्पर॒मे व्यो॑मन्न् । अहा॒च्छरी॑रं॒ पय॑सा स॒मेत्य॑ । अ॒न्योन्यो भवति॒ वर्णो॑ अस्य । तस्मि॑न्व॒यमुप॑हूता॒स्तव॑ स्मः । आ नो॑ भज॒ सद॑सि वि॒श्वरू॑पे । नृ॒चख्षा॒स्सोम॑ उ॒त शु॒श्रुग॑स्तु । मा नो॒ वि हा॑सी॒द्गिर॑ आवृणा॒नः । अना॑गास्त॒नुवो॑ वावृधा॒नः । आ नो॑ रू॒पव्वँ॑हतु॒ जाय॑मानः ।। 123 ।। 3.7.13.3 उप॑ ख्षरन्ति जु॒ह्वो॑ घृ॒तेन॑ । प्रि॒याण्यङ्गा॑नि॒ तव॑ व॒र्धय॑न्तीः । तस्मै॑ ते सोम॒ नम॒ इद्वष॑ट्च । उप॑ मा राजन्थ्सुकृ॒ते ह्व॑यस्व । सं प्रा॑णापा॒नाभ्या॒॒ समु॒ चख्षु॑षा॒ त्वम् । स श्रोत्रे॑ण गच्छस्व सोम राजन्न् । यत्त॒ आस्थि॑त॒॒ शमु॒ तत्ते॑ अस्तु । जा॒नी॒तान्न॑स्स॒ङ्गम॑ने पथी॒नाम् । ए॒तञ्जा॑नीतात्पर॒मे व्यो॑मन्न् । वृकास्सधस्था वि॒द रू॒पम॑स्य ।।124 ।। 3.7.13.4 यदा॒गच्छात्प॒थिभि॑र्देव॒यानैः । इ॒ष्टा॒पू॒र्ते कृ॑णुतादा॒विर॑स्मै । अरि॑ष्टो राजन्नग॒द परे॑हि । नम॑स्ते अस्तु॒ चख्ष॑से रघूय॒ते । नाक॒मारो॑ह स॒ह यज॑मानेन । सूर्य॑ङ्गच्छतात्पर॒मे व्यो॑मन्न् । अभूद्दे॒वस्स॑वि॒ता वन्द्यो॒नु नः॑ । इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ । वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॑ । श्रेष्ठ॑न्नो॒ अत्र॒ द्रवि॑ण॒य्यँथा॒ दध॑त् । उप॑ नो मित्रावरुणावि॒हाव॑तम् । अ॒न्वादीध्याथामि॒ह न॑स्सखाया । आ॒दि॒त्यानां॒ प्रसि॑तिर् हे॒तिः । उ॒ग्रा श॒तापाष्ठा घ॒विषा॒ परि॑ णो वृणक्तु । आप्या॑यस्व॒ सन्ते ।। 125 ।। 3.7.14.0 वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यन्धामा॑शीमहीवा॒भिन॑श्शीयता र॒यिरेक॑ञ्च ।। 14 ।। 3.7.14.1 यद्दि॑दी॒ख्षे मन॑सा॒ यच्च॑ वा॒चा । यद्वा प्रा॒णैश्चख्षु॑षा॒ यच्च॒ श्रोत्रे॑ण । यद्रेत॑सा मिथु॒नेनाप्या॒त्मना । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् । शु॒क्रा दी॒ख्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । यदृ॒चा साम्ना॒ यजु॑षा । प॒शू॒नाञ्चर्म॑न् ह॒विषा॑ दिदी॒ख्षे । यच्छन्दो॑भि॒रोष॑धीभि॒र्वन॒स्पतौ । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ।।126 ।। 3.7.14.2 शु॒क्रा दी॒ख्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । येन॒ ब्रह्म॒ येन॑ ख्ष॒त्रम् । येनेन्द्रा॒ग्नी प्र॒जाप॑ति॒स्सोमो॒ वरु॑णो॒ येन॒ राजा । विश्वे॑ दे॒वा ऋष॑यो॒ येन॑ प्रा॒णाः । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् । शु॒क्रा दी॒ख्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । अ॒पां पुष्प॑म॒स्योष॑धीना॒॒ रसः॑ । सोम॑स्य प्रि॒यन्धाम॑ ।। 127 ।। 3.7.14.3 अ॒ग्ने प्रि॒यत॑म ह॒विस्स्वाहा । अ॒पां पुष्प॑म॒स्योष॑धीना॒॒ रसः॑ । सोम॑स्य प्रि॒यन्धाम॑ । इन्द्र॑स्य प्रि॒यत॑म ह॒विस्स्वाहा । अ॒पां पुष्प॑म॒स्योष॑धीना॒॒ रसः॑ । सोम॑स्य प्रि॒यन्धाम॑ । विश्वे॑षान्दे॒वानां प्रि॒यत॑म ह॒विस्स्वाहा । व॒य सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ पिप्र॑तः । प्र॒जाव॑न्तो अशीमहि ।। 128 ।। 3.7.14.4 दे॒वेभ्य॑ पि॒तृभ्य॒स्स्वाहा । सो॒म्येभ्य॑ पि॒तृभ्य॒स्स्वाहा । क॒व्येभ्य॑ पि॒तृभ्य॒स्स्वाहा । देवा॑स इ॒ह मा॑दयध्वम् । सोम्या॑स इ॒ह मा॑दयध्वम् । कव्या॑स इ॒ह मा॑दयध्वम् । अ॒न॑न्तरिता पि॒तर॑स्सो॒म्यास्सो॑मपी॒थात् । अपै॑तु मृ॒त्युर॒मृत॑न्न॒ आगन्न्॑ । वै॒व॒स्व॒तो नो॒ अभ॑यङ्कृणोतु । प॒र्णव्वँन॒स्पते॑रिव ।। 129 ।। 3.7.14.5 अ॒भि न॑श्शीयता र॒यिः । सच॑तान्न॒श्शची॒पतिः॑ । पर॑म्मृत्यो॒ अनु॒ परे॑हि॒ पन्थाम् । यस्ते॒ स्व इत॑रो देव॒यानात् । चख्षु॑ष्मते शृण्व॒ते ते ब्रवीमि । मा न॑ प्र॒जा री॑रिषो॒ मोत वी॒रान् । इ॒दमू॒नु श्रेयो॑व॒सान॒माग॑न्म । यद्गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यत् । प॒र्णव्वँन॒स्पते॑रिव । अ॒भि न॑श्शीयता र॒यिः । सच॑तान्न॒श्शची॒पतिः॑ ।। 130 ।। 3.8.0.0 सा॒ङ्ग्र॒ह॒ण्या चतु॑ष्टय्यो॒ यो वै य पि॒तुश्च॒त्वारो॒ यथा॑ नि॒क्तं प्र॒जाप॑तये त्वा॒ यथा॒ प्रोख्षि॑तव्विँ॒भूरा॑ह प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ प्र॒जाप॑ति॒र्न किञ्च॒न सा॑वि॒त्रमा ब्रह्म॑न्प्र॒जाप॑तिर्दे॒वैभ्य॑ प्र॒जाप॑ती॒ रख्षा॑सि प्र॒जाप॑तिमीफ्सति वि॒भूर॑श्वना॒मान्यम्भा॑स्येकयू॒पो राज्जु॑दालमेकवि॒॒शो दे॒वा पुरु॑ष॒स्त्रयो॑विशतिः ।। 23 ।। सा॒ङ्ग्रह॒ण्या तस्मा॑दश्वमेधया॒जी यत्परि॑मिता॒ यद्य॑ज्ञमु॒खे यो दी॒ख्षान्दे॒वाने॒व त्रय॑ इ॒मे सि॒ताय॑ प्राणापा॒नावे॒वास्मि॒न्तस्माद्राज॒न्य॑ एक॑नवतिः ।। 91 ।। सा॒ङ्ग्र॒ह॒ण्या सश्र॑यन्ति ।। हरिः॑ ओम् ।। अष्टमप्रपाठकस्समाप्तः । 3.8.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके अष्टम प्रपाठक प्रारम्भः । हरिः ओम् ।। 3.8.1.0 कर्म॑ धत्ते॒ पञ्च॑ च ।। 1 ।। 3.8.1.1 सा॒ङ्ग्र॒ह॒ण्येष्ट्या॑ यजते । इ॒माञ्ज॒नता॒॒ सङ्गृ॑ह्णा॒नीति॑ । द्वाद॑शारत्नी रश॒ना भ॑वति । द्वाद॑श॒ मासास्सव्वँथ्स॒रः । स॒व्वँ॒थ्स॒रमे॒वाव॑ रुन्धे । मौ॒ञ्जी भ॑वति । ऊर्ग्वै मुञ्जाः । ऊर्ज॑मे॒वाव॑ रुन्धे । चि॒त्रा नख्ष॑त्रम्भवति । चि॒त्रव्वाँ ए॒तत्कर्म॑ ।। 1 ।। 3.8.1.2 यद॑श्वमे॒धस्समृ॑द्ध्यै । पुण्य॑नाम देव॒यज॑नम॒ध्यव॑स्यति । पुण्या॑मे॒व तेन॑ की॒र्तिम॒भि ज॑यति । अप॑दातीनृ॒त्विज॑स्स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्यायाः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । के॒श॒श्म॒श्रु व॑पते । न॒खानि॒ नि कृ॑न्तते । द॒तो धा॑वते । स्नाति॑ । अह॑त॒व्वाँस॒ परि॑धत्ते । पा॒प्मनोऽप॑हत्यै । वाच॑य्यँ॒त्वोप॑ वसति । सु॒व॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै । रात्रि॑ञ्जाग॒रय॑न्त आसते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 2 ।। 3.8.2.0 द॒धा॒ति॒ रु॒न्धे॒ द॒र्भा अ॑भव॒थ्षट् च॑ ।। 2 ।। 3.8.2.1 चतु॑ष्टय्य॒ आपो॑ भवन्ति । चतु॑श्शफो॒ वा अश्व॑ प्राजाप॒त्यस्समृ॑द्ध्यै । ता दि॒ग्भ्यस्स॒माभृ॑ता भवन्ति । दि॒ख्षु वा आपः॑ । अन्न॒व्वाँ आपः॑ । अ॒द्भ्यो वा अन्न॑ञ्जायते । यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते । तदव॑ रुन्धे । तासु॑ ब्रह्मौद॒नं प॑चति । रेत॑ ए॒व तद्द॑धाति ।। 3 ।। 3.8.2.2 चतु॑श्शरावो भवति । दि॒ख्ष्वे॑व प्रति॑तिष्ठति । उ॒भ॒यतो॑रु॒क्मौ भ॑वतः । उ॒भ॒यत॑ ए॒वास्मि॒न्रुच॑न्दधाति । उद्ध॑रति शृत॒त्वाय॑ । स॒र्पिष्वान्भवति मेध्य॒त्वाय॑ । च॒त्वार॑ आऱ्षे॒या प्राश्ञ॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । च॒त्वारि॒ हिर॑ण्यानि ददाति । दि॒शामे॒व ज्योती॒॒ष्यव॑ रुन्धे ।। 4 ।। 3.8.2.3 यदाज्य॑मु॒च्छिष्य॑ते । तस्मि॑न्रश॒नान्यु॑नत्ति । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । रेत॒ आज्यम् । यदाज्ये॑ रश॒नान्यु॒नत्ति॑ । प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑र्धयति । द॒र्भ॒मयी॑ रश॒ना भ॑वति । ब॒हु वा ए॒ष कु॑च॒रो॑ मे॒ध्यमुप॑गच्छति । यदश्वः॑ । प॒वित्र॒व्वैँ द॒र्भाः ।। 5 ।। 3.8.2.4 यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति । पु॒नात्ये॒वैनम् । पू॒तमे॑न॒म्मेध्य॒मा ल॑भते । अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑क्रामत् । स म॒हर्त्वि॑ज॒ प्रावि॑शत् । तन्म॒हर्त्वि॑जाम्महर्त्वि॒क्त्वम् । यन्म॒हर्त्वि॑ज प्रा॒श्ञन्ति॑ । म॒हि॒मान॑मे॒वास्मि॒न्तद्द॑धति । अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत् । तथ्सु॒वर्ण॒॒ हिर॑ण्यमभवत् । यथ्सु॒वर्ण॒॒ हिर॑ण्य॒न्ददा॑ति । रेत॑ ए॒व तद्द॑धाति । ओ॒द॒ने द॑दाति । रेतो॒ वा ओ॑द॒नः । रेतो॒ हिर॑ण्यम् । रेत॑सै॒वास्मि॒न्रेतो॑ दधाति ।। 6 ।। 3.8.3.0 ब॒ध्ना॒ति॒ समृ॑द्ध्या उ॒पाद॑धात्य॒सीत्या॑ह॒ सप्र॑थस॒मित्या॑ह दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च ।। 3 ।। 3.8.3.1 यो वै ब्रह्म॑णे दे॒वेभ्य॑ प्र॒जाप॑त॒येऽप्र॑तिप्रो॒च्याश्व॒म्मेध्य॑म्ब॒ध्नाति॑ । आ दे॒वताभ्यो वृश्च्यते । पापी॑यान्भवति । य प्र॑ति॒प्रोच्य॑ । न दे॒वताभ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । यदाह॑ । ब्रह्म॒न्नश्व॒म्मेध्य॑म्भन्थ्स्यामि दे॒वेभ्य॑ प्र॒जाप॑तये॒ तेन॑ राध्यास॒मिति॑ । ब्रह्म॒ वै ब्र॒ह्मा । ब्रह्म॑ण ए॒व दे॒वेभ्य॑ प्र॒जाप॑तये प्रति॒प्रोच्याश्व॒म्मेध्य॑म्बध्नाति ।। 7 ।। 3.8.3.2 न दे॒वताभ्य॒ आ वृ॑श्च्यते । वसी॑यान्भवति । दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसूत्यै । अ॒श्विनोर्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् । पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै । व्यृ॑द्ध॒व्वाँ ए॒तद्य॒ज्ञस्य॑ । यद॑य॒जुष्के॑ण क्रि॒यते । इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्यधि॑ वदति॒ यजु॑ष्कृत्यै । य॒ज्ञस्य॒ समृ॑द्ध्यै ।। 8 ।। 3.8.3.3 तदा॑हुः । द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या ३ त्रयो॑दशार॒त्नी ३ रिति॑ । ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् । यथ्स॑व्वँथ्स॒रः । तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टपम् । ऋ॒ष॒भ ए॒ष य॒ज्ञानाम् । यद॑श्वमे॒धः । यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टपम् । ए॒वमे॒तस्य॑ वि॒ष्टपम् । त्र॒यो॒द॒शम॑र॒त्नि र॑श॒नाया॑मु॒पा द॑धाति ।। 9 ।। 3.8.3.4 यथ॑ऱ्ष॒भस्य॑ वि॒ष्टप॑ सस्क॒रोति॑ । ता॒दृगे॒व तत् । पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्येत्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । तया॑ दे॒वास्सु॒तमा ब॑भूवु॒रित्या॑ह । भूति॑मे॒वोपाव॑र्तते । ऋ॒तस्य॒ सामन्थ्स॒रमा॒रप॒न्तीत्या॑ह । स॒त्यव्वाँ ऋ॒तम् । स॒त्येनै॒वैन॑मृ॒तेनार॑भते । अ॒भि॒धा अ॒सीत्या॑ह ।। 10 ।। 3.8.3.5 तस्मा॑दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भि भ॑वति । भुव॑नम॒सीत्या॑ह । भू॒मान॑मे॒वोपै॑ति । य॒न्ताऽसीत्या॑ह । य॒न्तार॑मे॒वैन॑ङ्करोति । ध॒र्तासीत्या॑ह । ध॒र्तार॑मे॒वैन॑ङ्करोति । सोऽग्निव्वैँश्वान॒रमित्या॑ह । अ॒ग्नावे॒वैन॑व्वैँश्वान॒रे जु॑होति । सप्र॑थस॒मित्या॑ह ।। । 11 ।। 3.8.3.6 प्र॒जयै॒वैनं॑ प॒शुभि॑ प्रथयति । स्वाहा॑कृत॒ इत्या॑ह । होम॑ ए॒वास्यै॒षः । पृ॒थि॒व्यामित्या॑ह । अ॒स्यामे॒वैनं॒ प्रति॑ष्ठापयति । य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो ध॒र्तासि॑ ध॒रुण॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्याँच॑ष्टे । कृ॒ष्यै त्वा॒ ख्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वेत्या॑ह । आ॒शिष॑मे॒वैतामाशास्ते । स्व॒गा त्वा॑ दे॒वेभ्य॒ इत्या॑ह । दे॒वेभ्य॑ ए॒वैन॑ स्व॒गा क॑रोति । स्वाहा त्वा प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । यस्या॑ ए॒व दे॒वता॑या आल॒भ्यते । तयै॒वैन॒॒ सम॑र्धयति ।। 12 ।। 3.8.4.0 भ॒व॒ति॒ प्ला॒व॒य॒ति॒ मि॒मी॒ते॒ पञ्च॑ च ।। 4 ।। 3.8.4.1 य पि॒तुर॑नु॒जाया पु॒त्रः । स पु॒रस्तान्नयति । यो मा॒तुर॑नु॒जाया पु॒त्रः । स प॒श्चान्न॑यति । विष्व॑ञ्चमे॒वास्मात्पा॒प्मान॒व्विँवृ॑हतः । यो अर्व॑न्त॒ञ्जिघा॑सति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वान॑ञ्चतुर॒ख्षं प्रसौ॑ति । प॒रो मर्त॑ प॒रश्श्वेति॒ शुन॑श्चतुर॒ख्षस्य॒ प्रह॑न्ति । श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः । पा॒प्मान॑मे॒वास्य॒ भ्रातृ॑व्य हन्ति । सै॒ध्र॒कम्मुस॑लम्भवति ।। 13 ।। 3.8.4.2 कर्म॑कर्मै॒वास्मै॑ साधयति । पौ॒॒श्च॒ले॒यो ह॑न्ति । पु॒॒श्च॒ल्वाव्वैँ दे॒वाश्शुच॒न्न्य॑दधुः । शु॒चैवास्य॒ शुच॑ हन्ति । पा॒प्मा वा ए॒तमीफ्स॒तीत्या॑हुः । योऽश्वमे॒धेन॒ यज॑त॒ इति॑ । अश्व॑स्याधस्प॒दमुपास्यति । व॒ज्री वा अश्व॑ प्राजाप॒त्यः । वज्रे॑णै॒व पा॒प्मान॒म्भ्रातृ॑व्य॒मव॑ क्रामति । द॒ख्षि॒णाऽप॑ प्लावयति ।। 14 ।। 3.8.4.3 पा॒प्मान॑मे॒वास्मा॒च्छम॑ल॒मप॑ प्लावयति । ऐ॒षी॒क उ॑दू॒हो भ॑वति । आयु॒र्वा इ॒षीकाः । आयु॑रे॒वास्मि॑न्दधति । अ॒मृत॒व्वाँ इ॒षीकाः । अ॒मृत॑मे॒वास्मि॑न्दधति । वे॒त॒स॒शा॒खोप॒सम्ब॑द्धा भवति । अ॒फ्सुयो॑नि॒र्वा अश्वः॑ । अ॒फ्सु॒जो वे॑त॒सः । स्वादे॒वैन॒य्योँने॒र्निर्मि॑मीते । पु॒रस्तात्प्र॒त्यञ्च॑म॒भ्युदू॑हति । पु॒रस्ता॑दे॒वास्मि॑न्प्र॒तीच्य॒मृत॑न्दधाति । अ॒हञ्च॒ त्वञ्च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्त॑ङ्गृह्णाति । ब्र॒ह्म॒ख्ष॒त्रे ए॒व सन्द॑धाति । अ॒भिक्रत्वेन्द्र भू॒रध॒ज्मन्नित्य॑ध्व॒र्युर्यज॑मानव्वाँचयत्य॒भिजि॑त्यै ।। 15 ।। 3.8.5.0 ब्र॒ह्मा वि॒श उ॑ख्षति॒ दिश॒ एक॑ञ्च ।। 5 ।। 3.8.5.1 च॒त्वार॑ ऋ॒त्विज॒स्समु॑ख्षन्ति । आ॒भ्य ए॒वैन॑ञ्चत॒सृभ्यो॑ दि॒ग्भ्यो॑ऽभि समी॑रयन्ति । श॒तेन॑ राजपु॒त्रैस्स॒हाध्व॒र्युः । पु॒रस्तात्प्र॒त्यङ्तिष्ठ॒न्प्रोख्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒य राजा॑ वृ॒त्रव्वँ॑ध्या॒दिति॑ । रा॒ज्यव्वाँ अ॑ध्व॒र्युः । ख्ष॒त्र रा॑जपु॒त्रः । रा॒ज्येनै॒वास्मि॑न्ख्ष॒त्रन्द॑धाति । श॒तेना॑ रा॒जभि॑रु॒ग्रैस्स॒ह ब्र॒ह्मा ।। 16 ।। 3.8.5.2 द॒ख्षि॒ण॒त उद॒ङ्तिष्ठ॒न्प्रोख्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒य राजाप्रतिधृ॒ष्योऽस्त्विति॑ । बल॒व्वैँ ब्र॒ह्मा । बल॑मरा॒जोग्रः । बले॑नै॒वास्मि॒न्बल॑न्दधाति । श॒तेन॑ सूतग्राम॒णिभि॑स्स॒ह होता । प॒श्चात्प्राङ्तिष्ठ॒न्प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒य राजा॒ऽस्यै वि॒शः ।। 17 ।। 3.8.5.3 ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै । ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै । ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै । ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै । ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒स्त्विति॑ । भू॒मा वै होता । भू॒मा सू॑तग्राम॒ण्यः॑ । भू॒म्नैवास्मि॑न्भू॒मान॑न्दधाति । श॒तेन॑ ख्षत्तसङ्ग्रही॒तृभि॑स्स॒होद्गा॒ता । उ॒त्त॒र॒तो द॑ख्षि॒णा तिष्ठ॒न्प्रोख्ष॑ति ।। 18 ।। 3.8.5.4 अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒य राजा॒ सर्व॒मायु॑रे॒त्विति॑ । आयु॒र्वा उ॑द्गा॒ता । आयुः॑ ख्षत्तसङ्ग्रही॒तारः॑ । आयु॑षै॒वास्मि॒न्नायु॑र्दधाति । श॒तश॑तम्भवन्ति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । च॒तु॒श्श॒ता भ॑वन्ति । चत॑स्रो॒ दिशः॑ । दि॒ख्ष्वे॑व प्रति॑ तिष्ठति ।। 19 ।। 3.8.6.0 अ॒भिजि॑त्यै वैश्वान॒रस्स॑वि॒त्र ए॒वैनं॑ जुहोति वा॒यव॑ ए॒वैनं॑ जुहोति च्यवते॒ षट् च॑ ।। 6 ।। 3.8.6.1 यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वव्वाँ ए॒तदश्व॑स्य स्कन्दति । यन्नि॒क्तमना॑लब्धमुथ्सृ॒जन्ति॑ । यथ्स्तोक्या॑ अ॒न्वाह॑ । स॒र्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय । अस्क॑न्न॒॒ हि तत् । यद्धु॒तस्य॒ स्कन्द॑ति । स॒हस्र॒मन्वा॑ह । स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।। 20 ।। 3.8.6.2 यत्परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑ रुन्धीत । अप॑रिमिता॒ अन्वा॑ह । अप॑रिमितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । स्तोक्या॑ जुहोति । या ए॒व वर्ष्या॒ आपः॑ । ता अव॑ रुन्धे । अ॒स्याञ्जु॑होति । इ॒यव्वाँ अ॒ग्निर्वैश्वान॒रः ।। 21 ।। 3.8.6.3 अ॒स्यामे॒वैना॒ प्रति॑ष्ठापयति । उ॒वाच॑ ह प्र॒जाप॑तिः । स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒ध सस्था॑पयामि । तेन॒ तत॒स्सस्थि॑तेन चरा॒मीति॑ । अ॒ग्नये॒ स्वाहेत्या॑ह । अ॒ग्नय॑ ए॒वैन॑ञ्जुहोति । सोमा॑य॒ स्वाहेत्या॑ह । सोमा॑यै॒वैन॑ञ्जुहोति । स॒वि॒त्रे स्वाहेत्या॑ह । स॒वि॒त्र ए॒वैन॑ञ्जुहोति ।। 22 ।। 3.8.6.4 सर॑स्वत्यै॒ स्वाहेत्या॑ह । सर॑स्वत्या ए॒वैन॑ञ्जुहोति । पू॒ष्णे स्वाहेत्या॑ह । पू॒ष्ण ए॒वैन॑ञ्जुहोति । बृह॒स्पत॑ये॒ स्वाहेत्या॑ह । बृह॒स्पत॑य ए॒वैन॑ञ्जुहोति । अ॒पाम्मोदा॑य॒ स्वाहेत्या॑ह । अ॒द्भ्य ए॒वैन॑ञ्जुहोति । वा॒यवे॒ स्वाहेत्या॑ह । वा॒यव॑ ए॒वैनं॑ जुहोति ।। 23 ।। 3.8.6.5 मि॒त्राय॒ स्वाहेत्या॑ह । मि॒त्रायै॒वैनं॑ जुहोति । वरु॑णाय॒ स्वाहेत्या॑ह । वरु॑णायै॒वैनं॑ जुहोति । ए॒ताभ्य॑ ए॒वैन॑न्दे॒वताभ्यो जुहोति । दश॑दश सं॒पादं॑ जुहोति । दशाख्षरा वि॒राट् । अन्न॑व्विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । प्र वा ए॒षोऽस्माल्लो॒काच्च्य॑वते । य परा॑ची॒राहु॑तीर्जु॒होति॑ । पुनः॑पुनरभ्या॒वर्तं॑ जुहोति । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । ए॒ता ह वाव सोऽश्वमे॒धस्य॒ सस्थि॑तिमुवा॒चास्क॑न्दाय । अस्क॑न्न॒ हि तत् । यद्य॒ज्ञस्य॒ सस्थि॑तस्य॒ स्कन्द॑ति ।। 24 ।। 3.8.7.0 सा॒र॒सा॒रित॒मोऽप॑चिततम प्राजाप॒त्योऽश्व॒ पञ्च॑ च ।। 7 ।। 3.8.7.1 प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोख्षा॒मीति॑ पु॒रस्तात्प्र॒त्यङ्तिष्ठ॒न्प्रोख्ष॑ति । प्र॒जाप॑ति॒र्वै दे॒वाना॑मन्ना॒दो वी॒र्या॑वान् । अ॒न्नाद्य॑मे॒वास्मि॑न्वी॒र्य॑न्दधाति । तस्मा॒दश्व॑ पशू॒नाम॑न्ना॒दो वी॒र्या॑वत्तमः । इ॒न्द्रा॒ग्निभ्या॒न्त्वेति॑ दख्षिण॒तः । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ । ओज॑ ए॒वास्मि॒न्बल॑न्दधाति । तस्मा॒दश्व॑ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः । वा॒यवे॒ त्वेति॑ प॒श्चात् । वा॒युर्वै दे॒वाना॑मा॒शुस्सा॑रसा॒रित॑मः ।। 25 ।। 3.8.7.2 ज॒वमे॒वास्मि॑न्दधाति । तस्मा॒दश्व॑ पशू॒नामा॒शुस्सा॑रसा॒रित॑मः । विश्वेभ्यस्त्वा दे॒वेभ्य॒ इत्यु॑त्तर॒तः । विश्वे॒ वै दे॒वा दे॒वानाय्यँश॒स्वित॑माः । यश॑ ए॒वास्मि॑न्दधाति । तस्मा॒दश्व॑ पशू॒नाय्यँ॑श॒स्वित॑मः । दे॒वेभ्य॒स्त्वेत्य॒धस्तात् । दे॒वा वै दे॒वाना॒मप॑चिततमाः । अप॑चितिमे॒वास्मि॑न्दधाति । तस्मा॒दश्व॑ पशू॒नामप॑चिततमः ।। 26 ।। 3.8.7.3 सर्वेभ्यस्त्वा दे॒वेभ्य॒ इत्यु॒परि॑ष्टात् । सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑ । त्विषि॑मे॒वास्मि॒न्॒ हरो॑ दधाति । तस्मा॒दश्व॑ पशू॒नान्त्विषि॑मान्‌हर॒स्वित॑मः । दि॒वे त्वा॒ऽन्तरि॑ख्षाय त्वा पृथि॒व्यै त्वेत्या॑ह । ए॒भ्य ए॒वैन॑ल्लोँ॒केभ्य॒ प्रोख्ष॑ति । स॒ते त्वाऽस॑ते त्वा॒ऽद्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वेभ्यस्त्वा भू॒तेभ्य॒ इत्या॑ह । तस्मा॑दश्वमेधया॒जिन॒॒ सर्वा॑णि भू॒तान्युप॑जीवन्ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यत्प्रा॑जाप॒त्योऽश्वः॑ । अथ॒ कस्मा॑देनम॒न्याभ्यो॑ दे॒वता॒भ्योऽपि॒ प्रोख्ष॒तीति॑ । अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः । तय्यँद्विश्वेभ्यस्त्वा भू॒तेभ्य॒ इति॑ प्रो॒ख्षति॑ । दे॒वता॑ ए॒वास्मि॑न्न॒न्वा या॑तयति । तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ।। 27 ।। 3.8.8.0 अ॒र्ध॒य॒ति॒ ज॒न॒य॒ति॒ खल्वा॑हु॒र्जग॑ती॒ त्रीणि॑ च ।। 8 ।। 3.8.8.1 यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वव्वाँ ए॒तदश्व॑स्य स्कन्दति । यत्प्रोख्षि॑त॒मना॑लब्धमुथ्सृ॒जन्ति॑ । यद॑श्वचरि॒तानि॑ जु॒होति॑ । स॒र्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय । अस्क॑न्न॒॒ हि तत् । यद्धु॒तस्य॒ स्कन्द॑ति । ई॒ङ्का॒राय॒ स्वाहेङ्कृ॑ताय॒ स्वाहेत्या॑ह । ए॒तानि॒ वा अ॑श्वचरि॒तानि॑ । च॒रि॒तैरे॒वैन॒॒ सम॑र्धयति ।। 28 ।। 3.8.8.2 तदा॑हुः । अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॑ । नैता हो॑त॒व्या॑ इति॑ । अथो॒ खल्वा॑हुः । हो॒त॒व्या॑ ए॒व । अत्र॒ वावैवव्विँ॒द्वान॑श्वमे॒ध सस्था॑पयति । यद॑श्वचरि॒तानि॑ जु॒होति॑ । तस्माद्धोत॒व्या॑ इति॑ । ब॒हि॒र्धा वा ए॑नमे॒तदा॒यत॑नाद्दधाति । भ्रातृ॑व्यमस्मै जनयति ।। 29 ।। 3.8.8.3 यस्या॑नायत॒नेऽन्यत्रा॒ग्नेराहु॑तीर्जु॒होति॑ । सा॒वि॒त्रि॒या इष्ट्या पु॒रस्ताथ्स्विष्ट॒कृतः॑ । आ॒ह॒व॒नीयेऽश्वचरि॒तानि॑ जुहोति । आ॒यत॑न ए॒वास्याहु॑तीर्जुहोति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । तदा॑हुः । य॒ज्ञ॒मु॒खेय॑ज्ञमुखे होत॒व्याः । य॒ज्ञस्य॒ कॢप्त्यै । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या॒ इति॑ । अथो॒ खल्वा॑हुः ।। 30 ।। 3.8.8.4 यद्य॑ज्ञमु॒खेय॑ज्ञमुखे जुहु॒यात् । प॒शुभि॒र्यज॑मान॒व्व्यँ॑र्धयेत् । अव॑ सुव॒र्गाल्लो॒कात्प॑द्येत । पापी॑यान्थ्स्या॒दिति॑ । स॒कृदे॒व हो॑त॒व्याः । न यज॑मानं प॒शुभि॒र्व्य॑र्धयति । अ॒भि सु॑व॒र्गल्लोँ॒कञ्ज॑यति । न पापी॑यान्भवति । अ॒ष्टाच॑त्वारिशतमश्वरू॒पाणि॑ जुहोति । अ॒ष्टाच॑त्वारिशदख्षरा॒ जग॑ती । जाग॒तोऽश्व॑ प्राजाप॒त्यस्समृ॑द्ध्यै । ए॒कमति॑रिक्तञ्जुहोति । तस्मा॒देक॑ प्र॒जास्वर्धु॑कः ।। 31 ।। 3.8.9.0 ग॒च्छ॒ति॒ भ॒व॒तः॒ प॒थ्सु जु॑होति॒ न गच्छ॑न्ति॒ नव॑ च ।। 9 ।। 3.8.9.1 वि॒भूर्मा॒त्रा प्र॒भू पि॒त्रेत्या॑ह । इ॒यव्वैँ मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैनं॒ परि॑ददाति । अश्वो॑ऽसि॒ हयो॒ऽसीत्या॑ह । शास्त्ये॒वैन॑मे॒तत् । तस्माच्छि॒ष्टा प्र॒जा जा॑यन्ते । अत्यो॒ऽसीत्या॑ह । तस्मा॒दश्व॒स्सर्वान्प॒शूनत्ये॑ति । तस्मा॒दश्व॒स्सर्वे॑षां पशू॒ना श्रैष्ठ्य॑ङ्गच्छति ।। 32 ।। 3.8.9.2 प्र यश॒श्श्रैष्ठ्य॑माप्नोति । य ए॒वव्वेँद॑ । नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्याँच॑ष्टे । ययु॒र्नामा॒ऽसीत्या॑ह । ए॒तद्वा अश्व॑स्य प्रि॒यन्ना॑म॒धेयम् । प्रि॒येणै॒वैन॑न्नाम॒धेये॑ना॒भि व॑दति । तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑ । नाम्ना॒ चेद्ध्वये॑ते । मि॒त्रमे॒व भ॑वतः ।। 33 ।। 3.8.9.3 आ॒दि॒त्यानां॒ पत्वाऽन्वि॒हीत्या॑ह । आ॒दि॒त्याने॒वैन॑ङ्गमयति । अ॒ग्नये॒ स्वाहा॒ स्वाहेन्द्रा॒ग्निभ्या॒मिति॑ पूर्वहो॒माञ्जु॑होति । पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑ क्रामति । भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वेत्युथ्सृ॑जति सर्व॒त्वाय॑ । देवा॑ आशापाला ए॒तन्दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोख्षि॑तङ्गोपाय॒तेत्या॑ह । श॒तव्वैँ तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः । तेभ्य॑ ए॒वैनं॒ परि॑ ददाति । ई॒श्व॒रो वा अश्व॒ प्रमु॑क्त॒ परां परा॒वत॒ङ्गन्तोः । इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहेति॑ चतृ॒षु प॒थ्सु जु॑होति ।। 34 ।। 3.8.9.4 ए॒ता वा अश्व॑स्य॒ बन्ध॑नम् । ताभि॑रे॒वैन॑म्बध्नाति । तस्मा॒दश्व॒ प्रमु॑क्तो॒ बन्ध॑न॒मा ग॑च्छति । तस्मा॒दश्व॒ प्रमु॑क्तो॒ बन्ध॑न॒न्न ज॑हाति । रा॒ष्ट्रव्वाँ अ॑श्वमे॒धः । रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते । येऽश्व॒म्मेध्य॒॒ रख्ष॑न्ति । तेषा॒य्यँ उ॒दृच॒ङ्गच्छ॑न्ति । रा॒ष्ट्रादे॒व ते रा॒ष्ट्रङ्ग॑च्छन्ति । अथ॒ य उ॒दृच॒न्न गच्छ॑न्ति ।। 35 ।। 3.8.9.5 रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते । परा॒ वा ए॒ष सि॑च्यते । यो॑ऽब॒लोऽश्वमे॒धेन॒ यज॑ते । यद॒मित्रा॒ अश्व॑व्विँ॒न्देरन्न्॑ । ह॒न्येतास्य य॒ज्ञः । च॒तु॒श्श॒ता र॑ख्षन्ति । य॒ज्ञस्याघा॑ताय । अथा॒न्यमा॒नीय॒ प्रोख्षे॑युः । सैव ततः॒ प्राय॑श्चित्तिः ।। 36 ।। 3.8.10.0 रु॒न्धे॒ प्रा॒णान्दी॒क्षामव॑ रुन्ध उच्यते क्रामन्ति तिष्ठति ।। 10 ।। 3.8.10.1 प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ यजे॒येति॑ । स तपो॑ऽतप्यत । तस्य॑ तेपा॒नस्य॑ । स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन्न् । सा दी॒ख्षाऽभ॑वत् । स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत् । तान्य॑जुहोत् । तैर्वै स दी॒ख्षामवा॑रुन्ध । यद्वैश्वदे॒वानि॑ जु॒होति॑ । दी॒ख्षामे॒व तैर्यज॑मा॒नोऽव॑ रुन्धे ।। 37 ।। 3.8.10.2 स॒प्त जु॑होति । स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन्न् । अ॒न्व॒हञ्जु॑होति । अ॒न्व॒हमे॒व दी॒क्षामव॑ रुन्धे । त्रीणि॑ वैश्वदे॒वानि॑ जुहोति । च॒त्वार्यौद्ग्रह॒णानि॑ । स॒प्त संप॑द्यन्ते । स॒प्त वै शी॑र्‌ष॒ण्या प्रा॒णाः । प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑ रुन्धे ।। 38 ।। 3.8.10.3 एक॑विशतिव्वैँश्वदे॒वानि॑ जुहोति । एक॑विशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासा॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒॒शः । ए॒ष सु॑व॒र्गो लो॒कः । तद्दैव्यं॑ क्ष॒त्रम् । सा श्रीः । तद्ब्र॒ध्नस्य॑ वि॒ष्टपम् । तथ्स्वाराज्यमुच्यते ।। 39 ।। 3.8.10.4 त्रि॒॒शत॑मौद्ग्रह॒णानि॑ जुहोति । त्रि॒॒शद॑क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । त्रे॒धा वि॒भज्य॑ दे॒वतां जुहोति । त्र्या॑वृतो॒ वै दे॒वाः । त्र्या॑वृत इ॒मे लो॒काः । ए॒षां लो॒काना॒माप्त्यै । ए॒षां लो॒कानां॒ कॢप्त्यै । अप॒ वा ए॒तस्मात्प्रा॒णा क्रा॑मन्ति ।। 40 ।। 3.8.10.5 यो दी॒क्षाम॑तिरे॒चय॑ति । स॒प्ता॒हं प्रच॑रन्ति । स॒प्त वै शी॑ऱ्ष॒ण्या प्रा॒णाः । प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑ रुन्धे । पू॒र्णा॒हु॒तिमु॑त्त॒मां जु॑होति । सर्वं॒ वै पूर्णाहु॒तिः । सर्व॑मे॒वाप्नो॑ति । अथो॑ इ॒यं वै पूर्णाहु॒तिः । अ॒स्यामे॒व प्रति॑ तिष्ठति ।। 41 ।। 3.8.11.0 य॒च्छ॒ते॒ पु॒रु॒रूपा॑य॒ स्वाहेत्या॑हा॒ष्टौ च॑ ।। 11 ।। 3.8.11.1 प्र॒जाप॑तिरश्वमे॒धम॑सृजत । त सृ॒ष्टं न किञ्च॒नोद॑यच्छत् । तं वैश्वदे॒वान्ये॒वोद॑यच्छन्न् । यद्वैश्वदे॒वानि॑ जु॒होति॑ । य॒ज्ञस्योद्य॑त्यै । स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा । स्वाहाऽधी॑तं॒ मन॑से॒ स्वाहा । स्वाहा॒ मन॑ प्र॒जाप॑तये॒ स्वाहा । काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहेति॑ प्राजाप॒त्ये मुख्ये॑ भवतः । प्र॒जाप॑तिमुखाभिरे॒वैनं॑ दे॒वता॑भि॒रुद्य॑च्छते ।। 42 ।। 3.8.11.2 अदि॑त्यै॒ स्वाहाऽदि॑त्यै म॒ह्यै स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहेत्या॑ह । इ॒यं वा अदि॑तिः । अ॒स्या ए॒वैनं॑ प्रति॒ष्ठायोद्य॑च्छते । सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहेत्या॑ह । वाग्वै सर॑स्वती । वा॒चैवैन॒मुद्य॑च्छते । पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहेत्या॑ह । प॒शवो॒ वै पू॒षा । प॒शुभि॑रे॒वैन॒मुद्य॑च्छते । त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहेत्या॑ह । त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नाना॑ रूप॒कृत् । रू॒पमे॒व प॒शुषु॑ दधाति । अथो॑ रू॒पैरे॒वैन॒मुद्य॑च्छते । विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहेत्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञायै॒वैन॒मुद्य॑च्छते । पू॒र्णा॒हु॒तिमु॑त्त॒मां जु॑होति । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ।। 43 ।। 3.8.12.0 त्रि॒ष्टुभ॒श्छन्द॒सोऽधि॒ निर्मि॑मीते जुहोति॒ नव॑ च ।। 12 ।। 3.8.12.1 सा॒वि॒त्रम॒ष्टाक॑पालं प्रा॒तर्निर्व॑पति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रं प्रा॑तस्सव॒नम् । प्रा॒त॒स्स॒व॒नादे॒वैनं॑ गायत्रि॒याश्छन्द॒सोऽधि॒ निर्मि॑मीते । अथो प्रातस्सव॒नमे॒व तेनाप्नोति । गा॒य॒त्रीं छन्दः॑ । स॒वि॒त्रे प्र॑सवि॒त्र एका॑दशकपालं म॒ध्यन्दि॑ने । एका॑दशाक्षरा त्रि॒ष्टुप् । त्रैष्टु॑भं॒ माध्य॑न्दिन॒॒ सव॑नम् । माध्य॑न्दिनादे॒वैन॒॒ सव॑नात्त्रि॒ष्टुभ॒श्छन्द॒सोऽधि॒ निर्मि॑मीते ।। 44 ।। 3.8.12.2 अथो॒ माध्य॑न्दिनमे॒व सव॑नं॒ तेनाप्नोति । त्रि॒ष्टुभं॒ छन्दः॑ । स॒वि॒त्र आ॑सवि॒त्रे द्वाद॑शकपालमपरा॒ह्णे । द्वाद॑शाक्षरा॒ जग॑ती । जाग॑तं तृतीयसव॒नम् । तृ॒ती॒य॒स॒व॒नादे॒वैनं॒ जग॑त्या॒श्छन्द॒सोऽधि॒ निर्मि॑मीते । अथो॑ तृतीयसव॒नमे॒व तेनाप्नोति । जग॑तीं॒ छन्दः॑ । ई॒श्व॒रो वा अश्व॒ प्रमु॑क्त॒ परां परा॒वतं॒ गन्तोः । इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहेति॒ चत॑स्र॒ आहु॑तीर्जुहोति ।। 45 ।। 3.8.12.3 चत॑स्रो॒ दिशः॑ । दि॒ग्भिरे॒वैनं॒ परि॑गृह्णाति । आश्व॑त्थो व्र॒जो भ॑वति । प्र॒जाप॑तिर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पं कृ॒त्वा । सोऽश्व॒त्थे सं॑वथ्स॒रम॑तिष्ठत् । तद॑श्व॒त्थस्याश्वत्थ॒त्वम् । यदाश्व॑त्थो व्र॒जो भव॑ति । स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठापयति ।। 46 ।। 3.8.13.0 अ॒न॒ड्वानित्या॑ह जायते वर्‌षति स॒प्त च॑ ।। 13 ।। 3.8.13.1 आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मित्या॑ह । ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सं द॑धाति । तस्मात्पु॒रा ब्राह्म॒णो ब्र॑ह्मवर्च॒स्य॑जायत । आऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यता॒मित्या॑ह । रा॒ज॒न्य॑ ए॒व शौ॒र्यं म॑हि॒मानं॑ दधाति । तस्मात्पु॒रा रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो॑ऽजायत । दोग्ध्री॑ धे॒नुरित्या॑ह । धे॒न्वामे॒व पयो॑ दधाति । तस्मात्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत । वोढा॑ऽन॒ड्वानित्या॑ह ।। 47 ।। 3.8.13.2 अ॒न॒डुह्ये॒व वी॒र्यं॑ दधाति । तस्मात्पु॒रा वोढा॑ऽन॒ड्वान॑जायत । आ॒शुस्सप्ति॒रित्या॑ह । अश्व॑ ए॒व ज॒वं द॑धाति । तस्मात्पु॒राऽऽशुरश्वो॑ऽजायत । पुर॑न्धि॒र्योषेत्या॑ह । यो॒षित्ये॒व रू॒पं द॑धाति । तस्मा॒थ्स्त्री यु॑व॒ति प्रि॒या भावु॑का । जि॒ष्णू र॑थे॒ष्ठा इत्या॑ह । आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते ।। 48 ।। 3.8.13.3 यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । स॒भेयो॒ युवेत्या॑ह । यो वै पूर्ववय॒सी । स स॒भेयो॒ युवा । तस्मा॒द्युवा॒ पुमान्प्रि॒यो भावु॑कः । आऽस्य यज॑मानस्य वी॒रो जा॑यता॒मित्या॑ह । आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । नि॒का॒मेनि॑कामे न प॒र्जन्यो॑ वऱ्ष॒त्वित्या॑ह । नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वऱ्षति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । फ॒लिन्यो॑ न॒ ओष॑धय पच्यन्ता॒मित्या॑ह । फ॒लिन्यो॑ ह॒ वै तत्रौष॑धय पच्यन्ते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । यो॒ग॒क्षे॒मो न॑ कल्पता॒मित्या॑ह । कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।।49 ।। 3.8.14.0 जु॒होति॒ मधु॑ना जु॒होति॒ पृथु॑कैर्जु॒होति॑ क॒रम्बैर्जु॒होति॒ सक्तु॑भिर्जु॒होति॑ प्रियङ्गुतण्डु॒लैर्जु॒होति॑ च॒त्वारि॑ च ।। 14 ।। (अ॒न्नहो॒मानाज्ये॑ना॒ग्नेर्मधु॑ना तण़्डु॒लै पृथु॑कैर्ला॒जै क॒रम्बैर्धा॒नाभि॒स्सक्तु॑भिर्म॒सूस्यै प्रियङ्गुतण्डु॒लैर्द॒शान्ना॑नि॒ द्वाद॑श । ) 3.8.14.1 प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स आ॒त्मन्न॑श्वमे॒धम॑धत्त । तं दे॒वा अ॑ब्रुवन्न् । ए॒ष वाव य॒ज्ञः । यद॑श्वमे॒धः । अप्ये॒व नोत्रा॒स्त्विति॑ । तेभ्य॑ ए॒तान॑न्नहो॒मान्प्राय॑च्छत् । तान॑जुहोत् । तैर्वै स दे॒वान॑प्रीणात् । यद॑न्नहो॒माञ्जु॒होति॑ ।। 50 ।। 3.8.14.2 दे॒वाने॒व तैर्यज॑मान प्रीणाति । आज्ये॑न जुहोति । अ॒ग्नेर्वा ए॒तद्रू॒पम् । यदाज्यम् । यदाज्ये॑न जु॒होति॑ । अ॒ग्निमे॒व तत्प्री॑णाति । मधु॑ना जुहोति । म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम् । यन्मधु॑ । यन्मधु॑ना जु॒होति॑ ।। 51 ।। 3.8.14.3 म॒ह॒तीमे॒व तद्दे॒वतां प्रीणाति । त॒ण्डु॒लैर्जु॑होति । वसू॑नां॒ वा ए॒तद्रू॒पम् । यत्त॑ण्डु॒लाः । यत्त॑ण्डु॒लैर्जु॒होति॑ । वसू॑ने॒व तत्प्री॑णाति । पृथु॑कैर्जुहोति । रु॒द्राणां॒ वा ए॒तद्रू॒पम् । यत्पृथु॑काः । यत्पृथु॑कैर्जु॒होति॑ । ।। 52 ।। 3.8.14.4 रु॒द्राने॒व तत्प्री॑णाति । ला॒जैर्जु॑होति । आ॒दि॒त्यानां॒ वा ए॒तद्रू॒पम् । यल्ला॒जाः । यल्ला॒जैर्जु॒होति॑ । आ॒दि॒त्याने॒व तत्प्री॑णाति । क॒रम्बैर्जुहोति । विश्वे॑षां॒ वा ए॒तद्दे॒वाना॑ रू॒पम् । यत्क॒रम्बाः । यत्क॒रम्बैर्जु॒होति॑ ।। 53 ।। 3.8.14.5 विश्वा॑ने॒व तद्दे॒वान्प्री॑णाति । धा॒नाभि॑र्जुहोति । नक्ष॑त्त्राणां॒ वा ए॒तद्रू॒पम् । यद्धा॒नाः । यद्धा॒नाभि॑र्जु॒होति॑ । नक्ष॑त्त्राण्ये॒व तत्प्री॑णाति । सक्तु॑भिर्जुहोति । प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम् । यथ्सक्त॑वः । यथ्सक्तु॑भिर्जु॒होति॑ ।। 54 ।। 3.8.14.6 प्र॒जा॑पतिमे॒व तत्प्री॑णाति । म॒सूस्यैर्जुहोति । सर्वा॑सां॒ वा ए॒तद्दे॒वता॑ना रू॒पम् । यन्म॒सूस्या॑नि । यन्म॒सूस्यैर्जु॒होति॑ । सर्वा॑ ए॒व तद्दे॒वता प्रीणाति । प्रि॒य॒ङ्गु॒त॒ण्डु॒लैर्जु॑होति । प्रि॒याङ्गा॑ ह॒ वै नामै॒ते । ए॒तैर्वै दे॒वा अश्व॒स्याङ्गा॑नि॒ सम॑दधुः । यत्प्रि॑यङ्गुतण्डु॒लैर्जु॒होति॑ । अश्व॑स्यै॒वाङ्गा॑नि॒ संद॑धाति । दशान्ना॑नि जुहोति । दशाक्षरा वि॒राट् । वि॒राट्कृ॒थ्स्नस्या॒न्नाद्य॒स्याव॑रुध्यै ।। 55 ।। 3.8.15.0 ए॒व य॒ज्ञाद्रक्षा॒॒स्यप॑हन्त्यन्त॒तो जु॑होति श॒ताय॒ स्वाहेत्या॑ह स॒प्त च॑ ।। 15 ।। 3.8.15.1 प्र॒जाप॑तिरश्वमे॒धम॑सृजत । त सृ॒ष्ट रक्षा॑स्यजिघासन्न् । स ए॒तान्प्र॒जाप॑तिर्न॒क्त हो॒मान॑पश्यत् । तान॑जुहोत् । तैर्वै स य॒ज्ञाद्रक्षा॒॒स्यपा॑हन्न् । यन्न॑क्त हो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षा॒॒स्यप॑ हन्ति । आज्ये॑न जुहोति । वज्रो॒ वा आज्यम् । वज्रे॑णै॒व य॒ज्ञाद्रक्षा॒॒स्यप॑ हन्ति ।। 56 ।। 3.8.15.2 आज्य॑स्य प्रति॒पदं॑ करोति । प्रा॒णो वा आज्यम् । मु॒ख॒त ए॒वास्य॑ प्रा॒णं द॑धाति । अ॒न्न॒हो॒माञ्जु॑होति । शरी॑रवदे॒वाव॑ रुन्धे । व्य॒त्यासं॑ जुहोति । उ॒भय॒स्याव॑रुध्यै । नक्तं॑ जुहोति । रक्ष॑सा॒मप॑हत्यै । आज्ये॑नान्त॒तो जु॑होति ।। 57 ।। 3.8.15.3 प्रा॒णो वा आज्यम् । उ॒भ॒यत॑ ए॒वास्य॑ प्रा॒णं द॑धाति । पु॒रस्ताच्चो॒परि॑ष्टाच्च । एक॑स्मै॒ स्वाहेत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । द्वाभ्या॒॒ स्वाहेत्या॑ह । अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑ तिष्ठति । उ॒भयो॑रे॒व लो॒कयो॒ प्रति॑ तिष्ठति । अ॒स्मिश्चा॒मुष्मि॑श्च । श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑षश्श॒तवीर्यः । आयु॑रे॒व वी॒र्य॑मव॑ रुन्धे । स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्रम् । आयु॑रे॒वाव॑ रुन्धे । सर्व॑स्मै॒ स्वाहेत्या॑ह । अप॑रिमितमे॒वाव॑ रुन्धे ।। 58 ।। 3.8.16.0 ए॒को॒त्त॒रं जु॑होति प्र॒युता॑य॒ स्वाहेत्या॑ह समु॒द्राय॒ स्वाहेत्या॒हाह॒र्व्यु॑ष्टिस्स॒प्त च॑ ।। 16 ।। 3.8.16.1 प्र॒जाप॑तिं॒ वा ए॒ष ईफ्स॒तीत्या॑हुः । योऽश्वमे॒धेन॒ यज॑त॒ इति॑ । अथो॑ आहुः । सर्वा॑णि भू॒तानीति॑ । एक॑स्मै॒ स्वाहेत्या॑ह । प्र॒जाप॑ति॒र्वा एकः॑ । तमे॒वाप्नो॑ति । एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति । अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गं लो॒कमे॑ति । ए॒को॒त्त॒रं जु॑होति ।। 59 ।। 3.8.16.2 ए॒क॒वदे॒व सु॑व॒र्गं लो॒कमे॑ति । सन्त॑तं जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै । श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑षश्श॒तवीर्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे । स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्रम् । आयु॑रे॒वाव॑ रुन्धे । अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा प्र॒युता॑य॒ स्वाहेत्या॑ह ।। 60 ।। 3.8.16.3 त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कानव॑ रुन्धे । अर्बु॑दाय॒ स्वाहेत्या॑ह । वाग्वा अर्बु॑दम् । वाच॑मे॒वाव॑ रुन्धे । न्य॑र्बुदाय॒ स्वाहेत्या॑ह । यो वै वा॒चो भू॒मा । तन्न्य॑र्बुदम् । वा॒च ए॒व भू॒मान॒मव॑ रुन्धे । स॒मु॒द्राय॒ स्वाहेत्या॑ह ।।61 ।। 3.8.16.4 स॒मु॒द्रमे॒वाप्नो॑ति । मध्या॑य॒ स्वाहेत्या॑ह । मध्य॑मे॒वाप्नो॑ति । अन्ता॑य॒ स्वाहेत्या॑ह । अन्त॑मे॒वाप्नो॑ति । प॒रा॒र्धाय॒ स्वाहेत्या॑ह । प॒रा॒र्धमे॒वाप्नो॑ति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्या॑ह । रात्रि॒र्वा उ॒षाः । अह॒र्व्यु॑ष्टिः । अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे । अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति । ता यदु॒भयी॒र्दिवा॑ वा॒ नक्तं॑ वा जुहु॒यात् । अ॒हो॒रा॒त्रे मो॑हयेत् । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहोद्य॒ते स्वाहेत्यनु॑दिते जुहोति । उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहेत्युदि॑ते जुहोति । अ॒हो॒रा॒त्रयो॒रव्य॑तिमोहाय ।। 62 ।। 3.8.17.0 पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑ क्राम॒त्यन॑न्तरित्यै क्रामति रुन्धे॒ जाय॑त॒ एकं॑ च ।। 17 ।। 3.8.17.1 वि॒भूर्मा॒त्रा प्र॒भू पि॒त्रेत्य॑श्वना॒मानि॑ जुहोति । उ॒भयो॑रे॒वैनं॑ लो॒कयोर्नाम॒धेयं॑ गमयति । आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहेत्यु॑द्द्रा॒वाञ्जु॑होति । सर्व॑मे॒वैन॒मस्क॑न्न सुव॒र्गं लो॒कं ग॑मयति । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वहो॒माञ्जु॑होति । पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑ क्रामति । पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वदी॒क्षा जु॑होति । पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑ क्रामति ।।63।। 3.8.17.2 पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्ये॑कवि॒॒शिनीं दी॒क्षां जु॑होति । एक॑विशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒॒शः । ए॒ष सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । भुवो॑ दे॒वानां॒ कर्म॒णेत्यृ॑तुदी॒क्षा जु॑होति । ऋ॒तूने॒वास्मै॑ कल्पयति । अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहेति॑ जुहो॒त्यन॑न्तरित्यै ।। 64 ।। 3.8.17.3 अ॒र्वाङ्य॒ज्ञस्संक्रा॑म॒त्वित्याप्तीर्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्याप्त्यै । भू॒तं भव्यं॑ भवि॒ष्यदिति॒ पर्याप्तीर्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ पर्याप्त्यै । आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भूर्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्याभूत्यै । अ॒ग्निना॒ तपोऽन्व॑भव॒दित्य॑नु॒भूर्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑भूत्यै । स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति । सम॑स्तमे॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑ क्रामति ।। 65 ।। 3.8.17.4 द॒द्भ्यस्स्वाहा॒ हनूभ्या॒॒ स्वाहेत्य॑ङ्गहो॒माञ्जु॑होति । अङ्गे॑अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः । अङ्गा॑दङ्गादे॒वैनं॑ पा॒प्मन॒स्तेन॑ मुञ्चति । अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा श्वे॒ताय॒ स्वाहेत्य॑श्वरू॒पाणि॑ जुहोति । रू॒पैरे॒वैन॒॒ सम॑र्धयति । ओष॑धीभ्य॒स्स्वाहा॒ मूलेभ्य॒स्स्वाहेत्यो॑षधिहो॒माञ्जु॑होति । द्व॒य्यो वा ओष॑धयः । पुष्पेभ्यो॒ऽन्या फलं॑ गृ॒ह्णन्ति॑ । मूलेभ्यो॒ऽन्याः । ता ए॒वोभयी॒रव॑ रुन्धे ।। 66 ।। 3.8.17.5 वन॒स्पति॑भ्य॒स्स्वाहेति॑ वनस्पतिहो॒माञ्जु॑होति । आ॒र॒ण्यस्या॒न्नाद्य॒स्याव॑रुध्यै । मे॒षस्त्वा॑ पच॒तैर॑व॒त्वित्यपाव्यानि जुहोति । प्रा॒णा वै दे॒वा अपाव्याः । प्रा॒णाने॒वाव॑ रुन्धे । कूप्याभ्य॒स्स्वाहा॒द्भ्यस्स्वाहेत्य॒पा होमाञ्जुहोति । अ॒प्सु वा आपः॑ । अन्नं॒ वा आपः॑ । अ॒द्भ्यो वा अन्नं॑ जायते । यदे॒वाद्भ्योऽन्नं॒ जाय॑ते । तदव॑ रुन्धे ।। 67 ।। 3.8.18.0 वै नभा॑सि॒ सूर्यो॒ ज्योति॒स्सन्त॑त्यै॒ सम॑ष्ट्यै भू॒तं यज॑ते॒ नव॑ च ।। 18 ।। 3.8.18.1 अम्भा॑सि जुहोति । अ॒यं वै लो॒कोऽम्भा॑सि । तस्य॒ वस॒वोऽधि॑पतयः । अ॒ग्निर्ज्योतिः॑ । यदम्भा॑सि जु॒होति॑ । इ॒ममे॒व लो॒कमव॑ रुन्धे । वसू॑ना॒॒ सायु॑ज्यं गच्छति । अ॒ग्निं ज्योति॒रव॑ रुन्धे । नभा॑सि जुहोति । अ॒न्तरि॑क्षं॒ वै नभा॑सि ।। 68 ।। 3.8.18.2 तस्य॑ रु॒द्रा अधि॑पतयः । वा॒युर्ज्योतिः॑ । यन्नभा॑सि जु॒होति॑ । अ॒न्तरि॑क्षमे॒वाव॑ रुन्धे । रु॒द्राणा॒॒ सायु॑ज्यं गच्छति । वा॒युं ज्योति॒रव॑ रुन्धे । महा॑सि जुहोति । अ॒सौ वै लो॒को महा॑सि । तस्या॑दि॒त्या अधि॑पतयः । सूर्यो॒ ज्योतिः॑ ।। 69 ।। 3.8.18.3 यन्महा॑सि जु॒होति॑ । अ॒मुमे॒व लो॒कमव॑ रुन्धे । आ॒दि॒त्याना॒॒ सायु॑ज्यं गच्छति । सूर्यं॒ ज्योति॒रव॑ रुन्धे । नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति । अ॒न्नाद्य॒स्याव॑रुध्यै । म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति । प॒शू॒नामव॑रुध्यै । प्रा॒णाय॒ स्वाहा व्या॒नाय॒ स्वाहेति॑ संततिहो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ संत॑त्यै ।।70 ।। 3.8.18.4 सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहेति॒ प्रमु॑क्तीर्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै । पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । द॒त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहेति॑ शरीरहो॒माञ्जु॑होति । पि॒तृ॒लो॒कमे॒व तैर्यज॑मानो॒ऽव॑ रुन्धे । कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन् यु॑नक्ति । इ॒मे वै लो॒का प॑रि॒धयः॑ । इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 71 ।। 3.8.18.5 य प्रा॑ण॒तो य आत्म॒दा इति॑ महि॒मानौ॑ जुहोति । सु॒व॒र्गो वै लो॒को महः॑ । सु॒व॒र्गमे॒व ताभ्यां लो॒कं यज॑मा॒नोऽव॑ रुन्धे । आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मिति॒ सम॑स्तानि ब्रह्मवर्च॒सानि॑ जुहोति । ब्र॒ह्म॒व॒र्चसमे॒व तैर्यज॑मा॒नोऽव॑ रुन्धे । जज्ञि॒ बीज॒मिति॑ जुहो॒त्यन॑न्तरित्यै । अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒दिति॑ सन्नतिहो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्न॑त्यै । भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति । अ॒यं वै लो॒को भू॒तम् ।। 72 ।। 3.8.18.6 अ॒सौ भ॑वि॒ष्यत् । अ॒नयो॑रे॒व लो॒कयो॒ प्रति॑तिष्ठति । सर्व॒स्याप्त्यै । सर्व॒स्याव॑रुध्यै । यदक्र॑न्द प्रथ॒मं जाय॑मान॒ इत्य॑श्वस्तो॒मीयं॑ जुहोति । सर्व॒स्याप्त्यै । सर्व॑स्य॒ जित्यै । सर्व॑मे॒व तेनाप्नोति । सर्वं॑ जयति । योऽश्वमे॒धेन॒ यज॑ते ।। 73 ।। 3.8.18.7 य उ॑ चैनमे॒वं वेद॑ । य॒ज्ञ रक्षा॑स्यजिघासन्न् । स ए॒तान्प्र॒जाप॑तिर्नक्तहो॒मान॑पश्यत् । तान॑जुहोत् । तैर्वै स य॒ज्ञाद्रक्षा॒॒स्यपा॑हन्न् । यन्न॑क्तहो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षा॒॒स्यप॑हन्ति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। 74 ।। 3.8.19.0 अश्व॑स्य॒ व्यावृ॑त्त्यै॒ त्रीणि॑ च ।। 19 ।। 3.8.19.1 ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा । अ॒न्येषां य॒ज्ञानां॒ यूपा॑ भवन्ति । ए॒क॒वि॒॒शिन्य॑श्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । बै॒ल्॒वो वा॑ खादि॒रो वा॑ पाला॒शो वा । अ॒न्येषां यज्ञक्रतू॒नां यूपा॑ भवन्ति । राज्जु॑दाल॒ एक॑विशत्यरत्निरश्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । नान्येषां पशू॒नां ते॑ज॒न्या अ॑व॒द्यन्ति॑ । अव॑द्य॒न्त्यश्व॑स्य ।। 75 ।। 3.8.19.2 पा॒प्मा वै ते॑ज॒नी । पा॒प्मनोऽप॑हत्यै । प्ल॒क्ष॒शा॒खाया॑म॒न्येषां पशू॒नाम॑व॒द्यन्ति॑ । वे॒त॒स॒शा॒खाया॒मश्व॑स्य । अ॒प्सुयो॑नि॒र्वा अश्वः॑ । अ॒प्सु॒जो वे॑त॒सः । स्व ए॒वास्य॒ योना॒वव॑ द्यति । यूपे॑षु ग्रा॒म्यान्प॒शून्नि॑यु॒ञ्जन्ति॑ । आ॒रो॒केष्वा॑र॒ण्यान्धा॑रयन्ति । प॒शू॒नां व्यावृ॑त्त्यै । आ ग्रा॒म्यान्प॒शूल्लँभ॑न्ते । प्रार॒ण्यान्थ्सृ॑जन्ति । पा॒प्मनोऽप॑हत्यै ।। 76 ।। 3.8.20.0 तेज॒सोऽव॑रुध्यै भव॒न्त्यश्वो॑ गोमृ॒गमि॑लु॒वर्द॑श्च॒त्वारि॑ च ।। 20 ।। 3.8.20.1 राज्जु॑दालमग्नि॒ष्ठं मि॑नोति । भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै । पौतु॑द्रवाव॒भितो॑ भवतः । पुण्य॑स्य ग॒न्धस्याव॑रुध्यै । भ्रू॒ण॒ह॒त्यामे॒वास्मा॑दप॒हत्य॑ । पुण्ये॑न ग॒न्धेनो॑भ॒यतः॒ परि॑ गृह्णाति । षड्बै॒ल्॒वा भ॑वन्ति । ब्र॒ह्म॒व॒र्च॒सस्याव॑रुध्यै । षट्खा॑दि॒राः । तेज॒सोऽव॑रुध्यै ।। 77 ।। 3.8.20.2 षट्पा॑ला॒शाः । सो॒म॒पी॒थस्याव॑रुध्यै । एक॑विशति॒स्संप॑द्यन्ते । एक॑विशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य एक॑वि॒॒शः । ए॒ष सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । श॒तं प॒शवो॑ भवन्ति ।। 78 ।। 3.8.20.3 श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । सर्वं॒ वा अ॑श्वमे॒ध्याप्नो॑ति । अप॑रिमिता भवन्ति । अप॑रिमित॒स्याव॑रुध्यै । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्माथ्स॒त्यात् । द॒क्षि॒ण॒तोऽन्येषां पशू॒नाम॑व॒द्यन्ति॑ । उ॒त्त॒र॒तोऽश्व॒स्येति॑ । वा॒रुणो॒ वा अश्वः॑ ।। 79 ।। 3.8.20.4 ए॒षा वै वरु॑णस्य॒ दिक् । स्वाया॑मे॒वास्य॑ दि॒श्यव॑द्यति । यदित॑रेषां पशू॒नाम॑व॒द्यति॑ । श॒त॒दे॒व॒त्यं॑ तेनाव॑ रुन्धे । चि॒तेऽग्नावधि॑ वैत॒से कटेऽश्वं॑ चिनोति । अ॒प्सुयो॑नि॒र्वा अश्वः॑ । अ॒प्सु॒जो वे॑त॒सः । स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठापयति । पु॒रस्तात्प्र॒त्यञ्चं॑ तूप॒रं चि॑नोति । प॒श्चात्प्रा॒चीनं॑ गोमृ॒गम् ।। 80 ।। 3.8.20.5 प्रा॒णा॒पा॒नावे॒वास्मिन्थ्स॒म्यञ्चौ॑ दधाति । अश्वं॑ तूप॒रं गो॑मृ॒गमिति॑ सर्व॒हुत॑ ए॒ताञ्जु॑होति । ए॒षां लो॒काना॑म॒भिजि॑त्यै । आ॒त्मना॒ऽभि जु॑होति । सात्मा॑नमे॒वैन॒॒ सत॑नुं करोति । सात्मा॒ऽमुष्मि॑ल्लोँ॒के भ॑वति । य ए॒वं वेद॑ । अथो॒ वसो॑रे॒व धारां॒ तेनाव॑ रुन्धे । इ॒लु॒वर्दा॑य॒ स्वाहा॑ बलि॒वर्दा॑य॒ स्वाहेत्या॑ह । सं॒व॒थ्स॒रो वा इ॑लु॒वर्दः॑ । प॒रि॒व॒थ्स॒रो ब॑लि॒वर्दः॑ । सं॒व॒थ्स॒रादे॒व प॑रिवथ्स॒रादायु॒रव॑ रुन्धे । आयु॑रे॒वास्मि॑न्दधाति । तस्मा॑दश्वमेधया॒जी ज॒रसा॑ वि॒स्रसा॒मुं लो॒कमे॑ति ।। 81 ।। 3.8.21.0 द्वा॒द॒शस्स्तोम॒स्स ए॒व तच्छिरो॑ ह॒ राज्ञां भवति॒ षट् च॑ ।। 21 ।। 3.8.21.1 ए॒क॒वि॒शोऽग्निर्भ॑वति । ए॒क॒वि॒॒शस्स्तोमः॑ । एक॑विशति॒र्यूपाः । यथा॒ वा अश्वा॑ वऱ्ष॒भा वा॒ वृषा॑णस्सस्फु॒रेरन्न्॑ । ए॒वमे॒व तथ्स्तोमा॒स्सस्फु॑रन्ते । यदे॑कवि॒॒शाः । ते यथ्स॑मृ॒च्छेरन्न्॑ । ह॒न्येतास्य य॒ज्ञः । द्वा॒द॒श ए॒वाग्निस्स्या॒दित्या॑हुः । द्वा॒द॒शस्स्तोमः॑ ।। 82 ।। 3.8.21.2 एका॑दश॒ यूपाः । यद्द्वा॑द॒शोऽग्निर्भव॑ति । द्वाद॑श॒ मासास्संवथ्स॒रः । सं॒व॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे । यद्दश॒ यूपा॒ भव॑न्ति । दशाक्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । य ए॑काद॒शः । स्तन॑ ए॒वास्यै॒ सः ।। 83 ।। 3.8.21.3 दु॒ह ए॒वैनां॒ तेन॑ । तदा॑हुः । यद्द्वा॑द॒शोऽग्निस्स्याद्द्वाद॒शस्स्तोम॒ एका॑दश॒ यूपाः । यथा॒ स्थूरि॑णा या॒यात् । ता॒दृक्तत् । ए॒क॒वि॒॒श ए॒वाग्निस्स्या॒दित्या॑हुः । ए॒क॒वि॒॒शस्स्तोमः॑ । एक॑विशति॒र्यूपाः । यथा॒ प्रष्टि॑भि॒र्याति॑ । ता॒दृगे॒व तत् ।। 84 ।। 3.8.21.4 यो वा अ॑श्वमे॒धे ति॒स्र क॒कुभो॒ वेद॑ । क॒कुद्ध॒ राज्ञां भवति । ए॒क॒वि॒॒शोऽग्निर्भ॑वति । ए॒क॒वि॒॒शस्स्तोमः॑ । एक॑विशति॒र्यूपाः । ए॒ता वा अ॑श्वमे॒धे ति॒स्र क॒कुभः॑ । य ए॒वं वेद॑ । क॒कुद्ध॒ राज्ञां भवति । यो वा अश्व॑मे॒धे त्रीणि॑ शी॒र्॒षाणि॒ वेद॑ । शिरो॑ ह॒ राज्ञां भवति । ए॒क॒वि॒॒शोऽग्निर्भ॑वति । ए॒क॒वि॒॒शस्स्तोमः॑ । एक॑विशति॒र्यूपाः । ए॒तानि॒ वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्॒षाणि॑ । य ए॒वं वेद॑ । शिरो॑ ह॒ राज्ञां भवति ।। 85 ।। 3.8.22.0 तथ्स उ॒पाक॑रोति च॒त्वारि॑ च ।। 22 ।। 3.8.22.1 दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गं लो॒कं न प्राजा॑नन्न् । तमश्व॒ प्राजा॑नात् । यद॑श्वमे॒धेऽश्वे॑न॒ मेध्ये॒नोद॑ञ्चो बहिष्पवमा॒न सर्प॑न्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञात्यै । न वै म॑नु॒ष्य॑स्सुव॒र्गं लो॒कमञ्ज॑सा वेद । अश्वो॒ वै सु॑व॒र्गं लो॒कमञ्ज॑सा वेद । यदु॑द्गा॒तोद्गायेत् । यथा क्षेत्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दयेत् । ता॒दृक्तत् ।। 86 ।। 3.8.22.2 उ॒द्गा॒तार॑मप॒रुध्य॑ । अश्व॑मुद्गी॒थाय॑ वृणीते । यथा क्षेत्र॒ज्ञोऽञ्ज॑सा॒ नय॑ति । ए॒वमे॒वैन॒मश्व॑स्सुव॒र्गं लो॒कमञ्ज॑सा नयति । पुच्छ॑म॒न्वा र॑भन्ते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । हिं क॑रोति । सामै॒वाकः॑ । हिं क॑रोति । उ॒द्गी॒थ ए॒वास्य॒ सः ।। 87 ।। 3.8.22.3 वड॑बा॒ उप॑ रुन्धन्ति । मि॒थु॒न॒त्वाय॒ प्रजात्यै । अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति । ता॒दृगे॒व तत् । उद॑गासी॒दश्वो॒ मेध्य॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑तिरुद्गी॒थः । उ॒द्गी॒थमे॒वाव॑ रुन्धे । अथो॑ ऋक्सा॒मयो॑रे॒व प्रति॑ तिष्ठति । हिर॑ण्येनो॒पाक॑रोति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒व मु॑ख॒तो द॑धाति । यज॑माने च प्र॒जासु॑ च । अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मानस्सुव॒र्गं लो॒कमे॑ति ।। 88 ।। 3.8.23.0 कु॒रु॒ते॒ ध॒त्ते॒ कु॒रु॒ते॒ पञ्च॑ च ।। 23 ।। 3.8.23.1 पुरु॑षो॒ वै य॒ज्ञः । य॒ज्ञ प्र॒जाप॑तिः । यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑ । य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते । अश्वं॑ तूप॒रं गो॑मृ॒गम् । तान॑ग्नि॒ष्ठ आल॑भते । से॒ना॒मु॒खमे॒व तथ्सश्य॑ति । तस्माद्राजमु॒खं भी॒ष्मं भावु॑कम् । आ॒ग्ने॒यं कृ॒ष्णग्री॑वं पु॒रस्ताल्ल॒लाटे । पू॒र्वा॒ग्निमे॒व तं कु॑रुते ।। 89 ।। 3.8.23.2 तस्मात्पूर्वा॒ग्निं पु॒रस्तात्स्थापयन्ति । पौ॒ष्णम॒न्वञ्चम् । अन्नं॒ वै पू॒षा । तस्मात्पूर्वा॒ग्नावा॑हा॒र्य॑मा ह॑रन्ति । ऐ॒न्द्रा॒पौ॒ष्णमु॒परि॑ष्टात् । ऐ॒न्द्रो वै रा॑ज॒न्योऽन्नं॑ पू॒षा । अ॒न्नाद्ये॑नै॒वैन॑मुभ॒यत॒ परि॑ गृह्णाति । तस्माद्राज॒न्योऽन्ना॒दो भावु॑कः । आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ बाहु॒वोः । बा॒हु॒वोरे॒व वी॒र्यं धत्ते ।। 90 ।। 3.8.23.3 तस्माद्राज॒न्यो॑ बाहुब॒लीभावु॑कः । त्वा॒ष्ट्रौ लो॑मशस॒क्थौ स॒क्थ्योः । स॒क्थ्योरे॒व वी॒र्यं॑ धत्ते । तस्माद्राज॒न्य॑ ऊरुब॒लीभावु॑कः । शि॒ति॒पृ॒ष्ठौ बा॑ऱ्हस्प॒त्यौ पृ॒ष्ठे । ब्र॒ह्म॒व॒र्च॒समे॒वोपरि॑ष्टाद्धत्ते । अथो॑ क॒वचे॑ ए॒वैते अ॒भित॒ पर्यू॑हते । तस्माद्राज॒न्य॑स्सन्न॑द्धो वी॒र्यं॑ करोति । धा॒त्रे पृ॑षोद॒रम॒धस्तात् । प्र॒ति॒ष्ठामे॒वैतां कु॑रुते । अथो॑ इ॒यं वै धा॒ता । अ॒स्यामे॒व प्रति॑ तिष्ठति । सौ॒र्यं ब॒लक्षं॒ पुच्छे । उ॒थ्से॒धमे॒व तङ्कु॑रुते । तम्मा॑दुथ्से॒धम्भ॒ये प्र॒जा अ॒भिसश्र॑यन्ति ।। 91 ।। 3.9.0.0 प्र॒जाप॑ति॒स्तम॑ष्टादशिभि॑ प्र॒जाप॑तिरकामयतो॒भाव॒स्मै यु॒ञ्जन्ति॒ तेज॒साऽप॑प्राणा अप॒श्रीरू॒र्ध्वां प्र॒जाप॑ति प्रे॒णाऽनु॑ प्रथ॒मेन॑ प्र॒जाप॑तिरकामयत म॒हान्वैश्वदे॒वो वा अश्वोऽश्व॑स्य प्र॒जाप॑ति॒स्तय्यँ॑ज्ञक्र॒तुभि॒रप॒श्रीर्ब्राह्म॒णौ सर्वे॑षु वारु॒णो यद्यश्व॒न्तदा॑हुरे॒ष वै वि॒भूस्ता॒र्प्येणा॑दि॒त्या प्र॒जाप॑तिं पि॒तर॒य्योँ वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ त्रयो॑विशतिः ।। 23 ।। प्र॒जाप॑तिर॒स्मिँल्लो॒क उ॑त्तर॒तश्श्रिय॑मे॒व प्र॒जाप॑तिरकामयत म॒हान्यत्प्रा॒त प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॒स्सर्व॑ ह॒ वै तत्र॒ पय॑स्स्व॒द्य उ॑ चैनमे॒वव्वेँद॑ च॒त्वार्यशी॑तिः ।। 84 ।। प्र॒जाप॑तिरश्वमे॒धञ्जु॑ह्वति ।। ।। हरिः॑ ओम् ।। कृष्णयजुर्ब्राह्मणे तृतीयाष्टके नवमप्रपाठकस्समाप्तः ।। 3.9.0.0 तैत्तिरीयब्राह्मणे तृतीयाष्टके नवमप्रपाठक प्रारम्भः । हरिःओम् ।। 3.9.1.0 ऋ॒तव॑स्स्यातामुथ्सृ॒जेथ्स्य॑त॒स्त्रीणि॑ च ।। 1 ।। 3.9.1.1 प्र॒जाप॑तिरश्वमे॒धम॑सृजत । सोऽस्माथ्सृ॒ष्टोऽपाक्रामत् । तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तमाप्नोत् । तमा॒प्त्वाऽष्टा॑द॒शिभि॒रवा॑रुन्ध । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते । य॒ज्ञमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । स॒व्वँ॒थ्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा । यद॑ष्टाद॒शिनः॑ । द्वाद॑श॒ मासा॒ पञ्च॒र्तवः॑ ।। 1 ।। 3.9.1.2 स॒व्वँ॒थ्स॒रोऽष्टाद॒शः । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते । स॒व्वँ॒थ्स॒रमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । अ॒ग्नि॒ष्ठेऽन्यान्प॒शूनु॑पाक॒रोति॑ । इत॑रेषु॒ यूपेष्वष्टाद॒शिनोऽजा॑मित्वाय । नव॑न॒वाल॑भ्यन्ते सवीर्य॒त्वाय॑ । यदा॑र॒ण्यैस्स॑स्था॒पयेत् । व्यव॑स्येतां पितापु॒त्रौ । व्यध्वा॑न क्रामेयुः । विदू॑र॒ङ्ग्राम॑योर्ग्रामा॒न्तौ स्या॑ताम् ।। 2 ।। 3.9.1.3 ऋ॒ख्षीका पुरुषव्या॒घ्रा प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑येरन्न् । तदा॑हुः । अप॑शवो॒ वा ए॒ते । यदा॑र॒ण्याः । यदा॑र॒ण्यैस्स॑स्था॒पयेत् । ख्षि॒प्रे यज॑मान॒मर॑ण्यं मृ॒त ह॑रेयुः । अर॑ण्यायतना॒ ह्या॑र॒ण्या प॒शव॒ इति॑ । यत्प॒शून्नालभे॑त । अन॑वरुद्धा अस्य प॒शव॑स्स्युः । यत्पर्य॑ग्निकृतानुथ्सृ॒जेत् ।। 3 ।। 3.9.1.4 य॒ज्ञ॒वे॒श॒सङ्कु॑र्यात् । यत्प॒शूना॒लभ॑ते । तेनै॒व प॒शूनव॑रुन्धे । यत्पर्य॑ग्निकृतानुथ्सृ॒जत्यय॑ज्ञवेशसाय । अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति । न य॑ज्ञवेश॒सम्भ॑वति । न यज॑मान॒मर॑ण्यम्मृ॒त ह॑रन्ति । ग्रा॒म्यैस्स स्था॑पयति । ए॒ते वै प॒शवः॒ ख्षेमो॒ नाम॑ । सं पि॑तापु॒त्रावव॑स्यतः । समध्वा॑न क्रामन्ति । स॒म॒न्ति॒कङ्ग्राम॑योर्ग्रामा॒न्तौ भ॑वतः । नर्ख्षीका पुरुषव्या॒घ्रा प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑यन्ते ।। 4 ।। 3.9.2.0 आ॒र॒ण्याल्लोँ॒को द॒शिन॑ आल॒भ्यन्ते॒ नाना॑रूपा प॒शवो॒ द्वे च॑ ।। 2 ।। 3.9.2.1 प्र॒जाप॑तिरकामयतो॒भौ लो॒कावव॑ रुन्धी॒येति॑ । स ए॒तानु॒भयान्प॒शून॑पश्यत् । ग्रा॒म्याश्चा॑र॒ण्याश्च॑ । तानाल॑भत । तैर्वै स उ॒भौ लो॒काववा॑रुन्ध । ग्रा॒म्यैरे॒व प॒शुभि॑रि॒मल्लोँ॒कमवा॑रुन्ध । आ॒र॒ण्यैर॒मुम् । यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते । इ॒ममे॒व तैर्लो॒कमव॑ रुन्धे । यदा॑र॒ण्यान् ।। 5 ।। 3.9.2.2 अ॒मुन्तैः । अन॑वरुद्धो॒ वा ए॒तस्य॑ सव्वँथ्स॒र इत्या॑हुः । य इ॒तइ॑तश्चातुर्मा॒स्यानि॑ सव्वँथ्स॒रं प्र॑यु॒ङ्क्त इति॑ । ए॒तावा॒न्॒ वै स॑व्वँथ्स॒रः । यच्चा॑तुर्मा॒स्यानि॑ । यदे॒ते चा॑तुर्मा॒स्या प॒शव॑ आल॒भ्यन्ते । प्र॒त्यख्ष॑मे॒व तैस्स॑व्वँथ्स॒रय्यँज॑मा॒नोऽव॑रुन्धे । वि वा ए॒ष प्र॒जया॑ प॒शुभि॑र्‌ऋध्यते । यस्स॑व्वँथ्स॒रं प्र॑यु॒ङ्क्ते । स॒व्वँ॒थ्स॒रस्सु॑व॒र्गो लो॒कः ।। 6 ।। 3.9.2.3 सु॒व॒र्गन्तु लो॒कन्नाप॑राध्नोति । प्र॒जा वै प॒शव॑ एकाद॒शिनी । यदे॒त ऐ॑कादशि॒ना प॒शव॑ आल॒भ्यन्ते । सा॒ख्षादे॒व प्र॒जां प॒शून् यज॑मा॒नोऽव॑रुन्धे । प्र॒जाप॑तिर्वि॒राज॑मसृजत । सा सृ॒ष्टाऽश्व॑मे॒धं प्रावि॑शत् । तान्द॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तामाप्नोत् । तामा॒प्त्वा द॒शिभि॒रवा॑रुन्ध । यद्द॒शिन॑ आल॒भ्यन्ते ।। 7 ।। 3.9.2.4 वि॒राज॑मे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । एका॑दश द॒शत॒ आल॑भ्यन्ते । एका॑दशाख्षरा त्रि॒ष्टुप् । त्रैष्टु॑भा प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । वै॒श्व॒दे॒वो वा अश्वः॑ । ना॒ना॒दे॒व॒त्याः प॒शवो॑ भवन्ति । अश्व॑स्य सर्व॒त्वाय॑ । नाना॑रूपा भवन्ति । तस्मा॒न्नाना॑रूपा प॒शवः॑ । ब॒हु॒रू॒पा भ॑वन्ति । तस्माद्बहुरू॒पा प॒शव॒स्समृ॑द्ध्यै ।। 8 ।। 3.9.3.0 अव॑रुद्ध्या उ॒भयान्प॒शूनाल॑भते स॒त्यादहि॑सायै ।। 3 ।। 3.9.3.1 अ॒स्मै वै लो॒काय॑ ग्रा॒म्या प॒शव॒ आल॑भ्यन्ते । अ॒मुष्मा॑ आर॒ण्याः । यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते । इ॒ममे॒व तैर्लो॒कमव॑रुन्धे । यदा॑र॒ण्यान् । अ॒मुन्तैः । उ॒भयान्प॒शूनाल॑भते । गा॒म्याश्चा॑र॒ण्याश्च॑ । उ॒भयोर्लो॒कयो॒रव॑रुद्ध्यै । उ॒भयान्प॒शूनाल॑भते ।। 9 ।। 3.9.3.2 ग्रा॒म्याश्चा॑र॒ण्याश्च॑ । उ॒भय॑स्या॒न्नाद्य॒स्याव॑रुद्ध्यै । उ॒भयान्प॒शूनाल॑भते । ग्रा॒म्याश्चा॑र॒ण्याश्च॑ । उ॒भये॑षां पशू॒नामव॑रुद्ध्यै । त्रय॑स्त्रयो भवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒षाल्लोँ॒काना॒माप्त्यै । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्माथ्स॒त्यात् ।। 10 ।। 3.9.3.3 अ॒स्मिल्लोँ॒के ब॒हव॒ कामा॒ इति॑ । यथ्स॑मा॒नीभ्यो॑ दे॒वताभ्यो॒ऽन्येऽन्ये प॒शव॑ आल॒भ्यन्ते । अ॒स्मिन्ने॒व तल्लो॒के कामान्दधाति । तस्मा॑द॒स्मिल्लोँ॒के ब॒हव॒ कामाः । त्र॒या॒णान्त्र॑याणा स॒ह व॒पा जु॑होति । त्र्या॑वृतो॒ वै दे॒वाः । त्र्या॑वृत इ॒मे लो॒काः । ए॒षाल्लोँ॒काना॒माप्त्यै । ए॒षाल्लोँ॒काना॒ङ्कॢप्त्यै । पर्य॑ग्निकृतानार॒ण्यानुथ्सृ॑ज॒न्त्यहि॑सायै ।। 11 ।। 3.9.4.0 परि॑त॒स्थुष॒ इत्या॑हे॒मे ए॒वास्मै॑ युनक्त्य॒भिजि॑त्यै भरन्त्यश्वमे॒धो रु॑न्धे रू॒पञ्जि॑घ्रति॒ त्रीणि॑ च ।। 4 ।। 3.9.4.1 यु॒ञ्जन्ति॑ ब्र॒ध्नमित्या॑ह । अ॒सौ वा आ॑दि॒त्यो ब्र॒ध्नः । आ॒दि॒त्यमे॒वास्मै॑ युनक्ति । अ॒रु॒षमित्या॑ह । अ॒ग्निर्वा अ॑रु॒षः । अ॒ग्निमे॒वास्मै॑ युनक्ति । चर॑न्त॒मित्या॑ह । वा॒युर्वै चरन्न्॑ । वा॒युमे॒वास्मै॑ युनक्ति । परि॑त॒स्थुष॒ इत्या॑ह ।। 12 ।। 3.9.4.2 इ॒मे वै लो॒का परि॑त॒स्थुषः॑ । इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति । रोच॑न्ते रोच॒ना दि॒वीत्या॑ह । नख्ष॑त्राणि॒ वै रो॑च॒ना दि॒वि । नख्ष॑त्राण्ये॒वास्मै॑ रोचयति । यु॒ञ्जन्त्य॑स्य॒ काम्येत्या॑ह । कामा॑ने॒वास्मै॑ युनक्ति । हरी॒ विप॑ख्ष॒सेत्या॑ह । इ॒मे वै हरी॒ विप॑ख्षसा । इ॒मे ए॒वास्मै॑ युनक्ति ।। 13 ।। 3.9.4.3 शोणा॑ धृ॒ष्णू नृ॒वाह॒सेत्या॑ह । अ॒हो॒रा॒त्रे वै नृ॒वाह॑सा । अ॒हो॒रा॒त्रे ए॒वास्मै॑ युनक्ति । ए॒ता ए॒वास्मै॑ दे॒वता॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । के॒तुङ्कृ॒ण्वन्न॑के॒तव॒ इति॑ ध्व॒जं प्रति॑मुञ्चति । यश॑ ए॒वैन॒॒ राज्ञाङ्गमयति । जी॒मूत॑स्येव भवति॒ प्रती॑क॒मित्या॑ह । य॒था॒य॒जुरे॒वैतत् । ये ते॒ पन्था॑नस्सवित पू॒र्व्यास॒ इत्य॑ध्व॒र्युर्यज॑मानव्वाँचयत्य॒भिजि॑त्यै ।। 14 ।। 3.9.4.4 परा॒ वा ए॒तस्य॑ य॒ज्ञ ए॑ति । यस्य॑ प॒शुरु॒पाकृ॑तो॒ऽन्यत्र॒ वेद्या॒ एति॑ । ए॒तस्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि न॒ इत्या॑ह । वा॒युर्वै स्तोता । वा॒युमे॒वास्य॑ प॒रस्ताद्दधा॒त्यावृ॑त्त्यै । यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वव्वाँ ए॒तदश्व॑स्य स्कन्दति । यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते । यद्वाले॑षु का॒चाना॒वय॑न्ति । लोमान्ये॒वास्य॒ तथ्सम्भ॑रन्ति ।। 15 ।। 3.9.4.5 भूर्भुव॒स्सुव॒रिति॑ प्राजाप॒त्याभि॒राव॑यन्ति । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयन्ति । भूरिति॒ महि॑षी । भुव॒ इति॑ वा॒वाता । सुव॒रिति॑ परिवृ॒क्ती । ए॒षाल्लोँ॒काना॑म॒भिजि॑त्यै । हि॒र॒ण्यया का॒चा भ॑वन्ति । ज्योति॒र्वै हिर॑ण्यम् । रा॒ष्ट्रम॑श्वमे॒धः ।। 16 ।। 3.9.4.6 ज्योति॑श्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । स॒हस्र॑म्भवन्ति । स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । अप॒ वा ए॒तस्मा॒त्तेज॑ इन्द्रि॒यं प॒शव॒श्श्री क्रा॑मन्ति । योऽश्वमे॒धेन॒ यज॑ते । वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छन्द॒सेति॒ महि॑ष्य॒भ्य॑नक्ति । तेजो॒ वा आज्यम् । तेजो॑ गाय॒त्री । तेज॑सै॒वास्मै॒ तेजोऽव॑रुन्धे ।। 17 ।। 3.9.4.7 रु॒द्रास्त्वाञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेति॑ वा॒वाता । तेजो॒ वा आज्यम् । इ॒न्द्रि॒यन्त्रि॒ष्टुप् । तेज॑सै॒वास्मा॑ इन्द्रि॒यमव॑रुन्धे । आ॒दि॒त्यास्त्वाऽञ्जन्तु॒ जाग॑तेन॒ छन्द॒सेति॑ परिवृ॒क्ती । तेजो॒ वा आज्यम् । प॒शवो॒ जग॑ती । तेज॑सै॒वास्मे॑ प॒शूनव॑रुन्धे । पत्न॑यो॒ऽभ्य॑ञ्जन्ति । श्रि॒या वा ए॒तद्रू॒पम् ।। 18 ।। 3.9.4.8 यत्पत्न॑यः । श्रिय॑मे॒वास्मि॒न्तद्द॑धति । नास्मा॒त्तेज॑ इन्द्रि॒यं प॒शव॒श्श्रीरप॑ क्रामन्ति । लाजी ३ ञ्छाची ३ न् यशो॑म॒माँ (4) इत्यति॑रिक्त॒मन्न॒मश्वा॑यो॒पाह॑रन्ति । प्र॒जामे॒वान्ना॒दीङ्कु॑र्वते । ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापत॒ इत्या॑ह । प्र॒जाया॑मे॒वान्नाद्य॑न्दधते । यदि॒ नाव॒जिघ्रेत् । अ॒ग्नि प॒शुरा॑सी॒दित्यव॑घ्रापयेत् । अव॑ है॒व जि॑घ्रति । आक्रान्॑ वा॒जी क्रमै॒रत्य॑क्रमीद्वा॒जी द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॒मित्यश्व॒मनु॑मन्त्रयते । ए॒षाल्लोँ॒काना॑म॒भिजि॑त्यै । समि॑द्धो अ॒ञ्जन्कृद॑रं मती॒नामित्यश्व॑स्या॒प्रियो॑ भवन्ति सरूप॒त्याय॑ ।। 19 ।। 3.9.5.0 होता॑ भवति॒ वै वृष्टि॑ पू॒र्वचि॑त्तिर॒न्नाद्य॑मे॒वाव॑रुन्धे म॒हदित्या॑ह॒ सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च ।। 5 ।। 3.9.5.1 तेज॑सा॒ वा ए॒ष ब्र॑ह्मवर्च॒सेन॒ व्यृ॑द्ध्यते । योऽश्वमे॒धेन॒ यज॑ते । होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्य॑व्वँदतः । तेज॑सा चै॒वैनं॑ ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः । द॒ख्षि॒ण॒तो ब्र॒ह्मा भ॑वति । द॒ख्षि॒ण॒तआ॑यतनो॒ वै ब्र॒ह्मा । बा॒र्॒ह॒स्प॒त्यो वै ब्र॒ह्मा । ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दख्षिण॒तो द॑धाति । तस्मा॒द्दख्षि॒णोऽर्धो ब्रह्मवर्च॒सित॑रः । उ॒त्त॒र॒तो होता॑ भवति ।। 20 ।। 3.9.5.2 उ॒त्त॒र॒तआ॑यतनो॒ वै होता । आ॒ग्ने॒यो वै होता । तेजो॒ वा अ॒ग्निः । तेज॑ ए॒वास्योत्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑स्तेज॒स्वित॑रः । यूप॑म॒भितो॑ वदतः । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑ । यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः । कि स्वि॑दासीत्पू॒र्वचि॑त्ति॒रित्या॑ह । द्यौर्वै वृष्टि॑ पू॒र्वचि॑त्तिः ।। 21 ।। 3.9.5.3 दिव॑मे॒व वृष्टि॒मव॑रुन्धे । कि स्वि॑दासीद्बृ॒हद्वय॒ इत्या॑ह । अश्वो॒ वै बृ॒हद्वयः॑ । अश्व॑मे॒वाव॑रुन्धे । कि स्वि॑दासीत्पिशङ्गि॒लेत्या॑ह । रात्रि॒र्वै पि॑शङ्गि॒ला । रात्रि॑मे॒वाव॑रुन्धे । कि स्वि॑दासीत्पिलिप्पि॒लेत्या॑ह । श्रीर्वै पि॑लिप्पि॒ला । अ॒न्नाद्य॑मे॒वाव॑रुन्धे ।। 22 ।। 3.9.5.4 कस्स्वि॑देका॒की च॑र॒तीत्या॑ह । अ॒सौ वा आ॑दि॒त्य ए॑का॒की च॑रति । तेज॑ ए॒वाव॑रुन्धे । क उ॑स्विज्जायते॒ पुन॒रित्या॑ह । च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑ । आयु॑रे॒वाव॑रुन्धे । कि स्वि॑द्धि॒मस्य॑ भेष॒जमित्या॑ह । अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम् । ब्र॒ह्म॒व॒र्च॒समेवाव॑रुन्धे । कि स्वि॑दा॒वप॑नं म॒हदित्या॑ह ।। 23 ।। 3.9.5.5 अ॒यव्वैँ लो॒क आ॒वप॑नम्म॒हत् । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्या इत्या॑ह । वेदि॒र्वै परोऽन्त॑ पृथि॒व्याः । वेदि॑मे॒वाव॑रुन्धे । पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒मित्या॑ह । य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑ । य॒ज्ञमे॒वाव॑रुन्धे । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒ इत्या॑ह । सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑ । सो॒म॒पी॒थमे॒वाव॑रुन्धे । पृ॒च्छामि॑ वा॒च प॑र॒मं व्यो॑मेत्या॑ह । ब्रह्म॒ वै वा॒च प॑र॒मं व्यो॑म । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ।। 24 ।। 3.9.6.0 ह्नु॒व॒ते॒ क्रा॒म॒न्त्यू॒र्ण्वा॒था॒मित्या॑ह॒ जग॒तीत्या॑ह कल्पय॒त्येक॑ञ्च ।। 6 ।। 3.9.6.1 अप॒ वा ए॒तस्मात्प्रा॒णा क्रा॑मन्ति । योऽश्वमे॒धेन॒ यज॑ते । प्रा॒णाय॒ स्वाहा व्या॒नाय॒ स्वाहेति॑ संज्ञ॒प्यमा॑न॒ आहु॑तीर्जुहोति । प्रा॒णाने॒वास्मि॑न्दधाति । नास्मात्प्रा॒णा अप॑क्रामन्ति । अव॑न्ती॒स्स्थाव॑न्तीस्त्वाऽवन्तु । प्रि॒यन्त्वा प्रि॒याणाम् । वर्‌षि॑ष्ठ॒माप्या॑नाम् । नि॒धी॒नान्त्वा॑ निधि॒पति॑ हवामहे वसो म॒मेत्या॑ह । अपै॒वास्मै॒ तद्ध्नु॑वते ।। 25 ।। 3.9.6.2 अथो॑ धु॒वन्त्ये॒वैनम् । अथो॒ न्ये॑वास्मै ह्नुवते । त्रि परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैन॑ल्लोँ॒केभ्यो॑ धुवते । त्रि पुन॒ परि॑यन्ति । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैन॑न्धुवते । अप॒ वा ए॒तेभ्य॑ प्रा॒णा क्रा॑मन्ति ।। 26 ।। 3.9.6.3 ये य॒ज्ञे धुव॑नन्त॒न्वते । न॒व॒कृत्व॒ परि॑यन्ति । नव॒ वै पुरु॑षे प्रा॒णाः । प्रा॒णाने॒वात्मन्द॑धते । नैभ्य॑ प्रा॒णा अप॑क्रामन्ति । अम्बे॒ अम्बा॒ल्यम्बि॑क॒ इति॒ पत्नी॑मु॒दान॑यति । अह्व॑तै॒वैनाम् । सुभ॑गे॒ काम्पी॑लवासि॒नीत्या॑ह । तप॑ ए॒वैना॒मुप॑नयति । सु॒व॒र्गे लो॒के संप्रोर्ण्वा॑था॒मित्या॑ह ।। 27 ।। 3.9.6.4 सु॒व॒र्गमे॒वैनाल्लोँ॒कङ्ग॑मयति । आऽहम॑जानि गर्भ॒धमा त्वम॑जाऽसि गर्भ॒धमित्या॑ह । प्र॒जा वै प॒शवो॒ गर्भः॑ । प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते । दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गल्लोँ॒कं न प्राजा॑नन्न् । तमश्व॒ प्राजा॑नात् । यथ्सू॒चीभि॑रसिप॒थान्क॒ल्पय॑न्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञात्यै । गा॒य॒त्री त्रि॒ष्टुब्जग॒तीत्या॑ह ।। 28 ।। 3.9.6.5 य॒था॒य॒जुरे॒वैतत् । त्र॒य्यस्सू॒च्यो॑ भवन्ति । अ॒य॒स्मय्यो॑ रज॒ता हरि॑ण्यः । अ॒स्य वै लो॒कस्य॑ रू॒पम॑य॒स्मय्यः॑ । अ॒न्तरि॑ख्षस्य रज॒ताः । दि॒वो हरि॑ण्यः । दिशो॒ वा अ॑य॒स्मय्यः॑ । अ॒वा॒न्त॒र॒दि॒शा र॑ज॒ताः । ऊ॒र्ध्वा हरि॑ण्यः । दिश॑ ए॒वास्मै॑ कल्पयति । कस्त्वा छ्यति॒ कस्त्वा॒ विशा॒स्तीत्या॒हाहि॑सायै ।। 29 ।। 3.9.7.0 रा॒ष्ट्रस्य॒ मध्यं॒ पुष्य॑ति॒ गभो॑ रुन्धे दधते च॒त्वारि॑ च ।। 7 ।। 3.9.7.1 अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति । योऽश्वमे॒धेन॒ यज॑ते । ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यता॒दित्या॑ह । श्रीर्वै रा॒ष्ट्रम॑श्वमे॒धः । श्रिय॑मे॒वास्मै॑ रा॒ष्ट्रमू॒र्ध्वमुच्छ्र॑यति । वे॒णु॒भा॒रङ्गि॒रावि॒वेत्या॑ह । रा॒ष्ट्रव्वैँ भा॒रः । रा॒ष्ट्रमे॒वास्मै॒ पर्यू॑हति । अथास्या॒ मध्य॑मेधता॒मित्या॑ह । श्रीर्वै रा॒ष्ट्रस्य॒ मध्यम् ।। 30 ।। 3.9.7.2 श्रिय॑मे॒वाव॑रुन्धे । शी॒ते वाते॑ पु॒नन्नि॒वेत्या॑ह । ख्षेमो॒ वै रा॒ष्ट्रस्य॑ शी॒तो वातः॑ । ख्षेम॑मे॒वाव॑रुन्धे । यद्ध॑रि॒णी यव॒मत्तीत्या॑ह । विड्वै ह॑रि॒णी । रा॒ष्ट्रय्यँवः॑ । विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । न पु॒ष्टं प॒शु म॑न्यत॒ इत्या॑ह । तस्मा॒द्राजा॑ प॒शून्न पुष्य॑ति ।। 31 ।। 3.9.7.3 शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनाय॒तीत्या॑ह । तस्माद्वैशीपु॒त्रन्नाभिषि॑ञ्चन्ते । इ॒यय्यँ॒का श॑कुन्ति॒केत्या॑ह । विड्वै श॑कुन्ति॒का । रा॒ष्ट्रम॑श्वमे॒धः । विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । आ॒हल॒मिति॒ सर्प॒तीत्या॑ह । तस्माद्रा॒ष्ट्राय॒ विश॑स्सर्पन्ति । आह॑तङ्ग॒भे पस॒ इत्या॑ह । विड्वै गभः॑ ।। 32 ।। 3.9.7.4 रा॒ष्ट्रं पसः॑ । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति । तस्माद्रा॒ष्ट्रव्विँश॒ङ्घातु॑कम् । मा॒ता च॑ ते पि॒ता च॑ त॒ इत्या॑ह । इ॒यव्वैँ मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैनं॒ परि॑ददाति । अग्र॑व्वृँ॒ख्षस्य॑ रोहत॒ इत्या॑ह । श्रीर्वै वृ॒ख्षस्याग्रम् । श्रि॒यमे॒वाव॑ रुन्धे ।। 33 ।। 3.9.7.5 प्रसु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तसय॒दित्या॑ह । विड्वै गभः॑ । रा॒ष्ट्रम्मु॒ष्टिः । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति । तस्माद्रा॒ष्ट्रव्विँश॒ङ्घातु॑कम् । अप॒ वा ए॒तेभ्य॑ प्रा॒णा क्रा॑मन्ति । ये य॒ज्ञेऽपू॑त॒व्वँद॑न्ति । द॒धि॒क्राव्ण्णो॑ अकारिष॒मिति॑ सुरभि॒मती॒मृच॑व्वँदन्ति । प्रा॒णा वै सु॑र॒भयः॑ । प्रा॒णाने॒वात्मन्द॑धते । नैभ्य॑ प्रा॒णा अप॑क्रामन्ति । आपो॒ हि ष्ठा म॑यो॒भुव॒ इत्य॒द्भिर्मार्जयन्ते । आपो॒ वै सर्वा॑ दे॒वताः । दे॒वता॑भिरे॒वात्मानं॑ पवयन्ते ।। 34 ।। 3.9.8.0 ल॒भ॒ते॒ गामाल॑भते पर॒मोऽष्टौ च॑ ।। 8 ।। 3.9.8.1 प्र॒जाप॑ति प्र॒जास्सृ॒ष्ट्वा प्रे॒णाऽनु॒ प्रावि॑शत् । ताभ्य॒ पुन॒स्सम्भ॑वितु॒न्नाश॑क्नोत् । सोऽब्रवीत् । ऋ॒ध्नव॒दिथ्सः । यो मे॒त पुन॑स्स॒म्भर॒दिति॑ । तन्दे॒वा अ॑श्वमे॒धेनै॒व सम॑भरन्न् । ततो॒ वै त आर्ध्नुवन्न् । योऽश्वमे॒धेन॒ यज॑ते । प्र॒जाप॑तिमे॒व सम्भ॑रत्यृ॒ध्नोति॑ । पुरु॑ष॒माल॑भते ।। 35 ।। 3.9.8.2 वै॒रा॒जो वै पुरु॑षः । वि॒राज॑मे॒वाल॑भते । अथो॒ अन्नं॒ वै वि॒राट् । अन्न॑मे॒वाव॑रुन्धे । अश्व॒माल॑भते । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑तिमे॒वाल॑भते । अथो॒ श्रीर्वा एक॑शफम् । श्रिय॑मे॒वाव॑रुन्धे । गामाल॑भते ।। 36 ।। 3.9.8.3 य॒ज्ञो वै गौः । य॒ज्ञमे॒वाल॑भते । अथो॒ अन्न॒व्वैँ गौः । अन्न॑मे॒वाव॑रुन्धे । अ॒जा॒वी आल॑भते भू॒म्ने । अथो॒ पुष्टि॒र्वै भू॒मा । पुष्टि॑मे॒वाव॑रुन्धे । पर्य॑ग्निकृतं॒ पुरु॑षञ्चार॒ण्याश्चोथ्सृ॑ज॒न्त्यहि॑सायै । उ॒भौ वा ए॒तौ प॒शू आल॑भ्येते । यश्चा॑व॒मो यश्च॑ पर॒मः । तेऽस्यो॒भये॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता भवन्ति । नैन॑न्द॒ङ्ख्ष्णव॑ प॒शवो॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता हिसन्ति । योऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ।। 37 ।। 3.9.9.0 ल॒भ्य॒न्ते॒ ल॒भ॒ते॒ त्वा॒ष्ट्रान्प॒शूनाल॑भते॒ऽष्टौ च॑ ।। 9 ।। 3.9.9.1 प्र॒थ॒मेन॒ वा ए॒ष स्तोमे॑न रा॒ध्वा । च॒तु॒ष्टो॒मेन॑ कृ॒तेनाया॑ना॒मुत्त॒रेहन्न्॑ । ए॒क॒वि॒॒शे प्र॑ति॒ष्ठायां॒ प्रति॑ तिष्ठति । ए॒क॒वि॒॒शात्प्र॑ति॒ष्ठाया॑ ऋ॒तून॒न्वारो॑हति । ऋ॒तवो॒ वै पृ॒ष्ठानि॑ । ऋ॒तव॑स्सव्वँथ्स॒रः । ऋ॒तुष्वे॒व स॑व्वँथ्स॒रे प्र॑ति॒ष्ठाय॑ । दे॒वता॑ अ॒भ्यारो॑हति । शक्व॑रय पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दः॑ । अ॒न्येऽन्ये॒ वा ए॒ते प॒शव॒ आल॑भ्यन्ते ।। 38 ।। 3.9.9.2 उ॒तेव॑ ग्रा॒म्याः । उ॒तेवा॑र॒ण्याः । अह॑रे॒व रू॒पेण॒ सम॑र्धयति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्‌ह्रि॑यते । तदा॑हुः । अप॑शवो॒ वा ए॒ते । यद॑जा॒वय॑श्चार॒ण्याश्च॑ । ए॒ते वै सर्वे॑ प॒शवः॑ । यद्ग॒व्या इति॑ । ग॒व्यान्प॒शूनु॑त्त॒मेऽह॒न्नाल॑भते ।। 39 ।। 3.9.9.3 तेनै॒वोभयान्प॒शूनव॑रुन्धे । प्रा॒जा॒प॒त्या भ॑वन्ति । अन॑भिजितस्या॒भिजि॑त्यै । सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्ति । अ॒न्त॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे । सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॒विति॑ द्व॒न्द्विन॑ प॒शूनाल॑भते । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । प॒शुभि॒र्वा ए॒ष व्यृ॑ध्यते । योऽश्वमे॒धेन॒ यज॑ते । छ॒ग॒लङ्क॒ल्माष॑ङ्किकिदी॒विव्विँ॑दी॒गय॒मिति॑ त्वा॒ष्ट्रान्प॒शूना ल॑भते । प॒शुभि॑रे॒वात्मान॒॒ सम॑र्धयति । ऋ॒तुभि॒र्वा ए॒ष व्यृ॑ध्यते । योऽश्वमे॒धेन॒ यज॑ते । पि॒शङ्गा॒स्त्रयो॑ वास॒न्ता इत्यृ॑तुप॒शूनाल॑भते । ऋ॒तुभि॑रे॒वात्मान॒॒ सम॑र्धयति । आ वा ए॒ष प॒शुभ्यो॑ वृश्च्यते । योऽश्वमे॒धेन॒ यज॑ते । पर्य॑ग्निकृता॒ उथ्सृ॑ज॒न्त्यनाव्रस्काय ।। 40 ।। 3.9.10.0 प॒रि॒यज॑ति॒ षट्च॑ ।। 10 ।। 3.9.10.1 प्र॒जाप॑तिरकामयत म॒हान॑न्ना॒दस्स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत् । ताव॑गृह्णीत । ततो॒ वै स म॒हान॑न्ना॒दो॑ऽभवत् । य का॒मये॑त म॒हान॑न्ना॒दस्स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत । म॒हाने॒वान्ना॒दो भ॑वति । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा । राजा॑ महि॒मा । यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ परि॒यज॑ति । यज॑मानमे॒व रा॒ज्येनो॑भ॒यत॒ परि॑गृह्णाति । पु॒रस्ताथ्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः । उ॒परि॑ष्टाथ्स्वाहाकारा अ॒न्ये । ते वा ए॒तेऽश्व॑ ए॒व मेध्य॑ उ॒भयेऽव॑रुध्यन्ते । यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ परि॒यज॑ति । ताने॒वोभयान्प्रीणाति ।। 41 ।। 3.9.11.0 द॒धा॒त्यभ॑वन्मन्यते प्र॒जा अ॒न्तर्द॑धाति॒ द्वे च॑ ।।11।। 3.9.11.1 वै॒श्व॒दे॒वो वा अश्वः॑ । तय्यँत्प्रा॑जाप॒त्यङ्कु॒र्यात् । या दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ व्य॑र्धयेत् । दे॒वताभ्यस्स॒मद॑न्दध्यात् । स्ते॒गान्दष्ट्राभ्याम्म॒ण्डूका॒ञ्जम्भ्ये॑भि॒रिति॑ । आज्य॑मव॒दान॑ङ्कृ॒त्वा प्र॑तिस॒ङ्ख्याय॒माहु॑तीर्जुहोति । या ए॒व दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ सम॑र्धयति । न दे॒वताभ्यस्स॒मद॑न्दधाति ।। 42 ।। 3.9.11.2 चतु॑र्दशै॒तान॑नुवा॒काञ्जु॑हो॒त्यन॑न्तरित्यै । प्र॒या॒साय॒ स्वाहेति॑ पञ्चद॒शम् । पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अ॒र्ध॒मा॒स॒शस्स॑व्वँथ्स॒र आप्यते । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन्न् । तेऽब्रुवन्न॒ग्नय॑स्स्विष्ट॒कृतः॑ । अश्व॑स्य॒ मेध्य॑स्य व॒यमु॑द्धा॒रमुद्ध॑रामहै । अथै॒तान॒भि भ॑वा॒मेति॑ । ते लोहि॑त॒मुद॑हरन्त । ततो॑ दे॒वा अभ॑वन्न् ।। 43 ।। 3.9.11.3 पराऽसु॑राः । यथ्स्वि॑ष्ट॒कृद्भ्यो॒ लोहि॑तञ्जु॒होति॒ भ्रातृ॑व्याभिभूत्यै । भव॑त्या॒त्मना । पराऽस्य॒ भ्रातृ॑व्यो भवति । गो॒मृ॒ग॒क॒ण्ठेन॑ प्रथ॒मामाहु॑तिञ्जुहोति । प॒शवो॒ वै गो॑मृ॒गः । रु॒द्रोऽग्निस्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्‌हू॒यते । न तत्र॑ रु॒द्र प॒शून॒भिम॑न्यते ।। 44 ।। 3.9.11.4 अ॒श्व॒श॒फेन॑ द्वि॒तीया॒माहु॑तिञ्जुहोति । प॒शवो॒ वा एक॑शफम् । रु॒द्रोऽग्निस्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्‌हू॒यते । न तत्र॑ रु॒द्र प॒शून॒भिम॑न्यते । अ॒य॒स्मये॑न कम॒ण्डलु॑ना तृ॒तीयाम् । आहु॑तिञ्जुहोत्याया॒स्यो॑ वै प्र॒जाः । रु॒द्रोऽग्निस्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प्र॒जा अ॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्‌हू॒यते । न तत्र॑ रु॒द्र प्र॒जा अ॒भिम॑न्यते ।। 45 ।। 3.9.12.0 बृ॒ह॒त्य॑र्धयति स्थापयति॒ पञ्च॑ च ।। 12 ।। 3.9.12.1 अश्व॑स्य॒ वा आल॑ब्धस्य॒ मेध॒ उद॑क्रामत् । तद॑श्वस्तो॒मीय॑मभवत् । यद॑श्वस्तो॒मीय॑ञ्जु॒होति॑ । समे॑धमे॒वैन॒माल॑भते । आज्ये॑न जुहोति । मेधो॒ वा आज्यम् । मेधोऽश्वस्तो॒मीयम् । मेधे॑नै॒वास्मि॒न्मेध॑न्दधाति । षट्त्रि॑शतञ्जुहोति । षट्त्रि॑शदख्षरा बृह॒ती ।। 46 ।। 3.9.12.2 बार्‌ह॑ता प॒शवः॑ । सा प॑शू॒नाम्मात्रा । प॒शूने॒व मात्र॑या॒ सम॑र्धयति । तायद्भूय॑सीर्वा॒ कनी॑यसीर्वा जुहु॒यात् । प॒शून्मात्र॑या॒ व्य॑र्धयेत् । षट्त्रि॑शतञ्जुहोति । षट्त्रि॑शदख्षरा बृह॒ती । बार्‌ह॑ता प॒शवः॑ । सा प॑शू॒नाम्मात्रा । प॒शूने॒व मात्र॑या॒ सम॑र्धयति ।। 47 ।। 3.9.12.3 अ॒श्व॒स्तो॒मीय॑ हु॒त्वा द्वि॒पदा॑ जुहोति । द्वि॒पाद्वै पुरु॑षो॒ द्विप्र॑तिष्ठः । तदे॑नं प्रति॒ष्ठया॒ सम॑र्धयति । तदा॑हुः । अ॒श्व॒स्तो॒मीयं॒ पूर्व॑ होत॒व्याँ ३ न्द्वि॒पदाँ ३ इति॑ । अश्वो॒ वा अ॑श्वस्तो॒मीयम् । पुरु॑षो द्वि॒पदाः । अ॒श्व॒स्तो॒मीय॑ हु॒त्वा द्वि॒पदा॑ जुहोति । तस्माद्द्वि॒पाच्चतु॑ष्पादमत्ति । अथो द्वि॒पद्ये॒व चतु॑ष्पद॒ प्रति॑ष्ठायपति । द्वि॒पदा॑ हु॒त्वा । नान्यामुत्त॑रा॒माहु॑तिञ्जुहुयात् । यद॒न्यामुत्त॑रा॒माहु॑तिञ्जुहु॒यात् । प्र प्र॑ति॒ष्ठायाश्च्यवेत । द्वि॒पदा॑ अन्त॒तो जु॑होति॒ प्रति॑ष्ठित्यै ।। 48 ।। 3.9.13.0 भ॒व॒न्ति॒ धृत्या॑ एन॒मन्वि॑च्छ॒त्येक॑ञ्च ।। 13 ।। 3.9.13.1 प्र॒जाप॑तिरश्वमे॒धम॑सृजत । सोऽस्माथ्सृ॒ष्टोऽपाक्रामत् । तय्यँ॑ज्ञक्र॒तुभि॒रन्वैच्छत् । तय्यँ॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् । तमिष्टि॑भि॒रन्वैच्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् । यथ्स॑व्वँथ्स॒रमिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । सा॒वि॒त्रियो॑ भवन्ति ।। 49 ।। 3.9.13.2 इ॒यव्वैँ स॑वि॒ता । यो वा अ॒स्यान्नश्य॑ति॒ यो नि॒लय॑ते । अ॒स्याव्वाँव तव्विँ॑न्दन्ति । न वा इ॒माङ्कश्च॒नेत्या॑हुः । ति॒र्यङ्नोर्ध्वोत्ये॑तुमर्ह॒तीति॑ । यथ्सा॑वि॒त्रियो॒ भव॑न्ति । स॒वि॒तृप्र॑सूत ए॒वैन॑मिच्छति । ई॒श्व॒रो वा अश्व॒ प्रमु॑क्त॒ परां परा॒वत॒ङ्गन्तोः । यथ्सा॒यन्धृतीर्जु॒होति॑ । अश्व॑स्यै॒व यत्यै॒ धृत्यै ।। 50 ।। यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । यथ्सा॒यन्धृतीर्जु॒होति॑ । अश्व॑स्यै॒व यत्यै॒ धृत्यै । तस्माथ्सा॒यं प्र॒जा ख्षे॒म्या॑ भवन्ति । यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । तस्मा॒द्दिवा॑ नष्टै॒ष ए॑ति । यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते सा॒यन्धृतीर्जु॒होति॑ । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॒मन्वि॑च्छति । अथो॑ अहोरा॒त्राभ्या॑मे॒वास्मै॑ योगख्षे॒मङ्क॑ल्पयति ।। 51 ।। 3.9.14.0 गाये॑ताङ्क्रामेद्ब्राह्म॒णस्य॑ कल्पयतश्च॒त्वारि॑ च ।। 14 ।। 3.9.14.1 अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति । योऽश्वमे॒धेन॒ यज॑ते । ब्रा॒ह्म॒णौ वी॑णागा॒थिनौ॑ गायतः । श्रि॒या वा ए॒तद्रू॒पम् । यद्वीणा । श्रिय॑मे॒वास्मि॒न्तद्ध॑त्तः । य॒दा खलु॒ वै पुरु॑ष॒श्श्रिय॑मश्ञु॒ते । वीणाऽस्मै वाद्यते । तदा॑हुः । यदु॒भौ ब्राह्म॒णौ गाये॑ताम् ।। 52 ।। 3.9.14.2 प्र॒भ्रशु॑कास्मा॒च्छ्रीस्स्यात् । न वै ब्राह्म॒णे श्री र॑मत॒ इति॑ । ब्रा॒ह्म॒णोऽन्यो गायेत् । रा॒ज॒न्योऽन्यः । ब्रह्म॒ वै ब्राह्म॒णः । ख्ष॒त्र रा॑ज॒न्यः॑ । तथा॑ हास्य॒ ब्रह्म॑णा च ख्ष॒त्रेण॑ चोभ॒यत॒श्श्री परि॑गृहीता भवति । तदा॑हुः । यदु॒भौ दिवा॒ गाये॑ताम् । अपास्माद्रा॒ष्ट्रङ्क्रा॑मेत् ।। 53 ।। 3.9.14.3 न वै ब्रा॑ह्म॒णे रा॒ष्ट्र र॑मत॒ इति॑ । य॒दा खलु॒ वै राजा॑ का॒मय॑ते । अथ॑ ब्राह्म॒णञ्जि॑नाति । दिवा ब्राह्म॒णो गा॑येत् । नक्त॑ राज॒न्यः॑ । ब्रह्म॑णो॒ वै रू॒पमहः॑ । ख्ष॒त्रस्य॒ रात्रिः॑ । तथा॑ हास्य॒ ब्रह्म॑णा च ख्ष॒त्रेण॑ चोभ॒यतो॑ रा॒ष्ट्रं परि॑गृहीतम्भवति । इत्य॑ददा॒ इत्य॑यजथा॒ इत्य॑पच॒ इति॑ ब्राह्म॒णो गायेत् । इ॒ष्टा॒पू॒र्तव्वैँ ब्राह्म॒णस्य॑ ।। 54 ।। 3.9.14.4 इ॒ष्टा॒पू॒र्तेनै॒वैन॒॒ स सम॑र्धयति । इत्य॑जिना॒ इत्य॑युध्यथा॒ इत्य॒मु स॑ङ्ग्रा॒मम॑ह॒न्निति॑ राज॒न्यः॑ । यु॒द्धव्वैँ रा॑ज॒न्य॑स्य । यु॒द्धेनै॒वैन॒॒ स सम॑र्धयति । अकॢ॑प्ता॒ वा ए॒तस्य॒र्तव॒ इत्या॑हुः । योऽश्वमे॒धेन॒ यज॑त॒ इति॑ । ति॒स्रोऽन्यो गाय॑ति ति॒स्रोऽन्यः । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒वास्मै॑ कल्पयतः । ताभ्या॑ स॒॒स्थायाम् । अ॒नो॒यु॒क्ते च॑ श॒ते च॑ ददाति । श॒तायु॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।। 55 ।। 3.9.15.0 लो॒के मृ॒त्युर्जु॒होति॑ मू॒र्धञ्जु॑होति॒ द्वे च॑ ।। 15 ।। 3.9.15.1 सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒ऽन्वाय॑त्ताः । तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् । लो॒केलो॑क एनं मृ॒त्युर्वि॑न्देत् । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति । लो॒काल्लो॑कादे॒व मृ॒त्युमव॑यजते । नैन॑ल्लोँ॒केलो॑के मृ॒त्युर्वि॑न्दति । यद॒मुष्मै॒ स्वाहा॒ऽमुष्मै॒ स्वाहेति॒ जुह्व॑थ्स॒ञ्चख्षी॑त । ब॒हुं मृ॒त्युम॒मित्र॑ङ्कुर्वीत । मृ॒त्यवे॒ स्वाहेत्येक॑स्मा ए॒वैकाञ्जुहुयात् । एको॒ वा अ॒मुष्मि॑ल्लोँ॒के मृ॒त्युः ।। 56 ।। 3.9.15.2 अ॒श॒न॒या॒ मृ॒त्युरे॒व । तमे॒वामुष्मि॑ल्लोँ॒केऽव॑यजते । भ्रू॒ण॒ह॒त्यायै स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जुहोति । भ्रू॒ण॒ह॒त्यामे॒वाव॑ यजते । तदा॑हुः । यद्भ्रू॑णह॒त्या पा॒त्र्याऽथ॑ । कस्माद्य॒ज्ञेऽपि॑ क्रियत॒ इति॑ । अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः । भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑ । यद्भ्रू॑णह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जु॒होति॑ ।। 57 ।। 3.9.15.3 मृ॒त्युमे॒वाहु॑त्या तर्पयि॒त्वा प॑रि॒पाण॑ङ्कृ॒त्वा । भ्रू॒ण॒घ्ने भे॑ष॒जङ्क॑रोति । ए॒ता ह॒ वै मु॑ण्डि॒भ औ॑दन्य॒वः । भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिव्विँ॒दाञ्च॑कार । यो हा॒स्यापि॑ प्र॒जायां ब्राह्म॒ण हन्ति॑ । सर्व॑स्मै॒ तस्मै॑ भेष॒जङ्क॑रोति । जु॒म्ब॒काय॒ स्वाहेत्य॑वभृ॒थ उ॑त्त॒मामाहु॑तिञ्जुहोति । वरु॑णो॒ वै जु॑म्ब॒कः । अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते । ख॒ल॒तेर्वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒ख्षस्य॑ मू॒र्धञ्जु॑होति । ए॒तद्वै वरु॑णस्य रू॒पम् । रू॒पेणै॒व वरु॑ण॒मव॑यजते ।। 58 ।। 3.9.16.0 अधि॑पतय॒ इत्या॑हा॒भि॑जित्या ऐन्द्रा॒ग्नो भव॑ति रुन्ध॒ एक॑ञ्च ।। 16 ।। 3.9.16.1 वा॒रु॒णो वा अश्वः॑ । तन्दे॒वत॑या॒ व्य॑र्धयति । यत्प्रा॑जाप॒त्यङ्क॒रोति॑ । नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येत्या॑ह । वा॒रु॒णो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति । नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति । नमोऽधि॑पतय॒ इत्या॑ह ।। 59 ।। 3.9.16.2 धर्मो॒ वा अधि॑पतिः । धर्म॑मे॒वाव॑रुन्धे । अधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हं प्र॒जानाम्भूयास॒मित्या॑ह । अधि॑पतिमे॒वैन॑ समा॒नानाङ्करोति । मान्धे॑हि॒ मयि॑ धे॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशास्ते । उ॒पाकृ॑ताय॒ स्वाहेत्यु॒पाकृ॑ते जुहोति । आल॑ब्धाय॒ स्वाहेति॒ नियु॑क्ते जुहोति । हु॒ताय॒ स्वाहेति॑ हु॒ते जु॑होति । ए॒षाल्लोँ॒काना॑म॒भिजि॑त्यै ।। 60 ।। 3.9.16.3 प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॑श्च्यवते । योऽश्वमे॒धेन॒ यज॑ते । आ॒ग्ने॒यमैन्द्रा॒ग्नमाश्वि॒नम् । तान्प॒शूल॑भते॒ प्रति॑ष्ठित्यै । यदाग्ने॒यो भव॑ति । अ॒ग्निस्सर्वा॑ दे॒वताः । दे॒वता॑ ए॒वाव॑रुन्धे । ब्रह्म॒ वा अ॒ग्निः । ख्ष॒त्रमिन्द्रः॑ । यदैन्द्रा॒ग्नो भव॑ति ।। 61 ।। 3.9.16.4 ब्र॒ह्म॒ख्ष॒त्रे ए॒वाव॑रुन्धे । यदाश्वि॒नो भव॑ति । आ॒शिषा॒मव॑रुद्ध्यै । त्रयो॑ भवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति । अ॒ग्नयेऽ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इति॒ दश॑हविष॒मिष्टि॒न्निर्व॑पति । दशाख्षरा वि॒राट् । अन्न॑व्विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तस॒ इति॑ याज्यानुवा॒क्या॑ भवन्ति सर्व॒त्वाय॑ ।।62 ।। 3.9.17.0 वि॒न्दत्यश्लो॑णो है॒व भ॑वत्यधी॒यादृ॑ध्यते॒ गर्भै॑रे॒वैन॒॒ स सम॑र्धयति॒ द्वे च॑ ।। 17 ।। 3.9.17.1 यद्यश्व॑मुप॒तप॑द्वि॒न्देत् । आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत् । सौ॒म्यञ्च॒रुम् । सा॒वि॒त्रम॒ष्टाक॑पालम् । यदाग्ने॒यो भव॑ति । अ॒ग्निस्सर्वा॑ दे॒वताः । दे॒वता॑भिरे॒वैन॑म्भिषज्यति । यथ्सौ॒म्यो भव॑ति । सोमो॒ वा ओष॑धीना॒॒ राजा । याभ्य॑ ए॒वैनव्विँ॒न्दति॑ ।। 63 ।। 3.9.17.2 ताभि॑रे॒वैन॑म्भिषज्यति । यथ्सा॑वि॒त्रो भव॑ति । स॒वि॒तृप्र॑सूत ए॒वैन॑म्भिषज्यति । ए॒ताभि॑रे॒वैन॑न्दे॒वता॑भिर्भिषज्यति । अ॒ग॒दो है॒व भ॑वति । पौ॒ष्णञ्च॒रुन्निर्व॑पेत् । यदि॑ श्लो॒णस्स्यात् । पू॒षा वै श्लौण्य॑स्य भि॒षक् । स ए॒वैन॑म्भिषज्यति । अश्लो॑णो है॒व भ॑वति ।। 64 ।। 3.9.17.3 रौ॒द्रञ्च॒रुन्निर्व॑पेत् । यदि॑ मह॒ती दे॒वता॑ऽभि॒मन्ये॑त । ए॒त॒द्दे॒व॒त्यो॑ वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या भिषज्यति । अ॒ग॒दो है॒व भ॑वति । वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेन्मृगाख॒रे यदि॒ नागच्छेत् । इ॒यव्वाँ अ॒ग्निर्वैश्वान॒रः । इ॒यमे॒वैन॑म॒र्चिभ्यां परि॒रोध॒मान॑यति । आहै॒व सुत्य॒मह॑र्गच्छति । यद्य॑धी॒यात् ।। 65 ।। 3.9.17.4 अ॒ग्नयेऽ॑हो॒मुचे॒ऽष्टाक॑पालः । सौ॒र्यं पयः॑ । वा॒य॒व्य॑ आज्य॑भागः । यज॑मानो॒ वा अश्वः॑ । अह॑सा॒ वा ए॒ष गृ॑ही॒तः । यस्याश्वो॒ मेधा॑य॒ प्रोख्षि॑तो॒ऽध्येति॑ । यद॑हो॒मुचे॑ नि॒र्वप॑ति । अह॑स ए॒व तेन॑ मुच्यते । यज॑मानो॒ वा अश्वः॑ । रेत॑सा॒ वा ए॒ष व्यृ॑ध्यते ।। 66 ।। 3.9.17.5 यस्याश्वो॒ मेधा॑य॒ प्रोख्षि॑तो॒ऽध्येति॑ । सौ॒र्य रेतः॑ । यथ्सौ॒र्यं पयो॒ भव॑ति । रेत॑सै॒वैन॒॒ स सम॑र्धयति । यज॑मानो॒ वा अश्वः॑ । गर्भै॒र्वा ए॒ष व्यृ॑ध्यते । यस्याश्वो॒ मेधा॑य॒ प्रोख्षि॑तो॒ऽध्येति॑ । वा॒य॒व्या॑ गर्भाः । यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति । गर्भै॑रे॒वैन॒ स सम॑र्धयति । अथो॒ यस्यै॒षाऽश्व॑मे॒धे प्राय॑श्चित्ति क्रि॒यते । इ॒ष्ट्वा वसी॑यान्भवति ।। 67 ।। 3.9.18.0 आ॒प्य॒ते॒ स॒व्वँ॒थ्स॒र एक॑ञ्च ।। 18 ।। 3.9.18.1 तदा॑हुः । द्वाद॑श ब्रह्मौद॒नान्थ्सस्थि॑ते॒ निर्व॑पेत् । द्वा॒द॒शभि॒र्वेष्टि॑भिर्यजे॒तेति॑ । यदिष्टि॑भि॒र्यजे॑त । उ॒प॒नामु॑क एनय्यँ॒ज्ञस्स्यात् । पापी॑या॒॒स्तु स्यात् । आ॒प्तानि॒ वा ए॒तस्य॒ छन्दा॑सि । य ई॑जा॒नः । तानि॒ क ए॒ताव॑दाशु॒ पुन॒ प्रयु॑ञ्जी॒तेति॑ । सर्वा॒ वै सस्थि॑ते य॒ज्ञे वागाप्यते ।। 68 ।। 3.9.18.2 साप्ता भ॑वति या॒तयाम्नी । क्रू॒रीकृ॑तेव॒ हि भव॒त्यरु॑ष्कृता । सा न पुन॑ प्र॒युज्येत्या॑हुः । द्वाद॑शै॒व ब्र॑ह्मौद॒नान्थ्सस्थि॑ते॒ निर्व॑पेत् । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । य॒ज्ञ प्र॒जाप॑तिः । उ॒प॒नामु॑क एनय्यँ॒ज्ञो भ॑वति । न पापी॑यान्भवति । द्वाद॑श भवन्ति । द्वाद॑श॒मासास्सव्वँथ्स॒रः । स॒व्वँ॒थ्स॒र ए॒व प्रति॑तिष्ठति ।। 69 ।। 3.9.19.0 पय॑स्वा॒न्नाम॑ य॒ज्ञः प्रति॑ष्ठितम्भवति॒ यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते॒ षट्च॑ ।। 19 ।। (ए॒ष वै विभू प्र॒भूरूर्ज॑स्वा॒न्पय॑स्वा॒न् विधृ॑तो॒ व्यावृ॑त्त॒प्रति॑ष्ठितस्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑तिव्या॒धी दी॒र्घ कॢ॒प्तो द्वाद॑श ।। ) 3.9.19.1 ए॒ष वै वि॒भूर्नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॑ वि॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै प्र॒भूर्नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॑ प्र॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वा ऊर्ज॑स्वा॒न्नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्रोर्ज॑स्वद्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै पय॑स्वा॒न्नाम॑ य॒ज्ञः ।। 70 ।। 3.9.19.2 सर्व॑ ह॒ वै तत्र॒ पय॑स्वद्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै विधृ॑तो॒ नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॒ विधृ॑तम्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै व्यावृ॑त्तो॒ नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॒ व्यावृ॑त्तम्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै प्रति॑ष्ठितो॒ नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॒ प्रति॑ष्ठितम्भवति ।। 71 ।। 3.9.19.3 यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै ते॑ज॒स्वी नाम॑ य॒ज्ञः । सर्व॑ ह॒ वै तत्र॑ तेज॒स्वि भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै ब्र॑ह्मवर्च॒सी नाम॑ य॒ज्ञः । आ ह॒ तत्र॑ ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वा अ॑तिव्या॒धी नाम॑ य॒ज्ञः । आ ह॒ वै तत्र॑ राज॒न्यो॑ऽतिव्या॒धी जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै दी॒र्घो नाम॑ य॒ज्ञः । दी॒र्घायु॑षो ह॒ वै तत्र॑ मनु॒ष्या॑ भवन्ति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै कॢ॒प्तो नाम॑ य॒ज्ञः । कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगख्षे॒मः । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।। 72 ।। 3.9.20.0 अव॑रुध्या आप्नोत्य॒ष्टौ च॑ ।। 20 ।। 3.9.20.1 ता॒र्प्येणाश्व॒॒ संज्ञ॑पयन्ति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैन॒॒ सम॑र्धयन्ति । या॒मेन॒ साम्ना प्रस्तो॒ताऽनूप॑तिष्ठते । य॒म॒लो॒कमे॒वैन॑ङ्गमयति । ता॒र्प्ये च॑ कृत्यधीवा॒से चाश्व॒॒ संज्ञ॑पयन्ति । ए॒तद्वै प॑शू॒ना रू॒पम् । रू॒पेणै॒व प॒शूनव॑रुन्धे । हि॒र॒ण्य॒क॒शि॒पु भ॑वति । तेज॒सोऽव॑रुद्ध्यै ।। 73 ।। 3.9.20.2 रु॒क्मो भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै । अश्वो॑ भवति । प्र॒जाप॑ते॒राप्त्यै । अ॒स्य वै लो॒कस्य॑ रू॒पन्ता॒र्प्यम् । अ॒न्तरि॑ख्षस्य कृत्यधीवा॒सः । दि॒वो हि॑रण्यकशि॒पु । आ॒दि॒त्यस्य॑ रु॒क्मः । प्र॒जाप॑ते॒रश्वः॑ । इ॒ममे॒व लो॒कन्ता॒र्प्येणाप्तोति ।। 74 ।। 3.9.20.3 अ॒न्तरि॑ख्षङ्कृत्यधीवा॒सेन॑ । दिव॑ हिरण्यकशि॒पुना । आ॒दि॒त्य रु॒क्मेण॑ । अश्वे॑नै॒व मेध्ये॑न प्र॒जाप॑ते॒स्सायु॑ज्य सलो॒कता॑माप्नोति । ए॒तासा॑मे॒व दे॒वता॑ना॒॒ सायु॑ज्यम् । सा॒र्ष्टिता॑ समानलो॒कता॑माप्नोति । योऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ।। 75 ।। 3.9.21.0 नाम॑ करोति॒ सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नञ्च॒त्वारि॑ च ।। 21 ।। 3.9.21.1 आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒केऽस्पर्धन्त । तेऽङ्गि॑रस आदि॒त्येभ्यः॑ । अ॒मुमा॑दि॒त्यमश्व॑ श्वे॒तम्भू॒तन्दख्षि॑णामनयन्न् । तेऽब्रुवन्न् । यन्नोनेष्ट । स वर्यो॑ भू॒दिति॑ । तस्मा॒दश्व॒ सव॒र्येत्याह्व॑यन्ति । तस्माद्य॒ज्ञे वरो॑ दीयते । यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्वो॒ नाम॑ ।। 76 ।। 3.9.21.2 यच्छ्वय॒दरु॒रासीत् । तस्मा॒दर्वा॒ नाम॑ । यथ्स॒द्यो वाजान्थ्स॒मज॑यत् । तस्माद्वा॒जी नाम॑ । यदसु॑राणाल्लोँ॒कानाद॑त्त । तस्मा॑दादि॒त्यो नाम॑ । अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् । सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नम् । यद॑श्वमे॒धेऽग्नौ चित्य॑ उत्तरवे॒दिमु॑प॒वप॑ति । योनि॑मन्तमे॒वैन॑मा॒यत॑नवन्तङ्करोति ।। 77 ।। 3.9.21.3 योनि॑माना॒यत॑नवान्भवति । य ए॒वव्वेँद॑ । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वानाम् । यद॑र्काश्वमे॒धौ । प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे । ओजो॒ बल॒व्वाँ ए॒तौ दे॒वानाम् । यद॑र्काश्वमे॒धौ । ओजो॒ बल॑मे॒वाव॑रुन्धे । अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् । सूर्यो॒ग्नेर्योनि॑रा॒यत॑नम् । यद॑श्वमे॒धेऽग्नौ चित्य॑ उत्तरवे॒दिञ्चि॒नोति॑ । ताव॑र्काश्वमे॒धौ । अ॒र्का॒श्व॒मे॒धावे॒वाव॑रुन्धे । अथो॑ अर्काश्वमे॒धयो॑रे॒व प्रति॑तिष्ठति ।। 78 ।। 3.9.22.0 मेधोऽभ॑व॒द्यज॑त एति॒ वेद॑ ।। 22 ।। 3.9.22.1 प्र॒जाप॑ति॒व्वैँ दे॒वा पि॒तरम् । प॒शुम्भू॒तम्मेधा॒याल॑भन्त । तमा॒लभ्योपा॑वसन्न् । प्रा॒तर्यष्टास्मह॒ इति॑ । एक॒व्वाँ ए॒तद्दे॒वाना॒महः॑ । यथ्स॑व्वँथ्स॒रः । तस्मा॒दश्व॑ पु॒रस्ताथ्सव्वँथ्स॒र आल॑भ्यते । यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्वः॑ । यथ्स॒द्यो मेधोऽभ॑वत् ।। 79 ।। 3.9.22.2 तस्मा॑दश्वमे॒धः । वेदु॒कोऽश्व॑मा॒शुम्भ॑वति । य ए॒वव्वेँद॑ । यद्वै तत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्व॑ प्र॒जाप॑ते पशू॒नामनु॑रूपतमः । आऽस्य॑ पु॒त्र प्रति॑रूपो जायते । य ए॒वव्वेँद॑ । सर्वा॑णि भू॒तानि॑ स॒म्भृत्याल॑भते । समे॑नन्दे॒वास्तेज॑से ब्रह्मवर्च॒साय॑ भरन्ति । योऽश्वमे॒धेन॒ यज॑ते ।। 80 ।। 3.9.22.3 य उ॑ चैनमे॒वव्वेँद॑ । ए॒तद्वै तद्दे॒वा ए॒तान्दे॒वताम् । प॒शुम्भू॒तम्मेधा॒याल॑भन्त । य॒ज्ञमे॒व । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । का॒म॒प्रय्यँ॒ज्ञम॑कुर्वत । ते॑ऽमृत॒त्वम॑कामयन्त । ते॑ऽमृत॒त्वम॑गच्छन्न् । योऽश्वमे॒धेन॒ यज॑ते । दे॒वाना॑मे॒वाय॑नेनैति ।। 81 ।। 3.9.22.4 प्रा॒जा॒प॒त्येनै॒व य॒ज्ञेन॑ यजते काम॒प्रेण॑ । अपु॑नर्मारमे॒व ग॑च्छति । ए॒तस्य॒ वै रू॒पेण॑ पु॒रस्तात्प्राजाप॒त्यमृ॑ष॒भन्तू॑प॒रम्ब॑हुरू॒पमाल॑भते । सर्वे॑भ्य॒ कामेभ्यः । सर्व॒स्याप्त्यै । सर्व॑स्य॒ जित्यै । सर्व॑मे॒व तेनाप्नोति । सर्व॑ञ्जयति । योऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ।। 82 ।। 3.9.23.0 प॒दे अ॑ग्निहो॒त्रञ्जु॒होति॒ त्रीणि॑ च ।। 23 ।। 3.9.23.1 यो वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य॒ लोम॑ल्लोँमञ्जुहोति । अ॒हो॒रा॒त्रे वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी । यथ्सा॒यंप्रा॑तर्जु॒होति॑ । अश्व॑स्यै॒व मेध्य॑स्य॒ लोम॑ल्लोँमञ्जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑ल्लोँमञ्जुह्वति । यो वा अश्व॑स्य॒ मेध्य॑स्य प॒दे वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति । द॒र्॒श॒पू॒र्ण॒मा॒सौ वा अश्व॑स्य॒ मेध्य॑स्य प॒दे ।। 83 ।। 3.9.23.2 यद्द॑र्‌शपूर्णमा॒सौ यज॑ते । अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य प॒देप॑दे जुह्वति । यो वा अश्व॑स्य॒ मेध्य॑स्य वि॒वर्त॑न॒व्वेँद॑ । अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति । अ॒सौ वा आ॑दि॒त्योऽश्वः॑ । स आ॑हव॒नीय॒माग॑च्छति । तद्विव॑र्तते । यद॑ग्निहो॒त्रञ्जु॒होति॑ । अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अ॑श्वस्य॒ मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुह्वति ।। 84 ।।
[[वर्गः:यजुर्वेद]] 3y6fyybczru22zho8hqd93ksnsjy3zy पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९ 104 67593 417844 151964 2026-07-16T10:24:28Z Swaminathan sitapathi 4227 417844 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>शाकुन्तलनाटकांर्तगत पात्राणि । {{rule|15em}} {{Multicol}} {| ! scope="col" style="width: 200px;" | ! scope="col" style="width: 200px;" | | पुरुषपात्राणि | स्त्रिपात्राणि |} सूत्रधारः—नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भाया. . दुष्यन्तः--नायकः शकुन्तला-नायिका विदूषकः--राज्ञो वयस्यः अनसूया ? शकुन्तलायाः भरतः--दुष्यन्तस्य पुत्रः | प्रियंवदा - सख्यौ सोमरातः-उपाध्यायः गौतमी–काचित्तापसी. वतकः चतुरका ३ करभकः परचारकाः | ॐ परभृतका / कंचुकी ) मधुकारेका * परिचारिकाः वैतालिकौस्तुतिपाठकैं. प्रतीहारी कण्वः ( काश्यपः )–शकुन्त- यवनी लाया पालकः पिता तरलिका ) वैखानसः । सानुमती---अप्सरा. अदतः -कश्यपस्य भायो शारद्वतः शिष्याः | वसुमती--भार्या. दुष्यन्तस्य हारीतः इतरपात्राणि | गतमः ॥ श्यालः-नगरपालकः मघवन्-इङ्गः सूचकः जयन्तः इन्द्रस्य पुत्रः जानुकः १ ‘| कौशिकः—विधामत्रार्षिः . ग्रामपालाः मातलिः - इन्द्रस्य सारथिः | मेनका--शकुंतलाया माता मारीचः ( कश्यपः ऋषिः दुर्वासाः--कश्चिदृषिः. सूत-सारार्थः नद-दवार्यः<noinclude></noinclude> dkfzhdy54f1i75ca4bcl88mm0u2krzw 417845 417844 2026-07-16T10:25:43Z Swaminathan sitapathi 4227 417845 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{Multicol}} {| ! scope="col" style="width: 200px;" | ! scope="col" style="width: 100px;" | | पुरुषपात्राणि | स्त्रिपात्राणि |} सूत्रधारः—नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भाया. . दुष्यन्तः--नायकः शकुन्तला-नायिका विदूषकः--राज्ञो वयस्यः अनसूया ? शकुन्तलायाः भरतः--दुष्यन्तस्य पुत्रः | प्रियंवदा - सख्यौ सोमरातः-उपाध्यायः गौतमी–काचित्तापसी. वतकः चतुरका ३ करभकः परचारकाः | ॐ परभृतका / कंचुकी ) मधुकारेका * परिचारिकाः वैतालिकौस्तुतिपाठकैं. प्रतीहारी कण्वः ( काश्यपः )–शकुन्त- यवनी लाया पालकः पिता तरलिका ) वैखानसः । सानुमती---अप्सरा. अदतः -कश्यपस्य भायो शारद्वतः शिष्याः | वसुमती--भार्या. दुष्यन्तस्य हारीतः इतरपात्राणि | गतमः ॥ श्यालः-नगरपालकः मघवन्-इङ्गः सूचकः जयन्तः इन्द्रस्य पुत्रः जानुकः १ ‘| कौशिकः—विधामत्रार्षिः . ग्रामपालाः मातलिः - इन्द्रस्य सारथिः | मेनका--शकुंतलाया माता मारीचः ( कश्यपः ऋषिः दुर्वासाः--कश्चिदृषिः. सूत-सारार्थः नद-दवार्यः<noinclude></noinclude> t7t45r3hgkgsny5bis6gapzwp7hmqht 417846 417845 2026-07-16T10:38:47Z Swaminathan sitapathi 4227 417846 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} <poem>{{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{gap}}सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या. {{gap}}दुष्यन्तः--नायकः | शकुन्तला-नायिका {{gap}}विदूषकः--राज्ञो वयस्यः | अनसूया ? शकुन्तलायाः भरतः--दुष्यन्तस्य पुत्रः | प्रियंवदा - सख्यौ सोमरातः-उपाध्यायः गौतमी–काचित्तापसी. वतकः चतुरका ३ करभकः परचारकाः | ॐ परभृतका / कंचुकी ) मधुकारेका * परिचारिकाः वैतालिकौस्तुतिपाठकैं. प्रतीहारी कण्वः ( काश्यपः )–शकुन्त- यवनी लाया पालकः पिता तरलिका ) वैखानसः । सानुमती---अप्सरा. अदतः -कश्यपस्य भायो शारद्वतः शिष्याः | वसुमती--भार्या. दुष्यन्तस्य हारीतः इतरपात्राणि | गतमः ॥ श्यालः-नगरपालकः मघवन्-इङ्गः सूचकः जयन्तः इन्द्रस्य पुत्रः जानुकः १ ‘| कौशिकः—विधामत्रार्षिः . ग्रामपालाः मातलिः - इन्द्रस्य सारथिः | मेनका--शकुंतलाया माता मारीचः ( कश्यपः ऋषिः दुर्वासाः--कश्चिदृषिः. सूत-सारार्थः नद-दवार्यः </poem><noinclude></noinclude> j4jdcd824oizpyktw47611xbl1ic14v 417847 417846 2026-07-16T10:40:15Z Swaminathan sitapathi 4227 417847 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} <poem>{{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{gap}}सूत्रधारः—’नाटकाध्यक्षः------ | नटी--नाटकाध्यक्षस्य भार्या. {{gap}}दुष्यन्तः--नायकः-------------| शकुन्तला-नायिका {{gap}}विदूषकः--राज्ञो वयस्यः -------| अनसूया ? शकुन्तलायाः भरतः--दुष्यन्तस्य पुत्रः | प्रियंवदा - सख्यौ सोमरातः-उपाध्यायः गौतमी–काचित्तापसी. वतकः चतुरका ३ करभकः परचारकाः | ॐ परभृतका / कंचुकी ) मधुकारेका * परिचारिकाः वैतालिकौस्तुतिपाठकैं. प्रतीहारी कण्वः ( काश्यपः )–शकुन्त- यवनी लाया पालकः पिता तरलिका ) वैखानसः । सानुमती---अप्सरा. अदतः -कश्यपस्य भायो शारद्वतः शिष्याः | वसुमती--भार्या. दुष्यन्तस्य हारीतः इतरपात्राणि | गतमः ॥ श्यालः-नगरपालकः मघवन्-इङ्गः सूचकः जयन्तः इन्द्रस्य पुत्रः जानुकः १ ‘| कौशिकः—विधामत्रार्षिः . ग्रामपालाः मातलिः - इन्द्रस्य सारथिः | मेनका--शकुंतलाया माता मारीचः ( कश्यपः ऋषिः दुर्वासाः--कश्चिदृषिः. सूत-सारार्थः नद-दवार्यः </poem><noinclude></noinclude> ff1vpg50z4jd5vu5l1ysbth9o9974ox 417848 417847 2026-07-16T10:47:46Z Swaminathan sitapathi 4227 417848 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} <poem>{{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 200px;" | ! scope="col" style="width: 100px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |दुष्यन्तः--नायकः |शकुन्तला-नायिका |} {{gap}}सूत्रधारः—’नाटकाध्यक्षः------ | नटी--नाटकाध्यक्षस्य भार्या. {{gap}}दुष्यन्तः--नायकः-------------| शकुन्तला-नायिका {{gap}}विदूषकः--राज्ञो वयस्यः -------| अनसूया ? शकुन्तलायाः भरतः--दुष्यन्तस्य पुत्रः | प्रियंवदा - सख्यौ सोमरातः-उपाध्यायः गौतमी–काचित्तापसी. वतकः चतुरका ३ करभकः परचारकाः | ॐ परभृतका / कंचुकी ) मधुकारेका * परिचारिकाः वैतालिकौस्तुतिपाठकैं. प्रतीहारी कण्वः ( काश्यपः )–शकुन्त- यवनी लाया पालकः पिता तरलिका ) वैखानसः । सानुमती---अप्सरा. अदतः -कश्यपस्य भायो शारद्वतः शिष्याः | वसुमती--भार्या. दुष्यन्तस्य हारीतः इतरपात्राणि | गतमः ॥ श्यालः-नगरपालकः मघवन्-इङ्गः सूचकः जयन्तः इन्द्रस्य पुत्रः जानुकः १ ‘| कौशिकः—विधामत्रार्षिः . ग्रामपालाः मातलिः - इन्द्रस्य सारथिः | मेनका--शकुंतलाया माता मारीचः ( कश्यपः ऋषिः दुर्वासाः--कश्चिदृषिः. सूत-सारार्थः नद-दवार्यः </poem><noinclude></noinclude> e1o5fgjyg6x42j2dpy73t58rt8pif5n 417849 417848 2026-07-16T10:48:42Z Swaminathan sitapathi 4227 417849 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} <poem>{{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 200px;" | ! scope="col" style="width: 100px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |दुष्यन्तः--नायकः |शकुन्तला-नायिका |} /* {{gap}}सूत्रधारः—’नाटकाध्यक्षः------ | नटी--नाटकाध्यक्षस्य भार्या. {{gap}}दुष्यन्तः--नायकः-------------| शकुन्तला-नायिका {{gap}}विदूषकः--राज्ञो वयस्यः -------| अनसूया ? शकुन्तलायाः भरतः--दुष्यन्तस्य पुत्रः | प्रियंवदा - सख्यौ सोमरातः-उपाध्यायः गौतमी–काचित्तापसी. वतकः चतुरका ३ करभकः परचारकाः | ॐ परभृतका / कंचुकी ) मधुकारेका * परिचारिकाः वैतालिकौस्तुतिपाठकैं. प्रतीहारी कण्वः ( काश्यपः )–शकुन्त- यवनी लाया पालकः पिता तरलिका ) वैखानसः । सानुमती---अप्सरा. अदतः -कश्यपस्य भायो शारद्वतः शिष्याः | वसुमती--भार्या. दुष्यन्तस्य हारीतः इतरपात्राणि | गतमः ॥ श्यालः-नगरपालकः मघवन्-इङ्गः सूचकः जयन्तः इन्द्रस्य पुत्रः जानुकः १ ‘| कौशिकः—विधामत्रार्षिः . ग्रामपालाः मातलिः - इन्द्रस्य सारथिः | मेनका--शकुंतलाया माता मारीचः ( कश्यपः ऋषिः दुर्वासाः--कश्चिदृषिः. सूत-सारार्थः नद-दवार्यः </poem> */<noinclude></noinclude> d37yixiodgc3peb86mqk01qh05309s9 417850 417849 2026-07-16T10:49:29Z Swaminathan sitapathi 4227 417850 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} <poem>{{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 200px;" | ! scope="col" style="width: 100px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |दुष्यन्तः--नायकः |शकुन्तला-नायिका |}<noinclude></noinclude> 0gvuovouyxfna7d6ll323aa389n4hui 417851 417850 2026-07-16T10:50:19Z Swaminathan sitapathi 4227 417851 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 200px;" | ! scope="col" style="width: 100px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |दुष्यन्तः--नायकः |शकुन्तला-नायिका |}<noinclude></noinclude> 90jtzrbr11ipmq48w65plglt49m853n 417852 417851 2026-07-16T10:52:12Z Swaminathan sitapathi 4227 417852 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 200px;" | ! scope="col" style="width: 100px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |}<noinclude></noinclude> ssrcurk5bdhjbcxk5u3013wupxuned6 417853 417852 2026-07-16T10:54:50Z Swaminathan sitapathi 4227 417853 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 50px;" | ! scope="col" style="width: 50px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |}<noinclude></noinclude> 98ecr5j91x3gx6lqlp2hqm5dmwfuyj9 417854 417853 2026-07-16T10:55:29Z Swaminathan sitapathi 4227 417854 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 50px;" | ! scope="col" style="width: 150px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |}<noinclude></noinclude> 11rbm6qek5p221wrg8xwhvi0gnmlbnz 417855 417854 2026-07-16T10:56:10Z Swaminathan sitapathi 4227 417855 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 10px;" | ! scope="col" style="width: 150px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |}<noinclude></noinclude> cnyqdt6j9yi9ukqlox1ea49yl2vvggi 417856 417855 2026-07-16T10:56:44Z Swaminathan sitapathi 4227 417856 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 10px;" | ! scope="col" style="width: 200px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |}<noinclude></noinclude> let7e0tqn2bnnafbtuuljxfof97pnqx 417857 417856 2026-07-16T10:57:14Z Swaminathan sitapathi 4227 417857 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 10px;" | ! scope="col" style="width: 10px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |}<noinclude></noinclude> 6z7th8p92u8iqh71zwg43jla4aim5ms 417858 417857 2026-07-16T10:57:57Z Swaminathan sitapathi 4227 417858 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 200px;" | ! scope="col" style="width: 10px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |}<noinclude></noinclude> 4k3b269204lzjdcie266yce1epzal2b 417859 417858 2026-07-16T10:58:23Z Swaminathan sitapathi 4227 417859 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 100px;" | ! scope="col" style="width: 10px;" | | सूत्रधारः—’नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भार्या |}<noinclude></noinclude> 10orjdri2gxb6bg7r0uhxipl4xjf6xz 417860 417859 2026-07-16T11:00:14Z Swaminathan sitapathi 4227 417860 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 100px;" | ! scope="col" style="width: 10px;" | | सूत्रधारः—’नाटकाध्यक्षः | |नटी--नाटकाध्यक्षस्य भार्या |दुष्यन्तः--नायकः ||शकुन्तला-नायिका |}<noinclude></noinclude> 5mn9sf6bo4oqfc71j2w1qp7gpaiaojj 417861 417860 2026-07-16T11:02:06Z Swaminathan sitapathi 4227 417861 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 100px;" | ! scope="col" style="width: 10px;" | | सूत्रधारः—’नाटकाध्यक्षः ||नटी--नाटकाध्यक्षस्य भार्या |} {{Multicol}} {| ! scope="col" style="width: 100px;" | ! scope="col" style="width: 10px;" | |दुष्यन्तः--नायकः ||शकुन्तला-नायिका |}<noinclude></noinclude> lmfiri7lx4j5w34mnpkt23twnnccr9q 417864 417861 2026-07-16T11:30:43Z Swaminathan sitapathi 4227 417864 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srilakshmi Desai" /></noinclude>{{center|शाकुन्तलनाटकांर्तगत पात्राणि ।}} {{rule|15em}} {{gap}}{{gap}}{{gap}} पुरुषपात्राणि {{gap}}{{gap}}{{gap}} स्त्रिपात्राणि {{Multicol}} {| ! scope="col" style="width: 100px;" | ! scope="col" style="width: 10px;" | | सूत्रधारः—’नाटकाध्यक्षः ||नटी--नाटकाध्यक्षस्य भार्या |} {{Multicol}} {| ! scope="col" style="width: 100px;" | ! scope="col" style="width: 10px;" | |दुष्यन्तः--नायकः ||शकुन्तला-नायिका |} {{gap}}सूत्रधारः—’नाटकाध्यक्षः------ | नटी--नाटकाध्यक्षस्य भार्या. {{gap}}दुष्यन्तः--नायकः-------------| शकुन्तला-नायिका {{gap}}विदूषकः--राज्ञो वयस्यः -------| अनसूया ? शकुन्तलायाः भरतः--दुष्यन्तस्य पुत्रः | प्रियंवदा - सख्यौ सोमरातः-उपाध्यायः गौतमी–काचित्तापसी. वतकः चतुरका ३ करभकः परचारकाः | ॐ परभृतका / कंचुकी ) मधुकारेका * परिचारिकाः वैतालिकौस्तुतिपाठकैं. प्रतीहारी कण्वः ( काश्यपः )–शकुन्त- यवनी लाया पालकः पिता तरलिका ) वैखानसः । सानुमती---अप्सरा. अदतः -कश्यपस्य भायो शारद्वतः शिष्याः | वसुमती--भार्या. दुष्यन्तस्य हारीतः इतरपात्राणि | गतमः ॥ श्यालः-नगरपालकः मघवन्-इङ्गः सूचकः जयन्तः इन्द्रस्य पुत्रः जानुकः १ ‘| कौशिकः—विधामत्रार्षिः . ग्रामपालाः मातलिः - इन्द्रस्य सारथिः | मेनका--शकुंतलाया माता मारीचः ( कश्यपः ऋषिः दुर्वासाः--कश्चिदृषिः. सूत-सारार्थः नद-दवार्यः </poem><noinclude></noinclude> adnf8ykniftjmz8ykys60fi1dthd7bj पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१२ 104 68080 417841 154697 2026-07-16T10:02:47Z Swaminathan sitapathi 4227 /* शोधितम् */ 417841 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>{{c|'''सप्तमोऽङ्कः।'''}} {{rule|5em}} {{c|( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च )}} :'''राजा'''- -मातले, अनुष्ठितानिदेशोऽपि मघवतः सत्क्त्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये । {{rule}} {{gap}}इतो निबर्हणसंधिः समाप्ति यावत् । तय्क्षणं यथा सुधाकरे-‘मुखसंध्यादयो यप्र विकीर्ण बीजसंयुताः । महा ( यदा ) प्रयोजनं यान्ति तन्निर्वहणमुच्यते।' इति । कार्यफलप्रयोगेनास्य संधिवम् । तल्लक्षणं मातृगुप्तचायैरुक्तम्--‘ यदाधिकरिकं वस्तु सम्यक्प्राज्ञै प्रयुज्यते । तदर्यो यः समारम्भस्तस्कार्यं कथ्यते ? इति । अभिप्रेतं समर्थे च प्रतिरूपं क्रियाफलम् । इतिवृत्तं भवेद्यास्मन्फलयोगः स उच्यते ॥ ’ इति । अङ्गानि तु--* संधिर्निबोधो ग्रंथनं निर्णयः परिभाषणम् । प्रसादानन्द समयाः कृतिर्भावोपगूहनम् । पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ ’ इति । एतेषां लक्षणाने व्याख्यानावसरे तत्र तत्र वक्ष्यामः । अत्र दानव्रयुद्धं युद्धवेन साक्षान्निषिद्धमेत्यंके नैव सूचितम् ! प्रकृते प्रयोजनाभावान्यद्वारा वाचिकाभिनयेनापि नोक्तम् अनङ्गस्याभिधानमिति रसदोषापत्तेः । अतः कृतकार्ययोः सूतरथिनोरेव प्रवेशः । तसंबादेनैव कार्यमुन्नेयम् । आकाशयानेनेत्यनेन मरीच्याश्रमगमनं ध्वनितम् । अनुष्ठितनिदेशः कृताज्ञः । मघवत इन्द्रस्येति मध्यमस्थमुभयत्राप्यन्वेति । {{rule}} कविरिदानीं कथासंघट्नार्थसंकास्यं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रीशतीत्यादिना । तदुक्तं ‘‘ अंकान्तपात्रेरंस्यमुत्तरांकार्थसूचना ।" यत्र पूर्वोकान्तपनैरुत्तरकार्थः मूच्यते तदंकास्यमिति । यथा षष्ठांकावसाने मातलिः क्ष्रूचतामित्यादिन एतदंतेन षष्ठांकावसनास्थतपात्राभ्यां राजमातलिभ्यां सप्तमांकादौ प्रवेशः कृतः । अंकावसन एवोत्तरांकाद्यर्थसूचनमपि कृतम् । आयुष्मन् क्ष्रूयतामिध्यादिना । नाटके यदि दूरदेशगमनं प्रस्तुतं तदा पूर्वोके विच्छिद्य गत्वा उत्तरांकप्रवेशे तत्कार्ये निर्दिशेत् । तथा मातलिना कालनेमिप्रभूतदुर्जयप्रमुखदानवगणं जेतुं दुष्यन्तस्याह्नाने प्रियाविरहविझलमानसं दुष्यन्तं कार्यान्तरविक्षिप्तचित्तं कर्तुं विदूषकं प्रक्षोभ्य सौघतलं राजनभानीय तत्र राज्ञे शक्रेणाज्ञप्तं कार्ये निवेद्य अंकावसाने दुष्यन्तः शक्रसमीपं नीतः । सप्तमांकादौ प्रकृतकार्यसिद्धिश्चोक्ता । अनुष्ठितनिदेशोऽपीत्यादिना । अनुष्ठितनिदेशोऽपि कृतशासनोऽपि नियोज्यपुरुषेऽपीतेि यावत् ।<noinclude></noinclude> rbqcwsfh72qg90d0e8yzd871x1sjz7u 417842 417841 2026-07-16T10:03:13Z Swaminathan sitapathi 4227 417842 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>{{c|'''सप्तमोऽङ्कः।'''}} {{rule|5em}} {{c|( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च )}} :'''राजा'''- -मातले, अनुष्ठितानिदेशोऽपि मघवतः सत्क्त्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये । {{rule}} {{gap}}इतो निबर्हणसंधिः समाप्ति यावत् । तय्क्षणं यथा सुधाकरे-‘मुखसंध्यादयो यप्र विकीर्ण बीजसंयुताः । महा ( यदा ) प्रयोजनं यान्ति तन्निर्वहणमुच्यते।' इति । कार्यफलप्रयोगेनास्य संधिवम् । तल्लक्षणं मातृगुप्तचायैरुक्तम्--‘ यदाधिकरिकं वस्तु सम्यक्प्राज्ञै प्रयुज्यते । तदर्यो यः समारम्भस्तस्कार्यं कथ्यते ? इति । अभिप्रेतं समर्थे च प्रतिरूपं क्रियाफलम् । इतिवृत्तं भवेद्यास्मन्फलयोगः स उच्यते ॥ ’ इति । अङ्गानि तु--* संधिर्निबोधो ग्रंथनं निर्णयः परिभाषणम् । प्रसादानन्द समयाः कृतिर्भावोपगूहनम् । पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ ’ इति । एतेषां लक्षणाने व्याख्यानावसरे तत्र तत्र वक्ष्यामः । अत्र दानव्रयुद्धं युद्धवेन साक्षान्निषिद्धमेत्यंके नैव सूचितम् ! प्रकृते प्रयोजनाभावान्यद्वारा वाचिकाभिनयेनापि नोक्तम् अनङ्गस्याभिधानमिति रसदोषापत्तेः । अतः कृतकार्ययोः सूतरथिनोरेव प्रवेशः । तसंबादेनैव कार्यमुन्नेयम् । आकाशयानेनेत्यनेन मरीच्याश्रमगमनं ध्वनितम् । अनुष्ठितनिदेशः कृताज्ञः । मघवत इन्द्रस्येति मध्यमस्थमुभयत्राप्यन्वेति । {{rule}} {{gap}}{{gap}}कविरिदानीं कथासंघट्नार्थसंकास्यं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रीशतीत्यादिना । तदुक्तं ‘‘ अंकान्तपात्रेरंस्यमुत्तरांकार्थसूचना ।" यत्र पूर्वोकान्तपनैरुत्तरकार्थः मूच्यते तदंकास्यमिति । यथा षष्ठांकावसाने मातलिः क्ष्रूचतामित्यादिन एतदंतेन षष्ठांकावसनास्थतपात्राभ्यां राजमातलिभ्यां सप्तमांकादौ प्रवेशः कृतः । अंकावसन एवोत्तरांकाद्यर्थसूचनमपि कृतम् । आयुष्मन् क्ष्रूयतामिध्यादिना । नाटके यदि दूरदेशगमनं प्रस्तुतं तदा पूर्वोके विच्छिद्य गत्वा उत्तरांकप्रवेशे तत्कार्ये निर्दिशेत् । तथा मातलिना कालनेमिप्रभूतदुर्जयप्रमुखदानवगणं जेतुं दुष्यन्तस्याह्नाने प्रियाविरहविझलमानसं दुष्यन्तं कार्यान्तरविक्षिप्तचित्तं कर्तुं विदूषकं प्रक्षोभ्य सौघतलं राजनभानीय तत्र राज्ञे शक्रेणाज्ञप्तं कार्ये निवेद्य अंकावसाने दुष्यन्तः शक्रसमीपं नीतः । सप्तमांकादौ प्रकृतकार्यसिद्धिश्चोक्ता । अनुष्ठितनिदेशोऽपीत्यादिना । अनुष्ठितनिदेशोऽपि कृतशासनोऽपि नियोज्यपुरुषेऽपीतेि यावत् ।<noinclude></noinclude> 4dxmt7s7mzydqi0ge0r8b9gwejsgv7t 417843 417842 2026-07-16T10:03:36Z Swaminathan sitapathi 4227 417843 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>{{c|'''सप्तमोऽङ्कः।'''}} {{rule|5em}} {{c|( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च )}} :'''राजा'''- -मातले, अनुष्ठितानिदेशोऽपि मघवतः सत्क्त्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये । {{rule}} {{gap}}इतो निबर्हणसंधिः समाप्ति यावत् । तय्क्षणं यथा सुधाकरे-‘मुखसंध्यादयो यप्र विकीर्ण बीजसंयुताः । महा ( यदा ) प्रयोजनं यान्ति तन्निर्वहणमुच्यते।' इति । कार्यफलप्रयोगेनास्य संधिवम् । तल्लक्षणं मातृगुप्तचायैरुक्तम्--‘ यदाधिकरिकं वस्तु सम्यक्प्राज्ञै प्रयुज्यते । तदर्यो यः समारम्भस्तस्कार्यं कथ्यते ? इति । अभिप्रेतं समर्थे च प्रतिरूपं क्रियाफलम् । इतिवृत्तं भवेद्यास्मन्फलयोगः स उच्यते ॥ ’ इति । अङ्गानि तु--* संधिर्निबोधो ग्रंथनं निर्णयः परिभाषणम् । प्रसादानन्द समयाः कृतिर्भावोपगूहनम् । पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ ’ इति । एतेषां लक्षणाने व्याख्यानावसरे तत्र तत्र वक्ष्यामः । अत्र दानव्रयुद्धं युद्धवेन साक्षान्निषिद्धमेत्यंके नैव सूचितम् ! प्रकृते प्रयोजनाभावान्यद्वारा वाचिकाभिनयेनापि नोक्तम् अनङ्गस्याभिधानमिति रसदोषापत्तेः । अतः कृतकार्ययोः सूतरथिनोरेव प्रवेशः । तसंबादेनैव कार्यमुन्नेयम् । आकाशयानेनेत्यनेन मरीच्याश्रमगमनं ध्वनितम् । अनुष्ठितनिदेशः कृताज्ञः । मघवत इन्द्रस्येति मध्यमस्थमुभयत्राप्यन्वेति । {{rule}} {{gap}}कविरिदानीं कथासंघट्नार्थसंकास्यं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रीशतीत्यादिना । तदुक्तं ‘‘ अंकान्तपात्रेरंस्यमुत्तरांकार्थसूचना ।" यत्र पूर्वोकान्तपनैरुत्तरकार्थः मूच्यते तदंकास्यमिति । यथा षष्ठांकावसाने मातलिः क्ष्रूचतामित्यादिन एतदंतेन षष्ठांकावसनास्थतपात्राभ्यां राजमातलिभ्यां सप्तमांकादौ प्रवेशः कृतः । अंकावसन एवोत्तरांकाद्यर्थसूचनमपि कृतम् । आयुष्मन् क्ष्रूयतामिध्यादिना । नाटके यदि दूरदेशगमनं प्रस्तुतं तदा पूर्वोके विच्छिद्य गत्वा उत्तरांकप्रवेशे तत्कार्ये निर्दिशेत् । तथा मातलिना कालनेमिप्रभूतदुर्जयप्रमुखदानवगणं जेतुं दुष्यन्तस्याह्नाने प्रियाविरहविझलमानसं दुष्यन्तं कार्यान्तरविक्षिप्तचित्तं कर्तुं विदूषकं प्रक्षोभ्य सौघतलं राजनभानीय तत्र राज्ञे शक्रेणाज्ञप्तं कार्ये निवेद्य अंकावसाने दुष्यन्तः शक्रसमीपं नीतः । सप्तमांकादौ प्रकृतकार्यसिद्धिश्चोक्ता । अनुष्ठितनिदेशोऽपीत्यादिना । अनुष्ठितनिदेशोऽपि कृतशासनोऽपि नियोज्यपुरुषेऽपीतेि यावत् ।<noinclude></noinclude> 9ypqcyyx9x43qlk5lp93fce3xbe48me पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१३ 104 68082 417834 154568 2026-07-16T09:16:20Z Swaminathan sitapathi 4227 /* शोधितम् */ 417834 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=( ४०० )|center=अभिज्ञानशाकुन्तलम् ।|right=[ सप्तमः}}</noinclude> :'''मातलिः'''--( सस्मितम् ) आयुष्मन्, उभयमप्यपरितोषं समर्थये । :'''प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लधु मन्यते भवान् ।''' :'''गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥१॥''' {{rule}} सत्क्रियाविशेषात्सम्मानाधिक्यात् । अनुपयुक्तमिवोपयोगरहितमित्रार्थादिन्द्रं प्रति । यन्मया कार्ये कृतं तदिन्द्रसंमाननायाः सहस्रांशाभिति ( शेनापि ) तुलयितुं न क्षममिति सूक्ष्मालंकारः । एतेनेन्द्रस्य प्रत्युपकारशीलत्वं विनययुक्तत्वं गुणग्राहित्वं चात्मनस्तु परमशौर्यशालित्वमिन्द्रेण तथापूजितस्वादयन्तसौभाग्यास्पदत्वं च व्यज्यते । उभयं भवदुपकृतमेिन्द्रसत्कृतं च । त्वं स्वात्मोपकृतमेव तथा समर्थयसे । अहं पुनरुभयमपि न विद्यते परितोषो यत्रथंकनस्तदपरितोषं समर्थये । इन्द्रस्तु त्वत्कमधिकं मन्यते, त्वं त्विन्द्रकृतां पूजामधिकां मन्यस इति भावः । तदेव दर्शयाते--प्रथमेति । भवान्मरुत्वत इन्द्रस्य प्रतिपत्त्या गौरवेण पश्चात्कृतेन प्रथममुपकृतं लघु स्वल्पं मन्यते । भवतोऽवदानेन शुद्धकर्मणा विस्मितः । ‘अवदानं शुद्धकर्म' इत्यमरः । सोऽपीन्द्रः सत्क्रिया स्वकृतसंमानना तस्यां गुणानादरातिशयादींनथवा तया गुणान्स्वास्मिन्विनयाजवादीन्न गणयति । तव कर्म स्मृत्वा मया तस्य संमानना कृतेते चैतस्यापि तस्य नायातत्यर्थः । बहुवचनेन संमाननाधिक्यै ध्वन्यते । क्रिया चेत्कथं गुणा इति विरोधाभासो व्यङ्गयः शब्दशक्तिमूलः । त्वदानस्मरणेनाभंव्यक्तावस्मयस्ते विगलितवेद्यतरत्वेन किमपि न स्मरतीति भावः । तेन “ उदात्तवस्तुना संपत् इत्युदात्तालंकारः । हेतुश्चास्यनुप्रासौ । उपमेयोपमा व्यङ्गया । परस्परं क्रियाजननादन्योन्यमापि । अत्र च साक्रियालक्षणे कारणे सत्यपि यद्णनळ्क्षणकार्यानुत्पात्तिः सा विशेषोक्तिः। अथ च गणनाभावलक्षणकार्योत्पत्तौ कारणाभावाद्वि {{rule}} भगवतो देवेन्द्रस्य उभयोरप्यपरितपः । भवानिन्दश्चोभावप्यन्योन्यमपारितुष्यै । प्रथमोपकृतमेत्यादि । प्रथभोपकृतं राक्षसजयरूपं पूर्वोपकारम् । मरुत्वतः प्रतिपस्या देवेन्द्रविषयकभया लघु अत्यल्पम् । सोऽपि देवेन्द्रोऽपि । भवतः अपदानविस्मितः कृतपौरुषविस्मितः। सत्क्रियागुणान् संभावनाविशेषान् न गणयति प्रत्युपकारं न विचारयति वर्तमानध्यपदेशेन देवेन्द्रस्वद्यपि सानुशय एव तिष्ठतीति व्यज्यते । {{rule}} {{c|१ <ref>उभयोः इति क० पु• पाठः ।</ref> २ <ref>अपदान इति क० पु० पाठः ।</ref>}}<noinclude></noinclude> 7qu0avkb6tte2dom3qs7deqt33urbzq 417836 417834 2026-07-16T09:18:02Z Swaminathan sitapathi 4227 417836 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=( ४०० )|center=अभिज्ञानशाकुन्तलम् ।|right=[ सप्तमः}}</noinclude> :'''मातलिः'''--( सस्मितम् ) आयुष्मन्, उ<ref>उभयोः इति क० पु० पाठः ।</ref>भयमप्यपरितोषं समर्थये । :'''प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लधु मन्यते भवान् ।''' :'''गणयत्य<ref>अपदान इति क० पु० पाठः ।वदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥१॥''' {{rule}} सत्क्रियाविशेषात्सम्मानाधिक्यात् । अनुपयुक्तमिवोपयोगरहितमित्रार्थादिन्द्रं प्रति । यन्मया कार्ये कृतं तदिन्द्रसंमाननायाः सहस्रांशाभिति ( शेनापि ) तुलयितुं न क्षममिति सूक्ष्मालंकारः । एतेनेन्द्रस्य प्रत्युपकारशीलत्वं विनययुक्तत्वं गुणग्राहित्वं चात्मनस्तु परमशौर्यशालित्वमिन्द्रेण तथापूजितस्वादयन्तसौभाग्यास्पदत्वं च व्यज्यते । उभयं भवदुपकृतमेिन्द्रसत्कृतं च । त्वं स्वात्मोपकृतमेव तथा समर्थयसे । अहं पुनरुभयमपि न विद्यते परितोषो यत्रथंकनस्तदपरितोषं समर्थये । इन्द्रस्तु त्वत्कमधिकं मन्यते, त्वं त्विन्द्रकृतां पूजामधिकां मन्यस इति भावः । तदेव दर्शयाते--प्रथमेति । भवान्मरुत्वत इन्द्रस्य प्रतिपत्त्या गौरवेण पश्चात्कृतेन प्रथममुपकृतं लघु स्वल्पं मन्यते । भवतोऽवदानेन शुद्धकर्मणा विस्मितः । ‘अवदानं शुद्धकर्म' इत्यमरः । सोऽपीन्द्रः सत्क्रिया स्वकृतसंमानना तस्यां गुणानादरातिशयादींनथवा तया गुणान्स्वास्मिन्विनयाजवादीन्न गणयति । तव कर्म स्मृत्वा मया तस्य संमानना कृतेते चैतस्यापि तस्य नायातत्यर्थः । बहुवचनेन संमाननाधिक्यै ध्वन्यते । क्रिया चेत्कथं गुणा इति विरोधाभासो व्यङ्गयः शब्दशक्तिमूलः । त्वदानस्मरणेनाभंव्यक्तावस्मयस्ते विगलितवेद्यतरत्वेन किमपि न स्मरतीति भावः । तेन “ उदात्तवस्तुना संपत् इत्युदात्तालंकारः । हेतुश्चास्यनुप्रासौ । उपमेयोपमा व्यङ्गया । परस्परं क्रियाजननादन्योन्यमापि । अत्र च साक्रियालक्षणे कारणे सत्यपि यद्णनळ्क्षणकार्यानुत्पात्तिः सा विशेषोक्तिः। अथ च गणनाभावलक्षणकार्योत्पत्तौ कारणाभावाद्वि {{rule}} भगवतो देवेन्द्रस्य उभयोरप्यपरितपः । भवानिन्दश्चोभावप्यन्योन्यमपारितुष्यै । प्रथमोपकृतमेत्यादि । प्रथभोपकृतं राक्षसजयरूपं पूर्वोपकारम् । मरुत्वतः प्रतिपस्या देवेन्द्रविषयकभया लघु अत्यल्पम् । सोऽपि देवेन्द्रोऽपि । भवतः अपदानविस्मितः कृतपौरुषविस्मितः। सत्क्रियागुणान् संभावनाविशेषान् न गणयति प्रत्युपकारं न विचारयति वर्तमानध्यपदेशेन देवेन्द्रस्वद्यपि सानुशय एव तिष्ठतीति व्यज्यते । {{rule}}<noinclude></noinclude> 8r9n2n9weqr56tu8kx3f1ci3v6jlegh 417837 417836 2026-07-16T09:19:28Z Swaminathan sitapathi 4227 417837 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=( ४०० )|center=अभिज्ञानशाकुन्तलम् ।|right=[ सप्तमः}}</noinclude> :'''मातलिः'''--( सस्मितम् ) आयुष्मन्, उ<ref>उभयोः इति क० पु० पाठः ।</ref>भयमप्यपरितोषं समर्थये । ''' :'''प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लधु मन्यते भवान् ।''' :'''गणयत्य<ref>अपदान इति क० पु० पाठः ।</ref>वदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥१॥''' {{rule}} सत्क्रियाविशेषात्सम्मानाधिक्यात् । अनुपयुक्तमिवोपयोगरहितमित्रार्थादिन्द्रं प्रति । यन्मया कार्ये कृतं तदिन्द्रसंमाननायाः सहस्रांशाभिति ( शेनापि ) तुलयितुं न क्षममिति सूक्ष्मालंकारः । एतेनेन्द्रस्य प्रत्युपकारशीलत्वं विनययुक्तत्वं गुणग्राहित्वं चात्मनस्तु परमशौर्यशालित्वमिन्द्रेण तथापूजितस्वादयन्तसौभाग्यास्पदत्वं च व्यज्यते । उभयं भवदुपकृतमेिन्द्रसत्कृतं च । त्वं स्वात्मोपकृतमेव तथा समर्थयसे । अहं पुनरुभयमपि न विद्यते परितोषो यत्रथंकनस्तदपरितोषं समर्थये । इन्द्रस्तु त्वत्कमधिकं मन्यते, त्वं त्विन्द्रकृतां पूजामधिकां मन्यस इति भावः । तदेव दर्शयाते--प्रथमेति । भवान्मरुत्वत इन्द्रस्य प्रतिपत्त्या गौरवेण पश्चात्कृतेन प्रथममुपकृतं लघु स्वल्पं मन्यते । भवतोऽवदानेन शुद्धकर्मणा विस्मितः । ‘अवदानं शुद्धकर्म' इत्यमरः । सोऽपीन्द्रः सत्क्रिया स्वकृतसंमानना तस्यां गुणानादरातिशयादींनथवा तया गुणान्स्वास्मिन्विनयाजवादीन्न गणयति । तव कर्म स्मृत्वा मया तस्य संमानना कृतेते चैतस्यापि तस्य नायातत्यर्थः । बहुवचनेन संमाननाधिक्यै ध्वन्यते । क्रिया चेत्कथं गुणा इति विरोधाभासो व्यङ्गयः शब्दशक्तिमूलः । त्वदानस्मरणेनाभंव्यक्तावस्मयस्ते विगलितवेद्यतरत्वेन किमपि न स्मरतीति भावः । तेन “ उदात्तवस्तुना संपत् इत्युदात्तालंकारः । हेतुश्चास्यनुप्रासौ । उपमेयोपमा व्यङ्गया । परस्परं क्रियाजननादन्योन्यमापि । अत्र च साक्रियालक्षणे कारणे सत्यपि यद्णनळ्क्षणकार्यानुत्पात्तिः सा विशेषोक्तिः। अथ च गणनाभावलक्षणकार्योत्पत्तौ कारणाभावाद्वि {{rule}} भगवतो देवेन्द्रस्य उभयोरप्यपरितपः । भवानिन्दश्चोभावप्यन्योन्यमपारितुष्यै । प्रथमोपकृतमेत्यादि । प्रथभोपकृतं राक्षसजयरूपं पूर्वोपकारम् । मरुत्वतः प्रतिपस्या देवेन्द्रविषयकभया लघु अत्यल्पम् । सोऽपि देवेन्द्रोऽपि । भवतः अपदानविस्मितः कृतपौरुषविस्मितः। सत्क्रियागुणान् संभावनाविशेषान् न गणयति प्रत्युपकारं न विचारयति वर्तमानध्यपदेशेन देवेन्द्रस्वद्यपि सानुशय एव तिष्ठतीति व्यज्यते । {{rule}}<noinclude></noinclude> 2kb6hsrqapppqpl618g26el5vcdkpha 417838 417837 2026-07-16T09:20:31Z Swaminathan sitapathi 4227 417838 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=( ४०० )|center=अभिज्ञानशाकुन्तलम् ।|right=[ सप्तमः}}</noinclude> :'''मातलिः--( सस्मितम् ) आयुष्मन्, उ<ref>उभयोः इति क० पु० पाठः ।</ref>भयमप्यपरितोषं समर्थये । ''' :'''प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लधु मन्यते भवान् ।''' :'''गणयत्य<ref>अपदान इति क० पु० पाठः ।</ref>वदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥१॥''' {{rule}} सत्क्रियाविशेषात्सम्मानाधिक्यात् । अनुपयुक्तमिवोपयोगरहितमित्रार्थादिन्द्रं प्रति । यन्मया कार्ये कृतं तदिन्द्रसंमाननायाः सहस्रांशाभिति ( शेनापि ) तुलयितुं न क्षममिति सूक्ष्मालंकारः । एतेनेन्द्रस्य प्रत्युपकारशीलत्वं विनययुक्तत्वं गुणग्राहित्वं चात्मनस्तु परमशौर्यशालित्वमिन्द्रेण तथापूजितस्वादयन्तसौभाग्यास्पदत्वं च व्यज्यते । उभयं भवदुपकृतमेिन्द्रसत्कृतं च । त्वं स्वात्मोपकृतमेव तथा समर्थयसे । अहं पुनरुभयमपि न विद्यते परितोषो यत्रथंकनस्तदपरितोषं समर्थये । इन्द्रस्तु त्वत्कमधिकं मन्यते, त्वं त्विन्द्रकृतां पूजामधिकां मन्यस इति भावः । तदेव दर्शयाते--प्रथमेति । भवान्मरुत्वत इन्द्रस्य प्रतिपत्त्या गौरवेण पश्चात्कृतेन प्रथममुपकृतं लघु स्वल्पं मन्यते । भवतोऽवदानेन शुद्धकर्मणा विस्मितः । ‘अवदानं शुद्धकर्म' इत्यमरः । सोऽपीन्द्रः सत्क्रिया स्वकृतसंमानना तस्यां गुणानादरातिशयादींनथवा तया गुणान्स्वास्मिन्विनयाजवादीन्न गणयति । तव कर्म स्मृत्वा मया तस्य संमानना कृतेते चैतस्यापि तस्य नायातत्यर्थः । बहुवचनेन संमाननाधिक्यै ध्वन्यते । क्रिया चेत्कथं गुणा इति विरोधाभासो व्यङ्गयः शब्दशक्तिमूलः । त्वदानस्मरणेनाभंव्यक्तावस्मयस्ते विगलितवेद्यतरत्वेन किमपि न स्मरतीति भावः । तेन “ उदात्तवस्तुना संपत् इत्युदात्तालंकारः । हेतुश्चास्यनुप्रासौ । उपमेयोपमा व्यङ्गया । परस्परं क्रियाजननादन्योन्यमापि । अत्र च साक्रियालक्षणे कारणे सत्यपि यद्णनळ्क्षणकार्यानुत्पात्तिः सा विशेषोक्तिः। अथ च गणनाभावलक्षणकार्योत्पत्तौ कारणाभावाद्वि {{rule}} भगवतो देवेन्द्रस्य उभयोरप्यपरितपः । भवानिन्दश्चोभावप्यन्योन्यमपारितुष्यै । प्रथमोपकृतमेत्यादि । प्रथभोपकृतं राक्षसजयरूपं पूर्वोपकारम् । मरुत्वतः प्रतिपस्या देवेन्द्रविषयकभया लघु अत्यल्पम् । सोऽपि देवेन्द्रोऽपि । भवतः अपदानविस्मितः कृतपौरुषविस्मितः। सत्क्रियागुणान् संभावनाविशेषान् न गणयति प्रत्युपकारं न विचारयति वर्तमानध्यपदेशेन देवेन्द्रस्वद्यपि सानुशय एव तिष्ठतीति व्यज्यते । {{rule}}<noinclude></noinclude> nxfsqcyzabmm50m6vkz0rkswbdpa33a पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४६१ 104 68141 417815 417769 2026-07-16T06:09:32Z Swaminathan sitapathi 4227 417815 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी० |right=…. …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०|right=….{{gap}} …. {{gap}}०-३}} ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७ कलिविडम्बन (यूटीसहित ,.. ०-४ कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- चमगादवध पञ्(*४ ईदखाय हैं १-४ किरातार्जुनीयऽथ सटीक ग्लूज २-० तथा 5 --> कुमारसंभव सटीक १-४ कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ गीतगोविन्द संस्कृतीक और भाषाका ... १६ गोतगोविन्दमूल घटकर्परकाव्य भाषटका ०२ * = १ दशकुमारचरित्र सटीक १--८ प्रेमलतिका भाषाटीका ०२ दैवस्तवः संस्कृतटोका भाषाटकासमेत भामिनीविलास मूल ०-४ भामिनीविलास भाषाढका.... .... .... १ भग्नवध भाषट् .... १-४ भोजप्रबंध केवल भाषा ग्लेज कागज ०-८ भोजप्रबंध् मूलमात्र ... ... ..... ०-६ पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.<noinclude></noinclude> 5g3morpxy36qzjzpwalieswnulb3l3v 417816 417815 2026-07-16T06:11:53Z Swaminathan sitapathi 4227 417816 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी० |right=…. …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०….{{gap}}….{{gap}} …. {{gap}}|right=०-३}} ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७ कलिविडम्बन (यूटीसहित ,.. ०-४ कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- चमगादवध पञ्(*४ ईदखाय हैं १-४ किरातार्जुनीयऽथ सटीक ग्लूज २-० तथा 5 --> कुमारसंभव सटीक १-४ कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ गीतगोविन्द संस्कृतीक और भाषाका ... १६ गोतगोविन्दमूल घटकर्परकाव्य भाषटका ०२ * = १ दशकुमारचरित्र सटीक १--८ प्रेमलतिका भाषाटीका ०२ दैवस्तवः संस्कृतटोका भाषाटकासमेत भामिनीविलास मूल ०-४ भामिनीविलास भाषाढका.... .... .... १ भग्नवध भाषट् .... १-४ भोजप्रबंध केवल भाषा ग्लेज कागज ०-८ भोजप्रबंध् मूलमात्र ... ... ..... ०-६ पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.<noinclude></noinclude> g96izy20y1kjm9oxmybmiqo189daq4x 417817 417816 2026-07-16T06:13:37Z Swaminathan sitapathi 4227 417817 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी० |right=…. …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}….{{gap}}….{{gap}} …. {{gap}}|right=०-३}} ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७ कलिविडम्बन (यूटीसहित ,.. ०-४ कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- चमगादवध पञ्(*४ ईदखाय हैं १-४ किरातार्जुनीयऽथ सटीक ग्लूज २-० तथा 5 --> कुमारसंभव सटीक १-४ कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ गीतगोविन्द संस्कृतीक और भाषाका ... १६ गोतगोविन्दमूल घटकर्परकाव्य भाषटका ०२ * = १ दशकुमारचरित्र सटीक १--८ प्रेमलतिका भाषाटीका ०२ दैवस्तवः संस्कृतटोका भाषाटकासमेत भामिनीविलास मूल ०-४ भामिनीविलास भाषाढका.... .... .... १ भग्नवध भाषट् .... १-४ भोजप्रबंध केवल भाषा ग्लेज कागज ०-८ भोजप्रबंध् मूलमात्र ... ... ..... ०-६ पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.<noinclude></noinclude> eh2y0sxt4o24wlymnhc9rpq9y6ppji1 417818 417817 2026-07-16T06:14:04Z Swaminathan sitapathi 4227 417818 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी० |right=…. …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} …. {{gap}}|right=०-३}} ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७ कलिविडम्बन (यूटीसहित ,.. ०-४ कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- चमगादवध पञ्(*४ ईदखाय हैं १-४ किरातार्जुनीयऽथ सटीक ग्लूज २-० तथा 5 --> कुमारसंभव सटीक १-४ कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ गीतगोविन्द संस्कृतीक और भाषाका ... १६ गोतगोविन्दमूल घटकर्परकाव्य भाषटका ०२ * = १ दशकुमारचरित्र सटीक १--८ प्रेमलतिका भाषाटीका ०२ दैवस्तवः संस्कृतटोका भाषाटकासमेत भामिनीविलास मूल ०-४ भामिनीविलास भाषाढका.... .... .... १ भग्नवध भाषट् .... १-४ भोजप्रबंध केवल भाषा ग्लेज कागज ०-८ भोजप्रबंध् मूलमात्र ... ... ..... ०-६ पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.<noinclude></noinclude> g8xuj2rzw79bjoogy6sw7hr0fuq7dlm 417819 417818 2026-07-16T06:15:58Z Swaminathan sitapathi 4227 417819 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} …. {{gap}}|right=०-३}} ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७ कलिविडम्बन (यूटीसहित ,.. ०-४ कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- चमगादवध पञ्(*४ ईदखाय हैं १-४ किरातार्जुनीयऽथ सटीक ग्लूज २-० तथा 5 --> कुमारसंभव सटीक १-४ कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ गीतगोविन्द संस्कृतीक और भाषाका ... १६ गोतगोविन्दमूल घटकर्परकाव्य भाषटका ०२ * = १ दशकुमारचरित्र सटीक १--८ प्रेमलतिका भाषाटीका ०२ दैवस्तवः संस्कृतटोका भाषाटकासमेत भामिनीविलास मूल ०-४ भामिनीविलास भाषाढका.... .... .... १ भग्नवध भाषट् .... १-४ भोजप्रबंध केवल भाषा ग्लेज कागज ०-८ भोजप्रबंध् मूलमात्र ... ... ..... ०-६ पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.<noinclude></noinclude> cw5lec26myomy3rlvibkjfnw62s5cfw 417820 417819 2026-07-16T06:16:39Z Swaminathan sitapathi 4227 417820 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७ कलिविडम्बन (यूटीसहित ,.. ०-४ कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- चमगादवध पञ्(*४ ईदखाय हैं १-४ किरातार्जुनीयऽथ सटीक ग्लूज २-० तथा 5 --> कुमारसंभव सटीक १-४ कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ गीतगोविन्द संस्कृतीक और भाषाका ... १६ गोतगोविन्दमूल घटकर्परकाव्य भाषटका ०२ * = १ दशकुमारचरित्र सटीक १--८ प्रेमलतिका भाषाटीका ०२ दैवस्तवः संस्कृतटोका भाषाटकासमेत भामिनीविलास मूल ०-४ भामिनीविलास भाषाढका.... .... .... १ भग्नवध भाषट् .... १-४ भोजप्रबंध केवल भाषा ग्लेज कागज ०-८ भोजप्रबंध् मूलमात्र ... ... ..... ०-६ पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.<noinclude></noinclude> rtwquojb8x83kj117c73m5li9agbncd 417821 417820 2026-07-16T06:43:34Z Swaminathan sitapathi 4227 417821 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-३}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- {{rh|left= {{gap}}चमगादवध पञ्(*४ ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा 5 --> कुमारसंभव सटीक १-४ कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ गीतगोविन्द संस्कृतीक और भाषाका ... १६ गोतगोविन्दमूल घटकर्परकाव्य भाषटका ०२ * = १ दशकुमारचरित्र सटीक १--८ प्रेमलतिका भाषाटीका ०२ दैवस्तवः संस्कृतटोका भाषाटकासमेत भामिनीविलास मूल ०-४ भामिनीविलास भाषाढका.... .... .... १ भग्नवध भाषट् .... १-४ भोजप्रबंध केवल भाषा ग्लेज कागज ०-८ भोजप्रबंध् मूलमात्र ... ... ..... ०-६ पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.<noinclude></noinclude> eg0wggsohdp63d7qn1orxwocyqoq6ha 417822 417821 2026-07-16T06:52:07Z Swaminathan sitapathi 4227 417822 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८ {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap} |right= ,.. १-४ कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ गीतगोविन्द संस्कृतीक और भाषाका ... १६ गोतगोविन्दमूल घटकर्परकाव्य भाषटका ०२ * = १ दशकुमारचरित्र सटीक १--८ प्रेमलतिका भाषाटीका ०२ दैवस्तवः संस्कृतटोका भाषाटकासमेत भामिनीविलास मूल ०-४ भामिनीविलास भाषाढका.... .... .... १ भग्नवध भाषट् .... १-४ भोजप्रबंध केवल भाषा ग्लेज कागज ०-८ भोजप्रबंध् मूलमात्र ... ... ..... ०-६ पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.<noinclude></noinclude> hd5jtv1q2nq13qi3btuv2d8utvy94n1 417823 417822 2026-07-16T06:53:18Z Swaminathan sitapathi 4227 417823 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap} |right= ,.. १-४}} कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ गीतगोविन्द संस्कृतीक और भाषाका ... १६ गोतगोविन्दमूल घटकर्परकाव्य भाषटका ०२ * = १ दशकुमारचरित्र सटीक १--८ प्रेमलतिका भाषाटीका ०२ दैवस्तवः संस्कृतटोका भाषाटकासमेत भामिनीविलास मूल ०-४ भामिनीविलास भाषाढका.... .... .... १ भग्नवध भाषट् .... १-४ भोजप्रबंध केवल भाषा ग्लेज कागज ०-८ भोजप्रबंध् मूलमात्र ... ... ..... ०-६ पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.<noinclude></noinclude> nwrt3vhaldtxk1t335caqv5df8k8aat 417824 417823 2026-07-16T06:54:44Z Swaminathan sitapathi 4227 417824 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-४}} कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ गीतगोविन्द संस्कृतीक और भाषाका ... १६ गोतगोविन्दमूल घटकर्परकाव्य भाषटका ०२ * = १ दशकुमारचरित्र सटीक १--८ प्रेमलतिका भाषाटीका ०२ दैवस्तवः संस्कृतटोका भाषाटकासमेत भामिनीविलास मूल ०-४ भामिनीविलास भाषाढका.... .... .... १ भग्नवध भाषट् .... १-४ भोजप्रबंध केवल भाषा ग्लेज कागज ०-८ भोजप्रबंध् मूलमात्र ... ... ..... ०-६ पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.<noinclude></noinclude> 8k6gjkzhi1fzlwx3w6dexdokshrtnz5 417825 417824 2026-07-16T07:10:23Z Swaminathan sitapathi 4227 417825 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left=कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] ([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४ {{rh|left=गीतगोविन्द संस्कृतीक और भाषाका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=गोतगोविन्दमूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=घटकर्परकाव्य भाषटका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. * = १ {{rh|left=दशकुमारचरित्र सटीक ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१--८}} {{rh|left=प्रेमलतिका भाषाटीका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=दैवस्तवः संस्कृतटोका भाषाटकासमेत ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=भामिनीविलास मूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास भाषाढका.... .... .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. १}} {{rh|left=भग्नवध भाषट् .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-४}} {{rh|left=भोजप्रबंध केवल भाषा ग्लेज कागज ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. ०-८}} {{rh|left=भोजप्रबंध् मूलमात्र ... ... ..... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-६}} {{rule|10em}} <poem>पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.</poem><noinclude></noinclude> 95e5inq710k3w1qlns9oq431mihc9wk 417826 417825 2026-07-16T07:21:55Z Swaminathan sitapathi 4227 417826 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left=कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] }}([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४}} {{rh|left=गीतगोविन्द संस्कृतीक और भाषाका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=गोतगोविन्दमूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=घटकर्परकाव्य भाषटका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=दशकुमारचरित्र सटीक ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१--८}} {{rh|left=प्रेमलतिका भाषाटीका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=दैवस्तवः संस्कृतटोका भाषाटकासमेत ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=भामिनीविलास मूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास भाषाढका.... .... .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. १}} {{rh|left=भग्नवध भाषट् .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-४}} {{rh|left=भोजप्रबंध केवल भाषा ग्लेज कागज ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. ०-८}} {{rh|left=भोजप्रबंध् मूलमात्र ... ... ..... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-६}} {{rule|10em}} <poem>पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.</poem><noinclude></noinclude> gup2wx2okzy93x31busdk6ay1mqa4h0 417827 417826 2026-07-16T07:23:41Z Swaminathan sitapathi 4227 417827 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left=कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] }}([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४}} {{rh|left=गीतगोविन्द संस्कृतीक और भाषाका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=गोतगोविन्दमूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=घटकर्परकाव्य भाषटका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=दशकुमारचरित्र सटीक ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१--८}} {{rh|left=प्रेमलतिका भाषाटीका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=दैवस्तवः संस्कृतटोका भाषाटकासमेत ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=भामिनीविलास मूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास भाषाढका.... .... .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. १}} {{rh|left=भग्नवध भाषट् .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-४}} {{rh|left=भोजप्रबंध केवल भाषा ग्लेज कागज ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. ०-८}} {{rh|left=भोजप्रबंध् मूलमात्र ... ... ..... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-६}} {{rule|10em}} <poem>{{bold|पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.}}</poem><noinclude></noinclude> 8b8qwj1vmz2d1mffiiy8tbj3495man9 417828 417827 2026-07-16T07:24:24Z Swaminathan sitapathi 4227 417828 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left=कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] }}([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४}} {{rh|left=गीतगोविन्द संस्कृतीक और भाषाका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=गोतगोविन्दमूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=घटकर्परकाव्य भाषटका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=दशकुमारचरित्र सटीक ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१--८}} {{rh|left=प्रेमलतिका भाषाटीका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=दैवस्तवः संस्कृतटोका भाषाटकासमेत ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=भामिनीविलास मूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास भाषाढका.... .... .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. १}} {{rh|left=भग्नवध भाषट् .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-४}} {{rh|left=भोजप्रबंध केवल भाषा ग्लेज कागज ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. ०-८}} {{rh|left=भोजप्रबंध् मूलमात्र ... ... ..... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-६}} {{rule|10em}} {{center|<poem>{{bold|पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.}}</poem>}} {{center|<poem></poem>}}<noinclude></noinclude> ep3tqqhnf1sihwp964odanb35fjde17 417829 417828 2026-07-16T07:24:54Z Swaminathan sitapathi 4227 417829 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=कायमंजरी (पदुअनासकृत पुस्तक अवश्य देखने {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र- {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left=कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] }}([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४}} {{rh|left=गीतगोविन्द संस्कृतीक और भाषाका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=गोतगोविन्दमूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=घटकर्परकाव्य भाषटका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=दशकुमारचरित्र सटीक ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१--८}} {{rh|left=प्रेमलतिका भाषाटीका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=दैवस्तवः संस्कृतटोका भाषाटकासमेत ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=भामिनीविलास मूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास भाषाढका.... .... .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. १}} {{rh|left=भग्नवध भाषट् .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-४}} {{rh|left=भोजप्रबंध केवल भाषा ग्लेज कागज ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. ०-८}} {{rh|left=भोजप्रबंध् मूलमात्र ... ... ..... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-६}} {{rule|10em}} {{center|<poem>{{bold|पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.}}</poem>}} {{center|<poem></poem>}}<noinclude></noinclude> 41bdoxkvi2f8sbm4pquczxhh8e486dq 417830 417829 2026-07-16T07:27:09Z Swaminathan sitapathi 4227 417830 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chandashwini K.G" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=काव्यमंजरी (पदुअनासकृत पुस्तक अवश्य देखने}} {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र-}} {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left=कृष्णकमृत् -- [[सदस्यः:Chandashwini K.G|Chandashwini K.G]] }}([[सदस्यसम्भाषणम्:Chandashwini K.G|सम्भाषणम्]]) ११:१४, २५ जुलाई २०१८ (UTC) ०-४}} {{rh|left=गीतगोविन्द संस्कृतीक और भाषाका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=गोतगोविन्दमूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=घटकर्परकाव्य भाषटका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=दशकुमारचरित्र सटीक ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१--८}} {{rh|left=प्रेमलतिका भाषाटीका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०२}} {{rh|left=दैवस्तवः संस्कृतटोका भाषाटकासमेत ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..}} {{rh|left=भामिनीविलास मूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास भाषाढका.... .... .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. १}} {{rh|left=भग्नवध भाषट् .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-४}} {{rh|left=भोजप्रबंध केवल भाषा ग्लेज कागज ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. ०-८}} {{rh|left=भोजप्रबंध् मूलमात्र ... ... ..... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-६}} {{rule|10em}} {{center|<poem>{{bold|पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.}}</poem>}} {{center|<poem></poem>}}<noinclude></noinclude> c71f339u7qps30c7dvz23p0vwgkoyh4 417831 417830 2026-07-16T07:38:05Z Swaminathan sitapathi 4227 /* शोधितम् */ 417831 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=काव्यमंजरी (पदुअनासकृत पुस्तक अवश्य देखने}} {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र-}} {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left=कृष्णकर्णामृत् {{gap}}…..{{gap}}…..{{gap}} |right=०-४}} {{rh|left=गीतगोविन्द संस्कृतीक और भाषाका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-०}} {{rh|left=गोतगोविन्दमूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.०-२}} {{rh|left=घटकर्परकाव्य भाषटका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.०-२}} {{rh|left=दशकुमारचरित्र सटीक ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१--८}} {{rh|left=प्रेमलतिका भाषाटीका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-२}} {{rh|left=देवस्तवः संस्कृतटोका भाषाटकासमेत ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास मूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास भाषाढका.... .... .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-०}} {{rh|left=भग्नवध भाषटीका .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-४}} {{rh|left=भोजप्रबंध केवल भाषा ग्लेज कागज ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. ०-८}} {{rh|left=भोजप्रबंध् मूलमात्र ... ... ..... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-६}} {{rule|10em}} {{center|<poem>{{bold|पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, ॐ लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.}}</poem>}} {{center|<poem></poem>}}<noinclude></noinclude> 4r37a3q9iw6hh9h5i41gk2u8paymzeu 417832 417831 2026-07-16T07:39:24Z Swaminathan sitapathi 4227 417832 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=काव्यमंजरी (पदुअनासकृत पुस्तक अवश्य देखने}} {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र-}} {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left=कृष्णकर्णामृत् {{gap}}…..{{gap}}…..{{gap}} |right=०-४}} {{rh|left=गीतगोविन्द संस्कृतीक और भाषाका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-०}} {{rh|left=गोतगोविन्दमूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.०-२}} {{rh|left=घटकर्परकाव्य भाषटका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.०-२}} {{rh|left=दशकुमारचरित्र सटीक ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१--८}} {{rh|left=प्रेमलतिका भाषाटीका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-२}} {{rh|left=देवस्तवः संस्कृतटोका भाषाटकासमेत ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास मूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास भाषाढका.... .... .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-०}} {{rh|left=भग्नवध भाषटीका .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-४}} {{rh|left=भोजप्रबंध केवल भाषा ग्लेज कागज ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. ०-८}} {{rh|left=भोजप्रबंध् मूलमात्र ... ... ..... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-६}} {{rule|10em}} {{center|<poem>{{bold|पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, "लक्ष्मीवेङ्कटेश्वर" छापाखाना, कल्याण-मुंबई.}}</poem>}} {{center|<poem></poem>}}<noinclude></noinclude> 4sqia9zr17k493qcokvmz1w73dv6srb 417833 417832 2026-07-16T08:42:57Z Swaminathan sitapathi 4227 417833 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>{{center|जमदृशत.}} {{rh|center=नाम्|right=की.रु.आ}} {{rh|left=अमरुशतकं श्ंकगचार्यकृत भा० टी०{{gap}}…..{{gap}} |right= …. ०-१०}} {{rh|left=अश्वधटो काव्य भ० टी०{{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….०-३}} {{rh|left=ऋतुसंहार काव्य भषटके और स्कूटीसह ... ०८७|right=….०-७}} {{rh|left=कलिविडम्बन (यूटीसहित {{gap}}…..{{gap}} |right= ,.. ०-४}} {{rh|left=काव्यमंजरी (पदुअनासकृत पुस्तक अवश्य देखने}} {{rh|left= {{gap}}योग्य है जिसमें कमलबंध, मेरुवंध, असंबन्ध, छत्र-}} {{rh|left= {{gap}}चमगादवध पञ्( ईदखाय हैं {{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left= किरातार्जुनीयऽथ सटीक ग्लूज {{gap}}{{gap}}….{{gap}}….{{gap}} {{gap}}|right=….२-०}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}" {{gap}}…..{{gap}}…. {{gap}}…..{{gap}} |right= ,.. |right= ,..तथा रफ {{gap}}…..{{gap}} |right= ,..१-८}} {{rh|left=कुमारसंभव सटीक {{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-४}} {{rh|left=कृष्णकर्णामृत् {{gap}}…..{{gap}}…..{{gap}} |right=०-४}} {{rh|left=गीतगोविन्द संस्कृतीक और भाषाका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-०}} {{rh|left=गीतगोविन्दमूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.०-२}} {{rh|left=घटकर्परकाव्य भाषटीका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.०-२}} {{rh|left=दशकुमारचरित्र सटीक ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१--८}} {{rh|left=प्रेमलतिका भाषाटीका ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-२}} {{rh|left=देवस्तवः संस्कृतटोका भाषाटकासमेत ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास मूल ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-४}} {{rh|left=भामिनीविलास भाषाटीका.... .... .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. १-०}} {{rh|left=भाजप्रवध भाषटीका .... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..१-४}} {{rh|left=भोजप्रबंध केवल भाषा ग्लेज कागज ...{{gap}}…..{{gap}}…..{{gap}} |right= ,.. ०-८}} {{rh|left=भोजप्रबंध् मूलमात्र ... ... ..... ...{{gap}}…..{{gap}}…..{{gap}} |right= ,..०-६}} {{rule|10em}} {{center|<poem>{{bold|पुस्तकें मिलानेका ठिकाना-गंगाविष्णु श्रीकृष्णदास, "लक्ष्मीवेङ्कटेश्वर" छापाखाना, कल्याण-मुंबई.}}</poem>}} {{center|<poem></poem>}}<noinclude></noinclude> e33f2k5q6t38yonvbb8scgxudywlheb सिद्धान्तलेशसङ्ग्रहटीका - भागः १ 0 165514 417835 2026-07-16T09:17:52Z Shubha 190 {{header | title = सिद्धान्तलेशसङ्ग्रहटीका - भागः १ | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> प्. १अ) ओं श्रीमहागणपतये नमः | श्रीरामचंद्राय नमः | श्रीकृष्णाय नमः | स... नवीन पृष्ठं निर्मीत अस्ती 417835 wikitext text/x-wiki {{header | title = सिद्धान्तलेशसङ्ग्रहटीका - भागः १ | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> प्. १अ) ओं श्रीमहागणपतये नमः | श्रीरामचंद्राय नमः | श्रीकृष्णाय नमः | सरस्वत्यै नमः | श्रीदक्षिणमूर्तिगुरवे नमः | ओं वेदवेद्यमुमाकांतं क्रमाराभ्यामलंकृतं | नंदीश प्रमुखैस्सेव्यं प्रणमामीष्टसिद्धये || १ || शंकरं शंकराचार्यं व्यासं नारायणात्मकं | सरस्वतीं च ब्रह्माणं प्रणमामि पुनः पुनः || २ || गोविन्देति समाक्रंद्य रक्षां प्राप भयातुरः | यं गजः करुणामूर्तिं तं गोविंदभजेन्वहं || ३ || आपन्नायं समाश्रित्य रक्षां प्राप सुदुर्लभां | कृष्णाकृष्णस्य महिषी तं कृष्णं संश्रयेन्वहं || ४ || प्रकाशित ब्रह्मतत्वं प्रकृष्टगुणशालिनं | प्रणवस्योपदेष्टारं प्रणमाम्यनिशं गुरुं || ५ || यो मे विश्वेश्वर क्षेत्रं विश्वेश्वर समो गुरुः | समध्यास्ते स्वयं ज्योतिर्वाणी संज्ञो भजामि तं || यस्य शिष्य प्रशिष्याद्यैर्व्याप्ते यं सांप्रतं महीइ | सर्वज्ञस्य गुरोस्तस्य चरणौ संश्रये सदा || गुरोरपि गरीयान्मेयः कलाभिरलंकृतः | अद्वैतानंदवाण्याख्यस्तं वंदे शर्मवारिधिं || ओतप्रोतमिदे सर्वं यस्मिन् सच्चित्सुखात्मके | प्. १ब्) पर्यवस्यंति वेदांता यत्र चाहं तदक्षरं || श्रीकृष्णचरण द्वंद्वं प्रणिपत्य निबंधनं | व्याकुर्वे शास्त्रसिद्धांतलेशसंग्रह संज्ञितं || आचार्यचरणद्वंद्व स्मृतिर्लेखक रूपिणं | मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः || कुमाराभ्यां विघ्नेश्वर सुब्राह्मण्याभ्यां शंकरं शंकरस्य शिवस्यावताररूपं शंकराचार्यं भगवत्पादं | तथा च शिवपुराणवचनं व्याकुर्वन् व्याससूत्रार्थं श्रुतेरर्थं यथोचिवान् | श्रुतेर्न्याप्यस्स एवार्थश्शंकरस्सवितानन इत्यादि | व्यासं सूत्रकृतं वादरायणं नारायणात्मकं नारायणस्यावताररूपं तथा च वचनं द्वापुरे द्वापरे विष्णुर्व्यासरूपी महामुनिरिति न ह्यन्यः पुंडरीकाक्षान्महाभारत कृद्भवेदित्यादि च ब्रह्माणं सरस्वती भर्तारं हिरण्यगर्भं आपन्ना सभायां वस्त्रापहारनिमित्तामापदं प्राप्ता रक्षां वस्त्रकोटिलाभ निमित्तां कृष्णा द्रौपदी कृष्णस्य अर्जुनस्य प्रकाशितं शिष्यशतेभ्य उपदिष्टं ब्रह्मतत्वं येन गुरुणासु तथोक्तस्तं प्. २अ) स्वयं ज्योतिर्वाणी संज्ञः | स्वयं प्रकाश सरस्वती संज्ञः | गरीयान् गुरुः | इदं सर्वं यस्मिन् सच्चित्सुखात्मके अक्षरे ब्रह्मणि | ओत प्रोत मध्यस्तं वेदांताश्च यत्राक्षरे विषये पर्यवस्यंति तात्पर्येण बोधहेतवो भवंति तदह || ओं स्वस्ति श्रीगणेशाय नमः | अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्रधासरिदिव मही भेदात् संप्राप्यशौरिपदोहुता | जयति भगवत्पाद श्रीमन्मुखांबुजनिर्गता जननहरणी सूक्तिर्ब्रह्माद्वयैक परायणा || १ || ओं स्वस्ति श्रीगणेशाय नमः | मितिसंबंधः | अक्षरे सर्वस्य ओतप्रोत त्वोक्त्या ब्रह्मणस्सर्वाधिष्टानत्व रूपं तटस्थलक्षणमुक्तं | सच्चित्सुखात्मक इत्यनेन सत्य ज्ञानानंद स्वरूपात्मकं स्वरूपलक्षणमुक्तं | तत्र वेदांतानां पर्यवसानोक्त्योक्त रूपे ब्रह्मण्यक्षरे वेदांता एव प्रमाणमित्युक्तं नाहमत्रप्रभर्यत इत्यत्र व्याख्याने प्रभुः समर्थ इत्यर्थः | चिकीर्षितस्य ग्रंथस्य निर्विघ्न परिसमाप्ति प्रचय गमनयोस्सिद्धये भगवत्पादीय भाष्य स्तुति मुखेन भाष्य प्रतिपाद्य ब्रह्मतत्वानुसंधान लक्षणं मंगलानुचरणं करोति | अधिगतभिदेति | दृष्टांतमुखेन श्रीमूर्तिचरणारविंद गंगयोरनु- प्. २ब्) संधानलक्षणमपि मंगलं करोति | शौरीति | शौरी पदोद्गता सरित्मही भेदान् संप्राप्य यथा सहस्रधा अधिगतभिदा तथा भगवत्पाद श्रीमन्मुखांबुजनिर्गता ब्रह्मा द्वयैक परायणाजनन हरणी सुक्तिः | पूर्वाचार्यान् व्याख्या हृन्व्याख्येयत्वेनोपेत्यार्थतस्सहस्रधा अधिगतभिदासती जयतीति संबंधः | अत्र सूक्तिस्सहस्रधाधिगत भिदेति सूक्ति विशेषणेन स्वग्रंथे प्रदर्शयिष्यमाण सिद्धांतभेदानां सर्वेषां भगवत्पाद श्रीमन्मुखांबुजनिर्गता सूक्तिरेव मूलमिति सूचितं अधिगतभिदा प्राप्तभेदा सरिद्गंगा मही भेदान् भूप्रदेशान् शौरेः श्रीमहाविष्णोः पदोद्गता पादांबुज निर्गता जयति सर्वोत्कर्षेण वर्तत इति स्तुतिः | भगवत्पादस्य श्रीमन्मुखमेवांबुजं कमलं तस्मान्निर्गता मुखे अंबुजत्वारोपे कांतिमत्वरूपं श्रीमत्वं निमित्तमिति सूचनार्थं | श्रीमदिति विशेषणं जननहरणी जननं संसारस्तत्स्वजन्य ब्रह्मज्ञानद्वाराहरतीति जननहरणीइ | सूक्तिः ग्रंथतोर्थतश्च निरवद्यं भाष्यं | ब्रह्माद्वयैक परायणा ब्रह्म च तदद्वयं च ब्रह्माद्वयं | ब्रह्माद्वयं च तदेकं च ब्रह्माद्वयैकं परायणं परमतात्पर्य विषयो यस्यास्सूक्तेस्सा ब्रह्मा द्वयैक परायणा | अनेन विशेषणेन द्वितीय प्रपंच शून्यमेकरूपं सत्यज्ञानानंदलक्षणं ब्रह्मसूक्तिपदसंगृहीतस्य भाष्यात्मक शास्त्रस्य विषय इत्युक्तं भवति | जनन हरणीति विशेषणेन शास्त्रस्य मूक्तिः प्रयोजनमित्युक्तं | अर्थात् प्. ३अ) मुक्तिकामः शास्त्रस्याधिकारी मुक्तेरधिकारीणश्च प्राप्य प्राप्तृभावलक्षणस्संबंधश्च सूचितः || १ || प्राचीनैर्व्यवहार सिद्धविषयेष्वात्मैक्यसिद्धौ परं संनह्यद्भिरनादरात्सरणयो नानाविधा दर्शिताः | तन्मूलानिहसंग्रहेण कतिचित् सिद्धांत भेदान् धियः | सुद्धौ संकलयामितात चरण व्याख्या वचः ख्यापितान् || २ || एवं श्रुत्यर्थाभ्यां साक्षाष्ट श्लोकेन भाष्यात्मक वेदांत शास्त्रस्य विषयादिकं कथयता ग्रंथकारेण स्वकीय ग्रंथस्य वेदांतशास्त्रप्रकरणत्वा तस्यापि तदेव विषयादीति सूचितं भवति | इदानीं चिकीर्षितं प्रतिजानीते | प्रोचीनैरिति | प्राचीनैराचार्यैरात्मैक्य सिद्धौ परमत्यंतं सन्नद्यद्भिस्तात्पर्यवद्भिरात्मैक्य सिद्ध्युपायतया व्यवहार सिद्ध विषयेषु भ्रांति मात्र सिद्धपदार्थेषु जीवेश्वर जगदूपेष्वनादरात्सरणयः प्रकारामानाविधां परस्पर विरुद्धाः दर्शिताः | अनादरादित्यनेन परस्पर विरुद्धेषु जीवैकत्व नानात्व तत्प्रतिबिंबत्वादि रूपप्रकारेष्वभिनिवेशवतामाचार्याणां भेदवादिनामिवानात्मत्वं स्यादिति शंका निराकृता भवति | विवक्षित वस्तु प्रतिपत्युपायतया विरुद्ध नानाप्रकार प्रदर्शनमाचार्याणां न दोषाय भवति | किंत्वलंकारायैव भवति प्. ३ब्) प्रतिपतृणां प्रज्ञा वैचित्र्येण कस्यचित्प्रतिपत्तुः | केनचित् प्रकारेण मुक्तिसाधन ब्रह्मात्मैक्य ज्ञान लाभात् | तदुक्तं सुरेश्वराचार्यैः | यया यया भवेत् पुंसां व्युत्पतिः प्रत्यगात्मनि | सा सैव प्रक्रियेह स्यात् साध्वी सा चानवस्थितेति || व्युत्पतिःर्बोधः प्रत्यक् चासावात्मा च प्रत्यगात्मा सर्वांतरश्चिदात्मा तस्मिन् विषये प्रक्रिया प्रकारः इह वेदांत शास्त्रे साध्वी निरवघा गुणभूता चानवस्थिता नानाविधा परिमले दीक्षितैरप्येतदुक्तमकल्पितवस्तु प्रतिपत्युपायतया कल्प्यमानेषु पदार्थेषु विरोधो न दोषावहः | यथा तात्विका रुंधती प्रतिपत्युपायतया नानापुरुषैः कल्प्यमानासु तत्प्राच्योदीच्यादि नक्षत्ररूपासुस्थूलां रुंधतीषु विरोधो न दोषावह इति तन्मूलात् प्राचित प्रदर्शित नानाविध सरणी मूलात् | इह स्वग्रंथे धियः शुद्धौ स्वबुद्धिपरिष्काराय वस्तुतस्तु लोकानुग्रह एव प्रयोजनमिति बोध्यं | तात चरणानां पितृचरणानां व्याख्यारूपैर्वचोभिः ख्यापितान् ज्ञापितान् अनेन स्वस्य ब्रह्मविद्यामाचार्या देवलब्ध्वां दर्शयति स्वग्रंथेस्योपादेयत्व सिद्धये तेषूपपादनापेक्षान्यक्षान्प्रायो यथामति युक्त्योपपादयन्नेव लिखाम्यनति विस्तरान् | इ | तत्र तावत् आत्मा वा अरे द्रष्टव्यः श्रोतव्य इत्यधीत सांग स्वाध्यायस्य वेदांतैरापाततः प्. ४अ) प्रतिपन्ने ब्रह्मात्मनि समुदित जिज्ञासस्य तज्ज्ञानाय वेदांत श्रवणे विधिः प्रतीयमानः किं विध इति चिंत्यते | तिस्रः खलु विधेर्विधाः अपूर्वविधिर्नियमविधिः परिसंख्याविधिश्चेति | तत्र कालत्रयेपि कथमप्यप्राप्तस्य प्राप्ति फलको विधिराद्यः | यथा ब्रीहीन् प्रोक्षतीति | नात्र ब्रीहीणां प्रोक्षणस्य संस्कार कर्मणो विना नियोगं मानांतरेण कथमपि प्राप्तिरस्ति | पक्षप्राप्तस्या प्राप्तांश परिपूरणो विधिर्द्वितीयः | यथा ब्रीहीन वहंतीति || इह संग्रहेण सिद्धांत भेदान् संकलयामीत्युक्तमेव विवृण्वत् | ननु प्राचीनग्रंथ सिद्धांतानामेव स्वग्रंथे संग्रह इत्युक्तमयुक्तं प्राचीनग्रंथेष्वविद्यमानस्यापि युक्तिभिरुपपादनस्य स्वकीय संग्रहग्रंथे तत्र तत्रोपलंभादिति शंकांतिराकरोति | तेष्विति स्वग्रंथे प्रथमं श्रवणविधिर्विचार्यत इत्याह | तत्र तावदिति | श्रवणविधावधिकारिणं निर्दिशति | अधीतेति | वेदांतैर्जनितापातप्रतिपति विसये ब्रह्माभिन्नात्मति सस्यक् दार्घ्येनोदिता उत्पन्ना जिज्ञासा निर्णय रूपज्ञानेछा यस्येत्यर्थः | अधीत वेदस्यापि शिक्षाकल्प व्याकरणादीनां वेदांगानामध्ययनाभावे सति व्युत्पतेरभावाज्जिज्ञासा प्. ४ब्) हेतु भूतापातप्रतिपतिरपि न संभवेदित्यभिप्रेत्याधीत सांगस्वाध्यायस्येत्युक्तं न च निर्दोष वेदांतजन्यायाः ब्रह्मात्मप्रतिपत्तेः कथमापातत्वमिति वाच्यं | नाहं ब्रह्मेति प्रत्यक्षविरोधादि शंकया प्रमारूपायामपि ब्रह्मात्म प्रतिपतावप्रामाण्यशंकास्पदत्वरूपस्यायातत्वस्य संभवादिति भावः | वेदांत श्रवणे श्रोतव्य इति विधिः प्रतीयमान इति संबंधः | तद्ज्ञानायेति | अप्रामाण्यशंकानास्पद ब्रह्मात्मज्ञानायेत्यर्थः | खलु शब्देनापूर्वविधित्वादि प्रकार त्रयस्य पूर्वतंत्रे प्रसिद्धिर्द्योत्पते | कालत्रयेपीति | कथमपि दृष्टार्थत्वेनादृष्टार्थत्वेन वा केनापि प्रकारेण कालत्रयेपि कदापि विधिं विना प्राप्तिरहितस्य प्रोक्षणादेः प्राप्तिफलको विधिराद्यः | अपूर्वविधिरित्यर्थः | ब्रीहीतिति द्वितीया श्रुत्या ब्रीहीणां संस्कार्यत्वावगमात् | प्रोक्षणस्य संस्कार कर्मत्वमुक्तमिति मंतव्यं | नियोगमिति विधायकशब्दमिर्त्यः || अत्र विध्यभावेपि पुरोडाशप्रकृतिद्रव्याणां तंडुलनिष्पत्याक्षेपादेवावहन न प्राप्तिर्भविष्यतीति न तत्प्राप्त्यर्थोय विधिः | किंत्वाक्षेपादवहन न प्राप्तौ तद्वदेव लोकावगतकारणत्वाविशेषान्नखविदलनादिरपि पक्षे प्राप्नुयादिति | अवहननाप्राप्तांश संभवात्तदंश प्. ५अ) परिपूरणफलः | द्वयोः शेषिणोरेकस्य शेषस्य वा एकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्य प्राप्तौ शेष्यंतरस्य शेषांतरस्य वा निवृतिफलकोविधि स्मृतीयः | यथाग्नि च यने इमामगृभ्णन् रशनामृतस्येत् पश्चाभिधानीमादत्त इति | यथा वा चातुर्मास्यांतर्गतैष्टि विशेषे गृहमेधीय आज्यभागौ यजतीति अग्नि च यनेऽश्वरशनाग्रहणं गर्दभरशनाग्रहणं चेति द्वयमनुष्ठेयं | तत्राश्वरशनाग्रहणे इमामगृभ्णत्रिति मंत्रोलिंगादेवरशनाग्रहण प्रकाशन सामर्थ्यरूपान्नित्यं प्राप्नोति | न तत्प्राप्त्यर्थस्तदप्राप्तांश परिपूरणार्थो वा विधिः | किंतु लिंगाविशेषाद्गर्दभरशना ग्रहणेपि मंत्रः प्राप्नुयादिति तन्निवृत्यर्थः | तथा गृहमेधी यस्य दर्शपूर्णमासप्रकृति कत्वादति देशादेवाज्यभागौ नित्यं प्राप्नुत इति न तत्र विधिस्तत्प्राप्त्यर्थस्तन्नियमार्थो वा किंत्वति देशात्प्रयाजादिकमपि प्राप्नुयादिति तन्निवृत्यर्थः || प्. ५ब्) पुरोडाशेति | दर्शपूर्णमासयोराग्नेयादि पुरोडाशादि द्रव्यं विहितं | व्रीहयस्तूत्पन्ने यागे यागानुवादेन विहितास्तथा च व्रीहीणामुत्पन्नशिष्टानामुत्पति शिष्ट पुरोडाशावरुद्धे यागे साक्षात्साधनत्वा योगात् | पुरोडाशप्रकृतिद्रव्यत्वेन यागसाधनत्वं पर्यवस्यति | पुरोडाश प्रकृतित्वं च व्रीहीणां तंडुल निष्पति द्वारकं तंडुलनिष्पतिश्च स्वकारणसाक्षिपति तंडुलनिष्पतौ च कारणमन्वयव्यतिरेकाभ्यामवहनन्निश्चितमिति विधि विनापि विधित्सितावहन न प्राप्तिरस्तीत्यर्थः | नन्वहननस्य लोकतः प्राप्तौ तस्य लोकत एव नित्य प्राप्तिरपि स्यादित्यत आह | किंत्वित्यादिना | आक्षेपादिति तंडुलनिष्पत्याक्षेपादित्यर्थः | किंत्ववहनना प्राप्तांश सद्भावा तदंश परिपूरण फल इति संबंधः द्वयोरिति | द्वयोः शेषिणोरेकस्य शेषस्य नित्यप्राप्तौ शेष्यंतरस्य निवृति फलकः एकस्मिन् शेषिणि द्वयोः शेषयोर्नित्य प्राप्तौ शेषांतरस्य निवृति फलको वा विधिस्तृतीय इति योजना न तदिति | प्राप्तत्वान्नतत्प्राप्त्यर्थः नित्यप्राप्तत्वान्नतदप्राप्तांशपूरणार्थो वेत्यर्थः | अति देशादेवेति | प्रकृतिवद्विकृतिः कर्तव्येवं रूपादित्यर्थः | न तत्र विधिरिति आज्यभागौ यजतीति विधिराज्यभागयोः | प्राप्त्यर्थो न भवति विधिं विना प्राप्तत्वात् तयोरप्राप्तांशपरिपूरणार्थो वा न भवति नित्यप्राप्तत्वात् किंतु तन्निवृत्यर्थ इति योजना || प्. ६अ) गृहमेधीयाधिकरणे पूर्वपक्षरीत्या इदमुदाहरणं | यत्र क्वचिदुदाहर्तव्यमित्युदाहृतं | न च नियम विधावपि पक्षप्राप्तावहनस्याप्राप्तांश परिपूरणे कृते | तदवरुद्धत्वात्पाक्षिक साधनांतरस्य नखविदलनादेर्न्निवृतिरपि लभ्यत | इति निवृति फलकत्वा विशेषान्नियम परिसंख्ययोः फलतो विवेकोन युक्त इति शंक्यं | विधितोवहन न नियमं विनाक्षेप लभ्यस्य नखविदलनादेर्निवर्तयितुमशक्य तयाऽप्राप्ताशं परिपूरणरूपस्य नियमस्य प्राथम्याद्विधेयावहन न गतत्वेन प्रत्यासन्नत्वाच्च तस्यैव नियमविधि फलत्वोपगमात् | तदनुनिष्पादिन्या अविधेपगतत्वेन विप्रकृष्टाया इतरनिवृतेः संनिकृष्टफलसंभवे फलत्वानौचित्यात् | एवं विविक्तासु तिसृषु विधेर्विधासु किं विधः श्रवणविधिरा श्रीपते तत्र प्रकटार्थकारादयः केचिदाहुः अपूर्वविधिरयमप्राप्तत्वात् | ननु आज्यभागौ यजतीति विधेरति देशप्रप्तेतरांगकलापपरिसंख्यापकत्वं प्. ६ब्) न सिद्धांत इत्यत आह | ग्रहमेधीयाधि करणेति | नियमविधावपीति परिसंख्याविधाविव नियमविधावपीत्यर्थः | तदवरुद्धत्वादिति | अवहननेनैवावरुद्धत्वात्तंडुलनिष्पत्याक्षेपस्य शांतत्वादित्यर्थः | फलत इति नियमविधेः पक्षे प्राप्तावहननादि क्रियाविधायकत्वात् परिसंख्याविधेः च नित्यप्राप्तक्रियादि विधायकत्वान्नियमपरिसंख्याविध्योः स्वरूपतो विवेकलाभेपि फलतो भेदो न युक्त इत्यर्थः | नियमस्य नियमविधिफलत्वोपगमे हेतु द्वयमाह | प्राथम्यादित्यादिना | प्रत्यासन्नत्वादिति विधिं प्रतिप्रत्यासन्नत्वादित्यर्थः | विधेय क्रियागतत्वे प्रत्यासन्नत्वे हेतुः इतरनिवृत्यपेक्षया प्रथमोपस्थितत्वरूपे प्राथम्ये हेतुमाह | विधित इत्यादिना अशक्य तयेत्यंतेन इतरनिवृतेर्नियमविधिफलत्वानुपगमे हेतुन्द्वयमाह | तदनुनिष्पादिन्या इत्यादिना | अप्राप्तांशपरिपूरणोपस्थित्यनंतरमुपस्थिताया इत्यर्थः | अनेन विलंवितोपस्थिति कत्वमेको हेतुरुक्त इति मंतव्यं | द्वितीय हेतौ विप्रकृष्टत्वे हेतुमाह | अविधेपेति | व्यावृतिर्नामाननुष्टेयता अनंगता वा सा चानिधेपनखविदलनादि गतेत्यर्थः | इदानीं प्रकृतं श्रवणविधिविचारमारभते | एवमिति | अप्राप्तत्वादिति ब्रह्मसाक्षात्कारं प्रतिवेदांत श्रवणस्य साधनतायामानांतरादनधिगतत्वेनाप्राप्त्यर्थत्वादित्यर्ह्तः || प्. ७अ) न हि वेदांत श्रवणं ब्रह्मसाक्षात्कारे हेतुरित्यत्रान्वयव्यतिरेकप्रमाणमस्तिलोके कृत श्रवणस्यापि वहुशस्तदनुत्पत्तेः | अकृतश्रवणस्यापि गर्भगतस्य वामदेवस्य तदुत्पतेरुभयतो व्यभिचारात् | न वा श्रवणमात्रं श्रोतव्यार्थ साक्षात्कार हेतुरिति शास्त्रांतरे गृहीतः सामान्य नियमोस्ति | येनात्र विशिष्य हेतुत्व ग्राहका भावेपि सामान्यमुखेनैव हेतुत्वं प्राप्यत इति शंक्येत | गांधर्वादि शास्त्रश्रवणस्य षड्गादि स्वर साक्षात्कार हेतुत्वाभ्युपगमेपि कर्मकांडादि श्रवणान्तदर्थ धर्मादि साक्षात्कारादर्शनेन व्यभिचारात् | तस्मादपूर्वविधिरेवायं || ननु मानांतरादनधिगतत्वमसिद्धमन्वयव्यतिरेकाभ्यांतदवगति संभवात् तथाहि वेदांतश्रवणे सति ब्रह्मसाक्षात्कारो दृश्यते | असति च तस्मिन्न दृश्यते इति तत्राह | नहीति | तदनुत्पतेरिति साक्षात्कारानुपतेरित्यर्थः | वामदेवस्य इति | तथा च श्रुतिर्गर्भ एवैतच्छ्रयानो वामदेव एव मुवाचेति | एवं पूर्वोक्तप्रकारेण | एतद्ब्रह्मज्ञानजन्मना स्वकीयां मुक्तिमुवाचेत्यर्थः | ननु गांधर्व शास्त्रश्रवणे षड्गादिस्वरसाक्षात्कारस्तद भावे तदभाव प्. ७ब्) इति दृष्टं तत्र श्रोतव्यार्थ विशेषस्वरसाक्षात्कारं प्रतिगांधर्व शास्त्रविचारात्मकस्य श्रवणविशेषस्य कारणत्व ग्रहकाले लाघवात् | श्रोतव्यार्थ साक्षात्कारत्वावछिन्नं प्रतिश्रवणमात्रस्य कारणत्वं गृह्यते | तथा च ब्रह्मसाक्षात्कार वेदांतश्रवणयोर्विशिष्यकार्यकारणभाव ग्रहाभावेपि ब्रह्मसाक्षात्कारस्यापि श्रोतव्यार्थ साक्षात्कारत्वात् | वेदांतश्रवणस्यापि श्रवणत्वादुक्त सामान्यरूपेण श्रवणस्य ब्रह्मसाक्षात्कार हेतुत्वं प्राप्तमेवेतिनापूर्वविधिरिति नेत्याह | न वा श्रवणमात्रमिति | धर्मश्रवणस्थले अदृष्टरूपस्यालौकिकश्रेयसाधनता विशिष्टयागादि रूपस्य वा | धर्मस्य साक्षात्कारा योग्यतया साक्षात्कारादर्शनेन उक्त सामान्य कार्यकारणभावस्य व्यभिचारान्जलाघवावतार इति गांधर्वशास्त्रश्रवणस्यान्वयादिनास्वरसाक्षात्कार हेतुत्व ग्रहेपि वेदांतश्रवणस्य न ब्रह्मसाक्षात्कार हेतुत्व प्राप्तिरित्याह | गांधर्वादीति | कर्मेति | अत्रादिपदेन हिरण्यगर्भादि देवताप्रतिपादकवाक्यजातं गृह्यते धर्मादीत्यादि पदेन हिरण्यगर्भादि देवता गृह्यते | तस्मादिति | प्राप्त्यभावादित्यर्थः || भाष्येपि सहकार्यंतरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवदित्यधिकरणे विद्यासहकरिणो मौनस्य वाल्यपांडित्यवद्विधिरेवाश्रयितव्य अपूर्वत्वादिति पांडित्य शब्दिते श्रवणे प्. ८अ) पूर्वविधिरेवांगीकृत इति || अत्रार्थे सम्मतिमाह | भाष्येपीति | भाष्येष्य पूर्वविधिरेवांगीकृत इति संबंधः | अयमर्थः वृहदारण्यके श्रूयते तस्माद्ब्राह्मणः पांडित्यं निर्विद्य वाल्येन तिष्ठासेद्वाल्यं च पांडित्यं च निर्विद्याथ मुनिरिति यस्मादनिक्रांता ब्राह्मणा श्रवणादि साधनैरात्मानं विदित्वा जीवन्मुक्ति व्यंजकं सकलविक्षेपरहितं परमहंसाश्रमं प्राप्तास्तस्मादिदानीं तनोपि ब्राह्मणो ब्रह्मसाक्षात्कारार्थी पांडित्यं निर्विद्य वाल्येनस्था तु मिच्छेत् | विचारप्रयोजकापातरूपा बुद्धिः पंडासास्य संजातेति पंडितस्तस्य कृत्यं पांडित्यं श्रवणमित्यर्थः | वाल्यं नामवालस्य शिशोः कृत्यं दंभ दर्पादि राहित्यं न तु वाले प्रसिद्ध यथेष्ट चेष्टा रूपं तस्य वहिर्मुखत्वापादकत्वेन विद्याविरोधित्वाद्दंभादिराहित्यरूपभावशुद्धिवाचः केन वाल्य पदेन भावशुद्धिसाध्यं मनन लक्ष्यते | श्रवणानंतर भावित्वात् तस्य वाल्यं च पांडित्यं च निर्विद्य निश्चयेन लब्ध्वा तदुभयं सम्यगनुष्टायेति यावत् | अथानंतरं मुनिस्सम्यग्मननशीलो भवेदिति विधिः ध्यानमत्रमननं ध्याननिष्टे व्यासादौ मुनिशब्दप्रयोगदर्शनात् | ध्यानं विना विचारं मात्रविश्रांते तद प्रयोगाच्च तथा चापूर्वत्वाद्यथा श्रवणे विधिरेवं मौनस्य विद्यासहकारिणो विद्योत्पन्नौ साधनस्य विधिरेवाश्रयितव्यः | अपूर्वत्वा देवेति भाष्यार्थः | सूत्रार्थस्तु | तद्धतः श्रवणमननजतिन प्. ८ब्) तत्वनिर्णयरूपविद्यावतस्तत्व साक्षात्कारार्थिनः संन्यासिनः पांडित्य बाल्या पेक्षया तृतीयं सौनमथ मुनिरिति वाक्येन विधीयते | ननु पांडित्य बाल्याभ्यां निर्णीततत्व साक्षात्कारार्थी ध्याने स्वयमेव प्रवर्तते रत्नं तत्वसाक्षात्कारार्थीवरत्नतत्वगोचर प्रत्ययसंततौ | न च तत्वसाक्षात्कारार्थिनस्तत्साधन श्रवणादावपि स्वयमेव प्रवृतिस्स्यादिति तत्रापि विधिवैयर्थ्यशंका तुल्येति वाच्यं विधिं विना वेदांत श्रवणे प्रवृत्यसंभवस्य साधितत्वा तथा च मौनविधिर्व्यर्थ इत्यत्राह | पक्षेणेति | मौनस्य सहकार्ययंतरस्य विधिरंगी कर्तव्यः पक्षेणाप्राप्ति सत्वात्साक्षात्कारार्थं ध्याने || वेदांतश्रवणस्य नित्यापरोक्षब्रह्मसाक्षात्कार हेतुत्वं नाप्राप्तं | अपरोक्ष वस्तु विषय प्रमाणत्वावच्छेदेन साक्षात्कार हेतुत्व प्राप्तेः | शाब्दापरोक्ष वा देव्यवस्थापनात् तदर्थमेव हि तत्प्रस्तावः || स्वयमेव प्रवर्तमानस्यापि विषयदर्शनप्रावल्यात् ध्यानस्य कदाचिदप्राप्तिः संभवति | तथा च मौनविधेरपूर्वविधित्वाभावेपि नियमविधित्वं सिंध्यत्येव सति च नियमविधौ तदति क्रमे नियमा दृष्टालाभेन साक्षात्कारानुदय भीत्या स्वभाव प्राप्तमपि विषयदर्शनं प्. ९अ) यत्नेन निवार्य ध्यान एव प्रवर्तत इति पक्षेणेति सूत्रभागाभिप्रायः | ननु ब्रह्मविद्याप्रधाने प्रकरणे कथं ध्यानादि विधिर्वाक्यभेद प्रसंगादिति नेत्याह | विध्यादि वदिति | अंगविधिवदित्यर्थः | यथा प्रधानविधिपरे प्रकरणे अवांतर वाक्यभेदेन प्रयाजाद्यंराविधिस्तथा ब्रह्मविद्यांग ध्यानादि विधिरित्यर्थः | उक्तरीत्या मौनविधेर्नियमविधित्वे स्थिते भाष्यकृतामपूर्वत्ववचनं मौनविध्यंशे पाक्षिका प्राप्त्यभिप्रायं द्रष्टव्यं | यथा सूत्रं पक्षेण प्राप्त्यभावादित्येव वक्तव्ये | भाष्ये अपूर्वत्वादिति वचनं श्रवणविधिरपूर्वविधिरेवेति ज्ञापनार्थमप्राप्तिमात्रे च दृष्टांत दार्ष्टांतिक भावो विवक्षित इति प्रकटार्थकारादीतामाशयः | अपूर्वविधित्व पक्षं दूषयति | वेदांतश्रवणस्येति | विचारविशिष्टवेदांतरूपस्य श्रवणस्य ब्रह्मसाक्षात्कार हेतुत्वं विधिं विनापि प्राप्तमित्यर्थः | ननु वाक्यस्य कथं साक्षात्कार हेतुत्वं इंद्रियजन्य ज्ञानस्यैव साक्षात्कारत्वादत आह | अपरोक्षवस्त्विति अपरोक्षवस्तुविषयकत्वं ज्ञानस्यापरोक्षत्वं न त्विंद्रियजन्यत्वं वस्त्वापरोक्ष्यं च वस्तु व्यवहारानुकूल चैतन्याभिन्नत्वमिति | शाब्दापरोक्षवादे वक्ष्यते | तथा च नित्यापरोक्षत्वेन श्रुति सिद्धब्रह्मरूप वस्तुविषयकत्वाद्वेदांतजन्यज्ञानस्य साक्षात्कारत्व सिद्धिरित्यर्थः | नत्वस्मिन् शास्त्रे शाब्दापरोक्षवादस्य का संगतिरत आह | तदर्थमेवहीति | वेदांतानां ब्रह्मापरोक्षप्रमितिजनकत्व सिध्यर्थमेव तद्वादसंगतिर्नान्यार्थमित्येतत्प्रसिद्धमित्यर्थः || प्. ९ब्) न च तावताब्रह्मप्रमाणत्वेनापातदर्शन साधारण ब्रह्मसाक्षात्कार हेतुत्व प्राप्तावप्यविद्यानिवृत्यर्थमिष्यमाण सतानिश्चय रूपतत्साक्षात्कार हेतुत्वं श्रवणस्य न प्राप्तमिति वाच्यं | विचारमात्रस्य विचार्यमात्रनिर्णय हेतुत्वस्य ब्रह्मप्रमाणस्य तत्साक्षात्कारहेतुत्वस्य च प्राप्तौ विचारित वेदांतशब्दज्ञानरूपस्य श्रवणस्य तद्धेतुत्वप्राप्तेः | न चोक्त उभयतो व्यभिचारः सहकारि वैकल्पेनान्वय व्यभिचारस्यादोषत्वात् | जातिस्मरस्य जन्मांतरश्रवणात्फलसंभवेन व्यतिरेक व्यभिचाराभावात् नन्वपरोक्षवस्तु विषयकं प्रमाणं स्वविषये साक्षात्कार हेतुरिति शाब्दापरोक्षवादे प्रसाधनेन वेदांतानामपि स्वविषये नित्यापरोक्षे ब्रह्मणि | अपरोक्षज्ञानसामान्य हेतुत्वमेव प्राप्तं न तु सता निश्चयरूप तत्साक्षात्कारहेतुत्वं तच्च विचारविशिष्टवेदांतरूप श्रवणस्यैव युक्तमन्यथाविचारात्प्रागपि सता निश्चय प्रसंगात् | न च वाक्यजन्यसाक्षात्कारमात्रादेवाविद्यानिवृति लक्षणफलसंभवात् | सता निश्चयरूपत्वं साक्षात्कारस्य नात्वेषणीयमिति वाच्यं | तत्र तत्र ब्रह्मोपदेशप्रदेशेषु यावत् संशय निवृति पुनः पुनः प्रश्न प्रतिवचनलिंगेन प्. १०अ) वेदांतविज्ञान सुनिश्चितार्था इत्यादि श्रुत्या श्रुत ब्रह्मणोपि यथापूर्वं संसारानुवृत्यनुमिता विद्यायानिवृत्यभावरूपलिंगेन च श्रवण मननध्यानशमदमभक्तिवैराग्यादीनां ज्ञानपरिपाकहेतूनां विधिदर्शनलिंगेन च सतानिश्चयरूप ब्रह्मसाक्षात्कारस्यैवाविद्या निवृत्यर्थमिष्यमाणत्वात्तथा च वेदांतश्रवणस्योक्तरूपसाक्षात्कार हेतुत्वमप्राप्तमेवेति शंकते | न च तावतेति | वेदांतानामिति शेषः | अपरोक्षवस्तुविषयकं प्रमाणं स्वविषये साक्षात्कारहेतुरिति प्रसाधनमात्रेणेत्यर्थः | अपरोक्षवस्तुविषयकं प्रमाणमपरोक्षज्ञानहेतुरिति स्थिते विचारो विचार्य निर्णय हेतुरिति च स्थिते कार्यकारणभावद्वयमेलनेन प्रकृते विचारविशिष्टवेदांतज्ञानरूपं श्रवनं सतानिश्चयरूप ब्रह्मसाक्षात्कारहेतुरिति सिध्यतीत्याह | विचारमात्रस्येति | सहकारीति | चितैकाग्र्यरूपसहकारि वैकल्पेनेत्यर्थः | उक्त कार्यकारणभाव द्वयरूपप्रमाणवलेन श्रवणस्य ब्रह्मसाक्षात्कारहेतुत्वे सिद्धे वामदेवस्य जन्मांतरीयं श्रवणादिकं कल्पते यथा जातमात्रे जंतौ दृश्यमानभोगस्य कारणं तत् प्राग्भवीयकर्मकल्पते तद्वदतो न व्यतिरेकव्यभिचार इत्याह | जातिस्मरस्येति | पूर्वस्यति स्मरतो वामदेवस्येत्यर्थः || प्. १०ब्) अन्यथा व्यभिचारेण हेतुत्ववाधे श्रुत्यापि तत्साधनताज्ञानासंभवात् | घटसाक्षात्कारे चक्षुरतिरेकेणत्वगिंद्रियमिव ब्रह्मसाक्षात्कारे श्रवणातिरेकेणोपायोंतरमस्तीति शंकायां व्यतिरेकव्यभिचारस्याप्यदोषत्वाच्च | तथा च प्राप्तत्वान्नापूर्वविधिः | अत एवावृतिरसकृदुपदेशादित्यधिकरणभाष्ये दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवंति | यथा वघातादीनि तंडुलनिष्पत्यवसानानीति श्रवणस्य ब्रह्मदर्शनार्थस्य दृष्टार्थ तया दर्शपूर्णमासिकावघात न्याय प्राप्ता वा वृत्युपदेशः | अपूर्वविधित्वे तु सनयुज्यते सर्वौषधावघातवत् | अग्नि च यने सर्वौषधस्य पूरयित्वा वहंत्यथैतदुपदधातीत्युपधेयोलूखल संस्कारार्थ त्वेन विहितस्यावघातस्य दृष्टार्थत्वाभावान्नावृतिरिति तंत्रलक्षणे स्थितं | अतो नियम विधिरेवायं || अन्यथेति | उक्तरीत्याद्विविध व्यभिचारपरिहारानुपगम इत्यर्थः | व्यभिचार निश्चयेन हेतुत्वा भावरूपवाध प्. ११अ) निश्चयाच्छ्रवणविधेरवोधकतापत्यातवाप्यपूर्वविधिर्न स्यादित्यर्थः | ब्रह्मसाक्षात्कारे श्रवणमिव तपो विशेषादिकमुत्कृष्ट जन्मप्राप्तिरूपं वा कारणांतरमस्तीति शंकाकाले वामदेवस्य कारणांतरात् | ज्ञानमुत्पन्नमिति | शंका संभवेन श्रवणस्य वामदेवे व्यतिरेक व्यभिचार ज्ञानं श्रवणस्य साक्षात्कार हेतुत्व ग्रहप्रतिबंधकं न भवति | न चैकस्य पदार्थस्य ज्ञाने परस्परनिरपेक्षकारण द्वया संभवेन ब्रह्मसाक्षात्कारे कारणांतर सत्व शंकैव न जायजायत इति वाच्यं | लोके तथा दृष्टत्वादित्याह घटेति | वेदांतश्रवणस्य ब्रह्मसाक्षात्कारहेतुत्वे विधिं विनैव प्राप्ते फलितमाह | तथाचेति | श्रवणादि विधेर्नियमविधित्वे सत्ये वा वृत्यधिकरणं संगच्छत इत्याह | अत एवेति | अपूर्वविधित्वा भावादेवेत्यर्थः | अत एवावृत्युपदेश इति संबंधः | दर्शनपर्यवसानानीत्यारभ्यतंडुलनिष्पत्यवसानानीत्यं तस्य भाष्यस्येयं योजनादृष्टार्थानि श्रवणादीन्यावर्त्यमानानि संति दर्शनपर्यवसानानि भवंति | यथावघातादीन्यावर्त्यमानानि तंडुलनिष्पत्यवसानानि भवंतीति दृष्टार्थानीत्यत्र दृष्टं फलमात्मदर्शनमेवायं भावः | आत्मा वा अरेद्द्रष्टव्यः श्रोतव्य इत्यादिना आत्मदर्शनोद्देशेन श्रवणादीनिविधीयंते तत्र किं || तदभावे हि यथावस्तु किंचिच्चक्षुषावीक्ष्यमाणस्तत्र स्वागृहीते सूक्ष्मे विशेषांतरे केनचित् कथिते तदवगमाय तस्यैव चक्षुषः पुनरपि प्. ११ब्) प्रणिधानं व्यापारे प्रवर्तते एवं मनसाहमिति गृह्यमाणे जीवे वेदांतैरध्ययन गृहीतैरुपदिष्टं निर्विशेष ब्रह्मचैतन्यरूपत्वमाकर्ण्य तदवगमाय तत्र सावधानं मनस एव निधाने कदाचित् पुरुषः प्रवर्तेतेति वेदांत श्रवणे प्रवृतिः पाक्षिकी स्यात् || मेतानि सकृदनुष्टेयानि किं वा यावदात्मदर्शनमावर्त्यानीति संशये सकृदेवानुष्टेयानि तावता विधेश्चारितार्थ्यात् | यथा अग्नि च यने सर्वौषधस्य पूरयित्वा अवहंतीति वाक्यविहितं सर्वौषधीनामवहननमुपधेयोलूखलसंस्काररूपं सकृदेवानुष्ठीयते तद्वत् तथा च सकृदनुष्ठित श्रवणादि जन्यमदृष्टं जन्मांतरे ब्रह्मदर्शन हेतुरित्य पूर्वविधित्वं श्रवणादि विधीनामिति प्राप्ते सिद्धंतः श्रवणाद्यावृतिः कर्तव्याकुतः असकृदुपदेशा तथा हि भृगुवल्यां भृगुं प्रतिपिता असकृतपसा ब्रह्मविजिज्ञासस्वेत्युपदिशति तप आलोचनं ब्रह्मविचारस्तथा छांदोग्य षष्टाध्याये श्वेतकेतुं पुत्रं प्रतिपिताविचारपूर्वकमसकृत्तत्वमसीत्युपदिशति | किं च श्रवणादिभिरात्मदर्शनफले जननीये श्रवणाद्यावृत्तिरूपदृष्टद्वार संभवे अदृष्टद्वारकल्पनायोगा तत्वं पदार्थयोः श्रवणाद्या वृतिं विनादुर्बोधत्वाच्च तंडुलनिष्पत्तिफलकावघातवदावृतिरेव नत्वग्नि च यनांतर्गतावघात वदनावृतिस्तदंतर्गतावघातस्यादृष्टार्थत्वेन वैषम्यादिति व्युत्पादितमावृत्यधिकरणे प्.१२अ) तदपूर्वविधिवादिनां न संगच्छत इति तंत्रलक्षणमेकादशाध्यायः | अत एव इति प्राप्तत्वादित्यर्थः | अस्य हेतोरेवकारार्थेऽपूर्वविधित्वाभावेन्वयः नियमविधित्वे हेतुमाह | तदभावे हीति | तदभावे मनस एव सावधानं तत्र निधाने कदाचित् पुरुषः प्रवर्तेतेति संबंधः मनसाऽगृह्यमाणात्मगत विशेषगृहणायमनोव्यापार एव यत्नेन प्रवृतौ दृष्टांतमाह | यथेति किंचिदिति | रत्नादीत्यर्थः | तत्रेति रत्नादावित्यर्थः | तस्यैवेति | न तु व्यापारांतर इत्येवकारार्थः | पुनरपि चक्षुषो व्यापारे प्रवर्तत इति संबंधः | प्रणिधानं यथा भवति तथा प्रवर्तत इति प्रवृति क्रियाविशेषणं प्रणिधानं तच्च रत्नादि वस्त्वभिमुखतया चक्षुषः स्थापनमनंतरमुन्मीलनव्यापारानुकूल यत्नः प्रवृतिरिति प्रणिधान प्रवृत्योर्भेदः वेदांतैरिति नेह नानास्ति किंचन प्रज्ञानं ब्रह्माहं ब्रह्मास्मीत्यादिभिरित्यर्थः | इह ब्रह्मणि नानाज्ञातृज्ञानज्ञेयरूपेण भिन्नं विशेषजातं किंचिदपि नास्ति प्रकृष्टं ज्ञानं प्रज्ञानं नित्यस्वप्रकाश जीवचैतन्यं ब्रह्माहं बुध्यादि साक्षिभूतचिदात्मा ब्रह्मास्मि भवामीति श्रुतीनामर्थः | अध्ययन पदं सांगाध्ययनपरं | आकर्ण्य परोक्षतया ज्ञात्वा श्रुतौ श्रद्दधानस्तदधिगमायेत्यर्थः | तत्रेति | अहमिति गृह्यमाणात्मनीत्यर्थः | सावधानमैकाग्र्यं यथा भवति तथा || अप्राप्य मनसा सहेति श्रुतिस्तु | मनसैवानुदृष्टव्यं प्. १२ब्) दृश्यते त्वग्र्यया बुद्धोत्यपि श्रवणेनानवहित मनोविषयेति शंका संभवात् || नन्वहमिति गृह्यमाणजीवे विशेषाकर्णनानंतरं वेदांत श्रवण इव कदाचिन्मनोव्यापारे वेदांतविचारनिरपेक्षेपि प्रवृत्तिः स्यादित्ययुक्तं श्रुत्या ब्रह्मणी मनो विषयत्व निषेधात्सोगाध्ययनवतस्तन्निषेधावगति संभवादिति नेत्याह | अप्राप्येति श्रुतिरनवहित मनोविषयेति संबंधः | वाचः सत्यज्ञानादिशब्दाः अप्राप्यशक्त्या ब्रह्मा प्रतिपाद्यमनसा सह निवर्तंते लक्षणामाश्रयंत इत्यर्थः | सनसासहेत्यनेन मनसोपि ब्रह्मणि प्राप्तिर्निषिध्यत | इति भावः | ब्रह्मणि मनोविषयत्व निषेधवत्तद्विषयत्वमपि श्रुत्या उच्यते | तथा च श्रुत्योर्विरोधे सति मनः शब्दित बुद्धिगम्यत्व प्रतिपादक श्रुतौ बुद्धेरग्र्यत्व विशेषणवलाद्विषयत्व निषेध श्रुतेरनवहित मनोविषयत्व निषेधार्थकत्व प्रतीतेस्तथा च सांगाध्ययनवत उक्त व्यवस्था प्रतीति संभवात् मनस एव व्यापारे प्रवृतिर्दुर्वारेत्याह | मनसैवेति | अनवहितत्वमेकाग्रता शून्यत्वं शंका संभवादिति | अग्र्यत्वविशेषण सामर्थ्येन यथोक्त व्यवस्था निश्चय संभवादिति वक्तव्ये शंका संभवादित्युक्तेरयमाशयः | निर्गुणब्रह्मसाक्षात्कारे मनसः करणत्वं नास्ति औपनिषदत्व श्रुति विरोधात्सोपाधिकात्मसाक्षात्कारेपि न तस्य करणत्वं तत्साक्षात्कारस्य नित्यसाक्षिरूपत्वात्मनसैवानुद्रष्टव्यमित्यादौ तृतीया प्. १३अ) वाक्योत्थवृतिसाक्षात्कारं प्रतिसाधनत्वाभिप्रायेत्यादिकं सर्वं शाब्दा परोक्षवादे वक्ष्यते | तथा च वस्तुतो मनसः करणत्वा भावात् | मनस एव व्यापारे पुरुषः कदाचित् प्रवर्तेतेत्युत्प्रेक्षितं नियम विधि व्यावर्त्यमसंगतमेवेति | अथवा जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इत्यादि श्रवणाद्भिन्नात्मज्ञानान्मुक्तिरिति भ्रमसंभवेन मुक्तिसाधन ज्ञानाय भिन्नात्मविचाररूपशास्त्रांतर श्रवणेपि पक्षे प्रवृतिः स्यादित्य द्वितीयात्म पर वेदांतश्रवणनियमविधिरस्तु अत एव व्यावर्त्यांतरमाह | अथवेति | अधीतसांगस्वाध्यायस्य हितरति शोकमात्मविदित्यादि श्रुत्या आत्मज्ञानं मुक्तिसाधनमिति ज्ञानं भवति न च सांगाध्ययनवतोपि लोके विचारमंतरेणात्मतत्वज्ञान जन्मास्ति | आत्मप्रतिपादक वेदांतेषु नानाविधयोजनासंभावनया तात्पर्य संशयादेरनुभवसिद्धत्वात्ततश्च मुक्तिसाधन ज्ञानार्थी तल्ज्ञानप्रतिबंधक तात्पर्यभ्रमसंशयादि निरासाय वेदांत विचारे प्रवर्तमानो यथा ब्रह्ममीमांसा शास्त्रे प्रवर्तते तथैव न्यायसांख्यादि शास्त्रविचारेपि कदाचित् प्रवर्तेत तत्रापि तदभिमतयोजनया वेदांतविचारसत्वात् | न च सांख्यादि तर्कशास्त्रगतात्मविचारस्या प्. १३ब्) द्वितीयात्मविचाररूपत्वाभावेन तादृशात्मनि वेदांतानां तात्पर्य भ्रमसंशयाद्य निवर्तक त्वाद्विशिष्य स्वयमेव तत्र तात्पर्य भ्रमादि हेतुत्वाच्च न तत्रात्म ज्ञानार्थिनः प्रवृतिः संभवतीति वाच्यं | जीवभिन्न परमात्मज्ञानं मुक्तिसाधनमिति | भ्रुमेण तत्रापि प्रवृति संभवात् | न च सांगाध्ययनवतो भिन्नात्मज्ञानं मुक्तिसाधनमिति भ्रमो न संभवति | अहं ब्रह्मास्मि ब्रह्मविदाप्नोति परंमित्यादि वेदांतेषु जीवाभिन्नपरमात्मज्ञानस्य मुक्तिसाधनत्व प्रतीतंरिति वाच्यं | जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इति श्रुति गतान्यशब्देन भ्रमसंभवात् यदा ईशं सन्निधिमात्रेण बुध्यादि प्रवर्तकं अन्यं वस्तु गत्या बुध्यादिभ्यो भिन्नं भ्रांत्या बुध्याद्य भिन्नत्वेन चिदात्मनो गृहीतत्वात् | भिन्नत्वोपदेशः सफलं न तु जीवभिन्नमित्यर्थः | जीवब्रह्मभेदस्य प्रत्यक्षसिद्धतया उपदेशान पेक्षत्वात् जुष्टं ऋषिसंघैस्सेवितं ऋषिसंघजुष्टमिति श्रुत्यंतरात्पश्यति ईशोहमिति साक्षात्करोति तदा अस्य ईशस्य महिमानं महत्वोपलक्षितं स्वरूपं इति एति प्राप्तोति वीत शोकश्च भवतीति श्रुतेर्वास्तवार्थः || इहात्मशब्दस्येदं सर्वं यदयमात्मेत्यादि प्रकरणपर्यालोचनया द्वितीयात्म परत्वात् | न हि वस्तुतस्तत्साधनांतरप्राप्तावेवनियम प्. १४अ) विधिरिति कुलधर्मः | येन वेदांतश्रवणनियमार्थवत्वायनियमादृष्टजन्य स्वप्रतिवंधक कल्मष निवृतिद्वारासतानिश्चयरूप ब्रह्मसाक्षात्कारस्य वेदांतश्रवणैक साध्यत्वस्याभ्युपगंतव्य त्वेन तत्र वस्तुतः साधनांतराभान्ननियमविधिर्युज्यते इति आशंक्येत किंतु यत्र साधनांतर तया संभावनया पक्षे प्राप्त्याविधित्सित साधनस्य पाक्षिक्य प्राप्तिर्निवारयितुं न शक्यते तत्र नियमविधिः || ननु श्रोतव्यवाक्ये आत्मविचारमात्रं प्रतीयते न त्वद्वैतात्मविचारः ततश्च कथमनेन विधिना भिन्नात्मविचारव्यावृत्तिलाभ इत्यत आह | इहेति | अत्रादि पदेन आत्मनि दृष्टे सर्वं विदितं भवतीति प्रतिज्ञा वाक्यं गृह्यत आत्मनस्सर्वाधिष्टान तया सर्वात्मकत्वे हि सति आत्मनि विदिते तद्व्यतिरिक्तं सर्वं तत्वतो विदितं भवति सर्वमात्मैवेति सामानाधिकरण्यं च सिध्यति नान्यथा तथा च श्रोतव्य वाक्यस्थमात्मपदमद्वितीयात्मपरमेवेति तद्विचारविधिना भिन्नात्मविचार व्यावृतिर्लभ्यत इति भावः | ननु तंडुल निष्पताववहननस्येवनखविदलनादेरपि वस्तुतस्साधनत्वातन्निवृतिफलको नियमविधिर्युक्तः | इहत्व द्वितीय ब्रह्मसाक्षात्कारे प्. १४ब्) भिन्नात्मविचारस्य न वस्तुतस्साधनत्वमस्तीत्यतस्तन्निवृति फलको नियमविधिर्न युज्यते | न च मा भूद्भिन्नात्मविचारस्य व्यावर्त्यत्वं नैतावता नियमविध्यनुपपतिः प्रकृतेस्ति गुरुनिरपेक्ष विचारभाषा प्रबंधेतिहासपुराणादीनामुदाहरिष्यमाणानां सता निश्चयरूपब्रह्मसाक्षात्कारहेतुत्व सत्वेन व्यावर्त्यसंभवादिति वाच्यं | तेषामप्यनंतरमेव वक्ष्यमाणरीत्या अविद्या निवर्तक सतानिश्च रूपसाक्षात्कारप्रतिबंधक कल्मष निवृति द्वारागुर्वधीन वेदांतविचारवत् साक्षात्काराहेतुत्वेन वस्तुतस्साधनत्वा भावा तथा च नियमविधिस्संभवतीत्याशंक्याह | नहीति | कुलधर्म इति कुलक्रमागत धर्मस्य यथा आवश्यकता तथा वस्तुतस्तत्साधनांतरप्राप्तेरावश्यकत्वं नहीत्यर्थः | येनेति | आवश्यकत्वेनेत्यर्थः | नियमार्थवत्वायेति | विधित्सित गुर्वधीन वेदात श्रवणेनेव गुरुनिरपेक्ष विचारादिनापि सता निश्चयरूपसाक्षात्कारस्वरूपोत्पति संभवे सति गुर्वधीमवेदांतश्रवणनियमस्य दृष्टप्रयोजनाभावान्नियमादृष्टमुपेयं तस्य कल्मषनिवृति द्वाराविद्यासाधानत्वं च कल्पनीयमेवेत्यर्थः | अदृष्टजन्यत्वं कल्मषनिवृतेर्विशेषणं स्वपदं साक्षात्कार परं येनाशंक्येतेति संबंधः तावतैवाप्राप्तांश परिपूरणस्य तत्फलस्य सिद्धेः | अथवा गुरुमुखाधीनाध्ययनादिव प्. १५अ, १५/१६) निपुणस्य स्वप्रयत्नमात्रसाध्यादपि वेदांत विचारात् संभवति | सता निश्चयरूपं ब्रह्मापरोक्षज्ञानं | किंतु गुरुमुखाधीन वेदातवाक्यस्रवणनियमादृष्टमविद्यानिवृतिं | प्रतिकल्मष निरासेनोपयुज्यत इति | तदभावेन प्रतिवद्धमविद्यामनिवर्तयत् | परोक्षकल्पमवतिष्ठते | न च ज्ञानोदयेऽज्ञानानिवृत्यनुपपत्तिः | प्रतिवंधकाभावस्य सर्वत्रापेक्षितत्वेन सत्यपि प्रत्यक्षविशेषदर्शने उपाधिना प्रतिबंधात् | प्रतिबिंबरूपभ्रमानिवृतिवत्तदनिवृत्युपपतेः || यत्र विधित्सितसाधनस्याप्राप्तिः पाक्षिकी निवारयितुं न शक्यते तत्र नियमविधिरित्यत्र हेतुमाह | तावतैवेति अप्राप्तांशलाभमात्रेणैवेत्यर्थः | विधित्सित साधनस्य पाक्षिक्यामप्राप्तौ हेतुमाह | साधनांतरतयेति | सता निश्चयरूप ब्रह्मसाक्षात्कारस्य दृष्टफलतया तत्स्वरूपे वेदांतविचारवद्भाषा प्रवंधादेरप्यन्वय व्यतिरेकाभ्यामेवसाधनत्व बुद्धिः संभाव्यते पूर्वोक्तरीत्या वस्तुतस्साधनत्वाभावात्संभावनयेत्युक्तं व्यावर्त्यांतरमाह | अथवेति मात्रपदेन प्. १५ब्, १५/१६) गुरुर्व्यवछिद्यते तर्ह्युक्त ब्रह्मा परोक्षज्ञानेनैवाविद्या निवृति लक्षणफलसिद्धेः | किं गुर्वधीन श्रवणविधिनेति शऽऽन्कते | किन्त्विति | श्रवणनियमविद्ध्यर्थवत्वायनियमादृष्टस्य ब्रह्मापरोक्षज्ञानेन स्वफलसिध्यर्थमपेक्षणीयत्वकल्पनान्नोक्ता परोक्षज्ञानादविद्यानिवृति सिद्धिरिति परिहरति गुरुमुखेति | निरासेनेति निरासद्धारेत्यर्थः | इतीत्यनंतरं कल्पनीयत्वेनेति शेषः | तदभावेनेति | कल्मष निरासाभावेन कल्मषेणेत्यर्थः | कल्पमिति तुल्यमित्यर्थः | न च नियमार्थवत्वायेत्यादि पूर्वं ग्रंथे नियमादृष्टस्य कल्मष निवृति द्वाराज्ञानोत्पत्तौ हेतुत्व मुक्तं अत्र चोत्पन्नेन ज्ञानेनाविद्यानिवृत्यै जननीयायां तत्र प्रतिबंधक कल्मषनिरासद्वारा श्रवणनियमादृष्टस्य साधनत्वोक्तौ पूर्वापरविरोध इति वाच्यं मतभेदेन विरोधाभावात् | नन्वेवमप्युत्पन्ना ब्रह्मविद्या स्वकार्या विद्यानिवृत्तये नियमादृष्टसाध्यां कल्मषनिवृतिमपेक्षत इत्ययुक्तं प्रमात्वाच्छ्रुक्त्यादि प्रमावदिति मत्वाशंकते | न च ज्ञानोदय इति | अनिवृत्यनुपपतिरिति | अज्ञाननिवृतिरेवस्यादित्यर्थः | शुक्तिप्रमास्थले अन्यायेक्षा भावेपि प्रतिबिंब भ्रमस्थले विशेष दर्शनस्य प्रतिबंधकाभावापेक्षादर्शनेन ब्रह्मविद्याया अपि तदपेक्षोपपतेरिति परिहरति || एवं च लिखितपाठादिनापि स्वाध्याय ग्रहण प्. १७अ) प्रसक्तौ गुरुमुखाधीनाध्ययन नियमविधिवत्स्वप्रयत्नमात्रपूर्वकस्यापि वेदांतविचारस्य सता निश्चयरूपब्रह्मसाक्षात्कारार्थत्वेन पक्षे प्राप्तौ गुरुमुखायीन श्रवणनियमविधिरयमस्तु न च तद्विज्ञानार्थं स गुरुमेवाभि गच्छेदिति गुरूपसदनविधिनैव गुरुरहितविचारव्यावृति सिद्धेर्विफलो नियमविधिरिति शंक्यं || प्रतिबंधकाभावस्येति | यद्यपि प्रतिबंधकाभावस्य सिद्धांतेन कुत्रापि हेतुत्वं तथापि अप्रतिवद्धा सामग्री कार्य हेतुरित्युपगमादस्त्येवावच्छेदक तथा प्रतिबंधकाभावापेक्षेति भावः | तदनिवृत्युपपतेरिति | गुरुरहितविचारसाध्यविद्यया अविद्यानिवृत्यभावोपपतेरित्यर्थः | श्रवणनियमविधिं सदृष्टांतमुपपादयति | एवं चेति | गुरुरहितविचारस्य व्यावर्त्यस्य लाभे सतीत्यर्थः | लिखितेति अभ्युदय निःश्रेयस कामस्य वेदार्थानुष्टानं विनानाभ्युदयादि सिद्धिः | तदनुष्ठानं च वेदार्थज्ञानं विना न संभवति तदर्थज्ञानं च स्वाध्याय पदवाच्य वेदावाप्तिं विना न संभवति | वेदावाप्तिं प्रति च गुरुमुखोच्चारणानूचारणालक्षणमध्ययनं लिखित पाठादिश्च साधनत्वेन लोके प्रसिद्धं | तथा चाध्ययनविधि वाक्येन वेदाध्ययनं नियम्यते प्. १७ब्) अध्ययनेनैव अक्षरावाप्तिं संपादयेदिति तेन च लिखितपाठादि व्यावृतिर्लभ्यते यथा तथा प्रकृतेपीत्यर्थः | ननु ब्रह्मविज्ञानार्थं गुर्वभिरामनं श्रूयते न च तस्य श्रुतिजन्ये ब्रह्मज्ञाने साक्षात्साधनत्वमस्ति अतस्तेन ज्ञाने जनर्नायेद्वारापेक्षायां गुर्वधीनविचार एव योग्यतया द्वारत्वेन कल्प्यतेनत्वदृष्टं दृष्टद्वार संभवे अदृष्टकल्पनायोगात् | गुर्वभिगमनस्य गुर्वधीनविचारद्वाराज्ञानसाधनत्वे अभिगमनविधिनासिद्धे तेनैव गुरुरहितविचारव्यावृतिसिद्धेर्निष्फलः श्रोतव्यवाक्ये श्रवणनियमविधिरिति शंकते | नचेति | ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेनेति पूर्ववाक्ये निर्दिष्टो ब्राह्मणस्स इति परामृश्यते निर्वेदं वैराग्यं आयात् प्राप्नुयादिति यावत् | केन प्रकारेणेत्यत आह श्रुतिरकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीति | अतो मोक्षं ब्रह्मज्ञानसाध्यं ज्ञात्वा तद्ज्ञानार्थं गुरुमभिगच्छेदित्यर्थः | श्रोतव्य वाक्येन गुर्वधीन विचारे नियमिते सति तदंगतया गुर्वभिगमनं विधीयते श्रवणविध्यभावेतूप || गुरूपसदनस्य श्रवणांग तया श्रवणविध्यभावे तद्विधिरेव नास्तीति तेन तस्य वैफल्याप्रसक्तेः | अन्यथाध्ययनांगभूतोपगमन विधिनैव लिखित पाठादि व्यावृतिरित्यध्ययन नियमोपि विफलः स्यात् प्. १८अ) अथवाऽद्वैतात्मपरभाषाप्रबंध श्रवणस्य पक्षे प्राप्त्या वेदांतश्रवणनियमविधिरस्तु | न च न म्लेच्छित वा इत्यादि निषेधादेव तदप्राप्तिः शास्त्रव्युत्पतिमांद्याद्वेदांतश्रवणमशक्यमिति पुरुषार्थनिषेधमुल्लंघ्यापि भाषाप्रवंधेनाद्वैतं जिज्ञास मानस्य तत्रापि प्रवृति संभवेन नियम विधेरर्थवत्वोपपतेः || गमनविधेरात्मलाभा भावान्नश्रवणविधिवैफल्यापादकतेति परिहरति | गुरूपसदनस्येति | अंगविधिना प्रधानविधिवैफल्यापादने अतिप्रसंगमाह | अन्यथेति | विधिनैवेति गुरूपगमनस्याक्षरावाप्तिं प्रति अध्ययनरूपदृष्टद्वारसंभवे तत्यागायोगादिति भावः | व्यावर्त्यांतरमाह | अथवेति नियमविधिरस्त्विति | अद्वैतं जिज्ञासमानेन वेदांता एव विचारणीया न भाषा प्रवंधा इति विचारविषयनियमविधिरस्त्वित्यर्थः | ननु म्लेच्छशब्दितस्य भाषा प्रबंधरूपा व्यक्तशब्दस्योच्चारणं पुरुषेणाकर्तव्यं | अन्यथा पुरुषः प्रत्यवायी भवेदिति निषेधवलादेवश्रवणाधिकारिणो भाषाप्रबंधव्यावृतिसिद्धेः किं विधिनेति शंकते | न च नेति | यदि भाषानिषेधस्य ज्ञानांगत्वंस्यात् तदा तन्निषेधमुल्लंघ्य तत्र प्रवृतौज्ञाअनानुत्पतिभयेन तत्र न प्रवर्तेतनत्वे तदस्ति पुरुषार्थत्वातन्निषेधस्य तथा प्. १८ब्) च तन्निषेधमुलंघ्यापि कदाचिद्भाषादिश्रवणे प्रवृतिस्संभवतीति हरति | शास्त्रव्युत्पतीति | उल्लंघने हेतुमाह अशक्यमिति | अशक्यत्वे हेतुर्व्युत्पतिमांद्यं | ननु यस्याधिकारिणो व्युत्पतिमांद्याद्वेदांतश्रवणमशक्यंतं प्रतिवेदांतविचारनियमविधिः कथमशक्यार्थे विध्यनुपपतेरिति चेन्न मंदस्य भाष्यादि विचारासंभवेपि वेदांतप्रकरणविचारस्य मंदाधिकारिणोपि संभवात् | तदुक्तं | पंचदश्यां मंदप्रज्ञं तु जिज्ञासुमात्मानंदेन बोधयेत् | बोधयामास मैत्रेयीं याज्ञवल्क्यो निजां प्रियामिति आत्मानंदनामकप्रकरणेनेत्यर्थः || अभ्युपगम्यते हि कर्त्रधिकरणे व्युत्पादितं पुरुषार्थेऽनृतवदननिषेधे सत्यपि दर्शपूर्णमासमध्ये कुतश्चिद्धेतोरंगीकृत तन्निषेधो लंघनस्या विकलांक्रतु सिद्धिं कामयमानस्यानृतवदने प्रवृतिः स्यादिति पुनः क्रत्वर्थ तया पूर्णमासप्रकरणेनानृतं वदेदिति निषेध इति क्रत्वर्थ तया निषेधस्यार्थवत्वं | यद्वा यथा मंत्रैरेव मंत्रार्थ स्मृतिः साध्येति नियमस्तन्मूल कल्पसूत्रात्मीय ग्रहणक वाक्यादीनामपि पक्षे प्राप्तेस्तथा वेदांतमूलेतिहासपुराणपौरुषेय प्रबंधानामपि पक्षे प्राप्ति प्. १९अ) संभवान्नियमोयमस्तु || पुरुषार्थनिषेधमुलंघ्यापि महाफलसिध्यर्थं निषिद्धे प्रवृतिस्तन्निषेधेन विधेरर्थवता च मीमांसकैरपि स्वीकृतेत्याह | अभ्युपगम्यतेहीति | अंगीकृतं निषेधोलंघनं येन स तथोक्तः | कुतश्चिदित्यनेन सूचितं हेतुमाह | अविकलामिति | अर्थवत्वमिति | व्युत्पादितमिति पूर्वेणान्वयः व्यावर्त्यांतरमाह | यद्वेति | मंत्रैरेवेति | अग्निर्मूर्द्धेत्यादयो मंत्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः किमुचारणमात्रेणादृष्टं कुर्वंतः क्रतावुपकारं कुर्वंति उत दृष्टेनैवार्थ स्मरणेनेति संदेहे कल्पसूत्रादि नापि अनुष्ठेयार्थ स्मृति संभवाददृष्टाथां मेत्रा इति प्राप्तेराद्धांतः मंत्राणामर्थप्रकाशन द्वाराक्रतूपकारकत्वं दृष्टद्वारसंभवे दृष्टकल्पनानुपपतेस्तथा च फल वदनुष्टानापेक्षितक्रिया तत्साधनस्मरणद्वारा मंत्राणां कर्मांगत्वं न च क्रिया तत्साधनस्मरणस्य मंत्रैरिवकल्पसूत्रादिभिरपि संभवान्न तस्य द्वारत्वमिति वाच्यं | मंत्रैरेव मंत्रार्थः स्मर्तव्य इति नियमविधि संभवात् | नियमस्तु दृष्टार्थो भविष्यति | तदुक्तं | यत्र दृष्टन्न लभ्यतेऽतःस्या तत्रा दृष्टकल्पनेति तथा च यथा मंत्रनियमविधिना मंत्रमूलक कल्पसूत्रादि व्यावृतिः क्रियते तथा अधीत सांगस्वाध्यायेन ब्रमजिज्ञासुना वेदांता एव विचार्या इति वेदांत नियमे कृते तन्मूलेतिहासादीनां व्यावृतिर्लभ्यत इति दृष्टांतदार्ष्टांतिक ग्रंथयोरर्थः | याज्ञिकैः प्रणीतमनुष्टान समवेत पदार्थ संग्राहक वाक्यं प्. १९ब्) ग्रहणकवाक्यं इतिहासौ महाभारतं पौरुषेय प्रबंधः प्रबोधचंद्रोदयादिः उदाहृतानिव्या || सर्वथानियमविधिरेवायं सहकार्यंतरविधिरित्यधिकरणभाष्ये अपूर्वविधित्वोक्तिस्तु नियमविधित्वेपि पाक्षिक्य प्राप्ति सद्भावा तदभिप्रायेति | तत्रैव पक्षेणेति पाक्षिक्य प्राप्ति कथनपरसूत्रपदयोजनेन स्पष्टीकृतमिति | विवरणानुसारिणः | कृतश्रवणस्य प्रथमं शब्दात् | निर्विचिकित्संपरोक्षज्ञानमेवात्पद्यते | शब्दस्य परोक्षज्ञान जननस्वाभाव्येन कॢप्त सामर्थ्यानति लंघनात् || वर्त्यान्युपलक्षणमन्येषामपि व्यावर्त्यानां संभवात् | तथा हि तत्कारणं सांख्ययोगाभिपन्नमिति श्रुतौ ब्रह्मप्रतिपति द्वारा तत्प्राप्तिं प्रति उपायद्वयं निर्दिष्टं श्रवणमनन ध्यानात्मकस्सांख्यशब्दार्थ एकः तृतीय परिच्छेदे वक्ष्यमाणो योगपदोदितः उपासनामार्गस्त्वपरः | तत्प्रकृतं कारणं जगत्कारणत्वेनोपलक्षितं ब्रह्मसांख्ययोगाभ्यां क्षानद्वाराभिपन्नं आभिमुख्येन प्रत्यक् त्वेन प्राप्तमिति श्रुत्यर्थः | तथा सगुणब्रह्मोपासनमुपासकस्य ब्रह्मलोकं प्. २०अ) गतस्य तत्वसाक्षात्कार द्वाराब्रह्मप्राप्ति हेतुरिति ब्रह्ममीमांसायां प्रसिद्धं तथा तपो विशेषादिकं साक्षातत्वज्ञानसाधनत्वेन पुराणादि प्रसिद्धमुदाहर्तव्यं तथा च गुरुवेदांतेषु श्रद्धावतः कुशलस्य श्रवणाधिकारिणस्तत्वज्ञानार्थमुक्तेषु योगमार्ग सगुणोपासनतपो विशेषादिष्वपि वेदांतश्रवण इव कदाचित् प्रवृतिः स्यादिति तन्निवृतिफलको नियमविधिः संभवति नियमविधिपक्षमुपसंहरति | सर्वथेति | ननु नियमविधित्वपक्षे सहकार्यंतरविधिरित्यधिकरणभाष्य विरोध इत्यत आह | सहकार्यंतरेति | अपूर्वविधित्वस्य निराकृतत्वादिति भावः | तत्रैवेति | तदधिकरणभाष्य एवेत्यर्थः | श्रोतव्यवाक्येन निर्विचिकित्स परोक्ष शाब्दज्ञानो देशेनैव श्रवणं विधीयते न तु शाब्दसाक्षात्कारोद्देशेन शब्दस्य स्वतः परोक्षज्ञानजनन स्वाभाव्यात् | विचारसहकृतस्यापि शब्दस्य क्वापि साक्षात्कार हेतुत्वादर्शनाच्च परोक्षज्ञानफलकोप्ययंनापूर्वविधिः विधिं विनापि शब्दे शाब्दज्ञान हेतुत्वस्य विचारे विचार्यनिर्णय हेतुत्वस्य च प्राप्तौ तदुभयवलेन विचारविशिष्टवेदांतरूपश्रवणस्य निर्वि * कित्स शाब्दज्ञान हेतुत्व प्राप्तेस्साधितत्वात् | किंतु पूर्वोक्तान्येव व्यावर्त्यान्यादायनियमविधिरेवेति मतमाह | कृतश्रवणस्य प्रथममिति || पश्चात्तु कृतमनननिदिध्यासनस्य सहकारि विशेष संपन्ना तत एवापरोक्षज्ञानं जायते प्. २०ब्) तत्तांशगोचरज्ञानासमर्थस्यापींद्रियस्य तत्सामर्थ्य संस्कारसाहित्यात्प्रत्यभिज्ञा न जनकत्ववत्स्वतोऽपरोक्षज्ञानजनना समर्थस्यापि शब्दस्य विधुरपरिभावित कामिनी साक्षात्कारस्थले तत्समर्थत्वेन कॢप्त भावना प्रचयसाहित्यादपरोक्षज्ञानजनकत्वं युक्तं ततश्च शब्दस्य स्वतः स्वविषये परोक्षज्ञानजनकत्वस्य भावना प्रचय सहकृतज्ञानकरणत्वावच्छेदेन विधुरांतः | करणवद परोक्षज्ञान जनकत्वस्य च प्राप्तत्वात्पूर्ववन्नियमविधिरिति तदेक देशिनः || ननु मनननिदिध्यासने किं निर्विचिकत्स शाब्दपरोक्षज्ञानोद्देशे नैव विधीयेते किं वा शाब्दा परोक्षं प्रतिनाद्यः मननाद्यनुष्टानात्प्राक् श्रवणमात्रादेव तत्सिद्धेर्न द्वितीयः | शब्दस्य परोक्षज्ञानजनन एव सामर्थ्यस्य त्वदभिमतत्वादित्या शंकां द्वितीयपक्ष परिग्रहेण परिहरति पश्चादिति | शाब्दनिर्विचिकत्स परोक्षज्ञानानंतरमित्यर्थः | कृते मनननिदिध्यासने येन सः तथोक्तः | तत एवेति शब्दादेवेत्यर्थः | सहकारिवैचित्र्यात्कार्य वैचित्र्यदर्शनादिति भावः | तदेवोदाहरणेन दर्शयति | ततांशेति तत्सामर्थ्येति | तत्रांशगोचरज्ञानजननसामर्थ्यमित्यर्थः | प्. २१अ) शब्दस्येति शब्दस्यापरोक्षज्ञानजननकत्वं युक्तमित्युतरत्रसंबंधः | ननु तत्रा संस्कारस्य इंद्रिय सहकारित्वेन कॢप्तावपि भावना प्रचयस्य ज्ञानकरण सहकारित्वेन साक्षात्कारजननसामर्थ्यं न क्वापि कॢप्तमित्याशंक्याह | विधुरेति | तत्समर्थेत्यत्र साक्षात्कारजननं तच्छब्दार्थः नन्वेवमपि शब्दसहकारित्वेन मननध्यानात्मक भावना प्रचयस्य मानांतरेण शाब्दसाक्षात्कारं प्रतिहेतुत्वा प्राप्तेर्मननादि विधेरपूर्वविधित्वप्रसंग इति नेत्याह | ततश्चेति | परोक्षज्ञानजनकत्वस्यापरोक्षज्ञानजनकत्वस्य च प्राप्तत्वादिति संबंधः | परोक्षज्ञान हेतुत्वस्य प्रात्थमिधानं श्रवणविधेर्नियम विधित्वार्थमिति द्रष्टव्यं विपुरेति भावना सह कृतस्य || वेदांतश्रवणेन न ब्रह्मसाक्षात्कारः किं तु मनसैव मनसैवानुद्रष्टव्यमिति श्रुतेः | शाश्त्राचार्योपदेश शमादिसंस्कृतमन आत्मदर्शने करणमिति गीताभाष्यवचनाच्च | श्रवणं तु निर्विचिकित्स परोक्षज्ञानार्थमिति तादर्थ्येनैव नियमविधिरिति केचित् || विदुरांतःकरणस्य कामिनी साक्षात्कारहेतुत्व दर्शनस्थले वहिरस्वतंत्रमप्यंतःकरणं बाह्यवस्तु भावना सहकृतं सतत्साक्षात्कार हेतुरिति विशिष्य कार्यकारण भावे प्. २१ब्) गृहीतव्ये लाघवात् | बाधका भावाच्च भावना प्रचय सहकृतं ज्ञानकरणत्वावच्छिन्नमपरोक्षज्ञानं प्रतिहेतुरिति कार्यकारणभावोग्र ह्यत इति भावः | अत्र शब्दस्य परोक्षज्ञानजननस्वाभाव्यमेवासिद्धं ज्ञानगत परोक्षत्वादेः करविशेष प्रयुक्तत्वस्य निराकरिष्यमाणत्वादतः शाब्दापरोक्षं प्रतिमननादेरिव श्रवणस्यापि विधिर्नानुपन्न इत्यस्वरसंसूचयति | तदेकदेशिन इति विवरणैक देशिन इत्यर्थः | मतांतरमाह | वेदांतश्रवणेन न ब्रह्मसाक्षात्का * इति | शब्दस्य परोक्षज्ञानजनन स्वाभाव्येन कॢप्त सामर्थ्यानति लंघनादिति हेतुरत्रापि मते दृष्टव्यः | किं तर्हि ब्रह्मसाक्षात्कारे करणमिति पृच्छति किं त्विति | मन एव करणमिति मत्वा तत्र मानमाह | मनसैवेति | क्वचित् किंत्वित्यनंतरं पृथक् मनसैवेति पाठोस्ति तदानानुपपतिः | तत्रैव भाष्य संमतिमाह | शास्त्रेति | शास्त्रं तत्वमस्यादि वाक्यमाचार्योपदेश आचार्य कर्तृक वाक्यार्थ विवरणरूप आदि पदंद मतितिक्षादि संग्रहार्थं | तथा चात्र ब्रह्मसाक्षात्कारस्य मानसत्व प्रतिपादनेन तत्कारणमनस्सहकारितयैव मनननिदिध्यासनयोर्विधिर्न्न तु पूर्वमत इव शाब्दसाक्षात्कारकारणशब्द सहकारितयेति पूर्वमतादस्य मतस्य विशेषः सूचितो भवति | श्रवणे तु पूर्वमतादविशेषमाह | श्रवणंत्विति | तादर्थ्येनैवेति निर्विचिकित्स शाब्दपरोक्षज्ञानार्थत्वेनैवेत्यर्थः || प्. २२अ) अपरोक्षज्ञानार्थत्वेनैव श्रवणे नियमविधिः द्रष्टव्य इति फलकीर्तनात् | तादर्थ्यं च तस्य करणभूतमनः सहकारितयैव न साक्षात् | शब्दादपरोक्षज्ञानानंगीकारात् | न च तस्य तेन रूपेणतादर्थ्यं न प्राप्तमित्यपूर्वविधित्व प्रसंगः | श्रावणेषु षड्भादिषु समारोपित परस्पराविवेकनिवृत्यर्थं गांधर्वशास्त्रस्य श्रवण सहकृत श्रोत्रेण परस्परा संकीर्णतया तद्याथार्थ्या परोक्षदर्शनेन प्रकाशमाने वस्तुन्यारोपिताविवेकनिवृत्यर्थं शास्त्रसद्भावे तच्छ्रवणं तत्साक्षात्कारजनकेंद्रिय सहकारि भावेनोपयुज्यत इत्यस्य कॢप्तत्वादित्येके || मतांतरमाह | अपरोक्षज्ञानेति | ननु तर्करूपविचारात्मकस्य श्रवणस्य स्वतः साक्षात्कार फलत्वा योगातदनुग्राह्यं प्रमाणं वक्तव्यं तच्च किमित्यपेक्षायामाह | तादर्थ्यं चेति | साक्षात्कारार्थत्वं चेत्यर्थः | तस्येति | वेदांतश्रवणस्येत्यर्थः | करणभूतेति ब्रह्मसाक्षात्कारकरणभूतेत्यर्थः | न तु ब्रह्मसाक्षात्कारकरणशब्द सहकारितयेत्येव कारार्थः | न साक्षादिति वेदांत श्रवणस्य साक्षात्स्वातंत्र्येण साक्षात्कारजनकत्वं नास्ति तस्य तर्करूपतया स्वतः प्रमाणत्वा प्. २२ब्) भावादिति भावः | मनः सहकारितयैवेत्येव कारार्थे हेतुमाह | शब्दादिति | तस्येति वेदांतश्रवणस्येत्यर्थः | तेन रूपेणेति साक्षात्कारकरणमनस्सहकारिंत्वेन रूपेणेत्यर्थः | साक्षात्कारकरणमनस्सहकारित्वेन प्राप्त्यभावेपि तत्करणेंद्रिय सहकारित्वेन प्राप्तिरस्तीत्याह | श्रावणेष्विति | श्रोत्रजन्य प्रत्यक्षविषयेष्वित्यर्थः | षड्गादिष्विति | षड्गादयो ध्वनिवेशेषास्तेषु गांधर्वशास्त्रश्रवण रहितस्य परस्परमविवेकस्समारोपितो वर्तते परस्परमविवेको नाम परस्परं तादात्म्यरूपः परस्परधर्मवतारूपश्चेति बोध्यं गांधर्वशास्त्रविचारवतश्च तद्विचार सहकृत श्रोत्रेंद्रियेणैव षड्गादयः परस्परं विविक्ततयानुभूयंते एवं मनसांतरिंद्रियेणानुभूयमानेषु चिदात्मप्राण शरीरादिषु परस्परं तादात्म्यादि रूपाविवेकः प्राणिनामनुभव || वेदांतवाक्यानामद्वितिये ब्रह्मणि तात्पर्य निर्णयानुकूल न्यायविचारात्मक चेतो वृतिविशेषरूपस्य श्रवणस्य न ब्रह्मणि परोक्षमपरोक्षं वा ज्ञानं फलं तस्य शब्दादि प्रमाणफलत्वात् | न चोक्त रूपविचारावधारित तात्पर्य विशिष्टशब्दज्ञानमेव श्रवणमस्तु | तस्य ब्रह्मज्ञानं फलं युज्यते इति | प्. २३अ) वाच्यं | ज्ञाने विध्यनुपपतेः | श्रवणविधेर्विचार कर्तव्यता विधायक जिज्ञासा सूत्रमूलत्वोपगमाच्चोहापोहात्मक मानस क्रियारूपविचारस्यैव श्रवणत्वौवित्यात् || सिद्धोत्रापि यद्यारोप निवर्तकं शास्त्रमस्ति तदा तत्सहकृतमंतरिंद्रियमेव बुध्यादि विविक्तमात्मानं ब्रह्मस्वरूपतया वेदांतैः प्रतीयमानं साक्षात्कारयेदिति विचारवात्पुरुषः षड्गादि स्वरसाक्षात्कार स्थले कार्यकारणभावं कल्पयतीत्याह | प्रकाशमान इति | तच्छ्रवणं शास्त्रश्रवणं | तत्साक्षात्कारेति प्रकाशमान वस्तुसाक्षात्कारेत्यर्थः | उपयुज्यते विविक्ततया वस्तुसाक्षात्कार हेतुर्भवतीत्यर्थः | इत्यस्येति | इति उक्त प्रकारेणास्य साक्षात्कारकरणभूतेंद्रिय सहकारित्वस्य वेदांतश्रवणे विधिं विनैव प्राप्तवान्नापूर्वविधित्वप्रसंग इत्यर्थः | उक्तेषु पक्षेषु शाब्दाद्य परोक्षोद्देशेन वा शाब्दपरोक्षोद्देशेन वा श्रवणविधिरिति स्थितं | इदानीं प्रतिबंधनिरासोद्देशेनैव तद्विधिरिति मतांतरमाह | वेदांतवाक्यानामिति | प्रमेयासंभावनानिवृत्यनुकूलन्याय विचारात्मक मननव्यावृतये तात्पर्य निर्णयानुकूलेत्युक्तं | तन्निर्णयानुकूलन्यायाश्रोपक्रमादय इति बोध्यं चितोवृति विशेषपदेन यत्नसाध्यक्रियारूपावृतिर्विवक्षिता न तु तदसाध्याज्ञानरूपावृतिर्विवक्षिता प्. २३ब्) ज्ञानस्य विध्ययोग्यताया वक्ष्यमाणत्वात् | ब्रह्मणीति विषयसप्तमी | तस्येति ज्ञानस्येत्यर्थः | आदिपदं प्रत्यक्षादि संग्रहार्थं ज्ञानोद्देशेन श्रवणं विधीयत इति मताभिमतं श्रवणशब्दार्थमनूद्यनिरा करोति | न चोक्त रूपेति | ब्रह्मजिज्ञासा सूत्रस्य साधन चतुष्टय संपन्नेन ब्रह्मज्ञानाय वेदांतविचारः कर्तव्य इत्यर्थः | सौत्रजिज्ञासा पदस्य विचारलक्षकत्वा | तस्य च सूत्रस्य श्रोतव्यवाक्यं मूलं ततश्च श्रोतव्य वाक्ये यदि श्रवणं ज्ञानरूपं तदा श्रोतव्य इत्यस्य श्रवणरूपज्ञान कर्तव्यता अर्थःस्या तथा च जिज्ञासा सूत्रश्रोतव्य वाक्ययोर्मूलमूलिभावो न स्यादेकार्थत्वा भावादित्याह | श्रवणविधेरिति | ऊहः न्यायाभासेभ्यो निष्कृष्य न्यायानामुपादानं न्यायाभासनिराकरणमपोहः | न च विचारस्यैव तात्पर्य निर्णय द्वारातज्जन्य तात्पर्य भ्रमादि पुरुषापराधरूप प्रतिबंध विगमद्वारा वा ब्रह्मज्ञानं फलमस्त्विति वाच्यं तात्पर्य ज्ञानस्य शाब्दज्ञाने कारणत्वानुपगमात् | कार्ये क्वचिदपि प्रतिबंधकाभावस्य कारणत्वानुपगमाच्च तयोर्द्वारत्वानुपपतेः | ब्रह्मज्ञानस्य विचाररूपातिरिक्तकारणजन्यत्वे तत्प्रामाण्यस्य परतस्त्वापतेश्च || प्. २४अ) ननु सदेव सोम्येत्यादि तत्सत्यं स आत्मातत्वमसीत्ये तदंतं वाक्यजातमद्वितीय वस्तु परम द्वितीय वस्तु प्रतिपादकोपक्रमोपसंहारवत्वादित्येवमात्मकस्य विचारस्यानुमितिरूपं तात्पर्य निद्धांरणं साक्षात्फलं तत् द्वारा तात्पर्यमुमादि रूपप्रतिबंधकनिवृतिर्विचारस्य फलं तन्निवृतौ च वाक्यमप्रतिबद्धं सदद्वितीय ब्रह्मबोधं जनयति | एव श्रुत्यंतरेष्वपीति वस्तुगतिः | तथा च श्रवणस्य साक्षाद्ब्रह्मज्ञान फलकत्वाभावेपि परंपरया तत्फलकत्वं स्यादिति शंकते | न च विचारस्यैवेति | अप्यर्थ एव कारस्तथा च | यथा ज्ञानं शब्दप्रमाणस्य फलं तथा तद्विचारस्यापि फलमस्तु शब्दप्रमाणफले ज्ञाने विचारस्यापि तात्पर्य निर्णयद्वारातदधीन प्रतिबंध निरासद्वारा वा हेतुत्व संभवादित्यर्थः | तज्जन्यत्वं विगमविशेषणं भ्रमादिरेव पुरुषापराधः तात्पर्यज्ञानस्य द्वारत्वाभावे हेतुमाह | तात्पर्यज्ञानस्येति | प्रतिबंध निरासोपजननेनान्यथा सिद्धत्वादिति भावः | तार्यज्ञानस्य शाब्दबोधं प्रति हेतुत्वाभावे विचारस्य तात्पर्य निर्णयसाध्य प्रतिबंध निवृतिद्वारा शाब्दबोध हेतुत्वं दूरायास्तमिति मत्वा प्रतिबंधकाभावस्याहेतुत्वे हेतुमाह | कार्ये क्वचिदपीति | सत्यामपि सामग्र्यां प्रतिबंधवशात्कार्यं न जातमिति लोकव्यवहारविरोधात् | प्रतिबंधकाभावस्य सामग्र्यामंतर्भावोनांगी क्रियते | किं त्व प्रतिवद्धसामग्री कार्यहेतुरिति स्वीकृत्य सामग्र्यामवच्छेदकतया दंडत्वादि वदन्यथा सिद्धिरेव स्वीक्रियत इति भावः तात्पर्यानु || प्. २४ब्) तस्मातात्पर्यनिर्णय द्वारापुरुषापराध निरासार्थत्वेनैव विचाररूपे श्रवणे नियमविधिः | द्रष्टव्य इति तु दर्शनार्हत्वेन स्तुतिमात्रं न श्रवणफल कीर्तनमिति संक्षेपशारीरकानुसारिणः ब्रह्मज्ञानार्थं वेदांतश्रवणे प्रवृतस्य चिकित्साज्ञानार्थं चरकसुश्रुतादि ग्रंथश्रवणे प्रवृतस्येव मध्ये व्यापारांतरेपि प्रवृतिः प्रसज्यत इति तन्निवृति फलकः श्रोतव्य इति परिसंख्याविधिः || मितिहेतु विचारात्मकानुमानस्य शाब्दप्रमिति हेतुत्वे दूषणमाह | ब्रह्मज्ञानस्येति | अतिरिक्तेति शब्दप्रमाणाति रिक्तेत्यर्थः | परतस्त्वापतेरिति | प्रामाण्याश्रयज्ञानस्यातिरिक्त कारणजन्यत्वरूपं प्रामाण्यस्योत्पतौ परतस्त्वं स्यादित्यर्थः | ततश्चाप सिद्धांत इति भावः | यदि श्रवणस्य न ब्रह्मज्ञानं फलं तर्हि किमुद्देशेन तद्विधिरत आह | तस्मादिति | ब्रह्मज्ञान फलकत्वा संभवादित्यर्थः | ननु तर्हि कथं द्रष्टव्य इति श्रवणफल कीर्तनं तत्राह | द्रष्टव्य इति त्विति | स्तुतिमात्रमिति | आत्मन इति शेषः स्तुतिश्च तच्छ्रवणादौ प्रवृत्यथैति भावः | परिसंख्याविधि पक्षमाह | ब्रह्मज्ञानार्थमिति | ननु वाचस्पति मते वक्ष्यमाणरीत्या वेदांतश्रवणस्य नित्यप्राप्तिं सिद्धां कृत्वा परिसंख्याविधि प्. २५अ) पक्षप्रवृतिर्वाच्या | तथा च सति ज्ञानमुद्दिश्य श्रवणाव्वनुतिष्ठतः कथं व्यापारांतरं प्रसज्येत यतस्तन्निवृति फलकः परिसंख्याविधिः संभवेदित्याशंक्य ब्रह्मज्ञानसाधनत्वेन व्यापारांतरा प्रसक्तावपि भेदवासनावशाद्व्यापारांतरं संभवतीति सदृष्टांतमाह | चिकित्सेति | चिकित्सा औषधं तद्ज्ञानस्य वैद्यकग्रंथैक साध्येन तद्ज्ञानाय चरकसुश्रुतादि संज्ञकग्रंथश्रवणे प्रवृतस्य तादर्थ्येन व्यापारांतरा प्रसक्तावपि यथा विषयवासनावशादेव तत्प्रसक्तिस्तद्वदित्यर्थः || ब्रह्मसंस्थोऽमृतत्वमेतीति छांदोग्येनन्यव्यापारत्वस्य मुक्तपायत्वावधारणात् | संपूर्वस्य तिष्ठतेः समाप्ति वाचि तया ब्रह्मसंस्था शब्दिताया ब्रह्मणि समाप्तेरनन्यव्यापारत्वरूपत्वात् | तमेवैकं जानथ आत्मानमन्यावाचो विमुंचथेत्यार्थर्वणे कंठत एव व्यापारांतरप्रतिषेधाच्च | आसुप्तेरामृतेः कालं नयेद्वेदांतचितयेत्यादि स्मृतेश्च | न च ब्रह्मज्ञानानुपयोगिनो व्यापारांतरस्य श्रवणेन सहैकस्मिन् साध्ये समुच्चित्यप्राप्त्यभावान्न तन्निवृत्यर्थः परिसंख्याविधिर्युज्यत इति वाच्यं || प्. २५ब्) ननु सुश्रुतादि ग्रंथश्रवणे प्रवृत्तस्य व्यापारांतर सत्वेपि यथा चिकित्सा ज्ञानं निष्प्रत्यूहमुत्पद्यते | तथा प्रत्यहं वेदांतश्रवणमनुतिष्ठतो मध्ये मध्ये लौकिक वैदिक व्यापार सत्वेपि ब्रह्मज्ञानोदय संभवान्निष्फलः | परिसंख्याविधिरित्याशंक्य श्रवणविध्यर्थवत्वायनिन्तरमनुष्वितश्रवणस्यैव ज्ञानसाधनत्वं न कादाचित्कस्यातो न नैष्फल्यमिति | परिहारमभिप्रेत्य यथोक्तार्थे श्रुतिस्मृतिवाक्यान्युदा हरति | ब्रह्मसंस्थ इति न विद्यते अन्यो व्यापारो यस्य पुरुषस्य स तथा तस्य भावस्तत्वं तस्येत्यर्थः | ब्रह्मविषयक श्रवणादि व्यापाराच्छमदमाद्युपबृंहितादन्य व्यापारशून्यत्वस्येति यावत् | तथा च संन्यासाधिकरणभाष्यं शमदमाद्युपवृंहितं ब्रह्मनिष्ठत्वं तस्य स्वधर्मस्तदति क्रमे च तस्य प्रत्यवाय इति | अवधारणं निश्चयः ब्रह्मसंस्थपदेनायमर्थः कथं लभ्यत इत्यत आह | संपूर्वस्येति | न च ब्रह्मणि समाप्तिर्नामविदेहकैल्यरूपोलय एवास्त्विति वाच्यं | तथा सति पुनरमृतत्वमेतीति भागवैयर्थ्यापतेरतोमृतत्वप्राप्तिं प्रति ब्रह्मसंस्थता उपायत्वेन विधीयत इति वक्तव्यमतो ब्रह्मणि समाप्तेरनन्य व्यापारत्वे पर्यवसानं भाष्ये कृतं | तथा चानन्य व्यापारत्वस्य मुक्त्युपायत्वबोधक वाक्येनार्थान्मुमुक्षोर्व्यापारांतरनिवृतिः क्रियत इति भावः | साक्षान्निवृति बोधकवाक्यमुदाहरति | तमेवैकमिति | यस्मिन्नाधारेद्या वा पृथिव्यादि समस्तं जगदध्यस्ततमेवाधारमेकरूपमात्मानं जानथ || प्. २६अ) सहकार्यांतरविधिरित्यादि सूत्रे यस्मात् पक्षे भेददर्शन प्रावल्यान्न प्राप्नोति तस्मान्नियम विधिरिति तद्भाष्ये च कृत श्रवणस्य शाब्दज्ञानमात्रात्कृतकृत्यतां मन्वानस्याविद्यानि च | तर्क साक्षात्कारोपयोगिनिदिध्यासने प्रवृतिर्नस्यादिति अतत् साधनस्य पक्षप्राप्तिमात्रेण निदिध्यासने नियमविधेरभ्युपगत तयातन्न्यायेनासाधनस्य समुच्चित्याप्राप्तावपि तन्निवृतिफलकस्य परिसंख्याविधेः संभवादिति नियमः परिसंख्या वा विध्यर्थोत्र भवेद्यतः | अनात्मादर्शनेनैव परात्मानमुपास्मह इति वार्तिक वचनानुसारिणः केचिदाहुः | आत्मा श्रोतव्य इति मननादिवदात्मविषयकत्वेन निवध्यमानं श्रवणमागमाचार्योपदेशजमात्मज्ञानमेव न तु तात्पर्यविचाररूपं न तत्र कोपि विधिः || हे मुमुक्षुवः ज्ञानसाधनत्वेन चानात्मप्रतिपादकशब्दोच्चारणादि त्यागः कर्तव्य इत्याह | श्रुतिरन्यावाचो विमुंचथेति | नियमविधिवादी शंकते | न च ब्रह्मज्ञानानुपयोगिन इति प्रतिवंद्यासमाधते | सहकार्ययंतरेति | न प्राप्नोति मौनमिति प्. २६ब्) शेषः उदाहृत सूत्रभाष्ययोर्नियमविधिवादि सम्मतं तात्पर्यं परिसंख्याविधिवादी दर्शयति | कृत श्रवणस्येति | मन्वानस्येत्यनंतरं व्यापारांतरेपि प्रवर्तमानस्येति शेषः सूत्रे भाष्ये च तत्साधनपक्षप्राप्ति मात्रेण नियमविधेरभ्युपगततयेति संबंधः | वार्तिके अत्रेत्यस्य श्रोतव्यवाक्य इत्यर्थः | अत्र नियमो विध्यर्थो भवेदित्येकः संबंधः | यदि नित्य प्राप्तत्वान्नियमविधिर्न्न संभवति तदा परिसंख्या वा विध्यर्थो भवेदिति संबंधः | परिसंख्याया विध्यर्थत्वे हेतुर्यत इत्यादिः | परमात्मोपासने अन्य व्यापाररहिते वयं मुमुक्षवो यतः प्रवृत्ता इत्यर्थः | श्रवणादीनां विधेयत्व पक्षं मतभेदेन दर्शयित्वा तेषां विध्यभावपक्षमाह | आत्मा श्रोतव्य इत्यादिना | निवध्यमानमिति | यथा आत्मविषयकत्वेनोच्यमानम्मननं निदिध्यासनं च ज्ञानरूपं तथा श्रवणमपि ज्ञानरूपमेवेत्यर्थः | न त्वितिविचारस्यानुष्ठेय क्रियारूपस्य साक्षादात्मविषयकत्वानुपपतेरिति भावः || ननु मननादि वदिति दृष्टांतोनुपपन्नः मनननिदिध्यासनयोर्ज्ञानत्वा भावात् मननं हि युक्त्यालोचनरूपो व्यापारः ध्यैचिंतायामित्यनुशासनानुरोधेन निदिध्यासनं ध्यानक्रिया न ज्ञानमतः कथं मननादि वदिति मनन निदिध्यासनयोर्ज्ञानत्वं सिद्धतयानिर्दिश्यते इति चेदुच्यते | आत्माब्रह्मस्वभावः चिद्रूपत्वात् प्. २७अ) ब्रह्मवद्बुध्यादिः कल्पितः दृश्य त्वात् | शुक्तिरजतादि वदित्याद्यनुमितेरेवमननत्वोपगमात् | तदुक्तं चतुर्थमैत्रेयी ब्राह्मण वार्तिके | आगमार्थ विनिश्चित्यैमंतव्य इति भण्यते वेदशब्दानुरोध्यत्र तर्कोपि विनियुज्यते | पदार्थविषयस्तर्कः | तथैवानुमितिर्भवेदिति श्रुतार्थदार्ढ्याय तर्करूपं मननं विधीयते सोपि तर्कः श्रुत्यविरुद्ध एव मननत्वेन विधीयते तच्च मननं तत्वं पदार्थविषयकमेव न तु वाक्यार्थविषयकं तस्य वाक्यैकमेयत्वात् | तथा शब्दः समुच्चयार्थः | यथा मननात्मक तर्कस्य वेदाविरोधित्वं तथानुमिति रूपत्वं चेत्यर्थः | अत एवन्यायतंत्रेपि | मननस्यानुमिति रूपत्वमिष्यते निदिध्यासनमपि वार्तिक कारमते ज्ञानमेव तथा हि | बृहदारण्यके चतुर्थाध्याय षष्ठाध्यायगतयोर्मैत्रेयी ब्राह्मणयोराम्नायते | आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्य इति | अनंतरं चतुर्थे मैत्रेययात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेति | षष्ठे तु मैत्रेययात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इति प्. २७ब्) इति तत्रोभयत्राक्षेपवार्तिकं | अनुवादे यथोक्तानां प्रक्रांते दर्शनादिषु विज्ञानेनेत्यथ कथं निदिध्यासनमुच्यत इति | अथ आत्माद्रष्टव्य इत्यादिना उक्तानामनुवादे प्रक्रांते सति दर्शनादिषु मध्ये श्रुतं निदिध्यासनं विज्ञानेनेति पदेन कथमुच्यते नूद्यते दर्शनादीनां समानपदैरेवानुवाद दर्शनेन निदिध्यासनस्यापि तद्वन्निदिध्यासनेनेत्यनुवादः स्यात् | न तु विज्ञान पदेनेत्यर्थः | तस्य समाधान वार्तिकं | ध्यानाशंकानिवृत्यर्थं विज्ञानेनेति भण्यते निदिध्यासन शब्देन ध्यानमाशंक्यते | यत इति | निदिध्यासनशब्दस्य ध्यान वाचि त्वात् श्रवणमननानंतरमनुभवां गत्वेन ध्यानं निदिध्यासितव्य इत्यनेन विधीयत इति यतः पूर्ववादिभिराशंक्यते | अतस्तदा शंका निवृत्यर्थमनुवादावसरे स्थित्वा पूर्ववाक्ये निदिध्यासनरूपं ज्ञानं विवक्षितं नतु ध्यानं अतो नात्रध्यानविधि शंकावकाश इत्याशयवती श्रुतिर्विज्ञानपदेन निदिध्यासनमनुवदतीति प्. २८अ) वार्तिकार्थः | ध्यानस्यानुभवांगत्वे को दोषः यतस्तदाशंका श्रुत्यानिरस्यत इत्यत आह तदनंतरं वार्तिकार्द्धं | विज्ञानोत्पति हेतुत्वं ध्यानादेः प्रागवादिषमिति ध्यानस्य तन्नीयोगस्य वा विज्ञानोत्पति हेतुत्वं प्रतियद्दूषणं वक्तव्यं तत्प्रागेव संबंधादावुक्त वानस्मीत्यर्थः | तत्र ह्युक्त तत्वं पदार्थ गोचर श्रवणमननाभ्यास सकृदभ्यस्ताभ्यां तत्वं पदलक्ष्यार्थ निर्णये सति वाक्यार्थज्ञानस्यैवावसरप्राप्तत्वेन ध्यानविधेरनवकाशात् | न च ताभ्यां प्रमाणप्रमेया संभावनानिवृत्तावपि विपरीत प्रत्ययेन प्रतिबंधान्न वाक्यार्थ बोधोत्पतिरिति वाच्यं | श्रवणमननयोरेवासकृदभ्यास महिम्ना विपरीत प्रत्ययस्यापि निवृति संभवात् वाक्यार्थ बोधनिवर्त्यस्य विपरीतप्रत्ययस्य तदप्रतिबंधकत्वाच्च लोके विपर्ययस्य स्वविरोधिदर्शनोत्पति प्रतिबंधकत्वा दर्शनादिति | ननु यदि निदिध्यासनं न ध्यानं | किं तर्हि तदित्यत आह | वार्तिकं | अथ रायत बोधो- प्. २८ब्) त्रनिदिध्यासनमुच्यते | धानस्येव पुरुष यत्नान पेक्षत्वमपरायतत्वं | यावद्यथोक्त विज्ञानमाविर्भवति भास्वरं श्रवणादि क्रिया तावत् कर्तव्येह प्रयत्नतः मननमादि पदार्थः | श्रुत्वामत्वाथ तं साक्षादात्मानं प्रतिपद्यते | अथ श्रवणमननपरिपाकजनित तत्वं पदलक्ष्यार्थनिर्णयानंतरमेव वाक्येन ब्रह्मात्मज्ञानं साक्षादपरोक्षतया प्रतिपद्यते अनुभवतीत्यर्थः | वाक्यार्थ ज्ञानवतः कृतकृत्यतामाह | अनन्या यत्न विज्ञाने श्रवणादेरुपाद्यतः | जातेनापेक्ष्यते किंचित्प्रतीचोनुभवात्परमिति वृतिज्ञा || अत एव समन्वय सूत्रे आत्मज्ञानविधिनिराकरणानंतरं भाष्यं किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्य इत्यादीनि वचनानि | विधि छायानि स्वाभाविक प्रवृति विषयखीकरणार्थानीति ब्रूम इत्यादि || ने जाते सति तेन प्रतीचो ब्रह्मत्व स्फुरणादनंतरं न किंचिदपेक्ष्यत इत्यर्थः | एवं वार्तिककारमते निदिध्यासनस्य ज्ञाअनत्वाभ्युपगमात् न मननादि वदिति दृष्टांता सिद्धिः | प्. २९अ) न च वार्तिककारमते निदिध्यासितव्य इत्यस्य द्रष्टव्य इत्यनेन पौनरुक्त्यं स्यादिति वाच्यं | दर्शनोद्देशेन श्रवणमनन विधानानंतरं पुनः फलकीर्तनस्य तदुपसंहारपरत्वोपपतेरथवा द्रष्टव्य इति विचारप्रयोजकापातदर्शनानुवादः निदिध्यासितव्य इति तु विचारफल साक्षात्कारानुवाद इति पौनरुक्त्यपरिहार संभवात् | श्रवणादौ विध्यभावे भाष्य सम्मतिमाह | अत एवेति | श्रवणमनननिदिध्यासनानां दर्शनवत् ज्ञानरूपत्वेन क्रियारूपत्वेपि वक्ष्यमाणविधया नित्य प्राप्तत्वे न च विध्ययोग्यत्वा देवेत्यर्थः | किमर्थानीति | व्यर्थानि स्युरिति यावत् | आदि पदं श्रोतव्य इत्यादेस्संग्रहार्थः | विधिछायानीति | अध्येतव्य इति प्रसिद्ध विधितुल्यानीत्यर्थः | अत्र तव्य प्रत्ययैर्दर्शन श्रवणादि गता प्रशंसा लक्ष्यते तथा च | यो हि मुमुक्षुरात्मदर्शन श्रवणादीन्येव मुक्तिसाधनानीति ज्ञात्वापि संन्यास ब्रह्मचर्यादि सहित श्रवणाद्यनुष्ठानक्लेशमनुसंचिंत्य न तत्र सर्वोत्साहे न प्रवर्तते किं तु यथा प्राप्तान्येव वर्णाश्रमानुरूपाणि कर्माण्युपासनानि वानुतिष्ठेत् तत्रापि निर्वृतिं न लभते तैरात्यंतिक पुरुषार्थालाभानुसंधानेन तं प्रत्यात्मदर्शन श्रवणादि प्रशंसार्थं प्रवर्तते | आत्मा वा इत्यादि वाक्यं तस्य सर्वोत्साहे न श्रवणादावेव प्रवृतिर्भवत्वित्याशयेन अतो न विधि प्रत्ययानां वैययर्थ्यमिति भाष्यकारः परिहरति | स्वाभाविकेति | आदिपदेन यो हि बहिर्मुखः प्रवर्तते पुरुषः इष्टं मे भूयादनिष्टं प्. २९ब्) मे मा भूदिति न च तत्रात्यंतिकं पुरुषार्थं लभते तमात्यंतिक पुरुषार्थ वांच्छिनं || स्वाभाविकात्कार्यकारणसंघात प्रवृति गोचराद्विमुखी कृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयंत्यात्मा वा अरे द्रष्टव्य इत्यादीनीत्यं तं भाष्यं संगृह्यते | स्वाभाविकत्वं विषयविशेषणं संग्रहभष्यं विवृणोति | योहीति प्रवर्तत इति | नानाविधकर्मोपासनान्यनुतिष्ठतीत्यर्थः | इष्टं मे भूयादनिष्टं मे माभूदित्यनेन दुःखसामान्या स्पृष्टसुखकामना ब्रह्मानंदरूपात्यंतिक पुरुषार्थगोचरा इह विवक्षतिता अत एवाह | न च तत्रात्यंतिकं | पुरुषार्थं लभत इति | बाह्यसाधनं तत्र शब्दार्थः स्वाभाविकादिति स्वभावो अविद्या तत्कार्य भूतादित्यर्थः | संघातस्य प्रवृतिः कर्मोपासनयोरनुष्ठानं तद्गोचरात् | यष्टव्य देवतामंत्रादि रूपादित्यर्थः | प्रत्यगात्मनि विषये स्रोतः चित्तप्रावण्यं यस्य स प्रत्यगात्मस्रोतास्तस्य भावस्ततातयेत्यर्थः | तं बाह्य साधनात् प्. ३०अ) विमुखी कृत्य श्रवणादिष्वेव प्रवर्तयंतीत्यर्थः | यदि च वेदांत तात्पर्य विचाररूपं श्रवणं तदा तस्य तात्पर्य निर्णयद्वारा वेदांत तात्पर्य भ्रमसंशय रूपप्रतिबंधकनिरास एव फलं || एवं श्रवणादेर्ज्ञानरूपत्वात् न तत्र कोपि विधिरित्युक्तं | इदानीं श्रवणादेः क्रियारूपत्वमुपेत्यापि न तत्र कोपि विधिरित्याह | यदि चेति | तस्य क्रियारूपत्वं च वार्तिक कारैरेवोक्तं | श्रवणादि क्रिया तावत् फर्तव्येह प्रयत्नत इति आदि पदेन मननस्य संग्रहो न ध्यानस्य वार्तिककार मते श्रवणमननानतरं ध्यानानुष्टाना भावस्योक्तत्वात् | न च ध्यानस्याननुष्ठेयत्वे ओमित्येवं ध्यायथ आत्मानं विद्यामेतां योगविधिं च कृत्स्नमित्यादि बहुवाक्यविरोध इति वाच्यं | तेषां सांख्ययोगाभि यत्नमिति श्रुति गतयोग पदोदितमार्गांतर प्रतिपादकतायास्तृतीय परिछेदे ध्यानदीपोक्त प्रकारेण वक्ष्यमाणत्वात् | न च तत्कारणमिति श्रुतिगत सांख्यपदोदित विचारमार्गेपि ध्यानांतर्भावः | पूर्वमुक्त इति वाच्यं | निदिध्यासन पदस्य ध्यानार्थकत्वमताभिप्रयेण तदंतर्भावस्योक्तत्वात् | ध्यानस्य सांख्यमार्गाद्बहिर्भाव एव भाष्युकाराणामपि संमतस्तथा चैतेन योगः | प्रत्युक्तं इत्यधिकरणभाष्यं तत्कारणं सांख्ययोगाभिपन्नमित्यत्र वैदिकमेव ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्येते इति ज्ञानपदं ज्ञानाभ्यास परं वैदिकं वेदोक्तं | प्. ३०ब्) एतेन वेदविरोधादिना योगशास्त्रें निराकृतमिति सूत्रार्थः | सांख्यमार्गे ध्यानाभावमभिप्रेत्यैव सर्वज्ञात्ममुनिभिरपि नि हि ध्यानपदस्य ज्ञानार्थकत्वमुक्तं | श्रवणमनन बुध्योर्जातयोर्यत्फलं तन्निपुणमतिभिरुच्चैरुच्यते दर्शनाय | अनुभव न विहीनायैवमेवेति बुद्धिः श्रुतमननसमाप्तौ तन्निदिध्यासनं हीति | अस्य श्लोकस्याश्रम श्रीचरणानां व्याख्यानमिदं निदिध्यासने पक्षांतरमाह | श्रवणेति | श्रवणमननबुध्योर्जातयोर्यत्फलं तद्दर्शनाय निपुणमतिभिरुच्चैरुच्यत इति संबंधः | एतदेव विशदयति | अनुभव न विहीनेति | श्रुतं श्रवणं दीर्घकालादरनैरंतर्यानुष्टानेन श्रवणमननपरिपाके सतीत्यर्थः | अनुभव न विहीना साक्षात्काररहिता अविद्यानिवर्तक वृति साक्षात्कारभिन्नेति यावत् | या एवमेवेति बुद्धिः अहं चिदात्माब्रह्मस्वभाव एव ब्रह्म च चिदेक रसप्रत्यगात्म स्वभावमेवेति तत्वं पदलक्ष्यनिर्णयात्मिका बुद्धिस्तदेवनिदिध्यासनं नाम न ध्यानमस्मिन् पक्षे श्रवणमननयोरेवानुष्ठेयत्वं निदिध्यासनं तु नानुष्ठेयं दीर्घकालमनुष्ठित श्रवणमननफलरूपा बुद्धिर्यदा भवति तदैव साक्षात्कारोत्पतेः || न प्रतिबंधकांतरनिरासो ब्रह्मावगमो वा | तत्फलकत्वं च तस्य लोकत एव प्राप्तं साधनातरं च किंचिद्विकल्प्य समुच्चित्यवान प्राप्तमिति न तत्र विधित्रयस्याप्यवकाशः || प्. ३१अ) पूर्वपक्षे तु निदिध्यासनमपि पृथगनुष्ठेयमिति भेद इति | सांख्यमार्गे ध्यानाभावमभिप्रेत्यैव यावद्भानोदयं विचारस्यैव कर्तव्यत्वं ध्यानदीपे विद्यारण्य गुरुभिरप्युक्तं | विचार्ययाप्यापरोक्षेण ब्रह्मात्मानं न वेति चेत् | आपरोक्ष्यावसानत्वाद्भूयो विचारयेत् | विचारयत्नामरणं नैवात्मानं लभेत चेत् | जन्मांतरे लभेतैव प्रतिबंधक्षये सतीति | एवमानंदपंचकेपि आत्मानंदावसाने सांख्यमार्गस्य ध्यानरहितस्यापि ध्यानं न सर्वांशेपि तुल्यफलत्वं बहुधा प्रपंचितमिति संक्षेपः | एवकार व्यवच्छेद्यमाहनेति वाकारोनजनुकर्षणार्थः | विचारस्य प्रतिबंध निरासद्वारा ब्रह्मावगमोपयोगसंभवेपि न साक्षातत्फलकत्वं ज्ञानस्य प्रमाण फलत्वादित्युक्तत्वादिति भावः | ननूक्त प्रतिबंध निरासद्वाराविचारस्या विद्यानिवर्तक साक्षात्कारोपयोगित्व प्राप्तावपि तादृश साक्षात्कार प्रतिबंधक पापनिवृतिद्वारा साक्षात्कारसाधनत्वस्य मानांतराद प्राप्तत्वा छ्रोतव्य इत्यत्र श्रवणस्य पापनिवृतिद्वारा विद्यासाधनत्वमुपदिश्यते | न च विद्याप्रतिबंधक पापनिवृतेर्यज्ञादि नैव सिद्धत्वाद्विधि वैयर्थ्यमिति वाच्यं | प्रतिबंधक पापानामानंत्येन केषांचिद्यज्ञानुष्ठानेन केषांचिच्छ्रवणानुष्टानेन निवृतिरिति विभागकल्पनोपपतेः | तथा च प्राप्तं पुनरपूर्वविधित्वमेवं च सहकार्यंतरविधिरित्यधिकरण भाष्ये पांडित्य शब्दित श्रवणे अपूर्वत्वोक्तिश्च संगछत इति शंकावारयति | न प्रतिबंधकांतरनिरास इति | तात्पर्य भ्रमसंशयरूपप्रतिबंधका पेक्षया अन्यत्पापरूपं प्रतिबंधकं प्. ३१ब्) प्रतिबंधकांतरं तन्निरासां न श्रवणफलमतो न तद्दाराज्ञानाय श्रवणं विधेयमित्यर्थः | अयं भावः | श्रोतव्य इत्यस्यापूर्वविधित्वमयुक्तं तस्यावृत्यधिकरणे निरसितत्वात् विवरणाद्युक्तरीत्या वेदांतश्रवणस्यान्वय व्यतिरेक प्रमाणसिद्धं तात्पर्य भ्रमादि लक्षण प्रतिबंधनिवृति रूपदृष्टफलकत्वमुपजीव्य श्रवणेनैवज्ञानं प्रतिबंधनिवृतिं च संपादयेदिति नियमविधित्व संभवे स्वाभाविक प्रवृति विषयविमुखी करणार्थानीति ब्रूम इत्यादि भाष्यानुसारेण ब्रह्मप्रतिपति साधनश्रवणादि स्तुतिद्वारा तत्र प्रवृतिविशेषकारणत्वमात्रेण ब्रह्मप्रकरण निवेश संभवे वा अपूर्वविधित्वा योगात् भाष्यकारीया पूर्वत्वोक्तेः पाक्षिकाशम्यभिप्रायकत्व संभवाच्चेति | तत्फलकत्वं चेति भ्रमादिरूप प्रतिबंध निरासफलकत्वं चेत्यर्थः | ननु प्राप्तत्वेपि नियमविधित्वादि संभवात् कथं विधित्रयाभाव इत्यत आह | साधनांतंरं चेति || विचारविध्यभावेपि विज्ञानार्थ तया विधीयमानं गुरूपसदनं दृष्टद्वारकत्वसंभवे दृष्टकल्पनाऽयोगाद्गुरुमुखाधीन वेदांतविचार द्वारैव विज्ञानार्थं पर्यवस्यतीति | अत एव स्वप्रयत्न साध्यविचारव्यावृतिः | अध्ययन विध्यभावेतूपगमनं विधीयमानमक्षरावाप्त्यर्थत्वेनाविधीयमानत्वान्न तदर्थं गुरु- प्. ३२अ) मुखोच्चारणानूच्चारणमध्ययनंद्धारी करोतीति लिखितपाठादि व्यावृत्यसिद्धेः सफलोध्ययननियमविधिः | न च तात्पर्यादि भ्रमनिरासाय वेदांतविचारार्थिनः कदाचिद्वैतशास्त्रेपि प्रवृत्तिः स्यात् | तत्रापि तदभिमत योजनया वेदांतविचारसत्वादित्यद्वैतात्मपरवेदांतविचार नियमविधिरर्थवानिति वाच्यं | स्वयमेव तात्पर्य भ्रमहेतोस्तस्य तन्निरासकत्वा भावेन साधनांतरप्रात्थभावात् || ननु गुर्वधीनविचारेण सगुरुरहितविचारस्य विकल्पेन प्राप्तिरस्तीत्यत आह | विचारविध्यभावेपीति | अत एवेति उपगमनविधित एवेत्यर्थः | व्यावृतिरित्यनंतरं लभ्यत इति श्रोतव्य वाक्ये गुर्वधीनविचारनियमविधिरनर्थक इति शेषः | न चोपगमनविधेर्विचार विध्यंगतया तदभावे उपगमनविधेरात्मलाभ एव नास्तीत्युक्तमिति वाच्यं | गुरूपसदनस्य ब्रह्मज्ञानं प्रतिद्वारापेक्षायां लोकसिद्धस्यैव गुर्वधीन विचारस्य द्वारत्वेन स्वीकारौपपतौ श्रोतव्य विध्यपेक्षाभावेन तछेषत्वा सिद्धेर्विचारवदुपगमनस्यापि विद्यांगत्वोपपतेश्चेति भावः | पूर्वोक्ताति प्रसंगं परिहरति | अध्ययन विध्यभावेत्विति | अध्ययनविध्यभावे तु लिखितपाठादि व्यावृत्यसिद्धेस्सफलोध्ययननियमविधिरिति संबंधः | तदर्थमिति | प्. ३२ब्) अक्षरावाप्त्यर्थमित्यर्थः | अध्ययनांगोपगमनस्य विद्यार्थोपगमनापेक्षया विशेषार्थकस्तु शब्दः तमेवाह | उपगमनमित्यादिना | अध्ययनस्याक्षरा वाप्ति फलकत्वं विवरणादौ साधितमिति भावः व्यावर्त्यांतरं दूषयति | न च तात्पर्यादीति नुनु वस्ततस्तन्निरासकत्वाभावेपि भिन्नात्मज्ञानं मुक्तिसाधनमिति भ्रमद्वारातद्भ्रमात् तत्र प्रवृतिस्संभवतीत्युक्तमिति नेत्याहः || तेन्निरासकत्वम्रमेण तत्रापि कस्यचित् प्रवृतिः स्यादित्ये तावता श्रोतव्य इति नियमविधेरभ्युपगम इत्यपि न ईश्वरानुग्रहफलाद्वैत श्रद्धारहितस्य श्रोतव्य वाक्येपि पराभिमत योजनया सद्वितीयात्मविचारविधि परत्वभ्रमसंभवेन भ्रमप्रवृताया अन्यत्रप्रवृतेर्विधिशतेनाप्यपरिहार्यत्वात् || तन्निरासकत्व भ्रमेणेति | इह जन्मनिजन्मांतरे वा यज्ञाद्यनुष्ठानजनित दृढविविदिषावतस्साधन चतुष्टय संपन्नस्य श्रवणविध्यधिकार इत्यविवादं यज्ञादि जनिता दृष्टं च निष्प्रपंचाद्वितीय ब्रह्मसाक्षात्कारस्य सांगाध्ययन लब्धैर्वेदांतैर्मुक्तिसाधनत्व निश्चयं संपाद्यता दृश ब्रह्मसाक्षात्कारे दृढेच्छां च विविदिषा शब्दितामुत्पाद्यतद्वारा अद्वितीयात्मसाक्षात्कारसाधन प्. ३३अ) भूताद्वितीयात्मश्रवणादावेव मुमुक्षुं प्रवर्तयति | न तु जीवपित्रात्मज्ञानस्य मुक्तिसाधनत्व भ्रमापादन द्वारा भिन्नात्म ज्ञान तत्साधनविचारादाविच्छाप्रवृत्यादिकमप्युत्पादयति | तदिच्छादेर्भिन्नात्मविचारद्वारा यज्ञादि फलभूतनिष्प्रपंच ब्रह्मसाक्षात्कार हेतुत्वाभावा तथा च स्मृतिरीश्वरानुग्रहादेव पुंसामद्वैत वासनेति | यज्ञादि संपादितादीश्वरानुग्रहादेव पुंसामद्वैत ब्रह्मज्ञानेच्छारूपात्तद्वासना भवतीति तदर्थः | तथा च यथोक्त भ्रमवतो अद्वैतब्रह्मतत्व साक्षात्कारादाविच्छा श्रद्धादि शून्यस्य श्रवणविधावनधिकारन्न तं प्रतिनियमविधिरर्थ वा नित्याह | ईश्वरानुग्रहेति पराभिमतेति श्रुतावात्मशब्दस्तावज्जिवपर एव न परमात्मपरः | आत्मनस्तु कामाय सर्वं प्रियं भवतीति | पूर्ववाक्ये जीवस्य प्रकृतत्वान्न च इदं सर्वं पदपमात्मेति वाक्यशेषे सर्वात्मकस्य परमात्मनः प्रतिं पादनाछ्रोतव्यवाक्यस्थमात्मपदमद्वितीयात्मपरमिति वाच्यं | तत्रापि तत्प्रतिपादना सिद्धेर्न हि प्रपंच परमात्मनोरभेदः संभवति चेतना चेतनयोरैक्यस्य विरुद्धत्वात् | श्रुतेरभेद ध्यानविधिपरत्वोपपतेश्चेत्यादि योजनापराभिमता द्रष्टव्या | अन्यत्रेति भिन्नात्मविचारन् त्यर्थः || न च व्यापारांतरनिवृत्यर्थापरिसंख्येति युक्तं | असंन्यासिनो व्यापारांतरनिवृतेरशक्य प्. ३३ब्) त्वात् संन्यासिनस्तन्निवृतेर्ब्रह्मसंस्थया सहसंन्यास विधायकेन ब्रह्मसंस्थोमृतत्वमेतीति श्रुत्यंतरेण सिद्धतया संन्यास विधायक श्रुत्यंतरमपेक्ष्य श्रोतव्य वाक्येन तस्य व्यापारांतरनिवृत्युपदेशस्य व्यर्थत्वात् | न च विचारविध्य संभवेपि विचारविषय वेदांतनियमविधिः संभवति भाषाप्रबंधादि व्यावर्त्य सत्वादिति शंक्यं | सन्निधानादेव वेदांतनियमस्य लब्धत्वेन विधिविषयत्वायोगात् | स्वायोध्येतव्य इत्यर्थावबोधनार्थ नियमविधिवलादेवाध्ययनविधि गृहीत वेदांत वेदोत्पादितं वेदार्थज्ञानं फलपर्यवसायिन कारणांतरोत्पादितमित्यस्यार्थस्य लब्धत्वेन वेदार्थे ब्रह्मणि मोक्षाय ज्ञातव्ये भाषाप्रबंधा प्रबंधादीनाम प्राप्तेः || परिसंख्याविधिं दूषयति | न चेति | श्रवणविधिना किं ग्रहस्थादेर्व्यापारांतर निवृतिरूपदिश्यते किं वा संन्यासविधिसिद्धस्य संन्यासिन इति विकल्पं मनसि निधाय क्रमेण दूषयति | असंन्यासिन इति अशक्यत्वादिति विध्यंतरविरोधापतिरशक्यत्वे हेतुः | तन्निवृतेः सिद्धतया उपदेशस्य व्यर्थत्वादिति संबंधः | ब्रह्मसंस्थो मृतत्वमेतीति प्. ३४अ) श्रुत्यंतरस्य ब्रह्मसंस्थता धर्मक संन्यासाश्रमविधायकत्वं | परामर्शं जैमितिरित्यधिकरण भाष्ये स्फुटमिति भावः | विचारविषयत्वेन वेदां तु नियमविधिरिति पक्षं दूषयति | न च विचारेति | सन्निधानादेवेति | अधीत सांगस्वाध्यायस्य वेदांतैरापात प्रतिपत्र ब्रह्मात्मविजिज्ञासोर्जिज्ञासा निवर्तक निर्णयाय कर्तव्यत्वेन विचारे प्राप्ते सति विचारविषयमन्वेषसाणस्य वेदांदानां बुद्धिस्थ त्वात् वेदांता एव मया विचारणीया इति बुद्धिरुत्पद्यते तथा च विधिं विनैव वेदांतनियमस्य लब्धत्वेन विधिनातन्नियमनं व्यर्थमित्यर्थः | विधिं विनैव वेदांतनियमलाभे हेत्वंतरमाह | स्वाध्याय इति | अर्थावबोधेति मिमांसकमतमाशृत्योक्तमक्षरावाप्ति फलकोध्ययन विधिरिति सिद्धांते || न च सहकार्यंतरविधिरित्यधिकरणे वाल्यपांडित्य मौनशब्दितेषु श्रवणमनननिदिध्यासनेषु विधिरभ्युपगत इति वाच्यं | विचारे विचार्य तात्पर्यनिर्णय हेतुत्वस्य | वस्तुसिध्यनुकूलयुक्त्यनुसंधानरूपे मननतत्प्रयाभ्यासरूपे निदिध्यासने च वस्तुवगमवैशद्य हेतुस्य च लोकसिद्धत्वेन तेषु विध्य न पेक्षणात् | विधिच्छायार्थवादस्येव प्रशंसाद्वारा प्रवृत्यतिशयकरत्वमात्रेण प्. ३४ब्) तत्र विधित्व व्यवहारात् | एवं च श्रवणविध्य भावात् | कर्मकांडविचारवद्ब्रह्मकांडविचारोप्यध्ययनविधिमूल इत्याचार्य वाचस्पति पक्षानुसारिणः | विचार्यस्य च ब्रह्मणो जगज्जन्मस्थितिलयकारणत्यंवलक्षणमुक्त | यतो वा इमानि भूतानि जायन्त इत्यादि श्रुत्या अत्र जगज्जन्मस्थितिलयेष्वेकैककारणत्वमप्यनन्यगामित्वालक्षणं भवितुमर्हतीति चेत् || पियेषां वाक्यानामध्ययना वामानामर्थ ज्ञानद्वारा पुरुषार्थोपयोगस्संभवति | तेषां वाक्यानामर्थज्ञानमध्ययन लब्धैर्वाक्यैरेवोत्पादितं फलपर्यवसायिन तदतिरिक्त भाषाप्रबंधादि जनितमितिरीत्या अध्ययनविधि फलाक्षरा वाप्ते पुरुषार्थ पर्यवसानकल्पनान्नभाषाप्रबंधादि प्रसक्तिरित्यर्थः | इतिहासपुराणमादि पदार्थः श्रवणादीनांमविधेयत्वे सूत्रभाष्यविरोधं शंकते | न चेति अभ्युपगत इति सूत्रभाष्यकाराभ्यामिति शेषः | विरोधं परिहर्तुं प्रथमं श्रवणादीनां विधियोग्यक्रियारूपत्वेपि नित्याप्राप्तत्वान्न विधेयत्वमित्याह | विचार इति | तत्प्रत्ययेत्यत्र तत्पदं वस्तुपरं अवगमस्य वैशवैशद्यं प्रतिबंधराहित्यं सूत्रभाष्ययोर्विधित्व व्यवहारो गौणः मुख्या संभवस्य दर्शितत्वादिति विरोधं परिहरति | विधिच्छायार्थवादस्येवेति | प्. ३५अ) विष्णुरुपांशुयष्टव्य इत्यादेरिवेत्यर्थः | तथा हि उपांशुयाजमंतरायजतीत्याम्नाय पुनराम्नायते | विष्णुरुपांशुयष्टव्यः प्रजापतिरुपांशुयष्टव्यः | अग्नीषोमावुपांशुयष्टव्याविति | अत्रांतरावाक्यमाग्नेयाग्नीषोमीय पुरोडाशयोरंतरालकालविशिष्टयागविधायकं विष्ण्वादि वाक्य त्रयं तु मंत्रवर्णप्राप्त वैकल्पिक देवतानुवादेनांतरा वाक्य विहित यागस्तावकमर्थवादमात्रमिति व्यवस्थापितं पूर्वतंत्रे तदत्र दृष्टांतत्वेन उदाहृतमिति द्रष्टव्यं | यन्तु तत्कारणं सांख्ययोगाभिपन्नमिति | श्रुतौ योगपदोपातस्य व्यावर्त्यस्य संभवाद्विचारसमर्थाधिकारिणं प्रतितद्व्यावृतिफलको नियमविधिस्संभवतीति | नन्न विचारसमर्थस्याधिकारिणः कालांतरे स्वोद्भावितानुपपति वशेनान्योद्भावितानुपपति वशेन वा पुनस्तत्व संशये सति अवधारणात्मकं वेदोतार्थज्ञानं न संभवतीति योग्यता वशेन तं प्रतिविधिं विनाविचारस्यैव नित्यतया प्राप्तत्वात् | यत्तु सगुण ब्रह्मोपासनं व्यावर्त्यमुक्तं तत्र श्रवणविध्यधिकारिणः सर्वतो निस्पृहस्य ब्रह्मलोकप्राप्तिद्वारा मुक्तिसाधन सगुणोपासने पक्षेपि प्रवृतेरसंभवेन तस्य व्यावर्त्यत्वा संभवात् सुगणोपासनस्यापि श्रवणादि द्वारैव विद्यासाधनत्वेन नखविदलनादेरवचात तुल्यकक्ष्यत्व वत्स गुणोपासनस्य श्रवणादिना सहविकल्पैन प्राप्त्यभवाच्च न तद्व्यावृति फलको नियमविधिस्संभवति | न च सगुणोपासनया श्रवणादिकं विनैव प्. ३५ब्) सगुण साक्षात्कारवविर्गुणसाक्षात्कारोदयस्संभवतीति वाच्यं | प्रमाणप्रमेया संभावनादि प्रतिबंधनिवृतिद्वारा श्रवणादेस्सतानिश्चयरूप ब्रह्मज्ञानोपायत्वग्राहकतया पूर्वोक्तप्रमाणानुरोधेन श्रवणादेर्नित्यवदनुवादलिंगेन च सगुणोपासनया क्रमेण परममुक्ति प्रतिपादकशास्त्रस्यापि श्रवणादि द्वारकज्ञानोत्पत्यविरोधित्वकस्त्यनात् | श्रवणादिकं विनासगुणोपासन महिम्नैव तत्वज्ञानोदयाभ्युपगमे देवताधिकरण विरोधाच्च तदधिकरणे हि देवादीनां शरीराद्य भावात् सगुणब्रह्मोपासनेषु निर्गुणब्रह्मविद्यासाधन श्रवणादिषु च नास्ति सामर्थ्यमतो न तेष्वधिकार इति पूर्वपक्षयित्वा मंत्रार्थ वादेतिहासपुराण प्रामाण्यात् तेषामपि शरीरादि सद्भावादस्त्यधिकार इति सिद्धांतितं | तत्रेदं पूर्वपक्षप्रयोजनमुक्तं देवानां श्रवणाद्यधिकाराभावे क्रममुक्तिफलक ब्रह्मोपासनया प्राप्तदेव भावस्यापि श्रवणाद्य संभवेन विद्योदयासंभवात् | पुनरावृत्यापतौक्रममुक्तिकामस्य सुगुणोपासनेषु प्रवृत्यभाव इति सिद्धांते तु देवानां श्रवणाद्यधिकार सत्वादुक्तप्रवृति सिद्धिरिति प्रयोजनं दर्शितं | इदं च प्रयोजनं देवताधिकरणावसानभाष्ये संग्रहेण दर्शितं | तथा च भाष्यं | ततश्चार्थित्वादि संभवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारः क्रममुक्तिदर्शनान्यपि एवमेवोपपद्यंत इति एवमेवेत्यस्य देवादीनां श्रवणाद्यधिकारे सत्येवेत्यर्थः | प्. ३६अ) तेषां श्रवणाद्यधिकारे यानि श्रौतलिंगानि पूर्वमुपन्यस्तानि | तद्यो यो देवानां प्रत्यबुद्ध्यत स एव तदभवत् | तथर्षीणां एकाशतं हवैवर्षाणिमघवान् प्रजापतौ ब्रह्मचर्यमुवासेत्येवमादीनि यथा उपपद्यंते तथेत्यपि शब्दार्थः | ननु सगुण ब्रह्मोपासकानामपि सर्वेषां श्रवणादि नैव ज्ञानोदय इति नियमो नास्ति सगुणोपासकस्यापि हिरण्यगर्भस्य वृहदारण्य भाष्ये पुरुष विध ब्राह्मण व्याख्यानावसरे श्रवणादीनां प्रणिपातादीनां चाभावेपि ज्ञानजन्म प्रतिपादनादिति चेन्न | हिरण्यगर्भस्यापि वामदेववत् | जन्मांतरीय श्रवणादि नैव ज्ञानजन्मसंभवात् | तत्रैव भाष्ये | श्रवणमनननिदिध्यासनानां साक्षाज्ञेय विषयत्वादिति वाक्ये साक्षात्पदेन श्रवणादेर्ज्ञेय ब्रह्मव्यंजकस्य प्रणिपाताद्यपेक्षया आवश्यकत्व सूचनेन जन्मांतरीय श्रवणादि कल्पनस्य तद्भाष्य वाक्याभिप्रेतत्वे अवगम्यमाने सति तत्पूर्वभाष्ये श्रवणादिकं विनाकार्य कारण शुध्यादि मात्रेण ज्ञानजन्मप्रतिपादनस्याभ्युपगम वादत्वोपपतेर्हिरण्यगर्भस्य वामदेवस्येव जन्मांतरीये ज्ञानसाधने कल्पनीये सति कॢप्तश्रवणादि कल्पनस्यैव न्याययत्वाच्च | न च हिरण्यगर्भस्य पूर्वजन्मनि सगुणोपासननिष्ठत्वेन निर्गुणविचारः संभवतीति वाच्यं | हिरण्यगर्भस्य पूर्वकल्पे जन्मभेदेन सगुणनिर्गुणोपासनयोस्संभवोन्नह्येकस्मिन् जन्मनिकृतात् सगुणोपासनामात्रादेव हिरण्यगर्भपदप्राप्तिरस्ति तथा सति सगुणोपासकानां सर्वेषामेव प्. ३६ब्) साक्षाद्धिरण्यगर्भत्व प्रसंगात् किं तु हिरण्यगर्भस्य ब्रह्मलोक स्वामित्वं सरस्वती भर्तृत्वं जन्मप्रभृति तत्वसाक्षात्कार संपन्नत्वं सर्वज्ञत्वं सकलभौतिकजगत्सृष्ट्यादि सामर्थ्यं भक्तानां त्रैलोक्यैश्वर्य प्रदान सामर्थ्यं कार्यविशेषेषु शिव विश्वादि प्रवर्तकत्वं ललाटान्रुद्र प्रादुर्भाव हेतुत्वं सहाविष्णुनाभिकमलजातत्वाद्यैश्वर्यं च श्रुत्यादिभ्यो निश्चित्यागामिकल्पे यथोक्त हिरण्यगर्भत्वाय तत्साधनानि सगुणनिगुणापासनानि तपो विशेषरूपाणि च वहुषु जन्मसु ध्रुवप्रह्लादविश्वामित्रागस्त्यभृग्वादि वदनुष्टितवतो महापुरुषस्य कस्यचिदेव निरतिशयेश्वर प्रसादाद्धिरण्यगर्भत्वं संपद्यत इति हिरण्यगर्भस्यापि जन्मांतरीय श्रवणादि कल्पने वामदेवस्येव नानुपपन्नं हिरण्यगर्भस्य पूर्वजन्मन्यनुष्टित श्रवणादेर्हिरण्यगर्भपदप्राप्तिकामनया प्रतिबद्धत्वेन तदा तत्वसाक्षात्कारानुत्पादकत्वोपपतेस्तदुक्तं वृद्धैर्ब्रह्मलोकाभिवांछायां सम्यक् सत्यां निरुध्यतां | विचारयेद्य आत्मानं न तु साक्षात्करोत्पयमिति | न च ज्ञानोत्पति स्थले सर्वत्र श्रवणादि नियमो नास्ति योगे मार्गे प्रवृत्तस्य श्रवणाद्य भावेपि तत्वसाक्षात्कारोदय स्वीकारादिति वाच्यं | ओमित्यात्मानं युंजीत ओमित्येवं ध्यायथ आत्मानमित्यादि ध्यानविधिवलेन तत्कारणं साख्ययोगाभिपन्नं विद्यामेतां योगविधिं च कृत्स्नमित्यादि श्रौतलिंग सहकृतेन विचारासमर्थस्य योगमार्गेधिका इति तृतीय प्ररिच्छेदे वक्ष्यमाणतया प्. ३७अ) विचारसमर्थस्य विचारं विना ज्ञानोत्पत्यनभ्युपगमात् | एवं यद्यत्साधनमदृष्टद्वारा तत्वज्ञानसाधनत्वेन शास्त्रसिद्धं तत्सर्वं सगुणोपासनवदृष्टसामग्री भूतसांख्यमार्गेणातदशक्तौ योगमार्गेण वा तत्वज्ञानसाधनमिति कल्प्यते | तत्वदृष्टमात्रात् ज्ञानलाभः कल्पयितुं युक्तः | अन्यथा जीवनादृष्टमात्रादेवस्तनपानादि प्रवृतिकल्पनायत्या तत्रापीष्टसाधनता स्मरणं जन्मांतरीयं संस्कार हेतुकं सर्वसंप्रतिपन्नं कल्पनीयं न स्यात् कॢप्तदृष्टकारणं विना कार्योत्पत्ययोगस्योभयत्र तुल्यत्वादत एव पंचदश्यां तत्वज्ञानं प्रतिमार्ग द्वयनियम उक्तः सांख्ययोगौ प्रकृत्य इति मार्गौ विचार्याथ जगाद परमेश्वर इति संग्रहकर्तापि तृतीयपरिछेदे सांख्ययोगशब्दित मार्गद्वयमेव विद्यावात्थुपायत्वेन वक्ष्यति | एवं श्रवणमननादि साधनानुष्ठान प्रवणस्य विद्यावाप्तिरित्यस्मिन्नर्थे सर्वसंप्रतिपन्ने स्थिते भारती तीर्थाः ध्यान दीपे विद्यावाप्नौ उपायांतरमप्याहुरिति ग्रंथेन तदयं निष्कर्षः | विद्याधिकारिणो विचारसमर्थस्य प्रतिषेधाभावे वेदांतश्रवणमनुष्ठेयं सति तु प्रतिषेध इतिहासपुराणभाषाप्रबंधादि श्रवणमनुष्ठेयं विद्याधिकारिणो विचारासमर्थस्य तु त्रैवर्णिकस्य योगशब्दित निर्गुणोपासनमनुष्ठेयं मार्गद्वया संभवे च तत्संभवयोग्यजन्मप्राप्त्या तदन्यतरानुष्ठानद्वारा ज्ञान लाभ इति | तथा च श्रवणाधिकारिणः श्रवणस्य नित्यप्राप्तत्वात् | त तुल्यकक्षतया साधनांतरस्य कस्य चिद्विकल्प्य प्. ३७ब्) समुच्चित्य वा प्राप्त्यभावान्न तत्र विध्यवकाश इति सिद्धं | एवं ब्रह्मसाक्षात्कारं प्रतिश्रवणादर्नित्यप्राप्तत्वात् | विधिं विनैव श्रवणाद्यनुष्ठानं सिध्यतीति प्रतिपादितं इदानीं विचारानुष्ठायक विध्यपेक्षायामपि यथा कर्मकांडश्रवणं कर्मवाक्यविचारः कर्तव्य इति पृथक् विध्यभावेपि अध्ययनविधिवलादेव सिध्यति | एवं वेदांतश्रवणमपि तद्वलादेव सिध्यतीति न श्रोतेव्य वाक्ये पृथक् विचारविध्यपेक्षास्तीत्याशयेनोपसंहरति | एवं चेति | लोकत एव श्रवणादेः प्राप्तत्वे सति श्रवणविध्यपेक्षाभावादित्यक्षरार्थः | श्रोतव्यवाक्यार्थविचारेण प्रथमसूत्रार्थस्संगृहीतः | क्रमप्राप्तं द्वितीयसूत्रार्थं संगृह्णाति | विचार्यस्य चेति | चकारोवधारणार्थस्स च श्रुत्येत्यनेन संबध्यते श्रुत्यैव लक्षणमुक्तं न तु व्याप्त्यादि लक्षणवत् पुरुषोत्प्रेक्षितमित्यर्थः | येन जातानि जीवंति यत्प्रयंत्यभिसंविशंतितद्विजिज्ञासस्वतद्ब्रह्मेति वाक्यशेष आदिपदार्थः | श्रुतौ यत इति यच्छब्देन ब्रह्मवल्यांनिरूपितं सत्यज्ञानानंदानंतात्मकं ब्रह्मपरिगृह्यते सर्वनाम्नः प्रकृतप्रधानपरामर्शित्व स्वाभाव्यात् | ततश्च यच्छ्रुति सामर्थ्या देवब्रह्मणः सच्चिदानंदस्वरूपात्मकं स्वरूपलक्षणं लभ्यते पंचमी च प्रकृतित्वं हेतुत्व सामान्यं वा वक्रीति हेतुत्व सात्यान्पंचप्रकृतिकर्त्रु भयसाधारणं भूतपदं पृथिव्यादि महाभूतेषु प्रीणिषु च रूढः | प्रकृतेव विनिग्वमनाविरहेण रूढेरनुन्मेषात् भवंतीति व्युत्पत्या प्. ३८अ) कार्यमात्रं भूतशब्देनोच्यते | जीवंति स्थितिं लभंते प्रयंतिलीयमानानि संति यदभिसंविशंति येन तादात्म्यं गछंतीति यावत् तत्कारणं ब्रह्म तद्विजिज्ञास स्वविशेषेण सच्चिदानंदैक रसपूर्णप्रत्यग्रूपेण ज्ञातुं साक्षात्कर्तुमिच्छस्व-इच्छामात्रेणोक्त साक्षात्कारालाभात् | सन् प्रत्ययेन विचारो लक्ष्यते उक्तलक्षणमुखेन ब्रह्मविचारयेत्यर्थः | अत्र यतो भूतानि जायंते तद्ब्रह्म येन जीवंति तद्ब्रह्म यदभिसंविशंति तद्ब्रह्मेति श्रुतिपाठे सति जगज्जन्मकारणत्वं तत्स्थितिकारणत्वं तल्लयकारणत्वं च प्रत्येकमेव श्रुत्या ब्रह्मलक्षणमुक्तं स्यान्नतु त || सत्यें लक्षणत्रयमेवेदं परस्परनिरपेक्षं | अत एवाता चराचर ग्रहणादित्याद्यधिकरणेषु सर्वसंहर्तृत्वादिकं प्रत्येकं ब्रह्मलिंगतयोपन्यस्तमिति कौमुदिकारः || प्या पाठोस्त्यतो जन्मादिति तयकारणत्वं श्रुत्यालक्षणमुक्तमिति प्रतिभाति | तदाक्षिपति | जगज्जन्मस्थिति लयेष्विति | निर्द्धारणार्था सप्तमी यतो भूतानिजायंत इत्युपक्रम्य तद्ब्रह्मेति श्रुत्यालक्ष्ये ब्रह्मणिकारणत्वस्य सत्वप्रतिपादनान्नासंभवः तद्ब्रह्मेत्येकवचनेन लक्ष्य ब्रह्मव्यक्तेरेकत्वावगमान्नाव्याप्त्यवकाश इति दोषद्वयाभावं सिद्धं कृत्वा अतिव्याप्तिरपि नास्तीत्याह | अनन्यगामित्वादिति | प्. ३८ब्) ब्रह्मान्यगामित्वा भावादित्यर्थः | ननु प्रधानेति व्याप्तिस्तस्य सांख्यैरुपादानत्वाभ्युपगमेन उपादानतया जगज्जन्महेतुत्वस्याधारतया स्थितिहेतुत्वस्य लयाधारतयालय हेतुत्वस्य च तत्रापि सत्वादिति चेन्नत कर्तृत्वस्यापि लक्षणे विशेषणत्वेन विवक्षित तया जडे प्रधाने तदयोगात् | न च तत्कर्तृत्वमेव प्रत्येकं लक्षणमस्तु किं तदुपादानत्व रूपविशेष्येणेति वाच्यमदृष्टद्वाराजगज्जन्मादि कर्त्तरिजीवे अतिव्याप्तिवारकत्वात् | परिच्छिन्नजीवस्य च तदुपादानत्वा योगात् | न च साक्षाज्जगज्जन्म कर्तृत्वं नियंतृतया जगत्स्थिति हेतुत्वं संजिहीर्षया जगत्संहर्तृत्वं च लक्षणमिति विवक्षायां जीवेति व्याप्तभावादुपादानत्व रूपं विशेष्यं व्यर्थमेवेति वाच्यं | तर्हि उपादानत्वमपि पृथगेव लक्षणमस्तु मायायाः ब्रह्मोपादानता मात्रघटकत्वेन पृथगुपादानत्वा लाभात् प्रधानादि कारणांतरस्य चाप्रामाणिकत्वेनाति व्याप्तेरभावादिति भावः | प्रत्येकं लक्षणत्व संभवमंगीकरोति | सत्यमिति | तर्हि श्रुत्यात्रितयकारणत्वं कथं लक्षणमुक्तमित्याशंक्य श्रुतेरपि प्रत्येकलक्षण एव तात्पर्यं मेलनस्य प्रयोजनाभावादित्याशयेनाह | लक्षणत्रयमेवेदमिति | इदं जगत्कारणत्वं जन्मादीनां मध्ये एकैक निरूपितं परस्पर निरपेक्षं स लक्षणत्रयमेव श्रुत्यभिमतं न तत्रितयनिरूपित कारणत्वरूपमेकं लक्षणमित्यर्थः | त्रयपदमनेक परं न तु त्रित्वनियमपरं ततोप्याधिक्यस्य शकावसरेदशितत्वादिति बोध्यं | जगत्संहर्तृत्वादेः प्रत्येकं ब्रह्मलक्षणत्वे सूत्रकारादि संमतिमाह | अत एवेति | अत्रादि पदेन प्. ३९अ) अंतर्याम्यधिकरणजगद्वाचित्वाधिकरणयोस्संग्रहः | अयमर्थः कठवल्यां पठ्यते यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनं मृत्युर्यस्योपसेचनंक इत्थावेदयत्र स इति अत्र ब्रह्मक्षत्रयोः प्रयुक्त ओदनशब्दस्तावन्नमुख्यः किंतु गौणः लोके ओदनशब्दमुख्यार्थस्पादनीयत्व प्रसिद्धेरदनीयत्वेन गुणेन तयो रोदनशब्दः प्रवर्तते तथा च यस्य ब्रह्मक्षत्रे ओदनवददनीये इत्युक्तौ यछब्दार्थस्यातृत्वं प्रतीयते | अनेनैवाभिप्रायेणोक्तं सूत्रे | अतेति | ओदनपद वाच्यार्थस्पादनीयत्वं द्विविधमस्तिभुजि क्रियाकर्मत्वात्मक भोज्यत्वरूपमेकं विनाश्यत्वरूपमपरम् परंतु भोज्यत्व गुणः प्रसिद्धः न तु विनाश्यत्वगुणः गौणप्रयोगे च प्रसिद्धगुण एव गृह्यते | यथा अग्निर्माणवक इत्यत्राग्नि गत शुचित्वादि गुण एवोपादीयतै प्रसिद्धत्वान्न तु तद्गतोपि विनाश्यत्वादि गुणः | एवं प्रकृतेपि लोकप्रसिद्धि वलाद्भोज्यत्व गुण एवोदन शब्दात्प्रतीयते अस्ति च ब्रह्मक्षत्रयोरपि स्त्रीपिंडरूपयोर्भोज्यत्वं पुमांसं प्रतिब्रह्मक्षत्रयोश्च भोज्यत्व प्रतीतौ सत्यां तत्प्रतिसंबंधिनियच्छब्दार्थे पूर्वं प्रतीतमतृत्वं भोक्तत्वरूपं जीवलिंगंपपर्यवस्पति यदात्वोदन पदस्य मृत्यूपसेचन पद सन्निधानात् | ब्रह्मक्षत्रयोर्विनाश्यत्व गुणः स्वीक्रियते न तु भोज्यत्वगुणः स्त्रीपिंडरूपब्रह्मक्षत्रियकर्मकभुजि क्रियायां मृत्योरुपसेचनत्वा संभवेन मृत्युर्यस्योपसेचनमित्यंशस्यानन्वय प्रसंगाअत् | ब्रह्मक्षत्रयोर्विनाशने तु मृत्योस्सहायत्वमस्तीति न तदनत्वय प्रसक्तिः तदा तत्प्रतिसंषंधिनिपच्छब्दार्थे पूर्वं प्रतीतमतृत्वं प्. ३९ब्) संहर्तृत्व रूपं पर्यवस्यति विनाश्यत्व गुणग्रहण यक्षेत्वयं विशेषो लभ्यते | लोके हि दध्यादिरूपमुपसेचनं स्वमिश्रितान्नादिनाशे साधनं दृष्टमिति मृत्यावुपसेचनपद प्रयोगवलात्समृत्युकस्य चराचरात्मकस्य जगतो विनाशनं प्रतीयते तदनुसारात् | ब्रह्मक्षत्रियपदयोरजहल्लक्षणया कृत्स्नजगत्परत्वं च प्रतीयते तत्प्रतिसंबंधिन्यपि यच्छब्दार्थे कृत्स्न जगत्संहर्तृत्वरूपं ब्रह्मलिंगं भाति | एवं स्थिते प्रथममदनीयत्वगुणयोगात् | प्रतीतोऽता किं जीवः उतपरमात्मेति संशयः तत्र पूर्वपक्षः || जीव एवेति लोकप्रसिध्यनुसारेणातृत्वस्य भोक्तृत्वरूपता प्रतीतेर्न परमात्मा अनश्रविति वचनेन तस्य भोच्छृत्वनिषेधादिति सिद्धांतस्तु अता परमात्मा कुतः चराचरग्रहणात् | मृत्यूपसेचनपदानुरोधेन पूर्वोक्तरीत्या अतृत्वस्य चराचरात्मक सकलजगत्संहर्तृत्वरूपत्व प्रतीतेर्न च परमात्मनो न्यस्य जगत्संहर्तृत्वं संभवति न च लोकप्रसिद्धि वलादतृत्वं भोक्तृत्वं रूपं भातीत्युक्तमिति वाच्यं तत्प्रसिध्यपेक्षया वाक्यशेषाधीन विनाश्यगुणप्रसिद्धेः शीघ्रतरत्वेन वलवत्वादतोतापरंपवेति निर्णयः स संहर्तापरमेश्वरो यत्र निर्विशेषे प्. ४०अ) भेदकल्पनया वर्तते | तं निर्विशेषं परमात्मानमित्था इत्थं को वेदन कोपीति तस्य दुर्विज्ञेयत्वमुदाहृत मंत्रचतुर्थपादेन विवक्षितमिति बोध्यं | अंतर्याम्यधि दैवादिषु तद्धर्म व्यपदेशात् | य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योंतरोयमयतीत्युपक्रम्ययः पृथिव्यां तिष्टनित्यादिना कांश्चित्पर्यायानुत्कास्त्यधिदैवतमित्युपसंहृत्य पुनः यः सर्वेषु भूतेषु तिष्ठन यः सर्वेषु लोकेषु यः सर्वेषु देवेषु यः सर्वेषु यज्ञेष्वित्पादयः | केचन पर्यायाः काण्वमाध्यंदिन पाठभैदेनाम्नाताः | तत्राधिदैवादिषु देवभूतलोकवेदयज्ञदिषु श्रुतोंतर्यामीपरमात्मा कुतः तद्धर्मव्यपदेशात् | तद्धर्मस्य परमात्मधर्मस्य विशेषेण सर्वस्थिति कर्तृत्वरूप सर्वनियंतृत्वस्य येन जातानि जीवंतीति श्रुतिसिद्धस्य वाक्योपक्रमेय इमं च लोकमित्यादिना व्यपदेशान्न जीवादिरंतर्यामीतस्योक्त धर्मासंभवादिति सूत्रार्थः जगद्वाचित्वात् | कौषीतकी ब्राह्मणे वालाक्य जातशत्रुसंवादेवालाकि प्. ४०ब्) ब्राह्मणं प्रति अजानशत्रोर्वचनं श्रूयते | यो वै वालाक एतेषां पुरुषाणां कर्तायस्य चैतत्कर्मसवैवेदितव्यः | पुरुष इति | अत्र वेदितव्यत्वेन श्रुतः पुरुषजीवः परोवेति संशये जीव इति पूर्वपक्षः पुरुषपदस्पर्जावैरूढत्वात् पुण्यो वै पुण्येन कर्मणा भवति कर्महैवतदूचतुरित्यादौ वेदे लोके च पुण्यकर्मायं यतः सुखीवर्तत इत्यादौ कर्मपदस्य धर्मादौ प्रयोगदर्शनेन तत्र रूढत्वाच्च ऊचतुः | आर्तभाग याज्ञवल्क्यावित्यर्थः | कर्मसंबंधी पुरुषो जीव एव न परमात्मा तस्य धर्माद्यभावान्न चैतेषां पुरुषाणां कर्तेति वाक्येन वेदितव्य पुरुषस्य प्रकृतादित्य चंद्रादि पुरुष कर्तृत्वमुच्यमानं जीवे कथं संभवतीति वाच्यं | भोगोपकरणभूतात् | आदित्यादि पुरुषान् | प्रतिभोक्तुर्जीवस्यादृष्टद्वाराकर्तृत्वोपपतेरत एव यस्य चैतत्कर्मेति वाक्यं सफलमदृष्टद्वारा प्रकृतपुरुष कर्तृत्वोपपादकत्वादित्येवं प्राप्ते सिद्धांतः कर्मशब्दस्य न धर्मादौ रूढिश्चलनात्मकं कर्मेति प्रसिध्यनुरोधेन प्. ४१अ) परिस्पंदे तस्य रूढत्वात् | कथं तर्हि ध्र्मादौ तत्प्रयोगनिर्वाहः विहित प्रतिषिद्ध रूपदेहादि परिस्पंदजन्ये धर्मादौ लक्षणया प्रयोगोपपतेः | न च देवता ध्यानादि रूपमनोमात्र व्यापारजन्ये धमादौ परिस्पंदजन्यत्वाभावेन लक्षणया प्रयोगे सति परिस्पंद इव धर्मादावपि रूढिरपरिहार्येति वाच्यं | तर्हि प्रकृते विनिगमनाविरहेण रूढेरनुन्मेषे सति क्रियते इति कर्मेति व्युत्यत्याकर्मपदं कार्यमात्रमाह | एतत्पदमपि प्रत्यक्षाद्युपस्थित वस्तुमात्रमाह | प्रकृतस्य तत्परामर्श योग्यस्य कस्यचिदभावात् | तथा च | एतत्कृत्स्नं जगद्यस्य कर्मकार्यमित्यर्थलाभेन वेदितव्य पुरुषस्याशेषजगदुत्पति कर्तृत्वं सिध्यति तच्च ब्रह्मलिंग आदित्यादि पुरुषकर्तृत्वमपि न मुख्यं जीवस्य संभवति | एतेषां पुरुषाणां कर्तेत्यत्र मुख्यकर्तृ ग्रहणसंभवे गौणकर्तृ ग्रहणायोगात् | न चाशेषजगत्कर्तृत्वोक्तौ तत एव आदित्यादि कर्तृत्वस्यापि लाभात् | पृथक् तदुक्तिर्व्यर्थेति वाच्यं | मंत्रार्थवादादिषु आदित्य चंद्रादि ४१ब्) पुरुषाणां महामहिम संकीर्तनेन तेषु संजात परब्रह्मत्व भ्रांति निवर्तकत्वेन पृथगुक्ति साफल्यात् | पुरुषपदस्यापि न जीवे रूढिः | पूरणात् पुरुष इति कॢप्तयोगेनैव कृत्स्नजगद्व्यापिनि ब्रह्मणीवकृत्स्न शरीरव्यापिनि जीवेपि प्रयोगोपपत्या तत्र रूढेरकल्पना तत्कल्पनेपि योगवत् रूढेरपि जीवब्रह्मसाधारणे चेतनमात्रे कल्पनोपपतेश्च न पुरुषश्रुतिर्जीवपक्षयातिनी | श्रुतिपाठे क्वचित् पुरुषपदाश्रवणाच्च | तथा चायं सूत्रार्थः | वेदितव्यः पुरुषः परमात्मा कृत्स्न जगत्कर्तृत्वान्न च हेत्वसिद्धिः कर्मपदस्य जगद्वाचित्वातस्माद्वेदितव्यः पुरुषः परमात्मेति सिद्धमेवं च सर्वसंहर्तृत्वादिकमित्यत्र आदिपदेनांतर्याम्यधिकरणोक्त सर्वनियंतृत्वरूप सर्वस्थिति कर्तृत्वं जगद्वाचित्वाधिकरणोक्तं सर्वजगदुत्पति कर्तृत्वं च गृह्यते || अन्ये तु जन्मकारणत्वस्य स्थिति कारणत्वस्य च निमित्तकारण साधारण्यादुपादानत्व प्रत्यायनाय प्रपंचस्य ब्रमणिलयो दर्शितः | अस्तु ब्रह्मजगदुपादानं | प्. ४२अ) तज्जन्मनि चट जन्मनि कुलालवत् | तत्स्थितौराज्यस्थेम्निराजवच्चोपादानादन्यदेवनिमित्तं भविष्यतीति शंकाव्यवच्छेदाय तस्यैव जगज्जन्मजीवन नियामकत्व मुक्तं || ननु यत इत्यादि श्रुत्या जीवव्यावृतेश्वरस्य तत्पदवाच्यस्य ब्रह्मणो लक्षणमुक्तमिति तात्पर्य वर्णनमयुक्तं | तद्विजिज्ञास स्वतद्ब्रह्मेति वाक्यशेषानुसारेण श्रुतेर्वाक्यार्थभूताद्वितीय जिज्ञास्य ब्रह्मलक्षण प्रतिपादाकत्वस्यैवावगमादित्याशंक्य श्रुतेस्तथा भूतब्रह्मलक्षणपरत्वमुपगच्छतांमतमाह | अन्ये त्विति | चेतनाचेतनात्मक कृत्स्नभूतोपादानत्व प्रतिपतिर्हि ब्रह्मणो अद्वितीयत्व बोधहेतुः | न च चेतनानां नित्यत्वात् | कथं तदुपादानत्वं ब्रह्मण इति वाच्यं | तेषां स्वरूपेण नित्यत्वेपि शरीरद्वयविशिष्टतया कार्यत्वोपगमात् न चैवमपि ब्रह्मापेक्षया द्वितीयस्य तत्कार्यस्य विद्यमानत्वात् कथं तदुपादानत्वमद्वितीयत्व प्रत्यायकमिति वाच्यं कार्यस्य हि उपादानमेव वास्तवं स्वरूपं न तु तदतिरिक्तं वास्तवं स्वरूपमस्तिनामरूपात्मक जगद्रूपं तु मिथ्याभूतमित्यारंभणाद्यधिकरणेषु व्यवस्थापितत्वात् | अतस्सर्वोपादनत्वं सर्वस्य वास्तवं स्वरूपं ब्रह्मैवेति बोधनद्वारा ब्रह्मणोवास्तवा द्वितीयत्वबोधहेतुर्भवति | अद्वितीय ब्रह्मबोधश्च मुक्तिहेतुरिति मुक्ति प्रयोजनक ब्रह्मा द्वितीयत्व बोधहेतु भूतोपादानत्व प्रत्यायनार्थं यत्प्रयंत्यभिसंविशंतीति श्रुति भागेन ब्रह्मणि सर्वभूतलयो दर्शित इत्याह | उपादानत्वेति | प्. ४२ब्) ननु घटाद्युपादाने मृदादौ घटादिलयाधारत्ववजन्मादिकारणत्वस्यापि सत्वेन तद्बलादप्युपादानत्व प्रत्ययः स्यादिति नेत्याह | जन्मकारणत्वस्येति | निमित्तं कुलालदंडचक्रादि | तर्हि श्रुतौ जन्मादिकारणत्व प्रतिपादनं व्यर्थं लयमात्र प्रतिपादनादेवेष्टसिद्धेरिति नेत्याह | अस्त्विति घटजन्मन्युपादानमृदतिरिक्तकुलाल इव जगज्जन्मन्यपि उपादान ब्रह्मापेक्षया अन्यत्कर्तृरूपं निमितं भविष्यतीति भ्रमव्यवच्छेदाय तस्यैव ब्रह्मणः श्रुतौ जगज्जनन कर्तृत्वमुक्तं तथा राज्यस्थेम्निपालनरूपे पालनीय प्रजाद्युपादानाति रिक्त राजवज्जगतः स्थितौ जगदुपादान ब्रह्मापेक्षया अन्यन्निमितं नियंतृतया स्थिति हेतुभूतं भविष्यतीति शंका व्यवछेदाय तस्यैव ब्रह्मणो जगज्जिवननियामकत्वं श्रुत्या उक्तमित्यर्थः || तथा चैकमेवेदं लक्षणमभिन्ननिमितोपादानतयाऽद्वितीयं ब्रह्मोपलक्षयतीत्याहुः ब्रह्मणश्चोपादानत्वमद्वितीय कूटस्थ चैतन्यरूपस्य न परमाणूनामिवारंभकत्वरूपं न वा प्रकृतेरिव परिणामित्वरूपं किंतु अविद्यया वियदादि प्रपंचरूपेण विवर्तमानत्वलक्षणं || प्. ४३अ) तथा चेति जगज्जननजीवननियामकत्वाभ्यां जगदुपादान ब्रह्मण एवतन्निमितत्वप्रतीतौ सिद्धायामित्यर्थः इदं श्रुत्युक्तं लक्षणमेकं स देवाभिन्ननिमितोपादानत्वे पर्यवस्पदद्वितीयं ब्रह्मलक्षयति ब्रह्मव्यतिरिक्तवस्त्वस्तित्वशंका निराकरणद्वारेण ज्ञापयति न तु प्रत्येक लक्षणं सदित्यर्थः | निमित्तं च तदुपादानं चेति निमितोपादानं अभिन्नं च तन्निमितोपादानं चेति पुनः कर्मधारयः आद्यकर्मधारया देवनिमितोपादानयोरभेदे सिद्धेपि पुनरभिन्नपदं कर्मधारयावगताभेद ऐक्यलक्षण एव न नीलोत्पलादौ गुणगुणिनोरिव तादात्म्यरूप इति ज्ञापनार्थमिति बोध्यं | ननु यत इति पंचमी श्रुत्या सर्वभूतलयाधारत्व लिंगे न च निश्चितं ब्रह्मण उपादानत्वं प्रधानस्येव परिणामित्वरूपं वा परमाणूनामिवारंभकत्वरूपं वा रज्वादेरारोपित सर्पाद्युपादानस्येव जगद्रूपविवर्ताधिष्ठानत्वरूपं वा वाच्यं | तत्र नाद्यः ब्रह्मणः कूटस्थ त्वात् परिणाम वा देहि परिणामपरिणामिनोर्वास्तवा भेदस्वीकारेण ब्रह्मणः परिणामित्वे परिणामजन्मादयोपि ब्रह्मणि प्रसज्येरन् | तथा च जन्ममरणादि विकारशून्यत्वलक्षणं श्रुति सिद्ध कूटस्थत्वं तस्य भज्ये ततश्च कूटस्थ त्वात् तस्य परिणामित्वं न संभवति | न द्वितीयः अद्वितीयत्वात् ब्रह्मणः ब्रह्मणः स द्वितीयत्वे हि परमाणु द्वयसंयोगवदसमवापि कारणलाभसंभवादारंभकत्वं भवेदित्याशयेनाह | ब्रह्मणश्चेति | तृतीय प्रकारः परिशिष्यत इत्याह | किंत्वित्यादिना || प्. ४३ब्) वस्तुनस्तत्समसताकोन्यथाभावः परिणामः | तदसमसता को विवर्त इति वा कारण स लक्षणोन्यथा भावः परिणामः | तद्विलक्षणो विवर्त इति वा कारणाभिन्नं कार्यं परिणामः | तदभेदं विनैव तद्व्यतिरेकेण दुर्वचं कार्यं विवर्त इति वा विवर्तपरिणामयोर्विवेकः | अथ शुद्धं ब्रह्मोपादानमिष्यते | ईश्वररूपं जीवरूपं वा | अत्र संक्षेप शारीरकानुसारिणः केचिदाहुः शुद्धमेवोपादानं जन्मादि सूत्र तद्भाष्ययोरुपादानत्वस्य ज्ञेय ब्रह्मलक्षणत्वोक्तेः | तथा चात्मनः आकाशः संभूत इत्यादिकारण वाक्येषु शवलवाचिनामात्मादि शब्दानां शुद्धे लक्षणैवेति || ननु ब्रह्म तद्विवर्तप्रचंयोरभेदस्सिद्धांते उपेयते आरंभवादे तु आरभ्यं आरंभकादत्यंतभिन्नमुपेयते इति आरभ्य विवर्तयोर्भेदः स्पष्टः सिद्धांत इव परिणाम वादेपि सांख्याद्यभिमते परिणामपरिणामिनोरभेदाभ्युपगमात विवर्तपरिणाअमयोर्भेदः कथमवगंतव्य इत्याशेक्यलक्षणभेदादित्याह | वस्तु न इति | वस्तु न उपादानत्वाभि यतस्य | अन्यथा पूर्वरूपा पेक्षयारूपांतरेण भावः भवनं अवस्थानं | अन्यथा भावः | अवस्थाविशेष इति यावत् | प्. ४४अ) तत्समसत्ता कः तेन वस्तुना समासत्ता यस्य अन्यथा भावस्य स तथा | तथा च उपादानत्वाभिमत वस्तुसत्ता समानसत्ता कत्वे सति | तदवस्थाविशेषरूपत्वं तत्परिणामत्वमिति परिणामलक्षणं पर्यवस्यति | तत्र विवर्तवारणाय सत्यं तं | घटस्य तं तु परिणामत्व वारणाय विशेष्यं विवर्तलक्षणमाह | तदिति वस्तुनस्तदसमसता कोन्यथा भावो विवर्त इति संबंधः | उपादानत्वाभिमत वस्तुसत्ता विषमसता कत्वे सति तदवस्थाविशेषरूपत्वं तद्विवर्तत्वमिति विवर्तलक्षणं | उपादानत्वाभिमत मृद्वस्तु सताविषमसत्ताकत्वं चैतन्यस्याप्यस्तीति तस्य मृद्वस्तुविवर्तत्ववारणाय विशेष्यं | परिमाणवारणाय सत्यं तं ब्रह्मचैतन्यस्य पारमार्थिकी सत्ता घटादि प्रपंचस्य व्यावहारिकी सत्ताशु || कैवसता न तदतिरिक्तेति मत्तसाधारण्येन लक्षणांतरमाह | कारण स लक्षण इति | उपादानत्वाभिमत वस्तु सलक्षणत्वे सति तदवस्थाविशेषत्वमिति | परिणामलक्षणं अत्र स लक्षणं जडरूपं बोध्यं परिणामपरिणामिनोर्जडत्व नियमात् | न काप्य व्याप्ति शंका मृद्वस्तुनो घटपरिणामत्ववारणाय विशेष्यं प्रपंचस्य संवित्यपरिणामत्ववारणाय सत्यं तं विवर्तलक्षणमाह | तदिति | उपादानत्वाभिमत प्. ४४ब्) वस्तुविलक्षणत्वे सति तदवस्थाविशेषत्वं तद्विवर्तत्वमिति विवर्तलक्ष्णमत्र चित्व जडत्वरूप वैलक्षण्यं विवक्षितं वियदादि प्रपंचवत् शुक्तिरजतादेरपि ततदवछिन्नचैतन्य एवाध्यासांगीकाराज्जडमात्रे चैतन्यविवर्ते तद्विलक्षणत्वमस्तीति लक्षणसंगतिः | उपादानत्वाभिमत जडविलक्षणे चैतन्ये जडविवर्तत्ववारणाय विशेष्यं मृत्परिणामे घटादौ मृद्विवर्तत्व वारणाय सत्यं तं | प्रकारांतरेण विवर्तपरिणामयोर्लक्षणमाह | कारणाभिन्नमिति | कारणत्वाभिमत वस्त्वभिंत्तत्वे सति तत्कार्यत्वं तत्परिणामत्वं वियदादौ ब्रह्मकार्यत्वमस्ति तत्परिणामत्वं तु नास्तीति तद्वारणाय सत्यं तं ब्रह्मप्रपंचयोरारोपिता भेदसत्वेपि लक्षणे विवक्षितस्य धर्मि द्वय समान स्वभाव भेदस्याभावान्नाति व्याप्तिः | परिणामवादे मृदोपि घटाभिन्नत्वमस्तीति तस्याः घटादि परिणामत्व वारणाय विशेष्यं | तदभेदमिति वस्तुतस्तद भेदं विनैवेत्यर्थः | व्यतिरेकोभेदः अस्मिन् | लक्षणे कार्यत्वमविवक्षितं | अनाद्य प्. ४५अ) विद्यादेरपि विवर्तत्वांगीकारात् | यद्वा कार्यरूपस्यैव विवर्तस्येदं लक्षणं | तथा च उपादानत्वाभिमत वस्तुतः सकाशाद्वस्तुतो भेदाभेदाभ्यां दुर्निरूपत्वे सति कार्यं कार्यरूपविवर्तलक्षणमत्रा विद्यां प्रति उपादानत्वाभिमत चैतन्याद्वस्तुतो भेदाभेदाभ्यां निरूपयितुमशक्यायामविद्याया प्रतिव्याप्ति वारणाय विशेष्यं | आरंभवादे उपादानादभेदेन दुर्मिरूपकार्ये अतिव्याप्ति वारणाय भेदेत्युक्ते परिणामवादे उपादानात् | भेदेन दुर्निरूपकार्ये अतिव्याप्ति वारणायाभेदेत्युक्तं | सिद्धांते कार्यकाकारणयो भेदोपगमादसंभववारणाय वस्तुत इत्युक्तं | ननु कार्यकारणयोर्वस्तुतो भेदाभेदौ कथं दुर्निरूपाविति उच्यते | तत्र तयोर्भेदस्तावत् दुर्निरूपः | निम्नोन्नतादि युक्तमृद्वस्तु व्यतिरेकेण घटा || क्ति रजतादेः प्रातिभासिकी सतेति सता त्रैविध्यांगीकारमते लक्षणभेद उक्तः ब्रह्मणि घटादौ शुक्तिरजतादौ च सर्वत्र ब्रह्मस्वरूपभूता ए || प्. ४५अ) द्यनुपलंभात् | संयोगविशेषयुक्ततंत्वतिरेकेण पदानुपलंभाच्च मृद्घटः तंतवः पटः सुवर्णं कुंडलमित्यादिना सामानाधिकरण्याच्च | न हि वस्तुतोभिन्नयोस्सामानाधिकरण्य प्रत्ययः संभवति | किं च कारकव्यापारात् पूर्वं मृदादौ घटादेरऽसत्वेशशशृंगादिवदुत्पत्यनुपपत्तेः | उत्पति क्षणात् पूर्वसंसतः कार्यस्य उत्पति क्रियां प्रतिकर्तृत्वानुपपतेश्च | पूर्वसिद्धस्यैव कर्तृत्व दर्शनात् | उत्पति क्षणे उपादानेन सहकार्यस्य संबंधानुपपतेश्च पूर्वक्षणे कार्यस्यासत्वात्पूर्वसिद्धयोरेव हि पश्चात्संबंध संभवः | अन्यथा शशशृंगादेरपि कारणसंबंधस्य दुर्वारत्वात् कारकव्यापारात्पूर्वं कार्यस्य तुछवैलक्षण्यानंगीकारे तद्वदेव पश्चादात्मलाभा संभवस्य दुर्वारत्वाच्च सिद्धे च प्राक् कार्यस्य सत्वे प्राक्काले कार्यकारणयोर्भेदे मानाभावादभेदे सिद्धौ पश्चादपि तयोरभेद एव स्वीकर्तव्य इति कार्यकारणामेदवादिनः | सांख्यादयः तद्भेदवादिनस्तार्किकादयस्तु वदंति | प्. ४६अ) कार्यकारणयोरभेदो न संभवति तद्भाव विरोधात् | न हि तस्यैव तत्कार्यत्वं तत्कारणत्वं च संभवति | अर्थक्रियाभेदाभावप्रसंगाच्च न हि जलाहरणाद्यर्थ क्रियामृद्वस्तुनस्संभवति घटोत्पतेः | प्रागपि तत्प्रसंगात् | नापि मृदोर्थ क्रिया घटस्य संभवति मृद्धद्घटस्यापि घटोत्पादकत्व प्रसंगात् | कार्यस्य कारणव्यापारात्पूर्वं सत्वे च कारकव्यापार वैयर्थ्य प्रसंगात् | तदा मृद्वदेवोपलंभ प्रसंगाच्च | तदुक्तं पंचदश्यां | स घटो न मृदो भिन्नो वियोगे सत्यनी क्षणात् | नाप्यभिन्नः पुरापिंडदशायाम न वेक्षणात् | इति | वियोगे सति मृदः सकाशात् | बुध्याविवेचने क्रियमाणे इत्यर्थः | एवं कार्यकारणयोर्मेदवादिभिरभेदवादिभिश्च दर्शितः परस्परं प्रतिक्षेप्तुमशक्यैर्न्यायैः कार्यस्य कारणाद्भेदाभेदाभ्यां प्रागुत्पतेः | सत्वासत्वाभ्यां च दुर्निरूपत्वात् | तस्यानृतत्वं सिद्धं कारणं तु कार्योत्पतेः पूर्वकाले कार्यकाले कार्यनाशकाले चानुवर्तमानं कार्यात् भेदेन सत्वेन च निरूपयितुं प्. ४६ब्) शक्यत्वात् सत्यमेव कार्यापेक्षया एवं मृदादेरवांतरकारणस्य तत्तत्कार्यापेक्षया सत्यत्वे सिद्धेपि परमार्थ सत्यत्वं नोपेयते श्रुत्या ब्रह्मव्यतिरिक्तस्य सर्वस्यैव वाधितत्वात् | ब्रह्मणस्तु परमार्थ सत्यत्वं सदात्मनो वाधशून्यत्वात् | अभ्युपगम्यते | अत एव जगत्कारणस्य सत्यत्वे मृदादि सत्यत्वं | जगतो मिथ्यात्वे च मृदादि कार्यस्य घटादेरनृतत्वं च दृष्टांत्तत्वेन श्रुत्या उपादीयते तदुक्तं पंचदश्यां | एवं मायामयत्वेन विकारस्यानृतात्मतां विकाराधारमृद्वस्तु सत्यत्वं चाब्रवीच्छ्रुतिरिति श्लोके विकारानृतत्वादौ पूर्वाक्त न्यायकलाप | एवं शब्दार्थः दृष्टांतत्वेनेति शेषः | उक्तं च भामतीति बंधने | तदनेन प्रमाणेन विकारजातस्यानिर्वाच्यतया सिद्धमनृतत्वं कारणस्य निर्वाच्य तया सिद्धं सत्यत्वं च मृतिकेत्येव स्त्यमित्यादिना प्रबंधेन दृष्टांततयानुवदति श्रुतिरिति वाचारंभणं विकारो नामधेयं मृतिकेत्येव सत्यमिति श्रुतिरित्यर्थः | विकारो घटादिर्वाचा घटशरावादिरस्तीत्यादि प्. ४७अ) शब्देनारभ्यते व्यवह्रियत इत्यारंभणं वाचा व्यवह्रियत एव न वस्तुतोस्ति विकारस्तस्य दुर्निरूपत्वादिति भावः | कथं तर्हि मृद्वस्तुनस्सकाशात् घटादिजीत इति कार्यकारणयोर्भेदव्यवहार इत्यत आह | नामधेयं भेदव्यवहारो नाममात्रं अर्थशून्यः | यथाराहोः शिरः पुरुषस्य चैतन्यमिति व्यवहारः विकारवत् भेदोप्यनिर्वचनीय इति भावः | किं तर्हि सत्यं तत्राह | मृतिकेति अनेन मृतिकात्वेन रूपेण घटशरावादि विकारेषु प्रतीयमानं कारणरूपं वस्तुसत्यं विकारसत्यत्वमेव कारेण व्यवछिद्यते तत्सिद्धं दुर्वचत्वं कारणाद्भेदाभेदाभेदाभ्यां कार्यस्येति | पृच्छति अथेति | ननु वाक्यार्थ भूतशुद्ध ब्रह्मण एव श्रुतौ लक्षणमुक्तं तद्विजिज्ञासस्वेति वाक्यशेष लक्षणीयस्य ब्रह्मणो जिज्ञास्यत्वाभिधानात् | तथा च निश्चितार्थे प्रश्नानुपपतिरिति चेन्न | यथा शुद्धस्य जिज्ञास्य त्वं | एवं तत्वं पदार्थभूतयोर्जीवेश्वरयोरपि शुद्ध ब्रह्मप्रतिपति हेतुत्वेन जिज्ञास्य त्वमस्ति तथा प्. ४७ब्) तयोरपि वक्ष्यमाणरीत्याभिन्न निमितो पादानत्वं च संभवतीति | जिज्ञास्य त्वकारणत्वयोः साधारणत्वेन प्रश्नोपपतेरिति भावः | जीव ईशो विशुद्धाचित् तथा जीवेशयोर्भिदा | अविद्या तच्चित्तोर्योगष्षडस्माकमनादय इति संप्रदायविद्वचने चैतन्यत्रैविध्यस्यैव प्रसिद्धत्वातदनुसारेण त्रेधः प्रश्नः | सामान्यज्ञनस्य विशेषवुभुत्सा हेतुत्वात् ब्रह्मणः सामान्यरूपेणोपादानत्वज्ञानानंतर्यमथ शब्दार्थः प्रश्नो वा तदर्थः | ईश्वररूपं जीवरूपं वा ब्रह्मनोपादानमिति एव कारार्थः | जन्माद्यस्य यत इति सूत्रं जन्म आदिरस्येति बहुब्रीहिः जन्मस्थितिभंगं अन्यपदार्थः | जन्मादीति नपुंसकैक वचनेन | अन्यपदार्थे समाहार द्वंद्व सूचनादन्य पदार्थ भूतजन्मस्थिति भंगेष्वितरेतरयोगद्वंद्वाश्रयणे तु जन्मादय इति सूत्रापतेः | जन्म न आदित्वं च जायमान पदार्थेषु स्थितिभंगावपेक्ष्य दृष्टमिति सूत्रे जन्मनः प्राथम्यरूपादित्व निर्दशः | अस्येति सर्वनाम्ना सूत्रकर्तुर्बुद्धिस्थ सकलप्रपंचनिदेशः षष्ट्या च जगतो प्. ४८अ) जन्मादेश्च संबंधनिर्देशः | यत इति कारणनिर्देशः सूत्रे तत्पदाध्याहारः पूर्वसूत्रात् ब्रह्मपदानुषंगः | तथा च यतः कारणादस्य जगतोजन्मांदि तद्ब्रह्मेति सूत्रार्थः | ज्ञेय ब्रह्मेति वाक्यार्थ भूतशुद्ध ब्रह्मण एव प्राधान्येन लक्षणीय त्वात् | तस्यैव जन्मादि सूत्रे लक्षणमुच्यते | अथातो ब्रह्मजिज्ञासेति पूर्वसूत्रे शास्त्रविषय समर्पकेण ब्रह्मपदेन शुद्धब्रह्मण एवोपात्तत्वेन तस्यैव लक्षणाकांक्षणाच्चेति भावः | नत्वात्मन आकाशः संभूतः सोकामयतयस्सर्वज्ञः सर्वविदित्यादिकारण वा कोषु ईश्वररूप ब्रह्मणकारणत्वमुच्यते न शुद्धस्य तस्य कामयितृत्व सर्वज्ञानकर्तृ || विवरणानुसारिणस्तु यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्मनामरूपमन्नं च जायत | इत्यादि श्रुतेः | सर्वज्ञत्वादि विशिष्टं मायाशवलमीश्वर रूपमेव ब्रह्मोपादानं | अत एव भाष्यें तस्तद्धर्मोपदेशात् सर्वत्र प्रसिद्धोपदेशादित्याद्यधिकरणेषु सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद् ब्रह्म सर्वकर्मा सर्वकामः सर्वगंधः प्. ४८ब्) सर्वरस इत्यादिश्रुत्युक्तं सर्वोपादानत्वप्रयुक्तं सर्वात्मकत्वं जीवव्यावृतमीश्वरलिंगमित्युपवर्णितं || त्वाद्यनुपपतेरतस्तद्वाक्यगतात्मपद तत्पद सर्वज्ञादि पदानां शबलवाचित्वात् | न कारण वाक्येभ्यः शुद्धस्योपादानत्व सिद्धिरितिरेनेत्याह | तथा चेति | जन्मादि सूत्र तद्भाष्ययोः स्वारस्येन शुद्धस्योपादानत्वावगमे सतीत्यर्थः | लक्षणैव स्वीक्रियते अतः कारणवाक्येभ्यः शुद्धस्य कारणत्वावगतिर्युक्तेति भावः | अथ शुद्धं ब्रह्मोपादानमित्यादि प्रश्ने द्वितीयपक्षमादाय प्रतिवचनमुत्थापयति विवरणेति | यस्य प्रकृतस्य भूतयोनेः पूर्वमंत्रोपातं तपः ज्ञानमयं स्वरूपज्ञानविकारः मायावृति प्रतिबिंबरूपमिति यावत् | तस्मात् सर्वज्ञाद्भूतयोनेस्सकाशादे तत्सन्निहितं | अपरकालीनं कार्यरूपमिति यावत् ब्रह्महिरण्यगर्भाख्यं जायत इति श्रुतेरीश्वररूपमेव ब्रह्म उपादानमिति संबंधः | न शुद्धं जीवरूपं वेत्येवकारार्थः सर्वज्ञत्वादीत्यादि पदेन सर्ववित्वकाम पितृत्व सर्वेश्वरत्वादीनि गृह्यंते मायोपाधिनिरूपितर्विवत्वविशिष्टे सर्वज्ञत्वादि गुणयुक्तं च यदीश्वररूपं ब्रह्मचैतन्यं तदेवोपादानमित्यर्थः | अथ शुद्धं ब्रह्मोपादानमिष्यत इति प्रश्नस्य प्रतिवचनावसरे ईश्वररूपमेव ब्रह्मोपादानमित्ये तावति वक्तव्ये तस्य मायाशबलत्व विशेषणमीश्वरोपि शुद्धचैतन्यमेवेति भ्रांति निरासार्थं तस्य सर्वज्ञत्वाद्यनेक प्. ४९अ) विशेषणोपादानं चेश्वररूप ब्रह्मण उपादानत्वे यस्सर्वज्ञ इत्यादिकारणवाक्यानां सर्वेषामैक कंठ्यप्रदर्शनार्थमिति मंतव्यं जीवशुद्ध ब्रह्मव्यावृतेश्वररूप ब्रह्मण || जीवेश्वरानुस्यूत चैतन्यमात्रस्य सर्वोपादानत्वे तु न तज्जीव व्यावृतमीश्वर लिंगं स्यात् | संक्षेप शारीरकेशवलोपादानत्व निराकरणमपि मायाविशिष्टोपादानत्व निराकरणाभिप्रायं न तु निष्कृष्टेश्वररूप चैतन्योपादानत्व निराकरण परं | तत्रैव प्रथमाध्यायांते जगदुपादानत्वस्य तत्पदार्थवृत्तित्वोक्तेः || उपादानत्वे भाष्यसंमतिमाह | अत एवेति | ईश्वररूप ब्रह्मण एवोपादानत्वाभ्युपगमा देवेत्यर्थः | इत्यादि श्रुत्युक्तं सर्वोपादानत्व प्रयुक्तं सर्वात्मकत्वमीश्वरलिंगमित्युपवर्णितं भाष्ये इति संबंधः यस्य सर्वोपादानत्वं तस्य सर्वात्मकत्वमुपादानोपादेययोस्तादात्म्यान्नान्यस्येत्यविवादं | यदि प्रतिबिंबत्वविशिष्टचैतन्यरूपे जीवे विंवत्व विशिष्टचैतन्यरूप ईश्वरे च विशेष्यतया अनुस्यूत शुद्धचैतन्यरूप ब्रह्मणः सर्वोपादानत्वमिष्यते | तदा तस्यैव सर्वात्मकत्वस्यान्नेश्वरस्येति सार्वात्म्यस्य भाष्ये जीवव्यावृतेश्वर लिंगत्वोपन्यासो न स्यात् | न च विशेष्य भूतशुद्ध ब्रह्मगतं सर्वात्मकत्वं विवत्वविशिष्ट चैतन्यरूपेश्वर लिंगतया भाष्ये प्. ४९ब्) वर्णितमिति वाच्यं | तथा सति तस्य जीवव्यावृतत्वं न स्यात् विशेष्य धर्मस्य सर्वात्मकत्वस्य ईश्वरधर्मत्ववज्जीवधर्मत्वस्यापि सत्वादित्याशयेनाह | जीवेश्वरानुस्यूतेति छांदोग्ये श्रूयते | य ए * तरादित्ये हिरण्मयः पुरुषोद्वश्यते हिरण्यण्मशुर्हिरण्यकेशः | आप्रणखात् सर्व एव सुवर्ण इत्युपक्रम्य तस्य ऋक् सामर्थगेष्णावित्युक्ता? उतरत्रय एषोंतरक्षिणि पुरुषो दृश्यते सैव ऋक्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्मेति चोक्ता तद्य इमे वीणायां गायंति एनं ते गायांतीति | अस्यार्थः आदित्ये अंतर्यः पुरुषः शास्त्रतो दृश्यते एष हिरण्मयः ज्योतिर्मयः स्वतः प्रकाशचैतन्य स्वरूप इत्यर्थः | तस्योपासनार्थं शरीरमाह | हिरण्यश्मश्रुरित्यादिना | हिरण्यसुवर्णशब्दौ ज्योतिः परौ | प्रणखानखाग्नं आडुः अभिव्याप्तौ तस्य हिरण्मय पुरुषस्य ऋक् सामनीगेष्णौ परिमलौक्तरित्या स्तुति धनीभूते इत्य || गात् तस्यैव पुरुषस्यादित्य स्थानवदुपासनार्थं स्थानांतरमाह | य एषोंतरक्षिणीति | सैव ऋगित्यादौ विधेया पेक्षयालिंगव्यत्यासः | स एव ऋक् पुरुषः समासामसः उक्थं सः यजुः सः ब्रह्मवेदः ब्रह्मपदं ऋगाद्यति रिक्त वेदपरं | तथा च गेष्णवाक्येन सर्वदेवात्मकत्वमुक्तं सैव ऋगिति वाक्येन सर्ववेदात्मकत्व प्. ५०अ) मुक्तं | तथा ये इमे प्रसिद्धागापकाः वीणायां लौकिक पुरुषं गायंति तेपि एनं पुरुषं गायंतीत्युक्त्या इंद्राद्यात्मकत्ववत् लौकिकपुरुषात्मकत्वमपि सिध्यति | तथा च सर्वदेवात्मकत्व सर्ववेदात्मकत्व सर्वलौकिक पुरुषात्मकत्वानिमिलित्वा सर्वात्मकत्वे पर्यवस्यंति | तिर्यगात्मत्वस्याप्युक्त प्रायत्वात् | एवं स्थिते संशयः आदित्ये अक्षिणि चांतः श्रूयमाणो हिरण्मयः पुरुषः मंडलाभिमानि देवताविशेषो वा नित्यसिद्धः परमेश्वरोवेति | तत्र देवता विशेष एव हिरण्मयः पुरुषस्तस्य संसारित्वेन हिरण्यश्म श्रुत्वादि रूपसत्वोपपतेस्सर्वात्मकत्वस्याप्युपासनार्थं तत्रारोपोपपतेश्च न परमेश्वरः तस्य शरीरा संभवादिति प्राप्तं एवं प्राप्ते ब्रूमः | अंतस्तद्धर्मोपदेशात् सर्वत्र प्रसिद्धोपदेशादिति आदित्यादावंतरवस्थितो हिरण्मयपुरुषो नित्यसिद्ध परमेश्वर इव कुतः तद्धर्मस्य सर्वात्मकत्वस्य सैव ऋक् तत्सामेत्यादावुपदेशात्सर्वात्मकत्वं हि ईश्वरस्यैव धर्मः | तस्य सर्वोपादानत्वेन सर्वात्मकत्वो प्. ५०ब्) पपतेर्न च मुख्य संभवे सत्यारोप कल्पनान्यायया परमेश्वरस्यापि साधकानुग्राहार्थमिछावशान्मायागत शुद्धसत्वांश परिणामरूपशरीरसंभवादुमासहायं परमेश्वरं प्रभुमित्यादि श्रुतिषु जन्मकर्म च मे दिव्यमित्यादि स्मृतिषु च प्रसिद्धत्वाच्चेति निर्णयः | सर्वं खल्विदं ब्रह्मेति प्रकृत्यसक्रतुं कुवीतेति वाक्येन क्रतु शब्दवाच्यमुपासनं विधाय उपास्याकांक्षायां पठ्यते | मनोमयः प्राणशरीरः भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः | सर्वगंधस्सर्व रसस्सर्वमिदमभ्यातो वाक्यनादर एषम आत्मांतर्हृदय इति | अयमर्थः | मनोमयः || र्थः इदं ऋक्सामगेष्णत्वं समस्त ऋक् सामस्तुत्यत्वरूपं हिरण्मय पुरुषविशेषणं तस्य वेदे ऋक्सामस्तुत्यतया प्रसिद्धेंद्राद्यात्मकत्वमादाय पर्यवस्यति | हिरण्मयपुरुषस्येंद्रादिभ्यस्साकाशाद्भिन्नत्वे तु तद्विशेषणं न सिध्यति अन्यस्तु ते रन्यविषयकत्वायो || मनः प्रधानः प्राणः शरीरमस्येति प्राणशरीरः | भाश्चैतन्यं रूपमस्येति भारूपः सत्याः प्. ५१अ) अप्रतिहताः संकल्पाः सृष्ट्यादि गोचरा अस्य आकाश वदात्माव्यापकत्व सूक्ष्मत्वादि युक्तं स्वरूपमस्य सर्वाणि कर्माणि क्रियंत इति व्युत्पत्या कार्याण्यस्य यद्वा भूतगुणगंधरसादि सन्निधानात्कर्मपदं परिस्पंद परं सर्वं परिस्यंदा अस्येत्यर्थः | सर्वे कामा इछारूपा अस्य सुखविशेषरूपा वा सर्वे गंधाः पुण्यरूपाः अस्य पुण्यो गंधः पृथिव्यां चेति स्मृतेः सर्वे रसाः अस्य इदं दृश्यं सर्वं अभि आभिमुख्येन तादात्म्येनातः व्यामः वागेव वाकः वाको अस्यास्तीति वा की न वाकी अवाकी वागिंद्रिय शून्य इति यावत् | वाक् ग्रहणं कर्मेंद्रियाणां मुख्य प्राणस्य च उपलक्षणं | क्रियाशक्तिमत्वाविशेषात् | आदरः कामः सोस्य नास्तीत्यनादरः | आदरनिषेधेन तत्परिणामि मनोनिषिध्वं भवति मनो निषेधेन च ज्ञानेंद्रियाणां निषेधस्सिद्धो भवति | ज्ञानशक्तिमत्वाविशेषात् | अत्र परिस्पंदेछा गंधरसवत्वं तदा श्रयैर्वायुमतः पृथिवीजलैर्भूतविशेषैस्तादात्म्यं विना न संभवतीति सर्वकर्मत्वादि वचनेन अविशेषेण सर्वतादात्म्य प्. ५१ब्) प्रतिपादक सर्वमिदमभ्यात इति वचनेन च मनोमयत्वादि गुणकस्य सर्वात्मत्वं प्रतीयते | तच्च ब्रह्मण एवोपपद्यते | तस्य सर्वोपादानत्वेन सर्वात्मकत्वोपपतेः | न जीवो मनोमयत्वादि गुणकस्तस्य सार्वात्म्या संभवात् | न च मनोमयत्व प्राणशरीरत्वयोर्जीवधर्मयोर्ब्रह्मण्य संभव इति वाच्यं भूततादात्म्येन गंधादि मत्ववज्जीव तादात्म्येन मनोमयत्वाद्युपपतेरिति | सूत्रार्थस्तु मनोमयत्वादि गुणकं ब्रह्मैव उपास्य त्वेनेह निर्दिश्यते कुतः सर्वत्र वेदांतेषु प्रसिद्धस्य | ब्रह्मणः सर्वं खल्विदं ब्रह्मेति पूर्ववाक्ये स्वशब्देनैवोपदेशादस्मिन्नपि वाक्ये प्राणः शरीरमस्येत्यादि विग्रहवाक्येषु पकृतब्रह्माकर्षक सर्वनामश्रुतीनां सत्वाच्च ब्रह्मैव सगुणमुपास्यमत्रेति सिद्धं | सर्वोपादानत्वे त्विति शुद्धब्रह्मवज्जीवस्य सर्वोपादानत्वोपगमेपि सर्वात्मकत्वं जीवव्यावृतमीश्वरलिंगं न स्यादिति | तु शब्दार्थः | ननु संक्षेपशारिरके मायाशवलस्य उपादानत्वं निरस्तमिति तद्विरोध इत्यत प्. ५२अ) आह | संक्षेपशारीरक इति | मायाया अपि बिंबभूतेश्वर विशेषणतयानुपादानत्वाश्रयकोटौ निवेश एव तत्र दूषितः | न तु बिंबत्वविशिष्ट चैतन्यरूपेश्वरस्य तन्निरस्तमिति न तद्विरोध इत्यर्थः | ननु शबलस्योपादानत्वं निराकृत्यजगदुपादातत्वस्य ज्ञेय ब्रह्मलक्षणत्व समर्थन परस्य संक्षेपशारीरक ग्रंथस्य कथमेवमभिप्रायः कल्पयितुं शक्यते स्वरसतस्तस्य बिंब प्रतिबिंबानुगतशुच ब्रह्मोपादानत्व प्रतिपादनपरत्वावगमादिति नेत्याह | तत्रैवेति | संक्षेपशारीरक एवेत्यर्थः | न च तत्पदार्थ वृतित्वं तत्पदलक्ष्यार्थ वृतित्वं विवक्षितं लक्ष्यार्थश्च शुद्धं ब्रह्मेति न संक्षेपशारीरक ग्रंथस्य पूर्वापरविरोधः | न वाते न बिंब भूतेश्वरस्योपादानत्व लाभ इति वाच्यं | लक्ष्यार्थ त्वस्य वाक्यार्थ साधारणतया तत्पदार्थवृत्तित्व विशेषणवैयर्थ्यापतेस्तत्पदार्थवृत्तित्वं तत्पदवाच्यार्थवृत्तित्वमेव वक्तव्यमिति तदविरोधाय सर्वज्ञत्वादि गुणकेश्वरस्य जगत्कारणत्व प्रतिपादक प्. ५२ब्) वहुश्रुत्यविरोधाय च शबलोपादानत्व निराकरणं मायाविशिष्टोपादानत्व निराकरणरूपमेव वक्तव्यमिति न संक्षेपशारीरक विरोध इति भावः | तर्हि जन्मादि सूत्र तद्भाष्ययोर्ज्ञेय ब्रह्मलक्षणत्वोक्ति विरोध इति नेत्याह | एवं चेति | अभिन्ननिमितोपादानत्वरूपलक्षणस्यां तस्तद्धर्माधिकरणभाष्यपर्यालोचनया बिंबभूते एवावगत्वे सिद्धे सतीत्यर्थः | अपि शब्दः | एवं चेश्वरगतमपि कारणत्वं तदनुगतमखंडचैतन्यं शाखा चंद्रमसमिव तटस्थ तयोपलक्षयितुं शक्नोतीति तस्य ज्ञेय ब्रह्मलक्षणत्वोक्तिरिति मन्यंते | विपदादि प्रपंच ईश्वराश्रित माया परिणाम इति तत्रेश्वर उपादानं || चैतन्यमित्यनेन संबध्यते कारणत्वमित्यनंतरमीश्वरमितरव्यावृततया बोधयत्सदिति शेषः | तदनुगतमिति | बिंबत्वविशिष्टचैतन्यरूपेश्वरानुगतमित्यर्थः | अखंडचैतन्यमिति | विशेष्य भूतशुद्धचैतन्यमित्यर्थः | तटस्थत्वं च लक्ष्य स्वरूप बहिर्भूतत्वं वा लक्ष्यावृतित्वं वा उपलक्षणत्वं वा बोध्यं | क्व चंद्र इति | प्रष्णे शाखायामित्युतरं भवति | तत्र यथा शाखादिगंतरगतं नक्षत्रव्यावृत्तं चंद्रमुपलक्षयति प्. ५३अ) तथा ईश्वर गतं कारणत्वमीश्वरमितरव्यावृततया बोधयत् स तटस्थ तयेश्वरानुगतमखंडचैत्यन्यमपीतरव्यावृत्तत उपा-उपलक्षयितुं शक्नोत्येवेत्यर्थः | ईश्वरगतेनाभिन्ननिमितोपादानत्वेन बिंबत्व विशिष्ट चैतन्य रूपेश्वरस्य जगदुपादानत्व संभव शून्याज्जीवात् | तत्कर्तृत्व संभव रहितात्प्रधानादेश्च सकाशाद्व्यावृतौ गम्यमानायां सत्यां विशेष्य भूत ज्ञेय ब्रह्मणोपि प्रधानादिव्यावृतिर्गम्यत इत्यभिप्रेत्य तस्य ज्ञेय ब्रह्मलक्षणत्वं जन्मादि सूत्र तद्भाष्ययोस्संक्षेपशारीरके चोक्तमिति भावः | एवं तटस्थ लक्षणेन प्रधानादिव्यावृतत्वेनावगतं ब्रह्मकीदृक् स्वरूपं तदिति विशेषजिज्ञासायां सत्यांसत्यज्ञानानंदात्मकं ब्रह्मेति स्वरूपलक्षणं प्रवर्तते | अनेनैवाभिप्रायेण भाष्यकारैरुक्तं | तस्य च निर्णय वाक्यमानंदाद्ध्येव खल्विमानि भूतानि जायंत इति यतो वेत्यादि वाक्येन यस्मात् कारणात् | इमानि भूतानि जायंत इत्युक्तं | तद्वस्तुतस्सत्यज्ञानानंत स्वरूपादानंदादेवनान्यस्मात्कारणादित्ये तत् हि प्रसिद्धं पूर्ववल्यामिति श्रुत्यर्थः | अनेन स्वरूपलक्षणेन बिंबभूतेश्वरानुगतं तत्पदलक्ष्यं वस्तुतो वाक्यार्थ भूतं ज्ञेयं ब्रह्मविशेषतो निर्धारितं भवति | इयं च स्वरूपलक्षणविवक्षामूले अ || खंडपदेन सूचिता जगत्प्रकृतिभूत मायाप्रतिबिंब ईश्वरः | माया चेश्वराश्रिता | न च प्रतिबिंबत्वस्य माया कलितत्वात् | तद्विशिष्ट प्. ५३ब्) चैतन्याश्रितत्वं मायाया न संभवति प्रतिबिंबत्व कल्पनात्प्रागेव तस्याश्चैतन्याश्रितत्वस्य वक्तव्यत्वादिति वाच्यं | मायावत्प्रतिबिंबत्व स्याप्यनादित्वे न तस्यास्तद्विशिष्ट चतन्याश्रितत्वोपपतेः | वस्तुतो निर्विशेष चैतन्ये अनादिकालमारभ्य कल्पित प्रतिबिंबत्व स्थितेरनिर्वचनिय मायाधीनत्व मात्रेण प्रतिबिंबत्वस्य तत्क चैतन्ये अनादिकालमारभ्य कल्पित प्रतिबिंबत्व स्थितेरनिर्वचनीय मायाधीन मात्रेण प्रतिबिंबत्वस्य तत्कल्पितत्वं न तु प्रतिबिंबत्वस्य वियदादेरिव मायापरिणामत्वमुपेयते तथा सति प्रतिबिंब भूतेश्वरस्य सादित्व प्रसंगात् | न च माया | अनादिकालमारभ्य चैतन्ये प्रतिबिंबत्वस्य तत्कल्पितत्वं घटयति तद्विशिष्टमेव चैतन्यमाश्रयत इति कथं संभावयितुं शक्यमिति वाच्यं | मायाया अघटित घटनापटीयस्त्वात् | न च शुद्ध चैतन्याश्रितैव माया तत्र प्रतिबिंबभावं घटयतीति कुतो नाश्रीयत इति वाच्यं | मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति श्रुति प्. ५४अ) विरोधात् | मायिनमिति पदेन मायाया ईश्वराश्रितत्व प्रतीतेः | जीवास्त्वविद्याप्रतिबिंबाः | जीवेशावाभासेन करोतीति श्रुतेः | प्रकृता मूलप्रकृतिः जीवेशौ प्रतिनिंबरूपौ करोतीत्यर्थः | नह्युपाधिभेदं विना प्रतिबिंब भेदस्संभवति | न चैकस्मिन्नपि दर्पणे अनेक प्रतिबिंब दर्शनात् | प्रतिबिंब भेद उपाधिभेदव्याप्यो न भवतीति वाच्यं | एकस्मिन् दर्पणे बिंबभेदेन प्रतिबिंबभेदेपि सूर्यादि बिंबैक्य स्थले उपाधिभेदे विना प्रतिबिंबभेदा दर्शनात् | बिंबभूत चैतन्यस्य चैकत्वात् | तस्मात् ईश्वरोपाधि मायापेक्षया भिन्ना एवजीवोपाधिभूता अविद्या स्वीकर्तव्या | न च मूलप्रकृतिं प्रकृत्य प्रवृतायां जीवेशावाभासेन करोति | माया चाविद्या च स्वयमेव भवतीति श्रुतौ जीवेश रूपप्रतिबिंबाधारयोर्मायाविद्ययोः स्वयमेवेत्यनेन प्रकृतमूलप्रकृत्यात्मकत्व प्रतिपादनम्मायाविद्ययोर्भेद पक्षे विरुध्यत इति वाच्यं | मायायावियदादि प्रकृतित्ववत् | अविद्याया अपि लिंग प्. ५४ब्) शरीरादि प्रकृतित्वस्य वक्ष्यमाणत्वेन मायाविद्ये प्रकृतित्वेनैकीकृत्य स्वयमेवेत्येक प्रकृत्यात्मकत्व प्रतिपादनस्याविरोधादविद्या चेत्येक वचनस्यापि जात्यभिप्रायत्वोपपतेर्न तन्नानात्वविरोधोपि बिंबैक्य स्थले उपाधि भेदं विना प्रतिबिंबभेदासंभवस्य दर्शितत्वात् प्रतिबिंब जीवानां च नाना त्वात् | अदृश्यत्वाधिकरणभाष्येप्यव्याकृतमीश्वराश्रयं तस्यैवोपाधि भूतमिति मायाया ईश्वरोपाधित्व तदाश्रयत्वयोरुक्तत्वात् | तथा आनुमानिकाधिकरण प्राष्ये मुक्तानां च न पुनरुत्पतिः | तस्या अविद्या बीज शक्तर्विद्ययादाहादित्यत्र जीवनानात्वस्य तदुपाधिभूताविद्या नानात्वस्य च स्पष्टमभिहित त्वात् | भामती निबंधने तद्भाष्यस्य जीवोपाधिभूता विद्यैक निराकरण तयैव व्याख्या तत्वाच्च आभास एव चेति | सूत्र तद्भाष्ययोर्जीवानां प्रतिबिंबतायाः स्पष्टमभिहितत्वाच्च | तथा च मायाविद्याभेदः श्रुत्यादि संसत इति ये मन्यंते तेषां मतमुपन्यस्यति | विपदादि प्रपंच इत्यादिना | प्. ५५अ) पूर्वमते ईश्वररूपं ब्रह्मोपादानमित्युक्तं तत्सत्यमेव परं तु क्वचिज्जगति जीवस्याप्युपादानत्वमभ्युपगंतव्यमित्यभिप्रायेणास्य मतस्य प्रवृतिर्बोध्या | ईश्वराश्रित माया परिणाम इति मायां तु प्रकृतिं विद्यादिति श्रुतेरिति भावः | तत्रेति वियदादावीश्वर एव उपादानमित्यर्थः | अंतःकरणादौ तु शब्दसूचितं विशेषं दर्शयति ईश्वरेति | भूतैरूपष्टंभलक्षणैस्संसृष्टत्वं भूतोपसृष्टत्वं तच्च जीवा वा विद्याकृतानां भूतसूक्ष्माणां विशेषेणं | भूतानां सूक्ष्मत्वं परिछिन्नत्वं | अत एवेति | अंतःकरणादौ जीवाविद्यापरिणाम सूक्ष्मभूतानां तदुपष्टंभकतया माया परिणाम महाभूतानां च उपादानतया प्रविष्टत्वादे | अंतःकरणादिकंत्वीश्वराश्रित माया परिणाःममहाभूतोपसृष्टजीवाविद्याकृत भूतसूक्ष्म कार्यमिति तत्रोभयोरुपादानत्वं | अत एव एवमेवास्य परिद्रष्टुरिमाषोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं यांतीति श्रुतौ कलाशब्दवाच्यानां प्राणमनः प्. ५५ब्) प्रभृतीनां विदुषो विदेह कैवल्य समये अविद्यानिवृत्या अविद्या कार्यांशाभिप्रायेण विद्ययो छेदो दर्शितः गताः कला पंचदश प्रतिष्ठा इति श्रुत्यंतरे | तदनिवर्त्यमायाकार्य महाभूत परिणामरूपोपष्टंभकांशाभिप्रायेण तेषां स्व स्व प्रकृतिषु लयो दर्शित इति मायाविद्याभेद वादिनः || वेत्यर्थः | यथा गंगाद्यानद्यस्समुद्रं प्राप्यास्तं गच्छंति | एवमेवास्य विदुषः परितः सर्वत्रात्मानं पूर्णं पश्यतः कलाः लिंग शरीरैक देशभूताः पुरुषायणाः पुरुष श्रिदात्मा अयनमधिष्ठामं या सांताः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छंति पुरुषे लीयंत इत्यर्थः | दर्शित इति पुरुष इति शेषः | प्रतिष्ठा इति द्वितीया बहुवचनं | माया परिणामात्मक महाभूतानीति द्वितीया बहुवचनार्थः | पंचदशकलाः प्रतिष्ठाः प्रतिगताः तासूलीना इति यावत् | तदनिवर्त्येति | ईश्वरोपाधिभूत माया या जीवगत विद्यानिवर्त्यत्वा भावादिति भावः | यदि कलानां जीवा विद्या मात्र परिणामत्वं तदा तासामशेषतः पुरुष एव लयः स्या तथा च तासां भूतेषु लयप्रतिपादके वचनं निर्विषयं स्यादतो माया कार्य महाभूतानामपि लिंगशरीरोपादानत्वं वाच्यमिति | तत्र उभयोरुपादानत्वे श्रुति द्वय व्यवस्था सिद्धिरेव फलमित्यर्थः | न च मायायाः प्. ५६अ) तत्वज्ञान निवर्त्यत्वाभावे मिथ्यात्व सिद्धिर्न स्यादिति वाच्यं ब्रह्मणि सर्व दृश्य निषेध श्रुति बलाद्दृश्यत्वादि लिंगैश्च तन्मिथ्यात्व सिद्धेः | न च मायायाः विद्यया निवृत्यभावे निवर्तकांतराभावात् | सर्वमुक्तावपि तदनुवृति | प्रसंग इति वाच्यं | महाप्रलयकाले सर्वप्राणिभोगप्रद कर्मणां युगपदुपरमे सति ईश्वर संकल्पमात्रादेव सर्वप्रपंच लयवत् सर्वमुक्ति || यथा वियदादि प्रपंच ईश्वराश्रित माया परिणाम इति तत्रेश्वर उपादानं तथांतःकरणादिर्जीवाश्रिताविद्यामात्रपरिणाम इति तत्र जीव एवोपादानं | न चांतःकरणादौ मायाकार्य महाभूतानामप्य ननु प्रवेशे उदाहृतं श्रुतिद्वय व्यवस्थानुपपतिः | कलानां विद्ययोच्छेद श्रुतिस्तत्ववित् दृष्टिविषया गताः कला इति श्रुतिस्तम्रियमाणे तत्वविदि समीपवर्तिनः पुरुषा नश्यत् | घटवत् तदीय शरीरादीनामपि भूम्यादिषु लयं मन्यंत इति तटस्थ पुरुषप्रतीति विषयेति व्यवस्थायाः कलालयाधिकरणभाष्ये स्पष्टत्वात् | इति मायाविद्याभेदवादिष्वेक देशिनः || प्. ५६ब्) काले इतःपरं स कार्याया मायायाः प्रयोजनं नास्तीति | अनुसंधानवत ईश्वरस्य सत्य संकल्पस्य मायास्वकार्यैः सहमयि वस्तुतश्चिदेकरसे निःशेषं लयं यात्वित्येवं रूपादेव मायापरिणामलक्षण संकल्पातल्लयोपपतेः | श्रुतिस्मृति पुराणादिषु तत्वज्ञानात् मायानिवृति प्रतिपादकग्रंथजातमविद्यानिवृत्यभिप्रायं | यद्वा तत्वज्ञानमात्रमविद्याया इव मायाया निवर्तन योग्यमपि नानाप्राणि कर्मप्रतिबंधान्नस्या निवर्तकं चरममुच्यमानस्यैव तु तत्वज्ञानं प्रतिबंधकाभावातन्निवर्तकमित्यादि कल्पनीयमिति संक्षेपः अंतःकरणादौ उभयोरुपादानत्वमसिद्धं श्रुतिद्वय व्यवस्थाया भाष्यकारैरेवान्यथा प्रतिपादितत्वादिति मत्वांतरं दर्शयति | यथा वियदादीति | तत्वविदो दृष्टिस्तत्वसाक्षात्कारः | अत्र दृष्टिपदेन तत्फलभूतः कलाक्षयो विवक्षितः | तद्विषया पुरुषे कलाप्रलय श्रुतिरित्यर्थः | भूतेषु कलाप्रलयवचनं तु कलानामपि मायापरिणाम महाभूतकार्यत्व भ्रमवतां भ्रांति सिद्धार्थानुवादकमिति भावः चूर्णीभाव पर्यंतो घटनाशो यथा भूमौ दृश्यते | तद्वत् मन्यंत इत्यक्षरार्थः | प्रतीति विषयेति | प्रतीतिरत्र भ्रांतिरूपातद्विषया तदविषयिकेत्यर्थः | स्पष्टत्वादिति | तानि परे तथाह्याहेति तदधिकरणसूत्रं | तानि मनः आदीनि परे पुरुषे निरवशेषं लीयंते | तथा हि श्रुतिराह | एवमेवास्येत्याद्या श्रुतिर्निरवेशेषं लयमाहहीति सूत्रार्थः | अंतःकरणादीनां मायाकार्यत्वाभावे ईश्वरस्यांतःकरणाद्युपादानत्व प्रतिपादक श्रुति विरोध इति दोषं सूचयति प्. ५७अ) एकदेशि न इति || तदभेदवादिष्वपि केचिद्यद्यपि वियदादि प्रपंचस्येश्वर उपादानं | तथाप्यंतःकरणादीनां जीवतादात्म्यप्रतीतेर्जीव एवोपादानं | अत एवाध्यासभाष्येंतःकरणादीनां जीव एवाध्यासोदर्शितः | विवरणे च प्रतिकर्म व्यवस्थायां ब्रह्मचैतन्यस्योपादानतया घटादि संगित्वं जीवस्य तद संगित्वेप्यंतःकरणादि संगित्वं च वर्णितमित्याहुः | एतस्माज्जायते प्राणोमनः सर्वेंद्रियाणि च खं वायुज्योंतिरापश्च पृथिवी विश्वस्य धारिणीत्यादि श्रुतेः कृत्स्नस्य व्यावहारिक प्रपंचस्य ब्रह्मैवोपादानं || मायैवा विद्या साचेश्वरस्यैवोपाधिर्जीवानां तु प्रतिबिंबरूपाणामंतःकरणान्येवोपाधय इति मायाविद्ययोरभेदवादिनोपि केचिदंतःकरणादौ जीवस्यैवोपादानत्वं तद्भेदवादिन इव वदंतीत्याह | तदभेद वादिष्वपीति | अपि शब्दः क्वचिदंशे पूर्वमत साम्यार्थकः | तच्च साम्यं तथापीत्यादिना स्पष्टं भविष्यति | ननु वियदादि प्रपंचेपि जीव एवोपादानं किं न स्यादित्यत आह | यद्यपीति | ईश्वराश्रित मायापरिणाम त्वात् | ईश्वर एव वियदादौ उपादानं न जीव इत्यर्थः | ननु माया विद्ययोरभेदोपगमे अविद्यापरिणामांतःकरणादीनामपि | प्. ५७ब्) ईश्वराश्रित माया परिणामत्वाविशेषादीश्वर एवांतःकरणादावपि उपादानमिति वक्तुमुचितमिति नेत्याह | तथापीत्यादिना | जीवेति | अहंकर्ता अहंप्राणिमि अहंकाणः अहं स्थूल इत्यादि प्रकारेणांतःकरणादीनां शरीरांतानां जीव तादात्म्यं प्रतीयते तच्च तेषां जीवे ध्यस्तत्वं विना न संभवतीति जीवस्यैव तदधिष्ठानत्वरूपमुपादानत्वं न चेश्वरस्येत्यर्थः | प्रतिकर्मव्यवस्थेति | ब्रह्मणः स्वरूप चैतन्ये न सर्वदा सर्वभासकत्वरूपे सर्वज्ञत्वे उक्ते तर्हि जीवस्यापि स्वरूप चैतन्ये नैव सर्वदा सर्वद्रष्टृत्वमिति दोषप्रसक्तौ जीवं प्रतिविषय व्यवस्था प्रतिपादकग्रंथ इत्यर्थः | ब्रह्मेति बिंब चैतन्यरूपब्रह्मणः सर्वोपादानतया घटादि तादात्म्यरूपः संसर्गः कॢप्त इत्यर्थः | अविद्याया व्यापकत्वेन तत्प्रतिबिंब रूपजीवस्य व्यापकत्वेपि न घटादिभिस्तस्य तादात्म्यमुपादानत्वाभादादंतःकरणादिभिस्तुती || जीवस्तु प्रातिभासिकस्य स्वप्नप्रपंचस्य च कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवेत्यधिकरणे ब्रह्मणो जगदुपादानत्वे तस्य कार्त्स्न्येन जगदाकारेण परिणामे विकारातिरेकेण ब्रह्माभावो वा एकदेशेन परिणामे निरवयवत्व श्रुति विरोधो वा प्रसज्यत इति | पूर्वपक्षे | आत्मनि चैवं विचित्राश्च हीति सूत्रेण प्. ५८अ) विवर्तवादाभिप्रायेण स्वप्न दृशिज्जीवात्मनि स्वरूपानुपमर्दनेनानेकाकार स्वप्न प्रपंच सृष्टिवत् | ब्रह्मणि वियदादि सृष्टिरुपपद्यत इति सिद्धांति तत्वादित्यन्ये || वस्य तादात्म्यलक्षणः संसर्गोस्तीति प्रतिपादितं विवरण इत्यर्थः | अनेन जीवस्यांतःकरणादा उपादानत्वमुक्तं भवति | अन्यथा घटातिभिरिवातःकरणादिभिरप्युक्त संगित्वं जीवस्य न स्यादुपादानत्वाभावाविशेषादिति भावः | अत्रांतःकरणादि परिणाम्युपादानभूताया अविद्याया ईश्वराश्रित मायया सहाभेदांगीकारे ईश्वरस्यैवांतःकरणादावुपादानत्वं वक्तुमुचितं | यदि जीव तादात्म्य प्रतिपत्यादिभिरुक्त हेतुभिः | जीवस्यैवांतःकरणादावुपादानत्वं वक्तव्यं तदांतःकरणादि परिणामि भूताविद्यायाः जीवाश्रितत्वमीश्वराश्रित मायायाः सकाशाद्भिन्नत्वं च वक्तव्यं कार्यात्मना परिणम्यमान प्रकृत्याश्रयत्वातिरिक्तस्य चैतन्यगतोपादानत्वस्याभावादतो मायाविद्ययोरभेदांगीकारो जीवस्यैवांतःकरणादावुपादानत्वांगीकारश्च परस्पर विरुद्ध इत्य स्वरसस्तदभेदवादीष्वपीत्यपि शब्देन सूचितः | ईश्वरस्यांतःकरणादावप्युपादानत्वमुपेत्यापि तस्य कार्यमात्रे उपादानत्वन्नास्तीति विशेषं वक्तुमतांतरमवतारयति | एतस्मादिति प्रकृतादीश्वरादित्यर्थः | प्रकृतित्वं षंचम्यर्थः | तु शब्दोवधारणार्थः | प्. ५८ब्) स्वप्नप्रपंचस्येत्यनंतरमुपादानमित्यनुषंगः किं कृत्स्नं ब्रह्मजगदाकारेण परिणमते एकदेशेन वा नाद्य इत्याह | तस्येति | यथा दध्याकारेण परिणतस्य क्षीरस्य पूर्वरूपात्प्रच्युतिः | एवं ब्रह्मणोपि स्वरूपात्प्रच्युतिः स्यादित्यर्थः | ब्रह्मण एकदेशः परिणमत इति द्वितीयकल्पं दूषयति | एकदेशेनेति | पूर्व || जीव एव स्वप्नद्रष्टृवत्स्वस्मिन्नीश्वरादि खर्व कल्पकत्वेन सर्वकारणमित्यपि केचित् | अथ मायां तु प्रकृतिं विंद्यादित्यादि श्रुतेर्माया जाड्यस्य घटादिष्वनुगमाच्च मायाजगदुपादानं प्रतीयते कथं ब्रह्मोपादानं | अत्राहुः पदार्थ तत्वनिर्णयकाराः ब्रह्ममाया चेत्युभयमुपादानमित्युभय श्रुत्युपपतिः | सता जाड्यरूपोभयधर्मानुगत्युपपतिश्च तत्र ब्रह्मविवर्तमानतयोपादानमविद्यापरिणममानतया || पक्ष इति | उभयथापि ब्रह्मण उपादानत्वं न संभवतीति पूर्वपक्षे प्राप्ते सतीत्यर्थः | यदि ब्रह्मण उपादानत्वं क्षीरपृथिव्यादिवत्परिणामित्वरूपमभ्युपगम्येत तदा कृत्स्न प्रसक्तादि दोषः प्रसज्येत न तु तथाभ्युपगम्यते किं तु रज्ज्वादेः सर्पाद्युपादानत्ववत् विवर्तोपादानत्वं ब्रह्मण प्. ५९अ) उपेयते अतो नोक्तदोषावकाश इति सिद्धांत एति | आत्मनि चेति | एकश्चकारो यथा शब्दसमानार्थः | द्वितीयोवधारणार्थः हि शब्दो हेत्वर्थस्ततश्च यथा आत्मनि जीवे स्वप्न द्रष्टरि विचित्राः रथादि सृष्टयो जीवचैतन्य स्वरूपोयमर्दे विनैव भवंति स्वप्नावस्थानिवृत्यनंतरमपि बुध्यादि साक्षितया जीवचैतन्यस्य यथा पूर्वमवस्थानात् | एवं ब्रह्मणि तत्स्वरूप प्रच्युतिं विनैव विचित्राः वियदादि सृष्टयः संभवंति | सृष्टिस्थितिसंहारेषु सच्चिदानंदस्वरूपेण ब्रह्मानुवृतेः श्रुतिसिद्धत्वादिति सूत्रादिति सूत्रार्थः | अथ शुद्धं ब्रह्मोपादानमित्यादि प्रश्ने तृतीयं पक्षमादाय प्रतिवचनमवतारयति | जीव इति | परिपूर्णश्चिदात्मा अविद्यया अवच्छेद प्रतिबिंब भावौ विनापि प्राप्त जीवभावः सन् | आत्मानमेव सर्वेश्वरं कल्पयति प्राप्तेश्वर भावात् | स्वस्मादेवगगनादि सृष्टिं कल्पयति स्वस्य कल्पितादीश्वराद्भेदं तन्नियमत्वं च कल्पयति | तथा क्रमेण मनुष्यादि भावं कल्पयति | यथा वियदादि प्रपंचो व्यावहारिक सत्यः स्वप्नप्रपंचः प्रातिभासिक इति पक्षे स्वप्नद्रष्टा जीव एव देवतिर्यऽऽन्मनुष्यादि भावेन तन्नियंतृ परमेश्वर रूपेण ततो भिन्नत्वादि रूपेण चात्मानं कल्पयति तद्वत्तथा च स्वस्मिन्नेव सर्वप्रपंच कल्पकत्वाज्जीवभावापन्नं ब्रह्म सर्वोपादानमिति दृष्टि सृष्टि वादिन आहुरित्यर्थः | जीवभावापन्न ब्रह्मणः सर्वोपादानत्वमित्यस्मिन्पक्षे जीवादधिकस्येश्वरस्याभावादी || श्वरस्य सर्वजीवनियंतृत्व प्रतिपादक प्. ५९ब्) श्रुतिस्मृति न्यायसूत्र भाष्यादि विरोधो बंध मोक्षव्यवस्थानुपपतिश्चेति दोषं सूचयति | इत्यपि केचिदिति | तथा च जीवेति व्याप्तभावादीश्वररूपमेव ब्रह्मसर्वोपादानमिति स्थितमिदानीं ब्रह्मलक्षणस्योपादानत्वस्या संभवमाशंकते | अथेति | श्रुतौ तु शब्दो मायायाः प्रकृतित्वमवधारयति | यथा मृदादि गतश्लक्ष्णत्वादेर्घटादावनुगमात् | घटादौ मृदादेरुपादानत्वं | तथा मायागत जाड्यस्य जगत्यनुगमातस्यास्तदुपादानत्वमिति युक्तिमप्याह | माया जाड्यस्येति | कथमिति | ननु ब्रह्मण उपादानत्वं बहुश्रुत्युदाहरणेन पूर्वं दर्शितं सत्यं दर्शितं | ततु न संभवति निरवयवस्य तस्य मृदादेरिव परिणाम्युपादानत्वा संभवान्न च विवर्तोपादानत्वं निरवयवस्यापि संभवति गगनादौ नैल्याद्यारोपदर्शनादिति वाच्यं | परिणामिष्विव विवर्ताधिष्टानेषु लोके उपादानत्व प्रसिध्यभावेन तत्रोपादानत्वाभ्युपगमस्य परिभाषामात्रत्वादित्याक्षेपाभिप्रायः उपादानत्व घटित ब्रह्मलक्षणस्यासंभवं प्. ६०अ) निराचष्टे | अत्राहुरित्यादिना | सतेति | न च वाधायोग्य स्वरूपभूतायास्तस्याः ब्रह्मस्वरूपत्वात्सतायास्तद्धर्मत्वोक्तिरयुक्तेति वाच्यं | राहोः शिर इति वत् भेदकल्पनयातद्धर्मत्व व्यवहारोपपतेरिति भावः | ननु उपादान द्वयंर्थमिति नेत्याह | तत्रेति | यद्वा निरवयवस्य ब्रह्मण उपादानत्वमनुपपन्नमिति नेत्याह | तत्रेति | माया ब्रह्मणोर्मध्य इत्यर्थः | आक्षेपाभिप्रायमनूद्यनिराचष्टे | न चेति | मृदादिषु प्रसिद्धस्योपादान लक्षणस्य विवर्ताधिष्ठानेष्वपि सत्वात् | तेषूपादानत्वाभ्युपगमस्य परिभाषा मात्रत्वन्नास्तीत्यर्थः | स्वात्मनीति | अत्र स्वशब्द उपादानत्वाभिमत वस्तु परः तथा च कार्या धारत्वे सति कार्यजनि हेतुत्वमुपादानत्वं निमितकारणवारणाय सत्यं तं भूतलादेरपि कार्या धारत्वेन तद्वारणाय विशेष्यं तत्रापीति | विवर्ताधिष्ठानेपीत्यर्थः | उक्तामेवेति | प्रपंचे उभयोरपि माया ब्रह्मणोरुपादानत्वं तत्र च न च विवर्ताधिष्टाने पारिभाषिकमुपादानत्वं स्वात्मनि कार्यजनि हेतुत्वस्योपादानलक्षणस्य || प्. ६०ब्) तत्राप्यविशेषादिति केचित् | उक्तामेव प्रक्रियामभ्युपगम्य विवर्त परिणामोपादान द्वय साधारणमन्यलक्षणमाहुः | स्वाभिन्नकार्यजनकत्वमुपादानत्वं अस्ति च प्रपंचस्य सद्रूपेण ब्रह्मणा विवर्तमानेन जडेनाज्ञानेन परिणामिना चाभेदः | सत् घटः जडो घट इति सामानाधिकरण्यानुभवात् || परिणामितया मायाया उपादानत्वं | अधिष्ठान तया च ब्रह्मण उपादानत्वं उभयोरुपादानत्वे श्रुति न्याययोरुपपत्तिश्चेत्यर्थः | स्वाभिन्नेति | स्वशब्देन घटाद्युपादान मृदादि जगत्परिणाम्युपादान भूतमज्ञानं जगत् | विवर्तोपादान भूतं ब्रह्म च गृहयते | तत्र घटादर्मृदादेस्सकाशादभेदः स्फुटः मृदेव घट इत्यनुभवात् | अज्ञाने ब्रह्मणि च कार्या भेदमनुभवेन दर्शयति | अस्ति चेति | ननु मृद्घट इतिवत् ब्रह्मघटः ब्रह्मपटः | इत्यनुभवो नास्ति तथा अज्ञानं घट इत्याद्यनुभवोपि नास्ति अतः प्रपंचस्याज्ञानेन ब्रह्मणा च कथम भेदोस्तीति शंकानिरासायब्रह्मणः | सद्रूपत्वं विशेषणं दत्तं अज्ञानस्य जडत्वं | तथा च ब्रह्माज्ञानाभ्यां सह ब्रह्मत्वाज्ञानत्वा कारेणाभेदानुभवाभवेपि सत्व जडत्व रूपेण ताभ्यां सह प्रपंचस्याभेदानुभवोस्तीत्याह | सन् घट इत्यादिना | ननु घटोत्पतेः पूर्वं तत्कारण द्रव्यस्य मृत्वानुभवात् मृत्वस्य कारणधर्मत्वे सिद्धे सति प्. ६१अ) मृद्घट इति प्रत्यक्षानुभवः कार्यकारणद्रव्ययोरभेदावगाहीति युक्तं | सत्व जडत्वयोस्तु कारण धर्मत्वे किं मानं येन सन् घटः जडो घट इत्यनुभव बलेन सद्रूप जडरूपाभ्यां ब्रह्मा ज्ञानाभ्यां प्रपंचस्याभेदः सिद्धेदिति चेदुच्यते | ब्रह्मणः सद्रूपत्वं स देवेत्यादि श्रुति सिद्धं तदेतज्जडमोहात्मकमिति | श्रुत्या अज्ञानस्य जडत्वं सिद्धं | तथा च घटादौ मृद्द्रव्या भेदात् मृत्वानुभववत् | सद्वस्त्वादि रूपकारणद्रव्याभेदा देव प्रपंचे सत्व जडत्वानुभवोपपतौ पृथक् सत्वादि धर्मो नोपेयते | तथा च सन् घटो जडो घट इत्याद्यनुभवोपि कार्यकारणद्रव्या भेदावगाहीति || न च तदनन्यत्वमारंभणशब्दादिभ्य इति सूत्रे अनन्यत्वं व्यतिरेकेणाभावः न खलु अनन्यत्वमित्य भेदं ब्रूमः | किं तु भेदं व्यासेधाम इति भाष्यभामतीनिबंधाभ्यां प्रपंचस्य ब्रह्माभेद निषेधादभेदाभ्युपगमेपसिद्धांत इति वाच्यं | तयोर्ब्रह्मरूपधर्मि समानसताका भेदनिषेधे तात्पर्येणेदंरजतयोरिव प्रातीति का भेदाभ्युपगमेपि विरोधाभावादिति || भावः न च जडरूपाज्ञानस्य प्रपंचाभेद सिद्धावपि मायायाः किमायातमिति वाच्यं | तयोरभेदाभ्युपगमादिति प्. ६१ब्) भावः कार्यकारणयोरभेदाभ्युपगमे अय सिद्धांतं शंकते न चेति | तयोः कार्यकारणयोरनन्यत्वमुपगंतव्यं कुतः आरंभण शब्दादिभ्यः वाचारंभण श्रुतिरारंभण शब्दार्थः | आत्मैवेदं सर्वमित्यादि सार्वात्म्य प्रतिपादक श्रुतिर्नेहनानास्ति किंचनेत्यादि | निषेध श्रुतिश्चादि शब्दार्थः वाचारंभण श्रुतिर्विवर्तलक्षण कथनावसरे व्याख्याता कार्यस्य कारणातत्वांतरत्वे जगत्कारणस्य ब्रह्मणः सर्वात्मकत्व श्रुतिरनुपपन्ना स्यात् | तथा ब्रह्मोपादानकस्य जगतः सत्यत्वे ब्रह्मणि जगन्निषेधो न स्यादतः कारणीभूत ब्रह्मानन्यत्वं प्रपंचस्याभ्युपगंतव्यमिति भावः | ननु सौत्रानन्यत्वपदेन कार्यकारणयोरेक्यं प्रतीयते | तदनुपपन्नं कार्यकारणभावविरोधाच्चिज्जडयोर्ब्रह्मप्रपंचयोरैक्यायोगाच्चेति शंकां निराकर्तुं सौत्रानन्यत्व पदं व्याचष्टे भाष्यकारः | अनन्यत्वं व्यतिरेकेणाभाव इति | न च कारण व्यतिरेकेण कार्यस्याभावे कथं कार्यकारणभाव इति वाच्यं | कारण सत्व व्यतिरेकेण कार्यसत्वाभावस्य विवक्षित तया कार्यस्वरूपापलापशंकानवकाशात् | सौत्रानन्यत्व पद तात्पर्य प्रदर्शकं भामतीनिबंधन वाक्यमुदाहरति | न खल्विति | अनन्यत्वमिति पदेन कार्यकारणयोरभेदं न ब्रूमः चेतनाचेतनयोरभेदानुपपतिस्तन्निषेध हेतुः खलु शब्देनद्योत्पते | तर्हि कारण ब्रह्मविज्ञानात्सर्वविज्ञानं श्रुति सिद्धं न भवेत् | अभेदानभ्युपगमादिति शंकतेः किंत्विति | परिहरति | भेदमिति | कार्यकारणयोः सत्व प्. ६२अ) भेदंव्यासेधाम इत्यर्थः | तथा च कारण ब्रह्मस्वरूपभूतं सत्वमेव कार्यस्य वास्तवं स्वरूपमिति | तस्मिन् विदिते तदऽव्यतिरिक्तं सर्वं तत्वतो विदितं भव || तीति नैकविज्ञानेन सर्वविज्ञान प्रतिज्ञा विरोधः | न च ब्रह्मस्वरूपज्ञानेन सर्व प्रपंचस्य वास्तव स्वरूपे विदितेपि तत्तदसाधारणरूपज्ञाना संभवात् प्रतिज्ञाविरोधस्तदवस्थ एवेति वाच्यं | आत्मनि विदिते सर्वं विदितं भवतीत्यादि प्रतिज्ञा वाक्येषु सर्वपदस्य सर्वतत्व परत्वेन तदसाधारणरूपेण सर्वज्ञानस्याविवक्षितत्वात् | न च तथा कल्पनायां किं विनिगमकमिति वाच्यं | सर्वप्रपंच तत्वज्ञानमात्रेणाद्वितीय ब्रह्मज्ञानस्य मुक्तिसाधनस्य लाभेन तत्तदसाधारणरूपज्ञाननैष्फल्यस्यैव विनिमकत्वात् कारणे ब्रह्मणि विदितेपि सर्वप्रपंच गततत्तद साधारणरूपज्ञानस्यासंभवेन सर्वविज्ञानश्रुतेस्तत्परत्वे प्रामाण्याभाव प्रसंगाच्च भेददर्शनस्यानर्थ हेतुतया श्रुतिषु तत्र तत्र निंदितत्वाच्च प्रतिज्ञा श्रुतेर्न नानारूपज्ञाने तात्पर्यं | प्. ६२ब्) तदुक्तं पंचदश्यां | अद्वैतेभिमुखी कर्तुमेवात्रैकस्य बोधतः सर्वबोधः श्रुतो नैव नानात्वस्य विवक्षयेति | अस्यार्थः | अत्र वेदांतेषु एकस्य ब्रह्मणो बोधेन सर्वस्य प्रपंचस्य बोधः अद्वैते ब्रह्मणि मुमुक्षुमभिमुखी कर्तुमेव मुमुक्षोरद्वितीय ब्रह्मबोधार्थमेव श्रुत इत्यर्थः | अद्वितीय ब्रह्मबोधश्च सर्वस्य ब्रह्मैव वास्तवं स्वरूपमिति ज्ञानमात्रात् सिध्यतीति भावः | ननु ब्रह्मणि विदिति सर्वं विदितं भवतीति श्रुतौ स्वरसतः प्रतीयमानं तत्तदसाधारणरूपेण सर्वज्ञानमेव श्रुत्यर्थः | किन्न स्यादिति नेत्याह | नैवेति | नानात्वबोध विवक्षया सर्व बोधोनैव श्रुत इति योजना प्रयोजनाभावात् | वाधितत्वान्निदि तत्वाच्चेति तयोरिति भाष्यभामतीनिबंधयोरित्यर्थः | न च प्रपंच ब्रह्मणोर्वास्तवाभेद निषेधे सति वास्तवभेदः स्यादिति वाच्यं | भेदस्य वास्तवत्वं हि धर्मि प्रतियोगिनो वास्तवत्वापेक्षं | तत्र ब्रह्मणो वास्तवत्वेपि प्रपंचस्य आरभण शब्दादिभ्यो मिथ्यात्वावगमेन तयोर्भेदस्य प्. ६३अ) सत्यत्वायोगादिति भावः प्रातीतिकेति यथा इदं रजतमिति भ्रांति सिद्धं रजतेदमर्थयोरभिन्नत्वं | तथा सन् | घट इत्यादि भ्रांतिसिद्धाभेदोपगमे सिद्धांतविरोधाभावादिति भावः | मायां तु प्रकृतिं विद्यादिति श्रुत्या अवधारणार्थक तु शब्दवत्यामायाया एवोपादानत्वावगसंक्षेपशारीरककृतस्तु ब्रह्मैवोपादानं | कूटस्थस्य स्वतः कारणत्वानुपपत्तेर्मायाद्वारकारणं | अकारणमपि कार्येनुगच्छति मृद इव तद्गत श्लक्ष्णत्वादेरपि घटेनुगमदर्शनादित्याहुः || मेन ब्रह्मण उपादानत्वाभावादुपादानत्व घटित ब्रह्मलक्षणस्यासंभव शंकायां सत्यां माया ब्रह्मणो रुभयोरपि प्रकृतित्वमस्ति श्रुतियुक्त्योरविशेषान्मायांत्विति श्रुतौ तु शब्दोनावधारणार्थः | किं तु सद्रूप ब्रह्मापेक्षया मायाया वैलक्षण्यद्योतनार्थः | तच्च वैलक्षण्यं परिणामित्वरूपं प्रकृतित्वं मायाया इत्याशयवतां पदार्थ तत्वनिर्णयकारादीनां मतभेदेन लक्षणासंभवशकापरिहृता | इदानीं ब्रह्मैवोपादानं न माया अतो न लक्षणासंभवशंकावकाश इति मन्यमानानां मतद्वयमाह | संक्षेपशारीरक कृतस्त्वित्यादिना | तर्हि व्यर्था मायेति नेत्याह | कूटस्थस्येति | प्. ६३ब्) यदि मायां विनैव ब्रह्मोपादानं स्यात् तदा ब्रह्मणः स्वतः परिणामित्वमेव स्यात् | तथा च परिणामवादिभिः | परिणाम परिणामिनोर्वास्तवाभेदाभ्युपगमात् | परिणामस्य जन्मादि विकारैर्ब्रह्मापि विकारवदेवस्यान्न चेष्टापतिरत्र वक्तुं शक्यते न जायत इत्यादि बहु श्रुतिषु ब्रह्मणो जन्मादि विकारराहित्यरूपकूटस्थत्व प्रतिपादन विरोधादतो मायाद्वारा ब्रह्मणः कारणत्वं वक्तव्यमिति न व्यर्थामायेत्यर्थः | यथा मृद्वस्तु न उपादानत्वेपि तद्गत श्लक्ष्णत्वादि संस्कारो द्वारकारणं नह्यसंस्कृतस्य मृद्वस्तुनः घटाद्युपादानत्वं घटते | तथा कूटस्थ चैतन्यरूपे ब्रह्मणि समारोपिता माया तत्र जगत्प्रकृतित्वं घटयंती सहकारिकारणमुपेयत इति भावः | न च मायाया उपादानत्वाभावे मायां तु प्रकृतिं विद्यादिति श्रुति विरोध इति वाच्यं | ब्रह्मगतप्रकृतित्व निर्वाहकता मात्रेण तस्यां प्रकृतित्व श्रुत्युपपतेर्मायायां प्रकृतित्वं निर्वाहकत्वमात्रं न स्वतः प्रकृतित्वमस्तीत्याशयेनैव तस्यां शक्तित्व व्यवहारः श्रुतौ दृश्यते | परास्य शक्तिर्विविधैव श्रूयत इति न हि मृदादि पदार्थगतशक्तेः किंचित्कार्यं प्रत्युपादानत्वं || वाचस्पति मिश्रास्तु जीवाश्रित माया विषयीकृतं ब्रह्मस्वत एव नाड्याश्रय प्रपंचाकारेण विवर्तमानतयोपादानमिति माया सहकारिमात्रं न कार्यानुगतं द्वारकारणमित्याहुः || प्. ६४अ) प्रसिद्धं लोके अत एव विनिगमकाभावान्माया ब्रह्मणोरुभयोरप्युपादानत्वमिति निरस्तं मायायाः ब्रह्मशक्तित्वेन स्वत उपादानत्वा संभवान्न च तस्याः प्रकृतित्वानुपगमे जगतः परिणाम्युपादानं न स्यात् ब्रह्मणः परिणामितायाः कूटस्थत्वविरोधेनासकृत्प्रत्युक्तत्वादिति वाच्यं वाचस्पति मत इव प्रपंचस्य चिदध्यस्तमाया विषयीकृत ब्रह्मविवर्तत्वमात्रांगीकारोपपतेः | न च संक्षेपशारीरक ग्रंथे तत्र तत्र मायायाः परिणामित्व व्यवहारविरोध इति वाच्यं | तथा व्यवहारस्य मतांतराभिप्रायत्वोपपतेः | ननु जडभूतमायाप्रकृतिकत्वाभावे प्रपंचस्य जाड्यं न स्यादिति नेत्याह | अकारणमपीति अनुपादानमपीत्यर्थः | जगत्यनुगतं जाड्यं न कारणगुणः किं तु जगत एव स्वाभाविकमतस्तत्सिद्धये मायाया उपादानत्वं कार्यानुगतद्वारकारणत्वं वा न कल्पनीयमित्याशयेनाह | वाचस्पति मिश्रास्त्विति | जीवाश्रीतेति | नन्वक्षरब्राह्मणे आकाशशब्दिताया मायायाः तनित्य चैतन्याश्रितत्वस्य प्रतिपादितत्वात् | कथं तस्याजीवाश्रीतत्वमुपेयते | मायिनं तु महेश्वरमिति श्रुति विरोधाच्च अत्र मायिनमि | अक्षरशब्दित्यनेन महेश्वर शब्दित ब्रह्माश्रितत्व प्रतिपादनात् | किं च जीवस्य मायाश्रयत्वे तस्यैव जगदुपादानत्वं स्यात्प्रपंचस्य मायापरिणामत्वात् | प्रपंच परिणामि मायाश्रयत्वं हि ब्रह्मणः प्रपंचोपादानत्वं जीवस्य मायाश्रयत्वे तु तस्यैव जागदुपादानत्वं स्यान्न ब्रह्मणः किं च जीवाश्रित मायाविषयी कृतं ब्रह्मेति प्. ६४ब्) मते ब्रह्मण उपाध्यनंगीकारेण नियंतृत्व जगत्कर्तृत्वादेरभाव प्रसंगश्चेति चेत् | उच्यते जीवाश्रितेति पदेन जीवत्व विशिष्ट चैतन्याश्रीतत्वं विवक्षितं न भवति | किंत्वक्षर ब्राह्मणानुरोधेन चैतन्याश्रितत्वमेव जीवत्वं तु मायापद वेदनीया विद्यायाश्चैतन्ये वृतौ अवच्छेदकमिति जीवाश्रितमायेत्युच्यते | न च जीवत्वस्यापि चैतन्ये वृतौ मायैवावच्छेदका वाच्येति परस्पराश्रय प्रसंग इति वाच्यं | द्रव्यत्वगुणाश्रयत्वयोरिव परस्पर स्थिति प्रयोजकतया परस्परापेक्षत्व लक्षणपरस्पराश्रयत्वस्या दोषत्वात् | परस्पराश्रयो ह्युत्पतौ ज्ञप्तौ वा दोषो भवेत् | स च प्रकृते नास्ति अविद्या जीवत्वयोरनादित्वान्नित्यसाक्षिभास्यत्वाच्च | न च जीवत्वस्या विद्यास्थितिं प्रति तु नियामकत्व कल्पनं व्यर्थमिति वाच्यं | ब्रह्मणि तस्याः स्थिति निवारकत्वान्निरवद्यं निरंजनमिति श्रुत्या ब्रह्मणो निर्दोषत्वावगमेन तस्याविद्यारूपदोषा श्रयत्वानुपपतेः | न च वस्तुतो निर्दोषत्व पराश्रुतिरिति वाच्यं | तथा संकोचे मानाभावादीश्वररूपब्रह्मवज्जीवस्यापि वस्तुतो निर्दोषत्वाच्च | न च मायिनं तु महेश्वरमिति श्रुतिविरोधः | गृहीधनी देवदत्त प्. ६५अ) इत्यादौ देवदत्तस्य ग्रहाद्याश्रयत्वाभावेपि प्रत्ययस्य स्वस्वामिभावलक्षणसंबंधांतारबोधकत्ववत् | महेश्वरशब्दित ब्रह्मणो मायाश्रयत्वाभावेपि माया ब्रह्मणोर्विषयविषयिभाव लक्षणसंबंधांतर बोधकतयामायिनमिति श्रुत्युपपत्तेः | प्रपंचस्य च जीवाश्रित मायाविषयीकृत ब्रह्मविवर्तत्व मात्राभ्युपगमान्न जीवस्य जगदुपादानत्व प्रसंगः ब्रह्मण उपाध्यभावेपि सर्वनियंतृत्व सर्वज्ञत्वादि प्रतिपादक शास्त्रस्य कसत्वाच्च | तस्मात् सिद्धं जीवाश्रितमायाविषयीकृतं ब्रह्मप्रपंचाकारेण विवर्तमानतया उपादानमिति | उक्तं वाचारंभणाधिकरणभाष्ये मूलकारणमेवांत्यत्कार्या तेन कार्या कारेण नटवत्सर्व व्यवहारास्पदत्वं प्रतिपद्यत इति | अंत्यात्कार्यादिति | अंत्यकार्यपर्यंतमित्यर्थः | नटो हि द्रष्टृभिरविज्ञात निजरूप एव ततदभिनेया सत्यरूपतां प्रतिपद्यते | एवं जीवैरविज्ञात तत्वं सद्ब्रह्मा सत्यविपदादि प्रपंचाकारतां तट्टाराव्यवहारविषयतां च प्रतिपाद्यत प्. ६५ब्) इति भाष्यार्थः | अत्र नटदृष्टांतोक्त्या वाचस्पति मतं भाष्याभिमतं निश्रीयते | तदुक्तं कल्पतरौ | अज्ञात नटवत् ब्रह्मकारणं शंकरो ब्रवीत् | जीवाज्ञातं जगद्बीजं जगौ वाचस्पतिस्तथेति | सिद्धांतमुक्तावली कृतस्तु मायाशक्तिरेवोपादानं न ब्रह्मतदेत ब्रह्मापूर्वमनपरं अबाह्यं न तस्य कार्यं करणं च विद्यते इत्यादि श्रुतेः | जगदुपादान मायाधिष्टानत्वेन तूपचारादुपादानं | तादृशमेवोपादानत्वं लक्षणे विवक्षितमित्याहुः | अथक ईश्वरः को वा जीवः अत्रोक्तं प्रकटार्थकारविवरणे अनादिरनिर्वाच्याभूत प्रकृतिश्चिन्मात्रसंबंधिनी माया तस्यांचित्प्रतिबिंब ईश्वरः तस्या एव परिछिन्नानंत प्रदेशेष्वावरणविक्षेप शक्तिमदविद्याभिधानेषु चित्प्रतिविंवो जीव इति || इदानीं मायाया एव मायां तु प्रकृतिं विद्यादिति श्रुति स्वारस्यानुरोधेन मुख्यमुपादानत्वमिति स्वीकृत्यापि ब्रह्मलक्षणासंभवं परिहरति | सिद्धांतमुक्तावलीकृतस्त्विति | तत्प्रकृतं | एतद्बुध्यादि साक्षिरूपं पूर्वं कारणं न विद्यते यस्य तदपूर्वं अपरं कार्यं न विद्यते यस्य तदनपरं तस्य ब्रह्मणः कार्यं प्. ६६अ) करणं च जगत्सृष्टिसाधनं चेत्यर्थः | इत्यादि श्रुतेर्न ब्रह्मोपादानमित्यर्थः | तर्हि ब्रह्मणो जगदुपादानत्व प्रतिपादक श्रुतिसूत्रभाष्यादि विरोध इत्यत आह | जगदिति | तु शब्दोवधारणे | तु शब्दोवधारणे | तादृशमेवेति | जगदुपादान मायाधिष्टानत्वमित्यर्थः | पूर्वत्र ईश्वरस्य जगदुपादानत्व मुक्तं | जीवाश्रित मायेत्यादौ जीवोपि व्यवहृत | इदानीं तयोः स्वरूपं निरूपयितुं प्रश्नुमवतारयति | अथेति | मायां तु प्रकृतिमिति श्रुतौ या भूत प्रकृतित्वेन माया प्रसिद्धा तस्यां चैतन्य प्रतिबिंब ईश्वरः | ननु मायिनं तुं महेश्वरमिति वाक्यशेषे मायाया ईश्वराश्रितत्व प्रतिपादनादीश्वरस्य माया प्रतिबिंबत्वं न संभवति उपाधेः प्रतिबिंबाश्रितत्वादर्शनादिति शंकां निराचष्टे | चिन्मात्राश्रितेत्यर्थः | मात्रपदेन बिंबत्वादेर्व्यवच्छेदः | वाक्यशेषेपि महेश्वर पदं चिन्मात्रलक्षकमिति भावः | सांख्याभिमत प्रकृतेरिव मायायाः सत्यत्वं वारयति | अनिर्वाच्येति | माया तावद्ब्रह्मचैतन्यान्न वस्तुतोभिन्ना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्व प्रतिपादक श्रुतिविरोधेन वस्तुतः | तस्यास्ततो भेदासंभवात् | नाप्यभिन्ना चैतन्य जडयोरैक्या योगात् | नापि चैतन्याद्भिन्नाभिन्ना एकन्न भिन्नत्वाभिन्नत्वयोर्विरोधेना संभवात् | एवं न तावन्मा || या सती अद्वैत श्रुतिविरोधादेवनाप्यसतीभूतप्रकृतित्वानुपपतेः | नापि सदसती सत्वा सत्वयोरेकत्र विरोधादेव न तावन्माया प्. ६६ब्) सावयवा तस्यास्सादित्व प्रसंगेन तत्प्रतिबिंबभूतेश्वरस्यापि सादित्व प्रसंगात् मायायाः सादित्वे तत्प्रकृतित्वेन मायांतरा पेक्षया अनवस्था प्रसंगाच्च | नापि निरवयवा प्रकृतित्वा भावप्रसंगात्सावयवपदार्थानामेव लोके प्रकृतित्व दर्शनात् | नाप्युभयरूपासावयवत्व निरवयवत्वयोरेकत्र विरोधात् | तस्मात् सर्वप्रकारेण निर्वक्तुमशक्य तया माया अनिर्वाच्येत्यर्थः | तस्याः परिच्छिन्नानंत प्रदेशेषु चैतन्य प्रतिबिंबो जीवः | न साक्षातस्यामेव चित्प्रतिबिंबो जीव इत्येव कारार्थः | प्रदेशानां परिच्छिन्नत्व विशेषणं तत्प्रतिबिंबरूपजीवानां परिच्छिन्नत्वलाभार्थं | तथा च भाष्ये तत्र तत्र जीवानां परिच्छिन्नत्व निरूपणं संगच्छते | तथाहि | सर्वत्र प्रसिद्धोपदेशादित्यधिकरणे सौत्रशारीरपदव्याख्यानरूपं भाष्यं शारीर इति शरीरे भव इत्यर्थः | नन्वीश्वरोपि शरीरे भवति सत्यं शरीरे भवति न तु शरीर एव भवति | आकाशवत्सर्वगतश्च नित्य इति व्यापित्व श्रवणात् | जीवस्तु शरीरे एव भवति तस्य प्. ६७अ) भोगाधिष्ठानाच्छरीरादन्यत्र वृत्यभावादिति तथाद्युभाद्यधिकरणगतं भाष्यं न चोपाधिपरिछिन्नस्याविभोः प्राणभृतोद्युभ्वाद्यायतनत्वं सम्यक् संभवतीति प्राणभृतो जीवस्य द्युभ्वादि शब्दित जगदायतनत्वं मुख्यं न संभवति | अविभुत्वादिति भाष्यार्थः | पटस्यारंभकतं तव इव मायाया न प्रदेशाः संति तस्या अनादि त्वात् | किं तु मायायां विक्षेपावरण शक्तीनामानंत्याद्विक्षेपावरणशक्तिमद्भागा एव प्रदेशा विवक्षिता इत्याशयेनाह | आवरणविक्षेप शक्तिमदिति | ब्रह्मचैतन्यावरणानुकूलाशक्तिरावरणशक्तिः | आवरणं च ब्रह्म नास्ति न प्रकाशत इति व्यवहारयोग्यत्वं | विक्षेप पदेन ततज्जीवसाधरणदुःखादिकं विवक्षितं तदनुकूलशक्तिर्वेक्षेपशक्तिरित्यर्थः | ननु माया प्रदेशानां जीवोपाधित्ववर्णनमनुपपन्नं | आनुमानिकाधिकरणभाष्यादौ अविद्याया जीवोपाधित्व व्यवहारविरोध प्रसंगादत आह | अविद्याभिधानेष्विति || प्. ६७ब्) माया प्रदेशानामेव भाष्यगता विद्यापदाभिलुप्यत्वान्न तद्विरोध इति भावः | तत्वविवेके तु त्रिगुणात्मिकाया मूलप्रकृतेर्जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुतिसिद्धौ द्वौ रूपभेदौ रजस्तमो नभिभूतशुद्धसत्वप्रधाना माया तदभिभूतमलिन सत्वात्व विद्व्येति मायाविद्याभेदं परिकल्प्य माया प्रतिबिंब ईश्वरो विद्याप्रतिबिंबो जीव इत्युक्तं | एकैव मूल प्रकृतिर्विक्षेप प्राधान्येन मायाशब्दितेश्वरोपाधिः | आवरणप्राधान्येनाविद्याज्ञानशब्दिता जीवोपाधिः | अत एव तस्या जीवेश्वर साधारण चिन्मात्र संबंधित्वेपि जीवस्यैवाज्ञोष्णीत्यज्ञानसंबंधानुभवो | नेश्वरस्येति | जीवेश्वर विभागः क्वचिदुपपादितः || एकस्यामेव मूलप्रकृतौ प्रदेश प्रदेशि भावेनानिर्वचनीयं भेदं कल्पयित्वा जीवेश्वरयोः प्रतिबिंबरूपत्वमुक्तं | इदनींतस्यामेव प्रकारांतरेण रूपभेदं कल्पयित्वा तदुपपादयति | तत्वविवेकेत्विति | भेदकल्पना वैलक्षण्य द्योतनार्थस्तु शब्दः रूपभेदावितिस्त इति शेषः | रजस्तमोनभिभूतत्वमेव सत्वस्य शुद्धत्वं | शुद्धसत्व प्रधानाप्रकृतिर्माया | मलिनसत्व प्. ६८अ) प्रधानाप्रकृतिरविद्येत्यर्थः | रजस्तमोभिभूतत्वमेव सत्वस्य मलिनत्वं | सत्व शुद्ध्यशुद्धिभ्यां मायात्वाविद्यात्वाख्यौ श्रुत्युक्त रूपभेदौ निरूप्यविक्षेपावरणशक्तिभेदेन श्रुत्युक्तरूपभेदावेव निरूपयति | एकैवेति | अत एवेति | जीवस्यावरण शक्तिमदुपाधिमत्वादेवेत्यर्थः | तस्या इति जीवेश्वरोपाधिभूताया प्रकृतेः प्रतिबिंबरूपजीवेश्वर साधारणबिंब चैतन्याश्रितत्वेपीत्यर्थः | नेश्वरस्येति | अत्रापि अत एवेत्यस्यानुषंगः | आवरणशक्तरीश्वरोपाधिकोटावननुप्रवेशादेवेति तदर्थः | तथा च जीवेश्वरौ प्रति प्रकृतेः साधारणत्वादेकस्य सर्वज्ञत्वमपरस्याज्ञत्वमिति यद्वैलक्षण्यं श्रुत्यनुभवसिद्धं तत्कथं संभवतीति शंकाया अनवकाश इति भावः | मतांतरमाह | संक्षेपेति | श्रुतौ कारणपदमविद्यापरं कार्यपदमंतःकरणपरमिति मत्वा प्राह | अविद्यायामित्यादिना | ननु जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुति विरोधः तस्यां श्रुतौ जीवस्य कारणोपाधिकत्व प्रतीतेरिति चेदुच्यते | जीवेशावाभासेन करोतीति | पूर्वभागेन हि जीवेश्वरयोरुभयोपि प्रति संक्षेप शारिरके तु कार्ययौपाधिरयं जीवः कारणोपाधिरीश्वर इति श्रुति मनुसृत्याविद्यायां चित्प्रतिबिंब ईश्वरः अंतःकरणे चित्प्रतिबिंबो जीवः | न चांतःकरणरूपेण द्रव्येण घटेनाकाशस्येव चैतन्यस्यावछेदसंभवातदवछिन्नमेवे प्. ६८ब्) चैतन्यं जीवोस्त्विति वाच्यं | इह परत्र च जीव भावेनावछेद्य चैतन्य प्रदेशस्य भेदेन कृतहानाकृताभ्यागम प्रसंगात् | प्रतिबिंबस्तूपाधेर्गतागतयोरवछेदकगतागतयोरवछेद्यवन्न- भिद्यत इति प्रतिबिंब पक्षेनायं दोष इत्युक्तं || बिंबभावः प्रतीयते | न च बिंबैक्यस्थले उपाधिभेदं विना प्रतिबिंबभेदः संभवति सूर्यादि प्रतिबिंबस्थले उपाधिभेदं विना प्रतिबिंबभेदादर्शना | तथा चोदाहृत श्रुतौ प्रतिबिंबरूपयोर्जीवेशयोर्यथाक्रमं मायाविद्यापदाभ्यामुपाधीसमर्थो ते मायापदं चात्र मायाकार्यांतःकरणपरं | न चैवं मूलाप्रकृतिं प्रकृत्यप्रवृतायां जीवेशाविति श्रुतौ माया चाविद्या च स्वयमेव भवतीति वाक्येन मायाविद्ययोरुभयोरपि मूलप्रकृत्यभेदोपपादनविरोध इति वाच्यं | मूलप्रकृत्यविद्ययोरिव मायाशब्दितांतःकरण मूलप्रकृत्योर्मुख्याभेदाभावेपि प्रकृतिविकारभावप्रयुक्ता भेदसत्वेन तावता माया चाविद्या च स्वयमेव भवतीति वाक्यशेषोपपतेरिति भावः | न चाविद्यावछिन्न चैतन्नमेवेश्वरोस्तु तथांतःकरणावछिन्न चैतन्यमेव जीवोस्तु | अविद्यांतःकरणाधिष्ठान चैतन्ययोः तदवछिन्नत्वस्य कॢप्तत्वान्तदतिरिक्त प्रतिबिंबकल्पनायां गौरवाच्चेत्याशयेन शंकते | न चेति | न तु प्रतिबिंबचैतन्यमित्येव प्. ६९अ) कारार्थः | जीवग्रहणमीश्वरस्याप्युपलक्षणं | जीवेश्वरयोः प्रतिबिंबतायाः श्रुतिसिद्धत्वान्न कल्पनागौरवदोषोस्तीत्यभिप्रेत्यजीवस्यावच्छिन्नत्व पक्षे दोषमाह | इहेति अस्मिन् लोके ब्राह्मणादि शरीरगतांतःकरणावच्छिन्नचैतन्य प्रदेशस्य कर्मकर्तृत्वात् | लोकांतरे देवादि शरीरगतांतःकरणावच्छिन्न चैतन्य प्रदेशस्य चाकर्तुर्भोक्तृत्वात् | कृत् हानादि प्रसंगः | येन कर्मकृतं न तस्य भोगः येन कर्म न कृतं तस्याकृत कर्मफलाभ्यागम इत्यर्थः | न च ब्राह्मणादि शरीरगतस्यैवांतःकरणस्य लोकांतरे गमनाभ्युपगमातदवच्छिन्न चैतन्य प्रदेशस्यैव तत्रापि गमनमस्त्विति वाच्यं | घटस्य देशांतरगमनेपि तदवच्छिन्नाकाशप्रदेशस्य गमनादर्शनादिति भावः | प्रतिबिंबस्यावच्छेद्यचैतन्यापेक्षया वैलक्षण्य द्योतनार्थस्तु शब्दः | गतागतयोरिति | गमनागमनयोः सतोरपि अवच्छेद्य प्रदेशवन्नभिद्यत इत्यर्थः | सूर्यादि प्रतिबिंबवति जलपूर्ण घटादौ देशांतरे नीयमानेपि प्रतिबिंब भेदादर्शनादिति भावः || एवमुक्तेष्वेतेषु जीवेश्वरयोः प्रतिबिंबविशेषत्व पक्षेषु यत् बिंबस्थानीयं ब्रह्म तन्मुक्त प्राप्यंशुद्धचैतन्यं चित्रदीपे जीव ईशोविशुद्धाचिदिति त्रैविध्य प्रक्रियां विहाय | यथा घटावच्छिन्नाकाशो घटाकाशस्तदाश्रिते जले प्. ६९ब्) प्रतिबिंबितः साभ्रनक्षत्रोजलाकाशः | अनवच्छिन्नो महाकाशः | महाकाशमध्यवर्तिनिमेघमंडले वृष्टिलक्षणकार्यानुमेयेषु जलरूपतदवयवेषु तुषाराकारेषु प्रतिबिंबितो मेघाकाश इति वस्तुत एकस्याकाशस्य चातुर्विध्यं || ननु चंद्रादि प्रतिबिंबवतां जलपात्राणां मध्ये एकस्य नाशे तद्गत तया प्रतीतस्य प्रतिबिंबस्य बिंबैनैकीभावः प्रत्यक्षेणानुभूयलेन तथा प्रतिबिंबांतरेण एवं प्रतिबिंबरूपजीवस्यापि विदेह कैवल्य समये बिंबभूतशुद्धब्रह्मभाव एवस्यान्न तु प्रतिबिंबेश्वर भावापतिर्दृष्टविरोधादित्याशंकामिष्टापत्यापरिहरति | एवमुक्तेष्विति | बिंबस्थानीयमिति | लोकप्रसिद्धचंद्रादि रूपबिंबस्थानीयमित्यर्थः | ननु बिंबत्वविशिष्टचैतन्यं कथं शुद्धमिति चेन्न शुद्धपदेन सर्वज्ञत्व सर्वकर्तृत्वादि धर्मराहित्यस्य विवक्षितत्वादिति चित्रदीपे च त्रैविध्य प्रक्रियां विहाय चैतन्यस्य चातुर्विध्यं परिकल्प्य जीवेश्वर विभागो दर्शित इति संबंधः | तथा च चित्रदीपवचनं | कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधा घटाकाश महाकाशौ | जलाकाशाभ्रखे यथेति | एतत् श्लोके पात दृष्टांत भागं संगृह्णाति | यथेत्यादिना | मदाश्रित इति | घटांतःस्थाकाशाश्रित इत्यर्थः अभ्रनक्षत्र साहित्य विशेषणं | आकाशस्य जले प्रतिबिंबाभावे शंका निरासार्थं | प्. ७०अ) इत्थं च तन्निरासप्रकारो विवक्षितः | यदा जलेभ्रनक्षत्राणां प्रतिबिंबोनुभूयते | तदातैस्सहाकाश प्रतिबिंबोप्यनुभूयत एवेति नाकाश प्रतिबिंबाभावशंकावकाश इति | अनवच्छिन्न इति | घटानवच्छिन्न इत्यर्थः | मेघमंडले ये जलरूपास्तदवयवास्तेषु प्रतिबिंबित इति संबंधः तछब्दो मेघमंडलपरः मेघमंडले जलानि संति चेत्कुतो नोपलभ्येत इत्याशंका न कार्या तेषां तुषारवत् सूक्ष्मरूपत्वादित्याशयेनाह | तुषारेति तत्र जल सत्वे मानमाह | वृष्टिलक्षणेति | श्लोको पातदार्ष्टांतिकभागं संगृह्णाति | तथेति | सूक्ष्मेति घ्राणरस न चक्षुश्रोत्रत्व || तथा स्थूलसूक्ष्म देहद्वयस्याधिष्ठानतया विवर्तमानं तदवछिन्नं चैतन्यं कूटवन्निर्विकारत्वेन स्थितं कूटस्थं | तत्र कल्पितेंतष्करणे प्रतिबिंबितं चैतन्यं संसारयोगी जीवः | अनवछिन्नं चैतन्यं ब्रह्म तदाश्रित मायातमसि स्थितासु सर्वप्राणिनांधीवासनासु प्रतिबिंबितं चैतन्यमीश्वर इति चैतन्यस्य चातुर्विध्यं परिकल्प्यांतःकरणधीवासनोपरक्ता ज्ञानोपाधिभेदेन जीवेश्वरविभागो दर्शितः | अयं चापरस्तदभिहितो विशेषः || प्. ७०ब्) गाख्यानि पंचज्ञानेंद्रियाणि वाक्पाणिपादपायूपस्थाख्यानि पंचकर्मेंद्रियाणि प्राणापानादयः पंचवायवः मनोबुद्धिश्चेत्यंतःकरणं द्विविधमाहृत्य सप्तदशकं लिंगशरीरं दार्ष्टांतिके घटस्थानीय सूक्ष्मदेह शब्दार्थः देह द्वयावच्छिन्न चैतन्यं घटाकाशस्थानीयं कूटस्थ शब्दाअर्थः चैतन्यस्य देहद्वयावच्छिन्नत्वे हेतुरधिष्ठानतया वर्तमानत्वं काष्टविशेषलग्नायः पिंडविशेषः कूटशब्दार्थः तद्वदचलतया तिष्ठतीति कूटस्थः | तत्र कूटस्थे कल्पितं घटगतजलस्थानीयं यदतःकरणं तस्मि व्यतिबिंबित्यर्थः | कूटस्थ चैतन्यातिरिक्त चिदाभासकल्पनायाः प्रयोजनमाह | संसारेति | कूटस्थ चैतन्यस्य न संसाराश्रयत्वं तस्य जन्ममरणादिलक्षणसंसाराश्रयत्वे कूटस्थत्वव्याघातादिति भावः | महाकाशस्थानीय ब्रह्माश्रिते मेघमंडलस्थानीये मायाख्य तमसि स्थितायाधीवासनास्तासु प्रतिबिंबितमित्यर्थः | जाग्रत्स्वप्नावस्थाद्वयगतानि स्थूलांतःकरणानिधि यः तासां सुषुप्त्यवस्थागताः सूक्ष्मावस्थाः वासना विवक्षिताः | अंतःकरणेति अंतःकरण च धीचासनोपरक्ता ज्ञानं च ते एवोपाधीतयोर्भेदेनेत्यर्थः | धीवासनानामानंत्यातासु प्रतिबिंबचैतन्यरूपेश्वरस्य नानात्वशंकाव्यावृत्यर्थं वासनोपरक्ता ज्ञानोपाधिकत्वमुक्तं | पूर्वमतेषु बिंबप्रतिबिंबयोर्भेदमात्रं कल्पितं स्वतस्तयोरभेद एवेतीममर्थं सिद्धं कृत्वा अस्मिन्मते ततो विशेषमाह | अयं चेति | अस्मिन्मते पूर्वं चिच्चातुर्विध्यलक्षणं एकोविशेषः उक्तः | तदपेक्षया अपरः अन्यः प्. ७१अ) प्रतिबिंबमिथ्यात्वरूपो विशेषस्तदभिहितः तत्र चित्रदीपे अभिहित इत्यर्थः || चतुर्विधेष्वेषु चैतन्येषु जीवोहमिति प्रकाशमानः कूटस्थे विद्या तिरोहिता संगानंदरूपविशेषांशे | शुक्तौरूप्यवदध्यस्तः अत एवेदंत्व रजतत्वयोरिवाधिष्ठान सामान्यांशाध्यस्त विशेषांशरूपयोः | स्वयं त्वाहं त्वयोः सह प्रकाशः स्वयमहंकरोमीत्याहौ | अहं त्वं ह्यध्यस्त विशेषांशरूपं पुरुषांतरस्य पुरुषांतरे व्यवहाराभावेन व्यावृतत्वात् | स्वयं त्वं चान्यत्व प्रतियोग्यधिष्ठान सामान्यांशरूपं स्वयं देवदत्तो गच्छतीति पुरुषांतरेपि व्यवहारेणानुवृतत्वात् || अपरं विशेषमेव दर्शयति | चतुर्विधेष्विति | अहमिति प्रकाशमानो जीवः शुक्तौ रूप्यवदध्यस्त इति संबंधः | नन्विदंत्वेन सामान्यरूपेण ज्ञाते शुक्तित्वादि विशेषरूपेणाज्ञाते शुक्त्यादौ रूप्याद्यध्यासो दृष्टः इह तु तथा सामान्यरूपेण ज्ञातं विशेषरूपेण चाज्ञातं किंचिदधिष्ठानं च नोपलभ्यत इत्याशंक्याह | कूटस्थ इति | नन्वविद्यया कूटस्थस्यासंगत्वानंदत्व पूर्णत्वादि विशेषांशस्यावृततया शुक्तित्वादि वद प्रतीतावपि शुक्तेरिदंत्वेनेव प्. ७१ब्) कूटस्थस्य केनचित् सामान्येन रूपेण प्रकाशो न दृश्यते | किं च इदं रजतमित्यत्राधिष्टान सामान्यांशस्यारोप्यविशेषस्य च सह प्रकाशो दृश्यते | प्रकृते तु अहमर्थरूपो विशेष एवाहमिति | प्रकाशते न तु सामान्यांशः कश्चिदतोहमर्थस्य रूप्यवदध्यस्तत्वकल्पनं न युक्तमित्याशंक्याह | अत एवेति | अहमर्थस्य कूटस्थे ध्यस्तत्व कल्पनादेवेत्यर्थः | स्वयं त्वाहं त्वयोरिति | कूटस्थस्य हि स्वयं त्वं सामान्यरूपं न कूटस्थ त्वं तस्य शास्त्रैक गम्यत्वात् | स्वयं त्वं च कूटस्थस्याहमर्थारोपकाले तेन सह प्रकाशते तत्पूर्वकालेपि स्वयं त्वस्य भानमविरुद्धं तस्य नित्यचैतन्यात्मक कूटस्थ स्वरूपत्वाभ्युपगमात् स्वयं त्वकूटस्थ चैतन्ययोः राहोः शिरः पुरुषस्य चैतन्यमिति वद्भेदकल्पनयाधर्मधार्मीभावोपपतेश्चातः कूटस्थस्य स्वयं त्वेन सामान्यरूपेण सदा प्रकाशसत्वादहमर्थरूपचिदाभासाध्यासाधिष्टानत्वमविरुद्धमिति भावः | अहमर्थस्य रूप्यवद्विशेषरूपत्वं दर्शयति | अहं त्वंहीति | अहमर्थ इत्यर्थः | अध्यविशेषांशारूपमिति | शुक्त्यादावध्यस्तो यो विशेषांशो रूप्यादिस्तद्रूपं तत्सदृशमित्यर्थः | सादृश्यं च व्यावृत्तत्वं व्यावृतत्वादिति व्यावृतत्वावगमादित्यर्थः | तेन न हेतु साध्ययोरभेदः व्यावृतत्वावगमे हेतुर्व्यवहाराभावः | स्वयं त्वस्य इदं त्ववत्सामान्यरूउपत्वं दर्शयति | स्वयं त्वं चेति | स्वयमन्य इति लोकव्यवहारे स्वयं त्वमन्यत्व प्रतिद्धंद्धितया प्रसिद्धमिति दर्शयितुमन्यप्रतियोगीति स्वयं त्वस्य विशेषणमिति | तदुक्तं | चित्रदीपे देवदतः स्वयं गच्छेत्वं वीक्षस्व प्. ७२अ) स्वयं तथा | अहं स्वयं न शक्नोमीत्येवं लोके प्रयुज्यत इति || एवं परस्पराध्यासादेव कूटस्थ जीवयोरविवेको लौकिकानां विवेकस्तु तयोर्वृहदारण्यके प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थायतान्येवानुविनश्यतीति जीवाभिप्रायेण मायोपाधिविनाशानुविनाश प्रतिपादनेनाविनाशी वा अरेयमात्मेति कूटस्थाभिप्रायेणाविनाशप्रतिपादनेन च स्पष्टः अहमर्थस्य जीवस्य विनाशित्वे कथमविनाशि ब्रह्मा भेदः || ननु स्वयमहमिति प्रकाशमानयोः कूटस्थ जीवयोः शुक्ति रजतयोरिव भेदस्वत्वे सर्वेषां कुतो भेदोनोपलभ्यते तत्राह | एवमिति अहमर्थ जीवस्य शुक्तौ रूप्यवत् कूटस्थाध्यस्तत्वे सतीत्यर्थः | परस्परेति | तयोरभेदाध्यासादेवाविवेकः विवेकाभावोभेदानुभवा भाव इत्यर्थः | ननु इदं रजतमिति भ्रमस्थले शुक्तिरियंमिति विशेष दर्शनेन इदं रजतमिति प्रतीतयोः सामान्यविशेषपदार्थयोः शुक्तित्व रजतत्व रूपविरुद्धधर्मवत्व निश्चया तयोर्भेद उपेयते | इह तु जीव कूठस्थयोः कथं भेदोवगंतव्यः | तदभावे हि स्वयमहमिति सामान्यविशेषभावेन प्रकाशमानयोस्सत्यरजतस्थले रजतेदमर्थयोरिववस्तुत ऐक्यापत्या प्. ७२ब्) अहमर्थरूपजीवस्य स्वयं शब्दार्थभूतकूटस्थे कल्पितत्वासिद्धेरित्याशंक्य श्रुत्यातयोर्भेर्ददर्शयति | विवेकस्त्विति तु शब्दः शंका व्यावृत्यर्थः | विवेकोभेदानुभवः एतेभ्यः सन्निहितेभ्यः देहादि संघातरूपेण तेभ्यः उपाधिरूपेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय उपाधिरूप बुद्ध्याद्युत्पत्या उत्पतिं प्राप्येत्यर्थः | तान्युपापि भूतानि बुध्यादीनि तत्वज्ञानेन विनश्यंति तदा तान्यनुविनश्यतीति श्रुत्या औपाधिकस्यात्मनो विनाशित्वं प्रतिपाद्यते तच्चांतःकरण प्रतिबिंबरूपस्य उपाध्याय तस्य जीवस्य मिथ्यात्वे सति संभवति औपाधिक जीवस्य सत्यत्वे तु तस्य विनाशित्व प्रतिपादक वचनं न संगच्छेत तथा अयं प्रज्ञान घन आत्मा अरे मैत्रेपि अविनाशी वा अविनाश्येव न तु उपाधिनाशान्नश्यतीति कूटस्थ चैतन्यस्य श्रुत्यानाशाभावः प्रतिपाद्यते | एतदुक्तं भवति अयमात्मा प्रज्ञान घन एवेतेभ्यो भूतेभ्यस्समुत्थायेत्यादि शुत्याचिदेक रस आत्मैव उपाध्युत्पति मनूत्पद्यते | तन्नाशमनु नश्यतीत्युपाध्युत्पति विनाशव्यतिरेकेण उत्पति विनाशौ न चिदात्मनः प्रतिपाद्ये ते अनुविनश्यतीत्यनुशब्दप्रयोगात् | न च तस्य स्वतो विनाशादिमत्वं संभवति अविनाशी वा अरे यमात्मेति वाक्येन विज्ञान घनात्मनो विनाशाभावप्रतिपादनविरोधातश्चिदात्मन उत्पति विनाशवता प्रतिबिंबचैतन्यरूपजीवेन तादात्म्यमादाय विनाशादि वचनमुपपादनीयं ततश्च भ्रमस्थलीयरजतेदमर्थयोरिवात्रापि विनाशित्वा विनाशित्व प्. ७३अ) रूपविरुद्धधर्मवत्व निश्चयादेव जीवकूटस्थयोर्भेदः स्पष्टं भासत इत्यतः कूटस्थ चैतजीवरूपाहमर्थस्याध्यास सिद्धिरिति उदाहृत श्रुत्या प्रतिबिंबजीवस्य विनाशित्वोपगमे श्रुत्यंतरविरोधमाशंकते | अहमर्थेति | अभेद इत्यनंतरमहं ब्रह्मास्मीति वाक्येन प्रतिपायत इति शेषः | विनाश्य विनाशिनोरभेदा योगादिति भावः || नेदमभेदे सामानाधिकरण्यं किं तु बाधायां यथायः स्थाणुरेष पुमानिति पुरुषत्व बोधेन स्थाणुत्व बुद्धिर्निवर्त्यते | एवमहं ब्रह्मास्मीति कूटस्थ ब्रह्मरूपत्व बोधेनाध्यस्ताहमर्थरूपत्वं निवर्त्यते | योयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिवब्रह्मास्मीति धियाशेषा ह्यहं बुद्धिर्निवर्त्यत इति नैष्कर्म्य सिद्धिवचनात् परिहरति | नेदमिति | सोयमित्यादि सामानाधिकरण वाक्यस्य यथा अभेदो वाक्यार्थो दृश्यते तथा यः स्थाणुस्सपुरुष इत्यादि समानाधिकरण वाक्यस्य बाधारूपो वार्क्योर्थो दृश्यते | यस्थाणुस्सपुरुष इत्यत्र हि पुरुषे आरोषितस्य प्रातिभासिकस्य स्थाणोर्व्यावहारिक पुरुषेण सहाभेदो न वाक्यार्थः वाधितत्वात् | किं तु स्थाण्वारोपाधिष्ठान भूते पुरुषे वस्तुतः स्थाणु तादात्म्याभावरूपावाधावाक्यार्थः | तथा प्. ७३ब्) च यस्थाणुस्सपुरुष इति वाक्येन वस्तुतः स्थाणु तादात्म्याभाववानयं पुरुष इति बोधो जायते तेन च बोधेन पुरुषे स्थाण्वारोपस्सविषयो निवर्त्यते | एवमहं ब्रह्मास्मीति वाक्येनाहमर्थ भूतजीव तादात्म्य शून्यं ब्रह्मैवास्मीति ज्ञानं जायते तेन ज्ञानेनाहे ज्ञाताकर्ता सुखीदुःखीत्याद्यारोपः कर्तृत्वादि धर्मविशिष्टाहमर्थेन स्वविषयेण सहनिःशेषं निवर्त्यते | आरोपिताहमर्थ निवृतौ च सत्यां जीवस्य पद्वास्तुवंरूपं कूटस्थ चैतुन्यात्मकं | तत्पूर्णब्रह्मरूपेणावतिष्ठते इति न श्रुत्यंतरविरोध इति भावः | अक्षरार्थस्तु | इदं ब्रह्माहं पदयोस्समान विभक्तिमत्वरूपं सामानाधिकरण्यमभेदरूपेर्थेनाभ्युपगम्यते | येनाभेदासंभवो दोषः स्यात् | ननु यद्यभेदो न वाक्यार्थः कस्तर्हि स इति शंकते | किंत्विति | बाधान्न वाक्यार्थो विवक्षित इत्याह | बाधायामिति पुरुषत्व पदेन कल्पितस्थाणु तादात्म्याभाववत्वं विवक्षितं | बाधायां वाक्यार्थत्वस्वीकारात् | अहं ब्रह्मीत्यत्रेति पदानंतरं वाक्य जन्येनेति शेषः | अत्र वाक्यार्थ ज्ञानस्याहं ब्रह्मास्मीत्याकारत्वाभावात् | कूटस्थ ब्रह्मरूपत्व पदेनापि वस्तुतोहमर्थ तादात्म्याभाववत् कूटस्थ ब्रह्मरूपत्वं विवक्षितं बाधाया एव || यदि च विवरणाद्युक्तरित्येदमभेदे सामानाधिकरण्यं तदा जीववाचिनोहं शब्दस्य लक्षणया कूटस्थ परत्वमस्तु तस्याबाध्यस्य ब्रह्माभेद योग्यत्वात् || प्. ७४अ) वाक्यार्थ बोधविषयत्वाभ्युपगमात् | दृष्टांत दार्ष्टांतिकयोरधिष्ठानस्यारोपितार्था भाववत्वमारोपितात्यंता भावस्याधिष्टानातिरिक्तत्वमिति मतमाश्रित्यास्माधिरुक्तमिति ध्येयम् | अध्यस्ताहमर्थरूपत्वमिति | अध्यस्तो यो अहमर्थस्तद्रूपत्वं तादात्म्यं निवर्तत इति बोधफलमुक्तं | महावाक्यस्य बाधार्थकत्वं न स्वकपोलकल्पितं | किं तु सुरेश्वराचार्यैरुक्तमित्याह | योयमिति | मंदांधकारे यः स्थाणुर्गृहीतः | एषोयं पुमानित्याप्तवाक्यजन्यया पुंधिया वस्तुतो नायं स्थाणुः किं तु पुमानितिधिया | स्थाणुरयमिति धीरारोपितस्थाणु तादात्म्येन सह यथा निवर्त्यते | एवमहं ब्रह्मास्मीति वाक्यजन्ययाधिया अहमर्थ भूतजीव तादात्म्य शून्यं ब्रह्मैवास्मीत्याकारयाहं बुद्धिरहं कारोमि भुंज इत्यादि बुद्धिरशेषा आरोपिताहमर्थ सहिता निवर्त्यते महावाक्यार्थ ज्ञानादशेषानर्थ निवृतिर्विदुषोनुभव सिद्धेति द्योतनार्थो हि शब्दः | ननु समानाधिकरण वाक्येषु अभेदरूपवाक्यार्थस्य मुख्यतया बाधारूपवाक्यार्थस्य औत्सर्गिकत्वाद्विवरणाद्विषु प्रकृते अभेदरूप वाक्यार्थस्यैव स्वीकाराच्च | भगवत्पादैरपि वाक्यवृतौ तादात्म्यमत्रवाक्यार्थस्तयोरेव पदार्थयोरिति श्लोकेन महावाक्येषु तत्वं पदार्थयोस्तादात्म्य शब्दिता भेदस्यैव वाक्यार्थतया स्वीकाराच्च | वार्तिककार वचनस्य बाधाया अपि प्रकृते वाक्यार्थता वक्तुं शक्यत इति प्रौढिमाश्रित्य प्रवृत्युपपतेश्च तस्मादहं ब्रह्मास्मीत्यत्रा भेदो वाक्यार्थ इति स्थिते विनाशि जीवस्याविनाशि ब्रह्माभेदोनुसंभवतीति प्. ७४ब्) चोद्यं तदवस्थमेवेति अस्वरसादाह यदि चेति || यस्तु मेघाकाशक तुल्योधीवासनाप्रतिबिंब ईश्वर उक्तः सोयं सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानंदमयो ह्यानंदभुगिति मांडुक्य श्रुति सिद्धः सौषुप्तानंदमयस्तत्रैव तदनंतरमेष सर्वेश्वर एष सर्वज्ञ एषोंतर्यामी एष योनिः सर्वस्य || कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधेति श्लोक संगृहीइतानां कूटस्थ ब्रह्मजीवेश्वराणां चतुर्णाम्मध्ये ब्रह्मचैतन्यं तावत् सत्यज्ञानदिवाक्येषु प्रसिद्धमिति तत्र वाक्यं प्रमाणत्वेन नोदाहृतं कूटस्थ चैतन्ये अविनाशी वा इति वाक्यं प्रमाणत्वेन दर्शितं | उपाध्युत्पति विनाशानुविधाप्युत्पति विनाशवचनमंतःकरण गत चैतन्यप्रतिबिंबरूपे जीवे प्रमाणमुक्तं परिशेषात्पूर्वोक्तेश्वरे प्रमाणं वक्तव्यं तदाह | यस्त्विति | त शब्दोवधारणे य ईश्वर उक्तः सोयं श्रुत्युक्तानंदमय एव नान्य इत्यर्थः | सुषुप्तं स्थानमस्येति सुषुप्तस्थानः जागरणे हि विज्ञानशब्दितांतःकरणे तादात्म्याध्यासाद्विज्ञान मयत्वमनोमयत्वकर्तृत्वाग्दीनिरूपाणि संति | तथा देहे स्थूलोहमित्याद्यभेदाध्यासात् स्थूलत्व कृशत्व ब्राह्मणत्वादीति रूपाणि संति | तथा चक्षुरादिषु काणोहं मूकोहमित्यादि रूपादध्यासा प्. ७५अ) त्काणत्वादीनिरूपाणि संति | एवमाकाशादिषु पदार्थेषु ध्यास सिद्धानि आकाश मयो वायुमप इत्यादि श्रुति संगृहितान्यनंतरूपाणि जीवस्य संति | सुषुप्ते तु बुध्याद्युपाधि लयेन सर्वप्रकार भ्रांतिलयाद्भ्रांति सिद्धानि सर्वाण्यपि रूपाणि लीयंत इत्यभिप्रेत्य एकीभूतः इत्युक्तं | तदुक्तं | विज्ञानमय मुख्यैर्योरूपैर्युक्तः पुराधुना | स लये नैकतां प्राप्तो बहुतंडुलपिष्टवदिति | पुरासुप्तात्पूर्वकाले | लयेन रूपाणां लयेनेत्यर्थः | प्रज्ञानं चैतन्यं तच्च जाग्रदादौ वृतिभेदेन भेदरूपं शैथिल्यं प्राप्य स्थितं सुषुप्ते वृतीनां विलयात्पुनरेकत्वं प्राप्तमित्यभिप्रेत्यप्रज्ञान घनत्वमुक्तं | आनंदोत्र बिंबभूतो ब्रह्मानंदो विवक्षितः | तस्य प्रतिबिंबभूतो जीव आनंदमयः स च स्वरूपभूतमानंदं सुषुप्तिकाले अविघावृतिभिर्भुंक्त इत्यानंद भुगिति श्रुत्यर्थः | ननु जाग्रत्स्वप्नयोः स्थूलावस्थांतःकरण प्रतिबिंबरूपो जीवो विज्ञानमयः | स्थूलांतःकरणस्य विज्ञानशब्दवाच्य त्वात् | स एव विज्ञानमयो जीवः स्वापकाले सूक्ष्मरूपेण विलीनावस्थांतः || प्रभवाप्ययौ हि भूतानामिति श्रुतेः सर्ववस्तु विषय सकलप्राणिधीवासनोपाधिकस्य तस्य सर्वज्ञत्वं तत एव सर्व कर्तृत्वोपपतेश्च | न चास्मद्बुद्धिवासनोपहितस्य कस्यचित्सार्वज्ञ्यं नानुभूयते इति वाच्यं | वासनानां प्. ७५ब्) परोक्षत्वेन तदुपहितस्यापि परोक्ष्मत्वादिति || करणोपाधिकस्सन् आनंदमय इत्युच्यते तथा चानंदमयस्य जीवत्वादीश्वरत्वमसिद्धमित्याशंक्यसौषुप्तानंदमयस्यैवेश्वरत्वं वाक्यशेषो दर्शयतीत्याह | तत्रैवेति मांडूक्य श्रुतावेवेत्यर्थः | सर्वेश्वरत्वं सर्वजगदुत्पति कर्तृत्वं योनिरुपादानं | आनंदमयस्य सर्वोपादानत्वे हेतुमाह | प्रभवेति | हि यस्माद्भूतानां प्रभवाप्ययौ जन्मलयौ सौषुमानंद मयात् | भवतः तस्माद्वेष सर्वस्य योनिरित्यर्थः | आनंदमयस्य श्रुत्युक्त सर्वज्ञत्वे युक्तिमप्याह | सर्ववस्त्विति | एकैकाधीः किंचित्किचिद्विषयी करोतीति सर्वाभिर्मिलित्वा सर्वं जगद्विषर्या क्रियते एवं च सर्वबुद्धीनां सर्वविषयकत्वे सिद्धे सति सर्वबुद्धिसूक्ष्मावस्थारूपाणां सर्वबुद्धिवासनानामपि सर्वविषयकत्वं सिध्यति | तथा च सर्वप्राणि बुद्धिवासनोपाधिकस्यानंदमयस्य सर्वज्ञत्व सिद्धिरित्यर्थः | ननुधीवासनोपरक्ताज्ञानोपाधिक ईश्वर इति | यदुक्तं | तत्र किं प्रतिबिंबेश्वरस्याज्ञानमेवापाधिः किं वासनोपरक्ताज्ञानं अथवा सर्वाःधीवासनाः उत्तप्रत्येकं वासनानाद्यःधीवासनासु प्रतिबिंबितं चैतन्यमीश्वर इत्युक्ति विरोधात् | अज्ञान मात्रस्य ईश्वरोपाधित्वेधीवासनानुसरण वैफल्याच्च | न चाज्ञानोपाधिकस्यैवेश्वरस्य सर्वज्ञत्व लाभार्थं सर्वविषयकधीवासनानुसरणमिति वाच्यमज्ञानगत सत्वांश परिणामरूपाभिस्सर्वविषयक वृतिभिरेव सर्वज्ञत्वोपपादन प्. ७६अ) संभवेन तदर्थं धीवासनानामनपेक्षणादनत एव द्वितीयः अज्ञानमात्रस्य तदुपाधित्व संभवात् | युगपत् सर्वप्राणिनां सुषुप्त्यसंभवेन सर्वबुद्धिवासनानां यौगपद्यासंभवाच्च | न तासामज्ञानविशेषणतया ईश्वरोपाधित्व संभवः तासां यौगपद्यासंभवादेव न तृतीयोपि कल्पः संगच्छते सर्वासुधीवासनासु व्यासक्ततया एकस्य ईश्वररूप प्रतिबिंबस्यासंभवाच्च | लोके व्यासज्यवृति प्रतिबिंबा दर्शनात् | तस्मात् चतुर्थः कल्पः परिशिष्यते तत्रानुभव विरोधमाशंकते | न चास्मदिति | अस्माकं प्राणिनामेकैक बुद्धिवासनोपहितस्यानंदमयस्य कस्यापि स्वापकालेहं सर्वज्ञ इत्यनुभवो नास्तीत्यर्थः | वासनानामिति | जाग्रदादौ स्थूलावस्थांतःकरणानामिव सुषुप्तौ वासनात्मकांतःकरणानां साक्षिप्रत्यक्षयोग्यत्वाभावेन तदुपाधिकानंदमयानामपिनाहमनुभव योग्यत्वमित्यर्थः || ब्रह्मानंदे तु सुषुप्ति संयोगान्मांडूक्योक्त आनंदमयो जीव इत्युक्तं | तथा हि जाग्रदादिषु भोगप्रदस्य कर्मणः क्षये निद्रा रूपेण विलीनमंतःकरणं पुनर्भोगप्रदकर्मवशात्प्रबोधे घनी भवति तदुपाधिको जीवो विज्ञानमय इत्युच्यते | स एव पूर्वं सुषुप्ति समये विलीनावस्थोपाधिकः सन्नानंदमय प्. ७६ब्) इत्युच्यते | सदावमांडूक्ये सुषुप्तिस्थान एकीभूत इत्यादिना दर्शित इति | एवं सति तस्य सर्वेश्वरत्वादि वचनं कथं संगच्छतां | इत्थं संत्यधिदैवत मध्यात्मं च परमात्मनः स विशेषाणि त्रीणि रूपाणि | तत्राधिदैवतं त्रीणि शुद्धचैतन्यं चेति चत्वारि रूपाणि चित्रपटदृष्टांतेन चित्रदीपे समर्थतानि || मांदूक्य श्रुत्युक्तानंदमयस्य सकलधीवासनोपाधिकस्य उक्तरित्या एकस्यासंभवात् | प्रत्येकमेवधीवासनोपाधिक आनंदमयो वाच्यस्स च जीव एवेत्याह | ब्रह्मानंदे त्विति | चित्रदीपे श्रीविद्यारण्यगुरुभिरीश्वर त्वेनोक्तानंदमयस्य तैरेव ब्रह्मानंदाख्य ग्रंथे जीवत्वमुक्तम् | जीवत्वोक्ति रूपविशेषार्थकस्तु शब्दः | सुषुप्तिसंयोगादित्युपलक्षणं वासनोपाधिकस्येश्वरत्वे जाग्रदादावीश्वराभावप्रसंगादेकैकवासनोपाधिकस्य नानात्वेनेश्वर नानात्व प्रसंगात्सकलवासनोपाधिकस्य कस्यचिदसंभवाच्चेत्यपि द्रष्टव्यं | तत्रोक्त प्रकारं दर्शयति | तथा हीति | जाग्रदादिषु भोगप्रदं यत्कर्म तस्य क्षये सतीत्यर्थः | आदिपदं स्वप्न परं बहुवचनं तु जाग्रत्स्वप्न व्यक्तिभेदापेक्षं | निद्रारूपेणेति | सुषुप्तिरूपेणेत्यर्थः | तदुक्तं पंचीकरणे | बुद्धेः कारणात्मनावस्थानं सुषुप्तिरिति | आनंदमयस्य जीवत्वे तस्येश्वरत्व प्रतिपादक वाक्यशेष विरोधं शंकते | एवं सतीति | प्. ७७अ) सौषुप्तजीवरूपानंदमयस्य वस्तुत ईश्वरत्वाभावेपि ईश्वराभेद विवक्षया तस्येश्वरत्व वचनं संगच्छत इति परिहरति | इत्थमित्यादिना | मांडूक्य श्रुतौ जीवश्वरयोरभेद विवक्षां दर्शयितुं पीठिकां करोति | संतीति | परमात्मन अधिदैवतं सविशेषाणि त्रीणि रूपाणि संति तथा परमात्मनोध्यात्मं च सविशेषाणि रूपाणि संतीति संबंधः परमात्मन इत्यस्य निर्विशेष चैतन्यस्येत्यर्थः | अधिदैवतमित्यस्य देवतात्मकानीत्यर्थः | अध्यात्ममित्यस्य च जीवात्मकानीत्यर्थः | अधिदैवतमध्यात्ममिति च पदद्वयमव्ययं | उक्तं प्रपंचयति | तत्रेति | अध्यात्माधिदैवतरूपाणां मध्य इत्यर्थः | जीवस्य त्रीणि सविशेषरूपाणि तुर्यपादात्मकं निर्विशेषरूपं च मांदूक्य श्रुतौ कंठतो दर्शितानि | ईश्वरस्य तु निर्विशेष सविशेष रूपाणि तच्छ्रुत्यभिप्रेतगन्यपि श्रुत्या कंटतो नोक्तानितानि तु श्रुति तात्पर्याभिज्ञैः श्रीविद्यारण्य गुरुभिश्चित्रदीपे सदृष्टांतं || यथा स्वतः शुभ्रः पटो धौतः अत्र लिप्तो घटित इति मष्यादि विकारयुक्तो लांछितो वर्णपूरितोरंजित इत्यवस्था चतुष्टयमेकस्यैव चित्रपटस्य तथा परमात्मामाया तत्कार्योपाधिरहितः शुद्धः मायोपहित ईश्वरः अपंचीकृत भूकार्य समष्टि सूक्ष्मशरीरोपहितो हिरण्यगर्भः | प्. ७७ब्) पंचीकृतभूतकार्य समष्टि स्थूलशरीरोपहितो विराट् पुरुष इत्यवस्था चतुष्टयमेकस्यैव परमात्मनः || निरूपितानीत्याह | चित्र पदेति | तत्रायं दृष्टांत संग्राहकः श्लोकः स्वतः शुभ्रोत्र धौतः स्यात् घटितोन्नविलेपनात् | मष्याकारैर्लांछितः स्याद्रंजितो वर्णपूरणादिति | एतच्छ्लोक संगृहीतं दृष्टांतं विवृणोति | यथेति | स्वतश्चिदंतर्यामी तु मायावी सूक्ष्मसृष्टितः | सूत्रात्मा स्थूलसृष्ट्यैष विराडित्युच्यते पर इति श्लोक संगृहीतं दार्ष्टांतिकं दर्शयति | तथेति | श्लोके परः स्वतश्चिदिति संबंधः अमुमंशं विवृणोति | परमात्मेति | श्लोके तु शब्दोवधारणे | तथा च पर एव मायावी सन् अंतर्यामीत्युच्यते इति संबंधः अमुमंशमाह | मायोपहित ईश्वर इति | श्लोके पर एव सूक्ष्मसृष्टितस्सूत्रात्मेति संबंधः | अमुमंशं व्याचष्टे अयं पंचीकृतेति | अपंची कृतानां भूतानां यत्कार्यं व्यापकं सूक्ष्मशरीरं तदुपहित इत्यर्थः | न च सूत्रात्मनो हिरण्यगर्भ शब्दितस्य श्रुतिस्मृत्योर्जीवत्व प्रसिद्धेः कथं तस्येश्वररूपत्वमिति वाच्यं जीवरूपहिरण्यगर्भस्य समष्टि सूक्ष्मशरीराभिमानविशिष्टस्य सत्यलोकस्वामिनः ईश्वरान्यत्वाभ्युपगमात् | ईश्वरस्य तु समष्टि सूक्ष्मशरीराभिमानाभावेपि समष्टि सूक्ष्मशरीर नियंहृतयातदुपाधिकस्य समष्टिसूक्ष्मोपाध्युपहितत्वगुणयोगेन प्. ७८अ) हिरण्यगर्भसूत्रात्मपदाभ्यां निर्देशस्येह विवक्षितत्वा तथा च गौणमीश्वरस्य हिरण्यगर्भत्वमिति भावः | अत एव चित्रदीपे ईश्वररूप हिरण्यगर्भापेक्षया सत्यलोकाधिपतेर्ब्रह्मणस्ततद्वाद्यभिमतेश्वर परिगणनावसरे पृथगुपादानं कृतमिति मंतव्यं | श्लोके एष एव परः स्थूलसृष्ट्याविराडित्युच्यत इति संबंधः | अमुमंशंव्याकुर्वन् संगृह्णाति | पंचीकृतेति | अयमीश्वररूपो विराट् पुरुषः पुरुषसूक्त वैश्वानरविद्यावाक्यादि रूपश्रुति सिद्धो द्रष्टव्यः सत्यलोकाधिपतेर्हिरण्यगर्भस्य पुत्ररूपो विवाटपुरुषस्समष्टि स्थूलाभिमानी जीवो बृहदारण्यक श्रुति सिद्धोन्य एवेत्यपि द्रष्टव्यं | इत्यवस्येति | उक्त प्रकारेण वस्तुत एकस्यैव रूपचतुष्टयं द्रष्टव्यमित्यर्थः || अस्मिंश्च चित्रपटस्थानीये परमात्मनि चित्रस्थानीयः स्थावरजंगमात्मको निखिलः प्रपंचः | यथा चित्रगतमनुष्याणां चित्राधारवसुसदृशावस्त्राभासालिख्यंते तथा परमात्माध्यस्त देहिनामपिष्टान चैतन्य सदृशाश्चिदाभासाः कल्प्यंते ते च जीवनामानः संवरंतीति | अध्यात्मं तु विश्वतैजस प्राज्ञभेदेन त्रीणि रूपाणि | तत्र सुषुप्तौ विस्तीनेंतः करणे ज्ञानमात्र साक्षीप्राज्ञः | योयमिहानंदमय प्. ७८ब्) उक्तः स्वप्ने व्यष्टि सूक्ष्मशरीराभिमानी तैजसः जागरे व्यष्टिस्थूल शरीराभिमानी विश्वः || एवं प्रकृतोपयुक्तं रूप चतुष्टयं दर्शयित्वा प्रसंगादाह | अस्मिन्निति | ननु कृत्स्नस्य जगतश्रित्रस्थानीयत्वे तद्वदेव सर्वमचेतनं स्यातथा च चेतनाचेतनविभागो न स्यादिति शंकां दृष्टांतेन परिहरति | यथेति | वस्त्राभासा इति वर्णविशेषात्मक वस्त्राणां चित्राधारेण वस्त्रेणाकृति साम्येपि शीतवानादि निवर्तकत्वा भावादाभासत्वं | देहिनामिति स्थूलदेहवतामहंकारणामित्यर्थः अंतःकरणात्मकाहंकारेषु चैतन्यस्य प्रतिबिंब कल्पनस्य प्रयोजनमाह | ते चेति तथा च विदाभासयुक्ताः कार्यकारणसंघाताश्चेतनाः अन्ये गिरि समुद्रादयो चेतना इति विभाग सिद्धिरिति भावः | एवमीश्वरस्य रूपाणि दर्शितानि जीवस्य श्रुत्युक्तानि सविशेष निर्विशेषरूपाणि दर्शयति | अध्यात्मं त्विति | तु शब्द ईश्वरस्य स विशेषरूपाण्यपेक्ष्यजीवस्य स विशेषरूपाणां वैलक्ष्यण्य सूचनार्थः | तदेव वैलक्षण्यं दर्शयति | विश्वेति | रूपाणीति | सविशेषाणीति शेषः | तत्रेति | रूपत्रयमध्ये इत्यर्थः | विलीन इति अंतःकरणे विलीने सति सूक्ष्मरूपेण विलीनांतःकरणोपाधिकः संपद्यत इति भावः स्थूलांतःकरणादि साक्षित्व व्यवच्छेदार्थं मात्रग्रहणं ननु पूर्वं सौषुप्तजीव आनंदमय इत्युक्तमिदानीं कथं स एव प्राज्ञ इत्युच्यते | तत्राह | योयमिति इहेति मांडूक्य श्रुतावित्यर्थः | प्. ७९अ) तत्रैवानंद भुगित्यनंतरं चेतोमुखः प्राज्ञस्तृतीयः पाद इति वाक्यशेष दर्शनादिति भावः | चेतांसि चित्प्रतिबिंबोपेतान्यविद्यावृतिरूपाणि मुखानि स्वापकालीनानंदानुभव साधनानि यस्य स चेतो मुखः | ननु सौषुप्तजीवस्यानंद भुक्तं चेतो मुखत्वं च श्रुतमपि कथमुपपन्नमिति तत्र मांडूक्य श्रुतिरहमनुभवे प्रकाशमानस्यात्मनो विश्वतैजस प्राज्ञतुरीयावस्थाभेदरूपं पादचतुष्टयं सोयमात्मा चतुष्पादित्युपक्रम्य पूर्वपूर्वपादविप्रलापनेन निःप्रपञ्च ब्रह्मात्मक तुरीय पादप्रतिपतिसौ कार्याय स्थूलसूक्ष्म सूक्ष्मतरोपाधिसाम्याद्विराडादीन्विश्वादिष्वंतर्भाव्यजागरित स्थानो बहिः प्राज्ञः इत्यादिना विश्वादि पादान्न्यरूपयत् | अतः प्राज्ञ शब्दिते आनंदमये व्याकृतस्येश्वरस्यांतर्भाव विवक्षित्वाक्ष तत्र सर्वेश्वरत्वादि तद्धर्मवचनमिति || चेदुच्यते | सुषुप्तादुत्थितस्य हि सुखमहमखाप्समिति | स्वापकालविशिष्ट सुखस्मरणं दृश्यते | तच्च तदा सुखानुभवमंतरेण संभवति अननुभूतस्य सुखस्य स्मरणायोगात् | न च सुषुप्तावात्मरूपसुखस्यांतःकरणवृतिभिरेवानुभवः प्. ७९ब्) संभवतीति वाच्यं | तदा विलीनस्यांतःकरणस्य वृत्युत्पादन योग्यत्वाभावान्न च मुक्तिकाल इव स्वापकालेपि स्वरूप चैतन्ये नैव सुखानुभव संभवात् किमविद्यावृत्ति प्रतिबिंबरूप चेतः कल्पनयेति वाच्यं | जाग्रत्स्वप्नयोश्चैतन्य प्रतिबिंबोपेतवृतिभिरानंदानुभव दर्शनेन सुषुप्तावपि तथा संभवे परित्यागा योगात् | मुक्तिकाले चोपाधिमात्र विलयाभ्युपगमात् | वृत्यसंभव इति वैषम्य सत्वात् | सौषुप्त सुखानुभवस्य केवल नित्यसाक्षिरूपत्वे अनुभवनाशरूपसंस्काराभाव प्रसंगेन सुखमखाप्संमित्यनुसंधानाभावापतेश्च तस्माद्यथोक्तार्था श्रुतिरुपपन्नैव व्यष्टीति परिछिन्नेत्यर्थः | एते पादास्साक्षाच्छ्रुत्युक्ता इत्याह | तत्रेति | उक्तरीत्या पादकल्पनोपपतौ सत्यामित्यर्थः | श्रुतिः | पादचतुष्टयमुपक्रम्य विश्वादिपादान्न्यरूपयदिति संबंधः | पद्यते गम्यतेवगम्यते ब्रह्मात्मैक्यमेभिरिति पादाविश्वादयः | इमां व्युत्पतिमभिप्रेत्य श्रौतपादकल्पनायाः | प्रयोजनमाह | पूर्वपूर्वेति अयमर्थः | सोयमात्मा चतुष्पादिति वाक्येन जीवस्य पादचतुष्टयवत्वमुषक्रम्य जागरितस्थानो वैश्वानरः प्रथमः पादः इत्युक्तं | अत्र जीवपादानामेव वक्तुमुपक्रांतत्वाद्विश्वः प्रथमः पाद इति वक्तव्ये वैश्वानर शब्दितस्य विराट्पुरुषरूपे || श्वरस्य प्रथपादत्वोक्तिर्विश्वे वैश्वानरेश्वरस्यांतर्भावं प्. ८०अ) सूचयति | न च हिरण्यगर्भेश्वरौ विहाय वैश्वानरेश्वरस्यैव विश्वांतर्भावे किं नियामकं श्रुत्यभिमतमिति वाच्यं | तयोः स्थूलोपाधिकत्वरूपसाम्यस्य ईश्वरहिरण्यगर्भ व्यावृतस्य नियामकतया विवक्षितत्वा तथा द्वितीयपाद प्रतिपादक वाक्ये स्वप्नस्थानस्तैजसो द्वितीयः पाद इत्युक्तं अत्र सूक्ष्मोपाधिकत्व साम्येन हिरण्यगर्भस्य तैजसे अंतर्भावो विवक्षितः वैश्वानरः प्रथमः पाद इत्युपक्रमानुसारा तथा तृतीय पाद प्रतिपादकं सुषुप्तस्थान एकीभूत इत्यादि वाक्यं प्रागेवोदाहृतं | अत्रापि तृतीयपादत्वेनोक्ते प्राज्ञ शब्दितानंदमये सूक्ष्मतरोपाधिकत्व सामान्येन ईश्वरस्यांतर्भावोविवक्षितः | तथा च वाक्यशेषस्य एष सर्वेश्वर इत्यादेरानंदमयेश्वरयोरभेदस्य विवक्षिततया प्रवृतत्वान्नानुपपतिः | तथा तुरीयपाद प्रतिपादकमिदं वाक्यं | अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिंत्यम- व्यपदेश्यमैकात्म्यात्पयसारं प्रपंचोपशमं शिवमद्वैतं चतुर्थं मन्यंत इति | प्. ८०ब्) अदृश्यं चक्षुराद्यविषयं | अव्यवहार्यं प्रवृति निवृति लक्षणव्यवहारागोचरं | अग्राह्यं कर्मेंद्रियागोचरं अलक्षणमसाधारण धर्मं शून्यं अचिंत्यं शुष्कतर्कागोचरं | अव्यपदेश्यं शब्दशक्त्यगोचरं | एकात्मप्रत्ययसारं | एकादि पद चतुष्टयस्य कर्मधारयः स्वगत भेदशून्यत्वमेकत्वं सर्वदेहेषु पूर्णत्वमात्मत्वं प्रत्ययत्वं चिद्रूपत्वं सारत्वमानंदत्वं सार आनंद इत्यर्थः | इत्यानंदमयाधिकरणभाष्यात्प्रपंचोपशमं प्रपंचाभावरूपं कल्पितपदार्थाभावस्याधिष्ठानानतिरेकात् यद्वा प्रपंचध्वंसरूपं ज्ञानसाध्यायास्सकारणद्वैत निवृतेरधिष्ठानात्मकताया वक्ष्यमाणत्वात् शिवं शुद्धं सर्वदोषरहितमद्वैतंद्वैतरहितं चतुर्थं विश्वतैजस प्राज्ञ रूपपादत्रयापेक्षया चतुःसंख्यापूरकं पादं चिंतयंतीति श्रुत्यर्थः | अत्र विश्वतैजस प्राज्ञलक्षण पादेषु वैश्वानरहिरण्यगर्भेश्वराणामंतर्भाव च नंतैरेषामेकत्व चिंतनपरं तथा विश्वादि पादानामोंकारावयवभूतमात्राणां चैकत्व प्. ८१अ) चिंतनमत्र विवक्षितं | तथा च श्रुतिः पादामात्रा मात्राश्च पादा इति | तथा गौडपादीय वचनमपि | ओंकारं पादशो विद्यात्पादामात्रा न संशय इति संशय इत्यस्यायमभिप्रायः | विश्वादि पादानाम्मात्राणां च यावत्संशयनिवृतिं एकत्वं चिंतनीयमिति मात्रा स्वरूपं च श्रुत्यैव दर्शितमकार उकारो मकार इतीति | एवं विश्वादि पादानां वैश्वानरादीनां मात्राणां चैकत्व चिंतनं सर्वेषामेतेषां निष्प्रपंच ब्रह्मात्मकतुर्यपादे चिन्मात्रे प्रविलापनार्थं | तत्र चायं क्रमः विश्ववैश्वानराकाराणामेकत्वं प्रथमं विचिंत्य पश्चातैजस हिरण्यगर्भो कारणामेकत्वं चितयेत् | तत ईश्वरप्राज्ञमकाराणामप्येकत्वं चिंतयेत् | तथा चिंताक्रमेणैव प्रविलापयेत् | अकारादि त्रयमुकारे उकारादि त्रयं मकारे मकारादि त्रयं चिन्मात्रे तुर्यपादे प्रविलापयेत् | चिन्मात्रे प्रविलाप्य च चितं तत्रैव स्थापयेत् | उकारादौ प्रविलापनं नामाकारादि त्रयमुकार व्यतिरेकेण नास्ती || प्. ८१ब्) त्याहार्य निश्चय एवं प्रत्यहमुक्तप्रकारेण समाधिं कुर्वतो ब्रह्मसाक्षात्कारो भवति | ततश्च ब्रह्मप्राप्त्याकृतकृत्यतेति मांडूक्य श्रुत्यभिप्रायः | इदं सर्वं मांडूक्यश्रुतेरिदं संग्रहेण तात्पर्य कथन परस्य भाष्यकृद्भिः कृतपंचीकरणस्य व्याख्यानरूपे वार्तिके सुरेश्वराचार्यैरमिहितं अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः प्राज्ञोमकार इत्येकं परिपश्येत् क्रमेण तु | अत्र विश्वादिषु वैश्वानरादीनामंतरभावं सिद्धं कृत्वा न पृगुपादानं कृतमिति मंतव्यं | समाधिकालात् | प्रागेवं विचिंत्याति प्रयत्नतः स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् | अकारं पुरुषं विश्वमुकारं प्रविलापयेत् | पुरुषोत्र वैश्वानरः | उकारं तैजसं सूक्ष्मं मकारे प्रविलापयेत् | अत्र समष्टिसूक्ष्मशरीरनियंतृतया तदुपहितः परमेश्वरः सूक्ष्मशब्दार्थः | मकारंकारणं प्राज्ञं चिदात्मनि विलापयेत् | अत्रांतर्यामीमायामात्रोपाधिकः कारणशब्दार्थः | चिदात्माहं नित्यशुद्ध बुद्ध मुक्तसदद्वयः परमानंदसंदोह वासुदेवोहमोमिति | प्. ८२अ) यतोहं चिदात्मावशेषितः | अतोहं नित्य शुद्धबुधादि रूपो वासुदेव इत्यर्थे अंगीकारात्मक ओंकार इत्यर्थः | इति शब्दश्चोतरश्लोकान्वयी ज्ञात्वा विवेचकं चितं तत्साक्षिणिलापयेत् | इति उक्त प्रकारेण केवल चिदात्मानमवशिष्टं ज्ञात्वा विवेचकं विलापकं तच्चित्तं साक्षिणि यथोक्ते वासुदेवे विलापयेत् स्थापयेदित्यर्थः | चिदात्मनि विलीनं च तच्चितं नैव चालयेत् | पूर्ण बोधात्मनासीनं पूर्णाचल समुद्रवत् | चिरकालं समाधिं कुर्यादिति वार्तिकार्थः | एवं समाहितो योगी श्रद्धाभक्ति समन्वितः | जितेन्द्रियोजित क्रोधः पश्येदात्मानमद्वयं आदिमध्यावसानेषु दुःखं सर्वमिदं यतः तस्मात्सर्वं परित्यज्य तत्वनिष्ठो भवेत् सदा यत्प * * त्वनिष्टाव्यतिरिक्तं पुरुषार्थ साधनत्वेन लोकशास्त्रसिद्धं सर्वं कालत्रयेपि दुःखाविना भूतं तस्मात्सर्वं विधिनासंन्यस्य उक्तरीत्यातत्वनिष्टां समाधि लक्षणां कुर्यादित्यर्थः | तदेवाह | इमां विद्यां प्रयत्नेन योगीसंध्यासु सर्वदा | समभ्यसेदिहामुत्रभोगानास || प्. ८२ब्) क्तधीस्सुधीरिति | इमां समाधिलक्षणां विद्यां सुधीरास्तिकतमो विरक्तो भूत्वा संध्यासूपक्रम्य सदाभ्यसेदित्यर्थः | यः पश्येत् सर्वगं शांतसनंतात्मानमद्वयं | न तेन किंचिदाप्तव्यं ज्ञातव्यं वावशिष्यते || कृतकृत्यो भवेद् विद्वान् जीवन्मुक्तो भवेत् सदा | अविद्या तिमिरातीतं सर्वाभासविवर्जितं || आनंदममलं शुद्धं मनोवाचामगोचरं | वाच्यवाचकनिर्मुक्तं हेयोपादेय वर्जितं || प्रज्ञानघनमानंदं वैष्णवं पदमश्रुत | इति || आभासपदं चिदाभासपरं वाच्याः विश्वादयः वाचकाः आकारादयः प्रकृतत्वात् हेयं दुःखं उपादेयं विषयसुखमित्यर्थः | तथा मांडूक्य श्रुतौ समाधिनिष्टा विवक्षामभिप्रेत्यगौडपादीयेप्युक्तं | युंजीत प्रणवे चेतः प्रणवो ब्रह्मनिर्भयं | प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् || इति संक्षेपः | ननु श्रवणादि रूपसांख्यमार्गेणैव तत्वप्रतिपति संभवात् किं मुमुक्षोर्योग विधिनेत्यत आह | प्रतिपतिसौ कार्यापेति | यस्य मुमुक्षोस्सन्यासिनः | बुद्धिमांद्याद्वाकौशलसत्वेपि प्. ८३अ) न्याय व्युत्पादन कुशलाचार्याद्यभावाद्वासांख्यमार्गो न संभवतीति तस्यानायासेन ब्रह्मतत्व प्रतिपत्ति साधनतया बुधिपूर्वक प्रविलापन क्रमेण समाधि विधानं मांडूक्यादौ उक्तं मांडूक्यतापनीय पंचीकरणादौ विहित ब्रह्मोपासनं प्रकृत्यध्यानदीपे || इत्थमेव भगवत्पादैर्गौडपादीय विवरणे व्याख्यातं दृक् दृश्य विवेके तु चित्रदीय व्युत्पादितं कूटस्थं जीवकोटावंतरभाव्य चित्त्रैविध्य प्रक्रियैवालंबितेति विशेषः | तत्र ह्युक्तं जलाशय तरंग बुद्बुद न्यायेनोपर्युपरिकल्पनाज्जीवस्त्रिविधः | पारमार्थिको व्यावहारिकः प्रातिभासिकश्चेति | तत्रावछिन्नः पारमार्थिको जीवः || श्रीविद्यारण्य गुरुभिरधिकारी दर्शितः | अत्यंत बुद्धिमांद्याद्वासामग्र्यावाप्यसंभवात् | यो विचारत्न लभते | ब्रह्मोपासीतसोनिशमिति | अव्याकृतस्येति | अनभिव्यक्त जगद्वा विना अव्याकृतपदेन लक्षणया परमेश्वरस्तत्र तत्र व्यवहृत इति कृत्वा तेन तन्निर्देशः कृतः मांडूक्य श्रुत्युक्तानंदमयस्य ईश्वरत्ववचनं तदभेद विवक्षयेत्येतत् मांडूक्य श्रुतिव्याख्यान रूपस्य गौडपादीयस्य विवरणरूपे भाष्ये भाष्यकारैरेवोक्तमित्याह | इत्यमेवेति | प्. ८३ब्) श्रीविद्यारण गुरुभिश्चित्र दीपे स्वोक्तं चिच्चातुर्विध्यं विहाय ग्रंथांतरे जीव ईशो विशुद्धा चिदिति वृद्धवचनसिद्धं त्रैविध्यमेवावलंव्य जीवस्य त्रैविध्याख्यो विशेष उक्त इत्याह | दृक् दृश्य विवेकेत्विति | तु शब्द उक्त विशेषार्थकः कूटस्थस्य जीवकूंटावंतर्भावमेव दर्शयति | तत्रेति | दृक् दृश्य विवेकाख्य ग्रंथ इत्यर्थः | हि शब्दः प्रसिद्धि द्योतकः जलाशय तरंगेति | यथा समुद्रादि जलाशये तरंगा उपरिभावेन तिष्ठंति तेषु चोपरिभावेन बुद्बुदास्तिष्टंति इदं प्रसिद्धमिति हि शब्दार्थः न्यायो दृष्टांतः | एवं कूटस्थस्योपरिव्यावहारिकांतःकरणप्रतिबिंबरूपो यावद्व्यावहारमनुवर्तमानो व्यावहारिक जीवः कल्प्यते | तस्य चोपरिभावेन स्वप्नकाले वासनामय प्रातिभासिक रथादि वद्वासनामयांतःकरणप्रतिबिंबरूपः प्रातिभासिक जीवः कल्प्यत इत्यर्थः | तत्रेति त्रिविधजीवमध्य इत्यर्थः | अवछिन्न इति | देहद्वयावछिन्नकूटस्थ चैतन्यरूप आत्मा पारमार्थिक जीव इत्यर्थः | अहं ब्रह्मास्मीति महावाक्येषु | जीवब्रह्मणोरभेदः | प्रतिपाद्यते स च पारमार्थिक जीवकल्पने सति निर्वहति | अन्यथा व्यावहारिक प्रातिभासिक जीवयोश्शु || तस्मिन्नवच्छेदकस्य कल्पितत्वेपि अवछेद्यस्य तस्याकल्पितत्वेन ब्रह्मणा भिन्नत्वात् | तमावृत्यस्थितायां मायायां कल्पितेंतःकरणे प्. ८४अ) चिदाभास्येंतःकरण तादात्म्यापत्याहमित्यभिमन्यमानो व्यावहारिकः | तस्य मायिकत्वेपि यावद्व्यवहारमनुवृतेः | स्वप्ने तमप्यावृत्यस्थितया मायावस्थाभेदरूपया निद्रया कल्पिते स्वाप्न देहादावमभिमानीप्रातिभासिकः || क्तिरूप्यादिवत्स्वरूपतो मिथ्यात्वेन सत्यब्रह्माभेदायोगात् देहद्वयावछिन्नकूटस्थ रूपपारमार्थिक जीवस्यत्ववच्छेदकीभूत देह द्वयस्य कल्पितत्वेपि स्वतः सत्यत्वात् | संभवति ब्रह्माभेद इति पारमार्थिक जीवकल्पनायाः प्रयोजनं दर्शयति | तस्मिन्निति | अवछिन्न जीव इत्यर्थः | व्यावहारिक जीवं निरूपयति | तमिति | कूटस्थमात्मानमावृत्याविघायां स्थितायां सत्यां कूटस्थात्मनि कल्पितं यदंतःकरणं तत्र यश्चिदाभासः व्यावहारिक जीव इत्यर्थः | तदुक्तं कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिबिंबक इति | अहमित्यभिमन्यमान इति | अहमित्योवकारकाभिमानकर्तेत्यर्थः | नन्वहमाकारवृतिरूपेण परिणममानेंतःकरण एवाहमभिमानवत्वं युक्तं न तु चित्प्रतिबिंबस्यात आह | अंतःकरणेति | तस्य व्यावहारिकत्वे युक्तिमाह | तस्येति | न च व्यावहारिक जीवेमानाभाव इति वाच्यं | अहंकर्ता भोक्तेत्यादि रूपाहमनुभवस्य तत्र मानत्वात्कर्तृत्व भोक्तृत्वाद्यात्मसंसाराश्रयत्वस्यान्यत्रायोगाच्च | न चांतःकरणे तत्संभवः तस्य चिदाभास शून्यस्य चैतन्य धर्मत्वेन प्रसिद्धकर्तृत्वाद्या प्. ८४ब्) श्रयत्वायोगात् | चिदाभासस्य तु चेतनात्मप्रतिबिंबतया मिथ्याभूतस्यापि चेतनत्व व्यवहारयोग्यत्वेन तद्धर्माणां चेतन धर्मत्व प्रसिद्धि विरोधाभावात् | पारमार्थिक जीवस्य च संसारा श्रयत्वं न संभवति तस्य कूटस्थत्वादिति भावः | तमपीति | व्यावहारिकजीवमपीत्यर्थः | व्यावहारिक जीवो हि जाग्रद्दशायामात्मानं ब्राह्मणं देवदेत्तं यज्ञदत्त पुत्रं विष्णुभक्तस्मन्यते स्वाप्न जीवस्तु स्वप्नावस्थायामात्मानं क्षत्रियं विष्णुशर्मनामानं नारायण पुत्रं महादेव भक्तं मन्यते | अतो जाग्रज्जीवस्यावरणं सिद्धं प्रातिभासिक जीवेक || स्वप्रपंचेन सह तत् द्रष्टुर्जीवस्यापि प्रबोधे निवृतेरिति | एवमेते प्रतिबिंबेश्वर वादिनां पक्षे भेदादर्शिताः | विवरणानुसारिणस्त्वाहुः विभेदजनके ज्ञानेनाशमात्यंतिकं गते | आत्मनो ब्रह्मणो भेदमसंतंकःरिष्यति इति स्मृत्या एकस्यैवाज्ञानस्य जीवेश्वर विभागोपाधित्व प्रतिपादनाद्बिंब प्रतिबिंबभावेन जीवेन जीवेश्वरयोर्विभागः नोभयोरपि प्रतिबिंबभावेनोपाधिद्वयमंतरेणोभयोः प्रतिबिंबत्वा योगात् || ल्पकमाह | निद्रयेति | ननु मायायास्सर्वकल्पकत्वाभ्युप प्. ८५अ) वामात्कथं निद्रायाः कल्पकत्वमपसिद्धांतापतेरित्याशंक्य निद्रायास्तदवस्थारूपत्वाभ्युपगमान्नोक्त दोष इत्याशयेनाह | मायेति | न च निद्राया माया लक्षणाभावात् कथं तदवस्था विशेषरूपत्वमिति वाच्यं | आवरणविक्षेप शक्तिमत्वं हि माया लक्षणं तस्य लक्षणस्य जाग्रज्जिवावरिकायां स्वाप्नजगदात्मक विक्षेपकारिण्यां च निद्रायामक्ष तत्वादिति भावः | प्रातिभासिक जीवकल्पनायाः प्रयोजनमाह | स्वाप्नदेहादाविति | व्यावहारिक जीवस्याब्द तत्वेन स्वप्नकाले अहमभिमाअनकर्तृत्वासंभवादिति भावः | तस्य प्रातिभासिकत्वे हेतुमाह | स्वप्नप्रपंचेनेति प्रबोधकाले ब्राह्मणोहं न क्षत्रिय इत्यादि रूपेण बोधेन स्वप्न दृष्टुः क्षत्रियादि रूपस्य बाधानुभवादिति भावः ईश्वरविषये उक्त वक्ष्यमाण प्रकारभेद ज्ञानार्थमुपसंहरति | एवमिति | बिंबचैतन्यमेवेश्वरो न प्रतिबिंबविशेष इति वक्ष्यमाणविशेषार्थकस्तु शब्दः विभेदजनकत्वं जीवेश्वरभेदस्थितिप्रयोजकत्वं विवक्षितं न तु यथाश्रुतं तद्भेदस्यानादित्वाभ्युपगमात् | आत्यंतिकमिति स्वाय प्रलयादौ अज्ञानकार्यनाशेन तत्कारणाज्ञानस्यापि नाशोस्ति परिणामपरिणामिनोरभेदात् स चाज्ञाननाशो नात्यंतिकः | पुनरुत्थानात् | मुक्तौ तु तत्वज्ञानेन स्वरूपेणापि नाशोस्ति स चात्यंतिकः | पुनरुत्थानाभावादिति मत्वा अज्ञाननाशस्यात्यंतिकं विशेषणं दत्तं | यद्वा जीवन्मुक्तिकाले अज्ञानस्यावरणांशेन नाशेपि विक्षेपांशनाशा भावादनात्यंतिकस्सनाशः प्. ८५ब्) विदेह मुक्तौ तु आत्यंतिको ज्ञाननाश इति तदभिप्रायं तद्विशेषणमिति भावः प्रतिबिंबत्वायोगादिति | न च जीवैशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुत्या उभयोः प्रतिबिंबत्व प्रतिपादनविरोध इति वाच्यं | प्रतिबिंबत्ववद्बिंबत्वस्यापि कल्पिततया श्रुतिगताभासपदेन प्रतिबिंबद्बिंबस्यापि ग्रहणोपपतेः || तत्रापि प्रतिबिंबो जीवः बिंबस्थानीय ईश्वरः तथा सत्येव लौकिक बिंबप्रतिबिंब दृष्टांतेन स्वातंत्र्यमीश्वरस्य तत्पारतंत्र्यं जीवस्य च युज्यते || ननु लोके प्रतिबिंबत्व विशिष्टमुखे मुखाभासत्व व्यवहारात् | बिंबत्व विशिष्टमुखे तथा व्यवहाराभावादाभासपदं मुख्यवृत्या बिंबचैन्तन्यं प्रतिपादयितुं न शक्नोतीति खलु प्रतिबिंबवद्बिंबस्यापि विशिष्टरूपेण कल्पिततया कल्पितत्वगुणयोगेन बिंबपरमाभास पदं वक्तव्यं | तच्च न संभवति सकृदुच्चरितस्याभास पदस्य मुख्यवृत्या प्रतिबिंब परत्वं गुणवृत्या बिंबपरत्वमिति कल्पनस्य च्युत्पति विरुद्धत्वात् | न चाजहल्लक्षणया आभास पदस्य बिंबप्रतिबिंबोभय परत्वाभ्युपगमेनायं विरोध इति वाच्यं | उभयोरपि प्रतिबिंबरूपतामादायाभास पदस्य मुख्यार्थ परत्व संभवे सति लक्षणाकल्पनाया एवनिर्मूलत्वादिति चेदुच्यते | यथा श्रुतं प्. ८६अ) जीवेशयोरुभयोरपि प्रतिबिंबरूपत्वं न संभवति | बिंबभूतचैतन्यस्य सूर्यवदेकत्वेन उपाधिभेदं विना प्रतिबिंब द्वया संभवात् | न च माया चाविद्या च स्वयमेव भवतीति वाक्यशेषेणमाया विद्यारूपोपाधिद्वय प्रतिपादनात्न प्रतिबिंबद्वयानुपपतिरिति वाच्यं तेन स्वयं शब्दोपातायाः प्रकृतमूल प्रकृतेर्मायात्वा विद्यात्वलक्षणरूपभेद प्रतिपादनेपि प्रतिबिंबद्वयापेक्षितोपाधि द्वया प्रतिपादनान्मायाविद्ययोः स्वरूपतो भेदस्य सिद्धांत विरुद्धत्वाच्च | तस्माद्यथा श्रुतासंभवादेकस्यैवाज्ञानस्य जीवेश विभागप्रयोजकत्व प्रतिपादक स्मृत्यनुरोधाच्च जीवेशावाभासेन करोतीति श्रुतावाभासपदमजहल्लक्षणया बिंबप्रतिबिंबोभयपरमिति विवरणानुसारिणामाशय इति | तत्रापीति | बिंबप्रतिबिंबयोरुभयोर्मध्येपीत्यर्थः | तत्र युक्तिमाह | तथा सत्येवेति | बिंब चैतन्यस्यैवेश्वरत्वाभ्युपगमे सतीत्यर्थः | स्वातंत्र्यमिति | एष सर्वेश्वर एष भूताधिपतिरित्यादि श्रुति सिद्धमिति शेषः | तत्पारतंत्र्यमिति एष ह्येव साधुकर्मकारयति | य आत्मानमंतरोयमयति ईश्वरप्रेरितो गच्छेत्स्वर्गं वाश्वभ्रमेव वेत्यादि श्रुतिस्मृति सिद्धमिति शेषः || प्रतिबिंबगताः पश्यनृजुवक्रादि विक्रियाः पुमान् क्रीडेद्यथा ब्रह्मतथा जीवस्थ विक्रिया इति कल्पतरूक्तरीत्यालोकवतुलीला प्. ८६ब्) कैवल्यमिति सूत्रमपि संगच्छते | अज्ञानप्रतिबिंबितस्य जीवस्यांतःकरणरूपो ज्ञान परिणामभेदोविशेषाभिव्यक्ति स्थानं सर्वतः प्रसृतस्य सवितृप्रकाशस्य दर्पण इव || लौकिक दृष्टांतमेव कल्पतरुश्लोकोदाहरणेन दर्शयति | प्रतिबिंबगता इति | यथालोके कश्चित्पुरुषः स्वप्रतिबिंबगताः ऋजुवक्रादि विक्रियाः बिंबभूत स्वप्रयुक्ताः पश्यन् क्रीडति तथा ब्रह्मापि जीवस्थ विक्रियाः प्राणिकर्मानुसारेण स्वप्रयुक्ताः पश्यन् क्रीडतीति योजनाकल्पतरूक्तरीत्या ईश्वरस्य स्वातंत्र्य प्रतिपत्युपयोगिन्येश्वरस्य स्वातंत्र्य प्रतिपादकं सूत्रमपि संगच्छत इत्यर्थः | सूत्रार्थस्तु ईश्वरस्याप्त कामत्वेन प्रयोजनोद्देशाभावात् | सृष्ट्यादि व्यापारेषु प्रवृतिर्न संभवतीति पूर्वपक्षव्यावृत्यर्थकस्तु शब्दः ईश्वरस्य सृष्ट्यादि प्रवृतिलक्षणक्रिया केवलं प्रयोजनोद्देशं विनैव लीलालोकवत् | यथा लोके सार्वभौमादेस्सर्वैर्मानुषैः भौगैस्संपन्नतमस्य प्रयोजनाभिसंधिं विनैव क्रीडा दृश्यते तद्वत् | किं च ईश्वरस्य प्रयोजनोद्देशाभावेपि स्वभावादेवसृष्ट्यादि प्रवृतिरुपपद्यते | दृश्यते हि सुखोद्रेकानुभव प्रयुक्ताहासगानादि रूपाप्रयोजनोद्देशरहिता लीलाप्राणिनां स्वाभाविकी प्. ८७अ) न हि तत्र प्रयोजनमपि संभावयितुं शक्यते | दुःखोद्रेकेरोदन वत्सुखोद्रेकेहासगानादेः प्रयोजनरहितस्य सर्वानुभव सिद्धत्वात् | अत एव हसित रुद्रितादिषु कारणमेव पृच्छति न प्रयोजनं | उक्तं च मांडूक्य श्रुतौ | देवस्यैष स्वभावोयमाप्तकामस्य कास्पृहेति | एषः सृष्ट्यादि व्यवहार इत्यर्थः | किं च स्वप्न सृष्टिवन्मायामयी प्रपंच सृष्टिरस्माभिरुपेयते | न च तत्र प्रयोजन प्रष्णोन्याययस्वप्नसृष्टौ प्रयोजन प्रष्णादर्शनादिति भावः | ननु यद्यज्ञानं जीवस्योपाधिस्तर्हि व्यर्थमंतःकरणस्य जीवोपाधित्ववर्णनं सूत्रभाष्यादिषु तत्राह अज्ञानेति | विशेषाभिव्यक्ति स्थानमिति | अविद्या प्रतिबिंब चैतन्यरूपस्य सुषुप्ति साधारणस्य प्रमातृत्व कर्तृत्व भोक्तृत्वादि विशेषरूपेणया अभिव्यक्तिरुपलब्धिस्तस्याः स्थानमुपाधिरित्यर्थः || प्. ८७ब्) अतस्तस्य तदुपाधिकत्व व्यवहारोपि नैतावताः ज्ञानोपाधिपरित्यागः अंतःकरणोपाधिपरिछिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यूहाधिष्ठानत्वानुपपतेः || एतदुक्तं भवति | कर्तृत्वादि धर्माणां केवलाज्ञानपरिणामत्वा भावेन तदुपाधिमात्रान्नजीवस्य कर्तृत्वादि धर्मरूपविशेषलाभः किं तु कर्तृत्वादि विशेष वदंतःकरण तादात्म्याध्यासादेवतल्लाभ इति न तदुपाधिनिरूपणं व्यर्थमिति | अत इति | अंतःकरणस्य विशेषाभिव्यक्ति स्थानत्वाभ्युपगमादित्यर्थः | व्यवहारोपीति | कार्योपाधिरयं जीव इति श्रुतौ सूत्रभाष्यादिषु चेति शेषः | विभेदजनके ज्ञानेनाशमात्यंतिकं गते | आत्मनो ब्रह्मणोभेदमसंतंकः करिष्यतीति विष्णुपुराणवचने जीवस्याज्ञानोपाधिकत्व व्यवहारवदित्ययेरर्थः | ननु कार्योपाधिरयं जीव इति श्रुति वलादज्ञानोपाधि परित्याग उचितः कार्योपाधिकत्वविशेषणस्य कारणोपाधिकत्व व्यावर्तकत्वादित्याशंक्य स्मृतिविरोधान्न तस्य कारणोपाधिव्यावर्तकत्वमये यत इत्याशयेनाह | नैतावतेति | श्रुतौ कार्योपाधिकत्वविशेषणमात्रेणेत्यर्थः | ननु श्रुति विरोधे स्मृतेरेवान्यथा नयनमुचितं | तत् नयनप्रकार श्रेत्थं प्. ८८अ) स्मृतावज्ञानपदं तत्कार्यांतःकरणपरं जीवोपाध्यंतःकरणस्य नातात्वेप्यज्ञान इत्येक वचनं जात्यभिप्रायं तथा चांतःकरणावछिन्न आत्माजीवस्तदनवछिन्न आत्मा ईश्वर इति जीवब्रह्मविभागप्रयोजकमंतःकरणमिति स्मृत्यर्थो भविष्यतीति इमामाशंकां निवर्तयितुं कार्योपाधिमात्रस्य जीवतोपाधित्वं निराकरोति | अंतःकरणोपाधि परिछिन्नस्यैवेति नाज्ञानोपाधिकस्यैत्येव कारार्थः | अनुपपतेरिति कायव्यूहाधिष्ठानं हि युगपदनेकशरीर नियंतृत्वं तच्च योगिनो योगप्रभावान्निर्मितेषु सर्वशरीरेषु युगपदवथितस्य वक्तव्यं | नचांतःकरणावछिन्नरूपस्य योगिनस्तत्संभवति तस्य परिछिन्नतादक्षानस्य जीवोपाधित्वे तु तत्संभवति तस्य व्यापकत्वेन तदुपाधिकस्य योगिजीवस्य युगपत्सर्वशरीरेषु सन्निधानोपपतेस्तथा च श्रुत्यपेक्षयास्मृतेर्दुर्वलत्वेपि कायव्यूहाधिष्टान्वानुपपति सहितस्मृतेर्बलवत्वात् तदनुरोधेन कार्यापाधिरयं जीव इति श्रुतौ कार्योपाधिपदं स्वरूपकथनमात्र परं न कारणोपाधि व्यावर्तक विशेषण परमिति भावः || न च योगप्रभावात् | योगिनोंतःकरणं काय प्. ८८ब्) व्यूहाभिव्यक्ति योग्यं वैपुल्यं प्राप्नोतीति तदवछिन्नस्य काय व्यूहाधिष्ठानत्वं युज्यत इति वाच्यं | प्रदीपवदावेशस्तथा हि दर्शयतीति शास्त्रोपांत्याधिकरणभाष्यादिषु कायव्यूहे प्रतिदेहमंतःकरणस्य चक्षुरादि वद्भिन्नस्यैव योगप्रभावात् सृष्टेरुपवर्णनात् || वैपुल्यमिति व्यापकत्वमित्यर्थः | अधिष्ठानत्वमिति प्रेरकत्वमित्यर्थः | प्रदीपवदिति | यथा एकस्य प्रदीपस्यानेक वर्तिकावेशः तथा योगिनो योग प्रभवादनेकेष्वेकदा आवेशः यद्युपि प्रदीपस्य वर्त्याविष्टदीपानां च भेदोस्ति योगिनस्तु सर्वदेहेष्वैक्यमिति दृष्टांतदार्ष्टांतिकयोर्वैषम्यमस्ति | तथापि दीपत्वजात्यभेदं व्यक्तिश्चारोप्यतयोः संगतिरवगंतव्या तथाहि दर्शयति श्रुतिरेकस्य योगिनोनेकधाभावं स एकधा भवंति त्रिधा भवति पंचधा सप्तधेत्यादिका न च योगिनो युगपदनेक शरीरेष्ववस्थानमंतरेण श्रुतिसिद्धानेकधा भाव उपपद्यत इति सूत्रार्थः | सृष्टेरुपवर्णनादिति | तथा एकस्यैवांतः करणस्य कायव्यूहाभिव्यक्तियोग्यवैपुल्याभ्युपगमे भाष्यादि विरोध इति भावः | अत्र प्. ८९अ) यद्यपि योगिनो निजसिद्धांतःकरणमेव योगप्रभावाद्वैपुल्यं प्राप्यस्वावछिन्नचैतन्यरूपस्य योगिनः काय व्यूहाधिष्ठान भोगादिकं घटयतीत्येव भाष्यादीनां तात्पर्यं वक्तुमुचितं न तु यथा श्रुतं नानांतःकरणसर्गे आगंतुकानेकांतःकरणसृष्ट्युपगमे असत्कार्यवादापातात् कल्पनागौरवाच्च हिरण्यगर्भादीनां योगप्रभावादेवांडव्यापि समष्ट्यांतःकरणाभ्युपगमाच्च | न हि हिरण्यगर्भादीनां पूर्वजन्मनियजमानावस्थायां तदीयांतःकरणानां व्यापित्वे प्रमाणमस्ति | तथा सत्यस्मदाद्यंतःकरणानामपि व्यापित्वापतेः भाष्यादिषु अंतःकरणसृष्टिवर्णनस्यमतांतराभिप्रायत्वोपपतेश्च एषैव च योगशास्त्रेषु योगिनामनेक शरीरयोगप्रक्रियेति भाष्ये एवमतांतरोपदर्शनात् | योगशास्त्रेष्वेव च एष्य प्रक्रियेति | एव करान्वयोपपतेस्तथापि | शास्त्रोपांत्याधिकरण यथा श्रुतभाष्याद्यभिप्रायेणेदं दूषणमिति मंतव्यं || प्रतिबिंबे बिंबाद्भेदमात्रस्याध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वात् | न प्रतिबिंबरूप जीवस्य मुक्तान्वया संभव इति | न तदतिरेकेण प्. ८९ब्) मुक्तान्वयावछिन्नरूपजीवांतरं वा प्रतिबिंबजीवातिरिक्तं जीवेश्वर विलक्षणं कूटस्थ शब्दितं चैतन्यांतरं वा कल्पनीयं अविनाशीवारेऽयमात्मेति श्रवणं जीवस्य तदुपाधिनिवृतौ प्रतिबिंबभावापगमेपि स्वरूपं न विनश्यतीत्ये तत्परं न तदतिरिक्त कूटस्थ नाम चैतन्यांतरपरं || वस्तुतस्तु अंतःकरणावछिन्न चैतन्यं जीवस्तदनवछिन्नमीश्वर इति पक्षे अंडांतर्गत चैतन्यस्य सर्वात्सना तदवछेदादनवछिव चैतन्यरूपेश्वरस्थांडाद्वद्बहिरेव सत्वं स्यादि वक्ष्यमाणदूषणे तात्पर्यं | यदि वा नवछिन्न चैतन्मीश्वर इत्यनेन निरुपाधिकं चैतन्यमीश्वर इति विवक्षितं तदा तस्य सर्वत्र सत्वेनांडाद्भिरेव सत्वापति दोषाभावेपि कारणोपाधिरीश्वर इति श्रुति विरोधं दोषो दुर्वारस्तस्मात्कारणोपाधिकत्वमीश्वरवज्जिवस्याप्युपगंतव्यं स्मृत्यनुसारादिति स्थितं यत्तु चित्रदीपे प्रतिबिंबचैतन्यरूप जीवस्य स्वरूपतो मिथ्यात्वा तस्य मुक्त्यन्वयायोग इति तदन्वययोग्यं कूटस्थ नामकं जीवेश्वरविलक्षणं किंचिच्चैतन्य परिकल्प्य प्. ९०अ) चिच्चातुर्विध्यं दर्शितं | यदपि च दृक् दृश्य विवेके प्रतिबिंब मिथ्यात्वमेवाश्रित्य मुक्त्यन्वया यावछिन्न चैतन्यस्य पारमार्थिक जीवत्वं कल्पितं तदुभयमप्ययुक्तं | बिंबप्रतिबिंबयोर्भेदमात्रस्य कल्पिततया स्वतस्तयोर्भेदे मानाभावादित्याशयेनाह | प्रतिबिंबे बिंबादिति | स्वरूपस्य कल्पितत्व व्यवछेदो मात्र शब्दार्थः | न तदतिरेकेणेति | प्रतिबिंबजीवातिरेकेण जीवांतरं वा कूटस्थ शब्दित चैतन्यांतरं वा न कल्पनीयमिति संबंधः | एवं व्यावहारिक जीवातिरेकेण प्रातिभासिक जीवोपि न कल्पनीयः प्रमाणाभावान्नवव्यावहारिक जीवस्य स्वप्नकाले आवृतत्वेन तस्य तदा व्यवहर्तृत्वानुपपतिस्तत्कल्पने प्रमाणमिति वाच्यं | जीवचैतन्य आवरणाभावस्य साक्षिनिरूपणावसरे वक्ष्यमाणत्वेन जाग्रज्जिवस्य स्वप्नेपि व्यवहारकर्तृत्वोपपतेः योहं स्वप्ने श्रीकृष्णमद्राक्षंस एवेदानीं जाग्रत्पुनः तं स्मरामीति जाग्रत्स्वप्नदृष्टोरभेदप्रत्यभिज्ञानात् संस्कारोद्बोधाभावादि कारणवशादेव कदाचिद्ब्राह्मणत्वाद्यप्रतीत्युपपतेश्च न च स्वप्रपंचेन सह तदृष्टुर्वाध दर्शनं प्रातिभासिक जीवकल्पने प्रमाणमिति वाच्यं | प्रबोधकालेनाहं क्षत्रिय इत्यादि रूपवाध || प्. ९०ब्) जीवोपाधिनांतःकरणादिनावछिन्नं चैतन्यं बिंबभूत ईश्वर एवयोविज्ञानेतिष्वन्नित्यादि श्रुत्या ईश्वरस्यैव जीवसन्निधानेन दंतर्यामि भावेन विकारांतरवस्थान श्रवणादिति || क प्रत्ययस्यात्मन्यारोपित क्षत्रियत्वादि मात्रबाधकत्वेन स्वप्नद्रष्ट्रर्वाधत्वा भावादन्यथा पूर्वोदाहृत द्रष्ट्रैक्य प्रत्यभिज्ञा न विरोधातस्मात्प्रातिभासिक जीवकल्पनमपि प्रामाणिकं न भवतीति बोध्यं | यदपि चिच्चातुर्विध्यवादिभिरुक्तं तान्येवानुविनश्यति अविनाशी वा अरेयमात्मेति वाक्याभ्यां प्रकृते प्रज्ञान घनात्मनि विनाशित्वाविनाशित्वरूपविरुद्धधर्मद्वयप्रतिपादनातदुपपतये विनाशि प्रतिबिंब व्यतिरेकेण विनाशरहित कूटस्थ चैतन्यं सिध्यतीति तदपि मंदं | अविद्याप्रतिबिंबचैतन्यरूपे जीव एव प्रतिबिंबत्वरूपविशेषणांशताशाभिप्रायेण विनाशवचनस्य विशेष्य चैतन्यांशाभिप्रायेण विनाशाभाव प्रतिपादकवचनस्य चोपपतौ धर्मिभेद कल्पनस्य गौरवुपराहतत्वादित्याशयेनाह | अविनाशीवेति | न्वन्वविद्याप्रतिबिंबो जीवस्तत्बिंब ईश्वरः बिंबप्रतिबिंबानुगतचैतन्यं शुद्धचैतन्यमिति विवरणपक्षे देह प्. ९१अ) द्वयोपादानतया तदछिन्नस्य पारमार्थिक जीवनामकतया कूटस्थ नामकतया च चिच्चातुर्विध्यवादिभिरंगीकृतस्य चैतन्यस्य कुत्रांतर्भाव उपेयनेन तावज्जिवे शुद्धचैतन्येवांतभीवः संभवति तयोरुपादानत्वाभावेन देहद्वयोपादानकूटस्थस्य तयोरंतर्भावायोगान्नापि बिंबभूतेश्वरे तस्यांतर्भावः संभवति ईश्वरस्य जीव तदुपाध्यंतःकरणादि सन्निहिततया देहादि विकारेष्ववस्थाने प्रमाणाभावात् | कूटस्थनामक चैतन्यस्य च कूटस्थवादिभिस्तथा त्वांगीकारादित्यत आह | जीवोपाधिनेति | अविद्याप्रतिबिंबरूपजीवस्य विशेषाभिव्यक्ति प्रयोजकौपाधिनेत्यर्थः | प्राणचक्षुरादिकमादि पदार्थः | ईश्वर एवति | न शुद्धं ब्रह्मनापि प्रतिबिंबरूपजीव इत्येव कारार्थः | चेतनाचेतनात्मक निखिलप्रपंचोपादानत्व प्रतिपादक श्रुतिस्मृति सहस्रस्य बिंबभूतेश्वरस्य देहाद्युपादानतया देहादि विकारेष्वंतरवस्थाने प्रमाणत्वात् | कूटस्थस्य च ततो भेदे मानाभावादिति भावः न केवलमुपादानत्वप्रतिपादकशास्त्रमेव तत्र प्रमाणं किं तु चेतनाचेतनात्मक सकलजगन्नियंतृत्व प्रतिपादकमंतर्यामि ब्राह्मणमपि बिंबभूतेश्वरस्य प्. ९१ब्) विकारेष्वंतरवस्थने प्रमणमित्याह | यो विज्ञाने तिष्ठन्नित्या || अन्ये तु रूपानुपहित प्रतिबिंबो न युक्तः सुतरां च नीरूपे गगनप्रतिबिंबोदाहरणमयययुक्तं || दिश्रुत्येति | विज्ञानादंतरोयं विज्ञानं न वेदयस्य विज्ञानं शरीरं यो विज्ञानमंतरोयमयतीत्यादि वाक्यमादि पदेन गृह्यते | अत्र विज्ञानपदं जीवपरं बृहदारण्यके | माध्यंदिमपाठेय आत्मनि तिष्ठन्निति पर्याय स्थाने काण्वपाठे यो विज्ञाने तिष्ठन्निति पर्यायाम्ना न दर्शनेन काण्वपाठे विज्ञानपदस्य आत्मपद समानार्थकत्वावगमादात्मपदं चात्र जीवपरं तस्य तत्र रूढत्वादात्मपदस्य जीवेश्वर साधारणत्वेपि नियम्यत्वलिंगेन प्रकृते जीवपरत्वावश्यं भावादिति भावः | जीवसन्निधानेनेति | ईश्वरस्य जीवादि नियंतृत्वं हि व्यवहित राजादेः प्रजानियंतृत्ववत्र भवति | किं तु नियम्य जीवादि सन्निधानेनैव य आत्मनि तिष्ठन्निति सन्निधानप्रतीतेरित्यर्थः | अंतर्यामि ब्राह्मणवाक्यग्रहणं स्मृतेरप्युपलक्षणं | तथा च भगवद्गीता स्मृतिः ईश्वरस्सर्वभूतानाहृद्देशेर्ज्जनतिष्वति | भ्रामयन् सर्वभूतानियंत्रारूढानि प्. ९२अ) माययेति | भूतानि प्राणिनः यंत्रं शरीरं तदारूढत्वं तत्राहं ममाभिमान नवत्वं भ्रामयन्निति कर्मानुसारेण प्रवर्तयन्निवर्तयत्यर्थः | ईश्वरस्य नियंतृत्वं मायोपाधिकमेव न वास्तवमित्याशयेन माययेत्युक्तं | एवं चैतन्यस्य प्रतिबिंबत्वमुपगच्छताम्मतभेदेन जीवेश्वर विभागो दर्शितः | इदानीं तदमनभ्युपगंतॄणां मतेन जीवादि स्वरूपं दर्शयितुं चैतन्यस्य प्रतिबिंबं निराकरोति | अन्येतिति | रूपानुपहितेति | लोके रूपवत एव चंद्रादेः प्रतिबिंबो दृश्यतेन रूपरहितस्य वायवादेरिति व्याप्ति दर्शनान्नीरूप चैतन्यस्य प्रतिबिंबत्वासंभव इत्यर्थः | इतश्च चैतन्यस्य न प्रतिबिंबत्व संभव इत्याह | सुतरां नीरूप इति अविद्यांतःकरणादाविति शेषः | रूपवत् एव द्रव्यस्य प्रतिबिंब इति नियमस्य वक्ष्यमाणरीत्यागगने व्यभिचार सत्वेपि रूपवत्येवोपाधौ प्रतिबिंब इति नियमस्य न क्वचिदपि व्यभिचार इति मत्वासुतरामित्युक्तं | ननु नीरूपगगनस्य कूपजलतटाकादौ प्रतिबिंबानुभवान्निरूप द्रव्यस्य प्रतिबिंबाभाव इति नियमो नास्तीत्याशंक्याह | गगनेति | कूपजलादौ तावदा लोकप्रतिबिंबस्संप्रतिपन्नस्तस्मिन् गगनप्रतिबिंबत्वभ्रमो लोकानामिति कल्प्यतेन तु वस्तुतः तत्र गगन प्रतिबिंबोस्ति उक्त प्. ९२ब्) नियम विरोधात् || गगनाभोगव्यापिनि सवितृकरमंडले सलिले प्रतिबिंबिते गगनप्रतिबिंबत्व व्यवहारस्य भ्रममात्रमूलकत्वात् | ध्वनौवर्णप्रतिबिंबत्ववादोप्युक्तः व्यंजकतया सन्निधानमात्रेण ध्वनि धर्माणामुदात्तत्वादनां वर्णेष्वारोपोपतेर्ध्वनेर्वर्ण प्रतिबिंबोपाधिकत्व कल्पनायानिःप्रमाणकत्वात् || भ्रमप्रयोजकं दोषमाह | गगनाभोगव्यापिनीति आभोगो विस्तारः गगनो परिभागे व्याप्यवर्तमानस्य सवितृकिरणमंडलादेर्जले प्रतिबिंबदशनातदनुगगनस्य जले प्रतिबिंब भ्रम इत्यर्थः | ननु यथा वहिर्नीलं नभः विशालं नभ इत्यादि रूपेण गगनमनुभूयते | एवं कूपतटाकादि जलेपि नीलं नभो विशालं नभ इत्यादिरूपोनुभवस्सर्व संप्रतिपन्नः | न च कूपजलादौ प्रतीयमानवैशाल्यादि युक्तां नभो वस्तुतोस्मि | अतः प्रतिबिंबरूपमेव | तत्र दृश्यमानं नभो भवतीति वक्तव्यं | ततश्च कथं गगन प्रतिबिंबापलापः क्रियते | न च नीरूपस्य प्. ९३अ) प्रतिबिंबासंभवादिति वाच्यं | रूपसंख्या परिमाणादेर्नीरूपस्यापि प्रतिबिंब दर्शनान्न च द्रव्यत्वमपि विशेषणं विवक्षितमिति वाच्यं | सिद्धांते द्रव्यगुणादि परिभाषाया अनुभ्युपगमातदभ्युपगमपि गगनप्रतिबिंबानुरोधेन न रूपोपहित द्रव्यस्य प्रतिबिंबः तदुपहितत्वं च वस्तुतः स्वगतरूपेण स्वस्मिन्नारोपित रूपेण वेति नियमकल्पनोपपतेश्च | तथा च बहिरारोपित नैल्यादि विशिष्टगगनस्य जलादौ प्रतिबिंबाभ्युपगमेन किंचिद्बाधकं न च जलादौ संप्रतिपन्नालोकप्रतिबिंबातिरिक्त गगनप्रतिबिंबाभ्युपगमे गौरवमेव बाधकमिति वाच्यं | आलोकप्रतिबिंबे गगनप्रतिबिंबत्व भ्रमाभ्युपगमेपि तद्भ्रमविषयस्य आलोकप्रतिबिंबाधिकरणकस्य शुक्तिरूप्यादि वदनिर्वचनीयस्य गगनप्रतिबिंबत्वस्याभ्युपगंतव्यत्वेन गौरवस्य तुल्यत्वादनुभवानुसारि गौरवस्यादोषत्वाच्च तस्मादूपवत एव द्रव्यस्य प्रतिबिंब इति नियमस्य गगनप्रतिबिंबस्थले व्यभिचारो दुर्वार इति चेत्सत्यं | तथापि चैतन्यस्य प्रतिबिंबो न संभवति नीरूपांतःकरणादेः प्रतिबिंबोपाधित्वासंभवादित्यत्रैव तात्पर्यं | ननु नीरूपेपि ध्वनौ नीरूपद्रव्यात्मक वर्णानां प्रतिबिंबोस्तीति वक्तव्यं | तथा सत्येव दर्पणश्यामतायाः दर्पणगत प्रतिबिंबे प्. ९३ब्) मुख इवध्वनिगतानांतारत्वादीनां ध्वनिगतवर्ण प्रतिबिंबद्वारावर्णेष्वारोपस्संभवति नान्यथा | एवं नीरूपांतःकरणादौ नीरूपात्मनः प्रतिबिंबसंभव इत्याशंक्य दृष्टांतं विघटयति | ध्वनाविति प्रतिध्वनिरपि न पूर्वशब्दप्रतिबिंबः पंचीकरणप्रक्रियया पटहययोनिधिप्रभृति शब्दानां क्षिति सलिलादि शब्दत्वेन प्रतिध्वनेरेवाकाशशब्दत्वेन तस्यान्यशब्दप्रतिबिंबत्वायोगात् | वर्णरूपप्रतिशब्दोपि न पूर्ववर्ण प्रतिबिंबः वर्णाभिव्यंजकध्वनि निमित्तक प्रतिध्वनेर्मूलध्वनि वदेव वर्णाभिव्यंजकत्वेनोपपतेः | तस्मात् घटाकाशवदंतःकरणावछिन्नं चैतन्यं जीवः तदनवछिन्नं चैतन्यमीश्वरः || ननु पटहाख्य वाद्यविशेषादि शब्दोत्पति काले पाषाणविशेषादि सन्निहिताकाश प्रदेशेषु प्रतिध्वनि श्रूयते सः पूर्वशब्दप्रतिबिंब एव नमख्य ध्वनिस्तदुत्पत्तौ कारणाभावा तथा च यथा नीरूपाकाशप्रदेशेषुनीरूपध्वनेः प्रतिध्वनिनिरूपः प्रतिबिंबः प्. ९४अ) तथा प्रकृते किं न स्यादिति नेत्याह | प्रतिध्वनिरपीति | न च प्रतिध्वनेरुत्पादकाभावश्शंकनीयः आकाशस्यैवोपादानस्य सत्वात्पूर्वशब्दस्य निमितकारणस्य सत्वाच्च | न च प्रतिध्वनेः प्रतिबिंबत्वेप्याकाशगुणत्वं किं न स्यादिति वाच्यं | बिंबप्रतिबिंबयोर्भेदपक्षे प्रतिध्वनिरूप प्रतिबिंबस्य प्रातिभासिकत्वेन व्यावहारिक गुणत्वानुपपतैस्तदभेदपक्षे बिंबभूत पृथिव्यादिशब्द पेक्षया प्रतिधवनिरूप प्रतिबिंबस्य भेदाभावेन तस्याकाशगुणत्वानुपपतेरिति भावः | ननु वर्णरूप प्रतिशब्दस्य वर्णप्रतिबिंबत्वमवश्यं वाच्यं | न तु साक्षाद्वर्णरूपत्वं प्रतिवर्णाभिव्यक्ति स्थले वर्णव्यंजक कंठताल्वादेरभावा तथा च यथा तत्र पर्वत गुहादि सन्निहितेषु नीरूपेष्वाकाश प्रदेशषुनीरूपाणां वर्णानां प्रतिबिंबस्तथा प्रकृते किं न स्यादिति नेत्याह | वर्णरूपप्रतिशब्दोपीति | प्रतिध्वनिवदित्यपि शब्दार्थः कंठताल्वादि स्थलेपि न कंठादेर्वर्णव्यंजकत्वं किं तु कंठताल्वाद्यभिघातजन्यध्वनेस्तथा च यथा मूलध्वनिवर्णव्यंजकः | एवं प्रतिवर्णाभिव्यक्तिस्थले उत्पन्नः प्रतिध्वनिरेव तत्र वर्णानां व्यंजकः संभवतीति | न प्रतिवर्णानां प्रतिबिंबरूपत्वमभ्युपगंतव्यमित्यर्थः चैतन्यप्रतिबिंबनिराकरणमुपहरति | तस्मादिति | चैतन्य प्. ९४ब्) प्रतिबिंबा संभवादित्यर्थः || न चैव मंडांतर्वर्तिनश्चैतन्यस्य ततदंतःकरणोपाधिभिः सर्वात्मनाजीवभावेनावछेदा ततदवछेदरहित चैतन्यरूपस्यैश्वरस्यांडाद्बहिरेव सत्वं स्यदिति यो विज्ञाने तिष्ठन्नित्यादावंतर्यामि भावेन विकारांतरवस्थान श्रवणं विरुध्यते | प्रतिबिंबपक्षेत जलगतस्वाभाविकाशे सत्येव प्रतिबिंबाकाश दर्शनादेकत्र द्विगुणीकृत्य वृतिरुपपद्यते इति वाच्यं | यतः प्रतिबिंबपक्षेपि उपाधावनंतर्गतस्यैव चैतन्यस्य तत्र प्रतिबिंबाच्यः | न तु जल चंद्रन्यायेन कृत्स्न प्रतिबिंबः तदंतर्गत भागस्य तत्र प्रतिबिंबासंभवात् | न हि मेघावछिन्नस्याकाशस्यालोकस्य वा जले प्रतिबिंबवत् जलांतर्गतस्यापि तत्र प्रतिबिंबो दृश्यते न वा मुखादीनां बहिस्थिति प्. ९५अ) समये इव जलांतर्निमज्जनेपि प्रतिबिंबोस्ति || अंतःकरणानवछि चैतन्यस्येश्वरत्वे अंतःकरणादिषु सर्वविकारेषु परमेश्वरस्यांतर्यामि भावेनावस्थान प्रतिपादक श्रुति विरोधं शंकते | न चैवमिति | विरुध्यत इति | तथा च श्रुति विशेधपरिहाराय प्रतिबिंबपक्ष एव स्वीकर्तव्य इति भावः प्रतिबिंबपक्षाश्रयणेपि श्रुति विरोधमाशंक्याहं | प्रतिबिंबपक्षेत्विति | तु शब्दसूचितं विशेषमेव दर्शयति | जलगतेति द्विगुणीकृत्येति | प्रतिबिंबरूपजीवभावेन तदुपाध्यंतर्यामि भावेन चेत्यर्थः | प्रतिबिंबपक्षेपि अंतर्यामि ब्राह्मणविरोधो दुष्परिहर इत्याह | यत इति | यत ईश्वरे अंतर्यामि ब्राह्मणां तस्याभावस्तुल्योतो न च वाच्यंमिति संबंधः | तत्रेति | अंतःकरणादावित्यर्थः | ननु यथा जले कृत्स्नस्य चंद्रमंडलस्य प्रतिबिंबस्तथा कृत्स्नस्यैव चैतन्यस्यांतःकरणादौ प्रतिबिंबोस्तनतूपाध्यनंतर्गत चैतन्यभागस्यांडाद्बहिर्भूतस्य तथा च बिंबभूतेश्वरस्यांडातरेपि सत्वान्नांतर्यामि ब्राह्मणविरोधतौल्यमिति नेत्याह | न त्विति | असंभवमेव दर्शयति | न हीति | आलोकस्य वेति बहिस्थितस्येति शेषः जलांतर्गतस्यापीत्या प्. ९५ब्) काशादेरित्यनुषंगः तत्रेति जलादावित्यर्थः उदाहरणांतरमाह | नवेति || अतो जलप्रतिबिंबं प्रतिमेघाकाशादेरिवांतःकरणाद्युपाधि प्रतिबिंबं प्रतितदनंतर्गतस्यैव बिंबत्वं स्यादिति बिंबभूतस्य विकारांतरवस्थानायोगादीश्वरेंतर्यामि ब्राह्मणांजस्याभावस्तुल्यः ततः किं तत्राह | अत इति | उपाध्यंतर्गतभागस्य तत्र प्रतिबिंबा संभवादित्यर्थः | तदनंतर्गतस्यैवेति चैतन्यस्येति शेषः | दृष्टानुरोधित्वात्कल्पनाया इति भावः विकारांतरिति | अंटांतर्गत चैतन्यभागस्य उपाध्यांतर्गतत्वातद्बहिस्थितस्यिव चैतन्यस्य बिंत्वं वाच्यंमिति बिंबभूतेश्वरोप्यंडात् बहिरेव स्यादित्यर्थः | यदि च प्रतिबिंबपक्षे ईश्वरस्य सर्वांतर्यामित्वप्रतिपादक श्रुत्याद्यनुसारेण लोकदृष्टिमनादृत्यकृत्स्न चैतन्यप्रतिबिंबमुपेत्यांतर्यामि ब्राह्मणांजस्यमुपपाद्यते | तदा नवछिन्नचैतन्यमीश्वर इति पक्षेप्यंतःकरणाभावावछिन्नचैतन्यमीश्वर इति विवक्षितमंतःकरणस्य कल्पितत्वैन चैतन्येतःकरणाद्यवछेदेनाप्यंतःकरणाभावस्य वास्तवस्य मत्वेन प्. ९६अ) तदवछिन्नचैतन्यरूपेश्वरस्य सर्वविकारांतरवस्था न संभवा तत्प्रतिपादक ब्राह्मणांजस्य तुल्यमिति | समाधानं बोध्यं | अभावस्यापीश्वरोपाधित्वमुक्तं | तृप्तिदीपे | अंतःकरणसाहित्यराहित्याभ्यां विशिष्यते | उपाधिं जीवभावस्य ब्रह्मतायाश्च नान्यथा | यथा विधिरुपाधिः स्यात् | प्रतिषेधस्तथा न किं सुवर्णलोहभेदेन शृंखलात्वं न भिद्यते अतद्व्यावृतिरूपेण साक्षाद्विधि मुखेन च वेदांतानां प्रवृतिः स्यात् द्विधेत्याचार्य भाषितमिति | श्लोकानामयमर्थः | जीवत्व ब्रह्मत्वयोरुपाधिरंतःकरणसाहित्यराहित्याभ्यां विशिष्यते भिद्यते तत्साहित्यं जीवत्वोपाधिः | तद्राहित्यं ब्रह्मताया उपाधिरिति जीवेश्वरोपाधिभेद इत्यर्थः | नान्यथा न प्रकारांतरेण जीवभावाद्युपाधिरित्यर्थः | ननु भावस्यैवोपाधित्वं नाभावस्येत्याशंक्य विनिगमनाविरहमाह | यथेति | भाववदभावस्य व्यावर्तकोपाधित्वे विशेषो नास्तीत्यत्र दृष्टांतमाह | सुवर्णेति | शृखलात्वं नामयथेष्टसंचारव्यावर्तकत्वं | ननु भावरूपांतःकरणादेर्द्रष्ट्रत्वादिरूपेण जीवोपलब्धि साधनत्वा तस्य जीवोपाधित्वं युक्तमित्याशंक्यतर्ह्यंतःकरणनिषेधस्यापि ब्रह्मोपलब्धि साधनं त्वात् तस्य ब्रह्मोपाधित्वं युक्तमित्यभिप्रेत्यत तदुपाधि प्. ९६ब्) निषेधस्य ब्रह्मोपलब्धि साधनत्वं भाष्यकारैरुक्तमित्याह | अतद्व्यावृतीति | अत्र तत् शब्देन ब्रह्मोच्यते तत्र भवतीत्यतदंतःकरणादि रूपमुपाधिजातं तस्या ततो व्यावृतिर्निषेधः तत् रूपेण तद्बोधनद्वारेणेत्यर्थः | साक्षाद्विधिमुखेन च बुद्धेस्साक्षीमनसस्साक्षी सर्वस्य साक्षी पश्यन् शृण्वन्मन्वान इत्यादि प्रकारेण च प्रवृतिर्बोधकतया ब्रह्मणि तेषां प्रा एतेनावछिन्नस्य जीवत्वे कर्तृभोक्तृसमययोस्तत्र तत्रांतःकरणावछेद्य चैतन्यप्रदेशस्य भिन्नत्वात्कृतहानाकृताभ्यागमप्रसंग इति निरस्तं प्रतिबिंबपक्षेपि स्वानंतर्गतस्य स्वसन्निहितस्य चैतन्यप्रदेशस्यांतःकरणे प्रतिबिंबस्य वक्तव्यतया तत्र तत्रांतःकरणस्य गमने बिंबभेदा तत्प्रतिबिंबस्यापि भेदावश्यं भावेन दौषतौल्यात् | न चांतःकरणप्रतिबिंबो जीव इति पक्षे दोषतौल्येप्यविद्याप्रतिबिंबो जीवः तस्य च तत्र तत्र गत्वरमंतःकरणं जलाशय व्यापिनो महामेघमंडल प्रतिबिंबस्य तदुपरिवि- प्. ९७अ) सृत्वरस्फीतालोक इव तत्र विशेषाभिव्यक्तिहेतुरिति पक्षेनायं दोषः | अंतःकरणवदविद्याया गत्यभावेन प्रतिबिंबभेदानापतेरिति वाच्यं || माण्यमिति | तथा च उक्तरित्याप्रतिबिंबावछेदपक्षयोरुभयोरपि अंतर्यामि ब्राह्मणांजस्याभावांजस्ययोस्तुल्यत्वे सति सुतरां नीरूप इत्यादिना चैतन्यप्रतिबिंबा संभवस्य दर्शितत्वात्प्रतिबिंबपक्षंत्यक्ता अवछेद पक्ष एवादरणीय इति भावः | एवमवछेदपक्षे दोषांतरमपि वक्ष्यमाणदोषतौल्यादि नैव निरस्तमित्याह | एतेनेति | स्वानंतर्गतस्येति | प्रागुक्तयुक्तिरत्रानुसंधेया स्वसन्निहितस्येति विशेषणस्या यमभिप्रायः यदि सर्वेष्वंतःकरणेषु तदनंतर्गतस्यांडाद्रबहिर्विद्यमानस्यैव चैतन्यभागस्यैकस्य प्रतिबिंबस्संभवेत् | तदा बिंबचैतन्य प्रदेशभेदाभावात् | प्रत्यंतःकरणं बिंबचैतन्य प्रदेश भेदेन प्रतिबिंबभेदापादनेन संभवेत् | न च तथा संभवति व्यवहितस्य प्रतिबिंबायोगात् किं तु तत्र तत्रांतःकरणे सन्निहितस्यैव चैतन्य प्रदेशस्य बिंबत्वं वाच्यं | ततश्चेह परत्र च प्रतिबिंबभेदापादनं युक्तमिति | दोषतौल्यादिति | कृतहानाकृताभ्यागमप्रसंगदोषतौल्यादित्यर्थः | अविद्यायां प्. ९७ब्) चित्प्रतिबिंब ईश्वरः अंतःकरणे चित्प्रतिबिंबो जीव इति पूर्वप्रदर्शिते संक्षेप शारीरकपक्षै दोष तौल्येपि विवरणादि पक्षे उक्त दोषाप्रसक्तेस्तस्योपादेयत्वं स्यादिति शंकते | न चेति | गत्वरंगमनशीलं तदुपरीति जलाशयोपरीत्यर्थः | विसृत्वरेति | यथा तत्र तत्र जल प्रदेशेषु विसृत्वरोगमनशीलो मेघछिद्रेभ्यो निसृतः स्फीतालोकखंडो महामेघमंडल प्रतिबिंबस्य जलाशय व्यापकस्य विशेषेण स्फुरणहेतुस्तथा तत्र तत्रेह परत्र च कर्तृत्वभोक्तृत्वादि विशेषाभिव्यक्ति हेतुरंतःकरणमिति पक्ष इत्यर्थः | कृतहानादि दोषाभावे हेतुमाह | अंतःकरणवदिति || तथैवावछेदपक्षेप्यविद्यावछिन्नो जीव इत्यभ्युपगमसंभवात् | तत्राप्येकस्य जीवस्य क्वचित्प्रदेशे कर्तृत्वं प्रदेशांतरे भोक्तत्वमित्येवं कृतहानाकृताभ्यागमदोषापनुतये वस्तुतो जीवैक्यस्य शरणीकरणीयत्वेन तन्न्यायादंतःकरणोपाधिपक्षेपि वस्तुतश्चैतन्यैकस्य तदवछेदकोपाध्यैकस्य च तत्राभ्युपगमेन दोषनिराकरणसंभवाच्च || प्. ९८अ) यदि प्रतिबिंबवादिनांतःकरणप्रतिबिंबो जीव इति पक्षमुक्तदोषतौल्येन परित्यज्याविद्याप्रबिंबो जीव इति पक्षः स्वीक्रियते | तदा अवछेद वादिनापि | अंतःकरणावछिन्नो जीव इति पक्षं कृतहानादि दोषयुक्तं त्यक्ता उक्तदोषरहितमविद्यावछिन्नो जीव इति मतमुपादीयत इत्याह | तथैवेति | जीव इति | उपलक्षण चैतत् अविद्यायाः कल्पितत्वेन वास्तव तदभावावछिन्नश्चिदात्मा ईश्वर इत्युपगमसंभवाच्चेत्यपि द्रष्टव्यं एवमविद्याप्रतिबिंबो जीव इति पक्षे कृतहानादिदोषाभावमुपेत्यतत्साम्यमविद्यावछिन्नस्य जीवत्वपक्षे दर्शितमिदानीमंतःकरणावछेदपक्षे कृतहानादिदोषाभावं समर्थयितुमविद्या प्रतिबिंबो जीव इति पक्षेपि कृतहानादिदोषमाशंक्यपरिहरति | तत्रापीति | अविद्याप्रतिबिंबो जीव इति पक्षेपीत्यर्थः | क्वचित् प्रदेश इति | ब्राह्मणादि शरीरगतांतःकरणावछिन्नप्रदेश इत्यर्थः | प्रदेशांतर इति | देवादि शरीर गतांतःकरणावछिन्नप्रदेश इत्यर्थः | वस्तुत इति | प्रदेशभेदे सत्यपि इह परत्र च अविद्याप्रतिबिंबरूपजीवैक्यमात्रेण कृतहानादि दोषः परिहर्तव्यः | प्रतिबिंब वादिनागत्यंतराभावादित्यर्थः | सोयं परिहारप्रकारोंतष्करणावछेदपक्षेपि समान इत्याह | प्. ९८ब्) तच्छा?यादिति | वस्तुत इति | इह परत्र चांतष्करणावछेद्यचैतन्यप्रदेशभेदेपि चैतन्यस्य वस्तुत एकत्वात् | न कृतहानादि दोष इत्यर्थः | ननु वास्तव चैतन्यैक्यमात्रस्य जीवांतरसाधारणत्वादन्यकृत कर्मणोन्यस्य भोगप्रसंग इत्यत आह | तदवछेदकेति | तत्पदं चैतन्यपरं | तथा चैकांतष्करणावछिन्न चैतन्यमेको जीवः अंतःकरणांतरावछिन्नचैतन्यमन्यो जीव इति स्वीकारात्रोक्ताति प्रसंग इति भावः | अस्मिन्नवछेदपक्षे प्रायुक्तरीत्या वास्तवांतष्करणाभावावछिन्न चैतन्यमीश्वरः | कारणोपाधिरीश्वर इति | श्रुत्यनुरोधेनाविद्यावछिन्नचैतन्यं वा ईश्वर इति बोध्यं || न चावछेदपक्षे यथा ह्ययंज्योतिरात्माविवस्वानयो भिन्नाबहुधैकोनुगछन् उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमात्मा | अत एव चोपमासूर्यकादि वदिति श्रुतिसूत्राभ्यां विरोधः | अंबुवदग्रहणात्नुन तथात्वमित्युदाहृत सूत्रानंतरसूत्रेण || अस्य पक्षस्य श्रुति सूत्राभ्यां विरोधं शंकते | न चावछेदपक्ष इति | यथा एको विवस्वान् पात्रभेदेन भिन्ना अपो अन प्. ९९अ) गछन् वहुजलपात्रेषु प्रतिबिंबितस्सन्निति यावद्बहुधाभेदरूपः क्रियते औपाधिकं नानात्वं प्रतिपद्यते एवं देवः स्वप्रकाश आत्मास्वत एकस्सन् क्षेत्रेषूपाधिषु प्रतिबिंबितो भेदरूपः क्रियते नानात्वं लभ्यत इति यावत् | यथा एकस्य सूर्यस्य बहुषूपाधिषु प्रतिबिंबितत्वप्रयुक्तो भेद एवमात्मनोपि क्षेत्रेषु प्रतिबिंबित्वत प्रयुक्तमेव नानात्वमिह विवक्षैतमिति वक्तव्यमन्यथा दृष्टांत दार्ष्टांतिकयोरतुल्यत्वापत्यातयोरसामंजस्य प्रसंगा तथा चावछेदपक्षः श्रुतिविरुद्ध इत्यर्थः | एवमेक एव तु भूतात्माभूते भूते व्यवस्थितः | एकधा बहुधा चैव दृश्यते जल चंद्रवत् रूपं रूपं प्रतिरूपोवभूव जीवेशावाभासेन करोतीत्यादि श्रुतयोपि चैतन्यस्य प्रतिबिंबावगमकत्वेन द्रष्टव्याः भूतानां ब्रह्मादिस्तंवपर्यंतानामात्मास्वरूपभूतः परः भूते भूत इति वीप्सया ये सर्वे प्रतिबिंबोपाधयो गृह्यंते तेषु प्रतिबिंबित तया व्यवस्थितस्सन् बहुधा दृश्यते | स्वतस्तशास्त्रादेकधा दृश्यते | रूपशब्द उपाधिपरः | अत्रापि विशासर्वोपाधिसंग्रहार्था प्रतिरूपः प्रतिबिंबः पुरुषप्रतिबिंबे पुरुषप्रतिरूपोयमिति प्रयोगदर्शनात् | त्रितीयाध्यायगतसूत्रमुदाहररति | अत एवेति | यतश्चिदात्मनः स्वाभाविकमेकत्वं नानात्वं चौपाधिकं श्रुतिषु विवक्षितमत एव तस्यौपाधिक प्. ९९ब्) नानात्वे जलादिषु प्रतिबिंबित सूर्यादिर्दृष्टांतत्वेन श्रुतिषूपादीयत इति सूत्रार्थः | रूपं रूपमिति | श्रुतौ प्रतिरूपशब्दो न प्रतिबिंबवाचकः वायुर्यथैकोभवनं प्रविष्टो रूपं रूपप्रतिरूपोवभूवेत्यादौ व्यभिचारादतः सूर्यादि प्रतिबिंबदृष्टांत स्वारस्यादेव चैतन्यप्रतिबिंबो वक्तव्यस्तं प्रतिबिंबं स्वयमेव सूत्रकृदाक्षिपति अंबुवदिति || यथा सूर्यस्य रूपवतः प्रतिबिंबोदय योग्यं ततो विप्रकृष्टदेशं रूपवज्जलं गृह्यते नैवं सर्वगतस्यात्मनः प्रतिबिंबोदययोग्यं | किंचिदस्ति ततो विप्रकृष्टमिति प्रतिबिंबासंभवमुक्त्वा वृद्धिह्रासभाक्त्वमंतर्भावादुभयसामंजस्यादेवमिति | तदनंतरसूत्रेण यथा जलप्रतिबिंबितः सूर्यौजलवृद्धौ वर्धते इव जलह्रासे ह्रसतीवजलचलने चलतीवेति तस्याध्यासिकं जलानुरोधिवृद्धिह्रासादि भाक्तं तथात्मनोंतष्करणादिनावछेदेनोपाध्यंतर्भावादाध्यासिकं तदनुरोधि वृद्धिह्रादि भाक्तमित्येवं दृष्टांतदार्ष्टांतिकयोः प्. १००अ) सामंजस्यादविरोधः इति स्वयं सूत्रकृतैवावछेदपक्षे तयोस्तात्पर्य कथनात् || सूत्रे दृष्टांतभागस्यार्थमाह | यथेति | प्रतिबिंबोदय योग्यत्वं स्वछत्वं | उपाध्यंतर्गतस्य न तत्र प्रतिबिंब इत्याशयेनाह | तत इति | बिंबभूतसूर्यापेक्षयेत्यर्थः | दार्ष्टांतिकभागं व्याचष्टे | नैवमिति | न तथात्वं चिदात्मनः प्रतिबिंबित सूर्यादि तुल्यत्वं नास्ति कुतः | अग्रहणात् अंतःकरणादेरात्मप्रतिबिंबोदय योग्यत्वेनाग्रहणात् | नह्यंतःकरणमात्मापेक्षया विप्रकृष्टदेशवत्सर्वगतत्वादात्मनः नापि तदुद्भूतरूपवदनंगीकारात् | चिदात्मनोपि सूर्यादिवद्बिंबत्व योग्यत्वेनाग्रहणाच्च | तस्य नीरूपद्रव्यत्वातस्मात्प्रतिबिंबित सूर्य चिदात्मनोर्दृष्ट्यांतदार्ष्टांतिकभावानुपपतिरिति | तु शब्दार्थः | दृष्टांतदार्ष्टांतिकयोः प्रतिबिंबितत्वांशेन साम्याभावेपि न तद्भावविरोधोस्तीति विवक्षितांशेन साम्यस्या तत्रापि संभवात् | न हि तयोस्सर्वसाम्यं क्वचिदपि संभवति | तथा सति दृष्टांतदार्ष्टांतिक भावोछेदप्रसंगादित्यभिप्रेत्यविवक्षितांशसाम्यं सूत्रकृद्दर्शयति | वृद्धिह्रासेति | तदनंतरेत्यत्र तत्पदमंबुवदिति सूत्रपरं सूत्रं व्याचष्टे यथेति आध्यात्मिकमिति भ्रांतिसिद्धमित्यर्थः | तथेति | चिदात्मनो बुद्ध्याद्यवछिन्नतया बुद्ध्याद्युपाधावंतर्भावात् | गजादि प्. १००ब्) शरीरेंतष्करणवृद्धौ चिदात्मा वर्द्धते इवमशकादि शरीरेंतष्करणह्रासे ह्रसत इव तच्चलने चलत इव तद्भेदे भिन्न इव च भाति | तथा च श्रुतिः ध्यायती वलेलायति वेति | बुद्धौ ध्यायंत्यामात्माध्यायतीवतस्यांचलंत्यामात्मा चलतीव न तु वस्तुतो ध्यांयति चलति वेत्यर्थः | एवमध्यास सिद्धमंतष्करणानुरोधिवृद्ध्यादि मत्वमात्मनोत्र विवक्षितं साम्यमित्यर्थः | तयोरिति | चैतन्यस्य प्रतिबिंबितत्व गमक श्रुति तन्मूलकसूत्रयोः पूर्वमुदाहृतयोरित्यर्थः || घट संवृतमाकाशंनीयमाने यथा घटे घटोनीयेतनाकाशं तद्वज्जीवो नभोपमः अवछेदपक्षे न केवलं श्रुतिसूत्रविरोधाभाव एव किंतु श्रुति सूत्रानुग्रहोप्यस्तीत्याह | घटसंवृतमिति | घटसंवृतं घटावछिन्नमाकाशं प्रसिद्धमस्ति तच्च घटे नीयमानेपि न नीयते यथा यं दृष्टांतः | तद्वज्जीवो नभोपमः नभसः तुल्यः एतदुक्तं भवति | जीवस्य नभो यमशब्देन घटसंवृताकाशतुल्यत्वमभिदधता अवछिन्न चैतन्यरूपत्वमक्तमिति | एवं प्रवेश श्रुतिरपि चिदात्मनो बुध्याद्यवछेदकतमेव दृष्टत्वादि धर्मलाभं दर्शयति | न प्रतिबिंबभावकृतं | तथाहि | स एष इह प्रविष्ट आनखाग्रेभ्य इत्युपक्रम्य प्. १०१अ) प्राणन्नेव प्राणों नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मन इति पुरुष विध ब्राह्मणे श्रूयते अयमर्थः सूः सर्ववेदांतेषु प्रसिद्धः एषः नामरूपव्याकृर्तृत्वेन सन्निहितः इह कार्यकारण संघाते नखाग्रमवधीकृत्य प्रविष्टः | ननु यथा देवदतस्य ग्रहे | सर्पस्य वा विले प्रवेशः प्रसिद्धः न तथा आत्मनः प्रवेशः कल्पयितुं शक्यते | तस्य सर्वगतत्वान्नापि जलामत्रेषु सूयादिरिव प्रतिबिंबभावलक्षणः प्रवेशः संभवति | तस्य तैतिरीयकादौ प्रवेशवाक्यविचारावसरे भाष्यकारे रेवनिरस्तत्वादतः कीदृशः प्रवेशः प्रविष्टपदेन विवक्षित इति जिज्ञासायां यथा जले प्रतिबिंबभावेन प्रविष्टस्य सूर्यादेस्तद्धर्मवतया उपलभ्यमानत्वमस्ति | एवमात्मनः संघाते अधिष्ठानतया प्राक् सिद्धस्यैव प्राणाबुध्यादि धर्मवतया उपलभ्यमानत्वमेव प्रकृते प्रविष्टपदेन विवक्षितं न तु मुख्यः प्रवेश इति मन्वानाश्रुतिः स्वयमेव प्रविष्टपदं व्याचष्टे | प्राणन्नेवेत्यादिना | प्राणम् प्राणचेष्टां प्राणोपाधि द्वारा कुर्वन् प्राणस्य प्राणमित्यादि श्रुतौ द्वितीय प्राणपदवाच्यो भवति | वदन् वागिन्द्रिय व्यापारं कुर्वन् वाचो हि वाचमित्यादि श्रुतौ द्वितीय वाक् शब्दवाच्यो भवति | रूपं पश्यन् रूपगोचर चाक्षुषवृतमंतष्करणतादात्म्यापत्याकुर्वन् चक्षुषा चक्षुरित्यादि श्रुतौ द्वितीय चक्षुश्शब्दवाच्यो भवति शृणन् शब्दगोचरां श्रोत्रकरणिकां प्. १०१ब्) वृत्तिमंतेष्करण तादात्म्यापत्यैव कुर्वन् श्रोत्रस्य श्रोत्रमित्यादि श्रुत्वौ द्वितीय श्रोत्रशब्दवाच्यो भवति मन्वानो मननरूपां चक्षुरादि निरपेक्षां वृतिं कुर्वन् मनसो मन इत्यादि श्रुतौ द्वितीय मनः शब्दवाच्यो भवति चक्षुरादि व्यापार ग्रहणं कार्यकारणसंघात व्यापारमात्रस्योप्रलक्षणं || अंशो नानाव्यपदेशादिति श्रुति सुत्राभ्यामवछेद पक्षस्यैव परिग्रहाच्च || संघात धर्माणां सर्वेषामात्मन्युपलभ्यमानत्वान्नन्वेवमप्यवछेद पक्षस्य द्वितीयाध्याय गतेन आभास एव चेति सूत्रेण तद्भाष्येण च विरोधो दुर्वारस्तयोश्चैतन्य प्रतिबिंबस्य स्वयमुक्तत्वात् | सूत्रार्थस्तु | आभास एव जीवः परमात्मनः प्रतिबिंब एव न निरुपाधिकः परमात्मैव जीवः | नापि न्यायमत इव परमात्मनस्सकाशादत्यंतभिन्नः तत्वमस्याद्यभेद श्रुतिविरोधात् | प्रतिबिंबस्य वस्तुतो बिंबाभिन्नत्वेन नाभासत्व पक्षे उक्त श्रुतिविरोध इति च शब्दार्थ इति | चेनु | उदाहृत सूत्रतद्भाष्ययोरुक्त प्रतिबिंबपक्षस्य भोक्तापतेरविभागश्चेत्स्यालोकवदिति सूत्रोक्त सिद्धंतवन्मतांतरत्वोपपतेर्न च तथा कल्पने किं विनिगमकमिति वाच्यं तृतीयाध्याये स्वयं सूत्रकृतैव न्याय पूर्वकं कृतस्य चैतन्य प्रतिबिंब निरासस्य नियामकत्वादाभाससूत्रे च जीवस्य प्. १०२अ) प्रतिबिंबत्वे उपपत्यादेरनुपन्यासाच्च भोक्तापति सूत्रस्यायमर्थः | सर्वखल्विदं ब्रह्मेति श्रुत्याप्रपंचस्य ब्रह्माभेदः प्रतिपाद्यते | अहं ब्रह्मास्मीति श्रुत्या अहंशब्दार्थभूतभोक्तृवर्गस्य च ब्रह्माभेदः | प्रतिपाद्यते | तथा च श्रुति द्वयानुसारेण भोक्तृभोग्य प्रपंचयोरेक ब्रह्माभेदस्वीकारे भोग्य प्रपंचस्य भोक्तापतेर्भोक्तभेदापतेरेवं भोक्तुरपि भोग्याभेदापतेरेक ब्रह्माभिन्नयोस्तयोः परस्परमप्यभेदावश्यं भावान्नचेष्टापतिस्तथा सत्य विभागः प्रसज्येत भोक्तृभोग्ययोर्विभागबोधकप्रत्यक्षादि विरोधः प्रसज्येतेति चेदुच्यते | श्रुति सिद्धं भोक्तृभोग्ययोरेक ब्रह्माभिन्नत्वं तयोः प्रत्यक्षादि सिद्धं परस्परं विभक्तत्वं चेत्युभयं लोकवत्स्यादुपपद्यते | यथालोके | एकसमुद्रविकाराणां फेनबुद्बुदतरंगाणामेक समुद्राभिन्नत्वं परिणामानां परिणाम्यभेदस्यानुभव सिद्धत्वात् | तेषामेव फेनादीनां परस्परं भिन्नत्वं चास्ति भेदस्यानुभवसिद्धत्वादेवमेकब्रह्मपरिणामयोर्भोक्तृभोग्ययोरेक- ब्रह्माभिन्नत्वं परस्परं भिन्नत्वं चोपपद्यत इति न अद्वैत श्रुतीनां प्रत्यक्षादि विरोध प्रसक्तिरित्ययं च विरोधपरिहारो न सिद्धांत संमतः कूटस्थ नित्यस्य ब्रह्मणः परिणामित्वानुपगमात् | किं तु मतांतराभिप्रायेणेति भाष्यादिषु घंटाघोषः तथा प्रकृतेपीति संक्षेपः | अंश इति | जीव ईश्वरस्यांशः कुतः नानाव्यपदेशात् | प्. १०२ब्) य आत्मानमंतरोयमयतीत्यादि श्रुतिषु | नियम्यनियामकभावादीनां जीवेश्वरयोर्नानात्वस्य भेदस्य व्यपदेशादिति सूत्रभागस्याक्षरार्थः अत्रांशत्वं जीवचैतन्यस्य घटाकाशवदंतःकरणावछिन्नत्व रूपं विवक्षितं न तु मुख्यामंशत्वं | निरवयवस्य ब्रह्मणो मुख्यांशा संभवादिति तदधिकरणभाष्ये स्फुटमिति भावः || तस्मात्सर्वगतस्य चैतन्यस्यांतष्करणादिनावच्छेदोवश्यं- भावीत्यावश्यकत्वादवछेदो जीव इति पक्षं रोचयंते | अपरे तु न प्रतिबिंबोनाप्यवछेदो जीवः किं तु कौंतेयस्यैवराधेयत्ववदविकृतस्य ब्रह्मण एवाविद्ययाजीवभावः || अवछेद पक्षसमर्थनमुपसंहरति | तस्मादिति | प्रतिबिंबा संभवात् | अवछेदपक्षे विरोधाभावात्साधक सत्वाच्चेत्यर्थः | अवछेदा चैतन्यस्य प्रतिबिंबपक्षेपि सम्मततया उभयसंप्रतिपन्नस्य तस्यैव जीवत्वादि कल्पनं युक्तं लाघवादित्याशयेनाह | अवछेदोवश्यंभावीति | अवछेद इति | अंतःकरणावछिन्नो जीवः जीवग्रहणमुपलक्षणं | अविद्यावछिन्न ईश्वरः कार्योपाधिरयं जीवः कारणोपाधिरीश्वर इति श्रुतेर्जीवेशावाभासेन करोति माया च विद्या च स्वयमेव भवतीति श्रुतौ च आभास प्. १०३अ) पदमवछिन्नपरं प्रतिबिंबासे भवस्योक्तत्वात् | माया पदं च प्रथमोपातजीवोपाधिभूतांतःकरणपरं कार्योपाधिरयं जीव इति श्रुतेरेव | मायापदोपातांतष्करणस्य च मूल प्रकृत्यात्मकत्वं प्रकृतिविकार भावप्रयुक्तं | पूर्वमनवछिन्नस्येश्वरत्वोक्तिस्तृप्ति दीपवचनानुसारेणाभावावछिन्नस्येश्वरत्वोक्तिश्च संभवमात्रेण न तु तात्पर्य तष्कारणोपाधिरीश्वर इति श्रुति विरोधात् | अनवछिन्नस्य ईश्वरत्वपक्षे तु तस्योपाध्यभावेन सर्वज्ञानकर्तृत्वादेरसंभवाच्चाभावस्य ईश्वरोपाधित्वपक्षपि समानोयं दोषः माया विद्या व्याकृता शक्त्यक्षराकाशादि शब्दित भावरूपोपाधेरिव तस्य सर्वज्ञत्वादि प्रयोजकत्वा योगात् | अत एव वाक्यवृतौ भगवत्पादैस्सर्वज्ञत्वादि प्रयोजकोपाधित्वमविद्याया दर्शितम्मायोपाधिर्जगद्योनिस्सर्वज्ञत्वादि लक्षण इतीति भावः | अथ क ईश्वरः कश्च जीव इति प्रश्ने प्रतिवचनत्वेन मतांतरमुत्थापयति | अपरे त्विति | कस्तर्हि जीव इति पृछति | किंत्विति | दृष्टांत पूर्वकं ब्रह्मैव जीव इत्युतरमाह | कौंतेयस्यैवेति | कुंतीकुमारस्यैव न तु तत्प्रतिबिंबादेरित्येवंकारार्थः | राधाया अपत्ये राधेयस्तस्य भावस्तत्वं तद्वदित्यर्थः | किंत्वविकृतस्यैवेति संबंधः | अवछेदप्रतिबिंबभावरहितस्येत्यर्थः | तत्र भाष्य वार्तिक सम्मतिं हेतुत्वेन दर्शयति | व्याधेत्यादिना | यथाराजकुले जातः कर्णो जन्मप्रभृति व्याधाकुल एव संवर्धितस्तज्जातीयैस्सहवासादि जनिक्षभ्रांतिलक्षणाविद्यया स्वात्मानं राधेयं मन्यते न तु स्वतस्सिद्धमपि प्. १०३ब्) कौंतेयत्वमनुभवति ततश्च || व्याधकुलसंवर्धितराजकुमार दृष्टांतेन ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया विमुच्यत इति बृहदारण्यकभाष्ये प्रतिपादनात् | राजसूनोः स्मृति प्राप्तौ व्याधभावो निवर्तते | यथैवमात्मनोज्ञस्य तत्वमस्यादि वाक्यत इति वार्तिकोक्तेश्च एवं च स्वाविद्यया जीवभावापन्नस्यैव ब्रह्मणः सर्वप्रपंच काल्यत्वादीश्वरोपि सहसर्वज्ञत्वादि धर्मैः स्वमोपलब्ध देवतावज्जीव कल्पित इत्याचक्षते || कौंतेयत्व प्रयुक्ताच्छ्रेयसस्सकाशात्प्रच्युतः सर्वत्र नानाविधशापावमानादि लक्षणं बहुविधदुःखं प्राप्तवान् | स च कदाचिद्भगवता विवस्वताकर्णकौंतेयोसित्वं नराधेय इत्युपदेशं कुर्वतास्मारित निजरूपस्सन् | तया स्मृत्याव्याधत्वराधेयत्वादेरविद्या क्व तस्य निवृतौ सत्यां व्याधेयत्वराधेयत्वकृतं नानाविधदुःख त्यक्ता कौंतेयत्व स्मृति प्रयुक्त श्रेयः प्राप्तवान् | तथा ब्रह्माप्यनादि सिद्धया स्वाविद्यया आवृतनिजरूपं सज्जीवभावं प्राप्यस्वतः सिद्धान्नित्यनिरतिशयानंद स्वरूपात्प्रच्युतं भवति | प्. १०४अ) ततश्च संसरति एवं संसरद्ब्रह्म कदाचित् स्वप्नदशायामिव स्वाविद्याकल्पितेन गुरुणाशास्त्रेण चोत्पादितया सुगोचर विद्यया जीवभावादि प्रयोजका विद्यानिवृतौ मुच्यतेतित्य सिद्ध निरतिशयानंदमनुभवति स्वरूप चैतन्येनैवेति भाष्यार्थः | अज्ञस्येति | अज्ञानावृतनिजस्वरूपस्येत्यर्थः | तत्वमस्यादीति गुरुपदिष्टतत्वमस्यादि वाक्यजन्यज्ञानेनाज्ञाननिवृतौ जीवभाव आत्मनो निवर्तत इत्यर्थः | एवं जीवं निरूप्य ईश्वरं निरूपयति | एवं चेति | भाष्यवार्तिक पर्यालोचनया प्रतिबिंबभावादि रहितस्य पूर्णब्रह्मण एव जीवत्वे सिद्धे सतीत्यर्थः | ईश्वरोपि सर्वज्ञत्वादि धर्मैस्सहजीव कल्पित इति संबंधः | यथोक्त जीवस्यैवेश्व्र कल्पकत्वे हेतुमाह | स्वाविद्ययेत्यादिना | अन्यस्य कल्पकस्याभावादिति तात्पर्यकमवधारणं जीवस्येश्वर कल्पकत्वे दृष्टांतमाह | स्वप्नेति यथा स्वप्ने स्वप्नद्रष्टा जीव एव परां देवतां सर्वज्ञत्वादि धर्मैस्सहितां कल्पयति कल्पयित्वा च तामहर्न्निशमुपास्ते | तदुपासनया चाभ्युदय निश्रेय सलक्षणं फलं लभते | एवं जागरणेपीति दृष्टांतादेरभिप्रायः || अथायं जीव एकर?तानेकः अनुपदोक्त पक्षावलंबिनः केचिदाहुः | एकोजीवस्तेन चैकमेव शरीरं सजीवमन्यानि स्वप्नदृष्ट शरीराणीव निर्जीवानि तदज्ञान प्. १०४ब्) कल्पितं सर्वं जगत् | तस्य स्वप्नदर्शनवद्यावदविद्यं सर्वोव्यव्यहारः | बद्धमुक्तव्यवस्थापि नास्ति जीवस्यैक त्वात् | शुकमुक्त्यादिकमपि स्वाप्नपुरुषांतरमुक्त्यादिकमिव कल्पितं || जीवेश्वरनिरूपण प्रसंगेन विचारांतरमारभते | अनुपदोक्तेति | ब्रह्मैव स्वाविद्यया संसरति स्वविद्ययामुच्यत इत्यादि ग्रंथोक्तेत्यर्थः | एक इति ब्रह्मण एकत्वा तत्र च अवछेद प्रतिबिंबभावयोरनंगीकाराच्चेत्यर्थः | ननु जीवैक्ये तेनैकमेव शरीरं सजीवं स्यान्न सर्वशरीराणीत्याशंकामिष्ट्यापत्यापरिहरति | तेन चेति | ननु यथा एकशरीरे हितप्रामिपरिहारार्थस्पंदनरूपा चेष्टा दृश्यते | तथा सर्वशरीरेषु दृश्यते | तथा च कथमेकमेव शरीरं सजीवं तत्राह | अन्यानीति | यथा स्वप्न दशायां स्वप्न दृष्ट्रश्शरीरमेकमेव सजीवं स्वप्नद्रष्ट्रा दृष्टान्यन्यानि शरीराणी चेष्टाविशेषवतया दृश्यमानान्यपि शजीवानि न भवंति तथा जगरणेपीति द्रष्टव्यं | ननु स्वाप्नस्य जगतः कल्पिका तावन्निद्रा अन्वय व्यतिरेक सिद्धा यथा वर्ततेन तथा जाग्रत् प्रपंचस्य कल्पकमन्सयव्यतिरेक सिद्धं | किंचिदस्तीति | जगत्सत्यमेवस्यान्नेत्याह | तदज्ञातेति | जीवाज्ञानेत्यर्थः | अज्ञानस्य जगत्कुल्यकत्वं शास्त्रसिद्धमिति भावः | प्. १०५अ) ननु सर्वव्यवहारस्य स्वप्नव्यवहारवत्कल्पितत्वे तद्वदेव सहसा व्यवहारलोपः | प्रसज्ज्येन तथा च विद्यानर्थक्यमिति नेत्याह | तस्येति | जीवस्येत्यर्थः | यावन्निद्राक्षयं स्वप्नव्यवहारानुवृतिवत् | विद्यया यावदविद्यानिवृति सर्वव्यवहारानुवृतिर्युज्यत इति न विद्यावैफल्य स विद्यानिवृत्यर्थमयेक्षि तत्वादिति भावः | ननु जीइवैकामते एको जीवो बद्धः अन्योजीवो मुक्त इति व्यवस्था शुकादि शुक्ति प्रतिपादक शास्त्रसिद्धा न स्यादित्याशंक्य इष्टापतिरित्याह वद्धेइत् | यथा स्वप्नादुत्थितः स्वप्न भ्रांति सिद्धां पुरुषांतर मुक्तिं परं प्रतिबोधयति | तथा जीवभ्रांति सिद्धांशुकादि मुक्तितं प्रत्येव बोधयति श्रवणादि प्रवृत्युपयोगितयेति भावः || अत्र च संभावित सकलशंकाथंकक्षालनं स्वप्नदृष्टांत सलिल धारयैव कर्तव्यमिति | अन्येत्वस्मिन्नेक शरीरैक जीववादे मनः प्रत्ययमलभमाना अधिकं तु भेदनिर्देशात् लोकवतु लीलाकैवल्यमित्यादि सूत्रैर्जीवाधिक ईश्वर एव जगतः सृष्टा न जीवस्तस्याप्तकामत्वेन प्रयोजनाभावेपि केवलं | लीलयैव जगतः सृष्टिरित्यादि प्. १०५ब्) प्रतिपादयद्भिर्विरोधं च मन्यमानाहिरण्यगर्भ एको || ननु जीवैक्यमते विद्योपदेष्टुरन्यस्याभावाद्विद्योदयो न स्याज्जीवेश्वर विभागाभावेन जीवस्येश्वरोपासनादि व्यवहारश्च नस्यादित्याशंक्याह | अत्र चेति | यथा स्वप्नदशायां स्वप्न दृष्क?कंचिद्गुरुमीश्वरं च कल्पयित्वा तावुपास्ते ताभ्यां च विद्यादिकं लभते तद्वदिति भावः एकजीववाद एवमतांतरमाह | अन्येत्विति | एकशरीरेति | एकमेव शरीरं सजीवं यस्मिन्नैक जीववादे स तथोक्तः | मनः प्रत्ययमिति | मनसो विश्वासंप्रामाणिकत्व निश्चयमित्यर्थः | एकमेव शरीरं सजीवं शरीरांतराणि निर्जीवानीत्यत्र विनिगमकाभावान्न च जीवैक्यं विनिगमकमिति वाच्यं | एकोपि जीवः कस्मिन् शरीरे वर्तत इत्यत्र विनिगमकस्य वक्तुमशक्यत्वादिति भावः | अधिकं त्विति जीवाभिन्न ईश्वरे वेदांतानां प्रथमाध्याये निरूपितः समन्वयो न घटते | तथा सतीश्वर गतजगत्स्रष्टृत्वादेर्जीवधर्मत्वप्रसंगा | तथा चानुभवविरोध इति पूर्वपक्ष निरासार्थस्तु शब्दः | अधिकं जीवादुपाधितोभिन्नं ब्रह्मजगत्स्रष्टृत्व सर्वज्ञत्वादि गुणकमभ्युपगम्यते | अतो न ब्रह्मधर्माणां जीवे प्रसक्तिरौपाधिकभेदस्यापि धर्मव्यवस्थापकतया लोकसिद्धत्वात् | कल्पित भेदांगीकारे प्. १०६अ) हेतुमाह | भेदनिर्देशादिति | य आत्मनि तिष्टत्रात्मानमंतरोयमयतीत्यादौ नियम्यनियामक भावादीनां भेदनिर्देशादिति सूत्रार्थः | लोकवदिति | सूत्रं पूर्वमेव व्याख्यातं | अत्रादि पदेन अनुपपतेस्तु न शारीर इत्यादि | सूत्रं गृह्यते मनो मयत्वादि गुणको न शारीरस्तस्मिन् सर्वकर्मत्वादीनामनुपपतेरेवेति सूत्रार्थः विरोधं चेति | जीवातिरिक्तेश्वराभाववादेस्मिन् जगत्सृष्ट्यादि समर्थस्य व्यावहारिक भेदवत ईश्वर || ब्रह्मप्रतिबिंबोमुख्यो जीवः अन्ये तु तत्प्रतिबिंब भूताश्चित्र लिखितमनुष्यदेहार्पित पटाभासकल्पा जीवाभासाः संसारादि भाज इति सविशेषानेक शरीरैक जीववादमातिष्ठंते | अपरे तु हिरण्यगर्भस्य प्रतिकल्पं भेदेन कस्य हिरण्यगर्भस्य मुख्यं जीवत्वमित्यत्र नियामकं नास्तीति मन्यमाना | एक एव जीवो विशेषेण सर्वं शरीरमधितिष्ठति | न चैवं शरीरावयवभेद इव शरीरभेदेपि परस्पर सुखाद्यनुसंधानप्रसंगः || स्यास्तित्वजगत्स्रष्टृत्व सर्वात्मकत्वादि गुणप्रतिपादकैः प्. १०६ब्) सूत्रैर्विरोधमित्यर्थः | ब्रह्मप्रतिबिंब इति | अनेन बिंबभूतं ब्रह्मजीवादधिकमीश्वररूपमस्मिन्मतेस्ति अतोनोदाहृत सूत्रविरोध इति सूचितं | तदिति | ब्रह्मप्रतिबिंबभूत हिरण्यगर्भस्य भौतिक जगत्स्रष्टृतयाकारणोपाधिकतया च मुख्य जीवस्य प्रतिबिंबभूता अन्ये जीवाजीवाभासाः तद्वत्सृष्ट्यादि सामर्थ्याभावादित्यर्थः | कल्पा इति तुल्या इत्यर्थः | संसारादि भाज इति | अनेन यथा हिरण्यगर्भशरीरं मुख्यजीवेन सजीवं तथा इनराण्यपि शरीराणिजीवाभासैस्सजीवानीति पूर्वमतात् | विशेषः सूचितः अत्रादि पदं मुक्ति संग्रहार्थं जीभासानां मुक्तिश्च स्वबिंबभूत हिरण्यगर्भप्राप्तिः क्रमेण च शुद्धब्रह्मप्राप्तिरिति मंतव्यं | स विशेषेति | स विशेषाणि स जीवानि अनेकशरीराणि यस्मिन्नेकजीववादे स तथा आतिष्ठंते | अंगीकुर्वंतीत्यर्थः | अत्राप्यस्वरसंवदन्नेकजीववादमेवाह | अपरेत्विति | एक एवेति | अविद्यायां ब्रह्मप्रतिबिंबरूपो जीवस्तावदेक अविद्याया एकत्वात् स एव च सर्वं शरीरं स्वभोगाद्यर्थमधितिष्ठति नत्व विद्यायां ब्रह्मप्रतिबिम्बो हिरण्यगर्भ शरीरसधितिष्ठति अन्यानि तु शरीराणि तत्प्रतिबिंबाभासा अधितिष्ठंति | कुतः इतर जीवानां प्. १०७अ) तत्प्रतिबिंबत्वे मानाभावादित्येव कारार्थः | अविशेषेणेति | मुख्यामुख्यविभागं विनेत्यर्थः | जीवभेदे हि सति कश्चिन्मुख्यो जीवः कश्चिच्चामुख्यो जीवाभास इति विभागः संभवेत् | नत्वे तदस्ति | तस्यैकत्वाभ्युपगमादिति भावः | ननु देवदत्तस्य शिरः पाणिपादानधितिष्ठित एकस्य यथाशिरसि मे वेदना पादे मे सुखमित्याद्यनुसंधानं दृश्यते | एवमेकस्यैव जीवस्य सर्वशरीराधिष्टातृत्वे मम देवदत्तशरीरे मुखं यज्ञदतनामक शरीरे दुःखमित्यादि रूपेण सर्वस्य सर्वत्रानुसंधान प्रसंग इति शंकते | न चेवमिति || जन्मांतरीय सुखाद्यनुसंधानादर्शनेन शरीरभेदस्य तदननुसंधान प्रयोजकत्व कॢप्तेः योगिनस्तकाय व्यूह सुखाद्यनुसंधानं व्यवहितार्थ ग्रहणवद्योगप्रभावनिवधेनमिति न तदुदाहरणमित्यविशेषानेकशरीरैकजीववादं रोचयंते | इतरेत्वत्रापि वद्धमुक्तव्यवस्थाभावस्य तुल्यत्वेन तद्योयो देवानां प्रत्यबुध्यत स एव तदभवदित्यादि श्रुतेः प्रतिषेधादिति चेत् || प्. १०७ब्) शरीरभेदस्याननुसंधान प्रयोजकत्वाभ्युपगमान्नोक्ताति प्रसंगः | न च तत्र मानाभावश्शंकनीयः जीवस्यातीत शरीरेषु वर्तमान शरीरे चैकत्वेपि जन्मांतरीय सस्वाद्यनुसंधानादर्शनेन तद्भेदस्य तत्प्रयोजकतायाः संप्रतिपन्नत्वादिति परिहरति जन्मांतरीयेति | ननु योगिनो देहभेदे सत्यप्यनुसंधानदर्शनात् | व्यभिचार इत्यत आह | योगिनस्त्विति | अस्मदादि वै लक्ष्यार्थकस्तु शब्दस्तद्दर्शयति | कायेति | न ह्यस्मदादीनां व्यवहितार्थ साक्षात्कारोस्ति तत्प्रयोजका दृष्टविशेषाभावा तथा च शरीरभेदमात्रं न तत्प्रयोजकं | किं तु अदृष्टविशेषा सह कृत शरीरभेदो ननु संधान प्रयोजक इति न योग्यनुसंधानस्थले व्यभिचार इति भावः | योगदं योगजा दृष्टपरं | अविशेषेणाधिष्ठितान्यनेक शरीराणि यस्मिन्नेकजीव वादे सः तथेत्यर्थः | अनेक जीववादमुत्थापयति | इतरेतिति | अत्रापीति | अव्यवहितमतेपीत्यर्थः | यद्येक जीववादे व्यवस्थान सिध्यति ततः को दोष इत्याशंक्य श्रुति स्मृति भाष्याणामनांजस्यं दोष इत्याह | तद्योय इति | देवानाम्मध्येयो यो देवः तद्ब्रह्मप्रत्यबुध्यतसाक्षात्कृतवान् स एव तद्ब्रह्माभवत् | नान्योब्रह्मबोध रहितः विदुषो मुक्तत्वमविदुषो वद्धत्वं च प्रतिपादयंत्याश्रुत्याबंध प्. १०८अ) मुक्ति व्यवस्था दर्शिता | आदिपदेन अजामेकामिति श्रुतिर्बंधमुक्ति व्यवस्था प्रतिपादकत्वेन भाष्यकारादिभिरंगीकृता गृह्यते श्रुतिग्रहणं यद्गत्वा न निवर्तंते तद्धामपरमं ममेत्यादि स्पृतीनासुपलक्षणं | प्रतिषेधादिति | इदं पूर्वपक्षसूत्रं | बृहदारण्यके काण्वशाखायां न तस्य प्राणा उत्क्रामंतीति वाक्येन | परब्रह्मतत्वविदः | प्राणोत्क्रांति प्रतिषेधा तस्य गत्युकांतीनस्तः | उत्क्रांति पूर्वकत्वात् गतेरिति चेदिति सिद्धांति शंकाभागार्थः || न शारीरादित्यधिकरणे बद्धमुक्तत्वप्रतिपादक भाष्यस्य घनांजस्यमित्यपरितुष्यंतोंतष्करणादीनां जीवोपाधित्वात्युपगमेनानेकजीववादमाश्रित्य बद्धमुक्तव्यवस्थां प्रतिपद्यंते | तिषु केचिदेवमाहुः || पूर्वपक्षीतां दूषयति | न शारीरादिति | बृहदारण्यक एव माध्यंदिन शाख्यायां समानप्रकरणे ब्रह्मविदं शारीरं प्रकृत्य न तस्मात् प्राणा उत्क्रामंतीति वाक्यं पव्यते | अत्र तच्छब्देन प्रकृतः शारीरो गृह्यतेन शरीरं | तस्य शरीरापेक्षया प्रधानत्वा तथा च न तस्मादिति वाक्येन शारीराज्जीवात् प्राणानासुत्कुमणं प्. १०८ब्) निषिध्यते | न शरीरादतश्शरीरादुत्क्रमणं विदुषोप्यस्तीति तस्यापि गत्युत्क्रांतिस्त एव न तस्य प्राणा इति काण्ववाक्यस्यापि | तस्य विदुषः प्राणाश्शारीरात्रोत्क्रामंति किं तु तेन सहैव ब्रह्मलोकं गछंतीत्यर्थो बोध्यः | नांतस्यमिति | आंतस्याभावः उपपन्नत्वाभाव इत्यर्थः | अंतष्करणादीनामिति | न च नानाजीववादेपि ब्रह्मैव स्वाविद्यया संसरति स्वविद्ययामुच्यत इत्यर्थे | न बृहदारण्यक भाष्ये प्रतिपादितेन विरोधस्तुल्य इति वाच्यं | तद्भाष्य प्रतिपादनस्य ब्रह्मैव स्वाविद्ययानानांतष्करणरूपेण परिणतया नानाजीव भावं प्राप्यसंसरति | स्वविद्यया क्रमेण मुच्यत इत्यभिप्रायकत्वोपपतेः | श्रुतिस्मृत्युपोद्वलित शुकादि मुक्ति प्रतिपादकभाष्यस्य ब्रह्मैव स्वाविद्यया संसरतीति भाष्यमात्रस्वारस्य मनुसृत्या न्यत्थ्यानयनायोगात् | न चोदाहृत श्रुतिस्मृति भाष्याणां ब्रह्मात्मैकत्व परत्वेन ननाजीव वादे | तात्पर्था भावात् | तेभ्यो जीवनानात्वं न सिध्यतीति वाच्यं | एकजीववादेपि तात्पर्याभावस्य तुल्यत्वान्न च जीवत्वोपाधिभूताया अविद्याया एकत्वाज्जीवैक्यसिधिरिति वाच्यं | उदाहृत श्रुति भाष्यानुरोधेनाविद्यानानात्वाभ्युपगम संभवात् | तदेकत्व श्रुत्यादीनां जात्यमिप्रायकत्वोपपतेः | अविद्यायाः एकं त्वपि कार्योपाधिरयं जीव इति श्रुत्यनुसारेणांतष्करणानामेव प्. १०९अ) जीवत्वोपाधित्वोपगमसंभवाच्चेति भावः | नानाजीववादे मतभेदेन बंधमुक्तिव्यवस्थामुपपादयितुमारभते | तेष्विति | नानाजीववादिषु मध्य इत्यर्थः केचिदिति || यद्यपि शुद्धब्रह्माश्रयविषयमेकमेवाज्ञानं तत्राश एव च मोक्षस्तथापि जीवन्मुक्तावज्ञानलेशातु वृत्यभ्युपगमेनाज्ञानस्य सांशत्वा तदेव क्वचिदुपाधौ ब्रह्मावगमोत्पत्तावंशेनं निवर्तते उपाध्यंतरेषु यथा पूर्वमंशांतरेरनुवर्तत इति अन्ये तु || ननु नानाजीववादेपि जीवस्यांतष्करणोपाधिकत्वपक्षे मूलाज्ञानस्य एकत्वेन शुकादि तत्वज्ञानेनैव तस्य निवृतत्वादिदानी संसारानुपलब्धि प्रसंग इत्याशयेन शंकते | यथपीति | शुद्धब्रह्मा श्रयेति | जीवेश्वरयोर्विशिष्टरूपयोरज्ञानाश्रयत्वं न संभवति | तयोः कल्पितत्वा तथा च शुद्धस्यैवावृतत्वरूपं विषयत्वं नत्वीश्वरस्यापि तस्य जीवांतरवदौपाधिक भेदादेवानुपलब्धि सिद्धौ जीवान् प्रतीश्वरस्याज्ञानावृतत्वरूपविषयत्व कल्पनस्य व्यर्थत्वादिति भावः | एकमेवेति | अजामेकांमायां प्. १०९ब्) तु प्रकृतिं विद्यात् | विभेदजनके ज्ञान इति श्रुतिस्मृतिषु एकवचन श्रवणेन स्मृतिलाघवेन च तस्यैकत्वावगमादिति भावः | तन्नाश एव चेति | भूयश्चांते विश्वमाया निवृतिः अज्ञानेनाशमात्यंतिकं गत इत्यादि श्रुतिस्मृतिषु सर्वानर्थमूलाज्ञान निवृतेर्मोक्षत्वावगमादिति भावः | एकस्य तत्वज्ञानेन कृत्स्नाज्ञाननाशोनांगी क्रियते | येन व्यवस्था न स्यात् किंतु तस्य ज्ञानेन ततदंतष्करणादि परिणामिनो मूलाज्ञानांशस्यैव नाश उपेयते | न च तस्य सांशत्वे मानाभाव इति वाच्यं | जीवन्मुक्तौ आवरणशक्तिमदज्ञानांशस्य नाशेपि विक्षेपशक्तिमदज्ञानांशस्य ज्ञानादनिवृतस्य यावद्विदेहकैवल्यमनुवृत्युपगमेन तस्य सांशत्वावगमात् | तथा चाज्ञानस्यानिर्वचनीयस्यानिर्वचनीयानामेव भागरूपांशानामनंतानां संभवात् | नानादाय बंधमुक्ति व्यवस्थासूपयादेति परिहरति | तथापीत्यादिना | अज्ञानसत्वं बंधस्तन्नाशो मोक्षं इति मतं मुक्तं | इदानिं चैतन्यस्याज्ञानसंबंधो बंधस्तदसंबंधो मोक्षः | न तु तन्निवृतिरसंबंधमात्रेणैव बंधनिवृति सिद्धेः ज्ञानादज्ञाननिवृति प्रतिपादकशास्त्रस्यापि तदसंबंध एव तात्पर्योपपतेरन्यथा मूलाज्ञानस्य विरोधिज्ञानोदये सति तूलपिंदस्य विरोध्यग्नि संसर्ग इवावशेषा प्. ११०अ) संभवेन बंधमुक्ति व्यवस्था शास्त्रस्य जीवन्मुक्ति शास्त्रस्य च निरालंबनत्व प्रसंगादिति मन्यमानानाम्मतमाह अन्येत्विति || यथान्यायैक देशिमते भूतले घटात्यंताभावस्य वृतौ घटसंयोगाभावो नियामक इत्यनेकेषु प्रदेशेषु तद्वत्सुसे सृज्यवर्तमानो घटात्यंताभावः क्वचित् प्रदेश घटसंयोमोत्यत्यातुदभावनिवृतौ न संसृज्यते | एवमज्ञानस्य चैतन्ये वृतौ मनो नियामकमिति तदुपाधिनाचैतन्यप्रदेशेषु संसृज्यवर्तमानमज्ञानं क्वचिद्ब्रह्मदर्शनोत्यत्याभिद्यते | हृदयग्रंथिविति श्रुत्युक्तरीत्यामनसो निवृतौ न संसृज्यते | अन्यत्र यथा पूर्वमवतिष्ठते ज्ञानसंसर्गासंसर्गावेव च बंधमोक्षावित्याहुः | अपरे तु नाज्ञानं शुद्धचैतन्याश्रयं || प्रथमं प्रकृतोपयोगि दृष्टांतमाह | यथेति | भूतले | घटोनेत्यनुभव सिद्धो घटाभावस्त्रैकालिकत्वाभ्युपगमात् | घटानानंतरे तदधिकरणेपि भूतले वर्तत एव | तथावघटवत्यपि भूतले घटो नास्तीति प्. ११०ब्) प्रमास्यादिति दोष प्रसक्तौ तत्परिहाराय नैयायिकाः कल्पयंति घटाधिकरणे तदत्यंता भावस्य संबंधा भावेन तत्र तत्प्रतीतेर्भांतित्वोपपते | न च घटसंयोगोत्पतेः पूर्वं भूतले संबंधवतस्तस्य घटसंयोगकाले कथं वृतिरूपसंवेधाभाव इति वाच्यं | प्रतीत्यनुसारेण भूतलादौ घटात्यंताभाववृतौ घटसंयोगस्य प्रागभाव प्रध्वंसाभावयोरन्यतराभावो नियामक इति कल्पनेन घटसंयोगाधिकरण भूतले घटाभावस्यासंबंधोपपतेरिति तदेतन्मतं दृष्टांती करोति | न्यायैक देशि मत इति | तद्वत्स्विति | घटसंयोगाभाववत्स्वित्यर्थः | तदुपाधिनेति | मन एवोपाधिस्तेनेत्यर्थः | क्वचिदिति | चैतन्य प्रदेश इत्यर्थः | ब्रह्मदर्शनोत्पत्यामनसो निवृताविति संबंधः | ब्रह्मदर्शनं मनसो निवर्तकमित्यत्रमानमाह भिद्यत इति | हृदयग्रंथिरित्यत्र हृदयमित्यंतष्करणपरं तच्चांतष्करणं चिदात्मन्यध्यस्ततया ततादात्म्यापन्नं सद्ग्रंथिरिव ग्रंथिः | स च ब्रह्मदर्शने जाते ब्रह्मण्येव विलीयत इति श्रुत्यर्थः | अन्यत्रेति | चैतन्यप्रदेशांतरैष्वित्यर्थः | नाज्ञानमिति | शुद्धचैतन्यस्य वेदांतशास्त्रप्रतिपाद्यस्य नाज्ञानाश्रयत्वं | तस्य वेदांत वेद्य वस्तु न जानामीत्यज्ञानविषयत्वेनैवानुभवादिति भावः || किं तु जीवाश्रयं ब्रह्मविषयं तच्चांतष्करण प्. १११अ) प्रतिबिंबरूपेषु सर्वेषु जीवेषु व्यक्तिषु जातिवत्प्रत्येक पर्यवसायितया वर्तमानमुत्पन्न विद्यं कंचित्यजति नष्टां व्यक्तिमिव जातिः स एव मोक्षः | अन्यं यथापूर्वमाश्रयतीति व्यवस्थेत्याहः || जीवा अयमिति | न जानामीत्यज्ञानाश्रयत्वेन जीवस्यैवानुभवान्न चाज्ञानस्य स्वकार्यांतष्करणविशिष्टचैतन्यरूपजीवाश्रितत्वमनुपपन्नमिति वाच्यं | अंतष्करणे यत्प्रतिबिंबभूतं चैतन्यं तस्यैव जीवत्वाभ्युपगमेन विशिष्टस्य जीवत्वानुपगमात् | वचांतष्करणस्य सादितया तद्गत प्रतिबिंबस्यापि सादित्वात् | कथं तस्यानाद्यज्ञानाश्रयत्वमिति वाच्यं | अंतष्करणस्य स्वापादौलय श्रवणेन जाग्रदादौ जन्मश्रवणेन च सादित्वावगमेपि तस्य स्थूलसूक्ष्मरूपेणानादितायाः पुहुस्त्वादिवत्वस्य सतोभिव्यक्ति योगादिति सूत्रे व्यवस्थापि तत्वाद्यथा पुंस्त्वस्त्रीत्वादेः श्रुक्रश्रोणितस्तनादि रूपस्य वाल्यादावनभिव्यक्तस्य यौवने प्रादुर्भावने प्रादुर्भावः तथा अस्यांतष्करणस्य स्वापादावनभिव्यक्ततया सत एव स्थूलावस्थाप्राप्तिरूपाया अभिव्यक्तेर्युक्तत्वात् असतः शशशृंगादेरुत्पत्यदर्शनादिति | सूत्रार्थः | अविद्यायाः प्. १११ब्) अनादि चैतन्यप्रतिबिंबाश्रितत्वस्य मायाविद्याभेदवादनिरूपणावसरे समर्थितत्वात् | प्रत्येकेति द्वित्व बहुत्वादिवदज्ञानस्य सर्वजीवव्यक्तिपुव्यासज्यवृतित्वे सर्वेषां प्रत्येकमहमज्ञ इति प्रत्यक्षं न स्यात् | व्यासज्यवृतिधर्म प्रत्यक्षस्य यावदाश्रय प्रत्यक्षसापेक्षत्वेन एकैकस्य जीवस्य सर्वजीव प्रत्यक्षाभावादित्यर्थः | वस्तुतस्तु अज्ञानस्य व्यासज्यवृतित्वेपि तत्प्रक्षस्य नित्यसाक्षिरूपतया यावदाश्रयप्रत्यक्षानपेक्षणात् उक्त नियमस्य जन्यप्रत्यक्षविषयत्वादिति मंतव्यं | कंचिदिति उत्पन्नया विद्ययामनसो निवृतौ तन्निरूपित प्रतिबिंबभावस्यापि निवृततया तद्विशिष्ट चैतन्यरूपव्यक्तिनाशादिति भावः | तथा च श्रुतिर्जहात्येनां भुक्तभोगामजोन्य इति एनामजाशब्दितामविद्यां जीवेन भुक्ताभोगा यस्याः साभुक्तभोभुज्यत इति व्युत्पत्याभोगशब्दितानां विषयाणामविद्यापरिणामत्वादिति भावः | अजो जन्मरहितः अन्यः उत्पन्नविद्योजीव इति श्रुत्यर्थः | स एवेतित्याग एवेत्यर्थः | अन्यमिति | अज्ञमिति भावः | तथा च श्रुतिः अजो ह्येको जुषमाणौनुशेत इति एकः पुनरजो विवेकरहितः कार्यकारणसघातरूपेणपरिणतामविद्यांजषमाणः सेवमानः तत्राहं ममाभिमानवान् अनुशेतेतामनुसृत्यशेते वर्तते प्. ११२अ) न जहातीति यावत् || इतरे तु प्रतिजीवमविद्याभेदमभ्युपगम्यैवतदनुवृतिनिवृतिभ्यां वद्धमुक्तवस्थां समर्थयंते | अस्मिन् पक्षे कस्याविद्यया प्रपंचः कृतोस्त्वित्विचेत् | विनिगमकाभावात् सर्वाविद्याकृतोऽनेकं तत्वारब्धपटतुल्यः एकस्य मुक्तौ तदविद्यानाशे एकतंतुनाशे पटस्येव तत्साधारण प्रपंचस्य नाशः तदैव विद्यमानतंत्वंतरैः पटांतरस्येवेतराविद्याभिः सकलेतरसाधारण प्रपंचांतरस्योत्पादनमित्येके || अत्राज्ञानकंचिज्जहाति अन्यमाश्रित्यैव तिष्ठतीत्युक्त्यापि अज्ञानसंबन्धा चेव बंधमोक्षावित्युक्तं भवति | तदुक्तेरर्थांतरासंभवात् | अज्ञानसंबन्धासंबंधौ बंधमोक्षाविति मतद्वयमपि तस्य ज्ञाननाश्यत्वं प्रतिपादक श्रुतिस्मृति भाष्यादि स्वारस्य विरुद्धं मत्वा तदविरुद्धम्मतमाह | इतरेत्विति | अभ्युपगम्यैवेति | अविद्योभेदानुपगमे तत्सत्वत प्. ११२ब्) न्नाशरूपयोर्बंधमोक्षयोरुपपादयितुमशक्यत्वान्न च तस्या एकत्वेपि अंशवत्वकल्पनयातन्नाशरूपो मोक्षः प्रागुपपादित इति वाच्यं विरोधि विद्योदये तदवस्थानायोगस्याप्युक्तत्वान्न जीवन्मुक्तौ तल्लेशानुवृत्युपगमविरोध इति वाच्यं | अविद्यानाशेपि तत्संस्कारस्य यावत् प्रारब्ध क्षयमनुवर्तमानस्याविद्यालेशत्वेन विवक्षिततायास्सदृष्टांतं वक्ष्यमाणत्वादिति भावः | एवं नानाजीववादे बंधमोक्ष व्यवस्थां बहुप्रकारांमुपपाद्यतदुपपादनोपयोगितया प्रसक्तमविद्यानानात्वमुपजीव्याक्षेपमवतारयति | अस्मिन्पक्ष इति | अविद्यानानात्वपक्ष इत्यर्थः | कस्येति | किमेकस्य जीवस्याविद्यया प्रपंचारंभः उतसर्वेषामविद्याभिर्न्नाद्यः विनिगमनाविरहात् | तद्वितीयः एकाविद्यानाशे सर्वप्रपंचनाशापत्यामुक्ते नरजीवानां प्रपंचानुपलब्धि प्रसंगादित्याक्षेपाभिप्रायः | द्वितीयपक्षे परिगृह्य तत्रोक्तानुपपतिं | परिहरति | विनिगमकाभावादित्यादिना सर्वाविद्याकृत इति सर्वेषां जीवानां सर्वाविद्यापरिणाम इत्यर्थः | यद्वा सर्वाविद्याविषयीकृत ब्रह्मविवर्तः | प्रपंच इत्यर्थः | प्रथम व्याख्याने दृष्टांतमाह | अनेकं तत्वारब्धेति | सकलेतरेति | सकलाः समस्तामुक्तजीवापेक्षयाये इतरे तेषां साधारण प्रपंचांतरस्येत्यर्थः || प्. ११३अ) तत्तदज्ञानकृतप्रातिभासिकरजतवन्न्यायमते तत्तदपेक्षाबुद्धिजन्यद्वित्ववच्च तत्तदविद्याकृतो वियदादि प्रपंचः प्रतिपुरुषं भिन्नः | शुक्तिरजते त्वया यद्दृष्टं रजतं तदेवमपापीति वदैक्य भ्रममात्रमित्यन्ये जीवाश्रितादविद्यानिवहाद्भिन्नामायैवेश्वराश्रिता प्रपंचकारणं प्रपंचस्य सर्वाविद्याकार्यत्वेपि तद्भेदात्प्रपंचस्यापि प्रतिपुरुषं भेद एवेति मतं सदृष्टांतमाह | तत्तदिति | ननु यत्र एकदा बहुनां शुक्तौ रजतभ्रमो भवति | तत्र प्रतिपुरुषमज्ञानभेदेन तत्कृतरजतभेदोत्र दृष्टांतत्वेन वक्तव्यः स च न संभवति | तत्रापि तावत् पुरुषाणामज्ञानैरेकस्यैरजतस्योत्पति संभवादिति चेन्न तत्र दैवयोगादेकस्य पुरुषस्य प्रथमं शुक्तित्वविशेषदर्शने सति नेदरजतमिति बाधकप्रत्येक्षेण सोपादानस्य रजतस्य नाशेपि तदितरेषां रजतभ्रमानुवृत्यारजतभेदस्यावश्यक तया दृष्टांत सिद्धेरिति भावः | न्यायमत इति | सिद्धांते तु एकत्व वद्वित्वादिकमपि यावदृव्यभाव्येव न तु तत्रदपेक्षाबुद्धिजन्यं | अनंत द्वित्वादैस्तदुत्पत्यादीनां च कल्पने गौरवाद प्. ११३ब्) पेक्षाबुद्धेस्तद्व्यंजकत्वाभ्युपगमात् | न सदा तत् प्रत्यक्षापतिरिति स्वीकारादिति भावः | ननु तर्हि यथा ततद्रजतं तस्य तस्यैव प्रत्यक्षं नान्यस्य तथा तत्तदविद्याकल्पितः प्रपंचोपि तस्य तस्यैव प्रत्यक्षः स्यान्नान्यस्य तथा च यः प्रपंचस्त्वयानुभूयते | स एव मयाप्यनुभूयत इति प्रत्यभिज्ञान प्रत्यक्षं न स्यादिति शंकां दृष्टांतेन परिहरति | शुक्ति रजत इति उपलक्षणमेतुत् | यौ द्वौ रामकृष्णौ त्वया दृष्टौ तावेव मयापि दृष्टाविति प्रत्यभिज्ञानं न्यायमते द्वित्व भेदेपि दृश्यते तद्वदिति बोध्यवियदादि प्रपंचो न जीवाविद्या परिणामः | किं तु जीवाश्रिताविद्या संघाद्भिन्ना माया सर्वजीवान् प्रतिसाधारणवियदादि प्रपंच परिणाम्युपादानमुपेयते | अतो वियदादि प्रपंचस्यैक त्वात् | तदेकत्व प्रतीतिर्न्नम्रममात्रमिति मंतदर्शयति | जीवाश्रितेति | मायाया अविद्याभ्यो भिन्नत्वे ईश्वराश्रितत्वे च प्रमाणादिकं प्रागेव दर्शितमिति नात्र तदुच्यते || जीवानामविद्यास्त्वावरणमात्रे प्रातिभासिक शुक्तिरजतादि विक्षेपेपि चोपयुज्यंत इत्यपरे | अवसितमुपादानत्वं प्. ११४अ) तत्प्रसक्तानुप्रसक्तं च || अविद्यानां प्रपंचोपादानत्वाभावे वैयर्थ्यमाशंक्याह | जीवानामिति | उक्त शंका निवृत्यर्थस्तशब्दः यत्किंचित्कार्यं प्रत्यप्युपादानत्वाभावो मात्रशब्दार्थः | न च नाहं प्रकाशः सर्वस्य योगमाया समावृत इति भगवद्वचने अहं परमात्मासर्वस्य प्राणिज्जातस्य प्रकाशः पूर्णानंदादिरूपेण स्फुरद्रूपो न भवामि मम सर्वज्ञत्व सर्वेश्वरत्व सर्वात्मकत्वादि धर्मजातं घटयंत्यामायया आवृतत्वादित्यर्थके ईश्वराश्रितमायाया एव ब्रह्मावरकत्व प्रतिपादनात् | तद्विरोध इति वाच्यं | ब्रह्मतत्वतो न जानामीत्यावरकस्य जीवाश्रितत्वानुभवानुसारेण जीवाश्रिताविद्याया एव तदावरकत्वे वक्तव्ये सति भगवद्वचनगतमायापदस्य जीव चैतन्ये संसार घटकाविद्यालक्षकत्वोपपतेरिति भावः | अविद्याया आवरण इव प्रातिभासिक विक्षेपेपि | परिणाम्युपादनत्वस्वीकारान्न वैयर्थ्यशंकावकाश इत्याशयेनाह | प्रातिभासिकेति | ननु जीवाश्रिताविद्यानां जीवचैतन्याध्यस्त प्रातिभासिक स्वप्नप्रपंचोपादान तया तत्रोपयोग संभवेपि शुक्तिरजताद्यु उपादानत्वं न संभवति | शुक्त्याद्यवछिन्नचैतन्ये रजताद्यधिष्ठाने प्. ११४ब्) तासामभावादिति चेत् | सत्यमादि पदगृहीत स्वप्नयवात्र विवक्षित इत्यदोषः | यद्वा वाचस्पति मत इव शुक्तिरजतादेरपि जीवाविद्याविषयीकृत शुक्त्यवछिन्न चैतन्यविवर्तत्वमभिप्रेत्यजीवाविद्यानां प्रातिभासिक रजतादावुपयोग कथनोपपतेर्न दोषः | पूर्वमुक्ते अभिन्ननिमितोपादानत्वरूपे ब्रह्मलक्षणे उपादानत्वं विवर्ताधिष्ठानत्वरूपमिति साधिं तत्प्रसंगात् जीवेश्वर निरूपणं प्राप्तं तदनुजीवैकत्व नानात्वं बंधमोक्ष प्रपंचैकत्वनानात्वनिरूपणं प्रसक्तं | तदेतत् सर्वं निरूपितमिति निरूपयिष्यमाणार्थ प्रतिपत्युपयोगितया उपसंहरति | अवसितमिति | समाप्तमित्यर्थः | उपादानत्वमिति | निरूपणमित्यर्थः || अथ कीदृशं कर्तृत्वं केचिदाहुः | तदैक्षत सोकामयत तदात्मानं स्वयमकुरुतेति श्रवणान्प्रायमत इव कार्यानुकूलज्ञानचिकीर्षाकृतिमत्वरूपमिति | अन्ये तु चिकीषाकृतिर्तृत्वनिर्वाहाय चिकीर्षाकृत्यंतरापेक्षायामनवस्था प्रसंगात् कार्यानुकूलज्ञानवत्वमेव प्. ११५अ) ब्रह्मणः कर्तृत्वं न च ज्ञानेप्येष प्रसंगः तस्य ब्रह्मस्वरूपत्वेनाकार्यत्वात् || लक्षणांतर्गतं कर्तृत्वं निरूपयितुमाक्षिपति | अर्थेति | उदासीनस्य ब्रह्मणः कर्तृत्व धर्मासंभवादित्यर्थः | स्वतस्तदसंभवेप्यौपाधिकं तत् संभवतीति परिहरति | केचिदाहुरित्यादिना | यद्वा जगदुपादानस्य ब्रह्मणो न तत्कर्तृत्वं संभवति | घटाद्युपादानस्य मृदादेस्तत्कर्तृत्वा दर्शनादित्याक्षिपति | अथेति | घटेश्वर संयोगादावुपादानसैवेश्वरस्य कर्तृत्व दर्शनात् | ब्रह्मण एव कर्तृत्व प्रतिपादक श्रुति वलाच्च तस्य तत्संभवतीति परिहरति | केचिदाहुरित्यादिना | अथ वा ब्रह्मणः कर्तृत्वं कीदृशमिहलक्षणे विवक्षितं किं ज्ञानचिकीर्षाकृतिमत्वरूपं किं वा कार्यानुकूलज्ञानवत्वरूपं कार्यानुकूलस्रष्टव्यालोचनात्मक ज्ञानवत्वं रूपं वा नाद्यः ब्रह्मणस्तादृश कर्तृत्वे माना भावात् | न द्वितीय तृतीयौ कार्यानुकूलज्ञानस्य कार्यत्वे तत्कर्तत्वनिर्वाहाय ज्ञानांतरापेक्षायामनवस्था प्रसंगात् | तस्याकार्यत्वे च नित्य ज्ञान स्वरूपस्य ब्रह्मणस्तादृशज्ञानवत्वरूपकर्तृत्वायोगादिति भावः | तत्र प्रथमपक्षं स प्रमाणं दर्शयति | प्. ११५ब्) केचिदाहुरिति श्रुतिषु तच्छब्दाः ब्रह्मपराः स्वयमित्यस्यान्यानपिष्टतमित्यर्थः | आत्मानं जगदात्मना अकुरुतकृतवदित्यर्थः | एताभिः श्रुतिभिस्सृष्ट्यनुकूलाः ज्ञानेछा कृतयः प्रतिपाद्यंत इति भावः | न च ज्ञानादीनामपि कार्यत्का तत्कर्तृत्वाय ज्ञानाद्यंतरापेक्षाया मनवस्थास्यादिति वाच्यं | ज्ञानादि त्रितयाति रिक्त कार्ये उक्त रूपकर्तृत्वस्य विवक्षितत्वान्नानवस्था प्रसंगः | ज्ञानादि त्रयं प्रतित्वन्यदेवकर्तृत्वं भविष्यतीत्यभिप्रायः प्रथपक्षं दूषयन् | द्वितीयपक्षं साधयति | अन्येत्विति | अनवस्थाप्रसंगादिति | कर्तृत्वलक्षणाननुगमनपरिहाराय कार्यमात्रे प्रतिज्ञानादि त्रितयवत्वरूपे कर्तृत्वे वक्तव्ये सत्यनवस्थाप्रसंगो भवत्येवेति भावः | ज्ञानवत्वमेवेति | इछाकृत्योरेवकारेण व्यवछेदः क्रियते तयोः | कर्तृत्वलक्षणप्रवेशे च गौरवादिति भावः न चैव मुदाहृत श्रुत्योरिछाकृति प्रतिपादनं व्यर्थं स्यादिति वाच्यं || एवं च विवरणे जीवस्य सुखादि कर्तृत्वोक्तिः वीक्षणमात्र साध्यत्वाद्वियदादि वीक्षितं हिरण्यगर्भद्वारावीक्षणाधिक प्. ११६अ) प्रयत्नसाध्यत्वात् | भौतिकं स्मितमिति | कल्पतरूक्तिश्च संगछत इति वदति ताभ्यां श्रुतिभ्यां तयोः सृष्टिहेतुत्वलाभेपि कर्तृत्वनिर्वाहकतयातयोः प्रतिपादनमित्यत्रमानाभावादिति भावः | अकार्य त्वादिति नित्यज्ञानस्वरूपस्य ब्रह्मणस्तादृश ज्ञानवत्वमौपाधिक भेदमादाय द्रष्टव्यं | न चैवमपि सृष्टिकारणज्ञानस्य तदैक्षतेति श्रुत्याकादाचित्कत्वप्रतिपादनविरोध इति वाच्यं | ब्रह्मस्वरूपं तयानित्यस्यापि ज्ञानस्य प्राण्यदृष्टपरिपाकलक्षणो यः कादाचित्कस्सहायस्तद्विशिष्टतयाकादाचित्कत्वमभिप्रेत्य तच्छ्रुत्युपतेरिति भावः | कार्यानुकूलज्ञानवत्वमात्रं कर्तृत्वमित्यत्रगमकमाह | एवं चेति | इछाकृत्योः कर्तृत्व लक्षणाननुप्रवेशे विवक्षिते सतीत्यर्थः जीवस्येति | तस्य सुखदुःखाद्युत्यत्यनुकूलज्ञानं साक्षिरूपं यथा विद्यते | तथा तदनुकूलेछादि कं नास्त्यननुभवादनभ्युपगमाच्च | न चेदमनुपपन्नं सुखेछया तत्साधनानुष्ठान द्वारासुखोत्पतेरनुभव सिद्धत्वादिति वाच्यं | सुख्याद्युपादानांतष्करणगोचरचिकीर्षा कृत्योरभावस्यात्र विवक्षितत्वा तथा च कार्यानुकूल ज्ञानवत्वमात्रं कर्तृत्व प्. ११६ब्) मित्यंगीकारे सत्येव विवरणोक्तिः संगछते नान्यथेत्यर्थः | निश्वसितमस्य वेदाः वीक्षितमस्य पंचभूतानि स्मितस्य चराचरमस्य सुप्तिर्महाप्रलय इति वाचस्पति श्लोके महाभूर्तोनां ब्रह्मवीक्षितत्वमुक्तं तथा भौतिकस्य चराचर प्रपंचस्य ब्रह्मस्मितत्वं मुक्ते तदुभय तात्पर्य कथनपरे कल्पतरु ग्रंथे ब्रह्मवीक्षणमात्रसाध्यत्वं महाभूतेषु तद्धिक्षितत्वनिर्देशस्यालंबनं दर्शितं | तच्च ब्रह्मणो महाभूत सृष्ट्यनुकूलज्ञानवतदनुकूलचिकीर्षाकृत्योरप्युपगमेन संगच्छते वीक्षणाति रिक्त चिकीर्षादि व्यावर्तकमात्रपदविरोधात् | लोके हि मंदहासरूपं स्मितं ज्ञानाधिक प्रयत्न साध्यं प्रसिद्धं | तथा च ब्रह्मणो भौतिक सृष्टिं प्रतियथावीक्षणमपेक्षितं तथा हिरण्यगर्भोत्पति लक्षणव्यापारोप्यधिकोपेक्षितः चराचर सृष्टौ परब्रह्मण इव हिरण्यगर्भस्यापि कर्तृतायाः श्रुतिस्मृति सिद्धत्वा तथा च परब्रह्मणोनौतिक सृष्ट्यनुकूलं यद्वीक्षणं तदधिक व्यापारापोक्षितत्वं चराचरस्य ब्रह्मस्मि तत्वनिर्देशालंबनं दर्शितं तदपि यज्व महाभूतसृष्टावेव वीक्षिणांधिक प्रयत्नापेक्षायां न संभवति | हिरण्यगर्भद्वारेत्यस्य वाक्यस्य हिरण्यगर्भोत्पतिमपेक्ष्येत्यर्थः | न तु हिरण्यगर्भः | प्. ११७अ) साक्षात्कर्ता ब्रह्म च प्रयोजक कर्त्रिति यथा श्रुतार्थो ग्राह्यः द्वितीयाध्यायांतिमाधिकरणे परमेश्वरस्य भौतिक सृष्टावपि साक्षात्कर्तृतायास्साधितत्वादिति भावः | वाचस्पति श्लोकश्च ब्रह्मस्तुति परः ब्रह्म ह्यति प्रशस्तं | तथा हि यस्य ब्रह्मणः पुरुषनिश्वासवत् प्रयत्नं विनैव वेदा सर्वे कार्यभूताः यस्य च वीक्षणादेव माहाभूतानि भवंति यस्य च हिरण्यगर्भेण सह चराचरात्मकं विश्वं मंदहासमात्रं यस्य च महाप्रलयोपि सुषुप्ति प्रायः तत्प्राशस्त्येको विस्मय इति भावः || अपरे तु कार्यानुकूल सृष्टव्यालोचनरूपज्ञानवत्वं कर्तृत्वं | न कार्यानुकूलज्ञानवत्वमात्रं शुक्तिरजतस्वाप्नभ्रमादिषु अध्यासानुकूलाधिष्ठान ज्ञानवत्वेन जीवस्य कर्तृत्व प्रसंगात् | न चेष्टापतिः अथ रथान् रथयोगान्यथाः सृजते स हि कर्तेत्यादि श्रुत्यैव जीवस्य स्वप्न प्रपंच कर्तृत्वोक्तेरिति वाच्यं | भाष्यकारैर्लांगलंगवादीमुद्वहतीति वत्कर्तृत्वोपचारमात्रं रथादि प्रतिभान निमित्तत्वेनेति व्याख्यातत्वादित्याहुः प्. ११७ब्) अनेनैव निखिलप्रपंचरचना कर्तृभावेनार्थ सिद्धं सर्वज्ञत्वं ब्रह्मणः द्वितीयपक्षेपि दोषं वदन् तृतीयपक्षं समर्थते | अपरेत्विति | स्रष्टव्यालोचनेति | मयेदं स्रष्टव्यमित्याकारकमित्यर्थः | अध्यासेति अध्यासस्याध्यस्य मानरजतादेरनुकूलं यदधिष्ठन ज्ञानं तद्वत्वेनेत्यर्थः | न चेष्टापतिरिति | न चेत्यस्य वाच्यमित्यनेन संबंधः | अथेत्यस्य स्वप्नकाल इत्यर्थः | जीवस्य रथादि सृष्टृत्वे हेत्वमाह | स हि कर्तेति | हि यस्मात् स्वाप्न रथादि हेतु कर्मकर्ता जीवस्तस्मादित्यर्थः | भाष्यकारैरिति | लांगलंगवादीनुद्वहतीति प्रयोगे लांगलस्य गवादि स्थिति कर्तृत्वरूपं गवाद्युद्बोद्वृत्वं मुख्यं नास्ति किं तु लांगले सति कृषिद्वारागवादि स्थिति हेतु पलालादि तृणलाभोस्तीति कृत्वा उपचारादुच्यते | गवादीनुद्वहतीति | तद्वत्स्वाप्नरथादि पदार्थोपलब्धि हेतु धर्मादि कर्तृत्वेन रथादि प्रतिभाननिमितत्वरूपेण हेतुना तस्य कर्तृत्वमुपचर्यते | स हि कर्तेति श्रुताविति भाष्यकारैः कर्तृत्वस्य औपचारक कर्तृत्वरूपतया उक्तत्वादित्यर्थः | एतेन विवरणे सुखादि कर्तृत्वोक्तिरप्युपचारमात्रपराव्याख्यातामयेदं सुखदुःखादि सृष्ट्यव्यमित्यालोचनरूपज्ञानाभावेपि सुखादि प्. ११८अ) दर्शनेन मुख्यकर्तृत्वा संभवात् | वीक्षणमात्र साध्यत्वादिति कल्पतरौ स्रष्टव्यालोचन रूपवीक्षणं विवक्षितमिति न तद्विरोध इति द्रष्टव्यं | जन्मादि सूत्रेण निखिलजगत्कर्तृत्वे सति तदुपादानत्वे ब्रह्मणो लक्षणत्वेन प्रतिपादिते सति तस्य सर्वज्ञत्वमर्थात्सिध्यतितिखिलजगत्सृष्टिस्थितिसंहारकर्तृत्वस्य सर्वज्ञत्वं विनासंभवादित्याह | अनेनैवति || शास्त्रयोनित्वादित्यधिकरणे वेदकर्तृत्वेनापि समर्थितं | अथ कथं ब्रह्मणः सर्वज्ञत्वं संगच्छे ते जीववदंतष्करणाभावेन ज्ञातृत्वस्यैवायोगात् | अत्र सर्ववस्तु विषय सकल प्राणिधीवासनोपरक्ताज्ञानोपाधिक ईश्वरः | अतस्तस्य सर्वविषयवासनासाक्षितया सर्वज्ञत्वमिति भारतीतौर्थादि पक्षः प्रागेव दर्शितः सर्वज्ञत्वसिद्धौ हेतुंतरमाह | शास्त्रयोनित्वादिति | अस्य सूत्रस्यार्थमाह | वेदकर्तृत्वेनापीति | ननु यथा वेदकर्तृत्वं भाष्यादिषूक्तप्रकारेण सर्वज्ञत्वं साधयति | तथा जन्मादि सूत्रोपातं सर्वकर्तृत्वमपि तत्साधयति | तथा च पूर्वसूत्रे अर्थसिद्धं इह तु साध्यत प्. ११८ब्) इत्युक्तौ को हेतुरिति | उच्यते | पूर्वसूत्रं लक्षणपरं न तु सर्वज्ञत्व साधनं परं इदं तु तत्साधनपरमिति तात्पर्यसत्वाभ्यां तथा व्यवहारः | ततश्च ब्रह्मसर्वज्ञं शास्त्रकर्तृत्वादिति सूत्रयोजना ननु ब्रह्मणः सर्वज्ञत्वं यः सर्वज्ञस्सर्वविद्गुणी सर्वविद्य इत्यादि श्रुत्याकंठत एव प्रतिपाद्यते | कात्र साधनापेक्षेति चेत्सत्यं श्रुत्युक्ते सर्वज्ञत्वे प्रतिपतिदाढ्यीयतथोपपति समर्पणात् | एवं श्रुत्युपपति सिद्धं सर्वज्ञं निरूपयितुमाक्षेपमवतारयति | अथेति | जीवस्य हि स्वोपाध्यंतःकरणवृतिज्ञानाश्रयत्वरूपं ज्ञातृत्वं प्रमाणसिद्धं ब्रह्मणश्चांतष्करणाभावात् ज्ञातृत्वं न संभवति | न च ब्रह्मणोप्यंतःकरणमस्त्विति वाच्यं | कार्योपाधिरयं जीव इति | श्रुत्या तस्य जीवोपाधित्वेन नियमितत्वात् | ज्ञातृत्वं च सर्वज्ञत्व व्यापकं ज्ञातृत्व विशेषरूपत्वात् | सर्वज्ञत्वस्य तथा च ब्रह्मणः ज्ञातृत्वस्य व्यापकस्य निवृत्या व्याप्य सर्वज्ञब्रनिवृतिरित्यर्थः | ज्ञातृत्वाभावे सर्वज्ञत्वं दूरापास्तमित्येवकारार्थः | अंतष्करणानां जीवोपाधित्वेपि तद्वासनानामीश्वरोपाधित्वात्संभवति कथंचित् सर्वज्ञत्वमिति परिहरति | अत्र सर्ववस्त्विति | अत्रेत्यस्यास्मिन्नाक्षेप इत्यर्थः | सर्वविषयवासना साक्षितयेति | स्वोपाधिभूतवासना प्. ११९अ) विषय सर्ववस्त्ववभासकतयेत्यर्थः || प्रकृटार्थकारास्त्वाहुः | यथाजीवस्य स्वोपाध्यंतःकरणपरिणामाश्चैतन्यप्रतिबिंबग्राहिण इति तद्योगाज्ज्ञातृत्वं | एवं ब्रह्मणः स्वोपाधिमायापरिणामाश्रित्प्रतिबिंबग्राहिणः संतीति तत्प्रतिबिंबितैः स्फुरणैः कालत्रयवर्तिनोपि प्रपंस्या परोक्षेणावकलनात् सर्वज्ञत्वमिति | तत्वशुद्धिकारास्तूक्तरीत्याब्रह्मणो विद्यमाननिखिलप्रपंच साक्षात्कार संभवात् | तज्जनित संकारवतया च स्मरणोपपतेरतीत सकलवस्त्ववन्नाससिद्धिः सृष्टेः प्राऽऽन्मायायाः सृज्यमाननिखिल पदार्थस्फुरणरूपेणजीवादृष्टानुरोधेन विवर्तमानत्वात् | तत्साक्षितया तदुपाधिकस्य ब्रह्मणोपि तत्साधकत्वसिद्धे || अस्मिन् समाधाने प्रागुक्तमस्वरसंमनसिनिधाय प्. ११९ब्) समाधानांतरमाह | प्रकटार्थकारास्त्विति | यथांतष्करणं ज्ञातृत्वोपाधिस्तथा मायापि ज्ञातृत्वोपाधिर्भवत्ये च तथा च ब्रह्मणि मायोपाधिके सर्वज्ञत्व व्यापकस्य ज्ञात्वस्य निवृत्यभावात् न सर्वज्ञत्वनिवृति शंकेत्यर्थः | स्वोपाधिमायेति मापिनमिति श्रुतेर्मायोपाधिर्जगद्योनिस्सर्वज्ञत्वादि लक्षण इति वाक्यवृति वचनाच्च मायाया ईश्वरोपाधित्वं सिद्धमिति भावः | सर्वज्ञत्व सर्वनियंतृत्व सर्वात्मकत्वानिलक्षणान्यसाधारण धर्माः यस्य सः सर्वज्ञत्वादिलक्षण इत्यर्थः | अवकलनादिति | विषयीकरणादित्यर्थः | तत्वशुद्धिकारास्त्विति | प्रकटार्थकाराणां मते अतीतानागत प्रपंचविषयेपि ईश्वरीयं मायावृतिप्रतिर्विरूपं ज्ञानमपरोक्षं | तत्वशुद्धिकाराणां मते अतीतादि विषये जीवानामिवेश्वर ज्ञानमपि परोक्षमेवेति विशेषार्थकस्तु शब्दः | विद्यमानेति लोके प्रत्यक्षज्ञानस्य वर्तमानवस्तुमात्रविषयकत्व स्वामाव्यदर्शनेन तस्य कॢप्तस्वभावाति लंघने कारणानावात् | सर्वज्ञत्व प्रतिपादक शास्त्रस्य ईश्वरीय ज्ञानगत परोक्षत्वापरोक्षत्वयोरुदासीनत्वादिति भावः | तज्जनितोति | विद्यमानवस्तु साक्षात्कारजनितेत्यर्थः | अनागत वस्तु ज्ञानमुपपादयति | प्. १२०अ) सृष्टेः प्रागिति | स्फुरणपदं वृतिपरं विवर्तमानत्वं परिणममानत्वं | तदुपाधिकस्येति | मायोपाधिकस्येत्यर्थः कथं तु || रनागत वस्तुविषयविज्ञानोपपतिरिति सर्वज्ञत्वं समर्थयंते | कौमुदीकृतस्तवदंति स्वरूपज्ञाने नैव ब्रह्मणः स्वसंसृष्ट सर्वावभासकत्वात्सर्वज्ञत्वं | अतीतानागतयोरप्यविद्यायां चित्रभितौ विमृष्टानुन्मीलित चित्रवत्संस्कारात्मनासत्वेन तत्संसर्गस्याप्युपपतेः | ननु वृतिज्ञानैस्तस्य सर्वज्ञत्वं | तमेव भांतमनुभाति सर्वमिति सावधारण श्रुति विरोधात् | सृष्टेः प्रागेकमेवाद्वितीयमित्यवधारणानुरोधेन महामूतानामिववृत्तिज्ञानानामपि प्रलयस्य वक्तव्य तया ब्रह्मणस्तदा सर्वज्ञत्वाभावापत्या || दुपाधिकत्वमत आह | तत्साक्षितयेति | तस्यां मायायां प्रतिबिंबित तयेत्यर्थः | सृष्टेःति पूर्वकालेयायायास्तथा | परिणामेकारणमाह | जीवादृष्टेति | प्. १२०ब्) तत्साधकत्वसिद्धेरिति | मायावृति कर्तृत्वसिद्धैरित्यर्थः | अनागतेति | अनागत वस्तुविषयकस्य ज्ञानस्य वृतिप्रतिबिंबरूपस्य ब्रह्मण्युपपतिरित्यर्थः | जीववद्ब्रह्मणोपि चैतन्य प्रतिबिंबोपेतैर्वृतिज्ञानैस्सर्वज्ञत्वं निरूपितं मतद्वयेन | इदानीं स्वरूपज्ञानेनैव तन्निरूपयति | कौमुदीकृतस्त्विति | ननु अतीतानागत प्रपंचयोः प्रलयकाले सृष्टिपूर्वकाले च सत्वे माना भावात् | तदाब्रह्मणस्सर्वज्ञत्वं न सिध्यति | असतोस्तयोश्चैतन्य संसृष्टत्वासंभवादिति नेत्याह | अतीतानागतयोरपीति | अतीत प्रपंचस्य प्रलयकाले संकारात्मनासत्वस्य देवताधिकरणे सूत्रभाष्यकारादि भिस्माधि तत्वात् तथा नागतस्यापि सृष्टिपूर्वकाले संस्कारात्मनैव सत्वस्यारंभणाधिकरणादिषु च साधितत्वादतीतादि वस्तुसंसृष्टब्रह्मचैतन्यस्य तदापि सर्वज्ञत्वसिद्धिरि भावः | चित्रस्यानुन्मीलितत्वं अनभिव्यक्तत्वं | तत्र हेतुर्विसृष्टत्वमविद्यैव चित्रमितिरिति | रूपकमत्र दृष्टव्य | सुत्रेदंचित्यं | स्थूलप्रपंचस्थितिकाले संस्कारात्मक सूक्ष्मप्रपंचो नास्ति प्रलयकालादौ च स्थूलप्रपंचो नास्ति तथा च ब्रह्मचैतन्यस्य सदासर्वप्रपंच संसृष्टत्वाभावात् सदा तस्यासंकुचित सर्वज्ञत्वं न संभवतीति | स्वरूपज्ञानेनैवेत्यत्रत्यस्यावधारणस्य व्यवचेद्यमाह | प्. १२१अ) न तु वृतिज्ञानैरिति | श्रुतिमनस्यावधारणस्य स्वप्रकाशात्माति रिक्ता नवभास्यमाऽदित्यादि जगदित्यर्थः | अत्रेदं चित्यं | ब्रह्मचैतन्यस्य जगदवभासनार्थं मायावृत्यपेक्षायां यदि श्रौतमवधारणं विरुध्यते | तदा जीवचैतन्यस्य घटाद्यवभासनार्थमंतःकरणवृत्यपेक्षायामपि तद्विरुध्यत एव यदि चांतष्करणवृतीनां जडत्वात् | तदपेक्षायामपि सर्वं जडवस्तुचैतन्यमात्रावभाष्यमिति सावधारण श्रुत्यर्थस्य न बाधस्तदामायावृत्यपेक्षायामपि तुल्यं समाधानमिति || प्राथमिक मायाविवर्तरूपे ईक्षणे तत्पूर्वक महाभूतादौ च स्रष्टृत्वाभाव प्रसंगाच्च | एवं सति ब्रह्मणः सर्वविषयज्ञानात्मकत्वमेवस्यान्न तु सर्वज्ञातृत्वरूपं सर्वज्ञत्वमिति चेत्सत्यं | सर्वविषयज्ञानात्मकमेव ब्रह्म न तु सर्वज्ञान कर्तृत्वरूपं ज्ञातृत्वमस्ति || प्रलयकाले सर्वज्ञत्वाभावे को दोषस्तत्राह | प्राथमिकेति | तदासर्वज्ञत्वाभावे सति सर्गादौ तदैक्षेति श्रुत्युक्तं भूतसृष्ट्यनुकूलमीक्षणं प्रतिकर्तृत्वाभावेन प्. १२१ब्) ईक्षणपूर्वकभूतादि सर्गं प्रत्यधि ब्रह्मणः कर्तृत्वाभावप्रसंगादित्यर्थः | अत्रापीदं चित्यं | एवमपि सृष्टिपूर्वकाले ब्रह्मचैतन्यव्यतिरिक्तस्य माया तत्संबंधादेस्सत्वात् | अद्वितीयत्वावधारणं मुख्यं न संभवति | यदि च मायादेरनादित्व प्रतिपादक श्रुत्यादि वलाद्व्याकृतकार्यात्मक द्वितीयाभावावधारणपरं तद्वचनमित्युच्येते | तदा सर्वदा सर्वविषयक ज्ञानकर्तृत्वरूप सर्वज्ञत्व प्रतिपादक श्रुत्यादि बलात् सर्वज्ञत्व घटक मायावृति संतत्यति रिक्त कार्याभावावधारणपरसद्वितीयत्व वचनमित्यपि कल्पनं तुल्यं | मायावृतिभिस्सर्वज्ञत्व समर्थनमेव भाष्यसंमतं | तथा चेक्षत्यधिकरणभाष्यं | अपि चाविद्यादि मतस्संसारिणश्शरीराद्यपेक्षाज्ञानोत्पतिः स्यान्नज्ञानप्रतिबंधकारणे रहितस्येश्वरस्येति सृष्टेः पूर्वकाले ब्रह्मण स्मृष्टव्यालोचनमीक्षरूपणं न संभवति | वृतिज्ञानरूपेक्षणस्य शरीरादिकारकसाध्यताया लोकसिद्धत्वेन ब्रह्मणस्तदाशरीराद्यभावादिति सांख्यशंकामिरासार्थमिदं | भाष्यं जीवस्यैव वृतिज्ञानोत्पतिश्शरीरादि साध्या ईश्वरस्य तु मायावृतिरूपज्ञानोत्पतिश्शरीराद्यनपेक्षा तथा च सृष्टेः पूर्वं प्रलयकालेपि तस्य मायावृतिरूपमीक्षणं सदासर्वज्ञत्वं च संभवतीति समाधान भाष्याभिप्रायः | प्. १२२अ) इदं भाष्यमित्थमेव व्याख्यातृभिर्नीतं भाष्ये ज्ञानप्रतिबंधकारणमविद्यादीति मंतव्यं | ततश्च मायावृतिभिस्सर्वज्ञत्व समर्थन पक्षदूषणमसंगतमिति मंतव्यं | शंकते | एवं सतीति स्वरूपज्ञानेनैव सर्वज्ञत्व समर्थने सतीत्यर्थः | नत्विति | स्वरूपज्ञानस्य नित्यत्वादिति भावः | न तु सर्वज्ञानकर्तृत्वरूपमिति | ब्रह्मण इति शेषः | अत्र यद्यपि ज्ञातृत्वं सामान्यरूपं सर्वज्ञानकर्तृत्वं तु वि शेषरूपमिति न तयोरभेदस्संभवति | तथापि ब्रह्मणो ज्ञातृत्वं नास्तीत्यत्रैव तात्पर्यं न तु तयोरभेदोक्तावपीत्यविरोधः || अत एव वाक्यान्वयादित्यधिकरणे विज्ञातृत्वं जीवलिंगमित्युक्तं भाष्यकारैः यः सर्वज्ञ इत्यादि श्रुतिरपि ज्ञानरूपत्वाभिप्रायेणैव योजनीयेति | यद्यपि ब्रह्मस्वरूपचैतन्येनैव स्वसंसृष्ट सर्वावभासकं || अत एवेति | ब्रह्मणो ज्ञातृत्वाभावादेवेत्यर्थः | इत्युक्तमिति | बृहदारण्यके मैत्रेयी ब्राह्मणे पठ्यते | आत्मनस्तकामाय सर्वं प्रियं भवतीत्यात्मा वा अरे द्रष्टव्य इत्यादि | अत्र किं जीवो द्रष्टत्वेनोपरिश्यते | उत प्. १२२ब्) प्रत्यगभिन्नः परमात्मानिष्प्रपंच स्वभावः इति संशयस्तत्र पूर्वपक्षः पूर्ववावाक्ये भोक्तुर्जीवस्य प्रकृतत्वादुपसंहारेपि विज्ञातारमरेकेन विज्ञानीयादिति विज्ञातृत्वस्य जीवधर्मस्य कीर्तनाच्च जीव एवात्र द्रष्टव्य उपदिश्यत इति | सिद्धांतस्तु प्रत्यगभिन्नपरमात्मैव द्रष्टव्यतयोपदिशयते | कुतः वाक्यान्वयात् | तथाहि | अत्र आत्मवेदनेन सर्वं विदितं भवतीति प्रतिपाद्यते | तच्च सर्वाधिष्ठान ब्रह्मपरिग्रहं घटतेन जीवपरिग्रहे तथा इदं सर्वमात्मेत्यादि वाक्यान्यपि सर्वात्मके ब्रह्मण्येव तात्पर्येण प्रतिपादकतया अन्वितानि लक्ष्यंते | आत्मनस्तु कामाय सर्वं प्रियं भवतीति पूर्ववाक्ये जीवपरामर्शस्तु लोकसिद्धं भोक्तारं मनूद्य तस्य शुद्धब्रह्मरूपेण द्रष्टव्यत्वोपदेशार्थः विज्ञातारमिति वाक्यं तु जीवस्य विज्ञातृत्वरूपधर्मपरं न भवति तस्य वाक्यस्य मुक्तजीवपरत्वात् | मुक्तजीवे चतिरूपाधिके तस्यासंभवात् | किं तु भूतपूर्वगत्याविज्ञातृत्वानुवादमात्रं स्वातंत्र्येण न कस्य साधकं | तस्मात् | मैत्रेयी ब्राह्मणं प्रत्यगभिन्ने निर्विशेषे द्रष्टव्ये समन्वितमिति सिद्धमिति | अत्र ज्ञातृत्वं ब्रह्मसाधारणं चेज्जीवलिंगतया भाष्यकारैर्नोपन्यस्येत उपन्यस्तं च तस्मात् ज्ञातृत्वं ब्रह्मणो नास्तीति गम्यत इति भावः | ईश्वरस्य सर्वविषयकज्ञानकर्तृत्वानभ्युपगमे श्रुतिविरोधमाशंक्याह | यस्सर्वज्ञ प्. १२३अ) इति | ननु नित्यचैतन्यमात्रस्य सर्वत्रलक्ष्यतयाज्ञाधातुवाच्यत्वा योगात् | विशि चैतन्यस्य प्रकृत्यर्थत्वं वाच्यं | तथा च विशिष्टस्य कार्यत्व संभवात् | प्रत्यय श्रुत्यर्थकर्तृत्वस्य न विरोधः ब्रह्मणः सर्वज्ञानकर्तृत्व प्रतिपादक श्रुतिविरोधेन ज्ञातृत्वस्य जीवलिंगत्वोक्तेरभ्युच्चेयमात्रत्वोपपतेः | तदधिकरणसिद्धांताभिमत निर्विशेष ब्रह्मव्यावृतत्वमात्रेण विज्ञातृत्वस्य पूर्वपक्षलिंगत्वोपत्वोपन्यासोपपतेश्च भाष्यकारैरेव मुख्यस्य सर्वविषयक ज्ञानकर्तृत्वस्य ईक्षितृत्वस्य ईक्षत्यधिकरणे प्रतिपादितत्वाच्च प्रत्यय श्रुतेः स्वांर्थपरत्वसंभवेतत्यागायोगाच्चेत्यस्वरसादाह यद्यपीत्यादिना चैतन्येनैवेति | न मायावृतिभिरित्येव कारार्थः तथापि तस्य स्वरूपेणाकार्यत्वेपि दृश्यावछिन्नरूपेण तु ब्रह्मकार्यत्वाद्यः सर्वज्ञ इति ज्ञानजनन कर्तृत्व श्रुतेरपि न कश्चिद्विरोध इत्याचार्य वाचस्पति मिश्राः नन्वीश्वरज्जीवोपि वृतिमनपेक्ष्यस्वरूपचैतन्येनैव किमिति विषयान्नावभासयति | अत्रोक्तं विवरणे ब्रह्मचैतन्यं प्. १२३ब्) सर्वोपादानतया सर्वतादात्म्यापन्नं स्वसंसृष्टं सर्वमवभासयति | न जीवचैतन्यं तस्याविद्योपाधिकतया सर्वगतत्वेप्यनुपादानत्वेनासंगित्वात् | यथा सर्वगतंगोत्व सामान्यं स्वभावादश्चादि व्यक्ति संगित्वाभावेपि सास्तावद्व्यक्तौ | संसृज्यते | एवं विषयासंग्यपि जीवः स्वभावादंतष्करणे संसृज्यते | तथा च यदांतष्करणपरिणामो वृतिरूपो नयनादि द्वारेण निर्गत्यविषयपर्यंतं चक्षूरश्मि वक्तुटिति दीर्घप्रभाकारेण परिणम्यविषयं व्याप्नोति | तदातमुपारुह्यतं विषयं गोचरयति तर्हि प्रत्ययार्थ बाधः | नेत्याह | तथापीति | तस्य स्वरूपचैतन्यस्यैत्यर्थः | दृश्यावछिन्नेति | न चानादि मायादि रूपदृश्यावछिन्नचैतन्यस्य कथमुक्तप्रकारेणाधिकार्यत्वं सिद्धेदिति वाच्यं | मायादेरपि ततत्कार्यतादाअत्म्यापत्याकार्यत्वसिद्धौ मायाद्यवछिन्नस्यापि कार्यत्वस्य सुसंपादत्वादिति भावः | आक्षिपति | नन्विति | प्. १२४अ) नावभासयतीति | न चात्रेष्टापतिवक्तुं शक्यते | तथा सत्य विद्या प्रतिबिंबचैतन्यरूपजीवस्य व्यापकतया स्वसंसृष्टसकलजगदवभासकत्वापत्या सर्वज्ञत्वप्रसंगात्स्वरूपचैतन्यस्य कारका न पेक्षतया चक्षुरादि वैयर्थ्य प्रसंगाचेति भावः | अत्रोक्तमिति अस्मिन्नाक्षेपे समाधानमुक्तमित्यर्थः | न जीवचैतन्यमिति | यथा जगद्ब्रह्मसंसृष्टं तथा जीवसंसृष्टं न भवति | अतो न तस्य सर्वज्ञत्व प्रसक्तिरित्यर्थः | ननु यथा जीवस्य घटादि विषयैस्संबंधाभावः तथांतष्करणादिनापि संबंधाभावस्तुल्य उपादानत्वाभावादेव तथा चांतष्करणादेर्वृतिं विनैवजीवचैतन्यरूपसाक्षिभास्यत्वं न स्यादित्याशंक्य उपादानत्वाभावेपि जीवचैतन्यस्यांतष्करणादिना तादात्म्य संबंधे दृष्टांतमाह | यथा सर्वगतमिति | संसृज्यत इति | अतो नांतष्करणादेस्साक्षिभास्यत्व विरोध इति भावः चक्षुरादि वैयर्थ्य प्रसंगं परिहरति | तथा चेत्यादिना | तथा चेत्यस्य जीवस्य स्वतो विषय संबंधाभावे सतीत्यर्थः | अंतष्करणपरिणामस्य सहसाविषयव्याप्तौ दृष्टांतः चक्षूरश्मि वदिति | तमिति परिणाममित्यर्थः | गोचरयतीति | जीवचैतन्यमिति शेषः केवलाग्निनाऽ अदाह्यस्यापि तृणादेरयः प्. १२४ब्) पिंडसमारूढाग्निदाह्यत्ववत्केवलजीवचैतन्याप्रकाश्यस्यापि घटादेरंतष्करणवृत्युपारूढ तत्प्रकाश्यत्वं युक्तं यद्वांतष्करणोपाधिकत्वेन जीवः परिछिन्नः अतः संसर्गाभावान्न घटादिमवभासयति वृतिद्वारा तत्संसृष्टविषयावछिन्न ब्रह्मचैतन्याभेदाभिव्यक्तौ तं विषयं प्रकाशयति | अथवा जीवः सर्वगतोप्यविद्यावृतत्वात् || विषयदेशे सतोपि जीवचैतन्यस्य स्वतो विषयावभासकत्वं नास्ति तस्यैव तु वृत्त्यारूढस्य तदस्तीत्यत्र दृष्टांतमाह | केवलाग्नीति तत्प्रकाश्यत्वमित्यत्र तत्पदं | जीवचैतन्य परं ननु जीवचैतन्यस्य विषयदेशे सतोपि विषयैस्संसर्गाभावात् | न तत्प्रकाशकत्वं वृत्यातयोः संसर्गलाभे च तत्प्रकाशकत्वं स्वीकृत्यसर्वज्ञत्व प्रसंगः किंमिति परिहर्यते जीवचैतन्यस्य सर्वगतत्वेन सत्यपि विषयसंसर्गे बिंबभूतब्रह्मचैतन्यवत्तस्यावृतत्वादेव न विषयप्रकाशकत्वमिति प्रतिपादनेनापि जीवस्य सर्वज्ञत्व प्रसंगादेः प्. १२५अ) परिहारसंभवादिति भावः जीवचैतन्यस्यांतष्करणोपाधिकतयापरिछिन्नत्वपक्षे सर्वज्ञत्वापतिशंकैव नास्ति | तस्य विषयैः सह स्वतः संबंधाभावेन वृतिं विना तत्प्रकाशात्मकत्वासंभवादिति परिहारांतरमाह | यद्वेति | अत इति परिछिन्नत्वादित्यर्थः | तत्संसृष्टेति वृतिद्वारावृतिमदेतःकरण संसृष्टं यत् विषयावछिन्न ब्रह्मचैतन्यं तस्यांतष्करणोपाधिक जीवचैतन्येन सहाभेदाभिव्यक्तौ सत्यां स जीवस्तं विषयं प्रकाशयतीत्यर्थः | अविद्याप्रतिबिंबो जीव इति प्रथमपक्षमेवाश्रित्यजीवस्योपादानत्वाभावेपि घटादि विषयैस्सहसंसर्गमभ्युपेत्यपरिहारांतरमाह | अथवेति सर्वगतौपीति | उपलक्षणं चैतत् | विषयसंसृष्टोपीत्यपि द्रष्टव्यं इतरथा विषयसंसर्गाभावादेव जीवस्य विषयप्रकाशकत्वाभावोपपतौ तस्यावृतत्वकल्पना वैयर्थ्य प्रसंगादिति बोध्यं | न च मां न जानामीत्यनुभवाभावात्कथं तस्यावृतत्वं सिध्येदिति वाच्यं | अंतष्करणोपहित जीवचैतन्यस्यैवमामित्युनुभवविषयतया व्यापकजीवचैतन्ये अंतःकरणावछेदेन तदभावेपि विषयदेशे तस्यावृतत्वकल्पने बाधकाभावात् | सर्वगतत्वेन रूपेण मां न जानामीत्यनुभवसत्वाच्चेति भावः || प्. १२५ब्) स्वयमप्यप्रकाशमानतयाविषयानऽनवभासयन् विषयविशेषेवृत्युपरागादावावरणतिरोधानेन तत्रैवाभिव्यक्तस्तमेव विषयं प्रकाशयति | एवं चिद्रुपरागार्थत्वेन विषयचैतन्याभेदाभिव्यक्त्यर्थत्वेनावरणाभिभवार्थत्वेन वा वृतिनिर्गममपेक्ष्य तत्संसृष्टविषयमात्रावभासकत्वाज्जीवस्य किंचित् जत्वमप्युपपद्यत इति | अत्र प्रथमपक्षे सर्वगतस्य जीवस्य वृत्यधीनः को विषयोपरागः वृत्यापि हि पूर्वसिद्धयोः निष्क्रिययोर्विषयजीवचैतन्ययोस्तादात्म्यस्य संयोगस्य वा न संभवत्याधानं || स्वयमपीति | विषयास्तावज्जडत्वात्स्वतो न प्रकाशंते जीवस्तु स्वप्रकाशमानोप्यावृतत्वादप्रकाशमान इति वक्तुमपि शब्दः यद्वा अपिशब्दो अवधारणार्थः तथा चावृतत्वात् स्वयमेवाप्रकाशमानतयेत्यर्थः | वृत्युपरागादाविति | विषय विशेषे वृत्युपरागे सति विषयदेशस्य जीवचैतन्यस्यापि वृत्युपरागो भवति | प्. १२६अ) तेन च जीवचैतन्यगतस्यावरणस्य तिरोधानं भवति तथा च जीवचैतन्यैं यो वृत्युपरागस्स आदिपदार्थः | तत्रैवेति | विषयविशेष एवेत्यर्थः | तमेवेति | नान्यं विषयमतो न सर्वज्ञत्वप्रसंग इति भावः इममेव भावं प्रकटयति | एवं चेति | जीवचैतन्यस्य वृतिं विनाविषयानवभासकत्वे सिद्धे सतीत्यर्थः | तत्संसृष्टेति | वृतिसंसृष्टेत्यर्थः | किंचिद्गत्वमपीति | अनुभवसिद्धं किचिद्गत्वं अनुभव सिद्धासर्वज्ञत्वारिति भावः | तत्सिद्धं चक्षुराद्यनुविधानं चेत्यपि शब्दार्थः | आक्षिपति | अत्रेति | उक्तपक्षेषु मध्य इत्यर्थः क इति स्वरूलक्षणो वा तादात्म्यलक्षणो वा संयोगलक्षणोवेति किं शब्दार्थः तत्र न तावदाद्योवृत्यधीनः जीवचैतन्यस्य सर्वगतत्वेन विषयदेशसन्निहित | जीवचैतन्यविषययोः स्वरूपात्मक संबंधस्य वृतिं विनापि सिद्धत्वादित्याशयेन सर्वगतस्येत्युक्तं | द्वितीयतृतीयौ क्रमेण दूषयति | वृत्यापीति | लोकेययोः पदार्थयोस्तादात्म्यमनुभूयते | तयोरादित आरभ्यानुभूयते न तु मध्ये आगंतुकमित्याशयेनाह पूर्वसिद्धयोरिति | संयोगस्यान्यतर कर्मजत्वमुभय कर्मजत्वं वा वक्तव्यं तदुभयं प्रकृतेन संभवतीत्याह | निष्क्रिययोरिति | न च सुवर्णादौ द्विविधकर्माभावेपि तेजः पार्थिवभगयोस्संयोगो दृष्ट इति वाच्यं | तथा विषयजीवचैतन्ययोरादित आरभ्य संयोगाभ्युपगमे तस्य वृत्यधीनत्व प्रतिपादनविरोधादिति भावः वृत्याप्याधानं न संभवतीति संबंधः प्. १२६ब्) जीवचैतन्यस्यानुपादानतया निरवयवतया च विषय जीवचैतन्ययोस्तादात्म्यसंयोगौ स्वतोनस्त एवं वृत्यापि तयोराधानं न संभवतीत्यपि शब्दार्थः आधानमुत्पादनमिति बोध्यं || अत्र केचिदाहुः | विषयविषयिभावसंबंध एवेति | अन्ये तु विषयविधिभावमात्रे नियामकावृतिश्चेदनिर्गताया अप्यैंद्रियक वृतेस्तन्नियामकत्वं नाति प्रसंगावहमिति तन्निर्गमाभ्युपगम वैयर्थ्यापतेः | स नाभिसंहितः किं तु विषयसन्निहित जीवचैतन्य तादात्म्यापन्नायावृते विषयसंयोगे तस्यापि तत् द्वारकः परंपरासंबंधो लभ्यत इति स एव चिदुपरागोभिसंहित इत्याहुः | अपरे तु साक्षादपरोक्ष चैतन्य संसर्गिण एव सुखादेरापरोक्ष्यदर्शनादपरोक्षविषये साक्षात्संसर्ग एष्टव्यः || विषयदेशे सन्निहितस्य जीवचैतन्यस्य वृत्युत्पतेः पूर्वं विषयविषयिभावलक्षणसंबंधो नाभूत् तदुत्पनं तं *? स जायते तस्याति रिक्तस्यानिर्वचनीयस्य संभवादित्याशयेनाह प्. १२७अ) अत्र केचिदाहुंरिति | न तु स्वरूपसंबंधस्य वा तादात्म्यस्य वा संयोगस्य वा वृत्यधीनत्वमुपेयते येनोक्त दोषः स्यादित्येव कारार्थः | परोक्षस्थले अनुमित्यादिवत्युपहित जीवचैतन्यस्यानुमेयादि विषयैस्सहविषयविषयिभावलक्षणसंबंधस्य वृतिनिर्गमनं विना सिद्धांते | स्वीकाराद्वृतिनिर्गमनमुपगछतां विवरणकाराणामयं संबंधो नाभिप्रेत इत्याह | विषयविषयिभावमात्र इति | परोक्षस्थल साधारणविषयविषयि भाव इत्यर्थः | तन्नियामकत्वमिति | विषयविषयिभाव संबंधस्तच्छब्दार्थः वृतिनिर्गमनाभावेपि यद्विषयावृतिर्जीवस्य स ए प्रकाश्योनान्य इति नियमसिद्धेर्विषयांतरप्रकाशकत्वापत्तिरूपाति प्रसंगो नास्तीत्यर्थः संयोगादेरपि निरस्तत्वात् कस्संबंधस्तदधि मत इति पृछति | किंत्विति अभिमतं संबंधमाह | विषयसन्निहितेति विषय व्यापितया उत्पन्नां वृतिं प्रतिविषयसन्निहित जीवचैतन्यस्याधिष्ठानतया वृतेस्तत्तादात्म्यं बोध्यं तस्यापीति विषय सन्निहित जीवचैतन्यस्यापि विषयावभासकत्वेनाभि मतस्य विषयेण सह वृतिविषयसंयोगद्वारकः परंपरासंबंधः विषय संयुक्तवृतितादात्म्यलक्षणो लभ्यत इत्यर्थः | उक्त संबंधस्य वृति निर्गमनं विना संभवातन्निर्गमनं विवरणाचार्येरुक्तमिति भावः | सुखादेरोतर पदार्थस्यापरोक्षत्वेन तत्प्रकाशक जीवचैतन्येन सह तस्यऽ ग?ता प्. १२७ब्) त्संबंधः प्रयोजकत्वेन कॢप्तः | एवं बाह्यघटादीनामापरोक्ष्येपि | साक्षात्संबंधः विषयापरोक्ष्ये क्वचित्साक्षात्संबंधः | क्वचिच्च परंपरासंबंधः प्रयोजक इति वैरूप्यापतेस्संभवति | साक्षात्संबंधे परंपरासंबंध कल्पनायोगाच्च | तस्मान्नायमप्याचार्याभिमतस्संबंधः इत्याह अपरेतिति || तस्माद्वृतेर्विषयसंयोगे वृत्तिरूपावछेदकलाभातदवछेदेन त्वदुपादानस्य जीवस्यापि संयोगजसंयोगः संभवतिकारणाकारणसंयोगात् कार्यसंयोगवत् | कार्याकार्यसंयोगात्करणाकारणसंयोगस्यापि | युक्तितौल्येनाभ्युपगंतुं युक्तत्वादित्याहुः | एकदेशिनस्त्वं तष्करणोपहितस्य विषयावभासक चैतन्यस्य विषयतादात्म्यापन्न ब्रह्मचैतन्याभेदाभिव्यक्तिद्वाराविषय तादात्म्यसंपादनमेव चिदुपरागोभिसंहितः || तस्मादिति | परंपरासंबंधस्यानभिमतत्वादित्यर्थः | वृतेरिति | वृतेर्विषयेण संयोगे सति वृत्युपादानजीवचैतन्यस्यापि विषयेण सहसंयोगजसंयोगस्संभवति | एतदुक्तं भवति | जीवचैतन्यस्य वृतिः कार्यं अकार्यं विषयः प्. १२८अ) वृतेर्जीवचैतन्यमुपादानकारणं तस्यावृतेर्विषयोनोपादानकारणं | तथा च वृतिविषययोर्जीवचैतन्यं प्रतिकार्याकार्ययोस्संयोगा जीवचैतन्यविषययोर्वृतिं प्रतिकारणाकारणायोः संयोगोत्र संयोगज संयोगो विवक्षित इति | ननु कायं प्रतिकारणभूतरुस्तस्य तं प्रत्येवाकारणभूततरुणासंयोगात् हस्तकार्यकायस्य हस्ताकार्य तरुणा सहसंयोगः उपेयते हस्ततरुसंयोगदशायां तरौ हस्तावछेदेन तरुः कायसंयुक्त इत्यनुभवादित्याशंक्यप्रकृतेपि घटादौ विषये वृति संयोगदशायां घटे वृत्यवछेदेन घटस्फुरतीति जीवचैतन्य संसृष्टत्वान भवादित्याशयेनाह कारणाकारणेति | युक्तितौल्येनेति | उभयत्र कल्पनानुभवरूपाया युक्तेस्तल्पत्वेनेत्यर्थः | ननु विषयदेशे सन्निहितस्यापि जीवचैतन्यस्य वृत्युपादानत्वं विवरणाचार्याणामभिमतं न भवति | जीवस्यांतःकरणाद्युपादानत्वाभावेपि सास्नादि मद्यक्तौ गोत्व सामान्यस्येव स्वभावादेव जीवस्यांतःकरणादौ संबंध इत्यस्यार्थस्य एवं विषयासंग्यपि जीवः स्वभावादंतष्करणेन संसृज्यत इत्यत्र प्राविवरणमतत्वेन प्रतिपादितत्वात् | ततश्च जीवचैतन्यस्य वृतिं प्रत्युषादानकारणत्वाभावे सत्युक्त संबंधो न सिध्यतीति संयोगजसंयोगोपि नाचायं संमत इत्यस्वरसादाह | एकदेशिनस्त्विति | घटादि विषयाभासकजीवचैतन्यस्य घटादिनाविषयेण सह तादात्म्य प्. १२८ब्) संबंधसंपादनमेव चिदुपरागत्वेनाभिमतमित्यर्थः | ननु वृत्यापि पूर्वसिद्धयोर्विषयचैतन्ययोस्तादात्म्यस्य न संभवत्याधानमिति प्रागुक्तत्वात्कथं तत्संपादनमत आह | विषय तादात्म्यापन्नेति | बिंबभूत ब्रह्मचैतन्यस्य घटादि विषयोपादानतया ब्रह्मविषययोस्तादात्म्यं प्रागेव सिद्धं तथा च विषयतादात्म्यापन्न ब्रह्मचैतन्येन सहविषयादनासक जीवचैतन्यस्य वृति कृता भेदाभिव्यक्तौ सत्यां जीवचैतन्यस्य विषयतादात्म्यं वृत्यधीनतयालभ्यते | अभेदाभिव्यक्तिप्रकारश्च वक्ष्यते अतो न तादात्म्य संपादनानुपपतिरिति भावः || सर्वगततया सर्वविषयसंनिहितस्यापि जीवस्यतेवरूपेणविषयावभासकत्वे तस्य साधारणतया पुरुषविशेषापरोक्ष्य व्यवस्थित्य योगेन तस्यांतष्करणोपहितत्वरूपेणैव विषयावभासकत्वात् | एवं च विषयापरोक्ष्ये अध्यासिकसंबंधो नियामक इति सिद्धांतोपि संगछतेन चैवं द्वितीय यक्षसाकर्यं जीवस्य सर्वगतत्वे प्रथमः पक्षः परिछिन्नत्वे द्विती प्. १२९अ) इत्येव तयोर्भदादित्याहुः || विषयावन्नासकजीवचैतन्यस्यांतष्करणोपहितस्येति यद्विशेषणंदतं तस्य प्रयोजनमाह | सर्वगतयेति | ते त्वेति सर्वगतत्वेनेत्यर्थः तस्येति | जीवस्येत्यर्थः | साधारणतयेति | सर्वपुरुषसाधारणतयेत्यर्थः | पुरुषपदं प्रमातृ परमविद्या प्रतिबिंबो जीव इति पक्षे जीवभेदाभावात् | अयोगेन तस्येति | जीवस्येत्यर्थः | तथा च सर्वगतमपि जीवचैतन्यं यस्य पुरुषस्यांतष्करणोपहितं स यमर्थमवभासयति सोर्थस्तस्यैवापरोक्षो नान्यस्येति व्यवस्थिति सिद्धये अंतष्करणोपहितत्वविशेषणं वाच्यमित्यर्थः | एकदेशमते लाभमाह एवं चेति विषयावभासकजीवचैतन्यस्य वृत्याविषयतादात्म्य संपादनोपगमे सतीत्यर्थः | अध्यासिकेति | अध्याससिद्धतादात्म्य संबंध इत्यर्थः | न चैवमिति | संबंधार्थावृतिरिति प्रथमपक्षेपि वृत्याभेदाभिव्यक्त्युपगम इत्युपगम इत्यर्थः | सांकर्यं पहिहरति | जीवस्येति जीवस्य सर्वगतत्वमते संबंधार्थावृतिरिति | प्रथमपक्षः जीवस्यांतःकरणोपाधिकतया परिछिन्नत्वमते अभेदाभिव्यक्त्यर्थावृतिरिति द्वितीयपक्ष इत्यथः | अयं भावः प्रथमद्वितीय पक्षयोरुभयोर्वृतिकृताभेदाभिव्यक्ति साम्येपि प्रथमपक्षे वृतिरभेदाभिव्यक्ति प्. १२९ब्) द्वाराविषयावभासक जीवचैतस्यस्य विषयेण महतादात्म्यसंबंध संपादनार्थाद्वितीयपक्षे तु वृतिर्विषयावभाब्रह्मसकजीवचैतन्यस्य विषयावछिन्नचैतन्येनाभेदाभिव्यक्त्यर्थैवेति न पक्षयोस्सांकर्यामिति | यद्वा प्रथमपक्षे जीवस्य व्यापकतया विषयदेशे सदासन्निहितस्यैव विषयावन्नासक जीवचैतन्यस्य विषयतादात्म्यापन्न ब्रह्मचैतन्याभेदाभिव्यक्त्यर्थावृतिः द्वितीय पक्षे तु जीवस्य परिछिन्नतया वृतिस्तस्य विषय सन्निधिं संपाद्याधिष्ठान ब्रह्मचैतन्याभेदाभिव्यक्तिमपि संपादयतीति तयोः पक्षयोरसांकर्पमयं परिहारो मूले सर्वगतत्वपरिछिन्नत्व पदाभ्यां सूचितः पूर्वपरिहारस्तु प्रथमपक्ष द्वितीयपक्ष पदाभ्यां सूचितः संबंधार्थावृतिरिति प्रथपक्षे संबंधस्योद्देश्यत्वातगमादभेदाभिव्यक्त्यर्थावृतिरिति द्वितीय पक्षे अभेदाभिव्यक्तेरेवोद्देश्यत्वावगमादिति | अत्र मते विवछित विवेकेन वृतेरभेदाभिव्यक्तिरेव प्रयोजनं प्रथमद्वितीयपक्षयोः पर्यवस्यतीति तयोस्सांकर्यं दुर्वारमित्यभिप्रेत्यादावेव एकदेशिन इत्युक्तमिति मंतव्यं || अथ द्वितीयपक्षे केयमाभेदाभिव्यक्तिः केचिदाहुः कुल्याद्वारातटाककेदारसलिलयोरिव प्. १३०अ) विषयांतष्करणावछिन्नचैतन्ययोर्वृत्तीद्वारा एकीभावोऽभेदाभिव्यक्तिः | एवं च यद्यपि विषयावछिन्नं ब्रह्मचैतन्यमेव विषयप्रकाशकं || वस्तुतस्तसंबंधार्थावृतिरिति वदतामाचार्याणामयमभिप्रायः विषयावभासकत्वेनाभिमतस्य जीवचैतन्यस्य विषयेण घटादिना सहव्यंग्यव्यंजकता लक्षणसंबंधस्ततद्विषयसंसृष्टवृत्यधीनोत्र विवक्षितः | तथाहि अंतःकरणं स्वछद्रव्यत्वात्स्वत एव चैतन्याभिव्यंजनसमर्थं घटादिकं तु तथा न भवति अस्वछद्रव्यत्वात् | घटादि विषयव्याप्त्या तु वृत्या तत्र विद्यमानमस्वछत्वमभिभूय चैतन्याभिव्यंजनयोग्यता आधीयते | तदुक्तं | विवरणाचार्यैरेवांतष्करणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्ति योग्यंतामायादयतीति | दृष्टं चास्वछस्यापि स्वछद्रव्य संसर्गात् | प्रतिबिंबग्राहित्वयोग्यत्वं | यथा कुड्यादेर्जलसंयोगकाले प्रतिबिंबग्राहित्वं घटादेः स्वसन्निहित जीवचैतन्यव्यंजकत्वं च तत्प्रतिबिंबग्राहितं | चैतन्यस्यापि व्यंग्यत्वं | तत्र प्रतिबिंबितत्वमेव | एवं विधव्यंग्यव्यंजकतालक्षणसंबंधार्थमेव वृतेर्निर्गमनमुक्तं विवरणे | तथा च वृत्यावहिर्निर्गतया विषयचैतन्ययोर्यथोक्त संबंधे संपादिते सति घटादौ प्रतिबिंबितं प्. १३०ब्) तत्रत्यं जीवचैतन्यं तमवभासयतीति | द्वितीयपक्षमाक्षिपति | अथेति | केयमिति | अभेदाभिव्यक्त्यरर्थावृतिरिति द्वितीयपक्षो हि जीवस्य परिछिन्नत्व मत इत्युक्तं | अस्मिन्मते अंतष्करणोपाधिकस्य जीवस्य विषयावछिन्न बिंबभूतब्रह्मचैतन्यस्य च वृत्याभेदाभिव्यक्तिर्न संभवति | अखंडाकारवृतेरिव घटादि गोचरवृतेरुपाधिनिवर्तकत्वाभावेन भेदकोपाध्योरंतष्करणविषययोस्सतोर्जीव ब्रह्माभेदाभिव्यक्तेरयोगादित्यर्थः | व्यावर्तकोपाध्योस्सत्वेपि तयोरेकदेशस्यात्व संपतौ तद्बलादभेदाभिव्यक्तिस्संभवति लोके तथा दर्शनादिति परिहरति | केचिदाहुरिति | केदारः सस्यनिष्पति स्थानं | तथा च तडाकस्थ सलिलस्य कुल्याद्वाराकेदारस्थ सलिलस्य चाभेदाभिव्यक्तिर्यथालोके प्रसिद्धा तथांतष्करणावछिन्नचैतन्यरूपजीवस्य विषयावछिन्न ब्रह्मचैतन्यस्य च वृतिद्वाराभेदाभिव्यक्तिर्भवति वृत्तेर्विषयदेशस्थत्वे सति वृतिवृतिमतोरभेदेन जीवोपाध्यंतष्करणस्यापि विषयदेशस्थत्वसिद्धेरित्यर्थः || तथापि तस्य वृतिद्वारैकी भावेन जीवत्वं संपन्नमिति जीवस्य विषयप्रकाशेपपतिरिति | अन्ये त्वाहुः बिंबस्थानीयस्य प्. १३१अ) विषयावछिन्नस्य ब्रह्मणः प्रतिबिंबभूतेन जीवेनैकीभावोनाभेदाभिव्यक्तिः व्यावर्तकोपाधौ दर्पण इव जाग्रति तयोरेकीभावायोगात् | वृतिकृताभेदाभिव्यक्त्याविषयावछिन्नस्य ब्रह्मणो जीवत्व प्राप्तौ ब्रह्मणस्तदा तद्विषयसंसर्गा भावेन तत् द्रष्टृत्वा संभवे सति तस्य सर्वज्ञत्वाभावापतैश्च || एवं चेति | अभेदाभिव्यक्तेः संभावितायामित्यर्थः | ननु जीवचैतन्यस्य विषयावन्नासकत्वं न संभवति | तस्य विषयं प्रत्युपादानत्वाभावेन तादात्म्यसंबंधाभावात् | न च ब्रह्मचैतन्यमेव विषयावभासकमस्तु तस्योपादानतया साक्षादेवतादात्म्य संबंधलाभादिति वाच्यं | तथा सत्यालोकेन घटः प्रकाशित इति वन्मया घटोवगत इति जीवचैतन्यस्यैव घटप्रकाशकत्वावगमविरोधादिति मत्वा पुनः शंकते | अभेदाभिव्यक्तिप्रयोजनं वक्तुं | यद्यपीति | विषयप्रकाशकमिति | इति वक्तव्यं तादात्म्यसंबंध लाभादिति शेषः | न जीवचैतन्यमित्येवकारार्थः तथा च मयायमवगतो घट इत्यनुभवविरोध इति भावः परिहरति | तथापीति | तस्येति तादात्म्यसंबंधेन विषयावभासक ब्रह्मचैतन्यस्य वृति द्वारांतःकरणोपहितत्व प्राप्तौ जीवे प्. १३१ब्) नैकीभावाज्जीवत्वं संपन्नमिति ब्रह्मचैतन्यस्य यद्विषयावभासकत्वं तज्जीवस्यैवेति प्राप्त्योनानुभवविरोध इत्यर्थः | दर्पण इवेति | यथा दर्पणे प्रतिबिंबदशायां बिंबप्रतिबिंबयोरभैदाभिव्यक्तिर्न्नास्ति तयोस्तदा भेदानुभवा तथा प्रकृतेपि विषयादि रूपभेदकौपाधौ सति साम संभवतीत्यर्थः | ननु तत्वसाक्षात्कारेणाशेषोपाधि निवृतौ यादृश्यभेदाभिव्यक्तिस्तादृशी न तत्र विवक्षिता | किं तु क्षीइरनीरयोरेक पात्रस्थयोरिव वृतिद्वारा अंतष्करणविषययोरेकदेशस्थत्वप्राप्तौ तन्मात्रप्रयुक्ता तदवछिन्नचैतन्ययोरौपचारिक्यभेदाभिव्यक्तिर्विवक्षिता अस्यां चाभेदाभिव्यक्तौ न व्यावर्तकोपाधि सत्व प्रयुक्तो विरोधोस्ति दर्पणे मुखप्रतिबिंबदशायामपि मम मुखमेव दर्पणे भातीति बिंबप्रतिबिंबयोरभेदाभिव्यक्ति दर्शनात् | अस्मिन्मतेपीत्थमेव निर्वाहः कर्तव्यः न ह्यंतःकरण तद्वृति प्रतिबिंबयोरभेदाभिव्यक्तिर्मुख्या संभवति वृति वृतिमतोः कार्यकारणभावा एन्नयोरैक्यायोगेन तत्प्रतिबिंबयोरैक्यायोगात् | ऐक्येवा एवं चेत्यादिना प्रमात्रादीनामस्मिन्मते साकर्याभावोपपादनविरोधादित्य स्वरसादाह | वृतिकृताभेदाभिव्यत्मेति | तदा तद्विषयेति | विषयावछिन्न ब्रह्मणो जीवत्व प्राप्तौ तस्येश्वरत्व निवृतिरवश्यं वाच्याचैतन्ये एकावछेदेन प्. १३२अ) जीवत्वेश्वरत्वयोरसंभवा | तथा च तदा जीवत्व दशायां ब्रह्मणस्तद्विषयसंसर्गाभावेन तद्दृष्टृत्वं न संभवतीत्यर्थः | तस्येत्यनंतरं तदेत्यनुषंगः || किं तु विषयावछिन्नं ब्रह्मचैतन्यं विषयसंसृष्टायावृतेरग्रभागे विषयप्रकाशकं प्रतिबिंबं समर्पयतीति तस्याप्रतिबिंबस्य जीवेनैकीभावः | एवं चांतःकरण तद्वति विषयावछिन्नचैतन्यानां प्रमातृ प्रमाणप्रमेय भावेनासंकरोप्युपपद्यते | न च वृत्युपहित चैतन्यस्य विषय प्रमाणत्वे तस्य विषयाधिष्ठान चैतन्यस्येव विषयेणाध्यासिक संबंधाभावाद्विषयापरोक्ष्ये आध्यासिक संबंधस्तंत्रं न स्यादिति वाच्यं | विषयाधिष्ठान चैतन्यस्यैव विषयेणावछिन्नस्य वृतौ प्रतिबिंबितया तदभेदेन तत्संबंध सत्वादिति ननु विषयाधिष्ठान चैतन्यस्य वृति संसर्ग दशायामंतष्करणोपहितत्वप्रयुक्त जीवत्ववदविद्योपहितत्व प्रयुक्तमीश्वरत्वमप्यविरुच्चं तथा च बिंबभूतेश्वरस्य तदापि सर्वज्ञत्वमक्षतं | अन्यथांतष्करणाद्यधिष्ठान चैतन्यस्य तदुपाधिकत्व प्रयुक्तजीवत्वे सदा स्थिते प्. १३२ब्) सति बिंबभूतब्रह्मणस्सदांतःकरणादि संसर्गाभावेन तद्दृष्ट्वत्वासंभवे सति सदा सर्वज्ञत्वाभाव प्रसंगदोष इहापि मते तुल्य इत्यस्वरसंमनसिति धाय कीदृशी तर्हित्वदभिमताभेदाभिव्यक्तिरिति पृछति | किं त्वितिति | तामाह | विषयावछिन्नमिति | अग्रभाग इति वृतिर्हि हृदयस्थांतःकरणमारभ्यविषयपर्यंतमविछिन्ना कौस्तुभमण्यादि प्रभावद्दीर्घीभावमापन्ना तिष्ठति तस्यावृतेर्विषय संसृष्टो भागोग्रभाग उच्यते | तत्र यो ब्रह्मणः प्रतिबिंबः तस्य विषयप्रकाशकस्य जीवं नैकीभावः इहाभेदाभिव्यक्तिर्विवक्षितावृतिवृति मतोस्तादात्म्यरूपाभेद सत्वेन तत्प्रतिबिंबयोरभेदाभिव्यक्ति संभवादित्यर्थः | एवं चेति | वृति प्रतिबिंबस्यांतष्करणप्रतिबिंबाद्वस्तुतोभिन्नस्यैव स तस्तदभेदेनाभिव्यक्तस्य विषयावभासकत्वे स्वीकृते सतीत्यर्थः | असंकरोपीति | वृति वृतिमतोस्तादात्म्यात् तत्प्रतिबिंबयोरभेदाभिव्यक्ति वंदसंकरोप्युपपद्यत इत्यपि शब्दार्थः मुखं दर्पणोपाधिनेवांतःकरणेनोपाधिना अवछिन्नं तत्प्रतिबिंबचैतन्यं प्रमाता वृति प्रतिबिंबचैतन्यं तयैवावछिन्नं प्रमाणं विषयावछिन्नं ब्रह्मचैतन्यं प्रमेयमिति | तेषामसांकार्यमुपपद्यते व्यावर्तकोपाधि सद्भावादित्यर्थः | अस्मिन्मते असांकर्यसुपपद्यत इत्युक्त्या पूर्वमते विषयावछिन्न प्. १३३अ) ब्रह्मचैतन्यस्य जीवत्व प्राप्ति स्वीकारात् प्रमातृ प्रमेय चैतन्ययोरसांकर्यं नोपपद्यत इति सूचितं वस्तुतस्तु पूर्वमतेपि न सांकर्यं जीवब्रह्मभेदकोपाधि सद्भावस्य तत्प्रयुक्ततया सर्वज्ञत्वादि व्यवस्थायाश्च प्राक् दर्शितत्वादिति मंतव्यं | शंकते | न चेति | तस्येति | तस्य विषयेणाध्यासिकसंबंधान्नावादिति संबंधः प्रमारूपस्य वृति प्रतिबिंबस्य विषयोपादानत्वाभावेन तयोस्तादात्म्यासंभवा तथा च विषयापरोक्ष्ये आध्यासिक तादात्म्य संबंधोनिया || अपरे त्वाहुः बिंबभूतविषयाधिष्ठानचैतन्यमेव साक्षादाध्यासिकसंबंध लाभाद्विषयप्रकाशकमिति तस्यैव बिंबत्वविशिष्टरूपेण भेदसद्भावेपि तदुपलक्षितचैतन्यात्मनैकी भावोभेदाभिव्यक्तिः | न चैवं सति जीवब्रह्मसांकर्यं न वा ब्रह्मणः सर्वज्ञत्व विरोधः बिंबात्मना तस्य यथा पूर्वमवस्थानादिति | अथ तृतीये पक्षे को नामावरणाभिभवः | अज्ञाननाशश्चेत् घटज्ञानेनैवाज्ञानमूलः प्रपंचो निवर्तेतेति चेत् | अत्र केचिदाकेहुः | चैतन्य प्. १३३ब्) मात्रावरकस्याज्ञानस्य विषयावछिन्न प्रदेशे खद्योतादि प्रकाशेन महांधकारस्येव ज्ञानेनैक देशेन नाशो वा कटवत्संवेष्टनं वा भीतभटवदपसरणं वाभिभाव इति अन्ये त्व ज्ञानस्यैक देशेन नाशे उपादानाभावात् || मक इति सिद्धांतविरोध इति शंकाभिप्रायः बिंबप्रतिबिंबयोरभेदान्युपगमात् बिंबचैतन्यस्य विषयेण सहयस्तादात्म्य संबंधः स एव प्रमारूप प्रतिबिंबस्यापीति नापसिद्धांत इति परिहरति | विषयाधिष्ठानेति | तदभेदेनेति | प्रतिबिंब चैतन्यस्य बिंबाभेदेनेत्यर्थः | बिंबप्रतिबिंबयोरभेदे सत्यपि कल्पितभेदसत्वात् बिंबसंबंधस्य प्रतिबिंबसंबंधत्वं नास्तीत्यस्वरसंसाक्षात्पदेन सूचयन् | अभेदाभिव्यक्तिं प्रकारांतरेणाह | अपरेत्वाहुरिति | भेदसद्भावेपीति | प्रतिबिंबत्व विशिष्टचैतन्य स्वरूप जीवेन सहेति शेषः तदिति बिंबत्व प्रतिबिंबत्वाभ्यामुपलक्षक्षितं शुद्धचैतन्यं तदात्मनेत्यर्थः | न चैवं सतीति | उपलक्षितचैतन्यात्मना अभेदाभिव्यक्त्यांगीकारे पूर्वोक्तं दोषद्वयं नास्तीत्यर्थः | अत्रेदंचित्यं | उपलक्षितचैतन्यात्मना एकीभावो न वास्तवाभेदः तस्य वृत्यु न पेक्षत्वात् | नापि व्यवहारिकाभेदः बिंबप्रतिबिंब प्. १३४अ) भेदस्य व्यावहारिकत्वेन तत्संमसताका भेदासंभवात् | नापि प्रातिभासिकाभेदः उपाध्योरेकदेशस्थत्वमात्रेण बिंबप्रतिबिंब चैतन्ययोः प्रातिभासिकाभेदसंभवेन तदर्थं चैतन्यमात्रोपलक्षण वैयर्थ्यादिति | तृतीयपक्षमाक्षिपति | अथेति | निवर्तेतेति अज्ञानस्यैकत्वादिति भावः | न तु निवर्तते अतो नाज्ञाननाशः आवरणाभिभवः | न चान्यः प्रकारस्संभवति अनुपलंभादिति भावः | अज्ञानैक्यमेवालंव्यपरिहरति | अत्र केचिदाहुरिति चैतन्यमात्रेति | मात्रषदंसाक्षि व्यतिरिक्त कृत्स्नचैतन्यपरं साक्षिण्यावरण्य भावस्य वक्ष्यमाणत्वादिति भावः | एकदेशेन नाशोवेति | तथा तन्मूलप्रपंचस्य न निवृत्यापतिरिति भावः प्रकारांतरानुपलंभो सिद्ध इत्याशयेनाह | कटवदित्यादिना | निरुक्तमावरणाभि भवं दूषयन् तं प्रकारांतरेण निर्वक्ति | अन्येति तादिना || पुनस्तत्र कंदलनायोगेन सकृदपगते समयांतरेप्यावरणाभावप्रसंगान्निष्क्रियस्यापसरण सवेष्टनयोरसंभवाच्च न यथोक्त रूपोभिभवः संभवति | अतश्चैतन्यमात्रावरकस्याप्यज्ञानस्य ततदाकारवृति संसृष्टावस्थविषयावछिन्न चेतन्यावरकत्व प्. १३४ब्) स्वाभाव्यमेवाभिभवः | न च विषयावजूंटन पटवद्विषयचैतन्यमाश्रित्यस्थितस्याज्ञानस्य कथं तदनावरकत्वं युज्यत इति शंक्यं | अहमज्ञ इति प्रतीत्याहमनुभवे प्रकाशमानचैतन्यमाश्रयत एव तस्य तदनावरकत्व प्रतिपतेरित्याहुः | अपरे तु घटं न जानामीति घटज्ञानविरोधित्वेन घटज्ञाने सति घटाज्ञानं निवृतमिति तन्निवर्त्यत्वेन चानुभूयमानं न मूलाज्ञानं शुद्धचैतन्यविषयस्य तहान निवर्त्यस्य च तस्य तथा त्वायोगात् किं तु घटावछिन्नचैतन्यविषयं मूलाज्ञानस्यावस्थाभेदरूपमज्ञानांतरमिति तन्नाश एवाभिभवः | न चैवमेकेन ज्ञानेन तन्नाशे तत्समानविषयाणां ज्ञानांतराणामावरणाभिभावकत्वानापतिः यावंति ज्ञानानि तावंत्यज्ञानानीत्यभ्युपगमादित्याहुः || पुनस्तत्रेति | विषयावछिन्नचैतन्ये आवरणोत्यज्ययोगेनेत्यर्थः | ततदिति | तत्तद्विषयाकारवृतिसंसृष्टावस्थं प्. १३५अ) यत् विषयावछिन्नचैतन्यं तदनावरकत्वमित्यर्थः | ननु यथा घटं व्याप्यमानः पटस्तमावृणोत्येव एवं विषयावछिन्न ब्रह्मचैतन्यं व्याप्यवर्तमानमज्ञानमपि चैतन्यमावृणोत्येवेति तदनावरकत्व कल्पनमयुक्तमिति | शंकते | न चेति | अज्ञाने पट वैलक्षण्यस्यानुभवसिद्धत्वान्नैतच्चोद्यमवतरतीत्याह | अहमिति | तस्येति | अज्ञानस्येत्यर्थः | जीवचैतन्याश्रितमप्यज्ञानं न तदावृणोति तस्यावृतत्वे सर्वव्यवहारलोप प्रसंगादिति दहराधिकरणभाष्ये साधितत्वात् | साक्षि चैतन्यस्यानावृतताया वक्ष्यमाणत्वाच्चेति भावः प्रपंचोपादानमूलाज्ञानापेक्षयान्यदेवविषयावछिन्न चैतन्यावरकमज्ञानमिति घटादिज्ञानेन तन्निवृतावपि न प्रपंच निवृति प्रसंगः तेन प्रपंचमूलाज्ञानानिवृतेरिति मतं दर्शयति | अपरेत्विति | अज्ञानभेदे मानमाह | घटमिति | विरोधित्वेनेति | न जानांमीत्यज्ञानानुभवाभिलापक शब्देनत्रो विरोध्यर्थकत्वादभिलप्यानुभवोपि ज्ञानविरोधि विषक एव न च न जानामीत्यनुभवो ज्ञानप्रागभावविषक एव न तु भावरूपाज्ञानविषक इति वाच्यं | प्रागभावस्यैवासंप्रतिपतेरिति भावः | तथात्वायोगादिति | घटावछिन्नचैतन्यविषयकत्वतहान निवर्त्यत्वयोरयोगादित्यर्थः | किं त्वज्ञानांतरमिति संबंधः अवस्थाभेदरूपमिति | अस्य विशेषणस्य प्रयोजनं वक्ष्यते | न प्. १३५ब्) चैवमेकेनेत्यादि ग्रंथः स्पष्टार्थः || इमानि चावस्थारूपाण्यज्ञानानिमूलाज्ञानवदज्ञानत्वादनादीनीति केचित् व्यावहारिकौ जगज्जीवावावृत्य स्वाप्नौ जगज्जीवौ विक्षिपंती निद्रा तावदावरण विक्षेपशक्तियोगादज्ञानावस्थान्नेदरूपा तथा सुषुप्त्यवस्थाप्यंतःकरणादौ विलीने सुखप्तहमस्वाप्सं न किंचिदवेदिषमिति परामर्श दर्शनान्मूलाज्ञानवत्सुषुप्तिकालेनुभूयमानाज्ञानावस्था भेदरूपैव || नन्ववस्थाज्ञानानि किमनादीनि | किं वा आदिमंति | नाद्यः सानाभावान्न द्वितीयः अज्ञानमनादीनि सिद्धांतविरोधादिति चेदन्न केचिदाद्यं पक्षं साधयंतीत्याह | इमानि चेति | अवस्था ज्ञानानि अनादीनि अज्ञानत्वान्मूलाज्ञानवन्न च दृष्टांता सिद्धिः देवताधिकरणे मूलाज्ञानानादितस्य श्रुतिन्यायाभ्यां साधितत्वादिति भावः | न चाज्ञानगतानादित्वे मूलाज्ञानत्वं प्रयोजकं नत्वज्ञानत्वमात्रंमिति | वाच्यं | लाघवेन तन्मात्रस्यैव प्रयोजकत्वादिति प्. १३६अ) भावः अवस्थाज्ञानान्यादिमंतीति द्वितीयपक्षमन्ये साधयंतित्याह | व्यावहारिकावित्यादिना | न च सिद्धांत विरोधः अज्ञानानादित्वाभ्युपगमस्य मूलाज्ञानविषयत्वादिति भावः विमतान्यवस्था ज्ञानानि आदिमंति अवस्थाऽज्ञानत्वात् निद्रावत् सुषुप्तिवच्च मूलाज्ञाने व्यभिचारवारणार्थं | आवृत्येति | जाग्रत्कालीनौ जगत् | जीवौ यादृशौ प्रसिद्धौ न तादृशावेव स्वप्नकाले उपलभ्येते अतस्तयोर्यथा वदनुपलंभादावरणं वक्तव्यमिति भावः | विक्षिपंतीति सृजंतीत्यर्थः | अज्ञानावस्थाभेदरूपेति | अज्ञानस्य हि आवरणविक्षेपशक्तिमत्वं लक्षणं तस्य स्वप्नकारणी भूतनिद्रायां सत्वादज्ञानत्वं तावत् सिद्धं निद्रायाः वक्ष्यमाणरीत्यासादित्वेन साक्षान्मूलाज्ञानत्वायोगातदवस्था विशेषरूउपत्वं सिद्धमिति प्रथमदृष्टांतेन साधनवैकल्पमिति भावः | तथा सुषुप्तिकाले मूलाज्ञान वदनुभूयमाना सुषुप्त्यवस्थाप्यज्ञानावस्थाभैदरूपैवेति संबंधः | ननु सुषुप्ति काले मूलाज्ञानसुषुप्त्योरनुत्रवोऽसिद्धस्तदा अहमज्ञ अहं स्वपीमीत्यनुभवा दर्शनादिति नेत्याह | सुखमहमिति | परामर्शस्मरणं | तथा च उत्थितस्य दृश्यमान परामर्शान्यथानुपपत्या तदा सुषुप्तिमूलाज्ञानयोरनुभवः साक्षिरूपः कल्प्यते | अहमुल्लेखे प्. १३६ब्) हि आत्मन्यंतःकरण संसर्गः प्रयोजकः तत्काले तस्य लीनत्वान्नाहमुल्लेख इत्याशयेनाह | अंतष्करणादौ विलीन इति | चक्षुरादिकमादि पदार्थः सुषुप्तिस्वरूप साधनार्थः परामर्शकल्प्यसुषुप्त्यनुभवोपन्यासः सुषुप्तिकाले मूलाज्ञानाभावे सुषुप्तेस्तदवस्थारूपत्वं न सिद्ध्येदतस्तनुभवोपन्यासः तदामूलाज्ञानसत्व साधनार्थः सुषुप्तेस्तदवस्थारूपत्वं परिशेषादवगंतव्यं | सुषुप्तिकाले मूलाज्ञानातिरिक्तादप्तंतष्करणादीनां विलीनत्वेनस्तस्यास्तदवस्थारूपत्वासंभवादिति सूचनार्थं चांतःकरणादि विलयोपन्यासः | तथा च सुषुप्ति दृष्टांतेपि न साधमवैकल्पमिति भावः || तयोश्च जाग्रद्भोगप्रद कर्मो परमे सत्येवोद्भवात्सादित्वमिति | तद्वदन्यदन्यदप्यज्ञानमवस्थारूपं सादीत्यन्ये नन्वनादित्व पक्षे घटे प्रथममुत्पन्नेनैव ज्ञानेन सर्वतदज्ञाननाशो भवेत् | विनिगमनाविरहातदवछिन्नचैतन्यावरक सर्वाज्ञानानाशे विषयप्रकाशायोगागाच्च अतः पाश्चात्यज्ञानानामावरणानभिभावकत्वं | प्. १३७अ) तदवस्थमेवेति चेत् | अत्र केचिदाहुः | यथा ज्ञानप्रागभावानामनेकेषां सत्वेप्येक ज्ञानोदये एक एव प्रागभावो निवर्तते | संशयादि जननशक्ततया तदावरणरूपेषु प्रागभावांतरेषु सत्स्वपि विषयावभासस्तथैक ज्ञानोदये एकमेवाज्ञानं निवर्तते | अज्ञानांतरेषु सत्स्वपि विषयावभास इति || दृष्टांत द्वयेपि साध्यवैकल्पं परिहरति | तयोश्चेति निद्रासुषुप्त्योरित्यर्थः | अन्यदषीति | घटादिविषयावछिन्नचैतन्यावरकाज्ञानमपीत्यर्थः | अवस्थाज्ञानानां सादित्वपक्षे प्रथममुत्पन्नेन घटज्ञानेन तदुत्पतेः पूर्वं घटावरकत्वेन स्थिता ज्ञानस्य नाशे सति पश्चादुत्पन्नमवस्थाज्ञानं पुनस्तमावृणोतीति व्यवस्था सिध्यति | तेषा मनादित्व पक्षे तु सानसिध्येदिति शंकते | नन्विति | प्राथमिक घटज्ञानेन तदज्ञानानां सर्वेषां नाशोस्ति | न वा द्वितीय कल्पं दूषयति | घट इति | प्राथमिक ज्ञानेन एकमेवाज्ञानं नश्यति नेतराणीत्यत्र विनिगमका भावात् | सर्वाज्ञाननाशो वक्तव्यस्तथा च द्वितीयकल्पानुपपतिरित्यर्थः | द्वितीयकल्प एव निविगमकाभाववद्दोषांतरमाह | तदवछिन्नेति | प्. १३७ब्) प्रथमज्ञानेन सर्वाज्ञाननाशादित्यर्थः | तदवस्थमेवेति | पाश्चात्यज्ञानानामावरणाभिभावकत्व सिद्ध्यये हि यावंति ज्ञानानि तावंति तन्निवर्त्याज्ञानानीत्युपगम्यते | तदभ्युपगमेपि प्रथमज्ञानेनैव सर्वाज्ञाननाशे स दोषस्तदवस्थ एवेत्यर्थः | यथान्यायमते यावंति घटज्ञानानि तावंतो घटज्ञानप्रागभावास्संति | तत्र प्रथमेन ज्ञानेन एक एव ज्ञानप्रागभावो निवर्तते | अन्ये यथापूर्वं संत्येव तेषां सत्वेपि विषयप्रकाशश्चोपेयते तैरेवमत्रापि योजनीयमिति परिहारति | अत्र केचिदाहुरिति | ननु दृष्टांतो विषमः ज्ञानप्रागभावस्यानावरकत्वात् | भावरूपाज्ञानस्य च विषयावरकत्वात् | आवरणसत्वे च न विषयप्रकाशोपपतिरिति नेत्याह | संशयादीति | विपर्यय आदि पदार्थः सिद्धांते भावरूपाज्ञानस्यावरकत्वं ह्यज्ञानवत्वाभिमते वस्तुनि संशयादि जननसमर्थत्वं तच्च परमते ज्ञानप्रागभावरूपाज्ञानस्यापि समानं ततो न दृष्टांत वैषम्यमिति भावः एकमेवेति | फलवलादिति भावः || अन्ये त्वावृतस्यापरोक्षे विरुद्धमेकज्ञानोदये च प्रागभावांतर सत्वेपि यावद्विशेष प्. १३८अ) दर्शनाभावकूटरूपमावरणं विशेषदर्शनान्नास्तीति मन्यमानावदंति | यदा यदज्ञाअनमावृणोति तदा तेन ज्ञानेन तस्यैव नाशः सर्वं च सर्वदानावृणोति वैयर्थ्यात् किंत्वावरकाज्ञाने वृत्यानाशिते तद्वृत्युपरमेऽज्ञानांतरमावृणोति | न चैवं सति ब्रह्मावगमोत्पति कालेऽनावरकत्वेन स्थितानामज्ञानानां ततोप्यनिवृति प्रसंगः तेषां साक्षात् तद्विरोधित्वाभावेपि तन्निवर्त्यमूलाज्ञान परतंत्रतयाऽज्ञानसंबंधादिवतन्निवृत्यैवनिवृत्युपपतेः || नन्वनादित्वपक्षे इत्यादि ग्रंथेन कृताक्षेपे प्रकारांतरेण समाधानमाह | अन्येत्विति | अस्य वदंतीत्यनेन संबंधः पूर्वपरिहारे अन्येषामभिप्रेतमस्वरसंस्वयं दर्शयति | आवृतस्येति | आवृतस्यापि पर्वतीय दहनादेः सिद्धांते परोक्षज्ञानांगीकारादपरोक्षज्ञानमित्युक्तं | यावदिति | स्थाण्वादौ संशयादि विरोधि दर्शन प्रागभावमात्र न संशयादि जननसमर्थं स्थाणुरयमिति | निश्चयदशायामपि तत्समानविषयक निश्चयांतर प्रागभावसत्वेन तदा पुरुषत्व स्मृति मतः पुनरपि संशय प्रसंगात् | केंतु संशयादि समानविषयक निश्चयानां प्. १३८ब्) यावंतः अभावाः तावतां समुदायः संशयादि जननसमर्थतया परमेतविषयावरणत्वेन वाच्यः | एक निश्चयकाले च यावद्विशेष दर्शनाभाव कूटरूपस्य परमते आवरणत्वेन संमतस्य विशेषाऽदर्शनस्याऽभावात् | न पुनः संशयादि प्रसंगः न वा प्रथम घटादि ज्ञाने काले परमते विषयप्रकाशानुपपतिः आवरणत्वाभिमत प्रागभावकूटाभावात् | तस्मादावृतस्यापि विषयस्य प्रथमज्ञानसमये प्रकाशः संभवतीत्यत्रनायं दृष्टांतः संभातीत्यर्थः | न चैवं सतीति | सर्वदा सर्वेषामवस्थाऽज्ञानानामावरकत्वाभावे सतीत्यर्थः | ततोपीति | ब्रह्मावगमादपीत्यर्थः | निवृत्यभावप्रसंगे हेतुरनावरकत्वेन स्थितिः | यदि ब्रह्मावगमोत्पति काले मूलाज्ञानवदवस्थाज्ञानान्यपि ब्रह्मचैतन्यं विषयप्रदेशेष्वावृत्यतिष्ठेयुस्तदा ब्रह्मावगमेने तत्समानविषयकमूलाज्ञानस्येव चैतन्यावरकत्वेन स्थितानामवस्थाऽज्ञानानामपि निवृतिः स्यात्समानविषयकत्वाविशेषात् | तेषां तदनांवरकत्वेन स्थितौ तु निवृतिर्न संभवति तत्समानविषयकत्वा भावादित्यर्थः | ततश्च विदेह कैवल्ये तेषासनुवृति प्रसंग इति भावः | एवं सत्यनिवृति प्रसंग इति न चेति संबंधः | तत्र हेतुमाह तेषामिति | अत्र द्वितीय तृतीय तच्छब्दौ ब्रह्मावगमपरौ चतुर्थ तच्छब्दो मूलाज्ञानपरः यथा प्. १३९अ) ज्ञाननिवृतौ चैतन्याज्ञानयोस्संबंधो निवर्तते तस्य संबंध्य ज्ञानपरतंत्रत्वात् | तद्वदित्यर्थः || एतदर्थमेव तेषां तदवस्था भेदरूपतया तत्पारतंत्र्यमिष्यत इति | अपरे त्वज्ञानस्य स विषय स्वभावत्वादुत्सर्गतः सर्वं सर्वदावृणोत्येव | न च विषयोत्पतेः प्रागावरणियाभावेनावरकत्वं न युज्यत इति वाच्यं | तदापि सूक्ष्मरूपेण तत्सत्वादिति मन्यमानाः कल्पयंति | यथा बहुजनसमाकुले प्रदेशे कस्यचिच्छिरसिपतन्नःशनिरितरानप्यपसारयति | यथा वा सन्निपातहरमौषधमेकं दोषं निवर्तयद्दोषांतरंदूरि करोति | एवमेकमज्ञानं नाशयत् ज्ञानमज्ञानांतराण्यपि तिररष्कराति | तिरस्कारश्च यावज्ज्ञानस्थिति तदावरणशक्तिप्रतिबंध इति | नन्वेवं सतिधारावाहिकस्यले द्वितीयादि वृतीनामावरणानभिभावकत्वे वैफल्यं स्यात् | प्रथमज्ञाने नैव निवर्तन तिरस्काराभ्यामावरणमात्रस्याभि भवादिति || प्. १३९ब्) नन्ववस्थाज्ञानानां मूलाज्ञान परतंत्रत्वमसिद्धमित्याशंक्याह | एतदर्थमेवेति | यथा संसारस्याज्ञाननिवृत्यानिवृति सिद्धये तन्मूलकतया संसारस्य तत्पारतंत्र्यं कल्प्यते | तद्वत् प्रकृतेपीति भावः | यदुक्तं | मवस्थाभेदरूपमिति विशेषणस्य प्रयोजनं वक्ष्यत इति तदत्र दर्शितमिति मंतव्यं | नन्वनादित्व पक्ष इत्यादिनाकृताक्षेप एव समाधानं प्रकारांतरेण दर्शयति | अपरेत्विति | कल्पयंतीति संबंधः तेषामाशयं दर्शयति | अज्ञानस्येति | ननु सर्वमज्ञानं स्वस्थितिकाले सर्वदाविषयमावृणीतीति नियमो नास्ति एकज्ञानकाले | एकस्याज्ञानस्य नाशः इतरेषां तदा सत्वेप्यावरणशक्तिप्रतिबंधरूप तिरस्कारस्य वक्ष्यमाणत्वेन एकज्ञानकाले तेषामावरकत्वाभावादित्यत आह | उत्सर्गतः इति | ननु सर्वदा आवृणोतीत्युक्ते घटादिविषयोत्पतेः | पूर्वकालेपि घटाद्यवछिन्न चैतन्यावरकत्वमवस्थाज्ञानानां प्रतीयते | तदनुपपन्नं | तदानीमवछेदक विषयाभावेन तदवेछिन्न चैतन्यस्यावस्थाज्ञानैरावरणीयस्याभावादिति शंकामपनुदति | न चेत्यादिना तदापीति | कार्यमात्रस्य उत्पतेः पूर्वकाले नाशोतरकाले चानभिव्यक्तरूउपेणावस्थानस्य श्रुतिस्मृति न्यायैः तत्र तत्र पूर्वाचार्यैः साधितत्वादिति भावः | एवमिति | ज्ञानं कर्तृ यावात् ज्ञान प्. १४०अ) स्थितीति | सर्वं सर्वदा आवृणोतीत्युत्सर्गस्य ज्ञानस्थितिरयवादहैतुरिति भावः | ज्ञानमात्रमज्ञाननिवर्तकमिति नियममाक्षिपति | नन्वेवं सतीति | एकेन ज्ञानेन एकाज्ञानस्य नाशः इतरेषां तिरस्कार इत्युपगमे सतीत्यर्थः | वैफल्यं स्यादिति | अज्ञाननाशादि प्रयोजनवत्वं न स्यादित्यर्थः तत्प्रयोजनस्य प्रथमज्ञानेनैव सिद्धत्वादित्याह | प्रथमेति || अत्राहुः वृति तिरस्कृतमप्यज्ञानं तदुपरमे पुनरावृणोति प्रदीप तिरस्कृतं तम इव दीपो परमे वृत्युपरमसमये वृत्यंतरोदये तु तिरस्कृतमज्ञानं तथैवावतिष्ठते प्रदीपो परमसमये प्रदीपांतरोदये तम इव तथा च यस्मिन् सत्यग्निमक्षणे यस्य सत्वं यद्व्यतिरेके चासत्वं तत्तज्जन्यमिति प्रागभाव परिपालनसाधारण लक्षणानुरोधे नानावरणस्य द्वितीयादि वृतिकार्यत्व स्यापि लाभान्न तद्वैफल्यमिति | न्याय चंद्रिका कृतस्त्वाहुः केनचिद्ज्ञानेन कस्यचिदज्ञानस्य नाश एव तत्वावरकाणामप्यज्ञानांतराणां तिरस्कारः || प्. १४०ब्) प्रथमज्ञानसिद्धस्यापि आवरण तिरस्कारस्य द्वितीयादि ज्ञान साध्यत्वं साध्यलक्षणविशेषानुरोधेन संभवति | अतो न द्वितीयादि ज्ञानवैफल अज्ञाननाशरूपप्रयोजनाभावेपि त तिरस्करण लक्षणफलस्य सत्वादिति परिहरति | अत्राहुरिति | प्रथमं धारावहनस्थले सिद्धमर्थं सदृष्टांतं दर्शयति | वृतितिरस्कृतमिति | घटोयमिति | प्रत्यक्षज्ञानं त्वेकमज्ञानं नाशयदितरदज्ञानं सर्वं तिरस्करोति | तच्च तिरस्कृतमज्ञानं घटज्ञानोपरमसमये पुनस्तमावृणोति | यदि वुभुत्सादिवशात् | प्रथममुत्पन्न घटज्ञाननाशक्षणे घटप्रत्यक्षांतरमुदेति | तदा तिरस्कृतमज्ञानं | तथैवावतिष्ठते इत्यर्थः | यस्मिन् सत्यग्निमक्षणे यस्य सत्वं यस्मिन् न सति यस्यासत्वं ततज्जन्यमिति साध्यलक्षणं | इदं च साद्यनादि साधारणं | तथाहि | यस्मिन् दंडादौ सति उत्तरक्षणे घटादिकार्य सत्वं दंडादावसति च घटादि कार्यासत्वं | ततो घटादिकं दंडादि जन्यं | तथा प्रायश्चिते सति उत्तरक्षणे दुःखप्रागभावस्य सत्वं प्रायश्चिते चाऽसति दुःखस्यैवोदयात् दुःखप्रागभावस्यासत्वमितिरीत्या अनादेरपि दुःख प्रागभावस्य प्रायश्चित परिपाल्यतयाप्रायश्चित साध्यत्वमुपेयते | एवं प्रकृतेपि साध्यत्वं दर्शयति | तथा चेति | द्वितीय वृत्युदये सति प्रथमज्ञानसिद्धस्यावरण तिरस्कारस्य उत्तरक्षणे सत्वं प्रथमज्ञाननाशक्षणे द्वितीयवृत्युदय व्यतिरेके च उक्त तिरस्कारस्यासत्वमिति | प्. १४१अ) प्रथमज्ञानकाल एव सिद्धस्योपि तस्यं द्वितीयवृतिजन्यतया तत्फलत्वमेवं तृतीयादि वृतीनामपि आवरण तिरस्कारफलकत्वं योजनीयमित्यर्थः | अनावरणस्येति | आवरण तिरस्कारस्येत्यर्थः | ज्ञानमात्रमज्ञानविवर्तकं न भवति धरावाहिक द्वितीयादि ज्ञाने व्यभिचारादित्यत्र प्रकारांतरेण परिहारं ब्रूते न्यायचंद्रिकाकृतस्त्विति | नत्विति | न चाज्ञानांतराणां तिरस्काराभावे एकज्ञानकालेपि तैरतिरस्कृतैर्विषयस्यावृतत्वाद्विषयानुभवा भावप्रसंग इति वाच्यं | प्रथमज्ञानोदये एकमेवाज्ञानं विषयावरकं इतरेषां तदा विषयावरकत्वमेव नोपेयते अतो न त तिरस्करणापेक्षेति भावः || तथा च धारावाहिक द्वितीयादि वृतीनामप्येकैकाज्ञाननाशकत्वेन साफल्यं न चैवं ज्ञानोदयेप्यावरण संभवाद्विषया नवभास प्रसंगः अवस्थारूपाण्यज्ञानानि ततत्कालकलोपलक्षितस्वरूपावरकाणि ज्ञानानि च यावत् स्वकालोपलक्षित विषयावरकाज्ञाननाशकानि तथा च किंचिज्ज्ञानोदये तत्कालीन विषयावरकाज्ञानस्य नाशाद्विद्यमानानामज्ञानांतराणामन्यकाली न विषयावरक प्. १४१ब्) त्वाच्च न तत्कालीनविषयावभासे काचिदनुपपतिः कारीरीफले वृष्टावासन्नसमयस्येवा ज्ञानविषये घटाटौ तत्कालस्योपलक्षणतया विषयकोटावननुप्रवेशेन सूक्ष्मतत्तत्कालभेदाविषयैर्धारावाहिकद्वितीयादि ज्ञानैरज्ञानानां निवृतावपि न काचिदनुपपतिरिति || ततः किं तत्राहु | तथा चेति आशयमविदुषश्शंकामनूद्यनिराकरोति | न चैवमित्यादिना | एवं शब्दस्य प्रथमज्ञानेन आवरकाज्ञानांतराणामतिरस्करणे सतीत्यर्थः | तत्तत्कालेति | अवस्थाज्ञानानां सर्वेषां मूलाज्ञानस्येव सर्वदाविषय चैतन्यावरकत्वं नास्ति वैयर्थ्यात् | किं तु किंचिदज्ञानं कंचित्कालं विषय चैतन्यमावृणोति | किंचिच्च कालांतरे तदावृणोतीत्यनेन प्रकारेण कालविशेषैरुपलक्षित विषयचैतन्यावरकत्वं ज्ञानानामपि स्वस्वोदयकाले स्वस्वविषयावरकत्वेन प्रसक्ताज्ञाननिवर्तकत्वमित्यर्थः | एवमाशयमुद्वाव्य इदानीं विषयानवभासप्रसंगं परिहरति | तथा चेति | एकज्ञानकाले अज्ञानांतराणामनावरकत्वे सिद्धे सतीत्यर्थः | तत्कालीनेति | किंचिद्ज्ञानोदय कालीनविषयस्यावरकत्वेन प्रसक्ताज्ञानस्येत्यर्थः | न तदिति | किंचिद्ज्ञानकालीनेत्यर्थः | ननु तैस्तैः कालविशेषैर्विशिष्टस्यैव प्. १४२अ) विषे यस्य ततदज्ञानावरणि यत्वमित्येवं कालविशेषाणां विशेषणतया आवरणीय कोट्यवनुप्रवेशं विहाय तेषां किमित्युपलक्षिणत्वं स्वीक्रियत इत्याशंक्य तथा सतिधारास्थले आवरकत्वेन प्रसक्ताज्ञान निवर्तक द्वितीयादि वृतीनामपि ततत्कालविशेषविशिष्टविषयकत्वं वाच्यं | समानविषयकत्वं विना तन्निवर्तकत्वानुपपतेस्तच्च न संभवति क्षणभेदानामप्रत्यक्षत्वात् | अतस्तेषामुपलक्षणत्वमाश्रितमिति समाधानमभिप्रेत्यसमयविशेषस्योपलक्षणत्वे दृष्टांतमाह | कारीरीफले वृष्टाविति | कारीरीनामकेष्टिफलभूता वृष्टिरिष्टि समाप्त्यतरक्षण एव वक्तव्या न तु कालांतरे तदानीं शुप्यतस्सस्यस्य संजीवने कालांतरीय वृष्टेरनुपयोगा तथा चासन्न समयस्य वृष्टि विशेषणतया फलकोटि प्रवेशोनोपपद्यत इष्टिं विनापि समयविशेष संभवात् किं तु समयातरव्यावर्तकतया उपलक्षणत्वमेवाश्रितमित्यर्थः || केचित्तु प्रथमज्ञाननिवर्त्यमेवाज्ञानं स्वरूपावरकं द्वितीयादि ज्ञाननिवर्त्यानि तु देशकालविशेषणांतरविशिष्टविषयाणि अत एव सतानिश्चयरूपेऽज्ञाननिवर्तके चैत्रदर्शने सकृते चैत्रं न जानामीति स्वरूपावरणं नानुभूयते किंत्विदानीं स कुत्रेति प्. १४२ब्) न जानामीत्यादिरूपेण विशिष्टावरणमेव विस्मरणशालिनः क्वचित्सकृत् दृष्टेपि न जानामीति स्वरूपावरणं दृश्यते चेतत्र तथास्तु अन्यत्र सकृद्दृष्टे विषयाण्येवाज्ञानानि ज्ञानानि च न चैवं सति धारावाहिक द्वितीयादि ज्ञानानामज्ञान निवर्तकत्वं न स्यात् स्थूलकालविशिष्टाज्ञानस्य प्रथमज्ञानेनैव निवृतेः पूर्वापरज्ञानव्यावृतसूक्ष्मकालविशिष्टाज्ञानस्य तदविषयैर्द्वितीयादि ज्ञानैर्निवृती योगादिति वाच्यं || धारावहनस्थले द्वितीयादि वृतीनामावरणाभिभावकत्वं न स्यादित्याक्षेप एव परिहारं त्रेधादर्शयति | केचित्विति | प्रथमं वस्तुगतिमाह | प्रथमज्ञानेति | उक्तव्यवस्थायां प्रमाणत्वेनानुभवं दर्शयति | अत एवेति | उक्त विभागान्युपगमादेवेत्यर्थः | ननूक्तविभागो न सिध्यति क्वचित्सकृद्दृष्टेपि वस्तुति पूर्ववत्स्वरूपावरणानुभवादित्याशंक्याह | विस्मरणशालिन इति | तत्र तथास्त्विति पुनः स्वरूपावरणानुभवस्थले द्वितीयादि ज्ञाननिवर्त्यमप्यज्ञानं स्वरूपावरकमस्त्वित्यर्थः | तथा च उक्त विभाग औत्सर्गिक इति भावः | अन्यत्रेति प्. १४३अ) विस्मरणाभावस्थल इत्यर्थः | नन्वज्ञानानां विशिष्टविषयकत्वे तेषामनिवृति प्रसंगः सकृद्दृष्टे वस्तुनि द्वितीयादि ज्ञानानामपि प्रथमज्ञानवत्स्वरूपमात्र विषयकत्वेन तत्समानविषयकत्वरहितानां तन्निवर्तकत्वानुपपतेरिति नेत्याह | ज्ञानानि चेति | सकृद्दृष्टे विषये ज्ञानान्यपि चैत्र इदानीमत्रास्त इत्याकाराणि संति विशिष्टविषयाण्येवेति स्वीकारान्नोक्त दोष इति भावः ननु ज्ञानानां विशिष्टविषयकत्वं धारास्थले द्वितीयादि वृतिषु व्यभिचारपरिहारार्थं हि कल्प्यते | तथा च तत्र ज्ञानानां किं घटिकार्ध घटिकाद्यात्मकस्थूलकालविशिष्टघटादि विषयकत्वं विवक्षितं किं वा क्षणात्मक सूक्ष्मकालविशिष्टघटादि विषयकत्वं विवक्षितमिति विकल्पं मनसि निधाय उभयथापि धारास्थले द्वितीयादि वृतिषु व्यभिचारतादवस्थ्यमिति शंकते | न चैवं सतीति | द्वितीयादि ज्ञानानां तन्निवर्त्याज्ञानानां च उत्सर्गतो विशिष्टविषयकत्वे सतीत्यर्थः | प्रथमज्ञानेनैवेति | स्थूलकालविशिष्टविषयकेणेति शेषः पूर्वापरेति | धारास्थले हि ज्ञानानि क्षणस्थितिकानि ततश्च पूर्वापरज्ञानकालेभ्यो व्यावृताये सूक्ष्मकालाः क्षणात्मकास्तैर्विशिष्टस्य विषयस्थावरकं यदज्ञानं तस्येत्यर्थः | तदविषयैरिति सूक्ष्मकालविशिष्टाविषयकैरित्यर्थः | धारावहनस्थले प्रथमोत्पन्नाया एव वृतेस्तावत्कालावस्थायित्व संभवेन वृतिभेदानभ्युपगमात्तदभ्युपगमेपि प्. १४३ब्) स्थूलकालावस्थापि पंचषट्वृतिरूपत्वं संभवेन परस्परव्यावृतस्थूलकालादि विशेषणभेदविषयत्वोपपतेः | प्रतिक्षणोद्यदनेकवृतिसंतानरूपत्वाभ्युपगमेपि द्वितीयादि वृतीनामधिगतार्थमात्रविषयतया प्रामाण्याभावेनावरणानिवर्तकत्वेप्यहानेश्च | न हि विषयावाधमात्रं प्रामाण्यं प्रागवगतानधिगतयोः पर्वततद्वृतिपावकयोरनुमिति विषययोरबाधस्याविशेषेणोभयत्राप्यनुमितेः प्रामाण्यप्रसंगात् | न चेष्टापतिः वह्नावनुमितिः प्रमाणमिति वत्यर्वतेप्यनुमितिः प्रमाणमिति व्यवहारादर्शनात् || यत्र एकस्मिन्नेव श्रीमूर्त्यादौ दीर्घकालनैरंतर्येण स्फुरणमस्ति तत्र श्रीमूर्त्यादि गोचरवृतिरैकैव तद्भेदे मानाभावात् | सिद्धांते वृतेः क्षणस्थितिकत्वानभ्युपगमात् | तथा च न तत्र व्यभिचारशंकेत्याह | धारावहनस्थल इति | ननु तत्र वृतेरेकत्वे धारावहनत्व प्रसिद्धि विरोधः एकस्यांतदसंभवात् | ध्यानसमाध्योरपि उक्तरीत्या प्. १४४अ) एकवृतिरूपत्वापतौतयोः प्रत्ययसंतति रूपत्वप्रतिपादक भाष्यादि विरोध प्रसंगाच्चेत्याशंक्यधारायाः अनेकवृतिरूपत्वमंगीकृत्यव्यभिचारं परिहरति | तदभ्युपगमेपीति | संभवेनेति | धाराया इति शेषः | उपपतैरिति | द्वितीयादि वृतीनामज्ञानानिवर्तकत्व दोषो नास्तीति शेषः धारावाहकवृतीनां न्यायमत इव क्षणस्थितिकत्वमुपेत्यापि व्यभिचारं परिहरति | प्रतिक्षणोद्यदिति प्रतिक्षणमुद्यंतः अनैकाश्च यावृतयः तत्संतानेत्वर्थः | अभ्युपगमेपीति | धाराया इति शेषः अहानेश्चेति | ज्ञानमज्ञान निवर्तकमिति नियमभंगरूपायाः हानेरभावादित्यर्थः | हान्याभावे हेतुमाह | प्रासाण्याभावेनेति | तत्र हेतुमाह | अधिगतार्थमात्रेति | अनधिगतार्थ विषयकत्वाभावो मात्रपदार्थः | तथा च द्वितायादि वृतीनां प्रमात्वं नास्ति स्मृति वदधिगतार्थ मात्रविषयकत्वादित्यर्थः | नन्वनधिगतावाधितार्थानुभवत्वं प्रमात्वं न भवति | अवाधितानुभव पदव्यावृत्ययोर्भुमस्मृत्योरिवानधिगतपदव्यावर्त्या भावा तथा चावाधित्वार्थानुभवत्व मात्रं प्रमात्वं तच्च द्वितीयादि वृतिष्वक्षतमिति तत्र नियमभंगरूपाहानिः स्यादैवेति नेत्याह | नहीति | प्रामाण्यमित्यनंतरं तथा सतीति शेषः नैयायिकश्शंकते | न चेष्टापतिरिति | इष्टापतिरिति | न चेति संबंधः व्यवहारादर्शनादिति | तथा च प्रामाण्याप्रामाण्यव्यवस्थायाः व्यवहारानुसारित्वादनुमितेः पर्वतांशे प्रमात्वाभावेनालक्ष्यत्वे सिद्धे पर्वतांशानुमितौ प्रमात्व लक्षणस्याति व्याप्ति परिहारायानधिगतत्वविशेषणं प्. १४४ब्) तल्लक्षणेदेयमेव | ततश्च धारा द्वितीयादि वृतीनां न प्रामाण्यमिति भावः || विवरणे साक्षिसिद्धस्याज्ञानस्याभाव व्यावृति प्रत्यायनार्थानुमानादि विषयत्वेपि प्रमाणावेद्यत्वोक्तेश्च तस्मा द्वितीयादि वृतीनां प्रामाण्याभावादुपासनादि वृतीनामिवाज्ञानानिवर्तकत्वेपि न हानिः प्रामाणवृतीनामेव तन्निवर्तकत्वाभ्युपगमात् || अज्ञातत्वस्य प्रमालक्षणे प्रवेशोस्तीत्यत्र हेत्वंतरमाह | विवरण इति | विवरणे अज्ञानस्य प्रमाणावेद्यत्वोक्तेश्चेति संबंधः | अत्रानुमानपदमनुमिति परं प्रमाणपदमपि प्रसिति परं प्रमालक्षणस्य प्रकृत्वत्वादिति बोध्यं नन्वज्ञानस्यानुमिति शाब्दार्थापतिरूपवृतिविषयत्वे कथं तस्य प्रमाणावेद्यत्वमत आह | साक्षिसिद्धस्येति | अज्ञोहमित्यनुभवरूपेणसाक्षिणाऽज्ञानस्वरूपस्य ज्ञातत्वादज्ञानानुमित्यादेरज्ञानस्वरूपे विषये अज्ञातत्व घटितप्रमात्वं नास्तीति मत्वाप्रमाणावेद्यत्वं तस्योक्तं | न च साक्षिण एव प्रमाणत्वात्कथं सामान्यतः प्रमाणावेद्यत्वमुक्तमिति वाच्यं | साक्ष्यतिरिक्त प्रमाणावेद्यत्वस्यैव विवक्षितत्वात् | साक्षिणोतित्यत्वेन प्रमाकरणा जन्मतया पराभिमतेश्वर ज्ञानवत्साक्षिणः प्. १४५अ) प्रमाप्रमाबहिर्भूतत्वेन प्रमाणत्वाभावाद्वा तदवेद्यत्व वचनमिति भावः | ननु साक्षिप्रत्यक्षसिद्धं चेदज्ञानं किमर्थं तर्हि तत्रानुमानाद्युपन्यस्यते तत्राह | अभाव व्यावृतीति | अज्ञानस्य पराभिमताज्ञानादभावरूपात् या व्यावृतिस्तत्प्रत्यायनमर्थः प्रयोजनं येषामनुमानादीनांतानि तथेत्यर्थः | एतदुक्तं भवति | अहमज्ञ उभ्यनुभवसिद्धमज्ञानं भावरूपमिति सिद्धांतिनः | तदा न प्रागभावरूपमिति वैशेषिकादयः ततश्चानुमानादिभिरज्ञानस्याभाव प्रतियोगिक भेदस्साध्यत इति न तेषां वैयर्थ्यं | न च तस्य भावरूपत्व साधनेना किं लभ्यत इति वाच्यं | मायां तु प्रकृतिं विद्यादित्यादि शास्त्रसिद्धस्य प्रपंचपरिणाम्मुपादानत्वस्य सिद्धेस्तत्साधनफलत्वात् | तस्मादिति | अनधिगतत्व घटित प्रमालक्षणा भावादित्यर्थः | उपासनादि वृतीनामिवेति | उपासनारूपावृतिर्नज्ञानं कॢप्त तत्कारणाजन्यत्वात् | मनसो ज्ञानकरणत्वस्य निरस्तत्वान्निरशिष्यमाणत्वाच्च किं तु गमनादिवत्क्रियारूपा पुरुष कृति साध्यत्वा तस्मान्नोपास्य स्वरूपाज्ञाननिवर्तिकामवमिछाद्वेषादि वृतयोपि न स्वविषयाज्ञाननिवीर्तकाः ज्ञानरूपत्वाभावात् | द्वितीयादि वृतीनां तु स्मृतिवद्ज्ञाअनरूपत्वेपि नाज्ञान निवर्तकत्वमुपेयते प्रमात्वाभावादित्यर्थः | ननु कथं न हानिस्तासां प्रमात्वाभावेपि ज्ञानत्वाभ्युपगमेन ज्ञानमात्रमज्ञान निवर्तकमितिति यमस्य व्यभिचाररूपहानेरावश्यकत्वादित्याशंक्याह | प्रमाणवृतीनामेवेति प्. १४५ब्) नत्वधिगतार्थमात्रगोचरवृतीनामपीत्येव कारार्थः | तथा च ज्ञानमात्रमज्ञाननिवर्तकमिति नियमानांगी क्रियते येनोक्तदोशः स्यादिति भावः अभ्युपगमादित्यनंतरं इत्याहुरिति शेषः केचित्वित्युपक्रमात् || ननु नायमपि नियमः परोक्षवृतेर्नियमेनाज्ञानानिवर्तकत्वादिति चेत् | अत्र केचिदाहुः द्विविधं विषयावरकमज्ञानं | एकं विषयाश्रितं रज्वादिविक्षेपोपादानभूतं कार्यकल्प्यं पुरुषाश्रितमन्यत् | विषयमहं न जानामीत्यानुभविकं पुरुषाश्रितस्य विषयसंभिन्नविक्षेपोपादानत्वासंभवेन विषयाश्रितस्य विषयमहं न जानामीति साक्षिरूपप्रकाशसंसर्गायोगेन द्विविधस्याप्यावश्यकत्वात् | एवं च परोक्षस्थले वृतेर्निर्गमनाभावात् | दूरस्थवृक्षे आप्तवाक्यात् परिमाणविषावगमेपि तद्विपरित परिमाणविक्षेपदर्शनाच्च विषयगताज्ञानानि वृतावपि पुरुषगताज्ञाननिवृतिरस्त्येव प्. १४६अ) प्रमामात्रमज्ञाननिवर्तकमिति नियमस्यापि व्यभिचारं शंकते | नन्विति | परोक्षज्ञानस्यापि तन्निवर्तकत्व सत्वान्न व्यभिचार इति वक्तुमज्ञानस्य द्वैविध्यमाह | द्विविधमित्यादिना | रज्वादीति रज्वादेर्यो विक्षेपः सर्पादिरूपो विवर्तः | तदुपादानभूतमित्यर्थः | कार्यकल्प्यमिति | विक्षेपाख्यकार्यानुपपति कल्प्यं न त्वनुभव सिद्धमित्यर्थः | ननु रज्वादि गताज्ञानस्य रजुं न जानामीत्यनुभवसिद्धत्वात् | कथं तस्य कार्यैक कल्प्यत्वमित्याशंक्यानुभवस्य विषयगताज्ञानं न विषय इत्याह | अन्यदिति | अत्र विषयावरणमज्ञानं द्विविधं | एकं विषयाश्रितमन्यत्पुरुषाश्रितमिति संबंधः तथा च विषयाश्रितं स प्रमाणं प्रदर्श्य पुरुषाश्रितं स प्रमाणं दर्शयतीति वा अन्यदित्यस्यावतरणं बोध्यं | नन्वेकेनैवाज्ञानेन सर्पादि विक्षेपस्य न जानामीत्यनुभवस्य च सिद्धेः | किंमज्ञानद्वैविध्येन अत आह | पुरुषाश्रितस्येति विषयोरज्वादिरधिष्ठानं तत्संभिन्नो विषयतादात्म्यापन्नो यो विक्षेपस्तदुपाधानत्वासंभवेनेत्यर्थः | न ज्ञानामीत्याकारकोपस्साक्षीरूपः प्रकाशस्तत्संसर्गायोगेनेत्यर्थः | इदानीं व्यभिचारं परिहरति | एवं चेति | अज्ञानद्वैविध्ये सतीत्यर्थः | एवं च परोक्षस्थले विषयगताज्ञानानिवृतावपि पुरुषगताज्ञाननिवृतिरस्त्येवेति संबंधः | तथा च न व्यभिचार इति भावः | परोज्ञानस्य विषयगताज्ञाननिवर्तकत्वाभावे हेतुद्वयमाह | वृतेरित्यादिना | निर्गमना भावादिति | प्. १४६ब्) विषयचैतन्यसंसृष्टाया एवतेतेर्विषयचैतन्यगताज्ञान निवर्तकत्वस्य वक्षामाणतया निर्गमनाभावे वृतिविषय चैतन्य संसर्गो न सिध्यतीति भावः | तद्विपरीतेति | दूरे दृश्यमानो वृक्षः सन्निहितवृक्ष इव महानित्याप्तवाक्यजन्य परोक्षज्ञानविषयभूताद्रदूरस्थवृक्षगता तस्मात्परिमाणविशेषाद्विपरीतो यः परिमाणरूपविक्षेप विशेषः तस्य दर्शनादित्यर्थः | यदि परोक्ष ज्ञानं रिषयगता ज्ञाननिवर्तकं स्या तदाप्तवाक्यजन्यावगमेन परिमाणविशेषाज्ञाननिवृत्यापत्याविपरीत परिमाणात्मक विक्षेपोत्यन्निर्मस्यात् | उपादानाभावादिति भावः || शास्त्रार्थं न जानामीत्यनुभूताज्ञानस्य तदुपदेशानंतरं निवृत्यनुभवात् | अत एवानुमेयादौ सुषुप्ति व्यावृतिरिति विवरणस्य तद्विषयाज्ञाननिवृतिरर्थ इत्युक्तं तत्वदीपने इति | अन्ये तु नयनपटलं वत्पुरुषाश्रितमेवाज्ञानं विषयावरणं न तदतिरेकेण विषयगताज्ञाने प्रमाणमस्ति | न च पुरुषाश्रितस्य विषयं गतविक्षेप परिणामित्वं न संभवति तत्संभवे वा दूरस्थवृक्षपरिमाणे परोक्ष प्. १४७अ) ज्ञानादज्ञाननिवृतौ विपरीतपरिमाण विक्षेपो न संभवतीति वाच्यं || परोक्षज्ञानेन पुरुषगता ज्ञाननिवृतौ हेतुमाह | शास्त्रार्थमिति | शास्त्रार्थं न जानामित्यनेन प्रकारेण यच्छास्त्रार्थाज्ञानमनुभूतं तस्य शास्त्रार्थोपदेशानंनतरं शास्त्रार्थाज्ञानमिदानीं निवृतमिति निवृतिरनुभूयते | तत्र शास्त्रार्थो द्विविधः धर्मरूपो ब्रह्मरूपश्च धर्मरूपशास्त्रार्थे उपदेश जन्यज्ञानं परोक्षमेव न तु कदाचिदध्य परोक्षं तस्य साक्षात्कारायोग्यत्वा तथा च तत्र विषयगताज्ञाननिवृति प्रसक्तिरेव नास्तीति पुरुषगता ज्ञानमेव निवर्तते इति वक्तव्यं | इतरथा तन्निवृत्यनुभवविरोधात् ब्रह्मरूपे च शास्त्रार्थे | उपदेश जन्यज्ञानं परोक्षं तावन्मात्रान्नविषयावरकं मूलाज्ञानं विषयगतं निवर्तते मननादि विधिवैयर्थ्य प्रसंगात् | अतः पुरुषगताज्ञानमेव निवर्तत इति वक्तव्यमन्यथा तत्रापि तन्निवृत्यनुभवविराधादेवेतिभावः | परोक्षज्ञानस्याज्ञाननिवर्तकत्वे विवरणादि संमति आह | अत एवेति | उक्तानुभव बलादेवेत्यर्थः | तद्विषयेत्यत्र तत्पदमनुमेयादि परं सुषुप्तिपदमज्ञान परं व्यावृति पदं निवृति परमिति व्याख्यातं तत्वदीपने | तथा च अनुमेयादौ विषयगता ज्ञाननिवृत्यभावस्य वक्ष्यमाणतया तत्र पुरुषगताज्ञाननिवृतिरनुमित्यादि परोक्षज्ञानेन जायत प्. १४७ब्) इत्ययमर्थस्तत्र विवक्षित इति प्रतीयते इत्यर्थः | अज्ञानद्वैविध्याभावेपि प्रमामात्रमज्ञाननिवर्तकमिति नियमस्य न व्यभिचार इति मतं दर्शयति | अन्येत्विति | पुरुषगताज्ञानापेक्षव्या अन्यद्विषयगतमज्ञानं किं विषयावरणार्थमुपेयते | किं वा शुक्तिरजतादि विक्षेपोत्यत्यर्थं नाद्य इत्याह | नयनपटलवदिति | नयनगतकाचादिवदित्यर्थः | न द्वितीय इत्याह | न तदतिरेकेणेति | विषयगताज्ञानाभावेपि वक्ष्यमाण विधया विक्षेपोत्पति संभवादिति भावः | प्रमाणाभवोऽ असिद्ध इति शंकते | न चेति | न संभवतीति | पुरुषगताज्ञानस्य शुक्त्याद्यवछिन्नचैतन्यगतसत्वा भावादिति भावः | पुरुषगतस्यैवाज्ञानस्य विषयगतविक्षेपोपादानत्वे दोषमाह | तत् संभवेवेति | पुरुषगताज्ञानस्य विषयगतविक्षेप परिणामित्वं तच्छब्दार्थः | न संभवतीति | विषयगताज्ञानस्या नभ्युपगमात्पुरुषगताज्ञानस्य च आप्नोपदेशजन्य परोक्षज्ञानेन निवृतत्वाच्चेति भावः || वाचस्पतिमते सर्वस्य प्रपंचस्य जीवाश्रिताज्ञानविषयीकृत ब्रह्मविवर्तत्वेन तद्वच्छुक्तिरजतादेः पुरुषाश्रिताज्ञानविषयीकृत ब्रह्मविवर्तत्वोपपतेः | परोक्षवृत्यैकावस्थानिवृतावप्यवस्थांतरेण प्. १४८अ) विपरीत परिमाणविक्षेपोपपतेश्चेत्याहुः | अपरे तु शुक्तिरजतादि परिणामोपपत्यांजस्याद्विषयावगुंठन पटवद्विषयगतमेवाज्ञानं तदावरणं || आद्यं दोषं परिहरति | वाचस्पतिमत इति | शुक्तिरजतादि विक्षेपस्याज्ञान परिणामत्वपक्षे अज्ञानस्य विषयचैतन्यगतत्वं वक्तव्यं तस्याज्ञानपरिणामत्वानंगीकार पक्षे तु तस्य विषय चैतन्यगतत्वं नापेक्षितमिति भावः | दार्ष्टांतिके ब्रह्मपदं शुक्त्याद्यवछिन्न चैतन्यरूप ब्रह्मपरं न तु पूर्णब्रह्मपरं अवछिन्नचैतन्यस्यैव शुक्तिरजताद्यधिष्ठानत्वोपगमादिति भावः विपरीतपरीमाणरूपो विक्षेपो न संभवतीत्विद्वितीयं दोषं परिहरति | परोक्ष वृत्येति | परोक्षज्ञानादज्ञाननिवृतिर्यथा अनुभूयते | तथा उदाहृतस्थले सत्यपि परोक्षज्ञाने विपरीत परिमाणोत्पतिरनुभूयते तथा चानुभवद्वयानुरोधेन पुरुषाश्रितस्यैव वा ज्ञानस्य विषयावरकस्य एकदेशमपरोक्षज्ञानेन विवर्तत एकदेशांतरमनुवर्तत इति कल्प्यते न त्वज्ञानहैविध्यमुपगम्यने गौरवादिति भावः | अवस्थांतरेणेत्यनंतरं पुरुषाश्रिताज्ञानस्यैवेति शेषः वस्तु तस्तु परोक्षज्ञाननिवर्तकत्वमतेपि प्रतिवेधरहित मेघ परोक्षज्ञानमज्ञाननिवर्तकं प्. १४८ब्) प्रकृत च भ्रमानुरोधेन दूरत्वादि देश प्रतिवद्धत्वादाप्तवाक्यजन्यमपि ज्ञानं पुरुषगताज्ञाननिवर्तकं न भवति | अतो न विपरीत परिमाणोन्यनुपपति शंकावकाशः न चतुथ सत्याप्तोपदेशानंतरं दूरस्थ वृक्षगत परिमाणविशेषननानामित्यनुभवापतिरिति वाच्यं | सतानिश्चयरूपपरोक्ष ज्ञानस्य सत्यप्यज्ञाने तदनुभवप्रतिबंधकत्वोपपतेर्न च प्रमामात्रमज्ञाननिवर्तकमिति नियमस्य प्रतिवदध परोक्षप्रमायां व्यभिचार इति वाच्यं | अप्रतिवद्धस्य प्रमाविशेषणत्वोपपतेरिति बोध्यं | एवमप्रतिवद्ध प्रमामात्रमज्ञाननिवर्तकमिति नियममनुसृत्य तदव्यभिचाराय परोक्षज्ञानस्याज्ञाननिवर्तकत्वमुपयादितमिदानिं तथा नियमो नास्ति किंतु प्रतिवद्धापरोक्षज्ञानमेवाज्ञाननिवर्तकमतो न परोक्षज्ञान व्यभिचार शंकेति मतमवतारयति | अपरेत्विति | लोके घटादेर्मृदादि | परिणांमत्वस्य प्रसिद्धत्वा तद्वत् शुक्तिरजतादेरपि परिणामत्वं सिध्यति तत्परिणामि चान्वयव्यतिरेकाभ्यां परिशेष सहकृतान्यामज्ञानमेव सिध्यति शुक्त्यादेः | प्रातिभासिक रजतादि परिणामित्वा संभवादज्ञानस्य च विषयचैतन्यगतस्य यथा रजता || न च तथा सत्यज्ञानस्यांतःकरणोपहित साक्ष्यसंसर्गेण ततः प्रकाशानुपपतिः प्. १४९अ) परोक्षवृतिनिवर्त्यत्वासंभवश्च दोष इति वाच्यं | अवस्थारूपाज्ञानस्य साक्ष्यं संसर्गेपि तत्संसृष्टमूलाज्ञानस्यैव शुक्तिमहं न जानामीति प्रकाशोपपतेः | शुक्त्यादेरपि मूलाज्ञानविषयचैतन्याभिन्नतया तद्विषयत्वानुभवाविरोधात् | विवरणादिषु मूलाज्ञानसाधन प्रसंग एव इदमहं न जानामीति प्रत्यक्ष प्रमाणोपदर्शनाच्च || दि विक्षेपपरिणामित्वमांजस्येनोपपद्यते न तथा पुरुषाश्रितस्योपपद्यते अतस्तदुपपत्यांजस्यनुरोधेन विषयगतमेवावस्थारूपमज्ञानमास्थेयं न तु पुरुषगतमप्यवस्थारूपमज्ञानांतरी वैयर्थ्यात् | मानाभावाच्चेति भावः | यद्यपि पुरुषाश्रितस्याप्यज्ञानस्य पुरुषमपरित्यज्यैव दीर्घप्रभान्यायेन वृतिद्वाराबहिर्निगत्यविषयचैतन्यमाश्रितस्य रजतादि परिणामित्वमुपपद्यते तथापि सा उपपतिर्नाजसी मूलाज्ञानवदवस्थाज्ञानस्यापि निष्क्रियत्वेन प्रभान्यायानवतारादित्यभिप्रेत्परिणामोपपत्यांजस्यादित्युक्तं | तथा सतीति | विषयावरकाज्ञानस्य विषयगतत्वे सत्वे सतीत्यर्थः | तत इति | पंचमी साक्षिण प्. १४९ब्) इत्यर्थः | असंभवश्चेति | परोक्षवृतेर्विषयदेशे निर्गमनाभावादिति भावः आद्यदोषं परिहरति अवस्थारूपाज्ञानस्येति | शुक्तिं न जानामीत्याद्यनुभवस्य नावस्थाज्ञानं विषयगतं विषयः किं तु मूलाज्ञानं तस्यैव साक्षिसंसृष्टत्वादित्यर्थः | ननु मूलाज्ञानस्य ब्रह्मविषयकत्वात् कथं तस्य शुक्तिविषयकत्वानुभवः संभवति | अवस्थाऽज्ञानस्य वा कथं शुक्तिविषयकत्वानुभवस्संभवति | तस्यापि शुक्त्यवछिन्नचैतन्यमात्रविषयकत्वात् | शुक्तेरवस्थाऽज्ञानविषयचैतन्य तादात्म्येन शुक्तिविषयकत्वानुभवो न विरुध्यत इति चेतुल्यमुतरमित्यभिप्रेत्याह | शुक्त्यादेरपीति | अभिन्नतयेति | जडमात्रस्य मूलाज्ञानविषयचैतन्येध्यस्ततया शुक्त्यादेरपि ततादात्म्यरूपं तदभिन्नत्वमस्तीति भावः | शुक्तिं न जानामीत्याद्यनुभवस्य मूलाज्ञनविषयकत्वे विवरणादि संमतिमाह | विवरणादिष्विति | ननु मूलाज्ञानसाधनप्रकरणेऽ अहमज्ञ इत्याकरो योनुभवः प्रदर्शितस्स एव मूलाज्ञान साधक | इदमहं न जानामीत्यनुभवस्तु अवस्थाज्ञान विषयक एव न च प्रकरणविरोधश्शंकनीयः शुक्तिरजतादि लक्षणपरिणामोपपते ये अवस्थाज्ञानस्यापि साधनीयत्वेन मूलाज्ञानसाधनप्रकरणेपि प्रसंगा तत्साधनोपपतेः | यथाद्रदं न जानामीत्यनुभवस्ततद्विषयावछिन्न- प्. १५०अ) चैतन्याऽज्ञानगोचरः एव महमज्ञस्तत्वं न जानामीत्यनुभवो मूलाज्ञानगोचर इति दृष्टांतविध || अहमज्ञ इति सामान्यतोऽज्ञानानुभव एव मूलाज्ञानविषयः शुक्तिमहं न जानामीत्यादि विषयविशेषालिंगिता ज्ञानानुभवस्त्ववस्थाज्ञानविषय इति विशेषाभ्युपगमेपि अवस्था अवस्थावतोरभेदेन मूलाज्ञानस्य साक्षिसंसर्गाद्वा साक्षिविषयचैतन्ययोर्वास्तवैक्याद्वा विषयगतस्याप्यवस्थाज्ञानस्य साक्षिविषयत्वोपपतेः परोक्षज्ञानस्याज्ञानानिवर्तकत्वेपि ततस्तन्निवृत्यनुभवस्य सतानिश्चयरूपपक्षवृतिप्रतिबंधक प्रयुक्ता ननुभवनिबंधनभ्रांतित्वोपपतेरपररोक्षज्ञानस्यैवा- ज्ञाननिवर्तकत्व नियमाभ्युपगमादित्याहुः | ननु नायमपि नियमः अविद्याहंकार सुखदुःखादि तद्धर्म प्रत्यक्षस्याज्ञान निवर्तकत्वानभ्युपगमादिति चेत् प्. १५०ब्) न अविद्यादि प्रत्यक्षस्य साक्षिरूपत्वेन वृतिरूपापरोक्षज्ञानस्यावरणं निवर्तकत्वनियमानपायात् || या मूलाज्ञानसाधनप्रस्तावेपि विषयविशेषालिंगिताज्ञानानुभव प्रदर्शनोपपतेश्च तस्मादिदं न जानामीत्याद्यनुभवानां मूलाज्ञानविषयकत्वे प्रमाणाभावदवस्थाज्ञानविषयकत्वस्यैव तत्साधनार्थतया वक्तव्यत्वाच्च तस्य विषयगतत्वे सिद्धे साक्षिसंसर्गाभावान्न तदनुभवस्संभवतीत्याशयवती शंकामनुवदति | अहमज्ञ इतिति | विषयगताज्ञानस्य साक्षिणा सहसाक्षात्संबंधाभावेपि परंपरासंबंध संभवान्नतदनुभवानुपपतिरिति परिहरति | अवस्थावस्थावतोरिति | अभेदेनेति | तादात्म्यमभेदः | तथा च साक्षिसंसृष्टमूलाज्ञानावस्थात्वाद्विषयगता ज्ञानस्य मूलाज्ञानद्वारा साक्षि संसर्ग इत्यर्थः | साक्षीति | साक्षि चैतन्यस्यावस्थाज्ञानाश्रयविषयचैतन्यस्य च वस्तुत एकत्वाद्धस्ततस्साक्ष्यभिन्नचैतन्याश्रित तं साक्षिणा सह विषयगताज्ञानस्य संसर्ग इत्यर्थः | यदुक्तं परोक्षववृतौ व्यभिचारादिति | तन्नाऽपरोक्षज्ञानस्याज्ञाननिवर्तकत्वाभ्युपगमेन तथा नियमानभ्युपगमा तथा नियमे ह्यभ्युपगमे परौक्षवृतौ व्यभिचारदोषो भवेत् | ननु तर्हि शास्त्रार्थं प्. १५१अ) न जानामीत्यनुभूताज्ञानस्य तदुपदेशानंतरं तन्निवृत्यनुभवविरोध इति नेत्याह | परोक्षज्ञानस्येति | तत इति | परोक्षज्ञानादित्यर्थः भ्रांतित्वोपपतेरिति | न चात्र बाधकाभावात् कथं भ्रांतित्व कल्पनमिति वाच्यं | विषयगताज्ञानापेक्षया पुरुषगतानंतावस्थाज्ञानांतरकल्पना गौरवस्य बाधकस्य सत्वादिति भावः | कथं तर्हि प्रमाणवृतीनां तन्निवर्तकत्वाभ्युपगमस्तत्राह | अपरोक्षज्ञानस्यैवेति | न तु परोक्षज्ञानसाधारणप्रमाणज्ञानमात्रस्यातो न परोक्षज्ञाने व्यभिचार इत्येव काराभिप्रायः | तद्धर्मेति | तच्छब्दोहंकारपरः अनभ्युपगमादिति | अविद्याहंकारादीनां स्वसताकालेभन नियमेन तेषामावरणानंगीकारादित्यर्थः | नियमस्य संकोचं वदन् परिहरति नेति || अथ कोयं साक्षी जीवातिरेकेण व्यवह्रियते | अत्रोक्तं कूटस्थ दीपे | देहद्वयाधिष्टानभूतं कूटस्थचैतन्यं स्वावछेदकस्य देहद्वयस्य साक्षादीक्षणान्निर्विकारत्वाच्च साक्षीत्युच्यते लौकेपि ह्यौदासीन्यबोधाभ्यामेव साक्षित्वं प्रसिद्धं यद्यपि जीवस्य वृतयः संति देहद्वयनासिकास्तथापि || प्. १५१ब्) सुखादि धर्मिणोहंकारस्य साक्षिप्रत्यक्षविषयत्वोक्त्या अहमर्थजीवापेक्षयाभिन्नस्तत्साक्षीनिर्दिष्टः सुखादि धर्मिणोहंकारस्यैव लोके जीवत्व प्रसिद्धेस्तथा च योर्यजीवभिन्न साक्षी व्यवह्रियते स नास्ति मानाभावादित्याक्षिपति | अथेति | यस्साक्षीजीवातिरेकेण व्यवह्रियते | अयं क इति संबंधः किं शब्दो आक्षेपार्थः | निर्विकारत्वाच्चेति ननु द्रष्टृत्वं दृष्टिक्रियाकर्तृत्वं निर्विकारत्वं च कर्तृत्वादि विकारराहित्यं तथा च तयोः परस्परविरोध इति चेन्न दृष्टिस्वरूप एव कूटस्थे तत्कर्तृत्वस्य साक्षाद्द्रष्टरि संज्ञायामिति सूत्रानुसारेण साक्षिशब्दात्प्रतीतस्य सवितरि प्रकाशात्मके प्रकाशत इति प्रकाश कर्तृत्ववदुपचारमात्रत्वात्साक्षात्पदाद्द्रष्टयार्थे इतिः प्रत्ययो भवति साक्षिपदस्य संज्ञात्व इति सूत्रार्थः | ननु साक्षिपदात् साक्षिलक्षणं बोद्धत्वमात्रं प्रतीयते न तु निर्विकारश्यमौदासीन्यमपि तत्कथं साक्षिलक्षणे निर्विकारत्वमपि प्रक्षिप्यते | तत्राह | लोकेपि हीति | अपिशब्दव्याख्यानमवधारणं तच्च औदासीन्य बोद्धत्वयोः प्रत्येकं लक्षणत्व शंका व्यवछेदार्थं हि शब्दव्याख्यानं प्रसिद्धपदं लोके हि प्. १५२अ) द्वयोर्विवदमानयोस्सतोस्ताभ्यामन्यस्तयोर्विवादस्यापरोक्षतया वोद्धा उदासीनश्च यो भवतिऽसस्साक्षीत्युच्यते | अतः उदासीनत्वविशेषणमावश्यकं औदासीन्यमात्रमुक्त विवादस्थले स्तंभादेरप्यस्तीति तद्धारणाय बोद्धत्व विशेषणमिति मंतव्यं स्थूलसूक्ष्मात्मक देहद्वयावछिन्नं स्वावछेदकहद्वय भासकचैतन्यं साक्षीति यदुक्तं | न तत्संभवति | तथा भूतचैतन्ये मानाभावात् | न च तदभाव देह द्वयावभासा सिद्धिरिति वाच्यं | प्रकाशात्मकांतःकरणवृतिभिरेव तत्सिद्धेरिति मत्वाशंकते | यद्यपीति | जीवपदमहंकारात्मकांतःकरणपरंतित्य चैतन्यस्यानंगीकारपक्षे जडाहंकारातिरिक्त जीवाभावात् | वृतीनामंतःकरणपरिणामतायाः कामः संकल्प इत्यादि श्रुति सिद्धत्वाच्चेति बोध्यं वृतीनां दीपादिवत्प्रकाशात्मकत्वेपि तासां जडत्वाद्देहद्वयाभासकत्वं न संभवति स्वप्रकाशनित्यचैतन्याभ्युपगमे तु तत्प्रतिबिंबयुक्तानां तासां देहद्वयानुभवरूपत्वं संभवति अतस्तादृश चैतन्यमुपेयमित्यभिप्रायेणाह तथापीति || सर्वतः प्रसृतेन स्वावछिन्नेन कूटस्थ चैतन्येनेषत्सदाभास्यमेवदेत्वद्वयं जीवचैतन्य प्. १५२ब्) रूप प्रतिबिंब गर्भांतःकरणाद्धिछिद्य विछिद्योद्गछद्भिर्वृतिर्ज्ञानैर्भास्यते | अंतरालकाले तु सहवृत्यभावैः कूटस्थ चैतन्येनैवभास्यते | अत एवाहंकारादीनां सर्वदाप्रकाश संसर्गात्संशयाद्यगोचरत्वं || किं च वृतीनामंतरालदशासुदेहद्वयस्यास्पष्टं भानं देहद्वयगोचर वृतीनां सद्भावकालेत्वहंकर्तास्थूलोहमित्यादि रूपेणस्पष्टं भानतित्यनुभवसिद्धंत तन्नास्पष्टभानोपपतये वृत्तिज्ञानातिरिक्तं नित्यसाक्षिचैतन्यमुपेयमित्याशयेनाह | सर्वतः प्रसृतेनेति | व्याप्तेनेत्यर्थः देहद्वयं कूटस्थ चैतन्येन ईषत्सदाभास्य मानमेव वृतिज्ञानैः स्फुटमवभाष्यत इति संबंधः जीव चैतन्यरूपो यः प्रतिबिंबस्तद्गर्भा तद्युक्तादित्यर्थः | अनेनांतःकरणप्रतिबिंबो जीवः बिंबचैतन्यरूपः कूटस्थः साक्षीति जीवसाक्षिणोर्भेदो दर्शितः यथाग्नितप्तायः पिंडादुद्गछंतो विस्फुलिंगाः साग्नय एवोद्गछंति | एवं चैतन्य प्रतिबिंबोपेतादंतष्करणादुत्पद्यमानऽवृतयोपि तत्प्रतिबिंबगर्भा एवोत्पद्यंते अतस्तासां देहाद्यनुभव रूपत्वं संभवतीति सूचयितुमंतष्करणस्य प्. १५३अ) प्रतिबिंबगर्भत्वमुक्तं जाग्रदवस्थायां देहद्वयस्य साक्षि चैतेन्यमात्रादस्पष्टतयाभानावसरं दर्शयितुं विछिद्यविछिद्येत्युक्तं | तमेवावसरं स्पष्टमाह | अंतरालकाले त्विति तु शब्दस्य व्याख्यानमेवकारः देहद्वयंवृत्यभावैः सहाऽवभास्यत इति संबंधः वृत्यभावैरित्यस्य वृतीनां ध्वंसैरित्यर्थः | उपलक्षणं चैतत् वृतीनामुत्पतिभिः वृतिभेदैश्च सहेत्यर्थः | अयं भावः नित्यचैतन्यानभ्युपगमे वृत्युत्पति विनाश तद्भेदादेरपरोक्षतया भानं न स्यात् स्वोत्पति विनाशयोः स्वग्राह्यत्वासंभवात् वृतिगोचरापरोक्षवृतीनां निरशिष्यमाणतया तयोर्तृत्यंतरग्राह्यत्वासंभवाच्च | तस्माद्वृतिनाशादि साक्षितयापि नित्यचैतन्यमुपेयमिति | अत्रैवोपपत्यंतरं दर्शयति | अत एवेति | नित्यचैतन्यरूपसाक्षिसद्भावादेवेत्यर्थः | अहंकारप्राणशरीरादीनां योग्यतद्धर्म सुखदुःखादीनां च सदाहंकारादि सताकाले संशयादिनिवृतिलक्षणफलभाक्तं तावदनुभवसिद्धं न हि कदाचिदपि अहमासं न वा अहं वर्तेन वा अहं प्राणिमिनवाहहं ब्राह्मणो न वेत्यादि प्रकारेणाहंकारा हि सतासशयः | कस्यचिदप्यस्ति तच्च तेषां सदाप्रकाशसंसर्गविना न संभवति | घटादीनां प्रकाशसंसर्गदशायामेव संशयाद्यगोचरत्व दर्शनात् सदाप्रकाश संसर्गित्वं त्वऽहंकारादीनां जन्यज्ञानपक्षे न संभवति | तेषामुत्पति विनाशवत्वात् प्. १५३ब्) प्रायेण बाह्यविषयगोचरत्वाच्च तस्मादहंकारादीनां सदासंशयाद्यगोचरत्व निर्वाहाय तेषां सदास्वांक्षि चैतन्यरूपप्रकाशसंसर्गो वाच्य इति भावः || अन्य ज्ञानधाराकालीनाहंकारस्यैतावंतं कालमिदमहं पश्यन्नेवासमित्यनुसंधानं च न च कूटस्थ प्रकाशिते कथं जीवस्य व्यवहार स्मृत्यादिकमिति शंक्यं | अन्योन्याध्यासेन जीवैकत्वापत्याकूटस्थस्य जीवांतरंगत्वात् | न च जीवचैतन्यमेव साक्षी भवतु किं कूटस्थेनेति वाच्यं || साक्षिसद्भावे उपपत्यंतरमाह | अन्यज्ञानेति | अहंकारग्रहणं धारांतर्गतवृतीनामप्युपलक्षणं नित्यानुभवरूपसाक्ष्यनंगीकारे दिव्यमंगल श्रीकृष्णमूर्तिगोचरवृति संतति | कालीनाहमर्थस्य तत्कालीन वृत्तीनां च तत्काले जन्यानुभवासंभवै न संस्कारा संभवादुतरत्रानुसंधानं न स्यान्न हि धाराकाले | अहंकारगोचरो वा प्रत्येकं वृत्ति गोचरो वा जन्यानुभवस्संभवति धाराविछेद प्रसंगाद्वृति संततेरिछा घटित सामग्रीकत्वेन तद्विछेदासंभवाच्च तस्मादन्यज्ञानधारा कालीनाहमर्थादि साक्षितया प्. १५४अ) नित्यानुभवो वाच्य इति भावः | अनुसंधानं चेति संगछत इति शेषः | ननु साक्षि चैतन्येनानुभूताहमर्थ तद्वृतीनां कथमहं पश्यन्नेवासुमिति स्सरणं जीवस्य संभवति | अहमर्थ भूतप्रतिबिंब जीवापेक्षया बिंबभूतस्य कूटस्थचैतन्यात्मक साक्षिण्ये भिन्नत्वादन्यानुभूते अर्थे अन्यस्य स्मरणा योगादिति शंकते | न च कूटस्थेति | स्वेनस्वतादात्म्याषन्नैन वा अनुभूतार्थे स्वस्य स्मरणं भवतीत्यंगीकारान्नाति प्रसंगः न हि देवदत्त यज्ञदत्त जीवयोः परस्परं तादात्म्यमस्ति | येन देवदतानुभूतेर्थे यज्ञदत्तस्य स्मरणप्रसंग इति दोषो भवेदित्याशयेन परिहरति | अन्योन्याध्यासेनेति | तादात्म्याध्यासेनेत्यर्थः | जीवस्य कूटस्थे कल्पितत्वस्य प्रागेव निरूपे तत्वादिति भावः न चैवमपि सर्वदेहेषु साक्षिण एकत्वाद्देवदत साक्षिणानुभूतदेवदताहंकारादिषु यज्ञदत्वादेरप्यनुसंधानप्रसंगः यज्ञदतादेरपि देवदतसाक्षिण्ये बाध्यस्ततया तदैकत्वापतेस्सत्वादिति वाच्यं | देहद्वयरूपावछेदक भेदेन ततज्जीवतादात्म्यापन्न साक्षिणोभेदाभ्युपगमात् | एवमवछेदकभेदेन साक्षिभेदं ज्ञापयितुमेव स्वावछेदकस्येति विशेषणं पूर्वमवदतमिति बोध्यं | नन्वस्तु जीवकूटस्थ नामक चैतन्यद्वयं तथापि जीव एव साक्षी किं न स्यादिति प्. १५४ब्) शंकते | न चेति | किं कूटस्थेनेति किं कूटस्थस्य साक्षित्वेनेत्यर्थः | न तु कूटस्थस्यैवाक्षेपः तस्य साधितत्वात् || लौकिक वैदिक व्यवहारकर्तुस्तस्योदासीन द्रष्टत्वासंभवेन साक्षीचेताकेवलो निर्गुणश्चेति श्रुत्युक्त साक्षित्वायोगात् तयोरन्यः पिप्पलं स्वाद्धत्यनश्नन्यो अबिचाकशीतीति कर्मफल भोक्तुर्जीवादुदासीन प्रकाशरूपसाक्षिणः पृथगाम्नानाच्चेति | नाटकदीपेपि नृत्यशालास्थ दीपदृष्टांतेन साक्षीजीवा द्विविच्य दर्शितः | तथाहिः | नृत्यशालास्थितो दीपः प्रभुं सभ्यांश्च नर्तकीं | दीपयेदविशेषेण तदभावेपि दीप्यते | तथा चिदाभासविशिष्टाहंकाररूपं जीवं विषयभोगसाकल्पवैकल्पाभिमानप्रयुक्तहर्षविषादवत्वान्नृत्याभि मानि प्रभुतुल्यं || उदासीनास्यैव लोके साक्षित्वस्य प्रसिद्धत्वात् तदनुरोधेन प्. १५५अ) श्रुत्यनुरोधेन च कूषस्थस्यैव साक्षित्वं न जीवस्येति परिहरति | लौकिकेति | साक्षिणो लक्षणमाह श्रुतिः चेताकेवल इति | चेतावोद्वा केवलः अकर्ता उदासिन इति यावत् ज्ञानादि गुणक आत्मेति वैशेषिकादि मतं श्रुतिः स्वयमेव निराकरोति | निर्गुणश्चेति | मध्यमपरिमाणस्सक्रिय आत्मेति दिगंबरमत निरासार्थश्चकारः निष्क्रियश्चेत्यर्थः साक्षिणो जीवाद्भिन्नत्वे श्रुतिमप्याह तयोरन्या इति जीवकूटस्थयोर्मध्ये कूटस्थादन्यो जीवः पिप्पलं कर्मफलं स्वादुयथा भवति तथा अतिभुऽऽन्क्ते शरीरस्याश्वत्थवृक्षत्वेन निरूपितत्वात्कर्मफलस्य पिप्पल्लत्वेन निरूपणमिति द्रष्टव्यं स्वाद्धिति विशेषणं पुण्यफलाभिप्रायं जीवादन्यः कूटस्थः अनश्रन् अशनं कर्मफलभोगमकुर्वन्नभिचाकशीति अभि आभिमुख्येनापरोक्षतया चाकशीति बुध्यादि साक्षितया प्रकाशत इति यावत् | अत्रानश्रन्नित्यनेन भोकृत्वे निषिद्धे सति कर्तृत्वमपि निषद्धं भवति | तथा चान श्रन्नभिचाकशीतीति पदाभ्यामुदासीनत्वे सति बोद्धत्वरूपं साक्षित्वं प्रदर्शितमित्यर्थः | कूटस्थ दीपे निरूपितस्साक्षी अन्यत्रापि दृष्टांत विशेष पूर्वकं सुषुप्ति साधारणो निरूपित इत्याह | नाटकदीपेपीति | दृष्टांत प्रतिपादकं तत्रत्यश्लोकं पठति | नृत्यशालास्थित इति | प्रभुं नृत्याभिमानिनं संभ्यांस्तत्परिसरवर्तिनः अविशेषेणेति | दीपोहि प्. १५५ब्) वृद्धिं प्राप्य प्रभुं प्रकाशयति | मध्यमावस्थां प्राप्यसभ्यान् | ततो निकृष्टावस्थां प्राप्यनर्तकीमिति प्रकाशतारतम्यानुसारेण वृध्यादिविकारं प्राप्य न दीपप्येत् | किं तु एकरूपेणैव स्थितस्सन् प्रकाशयेदित्यर्थः | इदं च विशेषणं दार्ष्टांतिके निर्विकारस्य कूटस्थस्य साक्षित्वज्ञापनार्थमिति मंतव्यं | तदभावेपीति | प्रभुसभ्याद्यभावेपीत्यर्थः | अहंकारः प्रभुः सभ्याविषया नर्तकीमतिः तालादिधारीण्यक्षाणि दीपस्साक्ष्यवभासक इति दार्ष्टांतिक संग्राहकं श्लोकं मनसि निधायाह | तथेति जीवस्य नृत्याभिमानि प्रभुतुल्यत्वकल्पनाप्रयोजकं साम्यमाह | विषयेति तत्परिसरवर्तित्वेपि तद्राहित्यात्सभ्यपुरुषतुल्यान्विषयान्नानाविध विकारवर्तित्वान्नर्तकी तुल्यांधिपंचदीपयन्सुषुप्त्यादावहंकाराद्यभावेपि दीप्यमानश्चिदाभासविशिष्टाहंकाररूपजीवभ्रमाधिष्ठान कूटस्थचैतन्यात्मासाक्षी एवं जीवाद्विवैचितोयं साक्षीन ब्रह्मकोटिरपि किं त्वस्मृष्टजीवेश्वर विभागं चैतन्यमित्युक्तं कूटस्थदीपे || प्. १५६अ) नृत्यसाकल्पवैकल्पप्रयुक्त हर्षादिमत्वं प्रभोरभिमानपदेन सूचितं | यथा सभ्याः प्रभुपरिसरवर्तिनः तथा रूपादयो विषयाः जीवपरिसरवर्तिनस्तथा च विषयाणां सभ्यसाम्यात् सभ्यत्व कल्पनं युक्तमित्याशयेनाह | तत्परिसरवर्तित्वेपीति | तत्पदं जीवपरं ननु जीवपरिसरवर्तिनामपि विषयाणां जीववत् प्रभुतुल्यत्वमेव कुतो न कल्प्यत इत्याशंक्य तत्प्रयोजकाभावादित्याशयेनाह | तद्राहित्यादिति | प्रभुतुल्यत्वकल्पकहर्षविषादादेरभावादित्यर्थः | यद्वा विषयाणां सभ्यपुरुषसाम्यमाह | तद्राहित्यादिति | बुद्धेर्नर्तकी साम्यमाह | नानाविधेति | यथा तालादिधारिणः पुरुषाः नर्तकी मनुवर्तंते एवमिंद्रियाण्यपि धियमनुवर्तंत इत्यनेन साम्येन इंद्रियाणां तालादिधारिपुरुषसाम्यंश्लोकोपातं धियं चेत्यत्रवशब्दार्थः जीवादीनामवभासक साक्षीदीपतुल्य इति चरमपादार्थः तं संगृह्णाति दीपयन्नित्यादिना | प्रकाशयन्नित्यर्थः | दीपयन्नित्यतः प्राकजाग्रदादावितिशेषः नाटकदीपे निरूपितः साक्षीकूटस्थ दीपोक्तकूटस्थ एव नान्य इत्याशयेनाह | चिदाभासविशिष्टेति | कूटस्थ दीपे हि जिवभ्रमाधिष्टनभूतकूटस्थ चैतन्यं जीवादेरवभासकमित्युक्तं | नाटकटीपे च | चिदाभासविशिष्टाहंकारं जीवं कल्पयित्वातदवभासक प्. १५६ब्) चैतन्यं साक्षीत्युक्तं ततश्च तत्रोक्त कूटस्थ एवान्न साक्षीत्ववगम्यते | अंतष्करणप्रतिबिंबरूप जीवाधिष्ठानत्वतदवभासकत्वादि निशसाम्या तथा च नाटकदीपंपि नृत्यशालास्थ दीपदृष्टांतेन साक्षी जीवाद्दिविच्यदर्शित इति पूर्वग्रंथे कूटस्थदीपे यस्माक्षीजीवाद्भेदेन दर्शितस्स एव नाटकदीपेपि ततो भेदेन दर्शित इति विवक्षितार्थस्सिद्ध इति भावः साक्षी यथा जीवकोटिर्न भवति | जीवस्य उदासीनत्वाभावा तथा ईश्वरकोटिरपि न भवति जगत्सृष्टिनियमनादि व्यापार कर्तुस्तस्य उदासीनत्वा भावादीश्वरस्य परोक्षतया | जीवं प्रतिबुध्यादि साक्षितयानित्यापरोक्ष साक्षिरूपत्वासंभवाच्चेत्याशयेनाह | एवं जीवादिति | ब्रह्मपदमाश्वरपरं नत् दीसीन चैतन्यपरं | कस्तर्हि साक्षीति पृछति | किंत्विति | उत्तरमस्पृष्टेति | उक्तमिति | इति शैवपुराणेषु कूटस्थः प्रविवेचितः जीवेशत्वादि रहितः केवलः स्वप्रभः शिव इति श्लोकेनेतिशेषः जगद्रूपत्वमादिपदार्थः | केवल उदासीनः शिवः शुद्धः परमात्मेत्यर्थः || तत्वप्रदीपिकायामपि शवलिते सगुणे परमेश्वरे केवलो निर्गुण इति | विशेषणानुपपतेः सर्वप्रत्यग् भूतं विशुद्धं प्. १५७अ) ब्रह्मजीवाभेदेन साक्षीति प्रतिपद्यत इति निवदितं | कौमुद्यां त्वेको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतांतरात्माकर्माध्यक्षः सर्वभूताधिवासः साक्षिचेताकेवलो निर्गुणश्चेति देवत्वादि श्रुतः परमेश्वरस्यैव रूपभेदः कश्चिज्जीव प्रवृतिनिवृत्योरनुमंता स्वयमुदीसीनः साक्षीनाम || ईश्वरत्वादि धर्मरहितश्चिदात्मैवान्यत्रापि साक्षित्वेनोक्त इति संवादार्थमाह | तत्वप्रदीपिकायामपीति | सर्वेषां जीवानामंतःकरणगत चित्प्रतिबिंबात्मकानां प्रत्यग्भूतमधिष्ठानतया आंतरं स्वरूपभूतं विशुद्धं जीवत्वेश्वरत्व जगदूपत्वरहितं ब्रह्मजीवाभेदेन ततज्ज्जिवाधिष्ठानत्वादेव ततज्जीवतादात्म्यापत्याप्रतिशरीरं प्राप्तभेदं सत्साक्षीति प्रतिपद्यते | इति शब्दः प्रकारवाघीसत्साक्षित्वमाह तथा च साक्षित्वं प्रतिपद्यते | परमेश्वरस्यैव कश्चिद्रूपभेदः साक्षीनामकुतः देवत्वादि श्रुतेर्नत्वीश्वर विलक्षणः साक्षीदेवत्वादि श्रुतिविरोधादित्येवकारार्थः देवत्वादीत्यादि पदेन सर्वभूतांतरात्मत्वादि धर्मागृह्यंते | एतदुक्तं भवति | देवत्वादयो धर्माः श्रुतिस्मृत्यादिषु परमेश्वर धर्मत्वेन प्रसिद्धा इति नान्यस्य प्. १५७ब्) साक्षित्वं देवत्वादि श्रवणविरोधात् | यद्यपि देवत्वं हिरण्यगर्भेद्रादि जीव साधारणं तथापीतरधर्माणामीश्वरासाधारणत्वाद्देवत्वमपीश्वर गतमेव ग्राह्यमिति भावः | परमेश्वरस्य शिवविश्वात्मना प्राप्तं भेदं निराचष्टे | एक इति | बिंबभूतस्य परमेश्वरेस्य मूर्तिभेदेन शिवविष्णु संज्ञानत्वीश्वरभेदोस्तीत्यर्थः | तथा च श्रुत्यंतरं शास्वतं शिवमच्युतमिति | अच्युत पदस्य विष्णौरूढत्वात् आवयोरंतरं नास्ति शब्दैरर्थैजगत्यत इत्यादि स्मृतयोप्यत्र शतशो द्रष्टव्याः श्रुतौ सर्वभूतेष्वित्यनंतरं वर्तत इति शेषः | तथा च स्मृतिः ईश्वरः सर्वभूतानां हृद्देशेर्ज्जनतिष्ठतीति | तर्हि किमिति सर्वेषां नोपलभ्यते | तत्राह गूढ इति | तथा स्मृतिर्ताहं प्रकाशः सर्वस्य योगमाया समावृत इति | श्रीकृष्णोत्राहं शब्दार्थः प्रकाशः प्रकाशमान इत्यर्थः | परमात्मनो भूतेषु अवस्थानाभ्युपगमेधिकरण भेदा तस्यापि भिन्नत्व शंकास्यातांवारयति | व्यापीति | व्यापित्वेपि नभो वद्वस्तुतो जीवभिन्नत्वं वारयति | सर्वभूतांतरात्मेति | सर्वभूतानां ब्रह्मादिस्तंवपर्यंत संघातानामंतरवस्थित आत्मासर्वजीवस्वरूप इति | यावत् | परमेश्वरस्य कर्मकर्तृजीवाभिन्नत्वे तस्यापि तत्कर्तृत्वस्यादिति नेत्याह | कर्माध्यक्ष इति | जीवकर्तृकर्मणां साक्षीनस्वय तत्कर्तेत्यर्थः जीवपरमात्मनोरौपाधिक- प्. १५८अ) भेदेन धर्मव्यवस्था संभवतीति भावः | सर्वभूतेष्वित्यादिना परमात्मापेक्षयाभेदेन भूतानां निर्दे || स च कारणत्वादि धर्मानास्पदत्वादपरोक्षो जीवगतमज्ञानाद्यवभासयंश्च जीवस्यांतरंगः सुषुप्त्यादौ च कार्यकारणो परमे जीवगता ज्ञानमात्रव्यंजकः प्राज्ञ शब्दितः || शातस्य सद्वितीयत्वमाशंक्याह | सर्वभूताधिवास इति | अधि उपरिवसंत्यस्मिन् भूतानीत्यधिवासोऽ अधिष्ठानं सर्वेषां भूतानामधिवासस्सर्वभूताधिवासः न चाधिष्ठानातिरेकेणरोपितानां पृथक् सत्वमस्तीतिनाद्वितीयत्व विरोध इति भावः | न केवलं जीवगतकर्मणामेव साक्षी किं तु जीवानामपीत्याशयेनाह | साक्षीति | अवशिष्टा श्रुतिः प्रागेव व्याख्याता अनुमंतानैरंतर्येण बोद्धास्वयमिति | जीवे व्यापारवत्यपि स्वयं तद्रहितः रूपविशेषसाक्षिलक्षणमुक्ता साक्षिपदं तत्र वर्तयति | साक्षी नामेति | नामपदं श्रुतिप्रसिद्धि द्योतकं | ननु साक्षीजीवस्यापरोक्षः तस्याज्ञानांतष्करणाद्यनुभवरूपत्वांगीकारात् | ईश्वरस्तु नित्यं परोक्षः कारणत्वसर्वज्ञत्व सर्वनियंतृत्वादेर्जीवं प्रत्ययोग्यत्वेन तद्विशिष्ट बिंबचैतन्यरूपेश्वरस्यायोग्यत्वादिति चेन्न | प्. १५८ब्) तस्य रूपविशेषत्वांगीकारेणापरोक्षत्वोपपतेरित्याशयेनाह | स चेति न चेश्वरस्यैतादृशरूपभेदेमानानावः शंकनीयः एकोदेव इति मंत्रस्य अनश्रनन्यो अभिचाकशीति मंत्रभागस्य च उदासीने परमेश्वररूपभेदे मानत्वात् | कारणत्वादि धर्मास्पदे चेश्वरे सृष्टिवाक्यानां सर्वेषामेवमानत्वादिति भावः | स च जीवस्यापरोक्षों अंतरंगश्चेति संबंधः उभयत्र हेतुमाह | जीवगतमज्ञानाद्यवभासयन्निति | अंतःकरण तद्धर्म सुखदुःखादि संग्रहार्थमादिपदं साक्षिचैतन्यमज्ञानाद्यवभासनुद्वारा अहमज्ञः अहं सुखीदुःखीत्यादि व्यवहारनिर्वाहकं भवति | अतः साक्षी जीवऽस्यांतरंगः लोके राजादि व्यवहार निर्वाहकपुरुषे राजांतरंगत्वस्य प्रसिद्धत्वादिति भावः | ननु सुषुप्त्यादौ साक्ष्यस्यांतःकरणतदवृत्यादेरुपरतत्वा तदा चिदात्मनस्साक्षित्वं न स्या तथा च तेभ्यो विलक्षणस्साक्षी चिन्मात्रोहं सदाशिव इत्यादौ सुषुप्त्यादावपि तस्य साक्षित्व व्यवहार विरोध इत्यत आह | सुषुप्त्यादौ चेति | तेभ्यो इति | भोक्त्रादिभ्य इत्यर्थः | तदापि मूलाज्ञानस्य साक्ष्यस्य सत्वान्न विरोध इति भावः परमेश्वरस्यैव रूपविशेषात्मके साक्षिणि सुषुप्त्यक्रांतिविषयकवाक्यद्वयमपि प्रमाणमित्याशयेनाह | प्राज्ञशब्दित इति प्. १५९अ) सुषुप्तिविषयकवाक्ये उत्क्रांतिविषयकवाक्ये च प्राज्ञशब्देन यथोक्त साक्षिण एव प्रतिपादितत्वादितिभावः || तद्यथा प्रिययास्त्रियासंपरिष्वक्तो न बाह्यं किंचन वेदनांतरमेवमेवायं पुरुषः प्राज्ञनात्मनासंपरिष्वक्तोत बाह्यं किंचन वेदनांतरं प्राज्ञेनात्मनान्वारूढ उत्सर्जन् यातीति श्रुति वाक्याभ्यां सुषुप्त्यक्त्रांत्यवस्थयोर्जीवभेदेन प्रतिपादितः परमेश्वर इति सुषुप्त्युत्क्रांत्यधिकरणनिर्णयोपि साक्षिपर इत्युपवर्णितं तत्वशुद्धावपि यथेदं रजतमिति भ्रमस्थले वस्तुतः शुक्ति कोट्यंतर्गतोपीदमंशः प्रतिभासतो रजतकोटिः तथा ब्रह्मकोटिरेव साक्षीप्रतिभासतो जीवकोटिरिति | जीवस्य सुखादि व्यवहारे तस्योपयोग इत्युक्त्वायमेव पक्षः समर्थितः || ननु सुषुप्त्युत्क्रांत्योर्भेदेनेत्यधिकरणे सुषुप्त्यादि विषयक श्रुतिगतप्राज्ञशब्दस्य सर्वेश्वरत्व भूताधिपतित्वादि प्. १५९ब्) विशिष्टपरमात्मप्रतिपादकत्वाया उक्तत्वात्कथं प्राज्ञशब्दस्य उदासीनेश्वर परत्वमत आह | तद्यथेति | दृष्टांत वाक्ये बाह्यं रथादि वृतांतमातरं ग्राहक्यं? पुरुषो जीवः प्राज्ञः परमात्मा तेन संपरिष्वक्तः सुषुप्त्यादावुपाधिलयादेकी भावं प्राप्तः बाह्यं जाग्रत्प्रपंचं किंचन किंचिदपि उत्क्रांति वाक्यमुदाहरति | प्राज्ञेनात्मनान्वारूढ इति अन्वारूढो अधिष्ठितः उत्सर्जत्वेदनावशाच्छब्दं कुर्वन् | याति शरीराद्बहिर्निर्गछति | उत्क्रामतीत्यर्थः | अवस्थयोरिति | सप्तमी प्रतिपादित इत्यनंतरं प्राज्ञ इति शेषः तथा च वाक्याभ्यां जीवभेदेन प्रतिपादितः प्राज्ञः परमेश्वर इति निर्णयोपि साक्षि पर इत्युपवर्णितं कौमुद्यामिति संबंधः बृहदारण्यक षष्टाध्यायो जीवानुवादमात्ररूपः न तदतिरिक्तेश्वर पर इति पूर्वपक्षे प्राप्ते सिद्धांतः तद्यथा प्रिययेत्यादि वाक्ययोः सुषुप्त्यवस्थायामुत्क्रांत्यवस्थायां च पुरुषशब्दित जीवापेक्षयाभेदेन परमेश्वरस्य तृतीयांत प्राज्ञशब्देन व्यपदेशान्न षष्टाध्यायो जीवानुवादमात्ररूपः किं तु तदति रिक्तेश्वर प्रतिपादनपरः तत्प्रतिपादनं च लोकसिद्धजीवानुवादेन तस्येश्वराभेद प्रतिपादनार्थं प्. १६०अ) तथा च वाक्यशेषो दृश्यते | स वा एष महानत आत्मायोयं विज्ञानमय इति यो विज्ञानमयो जीवस्म एष महानात्मापूर्णः परमात्मेत्यर्थः इति तदधिकरणनिर्णयः | नन्वस्य निर्णयस्य उदासीनेश्वर रूपसाक्षि परत्वाप्यनुपपन्नं स वा एष महानत आत्मेत्येतदनंतरं एष सर्वेश्वर एष भूताधिपतिरित्यादिना तस्य सर्वेश्वरत्वादि गुणजात प्रतिपादनादिति चेन्न ज्ञेय ब्रह्मप्रकरणगतसर्वेश्वरत्वादि वचनस्य स्तुति मात्रपरत्वादिति भावः | कौमुदीकार मतस्य संवादार्थं मतांतरमुपन्यस्यति तत्वशुद्धावपीति | इदं रजतमिति भ्रमस्थले रजताभेदेन प्रतिभासमानोपीरमंशः रजतांतरर्भूतो न भवति रजतवत तस्य बाधाभावात् | नापि शुक्ताववांतर्भवति तस्य शुक्त्यंशवदज्ञातत्व प्रसंगात् | अतो यथा इदमंशस्य वस्तुतः शुक्तिरूपत्वं प्रतिभासतो रज || केचित्वविद्योपाधिको जीव एव साक्षाद्द्रष्ट्वत्वात्साक्षीलोकेपि ह्यकर्तृत्वे सति द्रष्टृत्वं साक्षित्वं प्रसिद्धं तच्चासंगोदासीन प्रकाशरूपे जीव एव साक्षात्संभवति | जीवस्यातःकरणतादात्म्यापत्या कर्तृ प्. १६०ब्) द्यारोपभात्केपि स्वयमुदासीन त्वात् | एकोदेव इति मंत्रस्तु ब्रह्मणो जीवभावामि प्रायेण साक्षित्व प्रतिपादकः द्वासुपर्णेति मंत्रो गुहाधिकरणन्यायेन जीवेश्वरौभयपरः || नाभिन्नात्वमेवं साक्षिणोपि वस्तुगत्या ईश्वर रूपाभेदत्वं कल्पित तल्लजीवाधिष्ठानरूपस्य साक्षिणस्सुखाद्यनुभवितुः | अहं सुखमनुभवामीत्यादि प्रतिभासतस्त तज्जीवाभिन्नत्वं | अतो जीवस्य सुखादि व्यवहारे तस्य सुखाद्यनुभवितुः | जीवैकत्वमापन्नस्योपयोग इत्यर्थः | अयमेवेति साक्षिणो वस्तुतोपि जीवांतर्भावे तस्य ब्रह्मकोटित्वोक्ति विरोधात् | तस्येश्वररूपाभेदत्वं तत्वशुद्धिकाराभिमतमिति गम्यत इति भावः | जीवसाक्षिणोर्भेदपक्षानुपन्यस्य तयोरभेदपक्षानुपन्यस्यति केचिदित्यादिना जीव एव साक्षीति संबंधः | नत्वोश्वरस्य रूपभेदस्साक्षी तत्र मानाभावादित्येवकाराभिप्रायः जीवस्य साक्षीत्वाभ्युपगमे हेतुमाह | साक्षाद्द्रष्टृत्वादिति | तस्यौदासीन्यं सूचयति अविद्योपाधिक इति एतदेव प्रपंचयितुं इदमेव साक्षिलक्षणं नान्यदिति पूर्वोक्तं स्मारयति | लोकेपि हीति | पूर्वं संग्रहेणोक्ते जीवस्यैव साक्षित्वं प्रपंचयति | तच्चेति | साक्षादिति | अविद्या प्रतिबिंब रूपजीवस्य प्. १६१अ) स्वतः संभवतीत्यर्थः | अनेन कॢप्तस्य जीवस्यैव साक्षित्व संभवे तदतिरिक्त साक्षीन कल्पनीयः गौरवादिति सूचितं | ननु लौकिक वैदिक व्यवहार कर्तुं रौदासीन्यमसिद्धमित्युक्तमित्याशंक्यबुद्धितादात्म्ययुक्तमेव कर्तृत्वादिकं स्वतस्तु उदासिनत्वमित्युपगमातस्य साक्षित्वं संभवतीत्याह | जीवस्यांतःकरणेति | नन्वीश्वरस्य साक्षीत्वाउपगमे मंत्रविरोध इत्यत आह | एकोदेव इति | मंत्रस्त्विति साक्षी तावज्जीवस्यापरोक्ष इत्युक्तं ईश्वरस्य तूदासीनस्यार्प्यपरोक्षत्वं न संभवति बिंबभूतेश्वरस्य जीवादौपाधिकभेदसत्वेन जीवं प्रतिजीवांतर चैतन्यस्येवापरोक्षत्वायोगादतो जीवभावापन्न ब्रह्माभिप्रायो मंत्रगतसाक्षि प्रतिपादकभाग इति भावः ईश्वररूपभेदस्यापरोक्षत्वानुपपति रूपहेतुः मंत्रस्त्विति तु शब्देनोक्त इति ध्येयं | ननु गुहाधिकरणे यथा गुहां प्रविष्टा इति मंत्रो जीवेश्वरो भयपरः तथा द्वासुपर्णेति मंत्रोपि जीवेश्वरो भयपर इत्युक्तं भाष्ये तथा च द्वासुपर्णेति मंत्रे तयोरन्यः पिप्पलं स्वाद्वतीति वाक्यं जीविषयमनश्रन्नन्योभिचाकशीतीति वाक्यं परमेश्वरविषयमिति पर्यवस्यति ततश्च जीवस्य साक्षित्व पक्षे ईश्वरस्य साक्षित्व प्रतिपादके नानश्रन्नन्य इति मंत्रभागेन विरोध इत्याशंक्याह | द्वासुपर्णेति मंत्र इति | यदा मंत्रः जीवपरोभयपरस्तदापि न प्. १६१ब्) विरोधः कश्चित् एकोदेव इति मंत्रवत् द्वासुपर्णेति मंत्रस्यापि जीवभावापन्नपरमात्मपरत्वाद्युपगमादित्यर्थः || गुहाधिकरणभाष्योदाहृतपैंगीरहस्य ब्राह्मण व्याख्या तेन प्रकारेण जीवांतःकरणोभय परोवेति न कश्चिद्विरोध इत्याहुः | अन्ये तु सत्ये जीव एव साक्षीनत्वसर्वगतेनाविद्योपहितेन रूपेण पुरुषांतरांतष्करणादीनामपि पुरुषांतरं प्रति स्वांतःकरणभासक साक्षिसंससर्गाविशेषण प्रत्यक्षत्वाततेः ननु ग्रहाधिकरण भाष्येपैंगिरहस्य ब्राह्मणमुदाहृतं | तच्चेदं ब्राह्मणं तयोरन्यः पिप्पलं स्वाद्धतीति सत्वं | अनश्रन्नन्यो अभिचाकशीति | अनश्रन्नन्योधि पश्यतिज्ञः त्वावेतौ सत्वक्षेत्रज्ञाविति | अनेन ब्राह्मणेनादनवाक्यमंतष्करणविषयं अनथन् वाच्यं क्षेज्ञविसयमिति व्याख्यातं न च ब्राह्मणेनैव सत्वक्षेत्रज्ञपरत्वेन मंत्रे व्याख्यायमाने कथं भाष्यकारैरस्य जीवेश्वर परत्वमुक्तमिति वाच्यं | तदुक्तेः कृत्वा चिंतामात्रत्वेन विरोधानावा तथा चांतष्करणप्रतिबिंबरूपोपदिपैंगि प्. १६२अ) ब्राह्मणाभिमतः क्षेत्रज्ञः स्यातदा तस्यैवा न श्रन्नितिवाक्योक्तं साक्षित्वं स्यान्नाविद्याप्रतिबिंबस्य तथा चाविद्याप्रतिबिंबरूपस्य ब्रह्मस्वभावस्य जीवस्य साक्षित्वपक्षः पैंगिब्राह्मणनिर्णितार्थकद्वासुपर्णेति मंत्रभागविरुद्धः प्रसज्येतेत्याशंक्याह गुहाधिकरणभाष्योदाहृतेति | न कश्चिद्विरोध इति पैंगि ब्राह्मणाभिप्रेतः क्षेत्रज्ञोनां तष्करणगतचैतन्य प्रतिबिंबरूपजीवस्तस्य कर्तृत्वं भोक्तत्व स्वभावत्वेनानश्रन्निति वाक्योक्त साक्षित्वासंभवात् | किं त्वसंगोदासीन प्रकाशरूपाविद्याप्रतिबिंबरूपजीव एव ब्राह्मणाभिप्रेतः क्षेत्रज्ञस्तस्यानश्यन् वाक्योक्त साक्षित्व संभवस्योपपादितत्वादतोऽविद्याप्रतिबिंबजीवस्यैव साक्षित्व पक्षेन पैंपीरहस्य ब्राह्मणानुरोधिमंत्रविरोध इत्यर्थः | अविद्यायां चैतन्यप्रतिबिंबरूपजीवस्यैव साक्षित्वमुपेत्यत्र किंचिद्विशेषं वक्तुं मतांतरमवतारयति | अन्ये त्विति नत्वविद्यायां चिद्बिंबभूतेश्वर साक्षीतस्यापरोक्षत्वानुपपतेरित्येव काराभिप्रायः रूपेणेति साक्षीत्यनुषंगः सर्वशरीरसाधारणाविद्योपाधिकस्य साधारणरूपेण साक्षित्वाभावे हेतुमाह | पुरुषांतरेति | यज्ञदतांतष्करणं तद्वृतीनामित्यर्थः पुरुषांतरं प्रतीति | देवदतं प्रतीत्यर्थः स्वेति स्वस्य देवदतस्यांतःकरणभासकोपस्साक्षी तेन साक्षिणा सह देवदतां तष्करणस्येव यज्ञदतां तष्करणादीनामपि प्. १६२ब्) संसर्गाविशेषाद्देवदतस्य यथा स्वांतष्करणं प्रत्यक्षं तथा यज्ञ दतांतष्करण तद्वृतयोपि देवदतस्य प्रत्यक्षाः स्युरित्यर्थः | अत्र पुरुषांतरं प्रतिपुरुषांतरांतष्करणादीनामपि प्रत्यक्षत्वापतेरिति संबंधः | तत्र हेतुः स्वांतष्करणेत्यादिरिति विभागः | सर्वशरीरेषु साक्षिण एकत्वेपि प्रतिशरीरं प्रमातृभेदान्नोक्तदोष इत्याशंकते | न चेति | देवदतं प्रति तदंनंतष्करणादेः प्रत्यक्षत्वे हि देवदत साक्षिसंस न चांतष्करणभेदेन प्रमातृभेदात् तदनापतिः साक्षिभास्येंतष्करणांदौ सर्वत्र साक्ष्यभेदे सति प्रमातृभेदस्याप्रयोजकत्वात् तस्मादंतष्करणोपधानेन जीवः साक्षी तथा च प्रतिपुरुषं साक्षिभेदात्पुरुषांतष्करणादेः पुरुषांतरसाक्ष्य संसर्गाद्वांतदयोग्यत्वाद्वाऽप्रकाशः उपपद्यते | सुषुप्तावपि सूक्ष्मरूपेणांतःकरणसद्भावात्तदुपहितः साक्षी तदाप्यस्त्येव न चांतःकरणोपहितस्य प्रमातृत्वेन न तस्य साक्षित्वं सुषुप्तौ प्रमात्रः भावेपि साक्षि सत्वेन तयोर्भेदश्चावश्यं प्. १६३अ) वक्तव्य इति वाच्यं || र्गः प्रयोजकः तथा च यज्ञदतांतष्करणादीनामपि देवदतं प्रत्यपरोक्षत्व प्रयोजकस्य देवदत साक्षि संसर्गस्याविशेषेण तं प्रत्यपरोक्षत्वापादनात्मको दोषः प्रत्यक्षत्व प्रयोजकं साक्षि संसर्गभेदेनैव परिहर्तव्योनाप्रयोजक प्रमातृभेदेनेति दूषयति | साक्षिभास्य इति साक्ष्यभेद इति साक्षिण एकत्वे सतीत्यर्थः | अप्रयोजकत्वादिति | देवदतं प्रतितदीयांतष्करणादिकमेव प्रत्यक्षं नान्यदीपांतष्करणादिकमिति व्यवस्थायामिति शेषः तस्मादिति | अविद्योपाधिकजीवस्य साधारणरूपेण साक्षित्वासंभवादित्यर्थः | तथा चेति | साक्षि भेद प्रयोजकोपाधिभेद विवक्षायां सत्यामित्यर्थः | तदयोग्यत्वाद्वेति पुरुषांतरं प्रत्ययोग्यत्वकल्पनाद्वा प्रत्यक्षत्वाभाव उपपद्यत इत्यर्थः | ननु अविद्याप्रतिबिंबरूपजीवस्याविद्योपाधिकत्वेनैव रूपेण साक्षित्वे सति तस्य सुषुप्ति साधारण्यं संभवति प्रतिशरीरं साक्षिभेदसिध्यर्थं तस्यांतष्करणोपहितत्वेन रूपेण साक्षित्वे तु सुषुप्ति साधारण्यं तस्य न संभवति | सुषुप्तावंतःकरणलय श्रवणादित्याशंक्याह | सुषुप्तींवपीति शंकते | न चांतःकरणोपहितस्येति अविद्याप्रतिबिंबस्य जीवस्येतिशेषः | ततस्येति | अंतःकरणोपहित जीवस्य साक्षित्वं न संभवति तस्य प्रमातृत्वादन्यथा प्रमातुरेव प्. १३६ब्) साक्षित्वापत्यासाक्षिप्रमात्रोर्भेदो न स्यादिति भावः | इष्टापतिमाशंक्याह | सुषुप्ताविति | अभावेपीति | अथास्मिन् प्राण एकधा भवतीति श्रुतौ सुषुप्तिकाले प्राणशब्दिते परमात्मनि एकीभावलक्षणस्य प्रमातृ लयस्य श्रवणादिति भावः साक्षि सत्वेनेति | सुषुप्तिकाले साक्षिणस्सत्वमवश्यं वाच्यं तत्काले तत्सत्वस्य त्रिषु धामस्वित्यादि बहुश्रुति सिद्धत्वात् | धामसु अवस्थास्वित्यर्थः | तत्काले साक्षिणानुभूतानामज्ञानसुखसुषुप्तीनामुत्थितस्य न किंचिदवेदिषं सुखमस्वाप्समिति स्मरण दर्शनाच्च | न चाहमस्वाप्समिति स्वाणदिवदहमर्थस्य प्रमातुरपि सुषुप्तिकालीनत्वेन स्मरण दर्शनात् | तस्यापि तदासत्वं वाच्यमेवेति वाच्यं सुषुप्तौ प्रसातृ लय प्रतिपादकबहुश्रुति विरोधेन श्रहमस्वाप्समित्यादि स्मरणस्याहमर्थांशे अनुभवरूपत्व कल्पनान्न प्रमातुस्तदा सत्वमावश्यक तथा च सुषुप्तिकाले सदसतोस्साक्षिप्रमात्रोरनेदायोगात् प्रमातुस्सकाशात् साक्षीभिन्न एव वाच्य इत्यर्थः | प्रमातृ साक्षिणोरभेदपक्षे प्रमातुरुदासीनत्वाभावेन साक्षित्वा संभवरूपदोष संग्रहार्थश्चकार इति बोध्यं || विशेषणोपाध्योर्भेदस्य सिद्धांत संमतत्वेनांतष्करणविशिष्टः प्रमाता तदुपहितः साक्षीतिभेदोपपतेरित्याहुः || प्. १६४अ) न च वाचमित्यत्र हेतुमाह अंतष्करणविशिष्ट इति अंतष्करणस्याविद्योपाधिके जीवे विशेषणत्वेन प्रमातृत्व प्रयोजकत्वमुपाधित्वेन साक्षित्वप्रयोजकत्वं तथा च विशिष्टोपहितयोः प्रमातृसाक्षिणोर्भेदः विशिष्टस्य प्रमातुः कर्तृभोक्तस्वभावत्वेपि उपहितस्योदासीनत्वात्साक्षित्वं च संभवतित्यर्थः | ननु विशेषणत्वस्य उपाधित्वस्य च भेदे सति एकस्याप्यंतष्करणस्य विशेषणत्वादिरूपेणभेदं कल्पयित्वा तद्विशिष्टस्य प्रमातृत्वं तदुपहितस्य साक्षित्वमिति व्यवस्था सिध्यति | तयोर्भेद एकथमित्यत आह | विशेषणोपाध्योरिति कार्यान्वपित्वे सति व्यावर्तकत्वं विशेषणत्वं यथा नीलोत्पलमानयेत्यादौ नैल्यस्यणातस्य रक्तोत्पलादि व्यावर्तकत्वादुत्पलद्वारा आनयनरूपकार्यान्वयित्वाच्च | लक्षणे कार्यपदं विधेयपरं तथा च यत्काकवत् तद्देवदत ग्रहमित्यादौ विधेयस्य देवदतगृहत्वस्य कार्यस्य उपलक्षणेकाकेनास्त्यन्वयः गृहांतरव्यावर्तकत्वं त्वस्तीति तत्राति व्याप्तिवारणाय सत्यं तं कार्यान्वयिनि विशेष उत्पलादावति व्याप्तिवारणाय विशेष्यदलंकायानन्वयित्वे सति व्यावर्तकत्वे सति कार्यान्वयकालविद्यमानत्वमुपाधित्वं यथालोहितस्फटिकमानयेत्पादौस्फटिक सन्निहितस्य जपाकुसुमस्य प्. १६४ब्) उपाधित्वं तस्यानयनलक्षणकार्यान्वयाभावात् स्फटिकांतरव्यावर्तकत्वादानयनान्वयकाले विद्यमानत्वाच्च | तत्र प्रथमं सत्यं तं विशेषणैनैल्पादावतिव्याप्ति वारणाय न च विशेषणत्वेनाभिमतं नैल्पादिकमप्यत्र लक्ष्यमेवेति वाच्यं | जपाकुसुमादावुपाधित्व व्यवहारवन्नैल्पादौ तथा व्यवहाराभावात् | जपाकुसुमादौ स्फटिकादि विशेषणत्वस्य व्यवहाराभावाच्च | तथा च विशेषणोपाध्योर्भेदावश्यं भावे सति विशेषणत्वाभिमत नैल्पादेरलक्ष्यत्वा तत्राति व्याप्तिवारणं युक्तमेव काकवद्ग्रहं प्रविशेत्यत्र प्रवेशरूपकार्यान्वयकाले यदि दैवयोगादुपलक्षणभूतकाकस्यान्यत्र गमनं काकांतरस्य तद्गहे आगमनं तदा तत्रागतकाकस्य पूर्वस्थित काकवद्व्यावर्तकत्वं नास्ति तथा च तत्रागत काके प्रवेशानन्वपि निविद्यमीने उपाधित्वरहिते अतिव्याप्तिवारणाय द्वितीय सत्यं तं उक्तस्थल एव उपलक्षणीभूत काके अति व्याप्तिवारणाय विशेष्यदलं न च यत्र उपलक्षणी भूतकाकस्यैव कार्य कालेपि दैवाद्विद्यमानत्वं तंत्रोपलक्षणकाके कृत्स्नं लक्षणमस्तीत्यति व्याप्तिरिति वाच्यं | कार्यकाले नियमेन विद्यमानत्वस्य विवक्षितत्वात् नन्वेवमपि लोहित स्फुटिकमानयेत्यत्र क्वचिद्धामश्रवणकाले सत एव जपाकुसुमस्य प्. १६५अ) स्फटिकानयनकाले दैवादविद्यमानत्व संभवात् जपाकुसुमस्यापि कार्यकाले विद्यमानत्वनियमो नास्तीति चेतर्हीदं लक्षणं श्रोत्रत्वोपाधिकर्णशष्कुल्यामंतष्करणादौ च विवक्षितमस्तु जपाकुसुमस्यान्यस्य वाततुल्यस्वनिष्टध || ननूक्तरूपस्य साक्षिणश्चैतन्यमात्रावरकेणाज्ञानेनावरणमवर्जनीयमिति कथमावृतेनाविद्याहंकारादिभानमिति चेत् | राहुवदविद्यास्वावृत प्रकाश प्रकाशेति केचित् | वस्तुतो विद्यांतष्करणतद्धर्मावभासकं साक्षि चैतन्यं विहायै वाज्ञानचैतन्यमावृणोत्यनुभवानुसारेण कल्पनान्न कश्चिद्दोषः || र्मा संजकत्वरूपं प्रसिद्धमेवोपाधित्वमस्तु | न चाननुगमः स्वनिष्ठत्यादिलक्षणोपाधित्वस्य प्रसिद्धोपाधौ कर्णवलये बिंबप्रतिबिंबपक्षे दर्पणादौ स्वोपहित बिंबसुखादो स्वधर्मानासंजके च वाधित्वेन तत्संग्राहकलक्षणांतरकणस्यावश्यकतया तस्यादोषत्वादनुगतलक्षणसंभवे हि तस्य दोषत्वं प्रसिद्धं | तथा च | प्रकृतेंतष्करणस्य उभयविधोपाधित्वसंभवात् प्. १६५ब्) कार्यानन्वपित्वे सतीत्यादिलक्षणानुरोधेनांतुष्करणोपहितो जीवस्साक्षीत्युपगमे साक्षित्वं जीवचैतन्यमात्रनिष्टं पर्यवस्यति जीवचैतन्यमात्रं तूदासीनमेवेति नोपहितस्य साक्षित्वानुपपतिर्न्न वा प्रमातृसाक्षिणोस्सांकर्यमिति संक्षेपः | अविद्याहंकारादीनां पूर्वोक्तं साक्षि भास्यत्वमाक्षिपतिमन्विति चैतन्यमात्रेति कृत्स्न चैतन्यावरकेणेत्यर्थः | कथमिति | न च साक्षि गोचरापरोक्षवृत्यातदावरण निवृतौ निवृतावरणेन साक्षिणा अविद्यादिभानं संभवतीति वाच्यं | तेषां केवल साक्षिभास्यत्व सिद्धांतविरोधप्रसंगाः सनसः करणत्वस्य निरसिष्यमाणतया साक्षि चैतन्यगोचरापरोक्षवृत्यसंभवाच्चाहंकारादीनां स्वसताकाले तत्सताप्रकारकसंशयाद्य भावै न सदा तेषां संशयादि निवृति प्रयोजकतया सदा प्रकाशसंसर्गे वक्तव्ये सति कादाचित्कवृत्या तेषां सदाभानासंभवाच्च | साक्षि गोचरवृतिसंतत्युपगमे युगपद्वृति द्वयानभ्युपगमेन बाह्य घटादि प्रतीत्युछेद प्रसंगाच्च तस्मात् साक्षिमात्रभास्यत्वमविद्याहंकारादीनां वक्तव्यं | तच्च न संभवति तस्यावृतत्वान्न च साक्षि चैतन्यं विहायान्पदेवचैतन्यमावृतमिति वाच्यं अज्ञानस्य चैतन्यमात्रावरकत्वादन्यथा साक्षिचैतन्यादन्यचैतन्येप्यावरणाभावप्रसंगादित्याक्षेपाभिप्रायः आवृतस्यापि साक्षिणोऽविद्याप्रकाशकत्वं दृष्टांतेन दर्शयन् परिहरति राहुवदिति राहुणा सर्वात्मनावृतस्य चंद्रमंडलादेः प्. १६६अ) स्वावरकराहुमात्र प्रकाशकत्वेपि तदतिरिक्त प्रकाशकत्वादर्शनादत्राप्यावृतस्य साक्षिणः कथंचिदविद्यामात्रावभासकत्वं स्यान्नाहंकारादि भासकत्वमित्यस्वरसादाह | वस्तुत इति | अनुभवानुसारेणंति | अहंकारादिषूक्तरीत्याकादाचित्कवृत्या सदा ज्ञानासंभवेनपि सदा प्रकाशसंसर्ग फलस्य संशयनिवृत्यादेस्सत्वानुसारेणेत्यर्थः || अत एव सर्वदा तेषामनावृत प्रकाशसंसर्गादज्ञानविपरीत ज्ञानसंशयागोचरत्वं साक्षि चैतन्यस्यानावृतत्वे तत्सरूपभूतस्यानंदस्यापि प्रकाशापतिरिति चेन्न | इष्टापतेः आनंदरूपप्रकाश प्रयुक्तस्यात्मनि निरुपाधिकप्रेमणो दर्शनात् | भासत एव परमप्रेमास्पदत्वलक्षणं सुखमिति विवरणाच्च | स्यादेतदिदानीमप्यानंद प्रकाशे मुक्ति संसारयोरविशेषप्रसंगः अनुभवफलमेवोपदर्शयति | अत एवेति | अज्ञानस्य साक्षि चैतन्यं विहायैवावरकत्व स्वभावकल्पनादेवेत्यर्थः | अगोचरत्वमिति | नन्वविद्यायाभावरूपत्वादौ अहंकारस्यानात्मत्वादौ सुखदुःखवृतीनां अनात्मधर्मत्वादावज्ञानविपरीत प्. १६६ब्) ज्ञानसंशयानां सत्वेन तेषां सदासंशयाद्यगोचरत्वमसिद्धमिति चेन्न अविद्यादि सत्वकाले कदाचिदप्यविद्यादिसत्वप्रकारकाज्ञानाद्यभावस्य विवक्षितत्वं तथा च तद्गतविशेषगोचराज्ञानविपरीतज्ञानादेरभ्युपगमैपि न दोष इति भावः | शंकते | साक्षि चैतन्यस्येति | नन्विष्टापतेरिति वक्तुं न शक्यते संसारदशायां स्वरूपानंदप्रकाशप्रयुक्तकार्यादर्शनादित्यत आह | आनंदरूपेति लोके हि तस्य तस्यानुभूयमाने आनंदे प्रीतिरनुभवसिद्धा तथा च प्रीतेः प्रकाशमानानंदविषयकत्वे सिद्धे प्राणिमात्रस्य स्वस्वात्मनि दुःखदशायामपि प्रीति दर्शनादात्मगोचर प्रीतेरपि प्रकाशमानात्मानंदविषयकत्वं सिध्यति | पुत्रादि गोचरप्रीतिः तावदौपाधिकी उपाधिश्च आत्मसुखाभिव्यक्ति साधनत्वमुपाधित्वव्यतिरेकदशायां तेषु प्रीतेरदर्शनादात्मनि तु प्रीतिर्निरुपाधिकी पुत्रादिष्विवात्मनि प्रीतेरन्यार्थत्वाभावा | तथा च श्रुतिरात्मनस्तु कामाय सर्वं प्रियं भवति | तथा तदेतत्प्रेयः पुत्रात्प्रेयो वितात्प्रेयोन्यस्मात्सर्वस्मादंतरतरमिति | अंतरतरमित्यनेन सर्वांतरमुच्यते | तथा च यत्सर्वांतरमात्मचैतन्यं तत् एतत् अपरोक्षं प्रीतिविषयत्वेन संभाषितात्पुत्रादेस्सर्वस्सादतिशयेन प्रियमिति द्वितीय श्रुत्यर्थः तथा च आत्मानंदोयदिनप्रकाशेत तदा आत्मनि प्. १६७अ) श्रुत्यनुभवसिद्धानिरुपाधिकप्रीतिर्न स्यात् प्रीतेः प्रकाशमानानंद विषयकत्वनियमादतः साक्ष्यानंदप्रकाशापादने इष्टापत्यभिधानं युक्तमेव उक्तार्थे वृद्ध संमतिमप्याह | भासत एवेति परमप्रेमविषयत्वं परमप्रेमास्पदत्वं तल्लक्षणं यस्य सुखस्य ततथा सुखं भासत एव परमप्रेमास्पदत्वादन्यथा तत्र स्यादित्येव काराभिप्रायः | तच्च सुखं साक्षि चैतन्याभिन्नमिति स्वरूपानंदप्रकाशे सम्मतिर्भवत्येव संसारदशायां स्वरूपानंदस्फुरणाभ्युपगमे बाधकमाशंकते | स्यादेतदित्यादिना | तस्मात्साक्ष्यां नदस्यानावृतत्वकल्पनमयुक्तमित्यंतेन ननु कल्पितभेदस्य साक्ष्यानंदस्य प्रकाशेप्यनवछिन्नस्य ब्रह्मानंदस्यावृतस्य संसारदशायामप्रकाशेन विशेषोस्तीति चेत् | न आनंदेऽनवछेदांशस्यापुरुर्षार्थत्वात् | आनंदापरोक्षमात्रस्य चेदानीमपि सत्वात् | नन्ववछिन्नः साक्ष्यानंदः सातिशयः सुषुप्तिसाधारणादनुति स्पष्टा ततौ वैषपिकानंदेष्वतिशयानुभवात् | अनवछिन्नो ब्रह्मानंदस्तुनिरतिशयः || प्. १६७ब्) सिद्धांती विशेषं शंकते | नन्विति | अविद्यायामानंद प्रतिबिंबस्साक्ष्यानंदः तस्य बिंबभूतानंदाद्भेदः कल्पितस्तथा च संसारदशायामनावृतसाक्ष्यभिन्न प्रतिबिंबानंद प्रकाशेपि बिंबभूतब्रह्मानंदो न प्रकाशते | तथा प्रकाशमानोपि साक्ष्यानंदः प्रतिशरीरं भिन्न एव प्रकाशते न त्वनवछिन्न इति विशेषोस्तीत्यर्थः | बिंबभूतब्रह्मानंदाप्रकाशे हेतुः | आवृतस्येति | अत्र यद्यपि मूलाज्ञानं शुद्ध चिन्मात्राश्रयं तद्विषयकंचन तु बिंबभूतेश्वरविषयकं तस्यानावृतत्वेपि जीवापेक्षया कल्पित भेदवत्वात् | तस्य जीवं प्रत्यप्रकाशमानत्वं संभवति | तथा मुक्तौ बिंबभूत ब्रह्मानंदस्फुरणमप्यसिद्धं मूलाज्ञाननिवृतौ तत्प्रयुक्तप्रतिबिंबभावस्येव बिंबभावस्यापि निवृत्यवश्यंभावा तथापि पूर्वपक्षिमुखपिधानमात्रे सिद्धांतिनस्तात्पर्यमिति बोध्यं | किमनवछिन्नानंदस्फुरणं मोक्षे विशेषः आनंदस्फुरणमात्रं वा उभयथापि विशेषो वक्तुं न शक्य इत्याह पूर्ववादीनेति | अवछेदो हि भेदस्स च आत्मनि कल्पितस्तथा चावछेदाभावोयद्यानंदादति रिक्तस्तदा दोषमाह | अनवछेदांशस्येति | यद्यानंद एव प्. १६८अ) कल्पिताभावस्याधिष्ठानात्मकत्वा तदा तस्य द्वितीय प्रकार एवांतर्भाव इति मत्वातं प्रकारं दूषयति | आनंदापरोक्ष्य मात्रस्य चेति | तथा च न मुक्ति संसारयोर्विशेष इति भावः | सिद्धांतीप्रकारांतरेण विशेषमाशंकते नन्वछिन्न इति | प्रतिशरीरमवछिन्नत्वेन प्रकाशमानस्साक्ष्यानंदस्सातिशयः उत्कर्षापकर्ष रूपातिशय वा नित्यर्थः साक्ष्यानंदस्यातिशयत्वे हेतुमाह | सुषुप्ति साधारणादिति | स्पष्टता उत्कर्षः अति स्पष्टता अत्युत्कर्षः सुषुप्तिकाले प्रकाशमान साक्ष्यानंदः स्पष्ट एव इतरथा तस्य सुखमस्वाप्समिति परामर्शनीयत्वाभावप्रसंगात् | लोके हि यः आनंदः स्पष्टमनुभूतः स एव पुनः परामर्शयोग्योनानुभूतानंदमात्रमिति प्रसिद्धं | तथा च ततः साक्ष्यानंदान् सुषुप्त्यावति स्पष्टतारहित्वात् | सक्चंदनादि विषयप्रयुक्तानंदेषूत्कर्षविशेषानुभवादित्यर्थः | अनवछिन्न इति | कल्पितावछेदाभावात्मा ब्रह्मानंदो मुक्तिकाले प्रकाशमानोतिशय सामान्यरहित एवेत्यक्षरार्थः मुक्तौ ब्रह्मानंद एकरूपेण पूर्णतया च प्रकाशते | इदानी तादृश ब्रह्मानंदप्रकाशो नास्ति किंतूत्कर्षपि कर्षोपेतानंदप्रकाश एवास्मि अतः स्वरूपानंदस्फुरणेपिततदुत्कृष्टां नंदाभिलाषारूपपिशाचीग्रस्ततयाकस्यापि निर्वृतिर्नास्तीति संसारमोक्षयोर्विशेष इति भावः || प्. १६८ब्) आनंदवल्ल्यां मानुषानंदाद्युतरोतरशतगुणोत्कर्षोपवर्णस्य ब्रह्मानंदे समापनादिति चेत् | न सिद्धांते साक्ष्यानंदविषयानंद ब्रह्मानंदानां वस्तुत एकत्वेनोत्कर्षा संभवात् | मानुषानंदादीनामुतरोतरमुत्कर्षं श्रुतिर्वदतीति चेत् | को वा ब्रूते श्रुतिर्न वदतीति | किं त्वद्वैतवादे तदुपपादनमशक्यमित्युच्यते | नन्वेकस्यैव सौरालोकस्य करतलस्फटिकदर्पणाद्यभिव्यंजकविशेषोपधानेनाभिव्यक्ति- तारतम्यदर्शनादेकत्वेप्यानंदस्याभिव्यंजकसुखवृतिभेदो- पधानेनाभिव्यक्ति तारतम्यरूपमुत्कर्षापकर्षवत्वं युक्तमिति चेत् || अविद्याप्रतिबिंबरूपसाक्ष्यानंदस्य लोके विषयानंदत्वेन गृहीतस्य सातिशयत्वे ब्रह्मानंदस्यैक रूपत्वै च श्रुतिं प्रमाणयति | आनंदवल्ल्यामिति | मानुषानंदस्सार्वभौमानंदस्स च शतगुणितस्सन् मनुष्यगंधर्वानंदो भवति | सोपि शतगुणितस्सन् देवगंधर्वानंदो भवति | एवमेवपित्रानंदादिषु स प्. १६९अ) एको ब्रह्मण आनंद इत्युक्त हिरण्यगर्भानंदां तेषूत्कर्षापकर्षयोरुपवर्णनं योजनीयं समापनादिति स यश्चायं पुरुषे पश्चा सावादित्ये स एक इति वाक्येनेति शेषः पुरुषो मनुष्यः आद्य चकारस्त्विर्यगादि संग्रहार्थः | आदित्यपदं मंडलाभिमानि देवतापरं द्वितीयचकारस्तदितरसकलदेवता संग्रहार्थः | तथा च देव मनुष्य तिर्यक्षु सर्वत्रविद्यमानो ब्रह्मानंदः एकः एकरूप एव न तु साक्ष्यानंदवत् सातिशय इति श्रुत्यर्थः | साक्षानंदविषयानंद ब्रह्मानंदानां सति भेदे उक्तरीत्यामुक्ति संसारयोर्विशेषो वक्तुं शक्यते | स एवतवा सिद्ध इति पूर्ववादी दूषति | नेति असंभवादिति | उत्कर्षापकर्षयोर्जातिविशेषरूपयोरेकस्यां व्यक्तावसंभवादित्यर्थः | नन्वानंदव्यक्तेर्वस्तुगत्या एकत्वेपि कल्पितभेदवत्यां तस्यामुत्कर्षादिस्संभवतीत्यभिसंधिमान | सिद्धांती शंकते | मानुषानंदादीनामिति | अनुभवानुसारि श्रुतिसिद्धानंदोत्कर्षादेरपलापकरणमयुक्तं पूर्ववादि न इत्यर्थः | अभिसंधिमविद्वानिवपूर्ववादी दूषयति | कोवेति | कात्वर्हानुपपतिरिति सिद्धांती शंकते | किं त्विति तामाह | अद्वैतवाद इति | आनंदैकत्वमत इत्यर्थः | अशक्यमिति | औपाधिकभेदेमपि | तदुपपादनमशक्यमनुरूपदृष्टांताभावादिति पूर्ववादिनोप्यभिसंधिः | एकस्यामप्यानंदव्यक्तां औपाधिभेदेन श्रुत्यनुभवसिद्धानंदोत्कर्षादेरुपपादनं कर्तु प्. १६९ब्) शक्यमिति स्वाभिसंधिमुद्घाटयन् | सिंद्धांती शंकते | नन्वेकस्यैवेति | आलोकस्य करतलादि संबंधरहितस्य या हि अभिव्यक्तिस्तदपेक्षयाकरतले ईषदधिकाभिव्यक्ति तदपेक्षया स्फटिके अधिकाभिव्यक्तिस्तदपेक्षयाप्यधिकादर्पणादावभिव्यक्तिरनुभवसिद्धा तद्वत्प्रकृतेपि स्वरूपानंदव्यंजकवृतितारतम्येन तत्तद्वृत्युपहित साक्ष्यानंदेवुत्कर्षादिकमुपपद्यत इत्यर्थः न दृष्टांता संप्रतिपतेः सर्वतः प्रसृमरस्य सौरालोकस्य गगने विना करतलादि संबंधमस्पष्टं प्रकाशमानस्य निम्नतले प्रसृमरस्य जलस्येव करतलसंबंधेन गति प्रतिहतौ वहलीभावादधिक प्रकाशः भास्वरदर्पणादि संबंधेन गतिप्रतिहतौ बहलीभावा तदीय दीप्ति संबलनाच्च ततोप्यधिक प्रकाश इति | तत्राभिव्यंजकोपाधिकाभिव्यक्ति तारतम्यानभ्युपगमात् | दृष्टांतसंप्रतिपतौ च गगनप्रसृत सौरालोकवदनुवछिन्नानंदस्यास्पष्टता प्. १७०अ) करतलाव्यवछिन्न सौरालोकवत्सुखवृत्यवछिन्नानंदस्याधिकाभिव्यक्तिरिति | मुक्तितः संसारस्यैवाभ्यर्हि तत्वापतेश्च | एतेन संसारदशायां प्रकामानोप्यानंदो मिथ्याज्ञान तत्संष्कार विक्षिप्ततया तीव्रवायुविक्षिप्तदीपप्रभावन्न स्पष्टं प्रकाशते मुक्तौ तदभावात् | यथा वदवभासत इत्यपिति रस्तं पयालोक एकव्यक्तिरेक रूपश्च स्वतो भवेत् तदा तथाविध स्वरूपानंदस्य दृष्टांतो भवेन्नत्वालोकस्यैक व्यक्तित्वमस्ति तस्य नानाकिरणसमूह रूपत्वान्नाप्येक रूपत्वं तस्यास्ति तत्र तत्र सौरकिरणानामल्पत्व बाहुल्यरूप नानारूपत्वावगमादिति पूर्ववादी स्वाभिसंधिमुद्घाटयन् दूषयति | असंप्रतिपतेरिति | ममासम्मतत्वादित्यर्थः | प्रसृमरस्येति | गमनशीलस्येत्यर्थः | गति प्रतिहताविति सूर्यकिरणानां गतिप्रतिबंधे सतीत्यर्थः | अत एव यत्र भूभागे करतलादि कृतप्रतिबंधवशात् | सूर्यकिरणा न प्रसरंति तत्र तमोरूपाछाया दृश्यते | आलोकस्य गतिप्रतिहत्यावहलीभावे दृष्टांतमाह | निम्नतल इति | यथानिम्नतले प्रसृमरस्य जलस्य करतल संबंधेन गति प्रति प्. १७०ब्) हतौ जलस्य बहलीभावस्तथेत्यर्थः | अधिकेति | करतलादि संबंधरहित गगनेय आलोकस्य स्फुटमप्रकाशस्तदपेक्षया अधिकेत्यर्थः | तदीप दीप्ति संबलनादिति | दर्पणादेर्यादीप्तिः प्रभातयामि अणादित्यर्थः | ततोपीति | करतलगतप्रकाशादपीत्यर्थः | तत्रेति | एकरूपस्यालोकस्य उपाधिगत तारतम्यकृताभिव्यक्ति तारतम्यासंप्रतिपतेर्न्न तस्य दृष्टांतत्वं संभवतीत्यर्थः | उक्त दृष्टांतांगीकारे सिद्धांतितिनोबाधकमप्याह | दृष्टांत संप्रतिपतौ चेति मुक्तित इति | तथा च सिद्धांते मुक्तिमुद्दिश्य तत्साधनेषु कस्यापि प्रवृतिर्न स्यादिति भावः | मुक्तिसंसारयो विशेषप्रसंग चोद्ये समाधान प्रकारविशेषोपि वक्ष्यमाणहेतुना निरस्त इत्याह | पूर्ववादी | एतेनेति | अनात्मनि देहावात्मत्वज्ञानं वस्तुत आत्मसंबंधशून्ये देहावात्मीयत्व ज्ञानं त्वं च मिथ्याज्ञानं | तच्च जाग्रदादि काले स्वरूपानंदस्य प्रकाशमानस्यापि विक्षेपकमस्पष्टतापादकं मिथ्याज्ञानजन्य संस्कारश्च सुषुप्तौ प्रकाशमानस्याप्यानंदस्य विक्षेपकः पुरुषार्थत्वविघटकः पुनर्भागप्रदकर्मविशेषोद्बोधित मिथ्याज्ञानसंस्कारवशादेव हि सर्वोजंतुस्सौषुप्तमानंदानुभवपरित्यजति ततश्च सौषुप्तानंदप्रकाशस्याध्रुवस्यमुमुल्वभिलषितत्वाभावादपुरुषार्थ- त्वमितिभावः || प्. १७१अ) निर्विशेष स्वरूपानंदे प्रकशमाने तत्र विक्षेपदोषादप्रकाशमानस्य मुक्त्यन्वपि नोति पायस्यासंभवात् | तस्मात्साक्ष्यानंदस्यानावृतत्व कल्पनमयुक्तं | अत्राहुरद्वैतविद्याचार्याः यथात्युत्कृष्टस्यैकस्यैव धवलरूपस्य मालिन्य तारतम्य युक्तैष्वनेकेषु दर्पणेषु प्रतिबिंबे सत्युपाधिमालिन्य तारतम्या तत्र तत्र तत्र प्रतिबिंबेधावल्यापकर्षस्तारतम्येनाध्यस्यते | एवं वस्तुतो निरतिशयस्यैव स्वरूपानंदस्यांतष्करण प्रतिबिंबिततया साक्ष्यानंदभावे प्राकृतन सुकृत संपत्यधीन विषयविशेष संपर्क प्रयुक्तसत्वोत्कर्षापकर्षरूपशुद्धितारतम्ययुक्त सुखरूपांतःकरणवृतिबिंबिततयाविषयानंदभावे च || दृष्टांते प्रभायास्सावयवत्वातीव्रवायुनाकेष्यं चिदवयवानां नाशरूपाद्वाप्रभारूपगतभास्वरत्वस्य तेन प्रतिबंधरूपाद्वाविक्षेपात्प्रकाशमानायामपि दीपप्रभायामस्पष्टप्रकाशता उपपद्यते | प्. १७१ब्) अवयवगुणादिविशेषरहितस्य ब्रह्मानंदस्य तु न तथा विशेष उपपद्यत इत्याह निर्विशेषेति प्रकाशमान इति | सति सप्तमी | तत्रेत्यधिकरणसप्तमी मुक्त्यन्वपि न इति | मुक्ति दशायां प्रकाशमानस्येत्यर्थः | अतिशयस्येति | दृष्टांत इवावयवरूपस्य जातिविशेषरूपस्य वेत्यर्थः | तस्मादिति | मुक्ति संसारयोरविशेषप्रसंगादित्यर्थः | स्यादेतदित्यादिना प्राप्तं पूर्वपक्षं निराकरोति | अत्राहुरित्यादिना | एकरूपस्य स्वरूपानंदस्याभिव्यक्ति तारतस्यानुरूपं दृष्टांतं वदन् स्वरूपानंदे श्रुत्यनुभवसिद्धं तारतम्यशब्दोक्तंमुत्कर्षापकर्षवत्वमुपपादयति | यथेति | अत्युत्कृष्टस्येति | धवलरूपाणां मध्ये सर्वोतमस्येत्यर्थः | एकस्येति अनेन वक्ष्यमाणौ उत्कर्षापकर्षौ तत्र स्वतोनस्त इति सूचितं | तत्र तत्र प्रतिबिंब इत्येतानि पदानि सामानाधिकरण्यति | धावल्यापकर्ष इति | ईषन्मलिन दर्पण प्रतिबिंबे अपकर्षोध्यस्यते | मध्यमविधमलिनदर्पणप्रतिबिंबे च तदपेक्षया अधिकोपकर्षोध्यस्यते | अत्यंतमलिनदर्पणप्रतिबिंबे चात्यंतापकर्षोध्यस्यते | ततश्च तादृश दर्पणेषु प्रतिबिंबित धवलरूपं तारतम्येनाभिव्यज्यते | वस्तुत एकरूपमपि स्वरूपेण प्रकाशमानमपीत्यर्थः | अंतष्करणेति | सुषुप्तावप्यंतःकरणं सूक्ष्मरूपेण तिष्ठतीति साक्ष्यानंदस्य सुषुप्ति साधारण्यं बोध्यं मतांतरेषु त्वविद्यायां प्रतिबिंबिततया साक्ष्यानंदभावो द्रष्टव्यः आनंदभाव इति प्राप्ते सतीति शेषः प्. १७२अ) संपतिः परिपाकः फलजननौन्मुख्यमिति यावत् | प्राकृत न सुकृतसंपत्यधीनो यो विषयविशेषसंपर्कः तत्प्रयुक्तौयौ सत्वस्योत्कर्षापकर्षौतद्रपं यच्छुद्धि तारतम्यं तद्युक्तोसु सुखरूपासंतःकरणवृतिषु प्रतिबिंबिततया विषयानंदभवे च प्राप्ते सतीत्यर्थः | वृतीनां स्वरूपसुखव्यंजकतया सुखरूपत्वमुक्तं | एतदुक्तं भवति | पूर्वजन्मसुसंपादित पुण्यकर्मपरिपाकवशादंतःकरणस्य स्रकचंदनादि रूपविषविशेषगोचरवृतिद्वाराविषयविशेषैस्सहसंबंधे सति तद्गत सत्वगुणस्य उत्कृष्टविषयसंबंधादुत्कर्षो भवति निकृष्टविषयसंबंधान्निकर्षो भवति | ततश्चांतष्करणगतसत्वांशपरिणामरूपाः वृतयाः स्वरूपानंदगोचरा जायंते जायमानाश्चता अप्युत्कर्षापकर्षोपेता एव जायंतेतास्वानंदप्रतिबिंबो विषयानंद उच्यत इति || तमोगुणरूपोपाधिमालिन्य तारतस्यदोषादपकर्षस्तारतम्येनाध्यस्त इति संसारदशायां प्रकाशमानेप्यानंदेध्यस्तापकर्ष तारतम्येन सातिशायित्वादतृप्तिः विद्योदये निखिलापकर्षाध्यास निवृतेरारोपितसातिशयत्वापायात् | कृतकृत्येतेति विशेषोपपतेर्निरुपाधिकप्रेमगोचरतया प्. १७२ब्) प्रकाशमानः साक्ष्यानंदोनावृत एवेति || ननु स्वरूपानंदगोचरसत्ववृतिगतापकर्षवशात् प्रतिबिंबरूपे विषयानंदे अपकर्षाध्यासो वक्तव्यः मलिनद्रव्यकृतदर्पणोपाधिनिष्टापकर्षवशात् तत्प्रतिबिंबे अपकर्षाध्यास दर्शनात् | तथा च स्वरूपानंदगोचरा सुवृतिषु सत्वगुणपरिणामभूतासु अपकर्षप्रयोजकं मलिनद्रव्यं किंचिदवश्यं वक्तव्यं साक्षाद्दर्पणसंयुक्तस्यैव मलिनद्रव्यस्य दर्पणेपकर्षाधायकत्वदर्शनादित्यत आह | तमोगुणरूपेति अंतःकरणस्य सत्वरजस्तमोगुणात्मकत्वात्तद्वृतिष्वपि तमोगुणरूपोपाधिरनुवर्तते | तत्कृतो यो मालिन्यतारतम्य दोषः | अपकर्ष तारतम्यात्मको वृतिगतदोष इति यावत् | तस्मादोषादपकर्षस्सत्ववृति प्रतिबिंबरूपे विषयानंदेध्यस्यत इत्यर्थः | पूर्वं विषयसंपर्कः सुखरूपवृति कारणत्वेन निर्दिष्टः तत्र विषयविशेषेति विशेषपदं विषयगतोत्कर्ष तारतम्यपरं तत्तारतम्यं च सुखरूपवृतिगतोत्कर्ष तारतम्यप्रयोजकत्वेन निर्दिष्टं | इह तु सुखरूप वृतिष्टे वापकर्ष प्रयोजकतया अपकर्ष तारतम्य प्रयोजकतया च तारतम्योपेतं तमोगुणात्मकं मलिनद्रव्यं निर्दिष्टमिति विभागो बोध्यः | ततः किं तत्राह | इति संसारदशायामिति | प्रकाशमानेप्यानंदे पदध्यस्तमपकर्षतारतम्यं तेन सातिशयत्वात् | विषयानंदस्येत्यर्थः | प्. १७३अ) तथा च निकृष्टमानंदमनुभवतः उत्कृष्टानंद तृष्णाभिभूतस्य तत्संपादनाय प्रयतमानस्य तत्साधनत्वभ्रांत्या कदाचित् दुःखसाधेनेष्वपि प्रवर्तमानस्य देवमनुष्यतिर्यगादि योन्यापतिलक्षणो भवत्यनर्थ इति नास्ति निर्वृतिरित्यर्थः | निवृतेरिति | मूलाज्ञान निवृतौ तत्कार्योपाधिनिवृत्या तत्कृतापकर्षाद्यध्यासनिवृतेरित्यर्थः | कृतकृत्यतेति | कृत्ये कर्तव्यजातं कृतं येन सः कृतकृत्यः तस्य भावस्ततापुरुषस्य हि विद्योदयात् | पूर्वे दुःखनिवृतये सुखावाप्तये च बहुकर्तव्यजात मासीद्विद्योदये तु दुःखमात्रस्य निवृतत्वादत्युत्कृष्टं धवलरूपस्य निर्मलदर्पण इव निरशय स्वरूपानंदाविर्भावाच्च तन्निवृतये तत्प्राप्तये वा न किंचित् कर्तव्यमस्तीति कृतकृत्यतेतिभावः | तदाह भगवान् श्रीकृष्णः एतद्बुध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारतेति | एतन्निरतिशयानंदरूपब्रह्मापरोक्षतया बुध्वा बुद्धिमन भवति | पंडितो भवति कृतकृत्यंश्च भवति | हे भारत अर्जुन यतस्तत्वज्ञानं विनाप्पंडित्यादिकं न लभ्यते | तस्मातदेवसंपादयान्यत्सर्वं परित्यजेति भावः | विशेषोपपतेरिति | मुक्तिसंसारयोरितिशेषः | ननु ब्रह्मानंदवत्साक्ष्यानंदोपि आवृतोस्तु तथा च मुक्तिसंसारयोर्विशेषस्साव च इति नेत्याह | निरुपाधिकेति | एवं भूतः प्रेमास्वरूपानंदावरणसत्वेन संभवति लोके प्रकाशमान सुख एव प्रीतेरनुभव सिद्धत्वादितिभावः || प्. १७३ब्) अन्ये तु प्रकाशमानोप्यानंदो नास्ति न प्रकाशत इत्यावरणानुभवादावृत एव एकस्मिन्नपि साक्षिण्य विद्याकल्पित रूपभेदसंभवेन चैतन्यरूपेणस्यानंदरूपेणावरणस्य चाविरोधात् | स्वरूप प्रकाशस्यावरणा निवर्तकतया प्रकाशमाने आवरणस्याविरोधा च || साक्षि चैतन्यस्यानावृतत्वे तदभिन्नस्यानंदस्याप्यमावृतत्वापत्या मुक्तिसंसारयोरविशेषप्रसंग इति पूर्वपक्षे प्राप्ते स्वरूपानंदस्यानावृतत्वेपि तयोर्विशेषस्संभवतीति सिद्धांतो दशितः | इदानीं तस्यावृतत्वमुपेत्यैव विशेषं मुक्तिसंसारयोर्वदन् सिद्धांतं दर्शयति | अन्ये त्विति विदांत प्रतिपाद्य स्वरूपानंदो मे नास्ति न प्रकाशते | इति व्यवहारदर्शनातद्धेतुभूतमावरणं तावदस्त्येव संसारदशायाम्मुक्तौ तु तदावरणनाशात्स्वरूपानंदस्फुरणमस्तीति न तयोरविशेषप्रसंग इत्यर्थः | अत्र प्रकाशमानोप्यानंद आवृत एवेति संबंधः नत्वनावृतः तस्यानावृत्वे उक्त व्यवहारविरोधप्रसंगादित्येवकाराभिप्रायः | नन्वेवमात्मनि सदानिरुपाधिक प्रेमानस्यादनावृतस्वरूपानंदस्फुरणस्याभावात् वृतिकृतानंदस्फुरणस्य च कादाचित्कत्वादिति चेन्न फलबलेन आवृतस्यापि स्वरूपानंदप्रकाशस्य प्. १७४अ) निरुपाधिक प्रेम हेतुत्वकल्पनात् भासत एव परमप्रेमास्पदत्व लक्षणं सुखमिति विवरणस्याप्यत्रेव तात्पर्योपपतेश्च | अनेनैवाधिप्रायेण प्रकाशमानोपीत्युक्तमन्यथा प्रकाशमानत्वविशेषणस्यावृतत्वकल्पने उपयोगाभावेन वैयर्थ्यप्रसंगादिति बोध्यं साक्षि चैतन्याभिन्नस्य साक्ष्यानंदस्यावृतत्वे साक्षि चैतन्यमप्यावृतं स्यादेकत्र आवृतत्वानावृतत्वयोर्युगपद्विरोधादित्यत आह | एकस्मिन्नपीति यथा वस्तुत एकस्मिन्नेव चैतन्ये जीवेश्वरत्वाख्यौ रूपभेदौ कल्पे तेनाहमीश्वरः किं तु संसारीति व्यवहारबलात् | तथा अहंसुखी ज्ञानमानंदो न भवतीत्यादिरूपेणाहंकाराद्यवनासक ज्ञानस्यानंदात् भेदव्यवहार दर्शनात् | तदनुरोधेन चित्वानंदत्वाख्यौ रूपभेदावनादि सिद्धौ कल्प्येते | यथा च एकस्मिन्नेवं चैतन्ये जीवत्वावछेदेनाज्ञत्वादिकमीश्वरत्वावछेदेन तदभावश्च कल्प्यते | तथैवानंदत्वावछेदेनावृतत्वं चित्वावछेदेनाहंकाराद्यवभासक चैतन्ये तदभावश्च कल्प्यते फलवलादिति न विरोधः जीवत्वादिरूपभेदस्याप्यविद्याकल्पितत्वाभ्युपगमान्नाद्वैत विरोधश्चेत्यर्थः | नन्वेकस्मित् साक्षिणि रूपभेदेनावृतत्वदभावयोर्विरोधाभावेप्यानंदः प्रकाशमानोप्यावृत इति विरुद्धे प्रकाशस्यावरणविरोधित्वादिति नेत्याह | स्वरूपप्रकाशस्येति | आगंतुकवृति रूप प्. १७४ब्) प्रकाशस्यावरणविरोधित्वकल्पनान्नस्वरूपप्रकाशस्तद्विरोधी तस्यावरण साधकत्वादित्यर्थः | नन्वेवं प्रकाशमानोप्यानंद आवृत इति ग्रंथे प्रकाशमानत्वविशेषणं स्वरूपप्रकाशस्यावरणाविरोधित्वज्ञापनार्थमिति तत्प्रयोजनसंभवात् तद्विशेषणं आत्मनि निरुपाधिकप्रेमसंभव ज्ञापनप्रयोजनकमिति यदुक्तं तत्र संभवतीति चेतर्हि विनिगमकाभावेन तद्विशेषणस्योभयप्रयोजनकत्वमस्तु स्वरूपप्रकाशे आवरणाविरोधित्वस्येव आनंदावरणपक्षे आनंदरूपे आत्मनि निरुपाधिकप्रेमसंभवस्याप्यवश्यं ज्ञापनीयत्वात् || त्वदुक्तमर्थं न जानामीति प्रकाशमान एवावरण दर्शनात् | न च तत्रानावृत सामान्याकारावछेदेन विशेषावरणमेवानुभूयत इति वाच्यं | अन्यावरणस्यान्यावछेदेन भानेऽतिप्रसंगात् | न च सामान्यविशेषभावोनियामक इति नाति प्रसंग इति वाच्यं | व्याप्यव्यापकभावाति रिक्तसामान्यविशेषभावाभावेन वह्नि न जानामीति धूमावरकाज्ञानानुभवप्रसंगात् तस्माद्यदवछिन्नमज्ञानं प्रकाशते तदावृतमिति प्रकाशमानेप्यज्ञानं युज्यते प्. १७५अ) अज्ञानं च यथा साक्ष्यं शंविहाय चैतन्यमावृणोति | एवमानदमपि तत्तत्सुखतिततत्सुखरूपकृतिकवली || स्वरूपप्रकाशस्यावरणाविरोधित्वे हेत्वंतरमाह | त्वदुक्तमिति | एवकारानंतरमाप्रोक्तार्थ इति शेषः | श्रीकृष्ण एव वेदांतवेद्यः परमात्मा दुर्विज्ञेयोयमकृतात्मभिरित्याप्तोपदेशानंतरं मंदस्य वाक्यार्थबोधो न भवति स च मंदस्त्वदुक्तमर्थं न जामीत्यज्ञानमनुभवतीति प्रसिद्धं लोके तत्र त्वद्वाक्यस्यास्ति कश्चिदर्थ इति ज्ञानामि | आप्तवाक्यत्वाद्विशेषं तु न जानामीति व्यवहारदर्शनादवगतो यस्त्वद्वाक्यार्थ त्वलक्षणस्सामान्याकारस्स एव व् इशेषावरकाज्ञानस्य विषयतया प्रकाशते | तथा च त्वदुक्तमर्थं न जानामीत्यनुभवे अज्ञानविशेषणतया प्रकाशमान सामान्याकारस्यावरणविषयत्वाभावादावरणविषयस्य विशेषस्य प्रकाशमानत्वाभावात् | प्रकाशमानस्यावृतत्वेनायमनभवाः | शंककारस्यावरणविषयत्वाभावादावरणविषयस्य विशेषस्य प्रकाशमानत्वाभावात् | प्रमाणमिति शंकते | न च तत्रेति | अन्यावारकाज्ञानस्यान्यावछेदेन प्रकाशाभ्युपगमे चैत्रं न जानामीत्यनुभूयमाना ज्ञानस्य विष्णुमित्रविष्यकत्व प्रसंग इति दूषयति | अन्यावरणस्येति | ननु त्वद्वाक्यार्थ प्. १७५ब्) त्वलक्षण आकारस्तावत्सामान्यरूपः आप्तौपदिष्टे श्रीकृष्ण इवत्वदुपदिष्टेषु श्रीकृष्ण प्रतिपत्युपायेष्वपि त्वद्वाक्यार्थत्वस्य सत्वात् | वेदांतवेद्यत्वादि लक्षणाकारस्तु विशेषरूपः तस्य श्रीकृष्णस्वरूपमात्र वृतित्वा तथा च विशेषावरकाज्ञानं सामान्याकारोवछेदेन प्रकाशत इत्युपगमेनाति प्रसंगः | चैत्रत्व विष्णुमित्र त्वयोस्सामन्यविशेषभावाभावादिति शंकते | न च सामान्येति | किं सामान्यै विशेषभावाः श्रीकृष्णमूर्तित्वविष्णुमूर्तित्वयोरिव व्याप्यव्यापकभावः | तदतिरिक्तो वा न द्वितीयस्तस्यानिरूपणादित्याशयेनाह | व्याप्येति | आद्ये दोषमाह | वह्निमिति | तस्मादज्ञानानुभवे अज्ञानविशेषणतया यद्वप्रकाशते तदेवावरणविषय इति वक्तव्यं नवत्वदुक्त न जानामीति | ज्ञानस्यत्वदुक्तार्थ प्रकारकत्वे सत्यज्ञानविशेष्यकत्वेन त्वदुक्तार्थोविशेषणरूप एवेत्युपगमे तद्ज्ञानस्य विशेषणज्ञानरूपकारणस्याभावातद्विशिष्टाज्ञात्वानुभवो न स्यादिति वाच्यमज्ञानुभवस्य नित्यसाक्षिरूपत्वोपगमेन तत्र विशेषण ज्ञानानपेक्षणान्न च प्रकाशमानत्वमावृतत्वं च विरुद्धं प्रकाशस्यावरणविरोधित्वादिति वाच्य | विरोधस्य प्रागेव परिहृतत्वादित्याशयेनोपसंहरति | तस्मादिति अन्यावरकाज्ञानस्यान्यावछिन्नतयाभाना संभवादित्यर्थः | यदवछिन्नमिति | येन वस्तुनाविशेषितमित्यर्थः प्. १७६अ) नन्वानंदस्यावृतत्वे विषयसंपर्कदशायां विशिष्यानंद प्रकाशीनस्यादित्यत आह | अज्ञानं चेति | कवलीकृतं विहायै वा वृणोति || स एष वैषयिकानंदस्यावरणाभिभवः स चावरणाभिभवः प्रत्यूषसमये बाह्यावरणाभिभववत् कारणविशेष प्रयुक्तवृतिविशेषवशातरतमभावेन भवति | अतः स्वरूपानंदविषयानंदयोर्विशयानंदानां च परस्परं भेदसिद्धिरिति वदंति | सर्वथ्यापि साक्षिचैतन्यस्यानावृतत्वादावरणाभिभवार्थं वृतिमनपेक्ष्यैव तेनाहंकारादि प्रकाशनमिति तुल्यमेव | नन्वेवं कथमहंकारादीनामनुसंधानं ज्ञानसूक्ष्मावस्थारूपस्य संस्कारस्य ज्ञाने सत्ययोगेन नित्येन साक्षिणा तदाधानासंभवात् || ननु वृतेरावरणाभिभावकत्वोपगमादज्ञानस्य सुस्ववृतिविषयीकृतानंदानावरकत्वमिति कथमुच्यते तत्राह | स एष इति | सुखवृतिविषयत्वप्रयुक्तानावरकत्वस्वभाव एव वृतिकृतावरणाभिभव इत्यर्थः | ननु सुखरूप वृतेरेकरूपत्वात् | तत्कृता वरणाभिभवोप्येकरूप एव स्या तथा च विषयसंबंधदशायामानंदोप्येकरूपतयैव प्. १७६ब्) प्रकाशेतनतूत्कृष्टापकृष्टरूपेणेत्विनेत्याह | स चेति | यथा प्रत्यूषसमये आलोकतारतम्येन बाह्यतमस्तारतस्ययुक्ताभिबवो भवति ततश्च तत्तत्तमसावृतानां पदार्थानां तारतम्ययुक्तं प्रकाशनं भवति | एवं विषयविशेषरूपकारणविशेषप्रयुक्तोयो वृतिषुविशेषः उत्कर्षतारतम्यरूपस्तद्वशातारतम्यभावप्रयुक्त एव आवरणाभिभवोभवति | ततश्चानंदोपि तरतमभावयुक्त एव प्रकाशत इत्यर्थः | एवमप्यानंदस्यैकत्वाभ्युपगमा तद्भेदप्रथाकथं सिद्ध्यति तत्राह | अत इति वस्तुत एकस्मिन्नप्यानंदे उपाधिप्रयुक्त भेदाभ्युपगमादित्यर्थः | तथा च विद्यया आवरण निवृतौ सत्यां प्रकाशमानानंदः स्वरूपानंदस्तदनिवृतिदशायां वृतिसंबंधात् प्रकाशमानानंदो विषयानंद इति स्वरूपानंदविषयानंदयोर्भेदो ज्ञातव्यस्तथा वृतिभेदेनानंद भेदाभ्युपगमाद्विषयानंदानां परस्परं भेद प्रसिद्धिश्चावकल्प्यत इत्यर्थः | अहंकारादीनां केवल साक्षिभास्यत्वं परमप्रकृतं सिद्धमित्याशयेनाह | सर्वथापीति | स्वरूपानंदस्यानावृतत्वपक्षे तस्यावृतत्वपक्षे चेत्यर्थः | तेनेति | साक्षि चैतन्येनेत्यर्थः | ननु सिद्धांते संस्कारस्यानुभवताशरूपत्वोपगमेन संस्कारार्थं साक्षि चैतन्यस्याहंकारादि गोचरवृत्यपेक्षास्त्येवेति शंकते | नन्वेवमिति | प्. १७७अ) अहंकारादि साक्षिणो वृत्यनेपेक्षत्वे सतीत्यर्थः | अनुसंधानं स्मृतिः तदाधानेति संस्कारोत्पादनेत्यर्थः | तदाधानासंभवे हेतुमाह | ज्ञानसूक्ष्मावस्थारूपस्येत्यादिना | ननु यदि साक्षि चैतन्यस्थिति दशायां तत्यूक्ष्मावस्यारूपसंस्कारोन्यन्ययोगस्तर्हि तत्राशदशायां तदुत्पतिरस्तुनेत्याह | नित्येनेति | तथा चाहंकाराद्यवछिन्नसाक्षिचैतन्यस्यानावृतत्वेन तदभिभवार्थं वृत्यनपेक्षणेपि संस्कारार्थं तदपेक्षा सत्वात्केवलसाक्षिभास्यत्वमहंकारादीनामिति सिद्धांतव्याकोप इति भावः || अत्र केचिदाहुः स्वसंसृष्टेन साक्षिणासदाभास्यमानोहंकारस्तततदघटादिविषयवृत्याकारपरिणतु स्वावछिन्नेनापि साक्षिणाभास्यत इति | तस्यानित्य त्वात् संभवति संस्काराधानं घटादौ विषय इव न हि स्वाकारवृत्यवछिन्न साक्षिणैव स्वगोचरसंस्काराधानमिति नियमोस्ति | तथा सति वृतिगोचरसंस्कारासंभवेन वृतेरस्मरस्मरण प्रंसंगात् | अनवस्थापत्यावृतिगोचरवृत्यंतरस्यानुव्यवसायनिरासेन निरस्तत्वात् | किं तु यद्वृत्यवछिन्नचैतन्ये प्. १७७ब्) यत्प्रकाशते तद्वृत्यातद्गोचरसंस्काराधानमित्येव नियमः || अहंकारादि गोचरवृतिं विनैव संस्कारोपपतेर्न सिद्धांतविरोध इति समाधत्ते | अत्र केचिदाहुरिति | स्वयदद्वयमहंकार परंस्वसंसृष्टेनेत्यादिनाभास्यत इत्यंतेन ग्रंथेन अहंकारस्य यथाहंकारावछिन्न साक्षिभास्यत्वं तथा घटपटादिविषय गोचरवृत्यवछिन्नसाक्षिभास्यत्वमप्यस्तीति दर्शितं भवति | ततः किं तत्राह | तस्येति | घदादिगोचरवृत्यवछिन्नसाक्षिचैतन्यस्यानित्यत्वात् | तेन यथा घटादौ विषये सस्काराधानं संभवति | तथा तेनैव वृत्यवछिन्न साक्षिचैतन्येनाहंकारादावपि संस्काराधानं संभवतीति नाहंकारगोचरवृत्यपेक्षेतिभावः | नन्वहंकारव्यतिरिक्तेषु घटादिषु सर्वत्रस्वाकारवृत्यवछिन्नचैतन्येनैव घटादिगोचरसंस्काराधान दर्शनात्स्वगोचरवृत्यैव स्वगोचरसंस्काराधानमिति नियमोवसीयते | तथा चाहंकारमात्र एव कथमन्यगोचरवृत्यातदाधानमित्याशंक्याह | नहीति | तथा नियमे मानाभावादप्रयोजकत्वाच्चेतिभावः | नियमाभ्युपगमे बाधकमाह | तथा सतीति | ननु ज्ञानरूपवृतेः संस्कारादि लाभाय वृतिगोचरवृत्यंतरमप्यस्तु नेत्याह | अनवस्थापत्येति | घटादि गोचरवृतिस्मरणसिध्यर्थ तद्गोचरवृत्यंतरोपगमे द्वितीयवृतिस्मरणाय तृतीयापि प्. १७८अ) तद्गोचरावृतिर्व्यक्तव्यास्यादेवं ततद्वृतिगोचर वृत्यभ्युपगमापत्यावृत्यनवस्था प्रसज्येत | न च द्वितीयत्रितीयादि वृतीनां मध्ये कासांचिदज्ञातानामेव नाशाभ्युपगमसंभवन्नानवस्थाप्रसक्तिरितिवाच्यं | उत्पन्नायाः वृतेरवश्यज्ञातव्यत्वादन्यथा सत्यामेव घटाद्याकारवृतौ कदाचिन्मयेदं ज्ञायते न वा घटादि वृतिनाशानंतरं मयेदं ज्ञातं न वेति वा संशय प्रसंगातस्माद्वृतेरवश्यज्ञातव्यत्वं वृतेर्वृत्यावेद्यत्वपक्षे प्रापये देवानवस्थामनेनैव न्यायेन निबंधनेषुनुव्यवसायो निरस्तरं ततश्च स्वगोचरवृत्यैव स्वगोचरसंस्काराधान नियमो नास्ति वृतिष्वसंभवादित्यर्थः | नन्वन्यगोचरवृत्यान्यगोचरसंस्काराधानोपगमे घटगोचरवृत्यापटादावपि तदाधानप्रसंग इति शंकते | किंत्विति | अति प्रसंगपरिहाराय प्रयोजकमाह | यद्वृत्येति | यद्वस्तु गोचरवृत्यवछिन्न चैतन्ये यावंतः पदार्थाः प्रकाशंते तद्वस्तु गोचरवृत्या तावत्सुपदार्थेषु संस्काराधानमिति नियमे घटगोचरवृत्यवछिन्नचैतन्ये च पटादेरप्रकाशनान्नाति प्रसंगः | ननु स्वगोचरवृत्यैव स्वगोचरसंस्काराधानमिति नियम इत्येव कारार्थः || एवं च ज्ञानसुखादयोप्यंतष्करणवृतयस्तप्तायः पिंडाद्व्युच्चरंतो विस्फुलिंगा इव स्वावछिन्नेन प्. १७८ब्) वह्निनेव स्वस्वावछिन्नेनानित्येन साक्षिणाभास्यंत इति युक्तं तेष्वपि संस्काराधानं यस्तु घटैकाकारधीस्था चिद्घटमेवावभासयेत् | घटस्य ज्ञातता ब्रह्मचैतन्येनावभास्यत इति कूटस्थ दीयोक्तो विषयविशेषणस्य ज्ञानस्य विषयावछिन्न ब्रह्मचैतन्यावभास्यत्वपक्षः यश्च तत्व प्रदीपिकोक्तो ज्ञानेछादीनामनवछिन्न शुद्धचैतन्यरूपनित्यसाक्षिभास्यत्वपक्षः || ननु घटादिवृत्यवछिन्नचैतन्ये घटादि प्रकाशनं निर्विवादं तत्र चैतन्येहंकारस्यापि प्रकाशनं घटादिविषयवृत्याकार परिणत स्वावछिन्नेनापि साक्षिणाभास्यत इति पूर्वग्रंथे दर्शितं | तथा च घटादि वृत्याहंकारेपि संस्काराधानमस्तु तथापि घटादि ज्ञानरूपायावृतेः स्वावछिन्नचैतन्ये प्रकाशनस्यासिद्धत्वा तस्याः स्वगोचरसंस्कारजनकत्वं न स्यात् तथा सुखदुःखेछद्वेषादीमामहंकारधर्माणां घटादि वृत्यवछिन्न चैतन्ये प्रकाशन प्रसत्म भावातयातेषु संस्काराधानं न स्यान्न च सुखादिरूपवृतिषु घटादि वृत्यासंस्कारानाधानेपि सुख प्. १७९अ) दुःखादिगोचरांतःकरणवृतिभिरेव तासु तदाधानमस्तज्ञानरूपासु घटादि वृतिषु तधानार्थं वृत्यंतरोपगम इवानवस्था प्रसक्त्यभावादिति वाच्यं | सुखदुःखादिगोचरावृतिरभ्युपगम्यमाना किं ज्ञानरूपा किं वा इछादिवृतिवत्क्रियारूपा नाद्यस्तदुत्पादककरणाभावात्मनः करणतायानिरशिष्यमाणत्वान्न द्वितीयस्तस्या अपि वृतेस्संस्काराधानाय तद्गोचर वृत्यंतरोपगमे सैवानवस्था प्राप्नोति तस्माद्ज्ञानरूपासुघटादि वृतिषु ज्ञानभिन्नासुखदुःखादि रूपवृतिषु च कथं संस्काराधानमित्याशंक्याह | एवं चेति | उक्त नियमे सतीत्यर्थः | अंतष्करणेयायावृतयः उत्पद्यंते ज्ञानरूपावातुद्भिन्नावातास्सर्वा अपि स्वस्वावछिन्नानित्यचैतन्यभास्या एव तथा च चैतन्यस्य नित्यतेपि तद्भास्यतया तदवछेदकतया चोत्पद्यमानानामहंकारधर्माणामनित्यतया ततद्धर्मविशिष्टस्य ततदवभासकस्य चैतन्यस्य नाशरूपस्तद्धर्मगोचरस्संस्कारः संभवतीति न ज्ञानसुखादिषु संस्कारानुपपतिरितिभावः | दृष्टांते स्वपदं विस्फुलिंग परं घटस्यैकस्याकार इवाकारोपस्यास्साघटैकारा सा चासौधीश्च तस्यां स्थिता चित् चिदाभासः घटाकारवृति प्रतिबिंबरूपं घटज्ञानमिति यावत् | घटमेव न घटस्य ज्ञाततामपीत्येव कारार्थः | ज्ञाततानामज्ञानविषयत्वं विषयता संबंधेन विषयनिष्टं ज्ञानमित्यर्थः | तच्च ज्ञानं विषयस्य विशेषणं ज्ञातो घट इत्यनुभवादितिभावः | नन्वनयोः पक्षयोज्ञांनेछादि प्. १७९ब्) भासकचैतन्यस्य नित्यत्वात् कथं ज्ञानेछादिषु संस्कारः न च पूर्वोक्तरोत्याज्ञानेछादि वृतीनां स्वस्वावछिन्नसाक्षिचैतन्य प्रकाश्यत्वमादापानयोरपि पक्षयोः संस्काराधानमिति वाच्यं | घटादि गोचरवृति प्रतिबिंबरूपज्ञानस्य ज्ञातता शब्दितस्यातद्वृत्यनवछिन्न || तयोरपि चैतन्यस्य स्वसंसृष्टापरोक्षरूपत्वाद्वृतिसंसर्गोवश्यं वाच्य इति तत्संसृष्टानित्यरूपसद्भावान्न तेषु संस्काराधानेकाचिदनुपपतिरिति | अन्ये तु सुषुप्तावविद्याद्यनुसंधानसिद्धये कल्पितामविद्यावृतिमहमाकारामंगीकृत्याहमर्थे संस्कारमुपपादयंति || विषयाधिष्ठान ब्रह्मचैतन्यभास्यत्वोक्ति विरोधा तथा द्वितीयपक्षे ज्ञानेछादि वृतीनाम नवछिन्न साक्षिभास्यत्वोक्ति विरोधप्रसंगादतः कथं तयोः पक्षयोस्तदाधानमत आह | तयोरपीति | विषयावछिन्न ब्रह्मचैतन्यस्य ज्ञातताभासकत्वमते तद्ब्रह्मचैतन्यं ज्ञातताया अपरोक्षज्ञानरूपमेवोपैयते ज्ञातोयं घट इति ज्ञातताया अपरोक्षत्वानुभवात् | अनवछिन्न शुद्धचैतन्यमपीछाज्ञानादीनामपरोक्षज्ञानरूपमेवोपेयते | इछादि वृतिनामप्यपरोक्षत्वानुभवात् प्. १८०अ) तथा चापरोक्षज्ञानरूउप द्विविधचैतन्यस्य स्वविषयभूतैर्ज्ञानेच्छादिभिस्संसर्गोवश्यंभावी अपरोक्षज्ञानस्य स्वतादात्म्यापन्नविषयानुभवरूपत्वनियमा ततश्च स्वविषयभूतज्ञानेछादि नाशसमये ज्ञानादि विशिष्टरूपेण द्विविधचैतन्यस्यापि नाशलक्षणसंस्कारोपपतिरित्यर्थः | तयोरपीति सप्तमी चैतन्यस्येति द्विविधस्येति शेषः | तत्पदं ज्ञानेछादि रूपवृतिपरं यदि च स्वगोचरवृत्यैव स्वसंस्काराधानमवश्यं वाच्यं तदापि नानुपपतिरविद्यावृतिभिरहंकार तद्धर्मगोचराभिरहंकारादिषु संस्काराधानसंभवान्न च वृत्तिगोचरवृत्युपगमे प्रागुक्तानवस्था प्रसक्तिरिति वाच्यमविद्यावृतिनामनुभवायोग्यत्वेन तासु ज्ञानाय संस्काराय वा ज्ञानेछाद्यनुभवकालेऽविद्यावृत्यंतरानुपगमात् | न चाविद्यावृतीनामकॢप्त संस्कारजनकल्पने गौरवमिति वाच्यं | सुषुप्तौ तासाअं तद्ज्ञानकत्वस्य कॢप्तत्वादित्याशयेन मतांतरमाह | अन्ये त्विति उत्थितस्याविद्यांद्यनुसंधानसिद्धये सुप्तौ कल्पितामविद्यादि गोचरामविद्यादि वृतिमिवाहमाकारामविद्यावृतिमंगीकृत्येति वाक्यं योजनीयं यथा श्रुते सुषुप्तौ यदविद्याद्यनुसंधानं तत्सिद्धय इति भ्रांतिः स्यात् | सन्निधाना तथा सुषुप्तौ कल्पिताया एवाविद्यावृतेरहमाकारत्वमंगीकृत्येति भ्रांतिः स्यादिति बोध्यं अविद्यादीत्यादि पदं सुखसुप्त्यौस्संग्रहार्थ सुखमहम प्. १८०ब्) स्वाप्सं न किंचिदवेदिषमिति सुषुप्तिकालीनानां सुखसुषुप्त्यविद्यादीनामुत्थानानंतरमनुसंधान दर्शना तत्कालीना विद्याद्यनुभवस्य नित्यसाक्षिरूपतया तस्याविद्यावृतिरूपावछेदकाकल्पने संस्कारासंभवेनोक्तानुसंधानाभावप्रसंगात् | नन्वज्ञानाहंकारादि गोचराविद्यावृत्युपगमे तेषां केवलसाक्षि वेद्यत्वसिद्धांतव्या कोप इति चेन्नाविद्यावृतीनां कॢप्तज्ञानकारण जन्यत्वा भावेन ज्ञानात्मकवृतित्वाभावात् | ज्ञानात्मक वृत्यनुपहित साक्षिण एवकेवल साक्षिशब्दार्थत्वांगीकारादितिभावः | अहमर्थ ग्रहणं तद्धर्माणामप्युपलक्षणं तुल्यन्यायतया बाधकाभावेन च तद्धर्मेष्वपि अविद्यावृतिभिस्संस्कारस्योपपादितत्वादिति ध्येयं || न चास्मिन् पक्षे एतावंतं कालमिदमहं पश्यन्नेवा समित्यन्यज्ञानधाराकालिनाहमर्थानुसंधानानुपपतिः | अवछेदकभेदेन सुखदुःखयौगपद्यवद्वृतिद्वय यौगपद्यस्याप्यविरोधेनान्यज्ञानधाराकालेप्यहमाकारा विद्यावृति संतानसंभवादिति | अपरे तु अहमाकारावृतिरंतष्करणवृतिरेव किं तूपासनादि वृतिवन्न प्. १८१अ) ज्ञानं कॢप्त तत्कारणा जन्यत्वात् | न हि तत्र चक्षुरादि प्रत्यक्षलक्षणं संभवति | न वा लिंगादिकं लिंगादि प्रतिसंधानशून्यस्याप्यहंकारानुसंधान दर्शनात् | नापि मनः करणं तस्योपादान भूतस्य क्वचिदपि करणत्वाकॢप्तेः | तर्ह्यहमर्थ प्रत्यभिज्ञापि ज्ञानं न स्यादिति चेन्न तस्या अहमंशे ज्ञानत्वाभावेपि ततांशे स्मृतिकरणत्वेन कॢप्तसंस्कारजन्यतयाज्ञानत्वात् | अंशभेदेन ज्ञाने परोक्षत्वापरोक्षत्ववत् | प्रमात्वाप्रमात्ववच्च ज्ञानत्वाज्ञानत्वयोरप्य अविरोधादित्याहुः || नन्वस्मिन् पक्षेन्यज्ञानधाराकालीनाहमर्थादिषु अहमर्थादि गोचराविद्यावृत्यसंभवेन संस्काराधानं न स्यात् धाराकाले अविद्यावृत्यंपिकारे युगपत् वृतिद्वय प्रसंगादिति शंकामनूद्यदृष्टांतेन परिहरति | न चास्मिन् पक्ष इति | अविद्यावृतिभिस्संस्काराधानपक्ष इत्यर्हः | अवछेदकभेदेनेति | शिरसि मे वेदनापादे मे सुखमित्यनुभव दर्शनादिति भावः | वृतिद्वयेति अन्यज्ञानधारा कालेपि अन्य वस्तुगोचरांतष्करणवृतिरहमर्थगोचरा विद्यावृतिश्च युगपत्प्रमातर्यवछेदकभेदेन न विरुध्यत इत्यर्थः | संतानेति | नन्वन्य प्. १८१ब्) ज्ञानधाराकाले एकैवाविद्यावृतिरिति वक्तुं शक्यते तर्दतन्नानात्वे मानाभावाल्लाघवाच्चेति चेत् | सत्यं तथाप्यंतःकरणवृतिसंतति रूपत्वाद्वारायास्तत्कालीनाविद्यावृतेरपि संतति रूपत्वं संभवतीति संभावनामात्रेण तथोक्तमत एवाह | संतानसंभवादिति | अहमर्थांशे अंतःकरणवृत्यैव संकाराधानं संभवतीति न तदंशेप्यविद्यावृतिः कल्पनीयांतःकरणवृतिसंभवे तत्कल्पनायोगात् | न चान्यज्ञानधाराकाले अहमर्थ गोचरांतःकरणवृतिर्न संभवति | सुखदुःख यौगपद्यवत् ज्ञानद्वययौगपद्यायोगादिति वाच्यं | संस्कारार्थाहं वृतेर्ज्ञानरूपत्वानुपगमादिति मतमाह | अपरे त्विति | तर्ह्यसौ वृतिर्घटादि वृतिवत् ज्ञानरूपापि स्या तथा च ज्ञानात्मक वृत्युपहित साक्षि वेद्यत्वापत्या अहमर्थस्य केवल साक्षि भास्यत्वसिद्धांत हानिरित्याशयेन शंकते | किंत्विति | परिहरति | उपासनादीति | इछादि संग्रेहार्थमादि पदं | अनुसंधानमनुभवः क्वचिदपीति वृतिज्ञानं प्रत्युपादानभूतस्यांतष्करणस्याहमाकारवृतेस्सकाशादन्यत्र क्वचिदपि वृतौ तस्य करणत्वाकॢप्तेरित्यर्थः | तर्हीति | योहं स्वप्ने साक्षाद्भगवंतं श्रीकृष्णमन्वभूवं सोहमिदानीं तं स्मरामीति प्रत्यभिज्ञा अहमर्थांशे ज्ञानं न स्यात् ज्ञानकारणा जन्यत्वादित्यर्थः | इष्टापत्यापरिहरति | नेति तर्हि प्रत्यभिज्ञानंततांशेपि ज्ञानं न स्यादेकस्यां प्रत्यभिज्ञायां प्. १८२अ) ज्ञानत्व तदभावत्वयोर्विरोधेनायोगादित्यत आह | तस्या इति | प्रत्यभिज्ञाया इत्यर्थः | अंशभेदेनेति | विषयैक देशोत्रांशः स च प्रागेव दर्शितः | अहमंश इति | ततांश इति च | परोक्षत्वेति | पर्वतो वह्निमा नित्यनुमितेः सिद्धांते वह्न्यंशे परोक्षत्वं सन्निकृष्टपर्वतांशे त्वपरोक्षत्वमुपेयते | मत द्वय सम्मत दृष्टांतमाह | प्रमा त्वेति || इतरे त्वहमाकारापि वृतिर्ज्ञानमेव मासहंजानामित्यनुभवात् | न च करणासंभवः अनुभवानुसारेण मनस एवांतरिंद्रियस्य करणत्वस्यापि कल्पनादित्याह | एवं सति बाह्यविषयापरोक्षवृतीनामेवावरणाभिभावकत्वनियमः पर्यवसन्नः | ननु नापमपि नियमः | शुक्तिरजतस्थले इदमाकारवृतेरज्ञानानभिभावकत्वात् | अन्यथोपादानाभावे न रजतोत्पत्ययोगादिति चेत् अत्राहुः इदमाकारवृत्येदमंशाज्ञाननिवृतावपि || पूर्वोपदर्शित प्रत्यभिज्ञाया अहमर्थांशेपि ज्ञानत्वमुपेय मन्यथा हि प्रत्यभिज्ञा प्रामाण्येनांतष्करणोपहित चैतन्यरूपस्य जीवस्याहमुर्थस्य स्थापित्वसाधनं | सूत्रभाष्ययोर्दृश्यमानं विरुध्येत तथा च सूत्र प्. १८२ब्) मनुस्मृतेश्चेति | अनुस्मृतिः प्रत्यभिज्ञा तथा च तत्सूत्रस्थं भाष्यंय एवाहं पूर्वेद्युरद्राक्षं स एवाहमद्यस्मरामीति | तथा च प्रत्यभिज्ञाया अहमंशे ज्ञानत्वाभावाभिधानमयुक्तमिति मन्यमानानां मतमाह | इतरे त्वितिति | अनुभवादिति | अहमर्थगोचरावृतौ ज्ञानत्वानुभवादित्यर्थः | मनस इति | अत एव वियत्यादे भाष्यं बुद्धेः कारणत्वाभ्युपगमादिति | अत एव च अहंकार धर्माणां ज्ञानसुखादीनां केवलसाक्षीभास्यत्वेप्यहमर्थरूपस्य मनः प्रत्यसाधारणविषयस्य सत्वान्तस्येंदियत्वं प्राणपादे चक्षुरादरिवभाष्यकारैरेव व्यवस्थापितमिति मंतव्यं | केवलसाक्षिभास्यत्वसिद्धांतोप्यंत एवाहमर्थ व्यतिरिक्ताज्ञानसुखादिमात्रविषय इत्यपि मंतव्यं ननु मनस ईद्रियत्वपक्षे रूपादौ चक्षुरादेरिव तस्याहमर्थे प्रमाणत्वं वाच्यं | तच्च न संभवति | अहमर्थस्यानावृत साक्षि चैतन्ये ध्यस्तस्या ज्ञातत्वाभावेन मनस अज्ञातज्ञापकत्वा भावादिति चेन्न | तद्वृति तत्प्रकारानुभवत्वमवाधितानुभवत्वं वा प्रमात्वमिति | मतानुरोधेनाहमाकारज्ञानस्य प्रमात्वोपपतौ तत्कारणस्य मनसोपि चक्षुरादेरिव प्रमाणत्व संभवात् इति भावः | ननु तर्ह्य परोक्षवृतीनामावरणाभिभावकत्व नियमस्याहमाकारापरोक्षवृतौ व्यभिचार इत्याशंक्यनियमस्य संकोचं दर्शयति | एवं सतीति | अहमाकारापरोक्षवृत्युपगमे सतीत्यर्थः | प्. १८३अ) उक्तनियममप्याक्षिपति | नन्विति | इदं रजतमिति | भ्रमस्थले प्रथममिदमाकारापरोक्षवृतिरुदेति | पश्चादिदं रजतमिति भ्रमो भवति | तत्रेदमाकारायाः प्रथमोत्यत्रवृतेरज्ञाननिवर्तकत्वं | किं नास्ति | अस्ति वा आद्ये नियमस्य व्यभिचारमाह | नायमपीति यथाश्च परोक्षवृतिमात्रमज्ञाननिवर्तकमिति नियमो नास्ति अक्लमाकारवृतौ व्यभिचारात् | तथा बाह्यगोचरापरोक्षवृतिमात्रमज्ञाननिवर्तकमिति नियमोपि नास्ति | इदमांकारवृतौ व्यभिचारादित्यर्थः | द्वितीये बाधकमाह | अन्यथेति | इदमाकारवृतेरज्ञानाभिभावकत्व इत्यर्थः | इदनाकारवृतिनिवर्त्याज्ञानमन्यद्रजतोपादान भूताज्ञानमन्य तथा च न व्यभिचारः | न वा रजतोत्पत्ययोग इति परिहति अत्राहुरिति || शुक्तित्वादिविशेषांशाज्ञानानिवृतेस्तदेवरजतो पादानं शुक्तित्वाद्यज्ञानेरजताध्यासस्य तद्ज्ञानेतभावस्यानुभूयमानत्वात् अध्यासभाष्यटीकाविवरणेनुभूयमानान्वयव्यतिरेकस्यैवा- ज्ञानस्य रजताद्यध्यासौपादानत्वोक्तेः | अत एव शुक्त्यंशोधिष्टानं | इदमंश आधारः सविलासाज्ञानविषयोधिष्ठानं | अतदूपोपि तदूपेणारोप्य बुद्धौस्फुरन्नाधार इति संक्षेप शारीरके विषेचनादिति | प्. १८३ब्) अपरे त्विदं रजतमितीदमंशसंभिन्नत्वेन प्रतीयमानस्य रजतस्येदमंशाज्ञानमेवौपादानं तस्य चेदमाकारवृत्यावरणशक्तिमात्रनिवृतावपि विक्षेप शक्त्या सह तदनुवृतेर्नोपादानत्वासंभवः शुक्तित्वादिविशेषांशावरकाज्ञानमेव रजतोपादानमित्यत्रमानमाह | शुक्तित्वाद्यज्ञान इति | नीलपृष्टत्वादिकमादिपदार्थः | रजतमेवाध्यस्यत इति | अध्यास इत्यर्थः | प्रथम तत्पदं विशोषांशपरं द्वितीय तत्पदमध्यासपरं | तत्र सम्मतिमाह अध्यासेति टीका पंचपादिका अनुभूयेमानावन्वयव्यतिरेकौ यस्येति विग्रहः | ननु पुरोवर्ति द्रव्यस्य शुक्तित्वादि विशेषरूप विशिष्टस्यैवरज्ञतकारणाज्ञा चावृतत्वाभ्युपगमे तस्यैवाधिष्ठानत्वं स्यात् | नत्विदं त्वरूपविशिष्टस्येदमंशस्य स विलासाज्ञानविषयस्यैवाधिष्ठानत्वा तथा चाधिष्ठानारोप्ययोरेक ज्ञानविषयत्वनियमाच्छुक्तिरजतमिति भ्रमाकारः स्यात् | न स्याच्चेदं रजतमिति प्रतीत्याकारः इदमंशस्याधिष्ठामत्वा भावादित्यत आह | अत एवेति | अध्यासोपादानाज्ञानविषयत्वा देवेत्यर्थः शुक्त्यंश इति | शुक्तित्व विशेषरूपेण पुरोवर्त्यवछिन्नचैतन्यमित्यर्थः | इदमंशस्याधिष्ठानत्वाभाव इष्ट इत्याशयेनाह | इदमंश इति | ननु तस्याधारत्वे आगतमेवाधिष्ठानत्वं तयोर्भेदाभावादिति प्. १८४अ) नेत्याह | स विलासेति | विलासो रजतादि विक्षेपः विषयेत्वमावृतत्वं | अतद्रूपीपीति | तत्पदमध्यस्त रजतादि परं तथा चाध्यस्तरजताद्य भेदरहितोपि तदभिन्नत्वेन स्फुरन्नित्यर्थः | अधिष्ठानस्यैवारोपित रजततादात्म्याद्वस्तुगत्या इदमंशस्यातद्रूपत्वमिति बोध्यमस्मिन्मते | अधिष्ठानारोप्ययोरेकज्ञानविषयत्वं नास्ति | किं तु आधारारोप्येरेव तदिति न भ्रमस्य शुक्त्यंशोल्लेखापतिरितिभावः | नन्वधिष्ठानारोप्ययोरारोपे प्रकाशमानत्वस्य संभावना भाष्यटीकाविवरणादिषु समर्थितत्वा तद्विरोधत्वमाशंक्यमतांतरं तदविरुद्धमाह | अपरे त्विति | संभिन्नत्वं तादात्म्यमिति यावत् | अज्ञानमेवेति | न तु विशेषांशाज्ञानमित्येवकारार्थः | विशेषांशस्यारोपे स्फुरणाभावेन तस्याधिष्ठानत्वासंभवादिति भावः | शुक्तित्वादिरूपविशेष दर्शनस्याध्यास प्रतिबंधकत्वा तदभावविषयौ पूर्वोक्तान्वय व्यतिरेकावितिभावः | नन्विदमाकारवृत्या इदमंशाज्ञानस्य निवृतत्वात्कथं इदमंशस्याधिष्ठानत्वमत आह | तस्य चेति | इदमंशाज्ञानस्येत्यर्थः | जलप्रतिबिंबितवृक्षाधोग्रुत्वाध्यासे जीवन्मुक्तानुवृतप्रपंचाध्यासे च सर्वात्मनाधिष्ठान साक्षात्कारानंतरभाविन्यावरणनिवृतावपि विक्षेपक्तिसहिता ज्ञानमानस्योपादानत्वसंप्रतिपतेरित्याहुः | कवितार्किक प्. १८४ब्) चक्रवर्तिनृसिंहभट्टोपाध्यायास्त्विदं रजतमिति भ्रमरूपवृति व्यतिरेकेण रजतोत्पतेः | प्रागिदमाकारावृतिरेव नास्तीति तस्या अज्ञाननिवर्तकत्व सद्भावविचारं निरालंबनं मन्यंते | तथा द्विनतावद्भ्रमरूपवृतिच्यतिरेकेणेदमाकारावृतिरनुभवसिद्धा- ज्ञानद्वित्वा ननु भवात् | नाप्यधिष्ठानसामान्यज्ञानमध्यासकारणमिति कार्यकल्प्या तस्य तत्कारणत्वे मानाभावात् || ननु ज्ञानस्यावरणांशमात्रनिवृतिर्विक्षेपशक्त्यासहा अनुवृतिश्च क्वापि न दृष्टात आह | जलप्रतिबिंबितेति | प्रपंचेति | जीवन्मुक्तस्याप्यंतष्करणादि प्रपंच प्रतीतेस्सत्वादितिभावः | सर्वात्मनेति | रजतादिभ्रमस्थले हि सर्वात्मनाधिष्ठानसाक्षात्कारो नास्ति शुक्तित्वादि विशेषरूपेण शुक्ति साक्षात्काराभावादतस्तत्र इदमंशाज्ञाननिवृतावपि विशेषांशाज्ञाननिवृत्यभावा तस्याध्यासो पादो नत्वप्रसक्तिरस्ति प्रतिबिंबभ्रमस्थ तु जले वृक्षो नास्त्येव ऊर्ध्वाग्र एवायं वृक्ष इति सर्वात्मनाविशेषदर्शनस्य सत्वात्सामान्यांशाज्ञानं निवृतं विशेषांशाज्ञानमनिवृतमिति प्. १८५अ) विभागासंभवेन विशेषां ज्ञानमुपादानमिति वक्तुमशक्यं तस्मादत्र वृक्षाधोग्रत्वाद्यध्यासानुरोधेन एकस्यैवाज्ञानस्यावरणांश निवृतावपि विक्षेपशक्तिमदज्ञानांशानुवृतिरुपया तथा जीवन्मुक्त्यवस्थायामपि ब्रह्मतत्वसाक्षात्कारादावरणमात्र निवृतिर्विक्षेपशक्तिमदज्ञानांशानुवृतिश्च वाच्या तथा रजताध्यासस्थलेपि इदमंशाज्ञानस्य उपादानत्वं संभवतीतिभावः | एवं बाह्यगोचरापरोक्षवृतीनां सर्वासामेवावरणाभिभावकत्व नियमस्य भ्रमस्थलीयेदमाकारवृतौ या व्यभिचारशंकासा तत्रापि इदमंशाज्ञाननिवर्तकत्वस्य इदमंशावरणमात्रनिवर्तकत्वस्य वासत्वादित्युपपादनेन निरस्ता इदानीं प्रथममिदमाकारवृतिरेव भ्रमस्थले नास्ति तत्र न व्यभिचारशंका तत्समाधानं तु दूरत एव निरस्तं इत्याह | कवितार्किकेति | भ्रमरूपवृतीति | पूर्वमतद्वये इदमाकारवृतिसत्वातदभिव्यक्त चैतन्यरूपमेव शुक्तिरजतादि ज्ञानं न तु वृतिरूपमस्मिन्मते तदभावाद्वृतिरूपमेव तद्ज्ञानमिति मंतव्यं | एतच्चाग्रे स्फुटं भविष्यति | धर्मिज्ञानरूपामिदमाकारवृतिं निराकरोति | तथाहीत्यादिना | सा किमनुभवसिद्धा उतकार्यं कल्प्या अथवा सामग्री कल्प्यानाद्य इत्याह | न तावदिति ज्ञानद्वित्वेति | इदमित्येकं ज्ञानमिति ज्ञानमपरमित्यनुभवादित्यर्थः | द्वितीयं निराकरोति | नाप्यधिष्ठानेति | प्. १८५ब्) अध्यासरूपं कार्यं स्वकारणमधिष्ठानगोचर सामान्यज्ञानमंतरेणानुपपद्यमानं सत् | तत्कल्पयति | ततश्चाधिष्ठानसामान्यज्ञानरूपा इदमाकारावृतिः सिध्यतीत्यपि न मंतव्यमधिष्ठान सामान्यज्ञानस्याध्यासकारणत्वे माना भावादित्यर्थः || न चाधिष्ठान संप्रयोगाभावे रजताद्यनुत्पतिस्तत्रमानं | ततो दुष्टेंद्रिय संप्रयोगस्यैवाध्यासकारणत्वप्राप्तेः | न च संप्रयोगो न सर्वत्र भ्रमव्यापी अधिष्ठानस्फुरणं तु स्वतः प्रकाशमाने प्रत्यगात्मन्यहंकाराद्यध्यासमपि व्याप्नोतीति वाच्यं तस्यापि घटाद्यध्यासाव्यापि त्वात् घटादि प्रत्यक्षात्प्राक्तदधिष्ठानभूतनीरूप ब्रह्ममात्रगोचर चाक्षुषवृत्यसंभवात् | स्वरूपप्रकाशस्यावृतत्वात् | आवृतानावृत साधारण्येनाधिष्ठान प्रकाशमात्रस्याध्यासकारणत्वे शुक्तीदमंश संयोगात्प्रागपि तदवछिन्न चैतन्यस्वरूपप्रकाशस्यावृतस्य सद्भावेन तदाप्यध्यासापतेः | मानाभावो सिध इति शंकते | न चेति | इदमर्थस्य चक्षुस्संप्रयोगे सति प्. १८६अ) रजतादिरूपस्याध्यासस्योत्पतिर्नान्यथेत्यनुभवसिद्धं | तथा च उक्तान्वय व्यतिरेकाभ्यामधिष्ठान सामान्यज्ञानस्य रजतादिव्यध्यासं प्रतिकारणत्वं सिध्यति | न च उक्तान्वयादिनासंप्रयोगस्यैवाध्यासकारणत्वं सिध्यति न धर्मिज्ञानस्येति वाच्यं | तथा सति | अहंकाराद्यध्यासे संप्रयोगासंभवेन व्यभिचारापतेरतस्संप्रयोगस्याध्यासं प्रतिकारणत्वग्राहकाभ्यामेवान्वयव्यतिरेकाभ्यां शुक्तिरजताद्यध्यासस्थले धर्मिज्ञानस्यैव संप्रयोग साध्यस्य कारणत्वं कल्पते तथा चाधिष्ठान सामान्यज्ञानस्याध्यासकारणत्वे उक्तान्वय व्यतिरेकौ प्रमाणं भवत एवेति गूढाभिसंधिः | अभिसंधिमज्ञात्वा दूषयति | तत इति | उक्तान्वयादित इत्यर्थः | संप्रयोगमात्रस्य प्रमास्थलसाधारणत्वादृष्टेत्युक्तं | धर्मि ज्ञानकारणवादीस्वाभिसंधिमाविष्करोति | न च संप्रयोग इति | अधिष्ठान सामान्यज्ञानस्य संप्रयोगस्येव न व्यभिचार इत्याह | अधिष्ठान स्फुरणं त्विति | संप्रयोग वैलक्षण्यार्थस्तु शब्दः | अधिष्ठान स्फुरणं कर्तृ शुक्तिरजताद्यध्यासमिवाहंकाराद्यध्यासमपि व्याप्नोतीत्यर्थः | स्वत इति बाह्य चैतन्यस्यावृतत्वाद्वृति कृतं तत्राधिष्ठान स्फुरणं साक्षि चैतन्यस्यानावृतत्वादहंकाराद्यध्यासे स्वप्न प्रपंचाद्यध्यासे च तत्स्वतस्सिद्धमित्यर्थः | अधिष्ठान सामान्यज्ञानस्यापि व्यभिचारमाह प्. १८६ब्) तस्यापीति | उक्तज्ञानं तच्छब्दार्थः घटाद्यध्यासव्यापित्वा भावादित्यर्थः | तथा च धर्मिज्ञानं नाध्यास कारणमितिभावः | अव्यापित्व शब्दितं व्यभिचारमुपपादयति | घटादीत्यादिना | घटाद्यध्यासस्थले शुक्तिरजताद्यध्यासस्थल इव किं वृतिकृतमधिष्ठान स्फुरणमहंकाराद्यध्यासस्थल इव स्वतस्सिद्धं वा नाद्य इत्याह | घटादि प्रत्यक्षादिति | तत्पदं घटादि परं न द्वितीय इत्याह | स्वरूपेति | नन्वधिष्ठान प्रःकाशमात्रं अध्यासे कारणं लाचदान्नत्वभिव्यक्ताधिष्ठान प्रकाशस्तथा च सन् घटस्सन् | पट इत्यादि रूपेष्वध्यासेषु घटाद्यधिष्ठानस्य सद्रूपस्य ब्रह्मणस्स्वप्रकाशत्वादधिष्ठान प्रकाशमात्रं तत्राप्यस्तीति न व्यतिचार इत्याशंक्याह | आवृतानावृतेति | तदापीति | संप्रयोगात्प्राक्कालेपीत्यर्थः || नवाध्यास सामान्येधिष्ठान प्रकाशसामान्यं हेतुः | प्रातिभासिकाध्यासेभिव्यक्ताधिष्ठानप्रकाश इति नाति प्रसंप्रसंगः सामान्ये सामान्यस्य विशेषे विशेषस्य हेतुत्वौ चित्यादिति वाच्यं | एवमपि प्रातिभासिक शंखपीतिमकूपजलनैल्पाद्यध्यासा व्यपनात् | रूपानुपहित चाक्षुष प्रत्यया प्. १८७अ) योगेन तदानी शंखादिगतशौक्ल्योपालंभाभावेन चाध्यासात्प्राक् शंखादिनीरूपाधिष्ठानगोचरवृत्यसंभवात् || धर्मिज्ञानकारणवादीशंकते | न चाध्यास सामान्य इति | प्रातिभासिकेति | अभिव्यक्ताधिष्ठान स्फुरणं प्रातिभासिकाध्यासेष्वेवकारणमाचार्याणामभिप्रेतं तेष्वेव दोषसंप्रयोगसंस्काररूपकारणत्रय जन्यताया अध्यासटीकाविवरणादिषु व्यवस्थापितत्वेन संप्रयोगकारणताग्राहक प्रमाणलभ्याधिष्ठानापदोक्षस्य तेष्वेव कारणत्व सिद्धेरित्यर्थः | प्रकाशपदानंतरं हेतुपदमनुषंजनीयं नाति प्रसंग इति | न संप्रयोगात्प्राक् रजताद्यध्यासप्रसंग इत्यर्थः | रजताद्यध्यासस्य प्रातिभासिक त्वेन तदधिष्ठानापरोक्षाय संप्रयोगाधीनवृतेरपेक्षितत्वादिति भावेः औचित्यादिति | तथा च धर्मिज्ञानस्याध्यासकारणत्वे संप्रयोगकारणता ग्राहकान्वयादेः प्रमाणस्य सत्वात बाधकाभावाच्च तस्याध्यासकारणत्वसिद्धाविदमाकारावृतिस्सिद्धेतिभावः | अभिव्यक्ताधिष्ठान प्रकाशस्य प्रातिभासिकाध्यासेष्वपि सर्वत्रव्याप्तिनीस्तीति कविता किं कमतानुवंती दूषयति | एवमपीति | अधिष्ठानापरोक्षस्य प्रातिभासिकाध्यासमात्र हेतुत्वे स्वीकृतेपीत्यर्थः | धर्मिज्ञानकारण वा देहि प्रथममिदमित्येवमाकारावृतिरुदेति प्. १८७ब्) तया च वृत्या अभिव्यक्ते शंखजलाद्यवछिन्नचैतन्येपित नीलरूपादेरध्यास इति प्रक्रिया तथा च तत्रेदमाकारावृतिः किं शंखादिद्रव्यमात्रं विषयी करोति किं वा रूपविशिष्टं द्रव्यं नाद्य इत्याह | रूपानुपहितेति | रूपाविषयक द्रव्य चाक्षुषवृतिर्न संभवति इतरथा वाग्वादेरपि चाक्षुषत्वापतेरिति भावः | द्वितीयेपि किं शुक्लरूपविशिष्टं द्रव्यं विषयी करोति किं वा आरोप्यरूपविशिष्टं | न द्वितीयः आरोप्यरूपविशिष्टशंखादि वृतेरेवभ्रांतित्वेन तस्याः धर्मिज्ञानत्वा भावात् | नाद्य इत्याह | तदानीमिति | अध्यासात्पूर्वकाले इत्यर्थः | तदानीं शौक्ल्योपलंभे चाध्यासाभाव प्रसंगादिति भावः असंभवादिति | तथा चाभिव्यक्ताधिष्ठान स्फुरणस्य तत्रासंभवाद्व्यभिचारेण धर्मिज्ञानं नाध्यासकारणमितिभावः | नन्वध्यासात्पूर्वं द्रव्यमात्ररूपेण शंखादिगोचर चाक्षुषवृतिरुदेत्येव द्रव्यगोचरचाक्षुषवृतौ रूपविषयकत्वनियमस्या प्रयोजकत्वान्न चैवं वाप्वादेरपि चाक्षुषत्वप्रसंगः द्रव्यचाक्षषे द्रव्यगतोद्भूतरूपस्यतियामकत्वादध्यासात्पूर्वकाले द्रव्यग्रहणेपि शुक्तित्वादेरिव दोषबलात्सन्निकृष्टस्यापि शुक्लरूपमात्रस्याग्रहणोपपतेश्च | तदुक्तं भामत्यां || प्. १८८अ) न च प्रातिभासिकेष्वपि रजताध्यासमात्रे निरुक्तो विशेषहेतुरास्तामिति वाच्यं | तथा सति संप्रयोगात्प्राक्पीत शंखाद्यध्यासाप्रसंगायतदध्यासे दुष्टेंद्रिय संप्रयोगः कारणमित्यवश्यं वक्तव्यतया तस्यैव सामान्यतः प्रातिभासिकाध्यासमात्रे लाघवान् कारणत्वसिद्धौ तत एव रजताध्यासकादाचित्कत्वस्यापि निर्वाहादधिष्ठान प्रकाशस्य सामान्यतो विशेषतौ वा ध्यासकारणत्वस्यासिद्धेः || शंखं च दोषाछादित शुक्लिमानं द्रव्यमात्रस्वरूपं गृहीत्वेति शुक्लिमाशुक्लरूपमित्यर्थः | अस्तु वा तत्र शुक्लरूपविशिष्टशंखादि ग्रहणे तथापि नाध्यासानुपपतिः दोषबलेन रूपगत शुक्लतर्ज्जातिग्रहणप्रतिवद्धं मात्रेणापि तदुपपतेस्तथा च प्रातिभासिकाध्यासेषु अभिव्यक्ताधिष्टान स्फुरणस्य व्यभिचाराभावाद्धर्मिज्ञानरूपा इदमाकारावृतिस्सिद्धा भवति | तत्सिद्धौ च तस्यामावरणनिवर्तकत्व सदसद्भाव चिंतासालंबनैवाचार्याणां न निरालंबनेति चेत्सत्यमस्मिन्मते अयमेवास्वरसः उपाध्यायामन्यंतै इत्यनेन सूचिते | पीतशंखादिभ्रमस्थले वस्तुतो व्यभिचारा भावेपि प्. १८८ब्) तमभ्युपगम्यधर्मिज्ञानकारणवादी शंकते | न च प्रातिभासिकैष्वपीति | निरुक्त इति व्यक्ताधिष्ठान प्रकाश इत्यर्थः | तथा सतीति | पीतशंखाद्यध्यासेषु अभिव्यक्ताधिष्ठानप्रकाशस्य हेतुत्वानुपगम इत्यर्थः | अधिष्ठानापरोक्ष्यवत्संप्रयोगस्यापि पीतसंखाद्यध्यासेषु कारणत्वानुपगमे संप्रयोगात्प्रागपि पीतशंखाद्यध्यासप्रसंगः अतस्तत्परिहाराय तत्र संप्रयोगस्य कारणत्वमवश्यं वाच्यंमित्यर्थः | ततः किं तत्राह | तस्यैवेति | दुष्टेंद्रिय सप्रयोगस्यैवेत्यर्थः | सामान्यत इत्युक्तं सामान्यमेव दर्शयति | प्रातिभासिकाध्यासमात्र इति | प्रातिभासिकाध्यासत्वमेव दुष्टेंद्रिय संप्रयोगकार्यतावछेदकं लाघवान्नतु पीतशंखाद्यध्यासत्वं गौरवादित्यर्थः | ततोपि किं तत्राह | तत एवेति संप्रयोगात् | प्राक्पीतशंखाद्यध्यासप्रसंगपरिहाराय तत्र सामान्यत सूकॢप्तात् दुष्टेंद्रिय संप्रयोगादेवेत्यर्थः | कादाचित्कत्वस्यापीति | सदा रजताद्यध्यासपरिहारायाभिव्यक्ताधिष्ठान प्रकाशस्य रजताद्यध्यासकारणत्वं वाच्यं | तथा सति शुक्त्यवछिन्नचैतन्यरूपस्याधिष्ठान प्रकाशस्यावृततया सदा तदभिव्यक्तेरभावेन सदारजताद्यध्यासप्रसंगपरिहारोपपतेरिति हि धर्मिज्ञानकारणवादिनस्तवाभिप्रायः स चाति प्रसंगपरिहारः पीतशंखाद्यध्यासस्थले प्. १८९अ) कॢप्तात्संप्रयोगादेव लभ्यत इत्यर्थः | सामान्यत इति | अधिष्ठान प्रकाशमात्र मध्यासमात्रे कारणमभिव्यक्ताधिष्ठान प्रकाशः | प्रातिभासिकाध्यासैकारणमिति | पूर्वोक्तकार्यकारणभावद्वयमपि न सिध्यतीत्यर्थः | ननु तस्यैव सामान्यतः प्रातिभासिकाध्यासमात्रे लाघवात्कारणत्व सिद्धावित्ययुक्तमहंकाराद्यध्यासे साक्षि चैतन्ये स्वप्नाध्यासे च संप्रयोगासंभवेन व्यभिचारान्न चाहंकाराद्य || ननु च सादृश्यनिरपेक्षे ध्यासांतरेऽकारणत्वेपि तत्सापेक्षे रजताद्यध्यासे रजतादि सादृश्यभूतरूपविशेषादि विशिष्टधर्मिज्ञानरूपमधिष्ठान सामान्यज्ञानं कारणमवश्यं वाच्यं दुष्टेंद्रिय संप्रयोगमात्रस्य कारणत्वे शुक्तिवदिंगालेपि रजताध्यासप्रसंगात् | न च सादृश्यमपि विषयदोषत्वेन कारणमिति वाच्यं | विसदृशेपि सादृश्यभ्रमे सत्यध्यास सद्भावात् | जलधि सलिलपूरे दूरे नीलशिलारोप दर्शनात् || भ्यासस्य व्यावहारिकत्वमते तत्र व्यभिचारो न दोष इति वाच्यं | तथापि तत्प्रातिभासिकत्वमते दोष प्. १८९ब्) परिहारा संभवात् | साक्षिणि स्वप्नाध्यासे प्रातिभासिकत्वस्य संप्रतिपन्नतया तत्रोक्त व्यभिचारस्य दृढत्वाच्च | न च स्वप्नाध्यासेभिव्यक्ताधिष्ठान स्फुरणं कारणमन्यथा स्वप्नप्रपंचस्यापरोक्ष्याभावप्रसंगात् | बाह्यप्रातिभासिकाध्यासेषु तु दुष्टेंदिर्य संप्रयोगः कारणमिति न तस्य व्यभिचार इति वाच्यं | प्रातिभासिकाध्यासमात्रेत्वदुक्त लाघवेनाभिव्यक्ताधिष्ठान प्रकाशस्य कारणत्वौचित्यात् | बाह्याध्यासेषु संप्रयोगस्याधिष्ठन चैतन्याभिव्यंजक वृत्युत्पादकतया चारित्यार्थ्य संभवाच्च पीतशंखाद्यभ्यासस्थलेपि अधिष्ठान चैतन्याभिव्यंजकवृति संभवस्य दर्शितत्वाच्चेति चेत्सत्यं सूक्ष्मदृष्ट्याविचार्यमाणो एवमेव स्थूलदृष्ट्या तु संप्रयोगस्य लाघवात्प्रातिभासिकाध्यासमात्रे कारणत्वमुक्तमिति मंतव्यं शुक्तिरजताद्यभ्यासात्प्रागिदमाक्यरवृतिसिद्धय प्रकारांतरेण धर्मिज्ञानस्य कारणत्वं शंकते | ननु च सादृश्येति अध्यासांतर इति पीतशंखाद्यध्यास इत्यर्थः | शंखादेः पीतरूपादेश्च सादृश्या भावादिति भावः | तत्पदं सादृश्यपरं रजतादिना सह शुक्त्यादेः सादृश्यभूतो यो रूपविशेषादिस्तद्विशिष्टधर्मीत्यर्थः | स्थाण्वादौ पुरुषाद्यध्यासापेक्षितमूर्धत्वादिकमादि शब्दार्थः | संप्रयोगमात्रस्येति | सादृश्यानपेक्षायामिति मात्र शब्दार्थः | अग्निदग्धं नील प्. १९०अ) रूपवत्कापृमिंगाल शब्दार्थः | नन्वपेक्षितमपि सादृश्यं स्वरूपसदेवाध्यासकारणं तावता उक्ताति प्रसंगनिरासान्न ज्ञातं स तत्कारणं तथा च न धर्मिज्ञानस्य कारणत्वसिद्धिरिति मत्वाशंकते | न च सादृश्यमिति | स्वरूप स तत्कारणत्वे सादृश्यभ्रमादध्यासो न स्यात् | सादृश्यभ्रमस्थले सरूप स तस्सादृश्यस्याभावात् | अतस्सादृश्यज्ञानं भ्रमप्रमासाधारणमध्यासकारणं वाच्यमिति तद्विशिष्टधर्मिज्ञनसिद्धिरिति धर्मिज्ञानकारणवादीपरिहरति | विसदृशेपीति | तत्रोदाहरणमाह | जलधि सलिलपूर इति प्रवाहः पूरशब्दार्थः जलस्य वस्तुतः शुक्लरूपत्वान्नीलशिलातल सादृश्यं नास्ति | अतस्सादृश्य भ्रमान्नीलशिलातलत्वारोप इति भावः || न च तद्धेत्वोरेवेति न्यायात् सादृश्य ज्ञानसामग्र्ये वाध्यासकारणमस्त्विति युक्तं | ज्ञानसामग्र्या अर्थकारणत्वस्य क्वचिदप्यदृष्टेः ततः सादृश्य ज्ञानत्वस्यैव न लघुत्वाच्च न च स्वतः शुभ्रेपि शुभ्रकलधौत भृंगारगतेपि स्वच्छे जलेंपवनैल्याध्यासः | न मुक्ताफल इति व्यवस्थावद्धस्तु स्वभावादेवशुक्तौ रजताध्यासोनेंगालादोविति व्यवस्था न तु सादृश्य ज्ञानपेक्षणादिति वाच्यं | स्वतः प्. १९०ब्) पटखंडेपुंडरीक मुकुलुत्वानध्यासेपि तत्रैव कर्तनादि घटित तदाकारे तदध्यासदर्शनेन तदध्यासस्यनुस्तु स्वभावमननुरुध्य सादृश्यज्ञानभावाभावानरोधित्व निश्चयात् | अन्यथान्यदापि तत्र तदध्यास प्रसंगात् ननु धर्मिज्ञानकारणतापक्षेपि तत्सामग्रीत्वेन दुष्टेंद्रिय संप्रयोगो वश्यं वाच्यः | तथा च आवश्यकत्वादध्यासविशेषकारणतावछेदकं सादृश्यज्ञानसामग्रीत्वमेव न तु सादृश्यज्ञानत्वं | ततश्च न धर्मिज्ञानसिद्धिरित्याशयेन इंगाले रजताध्यासप्रसंगं विस्मृत्यशंकते | न च तद्वेल्लोरेवेति | तद्वेतोरेवास्तु तद्धेतुत्वं मध्ये किं तेनेति न्यायादित्यर्थः | धर्मिज्ञान वादिओतिराकरोति | ज्ञानसामग्र्या इति धर्मे ज्ञानकारणता मते हि धर्मिज्ञानं रजतादिरूपार्थोत्यतौकारणमिष्यते | तथा च तद्वेतोरेवेति न्यायेन धर्मिज्ञानसामग्रीभूतसंप्रयोगस्य कारणत्वमुच्यमानं रजताद्यर्थोत्यतावेव भवे तच्च न संभवति सन्निकर्षस्य ज्ञान इव विषयोत्पतौकारणतायाः क्वचिदप्य कॢप्तत्वादित्यर्थः | तत इति | सादृश्यज्ञानसामग्रीत्वापेक्षया सादृश्यज्ञानत्वस्यैवकारणतावछेदकत्वे लाघवादित्यर्थः | तथा च धर्मिज्ञानसिद्धिरितिभावः | सादृश्यज्ञानस्याध्यासविशेषे कारणत्वाभावेपि व्यवस्थासंभवाअन्न धर्मिज्ञानसिद्धिरिति मत्वा पुनः शंकते | न च स्वत इति | जलस्य मुक्ताफलस्य च नैलोन प्. १९१अ) सादृश्याभावे समानेपि | जल एव नैल्याध्यसो दृश्यते न मुक्ताफल इति व्यवस्थायां जलदिवस्तु स्वभाव एव हेतुर्नान्य इत्यर्थः | ननु पत्रगतनैल्यसन्निधानं जले तदध्यासे नियामकं न स्वभाव इत्यत आह | शुभ्रकलधौतेति | निर्मलसौवर्णपात्रविशेषगतेपीत्यर्थः | नन्वेवमपि जलगतनीलरूपवत् द्रव्यसंसगीत् त्वत्रैवतदध्यास इति नेत्याह | स्वतः शुभ्रेपीति जलविशेषणं स्वतः शुभ्रपदव्याख्यानं स्वछ इति पदं | एवं क्वचित्स्वभावस्यैवाध्यासप्रयोजकत्वे कॢप्ते फलितमाह | वस्तुस्वभावादेवेति | उक्तपीतशंखाध्यास इव भृंगारादि गतजलेनैल्याध्यासे सादृश्य ज्ञाना न पेक्षत्वेपि पुंडरीकमुकुलत्वाध्यासे तदपेक्षाया अन्वयव्यतिरेक सिद्धत्वेन | तद्वच्छुक्तिरजताध्यासेपि सादृश्यभानभावाभावाभ्यासेवव्यवस्था न तु वस्तु स्वभावादगतिकगतित्वाद्वस्तु स्वभावाश्रयणस्य | तथा च धर्मिज्ञानकारणतासिद्धिरप्रत्यूहेति मत्वादूषयति | स्वतः पटखंड इति | पुंडरीकस्य कमलस्य यामुकलत्वावस्था तस्याः अनध्यासेपीत्यर्थः | अत्रैव पटखंड एव कर्तनादिनाघटितः संपादितः तदाकारः पुंडरीकमुकमलत्वाकारौ यस्य पटखंडस्य स तथा तस्मिन्नित्यर्थः | तदध्यासेति पुंडरीकमुकुलत्वाध्यासेत्यर्थः | तदध्यासस्यानुरोधित्वनिश्चयादिति संबंध | अन्यथेति | वस्तु स्वभावस्यैव तदध्यासकारणत्व इत्यर्थः | अन्यदापीति कर्तनादिना तदाकार संपादनात् प्रागपीत्यर्थः || प्. १९१ब्) उच्यते | सादृश्यज्ञानस्याध्यासकारणत्व वादेपि विशेषदर्शनप्रतिबध्येषु रजताद्यध्यासेष्वेव तस्य कारणत्वं वाच्यं | न तु तदप्रतिबध्येषु पीतशंखाद्यध्यासेषु श्रसंभवात् विशेषदर्शनप्रतिबध्येषु च प्रतिबंधकज्ञानसामग्र्याः प्रतिबंधकत्वनियमेन विशेषदर्शनसामग्र्यवश्यं प्रतिबंधिका वाच्येति | तत एव सर्वव्यवस्थोपपतेः | किं सादृश्यज्ञानस्य कारणत्वकल्पनया | तथाहि | इंगालादौ चक्षुस्संप्रयुक्ते तदीयनैल्यादिरूपविशेषदर्शनसामग्री सत्वान्न रजताध्यासः शुक्त्यादावपि नालभागादिव्यापि चक्षुः संप्रयोगे तत्सत्वान्न तदध्यासः सदृशभागमात्रसंप्रयोगे तदभावादध्यासः || ननु सादृश्य निरपेक्षे ध्यासांतरे अकारणत्वेपीत्यादिना प्राप्तं सादृश्यज्ञाग्नस्याध्यासविशेषेकरणता प्रसाधनद्वाराधर्मिज्ञानस्य कारणत्वमावश्यकमिति पूर्वपक्षं कचितार्किकमतानुवर्ती निराकरोति उच्यते इत्यादिना | नत्विति पीतत्वा भावव्याप्यशंखत्ववानयं नैल्याभावव्याप्यजलत्ववदिदमित्यादिरूपविशेषदर्शना- प्रतिबध्येष्वित्यर्थः | उक्तविशेषदर्शने सत्यपि पीतः शंखः नीलं जलमित्यध्यासदर्शनादितिभावः | प्. १९२अ) असंभवादिति | वस्तु तस्मादृश्यस्य तत्रासंभवात् | पुंडरीकमुकुलत्वभ्रमवत्सादृश्यज्ञानाननुरोधित्वाच्चेत्यर्थः | ततः किं तत्राह | विशेषदर्शनप्रतिबध्येषु चेति | प्रतिबंधकसामग्र्याः प्रतिबंधकत्वे दाहप्रतिबंधकमेकत्वोक्तौ धर्मिज्ञानसामग्री भूतसंप्रयोगस्याध्यास प्रतिबंधकत्वपंगः | तद्वारणाय प्रतिबंधकेति ज्ञानविशेषणं धर्मिज्ञनस्य चाध्यासानुगुणत्वेन प्रतिबंधकरण्यादि सामग्र्याः दाहप्रतिबंधकत्व प्रसंगः तद्धारणाय ज्ञानपदं मण्यादेः प्रतिबंधकज्ञानत्वाभावान्नाति प्रसंगः ज्ञानसामग्र्याः प्रतिबंध त्रुटज्ञानत्वाभावान्नोक्ताति प्रसंगः तथा च पक्षे साध्याभाववताज्ञानं ग्राह्याभावावगाहित्वादनुमिति प्रतिसाक्षात्प्रतिबंधकं तत्र साध्याभावव्याप्यवताज्ञानं प्रतिबंधकज्ञानस्य सामग्रीत्वे नानुमिति प्रतिबंधकमिति व्यवस्था प्रसिद्धेत्यर्थः | तत एवेति | प्रबंधकज्ञानसामग्र्याः प्रतिबंधकत्वस्वीकारादेवेत्यर्थः | किमिति | तथा च धर्मिज्ञानरूपा इदमाकारावृतिर्न सिध्यतीतिभावः | सादृश्यज्ञानस्याकारणत्वे पूर्वोक्तप्रसंगं परिहरति | इंगालादाविति | इंगालगतं नैल्यादिर्विशेषः | तद्दर्शनसामग्री च चक्षुः संयुक्तेंगालतादात्म्यरूपा तस्याः सत्वान्नास्तीति बोध्यं | नीलभागादीति | त्रिकोणभागसंग्रहार्थमादिपदं | तत्सत्वादिति | विशेषदर्शनसामग्री सत्वादित्यर्थः | नतदिति | तत्पदं रजतादिपरं | ननु यदि शुक्तिसंप्रयोगकाले रजताध्यासाभावस्तर्हि संप्रयोगोप्यध्यासकारणं न प्. १९२ब्) स्यादिति नेत्याह | सदृशभागमात्रेति | तदभावादिति नैल्यादिदर्शनसामग्र्यभावादित्यर्थः || तदापि शुक्तित्वरूपविशेषदर्शनसामग्रीसत्वादनध्यासप्रसंग इति | चेन्न | अध्याससमये शुक्तित्वदर्शनाभावेन तत्पूर्वं तत्सामग्र्यभावस्य त्वयापि वाच्य त्वात् | मम सादृश्यज्ञानरूपाध्यासकारणदोषेण प्रतिबंधात् तदाशुक्तित्वदर्शनसामग्र्यभावाभ्युपगमः तव तथा भ्युपगमे तु घट्टकुट्टीप्रभातवृतांत्व इति चेत् न समीपोपसर्पणानंतरं रजतसादृश्यरूपे चाकचिक्ये दृश्यमान एवं शुक्तित्वोपलंभेन तस्य तत्सामग्री प्रतिबंधकत्वासिद्धौ दूरत्वादि दोषेणप्रतिबंधाद्वा शंकते | तदापीति | सदृशभागमात्रसंप्रयोगकालेपीत्यर्थः | अनध्यासप्रसंग इति | तथा चाध्यासाभावप्रसंगपरिहाराय सादृश्यज्ञानं दोषत्वेनाध्यासकारणं बाध्यं | ततश्च उक्तदोष इय प्रतिबंधक सत्वादप्रतिबद्धाशुक्तित्वदर्शनसामग्री नास्ति अतो रजताध्यास उपपचत इति धर्मिज्ञानकारणवादिनोभिसंधिः अनध्यासप्रसंगं परिहर्तुमुभयसंमतमर्थे धर्मिज्ञानापलापीदर्शयति | नेत्यादिना | त्वयापीति सादृश्यज्ञानकारणतावादिनापीत्यर्थः | वाच्यत्वादिति | सदृशभागमात्र संप्रयोगकाले शुक्तित्वदर्शन सामग्र्यां प्. १९३अ) चक्षुस्संयुक्त तादात्म्यलक्षणायां सत्यामप्यध्यासदर्शनेन तदनुरोधाच्छुक्तित्व रूपविशेषदर्शनसामग्र्याः प्रतिबंधको दोषो वश्यं वाच्य इति तावत् सत्यं स च दोषो न सादृश्य ज्ञानं किं तु दूरत्वादिरेवातो दोषत्वेनापि न सादृश्यज्ञानमध्यासकारणमिति | न धर्मिज्ञानसिद्धिरिति तदपलापिनोप्यभिसंधिः धर्मिज्ञानवादीस्वाभिसंधिमुद्घाटयन् आशंकते | ममेति तवेति | धर्मिज्ञानापलापे प्रवृतस्य कवितार्किकमतानुवर्तिन इत्यर्थः | सादृश्यज्ञानस्याध्यासकारणत्वं त्वदनिष्टं दूरं गतस्यापि तव प्रसज्येतेतिभावः | धर्मिज्ञानापलापवाद्यपि स्वाभिसंधिमुद्घाटयन् अनध्यासप्रसंगं परिहरति | तेत्यादिना तस्येति सादृश्य दर्शनस्येत्यर्थः | तत्सामग्रीति | शुक्तित्वदर्शनसामग्रीत्यर्थः | रजतरागादीदीषसंग्रहार्थमादिपदं | ननु दूरस्थस्यापि पुंसः कदाचिच्छुक्तौ शुक्तिप्रमायाः दर्शनेन दूरत्वस्यापि | सादृश्य ज्ञानस्येव व्यभिचारस्तुल्यः तथा रजते रागवतोपि समीपोपसर्पणानंतरं शुक्तिदर्शनेन तस्यापि व्यभिचारस्तुल्यः तथा च दूरत्वादेरपि दोषत्वं न स्यात् | यदि च क्वचिदध्यासे कदाचित् कश्चित् दोष इतिरित्यादूरत्वादेर्दोषत्वेनाध्यासकारणत्वं समर्थ्यते | तदा ज्वालादौ सादृश्य ज्ञानरूपेणैव दोषेण सेय दीपज्वालेत्यादिभ्रमस्य सर्वानुभवसिद्धतया तस्यापि कदाचिद्रजताध्यासादौ दोषत्वेन कारणत्वं दुर्वारं सादृश्य ज्ञानस्य दोषत्व भाष्यसंमतं च तथा च देवताधिकरणे भाष्यं सादृश्यात् प्रत्यभिज्ञानं प्. १९३ब्) केशादिष्विवेति | तथा बौद्धाधिकरणेपि सादृश्यनिमितं प्रतिसंधानमिति | प्रतिसंधानं प्रत्यभिज्ञानं तथा च सादृश्यज्ञानस्य दोषत्वेनाध्यासकारणत्वमत निराकरणमयुक्तमिति चेत्सत्यं तथापि स्थूलबुद्धिमाश्रित्येदमिति ध्येयं || व्यजकनीलपृष्टत्वादि ग्राहकासमवधानाद्वा तत्सामग्र्यभावस्य वक्तव्यत्वात् | एवं जलधिजले नियतनीलरूपाध्यास प्रयोजक दोषेण दूरे नीलत्वव्यंजकतरंगादि ग्राहकासमवधानेन च शौक्ल्य जलराशित्वादि विशेषदर्शनसामग्र्यभावाच्छिलातलत्वाद्यिध्यासः | विस्तृते पटे परिणाहरूपविशेषदर्शनसामग्रीसत्वान्नपुंडरिक- मुकुलत्वाध्यासः कर्तनादि घटित तदाकारे तदभावात् तदध्यास इति || सहकार्यभावात्सामग्र्यभावमाह | व्यंजकेति | शुक्तित्व व्यंजकेत्यर्थः ग्राहकपदं नीलभागव्यापि चक्षुस्संप्रयोगपरं | तत्सामग्रीति | शुक्तित्वविशेषदर्शनसामग्र्याभावस्योभाभ्यां वक्तव्यत्वादित्यर्थः | शुक्ति रजतभ्रमस्थलोक्त न्यायमन्यत्रापि योजयति | एवमिति सादृश्यज्ञानरूपदोषं दिनं जलराशित्वादि रूपविशेषदर्शनं च प्रतिबंधक ततः शुक्लरूपादि दर्शनसामग्र्यपि तत्र प्रतिबंधका तथा च प्रतिबंधक प्. १९४अ) ज्ञानसामग्र्यभावादेव तत्र नीलशिलातलत्वारोपः न तु प्रथमं जले नैल्याध्यासेन सादृश्यज्ञानसंपतौ सत्यांतद्दोषान्नीलशिलातलत्वाध्यास इत्यर्थः | ननु जलधि सलिपूरे शुक्लरूपात्मकविशेषदर्शनसामग्र्यं भावो सिद्धः नीलशिलातलत्वारोपात्पूर्वकाले चक्षुः संप्रयुक्ते जले शुक्लरूपस्य तादात्म्याभ्युपगमेन चक्षुः संयुक्त तादात्म्यरूपसन्निकवस्य आलोकादेश्च सत्वा तथा जलराशित्वादि रूपविशेषदर्शनसामग्र्यभावोप्यसिद्धः | जलराशित्वव्यंजकतरंगादि प्रत्यक्षस्यापि तत्र सत्वादित्यत आह | नियतेति | जलधि सलिलं दूरे नैल्याध्यासवत्समीपोपसर्पणानंतरमपि तदध्यासो दृश्यते | अतस्तस्य नियतत्वं | एतदुक्तं भवति | शुक्लरूपात्म विना रजताध्यासवत् | नीलशिलातलत्वाद्यध्यासः संभवतीत्यर्थः | जले नीलशिलातलत्वाध्यासे हि शुक्लरूपात्मकविशेषदर्श ५९ त्रुटत्कविशेषदर्शनसामग्रीनियत नीलशिलारूपाध्यास प्रयोजकदोषेणप्रतिबद्धा अतस्सा अप्रतिवद्धा नास्ति दूरत्वदोषाज्जलराशित्व व्यंजकतरंगादेग्नीहकसमवधानं नास्ति तेन जलराशित्व रूपविशेषदर्शनसामग्री च नास्ति | तथा च द्विविध प्रतिबंधकज्ञानसामग्र्यभावाज्जलधि सलिले नीलशिलातलत्वाद्यध्यास उपपद्यत इति | अत्रेदं बोध्य जलिधि सलिलपूरे नीलशिलातलत्वारोपे उक्तविधयाविशेषदर्शनसामग्र्यभावस्यापेक्षितत्वेपि प्. १९४ब्) न तावन्मात्रात् | तदध्यासः | किं तु जले नीलरूपाध्यासेन नीलशिलातलसादृश्य संपत्यनंतरमेव तदध्यासस्तथा च दूरे नीलशिलातलत्वाध्यासवत्वां जलधि सलिलपूरसमीपोपसर्पणानंतरं व्यवहारः अस्मिनजलधिसलिलपूरे मम दूरे नैल्यनैश्चल्यादि साम्येन नीलशिलातलत्वभ्रम आसीत् | इद्धांनी सभुमो निवृत इति | एवं तत्र तत्र सादृश्य दोषान्मम पूर्वमन्यथा भ्रम आसीत् इदानीं सनिवृत इति लोकव्यवहार एव सादृश्य ज्ञानस्य दोषत्वेनाध्यास विशेषकारणत्वसाधको द्रष्टव्य इति सादृश्य ज्ञातस्याध्यासकारणता ग्राहकान्वय व्यतिरेको दाहरणांतरमप्यन्यथयति | विस्तृत इति परिणाहो विस्तारस्तद्दर्शनं पुंडरीकमुकुलत्वाध्यासप्रतिबंधकं तत्सामग्रीसत्वादित्यर्थः || नन्वेवं करस्पृष्टे लोहशकले तदीयनीलरूपविशेषदर्शनसामग्र्यभावाद्रजताध्यासः | किं न भवेत् सादृश्य ज्ञाना न पेक्षणादिति चेत् | भवत्येव किं तु ताम्रादि व्यावर्तकविशेषदर्शनसामग्र्या अप्यभावातदध्यासेनापि भाव्यमिति क्वचिदनेकाध्यासे संशयगोचरो भवति | क्वचितुरजतप्राये कोशग्रहादौरजताध्यास एव भवति | प्. १९५अ) क्वचित् सत्यपि सादृश्य ज्ञाने शुक्तिकादौ कदाचित्करणदोषाद्यभावेनाध्यासानुदयवदध्यासानुदयेपि न हानिः तस्मान्न कार्यकल्प्येदमाकारवृतिर्नाप्यप्रतिबद्वेदमर्थ संप्रयोगकारणकल्प्या || सादृश्यज्ञानकारणमते हि चक्षुस्संप्रयोगस्थले चाक्षुषं सादृश्य ज्ञानं धर्मि ज्ञानत्वेन दोषत्वेन च रजताद्यध्यासोत्पतौ कारणं त्वगिंद्रिय संप्रयोगस्थेले च स्यार्शनं सादृश्यज्ञानमुक्तविधया रजताद्यध्यासोत्पतावेकारणं कवितार्किकमते तु धर्मिज्ञानप्रसंगभीत्यासादृश्यज्ञानं कुत्राप्यध्यासे कारणं नाभ्युपेयते इति व्यवस्था तथा च त्वगिंद्रियेदमर्थ संप्रयोगस्थले त्वदभिमताध्यासकारण सत्वात् स कि न स्यादिति शंकते | नन्वेवमिति | सादृश्यज्ञानं विनापि अध्यास प्रतिबंधकविशेषदर्शनसामग्र्यभावमात्रेणाध्यासोपगम इत्यर्थः | किं तत्र रजताध्यास आपाद्यते | किं वा रजताध्यास एव आपाद्यते आद्ये इष्टापतिरित्याह | भवत्येवेति | द्वितीयं शंकते | किं त्विति | तत्र विशेषदर्शनसामग्र्यभावस्य ताम्राद्यध्यास साधारणत्वाद्रजताद्यध्यास एवस्यादित्यत्रापादकं नास्तीति मत्वा परिहरति | ताम्रादीति | रंगसुवर्णशकलादि संग्रहार्थमादि पदं क्वचिदिति | करतलस्पृष्टलोह शकलस्थलेपि क्वचिदित्यर्थः | गोचर इति | लोहशकलरूपेदमर्थः | प्. १९५ब्) किमिदं रजतं किं वा ताम्रं किं वा सुवर्णादीति संशयविषयो भवतीत्यर्थः | ताम्रादि व्यावर्तकविशेषदर्शनस्थले तु रजताध्यास एवषी भवतीत्याह | क्वचित्विति | यस्मिन् कोशग्रहादौ प्रायेण रजतशकलानामेवावस्थानं तत्र प्रविष्टस्य दैवादयः शकले करतलस्पृष्टे सति तत्र रजताध्यास एव भवति | रजतकोशग्रहमिति बुद्धेस्तस्य सत्वादित्यर्थः | ननु क्वचित्करतलस्पृष्टलोहशकले रजताध्यासाभावोपि दृश्यते | स च तवमते न संभवति | विशेषदर्शनसामग्र्यभावस्य तत्रापि सत्वेन रजताध्यासापतेरावश्यकत्वान् मम तु सादृश्यज्ञानरूपकारणाभावात् | स न भवतीति वक्तुं शक्य इत्यत आह | क्वचित्सत्यपीति | समीपोपसर्पणानंतरं सत्यपि सादृश्य ज्ञाने यथा रजताध्यासाभावः | तवमते उपेयते | तथा मम मतेपि क्वचिदध्यासाभावो न दोषावह इत्यर्थः | तस्मादिति | कथमपि धमिधर्मिज्ञानस्याध्यासकारणत्वासिद्धेरित्यर्थः | इदमाकार वृतिरनुभवसिद्धावाकार्यकल्प्यावाकारणकल्प्यावेति विकल्प त्रये प्रथमद्वितीयौ निरस्य तृतीयं निराकरोति | नाप्यप्रतिबद्धेति | इदमर्थस्य चक्षुस्संप्रयोगकाले अन्यत्र व्यासंगे सति इदमर्थगोचरज्ञानानुदयादप्रतिबद्धेति विशेषणं || प्. १९६अ) ततो भवंत्या एवेवं वृतेर्दुष्टेंद्रिय संप्रयोगक्षुभिताविद्यापरिणाम स्वसमानकाल रजतविषयत्वस्याप्यस्माभिरुच्यमानत्वात् | तत्र च ज्ञानसमानकालोत्पतिके प्रतिभासमात्र विपरिवतिनिरजतेः | तत्प्राचीन संप्रयोगाभावेपि | तत्तादात्म्याश्रयेदमर्थ संप्रयोगादेव तस्मापि चक्षुग्नी ह्यत्वोपपतेश्चक्षुषा रजतं पश्यामीति प्रातिभासिकरजतस्य स्वसंप्रयोगाभावेपि चाक्षुषत्वानुभवात् | न च स्वसप्रयोगाभावादेववाधकान्न तच्चाक्षुषं नापि दुष्टेंद्रिय संप्रयोगजन्यमिदं वृतिसमकालं | ज्ञानकारणस्येंद्रिय संप्रयोगस्यार्थकारणत्वाकॢप्तेः || यथोक्त संप्रयोगवशाजायमानावृतिर्भ्रांति रूपैव जायते न तु भ्रांतेः प्राचीना इदमर्थमात्रगोचरा प्रमारूपा तत्र मानाभावादित्याशयेनाह | तत इति इदमर्थावछिन्न चैतन्ये विद्यमाना रजतपरिणामिन्य विद्या दुष्टेंद्रिय संप्रयोगरूपादध्यासनिमितकारणभूतात् क्षोभं कार्याभिमुख्यं प्राप्नोति | उतरक्षणे च रजतरूपेण परिणमते दुष्टेंद्रिय संप्रयोगाद्वृतिरपि तदैव जायते | तथा प्रतिबद्धात् दुष्टोंद्रिय संप्रयोगाद्भवंतीदमर्थगोचरवृतिः स्वकालोत्पन्नरजत प्. १९६ब्) विशिष्टेदमर्थं विषयी करोतीत्यर्थः | स्वपदं वृत्तिपरं धर्मिज्ञानपक्षे इदमाकारवृतिरविद्याक्षोभिका तदभावपक्षे धर्मिज्ञानहेतु संप्रयोगो विद्याक्षोभक इति विभाग इति स्थिते | तत्रांतिमपक्षो नषुक्तः | इदमर्थ संप्रयोगस्य इदमाकारवृताविवरजतगोचरवृतावहेतु त्वात् ज्ञानसमकालोत्यत्र रजतस्य ज्ञानात्पूर्वं चक्षुस्सन्निकर्षाभावाच्च | तथा च रजतगोचरवृतौ सामग्र्यभाव एव इदं वृतेर्धर्मिमात्रगोचरतां व्यवस्थापयतीत्याशंक्याह | तत्र चेति भ्रमस्थले इत्यर्थः प्रतिभासकालमात्रे विपरिवर्तिनी सता यस्य तत्प्रतिभासमात्रविपरिवर्तितस्मिन् प्रतीति व्याप्यमुताक इति यावत् | इदमर्थ संप्रयोगस्य रजतगोचरवृत्युत्पतावपि हेतुत्वं संभवति | न चान्यसंप्रयोगादन्यगोचरवृत्युपगमे घटेंद्रियसंयोगात् | पटगोचरवृत्यापतिरिति वाच्यं | स्वगोचरवृतौ स्वस्य स्वतादात्म्याश्रयस्य वा इंद्रियेण सहसंप्रयोगः कारणमिति कल्पना तावत्या उक्ताति प्रसंगपरिहारोपपतेरित्याशयेनाह | तत्प्राचीनेति | रजतप्रतिभासान्पाचीनेत्यर्थः | ततादात्म्येति | रजतस्येदमर्थे कल्पितत्वाद्रजततादात्म्याश्रयत्वमिदमर्थस्य पटतादात्म्याश्रयत्वं तु घटस्ति पटस्य तत्रा न ध्यस्तत्वादितिभावः | चक्षुः संप्रयोगानाश्रयस्यापि रजतस्य चाक्षुषवृतिविषयत्वकल्पने हेतुमाह | प्. १९७अ) चक्षुषेति | धर्मिज्ञानवादी चाक्षुषत्वानुभवस्यान्यथा सिद्धिं वदन् | धर्मींद्रियसंप्रयोगजन्यावृतिर्धर्मिमात्रगोचरेत्याशयेन शंकते | न चेति | तद्रजतमिदं वृतिसमकालं स त दुष्टेंद्रिय संप्रयागजन्येमपि न भवतीत्यत्र हेतुमाह | ज्ञानकारणस्येति | तथा च प्रातिभासिकरजतस्य ऐंद्रियकत्वपक्षे अन्यसंप्रयोगस्यान्यगोचरवृतिजनकत्वमेकं कल्पनीयं तथा ज्ञानकारणस्य सन्निकर्षस्य रजताद्यर्थोत्पतौकारणत्वमपरं कल्पनीयमिति गौरवमिति भावः || किं त्विदं वृत्यनंतरभावितज्जन्यं | तदभिव्यक्त साक्षिण्य ध्यासात् | तद्भास्यं चाक्षुषत्वानुभवस्तु स्वभासकचैतन्याभिव्यंजकेदं वृतिजनकत्वेन परंपरया चक्षुरपेक्षामात्रेणेति | तथा सतिपीतशंखभ्रमे चक्षुरनपेक्षाप्रसंगात् | न हि तत्र शंखग्रहणे चक्षुरपेक्षा रूपं विना केवल शंखस्य चक्षुर्ग्राह्यत्वायोगात् | नापि पीतिमग्रहणे आरोप्ये ऐंद्रियकत्वानभ्युपगमात् | न च पीतिमास्वरूपतो नाध्यस्यते किं तु नयनगतपितपीतिम्नोनुभूषमानस्य शंखे संसर्गमात्रमध्यस्यत इति पीति सानुभवार्थमेव चक्षुरपेक्षेति वाच्यं || प्. १९७ब्) परिसंप्रयोगो न रजताद्यर्थे कारणं तर्हि किं तत्र कारणमविद्यामात्रस्य सदा सत्वेन रजताद्यध्यासस्य कादाचित्कत्वप्रतीतस्य प्रयोजकत्वानुपपतेरिति शंक्यते | किं त्विति | उतरमाह | इदं वृत्यनंतरभावीति | इंद्रियसंप्रयोगादिदमर्थमात्रगोचरवृतिरुदेति | तयाचाध्यासंप्रतिनिमित्वकारणभूतयाक्षुब्धासती | अविद्यारजताकारेण परिणमते | रजतस्य च इदमाकारवृत्यभिव्यक्तमिदमर्थावछिन्न चैतन्यमधिष्टानं | तथा च रजतं स्वगोचरवृतिं विनैव चैतन्यभास्यमहंकारादि वदित्यर्थः | तज्जन्यमित्यत्र तदभिव्यक्त इत्यत्र च तत्पदमिदं वृतिपरं तद्वृतेश्च कादाचित् कत्वात् | रजताद्यध्यासस्य कादाचित्कत्वमितिभावः | तद्भास्यमिति साक्षिभास्यमित्यर्थः | न च बाह्यचैतन्यावभास्य शुक्तिरूप्यादेरहंकारादिवत् कथं साक्षिभास्यत्वमिति वाच्यं | स्वगोचरज्ञानरूपवृत्यनुपहित चैतन्यभास्यस्यैव साक्षिभास्य शब्दार्थत्वात् | तथा च यथा अविद्याहंकार तद्धर्माणामवभासकचैतन्यमविद्यादिगोचरया ज्ञानात्मकवृत्या उपहितं न भवति | एवं शुक्ति रजतादि भासकचैतन्यमपि शुक्तिरजतादि गोचरज्ञानात्मकवृत्युपहितं न भवतीति तस्य साक्षिभास्यत्वमुक्तमिति मंतव्यं | ननु शुक्ति रजतस्य साक्षिभास्यत्वे चाक्षुषत्वानुभवविरोध इति नेत्याह | चाक्षुषत्वानुभवस्त्विति प्. १९८अ) स्वंशुक्ति रजतं तद्भासकस्य इदमंशावछिन्नस्याभिव्यंजकामिदं वृतिस्तत्र चक्षुषो जनकत्वेन शुक्तिरजतस्य चक्षुरपेक्षावर्तते | साचापेक्षापरंपरयैव स्वाधिष्ठानगोचरवृत्यर्थमपेक्षितत्वान्नतु साक्षात्स्वगोचरवृत्यर्थमनपेक्षितत्वात् | यथा कथंचिच्चक्षुरपेक्षामात्रेण तत्र चाक्षुषत्वानुभव उपपद्यते इत्यक्षरार्थः | ननु चक्षुषारजतं पश्यामीत्यनुभवो हि रजतगतं चाक्षुषवृतिविषयत्वमवगाहतेन तु शुक्तिरजतगतं चाक्षुषवृत्यभिव्यक्तचैतन्यविषयत्वमिति वस्तुगतिः तथा च परंपरया चक्षुरपेक्षामात्रेणेति ग्रंथेन चाक्षुषत्वानुभवस्य चाक्षुषवृत्यभिव्यक्तचैतन्यविषयत्वं रजतयतं विषय इति तदनुभवस्य गतिः कल्पितेति प्रतिभाति | तदयुक्तं | शब्दवदनुभवस्य व्याख्यानानहंत्वादिति चेत् | न वस्तुत इदमर्थ गतस्येदं त्वस्य तत्रानुभूयमानस्य यथा शुक्तिरजते संसर्गारोपस्तथा इदमर्थगतस्य तत्रानुभूयमानस्य चाक्षुषत्वस्य शुक्तिरजतै संसर्गारोप इत्यस्यर्थस्य प्रकृते विवक्षितत्वात् | तथा च स्वस्मिन्नारोपणियं यच्चाक्षुषवृतिविषयत्वमिदमर्थगतं तल्लाभाय शुक्तिरजतस्य चक्षुरपेक्षा वर्तते इत्ययमर्थः परंपरया चक्षुरपेक्षामात्रेणेति ग्रंथस्य द्रष्टव्य इति न कश्चिद्दोषः | तथा सतिशंख तत्संसर्गयोरप्रत्यक्षत्व प्रसंगात् | नयनप्रदेशगतपितपीति माकारवृत्यभिव्यक्तसाक्ष्यसंसर्गेण तयोस्तद्भास्यत्वाभावात् | प्. १९८ब्) पीतिससंसृष्ट शंखगौचरैक वृत्यनभ्युपगमाच्च | न च नयनप्रदेशस्थस्य पितपीतिम्नोदोषाच्छंखे संसर्गाध्यासोनोपेयते किं तु नयनरश्मिभिः सहनिर्गतस्य विषयव्याअपिनस्तस्य तत्र संसर्गाध्यासः कुसंभारुणित इव कौसुंभ इति | संभवति | तदाकारवृत्यभिव्यक्तसाक्षिसंसर्ग इति वाच्यं || प्रातिभासिकरजतादेस्साक्षिभास्यत्वमेव न त्वैंद्रियकत्वमिति मतं दूषयति | तथा सतीति अधिष्ठानस्यैंद्रियकत्व लाभायैवेंद्रियापेक्षा नत्वारोप्यस्य | तदर्थमिंद्रियापेक्षेत्युपगमे सतीत्यर्थः | न हीति | इदं चापाततः पीतशंखभ्रमादि स्थलेप्यध्यास प्राचीनधर्मिगोचरचाक्षुषवृतेः प्रागुपपादि नत्वादिति मंतव्यं | नापिपीतिमग्रहण इति | चक्षुरपेक्षेत्यनुसंगः रूपं विना केवलशंखस्य चक्षुः ग्राह्यत्वायोगमुपेत्यारोपितस्य साक्षिभास्यत्ववादीशंकते | न च प्रीतिमेति | पीतरूपमित्यर्थः | यथा शुक्तौरजतं स्वरूपेणाध्यस्यते तथा शंखे पीतरूपं नाध्यस्यत इत्यर्थः | नयनगतं यत्पितं पीतरूपयुक्तद्रव्यविशेषस्तस्य यः पीतिमातस्य पितद्रव्य एवानुभूयमानस्य शंखे संसर्ग एवाध्यस्यते | यथा कुसुमादावनुभूयमानस्य लौहित्यस्य स्फटिकमण्यादौ संसर्गाध्यासस्तद्वत् | प्. १९९अ) न चान्यगतस्यान्यत्रारोपाभ्युपगममे अन्यथाख्याति प्रसंग इति वाच्यं | अध्यस्य मानसंसर्गस्यानिर्वचनीयस्योत्पत्युपगमेनान्यथा खाति वैलक्षण्य सत्वादितिभावः | पीति मानुभवार्थमेवेति | शंखे पीतरूपसंसर्गाध्यासात्प्राचीनो यः पितद्रव्ये पीतरूपानुभवस्तदर्थमित्यर्थः | तत्र किं नयनप्रदेशगत एव पितद्रव्येपीति मानुभवः | किं वा शंखदेशं प्राप्य तत्रस्थेपितद्रव्येपीतिमानुभवः आद्यं दूषयति | तथा सतीति | नयनगत एव पितद्रव्ये पीतरूपानुभवांगीकार इत्यर्थः | शंख तत्संसर्गयोरिति | शंखस्य शंखपीतरूपयोस्संसर्गस्य चेत्यर्थः | शंख तत्संसर्गयोर्भानं किं पितिमगोचरवृत्यभिव्यक्ते न साक्षिणा किं वापीति ससंसृष्टशंखगोचरवृत्यभिव्यक्तेन साक्षिणानाद्य इत्याह | नयनप्रदेश इति | नयनप्रदेशगतपितपीतिमाकारवृत्या तत्प्रदेशस्थपीतिमावछिन्नचैतन्यमभिव्यज्यते तेन चाभिव्यक्तचैतन्यलक्षणसाक्षिणा सह शंखस्य शंखे समारोपित पीतरूपसंसर्गस्य चासंबंधाच्छंख तत्संसर्गयोरापरोक्ष्यं न स्यादित्यर्थः | न द्वितीय इत्याह | पीतिमसंसृष्टेति | अनभ्युपगमाच्चेति | साक्षिभास्यत्ववादिनेतिशेषः | शंखदेशं प्राप्तेपितद्रव्ये पीतिमानुभव इति द्वितीयं शंकते | न चेति विषयव्यापिनस्तस्येति | शंखरूपमधिष्ठानं व्याप्तस्य पितद्रव्यस्येत्यर्थः | तथा च पितपीतिमाकारवृत्याशंखदेशस्थस्यैव चैतन्यस्याभिव्यक्त्याशंख तत्सं प्. १९९ब्) सर्गयोरापरोक्ष्यं संभवतीतिभावः कुसुंभस्तु द्रव्यविशेषः तद्याप्ते पटे यथा कुंसुभे अनुभूयमानस्य रक्तरूपस्य संसर्गारोपस्तथेत्यर्थः || तथा सति सुवर्णलिप्त इवपितोपहतनयतेन वीक्ष्यमाणे शंखे तदितरेषां पीतिमधीप्रसंगात् | न च सपीति मासमीपे गृहीत एव दूरे गृहीतुं शक्ये विहायस्युपर्युत्यतन् विहंगम इव इतरेषां च समीपेन ग्रहणमिति वाच्यं | इतरेषामपि तच्चक्षुर्निकटन्यस्त चक्षुषांपीतिमसामीप्यसत्वेन तद्ग्रहणस्य दुर्वारत्वात् | एवमप्यति यवलसिकतामषतलं प्रवहदछनदीजल नैल्याध्यासे गगननैल्याध्यासे च रक्तवस्त्रेषु निशि चंद्रिकायां नैल्याध्यासे चानुभूयमानारोपस्य वक्तुमशक्यत्वेन तत्र नैल्यसंसृष्टाधिष्ठानगोचर चाक्षुष वृत्यनभ्युपगमे चक्षुरनुपयोगस्य दुःपरिहरत्वाच्च अनास्वादिततिक्तरसस्य वालस्य मधुरे तिक्ततावभासो जन्मांतरानुभवसंस्कारहेतुक इति प्रतिपादयतां पचपादिकाग्रंथेन स्वरूपतोध्यस्य सान प्. २००अ) स्यैवतिक्तरसस्येंद्रियकत्व स्फुटीकरणाच्च || नयनगपितद्रव्यस्य नयने सर्वैरनुभूयमानस्य नयनरीश्मद्वारानिर्गत्यशंखव्यापित्वोपगमे बाधकमाह | तथा सतीति | पितोपहतनयनः पुरुषः यदा शंखं पश्यति तदा तदितरेषामपिपीतः शंख इत्यनुभवप्रसंगादित्यर्थः | ननु पितद्रव्यस्य नयनप्रदेशाद्विषयदेशं प्रतिगमनावसरे पथापितोपहत नयने नयनदेशमारभ्यविषयव्याप्तिपर्यंतं पीतिमागृह्यते तथान्यैरपि नयनसमीपे मध्ये च पीति मागहीतश्चेच्छंखदेशेपि गृहितुं शक्यते नान्यथेत्यत्र दृष्टांतमाह | विहायसीति | यथा विहंगमः पक्षीगने उत्पतन् उत्पतनावसरे भूप्रदेशमारभ्य येन पुंसागृह्यते तेनैव गगनोपरिभागे दूरंगतोपि गृह्यते नान्यैस्तथा प्रकृतेपीत्यर्थः | दृष्टांत वैषम्यमाह | इतरेषमपीति | दृष्टांते हि गगनोपरिभागे दूरे विहंगमं पश्यन् कश्चिदन्यं प्रत्युपदिशति | मम चक्षुर्निकटेत्वच्चक्षुर्न्यस्तं चेत् | त्वयापि स विहंगमो द्रष्टं शक्यत इति स चान्यस्तथा कृत्वा तं पश्यति न तथा प्रकृते संभवतीत्यर्थः | अस्तु वा अनुभूयमानरोपस्थले कथंचिच्चक्षुरपेक्षास्सर्यमाणनैल्याद्यध्यासस्थले तु तदपेक्षा सर्वात्मना वक्तुमशक्येत्याह | एवमपीति | जलाधारभून्नागे वा जलमिश्रितद्रव्यविशेषे वा यदि नीलरूपमस्ति | तदा तत्रैवानुभूयमान नैल्यस्य जले ध्यास इति शंकाभवे तन्निवर्तये सिकता प्. २००ब्) मयतलस्याति धवलत्वं नदीजलस्य चाछत्वं विशेषणमुपातं | अछत्वं निर्मलत्वं निशिरात्रौ चंद्रिकायामित्यस्यापि पूर्वोक्तमेव प्रयोजनं द्रष्टव्यं | दुष्परिहरत्वाच्चेति | अत्र पीतशंखजलनैल्याद्यध्यासेषु आरोप्यपीतिमनैल्यादि संसृष्टाधिष्टानगोचरचाक्षुषवृत्यनुपगमेपि चक्षुरनुपयोगो न दुष्परिहरः शंखादिधर्मिमात्रगोचर चाक्षुषवृतिसंभवस्य प्राग्दर्शितत्वादिति मंतव्यं | आरोप्यस्येंद्रियजन्यवृतिविषयत्वे सस्समतिमाह | अनास्वादितेति || अन्यथा तत्र रसनव्यापारापेक्षानुपपतेः तस्मादुदाहृत नैल्याध्यासस्थलेषुधिष्ठानसंप्रयोगादेव || अस्मिन् जन्मनि अनास्वादितः रसनेंद्रियेणाननुभूतस्तिक्तरसो येन वालेन स तथा तस्येत्यर्थः | मधुरेस्तनयानादौ तिक्ततावभासस्तिक्तता साक्षात्कारः स च जन्मांतरीयतिक्त रसानुभवजन्यसंस्कारजन्यः आरोपे आरोप्य सजातीय पूर्वानुभवजन्मसंस्कारस्य कारणत्वादित्यक्षरार्थः | अत्र ग्रंथे तिक्तत्वावभासस्य सस्कारसहकृतरसनेंद्रियजन्यत्वं भाति | तस्य संस्कारमात्रजन्यत्वे स्मृतित्व प्रसंगात् | तथा च तिक्तताध्यासाधिष्ठानस्य मधुरद्रव्यस्य रसनेंद्रियायोग्यतया प्. २०१अ) परिशेषात् स्वरूपतोध्यस्य मानस्य तिक्तरसस्यैव रसनेंद्रियजन्यवृतिविषयत्वं स्पष्टीकृतमिति भवति | समारोप्यस्यैंद्रियकत्वे संमतिरयं ग्रंथ इति भावः | अन्यथेतिः आरोप्य तिक्तरसस्येंद्रियकत्वानुपगमे तत्र बालस्य तिक्ततावभासस्थले रसनेंद्रियव्यापारो न स्यान् मधुरद्रव्यस्या तदयोग्यत्वादित्यर्थः | वस्तुतस्तु तिक्ततावभास इत्यत्रतिक्ततापदावभासपदयौः कर्मधारयः अवभासपदं चावभास्यत इति व्युत्पत्याध्यस्य मानतिक्त रसपरं पंचपादिकायामेवावभासपदस्यावभासमानतापदेन तथा व्याख्यातत्वात् | जन्मांतरीय संस्कारोपि अध्यस्य मानतिक्त रसोत्पतौ हेतुः | प्रातिभासिकाध्यासस्थलेषु दोषसंस्काराधिष्ठान सामान्यज्ञानरूपकारणत्रयस्याध्यस्य मानपदार्थोत्पतावेवकारणतायाः टीकाविवरणादिष्वेव स्पष्टत्वा तथा च कथमनेन ग्रंथेन स्वरूपतोध्यस्य मानस्यैव तिक्तरसस्यैंद्रियकत्वस्य स्पष्टीकरणं न च तिक्तरसयैंद्रियकत्वाभावे रसनव्यापारापेक्षानुपपतिरिति वाच्यं | वालस्यान्येषां वातिरसाध्यासकाले रसनेंद्रियव्यापारसत्वे माना भावात् | न च तथा सतितिक्ततानवभासप्रसंग इति वाच्यं | त्वगिंद्रियजन्यमधुरद्रव्यगोचरवृत्या अभिव्यक्ते मधुरद्रव्यावछिन्नचैतन्ये तिक्तताध्यासांगीकारेण तिक्ततायाः स्वगोचरवृतिं विनैव स्वाधिष्ठान चैतन्यभास्यत्व संभवात् | अस्तु वा तिक्रताध्यासस्थले रसनेंद्रियापेक्षा | तथापिताध्यस्यमानतिक्तरसस्येंद्रियकत्व प्. २०१ब्) सिद्धिरध्यस्य मानतिक्ततां प्रतिमधुरद्रव्यनिष्ट मधुररसस्याधिष्ठानत्वसंभवेन तदधिष्ठान भूतमधुररसग्रहणे तदपेक्षोपपतेः | पंचपादिकागतमधुरपदस्य मधुररससाधारणत्वेन तद्विरोधाभावाच्च | न च मधुररग्रहणे तिक्तताध्यासानुपपतिरिवाच्यं | रसग्रहणेपि दोषविशेषेण मधुररसत्वजातिसाक्षात्कारप्रतिबंधे सति तिक्ताध्यासोपपतेस्तस्मादारोप्यस्य साक्षिमात्रभास्यत्वं पूर्वांर्याणां सार्वत्रिकव्यवहारसिद्धन्निरपवादमिति मंतव्यमितः परंकविता किं कमतानुसारेण यत्पंचपादिका ग्रंथव्याख्यानं कृतं तदेवानुवर्त्यते | तस्मादिति | अध्यस्यमानपदार्थस्य साक्षिभास्यत्वमते पीतशंखाद्यध्यासेषु चक्षुरनुपयोगस्य दुष्परिहरत्वादित्यर्थः || तद्गोचर चाक्षुषवृतिसमकालोदयोध्यासस्तस्यावृतेर्विषय इति तस्य चाक्षुषत्व मध्युपगंतव्यं रूपं विना केवलाधिष्ठानगोचरवृत्यभावे च विषयचैतन्याभिव्यक्ता भावेन जल तदध्यस्त नैल्यादीनां तद्भास्यत्वायोगात् | तिक्तरसाध्यासस्थले त्वधिष्ठानाध्यासयोरेकेंद्रियग्राह्यत्वाभावात् त्वगिंद्रियजन्याधिष्ठानगोचरवृत्या तद प्. २०२अ) वछिन्नचैतन्याभिव्यक्तौ पितोपहतरसनसंप्रयोगादेव | तत्र तिक्तरसाध्यासस्तन्मात्रविषयरासवृतिश्च समकालमुदेती तिक्तरसस्य रासनत्वमप्यभ्युपगंतव्यं त्वगिंद्रियजन्याधिष्ठानगोचरवृत्यभिव्यक्तचैतन्यभास्ये तिक्तरसे परंपरयापि रसनोपयोगाभावेन तत्र कथमपि प्रकारांतरेण रासनत्वानुभवसमर्थनासंभवात् | तथैव रजतस्यापि चाक्षुषत्वोपपतेः पश्यामीत्युनुभवो न वाधनीयः || तद्गोचरेति | अधिष्ठानगोचरेत्यर्थः | वृतिसमकालमुदयो यस्याध्यासस्य पीतरूपादेस्स तथेत्यर्थः | अधिष्ठानसंप्रयोगजन्यावृतेरारोपित रूपादिविशिष्टशंखादिविषयत्वावंगीकारे आरोपितरूपादेरनवभासप्रसंग इत्यर्थः | रूपं विना केवलाधिष्ठानगोचरवृत्यभावे चेति | आरोप्यपीति मनैल्यादि संसृष्टशंखादिगोचरवृत्यनभ्युगमे चेति च कारार्थः | तत्पदं चैतन्यपरं पंचपादिकाग्रंथोक्तं तिक्तरसस्याध्यस्य मानस्यैंद्रियकत्वं चाक्षुषाध्यासस्थले इवा अधिष्ठानारोप्ययोरेकवृतिविषयत्वेन भवति | किं तु तिक्तरसमात्रगोचररासनवृत्येत्युपपादयति | तिक्तरसाध्यासस्याले त्विति | तदवछिन्नेति | मधुरादि द्रव्यरूपाधिष्ठानावछिन्न प्. २०२ब्) इत्यर्थः | पिताख्यदोषेण उपहतं यद्रसनं तेन सह मधुरद्रव्यरूपाधिष्ठानस्य संप्रयोगात् तत्राधिष्ठानावछिन्नचैतन्ये तिक्तरसाध्यास उदेति तदैवाध्यस्यमानतिक्तरसमात्रगोचररासनवृतिश्च उदेतीत्यर्थः | ननु तिक्तरसाध्यासाधिष्ठानस्य भानंरासनं तिक्तरसभानं तु केवलसाक्षिरूपमिति मतमेव कुतोनाद्रियते तत्राह | त्वगिंद्रियेति | चैतन्यभास्ये तिक्तरस इति | अभ्युपगम्यमान इति शेषः परंपरयापीति | रजताद्यध्यासस्थले इव धर्मिमात्रगोचरवृत्युत्पादनद्वारापीत्यर्थः | धर्मिणो मधुरद्रव्यादेः रसनेंद्रिया योग्यत्वादितिभावः | तत्र तिक्ततारूपे अध्यासे कथमपीत्यस्य व्याख्या प्रकारांतरेणेति | यद्यपि स्वप्नकाले केवलसाक्षिभास्येषु रसरूपादिषुरासनत्वचाक्षुषत्वाद्यनुभवस्यारोपरूपताया वक्ष्यमाणत्वेन प्रकृतेपि तथा समर्थनं संभवति स्वप्नपदार्थानामिव प्रातिभासिक तिक्तरसादेरपींद्रियासन्निकृष्टत्वेन सामग्र्यभावस्य तुल्यत्वा तथापि तं प्रकारमजानता तत्र कथमपीत्याद्युक्तमिति ध्येयं | तथैवेति | यथा रासनवृतिविषयत्वमादाय रासनत्वानुभवस्समर्थितस्तथा चाक्षुषवृतिविषयत्वमादायैव चाक्षुषत्वानुभवसंभवे तदनुभवस्यारोपरूपत्वकल्पनमयुक्तमित्यर्थः || न चासंप्रयुक्तस्य रजतस्य चाक्षुषत्वे प्रत्यक्ष प्. २०३अ) मात्रे विषयेंद्रिय सन्निकर्षः कारणं द्रव्यप्रत्यक्षे तत्संयोगः कारणं रजतप्रत्यक्षे रजतसंयोगः कारणमिति गृहीतानेककार्यकारणनियमभंगः स्यादिति वाच्यं | सन्निकर्षत्वस्य संयोगाद्यनुगतस्यैकस्याभावेनाद्यनियमासिद्धेः | द्वितीयनियमस्य नैयापिकरीत्यातमसीव संयोगायोग्ये क्वचिदद्रव्येपि द्रव्यत्वाध्याससंभवाद्व्यवहारदृष्ट्या यद्द्रव्यत्वाधिकरणं तद्विषयत्वेन प्रातिभासिक रजते द्रव्यत्वस्याधिष्ठान गतस्यैवेदत्व वदध्यासात् प्रतीत्यभ्युपगमेन च द्वितीयनियमाविरोधात् | द्वितीयनियमरूपसामान्यकार्यकारणभावव्यतिरेकेण विशिष्यापि कार्यकारणभावकल्पनायोगौरवपराहतत्वेन तृतीयनियमासिद्धेः || न बाधनीय इत्ययुक्तं बाधके सति तद्बाधस्यावश्यकत्वादिति मत्वाशंकते | न चेति | शंकितं बाधकं परिहरति | सन्निकर्षत्वस्येत्यादिना | आद्यनियमासिद्धेरिति जन्यप्रत्यक्षमात्रे इंद्रिय सन्निकर्षः कारणमिति नियमासिद्धेरित्यर्थः | जन्यपदं नित्यसाक्षिरूपे प्रत्यक्षे व्यभिचारवारणार्थः | शाब्दापरोक्षमते शाब्दभिन्नत्वमपि प्रत्यक्षविषणं द्रष्टव्यं | अत्रेदं बोध्यं | संयोगाद्यन्यतमत्व प्. २०३ब्) मनुगतमस्ति न्यायमते अभावत्वादि वदखंडोपाधिरूपं वा सन्निकर्षत्वं संभवतीत्याद्यनियमविरोधोदुर्वार इति | आद्यतियमस्यासिद्धत्वमुक्ताजन्यद्रव्यप्रत्यक्षे इंद्रियसंयोगः कारणमिति द्वितीयमुपेत्यप्रकृतेनस्याविरोधमाह | द्वितीय नियमस्येति | द्वितीय निमस्य व्यवहारदृष्ट्यायद्द्रव्यत्वाधिकरण तद्विषयत्वेन द्वितीयनियमाविरोधादिति संबंधः नियमस्य व्यावहारिकद्रव्यविषयत्वकल्पनायां नियामकमाह | संयोगायोग्ये क्वचिदिति | एकत्वद्वित्वादावित्यर्थः | एकत्वमेकमित्यादिप्रकारेण तत्रापि संख्याश्रयत्वभ्रमेण द्रव्यत्वाध्याससंभवादित्यर्थस्तथा च द्रव्यप्रत्यक्षमात्रे इंद्रियसंयोगस्य कारणत्व नियमस्य एकत्वादौ द्रव्यत्वाध्यासकाले तत्प्रत्यक्षे व्यभिचार इत्यर्थः | अद्रव्ये द्रव्यत्वारोपे दृष्टांतमाह | तमसीवेति | सिद्धांते तस्य द्रव्यत्वाभ्युपगमादाह | नैययापिकरीत्येति | प्रौढालोकाभावस्तम इति नैयायिकैरुक्तरीत्येत्यर्थः | गुणाश्रयत्वं द्रव्यलक्षणमिति जानतां तमसिरूपवत्व भ्रमेण द्रव्यत्व भ्रमस्संभवतीत्यर्थः | ननु शुक्तिरजतादौ घटादाविव स्वभावत एव द्रव्यत्वमस्ति अन्यथारजतत्वादि जातिरपि तत्र न स्यान्न चेष्टापतिरुतरत्ररजतंत्वादि जातेस्साधपिष्यमाणत्वात् | ततश्च शुक्तिरजतादिकमपि व्यवहारदृष्ट्याद्रव्यत्वाधिकरणं भवति | व्यवहारदर्शांयां शुक्तौ रजतवाधवच्छुक्तिरजते द्रव्यत्वरजतत्वादि जातिवाधादर्शना तथा च शुक्तिरजतादेरिंद्रियासंयुक्तस्य ऐंद्रियकवृतिविषयत्वोपगमे द्वितीय प्. २०४अ) नियमविरोधोपि दुर्वार इति चेत्सत्यं शुक्तिरजतादौ रजतत्व द्रव्यत्वादि जातिर्नास्तीति मतमनुसृत्य तत्र द्रव्यत्वप्रतीतिं घटयति | प्रातिभासिकरजत इति | इदमर्थगतेदं त्वस्येव तद्गतद्रव्यत्वस्यापि तत्र संसर्गारोप इत्यर्थः | तथा च शुक्तिरजतं व्यवहारदृष्ट्याद्रव्यत्वाधिकरणं न भवतीतिभावः | यत्सामान्ये यत्सामान्यं हेतुस्तद्विशेषे तद्विशेषो हेतुरिति न्यायस्यापि यत्र वीजांकुरादौ सामान्यकार्यकारणभावाभ्युपगमे वीजांतरादंकुरांतरोत्यत्यादिप्रसंगः | तद्विषयत्वेन ततो जागलस्तनायमान विशेषकार्यकारणभावासिद्धेः न वात्रापि द्रव्यप्रत्यक्षे द्रव्यसंयोगः कारणमिति सामान्यनियमोपगमेऽन्यसंयोगादन्यद्रव्यप्रत्यक्षापतिरिति प्रसंगोस्तीति वाच्यं | तद्द्रव्यप्रक्षे तत् द्रव्यसंयोगः कारणमिति नियमाभ्युपगमात् | अन्यथा तृतीयनियमेप्यति प्रसंगस्य दुर्वारत्वात् | तस्मान्नास्तिकॢप्तनियममंगः किं चात्र कॢप्तनियमभंगेपि न दोष इदं रजतं पश्यामि नीलं जलं पश्यामीत्यादेरनन्यथा सिद्धस्यानुभवस्य प्रथमगृहीतानामपि प्रत्यक्षमात्रे विषयसन्निकर्षः कारणमित्यादि प्. २०४ब्) नियमानां व्यावहारिकविषये संकोच कल्पनमंतरेणोपपादनासंभवात् || ननु द्रव्यप्रत्यक्षे इंद्रियसंयोगः कारणमित्युपगमे रजतचाक्षुषे रजत चक्षुः संप्रयोगः कारणमिति तृतीयनियमोपि दुर्वारः रजतस्य द्रव्यविशेषत्वात् | रजतचक्षुः संयोगस्य चेंद्रियसंयोगविशेषत्वाद्द्रव्यविशेषप्रत्यक्षे इंद्रियसंयोगविशेषः कारणमित्यस्यार्थस्य यत्सामान्यन्यायससिद्धत्वादिति शंकां परिहरति | यत्सामान्य इति | सामान्यकार्यकारणभावौ | यत्राति प्रसंगावहस्तत्रैवायं न्यायोनान्यत्रेत्यर्थः | न्यायस्य तद्विषयत्वेनेति संबंधः | तत् इति न्यायादित्यर्थः | ननु बीजसामान्यस्यांकुर सामान्यस्य च कार्यकारणभावोपगमे बीजांतरादंकुरांतरोत्पति प्रसंगवदिहाप्यति प्रसंगसत्वादुक्तन्यायप्रवृतिरस्त्येवेति शंकते | न चात्रापीति | उक्ताति प्रसंगपरिहराय तत्तदंकुरव्यक्तिं प्रति ततद्बीजव्यक्तेरुक्तन्यायेन हेतुत्वकल्पनावत्प्रकृतेपि ततद्द्रव्यप्रत्यक्षं प्रति तत्तद्द्रव्यसंयोगस्यैव तेन न्यायेन कारणत्वं सिध्यति | न तु तेन न्यायेन तृतीयकार्यकारणभावस्सिध्यतीत्याशयेनाह | तत् द्रव्येति | ननु तेन न्यायेनाति प्रसंगपरिहाराय तृतीयनियम एव कुतो न कल्प्यते | तत्राह अन्यथेति | तृतीयनियमकल्पन इत्यर्थः | अति प्रसंगस्येति अन्यरजतचक्षुस्संयोगात् | अन्यरजतचाक्षूषा प्. २०५अ) पतिरित्येवं रूपस्येत्यर्थः | न च व्यक्तिनियमवत् तृतीयनियमोप्यस्त्विति वाच्यं | अतिप्रसंगपरिहारानुपयुक्तस्य तस्याजागलस्तनायमानस्याकल्पनीयताया उक्तत्वादिति भावः | तस्मादिति | प्रथमतृतीयनियमयोरसिद्धत्वात् द्वितीयनियमस्य चाविरुद्धत्वादित्यर्थः | ननु प्रथमद्वितीयनियमविरोधस्य दुर्वारतायाः प्रागुक्तत्वातदंतःपातिव्यक्तिनियमविरोधस्यापि दुर्वारत्वाच्च नास्ति कॢप्तनियमभंग इत्ययुक्तमत आह | किं चात्रेति | शुक्तिरजतादिस्थाल इत्यर्थः | अनन्यथा सिधस्येति | स्वप्नकाले केवलसाक्षिभास्येषु रजतादिषु चाक्षुषत्वाद्यनुभवस्येवात्रापि आरोपरूपत्व कल्पनासंभवात् | अनन्यथा सिद्धत्व सिद्धः कॢप्तमामग्र्यभावस्य स्वप्न इवात्रापि तल्पत्वादन्यथा स्वप्नेपींद्रिय व्यापारकल्पनाप्रसंगादनुभवविरोधे सति तत्काले तदुपरमश्रवणस्यान्यथा नयनोपपतेरित्यादिकमत्रानुसंधेयं | अनुभवस्योपपादनासंभवादिति संबंधः || न चैवं सतिप्रमायां सन्निकर्षः कारणं न भ्रम इत्यपि संकोच कल्पनासंभवादसंनिकृष्टस्यैव देशांतरस्थस्यैव रजतस्ये हारोपापतिरित्यन्यथाख्यातिः पादप्रसारिका अभिव्यक्तचैतन्यावषुंटन शून्यस्य देशांतरस्थ रजतस्यापरोक्ष्यानुपपतेः ख्यातिबाधानुपपत्यादिभिर्भ्रमविषयस्यानिर्वचनीयत्व सिद्धेश्च प्. २०५ब्) न चाधिष्ठानसंप्रयोगमात्रात्प्रातिमासिकस्यैंद्रियकत्वोपगमे शुक्तिरजताध्याससमये तत्रैव कालांतरे ध्यसनीयस्य रंगस्यापि चाक्षुषत्वं कुतो न स्यादिति वाच्यं || कॢप्तनियमानां संकोच कल्पने सति शुक्तिरजतादेरनिर्वचनीयत्वासिद्धिं शंकते | न चैवं सतीति देशांतरस्थं रजतादिकं भ्रमविषयमिति न्यायमतं तत्रासंनिकृष्टस्य कथं प्रत्यक्षत्वमित्यनिर्वचनीयख्यातिवादिभिः शंकायां कृतायां सन्निकर्षः प्रत्यक्षे कारणमित्यादिति यमस्य भवतां मते व्यावहारिक पदार्थप्रत्यक्षविषयत्वेन संकोचवन्मममतेपि तस्य प्रत्यक्षप्रमायां सन्निकर्षः कारणमिति प्रत्यक्षप्रमाविषयत्वेन संकोचकल्पनोपपतेरन्यथाख्याति वादस्य न किचिद्बाधकमिति परिहारस्सु वचः परेषामित्यर्थः | भ्रमरूपे प्रत्यक्षे सन्निकर्षस्या हेतुत्वेपि नान्यथाख्याति वादप्रसक्तिरिति परिहरति अभिव्यक्तेति अर्थस्यापरोक्षत इंद्रियसन्निकृष्टत्वं न प्रयोजकं किं त्वभिव्यक्तचैतन्याभिन्नत्वमिति वक्ष्यते | तथा च भ्रमविषयस्य रजतादेर्देशांतरस्थत्वे आपरोक्ष्यं न संभवतीति | शुक्ति तादात्म्यांपन्नं रजतं सिध्यतीत्यर्थः | अवज्जंटनं तादात्म्यं नन्वेवमपि शुक्तिरजतं शुक्तिवत्सत्यमेवस्यान्नानिर्वचनीयं मानाभावादित्यत आह प्. २०६अ) ख्यातीति ख्यातिरपरोक्षप्रतीतिस्तथा च भ्रमविषयस्य देशांतरस्थत्वमसत्वं च निरस्तं भवति | असतस्संवित् | तादात्म्याभावेन प्रत्यक्षायोगात् | शुक्तौ कालत्रयेपि रजतनास्तीत्य बाधितबाधकप्रत्यक्षबलाद्रजनस्थिति समयेपि शुक्तौरजताभावः सिध्यति शुक्तौ यदि रजतं न स्यातदाख्यात्यनुपपतिर्यदि तत्र तत्सत्यं स्या तदा शुक्तौ शुक्तित्वमिव न बाध्येतातः ख्याति बाधानुपपत्या तस्यानिर्वचनीयत्वं सिध्यति | शुक्तिरजतस्य उत्पति विनाशवत्वादनिर्वचनीयत्वसिद्धिरेतच्च विवर्तलक्षणनिरूपणावसरे प्रपंचितमिति नात्र प्रपंच्यते | उत्पतिमत्वादि युक्तिरादिशब्दार्थः | शुक्तिरजतादेस्साक्षिभास्यत्व वादीशुक्तिरजतस्य स्वतादात्म्याश्रयेदमर्थ संप्रयोगादेव चाक्षुषवृतिविषयत्वेति स प्रसंग इति शंकते न चेति तत्रैवेति | शुक्तावेव कालांतरे यदध्यसनीयं तस्येत्यर्थः | कुत इति | यावृतिः शुक्तिरजतं विषयी करोति सैववृतिः शुक्तौकालांतरे ध्यसतीयं रंगमपि कुतो न विषयी करोति तस्यावृतेः रजत तादात्म्याश्रयेदमर्थ संप्रयोगजन्यत्वस्यैवकालांतरीयरंगतादात्म्याश्रयेदमर्थ- संप्रयोगजन्यत्वस्याप्यविशेषादित्यर्थः | तथा च संप्रयोगो न रजतगोचरवृतिहेतुः | किं तु सादृश्यं विशिष्टधर्मिज्ञान एव हेतुः सादृश्यज्ञानं च दोषत्वेन धर्मिज्ञानत्वेन च रजताद्यध्यासे कारणं रजतादिकं च स्वगोचरवृतिं विनैव चैतन्यभास्यमिति मतमुपेयमितिभावः || प्. २०६ब्) रजताध्याससमये रंगरजतसाधारणचाकचिक्यदर्शनाविशेषेपि | यतो रागादिरूपपुरुषदोषाभावादितस्तत्र तदानरंगाध्यासस्तत एवमयापि तद्विषयवृत्यनुदयस्याप्युपगमात् | तस्मादिदमंश संभिन्नरजतगोचरा एकैववृतिरिंद्रियजन्या न ततः प्रागिदमाकारावृतिरिति | नात्रैवेयमज्ञाननिवर्तकत्व सदसद्भाव चिंताकार्ययेति अन्येत्वधिष्ठानज्ञानमध्यासकारणमितीदमाकारां वृतिमुपेत्यतदभिव्यक्तेनैवसाक्षिणा तदध्यस्तरजतस्यावभाससंभवातद्भासकसाक्ष्यभिव्यंजकया तयैवेदं वृत्यारजतविषयसंस्काराधानोपपतेश्च रजताकारावृतिर्व्यर्थेति मन्यते | ज्ञानद्वयपक्षे इदमित्येकावृतिरध्यासकारणीभूता | इदं रजतमिति द्वितीयां वृतिरध्यस्तरजतविषयानत्विदमंशं विनाध्यस्तमात्रगोचरासा || तवमतेपि शुक्तौक्यालांतरे अध्यसनीयस्य रंगस्य रजताध्याससमय एवाध्यासः किं न स्यादधिष्ठानस्य सादृश्यज्ञानस्य च रजतंरमाध्यास साधारणत्वादिति दोषतौल्यं सूचयति | रजताध्याससमय इति प्. २०७अ) यदि च दृश्यमानसादृश्यरूपविषयदोषाविशेषेपि रजताध्याससमये रंरागोचररागात्मकपुरुषदोषस्याभावाद्रजतरागस्य सत्वाच्च न रंगाध्यास इति परिहार इष्यते | तदा ममापि तुल्यमुतरमित्याशयेनाह | यत इति | रागादिरूपायेः पुरुषदोषस्तदभावादेस्सकाशादित्यर्थः | रागादीत्यादि पदेन रंगस्य बुद्धौविपरिवर्तनं गृह्यते दोषाभावादीत्यादि पदेन रजतरागो गृह्यते | तत एवेति | रंगगोचररागादरभावाद्रजतरागसत्वादन्यस्याद्वाकारणात् | रजतस्यैव तत्रौत्पतिस्तत्काले रजतविशिष्टधर्मि गोचरवृतेरुदयश्चोपेयत इत्यर्थः | कवितार्तिकमतसुय संहरति | तस्मारिति | धर्मिज्ञानस्य कारणत्वे मानाभावादित्यर्थः | नात्रेत् | इदमाकारवृतावित्यर्थः | धर्मिज्ञानस्य कारणत्वे मानाभाववचनमाया तत इत्युपपादितं तत्र तत्र तदेतदभिसंध्ययतस्य तत्कारणत्वमतमेवाह | अन्ये त्वधिष्ठानज्ञानमिति | इदमाकारवृतिपक्षेपि रजतगोचरवृतिरंगीकर्तव्येति केचितं मतं दूषयति | इदमाकारामिति | अन्ये त्विदमाकारां वृतिमुपेत्यरजताकारावृतिर्व्यर्थेति संबंधः | इदमाकारवृत्युपगमे हेतुरधिष्ठानज्ञानमध्यासकारणमितीति | इति शब्दो हेत्वर्थः | धमज्ञानस्याध्यासकारणत्वादित्यर्थः | इदमाकारवृति व्यतिरिक्तारजताकारवृतिः किं रजतभानार्था किं वा तत्संस्कारार्थामाद्य इत्याह | तदभिव्यक्ते नैवेति | इदमाकारवृत्यभिव्यक्तेनैवेत्यर्थः | द्वितीयं दूषयति | तद्भासकेति | न चान्यगोचरवृत्या कथमन्यगोचरसंस्काराधानमिति प्. २०७ब्) वाच्यं | यद्धृत्यवछिन्नचैतन्येयावंतः | पदार्थाः प्रकाशंते तयैव वृत्या तावत्सु पदार्थेषु संस्काराधानमिति | प्रागुक्तत्वादिति भावः | ये तु स्वगोचरवृत्यैव स्वगोचरसंस्काराधानमिति मन्यंते | तेषां मते अध्यस्त रजतगोचरवृतिरप्यस्ति | तत्र किं द्वितीयावृतिरध्यस्तरजतविशिष्टधर्मिगोचरा किं वा रजतमात्रगोचरेति संशये मत द्वयेन निर्णयं दर्शयति | ज्ञानद्वयपक्ष इत्यादिना | द्वितीयवृतिरिदं रजतमित्येवमाकारासती अध्यस्तरजतविषयेति संबंधः | आकारविशेषोपादानफलमाह | नन्विति || इदं रजतं जानामीति तस्या इदमर्थ तादात्म्यापन्नरजतविषयत्वानुभवादिति केचित् | अन्ये तु यथेदमंशावछिन्न चैतन्यस्थाः विद्यारजताकारेण विवर्तते | एवमिदमंश विषयवृतिज्ञानावछिन्न चैतन्यस्थाविद्यारजतज्ञानाभासाकारेण विवर्ततेन त्विदमंशवृतिवदनध्यस्तं रजतज्ञानमस्ति | तथा च रजतस्याधिष्ठानगतेदं त्वसंसर्गभानवत्वत् | ज्ञानस्याप्यधिष्ठानगतेदं विषयत्वसंसर्गभानोपपतेर्न तस्यापि प्. २०८अ) तद्विषयत्वं वक्तव्यमिति वाच्यं | स्वतादात्म्याश्रयस्येदं त्वविषयत्वादेव तस्य तत्संसर्गविषयत्वेति प्रसंगाभावात् | न चाधिष्ठानाध्यासयोरेकस्मिन् ज्ञाने प्रकाशनियमस्य संभावना भाष्यविवरणे प्रतिपादनात् | एकवृतिविषयत्वं वक्तव्यमिति वाच्यं वृतिभेदेपीदमाकारवृत्यभिव्यक्ते एकस्मिन् साक्षिणि तयोः प्रकाशोपममादित्याहुः || द्वितीयवृतेर्विशिष्टविषयकत्वे अनुभवं प्रमाणयति | इदं रजतं जानामीति | द्वितीयवृतेरध्यस्तमात्रविषयकत्वमिति मतमाह | अन्ये त्विति | ज्ञानद्वयपक्षे द्वितीयवृतिरविद्यावृतिरिति प्रतिपादयति यथोत्पादिना | विवर्तते परिणमत इत्यर्थः | एवमिति | इदमंशविषयं यद्वृतिज्ञानं तदवछिन्नेत्यर्थः | इदमाकारवृत्यवछिन्नचैतन्यगता विद्या अध्यस्तरजतमात्रगोचरवृतिरूपेण परिणमते सा च वृतिर्ज्ञानाभासः कॢप्तज्ञानकारणाजन्यत्वादित्यर्थः | अनभ्यस्तमिति | ज्ञानाभासरूपं रजतज्ञानं रजतवप्रातिभासिकमेव न त्विदमाकारवृतिवद्व्यावहारिकं | ज्ञानाभासस्यापि शुक्तिरजतवदेवशुक्त्यज्ञाननिवर्तक प्रत्यक्ष बाध्यत्वादित्यर्थः | ज्ञानाभासस्य रजतमात्रविषयकत्वे तस्य इदं रजतमित्याकारो न स्यादित्याशंक्याज्ञानाभासस्य इदमंशविषयकत्वाभावेपि प्. २०८ब्) तस्य तदाकारस्संभवतीत्याशयेनाह | तथा चेति | ज्ञानाभासंप्रति इदं विषयकवृत्यवछिन्न चैतन्यस्याधिष्ठानत्वे सतीत्यर्थः | इदमंशज्ञाने ज्ञानाभासं प्रत्यधिष्ठानभूते विद्यमानं यदिदं त्व विषयकत्वं तत्संसर्गो रजतगोचरज्ञानो भासते तत्र दृष्टांतमाह | रजतस्येति | रजताधिष्ठानगतस्येदं त्वस्य संसर्गो यथा रजते भासते तथेत्यर्थः | ननु ज्ञानाभासेन रजते गृह्यमाणे इदं त्वसंसर्गो गृह्यते चेदिदं त्वमपि तेनावश्यं ग्रासं इदं त्वग्रहणं विना तत्संसर्गग्रहणायोगात् | तथा च ज्ञानाभासस्य रजत विशिष्टेदमंशविषयकत्व सिद्धिरिति शंकते | न चेति | संसर्गांशस्य रजतज्ञानाभासगोचरत्वे हेतुर्गर्भविशेषणमध्यस्तस्येति | वक्तव्यमिति | अन्यथा घटत्वादि निरूपित संसर्गप्रत्यक्षस्य घटत्वादि विषयकत्वं न स्यादित्यति प्रसंगायतेरितिभावः | ज्ञानाभासस्य इदं त्वरूप प्रतियोगिविषयकत्वाभावेपि ज्ञानाभासं प्रत्यधिष्ठानतया ज्ञानाभासतादात्म्यापन्नस्य इदमंशज्ञानस्य प्रतियोगिविषयक त्वात् | ज्ञानाभासस्य संसर्गविषयकत्वात् | ज्ञानाभासस्य संसर्गविषयकत्वं संभवति | तावतैव उक्ताति प्रसंगपरिहारोपपतेरिति परिहरति | स्वतादात्म्याश्रयस्येति स्वषदं ज्ञानाभासपरंवृतिभेदेपीति | अध्यस्तमात्रगोचराविद्यावृतेर्विवरणाकारैरेवाभ्युपगमा तदुक्त नियमे ज्ञानपदं साक्षि परमे वनवृति परमिति विवरणाकाराणामाशयो लक्ष्यत इति भावः || प्. २०९अ) ननु सर्वपदार्थानां साक्षि प्रसादादेव प्रकाशोपपतेः | किं वृत्याघटादिविषयसंस्काराधानाद्युपपते ये तदपेक्षणेपि तन्निर्गमाभ्युपगमोव्यर्थः | परोक्षस्थल इवानिर्गतवृत्यवछिन्न साक्षिणैव घटादैरपि प्रकाशोपपतेः | न च तथा सति परोक्षापरोक्ष वैलक्षिण्यानुपपतिः | शाब्दानुमित्योरिवकरणविशेषप्रयुक्तवृतिवैजात्यादेव तदुपपतेः | अत्र केचिदाहुः | प्रत्यक्षस्थले विषयाधिष्ठानतया तदवछिन्नमेव चैतन्यं विषयप्रकाशः साक्षातादात्म्यरूपसंबंध संभवे स्वरूपसंबंधस्यान्यस्य वा कल्पना योगादिति तदभिव्यक्त्यर्थं युक्तो वृति निर्गभाभ्युपगमः परोक्षस्थले || एवं बाह्यगोचरापरोक्षवृतीनामेवावरणाभिभावकत्वमिति नियमस्य भ्रमस्थलीयेदमाकारवृतौ व्यभिचारशंकायां सत्यां तद्वृत्यभ्युगमानभ्युपगमाभ्यांतापरिहृत्यप्रसंगात् ज्ञानद्वयपक्षे किचिद्विचार्य पूर्वोक्तवृतितिर्गममाक्षिपति | नन्विति | किं वृत्येति | वृतिरेवमास्तु तन्निर्गमो दूरापास्त एवेत्याशयः | ननु केवलसाक्षिण एव विषयानुभवरूपत्वे कालांतरे विषयानुसंधानं प्. २०९ब्) न स्यादनुभवनाशलक्षणसंस्काराभावा तथा आगंतुक वृत्यनंगीकारे चक्षुराद्यनुविधानं न स्यान्नित्यसाक्षिणि चक्षुरादेरनुपयोगादतो वृतिरादर्तव्येत्याशंक्यतामंगी करोति | घटादीति | ननु विषयप्रकाश एव तन्निर्गमफलमिति नेत्याह | परोक्षस्थल इवेति | ननु प्रत्यक्षपरोक्षज्ञानयोर्वैलक्षिण्यमनुभवसिद्धं | तच्च प्रत्यक्षस्थले वृतिनिर्गमाभ्युपगमे निर्वहतिः | वहिर्निर्गतवृत्यवछिन्नचैतन्यमऽपरोक्षजतानमनिर्गत वृत्यवछिन्नचैतन्यं परोक्षज्ञानमिति नेत्याह | न च तथा सतीत्यादिना | वृत्यनिर्गमनेऽसतीत्यर्थः | इंद्रियजन्यज्ञानं प्रत्यक्षं तदन्यं ज्ञानं परोक्षमिति वैलक्षण्योपपतेरित्यर्थः | यथाशाब्दज्ञाने शब्दरूपकरणविशेषप्रयुक्तं शाब्दत्वरूपं वै जात्यं यथा वा अनुभितावनुमितावनुमिति त्वं तथेत्यर्थः | करणविशेषः इंद्रियमनुमानादि च | तत्प्रयुक्तं वृतिषु वै जात्यं प्रत्यक्षत्वादितरूपमुपाधिरूपमुपाधिरूपं वा तस्मादेवेत्यर्थः | वृतिनिर्गमं साधयति | अत्र केचिदाहुरिति | विषयाधिष्ठानतया विषयावछिन्नं यच्चैतन्यं तदेवविषयप्रकाशः न जीवचैतन्यं तस्य विषयं प्रत्युपादानत्वाभावेन साक्षात् तादात्म्य संबंधाभावादित्यर्थः | अन्यस्यवेति | परंपरासंबंधस्य वेत्यर्थः | तादात्म्यरूपसंबंधसंभवे स्वरूपसंबंधकल्पना योगात् | साक्षात्संबंधसंभवे अन्यस्य संबंधस्य कल्पना योगादिति विभागः | ततः किं तत्राह | इति तदभिव्यक्त्यर्थमिति | प्. २१०अ) विषयावछिन्न ब्रह्मचैतन्यस्यैव विषयप्रकाशकत्वा तस्य च आवृतत्वादावरणाभिभवरूपाभिव्यक्ति सिद्ध्यर्थमित्यर्थः | ननूक्त युक्त्यापरोक्षस्थलेपि विषयावछिन्न ब्रह्मचैतन्यमेव विषयावभासकस्या ततश्च तत्रापि तन्निर्गमः प्रसज्येतेति नेत्याह | परोक्षस्थल इति || व्यवहिते वह्न्यादौ वृतिसंसर्गायोगादिंद्रियवदन्वयव्यतिरेक शालिनो वृतिनिर्गमद्वारस्यानुपलंभाच्चानिर्गतवृत्यवछिन्नचैतन्यमेव स्वरूपसंबंधेन विषयगोचरमगत्याभ्युपगम्यत इति | अन्ये त्वहंकार सुखदुःखादिष्वापरोक्ष्यं साक्षाच्चैतन्यसंसर्गिषु कॢप्तग्निति घटादावपि विषयसंसृष्टमेव चैतन्यमापरोक्ष्य हेतुरिति तदभिव्यक्तये वृतिनिर्गमं समर्थयंते | इतरे तु शब्दानुभानावगतेभ्यः प्रत्यक्षावगते स्पष्टतानावदनुभूयते | न हि रसालपरिपलादिविशेषे शतवारमाप्तोपदिष्टेपि प्रत्यक्षावगत इव स्पष्टतीस्ति तदनंतरमपि कथं तदिति जिज्ञासानुवृतेः न च शब्दान्माधुर्यादिमात्रावगमेपि रसालमाधुर्यादिवृत्यवांतर जातिविशेषवाचि शब्दाभावा तत्सत्वेपिश्चोत्रात्तस्यागृहीत संगति कत्वाच्छब्दादसाधारणाजाति विशेषावछिन्नप्ताधुर्यावगमो नास्तीति प्. २१०ब्) जिज्ञासानुवृतिर्युक्तेति शंक्यं | रसाले सर्वातिशायी माधुर्य विशेषोस्तीत्यस्माच्छब्दात् || वृतिनिर्गमन हेतु सन्निकर्षाभावादित्याशयेनाह | व्यवहित इति | वृतिनिर्गमने उपपत्यंतरमाह | अन्ये त्विति | संसर्गिषु कॢप्तमितीति | संसर्गस्तादात्म्यं विषयापरोक्षे क्वचित् कॢप्तप्रयोजकस्य संसर्गस्यैवान्यत्रापि संभवे तत्त्यागायोगादितिभावः | विषयसंसृष्टमेवेति न तु तदसंसृष्टं जीवचैतन्यमित्येवकारार्थः | तदिति | विषयावछिन्न ब्रह्मचैतन्याभिव्यक्तय इत्यर्थः | प्रत्यक्षे वस्तुन्यावरणाभिभवस्यावश्यकता प्रतिपादनपूर्वकं तदभिभवार्थं | वृतिनिर्गमनमिति प्रतिपादयति | इतरे त्विति | ननु शब्दाद्यवगतेप्यर्थे स्पष्टता किं न स्यादिति | नेत्याह नहीति | परिमलं सुगंध आदिपदं रसालगत रससंग्रहार्थमाम्रफले मधुररसादिरस्तीत्येवं रूपादाप्त वाक्याच्छतवारमुक्तादपि मधुरत्वादि सामान्यविशिष्टतयैवरसादि ज्ञानं भवति न तु मधुरत्वव्याप्य जाति विशेषविशिष्टरसादि ज्ञानं तथा च रसादिगत जातिविशेषज्ञानाभावादेव जातिविशेषजिज्ञासा उपपद्यते न तु शब्दादवगतेपि स्पष्टत्वाभावादित्याशयेन शंकते | न च शब्दादिति | माधुर्यं मधुररसं माधुर्यादिमात्रावगमेपि शब्दादसाधारण्यजातिविशेषावछिन्न प्. २११अ) माधुर्यावगमो नास्तीति संबंधः आसाधारणो यो जातिविशेषस्तदवछिन्नतया माधुर्यावर्गमो नास्तीत्यर्थः जातिविशेषावगमाभावे उपायाभावं हेतुमाह | रसालेत्यादिना रसालस्य यन्माधुर्यादि तद्वृतिर्यो अवांतरजातिविशेषस्तद्वावकशब्दाभावादित्यर्थः तद्बोधकशब्दमंगीकृत्यापि शक्तिग्रहाभावा तदवगमो न संभवतीत्याह | तत्सत्वेपीति | तस्यैति | अवांतरजातिविशेषवाचकशब्दस्येत्यर्थः | न च शंक्यमिति संबंधः तद्वाचकपदाभावेपि तद्बोधको वाक्यरूपशब्दोस्ति तेन च जातिविशेषावगमोप्यस्ति तथा चावगते जातिविशेषे स्पष्टत्वाभावादेव जिज्ञासेत्याशयेवाह | रसास्त इत्यादिना तद्गतावांतरजातिविशेषस्याप्यवगमात् न ह्ययं विशेषशब्दस्तद्गतं विशेषे विहायान्यगतं विशेषं तत्र बोधयति अप्रामाण्यापतेः | न च तद्गतमेव विशेषं विशेषत्वेन सामान्येन रूपेण बोधयति न विशिष्येति जिज्ञासेति वाच्यं | प्रत्यक्षेणापि मधुररसविशेषस्य जातिविशेषस्य स्वरूपत एव विषयीकरणेन जातिविशेषगतविशेषांतराविषयीकरणाज्जिज्ञासानुवृतिप्रसंगात् | तस्मात् प्रत्यक्षग्राह्येभिव्यक्तापरोक्षैकर स चैतन्यावगुंठनात् प्. २११ब्) स्पष्टता जिज्ञासा निवर्तन क्षमाशब्दादिगम्ये तदभावादस्पष्टतेति व्यवस्थाभ्युपगंतव्या | अत एव साक्षि वेद्यस्य सुखादैः स्पष्टता || अयंशब्दः किं तद्गतजातिविशेषं बोधयति किं वान्यगतें | आद्यमंगी करोति | तद्गतावांतरेति | द्वितीयं दूषयति | नह्यद्यमिति | तत्रेति रसालामाधुर्यादावित्यर्थः | तात्पर्थ्य विषय एव शब्दस्य प्रामाण्याभ्युपगमादिति भावः | न चाप्रामाण्ये इष्टापतिरिति वाच्यं | आप्तवाक्यस्य तदंगीकारा योगादितिभावः | माधुर्यगतजातिविशेषभावमंगीकृत्यशंकते | न च तद्गतमेवेति | सामान्येनेति | विशेषत्वं रसालमाधुर्यगते जातिविशेष इव फलांतरमाधुर्यगतेषु जातिविशेष्वपि सत्वात् सामान्यरूपमितिभावः | न विशेष्येति | जातिविशेषगतविशेषविशिष्टतया जातिविशेषन्न बोधयति | तथा च रसालमाधुर्यगत जातिविशेषस्य स्वरूपेण शब्दादवगतत्वेपि स्वमतासाधारणविशेषविशिष्टतयानवगतत्वादेवजिज्ञास्यत्वमितिभावः | जातिविशेषगतो साधारणविशेषः किं जातिरूपः | किं वा जातिविशेषाश्रयेतरावृतित्वे सति जातिविशेषाश्रयवृतित्वरूपोपाधिर्वा नाद्यः जातौतंदनंगीकारात् | न द्वितीयः रसालमाधुर्यगतजातिविशेषे प्रत्यक्षेणापि प्. २१२अ) तदग्रहणेन प्रत्यक्षावगतेपि जातिविशेषजिज्ञासानुवृति प्रसंगात् | तस्मात् प्रत्यक्षेणापि स जाति विशेषः स्वरूपेणैव गूह्यते | इति वक्तव्यं | स्वरूपेण तदवगमश्चोक्त शब्दादप्यस्त्येवेति शब्दावगतस्यापि स्पष्टत्वे तत्र जिज्ञासानुवृतिर्न स्यादित्याशयेनाह | प्रत्यक्षेणापीति | तस्मादिति | प्रत्यक्षावगत इव शब्दादि गम्येर्थे स्पष्टत्वाभावादित्यर्थः | अनुभवसिद्धायाः स्पष्टतायाः प्रयोजकमाह | अभिव्यक्तेति | अपरोक्षत्वं स्वप्रकाशत्वमेकरसमेक रूपत्वं | अभिव्यक्तं यदपरोक्षैकर स चैतन्यंततादात्म्यात् प्रत्यक्षग्राह्ये स्पष्टताविषयताविशेषरूपेत्यर्थः | अनेन विषयगतस्पष्टता प्रयोजकी भूताविषयचैतन्यं तताक्ति सवरणनिवृतिरूपा तस्यास्सिद्धये वृतिनिर्गमनमपेक्षितमिति सूचितं | आवरणनिवृतेः स्पष्टताप्रयोजकत्वे अन्वयव्यतिरेकौ दर्शयति | अत एवेत्यादिना | अभिव्यक्तचैतन्यसंसर्गादेवेत्यर्थः || शाब्दवृतिवेद्यस्यापि ब्रह्मणो मननादेः प्रागज्ञानानिवृतावस्पष्टता तदनंतर तन्निवृतौ स्पष्टतेति वृतिनिर्गममुपपादयंति | नन्वेतावतापि विषयावरकाज्ञाननिवृत्यर्थं वृतिनिर्गम इत्युक्तं | तदयुक्तम् | विषयावछिन्नचैतन्यगतस्य तदावरकाज्ञानस्यानिर्गतवृत्यानिवृत्युपगमेप्यनति प्रसंगात् | न च तथा सति देवदतीय घटज्ञानेन यज्ञदतीय प्. २१२ब्) घटाज्ञानस्यापि निवृतिप्रसंगः समानविषयत्वस्य सत्वात् | अहमर्थविषयचैतन्यनिष्ठयोर्ज्ञानाज्ञानयोर्भिन्नाश्रयत्वेन तर्योर्विरोधे समानाश्रयत्वस्यात्वंत्रत्वादिति वाच्यं समानाश्रयविषयत्वं ज्ञानाज्ञानयोर्विरोधप्रयोजकमंगीकृत्यवृतिनिर्गमाभ्युपगमेपि देवदतीय घटवृतेर्यज्ञदतीय घटाज्ञानस्य च घटावछिन्नचैतन्यैकाश्रयत्वविषयत्व प्राप्त्यातिप्रसंगतादवस्थेन || शाब्दवृतीति | शब्दजन्यावृतिर्मननाद्यनुष्ठानात् प्रागसंभावना विपरीतभावनाभ्यां प्रतिबद्धत्वादज्ञानानिवर्तिका तदनुष्ठानातंतरमप्रतिबद्धत्वावज्ञाननिवर्तिकेति भावः | नन्वेतावतापीति | अत्र केचिदाहुरित्यादिनामतत्रयोपन्यासात्मक ग्रंथेनापीत्यर्थः | विषयावरकाज्ञानस्य पुरुषगतत्वमते | अनिर्गतवृत्यानिवृतिसंभवेपि तस्य विषयावछिन्नचैतन्यगतत्वपक्षे तन्निर्गमापेक्षास्यादित्याशंक्यानिर्गतवृत्यैवविषयगताज्ञानस्यापि निवृतौ नास्ति बाधकमित्याशयेनाऽज्ञानं विशिनष्टिविषयावछिन्नचैतन्यगतस्येति | ननु ज्ञानाज्ञानयोर्निवर्त्यनिवर्तकभावलक्षणे विरोधे समानाश्रयत्वे सति समानविषयकत्वं | तंत्रं समानाश्रयत्वं च वृतिनिर्गमने सति संभवति | अज्ञानाश्रये प्. २१३अ) विषयचैतन्ये वृतिरूपज्ञानस्थापि स्थितिलाभात् तन्निर्गमाभावे तु तयोस्समानाश्रयत्वासंभवात् | समानविषयकत्वमात्रं विरोधप्रयोगजं पर्यवस्यति | तथा चाति प्रसंग इति शंकते | न च तथा सतीति | वृतिनिर्गमानुपगमे सतीत्यर्थः | सत्वादिति | देवदतीय घटज्ञानयज्ञदतीय घटाज्ञानयोरिति शेषः | अहमर्थेति | वृतिनिर्गमाभावे सति ज्ञानमहमर्थनिष्टमेव न विषयचैतन्यनिष्टं विषयावरकाज्ञानं च विषयचैतन्यनिष्ठमेव नत्वहमर्थनिष्ठं | तथा च समानाश्रयत्वं वापि तत्वान्नप्रयोजककोटिप्रविष्टमित्यर्थः | समानाश्रयविषयत्वमिति ज्ञानाज्ञानयोर्विरोधे समानाश्रयत्वे सति समानविषयकत्वं प्रयोजकं परिकल्प्य तन्निर्वाहायवृतिनिर्गमे स्वीकृतेप्युक्तदोषतादवस्थो न तयोर्विरोधे उक्त प्रयोजकादन्यदेवप्रयोजकं कल्पनीयं तच्च वृतिनिर्गमं विनैव सिध्यति | अतो विरोधप्रयोजकोपपादकतयापि वृतिनिर्गमो न सिध्यतीति समुदायार्थः | देवदतीयेति | यज्ञदतीय घटाज्ञानाश्रये घटावछिन्नचैतन्ये देवदतीय घटज्ञानरूपवृतेर्निर्गमनद्वारासंबंधे सति देवदतीय घटज्ञानयज्ञदतीय घटाज्ञानयोस्समानयोस्समानाश्रयत्वे सति समानविषयकत्वं लभ्यते न च देवदतीय घटवृत्यायज्ञदतीय घटाज्ञाननिवृतिरस्तीत्युक्तदोषतादवस्थ्यमित्यर्थः || प्. २१३ब्) यदज्ञानं यं पुरुषं प्रति यद्विषयावरकं ततदीय तद्विषयकज्ञाननिवर्त्यमिति पृथगेव विरोधप्रयोजकस्य वक्तव्यतया सामानाश्रयत्वस्यानपेक्षणात् | अत्राहुः वृतिनिर्गमानुपगमे ज्ञानाज्ञानयोर्विरोधप्रयोजकमेवदुर्नीरूप्यं यदज्ञानं यं पुरुषं प्रतीत्याद्युक्तमिति चेन्न परोक्षज्ञानेनापि विषयगताज्ञाननिवृतिप्रसंगात् अपरोक्षत्वमपि निवर्तकज्ञानं विशेषणमिति चेत् | किं तदपरोक्षत्वं न तावज्जातिः दंड्ययमासीदिति संस्कारोपनीत दंडविषिष्टपुरुषविषयस्य चाक्षुषज्ञानस्य दंडांशेपि तत्सत्वे तत्रापि विषयगताज्ञाननिवृत्यापातात् | दंडंसाक्षात्करोमीति तदंशेप्यापरोक्ष्यानुभवापतेश्च | अननुभवेपि संस्कारं सन्निकर्षं परिकल्प्येंद्रिय सन्निकर्षजन्यतया तत्र काल्पनिकापरोक्ष्योपगमेनुमित्यादावपि लिंगज्ञानादिकं सन्निकर्षं परिकल्प्यतदंगीकारापतेः | दंडाशे आपरोक्षा सत्वे तु तस्य जातित्वायोगाज्जातेर्व्याप्यवृतित्वनियमात् || प्. २१४अ) यदीदं प्रयोजकं न भवति | किं तर्हि तत्प्रयोजकं वृतिनिर्गमननिरपेक्षं पूर्ववादिनस्तवाभिप्रेतं | तत्राह | यदज्ञानमिति | तदिति | तदज्ञानं तत्पुरुषीय तद्विषयकज्ञाननिवर्त्यमित्यर्थः | तथा च प्रयोजक शरीरे यं पुरुषं प्रतीत्यनेन तदीयेत्यनेन च यज्ञदतं प्रतिविषयावरकाज्ञानस्य यज्ञदतीय ज्ञानेनैव निवृतिर्न देवदत ज्ञानेनेति नियमलाभान्नोक्ताति प्रसंग इति सूचितं | वृतिनिर्गमं साधयितुमुपक्रमेते | अत्राहुरित्यादिना किं तदिति | अपरोक्षत्वं जातिरुपाधिर्वेति किं शब्दार्थः आद्यं दूषयति | न तावदिति | पूर्वं दंडविशिष्टतया गृहीते विष्णुमित्रे वर्तमानकाले दंडवियुक्ते प्रत्यक्षप्रत्यभिज्ञानं संस्काररूपोपनायकसहितादिंद्रियाज्जायते | अयं विष्णुमित्रोदंड्यासीदिति | तत्र दंडांशे प्रत्यक्षत्वमस्ति न वा आद्ये दोषमाह | देडांशेपीति | निवृत्यापातादिति | न चात्रेष्टापतिर्वक्तुं शक्यासदंड इदानीं कीदृश इति जिज्ञासानुदयप्रसंगादितिभावः | नन्वज्ञाननिवृत्यनुभवयोरभावेपि दंडांशे प्रत्यक्षं त्वं कल्प्यते कल्पकं च इंद्रिय सन्निकर्ष जन्यत्वं सन्निकर्षश्च स विषयप्रत्यासतिरिति मतमनुस्वत्यसंस्कारः कल्प्यते इत्याशंक्य अतिप्रसंगमाह | अननुभवेपीत्यादिना प्. २१४ब्) अनुमितौ लिंगज्ञानं सन्निकर्षः उपमितौ सादृश्यज्ञानं सन्निकर्षः शाब्दे पदार्थोपस्थितिस्सन्निकर्षः | अर्थापतावनुपपद्यमानपदार्थज्ञानं सन्निकर्षः अभावज्ञाने प्रतियोगिज्ञानं सन्निकर्ष इति कल्पनया प्रत्यक्षप्रमाणपरिशेषापतेरितिभावः | तदंगीकारेति अपरोक्षत्वांगीकारापतेरित्यर्थः | दंडांशेपि प्रत्यक्षत्वं नास्तीति | द्वितीय कल्पं दूषयति | दंडांश इति व्याप्यवृतित्वनियमादिति | अन्यथा एकस्यामेव प्रत्यभिज्ञायां ततांशे संस्कारजतया स्मृतित्वापतौ जातिसंकरापतेरितिभावः || तदनियमेप्यवछेदकोपाधिभेदानिरूपणेन तस्याव्याप्यवृतिज्ञातित्वायोगाच्च | नाप्युपाधिस्तदनिर्वचनात् | इंद्रियजन्यत्वमिति चेन्न | साक्षि प्रत्यक्षा व्यापनात् | अनुमिति शाब्दज्ञानोपनीत गुरुत्वादिविशिष्टघटप्रत्यक्षे विशेषणांशातिव्यापनाच्च | कारणांतराभावेन तदंशे परोक्षेप्युपनय सहकारिसामर्थ्याद्रिंद्रियस्यैव जनकत्वादनुगतजन्यतावछेदका ग्रहेणानेकेष्विंद्रियजन्यत्वस्य दुर्ग्रहताच्च | तत् ग्रेहे च तस्यैव प्रथमप्रतीतस्यापरोक्षरूपत्वोपपतौ प्रत्यक्षानुभवा प्. २१५अ) योग्यस्येंद्रियजन्यत्वस्य तद्योग्यापरोक्षरूपत्व कल्पनायोगात् || तदनियमेपीति | जातेर्व्याप्यवृतित्वनियमाभावेपि प्रकृते प्रत्यभिज्ञायाः विष्णुमित्रांशे प्रत्यक्षत्वं दंडांशेत प्रत्यक्षत्वं दंडांशे तदभावश्चास्तीति वक्तव्यं | ततश्चावछेदकभेदं विना प्रतियोगि तदभावयोरेकत्र वृत्ययोगादुपाधिभेदो वाच्यस्स च दुर्निरूपस्तस्मादपरोक्षत्वजातेः स्वसमानाधिकरणात्यंताभाव प्रतियोगित्वरूपाव्याप्यवृतित्वायोगाद्व्याप्यवृतिजातित्वमेव वाच्यं | तत्र च दूषणमुक्तमितिभावः | ननु प्रकृते उपाधिभेदानिरूपणमसिद्धं लौकिकसन्निकर्षजन्यत्वतःदभावयोर्वासंस्काराजन्य ज्ञानत्व तदभावयोर्वा विष्णुमित्रविषयकत्व तदभावयोर्वापरोपरोक्षत्व तदभावौ प्रत्युपाधित्व संभवादिति चेत् न | उक्तोपाधो नामपि भावाभावरूपतया तदर्थमुपाध्यंतरापेक्षायामनवस्था प्रसंगादिति भावः | अपरोक्षत्वमुपाधिरिति पक्षं दूषयति | नापीति | अनिर्वचनमसिद्धमिति चेत्तन्न व्यूक्तव्यं किमिद्रियजन्यत्वमपरोक्षत्वं किं वा तत्सन्निकर्षजन्यत्वं सिद्धांत्यभिमतं वा तत्राद्यमनूद्यदूषयति | इंद्रियेति | सुखादि प्रत्यक्षरूपे नित्यसाक्षिण्यव्याप्तिमुक्ताति व्याप्तिमप्याह | अनुमितीति | यस्मिन् घटे अनुमानेन वा शब्देन वा गुरुत्वमनुभूतं तस्मिन् इंद्रियसन्निकर्षे सति घटोयं प्. २१५ब्) गुरुरिति प्रत्यक्षं भवति | तत्र विशेषणीभूतगुरुत्वांशेति व्याप्तिरित्यर्थः | ननु गुरुत्वस्य इंद्रियायोग्यतयापरोक्षे तदंशज्ञाने तज्जन्यत्वमसिद्धमित्यत आह | कारणांतरेति | यथा रुचिदतमते अनुमितौ मनसः करणत्वं तथेति भावः | न चेंद्रियत्वेनेंद्रियजन्यत्वमपरोक्षत्वं गुरुत्वांशज्ञाने च न तथा तज्जन्यत्वमिति नाति व्याप्तिरिति वाच्यं | तथापि साक्षिप्रत्यक्षा व्याप्त्यनिरासादितिभावः | अनेकेषुरूपादि साक्षात्कारेषु तज्जन्यत्वं दुर्ग्रहमनुगत जन्यतावछेदकाभावे न तद्ज्ञानं विना जन्यत्वज्ञानासंभवादित्याह | अनुगतेति | ननु साक्षात्करोमि इत्यनुभवसिद्धः कश्चिदखंडोपाधिरेव जन्यतावछेदकोस्तित्याशंक्य तर्हि | स एवापरोक्षत्वं भवेन्नान्यदित्याह | तद्ग्रहे चेति अवछेद्य जन्यत्वग्रहात्पूर्वमेवावछेदक ग्रहस्यावश्यकत्वात्साक्षात्करोमीत्यनुभवयोग्यस्यापरोक्षत्वस्य तदयोग्य धर्मरूपत्वायोगोच्चेत्यर्थः || एतेनेंद्रिय सन्निकर्षजन्यत्वमापरोक्ष्यमुपनयसहकृतेंद्रिजन्यपरोक्षांशे च न सन्निकर्षजन्यत्वमनुमितावप्युपनीतभानसत्वेन प्रमाणांतरसाधारणस्योपनयस्यासन्निकर्षत्वादित्यपि शंकानिरस्ता प्. २१६अ) संयोगादि सन्निकर्षाणामननुगमेनानुनुगमाच्च | यत्तवाभिमतमापरोक्ष्यं तदेव ममाप्यस्त्विति चेन्न तस्य शब्दापरोक्षनिरूपणप्रस्तावे प्रतिपादनीयस्य तत्रैव दर्शनीययारित्या || अस्त तर्हि उक्तावछेदकोपाधिरेवापरोक्षनं स किं व्याप्यवृतिरव्याप्यवृतिर्वानाद्यः दंड्यऽयमासीदिति प्रत्यक्षे दंडाशातिव्याप्तेर्न द्वितीयः अवछेदकभेदानिरूपणात् | न च विष्णुमित्रविषयकत्वावछेदेन तत्रापरोक्षत्वरूपोपाधिरस्ति दंडविषयकत्वावछेदेन तत्रैव तदभावोप्यस्तीति वाच्यं | तथा सति दंडांशे विष्णुमित्रविषयकत्वाभावस्य वक्तव्यतया तत्र प्रत्यक्षे विष्णुमित्रविषयकत्व तदभावयोरविरोधायावछेदकांतरापेक्षायां पूर्वोक्तानवस्थाप्रसंगादखंडोपाधिस्वीकारे जातिमात्रविलयप्रसंगाच्च नोक्तोपाधिपक्षः संभवतीति भावः | उपाधिपक्षे द्वितीयविकल्पं निराचष्टे | एतेनेति | अव्याप्त्यादिदोषप्रसंगेनेत्यर्थः | इंद्रियजन्यत्वमपरोक्षत्वमिति पक्षे या अतिव्याप्तिरुक्ता सा तत्सन्निकर्षजन्यत्वं तदिति पक्षे नास्तीत्याह शंकिकः उपनयेति | कारणांतरा भावेन इंद्रियजन्यत्व सत्वेपि तत्सन्निकर्षजन्यत्वं नास्ति | उपनयस्य सन्निकर्षत्वाभावात् | सन्निकर्षातराभावाच्चेति भावः | दूषणांतरमाह | संयोगादीति | संयोगसंयुक्त ससमवादि प्. २१६ब्) सन्निकर्षाणामननुगमेन संयोगादिष्वनुगतसन्निकर्षत्वस्याभावेनेति यावत् | अननुगमाच्चेति | इंद्रिय सन्निकर्ष जन्यत्वस्येति शेषः | तथा च घट तद्रूपरूपत्व शब्दशब्दत्वसुखादिगोचरसाक्षात्कारेषु साक्षत्करोमीत्यनुगत प्रत्यक्षं न स्यादितिभावः | उपाधिपक्षे तृतीयमुपाधिमाशंकते | यतवाभिमतमिति | तवसिद्धांतिनो यद्ज्ञानगतमपरोक्षत्वं संमतं तदेव मम मतेप्यस्त तथा चापरोक्षत्वस्याज्ञाननिवर्तक ज्ञानविशेषणत्वं संभवान्न परोक्षज्ञानेन तन्निवृतिप्रसंग इति भावः | मदभिमतापरोक्षत्वस्य ज्ञाने तन्निवृतिप्रयोजकत्वं न संभवतीति सिद्धांती दूषयति | न तस्येति | मडभिमतापरोक्षत्वस्येत्यर्थः | प्रस्तावः प्रकरणं तच्च तृतीय परिछेदोवसाने द्रष्टव्यं | तत्रैव दर्शनीययेति | ज्ञानस्यापरोक्षत्वं हि न करणविशेषप्रयुक्तं किं त्वपरोक्षार्था भिन्नत्वमिदं चापरोक्षत्वं विषयावभासकचैतन्यरूपज्ञाननिष्ठमतो न साक्षिप्रत्यक्षा व्याप्तिः अर्थापरोक्ष्यं च स्वव्यवहारानुकूलचैतन्याभि || अज्ञाननिवृति प्रयोज्यत्वेन तन्निवृतिप्रयोजकविशेषणभावायोगात् | तस्मातरति शोकमात्मविदिति श्रुतस्य ब्रह्मज्ञानस्य प्. २१७अ) मूलाज्ञानाश्चय भूतसर्वोपादान ब्रह्मसंसर्गनियतस्य मूलाज्ञाननिवर्तकत्वादैंद्रियकवृतयः || न्नत्वं स्वपदमर्थपरं तद्व्यवहारानुकुलं च चैतन्यं निवृतावरणं ततदधिष्ठानचैतन्यमेव तथा घटाद्यर्थस्य स्वव्यवहारानुकूलेन स्वाधिष्ठानचैतन्येन स्वगोचरवृत्यभिव्यक्तेन तादात्म्यलक्षणाभेद स त्वात् | स्वव्यवहारानुकूलचैतन्याभिन्नत्वरूपमऽपरोक्षत्वमुपपन्नं तथा अहंकारादिषु तदधिष्ठानभूतस्य केवलसाक्षिरूप तत्प्रत्यक्ष ज्ञानस्य बाह्यघटादिषु तत्तदाकारवृयुपहितस्यऽघटादि प्रत्यक्षज्ञानरूपस्य घटाद्यधिष्ठानचैतन्यस्य च तेन तेन विषयेण तादात्मः सत्वादपरोक्षार्थाभिन्नरूपमपरोक्षत्वमुपपन्नंमिति हि तत्र दर्शनीयारीतिः | प्रयोज्य त्वेनेति | विषयचैतन्यगताज्ञाननिवृत्तौ सत्यां विषयस्य घटादेः स्वव्यवहारानुकूलचैतन्याभिन्नत्वरूपमपरोक्षत्वं लभ्यते | विषयस्य तल्लाभे सति तद्ज्ञानस्यापरोक्षार्थो भिन्नत्वरूपमपरोक्षत्वं लभ्यते | तथा च विषयचैतन्यगता ज्ञाननिवृतेः पूर्वं ज्ञानस्यापरोक्षत्वालाभेन सिद्धांत्यभिमतस्य ज्ञानगतापरोक्षत्वस्य विषयचैतन्यगताज्ञाननिवृति प्रयोज्यस्याज्ञाननिवृतिं प्रतिप्रयोजकत्वासंभवादित्यर्थः | तन्निवृतिर्प्रतिप्रयोजकतया निवर्तक प्. २१७ब्) ज्ञानविशेषणत्वायोगादित्यक्षरार्थः | तस्मादिति | यदज्ञानं यं पुरुषं प्रतीत्यादिरूपे निरुक्ते विरोधप्रयोजके अपरोक्षत्वस्य निवर्तक ज्ञान विशेषणत्वासंभवादित्यर्थः | तस्मादज्ञानाश्रयचैतन्यसंसर्गनियतत्वं निवर्तकज्ञानविशेषणं वाच्यमिति संबंधः परोक्षज्ञानस्याज्ञाननिवर्तकत्व प्रसंगवारणायेति शेषः | ननु विषयसंसृष्टस्य वृतिज्ञानस्य विषयगतो ज्ञाननिवर्तकत्वं क्वचिदप्यकॢप्तमित्याशंक्य ब्रह्मगोचरवृति ज्ञाने कॢप्तमित्याशयेनाह | ब्रह्मज्ञानस्येति | मूलाज्ञानाश्रय भूतसर्वोपादाने ब्रह्मणि संसर्गनियतस्येत्यर्थः | यदा ब्रह्मगोचरवृतिज्ञानमुदेति तदा नियमेन ब्रह्मसंसृष्टमेवोदेत्वीत्यत्र हेतुत्वेन सर्वोपादानत्वमुपातं कार्यमात्रस्य जन्मप्रभृत्युपादानभूतब्रह्मणा सहसंसर्गनियमे सति ब्रह्मगोचवृतिज्ञानस्यापि स्वनिवर्त्यमूलाज्ञानाश्रयभूते ब्रह्मणि संसर्गनियमोप्यर्थ सिद्ध इति भावः | ब्रह्मज्ञानस्याज्ञाननिवर्तकत्वे मानमाह | तरति शोकमिति | शोकपदमिज्ञानपरम्मत्मपदं प्रत्यगभिन्न ब्रह्मपरं श्रुतस्येति पदात्पूर्वमज्ञाननिवर्तकत्वेनेति शेषः || प्. २१८अ) ततदिंद्रिय सन्निकर्ष सामर्थ्यात्तत्तद्विषयावछिन्नचैतन्यसंसृष्टा एवोत्पद्यंत इति नियममुपेत्याज्ञानाश्रयचैतन्य संसर्गनियतत्वं निवर्तकज्ञानविशेषणं वाच्यं | तथा च पदज्ञानं यं पुरुषं प्रतियद्विषयाबरकं तत्तदीतद्विषय तदज्ञानाश्रयचैतन्यसंसर्गनियतात्मलाभज्ञाननिवर्त्यमिति ज्ञानाज्ञानयोर्विरोधप्रयोजकं निरूपितं भवति | न चैवं सति नाडीहृदयस्वरूपगोचरशाब्दज्ञानस्याप्यज्ञाननिवर्तकत्व प्रसंगः || परोक्षवृतीनां विषयचैतन्यसंसर्गाभावादैंद्रियकवृतीनां तत्संसर्गे को हेतुस्तत्राह | ततद्रिंद्रियसान्निकर्षसामर्थ्यादिति | अनेनपरोक्षवृतीनामज्ञानाश्रयविषयचैतन्यसंसर्गनियतत्व रूपविशेषणाभावाद्यदज्ञानं यं प्रतीत्याद्यंश सत्वेपि न तत्राति प्रसंग इति सूचितं | पर्यवसितं प्रयोजकं दर्शयति | तथा चेति | उक्तविशेषणे सतीत्यर्थः | घटावछिन्नचैतन्ये तदावरकाज्ञानानि बहूनि संति | तेषां मध्ये कानिचिद्रदेवदतंप्रति तदावरकाणिकानि चिच्चयज्ञदताद्दिकं प्रतितदावरकाणि एवं प्रतिविषयं पुरुषभेदेनानेको ज्ञाननिसंति | तथा च विषयावरकाज्ञानानां प्. २१७ब्) मध्ये यदज्ञानं यं पुरुषं देवदतं प्रति यद्विषयावरकं यस्य विषयस्य घटस्यावरकं तदज्ञानं तदीपेन देवदतीयेन तद्विषयेण तद्वटविषयकेण तदज्ञानाश्रयचैतन्यसंसर्गनियतात्मलाभज्ञानेन निवर्त्यमित्यर्थः | तदज्ञानेति यद्देचदतं प्रतिघटावरकाज्ञानमभिधीयते | तदज्ञानाश्रयचैतन्यं घटावछिन्नचैतन्यं | तत्र यः संसर्गः तन्नियतः तद्व्याप्य आत्मलाभो यस्य घटगोचरवृतिज्ञानस्य तद्ज्ञानं तदज्ञानाश्रयचैतन्य संसर्गनियतात्मलाभं | तच्च तद्ज्ञानं चेति विग्रहः आत्मलाभः उत्पतिः नियमश्च यदा यदा घटगोचरवृतिज्ञानस्य घटेंद्रिय सन्निकर्षजन्यस्यात्मलाभस्तदा तदा घटावछिन्नचैतन्ये तस्य घटगोचरवृतिज्ञानस्य संसर्ग इत्येवमात्मकः तदुक्तं प्रागैंद्रियकवृतयस्ततद्विषयावछिन्नचैतन्यसंसृष्टा एवोत्पद्यंत इति नियममुपेत्येति | अत्र यदा यदा ऐंद्रियकवृतीनां मुत्पतिस्तदा तदा विषयचैतन्ये तासां संसर्ग इति हि नियमः स्पष्टं भासते | एवं विषयांतरेषु पुरुषांतरेष्वज्ञानांतरेषु च इदं प्रयोजकं विशिष्यविशिष्य योजनीयं | ननु परोक्षवृतीनां विषयचैतन्यसंसर्गाभावेनोक्त प्रयोजकानाक्रांतत्वादज्ञाननिवर्तकत्व प्रसंगो नास्तीत्युक्तमयुक्तं | कदाचित् परोक्षवृतेरपि विषयसंसर्ग स त्वात् | तथा हि | हृदयपुंडरीके नाड्यः संतीति प्. २१९अ) वाक्याजायमानायावृतेः | कदाचिदंतःकरणे हृदयपुंडरीकस्थे नाडीहृदयान्यतरवस्त्ववछेदेन जनने सति तस्यावृतस्तदन्यतरवस्त्ववछिन्नचैतन्ये संसर्गसत्वा तदावरणनिवर्तकत्व प्र || तस्य कदाचिदर्थसंपन्ननाडीहृदयान्यतरवस्तसंसर्ग संभवेपि विषयसंसर्गं विनापि शाब्दज्ञानसंभवेन तत्संसर्गनियतात्मलाभत्वालाभात् | तस्मादज्ञान ज्ञानविरोधनिर्वाहायवृतिनिर्गमो वक्तव्य इति | अन्ये तु विषयगताज्ञानस्य लाघवात् | समानाधिकरणज्ञाननिवर्त्यत्व सिद्धौ वृतिनिर्गमः फलतीत्याहुः | अपरे तु बाह्यप्रकाशस्य बाह्यतमो निवर्तकत्वं सामानाधिकरण्ये सत्येव दृष्टमिति दृष्टानुरोधात् | वृतिनिर्गमः सिद्ध्यतीत्याहुः | संगः न चेष्टापतिस्तदा तदन्यतरवस्तनिन्निज्ञासानुदयप्रसंगादिति शंकानियतपदेन निरस्तेत्याह | न चैवं सतीति विरोधप्रयोजकस्य नियतगर्भत्वे सति शाब्दज्ञानस्याप्यज्ञाननिवर्तकत्वप्रसंगो न चेति संबंधः | यदा यदा हृदयादि प्. २१९ब्) गोचरशाब्दवृतिरुदयस्तदा तदा तस्यावृतेर्हृदयाद्यन्यतरवस्त्ववछिन्नचैतन्ये संसर्ग इति नियमो नास्तीति हेतुमाह | तस्येति | तादृशशाब्दज्ञानस्येत्यर्थः | ऐंद्रियकवृतीनां हि ततदिंद्रियगोलकावछिन्नांतःकरणप्रदेशेषूत्पति नियमस्संभाव्यते | इंद्रियनिरपेक्षवृतीनां त्वं तष्करणे जायमानानां प्रदेशनियमे कारणाभावाद्धृदयादिगोचरशाब्दवृतिः कदाचिद्दैवयोगाद्धृदयाद्यवछेदेनांतष्करणे जायते कदाचितु हृदयादि प्रदेशं विहाय प्रदेशांतरावछेदेन सा तत्र जायत इति निरुक्तनियमो नास्तीत्यर्थः | अत्र तस्येति षष्ट्याः सप्तम्यापंचम्या च संबंधः | तस्मादिति वृतिज्ञानस्याज्ञानाश्रयविषयचैतन्य संसर्गं विना तन्निवर्तकत्वासंभवादित्यर्थः | एवं ज्ञानाज्ञानयोर्विरोधप्रयोजकनिर्वाहकत्वेन वृतिनिर्गमनं प्रसाध्यतेत्रैव हेत्वंतराणि मतभेदेनाह | अन्ये त्वित्यादिना | लाघवादिति विषयगताज्ञानस्यान्वयव्यतिरेकाभ्यां ज्ञाननिवर्त्यत्वग्रहदशायां लाघवात् समानाधिकरणज्ञाननिवर्त्यत्वं गृह्यतेन तु व्यधिकरणज्ञाननिवर्त्यत्वमित्यर्थः | एतदुक्तं भवति | अज्ञानस्य विषयचैतन्यगतत्वातन्निवृतिलक्षणं ज्ञानकार्यमपि तद्गतमेव तथा चाज्ञाननिवृतिरूपकार्यस्य प्. २२०अ) स्वकारणभूतज्ञानेन सहेंद्रिय सन्निकर्ष सामर्थ्यात् | सामानाधिकरण्य लक्षणसंबंध संभवेत त्यागायोगात् | कार्यकारणयोस्सामानाधिकरण्यस्यौत्सर्गिकादिति | बाह्यतम इति | अंधकारेत्यर्थः | सत्येवेति | अन्यत्र विद्यमानादालोकादन्यत्रतमोनाशो न दृष्ट इत्येवकारार्थः | अज्ञानस्यापि विषयावरकत्वैन बाह्यतमस्सदृशत्वाद्धृतिरूपस्य वृत्यारूढे चेतन्यरूपस्य वा प्रकाशस्यावरणनिवर्तकत्वेनालोक सदृश त्वात् ज्ञानाज्ञानयोरप्यंधकारालोकयोरिव सामानाधिकरणयोरेव निवर्त्यनिवर्तक भावः | कल्प्यते तच्च सामानाधिकाण्यमज्ञानाश्रयविषयचैतन्ये वृतिज्ञानस्य संसर्गरूपं स च संसर्गो वृतिनिर्गमाधीन इति भावः | केचित्वावरणाभिभवार्थं वृतिनिर्गमानपेक्षायामपि चिदुपरागार्थं | प्रमातृचैतन्यस्य विषयप्रकाशब्रह्मचैतन्याभेदाभिव्यक्त्यर्थं वा तदपेक्षेत्याहुः | अथ किं प्रमाणको यं जीवब्रह्मणोरभेदः | यो वृत्याभिव्यज्येत वेदांत प्रमाणक इति घंटा घोषः | सर्वेपि वेदांता उपक्रमोपसंहारैकरूप्यादि तात्पर्य लिंगैर्विमृश्यमानाः | प्रत्यमिन्ने प्. २२०ब्) ब्रह्मण्य द्वितीये समन्वयंति | यथा चायमर्थस्तथा शास्त्राथा समन्वयाध्याये प्रपंचितं विस्तुरभयान्नेह प्रदर्श्यते || इति श्रीशास्त्रसिद्धांतलेशसंग्रहे अप्यैदीक्षितविरचिते प्रथमः परिछेदः || शुभंमस्तुः || एवं विषयचैतन्यगताज्ञाननिवृतिरनिर्गतवृत्यापि संभवत्यतो वृतिनिर्गमनाभ्युपगमो व्यर्थदत्याक्षेपे तन्निर्गमं विना तन्निवृतिर्न संभवतीति तदभ्युपगमस्सफल इति | समाधानं दर्शितमिदानीं विषयचैतन्यगताज्ञाननिवृत्यर्थं वृतिनिर्गमनं नापेक्षितमिति पूर्वपक्ष्युक्तमंगीकृत्यापि वृतिनिर्गमनं साधयति | केचित्विति | इदं च प्रकारद्वयं प्रागेव प्रपंचितुमिति नेह प्रपंच्यत इति बोध्यं | प्रमात्रचैतन्यशब्दित जीवस्य ब्रह्माभेदे नास्ति प्रमाणामिति शंकते | अथेति | अयमभेदः किं वेदांतप्रमाणकः किम् वा तदन्यप्रमाणकस्तत्र न तावदाद्यः कल्पः संभवति वेदांतानामुपासनादिपरत्वप्रतीतेर्न द्वितीयः जीवब्रह्माभैदस्यौपनिषदत्व श्रुतिविरोधादिति भावः | तत्राद्यं कल्पं परिगृह्यसमाधते | वेदांतेति | तेषामुपासनादि | प्. २२१अ) परत्वं दूषयति | सर्वेपीति | वेदांतानां क्व तात्पर्यमिति विमृश्यमाने सर्वेपि वेदांता अद्वये जीवाभिन्ने ब्रह्मणि समन्वयंति समन्वयं तात्पर्यं लभंते | तात्पर्यज्ञापकानि लिंगानि कथयति | उपक्रमेति आदिपदमभ्यासादिसंग्रहार्थं के ते वेदांताः | कथं वा तेषूक्तलिंगानां सत्वं को वा तैर्लिंगैस्तात्पर्यावगम प्रकार इत्याकाक्षायामाह | यथा चेति | सर्वेषां वेदांतानामयमेव परमतात्पर्यविषयीभूतोर्थः | न तूपासनादिरिति प्रपंचित इत्यर्थः | अत्रापि कुतो न प्रपंचते तत्राह | विस्तरेति | ग्रंथविस्तारभयादित्यर्थः | इति श्रीमत्परमहंसपरिव्राजकावार्य श्रीमत्स्वयंप्रकाशकानंदसरस्वती चरणारबिंदसंलग्नरजो भूतस्य अच्युतकृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धांतलेशसंग्रहव्याख्यायां श्रीबालमुकुंदानंदतीर्थपादपूज्यशिष्यश्रीविश्वनाथतीर्थस्य पुस्तकोद्धारणः प्रथमः परिछेदस्समाप्तः || ओं श्रीगणेशाय नमः || अथ कथमद्वितीये ब्रह्मणी वेदांतांनां समन्वयः | प्रत्यक्षादि विरोधादिति चेन्न | आरंभणाधिकरणोदाहृत श्रुति युक्तिभिः | प्रत्यक्षाधिगम्यस्य प्रपंचस्य ब्रह्मविवर्तरूपतया मिथ्या त्वावगमात् | ननु न श्रुतियुक्तिभिः प्रपंचस्य मिथ्यात्वं प्रत्याययितुं शक्यते | घटः सन्नित्यादि घटादि सत्वग्राहि प्रत्यक्षादि विरोधात् | अत्रारूस्तत्वशुद्धिकाराः | न प्रत्यक्षं घटपटादि तत्सत्वं वा गृह्णाति | किं त्वधिष्ठानत्वेन घटाद्यनुगतं सन्मात्रं तथा च प्रत्यक्षमपि सद्रूपब्रह्माद्वैत सिद्धानुकूलमेव ओं श्रीमहागणपतये नमः || ओं यो मे विश्वेश्वर क्षेत्रं विश्वेश्वर समो गुरुः समध्यास्ते स्वयं ज्योतिर्वाणी संज्ञो भजामितं | स्वयं प्रकाश सरस्वती संज्ञ इत्यर्थः | आचार्यचरणद्वंद्वस्मृतिर्लेखकरूपिणं मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः | अत्र व्याख्याने प्रभुः समर्थ इत्यर्थः | प्रथमपरिछेदे ब्रह्मलक्षणविचारावसरेस्तक्षणस्य मतभेदेन ज्ञेय ब्रह्मनिष्ठत्वनिरूपणेन प्. १अ) ईश्वररूउपब्रह्मनिष्ठत्वनिरूपणेन च तत्पदलक्ष्यार्थ वाच्यार्थौ निरूपितौ तथा तदनंतरं जीव तत्साक्षिणोर्निरूपणेन त्वं पदवाच्यार्थलक्ष्यार्थौ निरूपितौ तथा चार्थाद्वाक्यार्थरूपाभेदोपि निरूपितो भवति | वाक्यार्थस्य तत्वं पदलक्ष्यार्थानतिरेकात् | तथा च जीवाभिन्ने निर्विशेषे ब्रह्मणि वेदांतसमन्वयरूपः प्रथमाध्यायार्थः | तात्पर्यतः पूर्वपरिछेदे निरूपितो भवति | इदानीं द्वितीयाध्यायार्थरूपं वेदांत समन्वयस्य मानांतराविरोधं निरूपयितुं परिछेदांतरमारभते | अथ कथमिति | समन्वयस्तात्पर्यं | प्रत्यक्षेति | ब्रह्मापेक्षया द्वितीयस्य प्रपंचस्य प्रत्यक्षसिद्धत्वादद्वितीयत्वं तस्य बाधितं तथा च बाधितेर्थे कथं श्रुतेस्तात्पर्थमप्रामाण्यप्रसंगादिति भावः | प्रपंचस्य रजु सर्पादिवत् ब्रह्मणि कल्पितत्वाद्वास्तवमद्वितीयत्वमवाधितमिति समाधते | नेति | श्रुति युक्तिभिरिति | एताः श्रुति युक्तयो विवर्तलक्षनिरूपणावसरेऽस्माभिर्दर्शिता इति नात्र पदर्श्यंते | प्रत्यक्षविरोधे श्रुतियुक्तीनामेव बाधो न्यायय इति मन्यमान आक्षिपति ननु नेति ऽघटः संन्नित्यादिना घटादि सत्वग्राहि प्रत्यक्षेण प्. १ब्) सहप्रपंचमिथ्यात्व प्रत्यायक श्रुति युक्तीनां विरोधत्वादित्यर्थः | श्रुत्यादिभिर्गम्यमिथ्यात्व विरुद्धं सत्वं प्रत्यक्षग्राह्यमेव न भवति | अतस्तद्विरोधशंकैव निरालंबनेति पंचभिर्मतैः | प्रतिपादयति | अत्राहुरित्यादिना | प्रत्यक्षं घटादि न गृह्णाति घटादेः सत्वं वा न गृह्णाति चेतर्हि निर्विषयं तत्प्रसज्येतेति शंकते | किं त्विति | उत्तरं | अधिष्ठानेति | सन्मात्रमिति | सद्रूपब्रह्मैव प्रत्यक्षप्रमेयमित्यर्थः | एवं स्थितेन केवलं प्रत्यक्षं विरोधा भावः | किं तु लाभोप्यस्तीत्याह | तथा चेति || तथा सति सत्सदित्येव प्रत्यक्षं स्यान्न तु घटः सन्नित्यादि प्रत्यक्षमिंद्रियान्वयव्यतिरेकानुविधायीति चेन्न | यथा भ्रमेष्विदमंशस्याधिष्ठानस्य प्रत्यक्षेण ग्रहणं | इंद्रियान्वय व्यतिरेकयोस्तत्रैवोपक्षयः रजतांशस्यारोपितस्य भ्रांत्याप्रतिभासस्तथा सर्वत्र सन्मात्रस्य प्रत्यक्षेण गृहणं | तत्रैवेंद्रिय व्यापारः घटादिभेदवस्तु प्रतिभासो भ्रांत्येत्युपगमात् | न तु तद्वदिह बाधादर्शनात् तथा भ्युपगम एव प्. २अ) निर्मूल इति चेन्न बाधा दर्शनेपि देशकालव्यवहित वस्तवत् घटादिभेदवस्तुनः प्रत्यक्षायोग्यत्वस्यैव तत्र मूलत्वात् | तथाहि | इंद्रियव्यापारानंतरं प्रतीयमानी घटादिः सर्वतो भिन्न एव प्रतीयते | तदा तत्र घटादिभेदे संशय विपर्या दर्शनात् | यत्रापि स्थाण्वादै पुरुषत्वादि संशयस्तत्रापि तद्व्यतिरिक्तेभ्यो भेदोऽसंदिग्धाविपर्यस्तत्वात्प्रकाशत एव || घटाद्रियकत्ववादी शंकते | तथा सतीति | तस्य सन्मात्रविषयकत्वे सतीत्यर्थः | इंद्रियेति | न च सन्मात्र प्रत्यक्ष एव इंद्रियान्वयाद्यनुविधानोपपते | प्रत्यक्षस्य घटादि विषयकत्वाभावे तैदनविधानं न स्यादित्ये तदभिप्रायकं विशेषैणमयुक्तमिति वाच्यं | स्वप्रकाशस्य सन्मात्रस्य प्रकाशनाय इंद्रियापेक्षानुपपतेरिति भावः | अत्राक्षेप्ता किं सिद्धांत्येक देशी किं वा भेदवादी आद्ये तत्संमत दृष्टंति न सन्मात्रस्य प्रत्यक्षप्रमेयत्वमाह | यथेति | तत्रैवेति | अधिष्ठानग्रहण एवेत्यर्थः | भ्रांत्येति साक्षिरूपयेत्यर्थः | सन्मात्रस्येति | तस्य स्वप्रकाशत्वेप्यावृतत्वादावरणनिवर्तकवृत्युत्पतये इंद्रियापेक्षिति भावः | घटादीति | घटादेस्तद्भेदरूपस्य च वस्तुनः प्रतिभासौ भ्रांत्या ऐंद्रियकवृत्यभिव्यक्त सन्मात्ररूपसाक्षिचैतन्यलक्षणयेत्यभ्युपगमादित्यर्थः | एतेन सत्सदित्येव प्रत्यक्षं स्यादित्याक्षेप्ता प्. २ब्) भेद वाचपि निरस्तः | सिद्धांतिना घटादौ तत्सत्वे च प्रत्यक्षस्य प्रामाण्यानंगीकारेपि घटादेः | प्रत्यक्षज्ञाने साक्षिरूपेभानांगीकारात् | भेदवादीशंकते | नन्विति शुक्तिरजतादेर्बाधदर्शनाद्युक्तं तस्य भ्रांत्याप्रतिभासांगीकरणं | तथा घटादि द्वैतस्य बाधादर्शना तस्य भ्रांतिमात्रसिद्धत्वमनुपपन्नमित्यर्थः | किं श्रौत बाधादर्शनं विवक्षितं किं वा प्रत्यक्षबाधादर्शनं यौक्लिकबाधादर्शनं वा आद्यमसिद्धं | दृश्यमात्रस्य ब्रह्मणि नेह नानास्तीत्यादि श्रुत्याबाधदर्शनादित्याशयेनाह | नेति द्वितीयमंगीकरोति | बाधादर्शनेपीति | तृतीयमसिध्यादूषयति | देशकालेति | घटादीति | घटादेस्तद्धर्मिकभेदरूपस्य च वस्तुन इत्यर्थः | प्रत्यक्षायोग्यत्वमेव दर्शयितुं प्रथमं संमतमर्थं दर्शयति | इंद्रियेति | तत्रेति | पदव्याख्या घटादिभेद इति घटादि धर्मिभेद इत्यर्थः | सर्वतोभिन्न एव प्रतीयत इत्ययुक्तं | इंद्रिय सन्निकृष्टे स्थाण्वादौ क्वचित्युरुषीदि प्रतियोगिकभेदस्याप्रतीतेः | प्रतीतौ वा संशयाभावापतेरत आह | यत्रापीति || भेदस्य च प्रतियोगि सहोपलंभनियमवतो न प्रत्यक्षेण ग्रहणं संभवति | देशकालव्यवधानेनासन्निकृष्टानामपि प्रतियोगिनां संभवात् | भेदज्ञानं प्रतियोग्यंशे संस्कारापेक्षणात् स्मृतिरूपमस्तु प्. ३अ) प्रत्यभिज्ञानमिवततां(श इति चेन्न | तथापि भे)दगत प्रतियोगि वैशिष्ट्यांशे तदभावात् | न च कनका च लोभेदप्रतियोगीवस्तुत्वादिति भेदप्रतिवैशिष्ट्यगोचरानुमित्या तत्संस्कारसंभवः | भेदज्ञानं विनाऽनुमित्यभावेनात्माश्रयापतेः | पक्षसाध्य हेतुपक्षताद्यभेदभ्रमे सति सिद्ध साधनादिनानुमाना प्रवृत्या तदभेदज्ञानविघटनीयस्पतेद्भेदज्ञानस्यापेक्षित्वात् | अस्तु तर्हि भेदांश इव प्रतियोगि वैशिष्ट्यांशेपि प्रत्यक्षत्वमिति चेन्न प्रतियोगिनोऽप्रत्यक्षत्वे तद्वैशिष्ट्य प्रत्यक्षायोगात् | संबंधि द्वय प्रत्यक्षं विना संबंध प्रत्यक्षं विना संबंध प्रत्यक्षा संभवात् | तस्मात् प्रत्यक्षायोग्यस्य प्रतियोगिनो भ्रांतिरूप एव प्रतिभास इति तदेकविति वेद्यत्व नियतस्य भेदस्य भेदैकविति वेद्यत्वनियमघटादेश्च भ्रमैकविषयत्वात्प्रत्यक्षं निर्विशेषसन्मात्रग्राह्यद्वैत सिद्ध्यनुकूलमिति || ततः किं तत्राह | भेदस्य चेति | प्रतियोगि सहोपालंभनियमवत प्. ३ब्) इति | ससंबंधिक पदार्थप्रत्यक्षे यावत् संबंधिविविषयकत्वस्य यावत् संबंधि प्रत्यक्षजन्यतायाश्च संयोगादि प्रत्यक्षे कॢप्तत्वाद्भेद पत्यक्षेपि यावत् प्रतियोगिविषकत्वं यावत् प्रतियोगिप्रत्यक्षजन्यत्वं च वाच्यं भेदप्रत्यक्षस्यापि ससंबंधिक पदार्थप्रत्यक्षत्वा तथा च यावंतः प्रतियोगिनस्तावतां प्रतियोगिनां प्रत्यक्षासंभवेन कॢप्त सामग्र्यभावान्रभेदः प्रत्यक्षप्रमायोग्य इति तस्य भ्रांतिमात्र सिद्धत्वं युक्तं | सिद्धांते तु भेदप्रत्यक्षस्य नित्यसाक्षिरूपत्वान्नाकारणापेक्षेतिभावः | सहोपलंभति यममात्रस्य भेदसत्यत्वमते कथंचिदुद्धारं शंकते | भेदज्ञानमिति | संस्कारापेक्षणादिति | तज्जन्यत्व संभवादित्यर्थः | भेदज्ञाने हि प्रतियोगिनां प्रतियोगितावछेदकरूपेणैवभानंपरैरुपेयते तेन रूपेण सकलप्रतियोगिगोचरपूर्वानुभवासंभवेन संस्काराभावादसंनिकृष्टप्रतियोग्यंशे स्मृतिरूपत्वमपि न संभवति | तदभ्युपगम्याप्याह सिद्धांती | न तथापीति | कनकाचलादिपदार्थानां सन्निकृष्टघटनिष्टभेदप्रतियागित्वेन पूर्वमननुभूतत्वादितिभावः | वैशिष्ट्यांशे पूर्वानुभवं शंकते | कनकाचल इति | एवमितरपदार्थेष्वप्यनुमानं द्रष्टव्यमितिभावः | आत्माश्रयापतेरिति | भेदज्ञानस्य भेदज्ञानाधीनत्वेन न किंचिद्भेदज्ञानं सिध्येदितिभावः | अप्रवृत्येति | तथा च पक्षाद्यभेदज्ञानस्यनुमिति प्. ४अ) प्रतिबंधकतया तद्विघटकं पक्षादिभेदज्ञानमावश्यकमितिभावः | तर्हीति | प्रतियोगि वैशिष्ट्यांशज्ञानस्य स्मृतिरूपत्वासंभवे सतीत्यर्थः | तदेकेति तत्पदं प्रतियोगि परं नियमेन प्रतियोगि ज्ञानविषयस्येत्यर्थः | वितिपदं प्रत्यक्षपरं भेदपदजन्यभेदज्ञानस्य प्रतियोगिविषयत्वादर्शनादिति बोध्यं | भ्रमैकविषयत्वादिति | अधिष्ठानस्यापि भ्रमविषयत्वात्कल्पितत्वप्रसंगवारणाय एकपदमधिष्ठानस्य च सम्यग्दर्शनं प्रत्यपि विषयत्वात् | भ्रांत्यैकविषयत्वमसिदं | तथा च प्रत्यक्षं सद्वस्तुन्येव प्रमाणं सच्छ्रुत्यनुकूलमित्यर्थः || न्यायसुधाकृतस्त्वाहुः | घटादैरैंद्रियकत्वेपि सन् घट इत्यादिरधिष्ठान सत्वानुवेध इति न विरोधः | एवं नीलो घट इत्यादिरधिष्ठाननैल्याद्यनुभवेधः | किं न स्यादिति चेन्न | श्रुत्या सद्रूपस्य वस्तुनो जगदुपादानत्वमुक्तमविरोधात् | सर्व संमतमिति तदनुवेधेनैव सन् घट इत्यादि प्रतिभासोपपतौ घटादावपि सत्ता कल्पने गौरवं | तस्य रूपादि हीनत्वान्नैल्यादिकं घटादावेव कल्पनीयमिति वैषम्यादिति संक्षेप शारीरकाचार्यास्त्वाहुः | प्रत्यक्षस्य घटादि प्. ४ब्) सत्वग्राहित्वेपि पराग्विषयस्य प्रत्यक्षादेः तत्वावेदकत्वलक्षणप्रामाण्याभावान्न तद्विरोधेनाद्वैत श्रुत्यादि बाधशंका अक्षात बोधकं हि प्रमाणं न च प्रत्यक्षादि विषयस्य घटादिरज्ञातत्वमस्ति जडे आवरणकृत्याभावेनाज्ञानविषयत्वानुपगमात् | स्वप्रकाशतया प्रसक्तप्रकाशं ब्रह्मैवाज्ञानविषय इति तद्बोधकमेव तत्वावेदकं प्रमाणं तदेव प्रमिति विषयः || अस्तु वा घटादेश्चाक्षुषत्वाद्यनुभवानुरोधेन चक्षुरादि गम्यत्वं | तथापि प्रपंचमिथ्यात्वसाधक श्रुतियुक्तीनां न प्रत्यक्षविरोधः | प्रत्यक्षस्यापि घटादौ पृथक् सत्वग्राहित्वाभावादित्याह | न्यायसुधाकृतस्त्वाहुरिति | सन् घट इत्यादिर्घटादेः सत्यप्रतिभासोधिष्ठां न सत्वासंबंधविषयक एव अतो न विरोध न इत्यर्थः | घटादौ प्रतीयमानसत्वस्याधिष्ठानगतत्वस्वीकारेति प्रसंगं शंकते | एवमिति | नीलो घट इत्यादिर्घटादौ नैल्यप्रतिभासोप्यधिष्ठान नैल्यसंबंधगोचरः | किं न स्यादित्यर्थः | तथा च ब्रह्मरूपवत् स्यादितिभावः | नैल्यादैः सतां वैषम्येण परिहरति नेति | श्रुत्येति | सदेवेत्यादि श्रुत्येत्यर्थः | सर्वसंमतमिति | सर्वैरेव स्वीकर्तव्यमित्यर्थः | न तु यथा श्रुतं वैशेषिकादिभिरनंगीकारादविरोधादिति प्. ५अ) रज्वादेः सर्पाद्युपादानत्ववत्कूटस्थ ब्रह्मणोप्युपादानत्वाविरोधादित्यर्थः | तदन्विति | तत्पदं अधिष्ठान सतापरं | तस्येति | जगदधिष्ठान भूतब्रह्मण इत्यर्थः | घटादावेवेति | न ब्रह्मणि तत्कल्पयितुं शक्यं श्रुतिविरोधादितिभावः | प्रत्यक्षस्य घटादौ पृथक्सत्व ग्राहित्वेपि तस्य प्रमाणाभासत्वान्न तेन श्रुतेर्बाधशंकाश इत्याह | संक्षेपशीरीरकाचार्यास्त्विति | परागविषयस्येति | जडमात्रविषयकस्येत्यर्थः | तत्वेति | अनधिगतत्वे सत्यबाधितं तत्वं तदा वेदकं तद्बोधकं प्रमाणलक्षणमिति बहुवादिसंमतं | तच्च प्रत्यक्षस्य नास्तीति प्रमाणाभासरूपं प्रत्यक्षमितिभावः | घटादेरिति | तस्याबाधितत्वे सत्यपि अज्ञातत्वं नास्तित्यभिप्रायः | अन्यथा तदभावादपि प्रत्यक्षघटादेक्षस्य प्रमाणाभासत्वप्रतिपादन संभवे अज्ञातत्वाभावमात्र प्रतिपादनायोगादतो बाधिता चासंभवमुपेत्य तस्याभासत्व प्रतिपादनमिह विवक्षितमिति बोध्यं कृत्यं कार्यं फलमिति यावत् || अत एव श्रुतिरप्यात्मावारे द्रष्टव्य इत्यात्मन एव प्रमेयत्वमिति निपछति | न हि द्रष्टव्य इत्यनेन दर्शनं विधीयते | प्रमाणपरतंत्रस्य तस्य विध्यगोचरत्वात् | किं त्वात्मादर्शनाहं इति अज्ञातत्वादात्मन एव प्रमेयत्वमुचितं नान्यस्येति प्. ५ब्) नियम्यत इति केचित् तु घटादि सत्वग्राहिणः प्रत्यक्षस्य प्रामाण्ये ब्रह्मप्रमाणाऽन्यूनतावगमेपि तद्ग्राह्यं सत्वमनुगतप्रत्ययात् सता जातिरूपं वा इहेदानीं घटोस्तीति देशकालसंबंधप्रतीतेस्तत्तद्देशकालसंबंधरूपं चा नास्ति घट इति स्वरूपनिषेध प्रतीतिर्घटादि स्वरूपं वा पर्यवस्यति | तच्च मिथ्यात्वैन न विरुध्यते | न हि मिथ्यात्ववादिनापि घटादेः स्वरूपं वा तस्य देशकालसंबंधो वा तत्र जात्यादिकं वा नाभ्युपगम्यते | किं तु तेषामबाध्यत्वं न चाबाध्यत्वमेव सत्यत्वं प्रत्यक्षग्राह्यमस्त्विति वाच्यं कालत्रयेपि नास्य बाध इति वर्तमान मात्र ग्राहिणाप्रत्यक्षेण गृहीतुमशक्यत्वादित्याहुः | स्वप्रकाशात्मन एव प्रमेयत्वे श्रुतिमपि प्रमाणयति | अत एवेति | अज्ञातत्वादेवेत्यर्थः | ननु द्रष्टव्य इति श्रुतिरात्मदर्शनं विधत्ते नेत्याह | नहीति | अगोचरत्वादिति | पुरुषयत्नसाध्यक्रियाया एव विधियोग्यत्वादितिभावः | विधिप्रत्ययस्य गतिं पृछति | किं त्विति | अर्हार्थस्तव्यप्रत्यय इत्याह | आत्मेति | प्रत्यक्षविषय जडस्याज्ञातत्वमुपेत्य जडबोधक प्रत्यक्षस्य श्रुतितुल्यप्रमाणत्व स्वीकारेपि प्रत्यक्षग्राह्यघटादि सत्वस्य मिथ्यात्वाविरुद्ध प्. ६अ) त्वा च मिथ्यात्वबोधक श्रुत्यादीनां प्रत्यक्षविरोधशंकेत्याह | केचित्विति | प्रत्यक्षग्राह्यं सत्वं सता जातिरूपं वा ततद्देशकालसंबंधरूपं वा घटादि स्वरूपं वा पर्यवस्यतीति संबंधः | जातिरूपत्वेमानमाह | अनुगतेति | सन् घटः सन् पद इत्यादिरूपादित्यर्थः | द्वितीये मानमाह | इहेति | इहेदानीं घट इति प्रतीतिर्घटे प्रेतीयमानदेशकालसंबंधमेव सत्तारूपतया विषयी करोतीति भावः | तृतीये मानमाह | नास्ति घट इतीति | घटो नास्तीति घटास्तिता निषेधत्वेन रूपेण घटस्वरूपनिषेधस्यैवानुभवात् घटास्तित्वं घटस्वरूपं पर्यवस्यतीत्यर्थः | ततः किं तत्राह | तच्चेति नहीति | तुछविलक्षणप्रपंच स्वरूपांगीकारादितिभावः | घटादेः स्वरूपं वा नाभ्युपगम्यत इति नहीति संबंधः | तथा तस्य देशकालसंबंधो वा नाभ्युपगम्यत इति नहीति संबंधः | तत्र जात्यादिकं वा नाभ्युपगम्यत इति नहीति संबंधः | एतत्सर्वं जगन्मिथ्यात्ववादिनाभ्युपगम्यत एव विरोधाभावादितिभावः | तर्हि कीदृशं सत्वं मिथ्यात्वविरोधियत्वत्वयानाभ्युपेयते जगतीति पृछति | किं त्विति | उत्तरं तेषामिति | घटादीनामित्यर्थः | किं तु तेषामुबाध्यत्वं वा भ्युपगम्यत इति संबंधः मिथ्यात्वस्य बाध्यरूपत्वा तद्विरुद्धसत्वमबाध्यरूपमेव चेतर्हीदमेव सत्यप्रत्यक्षविषयोस्तु तथा च प्रत्यक्षविरोधशंकास्यादेवेत्याशयवतीं शंकामुद्भाव्यनिराचष्टे | न चेत्यादिना | नास्येति जगत इत्यर्थः || प्. ६ब्) अन्ये तु अबाध्यत्वरूपसत्यत्वस्य प्रत्यक्षग्राह्यत्वेपि प्राणा वै सत्यं तेषां एष सत्यमिति श्रुत्याप्रधानभूतप्राणग्रहणोपलक्षितस्य कृत्स्न प्रपंचस्य ब्रह्मणश्च सत्यत्वोत्कर्षापकर्षप्रतीतेः | सत्यत्वे चाबाध्यत्वरूपे सर्वदैवाबाध्यत्वं किंचित्कालमबाध्यत्वमित्येवं विधोत्कर्षापकर्षं विना राजराजोमन्मथमन्मथ इत्यादिशब्दतात्पर्यगोचरनियंतृत्वसौदर्यादीनामिवभूयो विषयत्वाल्पविषयत्वादिरूपोत्कर्षापकर्षासंभवात् अबाध्यत्वरूपमेव सत्वं प्रत्यक्षविषय इत्युपेत्यापि प्रत्यक्षविरोधाभावमाह | अन्ये त्विति | अबाध्यत्वरूपसत्वस्य प्रत्यक्षग्राह्यत्वेपि न मिथ्यात्व श्रुतिविरोध इति संबंधः | कालत्रया बाध्यत्वरूपं सत्वं मिथ्यात्वविरोधि तच्च ब्रह्मण एव प्रपंचस्य तु यावतत्वज्ञानमबाध्यत्वरूपं सत्वमेतच्च न मिथ्यात्वविरोधीति न प्रत्यक्षविरोध इति वक्तुं प्रपंच ब्रह्मणोः | सत्व वैलक्षण्ये प्रमाणंमाह | प्राणा इति प्राणग्रहणं कृत्स्नप्रपंचोपलक्षणार्थं एषः परमात्मा तेषां सत्यंतानन पक्ष्यसत्य इत्यर्थः | तथा च श्रुतौ प्रपंचस्य सत्यत्वं निकृष्टं ब्रह्मणः सत्यत्वमुत्कृष्टमित्युक्तं भवति | तत्र प्राणपदेन प्रपंचोपलक्षणे नियामकमाह | प्रधानभूतति सूत्रात्मरूपस्य प्राणस्य जगद्विधारकत्वात्प्राधान्यं द्रष्टव्यं | न चोपलक्षणमोनान्नावः शंकनीयः | प्. ७अ) ब्रह्मस्वरूपप्रतिपादनपरे वाक्ये प्रपंचैक देशभूतप्राणग्रहणे प्रयोजनाभात्कृत्स्नोपलक्षणे तु सत्यत्वेन प्रसिद्धप्रपंचाधिष्ठानतया ब्रह्मैव परमार्थ सत्यं न तु प्रपंचस्तस्य श्रुतिबाधित्वेन परमार्थ सत्यत्वायोगादिति ब्रह्मप्रमिति रूपप्रयोजनसत्वादितिभावः | किं तत्राह | सत्यत्वे चेति | राजेति राजत्वं पालकत्वरूपं नियंतृत्वं तच्च पाल्यदेशसापेक्ष्यं तथा च विष्णुशर्मा राजराज इति प्रयोगे विष्णुशर्मण इतरराजापेक्षया उत्कर्षः प्रतीयत इतिरेषां च विकर्षः तौच पालनस्य भूयो देशविषयकत्वाल्पदेशविषकत्वरूपौ मन्मथस्तावन्नारायणपुत्रः सुंदर इति प्रसिद्धिः | पुराणेषु तथा चाति सुंदरोयमिति तात्पर्थेणमन्मथमन्मथ श्रीराम इति प्रयोगो दृश्यते | तत्र सौंदर्यं नाम उत्कृष्टरूपादिमत्वमति सौंदर्ययं | ततोप्युत्कृष्टरूपादिमत्वमिति बोध्यं | असंभवादिति | नियंतृत्व सौंदर्यादि विलक्षणे बाधाभावरूपेपत्वे भूयो विषयत्वाल्पविषयत्वरूपोत्कर्षापकर्षयोर्जातिविशेषरूपयोश्चा- संभवादित्यर्थः | नन्व बाधितत्वरूपेपि सत्वे प्रकारांतरेणोत्कर्षो संभवत तथाहि प्रपंच ब्रह्मणोः कालत्रया बाध्यत्वरूपे सत्वे समानेपि ब्रह्मगतं सत्वं श्रुतिगम्यत्वादुत्कृष्टं इतरतु लौकिकप्रमाणगम्यत्वान्निकृष्टमितिमिति श्रुत्यर्थो || विधांतरेण तत्संभवेपि प्रपंचस्य ब्रह्मज्ञानबाध्यत्व प्. ७ब्) श्रुत्यंतरैकार्थ्यादुक्तोत्कर्षापकर्ष एव पर्यवसानाच्च प्रत्यक्ष ग्राह्यं घटाटि सत्यत्वं यावत् ब्रह्मज्ञनमबाध्यत्वरूपमिति न मिथ्यात्व श्रुतिविरोध इत्याहुः | अपरे तु प्रपंचस्य सत्थत्वमित्थ्यात्वग्राहिणोः | श्रुतिप्रत्यक्षयोर्विरोधेपि दोषशंका कलंकितात् | प्रथमप्रवृतात्प्रत्यक्षान्निर्दोषत्वादयछेदन्यायेन परत्वाच्च श्रुतिरेव बलीयसी | प्रावल्यमागमस्यैव जात्या तेषु त्रियुस्मृतमिति स्मरणाच्च | न च वेदैकगम्यार्थविषयकमिदं स्मरणं | तत्र प्रत्यक्षविरोधशंकाभावेन शंकित प्रत्यक्षविरोध एव वेदार्थे वेदस्य प्रावल्योक्त्यौ चित्यात् || पपादनसंभवा तथा च मिथ्यात्वविरुद्धसत्वग्राहि लौकिकप्रमाणविरोधशंकास्यादेवेति नेत्याह | विधांतरेणेति | प्राणा वै सत्यमिति श्रुतौ सत्यशब्दः प्रपंचस्य यदि कालत्रया बाध्यत्वरूपं सत्यत्वं प्रतिपादये तदा निखिलप्रपंचस्य ब्रह्मज्ञानबाध्यत्वप्रतिपादक श्रुत्यंतरेण सहप्राणा वै सत्यमिति श्रुतेर्विरोधः | स्यान्न चाविरोधेन श्रुतिद्वयप्रामाण्यसंभवे विरोधेन प्रामाण्यं हातव्यं तस्माच्छ्रुत्युक्त सत्वोत्कर्षार्योः कालत्रया बाधत्वादावेवपर्यवसानं वाच्यं प्. ८अ) नान्यत्रेत्यर्थः | एवमत्राहुरित्यादिना प्रपंचमिथ्यात्व साधकश्रुतियुक्तीनां प्रत्यक्षं विरोधि न भवतीति प्रतिपादितमिदानीं प्रत्यक्षस्य कालत्रयाबाध्यत्वरूपसत्वग्राहित्वेन श्रुतिविरोधित्वेपि न मिथ्यात्वसिद्ध्यनुपपतिः | श्रुत्या प्रत्यक्षस्य बाधोपपतेरित्याह | अपरे त्विति | श्रुतिरेव प्रत्यक्षाद्वलीयसीति संबंधः श्रुतेः प्रावल्ये हेतुद्वयमाह | निर्दोषत्वादिति | अपछैदन्यायो वक्ष्यते प्रत्यक्षस्यापि निर्दोषत्वादिकं तुल्यमिति शंकांचारयति | दोषेति | एतच्चाग्रे स्पष्टं भविष्यति | श्रुतेः प्रावल्ये मनुवचनमपि नियामकमित्याह | प्रावल्यमिति | जात्या आगमत्वेनैव तेषु प्रकृतेषु प्रत्यक्षानुमानागमेषु स्मृतं वैदिकेषु प्रसिद्धमित्यर्थः | ननु वेदैक गम्ये स्वर्गसाधनत्वादौ वेदस्य प्रावल्यप्रतिपादकं तद्वचनं मिथ्यात्वं तु न वैदैक गम्यं | तस्यानुमानादि नापि सिद्ध्युपगमादतस्तत्र श्रुतेः | प्रावल्ये तद्वचनं न प्रमाणमिति मत्वाशंकते | न चेति | निराकरोति | त्रतेति | वेदैकगम्यार्थ इत्यर्थः | तथा च वचनस्य तद्विषयत्वे वैद्यर्थ्यं स्यादिति भावः | वचनस्य मिथ्यात्वप्रतिपादकश्रुतिप्रावल्यपरत्वे तु सार्थक्यमित्याह | शंकितेति | शंकितः प्रत्यक्षेण सह विरोधोपस्य मिथ्यात्वरूपस्य वेदार्थस्य स तथा | एतदुक्तं भवति | यस्मिन्नर्थे वेद तदितर प्रमाणयोर्विरोधः प्. ८ब्) प्रसक्तस्तस्मिन्नर्थे द्वयोः प्रामाण्यायोगादन्यतर बाधे कर्तव्ये सति तत्र प्रवलेन दुर्बलस्य वाध इति च स्थिते कस्य प्रावल्यमिति भवत्यपेक्षा तथा च वचनस्यापेक्षितार्थ समर्पकत्वात्सार्थक्यमिति | तलवदृश्यते व्योमस्वद्योतो हव्यवाडिव न तलं विद्यते व्योम्नि न खद्योतो हताशनः | तत्स्मात्प्रत्यक्षदृष्टेपि युक्तमर्थे परिक्षितुं परीक्ष्यज्ञापयन्नर्थान्न धर्मात्परिहीयत इति नारद स्मृतौ साक्षि प्रकरणे प्रत्यक्षदृष्टस्यापि प्रत्यक्षमविश्वस्य प्रमाणोपदेशादिभिः परीक्षिणीयत्वप्रतिपादनाच्च | न हि नभो नैल्यप्रत्यक्षं नभसः शब्दादिषु पंचसु शब्दैकगुणत्वप्रतिपादकागमोपदेशमंतरेण प्रत्यक्षादिनाशक्यमपवदितुं | न च नभसि समीपे नैल्यानुपलंभात् || ननु प्रत्यक्षस्य क्वचिदप्रामाणो दृष्टे सति प्रपंच सत्वग्राहि प्रत्यक्षेपि मिथ्यात्वविरोधि कोट्यनुसंधानवतांस्यादप्रापाण्यरूपदोषशंका ततश्च शंकित दोष प्रत्यक्षं मिथ्यात्वश्रुत्यानिर्दोषत्वेन प्रवलया बाध्यत इति वक्तव्यं | तच्च न संभवति क्वचिदपि प्रत्यक्षाप्रामाण्यादर्शनादिति सत् व्यातिवादिनः | शंकां नारदवचनोदाहरणेन प्. ९अ) निराकरोति | तलवदिति | तलमिंद्रनीलमणिमयकटाहाकारत्वं | तस्मादिति | सर्वजनप्रसिद्धस्यापि व्योमादौ तलादि प्रत्यक्षस्याप्रामाण्य दर्शनादित्यर्थः | अर्थ इति | प्रत्यक्षदृष्टेप्यर्थ इत्यर्थः | ज्ञापयन्निति | आचार्यः शिष्यान्प्रति शास्त्रार्थान् बोधधयन् धर्मात् श्रेयः साधनभूतात् न प्रच्यवत इत्यर्थः | आत्मनः श्रुत्युक्तं साक्षित्वमनुपपन्नं | तस्य बोद्धृत्वेपि कर्तृत्वेनोदासीनत्वा भावादिति पूर्वपक्षे प्राप्तै अहंकरोमीति प्रत्यक्षमात्रेणात्मनि कर्तृत्वं वास्तवमिति सहसा विश्वासो न कर्तव्यः लोके प्रत्यक्ष दृष्टस्यापि बाधदर्शनादतः प्रत्यक्षदृष्टसपि आत्मनि कर्तृत्वं किं चैतन्यवद्वास्तवं किं वा कल्पितमिति सम्यग्विचार्य श्रुति न्यायाभ्यां कल्पितमेव तदतो न साक्षित्वस्यानुपपतिरिति शिष्यान्प्रतिबोधयन्नाचार्यो धर्मान्न परिहीयत इत्येतद्विषयकं नारदवचन द्वयमिति सूचयति | साक्षिप्रकरण इति | एवं प्रत्यक्षदृष्टमपि प्रपंच सत्वं किं तस्य वास्तवं किं वा काल्पनिकमिति परीक्षायुक्तेत्याशयेन नारदवचनस्य प्रकृतसाधारणं तात्पर्यं कथयति | प्रत्यक्षदृष्टस्यापीति | प्रमाणपदमागमपरमनुमानार्थापत्त्यादय आदिपदग्राह्याः प्रतिपादनाच्च प्रत्यक्षापेक्षया श्रुतिर्वलीयसीति संबंधः | प्रत्यक्षस्य दोषशंका कलंकितत्वं प्रदर्श्य तस्यागमेन बाधं प्रकृतोपयोगितया प्. ९ब्) प्रतिपादयति | नहीत्यादिना | नभोनैल्यप्रत्यक्षं प्रत्यक्षादिना न हि शक्यमपवदितुमिति संबंधः | आगमं विनापि नीलं नभ इति प्रत्यक्षस्य बाधकमस्तीति शंकते | न चेति | समीपे गगने रूपानुपलंभेन समीपे रूपाभावनिश्चये सति दूरेपि तत्र रूपं नास्तीति निश्रीयते रूपस्य व्याप्यवृतित्वनियमेन तदेकदेशवृतित्वायोगादित्यर्थः || दूरे तद्धीर्दूरत्वदोषजन्येति निश्चयेन तुद्बाधदूरे नैल्यदर्शनात् समीपे तदनुपलंभः तुंहिनावकुठनानुपलंभवत्समीपत्व दोषजन्म इत्यपि संभवात् | अनुभवबलान्नभो नैल्यमव्याप्यवृतीत्युपपतेश्च | नापि दूरस्थस्य पुंसो यत्र भूसंनिहिते नभः प्रदेशे नैल्यधीस्तत्रैव समिप गतस्य तस्य नैल्य बुद्धेरभावात्प्रत्यक्षेण बाधः | उपरिस्थितस्यैव नैल्यस्याभ्रनक्षत्रादेरिवदूरत्व दोषाद्भूसंनिधानावभास इत्युपपतेः | पृथिव्यादिषु संकीर्णतया प्रतीयमानांनां गंधादीनांमुपलभ्याप्सु वायौ च चेद्गंधं केचिद्भूपुरनैपुणाः | पृथिव्यामेव तं विद्यादयो वायुं च संश्रितमित्यादिभिरागमैरेव व्यवस्थाया प्. १०अ) वक्तव्यत्वेन प्रत्यक्षादागमप्रावल्यस्य निर्विशंकत्वाच्च || कथं तर्ह्यति दूरे नीलं नभ इति धीस्तत्राह | दूरे तद्धीरिति | तद्बाध इति | तस्य नभो नैल्यप्रत्यक्षस्य इति निश्चयेन बाधो | न चेत्यत्र हेतुमाह | दूरे नैल्यदर्शनादिति | तुहिनावकुंठनं हिमरूपमावरणं तद्विसमीपे सदपि न दृश्यते | दूरे तु वृक्षाद्यावरणरूपत्वेन दृश्यते तद्वत् | सर्वत्र गगने विद्यमानमपि रूपं समीपेन दृश्यत इत्यर्थः | दोषजन्य इति | दोषाधीन स्थितिक इत्यर्थः | यथा च श्चतेऽनुपलंभस्य उपलंभप्रागभावरूपस्याऽजन्यरूपस्य जन्यत्वाभावादसंगतं स्यात्सामीप्यदोषेण तदुपलंभे निरुद्धे तत्प्रागभावस्य नाशाभावाद्दोषाधीनस्थितिकत्वमस्तीति नासंगतिरिति मंतव्यं | रूपस्य व्याप्यवृतित्वनियममुपेत्यसमीपे तदनुपलंभस्य गतिरुक्ता इदानीं व्याप्यवृतित्वनियमस्यासिद्धिमाह | अनुभवबलादिति | नभो नैल्य प्रत्यक्षस्य यौक्तिक निश्चय बाध्यत्वं निरस्य प्रत्यक्षबाध्यत्वमाशंक्यनिराकरोति | नापीत्यादिना | भूसंनिहित गगनभागे कुत्रापि नैल्यं नास्त्येव तत्र तत्प्रतीतिस्तु दूरत्वदोषात्संभवतीत्याह | उपरिस्थितस्येति तथा च गगननैल्यप्रत्यक्षमागमैक बाध्यमिति प्. १०ब्) स्थितं | प्रत्यक्षस्यागमेन बाधे उदाहरणांतरमाह | पृथिव्यादिष्विति | अप्सुवायौ च पृथिव्यामिव गंधमुपलभ्य केचिदनैपुणाब्रूयुः | तयोरपि गंधः स्वाभाविक इति तत्र तथा ग्राह्यं किं त्वपो वायुं च संश्रितं गंधं तदंतर्गत पृथिव्यामेव स्थितं विद्यादिति वचनार्थः | इत्यादिभिरिति | आदिपदेनरसोजलमात्रगुणः रूपं तेजोमात्रगुणः स्पर्शो वायुमात्रगुणः शब्द आकाशमात्रगुणः पृथिव्यादिषु रसाद्युपलब्धिरपि | पृथिव्याद्यंतर्गत जलाद्याश्रितरसादिविषयेति व्यवस्थाप्रतिपादक पुराणवचनानि ग्राह्याणि || नह्याजानसिद्धजलोपष्टंभादिगतं गंधादि पृथिवी गुण एव न जलादि गुण इत्यादि रूपेणास्मदादिभिः | प्रत्यक्षेण शक्यं विवेचयितुं | पृथिव्यादीनां प्रायः परस्परसंसृष्ट तथान्यगुणस्यान्यत्राप्यवभासः संभवतीति शंकितदोषप्रत्यक्षं तत्रागमेन शिक्ष्यत इति चेत् | तहीहापि ब्रह्मप्रपंचयोरुपादानोपादेय भावेन परस्परसंसृष्टतयाऽन्यधर्मस्यान्यत्रावभासः | संभाव्यत इति शंकितदोषं प्रत्यक्षमस्तिभाति प्रियं रूपं नामचेत्यंश पंचकं प्. ११अ) आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयमिति | वृद्धोक्त प्रकारेणागमेन व्यवस्थाप्यतामिति तुल्यं न चैव मुपजीव्यविरोधः || ननु जले पुष्पादिरूपपार्थिवांश संसर्गे सति गंधोपलब्धिरस्तितान्यथेत्यन्वयव्यतिरेकाभ्यामेव गंधस्य पृथिवीमात्रगुणत्व निर्णय संभवात् | किमागमेनेति चेत् नेत्याह | नहीति | आजानसिद्धो यो जलोपष्टंभः पार्थिवद्रव्यविशेषस्तदादिगतमित्यर्थः | जल एव गंधः क्वचित् स्वाभाविकः क्वचिदौपाधिक इति कल्पनोपपत्तेश्चेतिभावः | ननु जलादौ गंधादि प्रत्यक्षमप्रामाण्यरूपदोषशंका | कलंकितत्वादागमेन शिक्ष्यत इति युक्तं प्रपंच सत्वग्राहि प्रत्यक्षं तु तच्छंका शून्यमिति कथं तस्यागमेन बाध इत्याशयेन शंकते | पृथिव्यादीनामिति | तस्य तच्छंकाशून्यत्वमसिद्धमिति तस्यागमबाध्यत्वं युक्तमित्याह | तहींति | संसृष्टतयेति | संसर्गस्तादात्म्यं | अन्य धर्मस्येति | जगदुपादानत्वेन श्रुतिसिद्धस्य सद्वस्तुनो धर्मः सता तस्या एव प्रपंचे प्रतीतिः संभाव्यते | अतः प्रपंच सत्वग्राहि प्रत्यक्षमन्यसताविषयकत्वेन भ्रांतिरूपं वा प्रपंचस्य स्वाभाविकासताविषयकत्वेन प्रमारूपं वेति | शंका कलंकितमित्यर्थः | प्रत्यक्ष बाधप्रकारं वृद्धवचनेन दर्शयति | अस्तीति | अस्ति घटो भाति घटः | प्रियो घट इति घटे सत्वचैतन्यानंदास्तावदनुभूयंतै प्रियशब्दस्यानंदे प्. ११ब्) मुख्य त्वात् घटस्यानंद तादात्म्य प्रतीतिरूपपद्यत | एवं पदादिष्वपि द्रष्टव्यं | नामघटशब्दादि कंबुग्रीवाद्यात्मकं वस्तुरूपमंशपंचकमंशपंचकमंशाः पंचयस्य जगतः तदंशपंचकमनुभूयते | न च कृत्स्नेपि जगति पंचात्मकत्वानुभवो नास्ति दुःखं प्रियमित्यनुभवादर्शनादितिवाव्यं | केषांचित् परकीये दुःखे तदनुभवस्यापि सत्वा तथा च सर्वत्रानुगतं सच्चिदानंदरूपं वस्तुब्रह्मैव ब्रह्मणस्तद्रूपतायाः श्रुतिसिद्धत्वान्नामरूपात्मकरूपमत्रतायाः सर्वाणि रूपाणि विचिंत्य धीर इत्यादि श्रुतिसिद्धत्वादित्यनेन प्रकारेण प्रपंच सत्वग्राहि प्रत्यक्षं जगतः स्वाभाविकसताविषयकं न भवति | किं त्वधिष्ठानतया जगत्यनुगतब्रह्मसताविषयकमेवेति व्यवस्थाप्यते श्रुत्येत्यर्थः | एवं प्रत्यक्षस्यागमापेक्षयास्वतः प्रावल्यं निरस्य उपजीव्यत्वप्रयुक्तं निरस्यति | न चैवमिति | प्रत्यक्षस्यागमेन बाधांगिकार इत्यर्थः | वर्णपदवाक्यात्मकशब्दप्रत्यक्षं हि श्रुतिजन्यमिथ्यात्वबोधं प्रत्युपजीव्यं शब्दज्ञानं विनाशाब्दबोधानुदया तथा च शुत्याप्रत्यक्षमात्रबाधे शब्दप्रत्यक्षस्यापिबाधः प्रसज्येत तथा चोपजीव्यबाधः स्यादित्यर्थः || अगमप्रमाणेन वर्णपदवाक्यादि स्वरूपांश प्रत्यक्ष्यमुपजीव्यानुपत्रीव्यतत्सत्वांशोपमर्दनादित्याहः | नन्वागमस्य प्रत्यक्षात् वलीयस्त्वे यजमानः प्. १२अ) प्रस्तर इत्यत्र प्रत्यक्षाविरोधाय यजमानशब्दस्य प्रस्तरे गौणीष्टतिर्न कल्पनीया | तथा सोमेन यजेतेत्यत्र वैययधिकरण्येनान्वये यागे इष्टसाधनत्वं सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापारभेदेन वाक्यभेदापतेः सामाधिकरण्येनान्वये वक्तव्ये प्रत्यक्षाविरोधाय सोमवतायागेनेति मत्वर्थलक्षणा न कल्पनीया | उभयत्रापि सत्पक्षविरोधे तदनादृत्यागमेन वलियसा प्रस्तरे यजमानाभेदस्य यागे सोमाभेदस्य च सिद्धिसंभवादिति चेत् | अत्रोक्तं भामतीतिबंधे | तात्पर्यवती श्रुतिः प्रत्यक्षाद्वलवती न श्रुतिमात्रं मंत्रथिवादानां स्तुति द्वारभूतेर्थे वाक्यार्थद्वारभूते पदार्थे इव न तात्पर्यं || श्रोत्रेंद्रियेण जायमानं प्रत्यक्षं शब्दस्वरूउपं तस्य सत्वं च विषयी करोति श्रुत्या च सत्वांशय प्रत्यक्षमेव बाध्यते तच्च न श्रुते रूपजीव्यं कल्पितशब्दस्यापि बोधकत्व संभवेन शाब्दबोधार्थं तत्सत्वस्यानपेक्षितत्वाद्यच्च शब्दस्वरूपांश प्रत्यक्षमुपजीव्यं तन्न बाध्यते विरोधाभावादतो नोपजीव्यविरोध इति परिहरति | आगमप्रमाणेनेति | आगममात्रस्य प्रत्यक्षात्प्रावल्यमुक्तमाक्षिपक्षिपत्वि नन्वागमस्येति | गौणिति क्रतु निर्वर्तकं प्. १२ब्) गुणस्तथेति सिद्धांते इष्टसाधनत्वं विध्यर्थः | ततश्च सोमयजिपदयोर्वैप्यधिकरण्येनान्वये स्वीक्रियमाणे याग इष्टसाधनं सोमो यागरूपेष्टस्य साधनमिति सकृत् छ्रुतस्य विधि प्रत्ययस्य व्यापारभेदापत्या तद्घटितवाक्यस्यापि व्यापारभेदापतेस्तत्परिहारायतयोः सामानाधिकरण्येनान्वयो वक्तव्य इति सिद्धांते स्थिते सतीत्यर्थः | प्रत्यक्षाविरोधायैति | सामानाधिकरण्यपक्षे सोमयागयोरभेदो वक्तव्यः | सोयमित्यादि स्थले समानाधिकरणपदद्वयस्य पदार्थद्वयाभेदार्थकतायाः कॢप्तत्वात्स च प्रत्यक्षविरुद्ध इति तत्परिहारायेत्यर्थः | सोमवतैति सोमपदस्य मत्वर्थे लक्षणा तथा च सोमवतायागे नेष्टं भावयेदिति मीमांसकरीत्यावाक्यार्थः | सिद्धांतरीत्या तु सोमवदभिन्नो याग इष्टसाधनमिति वाक्यार्थो द्रष्टव्यः | सोमस्य यागेन सहमत्वर्थ संबंधश्च वस्तुगत्या क्रियाकारकभावलक्षण इति ज्ञापनार्था सोमेनेति तृतीया भामतीति | भासती संज्ञक ग्रंथे वाचस्पति मिश्रैरुक्तमित्यर्थः | न श्रुतिमात्रमिति | तथा च सोमेन यजेतेत्यत्र सोमयागसंबंधे श्रुतेस्तात्पर्या भावाच्छ्रुत्यपेक्षया प्रत्यक्ष मे वलवदिति तदविरोधापलक्षणा कल्पनमुचितं | तथा यजमानः | प्रस्तर इत्याद्यर्थ वादानामपि स्वार्थे तात्पर्या भावात् | प्रत्यक्षप्रावल्यमिति तत्रापि तदविरोधाय गौण्यादिकल्पनं युक्तं प्रपंचमिथ्यात्व बोधक श्रुतीनां तु तात्पर्य सत्वात् | प्रत्यक्षापेक्षया प्. १३अ) प्रावल्यमिति तासां तद्बाधकतुं निष्ट्यत्यूहमिति समाधान ग्रंथार्थः | ननु मंत्रार्थवादानामपि स्वार्थे तात्पर्यं किं न स्या तत्राह | मंत्रेति | तेषां स्वार्थै फलाभावाद्गौरवाच्च तात्पर्यं न कल्पत इति भावः | देवस्य त्वेत्यादिभिर्मंत्रैर्यजमानः प्रस्तर इत्याद्यर्थ वादैश्च विधेय यागस्तुतिर्लक्षणीया तत् श्च मंत्रादि वाक्यार्थस्य || तात्पर्याभावे मानांतराविकद्वंदेवताविग्रहादि कथं तेभ्यः सिद्ध्येत् | तात्पर्यवत्येव शब्दस्य प्रामाण्यनियमादिति चेन्न ऐत् स्यैवरेवतीषु वारवंतीयमग्निष्टोमसामकृत्वा पशुकामो ह्येतेन यजेतेति विशिष्टविधेस्तात्पर्यागोचरे विशेषण स्वरूपे प्रामाण्यदर्शनेनोक्तनियमासिद्धेः | अत्र हि रेवती ऋगाधारं वारवंतीयं सामविशेषणं न चैतत्सोमादिविशेषणेवत् लोकसिद्धं येन तद्विशिष्टयागविधिमात्रे प्रामाण्यं वाक्यस्य स्यात् द्रव्यदेवतादिरूपस्य लक्षणीययास्तत्यासहसंबंधो वाच्यः इतरथामंत्रादीनां स्वज्ञाप्यसंबंधाभावेन स्तुतिलक्षकत्वान्वययजेरतस्तुतौ लक्षणीयायां मंत्रादिवाक्यार्थो द्वारभूतः प्. १३ब्) पथागंगापदेन तीरे लक्षणीये प्रवाहः | अतोपि न तत्र तेषां तात्पर्यं लक्षणास्थले द्वारभतार्थे तात्पर्यादर्शनादित्याशयेनाह | स्तुतिद्वारभूत इति | तत्र स्वयं दृष्टांतमाह | वाक्यार्थद्वारभूत इति वाक्यार्थ तात्पर्येण प्रयुक्तानां पदानां वाक्यार्थप्रतिपतिद्वारभूतेषु स्मारितपदार्थेषु यथा तात्पर्यं नास्ति तथेत्यर्थः | विधिपरमंत्रार्थवादानां स्वार्थे तात्पर्या भावे देवताविग्रहादि प्रतिपादिकानां वज्रहस्तः पुरंदर इत्यादीनामपि देवताविग्रहादौ स्वार्थे तात्पर्याभावापत्या तेषां देवताविग्रहादि प्रमिति जनकत्वं न स्याद्वेद तात्पर्यविषयत्वस्य वेदजन्य प्रमिति विषयत्वं प्रतिव्यापकत्वाद्व्यापकनिवृत्यातन्निवृतेरावश्यकत्वा तदाहुः | यत्परः शब्दः सशब्दार्थ इति तथा च देवताधिकरणविरोधः तत्रान्यपरेभ्योपि मंत्रादिन्यो देवता विग्रहादि सिद्धिप्रतिपादनादित्याशयेन शंकते तात्पर्याभाव इति मानांतराविरुद्धत्वविशेषणं यजमानः | प्रस्तर इत्यादिवारणाय | इदमुपलक्षणं मानांतराप्राप्तस्यापि यतच्च विशेषणमग्निर्हिमस्य भेषजमित्यादि वारणाय | अद्येर्हिमभेषजत्वस्य प्रत्यक्षत्यक्ष सिद्धत्वेन तस्यर्थवादतः सिद्ध्य न पेक्षणा तथा च मानांतरेण विरोधप्राप्त्योरभावे सत्यन्यपरेभ्योपि मंत्रादिभ्योवगम्यमानोर्थः | सिद्ध्यत्येव देवताविग्रहादिश्च तथाविध इति तत्सिद्धिरप्रत्यूहेति प्रतिपादितं देवताधिकरण इति भावः | परिहरति | नेति प्. १४अ) एतस्यैवैति इदमेतद्व्यत्येव देवताविग्रहादिश्च तथाविध इति तत्सिद्धिरप्रत्यूहेति प्रतिपादितं देवताधिकरण इति भावः | परिहरति त्पदप्रकृताग्निष्टद्धर्माति देशकं तथा चरेवत्योयारकवारवंतीयाख्यं सामाग्निष्टोमसामकृत्वा प्रकृताग्निष्टद्धर्मकेणानेतयागेन पशून् भावयेत् इति श्रुत्यर्थः | विशिष्टविधेरितिरेवत्याधारकवारवंतीपसामादि विशेषण विशिष्ट क्रतु भावनाविधेरित्यर्ह्तः | उक्तेति | शब्दतात्पर्यविषयत्वस्य शाब्दप्रमितिविषयत्वं प्रतिव्यापकत्वरूपनियमासिद्धेरित्यर्थः | उक्तमर्थं विवृणोति | अत्र हीति | न चैतदिति | यदि वारचंतीयं सामरेवतीषु ऋत्त्वध्ययनसिद्धं भवे तदा तस्य विशेषणस्य दध्यादिवल्लोकन एवावगतत्वाद्वाक्यस्य तद्व्यतिरेकार्थ एव प्रमितिजनकत्वरूपं प्रामाण्यं भवेन्नत्वे तदस्ति | वारवंतीय साम्न ऋगंतरेष्वेवाध्ययनमिद्वत्वादतो वाक्यादेवरेवत्याधारकवारवंतीयाख्यविशेषणस्य प्रमितिर्वक्तव्येत्यर्थः || नापि विशिष्टविधिनाविशेषणाक्षेपः | आक्षेपाद्विशेषण प्रतिपतौ विशिष्टगोचरो विधिस्तस्मिंश्च सति तेन विशेषणाक्षेप इति परस्पराश्रयापतेः | अतो विशिष्टविधिपरस्यैव वाक्यस्य विशेषणस्वरूपेपि प्रामाण्यं वक्तव्यं प्. १४ब्) अथ च तत्र न तात्पर्यमुभयत्र तात्पर्ये वाक्यभेदायतेः | एवमर्थवादानामपि विधेय स्तुति पराणां स्तुति द्वारभूतैर्थेन तात्पर्यमिति तेभ्यः प्रत्यक्षस्यैव चलवत्वात् तदविरोधायतेषु वृत्यंतरकल्पनं सोमेन यजेतेत्यत्र विशिष्टविधिपरे वाक्ये सोमद्रव्याभिन्नतया यागरूपं विशिष्टं विधेयमित्युपगमे तस्य विधेयस्य दध्नाजुहीतीत्यादौ विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विशिष्टविधिपराद्वाक्यादेवरेवत्याधारवारवंतीयादि विशेषणस्येव | विना तात्पर्यं सिद्धिरष्टव्यानष तात्पर्यरहितादागमाद्याग सोमलताभेदग्राहि प्रत्यक्षविरुद्धार्थः सिद्ध्यतीति हेतोः | तत्रापि तदविरोधायमत्वर्थलक्षणाश्रयणं || ननु विशिष्टविषयको विधिरप्रसिद्धविशेषणस्वरूपप्रमिति जनकं रेवतीषुवारवंतीयं सामकुर्यादित्येवमात्मकं विशेषणविधिमाक्षिपति तथा च तस्य विशेषणस्य नैतद्वाक्यप्रमेयत्वमिति नेत्याह | नापीति | विशेषणगोचरविधिकल्पनात् | पूर्वं विशिष्टविधिनाविशेषणस्वरूपं प्रमितं वा न आद्ये तत्कल्पनं व्यर्थं द्वितीये विध्याक्षेपो न सिध्यति प्रमितस्यैवद्दव्यदेवतासंबंधस्य प्. १५अ) यागविध्याक्षेपकत्वदर्शना तथा च विशिष्टविधिनानिशेषणविधिराक्षिप्यत् इति वदता आक्षेपात् प्राग्विशेषणस्य प्रमितत्वं वाच्यं तत्प्रमापकश्च कस्त्यितविधिरिति | वक्तव्यं ततश्चाक्षिप्तविधिनाविशेषण स्वरूपे प्रमिते सति प्रकृतविधिर्विशिष्टगोचरः सिध्यति | तस्मिंश्च प्रकृतविधौविशिष्टगोचरे सति तेन विष्टविधिनाविशेषणविध्याक्षेप इति | परस्पराश्रयापत्याविशेषणविध्याक्षेपासिद्धेरित्यर्थः | अत इति रेवत्याधारकवारवतीय सामाख्यविशेषणस्य प्रकृतवाक्यादन्यतः प्रमित्यभावादित्यर्थः | तर्हि तत्रापि तात्प्र्यमस्तु नेत्याह | अथ चेति गौरव्यदिति भावः | न च यत्परः शब्दः सशब्दार्थ इति न्यायविरोधः | शंकनीयः | तस्यौत्सर्गिकत्वोपपत्तेः प्रकृते च गौरवलक्षण बाधकसत्वान्न तस्येह प्रसक्तिः | एवमिति विशिष्टविधेर्विशेषणरूप इवेत्यर्थः | न तात्पर्यमिति | तथा च तात्पर्याविषयेपि रेवतीवारवंतीय विशेषणस्वरूपे श्रुतेः | प्रमिति जनकत्ववदन्यपसणामपि मंत्रादीनां देवताविग्रहादि प्रमिति जनकत्वं संभवतीति न देवताधिकरणविरोध इति भावः | प्रकृतमाह | तेभ्य इति | मंत्रार्थ वादेभ्यस्तोत्पर्यरहित श्रुतिवाक्येभ्य इति यावत् | सोमेन यजेतेत्यत्रसामानाधिकरण्ये नान्वय इति सिद्धांते कथं प्रत्यक्षविरोधः कथं वा तदविरोधावलक्षणा प्. १५ब्) कल्पनमित्याकांक्षायामाह सोमेनेति | तत्रापीति | यजमानः यस्तर इत्यत्रैवेत्ययि शब्दार्थः | प्रत्यक्षाविरोधाय वृत्यंतरकल्पनमात्रैदृष्टांतः न तु मत्वर्थलक्षणांशेपीति बोध्यं || अद्वैतश्रुतिस्तूपक्रमोपसंहारैकरूप्यादि षद्भिधिर्लिगावगमिता- द्वैत तापर्याप्रत्यक्षाद्वलवतीति ततः प्रत्यक्षस्यैव वाधः | न तदविरोधाय श्रुतेरन्यथा नयनमिति | विवरणवार्तिके तु प्रतिपादितं न तात्पर्यवत्वेन श्रुतेः प्रत्यक्षात्प्रावल्यं कृष्णलं श्रययेर्दिति विधेः श्रपणस्य कृष्णलार्थत्व प्रतिपादने तात्पर्येपि कृष्णले रूपरसपरावृतिप्रादुर्भावपर्यंत सुख्यश्रषणसंबंधः प्रत्यक्षविरुद्ध इति तदविरोधाय श्रयणशब्दस्योष्णीकरणमात्रे लक्षणाभ्युपगमात् | तत्वमसीति वाक्यस्य जीवब्रह्माभेदप्रतिपादने तात्पर्येपि त्वं पदवाच्यस्य तत्पदवाच्याभेदः प्रत्यक्षविरुद्ध इति | तदविरोधाय निष्कृष्टचैतन्यलक्षणाभ्युपगमाच्च ननु द्वैतस्य मिथ्यात्वबोधकाद्वैतश्रुतेरपि न स्वार्थे मिथ्यात्वे तात्पर्यं मानाभावा तथा च द्वैतसत्वग्राहि प्रत्यक्ष प्. १६अ) विरोधपरिहारायाद्वैतश्रुतेरप्यन्यथानयनमेव न्याययमिति | नेत्याह | अद्वैत श्रुतिस्त्विति | तात्पर्यलिंग्यानि च शास्त्रे व्यक्तानि तत इत्यद्वैतश्रतेः सकाशादित्यर्थः | वाचस्यत्युक्तं तात्पर्यस्य प्रावल्यप्रयोजकत्वं दूषयति | विवरणवार्तिके त्विति | कृष्णलाः सुवर्णविकारानूतामाषाः कृष्णल शेषत्वेन श्रयणं विधीयत इति श्रुतेस्तत्र तात्पर्यं सिद्धमिति भावः | रूपरसपरावृति प्राद्वर्भावोनामपूर्वरूपरसादिनाशपूर्वकं रूपरसाद्यंतरोत्पतिः तत्पर्यंतो योधि श्रयणादि व्यापारः स एव श्रयणशब्दस्य मुख्योर्थः तत्संबंध इत्यर्थः | कृष्णलानामधिश्रयणज्वालादिसंपादनरूपे पाके कृतेपि रूपरसादिपरावृति प्रादुर्भावो नास्तीति प्रत्यक्षसिद्धमितिभावः | नन्वत्र श्रयणं विधीयते | तच्च न प्रत्यक्ष बाधितं ज्वालाधिश्रयणादि क्रियारूपपाकस्यैव श्रयणशब्दार्थत्वेन तस्य तत्रापि संभवात् | रूपरसादि परावृत्ति प्रादुर्भावस्तु न धात्वर्थः | तस्य पाकफलस्य कर्मत्वरूपस्य द्वितीयार्थत्वात् | फलसाविध्य योग्यत्वेन विधेय श्रपणरूपत्वायोगाच्च | तथा च विधेय श्रपणस्य दृष्टप्रयोजनाभावाददृष्टार्थविधिः पर्यवस्यतीतिश्चति तात्पर्यविषयश्रपणस्य प्रत्यक्षबाधाभावादुष्णीकरणमात्रे श्रयणपदस्य लक्षणा न संपन्नेत्यस्वरसोदाह | तत्वमसीति वाक्यस्येति | निष्कृष्टेति निःकृष्टं विशिष्टरूपाद्वाव्यार्थात् | पृथकृंतविशेष्यमात्रं यच्चैतन्ये तत्रेत्यर्थः | अत्रेदं बोध्यं महावाक्यानाम प्. १६ब्) खंडैकरसचैतन्यरूपवस्तुमात्रबोधने तात्पर्यं | कुतः तमेवैकं जानथ आत्मानं तमेव विदित्वाति मृत्युमेति | एकधैवानुदूष्टव्यमित्यादि श्रुतिसहस्रेण मुक्तिसाधनीभूतमहावाक्यार्थ ज्ञानं प्रतितादृशवस्तुमात्रस्यैव विषयत्वे न नियमनात् | श्रुतीनामेषोर्थः | यस्मिन् कृत्स्नं जगदध्यस्तंतमात्मानं जानथ हे मुमुक्षवः अत्राधेयस्य कृत्स्नस्य जगतः ज्ञे || अर्थवादानामपि प्रयाजाद्यंगविधिवाक्यानामिव स्वार्थप्रमितावनन्यार्थतया प्रमितानामेवार्थानां प्रयोजनवशादन्यार्थतेति प्रयाजादिवाक्यवतेषामप्यवांतरसंसर्गे तात्पर्यमस्त्येव वाक्यैक वाक्य त्वात् || यत्वनिषेधार्थमवधारणमेकपदं च एकरसत्व प्रतिपादनपरं मुमुक्षुज्ञेयस्यात्मनो नानारसत्वे एकपदमनर्थकं स्यादेकत्व संख्यायोग्यस्यात्मन एकवचनादेवसिद्धत्वादस्याः श्रुतेरिदं तात्पर्यद्युभ्वाद्यधिकरणभाष्ये स्फुटं दार्शितं तमेव प्रकृतं परमात्मानमेव न तु तद्व्यतिरिक्तमण्वपीत्येव कारार्थः | विदित्वा साक्षात्कृत्य मृत्युशब्दितं संसारमुत्येति एकधैव एकरूपेणैव शास्त्राचार्योपदेशमनुद्रष्टव्यमिति | तच्चाखंडैकरसवस्तुमात्रे बोधने तात्पर्यं महावाक्येषु तत्वमादिपदानां लक्षणां विना नतिर्वहतीति तेषु तात्पर्यानुसारेणैव प्. १७अ) लक्षणाभ्युपगमः न तु प्रत्यक्षविरोधपरिहाराय परं तु तत्वं पदयोश्चैतन्यमात्रे लक्षणां स्वीकृत्यवाक्यार्थबोधाभ्युपगमे प्रत्यक्षविरोधोपि परिहृतो भवतीत्ये तावन्मात्रेण प्रत्यक्षविरोधपरिहाराय महावाक्येषु लक्षणेति निबंधनेषु व्यवहारः | तथा च सत्यपि तात्पर्ये तदनादृत्य प्रत्यक्षविरोधपरिहारायैव महावाक्येषु लक्षणाभ्युपगमा तात्पर्यस्य प्रावल्यप्रयोजकत्वं नास्तिति प्रतिपादनं मंदमिति | यतु मंत्रार्थ वादानां स्तुति द्वारभूते स्वार्थे तात्पर्यं नास्तीत्युक्तं तदूषयति | अर्थवादानामपीति अनन्यार्थता स्वार्थपरतेत्यर्थः | तर्ह्यर्थ वादानां विधिशेषत्वं न स्यादित्याशंक्याह | प्रमितानामेवेति मानांतरसंवादविसंवादरहितार्थवादादिभिरितिशेषः | तेषां स्वार्थप्रमितिमात्रेण फलाभावाद्विधेयस्तावकत्वेन विध्येकवाक्यं त्वं कल्प्यत इत्यर्थः | यथा प्रयाज्वादिकर्मणां प्रयोजनाकांक्षावशे प्रयाजादिवाक्यानां फलवद्दर्शपूर्णमासविधिवाक्यैरेकवाक्यत्वं तथेति भावः | अवांतरसंसर्ग इति | अर्थवावानामपि विध्यन्वयात्प्राक् स्वरसतः प्रतीयमाने देवताया विग्रहादि संसर्गे अवांतरतात्पर्यमस्तीत्यर्थः | प्रयाजादिवाक्यानामर्थवादादि वाक्यानां च स्वार्थप्रमितौ तात्पर्ये हेतुमाह | वाक्यैक वाक्यत्वादिति | वाक्यानां सतामेवतैषां विधिवाक्यैरेकवाक्यत्वाभ्युपगमात् | प्. १७ब्) वाक्यानां च वाक्यार्थे तात्पर्यस्य सामान्यतः सिद्धत्वादित्यर्थः || परैकवाक्यतायामेव परमवांतरतात्पर्यानभ्युपगमादिति विवरणाचार्यैर्न्यायनिर्णये व्यवस्थापनेन | यजमानः प्रस्तर इत्यादिनामपि मुख्यार्थ तात्पर्य प्रसक्तौ प्रत्यक्षाविरोधायैवलक्षणाभ्युपगमाच्च | कथं तर्हि श्रुतैः प्रावल्यमुच्यते | निर्दोषतात् परत्वाच्च श्रुतिमात्रं प्रत्यक्षात्प्रवलमित्युत्सर्गः | किं तु श्रुतिबाधितमपि प्रत्यक्षं कथं चित्स्वोचितीवंषयोपहारेण संभावनीयं निर्विषयज्ञानायोगात् | अत एवाद्वैत श्रुतिविरोधेन तत्वावेदनात्प्रच्यावितं प्रत्यक्षमर्थक्रियासमर्थव्यावहारिकविषयसमर्पणेनोपपाद्यते || यत्तु वाक्यार्थद्वारभूते पदार्थ इवेति स्तुति द्वारभूतेर्थे तात्पर्याभावे दृष्टांतप्रदर्शनं तद्विघटयति | पदैकवाक्यतायामेवेति | पदानां सतामेकवाक्यार्थबोधनेनैकवाक्यत्वमित्यर्थः | तत्र पदार्थानां वाक्यार्थस्येवापूर्वत्वाभावान्न तेष्टवांतरत्वापिर्यमपीति स्वीक्रियत इत्यर्थः | एतेन रेवत्याधारकवारवंतीयस्ममाख्यविशेषणेपि तात्पर्यं व्याख्यातं | वाक्यस्य वाक्यार्थे तात्पर्यस्योत्सर्गतः प्. १८अ) सिद्धताद्विशिष्टविधेर्विशिष्टभावनायां तात्पर्यवत्वान्नु तस्य विशेषणेषु तात्पर्यं सिध्यति विशिष्टविधितात्पर्यविषयत्वस्य विशेष्यमात्रवृतित्वेत तात्पर्यस्य विशिष्टविषयकत्वानुपपतेः सीमांसकानां विशिष्टविधिर्विशेषणेषु तात्पर्याभावव्यवहारस्य विशेषणेषु प्रत्येकं तात्पर्याभावपरत्वा तस्मात् तात्पर्यविषय एवेवेदस्य प्रमिति जनकत्वमिति नियमस्य न्यायनियमस्य न्यायनिर्णयविवर्णांचार्यैर्व्यवस्थापितत्वेनेत्यर्थः | ततः किं तत्राह यजमानः प्रस्तरं इत्यादीनामिति | उक्तरीत्यातुषामपि यजमानप्रस्तराभेदादौ तात्पर्ये स्यादेव तच्च प्रत्यक्षेण बाध्यत इति वक्तव्यसतस्तात्पर्यवत्वं श्रुतेः | प्रावल्यप्रयोजकं न भवतीत्यर्थः | अत्र मंत्रार्थवादानामपि प्रयाजादिवाक्यानामिव स्तुतिद्धारभूतेर्थे यद्यवांतरतात्पर्यमवश्यकल्पनीयं तर्ह्यस्तुत तात्पर्यस्य न प्रावल्ये प्रयोजकत्वक्षतिः | महातात्पर्यस्य तत्प्रयोजकत्व संभवादद्वैतश्चतीनां प्रपंच मिथ्यात्वे महातात्पर्याभ्युपगमेन तत्र प्रपंच सत्वग्राहिप्रत्यक्षस्य मिथ्यात्व श्रुत्याबाधोपपतेरित्यादिकमालोचनीयं | तहीति | तात्पर्यस्य प्रावल्यप्रयोजकत्वाभावे सतीत्यर्थः | ननु श्रुति मात्रस्य प्रावल्ये सिद्धे तस्यौत्सर्गिकत्वं वक्तव्यं स्यातदेव कुत इति चेन्न प्रावल्ये अन्यदपि हेतुद्वयं दर्शयतिति द्वोषत्वात्परत्वाच्चेति | उत्सर्ग इति | श्रुति तदितरप्रमाणयोर्विरोधे सति प्. १८ब्) श्रुतिरेवबाधिका भवति | यत्र च श्रुतिबाधितं प्रत्यक्षादि निरवकाशं भवति | त्वन्न निरवकाशेन तेन श्रुतिरेव बाध्यते | सावकाश निरवकाशयो निरवकाशं वलवदिति न्यायादित्यर्थः | ननु श्रुतिबाधितस्य प्रत्यक्षादेर्निरवकाशत्व स्थले तेन श्रुतेर्बाधः | किमर्थमुपेयते तत्राहै किं त्वित्यादिना | संभावनीयमुपपादनीयमित्यर्थः | अतदवेति | निर्विषयप्रत्यक्षायोमादेवेत्यर्थः | प्रच्यावितमिति श्रुति बाधितस्य द्वैतस्य तत्वरूपत्वा योगादद्वैतबाधकप्रत्यक्षस्य तत्वावेदकत्वरूपात् | प्रामाण्यात् प्रच्यावितत्वं बोध्यं उपपाद्यते भाष्यादिष्वितिशेषः || किं बहुनानेदं रजतमिति सर्वसिद्धप्रत्यक्षबाधितमपि शुक्तिरजतप्रत्यक्षमनुभवानुरोधात्युरोदेशे शुक्तिसंभिन्नरजणेपगमेनैन समर्थ्यतेन तु तद्विरोधेन व्यवहितमांतरमसदेववारजतं विषय इति कल्प्यते | एवं च प्रस्तरे यजमानभेदग्राहिणो यावत् ब्रह्मज्ञानमर्थक्रियासंवादेनानुवर्तमानस्य प्रत्यक्षस्य प्रातिभासिकविषयत्वाभ्यपगमैनोपपादनायोगाद्यजमानः प्रस्तर इति श्रुति बाध्यत्वे सर्वथा निर्विषयत्वं स्यादिति तत्परिहारायोत्सर्गमपौद्य श्रुतिरेव || प्. १९अ) श्रुतिबाधितप्रत्यक्षादीनां सिद्धांते व्यावहारिक प्रामाण्योयगमेन प्रत्यक्षज्ञानस्य निर्विषयत्वरूपं निरवकाशत्वं सिद्धांत संसतं न भवतीत्युपपाद्यतत्रकैमुतिक न्यायमाह | किं बहुनेति | अद्वैत श्रुति बाधित घटादि प्रत्यक्षस्य निर्विषयत्वोपगमे सर्वव्यवहारो छेदप्रसंगलक्षणं बाधकं यथा विद्यते न तथा शुक्तिरजतांदि प्रत्यक्षस्य निर्विषयत्वोपगमे बाधकमस्तिकैश्रिदसतोपि रजतादेर्भानोपगमा तथापि तस्य तत्कालोत्यत्र रजतादि विषयकत्वं सिद्धांते स्वीक्रियते अनुभवस्य निर्विषयत्वा योगातस्माच्छति बाधितस्य प्रत्यक्षस्य निरवकाशत्वं यत्र प्रसज्जते | तत्र तेन श्रुति वायो युक्तः सिद्धांतसंमतश्चेति श्रुतेः | प्रावल्यमौत्सर्गिकमित्ये तत्सिद्धमितिभावः | शुक्तिसंभिन्नेति | शुक्ति तादात्म्यापन्नेत्यर्थः | व्यवहितमिति | बाह्यदेशांतरस्थामित्यर्थः | आंतरमिति ज्ञानाकाररूपमित्यर्थः | न कल्प्यत इत्य च हेः तद्विरोधेनेति | रजतस्येदमर्थ्या भिन्नत्वानुभवविरोधेनेत्यर्थः | व्यवहितरजतादीनामिदमर्थ तादात्म्यासंभवादितिभावः | एवं चेति विरोधस्थले निरवकाशमानांतरेण श्रुतिबाधे न्यायये सतीत्यर्थः | ननु प्रस्तर यजमानयोरभेदश्रुतिबाधितस्य तयोर्भेद प्रत्यक्षस्य शुक्तिरजतप्रत्यक्षवत् प्रातिभासिकविषयसंभवान्न तत्रैतेन श्रुतिबाधः कल्पनीय इति नेत्याह | प्रातिभासिकविषयत्वाभ्युपगमेनेति | प्रत्यक्षविषयस्य प्रस्तरे यजमानभेदस्य प्. १९ब्) प्रातिभासिकत्वासंभवे युक्ति सूचयति | यावदिति | यथा शुक्तिरजतस्य ब्रह्मज्ञानात्यागेवमेदं रजतमिति प्रत्यक्षेण निवृतिः स्वोचितार्थ क्रियाऽभावश्च | तस्य प्रातिभासिकत्व हतुरस्तित तथा प्रस्तरयजमानमेदस्य प्राकृब्रह्मज्ञानाद्बाध अर्थक्रियासामर्थ्याभावश्च प्रातिभासिकत्वहेतुरस्तीत्यर्थः | यावद्ब्रह्मज्ञानमनुवर्तमानस्येत्यस्य ब्रह्मज्ञानात्प्राक् बाधरहितस्येत्यर्थः | अर्थक्रियासंवादेनेत्यस्यार्थ क्रियासमर्थभेदविषयकत्वेनेत्यर्थः | बाध्यत्व इति प्रस्तरे यजमान भेद ग्राहिणः प्रत्यक्षस्येत्यनुषंगः सर्वथेति अयमर्थः | प्रातिभासिकभेदविषयकत्वं तस्य प्रत्यक्षस्य न संभवतीत्युक्तं तथा व्यावहारिकभेदविषयत्वं तस्य न संभवतीत्यनुपदमेव वक्ष्यते | पारमार्थिक भेदश्चाद्वैत श्रुतिविरोधादेवनाभ्युपगंतुं शक्यते | तथा च तस्य निर्विषयत्वरूपं निरवकाशत्वं स्यादेवेति श्रुतिरेवान्यथा नीयत इति संबंधः || तत्सिद्ध्यधिकरणादि प्रतिपादितप्रकारेणान्यथा नीयते न चाद्वैतश्रुति प्रत्यक्षयोरिवेह श्रुति प्रत्यक्षयोस्तात्विकव्यावहारिकविषयोपगमेन प्रत्यक्षोपपादनं कर्तुं शक्यं ब्रह्मातिरिक्तसकलमिथ्यात्वप्रतिपादक षद्विध तात्पर्यलिंगोयपन्नानेक श्रुतिविरुद्धेनैकेनार्थवादेन प्रस्तरे यजमान तादात्म्यस्य तात्विकस्य प्रतिपादनासंभवात् || प्. २०अ) अन्यथा नयनप्रकारमाह | तत्सिद्धीति | मुख्यार्थस्याभेदस्य प्रत्यक्षविरोधेनासंभवात् | प्रस्तरे यजमान शब्दस्य गौणवृतौ कल्पनीयायां को गुण इत्याकांक्षायां सूत्रकारेण गुणो दर्शितः | तत्सिद्धीति | तस्य क्रतोः सिद्धिरुपकारो यजमान प्रस्तरसाध्यो गुणः तयोः क्रतु निर्वर्तकत्वरूपं सादृश्य गुण इति यावत् | एवमन्येवामप्यर्थवादानां प्रत्यक्षविरोधपरिहाराय यथा संभवमालंबमानि जैमिनिना भगवता अधिकरणांतरेषु कल्पितानीत्यर्थः | नन्वद्वैत श्रुति प्रत्यक्षयोर्विरोधस्थले पारमार्थिकमद्वैतं श्रुति विषयः व्यावहारिक द्वैतं प्रत्यक्ष विषय इति व्यवस्था यथा कल्प्यते | तथा प्रकृतेपि यजमानप्रस्तरयोर्वास्तवाभेदः श्रुतिविषयः कल्पित भेदः प्रत्यक्षविषय इति व्यवस्थाकल्प्यतामिति नेत्याह | नदेति | इहेति | यजमाः न प्रस्तर इत्यत्रेत्यर्थः | यजमानः प्रस्तर इत्यर्थवादेन तयोस्तात्विक तादात्म्यं प्रतिपादयितुं न शक्यं ब्रह्माद्वेत श्रुतिभिर्विरोधान्न चाद्वैत श्रुतीनामपि विधिरूपत्वाभावेनार्थवादत्वा विशेषाद्विनिगमनाचिरह इति वाच्यं | तथापि तासां बहुत्वेन विनिगमनाविरहानवतारादित्याशयेनाह | अनैकेति | किं च यजमान प्रस्तरानेदे तस्यार्थ वादस्य तात्पर्थ नास्ति तद्ग्राहकलिंगाभावादद्वैत श्रुतीनां च स्वार्थे तात्पर्यग्राहकलिंगानिषद्विधान्यपि संति | प्. २०ब्) तथाहि छांदोगे षष्टध्याये सेदेवसौम्येदमग्र आसीदेकमेवाद्वितीयमित्युपक्रम्य ऐतदात्म्यमिदं सर्वमिति सर्वात्मकमद्वितीयं वस्तूपसंहरति श्रुतिरत उपक्रमोपसंहारयोरैकरूप्यलक्षणेन लिंगेन तस्याध्यायस्या द्वितीये वस्तुनि तात्पर्यं निश्चीयते | हे सोम्य इदं परिदृश्यमानं जगत्सृष्टेः प्रागद्वितीयमेकरूपं ब्रह्मैवासीदितिश्चेकै तुं पुत्रं प्रति उद्दालकवचनमिदं सर्वमैतदात्म्य मे तदात्मकं प्रकृतसद्वस्त्वात्मकमित्यर्थः | भावप्रत्ययो अविवक्षित इत्यर्थः | ऐतदात्म्यमिदं सर्वंमिति वाक्यस्या सकृत्यावादभ्यास सिद्धिरद्वितीयवस्तुनो मानांतरायोग्यत्वादपूर्वत्वसिद्धिः आचार्यवान् पुरुषो वेदेति वाक्येन प्रकृताद्वैत सद्वस्तुज्ञानं प्रकृत्यसंपति वाक्येन तस्य मुक्तिलक्षणफल श्रवणात् | फलमपि तत्र तात्पर्यग्राहकमस्ति पितृपुत्राख्यापिकादि रूपार्थवादश्च ततात्मर्यग्राहकस्तत्रास्तिमृदादि दृष्टांतैः प्रपंचस्य ब्रह्मकार्यत्वप्रतिपादनपूर्वकं ब्रह्मानन्यत्व प्रतिपादनमुपयतिस्तत्रास्ति तथा च षद्विधैस्तात्पर्यलिंगैरद्वितीयवस्तु परत्वं तस्याध्यायस्य सिद्ध एवमध्यायां || एवं तत्वमसिवाक्येन त्वं पदवाच्यस्य सर्वज्ञत्वा भोक्तृत्वादि विशिष्टब्रह्मरूपत्व बोधने तत्रासर्वज्ञत्वभोक्तृत्वादि प्रत्यक्षमत्यंत निरालंबनं</poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] eval02987kmduxx81gjn7dv1l547uyw 417839 417835 2026-07-16T09:29:04Z Shubha 190 417839 wikitext text/x-wiki {{header | title = सिद्धान्तलेशसङ्ग्रहटीका - भागः १ | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> प्. १अ) ओं श्रीमहागणपतये नमः । श्रीरामचंद्राय नमः । श्रीकृष्णाय नमः । सरस्वत्यै नमः । श्रीदक्षिणमूर्तिगुरवे नमः । ओं वेदवेद्यमुमाकांतं क्रमाराभ्यामलंकृतं । नंदीश प्रमुखैस्सेव्यं प्रणमामीष्टसिद्धये ।। १ ।। शंकरं शंकराचार्यं व्यासं नारायणात्मकं । सरस्वतीं च ब्रह्माणं प्रणमामि पुनः पुनः ।। २ ।। गोविन्देति समाक्रंद्य रक्षां प्राप भयातुरः । यं गजः करुणामूर्तिं तं गोविंदभजेन्वहं ।। ३ ।। आपन्नायं समाश्रित्य रक्षां प्राप सुदुर्लभां । कृष्णाकृष्णस्य महिषी तं कृष्णं संश्रयेन्वहं ।। ४ ।। प्रकाशित ब्रह्मतत्वं प्रकृष्टगुणशालिनं । प्रणवस्योपदेष्टारं प्रणमाम्यनिशं गुरुं ।। ५ ।। यो मे विश्वेश्वर क्षेत्रं विश्वेश्वर समो गुरुः । समध्यास्ते स्वयं ज्योतिर्वाणी संज्ञो भजामि तं ।। यस्य शिष्य प्रशिष्याद्यैर्व्याप्ते यं सांप्रतं महीइ । सर्वज्ञस्य गुरोस्तस्य चरणौ संश्रये सदा ।। गुरोरपि गरीयान्मेयः कलाभिरलंकृतः । अद्वैतानंदवाण्याख्यस्तं वंदे शर्मवारिधिं ।। ओतप्रोतमिदे सर्वं यस्मिन् सच्चित्सुखात्मके । प्. १ब्) पर्यवस्यंति वेदांता यत्र चाहं तदक्षरं ।। श्रीकृष्णचरण द्वंद्वं प्रणिपत्य निबंधनं । व्याकुर्वे शास्त्रसिद्धांतलेशसंग्रह संज्ञितं ।। आचार्यचरणद्वंद्व स्मृतिर्लेखक रूपिणं । मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः ।। कुमाराभ्यां विघ्नेश्वर सुब्राह्मण्याभ्यां शंकरं शंकरस्य शिवस्यावताररूपं शंकराचार्यं भगवत्पादं । तथा च शिवपुराणवचनं व्याकुर्वन् व्याससूत्रार्थं श्रुतेरर्थं यथोचिवान् । श्रुतेर्न्याप्यस्स एवार्थश्शंकरस्सवितानन इत्यादि । व्यासं सूत्रकृतं वादरायणं नारायणात्मकं नारायणस्यावताररूपं तथा च वचनं द्वापुरे द्वापरे विष्णुर्व्यासरूपी महामुनिरिति न ह्यन्यः पुंडरीकाक्षान्महाभारत कृद्भवेदित्यादि च ब्रह्माणं सरस्वती भर्तारं हिरण्यगर्भं आपन्ना सभायां वस्त्रापहारनिमित्तामापदं प्राप्ता रक्षां वस्त्रकोटिलाभ निमित्तां कृष्णा द्रौपदी कृष्णस्य अर्जुनस्य प्रकाशितं शिष्यशतेभ्य उपदिष्टं ब्रह्मतत्वं येन गुरुणासु तथोक्तस्तं प्. २अ) स्वयं ज्योतिर्वाणी संज्ञः । स्वयं प्रकाश सरस्वती संज्ञः । गरीयान् गुरुः । इदं सर्वं यस्मिन् सच्चित्सुखात्मके अक्षरे ब्रह्मणि । ओत प्रोत मध्यस्तं वेदांताश्च यत्राक्षरे विषये पर्यवस्यंति तात्पर्येण बोधहेतवो भवंति तदह ।। ओं स्वस्ति श्रीगणेशाय नमः । अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्रधासरिदिव मही भेदात् संप्राप्यशौरिपदोहुता । जयति भगवत्पाद श्रीमन्मुखांबुजनिर्गता जननहरणी सूक्तिर्ब्रह्माद्वयैक परायणा ।। १ ।। ओं स्वस्ति श्रीगणेशाय नमः । मितिसंबंधः । अक्षरे सर्वस्य ओतप्रोत त्वोक्त्या ब्रह्मणस्सर्वाधिष्टानत्व रूपं तटस्थलक्षणमुक्तं । सच्चित्सुखात्मक इत्यनेन सत्य ज्ञानानंद स्वरूपात्मकं स्वरूपलक्षणमुक्तं । तत्र वेदांतानां पर्यवसानोक्त्योक्त रूपे ब्रह्मण्यक्षरे वेदांता एव प्रमाणमित्युक्तं नाहमत्रप्रभर्यत इत्यत्र व्याख्याने प्रभुः समर्थ इत्यर्थः । चिकीर्षितस्य ग्रंथस्य निर्विघ्न परिसमाप्ति प्रचय गमनयोस्सिद्धये भगवत्पादीय भाष्य स्तुति मुखेन भाष्य प्रतिपाद्य ब्रह्मतत्वानुसंधान लक्षणं मंगलानुचरणं करोति । अधिगतभिदेति । दृष्टांतमुखेन श्रीमूर्तिचरणारविंद गंगयोरनु- प्. २ब्) संधानलक्षणमपि मंगलं करोति । शौरीति । शौरी पदोद्गता सरित्मही भेदान् संप्राप्य यथा सहस्रधा अधिगतभिदा तथा भगवत्पाद श्रीमन्मुखांबुजनिर्गता ब्रह्मा द्वयैक परायणाजनन हरणी सुक्तिः । पूर्वाचार्यान् व्याख्या हृन्व्याख्येयत्वेनोपेत्यार्थतस्सहस्रधा अधिगतभिदासती जयतीति संबंधः । अत्र सूक्तिस्सहस्रधाधिगत भिदेति सूक्ति विशेषणेन स्वग्रंथे प्रदर्शयिष्यमाण सिद्धांतभेदानां सर्वेषां भगवत्पाद श्रीमन्मुखांबुजनिर्गता सूक्तिरेव मूलमिति सूचितं अधिगतभिदा प्राप्तभेदा सरिद्गंगा मही भेदान् भूप्रदेशान् शौरेः श्रीमहाविष्णोः पदोद्गता पादांबुज निर्गता जयति सर्वोत्कर्षेण वर्तत इति स्तुतिः । भगवत्पादस्य श्रीमन्मुखमेवांबुजं कमलं तस्मान्निर्गता मुखे अंबुजत्वारोपे कांतिमत्वरूपं श्रीमत्वं निमित्तमिति सूचनार्थं । श्रीमदिति विशेषणं जननहरणी जननं संसारस्तत्स्वजन्य ब्रह्मज्ञानद्वाराहरतीति जननहरणीइ । सूक्तिः ग्रंथतोर्थतश्च निरवद्यं भाष्यं । ब्रह्माद्वयैक परायणा ब्रह्म च तदद्वयं च ब्रह्माद्वयं । ब्रह्माद्वयं च तदेकं च ब्रह्माद्वयैकं परायणं परमतात्पर्य विषयो यस्यास्सूक्तेस्सा ब्रह्मा द्वयैक परायणा । अनेन विशेषणेन द्वितीय प्रपंच शून्यमेकरूपं सत्यज्ञानानंदलक्षणं ब्रह्मसूक्तिपदसंगृहीतस्य भाष्यात्मक शास्त्रस्य विषय इत्युक्तं भवति । जनन हरणीति विशेषणेन शास्त्रस्य मूक्तिः प्रयोजनमित्युक्तं । अर्थात् प्. ३अ) मुक्तिकामः शास्त्रस्याधिकारी मुक्तेरधिकारीणश्च प्राप्य प्राप्तृभावलक्षणस्संबंधश्च सूचितः ।। १ ।। प्राचीनैर्व्यवहार सिद्धविषयेष्वात्मैक्यसिद्धौ परं संनह्यद्भिरनादरात्सरणयो नानाविधा दर्शिताः । तन्मूलानिहसंग्रहेण कतिचित् सिद्धांत भेदान् धियः । सुद्धौ संकलयामितात चरण व्याख्या वचः ख्यापितान् ।। २ ।। एवं श्रुत्यर्थाभ्यां साक्षाष्ट श्लोकेन भाष्यात्मक वेदांत शास्त्रस्य विषयादिकं कथयता ग्रंथकारेण स्वकीय ग्रंथस्य वेदांतशास्त्रप्रकरणत्वा तस्यापि तदेव विषयादीति सूचितं भवति । इदानीं चिकीर्षितं प्रतिजानीते । प्रोचीनैरिति । प्राचीनैराचार्यैरात्मैक्य सिद्धौ परमत्यंतं सन्नद्यद्भिस्तात्पर्यवद्भिरात्मैक्य सिद्ध्युपायतया व्यवहार सिद्ध विषयेषु भ्रांति मात्र सिद्धपदार्थेषु जीवेश्वर जगदूपेष्वनादरात्सरणयः प्रकारामानाविधां परस्पर विरुद्धाः दर्शिताः । अनादरादित्यनेन परस्पर विरुद्धेषु जीवैकत्व नानात्व तत्प्रतिबिंबत्वादि रूपप्रकारेष्वभिनिवेशवतामाचार्याणां भेदवादिनामिवानात्मत्वं स्यादिति शंका निराकृता भवति । विवक्षित वस्तु प्रतिपत्युपायतया विरुद्ध नानाप्रकार प्रदर्शनमाचार्याणां न दोषाय भवति । किंत्वलंकारायैव भवति प्. ३ब्) प्रतिपतृणां प्रज्ञा वैचित्र्येण कस्यचित्प्रतिपत्तुः । केनचित् प्रकारेण मुक्तिसाधन ब्रह्मात्मैक्य ज्ञान लाभात् । तदुक्तं सुरेश्वराचार्यैः । यया यया भवेत् पुंसां व्युत्पतिः प्रत्यगात्मनि । सा सैव प्रक्रियेह स्यात् साध्वी सा चानवस्थितेति ।। व्युत्पतिःर्बोधः प्रत्यक् चासावात्मा च प्रत्यगात्मा सर्वांतरश्चिदात्मा तस्मिन् विषये प्रक्रिया प्रकारः इह वेदांत शास्त्रे साध्वी निरवघा गुणभूता चानवस्थिता नानाविधा परिमले दीक्षितैरप्येतदुक्तमकल्पितवस्तु प्रतिपत्युपायतया कल्प्यमानेषु पदार्थेषु विरोधो न दोषावहः । यथा तात्विका रुंधती प्रतिपत्युपायतया नानापुरुषैः कल्प्यमानासु तत्प्राच्योदीच्यादि नक्षत्ररूपासुस्थूलां रुंधतीषु विरोधो न दोषावह इति तन्मूलात् प्राचित प्रदर्शित नानाविध सरणी मूलात् । इह स्वग्रंथे धियः शुद्धौ स्वबुद्धिपरिष्काराय वस्तुतस्तु लोकानुग्रह एव प्रयोजनमिति बोध्यं । तात चरणानां पितृचरणानां व्याख्यारूपैर्वचोभिः ख्यापितान् ज्ञापितान् अनेन स्वस्य ब्रह्मविद्यामाचार्या देवलब्ध्वां दर्शयति स्वग्रंथेस्योपादेयत्व सिद्धये तेषूपपादनापेक्षान्यक्षान्प्रायो यथामति युक्त्योपपादयन्नेव लिखाम्यनति विस्तरान् । इ । तत्र तावत् आत्मा वा अरे द्रष्टव्यः श्रोतव्य इत्यधीत सांग स्वाध्यायस्य वेदांतैरापाततः प्. ४अ) प्रतिपन्ने ब्रह्मात्मनि समुदित जिज्ञासस्य तज्ज्ञानाय वेदांत श्रवणे विधिः प्रतीयमानः किं विध इति चिंत्यते । तिस्रः खलु विधेर्विधाः अपूर्वविधिर्नियमविधिः परिसंख्याविधिश्चेति । तत्र कालत्रयेपि कथमप्यप्राप्तस्य प्राप्ति फलको विधिराद्यः । यथा ब्रीहीन् प्रोक्षतीति । नात्र ब्रीहीणां प्रोक्षणस्य संस्कार कर्मणो विना नियोगं मानांतरेण कथमपि प्राप्तिरस्ति । पक्षप्राप्तस्या प्राप्तांश परिपूरणो विधिर्द्वितीयः । यथा ब्रीहीन वहंतीति ।। इह संग्रहेण सिद्धांत भेदान् संकलयामीत्युक्तमेव विवृण्वत् । ननु प्राचीनग्रंथ सिद्धांतानामेव स्वग्रंथे संग्रह इत्युक्तमयुक्तं प्राचीनग्रंथेष्वविद्यमानस्यापि युक्तिभिरुपपादनस्य स्वकीय संग्रहग्रंथे तत्र तत्रोपलंभादिति शंकांतिराकरोति । तेष्विति स्वग्रंथे प्रथमं श्रवणविधिर्विचार्यत इत्याह । तत्र तावदिति । श्रवणविधावधिकारिणं निर्दिशति । अधीतेति । वेदांतैर्जनितापातप्रतिपति विसये ब्रह्माभिन्नात्मति सस्यक् दार्घ्येनोदिता उत्पन्ना जिज्ञासा निर्णय रूपज्ञानेछा यस्येत्यर्थः । अधीत वेदस्यापि शिक्षाकल्प व्याकरणादीनां वेदांगानामध्ययनाभावे सति व्युत्पतेरभावाज्जिज्ञासा प्. ४ब्) हेतु भूतापातप्रतिपतिरपि न संभवेदित्यभिप्रेत्याधीत सांगस्वाध्यायस्येत्युक्तं न च निर्दोष वेदांतजन्यायाः ब्रह्मात्मप्रतिपत्तेः कथमापातत्वमिति वाच्यं । नाहं ब्रह्मेति प्रत्यक्षविरोधादि शंकया प्रमारूपायामपि ब्रह्मात्म प्रतिपतावप्रामाण्यशंकास्पदत्वरूपस्यायातत्वस्य संभवादिति भावः । वेदांत श्रवणे श्रोतव्य इति विधिः प्रतीयमान इति संबंधः । तद्ज्ञानायेति । अप्रामाण्यशंकानास्पद ब्रह्मात्मज्ञानायेत्यर्थः । खलु शब्देनापूर्वविधित्वादि प्रकार त्रयस्य पूर्वतंत्रे प्रसिद्धिर्द्योत्पते । कालत्रयेपीति । कथमपि दृष्टार्थत्वेनादृष्टार्थत्वेन वा केनापि प्रकारेण कालत्रयेपि कदापि विधिं विना प्राप्तिरहितस्य प्रोक्षणादेः प्राप्तिफलको विधिराद्यः । अपूर्वविधिरित्यर्थः । ब्रीहीतिति द्वितीया श्रुत्या ब्रीहीणां संस्कार्यत्वावगमात् । प्रोक्षणस्य संस्कार कर्मत्वमुक्तमिति मंतव्यं । नियोगमिति विधायकशब्दमिर्त्यः ।। अत्र विध्यभावेपि पुरोडाशप्रकृतिद्रव्याणां तंडुलनिष्पत्याक्षेपादेवावहन न प्राप्तिर्भविष्यतीति न तत्प्राप्त्यर्थोय विधिः । किंत्वाक्षेपादवहन न प्राप्तौ तद्वदेव लोकावगतकारणत्वाविशेषान्नखविदलनादिरपि पक्षे प्राप्नुयादिति । अवहननाप्राप्तांश संभवात्तदंश प्. ५अ) परिपूरणफलः । द्वयोः शेषिणोरेकस्य शेषस्य वा एकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्य प्राप्तौ शेष्यंतरस्य शेषांतरस्य वा निवृतिफलकोविधि स्मृतीयः । यथाग्नि च यने इमामगृभ्णन् रशनामृतस्येत् पश्चाभिधानीमादत्त इति । यथा वा चातुर्मास्यांतर्गतैष्टि विशेषे गृहमेधीय आज्यभागौ यजतीति अग्नि च यनेऽश्वरशनाग्रहणं गर्दभरशनाग्रहणं चेति द्वयमनुष्ठेयं । तत्राश्वरशनाग्रहणे इमामगृभ्णत्रिति मंत्रोलिंगादेवरशनाग्रहण प्रकाशन सामर्थ्यरूपान्नित्यं प्राप्नोति । न तत्प्राप्त्यर्थस्तदप्राप्तांश परिपूरणार्थो वा विधिः । किंतु लिंगाविशेषाद्गर्दभरशना ग्रहणेपि मंत्रः प्राप्नुयादिति तन्निवृत्यर्थः । तथा गृहमेधी यस्य दर्शपूर्णमासप्रकृति कत्वादति देशादेवाज्यभागौ नित्यं प्राप्नुत इति न तत्र विधिस्तत्प्राप्त्यर्थस्तन्नियमार्थो वा किंत्वति देशात्प्रयाजादिकमपि प्राप्नुयादिति तन्निवृत्यर्थः ।। प्. ५ब्) पुरोडाशेति । दर्शपूर्णमासयोराग्नेयादि पुरोडाशादि द्रव्यं विहितं । व्रीहयस्तूत्पन्ने यागे यागानुवादेन विहितास्तथा च व्रीहीणामुत्पन्नशिष्टानामुत्पति शिष्ट पुरोडाशावरुद्धे यागे साक्षात्साधनत्वा योगात् । पुरोडाशप्रकृतिद्रव्यत्वेन यागसाधनत्वं पर्यवस्यति । पुरोडाश प्रकृतित्वं च व्रीहीणां तंडुल निष्पति द्वारकं तंडुलनिष्पतिश्च स्वकारणसाक्षिपति तंडुलनिष्पतौ च कारणमन्वयव्यतिरेकाभ्यामवहनन्निश्चितमिति विधि विनापि विधित्सितावहन न प्राप्तिरस्तीत्यर्थः । नन्वहननस्य लोकतः प्राप्तौ तस्य लोकत एव नित्य प्राप्तिरपि स्यादित्यत आह । किंत्वित्यादिना । आक्षेपादिति तंडुलनिष्पत्याक्षेपादित्यर्थः । किंत्ववहनना प्राप्तांश सद्भावा तदंश परिपूरण फल इति संबंधः द्वयोरिति । द्वयोः शेषिणोरेकस्य शेषस्य नित्यप्राप्तौ शेष्यंतरस्य निवृति फलकः एकस्मिन् शेषिणि द्वयोः शेषयोर्नित्य प्राप्तौ शेषांतरस्य निवृति फलको वा विधिस्तृतीय इति योजना न तदिति । प्राप्तत्वान्नतत्प्राप्त्यर्थः नित्यप्राप्तत्वान्नतदप्राप्तांशपूरणार्थो वेत्यर्थः । अति देशादेवेति । प्रकृतिवद्विकृतिः कर्तव्येवं रूपादित्यर्थः । न तत्र विधिरिति आज्यभागौ यजतीति विधिराज्यभागयोः । प्राप्त्यर्थो न भवति विधिं विना प्राप्तत्वात् तयोरप्राप्तांशपरिपूरणार्थो वा न भवति नित्यप्राप्तत्वात् किंतु तन्निवृत्यर्थ इति योजना ।। प्. ६अ) गृहमेधीयाधिकरणे पूर्वपक्षरीत्या इदमुदाहरणं । यत्र क्वचिदुदाहर्तव्यमित्युदाहृतं । न च नियम विधावपि पक्षप्राप्तावहनस्याप्राप्तांश परिपूरणे कृते । तदवरुद्धत्वात्पाक्षिक साधनांतरस्य नखविदलनादेर्न्निवृतिरपि लभ्यत । इति निवृति फलकत्वा विशेषान्नियम परिसंख्ययोः फलतो विवेकोन युक्त इति शंक्यं । विधितोवहन न नियमं विनाक्षेप लभ्यस्य नखविदलनादेर्निवर्तयितुमशक्य तयाऽप्राप्ताशं परिपूरणरूपस्य नियमस्य प्राथम्याद्विधेयावहन न गतत्वेन प्रत्यासन्नत्वाच्च तस्यैव नियमविधि फलत्वोपगमात् । तदनुनिष्पादिन्या अविधेपगतत्वेन विप्रकृष्टाया इतरनिवृतेः संनिकृष्टफलसंभवे फलत्वानौचित्यात् । एवं विविक्तासु तिसृषु विधेर्विधासु किं विधः श्रवणविधिरा श्रीपते तत्र प्रकटार्थकारादयः केचिदाहुः अपूर्वविधिरयमप्राप्तत्वात् । ननु आज्यभागौ यजतीति विधेरति देशप्रप्तेतरांगकलापपरिसंख्यापकत्वं प्. ६ब्) न सिद्धांत इत्यत आह । ग्रहमेधीयाधि करणेति । नियमविधावपीति परिसंख्याविधाविव नियमविधावपीत्यर्थः । तदवरुद्धत्वादिति । अवहननेनैवावरुद्धत्वात्तंडुलनिष्पत्याक्षेपस्य शांतत्वादित्यर्थः । फलत इति नियमविधेः पक्षे प्राप्तावहननादि क्रियाविधायकत्वात् परिसंख्याविधेः च नित्यप्राप्तक्रियादि विधायकत्वान्नियमपरिसंख्याविध्योः स्वरूपतो विवेकलाभेपि फलतो भेदो न युक्त इत्यर्थः । नियमस्य नियमविधिफलत्वोपगमे हेतु द्वयमाह । प्राथम्यादित्यादिना । प्रत्यासन्नत्वादिति विधिं प्रतिप्रत्यासन्नत्वादित्यर्थः । विधेय क्रियागतत्वे प्रत्यासन्नत्वे हेतुः इतरनिवृत्यपेक्षया प्रथमोपस्थितत्वरूपे प्राथम्ये हेतुमाह । विधित इत्यादिना अशक्य तयेत्यंतेन इतरनिवृतेर्नियमविधिफलत्वानुपगमे हेतुन्द्वयमाह । तदनुनिष्पादिन्या इत्यादिना । अप्राप्तांशपरिपूरणोपस्थित्यनंतरमुपस्थिताया इत्यर्थः । अनेन विलंवितोपस्थिति कत्वमेको हेतुरुक्त इति मंतव्यं । द्वितीय हेतौ विप्रकृष्टत्वे हेतुमाह । अविधेपेति । व्यावृतिर्नामाननुष्टेयता अनंगता वा सा चानिधेपनखविदलनादि गतेत्यर्थः । इदानीं प्रकृतं श्रवणविधिविचारमारभते । एवमिति । अप्राप्तत्वादिति ब्रह्मसाक्षात्कारं प्रतिवेदांत श्रवणस्य साधनतायामानांतरादनधिगतत्वेनाप्राप्त्यर्थत्वादित्यर्ह्तः ।। प्. ७अ) न हि वेदांत श्रवणं ब्रह्मसाक्षात्कारे हेतुरित्यत्रान्वयव्यतिरेकप्रमाणमस्तिलोके कृत श्रवणस्यापि वहुशस्तदनुत्पत्तेः । अकृतश्रवणस्यापि गर्भगतस्य वामदेवस्य तदुत्पतेरुभयतो व्यभिचारात् । न वा श्रवणमात्रं श्रोतव्यार्थ साक्षात्कार हेतुरिति शास्त्रांतरे गृहीतः सामान्य नियमोस्ति । येनात्र विशिष्य हेतुत्व ग्राहका भावेपि सामान्यमुखेनैव हेतुत्वं प्राप्यत इति शंक्येत । गांधर्वादि शास्त्रश्रवणस्य षड्गादि स्वर साक्षात्कार हेतुत्वाभ्युपगमेपि कर्मकांडादि श्रवणान्तदर्थ धर्मादि साक्षात्कारादर्शनेन व्यभिचारात् । तस्मादपूर्वविधिरेवायं ।। ननु मानांतरादनधिगतत्वमसिद्धमन्वयव्यतिरेकाभ्यांतदवगति संभवात् तथाहि वेदांतश्रवणे सति ब्रह्मसाक्षात्कारो दृश्यते । असति च तस्मिन्न दृश्यते इति तत्राह । नहीति । तदनुत्पतेरिति साक्षात्कारानुपतेरित्यर्थः । वामदेवस्य इति । तथा च श्रुतिर्गर्भ एवैतच्छ्रयानो वामदेव एव मुवाचेति । एवं पूर्वोक्तप्रकारेण । एतद्ब्रह्मज्ञानजन्मना स्वकीयां मुक्तिमुवाचेत्यर्थः । ननु गांधर्व शास्त्रश्रवणे षड्गादिस्वरसाक्षात्कारस्तद भावे तदभाव प्. ७ब्) इति दृष्टं तत्र श्रोतव्यार्थ विशेषस्वरसाक्षात्कारं प्रतिगांधर्व शास्त्रविचारात्मकस्य श्रवणविशेषस्य कारणत्व ग्रहकाले लाघवात् । श्रोतव्यार्थ साक्षात्कारत्वावछिन्नं प्रतिश्रवणमात्रस्य कारणत्वं गृह्यते । तथा च ब्रह्मसाक्षात्कार वेदांतश्रवणयोर्विशिष्यकार्यकारणभाव ग्रहाभावेपि ब्रह्मसाक्षात्कारस्यापि श्रोतव्यार्थ साक्षात्कारत्वात् । वेदांतश्रवणस्यापि श्रवणत्वादुक्त सामान्यरूपेण श्रवणस्य ब्रह्मसाक्षात्कार हेतुत्वं प्राप्तमेवेतिनापूर्वविधिरिति नेत्याह । न वा श्रवणमात्रमिति । धर्मश्रवणस्थले अदृष्टरूपस्यालौकिकश्रेयसाधनता विशिष्टयागादि रूपस्य वा । धर्मस्य साक्षात्कारा योग्यतया साक्षात्कारादर्शनेन उक्त सामान्य कार्यकारणभावस्य व्यभिचारान्जलाघवावतार इति गांधर्वशास्त्रश्रवणस्यान्वयादिनास्वरसाक्षात्कार हेतुत्व ग्रहेपि वेदांतश्रवणस्य न ब्रह्मसाक्षात्कार हेतुत्व प्राप्तिरित्याह । गांधर्वादीति । कर्मेति । अत्रादिपदेन हिरण्यगर्भादि देवताप्रतिपादकवाक्यजातं गृह्यते धर्मादीत्यादि पदेन हिरण्यगर्भादि देवता गृह्यते । तस्मादिति । प्राप्त्यभावादित्यर्थः ।। भाष्येपि सहकार्यंतरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवदित्यधिकरणे विद्यासहकरिणो मौनस्य वाल्यपांडित्यवद्विधिरेवाश्रयितव्य अपूर्वत्वादिति पांडित्य शब्दिते श्रवणे प्. ८अ) पूर्वविधिरेवांगीकृत इति ।। अत्रार्थे सम्मतिमाह । भाष्येपीति । भाष्येष्य पूर्वविधिरेवांगीकृत इति संबंधः । अयमर्थः वृहदारण्यके श्रूयते तस्माद्ब्राह्मणः पांडित्यं निर्विद्य वाल्येन तिष्ठासेद्वाल्यं च पांडित्यं च निर्विद्याथ मुनिरिति यस्मादनिक्रांता ब्राह्मणा श्रवणादि साधनैरात्मानं विदित्वा जीवन्मुक्ति व्यंजकं सकलविक्षेपरहितं परमहंसाश्रमं प्राप्तास्तस्मादिदानीं तनोपि ब्राह्मणो ब्रह्मसाक्षात्कारार्थी पांडित्यं निर्विद्य वाल्येनस्था तु मिच्छेत् । विचारप्रयोजकापातरूपा बुद्धिः पंडासास्य संजातेति पंडितस्तस्य कृत्यं पांडित्यं श्रवणमित्यर्थः । वाल्यं नामवालस्य शिशोः कृत्यं दंभ दर्पादि राहित्यं न तु वाले प्रसिद्ध यथेष्ट चेष्टा रूपं तस्य वहिर्मुखत्वापादकत्वेन विद्याविरोधित्वाद्दंभादिराहित्यरूपभावशुद्धिवाचः केन वाल्य पदेन भावशुद्धिसाध्यं मनन लक्ष्यते । श्रवणानंतर भावित्वात् तस्य वाल्यं च पांडित्यं च निर्विद्य निश्चयेन लब्ध्वा तदुभयं सम्यगनुष्टायेति यावत् । अथानंतरं मुनिस्सम्यग्मननशीलो भवेदिति विधिः ध्यानमत्रमननं ध्याननिष्टे व्यासादौ मुनिशब्दप्रयोगदर्शनात् । ध्यानं विना विचारं मात्रविश्रांते तद प्रयोगाच्च तथा चापूर्वत्वाद्यथा श्रवणे विधिरेवं मौनस्य विद्यासहकारिणो विद्योत्पन्नौ साधनस्य विधिरेवाश्रयितव्यः । अपूर्वत्वा देवेति भाष्यार्थः । सूत्रार्थस्तु । तद्धतः श्रवणमननजतिन प्. ८ब्) तत्वनिर्णयरूपविद्यावतस्तत्व साक्षात्कारार्थिनः संन्यासिनः पांडित्य बाल्या पेक्षया तृतीयं सौनमथ मुनिरिति वाक्येन विधीयते । ननु पांडित्य बाल्याभ्यां निर्णीततत्व साक्षात्कारार्थी ध्याने स्वयमेव प्रवर्तते रत्नं तत्वसाक्षात्कारार्थीवरत्नतत्वगोचर प्रत्ययसंततौ । न च तत्वसाक्षात्कारार्थिनस्तत्साधन श्रवणादावपि स्वयमेव प्रवृतिस्स्यादिति तत्रापि विधिवैयर्थ्यशंका तुल्येति वाच्यं विधिं विना वेदांत श्रवणे प्रवृत्यसंभवस्य साधितत्वा तथा च मौनविधिर्व्यर्थ इत्यत्राह । पक्षेणेति । मौनस्य सहकार्ययंतरस्य विधिरंगी कर्तव्यः पक्षेणाप्राप्ति सत्वात्साक्षात्कारार्थं ध्याने ।। वेदांतश्रवणस्य नित्यापरोक्षब्रह्मसाक्षात्कार हेतुत्वं नाप्राप्तं । अपरोक्ष वस्तु विषय प्रमाणत्वावच्छेदेन साक्षात्कार हेतुत्व प्राप्तेः । शाब्दापरोक्ष वा देव्यवस्थापनात् तदर्थमेव हि तत्प्रस्तावः ।। स्वयमेव प्रवर्तमानस्यापि विषयदर्शनप्रावल्यात् ध्यानस्य कदाचिदप्राप्तिः संभवति । तथा च मौनविधेरपूर्वविधित्वाभावेपि नियमविधित्वं सिंध्यत्येव सति च नियमविधौ तदति क्रमे नियमा दृष्टालाभेन साक्षात्कारानुदय भीत्या स्वभाव प्राप्तमपि विषयदर्शनं प्. ९अ) यत्नेन निवार्य ध्यान एव प्रवर्तत इति पक्षेणेति सूत्रभागाभिप्रायः । ननु ब्रह्मविद्याप्रधाने प्रकरणे कथं ध्यानादि विधिर्वाक्यभेद प्रसंगादिति नेत्याह । विध्यादि वदिति । अंगविधिवदित्यर्थः । यथा प्रधानविधिपरे प्रकरणे अवांतर वाक्यभेदेन प्रयाजाद्यंराविधिस्तथा ब्रह्मविद्यांग ध्यानादि विधिरित्यर्थः । उक्तरीत्या मौनविधेर्नियमविधित्वे स्थिते भाष्यकृतामपूर्वत्ववचनं मौनविध्यंशे पाक्षिका प्राप्त्यभिप्रायं द्रष्टव्यं । यथा सूत्रं पक्षेण प्राप्त्यभावादित्येव वक्तव्ये । भाष्ये अपूर्वत्वादिति वचनं श्रवणविधिरपूर्वविधिरेवेति ज्ञापनार्थमप्राप्तिमात्रे च दृष्टांत दार्ष्टांतिक भावो विवक्षित इति प्रकटार्थकारादीतामाशयः । अपूर्वविधित्व पक्षं दूषयति । वेदांतश्रवणस्येति । विचारविशिष्टवेदांतरूपस्य श्रवणस्य ब्रह्मसाक्षात्कार हेतुत्वं विधिं विनापि प्राप्तमित्यर्थः । ननु वाक्यस्य कथं साक्षात्कार हेतुत्वं इंद्रियजन्य ज्ञानस्यैव साक्षात्कारत्वादत आह । अपरोक्षवस्त्विति अपरोक्षवस्तुविषयकत्वं ज्ञानस्यापरोक्षत्वं न त्विंद्रियजन्यत्वं वस्त्वापरोक्ष्यं च वस्तु व्यवहारानुकूल चैतन्याभिन्नत्वमिति । शाब्दापरोक्षवादे वक्ष्यते । तथा च नित्यापरोक्षत्वेन श्रुति सिद्धब्रह्मरूप वस्तुविषयकत्वाद्वेदांतजन्यज्ञानस्य साक्षात्कारत्व सिद्धिरित्यर्थः । नत्वस्मिन् शास्त्रे शाब्दापरोक्षवादस्य का संगतिरत आह । तदर्थमेवहीति । वेदांतानां ब्रह्मापरोक्षप्रमितिजनकत्व सिध्यर्थमेव तद्वादसंगतिर्नान्यार्थमित्येतत्प्रसिद्धमित्यर्थः ।। प्. ९ब्) न च तावताब्रह्मप्रमाणत्वेनापातदर्शन साधारण ब्रह्मसाक्षात्कार हेतुत्व प्राप्तावप्यविद्यानिवृत्यर्थमिष्यमाण सतानिश्चय रूपतत्साक्षात्कार हेतुत्वं श्रवणस्य न प्राप्तमिति वाच्यं । विचारमात्रस्य विचार्यमात्रनिर्णय हेतुत्वस्य ब्रह्मप्रमाणस्य तत्साक्षात्कारहेतुत्वस्य च प्राप्तौ विचारित वेदांतशब्दज्ञानरूपस्य श्रवणस्य तद्धेतुत्वप्राप्तेः । न चोक्त उभयतो व्यभिचारः सहकारि वैकल्पेनान्वय व्यभिचारस्यादोषत्वात् । जातिस्मरस्य जन्मांतरश्रवणात्फलसंभवेन व्यतिरेक व्यभिचाराभावात् नन्वपरोक्षवस्तु विषयकं प्रमाणं स्वविषये साक्षात्कार हेतुरिति शाब्दापरोक्षवादे प्रसाधनेन वेदांतानामपि स्वविषये नित्यापरोक्षे ब्रह्मणि । अपरोक्षज्ञानसामान्य हेतुत्वमेव प्राप्तं न तु सता निश्चयरूप तत्साक्षात्कारहेतुत्वं तच्च विचारविशिष्टवेदांतरूप श्रवणस्यैव युक्तमन्यथाविचारात्प्रागपि सता निश्चय प्रसंगात् । न च वाक्यजन्यसाक्षात्कारमात्रादेवाविद्यानिवृति लक्षणफलसंभवात् । सता निश्चयरूपत्वं साक्षात्कारस्य नात्वेषणीयमिति वाच्यं । तत्र तत्र ब्रह्मोपदेशप्रदेशेषु यावत् संशय निवृति पुनः पुनः प्रश्न प्रतिवचनलिंगेन प्. १०अ) वेदांतविज्ञान सुनिश्चितार्था इत्यादि श्रुत्या श्रुत ब्रह्मणोपि यथापूर्वं संसारानुवृत्यनुमिता विद्यायानिवृत्यभावरूपलिंगेन च श्रवण मननध्यानशमदमभक्तिवैराग्यादीनां ज्ञानपरिपाकहेतूनां विधिदर्शनलिंगेन च सतानिश्चयरूप ब्रह्मसाक्षात्कारस्यैवाविद्या निवृत्यर्थमिष्यमाणत्वात्तथा च वेदांतश्रवणस्योक्तरूपसाक्षात्कार हेतुत्वमप्राप्तमेवेति शंकते । न च तावतेति । वेदांतानामिति शेषः । अपरोक्षवस्तुविषयकं प्रमाणं स्वविषये साक्षात्कारहेतुरिति प्रसाधनमात्रेणेत्यर्थः । अपरोक्षवस्तुविषयकं प्रमाणमपरोक्षज्ञानहेतुरिति स्थिते विचारो विचार्य निर्णय हेतुरिति च स्थिते कार्यकारणभावद्वयमेलनेन प्रकृते विचारविशिष्टवेदांतज्ञानरूपं श्रवनं सतानिश्चयरूप ब्रह्मसाक्षात्कारहेतुरिति सिध्यतीत्याह । विचारमात्रस्येति । सहकारीति । चितैकाग्र्यरूपसहकारि वैकल्पेनेत्यर्थः । उक्त कार्यकारणभाव द्वयरूपप्रमाणवलेन श्रवणस्य ब्रह्मसाक्षात्कारहेतुत्वे सिद्धे वामदेवस्य जन्मांतरीयं श्रवणादिकं कल्पते यथा जातमात्रे जंतौ दृश्यमानभोगस्य कारणं तत् प्राग्भवीयकर्मकल्पते तद्वदतो न व्यतिरेकव्यभिचार इत्याह । जातिस्मरस्येति । पूर्वस्यति स्मरतो वामदेवस्येत्यर्थः ।। प्. १०ब्) अन्यथा व्यभिचारेण हेतुत्ववाधे श्रुत्यापि तत्साधनताज्ञानासंभवात् । घटसाक्षात्कारे चक्षुरतिरेकेणत्वगिंद्रियमिव ब्रह्मसाक्षात्कारे श्रवणातिरेकेणोपायोंतरमस्तीति शंकायां व्यतिरेकव्यभिचारस्याप्यदोषत्वाच्च । तथा च प्राप्तत्वान्नापूर्वविधिः । अत एवावृतिरसकृदुपदेशादित्यधिकरणभाष्ये दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवंति । यथा वघातादीनि तंडुलनिष्पत्यवसानानीति श्रवणस्य ब्रह्मदर्शनार्थस्य दृष्टार्थ तया दर्शपूर्णमासिकावघात न्याय प्राप्ता वा वृत्युपदेशः । अपूर्वविधित्वे तु सनयुज्यते सर्वौषधावघातवत् । अग्नि च यने सर्वौषधस्य पूरयित्वा वहंत्यथैतदुपदधातीत्युपधेयोलूखल संस्कारार्थ त्वेन विहितस्यावघातस्य दृष्टार्थत्वाभावान्नावृतिरिति तंत्रलक्षणे स्थितं । अतो नियम विधिरेवायं ।। अन्यथेति । उक्तरीत्याद्विविध व्यभिचारपरिहारानुपगम इत्यर्थः । व्यभिचार निश्चयेन हेतुत्वा भावरूपवाध प्. ११अ) निश्चयाच्छ्रवणविधेरवोधकतापत्यातवाप्यपूर्वविधिर्न स्यादित्यर्थः । ब्रह्मसाक्षात्कारे श्रवणमिव तपो विशेषादिकमुत्कृष्ट जन्मप्राप्तिरूपं वा कारणांतरमस्तीति शंकाकाले वामदेवस्य कारणांतरात् । ज्ञानमुत्पन्नमिति । शंका संभवेन श्रवणस्य वामदेवे व्यतिरेक व्यभिचार ज्ञानं श्रवणस्य साक्षात्कार हेतुत्व ग्रहप्रतिबंधकं न भवति । न चैकस्य पदार्थस्य ज्ञाने परस्परनिरपेक्षकारण द्वया संभवेन ब्रह्मसाक्षात्कारे कारणांतर सत्व शंकैव न जायजायत इति वाच्यं । लोके तथा दृष्टत्वादित्याह घटेति । वेदांतश्रवणस्य ब्रह्मसाक्षात्कारहेतुत्वे विधिं विनैव प्राप्ते फलितमाह । तथाचेति । श्रवणादि विधेर्नियमविधित्वे सत्ये वा वृत्यधिकरणं संगच्छत इत्याह । अत एवेति । अपूर्वविधित्वा भावादेवेत्यर्थः । अत एवावृत्युपदेश इति संबंधः । दर्शनपर्यवसानानीत्यारभ्यतंडुलनिष्पत्यवसानानीत्यं तस्य भाष्यस्येयं योजनादृष्टार्थानि श्रवणादीन्यावर्त्यमानानि संति दर्शनपर्यवसानानि भवंति । यथावघातादीन्यावर्त्यमानानि तंडुलनिष्पत्यवसानानि भवंतीति दृष्टार्थानीत्यत्र दृष्टं फलमात्मदर्शनमेवायं भावः । आत्मा वा अरेद्द्रष्टव्यः श्रोतव्य इत्यादिना आत्मदर्शनोद्देशेन श्रवणादीनिविधीयंते तत्र किं ।। तदभावे हि यथावस्तु किंचिच्चक्षुषावीक्ष्यमाणस्तत्र स्वागृहीते सूक्ष्मे विशेषांतरे केनचित् कथिते तदवगमाय तस्यैव चक्षुषः पुनरपि प्. ११ब्) प्रणिधानं व्यापारे प्रवर्तते एवं मनसाहमिति गृह्यमाणे जीवे वेदांतैरध्ययन गृहीतैरुपदिष्टं निर्विशेष ब्रह्मचैतन्यरूपत्वमाकर्ण्य तदवगमाय तत्र सावधानं मनस एव निधाने कदाचित् पुरुषः प्रवर्तेतेति वेदांत श्रवणे प्रवृतिः पाक्षिकी स्यात् ।। मेतानि सकृदनुष्टेयानि किं वा यावदात्मदर्शनमावर्त्यानीति संशये सकृदेवानुष्टेयानि तावता विधेश्चारितार्थ्यात् । यथा अग्नि च यने सर्वौषधस्य पूरयित्वा अवहंतीति वाक्यविहितं सर्वौषधीनामवहननमुपधेयोलूखलसंस्काररूपं सकृदेवानुष्ठीयते तद्वत् तथा च सकृदनुष्ठित श्रवणादि जन्यमदृष्टं जन्मांतरे ब्रह्मदर्शन हेतुरित्य पूर्वविधित्वं श्रवणादि विधीनामिति प्राप्ते सिद्धंतः श्रवणाद्यावृतिः कर्तव्याकुतः असकृदुपदेशा तथा हि भृगुवल्यां भृगुं प्रतिपिता असकृतपसा ब्रह्मविजिज्ञासस्वेत्युपदिशति तप आलोचनं ब्रह्मविचारस्तथा छांदोग्य षष्टाध्याये श्वेतकेतुं पुत्रं प्रतिपिताविचारपूर्वकमसकृत्तत्वमसीत्युपदिशति । किं च श्रवणादिभिरात्मदर्शनफले जननीये श्रवणाद्यावृत्तिरूपदृष्टद्वार संभवे अदृष्टद्वारकल्पनायोगा तत्वं पदार्थयोः श्रवणाद्या वृतिं विनादुर्बोधत्वाच्च तंडुलनिष्पत्तिफलकावघातवदावृतिरेव नत्वग्नि च यनांतर्गतावघात वदनावृतिस्तदंतर्गतावघातस्यादृष्टार्थत्वेन वैषम्यादिति व्युत्पादितमावृत्यधिकरणे प्.१२अ) तदपूर्वविधिवादिनां न संगच्छत इति तंत्रलक्षणमेकादशाध्यायः । अत एव इति प्राप्तत्वादित्यर्थः । अस्य हेतोरेवकारार्थेऽपूर्वविधित्वाभावेन्वयः नियमविधित्वे हेतुमाह । तदभावे हीति । तदभावे मनस एव सावधानं तत्र निधाने कदाचित् पुरुषः प्रवर्तेतेति संबंधः मनसाऽगृह्यमाणात्मगत विशेषगृहणायमनोव्यापार एव यत्नेन प्रवृतौ दृष्टांतमाह । यथेति किंचिदिति । रत्नादीत्यर्थः । तत्रेति रत्नादावित्यर्थः । तस्यैवेति । न तु व्यापारांतर इत्येवकारार्थः । पुनरपि चक्षुषो व्यापारे प्रवर्तत इति संबंधः । प्रणिधानं यथा भवति तथा प्रवर्तत इति प्रवृति क्रियाविशेषणं प्रणिधानं तच्च रत्नादि वस्त्वभिमुखतया चक्षुषः स्थापनमनंतरमुन्मीलनव्यापारानुकूल यत्नः प्रवृतिरिति प्रणिधान प्रवृत्योर्भेदः वेदांतैरिति नेह नानास्ति किंचन प्रज्ञानं ब्रह्माहं ब्रह्मास्मीत्यादिभिरित्यर्थः । इह ब्रह्मणि नानाज्ञातृज्ञानज्ञेयरूपेण भिन्नं विशेषजातं किंचिदपि नास्ति प्रकृष्टं ज्ञानं प्रज्ञानं नित्यस्वप्रकाश जीवचैतन्यं ब्रह्माहं बुध्यादि साक्षिभूतचिदात्मा ब्रह्मास्मि भवामीति श्रुतीनामर्थः । अध्ययन पदं सांगाध्ययनपरं । आकर्ण्य परोक्षतया ज्ञात्वा श्रुतौ श्रद्दधानस्तदधिगमायेत्यर्थः । तत्रेति । अहमिति गृह्यमाणात्मनीत्यर्थः । सावधानमैकाग्र्यं यथा भवति तथा ।। अप्राप्य मनसा सहेति श्रुतिस्तु । मनसैवानुदृष्टव्यं प्. १२ब्) दृश्यते त्वग्र्यया बुद्धोत्यपि श्रवणेनानवहित मनोविषयेति शंका संभवात् ।। नन्वहमिति गृह्यमाणजीवे विशेषाकर्णनानंतरं वेदांत श्रवण इव कदाचिन्मनोव्यापारे वेदांतविचारनिरपेक्षेपि प्रवृत्तिः स्यादित्ययुक्तं श्रुत्या ब्रह्मणी मनो विषयत्व निषेधात्सोगाध्ययनवतस्तन्निषेधावगति संभवादिति नेत्याह । अप्राप्येति श्रुतिरनवहित मनोविषयेति संबंधः । वाचः सत्यज्ञानादिशब्दाः अप्राप्यशक्त्या ब्रह्मा प्रतिपाद्यमनसा सह निवर्तंते लक्षणामाश्रयंत इत्यर्थः । सनसासहेत्यनेन मनसोपि ब्रह्मणि प्राप्तिर्निषिध्यत । इति भावः । ब्रह्मणि मनोविषयत्व निषेधवत्तद्विषयत्वमपि श्रुत्या उच्यते । तथा च श्रुत्योर्विरोधे सति मनः शब्दित बुद्धिगम्यत्व प्रतिपादक श्रुतौ बुद्धेरग्र्यत्व विशेषणवलाद्विषयत्व निषेध श्रुतेरनवहित मनोविषयत्व निषेधार्थकत्व प्रतीतेस्तथा च सांगाध्ययनवत उक्त व्यवस्था प्रतीति संभवात् मनस एव व्यापारे प्रवृतिर्दुर्वारेत्याह । मनसैवेति । अनवहितत्वमेकाग्रता शून्यत्वं शंका संभवादिति । अग्र्यत्वविशेषण सामर्थ्येन यथोक्त व्यवस्था निश्चय संभवादिति वक्तव्ये शंका संभवादित्युक्तेरयमाशयः । निर्गुणब्रह्मसाक्षात्कारे मनसः करणत्वं नास्ति औपनिषदत्व श्रुति विरोधात्सोपाधिकात्मसाक्षात्कारेपि न तस्य करणत्वं तत्साक्षात्कारस्य नित्यसाक्षिरूपत्वात्मनसैवानुद्रष्टव्यमित्यादौ तृतीया प्. १३अ) वाक्योत्थवृतिसाक्षात्कारं प्रतिसाधनत्वाभिप्रायेत्यादिकं सर्वं शाब्दा परोक्षवादे वक्ष्यते । तथा च वस्तुतो मनसः करणत्वा भावात् । मनस एव व्यापारे पुरुषः कदाचित् प्रवर्तेतेत्युत्प्रेक्षितं नियम विधि व्यावर्त्यमसंगतमेवेति । अथवा जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इत्यादि श्रवणाद्भिन्नात्मज्ञानान्मुक्तिरिति भ्रमसंभवेन मुक्तिसाधन ज्ञानाय भिन्नात्मविचाररूपशास्त्रांतर श्रवणेपि पक्षे प्रवृतिः स्यादित्य द्वितीयात्म पर वेदांतश्रवणनियमविधिरस्तु अत एव व्यावर्त्यांतरमाह । अथवेति । अधीतसांगस्वाध्यायस्य हितरति शोकमात्मविदित्यादि श्रुत्या आत्मज्ञानं मुक्तिसाधनमिति ज्ञानं भवति न च सांगाध्ययनवतोपि लोके विचारमंतरेणात्मतत्वज्ञान जन्मास्ति । आत्मप्रतिपादक वेदांतेषु नानाविधयोजनासंभावनया तात्पर्य संशयादेरनुभवसिद्धत्वात्ततश्च मुक्तिसाधन ज्ञानार्थी तल्ज्ञानप्रतिबंधक तात्पर्यभ्रमसंशयादि निरासाय वेदांत विचारे प्रवर्तमानो यथा ब्रह्ममीमांसा शास्त्रे प्रवर्तते तथैव न्यायसांख्यादि शास्त्रविचारेपि कदाचित् प्रवर्तेत तत्रापि तदभिमतयोजनया वेदांतविचारसत्वात् । न च सांख्यादि तर्कशास्त्रगतात्मविचारस्या प्. १३ब्) द्वितीयात्मविचाररूपत्वाभावेन तादृशात्मनि वेदांतानां तात्पर्य भ्रमसंशयाद्य निवर्तक त्वाद्विशिष्य स्वयमेव तत्र तात्पर्य भ्रमादि हेतुत्वाच्च न तत्रात्म ज्ञानार्थिनः प्रवृतिः संभवतीति वाच्यं । जीवभिन्न परमात्मज्ञानं मुक्तिसाधनमिति । भ्रुमेण तत्रापि प्रवृति संभवात् । न च सांगाध्ययनवतो भिन्नात्मज्ञानं मुक्तिसाधनमिति भ्रमो न संभवति । अहं ब्रह्मास्मि ब्रह्मविदाप्नोति परंमित्यादि वेदांतेषु जीवाभिन्नपरमात्मज्ञानस्य मुक्तिसाधनत्व प्रतीतंरिति वाच्यं । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इति श्रुति गतान्यशब्देन भ्रमसंभवात् यदा ईशं सन्निधिमात्रेण बुध्यादि प्रवर्तकं अन्यं वस्तु गत्या बुध्यादिभ्यो भिन्नं भ्रांत्या बुध्याद्य भिन्नत्वेन चिदात्मनो गृहीतत्वात् । भिन्नत्वोपदेशः सफलं न तु जीवभिन्नमित्यर्थः । जीवब्रह्मभेदस्य प्रत्यक्षसिद्धतया उपदेशान पेक्षत्वात् जुष्टं ऋषिसंघैस्सेवितं ऋषिसंघजुष्टमिति श्रुत्यंतरात्पश्यति ईशोहमिति साक्षात्करोति तदा अस्य ईशस्य महिमानं महत्वोपलक्षितं स्वरूपं इति एति प्राप्तोति वीत शोकश्च भवतीति श्रुतेर्वास्तवार्थः ।। इहात्मशब्दस्येदं सर्वं यदयमात्मेत्यादि प्रकरणपर्यालोचनया द्वितीयात्म परत्वात् । न हि वस्तुतस्तत्साधनांतरप्राप्तावेवनियम प्. १४अ) विधिरिति कुलधर्मः । येन वेदांतश्रवणनियमार्थवत्वायनियमादृष्टजन्य स्वप्रतिवंधक कल्मष निवृतिद्वारासतानिश्चयरूप ब्रह्मसाक्षात्कारस्य वेदांतश्रवणैक साध्यत्वस्याभ्युपगंतव्य त्वेन तत्र वस्तुतः साधनांतराभान्ननियमविधिर्युज्यते इति आशंक्येत किंतु यत्र साधनांतर तया संभावनया पक्षे प्राप्त्याविधित्सित साधनस्य पाक्षिक्य प्राप्तिर्निवारयितुं न शक्यते तत्र नियमविधिः ।। ननु श्रोतव्यवाक्ये आत्मविचारमात्रं प्रतीयते न त्वद्वैतात्मविचारः ततश्च कथमनेन विधिना भिन्नात्मविचारव्यावृत्तिलाभ इत्यत आह । इहेति । अत्रादि पदेन आत्मनि दृष्टे सर्वं विदितं भवतीति प्रतिज्ञा वाक्यं गृह्यत आत्मनस्सर्वाधिष्टान तया सर्वात्मकत्वे हि सति आत्मनि विदिते तद्व्यतिरिक्तं सर्वं तत्वतो विदितं भवति सर्वमात्मैवेति सामानाधिकरण्यं च सिध्यति नान्यथा तथा च श्रोतव्य वाक्यस्थमात्मपदमद्वितीयात्मपरमेवेति तद्विचारविधिना भिन्नात्मविचार व्यावृतिर्लभ्यत इति भावः । ननु तंडुल निष्पताववहननस्येवनखविदलनादेरपि वस्तुतस्साधनत्वातन्निवृतिफलको नियमविधिर्युक्तः । इहत्व द्वितीय ब्रह्मसाक्षात्कारे प्. १४ब्) भिन्नात्मविचारस्य न वस्तुतस्साधनत्वमस्तीत्यतस्तन्निवृति फलको नियमविधिर्न युज्यते । न च मा भूद्भिन्नात्मविचारस्य व्यावर्त्यत्वं नैतावता नियमविध्यनुपपतिः प्रकृतेस्ति गुरुनिरपेक्ष विचारभाषा प्रबंधेतिहासपुराणादीनामुदाहरिष्यमाणानां सता निश्चयरूपब्रह्मसाक्षात्कारहेतुत्व सत्वेन व्यावर्त्यसंभवादिति वाच्यं । तेषामप्यनंतरमेव वक्ष्यमाणरीत्या अविद्या निवर्तक सतानिश्च रूपसाक्षात्कारप्रतिबंधक कल्मष निवृति द्वारागुर्वधीन वेदांतविचारवत् साक्षात्काराहेतुत्वेन वस्तुतस्साधनत्वा भावा तथा च नियमविधिस्संभवतीत्याशंक्याह । नहीति । कुलधर्म इति कुलक्रमागत धर्मस्य यथा आवश्यकता तथा वस्तुतस्तत्साधनांतरप्राप्तेरावश्यकत्वं नहीत्यर्थः । येनेति । आवश्यकत्वेनेत्यर्थः । नियमार्थवत्वायेति । विधित्सित गुर्वधीन वेदात श्रवणेनेव गुरुनिरपेक्ष विचारादिनापि सता निश्चयरूपसाक्षात्कारस्वरूपोत्पति संभवे सति गुर्वधीमवेदांतश्रवणनियमस्य दृष्टप्रयोजनाभावान्नियमादृष्टमुपेयं तस्य कल्मषनिवृति द्वाराविद्यासाधानत्वं च कल्पनीयमेवेत्यर्थः । अदृष्टजन्यत्वं कल्मषनिवृतेर्विशेषणं स्वपदं साक्षात्कार परं येनाशंक्येतेति संबंधः तावतैवाप्राप्तांश परिपूरणस्य तत्फलस्य सिद्धेः । अथवा गुरुमुखाधीनाध्ययनादिव प्. १५अ, १५/१६) निपुणस्य स्वप्रयत्नमात्रसाध्यादपि वेदांत विचारात् संभवति । सता निश्चयरूपं ब्रह्मापरोक्षज्ञानं । किंतु गुरुमुखाधीन वेदातवाक्यस्रवणनियमादृष्टमविद्यानिवृतिं । प्रतिकल्मष निरासेनोपयुज्यत इति । तदभावेन प्रतिवद्धमविद्यामनिवर्तयत् । परोक्षकल्पमवतिष्ठते । न च ज्ञानोदयेऽज्ञानानिवृत्यनुपपत्तिः । प्रतिवंधकाभावस्य सर्वत्रापेक्षितत्वेन सत्यपि प्रत्यक्षविशेषदर्शने उपाधिना प्रतिबंधात् । प्रतिबिंबरूपभ्रमानिवृतिवत्तदनिवृत्युपपतेः ।। यत्र विधित्सितसाधनस्याप्राप्तिः पाक्षिकी निवारयितुं न शक्यते तत्र नियमविधिरित्यत्र हेतुमाह । तावतैवेति अप्राप्तांशलाभमात्रेणैवेत्यर्थः । विधित्सित साधनस्य पाक्षिक्यामप्राप्तौ हेतुमाह । साधनांतरतयेति । सता निश्चयरूप ब्रह्मसाक्षात्कारस्य दृष्टफलतया तत्स्वरूपे वेदांतविचारवद्भाषा प्रवंधादेरप्यन्वय व्यतिरेकाभ्यामेवसाधनत्व बुद्धिः संभाव्यते पूर्वोक्तरीत्या वस्तुतस्साधनत्वाभावात्संभावनयेत्युक्तं व्यावर्त्यांतरमाह । अथवेति मात्रपदेन प्. १५ब्, १५/१६) गुरुर्व्यवछिद्यते तर्ह्युक्त ब्रह्मा परोक्षज्ञानेनैवाविद्या निवृति लक्षणफलसिद्धेः । किं गुर्वधीन श्रवणविधिनेति शऽऽन्कते । किन्त्विति । श्रवणनियमविद्ध्यर्थवत्वायनियमादृष्टस्य ब्रह्मापरोक्षज्ञानेन स्वफलसिध्यर्थमपेक्षणीयत्वकल्पनान्नोक्ता परोक्षज्ञानादविद्यानिवृति सिद्धिरिति परिहरति गुरुमुखेति । निरासेनेति निरासद्धारेत्यर्थः । इतीत्यनंतरं कल्पनीयत्वेनेति शेषः । तदभावेनेति । कल्मष निरासाभावेन कल्मषेणेत्यर्थः । कल्पमिति तुल्यमित्यर्थः । न च नियमार्थवत्वायेत्यादि पूर्वं ग्रंथे नियमादृष्टस्य कल्मष निवृति द्वाराज्ञानोत्पत्तौ हेतुत्व मुक्तं अत्र चोत्पन्नेन ज्ञानेनाविद्यानिवृत्यै जननीयायां तत्र प्रतिबंधक कल्मषनिरासद्वारा श्रवणनियमादृष्टस्य साधनत्वोक्तौ पूर्वापरविरोध इति वाच्यं मतभेदेन विरोधाभावात् । नन्वेवमप्युत्पन्ना ब्रह्मविद्या स्वकार्या विद्यानिवृत्तये नियमादृष्टसाध्यां कल्मषनिवृतिमपेक्षत इत्ययुक्तं प्रमात्वाच्छ्रुक्त्यादि प्रमावदिति मत्वाशंकते । न च ज्ञानोदय इति । अनिवृत्यनुपपतिरिति । अज्ञाननिवृतिरेवस्यादित्यर्थः । शुक्तिप्रमास्थले अन्यायेक्षा भावेपि प्रतिबिंब भ्रमस्थले विशेष दर्शनस्य प्रतिबंधकाभावापेक्षादर्शनेन ब्रह्मविद्याया अपि तदपेक्षोपपतेरिति परिहरति ।। एवं च लिखितपाठादिनापि स्वाध्याय ग्रहण प्. १७अ) प्रसक्तौ गुरुमुखाधीनाध्ययन नियमविधिवत्स्वप्रयत्नमात्रपूर्वकस्यापि वेदांतविचारस्य सता निश्चयरूपब्रह्मसाक्षात्कारार्थत्वेन पक्षे प्राप्तौ गुरुमुखायीन श्रवणनियमविधिरयमस्तु न च तद्विज्ञानार्थं स गुरुमेवाभि गच्छेदिति गुरूपसदनविधिनैव गुरुरहितविचारव्यावृति सिद्धेर्विफलो नियमविधिरिति शंक्यं ।। प्रतिबंधकाभावस्येति । यद्यपि प्रतिबंधकाभावस्य सिद्धांतेन कुत्रापि हेतुत्वं तथापि अप्रतिवद्धा सामग्री कार्य हेतुरित्युपगमादस्त्येवावच्छेदक तथा प्रतिबंधकाभावापेक्षेति भावः । तदनिवृत्युपपतेरिति । गुरुरहितविचारसाध्यविद्यया अविद्यानिवृत्यभावोपपतेरित्यर्थः । श्रवणनियमविधिं सदृष्टांतमुपपादयति । एवं चेति । गुरुरहितविचारस्य व्यावर्त्यस्य लाभे सतीत्यर्थः । लिखितेति अभ्युदय निःश्रेयस कामस्य वेदार्थानुष्टानं विनानाभ्युदयादि सिद्धिः । तदनुष्ठानं च वेदार्थज्ञानं विना न संभवति तदर्थज्ञानं च स्वाध्याय पदवाच्य वेदावाप्तिं विना न संभवति । वेदावाप्तिं प्रति च गुरुमुखोच्चारणानूचारणालक्षणमध्ययनं लिखित पाठादिश्च साधनत्वेन लोके प्रसिद्धं । तथा चाध्ययनविधि वाक्येन वेदाध्ययनं नियम्यते प्. १७ब्) अध्ययनेनैव अक्षरावाप्तिं संपादयेदिति तेन च लिखितपाठादि व्यावृतिर्लभ्यते यथा तथा प्रकृतेपीत्यर्थः । ननु ब्रह्मविज्ञानार्थं गुर्वभिरामनं श्रूयते न च तस्य श्रुतिजन्ये ब्रह्मज्ञाने साक्षात्साधनत्वमस्ति अतस्तेन ज्ञाने जनर्नायेद्वारापेक्षायां गुर्वधीनविचार एव योग्यतया द्वारत्वेन कल्प्यतेनत्वदृष्टं दृष्टद्वार संभवे अदृष्टकल्पनायोगात् । गुर्वभिगमनस्य गुर्वधीनविचारद्वाराज्ञानसाधनत्वे अभिगमनविधिनासिद्धे तेनैव गुरुरहितविचारव्यावृतिसिद्धेर्निष्फलः श्रोतव्यवाक्ये श्रवणनियमविधिरिति शंकते । नचेति । ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेनेति पूर्ववाक्ये निर्दिष्टो ब्राह्मणस्स इति परामृश्यते निर्वेदं वैराग्यं आयात् प्राप्नुयादिति यावत् । केन प्रकारेणेत्यत आह श्रुतिरकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीति । अतो मोक्षं ब्रह्मज्ञानसाध्यं ज्ञात्वा तद्ज्ञानार्थं गुरुमभिगच्छेदित्यर्थः । श्रोतव्य वाक्येन गुर्वधीन विचारे नियमिते सति तदंगतया गुर्वभिगमनं विधीयते श्रवणविध्यभावेतूप ।। गुरूपसदनस्य श्रवणांग तया श्रवणविध्यभावे तद्विधिरेव नास्तीति तेन तस्य वैफल्याप्रसक्तेः । अन्यथाध्ययनांगभूतोपगमन विधिनैव लिखित पाठादि व्यावृतिरित्यध्ययन नियमोपि विफलः स्यात् प्. १८अ) अथवाऽद्वैतात्मपरभाषाप्रबंध श्रवणस्य पक्षे प्राप्त्या वेदांतश्रवणनियमविधिरस्तु । न च न म्लेच्छित वा इत्यादि निषेधादेव तदप्राप्तिः शास्त्रव्युत्पतिमांद्याद्वेदांतश्रवणमशक्यमिति पुरुषार्थनिषेधमुल्लंघ्यापि भाषाप्रवंधेनाद्वैतं जिज्ञास मानस्य तत्रापि प्रवृति संभवेन नियम विधेरर्थवत्वोपपतेः ।। गमनविधेरात्मलाभा भावान्नश्रवणविधिवैफल्यापादकतेति परिहरति । गुरूपसदनस्येति । अंगविधिना प्रधानविधिवैफल्यापादने अतिप्रसंगमाह । अन्यथेति । विधिनैवेति गुरूपगमनस्याक्षरावाप्तिं प्रति अध्ययनरूपदृष्टद्वारसंभवे तत्यागायोगादिति भावः । व्यावर्त्यांतरमाह । अथवेति नियमविधिरस्त्विति । अद्वैतं जिज्ञासमानेन वेदांता एव विचारणीया न भाषा प्रवंधा इति विचारविषयनियमविधिरस्त्वित्यर्थः । ननु म्लेच्छशब्दितस्य भाषा प्रबंधरूपा व्यक्तशब्दस्योच्चारणं पुरुषेणाकर्तव्यं । अन्यथा पुरुषः प्रत्यवायी भवेदिति निषेधवलादेवश्रवणाधिकारिणो भाषाप्रबंधव्यावृतिसिद्धेः किं विधिनेति शंकते । न च नेति । यदि भाषानिषेधस्य ज्ञानांगत्वंस्यात् तदा तन्निषेधमुल्लंघ्य तत्र प्रवृतौज्ञाअनानुत्पतिभयेन तत्र न प्रवर्तेतनत्वे तदस्ति पुरुषार्थत्वातन्निषेधस्य तथा प्. १८ब्) च तन्निषेधमुलंघ्यापि कदाचिद्भाषादिश्रवणे प्रवृतिस्संभवतीति हरति । शास्त्रव्युत्पतीति । उल्लंघने हेतुमाह अशक्यमिति । अशक्यत्वे हेतुर्व्युत्पतिमांद्यं । ननु यस्याधिकारिणो व्युत्पतिमांद्याद्वेदांतश्रवणमशक्यंतं प्रतिवेदांतविचारनियमविधिः कथमशक्यार्थे विध्यनुपपतेरिति चेन्न मंदस्य भाष्यादि विचारासंभवेपि वेदांतप्रकरणविचारस्य मंदाधिकारिणोपि संभवात् । तदुक्तं । पंचदश्यां मंदप्रज्ञं तु जिज्ञासुमात्मानंदेन बोधयेत् । बोधयामास मैत्रेयीं याज्ञवल्क्यो निजां प्रियामिति आत्मानंदनामकप्रकरणेनेत्यर्थः ।। अभ्युपगम्यते हि कर्त्रधिकरणे व्युत्पादितं पुरुषार्थेऽनृतवदननिषेधे सत्यपि दर्शपूर्णमासमध्ये कुतश्चिद्धेतोरंगीकृत तन्निषेधो लंघनस्या विकलांक्रतु सिद्धिं कामयमानस्यानृतवदने प्रवृतिः स्यादिति पुनः क्रत्वर्थ तया पूर्णमासप्रकरणेनानृतं वदेदिति निषेध इति क्रत्वर्थ तया निषेधस्यार्थवत्वं । यद्वा यथा मंत्रैरेव मंत्रार्थ स्मृतिः साध्येति नियमस्तन्मूल कल्पसूत्रात्मीय ग्रहणक वाक्यादीनामपि पक्षे प्राप्तेस्तथा वेदांतमूलेतिहासपुराणपौरुषेय प्रबंधानामपि पक्षे प्राप्ति प्. १९अ) संभवान्नियमोयमस्तु ।। पुरुषार्थनिषेधमुलंघ्यापि महाफलसिध्यर्थं निषिद्धे प्रवृतिस्तन्निषेधेन विधेरर्थवता च मीमांसकैरपि स्वीकृतेत्याह । अभ्युपगम्यतेहीति । अंगीकृतं निषेधोलंघनं येन स तथोक्तः । कुतश्चिदित्यनेन सूचितं हेतुमाह । अविकलामिति । अर्थवत्वमिति । व्युत्पादितमिति पूर्वेणान्वयः व्यावर्त्यांतरमाह । यद्वेति । मंत्रैरेवेति । अग्निर्मूर्द्धेत्यादयो मंत्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः किमुचारणमात्रेणादृष्टं कुर्वंतः क्रतावुपकारं कुर्वंति उत दृष्टेनैवार्थ स्मरणेनेति संदेहे कल्पसूत्रादि नापि अनुष्ठेयार्थ स्मृति संभवाददृष्टाथां मेत्रा इति प्राप्तेराद्धांतः मंत्राणामर्थप्रकाशन द्वाराक्रतूपकारकत्वं दृष्टद्वारसंभवे दृष्टकल्पनानुपपतेस्तथा च फल वदनुष्टानापेक्षितक्रिया तत्साधनस्मरणद्वारा मंत्राणां कर्मांगत्वं न च क्रिया तत्साधनस्मरणस्य मंत्रैरिवकल्पसूत्रादिभिरपि संभवान्न तस्य द्वारत्वमिति वाच्यं । मंत्रैरेव मंत्रार्थः स्मर्तव्य इति नियमविधि संभवात् । नियमस्तु दृष्टार्थो भविष्यति । तदुक्तं । यत्र दृष्टन्न लभ्यतेऽतःस्या तत्रा दृष्टकल्पनेति तथा च यथा मंत्रनियमविधिना मंत्रमूलक कल्पसूत्रादि व्यावृतिः क्रियते तथा अधीत सांगस्वाध्यायेन ब्रमजिज्ञासुना वेदांता एव विचार्या इति वेदांत नियमे कृते तन्मूलेतिहासादीनां व्यावृतिर्लभ्यत इति दृष्टांतदार्ष्टांतिक ग्रंथयोरर्थः । याज्ञिकैः प्रणीतमनुष्टान समवेत पदार्थ संग्राहक वाक्यं प्. १९ब्) ग्रहणकवाक्यं इतिहासौ महाभारतं पौरुषेय प्रबंधः प्रबोधचंद्रोदयादिः उदाहृतानिव्या ।। सर्वथानियमविधिरेवायं सहकार्यंतरविधिरित्यधिकरणभाष्ये अपूर्वविधित्वोक्तिस्तु नियमविधित्वेपि पाक्षिक्य प्राप्ति सद्भावा तदभिप्रायेति । तत्रैव पक्षेणेति पाक्षिक्य प्राप्ति कथनपरसूत्रपदयोजनेन स्पष्टीकृतमिति । विवरणानुसारिणः । कृतश्रवणस्य प्रथमं शब्दात् । निर्विचिकित्संपरोक्षज्ञानमेवात्पद्यते । शब्दस्य परोक्षज्ञान जननस्वाभाव्येन कॢप्त सामर्थ्यानति लंघनात् ।। वर्त्यान्युपलक्षणमन्येषामपि व्यावर्त्यानां संभवात् । तथा हि तत्कारणं सांख्ययोगाभिपन्नमिति श्रुतौ ब्रह्मप्रतिपति द्वारा तत्प्राप्तिं प्रति उपायद्वयं निर्दिष्टं श्रवणमनन ध्यानात्मकस्सांख्यशब्दार्थ एकः तृतीय परिच्छेदे वक्ष्यमाणो योगपदोदितः उपासनामार्गस्त्वपरः । तत्प्रकृतं कारणं जगत्कारणत्वेनोपलक्षितं ब्रह्मसांख्ययोगाभ्यां क्षानद्वाराभिपन्नं आभिमुख्येन प्रत्यक् त्वेन प्राप्तमिति श्रुत्यर्थः । तथा सगुणब्रह्मोपासनमुपासकस्य ब्रह्मलोकं प्. २०अ) गतस्य तत्वसाक्षात्कार द्वाराब्रह्मप्राप्ति हेतुरिति ब्रह्ममीमांसायां प्रसिद्धं तथा तपो विशेषादिकं साक्षातत्वज्ञानसाधनत्वेन पुराणादि प्रसिद्धमुदाहर्तव्यं तथा च गुरुवेदांतेषु श्रद्धावतः कुशलस्य श्रवणाधिकारिणस्तत्वज्ञानार्थमुक्तेषु योगमार्ग सगुणोपासनतपो विशेषादिष्वपि वेदांतश्रवण इव कदाचित् प्रवृतिः स्यादिति तन्निवृतिफलको नियमविधिः संभवति नियमविधिपक्षमुपसंहरति । सर्वथेति । ननु नियमविधित्वपक्षे सहकार्यंतरविधिरित्यधिकरणभाष्य विरोध इत्यत आह । सहकार्यंतरेति । अपूर्वविधित्वस्य निराकृतत्वादिति भावः । तत्रैवेति । तदधिकरणभाष्य एवेत्यर्थः । श्रोतव्यवाक्येन निर्विचिकित्स परोक्ष शाब्दज्ञानो देशेनैव श्रवणं विधीयते न तु शाब्दसाक्षात्कारोद्देशेन शब्दस्य स्वतः परोक्षज्ञानजनन स्वाभाव्यात् । विचारसहकृतस्यापि शब्दस्य क्वापि साक्षात्कार हेतुत्वादर्शनाच्च परोक्षज्ञानफलकोप्ययंनापूर्वविधिः विधिं विनापि शब्दे शाब्दज्ञान हेतुत्वस्य विचारे विचार्यनिर्णय हेतुत्वस्य च प्राप्तौ तदुभयवलेन विचारविशिष्टवेदांतरूपश्रवणस्य निर्वि * कित्स शाब्दज्ञान हेतुत्व प्राप्तेस्साधितत्वात् । किंतु पूर्वोक्तान्येव व्यावर्त्यान्यादायनियमविधिरेवेति मतमाह । कृतश्रवणस्य प्रथममिति ।। पश्चात्तु कृतमनननिदिध्यासनस्य सहकारि विशेष संपन्ना तत एवापरोक्षज्ञानं जायते प्. २०ब्) तत्तांशगोचरज्ञानासमर्थस्यापींद्रियस्य तत्सामर्थ्य संस्कारसाहित्यात्प्रत्यभिज्ञा न जनकत्ववत्स्वतोऽपरोक्षज्ञानजनना समर्थस्यापि शब्दस्य विधुरपरिभावित कामिनी साक्षात्कारस्थले तत्समर्थत्वेन कॢप्त भावना प्रचयसाहित्यादपरोक्षज्ञानजनकत्वं युक्तं ततश्च शब्दस्य स्वतः स्वविषये परोक्षज्ञानजनकत्वस्य भावना प्रचय सहकृतज्ञानकरणत्वावच्छेदेन विधुरांतः । करणवद परोक्षज्ञान जनकत्वस्य च प्राप्तत्वात्पूर्ववन्नियमविधिरिति तदेक देशिनः ।। ननु मनननिदिध्यासने किं निर्विचिकत्स शाब्दपरोक्षज्ञानोद्देशे नैव विधीयेते किं वा शाब्दा परोक्षं प्रतिनाद्यः मननाद्यनुष्टानात्प्राक् श्रवणमात्रादेव तत्सिद्धेर्न द्वितीयः । शब्दस्य परोक्षज्ञानजनन एव सामर्थ्यस्य त्वदभिमतत्वादित्या शंकां द्वितीयपक्ष परिग्रहेण परिहरति पश्चादिति । शाब्दनिर्विचिकत्स परोक्षज्ञानानंतरमित्यर्थः । कृते मनननिदिध्यासने येन सः तथोक्तः । तत एवेति शब्दादेवेत्यर्थः । सहकारिवैचित्र्यात्कार्य वैचित्र्यदर्शनादिति भावः । तदेवोदाहरणेन दर्शयति । ततांशेति तत्सामर्थ्येति । तत्रांशगोचरज्ञानजननसामर्थ्यमित्यर्थः । प्. २१अ) शब्दस्येति शब्दस्यापरोक्षज्ञानजननकत्वं युक्तमित्युतरत्रसंबंधः । ननु तत्रा संस्कारस्य इंद्रिय सहकारित्वेन कॢप्तावपि भावना प्रचयस्य ज्ञानकरण सहकारित्वेन साक्षात्कारजननसामर्थ्यं न क्वापि कॢप्तमित्याशंक्याह । विधुरेति । तत्समर्थेत्यत्र साक्षात्कारजननं तच्छब्दार्थः नन्वेवमपि शब्दसहकारित्वेन मननध्यानात्मक भावना प्रचयस्य मानांतरेण शाब्दसाक्षात्कारं प्रतिहेतुत्वा प्राप्तेर्मननादि विधेरपूर्वविधित्वप्रसंग इति नेत्याह । ततश्चेति । परोक्षज्ञानजनकत्वस्यापरोक्षज्ञानजनकत्वस्य च प्राप्तत्वादिति संबंधः । परोक्षज्ञान हेतुत्वस्य प्रात्थमिधानं श्रवणविधेर्नियम विधित्वार्थमिति द्रष्टव्यं विपुरेति भावना सह कृतस्य ।। वेदांतश्रवणेन न ब्रह्मसाक्षात्कारः किं तु मनसैव मनसैवानुद्रष्टव्यमिति श्रुतेः । शाश्त्राचार्योपदेश शमादिसंस्कृतमन आत्मदर्शने करणमिति गीताभाष्यवचनाच्च । श्रवणं तु निर्विचिकित्स परोक्षज्ञानार्थमिति तादर्थ्येनैव नियमविधिरिति केचित् ।। विदुरांतःकरणस्य कामिनी साक्षात्कारहेतुत्व दर्शनस्थले वहिरस्वतंत्रमप्यंतःकरणं बाह्यवस्तु भावना सहकृतं सतत्साक्षात्कार हेतुरिति विशिष्य कार्यकारण भावे प्. २१ब्) गृहीतव्ये लाघवात् । बाधका भावाच्च भावना प्रचय सहकृतं ज्ञानकरणत्वावच्छिन्नमपरोक्षज्ञानं प्रतिहेतुरिति कार्यकारणभावोग्र ह्यत इति भावः । अत्र शब्दस्य परोक्षज्ञानजननस्वाभाव्यमेवासिद्धं ज्ञानगत परोक्षत्वादेः करविशेष प्रयुक्तत्वस्य निराकरिष्यमाणत्वादतः शाब्दापरोक्षं प्रतिमननादेरिव श्रवणस्यापि विधिर्नानुपन्न इत्यस्वरसंसूचयति । तदेकदेशिन इति विवरणैक देशिन इत्यर्थः । मतांतरमाह । वेदांतश्रवणेन न ब्रह्मसाक्षात्का * इति । शब्दस्य परोक्षज्ञानजनन स्वाभाव्येन कॢप्त सामर्थ्यानति लंघनादिति हेतुरत्रापि मते दृष्टव्यः । किं तर्हि ब्रह्मसाक्षात्कारे करणमिति पृच्छति किं त्विति । मन एव करणमिति मत्वा तत्र मानमाह । मनसैवेति । क्वचित् किंत्वित्यनंतरं पृथक् मनसैवेति पाठोस्ति तदानानुपपतिः । तत्रैव भाष्य संमतिमाह । शास्त्रेति । शास्त्रं तत्वमस्यादि वाक्यमाचार्योपदेश आचार्य कर्तृक वाक्यार्थ विवरणरूप आदि पदंद मतितिक्षादि संग्रहार्थं । तथा चात्र ब्रह्मसाक्षात्कारस्य मानसत्व प्रतिपादनेन तत्कारणमनस्सहकारितयैव मनननिदिध्यासनयोर्विधिर्न्न तु पूर्वमत इव शाब्दसाक्षात्कारकारणशब्द सहकारितयेति पूर्वमतादस्य मतस्य विशेषः सूचितो भवति । श्रवणे तु पूर्वमतादविशेषमाह । श्रवणंत्विति । तादर्थ्येनैवेति निर्विचिकित्स शाब्दपरोक्षज्ञानार्थत्वेनैवेत्यर्थः ।। प्. २२अ) अपरोक्षज्ञानार्थत्वेनैव श्रवणे नियमविधिः द्रष्टव्य इति फलकीर्तनात् । तादर्थ्यं च तस्य करणभूतमनः सहकारितयैव न साक्षात् । शब्दादपरोक्षज्ञानानंगीकारात् । न च तस्य तेन रूपेणतादर्थ्यं न प्राप्तमित्यपूर्वविधित्व प्रसंगः । श्रावणेषु षड्भादिषु समारोपित परस्पराविवेकनिवृत्यर्थं गांधर्वशास्त्रस्य श्रवण सहकृत श्रोत्रेण परस्परा संकीर्णतया तद्याथार्थ्या परोक्षदर्शनेन प्रकाशमाने वस्तुन्यारोपिताविवेकनिवृत्यर्थं शास्त्रसद्भावे तच्छ्रवणं तत्साक्षात्कारजनकेंद्रिय सहकारि भावेनोपयुज्यत इत्यस्य कॢप्तत्वादित्येके ।। मतांतरमाह । अपरोक्षज्ञानेति । ननु तर्करूपविचारात्मकस्य श्रवणस्य स्वतः साक्षात्कार फलत्वा योगातदनुग्राह्यं प्रमाणं वक्तव्यं तच्च किमित्यपेक्षायामाह । तादर्थ्यं चेति । साक्षात्कारार्थत्वं चेत्यर्थः । तस्येति । वेदांतश्रवणस्येत्यर्थः । करणभूतेति ब्रह्मसाक्षात्कारकरणभूतेत्यर्थः । न तु ब्रह्मसाक्षात्कारकरणशब्द सहकारितयेत्येव कारार्थः । न साक्षादिति वेदांत श्रवणस्य साक्षात्स्वातंत्र्येण साक्षात्कारजनकत्वं नास्ति तस्य तर्करूपतया स्वतः प्रमाणत्वा प्. २२ब्) भावादिति भावः । मनः सहकारितयैवेत्येव कारार्थे हेतुमाह । शब्दादिति । तस्येति वेदांतश्रवणस्येत्यर्थः । तेन रूपेणेति साक्षात्कारकरणमनस्सहकारिंत्वेन रूपेणेत्यर्थः । साक्षात्कारकरणमनस्सहकारित्वेन प्राप्त्यभावेपि तत्करणेंद्रिय सहकारित्वेन प्राप्तिरस्तीत्याह । श्रावणेष्विति । श्रोत्रजन्य प्रत्यक्षविषयेष्वित्यर्थः । षड्गादिष्विति । षड्गादयो ध्वनिवेशेषास्तेषु गांधर्वशास्त्रश्रवण रहितस्य परस्परमविवेकस्समारोपितो वर्तते परस्परमविवेको नाम परस्परं तादात्म्यरूपः परस्परधर्मवतारूपश्चेति बोध्यं गांधर्वशास्त्रविचारवतश्च तद्विचार सहकृत श्रोत्रेंद्रियेणैव षड्गादयः परस्परं विविक्ततयानुभूयंते एवं मनसांतरिंद्रियेणानुभूयमानेषु चिदात्मप्राण शरीरादिषु परस्परं तादात्म्यादि रूपाविवेकः प्राणिनामनुभव ।। वेदांतवाक्यानामद्वितिये ब्रह्मणि तात्पर्य निर्णयानुकूल न्यायविचारात्मक चेतो वृतिविशेषरूपस्य श्रवणस्य न ब्रह्मणि परोक्षमपरोक्षं वा ज्ञानं फलं तस्य शब्दादि प्रमाणफलत्वात् । न चोक्त रूपविचारावधारित तात्पर्य विशिष्टशब्दज्ञानमेव श्रवणमस्तु । तस्य ब्रह्मज्ञानं फलं युज्यते इति । प्. २३अ) वाच्यं । ज्ञाने विध्यनुपपतेः । श्रवणविधेर्विचार कर्तव्यता विधायक जिज्ञासा सूत्रमूलत्वोपगमाच्चोहापोहात्मक मानस क्रियारूपविचारस्यैव श्रवणत्वौवित्यात् ।। सिद्धोत्रापि यद्यारोप निवर्तकं शास्त्रमस्ति तदा तत्सहकृतमंतरिंद्रियमेव बुध्यादि विविक्तमात्मानं ब्रह्मस्वरूपतया वेदांतैः प्रतीयमानं साक्षात्कारयेदिति विचारवात्पुरुषः षड्गादि स्वरसाक्षात्कार स्थले कार्यकारणभावं कल्पयतीत्याह । प्रकाशमान इति । तच्छ्रवणं शास्त्रश्रवणं । तत्साक्षात्कारेति प्रकाशमान वस्तुसाक्षात्कारेत्यर्थः । उपयुज्यते विविक्ततया वस्तुसाक्षात्कार हेतुर्भवतीत्यर्थः । इत्यस्येति । इति उक्त प्रकारेणास्य साक्षात्कारकरणभूतेंद्रिय सहकारित्वस्य वेदांतश्रवणे विधिं विनैव प्राप्तवान्नापूर्वविधित्वप्रसंग इत्यर्थः । उक्तेषु पक्षेषु शाब्दाद्य परोक्षोद्देशेन वा शाब्दपरोक्षोद्देशेन वा श्रवणविधिरिति स्थितं । इदानीं प्रतिबंधनिरासोद्देशेनैव तद्विधिरिति मतांतरमाह । वेदांतवाक्यानामिति । प्रमेयासंभावनानिवृत्यनुकूलन्याय विचारात्मक मननव्यावृतये तात्पर्य निर्णयानुकूलेत्युक्तं । तन्निर्णयानुकूलन्यायाश्रोपक्रमादय इति बोध्यं चितोवृति विशेषपदेन यत्नसाध्यक्रियारूपावृतिर्विवक्षिता न तु तदसाध्याज्ञानरूपावृतिर्विवक्षिता प्. २३ब्) ज्ञानस्य विध्ययोग्यताया वक्ष्यमाणत्वात् । ब्रह्मणीति विषयसप्तमी । तस्येति ज्ञानस्येत्यर्थः । आदिपदं प्रत्यक्षादि संग्रहार्थं ज्ञानोद्देशेन श्रवणं विधीयत इति मताभिमतं श्रवणशब्दार्थमनूद्यनिरा करोति । न चोक्त रूपेति । ब्रह्मजिज्ञासा सूत्रस्य साधन चतुष्टय संपन्नेन ब्रह्मज्ञानाय वेदांतविचारः कर्तव्य इत्यर्थः । सौत्रजिज्ञासा पदस्य विचारलक्षकत्वा । तस्य च सूत्रस्य श्रोतव्यवाक्यं मूलं ततश्च श्रोतव्य वाक्ये यदि श्रवणं ज्ञानरूपं तदा श्रोतव्य इत्यस्य श्रवणरूपज्ञान कर्तव्यता अर्थःस्या तथा च जिज्ञासा सूत्रश्रोतव्य वाक्ययोर्मूलमूलिभावो न स्यादेकार्थत्वा भावादित्याह । श्रवणविधेरिति । ऊहः न्यायाभासेभ्यो निष्कृष्य न्यायानामुपादानं न्यायाभासनिराकरणमपोहः । न च विचारस्यैव तात्पर्य निर्णय द्वारातज्जन्य तात्पर्य भ्रमादि पुरुषापराधरूप प्रतिबंध विगमद्वारा वा ब्रह्मज्ञानं फलमस्त्विति वाच्यं तात्पर्य ज्ञानस्य शाब्दज्ञाने कारणत्वानुपगमात् । कार्ये क्वचिदपि प्रतिबंधकाभावस्य कारणत्वानुपगमाच्च तयोर्द्वारत्वानुपपतेः । ब्रह्मज्ञानस्य विचाररूपातिरिक्तकारणजन्यत्वे तत्प्रामाण्यस्य परतस्त्वापतेश्च ।। प्. २४अ) ननु सदेव सोम्येत्यादि तत्सत्यं स आत्मातत्वमसीत्ये तदंतं वाक्यजातमद्वितीय वस्तु परम द्वितीय वस्तु प्रतिपादकोपक्रमोपसंहारवत्वादित्येवमात्मकस्य विचारस्यानुमितिरूपं तात्पर्य निद्धांरणं साक्षात्फलं तत् द्वारा तात्पर्यमुमादि रूपप्रतिबंधकनिवृतिर्विचारस्य फलं तन्निवृतौ च वाक्यमप्रतिबद्धं सदद्वितीय ब्रह्मबोधं जनयति । एव श्रुत्यंतरेष्वपीति वस्तुगतिः । तथा च श्रवणस्य साक्षाद्ब्रह्मज्ञान फलकत्वाभावेपि परंपरया तत्फलकत्वं स्यादिति शंकते । न च विचारस्यैवेति । अप्यर्थ एव कारस्तथा च । यथा ज्ञानं शब्दप्रमाणस्य फलं तथा तद्विचारस्यापि फलमस्तु शब्दप्रमाणफले ज्ञाने विचारस्यापि तात्पर्य निर्णयद्वारातदधीन प्रतिबंध निरासद्वारा वा हेतुत्व संभवादित्यर्थः । तज्जन्यत्वं विगमविशेषणं भ्रमादिरेव पुरुषापराधः तात्पर्यज्ञानस्य द्वारत्वाभावे हेतुमाह । तात्पर्यज्ञानस्येति । प्रतिबंध निरासोपजननेनान्यथा सिद्धत्वादिति भावः । तार्यज्ञानस्य शाब्दबोधं प्रति हेतुत्वाभावे विचारस्य तात्पर्य निर्णयसाध्य प्रतिबंध निवृतिद्वारा शाब्दबोध हेतुत्वं दूरायास्तमिति मत्वा प्रतिबंधकाभावस्याहेतुत्वे हेतुमाह । कार्ये क्वचिदपीति । सत्यामपि सामग्र्यां प्रतिबंधवशात्कार्यं न जातमिति लोकव्यवहारविरोधात् । प्रतिबंधकाभावस्य सामग्र्यामंतर्भावोनांगी क्रियते । किं त्व प्रतिवद्धसामग्री कार्यहेतुरिति स्वीकृत्य सामग्र्यामवच्छेदकतया दंडत्वादि वदन्यथा सिद्धिरेव स्वीक्रियत इति भावः तात्पर्यानु ।। प्. २४ब्) तस्मातात्पर्यनिर्णय द्वारापुरुषापराध निरासार्थत्वेनैव विचाररूपे श्रवणे नियमविधिः । द्रष्टव्य इति तु दर्शनार्हत्वेन स्तुतिमात्रं न श्रवणफल कीर्तनमिति संक्षेपशारीरकानुसारिणः ब्रह्मज्ञानार्थं वेदांतश्रवणे प्रवृतस्य चिकित्साज्ञानार्थं चरकसुश्रुतादि ग्रंथश्रवणे प्रवृतस्येव मध्ये व्यापारांतरेपि प्रवृतिः प्रसज्यत इति तन्निवृति फलकः श्रोतव्य इति परिसंख्याविधिः ।। मितिहेतु विचारात्मकानुमानस्य शाब्दप्रमिति हेतुत्वे दूषणमाह । ब्रह्मज्ञानस्येति । अतिरिक्तेति शब्दप्रमाणाति रिक्तेत्यर्थः । परतस्त्वापतेरिति । प्रामाण्याश्रयज्ञानस्यातिरिक्त कारणजन्यत्वरूपं प्रामाण्यस्योत्पतौ परतस्त्वं स्यादित्यर्थः । ततश्चाप सिद्धांत इति भावः । यदि श्रवणस्य न ब्रह्मज्ञानं फलं तर्हि किमुद्देशेन तद्विधिरत आह । तस्मादिति । ब्रह्मज्ञान फलकत्वा संभवादित्यर्थः । ननु तर्हि कथं द्रष्टव्य इति श्रवणफल कीर्तनं तत्राह । द्रष्टव्य इति त्विति । स्तुतिमात्रमिति । आत्मन इति शेषः स्तुतिश्च तच्छ्रवणादौ प्रवृत्यथैति भावः । परिसंख्याविधि पक्षमाह । ब्रह्मज्ञानार्थमिति । ननु वाचस्पति मते वक्ष्यमाणरीत्या वेदांतश्रवणस्य नित्यप्राप्तिं सिद्धां कृत्वा परिसंख्याविधि प्. २५अ) पक्षप्रवृतिर्वाच्या । तथा च सति ज्ञानमुद्दिश्य श्रवणाव्वनुतिष्ठतः कथं व्यापारांतरं प्रसज्येत यतस्तन्निवृति फलकः परिसंख्याविधिः संभवेदित्याशंक्य ब्रह्मज्ञानसाधनत्वेन व्यापारांतरा प्रसक्तावपि भेदवासनावशाद्व्यापारांतरं संभवतीति सदृष्टांतमाह । चिकित्सेति । चिकित्सा औषधं तद्ज्ञानस्य वैद्यकग्रंथैक साध्येन तद्ज्ञानाय चरकसुश्रुतादि संज्ञकग्रंथश्रवणे प्रवृतस्य तादर्थ्येन व्यापारांतरा प्रसक्तावपि यथा विषयवासनावशादेव तत्प्रसक्तिस्तद्वदित्यर्थः ।। ब्रह्मसंस्थोऽमृतत्वमेतीति छांदोग्येनन्यव्यापारत्वस्य मुक्तपायत्वावधारणात् । संपूर्वस्य तिष्ठतेः समाप्ति वाचि तया ब्रह्मसंस्था शब्दिताया ब्रह्मणि समाप्तेरनन्यव्यापारत्वरूपत्वात् । तमेवैकं जानथ आत्मानमन्यावाचो विमुंचथेत्यार्थर्वणे कंठत एव व्यापारांतरप्रतिषेधाच्च । आसुप्तेरामृतेः कालं नयेद्वेदांतचितयेत्यादि स्मृतेश्च । न च ब्रह्मज्ञानानुपयोगिनो व्यापारांतरस्य श्रवणेन सहैकस्मिन् साध्ये समुच्चित्यप्राप्त्यभावान्न तन्निवृत्यर्थः परिसंख्याविधिर्युज्यत इति वाच्यं ।। प्. २५ब्) ननु सुश्रुतादि ग्रंथश्रवणे प्रवृत्तस्य व्यापारांतर सत्वेपि यथा चिकित्सा ज्ञानं निष्प्रत्यूहमुत्पद्यते । तथा प्रत्यहं वेदांतश्रवणमनुतिष्ठतो मध्ये मध्ये लौकिक वैदिक व्यापार सत्वेपि ब्रह्मज्ञानोदय संभवान्निष्फलः । परिसंख्याविधिरित्याशंक्य श्रवणविध्यर्थवत्वायनिन्तरमनुष्वितश्रवणस्यैव ज्ञानसाधनत्वं न कादाचित्कस्यातो न नैष्फल्यमिति । परिहारमभिप्रेत्य यथोक्तार्थे श्रुतिस्मृतिवाक्यान्युदा हरति । ब्रह्मसंस्थ इति न विद्यते अन्यो व्यापारो यस्य पुरुषस्य स तथा तस्य भावस्तत्वं तस्येत्यर्थः । ब्रह्मविषयक श्रवणादि व्यापाराच्छमदमाद्युपबृंहितादन्य व्यापारशून्यत्वस्येति यावत् । तथा च संन्यासाधिकरणभाष्यं शमदमाद्युपवृंहितं ब्रह्मनिष्ठत्वं तस्य स्वधर्मस्तदति क्रमे च तस्य प्रत्यवाय इति । अवधारणं निश्चयः ब्रह्मसंस्थपदेनायमर्थः कथं लभ्यत इत्यत आह । संपूर्वस्येति । न च ब्रह्मणि समाप्तिर्नामविदेहकैल्यरूपोलय एवास्त्विति वाच्यं । तथा सति पुनरमृतत्वमेतीति भागवैयर्थ्यापतेरतोमृतत्वप्राप्तिं प्रति ब्रह्मसंस्थता उपायत्वेन विधीयत इति वक्तव्यमतो ब्रह्मणि समाप्तेरनन्य व्यापारत्वे पर्यवसानं भाष्ये कृतं । तथा चानन्य व्यापारत्वस्य मुक्त्युपायत्वबोधक वाक्येनार्थान्मुमुक्षोर्व्यापारांतरनिवृतिः क्रियत इति भावः । साक्षान्निवृति बोधकवाक्यमुदाहरति । तमेवैकमिति । यस्मिन्नाधारेद्या वा पृथिव्यादि समस्तं जगदध्यस्ततमेवाधारमेकरूपमात्मानं जानथ ।। प्. २६अ) सहकार्यांतरविधिरित्यादि सूत्रे यस्मात् पक्षे भेददर्शन प्रावल्यान्न प्राप्नोति तस्मान्नियम विधिरिति तद्भाष्ये च कृत श्रवणस्य शाब्दज्ञानमात्रात्कृतकृत्यतां मन्वानस्याविद्यानि च । तर्क साक्षात्कारोपयोगिनिदिध्यासने प्रवृतिर्नस्यादिति अतत् साधनस्य पक्षप्राप्तिमात्रेण निदिध्यासने नियमविधेरभ्युपगत तयातन्न्यायेनासाधनस्य समुच्चित्याप्राप्तावपि तन्निवृतिफलकस्य परिसंख्याविधेः संभवादिति नियमः परिसंख्या वा विध्यर्थोत्र भवेद्यतः । अनात्मादर्शनेनैव परात्मानमुपास्मह इति वार्तिक वचनानुसारिणः केचिदाहुः । आत्मा श्रोतव्य इति मननादिवदात्मविषयकत्वेन निवध्यमानं श्रवणमागमाचार्योपदेशजमात्मज्ञानमेव न तु तात्पर्यविचाररूपं न तत्र कोपि विधिः ।। हे मुमुक्षुवः ज्ञानसाधनत्वेन चानात्मप्रतिपादकशब्दोच्चारणादि त्यागः कर्तव्य इत्याह । श्रुतिरन्यावाचो विमुंचथेति । नियमविधिवादी शंकते । न च ब्रह्मज्ञानानुपयोगिन इति प्रतिवंद्यासमाधते । सहकार्ययंतरेति । न प्राप्नोति मौनमिति प्. २६ब्) शेषः उदाहृत सूत्रभाष्ययोर्नियमविधिवादि सम्मतं तात्पर्यं परिसंख्याविधिवादी दर्शयति । कृत श्रवणस्येति । मन्वानस्येत्यनंतरं व्यापारांतरेपि प्रवर्तमानस्येति शेषः सूत्रे भाष्ये च तत्साधनपक्षप्राप्ति मात्रेण नियमविधेरभ्युपगततयेति संबंधः । वार्तिके अत्रेत्यस्य श्रोतव्यवाक्य इत्यर्थः । अत्र नियमो विध्यर्थो भवेदित्येकः संबंधः । यदि नित्य प्राप्तत्वान्नियमविधिर्न्न संभवति तदा परिसंख्या वा विध्यर्थो भवेदिति संबंधः । परिसंख्याया विध्यर्थत्वे हेतुर्यत इत्यादिः । परमात्मोपासने अन्य व्यापाररहिते वयं मुमुक्षवो यतः प्रवृत्ता इत्यर्थः । श्रवणादीनां विधेयत्व पक्षं मतभेदेन दर्शयित्वा तेषां विध्यभावपक्षमाह । आत्मा श्रोतव्य इत्यादिना । निवध्यमानमिति । यथा आत्मविषयकत्वेनोच्यमानम्मननं निदिध्यासनं च ज्ञानरूपं तथा श्रवणमपि ज्ञानरूपमेवेत्यर्थः । न त्वितिविचारस्यानुष्ठेय क्रियारूपस्य साक्षादात्मविषयकत्वानुपपतेरिति भावः ।। ननु मननादि वदिति दृष्टांतोनुपपन्नः मनननिदिध्यासनयोर्ज्ञानत्वा भावात् मननं हि युक्त्यालोचनरूपो व्यापारः ध्यैचिंतायामित्यनुशासनानुरोधेन निदिध्यासनं ध्यानक्रिया न ज्ञानमतः कथं मननादि वदिति मनन निदिध्यासनयोर्ज्ञानत्वं सिद्धतयानिर्दिश्यते इति चेदुच्यते । आत्माब्रह्मस्वभावः चिद्रूपत्वात् प्. २७अ) ब्रह्मवद्बुध्यादिः कल्पितः दृश्य त्वात् । शुक्तिरजतादि वदित्याद्यनुमितेरेवमननत्वोपगमात् । तदुक्तं चतुर्थमैत्रेयी ब्राह्मण वार्तिके । आगमार्थ विनिश्चित्यैमंतव्य इति भण्यते वेदशब्दानुरोध्यत्र तर्कोपि विनियुज्यते । पदार्थविषयस्तर्कः । तथैवानुमितिर्भवेदिति श्रुतार्थदार्ढ्याय तर्करूपं मननं विधीयते सोपि तर्कः श्रुत्यविरुद्ध एव मननत्वेन विधीयते तच्च मननं तत्वं पदार्थविषयकमेव न तु वाक्यार्थविषयकं तस्य वाक्यैकमेयत्वात् । तथा शब्दः समुच्चयार्थः । यथा मननात्मक तर्कस्य वेदाविरोधित्वं तथानुमिति रूपत्वं चेत्यर्थः । अत एवन्यायतंत्रेपि । मननस्यानुमिति रूपत्वमिष्यते निदिध्यासनमपि वार्तिक कारमते ज्ञानमेव तथा हि । बृहदारण्यके चतुर्थाध्याय षष्ठाध्यायगतयोर्मैत्रेयी ब्राह्मणयोराम्नायते । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्य इति । अनंतरं चतुर्थे मैत्रेययात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेति । षष्ठे तु मैत्रेययात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इति प्. २७ब्) इति तत्रोभयत्राक्षेपवार्तिकं । अनुवादे यथोक्तानां प्रक्रांते दर्शनादिषु विज्ञानेनेत्यथ कथं निदिध्यासनमुच्यत इति । अथ आत्माद्रष्टव्य इत्यादिना उक्तानामनुवादे प्रक्रांते सति दर्शनादिषु मध्ये श्रुतं निदिध्यासनं विज्ञानेनेति पदेन कथमुच्यते नूद्यते दर्शनादीनां समानपदैरेवानुवाद दर्शनेन निदिध्यासनस्यापि तद्वन्निदिध्यासनेनेत्यनुवादः स्यात् । न तु विज्ञान पदेनेत्यर्थः । तस्य समाधान वार्तिकं । ध्यानाशंकानिवृत्यर्थं विज्ञानेनेति भण्यते निदिध्यासन शब्देन ध्यानमाशंक्यते । यत इति । निदिध्यासनशब्दस्य ध्यान वाचि त्वात् श्रवणमननानंतरमनुभवां गत्वेन ध्यानं निदिध्यासितव्य इत्यनेन विधीयत इति यतः पूर्ववादिभिराशंक्यते । अतस्तदा शंका निवृत्यर्थमनुवादावसरे स्थित्वा पूर्ववाक्ये निदिध्यासनरूपं ज्ञानं विवक्षितं नतु ध्यानं अतो नात्रध्यानविधि शंकावकाश इत्याशयवती श्रुतिर्विज्ञानपदेन निदिध्यासनमनुवदतीति प्. २८अ) वार्तिकार्थः । ध्यानस्यानुभवांगत्वे को दोषः यतस्तदाशंका श्रुत्यानिरस्यत इत्यत आह तदनंतरं वार्तिकार्द्धं । विज्ञानोत्पति हेतुत्वं ध्यानादेः प्रागवादिषमिति ध्यानस्य तन्नीयोगस्य वा विज्ञानोत्पति हेतुत्वं प्रतियद्दूषणं वक्तव्यं तत्प्रागेव संबंधादावुक्त वानस्मीत्यर्थः । तत्र ह्युक्त तत्वं पदार्थ गोचर श्रवणमननाभ्यास सकृदभ्यस्ताभ्यां तत्वं पदलक्ष्यार्थ निर्णये सति वाक्यार्थज्ञानस्यैवावसरप्राप्तत्वेन ध्यानविधेरनवकाशात् । न च ताभ्यां प्रमाणप्रमेया संभावनानिवृत्तावपि विपरीत प्रत्ययेन प्रतिबंधान्न वाक्यार्थ बोधोत्पतिरिति वाच्यं । श्रवणमननयोरेवासकृदभ्यास महिम्ना विपरीत प्रत्ययस्यापि निवृति संभवात् वाक्यार्थ बोधनिवर्त्यस्य विपरीतप्रत्ययस्य तदप्रतिबंधकत्वाच्च लोके विपर्ययस्य स्वविरोधिदर्शनोत्पति प्रतिबंधकत्वा दर्शनादिति । ननु यदि निदिध्यासनं न ध्यानं । किं तर्हि तदित्यत आह । वार्तिकं । अथ रायत बोधो- प्. २८ब्) त्रनिदिध्यासनमुच्यते । धानस्येव पुरुष यत्नान पेक्षत्वमपरायतत्वं । यावद्यथोक्त विज्ञानमाविर्भवति भास्वरं श्रवणादि क्रिया तावत् कर्तव्येह प्रयत्नतः मननमादि पदार्थः । श्रुत्वामत्वाथ तं साक्षादात्मानं प्रतिपद्यते । अथ श्रवणमननपरिपाकजनित तत्वं पदलक्ष्यार्थनिर्णयानंतरमेव वाक्येन ब्रह्मात्मज्ञानं साक्षादपरोक्षतया प्रतिपद्यते अनुभवतीत्यर्थः । वाक्यार्थ ज्ञानवतः कृतकृत्यतामाह । अनन्या यत्न विज्ञाने श्रवणादेरुपाद्यतः । जातेनापेक्ष्यते किंचित्प्रतीचोनुभवात्परमिति वृतिज्ञा ।। अत एव समन्वय सूत्रे आत्मज्ञानविधिनिराकरणानंतरं भाष्यं किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्य इत्यादीनि वचनानि । विधि छायानि स्वाभाविक प्रवृति विषयखीकरणार्थानीति ब्रूम इत्यादि ।। ने जाते सति तेन प्रतीचो ब्रह्मत्व स्फुरणादनंतरं न किंचिदपेक्ष्यत इत्यर्थः । एवं वार्तिककारमते निदिध्यासनस्य ज्ञाअनत्वाभ्युपगमात् न मननादि वदिति दृष्टांता सिद्धिः । प्. २९अ) न च वार्तिककारमते निदिध्यासितव्य इत्यस्य द्रष्टव्य इत्यनेन पौनरुक्त्यं स्यादिति वाच्यं । दर्शनोद्देशेन श्रवणमनन विधानानंतरं पुनः फलकीर्तनस्य तदुपसंहारपरत्वोपपतेरथवा द्रष्टव्य इति विचारप्रयोजकापातदर्शनानुवादः निदिध्यासितव्य इति तु विचारफल साक्षात्कारानुवाद इति पौनरुक्त्यपरिहार संभवात् । श्रवणादौ विध्यभावे भाष्य सम्मतिमाह । अत एवेति । श्रवणमनननिदिध्यासनानां दर्शनवत् ज्ञानरूपत्वेन क्रियारूपत्वेपि वक्ष्यमाणविधया नित्य प्राप्तत्वे न च विध्ययोग्यत्वा देवेत्यर्थः । किमर्थानीति । व्यर्थानि स्युरिति यावत् । आदि पदं श्रोतव्य इत्यादेस्संग्रहार्थः । विधिछायानीति । अध्येतव्य इति प्रसिद्ध विधितुल्यानीत्यर्थः । अत्र तव्य प्रत्ययैर्दर्शन श्रवणादि गता प्रशंसा लक्ष्यते तथा च । यो हि मुमुक्षुरात्मदर्शन श्रवणादीन्येव मुक्तिसाधनानीति ज्ञात्वापि संन्यास ब्रह्मचर्यादि सहित श्रवणाद्यनुष्ठानक्लेशमनुसंचिंत्य न तत्र सर्वोत्साहे न प्रवर्तते किं तु यथा प्राप्तान्येव वर्णाश्रमानुरूपाणि कर्माण्युपासनानि वानुतिष्ठेत् तत्रापि निर्वृतिं न लभते तैरात्यंतिक पुरुषार्थालाभानुसंधानेन तं प्रत्यात्मदर्शन श्रवणादि प्रशंसार्थं प्रवर्तते । आत्मा वा इत्यादि वाक्यं तस्य सर्वोत्साहे न श्रवणादावेव प्रवृतिर्भवत्वित्याशयेन अतो न विधि प्रत्ययानां वैययर्थ्यमिति भाष्यकारः परिहरति । स्वाभाविकेति । आदिपदेन यो हि बहिर्मुखः प्रवर्तते पुरुषः इष्टं मे भूयादनिष्टं प्. २९ब्) मे मा भूदिति न च तत्रात्यंतिकं पुरुषार्थं लभते तमात्यंतिक पुरुषार्थ वांच्छिनं ।। स्वाभाविकात्कार्यकारणसंघात प्रवृति गोचराद्विमुखी कृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयंत्यात्मा वा अरे द्रष्टव्य इत्यादीनीत्यं तं भाष्यं संगृह्यते । स्वाभाविकत्वं विषयविशेषणं संग्रहभष्यं विवृणोति । योहीति प्रवर्तत इति । नानाविधकर्मोपासनान्यनुतिष्ठतीत्यर्थः । इष्टं मे भूयादनिष्टं मे माभूदित्यनेन दुःखसामान्या स्पृष्टसुखकामना ब्रह्मानंदरूपात्यंतिक पुरुषार्थगोचरा इह विवक्षतिता अत एवाह । न च तत्रात्यंतिकं । पुरुषार्थं लभत इति । बाह्यसाधनं तत्र शब्दार्थः स्वाभाविकादिति स्वभावो अविद्या तत्कार्य भूतादित्यर्थः । संघातस्य प्रवृतिः कर्मोपासनयोरनुष्ठानं तद्गोचरात् । यष्टव्य देवतामंत्रादि रूपादित्यर्थः । प्रत्यगात्मनि विषये स्रोतः चित्तप्रावण्यं यस्य स प्रत्यगात्मस्रोतास्तस्य भावस्ततातयेत्यर्थः । तं बाह्य साधनात् प्. ३०अ) विमुखी कृत्य श्रवणादिष्वेव प्रवर्तयंतीत्यर्थः । यदि च वेदांत तात्पर्य विचाररूपं श्रवणं तदा तस्य तात्पर्य निर्णयद्वारा वेदांत तात्पर्य भ्रमसंशय रूपप्रतिबंधकनिरास एव फलं ।। एवं श्रवणादेर्ज्ञानरूपत्वात् न तत्र कोपि विधिरित्युक्तं । इदानीं श्रवणादेः क्रियारूपत्वमुपेत्यापि न तत्र कोपि विधिरित्याह । यदि चेति । तस्य क्रियारूपत्वं च वार्तिक कारैरेवोक्तं । श्रवणादि क्रिया तावत् फर्तव्येह प्रयत्नत इति आदि पदेन मननस्य संग्रहो न ध्यानस्य वार्तिककार मते श्रवणमननानतरं ध्यानानुष्टाना भावस्योक्तत्वात् । न च ध्यानस्याननुष्ठेयत्वे ओमित्येवं ध्यायथ आत्मानं विद्यामेतां योगविधिं च कृत्स्नमित्यादि बहुवाक्यविरोध इति वाच्यं । तेषां सांख्ययोगाभि यत्नमिति श्रुति गतयोग पदोदितमार्गांतर प्रतिपादकतायास्तृतीय परिछेदे ध्यानदीपोक्त प्रकारेण वक्ष्यमाणत्वात् । न च तत्कारणमिति श्रुतिगत सांख्यपदोदित विचारमार्गेपि ध्यानांतर्भावः । पूर्वमुक्त इति वाच्यं । निदिध्यासन पदस्य ध्यानार्थकत्वमताभिप्रयेण तदंतर्भावस्योक्तत्वात् । ध्यानस्य सांख्यमार्गाद्बहिर्भाव एव भाष्युकाराणामपि संमतस्तथा चैतेन योगः । प्रत्युक्तं इत्यधिकरणभाष्यं तत्कारणं सांख्ययोगाभिपन्नमित्यत्र वैदिकमेव ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्येते इति ज्ञानपदं ज्ञानाभ्यास परं वैदिकं वेदोक्तं । प्. ३०ब्) एतेन वेदविरोधादिना योगशास्त्रें निराकृतमिति सूत्रार्थः । सांख्यमार्गे ध्यानाभावमभिप्रेत्यैव सर्वज्ञात्ममुनिभिरपि नि हि ध्यानपदस्य ज्ञानार्थकत्वमुक्तं । श्रवणमनन बुध्योर्जातयोर्यत्फलं तन्निपुणमतिभिरुच्चैरुच्यते दर्शनाय । अनुभव न विहीनायैवमेवेति बुद्धिः श्रुतमननसमाप्तौ तन्निदिध्यासनं हीति । अस्य श्लोकस्याश्रम श्रीचरणानां व्याख्यानमिदं निदिध्यासने पक्षांतरमाह । श्रवणेति । श्रवणमननबुध्योर्जातयोर्यत्फलं तद्दर्शनाय निपुणमतिभिरुच्चैरुच्यत इति संबंधः । एतदेव विशदयति । अनुभव न विहीनेति । श्रुतं श्रवणं दीर्घकालादरनैरंतर्यानुष्टानेन श्रवणमननपरिपाके सतीत्यर्थः । अनुभव न विहीना साक्षात्काररहिता अविद्यानिवर्तक वृति साक्षात्कारभिन्नेति यावत् । या एवमेवेति बुद्धिः अहं चिदात्माब्रह्मस्वभाव एव ब्रह्म च चिदेक रसप्रत्यगात्म स्वभावमेवेति तत्वं पदलक्ष्यनिर्णयात्मिका बुद्धिस्तदेवनिदिध्यासनं नाम न ध्यानमस्मिन् पक्षे श्रवणमननयोरेवानुष्ठेयत्वं निदिध्यासनं तु नानुष्ठेयं दीर्घकालमनुष्ठित श्रवणमननफलरूपा बुद्धिर्यदा भवति तदैव साक्षात्कारोत्पतेः ।। न प्रतिबंधकांतरनिरासो ब्रह्मावगमो वा । तत्फलकत्वं च तस्य लोकत एव प्राप्तं साधनातरं च किंचिद्विकल्प्य समुच्चित्यवान प्राप्तमिति न तत्र विधित्रयस्याप्यवकाशः ।। प्. ३१अ) पूर्वपक्षे तु निदिध्यासनमपि पृथगनुष्ठेयमिति भेद इति । सांख्यमार्गे ध्यानाभावमभिप्रेत्यैव यावद्भानोदयं विचारस्यैव कर्तव्यत्वं ध्यानदीपे विद्यारण्य गुरुभिरप्युक्तं । विचार्ययाप्यापरोक्षेण ब्रह्मात्मानं न वेति चेत् । आपरोक्ष्यावसानत्वाद्भूयो विचारयेत् । विचारयत्नामरणं नैवात्मानं लभेत चेत् । जन्मांतरे लभेतैव प्रतिबंधक्षये सतीति । एवमानंदपंचकेपि आत्मानंदावसाने सांख्यमार्गस्य ध्यानरहितस्यापि ध्यानं न सर्वांशेपि तुल्यफलत्वं बहुधा प्रपंचितमिति संक्षेपः । एवकार व्यवच्छेद्यमाहनेति वाकारोनजनुकर्षणार्थः । विचारस्य प्रतिबंध निरासद्वारा ब्रह्मावगमोपयोगसंभवेपि न साक्षातत्फलकत्वं ज्ञानस्य प्रमाण फलत्वादित्युक्तत्वादिति भावः । ननूक्त प्रतिबंध निरासद्वाराविचारस्या विद्यानिवर्तक साक्षात्कारोपयोगित्व प्राप्तावपि तादृश साक्षात्कार प्रतिबंधक पापनिवृतिद्वारा साक्षात्कारसाधनत्वस्य मानांतराद प्राप्तत्वा छ्रोतव्य इत्यत्र श्रवणस्य पापनिवृतिद्वारा विद्यासाधनत्वमुपदिश्यते । न च विद्याप्रतिबंधक पापनिवृतेर्यज्ञादि नैव सिद्धत्वाद्विधि वैयर्थ्यमिति वाच्यं । प्रतिबंधक पापानामानंत्येन केषांचिद्यज्ञानुष्ठानेन केषांचिच्छ्रवणानुष्टानेन निवृतिरिति विभागकल्पनोपपतेः । तथा च प्राप्तं पुनरपूर्वविधित्वमेवं च सहकार्यंतरविधिरित्यधिकरण भाष्ये पांडित्य शब्दित श्रवणे अपूर्वत्वोक्तिश्च संगछत इति शंकावारयति । न प्रतिबंधकांतरनिरास इति । तात्पर्य भ्रमसंशयरूपप्रतिबंधका पेक्षया अन्यत्पापरूपं प्रतिबंधकं प्. ३१ब्) प्रतिबंधकांतरं तन्निरासां न श्रवणफलमतो न तद्दाराज्ञानाय श्रवणं विधेयमित्यर्थः । अयं भावः । श्रोतव्य इत्यस्यापूर्वविधित्वमयुक्तं तस्यावृत्यधिकरणे निरसितत्वात् विवरणाद्युक्तरीत्या वेदांतश्रवणस्यान्वय व्यतिरेक प्रमाणसिद्धं तात्पर्य भ्रमादि लक्षण प्रतिबंधनिवृति रूपदृष्टफलकत्वमुपजीव्य श्रवणेनैवज्ञानं प्रतिबंधनिवृतिं च संपादयेदिति नियमविधित्व संभवे स्वाभाविक प्रवृति विषयविमुखी करणार्थानीति ब्रूम इत्यादि भाष्यानुसारेण ब्रह्मप्रतिपति साधनश्रवणादि स्तुतिद्वारा तत्र प्रवृतिविशेषकारणत्वमात्रेण ब्रह्मप्रकरण निवेश संभवे वा अपूर्वविधित्वा योगात् भाष्यकारीया पूर्वत्वोक्तेः पाक्षिकाशम्यभिप्रायकत्व संभवाच्चेति । तत्फलकत्वं चेति भ्रमादिरूप प्रतिबंध निरासफलकत्वं चेत्यर्थः । ननु प्राप्तत्वेपि नियमविधित्वादि संभवात् कथं विधित्रयाभाव इत्यत आह । साधनांतंरं चेति ।। विचारविध्यभावेपि विज्ञानार्थ तया विधीयमानं गुरूपसदनं दृष्टद्वारकत्वसंभवे दृष्टकल्पनाऽयोगाद्गुरुमुखाधीन वेदांतविचार द्वारैव विज्ञानार्थं पर्यवस्यतीति । अत एव स्वप्रयत्न साध्यविचारव्यावृतिः । अध्ययन विध्यभावेतूपगमनं विधीयमानमक्षरावाप्त्यर्थत्वेनाविधीयमानत्वान्न तदर्थं गुरु- प्. ३२अ) मुखोच्चारणानूच्चारणमध्ययनंद्धारी करोतीति लिखितपाठादि व्यावृत्यसिद्धेः सफलोध्ययननियमविधिः । न च तात्पर्यादि भ्रमनिरासाय वेदांतविचारार्थिनः कदाचिद्वैतशास्त्रेपि प्रवृत्तिः स्यात् । तत्रापि तदभिमत योजनया वेदांतविचारसत्वादित्यद्वैतात्मपरवेदांतविचार नियमविधिरर्थवानिति वाच्यं । स्वयमेव तात्पर्य भ्रमहेतोस्तस्य तन्निरासकत्वा भावेन साधनांतरप्रात्थभावात् ।। ननु गुर्वधीनविचारेण सगुरुरहितविचारस्य विकल्पेन प्राप्तिरस्तीत्यत आह । विचारविध्यभावेपीति । अत एवेति उपगमनविधित एवेत्यर्थः । व्यावृतिरित्यनंतरं लभ्यत इति श्रोतव्य वाक्ये गुर्वधीनविचारनियमविधिरनर्थक इति शेषः । न चोपगमनविधेर्विचार विध्यंगतया तदभावे उपगमनविधेरात्मलाभ एव नास्तीत्युक्तमिति वाच्यं । गुरूपसदनस्य ब्रह्मज्ञानं प्रतिद्वारापेक्षायां लोकसिद्धस्यैव गुर्वधीन विचारस्य द्वारत्वेन स्वीकारौपपतौ श्रोतव्य विध्यपेक्षाभावेन तछेषत्वा सिद्धेर्विचारवदुपगमनस्यापि विद्यांगत्वोपपतेश्चेति भावः । पूर्वोक्ताति प्रसंगं परिहरति । अध्ययन विध्यभावेत्विति । अध्ययनविध्यभावे तु लिखितपाठादि व्यावृत्यसिद्धेस्सफलोध्ययननियमविधिरिति संबंधः । तदर्थमिति । प्. ३२ब्) अक्षरावाप्त्यर्थमित्यर्थः । अध्ययनांगोपगमनस्य विद्यार्थोपगमनापेक्षया विशेषार्थकस्तु शब्दः तमेवाह । उपगमनमित्यादिना । अध्ययनस्याक्षरा वाप्ति फलकत्वं विवरणादौ साधितमिति भावः व्यावर्त्यांतरं दूषयति । न च तात्पर्यादीति नुनु वस्ततस्तन्निरासकत्वाभावेपि भिन्नात्मज्ञानं मुक्तिसाधनमिति भ्रमद्वारातद्भ्रमात् तत्र प्रवृतिस्संभवतीत्युक्तमिति नेत्याहः ।। तेन्निरासकत्वम्रमेण तत्रापि कस्यचित् प्रवृतिः स्यादित्ये तावता श्रोतव्य इति नियमविधेरभ्युपगम इत्यपि न ईश्वरानुग्रहफलाद्वैत श्रद्धारहितस्य श्रोतव्य वाक्येपि पराभिमत योजनया सद्वितीयात्मविचारविधि परत्वभ्रमसंभवेन भ्रमप्रवृताया अन्यत्रप्रवृतेर्विधिशतेनाप्यपरिहार्यत्वात् ।। तन्निरासकत्व भ्रमेणेति । इह जन्मनिजन्मांतरे वा यज्ञाद्यनुष्ठानजनित दृढविविदिषावतस्साधन चतुष्टय संपन्नस्य श्रवणविध्यधिकार इत्यविवादं यज्ञादि जनिता दृष्टं च निष्प्रपंचाद्वितीय ब्रह्मसाक्षात्कारस्य सांगाध्ययन लब्धैर्वेदांतैर्मुक्तिसाधनत्व निश्चयं संपाद्यता दृश ब्रह्मसाक्षात्कारे दृढेच्छां च विविदिषा शब्दितामुत्पाद्यतद्वारा अद्वितीयात्मसाक्षात्कारसाधन प्. ३३अ) भूताद्वितीयात्मश्रवणादावेव मुमुक्षुं प्रवर्तयति । न तु जीवपित्रात्मज्ञानस्य मुक्तिसाधनत्व भ्रमापादन द्वारा भिन्नात्म ज्ञान तत्साधनविचारादाविच्छाप्रवृत्यादिकमप्युत्पादयति । तदिच्छादेर्भिन्नात्मविचारद्वारा यज्ञादि फलभूतनिष्प्रपंच ब्रह्मसाक्षात्कार हेतुत्वाभावा तथा च स्मृतिरीश्वरानुग्रहादेव पुंसामद्वैत वासनेति । यज्ञादि संपादितादीश्वरानुग्रहादेव पुंसामद्वैत ब्रह्मज्ञानेच्छारूपात्तद्वासना भवतीति तदर्थः । तथा च यथोक्त भ्रमवतो अद्वैतब्रह्मतत्व साक्षात्कारादाविच्छा श्रद्धादि शून्यस्य श्रवणविधावनधिकारन्न तं प्रतिनियमविधिरर्थ वा नित्याह । ईश्वरानुग्रहेति पराभिमतेति श्रुतावात्मशब्दस्तावज्जिवपर एव न परमात्मपरः । आत्मनस्तु कामाय सर्वं प्रियं भवतीति । पूर्ववाक्ये जीवस्य प्रकृतत्वान्न च इदं सर्वं पदपमात्मेति वाक्यशेषे सर्वात्मकस्य परमात्मनः प्रतिं पादनाछ्रोतव्यवाक्यस्थमात्मपदमद्वितीयात्मपरमिति वाच्यं । तत्रापि तत्प्रतिपादना सिद्धेर्न हि प्रपंच परमात्मनोरभेदः संभवति चेतना चेतनयोरैक्यस्य विरुद्धत्वात् । श्रुतेरभेद ध्यानविधिपरत्वोपपतेश्चेत्यादि योजनापराभिमता द्रष्टव्या । अन्यत्रेति भिन्नात्मविचारन् त्यर्थः ।। न च व्यापारांतरनिवृत्यर्थापरिसंख्येति युक्तं । असंन्यासिनो व्यापारांतरनिवृतेरशक्य प्. ३३ब्) त्वात् संन्यासिनस्तन्निवृतेर्ब्रह्मसंस्थया सहसंन्यास विधायकेन ब्रह्मसंस्थोमृतत्वमेतीति श्रुत्यंतरेण सिद्धतया संन्यास विधायक श्रुत्यंतरमपेक्ष्य श्रोतव्य वाक्येन तस्य व्यापारांतरनिवृत्युपदेशस्य व्यर्थत्वात् । न च विचारविध्य संभवेपि विचारविषय वेदांतनियमविधिः संभवति भाषाप्रबंधादि व्यावर्त्य सत्वादिति शंक्यं । सन्निधानादेव वेदांतनियमस्य लब्धत्वेन विधिविषयत्वायोगात् । स्वायोध्येतव्य इत्यर्थावबोधनार्थ नियमविधिवलादेवाध्ययनविधि गृहीत वेदांत वेदोत्पादितं वेदार्थज्ञानं फलपर्यवसायिन कारणांतरोत्पादितमित्यस्यार्थस्य लब्धत्वेन वेदार्थे ब्रह्मणि मोक्षाय ज्ञातव्ये भाषाप्रबंधा प्रबंधादीनाम प्राप्तेः ।। परिसंख्याविधिं दूषयति । न चेति । श्रवणविधिना किं ग्रहस्थादेर्व्यापारांतर निवृतिरूपदिश्यते किं वा संन्यासविधिसिद्धस्य संन्यासिन इति विकल्पं मनसि निधाय क्रमेण दूषयति । असंन्यासिन इति अशक्यत्वादिति विध्यंतरविरोधापतिरशक्यत्वे हेतुः । तन्निवृतेः सिद्धतया उपदेशस्य व्यर्थत्वादिति संबंधः । ब्रह्मसंस्थो मृतत्वमेतीति प्. ३४अ) श्रुत्यंतरस्य ब्रह्मसंस्थता धर्मक संन्यासाश्रमविधायकत्वं । परामर्शं जैमितिरित्यधिकरण भाष्ये स्फुटमिति भावः । विचारविषयत्वेन वेदां तु नियमविधिरिति पक्षं दूषयति । न च विचारेति । सन्निधानादेवेति । अधीत सांगस्वाध्यायस्य वेदांतैरापात प्रतिपत्र ब्रह्मात्मविजिज्ञासोर्जिज्ञासा निवर्तक निर्णयाय कर्तव्यत्वेन विचारे प्राप्ते सति विचारविषयमन्वेषसाणस्य वेदांदानां बुद्धिस्थ त्वात् वेदांता एव मया विचारणीया इति बुद्धिरुत्पद्यते तथा च विधिं विनैव वेदांतनियमस्य लब्धत्वेन विधिनातन्नियमनं व्यर्थमित्यर्थः । विधिं विनैव वेदांतनियमलाभे हेत्वंतरमाह । स्वाध्याय इति । अर्थावबोधेति मिमांसकमतमाशृत्योक्तमक्षरावाप्ति फलकोध्ययन विधिरिति सिद्धांते ।। न च सहकार्यंतरविधिरित्यधिकरणे वाल्यपांडित्य मौनशब्दितेषु श्रवणमनननिदिध्यासनेषु विधिरभ्युपगत इति वाच्यं । विचारे विचार्य तात्पर्यनिर्णय हेतुत्वस्य । वस्तुसिध्यनुकूलयुक्त्यनुसंधानरूपे मननतत्प्रयाभ्यासरूपे निदिध्यासने च वस्तुवगमवैशद्य हेतुस्य च लोकसिद्धत्वेन तेषु विध्य न पेक्षणात् । विधिच्छायार्थवादस्येव प्रशंसाद्वारा प्रवृत्यतिशयकरत्वमात्रेण प्. ३४ब्) तत्र विधित्व व्यवहारात् । एवं च श्रवणविध्य भावात् । कर्मकांडविचारवद्ब्रह्मकांडविचारोप्यध्ययनविधिमूल इत्याचार्य वाचस्पति पक्षानुसारिणः । विचार्यस्य च ब्रह्मणो जगज्जन्मस्थितिलयकारणत्यंवलक्षणमुक्त । यतो वा इमानि भूतानि जायन्त इत्यादि श्रुत्या अत्र जगज्जन्मस्थितिलयेष्वेकैककारणत्वमप्यनन्यगामित्वालक्षणं भवितुमर्हतीति चेत् ।। पियेषां वाक्यानामध्ययना वामानामर्थ ज्ञानद्वारा पुरुषार्थोपयोगस्संभवति । तेषां वाक्यानामर्थज्ञानमध्ययन लब्धैर्वाक्यैरेवोत्पादितं फलपर्यवसायिन तदतिरिक्त भाषाप्रबंधादि जनितमितिरीत्या अध्ययनविधि फलाक्षरा वाप्ते पुरुषार्थ पर्यवसानकल्पनान्नभाषाप्रबंधादि प्रसक्तिरित्यर्थः । इतिहासपुराणमादि पदार्थः श्रवणादीनांमविधेयत्वे सूत्रभाष्यविरोधं शंकते । न चेति अभ्युपगत इति सूत्रभाष्यकाराभ्यामिति शेषः । विरोधं परिहर्तुं प्रथमं श्रवणादीनां विधियोग्यक्रियारूपत्वेपि नित्याप्राप्तत्वान्न विधेयत्वमित्याह । विचार इति । तत्प्रत्ययेत्यत्र तत्पदं वस्तुपरं अवगमस्य वैशवैशद्यं प्रतिबंधराहित्यं सूत्रभाष्ययोर्विधित्व व्यवहारो गौणः मुख्या संभवस्य दर्शितत्वादिति विरोधं परिहरति । विधिच्छायार्थवादस्येवेति । प्. ३५अ) विष्णुरुपांशुयष्टव्य इत्यादेरिवेत्यर्थः । तथा हि उपांशुयाजमंतरायजतीत्याम्नाय पुनराम्नायते । विष्णुरुपांशुयष्टव्यः प्रजापतिरुपांशुयष्टव्यः । अग्नीषोमावुपांशुयष्टव्याविति । अत्रांतरावाक्यमाग्नेयाग्नीषोमीय पुरोडाशयोरंतरालकालविशिष्टयागविधायकं विष्ण्वादि वाक्य त्रयं तु मंत्रवर्णप्राप्त वैकल्पिक देवतानुवादेनांतरा वाक्य विहित यागस्तावकमर्थवादमात्रमिति व्यवस्थापितं पूर्वतंत्रे तदत्र दृष्टांतत्वेन उदाहृतमिति द्रष्टव्यं । यन्तु तत्कारणं सांख्ययोगाभिपन्नमिति । श्रुतौ योगपदोपातस्य व्यावर्त्यस्य संभवाद्विचारसमर्थाधिकारिणं प्रतितद्व्यावृतिफलको नियमविधिस्संभवतीति । नन्न विचारसमर्थस्याधिकारिणः कालांतरे स्वोद्भावितानुपपति वशेनान्योद्भावितानुपपति वशेन वा पुनस्तत्व संशये सति अवधारणात्मकं वेदोतार्थज्ञानं न संभवतीति योग्यता वशेन तं प्रतिविधिं विनाविचारस्यैव नित्यतया प्राप्तत्वात् । यत्तु सगुण ब्रह्मोपासनं व्यावर्त्यमुक्तं तत्र श्रवणविध्यधिकारिणः सर्वतो निस्पृहस्य ब्रह्मलोकप्राप्तिद्वारा मुक्तिसाधन सगुणोपासने पक्षेपि प्रवृतेरसंभवेन तस्य व्यावर्त्यत्वा संभवात् सुगणोपासनस्यापि श्रवणादि द्वारैव विद्यासाधनत्वेन नखविदलनादेरवचात तुल्यकक्ष्यत्व वत्स गुणोपासनस्य श्रवणादिना सहविकल्पैन प्राप्त्यभवाच्च न तद्व्यावृति फलको नियमविधिस्संभवति । न च सगुणोपासनया श्रवणादिकं विनैव प्. ३५ब्) सगुण साक्षात्कारवविर्गुणसाक्षात्कारोदयस्संभवतीति वाच्यं । प्रमाणप्रमेया संभावनादि प्रतिबंधनिवृतिद्वारा श्रवणादेस्सतानिश्चयरूप ब्रह्मज्ञानोपायत्वग्राहकतया पूर्वोक्तप्रमाणानुरोधेन श्रवणादेर्नित्यवदनुवादलिंगेन च सगुणोपासनया क्रमेण परममुक्ति प्रतिपादकशास्त्रस्यापि श्रवणादि द्वारकज्ञानोत्पत्यविरोधित्वकस्त्यनात् । श्रवणादिकं विनासगुणोपासन महिम्नैव तत्वज्ञानोदयाभ्युपगमे देवताधिकरण विरोधाच्च तदधिकरणे हि देवादीनां शरीराद्य भावात् सगुणब्रह्मोपासनेषु निर्गुणब्रह्मविद्यासाधन श्रवणादिषु च नास्ति सामर्थ्यमतो न तेष्वधिकार इति पूर्वपक्षयित्वा मंत्रार्थ वादेतिहासपुराण प्रामाण्यात् तेषामपि शरीरादि सद्भावादस्त्यधिकार इति सिद्धांतितं । तत्रेदं पूर्वपक्षप्रयोजनमुक्तं देवानां श्रवणाद्यधिकाराभावे क्रममुक्तिफलक ब्रह्मोपासनया प्राप्तदेव भावस्यापि श्रवणाद्य संभवेन विद्योदयासंभवात् । पुनरावृत्यापतौक्रममुक्तिकामस्य सुगुणोपासनेषु प्रवृत्यभाव इति सिद्धांते तु देवानां श्रवणाद्यधिकार सत्वादुक्तप्रवृति सिद्धिरिति प्रयोजनं दर्शितं । इदं च प्रयोजनं देवताधिकरणावसानभाष्ये संग्रहेण दर्शितं । तथा च भाष्यं । ततश्चार्थित्वादि संभवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारः क्रममुक्तिदर्शनान्यपि एवमेवोपपद्यंत इति एवमेवेत्यस्य देवादीनां श्रवणाद्यधिकारे सत्येवेत्यर्थः । प्. ३६अ) तेषां श्रवणाद्यधिकारे यानि श्रौतलिंगानि पूर्वमुपन्यस्तानि । तद्यो यो देवानां प्रत्यबुद्ध्यत स एव तदभवत् । तथर्षीणां एकाशतं हवैवर्षाणिमघवान् प्रजापतौ ब्रह्मचर्यमुवासेत्येवमादीनि यथा उपपद्यंते तथेत्यपि शब्दार्थः । ननु सगुण ब्रह्मोपासकानामपि सर्वेषां श्रवणादि नैव ज्ञानोदय इति नियमो नास्ति सगुणोपासकस्यापि हिरण्यगर्भस्य वृहदारण्य भाष्ये पुरुष विध ब्राह्मण व्याख्यानावसरे श्रवणादीनां प्रणिपातादीनां चाभावेपि ज्ञानजन्म प्रतिपादनादिति चेन्न । हिरण्यगर्भस्यापि वामदेववत् । जन्मांतरीय श्रवणादि नैव ज्ञानजन्मसंभवात् । तत्रैव भाष्ये । श्रवणमनननिदिध्यासनानां साक्षाज्ञेय विषयत्वादिति वाक्ये साक्षात्पदेन श्रवणादेर्ज्ञेय ब्रह्मव्यंजकस्य प्रणिपाताद्यपेक्षया आवश्यकत्व सूचनेन जन्मांतरीय श्रवणादि कल्पनस्य तद्भाष्य वाक्याभिप्रेतत्वे अवगम्यमाने सति तत्पूर्वभाष्ये श्रवणादिकं विनाकार्य कारण शुध्यादि मात्रेण ज्ञानजन्मप्रतिपादनस्याभ्युपगम वादत्वोपपतेर्हिरण्यगर्भस्य वामदेवस्येव जन्मांतरीये ज्ञानसाधने कल्पनीये सति कॢप्तश्रवणादि कल्पनस्यैव न्याययत्वाच्च । न च हिरण्यगर्भस्य पूर्वजन्मनि सगुणोपासननिष्ठत्वेन निर्गुणविचारः संभवतीति वाच्यं । हिरण्यगर्भस्य पूर्वकल्पे जन्मभेदेन सगुणनिर्गुणोपासनयोस्संभवोन्नह्येकस्मिन् जन्मनिकृतात् सगुणोपासनामात्रादेव हिरण्यगर्भपदप्राप्तिरस्ति तथा सति सगुणोपासकानां सर्वेषामेव प्. ३६ब्) साक्षाद्धिरण्यगर्भत्व प्रसंगात् किं तु हिरण्यगर्भस्य ब्रह्मलोक स्वामित्वं सरस्वती भर्तृत्वं जन्मप्रभृति तत्वसाक्षात्कार संपन्नत्वं सर्वज्ञत्वं सकलभौतिकजगत्सृष्ट्यादि सामर्थ्यं भक्तानां त्रैलोक्यैश्वर्य प्रदान सामर्थ्यं कार्यविशेषेषु शिव विश्वादि प्रवर्तकत्वं ललाटान्रुद्र प्रादुर्भाव हेतुत्वं सहाविष्णुनाभिकमलजातत्वाद्यैश्वर्यं च श्रुत्यादिभ्यो निश्चित्यागामिकल्पे यथोक्त हिरण्यगर्भत्वाय तत्साधनानि सगुणनिगुणापासनानि तपो विशेषरूपाणि च वहुषु जन्मसु ध्रुवप्रह्लादविश्वामित्रागस्त्यभृग्वादि वदनुष्टितवतो महापुरुषस्य कस्यचिदेव निरतिशयेश्वर प्रसादाद्धिरण्यगर्भत्वं संपद्यत इति हिरण्यगर्भस्यापि जन्मांतरीय श्रवणादि कल्पने वामदेवस्येव नानुपपन्नं हिरण्यगर्भस्य पूर्वजन्मन्यनुष्टित श्रवणादेर्हिरण्यगर्भपदप्राप्तिकामनया प्रतिबद्धत्वेन तदा तत्वसाक्षात्कारानुत्पादकत्वोपपतेस्तदुक्तं वृद्धैर्ब्रह्मलोकाभिवांछायां सम्यक् सत्यां निरुध्यतां । विचारयेद्य आत्मानं न तु साक्षात्करोत्पयमिति । न च ज्ञानोत्पति स्थले सर्वत्र श्रवणादि नियमो नास्ति योगे मार्गे प्रवृत्तस्य श्रवणाद्य भावेपि तत्वसाक्षात्कारोदय स्वीकारादिति वाच्यं । ओमित्यात्मानं युंजीत ओमित्येवं ध्यायथ आत्मानमित्यादि ध्यानविधिवलेन तत्कारणं साख्ययोगाभिपन्नं विद्यामेतां योगविधिं च कृत्स्नमित्यादि श्रौतलिंग सहकृतेन विचारासमर्थस्य योगमार्गेधिका इति तृतीय प्ररिच्छेदे वक्ष्यमाणतया प्. ३७अ) विचारसमर्थस्य विचारं विना ज्ञानोत्पत्यनभ्युपगमात् । एवं यद्यत्साधनमदृष्टद्वारा तत्वज्ञानसाधनत्वेन शास्त्रसिद्धं तत्सर्वं सगुणोपासनवदृष्टसामग्री भूतसांख्यमार्गेणातदशक्तौ योगमार्गेण वा तत्वज्ञानसाधनमिति कल्प्यते । तत्वदृष्टमात्रात् ज्ञानलाभः कल्पयितुं युक्तः । अन्यथा जीवनादृष्टमात्रादेवस्तनपानादि प्रवृतिकल्पनायत्या तत्रापीष्टसाधनता स्मरणं जन्मांतरीयं संस्कार हेतुकं सर्वसंप्रतिपन्नं कल्पनीयं न स्यात् कॢप्तदृष्टकारणं विना कार्योत्पत्ययोगस्योभयत्र तुल्यत्वादत एव पंचदश्यां तत्वज्ञानं प्रतिमार्ग द्वयनियम उक्तः सांख्ययोगौ प्रकृत्य इति मार्गौ विचार्याथ जगाद परमेश्वर इति संग्रहकर्तापि तृतीयपरिछेदे सांख्ययोगशब्दित मार्गद्वयमेव विद्यावात्थुपायत्वेन वक्ष्यति । एवं श्रवणमननादि साधनानुष्ठान प्रवणस्य विद्यावाप्तिरित्यस्मिन्नर्थे सर्वसंप्रतिपन्ने स्थिते भारती तीर्थाः ध्यान दीपे विद्यावाप्नौ उपायांतरमप्याहुरिति ग्रंथेन तदयं निष्कर्षः । विद्याधिकारिणो विचारसमर्थस्य प्रतिषेधाभावे वेदांतश्रवणमनुष्ठेयं सति तु प्रतिषेध इतिहासपुराणभाषाप्रबंधादि श्रवणमनुष्ठेयं विद्याधिकारिणो विचारासमर्थस्य तु त्रैवर्णिकस्य योगशब्दित निर्गुणोपासनमनुष्ठेयं मार्गद्वया संभवे च तत्संभवयोग्यजन्मप्राप्त्या तदन्यतरानुष्ठानद्वारा ज्ञान लाभ इति । तथा च श्रवणाधिकारिणः श्रवणस्य नित्यप्राप्तत्वात् । त तुल्यकक्षतया साधनांतरस्य कस्य चिद्विकल्प्य प्. ३७ब्) समुच्चित्य वा प्राप्त्यभावान्न तत्र विध्यवकाश इति सिद्धं । एवं ब्रह्मसाक्षात्कारं प्रतिश्रवणादर्नित्यप्राप्तत्वात् । विधिं विनैव श्रवणाद्यनुष्ठानं सिध्यतीति प्रतिपादितं इदानीं विचारानुष्ठायक विध्यपेक्षायामपि यथा कर्मकांडश्रवणं कर्मवाक्यविचारः कर्तव्य इति पृथक् विध्यभावेपि अध्ययनविधिवलादेव सिध्यति । एवं वेदांतश्रवणमपि तद्वलादेव सिध्यतीति न श्रोतेव्य वाक्ये पृथक् विचारविध्यपेक्षास्तीत्याशयेनोपसंहरति । एवं चेति । लोकत एव श्रवणादेः प्राप्तत्वे सति श्रवणविध्यपेक्षाभावादित्यक्षरार्थः । श्रोतव्यवाक्यार्थविचारेण प्रथमसूत्रार्थस्संगृहीतः । क्रमप्राप्तं द्वितीयसूत्रार्थं संगृह्णाति । विचार्यस्य चेति । चकारोवधारणार्थस्स च श्रुत्येत्यनेन संबध्यते श्रुत्यैव लक्षणमुक्तं न तु व्याप्त्यादि लक्षणवत् पुरुषोत्प्रेक्षितमित्यर्थः । येन जातानि जीवंति यत्प्रयंत्यभिसंविशंतितद्विजिज्ञासस्वतद्ब्रह्मेति वाक्यशेष आदिपदार्थः । श्रुतौ यत इति यच्छब्देन ब्रह्मवल्यांनिरूपितं सत्यज्ञानानंदानंतात्मकं ब्रह्मपरिगृह्यते सर्वनाम्नः प्रकृतप्रधानपरामर्शित्व स्वाभाव्यात् । ततश्च यच्छ्रुति सामर्थ्या देवब्रह्मणः सच्चिदानंदस्वरूपात्मकं स्वरूपलक्षणं लभ्यते पंचमी च प्रकृतित्वं हेतुत्व सामान्यं वा वक्रीति हेतुत्व सात्यान्पंचप्रकृतिकर्त्रु भयसाधारणं भूतपदं पृथिव्यादि महाभूतेषु प्रीणिषु च रूढः । प्रकृतेव विनिग्वमनाविरहेण रूढेरनुन्मेषात् भवंतीति व्युत्पत्या प्. ३८अ) कार्यमात्रं भूतशब्देनोच्यते । जीवंति स्थितिं लभंते प्रयंतिलीयमानानि संति यदभिसंविशंति येन तादात्म्यं गछंतीति यावत् तत्कारणं ब्रह्म तद्विजिज्ञास स्वविशेषेण सच्चिदानंदैक रसपूर्णप्रत्यग्रूपेण ज्ञातुं साक्षात्कर्तुमिच्छस्व-इच्छामात्रेणोक्त साक्षात्कारालाभात् । सन् प्रत्ययेन विचारो लक्ष्यते उक्तलक्षणमुखेन ब्रह्मविचारयेत्यर्थः । अत्र यतो भूतानि जायंते तद्ब्रह्म येन जीवंति तद्ब्रह्म यदभिसंविशंति तद्ब्रह्मेति श्रुतिपाठे सति जगज्जन्मकारणत्वं तत्स्थितिकारणत्वं तल्लयकारणत्वं च प्रत्येकमेव श्रुत्या ब्रह्मलक्षणमुक्तं स्यान्नतु त ।। सत्यें लक्षणत्रयमेवेदं परस्परनिरपेक्षं । अत एवाता चराचर ग्रहणादित्याद्यधिकरणेषु सर्वसंहर्तृत्वादिकं प्रत्येकं ब्रह्मलिंगतयोपन्यस्तमिति कौमुदिकारः ।। प्या पाठोस्त्यतो जन्मादिति तयकारणत्वं श्रुत्यालक्षणमुक्तमिति प्रतिभाति । तदाक्षिपति । जगज्जन्मस्थिति लयेष्विति । निर्द्धारणार्था सप्तमी यतो भूतानिजायंत इत्युपक्रम्य तद्ब्रह्मेति श्रुत्यालक्ष्ये ब्रह्मणिकारणत्वस्य सत्वप्रतिपादनान्नासंभवः तद्ब्रह्मेत्येकवचनेन लक्ष्य ब्रह्मव्यक्तेरेकत्वावगमान्नाव्याप्त्यवकाश इति दोषद्वयाभावं सिद्धं कृत्वा अतिव्याप्तिरपि नास्तीत्याह । अनन्यगामित्वादिति । प्. ३८ब्) ब्रह्मान्यगामित्वा भावादित्यर्थः । ननु प्रधानेति व्याप्तिस्तस्य सांख्यैरुपादानत्वाभ्युपगमेन उपादानतया जगज्जन्महेतुत्वस्याधारतया स्थितिहेतुत्वस्य लयाधारतयालय हेतुत्वस्य च तत्रापि सत्वादिति चेन्नत कर्तृत्वस्यापि लक्षणे विशेषणत्वेन विवक्षित तया जडे प्रधाने तदयोगात् । न च तत्कर्तृत्वमेव प्रत्येकं लक्षणमस्तु किं तदुपादानत्व रूपविशेष्येणेति वाच्यमदृष्टद्वाराजगज्जन्मादि कर्त्तरिजीवे अतिव्याप्तिवारकत्वात् । परिच्छिन्नजीवस्य च तदुपादानत्वा योगात् । न च साक्षाज्जगज्जन्म कर्तृत्वं नियंतृतया जगत्स्थिति हेतुत्वं संजिहीर्षया जगत्संहर्तृत्वं च लक्षणमिति विवक्षायां जीवेति व्याप्तभावादुपादानत्व रूपं विशेष्यं व्यर्थमेवेति वाच्यं । तर्हि उपादानत्वमपि पृथगेव लक्षणमस्तु मायायाः ब्रह्मोपादानता मात्रघटकत्वेन पृथगुपादानत्वा लाभात् प्रधानादि कारणांतरस्य चाप्रामाणिकत्वेनाति व्याप्तेरभावादिति भावः । प्रत्येकं लक्षणत्व संभवमंगीकरोति । सत्यमिति । तर्हि श्रुत्यात्रितयकारणत्वं कथं लक्षणमुक्तमित्याशंक्य श्रुतेरपि प्रत्येकलक्षण एव तात्पर्यं मेलनस्य प्रयोजनाभावादित्याशयेनाह । लक्षणत्रयमेवेदमिति । इदं जगत्कारणत्वं जन्मादीनां मध्ये एकैक निरूपितं परस्पर निरपेक्षं स लक्षणत्रयमेव श्रुत्यभिमतं न तत्रितयनिरूपित कारणत्वरूपमेकं लक्षणमित्यर्थः । त्रयपदमनेक परं न तु त्रित्वनियमपरं ततोप्याधिक्यस्य शकावसरेदशितत्वादिति बोध्यं । जगत्संहर्तृत्वादेः प्रत्येकं ब्रह्मलक्षणत्वे सूत्रकारादि संमतिमाह । अत एवेति । अत्रादि पदेन प्. ३९अ) अंतर्याम्यधिकरणजगद्वाचित्वाधिकरणयोस्संग्रहः । अयमर्थः कठवल्यां पठ्यते यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनं मृत्युर्यस्योपसेचनंक इत्थावेदयत्र स इति अत्र ब्रह्मक्षत्रयोः प्रयुक्त ओदनशब्दस्तावन्नमुख्यः किंतु गौणः लोके ओदनशब्दमुख्यार्थस्पादनीयत्व प्रसिद्धेरदनीयत्वेन गुणेन तयो रोदनशब्दः प्रवर्तते तथा च यस्य ब्रह्मक्षत्रे ओदनवददनीये इत्युक्तौ यछब्दार्थस्यातृत्वं प्रतीयते । अनेनैवाभिप्रायेणोक्तं सूत्रे । अतेति । ओदनपद वाच्यार्थस्पादनीयत्वं द्विविधमस्तिभुजि क्रियाकर्मत्वात्मक भोज्यत्वरूपमेकं विनाश्यत्वरूपमपरम् परंतु भोज्यत्व गुणः प्रसिद्धः न तु विनाश्यत्वगुणः गौणप्रयोगे च प्रसिद्धगुण एव गृह्यते । यथा अग्निर्माणवक इत्यत्राग्नि गत शुचित्वादि गुण एवोपादीयतै प्रसिद्धत्वान्न तु तद्गतोपि विनाश्यत्वादि गुणः । एवं प्रकृतेपि लोकप्रसिद्धि वलाद्भोज्यत्व गुण एवोदन शब्दात्प्रतीयते अस्ति च ब्रह्मक्षत्रयोरपि स्त्रीपिंडरूपयोर्भोज्यत्वं पुमांसं प्रतिब्रह्मक्षत्रयोश्च भोज्यत्व प्रतीतौ सत्यां तत्प्रतिसंबंधिनियच्छब्दार्थे पूर्वं प्रतीतमतृत्वं भोक्तत्वरूपं जीवलिंगंपपर्यवस्पति यदात्वोदन पदस्य मृत्यूपसेचन पद सन्निधानात् । ब्रह्मक्षत्रयोर्विनाश्यत्व गुणः स्वीक्रियते न तु भोज्यत्वगुणः स्त्रीपिंडरूपब्रह्मक्षत्रियकर्मकभुजि क्रियायां मृत्योरुपसेचनत्वा संभवेन मृत्युर्यस्योपसेचनमित्यंशस्यानन्वय प्रसंगाअत् । ब्रह्मक्षत्रयोर्विनाशने तु मृत्योस्सहायत्वमस्तीति न तदनत्वय प्रसक्तिः तदा तत्प्रतिसंषंधिनिपच्छब्दार्थे पूर्वं प्रतीतमतृत्वं प्. ३९ब्) संहर्तृत्व रूपं पर्यवस्यति विनाश्यत्व गुणग्रहण यक्षेत्वयं विशेषो लभ्यते । लोके हि दध्यादिरूपमुपसेचनं स्वमिश्रितान्नादिनाशे साधनं दृष्टमिति मृत्यावुपसेचनपद प्रयोगवलात्समृत्युकस्य चराचरात्मकस्य जगतो विनाशनं प्रतीयते तदनुसारात् । ब्रह्मक्षत्रियपदयोरजहल्लक्षणया कृत्स्नजगत्परत्वं च प्रतीयते तत्प्रतिसंबंधिन्यपि यच्छब्दार्थे कृत्स्न जगत्संहर्तृत्वरूपं ब्रह्मलिंगं भाति । एवं स्थिते प्रथममदनीयत्वगुणयोगात् । प्रतीतोऽता किं जीवः उतपरमात्मेति संशयः तत्र पूर्वपक्षः ।। जीव एवेति लोकप्रसिध्यनुसारेणातृत्वस्य भोक्तृत्वरूपता प्रतीतेर्न परमात्मा अनश्रविति वचनेन तस्य भोच्छृत्वनिषेधादिति सिद्धांतस्तु अता परमात्मा कुतः चराचरग्रहणात् । मृत्यूपसेचनपदानुरोधेन पूर्वोक्तरीत्या अतृत्वस्य चराचरात्मक सकलजगत्संहर्तृत्वरूपत्व प्रतीतेर्न च परमात्मनो न्यस्य जगत्संहर्तृत्वं संभवति न च लोकप्रसिद्धि वलादतृत्वं भोक्तृत्वं रूपं भातीत्युक्तमिति वाच्यं तत्प्रसिध्यपेक्षया वाक्यशेषाधीन विनाश्यगुणप्रसिद्धेः शीघ्रतरत्वेन वलवत्वादतोतापरंपवेति निर्णयः स संहर्तापरमेश्वरो यत्र निर्विशेषे प्. ४०अ) भेदकल्पनया वर्तते । तं निर्विशेषं परमात्मानमित्था इत्थं को वेदन कोपीति तस्य दुर्विज्ञेयत्वमुदाहृत मंत्रचतुर्थपादेन विवक्षितमिति बोध्यं । अंतर्याम्यधि दैवादिषु तद्धर्म व्यपदेशात् । य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योंतरोयमयतीत्युपक्रम्ययः पृथिव्यां तिष्टनित्यादिना कांश्चित्पर्यायानुत्कास्त्यधिदैवतमित्युपसंहृत्य पुनः यः सर्वेषु भूतेषु तिष्ठन यः सर्वेषु लोकेषु यः सर्वेषु देवेषु यः सर्वेषु यज्ञेष्वित्पादयः । केचन पर्यायाः काण्वमाध्यंदिन पाठभैदेनाम्नाताः । तत्राधिदैवादिषु देवभूतलोकवेदयज्ञदिषु श्रुतोंतर्यामीपरमात्मा कुतः तद्धर्मव्यपदेशात् । तद्धर्मस्य परमात्मधर्मस्य विशेषेण सर्वस्थिति कर्तृत्वरूप सर्वनियंतृत्वस्य येन जातानि जीवंतीति श्रुतिसिद्धस्य वाक्योपक्रमेय इमं च लोकमित्यादिना व्यपदेशान्न जीवादिरंतर्यामीतस्योक्त धर्मासंभवादिति सूत्रार्थः जगद्वाचित्वात् । कौषीतकी ब्राह्मणे वालाक्य जातशत्रुसंवादेवालाकि प्. ४०ब्) ब्राह्मणं प्रति अजानशत्रोर्वचनं श्रूयते । यो वै वालाक एतेषां पुरुषाणां कर्तायस्य चैतत्कर्मसवैवेदितव्यः । पुरुष इति । अत्र वेदितव्यत्वेन श्रुतः पुरुषजीवः परोवेति संशये जीव इति पूर्वपक्षः पुरुषपदस्पर्जावैरूढत्वात् पुण्यो वै पुण्येन कर्मणा भवति कर्महैवतदूचतुरित्यादौ वेदे लोके च पुण्यकर्मायं यतः सुखीवर्तत इत्यादौ कर्मपदस्य धर्मादौ प्रयोगदर्शनेन तत्र रूढत्वाच्च ऊचतुः । आर्तभाग याज्ञवल्क्यावित्यर्थः । कर्मसंबंधी पुरुषो जीव एव न परमात्मा तस्य धर्माद्यभावान्न चैतेषां पुरुषाणां कर्तेति वाक्येन वेदितव्य पुरुषस्य प्रकृतादित्य चंद्रादि पुरुष कर्तृत्वमुच्यमानं जीवे कथं संभवतीति वाच्यं । भोगोपकरणभूतात् । आदित्यादि पुरुषान् । प्रतिभोक्तुर्जीवस्यादृष्टद्वाराकर्तृत्वोपपतेरत एव यस्य चैतत्कर्मेति वाक्यं सफलमदृष्टद्वारा प्रकृतपुरुष कर्तृत्वोपपादकत्वादित्येवं प्राप्ते सिद्धांतः कर्मशब्दस्य न धर्मादौ रूढिश्चलनात्मकं कर्मेति प्रसिध्यनुरोधेन प्. ४१अ) परिस्पंदे तस्य रूढत्वात् । कथं तर्हि ध्र्मादौ तत्प्रयोगनिर्वाहः विहित प्रतिषिद्ध रूपदेहादि परिस्पंदजन्ये धर्मादौ लक्षणया प्रयोगोपपतेः । न च देवता ध्यानादि रूपमनोमात्र व्यापारजन्ये धमादौ परिस्पंदजन्यत्वाभावेन लक्षणया प्रयोगे सति परिस्पंद इव धर्मादावपि रूढिरपरिहार्येति वाच्यं । तर्हि प्रकृते विनिगमनाविरहेण रूढेरनुन्मेषे सति क्रियते इति कर्मेति व्युत्यत्याकर्मपदं कार्यमात्रमाह । एतत्पदमपि प्रत्यक्षाद्युपस्थित वस्तुमात्रमाह । प्रकृतस्य तत्परामर्श योग्यस्य कस्यचिदभावात् । तथा च । एतत्कृत्स्नं जगद्यस्य कर्मकार्यमित्यर्थलाभेन वेदितव्य पुरुषस्याशेषजगदुत्पति कर्तृत्वं सिध्यति तच्च ब्रह्मलिंग आदित्यादि पुरुषकर्तृत्वमपि न मुख्यं जीवस्य संभवति । एतेषां पुरुषाणां कर्तेत्यत्र मुख्यकर्तृ ग्रहणसंभवे गौणकर्तृ ग्रहणायोगात् । न चाशेषजगत्कर्तृत्वोक्तौ तत एव आदित्यादि कर्तृत्वस्यापि लाभात् । पृथक् तदुक्तिर्व्यर्थेति वाच्यं । मंत्रार्थवादादिषु आदित्य चंद्रादि ४१ब्) पुरुषाणां महामहिम संकीर्तनेन तेषु संजात परब्रह्मत्व भ्रांति निवर्तकत्वेन पृथगुक्ति साफल्यात् । पुरुषपदस्यापि न जीवे रूढिः । पूरणात् पुरुष इति कॢप्तयोगेनैव कृत्स्नजगद्व्यापिनि ब्रह्मणीवकृत्स्न शरीरव्यापिनि जीवेपि प्रयोगोपपत्या तत्र रूढेरकल्पना तत्कल्पनेपि योगवत् रूढेरपि जीवब्रह्मसाधारणे चेतनमात्रे कल्पनोपपतेश्च न पुरुषश्रुतिर्जीवपक्षयातिनी । श्रुतिपाठे क्वचित् पुरुषपदाश्रवणाच्च । तथा चायं सूत्रार्थः । वेदितव्यः पुरुषः परमात्मा कृत्स्न जगत्कर्तृत्वान्न च हेत्वसिद्धिः कर्मपदस्य जगद्वाचित्वातस्माद्वेदितव्यः पुरुषः परमात्मेति सिद्धमेवं च सर्वसंहर्तृत्वादिकमित्यत्र आदिपदेनांतर्याम्यधिकरणोक्त सर्वनियंतृत्वरूप सर्वस्थिति कर्तृत्वं जगद्वाचित्वाधिकरणोक्तं सर्वजगदुत्पति कर्तृत्वं च गृह्यते ।। अन्ये तु जन्मकारणत्वस्य स्थिति कारणत्वस्य च निमित्तकारण साधारण्यादुपादानत्व प्रत्यायनाय प्रपंचस्य ब्रमणिलयो दर्शितः । अस्तु ब्रह्मजगदुपादानं । प्. ४२अ) तज्जन्मनि चट जन्मनि कुलालवत् । तत्स्थितौराज्यस्थेम्निराजवच्चोपादानादन्यदेवनिमित्तं भविष्यतीति शंकाव्यवच्छेदाय तस्यैव जगज्जन्मजीवन नियामकत्व मुक्तं ।। ननु यत इत्यादि श्रुत्या जीवव्यावृतेश्वरस्य तत्पदवाच्यस्य ब्रह्मणो लक्षणमुक्तमिति तात्पर्य वर्णनमयुक्तं । तद्विजिज्ञास स्वतद्ब्रह्मेति वाक्यशेषानुसारेण श्रुतेर्वाक्यार्थभूताद्वितीय जिज्ञास्य ब्रह्मलक्षण प्रतिपादाकत्वस्यैवावगमादित्याशंक्य श्रुतेस्तथा भूतब्रह्मलक्षणपरत्वमुपगच्छतांमतमाह । अन्ये त्विति । चेतनाचेतनात्मक कृत्स्नभूतोपादानत्व प्रतिपतिर्हि ब्रह्मणो अद्वितीयत्व बोधहेतुः । न च चेतनानां नित्यत्वात् । कथं तदुपादानत्वं ब्रह्मण इति वाच्यं । तेषां स्वरूपेण नित्यत्वेपि शरीरद्वयविशिष्टतया कार्यत्वोपगमात् न चैवमपि ब्रह्मापेक्षया द्वितीयस्य तत्कार्यस्य विद्यमानत्वात् कथं तदुपादानत्वमद्वितीयत्व प्रत्यायकमिति वाच्यं कार्यस्य हि उपादानमेव वास्तवं स्वरूपं न तु तदतिरिक्तं वास्तवं स्वरूपमस्तिनामरूपात्मक जगद्रूपं तु मिथ्याभूतमित्यारंभणाद्यधिकरणेषु व्यवस्थापितत्वात् । अतस्सर्वोपादनत्वं सर्वस्य वास्तवं स्वरूपं ब्रह्मैवेति बोधनद्वारा ब्रह्मणोवास्तवा द्वितीयत्वबोधहेतुर्भवति । अद्वितीय ब्रह्मबोधश्च मुक्तिहेतुरिति मुक्ति प्रयोजनक ब्रह्मा द्वितीयत्व बोधहेतु भूतोपादानत्व प्रत्यायनार्थं यत्प्रयंत्यभिसंविशंतीति श्रुति भागेन ब्रह्मणि सर्वभूतलयो दर्शित इत्याह । उपादानत्वेति । प्. ४२ब्) ननु घटाद्युपादाने मृदादौ घटादिलयाधारत्ववजन्मादिकारणत्वस्यापि सत्वेन तद्बलादप्युपादानत्व प्रत्ययः स्यादिति नेत्याह । जन्मकारणत्वस्येति । निमित्तं कुलालदंडचक्रादि । तर्हि श्रुतौ जन्मादिकारणत्व प्रतिपादनं व्यर्थं लयमात्र प्रतिपादनादेवेष्टसिद्धेरिति नेत्याह । अस्त्विति घटजन्मन्युपादानमृदतिरिक्तकुलाल इव जगज्जन्मन्यपि उपादान ब्रह्मापेक्षया अन्यत्कर्तृरूपं निमितं भविष्यतीति भ्रमव्यवच्छेदाय तस्यैव ब्रह्मणः श्रुतौ जगज्जनन कर्तृत्वमुक्तं तथा राज्यस्थेम्निपालनरूपे पालनीय प्रजाद्युपादानाति रिक्त राजवज्जगतः स्थितौ जगदुपादान ब्रह्मापेक्षया अन्यन्निमितं नियंतृतया स्थिति हेतुभूतं भविष्यतीति शंका व्यवछेदाय तस्यैव ब्रह्मणो जगज्जिवननियामकत्वं श्रुत्या उक्तमित्यर्थः ।। तथा चैकमेवेदं लक्षणमभिन्ननिमितोपादानतयाऽद्वितीयं ब्रह्मोपलक्षयतीत्याहुः ब्रह्मणश्चोपादानत्वमद्वितीय कूटस्थ चैतन्यरूपस्य न परमाणूनामिवारंभकत्वरूपं न वा प्रकृतेरिव परिणामित्वरूपं किंतु अविद्यया वियदादि प्रपंचरूपेण विवर्तमानत्वलक्षणं ।। प्. ४३अ) तथा चेति जगज्जननजीवननियामकत्वाभ्यां जगदुपादान ब्रह्मण एवतन्निमितत्वप्रतीतौ सिद्धायामित्यर्थः इदं श्रुत्युक्तं लक्षणमेकं स देवाभिन्ननिमितोपादानत्वे पर्यवस्पदद्वितीयं ब्रह्मलक्षयति ब्रह्मव्यतिरिक्तवस्त्वस्तित्वशंका निराकरणद्वारेण ज्ञापयति न तु प्रत्येक लक्षणं सदित्यर्थः । निमित्तं च तदुपादानं चेति निमितोपादानं अभिन्नं च तन्निमितोपादानं चेति पुनः कर्मधारयः आद्यकर्मधारया देवनिमितोपादानयोरभेदे सिद्धेपि पुनरभिन्नपदं कर्मधारयावगताभेद ऐक्यलक्षण एव न नीलोत्पलादौ गुणगुणिनोरिव तादात्म्यरूप इति ज्ञापनार्थमिति बोध्यं । ननु यत इति पंचमी श्रुत्या सर्वभूतलयाधारत्व लिंगे न च निश्चितं ब्रह्मण उपादानत्वं प्रधानस्येव परिणामित्वरूपं वा परमाणूनामिवारंभकत्वरूपं वा रज्वादेरारोपित सर्पाद्युपादानस्येव जगद्रूपविवर्ताधिष्ठानत्वरूपं वा वाच्यं । तत्र नाद्यः ब्रह्मणः कूटस्थ त्वात् परिणाम वा देहि परिणामपरिणामिनोर्वास्तवा भेदस्वीकारेण ब्रह्मणः परिणामित्वे परिणामजन्मादयोपि ब्रह्मणि प्रसज्येरन् । तथा च जन्ममरणादि विकारशून्यत्वलक्षणं श्रुति सिद्ध कूटस्थत्वं तस्य भज्ये ततश्च कूटस्थ त्वात् तस्य परिणामित्वं न संभवति । न द्वितीयः अद्वितीयत्वात् ब्रह्मणः ब्रह्मणः स द्वितीयत्वे हि परमाणु द्वयसंयोगवदसमवापि कारणलाभसंभवादारंभकत्वं भवेदित्याशयेनाह । ब्रह्मणश्चेति । तृतीय प्रकारः परिशिष्यत इत्याह । किंत्वित्यादिना ।। प्. ४३ब्) वस्तुनस्तत्समसताकोन्यथाभावः परिणामः । तदसमसता को विवर्त इति वा कारण स लक्षणोन्यथा भावः परिणामः । तद्विलक्षणो विवर्त इति वा कारणाभिन्नं कार्यं परिणामः । तदभेदं विनैव तद्व्यतिरेकेण दुर्वचं कार्यं विवर्त इति वा विवर्तपरिणामयोर्विवेकः । अथ शुद्धं ब्रह्मोपादानमिष्यते । ईश्वररूपं जीवरूपं वा । अत्र संक्षेप शारीरकानुसारिणः केचिदाहुः शुद्धमेवोपादानं जन्मादि सूत्र तद्भाष्ययोरुपादानत्वस्य ज्ञेय ब्रह्मलक्षणत्वोक्तेः । तथा चात्मनः आकाशः संभूत इत्यादिकारण वाक्येषु शवलवाचिनामात्मादि शब्दानां शुद्धे लक्षणैवेति ।। ननु ब्रह्म तद्विवर्तप्रचंयोरभेदस्सिद्धांते उपेयते आरंभवादे तु आरभ्यं आरंभकादत्यंतभिन्नमुपेयते इति आरभ्य विवर्तयोर्भेदः स्पष्टः सिद्धांत इव परिणाम वादेपि सांख्याद्यभिमते परिणामपरिणामिनोरभेदाभ्युपगमात विवर्तपरिणाअमयोर्भेदः कथमवगंतव्य इत्याशेक्यलक्षणभेदादित्याह । वस्तु न इति । वस्तु न उपादानत्वाभि यतस्य । अन्यथा पूर्वरूपा पेक्षयारूपांतरेण भावः भवनं अवस्थानं । अन्यथा भावः । अवस्थाविशेष इति यावत् । प्. ४४अ) तत्समसत्ता कः तेन वस्तुना समासत्ता यस्य अन्यथा भावस्य स तथा । तथा च उपादानत्वाभिमत वस्तुसत्ता समानसत्ता कत्वे सति । तदवस्थाविशेषरूपत्वं तत्परिणामत्वमिति परिणामलक्षणं पर्यवस्यति । तत्र विवर्तवारणाय सत्यं तं । घटस्य तं तु परिणामत्व वारणाय विशेष्यं विवर्तलक्षणमाह । तदिति वस्तुनस्तदसमसता कोन्यथा भावो विवर्त इति संबंधः । उपादानत्वाभिमत वस्तुसत्ता विषमसता कत्वे सति तदवस्थाविशेषरूपत्वं तद्विवर्तत्वमिति विवर्तलक्षणं । उपादानत्वाभिमत मृद्वस्तु सताविषमसत्ताकत्वं चैतन्यस्याप्यस्तीति तस्य मृद्वस्तुविवर्तत्ववारणाय विशेष्यं । परिमाणवारणाय सत्यं तं ब्रह्मचैतन्यस्य पारमार्थिकी सत्ता घटादि प्रपंचस्य व्यावहारिकी सत्ताशु ।। कैवसता न तदतिरिक्तेति मत्तसाधारण्येन लक्षणांतरमाह । कारण स लक्षण इति । उपादानत्वाभिमत वस्तु सलक्षणत्वे सति तदवस्थाविशेषत्वमिति । परिणामलक्षणं अत्र स लक्षणं जडरूपं बोध्यं परिणामपरिणामिनोर्जडत्व नियमात् । न काप्य व्याप्ति शंका मृद्वस्तुनो घटपरिणामत्ववारणाय विशेष्यं प्रपंचस्य संवित्यपरिणामत्ववारणाय सत्यं तं विवर्तलक्षणमाह । तदिति । उपादानत्वाभिमत प्. ४४ब्) वस्तुविलक्षणत्वे सति तदवस्थाविशेषत्वं तद्विवर्तत्वमिति विवर्तलक्ष्णमत्र चित्व जडत्वरूप वैलक्षण्यं विवक्षितं वियदादि प्रपंचवत् शुक्तिरजतादेरपि ततदवछिन्नचैतन्य एवाध्यासांगीकाराज्जडमात्रे चैतन्यविवर्ते तद्विलक्षणत्वमस्तीति लक्षणसंगतिः । उपादानत्वाभिमत जडविलक्षणे चैतन्ये जडविवर्तत्ववारणाय विशेष्यं मृत्परिणामे घटादौ मृद्विवर्तत्व वारणाय सत्यं तं । प्रकारांतरेण विवर्तपरिणामयोर्लक्षणमाह । कारणाभिन्नमिति । कारणत्वाभिमत वस्त्वभिंत्तत्वे सति तत्कार्यत्वं तत्परिणामत्वं वियदादौ ब्रह्मकार्यत्वमस्ति तत्परिणामत्वं तु नास्तीति तद्वारणाय सत्यं तं ब्रह्मप्रपंचयोरारोपिता भेदसत्वेपि लक्षणे विवक्षितस्य धर्मि द्वय समान स्वभाव भेदस्याभावान्नाति व्याप्तिः । परिणामवादे मृदोपि घटाभिन्नत्वमस्तीति तस्याः घटादि परिणामत्व वारणाय विशेष्यं । तदभेदमिति वस्तुतस्तद भेदं विनैवेत्यर्थः । व्यतिरेकोभेदः अस्मिन् । लक्षणे कार्यत्वमविवक्षितं । अनाद्य प्. ४५अ) विद्यादेरपि विवर्तत्वांगीकारात् । यद्वा कार्यरूपस्यैव विवर्तस्येदं लक्षणं । तथा च उपादानत्वाभिमत वस्तुतः सकाशाद्वस्तुतो भेदाभेदाभ्यां दुर्निरूपत्वे सति कार्यं कार्यरूपविवर्तलक्षणमत्रा विद्यां प्रति उपादानत्वाभिमत चैतन्याद्वस्तुतो भेदाभेदाभ्यां निरूपयितुमशक्यायामविद्याया प्रतिव्याप्ति वारणाय विशेष्यं । आरंभवादे उपादानादभेदेन दुर्मिरूपकार्ये अतिव्याप्ति वारणाय भेदेत्युक्ते परिणामवादे उपादानात् । भेदेन दुर्निरूपकार्ये अतिव्याप्ति वारणायाभेदेत्युक्तं । सिद्धांते कार्यकाकारणयो भेदोपगमादसंभववारणाय वस्तुत इत्युक्तं । ननु कार्यकारणयोर्वस्तुतो भेदाभेदौ कथं दुर्निरूपाविति उच्यते । तत्र तयोर्भेदस्तावत् दुर्निरूपः । निम्नोन्नतादि युक्तमृद्वस्तु व्यतिरेकेण घटा ।। क्ति रजतादेः प्रातिभासिकी सतेति सता त्रैविध्यांगीकारमते लक्षणभेद उक्तः ब्रह्मणि घटादौ शुक्तिरजतादौ च सर्वत्र ब्रह्मस्वरूपभूता ए ।। प्. ४५अ) द्यनुपलंभात् । संयोगविशेषयुक्ततंत्वतिरेकेण पदानुपलंभाच्च मृद्घटः तंतवः पटः सुवर्णं कुंडलमित्यादिना सामानाधिकरण्याच्च । न हि वस्तुतोभिन्नयोस्सामानाधिकरण्य प्रत्ययः संभवति । किं च कारकव्यापारात् पूर्वं मृदादौ घटादेरऽसत्वेशशशृंगादिवदुत्पत्यनुपपत्तेः । उत्पति क्षणात् पूर्वसंसतः कार्यस्य उत्पति क्रियां प्रतिकर्तृत्वानुपपतेश्च । पूर्वसिद्धस्यैव कर्तृत्व दर्शनात् । उत्पति क्षणे उपादानेन सहकार्यस्य संबंधानुपपतेश्च पूर्वक्षणे कार्यस्यासत्वात्पूर्वसिद्धयोरेव हि पश्चात्संबंध संभवः । अन्यथा शशशृंगादेरपि कारणसंबंधस्य दुर्वारत्वात् कारकव्यापारात्पूर्वं कार्यस्य तुछवैलक्षण्यानंगीकारे तद्वदेव पश्चादात्मलाभा संभवस्य दुर्वारत्वाच्च सिद्धे च प्राक् कार्यस्य सत्वे प्राक्काले कार्यकारणयोर्भेदे मानाभावादभेदे सिद्धौ पश्चादपि तयोरभेद एव स्वीकर्तव्य इति कार्यकारणामेदवादिनः । सांख्यादयः तद्भेदवादिनस्तार्किकादयस्तु वदंति । प्. ४६अ) कार्यकारणयोरभेदो न संभवति तद्भाव विरोधात् । न हि तस्यैव तत्कार्यत्वं तत्कारणत्वं च संभवति । अर्थक्रियाभेदाभावप्रसंगाच्च न हि जलाहरणाद्यर्थ क्रियामृद्वस्तुनस्संभवति घटोत्पतेः । प्रागपि तत्प्रसंगात् । नापि मृदोर्थ क्रिया घटस्य संभवति मृद्धद्घटस्यापि घटोत्पादकत्व प्रसंगात् । कार्यस्य कारणव्यापारात्पूर्वं सत्वे च कारकव्यापार वैयर्थ्य प्रसंगात् । तदा मृद्वदेवोपलंभ प्रसंगाच्च । तदुक्तं पंचदश्यां । स घटो न मृदो भिन्नो वियोगे सत्यनी क्षणात् । नाप्यभिन्नः पुरापिंडदशायाम न वेक्षणात् । इति । वियोगे सति मृदः सकाशात् । बुध्याविवेचने क्रियमाणे इत्यर्थः । एवं कार्यकारणयोर्मेदवादिभिरभेदवादिभिश्च दर्शितः परस्परं प्रतिक्षेप्तुमशक्यैर्न्यायैः कार्यस्य कारणाद्भेदाभेदाभ्यां प्रागुत्पतेः । सत्वासत्वाभ्यां च दुर्निरूपत्वात् । तस्यानृतत्वं सिद्धं कारणं तु कार्योत्पतेः पूर्वकाले कार्यकाले कार्यनाशकाले चानुवर्तमानं कार्यात् भेदेन सत्वेन च निरूपयितुं प्. ४६ब्) शक्यत्वात् सत्यमेव कार्यापेक्षया एवं मृदादेरवांतरकारणस्य तत्तत्कार्यापेक्षया सत्यत्वे सिद्धेपि परमार्थ सत्यत्वं नोपेयते श्रुत्या ब्रह्मव्यतिरिक्तस्य सर्वस्यैव वाधितत्वात् । ब्रह्मणस्तु परमार्थ सत्यत्वं सदात्मनो वाधशून्यत्वात् । अभ्युपगम्यते । अत एव जगत्कारणस्य सत्यत्वे मृदादि सत्यत्वं । जगतो मिथ्यात्वे च मृदादि कार्यस्य घटादेरनृतत्वं च दृष्टांत्तत्वेन श्रुत्या उपादीयते तदुक्तं पंचदश्यां । एवं मायामयत्वेन विकारस्यानृतात्मतां विकाराधारमृद्वस्तु सत्यत्वं चाब्रवीच्छ्रुतिरिति श्लोके विकारानृतत्वादौ पूर्वाक्त न्यायकलाप । एवं शब्दार्थः दृष्टांतत्वेनेति शेषः । उक्तं च भामतीति बंधने । तदनेन प्रमाणेन विकारजातस्यानिर्वाच्यतया सिद्धमनृतत्वं कारणस्य निर्वाच्य तया सिद्धं सत्यत्वं च मृतिकेत्येव स्त्यमित्यादिना प्रबंधेन दृष्टांततयानुवदति श्रुतिरिति वाचारंभणं विकारो नामधेयं मृतिकेत्येव सत्यमिति श्रुतिरित्यर्थः । विकारो घटादिर्वाचा घटशरावादिरस्तीत्यादि प्. ४७अ) शब्देनारभ्यते व्यवह्रियत इत्यारंभणं वाचा व्यवह्रियत एव न वस्तुतोस्ति विकारस्तस्य दुर्निरूपत्वादिति भावः । कथं तर्हि मृद्वस्तुनस्सकाशात् घटादिजीत इति कार्यकारणयोर्भेदव्यवहार इत्यत आह । नामधेयं भेदव्यवहारो नाममात्रं अर्थशून्यः । यथाराहोः शिरः पुरुषस्य चैतन्यमिति व्यवहारः विकारवत् भेदोप्यनिर्वचनीय इति भावः । किं तर्हि सत्यं तत्राह । मृतिकेति अनेन मृतिकात्वेन रूपेण घटशरावादि विकारेषु प्रतीयमानं कारणरूपं वस्तुसत्यं विकारसत्यत्वमेव कारेण व्यवछिद्यते तत्सिद्धं दुर्वचत्वं कारणाद्भेदाभेदाभेदाभ्यां कार्यस्येति । पृच्छति अथेति । ननु वाक्यार्थ भूतशुद्ध ब्रह्मण एव श्रुतौ लक्षणमुक्तं तद्विजिज्ञासस्वेति वाक्यशेष लक्षणीयस्य ब्रह्मणो जिज्ञास्यत्वाभिधानात् । तथा च निश्चितार्थे प्रश्नानुपपतिरिति चेन्न । यथा शुद्धस्य जिज्ञास्य त्वं । एवं तत्वं पदार्थभूतयोर्जीवेश्वरयोरपि शुद्ध ब्रह्मप्रतिपति हेतुत्वेन जिज्ञास्य त्वमस्ति तथा प्. ४७ब्) तयोरपि वक्ष्यमाणरीत्याभिन्न निमितो पादानत्वं च संभवतीति । जिज्ञास्य त्वकारणत्वयोः साधारणत्वेन प्रश्नोपपतेरिति भावः । जीव ईशो विशुद्धाचित् तथा जीवेशयोर्भिदा । अविद्या तच्चित्तोर्योगष्षडस्माकमनादय इति संप्रदायविद्वचने चैतन्यत्रैविध्यस्यैव प्रसिद्धत्वातदनुसारेण त्रेधः प्रश्नः । सामान्यज्ञनस्य विशेषवुभुत्सा हेतुत्वात् ब्रह्मणः सामान्यरूपेणोपादानत्वज्ञानानंतर्यमथ शब्दार्थः प्रश्नो वा तदर्थः । ईश्वररूपं जीवरूपं वा ब्रह्मनोपादानमिति एव कारार्थः । जन्माद्यस्य यत इति सूत्रं जन्म आदिरस्येति बहुब्रीहिः जन्मस्थितिभंगं अन्यपदार्थः । जन्मादीति नपुंसकैक वचनेन । अन्यपदार्थे समाहार द्वंद्व सूचनादन्य पदार्थ भूतजन्मस्थिति भंगेष्वितरेतरयोगद्वंद्वाश्रयणे तु जन्मादय इति सूत्रापतेः । जन्म न आदित्वं च जायमान पदार्थेषु स्थितिभंगावपेक्ष्य दृष्टमिति सूत्रे जन्मनः प्राथम्यरूपादित्व निर्दशः । अस्येति सर्वनाम्ना सूत्रकर्तुर्बुद्धिस्थ सकलप्रपंचनिदेशः षष्ट्या च जगतो प्. ४८अ) जन्मादेश्च संबंधनिर्देशः । यत इति कारणनिर्देशः सूत्रे तत्पदाध्याहारः पूर्वसूत्रात् ब्रह्मपदानुषंगः । तथा च यतः कारणादस्य जगतोजन्मांदि तद्ब्रह्मेति सूत्रार्थः । ज्ञेय ब्रह्मेति वाक्यार्थ भूतशुद्ध ब्रह्मण एव प्राधान्येन लक्षणीय त्वात् । तस्यैव जन्मादि सूत्रे लक्षणमुच्यते । अथातो ब्रह्मजिज्ञासेति पूर्वसूत्रे शास्त्रविषय समर्पकेण ब्रह्मपदेन शुद्धब्रह्मण एवोपात्तत्वेन तस्यैव लक्षणाकांक्षणाच्चेति भावः । नत्वात्मन आकाशः संभूतः सोकामयतयस्सर्वज्ञः सर्वविदित्यादिकारण वा कोषु ईश्वररूप ब्रह्मणकारणत्वमुच्यते न शुद्धस्य तस्य कामयितृत्व सर्वज्ञानकर्तृ ।। विवरणानुसारिणस्तु यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्मनामरूपमन्नं च जायत । इत्यादि श्रुतेः । सर्वज्ञत्वादि विशिष्टं मायाशवलमीश्वर रूपमेव ब्रह्मोपादानं । अत एव भाष्यें तस्तद्धर्मोपदेशात् सर्वत्र प्रसिद्धोपदेशादित्याद्यधिकरणेषु सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद् ब्रह्म सर्वकर्मा सर्वकामः सर्वगंधः प्. ४८ब्) सर्वरस इत्यादिश्रुत्युक्तं सर्वोपादानत्वप्रयुक्तं सर्वात्मकत्वं जीवव्यावृतमीश्वरलिंगमित्युपवर्णितं ।। त्वाद्यनुपपतेरतस्तद्वाक्यगतात्मपद तत्पद सर्वज्ञादि पदानां शबलवाचित्वात् । न कारण वाक्येभ्यः शुद्धस्योपादानत्व सिद्धिरितिरेनेत्याह । तथा चेति । जन्मादि सूत्र तद्भाष्ययोः स्वारस्येन शुद्धस्योपादानत्वावगमे सतीत्यर्थः । लक्षणैव स्वीक्रियते अतः कारणवाक्येभ्यः शुद्धस्य कारणत्वावगतिर्युक्तेति भावः । अथ शुद्धं ब्रह्मोपादानमित्यादि प्रश्ने द्वितीयपक्षमादाय प्रतिवचनमुत्थापयति विवरणेति । यस्य प्रकृतस्य भूतयोनेः पूर्वमंत्रोपातं तपः ज्ञानमयं स्वरूपज्ञानविकारः मायावृति प्रतिबिंबरूपमिति यावत् । तस्मात् सर्वज्ञाद्भूतयोनेस्सकाशादे तत्सन्निहितं । अपरकालीनं कार्यरूपमिति यावत् ब्रह्महिरण्यगर्भाख्यं जायत इति श्रुतेरीश्वररूपमेव ब्रह्म उपादानमिति संबंधः । न शुद्धं जीवरूपं वेत्येवकारार्थः सर्वज्ञत्वादीत्यादि पदेन सर्ववित्वकाम पितृत्व सर्वेश्वरत्वादीनि गृह्यंते मायोपाधिनिरूपितर्विवत्वविशिष्टे सर्वज्ञत्वादि गुणयुक्तं च यदीश्वररूपं ब्रह्मचैतन्यं तदेवोपादानमित्यर्थः । अथ शुद्धं ब्रह्मोपादानमिष्यत इति प्रश्नस्य प्रतिवचनावसरे ईश्वररूपमेव ब्रह्मोपादानमित्ये तावति वक्तव्ये तस्य मायाशबलत्व विशेषणमीश्वरोपि शुद्धचैतन्यमेवेति भ्रांति निरासार्थं तस्य सर्वज्ञत्वाद्यनेक प्. ४९अ) विशेषणोपादानं चेश्वररूप ब्रह्मण उपादानत्वे यस्सर्वज्ञ इत्यादिकारणवाक्यानां सर्वेषामैक कंठ्यप्रदर्शनार्थमिति मंतव्यं जीवशुद्ध ब्रह्मव्यावृतेश्वररूप ब्रह्मण ।। जीवेश्वरानुस्यूत चैतन्यमात्रस्य सर्वोपादानत्वे तु न तज्जीव व्यावृतमीश्वर लिंगं स्यात् । संक्षेप शारीरकेशवलोपादानत्व निराकरणमपि मायाविशिष्टोपादानत्व निराकरणाभिप्रायं न तु निष्कृष्टेश्वररूप चैतन्योपादानत्व निराकरण परं । तत्रैव प्रथमाध्यायांते जगदुपादानत्वस्य तत्पदार्थवृत्तित्वोक्तेः ।। उपादानत्वे भाष्यसंमतिमाह । अत एवेति । ईश्वररूप ब्रह्मण एवोपादानत्वाभ्युपगमा देवेत्यर्थः । इत्यादि श्रुत्युक्तं सर्वोपादानत्व प्रयुक्तं सर्वात्मकत्वमीश्वरलिंगमित्युपवर्णितं भाष्ये इति संबंधः यस्य सर्वोपादानत्वं तस्य सर्वात्मकत्वमुपादानोपादेययोस्तादात्म्यान्नान्यस्येत्यविवादं । यदि प्रतिबिंबत्वविशिष्टचैतन्यरूपे जीवे विंवत्व विशिष्टचैतन्यरूप ईश्वरे च विशेष्यतया अनुस्यूत शुद्धचैतन्यरूप ब्रह्मणः सर्वोपादानत्वमिष्यते । तदा तस्यैव सर्वात्मकत्वस्यान्नेश्वरस्येति सार्वात्म्यस्य भाष्ये जीवव्यावृतेश्वर लिंगत्वोपन्यासो न स्यात् । न च विशेष्य भूतशुद्ध ब्रह्मगतं सर्वात्मकत्वं विवत्वविशिष्ट चैतन्यरूपेश्वर लिंगतया भाष्ये प्. ४९ब्) वर्णितमिति वाच्यं । तथा सति तस्य जीवव्यावृतत्वं न स्यात् विशेष्य धर्मस्य सर्वात्मकत्वस्य ईश्वरधर्मत्ववज्जीवधर्मत्वस्यापि सत्वादित्याशयेनाह । जीवेश्वरानुस्यूतेति छांदोग्ये श्रूयते । य ए * तरादित्ये हिरण्मयः पुरुषोद्वश्यते हिरण्यण्मशुर्हिरण्यकेशः । आप्रणखात् सर्व एव सुवर्ण इत्युपक्रम्य तस्य ऋक् सामर्थगेष्णावित्युक्ता? उतरत्रय एषोंतरक्षिणि पुरुषो दृश्यते सैव ऋक्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्मेति चोक्ता तद्य इमे वीणायां गायंति एनं ते गायांतीति । अस्यार्थः आदित्ये अंतर्यः पुरुषः शास्त्रतो दृश्यते एष हिरण्मयः ज्योतिर्मयः स्वतः प्रकाशचैतन्य स्वरूप इत्यर्थः । तस्योपासनार्थं शरीरमाह । हिरण्यश्मश्रुरित्यादिना । हिरण्यसुवर्णशब्दौ ज्योतिः परौ । प्रणखानखाग्नं आडुः अभिव्याप्तौ तस्य हिरण्मय पुरुषस्य ऋक् सामनीगेष्णौ परिमलौक्तरित्या स्तुति धनीभूते इत्य ।। गात् तस्यैव पुरुषस्यादित्य स्थानवदुपासनार्थं स्थानांतरमाह । य एषोंतरक्षिणीति । सैव ऋगित्यादौ विधेया पेक्षयालिंगव्यत्यासः । स एव ऋक् पुरुषः समासामसः उक्थं सः यजुः सः ब्रह्मवेदः ब्रह्मपदं ऋगाद्यति रिक्त वेदपरं । तथा च गेष्णवाक्येन सर्वदेवात्मकत्वमुक्तं सैव ऋगिति वाक्येन सर्ववेदात्मकत्व प्. ५०अ) मुक्तं । तथा ये इमे प्रसिद्धागापकाः वीणायां लौकिक पुरुषं गायंति तेपि एनं पुरुषं गायंतीत्युक्त्या इंद्राद्यात्मकत्ववत् लौकिकपुरुषात्मकत्वमपि सिध्यति । तथा च सर्वदेवात्मकत्व सर्ववेदात्मकत्व सर्वलौकिक पुरुषात्मकत्वानिमिलित्वा सर्वात्मकत्वे पर्यवस्यंति । तिर्यगात्मत्वस्याप्युक्त प्रायत्वात् । एवं स्थिते संशयः आदित्ये अक्षिणि चांतः श्रूयमाणो हिरण्मयः पुरुषः मंडलाभिमानि देवताविशेषो वा नित्यसिद्धः परमेश्वरोवेति । तत्र देवता विशेष एव हिरण्मयः पुरुषस्तस्य संसारित्वेन हिरण्यश्म श्रुत्वादि रूपसत्वोपपतेस्सर्वात्मकत्वस्याप्युपासनार्थं तत्रारोपोपपतेश्च न परमेश्वरः तस्य शरीरा संभवादिति प्राप्तं एवं प्राप्ते ब्रूमः । अंतस्तद्धर्मोपदेशात् सर्वत्र प्रसिद्धोपदेशादिति आदित्यादावंतरवस्थितो हिरण्मयपुरुषो नित्यसिद्ध परमेश्वर इव कुतः तद्धर्मस्य सर्वात्मकत्वस्य सैव ऋक् तत्सामेत्यादावुपदेशात्सर्वात्मकत्वं हि ईश्वरस्यैव धर्मः । तस्य सर्वोपादानत्वेन सर्वात्मकत्वो प्. ५०ब्) पपतेर्न च मुख्य संभवे सत्यारोप कल्पनान्यायया परमेश्वरस्यापि साधकानुग्राहार्थमिछावशान्मायागत शुद्धसत्वांश परिणामरूपशरीरसंभवादुमासहायं परमेश्वरं प्रभुमित्यादि श्रुतिषु जन्मकर्म च मे दिव्यमित्यादि स्मृतिषु च प्रसिद्धत्वाच्चेति निर्णयः । सर्वं खल्विदं ब्रह्मेति प्रकृत्यसक्रतुं कुवीतेति वाक्येन क्रतु शब्दवाच्यमुपासनं विधाय उपास्याकांक्षायां पठ्यते । मनोमयः प्राणशरीरः भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः । सर्वगंधस्सर्व रसस्सर्वमिदमभ्यातो वाक्यनादर एषम आत्मांतर्हृदय इति । अयमर्थः । मनोमयः ।। र्थः इदं ऋक्सामगेष्णत्वं समस्त ऋक् सामस्तुत्यत्वरूपं हिरण्मय पुरुषविशेषणं तस्य वेदे ऋक्सामस्तुत्यतया प्रसिद्धेंद्राद्यात्मकत्वमादाय पर्यवस्यति । हिरण्मयपुरुषस्येंद्रादिभ्यस्साकाशाद्भिन्नत्वे तु तद्विशेषणं न सिध्यति अन्यस्तु ते रन्यविषयकत्वायो ।। मनः प्रधानः प्राणः शरीरमस्येति प्राणशरीरः । भाश्चैतन्यं रूपमस्येति भारूपः सत्याः प्. ५१अ) अप्रतिहताः संकल्पाः सृष्ट्यादि गोचरा अस्य आकाश वदात्माव्यापकत्व सूक्ष्मत्वादि युक्तं स्वरूपमस्य सर्वाणि कर्माणि क्रियंत इति व्युत्पत्या कार्याण्यस्य यद्वा भूतगुणगंधरसादि सन्निधानात्कर्मपदं परिस्पंद परं सर्वं परिस्यंदा अस्येत्यर्थः । सर्वे कामा इछारूपा अस्य सुखविशेषरूपा वा सर्वे गंधाः पुण्यरूपाः अस्य पुण्यो गंधः पृथिव्यां चेति स्मृतेः सर्वे रसाः अस्य इदं दृश्यं सर्वं अभि आभिमुख्येन तादात्म्येनातः व्यामः वागेव वाकः वाको अस्यास्तीति वा की न वाकी अवाकी वागिंद्रिय शून्य इति यावत् । वाक् ग्रहणं कर्मेंद्रियाणां मुख्य प्राणस्य च उपलक्षणं । क्रियाशक्तिमत्वाविशेषात् । आदरः कामः सोस्य नास्तीत्यनादरः । आदरनिषेधेन तत्परिणामि मनोनिषिध्वं भवति मनो निषेधेन च ज्ञानेंद्रियाणां निषेधस्सिद्धो भवति । ज्ञानशक्तिमत्वाविशेषात् । अत्र परिस्पंदेछा गंधरसवत्वं तदा श्रयैर्वायुमतः पृथिवीजलैर्भूतविशेषैस्तादात्म्यं विना न संभवतीति सर्वकर्मत्वादि वचनेन अविशेषेण सर्वतादात्म्य प्. ५१ब्) प्रतिपादक सर्वमिदमभ्यात इति वचनेन च मनोमयत्वादि गुणकस्य सर्वात्मत्वं प्रतीयते । तच्च ब्रह्मण एवोपपद्यते । तस्य सर्वोपादानत्वेन सर्वात्मकत्वोपपतेः । न जीवो मनोमयत्वादि गुणकस्तस्य सार्वात्म्या संभवात् । न च मनोमयत्व प्राणशरीरत्वयोर्जीवधर्मयोर्ब्रह्मण्य संभव इति वाच्यं भूततादात्म्येन गंधादि मत्ववज्जीव तादात्म्येन मनोमयत्वाद्युपपतेरिति । सूत्रार्थस्तु मनोमयत्वादि गुणकं ब्रह्मैव उपास्य त्वेनेह निर्दिश्यते कुतः सर्वत्र वेदांतेषु प्रसिद्धस्य । ब्रह्मणः सर्वं खल्विदं ब्रह्मेति पूर्ववाक्ये स्वशब्देनैवोपदेशादस्मिन्नपि वाक्ये प्राणः शरीरमस्येत्यादि विग्रहवाक्येषु पकृतब्रह्माकर्षक सर्वनामश्रुतीनां सत्वाच्च ब्रह्मैव सगुणमुपास्यमत्रेति सिद्धं । सर्वोपादानत्वे त्विति शुद्धब्रह्मवज्जीवस्य सर्वोपादानत्वोपगमेपि सर्वात्मकत्वं जीवव्यावृतमीश्वरलिंगं न स्यादिति । तु शब्दार्थः । ननु संक्षेपशारिरके मायाशवलस्य उपादानत्वं निरस्तमिति तद्विरोध इत्यत प्. ५२अ) आह । संक्षेपशारीरक इति । मायाया अपि बिंबभूतेश्वर विशेषणतयानुपादानत्वाश्रयकोटौ निवेश एव तत्र दूषितः । न तु बिंबत्वविशिष्ट चैतन्यरूपेश्वरस्य तन्निरस्तमिति न तद्विरोध इत्यर्थः । ननु शबलस्योपादानत्वं निराकृत्यजगदुपादातत्वस्य ज्ञेय ब्रह्मलक्षणत्व समर्थन परस्य संक्षेपशारीरक ग्रंथस्य कथमेवमभिप्रायः कल्पयितुं शक्यते स्वरसतस्तस्य बिंब प्रतिबिंबानुगतशुच ब्रह्मोपादानत्व प्रतिपादनपरत्वावगमादिति नेत्याह । तत्रैवेति । संक्षेपशारीरक एवेत्यर्थः । न च तत्पदार्थ वृतित्वं तत्पदलक्ष्यार्थ वृतित्वं विवक्षितं लक्ष्यार्थश्च शुद्धं ब्रह्मेति न संक्षेपशारीरक ग्रंथस्य पूर्वापरविरोधः । न वाते न बिंब भूतेश्वरस्योपादानत्व लाभ इति वाच्यं । लक्ष्यार्थ त्वस्य वाक्यार्थ साधारणतया तत्पदार्थवृत्तित्व विशेषणवैयर्थ्यापतेस्तत्पदार्थवृत्तित्वं तत्पदवाच्यार्थवृत्तित्वमेव वक्तव्यमिति तदविरोधाय सर्वज्ञत्वादि गुणकेश्वरस्य जगत्कारणत्व प्रतिपादक प्. ५२ब्) वहुश्रुत्यविरोधाय च शबलोपादानत्व निराकरणं मायाविशिष्टोपादानत्व निराकरणरूपमेव वक्तव्यमिति न संक्षेपशारीरक विरोध इति भावः । तर्हि जन्मादि सूत्र तद्भाष्ययोर्ज्ञेय ब्रह्मलक्षणत्वोक्ति विरोध इति नेत्याह । एवं चेति । अभिन्ननिमितोपादानत्वरूपलक्षणस्यां तस्तद्धर्माधिकरणभाष्यपर्यालोचनया बिंबभूते एवावगत्वे सिद्धे सतीत्यर्थः । अपि शब्दः । एवं चेश्वरगतमपि कारणत्वं तदनुगतमखंडचैतन्यं शाखा चंद्रमसमिव तटस्थ तयोपलक्षयितुं शक्नोतीति तस्य ज्ञेय ब्रह्मलक्षणत्वोक्तिरिति मन्यंते । विपदादि प्रपंच ईश्वराश्रित माया परिणाम इति तत्रेश्वर उपादानं ।। चैतन्यमित्यनेन संबध्यते कारणत्वमित्यनंतरमीश्वरमितरव्यावृततया बोधयत्सदिति शेषः । तदनुगतमिति । बिंबत्वविशिष्टचैतन्यरूपेश्वरानुगतमित्यर्थः । अखंडचैतन्यमिति । विशेष्य भूतशुद्धचैतन्यमित्यर्थः । तटस्थत्वं च लक्ष्य स्वरूप बहिर्भूतत्वं वा लक्ष्यावृतित्वं वा उपलक्षणत्वं वा बोध्यं । क्व चंद्र इति । प्रष्णे शाखायामित्युतरं भवति । तत्र यथा शाखादिगंतरगतं नक्षत्रव्यावृत्तं चंद्रमुपलक्षयति प्. ५३अ) तथा ईश्वर गतं कारणत्वमीश्वरमितरव्यावृततया बोधयत् स तटस्थ तयेश्वरानुगतमखंडचैत्यन्यमपीतरव्यावृत्तत उपा-उपलक्षयितुं शक्नोत्येवेत्यर्थः । ईश्वरगतेनाभिन्ननिमितोपादानत्वेन बिंबत्व विशिष्ट चैतन्य रूपेश्वरस्य जगदुपादानत्व संभव शून्याज्जीवात् । तत्कर्तृत्व संभव रहितात्प्रधानादेश्च सकाशाद्व्यावृतौ गम्यमानायां सत्यां विशेष्य भूत ज्ञेय ब्रह्मणोपि प्रधानादिव्यावृतिर्गम्यत इत्यभिप्रेत्य तस्य ज्ञेय ब्रह्मलक्षणत्वं जन्मादि सूत्र तद्भाष्ययोस्संक्षेपशारीरके चोक्तमिति भावः । एवं तटस्थ लक्षणेन प्रधानादिव्यावृतत्वेनावगतं ब्रह्मकीदृक् स्वरूपं तदिति विशेषजिज्ञासायां सत्यांसत्यज्ञानानंदात्मकं ब्रह्मेति स्वरूपलक्षणं प्रवर्तते । अनेनैवाभिप्रायेण भाष्यकारैरुक्तं । तस्य च निर्णय वाक्यमानंदाद्ध्येव खल्विमानि भूतानि जायंत इति यतो वेत्यादि वाक्येन यस्मात् कारणात् । इमानि भूतानि जायंत इत्युक्तं । तद्वस्तुतस्सत्यज्ञानानंत स्वरूपादानंदादेवनान्यस्मात्कारणादित्ये तत् हि प्रसिद्धं पूर्ववल्यामिति श्रुत्यर्थः । अनेन स्वरूपलक्षणेन बिंबभूतेश्वरानुगतं तत्पदलक्ष्यं वस्तुतो वाक्यार्थ भूतं ज्ञेयं ब्रह्मविशेषतो निर्धारितं भवति । इयं च स्वरूपलक्षणविवक्षामूले अ ।। खंडपदेन सूचिता जगत्प्रकृतिभूत मायाप्रतिबिंब ईश्वरः । माया चेश्वराश्रिता । न च प्रतिबिंबत्वस्य माया कलितत्वात् । तद्विशिष्ट प्. ५३ब्) चैतन्याश्रितत्वं मायाया न संभवति प्रतिबिंबत्व कल्पनात्प्रागेव तस्याश्चैतन्याश्रितत्वस्य वक्तव्यत्वादिति वाच्यं । मायावत्प्रतिबिंबत्व स्याप्यनादित्वे न तस्यास्तद्विशिष्ट चतन्याश्रितत्वोपपतेः । वस्तुतो निर्विशेष चैतन्ये अनादिकालमारभ्य कल्पित प्रतिबिंबत्व स्थितेरनिर्वचनिय मायाधीनत्व मात्रेण प्रतिबिंबत्वस्य तत्क चैतन्ये अनादिकालमारभ्य कल्पित प्रतिबिंबत्व स्थितेरनिर्वचनीय मायाधीन मात्रेण प्रतिबिंबत्वस्य तत्कल्पितत्वं न तु प्रतिबिंबत्वस्य वियदादेरिव मायापरिणामत्वमुपेयते तथा सति प्रतिबिंब भूतेश्वरस्य सादित्व प्रसंगात् । न च माया । अनादिकालमारभ्य चैतन्ये प्रतिबिंबत्वस्य तत्कल्पितत्वं घटयति तद्विशिष्टमेव चैतन्यमाश्रयत इति कथं संभावयितुं शक्यमिति वाच्यं । मायाया अघटित घटनापटीयस्त्वात् । न च शुद्ध चैतन्याश्रितैव माया तत्र प्रतिबिंबभावं घटयतीति कुतो नाश्रीयत इति वाच्यं । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति श्रुति प्. ५४अ) विरोधात् । मायिनमिति पदेन मायाया ईश्वराश्रितत्व प्रतीतेः । जीवास्त्वविद्याप्रतिबिंबाः । जीवेशावाभासेन करोतीति श्रुतेः । प्रकृता मूलप्रकृतिः जीवेशौ प्रतिनिंबरूपौ करोतीत्यर्थः । नह्युपाधिभेदं विना प्रतिबिंब भेदस्संभवति । न चैकस्मिन्नपि दर्पणे अनेक प्रतिबिंब दर्शनात् । प्रतिबिंब भेद उपाधिभेदव्याप्यो न भवतीति वाच्यं । एकस्मिन् दर्पणे बिंबभेदेन प्रतिबिंबभेदेपि सूर्यादि बिंबैक्य स्थले उपाधिभेदे विना प्रतिबिंबभेदा दर्शनात् । बिंबभूत चैतन्यस्य चैकत्वात् । तस्मात् ईश्वरोपाधि मायापेक्षया भिन्ना एवजीवोपाधिभूता अविद्या स्वीकर्तव्या । न च मूलप्रकृतिं प्रकृत्य प्रवृतायां जीवेशावाभासेन करोति । माया चाविद्या च स्वयमेव भवतीति श्रुतौ जीवेश रूपप्रतिबिंबाधारयोर्मायाविद्ययोः स्वयमेवेत्यनेन प्रकृतमूलप्रकृत्यात्मकत्व प्रतिपादनम्मायाविद्ययोर्भेद पक्षे विरुध्यत इति वाच्यं । मायायावियदादि प्रकृतित्ववत् । अविद्याया अपि लिंग प्. ५४ब्) शरीरादि प्रकृतित्वस्य वक्ष्यमाणत्वेन मायाविद्ये प्रकृतित्वेनैकीकृत्य स्वयमेवेत्येक प्रकृत्यात्मकत्व प्रतिपादनस्याविरोधादविद्या चेत्येक वचनस्यापि जात्यभिप्रायत्वोपपतेर्न तन्नानात्वविरोधोपि बिंबैक्य स्थले उपाधि भेदं विना प्रतिबिंबभेदासंभवस्य दर्शितत्वात् प्रतिबिंब जीवानां च नाना त्वात् । अदृश्यत्वाधिकरणभाष्येप्यव्याकृतमीश्वराश्रयं तस्यैवोपाधि भूतमिति मायाया ईश्वरोपाधित्व तदाश्रयत्वयोरुक्तत्वात् । तथा आनुमानिकाधिकरण प्राष्ये मुक्तानां च न पुनरुत्पतिः । तस्या अविद्या बीज शक्तर्विद्ययादाहादित्यत्र जीवनानात्वस्य तदुपाधिभूताविद्या नानात्वस्य च स्पष्टमभिहित त्वात् । भामती निबंधने तद्भाष्यस्य जीवोपाधिभूता विद्यैक निराकरण तयैव व्याख्या तत्वाच्च आभास एव चेति । सूत्र तद्भाष्ययोर्जीवानां प्रतिबिंबतायाः स्पष्टमभिहितत्वाच्च । तथा च मायाविद्याभेदः श्रुत्यादि संसत इति ये मन्यंते तेषां मतमुपन्यस्यति । विपदादि प्रपंच इत्यादिना । प्. ५५अ) पूर्वमते ईश्वररूपं ब्रह्मोपादानमित्युक्तं तत्सत्यमेव परं तु क्वचिज्जगति जीवस्याप्युपादानत्वमभ्युपगंतव्यमित्यभिप्रायेणास्य मतस्य प्रवृतिर्बोध्या । ईश्वराश्रित माया परिणाम इति मायां तु प्रकृतिं विद्यादिति श्रुतेरिति भावः । तत्रेति वियदादावीश्वर एव उपादानमित्यर्थः । अंतःकरणादौ तु शब्दसूचितं विशेषं दर्शयति ईश्वरेति । भूतैरूपष्टंभलक्षणैस्संसृष्टत्वं भूतोपसृष्टत्वं तच्च जीवा वा विद्याकृतानां भूतसूक्ष्माणां विशेषेणं । भूतानां सूक्ष्मत्वं परिछिन्नत्वं । अत एवेति । अंतःकरणादौ जीवाविद्यापरिणाम सूक्ष्मभूतानां तदुपष्टंभकतया माया परिणाम महाभूतानां च उपादानतया प्रविष्टत्वादे । अंतःकरणादिकंत्वीश्वराश्रित माया परिणाःममहाभूतोपसृष्टजीवाविद्याकृत भूतसूक्ष्म कार्यमिति तत्रोभयोरुपादानत्वं । अत एव एवमेवास्य परिद्रष्टुरिमाषोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं यांतीति श्रुतौ कलाशब्दवाच्यानां प्राणमनः प्. ५५ब्) प्रभृतीनां विदुषो विदेह कैवल्य समये अविद्यानिवृत्या अविद्या कार्यांशाभिप्रायेण विद्ययो छेदो दर्शितः गताः कला पंचदश प्रतिष्ठा इति श्रुत्यंतरे । तदनिवर्त्यमायाकार्य महाभूत परिणामरूपोपष्टंभकांशाभिप्रायेण तेषां स्व स्व प्रकृतिषु लयो दर्शित इति मायाविद्याभेद वादिनः ।। वेत्यर्थः । यथा गंगाद्यानद्यस्समुद्रं प्राप्यास्तं गच्छंति । एवमेवास्य विदुषः परितः सर्वत्रात्मानं पूर्णं पश्यतः कलाः लिंग शरीरैक देशभूताः पुरुषायणाः पुरुष श्रिदात्मा अयनमधिष्ठामं या सांताः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छंति पुरुषे लीयंत इत्यर्थः । दर्शित इति पुरुष इति शेषः । प्रतिष्ठा इति द्वितीया बहुवचनं । माया परिणामात्मक महाभूतानीति द्वितीया बहुवचनार्थः । पंचदशकलाः प्रतिष्ठाः प्रतिगताः तासूलीना इति यावत् । तदनिवर्त्येति । ईश्वरोपाधिभूत माया या जीवगत विद्यानिवर्त्यत्वा भावादिति भावः । यदि कलानां जीवा विद्या मात्र परिणामत्वं तदा तासामशेषतः पुरुष एव लयः स्या तथा च तासां भूतेषु लयप्रतिपादके वचनं निर्विषयं स्यादतो माया कार्य महाभूतानामपि लिंगशरीरोपादानत्वं वाच्यमिति । तत्र उभयोरुपादानत्वे श्रुति द्वय व्यवस्था सिद्धिरेव फलमित्यर्थः । न च मायायाः प्. ५६अ) तत्वज्ञान निवर्त्यत्वाभावे मिथ्यात्व सिद्धिर्न स्यादिति वाच्यं ब्रह्मणि सर्व दृश्य निषेध श्रुति बलाद्दृश्यत्वादि लिंगैश्च तन्मिथ्यात्व सिद्धेः । न च मायायाः विद्यया निवृत्यभावे निवर्तकांतराभावात् । सर्वमुक्तावपि तदनुवृति । प्रसंग इति वाच्यं । महाप्रलयकाले सर्वप्राणिभोगप्रद कर्मणां युगपदुपरमे सति ईश्वर संकल्पमात्रादेव सर्वप्रपंच लयवत् सर्वमुक्ति ।। यथा वियदादि प्रपंच ईश्वराश्रित माया परिणाम इति तत्रेश्वर उपादानं तथांतःकरणादिर्जीवाश्रिताविद्यामात्रपरिणाम इति तत्र जीव एवोपादानं । न चांतःकरणादौ मायाकार्य महाभूतानामप्य ननु प्रवेशे उदाहृतं श्रुतिद्वय व्यवस्थानुपपतिः । कलानां विद्ययोच्छेद श्रुतिस्तत्ववित् दृष्टिविषया गताः कला इति श्रुतिस्तम्रियमाणे तत्वविदि समीपवर्तिनः पुरुषा नश्यत् । घटवत् तदीय शरीरादीनामपि भूम्यादिषु लयं मन्यंत इति तटस्थ पुरुषप्रतीति विषयेति व्यवस्थायाः कलालयाधिकरणभाष्ये स्पष्टत्वात् । इति मायाविद्याभेदवादिष्वेक देशिनः ।। प्. ५६ब्) काले इतःपरं स कार्याया मायायाः प्रयोजनं नास्तीति । अनुसंधानवत ईश्वरस्य सत्य संकल्पस्य मायास्वकार्यैः सहमयि वस्तुतश्चिदेकरसे निःशेषं लयं यात्वित्येवं रूपादेव मायापरिणामलक्षण संकल्पातल्लयोपपतेः । श्रुतिस्मृति पुराणादिषु तत्वज्ञानात् मायानिवृति प्रतिपादकग्रंथजातमविद्यानिवृत्यभिप्रायं । यद्वा तत्वज्ञानमात्रमविद्याया इव मायाया निवर्तन योग्यमपि नानाप्राणि कर्मप्रतिबंधान्नस्या निवर्तकं चरममुच्यमानस्यैव तु तत्वज्ञानं प्रतिबंधकाभावातन्निवर्तकमित्यादि कल्पनीयमिति संक्षेपः अंतःकरणादौ उभयोरुपादानत्वमसिद्धं श्रुतिद्वय व्यवस्थाया भाष्यकारैरेवान्यथा प्रतिपादितत्वादिति मत्वांतरं दर्शयति । यथा वियदादीति । तत्वविदो दृष्टिस्तत्वसाक्षात्कारः । अत्र दृष्टिपदेन तत्फलभूतः कलाक्षयो विवक्षितः । तद्विषया पुरुषे कलाप्रलय श्रुतिरित्यर्थः । भूतेषु कलाप्रलयवचनं तु कलानामपि मायापरिणाम महाभूतकार्यत्व भ्रमवतां भ्रांति सिद्धार्थानुवादकमिति भावः चूर्णीभाव पर्यंतो घटनाशो यथा भूमौ दृश्यते । तद्वत् मन्यंत इत्यक्षरार्थः । प्रतीति विषयेति । प्रतीतिरत्र भ्रांतिरूपातद्विषया तदविषयिकेत्यर्थः । स्पष्टत्वादिति । तानि परे तथाह्याहेति तदधिकरणसूत्रं । तानि मनः आदीनि परे पुरुषे निरवशेषं लीयंते । तथा हि श्रुतिराह । एवमेवास्येत्याद्या श्रुतिर्निरवेशेषं लयमाहहीति सूत्रार्थः । अंतःकरणादीनां मायाकार्यत्वाभावे ईश्वरस्यांतःकरणाद्युपादानत्व प्रतिपादक श्रुति विरोध इति दोषं सूचयति प्. ५७अ) एकदेशि न इति ।। तदभेदवादिष्वपि केचिद्यद्यपि वियदादि प्रपंचस्येश्वर उपादानं । तथाप्यंतःकरणादीनां जीवतादात्म्यप्रतीतेर्जीव एवोपादानं । अत एवाध्यासभाष्येंतःकरणादीनां जीव एवाध्यासोदर्शितः । विवरणे च प्रतिकर्म व्यवस्थायां ब्रह्मचैतन्यस्योपादानतया घटादि संगित्वं जीवस्य तद संगित्वेप्यंतःकरणादि संगित्वं च वर्णितमित्याहुः । एतस्माज्जायते प्राणोमनः सर्वेंद्रियाणि च खं वायुज्योंतिरापश्च पृथिवी विश्वस्य धारिणीत्यादि श्रुतेः कृत्स्नस्य व्यावहारिक प्रपंचस्य ब्रह्मैवोपादानं ।। मायैवा विद्या साचेश्वरस्यैवोपाधिर्जीवानां तु प्रतिबिंबरूपाणामंतःकरणान्येवोपाधय इति मायाविद्ययोरभेदवादिनोपि केचिदंतःकरणादौ जीवस्यैवोपादानत्वं तद्भेदवादिन इव वदंतीत्याह । तदभेद वादिष्वपीति । अपि शब्दः क्वचिदंशे पूर्वमत साम्यार्थकः । तच्च साम्यं तथापीत्यादिना स्पष्टं भविष्यति । ननु वियदादि प्रपंचेपि जीव एवोपादानं किं न स्यादित्यत आह । यद्यपीति । ईश्वराश्रित मायापरिणाम त्वात् । ईश्वर एव वियदादौ उपादानं न जीव इत्यर्थः । ननु माया विद्ययोरभेदोपगमे अविद्यापरिणामांतःकरणादीनामपि । प्. ५७ब्) ईश्वराश्रित माया परिणामत्वाविशेषादीश्वर एवांतःकरणादावपि उपादानमिति वक्तुमुचितमिति नेत्याह । तथापीत्यादिना । जीवेति । अहंकर्ता अहंप्राणिमि अहंकाणः अहं स्थूल इत्यादि प्रकारेणांतःकरणादीनां शरीरांतानां जीव तादात्म्यं प्रतीयते तच्च तेषां जीवे ध्यस्तत्वं विना न संभवतीति जीवस्यैव तदधिष्ठानत्वरूपमुपादानत्वं न चेश्वरस्येत्यर्थः । प्रतिकर्मव्यवस्थेति । ब्रह्मणः स्वरूप चैतन्ये न सर्वदा सर्वभासकत्वरूपे सर्वज्ञत्वे उक्ते तर्हि जीवस्यापि स्वरूप चैतन्ये नैव सर्वदा सर्वद्रष्टृत्वमिति दोषप्रसक्तौ जीवं प्रतिविषय व्यवस्था प्रतिपादकग्रंथ इत्यर्थः । ब्रह्मेति बिंब चैतन्यरूपब्रह्मणः सर्वोपादानतया घटादि तादात्म्यरूपः संसर्गः कॢप्त इत्यर्थः । अविद्याया व्यापकत्वेन तत्प्रतिबिंब रूपजीवस्य व्यापकत्वेपि न घटादिभिस्तस्य तादात्म्यमुपादानत्वाभादादंतःकरणादिभिस्तुती ।। जीवस्तु प्रातिभासिकस्य स्वप्नप्रपंचस्य च कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवेत्यधिकरणे ब्रह्मणो जगदुपादानत्वे तस्य कार्त्स्न्येन जगदाकारेण परिणामे विकारातिरेकेण ब्रह्माभावो वा एकदेशेन परिणामे निरवयवत्व श्रुति विरोधो वा प्रसज्यत इति । पूर्वपक्षे । आत्मनि चैवं विचित्राश्च हीति सूत्रेण प्. ५८अ) विवर्तवादाभिप्रायेण स्वप्न दृशिज्जीवात्मनि स्वरूपानुपमर्दनेनानेकाकार स्वप्न प्रपंच सृष्टिवत् । ब्रह्मणि वियदादि सृष्टिरुपपद्यत इति सिद्धांति तत्वादित्यन्ये ।। वस्य तादात्म्यलक्षणः संसर्गोस्तीति प्रतिपादितं विवरण इत्यर्थः । अनेन जीवस्यांतःकरणादा उपादानत्वमुक्तं भवति । अन्यथा घटातिभिरिवातःकरणादिभिरप्युक्त संगित्वं जीवस्य न स्यादुपादानत्वाभावाविशेषादिति भावः । अत्रांतःकरणादि परिणाम्युपादानभूताया अविद्याया ईश्वराश्रित मायया सहाभेदांगीकारे ईश्वरस्यैवांतःकरणादावुपादानत्वं वक्तुमुचितं । यदि जीव तादात्म्य प्रतिपत्यादिभिरुक्त हेतुभिः । जीवस्यैवांतःकरणादावुपादानत्वं वक्तव्यं तदांतःकरणादि परिणामि भूताविद्यायाः जीवाश्रितत्वमीश्वराश्रित मायायाः सकाशाद्भिन्नत्वं च वक्तव्यं कार्यात्मना परिणम्यमान प्रकृत्याश्रयत्वातिरिक्तस्य चैतन्यगतोपादानत्वस्याभावादतो मायाविद्ययोरभेदांगीकारो जीवस्यैवांतःकरणादावुपादानत्वांगीकारश्च परस्पर विरुद्ध इत्य स्वरसस्तदभेदवादीष्वपीत्यपि शब्देन सूचितः । ईश्वरस्यांतःकरणादावप्युपादानत्वमुपेत्यापि तस्य कार्यमात्रे उपादानत्वन्नास्तीति विशेषं वक्तुमतांतरमवतारयति । एतस्मादिति प्रकृतादीश्वरादित्यर्थः । प्रकृतित्वं षंचम्यर्थः । तु शब्दोवधारणार्थः । प्. ५८ब्) स्वप्नप्रपंचस्येत्यनंतरमुपादानमित्यनुषंगः किं कृत्स्नं ब्रह्मजगदाकारेण परिणमते एकदेशेन वा नाद्य इत्याह । तस्येति । यथा दध्याकारेण परिणतस्य क्षीरस्य पूर्वरूपात्प्रच्युतिः । एवं ब्रह्मणोपि स्वरूपात्प्रच्युतिः स्यादित्यर्थः । ब्रह्मण एकदेशः परिणमत इति द्वितीयकल्पं दूषयति । एकदेशेनेति । पूर्व ।। जीव एव स्वप्नद्रष्टृवत्स्वस्मिन्नीश्वरादि खर्व कल्पकत्वेन सर्वकारणमित्यपि केचित् । अथ मायां तु प्रकृतिं विंद्यादित्यादि श्रुतेर्माया जाड्यस्य घटादिष्वनुगमाच्च मायाजगदुपादानं प्रतीयते कथं ब्रह्मोपादानं । अत्राहुः पदार्थ तत्वनिर्णयकाराः ब्रह्ममाया चेत्युभयमुपादानमित्युभय श्रुत्युपपतिः । सता जाड्यरूपोभयधर्मानुगत्युपपतिश्च तत्र ब्रह्मविवर्तमानतयोपादानमविद्यापरिणममानतया ।। पक्ष इति । उभयथापि ब्रह्मण उपादानत्वं न संभवतीति पूर्वपक्षे प्राप्ते सतीत्यर्थः । यदि ब्रह्मण उपादानत्वं क्षीरपृथिव्यादिवत्परिणामित्वरूपमभ्युपगम्येत तदा कृत्स्न प्रसक्तादि दोषः प्रसज्येत न तु तथाभ्युपगम्यते किं तु रज्ज्वादेः सर्पाद्युपादानत्ववत् विवर्तोपादानत्वं ब्रह्मण प्. ५९अ) उपेयते अतो नोक्तदोषावकाश इति सिद्धांत एति । आत्मनि चेति । एकश्चकारो यथा शब्दसमानार्थः । द्वितीयोवधारणार्थः हि शब्दो हेत्वर्थस्ततश्च यथा आत्मनि जीवे स्वप्न द्रष्टरि विचित्राः रथादि सृष्टयो जीवचैतन्य स्वरूपोयमर्दे विनैव भवंति स्वप्नावस्थानिवृत्यनंतरमपि बुध्यादि साक्षितया जीवचैतन्यस्य यथा पूर्वमवस्थानात् । एवं ब्रह्मणि तत्स्वरूप प्रच्युतिं विनैव विचित्राः वियदादि सृष्टयः संभवंति । सृष्टिस्थितिसंहारेषु सच्चिदानंदस्वरूपेण ब्रह्मानुवृतेः श्रुतिसिद्धत्वादिति सूत्रादिति सूत्रार्थः । अथ शुद्धं ब्रह्मोपादानमित्यादि प्रश्ने तृतीयं पक्षमादाय प्रतिवचनमवतारयति । जीव इति । परिपूर्णश्चिदात्मा अविद्यया अवच्छेद प्रतिबिंब भावौ विनापि प्राप्त जीवभावः सन् । आत्मानमेव सर्वेश्वरं कल्पयति प्राप्तेश्वर भावात् । स्वस्मादेवगगनादि सृष्टिं कल्पयति स्वस्य कल्पितादीश्वराद्भेदं तन्नियमत्वं च कल्पयति । तथा क्रमेण मनुष्यादि भावं कल्पयति । यथा वियदादि प्रपंचो व्यावहारिक सत्यः स्वप्नप्रपंचः प्रातिभासिक इति पक्षे स्वप्नद्रष्टा जीव एव देवतिर्यऽऽन्मनुष्यादि भावेन तन्नियंतृ परमेश्वर रूपेण ततो भिन्नत्वादि रूपेण चात्मानं कल्पयति तद्वत्तथा च स्वस्मिन्नेव सर्वप्रपंच कल्पकत्वाज्जीवभावापन्नं ब्रह्म सर्वोपादानमिति दृष्टि सृष्टि वादिन आहुरित्यर्थः । जीवभावापन्न ब्रह्मणः सर्वोपादानत्वमित्यस्मिन्पक्षे जीवादधिकस्येश्वरस्याभावादी ।। श्वरस्य सर्वजीवनियंतृत्व प्रतिपादक प्. ५९ब्) श्रुतिस्मृति न्यायसूत्र भाष्यादि विरोधो बंध मोक्षव्यवस्थानुपपतिश्चेति दोषं सूचयति । इत्यपि केचिदिति । तथा च जीवेति व्याप्तभावादीश्वररूपमेव ब्रह्मसर्वोपादानमिति स्थितमिदानीं ब्रह्मलक्षणस्योपादानत्वस्या संभवमाशंकते । अथेति । श्रुतौ तु शब्दो मायायाः प्रकृतित्वमवधारयति । यथा मृदादि गतश्लक्ष्णत्वादेर्घटादावनुगमात् । घटादौ मृदादेरुपादानत्वं । तथा मायागत जाड्यस्य जगत्यनुगमातस्यास्तदुपादानत्वमिति युक्तिमप्याह । माया जाड्यस्येति । कथमिति । ननु ब्रह्मण उपादानत्वं बहुश्रुत्युदाहरणेन पूर्वं दर्शितं सत्यं दर्शितं । ततु न संभवति निरवयवस्य तस्य मृदादेरिव परिणाम्युपादानत्वा संभवान्न च विवर्तोपादानत्वं निरवयवस्यापि संभवति गगनादौ नैल्याद्यारोपदर्शनादिति वाच्यं । परिणामिष्विव विवर्ताधिष्टानेषु लोके उपादानत्व प्रसिध्यभावेन तत्रोपादानत्वाभ्युपगमस्य परिभाषामात्रत्वादित्याक्षेपाभिप्रायः उपादानत्व घटित ब्रह्मलक्षणस्यासंभवं प्. ६०अ) निराचष्टे । अत्राहुरित्यादिना । सतेति । न च वाधायोग्य स्वरूपभूतायास्तस्याः ब्रह्मस्वरूपत्वात्सतायास्तद्धर्मत्वोक्तिरयुक्तेति वाच्यं । राहोः शिर इति वत् भेदकल्पनयातद्धर्मत्व व्यवहारोपपतेरिति भावः । ननु उपादान द्वयंर्थमिति नेत्याह । तत्रेति । यद्वा निरवयवस्य ब्रह्मण उपादानत्वमनुपपन्नमिति नेत्याह । तत्रेति । माया ब्रह्मणोर्मध्य इत्यर्थः । आक्षेपाभिप्रायमनूद्यनिराचष्टे । न चेति । मृदादिषु प्रसिद्धस्योपादान लक्षणस्य विवर्ताधिष्ठानेष्वपि सत्वात् । तेषूपादानत्वाभ्युपगमस्य परिभाषा मात्रत्वन्नास्तीत्यर्थः । स्वात्मनीति । अत्र स्वशब्द उपादानत्वाभिमत वस्तु परः तथा च कार्या धारत्वे सति कार्यजनि हेतुत्वमुपादानत्वं निमितकारणवारणाय सत्यं तं भूतलादेरपि कार्या धारत्वेन तद्वारणाय विशेष्यं तत्रापीति । विवर्ताधिष्ठानेपीत्यर्थः । उक्तामेवेति । प्रपंचे उभयोरपि माया ब्रह्मणोरुपादानत्वं तत्र च न च विवर्ताधिष्टाने पारिभाषिकमुपादानत्वं स्वात्मनि कार्यजनि हेतुत्वस्योपादानलक्षणस्य ।। प्. ६०ब्) तत्राप्यविशेषादिति केचित् । उक्तामेव प्रक्रियामभ्युपगम्य विवर्त परिणामोपादान द्वय साधारणमन्यलक्षणमाहुः । स्वाभिन्नकार्यजनकत्वमुपादानत्वं अस्ति च प्रपंचस्य सद्रूपेण ब्रह्मणा विवर्तमानेन जडेनाज्ञानेन परिणामिना चाभेदः । सत् घटः जडो घट इति सामानाधिकरण्यानुभवात् ।। परिणामितया मायाया उपादानत्वं । अधिष्ठान तया च ब्रह्मण उपादानत्वं उभयोरुपादानत्वे श्रुति न्याययोरुपपत्तिश्चेत्यर्थः । स्वाभिन्नेति । स्वशब्देन घटाद्युपादान मृदादि जगत्परिणाम्युपादान भूतमज्ञानं जगत् । विवर्तोपादान भूतं ब्रह्म च गृहयते । तत्र घटादर्मृदादेस्सकाशादभेदः स्फुटः मृदेव घट इत्यनुभवात् । अज्ञाने ब्रह्मणि च कार्या भेदमनुभवेन दर्शयति । अस्ति चेति । ननु मृद्घट इतिवत् ब्रह्मघटः ब्रह्मपटः । इत्यनुभवो नास्ति तथा अज्ञानं घट इत्याद्यनुभवोपि नास्ति अतः प्रपंचस्याज्ञानेन ब्रह्मणा च कथम भेदोस्तीति शंकानिरासायब्रह्मणः । सद्रूपत्वं विशेषणं दत्तं अज्ञानस्य जडत्वं । तथा च ब्रह्माज्ञानाभ्यां सह ब्रह्मत्वाज्ञानत्वा कारेणाभेदानुभवाभवेपि सत्व जडत्व रूपेण ताभ्यां सह प्रपंचस्याभेदानुभवोस्तीत्याह । सन् घट इत्यादिना । ननु घटोत्पतेः पूर्वं तत्कारण द्रव्यस्य मृत्वानुभवात् मृत्वस्य कारणधर्मत्वे सिद्धे सति प्. ६१अ) मृद्घट इति प्रत्यक्षानुभवः कार्यकारणद्रव्ययोरभेदावगाहीति युक्तं । सत्व जडत्वयोस्तु कारण धर्मत्वे किं मानं येन सन् घटः जडो घट इत्यनुभव बलेन सद्रूप जडरूपाभ्यां ब्रह्मा ज्ञानाभ्यां प्रपंचस्याभेदः सिद्धेदिति चेदुच्यते । ब्रह्मणः सद्रूपत्वं स देवेत्यादि श्रुति सिद्धं तदेतज्जडमोहात्मकमिति । श्रुत्या अज्ञानस्य जडत्वं सिद्धं । तथा च घटादौ मृद्द्रव्या भेदात् मृत्वानुभववत् । सद्वस्त्वादि रूपकारणद्रव्याभेदा देव प्रपंचे सत्व जडत्वानुभवोपपतौ पृथक् सत्वादि धर्मो नोपेयते । तथा च सन् घटो जडो घट इत्याद्यनुभवोपि कार्यकारणद्रव्या भेदावगाहीति ।। न च तदनन्यत्वमारंभणशब्दादिभ्य इति सूत्रे अनन्यत्वं व्यतिरेकेणाभावः न खलु अनन्यत्वमित्य भेदं ब्रूमः । किं तु भेदं व्यासेधाम इति भाष्यभामतीनिबंधाभ्यां प्रपंचस्य ब्रह्माभेद निषेधादभेदाभ्युपगमेपसिद्धांत इति वाच्यं । तयोर्ब्रह्मरूपधर्मि समानसताका भेदनिषेधे तात्पर्येणेदंरजतयोरिव प्रातीति का भेदाभ्युपगमेपि विरोधाभावादिति ।। भावः न च जडरूपाज्ञानस्य प्रपंचाभेद सिद्धावपि मायायाः किमायातमिति वाच्यं । तयोरभेदाभ्युपगमादिति प्. ६१ब्) भावः कार्यकारणयोरभेदाभ्युपगमे अय सिद्धांतं शंकते न चेति । तयोः कार्यकारणयोरनन्यत्वमुपगंतव्यं कुतः आरंभण शब्दादिभ्यः वाचारंभण श्रुतिरारंभण शब्दार्थः । आत्मैवेदं सर्वमित्यादि सार्वात्म्य प्रतिपादक श्रुतिर्नेहनानास्ति किंचनेत्यादि । निषेध श्रुतिश्चादि शब्दार्थः वाचारंभण श्रुतिर्विवर्तलक्षण कथनावसरे व्याख्याता कार्यस्य कारणातत्वांतरत्वे जगत्कारणस्य ब्रह्मणः सर्वात्मकत्व श्रुतिरनुपपन्ना स्यात् । तथा ब्रह्मोपादानकस्य जगतः सत्यत्वे ब्रह्मणि जगन्निषेधो न स्यादतः कारणीभूत ब्रह्मानन्यत्वं प्रपंचस्याभ्युपगंतव्यमिति भावः । ननु सौत्रानन्यत्वपदेन कार्यकारणयोरेक्यं प्रतीयते । तदनुपपन्नं कार्यकारणभावविरोधाच्चिज्जडयोर्ब्रह्मप्रपंचयोरैक्यायोगाच्चेति शंकां निराकर्तुं सौत्रानन्यत्व पदं व्याचष्टे भाष्यकारः । अनन्यत्वं व्यतिरेकेणाभाव इति । न च कारण व्यतिरेकेण कार्यस्याभावे कथं कार्यकारणभाव इति वाच्यं । कारण सत्व व्यतिरेकेण कार्यसत्वाभावस्य विवक्षित तया कार्यस्वरूपापलापशंकानवकाशात् । सौत्रानन्यत्व पद तात्पर्य प्रदर्शकं भामतीनिबंधन वाक्यमुदाहरति । न खल्विति । अनन्यत्वमिति पदेन कार्यकारणयोरभेदं न ब्रूमः चेतनाचेतनयोरभेदानुपपतिस्तन्निषेध हेतुः खलु शब्देनद्योत्पते । तर्हि कारण ब्रह्मविज्ञानात्सर्वविज्ञानं श्रुति सिद्धं न भवेत् । अभेदानभ्युपगमादिति शंकतेः किंत्विति । परिहरति । भेदमिति । कार्यकारणयोः सत्व प्. ६२अ) भेदंव्यासेधाम इत्यर्थः । तथा च कारण ब्रह्मस्वरूपभूतं सत्वमेव कार्यस्य वास्तवं स्वरूपमिति । तस्मिन् विदिते तदऽव्यतिरिक्तं सर्वं तत्वतो विदितं भव ।। तीति नैकविज्ञानेन सर्वविज्ञान प्रतिज्ञा विरोधः । न च ब्रह्मस्वरूपज्ञानेन सर्व प्रपंचस्य वास्तव स्वरूपे विदितेपि तत्तदसाधारणरूपज्ञाना संभवात् प्रतिज्ञाविरोधस्तदवस्थ एवेति वाच्यं । आत्मनि विदिते सर्वं विदितं भवतीत्यादि प्रतिज्ञा वाक्येषु सर्वपदस्य सर्वतत्व परत्वेन तदसाधारणरूपेण सर्वज्ञानस्याविवक्षितत्वात् । न च तथा कल्पनायां किं विनिगमकमिति वाच्यं । सर्वप्रपंच तत्वज्ञानमात्रेणाद्वितीय ब्रह्मज्ञानस्य मुक्तिसाधनस्य लाभेन तत्तदसाधारणरूपज्ञाननैष्फल्यस्यैव विनिमकत्वात् कारणे ब्रह्मणि विदितेपि सर्वप्रपंच गततत्तद साधारणरूपज्ञानस्यासंभवेन सर्वविज्ञानश्रुतेस्तत्परत्वे प्रामाण्याभाव प्रसंगाच्च भेददर्शनस्यानर्थ हेतुतया श्रुतिषु तत्र तत्र निंदितत्वाच्च प्रतिज्ञा श्रुतेर्न नानारूपज्ञाने तात्पर्यं । प्. ६२ब्) तदुक्तं पंचदश्यां । अद्वैतेभिमुखी कर्तुमेवात्रैकस्य बोधतः सर्वबोधः श्रुतो नैव नानात्वस्य विवक्षयेति । अस्यार्थः । अत्र वेदांतेषु एकस्य ब्रह्मणो बोधेन सर्वस्य प्रपंचस्य बोधः अद्वैते ब्रह्मणि मुमुक्षुमभिमुखी कर्तुमेव मुमुक्षोरद्वितीय ब्रह्मबोधार्थमेव श्रुत इत्यर्थः । अद्वितीय ब्रह्मबोधश्च सर्वस्य ब्रह्मैव वास्तवं स्वरूपमिति ज्ञानमात्रात् सिध्यतीति भावः । ननु ब्रह्मणि विदिति सर्वं विदितं भवतीति श्रुतौ स्वरसतः प्रतीयमानं तत्तदसाधारणरूपेण सर्वज्ञानमेव श्रुत्यर्थः । किन्न स्यादिति नेत्याह । नैवेति । नानात्वबोध विवक्षया सर्व बोधोनैव श्रुत इति योजना प्रयोजनाभावात् । वाधितत्वान्निदि तत्वाच्चेति तयोरिति भाष्यभामतीनिबंधयोरित्यर्थः । न च प्रपंच ब्रह्मणोर्वास्तवाभेद निषेधे सति वास्तवभेदः स्यादिति वाच्यं । भेदस्य वास्तवत्वं हि धर्मि प्रतियोगिनो वास्तवत्वापेक्षं । तत्र ब्रह्मणो वास्तवत्वेपि प्रपंचस्य आरभण शब्दादिभ्यो मिथ्यात्वावगमेन तयोर्भेदस्य प्. ६३अ) सत्यत्वायोगादिति भावः प्रातीतिकेति यथा इदं रजतमिति भ्रांति सिद्धं रजतेदमर्थयोरभिन्नत्वं । तथा सन् । घट इत्यादि भ्रांतिसिद्धाभेदोपगमे सिद्धांतविरोधाभावादिति भावः । मायां तु प्रकृतिं विद्यादिति श्रुत्या अवधारणार्थक तु शब्दवत्यामायाया एवोपादानत्वावगसंक्षेपशारीरककृतस्तु ब्रह्मैवोपादानं । कूटस्थस्य स्वतः कारणत्वानुपपत्तेर्मायाद्वारकारणं । अकारणमपि कार्येनुगच्छति मृद इव तद्गत श्लक्ष्णत्वादेरपि घटेनुगमदर्शनादित्याहुः ।। मेन ब्रह्मण उपादानत्वाभावादुपादानत्व घटित ब्रह्मलक्षणस्यासंभव शंकायां सत्यां माया ब्रह्मणो रुभयोरपि प्रकृतित्वमस्ति श्रुतियुक्त्योरविशेषान्मायांत्विति श्रुतौ तु शब्दोनावधारणार्थः । किं तु सद्रूप ब्रह्मापेक्षया मायाया वैलक्षण्यद्योतनार्थः । तच्च वैलक्षण्यं परिणामित्वरूपं प्रकृतित्वं मायाया इत्याशयवतां पदार्थ तत्वनिर्णयकारादीनां मतभेदेन लक्षणासंभवशकापरिहृता । इदानीं ब्रह्मैवोपादानं न माया अतो न लक्षणासंभवशंकावकाश इति मन्यमानानां मतद्वयमाह । संक्षेपशारीरक कृतस्त्वित्यादिना । तर्हि व्यर्था मायेति नेत्याह । कूटस्थस्येति । प्. ६३ब्) यदि मायां विनैव ब्रह्मोपादानं स्यात् तदा ब्रह्मणः स्वतः परिणामित्वमेव स्यात् । तथा च परिणामवादिभिः । परिणाम परिणामिनोर्वास्तवाभेदाभ्युपगमात् । परिणामस्य जन्मादि विकारैर्ब्रह्मापि विकारवदेवस्यान्न चेष्टापतिरत्र वक्तुं शक्यते न जायत इत्यादि बहु श्रुतिषु ब्रह्मणो जन्मादि विकारराहित्यरूपकूटस्थत्व प्रतिपादन विरोधादतो मायाद्वारा ब्रह्मणः कारणत्वं वक्तव्यमिति न व्यर्थामायेत्यर्थः । यथा मृद्वस्तु न उपादानत्वेपि तद्गत श्लक्ष्णत्वादि संस्कारो द्वारकारणं नह्यसंस्कृतस्य मृद्वस्तुनः घटाद्युपादानत्वं घटते । तथा कूटस्थ चैतन्यरूपे ब्रह्मणि समारोपिता माया तत्र जगत्प्रकृतित्वं घटयंती सहकारिकारणमुपेयत इति भावः । न च मायाया उपादानत्वाभावे मायां तु प्रकृतिं विद्यादिति श्रुति विरोध इति वाच्यं । ब्रह्मगतप्रकृतित्व निर्वाहकता मात्रेण तस्यां प्रकृतित्व श्रुत्युपपतेर्मायायां प्रकृतित्वं निर्वाहकत्वमात्रं न स्वतः प्रकृतित्वमस्तीत्याशयेनैव तस्यां शक्तित्व व्यवहारः श्रुतौ दृश्यते । परास्य शक्तिर्विविधैव श्रूयत इति न हि मृदादि पदार्थगतशक्तेः किंचित्कार्यं प्रत्युपादानत्वं ।। वाचस्पति मिश्रास्तु जीवाश्रित माया विषयीकृतं ब्रह्मस्वत एव नाड्याश्रय प्रपंचाकारेण विवर्तमानतयोपादानमिति माया सहकारिमात्रं न कार्यानुगतं द्वारकारणमित्याहुः ।। प्. ६४अ) प्रसिद्धं लोके अत एव विनिगमकाभावान्माया ब्रह्मणोरुभयोरप्युपादानत्वमिति निरस्तं मायायाः ब्रह्मशक्तित्वेन स्वत उपादानत्वा संभवान्न च तस्याः प्रकृतित्वानुपगमे जगतः परिणाम्युपादानं न स्यात् ब्रह्मणः परिणामितायाः कूटस्थत्वविरोधेनासकृत्प्रत्युक्तत्वादिति वाच्यं वाचस्पति मत इव प्रपंचस्य चिदध्यस्तमाया विषयीकृत ब्रह्मविवर्तत्वमात्रांगीकारोपपतेः । न च संक्षेपशारीरक ग्रंथे तत्र तत्र मायायाः परिणामित्व व्यवहारविरोध इति वाच्यं । तथा व्यवहारस्य मतांतराभिप्रायत्वोपपतेः । ननु जडभूतमायाप्रकृतिकत्वाभावे प्रपंचस्य जाड्यं न स्यादिति नेत्याह । अकारणमपीति अनुपादानमपीत्यर्थः । जगत्यनुगतं जाड्यं न कारणगुणः किं तु जगत एव स्वाभाविकमतस्तत्सिद्धये मायाया उपादानत्वं कार्यानुगतद्वारकारणत्वं वा न कल्पनीयमित्याशयेनाह । वाचस्पति मिश्रास्त्विति । जीवाश्रीतेति । नन्वक्षरब्राह्मणे आकाशशब्दिताया मायायाः तनित्य चैतन्याश्रितत्वस्य प्रतिपादितत्वात् । कथं तस्याजीवाश्रीतत्वमुपेयते । मायिनं तु महेश्वरमिति श्रुति विरोधाच्च अत्र मायिनमि । अक्षरशब्दित्यनेन महेश्वर शब्दित ब्रह्माश्रितत्व प्रतिपादनात् । किं च जीवस्य मायाश्रयत्वे तस्यैव जगदुपादानत्वं स्यात्प्रपंचस्य मायापरिणामत्वात् । प्रपंच परिणामि मायाश्रयत्वं हि ब्रह्मणः प्रपंचोपादानत्वं जीवस्य मायाश्रयत्वे तु तस्यैव जागदुपादानत्वं स्यान्न ब्रह्मणः किं च जीवाश्रित मायाविषयी कृतं ब्रह्मेति प्. ६४ब्) मते ब्रह्मण उपाध्यनंगीकारेण नियंतृत्व जगत्कर्तृत्वादेरभाव प्रसंगश्चेति चेत् । उच्यते जीवाश्रितेति पदेन जीवत्व विशिष्ट चैतन्याश्रीतत्वं विवक्षितं न भवति । किंत्वक्षर ब्राह्मणानुरोधेन चैतन्याश्रितत्वमेव जीवत्वं तु मायापद वेदनीया विद्यायाश्चैतन्ये वृतौ अवच्छेदकमिति जीवाश्रितमायेत्युच्यते । न च जीवत्वस्यापि चैतन्ये वृतौ मायैवावच्छेदका वाच्येति परस्पराश्रय प्रसंग इति वाच्यं । द्रव्यत्वगुणाश्रयत्वयोरिव परस्पर स्थिति प्रयोजकतया परस्परापेक्षत्व लक्षणपरस्पराश्रयत्वस्या दोषत्वात् । परस्पराश्रयो ह्युत्पतौ ज्ञप्तौ वा दोषो भवेत् । स च प्रकृते नास्ति अविद्या जीवत्वयोरनादित्वान्नित्यसाक्षिभास्यत्वाच्च । न च जीवत्वस्या विद्यास्थितिं प्रति तु नियामकत्व कल्पनं व्यर्थमिति वाच्यं । ब्रह्मणि तस्याः स्थिति निवारकत्वान्निरवद्यं निरंजनमिति श्रुत्या ब्रह्मणो निर्दोषत्वावगमेन तस्याविद्यारूपदोषा श्रयत्वानुपपतेः । न च वस्तुतो निर्दोषत्व पराश्रुतिरिति वाच्यं । तथा संकोचे मानाभावादीश्वररूपब्रह्मवज्जीवस्यापि वस्तुतो निर्दोषत्वाच्च । न च मायिनं तु महेश्वरमिति श्रुतिविरोधः । गृहीधनी देवदत्त प्. ६५अ) इत्यादौ देवदत्तस्य ग्रहाद्याश्रयत्वाभावेपि प्रत्ययस्य स्वस्वामिभावलक्षणसंबंधांतारबोधकत्ववत् । महेश्वरशब्दित ब्रह्मणो मायाश्रयत्वाभावेपि माया ब्रह्मणोर्विषयविषयिभाव लक्षणसंबंधांतर बोधकतयामायिनमिति श्रुत्युपपत्तेः । प्रपंचस्य च जीवाश्रित मायाविषयीकृत ब्रह्मविवर्तत्व मात्राभ्युपगमान्न जीवस्य जगदुपादानत्व प्रसंगः ब्रह्मण उपाध्यभावेपि सर्वनियंतृत्व सर्वज्ञत्वादि प्रतिपादक शास्त्रस्य कसत्वाच्च । तस्मात् सिद्धं जीवाश्रितमायाविषयीकृतं ब्रह्मप्रपंचाकारेण विवर्तमानतया उपादानमिति । उक्तं वाचारंभणाधिकरणभाष्ये मूलकारणमेवांत्यत्कार्या तेन कार्या कारेण नटवत्सर्व व्यवहारास्पदत्वं प्रतिपद्यत इति । अंत्यात्कार्यादिति । अंत्यकार्यपर्यंतमित्यर्थः । नटो हि द्रष्टृभिरविज्ञात निजरूप एव ततदभिनेया सत्यरूपतां प्रतिपद्यते । एवं जीवैरविज्ञात तत्वं सद्ब्रह्मा सत्यविपदादि प्रपंचाकारतां तट्टाराव्यवहारविषयतां च प्रतिपाद्यत प्. ६५ब्) इति भाष्यार्थः । अत्र नटदृष्टांतोक्त्या वाचस्पति मतं भाष्याभिमतं निश्रीयते । तदुक्तं कल्पतरौ । अज्ञात नटवत् ब्रह्मकारणं शंकरो ब्रवीत् । जीवाज्ञातं जगद्बीजं जगौ वाचस्पतिस्तथेति । सिद्धांतमुक्तावली कृतस्तु मायाशक्तिरेवोपादानं न ब्रह्मतदेत ब्रह्मापूर्वमनपरं अबाह्यं न तस्य कार्यं करणं च विद्यते इत्यादि श्रुतेः । जगदुपादान मायाधिष्टानत्वेन तूपचारादुपादानं । तादृशमेवोपादानत्वं लक्षणे विवक्षितमित्याहुः । अथक ईश्वरः को वा जीवः अत्रोक्तं प्रकटार्थकारविवरणे अनादिरनिर्वाच्याभूत प्रकृतिश्चिन्मात्रसंबंधिनी माया तस्यांचित्प्रतिबिंब ईश्वरः तस्या एव परिछिन्नानंत प्रदेशेष्वावरणविक्षेप शक्तिमदविद्याभिधानेषु चित्प्रतिविंवो जीव इति ।। इदानीं मायाया एव मायां तु प्रकृतिं विद्यादिति श्रुति स्वारस्यानुरोधेन मुख्यमुपादानत्वमिति स्वीकृत्यापि ब्रह्मलक्षणासंभवं परिहरति । सिद्धांतमुक्तावलीकृतस्त्विति । तत्प्रकृतं । एतद्बुध्यादि साक्षिरूपं पूर्वं कारणं न विद्यते यस्य तदपूर्वं अपरं कार्यं न विद्यते यस्य तदनपरं तस्य ब्रह्मणः कार्यं प्. ६६अ) करणं च जगत्सृष्टिसाधनं चेत्यर्थः । इत्यादि श्रुतेर्न ब्रह्मोपादानमित्यर्थः । तर्हि ब्रह्मणो जगदुपादानत्व प्रतिपादक श्रुतिसूत्रभाष्यादि विरोध इत्यत आह । जगदिति । तु शब्दोवधारणे । तु शब्दोवधारणे । तादृशमेवेति । जगदुपादान मायाधिष्टानत्वमित्यर्थः । पूर्वत्र ईश्वरस्य जगदुपादानत्व मुक्तं । जीवाश्रित मायेत्यादौ जीवोपि व्यवहृत । इदानीं तयोः स्वरूपं निरूपयितुं प्रश्नुमवतारयति । अथेति । मायां तु प्रकृतिमिति श्रुतौ या भूत प्रकृतित्वेन माया प्रसिद्धा तस्यां चैतन्य प्रतिबिंब ईश्वरः । ननु मायिनं तुं महेश्वरमिति वाक्यशेषे मायाया ईश्वराश्रितत्व प्रतिपादनादीश्वरस्य माया प्रतिबिंबत्वं न संभवति उपाधेः प्रतिबिंबाश्रितत्वादर्शनादिति शंकां निराचष्टे । चिन्मात्राश्रितेत्यर्थः । मात्रपदेन बिंबत्वादेर्व्यवच्छेदः । वाक्यशेषेपि महेश्वर पदं चिन्मात्रलक्षकमिति भावः । सांख्याभिमत प्रकृतेरिव मायायाः सत्यत्वं वारयति । अनिर्वाच्येति । माया तावद्ब्रह्मचैतन्यान्न वस्तुतोभिन्ना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्व प्रतिपादक श्रुतिविरोधेन वस्तुतः । तस्यास्ततो भेदासंभवात् । नाप्यभिन्ना चैतन्य जडयोरैक्या योगात् । नापि चैतन्याद्भिन्नाभिन्ना एकन्न भिन्नत्वाभिन्नत्वयोर्विरोधेना संभवात् । एवं न तावन्मा ।। या सती अद्वैत श्रुतिविरोधादेवनाप्यसतीभूतप्रकृतित्वानुपपतेः । नापि सदसती सत्वा सत्वयोरेकत्र विरोधादेव न तावन्माया प्. ६६ब्) सावयवा तस्यास्सादित्व प्रसंगेन तत्प्रतिबिंबभूतेश्वरस्यापि सादित्व प्रसंगात् मायायाः सादित्वे तत्प्रकृतित्वेन मायांतरा पेक्षया अनवस्था प्रसंगाच्च । नापि निरवयवा प्रकृतित्वा भावप्रसंगात्सावयवपदार्थानामेव लोके प्रकृतित्व दर्शनात् । नाप्युभयरूपासावयवत्व निरवयवत्वयोरेकत्र विरोधात् । तस्मात् सर्वप्रकारेण निर्वक्तुमशक्य तया माया अनिर्वाच्येत्यर्थः । तस्याः परिच्छिन्नानंत प्रदेशेषु चैतन्य प्रतिबिंबो जीवः । न साक्षातस्यामेव चित्प्रतिबिंबो जीव इत्येव कारार्थः । प्रदेशानां परिच्छिन्नत्व विशेषणं तत्प्रतिबिंबरूपजीवानां परिच्छिन्नत्वलाभार्थं । तथा च भाष्ये तत्र तत्र जीवानां परिच्छिन्नत्व निरूपणं संगच्छते । तथाहि । सर्वत्र प्रसिद्धोपदेशादित्यधिकरणे सौत्रशारीरपदव्याख्यानरूपं भाष्यं शारीर इति शरीरे भव इत्यर्थः । नन्वीश्वरोपि शरीरे भवति सत्यं शरीरे भवति न तु शरीर एव भवति । आकाशवत्सर्वगतश्च नित्य इति व्यापित्व श्रवणात् । जीवस्तु शरीरे एव भवति तस्य प्. ६७अ) भोगाधिष्ठानाच्छरीरादन्यत्र वृत्यभावादिति तथाद्युभाद्यधिकरणगतं भाष्यं न चोपाधिपरिछिन्नस्याविभोः प्राणभृतोद्युभ्वाद्यायतनत्वं सम्यक् संभवतीति प्राणभृतो जीवस्य द्युभ्वादि शब्दित जगदायतनत्वं मुख्यं न संभवति । अविभुत्वादिति भाष्यार्थः । पटस्यारंभकतं तव इव मायाया न प्रदेशाः संति तस्या अनादि त्वात् । किं तु मायायां विक्षेपावरण शक्तीनामानंत्याद्विक्षेपावरणशक्तिमद्भागा एव प्रदेशा विवक्षिता इत्याशयेनाह । आवरणविक्षेप शक्तिमदिति । ब्रह्मचैतन्यावरणानुकूलाशक्तिरावरणशक्तिः । आवरणं च ब्रह्म नास्ति न प्रकाशत इति व्यवहारयोग्यत्वं । विक्षेप पदेन ततज्जीवसाधरणदुःखादिकं विवक्षितं तदनुकूलशक्तिर्वेक्षेपशक्तिरित्यर्थः । ननु माया प्रदेशानां जीवोपाधित्ववर्णनमनुपपन्नं । आनुमानिकाधिकरणभाष्यादौ अविद्याया जीवोपाधित्व व्यवहारविरोध प्रसंगादत आह । अविद्याभिधानेष्विति ।। प्. ६७ब्) माया प्रदेशानामेव भाष्यगता विद्यापदाभिलुप्यत्वान्न तद्विरोध इति भावः । तत्वविवेके तु त्रिगुणात्मिकाया मूलप्रकृतेर्जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुतिसिद्धौ द्वौ रूपभेदौ रजस्तमो नभिभूतशुद्धसत्वप्रधाना माया तदभिभूतमलिन सत्वात्व विद्व्येति मायाविद्याभेदं परिकल्प्य माया प्रतिबिंब ईश्वरो विद्याप्रतिबिंबो जीव इत्युक्तं । एकैव मूल प्रकृतिर्विक्षेप प्राधान्येन मायाशब्दितेश्वरोपाधिः । आवरणप्राधान्येनाविद्याज्ञानशब्दिता जीवोपाधिः । अत एव तस्या जीवेश्वर साधारण चिन्मात्र संबंधित्वेपि जीवस्यैवाज्ञोष्णीत्यज्ञानसंबंधानुभवो । नेश्वरस्येति । जीवेश्वर विभागः क्वचिदुपपादितः ।। एकस्यामेव मूलप्रकृतौ प्रदेश प्रदेशि भावेनानिर्वचनीयं भेदं कल्पयित्वा जीवेश्वरयोः प्रतिबिंबरूपत्वमुक्तं । इदनींतस्यामेव प्रकारांतरेण रूपभेदं कल्पयित्वा तदुपपादयति । तत्वविवेकेत्विति । भेदकल्पना वैलक्षण्य द्योतनार्थस्तु शब्दः रूपभेदावितिस्त इति शेषः । रजस्तमोनभिभूतत्वमेव सत्वस्य शुद्धत्वं । शुद्धसत्व प्रधानाप्रकृतिर्माया । मलिनसत्व प्. ६८अ) प्रधानाप्रकृतिरविद्येत्यर्थः । रजस्तमोभिभूतत्वमेव सत्वस्य मलिनत्वं । सत्व शुद्ध्यशुद्धिभ्यां मायात्वाविद्यात्वाख्यौ श्रुत्युक्त रूपभेदौ निरूप्यविक्षेपावरणशक्तिभेदेन श्रुत्युक्तरूपभेदावेव निरूपयति । एकैवेति । अत एवेति । जीवस्यावरण शक्तिमदुपाधिमत्वादेवेत्यर्थः । तस्या इति जीवेश्वरोपाधिभूताया प्रकृतेः प्रतिबिंबरूपजीवेश्वर साधारणबिंब चैतन्याश्रितत्वेपीत्यर्थः । नेश्वरस्येति । अत्रापि अत एवेत्यस्यानुषंगः । आवरणशक्तरीश्वरोपाधिकोटावननुप्रवेशादेवेति तदर्थः । तथा च जीवेश्वरौ प्रति प्रकृतेः साधारणत्वादेकस्य सर्वज्ञत्वमपरस्याज्ञत्वमिति यद्वैलक्षण्यं श्रुत्यनुभवसिद्धं तत्कथं संभवतीति शंकाया अनवकाश इति भावः । मतांतरमाह । संक्षेपेति । श्रुतौ कारणपदमविद्यापरं कार्यपदमंतःकरणपरमिति मत्वा प्राह । अविद्यायामित्यादिना । ननु जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुति विरोधः तस्यां श्रुतौ जीवस्य कारणोपाधिकत्व प्रतीतेरिति चेदुच्यते । जीवेशावाभासेन करोतीति । पूर्वभागेन हि जीवेश्वरयोरुभयोपि प्रति संक्षेप शारिरके तु कार्ययौपाधिरयं जीवः कारणोपाधिरीश्वर इति श्रुति मनुसृत्याविद्यायां चित्प्रतिबिंब ईश्वरः अंतःकरणे चित्प्रतिबिंबो जीवः । न चांतःकरणरूपेण द्रव्येण घटेनाकाशस्येव चैतन्यस्यावछेदसंभवातदवछिन्नमेवे प्. ६८ब्) चैतन्यं जीवोस्त्विति वाच्यं । इह परत्र च जीव भावेनावछेद्य चैतन्य प्रदेशस्य भेदेन कृतहानाकृताभ्यागम प्रसंगात् । प्रतिबिंबस्तूपाधेर्गतागतयोरवछेदकगतागतयोरवछेद्यवन्न- भिद्यत इति प्रतिबिंब पक्षेनायं दोष इत्युक्तं ।। बिंबभावः प्रतीयते । न च बिंबैक्यस्थले उपाधिभेदं विना प्रतिबिंबभेदः संभवति सूर्यादि प्रतिबिंबस्थले उपाधिभेदं विना प्रतिबिंबभेदादर्शना । तथा चोदाहृत श्रुतौ प्रतिबिंबरूपयोर्जीवेशयोर्यथाक्रमं मायाविद्यापदाभ्यामुपाधीसमर्थो ते मायापदं चात्र मायाकार्यांतःकरणपरं । न चैवं मूलाप्रकृतिं प्रकृत्यप्रवृतायां जीवेशाविति श्रुतौ माया चाविद्या च स्वयमेव भवतीति वाक्येन मायाविद्ययोरुभयोरपि मूलप्रकृत्यभेदोपपादनविरोध इति वाच्यं । मूलप्रकृत्यविद्ययोरिव मायाशब्दितांतःकरण मूलप्रकृत्योर्मुख्याभेदाभावेपि प्रकृतिविकारभावप्रयुक्ता भेदसत्वेन तावता माया चाविद्या च स्वयमेव भवतीति वाक्यशेषोपपतेरिति भावः । न चाविद्यावछिन्न चैतन्नमेवेश्वरोस्तु तथांतःकरणावछिन्न चैतन्यमेव जीवोस्तु । अविद्यांतःकरणाधिष्ठान चैतन्ययोः तदवछिन्नत्वस्य कॢप्तत्वान्तदतिरिक्त प्रतिबिंबकल्पनायां गौरवाच्चेत्याशयेन शंकते । न चेति । न तु प्रतिबिंबचैतन्यमित्येव प्. ६९अ) कारार्थः । जीवग्रहणमीश्वरस्याप्युपलक्षणं । जीवेश्वरयोः प्रतिबिंबतायाः श्रुतिसिद्धत्वान्न कल्पनागौरवदोषोस्तीत्यभिप्रेत्यजीवस्यावच्छिन्नत्व पक्षे दोषमाह । इहेति अस्मिन् लोके ब्राह्मणादि शरीरगतांतःकरणावच्छिन्नचैतन्य प्रदेशस्य कर्मकर्तृत्वात् । लोकांतरे देवादि शरीरगतांतःकरणावच्छिन्न चैतन्य प्रदेशस्य चाकर्तुर्भोक्तृत्वात् । कृत् हानादि प्रसंगः । येन कर्मकृतं न तस्य भोगः येन कर्म न कृतं तस्याकृत कर्मफलाभ्यागम इत्यर्थः । न च ब्राह्मणादि शरीरगतस्यैवांतःकरणस्य लोकांतरे गमनाभ्युपगमातदवच्छिन्न चैतन्य प्रदेशस्यैव तत्रापि गमनमस्त्विति वाच्यं । घटस्य देशांतरगमनेपि तदवच्छिन्नाकाशप्रदेशस्य गमनादर्शनादिति भावः । प्रतिबिंबस्यावच्छेद्यचैतन्यापेक्षया वैलक्षण्य द्योतनार्थस्तु शब्दः । गतागतयोरिति । गमनागमनयोः सतोरपि अवच्छेद्य प्रदेशवन्नभिद्यत इत्यर्थः । सूर्यादि प्रतिबिंबवति जलपूर्ण घटादौ देशांतरे नीयमानेपि प्रतिबिंब भेदादर्शनादिति भावः ।। एवमुक्तेष्वेतेषु जीवेश्वरयोः प्रतिबिंबविशेषत्व पक्षेषु यत् बिंबस्थानीयं ब्रह्म तन्मुक्त प्राप्यंशुद्धचैतन्यं चित्रदीपे जीव ईशोविशुद्धाचिदिति त्रैविध्य प्रक्रियां विहाय । यथा घटावच्छिन्नाकाशो घटाकाशस्तदाश्रिते जले प्. ६९ब्) प्रतिबिंबितः साभ्रनक्षत्रोजलाकाशः । अनवच्छिन्नो महाकाशः । महाकाशमध्यवर्तिनिमेघमंडले वृष्टिलक्षणकार्यानुमेयेषु जलरूपतदवयवेषु तुषाराकारेषु प्रतिबिंबितो मेघाकाश इति वस्तुत एकस्याकाशस्य चातुर्विध्यं ।। ननु चंद्रादि प्रतिबिंबवतां जलपात्राणां मध्ये एकस्य नाशे तद्गत तया प्रतीतस्य प्रतिबिंबस्य बिंबैनैकीभावः प्रत्यक्षेणानुभूयलेन तथा प्रतिबिंबांतरेण एवं प्रतिबिंबरूपजीवस्यापि विदेह कैवल्य समये बिंबभूतशुद्धब्रह्मभाव एवस्यान्न तु प्रतिबिंबेश्वर भावापतिर्दृष्टविरोधादित्याशंकामिष्टापत्यापरिहरति । एवमुक्तेष्विति । बिंबस्थानीयमिति । लोकप्रसिद्धचंद्रादि रूपबिंबस्थानीयमित्यर्थः । ननु बिंबत्वविशिष्टचैतन्यं कथं शुद्धमिति चेन्न शुद्धपदेन सर्वज्ञत्व सर्वकर्तृत्वादि धर्मराहित्यस्य विवक्षितत्वादिति चित्रदीपे च त्रैविध्य प्रक्रियां विहाय चैतन्यस्य चातुर्विध्यं परिकल्प्य जीवेश्वर विभागो दर्शित इति संबंधः । तथा च चित्रदीपवचनं । कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधा घटाकाश महाकाशौ । जलाकाशाभ्रखे यथेति । एतत् श्लोके पात दृष्टांत भागं संगृह्णाति । यथेत्यादिना । मदाश्रित इति । घटांतःस्थाकाशाश्रित इत्यर्थः अभ्रनक्षत्र साहित्य विशेषणं । आकाशस्य जले प्रतिबिंबाभावे शंका निरासार्थं । प्. ७०अ) इत्थं च तन्निरासप्रकारो विवक्षितः । यदा जलेभ्रनक्षत्राणां प्रतिबिंबोनुभूयते । तदातैस्सहाकाश प्रतिबिंबोप्यनुभूयत एवेति नाकाश प्रतिबिंबाभावशंकावकाश इति । अनवच्छिन्न इति । घटानवच्छिन्न इत्यर्थः । मेघमंडले ये जलरूपास्तदवयवास्तेषु प्रतिबिंबित इति संबंधः तछब्दो मेघमंडलपरः मेघमंडले जलानि संति चेत्कुतो नोपलभ्येत इत्याशंका न कार्या तेषां तुषारवत् सूक्ष्मरूपत्वादित्याशयेनाह । तुषारेति तत्र जल सत्वे मानमाह । वृष्टिलक्षणेति । श्लोको पातदार्ष्टांतिकभागं संगृह्णाति । तथेति । सूक्ष्मेति घ्राणरस न चक्षुश्रोत्रत्व ।। तथा स्थूलसूक्ष्म देहद्वयस्याधिष्ठानतया विवर्तमानं तदवछिन्नं चैतन्यं कूटवन्निर्विकारत्वेन स्थितं कूटस्थं । तत्र कल्पितेंतष्करणे प्रतिबिंबितं चैतन्यं संसारयोगी जीवः । अनवछिन्नं चैतन्यं ब्रह्म तदाश्रित मायातमसि स्थितासु सर्वप्राणिनांधीवासनासु प्रतिबिंबितं चैतन्यमीश्वर इति चैतन्यस्य चातुर्विध्यं परिकल्प्यांतःकरणधीवासनोपरक्ता ज्ञानोपाधिभेदेन जीवेश्वरविभागो दर्शितः । अयं चापरस्तदभिहितो विशेषः ।। प्. ७०ब्) गाख्यानि पंचज्ञानेंद्रियाणि वाक्पाणिपादपायूपस्थाख्यानि पंचकर्मेंद्रियाणि प्राणापानादयः पंचवायवः मनोबुद्धिश्चेत्यंतःकरणं द्विविधमाहृत्य सप्तदशकं लिंगशरीरं दार्ष्टांतिके घटस्थानीय सूक्ष्मदेह शब्दार्थः देह द्वयावच्छिन्न चैतन्यं घटाकाशस्थानीयं कूटस्थ शब्दाअर्थः चैतन्यस्य देहद्वयावच्छिन्नत्वे हेतुरधिष्ठानतया वर्तमानत्वं काष्टविशेषलग्नायः पिंडविशेषः कूटशब्दार्थः तद्वदचलतया तिष्ठतीति कूटस्थः । तत्र कूटस्थे कल्पितं घटगतजलस्थानीयं यदतःकरणं तस्मि व्यतिबिंबित्यर्थः । कूटस्थ चैतन्यातिरिक्त चिदाभासकल्पनायाः प्रयोजनमाह । संसारेति । कूटस्थ चैतन्यस्य न संसाराश्रयत्वं तस्य जन्ममरणादिलक्षणसंसाराश्रयत्वे कूटस्थत्वव्याघातादिति भावः । महाकाशस्थानीय ब्रह्माश्रिते मेघमंडलस्थानीये मायाख्य तमसि स्थितायाधीवासनास्तासु प्रतिबिंबितमित्यर्थः । जाग्रत्स्वप्नावस्थाद्वयगतानि स्थूलांतःकरणानिधि यः तासां सुषुप्त्यवस्थागताः सूक्ष्मावस्थाः वासना विवक्षिताः । अंतःकरणेति अंतःकरण च धीचासनोपरक्ता ज्ञानं च ते एवोपाधीतयोर्भेदेनेत्यर्थः । धीवासनानामानंत्यातासु प्रतिबिंबचैतन्यरूपेश्वरस्य नानात्वशंकाव्यावृत्यर्थं वासनोपरक्ता ज्ञानोपाधिकत्वमुक्तं । पूर्वमतेषु बिंबप्रतिबिंबयोर्भेदमात्रं कल्पितं स्वतस्तयोरभेद एवेतीममर्थं सिद्धं कृत्वा अस्मिन्मते ततो विशेषमाह । अयं चेति । अस्मिन्मते पूर्वं चिच्चातुर्विध्यलक्षणं एकोविशेषः उक्तः । तदपेक्षया अपरः अन्यः प्. ७१अ) प्रतिबिंबमिथ्यात्वरूपो विशेषस्तदभिहितः तत्र चित्रदीपे अभिहित इत्यर्थः ।। चतुर्विधेष्वेषु चैतन्येषु जीवोहमिति प्रकाशमानः कूटस्थे विद्या तिरोहिता संगानंदरूपविशेषांशे । शुक्तौरूप्यवदध्यस्तः अत एवेदंत्व रजतत्वयोरिवाधिष्ठान सामान्यांशाध्यस्त विशेषांशरूपयोः । स्वयं त्वाहं त्वयोः सह प्रकाशः स्वयमहंकरोमीत्याहौ । अहं त्वं ह्यध्यस्त विशेषांशरूपं पुरुषांतरस्य पुरुषांतरे व्यवहाराभावेन व्यावृतत्वात् । स्वयं त्वं चान्यत्व प्रतियोग्यधिष्ठान सामान्यांशरूपं स्वयं देवदत्तो गच्छतीति पुरुषांतरेपि व्यवहारेणानुवृतत्वात् ।। अपरं विशेषमेव दर्शयति । चतुर्विधेष्विति । अहमिति प्रकाशमानो जीवः शुक्तौ रूप्यवदध्यस्त इति संबंधः । नन्विदंत्वेन सामान्यरूपेण ज्ञाते शुक्तित्वादि विशेषरूपेणाज्ञाते शुक्त्यादौ रूप्याद्यध्यासो दृष्टः इह तु तथा सामान्यरूपेण ज्ञातं विशेषरूपेण चाज्ञातं किंचिदधिष्ठानं च नोपलभ्यत इत्याशंक्याह । कूटस्थ इति । नन्वविद्यया कूटस्थस्यासंगत्वानंदत्व पूर्णत्वादि विशेषांशस्यावृततया शुक्तित्वादि वद प्रतीतावपि शुक्तेरिदंत्वेनेव प्. ७१ब्) कूटस्थस्य केनचित् सामान्येन रूपेण प्रकाशो न दृश्यते । किं च इदं रजतमित्यत्राधिष्टान सामान्यांशस्यारोप्यविशेषस्य च सह प्रकाशो दृश्यते । प्रकृते तु अहमर्थरूपो विशेष एवाहमिति । प्रकाशते न तु सामान्यांशः कश्चिदतोहमर्थस्य रूप्यवदध्यस्तत्वकल्पनं न युक्तमित्याशंक्याह । अत एवेति । अहमर्थस्य कूटस्थे ध्यस्तत्व कल्पनादेवेत्यर्थः । स्वयं त्वाहं त्वयोरिति । कूटस्थस्य हि स्वयं त्वं सामान्यरूपं न कूटस्थ त्वं तस्य शास्त्रैक गम्यत्वात् । स्वयं त्वं च कूटस्थस्याहमर्थारोपकाले तेन सह प्रकाशते तत्पूर्वकालेपि स्वयं त्वस्य भानमविरुद्धं तस्य नित्यचैतन्यात्मक कूटस्थ स्वरूपत्वाभ्युपगमात् स्वयं त्वकूटस्थ चैतन्ययोः राहोः शिरः पुरुषस्य चैतन्यमिति वद्भेदकल्पनयाधर्मधार्मीभावोपपतेश्चातः कूटस्थस्य स्वयं त्वेन सामान्यरूपेण सदा प्रकाशसत्वादहमर्थरूपचिदाभासाध्यासाधिष्टानत्वमविरुद्धमिति भावः । अहमर्थस्य रूप्यवद्विशेषरूपत्वं दर्शयति । अहं त्वंहीति । अहमर्थ इत्यर्थः । अध्यविशेषांशारूपमिति । शुक्त्यादावध्यस्तो यो विशेषांशो रूप्यादिस्तद्रूपं तत्सदृशमित्यर्थः । सादृश्यं च व्यावृत्तत्वं व्यावृतत्वादिति व्यावृतत्वावगमादित्यर्थः । तेन न हेतु साध्ययोरभेदः व्यावृतत्वावगमे हेतुर्व्यवहाराभावः । स्वयं त्वस्य इदं त्ववत्सामान्यरूउपत्वं दर्शयति । स्वयं त्वं चेति । स्वयमन्य इति लोकव्यवहारे स्वयं त्वमन्यत्व प्रतिद्धंद्धितया प्रसिद्धमिति दर्शयितुमन्यप्रतियोगीति स्वयं त्वस्य विशेषणमिति । तदुक्तं । चित्रदीपे देवदतः स्वयं गच्छेत्वं वीक्षस्व प्. ७२अ) स्वयं तथा । अहं स्वयं न शक्नोमीत्येवं लोके प्रयुज्यत इति ।। एवं परस्पराध्यासादेव कूटस्थ जीवयोरविवेको लौकिकानां विवेकस्तु तयोर्वृहदारण्यके प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थायतान्येवानुविनश्यतीति जीवाभिप्रायेण मायोपाधिविनाशानुविनाश प्रतिपादनेनाविनाशी वा अरेयमात्मेति कूटस्थाभिप्रायेणाविनाशप्रतिपादनेन च स्पष्टः अहमर्थस्य जीवस्य विनाशित्वे कथमविनाशि ब्रह्मा भेदः ।। ननु स्वयमहमिति प्रकाशमानयोः कूटस्थ जीवयोः शुक्ति रजतयोरिव भेदस्वत्वे सर्वेषां कुतो भेदोनोपलभ्यते तत्राह । एवमिति अहमर्थ जीवस्य शुक्तौ रूप्यवत् कूटस्थाध्यस्तत्वे सतीत्यर्थः । परस्परेति । तयोरभेदाध्यासादेवाविवेकः विवेकाभावोभेदानुभवा भाव इत्यर्थः । ननु इदं रजतमिति भ्रमस्थले शुक्तिरियंमिति विशेष दर्शनेन इदं रजतमिति प्रतीतयोः सामान्यविशेषपदार्थयोः शुक्तित्व रजतत्व रूपविरुद्धधर्मवत्व निश्चया तयोर्भेद उपेयते । इह तु जीव कूठस्थयोः कथं भेदोवगंतव्यः । तदभावे हि स्वयमहमिति सामान्यविशेषभावेन प्रकाशमानयोस्सत्यरजतस्थले रजतेदमर्थयोरिववस्तुत ऐक्यापत्या प्. ७२ब्) अहमर्थरूपजीवस्य स्वयं शब्दार्थभूतकूटस्थे कल्पितत्वासिद्धेरित्याशंक्य श्रुत्यातयोर्भेर्ददर्शयति । विवेकस्त्विति तु शब्दः शंका व्यावृत्यर्थः । विवेकोभेदानुभवः एतेभ्यः सन्निहितेभ्यः देहादि संघातरूपेण तेभ्यः उपाधिरूपेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय उपाधिरूप बुद्ध्याद्युत्पत्या उत्पतिं प्राप्येत्यर्थः । तान्युपापि भूतानि बुध्यादीनि तत्वज्ञानेन विनश्यंति तदा तान्यनुविनश्यतीति श्रुत्या औपाधिकस्यात्मनो विनाशित्वं प्रतिपाद्यते तच्चांतःकरण प्रतिबिंबरूपस्य उपाध्याय तस्य जीवस्य मिथ्यात्वे सति संभवति औपाधिक जीवस्य सत्यत्वे तु तस्य विनाशित्व प्रतिपादक वचनं न संगच्छेत तथा अयं प्रज्ञान घन आत्मा अरे मैत्रेपि अविनाशी वा अविनाश्येव न तु उपाधिनाशान्नश्यतीति कूटस्थ चैतन्यस्य श्रुत्यानाशाभावः प्रतिपाद्यते । एतदुक्तं भवति अयमात्मा प्रज्ञान घन एवेतेभ्यो भूतेभ्यस्समुत्थायेत्यादि शुत्याचिदेक रस आत्मैव उपाध्युत्पति मनूत्पद्यते । तन्नाशमनु नश्यतीत्युपाध्युत्पति विनाशव्यतिरेकेण उत्पति विनाशौ न चिदात्मनः प्रतिपाद्ये ते अनुविनश्यतीत्यनुशब्दप्रयोगात् । न च तस्य स्वतो विनाशादिमत्वं संभवति अविनाशी वा अरे यमात्मेति वाक्येन विज्ञान घनात्मनो विनाशाभावप्रतिपादनविरोधातश्चिदात्मन उत्पति विनाशवता प्रतिबिंबचैतन्यरूपजीवेन तादात्म्यमादाय विनाशादि वचनमुपपादनीयं ततश्च भ्रमस्थलीयरजतेदमर्थयोरिवात्रापि विनाशित्वा विनाशित्व प्. ७३अ) रूपविरुद्धधर्मवत्व निश्चयादेव जीवकूटस्थयोर्भेदः स्पष्टं भासत इत्यतः कूटस्थ चैतजीवरूपाहमर्थस्याध्यास सिद्धिरिति उदाहृत श्रुत्या प्रतिबिंबजीवस्य विनाशित्वोपगमे श्रुत्यंतरविरोधमाशंकते । अहमर्थेति । अभेद इत्यनंतरमहं ब्रह्मास्मीति वाक्येन प्रतिपायत इति शेषः । विनाश्य विनाशिनोरभेदा योगादिति भावः ।। नेदमभेदे सामानाधिकरण्यं किं तु बाधायां यथायः स्थाणुरेष पुमानिति पुरुषत्व बोधेन स्थाणुत्व बुद्धिर्निवर्त्यते । एवमहं ब्रह्मास्मीति कूटस्थ ब्रह्मरूपत्व बोधेनाध्यस्ताहमर्थरूपत्वं निवर्त्यते । योयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिवब्रह्मास्मीति धियाशेषा ह्यहं बुद्धिर्निवर्त्यत इति नैष्कर्म्य सिद्धिवचनात् परिहरति । नेदमिति । सोयमित्यादि सामानाधिकरण वाक्यस्य यथा अभेदो वाक्यार्थो दृश्यते तथा यः स्थाणुस्सपुरुष इत्यादि समानाधिकरण वाक्यस्य बाधारूपो वार्क्योर्थो दृश्यते । यस्थाणुस्सपुरुष इत्यत्र हि पुरुषे आरोषितस्य प्रातिभासिकस्य स्थाणोर्व्यावहारिक पुरुषेण सहाभेदो न वाक्यार्थः वाधितत्वात् । किं तु स्थाण्वारोपाधिष्ठान भूते पुरुषे वस्तुतः स्थाणु तादात्म्याभावरूपावाधावाक्यार्थः । तथा प्. ७३ब्) च यस्थाणुस्सपुरुष इति वाक्येन वस्तुतः स्थाणु तादात्म्याभाववानयं पुरुष इति बोधो जायते तेन च बोधेन पुरुषे स्थाण्वारोपस्सविषयो निवर्त्यते । एवमहं ब्रह्मास्मीति वाक्येनाहमर्थ भूतजीव तादात्म्य शून्यं ब्रह्मैवास्मीति ज्ञानं जायते तेन ज्ञानेनाहे ज्ञाताकर्ता सुखीदुःखीत्याद्यारोपः कर्तृत्वादि धर्मविशिष्टाहमर्थेन स्वविषयेण सहनिःशेषं निवर्त्यते । आरोपिताहमर्थ निवृतौ च सत्यां जीवस्य पद्वास्तुवंरूपं कूटस्थ चैतुन्यात्मकं । तत्पूर्णब्रह्मरूपेणावतिष्ठते इति न श्रुत्यंतरविरोध इति भावः । अक्षरार्थस्तु । इदं ब्रह्माहं पदयोस्समान विभक्तिमत्वरूपं सामानाधिकरण्यमभेदरूपेर्थेनाभ्युपगम्यते । येनाभेदासंभवो दोषः स्यात् । ननु यद्यभेदो न वाक्यार्थः कस्तर्हि स इति शंकते । किंत्विति । बाधान्न वाक्यार्थो विवक्षित इत्याह । बाधायामिति पुरुषत्व पदेन कल्पितस्थाणु तादात्म्याभाववत्वं विवक्षितं । बाधायां वाक्यार्थत्वस्वीकारात् । अहं ब्रह्मीत्यत्रेति पदानंतरं वाक्य जन्येनेति शेषः । अत्र वाक्यार्थ ज्ञानस्याहं ब्रह्मास्मीत्याकारत्वाभावात् । कूटस्थ ब्रह्मरूपत्व पदेनापि वस्तुतोहमर्थ तादात्म्याभाववत् कूटस्थ ब्रह्मरूपत्वं विवक्षितं बाधाया एव ।। यदि च विवरणाद्युक्तरित्येदमभेदे सामानाधिकरण्यं तदा जीववाचिनोहं शब्दस्य लक्षणया कूटस्थ परत्वमस्तु तस्याबाध्यस्य ब्रह्माभेद योग्यत्वात् ।। प्. ७४अ) वाक्यार्थ बोधविषयत्वाभ्युपगमात् । दृष्टांत दार्ष्टांतिकयोरधिष्ठानस्यारोपितार्था भाववत्वमारोपितात्यंता भावस्याधिष्टानातिरिक्तत्वमिति मतमाश्रित्यास्माधिरुक्तमिति ध्येयम् । अध्यस्ताहमर्थरूपत्वमिति । अध्यस्तो यो अहमर्थस्तद्रूपत्वं तादात्म्यं निवर्तत इति बोधफलमुक्तं । महावाक्यस्य बाधार्थकत्वं न स्वकपोलकल्पितं । किं तु सुरेश्वराचार्यैरुक्तमित्याह । योयमिति । मंदांधकारे यः स्थाणुर्गृहीतः । एषोयं पुमानित्याप्तवाक्यजन्यया पुंधिया वस्तुतो नायं स्थाणुः किं तु पुमानितिधिया । स्थाणुरयमिति धीरारोपितस्थाणु तादात्म्येन सह यथा निवर्त्यते । एवमहं ब्रह्मास्मीति वाक्यजन्ययाधिया अहमर्थ भूतजीव तादात्म्य शून्यं ब्रह्मैवास्मीत्याकारयाहं बुद्धिरहं कारोमि भुंज इत्यादि बुद्धिरशेषा आरोपिताहमर्थ सहिता निवर्त्यते महावाक्यार्थ ज्ञानादशेषानर्थ निवृतिर्विदुषोनुभव सिद्धेति द्योतनार्थो हि शब्दः । ननु समानाधिकरण वाक्येषु अभेदरूपवाक्यार्थस्य मुख्यतया बाधारूपवाक्यार्थस्य औत्सर्गिकत्वाद्विवरणाद्विषु प्रकृते अभेदरूप वाक्यार्थस्यैव स्वीकाराच्च । भगवत्पादैरपि वाक्यवृतौ तादात्म्यमत्रवाक्यार्थस्तयोरेव पदार्थयोरिति श्लोकेन महावाक्येषु तत्वं पदार्थयोस्तादात्म्य शब्दिता भेदस्यैव वाक्यार्थतया स्वीकाराच्च । वार्तिककार वचनस्य बाधाया अपि प्रकृते वाक्यार्थता वक्तुं शक्यत इति प्रौढिमाश्रित्य प्रवृत्युपपतेश्च तस्मादहं ब्रह्मास्मीत्यत्रा भेदो वाक्यार्थ इति स्थिते विनाशि जीवस्याविनाशि ब्रह्माभेदोनुसंभवतीति प्. ७४ब्) चोद्यं तदवस्थमेवेति अस्वरसादाह यदि चेति ।। यस्तु मेघाकाशक तुल्योधीवासनाप्रतिबिंब ईश्वर उक्तः सोयं सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानंदमयो ह्यानंदभुगिति मांडुक्य श्रुति सिद्धः सौषुप्तानंदमयस्तत्रैव तदनंतरमेष सर्वेश्वर एष सर्वज्ञ एषोंतर्यामी एष योनिः सर्वस्य ।। कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधेति श्लोक संगृहीइतानां कूटस्थ ब्रह्मजीवेश्वराणां चतुर्णाम्मध्ये ब्रह्मचैतन्यं तावत् सत्यज्ञानदिवाक्येषु प्रसिद्धमिति तत्र वाक्यं प्रमाणत्वेन नोदाहृतं कूटस्थ चैतन्ये अविनाशी वा इति वाक्यं प्रमाणत्वेन दर्शितं । उपाध्युत्पति विनाशानुविधाप्युत्पति विनाशवचनमंतःकरण गत चैतन्यप्रतिबिंबरूपे जीवे प्रमाणमुक्तं परिशेषात्पूर्वोक्तेश्वरे प्रमाणं वक्तव्यं तदाह । यस्त्विति । त शब्दोवधारणे य ईश्वर उक्तः सोयं श्रुत्युक्तानंदमय एव नान्य इत्यर्थः । सुषुप्तं स्थानमस्येति सुषुप्तस्थानः जागरणे हि विज्ञानशब्दितांतःकरणे तादात्म्याध्यासाद्विज्ञान मयत्वमनोमयत्वकर्तृत्वाग्दीनिरूपाणि संति । तथा देहे स्थूलोहमित्याद्यभेदाध्यासात् स्थूलत्व कृशत्व ब्राह्मणत्वादीति रूपाणि संति । तथा चक्षुरादिषु काणोहं मूकोहमित्यादि रूपादध्यासा प्. ७५अ) त्काणत्वादीनिरूपाणि संति । एवमाकाशादिषु पदार्थेषु ध्यास सिद्धानि आकाश मयो वायुमप इत्यादि श्रुति संगृहितान्यनंतरूपाणि जीवस्य संति । सुषुप्ते तु बुध्याद्युपाधि लयेन सर्वप्रकार भ्रांतिलयाद्भ्रांति सिद्धानि सर्वाण्यपि रूपाणि लीयंत इत्यभिप्रेत्य एकीभूतः इत्युक्तं । तदुक्तं । विज्ञानमय मुख्यैर्योरूपैर्युक्तः पुराधुना । स लये नैकतां प्राप्तो बहुतंडुलपिष्टवदिति । पुरासुप्तात्पूर्वकाले । लयेन रूपाणां लयेनेत्यर्थः । प्रज्ञानं चैतन्यं तच्च जाग्रदादौ वृतिभेदेन भेदरूपं शैथिल्यं प्राप्य स्थितं सुषुप्ते वृतीनां विलयात्पुनरेकत्वं प्राप्तमित्यभिप्रेत्यप्रज्ञान घनत्वमुक्तं । आनंदोत्र बिंबभूतो ब्रह्मानंदो विवक्षितः । तस्य प्रतिबिंबभूतो जीव आनंदमयः स च स्वरूपभूतमानंदं सुषुप्तिकाले अविघावृतिभिर्भुंक्त इत्यानंद भुगिति श्रुत्यर्थः । ननु जाग्रत्स्वप्नयोः स्थूलावस्थांतःकरण प्रतिबिंबरूपो जीवो विज्ञानमयः । स्थूलांतःकरणस्य विज्ञानशब्दवाच्य त्वात् । स एव विज्ञानमयो जीवः स्वापकाले सूक्ष्मरूपेण विलीनावस्थांतः ।। प्रभवाप्ययौ हि भूतानामिति श्रुतेः सर्ववस्तु विषय सकलप्राणिधीवासनोपाधिकस्य तस्य सर्वज्ञत्वं तत एव सर्व कर्तृत्वोपपतेश्च । न चास्मद्बुद्धिवासनोपहितस्य कस्यचित्सार्वज्ञ्यं नानुभूयते इति वाच्यं । वासनानां प्. ७५ब्) परोक्षत्वेन तदुपहितस्यापि परोक्ष्मत्वादिति ।। करणोपाधिकस्सन् आनंदमय इत्युच्यते तथा चानंदमयस्य जीवत्वादीश्वरत्वमसिद्धमित्याशंक्यसौषुप्तानंदमयस्यैवेश्वरत्वं वाक्यशेषो दर्शयतीत्याह । तत्रैवेति मांडूक्य श्रुतावेवेत्यर्थः । सर्वेश्वरत्वं सर्वजगदुत्पति कर्तृत्वं योनिरुपादानं । आनंदमयस्य सर्वोपादानत्वे हेतुमाह । प्रभवेति । हि यस्माद्भूतानां प्रभवाप्ययौ जन्मलयौ सौषुमानंद मयात् । भवतः तस्माद्वेष सर्वस्य योनिरित्यर्थः । आनंदमयस्य श्रुत्युक्त सर्वज्ञत्वे युक्तिमप्याह । सर्ववस्त्विति । एकैकाधीः किंचित्किचिद्विषयी करोतीति सर्वाभिर्मिलित्वा सर्वं जगद्विषर्या क्रियते एवं च सर्वबुद्धीनां सर्वविषयकत्वे सिद्धे सति सर्वबुद्धिसूक्ष्मावस्थारूपाणां सर्वबुद्धिवासनानामपि सर्वविषयकत्वं सिध्यति । तथा च सर्वप्राणि बुद्धिवासनोपाधिकस्यानंदमयस्य सर्वज्ञत्व सिद्धिरित्यर्थः । ननुधीवासनोपरक्ताज्ञानोपाधिक ईश्वर इति । यदुक्तं । तत्र किं प्रतिबिंबेश्वरस्याज्ञानमेवापाधिः किं वासनोपरक्ताज्ञानं अथवा सर्वाःधीवासनाः उत्तप्रत्येकं वासनानाद्यःधीवासनासु प्रतिबिंबितं चैतन्यमीश्वर इत्युक्ति विरोधात् । अज्ञान मात्रस्य ईश्वरोपाधित्वेधीवासनानुसरण वैफल्याच्च । न चाज्ञानोपाधिकस्यैवेश्वरस्य सर्वज्ञत्व लाभार्थं सर्वविषयकधीवासनानुसरणमिति वाच्यमज्ञानगत सत्वांश परिणामरूपाभिस्सर्वविषयक वृतिभिरेव सर्वज्ञत्वोपपादन प्. ७६अ) संभवेन तदर्थं धीवासनानामनपेक्षणादनत एव द्वितीयः अज्ञानमात्रस्य तदुपाधित्व संभवात् । युगपत् सर्वप्राणिनां सुषुप्त्यसंभवेन सर्वबुद्धिवासनानां यौगपद्यासंभवाच्च । न तासामज्ञानविशेषणतया ईश्वरोपाधित्व संभवः तासां यौगपद्यासंभवादेव न तृतीयोपि कल्पः संगच्छते सर्वासुधीवासनासु व्यासक्ततया एकस्य ईश्वररूप प्रतिबिंबस्यासंभवाच्च । लोके व्यासज्यवृति प्रतिबिंबा दर्शनात् । तस्मात् चतुर्थः कल्पः परिशिष्यते तत्रानुभव विरोधमाशंकते । न चास्मदिति । अस्माकं प्राणिनामेकैक बुद्धिवासनोपहितस्यानंदमयस्य कस्यापि स्वापकालेहं सर्वज्ञ इत्यनुभवो नास्तीत्यर्थः । वासनानामिति । जाग्रदादौ स्थूलावस्थांतःकरणानामिव सुषुप्तौ वासनात्मकांतःकरणानां साक्षिप्रत्यक्षयोग्यत्वाभावेन तदुपाधिकानंदमयानामपिनाहमनुभव योग्यत्वमित्यर्थः ।। ब्रह्मानंदे तु सुषुप्ति संयोगान्मांडूक्योक्त आनंदमयो जीव इत्युक्तं । तथा हि जाग्रदादिषु भोगप्रदस्य कर्मणः क्षये निद्रा रूपेण विलीनमंतःकरणं पुनर्भोगप्रदकर्मवशात्प्रबोधे घनी भवति तदुपाधिको जीवो विज्ञानमय इत्युच्यते । स एव पूर्वं सुषुप्ति समये विलीनावस्थोपाधिकः सन्नानंदमय प्. ७६ब्) इत्युच्यते । सदावमांडूक्ये सुषुप्तिस्थान एकीभूत इत्यादिना दर्शित इति । एवं सति तस्य सर्वेश्वरत्वादि वचनं कथं संगच्छतां । इत्थं संत्यधिदैवत मध्यात्मं च परमात्मनः स विशेषाणि त्रीणि रूपाणि । तत्राधिदैवतं त्रीणि शुद्धचैतन्यं चेति चत्वारि रूपाणि चित्रपटदृष्टांतेन चित्रदीपे समर्थतानि ।। मांदूक्य श्रुत्युक्तानंदमयस्य सकलधीवासनोपाधिकस्य उक्तरित्या एकस्यासंभवात् । प्रत्येकमेवधीवासनोपाधिक आनंदमयो वाच्यस्स च जीव एवेत्याह । ब्रह्मानंदे त्विति । चित्रदीपे श्रीविद्यारण्यगुरुभिरीश्वर त्वेनोक्तानंदमयस्य तैरेव ब्रह्मानंदाख्य ग्रंथे जीवत्वमुक्तम् । जीवत्वोक्ति रूपविशेषार्थकस्तु शब्दः । सुषुप्तिसंयोगादित्युपलक्षणं वासनोपाधिकस्येश्वरत्वे जाग्रदादावीश्वराभावप्रसंगादेकैकवासनोपाधिकस्य नानात्वेनेश्वर नानात्व प्रसंगात्सकलवासनोपाधिकस्य कस्यचिदसंभवाच्चेत्यपि द्रष्टव्यं । तत्रोक्त प्रकारं दर्शयति । तथा हीति । जाग्रदादिषु भोगप्रदं यत्कर्म तस्य क्षये सतीत्यर्थः । आदिपदं स्वप्न परं बहुवचनं तु जाग्रत्स्वप्न व्यक्तिभेदापेक्षं । निद्रारूपेणेति । सुषुप्तिरूपेणेत्यर्थः । तदुक्तं पंचीकरणे । बुद्धेः कारणात्मनावस्थानं सुषुप्तिरिति । आनंदमयस्य जीवत्वे तस्येश्वरत्व प्रतिपादक वाक्यशेष विरोधं शंकते । एवं सतीति । प्. ७७अ) सौषुप्तजीवरूपानंदमयस्य वस्तुत ईश्वरत्वाभावेपि ईश्वराभेद विवक्षया तस्येश्वरत्व वचनं संगच्छत इति परिहरति । इत्थमित्यादिना । मांडूक्य श्रुतौ जीवश्वरयोरभेद विवक्षां दर्शयितुं पीठिकां करोति । संतीति । परमात्मन अधिदैवतं सविशेषाणि त्रीणि रूपाणि संति तथा परमात्मनोध्यात्मं च सविशेषाणि रूपाणि संतीति संबंधः परमात्मन इत्यस्य निर्विशेष चैतन्यस्येत्यर्थः । अधिदैवतमित्यस्य देवतात्मकानीत्यर्थः । अध्यात्ममित्यस्य च जीवात्मकानीत्यर्थः । अधिदैवतमध्यात्ममिति च पदद्वयमव्ययं । उक्तं प्रपंचयति । तत्रेति । अध्यात्माधिदैवतरूपाणां मध्य इत्यर्थः । जीवस्य त्रीणि सविशेषरूपाणि तुर्यपादात्मकं निर्विशेषरूपं च मांदूक्य श्रुतौ कंठतो दर्शितानि । ईश्वरस्य तु निर्विशेष सविशेष रूपाणि तच्छ्रुत्यभिप्रेतगन्यपि श्रुत्या कंटतो नोक्तानितानि तु श्रुति तात्पर्याभिज्ञैः श्रीविद्यारण्य गुरुभिश्चित्रदीपे सदृष्टांतं ।। यथा स्वतः शुभ्रः पटो धौतः अत्र लिप्तो घटित इति मष्यादि विकारयुक्तो लांछितो वर्णपूरितोरंजित इत्यवस्था चतुष्टयमेकस्यैव चित्रपटस्य तथा परमात्मामाया तत्कार्योपाधिरहितः शुद्धः मायोपहित ईश्वरः अपंचीकृत भूकार्य समष्टि सूक्ष्मशरीरोपहितो हिरण्यगर्भः । प्. ७७ब्) पंचीकृतभूतकार्य समष्टि स्थूलशरीरोपहितो विराट् पुरुष इत्यवस्था चतुष्टयमेकस्यैव परमात्मनः ।। निरूपितानीत्याह । चित्र पदेति । तत्रायं दृष्टांत संग्राहकः श्लोकः स्वतः शुभ्रोत्र धौतः स्यात् घटितोन्नविलेपनात् । मष्याकारैर्लांछितः स्याद्रंजितो वर्णपूरणादिति । एतच्छ्लोक संगृहीतं दृष्टांतं विवृणोति । यथेति । स्वतश्चिदंतर्यामी तु मायावी सूक्ष्मसृष्टितः । सूत्रात्मा स्थूलसृष्ट्यैष विराडित्युच्यते पर इति श्लोक संगृहीतं दार्ष्टांतिकं दर्शयति । तथेति । श्लोके परः स्वतश्चिदिति संबंधः अमुमंशं विवृणोति । परमात्मेति । श्लोके तु शब्दोवधारणे । तथा च पर एव मायावी सन् अंतर्यामीत्युच्यते इति संबंधः अमुमंशमाह । मायोपहित ईश्वर इति । श्लोके पर एव सूक्ष्मसृष्टितस्सूत्रात्मेति संबंधः । अमुमंशं व्याचष्टे अयं पंचीकृतेति । अपंची कृतानां भूतानां यत्कार्यं व्यापकं सूक्ष्मशरीरं तदुपहित इत्यर्थः । न च सूत्रात्मनो हिरण्यगर्भ शब्दितस्य श्रुतिस्मृत्योर्जीवत्व प्रसिद्धेः कथं तस्येश्वररूपत्वमिति वाच्यं जीवरूपहिरण्यगर्भस्य समष्टि सूक्ष्मशरीराभिमानविशिष्टस्य सत्यलोकस्वामिनः ईश्वरान्यत्वाभ्युपगमात् । ईश्वरस्य तु समष्टि सूक्ष्मशरीराभिमानाभावेपि समष्टि सूक्ष्मशरीर नियंहृतयातदुपाधिकस्य समष्टिसूक्ष्मोपाध्युपहितत्वगुणयोगेन प्. ७८अ) हिरण्यगर्भसूत्रात्मपदाभ्यां निर्देशस्येह विवक्षितत्वा तथा च गौणमीश्वरस्य हिरण्यगर्भत्वमिति भावः । अत एव चित्रदीपे ईश्वररूप हिरण्यगर्भापेक्षया सत्यलोकाधिपतेर्ब्रह्मणस्ततद्वाद्यभिमतेश्वर परिगणनावसरे पृथगुपादानं कृतमिति मंतव्यं । श्लोके एष एव परः स्थूलसृष्ट्याविराडित्युच्यत इति संबंधः । अमुमंशंव्याकुर्वन् संगृह्णाति । पंचीकृतेति । अयमीश्वररूपो विराट् पुरुषः पुरुषसूक्त वैश्वानरविद्यावाक्यादि रूपश्रुति सिद्धो द्रष्टव्यः सत्यलोकाधिपतेर्हिरण्यगर्भस्य पुत्ररूपो विवाटपुरुषस्समष्टि स्थूलाभिमानी जीवो बृहदारण्यक श्रुति सिद्धोन्य एवेत्यपि द्रष्टव्यं । इत्यवस्येति । उक्त प्रकारेण वस्तुत एकस्यैव रूपचतुष्टयं द्रष्टव्यमित्यर्थः ।। अस्मिंश्च चित्रपटस्थानीये परमात्मनि चित्रस्थानीयः स्थावरजंगमात्मको निखिलः प्रपंचः । यथा चित्रगतमनुष्याणां चित्राधारवसुसदृशावस्त्राभासालिख्यंते तथा परमात्माध्यस्त देहिनामपिष्टान चैतन्य सदृशाश्चिदाभासाः कल्प्यंते ते च जीवनामानः संवरंतीति । अध्यात्मं तु विश्वतैजस प्राज्ञभेदेन त्रीणि रूपाणि । तत्र सुषुप्तौ विस्तीनेंतः करणे ज्ञानमात्र साक्षीप्राज्ञः । योयमिहानंदमय प्. ७८ब्) उक्तः स्वप्ने व्यष्टि सूक्ष्मशरीराभिमानी तैजसः जागरे व्यष्टिस्थूल शरीराभिमानी विश्वः ।। एवं प्रकृतोपयुक्तं रूप चतुष्टयं दर्शयित्वा प्रसंगादाह । अस्मिन्निति । ननु कृत्स्नस्य जगतश्रित्रस्थानीयत्वे तद्वदेव सर्वमचेतनं स्यातथा च चेतनाचेतनविभागो न स्यादिति शंकां दृष्टांतेन परिहरति । यथेति । वस्त्राभासा इति वर्णविशेषात्मक वस्त्राणां चित्राधारेण वस्त्रेणाकृति साम्येपि शीतवानादि निवर्तकत्वा भावादाभासत्वं । देहिनामिति स्थूलदेहवतामहंकारणामित्यर्थः अंतःकरणात्मकाहंकारेषु चैतन्यस्य प्रतिबिंब कल्पनस्य प्रयोजनमाह । ते चेति तथा च विदाभासयुक्ताः कार्यकारणसंघाताश्चेतनाः अन्ये गिरि समुद्रादयो चेतना इति विभाग सिद्धिरिति भावः । एवमीश्वरस्य रूपाणि दर्शितानि जीवस्य श्रुत्युक्तानि सविशेष निर्विशेषरूपाणि दर्शयति । अध्यात्मं त्विति । तु शब्द ईश्वरस्य स विशेषरूपाण्यपेक्ष्यजीवस्य स विशेषरूपाणां वैलक्ष्यण्य सूचनार्थः । तदेव वैलक्षण्यं दर्शयति । विश्वेति । रूपाणीति । सविशेषाणीति शेषः । तत्रेति । रूपत्रयमध्ये इत्यर्थः । विलीन इति अंतःकरणे विलीने सति सूक्ष्मरूपेण विलीनांतःकरणोपाधिकः संपद्यत इति भावः स्थूलांतःकरणादि साक्षित्व व्यवच्छेदार्थं मात्रग्रहणं ननु पूर्वं सौषुप्तजीव आनंदमय इत्युक्तमिदानीं कथं स एव प्राज्ञ इत्युच्यते । तत्राह । योयमिति इहेति मांडूक्य श्रुतावित्यर्थः । प्. ७९अ) तत्रैवानंद भुगित्यनंतरं चेतोमुखः प्राज्ञस्तृतीयः पाद इति वाक्यशेष दर्शनादिति भावः । चेतांसि चित्प्रतिबिंबोपेतान्यविद्यावृतिरूपाणि मुखानि स्वापकालीनानंदानुभव साधनानि यस्य स चेतो मुखः । ननु सौषुप्तजीवस्यानंद भुक्तं चेतो मुखत्वं च श्रुतमपि कथमुपपन्नमिति तत्र मांडूक्य श्रुतिरहमनुभवे प्रकाशमानस्यात्मनो विश्वतैजस प्राज्ञतुरीयावस्थाभेदरूपं पादचतुष्टयं सोयमात्मा चतुष्पादित्युपक्रम्य पूर्वपूर्वपादविप्रलापनेन निःप्रपञ्च ब्रह्मात्मक तुरीय पादप्रतिपतिसौ कार्याय स्थूलसूक्ष्म सूक्ष्मतरोपाधिसाम्याद्विराडादीन्विश्वादिष्वंतर्भाव्यजागरित स्थानो बहिः प्राज्ञः इत्यादिना विश्वादि पादान्न्यरूपयत् । अतः प्राज्ञ शब्दिते आनंदमये व्याकृतस्येश्वरस्यांतर्भाव विवक्षित्वाक्ष तत्र सर्वेश्वरत्वादि तद्धर्मवचनमिति ।। चेदुच्यते । सुषुप्तादुत्थितस्य हि सुखमहमखाप्समिति । स्वापकालविशिष्ट सुखस्मरणं दृश्यते । तच्च तदा सुखानुभवमंतरेण संभवति अननुभूतस्य सुखस्य स्मरणायोगात् । न च सुषुप्तावात्मरूपसुखस्यांतःकरणवृतिभिरेवानुभवः प्. ७९ब्) संभवतीति वाच्यं । तदा विलीनस्यांतःकरणस्य वृत्युत्पादन योग्यत्वाभावान्न च मुक्तिकाल इव स्वापकालेपि स्वरूप चैतन्ये नैव सुखानुभव संभवात् किमविद्यावृत्ति प्रतिबिंबरूप चेतः कल्पनयेति वाच्यं । जाग्रत्स्वप्नयोश्चैतन्य प्रतिबिंबोपेतवृतिभिरानंदानुभव दर्शनेन सुषुप्तावपि तथा संभवे परित्यागा योगात् । मुक्तिकाले चोपाधिमात्र विलयाभ्युपगमात् । वृत्यसंभव इति वैषम्य सत्वात् । सौषुप्त सुखानुभवस्य केवल नित्यसाक्षिरूपत्वे अनुभवनाशरूपसंस्काराभाव प्रसंगेन सुखमखाप्संमित्यनुसंधानाभावापतेश्च तस्माद्यथोक्तार्था श्रुतिरुपपन्नैव व्यष्टीति परिछिन्नेत्यर्थः । एते पादास्साक्षाच्छ्रुत्युक्ता इत्याह । तत्रेति । उक्तरीत्या पादकल्पनोपपतौ सत्यामित्यर्थः । श्रुतिः । पादचतुष्टयमुपक्रम्य विश्वादिपादान्न्यरूपयदिति संबंधः । पद्यते गम्यतेवगम्यते ब्रह्मात्मैक्यमेभिरिति पादाविश्वादयः । इमां व्युत्पतिमभिप्रेत्य श्रौतपादकल्पनायाः । प्रयोजनमाह । पूर्वपूर्वेति अयमर्थः । सोयमात्मा चतुष्पादिति वाक्येन जीवस्य पादचतुष्टयवत्वमुषक्रम्य जागरितस्थानो वैश्वानरः प्रथमः पादः इत्युक्तं । अत्र जीवपादानामेव वक्तुमुपक्रांतत्वाद्विश्वः प्रथमः पाद इति वक्तव्ये वैश्वानर शब्दितस्य विराट्पुरुषरूपे ।। श्वरस्य प्रथपादत्वोक्तिर्विश्वे वैश्वानरेश्वरस्यांतर्भावं प्. ८०अ) सूचयति । न च हिरण्यगर्भेश्वरौ विहाय वैश्वानरेश्वरस्यैव विश्वांतर्भावे किं नियामकं श्रुत्यभिमतमिति वाच्यं । तयोः स्थूलोपाधिकत्वरूपसाम्यस्य ईश्वरहिरण्यगर्भ व्यावृतस्य नियामकतया विवक्षितत्वा तथा द्वितीयपाद प्रतिपादक वाक्ये स्वप्नस्थानस्तैजसो द्वितीयः पाद इत्युक्तं अत्र सूक्ष्मोपाधिकत्व साम्येन हिरण्यगर्भस्य तैजसे अंतर्भावो विवक्षितः वैश्वानरः प्रथमः पाद इत्युपक्रमानुसारा तथा तृतीय पाद प्रतिपादकं सुषुप्तस्थान एकीभूत इत्यादि वाक्यं प्रागेवोदाहृतं । अत्रापि तृतीयपादत्वेनोक्ते प्राज्ञ शब्दितानंदमये सूक्ष्मतरोपाधिकत्व सामान्येन ईश्वरस्यांतर्भावोविवक्षितः । तथा च वाक्यशेषस्य एष सर्वेश्वर इत्यादेरानंदमयेश्वरयोरभेदस्य विवक्षिततया प्रवृतत्वान्नानुपपतिः । तथा तुरीयपाद प्रतिपादकमिदं वाक्यं । अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिंत्यम- व्यपदेश्यमैकात्म्यात्पयसारं प्रपंचोपशमं शिवमद्वैतं चतुर्थं मन्यंत इति । प्. ८०ब्) अदृश्यं चक्षुराद्यविषयं । अव्यवहार्यं प्रवृति निवृति लक्षणव्यवहारागोचरं । अग्राह्यं कर्मेंद्रियागोचरं अलक्षणमसाधारण धर्मं शून्यं अचिंत्यं शुष्कतर्कागोचरं । अव्यपदेश्यं शब्दशक्त्यगोचरं । एकात्मप्रत्ययसारं । एकादि पद चतुष्टयस्य कर्मधारयः स्वगत भेदशून्यत्वमेकत्वं सर्वदेहेषु पूर्णत्वमात्मत्वं प्रत्ययत्वं चिद्रूपत्वं सारत्वमानंदत्वं सार आनंद इत्यर्थः । इत्यानंदमयाधिकरणभाष्यात्प्रपंचोपशमं प्रपंचाभावरूपं कल्पितपदार्थाभावस्याधिष्ठानानतिरेकात् यद्वा प्रपंचध्वंसरूपं ज्ञानसाध्यायास्सकारणद्वैत निवृतेरधिष्ठानात्मकताया वक्ष्यमाणत्वात् शिवं शुद्धं सर्वदोषरहितमद्वैतंद्वैतरहितं चतुर्थं विश्वतैजस प्राज्ञ रूपपादत्रयापेक्षया चतुःसंख्यापूरकं पादं चिंतयंतीति श्रुत्यर्थः । अत्र विश्वतैजस प्राज्ञलक्षण पादेषु वैश्वानरहिरण्यगर्भेश्वराणामंतर्भाव च नंतैरेषामेकत्व चिंतनपरं तथा विश्वादि पादानामोंकारावयवभूतमात्राणां चैकत्व प्. ८१अ) चिंतनमत्र विवक्षितं । तथा च श्रुतिः पादामात्रा मात्राश्च पादा इति । तथा गौडपादीय वचनमपि । ओंकारं पादशो विद्यात्पादामात्रा न संशय इति संशय इत्यस्यायमभिप्रायः । विश्वादि पादानाम्मात्राणां च यावत्संशयनिवृतिं एकत्वं चिंतनीयमिति मात्रा स्वरूपं च श्रुत्यैव दर्शितमकार उकारो मकार इतीति । एवं विश्वादि पादानां वैश्वानरादीनां मात्राणां चैकत्व चिंतनं सर्वेषामेतेषां निष्प्रपंच ब्रह्मात्मकतुर्यपादे चिन्मात्रे प्रविलापनार्थं । तत्र चायं क्रमः विश्ववैश्वानराकाराणामेकत्वं प्रथमं विचिंत्य पश्चातैजस हिरण्यगर्भो कारणामेकत्वं चितयेत् । तत ईश्वरप्राज्ञमकाराणामप्येकत्वं चिंतयेत् । तथा चिंताक्रमेणैव प्रविलापयेत् । अकारादि त्रयमुकारे उकारादि त्रयं मकारे मकारादि त्रयं चिन्मात्रे तुर्यपादे प्रविलापयेत् । चिन्मात्रे प्रविलाप्य च चितं तत्रैव स्थापयेत् । उकारादौ प्रविलापनं नामाकारादि त्रयमुकार व्यतिरेकेण नास्ती ।। प्. ८१ब्) त्याहार्य निश्चय एवं प्रत्यहमुक्तप्रकारेण समाधिं कुर्वतो ब्रह्मसाक्षात्कारो भवति । ततश्च ब्रह्मप्राप्त्याकृतकृत्यतेति मांडूक्य श्रुत्यभिप्रायः । इदं सर्वं मांडूक्यश्रुतेरिदं संग्रहेण तात्पर्य कथन परस्य भाष्यकृद्भिः कृतपंचीकरणस्य व्याख्यानरूपे वार्तिके सुरेश्वराचार्यैरमिहितं अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः प्राज्ञोमकार इत्येकं परिपश्येत् क्रमेण तु । अत्र विश्वादिषु वैश्वानरादीनामंतरभावं सिद्धं कृत्वा न पृगुपादानं कृतमिति मंतव्यं । समाधिकालात् । प्रागेवं विचिंत्याति प्रयत्नतः स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् । अकारं पुरुषं विश्वमुकारं प्रविलापयेत् । पुरुषोत्र वैश्वानरः । उकारं तैजसं सूक्ष्मं मकारे प्रविलापयेत् । अत्र समष्टिसूक्ष्मशरीरनियंतृतया तदुपहितः परमेश्वरः सूक्ष्मशब्दार्थः । मकारंकारणं प्राज्ञं चिदात्मनि विलापयेत् । अत्रांतर्यामीमायामात्रोपाधिकः कारणशब्दार्थः । चिदात्माहं नित्यशुद्ध बुद्ध मुक्तसदद्वयः परमानंदसंदोह वासुदेवोहमोमिति । प्. ८२अ) यतोहं चिदात्मावशेषितः । अतोहं नित्य शुद्धबुधादि रूपो वासुदेव इत्यर्थे अंगीकारात्मक ओंकार इत्यर्थः । इति शब्दश्चोतरश्लोकान्वयी ज्ञात्वा विवेचकं चितं तत्साक्षिणिलापयेत् । इति उक्त प्रकारेण केवल चिदात्मानमवशिष्टं ज्ञात्वा विवेचकं विलापकं तच्चित्तं साक्षिणि यथोक्ते वासुदेवे विलापयेत् स्थापयेदित्यर्थः । चिदात्मनि विलीनं च तच्चितं नैव चालयेत् । पूर्ण बोधात्मनासीनं पूर्णाचल समुद्रवत् । चिरकालं समाधिं कुर्यादिति वार्तिकार्थः । एवं समाहितो योगी श्रद्धाभक्ति समन्वितः । जितेन्द्रियोजित क्रोधः पश्येदात्मानमद्वयं आदिमध्यावसानेषु दुःखं सर्वमिदं यतः तस्मात्सर्वं परित्यज्य तत्वनिष्ठो भवेत् सदा यत्प * * त्वनिष्टाव्यतिरिक्तं पुरुषार्थ साधनत्वेन लोकशास्त्रसिद्धं सर्वं कालत्रयेपि दुःखाविना भूतं तस्मात्सर्वं विधिनासंन्यस्य उक्तरीत्यातत्वनिष्टां समाधि लक्षणां कुर्यादित्यर्थः । तदेवाह । इमां विद्यां प्रयत्नेन योगीसंध्यासु सर्वदा । समभ्यसेदिहामुत्रभोगानास ।। प्. ८२ब्) क्तधीस्सुधीरिति । इमां समाधिलक्षणां विद्यां सुधीरास्तिकतमो विरक्तो भूत्वा संध्यासूपक्रम्य सदाभ्यसेदित्यर्थः । यः पश्येत् सर्वगं शांतसनंतात्मानमद्वयं । न तेन किंचिदाप्तव्यं ज्ञातव्यं वावशिष्यते ।। कृतकृत्यो भवेद् विद्वान् जीवन्मुक्तो भवेत् सदा । अविद्या तिमिरातीतं सर्वाभासविवर्जितं ।। आनंदममलं शुद्धं मनोवाचामगोचरं । वाच्यवाचकनिर्मुक्तं हेयोपादेय वर्जितं ।। प्रज्ञानघनमानंदं वैष्णवं पदमश्रुत । इति ।। आभासपदं चिदाभासपरं वाच्याः विश्वादयः वाचकाः आकारादयः प्रकृतत्वात् हेयं दुःखं उपादेयं विषयसुखमित्यर्थः । तथा मांडूक्य श्रुतौ समाधिनिष्टा विवक्षामभिप्रेत्यगौडपादीयेप्युक्तं । युंजीत प्रणवे चेतः प्रणवो ब्रह्मनिर्भयं । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ।। इति संक्षेपः । ननु श्रवणादि रूपसांख्यमार्गेणैव तत्वप्रतिपति संभवात् किं मुमुक्षोर्योग विधिनेत्यत आह । प्रतिपतिसौ कार्यापेति । यस्य मुमुक्षोस्सन्यासिनः । बुद्धिमांद्याद्वाकौशलसत्वेपि प्. ८३अ) न्याय व्युत्पादन कुशलाचार्याद्यभावाद्वासांख्यमार्गो न संभवतीति तस्यानायासेन ब्रह्मतत्व प्रतिपत्ति साधनतया बुधिपूर्वक प्रविलापन क्रमेण समाधि विधानं मांडूक्यादौ उक्तं मांडूक्यतापनीय पंचीकरणादौ विहित ब्रह्मोपासनं प्रकृत्यध्यानदीपे ।। इत्थमेव भगवत्पादैर्गौडपादीय विवरणे व्याख्यातं दृक् दृश्य विवेके तु चित्रदीय व्युत्पादितं कूटस्थं जीवकोटावंतरभाव्य चित्त्रैविध्य प्रक्रियैवालंबितेति विशेषः । तत्र ह्युक्तं जलाशय तरंग बुद्बुद न्यायेनोपर्युपरिकल्पनाज्जीवस्त्रिविधः । पारमार्थिको व्यावहारिकः प्रातिभासिकश्चेति । तत्रावछिन्नः पारमार्थिको जीवः ।। श्रीविद्यारण्य गुरुभिरधिकारी दर्शितः । अत्यंत बुद्धिमांद्याद्वासामग्र्यावाप्यसंभवात् । यो विचारत्न लभते । ब्रह्मोपासीतसोनिशमिति । अव्याकृतस्येति । अनभिव्यक्त जगद्वा विना अव्याकृतपदेन लक्षणया परमेश्वरस्तत्र तत्र व्यवहृत इति कृत्वा तेन तन्निर्देशः कृतः मांडूक्य श्रुत्युक्तानंदमयस्य ईश्वरत्ववचनं तदभेद विवक्षयेत्येतत् मांडूक्य श्रुतिव्याख्यान रूपस्य गौडपादीयस्य विवरणरूपे भाष्ये भाष्यकारैरेवोक्तमित्याह । इत्यमेवेति । प्. ८३ब्) श्रीविद्यारण गुरुभिश्चित्र दीपे स्वोक्तं चिच्चातुर्विध्यं विहाय ग्रंथांतरे जीव ईशो विशुद्धा चिदिति वृद्धवचनसिद्धं त्रैविध्यमेवावलंव्य जीवस्य त्रैविध्याख्यो विशेष उक्त इत्याह । दृक् दृश्य विवेकेत्विति । तु शब्द उक्त विशेषार्थकः कूटस्थस्य जीवकूंटावंतर्भावमेव दर्शयति । तत्रेति । दृक् दृश्य विवेकाख्य ग्रंथ इत्यर्थः । हि शब्दः प्रसिद्धि द्योतकः जलाशय तरंगेति । यथा समुद्रादि जलाशये तरंगा उपरिभावेन तिष्ठंति तेषु चोपरिभावेन बुद्बुदास्तिष्टंति इदं प्रसिद्धमिति हि शब्दार्थः न्यायो दृष्टांतः । एवं कूटस्थस्योपरिव्यावहारिकांतःकरणप्रतिबिंबरूपो यावद्व्यावहारमनुवर्तमानो व्यावहारिक जीवः कल्प्यते । तस्य चोपरिभावेन स्वप्नकाले वासनामय प्रातिभासिक रथादि वद्वासनामयांतःकरणप्रतिबिंबरूपः प्रातिभासिक जीवः कल्प्यत इत्यर्थः । तत्रेति त्रिविधजीवमध्य इत्यर्थः । अवछिन्न इति । देहद्वयावछिन्नकूटस्थ चैतन्यरूप आत्मा पारमार्थिक जीव इत्यर्थः । अहं ब्रह्मास्मीति महावाक्येषु । जीवब्रह्मणोरभेदः । प्रतिपाद्यते स च पारमार्थिक जीवकल्पने सति निर्वहति । अन्यथा व्यावहारिक प्रातिभासिक जीवयोश्शु ।। तस्मिन्नवच्छेदकस्य कल्पितत्वेपि अवछेद्यस्य तस्याकल्पितत्वेन ब्रह्मणा भिन्नत्वात् । तमावृत्यस्थितायां मायायां कल्पितेंतःकरणे प्. ८४अ) चिदाभास्येंतःकरण तादात्म्यापत्याहमित्यभिमन्यमानो व्यावहारिकः । तस्य मायिकत्वेपि यावद्व्यवहारमनुवृतेः । स्वप्ने तमप्यावृत्यस्थितया मायावस्थाभेदरूपया निद्रया कल्पिते स्वाप्न देहादावमभिमानीप्रातिभासिकः ।। क्तिरूप्यादिवत्स्वरूपतो मिथ्यात्वेन सत्यब्रह्माभेदायोगात् देहद्वयावछिन्नकूटस्थ रूपपारमार्थिक जीवस्यत्ववच्छेदकीभूत देह द्वयस्य कल्पितत्वेपि स्वतः सत्यत्वात् । संभवति ब्रह्माभेद इति पारमार्थिक जीवकल्पनायाः प्रयोजनं दर्शयति । तस्मिन्निति । अवछिन्न जीव इत्यर्थः । व्यावहारिक जीवं निरूपयति । तमिति । कूटस्थमात्मानमावृत्याविघायां स्थितायां सत्यां कूटस्थात्मनि कल्पितं यदंतःकरणं तत्र यश्चिदाभासः व्यावहारिक जीव इत्यर्थः । तदुक्तं कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिबिंबक इति । अहमित्यभिमन्यमान इति । अहमित्योवकारकाभिमानकर्तेत्यर्थः । नन्वहमाकारवृतिरूपेण परिणममानेंतःकरण एवाहमभिमानवत्वं युक्तं न तु चित्प्रतिबिंबस्यात आह । अंतःकरणेति । तस्य व्यावहारिकत्वे युक्तिमाह । तस्येति । न च व्यावहारिक जीवेमानाभाव इति वाच्यं । अहंकर्ता भोक्तेत्यादि रूपाहमनुभवस्य तत्र मानत्वात्कर्तृत्व भोक्तृत्वाद्यात्मसंसाराश्रयत्वस्यान्यत्रायोगाच्च । न चांतःकरणे तत्संभवः तस्य चिदाभास शून्यस्य चैतन्य धर्मत्वेन प्रसिद्धकर्तृत्वाद्या प्. ८४ब्) श्रयत्वायोगात् । चिदाभासस्य तु चेतनात्मप्रतिबिंबतया मिथ्याभूतस्यापि चेतनत्व व्यवहारयोग्यत्वेन तद्धर्माणां चेतन धर्मत्व प्रसिद्धि विरोधाभावात् । पारमार्थिक जीवस्य च संसारा श्रयत्वं न संभवति तस्य कूटस्थत्वादिति भावः । तमपीति । व्यावहारिकजीवमपीत्यर्थः । व्यावहारिक जीवो हि जाग्रद्दशायामात्मानं ब्राह्मणं देवदेत्तं यज्ञदत्त पुत्रं विष्णुभक्तस्मन्यते स्वाप्न जीवस्तु स्वप्नावस्थायामात्मानं क्षत्रियं विष्णुशर्मनामानं नारायण पुत्रं महादेव भक्तं मन्यते । अतो जाग्रज्जीवस्यावरणं सिद्धं प्रातिभासिक जीवेक ।। स्वप्रपंचेन सह तत् द्रष्टुर्जीवस्यापि प्रबोधे निवृतेरिति । एवमेते प्रतिबिंबेश्वर वादिनां पक्षे भेदादर्शिताः । विवरणानुसारिणस्त्वाहुः विभेदजनके ज्ञानेनाशमात्यंतिकं गते । आत्मनो ब्रह्मणो भेदमसंतंकःरिष्यति इति स्मृत्या एकस्यैवाज्ञानस्य जीवेश्वर विभागोपाधित्व प्रतिपादनाद्बिंब प्रतिबिंबभावेन जीवेन जीवेश्वरयोर्विभागः नोभयोरपि प्रतिबिंबभावेनोपाधिद्वयमंतरेणोभयोः प्रतिबिंबत्वा योगात् ।। ल्पकमाह । निद्रयेति । ननु मायायास्सर्वकल्पकत्वाभ्युप प्. ८५अ) वामात्कथं निद्रायाः कल्पकत्वमपसिद्धांतापतेरित्याशंक्य निद्रायास्तदवस्थारूपत्वाभ्युपगमान्नोक्त दोष इत्याशयेनाह । मायेति । न च निद्राया माया लक्षणाभावात् कथं तदवस्था विशेषरूपत्वमिति वाच्यं । आवरणविक्षेप शक्तिमत्वं हि माया लक्षणं तस्य लक्षणस्य जाग्रज्जिवावरिकायां स्वाप्नजगदात्मक विक्षेपकारिण्यां च निद्रायामक्ष तत्वादिति भावः । प्रातिभासिक जीवकल्पनायाः प्रयोजनमाह । स्वाप्नदेहादाविति । व्यावहारिक जीवस्याब्द तत्वेन स्वप्नकाले अहमभिमाअनकर्तृत्वासंभवादिति भावः । तस्य प्रातिभासिकत्वे हेतुमाह । स्वप्नप्रपंचेनेति प्रबोधकाले ब्राह्मणोहं न क्षत्रिय इत्यादि रूपेण बोधेन स्वप्न दृष्टुः क्षत्रियादि रूपस्य बाधानुभवादिति भावः ईश्वरविषये उक्त वक्ष्यमाण प्रकारभेद ज्ञानार्थमुपसंहरति । एवमिति । बिंबचैतन्यमेवेश्वरो न प्रतिबिंबविशेष इति वक्ष्यमाणविशेषार्थकस्तु शब्दः विभेदजनकत्वं जीवेश्वरभेदस्थितिप्रयोजकत्वं विवक्षितं न तु यथाश्रुतं तद्भेदस्यानादित्वाभ्युपगमात् । आत्यंतिकमिति स्वाय प्रलयादौ अज्ञानकार्यनाशेन तत्कारणाज्ञानस्यापि नाशोस्ति परिणामपरिणामिनोरभेदात् स चाज्ञाननाशो नात्यंतिकः । पुनरुत्थानात् । मुक्तौ तु तत्वज्ञानेन स्वरूपेणापि नाशोस्ति स चात्यंतिकः । पुनरुत्थानाभावादिति मत्वा अज्ञाननाशस्यात्यंतिकं विशेषणं दत्तं । यद्वा जीवन्मुक्तिकाले अज्ञानस्यावरणांशेन नाशेपि विक्षेपांशनाशा भावादनात्यंतिकस्सनाशः प्. ८५ब्) विदेह मुक्तौ तु आत्यंतिको ज्ञाननाश इति तदभिप्रायं तद्विशेषणमिति भावः प्रतिबिंबत्वायोगादिति । न च जीवैशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुत्या उभयोः प्रतिबिंबत्व प्रतिपादनविरोध इति वाच्यं । प्रतिबिंबत्ववद्बिंबत्वस्यापि कल्पिततया श्रुतिगताभासपदेन प्रतिबिंबद्बिंबस्यापि ग्रहणोपपतेः ।। तत्रापि प्रतिबिंबो जीवः बिंबस्थानीय ईश्वरः तथा सत्येव लौकिक बिंबप्रतिबिंब दृष्टांतेन स्वातंत्र्यमीश्वरस्य तत्पारतंत्र्यं जीवस्य च युज्यते ।। ननु लोके प्रतिबिंबत्व विशिष्टमुखे मुखाभासत्व व्यवहारात् । बिंबत्व विशिष्टमुखे तथा व्यवहाराभावादाभासपदं मुख्यवृत्या बिंबचैन्तन्यं प्रतिपादयितुं न शक्नोतीति खलु प्रतिबिंबवद्बिंबस्यापि विशिष्टरूपेण कल्पिततया कल्पितत्वगुणयोगेन बिंबपरमाभास पदं वक्तव्यं । तच्च न संभवति सकृदुच्चरितस्याभास पदस्य मुख्यवृत्या प्रतिबिंब परत्वं गुणवृत्या बिंबपरत्वमिति कल्पनस्य च्युत्पति विरुद्धत्वात् । न चाजहल्लक्षणया आभास पदस्य बिंबप्रतिबिंबोभय परत्वाभ्युपगमेनायं विरोध इति वाच्यं । उभयोरपि प्रतिबिंबरूपतामादायाभास पदस्य मुख्यार्थ परत्व संभवे सति लक्षणाकल्पनाया एवनिर्मूलत्वादिति चेदुच्यते । यथा श्रुतं प्. ८६अ) जीवेशयोरुभयोरपि प्रतिबिंबरूपत्वं न संभवति । बिंबभूतचैतन्यस्य सूर्यवदेकत्वेन उपाधिभेदं विना प्रतिबिंब द्वया संभवात् । न च माया चाविद्या च स्वयमेव भवतीति वाक्यशेषेणमाया विद्यारूपोपाधिद्वय प्रतिपादनात्न प्रतिबिंबद्वयानुपपतिरिति वाच्यं तेन स्वयं शब्दोपातायाः प्रकृतमूल प्रकृतेर्मायात्वा विद्यात्वलक्षणरूपभेद प्रतिपादनेपि प्रतिबिंबद्वयापेक्षितोपाधि द्वया प्रतिपादनान्मायाविद्ययोः स्वरूपतो भेदस्य सिद्धांत विरुद्धत्वाच्च । तस्माद्यथा श्रुतासंभवादेकस्यैवाज्ञानस्य जीवेश विभागप्रयोजकत्व प्रतिपादक स्मृत्यनुरोधाच्च जीवेशावाभासेन करोतीति श्रुतावाभासपदमजहल्लक्षणया बिंबप्रतिबिंबोभयपरमिति विवरणानुसारिणामाशय इति । तत्रापीति । बिंबप्रतिबिंबयोरुभयोर्मध्येपीत्यर्थः । तत्र युक्तिमाह । तथा सत्येवेति । बिंब चैतन्यस्यैवेश्वरत्वाभ्युपगमे सतीत्यर्थः । स्वातंत्र्यमिति । एष सर्वेश्वर एष भूताधिपतिरित्यादि श्रुति सिद्धमिति शेषः । तत्पारतंत्र्यमिति एष ह्येव साधुकर्मकारयति । य आत्मानमंतरोयमयति ईश्वरप्रेरितो गच्छेत्स्वर्गं वाश्वभ्रमेव वेत्यादि श्रुतिस्मृति सिद्धमिति शेषः ।। प्रतिबिंबगताः पश्यनृजुवक्रादि विक्रियाः पुमान् क्रीडेद्यथा ब्रह्मतथा जीवस्थ विक्रिया इति कल्पतरूक्तरीत्यालोकवतुलीला प्. ८६ब्) कैवल्यमिति सूत्रमपि संगच्छते । अज्ञानप्रतिबिंबितस्य जीवस्यांतःकरणरूपो ज्ञान परिणामभेदोविशेषाभिव्यक्ति स्थानं सर्वतः प्रसृतस्य सवितृप्रकाशस्य दर्पण इव ।। लौकिक दृष्टांतमेव कल्पतरुश्लोकोदाहरणेन दर्शयति । प्रतिबिंबगता इति । यथालोके कश्चित्पुरुषः स्वप्रतिबिंबगताः ऋजुवक्रादि विक्रियाः बिंबभूत स्वप्रयुक्ताः पश्यन् क्रीडति तथा ब्रह्मापि जीवस्थ विक्रियाः प्राणिकर्मानुसारेण स्वप्रयुक्ताः पश्यन् क्रीडतीति योजनाकल्पतरूक्तरीत्या ईश्वरस्य स्वातंत्र्य प्रतिपत्युपयोगिन्येश्वरस्य स्वातंत्र्य प्रतिपादकं सूत्रमपि संगच्छत इत्यर्थः । सूत्रार्थस्तु ईश्वरस्याप्त कामत्वेन प्रयोजनोद्देशाभावात् । सृष्ट्यादि व्यापारेषु प्रवृतिर्न संभवतीति पूर्वपक्षव्यावृत्यर्थकस्तु शब्दः ईश्वरस्य सृष्ट्यादि प्रवृतिलक्षणक्रिया केवलं प्रयोजनोद्देशं विनैव लीलालोकवत् । यथा लोके सार्वभौमादेस्सर्वैर्मानुषैः भौगैस्संपन्नतमस्य प्रयोजनाभिसंधिं विनैव क्रीडा दृश्यते तद्वत् । किं च ईश्वरस्य प्रयोजनोद्देशाभावेपि स्वभावादेवसृष्ट्यादि प्रवृतिरुपपद्यते । दृश्यते हि सुखोद्रेकानुभव प्रयुक्ताहासगानादि रूपाप्रयोजनोद्देशरहिता लीलाप्राणिनां स्वाभाविकी प्. ८७अ) न हि तत्र प्रयोजनमपि संभावयितुं शक्यते । दुःखोद्रेकेरोदन वत्सुखोद्रेकेहासगानादेः प्रयोजनरहितस्य सर्वानुभव सिद्धत्वात् । अत एव हसित रुद्रितादिषु कारणमेव पृच्छति न प्रयोजनं । उक्तं च मांडूक्य श्रुतौ । देवस्यैष स्वभावोयमाप्तकामस्य कास्पृहेति । एषः सृष्ट्यादि व्यवहार इत्यर्थः । किं च स्वप्न सृष्टिवन्मायामयी प्रपंच सृष्टिरस्माभिरुपेयते । न च तत्र प्रयोजन प्रष्णोन्याययस्वप्नसृष्टौ प्रयोजन प्रष्णादर्शनादिति भावः । ननु यद्यज्ञानं जीवस्योपाधिस्तर्हि व्यर्थमंतःकरणस्य जीवोपाधित्ववर्णनं सूत्रभाष्यादिषु तत्राह अज्ञानेति । विशेषाभिव्यक्ति स्थानमिति । अविद्या प्रतिबिंब चैतन्यरूपस्य सुषुप्ति साधारणस्य प्रमातृत्व कर्तृत्व भोक्तृत्वादि विशेषरूपेणया अभिव्यक्तिरुपलब्धिस्तस्याः स्थानमुपाधिरित्यर्थः ।। प्. ८७ब्) अतस्तस्य तदुपाधिकत्व व्यवहारोपि नैतावताः ज्ञानोपाधिपरित्यागः अंतःकरणोपाधिपरिछिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यूहाधिष्ठानत्वानुपपतेः ।। एतदुक्तं भवति । कर्तृत्वादि धर्माणां केवलाज्ञानपरिणामत्वा भावेन तदुपाधिमात्रान्नजीवस्य कर्तृत्वादि धर्मरूपविशेषलाभः किं तु कर्तृत्वादि विशेष वदंतःकरण तादात्म्याध्यासादेवतल्लाभ इति न तदुपाधिनिरूपणं व्यर्थमिति । अत इति । अंतःकरणस्य विशेषाभिव्यक्ति स्थानत्वाभ्युपगमादित्यर्थः । व्यवहारोपीति । कार्योपाधिरयं जीव इति श्रुतौ सूत्रभाष्यादिषु चेति शेषः । विभेदजनके ज्ञानेनाशमात्यंतिकं गते । आत्मनो ब्रह्मणोभेदमसंतंकः करिष्यतीति विष्णुपुराणवचने जीवस्याज्ञानोपाधिकत्व व्यवहारवदित्ययेरर्थः । ननु कार्योपाधिरयं जीव इति श्रुति वलादज्ञानोपाधि परित्याग उचितः कार्योपाधिकत्वविशेषणस्य कारणोपाधिकत्व व्यावर्तकत्वादित्याशंक्य स्मृतिविरोधान्न तस्य कारणोपाधिव्यावर्तकत्वमये यत इत्याशयेनाह । नैतावतेति । श्रुतौ कार्योपाधिकत्वविशेषणमात्रेणेत्यर्थः । ननु श्रुति विरोधे स्मृतेरेवान्यथा नयनमुचितं । तत् नयनप्रकार श्रेत्थं प्. ८८अ) स्मृतावज्ञानपदं तत्कार्यांतःकरणपरं जीवोपाध्यंतःकरणस्य नातात्वेप्यज्ञान इत्येक वचनं जात्यभिप्रायं तथा चांतःकरणावछिन्न आत्माजीवस्तदनवछिन्न आत्मा ईश्वर इति जीवब्रह्मविभागप्रयोजकमंतःकरणमिति स्मृत्यर्थो भविष्यतीति इमामाशंकां निवर्तयितुं कार्योपाधिमात्रस्य जीवतोपाधित्वं निराकरोति । अंतःकरणोपाधि परिछिन्नस्यैवेति नाज्ञानोपाधिकस्यैत्येव कारार्थः । अनुपपतेरिति कायव्यूहाधिष्ठानं हि युगपदनेकशरीर नियंतृत्वं तच्च योगिनो योगप्रभावान्निर्मितेषु सर्वशरीरेषु युगपदवथितस्य वक्तव्यं । नचांतःकरणावछिन्नरूपस्य योगिनस्तत्संभवति तस्य परिछिन्नतादक्षानस्य जीवोपाधित्वे तु तत्संभवति तस्य व्यापकत्वेन तदुपाधिकस्य योगिजीवस्य युगपत्सर्वशरीरेषु सन्निधानोपपतेस्तथा च श्रुत्यपेक्षयास्मृतेर्दुर्वलत्वेपि कायव्यूहाधिष्टान्वानुपपति सहितस्मृतेर्बलवत्वात् तदनुरोधेन कार्यापाधिरयं जीव इति श्रुतौ कार्योपाधिपदं स्वरूपकथनमात्र परं न कारणोपाधि व्यावर्तक विशेषण परमिति भावः ।। न च योगप्रभावात् । योगिनोंतःकरणं काय प्. ८८ब्) व्यूहाभिव्यक्ति योग्यं वैपुल्यं प्राप्नोतीति तदवछिन्नस्य काय व्यूहाधिष्ठानत्वं युज्यत इति वाच्यं । प्रदीपवदावेशस्तथा हि दर्शयतीति शास्त्रोपांत्याधिकरणभाष्यादिषु कायव्यूहे प्रतिदेहमंतःकरणस्य चक्षुरादि वद्भिन्नस्यैव योगप्रभावात् सृष्टेरुपवर्णनात् ।। वैपुल्यमिति व्यापकत्वमित्यर्थः । अधिष्ठानत्वमिति प्रेरकत्वमित्यर्थः । प्रदीपवदिति । यथा एकस्य प्रदीपस्यानेक वर्तिकावेशः तथा योगिनो योग प्रभवादनेकेष्वेकदा आवेशः यद्युपि प्रदीपस्य वर्त्याविष्टदीपानां च भेदोस्ति योगिनस्तु सर्वदेहेष्वैक्यमिति दृष्टांतदार्ष्टांतिकयोर्वैषम्यमस्ति । तथापि दीपत्वजात्यभेदं व्यक्तिश्चारोप्यतयोः संगतिरवगंतव्या तथाहि दर्शयति श्रुतिरेकस्य योगिनोनेकधाभावं स एकधा भवंति त्रिधा भवति पंचधा सप्तधेत्यादिका न च योगिनो युगपदनेक शरीरेष्ववस्थानमंतरेण श्रुतिसिद्धानेकधा भाव उपपद्यत इति सूत्रार्थः । सृष्टेरुपवर्णनादिति । तथा एकस्यैवांतः करणस्य कायव्यूहाभिव्यक्तियोग्यवैपुल्याभ्युपगमे भाष्यादि विरोध इति भावः । अत्र प्. ८९अ) यद्यपि योगिनो निजसिद्धांतःकरणमेव योगप्रभावाद्वैपुल्यं प्राप्यस्वावछिन्नचैतन्यरूपस्य योगिनः काय व्यूहाधिष्ठान भोगादिकं घटयतीत्येव भाष्यादीनां तात्पर्यं वक्तुमुचितं न तु यथा श्रुतं नानांतःकरणसर्गे आगंतुकानेकांतःकरणसृष्ट्युपगमे असत्कार्यवादापातात् कल्पनागौरवाच्च हिरण्यगर्भादीनां योगप्रभावादेवांडव्यापि समष्ट्यांतःकरणाभ्युपगमाच्च । न हि हिरण्यगर्भादीनां पूर्वजन्मनियजमानावस्थायां तदीयांतःकरणानां व्यापित्वे प्रमाणमस्ति । तथा सत्यस्मदाद्यंतःकरणानामपि व्यापित्वापतेः भाष्यादिषु अंतःकरणसृष्टिवर्णनस्यमतांतराभिप्रायत्वोपपतेश्च एषैव च योगशास्त्रेषु योगिनामनेक शरीरयोगप्रक्रियेति भाष्ये एवमतांतरोपदर्शनात् । योगशास्त्रेष्वेव च एष्य प्रक्रियेति । एव करान्वयोपपतेस्तथापि । शास्त्रोपांत्याधिकरण यथा श्रुतभाष्याद्यभिप्रायेणेदं दूषणमिति मंतव्यं ।। प्रतिबिंबे बिंबाद्भेदमात्रस्याध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वात् । न प्रतिबिंबरूप जीवस्य मुक्तान्वया संभव इति । न तदतिरेकेण प्. ८९ब्) मुक्तान्वयावछिन्नरूपजीवांतरं वा प्रतिबिंबजीवातिरिक्तं जीवेश्वर विलक्षणं कूटस्थ शब्दितं चैतन्यांतरं वा कल्पनीयं अविनाशीवारेऽयमात्मेति श्रवणं जीवस्य तदुपाधिनिवृतौ प्रतिबिंबभावापगमेपि स्वरूपं न विनश्यतीत्ये तत्परं न तदतिरिक्त कूटस्थ नाम चैतन्यांतरपरं ।। वस्तुतस्तु अंतःकरणावछिन्न चैतन्यं जीवस्तदनवछिन्नमीश्वर इति पक्षे अंडांतर्गत चैतन्यस्य सर्वात्सना तदवछेदादनवछिव चैतन्यरूपेश्वरस्थांडाद्वद्बहिरेव सत्वं स्यादि वक्ष्यमाणदूषणे तात्पर्यं । यदि वा नवछिन्न चैतन्मीश्वर इत्यनेन निरुपाधिकं चैतन्यमीश्वर इति विवक्षितं तदा तस्य सर्वत्र सत्वेनांडाद्भिरेव सत्वापति दोषाभावेपि कारणोपाधिरीश्वर इति श्रुति विरोधं दोषो दुर्वारस्तस्मात्कारणोपाधिकत्वमीश्वरवज्जिवस्याप्युपगंतव्यं स्मृत्यनुसारादिति स्थितं यत्तु चित्रदीपे प्रतिबिंबचैतन्यरूप जीवस्य स्वरूपतो मिथ्यात्वा तस्य मुक्त्यन्वयायोग इति तदन्वययोग्यं कूटस्थ नामकं जीवेश्वरविलक्षणं किंचिच्चैतन्य परिकल्प्य प्. ९०अ) चिच्चातुर्विध्यं दर्शितं । यदपि च दृक् दृश्य विवेके प्रतिबिंब मिथ्यात्वमेवाश्रित्य मुक्त्यन्वया यावछिन्न चैतन्यस्य पारमार्थिक जीवत्वं कल्पितं तदुभयमप्ययुक्तं । बिंबप्रतिबिंबयोर्भेदमात्रस्य कल्पिततया स्वतस्तयोर्भेदे मानाभावादित्याशयेनाह । प्रतिबिंबे बिंबादिति । स्वरूपस्य कल्पितत्व व्यवछेदो मात्र शब्दार्थः । न तदतिरेकेणेति । प्रतिबिंबजीवातिरेकेण जीवांतरं वा कूटस्थ शब्दित चैतन्यांतरं वा न कल्पनीयमिति संबंधः । एवं व्यावहारिक जीवातिरेकेण प्रातिभासिक जीवोपि न कल्पनीयः प्रमाणाभावान्नवव्यावहारिक जीवस्य स्वप्नकाले आवृतत्वेन तस्य तदा व्यवहर्तृत्वानुपपतिस्तत्कल्पने प्रमाणमिति वाच्यं । जीवचैतन्य आवरणाभावस्य साक्षिनिरूपणावसरे वक्ष्यमाणत्वेन जाग्रज्जिवस्य स्वप्नेपि व्यवहारकर्तृत्वोपपतेः योहं स्वप्ने श्रीकृष्णमद्राक्षंस एवेदानीं जाग्रत्पुनः तं स्मरामीति जाग्रत्स्वप्नदृष्टोरभेदप्रत्यभिज्ञानात् संस्कारोद्बोधाभावादि कारणवशादेव कदाचिद्ब्राह्मणत्वाद्यप्रतीत्युपपतेश्च न च स्वप्रपंचेन सह तदृष्टुर्वाध दर्शनं प्रातिभासिक जीवकल्पने प्रमाणमिति वाच्यं । प्रबोधकालेनाहं क्षत्रिय इत्यादि रूपवाध ।। प्. ९०ब्) जीवोपाधिनांतःकरणादिनावछिन्नं चैतन्यं बिंबभूत ईश्वर एवयोविज्ञानेतिष्वन्नित्यादि श्रुत्या ईश्वरस्यैव जीवसन्निधानेन दंतर्यामि भावेन विकारांतरवस्थान श्रवणादिति ।। क प्रत्ययस्यात्मन्यारोपित क्षत्रियत्वादि मात्रबाधकत्वेन स्वप्नद्रष्ट्रर्वाधत्वा भावादन्यथा पूर्वोदाहृत द्रष्ट्रैक्य प्रत्यभिज्ञा न विरोधातस्मात्प्रातिभासिक जीवकल्पनमपि प्रामाणिकं न भवतीति बोध्यं । यदपि चिच्चातुर्विध्यवादिभिरुक्तं तान्येवानुविनश्यति अविनाशी वा अरेयमात्मेति वाक्याभ्यां प्रकृते प्रज्ञान घनात्मनि विनाशित्वाविनाशित्वरूपविरुद्धधर्मद्वयप्रतिपादनातदुपपतये विनाशि प्रतिबिंब व्यतिरेकेण विनाशरहित कूटस्थ चैतन्यं सिध्यतीति तदपि मंदं । अविद्याप्रतिबिंबचैतन्यरूपे जीव एव प्रतिबिंबत्वरूपविशेषणांशताशाभिप्रायेण विनाशवचनस्य विशेष्य चैतन्यांशाभिप्रायेण विनाशाभाव प्रतिपादकवचनस्य चोपपतौ धर्मिभेद कल्पनस्य गौरवुपराहतत्वादित्याशयेनाह । अविनाशीवेति । न्वन्वविद्याप्रतिबिंबो जीवस्तत्बिंब ईश्वरः बिंबप्रतिबिंबानुगतचैतन्यं शुद्धचैतन्यमिति विवरणपक्षे देह प्. ९१अ) द्वयोपादानतया तदछिन्नस्य पारमार्थिक जीवनामकतया कूटस्थ नामकतया च चिच्चातुर्विध्यवादिभिरंगीकृतस्य चैतन्यस्य कुत्रांतर्भाव उपेयनेन तावज्जिवे शुद्धचैतन्येवांतभीवः संभवति तयोरुपादानत्वाभावेन देहद्वयोपादानकूटस्थस्य तयोरंतर्भावायोगान्नापि बिंबभूतेश्वरे तस्यांतर्भावः संभवति ईश्वरस्य जीव तदुपाध्यंतःकरणादि सन्निहिततया देहादि विकारेष्ववस्थाने प्रमाणाभावात् । कूटस्थनामक चैतन्यस्य च कूटस्थवादिभिस्तथा त्वांगीकारादित्यत आह । जीवोपाधिनेति । अविद्याप्रतिबिंबरूपजीवस्य विशेषाभिव्यक्ति प्रयोजकौपाधिनेत्यर्थः । प्राणचक्षुरादिकमादि पदार्थः । ईश्वर एवति । न शुद्धं ब्रह्मनापि प्रतिबिंबरूपजीव इत्येव कारार्थः । चेतनाचेतनात्मक निखिलप्रपंचोपादानत्व प्रतिपादक श्रुतिस्मृति सहस्रस्य बिंबभूतेश्वरस्य देहाद्युपादानतया देहादि विकारेष्वंतरवस्थाने प्रमाणत्वात् । कूटस्थस्य च ततो भेदे मानाभावादिति भावः न केवलमुपादानत्वप्रतिपादकशास्त्रमेव तत्र प्रमाणं किं तु चेतनाचेतनात्मक सकलजगन्नियंतृत्व प्रतिपादकमंतर्यामि ब्राह्मणमपि बिंबभूतेश्वरस्य प्. ९१ब्) विकारेष्वंतरवस्थने प्रमणमित्याह । यो विज्ञाने तिष्ठन्नित्या ।। अन्ये तु रूपानुपहित प्रतिबिंबो न युक्तः सुतरां च नीरूपे गगनप्रतिबिंबोदाहरणमयययुक्तं ।। दिश्रुत्येति । विज्ञानादंतरोयं विज्ञानं न वेदयस्य विज्ञानं शरीरं यो विज्ञानमंतरोयमयतीत्यादि वाक्यमादि पदेन गृह्यते । अत्र विज्ञानपदं जीवपरं बृहदारण्यके । माध्यंदिमपाठेय आत्मनि तिष्ठन्निति पर्याय स्थाने काण्वपाठे यो विज्ञाने तिष्ठन्निति पर्यायाम्ना न दर्शनेन काण्वपाठे विज्ञानपदस्य आत्मपद समानार्थकत्वावगमादात्मपदं चात्र जीवपरं तस्य तत्र रूढत्वादात्मपदस्य जीवेश्वर साधारणत्वेपि नियम्यत्वलिंगेन प्रकृते जीवपरत्वावश्यं भावादिति भावः । जीवसन्निधानेनेति । ईश्वरस्य जीवादि नियंतृत्वं हि व्यवहित राजादेः प्रजानियंतृत्ववत्र भवति । किं तु नियम्य जीवादि सन्निधानेनैव य आत्मनि तिष्ठन्निति सन्निधानप्रतीतेरित्यर्थः । अंतर्यामि ब्राह्मणवाक्यग्रहणं स्मृतेरप्युपलक्षणं । तथा च भगवद्गीता स्मृतिः ईश्वरस्सर्वभूतानाहृद्देशेर्ज्जनतिष्वति । भ्रामयन् सर्वभूतानियंत्रारूढानि प्. ९२अ) माययेति । भूतानि प्राणिनः यंत्रं शरीरं तदारूढत्वं तत्राहं ममाभिमान नवत्वं भ्रामयन्निति कर्मानुसारेण प्रवर्तयन्निवर्तयत्यर्थः । ईश्वरस्य नियंतृत्वं मायोपाधिकमेव न वास्तवमित्याशयेन माययेत्युक्तं । एवं चैतन्यस्य प्रतिबिंबत्वमुपगच्छताम्मतभेदेन जीवेश्वर विभागो दर्शितः । इदानीं तदमनभ्युपगंतॄणां मतेन जीवादि स्वरूपं दर्शयितुं चैतन्यस्य प्रतिबिंबं निराकरोति । अन्येतिति । रूपानुपहितेति । लोके रूपवत एव चंद्रादेः प्रतिबिंबो दृश्यतेन रूपरहितस्य वायवादेरिति व्याप्ति दर्शनान्नीरूप चैतन्यस्य प्रतिबिंबत्वासंभव इत्यर्थः । इतश्च चैतन्यस्य न प्रतिबिंबत्व संभव इत्याह । सुतरां नीरूप इति अविद्यांतःकरणादाविति शेषः । रूपवत् एव द्रव्यस्य प्रतिबिंब इति नियमस्य वक्ष्यमाणरीत्यागगने व्यभिचार सत्वेपि रूपवत्येवोपाधौ प्रतिबिंब इति नियमस्य न क्वचिदपि व्यभिचार इति मत्वासुतरामित्युक्तं । ननु नीरूपगगनस्य कूपजलतटाकादौ प्रतिबिंबानुभवान्निरूप द्रव्यस्य प्रतिबिंबाभाव इति नियमो नास्तीत्याशंक्याह । गगनेति । कूपजलादौ तावदा लोकप्रतिबिंबस्संप्रतिपन्नस्तस्मिन् गगनप्रतिबिंबत्वभ्रमो लोकानामिति कल्प्यतेन तु वस्तुतः तत्र गगन प्रतिबिंबोस्ति उक्त प्. ९२ब्) नियम विरोधात् ।। गगनाभोगव्यापिनि सवितृकरमंडले सलिले प्रतिबिंबिते गगनप्रतिबिंबत्व व्यवहारस्य भ्रममात्रमूलकत्वात् । ध्वनौवर्णप्रतिबिंबत्ववादोप्युक्तः व्यंजकतया सन्निधानमात्रेण ध्वनि धर्माणामुदात्तत्वादनां वर्णेष्वारोपोपतेर्ध्वनेर्वर्ण प्रतिबिंबोपाधिकत्व कल्पनायानिःप्रमाणकत्वात् ।। भ्रमप्रयोजकं दोषमाह । गगनाभोगव्यापिनीति आभोगो विस्तारः गगनो परिभागे व्याप्यवर्तमानस्य सवितृकिरणमंडलादेर्जले प्रतिबिंबदशनातदनुगगनस्य जले प्रतिबिंब भ्रम इत्यर्थः । ननु यथा वहिर्नीलं नभः विशालं नभ इत्यादि रूपेण गगनमनुभूयते । एवं कूपतटाकादि जलेपि नीलं नभो विशालं नभ इत्यादिरूपोनुभवस्सर्व संप्रतिपन्नः । न च कूपजलादौ प्रतीयमानवैशाल्यादि युक्तां नभो वस्तुतोस्मि । अतः प्रतिबिंबरूपमेव । तत्र दृश्यमानं नभो भवतीति वक्तव्यं । ततश्च कथं गगन प्रतिबिंबापलापः क्रियते । न च नीरूपस्य प्. ९३अ) प्रतिबिंबासंभवादिति वाच्यं । रूपसंख्या परिमाणादेर्नीरूपस्यापि प्रतिबिंब दर्शनान्न च द्रव्यत्वमपि विशेषणं विवक्षितमिति वाच्यं । सिद्धांते द्रव्यगुणादि परिभाषाया अनुभ्युपगमातदभ्युपगमपि गगनप्रतिबिंबानुरोधेन न रूपोपहित द्रव्यस्य प्रतिबिंबः तदुपहितत्वं च वस्तुतः स्वगतरूपेण स्वस्मिन्नारोपित रूपेण वेति नियमकल्पनोपपतेश्च । तथा च बहिरारोपित नैल्यादि विशिष्टगगनस्य जलादौ प्रतिबिंबाभ्युपगमेन किंचिद्बाधकं न च जलादौ संप्रतिपन्नालोकप्रतिबिंबातिरिक्त गगनप्रतिबिंबाभ्युपगमे गौरवमेव बाधकमिति वाच्यं । आलोकप्रतिबिंबे गगनप्रतिबिंबत्व भ्रमाभ्युपगमेपि तद्भ्रमविषयस्य आलोकप्रतिबिंबाधिकरणकस्य शुक्तिरूप्यादि वदनिर्वचनीयस्य गगनप्रतिबिंबत्वस्याभ्युपगंतव्यत्वेन गौरवस्य तुल्यत्वादनुभवानुसारि गौरवस्यादोषत्वाच्च तस्मादूपवत एव द्रव्यस्य प्रतिबिंब इति नियमस्य गगनप्रतिबिंबस्थले व्यभिचारो दुर्वार इति चेत्सत्यं । तथापि चैतन्यस्य प्रतिबिंबो न संभवति नीरूपांतःकरणादेः प्रतिबिंबोपाधित्वासंभवादित्यत्रैव तात्पर्यं । ननु नीरूपेपि ध्वनौ नीरूपद्रव्यात्मक वर्णानां प्रतिबिंबोस्तीति वक्तव्यं । तथा सत्येव दर्पणश्यामतायाः दर्पणगत प्रतिबिंबे प्. ९३ब्) मुख इवध्वनिगतानांतारत्वादीनां ध्वनिगतवर्ण प्रतिबिंबद्वारावर्णेष्वारोपस्संभवति नान्यथा । एवं नीरूपांतःकरणादौ नीरूपात्मनः प्रतिबिंबसंभव इत्याशंक्य दृष्टांतं विघटयति । ध्वनाविति प्रतिध्वनिरपि न पूर्वशब्दप्रतिबिंबः पंचीकरणप्रक्रियया पटहययोनिधिप्रभृति शब्दानां क्षिति सलिलादि शब्दत्वेन प्रतिध्वनेरेवाकाशशब्दत्वेन तस्यान्यशब्दप्रतिबिंबत्वायोगात् । वर्णरूपप्रतिशब्दोपि न पूर्ववर्ण प्रतिबिंबः वर्णाभिव्यंजकध्वनि निमित्तक प्रतिध्वनेर्मूलध्वनि वदेव वर्णाभिव्यंजकत्वेनोपपतेः । तस्मात् घटाकाशवदंतःकरणावछिन्नं चैतन्यं जीवः तदनवछिन्नं चैतन्यमीश्वरः ।। ननु पटहाख्य वाद्यविशेषादि शब्दोत्पति काले पाषाणविशेषादि सन्निहिताकाश प्रदेशेषु प्रतिध्वनि श्रूयते सः पूर्वशब्दप्रतिबिंब एव नमख्य ध्वनिस्तदुत्पत्तौ कारणाभावा तथा च यथा नीरूपाकाशप्रदेशेषुनीरूपध्वनेः प्रतिध्वनिनिरूपः प्रतिबिंबः प्. ९४अ) तथा प्रकृते किं न स्यादिति नेत्याह । प्रतिध्वनिरपीति । न च प्रतिध्वनेरुत्पादकाभावश्शंकनीयः आकाशस्यैवोपादानस्य सत्वात्पूर्वशब्दस्य निमितकारणस्य सत्वाच्च । न च प्रतिध्वनेः प्रतिबिंबत्वेप्याकाशगुणत्वं किं न स्यादिति वाच्यं । बिंबप्रतिबिंबयोर्भेदपक्षे प्रतिध्वनिरूप प्रतिबिंबस्य प्रातिभासिकत्वेन व्यावहारिक गुणत्वानुपपतैस्तदभेदपक्षे बिंबभूत पृथिव्यादिशब्द पेक्षया प्रतिधवनिरूप प्रतिबिंबस्य भेदाभावेन तस्याकाशगुणत्वानुपपतेरिति भावः । ननु वर्णरूप प्रतिशब्दस्य वर्णप्रतिबिंबत्वमवश्यं वाच्यं । न तु साक्षाद्वर्णरूपत्वं प्रतिवर्णाभिव्यक्ति स्थले वर्णव्यंजक कंठताल्वादेरभावा तथा च यथा तत्र पर्वत गुहादि सन्निहितेषु नीरूपेष्वाकाश प्रदेशषुनीरूपाणां वर्णानां प्रतिबिंबस्तथा प्रकृते किं न स्यादिति नेत्याह । वर्णरूपप्रतिशब्दोपीति । प्रतिध्वनिवदित्यपि शब्दार्थः कंठताल्वादि स्थलेपि न कंठादेर्वर्णव्यंजकत्वं किं तु कंठताल्वाद्यभिघातजन्यध्वनेस्तथा च यथा मूलध्वनिवर्णव्यंजकः । एवं प्रतिवर्णाभिव्यक्तिस्थले उत्पन्नः प्रतिध्वनिरेव तत्र वर्णानां व्यंजकः संभवतीति । न प्रतिवर्णानां प्रतिबिंबरूपत्वमभ्युपगंतव्यमित्यर्थः चैतन्यप्रतिबिंबनिराकरणमुपहरति । तस्मादिति । चैतन्य प्. ९४ब्) प्रतिबिंबा संभवादित्यर्थः ।। न चैव मंडांतर्वर्तिनश्चैतन्यस्य ततदंतःकरणोपाधिभिः सर्वात्मनाजीवभावेनावछेदा ततदवछेदरहित चैतन्यरूपस्यैश्वरस्यांडाद्बहिरेव सत्वं स्यदिति यो विज्ञाने तिष्ठन्नित्यादावंतर्यामि भावेन विकारांतरवस्थान श्रवणं विरुध्यते । प्रतिबिंबपक्षेत जलगतस्वाभाविकाशे सत्येव प्रतिबिंबाकाश दर्शनादेकत्र द्विगुणीकृत्य वृतिरुपपद्यते इति वाच्यं । यतः प्रतिबिंबपक्षेपि उपाधावनंतर्गतस्यैव चैतन्यस्य तत्र प्रतिबिंबाच्यः । न तु जल चंद्रन्यायेन कृत्स्न प्रतिबिंबः तदंतर्गत भागस्य तत्र प्रतिबिंबासंभवात् । न हि मेघावछिन्नस्याकाशस्यालोकस्य वा जले प्रतिबिंबवत् जलांतर्गतस्यापि तत्र प्रतिबिंबो दृश्यते न वा मुखादीनां बहिस्थिति प्. ९५अ) समये इव जलांतर्निमज्जनेपि प्रतिबिंबोस्ति ।। अंतःकरणानवछि चैतन्यस्येश्वरत्वे अंतःकरणादिषु सर्वविकारेषु परमेश्वरस्यांतर्यामि भावेनावस्थान प्रतिपादक श्रुति विरोधं शंकते । न चैवमिति । विरुध्यत इति । तथा च श्रुति विशेधपरिहाराय प्रतिबिंबपक्ष एव स्वीकर्तव्य इति भावः प्रतिबिंबपक्षाश्रयणेपि श्रुति विरोधमाशंक्याहं । प्रतिबिंबपक्षेत्विति । तु शब्दसूचितं विशेषमेव दर्शयति । जलगतेति द्विगुणीकृत्येति । प्रतिबिंबरूपजीवभावेन तदुपाध्यंतर्यामि भावेन चेत्यर्थः । प्रतिबिंबपक्षेपि अंतर्यामि ब्राह्मणविरोधो दुष्परिहर इत्याह । यत इति । यत ईश्वरे अंतर्यामि ब्राह्मणां तस्याभावस्तुल्योतो न च वाच्यंमिति संबंधः । तत्रेति । अंतःकरणादावित्यर्थः । ननु यथा जले कृत्स्नस्य चंद्रमंडलस्य प्रतिबिंबस्तथा कृत्स्नस्यैव चैतन्यस्यांतःकरणादौ प्रतिबिंबोस्तनतूपाध्यनंतर्गत चैतन्यभागस्यांडाद्बहिर्भूतस्य तथा च बिंबभूतेश्वरस्यांडातरेपि सत्वान्नांतर्यामि ब्राह्मणविरोधतौल्यमिति नेत्याह । न त्विति । असंभवमेव दर्शयति । न हीति । आलोकस्य वेति बहिस्थितस्येति शेषः जलांतर्गतस्यापीत्या प्. ९५ब्) काशादेरित्यनुषंगः तत्रेति जलादावित्यर्थः उदाहरणांतरमाह । नवेति ।। अतो जलप्रतिबिंबं प्रतिमेघाकाशादेरिवांतःकरणाद्युपाधि प्रतिबिंबं प्रतितदनंतर्गतस्यैव बिंबत्वं स्यादिति बिंबभूतस्य विकारांतरवस्थानायोगादीश्वरेंतर्यामि ब्राह्मणांजस्याभावस्तुल्यः ततः किं तत्राह । अत इति । उपाध्यंतर्गतभागस्य तत्र प्रतिबिंबा संभवादित्यर्थः । तदनंतर्गतस्यैवेति चैतन्यस्येति शेषः । दृष्टानुरोधित्वात्कल्पनाया इति भावः विकारांतरिति । अंटांतर्गत चैतन्यभागस्य उपाध्यांतर्गतत्वातद्बहिस्थितस्यिव चैतन्यस्य बिंत्वं वाच्यंमिति बिंबभूतेश्वरोप्यंडात् बहिरेव स्यादित्यर्थः । यदि च प्रतिबिंबपक्षे ईश्वरस्य सर्वांतर्यामित्वप्रतिपादक श्रुत्याद्यनुसारेण लोकदृष्टिमनादृत्यकृत्स्न चैतन्यप्रतिबिंबमुपेत्यांतर्यामि ब्राह्मणांजस्यमुपपाद्यते । तदा नवछिन्नचैतन्यमीश्वर इति पक्षेप्यंतःकरणाभावावछिन्नचैतन्यमीश्वर इति विवक्षितमंतःकरणस्य कल्पितत्वैन चैतन्येतःकरणाद्यवछेदेनाप्यंतःकरणाभावस्य वास्तवस्य मत्वेन प्. ९६अ) तदवछिन्नचैतन्यरूपेश्वरस्य सर्वविकारांतरवस्था न संभवा तत्प्रतिपादक ब्राह्मणांजस्य तुल्यमिति । समाधानं बोध्यं । अभावस्यापीश्वरोपाधित्वमुक्तं । तृप्तिदीपे । अंतःकरणसाहित्यराहित्याभ्यां विशिष्यते । उपाधिं जीवभावस्य ब्रह्मतायाश्च नान्यथा । यथा विधिरुपाधिः स्यात् । प्रतिषेधस्तथा न किं सुवर्णलोहभेदेन शृंखलात्वं न भिद्यते अतद्व्यावृतिरूपेण साक्षाद्विधि मुखेन च वेदांतानां प्रवृतिः स्यात् द्विधेत्याचार्य भाषितमिति । श्लोकानामयमर्थः । जीवत्व ब्रह्मत्वयोरुपाधिरंतःकरणसाहित्यराहित्याभ्यां विशिष्यते भिद्यते तत्साहित्यं जीवत्वोपाधिः । तद्राहित्यं ब्रह्मताया उपाधिरिति जीवेश्वरोपाधिभेद इत्यर्थः । नान्यथा न प्रकारांतरेण जीवभावाद्युपाधिरित्यर्थः । ननु भावस्यैवोपाधित्वं नाभावस्येत्याशंक्य विनिगमनाविरहमाह । यथेति । भाववदभावस्य व्यावर्तकोपाधित्वे विशेषो नास्तीत्यत्र दृष्टांतमाह । सुवर्णेति । शृखलात्वं नामयथेष्टसंचारव्यावर्तकत्वं । ननु भावरूपांतःकरणादेर्द्रष्ट्रत्वादिरूपेण जीवोपलब्धि साधनत्वा तस्य जीवोपाधित्वं युक्तमित्याशंक्यतर्ह्यंतःकरणनिषेधस्यापि ब्रह्मोपलब्धि साधनं त्वात् तस्य ब्रह्मोपाधित्वं युक्तमित्यभिप्रेत्यत तदुपाधि प्. ९६ब्) निषेधस्य ब्रह्मोपलब्धि साधनत्वं भाष्यकारैरुक्तमित्याह । अतद्व्यावृतीति । अत्र तत् शब्देन ब्रह्मोच्यते तत्र भवतीत्यतदंतःकरणादि रूपमुपाधिजातं तस्या ततो व्यावृतिर्निषेधः तत् रूपेण तद्बोधनद्वारेणेत्यर्थः । साक्षाद्विधिमुखेन च बुद्धेस्साक्षीमनसस्साक्षी सर्वस्य साक्षी पश्यन् शृण्वन्मन्वान इत्यादि प्रकारेण च प्रवृतिर्बोधकतया ब्रह्मणि तेषां प्रा एतेनावछिन्नस्य जीवत्वे कर्तृभोक्तृसमययोस्तत्र तत्रांतःकरणावछेद्य चैतन्यप्रदेशस्य भिन्नत्वात्कृतहानाकृताभ्यागमप्रसंग इति निरस्तं प्रतिबिंबपक्षेपि स्वानंतर्गतस्य स्वसन्निहितस्य चैतन्यप्रदेशस्यांतःकरणे प्रतिबिंबस्य वक्तव्यतया तत्र तत्रांतःकरणस्य गमने बिंबभेदा तत्प्रतिबिंबस्यापि भेदावश्यं भावेन दौषतौल्यात् । न चांतःकरणप्रतिबिंबो जीव इति पक्षे दोषतौल्येप्यविद्याप्रतिबिंबो जीवः तस्य च तत्र तत्र गत्वरमंतःकरणं जलाशय व्यापिनो महामेघमंडल प्रतिबिंबस्य तदुपरिवि- प्. ९७अ) सृत्वरस्फीतालोक इव तत्र विशेषाभिव्यक्तिहेतुरिति पक्षेनायं दोषः । अंतःकरणवदविद्याया गत्यभावेन प्रतिबिंबभेदानापतेरिति वाच्यं ।। माण्यमिति । तथा च उक्तरित्याप्रतिबिंबावछेदपक्षयोरुभयोरपि अंतर्यामि ब्राह्मणांजस्याभावांजस्ययोस्तुल्यत्वे सति सुतरां नीरूप इत्यादिना चैतन्यप्रतिबिंबा संभवस्य दर्शितत्वात्प्रतिबिंबपक्षंत्यक्ता अवछेद पक्ष एवादरणीय इति भावः । एवमवछेदपक्षे दोषांतरमपि वक्ष्यमाणदोषतौल्यादि नैव निरस्तमित्याह । एतेनेति । स्वानंतर्गतस्येति । प्रागुक्तयुक्तिरत्रानुसंधेया स्वसन्निहितस्येति विशेषणस्या यमभिप्रायः यदि सर्वेष्वंतःकरणेषु तदनंतर्गतस्यांडाद्रबहिर्विद्यमानस्यैव चैतन्यभागस्यैकस्य प्रतिबिंबस्संभवेत् । तदा बिंबचैतन्य प्रदेशभेदाभावात् । प्रत्यंतःकरणं बिंबचैतन्य प्रदेश भेदेन प्रतिबिंबभेदापादनेन संभवेत् । न च तथा संभवति व्यवहितस्य प्रतिबिंबायोगात् किं तु तत्र तत्रांतःकरणे सन्निहितस्यैव चैतन्य प्रदेशस्य बिंबत्वं वाच्यं । ततश्चेह परत्र च प्रतिबिंबभेदापादनं युक्तमिति । दोषतौल्यादिति । कृतहानाकृताभ्यागमप्रसंगदोषतौल्यादित्यर्थः । अविद्यायां प्. ९७ब्) चित्प्रतिबिंब ईश्वरः अंतःकरणे चित्प्रतिबिंबो जीव इति पूर्वप्रदर्शिते संक्षेप शारीरकपक्षै दोष तौल्येपि विवरणादि पक्षे उक्त दोषाप्रसक्तेस्तस्योपादेयत्वं स्यादिति शंकते । न चेति । गत्वरंगमनशीलं तदुपरीति जलाशयोपरीत्यर्थः । विसृत्वरेति । यथा तत्र तत्र जल प्रदेशेषु विसृत्वरोगमनशीलो मेघछिद्रेभ्यो निसृतः स्फीतालोकखंडो महामेघमंडल प्रतिबिंबस्य जलाशय व्यापकस्य विशेषेण स्फुरणहेतुस्तथा तत्र तत्रेह परत्र च कर्तृत्वभोक्तृत्वादि विशेषाभिव्यक्ति हेतुरंतःकरणमिति पक्ष इत्यर्थः । कृतहानादि दोषाभावे हेतुमाह । अंतःकरणवदिति ।। तथैवावछेदपक्षेप्यविद्यावछिन्नो जीव इत्यभ्युपगमसंभवात् । तत्राप्येकस्य जीवस्य क्वचित्प्रदेशे कर्तृत्वं प्रदेशांतरे भोक्तत्वमित्येवं कृतहानाकृताभ्यागमदोषापनुतये वस्तुतो जीवैक्यस्य शरणीकरणीयत्वेन तन्न्यायादंतःकरणोपाधिपक्षेपि वस्तुतश्चैतन्यैकस्य तदवछेदकोपाध्यैकस्य च तत्राभ्युपगमेन दोषनिराकरणसंभवाच्च ।। प्. ९८अ) यदि प्रतिबिंबवादिनांतःकरणप्रतिबिंबो जीव इति पक्षमुक्तदोषतौल्येन परित्यज्याविद्याप्रबिंबो जीव इति पक्षः स्वीक्रियते । तदा अवछेद वादिनापि । अंतःकरणावछिन्नो जीव इति पक्षं कृतहानादि दोषयुक्तं त्यक्ता उक्तदोषरहितमविद्यावछिन्नो जीव इति मतमुपादीयत इत्याह । तथैवेति । जीव इति । उपलक्षण चैतत् अविद्यायाः कल्पितत्वेन वास्तव तदभावावछिन्नश्चिदात्मा ईश्वर इत्युपगमसंभवाच्चेत्यपि द्रष्टव्यं एवमविद्याप्रतिबिंबो जीव इति पक्षे कृतहानादिदोषाभावमुपेत्यतत्साम्यमविद्यावछिन्नस्य जीवत्वपक्षे दर्शितमिदानीमंतःकरणावछेदपक्षे कृतहानादिदोषाभावं समर्थयितुमविद्या प्रतिबिंबो जीव इति पक्षेपि कृतहानादिदोषमाशंक्यपरिहरति । तत्रापीति । अविद्याप्रतिबिंबो जीव इति पक्षेपीत्यर्थः । क्वचित् प्रदेश इति । ब्राह्मणादि शरीरगतांतःकरणावछिन्नप्रदेश इत्यर्थः । प्रदेशांतर इति । देवादि शरीर गतांतःकरणावछिन्नप्रदेश इत्यर्थः । वस्तुत इति । प्रदेशभेदे सत्यपि इह परत्र च अविद्याप्रतिबिंबरूपजीवैक्यमात्रेण कृतहानादि दोषः परिहर्तव्यः । प्रतिबिंब वादिनागत्यंतराभावादित्यर्थः । सोयं परिहारप्रकारोंतष्करणावछेदपक्षेपि समान इत्याह । प्. ९८ब्) तच्छा?यादिति । वस्तुत इति । इह परत्र चांतष्करणावछेद्यचैतन्यप्रदेशभेदेपि चैतन्यस्य वस्तुत एकत्वात् । न कृतहानादि दोष इत्यर्थः । ननु वास्तव चैतन्यैक्यमात्रस्य जीवांतरसाधारणत्वादन्यकृत कर्मणोन्यस्य भोगप्रसंग इत्यत आह । तदवछेदकेति । तत्पदं चैतन्यपरं । तथा चैकांतष्करणावछिन्न चैतन्यमेको जीवः अंतःकरणांतरावछिन्नचैतन्यमन्यो जीव इति स्वीकारात्रोक्ताति प्रसंग इति भावः । अस्मिन्नवछेदपक्षे प्रायुक्तरीत्या वास्तवांतष्करणाभावावछिन्न चैतन्यमीश्वरः । कारणोपाधिरीश्वर इति । श्रुत्यनुरोधेनाविद्यावछिन्नचैतन्यं वा ईश्वर इति बोध्यं ।। न चावछेदपक्षे यथा ह्ययंज्योतिरात्माविवस्वानयो भिन्नाबहुधैकोनुगछन् उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमात्मा । अत एव चोपमासूर्यकादि वदिति श्रुतिसूत्राभ्यां विरोधः । अंबुवदग्रहणात्नुन तथात्वमित्युदाहृत सूत्रानंतरसूत्रेण ।। अस्य पक्षस्य श्रुति सूत्राभ्यां विरोधं शंकते । न चावछेदपक्ष इति । यथा एको विवस्वान् पात्रभेदेन भिन्ना अपो अन प्. ९९अ) गछन् वहुजलपात्रेषु प्रतिबिंबितस्सन्निति यावद्बहुधाभेदरूपः क्रियते औपाधिकं नानात्वं प्रतिपद्यते एवं देवः स्वप्रकाश आत्मास्वत एकस्सन् क्षेत्रेषूपाधिषु प्रतिबिंबितो भेदरूपः क्रियते नानात्वं लभ्यत इति यावत् । यथा एकस्य सूर्यस्य बहुषूपाधिषु प्रतिबिंबितत्वप्रयुक्तो भेद एवमात्मनोपि क्षेत्रेषु प्रतिबिंबित्वत प्रयुक्तमेव नानात्वमिह विवक्षैतमिति वक्तव्यमन्यथा दृष्टांत दार्ष्टांतिकयोरतुल्यत्वापत्यातयोरसामंजस्य प्रसंगा तथा चावछेदपक्षः श्रुतिविरुद्ध इत्यर्थः । एवमेक एव तु भूतात्माभूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जल चंद्रवत् रूपं रूपं प्रतिरूपोवभूव जीवेशावाभासेन करोतीत्यादि श्रुतयोपि चैतन्यस्य प्रतिबिंबावगमकत्वेन द्रष्टव्याः भूतानां ब्रह्मादिस्तंवपर्यंतानामात्मास्वरूपभूतः परः भूते भूत इति वीप्सया ये सर्वे प्रतिबिंबोपाधयो गृह्यंते तेषु प्रतिबिंबित तया व्यवस्थितस्सन् बहुधा दृश्यते । स्वतस्तशास्त्रादेकधा दृश्यते । रूपशब्द उपाधिपरः । अत्रापि विशासर्वोपाधिसंग्रहार्था प्रतिरूपः प्रतिबिंबः पुरुषप्रतिबिंबे पुरुषप्रतिरूपोयमिति प्रयोगदर्शनात् । त्रितीयाध्यायगतसूत्रमुदाहररति । अत एवेति । यतश्चिदात्मनः स्वाभाविकमेकत्वं नानात्वं चौपाधिकं श्रुतिषु विवक्षितमत एव तस्यौपाधिक प्. ९९ब्) नानात्वे जलादिषु प्रतिबिंबित सूर्यादिर्दृष्टांतत्वेन श्रुतिषूपादीयत इति सूत्रार्थः । रूपं रूपमिति । श्रुतौ प्रतिरूपशब्दो न प्रतिबिंबवाचकः वायुर्यथैकोभवनं प्रविष्टो रूपं रूपप्रतिरूपोवभूवेत्यादौ व्यभिचारादतः सूर्यादि प्रतिबिंबदृष्टांत स्वारस्यादेव चैतन्यप्रतिबिंबो वक्तव्यस्तं प्रतिबिंबं स्वयमेव सूत्रकृदाक्षिपति अंबुवदिति ।। यथा सूर्यस्य रूपवतः प्रतिबिंबोदय योग्यं ततो विप्रकृष्टदेशं रूपवज्जलं गृह्यते नैवं सर्वगतस्यात्मनः प्रतिबिंबोदययोग्यं । किंचिदस्ति ततो विप्रकृष्टमिति प्रतिबिंबासंभवमुक्त्वा वृद्धिह्रासभाक्त्वमंतर्भावादुभयसामंजस्यादेवमिति । तदनंतरसूत्रेण यथा जलप्रतिबिंबितः सूर्यौजलवृद्धौ वर्धते इव जलह्रासे ह्रसतीवजलचलने चलतीवेति तस्याध्यासिकं जलानुरोधिवृद्धिह्रासादि भाक्तं तथात्मनोंतष्करणादिनावछेदेनोपाध्यंतर्भावादाध्यासिकं तदनुरोधि वृद्धिह्रादि भाक्तमित्येवं दृष्टांतदार्ष्टांतिकयोः प्. १००अ) सामंजस्यादविरोधः इति स्वयं सूत्रकृतैवावछेदपक्षे तयोस्तात्पर्य कथनात् ।। सूत्रे दृष्टांतभागस्यार्थमाह । यथेति । प्रतिबिंबोदय योग्यत्वं स्वछत्वं । उपाध्यंतर्गतस्य न तत्र प्रतिबिंब इत्याशयेनाह । तत इति । बिंबभूतसूर्यापेक्षयेत्यर्थः । दार्ष्टांतिकभागं व्याचष्टे । नैवमिति । न तथात्वं चिदात्मनः प्रतिबिंबित सूर्यादि तुल्यत्वं नास्ति कुतः । अग्रहणात् अंतःकरणादेरात्मप्रतिबिंबोदय योग्यत्वेनाग्रहणात् । नह्यंतःकरणमात्मापेक्षया विप्रकृष्टदेशवत्सर्वगतत्वादात्मनः नापि तदुद्भूतरूपवदनंगीकारात् । चिदात्मनोपि सूर्यादिवद्बिंबत्व योग्यत्वेनाग्रहणाच्च । तस्य नीरूपद्रव्यत्वातस्मात्प्रतिबिंबित सूर्य चिदात्मनोर्दृष्ट्यांतदार्ष्टांतिकभावानुपपतिरिति । तु शब्दार्थः । दृष्टांतदार्ष्टांतिकयोः प्रतिबिंबितत्वांशेन साम्याभावेपि न तद्भावविरोधोस्तीति विवक्षितांशेन साम्यस्या तत्रापि संभवात् । न हि तयोस्सर्वसाम्यं क्वचिदपि संभवति । तथा सति दृष्टांतदार्ष्टांतिक भावोछेदप्रसंगादित्यभिप्रेत्यविवक्षितांशसाम्यं सूत्रकृद्दर्शयति । वृद्धिह्रासेति । तदनंतरेत्यत्र तत्पदमंबुवदिति सूत्रपरं सूत्रं व्याचष्टे यथेति आध्यात्मिकमिति भ्रांतिसिद्धमित्यर्थः । तथेति । चिदात्मनो बुद्ध्याद्यवछिन्नतया बुद्ध्याद्युपाधावंतर्भावात् । गजादि प्. १००ब्) शरीरेंतष्करणवृद्धौ चिदात्मा वर्द्धते इवमशकादि शरीरेंतष्करणह्रासे ह्रसत इव तच्चलने चलत इव तद्भेदे भिन्न इव च भाति । तथा च श्रुतिः ध्यायती वलेलायति वेति । बुद्धौ ध्यायंत्यामात्माध्यायतीवतस्यांचलंत्यामात्मा चलतीव न तु वस्तुतो ध्यांयति चलति वेत्यर्थः । एवमध्यास सिद्धमंतष्करणानुरोधिवृद्ध्यादि मत्वमात्मनोत्र विवक्षितं साम्यमित्यर्थः । तयोरिति । चैतन्यस्य प्रतिबिंबितत्व गमक श्रुति तन्मूलकसूत्रयोः पूर्वमुदाहृतयोरित्यर्थः ।। घट संवृतमाकाशंनीयमाने यथा घटे घटोनीयेतनाकाशं तद्वज्जीवो नभोपमः अवछेदपक्षे न केवलं श्रुतिसूत्रविरोधाभाव एव किंतु श्रुति सूत्रानुग्रहोप्यस्तीत्याह । घटसंवृतमिति । घटसंवृतं घटावछिन्नमाकाशं प्रसिद्धमस्ति तच्च घटे नीयमानेपि न नीयते यथा यं दृष्टांतः । तद्वज्जीवो नभोपमः नभसः तुल्यः एतदुक्तं भवति । जीवस्य नभो यमशब्देन घटसंवृताकाशतुल्यत्वमभिदधता अवछिन्न चैतन्यरूपत्वमक्तमिति । एवं प्रवेश श्रुतिरपि चिदात्मनो बुध्याद्यवछेदकतमेव दृष्टत्वादि धर्मलाभं दर्शयति । न प्रतिबिंबभावकृतं । तथाहि । स एष इह प्रविष्ट आनखाग्रेभ्य इत्युपक्रम्य प्. १०१अ) प्राणन्नेव प्राणों नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मन इति पुरुष विध ब्राह्मणे श्रूयते अयमर्थः सूः सर्ववेदांतेषु प्रसिद्धः एषः नामरूपव्याकृर्तृत्वेन सन्निहितः इह कार्यकारण संघाते नखाग्रमवधीकृत्य प्रविष्टः । ननु यथा देवदतस्य ग्रहे । सर्पस्य वा विले प्रवेशः प्रसिद्धः न तथा आत्मनः प्रवेशः कल्पयितुं शक्यते । तस्य सर्वगतत्वान्नापि जलामत्रेषु सूयादिरिव प्रतिबिंबभावलक्षणः प्रवेशः संभवति । तस्य तैतिरीयकादौ प्रवेशवाक्यविचारावसरे भाष्यकारे रेवनिरस्तत्वादतः कीदृशः प्रवेशः प्रविष्टपदेन विवक्षित इति जिज्ञासायां यथा जले प्रतिबिंबभावेन प्रविष्टस्य सूर्यादेस्तद्धर्मवतया उपलभ्यमानत्वमस्ति । एवमात्मनः संघाते अधिष्ठानतया प्राक् सिद्धस्यैव प्राणाबुध्यादि धर्मवतया उपलभ्यमानत्वमेव प्रकृते प्रविष्टपदेन विवक्षितं न तु मुख्यः प्रवेश इति मन्वानाश्रुतिः स्वयमेव प्रविष्टपदं व्याचष्टे । प्राणन्नेवेत्यादिना । प्राणम् प्राणचेष्टां प्राणोपाधि द्वारा कुर्वन् प्राणस्य प्राणमित्यादि श्रुतौ द्वितीय प्राणपदवाच्यो भवति । वदन् वागिन्द्रिय व्यापारं कुर्वन् वाचो हि वाचमित्यादि श्रुतौ द्वितीय वाक् शब्दवाच्यो भवति । रूपं पश्यन् रूपगोचर चाक्षुषवृतमंतष्करणतादात्म्यापत्याकुर्वन् चक्षुषा चक्षुरित्यादि श्रुतौ द्वितीय चक्षुश्शब्दवाच्यो भवति शृणन् शब्दगोचरां श्रोत्रकरणिकां प्. १०१ब्) वृत्तिमंतेष्करण तादात्म्यापत्यैव कुर्वन् श्रोत्रस्य श्रोत्रमित्यादि श्रुत्वौ द्वितीय श्रोत्रशब्दवाच्यो भवति मन्वानो मननरूपां चक्षुरादि निरपेक्षां वृतिं कुर्वन् मनसो मन इत्यादि श्रुतौ द्वितीय मनः शब्दवाच्यो भवति चक्षुरादि व्यापार ग्रहणं कार्यकारणसंघात व्यापारमात्रस्योप्रलक्षणं ।। अंशो नानाव्यपदेशादिति श्रुति सुत्राभ्यामवछेद पक्षस्यैव परिग्रहाच्च ।। संघात धर्माणां सर्वेषामात्मन्युपलभ्यमानत्वान्नन्वेवमप्यवछेद पक्षस्य द्वितीयाध्याय गतेन आभास एव चेति सूत्रेण तद्भाष्येण च विरोधो दुर्वारस्तयोश्चैतन्य प्रतिबिंबस्य स्वयमुक्तत्वात् । सूत्रार्थस्तु । आभास एव जीवः परमात्मनः प्रतिबिंब एव न निरुपाधिकः परमात्मैव जीवः । नापि न्यायमत इव परमात्मनस्सकाशादत्यंतभिन्नः तत्वमस्याद्यभेद श्रुतिविरोधात् । प्रतिबिंबस्य वस्तुतो बिंबाभिन्नत्वेन नाभासत्व पक्षे उक्त श्रुतिविरोध इति च शब्दार्थ इति । चेनु । उदाहृत सूत्रतद्भाष्ययोरुक्त प्रतिबिंबपक्षस्य भोक्तापतेरविभागश्चेत्स्यालोकवदिति सूत्रोक्त सिद्धंतवन्मतांतरत्वोपपतेर्न च तथा कल्पने किं विनिगमकमिति वाच्यं तृतीयाध्याये स्वयं सूत्रकृतैव न्याय पूर्वकं कृतस्य चैतन्य प्रतिबिंब निरासस्य नियामकत्वादाभाससूत्रे च जीवस्य प्. १०२अ) प्रतिबिंबत्वे उपपत्यादेरनुपन्यासाच्च भोक्तापति सूत्रस्यायमर्थः । सर्वखल्विदं ब्रह्मेति श्रुत्याप्रपंचस्य ब्रह्माभेदः प्रतिपाद्यते । अहं ब्रह्मास्मीति श्रुत्या अहंशब्दार्थभूतभोक्तृवर्गस्य च ब्रह्माभेदः । प्रतिपाद्यते । तथा च श्रुति द्वयानुसारेण भोक्तृभोग्य प्रपंचयोरेक ब्रह्माभेदस्वीकारे भोग्य प्रपंचस्य भोक्तापतेर्भोक्तभेदापतेरेवं भोक्तुरपि भोग्याभेदापतेरेक ब्रह्माभिन्नयोस्तयोः परस्परमप्यभेदावश्यं भावान्नचेष्टापतिस्तथा सत्य विभागः प्रसज्येत भोक्तृभोग्ययोर्विभागबोधकप्रत्यक्षादि विरोधः प्रसज्येतेति चेदुच्यते । श्रुति सिद्धं भोक्तृभोग्ययोरेक ब्रह्माभिन्नत्वं तयोः प्रत्यक्षादि सिद्धं परस्परं विभक्तत्वं चेत्युभयं लोकवत्स्यादुपपद्यते । यथालोके । एकसमुद्रविकाराणां फेनबुद्बुदतरंगाणामेक समुद्राभिन्नत्वं परिणामानां परिणाम्यभेदस्यानुभव सिद्धत्वात् । तेषामेव फेनादीनां परस्परं भिन्नत्वं चास्ति भेदस्यानुभवसिद्धत्वादेवमेकब्रह्मपरिणामयोर्भोक्तृभोग्ययोरेक- ब्रह्माभिन्नत्वं परस्परं भिन्नत्वं चोपपद्यत इति न अद्वैत श्रुतीनां प्रत्यक्षादि विरोध प्रसक्तिरित्ययं च विरोधपरिहारो न सिद्धांत संमतः कूटस्थ नित्यस्य ब्रह्मणः परिणामित्वानुपगमात् । किं तु मतांतराभिप्रायेणेति भाष्यादिषु घंटाघोषः तथा प्रकृतेपीति संक्षेपः । अंश इति । जीव ईश्वरस्यांशः कुतः नानाव्यपदेशात् । प्. १०२ब्) य आत्मानमंतरोयमयतीत्यादि श्रुतिषु । नियम्यनियामकभावादीनां जीवेश्वरयोर्नानात्वस्य भेदस्य व्यपदेशादिति सूत्रभागस्याक्षरार्थः अत्रांशत्वं जीवचैतन्यस्य घटाकाशवदंतःकरणावछिन्नत्व रूपं विवक्षितं न तु मुख्यामंशत्वं । निरवयवस्य ब्रह्मणो मुख्यांशा संभवादिति तदधिकरणभाष्ये स्फुटमिति भावः ।। तस्मात्सर्वगतस्य चैतन्यस्यांतष्करणादिनावच्छेदोवश्यं- भावीत्यावश्यकत्वादवछेदो जीव इति पक्षं रोचयंते । अपरे तु न प्रतिबिंबोनाप्यवछेदो जीवः किं तु कौंतेयस्यैवराधेयत्ववदविकृतस्य ब्रह्मण एवाविद्ययाजीवभावः ।। अवछेद पक्षसमर्थनमुपसंहरति । तस्मादिति । प्रतिबिंबा संभवात् । अवछेदपक्षे विरोधाभावात्साधक सत्वाच्चेत्यर्थः । अवछेदा चैतन्यस्य प्रतिबिंबपक्षेपि सम्मततया उभयसंप्रतिपन्नस्य तस्यैव जीवत्वादि कल्पनं युक्तं लाघवादित्याशयेनाह । अवछेदोवश्यंभावीति । अवछेद इति । अंतःकरणावछिन्नो जीवः जीवग्रहणमुपलक्षणं । अविद्यावछिन्न ईश्वरः कार्योपाधिरयं जीवः कारणोपाधिरीश्वर इति श्रुतेर्जीवेशावाभासेन करोति माया च विद्या च स्वयमेव भवतीति श्रुतौ च आभास प्. १०३अ) पदमवछिन्नपरं प्रतिबिंबासे भवस्योक्तत्वात् । माया पदं च प्रथमोपातजीवोपाधिभूतांतःकरणपरं कार्योपाधिरयं जीव इति श्रुतेरेव । मायापदोपातांतष्करणस्य च मूल प्रकृत्यात्मकत्वं प्रकृतिविकार भावप्रयुक्तं । पूर्वमनवछिन्नस्येश्वरत्वोक्तिस्तृप्ति दीपवचनानुसारेणाभावावछिन्नस्येश्वरत्वोक्तिश्च संभवमात्रेण न तु तात्पर्य तष्कारणोपाधिरीश्वर इति श्रुति विरोधात् । अनवछिन्नस्य ईश्वरत्वपक्षे तु तस्योपाध्यभावेन सर्वज्ञानकर्तृत्वादेरसंभवाच्चाभावस्य ईश्वरोपाधित्वपक्षपि समानोयं दोषः माया विद्या व्याकृता शक्त्यक्षराकाशादि शब्दित भावरूपोपाधेरिव तस्य सर्वज्ञत्वादि प्रयोजकत्वा योगात् । अत एव वाक्यवृतौ भगवत्पादैस्सर्वज्ञत्वादि प्रयोजकोपाधित्वमविद्याया दर्शितम्मायोपाधिर्जगद्योनिस्सर्वज्ञत्वादि लक्षण इतीति भावः । अथ क ईश्वरः कश्च जीव इति प्रश्ने प्रतिवचनत्वेन मतांतरमुत्थापयति । अपरे त्विति । कस्तर्हि जीव इति पृछति । किंत्विति । दृष्टांत पूर्वकं ब्रह्मैव जीव इत्युतरमाह । कौंतेयस्यैवेति । कुंतीकुमारस्यैव न तु तत्प्रतिबिंबादेरित्येवंकारार्थः । राधाया अपत्ये राधेयस्तस्य भावस्तत्वं तद्वदित्यर्थः । किंत्वविकृतस्यैवेति संबंधः । अवछेदप्रतिबिंबभावरहितस्येत्यर्थः । तत्र भाष्य वार्तिक सम्मतिं हेतुत्वेन दर्शयति । व्याधेत्यादिना । यथाराजकुले जातः कर्णो जन्मप्रभृति व्याधाकुल एव संवर्धितस्तज्जातीयैस्सहवासादि जनिक्षभ्रांतिलक्षणाविद्यया स्वात्मानं राधेयं मन्यते न तु स्वतस्सिद्धमपि प्. १०३ब्) कौंतेयत्वमनुभवति ततश्च ।। व्याधकुलसंवर्धितराजकुमार दृष्टांतेन ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया विमुच्यत इति बृहदारण्यकभाष्ये प्रतिपादनात् । राजसूनोः स्मृति प्राप्तौ व्याधभावो निवर्तते । यथैवमात्मनोज्ञस्य तत्वमस्यादि वाक्यत इति वार्तिकोक्तेश्च एवं च स्वाविद्यया जीवभावापन्नस्यैव ब्रह्मणः सर्वप्रपंच काल्यत्वादीश्वरोपि सहसर्वज्ञत्वादि धर्मैः स्वमोपलब्ध देवतावज्जीव कल्पित इत्याचक्षते ।। कौंतेयत्व प्रयुक्ताच्छ्रेयसस्सकाशात्प्रच्युतः सर्वत्र नानाविधशापावमानादि लक्षणं बहुविधदुःखं प्राप्तवान् । स च कदाचिद्भगवता विवस्वताकर्णकौंतेयोसित्वं नराधेय इत्युपदेशं कुर्वतास्मारित निजरूपस्सन् । तया स्मृत्याव्याधत्वराधेयत्वादेरविद्या क्व तस्य निवृतौ सत्यां व्याधेयत्वराधेयत्वकृतं नानाविधदुःख त्यक्ता कौंतेयत्व स्मृति प्रयुक्त श्रेयः प्राप्तवान् । तथा ब्रह्माप्यनादि सिद्धया स्वाविद्यया आवृतनिजरूपं सज्जीवभावं प्राप्यस्वतः सिद्धान्नित्यनिरतिशयानंद स्वरूपात्प्रच्युतं भवति । प्. १०४अ) ततश्च संसरति एवं संसरद्ब्रह्म कदाचित् स्वप्नदशायामिव स्वाविद्याकल्पितेन गुरुणाशास्त्रेण चोत्पादितया सुगोचर विद्यया जीवभावादि प्रयोजका विद्यानिवृतौ मुच्यतेतित्य सिद्ध निरतिशयानंदमनुभवति स्वरूप चैतन्येनैवेति भाष्यार्थः । अज्ञस्येति । अज्ञानावृतनिजस्वरूपस्येत्यर्थः । तत्वमस्यादीति गुरुपदिष्टतत्वमस्यादि वाक्यजन्यज्ञानेनाज्ञाननिवृतौ जीवभाव आत्मनो निवर्तत इत्यर्थः । एवं जीवं निरूप्य ईश्वरं निरूपयति । एवं चेति । भाष्यवार्तिक पर्यालोचनया प्रतिबिंबभावादि रहितस्य पूर्णब्रह्मण एव जीवत्वे सिद्धे सतीत्यर्थः । ईश्वरोपि सर्वज्ञत्वादि धर्मैस्सहजीव कल्पित इति संबंधः । यथोक्त जीवस्यैवेश्व्र कल्पकत्वे हेतुमाह । स्वाविद्ययेत्यादिना । अन्यस्य कल्पकस्याभावादिति तात्पर्यकमवधारणं जीवस्येश्वर कल्पकत्वे दृष्टांतमाह । स्वप्नेति यथा स्वप्ने स्वप्नद्रष्टा जीव एव परां देवतां सर्वज्ञत्वादि धर्मैस्सहितां कल्पयति कल्पयित्वा च तामहर्न्निशमुपास्ते । तदुपासनया चाभ्युदय निश्रेय सलक्षणं फलं लभते । एवं जागरणेपीति दृष्टांतादेरभिप्रायः ।। अथायं जीव एकर?तानेकः अनुपदोक्त पक्षावलंबिनः केचिदाहुः । एकोजीवस्तेन चैकमेव शरीरं सजीवमन्यानि स्वप्नदृष्ट शरीराणीव निर्जीवानि तदज्ञान प्. १०४ब्) कल्पितं सर्वं जगत् । तस्य स्वप्नदर्शनवद्यावदविद्यं सर्वोव्यव्यहारः । बद्धमुक्तव्यवस्थापि नास्ति जीवस्यैक त्वात् । शुकमुक्त्यादिकमपि स्वाप्नपुरुषांतरमुक्त्यादिकमिव कल्पितं ।। जीवेश्वरनिरूपण प्रसंगेन विचारांतरमारभते । अनुपदोक्तेति । ब्रह्मैव स्वाविद्यया संसरति स्वविद्ययामुच्यत इत्यादि ग्रंथोक्तेत्यर्थः । एक इति ब्रह्मण एकत्वा तत्र च अवछेद प्रतिबिंबभावयोरनंगीकाराच्चेत्यर्थः । ननु जीवैक्ये तेनैकमेव शरीरं सजीवं स्यान्न सर्वशरीराणीत्याशंकामिष्ट्यापत्यापरिहरति । तेन चेति । ननु यथा एकशरीरे हितप्रामिपरिहारार्थस्पंदनरूपा चेष्टा दृश्यते । तथा सर्वशरीरेषु दृश्यते । तथा च कथमेकमेव शरीरं सजीवं तत्राह । अन्यानीति । यथा स्वप्न दशायां स्वप्न दृष्ट्रश्शरीरमेकमेव सजीवं स्वप्नद्रष्ट्रा दृष्टान्यन्यानि शरीराणी चेष्टाविशेषवतया दृश्यमानान्यपि शजीवानि न भवंति तथा जगरणेपीति द्रष्टव्यं । ननु स्वाप्नस्य जगतः कल्पिका तावन्निद्रा अन्वय व्यतिरेक सिद्धा यथा वर्ततेन तथा जाग्रत् प्रपंचस्य कल्पकमन्सयव्यतिरेक सिद्धं । किंचिदस्तीति । जगत्सत्यमेवस्यान्नेत्याह । तदज्ञातेति । जीवाज्ञानेत्यर्थः । अज्ञानस्य जगत्कुल्यकत्वं शास्त्रसिद्धमिति भावः । प्. १०५अ) ननु सर्वव्यवहारस्य स्वप्नव्यवहारवत्कल्पितत्वे तद्वदेव सहसा व्यवहारलोपः । प्रसज्ज्येन तथा च विद्यानर्थक्यमिति नेत्याह । तस्येति । जीवस्येत्यर्थः । यावन्निद्राक्षयं स्वप्नव्यवहारानुवृतिवत् । विद्यया यावदविद्यानिवृति सर्वव्यवहारानुवृतिर्युज्यत इति न विद्यावैफल्य स विद्यानिवृत्यर्थमयेक्षि तत्वादिति भावः । ननु जीइवैकामते एको जीवो बद्धः अन्योजीवो मुक्त इति व्यवस्था शुकादि शुक्ति प्रतिपादक शास्त्रसिद्धा न स्यादित्याशंक्य इष्टापतिरित्याह वद्धेइत् । यथा स्वप्नादुत्थितः स्वप्न भ्रांति सिद्धां पुरुषांतर मुक्तिं परं प्रतिबोधयति । तथा जीवभ्रांति सिद्धांशुकादि मुक्तितं प्रत्येव बोधयति श्रवणादि प्रवृत्युपयोगितयेति भावः ।। अत्र च संभावित सकलशंकाथंकक्षालनं स्वप्नदृष्टांत सलिल धारयैव कर्तव्यमिति । अन्येत्वस्मिन्नेक शरीरैक जीववादे मनः प्रत्ययमलभमाना अधिकं तु भेदनिर्देशात् लोकवतु लीलाकैवल्यमित्यादि सूत्रैर्जीवाधिक ईश्वर एव जगतः सृष्टा न जीवस्तस्याप्तकामत्वेन प्रयोजनाभावेपि केवलं । लीलयैव जगतः सृष्टिरित्यादि प्. १०५ब्) प्रतिपादयद्भिर्विरोधं च मन्यमानाहिरण्यगर्भ एको ।। ननु जीवैक्यमते विद्योपदेष्टुरन्यस्याभावाद्विद्योदयो न स्याज्जीवेश्वर विभागाभावेन जीवस्येश्वरोपासनादि व्यवहारश्च नस्यादित्याशंक्याह । अत्र चेति । यथा स्वप्नदशायां स्वप्न दृष्क?कंचिद्गुरुमीश्वरं च कल्पयित्वा तावुपास्ते ताभ्यां च विद्यादिकं लभते तद्वदिति भावः एकजीववाद एवमतांतरमाह । अन्येत्विति । एकशरीरेति । एकमेव शरीरं सजीवं यस्मिन्नैक जीववादे स तथोक्तः । मनः प्रत्ययमिति । मनसो विश्वासंप्रामाणिकत्व निश्चयमित्यर्थः । एकमेव शरीरं सजीवं शरीरांतराणि निर्जीवानीत्यत्र विनिगमकाभावान्न च जीवैक्यं विनिगमकमिति वाच्यं । एकोपि जीवः कस्मिन् शरीरे वर्तत इत्यत्र विनिगमकस्य वक्तुमशक्यत्वादिति भावः । अधिकं त्विति जीवाभिन्न ईश्वरे वेदांतानां प्रथमाध्याये निरूपितः समन्वयो न घटते । तथा सतीश्वर गतजगत्स्रष्टृत्वादेर्जीवधर्मत्वप्रसंगा । तथा चानुभवविरोध इति पूर्वपक्ष निरासार्थस्तु शब्दः । अधिकं जीवादुपाधितोभिन्नं ब्रह्मजगत्स्रष्टृत्व सर्वज्ञत्वादि गुणकमभ्युपगम्यते । अतो न ब्रह्मधर्माणां जीवे प्रसक्तिरौपाधिकभेदस्यापि धर्मव्यवस्थापकतया लोकसिद्धत्वात् । कल्पित भेदांगीकारे प्. १०६अ) हेतुमाह । भेदनिर्देशादिति । य आत्मनि तिष्टत्रात्मानमंतरोयमयतीत्यादौ नियम्यनियामक भावादीनां भेदनिर्देशादिति सूत्रार्थः । लोकवदिति । सूत्रं पूर्वमेव व्याख्यातं । अत्रादि पदेन अनुपपतेस्तु न शारीर इत्यादि । सूत्रं गृह्यते मनो मयत्वादि गुणको न शारीरस्तस्मिन् सर्वकर्मत्वादीनामनुपपतेरेवेति सूत्रार्थः विरोधं चेति । जीवातिरिक्तेश्वराभाववादेस्मिन् जगत्सृष्ट्यादि समर्थस्य व्यावहारिक भेदवत ईश्वर ।। ब्रह्मप्रतिबिंबोमुख्यो जीवः अन्ये तु तत्प्रतिबिंब भूताश्चित्र लिखितमनुष्यदेहार्पित पटाभासकल्पा जीवाभासाः संसारादि भाज इति सविशेषानेक शरीरैक जीववादमातिष्ठंते । अपरे तु हिरण्यगर्भस्य प्रतिकल्पं भेदेन कस्य हिरण्यगर्भस्य मुख्यं जीवत्वमित्यत्र नियामकं नास्तीति मन्यमाना । एक एव जीवो विशेषेण सर्वं शरीरमधितिष्ठति । न चैवं शरीरावयवभेद इव शरीरभेदेपि परस्पर सुखाद्यनुसंधानप्रसंगः ।। स्यास्तित्वजगत्स्रष्टृत्व सर्वात्मकत्वादि गुणप्रतिपादकैः प्. १०६ब्) सूत्रैर्विरोधमित्यर्थः । ब्रह्मप्रतिबिंब इति । अनेन बिंबभूतं ब्रह्मजीवादधिकमीश्वररूपमस्मिन्मतेस्ति अतोनोदाहृत सूत्रविरोध इति सूचितं । तदिति । ब्रह्मप्रतिबिंबभूत हिरण्यगर्भस्य भौतिक जगत्स्रष्टृतयाकारणोपाधिकतया च मुख्य जीवस्य प्रतिबिंबभूता अन्ये जीवाजीवाभासाः तद्वत्सृष्ट्यादि सामर्थ्याभावादित्यर्थः । कल्पा इति तुल्या इत्यर्थः । संसारादि भाज इति । अनेन यथा हिरण्यगर्भशरीरं मुख्यजीवेन सजीवं तथा इनराण्यपि शरीराणिजीवाभासैस्सजीवानीति पूर्वमतात् । विशेषः सूचितः अत्रादि पदं मुक्ति संग्रहार्थं जीभासानां मुक्तिश्च स्वबिंबभूत हिरण्यगर्भप्राप्तिः क्रमेण च शुद्धब्रह्मप्राप्तिरिति मंतव्यं । स विशेषेति । स विशेषाणि स जीवानि अनेकशरीराणि यस्मिन्नेकजीववादे स तथा आतिष्ठंते । अंगीकुर्वंतीत्यर्थः । अत्राप्यस्वरसंवदन्नेकजीववादमेवाह । अपरेत्विति । एक एवेति । अविद्यायां ब्रह्मप्रतिबिंबरूपो जीवस्तावदेक अविद्याया एकत्वात् स एव च सर्वं शरीरं स्वभोगाद्यर्थमधितिष्ठति नत्व विद्यायां ब्रह्मप्रतिबिम्बो हिरण्यगर्भ शरीरसधितिष्ठति अन्यानि तु शरीराणि तत्प्रतिबिंबाभासा अधितिष्ठंति । कुतः इतर जीवानां प्. १०७अ) तत्प्रतिबिंबत्वे मानाभावादित्येव कारार्थः । अविशेषेणेति । मुख्यामुख्यविभागं विनेत्यर्थः । जीवभेदे हि सति कश्चिन्मुख्यो जीवः कश्चिच्चामुख्यो जीवाभास इति विभागः संभवेत् । नत्वे तदस्ति । तस्यैकत्वाभ्युपगमादिति भावः । ननु देवदत्तस्य शिरः पाणिपादानधितिष्ठित एकस्य यथाशिरसि मे वेदना पादे मे सुखमित्याद्यनुसंधानं दृश्यते । एवमेकस्यैव जीवस्य सर्वशरीराधिष्टातृत्वे मम देवदत्तशरीरे मुखं यज्ञदतनामक शरीरे दुःखमित्यादि रूपेण सर्वस्य सर्वत्रानुसंधान प्रसंग इति शंकते । न चेवमिति ।। जन्मांतरीय सुखाद्यनुसंधानादर्शनेन शरीरभेदस्य तदननुसंधान प्रयोजकत्व कॢप्तेः योगिनस्तकाय व्यूह सुखाद्यनुसंधानं व्यवहितार्थ ग्रहणवद्योगप्रभावनिवधेनमिति न तदुदाहरणमित्यविशेषानेकशरीरैकजीववादं रोचयंते । इतरेत्वत्रापि वद्धमुक्तव्यवस्थाभावस्य तुल्यत्वेन तद्योयो देवानां प्रत्यबुध्यत स एव तदभवदित्यादि श्रुतेः प्रतिषेधादिति चेत् ।। प्. १०७ब्) शरीरभेदस्याननुसंधान प्रयोजकत्वाभ्युपगमान्नोक्ताति प्रसंगः । न च तत्र मानाभावश्शंकनीयः जीवस्यातीत शरीरेषु वर्तमान शरीरे चैकत्वेपि जन्मांतरीय सस्वाद्यनुसंधानादर्शनेन तद्भेदस्य तत्प्रयोजकतायाः संप्रतिपन्नत्वादिति परिहरति जन्मांतरीयेति । ननु योगिनो देहभेदे सत्यप्यनुसंधानदर्शनात् । व्यभिचार इत्यत आह । योगिनस्त्विति । अस्मदादि वै लक्ष्यार्थकस्तु शब्दस्तद्दर्शयति । कायेति । न ह्यस्मदादीनां व्यवहितार्थ साक्षात्कारोस्ति तत्प्रयोजका दृष्टविशेषाभावा तथा च शरीरभेदमात्रं न तत्प्रयोजकं । किं तु अदृष्टविशेषा सह कृत शरीरभेदो ननु संधान प्रयोजक इति न योग्यनुसंधानस्थले व्यभिचार इति भावः । योगदं योगजा दृष्टपरं । अविशेषेणाधिष्ठितान्यनेक शरीराणि यस्मिन्नेकजीव वादे सः तथेत्यर्थः । अनेक जीववादमुत्थापयति । इतरेतिति । अत्रापीति । अव्यवहितमतेपीत्यर्थः । यद्येक जीववादे व्यवस्थान सिध्यति ततः को दोष इत्याशंक्य श्रुति स्मृति भाष्याणामनांजस्यं दोष इत्याह । तद्योय इति । देवानाम्मध्येयो यो देवः तद्ब्रह्मप्रत्यबुध्यतसाक्षात्कृतवान् स एव तद्ब्रह्माभवत् । नान्योब्रह्मबोध रहितः विदुषो मुक्तत्वमविदुषो वद्धत्वं च प्रतिपादयंत्याश्रुत्याबंध प्. १०८अ) मुक्ति व्यवस्था दर्शिता । आदिपदेन अजामेकामिति श्रुतिर्बंधमुक्ति व्यवस्था प्रतिपादकत्वेन भाष्यकारादिभिरंगीकृता गृह्यते श्रुतिग्रहणं यद्गत्वा न निवर्तंते तद्धामपरमं ममेत्यादि स्पृतीनासुपलक्षणं । प्रतिषेधादिति । इदं पूर्वपक्षसूत्रं । बृहदारण्यके काण्वशाखायां न तस्य प्राणा उत्क्रामंतीति वाक्येन । परब्रह्मतत्वविदः । प्राणोत्क्रांति प्रतिषेधा तस्य गत्युकांतीनस्तः । उत्क्रांति पूर्वकत्वात् गतेरिति चेदिति सिद्धांति शंकाभागार्थः ।। न शारीरादित्यधिकरणे बद्धमुक्तत्वप्रतिपादक भाष्यस्य घनांजस्यमित्यपरितुष्यंतोंतष्करणादीनां जीवोपाधित्वात्युपगमेनानेकजीववादमाश्रित्य बद्धमुक्तव्यवस्थां प्रतिपद्यंते । तिषु केचिदेवमाहुः ।। पूर्वपक्षीतां दूषयति । न शारीरादिति । बृहदारण्यक एव माध्यंदिन शाख्यायां समानप्रकरणे ब्रह्मविदं शारीरं प्रकृत्य न तस्मात् प्राणा उत्क्रामंतीति वाक्यं पव्यते । अत्र तच्छब्देन प्रकृतः शारीरो गृह्यतेन शरीरं । तस्य शरीरापेक्षया प्रधानत्वा तथा च न तस्मादिति वाक्येन शारीराज्जीवात् प्राणानासुत्कुमणं प्. १०८ब्) निषिध्यते । न शरीरादतश्शरीरादुत्क्रमणं विदुषोप्यस्तीति तस्यापि गत्युत्क्रांतिस्त एव न तस्य प्राणा इति काण्ववाक्यस्यापि । तस्य विदुषः प्राणाश्शारीरात्रोत्क्रामंति किं तु तेन सहैव ब्रह्मलोकं गछंतीत्यर्थो बोध्यः । नांतस्यमिति । आंतस्याभावः उपपन्नत्वाभाव इत्यर्थः । अंतष्करणादीनामिति । न च नानाजीववादेपि ब्रह्मैव स्वाविद्यया संसरति स्वविद्ययामुच्यत इत्यर्थे । न बृहदारण्यक भाष्ये प्रतिपादितेन विरोधस्तुल्य इति वाच्यं । तद्भाष्य प्रतिपादनस्य ब्रह्मैव स्वाविद्ययानानांतष्करणरूपेण परिणतया नानाजीव भावं प्राप्यसंसरति । स्वविद्यया क्रमेण मुच्यत इत्यभिप्रायकत्वोपपतेः । श्रुतिस्मृत्युपोद्वलित शुकादि मुक्ति प्रतिपादकभाष्यस्य ब्रह्मैव स्वाविद्यया संसरतीति भाष्यमात्रस्वारस्य मनुसृत्या न्यत्थ्यानयनायोगात् । न चोदाहृत श्रुतिस्मृति भाष्याणां ब्रह्मात्मैकत्व परत्वेन ननाजीव वादे । तात्पर्था भावात् । तेभ्यो जीवनानात्वं न सिध्यतीति वाच्यं । एकजीववादेपि तात्पर्याभावस्य तुल्यत्वान्न च जीवत्वोपाधिभूताया अविद्याया एकत्वाज्जीवैक्यसिधिरिति वाच्यं । उदाहृत श्रुति भाष्यानुरोधेनाविद्यानानात्वाभ्युपगम संभवात् । तदेकत्व श्रुत्यादीनां जात्यमिप्रायकत्वोपपतेः । अविद्यायाः एकं त्वपि कार्योपाधिरयं जीव इति श्रुत्यनुसारेणांतष्करणानामेव प्. १०९अ) जीवत्वोपाधित्वोपगमसंभवाच्चेति भावः । नानाजीववादे मतभेदेन बंधमुक्तिव्यवस्थामुपपादयितुमारभते । तेष्विति । नानाजीववादिषु मध्य इत्यर्थः केचिदिति ।। यद्यपि शुद्धब्रह्माश्रयविषयमेकमेवाज्ञानं तत्राश एव च मोक्षस्तथापि जीवन्मुक्तावज्ञानलेशातु वृत्यभ्युपगमेनाज्ञानस्य सांशत्वा तदेव क्वचिदुपाधौ ब्रह्मावगमोत्पत्तावंशेनं निवर्तते उपाध्यंतरेषु यथा पूर्वमंशांतरेरनुवर्तत इति अन्ये तु ।। ननु नानाजीववादेपि जीवस्यांतष्करणोपाधिकत्वपक्षे मूलाज्ञानस्य एकत्वेन शुकादि तत्वज्ञानेनैव तस्य निवृतत्वादिदानी संसारानुपलब्धि प्रसंग इत्याशयेन शंकते । यथपीति । शुद्धब्रह्मा श्रयेति । जीवेश्वरयोर्विशिष्टरूपयोरज्ञानाश्रयत्वं न संभवति । तयोः कल्पितत्वा तथा च शुद्धस्यैवावृतत्वरूपं विषयत्वं नत्वीश्वरस्यापि तस्य जीवांतरवदौपाधिक भेदादेवानुपलब्धि सिद्धौ जीवान् प्रतीश्वरस्याज्ञानावृतत्वरूपविषयत्व कल्पनस्य व्यर्थत्वादिति भावः । एकमेवेति । अजामेकांमायां प्. १०९ब्) तु प्रकृतिं विद्यात् । विभेदजनके ज्ञान इति श्रुतिस्मृतिषु एकवचन श्रवणेन स्मृतिलाघवेन च तस्यैकत्वावगमादिति भावः । तन्नाश एव चेति । भूयश्चांते विश्वमाया निवृतिः अज्ञानेनाशमात्यंतिकं गत इत्यादि श्रुतिस्मृतिषु सर्वानर्थमूलाज्ञान निवृतेर्मोक्षत्वावगमादिति भावः । एकस्य तत्वज्ञानेन कृत्स्नाज्ञाननाशोनांगी क्रियते । येन व्यवस्था न स्यात् किंतु तस्य ज्ञानेन ततदंतष्करणादि परिणामिनो मूलाज्ञानांशस्यैव नाश उपेयते । न च तस्य सांशत्वे मानाभाव इति वाच्यं । जीवन्मुक्तौ आवरणशक्तिमदज्ञानांशस्य नाशेपि विक्षेपशक्तिमदज्ञानांशस्य ज्ञानादनिवृतस्य यावद्विदेहकैवल्यमनुवृत्युपगमेन तस्य सांशत्वावगमात् । तथा चाज्ञानस्यानिर्वचनीयस्यानिर्वचनीयानामेव भागरूपांशानामनंतानां संभवात् । नानादाय बंधमुक्ति व्यवस्थासूपयादेति परिहरति । तथापीत्यादिना । अज्ञानसत्वं बंधस्तन्नाशो मोक्षं इति मतं मुक्तं । इदानिं चैतन्यस्याज्ञानसंबंधो बंधस्तदसंबंधो मोक्षः । न तु तन्निवृतिरसंबंधमात्रेणैव बंधनिवृति सिद्धेः ज्ञानादज्ञाननिवृति प्रतिपादकशास्त्रस्यापि तदसंबंध एव तात्पर्योपपतेरन्यथा मूलाज्ञानस्य विरोधिज्ञानोदये सति तूलपिंदस्य विरोध्यग्नि संसर्ग इवावशेषा प्. ११०अ) संभवेन बंधमुक्ति व्यवस्था शास्त्रस्य जीवन्मुक्ति शास्त्रस्य च निरालंबनत्व प्रसंगादिति मन्यमानानाम्मतमाह अन्येत्विति ।। यथान्यायैक देशिमते भूतले घटात्यंताभावस्य वृतौ घटसंयोगाभावो नियामक इत्यनेकेषु प्रदेशेषु तद्वत्सुसे सृज्यवर्तमानो घटात्यंताभावः क्वचित् प्रदेश घटसंयोमोत्यत्यातुदभावनिवृतौ न संसृज्यते । एवमज्ञानस्य चैतन्ये वृतौ मनो नियामकमिति तदुपाधिनाचैतन्यप्रदेशेषु संसृज्यवर्तमानमज्ञानं क्वचिद्ब्रह्मदर्शनोत्यत्याभिद्यते । हृदयग्रंथिविति श्रुत्युक्तरीत्यामनसो निवृतौ न संसृज्यते । अन्यत्र यथा पूर्वमवतिष्ठते ज्ञानसंसर्गासंसर्गावेव च बंधमोक्षावित्याहुः । अपरे तु नाज्ञानं शुद्धचैतन्याश्रयं ।। प्रथमं प्रकृतोपयोगि दृष्टांतमाह । यथेति । भूतले । घटोनेत्यनुभव सिद्धो घटाभावस्त्रैकालिकत्वाभ्युपगमात् । घटानानंतरे तदधिकरणेपि भूतले वर्तत एव । तथावघटवत्यपि भूतले घटो नास्तीति प्. ११०ब्) प्रमास्यादिति दोष प्रसक्तौ तत्परिहाराय नैयायिकाः कल्पयंति घटाधिकरणे तदत्यंता भावस्य संबंधा भावेन तत्र तत्प्रतीतेर्भांतित्वोपपते । न च घटसंयोगोत्पतेः पूर्वं भूतले संबंधवतस्तस्य घटसंयोगकाले कथं वृतिरूपसंवेधाभाव इति वाच्यं । प्रतीत्यनुसारेण भूतलादौ घटात्यंताभाववृतौ घटसंयोगस्य प्रागभाव प्रध्वंसाभावयोरन्यतराभावो नियामक इति कल्पनेन घटसंयोगाधिकरण भूतले घटाभावस्यासंबंधोपपतेरिति तदेतन्मतं दृष्टांती करोति । न्यायैक देशि मत इति । तद्वत्स्विति । घटसंयोगाभाववत्स्वित्यर्थः । तदुपाधिनेति । मन एवोपाधिस्तेनेत्यर्थः । क्वचिदिति । चैतन्य प्रदेश इत्यर्थः । ब्रह्मदर्शनोत्पत्यामनसो निवृताविति संबंधः । ब्रह्मदर्शनं मनसो निवर्तकमित्यत्रमानमाह भिद्यत इति । हृदयग्रंथिरित्यत्र हृदयमित्यंतष्करणपरं तच्चांतष्करणं चिदात्मन्यध्यस्ततया ततादात्म्यापन्नं सद्ग्रंथिरिव ग्रंथिः । स च ब्रह्मदर्शने जाते ब्रह्मण्येव विलीयत इति श्रुत्यर्थः । अन्यत्रेति । चैतन्यप्रदेशांतरैष्वित्यर्थः । नाज्ञानमिति । शुद्धचैतन्यस्य वेदांतशास्त्रप्रतिपाद्यस्य नाज्ञानाश्रयत्वं । तस्य वेदांत वेद्य वस्तु न जानामीत्यज्ञानविषयत्वेनैवानुभवादिति भावः ।। किं तु जीवाश्रयं ब्रह्मविषयं तच्चांतष्करण प्. १११अ) प्रतिबिंबरूपेषु सर्वेषु जीवेषु व्यक्तिषु जातिवत्प्रत्येक पर्यवसायितया वर्तमानमुत्पन्न विद्यं कंचित्यजति नष्टां व्यक्तिमिव जातिः स एव मोक्षः । अन्यं यथापूर्वमाश्रयतीति व्यवस्थेत्याहः ।। जीवा अयमिति । न जानामीत्यज्ञानाश्रयत्वेन जीवस्यैवानुभवान्न चाज्ञानस्य स्वकार्यांतष्करणविशिष्टचैतन्यरूपजीवाश्रितत्वमनुपपन्नमिति वाच्यं । अंतष्करणे यत्प्रतिबिंबभूतं चैतन्यं तस्यैव जीवत्वाभ्युपगमेन विशिष्टस्य जीवत्वानुपगमात् । वचांतष्करणस्य सादितया तद्गत प्रतिबिंबस्यापि सादित्वात् । कथं तस्यानाद्यज्ञानाश्रयत्वमिति वाच्यं । अंतष्करणस्य स्वापादौलय श्रवणेन जाग्रदादौ जन्मश्रवणेन च सादित्वावगमेपि तस्य स्थूलसूक्ष्मरूपेणानादितायाः पुहुस्त्वादिवत्वस्य सतोभिव्यक्ति योगादिति सूत्रे व्यवस्थापि तत्वाद्यथा पुंस्त्वस्त्रीत्वादेः श्रुक्रश्रोणितस्तनादि रूपस्य वाल्यादावनभिव्यक्तस्य यौवने प्रादुर्भावने प्रादुर्भावः तथा अस्यांतष्करणस्य स्वापादावनभिव्यक्ततया सत एव स्थूलावस्थाप्राप्तिरूपाया अभिव्यक्तेर्युक्तत्वात् असतः शशशृंगादेरुत्पत्यदर्शनादिति । सूत्रार्थः । अविद्यायाः प्. १११ब्) अनादि चैतन्यप्रतिबिंबाश्रितत्वस्य मायाविद्याभेदवादनिरूपणावसरे समर्थितत्वात् । प्रत्येकेति द्वित्व बहुत्वादिवदज्ञानस्य सर्वजीवव्यक्तिपुव्यासज्यवृतित्वे सर्वेषां प्रत्येकमहमज्ञ इति प्रत्यक्षं न स्यात् । व्यासज्यवृतिधर्म प्रत्यक्षस्य यावदाश्रय प्रत्यक्षसापेक्षत्वेन एकैकस्य जीवस्य सर्वजीव प्रत्यक्षाभावादित्यर्थः । वस्तुतस्तु अज्ञानस्य व्यासज्यवृतित्वेपि तत्प्रक्षस्य नित्यसाक्षिरूपतया यावदाश्रयप्रत्यक्षानपेक्षणात् उक्त नियमस्य जन्यप्रत्यक्षविषयत्वादिति मंतव्यं । कंचिदिति उत्पन्नया विद्ययामनसो निवृतौ तन्निरूपित प्रतिबिंबभावस्यापि निवृततया तद्विशिष्ट चैतन्यरूपव्यक्तिनाशादिति भावः । तथा च श्रुतिर्जहात्येनां भुक्तभोगामजोन्य इति एनामजाशब्दितामविद्यां जीवेन भुक्ताभोगा यस्याः साभुक्तभोभुज्यत इति व्युत्पत्याभोगशब्दितानां विषयाणामविद्यापरिणामत्वादिति भावः । अजो जन्मरहितः अन्यः उत्पन्नविद्योजीव इति श्रुत्यर्थः । स एवेतित्याग एवेत्यर्थः । अन्यमिति । अज्ञमिति भावः । तथा च श्रुतिः अजो ह्येको जुषमाणौनुशेत इति एकः पुनरजो विवेकरहितः कार्यकारणसघातरूपेणपरिणतामविद्यांजषमाणः सेवमानः तत्राहं ममाभिमानवान् अनुशेतेतामनुसृत्यशेते वर्तते प्. ११२अ) न जहातीति यावत् ।। इतरे तु प्रतिजीवमविद्याभेदमभ्युपगम्यैवतदनुवृतिनिवृतिभ्यां वद्धमुक्तवस्थां समर्थयंते । अस्मिन् पक्षे कस्याविद्यया प्रपंचः कृतोस्त्वित्विचेत् । विनिगमकाभावात् सर्वाविद्याकृतोऽनेकं तत्वारब्धपटतुल्यः एकस्य मुक्तौ तदविद्यानाशे एकतंतुनाशे पटस्येव तत्साधारण प्रपंचस्य नाशः तदैव विद्यमानतंत्वंतरैः पटांतरस्येवेतराविद्याभिः सकलेतरसाधारण प्रपंचांतरस्योत्पादनमित्येके ।। अत्राज्ञानकंचिज्जहाति अन्यमाश्रित्यैव तिष्ठतीत्युक्त्यापि अज्ञानसंबन्धा चेव बंधमोक्षावित्युक्तं भवति । तदुक्तेरर्थांतरासंभवात् । अज्ञानसंबन्धासंबंधौ बंधमोक्षाविति मतद्वयमपि तस्य ज्ञाननाश्यत्वं प्रतिपादक श्रुतिस्मृति भाष्यादि स्वारस्य विरुद्धं मत्वा तदविरुद्धम्मतमाह । इतरेत्विति । अभ्युपगम्यैवेति । अविद्योभेदानुपगमे तत्सत्वत प्. ११२ब्) न्नाशरूपयोर्बंधमोक्षयोरुपपादयितुमशक्यत्वान्न च तस्या एकत्वेपि अंशवत्वकल्पनयातन्नाशरूपो मोक्षः प्रागुपपादित इति वाच्यं विरोधि विद्योदये तदवस्थानायोगस्याप्युक्तत्वान्न जीवन्मुक्तौ तल्लेशानुवृत्युपगमविरोध इति वाच्यं । अविद्यानाशेपि तत्संस्कारस्य यावत् प्रारब्ध क्षयमनुवर्तमानस्याविद्यालेशत्वेन विवक्षिततायास्सदृष्टांतं वक्ष्यमाणत्वादिति भावः । एवं नानाजीववादे बंधमोक्ष व्यवस्थां बहुप्रकारांमुपपाद्यतदुपपादनोपयोगितया प्रसक्तमविद्यानानात्वमुपजीव्याक्षेपमवतारयति । अस्मिन्पक्ष इति । अविद्यानानात्वपक्ष इत्यर्थः । कस्येति । किमेकस्य जीवस्याविद्यया प्रपंचारंभः उतसर्वेषामविद्याभिर्न्नाद्यः विनिगमनाविरहात् । तद्वितीयः एकाविद्यानाशे सर्वप्रपंचनाशापत्यामुक्ते नरजीवानां प्रपंचानुपलब्धि प्रसंगादित्याक्षेपाभिप्रायः । द्वितीयपक्षे परिगृह्य तत्रोक्तानुपपतिं । परिहरति । विनिगमकाभावादित्यादिना सर्वाविद्याकृत इति सर्वेषां जीवानां सर्वाविद्यापरिणाम इत्यर्थः । यद्वा सर्वाविद्याविषयीकृत ब्रह्मविवर्तः । प्रपंच इत्यर्थः । प्रथम व्याख्याने दृष्टांतमाह । अनेकं तत्वारब्धेति । सकलेतरेति । सकलाः समस्तामुक्तजीवापेक्षयाये इतरे तेषां साधारण प्रपंचांतरस्येत्यर्थः ।। प्. ११३अ) तत्तदज्ञानकृतप्रातिभासिकरजतवन्न्यायमते तत्तदपेक्षाबुद्धिजन्यद्वित्ववच्च तत्तदविद्याकृतो वियदादि प्रपंचः प्रतिपुरुषं भिन्नः । शुक्तिरजते त्वया यद्दृष्टं रजतं तदेवमपापीति वदैक्य भ्रममात्रमित्यन्ये जीवाश्रितादविद्यानिवहाद्भिन्नामायैवेश्वराश्रिता प्रपंचकारणं प्रपंचस्य सर्वाविद्याकार्यत्वेपि तद्भेदात्प्रपंचस्यापि प्रतिपुरुषं भेद एवेति मतं सदृष्टांतमाह । तत्तदिति । ननु यत्र एकदा बहुनां शुक्तौ रजतभ्रमो भवति । तत्र प्रतिपुरुषमज्ञानभेदेन तत्कृतरजतभेदोत्र दृष्टांतत्वेन वक्तव्यः स च न संभवति । तत्रापि तावत् पुरुषाणामज्ञानैरेकस्यैरजतस्योत्पति संभवादिति चेन्न तत्र दैवयोगादेकस्य पुरुषस्य प्रथमं शुक्तित्वविशेषदर्शने सति नेदरजतमिति बाधकप्रत्येक्षेण सोपादानस्य रजतस्य नाशेपि तदितरेषां रजतभ्रमानुवृत्यारजतभेदस्यावश्यक तया दृष्टांत सिद्धेरिति भावः । न्यायमत इति । सिद्धांते तु एकत्व वद्वित्वादिकमपि यावदृव्यभाव्येव न तु तत्रदपेक्षाबुद्धिजन्यं । अनंत द्वित्वादैस्तदुत्पत्यादीनां च कल्पने गौरवाद प्. ११३ब्) पेक्षाबुद्धेस्तद्व्यंजकत्वाभ्युपगमात् । न सदा तत् प्रत्यक्षापतिरिति स्वीकारादिति भावः । ननु तर्हि यथा ततद्रजतं तस्य तस्यैव प्रत्यक्षं नान्यस्य तथा तत्तदविद्याकल्पितः प्रपंचोपि तस्य तस्यैव प्रत्यक्षः स्यान्नान्यस्य तथा च यः प्रपंचस्त्वयानुभूयते । स एव मयाप्यनुभूयत इति प्रत्यभिज्ञान प्रत्यक्षं न स्यादिति शंकां दृष्टांतेन परिहरति । शुक्ति रजत इति उपलक्षणमेतुत् । यौ द्वौ रामकृष्णौ त्वया दृष्टौ तावेव मयापि दृष्टाविति प्रत्यभिज्ञानं न्यायमते द्वित्व भेदेपि दृश्यते तद्वदिति बोध्यवियदादि प्रपंचो न जीवाविद्या परिणामः । किं तु जीवाश्रिताविद्या संघाद्भिन्ना माया सर्वजीवान् प्रतिसाधारणवियदादि प्रपंच परिणाम्युपादानमुपेयते । अतो वियदादि प्रपंचस्यैक त्वात् । तदेकत्व प्रतीतिर्न्नम्रममात्रमिति मंतदर्शयति । जीवाश्रितेति । मायाया अविद्याभ्यो भिन्नत्वे ईश्वराश्रितत्वे च प्रमाणादिकं प्रागेव दर्शितमिति नात्र तदुच्यते ।। जीवानामविद्यास्त्वावरणमात्रे प्रातिभासिक शुक्तिरजतादि विक्षेपेपि चोपयुज्यंत इत्यपरे । अवसितमुपादानत्वं प्. ११४अ) तत्प्रसक्तानुप्रसक्तं च ।। अविद्यानां प्रपंचोपादानत्वाभावे वैयर्थ्यमाशंक्याह । जीवानामिति । उक्त शंका निवृत्यर्थस्तशब्दः यत्किंचित्कार्यं प्रत्यप्युपादानत्वाभावो मात्रशब्दार्थः । न च नाहं प्रकाशः सर्वस्य योगमाया समावृत इति भगवद्वचने अहं परमात्मासर्वस्य प्राणिज्जातस्य प्रकाशः पूर्णानंदादिरूपेण स्फुरद्रूपो न भवामि मम सर्वज्ञत्व सर्वेश्वरत्व सर्वात्मकत्वादि धर्मजातं घटयंत्यामायया आवृतत्वादित्यर्थके ईश्वराश्रितमायाया एव ब्रह्मावरकत्व प्रतिपादनात् । तद्विरोध इति वाच्यं । ब्रह्मतत्वतो न जानामीत्यावरकस्य जीवाश्रितत्वानुभवानुसारेण जीवाश्रिताविद्याया एव तदावरकत्वे वक्तव्ये सति भगवद्वचनगतमायापदस्य जीव चैतन्ये संसार घटकाविद्यालक्षकत्वोपपतेरिति भावः । अविद्याया आवरण इव प्रातिभासिक विक्षेपेपि । परिणाम्युपादनत्वस्वीकारान्न वैयर्थ्यशंकावकाश इत्याशयेनाह । प्रातिभासिकेति । ननु जीवाश्रिताविद्यानां जीवचैतन्याध्यस्त प्रातिभासिक स्वप्नप्रपंचोपादान तया तत्रोपयोग संभवेपि शुक्तिरजताद्यु उपादानत्वं न संभवति । शुक्त्याद्यवछिन्नचैतन्ये रजताद्यधिष्ठाने प्. ११४ब्) तासामभावादिति चेत् । सत्यमादि पदगृहीत स्वप्नयवात्र विवक्षित इत्यदोषः । यद्वा वाचस्पति मत इव शुक्तिरजतादेरपि जीवाविद्याविषयीकृत शुक्त्यवछिन्न चैतन्यविवर्तत्वमभिप्रेत्यजीवाविद्यानां प्रातिभासिक रजतादावुपयोग कथनोपपतेर्न दोषः । पूर्वमुक्ते अभिन्ननिमितोपादानत्वरूपे ब्रह्मलक्षणे उपादानत्वं विवर्ताधिष्ठानत्वरूपमिति साधिं तत्प्रसंगात् जीवेश्वर निरूपणं प्राप्तं तदनुजीवैकत्व नानात्वं बंधमोक्ष प्रपंचैकत्वनानात्वनिरूपणं प्रसक्तं । तदेतत् सर्वं निरूपितमिति निरूपयिष्यमाणार्थ प्रतिपत्युपयोगितया उपसंहरति । अवसितमिति । समाप्तमित्यर्थः । उपादानत्वमिति । निरूपणमित्यर्थः ।। अथ कीदृशं कर्तृत्वं केचिदाहुः । तदैक्षत सोकामयत तदात्मानं स्वयमकुरुतेति श्रवणान्प्रायमत इव कार्यानुकूलज्ञानचिकीर्षाकृतिमत्वरूपमिति । अन्ये तु चिकीषाकृतिर्तृत्वनिर्वाहाय चिकीर्षाकृत्यंतरापेक्षायामनवस्था प्रसंगात् कार्यानुकूलज्ञानवत्वमेव प्. ११५अ) ब्रह्मणः कर्तृत्वं न च ज्ञानेप्येष प्रसंगः तस्य ब्रह्मस्वरूपत्वेनाकार्यत्वात् ।। लक्षणांतर्गतं कर्तृत्वं निरूपयितुमाक्षिपति । अर्थेति । उदासीनस्य ब्रह्मणः कर्तृत्व धर्मासंभवादित्यर्थः । स्वतस्तदसंभवेप्यौपाधिकं तत् संभवतीति परिहरति । केचिदाहुरित्यादिना । यद्वा जगदुपादानस्य ब्रह्मणो न तत्कर्तृत्वं संभवति । घटाद्युपादानस्य मृदादेस्तत्कर्तृत्वा दर्शनादित्याक्षिपति । अथेति । घटेश्वर संयोगादावुपादानसैवेश्वरस्य कर्तृत्व दर्शनात् । ब्रह्मण एव कर्तृत्व प्रतिपादक श्रुति वलाच्च तस्य तत्संभवतीति परिहरति । केचिदाहुरित्यादिना । अथ वा ब्रह्मणः कर्तृत्वं कीदृशमिहलक्षणे विवक्षितं किं ज्ञानचिकीर्षाकृतिमत्वरूपं किं वा कार्यानुकूलज्ञानवत्वरूपं कार्यानुकूलस्रष्टव्यालोचनात्मक ज्ञानवत्वं रूपं वा नाद्यः ब्रह्मणस्तादृश कर्तृत्वे माना भावात् । न द्वितीय तृतीयौ कार्यानुकूलज्ञानस्य कार्यत्वे तत्कर्तत्वनिर्वाहाय ज्ञानांतरापेक्षायामनवस्था प्रसंगात् । तस्याकार्यत्वे च नित्य ज्ञान स्वरूपस्य ब्रह्मणस्तादृशज्ञानवत्वरूपकर्तृत्वायोगादिति भावः । तत्र प्रथमपक्षं स प्रमाणं दर्शयति । प्. ११५ब्) केचिदाहुरिति श्रुतिषु तच्छब्दाः ब्रह्मपराः स्वयमित्यस्यान्यानपिष्टतमित्यर्थः । आत्मानं जगदात्मना अकुरुतकृतवदित्यर्थः । एताभिः श्रुतिभिस्सृष्ट्यनुकूलाः ज्ञानेछा कृतयः प्रतिपाद्यंत इति भावः । न च ज्ञानादीनामपि कार्यत्का तत्कर्तृत्वाय ज्ञानाद्यंतरापेक्षाया मनवस्थास्यादिति वाच्यं । ज्ञानादि त्रितयाति रिक्त कार्ये उक्त रूपकर्तृत्वस्य विवक्षितत्वान्नानवस्था प्रसंगः । ज्ञानादि त्रयं प्रतित्वन्यदेवकर्तृत्वं भविष्यतीत्यभिप्रायः प्रथपक्षं दूषयन् । द्वितीयपक्षं साधयति । अन्येत्विति । अनवस्थाप्रसंगादिति । कर्तृत्वलक्षणाननुगमनपरिहाराय कार्यमात्रे प्रतिज्ञानादि त्रितयवत्वरूपे कर्तृत्वे वक्तव्ये सत्यनवस्थाप्रसंगो भवत्येवेति भावः । ज्ञानवत्वमेवेति । इछाकृत्योरेवकारेण व्यवछेदः क्रियते तयोः । कर्तृत्वलक्षणप्रवेशे च गौरवादिति भावः न चैव मुदाहृत श्रुत्योरिछाकृति प्रतिपादनं व्यर्थं स्यादिति वाच्यं ।। एवं च विवरणे जीवस्य सुखादि कर्तृत्वोक्तिः वीक्षणमात्र साध्यत्वाद्वियदादि वीक्षितं हिरण्यगर्भद्वारावीक्षणाधिक प्. ११६अ) प्रयत्नसाध्यत्वात् । भौतिकं स्मितमिति । कल्पतरूक्तिश्च संगछत इति वदति ताभ्यां श्रुतिभ्यां तयोः सृष्टिहेतुत्वलाभेपि कर्तृत्वनिर्वाहकतयातयोः प्रतिपादनमित्यत्रमानाभावादिति भावः । अकार्य त्वादिति नित्यज्ञानस्वरूपस्य ब्रह्मणस्तादृश ज्ञानवत्वमौपाधिक भेदमादाय द्रष्टव्यं । न चैवमपि सृष्टिकारणज्ञानस्य तदैक्षतेति श्रुत्याकादाचित्कत्वप्रतिपादनविरोध इति वाच्यं । ब्रह्मस्वरूपं तयानित्यस्यापि ज्ञानस्य प्राण्यदृष्टपरिपाकलक्षणो यः कादाचित्कस्सहायस्तद्विशिष्टतयाकादाचित्कत्वमभिप्रेत्य तच्छ्रुत्युपतेरिति भावः । कार्यानुकूलज्ञानवत्वमात्रं कर्तृत्वमित्यत्रगमकमाह । एवं चेति । इछाकृत्योः कर्तृत्व लक्षणाननुप्रवेशे विवक्षिते सतीत्यर्थः जीवस्येति । तस्य सुखदुःखाद्युत्यत्यनुकूलज्ञानं साक्षिरूपं यथा विद्यते । तथा तदनुकूलेछादि कं नास्त्यननुभवादनभ्युपगमाच्च । न चेदमनुपपन्नं सुखेछया तत्साधनानुष्ठान द्वारासुखोत्पतेरनुभव सिद्धत्वादिति वाच्यं । सुख्याद्युपादानांतष्करणगोचरचिकीर्षा कृत्योरभावस्यात्र विवक्षितत्वा तथा च कार्यानुकूल ज्ञानवत्वमात्रं कर्तृत्व प्. ११६ब्) मित्यंगीकारे सत्येव विवरणोक्तिः संगछते नान्यथेत्यर्थः । निश्वसितमस्य वेदाः वीक्षितमस्य पंचभूतानि स्मितस्य चराचरमस्य सुप्तिर्महाप्रलय इति वाचस्पति श्लोके महाभूर्तोनां ब्रह्मवीक्षितत्वमुक्तं तथा भौतिकस्य चराचर प्रपंचस्य ब्रह्मस्मितत्वं मुक्ते तदुभय तात्पर्य कथनपरे कल्पतरु ग्रंथे ब्रह्मवीक्षणमात्रसाध्यत्वं महाभूतेषु तद्धिक्षितत्वनिर्देशस्यालंबनं दर्शितं । तच्च ब्रह्मणो महाभूत सृष्ट्यनुकूलज्ञानवतदनुकूलचिकीर्षाकृत्योरप्युपगमेन संगच्छते वीक्षणाति रिक्त चिकीर्षादि व्यावर्तकमात्रपदविरोधात् । लोके हि मंदहासरूपं स्मितं ज्ञानाधिक प्रयत्न साध्यं प्रसिद्धं । तथा च ब्रह्मणो भौतिक सृष्टिं प्रतियथावीक्षणमपेक्षितं तथा हिरण्यगर्भोत्पति लक्षणव्यापारोप्यधिकोपेक्षितः चराचर सृष्टौ परब्रह्मण इव हिरण्यगर्भस्यापि कर्तृतायाः श्रुतिस्मृति सिद्धत्वा तथा च परब्रह्मणोनौतिक सृष्ट्यनुकूलं यद्वीक्षणं तदधिक व्यापारापोक्षितत्वं चराचरस्य ब्रह्मस्मि तत्वनिर्देशालंबनं दर्शितं तदपि यज्व महाभूतसृष्टावेव वीक्षिणांधिक प्रयत्नापेक्षायां न संभवति । हिरण्यगर्भद्वारेत्यस्य वाक्यस्य हिरण्यगर्भोत्पतिमपेक्ष्येत्यर्थः । न तु हिरण्यगर्भः । प्. ११७अ) साक्षात्कर्ता ब्रह्म च प्रयोजक कर्त्रिति यथा श्रुतार्थो ग्राह्यः द्वितीयाध्यायांतिमाधिकरणे परमेश्वरस्य भौतिक सृष्टावपि साक्षात्कर्तृतायास्साधितत्वादिति भावः । वाचस्पति श्लोकश्च ब्रह्मस्तुति परः ब्रह्म ह्यति प्रशस्तं । तथा हि यस्य ब्रह्मणः पुरुषनिश्वासवत् प्रयत्नं विनैव वेदा सर्वे कार्यभूताः यस्य च वीक्षणादेव माहाभूतानि भवंति यस्य च हिरण्यगर्भेण सह चराचरात्मकं विश्वं मंदहासमात्रं यस्य च महाप्रलयोपि सुषुप्ति प्रायः तत्प्राशस्त्येको विस्मय इति भावः ।। अपरे तु कार्यानुकूल सृष्टव्यालोचनरूपज्ञानवत्वं कर्तृत्वं । न कार्यानुकूलज्ञानवत्वमात्रं शुक्तिरजतस्वाप्नभ्रमादिषु अध्यासानुकूलाधिष्ठान ज्ञानवत्वेन जीवस्य कर्तृत्व प्रसंगात् । न चेष्टापतिः अथ रथान् रथयोगान्यथाः सृजते स हि कर्तेत्यादि श्रुत्यैव जीवस्य स्वप्न प्रपंच कर्तृत्वोक्तेरिति वाच्यं । भाष्यकारैर्लांगलंगवादीमुद्वहतीति वत्कर्तृत्वोपचारमात्रं रथादि प्रतिभान निमित्तत्वेनेति व्याख्यातत्वादित्याहुः प्. ११७ब्) अनेनैव निखिलप्रपंचरचना कर्तृभावेनार्थ सिद्धं सर्वज्ञत्वं ब्रह्मणः द्वितीयपक्षेपि दोषं वदन् तृतीयपक्षं समर्थते । अपरेत्विति । स्रष्टव्यालोचनेति । मयेदं स्रष्टव्यमित्याकारकमित्यर्थः । अध्यासेति अध्यासस्याध्यस्य मानरजतादेरनुकूलं यदधिष्ठन ज्ञानं तद्वत्वेनेत्यर्थः । न चेष्टापतिरिति । न चेत्यस्य वाच्यमित्यनेन संबंधः । अथेत्यस्य स्वप्नकाल इत्यर्थः । जीवस्य रथादि सृष्टृत्वे हेत्वमाह । स हि कर्तेति । हि यस्मात् स्वाप्न रथादि हेतु कर्मकर्ता जीवस्तस्मादित्यर्थः । भाष्यकारैरिति । लांगलंगवादीनुद्वहतीति प्रयोगे लांगलस्य गवादि स्थिति कर्तृत्वरूपं गवाद्युद्बोद्वृत्वं मुख्यं नास्ति किं तु लांगले सति कृषिद्वारागवादि स्थिति हेतु पलालादि तृणलाभोस्तीति कृत्वा उपचारादुच्यते । गवादीनुद्वहतीति । तद्वत्स्वाप्नरथादि पदार्थोपलब्धि हेतु धर्मादि कर्तृत्वेन रथादि प्रतिभाननिमितत्वरूपेण हेतुना तस्य कर्तृत्वमुपचर्यते । स हि कर्तेति श्रुताविति भाष्यकारैः कर्तृत्वस्य औपचारक कर्तृत्वरूपतया उक्तत्वादित्यर्थः । एतेन विवरणे सुखादि कर्तृत्वोक्तिरप्युपचारमात्रपराव्याख्यातामयेदं सुखदुःखादि सृष्ट्यव्यमित्यालोचनरूपज्ञानाभावेपि सुखादि प्. ११८अ) दर्शनेन मुख्यकर्तृत्वा संभवात् । वीक्षणमात्र साध्यत्वादिति कल्पतरौ स्रष्टव्यालोचन रूपवीक्षणं विवक्षितमिति न तद्विरोध इति द्रष्टव्यं । जन्मादि सूत्रेण निखिलजगत्कर्तृत्वे सति तदुपादानत्वे ब्रह्मणो लक्षणत्वेन प्रतिपादिते सति तस्य सर्वज्ञत्वमर्थात्सिध्यतितिखिलजगत्सृष्टिस्थितिसंहारकर्तृत्वस्य सर्वज्ञत्वं विनासंभवादित्याह । अनेनैवति ।। शास्त्रयोनित्वादित्यधिकरणे वेदकर्तृत्वेनापि समर्थितं । अथ कथं ब्रह्मणः सर्वज्ञत्वं संगच्छे ते जीववदंतष्करणाभावेन ज्ञातृत्वस्यैवायोगात् । अत्र सर्ववस्तु विषय सकल प्राणिधीवासनोपरक्ताज्ञानोपाधिक ईश्वरः । अतस्तस्य सर्वविषयवासनासाक्षितया सर्वज्ञत्वमिति भारतीतौर्थादि पक्षः प्रागेव दर्शितः सर्वज्ञत्वसिद्धौ हेतुंतरमाह । शास्त्रयोनित्वादिति । अस्य सूत्रस्यार्थमाह । वेदकर्तृत्वेनापीति । ननु यथा वेदकर्तृत्वं भाष्यादिषूक्तप्रकारेण सर्वज्ञत्वं साधयति । तथा जन्मादि सूत्रोपातं सर्वकर्तृत्वमपि तत्साधयति । तथा च पूर्वसूत्रे अर्थसिद्धं इह तु साध्यत प्. ११८ब्) इत्युक्तौ को हेतुरिति । उच्यते । पूर्वसूत्रं लक्षणपरं न तु सर्वज्ञत्व साधनं परं इदं तु तत्साधनपरमिति तात्पर्यसत्वाभ्यां तथा व्यवहारः । ततश्च ब्रह्मसर्वज्ञं शास्त्रकर्तृत्वादिति सूत्रयोजना ननु ब्रह्मणः सर्वज्ञत्वं यः सर्वज्ञस्सर्वविद्गुणी सर्वविद्य इत्यादि श्रुत्याकंठत एव प्रतिपाद्यते । कात्र साधनापेक्षेति चेत्सत्यं श्रुत्युक्ते सर्वज्ञत्वे प्रतिपतिदाढ्यीयतथोपपति समर्पणात् । एवं श्रुत्युपपति सिद्धं सर्वज्ञं निरूपयितुमाक्षेपमवतारयति । अथेति । जीवस्य हि स्वोपाध्यंतःकरणवृतिज्ञानाश्रयत्वरूपं ज्ञातृत्वं प्रमाणसिद्धं ब्रह्मणश्चांतष्करणाभावात् ज्ञातृत्वं न संभवति । न च ब्रह्मणोप्यंतःकरणमस्त्विति वाच्यं । कार्योपाधिरयं जीव इति । श्रुत्या तस्य जीवोपाधित्वेन नियमितत्वात् । ज्ञातृत्वं च सर्वज्ञत्व व्यापकं ज्ञातृत्व विशेषरूपत्वात् । सर्वज्ञत्वस्य तथा च ब्रह्मणः ज्ञातृत्वस्य व्यापकस्य निवृत्या व्याप्य सर्वज्ञब्रनिवृतिरित्यर्थः । ज्ञातृत्वाभावे सर्वज्ञत्वं दूरापास्तमित्येवकारार्थः । अंतष्करणानां जीवोपाधित्वेपि तद्वासनानामीश्वरोपाधित्वात्संभवति कथंचित् सर्वज्ञत्वमिति परिहरति । अत्र सर्ववस्त्विति । अत्रेत्यस्यास्मिन्नाक्षेप इत्यर्थः । सर्वविषयवासना साक्षितयेति । स्वोपाधिभूतवासना प्. ११९अ) विषय सर्ववस्त्ववभासकतयेत्यर्थः ।। प्रकृटार्थकारास्त्वाहुः । यथाजीवस्य स्वोपाध्यंतःकरणपरिणामाश्चैतन्यप्रतिबिंबग्राहिण इति तद्योगाज्ज्ञातृत्वं । एवं ब्रह्मणः स्वोपाधिमायापरिणामाश्रित्प्रतिबिंबग्राहिणः संतीति तत्प्रतिबिंबितैः स्फुरणैः कालत्रयवर्तिनोपि प्रपंस्या परोक्षेणावकलनात् सर्वज्ञत्वमिति । तत्वशुद्धिकारास्तूक्तरीत्याब्रह्मणो विद्यमाननिखिलप्रपंच साक्षात्कार संभवात् । तज्जनित संकारवतया च स्मरणोपपतेरतीत सकलवस्त्ववन्नाससिद्धिः सृष्टेः प्राऽऽन्मायायाः सृज्यमाननिखिल पदार्थस्फुरणरूपेणजीवादृष्टानुरोधेन विवर्तमानत्वात् । तत्साक्षितया तदुपाधिकस्य ब्रह्मणोपि तत्साधकत्वसिद्धे ।। अस्मिन् समाधाने प्रागुक्तमस्वरसंमनसिनिधाय प्. ११९ब्) समाधानांतरमाह । प्रकटार्थकारास्त्विति । यथांतष्करणं ज्ञातृत्वोपाधिस्तथा मायापि ज्ञातृत्वोपाधिर्भवत्ये च तथा च ब्रह्मणि मायोपाधिके सर्वज्ञत्व व्यापकस्य ज्ञात्वस्य निवृत्यभावात् न सर्वज्ञत्वनिवृति शंकेत्यर्थः । स्वोपाधिमायेति मापिनमिति श्रुतेर्मायोपाधिर्जगद्योनिस्सर्वज्ञत्वादि लक्षण इति वाक्यवृति वचनाच्च मायाया ईश्वरोपाधित्वं सिद्धमिति भावः । सर्वज्ञत्व सर्वनियंतृत्व सर्वात्मकत्वानिलक्षणान्यसाधारण धर्माः यस्य सः सर्वज्ञत्वादिलक्षण इत्यर्थः । अवकलनादिति । विषयीकरणादित्यर्थः । तत्वशुद्धिकारास्त्विति । प्रकटार्थकाराणां मते अतीतानागत प्रपंचविषयेपि ईश्वरीयं मायावृतिप्रतिर्विरूपं ज्ञानमपरोक्षं । तत्वशुद्धिकाराणां मते अतीतादि विषये जीवानामिवेश्वर ज्ञानमपि परोक्षमेवेति विशेषार्थकस्तु शब्दः । विद्यमानेति लोके प्रत्यक्षज्ञानस्य वर्तमानवस्तुमात्रविषयकत्व स्वामाव्यदर्शनेन तस्य कॢप्तस्वभावाति लंघने कारणानावात् । सर्वज्ञत्व प्रतिपादक शास्त्रस्य ईश्वरीय ज्ञानगत परोक्षत्वापरोक्षत्वयोरुदासीनत्वादिति भावः । तज्जनितोति । विद्यमानवस्तु साक्षात्कारजनितेत्यर्थः । अनागत वस्तु ज्ञानमुपपादयति । प्. १२०अ) सृष्टेः प्रागिति । स्फुरणपदं वृतिपरं विवर्तमानत्वं परिणममानत्वं । तदुपाधिकस्येति । मायोपाधिकस्येत्यर्थः कथं तु ।। रनागत वस्तुविषयविज्ञानोपपतिरिति सर्वज्ञत्वं समर्थयंते । कौमुदीकृतस्तवदंति स्वरूपज्ञाने नैव ब्रह्मणः स्वसंसृष्ट सर्वावभासकत्वात्सर्वज्ञत्वं । अतीतानागतयोरप्यविद्यायां चित्रभितौ विमृष्टानुन्मीलित चित्रवत्संस्कारात्मनासत्वेन तत्संसर्गस्याप्युपपतेः । ननु वृतिज्ञानैस्तस्य सर्वज्ञत्वं । तमेव भांतमनुभाति सर्वमिति सावधारण श्रुति विरोधात् । सृष्टेः प्रागेकमेवाद्वितीयमित्यवधारणानुरोधेन महामूतानामिववृत्तिज्ञानानामपि प्रलयस्य वक्तव्य तया ब्रह्मणस्तदा सर्वज्ञत्वाभावापत्या ।। दुपाधिकत्वमत आह । तत्साक्षितयेति । तस्यां मायायां प्रतिबिंबित तयेत्यर्थः । सृष्टेःति पूर्वकालेयायायास्तथा । परिणामेकारणमाह । जीवादृष्टेति । प्. १२०ब्) तत्साधकत्वसिद्धेरिति । मायावृति कर्तृत्वसिद्धैरित्यर्थः । अनागतेति । अनागत वस्तुविषयकस्य ज्ञानस्य वृतिप्रतिबिंबरूपस्य ब्रह्मण्युपपतिरित्यर्थः । जीववद्ब्रह्मणोपि चैतन्य प्रतिबिंबोपेतैर्वृतिज्ञानैस्सर्वज्ञत्वं निरूपितं मतद्वयेन । इदानीं स्वरूपज्ञानेनैव तन्निरूपयति । कौमुदीकृतस्त्विति । ननु अतीतानागत प्रपंचयोः प्रलयकाले सृष्टिपूर्वकाले च सत्वे माना भावात् । तदाब्रह्मणस्सर्वज्ञत्वं न सिध्यति । असतोस्तयोश्चैतन्य संसृष्टत्वासंभवादिति नेत्याह । अतीतानागतयोरपीति । अतीत प्रपंचस्य प्रलयकाले संकारात्मनासत्वस्य देवताधिकरणे सूत्रभाष्यकारादि भिस्माधि तत्वात् तथा नागतस्यापि सृष्टिपूर्वकाले संस्कारात्मनैव सत्वस्यारंभणाधिकरणादिषु च साधितत्वादतीतादि वस्तुसंसृष्टब्रह्मचैतन्यस्य तदापि सर्वज्ञत्वसिद्धिरि भावः । चित्रस्यानुन्मीलितत्वं अनभिव्यक्तत्वं । तत्र हेतुर्विसृष्टत्वमविद्यैव चित्रमितिरिति । रूपकमत्र दृष्टव्य । सुत्रेदंचित्यं । स्थूलप्रपंचस्थितिकाले संस्कारात्मक सूक्ष्मप्रपंचो नास्ति प्रलयकालादौ च स्थूलप्रपंचो नास्ति तथा च ब्रह्मचैतन्यस्य सदासर्वप्रपंच संसृष्टत्वाभावात् सदा तस्यासंकुचित सर्वज्ञत्वं न संभवतीति । स्वरूपज्ञानेनैवेत्यत्रत्यस्यावधारणस्य व्यवचेद्यमाह । प्. १२१अ) न तु वृतिज्ञानैरिति । श्रुतिमनस्यावधारणस्य स्वप्रकाशात्माति रिक्ता नवभास्यमाऽदित्यादि जगदित्यर्थः । अत्रेदं चित्यं । ब्रह्मचैतन्यस्य जगदवभासनार्थं मायावृत्यपेक्षायां यदि श्रौतमवधारणं विरुध्यते । तदा जीवचैतन्यस्य घटाद्यवभासनार्थमंतःकरणवृत्यपेक्षायामपि तद्विरुध्यत एव यदि चांतष्करणवृतीनां जडत्वात् । तदपेक्षायामपि सर्वं जडवस्तुचैतन्यमात्रावभाष्यमिति सावधारण श्रुत्यर्थस्य न बाधस्तदामायावृत्यपेक्षायामपि तुल्यं समाधानमिति ।। प्राथमिक मायाविवर्तरूपे ईक्षणे तत्पूर्वक महाभूतादौ च स्रष्टृत्वाभाव प्रसंगाच्च । एवं सति ब्रह्मणः सर्वविषयज्ञानात्मकत्वमेवस्यान्न तु सर्वज्ञातृत्वरूपं सर्वज्ञत्वमिति चेत्सत्यं । सर्वविषयज्ञानात्मकमेव ब्रह्म न तु सर्वज्ञान कर्तृत्वरूपं ज्ञातृत्वमस्ति ।। प्रलयकाले सर्वज्ञत्वाभावे को दोषस्तत्राह । प्राथमिकेति । तदासर्वज्ञत्वाभावे सति सर्गादौ तदैक्षेति श्रुत्युक्तं भूतसृष्ट्यनुकूलमीक्षणं प्रतिकर्तृत्वाभावेन प्. १२१ब्) ईक्षणपूर्वकभूतादि सर्गं प्रत्यधि ब्रह्मणः कर्तृत्वाभावप्रसंगादित्यर्थः । अत्रापीदं चित्यं । एवमपि सृष्टिपूर्वकाले ब्रह्मचैतन्यव्यतिरिक्तस्य माया तत्संबंधादेस्सत्वात् । अद्वितीयत्वावधारणं मुख्यं न संभवति । यदि च मायादेरनादित्व प्रतिपादक श्रुत्यादि वलाद्व्याकृतकार्यात्मक द्वितीयाभावावधारणपरं तद्वचनमित्युच्येते । तदा सर्वदा सर्वविषयक ज्ञानकर्तृत्वरूप सर्वज्ञत्व प्रतिपादक श्रुत्यादि बलात् सर्वज्ञत्व घटक मायावृति संतत्यति रिक्त कार्याभावावधारणपरसद्वितीयत्व वचनमित्यपि कल्पनं तुल्यं । मायावृतिभिस्सर्वज्ञत्व समर्थनमेव भाष्यसंमतं । तथा चेक्षत्यधिकरणभाष्यं । अपि चाविद्यादि मतस्संसारिणश्शरीराद्यपेक्षाज्ञानोत्पतिः स्यान्नज्ञानप्रतिबंधकारणे रहितस्येश्वरस्येति सृष्टेः पूर्वकाले ब्रह्मण स्मृष्टव्यालोचनमीक्षरूपणं न संभवति । वृतिज्ञानरूपेक्षणस्य शरीरादिकारकसाध्यताया लोकसिद्धत्वेन ब्रह्मणस्तदाशरीराद्यभावादिति सांख्यशंकामिरासार्थमिदं । भाष्यं जीवस्यैव वृतिज्ञानोत्पतिश्शरीरादि साध्या ईश्वरस्य तु मायावृतिरूपज्ञानोत्पतिश्शरीराद्यनपेक्षा तथा च सृष्टेः पूर्वं प्रलयकालेपि तस्य मायावृतिरूपमीक्षणं सदासर्वज्ञत्वं च संभवतीति समाधान भाष्याभिप्रायः । प्. १२२अ) इदं भाष्यमित्थमेव व्याख्यातृभिर्नीतं भाष्ये ज्ञानप्रतिबंधकारणमविद्यादीति मंतव्यं । ततश्च मायावृतिभिस्सर्वज्ञत्व समर्थन पक्षदूषणमसंगतमिति मंतव्यं । शंकते । एवं सतीति स्वरूपज्ञानेनैव सर्वज्ञत्व समर्थने सतीत्यर्थः । नत्विति । स्वरूपज्ञानस्य नित्यत्वादिति भावः । न तु सर्वज्ञानकर्तृत्वरूपमिति । ब्रह्मण इति शेषः । अत्र यद्यपि ज्ञातृत्वं सामान्यरूपं सर्वज्ञानकर्तृत्वं तु वि शेषरूपमिति न तयोरभेदस्संभवति । तथापि ब्रह्मणो ज्ञातृत्वं नास्तीत्यत्रैव तात्पर्यं न तु तयोरभेदोक्तावपीत्यविरोधः ।। अत एव वाक्यान्वयादित्यधिकरणे विज्ञातृत्वं जीवलिंगमित्युक्तं भाष्यकारैः यः सर्वज्ञ इत्यादि श्रुतिरपि ज्ञानरूपत्वाभिप्रायेणैव योजनीयेति । यद्यपि ब्रह्मस्वरूपचैतन्येनैव स्वसंसृष्ट सर्वावभासकं ।। अत एवेति । ब्रह्मणो ज्ञातृत्वाभावादेवेत्यर्थः । इत्युक्तमिति । बृहदारण्यके मैत्रेयी ब्राह्मणे पठ्यते । आत्मनस्तकामाय सर्वं प्रियं भवतीत्यात्मा वा अरे द्रष्टव्य इत्यादि । अत्र किं जीवो द्रष्टत्वेनोपरिश्यते । उत प्. १२२ब्) प्रत्यगभिन्नः परमात्मानिष्प्रपंच स्वभावः इति संशयस्तत्र पूर्वपक्षः पूर्ववावाक्ये भोक्तुर्जीवस्य प्रकृतत्वादुपसंहारेपि विज्ञातारमरेकेन विज्ञानीयादिति विज्ञातृत्वस्य जीवधर्मस्य कीर्तनाच्च जीव एवात्र द्रष्टव्य उपदिश्यत इति । सिद्धांतस्तु प्रत्यगभिन्नपरमात्मैव द्रष्टव्यतयोपदिशयते । कुतः वाक्यान्वयात् । तथाहि । अत्र आत्मवेदनेन सर्वं विदितं भवतीति प्रतिपाद्यते । तच्च सर्वाधिष्ठान ब्रह्मपरिग्रहं घटतेन जीवपरिग्रहे तथा इदं सर्वमात्मेत्यादि वाक्यान्यपि सर्वात्मके ब्रह्मण्येव तात्पर्येण प्रतिपादकतया अन्वितानि लक्ष्यंते । आत्मनस्तु कामाय सर्वं प्रियं भवतीति पूर्ववाक्ये जीवपरामर्शस्तु लोकसिद्धं भोक्तारं मनूद्य तस्य शुद्धब्रह्मरूपेण द्रष्टव्यत्वोपदेशार्थः विज्ञातारमिति वाक्यं तु जीवस्य विज्ञातृत्वरूपधर्मपरं न भवति तस्य वाक्यस्य मुक्तजीवपरत्वात् । मुक्तजीवे चतिरूपाधिके तस्यासंभवात् । किं तु भूतपूर्वगत्याविज्ञातृत्वानुवादमात्रं स्वातंत्र्येण न कस्य साधकं । तस्मात् । मैत्रेयी ब्राह्मणं प्रत्यगभिन्ने निर्विशेषे द्रष्टव्ये समन्वितमिति सिद्धमिति । अत्र ज्ञातृत्वं ब्रह्मसाधारणं चेज्जीवलिंगतया भाष्यकारैर्नोपन्यस्येत उपन्यस्तं च तस्मात् ज्ञातृत्वं ब्रह्मणो नास्तीति गम्यत इति भावः । ईश्वरस्य सर्वविषयकज्ञानकर्तृत्वानभ्युपगमे श्रुतिविरोधमाशंक्याह । यस्सर्वज्ञ प्. १२३अ) इति । ननु नित्यचैतन्यमात्रस्य सर्वत्रलक्ष्यतयाज्ञाधातुवाच्यत्वा योगात् । विशि चैतन्यस्य प्रकृत्यर्थत्वं वाच्यं । तथा च विशिष्टस्य कार्यत्व संभवात् । प्रत्यय श्रुत्यर्थकर्तृत्वस्य न विरोधः ब्रह्मणः सर्वज्ञानकर्तृत्व प्रतिपादक श्रुतिविरोधेन ज्ञातृत्वस्य जीवलिंगत्वोक्तेरभ्युच्चेयमात्रत्वोपपतेः । तदधिकरणसिद्धांताभिमत निर्विशेष ब्रह्मव्यावृतत्वमात्रेण विज्ञातृत्वस्य पूर्वपक्षलिंगत्वोपत्वोपन्यासोपपतेश्च भाष्यकारैरेव मुख्यस्य सर्वविषयक ज्ञानकर्तृत्वस्य ईक्षितृत्वस्य ईक्षत्यधिकरणे प्रतिपादितत्वाच्च प्रत्यय श्रुतेः स्वांर्थपरत्वसंभवेतत्यागायोगाच्चेत्यस्वरसादाह यद्यपीत्यादिना चैतन्येनैवेति । न मायावृतिभिरित्येव कारार्थः तथापि तस्य स्वरूपेणाकार्यत्वेपि दृश्यावछिन्नरूपेण तु ब्रह्मकार्यत्वाद्यः सर्वज्ञ इति ज्ञानजनन कर्तृत्व श्रुतेरपि न कश्चिद्विरोध इत्याचार्य वाचस्पति मिश्राः नन्वीश्वरज्जीवोपि वृतिमनपेक्ष्यस्वरूपचैतन्येनैव किमिति विषयान्नावभासयति । अत्रोक्तं विवरणे ब्रह्मचैतन्यं प्. १२३ब्) सर्वोपादानतया सर्वतादात्म्यापन्नं स्वसंसृष्टं सर्वमवभासयति । न जीवचैतन्यं तस्याविद्योपाधिकतया सर्वगतत्वेप्यनुपादानत्वेनासंगित्वात् । यथा सर्वगतंगोत्व सामान्यं स्वभावादश्चादि व्यक्ति संगित्वाभावेपि सास्तावद्व्यक्तौ । संसृज्यते । एवं विषयासंग्यपि जीवः स्वभावादंतष्करणे संसृज्यते । तथा च यदांतष्करणपरिणामो वृतिरूपो नयनादि द्वारेण निर्गत्यविषयपर्यंतं चक्षूरश्मि वक्तुटिति दीर्घप्रभाकारेण परिणम्यविषयं व्याप्नोति । तदातमुपारुह्यतं विषयं गोचरयति तर्हि प्रत्ययार्थ बाधः । नेत्याह । तथापीति । तस्य स्वरूपचैतन्यस्यैत्यर्थः । दृश्यावछिन्नेति । न चानादि मायादि रूपदृश्यावछिन्नचैतन्यस्य कथमुक्तप्रकारेणाधिकार्यत्वं सिद्धेदिति वाच्यं । मायादेरपि ततत्कार्यतादाअत्म्यापत्याकार्यत्वसिद्धौ मायाद्यवछिन्नस्यापि कार्यत्वस्य सुसंपादत्वादिति भावः । आक्षिपति । नन्विति । प्. १२४अ) नावभासयतीति । न चात्रेष्टापतिवक्तुं शक्यते । तथा सत्य विद्या प्रतिबिंबचैतन्यरूपजीवस्य व्यापकतया स्वसंसृष्टसकलजगदवभासकत्वापत्या सर्वज्ञत्वप्रसंगात्स्वरूपचैतन्यस्य कारका न पेक्षतया चक्षुरादि वैयर्थ्य प्रसंगाचेति भावः । अत्रोक्तमिति अस्मिन्नाक्षेपे समाधानमुक्तमित्यर्थः । न जीवचैतन्यमिति । यथा जगद्ब्रह्मसंसृष्टं तथा जीवसंसृष्टं न भवति । अतो न तस्य सर्वज्ञत्व प्रसक्तिरित्यर्थः । ननु यथा जीवस्य घटादि विषयैस्संबंधाभावः तथांतष्करणादिनापि संबंधाभावस्तुल्य उपादानत्वाभावादेव तथा चांतष्करणादेर्वृतिं विनैवजीवचैतन्यरूपसाक्षिभास्यत्वं न स्यादित्याशंक्य उपादानत्वाभावेपि जीवचैतन्यस्यांतष्करणादिना तादात्म्य संबंधे दृष्टांतमाह । यथा सर्वगतमिति । संसृज्यत इति । अतो नांतष्करणादेस्साक्षिभास्यत्व विरोध इति भावः चक्षुरादि वैयर्थ्य प्रसंगं परिहरति । तथा चेत्यादिना । तथा चेत्यस्य जीवस्य स्वतो विषय संबंधाभावे सतीत्यर्थः । अंतष्करणपरिणामस्य सहसाविषयव्याप्तौ दृष्टांतः चक्षूरश्मि वदिति । तमिति परिणाममित्यर्थः । गोचरयतीति । जीवचैतन्यमिति शेषः केवलाग्निनाऽ अदाह्यस्यापि तृणादेरयः प्. १२४ब्) पिंडसमारूढाग्निदाह्यत्ववत्केवलजीवचैतन्याप्रकाश्यस्यापि घटादेरंतष्करणवृत्युपारूढ तत्प्रकाश्यत्वं युक्तं यद्वांतष्करणोपाधिकत्वेन जीवः परिछिन्नः अतः संसर्गाभावान्न घटादिमवभासयति वृतिद्वारा तत्संसृष्टविषयावछिन्न ब्रह्मचैतन्याभेदाभिव्यक्तौ तं विषयं प्रकाशयति । अथवा जीवः सर्वगतोप्यविद्यावृतत्वात् ।। विषयदेशे सतोपि जीवचैतन्यस्य स्वतो विषयावभासकत्वं नास्ति तस्यैव तु वृत्त्यारूढस्य तदस्तीत्यत्र दृष्टांतमाह । केवलाग्नीति तत्प्रकाश्यत्वमित्यत्र तत्पदं । जीवचैतन्य परं ननु जीवचैतन्यस्य विषयदेशे सतोपि विषयैस्संसर्गाभावात् । न तत्प्रकाशकत्वं वृत्यातयोः संसर्गलाभे च तत्प्रकाशकत्वं स्वीकृत्यसर्वज्ञत्व प्रसंगः किंमिति परिहर्यते जीवचैतन्यस्य सर्वगतत्वेन सत्यपि विषयसंसर्गे बिंबभूतब्रह्मचैतन्यवत्तस्यावृतत्वादेव न विषयप्रकाशकत्वमिति प्रतिपादनेनापि जीवस्य सर्वज्ञत्व प्रसंगादेः प्. १२५अ) परिहारसंभवादिति भावः जीवचैतन्यस्यांतष्करणोपाधिकतयापरिछिन्नत्वपक्षे सर्वज्ञत्वापतिशंकैव नास्ति । तस्य विषयैः सह स्वतः संबंधाभावेन वृतिं विना तत्प्रकाशात्मकत्वासंभवादिति परिहारांतरमाह । यद्वेति । अत इति परिछिन्नत्वादित्यर्थः । तत्संसृष्टेति वृतिद्वारावृतिमदेतःकरण संसृष्टं यत् विषयावछिन्न ब्रह्मचैतन्यं तस्यांतष्करणोपाधिक जीवचैतन्येन सहाभेदाभिव्यक्तौ सत्यां स जीवस्तं विषयं प्रकाशयतीत्यर्थः । अविद्याप्रतिबिंबो जीव इति प्रथमपक्षमेवाश्रित्यजीवस्योपादानत्वाभावेपि घटादि विषयैस्सहसंसर्गमभ्युपेत्यपरिहारांतरमाह । अथवेति सर्वगतौपीति । उपलक्षणं चैतत् । विषयसंसृष्टोपीत्यपि द्रष्टव्यं इतरथा विषयसंसर्गाभावादेव जीवस्य विषयप्रकाशकत्वाभावोपपतौ तस्यावृतत्वकल्पना वैयर्थ्य प्रसंगादिति बोध्यं । न च मां न जानामीत्यनुभवाभावात्कथं तस्यावृतत्वं सिध्येदिति वाच्यं । अंतष्करणोपहित जीवचैतन्यस्यैवमामित्युनुभवविषयतया व्यापकजीवचैतन्ये अंतःकरणावछेदेन तदभावेपि विषयदेशे तस्यावृतत्वकल्पने बाधकाभावात् । सर्वगतत्वेन रूपेण मां न जानामीत्यनुभवसत्वाच्चेति भावः ।। प्. १२५ब्) स्वयमप्यप्रकाशमानतयाविषयानऽनवभासयन् विषयविशेषेवृत्युपरागादावावरणतिरोधानेन तत्रैवाभिव्यक्तस्तमेव विषयं प्रकाशयति । एवं चिद्रुपरागार्थत्वेन विषयचैतन्याभेदाभिव्यक्त्यर्थत्वेनावरणाभिभवार्थत्वेन वा वृतिनिर्गममपेक्ष्य तत्संसृष्टविषयमात्रावभासकत्वाज्जीवस्य किंचित् जत्वमप्युपपद्यत इति । अत्र प्रथमपक्षे सर्वगतस्य जीवस्य वृत्यधीनः को विषयोपरागः वृत्यापि हि पूर्वसिद्धयोः निष्क्रिययोर्विषयजीवचैतन्ययोस्तादात्म्यस्य संयोगस्य वा न संभवत्याधानं ।। स्वयमपीति । विषयास्तावज्जडत्वात्स्वतो न प्रकाशंते जीवस्तु स्वप्रकाशमानोप्यावृतत्वादप्रकाशमान इति वक्तुमपि शब्दः यद्वा अपिशब्दो अवधारणार्थः तथा चावृतत्वात् स्वयमेवाप्रकाशमानतयेत्यर्थः । वृत्युपरागादाविति । विषय विशेषे वृत्युपरागे सति विषयदेशस्य जीवचैतन्यस्यापि वृत्युपरागो भवति । प्. १२६अ) तेन च जीवचैतन्यगतस्यावरणस्य तिरोधानं भवति तथा च जीवचैतन्यैं यो वृत्युपरागस्स आदिपदार्थः । तत्रैवेति । विषयविशेष एवेत्यर्थः । तमेवेति । नान्यं विषयमतो न सर्वज्ञत्वप्रसंग इति भावः इममेव भावं प्रकटयति । एवं चेति । जीवचैतन्यस्य वृतिं विनाविषयानवभासकत्वे सिद्धे सतीत्यर्थः । तत्संसृष्टेति । वृतिसंसृष्टेत्यर्थः । किंचिद्गत्वमपीति । अनुभवसिद्धं किचिद्गत्वं अनुभव सिद्धासर्वज्ञत्वारिति भावः । तत्सिद्धं चक्षुराद्यनुविधानं चेत्यपि शब्दार्थः । आक्षिपति । अत्रेति । उक्तपक्षेषु मध्य इत्यर्थः क इति स्वरूलक्षणो वा तादात्म्यलक्षणो वा संयोगलक्षणोवेति किं शब्दार्थः तत्र न तावदाद्योवृत्यधीनः जीवचैतन्यस्य सर्वगतत्वेन विषयदेशसन्निहित । जीवचैतन्यविषययोः स्वरूपात्मक संबंधस्य वृतिं विनापि सिद्धत्वादित्याशयेन सर्वगतस्येत्युक्तं । द्वितीयतृतीयौ क्रमेण दूषयति । वृत्यापीति । लोकेययोः पदार्थयोस्तादात्म्यमनुभूयते । तयोरादित आरभ्यानुभूयते न तु मध्ये आगंतुकमित्याशयेनाह पूर्वसिद्धयोरिति । संयोगस्यान्यतर कर्मजत्वमुभय कर्मजत्वं वा वक्तव्यं तदुभयं प्रकृतेन संभवतीत्याह । निष्क्रिययोरिति । न च सुवर्णादौ द्विविधकर्माभावेपि तेजः पार्थिवभगयोस्संयोगो दृष्ट इति वाच्यं । तथा विषयजीवचैतन्ययोरादित आरभ्य संयोगाभ्युपगमे तस्य वृत्यधीनत्व प्रतिपादनविरोधादिति भावः वृत्याप्याधानं न संभवतीति संबंधः प्. १२६ब्) जीवचैतन्यस्यानुपादानतया निरवयवतया च विषय जीवचैतन्ययोस्तादात्म्यसंयोगौ स्वतोनस्त एवं वृत्यापि तयोराधानं न संभवतीत्यपि शब्दार्थः आधानमुत्पादनमिति बोध्यं ।। अत्र केचिदाहुः । विषयविषयिभावसंबंध एवेति । अन्ये तु विषयविधिभावमात्रे नियामकावृतिश्चेदनिर्गताया अप्यैंद्रियक वृतेस्तन्नियामकत्वं नाति प्रसंगावहमिति तन्निर्गमाभ्युपगम वैयर्थ्यापतेः । स नाभिसंहितः किं तु विषयसन्निहित जीवचैतन्य तादात्म्यापन्नायावृते विषयसंयोगे तस्यापि तत् द्वारकः परंपरासंबंधो लभ्यत इति स एव चिदुपरागोभिसंहित इत्याहुः । अपरे तु साक्षादपरोक्ष चैतन्य संसर्गिण एव सुखादेरापरोक्ष्यदर्शनादपरोक्षविषये साक्षात्संसर्ग एष्टव्यः ।। विषयदेशे सन्निहितस्य जीवचैतन्यस्य वृत्युत्पतेः पूर्वं विषयविषयिभावलक्षणसंबंधो नाभूत् तदुत्पनं तं *? स जायते तस्याति रिक्तस्यानिर्वचनीयस्य संभवादित्याशयेनाह प्. १२७अ) अत्र केचिदाहुंरिति । न तु स्वरूपसंबंधस्य वा तादात्म्यस्य वा संयोगस्य वा वृत्यधीनत्वमुपेयते येनोक्त दोषः स्यादित्येव कारार्थः । परोक्षस्थले अनुमित्यादिवत्युपहित जीवचैतन्यस्यानुमेयादि विषयैस्सहविषयविषयिभावलक्षणसंबंधस्य वृतिनिर्गमनं विना सिद्धांते । स्वीकाराद्वृतिनिर्गमनमुपगछतां विवरणकाराणामयं संबंधो नाभिप्रेत इत्याह । विषयविषयिभावमात्र इति । परोक्षस्थल साधारणविषयविषयि भाव इत्यर्थः । तन्नियामकत्वमिति । विषयविषयिभाव संबंधस्तच्छब्दार्थः वृतिनिर्गमनाभावेपि यद्विषयावृतिर्जीवस्य स ए प्रकाश्योनान्य इति नियमसिद्धेर्विषयांतरप्रकाशकत्वापत्तिरूपाति प्रसंगो नास्तीत्यर्थः संयोगादेरपि निरस्तत्वात् कस्संबंधस्तदधि मत इति पृछति । किंत्विति अभिमतं संबंधमाह । विषयसन्निहितेति विषय व्यापितया उत्पन्नां वृतिं प्रतिविषयसन्निहित जीवचैतन्यस्याधिष्ठानतया वृतेस्तत्तादात्म्यं बोध्यं तस्यापीति विषय सन्निहित जीवचैतन्यस्यापि विषयावभासकत्वेनाभि मतस्य विषयेण सह वृतिविषयसंयोगद्वारकः परंपरासंबंधः विषय संयुक्तवृतितादात्म्यलक्षणो लभ्यत इत्यर्थः । उक्त संबंधस्य वृति निर्गमनं विना संभवातन्निर्गमनं विवरणाचार्येरुक्तमिति भावः । सुखादेरोतर पदार्थस्यापरोक्षत्वेन तत्प्रकाशक जीवचैतन्येन सह तस्यऽ ग?ता प्. १२७ब्) त्संबंधः प्रयोजकत्वेन कॢप्तः । एवं बाह्यघटादीनामापरोक्ष्येपि । साक्षात्संबंधः विषयापरोक्ष्ये क्वचित्साक्षात्संबंधः । क्वचिच्च परंपरासंबंधः प्रयोजक इति वैरूप्यापतेस्संभवति । साक्षात्संबंधे परंपरासंबंध कल्पनायोगाच्च । तस्मान्नायमप्याचार्याभिमतस्संबंधः इत्याह अपरेतिति ।। तस्माद्वृतेर्विषयसंयोगे वृत्तिरूपावछेदकलाभातदवछेदेन त्वदुपादानस्य जीवस्यापि संयोगजसंयोगः संभवतिकारणाकारणसंयोगात् कार्यसंयोगवत् । कार्याकार्यसंयोगात्करणाकारणसंयोगस्यापि । युक्तितौल्येनाभ्युपगंतुं युक्तत्वादित्याहुः । एकदेशिनस्त्वं तष्करणोपहितस्य विषयावभासक चैतन्यस्य विषयतादात्म्यापन्न ब्रह्मचैतन्याभेदाभिव्यक्तिद्वाराविषय तादात्म्यसंपादनमेव चिदुपरागोभिसंहितः ।। तस्मादिति । परंपरासंबंधस्यानभिमतत्वादित्यर्थः । वृतेरिति । वृतेर्विषयेण संयोगे सति वृत्युपादानजीवचैतन्यस्यापि विषयेण सहसंयोगजसंयोगस्संभवति । एतदुक्तं भवति । जीवचैतन्यस्य वृतिः कार्यं अकार्यं विषयः प्. १२८अ) वृतेर्जीवचैतन्यमुपादानकारणं तस्यावृतेर्विषयोनोपादानकारणं । तथा च वृतिविषययोर्जीवचैतन्यं प्रतिकार्याकार्ययोस्संयोगा जीवचैतन्यविषययोर्वृतिं प्रतिकारणाकारणायोः संयोगोत्र संयोगज संयोगो विवक्षित इति । ननु कायं प्रतिकारणभूतरुस्तस्य तं प्रत्येवाकारणभूततरुणासंयोगात् हस्तकार्यकायस्य हस्ताकार्य तरुणा सहसंयोगः उपेयते हस्ततरुसंयोगदशायां तरौ हस्तावछेदेन तरुः कायसंयुक्त इत्यनुभवादित्याशंक्यप्रकृतेपि घटादौ विषये वृति संयोगदशायां घटे वृत्यवछेदेन घटस्फुरतीति जीवचैतन्य संसृष्टत्वान भवादित्याशयेनाह कारणाकारणेति । युक्तितौल्येनेति । उभयत्र कल्पनानुभवरूपाया युक्तेस्तल्पत्वेनेत्यर्थः । ननु विषयदेशे सन्निहितस्यापि जीवचैतन्यस्य वृत्युपादानत्वं विवरणाचार्याणामभिमतं न भवति । जीवस्यांतःकरणाद्युपादानत्वाभावेपि सास्नादि मद्यक्तौ गोत्व सामान्यस्येव स्वभावादेव जीवस्यांतःकरणादौ संबंध इत्यस्यार्थस्य एवं विषयासंग्यपि जीवः स्वभावादंतष्करणेन संसृज्यत इत्यत्र प्राविवरणमतत्वेन प्रतिपादितत्वात् । ततश्च जीवचैतन्यस्य वृतिं प्रत्युषादानकारणत्वाभावे सत्युक्त संबंधो न सिध्यतीति संयोगजसंयोगोपि नाचायं संमत इत्यस्वरसादाह । एकदेशिनस्त्विति । घटादि विषयाभासकजीवचैतन्यस्य घटादिनाविषयेण सह तादात्म्य प्. १२८ब्) संबंधसंपादनमेव चिदुपरागत्वेनाभिमतमित्यर्थः । ननु वृत्यापि पूर्वसिद्धयोर्विषयचैतन्ययोस्तादात्म्यस्य न संभवत्याधानमिति प्रागुक्तत्वात्कथं तत्संपादनमत आह । विषय तादात्म्यापन्नेति । बिंबभूत ब्रह्मचैतन्यस्य घटादि विषयोपादानतया ब्रह्मविषययोस्तादात्म्यं प्रागेव सिद्धं तथा च विषयतादात्म्यापन्न ब्रह्मचैतन्येन सहविषयादनासक जीवचैतन्यस्य वृति कृता भेदाभिव्यक्तौ सत्यां जीवचैतन्यस्य विषयतादात्म्यं वृत्यधीनतयालभ्यते । अभेदाभिव्यक्तिप्रकारश्च वक्ष्यते अतो न तादात्म्य संपादनानुपपतिरिति भावः ।। सर्वगततया सर्वविषयसंनिहितस्यापि जीवस्यतेवरूपेणविषयावभासकत्वे तस्य साधारणतया पुरुषविशेषापरोक्ष्य व्यवस्थित्य योगेन तस्यांतष्करणोपहितत्वरूपेणैव विषयावभासकत्वात् । एवं च विषयापरोक्ष्ये अध्यासिकसंबंधो नियामक इति सिद्धांतोपि संगछतेन चैवं द्वितीय यक्षसाकर्यं जीवस्य सर्वगतत्वे प्रथमः पक्षः परिछिन्नत्वे द्विती प्. १२९अ) इत्येव तयोर्भदादित्याहुः ।। विषयावन्नासकजीवचैतन्यस्यांतष्करणोपहितस्येति यद्विशेषणंदतं तस्य प्रयोजनमाह । सर्वगतयेति । ते त्वेति सर्वगतत्वेनेत्यर्थः तस्येति । जीवस्येत्यर्थः । साधारणतयेति । सर्वपुरुषसाधारणतयेत्यर्थः । पुरुषपदं प्रमातृ परमविद्या प्रतिबिंबो जीव इति पक्षे जीवभेदाभावात् । अयोगेन तस्येति । जीवस्येत्यर्थः । तथा च सर्वगतमपि जीवचैतन्यं यस्य पुरुषस्यांतष्करणोपहितं स यमर्थमवभासयति सोर्थस्तस्यैवापरोक्षो नान्यस्येति व्यवस्थिति सिद्धये अंतष्करणोपहितत्वविशेषणं वाच्यमित्यर्थः । एकदेशमते लाभमाह एवं चेति विषयावभासकजीवचैतन्यस्य वृत्याविषयतादात्म्य संपादनोपगमे सतीत्यर्थः । अध्यासिकेति । अध्याससिद्धतादात्म्य संबंध इत्यर्थः । न चैवमिति । संबंधार्थावृतिरिति प्रथमपक्षेपि वृत्याभेदाभिव्यक्त्युपगम इत्युपगम इत्यर्थः । सांकर्यं पहिहरति । जीवस्येति जीवस्य सर्वगतत्वमते संबंधार्थावृतिरिति । प्रथमपक्षः जीवस्यांतःकरणोपाधिकतया परिछिन्नत्वमते अभेदाभिव्यक्त्यर्थावृतिरिति द्वितीयपक्ष इत्यथः । अयं भावः प्रथमद्वितीय पक्षयोरुभयोर्वृतिकृताभेदाभिव्यक्ति साम्येपि प्रथमपक्षे वृतिरभेदाभिव्यक्ति प्. १२९ब्) द्वाराविषयावभासक जीवचैतस्यस्य विषयेण महतादात्म्यसंबंध संपादनार्थाद्वितीयपक्षे तु वृतिर्विषयावभाब्रह्मसकजीवचैतन्यस्य विषयावछिन्नचैतन्येनाभेदाभिव्यक्त्यर्थैवेति न पक्षयोस्सांकर्यामिति । यद्वा प्रथमपक्षे जीवस्य व्यापकतया विषयदेशे सदासन्निहितस्यैव विषयावन्नासक जीवचैतन्यस्य विषयतादात्म्यापन्न ब्रह्मचैतन्याभेदाभिव्यक्त्यर्थावृतिः द्वितीय पक्षे तु जीवस्य परिछिन्नतया वृतिस्तस्य विषय सन्निधिं संपाद्याधिष्ठान ब्रह्मचैतन्याभेदाभिव्यक्तिमपि संपादयतीति तयोः पक्षयोरसांकर्पमयं परिहारो मूले सर्वगतत्वपरिछिन्नत्व पदाभ्यां सूचितः पूर्वपरिहारस्तु प्रथमपक्ष द्वितीयपक्ष पदाभ्यां सूचितः संबंधार्थावृतिरिति प्रथपक्षे संबंधस्योद्देश्यत्वातगमादभेदाभिव्यक्त्यर्थावृतिरिति द्वितीय पक्षे अभेदाभिव्यक्तेरेवोद्देश्यत्वावगमादिति । अत्र मते विवछित विवेकेन वृतेरभेदाभिव्यक्तिरेव प्रयोजनं प्रथमद्वितीयपक्षयोः पर्यवस्यतीति तयोस्सांकर्यं दुर्वारमित्यभिप्रेत्यादावेव एकदेशिन इत्युक्तमिति मंतव्यं ।। अथ द्वितीयपक्षे केयमाभेदाभिव्यक्तिः केचिदाहुः कुल्याद्वारातटाककेदारसलिलयोरिव प्. १३०अ) विषयांतष्करणावछिन्नचैतन्ययोर्वृत्तीद्वारा एकीभावोऽभेदाभिव्यक्तिः । एवं च यद्यपि विषयावछिन्नं ब्रह्मचैतन्यमेव विषयप्रकाशकं ।। वस्तुतस्तसंबंधार्थावृतिरिति वदतामाचार्याणामयमभिप्रायः विषयावभासकत्वेनाभिमतस्य जीवचैतन्यस्य विषयेण घटादिना सहव्यंग्यव्यंजकता लक्षणसंबंधस्ततद्विषयसंसृष्टवृत्यधीनोत्र विवक्षितः । तथाहि अंतःकरणं स्वछद्रव्यत्वात्स्वत एव चैतन्याभिव्यंजनसमर्थं घटादिकं तु तथा न भवति अस्वछद्रव्यत्वात् । घटादि विषयव्याप्त्या तु वृत्या तत्र विद्यमानमस्वछत्वमभिभूय चैतन्याभिव्यंजनयोग्यता आधीयते । तदुक्तं । विवरणाचार्यैरेवांतष्करणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्ति योग्यंतामायादयतीति । दृष्टं चास्वछस्यापि स्वछद्रव्य संसर्गात् । प्रतिबिंबग्राहित्वयोग्यत्वं । यथा कुड्यादेर्जलसंयोगकाले प्रतिबिंबग्राहित्वं घटादेः स्वसन्निहित जीवचैतन्यव्यंजकत्वं च तत्प्रतिबिंबग्राहितं । चैतन्यस्यापि व्यंग्यत्वं । तत्र प्रतिबिंबितत्वमेव । एवं विधव्यंग्यव्यंजकतालक्षणसंबंधार्थमेव वृतेर्निर्गमनमुक्तं विवरणे । तथा च वृत्यावहिर्निर्गतया विषयचैतन्ययोर्यथोक्त संबंधे संपादिते सति घटादौ प्रतिबिंबितं प्. १३०ब्) तत्रत्यं जीवचैतन्यं तमवभासयतीति । द्वितीयपक्षमाक्षिपति । अथेति । केयमिति । अभेदाभिव्यक्त्यरर्थावृतिरिति द्वितीयपक्षो हि जीवस्य परिछिन्नत्व मत इत्युक्तं । अस्मिन्मते अंतष्करणोपाधिकस्य जीवस्य विषयावछिन्न बिंबभूतब्रह्मचैतन्यस्य च वृत्याभेदाभिव्यक्तिर्न संभवति । अखंडाकारवृतेरिव घटादि गोचरवृतेरुपाधिनिवर्तकत्वाभावेन भेदकोपाध्योरंतष्करणविषययोस्सतोर्जीव ब्रह्माभेदाभिव्यक्तेरयोगादित्यर्थः । व्यावर्तकोपाध्योस्सत्वेपि तयोरेकदेशस्यात्व संपतौ तद्बलादभेदाभिव्यक्तिस्संभवति लोके तथा दर्शनादिति परिहरति । केचिदाहुरिति । केदारः सस्यनिष्पति स्थानं । तथा च तडाकस्थ सलिलस्य कुल्याद्वाराकेदारस्थ सलिलस्य चाभेदाभिव्यक्तिर्यथालोके प्रसिद्धा तथांतष्करणावछिन्नचैतन्यरूपजीवस्य विषयावछिन्न ब्रह्मचैतन्यस्य च वृतिद्वाराभेदाभिव्यक्तिर्भवति वृत्तेर्विषयदेशस्थत्वे सति वृतिवृतिमतोरभेदेन जीवोपाध्यंतष्करणस्यापि विषयदेशस्थत्वसिद्धेरित्यर्थः ।। तथापि तस्य वृतिद्वारैकी भावेन जीवत्वं संपन्नमिति जीवस्य विषयप्रकाशेपपतिरिति । अन्ये त्वाहुः बिंबस्थानीयस्य प्. १३१अ) विषयावछिन्नस्य ब्रह्मणः प्रतिबिंबभूतेन जीवेनैकीभावोनाभेदाभिव्यक्तिः व्यावर्तकोपाधौ दर्पण इव जाग्रति तयोरेकीभावायोगात् । वृतिकृताभेदाभिव्यक्त्याविषयावछिन्नस्य ब्रह्मणो जीवत्व प्राप्तौ ब्रह्मणस्तदा तद्विषयसंसर्गा भावेन तत् द्रष्टृत्वा संभवे सति तस्य सर्वज्ञत्वाभावापतैश्च ।। एवं चेति । अभेदाभिव्यक्तेः संभावितायामित्यर्थः । ननु जीवचैतन्यस्य विषयावन्नासकत्वं न संभवति । तस्य विषयं प्रत्युपादानत्वाभावेन तादात्म्यसंबंधाभावात् । न च ब्रह्मचैतन्यमेव विषयावभासकमस्तु तस्योपादानतया साक्षादेवतादात्म्य संबंधलाभादिति वाच्यं । तथा सत्यालोकेन घटः प्रकाशित इति वन्मया घटोवगत इति जीवचैतन्यस्यैव घटप्रकाशकत्वावगमविरोधादिति मत्वा पुनः शंकते । अभेदाभिव्यक्तिप्रयोजनं वक्तुं । यद्यपीति । विषयप्रकाशकमिति । इति वक्तव्यं तादात्म्यसंबंध लाभादिति शेषः । न जीवचैतन्यमित्येवकारार्थः तथा च मयायमवगतो घट इत्यनुभवविरोध इति भावः परिहरति । तथापीति । तस्येति तादात्म्यसंबंधेन विषयावभासक ब्रह्मचैतन्यस्य वृति द्वारांतःकरणोपहितत्व प्राप्तौ जीवे प्. १३१ब्) नैकीभावाज्जीवत्वं संपन्नमिति ब्रह्मचैतन्यस्य यद्विषयावभासकत्वं तज्जीवस्यैवेति प्राप्त्योनानुभवविरोध इत्यर्थः । दर्पण इवेति । यथा दर्पणे प्रतिबिंबदशायां बिंबप्रतिबिंबयोरभैदाभिव्यक्तिर्न्नास्ति तयोस्तदा भेदानुभवा तथा प्रकृतेपि विषयादि रूपभेदकौपाधौ सति साम संभवतीत्यर्थः । ननु तत्वसाक्षात्कारेणाशेषोपाधि निवृतौ यादृश्यभेदाभिव्यक्तिस्तादृशी न तत्र विवक्षिता । किं तु क्षीइरनीरयोरेक पात्रस्थयोरिव वृतिद्वारा अंतष्करणविषययोरेकदेशस्थत्वप्राप्तौ तन्मात्रप्रयुक्ता तदवछिन्नचैतन्ययोरौपचारिक्यभेदाभिव्यक्तिर्विवक्षिता अस्यां चाभेदाभिव्यक्तौ न व्यावर्तकोपाधि सत्व प्रयुक्तो विरोधोस्ति दर्पणे मुखप्रतिबिंबदशायामपि मम मुखमेव दर्पणे भातीति बिंबप्रतिबिंबयोरभेदाभिव्यक्ति दर्शनात् । अस्मिन्मतेपीत्थमेव निर्वाहः कर्तव्यः न ह्यंतःकरण तद्वृति प्रतिबिंबयोरभेदाभिव्यक्तिर्मुख्या संभवति वृति वृतिमतोः कार्यकारणभावा एन्नयोरैक्यायोगेन तत्प्रतिबिंबयोरैक्यायोगात् । ऐक्येवा एवं चेत्यादिना प्रमात्रादीनामस्मिन्मते साकर्याभावोपपादनविरोधादित्य स्वरसादाह । वृतिकृताभेदाभिव्यत्मेति । तदा तद्विषयेति । विषयावछिन्न ब्रह्मणो जीवत्व प्राप्तौ तस्येश्वरत्व निवृतिरवश्यं वाच्याचैतन्ये एकावछेदेन प्. १३२अ) जीवत्वेश्वरत्वयोरसंभवा । तथा च तदा जीवत्व दशायां ब्रह्मणस्तद्विषयसंसर्गाभावेन तद्दृष्टृत्वं न संभवतीत्यर्थः । तस्येत्यनंतरं तदेत्यनुषंगः ।। किं तु विषयावछिन्नं ब्रह्मचैतन्यं विषयसंसृष्टायावृतेरग्रभागे विषयप्रकाशकं प्रतिबिंबं समर्पयतीति तस्याप्रतिबिंबस्य जीवेनैकीभावः । एवं चांतःकरण तद्वति विषयावछिन्नचैतन्यानां प्रमातृ प्रमाणप्रमेय भावेनासंकरोप्युपपद्यते । न च वृत्युपहित चैतन्यस्य विषय प्रमाणत्वे तस्य विषयाधिष्ठान चैतन्यस्येव विषयेणाध्यासिक संबंधाभावाद्विषयापरोक्ष्ये आध्यासिक संबंधस्तंत्रं न स्यादिति वाच्यं । विषयाधिष्ठान चैतन्यस्यैव विषयेणावछिन्नस्य वृतौ प्रतिबिंबितया तदभेदेन तत्संबंध सत्वादिति ननु विषयाधिष्ठान चैतन्यस्य वृति संसर्ग दशायामंतष्करणोपहितत्वप्रयुक्त जीवत्ववदविद्योपहितत्व प्रयुक्तमीश्वरत्वमप्यविरुच्चं तथा च बिंबभूतेश्वरस्य तदापि सर्वज्ञत्वमक्षतं । अन्यथांतष्करणाद्यधिष्ठान चैतन्यस्य तदुपाधिकत्व प्रयुक्तजीवत्वे सदा स्थिते प्. १३२ब्) सति बिंबभूतब्रह्मणस्सदांतःकरणादि संसर्गाभावेन तद्दृष्ट्वत्वासंभवे सति सदा सर्वज्ञत्वाभाव प्रसंगदोष इहापि मते तुल्य इत्यस्वरसंमनसिति धाय कीदृशी तर्हित्वदभिमताभेदाभिव्यक्तिरिति पृछति । किं त्वितिति । तामाह । विषयावछिन्नमिति । अग्रभाग इति वृतिर्हि हृदयस्थांतःकरणमारभ्यविषयपर्यंतमविछिन्ना कौस्तुभमण्यादि प्रभावद्दीर्घीभावमापन्ना तिष्ठति तस्यावृतेर्विषय संसृष्टो भागोग्रभाग उच्यते । तत्र यो ब्रह्मणः प्रतिबिंबः तस्य विषयप्रकाशकस्य जीवं नैकीभावः इहाभेदाभिव्यक्तिर्विवक्षितावृतिवृति मतोस्तादात्म्यरूपाभेद सत्वेन तत्प्रतिबिंबयोरभेदाभिव्यक्ति संभवादित्यर्थः । एवं चेति । वृति प्रतिबिंबस्यांतष्करणप्रतिबिंबाद्वस्तुतोभिन्नस्यैव स तस्तदभेदेनाभिव्यक्तस्य विषयावभासकत्वे स्वीकृते सतीत्यर्थः । असंकरोपीति । वृति वृतिमतोस्तादात्म्यात् तत्प्रतिबिंबयोरभेदाभिव्यक्ति वंदसंकरोप्युपपद्यत इत्यपि शब्दार्थः मुखं दर्पणोपाधिनेवांतःकरणेनोपाधिना अवछिन्नं तत्प्रतिबिंबचैतन्यं प्रमाता वृति प्रतिबिंबचैतन्यं तयैवावछिन्नं प्रमाणं विषयावछिन्नं ब्रह्मचैतन्यं प्रमेयमिति । तेषामसांकार्यमुपपद्यते व्यावर्तकोपाधि सद्भावादित्यर्थः । अस्मिन्मते असांकर्यसुपपद्यत इत्युक्त्या पूर्वमते विषयावछिन्न प्. १३३अ) ब्रह्मचैतन्यस्य जीवत्व प्राप्ति स्वीकारात् प्रमातृ प्रमेय चैतन्ययोरसांकर्यं नोपपद्यत इति सूचितं वस्तुतस्तु पूर्वमतेपि न सांकर्यं जीवब्रह्मभेदकोपाधि सद्भावस्य तत्प्रयुक्ततया सर्वज्ञत्वादि व्यवस्थायाश्च प्राक् दर्शितत्वादिति मंतव्यं । शंकते । न चेति । तस्येति । तस्य विषयेणाध्यासिकसंबंधान्नावादिति संबंधः प्रमारूपस्य वृति प्रतिबिंबस्य विषयोपादानत्वाभावेन तयोस्तादात्म्यासंभवा तथा च विषयापरोक्ष्ये आध्यासिक तादात्म्य संबंधोनिया ।। अपरे त्वाहुः बिंबभूतविषयाधिष्ठानचैतन्यमेव साक्षादाध्यासिकसंबंध लाभाद्विषयप्रकाशकमिति तस्यैव बिंबत्वविशिष्टरूपेण भेदसद्भावेपि तदुपलक्षितचैतन्यात्मनैकी भावोभेदाभिव्यक्तिः । न चैवं सति जीवब्रह्मसांकर्यं न वा ब्रह्मणः सर्वज्ञत्व विरोधः बिंबात्मना तस्य यथा पूर्वमवस्थानादिति । अथ तृतीये पक्षे को नामावरणाभिभवः । अज्ञाननाशश्चेत् घटज्ञानेनैवाज्ञानमूलः प्रपंचो निवर्तेतेति चेत् । अत्र केचिदाकेहुः । चैतन्य प्. १३३ब्) मात्रावरकस्याज्ञानस्य विषयावछिन्न प्रदेशे खद्योतादि प्रकाशेन महांधकारस्येव ज्ञानेनैक देशेन नाशो वा कटवत्संवेष्टनं वा भीतभटवदपसरणं वाभिभाव इति अन्ये त्व ज्ञानस्यैक देशेन नाशे उपादानाभावात् ।। मक इति सिद्धांतविरोध इति शंकाभिप्रायः बिंबप्रतिबिंबयोरभेदान्युपगमात् बिंबचैतन्यस्य विषयेण सहयस्तादात्म्य संबंधः स एव प्रमारूप प्रतिबिंबस्यापीति नापसिद्धांत इति परिहरति । विषयाधिष्ठानेति । तदभेदेनेति । प्रतिबिंब चैतन्यस्य बिंबाभेदेनेत्यर्थः । बिंबप्रतिबिंबयोरभेदे सत्यपि कल्पितभेदसत्वात् बिंबसंबंधस्य प्रतिबिंबसंबंधत्वं नास्तीत्यस्वरसंसाक्षात्पदेन सूचयन् । अभेदाभिव्यक्तिं प्रकारांतरेणाह । अपरेत्वाहुरिति । भेदसद्भावेपीति । प्रतिबिंबत्व विशिष्टचैतन्य स्वरूप जीवेन सहेति शेषः तदिति बिंबत्व प्रतिबिंबत्वाभ्यामुपलक्षक्षितं शुद्धचैतन्यं तदात्मनेत्यर्थः । न चैवं सतीति । उपलक्षितचैतन्यात्मना अभेदाभिव्यक्त्यांगीकारे पूर्वोक्तं दोषद्वयं नास्तीत्यर्थः । अत्रेदंचित्यं । उपलक्षितचैतन्यात्मना एकीभावो न वास्तवाभेदः तस्य वृत्यु न पेक्षत्वात् । नापि व्यवहारिकाभेदः बिंबप्रतिबिंब प्. १३४अ) भेदस्य व्यावहारिकत्वेन तत्संमसताका भेदासंभवात् । नापि प्रातिभासिकाभेदः उपाध्योरेकदेशस्थत्वमात्रेण बिंबप्रतिबिंब चैतन्ययोः प्रातिभासिकाभेदसंभवेन तदर्थं चैतन्यमात्रोपलक्षण वैयर्थ्यादिति । तृतीयपक्षमाक्षिपति । अथेति । निवर्तेतेति अज्ञानस्यैकत्वादिति भावः । न तु निवर्तते अतो नाज्ञाननाशः आवरणाभिभवः । न चान्यः प्रकारस्संभवति अनुपलंभादिति भावः । अज्ञानैक्यमेवालंव्यपरिहरति । अत्र केचिदाहुरिति चैतन्यमात्रेति । मात्रषदंसाक्षि व्यतिरिक्त कृत्स्नचैतन्यपरं साक्षिण्यावरण्य भावस्य वक्ष्यमाणत्वादिति भावः । एकदेशेन नाशोवेति । तथा तन्मूलप्रपंचस्य न निवृत्यापतिरिति भावः प्रकारांतरानुपलंभो सिद्ध इत्याशयेनाह । कटवदित्यादिना । निरुक्तमावरणाभि भवं दूषयन् तं प्रकारांतरेण निर्वक्ति । अन्येति तादिना ।। पुनस्तत्र कंदलनायोगेन सकृदपगते समयांतरेप्यावरणाभावप्रसंगान्निष्क्रियस्यापसरण सवेष्टनयोरसंभवाच्च न यथोक्त रूपोभिभवः संभवति । अतश्चैतन्यमात्रावरकस्याप्यज्ञानस्य ततदाकारवृति संसृष्टावस्थविषयावछिन्न चेतन्यावरकत्व प्. १३४ब्) स्वाभाव्यमेवाभिभवः । न च विषयावजूंटन पटवद्विषयचैतन्यमाश्रित्यस्थितस्याज्ञानस्य कथं तदनावरकत्वं युज्यत इति शंक्यं । अहमज्ञ इति प्रतीत्याहमनुभवे प्रकाशमानचैतन्यमाश्रयत एव तस्य तदनावरकत्व प्रतिपतेरित्याहुः । अपरे तु घटं न जानामीति घटज्ञानविरोधित्वेन घटज्ञाने सति घटाज्ञानं निवृतमिति तन्निवर्त्यत्वेन चानुभूयमानं न मूलाज्ञानं शुद्धचैतन्यविषयस्य तहान निवर्त्यस्य च तस्य तथा त्वायोगात् किं तु घटावछिन्नचैतन्यविषयं मूलाज्ञानस्यावस्थाभेदरूपमज्ञानांतरमिति तन्नाश एवाभिभवः । न चैवमेकेन ज्ञानेन तन्नाशे तत्समानविषयाणां ज्ञानांतराणामावरणाभिभावकत्वानापतिः यावंति ज्ञानानि तावंत्यज्ञानानीत्यभ्युपगमादित्याहुः ।। पुनस्तत्रेति । विषयावछिन्नचैतन्ये आवरणोत्यज्ययोगेनेत्यर्थः । ततदिति । तत्तद्विषयाकारवृतिसंसृष्टावस्थं प्. १३५अ) यत् विषयावछिन्नचैतन्यं तदनावरकत्वमित्यर्थः । ननु यथा घटं व्याप्यमानः पटस्तमावृणोत्येव एवं विषयावछिन्न ब्रह्मचैतन्यं व्याप्यवर्तमानमज्ञानमपि चैतन्यमावृणोत्येवेति तदनावरकत्व कल्पनमयुक्तमिति । शंकते । न चेति । अज्ञाने पट वैलक्षण्यस्यानुभवसिद्धत्वान्नैतच्चोद्यमवतरतीत्याह । अहमिति । तस्येति । अज्ञानस्येत्यर्थः । जीवचैतन्याश्रितमप्यज्ञानं न तदावृणोति तस्यावृतत्वे सर्वव्यवहारलोप प्रसंगादिति दहराधिकरणभाष्ये साधितत्वात् । साक्षि चैतन्यस्यानावृतताया वक्ष्यमाणत्वाच्चेति भावः प्रपंचोपादानमूलाज्ञानापेक्षयान्यदेवविषयावछिन्न चैतन्यावरकमज्ञानमिति घटादिज्ञानेन तन्निवृतावपि न प्रपंच निवृति प्रसंगः तेन प्रपंचमूलाज्ञानानिवृतेरिति मतं दर्शयति । अपरेत्विति । अज्ञानभेदे मानमाह । घटमिति । विरोधित्वेनेति । न जानांमीत्यज्ञानानुभवाभिलापक शब्देनत्रो विरोध्यर्थकत्वादभिलप्यानुभवोपि ज्ञानविरोधि विषक एव न च न जानामीत्यनुभवो ज्ञानप्रागभावविषक एव न तु भावरूपाज्ञानविषक इति वाच्यं । प्रागभावस्यैवासंप्रतिपतेरिति भावः । तथात्वायोगादिति । घटावछिन्नचैतन्यविषयकत्वतहान निवर्त्यत्वयोरयोगादित्यर्थः । किं त्वज्ञानांतरमिति संबंधः अवस्थाभेदरूपमिति । अस्य विशेषणस्य प्रयोजनं वक्ष्यते । न प्. १३५ब्) चैवमेकेनेत्यादि ग्रंथः स्पष्टार्थः ।। इमानि चावस्थारूपाण्यज्ञानानिमूलाज्ञानवदज्ञानत्वादनादीनीति केचित् व्यावहारिकौ जगज्जीवावावृत्य स्वाप्नौ जगज्जीवौ विक्षिपंती निद्रा तावदावरण विक्षेपशक्तियोगादज्ञानावस्थान्नेदरूपा तथा सुषुप्त्यवस्थाप्यंतःकरणादौ विलीने सुखप्तहमस्वाप्सं न किंचिदवेदिषमिति परामर्श दर्शनान्मूलाज्ञानवत्सुषुप्तिकालेनुभूयमानाज्ञानावस्था भेदरूपैव ।। नन्ववस्थाज्ञानानि किमनादीनि । किं वा आदिमंति । नाद्यः सानाभावान्न द्वितीयः अज्ञानमनादीनि सिद्धांतविरोधादिति चेदन्न केचिदाद्यं पक्षं साधयंतीत्याह । इमानि चेति । अवस्था ज्ञानानि अनादीनि अज्ञानत्वान्मूलाज्ञानवन्न च दृष्टांता सिद्धिः देवताधिकरणे मूलाज्ञानानादितस्य श्रुतिन्यायाभ्यां साधितत्वादिति भावः । न चाज्ञानगतानादित्वे मूलाज्ञानत्वं प्रयोजकं नत्वज्ञानत्वमात्रंमिति । वाच्यं । लाघवेन तन्मात्रस्यैव प्रयोजकत्वादिति प्. १३६अ) भावः अवस्थाज्ञानान्यादिमंतीति द्वितीयपक्षमन्ये साधयंतित्याह । व्यावहारिकावित्यादिना । न च सिद्धांत विरोधः अज्ञानानादित्वाभ्युपगमस्य मूलाज्ञानविषयत्वादिति भावः विमतान्यवस्था ज्ञानानि आदिमंति अवस्थाऽज्ञानत्वात् निद्रावत् सुषुप्तिवच्च मूलाज्ञाने व्यभिचारवारणार्थं । आवृत्येति । जाग्रत्कालीनौ जगत् । जीवौ यादृशौ प्रसिद्धौ न तादृशावेव स्वप्नकाले उपलभ्येते अतस्तयोर्यथा वदनुपलंभादावरणं वक्तव्यमिति भावः । विक्षिपंतीति सृजंतीत्यर्थः । अज्ञानावस्थाभेदरूपेति । अज्ञानस्य हि आवरणविक्षेपशक्तिमत्वं लक्षणं तस्य स्वप्नकारणी भूतनिद्रायां सत्वादज्ञानत्वं तावत् सिद्धं निद्रायाः वक्ष्यमाणरीत्यासादित्वेन साक्षान्मूलाज्ञानत्वायोगातदवस्था विशेषरूउपत्वं सिद्धमिति प्रथमदृष्टांतेन साधनवैकल्पमिति भावः । तथा सुषुप्तिकाले मूलाज्ञान वदनुभूयमाना सुषुप्त्यवस्थाप्यज्ञानावस्थाभैदरूपैवेति संबंधः । ननु सुषुप्ति काले मूलाज्ञानसुषुप्त्योरनुत्रवोऽसिद्धस्तदा अहमज्ञ अहं स्वपीमीत्यनुभवा दर्शनादिति नेत्याह । सुखमहमिति । परामर्शस्मरणं । तथा च उत्थितस्य दृश्यमान परामर्शान्यथानुपपत्या तदा सुषुप्तिमूलाज्ञानयोरनुभवः साक्षिरूपः कल्प्यते । अहमुल्लेखे प्. १३६ब्) हि आत्मन्यंतःकरण संसर्गः प्रयोजकः तत्काले तस्य लीनत्वान्नाहमुल्लेख इत्याशयेनाह । अंतष्करणादौ विलीन इति । चक्षुरादिकमादि पदार्थः सुषुप्तिस्वरूप साधनार्थः परामर्शकल्प्यसुषुप्त्यनुभवोपन्यासः सुषुप्तिकाले मूलाज्ञानाभावे सुषुप्तेस्तदवस्थारूपत्वं न सिद्ध्येदतस्तनुभवोपन्यासः तदामूलाज्ञानसत्व साधनार्थः सुषुप्तेस्तदवस्थारूपत्वं परिशेषादवगंतव्यं । सुषुप्तिकाले मूलाज्ञानातिरिक्तादप्तंतष्करणादीनां विलीनत्वेनस्तस्यास्तदवस्थारूपत्वासंभवादिति सूचनार्थं चांतःकरणादि विलयोपन्यासः । तथा च सुषुप्ति दृष्टांतेपि न साधमवैकल्पमिति भावः ।। तयोश्च जाग्रद्भोगप्रद कर्मो परमे सत्येवोद्भवात्सादित्वमिति । तद्वदन्यदन्यदप्यज्ञानमवस्थारूपं सादीत्यन्ये नन्वनादित्व पक्षे घटे प्रथममुत्पन्नेनैव ज्ञानेन सर्वतदज्ञाननाशो भवेत् । विनिगमनाविरहातदवछिन्नचैतन्यावरक सर्वाज्ञानानाशे विषयप्रकाशायोगागाच्च अतः पाश्चात्यज्ञानानामावरणानभिभावकत्वं । प्. १३७अ) तदवस्थमेवेति चेत् । अत्र केचिदाहुः । यथा ज्ञानप्रागभावानामनेकेषां सत्वेप्येक ज्ञानोदये एक एव प्रागभावो निवर्तते । संशयादि जननशक्ततया तदावरणरूपेषु प्रागभावांतरेषु सत्स्वपि विषयावभासस्तथैक ज्ञानोदये एकमेवाज्ञानं निवर्तते । अज्ञानांतरेषु सत्स्वपि विषयावभास इति ।। दृष्टांत द्वयेपि साध्यवैकल्पं परिहरति । तयोश्चेति निद्रासुषुप्त्योरित्यर्थः । अन्यदषीति । घटादिविषयावछिन्नचैतन्यावरकाज्ञानमपीत्यर्थः । अवस्थाज्ञानानां सादित्वपक्षे प्रथममुत्पन्नेन घटज्ञानेन तदुत्पतेः पूर्वं घटावरकत्वेन स्थिता ज्ञानस्य नाशे सति पश्चादुत्पन्नमवस्थाज्ञानं पुनस्तमावृणोतीति व्यवस्था सिध्यति । तेषा मनादित्व पक्षे तु सानसिध्येदिति शंकते । नन्विति । प्राथमिक घटज्ञानेन तदज्ञानानां सर्वेषां नाशोस्ति । न वा द्वितीय कल्पं दूषयति । घट इति । प्राथमिक ज्ञानेन एकमेवाज्ञानं नश्यति नेतराणीत्यत्र विनिगमका भावात् । सर्वाज्ञाननाशो वक्तव्यस्तथा च द्वितीयकल्पानुपपतिरित्यर्थः । द्वितीयकल्प एव निविगमकाभाववद्दोषांतरमाह । तदवछिन्नेति । प्. १३७ब्) प्रथमज्ञानेन सर्वाज्ञाननाशादित्यर्थः । तदवस्थमेवेति । पाश्चात्यज्ञानानामावरणाभिभावकत्व सिद्ध्यये हि यावंति ज्ञानानि तावंति तन्निवर्त्याज्ञानानीत्युपगम्यते । तदभ्युपगमेपि प्रथमज्ञानेनैव सर्वाज्ञाननाशे स दोषस्तदवस्थ एवेत्यर्थः । यथान्यायमते यावंति घटज्ञानानि तावंतो घटज्ञानप्रागभावास्संति । तत्र प्रथमेन ज्ञानेन एक एव ज्ञानप्रागभावो निवर्तते । अन्ये यथापूर्वं संत्येव तेषां सत्वेपि विषयप्रकाशश्चोपेयते तैरेवमत्रापि योजनीयमिति परिहारति । अत्र केचिदाहुरिति । ननु दृष्टांतो विषमः ज्ञानप्रागभावस्यानावरकत्वात् । भावरूपाज्ञानस्य च विषयावरकत्वात् । आवरणसत्वे च न विषयप्रकाशोपपतिरिति नेत्याह । संशयादीति । विपर्यय आदि पदार्थः सिद्धांते भावरूपाज्ञानस्यावरकत्वं ह्यज्ञानवत्वाभिमते वस्तुनि संशयादि जननसमर्थत्वं तच्च परमते ज्ञानप्रागभावरूपाज्ञानस्यापि समानं ततो न दृष्टांत वैषम्यमिति भावः एकमेवेति । फलवलादिति भावः ।। अन्ये त्वावृतस्यापरोक्षे विरुद्धमेकज्ञानोदये च प्रागभावांतर सत्वेपि यावद्विशेष प्. १३८अ) दर्शनाभावकूटरूपमावरणं विशेषदर्शनान्नास्तीति मन्यमानावदंति । यदा यदज्ञाअनमावृणोति तदा तेन ज्ञानेन तस्यैव नाशः सर्वं च सर्वदानावृणोति वैयर्थ्यात् किंत्वावरकाज्ञाने वृत्यानाशिते तद्वृत्युपरमेऽज्ञानांतरमावृणोति । न चैवं सति ब्रह्मावगमोत्पति कालेऽनावरकत्वेन स्थितानामज्ञानानां ततोप्यनिवृति प्रसंगः तेषां साक्षात् तद्विरोधित्वाभावेपि तन्निवर्त्यमूलाज्ञान परतंत्रतयाऽज्ञानसंबंधादिवतन्निवृत्यैवनिवृत्युपपतेः ।। नन्वनादित्वपक्षे इत्यादि ग्रंथेन कृताक्षेपे प्रकारांतरेण समाधानमाह । अन्येत्विति । अस्य वदंतीत्यनेन संबंधः पूर्वपरिहारे अन्येषामभिप्रेतमस्वरसंस्वयं दर्शयति । आवृतस्येति । आवृतस्यापि पर्वतीय दहनादेः सिद्धांते परोक्षज्ञानांगीकारादपरोक्षज्ञानमित्युक्तं । यावदिति । स्थाण्वादौ संशयादि विरोधि दर्शन प्रागभावमात्र न संशयादि जननसमर्थं स्थाणुरयमिति । निश्चयदशायामपि तत्समानविषयक निश्चयांतर प्रागभावसत्वेन तदा पुरुषत्व स्मृति मतः पुनरपि संशय प्रसंगात् । केंतु संशयादि समानविषयक निश्चयानां प्. १३८ब्) यावंतः अभावाः तावतां समुदायः संशयादि जननसमर्थतया परमेतविषयावरणत्वेन वाच्यः । एक निश्चयकाले च यावद्विशेष दर्शनाभाव कूटरूपस्य परमते आवरणत्वेन संमतस्य विशेषाऽदर्शनस्याऽभावात् । न पुनः संशयादि प्रसंगः न वा प्रथम घटादि ज्ञाने काले परमते विषयप्रकाशानुपपतिः आवरणत्वाभिमत प्रागभावकूटाभावात् । तस्मादावृतस्यापि विषयस्य प्रथमज्ञानसमये प्रकाशः संभवतीत्यत्रनायं दृष्टांतः संभातीत्यर्थः । न चैवं सतीति । सर्वदा सर्वेषामवस्थाऽज्ञानानामावरकत्वाभावे सतीत्यर्थः । ततोपीति । ब्रह्मावगमादपीत्यर्थः । निवृत्यभावप्रसंगे हेतुरनावरकत्वेन स्थितिः । यदि ब्रह्मावगमोत्पति काले मूलाज्ञानवदवस्थाज्ञानान्यपि ब्रह्मचैतन्यं विषयप्रदेशेष्वावृत्यतिष्ठेयुस्तदा ब्रह्मावगमेने तत्समानविषयकमूलाज्ञानस्येव चैतन्यावरकत्वेन स्थितानामवस्थाऽज्ञानानामपि निवृतिः स्यात्समानविषयकत्वाविशेषात् । तेषां तदनांवरकत्वेन स्थितौ तु निवृतिर्न संभवति तत्समानविषयकत्वा भावादित्यर्थः । ततश्च विदेह कैवल्ये तेषासनुवृति प्रसंग इति भावः । एवं सत्यनिवृति प्रसंग इति न चेति संबंधः । तत्र हेतुमाह तेषामिति । अत्र द्वितीय तृतीय तच्छब्दौ ब्रह्मावगमपरौ चतुर्थ तच्छब्दो मूलाज्ञानपरः यथा प्. १३९अ) ज्ञाननिवृतौ चैतन्याज्ञानयोस्संबंधो निवर्तते तस्य संबंध्य ज्ञानपरतंत्रत्वात् । तद्वदित्यर्थः ।। एतदर्थमेव तेषां तदवस्था भेदरूपतया तत्पारतंत्र्यमिष्यत इति । अपरे त्वज्ञानस्य स विषय स्वभावत्वादुत्सर्गतः सर्वं सर्वदावृणोत्येव । न च विषयोत्पतेः प्रागावरणियाभावेनावरकत्वं न युज्यत इति वाच्यं । तदापि सूक्ष्मरूपेण तत्सत्वादिति मन्यमानाः कल्पयंति । यथा बहुजनसमाकुले प्रदेशे कस्यचिच्छिरसिपतन्नःशनिरितरानप्यपसारयति । यथा वा सन्निपातहरमौषधमेकं दोषं निवर्तयद्दोषांतरंदूरि करोति । एवमेकमज्ञानं नाशयत् ज्ञानमज्ञानांतराण्यपि तिररष्कराति । तिरस्कारश्च यावज्ज्ञानस्थिति तदावरणशक्तिप्रतिबंध इति । नन्वेवं सतिधारावाहिकस्यले द्वितीयादि वृतीनामावरणानभिभावकत्वे वैफल्यं स्यात् । प्रथमज्ञाने नैव निवर्तन तिरस्काराभ्यामावरणमात्रस्याभि भवादिति ।। प्. १३९ब्) नन्ववस्थाज्ञानानां मूलाज्ञान परतंत्रत्वमसिद्धमित्याशंक्याह । एतदर्थमेवेति । यथा संसारस्याज्ञाननिवृत्यानिवृति सिद्धये तन्मूलकतया संसारस्य तत्पारतंत्र्यं कल्प्यते । तद्वत् प्रकृतेपीति भावः । यदुक्तं । मवस्थाभेदरूपमिति विशेषणस्य प्रयोजनं वक्ष्यत इति तदत्र दर्शितमिति मंतव्यं । नन्वनादित्व पक्ष इत्यादिनाकृताक्षेप एव समाधानं प्रकारांतरेण दर्शयति । अपरेत्विति । कल्पयंतीति संबंधः तेषामाशयं दर्शयति । अज्ञानस्येति । ननु सर्वमज्ञानं स्वस्थितिकाले सर्वदाविषयमावृणीतीति नियमो नास्ति एकज्ञानकाले । एकस्याज्ञानस्य नाशः इतरेषां तदा सत्वेप्यावरणशक्तिप्रतिबंधरूप तिरस्कारस्य वक्ष्यमाणत्वेन एकज्ञानकाले तेषामावरकत्वाभावादित्यत आह । उत्सर्गतः इति । ननु सर्वदा आवृणोतीत्युक्ते घटादिविषयोत्पतेः । पूर्वकालेपि घटाद्यवछिन्न चैतन्यावरकत्वमवस्थाज्ञानानां प्रतीयते । तदनुपपन्नं । तदानीमवछेदक विषयाभावेन तदवेछिन्न चैतन्यस्यावस्थाज्ञानैरावरणीयस्याभावादिति शंकामपनुदति । न चेत्यादिना तदापीति । कार्यमात्रस्य उत्पतेः पूर्वकाले नाशोतरकाले चानभिव्यक्तरूउपेणावस्थानस्य श्रुतिस्मृति न्यायैः तत्र तत्र पूर्वाचार्यैः साधितत्वादिति भावः । एवमिति । ज्ञानं कर्तृ यावात् ज्ञान प्. १४०अ) स्थितीति । सर्वं सर्वदा आवृणोतीत्युत्सर्गस्य ज्ञानस्थितिरयवादहैतुरिति भावः । ज्ञानमात्रमज्ञाननिवर्तकमिति नियममाक्षिपति । नन्वेवं सतीति । एकेन ज्ञानेन एकाज्ञानस्य नाशः इतरेषां तिरस्कार इत्युपगमे सतीत्यर्थः । वैफल्यं स्यादिति । अज्ञाननाशादि प्रयोजनवत्वं न स्यादित्यर्थः तत्प्रयोजनस्य प्रथमज्ञानेनैव सिद्धत्वादित्याह । प्रथमेति ।। अत्राहुः वृति तिरस्कृतमप्यज्ञानं तदुपरमे पुनरावृणोति प्रदीप तिरस्कृतं तम इव दीपो परमे वृत्युपरमसमये वृत्यंतरोदये तु तिरस्कृतमज्ञानं तथैवावतिष्ठते प्रदीपो परमसमये प्रदीपांतरोदये तम इव तथा च यस्मिन् सत्यग्निमक्षणे यस्य सत्वं यद्व्यतिरेके चासत्वं तत्तज्जन्यमिति प्रागभाव परिपालनसाधारण लक्षणानुरोधे नानावरणस्य द्वितीयादि वृतिकार्यत्व स्यापि लाभान्न तद्वैफल्यमिति । न्याय चंद्रिका कृतस्त्वाहुः केनचिद्ज्ञानेन कस्यचिदज्ञानस्य नाश एव तत्वावरकाणामप्यज्ञानांतराणां तिरस्कारः ।। प्. १४०ब्) प्रथमज्ञानसिद्धस्यापि आवरण तिरस्कारस्य द्वितीयादि ज्ञान साध्यत्वं साध्यलक्षणविशेषानुरोधेन संभवति । अतो न द्वितीयादि ज्ञानवैफल अज्ञाननाशरूपप्रयोजनाभावेपि त तिरस्करण लक्षणफलस्य सत्वादिति परिहरति । अत्राहुरिति । प्रथमं धारावहनस्थले सिद्धमर्थं सदृष्टांतं दर्शयति । वृतितिरस्कृतमिति । घटोयमिति । प्रत्यक्षज्ञानं त्वेकमज्ञानं नाशयदितरदज्ञानं सर्वं तिरस्करोति । तच्च तिरस्कृतमज्ञानं घटज्ञानोपरमसमये पुनस्तमावृणोति । यदि वुभुत्सादिवशात् । प्रथममुत्पन्न घटज्ञाननाशक्षणे घटप्रत्यक्षांतरमुदेति । तदा तिरस्कृतमज्ञानं । तथैवावतिष्ठते इत्यर्थः । यस्मिन् सत्यग्निमक्षणे यस्य सत्वं यस्मिन् न सति यस्यासत्वं ततज्जन्यमिति साध्यलक्षणं । इदं च साद्यनादि साधारणं । तथाहि । यस्मिन् दंडादौ सति उत्तरक्षणे घटादिकार्य सत्वं दंडादावसति च घटादि कार्यासत्वं । ततो घटादिकं दंडादि जन्यं । तथा प्रायश्चिते सति उत्तरक्षणे दुःखप्रागभावस्य सत्वं प्रायश्चिते चाऽसति दुःखस्यैवोदयात् दुःखप्रागभावस्यासत्वमितिरीत्या अनादेरपि दुःख प्रागभावस्य प्रायश्चित परिपाल्यतयाप्रायश्चित साध्यत्वमुपेयते । एवं प्रकृतेपि साध्यत्वं दर्शयति । तथा चेति । द्वितीय वृत्युदये सति प्रथमज्ञानसिद्धस्यावरण तिरस्कारस्य उत्तरक्षणे सत्वं प्रथमज्ञाननाशक्षणे द्वितीयवृत्युदय व्यतिरेके च उक्त तिरस्कारस्यासत्वमिति । प्. १४१अ) प्रथमज्ञानकाल एव सिद्धस्योपि तस्यं द्वितीयवृतिजन्यतया तत्फलत्वमेवं तृतीयादि वृतीनामपि आवरण तिरस्कारफलकत्वं योजनीयमित्यर्थः । अनावरणस्येति । आवरण तिरस्कारस्येत्यर्थः । ज्ञानमात्रमज्ञानविवर्तकं न भवति धरावाहिक द्वितीयादि ज्ञाने व्यभिचारादित्यत्र प्रकारांतरेण परिहारं ब्रूते न्यायचंद्रिकाकृतस्त्विति । नत्विति । न चाज्ञानांतराणां तिरस्काराभावे एकज्ञानकालेपि तैरतिरस्कृतैर्विषयस्यावृतत्वाद्विषयानुभवा भावप्रसंग इति वाच्यं । प्रथमज्ञानोदये एकमेवाज्ञानं विषयावरकं इतरेषां तदा विषयावरकत्वमेव नोपेयते अतो न त तिरस्करणापेक्षेति भावः ।। तथा च धारावाहिक द्वितीयादि वृतीनामप्येकैकाज्ञाननाशकत्वेन साफल्यं न चैवं ज्ञानोदयेप्यावरण संभवाद्विषया नवभास प्रसंगः अवस्थारूपाण्यज्ञानानि ततत्कालकलोपलक्षितस्वरूपावरकाणि ज्ञानानि च यावत् स्वकालोपलक्षित विषयावरकाज्ञाननाशकानि तथा च किंचिज्ज्ञानोदये तत्कालीन विषयावरकाज्ञानस्य नाशाद्विद्यमानानामज्ञानांतराणामन्यकाली न विषयावरक प्. १४१ब्) त्वाच्च न तत्कालीनविषयावभासे काचिदनुपपतिः कारीरीफले वृष्टावासन्नसमयस्येवा ज्ञानविषये घटाटौ तत्कालस्योपलक्षणतया विषयकोटावननुप्रवेशेन सूक्ष्मतत्तत्कालभेदाविषयैर्धारावाहिकद्वितीयादि ज्ञानैरज्ञानानां निवृतावपि न काचिदनुपपतिरिति ।। ततः किं तत्राहु । तथा चेति आशयमविदुषश्शंकामनूद्यनिराकरोति । न चैवमित्यादिना । एवं शब्दस्य प्रथमज्ञानेन आवरकाज्ञानांतराणामतिरस्करणे सतीत्यर्थः । तत्तत्कालेति । अवस्थाज्ञानानां सर्वेषां मूलाज्ञानस्येव सर्वदाविषय चैतन्यावरकत्वं नास्ति वैयर्थ्यात् । किं तु किंचिदज्ञानं कंचित्कालं विषय चैतन्यमावृणोति । किंचिच्च कालांतरे तदावृणोतीत्यनेन प्रकारेण कालविशेषैरुपलक्षित विषयचैतन्यावरकत्वं ज्ञानानामपि स्वस्वोदयकाले स्वस्वविषयावरकत्वेन प्रसक्ताज्ञाननिवर्तकत्वमित्यर्थः । एवमाशयमुद्वाव्य इदानीं विषयानवभासप्रसंगं परिहरति । तथा चेति । एकज्ञानकाले अज्ञानांतराणामनावरकत्वे सिद्धे सतीत्यर्थः । तत्कालीनेति । किंचिद्ज्ञानोदय कालीनविषयस्यावरकत्वेन प्रसक्ताज्ञानस्येत्यर्थः । न तदिति । किंचिद्ज्ञानकालीनेत्यर्थः । ननु तैस्तैः कालविशेषैर्विशिष्टस्यैव प्. १४२अ) विषे यस्य ततदज्ञानावरणि यत्वमित्येवं कालविशेषाणां विशेषणतया आवरणीय कोट्यवनुप्रवेशं विहाय तेषां किमित्युपलक्षिणत्वं स्वीक्रियत इत्याशंक्य तथा सतिधारास्थले आवरकत्वेन प्रसक्ताज्ञान निवर्तक द्वितीयादि वृतीनामपि ततत्कालविशेषविशिष्टविषयकत्वं वाच्यं । समानविषयकत्वं विना तन्निवर्तकत्वानुपपतेस्तच्च न संभवति क्षणभेदानामप्रत्यक्षत्वात् । अतस्तेषामुपलक्षणत्वमाश्रितमिति समाधानमभिप्रेत्यसमयविशेषस्योपलक्षणत्वे दृष्टांतमाह । कारीरीफले वृष्टाविति । कारीरीनामकेष्टिफलभूता वृष्टिरिष्टि समाप्त्यतरक्षण एव वक्तव्या न तु कालांतरे तदानीं शुप्यतस्सस्यस्य संजीवने कालांतरीय वृष्टेरनुपयोगा तथा चासन्न समयस्य वृष्टि विशेषणतया फलकोटि प्रवेशोनोपपद्यत इष्टिं विनापि समयविशेष संभवात् किं तु समयातरव्यावर्तकतया उपलक्षणत्वमेवाश्रितमित्यर्थः ।। केचित्तु प्रथमज्ञाननिवर्त्यमेवाज्ञानं स्वरूपावरकं द्वितीयादि ज्ञाननिवर्त्यानि तु देशकालविशेषणांतरविशिष्टविषयाणि अत एव सतानिश्चयरूपेऽज्ञाननिवर्तके चैत्रदर्शने सकृते चैत्रं न जानामीति स्वरूपावरणं नानुभूयते किंत्विदानीं स कुत्रेति प्. १४२ब्) न जानामीत्यादिरूपेण विशिष्टावरणमेव विस्मरणशालिनः क्वचित्सकृत् दृष्टेपि न जानामीति स्वरूपावरणं दृश्यते चेतत्र तथास्तु अन्यत्र सकृद्दृष्टे विषयाण्येवाज्ञानानि ज्ञानानि च न चैवं सति धारावाहिक द्वितीयादि ज्ञानानामज्ञान निवर्तकत्वं न स्यात् स्थूलकालविशिष्टाज्ञानस्य प्रथमज्ञानेनैव निवृतेः पूर्वापरज्ञानव्यावृतसूक्ष्मकालविशिष्टाज्ञानस्य तदविषयैर्द्वितीयादि ज्ञानैर्निवृती योगादिति वाच्यं ।। धारावहनस्थले द्वितीयादि वृतीनामावरणाभिभावकत्वं न स्यादित्याक्षेप एव परिहारं त्रेधादर्शयति । केचित्विति । प्रथमं वस्तुगतिमाह । प्रथमज्ञानेति । उक्तव्यवस्थायां प्रमाणत्वेनानुभवं दर्शयति । अत एवेति । उक्त विभागान्युपगमादेवेत्यर्थः । ननूक्तविभागो न सिध्यति क्वचित्सकृद्दृष्टेपि वस्तुति पूर्ववत्स्वरूपावरणानुभवादित्याशंक्याह । विस्मरणशालिन इति । तत्र तथास्त्विति पुनः स्वरूपावरणानुभवस्थले द्वितीयादि ज्ञाननिवर्त्यमप्यज्ञानं स्वरूपावरकमस्त्वित्यर्थः । तथा च उक्त विभाग औत्सर्गिक इति भावः । अन्यत्रेति प्. १४३अ) विस्मरणाभावस्थल इत्यर्थः । नन्वज्ञानानां विशिष्टविषयकत्वे तेषामनिवृति प्रसंगः सकृद्दृष्टे वस्तुनि द्वितीयादि ज्ञानानामपि प्रथमज्ञानवत्स्वरूपमात्र विषयकत्वेन तत्समानविषयकत्वरहितानां तन्निवर्तकत्वानुपपतेरिति नेत्याह । ज्ञानानि चेति । सकृद्दृष्टे विषये ज्ञानान्यपि चैत्र इदानीमत्रास्त इत्याकाराणि संति विशिष्टविषयाण्येवेति स्वीकारान्नोक्त दोष इति भावः ननु ज्ञानानां विशिष्टविषयकत्वं धारास्थले द्वितीयादि वृतिषु व्यभिचारपरिहारार्थं हि कल्प्यते । तथा च तत्र ज्ञानानां किं घटिकार्ध घटिकाद्यात्मकस्थूलकालविशिष्टघटादि विषयकत्वं विवक्षितं किं वा क्षणात्मक सूक्ष्मकालविशिष्टघटादि विषयकत्वं विवक्षितमिति विकल्पं मनसि निधाय उभयथापि धारास्थले द्वितीयादि वृतिषु व्यभिचारतादवस्थ्यमिति शंकते । न चैवं सतीति । द्वितीयादि ज्ञानानां तन्निवर्त्याज्ञानानां च उत्सर्गतो विशिष्टविषयकत्वे सतीत्यर्थः । प्रथमज्ञानेनैवेति । स्थूलकालविशिष्टविषयकेणेति शेषः पूर्वापरेति । धारास्थले हि ज्ञानानि क्षणस्थितिकानि ततश्च पूर्वापरज्ञानकालेभ्यो व्यावृताये सूक्ष्मकालाः क्षणात्मकास्तैर्विशिष्टस्य विषयस्थावरकं यदज्ञानं तस्येत्यर्थः । तदविषयैरिति सूक्ष्मकालविशिष्टाविषयकैरित्यर्थः । धारावहनस्थले प्रथमोत्पन्नाया एव वृतेस्तावत्कालावस्थायित्व संभवेन वृतिभेदानभ्युपगमात्तदभ्युपगमेपि प्. १४३ब्) स्थूलकालावस्थापि पंचषट्वृतिरूपत्वं संभवेन परस्परव्यावृतस्थूलकालादि विशेषणभेदविषयत्वोपपतेः । प्रतिक्षणोद्यदनेकवृतिसंतानरूपत्वाभ्युपगमेपि द्वितीयादि वृतीनामधिगतार्थमात्रविषयतया प्रामाण्याभावेनावरणानिवर्तकत्वेप्यहानेश्च । न हि विषयावाधमात्रं प्रामाण्यं प्रागवगतानधिगतयोः पर्वततद्वृतिपावकयोरनुमिति विषययोरबाधस्याविशेषेणोभयत्राप्यनुमितेः प्रामाण्यप्रसंगात् । न चेष्टापतिः वह्नावनुमितिः प्रमाणमिति वत्यर्वतेप्यनुमितिः प्रमाणमिति व्यवहारादर्शनात् ।। यत्र एकस्मिन्नेव श्रीमूर्त्यादौ दीर्घकालनैरंतर्येण स्फुरणमस्ति तत्र श्रीमूर्त्यादि गोचरवृतिरैकैव तद्भेदे मानाभावात् । सिद्धांते वृतेः क्षणस्थितिकत्वानभ्युपगमात् । तथा च न तत्र व्यभिचारशंकेत्याह । धारावहनस्थल इति । ननु तत्र वृतेरेकत्वे धारावहनत्व प्रसिद्धि विरोधः एकस्यांतदसंभवात् । ध्यानसमाध्योरपि उक्तरीत्या प्. १४४अ) एकवृतिरूपत्वापतौतयोः प्रत्ययसंतति रूपत्वप्रतिपादक भाष्यादि विरोध प्रसंगाच्चेत्याशंक्यधारायाः अनेकवृतिरूपत्वमंगीकृत्यव्यभिचारं परिहरति । तदभ्युपगमेपीति । संभवेनेति । धाराया इति शेषः । उपपतैरिति । द्वितीयादि वृतीनामज्ञानानिवर्तकत्व दोषो नास्तीति शेषः धारावाहकवृतीनां न्यायमत इव क्षणस्थितिकत्वमुपेत्यापि व्यभिचारं परिहरति । प्रतिक्षणोद्यदिति प्रतिक्षणमुद्यंतः अनैकाश्च यावृतयः तत्संतानेत्वर्थः । अभ्युपगमेपीति । धाराया इति शेषः अहानेश्चेति । ज्ञानमज्ञान निवर्तकमिति नियमभंगरूपायाः हानेरभावादित्यर्थः । हान्याभावे हेतुमाह । प्रासाण्याभावेनेति । तत्र हेतुमाह । अधिगतार्थमात्रेति । अनधिगतार्थ विषयकत्वाभावो मात्रपदार्थः । तथा च द्वितायादि वृतीनां प्रमात्वं नास्ति स्मृति वदधिगतार्थ मात्रविषयकत्वादित्यर्थः । नन्वनधिगतावाधितार्थानुभवत्वं प्रमात्वं न भवति । अवाधितानुभव पदव्यावृत्ययोर्भुमस्मृत्योरिवानधिगतपदव्यावर्त्या भावा तथा चावाधित्वार्थानुभवत्व मात्रं प्रमात्वं तच्च द्वितीयादि वृतिष्वक्षतमिति तत्र नियमभंगरूपाहानिः स्यादैवेति नेत्याह । नहीति । प्रामाण्यमित्यनंतरं तथा सतीति शेषः नैयायिकश्शंकते । न चेष्टापतिरिति । इष्टापतिरिति । न चेति संबंधः व्यवहारादर्शनादिति । तथा च प्रामाण्याप्रामाण्यव्यवस्थायाः व्यवहारानुसारित्वादनुमितेः पर्वतांशे प्रमात्वाभावेनालक्ष्यत्वे सिद्धे पर्वतांशानुमितौ प्रमात्व लक्षणस्याति व्याप्ति परिहारायानधिगतत्वविशेषणं प्. १४४ब्) तल्लक्षणेदेयमेव । ततश्च धारा द्वितीयादि वृतीनां न प्रामाण्यमिति भावः ।। विवरणे साक्षिसिद्धस्याज्ञानस्याभाव व्यावृति प्रत्यायनार्थानुमानादि विषयत्वेपि प्रमाणावेद्यत्वोक्तेश्च तस्मा द्वितीयादि वृतीनां प्रामाण्याभावादुपासनादि वृतीनामिवाज्ञानानिवर्तकत्वेपि न हानिः प्रामाणवृतीनामेव तन्निवर्तकत्वाभ्युपगमात् ।। अज्ञातत्वस्य प्रमालक्षणे प्रवेशोस्तीत्यत्र हेत्वंतरमाह । विवरण इति । विवरणे अज्ञानस्य प्रमाणावेद्यत्वोक्तेश्चेति संबंधः । अत्रानुमानपदमनुमिति परं प्रमाणपदमपि प्रसिति परं प्रमालक्षणस्य प्रकृत्वत्वादिति बोध्यं नन्वज्ञानस्यानुमिति शाब्दार्थापतिरूपवृतिविषयत्वे कथं तस्य प्रमाणावेद्यत्वमत आह । साक्षिसिद्धस्येति । अज्ञोहमित्यनुभवरूपेणसाक्षिणाऽज्ञानस्वरूपस्य ज्ञातत्वादज्ञानानुमित्यादेरज्ञानस्वरूपे विषये अज्ञातत्व घटितप्रमात्वं नास्तीति मत्वाप्रमाणावेद्यत्वं तस्योक्तं । न च साक्षिण एव प्रमाणत्वात्कथं सामान्यतः प्रमाणावेद्यत्वमुक्तमिति वाच्यं । साक्ष्यतिरिक्त प्रमाणावेद्यत्वस्यैव विवक्षितत्वात् । साक्षिणोतित्यत्वेन प्रमाकरणा जन्मतया पराभिमतेश्वर ज्ञानवत्साक्षिणः प्. १४५अ) प्रमाप्रमाबहिर्भूतत्वेन प्रमाणत्वाभावाद्वा तदवेद्यत्व वचनमिति भावः । ननु साक्षिप्रत्यक्षसिद्धं चेदज्ञानं किमर्थं तर्हि तत्रानुमानाद्युपन्यस्यते तत्राह । अभाव व्यावृतीति । अज्ञानस्य पराभिमताज्ञानादभावरूपात् या व्यावृतिस्तत्प्रत्यायनमर्थः प्रयोजनं येषामनुमानादीनांतानि तथेत्यर्थः । एतदुक्तं भवति । अहमज्ञ उभ्यनुभवसिद्धमज्ञानं भावरूपमिति सिद्धांतिनः । तदा न प्रागभावरूपमिति वैशेषिकादयः ततश्चानुमानादिभिरज्ञानस्याभाव प्रतियोगिक भेदस्साध्यत इति न तेषां वैयर्थ्यं । न च तस्य भावरूपत्व साधनेना किं लभ्यत इति वाच्यं । मायां तु प्रकृतिं विद्यादित्यादि शास्त्रसिद्धस्य प्रपंचपरिणाम्मुपादानत्वस्य सिद्धेस्तत्साधनफलत्वात् । तस्मादिति । अनधिगतत्व घटित प्रमालक्षणा भावादित्यर्थः । उपासनादि वृतीनामिवेति । उपासनारूपावृतिर्नज्ञानं कॢप्त तत्कारणाजन्यत्वात् । मनसो ज्ञानकरणत्वस्य निरस्तत्वान्निरशिष्यमाणत्वाच्च किं तु गमनादिवत्क्रियारूपा पुरुष कृति साध्यत्वा तस्मान्नोपास्य स्वरूपाज्ञाननिवर्तिकामवमिछाद्वेषादि वृतयोपि न स्वविषयाज्ञाननिवीर्तकाः ज्ञानरूपत्वाभावात् । द्वितीयादि वृतीनां तु स्मृतिवद्ज्ञाअनरूपत्वेपि नाज्ञान निवर्तकत्वमुपेयते प्रमात्वाभावादित्यर्थः । ननु कथं न हानिस्तासां प्रमात्वाभावेपि ज्ञानत्वाभ्युपगमेन ज्ञानमात्रमज्ञान निवर्तकमितिति यमस्य व्यभिचाररूपहानेरावश्यकत्वादित्याशंक्याह । प्रमाणवृतीनामेवेति प्. १४५ब्) नत्वधिगतार्थमात्रगोचरवृतीनामपीत्येव कारार्थः । तथा च ज्ञानमात्रमज्ञाननिवर्तकमिति नियमानांगी क्रियते येनोक्तदोशः स्यादिति भावः अभ्युपगमादित्यनंतरं इत्याहुरिति शेषः केचित्वित्युपक्रमात् ।। ननु नायमपि नियमः परोक्षवृतेर्नियमेनाज्ञानानिवर्तकत्वादिति चेत् । अत्र केचिदाहुः द्विविधं विषयावरकमज्ञानं । एकं विषयाश्रितं रज्वादिविक्षेपोपादानभूतं कार्यकल्प्यं पुरुषाश्रितमन्यत् । विषयमहं न जानामीत्यानुभविकं पुरुषाश्रितस्य विषयसंभिन्नविक्षेपोपादानत्वासंभवेन विषयाश्रितस्य विषयमहं न जानामीति साक्षिरूपप्रकाशसंसर्गायोगेन द्विविधस्याप्यावश्यकत्वात् । एवं च परोक्षस्थले वृतेर्निर्गमनाभावात् । दूरस्थवृक्षे आप्तवाक्यात् परिमाणविषावगमेपि तद्विपरित परिमाणविक्षेपदर्शनाच्च विषयगताज्ञानानि वृतावपि पुरुषगताज्ञाननिवृतिरस्त्येव प्. १४६अ) प्रमामात्रमज्ञाननिवर्तकमिति नियमस्यापि व्यभिचारं शंकते । नन्विति । परोक्षज्ञानस्यापि तन्निवर्तकत्व सत्वान्न व्यभिचार इति वक्तुमज्ञानस्य द्वैविध्यमाह । द्विविधमित्यादिना । रज्वादीति रज्वादेर्यो विक्षेपः सर्पादिरूपो विवर्तः । तदुपादानभूतमित्यर्थः । कार्यकल्प्यमिति । विक्षेपाख्यकार्यानुपपति कल्प्यं न त्वनुभव सिद्धमित्यर्थः । ननु रज्वादि गताज्ञानस्य रजुं न जानामीत्यनुभवसिद्धत्वात् । कथं तस्य कार्यैक कल्प्यत्वमित्याशंक्यानुभवस्य विषयगताज्ञानं न विषय इत्याह । अन्यदिति । अत्र विषयावरणमज्ञानं द्विविधं । एकं विषयाश्रितमन्यत्पुरुषाश्रितमिति संबंधः तथा च विषयाश्रितं स प्रमाणं प्रदर्श्य पुरुषाश्रितं स प्रमाणं दर्शयतीति वा अन्यदित्यस्यावतरणं बोध्यं । नन्वेकेनैवाज्ञानेन सर्पादि विक्षेपस्य न जानामीत्यनुभवस्य च सिद्धेः । किंमज्ञानद्वैविध्येन अत आह । पुरुषाश्रितस्येति विषयोरज्वादिरधिष्ठानं तत्संभिन्नो विषयतादात्म्यापन्नो यो विक्षेपस्तदुपाधानत्वासंभवेनेत्यर्थः । न ज्ञानामीत्याकारकोपस्साक्षीरूपः प्रकाशस्तत्संसर्गायोगेनेत्यर्थः । इदानीं व्यभिचारं परिहरति । एवं चेति । अज्ञानद्वैविध्ये सतीत्यर्थः । एवं च परोक्षस्थले विषयगताज्ञानानिवृतावपि पुरुषगताज्ञाननिवृतिरस्त्येवेति संबंधः । तथा च न व्यभिचार इति भावः । परोज्ञानस्य विषयगताज्ञाननिवर्तकत्वाभावे हेतुद्वयमाह । वृतेरित्यादिना । निर्गमना भावादिति । प्. १४६ब्) विषयचैतन्यसंसृष्टाया एवतेतेर्विषयचैतन्यगताज्ञान निवर्तकत्वस्य वक्षामाणतया निर्गमनाभावे वृतिविषय चैतन्य संसर्गो न सिध्यतीति भावः । तद्विपरीतेति । दूरे दृश्यमानो वृक्षः सन्निहितवृक्ष इव महानित्याप्तवाक्यजन्य परोक्षज्ञानविषयभूताद्रदूरस्थवृक्षगता तस्मात्परिमाणविशेषाद्विपरीतो यः परिमाणरूपविक्षेप विशेषः तस्य दर्शनादित्यर्थः । यदि परोक्ष ज्ञानं रिषयगता ज्ञाननिवर्तकं स्या तदाप्तवाक्यजन्यावगमेन परिमाणविशेषाज्ञाननिवृत्यापत्याविपरीत परिमाणात्मक विक्षेपोत्यन्निर्मस्यात् । उपादानाभावादिति भावः ।। शास्त्रार्थं न जानामीत्यनुभूताज्ञानस्य तदुपदेशानंतरं निवृत्यनुभवात् । अत एवानुमेयादौ सुषुप्ति व्यावृतिरिति विवरणस्य तद्विषयाज्ञाननिवृतिरर्थ इत्युक्तं तत्वदीपने इति । अन्ये तु नयनपटलं वत्पुरुषाश्रितमेवाज्ञानं विषयावरणं न तदतिरेकेण विषयगताज्ञाने प्रमाणमस्ति । न च पुरुषाश्रितस्य विषयं गतविक्षेप परिणामित्वं न संभवति तत्संभवे वा दूरस्थवृक्षपरिमाणे परोक्ष प्. १४७अ) ज्ञानादज्ञाननिवृतौ विपरीतपरिमाण विक्षेपो न संभवतीति वाच्यं ।। परोक्षज्ञानेन पुरुषगता ज्ञाननिवृतौ हेतुमाह । शास्त्रार्थमिति । शास्त्रार्थं न जानामित्यनेन प्रकारेण यच्छास्त्रार्थाज्ञानमनुभूतं तस्य शास्त्रार्थोपदेशानंनतरं शास्त्रार्थाज्ञानमिदानीं निवृतमिति निवृतिरनुभूयते । तत्र शास्त्रार्थो द्विविधः धर्मरूपो ब्रह्मरूपश्च धर्मरूपशास्त्रार्थे उपदेश जन्यज्ञानं परोक्षमेव न तु कदाचिदध्य परोक्षं तस्य साक्षात्कारायोग्यत्वा तथा च तत्र विषयगताज्ञाननिवृति प्रसक्तिरेव नास्तीति पुरुषगता ज्ञानमेव निवर्तते इति वक्तव्यं । इतरथा तन्निवृत्यनुभवविरोधात् ब्रह्मरूपे च शास्त्रार्थे । उपदेश जन्यज्ञानं परोक्षं तावन्मात्रान्नविषयावरकं मूलाज्ञानं विषयगतं निवर्तते मननादि विधिवैयर्थ्य प्रसंगात् । अतः पुरुषगताज्ञानमेव निवर्तत इति वक्तव्यमन्यथा तत्रापि तन्निवृत्यनुभवविराधादेवेतिभावः । परोक्षज्ञानस्याज्ञाननिवर्तकत्वे विवरणादि संमति आह । अत एवेति । उक्तानुभव बलादेवेत्यर्थः । तद्विषयेत्यत्र तत्पदमनुमेयादि परं सुषुप्तिपदमज्ञान परं व्यावृति पदं निवृति परमिति व्याख्यातं तत्वदीपने । तथा च अनुमेयादौ विषयगता ज्ञाननिवृत्यभावस्य वक्ष्यमाणतया तत्र पुरुषगताज्ञाननिवृतिरनुमित्यादि परोक्षज्ञानेन जायत प्. १४७ब्) इत्ययमर्थस्तत्र विवक्षित इति प्रतीयते इत्यर्थः । अज्ञानद्वैविध्याभावेपि प्रमामात्रमज्ञाननिवर्तकमिति नियमस्य न व्यभिचार इति मतं दर्शयति । अन्येत्विति । पुरुषगताज्ञानापेक्षव्या अन्यद्विषयगतमज्ञानं किं विषयावरणार्थमुपेयते । किं वा शुक्तिरजतादि विक्षेपोत्यत्यर्थं नाद्य इत्याह । नयनपटलवदिति । नयनगतकाचादिवदित्यर्थः । न द्वितीय इत्याह । न तदतिरेकेणेति । विषयगताज्ञानाभावेपि वक्ष्यमाण विधया विक्षेपोत्पति संभवादिति भावः । प्रमाणाभवोऽ असिद्ध इति शंकते । न चेति । न संभवतीति । पुरुषगताज्ञानस्य शुक्त्याद्यवछिन्नचैतन्यगतसत्वा भावादिति भावः । पुरुषगतस्यैवाज्ञानस्य विषयगतविक्षेपोपादानत्वे दोषमाह । तत् संभवेवेति । पुरुषगताज्ञानस्य विषयगतविक्षेप परिणामित्वं तच्छब्दार्थः । न संभवतीति । विषयगताज्ञानस्या नभ्युपगमात्पुरुषगताज्ञानस्य च आप्नोपदेशजन्य परोक्षज्ञानेन निवृतत्वाच्चेति भावः ।। वाचस्पतिमते सर्वस्य प्रपंचस्य जीवाश्रिताज्ञानविषयीकृत ब्रह्मविवर्तत्वेन तद्वच्छुक्तिरजतादेः पुरुषाश्रिताज्ञानविषयीकृत ब्रह्मविवर्तत्वोपपतेः । परोक्षवृत्यैकावस्थानिवृतावप्यवस्थांतरेण प्. १४८अ) विपरीत परिमाणविक्षेपोपपतेश्चेत्याहुः । अपरे तु शुक्तिरजतादि परिणामोपपत्यांजस्याद्विषयावगुंठन पटवद्विषयगतमेवाज्ञानं तदावरणं ।। आद्यं दोषं परिहरति । वाचस्पतिमत इति । शुक्तिरजतादि विक्षेपस्याज्ञान परिणामत्वपक्षे अज्ञानस्य विषयचैतन्यगतत्वं वक्तव्यं तस्याज्ञानपरिणामत्वानंगीकार पक्षे तु तस्य विषय चैतन्यगतत्वं नापेक्षितमिति भावः । दार्ष्टांतिके ब्रह्मपदं शुक्त्याद्यवछिन्न चैतन्यरूप ब्रह्मपरं न तु पूर्णब्रह्मपरं अवछिन्नचैतन्यस्यैव शुक्तिरजताद्यधिष्ठानत्वोपगमादिति भावः विपरीतपरीमाणरूपो विक्षेपो न संभवतीत्विद्वितीयं दोषं परिहरति । परोक्ष वृत्येति । परोक्षज्ञानादज्ञाननिवृतिर्यथा अनुभूयते । तथा उदाहृतस्थले सत्यपि परोक्षज्ञाने विपरीत परिमाणोत्पतिरनुभूयते तथा चानुभवद्वयानुरोधेन पुरुषाश्रितस्यैव वा ज्ञानस्य विषयावरकस्य एकदेशमपरोक्षज्ञानेन विवर्तत एकदेशांतरमनुवर्तत इति कल्प्यते न त्वज्ञानहैविध्यमुपगम्यने गौरवादिति भावः । अवस्थांतरेणेत्यनंतरं पुरुषाश्रिताज्ञानस्यैवेति शेषः वस्तु तस्तु परोक्षज्ञाननिवर्तकत्वमतेपि प्रतिवेधरहित मेघ परोक्षज्ञानमज्ञाननिवर्तकं प्. १४८ब्) प्रकृत च भ्रमानुरोधेन दूरत्वादि देश प्रतिवद्धत्वादाप्तवाक्यजन्यमपि ज्ञानं पुरुषगताज्ञाननिवर्तकं न भवति । अतो न विपरीत परिमाणोन्यनुपपति शंकावकाशः न चतुथ सत्याप्तोपदेशानंतरं दूरस्थ वृक्षगत परिमाणविशेषननानामित्यनुभवापतिरिति वाच्यं । सतानिश्चयरूपपरोक्ष ज्ञानस्य सत्यप्यज्ञाने तदनुभवप्रतिबंधकत्वोपपतेर्न च प्रमामात्रमज्ञाननिवर्तकमिति नियमस्य प्रतिवदध परोक्षप्रमायां व्यभिचार इति वाच्यं । अप्रतिवद्धस्य प्रमाविशेषणत्वोपपतेरिति बोध्यं । एवमप्रतिवद्ध प्रमामात्रमज्ञाननिवर्तकमिति नियममनुसृत्य तदव्यभिचाराय परोक्षज्ञानस्याज्ञाननिवर्तकत्वमुपयादितमिदानिं तथा नियमो नास्ति किंतु प्रतिवद्धापरोक्षज्ञानमेवाज्ञाननिवर्तकमतो न परोक्षज्ञान व्यभिचार शंकेति मतमवतारयति । अपरेत्विति । लोके घटादेर्मृदादि । परिणांमत्वस्य प्रसिद्धत्वा तद्वत् शुक्तिरजतादेरपि परिणामत्वं सिध्यति तत्परिणामि चान्वयव्यतिरेकाभ्यां परिशेष सहकृतान्यामज्ञानमेव सिध्यति शुक्त्यादेः । प्रातिभासिक रजतादि परिणामित्वा संभवादज्ञानस्य च विषयचैतन्यगतस्य यथा रजता ।। न च तथा सत्यज्ञानस्यांतःकरणोपहित साक्ष्यसंसर्गेण ततः प्रकाशानुपपतिः प्. १४९अ) परोक्षवृतिनिवर्त्यत्वासंभवश्च दोष इति वाच्यं । अवस्थारूपाज्ञानस्य साक्ष्यं संसर्गेपि तत्संसृष्टमूलाज्ञानस्यैव शुक्तिमहं न जानामीति प्रकाशोपपतेः । शुक्त्यादेरपि मूलाज्ञानविषयचैतन्याभिन्नतया तद्विषयत्वानुभवाविरोधात् । विवरणादिषु मूलाज्ञानसाधन प्रसंग एव इदमहं न जानामीति प्रत्यक्ष प्रमाणोपदर्शनाच्च ।। दि विक्षेपपरिणामित्वमांजस्येनोपपद्यते न तथा पुरुषाश्रितस्योपपद्यते अतस्तदुपपत्यांजस्यनुरोधेन विषयगतमेवावस्थारूपमज्ञानमास्थेयं न तु पुरुषगतमप्यवस्थारूपमज्ञानांतरी वैयर्थ्यात् । मानाभावाच्चेति भावः । यद्यपि पुरुषाश्रितस्याप्यज्ञानस्य पुरुषमपरित्यज्यैव दीर्घप्रभान्यायेन वृतिद्वाराबहिर्निगत्यविषयचैतन्यमाश्रितस्य रजतादि परिणामित्वमुपपद्यते तथापि सा उपपतिर्नाजसी मूलाज्ञानवदवस्थाज्ञानस्यापि निष्क्रियत्वेन प्रभान्यायानवतारादित्यभिप्रेत्परिणामोपपत्यांजस्यादित्युक्तं । तथा सतीति । विषयावरकाज्ञानस्य विषयगतत्वे सत्वे सतीत्यर्थः । तत इति । पंचमी साक्षिण प्. १४९ब्) इत्यर्थः । असंभवश्चेति । परोक्षवृतेर्विषयदेशे निर्गमनाभावादिति भावः आद्यदोषं परिहरति अवस्थारूपाज्ञानस्येति । शुक्तिं न जानामीत्याद्यनुभवस्य नावस्थाज्ञानं विषयगतं विषयः किं तु मूलाज्ञानं तस्यैव साक्षिसंसृष्टत्वादित्यर्थः । ननु मूलाज्ञानस्य ब्रह्मविषयकत्वात् कथं तस्य शुक्तिविषयकत्वानुभवः संभवति । अवस्थाऽज्ञानस्य वा कथं शुक्तिविषयकत्वानुभवस्संभवति । तस्यापि शुक्त्यवछिन्नचैतन्यमात्रविषयकत्वात् । शुक्तेरवस्थाऽज्ञानविषयचैतन्य तादात्म्येन शुक्तिविषयकत्वानुभवो न विरुध्यत इति चेतुल्यमुतरमित्यभिप्रेत्याह । शुक्त्यादेरपीति । अभिन्नतयेति । जडमात्रस्य मूलाज्ञानविषयचैतन्येध्यस्ततया शुक्त्यादेरपि ततादात्म्यरूपं तदभिन्नत्वमस्तीति भावः । शुक्तिं न जानामीत्याद्यनुभवस्य मूलाज्ञनविषयकत्वे विवरणादि संमतिमाह । विवरणादिष्विति । ननु मूलाज्ञानसाधनप्रकरणेऽ अहमज्ञ इत्याकरो योनुभवः प्रदर्शितस्स एव मूलाज्ञान साधक । इदमहं न जानामीत्यनुभवस्तु अवस्थाज्ञान विषयक एव न च प्रकरणविरोधश्शंकनीयः शुक्तिरजतादि लक्षणपरिणामोपपते ये अवस्थाज्ञानस्यापि साधनीयत्वेन मूलाज्ञानसाधनप्रकरणेपि प्रसंगा तत्साधनोपपतेः । यथाद्रदं न जानामीत्यनुभवस्ततद्विषयावछिन्न- प्. १५०अ) चैतन्याऽज्ञानगोचरः एव महमज्ञस्तत्वं न जानामीत्यनुभवो मूलाज्ञानगोचर इति दृष्टांतविध ।। अहमज्ञ इति सामान्यतोऽज्ञानानुभव एव मूलाज्ञानविषयः शुक्तिमहं न जानामीत्यादि विषयविशेषालिंगिता ज्ञानानुभवस्त्ववस्थाज्ञानविषय इति विशेषाभ्युपगमेपि अवस्था अवस्थावतोरभेदेन मूलाज्ञानस्य साक्षिसंसर्गाद्वा साक्षिविषयचैतन्ययोर्वास्तवैक्याद्वा विषयगतस्याप्यवस्थाज्ञानस्य साक्षिविषयत्वोपपतेः परोक्षज्ञानस्याज्ञानानिवर्तकत्वेपि ततस्तन्निवृत्यनुभवस्य सतानिश्चयरूपपक्षवृतिप्रतिबंधक प्रयुक्ता ननुभवनिबंधनभ्रांतित्वोपपतेरपररोक्षज्ञानस्यैवा- ज्ञाननिवर्तकत्व नियमाभ्युपगमादित्याहुः । ननु नायमपि नियमः अविद्याहंकार सुखदुःखादि तद्धर्म प्रत्यक्षस्याज्ञान निवर्तकत्वानभ्युपगमादिति चेत् प्. १५०ब्) न अविद्यादि प्रत्यक्षस्य साक्षिरूपत्वेन वृतिरूपापरोक्षज्ञानस्यावरणं निवर्तकत्वनियमानपायात् ।। या मूलाज्ञानसाधनप्रस्तावेपि विषयविशेषालिंगिताज्ञानानुभव प्रदर्शनोपपतेश्च तस्मादिदं न जानामीत्याद्यनुभवानां मूलाज्ञानविषयकत्वे प्रमाणाभावदवस्थाज्ञानविषयकत्वस्यैव तत्साधनार्थतया वक्तव्यत्वाच्च तस्य विषयगतत्वे सिद्धे साक्षिसंसर्गाभावान्न तदनुभवस्संभवतीत्याशयवती शंकामनुवदति । अहमज्ञ इतिति । विषयगताज्ञानस्य साक्षिणा सहसाक्षात्संबंधाभावेपि परंपरासंबंध संभवान्नतदनुभवानुपपतिरिति परिहरति । अवस्थावस्थावतोरिति । अभेदेनेति । तादात्म्यमभेदः । तथा च साक्षिसंसृष्टमूलाज्ञानावस्थात्वाद्विषयगता ज्ञानस्य मूलाज्ञानद्वारा साक्षि संसर्ग इत्यर्थः । साक्षीति । साक्षि चैतन्यस्यावस्थाज्ञानाश्रयविषयचैतन्यस्य च वस्तुत एकत्वाद्धस्ततस्साक्ष्यभिन्नचैतन्याश्रित तं साक्षिणा सह विषयगताज्ञानस्य संसर्ग इत्यर्थः । यदुक्तं परोक्षववृतौ व्यभिचारादिति । तन्नाऽपरोक्षज्ञानस्याज्ञाननिवर्तकत्वाभ्युपगमेन तथा नियमानभ्युपगमा तथा नियमे ह्यभ्युपगमे परौक्षवृतौ व्यभिचारदोषो भवेत् । ननु तर्हि शास्त्रार्थं प्. १५१अ) न जानामीत्यनुभूताज्ञानस्य तदुपदेशानंतरं तन्निवृत्यनुभवविरोध इति नेत्याह । परोक्षज्ञानस्येति । तत इति । परोक्षज्ञानादित्यर्थः भ्रांतित्वोपपतेरिति । न चात्र बाधकाभावात् कथं भ्रांतित्व कल्पनमिति वाच्यं । विषयगताज्ञानापेक्षया पुरुषगतानंतावस्थाज्ञानांतरकल्पना गौरवस्य बाधकस्य सत्वादिति भावः । कथं तर्हि प्रमाणवृतीनां तन्निवर्तकत्वाभ्युपगमस्तत्राह । अपरोक्षज्ञानस्यैवेति । न तु परोक्षज्ञानसाधारणप्रमाणज्ञानमात्रस्यातो न परोक्षज्ञाने व्यभिचार इत्येव काराभिप्रायः । तद्धर्मेति । तच्छब्दोहंकारपरः अनभ्युपगमादिति । अविद्याहंकारादीनां स्वसताकालेभन नियमेन तेषामावरणानंगीकारादित्यर्थः । नियमस्य संकोचं वदन् परिहरति नेति ।। अथ कोयं साक्षी जीवातिरेकेण व्यवह्रियते । अत्रोक्तं कूटस्थ दीपे । देहद्वयाधिष्टानभूतं कूटस्थचैतन्यं स्वावछेदकस्य देहद्वयस्य साक्षादीक्षणान्निर्विकारत्वाच्च साक्षीत्युच्यते लौकेपि ह्यौदासीन्यबोधाभ्यामेव साक्षित्वं प्रसिद्धं यद्यपि जीवस्य वृतयः संति देहद्वयनासिकास्तथापि ।। प्. १५१ब्) सुखादि धर्मिणोहंकारस्य साक्षिप्रत्यक्षविषयत्वोक्त्या अहमर्थजीवापेक्षयाभिन्नस्तत्साक्षीनिर्दिष्टः सुखादि धर्मिणोहंकारस्यैव लोके जीवत्व प्रसिद्धेस्तथा च योर्यजीवभिन्न साक्षी व्यवह्रियते स नास्ति मानाभावादित्याक्षिपति । अथेति । यस्साक्षीजीवातिरेकेण व्यवह्रियते । अयं क इति संबंधः किं शब्दो आक्षेपार्थः । निर्विकारत्वाच्चेति ननु द्रष्टृत्वं दृष्टिक्रियाकर्तृत्वं निर्विकारत्वं च कर्तृत्वादि विकारराहित्यं तथा च तयोः परस्परविरोध इति चेन्न दृष्टिस्वरूप एव कूटस्थे तत्कर्तृत्वस्य साक्षाद्द्रष्टरि संज्ञायामिति सूत्रानुसारेण साक्षिशब्दात्प्रतीतस्य सवितरि प्रकाशात्मके प्रकाशत इति प्रकाश कर्तृत्ववदुपचारमात्रत्वात्साक्षात्पदाद्द्रष्टयार्थे इतिः प्रत्ययो भवति साक्षिपदस्य संज्ञात्व इति सूत्रार्थः । ननु साक्षिपदात् साक्षिलक्षणं बोद्धत्वमात्रं प्रतीयते न तु निर्विकारश्यमौदासीन्यमपि तत्कथं साक्षिलक्षणे निर्विकारत्वमपि प्रक्षिप्यते । तत्राह । लोकेपि हीति । अपिशब्दव्याख्यानमवधारणं तच्च औदासीन्य बोद्धत्वयोः प्रत्येकं लक्षणत्व शंका व्यवछेदार्थं हि शब्दव्याख्यानं प्रसिद्धपदं लोके हि प्. १५२अ) द्वयोर्विवदमानयोस्सतोस्ताभ्यामन्यस्तयोर्विवादस्यापरोक्षतया वोद्धा उदासीनश्च यो भवतिऽसस्साक्षीत्युच्यते । अतः उदासीनत्वविशेषणमावश्यकं औदासीन्यमात्रमुक्त विवादस्थले स्तंभादेरप्यस्तीति तद्धारणाय बोद्धत्व विशेषणमिति मंतव्यं स्थूलसूक्ष्मात्मक देहद्वयावछिन्नं स्वावछेदकहद्वय भासकचैतन्यं साक्षीति यदुक्तं । न तत्संभवति । तथा भूतचैतन्ये मानाभावात् । न च तदभाव देह द्वयावभासा सिद्धिरिति वाच्यं । प्रकाशात्मकांतःकरणवृतिभिरेव तत्सिद्धेरिति मत्वाशंकते । यद्यपीति । जीवपदमहंकारात्मकांतःकरणपरंतित्य चैतन्यस्यानंगीकारपक्षे जडाहंकारातिरिक्त जीवाभावात् । वृतीनामंतःकरणपरिणामतायाः कामः संकल्प इत्यादि श्रुति सिद्धत्वाच्चेति बोध्यं वृतीनां दीपादिवत्प्रकाशात्मकत्वेपि तासां जडत्वाद्देहद्वयाभासकत्वं न संभवति स्वप्रकाशनित्यचैतन्याभ्युपगमे तु तत्प्रतिबिंबयुक्तानां तासां देहद्वयानुभवरूपत्वं संभवति अतस्तादृश चैतन्यमुपेयमित्यभिप्रायेणाह तथापीति ।। सर्वतः प्रसृतेन स्वावछिन्नेन कूटस्थ चैतन्येनेषत्सदाभास्यमेवदेत्वद्वयं जीवचैतन्य प्. १५२ब्) रूप प्रतिबिंब गर्भांतःकरणाद्धिछिद्य विछिद्योद्गछद्भिर्वृतिर्ज्ञानैर्भास्यते । अंतरालकाले तु सहवृत्यभावैः कूटस्थ चैतन्येनैवभास्यते । अत एवाहंकारादीनां सर्वदाप्रकाश संसर्गात्संशयाद्यगोचरत्वं ।। किं च वृतीनामंतरालदशासुदेहद्वयस्यास्पष्टं भानं देहद्वयगोचर वृतीनां सद्भावकालेत्वहंकर्तास्थूलोहमित्यादि रूपेणस्पष्टं भानतित्यनुभवसिद्धंत तन्नास्पष्टभानोपपतये वृत्तिज्ञानातिरिक्तं नित्यसाक्षिचैतन्यमुपेयमित्याशयेनाह । सर्वतः प्रसृतेनेति । व्याप्तेनेत्यर्थः देहद्वयं कूटस्थ चैतन्येन ईषत्सदाभास्य मानमेव वृतिज्ञानैः स्फुटमवभाष्यत इति संबंधः जीव चैतन्यरूपो यः प्रतिबिंबस्तद्गर्भा तद्युक्तादित्यर्थः । अनेनांतःकरणप्रतिबिंबो जीवः बिंबचैतन्यरूपः कूटस्थः साक्षीति जीवसाक्षिणोर्भेदो दर्शितः यथाग्नितप्तायः पिंडादुद्गछंतो विस्फुलिंगाः साग्नय एवोद्गछंति । एवं चैतन्य प्रतिबिंबोपेतादंतष्करणादुत्पद्यमानऽवृतयोपि तत्प्रतिबिंबगर्भा एवोत्पद्यंते अतस्तासां देहाद्यनुभव रूपत्वं संभवतीति सूचयितुमंतष्करणस्य प्. १५३अ) प्रतिबिंबगर्भत्वमुक्तं जाग्रदवस्थायां देहद्वयस्य साक्षि चैतेन्यमात्रादस्पष्टतयाभानावसरं दर्शयितुं विछिद्यविछिद्येत्युक्तं । तमेवावसरं स्पष्टमाह । अंतरालकाले त्विति तु शब्दस्य व्याख्यानमेवकारः देहद्वयंवृत्यभावैः सहाऽवभास्यत इति संबंधः वृत्यभावैरित्यस्य वृतीनां ध्वंसैरित्यर्थः । उपलक्षणं चैतत् वृतीनामुत्पतिभिः वृतिभेदैश्च सहेत्यर्थः । अयं भावः नित्यचैतन्यानभ्युपगमे वृत्युत्पति विनाश तद्भेदादेरपरोक्षतया भानं न स्यात् स्वोत्पति विनाशयोः स्वग्राह्यत्वासंभवात् वृतिगोचरापरोक्षवृतीनां निरशिष्यमाणतया तयोर्तृत्यंतरग्राह्यत्वासंभवाच्च । तस्माद्वृतिनाशादि साक्षितयापि नित्यचैतन्यमुपेयमिति । अत्रैवोपपत्यंतरं दर्शयति । अत एवेति । नित्यचैतन्यरूपसाक्षिसद्भावादेवेत्यर्थः । अहंकारप्राणशरीरादीनां योग्यतद्धर्म सुखदुःखादीनां च सदाहंकारादि सताकाले संशयादिनिवृतिलक्षणफलभाक्तं तावदनुभवसिद्धं न हि कदाचिदपि अहमासं न वा अहं वर्तेन वा अहं प्राणिमिनवाहहं ब्राह्मणो न वेत्यादि प्रकारेणाहंकारा हि सतासशयः । कस्यचिदप्यस्ति तच्च तेषां सदाप्रकाशसंसर्गविना न संभवति । घटादीनां प्रकाशसंसर्गदशायामेव संशयाद्यगोचरत्व दर्शनात् सदाप्रकाश संसर्गित्वं त्वऽहंकारादीनां जन्यज्ञानपक्षे न संभवति । तेषामुत्पति विनाशवत्वात् प्. १५३ब्) प्रायेण बाह्यविषयगोचरत्वाच्च तस्मादहंकारादीनां सदासंशयाद्यगोचरत्व निर्वाहाय तेषां सदास्वांक्षि चैतन्यरूपप्रकाशसंसर्गो वाच्य इति भावः ।। अन्य ज्ञानधाराकालीनाहंकारस्यैतावंतं कालमिदमहं पश्यन्नेवासमित्यनुसंधानं च न च कूटस्थ प्रकाशिते कथं जीवस्य व्यवहार स्मृत्यादिकमिति शंक्यं । अन्योन्याध्यासेन जीवैकत्वापत्याकूटस्थस्य जीवांतरंगत्वात् । न च जीवचैतन्यमेव साक्षी भवतु किं कूटस्थेनेति वाच्यं ।। साक्षिसद्भावे उपपत्यंतरमाह । अन्यज्ञानेति । अहंकारग्रहणं धारांतर्गतवृतीनामप्युपलक्षणं नित्यानुभवरूपसाक्ष्यनंगीकारे दिव्यमंगल श्रीकृष्णमूर्तिगोचरवृति संतति । कालीनाहमर्थस्य तत्कालीन वृत्तीनां च तत्काले जन्यानुभवासंभवै न संस्कारा संभवादुतरत्रानुसंधानं न स्यान्न हि धाराकाले । अहंकारगोचरो वा प्रत्येकं वृत्ति गोचरो वा जन्यानुभवस्संभवति धाराविछेद प्रसंगाद्वृति संततेरिछा घटित सामग्रीकत्वेन तद्विछेदासंभवाच्च तस्मादन्यज्ञानधारा कालीनाहमर्थादि साक्षितया प्. १५४अ) नित्यानुभवो वाच्य इति भावः । अनुसंधानं चेति संगछत इति शेषः । ननु साक्षि चैतन्येनानुभूताहमर्थ तद्वृतीनां कथमहं पश्यन्नेवासुमिति स्सरणं जीवस्य संभवति । अहमर्थ भूतप्रतिबिंब जीवापेक्षया बिंबभूतस्य कूटस्थचैतन्यात्मक साक्षिण्ये भिन्नत्वादन्यानुभूते अर्थे अन्यस्य स्मरणा योगादिति शंकते । न च कूटस्थेति । स्वेनस्वतादात्म्याषन्नैन वा अनुभूतार्थे स्वस्य स्मरणं भवतीत्यंगीकारान्नाति प्रसंगः न हि देवदत्त यज्ञदत्त जीवयोः परस्परं तादात्म्यमस्ति । येन देवदतानुभूतेर्थे यज्ञदत्तस्य स्मरणप्रसंग इति दोषो भवेदित्याशयेन परिहरति । अन्योन्याध्यासेनेति । तादात्म्याध्यासेनेत्यर्थः । जीवस्य कूटस्थे कल्पितत्वस्य प्रागेव निरूपे तत्वादिति भावः न चैवमपि सर्वदेहेषु साक्षिण एकत्वाद्देवदत साक्षिणानुभूतदेवदताहंकारादिषु यज्ञदत्वादेरप्यनुसंधानप्रसंगः यज्ञदतादेरपि देवदतसाक्षिण्ये बाध्यस्ततया तदैकत्वापतेस्सत्वादिति वाच्यं । देहद्वयरूपावछेदक भेदेन ततज्जीवतादात्म्यापन्न साक्षिणोभेदाभ्युपगमात् । एवमवछेदकभेदेन साक्षिभेदं ज्ञापयितुमेव स्वावछेदकस्येति विशेषणं पूर्वमवदतमिति बोध्यं । नन्वस्तु जीवकूटस्थ नामक चैतन्यद्वयं तथापि जीव एव साक्षी किं न स्यादिति प्. १५४ब्) शंकते । न चेति । किं कूटस्थेनेति किं कूटस्थस्य साक्षित्वेनेत्यर्थः । न तु कूटस्थस्यैवाक्षेपः तस्य साधितत्वात् ।। लौकिक वैदिक व्यवहारकर्तुस्तस्योदासीन द्रष्टत्वासंभवेन साक्षीचेताकेवलो निर्गुणश्चेति श्रुत्युक्त साक्षित्वायोगात् तयोरन्यः पिप्पलं स्वाद्धत्यनश्नन्यो अबिचाकशीतीति कर्मफल भोक्तुर्जीवादुदासीन प्रकाशरूपसाक्षिणः पृथगाम्नानाच्चेति । नाटकदीपेपि नृत्यशालास्थ दीपदृष्टांतेन साक्षीजीवा द्विविच्य दर्शितः । तथाहिः । नृत्यशालास्थितो दीपः प्रभुं सभ्यांश्च नर्तकीं । दीपयेदविशेषेण तदभावेपि दीप्यते । तथा चिदाभासविशिष्टाहंकाररूपं जीवं विषयभोगसाकल्पवैकल्पाभिमानप्रयुक्तहर्षविषादवत्वान्नृत्याभि मानि प्रभुतुल्यं ।। उदासीनास्यैव लोके साक्षित्वस्य प्रसिद्धत्वात् तदनुरोधेन प्. १५५अ) श्रुत्यनुरोधेन च कूषस्थस्यैव साक्षित्वं न जीवस्येति परिहरति । लौकिकेति । साक्षिणो लक्षणमाह श्रुतिः चेताकेवल इति । चेतावोद्वा केवलः अकर्ता उदासिन इति यावत् ज्ञानादि गुणक आत्मेति वैशेषिकादि मतं श्रुतिः स्वयमेव निराकरोति । निर्गुणश्चेति । मध्यमपरिमाणस्सक्रिय आत्मेति दिगंबरमत निरासार्थश्चकारः निष्क्रियश्चेत्यर्थः साक्षिणो जीवाद्भिन्नत्वे श्रुतिमप्याह तयोरन्या इति जीवकूटस्थयोर्मध्ये कूटस्थादन्यो जीवः पिप्पलं कर्मफलं स्वादुयथा भवति तथा अतिभुऽऽन्क्ते शरीरस्याश्वत्थवृक्षत्वेन निरूपितत्वात्कर्मफलस्य पिप्पल्लत्वेन निरूपणमिति द्रष्टव्यं स्वाद्धिति विशेषणं पुण्यफलाभिप्रायं जीवादन्यः कूटस्थः अनश्रन् अशनं कर्मफलभोगमकुर्वन्नभिचाकशीति अभि आभिमुख्येनापरोक्षतया चाकशीति बुध्यादि साक्षितया प्रकाशत इति यावत् । अत्रानश्रन्नित्यनेन भोकृत्वे निषिद्धे सति कर्तृत्वमपि निषद्धं भवति । तथा चान श्रन्नभिचाकशीतीति पदाभ्यामुदासीनत्वे सति बोद्धत्वरूपं साक्षित्वं प्रदर्शितमित्यर्थः । कूटस्थ दीपे निरूपितस्साक्षी अन्यत्रापि दृष्टांत विशेष पूर्वकं सुषुप्ति साधारणो निरूपित इत्याह । नाटकदीपेपीति । दृष्टांत प्रतिपादकं तत्रत्यश्लोकं पठति । नृत्यशालास्थित इति । प्रभुं नृत्याभिमानिनं संभ्यांस्तत्परिसरवर्तिनः अविशेषेणेति । दीपोहि प्. १५५ब्) वृद्धिं प्राप्य प्रभुं प्रकाशयति । मध्यमावस्थां प्राप्यसभ्यान् । ततो निकृष्टावस्थां प्राप्यनर्तकीमिति प्रकाशतारतम्यानुसारेण वृध्यादिविकारं प्राप्य न दीपप्येत् । किं तु एकरूपेणैव स्थितस्सन् प्रकाशयेदित्यर्थः । इदं च विशेषणं दार्ष्टांतिके निर्विकारस्य कूटस्थस्य साक्षित्वज्ञापनार्थमिति मंतव्यं । तदभावेपीति । प्रभुसभ्याद्यभावेपीत्यर्थः । अहंकारः प्रभुः सभ्याविषया नर्तकीमतिः तालादिधारीण्यक्षाणि दीपस्साक्ष्यवभासक इति दार्ष्टांतिक संग्राहकं श्लोकं मनसि निधायाह । तथेति जीवस्य नृत्याभिमानि प्रभुतुल्यत्वकल्पनाप्रयोजकं साम्यमाह । विषयेति तत्परिसरवर्तित्वेपि तद्राहित्यात्सभ्यपुरुषतुल्यान्विषयान्नानाविध विकारवर्तित्वान्नर्तकी तुल्यांधिपंचदीपयन्सुषुप्त्यादावहंकाराद्यभावेपि दीप्यमानश्चिदाभासविशिष्टाहंकाररूपजीवभ्रमाधिष्ठान कूटस्थचैतन्यात्मासाक्षी एवं जीवाद्विवैचितोयं साक्षीन ब्रह्मकोटिरपि किं त्वस्मृष्टजीवेश्वर विभागं चैतन्यमित्युक्तं कूटस्थदीपे ।। प्. १५६अ) नृत्यसाकल्पवैकल्पप्रयुक्त हर्षादिमत्वं प्रभोरभिमानपदेन सूचितं । यथा सभ्याः प्रभुपरिसरवर्तिनः तथा रूपादयो विषयाः जीवपरिसरवर्तिनस्तथा च विषयाणां सभ्यसाम्यात् सभ्यत्व कल्पनं युक्तमित्याशयेनाह । तत्परिसरवर्तित्वेपीति । तत्पदं जीवपरं ननु जीवपरिसरवर्तिनामपि विषयाणां जीववत् प्रभुतुल्यत्वमेव कुतो न कल्प्यत इत्याशंक्य तत्प्रयोजकाभावादित्याशयेनाह । तद्राहित्यादिति । प्रभुतुल्यत्वकल्पकहर्षविषादादेरभावादित्यर्थः । यद्वा विषयाणां सभ्यपुरुषसाम्यमाह । तद्राहित्यादिति । बुद्धेर्नर्तकी साम्यमाह । नानाविधेति । यथा तालादिधारिणः पुरुषाः नर्तकी मनुवर्तंते एवमिंद्रियाण्यपि धियमनुवर्तंत इत्यनेन साम्येन इंद्रियाणां तालादिधारिपुरुषसाम्यंश्लोकोपातं धियं चेत्यत्रवशब्दार्थः जीवादीनामवभासक साक्षीदीपतुल्य इति चरमपादार्थः तं संगृह्णाति दीपयन्नित्यादिना । प्रकाशयन्नित्यर्थः । दीपयन्नित्यतः प्राकजाग्रदादावितिशेषः नाटकदीपे निरूपितः साक्षीकूटस्थ दीपोक्तकूटस्थ एव नान्य इत्याशयेनाह । चिदाभासविशिष्टेति । कूटस्थ दीपे हि जिवभ्रमाधिष्टनभूतकूटस्थ चैतन्यं जीवादेरवभासकमित्युक्तं । नाटकटीपे च । चिदाभासविशिष्टाहंकारं जीवं कल्पयित्वातदवभासक प्. १५६ब्) चैतन्यं साक्षीत्युक्तं ततश्च तत्रोक्त कूटस्थ एवान्न साक्षीत्ववगम्यते । अंतष्करणप्रतिबिंबरूप जीवाधिष्ठानत्वतदवभासकत्वादि निशसाम्या तथा च नाटकदीपंपि नृत्यशालास्थ दीपदृष्टांतेन साक्षी जीवाद्दिविच्यदर्शित इति पूर्वग्रंथे कूटस्थदीपे यस्माक्षीजीवाद्भेदेन दर्शितस्स एव नाटकदीपेपि ततो भेदेन दर्शित इति विवक्षितार्थस्सिद्ध इति भावः साक्षी यथा जीवकोटिर्न भवति । जीवस्य उदासीनत्वाभावा तथा ईश्वरकोटिरपि न भवति जगत्सृष्टिनियमनादि व्यापार कर्तुस्तस्य उदासीनत्वा भावादीश्वरस्य परोक्षतया । जीवं प्रतिबुध्यादि साक्षितयानित्यापरोक्ष साक्षिरूपत्वासंभवाच्चेत्याशयेनाह । एवं जीवादिति । ब्रह्मपदमाश्वरपरं नत् दीसीन चैतन्यपरं । कस्तर्हि साक्षीति पृछति । किंत्विति । उत्तरमस्पृष्टेति । उक्तमिति । इति शैवपुराणेषु कूटस्थः प्रविवेचितः जीवेशत्वादि रहितः केवलः स्वप्रभः शिव इति श्लोकेनेतिशेषः जगद्रूपत्वमादिपदार्थः । केवल उदासीनः शिवः शुद्धः परमात्मेत्यर्थः ।। तत्वप्रदीपिकायामपि शवलिते सगुणे परमेश्वरे केवलो निर्गुण इति । विशेषणानुपपतेः सर्वप्रत्यग् भूतं विशुद्धं प्. १५७अ) ब्रह्मजीवाभेदेन साक्षीति प्रतिपद्यत इति निवदितं । कौमुद्यां त्वेको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतांतरात्माकर्माध्यक्षः सर्वभूताधिवासः साक्षिचेताकेवलो निर्गुणश्चेति देवत्वादि श्रुतः परमेश्वरस्यैव रूपभेदः कश्चिज्जीव प्रवृतिनिवृत्योरनुमंता स्वयमुदीसीनः साक्षीनाम ।। ईश्वरत्वादि धर्मरहितश्चिदात्मैवान्यत्रापि साक्षित्वेनोक्त इति संवादार्थमाह । तत्वप्रदीपिकायामपीति । सर्वेषां जीवानामंतःकरणगत चित्प्रतिबिंबात्मकानां प्रत्यग्भूतमधिष्ठानतया आंतरं स्वरूपभूतं विशुद्धं जीवत्वेश्वरत्व जगदूपत्वरहितं ब्रह्मजीवाभेदेन ततज्ज्जिवाधिष्ठानत्वादेव ततज्जीवतादात्म्यापत्याप्रतिशरीरं प्राप्तभेदं सत्साक्षीति प्रतिपद्यते । इति शब्दः प्रकारवाघीसत्साक्षित्वमाह तथा च साक्षित्वं प्रतिपद्यते । परमेश्वरस्यैव कश्चिद्रूपभेदः साक्षीनामकुतः देवत्वादि श्रुतेर्नत्वीश्वर विलक्षणः साक्षीदेवत्वादि श्रुतिविरोधादित्येवकारार्थः देवत्वादीत्यादि पदेन सर्वभूतांतरात्मत्वादि धर्मागृह्यंते । एतदुक्तं भवति । देवत्वादयो धर्माः श्रुतिस्मृत्यादिषु परमेश्वर धर्मत्वेन प्रसिद्धा इति नान्यस्य प्. १५७ब्) साक्षित्वं देवत्वादि श्रवणविरोधात् । यद्यपि देवत्वं हिरण्यगर्भेद्रादि जीव साधारणं तथापीतरधर्माणामीश्वरासाधारणत्वाद्देवत्वमपीश्वर गतमेव ग्राह्यमिति भावः । परमेश्वरस्य शिवविश्वात्मना प्राप्तं भेदं निराचष्टे । एक इति । बिंबभूतस्य परमेश्वरेस्य मूर्तिभेदेन शिवविष्णु संज्ञानत्वीश्वरभेदोस्तीत्यर्थः । तथा च श्रुत्यंतरं शास्वतं शिवमच्युतमिति । अच्युत पदस्य विष्णौरूढत्वात् आवयोरंतरं नास्ति शब्दैरर्थैजगत्यत इत्यादि स्मृतयोप्यत्र शतशो द्रष्टव्याः श्रुतौ सर्वभूतेष्वित्यनंतरं वर्तत इति शेषः । तथा च स्मृतिः ईश्वरः सर्वभूतानां हृद्देशेर्ज्जनतिष्ठतीति । तर्हि किमिति सर्वेषां नोपलभ्यते । तत्राह गूढ इति । तथा स्मृतिर्ताहं प्रकाशः सर्वस्य योगमाया समावृत इति । श्रीकृष्णोत्राहं शब्दार्थः प्रकाशः प्रकाशमान इत्यर्थः । परमात्मनो भूतेषु अवस्थानाभ्युपगमेधिकरण भेदा तस्यापि भिन्नत्व शंकास्यातांवारयति । व्यापीति । व्यापित्वेपि नभो वद्वस्तुतो जीवभिन्नत्वं वारयति । सर्वभूतांतरात्मेति । सर्वभूतानां ब्रह्मादिस्तंवपर्यंत संघातानामंतरवस्थित आत्मासर्वजीवस्वरूप इति । यावत् । परमेश्वरस्य कर्मकर्तृजीवाभिन्नत्वे तस्यापि तत्कर्तृत्वस्यादिति नेत्याह । कर्माध्यक्ष इति । जीवकर्तृकर्मणां साक्षीनस्वय तत्कर्तेत्यर्थः जीवपरमात्मनोरौपाधिक- प्. १५८अ) भेदेन धर्मव्यवस्था संभवतीति भावः । सर्वभूतेष्वित्यादिना परमात्मापेक्षयाभेदेन भूतानां निर्दे ।। स च कारणत्वादि धर्मानास्पदत्वादपरोक्षो जीवगतमज्ञानाद्यवभासयंश्च जीवस्यांतरंगः सुषुप्त्यादौ च कार्यकारणो परमे जीवगता ज्ञानमात्रव्यंजकः प्राज्ञ शब्दितः ।। शातस्य सद्वितीयत्वमाशंक्याह । सर्वभूताधिवास इति । अधि उपरिवसंत्यस्मिन् भूतानीत्यधिवासोऽ अधिष्ठानं सर्वेषां भूतानामधिवासस्सर्वभूताधिवासः न चाधिष्ठानातिरेकेणरोपितानां पृथक् सत्वमस्तीतिनाद्वितीयत्व विरोध इति भावः । न केवलं जीवगतकर्मणामेव साक्षी किं तु जीवानामपीत्याशयेनाह । साक्षीति । अवशिष्टा श्रुतिः प्रागेव व्याख्याता अनुमंतानैरंतर्येण बोद्धास्वयमिति । जीवे व्यापारवत्यपि स्वयं तद्रहितः रूपविशेषसाक्षिलक्षणमुक्ता साक्षिपदं तत्र वर्तयति । साक्षी नामेति । नामपदं श्रुतिप्रसिद्धि द्योतकं । ननु साक्षीजीवस्यापरोक्षः तस्याज्ञानांतष्करणाद्यनुभवरूपत्वांगीकारात् । ईश्वरस्तु नित्यं परोक्षः कारणत्वसर्वज्ञत्व सर्वनियंतृत्वादेर्जीवं प्रत्ययोग्यत्वेन तद्विशिष्ट बिंबचैतन्यरूपेश्वरस्यायोग्यत्वादिति चेन्न । प्. १५८ब्) तस्य रूपविशेषत्वांगीकारेणापरोक्षत्वोपपतेरित्याशयेनाह । स चेति न चेश्वरस्यैतादृशरूपभेदेमानानावः शंकनीयः एकोदेव इति मंत्रस्य अनश्रनन्यो अभिचाकशीति मंत्रभागस्य च उदासीने परमेश्वररूपभेदे मानत्वात् । कारणत्वादि धर्मास्पदे चेश्वरे सृष्टिवाक्यानां सर्वेषामेवमानत्वादिति भावः । स च जीवस्यापरोक्षों अंतरंगश्चेति संबंधः उभयत्र हेतुमाह । जीवगतमज्ञानाद्यवभासयन्निति । अंतःकरण तद्धर्म सुखदुःखादि संग्रहार्थमादिपदं साक्षिचैतन्यमज्ञानाद्यवभासनुद्वारा अहमज्ञः अहं सुखीदुःखीत्यादि व्यवहारनिर्वाहकं भवति । अतः साक्षी जीवऽस्यांतरंगः लोके राजादि व्यवहार निर्वाहकपुरुषे राजांतरंगत्वस्य प्रसिद्धत्वादिति भावः । ननु सुषुप्त्यादौ साक्ष्यस्यांतःकरणतदवृत्यादेरुपरतत्वा तदा चिदात्मनस्साक्षित्वं न स्या तथा च तेभ्यो विलक्षणस्साक्षी चिन्मात्रोहं सदाशिव इत्यादौ सुषुप्त्यादावपि तस्य साक्षित्व व्यवहार विरोध इत्यत आह । सुषुप्त्यादौ चेति । तेभ्यो इति । भोक्त्रादिभ्य इत्यर्थः । तदापि मूलाज्ञानस्य साक्ष्यस्य सत्वान्न विरोध इति भावः परमेश्वरस्यैव रूपविशेषात्मके साक्षिणि सुषुप्त्यक्रांतिविषयकवाक्यद्वयमपि प्रमाणमित्याशयेनाह । प्राज्ञशब्दित इति प्. १५९अ) सुषुप्तिविषयकवाक्ये उत्क्रांतिविषयकवाक्ये च प्राज्ञशब्देन यथोक्त साक्षिण एव प्रतिपादितत्वादितिभावः ।। तद्यथा प्रिययास्त्रियासंपरिष्वक्तो न बाह्यं किंचन वेदनांतरमेवमेवायं पुरुषः प्राज्ञनात्मनासंपरिष्वक्तोत बाह्यं किंचन वेदनांतरं प्राज्ञेनात्मनान्वारूढ उत्सर्जन् यातीति श्रुति वाक्याभ्यां सुषुप्त्यक्त्रांत्यवस्थयोर्जीवभेदेन प्रतिपादितः परमेश्वर इति सुषुप्त्युत्क्रांत्यधिकरणनिर्णयोपि साक्षिपर इत्युपवर्णितं तत्वशुद्धावपि यथेदं रजतमिति भ्रमस्थले वस्तुतः शुक्ति कोट्यंतर्गतोपीदमंशः प्रतिभासतो रजतकोटिः तथा ब्रह्मकोटिरेव साक्षीप्रतिभासतो जीवकोटिरिति । जीवस्य सुखादि व्यवहारे तस्योपयोग इत्युक्त्वायमेव पक्षः समर्थितः ।। ननु सुषुप्त्युत्क्रांत्योर्भेदेनेत्यधिकरणे सुषुप्त्यादि विषयक श्रुतिगतप्राज्ञशब्दस्य सर्वेश्वरत्व भूताधिपतित्वादि प्. १५९ब्) विशिष्टपरमात्मप्रतिपादकत्वाया उक्तत्वात्कथं प्राज्ञशब्दस्य उदासीनेश्वर परत्वमत आह । तद्यथेति । दृष्टांत वाक्ये बाह्यं रथादि वृतांतमातरं ग्राहक्यं? पुरुषो जीवः प्राज्ञः परमात्मा तेन संपरिष्वक्तः सुषुप्त्यादावुपाधिलयादेकी भावं प्राप्तः बाह्यं जाग्रत्प्रपंचं किंचन किंचिदपि उत्क्रांति वाक्यमुदाहरति । प्राज्ञेनात्मनान्वारूढ इति अन्वारूढो अधिष्ठितः उत्सर्जत्वेदनावशाच्छब्दं कुर्वन् । याति शरीराद्बहिर्निर्गछति । उत्क्रामतीत्यर्थः । अवस्थयोरिति । सप्तमी प्रतिपादित इत्यनंतरं प्राज्ञ इति शेषः तथा च वाक्याभ्यां जीवभेदेन प्रतिपादितः प्राज्ञः परमेश्वर इति निर्णयोपि साक्षि पर इत्युपवर्णितं कौमुद्यामिति संबंधः बृहदारण्यक षष्टाध्यायो जीवानुवादमात्ररूपः न तदतिरिक्तेश्वर पर इति पूर्वपक्षे प्राप्ते सिद्धांतः तद्यथा प्रिययेत्यादि वाक्ययोः सुषुप्त्यवस्थायामुत्क्रांत्यवस्थायां च पुरुषशब्दित जीवापेक्षयाभेदेन परमेश्वरस्य तृतीयांत प्राज्ञशब्देन व्यपदेशान्न षष्टाध्यायो जीवानुवादमात्ररूपः किं तु तदति रिक्तेश्वर प्रतिपादनपरः तत्प्रतिपादनं च लोकसिद्धजीवानुवादेन तस्येश्वराभेद प्रतिपादनार्थं प्. १६०अ) तथा च वाक्यशेषो दृश्यते । स वा एष महानत आत्मायोयं विज्ञानमय इति यो विज्ञानमयो जीवस्म एष महानात्मापूर्णः परमात्मेत्यर्थः इति तदधिकरणनिर्णयः । नन्वस्य निर्णयस्य उदासीनेश्वर रूपसाक्षि परत्वाप्यनुपपन्नं स वा एष महानत आत्मेत्येतदनंतरं एष सर्वेश्वर एष भूताधिपतिरित्यादिना तस्य सर्वेश्वरत्वादि गुणजात प्रतिपादनादिति चेन्न ज्ञेय ब्रह्मप्रकरणगतसर्वेश्वरत्वादि वचनस्य स्तुति मात्रपरत्वादिति भावः । कौमुदीकार मतस्य संवादार्थं मतांतरमुपन्यस्यति तत्वशुद्धावपीति । इदं रजतमिति भ्रमस्थले रजताभेदेन प्रतिभासमानोपीरमंशः रजतांतरर्भूतो न भवति रजतवत तस्य बाधाभावात् । नापि शुक्ताववांतर्भवति तस्य शुक्त्यंशवदज्ञातत्व प्रसंगात् । अतो यथा इदमंशस्य वस्तुतः शुक्तिरूपत्वं प्रतिभासतो रज ।। केचित्वविद्योपाधिको जीव एव साक्षाद्द्रष्ट्वत्वात्साक्षीलोकेपि ह्यकर्तृत्वे सति द्रष्टृत्वं साक्षित्वं प्रसिद्धं तच्चासंगोदासीन प्रकाशरूपे जीव एव साक्षात्संभवति । जीवस्यातःकरणतादात्म्यापत्या कर्तृ प्. १६०ब्) द्यारोपभात्केपि स्वयमुदासीन त्वात् । एकोदेव इति मंत्रस्तु ब्रह्मणो जीवभावामि प्रायेण साक्षित्व प्रतिपादकः द्वासुपर्णेति मंत्रो गुहाधिकरणन्यायेन जीवेश्वरौभयपरः ।। नाभिन्नात्वमेवं साक्षिणोपि वस्तुगत्या ईश्वर रूपाभेदत्वं कल्पित तल्लजीवाधिष्ठानरूपस्य साक्षिणस्सुखाद्यनुभवितुः । अहं सुखमनुभवामीत्यादि प्रतिभासतस्त तज्जीवाभिन्नत्वं । अतो जीवस्य सुखादि व्यवहारे तस्य सुखाद्यनुभवितुः । जीवैकत्वमापन्नस्योपयोग इत्यर्थः । अयमेवेति साक्षिणो वस्तुतोपि जीवांतर्भावे तस्य ब्रह्मकोटित्वोक्ति विरोधात् । तस्येश्वररूपाभेदत्वं तत्वशुद्धिकाराभिमतमिति गम्यत इति भावः । जीवसाक्षिणोर्भेदपक्षानुपन्यस्य तयोरभेदपक्षानुपन्यस्यति केचिदित्यादिना जीव एव साक्षीति संबंधः । नत्वोश्वरस्य रूपभेदस्साक्षी तत्र मानाभावादित्येवकाराभिप्रायः जीवस्य साक्षीत्वाभ्युपगमे हेतुमाह । साक्षाद्द्रष्टृत्वादिति । तस्यौदासीन्यं सूचयति अविद्योपाधिक इति एतदेव प्रपंचयितुं इदमेव साक्षिलक्षणं नान्यदिति पूर्वोक्तं स्मारयति । लोकेपि हीति । पूर्वं संग्रहेणोक्ते जीवस्यैव साक्षित्वं प्रपंचयति । तच्चेति । साक्षादिति । अविद्या प्रतिबिंब रूपजीवस्य प्. १६१अ) स्वतः संभवतीत्यर्थः । अनेन कॢप्तस्य जीवस्यैव साक्षित्व संभवे तदतिरिक्त साक्षीन कल्पनीयः गौरवादिति सूचितं । ननु लौकिक वैदिक व्यवहार कर्तुं रौदासीन्यमसिद्धमित्युक्तमित्याशंक्यबुद्धितादात्म्ययुक्तमेव कर्तृत्वादिकं स्वतस्तु उदासिनत्वमित्युपगमातस्य साक्षित्वं संभवतीत्याह । जीवस्यांतःकरणेति । नन्वीश्वरस्य साक्षीत्वाउपगमे मंत्रविरोध इत्यत आह । एकोदेव इति । मंत्रस्त्विति साक्षी तावज्जीवस्यापरोक्ष इत्युक्तं ईश्वरस्य तूदासीनस्यार्प्यपरोक्षत्वं न संभवति बिंबभूतेश्वरस्य जीवादौपाधिकभेदसत्वेन जीवं प्रतिजीवांतर चैतन्यस्येवापरोक्षत्वायोगादतो जीवभावापन्न ब्रह्माभिप्रायो मंत्रगतसाक्षि प्रतिपादकभाग इति भावः ईश्वररूपभेदस्यापरोक्षत्वानुपपति रूपहेतुः मंत्रस्त्विति तु शब्देनोक्त इति ध्येयं । ननु गुहाधिकरणे यथा गुहां प्रविष्टा इति मंत्रो जीवेश्वरो भयपरः तथा द्वासुपर्णेति मंत्रोपि जीवेश्वरो भयपर इत्युक्तं भाष्ये तथा च द्वासुपर्णेति मंत्रे तयोरन्यः पिप्पलं स्वाद्वतीति वाक्यं जीविषयमनश्रन्नन्योभिचाकशीतीति वाक्यं परमेश्वरविषयमिति पर्यवस्यति ततश्च जीवस्य साक्षित्व पक्षे ईश्वरस्य साक्षित्व प्रतिपादके नानश्रन्नन्य इति मंत्रभागेन विरोध इत्याशंक्याह । द्वासुपर्णेति मंत्र इति । यदा मंत्रः जीवपरोभयपरस्तदापि न प्. १६१ब्) विरोधः कश्चित् एकोदेव इति मंत्रवत् द्वासुपर्णेति मंत्रस्यापि जीवभावापन्नपरमात्मपरत्वाद्युपगमादित्यर्थः ।। गुहाधिकरणभाष्योदाहृतपैंगीरहस्य ब्राह्मण व्याख्या तेन प्रकारेण जीवांतःकरणोभय परोवेति न कश्चिद्विरोध इत्याहुः । अन्ये तु सत्ये जीव एव साक्षीनत्वसर्वगतेनाविद्योपहितेन रूपेण पुरुषांतरांतष्करणादीनामपि पुरुषांतरं प्रति स्वांतःकरणभासक साक्षिसंससर्गाविशेषण प्रत्यक्षत्वाततेः ननु ग्रहाधिकरण भाष्येपैंगिरहस्य ब्राह्मणमुदाहृतं । तच्चेदं ब्राह्मणं तयोरन्यः पिप्पलं स्वाद्धतीति सत्वं । अनश्रन्नन्यो अभिचाकशीति । अनश्रन्नन्योधि पश्यतिज्ञः त्वावेतौ सत्वक्षेत्रज्ञाविति । अनेन ब्राह्मणेनादनवाक्यमंतष्करणविषयं अनथन् वाच्यं क्षेज्ञविसयमिति व्याख्यातं न च ब्राह्मणेनैव सत्वक्षेत्रज्ञपरत्वेन मंत्रे व्याख्यायमाने कथं भाष्यकारैरस्य जीवेश्वर परत्वमुक्तमिति वाच्यं । तदुक्तेः कृत्वा चिंतामात्रत्वेन विरोधानावा तथा चांतष्करणप्रतिबिंबरूपोपदिपैंगि प्. १६२अ) ब्राह्मणाभिमतः क्षेत्रज्ञः स्यातदा तस्यैवा न श्रन्नितिवाक्योक्तं साक्षित्वं स्यान्नाविद्याप्रतिबिंबस्य तथा चाविद्याप्रतिबिंबरूपस्य ब्रह्मस्वभावस्य जीवस्य साक्षित्वपक्षः पैंगिब्राह्मणनिर्णितार्थकद्वासुपर्णेति मंत्रभागविरुद्धः प्रसज्येतेत्याशंक्याह गुहाधिकरणभाष्योदाहृतेति । न कश्चिद्विरोध इति पैंगि ब्राह्मणाभिप्रेतः क्षेत्रज्ञोनां तष्करणगतचैतन्य प्रतिबिंबरूपजीवस्तस्य कर्तृत्वं भोक्तत्व स्वभावत्वेनानश्रन्निति वाक्योक्त साक्षित्वासंभवात् । किं त्वसंगोदासीन प्रकाशरूपाविद्याप्रतिबिंबरूपजीव एव ब्राह्मणाभिप्रेतः क्षेत्रज्ञस्तस्यानश्यन् वाक्योक्त साक्षित्व संभवस्योपपादितत्वादतोऽविद्याप्रतिबिंबजीवस्यैव साक्षित्व पक्षेन पैंपीरहस्य ब्राह्मणानुरोधिमंत्रविरोध इत्यर्थः । अविद्यायां चैतन्यप्रतिबिंबरूपजीवस्यैव साक्षित्वमुपेत्यत्र किंचिद्विशेषं वक्तुं मतांतरमवतारयति । अन्ये त्विति नत्वविद्यायां चिद्बिंबभूतेश्वर साक्षीतस्यापरोक्षत्वानुपपतेरित्येव काराभिप्रायः रूपेणेति साक्षीत्यनुषंगः सर्वशरीरसाधारणाविद्योपाधिकस्य साधारणरूपेण साक्षित्वाभावे हेतुमाह । पुरुषांतरेति । यज्ञदतांतष्करणं तद्वृतीनामित्यर्थः पुरुषांतरं प्रतीति । देवदतं प्रतीत्यर्थः स्वेति स्वस्य देवदतस्यांतःकरणभासकोपस्साक्षी तेन साक्षिणा सह देवदतां तष्करणस्येव यज्ञदतां तष्करणादीनामपि प्. १६२ब्) संसर्गाविशेषाद्देवदतस्य यथा स्वांतष्करणं प्रत्यक्षं तथा यज्ञ दतांतष्करण तद्वृतयोपि देवदतस्य प्रत्यक्षाः स्युरित्यर्थः । अत्र पुरुषांतरं प्रतिपुरुषांतरांतष्करणादीनामपि प्रत्यक्षत्वापतेरिति संबंधः । तत्र हेतुः स्वांतष्करणेत्यादिरिति विभागः । सर्वशरीरेषु साक्षिण एकत्वेपि प्रतिशरीरं प्रमातृभेदान्नोक्तदोष इत्याशंकते । न चेति । देवदतं प्रति तदंनंतष्करणादेः प्रत्यक्षत्वे हि देवदत साक्षिसंस न चांतष्करणभेदेन प्रमातृभेदात् तदनापतिः साक्षिभास्येंतष्करणांदौ सर्वत्र साक्ष्यभेदे सति प्रमातृभेदस्याप्रयोजकत्वात् तस्मादंतष्करणोपधानेन जीवः साक्षी तथा च प्रतिपुरुषं साक्षिभेदात्पुरुषांतष्करणादेः पुरुषांतरसाक्ष्य संसर्गाद्वांतदयोग्यत्वाद्वाऽप्रकाशः उपपद्यते । सुषुप्तावपि सूक्ष्मरूपेणांतःकरणसद्भावात्तदुपहितः साक्षी तदाप्यस्त्येव न चांतःकरणोपहितस्य प्रमातृत्वेन न तस्य साक्षित्वं सुषुप्तौ प्रमात्रः भावेपि साक्षि सत्वेन तयोर्भेदश्चावश्यं प्. १६३अ) वक्तव्य इति वाच्यं ।। र्गः प्रयोजकः तथा च यज्ञदतांतष्करणादीनामपि देवदतं प्रत्यपरोक्षत्व प्रयोजकस्य देवदत साक्षि संसर्गस्याविशेषेण तं प्रत्यपरोक्षत्वापादनात्मको दोषः प्रत्यक्षत्व प्रयोजकं साक्षि संसर्गभेदेनैव परिहर्तव्योनाप्रयोजक प्रमातृभेदेनेति दूषयति । साक्षिभास्य इति साक्ष्यभेद इति साक्षिण एकत्वे सतीत्यर्थः । अप्रयोजकत्वादिति । देवदतं प्रतितदीयांतष्करणादिकमेव प्रत्यक्षं नान्यदीपांतष्करणादिकमिति व्यवस्थायामिति शेषः तस्मादिति । अविद्योपाधिकजीवस्य साधारणरूपेण साक्षित्वासंभवादित्यर्थः । तथा चेति । साक्षि भेद प्रयोजकोपाधिभेद विवक्षायां सत्यामित्यर्थः । तदयोग्यत्वाद्वेति पुरुषांतरं प्रत्ययोग्यत्वकल्पनाद्वा प्रत्यक्षत्वाभाव उपपद्यत इत्यर्थः । ननु अविद्याप्रतिबिंबरूपजीवस्याविद्योपाधिकत्वेनैव रूपेण साक्षित्वे सति तस्य सुषुप्ति साधारण्यं संभवति प्रतिशरीरं साक्षिभेदसिध्यर्थं तस्यांतष्करणोपहितत्वेन रूपेण साक्षित्वे तु सुषुप्ति साधारण्यं तस्य न संभवति । सुषुप्तावंतःकरणलय श्रवणादित्याशंक्याह । सुषुप्तींवपीति शंकते । न चांतःकरणोपहितस्येति अविद्याप्रतिबिंबस्य जीवस्येतिशेषः । ततस्येति । अंतःकरणोपहित जीवस्य साक्षित्वं न संभवति तस्य प्रमातृत्वादन्यथा प्रमातुरेव प्. १३६ब्) साक्षित्वापत्यासाक्षिप्रमात्रोर्भेदो न स्यादिति भावः । इष्टापतिमाशंक्याह । सुषुप्ताविति । अभावेपीति । अथास्मिन् प्राण एकधा भवतीति श्रुतौ सुषुप्तिकाले प्राणशब्दिते परमात्मनि एकीभावलक्षणस्य प्रमातृ लयस्य श्रवणादिति भावः साक्षि सत्वेनेति । सुषुप्तिकाले साक्षिणस्सत्वमवश्यं वाच्यं तत्काले तत्सत्वस्य त्रिषु धामस्वित्यादि बहुश्रुति सिद्धत्वात् । धामसु अवस्थास्वित्यर्थः । तत्काले साक्षिणानुभूतानामज्ञानसुखसुषुप्तीनामुत्थितस्य न किंचिदवेदिषं सुखमस्वाप्समिति स्मरण दर्शनाच्च । न चाहमस्वाप्समिति स्वाणदिवदहमर्थस्य प्रमातुरपि सुषुप्तिकालीनत्वेन स्मरण दर्शनात् । तस्यापि तदासत्वं वाच्यमेवेति वाच्यं सुषुप्तौ प्रसातृ लय प्रतिपादकबहुश्रुति विरोधेन श्रहमस्वाप्समित्यादि स्मरणस्याहमर्थांशे अनुभवरूपत्व कल्पनान्न प्रमातुस्तदा सत्वमावश्यक तथा च सुषुप्तिकाले सदसतोस्साक्षिप्रमात्रोरनेदायोगात् प्रमातुस्सकाशात् साक्षीभिन्न एव वाच्य इत्यर्थः । प्रमातृ साक्षिणोरभेदपक्षे प्रमातुरुदासीनत्वाभावेन साक्षित्वा संभवरूपदोष संग्रहार्थश्चकार इति बोध्यं ।। विशेषणोपाध्योर्भेदस्य सिद्धांत संमतत्वेनांतष्करणविशिष्टः प्रमाता तदुपहितः साक्षीतिभेदोपपतेरित्याहुः ।। प्. १६४अ) न च वाचमित्यत्र हेतुमाह अंतष्करणविशिष्ट इति अंतष्करणस्याविद्योपाधिके जीवे विशेषणत्वेन प्रमातृत्व प्रयोजकत्वमुपाधित्वेन साक्षित्वप्रयोजकत्वं तथा च विशिष्टोपहितयोः प्रमातृसाक्षिणोर्भेदः विशिष्टस्य प्रमातुः कर्तृभोक्तस्वभावत्वेपि उपहितस्योदासीनत्वात्साक्षित्वं च संभवतित्यर्थः । ननु विशेषणत्वस्य उपाधित्वस्य च भेदे सति एकस्याप्यंतष्करणस्य विशेषणत्वादिरूपेणभेदं कल्पयित्वा तद्विशिष्टस्य प्रमातृत्वं तदुपहितस्य साक्षित्वमिति व्यवस्था सिध्यति । तयोर्भेद एकथमित्यत आह । विशेषणोपाध्योरिति कार्यान्वपित्वे सति व्यावर्तकत्वं विशेषणत्वं यथा नीलोत्पलमानयेत्यादौ नैल्यस्यणातस्य रक्तोत्पलादि व्यावर्तकत्वादुत्पलद्वारा आनयनरूपकार्यान्वयित्वाच्च । लक्षणे कार्यपदं विधेयपरं तथा च यत्काकवत् तद्देवदत ग्रहमित्यादौ विधेयस्य देवदतगृहत्वस्य कार्यस्य उपलक्षणेकाकेनास्त्यन्वयः गृहांतरव्यावर्तकत्वं त्वस्तीति तत्राति व्याप्तिवारणाय सत्यं तं कार्यान्वयिनि विशेष उत्पलादावति व्याप्तिवारणाय विशेष्यदलंकायानन्वयित्वे सति व्यावर्तकत्वे सति कार्यान्वयकालविद्यमानत्वमुपाधित्वं यथालोहितस्फटिकमानयेत्पादौस्फटिक सन्निहितस्य जपाकुसुमस्य प्. १६४ब्) उपाधित्वं तस्यानयनलक्षणकार्यान्वयाभावात् स्फटिकांतरव्यावर्तकत्वादानयनान्वयकाले विद्यमानत्वाच्च । तत्र प्रथमं सत्यं तं विशेषणैनैल्पादावतिव्याप्ति वारणाय न च विशेषणत्वेनाभिमतं नैल्पादिकमप्यत्र लक्ष्यमेवेति वाच्यं । जपाकुसुमादावुपाधित्व व्यवहारवन्नैल्पादौ तथा व्यवहाराभावात् । जपाकुसुमादौ स्फटिकादि विशेषणत्वस्य व्यवहाराभावाच्च । तथा च विशेषणोपाध्योर्भेदावश्यं भावे सति विशेषणत्वाभिमत नैल्पादेरलक्ष्यत्वा तत्राति व्याप्तिवारणं युक्तमेव काकवद्ग्रहं प्रविशेत्यत्र प्रवेशरूपकार्यान्वयकाले यदि दैवयोगादुपलक्षणभूतकाकस्यान्यत्र गमनं काकांतरस्य तद्गहे आगमनं तदा तत्रागतकाकस्य पूर्वस्थित काकवद्व्यावर्तकत्वं नास्ति तथा च तत्रागत काके प्रवेशानन्वपि निविद्यमीने उपाधित्वरहिते अतिव्याप्तिवारणाय द्वितीय सत्यं तं उक्तस्थल एव उपलक्षणीभूत काके अति व्याप्तिवारणाय विशेष्यदलं न च यत्र उपलक्षणी भूतकाकस्यैव कार्य कालेपि दैवाद्विद्यमानत्वं तंत्रोपलक्षणकाके कृत्स्नं लक्षणमस्तीत्यति व्याप्तिरिति वाच्यं । कार्यकाले नियमेन विद्यमानत्वस्य विवक्षितत्वात् नन्वेवमपि लोहित स्फुटिकमानयेत्यत्र क्वचिद्धामश्रवणकाले सत एव जपाकुसुमस्य प्. १६५अ) स्फटिकानयनकाले दैवादविद्यमानत्व संभवात् जपाकुसुमस्यापि कार्यकाले विद्यमानत्वनियमो नास्तीति चेतर्हीदं लक्षणं श्रोत्रत्वोपाधिकर्णशष्कुल्यामंतष्करणादौ च विवक्षितमस्तु जपाकुसुमस्यान्यस्य वाततुल्यस्वनिष्टध ।। ननूक्तरूपस्य साक्षिणश्चैतन्यमात्रावरकेणाज्ञानेनावरणमवर्जनीयमिति कथमावृतेनाविद्याहंकारादिभानमिति चेत् । राहुवदविद्यास्वावृत प्रकाश प्रकाशेति केचित् । वस्तुतो विद्यांतष्करणतद्धर्मावभासकं साक्षि चैतन्यं विहायै वाज्ञानचैतन्यमावृणोत्यनुभवानुसारेण कल्पनान्न कश्चिद्दोषः ।। र्मा संजकत्वरूपं प्रसिद्धमेवोपाधित्वमस्तु । न चाननुगमः स्वनिष्ठत्यादिलक्षणोपाधित्वस्य प्रसिद्धोपाधौ कर्णवलये बिंबप्रतिबिंबपक्षे दर्पणादौ स्वोपहित बिंबसुखादो स्वधर्मानासंजके च वाधित्वेन तत्संग्राहकलक्षणांतरकणस्यावश्यकतया तस्यादोषत्वादनुगतलक्षणसंभवे हि तस्य दोषत्वं प्रसिद्धं । तथा च । प्रकृतेंतष्करणस्य उभयविधोपाधित्वसंभवात् प्. १६५ब्) कार्यानन्वपित्वे सतीत्यादिलक्षणानुरोधेनांतुष्करणोपहितो जीवस्साक्षीत्युपगमे साक्षित्वं जीवचैतन्यमात्रनिष्टं पर्यवस्यति जीवचैतन्यमात्रं तूदासीनमेवेति नोपहितस्य साक्षित्वानुपपतिर्न्न वा प्रमातृसाक्षिणोस्सांकर्यमिति संक्षेपः । अविद्याहंकारादीनां पूर्वोक्तं साक्षि भास्यत्वमाक्षिपतिमन्विति चैतन्यमात्रेति कृत्स्न चैतन्यावरकेणेत्यर्थः । कथमिति । न च साक्षि गोचरापरोक्षवृत्यातदावरण निवृतौ निवृतावरणेन साक्षिणा अविद्यादिभानं संभवतीति वाच्यं । तेषां केवल साक्षिभास्यत्व सिद्धांतविरोधप्रसंगाः सनसः करणत्वस्य निरसिष्यमाणतया साक्षि चैतन्यगोचरापरोक्षवृत्यसंभवाच्चाहंकारादीनां स्वसताकाले तत्सताप्रकारकसंशयाद्य भावै न सदा तेषां संशयादि निवृति प्रयोजकतया सदा प्रकाशसंसर्गे वक्तव्ये सति कादाचित्कवृत्या तेषां सदाभानासंभवाच्च । साक्षि गोचरवृतिसंतत्युपगमे युगपद्वृति द्वयानभ्युपगमेन बाह्य घटादि प्रतीत्युछेद प्रसंगाच्च तस्मात् साक्षिमात्रभास्यत्वमविद्याहंकारादीनां वक्तव्यं । तच्च न संभवति तस्यावृतत्वान्न च साक्षि चैतन्यं विहायान्पदेवचैतन्यमावृतमिति वाच्यं अज्ञानस्य चैतन्यमात्रावरकत्वादन्यथा साक्षिचैतन्यादन्यचैतन्येप्यावरणाभावप्रसंगादित्याक्षेपाभिप्रायः आवृतस्यापि साक्षिणोऽविद्याप्रकाशकत्वं दृष्टांतेन दर्शयन् परिहरति राहुवदिति राहुणा सर्वात्मनावृतस्य चंद्रमंडलादेः प्. १६६अ) स्वावरकराहुमात्र प्रकाशकत्वेपि तदतिरिक्त प्रकाशकत्वादर्शनादत्राप्यावृतस्य साक्षिणः कथंचिदविद्यामात्रावभासकत्वं स्यान्नाहंकारादि भासकत्वमित्यस्वरसादाह । वस्तुत इति । अनुभवानुसारेणंति । अहंकारादिषूक्तरीत्याकादाचित्कवृत्या सदा ज्ञानासंभवेनपि सदा प्रकाशसंसर्ग फलस्य संशयनिवृत्यादेस्सत्वानुसारेणेत्यर्थः ।। अत एव सर्वदा तेषामनावृत प्रकाशसंसर्गादज्ञानविपरीत ज्ञानसंशयागोचरत्वं साक्षि चैतन्यस्यानावृतत्वे तत्सरूपभूतस्यानंदस्यापि प्रकाशापतिरिति चेन्न । इष्टापतेः आनंदरूपप्रकाश प्रयुक्तस्यात्मनि निरुपाधिकप्रेमणो दर्शनात् । भासत एव परमप्रेमास्पदत्वलक्षणं सुखमिति विवरणाच्च । स्यादेतदिदानीमप्यानंद प्रकाशे मुक्ति संसारयोरविशेषप्रसंगः अनुभवफलमेवोपदर्शयति । अत एवेति । अज्ञानस्य साक्षि चैतन्यं विहायैवावरकत्व स्वभावकल्पनादेवेत्यर्थः । अगोचरत्वमिति । नन्वविद्यायाभावरूपत्वादौ अहंकारस्यानात्मत्वादौ सुखदुःखवृतीनां अनात्मधर्मत्वादावज्ञानविपरीत प्. १६६ब्) ज्ञानसंशयानां सत्वेन तेषां सदासंशयाद्यगोचरत्वमसिद्धमिति चेन्न अविद्यादि सत्वकाले कदाचिदप्यविद्यादिसत्वप्रकारकाज्ञानाद्यभावस्य विवक्षितत्वं तथा च तद्गतविशेषगोचराज्ञानविपरीतज्ञानादेरभ्युपगमैपि न दोष इति भावः । शंकते । साक्षि चैतन्यस्येति । नन्विष्टापतेरिति वक्तुं न शक्यते संसारदशायां स्वरूपानंदप्रकाशप्रयुक्तकार्यादर्शनादित्यत आह । आनंदरूपेति लोके हि तस्य तस्यानुभूयमाने आनंदे प्रीतिरनुभवसिद्धा तथा च प्रीतेः प्रकाशमानानंदविषयकत्वे सिद्धे प्राणिमात्रस्य स्वस्वात्मनि दुःखदशायामपि प्रीति दर्शनादात्मगोचर प्रीतेरपि प्रकाशमानात्मानंदविषयकत्वं सिध्यति । पुत्रादि गोचरप्रीतिः तावदौपाधिकी उपाधिश्च आत्मसुखाभिव्यक्ति साधनत्वमुपाधित्वव्यतिरेकदशायां तेषु प्रीतेरदर्शनादात्मनि तु प्रीतिर्निरुपाधिकी पुत्रादिष्विवात्मनि प्रीतेरन्यार्थत्वाभावा । तथा च श्रुतिरात्मनस्तु कामाय सर्वं प्रियं भवति । तथा तदेतत्प्रेयः पुत्रात्प्रेयो वितात्प्रेयोन्यस्मात्सर्वस्मादंतरतरमिति । अंतरतरमित्यनेन सर्वांतरमुच्यते । तथा च यत्सर्वांतरमात्मचैतन्यं तत् एतत् अपरोक्षं प्रीतिविषयत्वेन संभाषितात्पुत्रादेस्सर्वस्सादतिशयेन प्रियमिति द्वितीय श्रुत्यर्थः तथा च आत्मानंदोयदिनप्रकाशेत तदा आत्मनि प्. १६७अ) श्रुत्यनुभवसिद्धानिरुपाधिकप्रीतिर्न स्यात् प्रीतेः प्रकाशमानानंद विषयकत्वनियमादतः साक्ष्यानंदप्रकाशापादने इष्टापत्यभिधानं युक्तमेव उक्तार्थे वृद्ध संमतिमप्याह । भासत एवेति परमप्रेमविषयत्वं परमप्रेमास्पदत्वं तल्लक्षणं यस्य सुखस्य ततथा सुखं भासत एव परमप्रेमास्पदत्वादन्यथा तत्र स्यादित्येव काराभिप्रायः । तच्च सुखं साक्षि चैतन्याभिन्नमिति स्वरूपानंदप्रकाशे सम्मतिर्भवत्येव संसारदशायां स्वरूपानंदस्फुरणाभ्युपगमे बाधकमाशंकते । स्यादेतदित्यादिना । तस्मात्साक्ष्यां नदस्यानावृतत्वकल्पनमयुक्तमित्यंतेन ननु कल्पितभेदस्य साक्ष्यानंदस्य प्रकाशेप्यनवछिन्नस्य ब्रह्मानंदस्यावृतस्य संसारदशायामप्रकाशेन विशेषोस्तीति चेत् । न आनंदेऽनवछेदांशस्यापुरुर्षार्थत्वात् । आनंदापरोक्षमात्रस्य चेदानीमपि सत्वात् । नन्ववछिन्नः साक्ष्यानंदः सातिशयः सुषुप्तिसाधारणादनुति स्पष्टा ततौ वैषपिकानंदेष्वतिशयानुभवात् । अनवछिन्नो ब्रह्मानंदस्तुनिरतिशयः ।। प्. १६७ब्) सिद्धांती विशेषं शंकते । नन्विति । अविद्यायामानंद प्रतिबिंबस्साक्ष्यानंदः तस्य बिंबभूतानंदाद्भेदः कल्पितस्तथा च संसारदशायामनावृतसाक्ष्यभिन्न प्रतिबिंबानंद प्रकाशेपि बिंबभूतब्रह्मानंदो न प्रकाशते । तथा प्रकाशमानोपि साक्ष्यानंदः प्रतिशरीरं भिन्न एव प्रकाशते न त्वनवछिन्न इति विशेषोस्तीत्यर्थः । बिंबभूतब्रह्मानंदाप्रकाशे हेतुः । आवृतस्येति । अत्र यद्यपि मूलाज्ञानं शुद्ध चिन्मात्राश्रयं तद्विषयकंचन तु बिंबभूतेश्वरविषयकं तस्यानावृतत्वेपि जीवापेक्षया कल्पित भेदवत्वात् । तस्य जीवं प्रत्यप्रकाशमानत्वं संभवति । तथा मुक्तौ बिंबभूत ब्रह्मानंदस्फुरणमप्यसिद्धं मूलाज्ञाननिवृतौ तत्प्रयुक्तप्रतिबिंबभावस्येव बिंबभावस्यापि निवृत्यवश्यंभावा तथापि पूर्वपक्षिमुखपिधानमात्रे सिद्धांतिनस्तात्पर्यमिति बोध्यं । किमनवछिन्नानंदस्फुरणं मोक्षे विशेषः आनंदस्फुरणमात्रं वा उभयथापि विशेषो वक्तुं न शक्य इत्याह पूर्ववादीनेति । अवछेदो हि भेदस्स च आत्मनि कल्पितस्तथा चावछेदाभावोयद्यानंदादति रिक्तस्तदा दोषमाह । अनवछेदांशस्येति । यद्यानंद एव प्. १६८अ) कल्पिताभावस्याधिष्ठानात्मकत्वा तदा तस्य द्वितीय प्रकार एवांतर्भाव इति मत्वातं प्रकारं दूषयति । आनंदापरोक्ष्य मात्रस्य चेति । तथा च न मुक्ति संसारयोर्विशेष इति भावः । सिद्धांतीप्रकारांतरेण विशेषमाशंकते नन्वछिन्न इति । प्रतिशरीरमवछिन्नत्वेन प्रकाशमानस्साक्ष्यानंदस्सातिशयः उत्कर्षापकर्ष रूपातिशय वा नित्यर्थः साक्ष्यानंदस्यातिशयत्वे हेतुमाह । सुषुप्ति साधारणादिति । स्पष्टता उत्कर्षः अति स्पष्टता अत्युत्कर्षः सुषुप्तिकाले प्रकाशमान साक्ष्यानंदः स्पष्ट एव इतरथा तस्य सुखमस्वाप्समिति परामर्शनीयत्वाभावप्रसंगात् । लोके हि यः आनंदः स्पष्टमनुभूतः स एव पुनः परामर्शयोग्योनानुभूतानंदमात्रमिति प्रसिद्धं । तथा च ततः साक्ष्यानंदान् सुषुप्त्यावति स्पष्टतारहित्वात् । सक्चंदनादि विषयप्रयुक्तानंदेषूत्कर्षविशेषानुभवादित्यर्थः । अनवछिन्न इति । कल्पितावछेदाभावात्मा ब्रह्मानंदो मुक्तिकाले प्रकाशमानोतिशय सामान्यरहित एवेत्यक्षरार्थः मुक्तौ ब्रह्मानंद एकरूपेण पूर्णतया च प्रकाशते । इदानी तादृश ब्रह्मानंदप्रकाशो नास्ति किंतूत्कर्षपि कर्षोपेतानंदप्रकाश एवास्मि अतः स्वरूपानंदस्फुरणेपिततदुत्कृष्टां नंदाभिलाषारूपपिशाचीग्रस्ततयाकस्यापि निर्वृतिर्नास्तीति संसारमोक्षयोर्विशेष इति भावः ।। प्. १६८ब्) आनंदवल्ल्यां मानुषानंदाद्युतरोतरशतगुणोत्कर्षोपवर्णस्य ब्रह्मानंदे समापनादिति चेत् । न सिद्धांते साक्ष्यानंदविषयानंद ब्रह्मानंदानां वस्तुत एकत्वेनोत्कर्षा संभवात् । मानुषानंदादीनामुतरोतरमुत्कर्षं श्रुतिर्वदतीति चेत् । को वा ब्रूते श्रुतिर्न वदतीति । किं त्वद्वैतवादे तदुपपादनमशक्यमित्युच्यते । नन्वेकस्यैव सौरालोकस्य करतलस्फटिकदर्पणाद्यभिव्यंजकविशेषोपधानेनाभिव्यक्ति- तारतम्यदर्शनादेकत्वेप्यानंदस्याभिव्यंजकसुखवृतिभेदो- पधानेनाभिव्यक्ति तारतम्यरूपमुत्कर्षापकर्षवत्वं युक्तमिति चेत् ।। अविद्याप्रतिबिंबरूपसाक्ष्यानंदस्य लोके विषयानंदत्वेन गृहीतस्य सातिशयत्वे ब्रह्मानंदस्यैक रूपत्वै च श्रुतिं प्रमाणयति । आनंदवल्ल्यामिति । मानुषानंदस्सार्वभौमानंदस्स च शतगुणितस्सन् मनुष्यगंधर्वानंदो भवति । सोपि शतगुणितस्सन् देवगंधर्वानंदो भवति । एवमेवपित्रानंदादिषु स प्. १६९अ) एको ब्रह्मण आनंद इत्युक्त हिरण्यगर्भानंदां तेषूत्कर्षापकर्षयोरुपवर्णनं योजनीयं समापनादिति स यश्चायं पुरुषे पश्चा सावादित्ये स एक इति वाक्येनेति शेषः पुरुषो मनुष्यः आद्य चकारस्त्विर्यगादि संग्रहार्थः । आदित्यपदं मंडलाभिमानि देवतापरं द्वितीयचकारस्तदितरसकलदेवता संग्रहार्थः । तथा च देव मनुष्य तिर्यक्षु सर्वत्रविद्यमानो ब्रह्मानंदः एकः एकरूप एव न तु साक्ष्यानंदवत् सातिशय इति श्रुत्यर्थः । साक्षानंदविषयानंद ब्रह्मानंदानां सति भेदे उक्तरीत्यामुक्ति संसारयोर्विशेषो वक्तुं शक्यते । स एवतवा सिद्ध इति पूर्ववादी दूषति । नेति असंभवादिति । उत्कर्षापकर्षयोर्जातिविशेषरूपयोरेकस्यां व्यक्तावसंभवादित्यर्थः । नन्वानंदव्यक्तेर्वस्तुगत्या एकत्वेपि कल्पितभेदवत्यां तस्यामुत्कर्षादिस्संभवतीत्यभिसंधिमान । सिद्धांती शंकते । मानुषानंदादीनामिति । अनुभवानुसारि श्रुतिसिद्धानंदोत्कर्षादेरपलापकरणमयुक्तं पूर्ववादि न इत्यर्थः । अभिसंधिमविद्वानिवपूर्ववादी दूषयति । कोवेति । कात्वर्हानुपपतिरिति सिद्धांती शंकते । किं त्विति तामाह । अद्वैतवाद इति । आनंदैकत्वमत इत्यर्थः । अशक्यमिति । औपाधिकभेदेमपि । तदुपपादनमशक्यमनुरूपदृष्टांताभावादिति पूर्ववादिनोप्यभिसंधिः । एकस्यामप्यानंदव्यक्तां औपाधिभेदेन श्रुत्यनुभवसिद्धानंदोत्कर्षादेरुपपादनं कर्तु प्. १६९ब्) शक्यमिति स्वाभिसंधिमुद्घाटयन् । सिंद्धांती शंकते । नन्वेकस्यैवेति । आलोकस्य करतलादि संबंधरहितस्य या हि अभिव्यक्तिस्तदपेक्षयाकरतले ईषदधिकाभिव्यक्ति तदपेक्षया स्फटिके अधिकाभिव्यक्तिस्तदपेक्षयाप्यधिकादर्पणादावभिव्यक्तिरनुभवसिद्धा तद्वत्प्रकृतेपि स्वरूपानंदव्यंजकवृतितारतम्येन तत्तद्वृत्युपहित साक्ष्यानंदेवुत्कर्षादिकमुपपद्यत इत्यर्थः न दृष्टांता संप्रतिपतेः सर्वतः प्रसृमरस्य सौरालोकस्य गगने विना करतलादि संबंधमस्पष्टं प्रकाशमानस्य निम्नतले प्रसृमरस्य जलस्येव करतलसंबंधेन गति प्रतिहतौ वहलीभावादधिक प्रकाशः भास्वरदर्पणादि संबंधेन गतिप्रतिहतौ बहलीभावा तदीय दीप्ति संबलनाच्च ततोप्यधिक प्रकाश इति । तत्राभिव्यंजकोपाधिकाभिव्यक्ति तारतम्यानभ्युपगमात् । दृष्टांतसंप्रतिपतौ च गगनप्रसृत सौरालोकवदनुवछिन्नानंदस्यास्पष्टता प्. १७०अ) करतलाव्यवछिन्न सौरालोकवत्सुखवृत्यवछिन्नानंदस्याधिकाभिव्यक्तिरिति । मुक्तितः संसारस्यैवाभ्यर्हि तत्वापतेश्च । एतेन संसारदशायां प्रकामानोप्यानंदो मिथ्याज्ञान तत्संष्कार विक्षिप्ततया तीव्रवायुविक्षिप्तदीपप्रभावन्न स्पष्टं प्रकाशते मुक्तौ तदभावात् । यथा वदवभासत इत्यपिति रस्तं पयालोक एकव्यक्तिरेक रूपश्च स्वतो भवेत् तदा तथाविध स्वरूपानंदस्य दृष्टांतो भवेन्नत्वालोकस्यैक व्यक्तित्वमस्ति तस्य नानाकिरणसमूह रूपत्वान्नाप्येक रूपत्वं तस्यास्ति तत्र तत्र सौरकिरणानामल्पत्व बाहुल्यरूप नानारूपत्वावगमादिति पूर्ववादी स्वाभिसंधिमुद्घाटयन् दूषयति । असंप्रतिपतेरिति । ममासम्मतत्वादित्यर्थः । प्रसृमरस्येति । गमनशीलस्येत्यर्थः । गति प्रतिहताविति सूर्यकिरणानां गतिप्रतिबंधे सतीत्यर्थः । अत एव यत्र भूभागे करतलादि कृतप्रतिबंधवशात् । सूर्यकिरणा न प्रसरंति तत्र तमोरूपाछाया दृश्यते । आलोकस्य गतिप्रतिहत्यावहलीभावे दृष्टांतमाह । निम्नतल इति । यथानिम्नतले प्रसृमरस्य जलस्य करतल संबंधेन गति प्रति प्. १७०ब्) हतौ जलस्य बहलीभावस्तथेत्यर्थः । अधिकेति । करतलादि संबंधरहित गगनेय आलोकस्य स्फुटमप्रकाशस्तदपेक्षया अधिकेत्यर्थः । तदीप दीप्ति संबलनादिति । दर्पणादेर्यादीप्तिः प्रभातयामि अणादित्यर्थः । ततोपीति । करतलगतप्रकाशादपीत्यर्थः । तत्रेति । एकरूपस्यालोकस्य उपाधिगत तारतम्यकृताभिव्यक्ति तारतम्यासंप्रतिपतेर्न्न तस्य दृष्टांतत्वं संभवतीत्यर्थः । उक्त दृष्टांतांगीकारे सिद्धांतितिनोबाधकमप्याह । दृष्टांत संप्रतिपतौ चेति मुक्तित इति । तथा च सिद्धांते मुक्तिमुद्दिश्य तत्साधनेषु कस्यापि प्रवृतिर्न स्यादिति भावः । मुक्तिसंसारयो विशेषप्रसंग चोद्ये समाधान प्रकारविशेषोपि वक्ष्यमाणहेतुना निरस्त इत्याह । पूर्ववादी । एतेनेति । अनात्मनि देहावात्मत्वज्ञानं वस्तुत आत्मसंबंधशून्ये देहावात्मीयत्व ज्ञानं त्वं च मिथ्याज्ञानं । तच्च जाग्रदादि काले स्वरूपानंदस्य प्रकाशमानस्यापि विक्षेपकमस्पष्टतापादकं मिथ्याज्ञानजन्य संस्कारश्च सुषुप्तौ प्रकाशमानस्याप्यानंदस्य विक्षेपकः पुरुषार्थत्वविघटकः पुनर्भागप्रदकर्मविशेषोद्बोधित मिथ्याज्ञानसंस्कारवशादेव हि सर्वोजंतुस्सौषुप्तमानंदानुभवपरित्यजति ततश्च सौषुप्तानंदप्रकाशस्याध्रुवस्यमुमुल्वभिलषितत्वाभावादपुरुषार्थ- त्वमितिभावः ।। प्. १७१अ) निर्विशेष स्वरूपानंदे प्रकशमाने तत्र विक्षेपदोषादप्रकाशमानस्य मुक्त्यन्वपि नोति पायस्यासंभवात् । तस्मात्साक्ष्यानंदस्यानावृतत्व कल्पनमयुक्तं । अत्राहुरद्वैतविद्याचार्याः यथात्युत्कृष्टस्यैकस्यैव धवलरूपस्य मालिन्य तारतम्य युक्तैष्वनेकेषु दर्पणेषु प्रतिबिंबे सत्युपाधिमालिन्य तारतम्या तत्र तत्र तत्र प्रतिबिंबेधावल्यापकर्षस्तारतम्येनाध्यस्यते । एवं वस्तुतो निरतिशयस्यैव स्वरूपानंदस्यांतष्करण प्रतिबिंबिततया साक्ष्यानंदभावे प्राकृतन सुकृत संपत्यधीन विषयविशेष संपर्क प्रयुक्तसत्वोत्कर्षापकर्षरूपशुद्धितारतम्ययुक्त सुखरूपांतःकरणवृतिबिंबिततयाविषयानंदभावे च ।। दृष्टांते प्रभायास्सावयवत्वातीव्रवायुनाकेष्यं चिदवयवानां नाशरूपाद्वाप्रभारूपगतभास्वरत्वस्य तेन प्रतिबंधरूपाद्वाविक्षेपात्प्रकाशमानायामपि दीपप्रभायामस्पष्टप्रकाशता उपपद्यते । प्. १७१ब्) अवयवगुणादिविशेषरहितस्य ब्रह्मानंदस्य तु न तथा विशेष उपपद्यत इत्याह निर्विशेषेति प्रकाशमान इति । सति सप्तमी । तत्रेत्यधिकरणसप्तमी मुक्त्यन्वपि न इति । मुक्ति दशायां प्रकाशमानस्येत्यर्थः । अतिशयस्येति । दृष्टांत इवावयवरूपस्य जातिविशेषरूपस्य वेत्यर्थः । तस्मादिति । मुक्ति संसारयोरविशेषप्रसंगादित्यर्थः । स्यादेतदित्यादिना प्राप्तं पूर्वपक्षं निराकरोति । अत्राहुरित्यादिना । एकरूपस्य स्वरूपानंदस्याभिव्यक्ति तारतस्यानुरूपं दृष्टांतं वदन् स्वरूपानंदे श्रुत्यनुभवसिद्धं तारतम्यशब्दोक्तंमुत्कर्षापकर्षवत्वमुपपादयति । यथेति । अत्युत्कृष्टस्येति । धवलरूपाणां मध्ये सर्वोतमस्येत्यर्थः । एकस्येति अनेन वक्ष्यमाणौ उत्कर्षापकर्षौ तत्र स्वतोनस्त इति सूचितं । तत्र तत्र प्रतिबिंब इत्येतानि पदानि सामानाधिकरण्यति । धावल्यापकर्ष इति । ईषन्मलिन दर्पण प्रतिबिंबे अपकर्षोध्यस्यते । मध्यमविधमलिनदर्पणप्रतिबिंबे च तदपेक्षया अधिकोपकर्षोध्यस्यते । अत्यंतमलिनदर्पणप्रतिबिंबे चात्यंतापकर्षोध्यस्यते । ततश्च तादृश दर्पणेषु प्रतिबिंबित धवलरूपं तारतम्येनाभिव्यज्यते । वस्तुत एकरूपमपि स्वरूपेण प्रकाशमानमपीत्यर्थः । अंतष्करणेति । सुषुप्तावप्यंतःकरणं सूक्ष्मरूपेण तिष्ठतीति साक्ष्यानंदस्य सुषुप्ति साधारण्यं बोध्यं मतांतरेषु त्वविद्यायां प्रतिबिंबिततया साक्ष्यानंदभावो द्रष्टव्यः आनंदभाव इति प्राप्ते सतीति शेषः प्. १७२अ) संपतिः परिपाकः फलजननौन्मुख्यमिति यावत् । प्राकृत न सुकृतसंपत्यधीनो यो विषयविशेषसंपर्कः तत्प्रयुक्तौयौ सत्वस्योत्कर्षापकर्षौतद्रपं यच्छुद्धि तारतम्यं तद्युक्तोसु सुखरूपासंतःकरणवृतिषु प्रतिबिंबिततया विषयानंदभवे च प्राप्ते सतीत्यर्थः । वृतीनां स्वरूपसुखव्यंजकतया सुखरूपत्वमुक्तं । एतदुक्तं भवति । पूर्वजन्मसुसंपादित पुण्यकर्मपरिपाकवशादंतःकरणस्य स्रकचंदनादि रूपविषविशेषगोचरवृतिद्वाराविषयविशेषैस्सहसंबंधे सति तद्गत सत्वगुणस्य उत्कृष्टविषयसंबंधादुत्कर्षो भवति निकृष्टविषयसंबंधान्निकर्षो भवति । ततश्चांतष्करणगतसत्वांशपरिणामरूपाः वृतयाः स्वरूपानंदगोचरा जायंते जायमानाश्चता अप्युत्कर्षापकर्षोपेता एव जायंतेतास्वानंदप्रतिबिंबो विषयानंद उच्यत इति ।। तमोगुणरूपोपाधिमालिन्य तारतस्यदोषादपकर्षस्तारतम्येनाध्यस्त इति संसारदशायां प्रकाशमानेप्यानंदेध्यस्तापकर्ष तारतम्येन सातिशायित्वादतृप्तिः विद्योदये निखिलापकर्षाध्यास निवृतेरारोपितसातिशयत्वापायात् । कृतकृत्येतेति विशेषोपपतेर्निरुपाधिकप्रेमगोचरतया प्. १७२ब्) प्रकाशमानः साक्ष्यानंदोनावृत एवेति ।। ननु स्वरूपानंदगोचरसत्ववृतिगतापकर्षवशात् प्रतिबिंबरूपे विषयानंदे अपकर्षाध्यासो वक्तव्यः मलिनद्रव्यकृतदर्पणोपाधिनिष्टापकर्षवशात् तत्प्रतिबिंबे अपकर्षाध्यास दर्शनात् । तथा च स्वरूपानंदगोचरा सुवृतिषु सत्वगुणपरिणामभूतासु अपकर्षप्रयोजकं मलिनद्रव्यं किंचिदवश्यं वक्तव्यं साक्षाद्दर्पणसंयुक्तस्यैव मलिनद्रव्यस्य दर्पणेपकर्षाधायकत्वदर्शनादित्यत आह । तमोगुणरूपेति अंतःकरणस्य सत्वरजस्तमोगुणात्मकत्वात्तद्वृतिष्वपि तमोगुणरूपोपाधिरनुवर्तते । तत्कृतो यो मालिन्यतारतम्य दोषः । अपकर्ष तारतम्यात्मको वृतिगतदोष इति यावत् । तस्मादोषादपकर्षस्सत्ववृति प्रतिबिंबरूपे विषयानंदेध्यस्यत इत्यर्थः । पूर्वं विषयसंपर्कः सुखरूपवृति कारणत्वेन निर्दिष्टः तत्र विषयविशेषेति विशेषपदं विषयगतोत्कर्ष तारतम्यपरं तत्तारतम्यं च सुखरूपवृतिगतोत्कर्ष तारतम्यप्रयोजकत्वेन निर्दिष्टं । इह तु सुखरूप वृतिष्टे वापकर्ष प्रयोजकतया अपकर्ष तारतम्य प्रयोजकतया च तारतम्योपेतं तमोगुणात्मकं मलिनद्रव्यं निर्दिष्टमिति विभागो बोध्यः । ततः किं तत्राह । इति संसारदशायामिति । प्रकाशमानेप्यानंदे पदध्यस्तमपकर्षतारतम्यं तेन सातिशयत्वात् । विषयानंदस्येत्यर्थः । प्. १७३अ) तथा च निकृष्टमानंदमनुभवतः उत्कृष्टानंद तृष्णाभिभूतस्य तत्संपादनाय प्रयतमानस्य तत्साधनत्वभ्रांत्या कदाचित् दुःखसाधेनेष्वपि प्रवर्तमानस्य देवमनुष्यतिर्यगादि योन्यापतिलक्षणो भवत्यनर्थ इति नास्ति निर्वृतिरित्यर्थः । निवृतेरिति । मूलाज्ञान निवृतौ तत्कार्योपाधिनिवृत्या तत्कृतापकर्षाद्यध्यासनिवृतेरित्यर्थः । कृतकृत्यतेति । कृत्ये कर्तव्यजातं कृतं येन सः कृतकृत्यः तस्य भावस्ततापुरुषस्य हि विद्योदयात् । पूर्वे दुःखनिवृतये सुखावाप्तये च बहुकर्तव्यजात मासीद्विद्योदये तु दुःखमात्रस्य निवृतत्वादत्युत्कृष्टं धवलरूपस्य निर्मलदर्पण इव निरशय स्वरूपानंदाविर्भावाच्च तन्निवृतये तत्प्राप्तये वा न किंचित् कर्तव्यमस्तीति कृतकृत्यतेतिभावः । तदाह भगवान् श्रीकृष्णः एतद्बुध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारतेति । एतन्निरतिशयानंदरूपब्रह्मापरोक्षतया बुध्वा बुद्धिमन भवति । पंडितो भवति कृतकृत्यंश्च भवति । हे भारत अर्जुन यतस्तत्वज्ञानं विनाप्पंडित्यादिकं न लभ्यते । तस्मातदेवसंपादयान्यत्सर्वं परित्यजेति भावः । विशेषोपपतेरिति । मुक्तिसंसारयोरितिशेषः । ननु ब्रह्मानंदवत्साक्ष्यानंदोपि आवृतोस्तु तथा च मुक्तिसंसारयोर्विशेषस्साव च इति नेत्याह । निरुपाधिकेति । एवं भूतः प्रेमास्वरूपानंदावरणसत्वेन संभवति लोके प्रकाशमान सुख एव प्रीतेरनुभव सिद्धत्वादितिभावः ।। प्. १७३ब्) अन्ये तु प्रकाशमानोप्यानंदो नास्ति न प्रकाशत इत्यावरणानुभवादावृत एव एकस्मिन्नपि साक्षिण्य विद्याकल्पित रूपभेदसंभवेन चैतन्यरूपेणस्यानंदरूपेणावरणस्य चाविरोधात् । स्वरूप प्रकाशस्यावरणा निवर्तकतया प्रकाशमाने आवरणस्याविरोधा च ।। साक्षि चैतन्यस्यानावृतत्वे तदभिन्नस्यानंदस्याप्यमावृतत्वापत्या मुक्तिसंसारयोरविशेषप्रसंग इति पूर्वपक्षे प्राप्ते स्वरूपानंदस्यानावृतत्वेपि तयोर्विशेषस्संभवतीति सिद्धांतो दशितः । इदानीं तस्यावृतत्वमुपेत्यैव विशेषं मुक्तिसंसारयोर्वदन् सिद्धांतं दर्शयति । अन्ये त्विति विदांत प्रतिपाद्य स्वरूपानंदो मे नास्ति न प्रकाशते । इति व्यवहारदर्शनातद्धेतुभूतमावरणं तावदस्त्येव संसारदशायाम्मुक्तौ तु तदावरणनाशात्स्वरूपानंदस्फुरणमस्तीति न तयोरविशेषप्रसंग इत्यर्थः । अत्र प्रकाशमानोप्यानंद आवृत एवेति संबंधः नत्वनावृतः तस्यानावृत्वे उक्त व्यवहारविरोधप्रसंगादित्येवकाराभिप्रायः । नन्वेवमात्मनि सदानिरुपाधिक प्रेमानस्यादनावृतस्वरूपानंदस्फुरणस्याभावात् वृतिकृतानंदस्फुरणस्य च कादाचित्कत्वादिति चेन्न फलबलेन आवृतस्यापि स्वरूपानंदप्रकाशस्य प्. १७४अ) निरुपाधिक प्रेम हेतुत्वकल्पनात् भासत एव परमप्रेमास्पदत्व लक्षणं सुखमिति विवरणस्याप्यत्रेव तात्पर्योपपतेश्च । अनेनैवाधिप्रायेण प्रकाशमानोपीत्युक्तमन्यथा प्रकाशमानत्वविशेषणस्यावृतत्वकल्पने उपयोगाभावेन वैयर्थ्यप्रसंगादिति बोध्यं साक्षि चैतन्याभिन्नस्य साक्ष्यानंदस्यावृतत्वे साक्षि चैतन्यमप्यावृतं स्यादेकत्र आवृतत्वानावृतत्वयोर्युगपद्विरोधादित्यत आह । एकस्मिन्नपीति यथा वस्तुत एकस्मिन्नेव चैतन्ये जीवेश्वरत्वाख्यौ रूपभेदौ कल्पे तेनाहमीश्वरः किं तु संसारीति व्यवहारबलात् । तथा अहंसुखी ज्ञानमानंदो न भवतीत्यादिरूपेणाहंकाराद्यवनासक ज्ञानस्यानंदात् भेदव्यवहार दर्शनात् । तदनुरोधेन चित्वानंदत्वाख्यौ रूपभेदावनादि सिद्धौ कल्प्येते । यथा च एकस्मिन्नेवं चैतन्ये जीवत्वावछेदेनाज्ञत्वादिकमीश्वरत्वावछेदेन तदभावश्च कल्प्यते । तथैवानंदत्वावछेदेनावृतत्वं चित्वावछेदेनाहंकाराद्यवभासक चैतन्ये तदभावश्च कल्प्यते फलवलादिति न विरोधः जीवत्वादिरूपभेदस्याप्यविद्याकल्पितत्वाभ्युपगमान्नाद्वैत विरोधश्चेत्यर्थः । नन्वेकस्मित् साक्षिणि रूपभेदेनावृतत्वदभावयोर्विरोधाभावेप्यानंदः प्रकाशमानोप्यावृत इति विरुद्धे प्रकाशस्यावरणविरोधित्वादिति नेत्याह । स्वरूपप्रकाशस्येति । आगंतुकवृति रूप प्. १७४ब्) प्रकाशस्यावरणविरोधित्वकल्पनान्नस्वरूपप्रकाशस्तद्विरोधी तस्यावरण साधकत्वादित्यर्थः । नन्वेवं प्रकाशमानोप्यानंद आवृत इति ग्रंथे प्रकाशमानत्वविशेषणं स्वरूपप्रकाशस्यावरणाविरोधित्वज्ञापनार्थमिति तत्प्रयोजनसंभवात् तद्विशेषणं आत्मनि निरुपाधिकप्रेमसंभव ज्ञापनप्रयोजनकमिति यदुक्तं तत्र संभवतीति चेतर्हि विनिगमकाभावेन तद्विशेषणस्योभयप्रयोजनकत्वमस्तु स्वरूपप्रकाशे आवरणाविरोधित्वस्येव आनंदावरणपक्षे आनंदरूपे आत्मनि निरुपाधिकप्रेमसंभवस्याप्यवश्यं ज्ञापनीयत्वात् ।। त्वदुक्तमर्थं न जानामीति प्रकाशमान एवावरण दर्शनात् । न च तत्रानावृत सामान्याकारावछेदेन विशेषावरणमेवानुभूयत इति वाच्यं । अन्यावरणस्यान्यावछेदेन भानेऽतिप्रसंगात् । न च सामान्यविशेषभावोनियामक इति नाति प्रसंग इति वाच्यं । व्याप्यव्यापकभावाति रिक्तसामान्यविशेषभावाभावेन वह्नि न जानामीति धूमावरकाज्ञानानुभवप्रसंगात् तस्माद्यदवछिन्नमज्ञानं प्रकाशते तदावृतमिति प्रकाशमानेप्यज्ञानं युज्यते प्. १७५अ) अज्ञानं च यथा साक्ष्यं शंविहाय चैतन्यमावृणोति । एवमानदमपि तत्तत्सुखतिततत्सुखरूपकृतिकवली ।। स्वरूपप्रकाशस्यावरणाविरोधित्वे हेत्वंतरमाह । त्वदुक्तमिति । एवकारानंतरमाप्रोक्तार्थ इति शेषः । श्रीकृष्ण एव वेदांतवेद्यः परमात्मा दुर्विज्ञेयोयमकृतात्मभिरित्याप्तोपदेशानंतरं मंदस्य वाक्यार्थबोधो न भवति स च मंदस्त्वदुक्तमर्थं न जामीत्यज्ञानमनुभवतीति प्रसिद्धं लोके तत्र त्वद्वाक्यस्यास्ति कश्चिदर्थ इति ज्ञानामि । आप्तवाक्यत्वाद्विशेषं तु न जानामीति व्यवहारदर्शनादवगतो यस्त्वद्वाक्यार्थ त्वलक्षणस्सामान्याकारस्स एव व् इशेषावरकाज्ञानस्य विषयतया प्रकाशते । तथा च त्वदुक्तमर्थं न जानामीत्यनुभवे अज्ञानविशेषणतया प्रकाशमान सामान्याकारस्यावरणविषयत्वाभावादावरणविषयस्य विशेषस्य प्रकाशमानत्वाभावात् । प्रकाशमानस्यावृतत्वेनायमनभवाः । शंककारस्यावरणविषयत्वाभावादावरणविषयस्य विशेषस्य प्रकाशमानत्वाभावात् । प्रमाणमिति शंकते । न च तत्रेति । अन्यावारकाज्ञानस्यान्यावछेदेन प्रकाशाभ्युपगमे चैत्रं न जानामीत्यनुभूयमाना ज्ञानस्य विष्णुमित्रविष्यकत्व प्रसंग इति दूषयति । अन्यावरणस्येति । ननु त्वद्वाक्यार्थ प्. १७५ब्) त्वलक्षण आकारस्तावत्सामान्यरूपः आप्तौपदिष्टे श्रीकृष्ण इवत्वदुपदिष्टेषु श्रीकृष्ण प्रतिपत्युपायेष्वपि त्वद्वाक्यार्थत्वस्य सत्वात् । वेदांतवेद्यत्वादि लक्षणाकारस्तु विशेषरूपः तस्य श्रीकृष्णस्वरूपमात्र वृतित्वा तथा च विशेषावरकाज्ञानं सामान्याकारोवछेदेन प्रकाशत इत्युपगमेनाति प्रसंगः । चैत्रत्व विष्णुमित्र त्वयोस्सामन्यविशेषभावाभावादिति शंकते । न च सामान्येति । किं सामान्यै विशेषभावाः श्रीकृष्णमूर्तित्वविष्णुमूर्तित्वयोरिव व्याप्यव्यापकभावः । तदतिरिक्तो वा न द्वितीयस्तस्यानिरूपणादित्याशयेनाह । व्याप्येति । आद्ये दोषमाह । वह्निमिति । तस्मादज्ञानानुभवे अज्ञानविशेषणतया यद्वप्रकाशते तदेवावरणविषय इति वक्तव्यं नवत्वदुक्त न जानामीति । ज्ञानस्यत्वदुक्तार्थ प्रकारकत्वे सत्यज्ञानविशेष्यकत्वेन त्वदुक्तार्थोविशेषणरूप एवेत्युपगमे तद्ज्ञानस्य विशेषणज्ञानरूपकारणस्याभावातद्विशिष्टाज्ञात्वानुभवो न स्यादिति वाच्यमज्ञानुभवस्य नित्यसाक्षिरूपत्वोपगमेन तत्र विशेषण ज्ञानानपेक्षणान्न च प्रकाशमानत्वमावृतत्वं च विरुद्धं प्रकाशस्यावरणविरोधित्वादिति वाच्य । विरोधस्य प्रागेव परिहृतत्वादित्याशयेनोपसंहरति । तस्मादिति अन्यावरकाज्ञानस्यान्यावछिन्नतयाभाना संभवादित्यर्थः । यदवछिन्नमिति । येन वस्तुनाविशेषितमित्यर्थः प्. १७६अ) नन्वानंदस्यावृतत्वे विषयसंपर्कदशायां विशिष्यानंद प्रकाशीनस्यादित्यत आह । अज्ञानं चेति । कवलीकृतं विहायै वा वृणोति ।। स एष वैषयिकानंदस्यावरणाभिभवः स चावरणाभिभवः प्रत्यूषसमये बाह्यावरणाभिभववत् कारणविशेष प्रयुक्तवृतिविशेषवशातरतमभावेन भवति । अतः स्वरूपानंदविषयानंदयोर्विशयानंदानां च परस्परं भेदसिद्धिरिति वदंति । सर्वथ्यापि साक्षिचैतन्यस्यानावृतत्वादावरणाभिभवार्थं वृतिमनपेक्ष्यैव तेनाहंकारादि प्रकाशनमिति तुल्यमेव । नन्वेवं कथमहंकारादीनामनुसंधानं ज्ञानसूक्ष्मावस्थारूपस्य संस्कारस्य ज्ञाने सत्ययोगेन नित्येन साक्षिणा तदाधानासंभवात् ।। ननु वृतेरावरणाभिभावकत्वोपगमादज्ञानस्य सुस्ववृतिविषयीकृतानंदानावरकत्वमिति कथमुच्यते तत्राह । स एष इति । सुखवृतिविषयत्वप्रयुक्तानावरकत्वस्वभाव एव वृतिकृतावरणाभिभव इत्यर्थः । ननु सुखरूप वृतेरेकरूपत्वात् । तत्कृता वरणाभिभवोप्येकरूप एव स्या तथा च विषयसंबंधदशायामानंदोप्येकरूपतयैव प्. १७६ब्) प्रकाशेतनतूत्कृष्टापकृष्टरूपेणेत्विनेत्याह । स चेति । यथा प्रत्यूषसमये आलोकतारतम्येन बाह्यतमस्तारतस्ययुक्ताभिबवो भवति ततश्च तत्तत्तमसावृतानां पदार्थानां तारतम्ययुक्तं प्रकाशनं भवति । एवं विषयविशेषरूपकारणविशेषप्रयुक्तोयो वृतिषुविशेषः उत्कर्षतारतम्यरूपस्तद्वशातारतम्यभावप्रयुक्त एव आवरणाभिभवोभवति । ततश्चानंदोपि तरतमभावयुक्त एव प्रकाशत इत्यर्थः । एवमप्यानंदस्यैकत्वाभ्युपगमा तद्भेदप्रथाकथं सिद्ध्यति तत्राह । अत इति वस्तुत एकस्मिन्नप्यानंदे उपाधिप्रयुक्त भेदाभ्युपगमादित्यर्थः । तथा च विद्यया आवरण निवृतौ सत्यां प्रकाशमानानंदः स्वरूपानंदस्तदनिवृतिदशायां वृतिसंबंधात् प्रकाशमानानंदो विषयानंद इति स्वरूपानंदविषयानंदयोर्भेदो ज्ञातव्यस्तथा वृतिभेदेनानंद भेदाभ्युपगमाद्विषयानंदानां परस्परं भेद प्रसिद्धिश्चावकल्प्यत इत्यर्थः । अहंकारादीनां केवल साक्षिभास्यत्वं परमप्रकृतं सिद्धमित्याशयेनाह । सर्वथापीति । स्वरूपानंदस्यानावृतत्वपक्षे तस्यावृतत्वपक्षे चेत्यर्थः । तेनेति । साक्षि चैतन्येनेत्यर्थः । ननु सिद्धांते संस्कारस्यानुभवताशरूपत्वोपगमेन संस्कारार्थं साक्षि चैतन्यस्याहंकारादि गोचरवृत्यपेक्षास्त्येवेति शंकते । नन्वेवमिति । प्. १७७अ) अहंकारादि साक्षिणो वृत्यनेपेक्षत्वे सतीत्यर्थः । अनुसंधानं स्मृतिः तदाधानेति संस्कारोत्पादनेत्यर्थः । तदाधानासंभवे हेतुमाह । ज्ञानसूक्ष्मावस्थारूपस्येत्यादिना । ननु यदि साक्षि चैतन्यस्थिति दशायां तत्यूक्ष्मावस्यारूपसंस्कारोन्यन्ययोगस्तर्हि तत्राशदशायां तदुत्पतिरस्तुनेत्याह । नित्येनेति । तथा चाहंकाराद्यवछिन्नसाक्षिचैतन्यस्यानावृतत्वेन तदभिभवार्थं वृत्यनपेक्षणेपि संस्कारार्थं तदपेक्षा सत्वात्केवलसाक्षिभास्यत्वमहंकारादीनामिति सिद्धांतव्याकोप इति भावः ।। अत्र केचिदाहुः स्वसंसृष्टेन साक्षिणासदाभास्यमानोहंकारस्तततदघटादिविषयवृत्याकारपरिणतु स्वावछिन्नेनापि साक्षिणाभास्यत इति । तस्यानित्य त्वात् संभवति संस्काराधानं घटादौ विषय इव न हि स्वाकारवृत्यवछिन्न साक्षिणैव स्वगोचरसंस्काराधानमिति नियमोस्ति । तथा सति वृतिगोचरसंस्कारासंभवेन वृतेरस्मरस्मरण प्रंसंगात् । अनवस्थापत्यावृतिगोचरवृत्यंतरस्यानुव्यवसायनिरासेन निरस्तत्वात् । किं तु यद्वृत्यवछिन्नचैतन्ये प्. १७७ब्) यत्प्रकाशते तद्वृत्यातद्गोचरसंस्काराधानमित्येव नियमः ।। अहंकारादि गोचरवृतिं विनैव संस्कारोपपतेर्न सिद्धांतविरोध इति समाधत्ते । अत्र केचिदाहुरिति । स्वयदद्वयमहंकार परंस्वसंसृष्टेनेत्यादिनाभास्यत इत्यंतेन ग्रंथेन अहंकारस्य यथाहंकारावछिन्न साक्षिभास्यत्वं तथा घटपटादिविषय गोचरवृत्यवछिन्नसाक्षिभास्यत्वमप्यस्तीति दर्शितं भवति । ततः किं तत्राह । तस्येति । घदादिगोचरवृत्यवछिन्नसाक्षिचैतन्यस्यानित्यत्वात् । तेन यथा घटादौ विषये सस्काराधानं संभवति । तथा तेनैव वृत्यवछिन्न साक्षिचैतन्येनाहंकारादावपि संस्काराधानं संभवतीति नाहंकारगोचरवृत्यपेक्षेतिभावः । नन्वहंकारव्यतिरिक्तेषु घटादिषु सर्वत्रस्वाकारवृत्यवछिन्नचैतन्येनैव घटादिगोचरसंस्काराधान दर्शनात्स्वगोचरवृत्यैव स्वगोचरसंस्काराधानमिति नियमोवसीयते । तथा चाहंकारमात्र एव कथमन्यगोचरवृत्यातदाधानमित्याशंक्याह । नहीति । तथा नियमे मानाभावादप्रयोजकत्वाच्चेतिभावः । नियमाभ्युपगमे बाधकमाह । तथा सतीति । ननु ज्ञानरूपवृतेः संस्कारादि लाभाय वृतिगोचरवृत्यंतरमप्यस्तु नेत्याह । अनवस्थापत्येति । घटादि गोचरवृतिस्मरणसिध्यर्थ तद्गोचरवृत्यंतरोपगमे द्वितीयवृतिस्मरणाय तृतीयापि प्. १७८अ) तद्गोचरावृतिर्व्यक्तव्यास्यादेवं ततद्वृतिगोचर वृत्यभ्युपगमापत्यावृत्यनवस्था प्रसज्येत । न च द्वितीयत्रितीयादि वृतीनां मध्ये कासांचिदज्ञातानामेव नाशाभ्युपगमसंभवन्नानवस्थाप्रसक्तिरितिवाच्यं । उत्पन्नायाः वृतेरवश्यज्ञातव्यत्वादन्यथा सत्यामेव घटाद्याकारवृतौ कदाचिन्मयेदं ज्ञायते न वा घटादि वृतिनाशानंतरं मयेदं ज्ञातं न वेति वा संशय प्रसंगातस्माद्वृतेरवश्यज्ञातव्यत्वं वृतेर्वृत्यावेद्यत्वपक्षे प्रापये देवानवस्थामनेनैव न्यायेन निबंधनेषुनुव्यवसायो निरस्तरं ततश्च स्वगोचरवृत्यैव स्वगोचरसंस्काराधान नियमो नास्ति वृतिष्वसंभवादित्यर्थः । नन्वन्यगोचरवृत्यान्यगोचरसंस्काराधानोपगमे घटगोचरवृत्यापटादावपि तदाधानप्रसंग इति शंकते । किंत्विति । अति प्रसंगपरिहाराय प्रयोजकमाह । यद्वृत्येति । यद्वस्तु गोचरवृत्यवछिन्न चैतन्ये यावंतः पदार्थाः प्रकाशंते तद्वस्तु गोचरवृत्या तावत्सुपदार्थेषु संस्काराधानमिति नियमे घटगोचरवृत्यवछिन्नचैतन्ये च पटादेरप्रकाशनान्नाति प्रसंगः । ननु स्वगोचरवृत्यैव स्वगोचरसंस्काराधानमिति नियम इत्येव कारार्थः ।। एवं च ज्ञानसुखादयोप्यंतष्करणवृतयस्तप्तायः पिंडाद्व्युच्चरंतो विस्फुलिंगा इव स्वावछिन्नेन प्. १७८ब्) वह्निनेव स्वस्वावछिन्नेनानित्येन साक्षिणाभास्यंत इति युक्तं तेष्वपि संस्काराधानं यस्तु घटैकाकारधीस्था चिद्घटमेवावभासयेत् । घटस्य ज्ञातता ब्रह्मचैतन्येनावभास्यत इति कूटस्थ दीयोक्तो विषयविशेषणस्य ज्ञानस्य विषयावछिन्न ब्रह्मचैतन्यावभास्यत्वपक्षः यश्च तत्व प्रदीपिकोक्तो ज्ञानेछादीनामनवछिन्न शुद्धचैतन्यरूपनित्यसाक्षिभास्यत्वपक्षः ।। ननु घटादिवृत्यवछिन्नचैतन्ये घटादि प्रकाशनं निर्विवादं तत्र चैतन्येहंकारस्यापि प्रकाशनं घटादिविषयवृत्याकार परिणत स्वावछिन्नेनापि साक्षिणाभास्यत इति पूर्वग्रंथे दर्शितं । तथा च घटादि वृत्याहंकारेपि संस्काराधानमस्तु तथापि घटादि ज्ञानरूपायावृतेः स्वावछिन्नचैतन्ये प्रकाशनस्यासिद्धत्वा तस्याः स्वगोचरसंस्कारजनकत्वं न स्यात् तथा सुखदुःखेछद्वेषादीमामहंकारधर्माणां घटादि वृत्यवछिन्न चैतन्ये प्रकाशन प्रसत्म भावातयातेषु संस्काराधानं न स्यान्न च सुखादिरूपवृतिषु घटादि वृत्यासंस्कारानाधानेपि सुख प्. १७९अ) दुःखादिगोचरांतःकरणवृतिभिरेव तासु तदाधानमस्तज्ञानरूपासु घटादि वृतिषु तधानार्थं वृत्यंतरोपगम इवानवस्था प्रसक्त्यभावादिति वाच्यं । सुखदुःखादिगोचरावृतिरभ्युपगम्यमाना किं ज्ञानरूपा किं वा इछादिवृतिवत्क्रियारूपा नाद्यस्तदुत्पादककरणाभावात्मनः करणतायानिरशिष्यमाणत्वान्न द्वितीयस्तस्या अपि वृतेस्संस्काराधानाय तद्गोचर वृत्यंतरोपगमे सैवानवस्था प्राप्नोति तस्माद्ज्ञानरूपासुघटादि वृतिषु ज्ञानभिन्नासुखदुःखादि रूपवृतिषु च कथं संस्काराधानमित्याशंक्याह । एवं चेति । उक्त नियमे सतीत्यर्थः । अंतष्करणेयायावृतयः उत्पद्यंते ज्ञानरूपावातुद्भिन्नावातास्सर्वा अपि स्वस्वावछिन्नानित्यचैतन्यभास्या एव तथा च चैतन्यस्य नित्यतेपि तद्भास्यतया तदवछेदकतया चोत्पद्यमानानामहंकारधर्माणामनित्यतया ततद्धर्मविशिष्टस्य ततदवभासकस्य चैतन्यस्य नाशरूपस्तद्धर्मगोचरस्संस्कारः संभवतीति न ज्ञानसुखादिषु संस्कारानुपपतिरितिभावः । दृष्टांते स्वपदं विस्फुलिंग परं घटस्यैकस्याकार इवाकारोपस्यास्साघटैकारा सा चासौधीश्च तस्यां स्थिता चित् चिदाभासः घटाकारवृति प्रतिबिंबरूपं घटज्ञानमिति यावत् । घटमेव न घटस्य ज्ञाततामपीत्येव कारार्थः । ज्ञाततानामज्ञानविषयत्वं विषयता संबंधेन विषयनिष्टं ज्ञानमित्यर्थः । तच्च ज्ञानं विषयस्य विशेषणं ज्ञातो घट इत्यनुभवादितिभावः । नन्वनयोः पक्षयोज्ञांनेछादि प्. १७९ब्) भासकचैतन्यस्य नित्यत्वात् कथं ज्ञानेछादिषु संस्कारः न च पूर्वोक्तरोत्याज्ञानेछादि वृतीनां स्वस्वावछिन्नसाक्षिचैतन्य प्रकाश्यत्वमादापानयोरपि पक्षयोः संस्काराधानमिति वाच्यं । घटादि गोचरवृति प्रतिबिंबरूपज्ञानस्य ज्ञातता शब्दितस्यातद्वृत्यनवछिन्न ।। तयोरपि चैतन्यस्य स्वसंसृष्टापरोक्षरूपत्वाद्वृतिसंसर्गोवश्यं वाच्य इति तत्संसृष्टानित्यरूपसद्भावान्न तेषु संस्काराधानेकाचिदनुपपतिरिति । अन्ये तु सुषुप्तावविद्याद्यनुसंधानसिद्धये कल्पितामविद्यावृतिमहमाकारामंगीकृत्याहमर्थे संस्कारमुपपादयंति ।। विषयाधिष्ठान ब्रह्मचैतन्यभास्यत्वोक्ति विरोधा तथा द्वितीयपक्षे ज्ञानेछादि वृतीनाम नवछिन्न साक्षिभास्यत्वोक्ति विरोधप्रसंगादतः कथं तयोः पक्षयोस्तदाधानमत आह । तयोरपीति । विषयावछिन्न ब्रह्मचैतन्यस्य ज्ञातताभासकत्वमते तद्ब्रह्मचैतन्यं ज्ञातताया अपरोक्षज्ञानरूपमेवोपैयते ज्ञातोयं घट इति ज्ञातताया अपरोक्षत्वानुभवात् । अनवछिन्न शुद्धचैतन्यमपीछाज्ञानादीनामपरोक्षज्ञानरूपमेवोपेयते । इछादि वृतिनामप्यपरोक्षत्वानुभवात् प्. १८०अ) तथा चापरोक्षज्ञानरूउप द्विविधचैतन्यस्य स्वविषयभूतैर्ज्ञानेच्छादिभिस्संसर्गोवश्यंभावी अपरोक्षज्ञानस्य स्वतादात्म्यापन्नविषयानुभवरूपत्वनियमा ततश्च स्वविषयभूतज्ञानेछादि नाशसमये ज्ञानादि विशिष्टरूपेण द्विविधचैतन्यस्यापि नाशलक्षणसंस्कारोपपतिरित्यर्थः । तयोरपीति सप्तमी चैतन्यस्येति द्विविधस्येति शेषः । तत्पदं ज्ञानेछादि रूपवृतिपरं यदि च स्वगोचरवृत्यैव स्वसंस्काराधानमवश्यं वाच्यं तदापि नानुपपतिरविद्यावृतिभिरहंकार तद्धर्मगोचराभिरहंकारादिषु संस्काराधानसंभवान्न च वृत्तिगोचरवृत्युपगमे प्रागुक्तानवस्था प्रसक्तिरिति वाच्यमविद्यावृतिनामनुभवायोग्यत्वेन तासु ज्ञानाय संस्काराय वा ज्ञानेछाद्यनुभवकालेऽविद्यावृत्यंतरानुपगमात् । न चाविद्यावृतीनामकॢप्त संस्कारजनकल्पने गौरवमिति वाच्यं । सुषुप्तौ तासाअं तद्ज्ञानकत्वस्य कॢप्तत्वादित्याशयेन मतांतरमाह । अन्ये त्विति उत्थितस्याविद्यांद्यनुसंधानसिद्धये सुप्तौ कल्पितामविद्यादि गोचरामविद्यादि वृतिमिवाहमाकारामविद्यावृतिमंगीकृत्येति वाक्यं योजनीयं यथा श्रुते सुषुप्तौ यदविद्याद्यनुसंधानं तत्सिद्धय इति भ्रांतिः स्यात् । सन्निधाना तथा सुषुप्तौ कल्पिताया एवाविद्यावृतेरहमाकारत्वमंगीकृत्येति भ्रांतिः स्यादिति बोध्यं अविद्यादीत्यादि पदं सुखसुप्त्यौस्संग्रहार्थ सुखमहम प्. १८०ब्) स्वाप्सं न किंचिदवेदिषमिति सुषुप्तिकालीनानां सुखसुषुप्त्यविद्यादीनामुत्थानानंतरमनुसंधान दर्शना तत्कालीना विद्याद्यनुभवस्य नित्यसाक्षिरूपतया तस्याविद्यावृतिरूपावछेदकाकल्पने संस्कारासंभवेनोक्तानुसंधानाभावप्रसंगात् । नन्वज्ञानाहंकारादि गोचराविद्यावृत्युपगमे तेषां केवलसाक्षि वेद्यत्वसिद्धांतव्या कोप इति चेन्नाविद्यावृतीनां कॢप्तज्ञानकारण जन्यत्वा भावेन ज्ञानात्मकवृतित्वाभावात् । ज्ञानात्मक वृत्यनुपहित साक्षिण एवकेवल साक्षिशब्दार्थत्वांगीकारादितिभावः । अहमर्थ ग्रहणं तद्धर्माणामप्युपलक्षणं तुल्यन्यायतया बाधकाभावेन च तद्धर्मेष्वपि अविद्यावृतिभिस्संस्कारस्योपपादितत्वादिति ध्येयं ।। न चास्मिन् पक्षे एतावंतं कालमिदमहं पश्यन्नेवा समित्यन्यज्ञानधाराकालिनाहमर्थानुसंधानानुपपतिः । अवछेदकभेदेन सुखदुःखयौगपद्यवद्वृतिद्वय यौगपद्यस्याप्यविरोधेनान्यज्ञानधाराकालेप्यहमाकारा विद्यावृति संतानसंभवादिति । अपरे तु अहमाकारावृतिरंतष्करणवृतिरेव किं तूपासनादि वृतिवन्न प्. १८१अ) ज्ञानं कॢप्त तत्कारणा जन्यत्वात् । न हि तत्र चक्षुरादि प्रत्यक्षलक्षणं संभवति । न वा लिंगादिकं लिंगादि प्रतिसंधानशून्यस्याप्यहंकारानुसंधान दर्शनात् । नापि मनः करणं तस्योपादान भूतस्य क्वचिदपि करणत्वाकॢप्तेः । तर्ह्यहमर्थ प्रत्यभिज्ञापि ज्ञानं न स्यादिति चेन्न तस्या अहमंशे ज्ञानत्वाभावेपि ततांशे स्मृतिकरणत्वेन कॢप्तसंस्कारजन्यतयाज्ञानत्वात् । अंशभेदेन ज्ञाने परोक्षत्वापरोक्षत्ववत् । प्रमात्वाप्रमात्ववच्च ज्ञानत्वाज्ञानत्वयोरप्य अविरोधादित्याहुः ।। नन्वस्मिन् पक्षेन्यज्ञानधाराकालीनाहमर्थादिषु अहमर्थादि गोचराविद्यावृत्यसंभवेन संस्काराधानं न स्यात् धाराकाले अविद्यावृत्यंपिकारे युगपत् वृतिद्वय प्रसंगादिति शंकामनूद्यदृष्टांतेन परिहरति । न चास्मिन् पक्ष इति । अविद्यावृतिभिस्संस्काराधानपक्ष इत्यर्हः । अवछेदकभेदेनेति । शिरसि मे वेदनापादे मे सुखमित्यनुभव दर्शनादिति भावः । वृतिद्वयेति अन्यज्ञानधारा कालेपि अन्य वस्तुगोचरांतष्करणवृतिरहमर्थगोचरा विद्यावृतिश्च युगपत्प्रमातर्यवछेदकभेदेन न विरुध्यत इत्यर्थः । संतानेति । नन्वन्य प्. १८१ब्) ज्ञानधाराकाले एकैवाविद्यावृतिरिति वक्तुं शक्यते तर्दतन्नानात्वे मानाभावाल्लाघवाच्चेति चेत् । सत्यं तथाप्यंतःकरणवृतिसंतति रूपत्वाद्वारायास्तत्कालीनाविद्यावृतेरपि संतति रूपत्वं संभवतीति संभावनामात्रेण तथोक्तमत एवाह । संतानसंभवादिति । अहमर्थांशे अंतःकरणवृत्यैव संकाराधानं संभवतीति न तदंशेप्यविद्यावृतिः कल्पनीयांतःकरणवृतिसंभवे तत्कल्पनायोगात् । न चान्यज्ञानधाराकाले अहमर्थ गोचरांतःकरणवृतिर्न संभवति । सुखदुःख यौगपद्यवत् ज्ञानद्वययौगपद्यायोगादिति वाच्यं । संस्कारार्थाहं वृतेर्ज्ञानरूपत्वानुपगमादिति मतमाह । अपरे त्विति । तर्ह्यसौ वृतिर्घटादि वृतिवत् ज्ञानरूपापि स्या तथा च ज्ञानात्मक वृत्युपहित साक्षि वेद्यत्वापत्या अहमर्थस्य केवल साक्षि भास्यत्वसिद्धांत हानिरित्याशयेन शंकते । किंत्विति । परिहरति । उपासनादीति । इछादि संग्रेहार्थमादि पदं । अनुसंधानमनुभवः क्वचिदपीति वृतिज्ञानं प्रत्युपादानभूतस्यांतष्करणस्याहमाकारवृतेस्सकाशादन्यत्र क्वचिदपि वृतौ तस्य करणत्वाकॢप्तेरित्यर्थः । तर्हीति । योहं स्वप्ने साक्षाद्भगवंतं श्रीकृष्णमन्वभूवं सोहमिदानीं तं स्मरामीति प्रत्यभिज्ञा अहमर्थांशे ज्ञानं न स्यात् ज्ञानकारणा जन्यत्वादित्यर्थः । इष्टापत्यापरिहरति । नेति तर्हि प्रत्यभिज्ञानंततांशेपि ज्ञानं न स्यादेकस्यां प्रत्यभिज्ञायां प्. १८२अ) ज्ञानत्व तदभावत्वयोर्विरोधेनायोगादित्यत आह । तस्या इति । प्रत्यभिज्ञाया इत्यर्थः । अंशभेदेनेति । विषयैक देशोत्रांशः स च प्रागेव दर्शितः । अहमंश इति । ततांश इति च । परोक्षत्वेति । पर्वतो वह्निमा नित्यनुमितेः सिद्धांते वह्न्यंशे परोक्षत्वं सन्निकृष्टपर्वतांशे त्वपरोक्षत्वमुपेयते । मत द्वय सम्मत दृष्टांतमाह । प्रमा त्वेति ।। इतरे त्वहमाकारापि वृतिर्ज्ञानमेव मासहंजानामित्यनुभवात् । न च करणासंभवः अनुभवानुसारेण मनस एवांतरिंद्रियस्य करणत्वस्यापि कल्पनादित्याह । एवं सति बाह्यविषयापरोक्षवृतीनामेवावरणाभिभावकत्वनियमः पर्यवसन्नः । ननु नापमपि नियमः । शुक्तिरजतस्थले इदमाकारवृतेरज्ञानानभिभावकत्वात् । अन्यथोपादानाभावे न रजतोत्पत्ययोगादिति चेत् अत्राहुः इदमाकारवृत्येदमंशाज्ञाननिवृतावपि ।। पूर्वोपदर्शित प्रत्यभिज्ञाया अहमर्थांशेपि ज्ञानत्वमुपेय मन्यथा हि प्रत्यभिज्ञा प्रामाण्येनांतष्करणोपहित चैतन्यरूपस्य जीवस्याहमुर्थस्य स्थापित्वसाधनं । सूत्रभाष्ययोर्दृश्यमानं विरुध्येत तथा च सूत्र प्. १८२ब्) मनुस्मृतेश्चेति । अनुस्मृतिः प्रत्यभिज्ञा तथा च तत्सूत्रस्थं भाष्यंय एवाहं पूर्वेद्युरद्राक्षं स एवाहमद्यस्मरामीति । तथा च प्रत्यभिज्ञाया अहमंशे ज्ञानत्वाभावाभिधानमयुक्तमिति मन्यमानानां मतमाह । इतरे त्वितिति । अनुभवादिति । अहमर्थगोचरावृतौ ज्ञानत्वानुभवादित्यर्थः । मनस इति । अत एव वियत्यादे भाष्यं बुद्धेः कारणत्वाभ्युपगमादिति । अत एव च अहंकार धर्माणां ज्ञानसुखादीनां केवलसाक्षीभास्यत्वेप्यहमर्थरूपस्य मनः प्रत्यसाधारणविषयस्य सत्वान्तस्येंदियत्वं प्राणपादे चक्षुरादरिवभाष्यकारैरेव व्यवस्थापितमिति मंतव्यं । केवलसाक्षिभास्यत्वसिद्धांतोप्यंत एवाहमर्थ व्यतिरिक्ताज्ञानसुखादिमात्रविषय इत्यपि मंतव्यं ननु मनस ईद्रियत्वपक्षे रूपादौ चक्षुरादेरिव तस्याहमर्थे प्रमाणत्वं वाच्यं । तच्च न संभवति । अहमर्थस्यानावृत साक्षि चैतन्ये ध्यस्तस्या ज्ञातत्वाभावेन मनस अज्ञातज्ञापकत्वा भावादिति चेन्न । तद्वृति तत्प्रकारानुभवत्वमवाधितानुभवत्वं वा प्रमात्वमिति । मतानुरोधेनाहमाकारज्ञानस्य प्रमात्वोपपतौ तत्कारणस्य मनसोपि चक्षुरादेरिव प्रमाणत्व संभवात् इति भावः । ननु तर्ह्य परोक्षवृतीनामावरणाभिभावकत्व नियमस्याहमाकारापरोक्षवृतौ व्यभिचार इत्याशंक्यनियमस्य संकोचं दर्शयति । एवं सतीति । अहमाकारापरोक्षवृत्युपगमे सतीत्यर्थः । प्. १८३अ) उक्तनियममप्याक्षिपति । नन्विति । इदं रजतमिति । भ्रमस्थले प्रथममिदमाकारापरोक्षवृतिरुदेति । पश्चादिदं रजतमिति भ्रमो भवति । तत्रेदमाकारायाः प्रथमोत्यत्रवृतेरज्ञाननिवर्तकत्वं । किं नास्ति । अस्ति वा आद्ये नियमस्य व्यभिचारमाह । नायमपीति यथाश्च परोक्षवृतिमात्रमज्ञाननिवर्तकमिति नियमो नास्ति अक्लमाकारवृतौ व्यभिचारात् । तथा बाह्यगोचरापरोक्षवृतिमात्रमज्ञाननिवर्तकमिति नियमोपि नास्ति । इदमांकारवृतौ व्यभिचारादित्यर्थः । द्वितीये बाधकमाह । अन्यथेति । इदमाकारवृतेरज्ञानाभिभावकत्व इत्यर्थः । इदनाकारवृतिनिवर्त्याज्ञानमन्यद्रजतोपादान भूताज्ञानमन्य तथा च न व्यभिचारः । न वा रजतोत्पत्ययोग इति परिहति अत्राहुरिति ।। शुक्तित्वादिविशेषांशाज्ञानानिवृतेस्तदेवरजतो पादानं शुक्तित्वाद्यज्ञानेरजताध्यासस्य तद्ज्ञानेतभावस्यानुभूयमानत्वात् अध्यासभाष्यटीकाविवरणेनुभूयमानान्वयव्यतिरेकस्यैवा- ज्ञानस्य रजताद्यध्यासौपादानत्वोक्तेः । अत एव शुक्त्यंशोधिष्टानं । इदमंश आधारः सविलासाज्ञानविषयोधिष्ठानं । अतदूपोपि तदूपेणारोप्य बुद्धौस्फुरन्नाधार इति संक्षेप शारीरके विषेचनादिति । प्. १८३ब्) अपरे त्विदं रजतमितीदमंशसंभिन्नत्वेन प्रतीयमानस्य रजतस्येदमंशाज्ञानमेवौपादानं तस्य चेदमाकारवृत्यावरणशक्तिमात्रनिवृतावपि विक्षेप शक्त्या सह तदनुवृतेर्नोपादानत्वासंभवः शुक्तित्वादिविशेषांशावरकाज्ञानमेव रजतोपादानमित्यत्रमानमाह । शुक्तित्वाद्यज्ञान इति । नीलपृष्टत्वादिकमादिपदार्थः । रजतमेवाध्यस्यत इति । अध्यास इत्यर्थः । प्रथम तत्पदं विशोषांशपरं द्वितीय तत्पदमध्यासपरं । तत्र सम्मतिमाह अध्यासेति टीका पंचपादिका अनुभूयेमानावन्वयव्यतिरेकौ यस्येति विग्रहः । ननु पुरोवर्ति द्रव्यस्य शुक्तित्वादि विशेषरूप विशिष्टस्यैवरज्ञतकारणाज्ञा चावृतत्वाभ्युपगमे तस्यैवाधिष्ठानत्वं स्यात् । नत्विदं त्वरूपविशिष्टस्येदमंशस्य स विलासाज्ञानविषयस्यैवाधिष्ठानत्वा तथा चाधिष्ठानारोप्ययोरेक ज्ञानविषयत्वनियमाच्छुक्तिरजतमिति भ्रमाकारः स्यात् । न स्याच्चेदं रजतमिति प्रतीत्याकारः इदमंशस्याधिष्ठामत्वा भावादित्यत आह । अत एवेति । अध्यासोपादानाज्ञानविषयत्वा देवेत्यर्थः शुक्त्यंश इति । शुक्तित्व विशेषरूपेण पुरोवर्त्यवछिन्नचैतन्यमित्यर्थः । इदमंशस्याधिष्ठानत्वाभाव इष्ट इत्याशयेनाह । इदमंश इति । ननु तस्याधारत्वे आगतमेवाधिष्ठानत्वं तयोर्भेदाभावादिति प्. १८४अ) नेत्याह । स विलासेति । विलासो रजतादि विक्षेपः विषयेत्वमावृतत्वं । अतद्रूपीपीति । तत्पदमध्यस्त रजतादि परं तथा चाध्यस्तरजताद्य भेदरहितोपि तदभिन्नत्वेन स्फुरन्नित्यर्थः । अधिष्ठानस्यैवारोपित रजततादात्म्याद्वस्तुगत्या इदमंशस्यातद्रूपत्वमिति बोध्यमस्मिन्मते । अधिष्ठानारोप्ययोरेकज्ञानविषयत्वं नास्ति । किं तु आधारारोप्येरेव तदिति न भ्रमस्य शुक्त्यंशोल्लेखापतिरितिभावः । नन्वधिष्ठानारोप्ययोरारोपे प्रकाशमानत्वस्य संभावना भाष्यटीकाविवरणादिषु समर्थितत्वा तद्विरोधत्वमाशंक्यमतांतरं तदविरुद्धमाह । अपरे त्विति । संभिन्नत्वं तादात्म्यमिति यावत् । अज्ञानमेवेति । न तु विशेषांशाज्ञानमित्येवकारार्थः । विशेषांशस्यारोपे स्फुरणाभावेन तस्याधिष्ठानत्वासंभवादिति भावः । शुक्तित्वादिरूपविशेष दर्शनस्याध्यास प्रतिबंधकत्वा तदभावविषयौ पूर्वोक्तान्वय व्यतिरेकावितिभावः । नन्विदमाकारवृत्या इदमंशाज्ञानस्य निवृतत्वात्कथं इदमंशस्याधिष्ठानत्वमत आह । तस्य चेति । इदमंशाज्ञानस्येत्यर्थः । जलप्रतिबिंबितवृक्षाधोग्रुत्वाध्यासे जीवन्मुक्तानुवृतप्रपंचाध्यासे च सर्वात्मनाधिष्ठान साक्षात्कारानंतरभाविन्यावरणनिवृतावपि विक्षेपक्तिसहिता ज्ञानमानस्योपादानत्वसंप्रतिपतेरित्याहुः । कवितार्किक प्. १८४ब्) चक्रवर्तिनृसिंहभट्टोपाध्यायास्त्विदं रजतमिति भ्रमरूपवृति व्यतिरेकेण रजतोत्पतेः । प्रागिदमाकारावृतिरेव नास्तीति तस्या अज्ञाननिवर्तकत्व सद्भावविचारं निरालंबनं मन्यंते । तथा द्विनतावद्भ्रमरूपवृतिच्यतिरेकेणेदमाकारावृतिरनुभवसिद्धा- ज्ञानद्वित्वा ननु भवात् । नाप्यधिष्ठानसामान्यज्ञानमध्यासकारणमिति कार्यकल्प्या तस्य तत्कारणत्वे मानाभावात् ।। ननु ज्ञानस्यावरणांशमात्रनिवृतिर्विक्षेपशक्त्यासहा अनुवृतिश्च क्वापि न दृष्टात आह । जलप्रतिबिंबितेति । प्रपंचेति । जीवन्मुक्तस्याप्यंतष्करणादि प्रपंच प्रतीतेस्सत्वादितिभावः । सर्वात्मनेति । रजतादिभ्रमस्थले हि सर्वात्मनाधिष्ठानसाक्षात्कारो नास्ति शुक्तित्वादि विशेषरूपेण शुक्ति साक्षात्काराभावादतस्तत्र इदमंशाज्ञाननिवृतावपि विशेषांशाज्ञाननिवृत्यभावा तस्याध्यासो पादो नत्वप्रसक्तिरस्ति प्रतिबिंबभ्रमस्थ तु जले वृक्षो नास्त्येव ऊर्ध्वाग्र एवायं वृक्ष इति सर्वात्मनाविशेषदर्शनस्य सत्वात्सामान्यांशाज्ञानं निवृतं विशेषांशाज्ञानमनिवृतमिति प्. १८५अ) विभागासंभवेन विशेषां ज्ञानमुपादानमिति वक्तुमशक्यं तस्मादत्र वृक्षाधोग्रत्वाद्यध्यासानुरोधेन एकस्यैवाज्ञानस्यावरणांश निवृतावपि विक्षेपशक्तिमदज्ञानांशानुवृतिरुपया तथा जीवन्मुक्त्यवस्थायामपि ब्रह्मतत्वसाक्षात्कारादावरणमात्र निवृतिर्विक्षेपशक्तिमदज्ञानांशानुवृतिश्च वाच्या तथा रजताध्यासस्थलेपि इदमंशाज्ञानस्य उपादानत्वं संभवतीतिभावः । एवं बाह्यगोचरापरोक्षवृतीनां सर्वासामेवावरणाभिभावकत्व नियमस्य भ्रमस्थलीयेदमाकारवृतौ या व्यभिचारशंकासा तत्रापि इदमंशाज्ञाननिवर्तकत्वस्य इदमंशावरणमात्रनिवर्तकत्वस्य वासत्वादित्युपपादनेन निरस्ता इदानीं प्रथममिदमाकारवृतिरेव भ्रमस्थले नास्ति तत्र न व्यभिचारशंका तत्समाधानं तु दूरत एव निरस्तं इत्याह । कवितार्किकेति । भ्रमरूपवृतीति । पूर्वमतद्वये इदमाकारवृतिसत्वातदभिव्यक्त चैतन्यरूपमेव शुक्तिरजतादि ज्ञानं न तु वृतिरूपमस्मिन्मते तदभावाद्वृतिरूपमेव तद्ज्ञानमिति मंतव्यं । एतच्चाग्रे स्फुटं भविष्यति । धर्मिज्ञानरूपामिदमाकारवृतिं निराकरोति । तथाहीत्यादिना । सा किमनुभवसिद्धा उतकार्यं कल्प्या अथवा सामग्री कल्प्यानाद्य इत्याह । न तावदिति ज्ञानद्वित्वेति । इदमित्येकं ज्ञानमिति ज्ञानमपरमित्यनुभवादित्यर्थः । द्वितीयं निराकरोति । नाप्यधिष्ठानेति । प्. १८५ब्) अध्यासरूपं कार्यं स्वकारणमधिष्ठानगोचर सामान्यज्ञानमंतरेणानुपपद्यमानं सत् । तत्कल्पयति । ततश्चाधिष्ठानसामान्यज्ञानरूपा इदमाकारावृतिः सिध्यतीत्यपि न मंतव्यमधिष्ठान सामान्यज्ञानस्याध्यासकारणत्वे माना भावादित्यर्थः ।। न चाधिष्ठान संप्रयोगाभावे रजताद्यनुत्पतिस्तत्रमानं । ततो दुष्टेंद्रिय संप्रयोगस्यैवाध्यासकारणत्वप्राप्तेः । न च संप्रयोगो न सर्वत्र भ्रमव्यापी अधिष्ठानस्फुरणं तु स्वतः प्रकाशमाने प्रत्यगात्मन्यहंकाराद्यध्यासमपि व्याप्नोतीति वाच्यं तस्यापि घटाद्यध्यासाव्यापि त्वात् घटादि प्रत्यक्षात्प्राक्तदधिष्ठानभूतनीरूप ब्रह्ममात्रगोचर चाक्षुषवृत्यसंभवात् । स्वरूपप्रकाशस्यावृतत्वात् । आवृतानावृत साधारण्येनाधिष्ठान प्रकाशमात्रस्याध्यासकारणत्वे शुक्तीदमंश संयोगात्प्रागपि तदवछिन्न चैतन्यस्वरूपप्रकाशस्यावृतस्य सद्भावेन तदाप्यध्यासापतेः । मानाभावो सिध इति शंकते । न चेति । इदमर्थस्य चक्षुस्संप्रयोगे सति प्. १८६अ) रजतादिरूपस्याध्यासस्योत्पतिर्नान्यथेत्यनुभवसिद्धं । तथा च उक्तान्वय व्यतिरेकाभ्यामधिष्ठान सामान्यज्ञानस्य रजतादिव्यध्यासं प्रतिकारणत्वं सिध्यति । न च उक्तान्वयादिनासंप्रयोगस्यैवाध्यासकारणत्वं सिध्यति न धर्मिज्ञानस्येति वाच्यं । तथा सति । अहंकाराद्यध्यासे संप्रयोगासंभवेन व्यभिचारापतेरतस्संप्रयोगस्याध्यासं प्रतिकारणत्वग्राहकाभ्यामेवान्वयव्यतिरेकाभ्यां शुक्तिरजताद्यध्यासस्थले धर्मिज्ञानस्यैव संप्रयोग साध्यस्य कारणत्वं कल्पते तथा चाधिष्ठान सामान्यज्ञानस्याध्यासकारणत्वे उक्तान्वय व्यतिरेकौ प्रमाणं भवत एवेति गूढाभिसंधिः । अभिसंधिमज्ञात्वा दूषयति । तत इति । उक्तान्वयादित इत्यर्थः । संप्रयोगमात्रस्य प्रमास्थलसाधारणत्वादृष्टेत्युक्तं । धर्मि ज्ञानकारणवादीस्वाभिसंधिमाविष्करोति । न च संप्रयोग इति । अधिष्ठान सामान्यज्ञानस्य संप्रयोगस्येव न व्यभिचार इत्याह । अधिष्ठान स्फुरणं त्विति । संप्रयोग वैलक्षण्यार्थस्तु शब्दः । अधिष्ठान स्फुरणं कर्तृ शुक्तिरजताद्यध्यासमिवाहंकाराद्यध्यासमपि व्याप्नोतीत्यर्थः । स्वत इति बाह्य चैतन्यस्यावृतत्वाद्वृति कृतं तत्राधिष्ठान स्फुरणं साक्षि चैतन्यस्यानावृतत्वादहंकाराद्यध्यासे स्वप्न प्रपंचाद्यध्यासे च तत्स्वतस्सिद्धमित्यर्थः । अधिष्ठान सामान्यज्ञानस्यापि व्यभिचारमाह प्. १८६ब्) तस्यापीति । उक्तज्ञानं तच्छब्दार्थः घटाद्यध्यासव्यापित्वा भावादित्यर्थः । तथा च धर्मिज्ञानं नाध्यास कारणमितिभावः । अव्यापित्व शब्दितं व्यभिचारमुपपादयति । घटादीत्यादिना । घटाद्यध्यासस्थले शुक्तिरजताद्यध्यासस्थल इव किं वृतिकृतमधिष्ठान स्फुरणमहंकाराद्यध्यासस्थल इव स्वतस्सिद्धं वा नाद्य इत्याह । घटादि प्रत्यक्षादिति । तत्पदं घटादि परं न द्वितीय इत्याह । स्वरूपेति । नन्वधिष्ठान प्रःकाशमात्रं अध्यासे कारणं लाचदान्नत्वभिव्यक्ताधिष्ठान प्रकाशस्तथा च सन् घटस्सन् । पट इत्यादि रूपेष्वध्यासेषु घटाद्यधिष्ठानस्य सद्रूपस्य ब्रह्मणस्स्वप्रकाशत्वादधिष्ठान प्रकाशमात्रं तत्राप्यस्तीति न व्यतिचार इत्याशंक्याह । आवृतानावृतेति । तदापीति । संप्रयोगात्प्राक्कालेपीत्यर्थः ।। नवाध्यास सामान्येधिष्ठान प्रकाशसामान्यं हेतुः । प्रातिभासिकाध्यासेभिव्यक्ताधिष्ठानप्रकाश इति नाति प्रसंप्रसंगः सामान्ये सामान्यस्य विशेषे विशेषस्य हेतुत्वौ चित्यादिति वाच्यं । एवमपि प्रातिभासिक शंखपीतिमकूपजलनैल्पाद्यध्यासा व्यपनात् । रूपानुपहित चाक्षुष प्रत्यया प्. १८७अ) योगेन तदानी शंखादिगतशौक्ल्योपालंभाभावेन चाध्यासात्प्राक् शंखादिनीरूपाधिष्ठानगोचरवृत्यसंभवात् ।। धर्मिज्ञानकारणवादीशंकते । न चाध्यास सामान्य इति । प्रातिभासिकेति । अभिव्यक्ताधिष्ठान स्फुरणं प्रातिभासिकाध्यासेष्वेवकारणमाचार्याणामभिप्रेतं तेष्वेव दोषसंप्रयोगसंस्काररूपकारणत्रय जन्यताया अध्यासटीकाविवरणादिषु व्यवस्थापितत्वेन संप्रयोगकारणताग्राहक प्रमाणलभ्याधिष्ठानापदोक्षस्य तेष्वेव कारणत्व सिद्धेरित्यर्थः । प्रकाशपदानंतरं हेतुपदमनुषंजनीयं नाति प्रसंग इति । न संप्रयोगात्प्राक् रजताद्यध्यासप्रसंग इत्यर्थः । रजताद्यध्यासस्य प्रातिभासिक त्वेन तदधिष्ठानापरोक्षाय संप्रयोगाधीनवृतेरपेक्षितत्वादिति भावेः औचित्यादिति । तथा च धर्मिज्ञानस्याध्यासकारणत्वे संप्रयोगकारणता ग्राहकान्वयादेः प्रमाणस्य सत्वात बाधकाभावाच्च तस्याध्यासकारणत्वसिद्धाविदमाकारावृतिस्सिद्धेतिभावः । अभिव्यक्ताधिष्ठान प्रकाशस्य प्रातिभासिकाध्यासेष्वपि सर्वत्रव्याप्तिनीस्तीति कविता किं कमतानुवंती दूषयति । एवमपीति । अधिष्ठानापरोक्षस्य प्रातिभासिकाध्यासमात्र हेतुत्वे स्वीकृतेपीत्यर्थः । धर्मिज्ञानकारण वा देहि प्रथममिदमित्येवमाकारावृतिरुदेति प्. १८७ब्) तया च वृत्या अभिव्यक्ते शंखजलाद्यवछिन्नचैतन्येपित नीलरूपादेरध्यास इति प्रक्रिया तथा च तत्रेदमाकारावृतिः किं शंखादिद्रव्यमात्रं विषयी करोति किं वा रूपविशिष्टं द्रव्यं नाद्य इत्याह । रूपानुपहितेति । रूपाविषयक द्रव्य चाक्षुषवृतिर्न संभवति इतरथा वाग्वादेरपि चाक्षुषत्वापतेरिति भावः । द्वितीयेपि किं शुक्लरूपविशिष्टं द्रव्यं विषयी करोति किं वा आरोप्यरूपविशिष्टं । न द्वितीयः आरोप्यरूपविशिष्टशंखादि वृतेरेवभ्रांतित्वेन तस्याः धर्मिज्ञानत्वा भावात् । नाद्य इत्याह । तदानीमिति । अध्यासात्पूर्वकाले इत्यर्थः । तदानीं शौक्ल्योपलंभे चाध्यासाभाव प्रसंगादिति भावः असंभवादिति । तथा चाभिव्यक्ताधिष्ठान स्फुरणस्य तत्रासंभवाद्व्यभिचारेण धर्मिज्ञानं नाध्यासकारणमितिभावः । नन्वध्यासात्पूर्वं द्रव्यमात्ररूपेण शंखादिगोचर चाक्षुषवृतिरुदेत्येव द्रव्यगोचरचाक्षुषवृतौ रूपविषयकत्वनियमस्या प्रयोजकत्वान्न चैवं वाप्वादेरपि चाक्षुषत्वप्रसंगः द्रव्यचाक्षषे द्रव्यगतोद्भूतरूपस्यतियामकत्वादध्यासात्पूर्वकाले द्रव्यग्रहणेपि शुक्तित्वादेरिव दोषबलात्सन्निकृष्टस्यापि शुक्लरूपमात्रस्याग्रहणोपपतेश्च । तदुक्तं भामत्यां ।। प्. १८८अ) न च प्रातिभासिकेष्वपि रजताध्यासमात्रे निरुक्तो विशेषहेतुरास्तामिति वाच्यं । तथा सति संप्रयोगात्प्राक्पीत शंखाद्यध्यासाप्रसंगायतदध्यासे दुष्टेंद्रिय संप्रयोगः कारणमित्यवश्यं वक्तव्यतया तस्यैव सामान्यतः प्रातिभासिकाध्यासमात्रे लाघवान् कारणत्वसिद्धौ तत एव रजताध्यासकादाचित्कत्वस्यापि निर्वाहादधिष्ठान प्रकाशस्य सामान्यतो विशेषतौ वा ध्यासकारणत्वस्यासिद्धेः ।। शंखं च दोषाछादित शुक्लिमानं द्रव्यमात्रस्वरूपं गृहीत्वेति शुक्लिमाशुक्लरूपमित्यर्थः । अस्तु वा तत्र शुक्लरूपविशिष्टशंखादि ग्रहणे तथापि नाध्यासानुपपतिः दोषबलेन रूपगत शुक्लतर्ज्जातिग्रहणप्रतिवद्धं मात्रेणापि तदुपपतेस्तथा च प्रातिभासिकाध्यासेषु अभिव्यक्ताधिष्टान स्फुरणस्य व्यभिचाराभावाद्धर्मिज्ञानरूपा इदमाकारावृतिस्सिद्धा भवति । तत्सिद्धौ च तस्यामावरणनिवर्तकत्व सदसद्भाव चिंतासालंबनैवाचार्याणां न निरालंबनेति चेत्सत्यमस्मिन्मते अयमेवास्वरसः उपाध्यायामन्यंतै इत्यनेन सूचिते । पीतशंखादिभ्रमस्थले वस्तुतो व्यभिचारा भावेपि प्. १८८ब्) तमभ्युपगम्यधर्मिज्ञानकारणवादी शंकते । न च प्रातिभासिकैष्वपीति । निरुक्त इति व्यक्ताधिष्ठान प्रकाश इत्यर्थः । तथा सतीति । पीतशंखाद्यध्यासेषु अभिव्यक्ताधिष्ठानप्रकाशस्य हेतुत्वानुपगम इत्यर्थः । अधिष्ठानापरोक्ष्यवत्संप्रयोगस्यापि पीतसंखाद्यध्यासेषु कारणत्वानुपगमे संप्रयोगात्प्रागपि पीतशंखाद्यध्यासप्रसंगः अतस्तत्परिहाराय तत्र संप्रयोगस्य कारणत्वमवश्यं वाच्यंमित्यर्थः । ततः किं तत्राह । तस्यैवेति । दुष्टेंद्रिय सप्रयोगस्यैवेत्यर्थः । सामान्यत इत्युक्तं सामान्यमेव दर्शयति । प्रातिभासिकाध्यासमात्र इति । प्रातिभासिकाध्यासत्वमेव दुष्टेंद्रिय संप्रयोगकार्यतावछेदकं लाघवान्नतु पीतशंखाद्यध्यासत्वं गौरवादित्यर्थः । ततोपि किं तत्राह । तत एवेति संप्रयोगात् । प्राक्पीतशंखाद्यध्यासप्रसंगपरिहाराय तत्र सामान्यत सूकॢप्तात् दुष्टेंद्रिय संप्रयोगादेवेत्यर्थः । कादाचित्कत्वस्यापीति । सदा रजताद्यध्यासपरिहारायाभिव्यक्ताधिष्ठान प्रकाशस्य रजताद्यध्यासकारणत्वं वाच्यं । तथा सति शुक्त्यवछिन्नचैतन्यरूपस्याधिष्ठान प्रकाशस्यावृततया सदा तदभिव्यक्तेरभावेन सदारजताद्यध्यासप्रसंगपरिहारोपपतेरिति हि धर्मिज्ञानकारणवादिनस्तवाभिप्रायः स चाति प्रसंगपरिहारः पीतशंखाद्यध्यासस्थले प्. १८९अ) कॢप्तात्संप्रयोगादेव लभ्यत इत्यर्थः । सामान्यत इति । अधिष्ठान प्रकाशमात्र मध्यासमात्रे कारणमभिव्यक्ताधिष्ठान प्रकाशः । प्रातिभासिकाध्यासैकारणमिति । पूर्वोक्तकार्यकारणभावद्वयमपि न सिध्यतीत्यर्थः । ननु तस्यैव सामान्यतः प्रातिभासिकाध्यासमात्रे लाघवात्कारणत्व सिद्धावित्ययुक्तमहंकाराद्यध्यासे साक्षि चैतन्ये स्वप्नाध्यासे च संप्रयोगासंभवेन व्यभिचारान्न चाहंकाराद्य ।। ननु च सादृश्यनिरपेक्षे ध्यासांतरेऽकारणत्वेपि तत्सापेक्षे रजताद्यध्यासे रजतादि सादृश्यभूतरूपविशेषादि विशिष्टधर्मिज्ञानरूपमधिष्ठान सामान्यज्ञानं कारणमवश्यं वाच्यं दुष्टेंद्रिय संप्रयोगमात्रस्य कारणत्वे शुक्तिवदिंगालेपि रजताध्यासप्रसंगात् । न च सादृश्यमपि विषयदोषत्वेन कारणमिति वाच्यं । विसदृशेपि सादृश्यभ्रमे सत्यध्यास सद्भावात् । जलधि सलिलपूरे दूरे नीलशिलारोप दर्शनात् ।। भ्यासस्य व्यावहारिकत्वमते तत्र व्यभिचारो न दोष इति वाच्यं । तथापि तत्प्रातिभासिकत्वमते दोष प्. १८९ब्) परिहारा संभवात् । साक्षिणि स्वप्नाध्यासे प्रातिभासिकत्वस्य संप्रतिपन्नतया तत्रोक्त व्यभिचारस्य दृढत्वाच्च । न च स्वप्नाध्यासेभिव्यक्ताधिष्ठान स्फुरणं कारणमन्यथा स्वप्नप्रपंचस्यापरोक्ष्याभावप्रसंगात् । बाह्यप्रातिभासिकाध्यासेषु तु दुष्टेंदिर्य संप्रयोगः कारणमिति न तस्य व्यभिचार इति वाच्यं । प्रातिभासिकाध्यासमात्रेत्वदुक्त लाघवेनाभिव्यक्ताधिष्ठान प्रकाशस्य कारणत्वौचित्यात् । बाह्याध्यासेषु संप्रयोगस्याधिष्ठन चैतन्याभिव्यंजक वृत्युत्पादकतया चारित्यार्थ्य संभवाच्च पीतशंखाद्यभ्यासस्थलेपि अधिष्ठान चैतन्याभिव्यंजकवृति संभवस्य दर्शितत्वाच्चेति चेत्सत्यं सूक्ष्मदृष्ट्याविचार्यमाणो एवमेव स्थूलदृष्ट्या तु संप्रयोगस्य लाघवात्प्रातिभासिकाध्यासमात्रे कारणत्वमुक्तमिति मंतव्यं शुक्तिरजताद्यभ्यासात्प्रागिदमाक्यरवृतिसिद्धय प्रकारांतरेण धर्मिज्ञानस्य कारणत्वं शंकते । ननु च सादृश्येति अध्यासांतर इति पीतशंखाद्यध्यास इत्यर्थः । शंखादेः पीतरूपादेश्च सादृश्या भावादिति भावः । तत्पदं सादृश्यपरं रजतादिना सह शुक्त्यादेः सादृश्यभूतो यो रूपविशेषादिस्तद्विशिष्टधर्मीत्यर्थः । स्थाण्वादौ पुरुषाद्यध्यासापेक्षितमूर्धत्वादिकमादि शब्दार्थः । संप्रयोगमात्रस्येति । सादृश्यानपेक्षायामिति मात्र शब्दार्थः । अग्निदग्धं नील प्. १९०अ) रूपवत्कापृमिंगाल शब्दार्थः । नन्वपेक्षितमपि सादृश्यं स्वरूपसदेवाध्यासकारणं तावता उक्ताति प्रसंगनिरासान्न ज्ञातं स तत्कारणं तथा च न धर्मिज्ञानस्य कारणत्वसिद्धिरिति मत्वाशंकते । न च सादृश्यमिति । स्वरूप स तत्कारणत्वे सादृश्यभ्रमादध्यासो न स्यात् । सादृश्यभ्रमस्थले सरूप स तस्सादृश्यस्याभावात् । अतस्सादृश्यज्ञानं भ्रमप्रमासाधारणमध्यासकारणं वाच्यमिति तद्विशिष्टधर्मिज्ञनसिद्धिरिति धर्मिज्ञानकारणवादीपरिहरति । विसदृशेपीति । तत्रोदाहरणमाह । जलधि सलिलपूर इति प्रवाहः पूरशब्दार्थः जलस्य वस्तुतः शुक्लरूपत्वान्नीलशिलातल सादृश्यं नास्ति । अतस्सादृश्य भ्रमान्नीलशिलातलत्वारोप इति भावः ।। न च तद्धेत्वोरेवेति न्यायात् सादृश्य ज्ञानसामग्र्ये वाध्यासकारणमस्त्विति युक्तं । ज्ञानसामग्र्या अर्थकारणत्वस्य क्वचिदप्यदृष्टेः ततः सादृश्य ज्ञानत्वस्यैव न लघुत्वाच्च न च स्वतः शुभ्रेपि शुभ्रकलधौत भृंगारगतेपि स्वच्छे जलेंपवनैल्याध्यासः । न मुक्ताफल इति व्यवस्थावद्धस्तु स्वभावादेवशुक्तौ रजताध्यासोनेंगालादोविति व्यवस्था न तु सादृश्य ज्ञानपेक्षणादिति वाच्यं । स्वतः प्. १९०ब्) पटखंडेपुंडरीक मुकुलुत्वानध्यासेपि तत्रैव कर्तनादि घटित तदाकारे तदध्यासदर्शनेन तदध्यासस्यनुस्तु स्वभावमननुरुध्य सादृश्यज्ञानभावाभावानरोधित्व निश्चयात् । अन्यथान्यदापि तत्र तदध्यास प्रसंगात् ननु धर्मिज्ञानकारणतापक्षेपि तत्सामग्रीत्वेन दुष्टेंद्रिय संप्रयोगो वश्यं वाच्यः । तथा च आवश्यकत्वादध्यासविशेषकारणतावछेदकं सादृश्यज्ञानसामग्रीत्वमेव न तु सादृश्यज्ञानत्वं । ततश्च न धर्मिज्ञानसिद्धिरित्याशयेन इंगाले रजताध्यासप्रसंगं विस्मृत्यशंकते । न च तद्वेल्लोरेवेति । तद्वेतोरेवास्तु तद्धेतुत्वं मध्ये किं तेनेति न्यायादित्यर्थः । धर्मिज्ञान वादिओतिराकरोति । ज्ञानसामग्र्या इति धर्मे ज्ञानकारणता मते हि धर्मिज्ञानं रजतादिरूपार्थोत्यतौकारणमिष्यते । तथा च तद्वेतोरेवेति न्यायेन धर्मिज्ञानसामग्रीभूतसंप्रयोगस्य कारणत्वमुच्यमानं रजताद्यर्थोत्यतावेव भवे तच्च न संभवति सन्निकर्षस्य ज्ञान इव विषयोत्पतौकारणतायाः क्वचिदप्य कॢप्तत्वादित्यर्थः । तत इति । सादृश्यज्ञानसामग्रीत्वापेक्षया सादृश्यज्ञानत्वस्यैवकारणतावछेदकत्वे लाघवादित्यर्थः । तथा च धर्मिज्ञानसिद्धिरितिभावः । सादृश्यज्ञानस्याध्यासविशेषे कारणत्वाभावेपि व्यवस्थासंभवाअन्न धर्मिज्ञानसिद्धिरिति मत्वा पुनः शंकते । न च स्वत इति । जलस्य मुक्ताफलस्य च नैलोन प्. १९१अ) सादृश्याभावे समानेपि । जल एव नैल्याध्यसो दृश्यते न मुक्ताफल इति व्यवस्थायां जलदिवस्तु स्वभाव एव हेतुर्नान्य इत्यर्थः । ननु पत्रगतनैल्यसन्निधानं जले तदध्यासे नियामकं न स्वभाव इत्यत आह । शुभ्रकलधौतेति । निर्मलसौवर्णपात्रविशेषगतेपीत्यर्थः । नन्वेवमपि जलगतनीलरूपवत् द्रव्यसंसगीत् त्वत्रैवतदध्यास इति नेत्याह । स्वतः शुभ्रेपीति जलविशेषणं स्वतः शुभ्रपदव्याख्यानं स्वछ इति पदं । एवं क्वचित्स्वभावस्यैवाध्यासप्रयोजकत्वे कॢप्ते फलितमाह । वस्तुस्वभावादेवेति । उक्तपीतशंखाध्यास इव भृंगारादि गतजलेनैल्याध्यासे सादृश्य ज्ञाना न पेक्षत्वेपि पुंडरीकमुकुलत्वाध्यासे तदपेक्षाया अन्वयव्यतिरेक सिद्धत्वेन । तद्वच्छुक्तिरजताध्यासेपि सादृश्यभानभावाभावाभ्यासेवव्यवस्था न तु वस्तु स्वभावादगतिकगतित्वाद्वस्तु स्वभावाश्रयणस्य । तथा च धर्मिज्ञानकारणतासिद्धिरप्रत्यूहेति मत्वादूषयति । स्वतः पटखंड इति । पुंडरीकस्य कमलस्य यामुकलत्वावस्था तस्याः अनध्यासेपीत्यर्थः । अत्रैव पटखंड एव कर्तनादिनाघटितः संपादितः तदाकारः पुंडरीकमुकमलत्वाकारौ यस्य पटखंडस्य स तथा तस्मिन्नित्यर्थः । तदध्यासेति पुंडरीकमुकुलत्वाध्यासेत्यर्थः । तदध्यासस्यानुरोधित्वनिश्चयादिति संबंध । अन्यथेति । वस्तु स्वभावस्यैव तदध्यासकारणत्व इत्यर्थः । अन्यदापीति कर्तनादिना तदाकार संपादनात् प्रागपीत्यर्थः ।। प्. १९१ब्) उच्यते । सादृश्यज्ञानस्याध्यासकारणत्व वादेपि विशेषदर्शनप्रतिबध्येषु रजताद्यध्यासेष्वेव तस्य कारणत्वं वाच्यं । न तु तदप्रतिबध्येषु पीतशंखाद्यध्यासेषु श्रसंभवात् विशेषदर्शनप्रतिबध्येषु च प्रतिबंधकज्ञानसामग्र्याः प्रतिबंधकत्वनियमेन विशेषदर्शनसामग्र्यवश्यं प्रतिबंधिका वाच्येति । तत एव सर्वव्यवस्थोपपतेः । किं सादृश्यज्ञानस्य कारणत्वकल्पनया । तथाहि । इंगालादौ चक्षुस्संप्रयुक्ते तदीयनैल्यादिरूपविशेषदर्शनसामग्री सत्वान्न रजताध्यासः शुक्त्यादावपि नालभागादिव्यापि चक्षुः संप्रयोगे तत्सत्वान्न तदध्यासः सदृशभागमात्रसंप्रयोगे तदभावादध्यासः ।। ननु सादृश्य निरपेक्षे ध्यासांतरे अकारणत्वेपीत्यादिना प्राप्तं सादृश्यज्ञाग्नस्याध्यासविशेषेकरणता प्रसाधनद्वाराधर्मिज्ञानस्य कारणत्वमावश्यकमिति पूर्वपक्षं कचितार्किकमतानुवर्ती निराकरोति उच्यते इत्यादिना । नत्विति पीतत्वा भावव्याप्यशंखत्ववानयं नैल्याभावव्याप्यजलत्ववदिदमित्यादिरूपविशेषदर्शना- प्रतिबध्येष्वित्यर्थः । उक्तविशेषदर्शने सत्यपि पीतः शंखः नीलं जलमित्यध्यासदर्शनादितिभावः । प्. १९२अ) असंभवादिति । वस्तु तस्मादृश्यस्य तत्रासंभवात् । पुंडरीकमुकुलत्वभ्रमवत्सादृश्यज्ञानाननुरोधित्वाच्चेत्यर्थः । ततः किं तत्राह । विशेषदर्शनप्रतिबध्येषु चेति । प्रतिबंधकसामग्र्याः प्रतिबंधकत्वे दाहप्रतिबंधकमेकत्वोक्तौ धर्मिज्ञानसामग्री भूतसंप्रयोगस्याध्यास प्रतिबंधकत्वपंगः । तद्वारणाय प्रतिबंधकेति ज्ञानविशेषणं धर्मिज्ञनस्य चाध्यासानुगुणत्वेन प्रतिबंधकरण्यादि सामग्र्याः दाहप्रतिबंधकत्व प्रसंगः तद्धारणाय ज्ञानपदं मण्यादेः प्रतिबंधकज्ञानत्वाभावान्नाति प्रसंगः ज्ञानसामग्र्याः प्रतिबंध त्रुटज्ञानत्वाभावान्नोक्ताति प्रसंगः तथा च पक्षे साध्याभाववताज्ञानं ग्राह्याभावावगाहित्वादनुमिति प्रतिसाक्षात्प्रतिबंधकं तत्र साध्याभावव्याप्यवताज्ञानं प्रतिबंधकज्ञानस्य सामग्रीत्वे नानुमिति प्रतिबंधकमिति व्यवस्था प्रसिद्धेत्यर्थः । तत एवेति । प्रबंधकज्ञानसामग्र्याः प्रतिबंधकत्वस्वीकारादेवेत्यर्थः । किमिति । तथा च धर्मिज्ञानरूपा इदमाकारावृतिर्न सिध्यतीतिभावः । सादृश्यज्ञानस्याकारणत्वे पूर्वोक्तप्रसंगं परिहरति । इंगालादाविति । इंगालगतं नैल्यादिर्विशेषः । तद्दर्शनसामग्री च चक्षुः संयुक्तेंगालतादात्म्यरूपा तस्याः सत्वान्नास्तीति बोध्यं । नीलभागादीति । त्रिकोणभागसंग्रहार्थमादिपदं । तत्सत्वादिति । विशेषदर्शनसामग्री सत्वादित्यर्थः । नतदिति । तत्पदं रजतादिपरं । ननु यदि शुक्तिसंप्रयोगकाले रजताध्यासाभावस्तर्हि संप्रयोगोप्यध्यासकारणं न प्. १९२ब्) स्यादिति नेत्याह । सदृशभागमात्रेति । तदभावादिति नैल्यादिदर्शनसामग्र्यभावादित्यर्थः ।। तदापि शुक्तित्वरूपविशेषदर्शनसामग्रीसत्वादनध्यासप्रसंग इति । चेन्न । अध्याससमये शुक्तित्वदर्शनाभावेन तत्पूर्वं तत्सामग्र्यभावस्य त्वयापि वाच्य त्वात् । मम सादृश्यज्ञानरूपाध्यासकारणदोषेण प्रतिबंधात् तदाशुक्तित्वदर्शनसामग्र्यभावाभ्युपगमः तव तथा भ्युपगमे तु घट्टकुट्टीप्रभातवृतांत्व इति चेत् न समीपोपसर्पणानंतरं रजतसादृश्यरूपे चाकचिक्ये दृश्यमान एवं शुक्तित्वोपलंभेन तस्य तत्सामग्री प्रतिबंधकत्वासिद्धौ दूरत्वादि दोषेणप्रतिबंधाद्वा शंकते । तदापीति । सदृशभागमात्रसंप्रयोगकालेपीत्यर्थः । अनध्यासप्रसंग इति । तथा चाध्यासाभावप्रसंगपरिहाराय सादृश्यज्ञानं दोषत्वेनाध्यासकारणं बाध्यं । ततश्च उक्तदोष इय प्रतिबंधक सत्वादप्रतिबद्धाशुक्तित्वदर्शनसामग्री नास्ति अतो रजताध्यास उपपचत इति धर्मिज्ञानकारणवादिनोभिसंधिः अनध्यासप्रसंगं परिहर्तुमुभयसंमतमर्थे धर्मिज्ञानापलापीदर्शयति । नेत्यादिना । त्वयापीति सादृश्यज्ञानकारणतावादिनापीत्यर्थः । वाच्यत्वादिति । सदृशभागमात्र संप्रयोगकाले शुक्तित्वदर्शन सामग्र्यां प्. १९३अ) चक्षुस्संयुक्त तादात्म्यलक्षणायां सत्यामप्यध्यासदर्शनेन तदनुरोधाच्छुक्तित्व रूपविशेषदर्शनसामग्र्याः प्रतिबंधको दोषो वश्यं वाच्य इति तावत् सत्यं स च दोषो न सादृश्य ज्ञानं किं तु दूरत्वादिरेवातो दोषत्वेनापि न सादृश्यज्ञानमध्यासकारणमिति । न धर्मिज्ञानसिद्धिरिति तदपलापिनोप्यभिसंधिः धर्मिज्ञानवादीस्वाभिसंधिमुद्घाटयन् आशंकते । ममेति तवेति । धर्मिज्ञानापलापे प्रवृतस्य कवितार्किकमतानुवर्तिन इत्यर्थः । सादृश्यज्ञानस्याध्यासकारणत्वं त्वदनिष्टं दूरं गतस्यापि तव प्रसज्येतेतिभावः । धर्मिज्ञानापलापवाद्यपि स्वाभिसंधिमुद्घाटयन् अनध्यासप्रसंगं परिहरति । तेत्यादिना तस्येति सादृश्य दर्शनस्येत्यर्थः । तत्सामग्रीति । शुक्तित्वदर्शनसामग्रीत्यर्थः । रजतरागादीदीषसंग्रहार्थमादिपदं । ननु दूरस्थस्यापि पुंसः कदाचिच्छुक्तौ शुक्तिप्रमायाः दर्शनेन दूरत्वस्यापि । सादृश्य ज्ञानस्येव व्यभिचारस्तुल्यः तथा रजते रागवतोपि समीपोपसर्पणानंतरं शुक्तिदर्शनेन तस्यापि व्यभिचारस्तुल्यः तथा च दूरत्वादेरपि दोषत्वं न स्यात् । यदि च क्वचिदध्यासे कदाचित् कश्चित् दोष इतिरित्यादूरत्वादेर्दोषत्वेनाध्यासकारणत्वं समर्थ्यते । तदा ज्वालादौ सादृश्य ज्ञानरूपेणैव दोषेण सेय दीपज्वालेत्यादिभ्रमस्य सर्वानुभवसिद्धतया तस्यापि कदाचिद्रजताध्यासादौ दोषत्वेन कारणत्वं दुर्वारं सादृश्य ज्ञानस्य दोषत्व भाष्यसंमतं च तथा च देवताधिकरणे भाष्यं सादृश्यात् प्रत्यभिज्ञानं प्. १९३ब्) केशादिष्विवेति । तथा बौद्धाधिकरणेपि सादृश्यनिमितं प्रतिसंधानमिति । प्रतिसंधानं प्रत्यभिज्ञानं तथा च सादृश्यज्ञानस्य दोषत्वेनाध्यासकारणत्वमत निराकरणमयुक्तमिति चेत्सत्यं तथापि स्थूलबुद्धिमाश्रित्येदमिति ध्येयं ।। व्यजकनीलपृष्टत्वादि ग्राहकासमवधानाद्वा तत्सामग्र्यभावस्य वक्तव्यत्वात् । एवं जलधिजले नियतनीलरूपाध्यास प्रयोजक दोषेण दूरे नीलत्वव्यंजकतरंगादि ग्राहकासमवधानेन च शौक्ल्य जलराशित्वादि विशेषदर्शनसामग्र्यभावाच्छिलातलत्वाद्यिध्यासः । विस्तृते पटे परिणाहरूपविशेषदर्शनसामग्रीसत्वान्नपुंडरिक- मुकुलत्वाध्यासः कर्तनादि घटित तदाकारे तदभावात् तदध्यास इति ।। सहकार्यभावात्सामग्र्यभावमाह । व्यंजकेति । शुक्तित्व व्यंजकेत्यर्थः ग्राहकपदं नीलभागव्यापि चक्षुस्संप्रयोगपरं । तत्सामग्रीति । शुक्तित्वविशेषदर्शनसामग्र्याभावस्योभाभ्यां वक्तव्यत्वादित्यर्थः । शुक्ति रजतभ्रमस्थलोक्त न्यायमन्यत्रापि योजयति । एवमिति सादृश्यज्ञानरूपदोषं दिनं जलराशित्वादि रूपविशेषदर्शनं च प्रतिबंधक ततः शुक्लरूपादि दर्शनसामग्र्यपि तत्र प्रतिबंधका तथा च प्रतिबंधक प्. १९४अ) ज्ञानसामग्र्यभावादेव तत्र नीलशिलातलत्वारोपः न तु प्रथमं जले नैल्याध्यासेन सादृश्यज्ञानसंपतौ सत्यांतद्दोषान्नीलशिलातलत्वाध्यास इत्यर्थः । ननु जलधि सलिपूरे शुक्लरूपात्मकविशेषदर्शनसामग्र्यं भावो सिद्धः नीलशिलातलत्वारोपात्पूर्वकाले चक्षुः संप्रयुक्ते जले शुक्लरूपस्य तादात्म्याभ्युपगमेन चक्षुः संयुक्त तादात्म्यरूपसन्निकवस्य आलोकादेश्च सत्वा तथा जलराशित्वादि रूपविशेषदर्शनसामग्र्यभावोप्यसिद्धः । जलराशित्वव्यंजकतरंगादि प्रत्यक्षस्यापि तत्र सत्वादित्यत आह । नियतेति । जलधि सलिलं दूरे नैल्याध्यासवत्समीपोपसर्पणानंतरमपि तदध्यासो दृश्यते । अतस्तस्य नियतत्वं । एतदुक्तं भवति । शुक्लरूपात्म विना रजताध्यासवत् । नीलशिलातलत्वाद्यध्यासः संभवतीत्यर्थः । जले नीलशिलातलत्वाध्यासे हि शुक्लरूपात्मकविशेषदर्श ५९ त्रुटत्कविशेषदर्शनसामग्रीनियत नीलशिलारूपाध्यास प्रयोजकदोषेणप्रतिबद्धा अतस्सा अप्रतिवद्धा नास्ति दूरत्वदोषाज्जलराशित्व व्यंजकतरंगादेग्नीहकसमवधानं नास्ति तेन जलराशित्व रूपविशेषदर्शनसामग्री च नास्ति । तथा च द्विविध प्रतिबंधकज्ञानसामग्र्यभावाज्जलधि सलिले नीलशिलातलत्वाद्यध्यास उपपद्यत इति । अत्रेदं बोध्य जलिधि सलिलपूरे नीलशिलातलत्वारोपे उक्तविधयाविशेषदर्शनसामग्र्यभावस्यापेक्षितत्वेपि प्. १९४ब्) न तावन्मात्रात् । तदध्यासः । किं तु जले नीलरूपाध्यासेन नीलशिलातलसादृश्य संपत्यनंतरमेव तदध्यासस्तथा च दूरे नीलशिलातलत्वाध्यासवत्वां जलधि सलिलपूरसमीपोपसर्पणानंतरं व्यवहारः अस्मिनजलधिसलिलपूरे मम दूरे नैल्यनैश्चल्यादि साम्येन नीलशिलातलत्वभ्रम आसीत् । इद्धांनी सभुमो निवृत इति । एवं तत्र तत्र सादृश्य दोषान्मम पूर्वमन्यथा भ्रम आसीत् इदानीं सनिवृत इति लोकव्यवहार एव सादृश्य ज्ञानस्य दोषत्वेनाध्यास विशेषकारणत्वसाधको द्रष्टव्य इति सादृश्य ज्ञातस्याध्यासकारणता ग्राहकान्वय व्यतिरेको दाहरणांतरमप्यन्यथयति । विस्तृत इति परिणाहो विस्तारस्तद्दर्शनं पुंडरीकमुकुलत्वाध्यासप्रतिबंधकं तत्सामग्रीसत्वादित्यर्थः ।। नन्वेवं करस्पृष्टे लोहशकले तदीयनीलरूपविशेषदर्शनसामग्र्यभावाद्रजताध्यासः । किं न भवेत् सादृश्य ज्ञाना न पेक्षणादिति चेत् । भवत्येव किं तु ताम्रादि व्यावर्तकविशेषदर्शनसामग्र्या अप्यभावातदध्यासेनापि भाव्यमिति क्वचिदनेकाध्यासे संशयगोचरो भवति । क्वचितुरजतप्राये कोशग्रहादौरजताध्यास एव भवति । प्. १९५अ) क्वचित् सत्यपि सादृश्य ज्ञाने शुक्तिकादौ कदाचित्करणदोषाद्यभावेनाध्यासानुदयवदध्यासानुदयेपि न हानिः तस्मान्न कार्यकल्प्येदमाकारवृतिर्नाप्यप्रतिबद्वेदमर्थ संप्रयोगकारणकल्प्या ।। सादृश्यज्ञानकारणमते हि चक्षुस्संप्रयोगस्थले चाक्षुषं सादृश्य ज्ञानं धर्मि ज्ञानत्वेन दोषत्वेन च रजताद्यध्यासोत्पतौ कारणं त्वगिंद्रिय संप्रयोगस्थेले च स्यार्शनं सादृश्यज्ञानमुक्तविधया रजताद्यध्यासोत्पतावेकारणं कवितार्किकमते तु धर्मिज्ञानप्रसंगभीत्यासादृश्यज्ञानं कुत्राप्यध्यासे कारणं नाभ्युपेयते इति व्यवस्था तथा च त्वगिंद्रियेदमर्थ संप्रयोगस्थले त्वदभिमताध्यासकारण सत्वात् स कि न स्यादिति शंकते । नन्वेवमिति । सादृश्यज्ञानं विनापि अध्यास प्रतिबंधकविशेषदर्शनसामग्र्यभावमात्रेणाध्यासोपगम इत्यर्थः । किं तत्र रजताध्यास आपाद्यते । किं वा रजताध्यास एव आपाद्यते आद्ये इष्टापतिरित्याह । भवत्येवेति । द्वितीयं शंकते । किं त्विति । तत्र विशेषदर्शनसामग्र्यभावस्य ताम्राद्यध्यास साधारणत्वाद्रजताद्यध्यास एवस्यादित्यत्रापादकं नास्तीति मत्वा परिहरति । ताम्रादीति । रंगसुवर्णशकलादि संग्रहार्थमादि पदं क्वचिदिति । करतलस्पृष्टलोह शकलस्थलेपि क्वचिदित्यर्थः । गोचर इति । लोहशकलरूपेदमर्थः । प्. १९५ब्) किमिदं रजतं किं वा ताम्रं किं वा सुवर्णादीति संशयविषयो भवतीत्यर्थः । ताम्रादि व्यावर्तकविशेषदर्शनस्थले तु रजताध्यास एवषी भवतीत्याह । क्वचित्विति । यस्मिन् कोशग्रहादौ प्रायेण रजतशकलानामेवावस्थानं तत्र प्रविष्टस्य दैवादयः शकले करतलस्पृष्टे सति तत्र रजताध्यास एव भवति । रजतकोशग्रहमिति बुद्धेस्तस्य सत्वादित्यर्थः । ननु क्वचित्करतलस्पृष्टलोहशकले रजताध्यासाभावोपि दृश्यते । स च तवमते न संभवति । विशेषदर्शनसामग्र्यभावस्य तत्रापि सत्वेन रजताध्यासापतेरावश्यकत्वान् मम तु सादृश्यज्ञानरूपकारणाभावात् । स न भवतीति वक्तुं शक्य इत्यत आह । क्वचित्सत्यपीति । समीपोपसर्पणानंतरं सत्यपि सादृश्य ज्ञाने यथा रजताध्यासाभावः । तवमते उपेयते । तथा मम मतेपि क्वचिदध्यासाभावो न दोषावह इत्यर्थः । तस्मादिति । कथमपि धमिधर्मिज्ञानस्याध्यासकारणत्वासिद्धेरित्यर्थः । इदमाकार वृतिरनुभवसिद्धावाकार्यकल्प्यावाकारणकल्प्यावेति विकल्प त्रये प्रथमद्वितीयौ निरस्य तृतीयं निराकरोति । नाप्यप्रतिबद्धेति । इदमर्थस्य चक्षुस्संप्रयोगकाले अन्यत्र व्यासंगे सति इदमर्थगोचरज्ञानानुदयादप्रतिबद्धेति विशेषणं ।। प्. १९६अ) ततो भवंत्या एवेवं वृतेर्दुष्टेंद्रिय संप्रयोगक्षुभिताविद्यापरिणाम स्वसमानकाल रजतविषयत्वस्याप्यस्माभिरुच्यमानत्वात् । तत्र च ज्ञानसमानकालोत्पतिके प्रतिभासमात्र विपरिवतिनिरजतेः । तत्प्राचीन संप्रयोगाभावेपि । तत्तादात्म्याश्रयेदमर्थ संप्रयोगादेव तस्मापि चक्षुग्नी ह्यत्वोपपतेश्चक्षुषा रजतं पश्यामीति प्रातिभासिकरजतस्य स्वसंप्रयोगाभावेपि चाक्षुषत्वानुभवात् । न च स्वसप्रयोगाभावादेववाधकान्न तच्चाक्षुषं नापि दुष्टेंद्रिय संप्रयोगजन्यमिदं वृतिसमकालं । ज्ञानकारणस्येंद्रिय संप्रयोगस्यार्थकारणत्वाकॢप्तेः ।। यथोक्त संप्रयोगवशाजायमानावृतिर्भ्रांति रूपैव जायते न तु भ्रांतेः प्राचीना इदमर्थमात्रगोचरा प्रमारूपा तत्र मानाभावादित्याशयेनाह । तत इति इदमर्थावछिन्न चैतन्ये विद्यमाना रजतपरिणामिन्य विद्या दुष्टेंद्रिय संप्रयोगरूपादध्यासनिमितकारणभूतात् क्षोभं कार्याभिमुख्यं प्राप्नोति । उतरक्षणे च रजतरूपेण परिणमते दुष्टेंद्रिय संप्रयोगाद्वृतिरपि तदैव जायते । तथा प्रतिबद्धात् दुष्टोंद्रिय संप्रयोगाद्भवंतीदमर्थगोचरवृतिः स्वकालोत्पन्नरजत प्. १९६ब्) विशिष्टेदमर्थं विषयी करोतीत्यर्थः । स्वपदं वृत्तिपरं धर्मिज्ञानपक्षे इदमाकारवृतिरविद्याक्षोभिका तदभावपक्षे धर्मिज्ञानहेतु संप्रयोगो विद्याक्षोभक इति विभाग इति स्थिते । तत्रांतिमपक्षो नषुक्तः । इदमर्थ संप्रयोगस्य इदमाकारवृताविवरजतगोचरवृतावहेतु त्वात् ज्ञानसमकालोत्यत्र रजतस्य ज्ञानात्पूर्वं चक्षुस्सन्निकर्षाभावाच्च । तथा च रजतगोचरवृतौ सामग्र्यभाव एव इदं वृतेर्धर्मिमात्रगोचरतां व्यवस्थापयतीत्याशंक्याह । तत्र चेति भ्रमस्थले इत्यर्थः प्रतिभासकालमात्रे विपरिवर्तिनी सता यस्य तत्प्रतिभासमात्रविपरिवर्तितस्मिन् प्रतीति व्याप्यमुताक इति यावत् । इदमर्थ संप्रयोगस्य रजतगोचरवृत्युत्पतावपि हेतुत्वं संभवति । न चान्यसंप्रयोगादन्यगोचरवृत्युपगमे घटेंद्रियसंयोगात् । पटगोचरवृत्यापतिरिति वाच्यं । स्वगोचरवृतौ स्वस्य स्वतादात्म्याश्रयस्य वा इंद्रियेण सहसंप्रयोगः कारणमिति कल्पना तावत्या उक्ताति प्रसंगपरिहारोपपतेरित्याशयेनाह । तत्प्राचीनेति । रजतप्रतिभासान्पाचीनेत्यर्थः । ततादात्म्येति । रजतस्येदमर्थे कल्पितत्वाद्रजततादात्म्याश्रयत्वमिदमर्थस्य पटतादात्म्याश्रयत्वं तु घटस्ति पटस्य तत्रा न ध्यस्तत्वादितिभावः । चक्षुः संप्रयोगानाश्रयस्यापि रजतस्य चाक्षुषवृतिविषयत्वकल्पने हेतुमाह । प्. १९७अ) चक्षुषेति । धर्मिज्ञानवादी चाक्षुषत्वानुभवस्यान्यथा सिद्धिं वदन् । धर्मींद्रियसंप्रयोगजन्यावृतिर्धर्मिमात्रगोचरेत्याशयेन शंकते । न चेति । तद्रजतमिदं वृतिसमकालं स त दुष्टेंद्रिय संप्रयागजन्येमपि न भवतीत्यत्र हेतुमाह । ज्ञानकारणस्येति । तथा च प्रातिभासिकरजतस्य ऐंद्रियकत्वपक्षे अन्यसंप्रयोगस्यान्यगोचरवृतिजनकत्वमेकं कल्पनीयं तथा ज्ञानकारणस्य सन्निकर्षस्य रजताद्यर्थोत्पतौकारणत्वमपरं कल्पनीयमिति गौरवमिति भावः ।। किं त्विदं वृत्यनंतरभावितज्जन्यं । तदभिव्यक्त साक्षिण्य ध्यासात् । तद्भास्यं चाक्षुषत्वानुभवस्तु स्वभासकचैतन्याभिव्यंजकेदं वृतिजनकत्वेन परंपरया चक्षुरपेक्षामात्रेणेति । तथा सतिपीतशंखभ्रमे चक्षुरनपेक्षाप्रसंगात् । न हि तत्र शंखग्रहणे चक्षुरपेक्षा रूपं विना केवल शंखस्य चक्षुर्ग्राह्यत्वायोगात् । नापि पीतिमग्रहणे आरोप्ये ऐंद्रियकत्वानभ्युपगमात् । न च पीतिमास्वरूपतो नाध्यस्यते किं तु नयनगतपितपीतिम्नोनुभूषमानस्य शंखे संसर्गमात्रमध्यस्यत इति पीति सानुभवार्थमेव चक्षुरपेक्षेति वाच्यं ।। प्. १९७ब्) परिसंप्रयोगो न रजताद्यर्थे कारणं तर्हि किं तत्र कारणमविद्यामात्रस्य सदा सत्वेन रजताद्यध्यासस्य कादाचित्कत्वप्रतीतस्य प्रयोजकत्वानुपपतेरिति शंक्यते । किं त्विति । उतरमाह । इदं वृत्यनंतरभावीति । इंद्रियसंप्रयोगादिदमर्थमात्रगोचरवृतिरुदेति । तयाचाध्यासंप्रतिनिमित्वकारणभूतयाक्षुब्धासती । अविद्यारजताकारेण परिणमते । रजतस्य च इदमाकारवृत्यभिव्यक्तमिदमर्थावछिन्न चैतन्यमधिष्टानं । तथा च रजतं स्वगोचरवृतिं विनैव चैतन्यभास्यमहंकारादि वदित्यर्थः । तज्जन्यमित्यत्र तदभिव्यक्त इत्यत्र च तत्पदमिदं वृतिपरं तद्वृतेश्च कादाचित् कत्वात् । रजताद्यध्यासस्य कादाचित्कत्वमितिभावः । तद्भास्यमिति साक्षिभास्यमित्यर्थः । न च बाह्यचैतन्यावभास्य शुक्तिरूप्यादेरहंकारादिवत् कथं साक्षिभास्यत्वमिति वाच्यं । स्वगोचरज्ञानरूपवृत्यनुपहित चैतन्यभास्यस्यैव साक्षिभास्य शब्दार्थत्वात् । तथा च यथा अविद्याहंकार तद्धर्माणामवभासकचैतन्यमविद्यादिगोचरया ज्ञानात्मकवृत्या उपहितं न भवति । एवं शुक्ति रजतादि भासकचैतन्यमपि शुक्तिरजतादि गोचरज्ञानात्मकवृत्युपहितं न भवतीति तस्य साक्षिभास्यत्वमुक्तमिति मंतव्यं । ननु शुक्ति रजतस्य साक्षिभास्यत्वे चाक्षुषत्वानुभवविरोध इति नेत्याह । चाक्षुषत्वानुभवस्त्विति प्. १९८अ) स्वंशुक्ति रजतं तद्भासकस्य इदमंशावछिन्नस्याभिव्यंजकामिदं वृतिस्तत्र चक्षुषो जनकत्वेन शुक्तिरजतस्य चक्षुरपेक्षावर्तते । साचापेक्षापरंपरयैव स्वाधिष्ठानगोचरवृत्यर्थमपेक्षितत्वान्नतु साक्षात्स्वगोचरवृत्यर्थमनपेक्षितत्वात् । यथा कथंचिच्चक्षुरपेक्षामात्रेण तत्र चाक्षुषत्वानुभव उपपद्यते इत्यक्षरार्थः । ननु चक्षुषारजतं पश्यामीत्यनुभवो हि रजतगतं चाक्षुषवृतिविषयत्वमवगाहतेन तु शुक्तिरजतगतं चाक्षुषवृत्यभिव्यक्तचैतन्यविषयत्वमिति वस्तुगतिः तथा च परंपरया चक्षुरपेक्षामात्रेणेति ग्रंथेन चाक्षुषत्वानुभवस्य चाक्षुषवृत्यभिव्यक्तचैतन्यविषयत्वं रजतयतं विषय इति तदनुभवस्य गतिः कल्पितेति प्रतिभाति । तदयुक्तं । शब्दवदनुभवस्य व्याख्यानानहंत्वादिति चेत् । न वस्तुत इदमर्थ गतस्येदं त्वस्य तत्रानुभूयमानस्य यथा शुक्तिरजते संसर्गारोपस्तथा इदमर्थगतस्य तत्रानुभूयमानस्य चाक्षुषत्वस्य शुक्तिरजतै संसर्गारोप इत्यस्यर्थस्य प्रकृते विवक्षितत्वात् । तथा च स्वस्मिन्नारोपणियं यच्चाक्षुषवृतिविषयत्वमिदमर्थगतं तल्लाभाय शुक्तिरजतस्य चक्षुरपेक्षा वर्तते इत्ययमर्थः परंपरया चक्षुरपेक्षामात्रेणेति ग्रंथस्य द्रष्टव्य इति न कश्चिद्दोषः । तथा सतिशंख तत्संसर्गयोरप्रत्यक्षत्व प्रसंगात् । नयनप्रदेशगतपितपीति माकारवृत्यभिव्यक्तसाक्ष्यसंसर्गेण तयोस्तद्भास्यत्वाभावात् । प्. १९८ब्) पीतिससंसृष्ट शंखगौचरैक वृत्यनभ्युपगमाच्च । न च नयनप्रदेशस्थस्य पितपीतिम्नोदोषाच्छंखे संसर्गाध्यासोनोपेयते किं तु नयनरश्मिभिः सहनिर्गतस्य विषयव्याअपिनस्तस्य तत्र संसर्गाध्यासः कुसंभारुणित इव कौसुंभ इति । संभवति । तदाकारवृत्यभिव्यक्तसाक्षिसंसर्ग इति वाच्यं ।। प्रातिभासिकरजतादेस्साक्षिभास्यत्वमेव न त्वैंद्रियकत्वमिति मतं दूषयति । तथा सतीति अधिष्ठानस्यैंद्रियकत्व लाभायैवेंद्रियापेक्षा नत्वारोप्यस्य । तदर्थमिंद्रियापेक्षेत्युपगमे सतीत्यर्थः । न हीति । इदं चापाततः पीतशंखभ्रमादि स्थलेप्यध्यास प्राचीनधर्मिगोचरचाक्षुषवृतेः प्रागुपपादि नत्वादिति मंतव्यं । नापिपीतिमग्रहण इति । चक्षुरपेक्षेत्यनुसंगः रूपं विना केवलशंखस्य चक्षुः ग्राह्यत्वायोगमुपेत्यारोपितस्य साक्षिभास्यत्ववादीशंकते । न च प्रीतिमेति । पीतरूपमित्यर्थः । यथा शुक्तौरजतं स्वरूपेणाध्यस्यते तथा शंखे पीतरूपं नाध्यस्यत इत्यर्थः । नयनगतं यत्पितं पीतरूपयुक्तद्रव्यविशेषस्तस्य यः पीतिमातस्य पितद्रव्य एवानुभूयमानस्य शंखे संसर्ग एवाध्यस्यते । यथा कुसुमादावनुभूयमानस्य लौहित्यस्य स्फटिकमण्यादौ संसर्गाध्यासस्तद्वत् । प्. १९९अ) न चान्यगतस्यान्यत्रारोपाभ्युपगममे अन्यथाख्याति प्रसंग इति वाच्यं । अध्यस्य मानसंसर्गस्यानिर्वचनीयस्योत्पत्युपगमेनान्यथा खाति वैलक्षण्य सत्वादितिभावः । पीति मानुभवार्थमेवेति । शंखे पीतरूपसंसर्गाध्यासात्प्राचीनो यः पितद्रव्ये पीतरूपानुभवस्तदर्थमित्यर्थः । तत्र किं नयनप्रदेशगत एव पितद्रव्येपीति मानुभवः । किं वा शंखदेशं प्राप्य तत्रस्थेपितद्रव्येपीतिमानुभवः आद्यं दूषयति । तथा सतीति । नयनगत एव पितद्रव्ये पीतरूपानुभवांगीकार इत्यर्थः । शंख तत्संसर्गयोरिति । शंखस्य शंखपीतरूपयोस्संसर्गस्य चेत्यर्थः । शंख तत्संसर्गयोर्भानं किं पितिमगोचरवृत्यभिव्यक्ते न साक्षिणा किं वापीति ससंसृष्टशंखगोचरवृत्यभिव्यक्तेन साक्षिणानाद्य इत्याह । नयनप्रदेश इति । नयनप्रदेशगतपितपीतिमाकारवृत्या तत्प्रदेशस्थपीतिमावछिन्नचैतन्यमभिव्यज्यते तेन चाभिव्यक्तचैतन्यलक्षणसाक्षिणा सह शंखस्य शंखे समारोपित पीतरूपसंसर्गस्य चासंबंधाच्छंख तत्संसर्गयोरापरोक्ष्यं न स्यादित्यर्थः । न द्वितीय इत्याह । पीतिमसंसृष्टेति । अनभ्युपगमाच्चेति । साक्षिभास्यत्ववादिनेतिशेषः । शंखदेशं प्राप्तेपितद्रव्ये पीतिमानुभव इति द्वितीयं शंकते । न चेति विषयव्यापिनस्तस्येति । शंखरूपमधिष्ठानं व्याप्तस्य पितद्रव्यस्येत्यर्थः । तथा च पितपीतिमाकारवृत्याशंखदेशस्थस्यैव चैतन्यस्याभिव्यक्त्याशंख तत्सं प्. १९९ब्) सर्गयोरापरोक्ष्यं संभवतीतिभावः कुसुंभस्तु द्रव्यविशेषः तद्याप्ते पटे यथा कुंसुभे अनुभूयमानस्य रक्तरूपस्य संसर्गारोपस्तथेत्यर्थः ।। तथा सति सुवर्णलिप्त इवपितोपहतनयतेन वीक्ष्यमाणे शंखे तदितरेषां पीतिमधीप्रसंगात् । न च सपीति मासमीपे गृहीत एव दूरे गृहीतुं शक्ये विहायस्युपर्युत्यतन् विहंगम इव इतरेषां च समीपेन ग्रहणमिति वाच्यं । इतरेषामपि तच्चक्षुर्निकटन्यस्त चक्षुषांपीतिमसामीप्यसत्वेन तद्ग्रहणस्य दुर्वारत्वात् । एवमप्यति यवलसिकतामषतलं प्रवहदछनदीजल नैल्याध्यासे गगननैल्याध्यासे च रक्तवस्त्रेषु निशि चंद्रिकायां नैल्याध्यासे चानुभूयमानारोपस्य वक्तुमशक्यत्वेन तत्र नैल्यसंसृष्टाधिष्ठानगोचर चाक्षुष वृत्यनभ्युपगमे चक्षुरनुपयोगस्य दुःपरिहरत्वाच्च अनास्वादिततिक्तरसस्य वालस्य मधुरे तिक्ततावभासो जन्मांतरानुभवसंस्कारहेतुक इति प्रतिपादयतां पचपादिकाग्रंथेन स्वरूपतोध्यस्य सान प्. २००अ) स्यैवतिक्तरसस्येंद्रियकत्व स्फुटीकरणाच्च ।। नयनगपितद्रव्यस्य नयने सर्वैरनुभूयमानस्य नयनरीश्मद्वारानिर्गत्यशंखव्यापित्वोपगमे बाधकमाह । तथा सतीति । पितोपहतनयनः पुरुषः यदा शंखं पश्यति तदा तदितरेषामपिपीतः शंख इत्यनुभवप्रसंगादित्यर्थः । ननु पितद्रव्यस्य नयनप्रदेशाद्विषयदेशं प्रतिगमनावसरे पथापितोपहत नयने नयनदेशमारभ्यविषयव्याप्तिपर्यंतं पीतिमागृह्यते तथान्यैरपि नयनसमीपे मध्ये च पीति मागहीतश्चेच्छंखदेशेपि गृहितुं शक्यते नान्यथेत्यत्र दृष्टांतमाह । विहायसीति । यथा विहंगमः पक्षीगने उत्पतन् उत्पतनावसरे भूप्रदेशमारभ्य येन पुंसागृह्यते तेनैव गगनोपरिभागे दूरंगतोपि गृह्यते नान्यैस्तथा प्रकृतेपीत्यर्थः । दृष्टांत वैषम्यमाह । इतरेषमपीति । दृष्टांते हि गगनोपरिभागे दूरे विहंगमं पश्यन् कश्चिदन्यं प्रत्युपदिशति । मम चक्षुर्निकटेत्वच्चक्षुर्न्यस्तं चेत् । त्वयापि स विहंगमो द्रष्टं शक्यत इति स चान्यस्तथा कृत्वा तं पश्यति न तथा प्रकृते संभवतीत्यर्थः । अस्तु वा अनुभूयमानरोपस्थले कथंचिच्चक्षुरपेक्षास्सर्यमाणनैल्याद्यध्यासस्थले तु तदपेक्षा सर्वात्मना वक्तुमशक्येत्याह । एवमपीति । जलाधारभून्नागे वा जलमिश्रितद्रव्यविशेषे वा यदि नीलरूपमस्ति । तदा तत्रैवानुभूयमान नैल्यस्य जले ध्यास इति शंकाभवे तन्निवर्तये सिकता प्. २००ब्) मयतलस्याति धवलत्वं नदीजलस्य चाछत्वं विशेषणमुपातं । अछत्वं निर्मलत्वं निशिरात्रौ चंद्रिकायामित्यस्यापि पूर्वोक्तमेव प्रयोजनं द्रष्टव्यं । दुष्परिहरत्वाच्चेति । अत्र पीतशंखजलनैल्याद्यध्यासेषु आरोप्यपीतिमनैल्यादि संसृष्टाधिष्टानगोचरचाक्षुषवृत्यनुपगमेपि चक्षुरनुपयोगो न दुष्परिहरः शंखादिधर्मिमात्रगोचर चाक्षुषवृतिसंभवस्य प्राग्दर्शितत्वादिति मंतव्यं । आरोप्यस्येंद्रियजन्यवृतिविषयत्वे सस्समतिमाह । अनास्वादितेति ।। अन्यथा तत्र रसनव्यापारापेक्षानुपपतेः तस्मादुदाहृत नैल्याध्यासस्थलेषुधिष्ठानसंप्रयोगादेव ।। अस्मिन् जन्मनि अनास्वादितः रसनेंद्रियेणाननुभूतस्तिक्तरसो येन वालेन स तथा तस्येत्यर्थः । मधुरेस्तनयानादौ तिक्ततावभासस्तिक्तता साक्षात्कारः स च जन्मांतरीयतिक्त रसानुभवजन्यसंस्कारजन्यः आरोपे आरोप्य सजातीय पूर्वानुभवजन्मसंस्कारस्य कारणत्वादित्यक्षरार्थः । अत्र ग्रंथे तिक्तत्वावभासस्य सस्कारसहकृतरसनेंद्रियजन्यत्वं भाति । तस्य संस्कारमात्रजन्यत्वे स्मृतित्व प्रसंगात् । तथा च तिक्तताध्यासाधिष्ठानस्य मधुरद्रव्यस्य रसनेंद्रियायोग्यतया प्. २०१अ) परिशेषात् स्वरूपतोध्यस्य मानस्य तिक्तरसस्यैव रसनेंद्रियजन्यवृतिविषयत्वं स्पष्टीकृतमिति भवति । समारोप्यस्यैंद्रियकत्वे संमतिरयं ग्रंथ इति भावः । अन्यथेतिः आरोप्य तिक्तरसस्येंद्रियकत्वानुपगमे तत्र बालस्य तिक्ततावभासस्थले रसनेंद्रियव्यापारो न स्यान् मधुरद्रव्यस्या तदयोग्यत्वादित्यर्थः । वस्तुतस्तु तिक्ततावभास इत्यत्रतिक्ततापदावभासपदयौः कर्मधारयः अवभासपदं चावभास्यत इति व्युत्पत्याध्यस्य मानतिक्त रसपरं पंचपादिकायामेवावभासपदस्यावभासमानतापदेन तथा व्याख्यातत्वात् । जन्मांतरीय संस्कारोपि अध्यस्य मानतिक्त रसोत्पतौ हेतुः । प्रातिभासिकाध्यासस्थलेषु दोषसंस्काराधिष्ठान सामान्यज्ञानरूपकारणत्रयस्याध्यस्य मानपदार्थोत्पतावेवकारणतायाः टीकाविवरणादिष्वेव स्पष्टत्वा तथा च कथमनेन ग्रंथेन स्वरूपतोध्यस्य मानस्यैव तिक्तरसस्यैंद्रियकत्वस्य स्पष्टीकरणं न च तिक्तरसयैंद्रियकत्वाभावे रसनव्यापारापेक्षानुपपतिरिति वाच्यं । वालस्यान्येषां वातिरसाध्यासकाले रसनेंद्रियव्यापारसत्वे माना भावात् । न च तथा सतितिक्ततानवभासप्रसंग इति वाच्यं । त्वगिंद्रियजन्यमधुरद्रव्यगोचरवृत्या अभिव्यक्ते मधुरद्रव्यावछिन्नचैतन्ये तिक्तताध्यासांगीकारेण तिक्ततायाः स्वगोचरवृतिं विनैव स्वाधिष्ठान चैतन्यभास्यत्व संभवात् । अस्तु वा तिक्रताध्यासस्थले रसनेंद्रियापेक्षा । तथापिताध्यस्यमानतिक्तरसस्येंद्रियकत्व प्. २०१ब्) सिद्धिरध्यस्य मानतिक्ततां प्रतिमधुरद्रव्यनिष्ट मधुररसस्याधिष्ठानत्वसंभवेन तदधिष्ठान भूतमधुररसग्रहणे तदपेक्षोपपतेः । पंचपादिकागतमधुरपदस्य मधुररससाधारणत्वेन तद्विरोधाभावाच्च । न च मधुररग्रहणे तिक्तताध्यासानुपपतिरिवाच्यं । रसग्रहणेपि दोषविशेषेण मधुररसत्वजातिसाक्षात्कारप्रतिबंधे सति तिक्ताध्यासोपपतेस्तस्मादारोप्यस्य साक्षिमात्रभास्यत्वं पूर्वांर्याणां सार्वत्रिकव्यवहारसिद्धन्निरपवादमिति मंतव्यमितः परंकविता किं कमतानुसारेण यत्पंचपादिका ग्रंथव्याख्यानं कृतं तदेवानुवर्त्यते । तस्मादिति । अध्यस्यमानपदार्थस्य साक्षिभास्यत्वमते पीतशंखाद्यध्यासेषु चक्षुरनुपयोगस्य दुष्परिहरत्वादित्यर्थः ।। तद्गोचर चाक्षुषवृतिसमकालोदयोध्यासस्तस्यावृतेर्विषय इति तस्य चाक्षुषत्व मध्युपगंतव्यं रूपं विना केवलाधिष्ठानगोचरवृत्यभावे च विषयचैतन्याभिव्यक्ता भावेन जल तदध्यस्त नैल्यादीनां तद्भास्यत्वायोगात् । तिक्तरसाध्यासस्थले त्वधिष्ठानाध्यासयोरेकेंद्रियग्राह्यत्वाभावात् त्वगिंद्रियजन्याधिष्ठानगोचरवृत्या तद प्. २०२अ) वछिन्नचैतन्याभिव्यक्तौ पितोपहतरसनसंप्रयोगादेव । तत्र तिक्तरसाध्यासस्तन्मात्रविषयरासवृतिश्च समकालमुदेती तिक्तरसस्य रासनत्वमप्यभ्युपगंतव्यं त्वगिंद्रियजन्याधिष्ठानगोचरवृत्यभिव्यक्तचैतन्यभास्ये तिक्तरसे परंपरयापि रसनोपयोगाभावेन तत्र कथमपि प्रकारांतरेण रासनत्वानुभवसमर्थनासंभवात् । तथैव रजतस्यापि चाक्षुषत्वोपपतेः पश्यामीत्युनुभवो न वाधनीयः ।। तद्गोचरेति । अधिष्ठानगोचरेत्यर्थः । वृतिसमकालमुदयो यस्याध्यासस्य पीतरूपादेस्स तथेत्यर्थः । अधिष्ठानसंप्रयोगजन्यावृतेरारोपित रूपादिविशिष्टशंखादिविषयत्वावंगीकारे आरोपितरूपादेरनवभासप्रसंग इत्यर्थः । रूपं विना केवलाधिष्ठानगोचरवृत्यभावे चेति । आरोप्यपीति मनैल्यादि संसृष्टशंखादिगोचरवृत्यनभ्युगमे चेति च कारार्थः । तत्पदं चैतन्यपरं पंचपादिकाग्रंथोक्तं तिक्तरसस्याध्यस्य मानस्यैंद्रियकत्वं चाक्षुषाध्यासस्थले इवा अधिष्ठानारोप्ययोरेकवृतिविषयत्वेन भवति । किं तु तिक्तरसमात्रगोचररासनवृत्येत्युपपादयति । तिक्तरसाध्यासस्याले त्विति । तदवछिन्नेति । मधुरादि द्रव्यरूपाधिष्ठानावछिन्न प्. २०२ब्) इत्यर्थः । पिताख्यदोषेण उपहतं यद्रसनं तेन सह मधुरद्रव्यरूपाधिष्ठानस्य संप्रयोगात् तत्राधिष्ठानावछिन्नचैतन्ये तिक्तरसाध्यास उदेति तदैवाध्यस्यमानतिक्तरसमात्रगोचररासनवृतिश्च उदेतीत्यर्थः । ननु तिक्तरसाध्यासाधिष्ठानस्य भानंरासनं तिक्तरसभानं तु केवलसाक्षिरूपमिति मतमेव कुतोनाद्रियते तत्राह । त्वगिंद्रियेति । चैतन्यभास्ये तिक्तरस इति । अभ्युपगम्यमान इति शेषः परंपरयापीति । रजताद्यध्यासस्थले इव धर्मिमात्रगोचरवृत्युत्पादनद्वारापीत्यर्थः । धर्मिणो मधुरद्रव्यादेः रसनेंद्रिया योग्यत्वादितिभावः । तत्र तिक्ततारूपे अध्यासे कथमपीत्यस्य व्याख्या प्रकारांतरेणेति । यद्यपि स्वप्नकाले केवलसाक्षिभास्येषु रसरूपादिषुरासनत्वचाक्षुषत्वाद्यनुभवस्यारोपरूपताया वक्ष्यमाणत्वेन प्रकृतेपि तथा समर्थनं संभवति स्वप्नपदार्थानामिव प्रातिभासिक तिक्तरसादेरपींद्रियासन्निकृष्टत्वेन सामग्र्यभावस्य तुल्यत्वा तथापि तं प्रकारमजानता तत्र कथमपीत्याद्युक्तमिति ध्येयं । तथैवेति । यथा रासनवृतिविषयत्वमादाय रासनत्वानुभवस्समर्थितस्तथा चाक्षुषवृतिविषयत्वमादायैव चाक्षुषत्वानुभवसंभवे तदनुभवस्यारोपरूपत्वकल्पनमयुक्तमित्यर्थः ।। न चासंप्रयुक्तस्य रजतस्य चाक्षुषत्वे प्रत्यक्ष प्. २०३अ) मात्रे विषयेंद्रिय सन्निकर्षः कारणं द्रव्यप्रत्यक्षे तत्संयोगः कारणं रजतप्रत्यक्षे रजतसंयोगः कारणमिति गृहीतानेककार्यकारणनियमभंगः स्यादिति वाच्यं । सन्निकर्षत्वस्य संयोगाद्यनुगतस्यैकस्याभावेनाद्यनियमासिद्धेः । द्वितीयनियमस्य नैयापिकरीत्यातमसीव संयोगायोग्ये क्वचिदद्रव्येपि द्रव्यत्वाध्याससंभवाद्व्यवहारदृष्ट्या यद्द्रव्यत्वाधिकरणं तद्विषयत्वेन प्रातिभासिक रजते द्रव्यत्वस्याधिष्ठान गतस्यैवेदत्व वदध्यासात् प्रतीत्यभ्युपगमेन च द्वितीयनियमाविरोधात् । द्वितीयनियमरूपसामान्यकार्यकारणभावव्यतिरेकेण विशिष्यापि कार्यकारणभावकल्पनायोगौरवपराहतत्वेन तृतीयनियमासिद्धेः ।। न बाधनीय इत्ययुक्तं बाधके सति तद्बाधस्यावश्यकत्वादिति मत्वाशंकते । न चेति । शंकितं बाधकं परिहरति । सन्निकर्षत्वस्येत्यादिना । आद्यनियमासिद्धेरिति जन्यप्रत्यक्षमात्रे इंद्रिय सन्निकर्षः कारणमिति नियमासिद्धेरित्यर्थः । जन्यपदं नित्यसाक्षिरूपे प्रत्यक्षे व्यभिचारवारणार्थः । शाब्दापरोक्षमते शाब्दभिन्नत्वमपि प्रत्यक्षविषणं द्रष्टव्यं । अत्रेदं बोध्यं । संयोगाद्यन्यतमत्व प्. २०३ब्) मनुगतमस्ति न्यायमते अभावत्वादि वदखंडोपाधिरूपं वा सन्निकर्षत्वं संभवतीत्याद्यनियमविरोधोदुर्वार इति । आद्यतियमस्यासिद्धत्वमुक्ताजन्यद्रव्यप्रत्यक्षे इंद्रियसंयोगः कारणमिति द्वितीयमुपेत्यप्रकृतेनस्याविरोधमाह । द्वितीय नियमस्येति । द्वितीय निमस्य व्यवहारदृष्ट्यायद्द्रव्यत्वाधिकरण तद्विषयत्वेन द्वितीयनियमाविरोधादिति संबंधः नियमस्य व्यावहारिकद्रव्यविषयत्वकल्पनायां नियामकमाह । संयोगायोग्ये क्वचिदिति । एकत्वद्वित्वादावित्यर्थः । एकत्वमेकमित्यादिप्रकारेण तत्रापि संख्याश्रयत्वभ्रमेण द्रव्यत्वाध्याससंभवादित्यर्थस्तथा च द्रव्यप्रत्यक्षमात्रे इंद्रियसंयोगस्य कारणत्व नियमस्य एकत्वादौ द्रव्यत्वाध्यासकाले तत्प्रत्यक्षे व्यभिचार इत्यर्थः । अद्रव्ये द्रव्यत्वारोपे दृष्टांतमाह । तमसीवेति । सिद्धांते तस्य द्रव्यत्वाभ्युपगमादाह । नैययापिकरीत्येति । प्रौढालोकाभावस्तम इति नैयायिकैरुक्तरीत्येत्यर्थः । गुणाश्रयत्वं द्रव्यलक्षणमिति जानतां तमसिरूपवत्व भ्रमेण द्रव्यत्व भ्रमस्संभवतीत्यर्थः । ननु शुक्तिरजतादौ घटादाविव स्वभावत एव द्रव्यत्वमस्ति अन्यथारजतत्वादि जातिरपि तत्र न स्यान्न चेष्टापतिरुतरत्ररजतंत्वादि जातेस्साधपिष्यमाणत्वात् । ततश्च शुक्तिरजतादिकमपि व्यवहारदृष्ट्याद्रव्यत्वाधिकरणं भवति । व्यवहारदर्शांयां शुक्तौ रजतवाधवच्छुक्तिरजते द्रव्यत्वरजतत्वादि जातिवाधादर्शना तथा च शुक्तिरजतादेरिंद्रियासंयुक्तस्य ऐंद्रियकवृतिविषयत्वोपगमे द्वितीय प्. २०४अ) नियमविरोधोपि दुर्वार इति चेत्सत्यं शुक्तिरजतादौ रजतत्व द्रव्यत्वादि जातिर्नास्तीति मतमनुसृत्य तत्र द्रव्यत्वप्रतीतिं घटयति । प्रातिभासिकरजत इति । इदमर्थगतेदं त्वस्येव तद्गतद्रव्यत्वस्यापि तत्र संसर्गारोप इत्यर्थः । तथा च शुक्तिरजतं व्यवहारदृष्ट्याद्रव्यत्वाधिकरणं न भवतीतिभावः । यत्सामान्ये यत्सामान्यं हेतुस्तद्विशेषे तद्विशेषो हेतुरिति न्यायस्यापि यत्र वीजांकुरादौ सामान्यकार्यकारणभावाभ्युपगमे वीजांतरादंकुरांतरोत्यत्यादिप्रसंगः । तद्विषयत्वेन ततो जागलस्तनायमान विशेषकार्यकारणभावासिद्धेः न वात्रापि द्रव्यप्रत्यक्षे द्रव्यसंयोगः कारणमिति सामान्यनियमोपगमेऽन्यसंयोगादन्यद्रव्यप्रत्यक्षापतिरिति प्रसंगोस्तीति वाच्यं । तद्द्रव्यप्रक्षे तत् द्रव्यसंयोगः कारणमिति नियमाभ्युपगमात् । अन्यथा तृतीयनियमेप्यति प्रसंगस्य दुर्वारत्वात् । तस्मान्नास्तिकॢप्तनियममंगः किं चात्र कॢप्तनियमभंगेपि न दोष इदं रजतं पश्यामि नीलं जलं पश्यामीत्यादेरनन्यथा सिद्धस्यानुभवस्य प्रथमगृहीतानामपि प्रत्यक्षमात्रे विषयसन्निकर्षः कारणमित्यादि प्. २०४ब्) नियमानां व्यावहारिकविषये संकोच कल्पनमंतरेणोपपादनासंभवात् ।। ननु द्रव्यप्रत्यक्षे इंद्रियसंयोगः कारणमित्युपगमे रजतचाक्षुषे रजत चक्षुः संप्रयोगः कारणमिति तृतीयनियमोपि दुर्वारः रजतस्य द्रव्यविशेषत्वात् । रजतचक्षुः संयोगस्य चेंद्रियसंयोगविशेषत्वाद्द्रव्यविशेषप्रत्यक्षे इंद्रियसंयोगविशेषः कारणमित्यस्यार्थस्य यत्सामान्यन्यायससिद्धत्वादिति शंकां परिहरति । यत्सामान्य इति । सामान्यकार्यकारणभावौ । यत्राति प्रसंगावहस्तत्रैवायं न्यायोनान्यत्रेत्यर्थः । न्यायस्य तद्विषयत्वेनेति संबंधः । तत् इति न्यायादित्यर्थः । ननु बीजसामान्यस्यांकुर सामान्यस्य च कार्यकारणभावोपगमे बीजांतरादंकुरांतरोत्पति प्रसंगवदिहाप्यति प्रसंगसत्वादुक्तन्यायप्रवृतिरस्त्येवेति शंकते । न चात्रापीति । उक्ताति प्रसंगपरिहराय तत्तदंकुरव्यक्तिं प्रति ततद्बीजव्यक्तेरुक्तन्यायेन हेतुत्वकल्पनावत्प्रकृतेपि ततद्द्रव्यप्रत्यक्षं प्रति तत्तद्द्रव्यसंयोगस्यैव तेन न्यायेन कारणत्वं सिध्यति । न तु तेन न्यायेन तृतीयकार्यकारणभावस्सिध्यतीत्याशयेनाह । तत् द्रव्येति । ननु तेन न्यायेनाति प्रसंगपरिहाराय तृतीयनियम एव कुतो न कल्प्यते । तत्राह अन्यथेति । तृतीयनियमकल्पन इत्यर्थः । अति प्रसंगस्येति अन्यरजतचक्षुस्संयोगात् । अन्यरजतचाक्षूषा प्. २०५अ) पतिरित्येवं रूपस्येत्यर्थः । न च व्यक्तिनियमवत् तृतीयनियमोप्यस्त्विति वाच्यं । अतिप्रसंगपरिहारानुपयुक्तस्य तस्याजागलस्तनायमानस्याकल्पनीयताया उक्तत्वादिति भावः । तस्मादिति । प्रथमतृतीयनियमयोरसिद्धत्वात् द्वितीयनियमस्य चाविरुद्धत्वादित्यर्थः । ननु प्रथमद्वितीयनियमविरोधस्य दुर्वारतायाः प्रागुक्तत्वातदंतःपातिव्यक्तिनियमविरोधस्यापि दुर्वारत्वाच्च नास्ति कॢप्तनियमभंग इत्ययुक्तमत आह । किं चात्रेति । शुक्तिरजतादिस्थाल इत्यर्थः । अनन्यथा सिधस्येति । स्वप्नकाले केवलसाक्षिभास्येषु रजतादिषु चाक्षुषत्वाद्यनुभवस्येवात्रापि आरोपरूपत्व कल्पनासंभवात् । अनन्यथा सिद्धत्व सिद्धः कॢप्तमामग्र्यभावस्य स्वप्न इवात्रापि तल्पत्वादन्यथा स्वप्नेपींद्रिय व्यापारकल्पनाप्रसंगादनुभवविरोधे सति तत्काले तदुपरमश्रवणस्यान्यथा नयनोपपतेरित्यादिकमत्रानुसंधेयं । अनुभवस्योपपादनासंभवादिति संबंधः ।। न चैवं सतिप्रमायां सन्निकर्षः कारणं न भ्रम इत्यपि संकोच कल्पनासंभवादसंनिकृष्टस्यैव देशांतरस्थस्यैव रजतस्ये हारोपापतिरित्यन्यथाख्यातिः पादप्रसारिका अभिव्यक्तचैतन्यावषुंटन शून्यस्य देशांतरस्थ रजतस्यापरोक्ष्यानुपपतेः ख्यातिबाधानुपपत्यादिभिर्भ्रमविषयस्यानिर्वचनीयत्व सिद्धेश्च प्. २०५ब्) न चाधिष्ठानसंप्रयोगमात्रात्प्रातिमासिकस्यैंद्रियकत्वोपगमे शुक्तिरजताध्याससमये तत्रैव कालांतरे ध्यसनीयस्य रंगस्यापि चाक्षुषत्वं कुतो न स्यादिति वाच्यं ।। कॢप्तनियमानां संकोच कल्पने सति शुक्तिरजतादेरनिर्वचनीयत्वासिद्धिं शंकते । न चैवं सतीति देशांतरस्थं रजतादिकं भ्रमविषयमिति न्यायमतं तत्रासंनिकृष्टस्य कथं प्रत्यक्षत्वमित्यनिर्वचनीयख्यातिवादिभिः शंकायां कृतायां सन्निकर्षः प्रत्यक्षे कारणमित्यादिति यमस्य भवतां मते व्यावहारिक पदार्थप्रत्यक्षविषयत्वेन संकोचवन्मममतेपि तस्य प्रत्यक्षप्रमायां सन्निकर्षः कारणमिति प्रत्यक्षप्रमाविषयत्वेन संकोचकल्पनोपपतेरन्यथाख्याति वादस्य न किचिद्बाधकमिति परिहारस्सु वचः परेषामित्यर्थः । भ्रमरूपे प्रत्यक्षे सन्निकर्षस्या हेतुत्वेपि नान्यथाख्याति वादप्रसक्तिरिति परिहरति अभिव्यक्तेति अर्थस्यापरोक्षत इंद्रियसन्निकृष्टत्वं न प्रयोजकं किं त्वभिव्यक्तचैतन्याभिन्नत्वमिति वक्ष्यते । तथा च भ्रमविषयस्य रजतादेर्देशांतरस्थत्वे आपरोक्ष्यं न संभवतीति । शुक्ति तादात्म्यांपन्नं रजतं सिध्यतीत्यर्थः । अवज्जंटनं तादात्म्यं नन्वेवमपि शुक्तिरजतं शुक्तिवत्सत्यमेवस्यान्नानिर्वचनीयं मानाभावादित्यत आह प्. २०६अ) ख्यातीति ख्यातिरपरोक्षप्रतीतिस्तथा च भ्रमविषयस्य देशांतरस्थत्वमसत्वं च निरस्तं भवति । असतस्संवित् । तादात्म्याभावेन प्रत्यक्षायोगात् । शुक्तौ कालत्रयेपि रजतनास्तीत्य बाधितबाधकप्रत्यक्षबलाद्रजनस्थिति समयेपि शुक्तौरजताभावः सिध्यति शुक्तौ यदि रजतं न स्यातदाख्यात्यनुपपतिर्यदि तत्र तत्सत्यं स्या तदा शुक्तौ शुक्तित्वमिव न बाध्येतातः ख्याति बाधानुपपत्या तस्यानिर्वचनीयत्वं सिध्यति । शुक्तिरजतस्य उत्पति विनाशवत्वादनिर्वचनीयत्वसिद्धिरेतच्च विवर्तलक्षणनिरूपणावसरे प्रपंचितमिति नात्र प्रपंच्यते । उत्पतिमत्वादि युक्तिरादिशब्दार्थः । शुक्तिरजतादेस्साक्षिभास्यत्व वादीशुक्तिरजतस्य स्वतादात्म्याश्रयेदमर्थ संप्रयोगादेव चाक्षुषवृतिविषयत्वेति स प्रसंग इति शंकते न चेति तत्रैवेति । शुक्तावेव कालांतरे यदध्यसनीयं तस्येत्यर्थः । कुत इति । यावृतिः शुक्तिरजतं विषयी करोति सैववृतिः शुक्तौकालांतरे ध्यसतीयं रंगमपि कुतो न विषयी करोति तस्यावृतेः रजत तादात्म्याश्रयेदमर्थ संप्रयोगजन्यत्वस्यैवकालांतरीयरंगतादात्म्याश्रयेदमर्थ- संप्रयोगजन्यत्वस्याप्यविशेषादित्यर्थः । तथा च संप्रयोगो न रजतगोचरवृतिहेतुः । किं तु सादृश्यं विशिष्टधर्मिज्ञान एव हेतुः सादृश्यज्ञानं च दोषत्वेन धर्मिज्ञानत्वेन च रजताद्यध्यासे कारणं रजतादिकं च स्वगोचरवृतिं विनैव चैतन्यभास्यमिति मतमुपेयमितिभावः ।। प्. २०६ब्) रजताध्याससमये रंगरजतसाधारणचाकचिक्यदर्शनाविशेषेपि । यतो रागादिरूपपुरुषदोषाभावादितस्तत्र तदानरंगाध्यासस्तत एवमयापि तद्विषयवृत्यनुदयस्याप्युपगमात् । तस्मादिदमंश संभिन्नरजतगोचरा एकैववृतिरिंद्रियजन्या न ततः प्रागिदमाकारावृतिरिति । नात्रैवेयमज्ञाननिवर्तकत्व सदसद्भाव चिंताकार्ययेति अन्येत्वधिष्ठानज्ञानमध्यासकारणमितीदमाकारां वृतिमुपेत्यतदभिव्यक्तेनैवसाक्षिणा तदध्यस्तरजतस्यावभाससंभवातद्भासकसाक्ष्यभिव्यंजकया तयैवेदं वृत्यारजतविषयसंस्काराधानोपपतेश्च रजताकारावृतिर्व्यर्थेति मन्यते । ज्ञानद्वयपक्षे इदमित्येकावृतिरध्यासकारणीभूता । इदं रजतमिति द्वितीयां वृतिरध्यस्तरजतविषयानत्विदमंशं विनाध्यस्तमात्रगोचरासा ।। तवमतेपि शुक्तौक्यालांतरे अध्यसनीयस्य रंगस्य रजताध्याससमय एवाध्यासः किं न स्यादधिष्ठानस्य सादृश्यज्ञानस्य च रजतंरमाध्यास साधारणत्वादिति दोषतौल्यं सूचयति । रजताध्याससमय इति प्. २०७अ) यदि च दृश्यमानसादृश्यरूपविषयदोषाविशेषेपि रजताध्याससमये रंरागोचररागात्मकपुरुषदोषस्याभावाद्रजतरागस्य सत्वाच्च न रंगाध्यास इति परिहार इष्यते । तदा ममापि तुल्यमुतरमित्याशयेनाह । यत इति । रागादिरूपायेः पुरुषदोषस्तदभावादेस्सकाशादित्यर्थः । रागादीत्यादि पदेन रंगस्य बुद्धौविपरिवर्तनं गृह्यते दोषाभावादीत्यादि पदेन रजतरागो गृह्यते । तत एवेति । रंगगोचररागादरभावाद्रजतरागसत्वादन्यस्याद्वाकारणात् । रजतस्यैव तत्रौत्पतिस्तत्काले रजतविशिष्टधर्मि गोचरवृतेरुदयश्चोपेयत इत्यर्थः । कवितार्तिकमतसुय संहरति । तस्मारिति । धर्मिज्ञानस्य कारणत्वे मानाभावादित्यर्थः । नात्रेत् । इदमाकारवृतावित्यर्थः । धर्मिज्ञानस्य कारणत्वे मानाभाववचनमाया तत इत्युपपादितं तत्र तत्र तदेतदभिसंध्ययतस्य तत्कारणत्वमतमेवाह । अन्ये त्वधिष्ठानज्ञानमिति । इदमाकारवृतिपक्षेपि रजतगोचरवृतिरंगीकर्तव्येति केचितं मतं दूषयति । इदमाकारामिति । अन्ये त्विदमाकारां वृतिमुपेत्यरजताकारावृतिर्व्यर्थेति संबंधः । इदमाकारवृत्युपगमे हेतुरधिष्ठानज्ञानमध्यासकारणमितीति । इति शब्दो हेत्वर्थः । धमज्ञानस्याध्यासकारणत्वादित्यर्थः । इदमाकारवृति व्यतिरिक्तारजताकारवृतिः किं रजतभानार्था किं वा तत्संस्कारार्थामाद्य इत्याह । तदभिव्यक्ते नैवेति । इदमाकारवृत्यभिव्यक्तेनैवेत्यर्थः । द्वितीयं दूषयति । तद्भासकेति । न चान्यगोचरवृत्या कथमन्यगोचरसंस्काराधानमिति प्. २०७ब्) वाच्यं । यद्धृत्यवछिन्नचैतन्येयावंतः । पदार्थाः प्रकाशंते तयैव वृत्या तावत्सु पदार्थेषु संस्काराधानमिति । प्रागुक्तत्वादिति भावः । ये तु स्वगोचरवृत्यैव स्वगोचरसंस्काराधानमिति मन्यंते । तेषां मते अध्यस्त रजतगोचरवृतिरप्यस्ति । तत्र किं द्वितीयावृतिरध्यस्तरजतविशिष्टधर्मिगोचरा किं वा रजतमात्रगोचरेति संशये मत द्वयेन निर्णयं दर्शयति । ज्ञानद्वयपक्ष इत्यादिना । द्वितीयवृतिरिदं रजतमित्येवमाकारासती अध्यस्तरजतविषयेति संबंधः । आकारविशेषोपादानफलमाह । नन्विति ।। इदं रजतं जानामीति तस्या इदमर्थ तादात्म्यापन्नरजतविषयत्वानुभवादिति केचित् । अन्ये तु यथेदमंशावछिन्न चैतन्यस्थाः विद्यारजताकारेण विवर्तते । एवमिदमंश विषयवृतिज्ञानावछिन्न चैतन्यस्थाविद्यारजतज्ञानाभासाकारेण विवर्ततेन त्विदमंशवृतिवदनध्यस्तं रजतज्ञानमस्ति । तथा च रजतस्याधिष्ठानगतेदं त्वसंसर्गभानवत्वत् । ज्ञानस्याप्यधिष्ठानगतेदं विषयत्वसंसर्गभानोपपतेर्न तस्यापि प्. २०८अ) तद्विषयत्वं वक्तव्यमिति वाच्यं । स्वतादात्म्याश्रयस्येदं त्वविषयत्वादेव तस्य तत्संसर्गविषयत्वेति प्रसंगाभावात् । न चाधिष्ठानाध्यासयोरेकस्मिन् ज्ञाने प्रकाशनियमस्य संभावना भाष्यविवरणे प्रतिपादनात् । एकवृतिविषयत्वं वक्तव्यमिति वाच्यं वृतिभेदेपीदमाकारवृत्यभिव्यक्ते एकस्मिन् साक्षिणि तयोः प्रकाशोपममादित्याहुः ।। द्वितीयवृतेर्विशिष्टविषयकत्वे अनुभवं प्रमाणयति । इदं रजतं जानामीति । द्वितीयवृतेरध्यस्तमात्रविषयकत्वमिति मतमाह । अन्ये त्विति । ज्ञानद्वयपक्षे द्वितीयवृतिरविद्यावृतिरिति प्रतिपादयति यथोत्पादिना । विवर्तते परिणमत इत्यर्थः । एवमिति । इदमंशविषयं यद्वृतिज्ञानं तदवछिन्नेत्यर्थः । इदमाकारवृत्यवछिन्नचैतन्यगता विद्या अध्यस्तरजतमात्रगोचरवृतिरूपेण परिणमते सा च वृतिर्ज्ञानाभासः कॢप्तज्ञानकारणाजन्यत्वादित्यर्थः । अनभ्यस्तमिति । ज्ञानाभासरूपं रजतज्ञानं रजतवप्रातिभासिकमेव न त्विदमाकारवृतिवद्व्यावहारिकं । ज्ञानाभासस्यापि शुक्तिरजतवदेवशुक्त्यज्ञाननिवर्तक प्रत्यक्ष बाध्यत्वादित्यर्थः । ज्ञानाभासस्य रजतमात्रविषयकत्वे तस्य इदं रजतमित्याकारो न स्यादित्याशंक्याज्ञानाभासस्य इदमंशविषयकत्वाभावेपि प्. २०८ब्) तस्य तदाकारस्संभवतीत्याशयेनाह । तथा चेति । ज्ञानाभासंप्रति इदं विषयकवृत्यवछिन्न चैतन्यस्याधिष्ठानत्वे सतीत्यर्थः । इदमंशज्ञाने ज्ञानाभासं प्रत्यधिष्ठानभूते विद्यमानं यदिदं त्व विषयकत्वं तत्संसर्गो रजतगोचरज्ञानो भासते तत्र दृष्टांतमाह । रजतस्येति । रजताधिष्ठानगतस्येदं त्वस्य संसर्गो यथा रजते भासते तथेत्यर्थः । ननु ज्ञानाभासेन रजते गृह्यमाणे इदं त्वसंसर्गो गृह्यते चेदिदं त्वमपि तेनावश्यं ग्रासं इदं त्वग्रहणं विना तत्संसर्गग्रहणायोगात् । तथा च ज्ञानाभासस्य रजत विशिष्टेदमंशविषयकत्व सिद्धिरिति शंकते । न चेति । संसर्गांशस्य रजतज्ञानाभासगोचरत्वे हेतुर्गर्भविशेषणमध्यस्तस्येति । वक्तव्यमिति । अन्यथा घटत्वादि निरूपित संसर्गप्रत्यक्षस्य घटत्वादि विषयकत्वं न स्यादित्यति प्रसंगायतेरितिभावः । ज्ञानाभासस्य इदं त्वरूप प्रतियोगिविषयकत्वाभावेपि ज्ञानाभासं प्रत्यधिष्ठानतया ज्ञानाभासतादात्म्यापन्नस्य इदमंशज्ञानस्य प्रतियोगिविषयक त्वात् । ज्ञानाभासस्य संसर्गविषयकत्वात् । ज्ञानाभासस्य संसर्गविषयकत्वं संभवति । तावतैव उक्ताति प्रसंगपरिहारोपपतेरिति परिहरति । स्वतादात्म्याश्रयस्येति स्वषदं ज्ञानाभासपरंवृतिभेदेपीति । अध्यस्तमात्रगोचराविद्यावृतेर्विवरणाकारैरेवाभ्युपगमा तदुक्त नियमे ज्ञानपदं साक्षि परमे वनवृति परमिति विवरणाकाराणामाशयो लक्ष्यत इति भावः ।। प्. २०९अ) ननु सर्वपदार्थानां साक्षि प्रसादादेव प्रकाशोपपतेः । किं वृत्याघटादिविषयसंस्काराधानाद्युपपते ये तदपेक्षणेपि तन्निर्गमाभ्युपगमोव्यर्थः । परोक्षस्थल इवानिर्गतवृत्यवछिन्न साक्षिणैव घटादैरपि प्रकाशोपपतेः । न च तथा सति परोक्षापरोक्ष वैलक्षिण्यानुपपतिः । शाब्दानुमित्योरिवकरणविशेषप्रयुक्तवृतिवैजात्यादेव तदुपपतेः । अत्र केचिदाहुः । प्रत्यक्षस्थले विषयाधिष्ठानतया तदवछिन्नमेव चैतन्यं विषयप्रकाशः साक्षातादात्म्यरूपसंबंध संभवे स्वरूपसंबंधस्यान्यस्य वा कल्पना योगादिति तदभिव्यक्त्यर्थं युक्तो वृति निर्गभाभ्युपगमः परोक्षस्थले ।। एवं बाह्यगोचरापरोक्षवृतीनामेवावरणाभिभावकत्वमिति नियमस्य भ्रमस्थलीयेदमाकारवृतौ व्यभिचारशंकायां सत्यां तद्वृत्यभ्युगमानभ्युपगमाभ्यांतापरिहृत्यप्रसंगात् ज्ञानद्वयपक्षे किचिद्विचार्य पूर्वोक्तवृतितिर्गममाक्षिपति । नन्विति । किं वृत्येति । वृतिरेवमास्तु तन्निर्गमो दूरापास्त एवेत्याशयः । ननु केवलसाक्षिण एव विषयानुभवरूपत्वे कालांतरे विषयानुसंधानं प्. २०९ब्) न स्यादनुभवनाशलक्षणसंस्काराभावा तथा आगंतुक वृत्यनंगीकारे चक्षुराद्यनुविधानं न स्यान्नित्यसाक्षिणि चक्षुरादेरनुपयोगादतो वृतिरादर्तव्येत्याशंक्यतामंगी करोति । घटादीति । ननु विषयप्रकाश एव तन्निर्गमफलमिति नेत्याह । परोक्षस्थल इवेति । ननु प्रत्यक्षपरोक्षज्ञानयोर्वैलक्षिण्यमनुभवसिद्धं । तच्च प्रत्यक्षस्थले वृतिनिर्गमाभ्युपगमे निर्वहतिः । वहिर्निर्गतवृत्यवछिन्नचैतन्यमऽपरोक्षजतानमनिर्गत वृत्यवछिन्नचैतन्यं परोक्षज्ञानमिति नेत्याह । न च तथा सतीत्यादिना । वृत्यनिर्गमनेऽसतीत्यर्थः । इंद्रियजन्यज्ञानं प्रत्यक्षं तदन्यं ज्ञानं परोक्षमिति वैलक्षण्योपपतेरित्यर्थः । यथाशाब्दज्ञाने शब्दरूपकरणविशेषप्रयुक्तं शाब्दत्वरूपं वै जात्यं यथा वा अनुभितावनुमितावनुमिति त्वं तथेत्यर्थः । करणविशेषः इंद्रियमनुमानादि च । तत्प्रयुक्तं वृतिषु वै जात्यं प्रत्यक्षत्वादितरूपमुपाधिरूपमुपाधिरूपं वा तस्मादेवेत्यर्थः । वृतिनिर्गमं साधयति । अत्र केचिदाहुरिति । विषयाधिष्ठानतया विषयावछिन्नं यच्चैतन्यं तदेवविषयप्रकाशः न जीवचैतन्यं तस्य विषयं प्रत्युपादानत्वाभावेन साक्षात् तादात्म्य संबंधाभावादित्यर्थः । अन्यस्यवेति । परंपरासंबंधस्य वेत्यर्थः । तादात्म्यरूपसंबंधसंभवे स्वरूपसंबंधकल्पना योगात् । साक्षात्संबंधसंभवे अन्यस्य संबंधस्य कल्पना योगादिति विभागः । ततः किं तत्राह । इति तदभिव्यक्त्यर्थमिति । प्. २१०अ) विषयावछिन्न ब्रह्मचैतन्यस्यैव विषयप्रकाशकत्वा तस्य च आवृतत्वादावरणाभिभवरूपाभिव्यक्ति सिद्ध्यर्थमित्यर्थः । ननूक्त युक्त्यापरोक्षस्थलेपि विषयावछिन्न ब्रह्मचैतन्यमेव विषयावभासकस्या ततश्च तत्रापि तन्निर्गमः प्रसज्येतेति नेत्याह । परोक्षस्थल इति ।। व्यवहिते वह्न्यादौ वृतिसंसर्गायोगादिंद्रियवदन्वयव्यतिरेक शालिनो वृतिनिर्गमद्वारस्यानुपलंभाच्चानिर्गतवृत्यवछिन्नचैतन्यमेव स्वरूपसंबंधेन विषयगोचरमगत्याभ्युपगम्यत इति । अन्ये त्वहंकार सुखदुःखादिष्वापरोक्ष्यं साक्षाच्चैतन्यसंसर्गिषु कॢप्तग्निति घटादावपि विषयसंसृष्टमेव चैतन्यमापरोक्ष्य हेतुरिति तदभिव्यक्तये वृतिनिर्गमं समर्थयंते । इतरे तु शब्दानुभानावगतेभ्यः प्रत्यक्षावगते स्पष्टतानावदनुभूयते । न हि रसालपरिपलादिविशेषे शतवारमाप्तोपदिष्टेपि प्रत्यक्षावगत इव स्पष्टतीस्ति तदनंतरमपि कथं तदिति जिज्ञासानुवृतेः न च शब्दान्माधुर्यादिमात्रावगमेपि रसालमाधुर्यादिवृत्यवांतर जातिविशेषवाचि शब्दाभावा तत्सत्वेपिश्चोत्रात्तस्यागृहीत संगति कत्वाच्छब्दादसाधारणाजाति विशेषावछिन्नप्ताधुर्यावगमो नास्तीति प्. २१०ब्) जिज्ञासानुवृतिर्युक्तेति शंक्यं । रसाले सर्वातिशायी माधुर्य विशेषोस्तीत्यस्माच्छब्दात् ।। वृतिनिर्गमन हेतु सन्निकर्षाभावादित्याशयेनाह । व्यवहित इति । वृतिनिर्गमने उपपत्यंतरमाह । अन्ये त्विति । संसर्गिषु कॢप्तमितीति । संसर्गस्तादात्म्यं विषयापरोक्षे क्वचित् कॢप्तप्रयोजकस्य संसर्गस्यैवान्यत्रापि संभवे तत्त्यागायोगादितिभावः । विषयसंसृष्टमेवेति न तु तदसंसृष्टं जीवचैतन्यमित्येवकारार्थः । तदिति । विषयावछिन्न ब्रह्मचैतन्याभिव्यक्तय इत्यर्थः । प्रत्यक्षे वस्तुन्यावरणाभिभवस्यावश्यकता प्रतिपादनपूर्वकं तदभिभवार्थं । वृतिनिर्गमनमिति प्रतिपादयति । इतरे त्विति । ननु शब्दाद्यवगतेप्यर्थे स्पष्टता किं न स्यादिति । नेत्याह नहीति । परिमलं सुगंध आदिपदं रसालगत रससंग्रहार्थमाम्रफले मधुररसादिरस्तीत्येवं रूपादाप्त वाक्याच्छतवारमुक्तादपि मधुरत्वादि सामान्यविशिष्टतयैवरसादि ज्ञानं भवति न तु मधुरत्वव्याप्य जाति विशेषविशिष्टरसादि ज्ञानं तथा च रसादिगत जातिविशेषज्ञानाभावादेव जातिविशेषजिज्ञासा उपपद्यते न तु शब्दादवगतेपि स्पष्टत्वाभावादित्याशयेन शंकते । न च शब्दादिति । माधुर्यं मधुररसं माधुर्यादिमात्रावगमेपि शब्दादसाधारण्यजातिविशेषावछिन्न प्. २११अ) माधुर्यावगमो नास्तीति संबंधः आसाधारणो यो जातिविशेषस्तदवछिन्नतया माधुर्यावर्गमो नास्तीत्यर्थः जातिविशेषावगमाभावे उपायाभावं हेतुमाह । रसालेत्यादिना रसालस्य यन्माधुर्यादि तद्वृतिर्यो अवांतरजातिविशेषस्तद्वावकशब्दाभावादित्यर्थः तद्बोधकशब्दमंगीकृत्यापि शक्तिग्रहाभावा तदवगमो न संभवतीत्याह । तत्सत्वेपीति । तस्यैति । अवांतरजातिविशेषवाचकशब्दस्येत्यर्थः । न च शंक्यमिति संबंधः तद्वाचकपदाभावेपि तद्बोधको वाक्यरूपशब्दोस्ति तेन च जातिविशेषावगमोप्यस्ति तथा चावगते जातिविशेषे स्पष्टत्वाभावादेव जिज्ञासेत्याशयेवाह । रसास्त इत्यादिना तद्गतावांतरजातिविशेषस्याप्यवगमात् न ह्ययं विशेषशब्दस्तद्गतं विशेषे विहायान्यगतं विशेषं तत्र बोधयति अप्रामाण्यापतेः । न च तद्गतमेव विशेषं विशेषत्वेन सामान्येन रूपेण बोधयति न विशिष्येति जिज्ञासेति वाच्यं । प्रत्यक्षेणापि मधुररसविशेषस्य जातिविशेषस्य स्वरूपत एव विषयीकरणेन जातिविशेषगतविशेषांतराविषयीकरणाज्जिज्ञासानुवृतिप्रसंगात् । तस्मात् प्रत्यक्षग्राह्येभिव्यक्तापरोक्षैकर स चैतन्यावगुंठनात् प्. २११ब्) स्पष्टता जिज्ञासा निवर्तन क्षमाशब्दादिगम्ये तदभावादस्पष्टतेति व्यवस्थाभ्युपगंतव्या । अत एव साक्षि वेद्यस्य सुखादैः स्पष्टता ।। अयंशब्दः किं तद्गतजातिविशेषं बोधयति किं वान्यगतें । आद्यमंगी करोति । तद्गतावांतरेति । द्वितीयं दूषयति । नह्यद्यमिति । तत्रेति रसालामाधुर्यादावित्यर्थः । तात्पर्थ्य विषय एव शब्दस्य प्रामाण्याभ्युपगमादिति भावः । न चाप्रामाण्ये इष्टापतिरिति वाच्यं । आप्तवाक्यस्य तदंगीकारा योगादितिभावः । माधुर्यगतजातिविशेषभावमंगीकृत्यशंकते । न च तद्गतमेवेति । सामान्येनेति । विशेषत्वं रसालमाधुर्यगते जातिविशेष इव फलांतरमाधुर्यगतेषु जातिविशेष्वपि सत्वात् सामान्यरूपमितिभावः । न विशेष्येति । जातिविशेषगतविशेषविशिष्टतया जातिविशेषन्न बोधयति । तथा च रसालमाधुर्यगत जातिविशेषस्य स्वरूपेण शब्दादवगतत्वेपि स्वमतासाधारणविशेषविशिष्टतयानवगतत्वादेवजिज्ञास्यत्वमितिभावः । जातिविशेषगतो साधारणविशेषः किं जातिरूपः । किं वा जातिविशेषाश्रयेतरावृतित्वे सति जातिविशेषाश्रयवृतित्वरूपोपाधिर्वा नाद्यः जातौतंदनंगीकारात् । न द्वितीयः रसालमाधुर्यगतजातिविशेषे प्रत्यक्षेणापि प्. २१२अ) तदग्रहणेन प्रत्यक्षावगतेपि जातिविशेषजिज्ञासानुवृति प्रसंगात् । तस्मात् प्रत्यक्षेणापि स जाति विशेषः स्वरूपेणैव गूह्यते । इति वक्तव्यं । स्वरूपेण तदवगमश्चोक्त शब्दादप्यस्त्येवेति शब्दावगतस्यापि स्पष्टत्वे तत्र जिज्ञासानुवृतिर्न स्यादित्याशयेनाह । प्रत्यक्षेणापीति । तस्मादिति । प्रत्यक्षावगत इव शब्दादि गम्येर्थे स्पष्टत्वाभावादित्यर्थः । अनुभवसिद्धायाः स्पष्टतायाः प्रयोजकमाह । अभिव्यक्तेति । अपरोक्षत्वं स्वप्रकाशत्वमेकरसमेक रूपत्वं । अभिव्यक्तं यदपरोक्षैकर स चैतन्यंततादात्म्यात् प्रत्यक्षग्राह्ये स्पष्टताविषयताविशेषरूपेत्यर्थः । अनेन विषयगतस्पष्टता प्रयोजकी भूताविषयचैतन्यं तताक्ति सवरणनिवृतिरूपा तस्यास्सिद्धये वृतिनिर्गमनमपेक्षितमिति सूचितं । आवरणनिवृतेः स्पष्टताप्रयोजकत्वे अन्वयव्यतिरेकौ दर्शयति । अत एवेत्यादिना । अभिव्यक्तचैतन्यसंसर्गादेवेत्यर्थः ।। शाब्दवृतिवेद्यस्यापि ब्रह्मणो मननादेः प्रागज्ञानानिवृतावस्पष्टता तदनंतर तन्निवृतौ स्पष्टतेति वृतिनिर्गममुपपादयंति । नन्वेतावतापि विषयावरकाज्ञाननिवृत्यर्थं वृतिनिर्गम इत्युक्तं । तदयुक्तम् । विषयावछिन्नचैतन्यगतस्य तदावरकाज्ञानस्यानिर्गतवृत्यानिवृत्युपगमेप्यनति प्रसंगात् । न च तथा सति देवदतीय घटज्ञानेन यज्ञदतीय प्. २१२ब्) घटाज्ञानस्यापि निवृतिप्रसंगः समानविषयत्वस्य सत्वात् । अहमर्थविषयचैतन्यनिष्ठयोर्ज्ञानाज्ञानयोर्भिन्नाश्रयत्वेन तर्योर्विरोधे समानाश्रयत्वस्यात्वंत्रत्वादिति वाच्यं समानाश्रयविषयत्वं ज्ञानाज्ञानयोर्विरोधप्रयोजकमंगीकृत्यवृतिनिर्गमाभ्युपगमेपि देवदतीय घटवृतेर्यज्ञदतीय घटाज्ञानस्य च घटावछिन्नचैतन्यैकाश्रयत्वविषयत्व प्राप्त्यातिप्रसंगतादवस्थेन ।। शाब्दवृतीति । शब्दजन्यावृतिर्मननाद्यनुष्ठानात् प्रागसंभावना विपरीतभावनाभ्यां प्रतिबद्धत्वादज्ञानानिवर्तिका तदनुष्ठानातंतरमप्रतिबद्धत्वावज्ञाननिवर्तिकेति भावः । नन्वेतावतापीति । अत्र केचिदाहुरित्यादिनामतत्रयोपन्यासात्मक ग्रंथेनापीत्यर्थः । विषयावरकाज्ञानस्य पुरुषगतत्वमते । अनिर्गतवृत्यानिवृतिसंभवेपि तस्य विषयावछिन्नचैतन्यगतत्वपक्षे तन्निर्गमापेक्षास्यादित्याशंक्यानिर्गतवृत्यैवविषयगताज्ञानस्यापि निवृतौ नास्ति बाधकमित्याशयेनाऽज्ञानं विशिनष्टिविषयावछिन्नचैतन्यगतस्येति । ननु ज्ञानाज्ञानयोर्निवर्त्यनिवर्तकभावलक्षणे विरोधे समानाश्रयत्वे सति समानविषयकत्वं । तंत्रं समानाश्रयत्वं च वृतिनिर्गमने सति संभवति । अज्ञानाश्रये प्. २१३अ) विषयचैतन्ये वृतिरूपज्ञानस्थापि स्थितिलाभात् तन्निर्गमाभावे तु तयोस्समानाश्रयत्वासंभवात् । समानविषयकत्वमात्रं विरोधप्रयोगजं पर्यवस्यति । तथा चाति प्रसंग इति शंकते । न च तथा सतीति । वृतिनिर्गमानुपगमे सतीत्यर्थः । सत्वादिति । देवदतीय घटज्ञानयज्ञदतीय घटाज्ञानयोरिति शेषः । अहमर्थेति । वृतिनिर्गमाभावे सति ज्ञानमहमर्थनिष्टमेव न विषयचैतन्यनिष्टं विषयावरकाज्ञानं च विषयचैतन्यनिष्ठमेव नत्वहमर्थनिष्ठं । तथा च समानाश्रयत्वं वापि तत्वान्नप्रयोजककोटिप्रविष्टमित्यर्थः । समानाश्रयविषयत्वमिति ज्ञानाज्ञानयोर्विरोधे समानाश्रयत्वे सति समानविषयकत्वं प्रयोजकं परिकल्प्य तन्निर्वाहायवृतिनिर्गमे स्वीकृतेप्युक्तदोषतादवस्थो न तयोर्विरोधे उक्त प्रयोजकादन्यदेवप्रयोजकं कल्पनीयं तच्च वृतिनिर्गमं विनैव सिध्यति । अतो विरोधप्रयोजकोपपादकतयापि वृतिनिर्गमो न सिध्यतीति समुदायार्थः । देवदतीयेति । यज्ञदतीय घटाज्ञानाश्रये घटावछिन्नचैतन्ये देवदतीय घटज्ञानरूपवृतेर्निर्गमनद्वारासंबंधे सति देवदतीय घटज्ञानयज्ञदतीय घटाज्ञानयोस्समानयोस्समानाश्रयत्वे सति समानविषयकत्वं लभ्यते न च देवदतीय घटवृत्यायज्ञदतीय घटाज्ञाननिवृतिरस्तीत्युक्तदोषतादवस्थ्यमित्यर्थः ।। प्. २१३ब्) यदज्ञानं यं पुरुषं प्रति यद्विषयावरकं ततदीय तद्विषयकज्ञाननिवर्त्यमिति पृथगेव विरोधप्रयोजकस्य वक्तव्यतया सामानाश्रयत्वस्यानपेक्षणात् । अत्राहुः वृतिनिर्गमानुपगमे ज्ञानाज्ञानयोर्विरोधप्रयोजकमेवदुर्नीरूप्यं यदज्ञानं यं पुरुषं प्रतीत्याद्युक्तमिति चेन्न परोक्षज्ञानेनापि विषयगताज्ञाननिवृतिप्रसंगात् अपरोक्षत्वमपि निवर्तकज्ञानं विशेषणमिति चेत् । किं तदपरोक्षत्वं न तावज्जातिः दंड्ययमासीदिति संस्कारोपनीत दंडविषिष्टपुरुषविषयस्य चाक्षुषज्ञानस्य दंडांशेपि तत्सत्वे तत्रापि विषयगताज्ञाननिवृत्यापातात् । दंडंसाक्षात्करोमीति तदंशेप्यापरोक्ष्यानुभवापतेश्च । अननुभवेपि संस्कारं सन्निकर्षं परिकल्प्येंद्रिय सन्निकर्षजन्यतया तत्र काल्पनिकापरोक्ष्योपगमेनुमित्यादावपि लिंगज्ञानादिकं सन्निकर्षं परिकल्प्यतदंगीकारापतेः । दंडाशे आपरोक्षा सत्वे तु तस्य जातित्वायोगाज्जातेर्व्याप्यवृतित्वनियमात् ।। प्. २१४अ) यदीदं प्रयोजकं न भवति । किं तर्हि तत्प्रयोजकं वृतिनिर्गमननिरपेक्षं पूर्ववादिनस्तवाभिप्रेतं । तत्राह । यदज्ञानमिति । तदिति । तदज्ञानं तत्पुरुषीय तद्विषयकज्ञाननिवर्त्यमित्यर्थः । तथा च प्रयोजक शरीरे यं पुरुषं प्रतीत्यनेन तदीयेत्यनेन च यज्ञदतं प्रतिविषयावरकाज्ञानस्य यज्ञदतीय ज्ञानेनैव निवृतिर्न देवदत ज्ञानेनेति नियमलाभान्नोक्ताति प्रसंग इति सूचितं । वृतिनिर्गमं साधयितुमुपक्रमेते । अत्राहुरित्यादिना किं तदिति । अपरोक्षत्वं जातिरुपाधिर्वेति किं शब्दार्थः आद्यं दूषयति । न तावदिति । पूर्वं दंडविशिष्टतया गृहीते विष्णुमित्रे वर्तमानकाले दंडवियुक्ते प्रत्यक्षप्रत्यभिज्ञानं संस्काररूपोपनायकसहितादिंद्रियाज्जायते । अयं विष्णुमित्रोदंड्यासीदिति । तत्र दंडांशे प्रत्यक्षत्वमस्ति न वा आद्ये दोषमाह । देडांशेपीति । निवृत्यापातादिति । न चात्रेष्टापतिर्वक्तुं शक्यासदंड इदानीं कीदृश इति जिज्ञासानुदयप्रसंगादितिभावः । नन्वज्ञाननिवृत्यनुभवयोरभावेपि दंडांशे प्रत्यक्षं त्वं कल्प्यते कल्पकं च इंद्रिय सन्निकर्ष जन्यत्वं सन्निकर्षश्च स विषयप्रत्यासतिरिति मतमनुस्वत्यसंस्कारः कल्प्यते इत्याशंक्य अतिप्रसंगमाह । अननुभवेपीत्यादिना प्. २१४ब्) अनुमितौ लिंगज्ञानं सन्निकर्षः उपमितौ सादृश्यज्ञानं सन्निकर्षः शाब्दे पदार्थोपस्थितिस्सन्निकर्षः । अर्थापतावनुपपद्यमानपदार्थज्ञानं सन्निकर्षः अभावज्ञाने प्रतियोगिज्ञानं सन्निकर्ष इति कल्पनया प्रत्यक्षप्रमाणपरिशेषापतेरितिभावः । तदंगीकारेति अपरोक्षत्वांगीकारापतेरित्यर्थः । दंडांशेपि प्रत्यक्षत्वं नास्तीति । द्वितीय कल्पं दूषयति । दंडांश इति व्याप्यवृतित्वनियमादिति । अन्यथा एकस्यामेव प्रत्यभिज्ञायां ततांशे संस्कारजतया स्मृतित्वापतौ जातिसंकरापतेरितिभावः ।। तदनियमेप्यवछेदकोपाधिभेदानिरूपणेन तस्याव्याप्यवृतिज्ञातित्वायोगाच्च । नाप्युपाधिस्तदनिर्वचनात् । इंद्रियजन्यत्वमिति चेन्न । साक्षि प्रत्यक्षा व्यापनात् । अनुमिति शाब्दज्ञानोपनीत गुरुत्वादिविशिष्टघटप्रत्यक्षे विशेषणांशातिव्यापनाच्च । कारणांतराभावेन तदंशे परोक्षेप्युपनय सहकारिसामर्थ्याद्रिंद्रियस्यैव जनकत्वादनुगतजन्यतावछेदका ग्रहेणानेकेष्विंद्रियजन्यत्वस्य दुर्ग्रहताच्च । तत् ग्रेहे च तस्यैव प्रथमप्रतीतस्यापरोक्षरूपत्वोपपतौ प्रत्यक्षानुभवा प्. २१५अ) योग्यस्येंद्रियजन्यत्वस्य तद्योग्यापरोक्षरूपत्व कल्पनायोगात् ।। तदनियमेपीति । जातेर्व्याप्यवृतित्वनियमाभावेपि प्रकृते प्रत्यभिज्ञायाः विष्णुमित्रांशे प्रत्यक्षत्वं दंडांशेत प्रत्यक्षत्वं दंडांशे तदभावश्चास्तीति वक्तव्यं । ततश्चावछेदकभेदं विना प्रतियोगि तदभावयोरेकत्र वृत्ययोगादुपाधिभेदो वाच्यस्स च दुर्निरूपस्तस्मादपरोक्षत्वजातेः स्वसमानाधिकरणात्यंताभाव प्रतियोगित्वरूपाव्याप्यवृतित्वायोगाद्व्याप्यवृतिजातित्वमेव वाच्यं । तत्र च दूषणमुक्तमितिभावः । ननु प्रकृते उपाधिभेदानिरूपणमसिद्धं लौकिकसन्निकर्षजन्यत्वतःदभावयोर्वासंस्काराजन्य ज्ञानत्व तदभावयोर्वा विष्णुमित्रविषयकत्व तदभावयोर्वापरोपरोक्षत्व तदभावौ प्रत्युपाधित्व संभवादिति चेत् न । उक्तोपाधो नामपि भावाभावरूपतया तदर्थमुपाध्यंतरापेक्षायामनवस्था प्रसंगादिति भावः । अपरोक्षत्वमुपाधिरिति पक्षं दूषयति । नापीति । अनिर्वचनमसिद्धमिति चेत्तन्न व्यूक्तव्यं किमिद्रियजन्यत्वमपरोक्षत्वं किं वा तत्सन्निकर्षजन्यत्वं सिद्धांत्यभिमतं वा तत्राद्यमनूद्यदूषयति । इंद्रियेति । सुखादि प्रत्यक्षरूपे नित्यसाक्षिण्यव्याप्तिमुक्ताति व्याप्तिमप्याह । अनुमितीति । यस्मिन् घटे अनुमानेन वा शब्देन वा गुरुत्वमनुभूतं तस्मिन् इंद्रियसन्निकर्षे सति घटोयं प्. २१५ब्) गुरुरिति प्रत्यक्षं भवति । तत्र विशेषणीभूतगुरुत्वांशेति व्याप्तिरित्यर्थः । ननु गुरुत्वस्य इंद्रियायोग्यतयापरोक्षे तदंशज्ञाने तज्जन्यत्वमसिद्धमित्यत आह । कारणांतरेति । यथा रुचिदतमते अनुमितौ मनसः करणत्वं तथेति भावः । न चेंद्रियत्वेनेंद्रियजन्यत्वमपरोक्षत्वं गुरुत्वांशज्ञाने च न तथा तज्जन्यत्वमिति नाति व्याप्तिरिति वाच्यं । तथापि साक्षिप्रत्यक्षा व्याप्त्यनिरासादितिभावः । अनेकेषुरूपादि साक्षात्कारेषु तज्जन्यत्वं दुर्ग्रहमनुगत जन्यतावछेदकाभावे न तद्ज्ञानं विना जन्यत्वज्ञानासंभवादित्याह । अनुगतेति । ननु साक्षात्करोमि इत्यनुभवसिद्धः कश्चिदखंडोपाधिरेव जन्यतावछेदकोस्तित्याशंक्य तर्हि । स एवापरोक्षत्वं भवेन्नान्यदित्याह । तद्ग्रहे चेति अवछेद्य जन्यत्वग्रहात्पूर्वमेवावछेदक ग्रहस्यावश्यकत्वात्साक्षात्करोमीत्यनुभवयोग्यस्यापरोक्षत्वस्य तदयोग्य धर्मरूपत्वायोगोच्चेत्यर्थः ।। एतेनेंद्रिय सन्निकर्षजन्यत्वमापरोक्ष्यमुपनयसहकृतेंद्रिजन्यपरोक्षांशे च न सन्निकर्षजन्यत्वमनुमितावप्युपनीतभानसत्वेन प्रमाणांतरसाधारणस्योपनयस्यासन्निकर्षत्वादित्यपि शंकानिरस्ता प्. २१६अ) संयोगादि सन्निकर्षाणामननुगमेनानुनुगमाच्च । यत्तवाभिमतमापरोक्ष्यं तदेव ममाप्यस्त्विति चेन्न तस्य शब्दापरोक्षनिरूपणप्रस्तावे प्रतिपादनीयस्य तत्रैव दर्शनीययारित्या ।। अस्त तर्हि उक्तावछेदकोपाधिरेवापरोक्षनं स किं व्याप्यवृतिरव्याप्यवृतिर्वानाद्यः दंड्यऽयमासीदिति प्रत्यक्षे दंडाशातिव्याप्तेर्न द्वितीयः अवछेदकभेदानिरूपणात् । न च विष्णुमित्रविषयकत्वावछेदेन तत्रापरोक्षत्वरूपोपाधिरस्ति दंडविषयकत्वावछेदेन तत्रैव तदभावोप्यस्तीति वाच्यं । तथा सति दंडांशे विष्णुमित्रविषयकत्वाभावस्य वक्तव्यतया तत्र प्रत्यक्षे विष्णुमित्रविषयकत्व तदभावयोरविरोधायावछेदकांतरापेक्षायां पूर्वोक्तानवस्थाप्रसंगादखंडोपाधिस्वीकारे जातिमात्रविलयप्रसंगाच्च नोक्तोपाधिपक्षः संभवतीति भावः । उपाधिपक्षे द्वितीयविकल्पं निराचष्टे । एतेनेति । अव्याप्त्यादिदोषप्रसंगेनेत्यर्थः । इंद्रियजन्यत्वमपरोक्षत्वमिति पक्षे या अतिव्याप्तिरुक्ता सा तत्सन्निकर्षजन्यत्वं तदिति पक्षे नास्तीत्याह शंकिकः उपनयेति । कारणांतरा भावेन इंद्रियजन्यत्व सत्वेपि तत्सन्निकर्षजन्यत्वं नास्ति । उपनयस्य सन्निकर्षत्वाभावात् । सन्निकर्षातराभावाच्चेति भावः । दूषणांतरमाह । संयोगादीति । संयोगसंयुक्त ससमवादि प्. २१६ब्) सन्निकर्षाणामननुगमेन संयोगादिष्वनुगतसन्निकर्षत्वस्याभावेनेति यावत् । अननुगमाच्चेति । इंद्रिय सन्निकर्ष जन्यत्वस्येति शेषः । तथा च घट तद्रूपरूपत्व शब्दशब्दत्वसुखादिगोचरसाक्षात्कारेषु साक्षत्करोमीत्यनुगत प्रत्यक्षं न स्यादितिभावः । उपाधिपक्षे तृतीयमुपाधिमाशंकते । यतवाभिमतमिति । तवसिद्धांतिनो यद्ज्ञानगतमपरोक्षत्वं संमतं तदेव मम मतेप्यस्त तथा चापरोक्षत्वस्याज्ञाननिवर्तक ज्ञानविशेषणत्वं संभवान्न परोक्षज्ञानेन तन्निवृतिप्रसंग इति भावः । मदभिमतापरोक्षत्वस्य ज्ञाने तन्निवृतिप्रयोजकत्वं न संभवतीति सिद्धांती दूषयति । न तस्येति । मडभिमतापरोक्षत्वस्येत्यर्थः । प्रस्तावः प्रकरणं तच्च तृतीय परिछेदोवसाने द्रष्टव्यं । तत्रैव दर्शनीययेति । ज्ञानस्यापरोक्षत्वं हि न करणविशेषप्रयुक्तं किं त्वपरोक्षार्था भिन्नत्वमिदं चापरोक्षत्वं विषयावभासकचैतन्यरूपज्ञाननिष्ठमतो न साक्षिप्रत्यक्षा व्याप्तिः अर्थापरोक्ष्यं च स्वव्यवहारानुकूलचैतन्याभि ।। अज्ञाननिवृति प्रयोज्यत्वेन तन्निवृतिप्रयोजकविशेषणभावायोगात् । तस्मातरति शोकमात्मविदिति श्रुतस्य ब्रह्मज्ञानस्य प्. २१७अ) मूलाज्ञानाश्चय भूतसर्वोपादान ब्रह्मसंसर्गनियतस्य मूलाज्ञाननिवर्तकत्वादैंद्रियकवृतयः ।। न्नत्वं स्वपदमर्थपरं तद्व्यवहारानुकुलं च चैतन्यं निवृतावरणं ततदधिष्ठानचैतन्यमेव तथा घटाद्यर्थस्य स्वव्यवहारानुकूलेन स्वाधिष्ठानचैतन्येन स्वगोचरवृत्यभिव्यक्तेन तादात्म्यलक्षणाभेद स त्वात् । स्वव्यवहारानुकूलचैतन्याभिन्नत्वरूपमऽपरोक्षत्वमुपपन्नं तथा अहंकारादिषु तदधिष्ठानभूतस्य केवलसाक्षिरूप तत्प्रत्यक्ष ज्ञानस्य बाह्यघटादिषु तत्तदाकारवृयुपहितस्यऽघटादि प्रत्यक्षज्ञानरूपस्य घटाद्यधिष्ठानचैतन्यस्य च तेन तेन विषयेण तादात्मः सत्वादपरोक्षार्थाभिन्नरूपमपरोक्षत्वमुपपन्नंमिति हि तत्र दर्शनीयारीतिः । प्रयोज्य त्वेनेति । विषयचैतन्यगताज्ञाननिवृत्तौ सत्यां विषयस्य घटादेः स्वव्यवहारानुकूलचैतन्याभिन्नत्वरूपमपरोक्षत्वं लभ्यते । विषयस्य तल्लाभे सति तद्ज्ञानस्यापरोक्षार्थो भिन्नत्वरूपमपरोक्षत्वं लभ्यते । तथा च विषयचैतन्यगता ज्ञाननिवृतेः पूर्वं ज्ञानस्यापरोक्षत्वालाभेन सिद्धांत्यभिमतस्य ज्ञानगतापरोक्षत्वस्य विषयचैतन्यगताज्ञाननिवृति प्रयोज्यस्याज्ञाननिवृतिं प्रतिप्रयोजकत्वासंभवादित्यर्थः । तन्निवृतिर्प्रतिप्रयोजकतया निवर्तक प्. २१७ब्) ज्ञानविशेषणत्वायोगादित्यक्षरार्थः । तस्मादिति । यदज्ञानं यं पुरुषं प्रतीत्यादिरूपे निरुक्ते विरोधप्रयोजके अपरोक्षत्वस्य निवर्तक ज्ञान विशेषणत्वासंभवादित्यर्थः । तस्मादज्ञानाश्रयचैतन्यसंसर्गनियतत्वं निवर्तकज्ञानविशेषणं वाच्यमिति संबंधः परोक्षज्ञानस्याज्ञाननिवर्तकत्व प्रसंगवारणायेति शेषः । ननु विषयसंसृष्टस्य वृतिज्ञानस्य विषयगतो ज्ञाननिवर्तकत्वं क्वचिदप्यकॢप्तमित्याशंक्य ब्रह्मगोचरवृति ज्ञाने कॢप्तमित्याशयेनाह । ब्रह्मज्ञानस्येति । मूलाज्ञानाश्रय भूतसर्वोपादाने ब्रह्मणि संसर्गनियतस्येत्यर्थः । यदा ब्रह्मगोचरवृतिज्ञानमुदेति तदा नियमेन ब्रह्मसंसृष्टमेवोदेत्वीत्यत्र हेतुत्वेन सर्वोपादानत्वमुपातं कार्यमात्रस्य जन्मप्रभृत्युपादानभूतब्रह्मणा सहसंसर्गनियमे सति ब्रह्मगोचवृतिज्ञानस्यापि स्वनिवर्त्यमूलाज्ञानाश्रयभूते ब्रह्मणि संसर्गनियमोप्यर्थ सिद्ध इति भावः । ब्रह्मज्ञानस्याज्ञाननिवर्तकत्वे मानमाह । तरति शोकमिति । शोकपदमिज्ञानपरम्मत्मपदं प्रत्यगभिन्न ब्रह्मपरं श्रुतस्येति पदात्पूर्वमज्ञाननिवर्तकत्वेनेति शेषः ।। प्. २१८अ) ततदिंद्रिय सन्निकर्ष सामर्थ्यात्तत्तद्विषयावछिन्नचैतन्यसंसृष्टा एवोत्पद्यंत इति नियममुपेत्याज्ञानाश्रयचैतन्य संसर्गनियतत्वं निवर्तकज्ञानविशेषणं वाच्यं । तथा च पदज्ञानं यं पुरुषं प्रतियद्विषयाबरकं तत्तदीतद्विषय तदज्ञानाश्रयचैतन्यसंसर्गनियतात्मलाभज्ञाननिवर्त्यमिति ज्ञानाज्ञानयोर्विरोधप्रयोजकं निरूपितं भवति । न चैवं सति नाडीहृदयस्वरूपगोचरशाब्दज्ञानस्याप्यज्ञाननिवर्तकत्व प्रसंगः ।। परोक्षवृतीनां विषयचैतन्यसंसर्गाभावादैंद्रियकवृतीनां तत्संसर्गे को हेतुस्तत्राह । ततद्रिंद्रियसान्निकर्षसामर्थ्यादिति । अनेनपरोक्षवृतीनामज्ञानाश्रयविषयचैतन्यसंसर्गनियतत्व रूपविशेषणाभावाद्यदज्ञानं यं प्रतीत्याद्यंश सत्वेपि न तत्राति प्रसंग इति सूचितं । पर्यवसितं प्रयोजकं दर्शयति । तथा चेति । उक्तविशेषणे सतीत्यर्थः । घटावछिन्नचैतन्ये तदावरकाज्ञानानि बहूनि संति । तेषां मध्ये कानिचिद्रदेवदतंप्रति तदावरकाणिकानि चिच्चयज्ञदताद्दिकं प्रतितदावरकाणि एवं प्रतिविषयं पुरुषभेदेनानेको ज्ञाननिसंति । तथा च विषयावरकाज्ञानानां प्. २१७ब्) मध्ये यदज्ञानं यं पुरुषं देवदतं प्रति यद्विषयावरकं यस्य विषयस्य घटस्यावरकं तदज्ञानं तदीपेन देवदतीयेन तद्विषयेण तद्वटविषयकेण तदज्ञानाश्रयचैतन्यसंसर्गनियतात्मलाभज्ञानेन निवर्त्यमित्यर्थः । तदज्ञानेति यद्देचदतं प्रतिघटावरकाज्ञानमभिधीयते । तदज्ञानाश्रयचैतन्यं घटावछिन्नचैतन्यं । तत्र यः संसर्गः तन्नियतः तद्व्याप्य आत्मलाभो यस्य घटगोचरवृतिज्ञानस्य तद्ज्ञानं तदज्ञानाश्रयचैतन्य संसर्गनियतात्मलाभं । तच्च तद्ज्ञानं चेति विग्रहः आत्मलाभः उत्पतिः नियमश्च यदा यदा घटगोचरवृतिज्ञानस्य घटेंद्रिय सन्निकर्षजन्यस्यात्मलाभस्तदा तदा घटावछिन्नचैतन्ये तस्य घटगोचरवृतिज्ञानस्य संसर्ग इत्येवमात्मकः तदुक्तं प्रागैंद्रियकवृतयस्ततद्विषयावछिन्नचैतन्यसंसृष्टा एवोत्पद्यंत इति नियममुपेत्येति । अत्र यदा यदा ऐंद्रियकवृतीनां मुत्पतिस्तदा तदा विषयचैतन्ये तासां संसर्ग इति हि नियमः स्पष्टं भासते । एवं विषयांतरेषु पुरुषांतरेष्वज्ञानांतरेषु च इदं प्रयोजकं विशिष्यविशिष्य योजनीयं । ननु परोक्षवृतीनां विषयचैतन्यसंसर्गाभावेनोक्त प्रयोजकानाक्रांतत्वादज्ञाननिवर्तकत्व प्रसंगो नास्तीत्युक्तमयुक्तं । कदाचित् परोक्षवृतेरपि विषयसंसर्ग स त्वात् । तथा हि । हृदयपुंडरीके नाड्यः संतीति प्. २१९अ) वाक्याजायमानायावृतेः । कदाचिदंतःकरणे हृदयपुंडरीकस्थे नाडीहृदयान्यतरवस्त्ववछेदेन जनने सति तस्यावृतस्तदन्यतरवस्त्ववछिन्नचैतन्ये संसर्गसत्वा तदावरणनिवर्तकत्व प्र ।। तस्य कदाचिदर्थसंपन्ननाडीहृदयान्यतरवस्तसंसर्ग संभवेपि विषयसंसर्गं विनापि शाब्दज्ञानसंभवेन तत्संसर्गनियतात्मलाभत्वालाभात् । तस्मादज्ञान ज्ञानविरोधनिर्वाहायवृतिनिर्गमो वक्तव्य इति । अन्ये तु विषयगताज्ञानस्य लाघवात् । समानाधिकरणज्ञाननिवर्त्यत्व सिद्धौ वृतिनिर्गमः फलतीत्याहुः । अपरे तु बाह्यप्रकाशस्य बाह्यतमो निवर्तकत्वं सामानाधिकरण्ये सत्येव दृष्टमिति दृष्टानुरोधात् । वृतिनिर्गमः सिद्ध्यतीत्याहुः । संगः न चेष्टापतिस्तदा तदन्यतरवस्तनिन्निज्ञासानुदयप्रसंगादिति शंकानियतपदेन निरस्तेत्याह । न चैवं सतीति विरोधप्रयोजकस्य नियतगर्भत्वे सति शाब्दज्ञानस्याप्यज्ञाननिवर्तकत्वप्रसंगो न चेति संबंधः । यदा यदा हृदयादि प्. २१९ब्) गोचरशाब्दवृतिरुदयस्तदा तदा तस्यावृतेर्हृदयाद्यन्यतरवस्त्ववछिन्नचैतन्ये संसर्ग इति नियमो नास्तीति हेतुमाह । तस्येति । तादृशशाब्दज्ञानस्येत्यर्थः । ऐंद्रियकवृतीनां हि ततदिंद्रियगोलकावछिन्नांतःकरणप्रदेशेषूत्पति नियमस्संभाव्यते । इंद्रियनिरपेक्षवृतीनां त्वं तष्करणे जायमानानां प्रदेशनियमे कारणाभावाद्धृदयादिगोचरशाब्दवृतिः कदाचिद्दैवयोगाद्धृदयाद्यवछेदेनांतष्करणे जायते कदाचितु हृदयादि प्रदेशं विहाय प्रदेशांतरावछेदेन सा तत्र जायत इति निरुक्तनियमो नास्तीत्यर्थः । अत्र तस्येति षष्ट्याः सप्तम्यापंचम्या च संबंधः । तस्मादिति वृतिज्ञानस्याज्ञानाश्रयविषयचैतन्य संसर्गं विना तन्निवर्तकत्वासंभवादित्यर्थः । एवं ज्ञानाज्ञानयोर्विरोधप्रयोजकनिर्वाहकत्वेन वृतिनिर्गमनं प्रसाध्यतेत्रैव हेत्वंतराणि मतभेदेनाह । अन्ये त्वित्यादिना । लाघवादिति विषयगताज्ञानस्यान्वयव्यतिरेकाभ्यां ज्ञाननिवर्त्यत्वग्रहदशायां लाघवात् समानाधिकरणज्ञाननिवर्त्यत्वं गृह्यतेन तु व्यधिकरणज्ञाननिवर्त्यत्वमित्यर्थः । एतदुक्तं भवति । अज्ञानस्य विषयचैतन्यगतत्वातन्निवृतिलक्षणं ज्ञानकार्यमपि तद्गतमेव तथा चाज्ञाननिवृतिरूपकार्यस्य प्. २२०अ) स्वकारणभूतज्ञानेन सहेंद्रिय सन्निकर्ष सामर्थ्यात् । सामानाधिकरण्य लक्षणसंबंध संभवेत त्यागायोगात् । कार्यकारणयोस्सामानाधिकरण्यस्यौत्सर्गिकादिति । बाह्यतम इति । अंधकारेत्यर्थः । सत्येवेति । अन्यत्र विद्यमानादालोकादन्यत्रतमोनाशो न दृष्ट इत्येवकारार्थः । अज्ञानस्यापि विषयावरकत्वैन बाह्यतमस्सदृशत्वाद्धृतिरूपस्य वृत्यारूढे चेतन्यरूपस्य वा प्रकाशस्यावरणनिवर्तकत्वेनालोक सदृश त्वात् ज्ञानाज्ञानयोरप्यंधकारालोकयोरिव सामानाधिकरणयोरेव निवर्त्यनिवर्तक भावः । कल्प्यते तच्च सामानाधिकाण्यमज्ञानाश्रयविषयचैतन्ये वृतिज्ञानस्य संसर्गरूपं स च संसर्गो वृतिनिर्गमाधीन इति भावः । केचित्वावरणाभिभवार्थं वृतिनिर्गमानपेक्षायामपि चिदुपरागार्थं । प्रमातृचैतन्यस्य विषयप्रकाशब्रह्मचैतन्याभेदाभिव्यक्त्यर्थं वा तदपेक्षेत्याहुः । अथ किं प्रमाणको यं जीवब्रह्मणोरभेदः । यो वृत्याभिव्यज्येत वेदांत प्रमाणक इति घंटा घोषः । सर्वेपि वेदांता उपक्रमोपसंहारैकरूप्यादि तात्पर्य लिंगैर्विमृश्यमानाः । प्रत्यमिन्ने प्. २२०ब्) ब्रह्मण्य द्वितीये समन्वयंति । यथा चायमर्थस्तथा शास्त्राथा समन्वयाध्याये प्रपंचितं विस्तुरभयान्नेह प्रदर्श्यते ।। इति श्रीशास्त्रसिद्धांतलेशसंग्रहे अप्यैदीक्षितविरचिते प्रथमः परिछेदः ।। शुभंमस्तुः ।। एवं विषयचैतन्यगताज्ञाननिवृतिरनिर्गतवृत्यापि संभवत्यतो वृतिनिर्गमनाभ्युपगमो व्यर्थदत्याक्षेपे तन्निर्गमं विना तन्निवृतिर्न संभवतीति तदभ्युपगमस्सफल इति । समाधानं दर्शितमिदानीं विषयचैतन्यगताज्ञाननिवृत्यर्थं वृतिनिर्गमनं नापेक्षितमिति पूर्वपक्ष्युक्तमंगीकृत्यापि वृतिनिर्गमनं साधयति । केचित्विति । इदं च प्रकारद्वयं प्रागेव प्रपंचितुमिति नेह प्रपंच्यत इति बोध्यं । प्रमात्रचैतन्यशब्दित जीवस्य ब्रह्माभेदे नास्ति प्रमाणामिति शंकते । अथेति । अयमभेदः किं वेदांतप्रमाणकः किम् वा तदन्यप्रमाणकस्तत्र न तावदाद्यः कल्पः संभवति वेदांतानामुपासनादिपरत्वप्रतीतेर्न द्वितीयः जीवब्रह्माभैदस्यौपनिषदत्व श्रुतिविरोधादिति भावः । तत्राद्यं कल्पं परिगृह्यसमाधते । वेदांतेति । तेषामुपासनादि । प्. २२१अ) परत्वं दूषयति । सर्वेपीति । वेदांतानां क्व तात्पर्यमिति विमृश्यमाने सर्वेपि वेदांता अद्वये जीवाभिन्ने ब्रह्मणि समन्वयंति समन्वयं तात्पर्यं लभंते । तात्पर्यज्ञापकानि लिंगानि कथयति । उपक्रमेति आदिपदमभ्यासादिसंग्रहार्थं के ते वेदांताः । कथं वा तेषूक्तलिंगानां सत्वं को वा तैर्लिंगैस्तात्पर्यावगम प्रकार इत्याकाक्षायामाह । यथा चेति । सर्वेषां वेदांतानामयमेव परमतात्पर्यविषयीभूतोर्थः । न तूपासनादिरिति प्रपंचित इत्यर्थः । अत्रापि कुतो न प्रपंचते तत्राह । विस्तरेति । ग्रंथविस्तारभयादित्यर्थः । इति श्रीमत्परमहंसपरिव्राजकावार्य श्रीमत्स्वयंप्रकाशकानंदसरस्वती चरणारबिंदसंलग्नरजो भूतस्य अच्युतकृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धांतलेशसंग्रहव्याख्यायां श्रीबालमुकुंदानंदतीर्थपादपूज्यशिष्यश्रीविश्वनाथतीर्थस्य पुस्तकोद्धारणः प्रथमः परिछेदस्समाप्तः ।। ओं श्रीगणेशाय नमः ।। अथ कथमद्वितीये ब्रह्मणी वेदांतांनां समन्वयः । प्रत्यक्षादि विरोधादिति चेन्न । आरंभणाधिकरणोदाहृत श्रुति युक्तिभिः । प्रत्यक्षाधिगम्यस्य प्रपंचस्य ब्रह्मविवर्तरूपतया मिथ्या त्वावगमात् । ननु न श्रुतियुक्तिभिः प्रपंचस्य मिथ्यात्वं प्रत्याययितुं शक्यते । घटः सन्नित्यादि घटादि सत्वग्राहि प्रत्यक्षादि विरोधात् । अत्रारूस्तत्वशुद्धिकाराः । न प्रत्यक्षं घटपटादि तत्सत्वं वा गृह्णाति । किं त्वधिष्ठानत्वेन घटाद्यनुगतं सन्मात्रं तथा च प्रत्यक्षमपि सद्रूपब्रह्माद्वैत सिद्धानुकूलमेव ओं श्रीमहागणपतये नमः ।। ओं यो मे विश्वेश्वर क्षेत्रं विश्वेश्वर समो गुरुः समध्यास्ते स्वयं ज्योतिर्वाणी संज्ञो भजामितं । स्वयं प्रकाश सरस्वती संज्ञ इत्यर्थः । आचार्यचरणद्वंद्वस्मृतिर्लेखकरूपिणं मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः । अत्र व्याख्याने प्रभुः समर्थ इत्यर्थः । प्रथमपरिछेदे ब्रह्मलक्षणविचारावसरेस्तक्षणस्य मतभेदेन ज्ञेय ब्रह्मनिष्ठत्वनिरूपणेन प्. १अ) ईश्वररूउपब्रह्मनिष्ठत्वनिरूपणेन च तत्पदलक्ष्यार्थ वाच्यार्थौ निरूपितौ तथा तदनंतरं जीव तत्साक्षिणोर्निरूपणेन त्वं पदवाच्यार्थलक्ष्यार्थौ निरूपितौ तथा चार्थाद्वाक्यार्थरूपाभेदोपि निरूपितो भवति । वाक्यार्थस्य तत्वं पदलक्ष्यार्थानतिरेकात् । तथा च जीवाभिन्ने निर्विशेषे ब्रह्मणि वेदांतसमन्वयरूपः प्रथमाध्यायार्थः । तात्पर्यतः पूर्वपरिछेदे निरूपितो भवति । इदानीं द्वितीयाध्यायार्थरूपं वेदांत समन्वयस्य मानांतराविरोधं निरूपयितुं परिछेदांतरमारभते । अथ कथमिति । समन्वयस्तात्पर्यं । प्रत्यक्षेति । ब्रह्मापेक्षया द्वितीयस्य प्रपंचस्य प्रत्यक्षसिद्धत्वादद्वितीयत्वं तस्य बाधितं तथा च बाधितेर्थे कथं श्रुतेस्तात्पर्थमप्रामाण्यप्रसंगादिति भावः । प्रपंचस्य रजु सर्पादिवत् ब्रह्मणि कल्पितत्वाद्वास्तवमद्वितीयत्वमवाधितमिति समाधते । नेति । श्रुति युक्तिभिरिति । एताः श्रुति युक्तयो विवर्तलक्षनिरूपणावसरेऽस्माभिर्दर्शिता इति नात्र पदर्श्यंते । प्रत्यक्षविरोधे श्रुतियुक्तीनामेव बाधो न्यायय इति मन्यमान आक्षिपति ननु नेति ऽघटः संन्नित्यादिना घटादि सत्वग्राहि प्रत्यक्षेण प्. १ब्) सहप्रपंचमिथ्यात्व प्रत्यायक श्रुति युक्तीनां विरोधत्वादित्यर्थः । श्रुत्यादिभिर्गम्यमिथ्यात्व विरुद्धं सत्वं प्रत्यक्षग्राह्यमेव न भवति । अतस्तद्विरोधशंकैव निरालंबनेति पंचभिर्मतैः । प्रतिपादयति । अत्राहुरित्यादिना । प्रत्यक्षं घटादि न गृह्णाति घटादेः सत्वं वा न गृह्णाति चेतर्हि निर्विषयं तत्प्रसज्येतेति शंकते । किं त्विति । उत्तरं । अधिष्ठानेति । सन्मात्रमिति । सद्रूपब्रह्मैव प्रत्यक्षप्रमेयमित्यर्थः । एवं स्थितेन केवलं प्रत्यक्षं विरोधा भावः । किं तु लाभोप्यस्तीत्याह । तथा चेति ।। तथा सति सत्सदित्येव प्रत्यक्षं स्यान्न तु घटः सन्नित्यादि प्रत्यक्षमिंद्रियान्वयव्यतिरेकानुविधायीति चेन्न । यथा भ्रमेष्विदमंशस्याधिष्ठानस्य प्रत्यक्षेण ग्रहणं । इंद्रियान्वय व्यतिरेकयोस्तत्रैवोपक्षयः रजतांशस्यारोपितस्य भ्रांत्याप्रतिभासस्तथा सर्वत्र सन्मात्रस्य प्रत्यक्षेण गृहणं । तत्रैवेंद्रिय व्यापारः घटादिभेदवस्तु प्रतिभासो भ्रांत्येत्युपगमात् । न तु तद्वदिह बाधादर्शनात् तथा भ्युपगम एव प्. २अ) निर्मूल इति चेन्न बाधा दर्शनेपि देशकालव्यवहित वस्तवत् घटादिभेदवस्तुनः प्रत्यक्षायोग्यत्वस्यैव तत्र मूलत्वात् । तथाहि । इंद्रियव्यापारानंतरं प्रतीयमानी घटादिः सर्वतो भिन्न एव प्रतीयते । तदा तत्र घटादिभेदे संशय विपर्या दर्शनात् । यत्रापि स्थाण्वादै पुरुषत्वादि संशयस्तत्रापि तद्व्यतिरिक्तेभ्यो भेदोऽसंदिग्धाविपर्यस्तत्वात्प्रकाशत एव ।। घटाद्रियकत्ववादी शंकते । तथा सतीति । तस्य सन्मात्रविषयकत्वे सतीत्यर्थः । इंद्रियेति । न च सन्मात्र प्रत्यक्ष एव इंद्रियान्वयाद्यनुविधानोपपते । प्रत्यक्षस्य घटादि विषयकत्वाभावे तैदनविधानं न स्यादित्ये तदभिप्रायकं विशेषैणमयुक्तमिति वाच्यं । स्वप्रकाशस्य सन्मात्रस्य प्रकाशनाय इंद्रियापेक्षानुपपतेरिति भावः । अत्राक्षेप्ता किं सिद्धांत्येक देशी किं वा भेदवादी आद्ये तत्संमत दृष्टंति न सन्मात्रस्य प्रत्यक्षप्रमेयत्वमाह । यथेति । तत्रैवेति । अधिष्ठानग्रहण एवेत्यर्थः । भ्रांत्येति साक्षिरूपयेत्यर्थः । सन्मात्रस्येति । तस्य स्वप्रकाशत्वेप्यावृतत्वादावरणनिवर्तकवृत्युत्पतये इंद्रियापेक्षिति भावः । घटादीति । घटादेस्तद्भेदरूपस्य च वस्तुनः प्रतिभासौ भ्रांत्या ऐंद्रियकवृत्यभिव्यक्त सन्मात्ररूपसाक्षिचैतन्यलक्षणयेत्यभ्युपगमादित्यर्थः । एतेन सत्सदित्येव प्रत्यक्षं स्यादित्याक्षेप्ता प्. २ब्) भेद वाचपि निरस्तः । सिद्धांतिना घटादौ तत्सत्वे च प्रत्यक्षस्य प्रामाण्यानंगीकारेपि घटादेः । प्रत्यक्षज्ञाने साक्षिरूपेभानांगीकारात् । भेदवादीशंकते । नन्विति शुक्तिरजतादेर्बाधदर्शनाद्युक्तं तस्य भ्रांत्याप्रतिभासांगीकरणं । तथा घटादि द्वैतस्य बाधादर्शना तस्य भ्रांतिमात्रसिद्धत्वमनुपपन्नमित्यर्थः । किं श्रौत बाधादर्शनं विवक्षितं किं वा प्रत्यक्षबाधादर्शनं यौक्लिकबाधादर्शनं वा आद्यमसिद्धं । दृश्यमात्रस्य ब्रह्मणि नेह नानास्तीत्यादि श्रुत्याबाधदर्शनादित्याशयेनाह । नेति द्वितीयमंगीकरोति । बाधादर्शनेपीति । तृतीयमसिध्यादूषयति । देशकालेति । घटादीति । घटादेस्तद्धर्मिकभेदरूपस्य च वस्तुन इत्यर्थः । प्रत्यक्षायोग्यत्वमेव दर्शयितुं प्रथमं संमतमर्थं दर्शयति । इंद्रियेति । तत्रेति । पदव्याख्या घटादिभेद इति घटादि धर्मिभेद इत्यर्थः । सर्वतोभिन्न एव प्रतीयत इत्ययुक्तं । इंद्रिय सन्निकृष्टे स्थाण्वादौ क्वचित्युरुषीदि प्रतियोगिकभेदस्याप्रतीतेः । प्रतीतौ वा संशयाभावापतेरत आह । यत्रापीति ।। भेदस्य च प्रतियोगि सहोपलंभनियमवतो न प्रत्यक्षेण ग्रहणं संभवति । देशकालव्यवधानेनासन्निकृष्टानामपि प्रतियोगिनां संभवात् । भेदज्ञानं प्रतियोग्यंशे संस्कारापेक्षणात् स्मृतिरूपमस्तु प्. ३अ) प्रत्यभिज्ञानमिवततां(श इति चेन्न । तथापि भे)दगत प्रतियोगि वैशिष्ट्यांशे तदभावात् । न च कनका च लोभेदप्रतियोगीवस्तुत्वादिति भेदप्रतिवैशिष्ट्यगोचरानुमित्या तत्संस्कारसंभवः । भेदज्ञानं विनाऽनुमित्यभावेनात्माश्रयापतेः । पक्षसाध्य हेतुपक्षताद्यभेदभ्रमे सति सिद्ध साधनादिनानुमाना प्रवृत्या तदभेदज्ञानविघटनीयस्पतेद्भेदज्ञानस्यापेक्षित्वात् । अस्तु तर्हि भेदांश इव प्रतियोगि वैशिष्ट्यांशेपि प्रत्यक्षत्वमिति चेन्न प्रतियोगिनोऽप्रत्यक्षत्वे तद्वैशिष्ट्य प्रत्यक्षायोगात् । संबंधि द्वय प्रत्यक्षं विना संबंध प्रत्यक्षं विना संबंध प्रत्यक्षा संभवात् । तस्मात् प्रत्यक्षायोग्यस्य प्रतियोगिनो भ्रांतिरूप एव प्रतिभास इति तदेकविति वेद्यत्व नियतस्य भेदस्य भेदैकविति वेद्यत्वनियमघटादेश्च भ्रमैकविषयत्वात्प्रत्यक्षं निर्विशेषसन्मात्रग्राह्यद्वैत सिद्ध्यनुकूलमिति ।। ततः किं तत्राह । भेदस्य चेति । प्रतियोगि सहोपालंभनियमवत प्. ३ब्) इति । ससंबंधिक पदार्थप्रत्यक्षे यावत् संबंधिविविषयकत्वस्य यावत् संबंधि प्रत्यक्षजन्यतायाश्च संयोगादि प्रत्यक्षे कॢप्तत्वाद्भेद पत्यक्षेपि यावत् प्रतियोगिविषकत्वं यावत् प्रतियोगिप्रत्यक्षजन्यत्वं च वाच्यं भेदप्रत्यक्षस्यापि ससंबंधिक पदार्थप्रत्यक्षत्वा तथा च यावंतः प्रतियोगिनस्तावतां प्रतियोगिनां प्रत्यक्षासंभवेन कॢप्त सामग्र्यभावान्रभेदः प्रत्यक्षप्रमायोग्य इति तस्य भ्रांतिमात्र सिद्धत्वं युक्तं । सिद्धांते तु भेदप्रत्यक्षस्य नित्यसाक्षिरूपत्वान्नाकारणापेक्षेतिभावः । सहोपलंभति यममात्रस्य भेदसत्यत्वमते कथंचिदुद्धारं शंकते । भेदज्ञानमिति । संस्कारापेक्षणादिति । तज्जन्यत्व संभवादित्यर्थः । भेदज्ञाने हि प्रतियोगिनां प्रतियोगितावछेदकरूपेणैवभानंपरैरुपेयते तेन रूपेण सकलप्रतियोगिगोचरपूर्वानुभवासंभवेन संस्काराभावादसंनिकृष्टप्रतियोग्यंशे स्मृतिरूपत्वमपि न संभवति । तदभ्युपगम्याप्याह सिद्धांती । न तथापीति । कनकाचलादिपदार्थानां सन्निकृष्टघटनिष्टभेदप्रतियागित्वेन पूर्वमननुभूतत्वादितिभावः । वैशिष्ट्यांशे पूर्वानुभवं शंकते । कनकाचल इति । एवमितरपदार्थेष्वप्यनुमानं द्रष्टव्यमितिभावः । आत्माश्रयापतेरिति । भेदज्ञानस्य भेदज्ञानाधीनत्वेन न किंचिद्भेदज्ञानं सिध्येदितिभावः । अप्रवृत्येति । तथा च पक्षाद्यभेदज्ञानस्यनुमिति प्. ४अ) प्रतिबंधकतया तद्विघटकं पक्षादिभेदज्ञानमावश्यकमितिभावः । तर्हीति । प्रतियोगि वैशिष्ट्यांशज्ञानस्य स्मृतिरूपत्वासंभवे सतीत्यर्थः । तदेकेति तत्पदं प्रतियोगि परं नियमेन प्रतियोगि ज्ञानविषयस्येत्यर्थः । वितिपदं प्रत्यक्षपरं भेदपदजन्यभेदज्ञानस्य प्रतियोगिविषयत्वादर्शनादिति बोध्यं । भ्रमैकविषयत्वादिति । अधिष्ठानस्यापि भ्रमविषयत्वात्कल्पितत्वप्रसंगवारणाय एकपदमधिष्ठानस्य च सम्यग्दर्शनं प्रत्यपि विषयत्वात् । भ्रांत्यैकविषयत्वमसिदं । तथा च प्रत्यक्षं सद्वस्तुन्येव प्रमाणं सच्छ्रुत्यनुकूलमित्यर्थः ।। न्यायसुधाकृतस्त्वाहुः । घटादैरैंद्रियकत्वेपि सन् घट इत्यादिरधिष्ठान सत्वानुवेध इति न विरोधः । एवं नीलो घट इत्यादिरधिष्ठाननैल्याद्यनुभवेधः । किं न स्यादिति चेन्न । श्रुत्या सद्रूपस्य वस्तुनो जगदुपादानत्वमुक्तमविरोधात् । सर्व संमतमिति तदनुवेधेनैव सन् घट इत्यादि प्रतिभासोपपतौ घटादावपि सत्ता कल्पने गौरवं । तस्य रूपादि हीनत्वान्नैल्यादिकं घटादावेव कल्पनीयमिति वैषम्यादिति संक्षेप शारीरकाचार्यास्त्वाहुः । प्रत्यक्षस्य घटादि प्. ४ब्) सत्वग्राहित्वेपि पराग्विषयस्य प्रत्यक्षादेः तत्वावेदकत्वलक्षणप्रामाण्याभावान्न तद्विरोधेनाद्वैत श्रुत्यादि बाधशंका अक्षात बोधकं हि प्रमाणं न च प्रत्यक्षादि विषयस्य घटादिरज्ञातत्वमस्ति जडे आवरणकृत्याभावेनाज्ञानविषयत्वानुपगमात् । स्वप्रकाशतया प्रसक्तप्रकाशं ब्रह्मैवाज्ञानविषय इति तद्बोधकमेव तत्वावेदकं प्रमाणं तदेव प्रमिति विषयः ।। अस्तु वा घटादेश्चाक्षुषत्वाद्यनुभवानुरोधेन चक्षुरादि गम्यत्वं । तथापि प्रपंचमिथ्यात्वसाधक श्रुतियुक्तीनां न प्रत्यक्षविरोधः । प्रत्यक्षस्यापि घटादौ पृथक् सत्वग्राहित्वाभावादित्याह । न्यायसुधाकृतस्त्वाहुरिति । सन् घट इत्यादिर्घटादेः सत्यप्रतिभासोधिष्ठां न सत्वासंबंधविषयक एव अतो न विरोध न इत्यर्थः । घटादौ प्रतीयमानसत्वस्याधिष्ठानगतत्वस्वीकारेति प्रसंगं शंकते । एवमिति । नीलो घट इत्यादिर्घटादौ नैल्यप्रतिभासोप्यधिष्ठान नैल्यसंबंधगोचरः । किं न स्यादित्यर्थः । तथा च ब्रह्मरूपवत् स्यादितिभावः । नैल्यादैः सतां वैषम्येण परिहरति नेति । श्रुत्येति । सदेवेत्यादि श्रुत्येत्यर्थः । सर्वसंमतमिति । सर्वैरेव स्वीकर्तव्यमित्यर्थः । न तु यथा श्रुतं वैशेषिकादिभिरनंगीकारादविरोधादिति प्. ५अ) रज्वादेः सर्पाद्युपादानत्ववत्कूटस्थ ब्रह्मणोप्युपादानत्वाविरोधादित्यर्थः । तदन्विति । तत्पदं अधिष्ठान सतापरं । तस्येति । जगदधिष्ठान भूतब्रह्मण इत्यर्थः । घटादावेवेति । न ब्रह्मणि तत्कल्पयितुं शक्यं श्रुतिविरोधादितिभावः । प्रत्यक्षस्य घटादौ पृथक्सत्व ग्राहित्वेपि तस्य प्रमाणाभासत्वान्न तेन श्रुतेर्बाधशंकाश इत्याह । संक्षेपशीरीरकाचार्यास्त्विति । परागविषयस्येति । जडमात्रविषयकस्येत्यर्थः । तत्वेति । अनधिगतत्वे सत्यबाधितं तत्वं तदा वेदकं तद्बोधकं प्रमाणलक्षणमिति बहुवादिसंमतं । तच्च प्रत्यक्षस्य नास्तीति प्रमाणाभासरूपं प्रत्यक्षमितिभावः । घटादेरिति । तस्याबाधितत्वे सत्यपि अज्ञातत्वं नास्तित्यभिप्रायः । अन्यथा तदभावादपि प्रत्यक्षघटादेक्षस्य प्रमाणाभासत्वप्रतिपादन संभवे अज्ञातत्वाभावमात्र प्रतिपादनायोगादतो बाधिता चासंभवमुपेत्य तस्याभासत्व प्रतिपादनमिह विवक्षितमिति बोध्यं कृत्यं कार्यं फलमिति यावत् ।। अत एव श्रुतिरप्यात्मावारे द्रष्टव्य इत्यात्मन एव प्रमेयत्वमिति निपछति । न हि द्रष्टव्य इत्यनेन दर्शनं विधीयते । प्रमाणपरतंत्रस्य तस्य विध्यगोचरत्वात् । किं त्वात्मादर्शनाहं इति अज्ञातत्वादात्मन एव प्रमेयत्वमुचितं नान्यस्येति प्. ५ब्) नियम्यत इति केचित् तु घटादि सत्वग्राहिणः प्रत्यक्षस्य प्रामाण्ये ब्रह्मप्रमाणाऽन्यूनतावगमेपि तद्ग्राह्यं सत्वमनुगतप्रत्ययात् सता जातिरूपं वा इहेदानीं घटोस्तीति देशकालसंबंधप्रतीतेस्तत्तद्देशकालसंबंधरूपं चा नास्ति घट इति स्वरूपनिषेध प्रतीतिर्घटादि स्वरूपं वा पर्यवस्यति । तच्च मिथ्यात्वैन न विरुध्यते । न हि मिथ्यात्ववादिनापि घटादेः स्वरूपं वा तस्य देशकालसंबंधो वा तत्र जात्यादिकं वा नाभ्युपगम्यते । किं तु तेषामबाध्यत्वं न चाबाध्यत्वमेव सत्यत्वं प्रत्यक्षग्राह्यमस्त्विति वाच्यं कालत्रयेपि नास्य बाध इति वर्तमान मात्र ग्राहिणाप्रत्यक्षेण गृहीतुमशक्यत्वादित्याहुः । स्वप्रकाशात्मन एव प्रमेयत्वे श्रुतिमपि प्रमाणयति । अत एवेति । अज्ञातत्वादेवेत्यर्थः । ननु द्रष्टव्य इति श्रुतिरात्मदर्शनं विधत्ते नेत्याह । नहीति । अगोचरत्वादिति । पुरुषयत्नसाध्यक्रियाया एव विधियोग्यत्वादितिभावः । विधिप्रत्ययस्य गतिं पृछति । किं त्विति । अर्हार्थस्तव्यप्रत्यय इत्याह । आत्मेति । प्रत्यक्षविषय जडस्याज्ञातत्वमुपेत्य जडबोधक प्रत्यक्षस्य श्रुतितुल्यप्रमाणत्व स्वीकारेपि प्रत्यक्षग्राह्यघटादि सत्वस्य मिथ्यात्वाविरुद्ध प्. ६अ) त्वा च मिथ्यात्वबोधक श्रुत्यादीनां प्रत्यक्षविरोधशंकेत्याह । केचित्विति । प्रत्यक्षग्राह्यं सत्वं सता जातिरूपं वा ततद्देशकालसंबंधरूपं वा घटादि स्वरूपं वा पर्यवस्यतीति संबंधः । जातिरूपत्वेमानमाह । अनुगतेति । सन् घटः सन् पद इत्यादिरूपादित्यर्थः । द्वितीये मानमाह । इहेति । इहेदानीं घट इति प्रतीतिर्घटे प्रेतीयमानदेशकालसंबंधमेव सत्तारूपतया विषयी करोतीति भावः । तृतीये मानमाह । नास्ति घट इतीति । घटो नास्तीति घटास्तिता निषेधत्वेन रूपेण घटस्वरूपनिषेधस्यैवानुभवात् घटास्तित्वं घटस्वरूपं पर्यवस्यतीत्यर्थः । ततः किं तत्राह । तच्चेति नहीति । तुछविलक्षणप्रपंच स्वरूपांगीकारादितिभावः । घटादेः स्वरूपं वा नाभ्युपगम्यत इति नहीति संबंधः । तथा तस्य देशकालसंबंधो वा नाभ्युपगम्यत इति नहीति संबंधः । तत्र जात्यादिकं वा नाभ्युपगम्यत इति नहीति संबंधः । एतत्सर्वं जगन्मिथ्यात्ववादिनाभ्युपगम्यत एव विरोधाभावादितिभावः । तर्हि कीदृशं सत्वं मिथ्यात्वविरोधियत्वत्वयानाभ्युपेयते जगतीति पृछति । किं त्विति । उत्तरं तेषामिति । घटादीनामित्यर्थः । किं तु तेषामुबाध्यत्वं वा भ्युपगम्यत इति संबंधः मिथ्यात्वस्य बाध्यरूपत्वा तद्विरुद्धसत्वमबाध्यरूपमेव चेतर्हीदमेव सत्यप्रत्यक्षविषयोस्तु तथा च प्रत्यक्षविरोधशंकास्यादेवेत्याशयवतीं शंकामुद्भाव्यनिराचष्टे । न चेत्यादिना । नास्येति जगत इत्यर्थः ।। प्. ६ब्) अन्ये तु अबाध्यत्वरूपसत्यत्वस्य प्रत्यक्षग्राह्यत्वेपि प्राणा वै सत्यं तेषां एष सत्यमिति श्रुत्याप्रधानभूतप्राणग्रहणोपलक्षितस्य कृत्स्न प्रपंचस्य ब्रह्मणश्च सत्यत्वोत्कर्षापकर्षप्रतीतेः । सत्यत्वे चाबाध्यत्वरूपे सर्वदैवाबाध्यत्वं किंचित्कालमबाध्यत्वमित्येवं विधोत्कर्षापकर्षं विना राजराजोमन्मथमन्मथ इत्यादिशब्दतात्पर्यगोचरनियंतृत्वसौदर्यादीनामिवभूयो विषयत्वाल्पविषयत्वादिरूपोत्कर्षापकर्षासंभवात् अबाध्यत्वरूपमेव सत्वं प्रत्यक्षविषय इत्युपेत्यापि प्रत्यक्षविरोधाभावमाह । अन्ये त्विति । अबाध्यत्वरूपसत्वस्य प्रत्यक्षग्राह्यत्वेपि न मिथ्यात्व श्रुतिविरोध इति संबंधः । कालत्रया बाध्यत्वरूपं सत्वं मिथ्यात्वविरोधि तच्च ब्रह्मण एव प्रपंचस्य तु यावतत्वज्ञानमबाध्यत्वरूपं सत्वमेतच्च न मिथ्यात्वविरोधीति न प्रत्यक्षविरोध इति वक्तुं प्रपंच ब्रह्मणोः । सत्व वैलक्षण्ये प्रमाणंमाह । प्राणा इति प्राणग्रहणं कृत्स्नप्रपंचोपलक्षणार्थं एषः परमात्मा तेषां सत्यंतानन पक्ष्यसत्य इत्यर्थः । तथा च श्रुतौ प्रपंचस्य सत्यत्वं निकृष्टं ब्रह्मणः सत्यत्वमुत्कृष्टमित्युक्तं भवति । तत्र प्राणपदेन प्रपंचोपलक्षणे नियामकमाह । प्रधानभूतति सूत्रात्मरूपस्य प्राणस्य जगद्विधारकत्वात्प्राधान्यं द्रष्टव्यं । न चोपलक्षणमोनान्नावः शंकनीयः । प्. ७अ) ब्रह्मस्वरूपप्रतिपादनपरे वाक्ये प्रपंचैक देशभूतप्राणग्रहणे प्रयोजनाभात्कृत्स्नोपलक्षणे तु सत्यत्वेन प्रसिद्धप्रपंचाधिष्ठानतया ब्रह्मैव परमार्थ सत्यं न तु प्रपंचस्तस्य श्रुतिबाधित्वेन परमार्थ सत्यत्वायोगादिति ब्रह्मप्रमिति रूपप्रयोजनसत्वादितिभावः । किं तत्राह । सत्यत्वे चेति । राजेति राजत्वं पालकत्वरूपं नियंतृत्वं तच्च पाल्यदेशसापेक्ष्यं तथा च विष्णुशर्मा राजराज इति प्रयोगे विष्णुशर्मण इतरराजापेक्षया उत्कर्षः प्रतीयत इतिरेषां च विकर्षः तौच पालनस्य भूयो देशविषयकत्वाल्पदेशविषकत्वरूपौ मन्मथस्तावन्नारायणपुत्रः सुंदर इति प्रसिद्धिः । पुराणेषु तथा चाति सुंदरोयमिति तात्पर्थेणमन्मथमन्मथ श्रीराम इति प्रयोगो दृश्यते । तत्र सौंदर्यं नाम उत्कृष्टरूपादिमत्वमति सौंदर्ययं । ततोप्युत्कृष्टरूपादिमत्वमिति बोध्यं । असंभवादिति । नियंतृत्व सौंदर्यादि विलक्षणे बाधाभावरूपेपत्वे भूयो विषयत्वाल्पविषयत्वरूपोत्कर्षापकर्षयोर्जातिविशेषरूपयोश्चा- संभवादित्यर्थः । नन्व बाधितत्वरूपेपि सत्वे प्रकारांतरेणोत्कर्षो संभवत तथाहि प्रपंच ब्रह्मणोः कालत्रया बाध्यत्वरूपे सत्वे समानेपि ब्रह्मगतं सत्वं श्रुतिगम्यत्वादुत्कृष्टं इतरतु लौकिकप्रमाणगम्यत्वान्निकृष्टमितिमिति श्रुत्यर्थो ।। विधांतरेण तत्संभवेपि प्रपंचस्य ब्रह्मज्ञानबाध्यत्व प्. ७ब्) श्रुत्यंतरैकार्थ्यादुक्तोत्कर्षापकर्ष एव पर्यवसानाच्च प्रत्यक्ष ग्राह्यं घटाटि सत्यत्वं यावत् ब्रह्मज्ञनमबाध्यत्वरूपमिति न मिथ्यात्व श्रुतिविरोध इत्याहुः । अपरे तु प्रपंचस्य सत्थत्वमित्थ्यात्वग्राहिणोः । श्रुतिप्रत्यक्षयोर्विरोधेपि दोषशंका कलंकितात् । प्रथमप्रवृतात्प्रत्यक्षान्निर्दोषत्वादयछेदन्यायेन परत्वाच्च श्रुतिरेव बलीयसी । प्रावल्यमागमस्यैव जात्या तेषु त्रियुस्मृतमिति स्मरणाच्च । न च वेदैकगम्यार्थविषयकमिदं स्मरणं । तत्र प्रत्यक्षविरोधशंकाभावेन शंकित प्रत्यक्षविरोध एव वेदार्थे वेदस्य प्रावल्योक्त्यौ चित्यात् ।। पपादनसंभवा तथा च मिथ्यात्वविरुद्धसत्वग्राहि लौकिकप्रमाणविरोधशंकास्यादेवेति नेत्याह । विधांतरेणेति । प्राणा वै सत्यमिति श्रुतौ सत्यशब्दः प्रपंचस्य यदि कालत्रया बाध्यत्वरूपं सत्यत्वं प्रतिपादये तदा निखिलप्रपंचस्य ब्रह्मज्ञानबाध्यत्वप्रतिपादक श्रुत्यंतरेण सहप्राणा वै सत्यमिति श्रुतेर्विरोधः । स्यान्न चाविरोधेन श्रुतिद्वयप्रामाण्यसंभवे विरोधेन प्रामाण्यं हातव्यं तस्माच्छ्रुत्युक्त सत्वोत्कर्षार्योः कालत्रया बाधत्वादावेवपर्यवसानं वाच्यं प्. ८अ) नान्यत्रेत्यर्थः । एवमत्राहुरित्यादिना प्रपंचमिथ्यात्व साधकश्रुतियुक्तीनां प्रत्यक्षं विरोधि न भवतीति प्रतिपादितमिदानीं प्रत्यक्षस्य कालत्रयाबाध्यत्वरूपसत्वग्राहित्वेन श्रुतिविरोधित्वेपि न मिथ्यात्वसिद्ध्यनुपपतिः । श्रुत्या प्रत्यक्षस्य बाधोपपतेरित्याह । अपरे त्विति । श्रुतिरेव प्रत्यक्षाद्वलीयसीति संबंधः श्रुतेः प्रावल्ये हेतुद्वयमाह । निर्दोषत्वादिति । अपछैदन्यायो वक्ष्यते प्रत्यक्षस्यापि निर्दोषत्वादिकं तुल्यमिति शंकांचारयति । दोषेति । एतच्चाग्रे स्पष्टं भविष्यति । श्रुतेः प्रावल्ये मनुवचनमपि नियामकमित्याह । प्रावल्यमिति । जात्या आगमत्वेनैव तेषु प्रकृतेषु प्रत्यक्षानुमानागमेषु स्मृतं वैदिकेषु प्रसिद्धमित्यर्थः । ननु वेदैक गम्ये स्वर्गसाधनत्वादौ वेदस्य प्रावल्यप्रतिपादकं तद्वचनं मिथ्यात्वं तु न वैदैक गम्यं । तस्यानुमानादि नापि सिद्ध्युपगमादतस्तत्र श्रुतेः । प्रावल्ये तद्वचनं न प्रमाणमिति मत्वाशंकते । न चेति । निराकरोति । त्रतेति । वेदैकगम्यार्थ इत्यर्थः । तथा च वचनस्य तद्विषयत्वे वैद्यर्थ्यं स्यादिति भावः । वचनस्य मिथ्यात्वप्रतिपादकश्रुतिप्रावल्यपरत्वे तु सार्थक्यमित्याह । शंकितेति । शंकितः प्रत्यक्षेण सह विरोधोपस्य मिथ्यात्वरूपस्य वेदार्थस्य स तथा । एतदुक्तं भवति । यस्मिन्नर्थे वेद तदितर प्रमाणयोर्विरोधः प्. ८ब्) प्रसक्तस्तस्मिन्नर्थे द्वयोः प्रामाण्यायोगादन्यतर बाधे कर्तव्ये सति तत्र प्रवलेन दुर्बलस्य वाध इति च स्थिते कस्य प्रावल्यमिति भवत्यपेक्षा तथा च वचनस्यापेक्षितार्थ समर्पकत्वात्सार्थक्यमिति । तलवदृश्यते व्योमस्वद्योतो हव्यवाडिव न तलं विद्यते व्योम्नि न खद्योतो हताशनः । तत्स्मात्प्रत्यक्षदृष्टेपि युक्तमर्थे परिक्षितुं परीक्ष्यज्ञापयन्नर्थान्न धर्मात्परिहीयत इति नारद स्मृतौ साक्षि प्रकरणे प्रत्यक्षदृष्टस्यापि प्रत्यक्षमविश्वस्य प्रमाणोपदेशादिभिः परीक्षिणीयत्वप्रतिपादनाच्च । न हि नभो नैल्यप्रत्यक्षं नभसः शब्दादिषु पंचसु शब्दैकगुणत्वप्रतिपादकागमोपदेशमंतरेण प्रत्यक्षादिनाशक्यमपवदितुं । न च नभसि समीपे नैल्यानुपलंभात् ।। ननु प्रत्यक्षस्य क्वचिदप्रामाणो दृष्टे सति प्रपंच सत्वग्राहि प्रत्यक्षेपि मिथ्यात्वविरोधि कोट्यनुसंधानवतांस्यादप्रापाण्यरूपदोषशंका ततश्च शंकित दोष प्रत्यक्षं मिथ्यात्वश्रुत्यानिर्दोषत्वेन प्रवलया बाध्यत इति वक्तव्यं । तच्च न संभवति क्वचिदपि प्रत्यक्षाप्रामाण्यादर्शनादिति सत् व्यातिवादिनः । शंकां नारदवचनोदाहरणेन प्. ९अ) निराकरोति । तलवदिति । तलमिंद्रनीलमणिमयकटाहाकारत्वं । तस्मादिति । सर्वजनप्रसिद्धस्यापि व्योमादौ तलादि प्रत्यक्षस्याप्रामाण्य दर्शनादित्यर्थः । अर्थ इति । प्रत्यक्षदृष्टेप्यर्थ इत्यर्थः । ज्ञापयन्निति । आचार्यः शिष्यान्प्रति शास्त्रार्थान् बोधधयन् धर्मात् श्रेयः साधनभूतात् न प्रच्यवत इत्यर्थः । आत्मनः श्रुत्युक्तं साक्षित्वमनुपपन्नं । तस्य बोद्धृत्वेपि कर्तृत्वेनोदासीनत्वा भावादिति पूर्वपक्षे प्राप्तै अहंकरोमीति प्रत्यक्षमात्रेणात्मनि कर्तृत्वं वास्तवमिति सहसा विश्वासो न कर्तव्यः लोके प्रत्यक्ष दृष्टस्यापि बाधदर्शनादतः प्रत्यक्षदृष्टसपि आत्मनि कर्तृत्वं किं चैतन्यवद्वास्तवं किं वा कल्पितमिति सम्यग्विचार्य श्रुति न्यायाभ्यां कल्पितमेव तदतो न साक्षित्वस्यानुपपतिरिति शिष्यान्प्रतिबोधयन्नाचार्यो धर्मान्न परिहीयत इत्येतद्विषयकं नारदवचन द्वयमिति सूचयति । साक्षिप्रकरण इति । एवं प्रत्यक्षदृष्टमपि प्रपंच सत्वं किं तस्य वास्तवं किं वा काल्पनिकमिति परीक्षायुक्तेत्याशयेन नारदवचनस्य प्रकृतसाधारणं तात्पर्यं कथयति । प्रत्यक्षदृष्टस्यापीति । प्रमाणपदमागमपरमनुमानार्थापत्त्यादय आदिपदग्राह्याः प्रतिपादनाच्च प्रत्यक्षापेक्षया श्रुतिर्वलीयसीति संबंधः । प्रत्यक्षस्य दोषशंका कलंकितत्वं प्रदर्श्य तस्यागमेन बाधं प्रकृतोपयोगितया प्. ९ब्) प्रतिपादयति । नहीत्यादिना । नभोनैल्यप्रत्यक्षं प्रत्यक्षादिना न हि शक्यमपवदितुमिति संबंधः । आगमं विनापि नीलं नभ इति प्रत्यक्षस्य बाधकमस्तीति शंकते । न चेति । समीपे गगने रूपानुपलंभेन समीपे रूपाभावनिश्चये सति दूरेपि तत्र रूपं नास्तीति निश्रीयते रूपस्य व्याप्यवृतित्वनियमेन तदेकदेशवृतित्वायोगादित्यर्थः ।। दूरे तद्धीर्दूरत्वदोषजन्येति निश्चयेन तुद्बाधदूरे नैल्यदर्शनात् समीपे तदनुपलंभः तुंहिनावकुठनानुपलंभवत्समीपत्व दोषजन्म इत्यपि संभवात् । अनुभवबलान्नभो नैल्यमव्याप्यवृतीत्युपपतेश्च । नापि दूरस्थस्य पुंसो यत्र भूसंनिहिते नभः प्रदेशे नैल्यधीस्तत्रैव समिप गतस्य तस्य नैल्य बुद्धेरभावात्प्रत्यक्षेण बाधः । उपरिस्थितस्यैव नैल्यस्याभ्रनक्षत्रादेरिवदूरत्व दोषाद्भूसंनिधानावभास इत्युपपतेः । पृथिव्यादिषु संकीर्णतया प्रतीयमानांनां गंधादीनांमुपलभ्याप्सु वायौ च चेद्गंधं केचिद्भूपुरनैपुणाः । पृथिव्यामेव तं विद्यादयो वायुं च संश्रितमित्यादिभिरागमैरेव व्यवस्थाया प्. १०अ) वक्तव्यत्वेन प्रत्यक्षादागमप्रावल्यस्य निर्विशंकत्वाच्च ।। कथं तर्ह्यति दूरे नीलं नभ इति धीस्तत्राह । दूरे तद्धीरिति । तद्बाध इति । तस्य नभो नैल्यप्रत्यक्षस्य इति निश्चयेन बाधो । न चेत्यत्र हेतुमाह । दूरे नैल्यदर्शनादिति । तुहिनावकुंठनं हिमरूपमावरणं तद्विसमीपे सदपि न दृश्यते । दूरे तु वृक्षाद्यावरणरूपत्वेन दृश्यते तद्वत् । सर्वत्र गगने विद्यमानमपि रूपं समीपेन दृश्यत इत्यर्थः । दोषजन्य इति । दोषाधीन स्थितिक इत्यर्थः । यथा च श्चतेऽनुपलंभस्य उपलंभप्रागभावरूपस्याऽजन्यरूपस्य जन्यत्वाभावादसंगतं स्यात्सामीप्यदोषेण तदुपलंभे निरुद्धे तत्प्रागभावस्य नाशाभावाद्दोषाधीनस्थितिकत्वमस्तीति नासंगतिरिति मंतव्यं । रूपस्य व्याप्यवृतित्वनियममुपेत्यसमीपे तदनुपलंभस्य गतिरुक्ता इदानीं व्याप्यवृतित्वनियमस्यासिद्धिमाह । अनुभवबलादिति । नभो नैल्य प्रत्यक्षस्य यौक्तिक निश्चय बाध्यत्वं निरस्य प्रत्यक्षबाध्यत्वमाशंक्यनिराकरोति । नापीत्यादिना । भूसंनिहित गगनभागे कुत्रापि नैल्यं नास्त्येव तत्र तत्प्रतीतिस्तु दूरत्वदोषात्संभवतीत्याह । उपरिस्थितस्येति तथा च गगननैल्यप्रत्यक्षमागमैक बाध्यमिति प्. १०ब्) स्थितं । प्रत्यक्षस्यागमेन बाधे उदाहरणांतरमाह । पृथिव्यादिष्विति । अप्सुवायौ च पृथिव्यामिव गंधमुपलभ्य केचिदनैपुणाब्रूयुः । तयोरपि गंधः स्वाभाविक इति तत्र तथा ग्राह्यं किं त्वपो वायुं च संश्रितं गंधं तदंतर्गत पृथिव्यामेव स्थितं विद्यादिति वचनार्थः । इत्यादिभिरिति । आदिपदेनरसोजलमात्रगुणः रूपं तेजोमात्रगुणः स्पर्शो वायुमात्रगुणः शब्द आकाशमात्रगुणः पृथिव्यादिषु रसाद्युपलब्धिरपि । पृथिव्याद्यंतर्गत जलाद्याश्रितरसादिविषयेति व्यवस्थाप्रतिपादक पुराणवचनानि ग्राह्याणि ।। नह्याजानसिद्धजलोपष्टंभादिगतं गंधादि पृथिवी गुण एव न जलादि गुण इत्यादि रूपेणास्मदादिभिः । प्रत्यक्षेण शक्यं विवेचयितुं । पृथिव्यादीनां प्रायः परस्परसंसृष्ट तथान्यगुणस्यान्यत्राप्यवभासः संभवतीति शंकितदोषप्रत्यक्षं तत्रागमेन शिक्ष्यत इति चेत् । तहीहापि ब्रह्मप्रपंचयोरुपादानोपादेय भावेन परस्परसंसृष्टतयाऽन्यधर्मस्यान्यत्रावभासः । संभाव्यत इति शंकितदोषं प्रत्यक्षमस्तिभाति प्रियं रूपं नामचेत्यंश पंचकं प्. ११अ) आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयमिति । वृद्धोक्त प्रकारेणागमेन व्यवस्थाप्यतामिति तुल्यं न चैव मुपजीव्यविरोधः ।। ननु जले पुष्पादिरूपपार्थिवांश संसर्गे सति गंधोपलब्धिरस्तितान्यथेत्यन्वयव्यतिरेकाभ्यामेव गंधस्य पृथिवीमात्रगुणत्व निर्णय संभवात् । किमागमेनेति चेत् नेत्याह । नहीति । आजानसिद्धो यो जलोपष्टंभः पार्थिवद्रव्यविशेषस्तदादिगतमित्यर्थः । जल एव गंधः क्वचित् स्वाभाविकः क्वचिदौपाधिक इति कल्पनोपपत्तेश्चेतिभावः । ननु जलादौ गंधादि प्रत्यक्षमप्रामाण्यरूपदोषशंका । कलंकितत्वादागमेन शिक्ष्यत इति युक्तं प्रपंच सत्वग्राहि प्रत्यक्षं तु तच्छंका शून्यमिति कथं तस्यागमेन बाध इत्याशयेन शंकते । पृथिव्यादीनामिति । तस्य तच्छंकाशून्यत्वमसिद्धमिति तस्यागमबाध्यत्वं युक्तमित्याह । तहींति । संसृष्टतयेति । संसर्गस्तादात्म्यं । अन्य धर्मस्येति । जगदुपादानत्वेन श्रुतिसिद्धस्य सद्वस्तुनो धर्मः सता तस्या एव प्रपंचे प्रतीतिः संभाव्यते । अतः प्रपंच सत्वग्राहि प्रत्यक्षमन्यसताविषयकत्वेन भ्रांतिरूपं वा प्रपंचस्य स्वाभाविकासताविषयकत्वेन प्रमारूपं वेति । शंका कलंकितमित्यर्थः । प्रत्यक्ष बाधप्रकारं वृद्धवचनेन दर्शयति । अस्तीति । अस्ति घटो भाति घटः । प्रियो घट इति घटे सत्वचैतन्यानंदास्तावदनुभूयंतै प्रियशब्दस्यानंदे प्. ११ब्) मुख्य त्वात् घटस्यानंद तादात्म्य प्रतीतिरूपपद्यत । एवं पदादिष्वपि द्रष्टव्यं । नामघटशब्दादि कंबुग्रीवाद्यात्मकं वस्तुरूपमंशपंचकमंशपंचकमंशाः पंचयस्य जगतः तदंशपंचकमनुभूयते । न च कृत्स्नेपि जगति पंचात्मकत्वानुभवो नास्ति दुःखं प्रियमित्यनुभवादर्शनादितिवाव्यं । केषांचित् परकीये दुःखे तदनुभवस्यापि सत्वा तथा च सर्वत्रानुगतं सच्चिदानंदरूपं वस्तुब्रह्मैव ब्रह्मणस्तद्रूपतायाः श्रुतिसिद्धत्वान्नामरूपात्मकरूपमत्रतायाः सर्वाणि रूपाणि विचिंत्य धीर इत्यादि श्रुतिसिद्धत्वादित्यनेन प्रकारेण प्रपंच सत्वग्राहि प्रत्यक्षं जगतः स्वाभाविकसताविषयकं न भवति । किं त्वधिष्ठानतया जगत्यनुगतब्रह्मसताविषयकमेवेति व्यवस्थाप्यते श्रुत्येत्यर्थः । एवं प्रत्यक्षस्यागमापेक्षयास्वतः प्रावल्यं निरस्य उपजीव्यत्वप्रयुक्तं निरस्यति । न चैवमिति । प्रत्यक्षस्यागमेन बाधांगिकार इत्यर्थः । वर्णपदवाक्यात्मकशब्दप्रत्यक्षं हि श्रुतिजन्यमिथ्यात्वबोधं प्रत्युपजीव्यं शब्दज्ञानं विनाशाब्दबोधानुदया तथा च शुत्याप्रत्यक्षमात्रबाधे शब्दप्रत्यक्षस्यापिबाधः प्रसज्येत तथा चोपजीव्यबाधः स्यादित्यर्थः ।। अगमप्रमाणेन वर्णपदवाक्यादि स्वरूपांश प्रत्यक्ष्यमुपजीव्यानुपत्रीव्यतत्सत्वांशोपमर्दनादित्याहः । नन्वागमस्य प्रत्यक्षात् वलीयस्त्वे यजमानः प्. १२अ) प्रस्तर इत्यत्र प्रत्यक्षाविरोधाय यजमानशब्दस्य प्रस्तरे गौणीष्टतिर्न कल्पनीया । तथा सोमेन यजेतेत्यत्र वैययधिकरण्येनान्वये यागे इष्टसाधनत्वं सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापारभेदेन वाक्यभेदापतेः सामाधिकरण्येनान्वये वक्तव्ये प्रत्यक्षाविरोधाय सोमवतायागेनेति मत्वर्थलक्षणा न कल्पनीया । उभयत्रापि सत्पक्षविरोधे तदनादृत्यागमेन वलियसा प्रस्तरे यजमानाभेदस्य यागे सोमाभेदस्य च सिद्धिसंभवादिति चेत् । अत्रोक्तं भामतीतिबंधे । तात्पर्यवती श्रुतिः प्रत्यक्षाद्वलवती न श्रुतिमात्रं मंत्रथिवादानां स्तुति द्वारभूतेर्थे वाक्यार्थद्वारभूते पदार्थे इव न तात्पर्यं ।। श्रोत्रेंद्रियेण जायमानं प्रत्यक्षं शब्दस्वरूउपं तस्य सत्वं च विषयी करोति श्रुत्या च सत्वांशय प्रत्यक्षमेव बाध्यते तच्च न श्रुते रूपजीव्यं कल्पितशब्दस्यापि बोधकत्व संभवेन शाब्दबोधार्थं तत्सत्वस्यानपेक्षितत्वाद्यच्च शब्दस्वरूपांश प्रत्यक्षमुपजीव्यं तन्न बाध्यते विरोधाभावादतो नोपजीव्यविरोध इति परिहरति । आगमप्रमाणेनेति । आगममात्रस्य प्रत्यक्षात्प्रावल्यमुक्तमाक्षिपक्षिपत्वि नन्वागमस्येति । गौणिति क्रतु निर्वर्तकं प्. १२ब्) गुणस्तथेति सिद्धांते इष्टसाधनत्वं विध्यर्थः । ततश्च सोमयजिपदयोर्वैप्यधिकरण्येनान्वये स्वीक्रियमाणे याग इष्टसाधनं सोमो यागरूपेष्टस्य साधनमिति सकृत् छ्रुतस्य विधि प्रत्ययस्य व्यापारभेदापत्या तद्घटितवाक्यस्यापि व्यापारभेदापतेस्तत्परिहारायतयोः सामानाधिकरण्येनान्वयो वक्तव्य इति सिद्धांते स्थिते सतीत्यर्थः । प्रत्यक्षाविरोधायैति । सामानाधिकरण्यपक्षे सोमयागयोरभेदो वक्तव्यः । सोयमित्यादि स्थले समानाधिकरणपदद्वयस्य पदार्थद्वयाभेदार्थकतायाः कॢप्तत्वात्स च प्रत्यक्षविरुद्ध इति तत्परिहारायेत्यर्थः । सोमवतैति सोमपदस्य मत्वर्थे लक्षणा तथा च सोमवतायागे नेष्टं भावयेदिति मीमांसकरीत्यावाक्यार्थः । सिद्धांतरीत्या तु सोमवदभिन्नो याग इष्टसाधनमिति वाक्यार्थो द्रष्टव्यः । सोमस्य यागेन सहमत्वर्थ संबंधश्च वस्तुगत्या क्रियाकारकभावलक्षण इति ज्ञापनार्था सोमेनेति तृतीया भामतीति । भासती संज्ञक ग्रंथे वाचस्पति मिश्रैरुक्तमित्यर्थः । न श्रुतिमात्रमिति । तथा च सोमेन यजेतेत्यत्र सोमयागसंबंधे श्रुतेस्तात्पर्या भावाच्छ्रुत्यपेक्षया प्रत्यक्ष मे वलवदिति तदविरोधापलक्षणा कल्पनमुचितं । तथा यजमानः । प्रस्तर इत्याद्यर्थ वादानामपि स्वार्थे तात्पर्या भावात् । प्रत्यक्षप्रावल्यमिति तत्रापि तदविरोधाय गौण्यादिकल्पनं युक्तं प्रपंचमिथ्यात्व बोधक श्रुतीनां तु तात्पर्य सत्वात् । प्रत्यक्षापेक्षया प्. १३अ) प्रावल्यमिति तासां तद्बाधकतुं निष्ट्यत्यूहमिति समाधान ग्रंथार्थः । ननु मंत्रार्थवादानामपि स्वार्थे तात्पर्यं किं न स्या तत्राह । मंत्रेति । तेषां स्वार्थै फलाभावाद्गौरवाच्च तात्पर्यं न कल्पत इति भावः । देवस्य त्वेत्यादिभिर्मंत्रैर्यजमानः प्रस्तर इत्याद्यर्थ वादैश्च विधेय यागस्तुतिर्लक्षणीया तत् श्च मंत्रादि वाक्यार्थस्य ।। तात्पर्याभावे मानांतराविकद्वंदेवताविग्रहादि कथं तेभ्यः सिद्ध्येत् । तात्पर्यवत्येव शब्दस्य प्रामाण्यनियमादिति चेन्न ऐत् स्यैवरेवतीषु वारवंतीयमग्निष्टोमसामकृत्वा पशुकामो ह्येतेन यजेतेति विशिष्टविधेस्तात्पर्यागोचरे विशेषण स्वरूपे प्रामाण्यदर्शनेनोक्तनियमासिद्धेः । अत्र हि रेवती ऋगाधारं वारवंतीयं सामविशेषणं न चैतत्सोमादिविशेषणेवत् लोकसिद्धं येन तद्विशिष्टयागविधिमात्रे प्रामाण्यं वाक्यस्य स्यात् द्रव्यदेवतादिरूपस्य लक्षणीययास्तत्यासहसंबंधो वाच्यः इतरथामंत्रादीनां स्वज्ञाप्यसंबंधाभावेन स्तुतिलक्षकत्वान्वययजेरतस्तुतौ लक्षणीयायां मंत्रादिवाक्यार्थो द्वारभूतः प्. १३ब्) पथागंगापदेन तीरे लक्षणीये प्रवाहः । अतोपि न तत्र तेषां तात्पर्यं लक्षणास्थले द्वारभतार्थे तात्पर्यादर्शनादित्याशयेनाह । स्तुतिद्वारभूत इति । तत्र स्वयं दृष्टांतमाह । वाक्यार्थद्वारभूत इति वाक्यार्थ तात्पर्येण प्रयुक्तानां पदानां वाक्यार्थप्रतिपतिद्वारभूतेषु स्मारितपदार्थेषु यथा तात्पर्यं नास्ति तथेत्यर्थः । विधिपरमंत्रार्थवादानां स्वार्थे तात्पर्या भावे देवताविग्रहादि प्रतिपादिकानां वज्रहस्तः पुरंदर इत्यादीनामपि देवताविग्रहादौ स्वार्थे तात्पर्याभावापत्या तेषां देवताविग्रहादि प्रमिति जनकत्वं न स्याद्वेद तात्पर्यविषयत्वस्य वेदजन्य प्रमिति विषयत्वं प्रतिव्यापकत्वाद्व्यापकनिवृत्यातन्निवृतेरावश्यकत्वा तदाहुः । यत्परः शब्दः सशब्दार्थ इति तथा च देवताधिकरणविरोधः तत्रान्यपरेभ्योपि मंत्रादिन्यो देवता विग्रहादि सिद्धिप्रतिपादनादित्याशयेन शंकते तात्पर्याभाव इति मानांतराविरुद्धत्वविशेषणं यजमानः । प्रस्तर इत्यादिवारणाय । इदमुपलक्षणं मानांतराप्राप्तस्यापि यतच्च विशेषणमग्निर्हिमस्य भेषजमित्यादि वारणाय । अद्येर्हिमभेषजत्वस्य प्रत्यक्षत्यक्ष सिद्धत्वेन तस्यर्थवादतः सिद्ध्य न पेक्षणा तथा च मानांतरेण विरोधप्राप्त्योरभावे सत्यन्यपरेभ्योपि मंत्रादिभ्योवगम्यमानोर्थः । सिद्ध्यत्येव देवताविग्रहादिश्च तथाविध इति तत्सिद्धिरप्रत्यूहेति प्रतिपादितं देवताधिकरण इति भावः । परिहरति । नेति प्. १४अ) एतस्यैवैति इदमेतद्व्यत्येव देवताविग्रहादिश्च तथाविध इति तत्सिद्धिरप्रत्यूहेति प्रतिपादितं देवताधिकरण इति भावः । परिहरति त्पदप्रकृताग्निष्टद्धर्माति देशकं तथा चरेवत्योयारकवारवंतीयाख्यं सामाग्निष्टोमसामकृत्वा प्रकृताग्निष्टद्धर्मकेणानेतयागेन पशून् भावयेत् इति श्रुत्यर्थः । विशिष्टविधेरितिरेवत्याधारकवारवंतीपसामादि विशेषण विशिष्ट क्रतु भावनाविधेरित्यर्ह्तः । उक्तेति । शब्दतात्पर्यविषयत्वस्य शाब्दप्रमितिविषयत्वं प्रतिव्यापकत्वरूपनियमासिद्धेरित्यर्थः । उक्तमर्थं विवृणोति । अत्र हीति । न चैतदिति । यदि वारचंतीयं सामरेवतीषु ऋत्त्वध्ययनसिद्धं भवे तदा तस्य विशेषणस्य दध्यादिवल्लोकन एवावगतत्वाद्वाक्यस्य तद्व्यतिरेकार्थ एव प्रमितिजनकत्वरूपं प्रामाण्यं भवेन्नत्वे तदस्ति । वारवंतीय साम्न ऋगंतरेष्वेवाध्ययनमिद्वत्वादतो वाक्यादेवरेवत्याधारकवारवंतीयाख्यविशेषणस्य प्रमितिर्वक्तव्येत्यर्थः ।। नापि विशिष्टविधिनाविशेषणाक्षेपः । आक्षेपाद्विशेषण प्रतिपतौ विशिष्टगोचरो विधिस्तस्मिंश्च सति तेन विशेषणाक्षेप इति परस्पराश्रयापतेः । अतो विशिष्टविधिपरस्यैव वाक्यस्य विशेषणस्वरूपेपि प्रामाण्यं वक्तव्यं प्. १४ब्) अथ च तत्र न तात्पर्यमुभयत्र तात्पर्ये वाक्यभेदायतेः । एवमर्थवादानामपि विधेय स्तुति पराणां स्तुति द्वारभूतैर्थेन तात्पर्यमिति तेभ्यः प्रत्यक्षस्यैव चलवत्वात् तदविरोधायतेषु वृत्यंतरकल्पनं सोमेन यजेतेत्यत्र विशिष्टविधिपरे वाक्ये सोमद्रव्याभिन्नतया यागरूपं विशिष्टं विधेयमित्युपगमे तस्य विधेयस्य दध्नाजुहीतीत्यादौ विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विशिष्टविधिपराद्वाक्यादेवरेवत्याधारवारवंतीयादि विशेषणस्येव । विना तात्पर्यं सिद्धिरष्टव्यानष तात्पर्यरहितादागमाद्याग सोमलताभेदग्राहि प्रत्यक्षविरुद्धार्थः सिद्ध्यतीति हेतोः । तत्रापि तदविरोधायमत्वर्थलक्षणाश्रयणं ।। ननु विशिष्टविषयको विधिरप्रसिद्धविशेषणस्वरूपप्रमिति जनकं रेवतीषुवारवंतीयं सामकुर्यादित्येवमात्मकं विशेषणविधिमाक्षिपति तथा च तस्य विशेषणस्य नैतद्वाक्यप्रमेयत्वमिति नेत्याह । नापीति । विशेषणगोचरविधिकल्पनात् । पूर्वं विशिष्टविधिनाविशेषणस्वरूपं प्रमितं वा न आद्ये तत्कल्पनं व्यर्थं द्वितीये विध्याक्षेपो न सिध्यति प्रमितस्यैवद्दव्यदेवतासंबंधस्य प्. १५अ) यागविध्याक्षेपकत्वदर्शना तथा च विशिष्टविधिनानिशेषणविधिराक्षिप्यत् इति वदता आक्षेपात् प्राग्विशेषणस्य प्रमितत्वं वाच्यं तत्प्रमापकश्च कस्त्यितविधिरिति । वक्तव्यं ततश्चाक्षिप्तविधिनाविशेषण स्वरूपे प्रमिते सति प्रकृतविधिर्विशिष्टगोचरः सिध्यति । तस्मिंश्च प्रकृतविधौविशिष्टगोचरे सति तेन विष्टविधिनाविशेषणविध्याक्षेप इति । परस्पराश्रयापत्याविशेषणविध्याक्षेपासिद्धेरित्यर्थः । अत इति रेवत्याधारकवारवतीय सामाख्यविशेषणस्य प्रकृतवाक्यादन्यतः प्रमित्यभावादित्यर्थः । तर्हि तत्रापि तात्प्र्यमस्तु नेत्याह । अथ चेति गौरव्यदिति भावः । न च यत्परः शब्दः सशब्दार्थ इति न्यायविरोधः । शंकनीयः । तस्यौत्सर्गिकत्वोपपत्तेः प्रकृते च गौरवलक्षण बाधकसत्वान्न तस्येह प्रसक्तिः । एवमिति विशिष्टविधेर्विशेषणरूप इवेत्यर्थः । न तात्पर्यमिति । तथा च तात्पर्याविषयेपि रेवतीवारवंतीय विशेषणस्वरूपे श्रुतेः । प्रमिति जनकत्ववदन्यपसणामपि मंत्रादीनां देवताविग्रहादि प्रमिति जनकत्वं संभवतीति न देवताधिकरणविरोध इति भावः । प्रकृतमाह । तेभ्य इति । मंत्रार्थ वादेभ्यस्तोत्पर्यरहित श्रुतिवाक्येभ्य इति यावत् । सोमेन यजेतेत्यत्रसामानाधिकरण्ये नान्वय इति सिद्धांते कथं प्रत्यक्षविरोधः कथं वा तदविरोधावलक्षणा प्. १५ब्) कल्पनमित्याकांक्षायामाह सोमेनेति । तत्रापीति । यजमानः यस्तर इत्यत्रैवेत्ययि शब्दार्थः । प्रत्यक्षाविरोधाय वृत्यंतरकल्पनमात्रैदृष्टांतः न तु मत्वर्थलक्षणांशेपीति बोध्यं ।। अद्वैतश्रुतिस्तूपक्रमोपसंहारैकरूप्यादि षद्भिधिर्लिगावगमिता- द्वैत तापर्याप्रत्यक्षाद्वलवतीति ततः प्रत्यक्षस्यैव वाधः । न तदविरोधाय श्रुतेरन्यथा नयनमिति । विवरणवार्तिके तु प्रतिपादितं न तात्पर्यवत्वेन श्रुतेः प्रत्यक्षात्प्रावल्यं कृष्णलं श्रययेर्दिति विधेः श्रपणस्य कृष्णलार्थत्व प्रतिपादने तात्पर्येपि कृष्णले रूपरसपरावृतिप्रादुर्भावपर्यंत सुख्यश्रषणसंबंधः प्रत्यक्षविरुद्ध इति तदविरोधाय श्रयणशब्दस्योष्णीकरणमात्रे लक्षणाभ्युपगमात् । तत्वमसीति वाक्यस्य जीवब्रह्माभेदप्रतिपादने तात्पर्येपि त्वं पदवाच्यस्य तत्पदवाच्याभेदः प्रत्यक्षविरुद्ध इति । तदविरोधाय निष्कृष्टचैतन्यलक्षणाभ्युपगमाच्च ननु द्वैतस्य मिथ्यात्वबोधकाद्वैतश्रुतेरपि न स्वार्थे मिथ्यात्वे तात्पर्यं मानाभावा तथा च द्वैतसत्वग्राहि प्रत्यक्ष प्. १६अ) विरोधपरिहारायाद्वैतश्रुतेरप्यन्यथानयनमेव न्याययमिति । नेत्याह । अद्वैत श्रुतिस्त्विति । तात्पर्यलिंग्यानि च शास्त्रे व्यक्तानि तत इत्यद्वैतश्रतेः सकाशादित्यर्थः । वाचस्यत्युक्तं तात्पर्यस्य प्रावल्यप्रयोजकत्वं दूषयति । विवरणवार्तिके त्विति । कृष्णलाः सुवर्णविकारानूतामाषाः कृष्णल शेषत्वेन श्रयणं विधीयत इति श्रुतेस्तत्र तात्पर्यं सिद्धमिति भावः । रूपरसपरावृति प्राद्वर्भावोनामपूर्वरूपरसादिनाशपूर्वकं रूपरसाद्यंतरोत्पतिः तत्पर्यंतो योधि श्रयणादि व्यापारः स एव श्रयणशब्दस्य मुख्योर्थः तत्संबंध इत्यर्थः । कृष्णलानामधिश्रयणज्वालादिसंपादनरूपे पाके कृतेपि रूपरसादिपरावृति प्रादुर्भावो नास्तीति प्रत्यक्षसिद्धमितिभावः । नन्वत्र श्रयणं विधीयते । तच्च न प्रत्यक्ष बाधितं ज्वालाधिश्रयणादि क्रियारूपपाकस्यैव श्रयणशब्दार्थत्वेन तस्य तत्रापि संभवात् । रूपरसादि परावृत्ति प्रादुर्भावस्तु न धात्वर्थः । तस्य पाकफलस्य कर्मत्वरूपस्य द्वितीयार्थत्वात् । फलसाविध्य योग्यत्वेन विधेय श्रपणरूपत्वायोगाच्च । तथा च विधेय श्रपणस्य दृष्टप्रयोजनाभावाददृष्टार्थविधिः पर्यवस्यतीतिश्चति तात्पर्यविषयश्रपणस्य प्रत्यक्षबाधाभावादुष्णीकरणमात्रे श्रयणपदस्य लक्षणा न संपन्नेत्यस्वरसोदाह । तत्वमसीति वाक्यस्येति । निष्कृष्टेति निःकृष्टं विशिष्टरूपाद्वाव्यार्थात् । पृथकृंतविशेष्यमात्रं यच्चैतन्ये तत्रेत्यर्थः । अत्रेदं बोध्यं महावाक्यानाम प्. १६ब्) खंडैकरसचैतन्यरूपवस्तुमात्रबोधने तात्पर्यं । कुतः तमेवैकं जानथ आत्मानं तमेव विदित्वाति मृत्युमेति । एकधैवानुदूष्टव्यमित्यादि श्रुतिसहस्रेण मुक्तिसाधनीभूतमहावाक्यार्थ ज्ञानं प्रतितादृशवस्तुमात्रस्यैव विषयत्वे न नियमनात् । श्रुतीनामेषोर्थः । यस्मिन् कृत्स्नं जगदध्यस्तंतमात्मानं जानथ हे मुमुक्षवः अत्राधेयस्य कृत्स्नस्य जगतः ज्ञे ।। अर्थवादानामपि प्रयाजाद्यंगविधिवाक्यानामिव स्वार्थप्रमितावनन्यार्थतया प्रमितानामेवार्थानां प्रयोजनवशादन्यार्थतेति प्रयाजादिवाक्यवतेषामप्यवांतरसंसर्गे तात्पर्यमस्त्येव वाक्यैक वाक्य त्वात् ।। यत्वनिषेधार्थमवधारणमेकपदं च एकरसत्व प्रतिपादनपरं मुमुक्षुज्ञेयस्यात्मनो नानारसत्वे एकपदमनर्थकं स्यादेकत्व संख्यायोग्यस्यात्मन एकवचनादेवसिद्धत्वादस्याः श्रुतेरिदं तात्पर्यद्युभ्वाद्यधिकरणभाष्ये स्फुटं दार्शितं तमेव प्रकृतं परमात्मानमेव न तु तद्व्यतिरिक्तमण्वपीत्येव कारार्थः । विदित्वा साक्षात्कृत्य मृत्युशब्दितं संसारमुत्येति एकधैव एकरूपेणैव शास्त्राचार्योपदेशमनुद्रष्टव्यमिति । तच्चाखंडैकरसवस्तुमात्रे बोधने तात्पर्यं महावाक्येषु तत्वमादिपदानां लक्षणां विना नतिर्वहतीति तेषु तात्पर्यानुसारेणैव प्. १७अ) लक्षणाभ्युपगमः न तु प्रत्यक्षविरोधपरिहाराय परं तु तत्वं पदयोश्चैतन्यमात्रे लक्षणां स्वीकृत्यवाक्यार्थबोधाभ्युपगमे प्रत्यक्षविरोधोपि परिहृतो भवतीत्ये तावन्मात्रेण प्रत्यक्षविरोधपरिहाराय महावाक्येषु लक्षणेति निबंधनेषु व्यवहारः । तथा च सत्यपि तात्पर्ये तदनादृत्य प्रत्यक्षविरोधपरिहारायैव महावाक्येषु लक्षणाभ्युपगमा तात्पर्यस्य प्रावल्यप्रयोजकत्वं नास्तिति प्रतिपादनं मंदमिति । यतु मंत्रार्थ वादानां स्तुति द्वारभूते स्वार्थे तात्पर्यं नास्तीत्युक्तं तदूषयति । अर्थवादानामपीति अनन्यार्थता स्वार्थपरतेत्यर्थः । तर्ह्यर्थ वादानां विधिशेषत्वं न स्यादित्याशंक्याह । प्रमितानामेवेति मानांतरसंवादविसंवादरहितार्थवादादिभिरितिशेषः । तेषां स्वार्थप्रमितिमात्रेण फलाभावाद्विधेयस्तावकत्वेन विध्येकवाक्यं त्वं कल्प्यत इत्यर्थः । यथा प्रयाज्वादिकर्मणां प्रयोजनाकांक्षावशे प्रयाजादिवाक्यानां फलवद्दर्शपूर्णमासविधिवाक्यैरेकवाक्यत्वं तथेति भावः । अवांतरसंसर्ग इति । अर्थवावानामपि विध्यन्वयात्प्राक् स्वरसतः प्रतीयमाने देवताया विग्रहादि संसर्गे अवांतरतात्पर्यमस्तीत्यर्थः । प्रयाजादिवाक्यानामर्थवादादि वाक्यानां च स्वार्थप्रमितौ तात्पर्ये हेतुमाह । वाक्यैक वाक्यत्वादिति । वाक्यानां सतामेवतैषां विधिवाक्यैरेकवाक्यत्वाभ्युपगमात् । प्. १७ब्) वाक्यानां च वाक्यार्थे तात्पर्यस्य सामान्यतः सिद्धत्वादित्यर्थः ।। परैकवाक्यतायामेव परमवांतरतात्पर्यानभ्युपगमादिति विवरणाचार्यैर्न्यायनिर्णये व्यवस्थापनेन । यजमानः प्रस्तर इत्यादिनामपि मुख्यार्थ तात्पर्य प्रसक्तौ प्रत्यक्षाविरोधायैवलक्षणाभ्युपगमाच्च । कथं तर्हि श्रुतैः प्रावल्यमुच्यते । निर्दोषतात् परत्वाच्च श्रुतिमात्रं प्रत्यक्षात्प्रवलमित्युत्सर्गः । किं तु श्रुतिबाधितमपि प्रत्यक्षं कथं चित्स्वोचितीवंषयोपहारेण संभावनीयं निर्विषयज्ञानायोगात् । अत एवाद्वैत श्रुतिविरोधेन तत्वावेदनात्प्रच्यावितं प्रत्यक्षमर्थक्रियासमर्थव्यावहारिकविषयसमर्पणेनोपपाद्यते ।। यत्तु वाक्यार्थद्वारभूते पदार्थ इवेति स्तुति द्वारभूतेर्थे तात्पर्याभावे दृष्टांतप्रदर्शनं तद्विघटयति । पदैकवाक्यतायामेवेति । पदानां सतामेकवाक्यार्थबोधनेनैकवाक्यत्वमित्यर्थः । तत्र पदार्थानां वाक्यार्थस्येवापूर्वत्वाभावान्न तेष्टवांतरत्वापिर्यमपीति स्वीक्रियत इत्यर्थः । एतेन रेवत्याधारकवारवंतीयस्ममाख्यविशेषणेपि तात्पर्यं व्याख्यातं । वाक्यस्य वाक्यार्थे तात्पर्यस्योत्सर्गतः प्. १८अ) सिद्धताद्विशिष्टविधेर्विशिष्टभावनायां तात्पर्यवत्वान्नु तस्य विशेषणेषु तात्पर्यं सिध्यति विशिष्टविधितात्पर्यविषयत्वस्य विशेष्यमात्रवृतित्वेत तात्पर्यस्य विशिष्टविषयकत्वानुपपतेः सीमांसकानां विशिष्टविधिर्विशेषणेषु तात्पर्याभावव्यवहारस्य विशेषणेषु प्रत्येकं तात्पर्याभावपरत्वा तस्मात् तात्पर्यविषय एवेवेदस्य प्रमिति जनकत्वमिति नियमस्य न्यायनियमस्य न्यायनिर्णयविवर्णांचार्यैर्व्यवस्थापितत्वेनेत्यर्थः । ततः किं तत्राह यजमानः प्रस्तरं इत्यादीनामिति । उक्तरीत्यातुषामपि यजमानप्रस्तराभेदादौ तात्पर्ये स्यादेव तच्च प्रत्यक्षेण बाध्यत इति वक्तव्यसतस्तात्पर्यवत्वं श्रुतेः । प्रावल्यप्रयोजकं न भवतीत्यर्थः । अत्र मंत्रार्थवादानामपि प्रयाजादिवाक्यानामिव स्तुतिद्धारभूतेर्थे यद्यवांतरतात्पर्यमवश्यकल्पनीयं तर्ह्यस्तुत तात्पर्यस्य न प्रावल्ये प्रयोजकत्वक्षतिः । महातात्पर्यस्य तत्प्रयोजकत्व संभवादद्वैतश्चतीनां प्रपंच मिथ्यात्वे महातात्पर्याभ्युपगमेन तत्र प्रपंच सत्वग्राहिप्रत्यक्षस्य मिथ्यात्व श्रुत्याबाधोपपतेरित्यादिकमालोचनीयं । तहीति । तात्पर्यस्य प्रावल्यप्रयोजकत्वाभावे सतीत्यर्थः । ननु श्रुति मात्रस्य प्रावल्ये सिद्धे तस्यौत्सर्गिकत्वं वक्तव्यं स्यातदेव कुत इति चेन्न प्रावल्ये अन्यदपि हेतुद्वयं दर्शयतिति द्वोषत्वात्परत्वाच्चेति । उत्सर्ग इति । श्रुति तदितरप्रमाणयोर्विरोधे सति प्. १८ब्) श्रुतिरेवबाधिका भवति । यत्र च श्रुतिबाधितं प्रत्यक्षादि निरवकाशं भवति । त्वन्न निरवकाशेन तेन श्रुतिरेव बाध्यते । सावकाश निरवकाशयो निरवकाशं वलवदिति न्यायादित्यर्थः । ननु श्रुतिबाधितस्य प्रत्यक्षादेर्निरवकाशत्व स्थले तेन श्रुतेर्बाधः । किमर्थमुपेयते तत्राहै किं त्वित्यादिना । संभावनीयमुपपादनीयमित्यर्थः । अतदवेति । निर्विषयप्रत्यक्षायोमादेवेत्यर्थः । प्रच्यावितमिति श्रुति बाधितस्य द्वैतस्य तत्वरूपत्वा योगादद्वैतबाधकप्रत्यक्षस्य तत्वावेदकत्वरूपात् । प्रामाण्यात् प्रच्यावितत्वं बोध्यं उपपाद्यते भाष्यादिष्वितिशेषः ।। किं बहुनानेदं रजतमिति सर्वसिद्धप्रत्यक्षबाधितमपि शुक्तिरजतप्रत्यक्षमनुभवानुरोधात्युरोदेशे शुक्तिसंभिन्नरजणेपगमेनैन समर्थ्यतेन तु तद्विरोधेन व्यवहितमांतरमसदेववारजतं विषय इति कल्प्यते । एवं च प्रस्तरे यजमानभेदग्राहिणो यावत् ब्रह्मज्ञानमर्थक्रियासंवादेनानुवर्तमानस्य प्रत्यक्षस्य प्रातिभासिकविषयत्वाभ्यपगमैनोपपादनायोगाद्यजमानः प्रस्तर इति श्रुति बाध्यत्वे सर्वथा निर्विषयत्वं स्यादिति तत्परिहारायोत्सर्गमपौद्य श्रुतिरेव ।। प्. १९अ) श्रुतिबाधितप्रत्यक्षादीनां सिद्धांते व्यावहारिक प्रामाण्योयगमेन प्रत्यक्षज्ञानस्य निर्विषयत्वरूपं निरवकाशत्वं सिद्धांत संसतं न भवतीत्युपपाद्यतत्रकैमुतिक न्यायमाह । किं बहुनेति । अद्वैत श्रुति बाधित घटादि प्रत्यक्षस्य निर्विषयत्वोपगमे सर्वव्यवहारो छेदप्रसंगलक्षणं बाधकं यथा विद्यते न तथा शुक्तिरजतांदि प्रत्यक्षस्य निर्विषयत्वोपगमे बाधकमस्तिकैश्रिदसतोपि रजतादेर्भानोपगमा तथापि तस्य तत्कालोत्यत्र रजतादि विषयकत्वं सिद्धांते स्वीक्रियते अनुभवस्य निर्विषयत्वा योगातस्माच्छति बाधितस्य प्रत्यक्षस्य निरवकाशत्वं यत्र प्रसज्जते । तत्र तेन श्रुति वायो युक्तः सिद्धांतसंमतश्चेति श्रुतेः । प्रावल्यमौत्सर्गिकमित्ये तत्सिद्धमितिभावः । शुक्तिसंभिन्नेति । शुक्ति तादात्म्यापन्नेत्यर्थः । व्यवहितमिति । बाह्यदेशांतरस्थामित्यर्थः । आंतरमिति ज्ञानाकाररूपमित्यर्थः । न कल्प्यत इत्य च हेः तद्विरोधेनेति । रजतस्येदमर्थ्या भिन्नत्वानुभवविरोधेनेत्यर्थः । व्यवहितरजतादीनामिदमर्थ तादात्म्यासंभवादितिभावः । एवं चेति विरोधस्थले निरवकाशमानांतरेण श्रुतिबाधे न्यायये सतीत्यर्थः । ननु प्रस्तर यजमानयोरभेदश्रुतिबाधितस्य तयोर्भेद प्रत्यक्षस्य शुक्तिरजतप्रत्यक्षवत् प्रातिभासिकविषयसंभवान्न तत्रैतेन श्रुतिबाधः कल्पनीय इति नेत्याह । प्रातिभासिकविषयत्वाभ्युपगमेनेति । प्रत्यक्षविषयस्य प्रस्तरे यजमानभेदस्य प्. १९ब्) प्रातिभासिकत्वासंभवे युक्ति सूचयति । यावदिति । यथा शुक्तिरजतस्य ब्रह्मज्ञानात्यागेवमेदं रजतमिति प्रत्यक्षेण निवृतिः स्वोचितार्थ क्रियाऽभावश्च । तस्य प्रातिभासिकत्व हतुरस्तित तथा प्रस्तरयजमानमेदस्य प्राकृब्रह्मज्ञानाद्बाध अर्थक्रियासामर्थ्याभावश्च प्रातिभासिकत्वहेतुरस्तीत्यर्थः । यावद्ब्रह्मज्ञानमनुवर्तमानस्येत्यस्य ब्रह्मज्ञानात्प्राक् बाधरहितस्येत्यर्थः । अर्थक्रियासंवादेनेत्यस्यार्थ क्रियासमर्थभेदविषयकत्वेनेत्यर्थः । बाध्यत्व इति प्रस्तरे यजमान भेद ग्राहिणः प्रत्यक्षस्येत्यनुषंगः सर्वथेति अयमर्थः । प्रातिभासिकभेदविषयकत्वं तस्य प्रत्यक्षस्य न संभवतीत्युक्तं तथा व्यावहारिकभेदविषयत्वं तस्य न संभवतीत्यनुपदमेव वक्ष्यते । पारमार्थिक भेदश्चाद्वैत श्रुतिविरोधादेवनाभ्युपगंतुं शक्यते । तथा च तस्य निर्विषयत्वरूपं निरवकाशत्वं स्यादेवेति श्रुतिरेवान्यथा नीयत इति संबंधः ।। तत्सिद्ध्यधिकरणादि प्रतिपादितप्रकारेणान्यथा नीयते न चाद्वैतश्रुति प्रत्यक्षयोरिवेह श्रुति प्रत्यक्षयोस्तात्विकव्यावहारिकविषयोपगमेन प्रत्यक्षोपपादनं कर्तुं शक्यं ब्रह्मातिरिक्तसकलमिथ्यात्वप्रतिपादक षद्विध तात्पर्यलिंगोयपन्नानेक श्रुतिविरुद्धेनैकेनार्थवादेन प्रस्तरे यजमान तादात्म्यस्य तात्विकस्य प्रतिपादनासंभवात् ।। प्. २०अ) अन्यथा नयनप्रकारमाह । तत्सिद्धीति । मुख्यार्थस्याभेदस्य प्रत्यक्षविरोधेनासंभवात् । प्रस्तरे यजमान शब्दस्य गौणवृतौ कल्पनीयायां को गुण इत्याकांक्षायां सूत्रकारेण गुणो दर्शितः । तत्सिद्धीति । तस्य क्रतोः सिद्धिरुपकारो यजमान प्रस्तरसाध्यो गुणः तयोः क्रतु निर्वर्तकत्वरूपं सादृश्य गुण इति यावत् । एवमन्येवामप्यर्थवादानां प्रत्यक्षविरोधपरिहाराय यथा संभवमालंबमानि जैमिनिना भगवता अधिकरणांतरेषु कल्पितानीत्यर्थः । नन्वद्वैत श्रुति प्रत्यक्षयोर्विरोधस्थले पारमार्थिकमद्वैतं श्रुति विषयः व्यावहारिक द्वैतं प्रत्यक्ष विषय इति व्यवस्था यथा कल्प्यते । तथा प्रकृतेपि यजमानप्रस्तरयोर्वास्तवाभेदः श्रुतिविषयः कल्पित भेदः प्रत्यक्षविषय इति व्यवस्थाकल्प्यतामिति नेत्याह । नदेति । इहेति । यजमाः न प्रस्तर इत्यत्रेत्यर्थः । यजमानः प्रस्तर इत्यर्थवादेन तयोस्तात्विक तादात्म्यं प्रतिपादयितुं न शक्यं ब्रह्माद्वेत श्रुतिभिर्विरोधान्न चाद्वैत श्रुतीनामपि विधिरूपत्वाभावेनार्थवादत्वा विशेषाद्विनिगमनाचिरह इति वाच्यं । तथापि तासां बहुत्वेन विनिगमनाविरहानवतारादित्याशयेनाह । अनैकेति । किं च यजमान प्रस्तरानेदे तस्यार्थ वादस्य तात्पर्थ नास्ति तद्ग्राहकलिंगाभावादद्वैत श्रुतीनां च स्वार्थे तात्पर्यग्राहकलिंगानिषद्विधान्यपि संति । प्. २०ब्) तथाहि छांदोगे षष्टध्याये सेदेवसौम्येदमग्र आसीदेकमेवाद्वितीयमित्युपक्रम्य ऐतदात्म्यमिदं सर्वमिति सर्वात्मकमद्वितीयं वस्तूपसंहरति श्रुतिरत उपक्रमोपसंहारयोरैकरूप्यलक्षणेन लिंगेन तस्याध्यायस्या द्वितीये वस्तुनि तात्पर्यं निश्चीयते । हे सोम्य इदं परिदृश्यमानं जगत्सृष्टेः प्रागद्वितीयमेकरूपं ब्रह्मैवासीदितिश्चेकै तुं पुत्रं प्रति उद्दालकवचनमिदं सर्वमैतदात्म्य मे तदात्मकं प्रकृतसद्वस्त्वात्मकमित्यर्थः । भावप्रत्ययो अविवक्षित इत्यर्थः । ऐतदात्म्यमिदं सर्वंमिति वाक्यस्या सकृत्यावादभ्यास सिद्धिरद्वितीयवस्तुनो मानांतरायोग्यत्वादपूर्वत्वसिद्धिः आचार्यवान् पुरुषो वेदेति वाक्येन प्रकृताद्वैत सद्वस्तुज्ञानं प्रकृत्यसंपति वाक्येन तस्य मुक्तिलक्षणफल श्रवणात् । फलमपि तत्र तात्पर्यग्राहकमस्ति पितृपुत्राख्यापिकादि रूपार्थवादश्च ततात्मर्यग्राहकस्तत्रास्तिमृदादि दृष्टांतैः प्रपंचस्य ब्रह्मकार्यत्वप्रतिपादनपूर्वकं ब्रह्मानन्यत्व प्रतिपादनमुपयतिस्तत्रास्ति तथा च षद्विधैस्तात्पर्यलिंगैरद्वितीयवस्तु परत्वं तस्याध्यायस्य सिद्ध एवमध्यायां ।। एवं तत्वमसिवाक्येन त्वं पदवाच्यस्य सर्वज्ञत्वा भोक्तृत्वादि विशिष्टब्रह्मरूपत्व बोधने तत्रासर्वज्ञत्वभोक्तृत्वादि प्रत्यक्षमत्यंत निरालंबनं</poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] hvnchjvs0gag5up8xi6pjcc8k5pmkgr सिद्धान्तलेशसङ्ग्रहटीका - भागः २ 0 165515 417840 2026-07-16T09:34:45Z Shubha 190 {{header | title = सिद्धान्तलेशसङ्ग्रहटीका - भागः २ | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> प्. २१अ) स्यादिति तत्परिहारायाहंकारशंबलितस्य भोक्तृत्वादि ततो निष... नवीन पृष्ठं निर्मीत अस्ती 417840 wikitext text/x-wiki {{header | title = सिद्धान्तलेशसङ्ग्रहटीका - भागः २ | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> प्. २१अ) स्यादिति तत्परिहारायाहंकारशंबलितस्य भोक्तृत्वादि ततो निष्कृष्टस्य शुद्धस्योदासीन ब्रह्मरूपत्वमिति व्यवस्थामाथित्यभागत्यागलक्षणा श्रीयते | एवं कृष्णलं श्रययेदित्यादावपि प्रत्यक्षस्यात्यंत निर्विषयत्वप्रसक्तौ तत्परिहाराय श्रुतौ लक्षणा || तरेषु श्रुत्यंतरेषु च तात्पर्यलिंगानि द्रष्टव्यानि | तथा च उक्त तात्पर्यलिंगैरुपे तत्वादद्वैतश्रुतीनां प्रावल्यमित्वाशयेनाह | षद्विधेति | ननु तर्हि व्यावहारिको यजमान प्रस्तरयोरभेदः | श्रुत्यर्थोस्तु ततश्च व्यावहारिक तदमेद प्रतिपादकश्रुतिबाधितं तयोर्भेदप्रत्यक्षमपि व्यावहारिकभेदविषयकमस्तु | तथा च प्रत्यक्षस्य निरवकाशत्वा भावान्न श्रुतिबाधकत्वमिति चेन्न समान सताकयोर्भेदाभेदयोरेकत्रासंभवेन | तथा कल्पनायोगादस्तु तर्हि प्रातिभासिकस्तयोरभेदः | श्रुत्यर्थ न शुक्तो रजताभेदस्यैव प्रस्तरे यजमानाभेदस्य प्रत्यक्षप्रतिभास्य भावादितिभावः | श्रुते प्रत्यक्षात्प्रावल्यमित्युत्सर्गस्य यजमानः प्रस्तर इत्यत्रापवादस्थलं दर्शंयित्वा अपवादस्थलांतरमाह | एवं तत्वमसीति | तत्वमसीति वाक्येन हि स्वरसतः किं चिह्नत्वं कर्तृत्वभोक्तृत्वादिविशिष्टचैतन्यरूप जीवस्य तद्विपरीतेन सर्वज्ञत्वा भोक्तृत्वा भोक्तृत्वा कर्तृत्वादिविशिष्ट प्. २१ब्) चैतन्यरूपेण ब्रह्मणा सहाभेदः सार्वकालिकः प्रतिपाद्यते | तदनुरोधेन जीवे सदासर्वज्ञत्वादि धर्मांगीकारें जीवे तद्विरुद्धा सर्वज्ञत्व कर्तृत्वादिरूपसंसारोवगाहि प्रत्यक्षं निरालंबनं स्यादतो निरवकाशसंसारप्रत्यक्षेण श्रुतेर्बाधः स्वीकर्तव्यः स च बाधो विशेष्यचैतन्यांशमात्राभेदप्रतिपादकत्वेन श्रुतेः | संकोचरूप एव न तु यजमानः प्रस्तुर इत्यत्रेव कार्त्स्येन मुख्यार्थं त्यक्त्वागौणार्थकल्पनरूप इति विशेष इत्यर्थः | अहंकारशबलि तस्येति | अंतःकरणविशिष्टचैतन्यस्येत्यर्थः | भागत्यागेति | त्वं पदवाच्यस्य द्वौभागौस्तः विशेषणभागो विशेष्यभागश्चेति तत्र विशेषणरूपस्य भागस्य त्यागपूर्वकं त्वं पदस्य विशेष्यभागे चैतन्यमात्रे लक्षणा स्वीक्रियते | एवं तत्पदार्थेपि द्रष्टव्यं अपवादस्थलांतरमाह | एवं कृष्णलमिति | प्रसक्ताविति | श्रुतिवलात्कृष्णलेषु रूपरसपरावृतिप्रादुर्भावपर्यंतयाकरूपसाश्रपणस्यांगीकारे तेषु प्रपणाभावप्रत्यक्षस्य विषयो न लभ्यते | अद्वैत श्रुतिविरोधेन तेष्वपारमार्थिकस्य श्रपणाभावस्यासंभवात् | श्रुत्यक्त श्रपणस्य तेषु व्यावहारिकस्यैव वक्तव्यतया तेषु तदभावस्यापि व्यावहारिकस्यासंभवात् | व्यावहारकाले बाधरहितस्य श्रपणाभावस्य प्रातिभासिकत्वासंभवाच्च तस्मात् प्रर्क्षनिर्विषयं स्यादित्यर्थः | एवं सौमें न यजेतेत्यत्रापि सोमेन यागेनेष्वं प्. २२अ) भावयैदिति वाक्यार्थे स्थिते श्रुतिवलात्सोमयागयोरभेदांगीकारे तयोर्भेदग्राहि प्रत्यक्षं निरवकाशं स्यादिति तद्विरोधपरिहाराय सोमपदस्य मत्वर्थलक्षणा स्वीक्रियत इति दृष्टव्यं || नेह नानास्ति किंचनेत्यत्र कथंचिद्विषयोपपादनसंभवे तु न प्रवलायाः | श्रुतेरन्यथा नयनमिति न कश्चिदप्यव्यवस्था प्रसंगः | अथ वा कृष्णलं श्रययेत्सोमेन यजेतेत्यादौ न प्रत्यक्षानुरोधेनलक्षणाश्रयणं किं त्वनुष्टानाशक्त्या न हि कृष्णले उष्णीकरणमात्रमिव मुख्यः पाकोनुष्टातुं शक्यते न वा सोमद्रव्यकरणयो याग इव तदभिन्नो यागः केन चिदनुष्टातुं शक्यते | न चानुष्टेयत्वाभिमतस्य प्रत्यक्षविरोधयवानुष्टानाशक्तिरिति शब्दांतरेण व्यवह्रियत इति वाच्यं | शशिमंडलं कांतिमत्कुर्यादिति विधावनुष्टेयत्वाभिमतस्य शशिमंडले कांतिमत्वस्य प्रत्यक्षाविरोधेप्यनुष्ठानाशक्तिदर्शनेन तस्यास्ततोभिन्नत्वात् | तथा च तत एव तत्र लक्षणाश्रयणं | तस्मादपछेदन्यायादि सिद्धस्य श्रुति च लीयस्त्वस्य न कश्चिद्धाध इति | अथ कथमत्रापछेदन्यायप्रवृतिः उच्यते || प्. २२ब्) एवं निरवकाश प्रत्यक्षेण श्रुतिबाधमुत्सर्गस्यापवादरूपं दर्शयित्वा श्रौसर्गिकं श्रुति प्रावल्यं प्रकृताभिप्रायेण दर्शयति | कथंचिदिति | द्वैतमिथ्यात्व श्रुतीनां तत्सत्यग्राहिप्रत्यक्षस्य च विरोध स्थले प्रत्यक्षस्य श्रुतिबाधितस्यापि न निरवकाशतं | कल्पित द्वैत तद्गत सता जात्यादिविषयकत्वेन सावकाशत्वादतोत्र श्रुत्याप्रत्यक्षस्यैव बाध इति भावः | कथंचिदित्यस्य कल्पित द्वैतादि समर्पणेन वेत्यर्थः | कथंचिच्छब्दात् पूर्वं प्रत्यक्षस्येति शेषः | न कश्चिदपीति | तात्पर्यस्य प्रावल्यप्रयोजकत्वपक्षे यथा तात्पर्यविषयस्यापि श्रयणादेर्बाध दर्शनरूपा अव्यवस्था प्रसक्ता न तथा श्रुति प्रावल्यौत्सर्गिकत्व पक्षे साप्रसज्यते अनुपलंभादित्यर्थः | ननु प्रत्यक्षेण श्रुतिबाधे बह्नन्युदाहरणानि दर्शितानि श्रुत्या प्रत्यक्षबाधोदाहरणं त्वेकमेव दर्शितं तथा च प्रत्यक्षस्य श्रुत्यपेक्षया प्रावल्यमत्सर्ग इति वक्तव्य न तु वैपरीत्यमित्यस्वरसादाह | अथवेति | तदभिन्न इति | सोमाभिन्न इत्यर्थः | तस्या इति | अनुष्टानाशक्तेरित्यर्थः | तत इति प्रत्यक्षविरोधादित्यर्थः | तत एवेति | अनुष्टानाशक्तेरेव न तु प्रत्यक्षविरोधादतो न प्रत्यक्षप्रावल्यस्यौत्सर्गिकत्वं आगमबाध्यानां गगननैल्य प्रत्यक्षादीनां भूयसां प्राग्दर्शितत्वादित्यर्थः | तस्मादिति | आगप्रावल्यस्यौत्सर्गिकत्व संभवादित्यर्थः | न कश्चिद्बाध इति | आगमस्य प्रत्यक्षात्प्रावल्ये यजमानः प्रस्तर इत्यादावपि यजमान प्रस्तराभेदादि सिद्धिप्रसंग इति यो बाध आशंकितः प्. २३अ) पूर्वं स नास्ति तस्य बहुभिः प्रकारैः परिहृतत्वादित्यर्थः अपछेदन्यायं प्रकृते योजयितुमाक्षिपति | अथ कथमिति | कथं शब्दसूचितस्याक्षेपस्य विवरणं तन्निराकरणं च यत्वित्यादिना भविष्यति प्रथमं तं न्यायं प्रकृते यौजयति | उच्यत इति || यथा ज्योतिष्टोमेवहिष्यवमानं सर्षतामद्ज्ञातुरपछेदे सति यद्युद्ज्ञातापछिद्येतादक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेतेति श्रुतिनिरीक्षणेन जातोद्रात्रऽपछेदनिमित प्रायश्चित्त कर्तव्यताबुद्धिः पश्चात् प्रतिहर्त्रऽपछेदे सति यदि प्रतिहर्तापछिद्येत सर्ववेदसंदद्यादिति श्रुति निरीक्षणेन जातया तद्विरुद्धप्रतिहर्त्रऽपछेद निमित प्रायश्चित्त कर्तव्यता बुद्ध्या बाध्यते | एवं घटादि सत्यत्व प्रत्यक्षं परया तन्मिथ्यात्व श्रुतिजन्य बुद्ध्या बाध्यते | न चोदाहृतस्थुले | पूर्वनैमितककर्तव्यता बुद्धेः परनैमितिक कर्तव्यता बुद्ध्या बाधेपि पूर्वनैमित्तक कर्तव्यताबुद्धिजनकं शास्त्रं यत्रोद्ज्ञातृमात्रापछेद उभयोरपि युगपदपछेदो वा उद्गात्रऽपछेदस्य परत्वं वा तत्र सावकाशं | प्रत्यक्षं त्वद्वैत श्रुत्यावाधे विषयांतराभावान्निरालंबनं स्यादिति वैषस्यं शंकनीयं || प्. २३ब्) बहिष्यवमानं स्तोत्रमुद्दिश्यान्वारब्धतयागछता मृत्विजां मध्ये उद्गातुरपछेदे सति आरब्धं क्रतुमदक्षिणतया समाप्य पुनः स एव क्रतुरनुष्टेय इति तदपछेदनिमितकमारच्ये क्रतोरदक्षिणतया समापनं प्रायश्चिततयाविहितं | तथा प्रतिहर्त्रःपछेदनिमितकं सर्वस्वदानरूपदक्षिणादानविशिष्टतया आरब्धस्यैव क्रतोः समापनरूपं प्रायश्चितं विहितं | तथा च एकस्मिन् प्रयोगे दैवात् क्रमेणोभयोरपछेदे सति विरुद्धयोरुक्ते प्रायश्चितयोरनुष्टातुमशक्यत्वादन्यतरस्यानुष्टेयत्वे स्थिते सति किं पूर्वनिमितक प्रायश्चितमनुष्टेयं किं वा उत्तरनिमितकमिति विषये निणैयमाह | उद्गातुरपछेद इत्यादिना | यत्र प्रयोगे प्रथममुद्गातुरपछेदो भवति तत्प्रयोगाभिप्रायोयं ग्रंथः | श्रुतिनिरीक्षणेनेति | निमितोहुयजननानंतरमेव नैमितकशास्त्रस्य बुद्धिस्थत्वादिति भावः | अपछेदनिमितकर्तव्यताबुद्धिरिति | उद्गात्रऽपछेदो निमितं यस्य प्रायश्चितस्य तदुद्गात्रऽपछेदनिमितं तस्य कर्तव्यता बुद्धिरित्यर्थः | तद्विरुद्धेति उद्गात्रयछेदनिमित कर्तव्यता तच्छब्दार्थः तद्विरुद्धत्वं च कर्तव्यताविशेषणमेवमिति | एकस्मिन् प्रयोगे अदक्षिणत्व सर्वस्वदक्षणाकत्वयोरिव एकत्रघटादि प्रपंच सत्यत्वमिथ्यात्वयोरपि विरुद्धत्वातद्बुद्ध्योर्बाध्य बाधकत्व इति भावः | न चोदाहृत प्. २४अ) स्थल इति | यत्र प्रथममुद्गात्रऽपछेदस्तत्रेत्यर्थः | शास्त्रमिति | यद्युद्गातापछिद्येतेति शास्त्रमित्यर्थः | युगपदिति | उद्गाता प्रतिहर्त्रः पछेदयोर्यौगपद्यस्थले उद्गात्रःपछेदनिमितकमेव प्रायश्चितमनुष्टेयमित्याथस्तं वाचार्यैरुक्तत्वादितिभावः | प्रत्यक्षं त्विति द्वैत सत्यत्व प्रत्यक्षमित्यर्थः | अद्वैत श्रुत्येति | द्वैतमिथ्यात्व श्रुत्येत्यर्थः | विषयांतराभावादिति | द्वैत प्रपंचे प्रतीयमान सत्वस्य श्रुत्वाबाधे सति तत्र सत्वांतरा भावात् सत्व प्रक्षं निर्विषयं स्यान्न चैतद्युज्यते प्रत्यक्ष ज्ञानस्य निर्विषयत्वादर्शना तदनुपगमाच्चेति भावः || यत्र घटादौ श्रुतिबाध्यं प्रत्यक्षं प्रवर्तते तत्रैव व्यावहारिकं विषयं लब्धा कृतार्थस्य तस्य परापछेदस्वलेमर्वथा बाधितस्य पूर्वापछेदशास्त्रस्येव विषयांतरान्वेषणाभावदिहापि सर्वप्रत्ययवेद्य ब्रह्मसतायां सावकाशं प्रत्यक्षमिति वक्तुं शक्यत्वाच्च यत्वेकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां क्रतौ ततत् नैमितिक कर्तव्यतयोः वदरफलेश्यामरक्तरूपवोरिव क्रमेणोत्पादादूपद्वज्ञानवत्कर्तव्यताज्ञानद्वयमपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधेःपछेदत्याय उदाहरणं | अत एवापछेदाधिकरणेनै प्. २४ब्) मिकशास्त्रस्य ह्ययमर्थः | निमितो यजननान्प्रागन्यथा कर्तव्योपि क्रतुर्निमिते सत्यन्यथा कर्तव्य इति शास्त्रदीपिकावचनमिति | द्वैत प्रपंचे पारमार्थिकस्य सत्वस्य श्रुत्या अपहृतत्वेपि व्यावहारिकस्य तत्सत्वस्य तयानुयहृतत्वात् | सत्व प्रत्यक्षस्य न निरवकाशत्वमिति परिहरति | यत्रेति | विषयमिति सत्वरूपमितिशेषः | ननु ब्रह्मणि सत्वं पारमार्थिकं घटादि प्रपंचे सत्वं व्यावहारिकं शुक्तिरजतादौ सत्वं प्रातिभासिकमिति सत्तात्रैविध्यपक्षे घटादि सत्वप्रक्षस्य विषयांतरं नान्वेषणियं व्यावहारिक सत्वस्य घटादौ विद्यमानस्यैव तद्विषयस्य विविरुद्धापछदस्थले सर्वथा बाधितस्य पूर्वापछेदनिमितक प्रापश्रितशास्त्रस्यैत्याशंक्याह | इहापीति द्वैतसत्वप्रत्यक्षं घटादि द्वैते सतामलभमानेमपि न निरचकाशं पूर्वापछेदनिमितक प्रायश्चितशास्त्रस्य प्रयोगांतरे सावकाशत्ववदिहापि घटादि द्वैतादन्यत्र तदधिष्ठानभूतब्रह्मसतायां सावकाशत्व संभवादित्यर्थः ब्रह्मस्वरूपसतायाः प्रत्यक्षविषयत्वेकैयुतिक न्यायमभिप्रेत्याह | सर्वेति | सर्वप्रत्ययवेद्यत्वं सता विशेषणं लोके हि यद्यद्वस्तुमनसिस्कुलाभादेकैव सर्वत्र सतेति पक्षे व्यावहारिक सत्व प्रातिभासिक सत्वयोरभावात् सत्वप्रत्यक्षस्य विषयांतरमन्वेषणियमेव यथा उतरभार रति तत्सर्वं सदित्येव प्रतीयते | अतः सर्वस्य जगतः सता प्. २५अ) सर्वप्रत्ययवेद्यासा च सर्वाधिष्ठान ब्रह्मसतैव न तु तदतिरिक्ताकल्पनागौरवादितिभावः | पूर्वं कथं शब्दसूचितमाक्षेपमिदानीमुद्भावयति | यत्विति | वदरफल इति | यथा तत्र पूर्वं श्यामरूपमुत्पद्यते तत्रैव प्रश्चात् पूर्वरूपनाशपूर्वकं रक्तरूपमुत्पद्यते तथा पूर्वनिमितेन जातमात्रे पूर्वनैमितिक कर्तव्यता जायते याश्चात्ये न च निमितेन पूर्वकर्तव्यतानाशपूर्वकमुत्तरनैमितककर्तव्यतोत्पाद्यत इत्यर्थः | ततः किं तत्राह | रूपद्वयज्ञानवदिति | तथा चोतरभावि विरुद्धापछेदवत्यपि क्रतौ पूर्वनैमितिक शास्त्रस्य नाप्रामाण्यमिति तत्प्रामाण्य संरक्षणमेव तथा कल्पकमिति भावः | उतरनिमितो यजननात्प्राक पूर्वनैमितिक कर्तव्यता वस्तु तत्रासीदित्यत्र संमतिमाह | अत ऐवति पूर्वं वस्तुतस्तदभ्युपगमादेवेत्यर्थः | उतरभाविप्रतिहर्त्रःपछेदजननात्प्रागन्यथा अदक्षिणतया वस्तुतः कर्तव्योपि क्रतुः पश्चात् प्रतिहर्त्रऽपछेदरूपे निमिते सत्यत्थथा सर्ववे दक्षिणतया कर्तव्य इति शंककाभिप्रायानुसारेणवनार्थः || तत्र अंगस्य सतः कर्तव्यत्वं न च पश्चाद्भावि प्रतिहर्त्रऽपछेदवति क्रतौ पूर्वप्रवृतोद्गात्रःपछेदनैमितकस्य प्रायश्चितस्यांगत्वमस्ति | आहवनीपशास्त्रस्य पद होमातिरिक्त होमविषयत्ववद्युद्गातेति शास्त्रस्य पश्चाद्भवि प्रतिहर्त्रःपछेदरहित प्. २५ब्) क्रतु विषय त्वात् | उक्तं हि न्यायरत्नमालायां | साधारणस्य शास्त्रस्य विशेषविषयादिना संकोचः कॢप्तरूपस्य प्राप्तवाधो विधीयत इत्युक्त लक्षण प्राप्तवाध विवेचने | तत्रैवं सति शास्त्रार्थो भवति पश्चाद्भाव्युद्गात्रऽपछेदविधुर प्रतिहर्त्रःपछेदयतः क्रतोः सर्ववेद सदानमंगमेव मुद्गात्रऽपछेदेपि द्रष्टव्यमिति | यतु शास्त्रदीपीकावचनमुदाहृतं | तदपि तेनोत्पन्नमपि पूर्वप्रायश्चित ज्ञानं मिथ्या भवति बाधितत्वात् | उत्तरस्य तु न किंचिद्बाधकमस्तीति पूर्वकर्तव्यता बाध्यत्व प्रतिपादक ग्रंथोपसंहारपठिततात् || क्रमेण विरुद्धापछेद द्वयवति क्रतौ पूर्वनैमितिकस्य कर्तव्यतानि व्यातौमानं नास्तीति तत्र पूर्व प्रायश्चितस्यानंगत्वादनंगत्वं च द्बोधकमानाभावातन्न च पूर्वनैमितिकशास्त्रं ततृमानं | तस्य प्रयोगांतरेषु सावकाशत्वेन तत्राप्यंगबोधकत्वा भावादित्याशयेन दूषयति | तत्रेति | आहवनीयेति | आहवनीय जुहोतीति होममात्रे आहवनीयं विधातुं प्रवृतस्य सामान्यशास्त्रस्य होमविशेषे पदरूपाधिकरण विधायकविशेषशास्त्रवशेन पदहोमातिरिक्त होमेष्वाहवनीय विधायकत्ववदित्यर्थः | क्रतु विषयत्वादिति | तादृश क्रतावेव उद्गात्रऽपछेदनिमितक प्. २६अ) प्रायश्चितस्यागत्व बोधकत्वादित्यर्थः | उक्तार्थे संमतिमाह | उक्तहीति | कॢप्तरूपस्य प्रत्यक्षसिद्धस्य साधारणस्य होममात्रे प्राप्तस्याहवनीये जुहोतीति शास्त्रस्य विशेषशास्त्रेण यः संकोचः सः प्राप्तबाधोभिधीयते | यथा सामान्यशास्त्रयोरेव क्वचिद्विषये विरोधे सति पूर्वप्राप्तस्य पश्चात् प्राप्तं परत्वाहाधकं भवति यथा विरुधापछेदनिमितक शास्त्रयोस्तथा च विशेषविषयादि नेत्यादि पर्दे परत्वादि संग्रहार्थमिति श्लोकार्थः | तत्रैवं सुतीति | अपछेद स्थले उतरज्ञानेन पूर्वज्ञानबाधे सतीत्यर्थः | द्रष्टव्यमिति | पश्चाद्भावि प्रतिहर्त्रज्यछेदविधुरस्य उद्गात्रऽपछेदवतः | क्रतोरदक्षिणतया क्रतु समापनमंगमिति ज्ञातव्यमित्यर्थः | शास्त्रदीपिकावचनमपि न त्वदभिमतार्थ परं तत्पूर्वग्रंथविरोधात् पूर्वग्रंथार्थनिगमनरूपस्य त्वद्वराहृतवचनस्य पूर्वग्रंथानुसारेणैव नेतव्यत्वाच्चेत्याह तदपीति | तदपि कृत्वा चिंतामात्र परमिति संबंधः | कृत्वा चिंता परत्वे हेतुमाह | तेनेत्यादिना | तेनेत्यस्य कॢप्त पूर्वप्रवृति नैमितिक शास्त्रेणेत्यर्थः || निमितो यजननात्प्राऽऽन्निमितोपजननं विना निमितोपजननाभावे सत्यन्यथा कर्तव्योपीति कृत्वा चिंतामात्रपरं न तूतरनिमितोपजननात्प्राक् पूर्वनैमितिक कर्तव्यता वस्तुतः आसीदित्येवं प्. २६ब्) परं | पूर्वग्रंथसंदर्भविरोधापतेः | आस्तांमीमांसकमर्ययादा श्यामरक्तरूपे न्यायेन क्रमिक कर्तव्यता द्वयोत्यत्युपगमे को विरौधः | उच्यते किं तत्कर्तव्यत्वं यत्परनैमितिक कर्तव्यतोत्पत्यानिवर्तते | न तावत् पूर्वनैमितिकस्य कृति साध्यत्वयोग्यत्वं | तस्य पश्चादप्यनपायात् | नापि कलमुखं कृति साध्यत्वं | तस्य पूर्वमप्यजननात् | नापि यदननुष्टाने क्रतोर्वैकल्पं तत्त्वमंगत्वं वा || परोदाहृतवचनस्य शास्त्रदीपिकागतपूर्वग्रंथानुसारिणमर्थमाह | निमितोपजननं विनेति | क्रमेणविरुधापछेदद्वद्वयवति क्रतौ यदि द्वितीयमितोपजननं न स्या तदा पूर्वतिमितवशादन्यथा कर्तव्यो भवेदप्ययं क्रतुर्न त्वेतदस्तीत्ये तदर्थ परोयं ग्रंथ इत्यर्थः | पराभिमतं तद्वचनार्थं निषेधति | नन्विति | तिष्ठं तु मीमांसकाः दर्शित दर्शिनः कुशलैरस्माभिः कल्पितस्य श्रुत्यर्थस्य कानुपपतिरिति शंकते | आस्तामिति | उतरनैमितिक कर्तव्यतोत्पत्त्यानाश्यत्वेन पराधिमतं पूर्वनिमितिकस्य कर्तव्यत्व मे विवतावद्दर्निरूपं तथा हि तत्किं कृतिसाध्यत्वयोग्यत्वं किं वा फलमुखं कृति साध्यत्वं क्रतु वैकल्पप्रयोजकाननुष्ठानप्रतियोग्यनुष्ठान शालित्वं प्. २७अ) वा अंगत्वं वा अन्यद्वा किंचिदिति विकल्पं मनसिति धायाद्यं दूषयति | न तावदिति | अनुपायादिति | तथा चोत्तरनैमितिक कर्तव्यता कालेप्यनुवर्तमानायाः पूर्वकर्तव्यतायाः तन्नाश्यत्वाव्यारोनवदरफलगतश्यामुतारक्तरयोरिवतयोः क्रमिकत्वाभ्युपगमविरोध इति भावः | द्वितीयं दूषयति | नापि फलेति अजननादिति | तथा च पूर्वनैमितिक कर्तव्यताज्ञानस्य मीमांसकमर्ययादासिद्धं भ्रांतित्वमेवायातितनत्वदभिमतं श्यामताज्ञानस्येव प्रामत्वमितिभावः | तृतीयचतुर्थावनुदति | नापि यदिति | यस्यानुष्ठानाभावे क्रतोर्वैकल्पं भवति तत्क्रतुकैकल्पप्रयोजकाननुष्ठान प्रतियोग्यनुष्ठानशालित्वं पर्यवस्यति तत्वमित्यर्थः | यत्र प्रथममुद्गात्रःपछेदः पश्चात्प्रतिहर्त्रऽपछेदः तत्र उद्गात्रऽपछेदप्रायश्चिताननुष्ठानं क्रतु वैकस्त्यप्रयोजकं तत्प्रायश्चितं तस्य क्रतोरंगमिति च वदता वक्तव्यं | पूर्वप्रायश्चिताननुष्ठानस्य क्रतु वैकल्पप्रयोजकत्वं किं वैकल्पोत्पादकत्वं किं वा तद्व्यापकत्वं तद्व्याप्यत्वं वा नाद्यः | अभावरूपस्याननुष्ठानस्य उत्पादकत्वासंभवात् | क्रतु वैकल्पस्यापि क्रतूपकारप्रागभावरूपतया तदुत्पाद्यत्वायोगाच्च न द्वितीयः | यत्रोद्गातृमात्रापछेदवति क्रतौ तत्प्रायश्चितं कृतं कारणांतराद्वैकल्पं च तत्र क्रतु वैकल्प सत्वेपि उद्गात्रऽपछेदप्रायश्चिताननुष्ठानाभावेन व्यभिचारा तस्मात् तृतीयः परिशिष्यत इत्याशयेनाह || प्. २७ब्) अननुष्ठाने क्रतु वैकल्पप्रयोजकत्वस्य नियमविशेषरूपत्वेन कर्मांगत्वस्य फलोपकारितयासन्निपतितया वा कारणत्वविशेषरूपत्वेन च त्वयोः कादाचित्कत्वायोगेन स्वाभाविकत्वनिर्वाहाय पश्चाद्भाविविरुद्धापछेदाभाववतः क्रतोः पूर्वापछेदनैमितिकं मंगं तत्रैव तदनुष्ठानं क्रतु वैकल्पप्रयोजकं इति विशेषणीयतपापाश्चात्पापछेदवति क्रतौ पूर्वापछेदनैमितिके क्रत्वं गत्वस्य तदननुष्ठाने क्रतु वैकल्पप्रयोजकत्वस्य वा पाश्चात्पापछेदोत्पतेः पूर्वमसंभवात् | जहि वस्तु किंचित्कालं व्याप्यं पश्चान्नेति वा किंचित्कालंकारणं पश्चान्नेति वा क्वचिदृष्टं युक्तं वा नापि कर्तव्यत्वं नामधर्मांतरमेवागमापाययोग्यं कल्पनीयं मानाभावात् || नियमविशेषरूपत्वेनेति | व्याप्यत्वरूपत्वेनेत्यर्थः | फलोपकारित्वं परमापूर्वरूपफलं प्रत्यदृष्टद्वाराकारणत्वं यथा प्रयाजादीनां सन्निपत्योपकारकत्वं च यागस्वरूपोत्पादकत्वं यथा द्रव्यदेवत्वादेरस्तुतयो रुक्तरूपत्वमिति चेतत्र वक्तव्यं | क्रमिकविरुद्धापछेदद्वयवति क्रतौ पूर्वपापश्चिताननुष्ठानगतं प्. २८अ) क्रतु वैकल्पव्याप्यत्वरूपं तु वैकल्पप्रयोजकत्वं पूर्वप्रायश्चित गतमंगत्वं च द्वितीय निमित जननानंतरमप्यनुवर्ततेनवेति | आद्ये क्रतु वैकल्पप्रयोजकाननुष्ठान प्रतियोग्यनुष्ठानशालित्वरूपाः पूर्वप्रायश्चित कर्तव्यतायाः तत्प्रायश्चितगतांगत्वरूपकर्तव्यतायाश्च उतरनैमित कर्तव्यतानाश्यत्वाभ्युपगमभंगापतेः | द्वितीय कल्पे च पूर्वप्राथश्चिताननुष्ठानस्य क्रतु वैकल्पाव्याप्यत्वं द्वितीय निमित जननात् प्रागेवास्ति तज्जननानंतरं तु नास्तीति पर्यवस्यति | तथा पूर्वप्रायश्चित गतागत्वरूपा कर्तव्यता पूर्वप्रायश्चितस्य द्वितीय निमितजननात्प्रागेवास्ति पश्चात् तु नास्तीति पर्यवस्यति | तथा च व्याप्यत्वकारणात्वयोः स्वाश्रये कादाचित्कत्वमभ्युपगंतव्यं स्या तच्च न संभवतीत्यनुपदमेव वक्ष्यति | न हीत्यादिना | तस्मातयोर्यावदाश्रय भावित्वरूपस्वाभाविकत्वनिर्वाहायक्रमिकविरुद्धापछेदवक्त्र तु व्यावर्तकविशेषणमुभयत्रापि देषमित्याह | पश्चाद्भावीति | असंभवादिति | तथा च क्रमिकविरुद्धापछेदवति क्रतौ पूर्वनैमितिक कर्तव्यताज्ञानं भ्रांतिरेवेति भावः | तयोः कादाचित्कत्वायोगे हेतुमाह | न हीति | धूमादौ वह्न्यादि व्याप्यतापाः वह्न्यादौ धूमादिकारणतायाश्च कादाचित्कत्वादर्शनादित्यर्थः | नन्वदृष्टसपि युक्तं चेत्संग्राह्यमेव नेत्याह युक्तं वेति | वाकारो न जनुकर्षणार्थः | तयोः कादाचित्कत्वपक्षे धूमादौ कदाचिद्वह्न्यादेः व्याप्यत्वाभावापत्या तदभावप्रयोजकोपाधिमत्वप्रसंगः स्याद्वह्न्यादेः प्. २८ब्) कदाचिद्रूमादिकारणत्वाभापत्याधूमादिकार्यार्थिनो वह्न्याद्युपादाने तत्कारणकत्वाभावशंकयानिष्कंपप्रवृतिश्च न स्यादतस्तयोः कादाचित्कत्वमयुक्तमित्यर्थः | पंचमं निराकरोति | नापीति | प्रथमनिमितजननानंतरमेवा मम योग्यं द्वितीयनिमितजननानंतरमेवापाययोग्यं चेत्यर्थः || विरुद्धापछेदशास्त्रयोः पदाहवनीय शास्त्रवद्व्यवस्थोपपतेः | तस्मान्निरालंबनं क्रमिक कर्तव्यता द्वयोत्पति वचः | ननु चोपक्रमाधिकरणन्यायेनासंजातविरोधित्वात्प्रत्यक्षमेवा- गमाद्वलीयः किं न स्यात् | उच्यते | यत्रैक वाक्यता प्रतीयते तत्रैकस्मिन्नर्थे पर्यवसानेन भाव्यं अर्थभेदे प्रतितैकवाक्यताभंगप्रसंगात् | अतस्तत्र प्रथमसंसंजात प्रतिपक्षेण प्रजापतिर्वरुणा अमनयदित्याद्युपक्रमेणपरकृतिसरूपार्थ वादेन दातुरिष्टौ बुद्धिमधिरोपितायां तद्विरुद्धं यावतोश्चात्प्रतिगृह्णीया तावती वारुणांश्चतुः कपालान्निर्वपेदित्युपयं ह्यंहारगतं पदजातसुपसंजात प्रतिपक्षत्वाद्यथा श्रुतार्थसमर्पणेन तदेक वाक्यतामप्रतिपद्यमानसेकवाक्यतानिर्वाहायणिजर्थ- मंतर्भाव्य प्. २९अ) तदानुगुण्येनैवात्मानं लभत इत्युपक्रमस्य प्रावल्यं यत्र तु परस्परमेकवाक्यता न प्रतीयते तत्रैव पूर्ववृत्तमविगणप्यलब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थं बोधयत्ये वेति न तः त्वपूर्ववृतस्य प्रावल्यं | अत एव षोडशि ग्रहवाक्यं पूर्ववृतमविगणयय तद ग्रहवाक्यस्यापि स्वार्थबाधकत्वमुपैयते || पूर्वनैमितिकशास्त्रग्रावहनीयादि शास्त्रवदन्यत्र सावकाशतायाः | उक्त त्वेन तस्यै तादृश धर्मे मानत्वायोगादित्वाशयेनाह | विरुद्धेति | क्रमिकविरुद्धापछेदवति क्रतौ पूर्वनिमितिककर्तव्यत्वज्ञानस्य प्रमात्वासंभवात् सति विरोधे उतरज्ञानेन पूर्वज्ञानबाधे अपछेदन्याय उदाहरणं भवत्येवेत्याशयेनोपसंहरति | तस्मादिति | नन्वपछेद न्यायेन श्रुतेः प्रत्यक्षापेक्षया प्रावल्यावगति वदुपक्रमाधिकरणन्यायेन प्रत्यक्षस्यापि श्रुत्यपेक्षया प्रावल्यावगमाजयोर्बाध्य बाधकभावे विनिगमनाविरह इत्याशयेन शंकते | ननुवति | अज्ञंजातिति | यथा उपक्रमवाक्यार्थ ज्ञानकाले उपसंहारवाक्यार्थ ज्ञानाभावेन विरोधस्फुरणाभावादुपक्रमस्यासंजातविरोधित्वं तथा द्वत सत्वप्रवृतिकाले द्वैत मिथ्यात्वबोधक श्रुत्यर्थानुभवा भावेन प्. २९ब्) विरोधस्फूर्त्यभावात् | प्रत्यःक्षस्यासजातविरोधित्व मित्यर्थः | दृष्टांत वैषम्येण परिहरति | उच्यत इति | अथ मनय यदिति | अश्चंदतवान् इत्यर्थः परस्य प्रजापतेः कृतिरनुष्ठानं परकृतिः परकृतिपदं तत्प्रतिपादकवाक्यपरं तत्सदृशार्थवादेनेत्यर्थः | प्रजापतेः कर्माधिकाराभावेन वस्तु तस्तुत्प्रतिपादकत्वान्नावादिति स रूपेत्युक्तं | दातुरिति | स एतं वारुणं चतुष्कपालमपश्यत्तन्निरवपदित्युपक्रमे श्रवणादिति भावः | स इत्यनेन प्रकृतः प्रजापतिः परामृश्यते उपक्रमोपसंहारयोर्वरुणेष्टिरूपैकार्थस्पर्शित्वातयोरत्रैक वाक्यत्वमवगतं तत्संरक्षणायानयोरेकार्थपर्यवसानं वक्तव्यं | उपक्रमोदातुरिर्ष्टं विधे उपसंहारः प्रतिगृहीतुरिति यथा श्रुतवाक्यार्थाभ्युपगमे प्रतितैकवाक्यत्वं न स्यादित्यर्थः | णिजर्थमिति प्रतिगृह्णीयादित्यस्य प्रतिग्राहायेदित्यर्थः | एकवाक्य तु प्रतीति स्थल एवोतरस्य पूर्वापेक्षेत्युक्त्वार्थ दार्ढ्याय एकवाक्यत्वप्रतीत्यभावस्थले उतरेण पूर्वं नादर्त्तव्यमित्याशयेनाह | यत्र त्विति || किंतूभयोर्विषयांतराभावादगत्या तत्रैव विकल्पानुष्ठानमिष्यते | एवं चाद्वैतागमस्य प्रत्यक्षेणैकवाक्यताशंक्यभावात्पूर्ववृतमपि तदविगणयय स्वार्थबोधकत्वमप्रतिहतं | तदर्थ बोधजनने च पूर्वं परमजातत्वादबाधित्वैव जायते | परस्यानन्यथोत्पादान्नाऽद्याऽबाधैन संभव इत्यप प्. ३०अ) छेदन्यायस्यैव प्रवृतिर्नोपक्रमन्यायस्य | अत एव लोकेपि | प्रथमप्रवृतं शुक्तिरूप्यप्रत्यक्षमाप्तोपदेशेन बाध्यत इति | ननु तथाप्युपजीव्यत्वेन प्रत्यक्षस्यैवल्यं दुर्वारमपछेदशास्त्रयोर्हि न पूर्वं परस्योपजीव्यमिति युक्तः परेण पूर्वस्य बाध इह तु वर्णपदादि स्वरूपग्राहकतया मिथ्यात्वबोधकमागमं प्रतिप्रत्यक्षस्योपजीव्यत्वादागमस्यैव तद्विरुद्धमिथ्यात्वाः बोधकत्वरूपो बाधो युज्यते | न च मिथ्यात्व श्रुत्यावर्णपदादि सत्यत्वांशोपमर्द्देप्युपजीव्यस्वरूपांशोपमर्द्दाभावान्नोप- जीव्यविरोध इति वाच्यं | नेह नानास्ति किंचनेत्यादि श्रुतिभिः स्वरूपेणैव प्रपंचाभावबोधनात् || नत्वेकस्मिन्नति रात्र क्रतौ षोडशि ग्रह तदभावयोर्विरुद्धत्वाद्वाक्यद्वयं कथं प्रमाणं स्यादिति शंकते | किं त्विति | प्रयोगभेदेन विरोधसमाधानमाह | उभयोरिति | ननु ग्रहणवाक्यं तन्निषेधवाक्यं वक्रतु भेदेन व्यवस्थापितं किं न स्यादित्यत आह | विषयांतराभावादिति तयोर्वाक्ययारैकप्रकरणगतत्वादित्यर्थः | अगत्येति | समुच्चयस्याप्यसंभवेनेत्यर्थः | तत्रैवेति | अतिरात्र एवेत्यर्थः | एवं चेति | उपक्रम न्यायस्यैक वाक्यताक ग्रंथविषयत्वे सतीत्यर्थः | शंकाभावादिति | तथा च त्वप्रत्यक्षस्य श्रुत्युपेक्षया प्रावल्यशंकेति भावः प्. ३०ब्) अपछेदन्यायप्रवृतिं शंकासमाधानाभ्यां निरूप्यनिगमयति | तदर्थेति | पूर्वमिति | क्रमिकविरुद्धापछेदवति क्रतौ प्रथमापछेदनिमितकप्रायश्चित कर्तव्यता ज्ञानं पूर्वशब्दार्थः | उत्तरनैमितिक कर्तव्यताज्ञानं परशब्दार्थः पूर्वेण परस्य बाधाभावे हेतुमाह | अजातत्वादिति परस्यानन्यथा पूर्वज्ञान बाधमंतरेण उत्पत्ययोग्यत्वादाद्यस्याबाधेन परस्य संभवो नास्तीति श्लोकार्थः | पूर्वप्रवृतस्य प्रत्यक्षस्यापि परेणशब्देन बाधे उदाहरणमाह | अत एवेति | परत्वादेवेत्यर्थः | नन्विति | यद्यपीयं शंका न चैवमुपजीव्य प्रत्यक्षविरोध इत्यादिना निराकृतापूर्वमेव | तथापि तक्रोक्तं परिहारमाक्षेप्तुं तच्छंकापरिहारी पुनर्लिखितौ | तथापीति | आगमवत्प्रत्यक्षस्य स्वतः प्रावल्यो भावेपि इत्यर्थः | नन्वपछेद न्यायेन श्रुतेरपि प्रावल्यं दुर्वारं तथा च बाधकभावे विनिगमनाविरह एवेति शंक कस्य नेष्ट सिद्धिः प्रत्यक्षेण श्रुति बाधस्य तदिष्टत्वादित्याशंक्यापछेदन्यायानवतारं शंककः | प्रकृते दर्शयति | अपछेदशास्त्रयोर्हीति | उपजीव्यविरोधशंकायां पूर्वोक्तं परिहारं स्मारयति | न च मिथ्यात्व श्रुत्येति | श्रुत्या प्रपंच सत्यत्व मात्रप्रतिषेधे सति तथा परिहारो युज्यते सा तु प्रपंच स्वरूपमेव निषेधति | तथा च वर्णपदादि स्वरूपस्यैवाभावादुपजीव्यविरोधो दुर्वार इत्याह | नेहेति | इह ब्रह्मणि नानाभिन्नं वस्तु किंचिदपि नास्ति इत्यर्थः || अत्र केचिदाहुः | वृषमानयेत्यादि वाक्यं श्रवण प्. ३१अ) दोषाद्वृषभमानयेत्यादिरूपेण श्रुतवतोपि शाब्दप्रमिति दर्शनेन शाब्दप्रमितौ वर्णपदादि प्रत्यक्षं प्रमा भ्रमसाधारणमेवापेक्षितमित्यद्वैतागमेन वर्णपदादि प्रत्यक्षमात्रमपजीव्यस्वरूपोपमर्द्देपि नोपजीव्यविरोध इति | अन्ये त्वाहुः | शाब्दप्रमितौ वर्णपदादि स्वरूपसिद्ध्यनपेक्षायामपि अयोग्यशब्दात्प्रमित्यनुदयाद्योग्यतास्वरूपसिद्ध्यपेक्षास्ति | तदपेक्षायामपि नोपजीव्यविरोधः | नेह नानास्तीति श्रुत्यानानात्वनिषेधेपि यावद् ब्रह्मज्ञानमनुवर्तमानस्यार्थ क्रियासंवादिनोऽसद्विलक्षणप्रपंचस्वरूपस्यांगीकारात् | अन्यथा प्रत्यक्षादीनां व्यावहारिकप्रमाणानां निर्विषयत्व प्रसंगात् | न च स्वरूपेण निषेधे कथं प्रपंच स्वरूपस्यात्मलाभः निषेधस्य प्रतियोगि प्रतिक्षेपरूपत्वे व्याघातादिति वाच्यं || स्वरूपो मर्दमुपेत्यैवोपजीव्यविरोधं परिहरति | अत्र केचिदाहुरिति | प्रपंच सत्यत्वपक्षेपि वृषमानयेत्युदाहरणानुरोधेन भ्रमप्रमासाधारणमेव शब्दप्रत्यक्षं शाब्दबोधोपजीव्यमिति वक्तव्यमस्माकं तु मिषेध श्रुति प्रामाण्यात् | सर्वत्र भ्रमरूपमेव प्. ३१ब्) प्रत्यक्षशाब्दबोधे व्यवहोरांतरेषु च कारणमिति विशेष इति नोपजीव्यविरोधः शब्दस्वरूपस्यानुपजीव्यत्वादित्यर्थः | उपजीव्यविरोधं प्रकारांतरेण परिहरति | अन्ये त्वाहरिति | प्रथमं पूर्वमते अस्वरसंदर्शयति | शाब्दप्रमितिविति | अनपेक्षायामयीति | अत्रापि शब्देन | वस्तुतो न पेक्षानास्तीति सूचितं | तथा हि पूर्वमते प्रत्यक्षज्ञानमात्रसुपजीर्व्यविषयोवर्णपदादिलक्षणो नोपजीव्य इत्युक्त तदयुक्तं निर्विषय प्रत्यक्षज्ञानायोगादतो वर्णपदादि स्वरूपमपि स्वीकर्तव्यमेव तथा च उपजीव्यविरोधे पूर्वसमाधानं न साधिति भावः | अस्तीति | तथा च योग्यताया उपजीव्यत्वमवर्ज्जनीयमिति तद्विरोधः पूर्वमते आवश्यक इति भावः | न चैत्वावता पूर्ववाद्यभिमतस्य कृत्स्नप्रपंचस्य रूपं न सिध्यतीति वाच्यं | शाब्दप्रमिति लक्षणकार्यानुरोधेन ब्रह्मातिरिक्तयोग्यता स्वरूअपसिद्धौतद्वदेवजलाहरणादि कार्यानुरोधेन घटादि स्वरूपमपि सिध्यत्येवेत्याशयात् | ननु यदि चैतन्य व्यतिरिक्तं कृत्स्नं जगदुपेयते तर्हि तद्ग्राहि प्रत्यक्षादेः सविषयस्योपजीव्यत्वा तद्विरोध इत्यत आह | तदपेक्षायामपीति निषेध श्रुत्यर्था विरुद्धस्य प्रपंचस्वरूपस्यास्माभिरप्यंगीकारान्नास्माकं मते उपजीव्यविरोध इति भावः | असद्विलक्षणस्वरूपानंगीकारे बाधकं पूर्वमतानुवर्तिनं प्रत्याह अन्यथेति | प्रपंचसत्यत्ववादी शंकते | न चेति | ननु ब्रह्मणि प्रपंचस्तन्निषेधश्च युपदास्तां को दोष इत्याशंक्याह | निषेधस्येति | भूतलादौ घटाद्यभावस्य प्रतियोगि स्थिति प्. ३२अ) विरोधित्वदर्शनादितिभवः | व्याघातादिति निषेधत्वव्याघातादित्यर्थः || शुक्ता च पीदं रजतं नेदं रजतमिति प्रतीति द्वयानुरोधेनाधिष्ठान गताध्यस्ताभावस्य बाधपर्यंतानुवृतिका सद्विलक्षणप्रतियोगिस्वरूपसहिष्णुत्वाभ्युपगमात् | एतेन प्रपंचस्य स्वरूपेण निषेधे शशशृंगवदसत्वमेव स्यादिति निरस्तं | ब्रह्मज्ञाननिवर्त्यस्वरूपांगीकारेण वैययम्यात् | न चास्याध्यस्तस्याधिष्ठाने स्वरूपेण निषेधेऽन्यत्र तस्य स्वरूपैणनिषेधः स्वतः सिध इति तस्य सर्वदेशकालसंबंधि निषेधप्रतियोगित्वापत्याऽसत्वं दुर्वारं सर्वदेशकालसंबंधिनिषेध प्रतियोगित्वमसत्वमित्येवासत्वनिर्वचनात् | विधांतरेण तन्निवंचनायोगादिति वाच्यं | असतः सर्वदेशकालसंबंधिनिषेधप्रतियोगित्वमुपगछता तस्य तथात्वे प्रत्यक्षस्य सर्वदेशकालयोः प्रत्यक्षीकरणायोगेन आगमस्य तादृशागमानुपलंभेन च प्रमाणयितुमशक्यतया अनुमानमेव प्रमाणयितव्यमिति | तदनुमाने यत्सद्व्यावृतं प्. ३२ब्) लिंगं वाच्यं | तस्यैव प्रथमप्रतीतस्यासत्वनिर्वचनोपपतेरित्याहुः || कल्पितपदार्थप्रतियोगिकाभावस्याधिष्ठानादन्यत्र सदाप्रतियोगिविरोधित्वेष्वधिष्ठाने कंचित्कालं प्रतियोगि स्थिति सहिष्णुत्वं स्वभावः कल्प्यते | न च तथा कल्पकाभावः | द्वैतग्राहिप्रत्यक्षादे निषेध श्रुतेश्च मानत्वाद्यथापरमते घटात्यंताभावस्य स्वाधिकरणमात्रे प्रतियोगि प्रतिक्षेपकत्वेपि संयोगाद्यत्यंताभावस्य क्वचित्स्वाधिकरणे प्रतियोग्यप्रतिक्षेपकता प्रतीति बलात् स्वीक्रियते | तद्वदिति | समाधानाभिप्रायं मनसि निधाय स्वमतसिद्धं दृष्टांतं सोपपतिकमाह | शुक्ताविति | एतच्छब्दार्थमाह | ब्रह्मज्ञानेति | वैषम्यादिति | शशशृंगादि वैषम्यादित्यर्थः | अन्यत्रेति | अधिष्ठानादन्यत्रदेशे काले वेत्यर्थः | ननु प्रकारांतरेणासत्वनिर्वचनमस्तु तथा च प्रपंचे तदभावान्न तस्या सत्व प्रसक्तिरिति नेत्याह | विधांतरेणेति | प्रसिद्धाऽसतः शशशृंगादेरुक्तलक्षणे सिद्धे सति प्रपंचेपि तल्लक्षण सत्वा तस्याप्यसत्वापत्यातद्विलक्षणत्वाभ्युपगमपूर्वकवैषम्योक्तिरयुक्तेति शंकितुं शक्यंतदेवां सिद्धं मानाभावात् | कथं मानाभावः | इति चेत् तत्र वक्तव्यं किमसतः | उक्तलक्षणयोगे प्रत्यक्षं प्रमाणं किं वा आगमः | अथवानुमानमिति विकल्पं मनसि निधायाद्यद्वितीययोर्निराकरण पूर्वकं तृतीयं परिशेषयति | असत इत्यादिना | प्रत्यक्षस्यागमस्य च प्रमाणयितुमशक्यतयेति संबंधः | तादृशेति शशशृंगादिकं प्. ३३अ) सर्वदेशकालसंबंधि निषेध प्रतियोगीत्येवमाकारकागमानुपलंभेन चेत्यर्थः | अस्तु तर्हि परिशिष्टमनुमानमेव तत्र मानमिति नेत्याह | तदनुमान इति | यदिति | निःस्वरूपत्वमित्यर्थः | वाच्यमिति | त्वयेति शेषः विनिगमना विरहं परिहरति | प्रथम प्रतीतस्येति | उपपतेरिति | तथा च प्रपंचस्य ज्ञाननिवर्त्य स्वरूपांगीकारात् | निःस्वरूपत्वलक्षणाऽसत्वं नास्तीति तस्य शशशृंगादि वैषम्योक्तिर्मुक्तेतिभावः || अपरे तु नेह नानास्तीत्यादि श्रुतेः सत्वत्वेन प्रपंच निषेधे एव तात्पर्यं न स्वरूपेण निषेधस्य स्वरूपा प्रतिक्षेपकत्वे तस्य तन्निषेधत्वायोगात् | तत्प्रतिक्षेपकत्वे प्रत्यक्ष विरोधात् | न च सत्यत्वस्यापि सन् घट इत्यादि प्रत्यक्षसिद्धत्वान्न तेनापि स्वरूपेण निषेधो युक्त इति वाच्यं | प्रत्यक्षस्य श्रुत्यविरोधाय सत्यत्वाभासरूप व्यावहारिक सत्यत्वविषयत्वोपपत्तेः | न चैवं सति पारमार्थिक सत्य त्वस्य ब्रह्मगतस्य प्रपंचे प्रसक्त्याभावा तेन रूपेण प्रपंचनिषेधानुपपतिः | यथा शुक्तौ रजताभासप्रतीतिरेव सत्य रजतप्रसक्तिरिति तन्निषेधः | अत एव नेदं रजतं किंतु तत् नेयंमदीयागौः | किंतु सैव नात्र वर्तमानश्चैत्रः किंत्वपवरक प्. ३३ब्) इति निषिध्यमानस्यान्यत्र सत्वमवगम्यते | एवं सत्यत्वाभासप्रतीतिरेवसत्यत्व प्रसक्तिरिति तन्निषेधोपपतेः | अतो वर्णपदयोग्यतादि स्वरूपोपमर्द्दशंकाभावान्नोपजीव्यविरोध इत्याहुः || उपजीव्यविरोधं प्रकारांतरेण परिहरति | अपरे त्विति | अयोगादिति | तथा चात्रावाधिकरणमात्रे प्रतियोगि स्थित्ययोगात् | प्रपंचाधिकरणे ब्रह्मणि तदभावो न निषेध श्रुतिगम्य इति भावः | ननु सत्यत्वेन ब्रह्मणि प्रपंच निषेध इति मतेपि किं सत्यत्वविशिष्टप्रपंचाभावो ब्रह्मणि विवक्षितः किं वा सत्यत्व धर्मावछिन्नाप्रतियोगिना कः प्रपंचमात्र प्रतियोगिको निषेधो ब्रह्मणि विवक्षितः | नोभयथापि संभवति प्रतियोग्यधिकरणे तदभावानंगीकारात् प्रपंचे सत्यत्वस्यानंगीकारेण तस्य प्रतियोगि कोटिप्रवेशप्रतियोगितावछेदकत्वयोरसंभवाच्चेति चेदुच्यते | प्रपंचे धर्मणि सत्यत्व निषेधे श्रुतेस्तात्पर्यमित्ये तत्मताभिप्रायः | न तु यथा श्रुतार्थे तात्पर्यमस्य मतस्यात एव वक्ष्यति सत्यत्वाभासप्रतीतिरेव सत्यत्वप्रसक्तिरिति तन्निषेधोपपतेरिति | अत्र हि वाक्ये प्रपंच एव सत्यत्व निषेधः स्पष्टं प्रतीयते अतो नास्मिन्मते प्रतियोगि तदभावयोरेकाधिकरणत्वशंकावकाशः | ननु ब्रह्मणि प्रपंच स्वरूपं यथा प्रत्यक्षादि सिद्धमस्ति तथा प्रपंचे सत्यत्वमपि प्रत्यक्षादि सिद्धमस्त्येवेति प्. ३४अ) तन्निषेधेपि श्रुतेस्तात्पर्यं कल्पयितुं न शक्यमिति शंकते | न चेति | प्रत्यक्षादि ग्राह्यं प्रपंच सत्यत्वं ब्रह्मसत्यत्ववत् | पारमार्थं न भवति | तथा सति उपक्रमाद्यवगत स्वार्थतात्पर्यवतीनां भूयसीनां निषेध श्रुतीनां निर्विषयत्वप्रसंगात् किंतु व्यावहारिक सत्यत्वादिरूपं तत्कल्प्यते ततो न सत्यत्वनिषेधानुपपतिरिति परिहरति प्रत्यक्षस्येति | न चैवं सतीति | प्रपंच सत्यत्वस्य व्यावहारिकत्वांगीकार इत्यर्थः | दृष्टांतपूर्वकं प्रसाक्तिमाह | यथाप्युक्ताविति | नेदं रजतमिति निषेध प्रत्यक्षस्य सत्यरजतनिषेधविषयकत्वं वक्तव्यं प्रातिभासिकरजताधिकरणे शुक्ति शकले कल्पितरजताभावस्यास्मिन्मते नंगीकारेण बाधप्रत्यक्षस्य तद्विषयत्वायोगादितिभावः | शुक्त्यादौ निषिध्यमानस्य देशांतरस्थत्वे नियामकमाह | अत एवेति || अन्ये तु ब्रह्मणि पारमार्थिक सत्यत्वं प्रपंचे व्यावहारिक सत्यत्वं सत्यत्वान्नाभासरूपं | शुक्तिरजतादौ प्रातिभासिक सत्यत्वं ततोपि निकृष्टमिति सता त्रैविध्यं नोपेयते | अधिष्ठान ब्रह्मगतपारमार्थिकसतानुवेधादेवघटात्पदा- सत्यत्वाभिमानोपपत्यासत्यत्वाभासकल्पनस्य निःप्रमाणकत्वात् | एवं च प्रपंचे सत्यत्वः प्. ३४ब्) प्रतीत्यभावाततादात्म्यापन्ने ब्रह्मणि तत्प्रतीतेरेवाऽविवेकेन प्रपंचे तत्प्रसक्त्युपपतेश्च सत्यत्वेन प्रपंचनिषेधेनोपजीव्यविरोधो न वा प्रसक्तनिषेधता न च ब्रह्मगतपारमार्थिक सतातिरेकेण प्रपंचे सत्वाभासानुपगमे व्यवहित सत्यरजतातिरेकेण शुक्तौ रजताभासोत्पतिः किमर्थमुपेयते इति वाच्यं व्यवहितस्यासन्निकृष्टस्यापरोक्ष्यासंभवातन्निर्वाहाय तदुपगमात् | नन्ववं प्रतिबिंबभ्रमस्थलेपि ग्रीवास्थमुखातिरेकण दर्पणे मुखाभासोत्पतिरुपेया स्यात् | स्वकीये ग्रीवास्थे मुखेनासाद्यवछिन्नप्रदेशापरोक्ष्यसंभवैपि नयनगोलकललाटादि प्रदेशापरोक्ष्यायोगात् | प्रतिबिंब भ्रमे नयनमोलकादि प्रदेशापरोक्ष्यदर्शनाच्च || प्रपंचे पारमार्थिक सत्यत्वस्य प्रसक्त्यभावान्निषेधानुपपतिरिति शंकायां सत्वत्रैविध्यमतमालंव्य परिहारो दर्शितः | इदानीं सर्वत्र सतैक्यपक्षे प्रसक्त्यभावशंकां परिहरति | अन्ये त्विति | प्रथसंसता त्रैविध्यपक्षं दूषयति | ब्रह्मणीत्यादिना | ब्रह्म गतेति | पारमार्थिक सतायाः ब्रह्मरूपत्वेपि भेदकल्पनया तद्गत त्वोक्तिः | अनुवेधा देवेति प्. ३५अ) प्रतीतेरेवेत्यर्थः | एवं चेति सन् | घट इत्यादि प्रतीतेर्घटादि तादात्म्यापन्ने सन्निति प्रतियमाने सद्वस्त्वंशरूपे ब्रह्मण्येव सता विषयकत्वं मृद्वट इति प्रतीतेरिव सृदंशे मृत्वविषयकत्वं ब्रह्मणि सताप्रतीति वशादेव घटादौ सत्व व्यवहार इति स्थिते सतीत्यर्थः | यत्तु भेदवादिभिरुच्यते प्रपंचे श्रुत्यासत्यत्वनिषेधो न संभवति प्रपंचे सत्यत्व गोचरप्रत्यक्षप्रतीति विरोधादिति | तत्र हेत्वसिद्धेरित्याह | प्रपंच इति यच्चोक्तत्त?ह्याप्रसक्तप्रतिषेध इति तत्राह | ततादात्म्येति | तत्पदं घटादि परं प्रपंचब्रह्मणोर्भेदाग्रहेण ब्रह्मणि या सता प्रतीतिः सैव प्रपंचे संत्व प्रसक्तिर्भवति | नन्मूलश्च तत्र व्यवहार इत्यर्थः | नोपजीव्यविरोध इति | श्रौत मिथ्यात्वबोधं प्रत्युपजीव्यस्य वर्णपदादि प्रत्यक्षस्य सालंबनत्वाभ्युपगमातदबाधाच्चेति भावः | ननु यदि घटादि प्रपंचे ब्रह्मसतयैव सत्व व्यवहार सिद्धौ पृथक् सत्वं न कल्प्यते तत्कल्पने मानाभावाल्लाघवाच्च तर्ह्यति प्रसंग इति शंकते | न चेति | किमर्थमिति तत्कल्पने गौरवा तथा चानिर्वचनीयरजताद्यसिद्धिरिति शंकाभिप्रायः | गौरवं प्रामाणिकत्वान्न दोषायेत्याशयेन परिहरति | व्यवहितस्येति असन्निकृष्टस्येति | अभिव्यक्तचैतन्यतादात्म्य शून्यस्येति यावत् | नन्वेवमिति | आपरोक्ष्यापरजताभासोत्पत्यभ्युपगम इत्यर्थः | प्रतिबिंबस्य बिंबाभिन्नत्वेपि प्रतिबिंबापरोक्ष्यं संभवतीति न सा स्वीकार्येत्यत आह | स्वकीय इति मुख इति बिंबत्वेनोपेत इति शेषः | नासादीति तदंशे सन्निकर्ष संभवादित्यर्थः || ३५ब्) न च बिंबातिरिक्तप्रतिबिंबाभ्युपगमे | इष्टापतिः | ब्रह्मप्रतिबिंब जीवस्यापि ततो भेदेन मिथ्यात्वापते | अत्र विचरणानुसारिणः प्राहुः | ग्रीवास्थ एव मुखे दर्पणोपाधि सन्निधानदोषाद्दर्पणस्थत्व प्रत्यऽऽनमुखत्वबिंबभेदानामध्याससंभवान्न दर्पणे मुखाध्यासः कल्पनीयो मौरवोत् | दर्पगिं मुखं नास्तीति संसर्गमात्र बाधात् मिथ्यावस्त्वंतरत्वे चेदं मुखमिति स्वरूपबाधापतेः | दर्पणे मम मुखं भातीति स्वमुखाभेदप्रत्यभिज्ञानाच्च | न च ग्रीवास्थमुखस्याधिष्ठानस्यापरोक्ष्यासंभवः || यदि बिंबप्रतिबिंबयोरभेदे प्रतिबिंबापरोक्ष्यं स्वमुखप्रतिबिंब स्थलेन संभवति | तर्हि प्रतिबिंबो बिंबात् | भिन्नः मिथ्याभूत एवास्तुकाहातिरद्वैत वादिन इति शंकते | न चेति | तस्य हानिं पूर्ववादी दर्शयति | ब्रह्मप्रतिबिंबेति | जीवो ब्रह्मणः सकाशात् | स्वरूपतोभि च ते ब्रह्मप्रतिबिंबत्वात् | सामान्य व्याप्तौ मुखप्रतिबिंबवततश्च जीवो मिथ्या ब्रह्मभिन्नत्वात् | घटादिवदित्यर्थः | बिंबप्रतिबिंबयोर्लोके भेदाभावान्नोक्तदोष इति परिहरति | अत्र विवरणेति | ननु दर्पणे मुखस्याप्यध्यासो न कल्पनीयः गौरवादित्ययुक्तं प्रतिबिंबमुखे दर्पणे मुखमिति दर्पणस्थत्वा यौगा तथा प्रतिबिंबमुखस्य ग्रीवास्थमुखं प्रतिश्राभिमुख्यानुभवात् | मुखप्रतिमुखयोरभेदपक्षे प्. ३६अ) तस्यैव तदाभिमुख्यायोगात् | तयोर्भेदस्यैव स्फुटमुनुभवाच्च | तस्मादनुभवत्रयानुगेधेनोपाधावनिर्वचनीय प्रतिबिंबाध्यास उपेयः | गौरवं च प्रामाणिकत्वान्नदोषावहमित्याशंक्य तदनुभवत्रयस्यान्यथा सिद्धिमाह | ग्रीवास्थ एवेति | धर्मिकल्पनापेक्षया वहधर्मकल्पनयपिस्तत्वितिभावेः | ननु प्रतिबिंबस्य बाधदर्शनान्मिथ्यात्वमित्याशंका हेतु सिद्धिमाह | दर्पण इति | मात्र पदं प्रतिबिंबस्वरूपबाधाभावार्थकं बाधादित्यनंतरं दर्पणस्थत्वरूपसंसर्गस्य मिथ्यात्वं प्रतिबिंबस्य सत्यत्वं चेति शेषः | विपक्षे दोषमाह | मिथ्यावस्त्वंतरत्व इति | नन्वेवं भूतले घटो नास्तित्यत्रापि घटसंसर्गाभाव एव प्रतीयेतेति चेन्न इष्टापते | ननु तर्हि भूतले घटाभावो न सिद्ध्येदिति | चन्न घटाभाववद्भूतलमिति प्रतीत्या तत्संभवादितिभावः | बिंबप्रतिबिंबयोर्भेदमात्रकल्पनायां स्वरूपाभेदप्रत्यभिज्ञानमप्यनुकूलयति | दर्पणे ममेति | लाघवसमुच्चयार्थश्चकारः | यद्वा प्रतिबिंबस्य सत्यत्वेति बिंबाभिन्नत्वं हेतुमभिप्रेत्य तत्र मानमाह | दर्षणे ममेति | चकारो बाधान्नाबसमुच्चयार्थः | तथा च न प्रतिबिंबस्य मिथ्यात्वं बाधाभावात् | बिंबाभिन्नत्वाच्चेत्यर्थः | एवं लोके प्रतिबिंबस्य बिंबाभिन्नत्व सत्य त्वयोः | प्रसाधनेन ब्रह्मप्रतिबिंबस्य जीवस्य ब्रह्मभिन्नत्व मिथ्यात्वप्रसंगो निरस्तः | यतु तयोरभेदपक्षे ग्रीवास्थ सुखस्य नयनगोलकादि प्रदेशेषु स्वचक्षः सन्निकर्षाभावेन प्रतिबिंबस्य साकल्पेन प्रत्यक्षत्वं | न संभवतीत्युक्तं तदनूद्य निराकरोति | न चेत्या प्. ३६ब्) ना अधिष्ठानस्येति | प्रतिबिंबत्व प्रत्यऽऽन्मुखत्वदर्पणस्थत्व प्रतिबिंबभेदानां कल्पनाधिष्ठानस्येत्यर्थः || उपाधि प्रतिहत नयनरश्मीनां परावृत्यबिंबग्राहकत्व नियमाभ्युपगमाल्लतादिवत् | तन्नियमानभ्युपगमे परमाणोः कुड्यादि व्यवहितस्थूलस्यापि चाक्षुष प्रतिबिंबभ्रमप्रसंगात् | न चाव्यवहितस्थूलोद्भूतरूपवत् एव चाक्षुषप्रतिबिंबो भ्रमो नान्यस्येति नियम इति वाच्यं बिंबस्थौल्योद्भूतरूपयो कॢप्तेन चाक्षुष ज्ञानजननेनोपयोगसंभवेपि | विधांतरेणोपयोगकल्पनानुपपतेः || असंभवो न चेत्यत्र हेतुमाह | उपाधि प्रतिहतेति | नयन रश्मयः चक्षुर्गोलकाद्वहिर्न्निर्गत्य दर्पणाद्युपाधिं प्राप्यते न प्रतिहताः पुनरावृत्यग्रीवास्थमुख तदवयवैः संसृज्यंते ततश्चाभिमुख पुरुषांतरमुखसाक्षात्कारत् साकल्पेन स्वग्रीवास्थमुखसाक्षात्कारः संभवति | न च परावृत्तनयनरश्मीनां गोलकद्वारां तत्प्रवेशस्यैवान्यत्रकॢप्तत्वादत्र तथा कल्पनं गौरवग्रस्तमिति वाच्यं | प्रतिबिंबोत्पति वादिनापि चक्षुः सन्निकृष्टस्यैव बिंबताया वक्तव्यत्वेन उक्तनियमस्य तेनापि स्वीकार्यत्वादतः संप्रतिपन्नत्वात् गौरवं न दोषायेतिभावः | प्. ३७अ) ननु प्रतिबिंबाध्यासवादिना सन्निकृस्यैव बिंबत्वं नांगीक्रियते | अतो ग्रीवास्थमुखस्य बिंबत्वनिर्वाहाय स्वचक्षुः सन्निकर्षा पेक्षाभावान्नायं नियमस्तेनादर्तव्य इत्यत आह तन्नियमानभ्युपगम इति | बिंबसन्निकर्षस्य चाक्षुष प्रतिबिंबाध्यासा हेतुत्वे व्यवहितस्यापि चाक्षुष प्रतिबिंबप्रसंगः | विनानेन विशेषणेन यस्य कस्यापि प्रतिबिंबापत्या परमाणोर्वायोश्च तत्प्रसंगादित्यर्थः | प्रतिबिंबाध्यासे बिंबसन्निकर्षस्य हेतुत्वं विनैव उक्ताति प्रसंगं परिहरति प्रतिबिंबाध्यासवादी न चाव्यवहितेति | तथा च कुड्यादि व्यवहितमुखादेः परमाणोर्वायोश्च न चाक्षुष प्रतिबिंबापतिरिति नावः | द्रव्यचाक्षुषं प्रतिद्रव्यगतमहत्वोद्भूतरूपयोः कारणत्वं कॢप्तं तथा कुड्यादेः सन्निकर्ष विघटन द्वाराबाह्यवस्तु गोचर प्रत्यक्ष प्रतिबंधकत्वं कॢप्तं तथा च बिंबप्रतिबंबयोरभेदपक्षे बिंबचाक्षुषस्यैव प्रतिबिंबचाक्षुषत्वात् | बिंबभूतमुखादि गतयो स्थूलत्वोद्भूतरूपयोः कॢप्तचाक्षुष प्रत्यक्षादन्यत्रकारणत्वं न कल्पनीयमिति लाघवं शुक्तिरजतादिवता साक्षिभास्य प्रतिबिंबाध्योसोत्पति पक्षे तु बिंबसन्निकर्षस्य प्रतिबिंबाध्यास हेतुत्वानुपगमेन वायुपरमाण्वोश्चाक्षुष प्रतिबिंबवारणाय बिंबभूतद्रव्यगतयोर्महत्वोद्भूतरूपयोः स्वाश्रयगोचरचाक्षुष इव स्वाश्रयद्रव्यरूप बिंब हेतुक प्रतिबिंबाध्यासोत्पत्तावपि हेतुत्वं कल्पनीयमिति गौरवं | तथा बिंबप्रति प्. ३७ब्) बिंबाभेष्टपक्षे नयनरश्मीनां परावृत्यबिंबसंबंधाभ्युपगमेन प्रतिबिंबभ्रमस्थलेपि बिंबसन्निकर्षस्य हेतुत्व सत्वात् | घटादि चाक्षुष इव प्रतिबिंब चाक्षुषेपि कुड्यादेः सन्निकर्ष विघटन द्वारैव प्रतिबंधकत्वं कल्पनीयमिति लाघवं प्रतिबंबाध्यास पक्षे तु बिंबसन्निकर्षस्य हेतुत्वानुपगमेन कुड्यादेः सन्निकर्षविघटकत्वस्य कॢप्तस्य प्रतिबिंबभ्रमस्थले वक्तुमशक्यतया प्रतिबिंबाध्यासंप्रति साक्षादेव प्रतिबंधकत्वं व्यवहितस्य प्रतिबिंबवारणाय कल्पनीयमिति गौरवमित्याशयेन दूषयति | बिंबस्थौल्ययेति | विधांतरेणेति | स्वाश्रयभूतद्रव्यद्वाराप्रतिबिंबाध्यासोत्पतावुपयोगकल्पनानु- पपत्तेरित्यर्थः || कुड्यादि व्यवधानस्य प्रतिहत नयनरश्मिसंबंध विघटनं विनैवेह प्रतिबंधकत्वे तथैव घटप्रत्यक्षादि स्थलेपि तस्य प्रतिबंधकत्वसंभवेन चक्षुः सन्निकर्षमात्रस्य कारणत्वलोपप्रसंगाच्च दर्पणे मिथ्यामुखाध्यासवादिनापि कारणत्रयांतर्गत संस्कारसिद्ध्यर्थं नयनरश्मीनां कदाचित् परावृत्य स्वमुखग्राहकत्व कल्पनयैव पूर्वानुभवस्य समर्थनीय त्वाच्च | न च नासादि प्रदेशावछिन्न पूर्वानुभवा प्. ३८अ) देवसंस्कारोपपतिः | तावतानयनगोलकादि प्रतिबिंबाध्यासानुपपतेः | तटाक सलिले तदविचपि समारूढादृष्टचरपुरुषप्रतिबिंबाध्यासस्थले कथमपि पूर्वानुभवस्य दुर्वचत्वात् | एवं चोपाधिप्रतिहत नयनरश्मीनां बिंबं प्राप्यतद्ग्राहकत्वे वश्य वक्तव्ये | फलवलादर्पणाद्यभिहतानोमवबिंबं प्राप्यतद्ग्राहकत्वं | न शिलादिप्रतिहता नामनति स्वछताम्रादि प्रतिहतानां मलिनोपाधिसंबंधदोषान्मुखसंस्थानविशेषाग्राहकत्वं | साक्षात् सूर्यं प्रेप्सूनामिवोपाधिं प्राप्यनिवृतानां न तथा सौरतेजसा प्रतिहतिति बिंबसूर्यावलोकने साक्षातदवलोकन इव नाशक्यत्वं || इहेति प्रतिबिंबभ्रमस्थल इत्यर्थः | न केवलमकॢप्तकल्पनागौरवदोषः दोषांतरमपि प्रसज्यत इत्याह | तथैवैति | सन्निकर्षविघटनं विनैवेत्यर्थः | तथा चोक्त गौरवादि दोषपरिहाराय परावृत्येति नियम उपेयः बिंबसन्निकर्षायेति भावः | चाक्षुषप्रतिबिंबभ्रमस्थले बिंबसन्निकर्षस्य त्वयापि वाच्य त्वात् | परावृत्येति नियमोनाप्रयोजक इत्याह | दर्पणे मिथ्येति | कारणत्रयेति | दोषसंप्रयोग प्. ३८ब्) संस्काररूपकारणत्रयेत्यर्थः | स्वमुखस्य स्वचक्षुः सन्निकर्षानुपगमे दर्पणादावारोप्य प्रतिमुखसजातीइय स्वमुखसाक्षात्कारस्य कदाप्यसंभवेनाध्यासकारणभूतस्यारोप्य साजातीय गोचर पूर्वानुभवजन्य संस्कारस्यालाभात् | प्रतिबिंबरूपाद्यध्यासस्योत्पतिर्न स्यादतः स्वमुखस्य स्वचक्षुः सन्निकर्षलाभाय उक्तनियम आदर्तव्य इति भावः | तावतेति | नासदिप्रदेशावछिन्नपूर्वानुभवमात्रेणेत्यर्थः | इदमपि क्वचिद्दुर्ल्लभमित्याह | तटाकेति | अदृष्ट चरेति कदाप्यदृष्टेत्यर्थः | एवं चेति उक्तप्रकारेणेत्यर्थः | उक्त नियमस्याति प्रसंगं परिहरति | फलवलादिति | दर्पणादौ प्रतिबिंबभ्रमदर्शनलक्षणफलाक्षुरोधादित्यर्थः | एवकार व्यवछेद्यमाह | न शिलादीति | शिलादौ प्रतिबिंबादर्शनादितिभावः | नन्व स्वछताम्रादेः प्रतिबिंबग्राहित्वेन शिलादि वैलक्ष्यण्य सत्वा तत्प्रतिहंतानां दर्पणादि प्रतिहतानामिव नयनरश्मीनां साकल्पेन मुखादि ग्राहकत्वं स्यादत आह | मलिनोपाधीति | संस्थानविशेषः नयनगोलकादिः फलवलानुसारिपदार्थ स्वभावकल्पनेन दोषांतराण्यपि निरस्तानीत्याह | साक्षादित्यादिना | साक्षा तदिति | साक्षात्सूर्यावलोकन इत्यर्थः | ननु प्रतिबिंबोपाधिभूतजलेन प्रतिहतानां नयनरश्मीनां बिंबदेशप्राप्त्युपगमेज || प्. ३९अ) जलाद्युपाधिसन्निकर्षे केषांचिदुपाधिप्रतिहतानां बिंबप्राप्तावपि केषांचितदंतर्गतसिकतादि ग्रहणमित्यादि कल्पनान्न कश्चिद्दोष इति | अद्वैत विद्या कृतस्तु प्रतिबिंबस्य मिथ्यात्वमभ्युपगछतां त्रिविधजीववादिनां विद्यारण्य गुरुप्रभृतीनामेवमभिप्रायमाहुः | चैत्रमुखाद्भेदेन तत्सदृशत्वेन पार्श्व स्थितैः स्पष्टं निरीक्ष्यमाणं दर्पणे तत्प्रतिबिंबततोभिन्नं स्वरूपतो मिथ्यैव स्वकरगतादिवरजताच्छ्रुक्तिरजतं | न च दर्पणे मम मुखं भातीति बिंबाभेदज्ञानविरोधः स्पष्टभेद द्वित्व प्रत्यऽऽन्मुखत्वादिज्ञानविरोधेनाऽभेदासंभवात् | दर्पणे मम मुखमिति व्यपदेशस्य स्वछाया मुखे स्वमुखव्यपदेशवत् | गौणत्वाच्च | न चाभेदज्ञानविरोधाद्भेदव्यपदेश एवगौः किं न स्यादिति शंक्यं लांतर्गत सिकतादि प्रत्यक्षं न स्यात् | सन्निकर्षाभावादिति दूषणमपि निरस्तमित्याह | जलाद्युपाधाति | ननूपाधि प्रतिहतानां बिंबदेशप्राप्त्यपगमे पृष्टभाग व्यवहित पदार्थस्यापि प्रतिबिंबप्रसंग इति चेत् | नायं दोषः फलवलेन शरीरावयवानानां सन्निकर्षत्वकल्पनादित्यभिप्रेत्याह प्. ३९ब्) इत्योदि कल्पनादिति | नयनरश्मीनापरावृत्य बिंबग्राहित्वं सुरेश्वराचार्यैरुक्तं | दर्षणाभिहतादृष्टिः परावृत्यस्वमाननं व्याप्नुवत्याभिमुखेन व्यत्यस्तं दर्शयेन्मुखमिति | बिंबप्रतिबिंबयोर्भेदपक्षनिराकरणपूर्वकं तदभेदपक्षो निरूपितः | इदानीं तदभेदनिराकरण पूर्वकं भेदपक्षनिरूपयति | अद्वैतविद्याकृतस्त्विति | त्रिविधेति | पारमार्थिक व्यावहारिक प्रातिभासिक भेदेन जीवस्त्रिविध इति पक्षः | प्रथम परिछेदे निरूपित इति बोध्यं | एवमिति वक्ष्यमाणप्रकारेणोत्यर्थः | चैत्रेति | चैत्रो यदा दर्पणे स्वमुखं पश्यति तदा पार्थस्थैश्चैत्रग्रीवायां बिंबभूतं मुखं दर्पणे चैत्रमुखप्रतिबिंबं च परस्परं भिन्नत्वेन परस्परं सदृशत्वेन चासंदिग्धा विपर्ययस्तमनुभूयत इत्यर्थः | स्वेति स्वहस्तगतात् सत्यरजताद्भिन्नत्वेन तत्सदृशेत्वेन चानुभूयमानं शुक्तिरजतं यथा तद्भिन्नं मिथ्या च तद्वदित्यर्थः | अभेदज्ञानमसिद्धमित्याह | स्पष्टेति उदाहृतरजतयोरभेदज्ञानादर्शनादितिभावः | आदिपदं प्राऽऽन्मुखत्व ग्रीवास्थत्वदर्पणस्थत्व स्वातंत्र्यपारतंत्र्यादित्र ह्यर्थे | तर्हि सर्वानुभवसिद्धस्याभेदव्यपदेशस्य का गतिः | ज्ञानपूर्वकत्वाद्यपदेशस्येत्याशंक्यनायमभेदव्यपदेश इत्याह | दर्पणे ममेति | स्फुटभेदज्ञाने सति अभेद व्यपदेशायोगादिति भावः | ननु दर्पणे मम मुखं भाति मम मुखं मलिनं भाति मम मुखं दीर्घं भाति मुखं ग्रावास्थमेव न दर्पणादाविति | अभेदानुभवानामपि स्फुटानां भूयसां सत्वादभेदव्यपदेशो मुख्यः अभेदानुभवविरोधेन भेदानुभवस्यैवासंभवात् | भेदव्यपदेशमात्रमविशिष्यते तच्च बिंबप्रतिबिंबयोर्वस्तु गत्याभेदा प्. ४०अ) भावेपि कल्पित भेदसत्वादुपपद्यत इति वैपरीत्यमाशंक्य निषेधति | न चेत्यादिना || बालानां प्रतिबिंबे पुरुषांतरभ्रमस्य हानोपादित् साद्यर्थ क्रियापर्यंतस्यापलयितुमशक्यत्वात् न च प्रेक्षावतामपि स्वमुखविशेषपरिज्ञानायदर्पणाद्युपादान दर्शनादभेदज्ञानमप्यर्थ क्रियापर्यंतमिति वाच्यं | भेदेपि प्रतिबिंबस्य बिंबसमानाकारत्व नियमविशेषपरिज्ञानादेव तदुपादानोपपतेः || प्रतिबिंबगोचर प्रवृत्यादिदर्शनं तस्य बिंबाद्भेदं विना न सिध्यतीति विनिगमकमाह | वालावामिति | वालाजलाशयादौ भयंकरं प्रतिबिंबं दृष्ट्वा तं विहाय पलायंते सोम्यं प्रीतिकरं प्रतिबिंबं दृष्ट्वातमुपादातुमिछंति प्रतिबिंबदेशं गछंति चेति सर्वानुभवसिद्धं | तदुक्तं कर्णामृताचार्यैः | रत्नस्थले जानुचरः कुमारः संक्रांतमात्मीय मुखारबिंदं | आदातु कामस्तदलाभ खेदाद्विलोक्यधात्री वदनं रुरोद इति | हुमारः श्रीकृष्णरूपः शिशुः निर्मलरत्नमयवेदिकायां जानुभ्यां संचरन् तत्र संक्रांतं प्रतिबिंबितं विविंधैः | कुंडलादि भूषणैर्भूषितं निःसीमसौंदर्यौपेतं गोपीजन मनोहरं ब्रह्मादिभिरपि सदा स्पृहणीयं स्वकीयमुखारविंदमुपलभ्य लोकसिद्धां वाल चेष्ट्यमनुवर्तमानः | तदा दानेछया चिरकालं हस्तव्यापारं कृत्वापि | यदा तन्न लब्धवान् | तदा तदल्पभखेदेन धात्र्या मुखं दृष्ट्वा त्वया इदं गृहीत्वामह्यं देयमिति | प्. ४०ब्) अभिसंधिमान् | मुक्तकंथतयारोदनं कृतवानित्यर्थः | अभेदज्ञानस्याप्यर्थ क्रियापर्यंत त्वं समानमित्याशंक्यनिषेधति | न चेत्यादिना | यदि बिंबप्रतिबिंबयोर्वस्तुतो भेद एव तदा परिक्षकाणां तद्वेदनिर्णय आवश्यक इति तेषां स्वमुखगतविशेषनिर्णयाय दर्पणाद्यादानं नस्या तेषांमपि तद्दर्शनादभेदनिश्चयस्तेषां वाच्य इत्यर्थः | तेषां प्रवृतेरन्यथा सिद्धिमाह | भेदेपीति बिंबप्रतिबिंबयोः स्वरूपतो भेदे सत्यपीत्यर्थः | परीक्षकत्वादेव तेषामुक्तोपपतिभिः | भेद निश्चयवत्वं नियमविशेषज्ञानवत्वं च संभवतीति भावः | ननु बालानां प्रतिबिंबगोचरहानादि क्रियापि बिंबस्य उपाधिस्थत्व भ्रमादेव संभवतीत्यन्यथा सिद्धिः | तत्रापि तुल्या तथा च बिंबप्रतिबिंबयोर्भेदाभेदानुभवानां भेदाभेद प्रयुक्तार्थ क्रियाणां च तुल्यत्वे सत्यभेदस्य स्वाभाविकत्व कल्पनमेव युक्तं लाघवाद्बिंबप्रतिबिंबभावापन्नतया श्रुति सिद्ध जीवब्रह्माभेद प्रतिपत्युपयोगितया लौकिक बिंबप्रतिबिंबाभेदकल्पनस्याभेदश्रुत्युपोद्बलितत्वाच्च प्रतिबिंब जीवस्यैव ब्रह्माभेदसंभवे तदतिरिक्त पारमार्थिकावछिन्नजीवकल्पनायाः गौरवग्रस्तत्वाच्च | यथा ह्ययं ज्योतिरात्माविवस्वानित्यादि मंत्रस्य तयोरभेदपक्ष एव स्वारस्याच्च तत्र हि यथा विवस्वदादेर्वहुषूपाधिषु प्रतिबिंबितत्वप्रयुक्तं नानात्वं स्वत एकत्वं तथा चैतन्यस्य बहुषुपाधिषु प्रतिबिंबितत्वप्रयुक्तं नानात्वं स्वत एकत्वमिति प्रतिपाद्यते तच्च बिंबप्रतिबिंबयोर्भेदपक्षेन प्. ४१अ) संभवति तत्पक्षे हि बिंबचैतन्यस्यैकत्वं प्रतिबिंबानां नानात्वमिति पर्यवसानेनैकस्यैवोपाधिक नानात्व पर्यवसाना सभवा तस्माच्चैतन्य प्रतिबिंबांगीकारपक्षे लोके चैत्र प्रति || यत्तु नात्रमुखमिति दर्पणे मुखसंसर्गमात्रस्य बाधो न मुखस्येति | तत्र नेदं रजतमित्यत्रापि इदमर्थे रजततादात्म्यमात्रस्य बाधो न रजतस्येत्यापतेः | यदि चेदमंशे रजतस्य तादात्म्येनाड्यासान्नेदं रजतमिति तादात्म्येन रजतस्यैव बाधो न च तादात्म्य मात्रस्य तदा दर्पणे मुखस्य संसर्गितयाध्यासान्नात्र मुखमिति संसर्गितया मुखस्यैव बाधो न संसर्गमात्रस्येति तुल्यं | यत्तु धर्मिणोप्यध्यासकल्पनैगौरवमिति तद्रजताभासकल्पना गौरव च त्प्रामाणिक त्वान्न दोषः स्वनेत्र गोलकादि प्रतिबिंबभ्रमस्य लेपि बिंबापरोक्ष्य कल्पनीया या भावात् | नयनरश्मीनानामुपाधिप्रतिहतानां बिंबप्राप्ति कल्पने हि दृष्टि विरुद्धं वह्वा पद्येते | कथं हि जलसन्निकर्षे केषु केषु चिन्नयनरश्मिष्वप्रतिहतमंतर्गछत्स्वन्ये जलसंबंधेनापि प्रतिहन्यमाना नितांतं मृदवः सकलनयनरश्मिप्रतिघातिनं प्. ४१ब्) किरणसमूहविजित्यतन्मध्यगतं पूर्यमंडलं प्रविशेयुः || बिंबस्थले च बिंबप्रतिबिंबयोरभेदपक्ष एव विवरणाद्यभिमतः श्रेयानिति चेत् सत्यं सूक्ष्मदृष्ट्या एवमेव अत एव भामती निबंधनादिषु जीवब्रह्मणोरभेदेपि लौकिक बिंबप्रतिबिंबयोरिव कल्पित भेद सत्वाद्धर्म व्यवस्थेति सार्वत्रिको व्यवहारः | श्रीविद्यारण्य गुरुप्रभृतिभिस्तु मंदाधिकारिणां तत्वे बुध्यारोहाय प्रतिबिंबोत्पति प्रक्रिया उपपादिता मंदाधिकारिणां हि यथा कर्तृत्व भोक्तृत्वादि संसाराश्रयश्चिदाभासो मिथ्याभूतः स चात्मान भवति | आत्मा त्वसंगचैतन्यरूपः न संसाराश्रय इति प्रक्रियया तत्वं बुद्धां वा रोहति | न तथात्मनो ब्रह्मप्रतिबिंबस्य स्वतः सिद्धं ब्रह्मत्वमंतःकरण तादात्म्यात् संसाराश्रयत्वमिति | प्रक्रिययात्व त्वं बुद्धा वा रोहति | लोके विरुद्धधर्मा सांकर्यस्य धर्मिभेदस्थल इव धर्म्यभेदस्थले स्फुटत्वाभावादयं च तेषांमभिप्रायः | कूटस्थ दीपे यया यया भवेत्युंसामिति वार्तिकवचनोदाहरणेन स्पष्टः | तच्च वचनमादावेवोदाहृत्यव्याख्यानमिति संक्षेपः | प्रतिबिंबस्थले दर्पणस्थत्वादिरूपसंसर्गमात्रचाधमुक्तमनूद्य प्रतिवंद्या प्रतिबिंब स्वरूप बाधं साधयति | यत्वित्यादिना | आपतेरिति | तथा च शुक्तिरजतस्यानिर्वचनीयत्वं सिद्धांताभिमतं न स्यादिति भावः | अत्र यद्यपि तादात्म्य मात्रस्य बाध्यत्वेपि रजतस्यानिर्वचनीयस्योत्पतिरनिवार्व्यादेशांतरस्थरजतादेः प्. ४२अ) संविदभिन्नत्वाभावेन पुरोवर्त्यभिन्नतया प्रत्यक्षानुपपतित्युक्तत्वा तथापि शुक्तिरजतस्य बाधोप्युपपादयितुं शक्यत इति मत्वादि प्रतिबिंबाभेदवादी शंकते | यदि चेति संसर्गितुयेति | आधेय तयेत्यर्थः प्रामाणिकत्वादिति | बाधक प्रमाणस्य शुक्तिरजत इव प्रतिबिंबे संत्वेनाध्यासकल्पना गौरवस्य तन्मूलकत्वाविशेषादित्यर्थः | अभेदपक्षे स्वमुखगत नयनगोलकादि प्रतिबिंबस्यापरोक्षासंभवाच्च तदध्यासकल्पना गौरवं प्रामाणिकमित्याह | स्वनेत्रेति पूर्वोक्तो यायमनूद्यनिराकरोति | नयन रश्मीनामिति | किरणसमूहमिति | सूर्यकिरणसमूहमित्यर्थः || कथं च चंद्रालोकन इव तत्प्रतिबिंबालोकनेपि अमतशीतलतद्बिंबसन्निकर्षाविशेषे लोचनयोः शैत्याभिव्यक्ता आप्यायनं न स्यात् | कथं च जलसंबंधेनापि प्रतिहन्यमानाऽशिलादिसंबंधेन न प्रतिहन्येरन् | तत्प्रतिहन्य परावृतौ वा नयनगोलकादिभिर्न संसृज्येरन् तत्संसर्गे वा संसृष्टं किं न साक्षात्कारयेयुः दोषेणापि हि विशेषांशग्रहणमात्रं प्रतिबध्यमानं दृश्यते न तु सन्निकृष्टधर्मिस्वरूपग्रहणमपि | प्रतिमुखाध्यासपक्षे तु न किंचिद् दृष्टविरुद्धं प्. ४२ब्) कल्पनीयं तथा ह्यव्यवहित स्थूलोद्भूतरूपस्यैव चाक्षुषाध्यासदर्शनाद्बिंबगतस्थौल्योद्भूतरूपयोः स्वाश्रयसाक्षात्कारकारण त्वेन कॢप्तयोः स्वाश्रय प्रतिबिंबाध्यासेपि कारणत्वं || नन्वत्र जलस्य प्रतिघातकत्वं न कल्प्यते | किंतु जलांतर्गत सिकतादीनामतो न नितांतमृदुत्वं यथा सूर्यादिकिरणा तां स्वतस्तृणादि दाहकत्वा भावेपि सूर्यकांतमणि प्रतिहतानां तद्दाहकत्वं तथा नयनकिरणानास्वतः | सूर्यकिरणप्रतिघातकत्वा भावेपि प्रतिबिंबोपाधिप्रतिहतानां तद्विजये सामर्थ्यातिशय कल्पनोपपद्यते | तथा च नोक्तदोष इत्यस्वरसादाह | कथं चेति | कथं चाप्यायनं न स्यादिति संबंधः | अमृतमिवशीतलं यतस्य चंद्रस्य बिंबं तत्सन्निकर्षाविशेष इत्यर्थः | आप्यायनं औष्ण्यशांतिः | यदा पुमानधो मुखः सन् जलाशयादौ चंद्रमंडस्तप्रतिबिंबं नैरंतर्येण पश्यति तदा लोचनयोः शैत्याभिव्यक्त्यादिकं स्यात् | बिंबप्रतिबिंबयोरभेदेन प्रतिबिंबसन्निकर्षस्यैव बिंबसन्निकर्षत्वादित्यर्थः | ननु लोचनयोः शेत्याभिव्यक्तिश्चंद्रसन्निकर्षादिकता न भवति | किंतु तयोश्चंद्रकिरणसंसर्गसंतति कृता तथा चाधो सुखस्य लोचनयोस्तदभावाच्चंद्रसन्निकर्षद्दर्शनसत्वेपि न शैत्याभिव्यक्त्यादि प्रसक्तिरित्यस्वरसादाह प्. ४३अ) कथं च जलेति | कथं च न प्रतिहन्येरन्निति संबंधः प्रतिहन्येरन्नेवेत्यर्थः | ततः किं तत्राह | तत्प्रतिहत्येति | नयन गोलकादिभिः कथं न संसृज्येरन्निति संबंधः | ततोपि किं तत्राह | तत्संसर्गेवेति शिलादिदर्शनकाले शिलादिना प्रतिहर्ताः नयनरश्मयः स्वमुखगतनयनगोलकादिभिः संसृष्टाश्चेत् | संसृष्टं नयनगोलकादिकं कथं न साक्षात्कारयेयुः साक्षात्कारयेयुरेवेत्यर्थः | ननु दोषबलात्संसृष्टमपि न साक्षात्कारयेयुः | अतो नोक्तदोष इत्यत आह | दोषेणापि हीति दृश्यते इति | शुक्तिरजतादि भ्रमस्थलेष्वपीति शेषः | तथा च शिलादि सन्निकर्षकाले मुखत्वादि सामान्यरूपेण वा स्वमुख साक्षत्कार प्रसंग इति भावः | वस्तु तस्तु अनन्यथा सिद्धफलवन्यत् स्वछद्रव्यस्य तत्संसृष्टस्य वा प्रतिबिंबोदय योग्यस्यैव प्रतिघातकत्वमुपेयते | अतो नोक्तदोष इति बोध्यं | एवं बिंबप्रतिबिंबभेदपक्षे दृष्टविरोधबाहुल्यमापाततो दर्शयित्वा प्रतिबिंबाध्यासोत्पति पक्षमुपपादयति प्रतिमुखाध्यासपक्षे त्विति | कारणत्वं प्रतिबंधकत्वं च कल्पनीयमिति संबंधः स्वाश्रयेति | महत्वोद्भूतरूपाश्रय द्रव्यगोचरचाक्षुषत्वावछिन्नं प्रतिघटादि चाक्षुषे कॢप्ते योरित्यर्थः | द्वितीयः स्वपदमपि स्थौल्योद्भूतरूपपरं | अध्यासेपीति बिंबभूतमुखादि चाक्षुष इव स्वाश्रयमुखादेर्यः प्रतिबिंबरूपोध्यासः तदुत्पतावर्पात्यर्थः | कुड्याद्यावरणद्रव्यस्यत्वगिंद्रिय न्यायेन प्राप्य प्. ४३ब्) कारितयावगतनयनसन्निकर्षविघटनद्वाराव्यवहित वस्तु साक्षात्कारप्रतिबंधकत्वेन कॢप्तस्य व्यवहित प्रतिबिंबाध्यासेपि विनैव द्वारांतरं प्रतिबंधकत्वं च कल्पनीयं | तत्र को विरोधः क्वचित्कारणत्वादिना कॢप्तस्य फलवलादन्यत्रापि कारणत्वादि कल्पने | एतेनोपाधिप्रतिहतनयनरश्मीनां बिंबप्राप्त्यनुपगमे व्यवहितस्योद्भूतरूपादिरहितस्य च चाक्षुषप्रतिबिंबतमप्रसंम इति निरस्तं | किं च तदभ्युपगम एवोक्त दूषणप्रसंगः कथं साक्षात्सूर्यावलोकन इव विना चक्षुर्विक्षेपमवनतमोलिनानिरीक्ष्यमाणे सलिले ततः प्रतिहतानां नयनरश्मीनां ऊर्द्धमुत्यबिंबसूर्यग्राहकत्ववतिर्यक चक्षुर्विक्षेपं विना ऋजुचक्षुषादर्पणे विलोक्यमाने तत्प्रतिहतानां पार्श्वस्थमुखग्राहकत्व वच्च वदनसाचीकरणाभावेप्युपाधिप्रतिहतानां पृष्ठभाग व्यवहित ग्राहकत्वं तावत् दुर्वारं उपाधिप्रतिहतनयनरश्मीनां प्रतिनिवृतिनियमं विहाय यत्र बिंबं तत्रैव गमनोपगमात् || प्. ४४अ) यदुक्तं प्रतिबिंबाध्यासं प्रतिकुड्यादेः साक्षात्प्रतिबंधकत्वसीकारे अन्यत्रापि तथात्वापत्या सन्निकर्षमात्रविलोपप्रसंग इति तन्न सन्निकर्षहेतुत्व ग्राहंक प्रमाणानुरोधेन सन्निकर्षविघटन द्वारैव तस्य प्रत्यक्षप्रतिबंधकत्वाभ्युपगमादित्याशयेन सन्निकर्षस्य हेतुत्व ग्राहक प्रमाणं सूचयति | त्वगिंद्रियेति | त्वगिंद्रियस्य विषयं प्राप्तस्यैव विषयप्रत्यक्ष कारित्व दर्शनातदृष्टांतेन नयनादेरपि प्राप्यकारित्वमवगतमित्यर्थः | व्यवहितेति छेदः व्यवहित प्रतिबिंबेति | कुड्यादि व्यवहितस्य मुखादेः प्रतिबिंबाध्यासे साक्षात्प्रतिबंधकत्वं कल्पनीयं | अन्यथा प्रतिबिंबोत्पति पक्षे बिंबसन्निकर्षस्य हेतुत्वानुपगमेन व्यवहितस्यापि प्रतिबिंब प्रसंगस्य प्राग्दर्शिततत्वादित्यर्थः | तत्र कल्पने को विरोध इति संबंधः तस्मिन् कल्पने इत्यर्थः | अव्यवहितत्व स्थूलत्वोद्भूतरूपाणां मुखादि प्रतिबिंबाध्यासोपयोगकल्पन प्रयोजनमाह | एतेनेति | आदिपदं स्थूल्यसंग्रहार्थं | उक्तेति व्यवहितादि बिंबप्रसंग इत्यर्थः | प्रसंग प्रकारानभिज्ञः पृछति | कथमिति तमाह साक्षादिति | गगनस्थसूर्यावलोकने चक्षुर्विक्षेपः कॢप्तः तं विनेत्यर्थः | अवनतमौलिना अधोमुखेन तिर्यगिति | स्वाभिमुखे दर्पणे स्वप्रतिबिंबग्रहणकाले स्वपार्श्व स्थित पुरुष प्रतिबिंब ग्रहणमप्यस्ति प्रतिबिंबाभावकाले स्वपार्श्वस्थितपुरुषग्रहणाय स्वचक्षुषस्तिर्यग्विक्षेपोस्ति ऋजु चक्षुषा स्वाभिमुखपुरुषस्येव स्वपार्श्वास्थितपुरुषस्य ग्रहणा दर्शना तथा च स्वाभिमुखे दर्पणे प्. ४४ब्) स्वपार्श्व च स्थित पुरुषप्रतिबिंबग्रहणाय चक्षुषस्तिर्यखिक्षेपं विना दर्पण प्रतिहतानां स्वपाश्वं स्थित पुरुषग्राहकात्ववदित्यर्थः | वदनेति | वदनुसाचीकरणं नामचक्षुषा स्वपृष्ठभागव्यवहित पदार्थग्रहणानुकूलोवदनव्यापारः | प्रतिनिवृतिनियममिति | नयनगोलकाभिमुखविषयप्रतिहतानां पुनर्गोलकद्वारा शरीरांतः प्रवेशनियममित्यर्थः || तथा मलिनदर्पणे श्यामतयागौरमुखप्रतिबिंबस्थले विद्यमानस्यापि बिंबगतगौररूपस्य चाक्षुषज्ञानेऽनुपयोगितयापीतशंखभ्रमन्यायेनारोप्यरूप- वैशिष्ट्ये नैव बिंबमुखस्य चाक्षुषत्वं निर्वाह्यमिति तथैव निरूपस्यापि दर्पणोपाधि श्यामत्व वैशिष्ट्येन चाक्षुष प्रतिबिंबभ्रमविषयत्वमपि दुर्वारं स्वतोनीरूपस्यापि नभसोऽध्यस्तनैल्यवैशिष्ट्येन चाक्षुषत्व संप्रतिपतेः | तस्मात् स्वरूपतः प्रतिमुखाध्यासपक्ष एव श्रेयान् || ननु प्रतिनिवृतिनियमाभावपक्षेपि बिंबसन्निकर्षविघटक व्यवधानाभावोपेक्षास्ति अवनत मौलि नयनरश्मीनां सूर्यशप्तिस्थले ऋजुचक्षुषादर्पणे विलोक्यमाने दर्पण प्रतिहतानां पार्श्वस्थपुरुषप्राप्तिस्थले च सन्निकर्षविघटकाभावात् | तत्प्राप्तिः संभवति प्रकृते च शरीर प्. ४५अ) तदवयवानां व्यवधायकानां सत्वाद्दर्पण प्रतिहतानां न पृष्ठभागव्यवहितवस्तुप्राप्तिरित्यस्वरसादाह | तथेति | उपाधि प्रतिहत नयनरश्मीनां प्रतिनिवृतिनिवृतिनियमाभावपक्षेष्वष्टभागव्यवहितस्य प्रतिबिंबापतिवन्नीरूपवाम्नादेरपि | चाक्षुष प्रतिबिंबापतिरिति दूषणांतर ससुच्चयार्थस्तथा शब्दः | ननु नीरुपस्यापि वाग्वादेर्दर्पणद्युपाधिगतरूपोपादानेन चाक्षुषप्रतिबिंबभ्रमविषयत्वं दुर्वारमित्यनुपपन्नं द्रव्यस्य चाक्षुष प्रतिबिंबभ्रमे बिंबरातस्य महत्वेवदुद्भूतरूपस्यापि कारणत्वादित्याशंक्यद्रव्यगोचरचाक्षुष प्रतिबिंबभ्रमे बिंबिंवगतरूपस्यानुपयोगान्नेवमित्याह | मलिंनेति | मलिन दर्पणे गौरमुखस्य प्रतिबिंबे सति प्रतिबिंबं श्यामतया गृहतेन गौरतया | तथा च तत्र गौरमुखे आरोप्येणैव श्यामरूपेणोपहितस्य गौरमुखस्य चाक्षुषत्वं निर्वाह्यमित्यर्थः | आरोप्यरूपेणैवा क्वचिद्द्रव्यस्य चाक्षुषत्वे दृष्टांतमाह | पीतशंखेति | कविता किंकमतोपपादनावसरे शंखस्यारोप्यपीतरूपविशिष्टतयैव भ्रमस्थले चाक्षुषत्वं नान्यथेत्युक्तमिति भावः | वस्तु तस्तु द्रव्यचाक्षुषे द्रव्यगतमेवोद्भूतरूपं कारणमिति न नीरूपद्रव्यस्य चाक्षुषप्रतिबिंबभ्रमविषयत्वं प्रसज्यते मलिन दर्पणे गौरमुखप्रतिबिंबस्थले पीतशंखादि भ्रमस्थले च श्यामं मुखं पीतः शंख इत्यादि भ्रमप्राचीन धर्मिज्ञाने अध्यासकारणभूतै गौरशुक्लादिरूपस्य कारणतया उपयोगाभावासिद्धेः द्रव्यचाक्षुषे रूपविषयकनियमाभावस्यकवितार्किक ग्रंथव्याख्यानावसरे प्. ४५ब्) दर्शितत्वेन पीतशंखभ्रमसंभवाच्चेति बोध्यं | आरोप्यरूपविशिष्टतयैव चाक्षुषत्वे उदाहरणांतरमाह | स्वत इति | संप्रतिपतेरित्यापाततः गगनस्य चाक्षुष वृति विषयत्वं कवितार्किकमात्रसंमतं न तु पूर्वाचार्यैः पूर्वाचार्याणां मते तु गगनव्यापि सौरालोकादिगोचरचाक्षुषवृत्या आलोकाद्यवछिन्न चैतन्याभिव्यक्तिकाले आलोकानुगत गगनावछिन्नचैतन्यस्याप्यभिव्यक्तिं स्वीकृत्याभिव्यक्ते गगनावछिन्ने साक्षिणि नैल्याध्यासाभ्युपगमेन नैल्यादिविशिष्टगगनस्य साक्षिमात्रभास्यत्वादिति ध्येयं | तस्मादिति दृष्टविरोधरूपबाधकाभावात् स्यधकत्वाच्चैतिभावः | श्रेयानिति मंदाधिकारिणः प्रतीति वस्तु गतिः || न च तत्रापि पूर्वानुभवसंस्कार दौर्घट्यं | पुरुषसामान्यानुभवसंस्कारमात्रेण स्वप्नेप्यवृष्टचरपुरुषाध्यासवन्मुख सामान्यानुभव संस्कारमात्रेण दर्पणे मुखविशेषाध्यासोपपतेः | इयांस्तु भेदः स्वप्नेषु शुभाशुभहेतु दृष्टानुरोधेन पुरुषाकृतिविशेषाध्यासः | इह तु बिंबसन्निधानानुरोधेन मुखाकृतिविशेषाध्यास इति | न च प्रतिबिंबस्य स्वरूपतो मिथ्यात्वे ब्रह्मप्रतिबिंबस्य जीवस्यापि मिथ्यात्वापतिर्दोषः प्. ४६अ) प्रतिबिंबजीवस्य तथात्वेप्यवछिन्न जीवस्य सत्यतया मुक्तिभाक्त्वोपपतेरिति | यतु प्रतिबिंबं दर्पणादिषु मुखछायाविशेषरूपतयासत्यमेवेति | कस्यचिन्मतं तन्न छाया हि नाम शरीरादिस्ततदवयवैरालोकेकिसित यद्देशे व्यापिनि निरुद्धे तत्तद्देशे लघ्वात्मकं तम एव न च मौक्तिकमाणिक्यादि प्रतिबिंबस्य तमो विरुद्धसितलोहितादिरूपवतस्तमोरूपछायात्वं युक्तै न वा तमोरूपछायारहितनयनादि प्रतिबिंबस्य तथात्वमुपपन्नं ननु तर्हि प्रतिबिंबरूपछायायास्तमौ रूपत्वासंभवे द्रव्यांतरत्वमस्त्वकॢप्तद्रव्यानंतर्भावेन तमो वट् द्रव्यांतरकल्पनोपपतेरिति चेत् | किं तत् द्रव्यांतरं प्रतीयमानरूपपरिमाणसंस्था न विशेष प्रत्यऽऽनमुखत्वादि वद्रधर्मयुक्तं तद्रहितं वा स्यात् | अतेन तेन द्रव्यांतरेण रूपविशेषादि घटिते प्रतिबिंबोपलंभ निर्वाह इति व्यर्थ तत्कल्पंनं || उपाधिप्रतिहतानां बिंबप्राप्त्यनुपगमे अध्यस्यमानमुख सजातीय गोचरपूर्वानुभवानुभवासंभवादध्यासु प्. ४६ब्) कारणसंस्कारानुपपतिरित्युक्तमनूद्यनिराकरोति | न च तत्रापीति | प्रतिबिंबाध्यासपक्षे स्वसंस्कार दौर्घट्यमपि न चेत्यर्थः | अदृष्ट चरेति | कदाप्य ननु भूतेत्यर्थः | ननु मुखसामान्यानुभवजन्यसंस्कारस्य प्रतिमुख्यध्यासहेतुत्वे चैत्र मुखदर्पणयोः सन्निधे सति यस्य कस्यापि मुखस्याध्यासप्रसंगः | स्वप्नवदेव न तु नियमे नाभिमुखमुखाध्यास इत्याशंक्य व्यवस्थामाह | इयांस्तु भेद इति | स्वप्न प्रतिबिंबाध्यासयोरिति शेषः | आदौ त्रिविध जीववादिनामिति विशेषणेन सूचितं परिहारमाविष्करोति | प्रतिबिंब जीवस्यैति | मुक्तिभाक् तं ब्रह्माभेदः प्रतिबिंबस्य मिथ्यात्व दार्ढ्याय तत्सत्यत्वमतं दूषयितु मनुभाषते | यत्विति | ननु वृक्षादिछायोयाः नैल्य दर्शनात् | प्रतिबिंबेषु प्रायेण नैल्यादर्शनेन छाया वैलक्षण्य सत्वात् प्रतिबिंबस्य छायारूपत्वमनुपपन्नमिति शंकानिराकरणार्थं विशेष पदं तथा च बिंबभिन्नोपि मुखाद्याभासः | शुक्तिरजतादिवत् प्रातिभासिको न भवति | किंतु बिंबवत् सत्यः छाया विशेषरूपत्वाभ्युपगमातस्येत्यर्थः | छायायानीलरूपवत्वनियमा तद्विशेषरूपत्वं प्रतिबिंबस्य न्वसंभवतीति छाया स्वरूप कथन पूर्वकं दूषयति तन्नेति शरीरादेः छायानामतम एव नान्यदिति प्रसिद्धमित्यर्थः | किं यद्देशव्यापिन्या लोके शरीर तदवयवैनिरुद्धे सतीति संबंधः | न चेति मौक्तिक स्फुटिकादि प्रतिबिंबस्य सितरूपवतः तद्विरुद्धतमोरूपछायात्वं न युक्तं प्. ४७अ) तथा माणिक्य कनकादि प्रतिबिंबस्य लोहितपीतरूपादि मतस्तद्विरुद्धछायात्वं न युक्तमिति विभज्य योजनीयं नयनादे छायैव नास्तिति तत्प्रतिबिंबस्य छायारूपत्वमनुपपन्नमेवेत्यर्थः | तमो वदिति यथा तमसो द्रव्यस्य कॢप्त द्रव्यानंतर्भावे सिद्धांते दशम द्रव्यत्वं कल्पितं तद्वदित्यर्थः || प्रथमे कथमेकस्मिन्नल्यपरिमाणे दर्पणे युगपदसंकीर्णतया प्रतीयमानानां महापरिमाणानामनेक मुखप्रतिबिंबानां सत्यता निर्वाहः | कथं च निविडा वयवानुस्यूते दर्पणे तथैवावतिष्ठमाने तदंतहिनुनासिकाद्यनेक निम्नोन्नत प्रदेशवतो द्रव्यांतरस्योत्पतिः | किं च सितरक्तपीताद्यनेक वणीदिमतः प्रतिबिंबस्योत्पतौ दर्पणमध्ये स्थितं तान्सन्निहितं न तादृशं कारणमस्ति | यद्युच्येतोपाधिमध्यविश्रांति योग्यपरिमाणा नामेव | प्रतिबिंबानां मेहापरिमाणज्ञानं तादृशनिम्नोन्नतादि ज्ञानं च भ्रम एव यथा पूर्वं दर्पण तदवयीवावस्थानाविरोधेन तादृक् प्रतिबिंबोत्पादन समर्थ च किंचित् कारणं परिकल्प्यमिति तर्हि प्. ४७ब्) शुक्तिरजतमपि सत्यमस्तु | तत्रापि शुक्तौ यथापूर्वं स्थितायामेवततादात्म्यापन्नरजतोत्पादनसमर्थं | किंचित्कारणं परिकल्प्य तस्य रजतस्य दोषत्वाभिमतकारणसहकृतेंद्रिय ग्राह्यत्वनियम वर्णनोपपतेः || प्रथमे कथं सत्यता निर्वाह इति संबंधः | यद्येकमपि दर्पणं विशालं स्यातदानेक प्रतिबिंबानामसंकीर्णतया तत्रावस्वानं संभवेदिति शंकावारणायाह | अल्पेति | अल्पपरिमाणानामपि दर्पणानामनेकत्वे सत्येकैकस्मिन् दर्पणे एकैकं प्रतिबिंबमसंकीर्णतया च तिष्ठे तदपि नास्तीत्याह एकस्मिन्निति | एकस्मिन्नल्यपरिमाणेपि दर्पणे क्रमेणानेक प्रतिबिंबानाम संकीर्णता स्या तदपि नास्तीत्याह | युगपदिति | प्रतिबिंबस्य मिथ्यात्व तु नायं दोषो भवति स्वप्न दशायां स्वल्पेपि शरीरस्यांतराकाशे रथगजादि पदार्थानां तदुचित वैशाल्यस्य चाध्यासवदल्पपरिमाणेपि दर्पणे परस्परमसंकीर्णतया अनेक प्रतिबिंबानां तदुचित वैशाल्यस्य चाध्याससंभवादितिभावः | कथं च द्रव्यांतरस्योत्पतिरिति संबंधः सत्यस्येति शेषः | सामग्र्य भावाच्च न तस्योत्पतिः | संभवतीत्याह | किं चेति | दर्पणस्य यो वर्णः स एव प्रतिबिंबस्यापीति नियमसुत्वे तद्वर्णयुक्तं किंचित्कारणे दर्पणे संभाव्ये तापि नत्वे तदस्ति दर्पणरूपविलक्षण नानारूपवतां प्रतिबिंबा प्. ४८अ) नामनुभवादित्याह | अनेकेति | सितपीतरक्ताद्यनेकवर्णयुक्तानां बिंबानामेवकारणत्वमस्तु नेत्याह | दर्पणमध्ये स्थितमिति | तेषां निमितत्वेप्युपादानत्वं न संभवति प्रतिबिंबोत्पति देशे तेषामभावादित्यर्थः | तादृशमिति | सितपीतरक्ताद्यनेकवर्णयुक्तं कारणं प्रतिबिंबोदयकाले नियमेन नास्त्यनुपलंभादित्यर्थः | प्रतिबिंबं हि दर्पणस्यांतः दर्पणस्य पृष्ठभागे दर्पणसन्निहितमनुभूयते न तु दर्पणगतरूपपरिमाणादिवद्दर्पणस्यो परिभागे ततस्तत्कारणेनापि तत्रैव भवितव्यमिति मत्वा दर्पणमध्ये स्थितं तत्सन्निहितमित्युक्तं मध्यशब्दोंतरर्थकः प्रतिबिंबस्वरूपमात्रं सत्यं तत्र प्रतीयमानधर्मास्तु कल्पिता एवेति तत्सत्यत्वेभिनिवेशमानः शंकते | यद्युच्येतेति | वस्तु गत्या उपाधि मध्ये विश्रांति योग्यान्येव प्रतिबिंबान्युत्पद्यंते तेषु महापरिमाणादिकं भ्रांत्याभासत इत्यर्थः | कल्प्यमिति | नीवारावयवेषुर्ब्राह्मवयवा यथा मीमांसकैः कल्प्यं तं तद्वद्दर्पणावयवसंसृष्टाः प्रतिबिंबावयवाः कल्प्या इत्यर्थः | प्रतिबंदीमाह तहीति पूर्वोक्त दृष्टांतमनसि निधाय शुक्तिरजतस्यापि कारणं कल्पयति तत्रापीति | शुक्तिरजतस्थलेपीत्यर्थः | ननु शुक्तिरजतं सत्यमिति स्वीकारे तस्य शुक्तौ सदा सत्वाच्छुक्ति प्रत्यक्षकाले नियमेन तदपि गृह्येत न च गृह्यते अतो न तस्य सत्यत्वं संभवतीत्याशंकां परिहरति | तस्येति || प्. ४८ब्) किं शुक्तिरजतमसत्यं प्रतिबिंबः सत्य इत्यर्ध्वजरतीय न्यायेन न च तथा सति रजतमिति दृश्यमानायाः शुक्तेरग्नौ प्रक्षेपे रजतो चितद्रवीभावापतिः | अनलकस्तूरिकादि प्रतिबिंबस्थौल्यसौरभादिराहित्यवच्छुक्ति रजतस्य द्रवीभावयोग्यतानृराहित्योपपतेः | अथोच्येत नेदं रजतं मिथ्यैव रजतमभादिति सर्वसंप्रतिपन्नबाधान्न शुक्तिरजतं सत्यमिति | तर्हि दर्पणे मुखं नास्ति मिथ्यैवात्र दर्पणे मुखमन्नादित्यादि सर्वसिद्धबाधात्प्रतिबिंबमपि न सत्यमिति युक्तं | तस्मादसंगतः प्रतिबिंबसत्यत्ववादः | ननु मिथ्यात्ववादोप्ययुक्तः | शुक्तिरजत इव कस्यचिदन्वयव्यतिरेक शालिनः कारणस्याज्ञानस्य तन्निवर्तकस्य ज्ञानस्य चानिरूपणात् | अत्र केचित् || ततः किं तत्राह | किमिति | अर्धजरतीय न्यायेनेति | जरतीद्ब्रद्धातस्या(?) अर्धं मुखमात्रं कामयते नाधः कायमित्ये तद्यथोपपति श्रन्यमेवमिदमपीत्यर्थः | ननु प्रसिद्धरजतमग्नौ प्रक्षिप्तं द्रवी भवति शुक्तिरजतं तु न तथेति | तस्य मिथ्यात्वमेवेति मत्वा शंकते | न च तथो सतीति तस्य सत्यत्वे सतीत्यर्थः | प्रतिबंदीं समर्थयते | अनलेति || प्. ४९अ) यद्यप्यन्नेष्टापतिरेव प्रतिबिंबसत्यत्ववादिमते शुक्तिरजतादेरपि सत्यत्वसंभवा तथापि प्रतिबंदी व्याजेन शुक्तिरजतादेः अपि मिथ्यात्व निरूपणे तात्पर्यं बोध्यं प्रतिबंद्याः परिहारं शंकते प्रतिबिंबसत्यतवादी अश्वोच्येतेति | परिहारसाम्यमाह | तर्हीति मिथ्यैवात्रेति | बिंबप्रतिबिंबाभेदपक्षे प्रतिबिंबमिथ्यात्वानुभवः प्रतिबिंबत्व विशिष्टवेषेण प्रतिबिंबगौचरो न स्वरूपेणेति बोध्यं | ननु तर्हि शुक्तिरजतमिथ्यात्वानुभवोपीदर्मर्थ तादात्म्यापन्नतयैव रजतयो चरः न स्वरूपेणेति वक्तं शक्यतयारजतेदमर्थयोस्तादात्म्यमात्रकल्पितं त्व कल्पितमिति प्रसज्येतेति चेन्न रजतस्य शुक्तावनुत्पतौ तस्य संविदभिन्नत्वाभावेन प्रत्यक्षानुपपतेस्तस्य तत्रोत्पतिरपरिहार्यातदुत्पतौ चान्वयव्यतिरेकाभ्यामनिर्वचनीयाज्ञानमेव कारणं नान्यदिति | प्राक्प्रतिपादितत्वेन तस्य मिथ्यात्वोपयतेः | पूर्वोक्तरीत्या बिंबप्रतिबिंबा भेदसाधकप्रमाणसत्ववच्छुक्ति रजतत्यत्व साधका नन्यथा सिद्धप्रमाणो भावेन शुक्तिरजतमिथ्यात्वानुभवस्य रजत स्वरूपगोचरत्वोपपतेश्च तस्य मिथ्यात्वमिति भावः | तस्मादिति बिंबभिन्नस्य प्रतिबिंबस्य सत्यत्वे मानाभावादित्यर्थः | नन्विति | प्रतिबिंबाध्यासपक्षे हि तस्योपादानमज्ञानं वाच्यं तच्च न संभवति | सर्वात्मनादर्पणादिरूपाधिष्ठानगोचरसाक्षात्कारेण दर्पणाद्यवछिन्न चैतन्यनिष्ठाज्ञानस्यति वृतत्वाता प्. ४९ब्) दृशसाक्षात्कारे सत्ये वानुवर्तमानस्य प्रतिबिंबाध्यासस्य तन्निवर्त्यत्वायोगात् | तन्निवर्तक ज्ञानांतरानुपलंभाच्च ज्ञानैकनिवर्त्यत्वं विना तस्य मिथ्यानुपपतेः तस्मातन्मिथ्यात्व वादोप्यसंगत इत्याक्षेपाभिप्रायः यथा शुक्तिरजते शुक्त्यज्ञनस्य तत्कारणस्यान्वयव्यतिरेक सिद्धस्य पूर्वे निरूपणं कृतं तथा प्रतिबिंबाध्यासे दर्पणाद्यज्ञाने सति प्रतिबिंबाध्यासः | तदभावे तदभावः | इत्यत्वयव्यतिरेक शालिनस्तत्कारणस्याज्ञानस्य कस्यचिदनिरूपणातन्निवर्तक ज्ञानस्य चानिरूपणादित्यक्षरार्थः | परिहरति | अत्र केचिदिति || यद्यपि सर्वात्मनाधिष्ठान ज्ञानानंतरमपि जायमाने प्रतिंबिंबाध्यासेनाधिष्ठानावरणमज्ञानमुपादानं नखाधिष्ठानविशेष्यंशज्ञानं निवर्तकं | तथाप्यधिष्ठानाज्ञानस्यावरणशक्त्यंशेन निवृतावपि विक्षेपशक्त्यंशेनानुवृति संभवातदेवोपादानं | बिंबोपाधिसन्निधिनिवृति सचिवंचाधिष्ठानज्ञानं सोपादानस्य तस्य निवर्तकमिति | अन्ये तु ज्ञानस्य विक्षेप शक्त्यंशं विहायावरणशक्त्यंशमात्रनिवर्तकत्वं न स्वाभाविकं ब्रह्मज्ञानेन मूलाज्ञानस्य शुक्त्यादि ज्ञानेनावस्था ज्ञानस्य चावर प्. ५०अ) रणशक्त्यंशमात्र निवृतौ तस्य विक्षेप शक्त्या सर्वदानुवृति प्रसंगात् | न च तद्बिंबोपाधि संनिधिरूपं विक्षेपशक्त्यंश निवृति प्रतिबंधकप्रयुक्तां बिंबोपाधि सन्निधातात्प्रागेव बिंबे चैत्रमुखे दर्पणसंसर्गाद्यभावे दर्पणे चैत्रमुखाभावे वा प्रत्यक्षतोवगम्यमाने विक्षेपशक्त्यंशस्यापि निंवृत्यवश्यं भावेन तत्कालं तयोः सन्निधाने सत्युपादानाभावेन प्रतिबिंबभ्रमाभावप्रसंगात् || आक्षेयाभिप्रायमनुवदति | यद्यपीति | सर्वात्मानेति शुक्तिरजताध्यासात्पूर्वमिदं त्वात्मना साक्षात्कार सत्वेपि शुक्तित्वादि विशेषात्मना साक्षात्कारो नास्तीति तत्राधिष्ठानविशेषांशावरणमज्ञानमुपादानं लभ्यते प्रकृते तु चक्षुः संनिकृष्टे दर्पणे प्रतिबिंबाध्यासात्पूर्वमिदं त्वात्मनेव दर्पणत्वादि विशेषात्मनापि साक्षात्कार सत्वेन सर्वात्मनाधिष्ठान साक्षात्कारोस्ति तथा च तेनाधिष्ठान विशेषावरणस्याज्ञानस्य निवृतत्वान्न तदुपादानं संभवतीत्ये तद्युक्तमेवेत्यर्थः | अपिरवधारणे निवेर्तकमिति | प्रतिबिंबाध्यासस्येति शेषः | कथं तर्ह्युपादानादि लाभः तत्राह | तथापीति | तदेवेति | अधिष्ठाना ज्ञानमेवेत्यर्थः | सर्वात्मनाधिष्ठान साक्षात्कारेणाप्यज्ञानैक देशस्यैव निवृतिर्न तु कार्त्स्न्येनेति प्. ५०ब्) फलवलात्कल्प्यत इति भावः | निवर्तक ज्ञानं च निरूपयति बिंबेति | बिंबोपाध्योः सन्निधिनिवृति सहकृते दर्पणे मुखं नास्तीति ज्ञानमेव प्रतिबिंबाध्यासस्य निवर्तकमित्यर्थः | दर्पणाद्युपादानभूतं मूलाज्ञानमेकमस्ति दर्पणादि ज्ञाननिवर्त्यमवस्म्यारूपाज्ञानमप्यपरमस्ति तत्र मूला ज्ञानस्यैव दर्पणाद्युपादानत्ववत् प्रतिबिंबाध्यासोपादानत्वमपीति परिहारांतरमाह | अन्येत्विति | ननु पूर्वोक्तमतरीत्याशुक्तिरजतादिरिव प्रतिबिंबाध्यासस्याप्यवस्थाज्ञानपरिणामत्वसंभवे | किं मूलाज्ञानस्य तत्कल्पनयेति नेत्याह | ज्ञानस्येत्यादिनेति | ज्ञानस्यावरणमात्रनिवर्तकत्वं किं स्वाभाविकं किं वा विक्षेपशक्त्यंश निवृति प्रतिबंधक सत्व प्रयुक्तं नाद्य इत्यत्र हेतुमाह | ब्रह्मज्ञानेनेति | तस्येति | द्विधस्याप्यज्ञानस्य निवर्तकाभावेन विक्षेप शक्ति सहकृतस्य विदेह कैवल्येप्यनुवृति प्रसंगादित्यर्थः | द्वितीयमनुवदति | न चेति | तदिति | आवरणमात्रनिवर्तकत्वमित्यर्थः | विक्षेपशक्तिमदज्ञानांश निवृति प्रतिबंधक प्रारब्ध नाशे सति ब्रह्मज्ञानसंस्कारविशिष्टचैतन्यमात्रादेवविक्षेपांश निवृति संभवान्न पूर्वोक्तदोष इति मत्वादोषमाह | बिंबोपाधिसन्निधानात्प्रागिति | बिंबोपाध्योराभिमुख्यलक्ष्णसन्निधानात्पूर्वक्षण एवेत्यर्थः | प्. ५१अ) बिंबप्रतिबिंबाभेदपक्षे प्रतिबिंबोत्पत्यभावेपि चैत्रस्य मुखे बिंबभूते बिंब तु प्रतिबिंबत्वदर्पणस्थत्वादेरे निर्वचनीयस्योत्पत्युपगमेन तस्य चैत्रमुखावछिन्नचैतन्यनिष्ठावस्थाज्ञानमेवकारणं वाच्यं तच्च चैत्र मुखे दर्पणाभिमुख्यात् प्राक् विष्णुमित्रेण निरीक्ष्यमाणे सति तदा प्रतिबंधकाभावाच्चैत्रमुखगोचरेण विष्णुमि || अतो मूलाज्ञानमेव प्रतिबिंबाध्यासोपादानं न चात्राप्युक्तदोषतोल्यं | पराग्विषयवृतिपरिणामानां स्वस्वविषयावछिन्नचैतन्यप्रदेशे मूलाज्ञानावरणशक्त्यंशाभिभावकत्वेपि तदीय विक्षेप शक्त्यंशा निवर्तक त्वात् | अन्यथा तत्प्रदेश स्थित व्यावहारिक विक्षेपाणामपि विलयापतेः | न च प्रतिबिंबस्य मूलाक्ष्यान कार्यत्वे व्यावहारिकत्वापतिः | अविद्याति रिक्तदोषाजन्य त्वस्य व्यावहारिकत्वे प्रयोजकत्वात् | प्रकृते च तदतिरिक्तबिंबोपाधि सन्निधानदोषसद्भावेन प्रातिभासिकत्वोपपतेः | न चैवं सति बिंबोपाधिसन्निधिनिवृति सह कृतस्याप्यधिष्ठान ज्ञानस्य प्रतिबिंबाध्यासाऽनिवर्तकत्व प्रसंगस्तन्मूलाज्ञान प्. ५१ब्) निर्वतकत्वाभावादिति वाच्यं || त्रीय साक्षात्कारेण विक्षेप शक्त्या सह निवर्तते | उतरक्षण एव चैत्र मुखस्य दर्पणाभिमुखे सति विष्णुमित्रस्य दर्पणे चैत्रस्य मुखमिति प्रतिबिंब भ्रमो भवति | तत्र चैत्रमुखे दर्पणस्थत्वादेरुत्पतिर्न स्यादुपादानाभावादित्याहे | बिंब इति | दर्पण संसर्गो दर्पणस्थत्वमादिपदं प्रत्यऽऽन्मुखत्वादिसंग्रहार्थं | तथा च संसर्गाद्यभावे प्रत्यक्षतोवगम्यमान इति संबंधः | चैत्रमुखैदर्पणस्थत्वादिकं नास्तीत्यवगति प्रकारो बोध्यः | दपणे प्रतिबिंबाध्यासोत्पति पक्षे अवगति प्रकारमाह दर्पण इति | प्रतिबिंबाध्यासपक्षे संसर्गितया प्रतिमुखस्यैवाध्यासोपगमाद्दर्पणे चैत्रमुखं नास्तीत्यनेन प्रकारेण दर्पणे चैत्रमुखाभावे प्रत्यक्षतोवगम्यमान इत्यर्थः | एवं मतभेदेनाधिष्ठान भेदे तत्साक्षात्कार भेदयोः प्रदर्शनार्थमेव चैत्रमुखे दर्पणे च पृथक् सप्तमी निर्द्वेशः कृतः सतभेदज्ञापनार्थश्च वाकारः तत्कालमिति | अधिष्ठान भूतचैत्रमुखे दर्पणे च विक्षेप शक्त्यासहा ज्ञाननिवर्तक साक्षात्कारोत्पतेर्द्वितीयक्षण इत्यर्थः | तयोरिति | चैत्रमुखदर्पणयोः सन्निधाने सत्यधिष्ठान साक्षात्कारवतो विष्णुमित्रस्य दर्पणे चैत्र मुखमिति यः प्रतिबिंबभुमो भवति तस्याभावप्रसंगादित्यत्र हेतुमाह उपादानाभावेनेति | तत्र हेतुमाह विक्षेप शक्त्यंशस्यापि प्. ५२अ) निवृत्यवश्यंभावेनेति | अत इति अवस्थाज्ञानस्य प्रतिबिंबाध्यासे कारणत्वायोगादित्यर्थः | नन्वस्मिन् पक्षेपि बिंबोपाधिसन्निधानात् पूर्वक्षणोत्पन्नचैत्रमुखसाक्षात्कारेण चैत्रमुखाद्यवछिन्नचैतन्यावरकमूलाज्ञानस्यापि निवृतेतोदुपादानाभाव दोषस्तुल्यः तेन तदनिवृतौ च चैत्र मुखायनवभासप्रसंगः | यत्किंचिदावरणस्य सत्वादित्याशंक्याह | न चात्रापीति | ब्रह्मज्ञानस्यैव मूलाज्ञाननिवर्तकत्वं जडविषयकवृतिरूपाणामंतःकरणपरिणामानां तु स्वस्वविषयचैतन्यस्थमूलाज्ञानस्य योयमावरणांशः तदभिभावकत्वमात्रं यावद्विषयस्फुरणमंगीक्रियतेनत्ववस्थाज्ञानविक्षेपांशं निवर्तकत्ववन्मूलाज्ञानविक्षेपांशनिवर्तकत्वमपीत्यर्थः | अन्यथेति | विषयचैतन्यस्थस्य मूलाज्ञानस्य विषयज्ञानेन निवृतौ दर्पणादीनां यावहारिकाणां विक्षेपशब्दितकार्याणां नाशप्रसंगः उपादाननाशादित्यर्थः | प्रातिभासिकविक्षेपाणामिवेत्यपि शब्दार्थः | ननु मूलाज्ञानकार्यस्य दर्पणादेर्व्यावहारिकत्व दर्शनात् | प्रतिबिंबाध्यासस्यापि तत्कार्यत्वे तदापतिरित्याशंक्यनिरोति | न चेत्यादिनामूलाज्ञानकार्यत्वं व्यावहारकत्वप्रयोजकं न भवति अनाद्यविद्यादौ तदभावेपि व्यावहरिकत्व सत्वात् | किं त्वन्यदेव तत्प्रयोजकमित्याह | अविद्यातिरिक्तेति | अनाद्यविद्यादावविद्याजन्यत्वाभावेपि तदतिरिक्तदोष्यजनात्वस्य सत्वात्र्यव्याप्तिरितिभावः | प्रतिबिंबाध्यासस्य मूलाज्ञानकार्यस्यापि न व्यावहारिकत्वं तत्प्रयोजकाभावादित्याह | प्रकृते चेति | प्रतिबिंबाध्यास प्. ५२ब्) इत्यर्थः | न चैवं सतीति प्रतिबिंबाध्यासस्य मूलाज्ञानकार्यत्वे सतीत्यर्थः | तन्मूलेति शुक्तिरनतादि मूलाविद्यानिवर्तक शुक्त्यादि साक्षात्कारस्यैव रजताद्य ध्यासनिवर्तकत्व दर्शनादिति भावः || विरोधाभावात् | ब्रह्माज्ञानानिवर्तकत्वेपि तदुपादानक प्रतिबिंबाध्यासविरोधिविषयकतयाधिष्ठानयाथात्म्यज्ञानस्य प्रतिबंधकविरह सचिवस्य तन्निवर्तकत्वोपपतेः | अवस्थाज्ञानोपादानत्वपक्षेपि तस्य प्राचीनाधिष्ठानज्ञानविवर्तिलावरणशक्ति कस्य समानविषयत्वमंगेन प्रतिबंधकाभावकालीनाधिष्ठानज्ञानेन निवर्तयितुमशक्यतया प्रतिबिंबाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वात् | अथवा स्वोपादानाज्ञाननिवर्तक ब्रह्मज्ञाननिवर्त्य एवाय मध्यासोस्तु व्यावहारिकत्वापतिस्त विद्यातिरिक्तदोषजन्यं त्वेन प्रत्युक्तैनत्याहुः | एवं स्वप्नाध्यासस्याप्यनवछिन्नचैतन्येहंकारोपहित चैतन्येवावस्थारूपाज्ञानशून्येध्यासात् || विरोधाभावादिति | मूलाज्ञानं ब्रह्मविषयकं प्रतिबिंबाध्यासाधिष्ट्वान भूतदर्पणादिज्ञानं तु दर्पणाद्यवछिन्न प्. ५३अ) चैतन्यविषयकमिति तयोः समानविषयकत्वस्य विरोधप्रयोजकस्याभावेन विरोधाभावादधिष्ठानयाथात्म्यज्ञानस्य ब्रह्माज्ञानानिवर्तकत्वेपीत्यर्थः | तत्पदं ब्रह्माज्ञानपरं विरोधिविषयकतयेति | दर्पणे मुखं नास्तीत्यादि रूपस्याधिष्ठानयाथात्म्यज्ञानस्य प्रतिबिंबाध्यासा भावविषयकतयेत्यर्थः | ननु प्रतिबिंबाध्यासस्यावस्थाज्ञानोपादानकत्वपक्षे बिंबोपाधिसन्निधिनिवृतिसहकृताधिष्ठान ज्ञानस्य तदुपादाना ज्ञाननिवर्तकत्वं लभ्यते | तथा च ज्ञानमज्ञानस्यैव निवर्तकमज्ञानकार्यस्य तु उपादानाज्ञाननिवृत्या निवृतिरिति पंचपादिकाकारोक्तं संगच्छत इत्याशंक्याह | अवस्थाज्ञानेति | तस्येति | अवस्थाज्ञानस्येत्यर्थः | प्राचीनेति बिंबाध्यासात् प्राचीनेनाधिष्ठानज्ञानेन दर्पणे मुखं नास्तीत्याद्याकारेण निवर्तिता आवरणशक्तिर्यस्यावस्थाज्ञानस्यत तथा तस्येत्यर्थः | अज्ञानविषयत्वमज्ञानावृतत्वमावरणनाशे च दर्पणाद्यवछिन्न चैतन्यस्यावस्थाज्ञानविषयत्वाभावादधिष्ठान ज्ञानस्यावस्थाज्ञानगमा न विषयकत्वं विरोधे प्रयोजकं भग्नमित्यर्थः | प्रतिबंधकपदं बिंबौपाध्योः सन्निधिपरं तस्य निवर्तयितुमशक्यतयेति संबंधः तन्निवत्येति | तत्पदमधिष्ठानज्ञानपरं अवस्थाज्ञानोपादानत्वपक्षेपि प्रतिबिंबाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वादिति संबंधः | तथा च पंचपादिकाविरोधः प्रतिबिंबाध्यासस्थावस्थाज्ञानोपादानत्वपक्षेपि तुल्य इति भावः तदविरुद्धप्रकारमाह | अथवेति | स्वपदं प्रतिबिंबाध्यासपरं | निवर्त्य एवेति | बिंबोपाध्योः सन्निधिविगमकाले प्रतिबिंबाध्यासस्य सूक्ष्मावस्था प्. ५३ब्) लक्षणनाशे सत्यपि व्यावहारिकत्वापतिरिति नेत्याह | व्यावहारिकत्वापतिस्त्विति तु शब्दोवधारणैप्रत्युक्तैवेति संबंधः | बिंबोपाधिसंन्निधिः दोषः | उक्त न्यायमन्यत्राप्यति दिशति | एवमिति | एवं स्वप्नाध्यासस्यापि मूलाज्ञानकार्यतया अविद्यातिरिक्तनिद्रादि दोषजन्य तयैव प्रातिभासिकत्वमिति संबंधः | नत्ववस्था ज्ञानकार्यतया प्रातिभासिक तमित्येव कारार्थः | अवस्था ज्ञानस्य स्वप्नो पादानत्वाभावै हेतुमाह | अवस्थारूपाज्ञानशून्ये ध्यासादिति | मतभेदेन स्वप्नाध्यासाधिष्ठान भेदमाहपि बाधरूपानिवृतिस्तथा नास्ति सा तु ब्रह्मज्ञानाधीनैव तस्यैव तदुपादानमूलाज्ञाननिवर्तकत्वादिति भावः | ननु ब्रह्मज्ञान बाध्यस्य घटादेरिव तद्बाध्यस्या अनवछिन्नेति अहंकारानवछिन्न ब्रह्मचैतन्यस्य मूलाज्ञानमात्राश्रयत्वादवस्था ज्ञानशून्यत्वमहंकारोपहितस्य साक्षि चैतन्यस्य सुखाद्यधिष्ठानस्यावरणानंगीकारादऽवस्थाऽज्ञानशून्यत्वमिति भावः || सुषुप्त्याख्यं तमोऽज्ञानं यद्बीजं स्वप्नबोधयोरित्याचार्याणां स्वप्नजाग्रत्प्रपंचयोरेका ज्ञानकार्यत्वोक्तेश्च मूलाज्ञानकार्यतया स्वोपादान निवर्तक ब्रह्मज्ञानैक बाध्यस्याविद्यातिरिक्त निद्रादि दोषजन्य तयैव प्रातिभासिकत्वमिति केचित् | अन्येत बाध्यंते चैते रथादयः स्वप्नदृष्टाः प्रबोध इति भाष्योक्तेरवि चात्मक बंध प्. ५४अ) प्रत्यनीकत्वाज्जाग्रद्बोधवदिति विवरण दर्शनादुत्थितस्य स्वप्नमिथ्यात्वानुभवाच्च जाग्रद्बोधः स्वप्नाध्यास निवर्तक इति | ब्रह्मज्ञानेतरज्ञानबाध्यते यैव तस्य प्रातिभासिकत्वं | न चाधिष्ठानयाथात्म्यागोचरं स्वोपादानाज्ञानानिवर्तकं | ज्ञानं कथमध्यासनिवर्तकं स्यादिति वाच्यं रजुसर्षाध्यासस्य स्वोपादाना अज्ञाननिवर्तकाधिष्ठानयाथात्म्यज्ञानेनेव तत्रैव स्वानंतरोत्पन्न दंडभ्रमेणापि निवृति दर्शनादित्याहुः || अत्राज्ञानकार्यस्य स्वप्नाध्यासस्यावस्था ज्ञानशून्यचैतन्ये अध्यासोक्त्यार्थान्मूलाज्ञानकार्यत्वमुक्तं | तत्र हेत्वंतरमाह | सषुप्त्याख्यमिति | सुषुप्तेरज्ञानावस्थारूपत्व विवक्षयासुषुप्त्याख्यत्वमज्ञानस्योक्तं बीजमुपादानं बोधो जाग्रत् प्रपंचः | तस्य शुक्तिरजतादि व्यतिरिक्तस्य मूलाज्ञानकार्यत्वं संप्रतिपन्नमितिभावः | आचार्याणामुक्तेश्चेति संबंधः स्वपदस्वप्नाध्यासपरंब्रह्मज्ञानैकेति | प्रबोधकाले स्वप्नप्रपंचस्य सूक्ष्मावस्थापति रूपनाशे सत्यपि बाधरूपानिवृतिर्ब्रह्मज्ञानैक साध्येति बोध्यं | अविद्यातिरिक्तदोषजन्यत्वं प्रातिभासिकत्वप्रयोजकमिति मतेन स्वप्नाध्यासस्य निद्रादिदोषजन्यस्य प्रातिभासिकत्वमुपपादितं व्यवहारकाले बाध्यमानत्वं प्रातिभासिकत्व प्रयोजकमिति मतेन तस्य प्. ५४ब्) तदुपपादयति | अन्ये त्विति | भाष्यगतं प्रबोध पदं सप्तम्यंतं बंधस्याविद्याकार्यत्वादविद्यात्मकत्वं प्रत्यनीकत्वं निवर्तकत्वं पंचम्यनंतरं ब्रह्मज्ञानस्येति शेषः यथा जाग्रत्कालीनो घटादिबोधः स्वप्नबंधनिवर्तकस्तद्वदित्यर्थः | उत्थितस्येति | मिथ्यैव मया स्वप्ने महाजनसमागमो दृष्टः नह्यस्ति महाजनसमागम इति तस्य मिथ्यात्वानुभवादित्यर्थः | यदि स्वप्नप्रपंचस्य ब्रह्मज्ञानबाध्यत्व प्रयुक्तं मिथ्यात्वं तदा स्वप्नादुत्थितस्य तत् मिथ्यात्वानुभवो न स्यात् | ब्रह्मज्ञानात् पूर्वं तद्बाध्ये घटादौ मिथ्यात्वानुभवादर्शनात् | अतो ब्रह्मज्ञानादितरेण जाग्रत् प्रबोधेनैव बाधः स्वप्नप्रपंचस्य वक्तव्य इति शुक्तिरजतादिवत् व्यवहार कालीन बाधवशादेव तस्य प्रातिभासिकत्वं व्यवहारकालश्च ब्रह्मतत्वज्ञानात् | पूर्वकाल इति भावः | ज्ञानमिति ब्रह्मज्ञानेतर ज्ञानमित्यर्थः | तस्य स्वप्नाध्यासनिवर्तकत्वाभावे हेतुं सूचयति | स्वेति | स्वस्य स्वप्नाध्यासस्य उपादानं मूलाज्ञानं तदनिवर्तकमित्यर्थः | तदनिवर्तकत्वे हेतुं सूचयति | अधिष्ठानेति | स्वप्नाधिष्ठानस्य पूर्वोक्तस्य यद्याथात्म्यमनवछिन्न ब्रह्मचैतन्यादि तदविषकमित्यर्थः | अधिष्ठानयाथात्म्यज्ञानस्यैवाज्ञाननिवृतिद्वाराध्यास निवर्तकत्वनियमादिति भावः | उक्तनियमासिध्या दूषयति | रजु सर्पेति | स्वपदं सर्पाध्यासपरं ज्ञानेनेवेति नायं सर्पः रजुरेषेति ज्ञानेनेवेत्यर्थः | तत्रैवेति सर्पाध्यासाधिष्ट्वान रजावेवेत्यर्थः प्. ५५अ) स्वेति सर्पभ्रमानंतरोत्पन्नेन नायं सर्पः दंडोयमिति भ्रमेणेत्यर्थः | निवृतिदर्शनादिति बाधदर्शनादित्यर्थः || अपरे तु जाग्रद्भोगप्रदकर्मोपरमे जाग्रत्प्रपंच द्रष्टारं प्रतिबिंबरूपं व्यावहारिकं जीवंत दृष्टं जाग्रत्प्रपंचमप्यावृत्यजायमानो निद्रारूपो मूलाज्ज्ञानस्यावस्था भेदः स्वाप्नप्रपंचाध्यासस्योपादानं न मूलाज्ञानं न च निद्राया अवस्थाज्ञानरूपत्वे मानाभावः मूलाज्ञानानेनावृतस्य जाग्रत्प्रपंचद्रष्टर्व्यावहारिक जीवस्य मनुष्योहं ब्राह्मणोहं देवदतपुत्रोहमित्यादिनां स्वात्मानमसंदिग्धाविपर्ययस्तमभिमन्यमानस्य तदीय चिरपरिचयेन तं प्रति सर्वदानावृतैकरूपस्य स्वपितामहात्ययादि जाग्रत्प्रपंचवृतांतस्य च स्वप्नकाले केनचिदावरणाभावे जाग्रत् दशायामिव स्वप्नेपि व्याघ्रोहं शूद्रोहं प्रज्ञदत्तपुत्रोहमित्यादि भ्रमस्य स्वपितामह जीवद्दशादिभ्रमस्य चाभावप्रसंगेन निद्राया एव तत्कालोत्पन्न व्यावहारिक जगज्जिवावरकाज्ञानावस्थाभेदरूपत्व सिद्धेः | न चैवं जीवस्याप्यावृतत्वात् स्वप्नप्रपंच दृष्टृत्वाभाव प्रसंगः || प्. ५५ब्) अधिष्ठान याथात्म्यज्ञानस्यैवाध्यासनिवर्तकत्व नियमेपि प्रकृतेनानुपपतिरिति मत्वा तदनुगुणं मतांतरमाह | अपरे त्विति | अस्मिन् मते व्यावहारिक जीवः स्वप्नप्रपंच द्रष्टः प्रातिभासिक जीवस्याधिष्ठानं स्वप्नप्रपंचस्य च जाग्रत्पपंच एवाधिष्ठानं नत्व नवछिन्नचैतन्यादिकं द्विविधाधिष्ठानावरणद्वारा च निद्रारूपमवस्थाज्ञानं दृष्ट्वदृश्यात्मक द्विविध स्वप्नप्रपंचोपादोनं न तु मूलाज्ञानं तस्या ब्रह्मचैतन्यमात्रावरकत्वेन व्यावहारिक जीवाद्यावरकत्वाभावात् | ततश्च व्यावहारिक जीव जगद्गोचरस्य प्रबोधस्याधिष्ठान याथात्म्यज्ञानरूपत्वा ते नैव स्वप्नाध्यासबाधः संभवतीति तात्पर्यार्थः कर्मो परमे सति जायमान इति संबंधः आवृत्येत्यनेन उपादानमित्यनेन च निद्राया आवरणविक्षेपशक्तिमत्वरूपमज्ञानलक्षणमुक्तमेवमज्ञानत्वे तस्यासिद्धे सत्युत्पतिमत्वात् | तदवस्थारूपत्वं सिध्यति | अस्मिन्मते सर्वेषामेवावस्थाज्ञानानामादिमत्वस्य प्रथमपरिछेदे उक्तत्वादिति भावः | संग्रहंणोक्तं मर्थमाशंकापूर्वकं प्रपंचयति | न च निद्राया इत्यादिना | मूलाज्ञाने नानावृतस्य व्यावहारिक जीवस्य जाग्रत्प्रपंचवृतांतस्य च स्वप्नकाले केनचिदावरणाभावे यज्ञदतपुत्रोंहमित्यादि भ्रमस्य स्वपितामह जीवदशानुभवस्य चाभावे प्रसंगेन निद्राया एवभेदरूउपत्वसिद्धेरिति संबंधः | जाग्रत्काले ब्राह्मणत्वादिरूपसत्वे संशविपर्ययोरभावमाह | असंदिग्धेति | असंदिग्धाविपर्यस्तं यथा भवति तथा अभिमन्यमानस्येति संदेहविपर्यास- प्. ५६अ) भिन्नत्वमभिमानक्रियाविशेषणं स्वपितामहात्ययादेर्जाग्रत्प्रपंचवृतांतस्य तं देवदत्तपुत्रं प्रतिसर्वदानावृतत्वेनैकरूपतयावस्थाने हेतुमाह | तदीयेति देवदतपुत्रो हि स्वपितामहादिमरणं प्रथममनुभूय पश्चात् प्रतिमासंवत्सरं च श्राद्धतर्पणादिकं करोति | ततश्च तन्मरणादिगोचरानुभवस्मरणाभ्यासः चिरपरिचयस्तेन स्वपितामहान्यपादौ संशयादिनिवृतिभात्कलक्षणमनावृतत्वं सदा एकरूपेण वर्तत इत्यर्थः | जागरणे यथा देवदत्तपुत्रस्य व्याघ्रादि भ्रमाभावः स्वपितामह जीवदशानुभवा भावश्च तथा स्वप्नेप्यभावप्रसंगेनेत्यर्थः | तत्कालेति | निराकाले उत्पन्नो यो व्यावहारिक जगज्जीवयोरावरको ज्ञानावस्थाभेदः तद्रूपत्वं निद्राया एव सिध्यति नान्यस्यावरणविक्षेपशक्तिमत्वेन तस्या उपस्थितत्वादन्यस्यानुपस्थितत्वादित्यर्थः न चैवमिति | निद्राया व्यावहारिक | जीवाद्यावरकाज्ञानावस्थाविशेषरूपत्वसिद्धौ सत्यामित्यर्थः || स्वाप्नप्रपंचेन सहद्रष्ट्रर्जीवस्यापि प्रातिभासिकाध्यासात् | एवं च पुनर्जाग्रद्भोगप्रदकर्मोद्भूते बोधे व्यावहारिक जीवस्वरूपज्ञानात्स्वोपादाननिद्रारूपाज्ञाननिवर्तकादेव स्वाप्नप्रपंचबाधः | न चैवं तत् द्रष्टः प्रातिभासिक जीवस्यापि ततो बाधे स्वप्ने करिणमन्वभूवमित्यनुसंधानं न स्यादिति वाच्यं व्यावहारिक प्. ५६ब्) जीवे प्रातिभासिक जीवस्याध्यस्ततया तदनुभवाद्व्यावहारिक जीवस्यानुसंधानोपगमेप्यति प्रसंगादिति | नन्वनवछिन्नचैतन्येऽहंकारावछिन्नचैतन्येवास्वाप्न- प्रपंचाध्यास इति प्रागुक्तं पक्षद्वयमप्ययुक्तं | आद्ये स्वाप्नगजादेरहंकारोपहितसाक्षिणो विछिन्न देशत्वेन सखादिवदंतःकरणवृतिसंसर्गमनपेक्ष्यतेन प्रकाशनस्य चक्षुरादिनामुपरततयावृत्युदयासंभवेन तत्संसर्गमपेक्ष्यतैन प्रकाशनस्य चायोगात् | द्वितीये इदं रजतमिति वदहं गज इति वा अहं सुखीति वदहं गजवानिति वाध्यासप्रसंगात् || प्रातिभासिकांतःकरणे चित्प्रतिबिंबरूपस्य जीवांतरस्याभ्युपगमान्नैतच्चोचावकाश इत्याशयेनाह | स्वाप्नप्रपंचेन सहेति | एवं चेति व्यावहारिक जीवजगतोरेव स्वाप्नजीवजगदधिष्ठानत्वे सिद्धे सतीत्यर्थः | कर्माद्भूते बोध इति | कर्मजन्ये जागरण इत्यर्थः | जीवस्वरूपज्ञानादिति मनुष्योहं ब्राह्मणोहं देवदतपुत्रोहमित्यादिरूपादित्यर्थः | उपलक्षणचैतत् स्वपितामहात्ययादि ज्ञानाच्चेत्यपि द्रष्टव्यं स्वपदं स्वप्नप्रपंचपरं न चैमिति एवं शब्दार्थमेवाह | तदृष्टरिति | तस्य स्वप्रपंचस्य द्रष्ट्रः व्याघ्रोहं शूद्रोहमित्यादिरूपेण स्वात्मानं मन्यमानस्येत्यर्थः | प्. ५७अ) तत इति व्यावहारिक जीवस्वरूपज्ञानावित्यर्थः | न स्यादिति अन्यानुभूतेर्थे अन्यस्य स्मरणायोगादितिभावेः | अध्यस्तयेति | तथा च व्यावहारिक प्रातिभासिक जीवयोरधिष्ठानारोप्ययोः | तादात्म्य स त्वात् प्रातिभासिक जीवकर्तृकानुभवाद्व्यावहारिक जीवस्य स्वप्नपदार्थानुसंधानं संभवतीत्यर्थः | अति प्रसंगेति | यज्ञदतानुभूतार्थे विष्णुमित्रस्याप्यनुसंधानप्रसंगरूपाति प्रसंगाभावादित्यर्थः | तयोस्तादात्म्याभावादिति भावः | ननु जीवत्रैविध्यपक्षे द्रष्टृ दृश्यत्मक स्वप्नाध्यासाधिष्ठानत्वेनोपगतस्य व्यावहारिक जीवादेर्मिथ्यात्वेन जडतया स्वप्नप्रपंचावभासकत्वं न संभवति | न च चैतन्यमेव तदवभासकमिति वाच्यं तथा सति तस्यैवाधिष्ठानतया तत्सतास्पूर्तिरूपत्वसंभवे जडस्याधिष्ठानत्वाभ्युपगमायोगात् | तर्हि तदेवाधिष्ठानमस्त्विति चेन्न तत्राप्यनुपपतिसत्वादित्याह | नन्वित्यादिना | अनवछिन्नचैतन्यस्वाधिष्टानत्वपक्षे स्वाप्नगजादेर्देहात् | बाह्य देहस्थत्वं वक्तव्यं तथा च तस्य किं साक्षि भास्यत्व मैंद्रियकत्वं वा नाद्य इत्याह | अहंकारेति | साक्षिण इति पंचमी विछेदोक्त्या साक्षिणः स्वप्नगजदिनासहस्वतः संसर्गाभावो दर्शितः | अंतःकरणवृतिसंसर्गमनपेक्ष्यस्वाप्नगजादेस्तेन प्रकाशस्य तत्संसर्गमपेक्ष्यतेन प्रकाशस्य चायोगादिति संबंधः तेनेति पदद्वयं साक्षि परं यथा सुखादेः सुखादि गोचरांतःकरणवृति संसर्गमनपेक्ष्यतेन प्रकाशः तथा तेन स्वाप्नगजादेः प्रकाशायोगादित्यर्थः | द्वितीयं निरस्यति | चक्षुरादीनामिति | द्वितीय इति अहमनुभवगोचराहंकारोपहितचैतन्यस्य स्वप्नाध्यासाधिष्ठानत्व प्. ५७ब्) पक्ष इत्यर्थः | किं गजादेस्तादात्म्येन तत्राध्यासः किं वा अधारोधेय भावसंसर्गेण आद्यं दूवयति इदं रजतमिति वदिति द्वितीयं निराकरोति | अहंसुखीति | वदिति | द्वितीये अहंगज इत्यहं गजवानिति बाध्यास प्रसंगादिति योजना || अत्र केचिदाद्यपक्षं समर्थयंते | अहंकारानवछिन्नं चैतन्यं न देहाद्बहिः स्वाप्नप्रपंचस्याधिष्ठानमुपेयते किंतु तदंतरेव | अत एव दृश्यमान परिमाणोचित देशसंपत्यभावान्स्वाप्नगजादीनां मायामयत्वमुच्यते | एवं चांतःकरणस्य देहाद्बहिरस्वातेत्र्या जागरणे बाह्यशुक्तीदमंशादि गोचरवृत्युत्पादाय चक्षुराद्यपेक्षायामपिंदहांतरं तष्करणस्य स्वतंत्रस्य स्वयमेववृतिसंभवाद्देहांतरं तष्करणवृत्यभिव्यक्तस्यानवछिन्नचैतन्यस्याधिष्ठानत्वेन काचिदनुपयतिः | अत एव यथा जागरणं संप्रयोगजन्यवृत्यभिव्यक्त शुक्तीदमंशावछिन्नचैतन्यस्थिता विद्यारूप्याकारेण विवर्तते तथा स्वप्नेपि देहस्यांतरंतःकरणवृतो निद्रादिदोषोपेतायामभिव्यक्त चैतन्यस्थाऽविद्याऽदृष्टोद्बोधित नानाविषयसंस्कार सहिता प्रपंचाकारेणविवर्ततामिति विवरणोयन्यासे प्. ५८अ) भारतीतीर्थवचनमिति | अन्ये त्वनवछिन्नचैतन्यं न वृत्यभिव्यक्तं सत्स्वाप्नप्रपंचस्याधिष्ठानं | अशब्दमूलकानवछिन्नचैतन्यगोचरवृत्युदयास भवात् | मूल टीका | अहंकारानवाछिन्नेति | अविद्यायां बिंबभूतमीश्वरचैतन्यमिहानछिन्नचैतन्यं विवक्षितमीश्वरचैतन्यस्यैव सर्वाधिष्ठानत्वान्नाविद्याप्रतिबिंबरूपं जीवचैतन्यं तस्यानुपादानत्वादिति बोध्य व्यांतरचैतन्यस्यैवाधिष्ठानत्वे नियामकमाह | व्यत एवेति | आंतरं चैतन्यस्याधिष्ठानत्वोपगमादेवेत्यर्थः | स्वप्नकाले दृश्यमानपरिमाणवतां गजादीनां शरीरस्यांतरुचित देश संपत्यभावात् | प्रातिभासिकत्वमुच्यते सूत्रकारादिभिः शरीराद्बाह्यचैतन्यस्याधिष्ठानत्वे तु जाग्रद्गजादीनामिव स्वाप्नगजादीनामपि योग्यदेशलाभाद्व्यावहारिकत्वमेव स्यात् | तथा च सूत्रादि विरोध इत्यर्थः | एवं चेति | आंतरस्यैव चैतन्यस्य स्वप्नाध्यासाधिष्ठानते प्रमाणसिद्धे सतीत्यर्थः | ननु शरीरांतगंतस्यापि ब्रह्मचैतन्यस्यावतत्वात् | तत्राध्यस्तानां स्वाप्नगजादीनामनवभासप्रसंगः | न चांतःकरणवृत्यावरणनाशे सति तेषामवभासः संभवतीति वाच्यै स्वप्ने चक्षुरादीनामुपरतत्वेन वृत्यसंभवान्न च स्वयमैवांतःकरणवृतिस्तदा संभवतीति वाच्यं | जागरणेपि तथा प्रसंगेन तदापि चक्षुराद्यपेक्षाभावप्रसंगादित्यत आह | अंतःकरणस्येति स्वयमेवेति | चक्षुरादिके मनपेक्ष्येवेत्यर्थः | न काचिदिति अभिव्यक्तचैतन्यस्येवांतरस्यैवाधिष्ठानत्वोपगमेन स्वप्नप्रपंचस्यावभासानुपपतिर्वा प्रातिभासिकत्वानुपपतिर्वा नास्तीत्यर्थः | अंतःकरणवृत्यभिव्यक्तचैतन्य प्. ५८ब्) स्याधिष्ठानते संमतिमाह | अत एवेति | अंतःकरणवृत्यभिव्यक्तै चैतन्यै सदासुलभे सदास्वप्नाध्यास प्रसंग इत्यत आह | निद्रादीति | पीतोद्रेकादिरादिपदार्थः | दोषोपप्लुतायां वृतावभिव्यक्तं यच्चैतन्यं तत्र विद्यमानाविद्येत्यर्थः | स्वप्नप्रपंचवैविचित्र्यप्रयोजकमाह | नानाविषयेति | जागरणे नानाविधविषयानुभवजनिताः संस्काराः अंतःकरणे तिष्ठंति तैरदृष्टोद्बोधितैः सहिता विद्याविचित्रप्रपंचाकारेण परिणमत इत्यर्थः | इदानीमविद्यायां प्रतिबिंबभूतमनवछिन्न जीवचैतन्यमेवाधिष्ठानमिति मतांतरमाह | अन्ये त्विति | पूर्वमते अनुपपतिमाह | अनवछिन्नचैतन्यमिति | बिंबभूतमितिशेषः अशब्दमूलकेति | शुद्धब्रह्मण इव ईश्वरचैतस्यापि शास्त्रैकराम्यत्वादितिभावः || अहंकाराद्यवछिन्नचैतन्य एवाहमाकारवृत्युदय दर्शना तस्मात् स्वतो परोक्षमहंकाराद्यनवछिन्नं चैतन्यं तदधिष्ठानं | अत एव संक्षेप शारीरके | अपरोक्षरूपविषयभ्रमधीरपरोक्षमास्पदमपेक्ष्य भवेत् | मनसा स्वतो नयनतो यदि वा स्वप्नभ्रमादिषु तथा प्रथितेः | इति श्लोकेनापरोक्षाध्यासापेक्षितमधिष्ठानापरोक्ष्यं क्वचिन्मानसवृत्या क्वचिद्बहिरिंद्रियवृत्येत्यभिधाय स्वतो परोक्षाविति | रत्रविभ्रमेस्तथापि रूपाकृतिरत्र जायते | मनो निमित्रं स्वपने मुहुर्मुहुर्विनापि चक्षुर्विषयं स्वमास्पदम् | मनोवगम्येप्यपरोक्षताबलात्तथाम्वटे प्. ५९अ) रूपमुपोलिखन्भ्रमः सितादिभेदैर्वहुधा समीक्ष्यते तथाक्षिगम्ये इजतादि विभ्रम इत्याद्यनंतरश्लोकेन स्वप्नाप्यासे स्वतोधिष्ठानापरोक्ष्यमुदाहृते न चाहकारानवछिन्नचैतन्यमात्रमावृतमिति वृतिमतरेण न तदेभिव्यक्तिरिति वाच्यं ब्रह्मचैतन्यमेवावृतमविद्याप्रतिबिंबजीवचैतन्यमहंकारा- नवछिन्नमप्यनावृतमित्यभ्युपगमात् || नन्वऽनवछिन्नेप्यविद्या प्रतिबिंबरूपजीवचैतन्ये शब्दनिरपेक्षाहमाकारवृत्युदयदर्शनात् | ब्रह्मचैतन्येपि तथा किं न स्यादिति नेत्याह | अहंकाराद्यवछिन्नचैतन्य इति | इयं विषय सप्तमी आदिपदं शरीरादि संग्रहार्थं न त्वहंकाराद्यनवछिन्न जीवचैतन्य इत्येव कारार्थः | जीवचैतन्यस्यापि व्यापकत्वं त्वं पदार्थशोधक श्रुति तदनुकूलन्यायगम्य मेवेति दृष्टोता सिद्धिरिति भावः | तस्मादिति बिंबभूतानवछिन्नब्रह्मचैतन्यस्याभिष्ठानत्वासंभवादित्यर्थः | स्वत इति वृतिमंतरेणैवाभिव्यक्तमित्यर्थः | चैतन्यमिति | पूर्वमत इव आंतरमेवेतिशेषः | अत एवेति | स्वतोपरोक्षचैतन्यस्यैव स्वप्नाध्यासाधिष्ठानत्वेन स्वीकारादेवेत्यर्थः | अपरोक्षरूपाविषयस्य शुक्तिरजतादेर्याभ्रमरूपाधीः सा अपरोक्षाधिष्ठानमपेक्ष्य भवति | यद्वा अपरोक्षरूपस्य विषयस्य शुक्तिरजतादिर्या भ्रमरूपाधीः सेत्यर्थः | तच्चाधिष्ठानापरोक्ष्यं केन भवतीत्यत आह | मनसेत्यादिना मनसा स्वतो प्. ५९ब्) वा यदि वा नयनत इति योजना | तत्र प्रमाणमाह | स्वप्नभ्रमादिषु तथा प्रथितेरिति | अन्वयादिना तथा प्रतीतेरित्यर्थः | तथाहि शुक्तीदमंशस्य नयनसंनिकर्षे सति तस्य रजताध्यासापेक्षितमापरोक्ष्यं भवति नान्यथेत्यन्वयव्यतिरेकाभ्यां क्वचिदधिष्ठानापरोक्ष्यं नयनत इति प्रथितेः | तथा गगननैल्याष्वध्यासापेक्षितं गगनावछिन्नचैतन्यरूपाधिष्ठानापरोक्ष्यं मनसा संभवतीति गम्यते | मत्रसेत्यनेन गगनावछिन्नचैतन्यव्यंतिकादि गोचरचाक्षुष वृतिर्विवक्षितानीरूपगगनगोचरचाक्षुष वृतेरसंभवाच्चक्षुरुन्मीलनानंतरमेव नीलं नभ इत्यादि प्रत्यक्षं नान्यथेत्यन्वयव्यतिरेकाभ्यां गगनचैतन्याभिव्यक्तौ चाक्षुषवृतेरुपयोगावगमाच्च तथा च फलबलादन्याकारवृत्याप्यन्यावछिन्नचैतन्याभिव्यक्तिरिष्यत इदं चाद्वैत दीपिकादौ प्रपंचितमिति बोध्यं उदाहृत श्लोकस्य तात्पर्यमाह | इति श्लोकेनेति | अत्रेति | प्रकृते विभ्रमे स्वप्नाध्यासरूपे स्वतोपरोक्ष चैतन्यमधिष्ठानमित्यर्थः | अत एव संक्षेपशारीरके स्वप्नाध्यासे स्वतोधिष्ठानापरोक्ष्यमुदाहृतमिति संबंधः स्वप्नाध्यासाधिष्ठानचैतन्यापरोक्षस्य स्वतः सिद्धत्वमाक्षेप समाध्यनाभ्यां दर्शयति | न चाहंकारानवछिन्नेति | मात्रपदं कार्त्स्नार्थकं तथा च शरीरांतर्गतमपि चैतन्यमावृतमेवेति भावः वृतिमिति वृतिरप्यनवछिन्नगोचराशब्दमतरेण न संभवतीति प्रागुक्तमिति ध्येयं | अनावृतमिति | तदेव स्वप्नाध्यासाधिष्ठानमितिभावः | ननु सर्वगतस्य जीवचैतन्यस्यांनावृतत्वे तस्य घटादिविषयदेशे सदा सत्वेन प्. ६०अ) चाक्षुषादिवृतिमनुपेक्ष्य सदासर्वविषयावभासप्रसंग इति चेन्न सर्वत्र विद्यमानस्यापि तस्यानुपदानतया घटादि विषयैः सह संवेधा भावेन संबंधाभवेन संबंधार्थतया वृत्यपेक्षायाः प्रतिकर्मव्यवस्थाया मुक्तत्वात् || एवं चाहंकारानवछिन्नचैतन्येध्यस्यमाने स्वाप्न गजादौ तत्समनियताधिष्ठानगोचरांतःकरणादि वृति कृता भेदाभिव्यक्त्याप्रमातृचैतन्यस्यापीदं पश्यामीति व्यवहार इत्याहः | अपरे तु द्वितीयं पक्षं समर्थयंते | अहंकारावछिन्न चेतन्यमधिष्ठानमित्यहंकारस्य विशेषणभावेनाधिष्ठान कोटिप्रवेशोनोपेयते | किं त्वहंकारोपहितं तत्प्रतिबिंबरूपचेतन्यमात्रमधिष्ठानमित्यतोनाहं गज इत्याद्यनुभवप्रसंग इति एवं शुक्तिरजतमपि शुक्तीदमंशावछिन्न चैदन्यप्रतिबिंबवृतिमदंतःकरणगतेध्यस्यते शुक्तीदसंशावछिन्न बिंबचैतन्ये सर्वसाधारणे तस्याध्यासे सुखादि वदनन्यवेधत्वाभावप्रसंगादिति केचित् || ननु विद्याप्रतिबिंबरूपजीवचैतन्ये शरीरांतर्गते विशेषणत्वेनोपाधित्वेन वा अहंकारनिरपेक्षे अनवछिन्नशब्दिते स्वप्नाध्यासोपगमे सति तस्यैव स्वप्नकाले द्रष्टृत्वं स्यात् प्. ६०ब्) न तु प्रमातुः तस्याहंकार तादात्म्यापत्या तदवछिन्नस्य ततोभिन्न त्वात् न चेष्टापतिः स्वप्नकाले अहं श्रीकृष्णं पश्यामीति प्रमातुः स्वप्नपदार्थद्रष्ट्रत्वानुभवविरोधापतेरित्यत आह | एवं चेति | स्वतो परोक्षजीवचैतन्यस्याधिष्ठानत्वै सतीत्यर्थः | तत्समनियतेति | यदा गजादिरध्यस्यते तदैव तदधिष्ठान गोचरांतःकरणवृतिरविद्यावृतिर्वा जायते तथा च स्वाप्नगजाद्यधिष्ठान चैतन्यस्य वृतिद्वारावृतिमदंतःकरणसंबंधेन प्रमातृत्व प्राप्तौ सत्यां प्रमातुस्तद्द्रष्टृत्वं संभवतीत्यर्थः | अभेदाभिव्यक्त्येति | उक्त प्रकारेण प्रमातृविषयचैतन्ययोरभेदाभिव्यक्त्येत्यर्थः | द्वितीयमिति | अवछिन्नचैतन्यस्वप्नाध्यासाधिष्ठानमिति पक्षमिति पक्षमित्यर्थः | अयं गज इति प्रत्यय स्थाने अहं गज इत्यादि प्रत्ययप्रसंगवारणायाहंकारांशस्याधिष्ठानतं नांगीक्रियते चेतर्हि अनवछिन्नस्याधिष्ठानत्वमागतमिति पूर्वमताभेदे प्रसक्तिरिति शंकते | किं त्विति | अंतःकरणे चैतन्यप्रतिबिंबभूतं यज्जीवचैतन्यं तन्मात्रमधिष्ठानमुपेयते तच्च परिछिन्नमेव उपाधेः परिछिन्नत्वादिति परिहरति | अहंकारोपहितमिति | अत इति अहमुल्ले स्वप्रयोजकस्य अहंकारात्मकांतःकरणस्याधिष्ठानकोटावननुप्रवेशादित्यर्थः | अविद्यायां बिंबभूतब्रह्मचैतन्यस्य तस्यां प्रतिबिंबभूत जीवचैतन्यस्य वा स्वप्नप्रपंचाध्यासाधिष्ठानत्वमते तयोः सर्वप्रमातृसाधारणत्वात् | स्वप्नप्रपंचस्यापि साधारण्यं स्यात् | अंतःकरणप्रतिबिंबचैतन्यस्य तदधिष्ठानत्वे प्. ६१अ) तु साधारण्य प्रसंगदोषो नास्तीत्याशयेनास्य द्वितीय पक्षस्य प्रवृतिरिति बोध्यं | नन्वेवं | शुक्तिरजतादेरसाधारण्यं न स्यात् | तदधिष्ठान चैतन्यस्य साधारणोत्वादित्याशंक्यहेत्वसिद्धिमाह | एवमिति | वृतिमदंतःकरण इति | शुक्तिदमंश संसृष्टायां वृतौ शुक्तीदमंशावछिन्नब्रह्मचैतन्यस्य यः प्रतिबिंबः तस्मिन् न ध्यस्यते स च प्रतिबिंबो वृतिगत ऐव तस्य वृतिवृतिमतोरभेदोपचारात् | वृतिमदंतःकरणगतत्वोक्तिरनन्य वेद्यत्वस्फुटीकरणायेति बोध्यं | वृतिगतस्य ब्रह्मप्रतिबिंबस्य शुक्तिरजताधिष्ठानत्वानुपगमे साधारण्यप्रसंगतादवस्थामभिप्रेत्याह | शुक्तीदमंशावछिन्नेति | सुखादेरिव शुक्तिरजतादेर्यदनन्यवेद्यत्वं तस्याभावप्रसंगादित्यर्थः | देवदत्त सुखदुःखरागद्वेषादिक देवदत्तादन्यस्य वेद्यं प्रत्यक्षं न भवतीत्यनन्य वेद्यंतदित्यर्थः || केचित् तु बिंबचैतन्य एव तदध्यासमुपेत्य यदीयाज्ञानोपादानकं यत तस्यैव प्रत्यक्षं न जीवांतरस्येत्यनन्य वेद्यत्वमुपपादयंति | ननु शुक्तिरजताथासे चाक्षुषत्वानुभवः साक्षाद्वाधिष्ठान ज्ञानद्वारा तदपेक्षणाद्वासमर्थ्यते स्वाप्नगजादि चाक्षुषत्वानुभवः कथं समर्थनीयः | उच्यते न तावतत्समर्थनाय स्वाप्नदेहवद्विसयवच्चेंद्रियाणामपि प्रातिभासिको विवर्तः प्. ६१ब्) शक्यते वक्तुं प्रातिभासिकस्याज्ञातसत्वाभावात् इंद्रियाणां चातींद्रियाणां सत्वे अज्ञात सत्वस्य वश्य वाच्यत्वात् | नापि व्यावहारिकाणामेवेंद्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्नदेहमाश्रित्य स्वस्वविषयग्राहकत्वं वक्तुं शक्यते | स्वप्नसमये तेषां व्यापारराहित्यरूपोपरति श्रवणात् || अधिष्ठान चैतन्यस्य साधारणत्वेपि शुक्तिरजताद्युपादानाज्ञानस्यासाधारण्याच्छक्तिरजतादेर साधारण्यमित्याह | केचित्विति बिंबचैतन्य एवेति वृतिगत प्रतिबिंबं प्रतिबिंबचैतन्य इत्यर्थः | यद्वा अविद्याप्रतिबिंब | प्रतिबिंबभूते ब्रह्मचैतन्ये शुक्तीदमंशावछिन्न इत्यर्थः | न त्वसाधारणे वृति प्रतिबिंब इत्येव कारार्थः | यदीयेति यद्रजतं यत्पुरुर्षाया ज्ञानोपादानकं त व्रजतं तस्यैव पुरुषस्यै प्रत्यक्षं नान्यस्येति कल्पनोपपतेः | न शुक्तिरजतादेः साधारण्य प्रसंग इत्यर्थः | एव स्वप्नप्रपंचाध्यासस्याधिष्ठानं निरूप्य स्वाप्न पदार्थानुभवः किमैंद्रियकः किं वा साक्षिरूप इति संशये निर्णयाषाक्षेपमवतारयति | नन्विति साक्षाद्वेति | इदं च शुक्तिरजतादिरैंद्रियकत्वमिति कविता किंकमतानुसारेणेति बोध्य शुक्तिरजतादेः साक्षिभाष्यत्वमतानुसारेणाह | अधिष्ठानज्ञानद्वारेति धर्मिज्ञानद्वाराचक्षुर प्. ६२अ) पेक्षत्वाच्छुक्तिरजतादेरित्यर्थः | कथमिति स्वाप्नगजादि चाक्षुषत्वानुभवो हि वासना मयैरिंद्रियैर्वा व्यावहारिकेंद्रियैर्वा सूक्ष्मेंद्रियैर्वा आरोपरूपतया वा समर्थनीयतया संभाव्यते तथा च स केन प्रकारेण समर्थनीय इति प्रश्नार्थः | चतुर्थप्रकारेण तत्समर्थनं प्रतिजानीते | उच्यत इति | आद्यं प्रकारत्रयं निराकरोति न तावदित्यादिना | वासना मयैः प्रातिभासिकैः इंद्रयैः चाक्षषत्वानुभवसमर्थनप्रकारं प्रथमं दूषयति स्वाप्नदेहवदिति | स्वाप्नाश्च विषयाः प्रातिभासिकाश्चैतन्यविवर्तरूपा यथाभ्युपगम्यं तेन तथेंद्रियाणां स्वरूपभूतश्चैतन्यविवर्तः प्रातिभासिकोभ्युपगंतुं शक्यते इत्यर्थः | वाच्यत्वादिति | तेषामज्ञात सत्वनियमस्य दर्शनाद् दृष्टानुसारित्वाच्च कल्पनाया इति भावः | द्वितीयं प्रकारं निराकरोति | नापीति | ननु व्यावहारिकैरिंद्रियैः स्वाप्नगजादीनां चाक्षुषत्वानुभवसमर्थन प्रकारस्य उत्थितिरेव नास्ति तेषां जाग्रद्देहस्थत्वेन सुप्तदेहस्थत्वाभावादित्याशंक्याह | स्वस्वेति श्रवणादिति | यपषसुप्तेषु जाग्रतीत्यादि श्रुतिष्विशेषः श्रुतौ सुप्तेष्वित्यनंतरं करणेष्वितिशेषः करणानां स्वायो नाम उपरतिः सा च स्वप्नसमये व्यापार राहित्यरूपैव न तु तेषां स्वरूपोपरतिस्तस्याः सुषुप्तावेव श्रवणादिति बोध्यं || व्यावहारिकस्य स्पर्शनेंद्रियस्य स्वोचित व्यावहारिक देशसंपति विधुरेतः शरीरे स्वाधिकपरिमाणकृत्स्न स्वाप्नशरीरव्यापित्वा योगाच्च प्. ६२ब्) तदेक देशाश्रयत्वे च तस्य स्वाप्नजलावगाह न जन्य सर्वागीनशीतस्पर्शानिर्वाहात् | अत एव स्वप्ने जाग्रदिंद्रियाणामुपरतावपि तैजसव्यवहारोपयुक्तानि सूक्ष्मशरीरावयवभूतानि सूक्ष्मेंद्रियाणि संतीतितैः स्वाप्नपदार्थानामैंद्रियकत्वमित्युपपादन शंकापि निरस्ता जाग्रदिंद्रिय व्यतिरिक्त सूक्ष्मेंद्रिया प्रसिद्धेः | किं चात्रायं पुरुषः स्वयं ज्योतिरिति जागरे आदित्यादि ज्योतिर्व्यतिकराच्चक्षुरादि वृतिसंचाराच्च दुर्विवेकमात्मनः स्वयं ज्योतिष्ट्टमिति स्वप्नावस्थामधिकृत्य तत्रात्मनः स्वयं ज्योतिष्ट्टं प्रतिपादयति || त्वगिंद्रियमात्रे दोषांतरमाह | व्यावहारिकस्येति | स्वस्य स्पर्शनेंद्रियस्य उचितो यो व्यावहारिक देशः तत्संपति विधुरे शरीरस्यांतः प्रदेशे स्थितं व्यावहारिकत्वगिंद्रियपरिमाणापेक्षया कदाचिदधिकपरिमाणवत्स्वाप्नदेहं कृत्स्नं न व्याप्नुयात् | त्वगिंद्रियमित्यर्थः | व्यावहारिक स्पर्शनेंद्रियस्योचित देशकालसंपति वैधुर्यविशेषणेन तस्य स्वप्न देहप्रवेशायांतः शरीरे गमनमेव न संभवतीति सूचितं | प्. ६३अ) यदि व्यावहारिकस्पर्शनेंद्रियस्य कृत्स्नस्वाप्नदेहव्यापित्वा योगस्तहि स्वाप्नदहैकदेशाश्रयत्वमेवास्त को दोषस्तत्राह | तदेक देशेति | तस्येति | स्पर्शनेंद्रियस्येत्यर्थः | तृतीयं प्रकारं निराकरोति | अत एवेति | व्यावहारिकस्पर्शनैंद्रियस्यैव स्वाधिकपरिमाण कृत्स्न स्वप्नशरीरव्यापित्वायोगे सति तदवयवभूतसूक्ष्मस्पर्शनेंद्रियस्य सुतरां स्वप्नदेहव्यापित्वायोगादेवेत्यर्थः | तैजसः स्वप्नावस्था गतो जीवः सूक्ष्मशरीरशब्देन व्यावहारिकाण्येकादशेंद्रियाण्युच्यंते | स्पर्शनेंद्रियमात्रे दोषमति देशेन दर्शयित्वा साधारणदोषमाह जाग्रदिंद्रियेति | नन्व प्रसिद्धान्यपि स्वप्नकाले पदार्थानां चाक्षुषत्वाद्यनुभवानुरोधेन कल्प्यंत इत्याशंक्यश्रुतिविरोधान्नैवमित्याह | किं चात्रेति | श्रुतावत्रेति पदेन स्वप्नावस्थाग्रहणस्य तात्पर्यमाह | जागर इति | जागरे कार्यकारणसंघातानामासनममनागमनादिलक्षणव्यवहार साधनत्वेनादित्यादि ज्योतींपि व्यवहिषमाणपदार्थैः सहसंकीर्णानिविष्टंति तथा व्यवहारसाधनत्वेनैव चक्षुरादि जन्यावृतयो विषयदेशं प्रतिगछंतीत्यर्थः | व्यतिकरः स्वंपर्कः संसर्ग इति यावत् | जागरे दुर्विवेकमिति संबंधः | दुःखेन षिवेको निर्णयो यस्य तदुर्विवेकमनायासेन निर्णेतुमशक्यमिति यावत् | आत्मनः स्वयं ज्योतिष्टां नाम अन्यानवभास्यत्वे सति स्वव्यतिरिक्त सकलावभासकत्व योग्यत्वं तच्च जागरे गृहीतुमशक्यंतेथा ह्यात्मव्यतिरिक्तस्य सर्वस्यात्ममात्रावभास्यत्वं न वक्तं शक्यते | आदित्यादि ज्योतिषां चक्षुरादि जन्यवृतिज्ञानानां च लोके जगदवभासकत्वेन प्रसिद्धानां प्. ६३ब्) सत्वादात्मनोप्यहमिति ज्ञानप्रकाशत्वेन तस्यान्यानवभास्य त्वस्य वक्तुमशक्यत्वाच्चेति शंकायाः | जागरे परिहर्तुमशक्यत्वे जागरे स्वयं ज्योतिष्टनिर्णयायोगात् | स्वप्नावस्थायां तु जागरणे प्रसिद्धानामादित्यादि ज्योतिषां चक्षुरादिजन्य ज्ञानानां चाभावादात्मचैतन्यमात्रावभास्यं स्वाप्नजगदिति निर्णयः संभवति | तथाहमिति ज्ञानं वृतिरूपमात्मनः प्रकाशकं न भवतीति वक्ष्यते | तथा च अन्यानवभास्यत्वे सति सकलजगदवभासकत्वयोग्यत्व रूपं स्वयं ज्येतिष्ट्वमात्मनः स्वप्नावस्था साक्षित्वेन निर्णेतुं शक्यमित्यर्थः | ननु स्वप्नदशायामेव तस्य स्वयं ज्योतिष्ट्वं न त्ववस्थांतर इति यथा श्रुतार्थ एव श्रुतेस्ता || अन्यथा तस्य सर्वदा स्वयं ज्योतिष्ट्टंःत्रेति वैयर्थ्यात् | तत्र यदि स्वप्नेपि चक्षुरादि वृतिसंचारः कल्प्येत तदा तत्रापि जागर इव तस्य स्वयं ज्योतिष्टं दुर्विववेचं स्यादित्युदाहृता श्रुतिः पीड्येत | ननु स्वप्ने चक्षुरायुपरमकल्पनेर्प्यतः | करणमनुपरतमास्त इति परिशेषा सिद्धेर्न स्वयं ज्योतिष्ट्व विवेकः मैवं कर्ता शास्त्रार्थवत्वादित्यधिकरणे न्यायनिर्णयोक्तरीत्यांतःकरणस्य चक्षुरादिकरणांतर निरपेक्षस्य ज्ञानासाधनत्वाद्वा तत्वप्रदीपकोक्तरीत्या प्. ६४अ) स्वप्ने तस्यैव गजाद्याकारेण परिणामेन ज्ञानकर्मतयावस्थित त्वेन तदानीं ज्ञानसाधनत्वायोगात् वा परिशेषोपपतेः | न च स्वर्मेतःकरणवृत्यभावे उत्थितस्य स्वमदृष्टगजाद्यनुसंधानानुपपतिः सुषुप्ति कॢप्तया विद्यावृत्या तदुपपतेः | सुषुप्तौ तदवस्थोपहितमेव स्वरूपचैतन्यमज्ञानसुखादि प्रकाशः उत्थितस्यानुसंधानमुपाधिभूतावस्थाविनाशजन्यसंस्कारेणेति वेदांत कौमुद्यभिमते सुषुप्तावविद्यावृत्यभावपक्षे इहापि स्वाप्नगजादिभासिक चैतन्योपाधिभूत स्वप्नावस्था विनाशजन्य संस्कारादनुसंधानोपपतेश्च || त्यर्यं किं न स्यादिति नेत्याह | अन्यथेति | श्रुतेः स्वप्नावस्थामाश्रित्य तत्साक्षित्वेन स्वयंज्योतिष्ट्वमात्मनः | स विवेकमिति तात्पर्याकल्पन इत्यर्थः | सर्वदेति तमेव भातमनुभाति सर्वमित्यादि श्रुति पर्यालोचनया तस्य सर्वदा स्वयंज्योतिष्ट निश्चयादिति भावः | अत्रेतीति | अत्रेति विशेषणस्य व्यावर्तकत्वा संभवेन व्यर्थत्वं स्यादतो न यथा श्रुतार्थे तात्पर्यं किं तूक्तार्थे तात्पर्थेमिति भावः | एवं श्रुति तात्पर्यं निरूप्य स्वप्नकाले चक्षुरादि व्यापार कल्पनं प्. ६४ब्) तद्बाधितमित्याह | तत्रेति | स्वयं ज्योतिष्टं स्वप्नावस्था साक्षित्वेन सुगममित्यत्र श्रुति तात्पर्यं सिद्धे सतीत्यर्थः | ननु स्वप्नजगतोवभासकांतराभावादात्ममात्रभास्यत्वमित्युक्तमयुक्तमिति शंकते | नन्विति | अनुपरतमास्त इतीति तथा च मनस एव स्वाप्नजगदवभासकत्व संभवादवभासकांतराभावरूपपरिशेषा सिद्धिरित्यर्थः | स्वप्नावस्थायां स नमोज्ञोनकरणत्वमसिद्धमतस्तस्य स्वाप्नजगदवभासकत्वासंभवात् परिशेषसिद्धिरिति परिहरति | मैवमिति | आत्मा कर्ता भवतु मर्हति तथा सति कर्ता विज्ञानात्मापुरुष इत्यादि शास्त्रस्यार्थवत्वोपपतेरिति सूत्रार्थः | उक्तरीत्येति | मनस उपादानत्वेन स्वतो ज्ञानकरणत्वं नास्तीत्युक्तरीत्येत्यर्थः | तत्वप्रदीपकोक्तरीत्येति स्वप्ने मनस एव विविध सस्कारविशिष्टस्य स्वप्नप्रपंचाकारेण परिणामित्वं | न त्वविद्यायास्तस्याः संस्काराश्रयत्वाभावेन विचित्रपदार्थपरिणामित्वायोगादित्युक्तरीत्येत्यर्थः | कर्मतयेति | विषयत्वेनैवोपक्षीणस्य विषयित्व रूपप्रकाशकत्वाभावादित्यर्थः | तदानीमित्यनेन अस्त वा जागरणे ज्ञानकारणत्वं तथापि स्वप्ने तन्नोपेयते तस्य विषयत्वेनैवावस्थितत्वादिति सूचित अनुपपतिरिति संस्काराभावादितिभावः | ननु सुषुप्तावपि अविद्यावृतिर्न कल्पनीया सुषुप्त्यादि साक्षि चैतन्यस्यतित्यत्वेपि साक्षि भास्यायाः सुषुप्त्यवस्थायाः विनाशित्वेन विषयभूतसुषुप्त्यवस्थाविशिष्टवेषेण तत्साक्षिणो नाशलक्षणसंस्कारसंभवात् सुषुप्तिसुखादीनामनुसंधानोपपतिरिति चेतर्हि स्वप्न प्. ६५अ) साक्षिणोपि प्रातिभासिकविषयविशिष्टवेषेण नाशलक्षणसंस्कार संभवात् | स्वप्नदृष्टगजाद्यनुसंधानोपपतिरित्याह | सुषुप्ताविति | तत्पदं सुषुप्तिपरं अज्ञानसुखादि प्रकाश इति | अज्ञानाद्यनुभव इत्यर्थः | इहापीति | स्वप्नावस्थायामपि इत्यर्थः | उपाधि भूतेति विषयतया उपाधिभूतेत्यर्थः || अथवा तदेतत्सत्वं येन स्वप्नं पश्यतीत्यादि श्रुतेरस्तु स्वप्नेपि कल्पतरूक्तरीत्या स्वाप्नगजादिगोचरांतःकरणवृतिः | न च तावता परिशेषासिद्धिः अंतःकरणस्याहमिति गृह्यमणस्य सर्वात्मना जीवैक्येनाध्यस्ततयालोक दृष्ट्या तस्य तद्यतिरेकाप्रसिद्धेः | परिशेषार्थ चक्षुरादि व्यापाराभावमात्रस्यैवापेक्षितत्वात् | प्रसिद्धदृश्यमात्रं दृगवभासयोग्यमिति निश्चय सत्वेन परिशेषार्थमन्यानपेक्षणात् | तस्मात् स्वप्ने सर्वथापि चक्षुरादि व्यापारासंभवात् स्वाप्न गजादौ चाक्षुषत्वाद्यनुभवो भ्रम एव ननु स्वप्नेपि चक्षुरुन्मीलने गजाद्यनुभवस्तन्निमीलनेनेति जागर इव गजाद्यनुभवस्य चक्षुरुन्मीलिनाद्यनुविधान प्रतीयते इति चेत् चक्षुषारजतं पश्यामीत्यनुभववदयमपि कश्चित् स्वाप्न भ्रमो भविष्यति यत्केवलसाक्षिरूपे प्. ६५ब्) स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधान तदनुविधाधिनीवृतिर्बाध्यस्यते किमिव हि दुर्घटमपि भ्रमं माया न करोति विशेषतो निद्रारूपेण परिणता यस्या माहात्म्यात् स्वप्ने रथः प्रतीतः क्षणेन मनुष्यः प्रतीयते स च क्षणेन मार्जारः स्वप्नद्रष्टश्च न पूर्वापरविरोधानुसंधानं जागर इव स्वप्नेपि गजादिगोचरांतःकरणवृतिरेवोपेयते | अतो न संस्काराभावशंकावकाशः | न च तदंतःकरणवृतिसत्वे परिशेषा सिद्धिरिति वाच्यं परिशेषस्यापि लोकदृष्ट्या उपपतेरिति मतांतरमाह | अथवेति सत्व शब्दितांतःकरणस्य तृतीया श्रुत्यास्वाप्नगजादिगोचरज्ञानकरणत्वं भाति तथा च श्रुतिं प्रामाण्यात् स्वप्ने चक्षुरादिजन्य वृत्यभावेपि मानसवृतिरस्ति | अतो न संस्कारानुपपतिरिति कल्पतरूक्तरीत्येत्यर्थः | तावता इत्यस्य अंतःकरणवृति सद्भावमात्रेणेत्यर्थः | अंतःकरणस्य सर्वात्मना जीवचैतन्यैकेनाध्यस्ततया अहं पश्यामीत्यादिरूपेण द्रष्टतया गृह्यमाणस्य तस्यांतःकरणस्याज्ञ दृष्ट्या तस्माच्चिदात्मनः सकाशाद्भेदा प्रसिद्ध्यापरिशेषार्थं लोकप्रसिद्ध द्रष्ट्टव्यतिरिक्तं करणादि व्यांपाराभावस्यैवापेक्षितत्वा तावता परिशेषा सिद्धिर्न चेत्यर्थः | एतदुक्ते भवति अंतःकरणवृतिलक्षणो व्यापारो वस्तुतःकरण व्यापारोपि प्रतीतितो द्रष्टव्यापारो भवति | अंतःकरणस्य द्रष्टत्वेन गृहीतत्वाल्लोकैरिति स्वयं ज्योतिष्ट्वनिर्णयप्रकारं दर्शयति | प्. ६६अ) प्रसिद्धेति | पूर्वमुच्यत इत्यनेन सूचितां स्वाप्न पदार्थेषु चाक्षुषत्वाद्यनुभवस्य गतिमिदानीं प्रपंचयति तस्मादिति पंचमीं व्याचष्टे | सर्वथति | पूर्वोक्त सर्वप्रकारैरपीत्यर्थः | स्वप्नानुभवस्य साक्षिरूपत्वे चक्षुराद्यनुविधानविरोधमाशंक्य दृष्टांतेन समाधते | स्वप्नेत्यादिना | तदनुविधायिनीति | जागरे चक्षुराद्यनुविधायिनीया प्रसिद्धावृतिः सा स्वप्नसाक्षिण्यध्यस्यत इति यथा श्रुतार्थो न ग्राह्यः अन्यथा ख्याति प्रसंगात् | किंतु तदेतत्सत्वं येन स्वप्नं पश्यतीति श्रुत्यनुसारेण कल्पतरुकारैयां गजादिगोचरमानसवृतिरुपेता तस्यां तदनुविधायित्वं वाप्यस्यत इत्यर्थः | तथा च केवलसाक्षिरूपे स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधायिनी वृतिर्वा तत्राध्यस्यत इति यतच्च भ्रममात्रमित्यर्थः | नन्वै तावान्भमो दुर्घट इत्याशंक्याह | किंमिवहाति दुर्घटमपि भ्रमं माया किमिव न करोतीति संबंधः | किमिव केन दृष्टांतेन न करोति दुर्घटाकरणे मायाया दृष्टांतो नास्तीत्यर्थः | प्रत्युत तस्यास्तत्कारित्वमैंद्रिजालिक मायादौ प्रसिद्धमिति हि शब्दार्थः | वियदादि प्रद्यं च भ्रमहेतुभूता माया दुर्घटमपि प्रपंच भ्रमं व्यवस्थितरूपं घटयति निद्रारूपेण परिणता तु सा ततो विलक्षणमेव भ्रमं कारयतीति मत्वाविशेषत इत्युक्तं | यस्या इति निद्रारूपेण परिणताया इत्यर्थः || तस्मादन्वयाद्यनुविधानप्रतीति तौल्येपि जाग्रद्गजाद्यनुभव एव चक्षुरादि जन्यो न स्वाप्न गजाद्यनुभवः दृष्टि सृष्टि वादिनस्तु कल्पितस्याज्ञातसत्वमनुपपन्नमिति कृत्स्नस्य जाग्रत्प्रपंचस्य प्. ६६ब्) दृष्टि समसमयां सृष्टिमुपेत्य घटादि दृष्टेश्चक्षुः सन्निकर्षानुवियान प्रतीतिं दृष्टेः पूर्वे घटाद्यभावेनासंगछमानां स्वप्नवदेवसमर्थयमानाजाग्रद्गजाद्यनुभवोपि न चाक्षुष इत्याहुः | ननु दृष्टि सृष्टिमवलंव्यकृत्स्नस्य जाग्रत्प्रपंचस्य कल्पितत्वोपगमेकस्कल्पको निरुपाधिरात्मावा विद्योपहितो वा नाद्यः | मोक्षेपि साधनांतर निरपेक्षस्य कल्पकस्य सत्वेन प्रपंचानुवृत्या संसाराविशेषप्रसंगात् | न द्वितीयः अविद्याया अपि कल्पनीयत्वेन तत्कल्पनात् प्रागेव कल्पकसिद्धेर्वक्तव्यत्वात् | अत्र केचिदाहुः पूर्व पूर्वकल्पिताविद्योपहित उतरोतराविद्याकल्पकः | अनिंदं प्रथमत्वाच्च कल्पककल्पनाप्रवाहस्य नानवस्थादोषः | न चाविद्याया अनादित्वोपगमाच्छुक्तिरजतवत कल्पितत्वं न युज्यते || स्वप्ने चाक्षुषत्वाद्यनुभवस्य गतिनिरूपणमुपसंहरति | तस्मादिति | स्वप्ने चक्षुरादि व्यापारासंभवादित्यर्थः | ये त्वधिकारिणो बहुविधज्ञानकर्मानुष्ठानासादितनिरतिशय परमेश्वरप्रसादमहिम्नानितांत निर्मलीकृतांतःकरणाः प्. ६७अ) संतः जागरेपि स्वप्नाद्विशेषं न पश्यंतिता न ब्रह्मविद्याकामानधिकृत्य प्रवृतां कृत्स्नस्य जगतः प्रबोधस्वापावस्थायोः प्रभव प्रलय प्रतिपदिकां श्रुति मनुसृत्य दृष्टि सृष्टिवादाः पूर्वाचार्यै निरूपितः तं स्वप्न विचारेण बुद्धिमागतं दर्शयति | दृष्टि सृष्टि वादिनस्त्विति दृष्ट्या सह समः समयो यस्याः सा तादृष्टिं कृत्स्नस्या जाग्रत्प्रपंचस्योपेत्येत्यत्र पूर्ववाक्येन हेतुमाह | कल्पितस्येति | स्वाप्नप्रपंचस्येवेत्यर्थः | घटादिदृष्टेर्या अनुविधानप्रतीतिः तामसंगछमानां स्वप्नवदे भ्रममात्ररूपा समर्थयमाना इति संबंधः | असंगछमानत्वे हेतुर्दृष्टेः | पूर्वं घटाद्यभावेनेति | तत्र हेतु दृष्टिसमसमयासृष्टिः न चाक्षुष इति किं तु स्वप्नानुभववदेव केवलसाक्षिरूप इत्यर्थः | कल्पितत्वोपगम इति प्रातिभासिकत्वोपगम इत्यर्थः | कं शब्दसूचितं विकल्पं दर्शयति निरुपाधिरिति निरपेक्षश्चिदात्मैव संसारकल्पक इति प्रथमकल्पं दूषयति | मोक्षेपीति अनुवृत्येति | अनुवृत्यापत्येत्यर्थः | अविद्याया अपीति | तस्या अपि कादाचित्कत्वाभ्युपगमे अ अविद्यासृष्टेः पूर्वमेवाविद्योपहितस्य चिदात्मनो विद्यादिकल्पकस्य वक्तयत्वातदभावादविधादि सृष्टिं न संभवति | तथा च सदासंसारानुपलंभ प्रसंग इति भावः | नन्वेवमपि प्रथमाविद्यायाः कः कल्पकः तत्राह अनिदमिति | इदं प्रथमत्वाभावात् प्रथमाविद्यैव काचिन्नास्ति अतो न चोद्या च काश इति भावः | तर्ह्य नवस्थेत्योशंक्यसान दोषाया विद्योपहितात्मनः प्रपंच कल्पकत्वेनश्चति प्. ६७ब्) सिद्धस्य पूर्वपूर्व अविद्यां विना तत्कल्पकत्वनिर्वाहाभावादित्याशयेवाह | नानवस्थादोष इति | ननु जीव ईशो विशुद्धावित् तथा जीवेशयोर्भिदा अविद्यातच्चितोर्योगः षडस्माकमनादय इति सिद्धांतविरुद्धमविद्यायाः प्रवाहानादित्व कल्पनं तस्याः स्वरूपानादित्वस्यैव सिद्धांतसंग्रहश्लोके चैतन्यवत् प्रतीतेरिति शंकते | न चेति || अन्यथा साषनादि विभागानुपपतेरिति वाच्यं | यथा स्वप्ने कल्पमानं गोपुरादि किंचित् पूर्वसिधत्वेन कल्पते | किं वितदामीमुत्पाद्यत्वेन एवं जागरेपि किंचित्कल्प्यमानं सादित्वेन कल्पते | किंचिदन्यथेत्येतावता साद्यनादि विभागोपपतेः | एतेन कारणविभागोपि व्याख्यात इति अन्ये तु वस्तुतो नाद्येवा विद्यादि तत्र दृष्टिसृष्टिर्नोपेयते | किंतु ततोन्यत्र प्रपंचमात्र इत्याहु | नन्वेवमपि श्रुतिमात्र प्रतीतस्य वियदादि सर्गतत् क्रमादेः कः कल्पकः न कोपि किमालंवना तर्ह्यात्मन आकाशः संभूत इत्यादि श्रुतिः निष्प्रपंच ब्रह्मात्मैक्यावलंवनेत्यवे हि || सिद्धांतमुल्लंघ्यप्रवृतावपि दोषमाह | अन्यथेति | अविद्यादीनां प्. ६८अ) स्वरूपानादित्वानुपगम इत्यर्थः | अनुपपतेरिति | उक्तविभागस्य लोकशास्त्रसिद्धत्वादिति भावः | श्रुत्यैकसमधिगम्य विशुद्ध चैतन्य व्यतिरिक्तमात्रे दृष्टिसृष्टिमुपेत्यैव साद्यनादि विभागबोधक लौकिक वैदिक प्रमाणां सिद्धांत प्रवादस्य चावलंबनत्वेन भ्रमविशेषं सदृष्टांतमाह | यथोत्पादिना | किंचिदन्यथेति | किंचिद विद्यादिकमन्यथा नादित्वेन कल्पाते पूर्वपूर्वाविद्योपहितेनात्मनेत्यर्थः | एतावता कल्पनामात्रेणेत्यर्थः | ननु प्रत्यक्षे विषयस्य कारणतया घटादि दृष्टेः पूर्वमज्ञातो घटादिर्वाच्यः | अन्यथा कार्यकारणविभागोमस्या तथा अविद्योपहितस्य चिदात्मन एकस्यैव स्वस्मिन् संसारकल्पकत्वे संसारवतो जीवस्यैकत्वेन गुरुशिष्यविभागो देव तिर्यऽऽन्मनुष्यादि विभागश्च न स्यादित्यत आह | एतेनेति | साद्यनादिविभागोपपति कथनेनेत्यर्थः | व्याख्यात इति वस्तुतः प्रत्यक्षे विषयस्याकारणत्वेपि सः तत्कारणत्वेन कल्पते | तथा अन्यदपि स्वप्न वदेव सर्वमूह्यमित्यर्थः | कल्पकस्याविद्योपहितस्यानंत्य परिहाराय साद्यनादिविभागांजस्याव च दृष्टिसृष्टेः संकोचमाह | अन्ये त्विति | वस्तुत इति स्वरूपत इत्यर्थः | तर्हि दृष्टिसृष्टिः कुत्रापि नोपेयामानाभावादिति शंकते किं त्विति स्वापप्रबोधयोः कार्यप्रपंच मात्रस्य प्रलयप्रभव प्रतिपादक बहुश्रुतिसिद्धत्वान्नैवमिति परिहरति | ततोन्यत्रेति | अविद्यादेः सकाशादितिशेषः मात्रपदं कृत्स्नार्थकं | ननु दृष्टिसमय एव प्रपंच सृष्टिरिति मतेपि प्. ६८ब्) दृष्टिशब्देन प्रत्यक्षप्रतीतिरेव विवक्षिता न परोक्ष प्रतीतिः | अपरोक्ष प्रतीतिरेव विषया विना भूतत्वेन प्रातिभासिक विषय साधकत्वात् | परोक्ष प्रतितेश्चा तथा त्वात् तथा स्थिते सति बाधकमाशंकते | नन्वेवमपीति | अविद्योपहितस्यात्मनः प्रत्यक्षवस्तुकल्पकत्वेपीत्यर्थः | यदि वियदादिसर्गः श्रुत्याप्रत्यक्षेण च प्रतीतो भवे तदा प्रत्यक्ष वलाद्घटादेरिव तस्यापि प्रातिभासिकत्वस्य सिद्धिः संभवेन्नत्वे तदस्तीत्याशयेन मात्रं पदं दतं वायादिसंग्रहार्थं प्रथममादिपदं वियदादि प्रलय तत्क्रमसंग्राहार्थं द्वितीयादपदंक इति | कल्पको न संभवत्येवेत्यर्थः | कल्पकाभावे इष्टापतिमाह दृष्टिसृष्टि वादीन कोपीति | तर्हि सृष्ट्यादि श्रुतिप्रतिपाद्यस्य वियदादि सृष्टि तत्क्रमादेः शशशृंगायमानतया श्रुतेरालंबनाभावादप्रामाण्यां स्यादिति शंकते | किमिति | तात्पर्यविषयीभूतार्थस्य सत्वान्नाप्रामाण्यापतिरिति परिहरति निश्चयं चेति || अध्यारोपापवादाभ्यां निष्प्रपंचब्रह्मप्रतिपतिर्भवतीति तत्प्रतिपत्युपायतया श्रुतिषु सृष्टिप्रलयोपन्यासो न तात्पर्येणेति भाष्याद्युद्घोषः व्यर्थस्तर्हि तात्पर्याभावे वियत्प्राणपादयोर्वियदादि सर्ग तत्क्रमादि विषयश्रुतीनां परस्परविरोधपरिहाराय यत्नः न व्यर्थः न्यायव्युत्पत्यर्थमभ्युपेत्यतात्पर्यं प्. ६९अ) तत्प्रवृतेः | उक्तं हि शास्त्रदर्पणे श्रुतीनां सृष्टि तात्पर्यं स्वीकृत्येदमिहेरितं ब्रह्मात्मैक्य परत्वात्ततासां तत्रैव विद्यत इति | ज्योतिष्टोमादिश्रुतिं बोधितानुष्ठानात्फलसिद्धिः || ननु सृष्ट्यादिवाक्यानां शुतार्थपरित्यामेनाश्रुतार्थे तात्पर्यकल्पनमयुक्तं किंतु श्रुत्यनुसारेण विपदादि सर्गस्य तत्कल्पकस्य च कल्पनमेव युक्तमित्यत आह | अध्यारोपेति | यथालोके गगनतत्वबोधनापप्रवृतः कश्चित् प्रथमं नैल्यवैशाल्याद्यध्यारोपौपेतं गगनं ग्राहयित्वा पश्चात् नेदं वस्तुतो नैल्यादि युक्तमिति तदपे वादेन नीरूपं व्यापकमुदासीनं गगनतत्वमिति बोधयति | तथा वेदांता अपि प्रथमं पद्विपदादि सर्गप्रलयादिकारणं सृष्ट्यादि वाक्यैः प्रतीयते तद्ब्रह्मेत्यच्यारोपितसर्गादि युक्ततया ब्रह्मग्राहियित्वा पश्चात् | निषेधवाक्यैरध्यारोपित सर्गाद्यपवादेन निश्रपंच ब्रह्मात्मैक्यं प्रतिपादयंति | तथा च सृष्ट्यादि वाक्यानां निषेधवाक्यापेक्षितनिषेध्य समर्प्यकतया तदेक वाक्यतापन्नानां निश्रपंच ब्रह्मप्रतिप्रयोजनकत्वमेव न तु स्वार्थ सृष्ट्यादि प्रतिपादनमात्रेणचारितार्थ्यमर्थवादादीनामिव तेषां स्वार्थप्रतिपादने फलाभावान्निष्फलेर्थे वेद तात्पर्या योगादतो युक्तमेव स्वार्थत्यागेन निष्प्रपंच ब्रह्मात्मैक्ये तात्पर्य कल्पनं तहानस्य मुक्तिफलकतायाः श्रुतिसिद्धत्वादेवं च प्रथममध्यारोपेण स प्रपंच प्. ६९ब्) ब्रह्मप्रतिपतिर्भवति पश्चात्प्रपंचापवादेन तस्यैव ब्रह्मणो निष्प्रपंचत्व प्रतिपतिर्भवति पूर्वप्रतिपतिश्चोतरप्रतिपतेः शेष एव न स्वतंत्रेति निष्कर्षः प्रपंचस्तु भाष्यादिष्वेव द्रव्य इत्यर्थः | शंकते | व्यर्थ इति | तर्हीत्यस्य व्याख्या तात्पर्याभाव इति वियदादि सर्ग तत्क्रमादावितिशेषः | यत्नोव्यर्थः सूत्रकारभाष्यकारयोरितिशेषः तात्पर्याविषये विद्यमानस्यापि श्रुतिविरोधस्या किंचितेत्करत्वादिति भावः | परिहरति | न व्यर्थ इति | न्यायेति | वियत्प्राणपादद्वयगताधिकरणेषु निरूपिताये सिद्धांत न्यायाः तेषां बोधार्थमित्यर्थः | तेषां न्यायानां सृष्ट्यादि वाक्यार्थाविरोधनिर्णयायानपेक्षितानामपि श्रुति तात्पर्य विषये क्वचिदेवं विरोध प्रसक्तौ तत्समाधानाय उपयोगस्तेषां भविष्यतीत्याशयेन प्रवृतः सूत्रकारादि यत्नोर्थ वा नित्यर्थः | तत्प्रवृतेरिति | वियत्प्राण पादयोः प्रवृतेरित्यर्थः | सृष्ट्यादि श्रुतीनां स्वार्थे तात्पर्यमभ्युपेत्यैव वियत्पादादि प्रवृतिरित्यत्रकल्पतरुकारसंमतिमाह | उक्तं हीति इदमिति | विरोधसमाधानमित्यर्थः | इहेति | वियत्प्राणपादयोरित्यर्थः | तु शब्दोवधारणे तासां सृष्ट्यादि श्रुतीनां ब्रह्मात्मैक्य परत्वादेव तत् तात्पर्यं नास्त्येव तासां स्वार्थेपि तात्पर्ये वाक्य भेदप्रसंगात् | स्वार्थे फलाभावाच्चेत्यर्थः | एवं दृष्टि सृष्टि वादे सृष्ट्यादि श्रुतीनां निरालंबनत्वं परिहृत्य कर्मोपासनावाक्यानामपि निरालंबनत्वं परिहरति | ज्योतिष्टोमेत्यादिना ज्योतिष्टोमादि श्रुत्या प्. ७०अ) स्वर्गादिसाधनत्वेन बोधितस्य यागादेरनुष्ठानात् स्वर्गादिफलसिद्धिरित्यर्थः || स्वाप्नश्रुतिबोधितानुष्ठानप्रयुक्तफलसंवादतुल्या ज्योतिष्टोमादि श्रुतीनां च सत्व शुद्धिद्वाराब्रह्मणि तात्पर्यान्नाप्रामाण्यमित्यादि दृष्टिसृष्टिव्युत्पादनप्रक्रिया प्रपंचस्त्वाकरे एव द्रष्टव्यः अयमेको दृष्टिसमसमयाविश्वसृष्टिरिति दृष्टिसृष्टि वादः अन्यस्तदृष्टिरेव विश्वसृष्टिः दृश्यस्य दृष्टिभेदे प्रमाणभावात् | ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः अर्थस्वरूपं ध्वाम्यंतः पश्यंत्यन्ये कुदृष्टय इति स्मृतेश्चेति सिद्धांतमुक्तावल्यदि दर्शितो दृष्टिसृष्टिवादः द्विविधेपि दृष्टिसृष्टिवादे मनः प्रत्ययमलभमानाः केचिदाचार्याः सृष्टिदृष्टिवादं रोचपंते || स्वामेति स्व मे हि कश्चित् कदाचिज्ज्योतिष्टोमादिश्रुतिं कल्पयित्वा ततः साधनविशेषमुपलभ्यतदनुष्ठानात्फलं लभते | तत्तुल्यं जागरणेपि स्वर्गादिफललभनमित्यर्थः | वस्तुतस्तु श्रुतिमात्रप्रतीतवियदादिसर्गतत्क्रमादेरिव श्रुतिमात्रप्रतीतस्वर्गादिफलस्याप्यसत्वमैवाभिप्रेतं प्. ७०ब्) कल्पकाभावस्य तुल्यत्वादिति बोध्यं | तर्हि तासामप्रमाण्यं स्यादिति नेत्याह | ज्योतिष्टोमादि श्रुतिनां चेति | कर्मवाक्यैरुपासनावाक्यैश्च विहितानि कर्मोपासनान्यनुतिष्ठतः | सत्वशुद्धिर्भवति शुद्धसत्वस्य चाधिकारिणो वेदांतशास्त्रं ब्रह्मप्रमिति जनयति तथा च कर्मोपासनाकांडयोरधिकारिसंपादनद्वारा ब्रह्मप्रसिति शेषत्वातयोस्तत्रैव तात्पर्यं न स्वार्थं स्वर्गसाधनत्वादावितिना प्रामाण्यप्रसंग इति भावः | न च वेदांतानां अशेषतो ब्रह्मप्रतिपतिपरत्वे नास्ति मानमिति वाच्यं | सर्वे वैक्ष्य यत्पदमामनंतितमेतं वेदानुवचनेन ब्राह्मणाविविदिषंतीत्यादिश्रुति सहस्रस्य तत्र मानत्वादित्यादिकमभिप्रेत्याह | इत्यादि दृष्टिसृष्टिव्युत्पादनप्रक्रियाप्रपंचस्त्विति अयमेको दृष्टिसृष्टित्वाद इति संबंदः अन्यस्तु सिद्धां तु मुक्तावल्यादि दर्शितः दृष्टिसृष्टिवाद इति संबंधः द्वितीयं नीरूपयति दृष्टेरेवेति | दृष्टिर्दर्शनं स्वप्रकाशज्ञानस्वरूपमित्यर्थः | एतदुक्तं भवति | दृश्यप्रपंच तादात्म्यापन्नं ज्ञानस्वरूपमेव प्रपंचस्याद्यक्षणावछिन्नं स तस्य सृष्टिरित्युच्यत इति | ननु दृग्दृश्ययोर्भिन्नयोरभिन्नसताकत्वरूपं तादात्म्यमसिद्धमित्याशंक्याह | दृश्यस्येति | दृष्टिर्ज्ञानं तस्माद्भेदे भिन्नसत्वाकत्वे इत्यर्थः | अन्यथा सन् घट इत्यादि रूपेण सद्रूपस्य ज्ञानस्य घटादेश्च प्. ७१अ) सामानाधिकरण्य प्रत्ययो न स्यादितिभावः | स्मृतावे तदिति प्रत्यक्षसिद्धसित्यर्थः | अर्थ स्वरूपमिति | अर्थपदं स्वतंत्रपरं कुदृष्टय इति | कुतर्क दूषित ज्ञाना इत्यर्थः | तथा चैतज्जगदन्ये कुदृष्टयो भ्रांताः ज्ञानस्वरूपसता पेक्षयाभिन्नसनाकं पश्यंतीत्युतरार्धेन भेददृष्ट्यपवादाच्च तयोरभेदसताकत्वसिद्धेरित्यर्थः | स्मृतेश्चेति | चकाराच्छ्रुतेश्चेत्यर्थः चिद्वीदं सर्वमित्यादि श्रुतिरुदाहर्तव्यामनः प्रत्ययो मानसो विश्वासः प्रामाणिकत्व निश्चयः तमलभमाना इत्यर्थः | तदलाभे च हेतुः | जाग्रत्प्रपंचस्यापि प्रातिभासिकत्वाभ्युपगमो वियदादि सर्गाद्यपलापः कर्मोपासनाकांडार्थानुष्ठानाधीन स्वर्गलोकब्रह्मलोकाद्यपलायो जाग्रति चक्षुराद्यनुविधान प्रतीतेर्भ्रमत्वं इत्यादिरिति द्रष्टव्यं || श्रुति दर्शितेन क्रमेण परमेश्वर सृष्टमज्ञातसतायुक्तमेव विश्वं ततद्विषयप्रमाणावतरणे तस्य तस्य दृष्टि सिद्धिरिति | न चैवं प्रपंचस्य कल्पितत्वाभावे श्रुत्यादि प्रतिपन्न सृष्टिप्रलयादिमतः प्रत्यक्षादि प्रतिपन्नार्थक्रियाकारिणश्च तस्य सत्यत्वमेवाभ्युपगतं स्यादिति वाच्यं शुक्तिरजतादिवत्संप्रयोगसंस्कारदोषरूपेणाधिष्ठान ज्ञानसंस्कारदोषरूपेण प्. ७१ब्) वा कारणत्रयेणाजन्यतया कल्पना समसमयत्वाभावेपि ज्ञानेक निवर्त्यत्वरूपस्य सदसद्विलक्षणत्वरूपस्य प्रतिपन्नोपाधिगत त्रैकालिकप्रतिषेध प्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात् | सत्यत्वपक्षे प्रपंचे उक्तरूपमिथ्यात्वाभावेन ततो भेदात् | सृष्टिदृष्टि पदं व्याचष्टे | श्रुति दर्शिते नेत्यादिना | अय सिद्धांतं शंकते | न चैवमिति | उक्तरीत्याप्रामाणिकत्वे प्रपंचस्य स्वीकृते सतीत्यर्थः | कल्पितत्वाभावे सत्वमेवाभ्युपगतं स्यादिति संबंधः | प्रपंचः सत्यः श्रुतिसिद्धत्वात् | ब्रह्मवत् | न च तस्य प्रत्यक्ष सिद्धस्य श्रुति सिद्धत्वमसिद्धमिति वाच्यं | तस्य स्वरूपेण प्रत्यक्ष सिधत्वे सृष्टिप्रलयादिविशिष्टतया श्रुतिस्मृत्यादि सिद्धत्वात् | तथा प्रपंचः सत्यः अर्थक्रियाकारित्वात् | सृष्ट्याद्यर्थ क्रियाकारिब्रह्मवत् | न च हैत्वसिद्धिः पृथिवीजलादौ तस्य प्रत्यक्षादि सिद्धत्वादितिभावः | प्रपंचस्य ब्रह्मवत्परमार्थसत्यत्वे हेतुद्वयमप्रयोजकमतोनापसिद्धांतापतिरित्याशयेन परिहरति शुक्ति रजतादि वदिति | वियदादि प्रपंचे शुक्तिरजतादाविवकल्पनासमसमयत्वस्य दृष्टिसृष्टिवाद्यभिमतस्याभावेपि पारमार्थिक सत्यत्वविरुद्धस्य मिथ्यात्वस्याभ्युपगमादिति संबंधः वियदादि प्. ७२अ) प्रपंचे कल्पना समसमयत्वाभावे कारणत्रयाजन्यत्वं हेतुः संप्रयोगस्य स्वप्नभमव्यापित्वाभावात् | संप्रयोगस्थाने अधिष्ठानसामान्यज्ञानं निक्षिपति | अधिष्ठान ज्ञानेति | मिथ्यात्वनिर्वचनं त्रेधा दर्शयति | क्षानैकेत्यादिना | अधिष्ठान तत्वज्ञानमात्रनिवर्त्यत्व रूपस्येत्यर्थः | सद्विलक्षणत्वमात्रं असत्पति व्याप्तं | असद्विलक्षणत्वमात्रं सति ब्रह्मण्यति व्याप्तं अत उभयो पादानं प्रपंचस्य तूभयविलक्षणत्वं प्रमाणसिद्धमितिभावः | प्रतिपन्नेति | ब्रह्मणि प्रतिपन्नस्य प्रतीतस्य आरोपितस्यैति यावत् | ब्रह्मोपाधिरधिष्ठानं तत्र ब्रह्मणि तस्य त्रैकालिको निषेधः श्रुतिगम्योत्यंताभावोस्ति तत्प्रतिशेगित्वं तस्याक्षतमितिभावः | तत्राद्यस्तक्षणेपि घटादिकं नाशयामीत्यादि ज्ञाननिवर्त्यत्व सत्वादेक पदं दतं ज्ञानमात्रनिवर्त्यस्य च सत्यत्व वादिभिरनंगीकारात् | न सत्यत्व पक्षाविशेषः | तथा प्रपंचे परैः सद्रूपत्वांगीकारेण सद्विलक्षणत्वानंगीकारात् | द्वितीयलक्षणेपि न सत्यत्वपक्षाविशेषः | प्रपंचस्य तदुपादाने ब्रह्मणि सिद्धांत इव घटाद्युपादान वस्तुनि घटादेस्त्रैकालिक निषेधस्य परैरनंगीकारात् | न तृतीये लक्षणेपि परमताविशेष इत्याशयेनाह | सत्यत्वपक्ष इति | नन्वेवमहंकार तद्धर्माणामप्युक्तरूपमिथ्यात्वं वियदादिवत्कल्पितत्वाभावेपि सिध्यतीति प्. ७२ब्) भाष्यटीकाविवरणेषु तदध्यासे कारणत्रितय संपादनादिश्रयो व्यर्थ इति चेत् | अहंकारादीनामपि केवलसाक्षिवेद्यतया शुक्तिरजतवत् प्रातिभासिकत्वमभिमतमिति चित्सुखाचार्याः अभ्युपेत्यवादमात्रे तदद्वितीयाधिष्ठान ब्रह्मात्मप्रमाणस्य चैतन्यस्येत्यादि तत्रत्यकारणत्रितयसंपादनग्रंथस्य चैतन्यस्य प्रमाकरणत्वे वेदांतकरणत्वादिकल्पनार्भगप्रसंगेन प्रौढिवादत्वस्य स्फुटत्वादिति रामाद्वयाचार्ययाः | ननु दृष्टिसृष्टिवादे सृष्टिदृष्टिवादे च मिथ्यात्व संप्रतिपतेः | कथं मिथ्याभूतस्यार्थक्रियाकारित्वं स्वप्नवदिति ब्रूमः | ननु स्वाप्नजलादि साध्यावगाहनादि रूपार्थक्रिया असत्यैव किंतु जाग्रज्जलादिसाध्यासा सत्या || दृष्टिसृष्टिवाद्येव शंकते | नन्वेवमिति | ज्ञानैकनिवर्त्यत्वादेः मिथ्यात्वस्वरूपत्वे सतीत्यर्थः | अहंकारतद्धर्माणामपि उक्तरूपमिथ्यात्वं वियदादिवत्सिध्यतीति संबंधः | कल्पितत्वाभावेपीति | प्रातिभासिकत्वाभावेपीत्यर्थः | तत्पदमहंकारादिपरं चिदात्मनोधिष्ठानत्वादि समर्थनमादि पदार्थः | अभिमतमिति | प्. ७३अ) भाष्यकारादीनामितिशेषः | तथा च तत्संपादनादि यत्नः | सफल इति भावः | अहंकारतद्धर्माणां केवलसाक्षिवेद्यत्वेपि शुक्तिरजतादिवत् | प्रातिभासिकत्वं वक्तुमयुक्तं व्यवहारकाले बाधानुपलंभादतो वस्तुगत्या तेषां प्रातिभासिकत्वाभावेपि तदत्युपेत्यकारणत्रयसंपादनादि यत्नः तैः कृत इति परिहारांतरमाह | अभ्युपेत्येति | तद्भाष्यादि प्रातिभासिकत्वमभ्युपेत्यवचनमेव न वस्तुगतिमनुरुध्येत्यर्थः | अद्वितीयाधिष्ठान ब्रह्मात्मनि प्रमाणं चैतन्यमिति प्रतिपादयतिष्ठीकाविवरणादि गतस्य ग्रंथस्य प्रौद्धिवादत्व स्पष्टत्वादिति संबंधः | प्रौढि वादत्वे उपपतिमाह | चैतन्यस्य प्रमाकरणत्व इति | ब्रह्मप्रमाकरणत्व इत्यर्थः | औपनिषदत्व श्रुत्यनुसारैणवेदांतानामेव ब्रह्मप्रमाकरणत्व कल्पनेत्यर्थः | वेदांतजन्यब्रह्मप्रमायाः अपरोक्षत्वकल्पनमादिपदार्थः प्रपंचस्य परमार्थत्वे पूर्वमर्थकिर्याकारित्वमप्रयोजकमिति सूचितं तदयुक्तं मिथ्याभूतस्य शुक्तिरूप्यादेः कदकाद्यर्थ क्रियाकारित्वा दर्शनादिति मत्वाशंकते | नन्विति | अर्थक्रियाकारित्वं सत्यत्व व्यभिचारीति परिहरति स्वप्नवदिति | स्वाप्नजलादाववगाहनादिरूपार्थक्रियाकारित्वमस्ति तत्र सत्यत्वं नास्तीति व्यभिचार इत्यर्थः | नन्वर्थ | क्रियाकारित्वमात्रं न हेतुः | किंतु सत्यार्थक्रियाकारित्वं तच्च स्वाप्नजलादौ नास्तीति न व्यभिचार इति प्. ७३ब्) शंकते | नन्विति असत्येव न तु सतीत्यर्थः | असत्यैवेति पाठे असत्या न तु सत्येत्यर्थः | तर्हि प्रपंचः सत्यः सत्यार्थक्रियाकारित्वादित्यत्र हेतुत्वसिद्धिमाह सिद्धांती | किंत्विति | जाग्रज्जलादि साध्यासार्थक्रियासत्या किमिति संबंधः तु शब्दोवधारणे किं शब्दः आक्षेपार्थः सासत्या न भवत्येवेत्यर्थः | अतो हेत्वसंप्रतिपति परिहारायार्थ क्रियाकारित्वमात्रं सत्यत्व प्रयोजकं वाच्यं तच्च स्वाप्नजलादावस्त्येवेति व्यभिचारतादवस्थामितिभावः || अविशिष्टमुभयन्नापि स्वसमानसताकार्थक्रियाकारित्वमिति केचित् | अद्वैतविद्याचार्यास्त्वाहुः | स्वाप्नपदार्थानां न केवलं प्रबोधबाध्यार्थक्रियामात्रकारित्वं स्वाप्नांगना भुजंगमादीनां तदबाध्यसुखभयादि जनकत्वस्योपि दर्शनात् | स्वाप्नविषयजन्यस्यापि हि सुखभयादेः प्रबोधानंतरं न बाधोनुभूयते | प्रत्युत प्रबोधानंतरमपि मनः प्रसाद शरीरकं पादिनामह तदनुवृतिदर्शनात्प्रागपि सत्वमेवावसीयते | अत एव प्राणिनां पुनरपि सुखजनकविषयगोचर स्वप्ने वांछा अतादृशे स्वप्ने च प्रद्वेषः संभवति च स्वप्ने ज्ञानवंदतःकरणवृतिरूपस्य सुखभयादेरुदयः || प्. ७४अ) ननु स्वाप्नजलादौ सत्यार्थक्रियाकारित्वाभावेपि स्वसमानसताकार्य क्रियाकारित्वमस्त्येव तर्हि जाग्रत्प्रपंचस्यापि तदस्तनैतावता त्वदभिमतपरमार्थ सत्यत्वं सिध्यतीत्याशयेन परिहरति | अविशिष्टमिति | उभयत्रापीति | जाग्रत्स्वप्नावस्था द्वयेपीत्यर्थः | स्वपदं अर्थक्रिया हेतुभूतवस्तुपरं स्वप्न वदिति बूम इति समाधाने स्वप्नेवदर्थक्रियासत्या न भवति जागरे तु सा सत्येति वैषम्यशंकायां प्रतिवंद्या केषांचित् सामाधानं दर्शितं | इदानीं स्वप्नादि पदार्थानामपि सत्यार्थक्रियाकारित्व दर्शनान्न दृष्टांत वैषम्यमिति परिहारांतरमाह | अद्वैतेति | प्रबोधबाध्या अर्थक्रियाप्रातिभासिकी प्रबोधा बाध्यार्थ क्रियास्वप्नकालीनापि व्यावहारिकसत्यैवेति विभागस्तथा च स्वाप्नपदार्थानां प्रातिभासिकार्थक्रियाकारित्वमात्रं केवलं न भवति किंतु व्यावहारिकार्थ क्रियाकारित्वमप्यस्ति स्वप्नांगनादीनारव्यावहारिकार्थ क्रियाकारित्वं कैमुतिकन्याय सिधमिति मिथ्यात्वपक्षेनार्थक्रियाकारित्वानुपपतिरितिभावः | ननु स्वाप्नभुजंग मांगनादिरूपविषयाणां प्रबोधबाध्यत्वदर्शनात् | तत्कार्यभयसुखादीनां कथं प्रबोधा बाध्यत्वमित्याशंक्याह | स्वाप्नविषयेति | न प्रबोधाबाध्यसुख जनकत्वस्य स्वप्नभुजंगादीनां प्रबोधाबाध्यभयाकपादिजनकत्वस्य च दर्शनादेवं च प्. ७४ब्) व्यावहारिक जाग्रत्पदार्थानां त्रुटत् हि प्रबोधानंतरं स्वप्नकाले सुखभयादिकं समनाभूदिति सुखभयादेर्बाधो अनुभूयते इत्यर्थः | प्रत्युतेति वर्तमानसुखानुभवकार्यं मनः प्रसादः वर्तमानभय दुःखानुभवकार्यं गात्रकंपादिः ततश्च प्रबोधानंतरमनुवर्तमानत्वे गमकं मनः प्रसादत्वादि तथा च तदनंतरमनुवर्तमानस्य भयादेः | सत्यत्वात् | प्रबोधात्प्रागपि तस्य सत्यत्वं निश्रीयत इत्यर्थः | स्वप्नकालीनमपि सुखभयादिकं जाग्रत्सुखदिवत् व्यावहारिक सत्यमेव न प्रातिभासिकं प्रबोधानंतरं बाधाभावात् तदनंतरमप्यनुवर्तमानत्वाच्चेति निष्कर्षः स्वाप्नसुखभयादेः सत्यत्वे गमकांतरमाह | अत एवेति स्वाप्नभयादेरप्रातिभासिकत्वादेवेत्यर्थः | रागद्वेषयोः सत्यसुखदुःखगोचरत्वनियमादितिभावः | ननु स्वप्ने सर्वस्य वासनामात्रत्वात् | कथं सत्यस्य भयादेः संभव इत्यत आह | संभवति चेति | तदेतत्सत्वं येन स्वप्नं पश्यतीति श्रुत्यनुसारेण कल्पतरुकारैर्मानसवृतिरूपज्ञानस्य स्वीकारात् | तद्वदंतःकरणपरिणामरूपभयादेर्व्यावहारिकस्य संभवः तदतिरिक्तपदार्थानामेव वासनापरिणामत्वेन प्रातिभासिकत्वाभ्युपगमादिति भावः || प्. ७५अ) न च स्वप्नांगनादि ज्ञानमेव सुखादिजनकं तच्च सदेवेति वाच्यं | तस्यापि दर्शनस्पर्शनादि वृतिरूपस्य स्वप्नप्रपंचसाक्षिण्यध्यस्तस्य कल्पनामात्र सिद्धत्वात् | न ह्युपरतेंद्रियस्य चक्षुरादि वृतयः सत्याभवंति | न च तद्विषयापरोक्ष्यमात्रं सुखजनकं तच्च साक्षिरूपं स देवेति वाच्यं | दर्शेनात् स्पर्शनेकामिन्याः पदास्पर्शनात् पाणिनास्पर्शने भुजंगस्या मर्मस्थले स्पर्शनात्मर्मस्थले स्पर्शने च सुखविशेषस्य भयविशेषस्य चानुभवसिद्धत्वेन स्वप्नेपि ततत्सुखभयादिविशेषस्य कल्पित दर्शनस्पर्शनादि विशेषजन्यत्वस्य वक्तव्यत्वादिति | तथा जागरे घटादि प्रकाशनक्षम तत्रत्यपुरुषांतरनिरीक्ष्यमाणालोकवत्पापूवरके सद्यः प्रविष्टेन पुंसा कल्पितस्य संतमसस्य प्रसिद्धसंतमसोचितार्थ क्रियाकारित्वं दृष्टंतेन तं प्रतिघटाद्यावरणं दीपाद्यानयने तदपसरणं तन्नयने पुनरावरणमित्यादि दर्शनादित्यपि केचित् || प्. ७५ब्) ननु स्वाप्नभयादिकं न भुजंगमांगनादि पदार्थजन्यं किंतु तद्गोचरज्ञानजन्यं तथा च ज्ञानस्य सत्यत्वादसत्यात् सत्यस्यापि कार्यस्य जन्यत्वं स्वप्ने दृष्टमित्युनुपपन्नमिति शंकते | न चेति | तच्च सदेवेति वदता वक्तव्यं किं तन्मनो मात्रजन्यवृतिरूपं किं वा चक्षुरादिजन्यवृतिरूपं केवलसाक्षिरूपं वा आद्येपि किं वृतिमात्रं भयादि हेतुरुतसाप्नभुजंगमादि रूपविषयविशेषितं | नाद्यः यत्किंचिद्गोचरवृतिज्ञानादपि भयादिप्रसंगात् | न द्वितीयः वृतिमात्रस्य सत्यत्वेपि विषयस्यासत्यतया तद्विशिष्टस्यापि प्रातिभासिकत्वा तथा च प्रातिभासिकज्ञानाद्व्यावहारिकार्थ क्रियोत्पतौ तदुदाहरणं भवत्येवेति मत्वा प्रथमविकल्पत्रयमध्ये द्वितीयं दूषयति | तस्यापीति | ज्ञानस्यापीत्यर्थः | ननु चक्षुरादिजन्यमेव दर्शनस्पर्शनादि वृतिरूपं सत्यज्ञानं कुंतो नोपेयते तत्राह | नहीति | तृतीयं शंकते | न च तदति दूषयति दर्शनादित्यादिना | कामिन्याः दर्शनात् तस्याः स्पर्शने तस्या एव पदास्पर्शनात् पाणिनास्पर्शने सुखविशेषस्यानुभवसिद्धेत्वेनेनेति संबंधः भुजंगमस्यामर्मस्थले पुछादौ स्पर्शनात् मर्मस्थले शिरसि स्पर्शनेव भयविशेषस्यानुभवसिद्धत्वेनेति संबंधः | स्वप्नेपीति | यथा जागरे सुखविशेषभयविशेषादेर्दर्शनस्पर्शनादि रूपवृतिविशेषविशिष्टविषयापरोक्ष्यजन्यत्वं न तु विषयापरोक्ष्यमात्रजन्यत्वं तन्मात्रस्यैकरूपत्वेन कार्यविशेषाप्रयोजकत्वात् | प्. ७६अ) तथा स्वप्नेपि तथा च तत्तद्विषयापरोक्ष्यमात्रस्य साक्षिरूपस्य सत्यत्वेपि सुखभयादिजनकस्य प्रातिभासिक दर्शनादि वृतिविशेषविशिष्टस्य तत्तद्विषयापरोक्ष्यस्य प्रातिभासिकत्वात् प्रातिभासिकाद्व्यावहारिकसुखभयादि संभव इत्यर्थः | एवं स्वप्नावस्थायामसत्यात् सत्यार्थ क्रियामुदाहृत्यजागरेपि तामुदाहरति | तथेति | प्रकाशन क्षमो यः तत्रत्यैरपवरकस्थैः पुरुषांतरैः निरीक्ष्यमाणालोकः तद्वतीत्यर्थः | अपवरकं स्वल्पग्रहं तत्रत्यालोकासत्वशंका व्यावृतये पुरुषांतरनिरीक्ष्यमाणत्व विशेषणं दृष्टमित्येतत्प्रपंचयति | तैनेति | संतमसेनेत्यर्थः | अपि शब्दस्य तथा जागरेपीति संबंधः || अन्ये तु पानावगाहनाद्यर्थ क्रियायां जलादिस्वरूपमात्रमुपयोगिन तद्गतं सत्यत्वं तस्य कारणत्व तदवछेदकत्वयोरभावादिति किं तेन न चैवं सति मरुमरीचिकोदक शुक्ति रजतादेरपि प्रसिद्धोदकाद्युचितार्थ क्रियाकारित्वप्रसंगः मरीचिकोदकादाबुदकत्वादि जातिनीस्तीति | तद्विषयक भ्रमस्योदकशब्दोल्लेखित्वं तदुल्लेखि पूर्वानुभवसंस्कारजन्यत्व प्रयुक्तमिति तत्व शुद्धिकारादिमर्ते प्. ७६ब्) तदर्थक्रियाप्रयोजकोदकत्वादि जात्याभावादेव तदप्रसंगात् | तत्राप्युदकत्वादि जातिरस्त्यन्यथा तद्वैशिष्ट्योल्लेखिभ्रमविरोधादुदकाद्यर्थिनस्तत्र प्रवृत्यभावप्रसंगाच्चेति || अन्ये त्विति जगत्सत्यत्ववादिभिरपि हि अर्थक्रियाकारित्वमेव सत्यत्वमिति वक्तुं न शक्यते अर्थक्रियानुत्पति दशायां घटादेरसत्यत्वप्रसंगात् | किंतु सत्वमर्थ क्रियाप्रयोजकमिति वक्तव्यं तथा च किं सत्वमर्थक्रियाकारणमभिप्रेतं किं वा कारणतावछेदकं नोभयथापीत्याह | पानेत्यादिना | जलादिपदं जलत्वादेरपि संग्राहकं बोध्यं | उपयोगीति | जलादि स्वरूपं कारणतया जलत्वादि स्वरूपं कारणतावछेदकतयेति विभागः | मात्रपदव्यवछेद्यमाह | न तद्गतमिति सत्यत्वस्य जलादि स्वरूपातिरिक्ततयाकारणत्वाभावादति प्रसक्ततया कारणतावछेदकत्वाभावाच्चेत्यर्थः | किं तेनेति सत्यत्वेनेत्यर्थः | तथा च सत्यत्वाभावेपि प्रपंचस्यार्थक्रियाकारित्वं संभवान्न मिथ्यात्वविरोध इति भावः | ननु सत्यत्वस्य ततदर्थक्रियाकारिताया सति प्रसक्तत्वेप्यर्थक्रियाकारित्व सामान्ये सत्वमनति प्रसक्तत्वादवछेदकमेवान्यथा बाधकमाशंकते | न चैवं सतीति | सत्यत्वस्य कारणतासामान्यानवछेदकत्वे सतीत्यर्थः | एवं सति प्रसंग इति न प्. ७७अ) चेत्यत्र हेतुमाह | मरीचिकोदकादिविति | मरुभूमिसंसृष्टासमरीचिकासुसमारोपितं तोयं मरीचिकोदकं तस्य तोयाभासत्वा तत्र तोयत्वं नास्ति कथं तर्हि तोयमिदमुदकमिति शब्दोल्लेखिप्रत्ययं इत्याशंक्य तस्यान्यथा सिद्धिमाह | तद्विषयकभ्रमस्येति | मरीचिकोदकविषयकभ्रमस्येत्यर्थः | उदकशब्दोल्लेखीयः पूर्वानुभवः सत्योदकविषयः तजन्यसंस्कारजन्यत्वान्म्रीचिकोदकस्य तत्प्रयुक्तं तच्छब्दोल्लेखित्वमित्यर्थः | प्रयोजकेति | प्रसिद्धोदकस्य उचितार्थक्रियायापानादि रुपातस्यामुदकत्वजातिः प्रयोजिका उदकादन्यत्रपानादेरदर्शना तथा प्रसिद्धरजतादेरुचितार्थक्रियाकटकादिलक्षणा तत्र च रजतत्वादिकं प्रयोजकं मदोदौ कटकाद्यर्थक्रियादर्शनादितिभावः | तदप्रसंगादिति | प्रसिद्धोदकाद्युचितार्थ क्रियाकारित्व प्रसंगाभावादित्यर्थः | मरीचिकोदकादावर्थक्रियाकारित्व प्रयोजकजातिमभ्युपगम्याप्युक्ताति प्रसंगं परिहरति तत्रापीत्यादिना मरीचिकोदकादावपीत्यर्थः | अन्यथेति | तत्र जलत्वादि जात्यभावे सतीत्यर्थः | तत्रेति मरीचिकोदकादाविष्टनावछेदक जलत्वाधिवैशिष्ट्यभानं विना तदर्थिनस्तत्र प्रवृतिर्न संभवतीतिभावः || प्रातिभासिके पूर्वदृष्टसजातीयत्व व्यवहारानुरोधिनां मते क्वचिदधिष्ठानविशेष प्. ७७ब्) ज्ञानेन समूलाध्यासनिवृति संभवात् | क्वचिदधिष्ठान सामान्यज्ञानोपरमेण केवलाध्यासनाशात् | क्वचिद्गंजादौ चक्षुषावह्न्याद्यध्यासस्थले दाहपाकादिप्रयोजकस्योलस्पर्शादेरनुध्यासाच्च तत्र तत्रोर्थ क्रियाभावोपपतेः | क्वचित्कासांचिदर्थ क्रियाणापिष्यमाणत्वाच्च | मरीचिकोदकादिव्यावर्तकस्यार्थ क्रियोययोगिरूपस्य वक्तव्यत्वे च श्रुतिविरुद्धं प्रत्यक्षादिना दुर्ग्रहंत्रिकालाबाध्यत्वं विहाय दोषविशेषाजन्यरजतत्वादेरेव रजताद्युचितार्थक्रियोपयोगिरूपस्य वक्तुं शक्यत्वाच्च | तस्मान्मिथ्यात्वेप्यर्थक्रियाकारित्व संभवान्मिथ्यैव प्रपंचो न सत्य इति || किं च शुक्तिरजतादौ सत्यरजतादौ च रजतत्वादि जातेरेकस्या अभावे प्रातिभासिकाध्यासेषु पूर्वदृष्टसाजात्यव्यवहारो भाष्यादि गतो न स्यात् तदनुरोधेनापि तत्र जातिरंगी कर्तव्येत्याशयेनाह | प्रातिभासिके इति | क्वचिदिति | दूरे मरीचिकोदकभ्रमानंतरं स्नानाद्यर्थ समीपं गतस्यनेदं जलं प्. ७८अ) मरीचिमात्रमिति विशेषदर्शने सति जलाध्यासस्य स्वमूलाज्ञानेन सहैव नाशात् न ततोर्थ क्रियोत्पतिरापादयितुं शक्येत्यर्थः | क्वचिदधिष्ठानेति | शुक्त्यादौ रजता ध्यासानंतरं यत्र विशेषदर्शनमस्ति तत्र पूर्वोक्तारीतिर्यत्र तत्रास्ति तत्राधिष्ठानसामान्यज्ञानरूपं कारणनाशेन रजताध्यासमात्र नाशसंभवात् | तत्रापि नार्थक्रियोत्पतिरापादपादयितुं शक्येत्यर्थः | स्वप्नवदिति ब्रूमरूत्यादि पूर्वग्रंथे प्रातिभासिक पदार्थानामपि अर्थं क्रियाकारित्वस्य दर्शितत्वादुक्ताति प्रसंगे इष्टापतिरपीत्याह | क्वचित्कासांचिदिति | इदानीं प्रातिभासिकेष्वर्थक्रियाकारित्वराहित्यमुपेत्यापि सत्यत्वं कारणतावछेदकं न वक्तव्यमित्याह | मरीचिकोदकादीति | च शब्दोप्यर्थः श्रुतीति मिथ्यात्व श्रुतीत्यर्थः | सद्रजतात् कटकादि कार्यं संभवति तद्विलक्षणाछ्रक्ति रजता तन्न संभवतीत्यन्वय व्यतिरेक सह कृत प्रत्यक्षेण हि त्वया सत्वमर्थ क्रियाकारितायामवछेदकतया ग्राह्यं तादृशं च सत्वं मिथ्यात्व विरुद्धकालत्रया बाध्यत्वरूपं न भवति | तस्य प्रत्यक्षा योग्यत्वादतोन्यदेव किंचितदवछेदकं वाच्यमित्याशयेनाह प्रत्यक्षादिनेति | अत्रादि पदमनुमानादि संग्रहार्थं प्रत्यक्षश्रुतिविरोधेनानुमानादेरपि प्रपंचे कालत्रया बाध्यत्वरूपसत्वसाधकस्यानुदयादेवतस्थानुमानादिनापि दुर्ग्रहत्वमुक्तमिति बोध्यं | प्. ७८ब्) रजतत्वादेरिति व्यवहारकालीत बाधरहित सर्पत्वादिकमादिपदार्थः | तस्मादिति सत्यत्व स्यार्थ क्रियां प्रत्यप्रयोजकत्वादित्यर्थः || ननु मिथ्यात्वस्य प्रपंचधर्मस्य सत्यत्वे ब्रह्मा द्वैतक्षतेस्तदपि मिथ्यैव वक्तव्यमिति कुतः प्रपंचस्य सत्यत्वक्षतिः मिथ्याभूतं ब्रह्मणः स प्रपंचत्वं ननिः प्रपंचत्वाविरोधीति त्वदुक्तरीत्या मिथ्याभूतमिथ्यात्वस्य सत्यत्वाविरोधित्वात् | अत्रोक्तमद्वैत दीपिकायां वियदादि प्रपंच समान स्वभावं मिथ्यात्वं | तच्च धर्मिणः सत्यत्व प्रतिक्षेपकं धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि उभयवादि सिद्धं धर्मि समसत्वं तंत्रं न पारमार्थकत्वं | अघटत्वादि प्रतिक्षेपके घटत्वादावस्माकं पारमार्थिकत्वा संप्रतिपतेः | ब्रह्मणः स प्रपंच त्वेन धर्मि समसताकमिति ननिः प्रपंचत्व प्रतिक्षेपकं | अत एव मिथ्यात्वस्य व्यावहारिकत्वे तद्विरोधिनोऽप्रातिभासिकस्य प्रपंच सत्यत्वस्य पारमार्थिकत्वं स्यादिति निरस्तं || प्. ७९अ) प्रकारांतरेण प्रपंचस्य सत्यत्वं शंकते | नन्विति वक्तव्यमिति | सिद्धांति नेतिशेषः | ननु मिथ्या भूतस्यापि मिथ्यात्वस्य स्वाश्रये प्रपंचे स्वविरोधि सत्यत्व प्रतिक्षेपकत्वा तस्य सत्यत्वक्षतिरपरिहार्येत्याशंक्यसिधांति संमतदृष्टांतेन परिहरति | मिथ्याभूतमिति | सप्रपंचत्वं प्रपंच तादात्म्यं निष्प्रपंचत्वं प्रपंचात्यताभाववत्वं तच्च वास्तवं व्यावहारिक प्रपंचात्यंताभावस्य ब्रह्मणि परमार्थत्वाभ्युपयमादतः सप्रपंचत्व निःप्रपंचत्वयोर्यथा एकत्राविरोधस्तथा मिथ्यात्वसत्यत्वयोरप्यविरोध इति भावः | मिथ्यात्वभुमी मिथ्या भूत इति पक्षमेव परिगृह्यसमाधते | अत्रोक्तमिति | समान स्वभावमिति | समानसताकमित्यर्थः | वियदादि प्रपंचस्य च?श्च व्यावहारिक सता इति भावः | नन्वरोपित घटत्वादेरारोपाधिष्ठानभूते स्वाश्रये स्वविरुद्धां घटत्वादि प्रतिक्षेपकत्वादर्शनात् सत्यमेव घटत्वादि स्वाश्रये सविरुद्धर्मप्रतिक्षेपकत्वेन कल्पनीयमिति कथं मिथ्याभूतं मिथ्यात्वं स्वधर्मिणि प्रपंचे सत्यत्व प्रतिक्षेपकं भवेदित्याशंक्याह धर्मस्येति | घटत्वादौ परमतरीत्या पारमार्थिकत्वरूपं सत्यत्वमस्ति तथा धर्मि समानसताकत्वं मतद्वयसंमतमस्ति तथा च घटत्वादि धर्मस्य स्वाभाविकाश्रये स्वविरुद्धधर्मप्रतिक्षेपकत्वे प्रयोजकाकांक्षायां संप्रतिपन्नमेव प्रयोजकं कल्पनीयं न विप्रतिपन्नमित्यर्थः | दृष्टांतं प्. ७९ब्) विघटयति ब्रह्मण इति | नुधर्मीति | ब्रह्मणः पारमार्थिकत्वात् सप्रपंचस्य च व्यावहारिकत्वादितिभावः | ननु प्रपंचगत मिथ्यात्वस्य मिथ्यात्वपक्षे तद्व्यावहारिकमैव वाच्यं ब्रह्मज्ञानैक निवर्त्यस्य मिथ्या मिथ्यात्वधर्मस्य प्रातिभसिकत्व पारमार्थिकत्वयोरयोगा तस्य व्यावहारिकत्वे तु प्रपंच गतं सत्यत्वं पारिमार्थिकं सिध्यति तस्यापि स न घट इत्यादि प्रत्यक्षसिद्धस्य यावतत्वज्ञानमनुवर्तमानस्य प्रातिभासिकत्वायोगात् | व्यावहारिक मिथ्यात्व धर्मवति प्रपंचे तत्सत्यत्वस्य व्यावहारिकस्यायोगाच्च तथा च प्रपंच गतस्य सत्वत्व धर्मस्य पारमार्थिकत्व सिद्धौ धर्मिणः प्रपंचस्यापि पारमार्थिकत्वमनिर्वार्यमिति | ब्रह्माद्वैतक्षतिरिति कस्य चिच्चोद्यं वक्ष्यमाण हेतुना निरस्तमित्याह | अत एवेति || धर्मि समसता कस्य मिथ्यात्वस्य व्यावहारिकत्वे धर्मिणोपि व्यावहारिकत्व नियमात् | अथ वायो यस्य स्वाविषयमाक्षात्कारानिवृर्त्योधर्मः स तत्र स्वविरुद्धधर्मप्रतिक्षेपकः शुक्तौ शुक्ति तादात्म्यं तद्विषयसाक्षात्कारानिवर्त्यमशुक्तित्वविरोधि तत्रैव रजत तादात्म्यं तन्निवर्त्यमरजतत्वाने विरोधीति व्यवस्था दर्शनात् | एवं च मिथ्यात्वं कल्पितमपि प्. ८०अ) प्रपंचसाक्षात्कारानिवर्त्यमिति सत्वत्व प्रतिक्षेपकमेव ब्रह्मणः सप्रपंचत्वं तु ब्रह्मसाक्षात्कारनिवर्त्यमिति ननिः प्रपंचत्वप्रतिक्षेपकमिति | एतेन शब्दगम्यस्य ब्रह्मणा सत्यत्वे शब्दयोग्यतायाः शाब्दधी प्रामाण्यस्य च सत्यत्वं वक्तव्यं प्रातिभासिक योग्यतावताः नाप्तवाक्येन व्यावहारिकार्थस्य व्यावहारिकयोषतावतावताग्निहोत्रादि वाक्येन तात्विकार्थस्य वामिद्व्यभावेन योग्यता समानसताकस्यैव शब्दार्थस्य सिद्धिनियमात् || नियमादिति मिथ्यात्व धर्मस्य धर्मिसमानसताकत्वप्रयुक्तं व्यावहारिकत्वमुपेत्यमिथ्यात्वधर्मिणि प्रपंचे सत्यत्व पर्यवसायिनः प्रपंच सत्यत्वे पारमर्थिकत्वा पादनस्य विरोधेनासंभवादित्यर्थः | न च प्रपंचे पारमार्थिकस्य सत्यत्वस्याभावे प्रातिभासिक सत्यत्वयोरपि प्राऽऽननिरस्तत्वा तत्र सत्वानुभवविरोध इति वाच्यं | व्यावेहारिकस्यैव सत्वस्य प्रपंचे स्वीकारैणानुभवविरोधाभावात् | न च मिथ्यात्व सत्यत्वयोर्व्यावहारिकत्वेन समानसताकयोरेकत्र विरोध इति वाच्यं | मिथ्यात्वाविरुद्धस्य या वृतत्वज्ञानं बाध प्. ८०ब्) रहित स्वरूपत्व लक्षणसत्वस्य प्रत्यक्षादि विषयस्या सकृदुक्तत्वादितिभावः | सर्वत्रब्रह्मसतैव प्रतीय तेन तदतिरकेर्णव्यावहारिकं प्रातिभासिकं वा सत्वमस्तीति मते धर्मिसमसत्वं तंत्रमिति समाधानं न संभवतीति मत्वासमाधानांतरमाह | अथवेति | धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि स्वाश्रयसाक्षात्कारा निवर्त्यत्वं प्रयोजकं कल्पाते संप्रति पन्नुत्वान्नतु पारमार्थिकत्वं तस्यास्मा वामसंप्रतिपतेरितिभावः | यो धर्मो यस्य धर्मिणो धर्मि गोचर साक्षात्कारा निवर्त्यः | स धर्मस्तत्र धर्मिणीत्यक्षरार्थः उक्त प्रयोजके हेत्वंतरमाह | शुक्ताविति | तत्पदं शुक्तिपरं अशुक्तित्वविरोधीति | अशुक्तित्वस्य प्रतिक्षेपकमित्यर्थः | तत्रैवेति | शुक्तावेव रजत तादात्म्यरूपो धर्मो वर्तते स च स्वविरुद्धस्यारजतत्वस्य रजत भिन्नत्वस्य शुक्तिगतस्याविरोधी प्रतिक्षेपको न संभवतीत्यत्र हेतुगर्भं विशेषणं तन्निवर्त्यमिति | शुक्तिसाक्षारनिवर्त्यमित्यर्थः | एवं वेति स्वाश्रयसाक्षात्कारानिवर्त्य धर्मस्य स्वाश्रये स्वविरुद्धधर्मस्थिति विरोधित्वे प्रमाणेन निश्चिते सतीत्यर्थः | अनिवर्त्यमिति यथा शुक्तिसाक्षात्कारे सति शुक्ति तादात्म्यं न निवर्त्यते तथा घटादिरूपप्रपंच साक्षात्कारे सति श्रुति न्यायसिद्धं मिथ्यात्वं न निवर्तत इत्यर्थः | चोद्यांतरमपि वक्ष्यमाण हेतुना निरस्तमित्याह | एतेनेति | शब्दगम्यस्य प्. ८१अ) ब्रह्मणः सत्यत्वे शब्दनिष्टयोग्यतायाः सत्यत्वं वक्तव्यमित्यत्र हेतुमाह | योग्यता समान सता कस्यैवेति | वाक्यार्थ वाक्यनिष्ठयोग्यतयोः समानसताकत्वनियमं साधयति | प्रातिभासिक योग्यतावतेति | व्यावहारिकार्थस्य सिध्यभावेनेति संबंधः अर्था बाधरूपप्रामाण्यस्यासत्यत्वेर्थस्य सत्यत्वा योगाच्च | तथा च ब्रह्मातिरिक्त सत्यवस्तुसत्वेन द्वैतावश्यंभाव इति वियदादि प्रपंचोपि सत्योऽस्तिति निरस्तां व्यावहारिकस्यार्थ क्रियाकारित्वस्य व्यवस्थापितत्वेन व्यावहारिकयोग्यताया अपि सत्यब्रह्मसिद्धि संभवात् | ब्रह्मपरे वेदांते सत्यादि पद सत्वाद्ब्रह्मसत्यत्वसिद्धेः | अग्निहोत्रादिवाक्ये तादृशपदाभावा तत्सत्वेपि प्रबलब्रह्माद्वैत श्रुतिविरोधा तदसिद्धिरित्येव वैषम्योपपतेः | शब्दार्थयोग्यतयोः समानसताकत्व नियमस्य निःप्रमाणकत्वात् घटज्ञानप्रामाण्यस्था घटत्ववत् सत्यभूतब्रह्मज्ञानप्रामाण्यस्यापि तदतिरिक्तघटितत्वेन मिथ्यात्वोपपतेश्च || प्. ८१ब्) शब्दगम्यस्य ब्रहमणः सत्यत्वे ब्रह्मगोचरशाब्दज्ञाननिष्टस्य प्रामाण्यस्य सत्यत्वं वक्तव्यमित्यत्र हेतुमाह | अर्था बाधरूपेति तथा च वेदांतार्थस्य ब्रह्मणः सत्यत्वसंरक्षणाय तद्वीप्रामाण्यस्य सत्यत्वं वक्तव्यमितिभावः | ननु ब्रह्मव्यतिरिक्त निरुक्तयोग्यतादेः सत्यत्व सिद्धावपि पूर्ववाद्यभिमतं निखिलद्वैत सत्यत्वं कथं सिध्यति तत्राह | तथा चेति | द्वैतावश्यंभाव इति | अद्वैतभंगावश्यंभाव इत्यर्थः | वेदांतशब्दनिष्टयोग्यतायाः सत्यत्वं किं तस्याः शादबोधरूपार्थक्रियाकारित्वसिध्यर्थमपेक्ष्यते किं वा ब्राह्मणः सत्यत्व सिध्यर्थं नाद्यत इत्याह | व्यावहारिकस्येति | प्रपंचस्येति शेषः | योग्यताया इति पंचमी सत्वस्य ब्रह्मणः सिद्धिः शाब्दबोधः द्वितीये योग्यतायाः सत्यत्वाभावेपि ब्रह्मणस्तत्सिध्यतीत्याह | ब्रह्मपर इति | अत्रादि पदं चित्पदादि संग्रहार्थं | तर्ह्यग्निहोत्रादि धर्मि स्यापि सत्यादि यदात्सत्यत्वसिद्धिः स्यादिति नेत्याह | अग्निहोत्रादीति | ननु यो वै स धर्मः सत्यं चैतदिति धर्मेपि सत्यपदं श्रुतौ प्रयुक्तमस्ति तत्राह | तत्सत्वेपीति तदसिद्धिरिति | यो वै स धर्म इति वाक्यस्याग्निहोत्रादौ परमार्थत्व प्रतिपादने तात्पर्यलिंगानाम भावेना तत्परस्य तं स्यतेत्परत्वरत्व न प्रवलया द्वैत श्रुत्यावाधाद्धर्मस्य न ब्रह्मवत्परमार्थत्वसिद्धिरित्यर्थः श्रुतावग्निहोवादेरवगत्यर्थत्वेन प्. ८२अ) सत्यत्वमनुष्टीय मानावस्थत्वेन धर्मत्वं च विवक्षित्वा यो वै स धर्मः सत्यं चैतदिति सत्यधर्मयोरभेद उक्त इति मंतव्यं व्यावहारिकयोग्यतावता वेदांतवाक्येन सत्यस्य ब्रह्मणः सिद्धौ फलितमाह शब्दार्थयोग्यतयोरिति | ब्रह्मणः सत्यत्वेपितहाननिष्टप्रामाण्यस्य न सत्यत्वं सिध्यति | तस्य ब्रह्ममात्रत्वाभावादित्याह | घटज्ञानेति | तदतिरिक्तेति | ब्रह्मत्ववति ब्रह्मत्वप्रकारकानुभवत्वरूप तत्प्रामाण्यस्यापि ब्रह्मातिरिक्त ब्रह्मत्व वैशिष्ट्य घटितत्वेनेत्यर्थः | यदि च ब्रह्मज्ञानगतं प्रामाण्यमबाधितार्थानुभवत्वरूपं तच्च विवक्षितविवैकेन बाधायोग्यविषयस्वरूपमात्रं पर्यवस्यति तन्मात्रपर्यवसित प्रामाण्यस्य चाखंडार्थ परवेदांतेषु ब्रह्ममात्रत्वमेव न तदतिरिक्त घटितत्वमिति ब्रह्मज्ञानप्रामाण्यस्य सत्यत्वं संभवतीत्युच्येत तर्हि ब्रह्मगोचरशाब्दधी प्रामाण्यस्य सत्यत्वेपि न तवेष्टसिद्धिः | तस्य ब्रह्ममात्रत्वेन ब्रह्मातिरिक्त सत्यवस्त्वसिद्धेरितिभावः || तस्मादारंभणाधिकरणोक्त न्यायेन कृत्स्नस्य वियदादि प्रपंस्य मिथ्यात्वं वज्रलेपायते नन्वारंभणशब्दादिभिरचेतनस्य वियदादि प्रपंचस्य मिथ्यात्वसिद्धावपि चेतनानामपवर्गभाजां प्. ८२ब्) मिथ्यात्वायोगादद्वितीय ब्रह्मणि समन्वयो न युक्तः | न च तेषां ब्रह्माभेदः प्रागुक्तो युक्तः परस्परभिन्नानां तेषामेकेन ब्रह्मणाभेदासंभवात् | न च तद्भेदासिद्धिः सुखदुःखादि व्यवस्थया तत्सिद्धेरिति चेत् | न तेषामभेदेप्युपाधिभेदादेव तद्यवस्थोपपतेः | ननूपाधिभेदेपि तदभेदा न पायात् कथं व्यवस्था न ह्याश्रयभेदं नोपपादनीयो विरुद्धधर्मा संकरस्तदतिरिक्तस्य कस्यचिद्भेदोपगमेन सिध्यति | अत्र केचिदाहुः सिद्धात्येवांतःकरणोपाधिभेदेन सुखदुःखादिव्यवस्था कामः संकल्पो विचिकित्सा श्रद्धा श्रद्धा धृतिरधृतिर्ह्रीर्ध्रीर्भीरित्येतत्सर्वं मन एव विज्ञानं यज्ञं तनुत इत्यादिभिः श्रुतिभिस्तस्यैव निखिलानर्था श्रयत्वप्रतिपादनादसंगो ह्ययं पुरुषः असंगो न हि सजत इत्यादि श्रुतिभिश्चेतनस्य सर्वात्मनौदासीन्य प्रतिपादनाच्च न चैवं सति कर्तृत्वादि बंधस्य प्. ८३अ) चैतन्यसामानाधिकरण्यानुभवविरोधः तस्मादिति | विरोधाभावादित्यर्थः | प्रपंचस्य मिथ्यात्वपक्षे प्रत्यक्षादि विरोधाभावो निरूपितः | इदानीं सर्वेषु शरीरेष्टात्मन एकत्वपक्षे सुखदुःखादि व्यवस्थाविरोधमाशंक्यतां निरूपयितुं प्रसंगमाह | नन्वित्यादिना अपवर्गेति | जीवानां स्वरूपेण मिथ्यात्वज्ञानेन निवृत्यापत्या तेषां मुक्तिभात्कं न स्यादित्यर्थः | ननु जीवानां ब्रह्माभेदस्य वेदांतप्रमाणकस्य प्रथमपरिछेदावसाने उक्तत्वात् | ब्रह्माणेनाद्वितीयत्वानुपपतिरित्याशंक्य निराकरोति | न च तेषामिति | जीवानां परस्य भेदासिद्धिमाशंक्याह | न च तदिति | एकस्य यदाहुः खं भवति तदा जीवांतरस्य सुखं भवतीति सुखदुःखव्यवस्था एवं रागद्वेषादि व्यवस्थाप्यनुभवसिद्धा द्रष्टव्यांत तया तेषां परस्परभेदः सिध्यतीत्याह | सुखेति नन्वारंभणेत्यादिना प्राप्तं प्रतिशरीरमात्मभेदपक्षं प्रतिक्षिपति नेति | उपपतेरिति | नात्मभेदः प्रामाणिक इत्यर्थः | तदभेदेति | आत्मा भेदेत्यर्थः | कथं शब्दसूचितामनुपपतिमाह न हीति | तदतिरिक्तस्येति विरुद्ध सुखदुःखाद्याश्च याति रिक्तस्य कस्यचिदहमनुभवगोचरस्येत्यर्थः | अंतःकरणमेव बंधाश्रयो अहमनुभवगोचरश्च नत्वात्मा प्. ८३ब्) तस्य कूटस्थत्वात् तथा चाश्रयभेदादेव धर्मव्यवस्थेति समाधते | अत्र केचिदाहुरिति मन एवेति | मनोंतःकरणं कामसंकल्पादीनां तत्परिणामत्वात् सामानाधिकरण्यं विज्ञानमंतःकरणं तनुते करोति यज्ञं शास्त्रीयं कर्म आदिपदेन कामायेऽस्य हृदिश्रिता इत्यादिश्रुतिर्ग्राह्याचिदात्मनः कूटस्थत्वे प्रमाणमाह | असंगो ह्ययमिति असंगो न हि सज्जत इति संगा योग्यत्वादित्यर्थः | आदिपदेन साक्षी चेता केवलो निर्गुणंश्च अनश्ननऽन्यो अभिचाकशीतीत्यादि श्रुतिसंग्रहः | न चैवं सतीति अंतःकरणस्यैव बंधाश्रयत्वे सतीत्यर्थः | अहंकरोम्यहं सुख्यहं दुःख्यहमुपलभे इत्यादिरूपेण उपलब्धिरूप चैतन्यस्य कर्तृत्वसुखदुःखाद्यात्मकबंधसामानाधिकरण्यमनुभूयते तद्विरोध इत्यर्थः | अंतःकरणस्य चैतन तादात्म्येनाध्यस्ततया तद्धर्माणां चैतन्यसामानाधिकरण्यानुभवोपपतेः | न चांतःकरणस्य कर्तृत्वादि बंधाश्रयत्वे चेतनः संसारीनस्यादिति वाच्यं कर्तृत्वादि बंधाश्रयाहंकारग्रंथि तादात्म्याध्यासाधिष्ठानभाव एव तस्य संसार इत्युपरामात् प्. ८४अ) तावतैव भीषणत्वाश्रय सर्प तादात्म्याध्यासाधिष्ठाने रजादावयं भीषण इत्यभिमानवदात्मनोनर्था श्रयत्वाभिमानोपपतेः | एतदभिप्रायेणैव ध्यायतीवलेला स्मृतिव अहंकार विमूढात्मा कर्ताहमिति मन्यत इत्यादि श्रुतिदर्शनाच्च न चैकस्मिन्नेवात्मनिविचित्रसुखदुःखाश्रयत तदंतःकरणानामध्यासादात्मन्याभिमानिक सुखदुःखादि व्यवस्थैवमपि न सिद्ध्यतीति वाच्यं || यथा इदमंश तादात्म्येनाध्यस्ते रजते रजतत्वस्य इदं त्व सामानाधिकरण्यानुभवः | तद्वदिति समाधते अंतःकरणस्येति | तद्धर्माणामित्यत्र तत्पदमंतःकरणपरं एतदुक्तं भवति | आत्मनश्चैतन्यरूपत्वेपि भेदकल्पनया चैतन्यमात्मधर्मः | तथा चात्म्यंतःकरणयोरैक्याध्यासे सति तयोर्धर्माणां चैतन्य कर्तृत्वादीनां सामानाधिकरण्यं संपद्यत इति न तदनुभवविरोध इति | चेतन इति | चैतन्याश्रय आत्मा संसारी कर्तृत्वादि धर्मवान् न स्यादित्यर्थः | चेतनस्य स्वतः संसाराश्रयत्वाभावेपि बुद्धिनिष्टस्य संसाराश्रयत्वस्य साक्षिणानुभूयमानस्यात्मन्यारोधोपपतेः प्. ८४ब्) आरोपित संसाराश्रयत्वमस्तीति परिहरति | कर्तृत्वादीति | अहंकारस्य चेतनेन सह ग्रंथितुल्यो यस्तादात्म्यरूपो ध्यासस्तदधिष्ठानत्वमेवेत्यर्थः | तस्य चेतनस्य इत्यर्थः | संसार इति संसाराश्रयत्व भ्रांतिप्रयोजक इत्युपगमादित्यर्थः | तावतैवेति | उपाधेः संसाराश्रयत्वमात्रेणेत्यर्थः | भीषणत्वं भय हेतुत्वं तच्च सर्पधर्मः अभिमानो भ्रांतिः न चान्य निष्टसंसाराश्रयत्वस्यात्मन्यारोपे अन्यथा ख्याति प्रसंग इति वाच्यं | अनुभूयमानारोपस्थले आरोप्याधिष्ठानयोः संसर्गस्यानिर्वचनीयस्योत्पत्युपगमेन तदप्रसंगादिति भावः | एतदिति बुद्धिनिष्टसंसारस्यात्मन्यारोपाभिप्रायेणैवेत्यर्थः | बुद्धौ ध्यायंत्वामात्माध्यायतीवभाति तस्यामेवलेलायंत्यां चलंत्यामात्माचलतीव न तु वस्तुतो ध्यानाद्याश्रय इति इव शब्दार्थः | ध्यानादिग्रहणमशेषबुद्धिधर्माणामुपलक्षणार्थं अहंकारेण कर्तृत्वाश्रयेण सह विमोहं तादात्म्याध्यासमापन्नः स न आत्मा नमहं कर्तेति मन्यते कर्तृत्वमननमशेषसंसारमननोपलक्षणार्थं | ननु बुद्धेः स्वतः संसाराश्रयत्वं चिदात्मनस्तु भ्रांति सिद्धं संसाराश्रयत्वमिति | विभागाभ्युपगमे प्रतिशरीरं बुद्धिभेदातद्धेर्मव्यवस्थासिद्धावपि प्रतिशरीरमात्मभेदाभावात् | तद्गतस्य बंधस्य न प्. ८५अ) व्यवस्थासिध्यतीति शंकते | न चैकस्मिन्नेवेति | विचित्राणां सुखदुःखानां माश्रयभूतानि ततदंतःकरणानि तेषामेकस्मिन्नेवात्मन्यध्यासाद्धेतोर्य आत्मन्याभिमानिकः सुखदुःखादिः तस्य व्यवस्था न सिध्यतीत्यर्थः | एवमपीति | बुद्धि धर्मव्यवस्थासिद्धावपीत्यर्थः || आध्यासिक तादात्म्यापन्नांतःकरणगतानर्थजातस्येव तद्गतपरस्परभेदस्याप्यभिमानत आत्मीय तयात्मनो यादृशमनर्थभात्कं तादृशेन भेदेन तद्यवस्थोपपतेः | एतेन सुखदुःखादीनामंतःकरणधर्मत्वंपि तदनुभवः साक्षिरूप इति तस्यैकत्वात् सुखदुःखाद्यनुभवरूप भोगव्यवस्थान सिद्ध्यतीति निरस्तं तन्हद्रन्तःकरण तादात्म्यापत्त्या ततदंतःकरणभेदेन भेदेवते एव साक्षिणस्तम्नदंतःकरण सुखदुःखाद्यनुभवरूपत्वेन तद्व्यवस्थाया अप्युपपतेरिति | अन्ये तु जडस्य कर्तृत्वादि बंधाश्रयत्वानुपपतेः कर्ता शास्त्रार्थवत्वादिति चेतनस्यैव तदाश्रयत्वप्रतिपादकसूत्रेणांतःकरणे प्. ८५ब्) चिदाभासोबंधाश्रयस्तस्य चासत्यस्य बिंबाद्भिन्नस्य प्रत्यंतःकरणं भेदाद्विद्वदविद्वत्सुखिदुःखिकर्त्रऽकर्त्रादि व्यवस्था || बंधाश्रयत्वस्येव बुद्धिगतस्य परस्परभेदाश्रयत्वस्याप्यात्मन्यारोपाभ्युपगमान्ना व्यवस्थेति परिहरति | आध्यासिकेति | नन्वारोपितेन भेदेन कथं व्यवस्थेत्याशंक्य व्यवस्थापनीय स्यात्मन्यारोपितत्वान्ना व्यवस्थापकत्वं तादृश भेदस्येत्याह | यादृशमिति | आत्मसाक्षिचैतन्ययोरभेदेपि भेदं कल्पयित्वा कल्पितबंधाश्रयस्यात्मन एकसुखदुःखादेः त्व प्रयुक्तौ दोषो निरस्तः | इदानीं साक्षि चैतन्यस्य सर्वशरीरष्वेकत्वप्रयुक्तं दोषमाशंक्यनिराकरोति | एतेनेति | वक्ष्यमाणहेतुनेत्यर्यः | तदनुभव इति | सुखाद्यनुभव इत्यर्थः | सुखेति देवदत्तस्य यः सुखानुभवः स एव चेद्यज्ञदतस्यापि तदा देवदत्तस्य सुखानुभवकाले तमेव सुखानुभवमादाय यज्ञदत्तस्याप्यहं सुखीति भोगप्रसंग इत्यर्थः | यथा अंतःकरणगतभेदस्यात्मन्यारोपः तथा साक्षि चैतन्यरूपे सुखाद्यनुभवेपि तद्गतभेदारोपाभ्युपगमात् | न भोगा व्यवस्थेति परिहरति ते तदिति | भेदेनेति | ततदंतःकरण भेदेन साक्षिण्यारौपितेन प्. ८६अ) भेदविशिष्टस्यैवेत्यर्थः | धान्येन धनवानित्यत्रैव तृतीया साक्षिण्यंतःकरणभेदारोपे हेतुः | तादात्म्यापत्येति | सर्वशरीरेष्वात्मन एकत्वे सुखादि व्यवस्थानस्यादिति पूर्ववाद्याक्षेपे | अन्यत् समाधानमाह | अन्ये त्विति पूर्वोक्तं बुद्धेर्बंधाश्रयत्वं दूषयति | जडस्येति | अनुपपतेरिति | बंधस्य चेतनधर्मत्वप्रसिद्धिविरोधादितिभावः | बुद्धेरेव कर्तृत्वं न चेतनस्य तस्य कूटस्थ त्वादिति सांख्यमत निराकरण पूर्वकं चेतनस्यैव कर्तृत्व व्यवस्थापक सूत्रानुसाराच्चेत्याह | कर्तेति | चेतनः कर्ता भवितु मर्हति तथा सत्यैव चेतनस्य कर्तृत्व प्रतिपादकं कर्ता विज्ञानात्मा पुरुष इति शास्त्रमर्थवद्भवति | अन्यथा तदनर्थकं स्यादिति सूत्रार्थः | चिदाभास इति | न तु साक्षाच्चिदात्मैव तस्य कूटस्थत्वेन बंध परिणामित्वा योगादिति भावः | चिदाभासस्य बंधा श्रयत्वेपि कथं व्यवस्था सिद्धिस्तत्राह | तस्य चैति बिंबपति बिंबयोरे भेदेपि प्रत्यंतःकरणं प्रतिबिंबभेदो लभ्यते उपाधि भेदेन तन्निरूपित प्रतिबिबानामपि कल्पित भेदाभ्युपगमा तथापि प्रतिबिंबमिथ्यात्वमत एव तस्य बंधाश्रयत्वं स्वाभाविकं भवतीति तन्मिथ्यात्वमतमाश्रितं || न चैवमसत्यस्य बंधाश्रयत्वे बंधमोक्षयोर्वैयधिकरण्यापतिः प्. ८६ब्) अस्य चिदाभासस्यांतःकरणावछिन्ने स्वरूपतः सत्यतया मुक्त्य नयिनि पारमार्थिक जीवेऽध्यस्ततया कर्तृत्वाद्याश्रय चिदाभास तादात्म्याध्यासाधिष्ठान भावस्तस्य बंध इत्युपगमादित्याहुः | अपरे त्वात्मेंद्रियमेनोयुक्तं भोक्तेत्याहुर्मरमीषिण इति सह कारित्वेन देहेंद्रियैस्तादात्म्यो न मनसा च युक्तस्य चेतनेस्य भोत्कृत्व श्रवणादंतःकरणभेदनतेद्विशिष्टभेदाद्व्यवस्थान चैवं विशिष्टस्य बंधः शुद्धस्य मोक्ष इति वैयधिकरण्यं विशिष्टगतस्य बंधस्य विशेष्ये अनन्वयाभावात् विशिष्टस्यानतिरेकादित्याहुः || न चैवमिति | बिंबप्रतिबिंबयोर्भेदांगीकारेत्यर्थः | सत्यस्य बिंबचैतन्यस्य ब्रह्मभावलक्षणमोक्षाश्रयत्वे च सतीतिशेषः मुक्त्यन्वपि नो बिंबभूतावछिन्नचैतन्यस्य स्वतः संसाराश्रयत्वाभावेपि भ्रांति सिद्धस्य तदाश्रयत्वस्य संभवान्न वैयधिकरण्य दोष इत्याह अस्येति | चिदाभास गत बंधस्य चिदात्मन्यध्यासे चिदात्मचिदाभासयोस्तादात्म्याध्यासं हेतुमाह प्. ८७अ) अध्यस्ततयेति | अस्य चिदाभासस्य परमार्थ जीवे ध्यस्तनयेति संबंधः | तस्य बंध इति बंधः | बंधारोपे हेतुरित्युपगमादित्यर्थः | यथा श्रुतस्याध्यासाधिष्ठानत्वस्य बंधरूपत्वाभावात् सुखादेरेव बंधरूपत्वाच्चेति बोध्यं | सर्वशरीरेषु चिदात्मन एकत्वेपि तस्य केवलस्य बंधाश्रयत्वं नोपेयते | किंतु बुद्धिविशिष्टस्य चिदात्मनस्तथा च बंधाश्रयस्य विशिष्टस्य प्रतिशरीरं भेदान्न सुखदुःकादि सांकार्यमिति मतांतरमाह | अपरे त्विति | विशिष्टस्य भोक्तत्वे मानमाह | आत्मेति आत्मशब्दो देहपरः श्रुतावात्मानमित्यध्याहारः इति शब्दो द्वितीया समानार्थकः | ततश्च देहेंद्रियांतःकरणयुक्तमात्मानं भोक्तारमाहुर्विद्वांस इत्यर्थः | ननु देहस्य विशेषणतया भोक्तृ कोटौ निवेशो न संभवति तस्यात्मनि भोगं प्रत्यवछेदकतया उपकरणं त्वादिंद्रियाणामपि भोक्तृ कोटौ निवेशौ न संभवति | तेषामुपकरणमात्रत्वात् स्वप्ने तेषामभावेपि भोगदर्शनाच्च तस्माद्देहेंद्रियैर्युक्तस्यात्मनो भोक्तत्व श्रुतिरनुपपत्तेत्याशंक्य युक्तपदोदितं योगं यथायोग्यं दर्शयति | सह कारित्वेनेति | आत्मनि तावत् कामसंकल्पादयोनुभूयंते ते च मनोधर्मत्वेन श्रुति सिद्धास्तथा च कामादिमन्मनस्तादात्म्यं विनात्मनः प्. ८७ब्) कामाद्याश्रयत्वानुपपतेः | ततादात्म्येन तद्विशिष्टस्य भोक्तृत्वं युक्तमित्याशयेनाह | तादात्म्येनेति | ननु बुद्धिविशिष्टात्मा केवलात्मनः सकाशाद्भिन्नः विशिष्टं केवलं न भवतिति प्रतीतेः विशिष्टवृति केवलप्रतियोगिक भेदस्य विशेष्यवृतित्व नियमा तथा च विशिष्टात्मगत बंधस्य विशेष्यान्वपि त्वेपि मुक्तान्वपि केवलचैतन्ये बंधानन्वयाद्वैयधिकरण्यतादवस्थ्यमिति नेत्याह | विशिष्टस्येति | विशिष्टांतर्गतविशेष्यस्य केवलादनतिरेकादित्यर्थः | अयं भावः | लोके दंडविशिष्टपुरुषे कैवलपुरुषाभेदस्य प्रत्यभिज्ञायमानतात् | तत्प्रत्यभिज्ञाया बाधका भावाच्च विशिष्टांतर्गत विशेष्यस्य केवलस्य च स्वाभाविकमेकत्वं विशिष्टत्वाविशिष्टत्वरूपभेदेन काल्पनिको भेदश्च कल्प्यते तथा च विशिष्टगत बंधस्य विशेष्यान्वयिनः केवलात्मन्यययन्वयः सिद्ध इति || इतरे तु अस्तु केवलश्चेतनः कर्तृत्वादिबंधाश्रयः स्फटिकलौहित्य न्यायेनांतःकरणस्य तद्विशिष्टस्य वा कर्तृत्वाद्या अपस्य सन्निधानाच्चेतनेपि कर्तृत्वाद्यंतराध्यासोपगमात् | न च तस्यैकत्वाद्व्यवस्थानुपपतिः | उपाधिभेदादेव तदुपपते | न चान्यभेदादन्यत्रविरुद्ध प्. ८८अ) धर्मव्यवस्थानुयुज्यत इति वाच्यं | मूलाग्ररूपोपाधिमात्रेण वृक्षे संयोग तदभावव्यवस्था दर्शनात् | तत्तत्पुरुषकर्णपुटोपाधिभेदेन श्रोत्रभावमुपगतस्याकाशस्य तत्र शब्दोपलंभकत्वानुपलंभकत्वतारमंदेष्टानिष्ट शब्दोपलंभकत्वादि वैचित्र्यदर्शनाच्चेत्याहुः | एके तु यद्याश्रयभेदादेवविरुद्धधर्मव्यवस्थोपपादनीया तदा चेतने निकृष्टे एवोपाधिवशाद्भेदकल्पनास्तु अकल्पिताश्रयभेद एव व्यवस्थाप्रयोजक इति क्वाप्य संप्रतिपतैः मणिमुकरकृपाणाद्युपाधिकल्पितेन भेदेन मुखे श्यामा वदातवर्तुलदीर्घभावादि धर्माणां अंगुल्युपष्टंभोपाधिकल्पितेन भेदेन दीपे पाश्चात्यपौरस्त्यभावादि धर्माणां च व्यवस्थासंप्रतिपतेरित्याहुः || अंजसाबंधमोक्षयोः सामानाधिकरण्यमाह | इतरे त्विति | स्फुटिकेति | यथा लोहित्याश्रयस्य जपाकुसुमादेः सन्निधानात् स्फटिके उपाधिगतलौहित्यापेक्षया तत्प्रतिबिंबभूतस्य लौहित्यांतरस्योत्पतिः तथा चिदात्मनि बुध्यादि गतत बंधापैक्षया अन्यस्य प्. ८८ब्) कर्तृत्वादिबंधस्याभ्रमात्मकस्योपगमादित्यर्थः | न च बुध्यादौ साक्षिणानुभूयमानस्य बंधस्य चिदात्मनि संसर्गमात्राध्यासोपगमेन वैयधिकरण्य शंका परिहारसंभवात् तत्र बुध्यादिनिष्टकर्तृत्वादि सदृश कर्तृत्व प्रमुख बंधोत्पति कल्पनं न प्रामाणिकमिति वाच्यं | बुद्धेर्गुणेनाराग्रमात्रो ह्यवर इति श्रुताववरशब्दित जीवस्याराग्रमात्रशब्दितमल्पपरिमाणं बुद्धिगुणशब्दित परिमाण हेतुकमिति प्रतिपादनेन तुल्यन्यायतया कर्तृत्वादिकमपि बुद्धिधर्मसदृशमात्मन्युत्पद्यत इति | अस्यार्थस्य श्रुति संमतत्वेन प्रामाणिकत्वात् | न च तस्येति | कर्तृत्वाद्यध्यासाधिष्ठानस्यात्मन इत्यर्थः | मूलेति परमते नेदं दृष्टांत द्वयं सिद्धांते मूलावछिन्नवृक्षस्याग्रावछिन्नवृक्षस्य च काल्पनिक भेदाभ्युपगमेनैव संयोग तदभावव्यवस्थोपगमात् | श्रोत्रेंद्रियस्पदिगारभ्यत्वोपगमाच्चेति योध्यं | तारेति | तारशब्दोपलंभकत्वमंदशब्दोपलंभकत्वेष्टशब्दोपलंभकत्वा निष्टशब्दोपलंभकत्वादिलक्षणस्य वैचित्र्यस्य दर्शनादित्यर्थः | यदि दृष्टांतयोरुपाधिभेदेन तदुपहित वृक्षादिभेदं परो ब्रूया तदा प्रकृतेपि तथास्त्वित्याशयेनाह | एके त्विति | निकृष्ट इति | अंतःकरणविशिष्टवेषान्निकृष्टे तदुपहिते चिदात्मनीत्यर्थः | ननु सत्यभे एव व्यवस्था प्रयोजक इति नेत्याह | अकल्पितेति | घटादिभेदस्यापि सत्यत्वस्यास्माकमसंमतत्वादित्यर्थः | प्. ८९अ) ननु स्वाभाविकभेदे एव व्यवस्था प्रयोजको नत्वौपाधिकभेद इत्याशंक्याह | मणीति | मुखे हि मलिन मणि दर्पण कृतेन भेदेन श्यामत्वावदातत्व व्यवस्था संप्रतियतेः | कृपाणमणिमयस्तंभादि कृतेन भेदेन वर्तुलत्व दीर्घभावादि व्यवस्था संप्रतिपतेरित्यर्थः | न च बिंबप्रतिबिंबयोरभेदे स्वाभाविके खलुभेद औपाधिक इति सिध्यति तद्वशाद्व्यवस्थापि सिध्यति तयोरभेद एव कथं सिद्ध इति वाच्यं तस्य प्रागेव साधितत्वादितिभावः | अवछेदपक्षे औपाधिकभेदस्य व्यवस्थापकत्व संप्रतिपतिं दर्शयति अंगुलीति || एवमुपाधिवशाद्व्यवस्थोपपादने संभाविते जीवानां परस्परसुखाद्यनुनुसंधानप्रयोजक उपाधिः क इति निरूपणीयं | अत्र केचिदाहुः भोगायतनाभेद तद्भेदावनुसंधानाननुसंधानप्रयोजका उपाधी शरीरावछिन्नवेदनायास्तदवछिन्नेनानुसंधानात् चरणावछिन्नवेदनाया हस्तावछिन्नेनाननुसंधानाच्च हस्तावछिन्नोहं पादावछिन्नवेदनामनुभवामीत्यप्रत्ययात् | कथं तर्हि चरणलग्नकंटको द्वाराय हस्तव्यापारः प्. ८९ब्) नायं हस्तव्यापारो हे स्तावछिन्नानुसंधानात् | किं त्वव एवावयविनोश्ररण शरीरयोरभेदसत्वेन वरणावछिन्नवेदनाशरीरावछिन्नेनाहं चरणे वेदना वा नित्यनुसंधीयत इति तदनुसंधानात् | एवं च चैत्रमैत्रशरीरयोरभेदाभावाच्चैत्रशरीरावछिन्नवेदनामैत्र शरीरावछिन्नेन नानुसंधीयते | नाप्युभयशरीरानुस्यूतावयव्यंतरावछिन्नेनानुसंधीयते उभयानुस्यूतस्यावयविनो भोगायतनस्या भावादिति न चैत्रशरीरलग्नकंटकाद्वासय मैत्रशरीरव्यापारमप्रसंग इति || जीवानामुपाधिभेदाद्वा औपाधिकभेदाद्वासुखदुःखादि व्यवस्थासिद्धौ तेषां वस्तुतः परस्पर भेदे प्रमाणाभादादेक ब्रह्माभेदः सिध्यति | तत्सिद्धौवजीवाभिन्ने निष्प्रपंचे ब्रह्मणि वेदांतसमन्वयः सिद्ध इति प्रतिपादितं | संप्रति विचारांतरमारभते | एवमिति | उक्त प्रकारेणेत्यर्थः | अनुसंदानाननुसंधानयोः किं भोगायतनाभेद तद्भेदौ प्रयोजकौ किं वा विश्लिष्टभोव्यायतनाभेद तद्भेदौ | अथवा शरीराभेदतद्भेदौ | अंतःकरणाभेदतद्भेदौ वा अज्ञानाभेद तद्भेदौ प्. ९०अ) वा इति प्रश्रे प्रतिवचनं निरूपणीयमित्यर्थः | तत्राद्यपक्षमादाय प्रतिवचनं निरूपयति | अत्र केचिदाहुरिति तत्रान्वयव्यतिरेकौ प्रमाणयति शरीरावछिन्नेति | भोगायतनं ह्यवछेदकता स बंधेन भोगाश्रयः सन्नदेहः तदवयवहस्तादिश्च भवतीत्याशयेनाह | चरणेति | अननुसंधानमेव दर्शयति | हस्तावछिन्न इति हस्तावछिन्नात्मनः पादावछिन्नात्म गत दुःखानुसंधातृत्वाभावे बाधकं शंकते | कथं तर्हीति | अयं हस्तव्यापादो हस्तावछिन्नस्यानुसंधानान्न भवति | किंतु तदनुसंधानादिति संबंधः तस्य शरीरोवछिन्नस्य यच्चरणावछिन्नगत वेदनानुसंधनं तस्मादित्यर्थः | ननु चरणावछिन्नगतवेदना कथं शरीरावछिन्नेनानुसंधीयते अवयवावयविनोर्भेदात् | भेदप्यनुसंधानोपगमें चैत्र शरीरावचिन्नवेदना मैत्र शरीरावछिन्नेनाप्यनुसंधीयेत भेदा विशेषात् | तथा च चैत्र शरीरलग्नकंटको द्वाराय मैत्र शरीरस्य स्वारसिकौ व्यापारः प्रसज्येतात आह | अवयवावयविनोरिति | अवयवानां परस्पर भेदेपि शरीर तदवयवयोस्तादात्म्योपगमादित्यर्थः | एवं चेति | शरीरावछिन्नस्य चरणावछिन्नस्ये चरणावच्छिनवैदनानुसंधानं प्रतिशरीरचरणयोस्तादात्म्यस्य नियामकत्वे प्. ९०ब्) सतीत्यर्थः | ननु हस्तावछिन्नस्य चरणावछिन्नगवेदनानुसंधातृत्वाभावेपि चरणलग्नकंटको द्वाराय हस्त व्यापार चरेत् मैत्र शरीवछिन्नस्य चैत्रशरीरावछिन्नगतवेदनानुसंधातृत्वाभावेपि चैत्रशरीरलग्नकंटको द्वारापमैत्रशरीरव्यापारप्रसंगः परिहर्तुं न शकाते तत्राह नापीति | चैत्रमैत्र शरीरद्वयानुस्यूतेत्यर्थः | चैत्रशरीरावछिन्नवेदना उभयाअनुस्यूताऽवयव्यंतरावछिन्नेनापि नानुसंधीय इति संबंधः | अतो न दृष्टांतस्य म्य?मितिभावः || अन्ये तु विश्लिष्टोपाधिभेदो ननु संधानप्रयोजकः | तथा च हस्तावछिन्नस्य चरणावछिन्नवेदनानुसंधानाभ्युपगमेपि न दोषः | न चैवं सति गर्भस्थस्य मातृसुखानुसंधान प्रसंगः | एकस्मिन्न वयविन्यवयवभावेनाननुप्रविष्टयोर्विश्लिष्टशब्देन विवक्षितत्वात् | मातृगर्भशरीरयोस्तथात्वादित्वाहुः | न च उघदायुधदोर्दंडाः | पतित स्वशिरोक्षिभिः पश्यंतः यातयंतिस्मकबंधा अप्यरी तन् | इहेति भारतोक्त्याविश्लेषेप्यनुसंधानमवगमिति वाच्यं | तत्रापि शिरः कबंधयोरेकस्मिन्नवयविन्य च यवभावेनानुप्रविष्ट प्. ९१अ) चरत्वात् | शिरश्चेदानंतरं मूर्छामरणयोरन्यतरावश्यंभावे न दृष्टविरुद्धार्थस्य तादृशवचनस्य केंमुत्यन्यायेन योद्धुत्साहातिशय प्रशंसा परत्वात् | तादृक् प्रभाव युक्त पुरुषविशेषविषयत्वेन भूतार्थवादत्वेपि निरुक्तस्योत्सर्वातो | ननुसंधानतंत्रत्वा विघाताच्च | अत एवोक्त वक्ष्यमाणपक्षेषुयोगिनां जाति स्मराणां च शरीरांतरवृतांतानुसंधानेन दोष प्रसक्तिः || चरणलग्नं कंटको द्वाराध हस्त व्यापारानुरोधेन हस्तावछिन्नस्यैव चरणावछिन्नवेदनानुसंधातृत्वमुपेयते | न च तथा सति भोगायतन भेदस्याननुसंधानप्रयोजकत्वं न स्याच्चरणहस्तभेदे व्यभिचारादिति वाच्यं | तद्धारणाय विशेषणदानोपपतेरिति मत्वा द्वितीयं उपाधिं निरूपयति | अन्ये त्विति | उपाधि पदं भोगायतनपरं | न दोष इति | भोगायतनयोर्हस्तचरणयोर्भेदे सत्यपि तयोर्विश्लिष्टत्वाभावेन विश्लिष्टभोगायतन भेदस्याननुसंधानप्रयोजकस्याभावात् | न तत्र व्यभिचार दोष इत्यर्थः | न चैवं सतीति विश्रिष्टत्वविशेषणदाने सतीत्यर्थः | गर्भस्य जीवस्य यद्भोगायतने तस्य मातृशरीरस्य च विश्लोषाभावादितिभावः | विश्लिष्टपदार्था न भिज्ञ स्पंदे प्. ९१ब्) चाद्यमिति परिहरति | एकस्मिन्निति तथात्वादिति | एकस्मिन्न वयविनि अवयव भावे नाननुप्रविष्टत्वादित्यर्थः | तथा च विश्लिष्टोपाधिभैदसत्वान्न गर्भस्थ जीवस्य हृसुखानुसंधान प्रसंग इति भावः निरुक्ताननुसंधानप्रयोजकस्य व्यभिचारं शंकते | न चेति | दोर्दंडाः क बंधाः छिन्नशिरस्का देहाः | इह युद्धे भूमो वा अत्र वचने चैत्र मैत्र शरीरयोरिव विश्लिष्टयोः क बंध शिरसोर्भेदै सत्यपि शिरोवछिन्नस्य क चैधावछिन्नगतयोद्धृत्वानुसंधातृत्वमवगम्यत इति व्यभिचार इत्यर्थः | तत्रानुसंधानमुपेत्य चैत्र मैत्र शरीवैलक्ष्ण्येन समाधते | तत्रापीति चरत्वादिति | पूर्वमनुप्रविष्टत्वादित्यर्थः | अस्य वचनस्य स्वार्थे मानुत्वाभावाद्व्यभिचार शंकैवा युक्तेत्याशयेनाभ्युपगमं परित्यजति | शिरस्छेदानंतरमिति | कबंधा अपि पातयंति किमुतान्य इति योद्धृणामुत्साहातिशयं प्रशंसत्ये तद्वचनमित्यर्थः | ननु शिरस्छेदानंतरमपि युद्धानुसंधानादिकं योगमहिम्नातयो महिम्ना वा चरदान महिम्ना वा केषांचित् संभवति | ततो विद्यमानार्थकमेवेदं वचनमित्याशंकायां पुनरनुसंधानमुपेत्य व्यभिचारं परहरति | तादृगिति | विश्लिष्टभोगायतन भेदो ननुसंधानप्रयोजक इत्युत्सर्ग प्. ९२अ) इत्युपगमादुदाहृतानुसंधानस्थलस्य तदपवादस्थलत्वाभ्युपगमात् | तत्र व्यभिचारो न दोषायेतिभावः | अत एवेति उत्सर्गरूपत्वाभ्युपगमादेवेत्यर्थः | न दोष प्रक्तिरिति भोगायतन भेदादेरननुसंधानप्रयोजकत्वनियमाभ्युपगमे हि योगियुजाति स्मरेषु च भोगायतनभेदादि प्रयोजक चतुष्टयस्य सत्वेप्यननुसंधानाभावेन व्यभिचाररूप दोष प्रसक्तिर्न भवेदित्यर्थः || अपरे तु शरीरैक्यभेदावनुसंधान तदभावप्रयोजकोपाधीवाल्य भवांतरानुभूतयोरनुसंधान तदभावदृष्टेः | न च वाल्यैयोवनयोरपि शरीरभेदः शंकनीयः प्रत्यभिज्ञानात् | न च परिमाणभेदा तद्भेदावगमः एकस्मिन् वृक्षे मूलाग्रभेदेनेव कालभेदेनैकस्मिन्ननेकपरिमाणान्वयोपपतेः | नन्ववयवोपचयमंतरेण न परिमाणभेदः | अवयवाश्च पश्चादापतंतो न पूर्वसिद्धं शरीरं परियुज्यंत इति परिमाणभेदे शरीरभेदे आवश्यक इति चैन्न प्रदीपारोपणक्रियासमसमयसौधोदरव्यापि प्रभामंडलविकास तत्पिधानसमसमयत् प्. ९२ब्) त्संकोचाद्यननुरोधिं नः परिमाणुप्रक्रियारंभवादस्यानभ्युपगमात् | विवर्तवादे चेंद्रजालिक दर्शित शरीरवद्विनैवावयवोपचयं मायया शरीरस्य वृद्युपपतेरित्याहुः | इतरेत्वंतःकरणाभेदतद्भेदाभ्यां अनुसंधानाननुसंधान व्यवस्थामाहुः | अयं च पक्षः प्रागुपपादितः | केचित् तु अज्ञानानि जीवभेदोपाधिभूतानि नानेति स्वीकृत्य तद्भेदाभेदाभ्या अनुसंधाना ननुसंधान व्यवस्थामाहुः | अत्र केचित् तु || अदृष्टविशेषा सह कृतस्य भोगायतनभेदादेरननुसंधानप्रयोजकत्वस्य विवक्षितत्वात् न योग्यादिषु व्यभिचार इति तात्पर्यं तृतीयपक्षमादाय प्रतिवचनं निरूपयति | अपरे त्विति | तत्र मानमाह | बाल्येति | बाल्येऽनुभूतस्य वार्धिके अनुसंधानं दृश्यते बाल्यवार्धकयोः शराभेदात् | तत् भेदादेव भवांतरानुभूतस्यास्मित् जन्मन्यनुसंधानं न दृश्यत इत्यर्थः | शंकनीय इति | परिमाणभेदादितिभावः | बाल्याद्यवस्थाभेदेपि तदेवेदं शरीरमिति प्रत्यभिज्ञा दर्शनात् | न शरीरभेद इति परिहरति | प्रत्यभिज्ञानादि शंका बीजमरुद्य अन्यथा सिद्धिमाह | प्. ९३अ) न चेत्यादिना | आरंभवादमाश्रित्यशंकते | नन्विति न पूर्वसिद्धमिति | पूर्वसिद्धे शरीरे उपादानत्वा योगात् पूर्वसिद्ध शरीरनाशपूर्वं तदवयवैरुपचितावयवैश्च मिलित्वा शरीरांतरद्व्यणुकत्र्यणुकादिक्रमेणारब्धव्यमिति परिमाणभेदे शरीरभेद आवश्यकः प्रत्यभिज्ञा च शरीरत्वसामान्यविषया भविष्यतीत्यर्थः | समसमयकत्वं विकास विशेषणं समयश्च क्षणरूपौ बोध्यः | तत्पदं तदीय दीप्तिपरं उपादाना पादे ययोः सामानाधिकरण्यानुभवादिरादिपदार्थः | अननुरोधिन इति द्यष्णुकादिक्रमेण स्थूलावयव्युत्पतिपक्षे बिलंबापतेः समसमयत्वानुभवविरोधात्परिमाणुसंयोगनाशक्रमेण प्रभादिनाशेपि बिलंबापतेरारंभवादे उपादानो पादेययोरत्यंतभेदाभ्युपगमेन सामानाधिकरण्यानुभवविरोधाच्च तद्वादस्य हेयत्वमेवेत्यर्थः | अवयवो पचय क्रमेण शरांतरांरंभानुपगमे कथमेकस्मिन् शरीरे विरुद्धपरिमाणयोग इत्यत आह | विवर्तवादेवेति चतुर्थपक्षमादाय प्रतिवचनं ददाति | इतरे त्विति प्रागिति सुखदुःखादि व्यवस्थोपपादनग्रंथ इत्यर्थः | पंचमपक्षमाह केचित्विति प्रतिजीवमज्ञानभेदे प्रमाणं ब्रह्मलक्षणविचारावसरे दर्शितं एवमैकात्म्यवादे व्यवस्थामुपपादातन्नानात्ववादे व्यवस्थानुपपतिमाह | अत्रेति || प्. ९३ब्) अंशो नानाव्यपदेशादित्यधिकरणे अदृष्टानियमात अभिसंध्यादिष्वपि चैवं प्रदेशादिति चेन्नांतर्भावादिति सूत्रतद्भाष्यरीति मनुसृत्यैकस्मिन्नात्मन्युपाधिभेदेन व्यवस्थानुपगमेकणभुगादिरीत्यात्मभेदवादेपि व्यवस्थानुपपति तौल्यमाहुः | तथा हि चैत्रचरणलग्नकंटकेन चैत्रस्य वेदनोत्पादे समयेऽन्येषामप्यात्मनां कुतो वेदना न जायेत | सर्वात्मनां सर्वगत्वत्वेन चैत्रशरीरांतर्भावाविशेषात् | न च यस्य शरीरे कंटकवेधादि तस्यैव वेदनानान्येषामिति व्यवस्था सर्वात्मसन्निधावुत्पद्यमानं शरीरं कस्यचिदेव नान्येषामिति नियंतुमशक्यत्वात् न च यददृष्टोत्पादितं यच्छरीरं ततदीयमिति नियमः | अदृष्टस्यापि नियमासिद्धेः | यदा हि तदृष्टोत्पादाय केन चिदात्मना संयुज्यते मनः संयुज्यत एवं तदान्यैरपि कथं कारणसाधारण्यै क्वचिदेव तदृष्टमुत्पद्येत | ननु मनः संयोगमात्रसाधारण्येप्यहमिदं फलं प्राप्नुयामित्यभि प्. ९४अ) संधिरदृष्टोत्पादककर्मानुकूलकृतिरित्येवमादि व्यवस्थितमिति तत एवादृष्टनियमो भविष्यतीति चेन्न अभिसंध्यादीनामपि साधारण मनः संयोगादिति ध्याद्यतया व्यवस्थित्यसिद्धेः | ननु स्वकीयमनः संयोगोभिसंध्यादिकारणमिति मनसंयोग एवासाधारण्ये भविष्यतीति | न नित्यं सर्वात्मसंयुक्तं मनः कस्यचिदेव स्वमिति नियंतुमशक्यत्वात् | न चादृष्टविशेषादात्मविशेषेणमनसः स्वस्वामिभावसिद्धिः तस्याप्यदृष्टस्य पूर्ववद्व्यस्थित्यसिद्धेः || अंशो ब्रह्मणो जीवः श्रुतिषु जीवब्रह्मणोर्नानात्व व्यपदेशान्न च ब्रह्मणो निरंशस्य कथं जीव अंश इति वाच्यं | अवछिन्नाकाशो महाकाशस्य यथा अंशस्तथा अवाछिन्नमनछिन्नचैतन्यरूपस्य ब्रह्मणोंश इत्युपगमादिति सूत्रभागार्थः | अदृष्टानियमादि सूत्रत्रयस्य व्याख्यानं भविष्यति काणभुगादिभिर्हि प्रतिशरीरमात्मभेदाभावे व्यवस्थान संभवतीत्यात्मभेद आश्रितः न चात्मनः एकत्वेपि उपाधि कृता व्यवस्था संभवतीति | तद्भेदाश्रयणं तैषां व्यर्थमिति वाच्यं | उपाधि कृत व्यवस्थायाः क्लिष्टत्वात् | अतोंजसा व्यवस्था सिद्धये आत्मभेदस्तैराश्रित तदेतन्मतं प्. ९४ब्) दूषयति | कणभुगादिरीत्येति | व्यवस्थेति व्यवस्थांजस्यांभावस्य तूल्यत्वमाहुरित्यर्थः | यथा चैत्रस्य तथाऽन्येषामपीत्यर्थः | कंटकवेधादीत्यादिपदं खड्गघातादि संग्रहार्थं | शरीरस्थात्मविशेषं प्रत्यसाधारण्यससिद्धमिति दूषयति सर्वात्मसंनिधाविति | अदृष्टानियमादिति सूत्रमवतारयति | यद दृष्टेति | सूत्रं व्याचष्टे अदृष्टस्यापीति | अनियमं साधयति | यदा हीति | तदान्यैरप्यात्मभिः संयुज्यत इत्यर्थः | संयोगमात्रेति मात्रपदमभिसंध्यादिसाधारण्य व्यवछेदार्थं न तु समवापि कारणस्य तद्व्यवछेदार्थमिति बोध्यं | अभिसंधिफलेछा आदिपदेन कृतिजनककार्यताज्ञानचिंकीर्ययोः संग्रहः अभिसंध्यादिष्वपि चैवमिति सूत्रं योजयन्नुतरमाह | नेत्यादिना मनसो अंसाधारण्यमाशंक्यनिराकरोति | ननु स्वकीयेति | तथा च तत्संयोगा समवायि कारणकं सर्वमसाधारणं भविष्यतीति भावः | ततः किं तत्राह कथमिति आत्मममः संयोगरूपासमवायि कारणस्य समवायि कारणरूपात्मनश्च साधारणत्वादित्यर्थः त्रुटत् ३५ || नन्वात्मनां विभुत्वेपि तेषां प्रदेशविशेषा एवबंधभाज इत्यात्मांतराणां चैत्र शरीरे तत्प्रदेशविशेषाभावात् सखादि व्यवस्था भविष्यतीति | प्. ९५अ) न यस्मिन् | प्रदेशे चैत्रः सुखाद्यनुभूय तस्मात् प्रदेशादपक्रांतस्तस्मिन्नेव मैत्रे समागते तस्यापि तत्र सुखदुःखादि दर्शनेन शरीरांतरे आत्मातंरप्रदेशविशेषस्याप्यंतर्भावात् | तस्मादात्मभेदेपि व्यवस्थादुरुपपादैव कथंचितदुपपादने च श्रुत्यनुरोधाल्लाघवाच्चैकात्म्यमंगीकृत्य तत्रैव तदुपपादनं कर्तुं युक्तमिति | संतु तर्ह्यणव एवात्मानो खदि विभुत्वे व्यवस्थान स्रुवचा नैवं आत्मनामणुत्वे कदाचित् सर्वांगीण सुखोदयस्य करशिरश्चरणाधिष्ठानस्य चानुपपतेः | यदत्रार्वाची न कल्पन मत्क्रांति गत्यागति श्रवणान्यथानुपपत्या अणुर्ह्येवैष आत्मायं वा एतेसिनीतः पुण्यं च पापं च वालाग्र शतभागस्येत्यादि श्रुतिषु साक्षादणुदत्व श्रवणेन चाणव एव जीवाः || प्रदेशादिति चेन्नांतर्भावादिति सूत्रं व्याचक्षाण एव प्रदेश कृतां व्यवस्थामाशंक्यनिराकरोति | नन्वात्मनामिति | बंधः सुखदुःखादिः ततदात्मासाधारणात् प्रदेशविशेषाद्यवस्थेति | चेदिति सौत्र प्. ९५ब्) शंकाभागाक्षरार्थः | एकस्मिन् शरीरे एकस्यैवात्मनः प्रदेशोनात्मांतराणामिति नियमो असिद्ध इति दूषयति | न यस्मिन्निति | अदृष्टसुखादेरव्याप्यवृतित्वादात्मनो यः प्रदेशो अदृष्टाद्याश्रयः स एवात्र प्रदेशशब्दार्थः | तथा च यस्मिन्नासनादि प्रदेशे चैत्र शरीरं स्थितं सच्चैत्रस्य सुखाद्यायतनं भवति | तस्मिन्नेव प्रदेशे चैत्र शरीराय क्रमणानंतरं मैत्र शरीरमागत्य स्थितं सन्मैत्रस्य सुखाद्यायतनं दृश्यते | अतस्तत्र पश्चादागतमेत्र शरीरे चैत्रमैत्रात्मप्रदेशयोरदृष्टायश्रयोः प्रवेशात् | तच्छरीरे चैत्रमैत्रयोरुभयोरपि भोगप्रसंगः | न च पूर्वशरीरापक्रमणसमये तच्छरीरगतस्य चैत्रात्मप्रदेशस्याप्यपक्रमणमेवास्त्विति वाच्यं प्रदेशवत्वः आत्मनः स्थिर त्वेन प्रदेशस्य चलनानुपपतेरेव मन्येषामप्यात्मनां प्रदेशांतभीवप्रयुक्तं भोगसांकर्यमूह्यं तस्मादिति | आत्मनां व्यापकत्वाभ्युपगमादित्यर्थः | नन्वात्मैक्य मते इव तन्नानात्वमतेपि कथंचिद्व्यवस्था स्वीक्रियत इत्याशंक्याह | श्रुतीति आत्मैक्यश्रुतीत्यर्थः | तत्रैवेति | एकस्मिन्नेवात्मनीत्यर्थः | जीवाणुत्वगमक श्रुतियुक्त्यवष्टंभेन पुनर्जीवब्रह्माभेदमाक्षिपति | संत्विति | निराकरोति नैवमिति | अधिष्ठानस्य चेति | युगपत्करादि प्रेररणस्येत्यर्थः प्. ९६अ) जीवस्याणुत्वेपि सर्वशरीरव्यापि सुखादिकं संभवतीति शंकते | यदत्रेति | कल्पनाप्रकारस्तेषामणुत्वेपीत्यादिना भविष्यति | आदौ तस्याणुत्वे मानमाह | उत्क्रांतीति | तु मुत्क्रामंतमित्यादि श्रुतिषूत्क्रांत्यादिकं श्रूयत इति भावः | ननु मध्यमपरिमाणस्य जीवस्योत्क्रांत्याद्यन्यथाऽनुपपत्या चेदणुत्वं कल्पते तर्हि जीवस्य ब्रह्मभावश्रवणानुपपत्या तस्य विभुत्वं कल्प्यते श्रुतार्थापतेरविशेषादित्याशंक्य श्रुतिमप्याह | अणुर्हीति | यमात्मानमेतेसिनीतः | वध्नीनः केते तत्राह | पुण्यं च पापं च एष आत्मा अणुर्हीत्यर्थः | बालः केशः शतधा कल्पितस्य च भागो जीवः स विज्ञेय इति | वाक्यमादिपदेन गृह्यते | बालाग्रस्य यः शत तमो भागः तस्यापि शतधा विभक्तस्य यो भागस्तुल्यपरिमाणो जीव इत्यर्थः || तेषामणुत्वेपि ज्ञानसुखादीनां प्रदीपप्रभान्यायेनाश्रयातिरिक्तप्रदेशविशेषव्यापि गुणतया सर्वांगीणतया सर्वांगीणसुखाद्युपलंभः द्रोणं बृहस्पतेर्भागमित्यादि स्मृत्यनुरोधेन जीवानामंश सत्वात् | करशिरश्चरणाद्यनुर्गतेषु सुखदुःखादि प्. ९६ब्) यौगपद्यंकाय व्यूहगतेषु योगिनां भोग वैचित्र्यं चेति न काचिदनुपपतिः | एवं च जीवानामणुत्वेनासंकरात् सुखदुःखादिव्यवस्थाविभोरीश्वराद्भेदश्चेति | अत्रोक्तमद्वैतदीपिकायां एवमपि कथं व्यवस्था सिद्धिः | चैत्रस्य पादै वेदना शिरसि सुखमिति स्वांशभेदगतसुखदुःकानुभववन्मैत्रगत सुखदुःखानुसंधानस्यापि दुर्वारत्वात् | अविशेषो हि चैत्र जीवातदंशयोर्मैत्रस्य च भेदः कायव्यूहस्थले वियुज्यान्यत्रसंसरणसमर्थानामंशानां जीवाद्भेदावश्यंभावादंशांशिनोस्त्वयाभेदाभेदाभ्युप- गमाच्च | न च शुद्धभेदोऽननुसंधानप्रयोजक इति वाच्यं | शुद्धत्वं हि भेदस्यांशांशिभावा सहचरि तत्वमभेदा सहचरित्वत्वं वा स्यात् | जीवस्याणुत्व साधकप्रमाणानुसारिणमर्वाचीन कल्पना प्रकारं दर्शयति | तेषामणुत्वेपीति | यथा प्रभायाः स्वाश्रयं प्रदीपं विहाय प्रदेशांतर व्यापित्वं तथा ज्ञानादीनां स्वाश्रयमणुमात्मानं विहाय कदाचिच्छरीर व्यापित्वं कल्पत इत्यर्थः | नन्वात्मनः शशरीरव्यापित्वे सति प्. ९७अ) युगपत्सुखप्रयत्नादय उत्पद्यमानाः तस्मिन्नवछेदकभेदेन संभवंति तस्याणुत्वे तु कथं तेषां यौगपद्यनिर्वाहः | तत्राह द्रोणमिति | अनुगतेष्टित्यनंतरं जीवांशेष्वितिशेषः व्यूहः काय व्यूहगतेष्वित्यनंतरमपि जीवांशेष्वितिशेषः | भोगानां भुज्यमानसुखादीनां वैचित्र्यं युगपन्नाना विधत्वं युगपदनेकशरीराधिष्ठानं च योगिनां खांशैः संभवतीत्यर्थः | जीवाणुत्वपक्षेन केवलमनुपपति सामान्याभावः | किं तु लाभोप्यस्तीत्याह | एवं चेति | जीवस्याणुत्वे सतीत्यर्थः असंकरादिति | एकस्मिन् शरीरे सर्वेषां जीवानां प्रवेशाभावादित्यर्थः | विभोरिति | जीवस्यापि विभुत्वे लक्षणभेदाभावादीशात् भेदो न सिध्येत् अणुत्वेत्वत्यंत वैलक्षण्यात् भेदः सुगम इति भावः | अर्वाचीन कल्पनं दूषयति | अत्रोक्तमिति | एवमपीति जीवस्याणुत्वसांशत्व कल्पनेपीत्यर्थः | जीवस्य स्वांशगतसुखाद्यनुसंधानं जीवांतरगतसुखाद्यननुसंधानं चाभ्युपगछतात्वयाभेदो ननु संधानप्रयोजकः | अभेदश्च तदनुसंधानप्रयोजक इति वक्तव्यं तत्राननुसंधानप्रयोजकभेदोभेदमात्रं वा शुद्धभेदो वा आद्ये चैत्रः स्वांशगतसुखादिकं नानुसंधानप्रयोजकभेदस्य सत्वाद्यदि सत्यपि भेदे स्वांशगतमनुसंदध्यात् | तदा चैत्रोगेत्र गत सुखादिकं प्. ९७ब्) मप्यनुसंदध्यादित्याह | चैत्रस्येति | अंशांऽशिनोरननुसंधानप्रयोजकभेदासिद्धिमाशंक्यतं | साधयति कायव्यूहेति वियुज्येति | अंशिनः सकाशाद्विभागं प्राप्येत्यर्थः | अन्यत्रेति | योगिनो निजशरीरादन्यत्र कायव्यूह इत्यर्थः | तयोर्भेदो नास्माभिः साधनीय इत्याशयेनाह | अंशांशिनोरिति | ननुभेदमात्रं अननुसंधानप्रयोजकतयानेष्यते | येन जीवस्वांशगमपि सुखादिकं नानुसंदध्यात् यद्यनुसंदध्यात् | तदा जीवांतरगतमपि तदनुसंदध्यात् दितिदोषः प्रसज्येत किंतु विशेषतो भेद इति द्वितीयं शंकते | न चेति || नाद्यः अंशो ह्येष परमस्य ममैवांशो जीवलोके अंशो नानाव्यपदेशादिति श्रुतिस्मृति सूत्रैर्जीवस्य ब्रह्मांशत्वप्रतिपादनैन ब्रह्मजीवयोर्भोगसांकर्य प्रसंगात् | ननु जीवांशानां जीवं प्रतीव जीवस्य ब्रह्मप्रतिनांशत्वं किं त्व चंद्रबिंबस्य गुरुबिंबः शतांश इति वत्सदृशत्वे सति ततो न्यूनत्वमात्रमौपचारिकांशत्वमिति चेत् | किं तदेनदतिरेकेण मुख्यमंशत्वं जीवांशानां जीवं प्रतिपदत्राननुसंधानप्रयोजकं शरीरे निवेश्यते | प्. ९८अ) न तावत् पटं प्रतिजंतूनामिवारंभकत्वं जीवस्यानादित्वात् | नापि महाकाशं प्रतिघटाकाशादीनामिव प्रदेशत्वं टंकछिन्नपाषाणशकलादीनामिव खंडत्वं वा अणुत्वेन निःप्रदेशत्वात् | अछेद्यत्वाच्च भिन्नाभिन्नद्रव्यत्वमंशत्वमभिमतमिति चेत् न तथा सति जीवेश्वरयोर्जीवांशानां च भोगसांकर्यप्रसंगात् | स्वतो भिन्नानां तेषां चेतनत्वादिनाऽभेदस्यापि त्वयांगीकारात् | समूहसमूहिनोर्भेदाभेदवादिनस्तवमते एकसमूहांतर्गतानां जीवानां परस्परमप्यभेदस्य त्वाच्च || आद्ये कल्पे जीवेश्वरभेदस्यांशांशिभाव सह चरितत्वेन शुद्धभेदत्वान्नावातयोः परस्परं सुखाद्यनुसंधानं स्यादित्याह | नाद्य इति | जीवेश्वरयोरंशांशिभावे मानमाह | अंशोहिति | परमस्य परमात्मनः जीवलक्षणो लोको जीवलोकः ननु भेदस्यांशांशिभावमात्रा सह चरितत्वं शुद्धत्वं न भवति | किंतु मुख्यांशांशिभावा सह चरितत्वं जीवेश्वरयोरंशांशित्वं तु न मुख्यमतेः तयोर्भेदे मुखाशांशिभावा सह चरितत्वरूपशुद्धत्वस्य सत्वान्नोक्त दोष इति शंकते | प्. ९८ब्) नन्विति जीवं प्रतीति | तथा च जीव तदंशयोर्भेदे मुख्यांशांशिभाव सह चरितत्वस्यैव सत्वेन तद सह चरितत्वरूपशुद्धत्वाभावादनुसंधो नोपपतिरितिभावः | नांशत्वमित्यनंतरं मुखमितिशेषः कांतिमत्वं | मुख्यांशांशिभावा सह चरित भेदो ननुसंधानप्रयोजक इत्यत्र मुख्यांशांशिभावो दुर्निरूप इत्याह | किं तदिति | यन्मुख्यमंशत्वमत्रप्रयोजकशरीरे निवेश्यते तदेतदतिरेकेण किमिति योजना मुख्यमंशत्वं आरंभकावयवत्वं वो प्रदेशत्वं वा खंडत्वं वा भिन्नाभिन्नद्रव्यत्वं वेति किं शब्दार्थः | तत्राद्यं निराकरोति | न तावदिति | द्वितीय तृतीयौ क्रमेणानूद्यदूषयति | नापीत्यादिना | जीवस्याणुत्वेन प्रदेशासंभवादणुत्वेनैव द्वैधीभावा योग्यत्वाच्चेत्यर्थः | चतुर्थं शंकते | भिन्नाभिन्नेति | जीवांशानां जीवेन सह भिन्नद्रव्यत्वं मुख्यमंशत्वमभिमतं तदेव चाननुसंधानप्रयोजकशरीरे निवेश्यते | तथा च भिन्नाभिन्नद्रव्यत्वा सहचरितभेदः शुद्धभेदः स चाननुसंधानप्रयोजक इति निष्कर्षः | तत्र दूषणमाह | तथा सतीति | जीवेश्वरयोस्त्वयाभिन्नाभिन्नद्रव्यत्वाभ्युपगमात् | तयोर्भेदः शुद्धभेदो न भवति | तथा जीवाशानां परस्परं भिन्नाभिन्नद्रव्यत्वस्य त्वया स्वीकारा तेषां भेदोपि शुद्धभेदो न भवति | तथा चाननुसंधानप्रयोजका भावाज्जीवेश्वरयोर्जीवांशानां च भोगसांकर्य प्रसंग इत्यर्थः | चेतनत्वादिनेति सत्व द्रव्यत्व संग्रहार्थमादिपदं दूषणांतरमाह | समूहेति | समूहस्य समूहिनां च परस्परं भिन्नात्वे सत्य प्. ९९अ) भिन्नत्वमंगीकुर्वतस्तवमते समूहिनामपि परस्परभिन्नत्वमावश्यकं | तथा च उत्मवादौवेकत्रमिलितानां जीवानां भिन्नानां परस्परमभिन्नद्रव्यत्वस्यापि सत्वा तेषां परस्परं भेदः शुद्धभेदो न भवति भिन्नाभिन्नाभिन्नद्रव्यत्व सहचरितत्वा तथा च परस्परं तेषां सुखाद्यनुसंधान प्रसंग इत्यर्थः || स्वाभिन्नसमूहाभिन्नेन स्वस्याप्यभेदस्य दुर्वारत्वात् | यदि संयोगादीनां जातेश्चानेकाश्रितत्वं स्या तदागुणगुण्यादेरभेदात् | तदा घटाभिन्नसंयोगाभिन्नपटादेरपि घटाभेदः प्रसज्येत इत्यादि च दतात्वया तदभिन्नाभिन्नस्य तदभेदनियमाभ्युपगमात् | न च जीवांतरस्य धारण चेतनत्वादि धर्मैक रूप्यैक समूहांतर्गत्यादि प्रयुक्ताभेदविलक्षणमभेदांतरमंशांशिनोरस्ति भेदेप्यनुसंधानप्रयोजकं यदत्रा नति प्रसंगाय विनक्ष्येत तथा सति तस्यैव विशिष्यनिर्वक्तव्यत्वापतेः | धर्मैकरूप्याद्यप्रयुक्तत्वमंशाशिनोरभेदे विशेष इति चेत् || प्. ९९ब्) ननु समूहिनां समूह्य भिन्नत्वेपि | न तेषां परस्परमभिन्नत्वमस्मन्मतेऽस्ति अतो नोक्तदोष इत्याशंक्याह | स्वाभिन्नेति | स्वयमेकः समूही देवदतः तदभिन्नः समूहः तदभिन्नो यज्ञदतः तेन सहस्वस्यापि देवदतस्याप्यभेदस्य तस्य च मते दुर्वारत्वात् | त्वया तदभिन्नाभिन्नस्य तदभिन्नत्वनियमाभ्युपगमादित्यर्थः परं प्रत्युक्त नियमाभ्युपगमं साधयति | यदीत्यादिना | गुणगुण्योर्जाति व्यक्त्योश्चाभेदवादिनं प्रतिदूषणपरोयं जीवाणुत्ववादिग्रंथो यदीत्यादिः | गुणगुण्योरभेदमंगीकृत्य यदि गुणस्य संयोगविभागद्वित्वादेरनेकाश्रितत्वमभ्युपगम्येत तथा जातिव्यक्त्यारभेदमुपेत्य यदि जातेरनेकाश्रितत्वेमभ्युपगम्येत तदा पटादेरपि घटाभेदप्रसंग इति | तत्र हेतुगर्भं विशेषणमाह | घटाभिन्नेति | घटाभिन्नः संयोगः तदभिन्नत्वात्पटादरित्यर्थः | ननु जीवेश्वरयोर्जीवोंशानां समूहाभिन्नजीवानां च योयंवेतनत्वादि धर्मप्रयुक्ताभेदः एकसमूहाभेदप्रयुक्ताभेदश्च तदपेक्षयान्य एवाभेदो जीव तदंयोरस्ति अतस्तयोर्भेदे सत्यपि परस्परमनुसंधानं जीवेश्वरयोर्जीवांशानां समूहिजीवानां च तादृशाभेदाभावाच्चेतनत्वादि प्रयुक्ताभेदे सत्यपि न परस्परमनुसंधानमिति प्. १००अ) व्यवस्था तथा च भिन्नाभिन्नद्रव्यत्वा सहचरितभेदः शुद्धे भेदः स चाननुसंधानप्रयोजक इत्यत्र जीव तदंशयोः परस्परानुसंधानप्रयोजकत्वाभिमतो विलक्षणाभेद एव प्रविष्ट इति जीवेश्वरादौ तादृशाभेदघटित भिन्नाभिन्नद्रव्यत्वा सहचरितभेदसत्वान्नोक्ताति प्रसंग इति शंकां निराकरोति | न चेति | जीवतदंशयोरिव जीवांतराणामपि साधारणो यश्चेतनत्वादि धर्मैकरूप्यप्रयुक्त एकसमूहांतर्गत्यादिप्रयुक्तश्चाभेदः तद्विलक्षणमित्यर्थः | जीवेश्वर गतस्यामुख्यांशांशिभावस्य संग्रहार्थमादिपदं अंशांशिनोर्भेदे सत्यपि तयोरनुसंधानप्रयोजकभेदांतरं ने चास्ति यदभेदांतरं जीवेश्वरादावति प्रसंगपरिहाराय भिन्नाभिन्नद्रव्यत्व शरीरप्रविष्टतया विवक्ष्येतेति योजना नन्वभेदांतरं कुतो नास्तीत्वाशंक्याह तथा सतीति विलक्षणाभेदस्यांशांशिनोः सत्व इत्यर्थः | जीवेश्वराद्यभेदापेक्षया जीव तदंशयोरभेदस्य विशेषं विशेषतौ निर्वक्ति धर्मैकरूप्याद्य प्रयुक्तत्वमिति || न जीवतदंशयोश्चोतनत्वादि धर्मैकरूप्यसत्वैनेकशरीरावछेदेकायव्यूहमेलने च समूह सत्वेन च तयोरभेदे धर्मैकरूप्यादि प्रयुक्तत्वस्यापि संभवात् धर्मैक प्. १००ब्) रूप्यादिप्रयुक्ताभेदांतर सत्वेपि जीव तदंशयोरंशांशिभावप्रयोजकाभेदो न तत्प्रयुक्त इति चेत् न तयोरभेदद्वयाभावात् | त्वन्मतेऽधिकरणैक्ये सति भेदस्याभेदस्य वा प्रतियोगिभेदेन तदाकारभेदेन वानेकत्वानभ्युपगमात् | तस्मादाद्यपक्षे सुस्थोति प्रसंगः | एतेनैव द्वितीय पक्षोपि निरस्तः | अभेदा सह चरितभेदस्याननुसंधानप्रयोजकत्वे उक्तरीत्यात्वन्मते जीवब्रह्मणो जीवानां चाभेदस्यापि सत्वेनाति प्रसंगस्य दुर्वारत्वात् | नन्वभेदप्रत्यक्षमनुसंधाने तंत्रमिति तदभावेः | ननुसंधानं स्वस्य स्वाभेदः स्वांशाभेदश्च प्रत्यक्ष इति तद्द्रष्ट्रर्दुखाद्यनुसंधानं जीवांतरेणऽभेदसत्वेपि तस्याप्रत्यक्षत्वान्न तदुःखाद्यनुसंधानं | उक्त विशेषासिद्धिमाह | न जीवेति | जीवस्य तदंशानां च चेतनत्व सत्वद्रव्यत्वादि धर्मैकरूप्यमस्ति तथा जीवस्य तदवयवानां चैकशरीरानुप्रवेशकाले प्. १०१अ) तछरीरावछेदेन समूहोप्यस्ति तथा योगि जीवावयनां कायव्यूहशब्दितानेकशरीरेषु प्रविष्टानां कदाचित् तेषां शरीराणां मेलने सति योगि जीवेनांशिना सहस्रमूहोस्मि तथा च जीवतदंशयोरभेदे धर्मैकरूप्यादिप्रयुक्तत्व संभवातदप्रयुक्तत्वमसिद्धमित्यर्थः | ननु जीवानां चेतनत्वादि धर्मैकरूप्यादिप्रयुक्ताभेदसत्वेपि तेषामंशांशिभावादंशांशिभावप्रयोजकाभेदोन्य एव स च न धर्मैकरूप्यादिप्रयुक्त इति शंकते | धर्मैकरूप्यादीति जीवांतरसाधारणाभेदस्य धर्मैकरूप्यादि प्रयुक्तस्याप्य परिहार्यत्वा तस्याप्यभ्युपगमे सति जीव तदंशयोरभेदद्वयमभ्युपगते परस्य मते प्रसज्यते | ओमिति वदंतं परं प्रत्याह | न तयोरिति | अंशांशिनोरित्यर्थः | तदा कोरेति प्रतियोग्याकारेत्यर्थः | प्रतियोगितावछेदकेति यावत् | भेदस्यानेकत्वानभ्युपगमोपन्यासो दृष्टांतार्थः | तस्यादिति | जीवेश्वरयोर्यः पूर्वमंशाशिभावो निरूपिता तदतिरेकेण जीवतदंशयोर्मुखस्यांशांशिभावस्य दुर्निरूपत्वादित्यर्थः | तथा च जीवैश्वरयोर्भेदस्य निरूपितांशांशिभावसहचरितत्वेन तदसहचरितत्वरूपशुद्धत्वाभावे सत्यननुसंधानप्रयोजक शुद्धभेदाभावाज्जीवेश्वरयोः परस्परं भोगसांकर्यप्रसंगरूपो दोषः स्थिर इत्यर्थः | आद्यपक्ष इति अशांशिभावा सहचरितत्वं शुद्धत्वमिति पक्ष इत्यर्थः | अभेदासहचरितत्वं शुद्धत्वं भेदस्येति पक्षं प्. १०१ब्) वक्ष्यमाण हेतुना निराकरोति | एतेनेनैवेति | उक्तरीत्येति | चेतनत्वादि धर्मैकरूप्यमुक्तारीतिः | जीव तदंशयोरिव जीव ब्रह्मणोर्जीवाअनां चाभेदमुपेत्यापि पूर्वोक्ताति प्रसंगपरिहारं शंकते नन्विति स्वस्येति अंशिनो जीवस्येत्यर्थः | जीवांतरेणेति | स्वस्येत्यिनुसंगः || जातिस्मरस्य प्राग्भवीयात्मनाप्यभेदस्य प्रत्यक्ष सत्वा तद्वृतांतानुसंधानमन्येषां तदभावान्नेत्यादि सर्वं संगछत इति चेत् | तर्हि ऐकात्म्यवादेपि सर्वात्मतावरकाज्ञानावरणाच्चैत्रस्य न मैत्रात्माद्य भेदप्रत्यक्षमिति तत एव सर्वव्यवस्थोपपतेर्व्यर्थः | श्रुति विरुद्धात्मभेदाभ्युपगमः | न चेत्थमपि प्रपंचतत्ववादिनः तव व्यवस्था निर्वाहः सर्वज्ञस्येश्वरस्य वस्तु स जीवांतराभेदप्रत्यक्षावश्यंभावे न जीवेषु दुःखवत् स्वहं दुःखीत्यनुभवापतेः | अस्मन्मते त्वीश्वरः स्वाभिन्ने जीवे संसारं प्रतिमुखे मालिन्यमिव पश्यन्नपि मिथ्यात्वनिश्चयान्न शोचतीति नैष प्रसंगः स्यादे प्. १०२अ) तन्माभूदंश भेदं शंकरशिरश्चरणादीनां काय व्यूहस्य चाधिष्ठानमात्मदीपस्यानपायिनी ज्ञानप्रभास्तिव्यापिनीति तयैव सर्वाधिष्ठानं भविष्यतीति चेत् || जातिस्मरस्येति | पूर्वजन्मस्मरणवत इत्यर्थः | सर्वेति सर्वात्मतावरकं | यदज्ञानं तत्प्रयुक्तावरणादित्यर्थः | तत एवेति चैत्र मैंत्रादीनां सर्वेषां परस्परमभेद प्रत्यक्षाभावादेव व्यवस्थिततया सुखाद्यननुसंधानोपपतेरित्यर्थः | अभेदप्रत्यक्षस्यानुसंधानप्रयोजकत्वमुपेत्यपरमते आत्माभेदकल्पनागौरवं श्रुतिविरोधं च दर्शयित्वा परमते तस्य प्रयोजकत्वमपि न संभवत्यति प्रसंगादित्याह | न चेत्थमपीति | अभेदप्रत्यक्षमवुसंधानप्रयोजकमिति कल्पनयापीत्यर्थः | वस्तुसन् परमार्थो यो जीवांतराभेदः तत्प्रत्यक्षमीश्वरस्यावश्यकं | अन्यथा असर्वज्ञत्वप्रसंगः स्यादित्यर्थः | ननु सिद्धंतेपि ब्रह्मणः सर्वज्ञत्वजीवाभिन्नत्वयोः सत्वादुक्तदोषप्रसंग इति नेत्याह | अस्मत्मत इति | यत्तु जीवानां सावयवत्वात् करशिरश्चरणानुगतेषु जीवांशेषु सुखदुःखादि यौगपद्यं संभवति योगिनां कायव्यूहगतेषु योगिजीवावयवेषु युगपत्सुखदुःखादिभोगवैचित्र्यं च संभवतीति न काचिदनुपपतिरिति तन्न जीवं प्रतिजीवांशानां प्. १०२ब्) सुख्यांशत्वस्यापि निरस्तत्वाज्जीवं प्रति तदंशानां जीवसदृशत्वे सति जीवापेक्षया न्यूनपरिमाणत्वरूपौपाचारिकांशत्वस्यापि जीवाणुत्वपक्षे बाधितत्वाच्च अणुपरिमाणस्यैव सर्वपरिमाणापेक्षया न्यूनपरिमाणत्वेन ततोपि न्यूनपरिमाणाभावात् सदृशत्वे सति ततो न्यूनत्वरूपांशत्वस्य चंद्रबिंबांश गुरुबिंबवज्जीवांशानां जीवापेक्षयात्यंतभेदप्रयोजकत्वेन जीवस्य स्वांशगतसुखाद्यनुसंधातृत्वासंभवाच्च तथा योगि जीवांशानां कायव्यूहाधिष्ठातृत्वेपि तेभ्योत्यंतभिन्नस्य योगि जीवस्य कायव्यूहाधिष्ठातृत्वाभावप्रसंगा तथा शरीरधिष्ठातुर्जीवस्य शरीरावयवशिरश्चरणाद्यधिष्ठातॄणां जीवांशानां चात्यंतभिन्नत्वेनैकस्मिन् शरीरे भोक्तृतानात्वप्रसंगात् जीवस्य सांशत्वे मानान्नावाच्च द्रोणं बृहस्पतेभीगमिति | वचनस्य वर्णितरीत्यादुक्तांशपरत्वाभावेन बृहस्पत्यादेर्योगप्रभावेणभूतारहरणादिदेव कार्यार्थं शरीरांतरपरिग्रहमात्रपरत्वात् | एतेन श्रीरामकृष्णादेर्विष्णुंशत्व व्यवहारोपि व्याख्यातः तस्माज्जीवांशविशेषस्य करशिरश्चरणाद्यधिष्टातृत्वं कायव्यूहाद्यधिष्ठातृत्वं च न संभवतीति पूर्वग्रंथस्याशये स्थिते शंकते स्यादेतदिति अधिष्ठानमिति | प्रेरक इत्यी भविष्यतीति | जीवः स्वयमणुतया शरीरैकदेशस्थोपि स्वसमचैतेन व्यापि ज्ञानेन करशिरश्चरणादीन् कायव्यूहं चाधि तिष्ठतीति प्. १०३अ) निरंशस्याप्यणोर्जीवस्य कृत्स्नशरीरोधिष्ठातृत्वादिकं नानुपपन्नमितिभावः || न ज्ञानवदात्मसुधर्मस्य सुखदुःखभोगस्य ज्ञानमाश्रित्योत्यत्यसंभवे नर चरणाद्यवयवभेदेन कायव्यूहवतः कायभेदेन च भोगवैचित्र्याभावप्रसंगात् | सुखदुःखभोगादिर्ज्ञानधर्म एवनात्मधर्म इत्युपगमे तद्वैचित्र्येण आत्मगुणस्य ज्ञानस्य भेदसिद्धावप्यात्मनो भेदासिद्ध्याभोगवैचित्र्यादिना आत्माभेदप्रतिक्षेपा योगाद्भोगाद्याश्रयस्यात्मनोणत्वेन प्रतिशरीरं विछिन्नतया तद्व्यापित्ववाद इव तदभेदवाद इवचनधर्मसंकरापतिरिति मतहानेश्च तस्माज्जीवस्याणुत्वोपगमेन व्यवस्थोपपादनेन युक्तं नापि तेन तस्येश्वराद्भेदसाधनं युक्तं उत्क्रांत्यादिश्रवणात्साक्षादणुत्व श्रवणाच्चाणुर्जीव इति वदतस्तवमते तत्सृष्टातदेवानुप्राविशत् अंतःप्रविष्टः शास्ताजनानां गुहां प्रविष्टौ परे मे परार्द्ध्ये इत्यादि श्रुतिषु प्रवैशादिश्रवणात् स एषोणिमा एषम प्. १०३ब्) आत्मांतं हृदयोणीयान् ब्रीहेर्वायवाद्धेति श्रुतेः साक्षादणुत्व श्रवणाच्च परोप्यणुरेव सिध्येदिति कुतः परजीवयोर्विभुत्वाणुत्वाभ्यां भेदसिद्धिः नन्वाकाशवत्सर्वगतश्च नित्यः ज्यायान् दिवोज्ज्यायांनंतरिक्षादित्यादि श्रवणात् || ज्ञानमाश्रित्येति | ज्ञानधर्मत्वे हि सुखादेर्ज्ञाने उत्पतिः संभवे ततश्च ज्ञानस्य व्यापकता तदाश्रित सुखादिरूपभोगस्यापि करशिरश्चरणादौ कायव्यूह च युगपदुदयः संभवेन्नतत्वया सुखादेर्ज्ञानधर्मत्वमिष्यते | तस्य ज्ञानवदात्मधर्मत्वाभ्युपगमादंशि ज्ञानस्य व्यापित्वेपि न करशिरश्चरणादौ कायव्यूहे च युगपद्भोगवैचित्र्यं संभवतीत्यर्थः | कायव्यूहवृत इति | योगिन इति शेषः तस्य च भोगवैचित्र्यं स्मर्यर्तौ क्षिपेच्च पुनस्तानि सूर्योरश्मिगणानिवेति | आत्मनां शरीराणां बलं योगजनितं सामर्थ्यं | तर्हि ज्ञानधर्मत्वमेव सुखादेरस्तु यदि तद्धर्षत्व भोगवैचित्र्यं संभवेत् तत्राह | सुखदुःखभोगादिरिति | असिद्ध्यति आत्मगुणज्ञाननिष्ठस्य भोगवैचित्र्यस्य व्यधिकरणतयो आत्मभेद साधकत्वासंभवादित्यर्थः | सुखादेर्व्यापि ज्ञानधर्मत्वं स्वमतविरुद्धं चेत्याह | भोगाद्याश्रयस्येति | नैययायिकादि मत इवाद्वैतमत इव चेत्यर्थः | तस्मादिति | आत्मगुणस्य ज्ञानसुखादेर्व्यापि प्. १०४अ) त्वकल्पनायोगादित्यर्थः | जीवाणुत्वाभ्युपगमस्य पराभिमतं प्रयोजनांतरं | आत्मनां च सहस्राणि बहूनि भरतर्षभयोगी कुर्यात् बलं प्राप्यतैश्च सर्वां सह्ये चरेत् प्राप्नुयाद्विषयान् कैश्चित्कैश्चिदुग्रंत पश्चरेत् सं ५ त्रुटित् दूषयति | नापि तेन तस्येति जीवस्याणुत्वे नेत्यर्थः | श्रुति तदर्थापतिभ्यां जीवस्याणुत्वं वदतस्तवमते ताभ्यामेवेश्वराणुत्वस्थापि दुर्वारत्वान्नेश्वरस्य विभुत्वसिद्धिस्तदसिद्धौवनतवेष्टसिद्धिरिति दूषयति | उत्क्रांत्वादिति | वदंतस्तवपक्षेप्यणुरेवसिध्येदिति संबंधः | तत्सृष्टोत्यवतत्पदद्वयं जगत्परं प्रकृतः परमात्मासृष्ट्यादिकर्ता अंतरिति शरीरेष्वितिशेषः शास्तानियंतापरस्यार्द्धस्थानमर्हतीति परार्द्ध्यं परममुत्कृष्टं हार्दाकाशं तस्मिन् या बुद्धिलक्षणागुहातां प्रविष्टौ जीवेश्वरावित्यर्थः | प्रवेशादिति | शरीरांतस्थत्वादिकमादिपदार्थः स उपक्रमे प्रकृत एषः संनिहितः अणिमा अणुर्भाव प्रत्ययो न विवक्षिप्तः मे हृदयेंतरेषः प्रकृतोभाक्रूपत्वादिगुणक आत्मावर्तते स च ब्रीह्माद्यपेक्षयाणुतर इत्यर्थः | अनन्यथा सिद्धशुत्यादि वशेन विभुत्वमीश्वरस्य शंकते | नन्विति | ज्यायात्महतरःराः || सर्वप्रपंचोपादानत्वाच्च परस्य सर्वगत्वसिद्धेः तदणत्वश्रुतयः उपासनार्थादुर्ग्रहत्वाभिप्रावा उन्नेयाः प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः | न च जीवोत्क्रांत्यादि श्रुतयोपि प्. १०४ब्) बुद्ध्या उपाधिनानिर्वोदुंशक्या इति शंक्यं तमुत्क्रामंतं प्राणोनूत्क्रामतीति प्राणाख्य बुद्व्युत्क्रांतेः प्रावेव जीवोत्क्रांति वचनात् | तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति टिव्यमिति नामरूपमोक्षानंतरमपि गति श्रवणाच्च त चथानः सुसमाहितमुत्सुर्जन्यायादेवमेवायं शारीर आत्माप्राज्ञे नात्मनान्वारूढ उत्सर्जन्यातीति स्वाभाविकगत्याश्रयशकट दृष्टांतोक्तेश्चेति चेत् | नैतत्सारं स वा एष महानज आत्मायोयं विज्ञानमयः घटसंवृत आकाशे नीयमाने घटे यथा घटोनियेतनाकाशं तद्वज्जीवो नभोपम इत्यादि श्रुतिषु जीवस्यापि विभुत्वश्रवणात् || परस्य विभुत्वे लिंगमाह | सर्वेति | परमाणुत्व श्रुतीनामन्युथा सिद्धिमाह | तदणुत्वेति | उपासनार्था इति अणीयान् ब्रीहेर्वेत्या विश्रुतय इत्यर्थः | दुर्ग्रहत्वेति स एषोणिमेत्यादि श्रुतय इत्यर्थः | आसामुपासनाप्रकरणगतत्वाभावादिति भावः | व्यवस्थितविकल्पवाचीवाकारः प्रवेशादि श्रवणस्यान्यथा सिद्धिमाह | प्रवेश श्रुतयश्चेति परमेश्वरस्य स्वेछापरिगृहीत प्. १०५अ) शरीरेंद्रिय प्रवेशोपाधिकः शरीरेष्वंतः प्रवेश इत्यर्थः | ननु जीवाणुत्व श्रुति लिंगानामप्यन्यथा नयन संभवाज्जीवस्यापि स्वाभाविकं विभुत्वं किं न स्यात् तथा च न तस्याणुत्वसिद्धिरिति सिद्धांतिनः शंका मनूद्यनिराकरोति | जीवाणुत्ववादी न चेत्यादिनातमुत्क्रामंतमिति | न चात्र श्रुतौ प्राणोप्राणोत्क्रांतेः प्रागेव जीवस्योत्क्रांति श्रवणेपि न केवलस्य तस्योत्क्रांति सिद्धिंर्बुद्धि विशिष्टस्योत्क्रांति संभवादिति वाच्यं बुद्धिप्राणयोर्भेदासिद्धेस्तयोरभेदस्यैव श्रुति सिद्धत्वाच्च तथा च श्रुतिर्यो वै प्राणः सा प्रज्ञाया वा प्रज्ञा स प्राण इति प्रज्ञाबुद्धिरित्याशयेनाह प्राणाख्या बुद्ध्यत्क्रांतेरिति | नामरूपशब्दितोपाधिनिवृत्यनंतरमपि जीवस्य ब्रह्म प्रतिगतिः श्रूयते | तथा च यथा उत्क्रांते रौपायिकत्वं न संभवति तथा गतेररपौपाधिकत्वं न संभवतीत्य मध्यमपरिमाणस्य जीवस्य स्वाभाविकमणुत्वं स्वीकर्तव्यमित्याशयेनाह | तथा विद्वानिति पराद्धिरण्यगर्भात् जीवस्या स्वाभाविके गत्याश्रयत्वे सत्येव दृष्टांतविशेषः संगछते न्यथा तद्वैरूप्यं स्यादित्याशयेनाह | तद्यथेति | ततत्र जीवस्य पारलोकं प्रतिगमने दृष्टां तत उच्यते | अनः शकठंसुसमाहितं गृहोपकरणैः पूर्णमुत्सर्जन् शब्दं कुर्वन् पायात् | गछेद्यथा एवं जीव ईश्वरेणान्वारूढः प्रेरितो गछति परलोक इत्यर्थः | तथा च जीवस्याणुत्वे प्. १०५ब्) स्वाभाविके सिद्धे सत्यणुत्वविभुत्वाभ्यां जीवेश्वरयोर्भेदसिद्धिरिति भावः | सिद्धांती दूषय इति | नैतत् सारमिति | यथा परमात्मप्रकरणे श्रुतं परस्य विभुत्वमन्यथानेतुमयुक्तं तथा जीव प्रकरणे श्रुतं जीवस्य विभुत्वमप्यन्यथा नेतुमयुक्तमित्याशयेनकतम आत्मेत्यादि जीवप्रकरण गतं वाक्यं जातमुदाहरति | स वा इत्यादिना विज्ञानमयो जीवो महान् व्यापक आत्मेति जीवस्य व्यापकत्व श्रवणादित्यर्थः | नभोपम इत्यनेन स्वतो जीवस्य विभुत्वमुच्यत इत्यर्थः | इयं श्रुतिः प्रागेव व्याख्याता || त्वन्मते प्रकृतेरेव जगदुपादानत्वेन ब्रह्मणो जगदुपादानत्वा भावात् | जीवस्य कायव्यूहुगत सुखदुःखोपादानत्ववदणुत्वेपि जगदुपादानत्वसंभवाच्च | ततस्तस्य सर्वगत्वासिद्धेः | तत्प्रवेश श्रुतीनां शरीरोपाधिकत्वकल्पने जीवोत्क्रांत्यादि श्रुतीनामपि बुद्ध्युपाधिकत्वोपगमसंभवात् | पंचवृतिर्मनोवद्यय दिश्यत इति सूत्रभाष्ये बुद्धिप्रायोः कार्यभेदस्य प्रतिपादितत्वेन बुद्ध्यपाधिके जीवे प्रथममुत्क्रामति प्राणस्यानूत्क्रमणोपपतेः प्. १०६अ) नामरूपमोक्षानंतरं ब्रह्मप्रामिश्रवणस्य प्राप्तरिजीवे इव प्राप्ये ब्रह्मण्यपि विभुत्वविरोधित्वात् | प्राकृतनामरूपविमोक्षातंतरमर्प्य प्राकृततोकविग्रहाद्युपाधाने ब्रह्मणः प्राप्तव्यत्ववादिमने प्राप्तुर्जीवस्याप्यप्राकृत देहेन्द्रियादि सत्त्वेन तदुप्राधानेन ब्रह्मप्राप्ति श्रवणाविरोधात् | स्वाभाविक गत्याश्रय शकट दृष्टांतश्रवणमात्राज्जीवस्य स्वाभाविक गति सिद्धौ गुहां प्रदिष्टाविति स्वाभाविक प्रवेशाश्रय जीवसमभिव्याहारेण ब्रह्मणोपि स्वाभाविक प्रवेशसिद्धिसंभवात् | विभुत्वेन न्यथासिद्धश्रुतिसाम्यमुक्त्वापरस्परोक्त विभुत्व लिंगं विघटयति | तन्मत इति | प्रकृतिर्माया परस्य ब्रह्मणः सर्वप्रपंचोपादानत्वमुपेत्यापि न तद्विभुत्वसाधकमियत्याह | जीवस्येति | अणोरितिशेषः | ततः सर्वोपादान त्वात्तस्येत्यर्थः | जीवाणुत्वश्रुतिलिंगानामन्यथा नयनमपि तुल्यमेवैत्याह | तत्प्रवेश श्रुतीति | ब्रह्मप्रवेशेत्यर्थः | पंचप्राणापानादिलक्षणावृतयो यस्य मुख्यप्राणस्य सः पंचवृतिः प्राणः श्रुतिषु व्यपदिश्यतै बहुवृतिमत्वमात्रे च दृष्टांतः मनो वदिति | प्. १०६ब्) प्राणापानादि वृतीनां चोछासादिकं प्रत्येत्येकं कार्यमिति द्रष्टव्यं | तथा च दृष्टांत दार्ष्टांतिक भावेन सूत्रे मनःशब्दितबुद्धेः प्राणस्य च भेदौ निर्दिष्टः | स च बुद्धींद्रिय कार्यविषयो लोचनापेक्षया विलक्षणस्योछासादि क्रियारूपकार्यस्य प्राणे दर्शनात् | प्राणो बुद्ध्यादिभ्यो भिन्न इत्यादिप्रकारेण भाष्ये साधित इत्यर्थः | यो वै प्राणः सा प्रज्ञेति श्रुतौ प्रज्ञाप्राणयोर्भेदे सत्यपि प्रज्ञाप्राणोपहितस्य प्रत्यगात्मन एकत्वादुपहितात्प्राधान्येन तयोरेकीकरणमविरुद्धमिति प्रतर्दनाधिकरणभाष्यो प्रतिपादितत्वान्न श्रुतिविरोधोपीतिभावः | यतु नामरूपोपाधि निवृत्यनंतरं जीवस्य ब्रह्मप्रतिगति श्रवणं जीवस्य विभुत्व विरोधीति तदयुक्तं तस्य ब्रह्मण्यपि विभुत्वविरोधित्वेन ब्रह्मणोपि तदंसिद्धिप्रसंगात् | लोके परिछिन्नस्यैव गंतव्यत्वनियमदर्शनादित्याह | नामरूपेति | ननु परमते ब्रह्मणो व्यापक स्वरूपेण न मुक्तप्राप्यत्वं किंतु लोकविशेषाद्युपहितत्वेन उपहितरूपेण प्राप्तव्य त्वं च न ब्रह्मणः स्वरूपेण व्यापकत्वविदोधीत्याशंक्यतुल्यमेव तत्तवमते जीवस्यापीत्याह | प्राकृतेति विद्वाम्नामरूपाद्विमुक्त इति श्रुतौ प्राकृतनामरूपाद्विमुक्त इत्यर्थं कल्पयता त्वया विदुषो जीवस्याप्यप्राकृतनामरूप स्वीकारेण स्वतो विभोरपि जीवस्याप्राकृतनामरूपोपाधिपरिछिन्नस्य प्. १०७अ) ब्रह्मप्रतिगंतृत्व संभवान्न विभुत्व श्रुतयो जीवविषयावायनीया इत्यर्थः || ब्रह्मजीवोभयान्वयि न एकस्य प्रवेश पदस्य एकरूपप्रवेशपरत्वस्य वक्तव्यत्वात् ततः परमते ब्रह्मजीवयोर्विभुत्वाणुत्वादि व्यवस्थित्य सिद्धेर्न कुतोपि भेदसिद्धिं प्रत्याशा अस्मत्मते ब्रह्मात्मैक्य परमहावाक्यानुरोधेनावांतरवाक्यानां नेयत्वात् स्वरूपेण जीवस्य विभुत्वमौपाधिकरूपेण परिछेद इत्यादिप्रकारेण जीव ब्रह्मभेदे प्रात्यायक श्रुतीनांमुपपादेनं भाष्यादिषु व्यक्तं तस्मादचेतनस्य प्रपंचस्य मिथ्यात्वाच्चेतन प्रपंचस्य ब्रह्माभेदाच्च न वेदांतानाम द्वितीये ब्रह्मणि विद्यैक प्राप्ये समन्वयस्य कश्चिद्विरोध इति | इति शास्त्रसिद्धांतलेशसंग्रहे द्वितीयः परिच्छेदः || २ || ननु प्रविष्टावित्यत्र प्रविष्टपदं जीवे स्वाभाविक प्रवेशार्थकं ब्रह्मणि तु शरीराद्युपाधिकृतप्रवेशार्थकमित्याशंक्य तथा सति सकृच्छृतस्य प्रतिष्टपदस्यार्थ प्. १०७ब्) वैरूप्यं प्रसज्येतेतिमत्वाह | ब्रह्मजीवो भयेति | यदि च ब्रह्मणो विभुत्व श्रुत्याद्यवुरोधेन प्रवेशमान्य परत्वमेव प्रविष्टपदस्य कल्पाते ननु तद्गतविशेषपरत्वमपि तर्हि जीवस्यापि विभुत्वश्रुत्यनुरोधेन शकटदृष्टांते गमनादि साम्यमात्रं विवक्ष्यतेन तु स्वाभाविक गत्या श्रयत्वादिकमपीति न जीवस्य स्वाभाविकाणुत्व सिद्धिः | तस्य तत्सिद्धौ वा ब्रह्मणोप्यणुत्वं दुर्वारं विनिगमनाविरहादिति भावः | तत इति उक्त व्यवस्थितेरित्यर्थः | ननु परमते जीवेश्वरयोरपि विभुत्वाणुत्व श्रुतिलिंगानामविशेषादुभयाणुत्व श्रुतिलिंगानामन्यथा सिद्ध्यविशेषाच्च तयोरणुत्वं विभुत्वं वा ससान तयैव सिध्येन्नत्वे कस्य विभुत्वमपरस्याणुत्वमिति व्यवस्था सिध्येदिति यथा दोषः प्रसज्यते | तथा सिद्ध्यंतेपि जीवस्य परिच्छिन्नत्व विभुत्वश्रुतिलिंगानामविशेषा तस्य स्वान्नाविकंविभुत्वं परिछिन्नत्वमौपाधिकमिति व्यवस्थान सिध्येदिति दोषः | प्रसज्यत एवेति नेत्याह | अस्मन्मत इति | ब्रह्मात्मैक्य ज्ञानस्य मुक्तिसाधनत्वातक्यानजनकानि तत्वमस्यादिवाक्यानि महावाक्यानि महावाक्यार्थज्ञानकारणी भूततत्वं पदार्थज्ञानं प्रतिसाधनभूतानि जीवस्वरूपप्रतिपादकवाक्यानीश्वर स्वरूपप्रतिपादकवाक्यानि चावांतर वाक्यानि महावाक्यशेषत्वात्पदार्थ प्रति प्. १०८अ) पादकवाक्यानामिति प्रधानवाक्यानुरोधेन गुणभूतवाक्यानां नेयत्वादित्यर्थः | स्वरूपेणेति | जीवस्य स्वरूपेणाणुत्वे महावाक्याप्रतिपाद्य ब्रह्माभेदानुपपतेर्ब्रमणश्च स्वरूपेण पूर्णत्वाभावे बहुश्रुत्यादि विरोधादितिभावः | अद्वितीये ब्रह्मणि वेदांतसमन्वयाविरोधसमर्थनरूपं परिछेदार्थमुपसंहरति | तस्मादिति | पंचम्यांतं पंचमीभ्यां विवृणोति | अचेतनस्येति | इति श्रीमत्परमहंसपरिव्राजिकाचार्य श्रीमत्स्वयंप्रकाशानंदसरस्वती दिव्यश्रीचरणारबिंदसंलग्नरजोभूतस्याच्युत कृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धान्तलेशसंग्रहव्याख्यायां द्वितीयः परिछेदः || २ || ओं श्रीगणेशाय नमः | अथ कोयमविद्यालेशोपदनुवृत्याजीवन्मुक्तिः आवरणविक्षेपशक्तिमत्यामूलाविद्यायाः प्रारब्धकर्म वर्तमानदेहाद्यनुवृति प्रयोजको विक्षेप शक्त्यंश इति केचित् | क्षालितलथुन भांडानुवृतलथुनवासना कल्पो विद्यासंस्कार इत्यन्येदपि पटन्यायेनानुवृतामूलाविद्यैवेत्यपरे सर्वज्ञात्मगुरवस्तु विरोधि साक्षात्कारोदये लेशतोप्यविद्यानुवृत्यसंभवात् || ओं श्रीगणेशाय नमः || ओं स्मृते सकलकल्याणभाजनं यन्न जायते | पुरुषस्तमजं नित्यं ब्रजामि शरणं हरिं || यत्र यस्मिन् हरौ स्मृते सतीत्यर्थः | नंदहस्तमवलंव्यपाणिनामंदमंदमरविदलोचनः संचरन् कनककिंकिणीरवस्संततं मम तनो तु मंगलं | यस्याः स्मरणमात्रेंण वाम्बिभूतिर्विजृंभते | सा भारती चिरं नित्यं रमतां मन्मुखां नुजें || यश्शिवो नामरूपाभ्यां या देवी सर्वमंगला | तयोस्संस्मरणात् पुंसां सर्वतो जयमंगलं || विघ्नेश विधिमार्तेड चंद्रेंद्रोपेंद्र वंदित | नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते || अथ कोपमिति | तृतीय परिछेदे ब्रह्मज्ञानरूपं मुक्तिसाधनं सपरिकरन्निरूपितमिदानीं तत्फलभूतामुक्तिर्निरूप्यते | तथा च फलनिरूपण परस्य चतुर्थ प्. १ब्) स्मृतौ तत्पदं ब्रह्मपरमुक्तमिति | तेनैति ब्रह्मवित् पुण्यकृदित्यादि श्रुत्येति शेषः | तेन ब्रह्मवेद न पुण्ययोः समुच्चयेन एति ब्रह्मप्राप्नोतीति श्रुत्यर्थः | ज्ञानकर्मणोः समुच्चयस्य ब्रह्मप्राप्ति हेतुत्व श्रवणमनुमोदते | सत्यमिति | ब्रह्मप्राप्तेर्विद्यामात्रसाध्यत्व प्रतिपादक श्रुत्यंतरेण उपपति सहितेन विरोधात् समुच्चय श्रवणं तन्मूलकस्मृतिवचनं चक्रमसमुच्चय परतया नेतव्यमित्याशयेनाह | नान्यः पंथा इति | ब्रह्मज्ञानापेक्षया अन्यः ज्ञानकर्मसमुच्चयरूपः केवलकर्मरूपो वा पंथा | उपायो मोक्षं प्रतितास्तीति श्रुत्यर्थः | नित्यमात्मस्वरूपतया सिद्धस्य ब्रह्मणो वाप्तिरप्रात्यत्वभ्रमादि निवृतिरूपा भ्रमादि निवृतिश्च ज्ञानमात्रसाध्यत्वेन लोकै दृष्टा | यथा कंठगतायामेव कनमालायां विस्मृतायां सत्यां तस्यामप्राप्तत्वभ्रमेण बहुविधविक्षेपं प्राप्तस्य आप्तोपदेशजन्य ज्ञानमात्रेणाप्राप्तत्वभ्रमनिवृतिरूपा पूर्वसिद्धकनकमालावाप्तिः | तत्तुल्यायां नित्यसिद्धब्रह्मावाप्तौ विद्यातिरिक्तसाधनापेक्षाभावा तदतिरिक्तस्य भ्रमादि निवृतौ सामर्थ्या भावाच्चेत्यर्थः | परंपरया मुक्तावुक्तं कर्मणामुपयोगं प्रपंचयितुं पृछति | क्वतर्हीति | तर्हि ज्ञानवत् साक्षान्मुक्ति हेतुत्वाभावे सति क्वचि विदिषायां विद्यायां वा साधनत्वं तेषामित्यर्थः | तमेतमिति तछब्दः प्रकृत परमात्म परः एतछब्दः नित्यापरोक्ष जीवपरः | तथा च जीवाभिन्नं परमात्मानं वेदानुवचनादिभिर्वेदितुमिछंतीत्यर्थः | प्. २अ) अनशनादिलक्षणतयो व्यावृतये तपसो विशेषणमनाशकेनेति | तथा च हितमितमेध्याशनादिरूपं तप इह विवक्षितमिति लभ्यते | ननु विविदिषायामपुरुषार्थभूतायां कथं विनियोगः तत्राह | विद्याशंपादन द्वारेति | ततश्च गौणपुरुषार्थत्वं तस्याः संभवतीत्यर्थः | ननु मुक्तिं प्रतिप्रत्यासन्नत्वात् | विद्यायास्तस्यामेव विनियोगः कुतो न कल्प्यते | श्रुतत्वाविशेषाच्च कागनाविषयत्वेन श्रुतस्वर्गादेरेव कर्मफलतयान्यत्र स्वीकाराच्चेति मत्वाशंकते | नन्विति | स्वर्गकामादिवाक्येषु यागादेर्विधिप्रत्ययेन इष्टसाधनत्वे बोधिते किं तदिष्टमितिविशे || न स्यात् | प्रत्ययार्थस्य प्राधान्यात् | विद्यासंप्रयोगात् | प्रत्यासन्नानि विद्यासाधनानिशमदमादीनि विविदिषासंप्रयोगा तु वाह्यतराणि यज्ञादीनीति | सर्वापेक्षाधिकरणभाष्याच्च | ननु विविदिषार्थं यज्ञाद्यनुष्ठातुर्वेदनगोचरेछावत्वे विविदिषायाः सिद्धत्वेन तदभावे वेदनोपाये विविदिषायां कामनाऽसंभवेन च विविदिषार्थं यज्ञाद्यनुष्ठाना योगात् | न यज्ञादीनां विविदिषायां विनियोगो युक्त इति चेन्न अन्न द्वेषेण प्. २ब्) कार्श्यं प्राप्तस्य तत्परिहारायान्न विषयौत्कंठ्यलक्षणायामिछायां सत्यामप्युत्सुकाजीर्णादि प्रयुक्तथा तु वैषम्य दोषात् तत्र प्रवृतिपर्यंतारुचिर्न जायत इति तद्रोचकौषध विधिवत् || षाकांक्षायां सत्यां पुरुषविशेषणत्वेन श्रुतयोः कामनास्वर्गयोरन्यतरस्यापि शब्दतः प्राधान्याभावेन तत्रार्थतः प्राधान्यस्यैवाश्रयणीयत्वे स्वतः पुरुषार्थतया स्वर्गस्यैव फलत्वेनान्वयः स्वीकृतः यागः स्वर्गसाधनमिति न तु कामवायाः | इह तु वेदनकामनाया एव फलत्वेनान्वय उचितः शब्दतः प्रधानत्वादतः फलप्रत्यासत्यादिकमपि अकिंचित्करमिति मत्वासमाधते | न स्यादिति | सत्प्रत्ययः प्रत्ययशब्दार्थः विविदिषायामेव विनियोग इत्यत्र भाष्यसंमतिमाह | विद्यासंप्रयोगादिति | विद्यासाधनत्वादित्यर्थः | प्रत्यासन्नानीति | यावद्विद्योदयमनुष्ठेयानीत्यर्थः | शमादिवैषम्यं कर्मसुदर्शयति | विविदिषा संप्रयोगात्विति | तत्सायनत्वादेवेत्यर्थः | वास्पतगणीति | विविदिषोदय पर्यंतमेवानुष्ठेयानीति यावत् | विद्योत्पतौ सर्वाणि कर्माण्यपेक्षितव्यानीति प्रतिपादकाधिकरणेत्यर्थः | विविदिषाविनियोगं प्रकारांतरेणाक्षिपति | नन्विति | वेदनेछाया यज्ञादिफलत्वे वेदनेछा गोचरेछया यज्ञाद्यनुष्ठानं वाच्यं | वेदने छायाश्च स्वतः फलत्वाभावाद्वेदनद्वारा प्. ३अ) मुक्तिफलकत्वं वाच्यं | तथा चायं क्रमः प्रथमं मुक्तौ स्वतः पुरुषार्थत्वज्ञानादिछा ततो वेदने मुक्तिसाधनत्व ज्ञानादिछा ततो वेदनेछायां वेदन साधनत्व ज्ञानादिछातया च यज्ञाद्यनुष्ठानमिति | तथा च वेदनेछारूपविविदिषोद्देशेन यज्ञाद्यनुष्ठाने प्रवर्तमानस्य ब्रह्मवेदने विविदिषाफले किमिछास्ति न वा आद्ये यज्ञानुष्ठान वैयर्थ्यमित्यभिप्रेत्याह | वेदन गोचरेति | वेदनगोचरेछाया एव विविदिषात्वादितिभावः | सिद्धत्वेन विविदिषार्थं यज्ञाद्यनुष्ठानायोगादिति संबंधः | न द्वितीयः | विविदिषा फले वेदने कामनायाः असत्वे विविदिषायामपि कामनाया अभावाद्विविदिषोद्देशेन यज्ञाद्यनुष्ठानायोग इत्याह | तदभाव इति | वेदनगोचरे छाया अभाव इत्यर्थः | विविदिषार्थं यज्ञाद्यनुष्ठातुरस्त्येव वेदनगोचरेछा न चैतावता तदनुष्ठान वैयर्थ्यं विविदिषाया द्वैविध्योपपतेः | तथा हि वेदनेछा द्विविधा विद्याया मौन्मुख्यलक्षणा रुचिलक्षणा च तत्राद्या यज्ञाद्यनुष्ठानात्प्रागपि वेदनेपि वर्तत इति तामादाय वेदनसाधनभूतायां विविदिषायां कामना संभवतीति विदिषार्थं यज्ञाद्यनुष्ठानमुपपन्नं द्वितीया तु यज्ञादि फलभूता तदनुष्ठानानंतरभाविनीति युक्त एव विविदिषायां यज्ञादि विनियोग इति समाधानमभिप्रेत्याह | नेति वेदनेछायाः द्वैवित्प्रेयक्षाद्यनुष्ठानादौ च दृष्टांतमाह | अन्न द्वेषेणेति | तत्परिहारायेति कार्श्यपरिहारायान्न भक्षणविषयकोत्कटेछाया सत्यासपीत्यर्थः | प्. ३ब्) उत्सकेति अधिकेत्यर्थः धातुवैषम्यप्रयोजकात्यंतानशनादि संग्रहार्थमादिपदं तत्रेति अन्नभक्षण इत्यर्थः | न जायत इति | एतच्चानुभवसिद्धमितिभावः || निरतिशयानंदरूपं ब्रह्म तत्प्राप्तौविद्यासाधनमित्यर्थे | प्राचीन बहुजन्मानुष्ठितानभिसंहितफलनित्यनैमितिक कर्मोपार्जितचितप्रसादमहिम्नासंपन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ विद्यायां च तदौत्कंठ्यलक्षणायामिछायां सत्यामप्यनादिभवसंचितानेक दुरित दोषेणास्तिक कामुकस्य हेयकर्मणीव विषयभोगे प्रावण्यं संपादयता प्रतिबंधाद्विद्यासाधने श्रवणादौ प्रवृतिपर्यंता रुचिनं जायत इति प्रतिबंधनिरासपूर्वं तत्संपादक यज्ञादि विधानोपपतेरिति | विवरणानुसारिणस्त्वाहुः | प्रकृति प्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति सामान्यन्यायात् || अधीत सांग स्वाध्यायः पुरुषो वेदातैः ब्राह्मणो निरतिशयानंदरूपत्वं विद्यायां तत्प्राप्ति साधनत्वं च ज्ञात्वा तस्मिन्नर्थे संपन्नविश्वासो भवतीत्ययुक्तं | तथा विधानामपि प्. ४अ) पुरुषाणां बहूनां तस्मिन् नर्थे विश्वाससंपतेरदर्शनादित्याशंक्याह | प्राचीनेति | प्राचीनेषु बहुषु जन्मस्वनुष्टितानि फलाभिसंधिरहितानि च यानि नित्यनैमितिकानि कर्माणि तैरुपसंजातौपश्चितप्रसादः शुद्धिविशेषस्तस्य महिम्नेत्यर्थः | तथा च स्मृतिः | मनुष्याणां सहस्रेषु कश्चिद्यतति सिधय इति | कश्चिदिति | उक्तचितप्रसाद वा नित्यर्थः | सिद्धये विद्यालाभायन सर्व इति भावः | ननु ब्रह्मप्राप्ति तत् साधनविद्यागोचरोत्कटेछायां सत्यां तत्साधनश्रवणादौ प्रवृतिपर्यंता रुचिर्न वेदेवेति कृतं तस्य यज्ञाद्यनुष्ठानेन तत्राह | अनादीति | दुरित दोषेण प्रतिबंधात् रुचिनं जायत इति संबंधः | ननु पूर्वोक्त चितप्रसादमहिम्ना ब्रह्मविद्यादौ संपन्नविश्वासस्यास्तिकतमस्यानर्थ बहले विषयभोगे प्रावण्यं कथं संभवतीत्याशांक्यानुभवसिद्ध दृष्टांतेन तत्संभावयति | आस्निक कामुकस्येति | विहितानुष्टानादं वश्यं श्रेयो भवति निषिद्धकरणादितश्चावश्यं महाननर्थो भवति | शास्त्रप्रामाण्यादिति निश्चय वा नास्तिकः | तस्यापि कस्यचित् कामोद्रेको निंदिता गम्यागमनादौ प्रावण्यं च यथा पाप विशेषात् संभवति तथा यथोक्तमुमुक्षोरपीत्यर्थः | प्रतिबंधेति | अनादिभवसंचितानेक दुरित दोषकृत प्रतिबंधेत्यर्थः | तत्संपादकेति | विविदिषाशदिताया श्रवणादौ प्रवृतिपर्यंतारुचिः तत्संपादकेत्यर्थः | क्व तर्हि कर्मणामुपयोग इत्यत्र प्रश्रे विद्यायां विनियोग इति प्रतिवचनांतरमवतारयति | प्. ४ब्) विवरणेति पूर्वत्र यज्ञादीनां तृतीया श्रुत्यासाधनत्वेनावगतानां साध्याकांक्षायां विविदिषैव साध्यत्वेनान्वेति | तस्याः शब्दतः प्रधान त्वात् शब्दतः प्रधानस्यैव पदार्थस्य राजपुरुषमानयेत् पादौ सर्वत्रसमभिव्याहृतपदार्थांतरेणान्वयस्य व्युत्पति सिद्धत्वादित्याशयेन यज्ञादीनां विविदिषायां विनियोगदुक्तः | तत्रास्वरसंदर्शयत् विद्यायां तेषां विनियोगमुपपादयति | प्रकृतीति | प्रकृति प्रत्ययार्थयोर्वेदन तदिछयोर्मध्ये प्रत्ययार्थस्य विविदिषा लक्षणस्य प्रत्ययार्थत्वाछब्दतः प्राधान्यं | ततश्च विविदिषाया एव यज्ञादिफलत्वेनान्वय इत्यत्र हेतु भूतो यः सामान्य न्यायो राजपुरुषमानयेत्पादौ प्रसिद्धः शब्दतः प्रधानस्यैव समभिव्याहृतक्रियाकारकान्वय इत्येवं रूपः तस्मादित्यर्थः | विधिप्रत्ययेनेष्टसाधनत्वेनावगतयागादेरिष्टविशेषा कांक्षायां सत्यां शब्दतः प्राधान्याभावेपि स्वर्गस्य फलत्वेनान्वयः कॢप्त इत्यर्थः || इछाविषयतया शब्दबोध्य एव शाब्दसाधनतान्वय इति स्वर्ग कामादि वाक्ये कॢप्त विशेष न्यायस्य वलीयस्त्वादश्वेन जिगमिषति असिनाजिघांसुतीत्यादि लौकिक प्रयोगेऽश्वादिरूपसाधनस्य तदन्वेष्टव्यंतद्वावविजिज्ञासितव्यं निदिध्यासितव्य इत्यादि वै प्. ५अ) दिकप्रयोगे तव्यार्थ भूतविधेश्च सन्प्रत्ययाभिहितेछाविषय एव गमनादावन्वयस्य व्युत्पन्नत्वाच्च प्रकृत्यभिहितायां विद्यायां यज्ञादीनां विनियोगः | ननु तथा सति यावद् विद्योदयं कर्मानुष्ठानापतेस्त्यजतैव हितकर्षणाज्ञेयमित्यादि श्रुतिसिद्धकर्मत्यागरूपस्य संन्यासस्य विद्यार्थत्वं पीड्येतेति चेन्न प्रागबीजा वा पात्कर्षणं तदनंतरमकर्षणमिति कर्षणाभ्यां ब्रीह्यादि निष्पति वदारुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते | योगारूढस्य तस्यैव शमः कारणमुच्यतेत्यादिवचनानुसारेण चेतसः शुद्धौ विविदिषादिरूपप्रत्यक्प्रावण्योदयपर्यंतं कर्मानुष्ठानं ततः संन्यास इति कर्म तत्सन्यासाभ्यां विद्या निष्पत्युपगमात् || शाब्दप्राधान्याभवाविशेषे कामनाया एवयादि फलत्वेनान्वयः कुतो न कल्पितस्तत्राह | इछारिषपतयेति | इछाविषयत्वस्य फलत्व व्यंजक त्वात् | पुरुषार्थत्वेन प्रतीतस्य स्वर्गस्यैव फलत्वं न कामनाया इत्यर्थः | ननु कामनाविषयत्वस्य मुक्ति साधारण त्वात सैव यागादिफलं प्. ५ब्) कस्मान्न कल्प्यते तत्राह | शब्दबोध्य इति | शाब्दी ह्याकांक्षाशब्देनैव पूर्वत इति न्यायात्नाति प्रसंगः | तथा च इछेष्यमाण समभि व्याहारे इष्यमाणस्यै च प्राधान्यं न त्विछाया इति विशेषन्यायेन उक्त सामान्यन्याय बाधस्य कामोपबंधवाक्येषु कॢप्तत्वाद्विविदिषंतीत्यत्रापि प्रत्ययार्थत्वप्रयुक्तं विविदिषाया शब्दप्राधान्यं त्यक्ता वेदनप्राधान्यमेवादरणीयमित्यर्थः | इछावाचिसन्प्रत्यय समभिव्याहृतेष्वेव लौकिक वैदिक प्रयोगेषु प्रत्ययार्थतया प्रधानामपीछामुल्लंघ्य तद्विषयेस्वेव समभिव्याहतपदार्थांतरान्वय दर्शनाच्चेत्याह | अश्वेनेति | तदन्वेष्टव्यमिति | तद्दहराकाशाख्यं ब्रह्मविचार्यमित्यर्थः | विजिज्ञासितव्यमिति | तदेव ब्रह्मध्यातव्यमित्यर्थः | निदिध्यासितव्य इति | आत्माध्यातव्य इत्यर्थः | ननूदाहृतप्रयोगेषु इछाया अश्वादिसाधनाद्यन्वयायोगात्वा तस्याः परित्याग इति चेतर्हि प्रकृतेपि वेदनेछायाः तदतयोगात्वात् | ब्रह्मवेदनस्य च ब्रह्मानंदसाक्षात्काररूपतया फलत्वनान्वेतुं योग्यत्वाद्वेदन एव यज्ञाद्यन्वयो न विविदिषायामिति तुल्यमितिभावः | विद्याविनियोगपक्षे विध्यंतरविरोधं शंकते | न त्विति | कर्माणित्यजतैवमुमुक्षुणात्यक्तुः स्वस्य प्रत्यगात्मस्वरूपं पदं ब्रह्मसाक्षात्कर्तव्यं नत्वत्यजतेति श्रुत्यर्थः | अथ परिव्राडित्युपक्रम्य ब्रह्मभूयायकल्पत इत्यंतेन श्रुत्यंतरेणापि परिव्राट् शब्दोपातसंन्यासस्य ब्रह्मभूयशब्दित ब्रह्मसाक्षात्कार हेतुत्वमुक्तं | एवं श्रुत्यंतरेष्वित्यभिप्रेत्यादि पदं प्. ६अ) द्रष्टव्यं | विविदिषावाक्यसंन्यासविध्योरविरोधं सदृष्टांतं सप्रमाणं च दर्शयति | न प्रागिति | वचने कारणपदद्वयं कर्तव्यार्थकं शमः संन्यासः चित्तशुद्धिविविदिषादिरूपप्रत्यक्प्रावण्येत्ये तद्गीतावचनगतयोगपदव्याख्यानमितिबोध्यं || उक्तं हि नैष्कर्मसिद्धौ | प्रत्यक् प्रवणतां बुद्धेः कर्माण्यापाद्यथुद्धितः कृतार्थान्यस्तमायांति प्रावृडंते घना इवेति | कर्मणां विद्यार्थत्वपक्षेपि विविदिषापर्यंतमेव कर्मानुष्ठाने विविदिषार्थत्वपक्षात्को भेद इति चेत् | अयं भेदः कर्म्मणां विद्यार्थत्वपक्षे द्वारभूतविविदिषा सिद्ध्यनंतरमुपरतावपि फलपर्यंतानि विशिष्टगुरुलाभात्निर्विघ्नश्रवणमनननिदिध्यासनसाधनानि निवृति प्रमुखानि संपाद्यविद्योत्पादकत्वनियमोस्ति विविदिषार्थत्व पक्षे तु श्रवणादिप्रवृतिजननसमर्थोत्कटेछा संपादनमात्रेण कृतार्थतेति नावश्यं विद्योत्पादकत्वनियमः यस्यैतेष्टाचत्वारिंशत्संस्कारा इति स्मृति मूले कर्मणामात्मज्ञानयोग्यतापादकमलापकर्षणगुणाधान प्. ६ब्) लक्षणसंस्कारार्थत्वपक्ष इवेति वदंति || रागादिराहित्यरूप चितशुद्धिविविदिषा वैराग्यगुरुदेवतादि भक्तिलक्षणप्रत्यक् प्रावण्यजन्मपर्यंतं कर्मानुष्ठानमित्यत्र सुरेश्वराचार्य संमतिमाह | उक्तं हीति शुद्धित इति | शुद्धिद्वारेत्यर्थः | अस्तमायांतीतित्यागमायांति त्यक्तव्यान्येव भवंति | कृतप्रयोजनत्वादित्यर्थः | कृतप्रयोजनानां निवृतौ दृष्टांतमाह | प्रावृडंत इति वर्षाकालावसान इत्यर्थः | विविदिषायां विनियोगपक्षे विविदिषोदय पर्यंतमेव यज्ञाद्यनुष्ठानमित्य विवादं विद्यायां विनियोगपक्षेप्येवं चेत्कस्तयोर्भेद इति शंकते | कर्मणामिति | अनुष्ठाने विशेषाभावेपि फलतो विषोस्तीत्याह | अयं भेद इति | वक्ष्यमाण इत्यर्थः | उपरताविति त्यागेपीत्यर्थः | अदृष्टद्वारेति शेषः विविदिषाविनियोगपक्षे हि यज्ञादिकर्मजनितादृष्टं श्रवणादिषु प्रवृतिपर्यंतां विविदिषा शब्दितां रुचिमुत्पाद्व्य नश्यति | फलैक्य नाश्यत्वाददृष्टस्य विविदिषोत्यत्यनंतरं च श्रवणादि प्रतिबंधक दुरिताभावे सति विविदिषावलादेव श्रवणादिकं संपाद्यविद्यां लभते | श्रवणादि प्रतिबंधक दुरित सत्वे तु तत्सत्वं यत्ने कृतेपि श्रवणाद्यलाभेन निश्चित्य तन्निवृत्युपायमनुतिष्ठति प्रायेण तन्निवर्तकोपायाननुष्ठाने वा तदनुष्ठानस्यापि विघ्नबाहुल्ये वा श्रवणाद्यसंभवात् न ज्ञानोदयः | यथा औषधवीर्येणात् न भक्षणे रुच्युत्पतौ सत्यामपि अप्रतिबंधेनावलाभे प्. ७अ) तद्भक्षणेन कार्श्य निवृतिं लभते तदलाभे तु तल्लाभाय स पतते यत्ने कृतेपि यद्यत्नं न लभते तदानुकार्श्यनिवृतिं लभते एवमिहापीत्यभिप्रेत्याह | नावश्यमिति | विविदिषा विनियोगपक्षस्य संस्कारे कर्मणां विनियोगपक्षं दृष्टांतयति | यस्यैति इति | यस्य पुरुषस्य एते श्रौतस्मार्तधर्मा अष्टाचत्वारिंशत्संख्याकाः संस्काराः संति शमादि संपतिश्च वर्तते | तस्य कर्मभिः संस्कृतस्य विद्याधिकारिणः श्रवणादि संपत्यां तत्वज्ञानद्वारा परब्रह्मप्राप्तिर्भवति | तदसंपतौ च पुण्यलोकावाप्तिरिति कर्मणां संस्कारकत्वपक्षे यथा ज्ञानोत्पादकत्वनियमो नास्ति संस्कारजननमात्रेण सं || ननु केषां कर्मणामयमुदाहृत शुत्या विनियोगो बोध्यते | अत्र कैश्चिदुक्तं वेदानुवचनेनेति | ब्रह्मचारिधर्माणां यज्ञेन दानेनेति ग्रहस्थधर्माणां तपसा नाशकेनेति वानप्रस्थधर्माणां चोपलक्षणमित्याश्रमधर्माणामेव विद्योपयोगः | अत एव विहितत्वाच्च श्रमकर्मापीति शारीरकसूत्रे विद्यार्थकर्मस्वाश्रमकर्मपदप्रयोग इति कल्पतरौ तु नाश्रमधर्माणामेव विद्योपयोगः || चरितार्थानां कर्मणां विद्योत्पतिपर्यंत व्यापारा भावात् प्. ७ब्) तथा तेषां विविदिषार्थत्वपक्षेपीत्यर्थः | आत्मज्ञानयोग्यता कार्यकारणसंघातनिष्ठा तदा पादकौ यौमलापकर्षणगुणाधानलक्षणौ संस्कारौ तदर्थत्वपक्ष इत्यर्थः | कर्मणां विविदिशार्थत्वपक्षे संस्कारार्थत्वपक्षे च ज्ञानोत्पत्यनियमे समानेपि विविदिषार्थत्वपक्षे प्रायिकी ज्ञानोत्पतिः तीव्रवुभुक्षाया इव दृढ विविदिषायाः सर्वप्रयत्नेन विद्यासंपादनसमर्थत्वात् | संस्कारार्थत्वपक्षे तु ब्रह्मज्ञानयोग्यतामात्र सिद्धावपि विविदिषाया अप्यनियतत्वेन विद्योत्पतिः प्रायिक्यपि न भवतीति विविदिषासंस्कारार्थत्वपक्षयोरपि भेद ऊहनीय इति भावः | केषामिति | किमाश्रमकर्मणामेव किं वाऽन्येषामपीत्यर्थः | नन्वाश्रमधर्माणामपि सर्वेषां विविदिषा वाक्ये श्रवणाभावात् तेषामपि न सर्वेषां विनियोगो लभ्यते तत्राह | वेदानुवचनेनेति | वेदस्य गुरुवचनमनुशिष्यस्य वचनं वेदानुवचनं वेदाध्ययनं तच्च ब्रह्मचारिधर्माणां मध्ये प्रधानं तेन तद्धर्माः सर्वे गृह्यंत इत्यर्थः | एवमुत्तरत्रापि प्राधान्यं द्रष्टव्यं तपः कृछ्रचांद्रायणादिरूपं वानप्रस्था साधारणमिह तपः शब्दरूढ्याभातीतिभावः | अनाश्रितः कर्मफलं कार्यं कर्मकरोति यः | इत्यादि स्मृतिषु नित्याश्रमिणां कार्यं कर्तव्यं यद्यत्कर्मास्ति तत्सर्वं फलाभि संधिंत्यक्ता यः करोति स योगपदोदितं पूर्वोक्त चितशुद्धि विविदिषारूपं प्रत्यक् प्रावण्यं लभत इति प्रतिपादना तन्मूलभूते विविदिषा वाक्येपि सर्वेषामाश्रमकर्मणामुपलक्षणं युक्तमिति मंतव्यं आश्रमकर्मणामेव प्. ८अ) विनियोग इत्यत्र सौत्रलिंगमाह | अत एवेति आश्रमकर्मणामेव विनियोगाभ्युपगमादेवेत्यर्थः | आश्रमकर्मणां विविदिषावाक्येन विद्यादौ विनियुक्तत्वा तत्कामनारहिते नाश्रमिणा स्वाश्रमविहितं कर्मनानुष्ठेयमिति शंकायामुतरं सूत्रे तेनापि कर्तव्यमेव तं प्रतिविहितत्वादन्यथा प्रत्यवाय प्रसंगादिति सूत्रार्थो बोध्यः | अन्येषामपि विनियोग इति पक्षं नित्यकर्ममात्रविषयतया प्रथमं दर्शयति | कल्पतरौ त्विति | कल्पतरावुक्तमिति संबंधः | आश्रमधर्मव्यतिरिक्तानामप्यस्ति विद्योपयोग इति कल्पतरुकारमतमयुक्तं सूत्रे विद्यार्थकर्मस्वाश्रमकर्मथदप्रयोगविरोधान्न च सौत्राश्रमकर्मपदस्य वर्णधर्मेष्वप्यजहदल्लक्षणोपपतेर्न तद्विरोध इति वाच्यं | लक्षणायामेव प्रमाणाभावादित्याशंक्य तत्र नियामकं दर्शयति | नाश्रमधर्माणामेव विद्योपयोग इति || अंतरा चापि तु तद्दृष्टेरित्यधिकरणे आश्रम रहित विधुराद्यनुष्ठितकर्मणामपि विद्योपयोगनिरूपणात् | न च विधुरादीनामनाश्रमिणां प्राग्जन्माद्यनुष्ठित यज्ञाद्युत्पादित विविदिषाणां विद्यासाधनश्रवणादावधिकारनिरूपणमात्रपरं तदधिकरणं न तु तदनुष्ठित कर्मणां विद्योपयोग निरूपणपरमिति शंक्यं || प्. ८ब्) आश्रमधर्मव्यतिरिक्तानां वर्णधर्माणामप्यस्ति विद्योपयोग इत्येव कारार्थे हेतुमाह | अंतरा चापि त्विति | विद्यां प्रतिबहिरंगसाधनेषु कर्म स्वंतरंग साधनेषु श्रवणादिषु चानाश्रमिणामधिकारोस्ति न वेति संदेहे सति नास्त्यधिकार इति पूर्वपक्षः आश्रमकर्मणामेव विद्यायां विनियुक्तत्वातेषामाश्रमकर्मा भावात् | साधन चतुष्टय संपन्नस्यैव श्रवणादिष्वधिकाराच्च अनाश्रमिणां च साधन चतुष्टयांतर्गतस्य उपरति शब्दितसंन्यासस्याभावे न तत्स्वंपत्यभावादिति | सिद्धांतस्त सूत्रे तु शब्दः पूर्वपक्षव्यावृत्यर्थः | अंतराशब्दः आश्रमाणामंतरालमनाश्रमित्वमाह | तथा चानाश्रमित्वे वर्तमानोपि पुरुषः श्रवणादिषु विद्यार्थ कर्मसु चाधिक्रियते कुतः श्रुतिस्मृतिषुरैक्व वा चक्रवी प्रभृतीनामनाश्रमिणामपि विद्यावत्वोपलब्धेः परित्राजकस्य श्रवणादिषु मुख्याधिकारेपि ग्रहस्थादीनामिव अनाश्रमिणामपि गौणाधिकारोपपतेः | तथा च तदधिकरणे भाष्यं दृष्टार्था च विद्या प्रतिषेधा भावमात्रेणार्थिनममधिकरोति | श्रवणादिति | अविद्यानिवृतिः विद्यायाः दृष्टं फलं अर्थिनमविद्यानिवर्तकसाक्षात्कारार्थिनमधिकारित्वेन स्वीकरोति शूद्रस्येव वेदांत श्रवणादिष्वनाश्रमिणां प्रतिषेधा भावात् | गौणाधिकारे संन्यासापेक्षा नास्तीति मत्वामात्र पदमिति भाष्यार्थः | प्. ९अ) अंतरा चापि त्वित्यधिकरणमनाश्रमिणां श्रवणाद्यधिकारमात्रनिरूपण परं न त्वनाश्रमिकर्मणामपि विद्योपयोगनिरूपणपरं तथा च सौत्राश्रमकर्मपदस्य वर्णधर्मोपलक्षणत्वं न सिध्यतीति मत्वा शंकते | न च विधुरादीनामिति | ननु तेषां विद्यार्थकर्माभावे विविदिषोदया संभवादनाश्रमिणां श्रवणाधिकारनिरूपणमयुक्तमित्याशंक्याह | प्राग्जन्मेति | अनाश्रमिणोपि ये जन्मांतरीयाश्रमकर्मानुष्ठान जनित विविदिषावंतः संन्यासहेतु तीव्रवैराग्या भावात् मुख्याधिकारात् प्रच्युताश्च तेषां श्रवणाधिकार निरूपण परं तदधिकरणं न त्वनाश्रमिमात्रविषयं अविविदिषूणां श्रवणादौ प्रवृत्यसंभवादेवेत्यर्थः | इति न च शंक्यमिति संबंधः || विशेषानुग्रहश्चेति तदधिकरणसूत्र तद्भाष्ययोः तदनुष्ठितानां जपादिरूपवर्णमात्रधर्माणामपि विद्योपयोगस्य कंठोक्तेर्विहितत्वाच्चाश्रमकर्मापीति सूत्रे आश्रमकर्मपदस्य वर्णधर्माणामप्युपलक्षणत्वादित्यभिसंधायोक्त- माश्रर्मधर्माति रिक्तानामप्यस्ति विद्योपयोगः | किंतु नित्यानामेव तेषां हि फलं दुरितक्षयं विद्यापेक्षते | प्. ९ब्) न काम्यानां फलं स्वर्गादि || ननु अंतराचापि त्विति सूत्रे विद्यार्थकर्मसु विधुरादी नामधिकारे श्रुत्यादिष्वनाश्रमिणां रैक्व वा चक्रवी प्रभृतीनां विद्यावत्वदर्शने हेतुत्वेनोक्तं तदयुक्तं रैक्व वा चक्रवी विदुर प्रभृतीनां जन्मांतरीय विद्यासाधनानुष्ठान वलादैव विद्याजातेति शंका संभवादतोऽनाश्रमिकर्मणां विद्योपयोग इत्यत्र तेषां विद्यावत्वदर्शनमन्यथा सिद्धं लिंगं न भवतीत्य स्वरसादनन्यथा सिद्धं हेतुमन्यमभिप्रेत्योक्तं | विशेषानुग्रहश्चेति विशेषैः धर्मविशेषैः जपादिलक्षणैः ब्राह्मणत्वादि वर्णमात्रसंबंधिभिरपि वितशुद्धि विविदिषादि द्वारा आश्रमधर्मैरिव विद्याया अनुग्रहः उपकारः संभवत्येव कुतः जप्येनैव तु संसिध्येत् ब्राह्मणो नात्रसंशयः गंगायां स्नानमात्रेण मुच्यते नात्रसंशयः | यस्य स्मरणमात्रेणेत्यादि वचनैः जपतीर्थस्नान देवताध्यानादि धर्माणां शुद्ध्यादिद्वाराविद्यासाधनत्वस्य प्रतिपादनादिति सूत्रार्थः | तदनुष्ठितानामिति | अनाश्रमिणः तछब्दार्थाः एवमनाश्रमधर्माणामपि सूत्रकारेणैव स्पष्टं विद्योपयोगस्य साधितत्वात्तदविरोधाय सौत्रमाश्रमकर्मपदं वर्णधर्माणामप्युपलक्षकं वाच्यमित्याशयेनाह | सूत्र इति | एवं कल्पतरु काराणामभिप्रायमुपवर्ण्य तन्मतमुपपादयति | आश्रमधर्मेत्यादिना | ननु यज्ञादीनां विनियोगः कल्प्यमानः प्. १०अ) किं काम्यसाधारणः कल्प्यते किं वा नित्यानामेव नाद्यः काम्यकर्मफलस्य स्वर्गादेर्विद्ययानपेक्षितत्वेन तेषां विद्योपकारकत्वा संभवात् | न द्वितीयः नित्यकर्मफलस्य दुरितक्षयस्यापि प्रमाणसाध्य विद्यापेक्षितत्वे मानाभावेन तेषामपि विद्याविनियोगानुपपतेरिति | शंकते | किं त्विति समाधते | नित्यानामेवेति ज्ञानमुत्पद्यते पुंसां क्षपात्पापस्य कर्मणः इत्यादि वचनं नित्यकर्मफलस्य दुरितक्षयस्य विद्यया अपेक्षितत्वे प्रमाणत्वेन सूचयति हीति | प्रमाणजन्यायामपि विद्यायां दुरितस्य प्रतिबंधकत्वसंभवात् दुरितक्षपापेक्षायुक्तेतिभावः | काम्यकर्मणां विद्यानुपकारकत्वमंगीकरोति | नेति | न च काम्यानां नित्यानामिव दुरितक्षयफलकत्वमप्यस्तु तथा च तेषामपि विद्यापेक्षित दुरितक्षयलक्षणोपकारजनकत्वं संभवतीति वाच्यं | तेषां दुरितक्षयफलकत्वे मानाभावेन विद्योपकारकत्व स्या कॢप्तत्वादितिभावः || तत्र यथा प्रकृतौ कॢप्तोपकाराणामंगानामति देशे सति न प्रकृतोपकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनियुक्तानां यज्ञादीनां कॢप्तनित्यफल पापक्षयातिरेकेण न नित्यकाम्यसाधारणविद्योपयोग्युपकारकल्पन निमिति संक्षेपशारीरके प्. १०ब्) तु नित्यानां काम्यानां च कर्मणां विनियोग उक्तः यज्ञादिशब्दाविशेषात् | प्रकृतौ कॢप्तोपकाराणां पदार्थानां कॢप्तप्राकृतोपकाराति देशमुखेनैव विकृतिष्वति देशेन संबंधो न तु पदार्थानामति देशानंतरमुपकारकल्पनेति न तत्र प्राकृतोपकारातिरिक्तोपकारकल्पना प्रसक्तिः | इह तु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनामुपदिष्टानामिव पश्चात् कल्पनीय उपकारः प्रथमावगत विनियोग निर्वाहाया कॢप्तोपि सामान्यशब्दोपात सकलनित्यकाम्यसाधारणः कथं न कल्प्यः || कर्मणां विद्यायां विनियोग विधेः कॢप्तोपकारैः नित्यकर्मभिरेव चारितार्थ्ये दृष्टांतमाह | तत्र यथेति | यद्वा काम्यानां पापक्षयफलकत्वस्यान्यतः | प्राप्त्यभावेपि यज्ञादीनां विनियोग बलादेव तेषां तत्कल्प्यतामिति नेत्याह | तत्रेति | काम्यकर्मणाविद्यापेक्षितोपकार हेतुत्वा कॢप्तौ सत्वामित्यर्थः | न नित्यंति | गौरवादितिभावः | आश्रमकर्मव्यतिरिक्तानामपि विनियोग इति पक्षं काम्यसाधारणं दर्शयति | संक्षेपेति अविशेषादिति | यज्ञादिशब्दानां नित्ययज्ञादिष्विवकाम्य प्. ११अ) यज्ञादिष्वपि रूढत्वाविशेषात् | नित्यानामिव काम्यानामपि विनियोगः | श्रुत्वाभातीति तत्साधारण एव कर्मणामुपकारः कल्प्यत इत्यर्थः | काम्यसाधारण्येन विद्योपयोग्युपकार कल्पनं न संभवति तत्कल्पने पूर्वतंत्र न्यायविरोधादिति मत्वा विकृतिष्वति दिष्टान्यंगानि दृष्टांतत्वेन कल्पतरावुदाहृतानि न तानि यज्ञादीनां दृष्टांतत्वेनोदाहरणे योग्यानीत्याह | प्रकृताविति | दर्शपूर्णमासादिषु प्रकृतियागादिषु यः पदार्थानां कॢप्त उपकारः | तस्य प्रथममति देशः तत्पृष्ठभावेन पदार्थानां विकृतिषु सौर्य पशुयागादिष्वति देशः न तु प्राकृतपदार्थानां अतिदेशेन विकृतिषु विनियोगानंतरं पदार्थानामुपकारकल्पनमिति न तत्र कॢप्तोपकारपरित्यागेनोपकारांतरप्रसक्तिरस्तीत्यर्थः | एतदुक्तं भवति प्रकृते यज्ञादीनां विनियोगानंतरं उपकारकल्पनमति देशस्थले तु उपकृतावुपकारकल्पनानंतरं प्राकृतपदार्थानां विकृतिषु विनियोगः | ततो दृष्टांतो विषम इति | इह त्विति | दार्ष्टांतिक इत्यर्थः | प्रकृतानुगुणं दृष्टांतमाह | उपदिष्टानामिति | दर्शपुमासादिप्रकरणेष्वन्यत्र वा श्रुतानां पदार्थानां श्रुतिलिंगादिभिः दर्शपूर्णमासादिषु विनियुक्तानां प्रथमावगतविनियोगनिर्वाहाय यथा योग्यं दृष्टादृष्टलक्षण उपकारः कल्प्यते यथा तथा उपकारोन्नापि कल्प्य प्. ११ब्) एव न तु प्रथमावगत विनियोगपरित्याग उचितः यज्ञाद्यविशेषश्रुति वाध प्रसंगादित्यर्थः | सामान्यशब्देति | नित्यकाम्य साधारण यज्ञादि शब्देत्यर्थः || अध्वरेष्वरमीमांसकैरपि ह्युपकारमुखेन पदार्थान्वय एव कॢप्तोपकारनियमः पदार्थान्वयानंतरमुपकारकल्पने त्वकॢप्तोपि विनियुक्तपदार्थानुगुण एवोपकारः कल्पनीय इति संप्रतिपद्यैव वाधलक्षणारंभ सिद्ध्यर्थमुपकारमुखो विकृतिषु प्राकृतान्वयोदशमाद्ये समर्थितः || यथा कॢप्तोपकारातिरिक्तोपकाराकल्पनं कल्पतरुकारोक्तं मिमांसक संमतं तथा प्रथमावगत विनियोगानुसारेणाकॢप्तोपकारकल्पनमपि मीमांसक संमतमेवेत्याह | अध्वरेष्विति कर्ममीमांसकैरपीत्यर्थः | अध्वरमीमांशकैरपि संप्रतिपद्यैव प्राकृतान्वयः समर्थित इति संबंधः | पदार्थान्वय एवेति | पदार्थान्वयस्थल एवेत्यर्थः | कॢप्तोपकार नियमः कॢप्तोपकारातिरिक्तोपकाराकल्पनमित्यर्थः | एवकार व्यावर्त्यमाह | पदार्थान्वयानंतरमिति | उपकारकल्पनस्थले त्वित्यर्थः | संप्रतिपद्यैवेति स्वीकृत्यैवेत्यर्थः | वाधलक्षणेति वाधाध्यायारंभ सिध्यर्थमित्यर्थः | प्राकृतान्वय प्. १२अ) इति प्रकृति यागादौ शेषभूताये पदार्थाः | तेषां विकृति यागादिष्वति देशेन प्राप्तिरित्यर्थः | एतदुक्तं भवति पूर्वतंत्रे दशमाध्याये विकृतावति दिष्टानामंगानां प्रकृतौ कॢप्तस्योपकारस्यासंभवे वाधो निरूप्यते तच्च वाधनिरूपणं विकृतिष्वति देशेन पदार्थप्राम्यनंतरमुपकारकल्पनपक्ष्ये न सिध्यति प्रकृतौ श्रुत्यादिभिर्विनियुक्तपदार्थानां दृष्टोपकारासंभवे अदृष्टोपकारकल्पनवत् | विकृतिष्वति देशेन विनियुक्तानां पदार्थानां दृष्टोपकारासंभवे अदृष्टोपकारकल्पनया तत्सिध्यर्थं सर्वंषामेवांगानामनुष्ठानावश्यंभावेन केषांचिदंगानामननुष्ठान तदति देशाप्रामाण्यरूपबाधा संभवादतो बाधनिरूपणासिद्ध्यर्थं प्रकृति कॢप्तोपकारमुखेनैव प्राकृतानामन्वयो विकृतिष्विति दशमाध्याय प्रथमाधिकरणे साधितं तथा च यत्र पदार्थानां विनियोगानंतरमुपकारकल्पनं तत्र ततत्पदार्थं सामर्थ्यानुसारेण प्रथमावगत विनियोगनिर्वाहाया कॢप्तोपकारकल्पनं मीमांसक संमतमिति प्रतीयते | यदि विनियोगानंतरमुकारकल्पनास्थलेपि कॢप्तोपकारासंभवे विनियुक्तपदार्थपरित्याग एव न त्वकॢप्तोपकारकल्पनं तत्संमतं भवे तदा उपकारमुखेनैव पदार्थानामति देश इति निरूपणपरमधिकरणं व्यर्थं स्यात् | पदार्थानामेव श्रयणावचातादीनामति देशेन्स विनियोगेपि विकृति गत कृष्णलादिषु श्रयणादेर्विक्लिति तुष प्. १२ब्) विमोकरूपदृष्टोपकारस्य लोकसिद्धस्याभावादकॢप्तोपकारकल्पनानंगीकाराच्च श्रयणादेरननुष्ठानादिलक्षणबाधस्य दशमाध्याये निरूपणीयस्य संभवेन तदर्थमुपकारमुखेनैव पदार्थानामतिदेश इति निरूपणस्यानपेक्षितत्वात् | तस्माद्विविदिषावाक्येनाविशेषेण नित्यकाम्यसाधारणे विनियोगे प्रथममवगते सति तन्निर्वोहाया कॢत्प्तोपकारकल्पनं युक्तमेवेति || किं च कॢप्तोपकारालाभान्नित्यानामेवायं विनियोग इत्यभ्युपगमे नित्येभ्योदुरितक्षयस्य तस्माद्वज्ञानोत्पतेरन्यत सिद्धौ व्यर्थोयं विनियोगः | अन्यतस्तदसिद्धौ ज्ञानापेक्षितोपकारजनकत्वं नित्येषु न कॢप्तमित्यविशेषान्नित्यकाम्यसाधारणविनियोगो दुर्वारः | ननु नित्यानां दुरितक्षयमात्र हेतुत्व स्यान्यतः सिद्धावपि विशिष्यज्ञानोत्पति प्रतिबंधक दुरित निवर्हकत्वं न सिद्धं | किं तु अस्मिन् विनियोगे सति ज्ञानोद्देशेन नित्यान्यनुतिष्ठतो वश्यं ज्ञानं भवति | इतरथा शुद्धिमात्रमनियता ज्ञानोत्पतिरिति सार्थकोयं विनियोग इति चेत् | तर्हि नित्यानामप्यकॢप्तमेव प्. १३अ) नियमतोज्ञानोत्पति प्रतिबंधक दुरित निवर्हणत्वं || वस्तुतस्तु नित्यकर्मस्वपि विद्यापेक्षितोपकारजनकत्व कॢप्तिरसिद्धेत्याह | किं चेत्यादिना | अलाभादिति | काम्येष्विति शेषः नित्यानां विद्यापेक्षित दुरितक्षयलक्षणोपकार द्वाराविद्याहेतुत्वं विविदिषा वाक्यादन्यतः सिद्धमसिद्धं वा तत्र नाद्यः विविदिषा वाक्यवैपर्थ्यप्रसंगादित्याह | नित्येभ्य इति | विनियोग इति | शेषत्वरूपविनियोगबोधक शब्द इत्यर्थः | द्वितीये नित्येष्वपि विद्योपकारकत्वमकॢप्तमेव कल्पनीयमिति नित्यकाम्यसाधारणोपकारकल्पनं युक्तमेवेत्याह | अन्यतस्तद सिद्धाविति | नित्यानां विद्योपकारकत्वासिध्हावित्यर्थः | अन्यतः सिद्धिपक्षमवलंव्य विनियोगार्थवत्वं शंकते | नन्विति दुरितं तावत् द्विविधं ज्ञानोत्पति प्रतिबंधकं ज्ञानोत्पतिं प्रत्युदासीनं सन् नरकादिप्रदं च तथा च नित्यानां ज्ञाने विनियोगाभावे नित्यकर्मभिज्ञानप्रतिबंधक दुरितस्यैव क्षय इत्यत्रमानं नास्ति धर्मेण पापमपनुदति | यज्ञोदानं तपश्चैव पावनानि मनीषिणां इत्यादि श्रुतिस्मृति वचनानां नित्यानां दुरितसामान्यक्षय हेतुत्वबोधनमात्रपरत्वादतो नियमेन ज्ञानप्रतिबंधक दुरितक्षय हेतुत्वं नित्यकर्मणामन्यतो न प्राममिति तत्प्राप्त्यर्थोयं विनियोग इत्यर्थः || प्. १३ब्) नित्यैरेव यज्ञादिभिर्दुरितक्षयद्वाराज्ञानं संपादयेदिति प्रकारेण विविदिषावाक्यीये नित्यानां ज्ञाने विनियोगे सति वा कथं ज्ञानप्रतिबंधक दुरितस्यैव क्षयोनित्यानुष्ठानतो लभ्यत इति पृछति | किं त्विति | तल्लाभप्रकारमाह | अस्मिन्निति अवश्यमिति | नित्यानुष्ठानात् ज्ञानप्रतिबंधक दुरित क्षपे सति प्रतिबंधक रहित महावाक्यादवश्यं ज्ञानं भवतीत्यर्थः | इतरथेति एतद्विनियोगाभावे इत्यर्थः | दुरितसामान्यक्षयरूपाशुद्धिर्भवति न तु नियमेन ज्ञानप्रतिबंधक दुरित क्षयरूपशुद्धिविशेषो भवति | ज्ञानो देशेन नित्यानामनुष्टानात् | तथा च बहुजन्मसु नित्यकर्मानुष्ठान शीलस्यापि नियमेन ज्ञानं न जायते किं तु दैव योगात् कदाचित् ज्ञानप्रतिबंधक दुरित संघस्य निःशेषं क्षयसंभवात् ज्ञानमपि कदाचित् भवतीत्यनियताज्ञानोत्पतिरित्यर्थः | ज्ञानापेक्षितोपकारो नित्येषु कॢप्त इति मनं निरालंबनमित्यभिप्रेत्यकाम्येष्विव नित्येष्वप्यकॢप्तोपकारकल्पनं तुल्यमिति दूषयति | तहीति नित्येषु ज्ञानोपकारकत्वनियमासिद्धावित्यर्थः || ज्ञानसाधनविशिष्टगुरुलाभश्रवणमननादि संपादकापूर्वं च द्वारं कल्पनीयमित्यकॢप्तोपकारकल्पनाविशेषान्न सामान्य प्. १४अ) श्रुत्या पादितो नित्यकाम्यसाधारणविनियोगो भंजनीय इति | नन्वेवमपि कथं कर्मणैव हि संसिद्धिमास्थिता जनकादय इत्यादिस्मरणनिर्वाहः | न च तस्य विद्यार्थकर्मनुष्ठान परत्वं विविदिषावाक्ये ब्राह्मण ग्रहणेन ब्राह्मणानामेव विद्यार्थकर्मण्यधिकार प्रतीतेः | अतो जनकाद्यनुष्ठित कर्मणां साक्षादेवमुक्त्युपयोगो वक्तव्यः मैवं विविदिषावाक्यै ब्राह्मण ग्रहणस्य त्रैवर्णिकोपलक्षणत्वात् || नन्वेवमपि नित्यानामेव विनियोग पक्षे विधेर्लाघवमस्ति तेषां पक्षे ज्ञानप्रतिबंधक दुरित निर्वहकत्वस्य वचनांतरात् प्राप्तत्वेन नियममात्रविधिलभ्यत्वात् | काम्येषु तु ज्ञानप्रतिबंधकदुरितनिवर्हकत्वं सर्वर्था न प्राप्तमिति काम्यानामपि विनियोगपक्षे विधेस्तात्पर्यगौरवमपरिहार्यमिति चेत् | सत्यं तथापि यज्ञादिश्रुतीनां संकोचलक्षणबाधपरिहारायकाम्यानामपि विनियोग आवश्यक इत्यत्रैव तात्पर्य बोध्यं नित्येभ्यो ज्ञानप्रतिबंधक दुरितस्यैव क्षयरूपशुद्धिविशेषलाभेपि तावन्मात्रात्न ज्ञानोत्पतिरस्ति प्रमाणप्रमेयासंभावनादिरूपदृष्टप्रतिबंधक सत्वादतः प्. १४ब्) तन्निरासोपयोगिनामुत्कृष्टगुरुतदधीनश्रवणमननध्यानादीनां संपादको दृष्टजनकत्वं नित्यानाम कॢप्तमेव विविदिषा वाक्यीय विनियोग बलात् कल्पनीयमित्याह | ज्ञानसाधनेति | एवं विविदिषाद्वाराविद्यायां कर्मणां विनियोगं निरूप्य तेषु त्रैवर्णिकानामधिकार इति निरूपणार्थमाक्षेप व्याजेन प्रसंगं दर्शयति | नन्वित्यादिना एवमपीति | तत्प्राप्तिहेतुर्विज्ञानं कर्मचोक्तं महामुन इति ज्ञानकर्मसमुच्चय प्रतिपादकस्मरणस्य विविदिषावाक्याविरोधेन ज्ञानं साक्षाद्ब्रह्मप्राप्तिसाधनं कर्म च विद्या द्वारातत्प्राप्ति साधनमिति क्रमसमुच्चय परतया निर्वाहैपीत्यर्थः | अत्रावधारणेन संसिद्धि शब्दितमुक्तिं प्रतिकर्मातिरिक्तोपायनिषेधात् | जनकाद्यनुष्ठित कर्मणां मुक्तिं प्रतिसाक्षादेवोपयोगः प्रतीयते | स च विविदिषावाक्यविरुद्ध इति समुच्चय स्मरणवदस्य स्मरणस्य निर्वाहो न सिध्यतीत्यर्थः | अस्यापि विविदिषा वाक्याविरुद्धं सिद्धांत्यभिमतमर्थमाशंक्यनिषेधति | न च तस्येति विद्यार्थेति | अस्मिन् स्मरणे संसिद्धिपदं विद्यापरं तथा च शुद्धिद्वाराकर्मणैव विद्यां प्राप्ता इति स्मरणार्थ इति भावः | तस्य स्मरणस्य विद्यार्थकर्मानुष्ठान परत्वं न चेत्यत्र हेतुमाह | विविदिषा वाक्य इति अत इति | विविदिषा वाक्य बोध्ये विद्यासाधनकर्मणित्रैवर्णिकानामनधिकारादित्यर्थः | उपलक्षण त्वादिति | तथा च भाष्यं ब्राह्मणग्रहणमुपलक्षणार्थं | प्. १५अ) अविशिष्टो ह्यधिकारः | त्रयाणां वर्णानामिति तथा च विद्यार्थ कर्मसुजनकादीनामप्यधिकारसत्वात् | कर्मणैव हीति स्मरणं विद्यार्थकर्मानुष्ठान परमेवेति न तद्बलात् | तमेव विदित्वाति मृत्युमेति | नान्यः यथा इत्यादि श्रुति विरुद्धः साक्षादेव कर्मणां मुक्त्युपयोगो वक्तव्य इति भावः || यथाहुरत्र भवंतो वार्तिककाराः ब्राह्मण ग्रहणं चात्र द्विजानामुपलक्षणं | अविशिष्टाधिकारित्वात् सर्वेषामात्मबोधन इति | न हि विद्याकामो यज्ञादी ननु तिष्ठेदिति विपरिणमते विद्याकामाधिकार विधौ ब्राह्मपदस्याधिकारि विशेषण समर्पकत्वं युज्यते | उद्देश्ये विशेषणायोगात् | नापि राजास्वाराज्य कामो राजसूयेन यजेतेति स्वाराज्यकामाधिकारे राजसूयविधौ स्वाराज्यकामो राजकर्तृकेण राजसूयेन यजेतेनिति कर्तृतया यागविशेषणत्वेन विधे यस्य राज्ञो राजकर्तृकराजसूयस्याराज्ञा संपादयितुमशक्यत्वादर्थादधिकारि कोटि निवेश वदिह यज्ञादि कर्तृतया विधेयस्य ब्राह्मणस्यार्थादधिकारि कोटिनिवेश इति युज्यते || प्. १५ब्) अत्र भवंत इति पूज्या इत्यर्थः | आत्मबोधन इति | आत्मबोधसाधन यज्ञादिकर्मणीत्यर्थः | विद्यार्थकर्माधिकारस्यैव प्रकृतत्वादिति मंतंतव्यं | ननु विविदिषा वाक्ये ब्राह्मण पदस्य त्रैवर्णिकौपलक्षणत्वे सिद्धे त्रयाणां वर्णानामविशेषेण विद्यार्थं कर्मस्वधिकारः सिध्यति | तत्र सर्वेषां अविशिष्टाधिकारत्वे सिद्धे तदनुरोधेने ब्राह्मण ग्रहणस्योपलक्षणत्वं सिध्यतीति परस्पराश्रयत्वप्रसंग इति वेन्न व्राणग्रहणस्य द्विजोपलक्षणत्वमनुपजीव्यैव सर्वेषां द्विजानां विद्यार्थकर्मस्वधिकार सिद्धेर्वार्तिकवनैन विवक्षितत्वात | ननु विविदिषा वाक्ये ब्राह्मण ग्रहणेन ब्राह्मणस्यैव विद्यार्थकर्मस्वधिकारे प्रतीयमाने कथं वर्णत्र साधारणाधिकारः सिध्येदिति चेतन्न वक्तव्यं किं ब्राह्मण पदस्य यज्ञादि विधावुद्देश्य विशेषणसमर्पकतया ब्राह्मणमात्राधिकारप्रापकत्वं किं वा विधेय कर्तृसमर्पकतया तदुभयसमर्पकत्वाभावेपि स्वसंनिधिमात्रेण तन्मात्राधिकार प्रापकत्वं वा गत्यंतराभावा तत्र नाद्य इत्याह | नहीति | यज्ञादीनां विद्यालक्षणफले विनियोगपरे विधौ विपाकामस्याधिकारः सिद्ध एव तथा च ब्राह्मण्य विशिष्टस्य विद्याकामस्याधिकारो विवक्षित इति स्वीकृत्य ब्राह्मपदस्याधिकारिविशेषण समर्पकत्वं वक्तुं न शक्यते विधेय यज्ञादि निरूपितोद्देश्यतायाः विद्याकाममात्रे पर्यवसान संभवेन ब्राह्मण्यरूपविशेषणस्यानाकांक्षिततया प्. १६अ) विद्याकामंष्वतिविशेषणत्वे नान्वयायोगात् | विशिष्टस्योद्देश्यत्वकल्पने गौरवाच्च विद्याकामब्राह्मण्ययोः प्रत्येकमुद्देश्यत्त्वे च वाक्यभेदप्रसंगात् | विद्याकामोपज्ञादीन तु तिष्ठेत ब्राह्मणो यज्ञादीननुतिष्ठेदितिभावः | द्वितीयं सदृष्टांतमाशंक्यनिरोति | नापीति | स्वाराज्यकामवाक्ये राजपदस्य पूर्वोक्तरीत्यास्वाराज्यकामप्रतिविशेषणत्वायोगात् | कर्तृविधायकत्वं स्वीकृत्यराजसूये राज्ञः सतः स्वाराज्यकामस्याधिकारः साधित इत्यर्थः | राज्ञोर्थादधिकारिकोटि निवेशवदिति संबंधः | अर्थादिति पदोक्तामर्थापतिं स्फुटयति | राजकर्तृकेति इहेति | विविदिषा वाक्य इत्यर्थः | विधे यस्येति | विद्याकामो ब्राह्मण कर्तृक यज्ञादीन ननु तिष्ठेत् इत्येवं विधे यस्येत्यर्थः | अर्थादिति ब्राह्मण कर्तृक यज्ञादेरब्राह्मणेन संपादयितुमशक्यत्वादित्यर्थः || सर्वथापित एवोभयलिंगादिति सूत्रेऽन्यत्रविहितानामेव यज्ञावीनां विविदिषा वाक्ये फलविशेषसंबंधविधिर्नापूर्वयज्ञादि विधिरिति व्यवस्थापितत्वेन प्राप्त यज्ञाद्यनुवादेनैकस्मिन्वाक्ये कर्तृरूपगुणविधिः फलसंबंधविधिश्चेत्युभयविधानात् वाक्यभेदापतेः | प्. १६ब्) नापि राजसूयवाक्ये राज्ञः कर्तृतया विधेयत्वाभावपक्षे राजपदसमभिव्याहारमात्राद्विशिष्टकर्तृत्वलाभवदिह वाक्याभेदायकर्तृतया ब्राह्मणाविधानेपि ब्राह्मणपद समभिव्याहारमात्रेण ब्राह्मकर्तृत्वलाभात् | तदधिकारपर्यवसानमित्युपपद्यते | अन्यत्र त्रैवर्णिकाधिकारकत्वेन कॢप्तानामिहापि त्रैवर्णिकारात्मविद्यार्थत्वेन विधीयमानानां यज्ञादीनां त्रैवर्णिकाधिकारित्वस्य युक्ततया विधिसंसर्गहीन ब्राह्मणपद समभिव्याहारमात्रादधिकारसंकोचासंभवेन ब्राह्मण पदस्य यथा प्राप्तविद्याधिकारिमात्रोपलक्षणौवित्यात् अर्थादधिकारिकोटिनिवेश इत्यपि न युज्यत इत्यत्र दृष्टांतवैषम्यमभिप्रेत्य हेतुमाह | सर्वथापीत्यादिना | यज्ञादीनामाश्रमकर्मत्वपक्षे विद्या सहकारित्व पक्षे च यावजीवादिवाक्येषु येग्निर्हेत्रादयोधर्माविहितास्त एवानुष्ठेयाः कुतः श्रुतिस्मृतिरूपो भयलिंगात् | श्रुतिस्तावद्विविदिषा वाक्य गत यज्ञादि श्रुतिरेवतया प्रसिद्धयज्ञादीनां प्रसिद्धदानादीनां प्. १७अ) च प्रत्यभिजिञायमानत्वादपूर्वयज्ञादिविधायकत्वे प्रत्यभिज्ञाविरोधात् | प्रसिद्धयज्ञाद्यनुवादेन फलसंबंधमात्र बोधने लाघवाच्च यज्ञादीनां स्रुवंत यज्ञादिपदोषातत्वेनात्रविधेयत्वा प्रतीतेश्च स्मृतिश्च अनाश्रताकर्मफलमित्याद्याप्रसिद्धयज्ञादीनामेव फलाभिसंधिविनानुष्ठितानां विद्या हेतुत्वं दर्शयतीति सूत्रार्थः | अन्यत्रेति | विविदिषावाक्यादन्यत्र कर्मकांड इत्यर्थः | उभयविधानादिति | राजसूयवाक्ये तु कर्त्रादिगुणविशिष्टस्यापूर्वकर्मण एव विध्युपगमान्न वाक्यभेदप्रसक्तिरिति तत्र राजपदस्य कर्तृ रूपगुणविधायकत्वं युक्तमितिभावः | तृतीयमपि सदृष्टांतमाशंक्यनिराकरोति | नापीति | राज्ञ इति राज्ञः कर्तृतया विधेयत्वाभावेपि राज्ञ एव राजसूयाधिकारः सिध्यति राजपदसंनिधानेन स्वाराज्यकामपदस्य क्षत्रिय परत्वावगमादन्यथा राजपदवैयर्थ्यप्रसंगादिति तात्पर्येण येषां मते राजः कर्तृतयाविधिर्नाभ्युपगम्यते तेषां पक्षे इत्यर्थः | ब्राह्मणाधिकारपर्यवसानमित्यपि नोपपद्यत इत्यत्र हेतुमाह | अन्यत्रेति | कर्मकांड इत्यर्थः | इहापीति | विविदिषावाक्येपि इत्यर्थः | त्रैवर्णिकाधिकारात्मविद्येति | ब्राह्मणे व क्षत्रियवैश्ययोरपि विद्यायामर्थित्वलक्षणाधिकाराविशेषात् | शूद्रस्येव विद्यार्थ यज्ञादिषु तयोः प्रतिषेधाभावाच्चेत्यर्थः | युक्ततयेति | अधिकारिणामसंकोचस्य विधिगतानष्टापकत्वलक्षणप्रामाण्योपपादकत्वादितिभावः | प्. १७ब्) अन्यत्र कॢप्तत्वाद्युपपति त्रय प्राप्तस्यापि क्षत्रिय वैश्ययोरधिकारस्य ब्राह्मणपदं अपवादकमित्याशंक्याह | विधिसंसर्गहीनेति उद्देश्यसमर्पकतया विधेयसमर्पकतया वा विधिवाक्यार्थान्वयबोधानुपयोगीत्यर्थः | राजसूयवाक्ये तु राजसूयस्यात्रैव विधेयत्वेन त्रैवर्णिकाधिकारिकत्वेनान्यत्रा कॢप्तत्वाद्युक्तं विविसंसर्गहीन राजपदसमभिव्याहारमात्राद्राजकर्तृनियम इति भावः | ननूक्त न्यायेन ब्राह्मणपदाभावेपि क्षत्रिय वैश्ययोरिव ब्राह्मणस्यापि विद्यार्थकर्मस्वधिकार सिद्धेः | ब्राह्मण ग्रहणं व्यर्थमेव स्यादिति चेन्न विद्यार्थ कर्मसु ब्राह्मणस्य मुख्याधिकार ज्ञापनार्थतोपपतेः वैयर्थ्यानवकाणादिति भावः || ननु विद्याधिकारिमात्रोपलक्षणत्वे शूद्रस्यापि विद्यायामर्थित्वादि संभवेन तस्यापि विद्यार्थकर्माधिकार प्रसंग इति चेन्न | अध्ययन ग्रहीतस्वाध्यायजन्य तदर्थज्ञानवत एव वैदिकेष्वधिकार इत्यपशूद्राधिकरणे अध्ययनवेदवाक्य श्रवणादि विधुरस्य शूद्रस्य विद्याधिकार निषेधात् | न शूद्रायमतिं दद्यादिति स्मृतेरापा ततोपि तस्य विद्यां महिमा प्. १८अ) ऽवगत्युपाया संभवेन तदर्थित्वानुपपतेश्च तस्य विद्यायामनधिकारादिति केचित् अन्ये त्वाहुः शूद्रस्याप्यस्त्येव विद्यार्थकर्माधिकारः तस्य वेदानुवचनाऽग्निहोत्राद्यसंभवेपि कंठोक्त सर्ववर्णाधिकार श्रीपंचाक्षरमंत्रराजविद्यादि जप पापक्षय हेतुतपोदानपाक यज्ञादि संभवात् | वेदानुवचनेन यज्ञेन दानेनेत्यादि पृथक्करणविभक्तिश्रुतेर्विधुरादीनां विर्थंपदानादि मात्रानुष्ठानानुमतेश्च वेदानुवचनादि समुच्चयान पेक्षणात् || ब्राह्मणग्रहणस्योपलक्षणत्वपक्षेति प्रसंगं शंकते | नन्विति | अविधेयायां हि विद्यायामधिकारो नामविद्यार्थित्वमात्रं तच्च शूद्रस्यापि संभवतीति क्षत्रियादेरिव तस्यापि विद्यार्थकर्मस्वधिकारो दुर्निवारा इत्यर्थः | शूद्रस्य शुत्युक्त सगुणब्रह्मविद्यासुनिर्गुणब्रह्मविद्यासाधन वेदांतश्रवणादिषु चाधिकारमाशंक्यनास्त्यध्कार इति निर्णीतमपशूद्राधिकरणे तस्याधिकाराभावे च भाष्ये हेतुरुपन्यस्तः वेदाध्ययनाभावादिति शूद्रस्य वेदोच्चारणश्रवणसाधारण निषेधेन वेदाध्ययनाभावेपि वेदार्थभूतोपासनाद्यनुष्ठानं किं नस्यादित्याशंक्य अध्ययन विधिनावेदजन्यवेदार्थ ज्ञानस्य प्. १८ब्) वेदार्थानुष्ठानेषु नियमितत्वादध्ययन शून्यस्य तदभावात् न सगुणनिर्गुणविद्यानुष्ठानेष्वधिकार इत्युक्तं | तर्था च तुल्यार्थतया विद्यार्थकर्मस्वप्यधिकारो नास्तीत्यर्थः | ननु शूद्रस्य वेदोक्तयज्ञादिष्वधिकारा भावेपि वक्ष्यमाणरीत्या तस्य विद्यासाधनकर्मणां संभवाद्विद्याकामनया शूद्रूस्यापि तेषामनुष्ठानं संभवतीत्याशंक्य तस्य विद्या कामनैव न संभवतीत्याह | न शूद्रायेति | मतिं शास्त्रार्थज्ञानं विद्यामहिमानिरतिशयानंदरू ब्रह्मप्राप्तिसाधनत्वं शूद्रस्यापि विद्यार्थकर्माधिकार प्रसंग इत्यर्त्र इष्टापतिरित्याह | अन्ये त्विति | कंठत उक्तः सर्ववर्णाधिकारो यस्मिन् तादृश विद्यादि जपे स तथोक्तः श्रीमत्पंचाक्षरमेव मंत्रराजविद्या आदिपदं च आगमिकपौराणिकमंत्रांतरसंग्रहार्थं तथा च ब्रह्मोतरखंडे किं तस्य बहुभिर्मंत्रैः किं तीर्थैः किं तपोध्वरैः यस्यों नमः शिवायेति मंत्रो हृदयगोचरः मंत्राअधिराजराजो यः सर्ववेदांतशेखरः सर्वज्ञाननिधानं च सोयं शैव षडक्षरः प्रणवेन निनामंत्रः सोयं पंचाक्षर स्मृतः स्त्रीभिः शूद्रैश्च संकीर्णै धीर्यते मुक्तिकांक्षिभिरिति | पाकयज्ञादीत्यादिपदं द्विजशुश्रुषानामकीर्तनतीर्थस्नानदिसंग्रहार्थं | ननु विविदिषा वाक्ये शूद्रसाधारणवर्णधर्माणामुपलक्षणेपि यज्ञादीनामेक वाक्योपादानातेषां समुच्चयस्य विद्यासाधनत्वं भाति यज्ञादिषु समुच्चयश्च शूद्रे वाधित इति कथं तस्य विद्यार्थ कर्माधिका इत्याशंक्यहेत्वसिध्या दूषयति | वेदानुवचनेनेति | वेदानुवचनेन विविदिषंति प्. १९अ) यज्ञेन विविदिषंतीत्यादिरूपेणप्रत्येकं साधनत्व प्रतीतेः न समुच्चयापेक्षा तद्विवक्षायां हि वेदानुवचनयज्ञदानतपोभिर्विविदिषंतीति वाक्यं स्यात् पृथक्करणविभक्ति प्रवणेपि वेदानुवचनेन यज्ञेन च दानेन च तपसा चेति प्रतिपदार्थं चकारयुक्तं वा वाक्यं स्यात् यदग्नये च प्रजापतये चेत्यादि वदिति भावः न च शूद्रस्य विद्यायामर्थित्वासंभवः श्रावयेच्चतुरो वर्णात् | कृत्वा ब्राह्मणमग्रत इत्यादीतिहासपुराणश्रवणे चातुर्वर्ण्याधिकारस्मरणेन पुराणाद्यवगत विद्या माहात्म्यस्य तस्यापि विद्यार्थित्वसंभवात् | न शूद्रायमतिं दद्यादिति स्मृतेश्च तदनुष्ठानानुपयोग्यग्निहोत्रादिकर्मज्ञाननिषेधपरत्वात् | अन्यथा तस्य स्ववर्णधर्मस्याप्यवगत्युपायासंभवै न शूद्रः चतुर्थो वर्ण एकजातिस्तस्यापि सत्यमक्रोधः शौचमाचमनार्थे पाणिपादप्रक्षालनमेवैकं श्राद्धकर्मभृत्यभरणं स्वदार तुष्टिः परिचर्याचोतरेषामित्यादि तद्धर्मविभाजकवचनानामननुष्ठानलक्षणाप्रामाण्यापतेः | न चैवं सत्यपशूद्राधिकरणस्य प्. १९ब्) निर्विषयत्वं तस्य न शूद्रे पातकं किंचिन्न च संस्कारमर्हतीति स्मृतेर्गुरूपदनाख्य विद्यांगोपनयनसंस्कारविधुरस्य शूद्रस्य सगुणविद्यासुनिर्गुणविद्यासाधन वेदांतश्रवणादिषु चाधिकारनिषेधपरत्वात् || यत्वापाततो विद्यामहिमावगत्युपाया संभवेन विद्यायामर्थित्वलक्षणाधिकारानुपपतिरिति | तदनूद्यनिराकरोति | न च शूद्रस्येति श्रावयेदिति ब्राह्मण इति शेषः | यदा क्षत्रियादी न श्रावयेत् तदा विशेषमाह | कृत्येति | पुराणादिभिः साधनभूतैरवगतं विद्यामाहात्म्यं येन शूद्रेण स तथा तस्येत्यर्थः | मति निषेधवचनस्य संकोचं दर्शयति | न शूद्रायेति अन्यथेति | शास्त्रार्थज्ञानमात्रदाननिषेधपरत्व इत्यर्थः | शूद्रस्य स्वतः पुराणादि पठननिषेधादन्येभ्योपि पुराणादिश्रवणाभावे स्वधर्मावगतिर्न संभवतीत्यर्थः | इष्टापतिमाशंक्याह | शूद्रश्चतुर्थो वर्ण इत्यादिना | जातिर्जन्म उपनयनाख्य द्वितीयजन्मशून्य इत्यर्थः | प्रक्षालनमेवेति नत्वपांप्राशनमंगस्पर्शनादिकं वेत्येवकारार्थः | उत्तरेषामिति | द्विजानामित्यर्थः | न शूद्रायमति दंद्यादिति स्मृतेः शास्त्रार्थज्ञानमात्रदाननिषेधपरत्वेपि वृद्धौ च मातापितरौ भार्यासाध्वीसुतः शिशुः अप्यकार्यं शतं कृत्वा भर्तव्यामतुर प्. २०अ) ब्रवीदित्यादिवचनदर्शनेन ये ब्राह्मणा उक्तलक्षणमात्रादि संरक्षणोपयोग्यर्थे लाभाय शूद्रान् प्रतिपुराणादि पठने प्रवर्तंते तेभ्यो विद्यामाहात्म्य स्वधर्मयोरवगतिसंभवात् न काप्यनुपपतिरिति मंतव्यं | न चैवमिति | शूद्रस्यापि विद्यार्थकर्माधिकार स्वीकार इत्यर्थः | निर्विषयत्वमिति | तदधिकरणस्य शूद्राधिकार निषेधपरत्वादितिभावः | सत्यं तदधिकरणं शूद्राधिकार निषेधपरं किंतु विद्यार्थ कर्माधिकार निषेधपरं न भवति | वेदांतश्रवणाधिकारनिषेधपरत्वा तस्येति परिहरति | तस्य न शूद्र इत्याअदिना | वेदांतश्रवण सगुणोपासनेषु अधिकाराभावे हेतुगर्भविशेषणमाह | गुरूपसदनाख्येति | शूद्रस्य संस्कारशून्यत्वेमानमाह | न शूद्र इति | पातकमिति | अभक्ष्यभक्षणादिकृतमित्यर्थः | अध्ययनांगोपनयनलक्षणः विद्यांगोपनयनलक्षणश्च द्विविधमपि संस्कारं निषेधति | न च संस्कार मर्हतीति | शिष्यत्वेन स्वीकृत्य समीपे स्थापनरूपं विद्यांगोपनयनमाचार्यकर्तृकं तच्च शिष्यकर्तृकगुरूपसदनपूर्वकत्वात् | गुरूपसदनाख्यमित्युक्तं गुरूपसदनं च तद्विज्ञानार्थं स गुरुमेवाभिगछेदित्यादिना विद्यांगत्वेमविहितं तथातंहोपनिन्ये इत्यादि श्रुत्या विद्यांगत्वेनोपनयनं च प्रतीयत इति भावः | तं विद्यार्थिनं गुरुरुपनीतवानित्यर्थः || निर्गुणविद्यायां शूद्रस्यापि विषयसौंदर्य प्. २०ब्) प्रयुक्तस्यार्थित्वस्य निषेद्धुमशक्यत्वात् | अविधेयायां च तस्यां तदतिरिक्ताधिकारा प्रसक्त्या तन्निषेधायोगाच्च | न च तस्य वेदांतश्रवणासंभवे विद्यार्थकर्मानुष्ठान संभवेपि विद्यानुत्पतें तस्य तदर्थ कर्मानुष्ठानं व्यर्थमिति वाच्यं | तस्य वेदांतश्रवणाधिकाराभावेपि भगवत्पादैः | श्रावयेच्चतुरो वर्णानिति चेतिहासपुराणाधिगमे चातुर्वण्याधिकार स्मरणाद्वेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितमित्यपशूद्राधिकरण उपसंहारभाष्ये ब्रह्मात्मैक्य परपुराणादि श्रवणे विद्यासाधनेधिकारस्य दर्शितत्वात् || ननु श्रुत्युक्त सगुणोपासनेष्विव निर्गुणविद्यासाधनवेदांतश्रवणादिष्विव च निर्गुणविद्यायामप्यधिकारनिषेधपरमपशूद्राधिकरणं किं न स्याद्विनिगमकाभावा तथा च निर्गुणविद्यायामधिकाराभावे तत्साधनकर्मसुशूद्राधिकारो न सिध्येदित्यत आह | निर्गुण विद्यायामिति | ब्रह्मविद्यालक्षणस्य विषयस्य सौंदर्यं मुक्तिसाधनत्वं तद्ज्ञानप्रयुक्तस्य विद्यायामर्थित्वलक्षणाधिकारस्य तदधिकरण न्याये प्. २१अ) ननिषेद्धुमशक्यत्वादित्यर्थः | ननु शूद्रस्य विद्यायामर्थित्वलक्षणाधिकार सत्वेपि तदतिरिक्तस्य अधीतवेदत्वादिरूपविशेषणांतरस्याभावात् | कथं तस्याधिकारो विद्यायामित्यत आह | अविधेयायामिति | च शब्दः शंका निरासार्थः | तदतिरिक्तेति अर्थित्वाति रिक्तेत्यर्थः | स्वर्गानुभववत् ब्रह्मानंदानुभवरूपाया निर्गुणविद्यायाः फलरूपत्वादविधेयत्वं फलस्याविधेयत्वा तथा च यथा स्वर्गानुभवादीं फले तदर्थित्वमात्रमधिकारस्तथा निर्गुणविद्यायामपि तदर्थित्वमात्रमेवाधिकारः स च निषेद्धुमशक्यः विधेयेष्वेवोपासनादिषु पूर्वोक्ताधिकारि विशेषणांतरापेक्षा शास्त्रे निरूपितेति विषमो दृष्टांत इति भावः | असंभव इति | अपशूद्राधिकरण न्यायेन तदसंभवे सतीत्यर्थः | तस्य वेदांतश्रवणासंभवेपि ब्रह्मात्मैक्य परपुराणादिश्रवणाधिकारस्य भाष्ये दर्शितत्वात् शूद्रस्यापि संभवति विद्योत्पतिरित्यर्थः भाष्ये तु शब्दोवधारणार्थः | श्रावयेच्चतुरो वर्णानिति वचनेन शूद्रस्य पुराणादिश्रवणाभ्यनुज्ञानेपि मनननिदिध्यासनयोरभ्यनुज्ञानाभावात् | नमननाद्यनुष्ठानं तस्य सिध्यति | न च मननादेः श्रवणांगत्वात् न पृथगभ्यनुज्ञानापेक्षेति वाच्यं | प्रयाजदर्शपूर्णमासादेरिव प्रकृते शेषशेषिभावबोधक प्रमाणाभावेन श्रवणादिष्वंगांगिभावव्यवहारस्य गौणत्वात् | तथा च शूद्रस्याद्वैतपरपुराणादिभागश्रवणे कृतेपि विद्योदया संभवात् | विद्यार्थकर्मानुष्ठान वैयर्थ्ये प्. २१अ) तदवस्थमेवेत्यैस्वरसादाह | विद्योत्पति योग्येति | यद्वा इतिहासपुराणाभ्यां वेदं समुपवृंहयेदिति वचनादितिहासादि गत ब्रह्मात्मैक्य परभागस्य वेदांतश्रवणाज्जनित वेदांतार्थज्ञानोपकारकत्वमात्रमेव न तु वेदांतश्रवणमनपेक्ष्यस्वातंत्र्येण ब्रह्मात्मैक्यज्ञानजनकत्वमिति निश्चीयते | तथा सत्येव तद्वचनपूर्वार्धं संगछते विभेत्यल्पश्रुताद्वेदो मामयं प्रतरेदितीति | अयमर्थः अल्पं वेदमात्रं श्रुतं विचारितं येन पुरुषेण सोल्पश्रुतः || विद्योत्पति योग्यविमलदेवशरीरनिष्पादनद्वारा मुक्त्यर्थं भविष्यतीति त्रैवर्णिकानां क्रममुक्तिफलक स गुणविद्यार्थ कर्मानुष्ठानवत् वेदांतश्रवणयोग्य त्रैवर्णिकशरीरनिष्पादनद्वारा विद्योत्पत्यर्थत्वं भविष्यतीति शूद्रस्य विद्यार्थ कर्मानुष्ठानाविरोधाच्च तस्माद्विविदिषा वाक्ये ब्राह्मण पदस्य यथा प्राप्तविद्याधिकारि मात्रोपलक्षणत्वेन शूद्रस्यापि विद्यार्थ कर्माधिकारः सिद्ध्यत्येवेति | ननु अस्तु कर्मणां चित्तशुद्धिद्वाराविद्योपयोगः संन्यासस्य किं द्वारातदुपयोगः केचिदाहुः विद्योत्पतिप्रतिबंधक दुरिता प्. २२अ) नामनंतत्वात किं विद्यज्ञाद्यनुष्ठान निवर्त्यं किंचित् संन्यासापूर्वनिवर्त्यमिति कर्मवच्चितशुद्धिद्वारैव संन्यासस्यापि तदुपयोगः तस्मात् पुरुषा तेन श्रुतो वेदो विभेति | कथंति भेति तत्राह मासिति | अयमल्पश्रुतः पुरुषः मांश्रुतं वेदं प्रतरेत् | मद्विचाररूपायां मीमांसायां न्यायाभासत्वादि शंकया मामप्यर्थांतर परं संभावयेत् | इति शब्दो हेत्वर्थः | एवं प्रतारणसंभवाद्धेतोः इतिहासपुराणाभ्यां वेदं संम्यगुपवृंहयेत् | इतिहासपुराणवचनैर्मीमांसानुसारिभिः | तस्यां दृढन्यायत्वनिश्चयसंपादन द्वारा मीमांसानिर्णीतार्थपवमां वेदं स्थापयेदिति | तथा च शूद्रस्य वेदांतश्रवणरहितस्य वेदांतार्थोपवृहणरूपब्रह्मात्मैक्यपरे इतिहासादिश्रवणे प्रवजावपि नास्ति विद्योदयः श्रावयेच्चतुरो वर्णानिति वचनमपि शूद्रस्याद्वैतपरपुराणादि श्रवणांशे अदृष्टार्थमभ्युनुज्ञापरं अपशुद्राधिकरणभाष्येपि शूद्रस्याद्वैतपुराणस्रवणादि वर्णनं विभेत्यल्पश्रुतादिति वचनं नास्तीति कृत्वाकृतमिति न भाष्यविरोधापि तथा च वेदांतश्रवणैक साध्या विद्यात् तदभावे शूद्रस्य न सिध्यदैवेत्यस्वरसादाह | विद्योत्पति योग्येति मुक्त्यर्थमिति सुगुणब्रह्मोपासनमितिशेषः | विद्योत्यर्थत्वमिति शूद्रस्य मदनुष्ठितद्यर्माण्यं विद्योत्पत्यर्थत्वं भविष्यनीति प्. २२ब्) निश्चयेन तदनुष्ठानसंभवादित्यर्थः | तस्मादिति | शूद्रस्य विद्यार्थकर्मानुष्ठाने बाधकाभावादित्यर्थः | विद्याधिकारिमात्रेति | न तु ब्राह्मण पदस्य ब्राह्मणमात्रपरत्वं न वा त्रैवर्णिकमात्रपरत्वमिति मात्रशब्दार्थः ब्राह्मण पदस्य द्विजोपलक्षणत्वे वार्तिक वचने यो हेतुरुक्तः त्रयाणामात्मबोधनसाधनकर्मस्वधिकाराविशेषादिति तस्य हेतोः शूद्रसाधारणत्वादितिभावः | किं द्वारेति | किमदृष्टद्वाराविद्योपयोगः किं वा दृष्टद्वारानाद्यः विद्योत्पति प्रतिबंधक दुरितस्य यज्ञाद्यनुष्ठान जनिता पूर्वेणैव निवर्तितत्वेन संन्यास जनिता पूर्वनिवर्त्यदुरितालाभे सति संन्यास वैयर्थ्यप्रसंगात् | न द्वितीयः | तदनुपलंभादित्याक्षेपाभिप्रायः | तत्राद्यं पक्षं समर्थयते | केचिदाहुरिति | ननु संन्यासापूर्वस्य न विद्योदय हेतुत्वं असंन्यासिनामपि केषांचिद्विद्व्योद्देशेन श्रवणाद्यनुष्ठान दर्शनात् | केषांचित् संन्यासं विनैव विद्योदयस्य प्रमाणसिद्धत्वाच्चेत्यत आह || तथा च गृहस्थादीनां कर्मछिद्रेषु श्रवणाद्यनुतिष्ठतां न तस्मिन् जन्मनि विद्यावाप्तिः किं तु जन्मांतरे संन्यासंलब्धैव येषां तु गृहस्थानामेव सतांजनकादीनां विद्यादृश्यते तेषां पूर्वजन्मनि संन्यासाद्विद्यावाप्तिः प्. २३अ) अतो न विद्यायाः संन्यासापूर्वव्यभिचारशंकापीति | अन्ये तु शांतोदांत उपरत इत्यादि श्रुतौ उपरतशब्दगृहीततया संन्यासस्य साधनचतुष्टयांतर्गतत्वात् | सहकार्यांतरविधिरिति सूत्रभाष्ये तद्वतो विद्यावतः संन्यासिनो बाल्यपांडित्यापेक्षया तृतीयमिदं मौनं विधीयते | तस्माद्ब्राह्मणः पांडित्यमित्यादि श्रुतौ | ततः प्राक् भिक्षाचर्यं चरंतीति संन्यासाधिकारादिति प्रतिपादनात् || तथा चेति संन्यासस्य विद्यां प्रतिदृष्टद्वारानुपलंभेनादृष्ट द्वारैव विद्या वाप्ति हेतुत्वे संन्यासविधिना सिद्धे सतीत्यर्थः | न च दृष्टद्वारानुपलंभो सिद्धः लौकिक वैदिक व्यापार विक्षिप्त चितस्य विद्योदया संभवेन सर्वकर्मसंन्यासस्य विक्षेपनिवृतिरूप दृष्टद्वाराविद्याहेतुत्वसंभवादिति वाच्यं | लौकिक वैदिक कर्मवतामपि केषांचित् पुरुषधौरे याणां दैन्यहर्ष क्रोधभयादिलक्षणविक्षेपनिवृतेरनुभवसिद्धत्वेन तदर्थंसे न्यासा न पेक्षणादितिभावः | संन्यासस्यादृष्टद्वारकत्वपक्षमेवावलंव्य संन्यासा पूर्वस्य श्रवणाद्यधिकारि विशेषणत्वेन विद्योपयोगं सप्रमाणमाह | अन्येतिति शांत इति | तितिक्षुः समाहितः प्. २३ब्) श्रद्धावितो भूत्वात्मन्येवात्मानं पश्येदिति श्रुतिशेषः शमः अंतरिंद्रियनिग्रहःदमो बाह्येंद्रिय निग्रहः उपरतिर्नित्यकर्मत्यागः | ननु शांतदांतपदाभ्यामेव कर्ममात्रस्य वारितत्वादुपरति श्रुतिर्व्यर्थेति चेन्नशमदम विधिशास्त्रस्य सामान्यशास्त्रत्वात् | तस्य नित्यकर्मविधिना विशेषशास्त्रेण नित्यनैमितिककर्मव्यतिरिक्त बाह्यांतःकरणव्यापारनिवृतिमात्र परतया संकोचे सति नित्यकर्मत्यागा लाभात् | पुनरुपरति श्रुत्यानित्यकर्मत्यागो बोध्यत इति न तस्य वैयर्थ्यं तितिक्षुः शीतोष्णादि द्वंद्व सहिष्णुः समाहितः श्रवणाद्यपेक्षित चित समाधानवान् देवता गुरुवेदांतेषु श्रद्धैववितं यस्य सः श्रद्धावितो भूत्वेत्यस्य प्रत्येकमन्वयः आत्मन्येवकार्यकारणसंघात एसंघात एव संघातसाक्षिणमात्मानमहं ब्रह्मास्मीति पश्येदिति श्रुत्यर्थः | साधनचतुष्टयेति नित्यानित्यवस्तुविवेकः ऐहिकामुष्मिकभोगविरागः शमादिषऽऽन्कं मुमुक्षा चेति साधनचतुष्टयं तच्च श्रवणाद्यधिकारिविशेषणमिति व्यवस्थापितं प्रथमसूत्र इति भावः संन्यासा पूर्वस्याधिकारिविशेषणत्वे हेत्वंतरमाह | सहकार्यतरेत्यादिना प्रतिपादनादित्यंतेन सह कार्यंतरस्य विद्यां प्रतिसाधनांतरस्य मौनस्य विधिरथ मुनिरिति शब्द इति सूत्रभागार्थः | सौत्र पदं तद्वत इति तस्य व्याख्यानं विद्यावत इति श्रवणाद्यनुष्ठानोपयोग्यापात प्. २४अ) ज्ञानवत इत्यर्थः | तद्वतः सह कार्यंतर विधिरिति सूत्रे संन्यासिन इति कथं लभ्यते तत्राह | तस्मादिति | तस्मादित्यपि श्रुति पदमेव यस्मादतीताः ब्राह्मणाः आपाततो ब्रह्मात्मानं विदित्वा तत्वसाक्षात्कारार्थं व्युत्थान शब्दितं संन्यासं कृत चेतः तस्मादिदानीं तनोपि ब्राह्मणो मुमुक्षुः संन्यस्य पांडित्यादिकं तत्वसाक्षात्कारार्थमनुतिष्वेदिति श्रुत्यर्थः | पांडित्यं श्रवणं मौनं ध्यानं तत इति तस्माद्ब्राह्मण इति वाक्यात् पूर्वमित्यर्थः || त्यक्ताशेष क्रियस्यैव संसारं प्रजिहासतः जिज्ञासोरेव चैकात्म्यंत्रप्यंतेष्वधिकारितेति वार्तिकोक्तेश्च संन्यासापूर्वस्य विद्यासाधन वेदांतश्रवणाद्यधिकारि विशेषणत्वमिति तस्य विद्योपयोगमाहुः | अपरे तु श्रवणाद्यंगतयात्मज्ञानफलता संन्यासस्य सिद्धेति विवरणोक्तेरनन्यव्याअपारतया श्रवणादिनिष्पादनं कुर्वतस्तस्य विद्यायामुपयोगः | दृष्टद्वारे संभवत्य दृष्टकल्पनायोगात् | यदित्वनलसस्य धीमतः पुरुषधौरेयस्याश्रमांतरस्थस्यापि प्. २४ब्) कर्मछिद्रेषु श्रवणादिसंपद्यते || संन्यासापूर्वस्याधिकारि विशेषणत्वे वार्तिक संमतिरूप हेत्वंतरमाह | त्यक्तेति | वार्तिके प्रथमविशेषणं संन्यासपरं ततश्च संन्यासमुमुक्षा जिज्ञासानां समुच्चयार्थेन च कारेण मुमुक्षुत्वादेरिव संन्यासस्यापि वेदांतश्रवणादिष्वधिकारि विशेषणत्वं भातीतिभावः | संन्यासापूर्वस्येति | संन्यासस्य त्यागलक्षण क्रियारूपेणानुवृत्ययोगादपूर्वपर्यंत धावनमिति | संन्यासस्य दृष्टद्वाराविद्योपप्योग इति द्वितीयं पक्षं समर्थयते | अपरे त्विति | ननु संन्यासस्य विद्यांगत्वबोधक श्रुत्यादि वृतस्य श्रवणाद्यंगत्वबोधकप्रमाणाभावाद्विवरणोक्तिरयुक्तेत्याशंक्य तस्यास्तात्पर्यमाह | अनन्य व्यापार तयेति कादाचित्कं श्रवणादिकं विद्योदयद्वारानामृतत्वसाधनं किंतु सार्वकालिकं ब्रह्मसंस्थो मृतत्वमेति | आसुप्तेरामृतेः कालं नयेद्वेदांतचिंतयेत्यादि श्रुतिस्मृति शतेभ्यः तथा चानन्यव्यापारतयाश्रवणाद्यनुष्ठानं विदधताशास्त्रेण संन्यासोपेक्ष्यते गृहस्थादेः स्वाश्रमविहितकर्मव्यग्रस्य सदा श्रवणाद्यनुष्ठानासंभवात् | तथा विद्यासाधनत्वेन संन्यासं विदधतापि शास्त्रेण द्वारतया निरंतरश्रवणाद्यनुष्ठानमपेक्ष्यते संन्यासस्य साक्षाद्विद्यासाधनत्वाभावात् | दृष्टद्वारसंभवे अदृष्टद्वारकल्पनानुपपतेश्च | तत्रापि श्रवणादिकं प्. २५अ) तत्वव्यंजकत्वादर्थतः | प्रधानं भवति संन्यासस्तूक्त हेत्वभावाद्गणभूत तया व्यवतिष्ठते एवं श्रवणादि विधेः संन्यासविधेश्च परस्परापेक्षाबलादेक वाक्यभावमापन्नाभ्यां विधिभ्यां संन्यासांगकं मनननिदिध्यासन सहितं श्रवणं विधीयत इति सिद्धासंन्यासस्य श्रवणाद्यंगतया आत्मज्ञानफलकतेति भावः | यद्वा विवरणोक्तेरयंभावः श्रवणविधिस्तावत् श्रवणसाधनतया विक्षेप निवृतिं तद्धेतु संन्यासं चापेक्षते विक्षिप्तस्य चेतसः श्रवणाद्यनुष्ठाने प्रवृत्यसंभवात् | गृहस्थादेश्च स्वाश्रमकर्मकरणकालातिरिक्तकालेपि बहुविषयतयाविक्षेपावश्यं भावात् | संन्यासविधेरपि विक्षेपनिवृतिरूपदृष्टद्वाराश्रवणादिकं घटयित्वाविद्यां संपादयतः संन्यासस्य विधानेन चारितार्थ्यसंभवे अदृष्टद्वाराविद्यासाधनसंन्यासविधायकत्वा संभवात् | तथा च पूर्ववत् संन्यासस्य श्रवणाद्यंगतयैव विद्याफलकत्वं न त्वदृष्टद्वारेति सिद्धमित्यस्मिन् व्याख्याने अनन्यव्यापारतयेत्यस्य विक्षेपनिवृति द्वारेत्यर्थो विवक्षितः तस्येति संन्यासस्येत्यर्थः | ननु संन्यासस्य विक्षेपनिवृतिद्वारा श्रवणाद्यंगभावमापन्नस्य विद्यासाधनत्वमुक्तमनुपपन्नं संन्यासं विनापि विक्षेपनिवृतिः केषुचित् श्रवणाधिकारिषु संभवादिति शंकते यदि त्विति | अनलसस्येति | सत्त्वगुणप्रधानस्येति यावत् | धीमत इति विषयेषु दोषदर्शनशीलस्येति यावत् | पुरुषधौरे यस्येति विषयेभ्यः सकाशादिंद्रियाणां निग्रहे समर्थस्येत्यर्थः || तदा चतुर्ष्वाश्रमेषु संन्यासाश्रमपरिग्रहेणैव श्रवणादि निवर्ततीयमिति नियमोभ्युपेय इति | नन्वस्मिन् पक्षद्वये क्षत्रियवैस्ययोः कथं वेदांतश्रवणाद्यनुष्ठानं संन्यासस्य ब्राह्मणाधिकारत्वात् | ब्राह्मणो निर्वेदमायात् ब्राह्मणोव्युत्थाय ब्राह्मणः प्रव्रजेदिति संन्यासविधिषु ब्राह्मणग्रहणात् | अधिकारि विशेषस्य ज्ञानाय ब्राह्मण ग्रहः न संन्यासविधिर्यस्मात् श्रुतौ क्षत्रियवैश्ययोरिति वार्तिकोक्तेश्चेति चेत् | अत्र केचिद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्ग्रहाद्वाचनाद्वेत्यविशेषश्रुत्याब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद् ग्रहात् | त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमा इति स्मृत्यनुगृहीतया क्षत्रियवैश्ययोरपि संन्यासाधिकारसिद्धेः श्रुत्यंतरेषु ब्राह्मणग्रहणं श्रयाणामुपलक्षणं | अत एव वार्तिकेप्यधिकारिविशेषस्येति श्लोकेन भाष्याभिप्रायमुक्त्वात्रयाणामविशेषेण संन्यासः | श्रूयते श्रुतौ यदोपलक्षणार्थं स्याद्ब्राह्मण ग्रहणं तदेत्यनंतरश्लोकेन स्वमते क्षत्रियवैश्ययोरपि संन्यासाधिकारो दर्शित प्. २६अ) इति तयोः श्रवणाद्यनुष्ठानसिद्धिं समर्थयंते | अन्ये त्वनेकेषु संन्यासविधिवाक्येषु ब्राह्मणग्रहणादुदाहृतजावाल शुर्तौ संन्यासविधिवाक्ये ब्राह्मण ग्रहणाभावेपि श्रुत्यंतरसिद्ध ब्राह्मणाधिकारमेव सिद्धं कृत्वा संन्यासावस्थायामयज्ञोपवीती कथं ब्राह्मण इति ब्राह्मपरामर्शाच्च ब्राह्मणस्यैव संन्यासाधिकारः || एतैर्विशेषणैर्विक्षेप हेतूनामभावसूचनात् | विक्षेपनिवृतिरुक्ता संन्यासफलस्य विक्षेपाभावस्य संन्यासादिव संन्यासादन्यतोपि प्राप्तौ संन्यासस्य विधित्सितस्य श्रवणाद्यपेक्षितविक्षेप निवृतिं प्रतिपक्षे प्राप्तिः पक्षे चाप्राप्तिरिति लभ्यते | तथा च माभूत् संन्यासाश्रमविधिरपूर्वविधिः नियमविधिस्तु भवे देवेति समायते | तदेति परिग्रहेणैवेति | विक्षेप निवृति द्वारेति शेषः नन्वस्मिन् पक्षद्वय इति | संन्यासस्याधिकारिविशेषणत्वपक्षे श्रवणांगत्वपक्षे चेत्यर्थः | कथमिति | संन्यासाभावादिति भावः | तयोः संन्यासाभावे हेतुमाह | संन्यासस्येति | ब्राह्मणस्यै संन्यासाधिकारे मानमाह | ब्राह्मण इति निर्वेदं वैराग्यं तत्पूर्वक संन्यासं न्यासं कुर्यादित्यर्थः निर्वेदशब्दितवैराग्यस्य संप्रतिसामग्रीत्वेन तस्मिन सति संन्यासस्यावश्यकत्वात् | संन्यासविधिरेवायमितिभावः | प्. २६ब्) व्युत्थायेति संन्यस्येत्यर्थः | यस्माछ्रुतावधिकरिविशेषस्य ज्ञानाय ब्राह्मणग्रहः | तस्मात् क्षत्रियं वेश्ययोः संन्यासविधिर्नास्तीति वार्तिकयोजना | अत्र केचित् तयो श्रवणाद्यनुष्ठानसिद्धिं समर्थयंत इति संबंधः ब्रह्मचर्यं समाप्यगृही भवेत् ग्वहाद्वनी भूताप्रवजेदिति पूर्वश्रुतौ च स्तुर्णीमप्याश्रमाणां समुच्चयं प्रतिपाढद्यतेषां विकल्पं दर्शयति | यदि वेतरथेति | यदि वेत्यस्य ब्रह्मचर्याश्रम एव वैराग्यमुत्पन्नं चेदित्यर्थः | तत्र तदनुत्पतावाह ग्रहाद्वेति ग्रहाश्रमेपि तदनुत्पतावाह | वनाद्वेति अविशेषेति | ब्राह्मणादिविशेषग्रहरहितेत्यर्थः | अत एवेति वर्णत्रय साधारणतया संन्यासस्य श्रुतिस्मृति सिद्धत्वादेवेत्यर्थः | यदा यदि वेति श्रुतौ श्रूयते | तदा उपलक्षणार्थं स्यादिति संबंधः | अन्ये त्विति | भाष्यानुवर्तिन इत्यर्थः | श्रुत्यंतरसिद्धमिति | ब्राह्मणो व्युत्थायेत्यादि श्रुत्यंतरसिद्धमित्यर्थः सिद्धं कृत्वेति | विद्योद्देशेन संन्यासविधिवाक्यानां सर्वेशामेक वाक्यत्वादितिभावः | कथमिति तां | तव यज्ञोपवीतादेर्ब्राह्मणत्वव्यंजकत्त्रात परमहंस संन्यासे चतुदभावादपि इत्यर्थः | यद्यत्र क्षत्रियवैश्ययोरपि संन्यासो विवक्षितः स्यात् तदा कथं ब्राह्मण इति वत् कथं क्षत्रियः कथं वैश्य इत्यपि श्रूयेत न तु श्रूयते तस्मात् न तयोः संन्यासः श्रुत्यभिमत इति भावः || प्. २७अ) विरोधाधिकरणन्यायेन श्रुत्यविरुद्धस्यैव स्मृत्यर्थस्य ग्राह्य त्वात् | यतु संन्यारास्य सर्वाधिकारत्वे वार्तिक वचनं तद्विद्वत्संन्यासविषयं न त्वातुरविविदिषा संन्यासे भाष्याभिप्रायविरुद्धसर्वाधिकारप्रतिपादनपरं सर्वाधिकार विछेदि विज्ञानं चेदुपेयते कुतोधिकार नियमो व्युत्थाने क्रियते बलादित्यनंतरश्लोकेन ब्रह्मज्ञानोदयानंतरं जीवन्मुक्तेन क्रियमाणे विद्वत्संन्यासे एवाधिकरनियमनिराकरणात् | एवं च ब्राह्मणानामेव श्रवणायनुष्ठाने संन्यासोंगं क्षत्रियवैश्ययोस्तप्रि?रपेक्षः श्रवणाद्यधिकार इति तयोः श्रवणाद्यनुष्ठाननिर्वाहः न हि संन्यासस्य श्रवणापेक्षितत्वपक्षे श्रवणमात्रस्य तदपेक्षानियतुं शक्यते क्रममुक्तिफलकसगुणोपासनयादेवभावं प्राप्तस्य श्रवणादौ संन्यासनैरपेक्ष्यस्यावश्यं वक्तव्यत्वात् || एवं संन्यासविधीनामैककंठ्ये स्थिते सति ब्राह्मणः क्षत्रियो वापीति स्मृति वचनं जावाल श्रुति तात्पर्याज्ञान प्. २७ब्) मूलत्वादप्रमाणमित्याह | विरोधाधिकरणत्यायेनेति | प्रत्यक्षश्रुतिविरुद्धस्मृतिवचनमप्रमाणमिति विरोधाधिकरणन्यासः | तस्माद्ब्राह्मणः पांडित्यं निर्विद्येत्यादि श्रुतौ संन्यासाधिकारानुरोधेन ब्राह्मणः संन्यस्य पांडित्यादिकमनुतिष्ठेदिति वाक्यार्थलाभात् | विद्यार्थसंन्यासे विविदिषुणा क्रियमाणे ब्राह्मणस्यैवाधिकार इति भगवतो भाष्यकारस्य मतं यदि वार्तिकवचनस्य प्रमाणमूलभाष्यकारमत विरुद्धेर्थे तात्पर्थे कल्पे तत् तदा संन्यासस्य साधारण्य प्रतिपादकस्मृतिवचनवद्वार्तिकवचनमपि हेयमेव स्यादतो भाष्याविरुद्धार्थ परं वार्तिकवचनमित्याह | तद्विद्वत्संन्यास विषयमिति | विविदिषा संन्यासे सर्वाधिकारप्रतिपादनपरं न संभवतीत्यत्र हेत्वंतरमाह | सर्वाधिकारेति | क्षत्रियवैश्ययोस्तत्वज्ञानमप्युपेय तेन वानांत्यः जनकादीनां तत्वज्ञानवत्वप्रतिपादकशास्त्रविरोधानापः तत्वज्ञानेन कर्माधिकारप्रयोजकवर्णाश्रमाद्यध्यासनिवृतौ सकलकर्मनिवृतिरूपविद्वत्संन्यासस्य क्षत्रियवैश्ययोरपि वारयितुमशक्यतया विविदिषा संन्यास इव विद्वत्संन्यासेपि ब्राह्मणस्यैव अधिकार इति नियमासंभवादितिभावः | कुतो बलान्नियमः क्रियते तादृशं बलं नास्तीत्यर्थः | एवं चेति श्रवणांगत्वेनापि कारिविशेषणत्वेन वा विद्या साधने विविदिषासंन्यासे ब्राह्मणस्यैवाधिकार इति सिद्धे सतीत्यर्थः | ननु संन्यासस्याधिकारिविशेषणतया अंगतया वा श्रवणापेक्षितत्वपक्षे प्. २८अ) श्रवणमात्रस्य संन्यासापेक्षत्वावगमात् | क्षत्रियवैश्ययोर्विविदिषासंन्यासरहितयोः श्रवणानुष्ठानं नास्तीत्येव पर्यवस्यति न तु तयोः श्रवणं संन्यासनिरपेक्षमिति तथा च कथं तयोः श्रवणाद्यनुष्ठाननिर्वाहः | तत्राह नहीति | देवभावं प्राप्तस्येति | न च सगुणोपासकस्य ब्रह्मलोकं गतस्य उपासनयादेवभावं प्राप्तस्य निर्गुणब्रह्मसाक्षात्कारायोपासकेन क्रियमाणे श्रवणादौ संन्यासस्य व्यभिचार इत्ययुक्तं तस्य सुगुणविद्यासामर्थ्यादेव निर्गुणसाक्षात्कारसंभवेन श्रवणाद्यनुष्ठानस्याभावादिति वाच्यं | देवताधिकरणे सगुणविद्ययादेवभावं प्राप्तमुपासकमेव प्राधान्येन विषयाकृत्य श्रवणादौ देवाद्यधिकारस्य निरूपितत्वेन तस्यापि श्रवणाद्यनुष्ठानं विना विद्यानुदयस्य प्रागेव श्रवणविधिविचारावसरे दर्शितत्वात् | तथा च तत्र व्यभिचारात् | संन्यासो न श्रवणमात्रांगं किंतु ब्राह्मणकर्तृकश्रवणस्यैवांगमिति क्षत्रियवैश्ययोः सन्यासाभावेपि श्रवणाद्यनुष्ठान निर्वाह इत्यर्थः || देवानां कर्मानुष्ठाना प्रसक्त्यातत्यागरूपस्य संन्यासस्य तेष्वसंभवादित्याहुः | अपरे तु ब्रह्मसंस्थो मृतत्वमेतीति श्रुत्युदिता यस्य ब्रह्मणि संस्था समाप्तिरनन्यव्यापारत्वरूपं तत्निष्ठत्वं तस्य श्रवणादिषु मुख्योधिकारः प्. २८ब्) गछतस्तिष्ठतो वापि जाग्रतः स्वप्नोपि वा न विचार परं चेतो यस्या सौमृत उच्यते | आसुप्तेरामृतेः कालं नयेद्वेदांतचिंतयेत्यादि स्मृतिषु सर्वदाविचारविधानात् | सा च ब्रह्मणि संस्था विना संन्यासमाश्रमांतरस्थस्य न संभवति | स्वस्वाश्रमविहित कर्मानुष्ठान वैयग्र्यादिति संन्यासरहितयोः क्षत्रियवैश्ययोर्न मुख्यः श्रवणाद्यधिकारः || ननु देवानामपि कुतः संन्यासाभावः तत्राह | देवानामिति | ननु देवकर्तृक श्रवणे संन्यासा श्रमस्य यदि व्यभिचारः तर्हि त्रैवर्णिक मनुष्य कर्तृक श्रवणे संन्यासाश्रमस्य हेतुत्वमस्तु न तु ब्राह्मणमात्रकर्तृके तथा संकोचे मानाभावात् | उक्तं हि प्रागेव चतुर्ष्वाश्रमेषु संन्यासाश्रमपरिग्रहेणैव श्रवणादिर्निर्वर्तनीयमिति स चाश्रमविभागो वर्णत्रय साधारण एव न ब्राह्मणमात्रगतः तथा च संन्यासिनो ब्राह्मणस्येव संन्यासहीनयोः क्षत्रियवैश्ययोः श्रवणादौ नाधिकारः संभवतीत्यस्वरसादाह | अपरे त्विति | श्रत्युदिता ब्रह्मणि संस्था यस्य संभवति तस्य मुख्योधिकार इति संबंधः | संस्थापदस्यो व्याख्यानं समाप्तिस्तस्यापि व्याख्यानमनन्येति अमृतत्वकामस्य नैरंतर्येण प्. २९अ) विचारकर्तव्यतायां स्मृतिवचनान्यप्युदाहरति | गछत इति स्वपत इति | शयानस्येत्यर्थः | स जीवति मनो यस्य मननेनैव जीवतीत्यादि वचनसंग्रहार्थमादिपदं मननं तत्वचितनं तद्रहितो जीवन्नेव मृत इत्यर्थः | अयं च मुख्याधिकारः संन्यासिनामेवेत्याह | सा चेति | वैयग्र्यादिति | व्यग्रत्वादित्यर्थः सार्वकालिकी विक्षेपनिवृतिरसंन्यासिनां न भवतीति भावः | न मुख्य इति शास्त्रीयोधिकारो नास्तीर्थः | अयं भावः ब्रह्मसंस्थोमृतंत्वमेतीति श्रुत्यापांडित्य श्रुत्येव ब्रह्मनिष्ठाधर्मकः संन्यासाश्रमो विधीयते ब्रह्मसंस्थाशब्दितायाः ब्रह्मनिष्ठायाः संन्यासाश्रमे संभवादाश्रमांतरेष्वसंभवादिति प्रतिपादितं संन्यासाधिकरणभाष्यांदौ तथा च ब्रह्मनिष्ठत्वस्य संन्यासाश्रमधर्मत्वेन विहितत्वात्संन्यासिनो ब्राह्मणस्य ब्रह्मनिष्ठत्वं स्वधर्म इति संन्यासिनः तत्र मुख्योधिकारः | तस्य ब्रह्मनिष्ठत्व व्यतिक्रमे प्रत्यवायावगमाच्च तथा च परमहंसोपनिषदि श्रूयते काष्टदंडो धृतो येन सर्वाशी ज्ञानवर्ज्जिताः स याति नरकान् घोरान् महारौरवसंज्ञकानिति काष्टदंडोपलक्षितः संन्यासाश्रमोधृतः परिगृहीतो येन सः सर्वाशी सर्वे विषयजातमशितुं भोक्तुं शीलमस्यास्तीति सर्वाशी बाह्यांतःकरणजयरहितः इति यावत् ज्ञानवर्जितः ज्ञानाभ्यासरहित इत्यर्थः यः संन्यस्य शमादि सहितं ब्रह्मनिष्ठत्वं नानुतिष्ठति सतो वां दुर्गतिं गछतीत्यर्थः | यथा संन्यासिनो ज्ञाननिष्ठाविधायकानि संन्यस्य प्. २९ब्) श्रवणं कुर्यात् | गछतस्तिष्ठतो वापि आसुप्तेरामृतेः कालमित्यादीनि स्मृतिवचनानि सहस्रशः संति तथा तत्परित्यागे पातित्यबोधकान्यपि स्मृतिवचनानि सहस्रशः संतित्वं पदार्थविवेकाय संन्यासः सर्वकर्मणां श्रुत्याविधीयते यस्मातत्यागी पतितो भवेत् | नित्यकर्मपरित्यज्य वेदांत श्रवणं विना वर्तमानस्तु शंन्यासी पतत्येव न संशय इत्यादीनि सर्वाश्रमसाधा || किंतु दृष्टार्था च विद्याप्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोति श्रवणादिष्विति अंतराचापि तु तद्दृष्टेरित्यधिकरणभाष्योक्त न्यायेन शूद्रवद प्रतिषिद्धयोर्विधुरादीनामिव देहांतरे विद्या प्रापकेणा मुख्याधिकारमात्रेण श्रवणानुमतिः न ह्यंतरा चापि तु तदृष्टेरित्यधिकरणे विषुरादीनामनाश्रमिणामंगीकृतः श्रवणाद्यधिकारो मुख्य इति शक्यते || रण्येनापि स्वधर्मस्य विगुणस्यापि परित्यागे महान नर्थः स्मर्यते श्रेयान्स्वधर्मो विगुणः परिधर्मात् स्वनुष्ठितात् | स्वधर्मे निधनं श्रेयः परधर्मो भयावह इत्यादौ | संन्यासाधिकरणे भाष्यकारैरेव तत्सर्वमभिप्रेत्य संन्यासिनो प्. ३०अ) नन्यव्यापारतया श्रवणादितिष्पादनमकुर्वतः पातित्यं कंठत एवोक्तं तथा च भाष्यं ब्रह्मनिष्ठत्वमेव हि तस्य शमाद्युपवृंहितं स्वाश्रमविहितं कर्मयज्ञादीनीवेतरेषां तद्व्यतिक्रमे च तस्य प्रत्यवाय इति तस्माछ्रवणादेर्भिक्षुं प्रतिविहितत्वात् | तदति क्रमेभिक्षीः प्रत्यवायावगमाच्च संन्यासिनः श्रवणादौ मख्योधिकारः संन्यासरहितान् प्रति तु श्रवणादेरविहितत्वादकरणे प्रत्यवाया नवगमाच्च नास्ति | तेषां मुख्योधिकार इति ननु क्षत्रियादिकं प्रतिश्रवणादिविधानाभावे सत्यधिकार एव नास्तीति कुतो नोच्यते इति शंकते | किं त्विति | नित्याधिकाररूपमुख्याधिकारासंभवेपि काम्याधिकाररूपगौणाधिकार संभवान्नैवमिति भाष्येणोतरमाह | दृष्टार्था चेति | किं त्वमुख्याधिकारमात्रेण श्रवणाद्यनुमितिरिति संबंधः | यथा भुजिक्रियाक्षुद्वाधा निवृतिरूपदृष्टफला तथा विद्यापि सर्वानर्थ मूलाविद्यानिवृतिरूपदृष्टफलाश्रुतिसिद्धा तथा च तस्यां विद्यायामनर्थ निवृतिकामानां सर्वेषामेवार्थित्वलक्षणाधिकारः संभवति | तथा च विद्याधिकारिणां सर्वेषामविशेषेण वेदांतश्रवणादावधिकारप्रसक्तौ शूद्रस्य वेदश्रवणादि प्रतिषेधात्नाधिकार इत्युक्तमपशूद्राधिकरणे क्षत्रियादीनां च तथा प्रतिषेधा भावाद्वेदांतश्रवणाधिकारो भाष्यानुमतो विधुरादेरिवेत्यर्थः | नन्व मुख्याधिकारिभिरनुष्ठित श्रवणादेरपि विद्योत्पादकत्वमवश्यं प्. ३०ब्) वाच्यं अन्यथा गौणाधिकारनिरूपण परभाष्य वैयर्थ्य प्रसंगात् | विद्योत्पादकत्वावश्यंभावे च न काम्याधिकारस्य गौणत्वं मुख्यगौणाधिकारयोः फलतौ विशेषाभावादित्यत आह | देहांतर इति | अयं भावः मुख्याधिकारिणामनन्यव्यापारतया प्रत्यहं निर्वर्त्यमानं श्रवणादिकं निरंकुशब्रह्मचर्या हिंसाशमदमादि युक्तमस्मिन्नेव जन्मनि प्रायेण विद्योत्पादकं संपद्यते | अमुख्याधिकारिणां तु श्रवणादिकमनन्यव्यापाररूपत्वाभावात् | संकुचितब्रह्मचर्यादि युक्तत्वाच्चास्मिन् जन्मनि विद्योत्पादनयोग्यमेव न भवति किंतु बहुषु जन्मसु किंचित् किं छ्रवणादिकं संपाद्यमानं संभूय देहांतरे क्वचिदेवं ज्ञानमुत्पादयेदिति महान्फलभेदो गौणमुख्याधिकारयोः | तथा च स्मृतिः | अनेकजन्मसंसिद्धस्ततो पातिपरांगतिमिति अनेकेषु जन्मसुकृतश्रवणादिना क्वचिज्जन्मनि संसिद्धः उत्पन्नविद्यः सन्ततः सिद्धिवलान्मुक्तिं गछतीति स्मृत्यर्थः | ननु क्षत्रियवैश्ययोर्विधुरादीनामिवामुख्याधिकार इत्ययुक्तं | दृष्टांता संप्रतिपतेरित्यत आह | न हीति वक्तुं हि न शक्यत इति संबंधः || अतस्त्वितरज्ज्यायो लिंगाच्चेति सूत्रकारेणैव तेषाममुख्याधिकार स्फुटीकरणात् | न च तत्र तेषां श्रवणाधिकार एव नोक्तः किंतु तदीय कर्मणां प्. ३१अ) विद्यानुग्राहकत्वमिति शंक्यं | दृष्टार्था च विद्येत्युदाहत तदधिकरणभाष्यविरोधात् | न च क्षत्रियवैश्ययोः संन्यासाभावादमुख्याधिकारे तत एव देवानामपि श्रवणादिषुं अमुख्य एवाधिकारः स्यात् | तथा च क्रममुक्तिफलक सगुणविद्ययादेवभावं प्राप्य श्रवणाद्यनुतिष्ठतां विप्राम्यर्थं संन्यासार्हं पुनर्ब्राह्मणजन्म वक्तव्यमिति ब्रह्ममभिसंपद्यतेन स पुनरावर्तत अनावृतिः शब्दादित्यादि श्रुतिरूत्रविरोध इति वाच्यदेवानामनुष्टेय कर्मवैयग्न्याऽभावात् स्वत एवानन्य व्यापारत्वं संभवतीति क्रमं मुक्तिफलक सगुणविद्याविधापि शास्त्रप्रामाण्याद्विनापि संन्यासं तेषां मुख्याधिकाराभ्युपगमादित्याहुः || यद्यपि संन्यासिन एव मुख्याधिकार इति पूर्वप्रतिपादितत्वेन विधुरादिनां संन्यासाभावादेवगौणाधिकारः सिद्धस्तथापि तेषां गौणाधिकारे सूत्रसंगृहीतामप्युपपतिमाह | अतस्त्वितरदिति | अतः अनाश्रमिभिरनुष्ठित विद्यासाधनापेक्षया इतरदाश्रमिभिरनुष्ठितं विद्यासाधनं कर्मश्रवणादिकं वाज्यायः प्रशस्तं विद्यासाधनं प्. ३१ब्) ज्यायस्त्वावधारणार्थस्तु शब्दः श्रुतिलिंगात् स्मृति लिंगाच्च तेनैति ब्रह्मवित् पुण्यकृदिति वाक्यं श्रुतिलिंगं | अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विज इत्यादिवाक्यं स्मृतिलिंगं तेन पुण्यलब्धेन ब्रह्मवेदनेन ब्रह्म एति ब्रह्मप्राप्नोतीति श्रुत्यर्थः | अत्र श्रुतौ पुण्यत्वेन प्रसिद्धानामाश्रमधर्माणामेव विशिष्य ब्रह्मप्राप्ति साधनत्व प्रतिपादनादनाश्रमिधर्माणां विशेषानुग्रहश्चेति सूत्रोक्त न्यायेन विद्योपयोगीनामपि निकर्षो भाति स च निकर्षो विधुरादीनां विद्यार्थ कर्मसु श्रवणादिषु च मुख्याधिकाराभावप्रयुक्त एवेति वक्तव्यं हित्वंतराभावादनाश्रमित्वस्य निदितत्वाच्च न हि कर्मज्ञानयोर्मुख्याधिकारी निंदार्ह इति सूत्रभाष्यकारयोरभिप्राय इत्यर्थः | ननु विधुराधिकरणे विधुराद्यनुष्ठितं कर्मविद्यासाधनमित्येतावदेवोक्तं न तु विधुरादेः श्रवणाधिकारोपि तत्र प्रतिपादितः | तथा च श्रवणादौ विधुराद्यधिकारस्य गौणमुख्यत्वचिंतातिरालंबनेत्याशंक्य परिहरति | न च तत्रेति | विधुराधिकरण इत्यर्थः | तत एवेति संन्यासाभावादेवेत्यर्थः | अस्तु पुनर्ब्राह्मणजन्म इत्यत आह | ब्रह्मलोकमिति | न स पुनरिति ब्रह्मलोकमभिसंपद्य पुनरिमंलोकं प्रतिनावर्तत इत्यर्थः | एतछ्रुति मूलं सूत्रमुदाहरति | अनावृतिरिति | अनावृतिरिवृतिरिति | ब्रह्मलोकं गतानामुपासकानामावृतिर्नास्ति | उदाहृत श्रुतेरित्यर्थः स्मृतेश्चेत्यादिसूत्रसंग्रहार्थमादि प्. ३१२अ) पदं तथा च स्मृतिः | ब्रह्मणा सहते सर्वे संप्राप्ते प्रतिसंचरे परस्यांते कृतात्मानः प्रविशंति परं पदमिति | ते ब्रह्मलोकवासिनः ब्रह्मोपासकारः प्रतिसंचरे महाप्रलये परस्य हिरण्यगर्भस्य ब्रह्मलोक स्वामिनः आपुषों ते कृतः साक्षात्कृतः आत्मा येषां ते तथा | नन्वन्यव्यापारत्वसंभवेपि संन्यासो नास्तीति आशंक्याह | क्रममुक्तीति मनुष्येष्वेव संन्यासो मुख्याधिकार प्रयोजकः वर्णाश्रमविभागस्य मनुष्य विषयत्वादितिभावः || नन्वमुख्याधिकारिणादृष्टफलभूतवाक्यार्थावगत्यर्थं अविहित शास्त्रांतरविचारवक्रियमाणो वेदांत विचारः कथं जन्मांतरीय विद्यावाप्तावुपयुज्यते | न खलु विचारस्य दिनांतरीय विचार्ययावगति हेतुत्वं युज्यते | दूरे जन्मांतरीय तद्धेतुत्वं न च वाच्यं मुख्याधिकारिणापरिव्राजकेन क्रियमाणमपि श्रवणं दृष्टार्थमेव सर्वत्रविचार्ययावगतेर्दृष्टफलत्वा तस्य यथा प्रारब्धकर्मविशेषरूपप्रतिबंधादिह जन्मनि फलमजनयतो जन्मांतरे प्रतिबंधकापगमेन फलजनकत्वमैहिकमयय प्रस्तुत प्. ३२ब्) प्रतिबंधे तद्दर्शनादित्यधिकरणे तथा निर्णयात् | एवमुम्बुख्याधिकारिकृतस्यापि स्यादिति | यतः शास्त्रीयाअंग युक्तं श्रवणमपूर्वविधित्वपक्षे फलपर्यंतमपूर्वं नियमविधित्वपक्षे नियमादृष्टं वा जनयति | तच्च जाति स्मरत्व प्रापका दृष्टवत् प्राग्भवीय संस्कारमुद्बोध्य तन्मूल भूतस्य विचारस्य जन्मांतरीय विद्योपयोगितां घटयतीति पुज्यते शास्त्रीयांग विधुरं श्रवणं नादृष्टोत्पादकमिति कुतस्तस्य जन्मोतरी विद्योपयोगित्वमुपपद्यते | घटकादृष्टं विना जन्मांतरीय प्रमाण व्यापारस्य जन्मांतरीयावगति हेत्वोपगमेति प्रसंगात् || अविहितेति | न्यायशास्त्रादिविचारवदित्यर्थः | एतज्जन्मीय वेदांतविचारस्यागामि जन्मीयां वेदांतार्थावगर्तिप्रतिहैतुत्वासंभवं कैमुति कन्या येन दृढयति | न खल्विति | मुख्याधिकारिकृतविचारदृष्टांतेन गौणाधिकारि श्रवणादेरपि जन्मांतरीय विद्योपयोगं शंकते | न च वाच्यमिति | ततः किं तत्राह | तस्येति | यथा तस्य मुख्याधिकारिकृतश्रवणस्य प्रतिबंधादिह जन्मनि विद्यालक्षणं फलमजनयतो जन्मांतरे फलजनकत्वं एवं अमुख्याधिकारिकृतमपि प्. ३३अ) श्रवणं जन्मांतरे फलजनकं स्यादिति न च वाच्यमितिसंबंधः | मुख्याधिकारिकृतश्रवणस्य सति प्रतिबंधके आमुष्मिकं विद्याजन्मेत्यत्र मानमाह | ऐहिकमपीति | प्रस्तुत प्रतिबंधे असतिविद्याजन्म इह जन्मन्यपिवति | अयि शब्दात् सति प्रतिबंधे जन्मांतरे भवति | कुतः तद्दर्शनात् | तस्य प्रतिबंधक वशात् जन्मांतरे विद्योदयस्य वामदेवादिषु दर्शनादित्यर्थः | दृष्टांत वैषम्येणोतरमाह | शास्त्रीयांग युक्तमिति शास्त्रीयांगं संन्यासः तद्युक्तं संन्यासिनानुष्ठीयमानमिति यावत् | तथा च शास्त्रीयांग सहितं श्रवणं श्रवणविधिरपूर्वविधिरिति पक्षे स्वयमेव विद्यालक्षणफलपर्यंतमदृष्टं जनयति | श्रवणविधिर्नियमविधिरिति पक्षे तु मादृशं श्रवणं नियमविशिष्टं सत् फलपर्यंतं नियमादृष्टं जनयतीत्यर्थः | तच्चेति श्रवणजनितादृष्टमित्यर्थः | जातीति जातिर्जन्म ततश्च यथा जाति स्मरत्व संपादकमदृष्टं पूवजन्म तद्वृतांतानुभवजन्य संस्कारमस्मिन् जन्मन्युद्बोध्य तद्वद्बोधनद्वारा पूर्वजन्म तद्वृतांत स्मृतिं घटयति तथा प्राचिभवे श्रवणादिजनतं संस्कारमुद्बोध्य तत्संस्कारकारणभूतस्य श्रवणस्य भावि जन्मनिविद्योपयोगित्वं घटयतीत्यर्थः | शास्त्रीयांगविधुरमिति | संन्यासरहितक्षत्रिययादीना क्रियमाणं श्रवणमदृष्टोत्पादकं न भवति क्षत्रियादिकं प्रत्यविहितत्वाछ्रवणादेरितिभावः | नन्वविहित श्रवणस्यादृष्टानुत्पादकत्वेपि प्. ३३ब्) संस्कारजनकत्वसंभवात् | तद्वलादेवजन्मांतरीय विद्या हेतुत्वं कुतो न स्यादित्यत आह | घटकादृष्टं विनेति | अतिप्रसंगादिति जन्मांतरानुभूत सकलपदार्थस्मृतिप्रसंगादित्यर्थः || उच्यते अमुख्याधिकारिणाप्युत्पन्नविविदिषेण क्रियमाणं श्रवणं द्वारभूतविविदिषोत्पादक प्राचीनयज्ञाद्यनुष्ठान जन्यापूर्वप्रयुक्तमिति तदेवापूर्वं विद्यारूपफलपर्यंतं व्याप्रियमाणं जन्मांतरीयायामपि विद्यायां स्वकारित श्रवणस्योपकारिकतां गटयतीति नानुपपति | श्रवणादौ विध्यभावपक्षे तु संन्यासपूर्वकृतस्यापि श्रवणस्यादृष्टानुत्पादकत्वात्सति प्रतिबंधे तस्य जन्मांतरीय विद्या हेतुत्वमित्थमेव निर्वाह्यं | आचार्यास्तु नियमविधिपक्षेप्ययमेव निर्वाहः श्रवणमभ्यस्यतः फलप्राप्तेरर्वाक् प्रयाणे तन्नियमादृष्टस्यानुत्पतेस्तस्य फलपर्यंता वृतिगुणक श्रवणानुष्ठाननियमसाध्यत्वात् | न हि नियमादृष्टजनकः श्रवण नियमः फलपर्यंतमार्वर्तनी प्. ३४अ) यस्य श्रवणस्योपक्रममात्रेण निर्वर्तितो भवति | येन तज्जन्यनियमादृष्टस्यापि फलपर्यंत श्रवणावृतेः प्रागेवोत्पतिः संभाव्येत् || कर्मणां विद्यायां विनियोग इति पक्षमाश्रित्य परिहरति | उच्यत इति | यज्ञादिभिर्विद्यायां संपादनीयायां द्वारभूताया विविदिषा तस्या उत्पादकं प्राचीनं यद्विद्यार्थ यज्ञाद्यनुष्ठानं तज्जन्येत्यर्थः | स्वपदं यज्ञाद्यनुष्ठानजन्यापूर्वपरं वाचस्पतिमते मुख्याधिकारिकृतश्रवणस्यापि यज्ञाद्यपूर्वेणैव निर्वाह इति दृष्टांताभिप्रायेणाह | श्रवणादौ विध्यभावपक्षे त्विति | विवरण पक्षेप्येवमेव निर्वाह इत्याह | आचार्यो त्विति | अयं भावः प्रमाणासंभावना निवृतिः श्रवणफलं प्रमेयासंभावना निवृति मनतफलं विपरीत भावना निवृति | निदिध्यासन फलं तथा च त्रिविधप्रतिबंधकनिवृतिलक्षणफलपर्यंतमावृतिविशिष्टानि श्रवणादी नियस्य मुख्यायिकारिणो निष्पन्नानि तस्य नियमादृष्टमुत्पन्नमेव | एवं संपन्नविद्यासाधनस्यापि प्रतिबंधवशात् | यदि विद्या न जाता तदा पुनर्जन्मलाभेन प्रतिबंधक्षये सति पुनर्विचारमनपेक्ष्यैव विद्या जायते | यथा वामदेव हिरण्यगर्भादेः यस्य तूक्तप्रतिबंधनिवृतिपर्यंत श्रवणाद्यावृतिर्न जाता मध्ये मृतिश्च जाता तस्य मुख्याधिकारिणोपि नियमादृष्टं प्. ३४ब्) न जायते | स च पुनर्जन्मांतरे उक्त प्रतिबंधनिवृतिपर्यंत श्रवणादिकमभ्यस्य श्रवणादिनियमादृष्टवशेन विद्याप्रतिबंधककल्मषक्षये सति विद्यां लभते | तदुक्तं भगवता श्रीकृष्णेन तत्र तं बुद्धिसंयोगं लभते | पौर्वदैहिकं यतते च ततो भूयः संसिद्धौ कुरु नंदन | इति तत्र प्राप्ते साधुजन्मनि पूर्व देहे भवमिदानिं संस्कारात्मनानुवर्तमानं बुद्धिसंयोगं श्रवणादि कर्तव्यता बुध्या संबंधं लभते अस्मिन्नपि जन्मनि प्रतिबंधनिवृतिद्वाराविद्योदयोयमयाश्रवणादिकमनुष्ठेयमिति बुध्यायुक्तो भवतीत्यर्थः | ततः पूर्वजन्मोय पत्नीपेक्षयाभूयः अधिकं यत्तत्ते संसिध्यर्थमित्यर्थः | तथा च योयं फलपर्यंतावृतिगुणकश्रवणादिरहितो योगभ्रष्टः तस्य नियमादृष्टाभावाद्यज्ञाद्यदृष्टादेव निर्वाहः कर्तव्य इति | प्रतिबंधनिवृतिरूपफलप्राप्तेः पूर्वं नियमादृष्टानुत्पतौ हेतुमाह | तस्येति | नियमादृष्टस्येत्यर्थः | नियमादृष्टं हि न श्रवणमात्रजन्यं किंतु श्रवणनियमजन्यं तन्नियमश्च श्रवणादेरेव फलपर्यंतमावृतौ सत्यां निष्पद्यते | तथा च फलोत्पतेरर्वाक् श्रवणादि नियमस्ये वा भावात् न नियमादृष्टोत्पतिरित्यर्थः | उक्तं प्रपंचयति | न हीत्यादिना || अवघातादिवदावृतिगुणकस्यैव श्रवणस्य प्. ३५अ) फलसाधनत्वेन फलसाधनपदार्थनिष्पतेः प्राक् तन्नियमनिर्वतिवचनस्य निरालंबनत्वात् श्रवणावघाताद्युपक्रममात्रेण नियमनिष्पतौ तावतैव नियमशास्त्रानुष्ठानं सिद्धमिति तेदंनावृतावप्यवैकल्पप्रसंगाच्चेत्याहुः | केचित् तु दृष्टार्थस्यापि श्रवणस्य दिने दिने तु वेदांतश्रवणाद्भक्ति संयुतात् गुरुशुश्रूषयालब्धात्कृछ्राशीति फलं लभेदित्यादि वचनप्रामाण्यात् स्वतत्रादृष्टोत्पादकत्वमप्यस्ति | यथाग्नि संस्कारार्थस्याधानस्य पुरुषसंस्कारेषु परिगनात्तदर्थत्वमपि | एवं च वचनवलादुभयार्थत्वोपपतेः तथा च प्रतिदिन श्रवणजनितादृष्टमहिम्नैवामुष्मिक विद्योपयोगित्वं श्रवणमननादि साधनानामित्याहुः | एवं श्रवणमननादि साधनानुष्ठानप्रणाड्या विद्यावाप्तिरित्यस्मिन्नर्थे सर्वसंप्रतिपन्ने स्थिते भारतीतीर्थाः ध्यान दीपे विद्यावाप्तावुपायांतरमप्याहुः | प्. ३५ब्) श्रवणनियमः श्रवणस्योपक्रममात्रेण निर्वर्तितो न भवतीत्यत्र हेतुमाह | अवघातादि वदिति | आवृति विशिष्टस्यैवावहन नस्य तंडुलनिष्पतिलक्षणफलसाधनतायाः लोकसिद्धत्वादितिभावः | प्राक् तदिति फलपर्यंतं श्रवणस्यैवावृतौ सत्यांश्रवणस्याप्राप्तांशपरिपूरणलक्षण नियमो निष्पन्नो भवति न ततः प्रागित्यर्थः श्रवणस्यारंभमात्रे वा कतिपयावृतिमात्रे वा जाते सति श्रवणनियमो निष्पन्न इति वचनं विषयाभावान्निरालंबनमित्यर्थः | तदनावृतावपीति | श्रवणावघाताद्यनुष्ठानमुपक्रम्य श्रवणादिकं त्यक्ताभाषाप्रबंधादि विचारे नखविदलनादौघग्रवृतावपि नियमविधिविरोधाभावप्रसंगादित्यर्थः | मुख्याधिकरिभिरन्वहं क्रियमाणस्य वेदांतश्रवणस्य प्रतिबंधकनिवृतिरूपदृष्टफलोत्पादकत्ववददृष्टोत्पादकत्वमप्यस्ति तथा च तद्बलात् जन्मांतरे विद्योपयोगित्वं विचारस्य घटत इति परिहारांरतमाह केचित्विति | फलमिति पुण्यरूपमित्यर्थः | वचने तु शब्दश्चार्थे | तथा च वेदांतश्रवणस्य देवतागुरुवेदांतविषयभक्ति गुरुशुश्रूषाभ्यामुपाताभ्यामनुपातैश्च शमदम ब्रह्मचर्या हिंसादिभिः समुच्चयार्थः तु शब्द इति भावः | स्वतंत्रेति वेदांतश्रवणस्य स्वतंत्रतया अदृष्टोत्पादकत्वमस्तीत्यर्थः स्वातंत्र्यं चादृष्टजनने श्रवणस्य विद्यायां विनियोगबोधकश्रवणविधिनैरपेक्ष्यमिति बोध्यं | एकस्योभयार्थत्वे दृष्टांतमाह प्. ३६अ) यथा प्रीति | अग्नीना दधीतेति वचनादाधानस्याहवनी पाद्यग्निसंस्कारत्वोपगमादितिभावः | पुरुषसंस्कारेष्विति | अग्न्याधेयमग्निहोत्रमित्यादिपुरुषसंस्कारसंग्राहक सूत्रे अग्न्याधानस्यापि पावादित्यर्थः | अदृष्टमहिम्नैवेति | वेदांतश्रवणजनितादृष्टस्य योग्यतया विद्यायामेव विनियोगस्य वक्तव्यतया तद्बलाज्जन्मांतरीय विद्योपयोगित्वमितिभावः | एवं उत्तममध्यमाधिकारिणां सांख्यमार्गं निरूप्यतदशक्तानां अत्यंतमंदाधिकारिणां योगमार्गं निरूपयितुमुपक्रमते | एवमिति | सर्वसंप्रतिपन्न इति सर्वश्रुति स्मृतिषु सम्यक् प्रतिपन्ने निश्चित इत्यर्थः | आहुरिति सम्यक् निरूपितवंत इत्यर्थः || तत्कारणं सांख्ययोगाभिपन्नं यत्साख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते इति श्रुतिस्मृतिदर्शनाद्यथा सांख्यं नाम वेदांतविचारः श्रवणशब्दितो मननादि सहकृतो विद्यावाप्युपायः एवं योगशब्दितं निर्गुणब्रह्मोपासनपि | न च निर्गुणस्योपासनमेव नास्तीति शंक्यं | प्रश्नोपनिषदि शैव्यप्रश्नेयः पुनरेतं त्रिमात्रेणोंकारेण परमपुरुषमभिध्यायीतेति निर्गुणस्यैवोपासनप्रतिपादनात् प्. ३६ब्) तदनंतरं स एतस्माज्जीव घनात्परात्परं पुरिशयं पुरुषमीक्षत इत्युपासनाफलवादे ईक्षति कर्मत्वेन निर्दिष्टं यन्निर्गुणं ब्रह्मतदेवोपासनावाक्येपि ध्यायति कर्मनान्यत् ईक्षति ध्यानयोः कार्यकारणभूतयोरेकविषयत्व नियमादित्यस्यार्थस्ये क्षति कर्माधिकरणे भाष्यकारादिभिरंगीकृतत्वात् | न तु नूतनतया कल्पितवंत इति भ्रमितव्यं तथापि श्रुत्यादि सिद्धत्वात् | तत्प्रकृतं कारणत्वोपलक्षितं ब्रह्मसांख्ययोगाभ्यां विद्याद्वारा आभिमुख्येन प्रत्यक्तेन प्राप्तमिति श्रुत्यर्थः सांख्यैः श्रवणादिपरैः योगैरुपासकैः यत्स्थानं ब्रह्मस्वरूपं विद्याद्वारागम्यते प्राप्यत इत्यर्थः योगैरपीत्यपि शब्दाद्योगमार्गस्यानुकल्पत्वं भातीति बोध्यं अपीति | विद्यां प्राप्त्युपाय इत्यनुषंगः निर्गुणब्रह्मोपासनं मान शून्यमित्याशंक्यपरिहरति | न चेत्यादित्या नन्वियं शंका न युक्ता तत्कारणं यत्सांख्यैरिति श्रुतिस्मृत्योरादावेव तत्र प्रमाणत्वेनोदाहृतत्वात् | न चोदाहृत श्रुतिस्मृतिगतयोग पदस्य सगुणोपासन परत्व संभवादाशंकायुक्तेति वाच्यं | भिन्नविषयोरुपासनसाक्षात्कारयोः कार्यकारणभावा संभवेन निर्गुणविद्या हेतुभूतस्य योगस्य निर्गुणोपासनरूपत्वावश्यं भावान्न च सांख्यैरिति वचनगतयोगपदस्योपास्ति प्. ३७अ) परत्वमेवासिद्धं तस्य गीताभाष्यकर्मयोगपरत्वेन व्याख्या तत्वादिति वाच्यं | यत्सांख्यैरिति वचनस्य वस्तुतो निर्गुणोपास्ति परस्यैव सतो भगवता श्रीकृष्णेन कर्मविषये उदाहृतत्वेन तदनुरोधेन भाष्ये तथा व्याख्यानोपपतेः | योग पदस्य ध्याने रूढत्वैन वस्तुतः कर्मपरत्वाभावात् | तद्वचन मूलभूतायां तत्कारणमिति श्रुतौ योगपदस्य ध्यानपरतया शारीरकभाष्ये व्याख्या तत्वाच्च कर्मयोगस्य मुखयोगद्वारा ब्रह्मप्राप्तिसाधनत्वं न तु साक्षादिति ज्ञापनायास्य वचनस्य कर्मविषयतया भगवतो दाहरण संभवाच्च तस्मान्मानाभावा शंका न युक्तेति च्चेन्न | उदाहृत श्रुतिस्मृति व्यतिरेकेणान्यत्र क्वापि निर्गुणोपासनं न दृष्टमित्येताभिप्रायेण शंकोपपतेः | अत एव सर्वासु श्रुतिषु निर्गुणोपासनं दृष्टमिति | मंदाधिकारिणमासश्चानायाह | प्रश्नोपसिषदात्यादिना त्रिमात्रेणेति द्वितीयार्थे तृतीया तिस्रः अकारोकारमकाराख्यामात्रा यस्योंकारस्य स त्रिमात्रः ओंकारे निर्गुणमेव ब्रह्म तदभेदेन ध्येयमित्यत्र भाष्यादि संमतिमाह | तदनंतरमित्यर्थः | जीवरूपः परमात्मनो घनः घटाकाशवदुपाधिपरिछिन्नचैतन्यात्मा जीवघनः तस्मात् परः पुरुषः निरुपाधिकः परमात्मानं सः ध्यातापुरिहार्द्दाकाशे बुद्धि साक्षित्वेन शयं वर्तमानमीक्षते साक्षात्कारोतीत्यर्थः | उपासना वाक्ये परं पुरुषममिध्यायीतेति वाक्य इत्यर्थः | प्. ३७ब्) कार्येति ईक्षण वाक्यस्य ध्यानफलभूतसाक्षात्कारप्रतिपादकत्वेन ध्याशवाक्यैक वाक्यत्वात् | ध्याने क्षणयोः कार्यकारणभावोवगम्यत इति भावः | नियमादिति | अन्य ध्यानादन्यसाक्षारादननादिति भावः | अन्यत्रापि तापनीय कठवल्ल्यादि श्रुत्यंतरे निर्गुणोपास्तेः प्रपंचित त्वात् सूत्रकृताप्युपास्य गुणपरिछेदार्थमारब्धे गुणोपसंहार पादे निर्गुणेप्यानंदादयः प्रधानस्येति सूत्रेण भावरूपाणां ज्ञानानंदादिगुणानामक्षरधियांत्ववरोध इत्यादि सूत्रेणाभावरूपाणामस्थूलत्वादि गुणानां चोपसंहारस्य दर्शितत्वाच्च | ननु आनंदादि गुणोपसंहारे उपास्यं निर्गुणमेव न स्यादिति चेन्न आनंदादिभिरस्थूलत्वादिभिश्चोपलक्षितमखंडैकरसं ब्रह्मास्मीति निर्गुर्णत्वानुपमर्देनोपासनासंभवात् | ननु तदेव ब्रह्मत्वं विद्धिनैदं यदिदमुपासत इति श्रुतेर्न परब्रह्मोपास्यमिति चेतन || ननु कल्पतरौ ध्यातव्यस्य सूर्यांतस्थत्वं स तेजसि सूर्ये प्. ३८अ) संपन्न इति सूर्यसपतिवचनानुसारै विशेषणं दत्तं तथा चोंकारे ध्यातव्य पुरुषस्य निर्गुणब्रह्मरूपत्वं कल्पतरुकारैर्नांगीकृतमिति प्रतीयत इति चेन्न सूर्यसंपतिवचनस्यार्चिरादिभार्गप्राप्ति परतायाः चतुर्थाध्याये व्यवस्थापितत्वेन सूर्य तदंतस्थेश्वर प्राप्ति परत्वाभावात् | कल्पतरुकाराणामपि तदीयवचनांतरपर्यालोचनया श्रुतेर्मार्गपरतया च सूर्यांतस्थत्व विशेषण दाने तात्पर्याभावस्य परिमले प्रतिपादितत्वाच्चेतिभावः | देवाहवै प्रतिपतिमब्रुवन् | अणोरणीयां समिममात्मानमोंकारं नो व्याचक्ष्वेत्पाद्यातापनीय श्रुतिः अणोः सूक्ष्मादपि सूक्ष्मं दुर्विज्ञेयमिमं प्रत्यग्रूपं परमात्मानं ओंकारगम्यमित्यर्थः | एतद्धेवाक्षरं ब्रह्मेत्पाद्याकठवल्ली श्रुतिः ओमित्येतदक्षरमिदं सर्वमित्यादिमांडूक्यश्रुतिः ओमित्येवं ध्यायथ आत्मानमिति मुंडकश्रुतिश्चादिपदार्थः निर्गुणस्योपास्यचि सूत्रसंमतिमाह | सूत्रकृतापीति | सूत्रकृतानिर्गुणेपि गुणानामुपसंहारस्य दर्शितत्वादिति संबंधः निर्गुणे गुणोपसंहारो निर्गुणब्रह्मप्रमित्यर्थ एव न निर्गुणब्रह्मोपास्त्यर्थ इति शंकाव्यवछेदाय पादं विशिनष्टि उपास्य गुणपरिछेदार्थमिति | परिछेदो निर्णयः निर्गुणे गुणोपसंहारनिरूपणस्य निर्गुणोपास्तिरपि फलमिति वक्तव्यं अन्यथा तन्निरूपणस्य पादासंगति प्रसंगादितिभावः | आनंदादयः क्वचिछ्रुता अन्यत्राप्युपसंहर्तव्याः प्रधानस्य वेद्यस्य ब्रह्मणः प्. ३८ब्) सर्ववेदांतेष्वभेदेन ब्रह्मविद्याया एकत्वादिति सूत्रार्थः भावरूपाणामिति विशेषणमक्षरधियामित्यधिकरणस्यानंदादय इत्यधिकरणेन पौनरुक्त्यपरिहारार्थमिति बोध्यं | अक्षरे ब्रह्मणि धीर्यैरस्थूलादिशब्दवाच्यार्थभूतैरभावैर्भवतितेक्षरयियः | तेषामवरोध उपसंहारः इतरेषु वेदांतेषु कर्तव्य एवेति सूत्रभागार्थः स्थौल्यादिनिषेधानां निष्प्रपंच ब्रह्मप्रमिति हेतुत्वादितिभावः | व्याघातं शंक्यते | नन्विति | आनंदादि गुणानामुपास्य कोटौ निवेशोनांगीक्रियते येनोपास्यं ब्रह्मसगुणं स्यात् किंतूपास्य निर्गुणनिर्णयद्वारा निगुणोपास्तावुपयोगमात्रं स्वीक्रियत इति समाधते | नेति | आनंदादि गुणानामस्थूलादि गुणानां च उपसंहारो हि तद्वाचकपदानां सहोच्चारणरूपो विवक्षितस्तथा च उपाधिविशिष्ट चैतन्य वाचकैरानंदादि पदैःर्स्थैल्याद्यभावविशिष्ट चैतन्यवाचकैरस्थूलादिशब्दैश्च सर्वेषु वाच्यार्थेष्वनुगतमखंडे करसं यद्ब्रह्मलक्षणया बोध्यते न दहमस्मीत्युपासनसंभवादित्यर्थः | उक्तं च ध्यान दीपे | आनंदादिभिरस्थूलादिभिश्चात्मात्रलक्षितः यो खंडैकरसः सोहमस्मीत्येवमुपासत इति | अत्रेति वेदांतेष्वित्यर्थः | एवं श्रुति सूत्राभ्यां निर्गुणस्थौपास्येत्वं निरूप्यनिर्गुणोपासनस्य श्रुत्यंतरविरोधमाशंक्यपरिहरति | ननु तदेवेत्यादिना | तदेवेति बुध्यादि साक्षिचैतन्यमेवेत्यर्थः || प्. ३९अ) अन्यदेव तद्विदितादथो अविदितादिति श्रुतेस्तस्य वेद्यत्वस्याप्यसिध्यापातात् | श्रुत्यंतरेषु ब्रह्मवेदन प्रसिद्धेरवेद्यत्व श्रुतिर्वास्तवावेद्यत्वपराचेदाथर्वणों तदुपासनाप्रसिद्धेस्तदनुपास्यत्व श्रुतिरपि वस्तुवृत परास्तु | एवं च श्रवणायापि बहुभिर्यो न लभ्य इति श्रवणात् | येषां बुद्धिमांद्यान्न्यायव्युत्पादनकुशलविशिष्टगुर्वलाभाद्वा-श्रव. नादि न संभवति | तेषामध्ययने गृहीतैर्वेदांतैरापाततोधिगमित ब्रह्मात्मभावानां तद्विचारं विनैव प्रश्नोपनिषदाद्युक्तमार्षग्रंथेषु ब्राह्मवासिष्टादि कल्पेषु पंचीकरणादिषु चानेक शाखाविप्रकीर्ण सर्वार्थोपसंहारेण कल्पसूत्रेष्वग्निहोत्रादिवन्निर्धारितानुष्ठानप्रकारं निर्गुणोषासनं संप्रदायमात्रविद्ध्यो गुरुभ्योवधार्य तदनुष्ठानात्क्रमेणोपास्य भूतनिर्गुणब्रह्मसाक्षात्कारः संपद्यते || उपास्यस्य ब्रह्मत्वनिषेधवद्वेद्यस्यापि ब्रह्मत्वनिषेधात् परब्रह्मवेदनमपि न सिध्येदित्याह | अन्यदेवेति | वेदनविषयादन्यत् ब्रह्मेत्युक्ते अर्थाद्ब्रह्मवेद्यं न भवतीति प्. ३९ब्) सिध्यतीत्यर्थः | अस्त्विति वेद्यत्वमुपास्यत्वं ब्राह्मणि परमार्थतो नास्तीति | निषेध श्रुतीनां तात्पर्यमितिभावः | निर्गुणोपासने अधिकारिणं दर्शयति | एवं चेति निर्गुणोपास मे प्रमाणसिद्धे सतीत्यर्थः | केषांचित् मुमुक्षूणां श्रवणासंभवे प्रमाणंमाह | श्रवणायार्पाति वहभिर्मुमुक्षुभिर्यः परमात्माश्रोतुमपि नभ्यते | तस्याश्रुतस्यापि साक्षात्कारोदूरापास्त इत्यर्थः | बहुनां श्रवणा लाभे श्रुत्यभिमत्तं कारणं दर्शयति | येषामिति | बुद्धीति उक्तं च ध्यानदीपे | अत्यंतबुद्धिमांद्याद्वासामग्र्यावाप्यसंभवात् | यो विचारं न लभति ब्रह्मोपासितसोनिशमिति | तत्र सामग्र्यभावं विवृणोति | न्यायेति | येषामत्यंतबुद्धिमांद्यात् श्रवणादिकं | न संभवति येषां च कुशलमती नामपि सामग्र्यभावात् | श्रवणादिकं न संभवतीत्यर्थः | विशिष्टत्वं असंभिन्नार्यमर्यादत्वकारुणीकत्वादिलक्षणं बोध्यं | तेषां ब्रह्मजिज्ञासा हेतुमाह | अध्ययनेति | अधिगमितः अवगमितः ब्रह्मात्मभावो येषां ते तथोक्ताः तेषामित्यर्थः | तषां तद्विचारं विनैव गुरुभ्योवधार्य तदनुष्ठानात् | साक्षात्कारः संपद्यते इति संबंधः | निर्गुणब्रह्मविचारं विनैव निर्गुणब्रह्मोपासनादित्यर्थः | ननु प्रश्नोपनिषिदादावुपासनामात्रमुक्तं न तु तदनुष्ठानप्रकारोपीत्याशंक्याह | आर्षग्रंथेष्विति | ननु पंचीकरणे वेदांतलक्ष्ये अखंडैकरसे प्रणवमात्रात्मककृत्स्न प्रपंचप्रविलापनोक्ति पूर्वकमहं ब्रह्मास्मीत्यभेदेनावस्थानं समाधिरित्युक्त्यायो खंडैक रसः सोहमस्मीत्येवमुपासत प्. ४०अ) इत्याद्युदाहृत ध्यानदीपवचनाच्च प्रकृतं निर्गुणोपासनमहंग्रहरूपं विवक्षितं | प्रश्नोपनिषिद्गत शैव्यप्रश्ने तु ओंकाररूपे प्रतीके निर्गुणब्रह्मदृष्टिर्विवक्षिता तथा कठवल्यामपि तथा च कथं प्रश्नादि वाक्यं प्रकृतोपासने प्रमाणत्वेनोदाहृतमिति चेत् | न प्रकृतोपासने तापनीय मांडूक्यमुंडक श्रुतीनामेव प्रमाणत्वेन विवक्षितत्वात् | प्रश्नकठवल्ली श्रुत्युदाहरणं तु निर्गुणस्याप्युपासनमन्यत्रापि दृष्टमित्ये तावन्मात्रणेति न विरोध इति भावः पंचीकरणादिषु च निर्धारितानुष्ठानप्रकारमिति संबंधः | तत्र दृष्टांतमाह | अनेकशाखेति | अनेकासु शाखासु विप्रकीर्णतया विशकलिततया स्थितानां पदार्थानामुपसंहारेण यथा अग्निहोत्रादिकर्मनिर्धारितानुष्ठानप्रकारं भवति | तथेत्यर्थः | उपासनानुष्ठानप्रकारः संप्रदायः तन्मात्रविद्भ्योपि गुरुभ्यः सकाशात् निश्चित्येत्यर्थः | उक्तं च भगवता श्रीक्र्ष्णेन निर्गुणप्रकरणे श्रुत्वान्येभ्य उपासत इति क्रमेणेति उपासनापरिपाकक्रमेणेत्यर्थः || अविसंवादि विभ्रमन्यायेनोपास्तेरपि क्वचित्फलकाले प्रमापर्यवसान संभवात् | पाणौ पंचवराटकाः पिधाय केनचित्करे कति वराटका इति पृष्ठे पंचवराटका इति तदुतर प्. ४०ब्) वक्तुर्वाक्यप्रयोग मूलभूतसंख्याविशेषज्ञानस्य मूलप्रमाण शून्यस्याहायीरोपस्यापि यथार्थत्ववन्निर्गुणब्रह्मोपासनस्यार्थ तथात्व विवेचकनिर्विचिकित्समूलप्रमाणनिरपेक्षस्य दहराद्युपासनावदुपासना शास्त्रमात्रमवलंव्यक्रियमाणस्यापि वस्तुतो यथार्थत्वेन दहराद्युपासनेनेव निर्गुणोपासनेन जन्यस्य स्वविषयसाक्षात्कारस्य श्रवणादि प्रणाड्याजन्यसाक्षात्कारवदेवतत्वार्थविषयत्वावश्यं भावाच्च || ननु निर्गुणोपासनस्य कथं प्रमालक्षणसाक्षात्कारपर्यवसानमित्यत आह | अविसंवादीति | अयमर्थः क्वचिद्ग्रहविशेषे स्थितस्य श्रीकृष्णरूपबिंबस्य प्रतिबिंबं गृहाद्बहिः पश्यतो दूरे स्थितस्य पुरुषस्य प्रतिबिंबे श्रीकृंष्णोयमिति भ्रमो जायते तेन भ्रमेण प्रतिबिंबाध्यासोपाधिसमीपं गतस्य पुरुषस्य सत्य श्रीकृष्णगोचरप्रमाजायत इति लोकप्रसिद्धं | तत्र प्रतिबिंबे बिंबभूत श्रीकृष्ण भ्रमो विसंवादीभ्रमः विसंवादः फलाभावः तद्रहितोऽविसंवादिभ्रमः फलवद्भ्रम इति यावत् | यथा तेन भ्रमेण प्रवतस्य श्रीकृष्णप्राप्तिलक्षणफलकाले श्रीकृष्णप्रमाजायते तथा प्. ४१अ) निर्गुणोपासने प्रवृत्तस्यापि ब्रह्मप्राप्तिलक्षणफलकाले निर्गुणप्रमाजायत इति | ननु संवादिभ्रम दृष्टांतेन निर्गुणोपास्तेः प्रमापर्यवसानमुक्तमनुपपन्नं दृष्टांत वैषम्या तत्र हि समीपोपसर्पणानंतरं सत्य श्रीकृष्णस्य चक्षुः सन्निकर्षे सति श्रीकृष्णप्रमाजायतेन तु संवादिभ्रममात्रात् | प्रकृते च निर्गुणोपासनस्य प्रमाजनने सामर्थ्याभावात् | सामग्र्यंतराभावाच्च कथं प्रमापर्यवसानमित्याशंक्यनिर्गुणोपासनस्यैव स्वसमानविषयकप्रमाजनन सामर्थ्यसंभावनाय तस्य यथार्थत्वं सदृष्टांतमाह | पाणाविति पिधायेति | तदुत्तरवक्तुरविदितमितिशेषः | तदुतरेति | दैवयोगात् पंचैव वराटकास्तवपाणौ संतीत्युतरवक्तुरित्यर्थः निर्गुणोपासनस्यापि वस्तुतो यथार्थत्वेनेति संबंधः | अखंडैकरसंब्रह्माहमस्मीति प्रत्यय संतति रूपोपास्तेर्विषयबाधाभावाद्यथार्थत्वमितिभावः | ननु प्रकृतोपासनस्य निर्विकित्स तत्वज्ञानपूर्वकत्वादेवश्रवणमननोतरकालीन निदिध्यासनस्येव यथार्थत्वसंभवात् | किमिति दैवयोगाद्यथार्थत्वं समर्थ्यतै तत्राह | अर्थ तथात्वेनि अर्थस्य ब्रह्मणः तथात्वं प्रत्यग्रूपत्वनिष्प्रपंचत्वादितस्य विवेचकं निर्णायकं यन्निर्विचिकित्समन्य परत्वाशंकाशून्यं मूलप्रमाणं श्रुतिरूपं तन्निरपेक्षस्येत्यर्थः | निदिध्यासनस्येव प्रकृतनिर्गुणोपासनस्य विचारपूर्वकत्वाभावात् | न निर्विचिकित्स तत्वनिर्णयपूर्वकत्व प्रयुक्तं यथार्थत्वमितिभावः | प्. ४१ब्) ननु विचारपूर्वकं प्रत्यगभिन्नब्रह्मनिर्णयाभावे कथमहंब्रह्मास्मीति प्रत्यय संतति रूपोपास्तिरनुष्ठीयते तत्राह | दहरादीति | यथा सगुणेश्वरस्य विचारपूर्वकं जीवाभिन्नत्व निर्णयाभावेपि स्वस्य सगुणेश्वराभेदचिंतनं कर्तव्यमित्येवं रूपं सगुणोपासनाविधिशास्त्रमवलंव्यसगुणोपासनं क्रियते तथा निर्गुणोपासनं कर्तव्यमित्येवमात्मकं शास्त्रमात्रमवलंव्य निर्गुणोपास्तिरनुष्ठीयते इत्यर्थः | निर्गुणोपासनस्य साक्षात्कार हेतुत्वे दृष्टांतमाह | दहराद्युपासनेनेवेति | अवश्यं भावादिति | समानविषयकध्यानसामर्थ्याद्विषयाबाधाच्चेत्यर्थः || इयांस्तु विशेषः प्रतिबंधरहितस्य पुंसः श्रवणादिप्रणाड्या ब्रह्मसाक्षात्कारो फटिति सिध्यतीति सांख्यमार्गो मुख्यः कल्पः उपास्त्या तु विलंबेनेति योगमार्गोनुकल्प इति | नन्वस्मिन्पक्षद्वयेपि ब्रह्मसाक्षात्कारे किं करणं केचिदाहुः प्रत्ययाभ्यासरूपं प्रसंख्यानमेव | योगमार्गे आदित आरभ्योपासनारूपस्य सांख्यमार्गे मननानंतरनिदिध्यासनरूपस्य च तस्य सत्वात् | न च तस्य ब्रह्मसात्कारकारणत्वे मानाभावः ततस्तुतं पश्यति निष्कलं ध्ययमान इति प्. ४२अ) श्रवणात् | कामातुरव्यवहित कामिनी साक्षात्कारे प्रसंख्यानस्य कारणं त्वकॢप्तेश्च आप्रापणा तत्रापि हि दृष्टमित्यधिकरणे विकल्पो विशिष्टफलत्वादित्यधिकरणे च दहराद्यहंग्रहोपासकानां प्रसंख्यानादुपास्य सगुणब्रह्मसाक्षात्कारांगीकाराच्च | ननु च प्रसंख्यानस्य प्रमाकरणेष्वपरिगणनातज्जन्यो ब्रह्मसाक्षात्कारः प्रमा न स्यात् | न च काकतालीय संवादिवराटक संख्याविशेषाहार्यज्ञानवदर्थाबाधेन प्रमाणत्वोपपतिः प्रमाणामूलकस्य प्रमात्वायोगात् आहार्य वृतेश्चोपासनावृतिवत् ज्ञानभिन्नयान सक्रियारूपतया इछादिवदवाधितार्थविषयत्वेपि प्रमात्वानभ्युपगमात् || सांख्ययोगमार्गयोस्तुल्यकल्पत्व भ्रममपनपति | इयांस्त्विति | बुद्धिमांद्यादि प्रतिबंधरहितस्य विशिष्टगुर्वादिलाभे सति सांख्यमार्ग एवानुष्ठेयः तस्य त्वरया सिद्धिहेतुत्वात् | सांख्यालाभे तु योगोनुष्ठेय इत्यनुकल्पः स इत्यर्थः | नत्वस्मिन्निति | सांख्ययोगमार्गद्वयेपीत्यर्थः | ननु योगमार्गे निर्गुणोपासनस्य सगुणोपासन प्. ४२ब्) दृष्टांतोदाहरणेन साक्षात्कारकारणत्वस्यानुपदमुक्तत्वात् | पक्षद्वय साधारण्येन प्रश्नानुपपतिरिति चिन्नैषदोषः उपासनस्य साक्षात्कारकारणत्वे प्रमाणाभिप्रायेणै प्रश्नोपपतेरत एव तत्र प्रमाणं वक्ष्यति न चेत्यादिना | अथवा पूर्वत्र सगुणोपासन दृष्टांतेन निर्गुणोपासनस्य हेतुत्वमात्रमुक्तं न तु करणत्वं तथा च योगमार्गेपि किमुपासनमेव करणं किं वा अन्यदिति प्रश्नाभिप्रायः संगछत इति भावः | मार्गद्वयेपि साक्षात्कारोदयकास्ते प्रसंख्यानस्यानुवृतिमाह | योगमार्ग इत्यादिना | निष्कलं निर्विशेषं परमात्मानं ध्यायमानः ततो ध्याना तं पश्यतीत्यर्थः | कामातुरेति | कामातुरस्यासंनिकृष्टकामिनीसाक्षात्कारे इत्यर्थः | तत्र सन्निकर्षाभावेन चक्षुषः करणत्वासंभवात् मनसो बहिरस्वातंत्र्याच्च कामिनी गोचरप्रसंख्यानमेव कारणमितिभावः | सगुणोपासनं प्रायणपर्यंतमावर्तनीयं कुतः तत्रापि मरणकालेपि योगिनो ब्रह्मचिंतनस्य श्रुतिस्मृतिसिद्धत्वात् | सदा प्रत्यभ्यासं विना मरणकाले तदसंभवादिति सूत्रार्थः | अहंग्रहीपासनानां विकल्पः उपास्य देवता साक्षात्कारलक्षणस्य फलस्याविशिष्टत्वादेकार्थालां विकल्पस्य प्रसिद्धत्वादिति सूत्रार्थः ब्रह्मसाक्षात्कारस्य प्रमाकरणजन्यत्वाभावेपि विषयाबाधात् | प्रमास्वमाशंक्यनिषेधति | न च काकतालीयेति | यादृछिकेत्यर्थः | कॢप्तचानकरणा जन्यस्य ज्ञानत्वमेव नास्ति प्. ४३अ) प्रमात्वं तु दूरापास्तमित्यंभिप्रायेणाह | प्रमाणामूलकस्येति | अविसंवादिवराटकसंख्याविशेषगोचराहार्यवृतेरपि ज्ञानत्वमसिद्धमित्याह | आहार्य वृतेश्चेति अवार्धितार्थ ज्ञानत्वं हि प्रमात्वं नत्व बाधितार्थकत्वमात्रमति प्रसंगादिति मत्वाह | इछादि वदिति || मैवं कॢप्तप्रमाकरणामूलकत्वेपि ईश्वर मायावृतिवत्प्रमात्वोपपतेः | विषयाबाधतौल्यान्मार्गद्वयेपि प्रसंख्यानस्य विचारिताद उविचारिताद्वावेदांताद्ब्रह्मात्मैक्यावगममूलकतया प्रसंख्यानजन्यस्यापि ब्रह्मसाक्षात्कारस्य प्रमाणमूलकत्वाच्च | उक्तं हि कल्पतरुकारैः | वेदांतवाक्यजज्ञानभावनाजापरोक्षधीः मूलप्रमाणदार्द्व्येन न भ्रमत्वं प्रपद्यते | न च प्रामाण्यपरतस्त्वापतिस्तु प्रसज्ज्यते | अपवादनिरासायमूलशुद्धानुरोधनादिति | अन्ये तु एषोणुरात्मा चेतसा वेदितव्यः दृश्यते त्वग्र्यया बुध्येत्यादि श्रुतेर्मन एव ब्रह्मसाक्षात्कारे करणं | तस्य सोपाधिकात्मन्यहं वृतिरूपप्रमाकरणकॢप्तेः | स्वप्नप्रपंचविपरीतप्रमात्रादि ज्ञानसाधन प्. ४३ब्) स्यांतःकरणस्येत्यादि पंचपादिका विवरण ग्रंथेनापि तथा प्रतिपादनात् || ननु च प्रसंख्यानस्येत्यादिना प्राप्तं चोद्यं परिहरति | मैवमिति | मायावृतिवदिति | न च माया वृतेरपि मास्तु ज्ञानत्वमिति वाच्यं | तथा सतीश्वरीय मायावृतेर्यः सर्वज्ञः सर्वविदित्यादि श्रुतिषु ज्ञाधात्वर्थत्वाभावप्रसंगादितिभावः | तौल्यादिति | न चेछादावति प्रसंग इति वाच्यं तद्भिन्नत्वेन विशेषणोपपतेरितिभावः | प्रसंख्या न जन्य साक्षात्कारस्य प्रमाणमूलकत्वात् | प्रमाणत्वमिति समाधानांतरमाह | मार्गद्वयेपीति | अविचारितादिति | योगमार्गाभिप्रायं वैदांताद्या ब्रह्मावगतिः तन्मूलकतयेत्यर्थः | न च विचारिताद्वा यदि ब्रह्मावगतिर्जाता तर्हि किमर्थं प्रसंख्यानमिति वाच्यं | प्रसंख्यानात्पूर्वमविद्यानिवर्तका प्रतिबधब्रह्मावगतेरलाभातदर्थ तदावश्यकमितिभावः | प्रमाणाजन्यस्यापि प्रमाणप्रयोज्यत्वमात्रेण प्रमात्वे संमतिमाह | उक्तं हीति | ज्ञानभावना ज्ञानाभ्यासरूपं प्रसंख्यानंतजन्यमपरोक्षज्ञानमित्यर्थः | मूलप्रमाणं वेदांतवाक्यं तज्जन्यप्रमातस्य दाढ्यांनामाविप्रतिपन्नप्रामाण्यकत्वमिति बोध्यं | प्रसंख्यानजन्यसाक्षात्कारनिष्टप्रामाण्यज्ञप्तौ मूलप्रमाणज्ञप्त्यपेक्षायामपसिद्धांतापात इति शंकते | न चेति | प्रसंख्यानजसाक्षात्कारनिष्टमपि प्रामाण्यं नियमेन स्वाश्रयग्राहकसाक्षिभास्यमेवेति न प्. ४४अ) तत्प्रामाण्यज्ञप्त्यर्थ मूलप्रमाणानुसरणं किंतु प्रसंख्यानजन्य व्यवहितकामिनीसाक्षात्कारस्याप्रमात्वादर्शनात् | प्रसंख्यानजन्यब्रह्मसाक्षात्कारेपि कदाचिदप्रामाण्य शंकासंभाव्यते ततस्तन्निरासाय मूलप्रमाणानुसरणमिति नापसिद्धांत इति भावः | अपवादेति | अप्रमाण्यशंका अपवादः | प्रसंख्या न मात्रं न साक्षात्कारे करणं किंतु तत्सहकृतं मनस्तत्रकरमितिमतं दर्शयति | अन्ये त्विति | अणुः दुर्विज्ञेयः अग्न्यत्वं प्रसंख्यान संस्कृतत्वं मनसैवानुद्रष्टव्यमित्यादि श्रुतिरादिपदार्थः जीवसाक्षात्कारे मनसः करणत्वे संमतिमाह | स्वप्नेति | प्रातिभासिकस्वप्नप्रपंचापेक्षया विपरीतो व्यावहारिकः प्रमात्रादिः तज्ज्ञानसाधनस्येत्यर्थः | आदिपदं प्रमेयादिसंग्रहार्थं | तथेति प्रमातृशब्दित सोपाधिकात्मसाक्षात्कारे मनसःकरणतयेति तथा शब्दार्थः || अहमेवेदं सर्वं सर्वोस्मीति मन्यते सोस्य परमो लोक इति श्रुत्युक्ते स्वाप्ने ब्रह्मसाक्षात्कारे एव मनसः करणत्व संप्रतिपत्तेश्च तदाकरणांतराभावात् | प्रसंख्यानं तु मनः सहकारिभावेनोपयुज्यते | वाक्यार्थभावनापरिपाकसहितमंतःकरणं त्वंपदार्थस्यापरोक्षस्य तत् दुपाध्याकारनिषेधेन तत्पदार्थतामाविभीवयतीतिभामतीवचनात् | प्. ४४ब्) ज्ञानप्रसादेन विशुद्धे सत्वस्तस्तु तं पश्यति निष्कलं ध्यायमान इति श्रुतावपि ज्ञानप्रसादशब्दितचितैकाग्र हेतु तयैव ध्यानोपादानात् | ननु प्रसंख्यानं स्वयं करणं तस्य क्वचिदपि ज्ञानकरणत्वा कॢप्तेः कामातुरकामिनी साक्षात्कारादावपि प्रसंख्यान सहकृतस्य मनस एव करणत्वोपपत्याऽकॢप्तज्ञानकरणांतरकल्पनायोगादित्याहुः | अपरे तु तद्धास्य विजिज्ञौतमसः पारं दर्शयति | आचार्यवान् पुरुषो वेद तस्य तावदेव चिरमित्यादि श्रुतिषु आचार्योपदेशानंतरमेव ब्रह्मसाक्षात्कारोदये जीवन्मुक्तिश्रवणाद्वेदांतविज्ञान सुनिश्चितार्थाः इति ज्ञानांतरनैराकांक्ष्यश्रवणातंत्वौपनिषदं पुरुषंमिति ब्रह्मण उपनिषदेकगम्यत्व श्रवणाच्चौपनिषदं महावाक्यमेव ब्रह्मसाक्षात्कारे करणं न मनः यन्मनसानमनुत इति तस्य ब्रह्मज्ञानकरणत्वनिषेधात् || निरुपाधिकात्मसाक्षात्कारेपि मनसः करणत्वं कॢप्तमित्याह | प्. ४५अ) अहमेवेति | इदं सद्रूपेण सर्ववस्तुनि अनुभूयमानं सर्वात्मकं ब्रह्मैवाहमस्मि ततः सर्वोस्मीति स्वप्ने ब्रह्मविन्मन्यत इत्यर्थः | ननु स्वप्ने ब्रह्मविदो महावाक्यानुसंधानसंभवाद्वाक्यमेव करणं किं न स्यादित्यत आह | तदेति | स्वप्ने महावाक्यानुसंधानस्यानियतत्वाद्वाक्यस्यापरोक्षधी हेतुत्वानुपगमाच्चेति भावः संमतिमाह वाक्यार्थेति | महावाक्यार्थेत्यर्थः | स्थूलसूक्ष्मकारणोपाधीनांतेति नेतीत्यादि | वाक्यैर्निषेधद्वाराशोधितो यः त्वं पदार्थः स्वप्रकाश चैतन्यात्मकः तस्य पूर्णतामाविर्भाव अवृतिसाक्षात्कार इत्यर्थः | यत्तु निष्कलं ध्यायमानस्ततो ध्याना तं पश्यति इति योजनामभिप्रेत्य ध्यानस्य साक्षात्कार करणत्वं श्रुतिसिद्धमित्युक्तं तद्दूषयति | ज्ञानप्रसादेनेति | करणव्युत्पत्याज्ञानपदं चितपरं ज्ञानस्य प्रसादः ऐकाग्र्यं तथा च ध्यायमानो ध्यानाल्लब्धेन ज्ञानप्रसादेन पश्यत इति योजना विवक्षितेति भावः | एवं योजनायां विनिगमकं पूर्वोदाहृतानि मनसः करणत्व बोधकवचनान्येवेत्यभिप्रेत्यप्रसंख्यानमात्रस्य करणत्वं दूषयति | नत्विति | महावाक्यमेव तत्र करणमिति मतमाह | अपरे त्विति | अस्य पितुरुपदेशात् तद्ब्रह्मविजज्ञौ साक्षात्कृतवान् हकिलेत्यर्थः | पारमधिष्ठानभूतं ब्रह्म तस्य विदुषस्तावानेव विलंबो विदेह कैवल्यं प्रतियावत्प्रारब्धान्न विमोक्ष्यत इत्यर्थः | वेदांतेति | अत्र वेदांतजन्य ज्ञानादेव ब्रह्मात्मैक्यलक्षणस्यार्थस्य सुनिश्चितत्वोक्त्यावाक्यार्थावगत्यनंतरं प्रसंख्यानानुष्ठानं नापेक्षितमिति प्रतीयत | इदं च तन्निरपेक्ष्यं वाक्यादेवापरोक्षज्ञानोत्पति पक्षे संगछते | अन्यथा प्. ४५ब्) अपरोक्षज्ञानाय तस्यापेक्षितत्वा तत्तेरपैक्ष्यं न संगछते | अतो वेदांतविज्ञानश्रुत्यावाक्यमेवापरोक्षज्ञाने करणमिति निश्चीयत इति भावः | महावाक्यमेवेति सांख्यमार्गानुष्ठानेन योगामार्गानुष्ठामेत वा दृष्टलक्षणसकलप्रतिबंधक्षये सति बंधरहितं सद्वाक्यमेव साक्षात्कारं जनयतीति वाक्यस्य करणत्वपक्षेन सांख्ययोगमार्गयोर्वेयर्थ्य शंकेति मंतव्यं लोको मनसा यच्चैतन्यं न मनुते तदेवत्वं ब्रह्मविद्धीति योजना || न चापक्वमनोविषयमिदं येनाहुर्मनोमतमिति वाक्यशेषे मनोमात्रग्रहणात् | न चैवं यद्वाचानभ्युदितमिति शब्दस्यापि तत्करणत्वं निषिध्यत इति शंक्यं | मनःकरणत्ववादिनापि शब्दस्य निर्विशेषपरोक्षज्ञानकरणत्वस्याभ्युपगतत्वेन तस्य यतो वाचो निवतंते अप्राप्यमनसा सहेति श्रुत्यनुरोधेन शब्दार्थ प्राप्ति रूपशक्तिमुखेन शब्दस्य तत्करणत्वनिषेधे तात्पर्यस्य वक्तव्यतयाशक्य संबंधरूपलक्षणामुखेन तस्य तत्करणत्वाविरोधात् न च मनसैवानुद्रष्टव्यमिति श्रुतिसिद्धं मनसोपि तत्र करणत्व न पराकर्तुं शक्यमिति वाच्यं | शाब्दसाक्षात्कारजननेपि तदैकाग्र्यस्यापेक्षितत्वेन प्. ४६अ) हेतुत्वमात्रेण तृतीयोपपतेः | मनसा ह्येव पश्यति मनसा शृणोतीत्यादौ | तथा दर्शनात् | गीता विवरणे भाष्यकारीय मनः करणत्व वचनस्य मतांतराभिप्रायेण प्रवृतेरित्याहुः || न मनुत इति वाक्यं अशुद्धमनस एव ब्रह्मज्ञानकरणत्वं निषेधतीति न चेत्यत्र हेतुमाह | येनाहुरिति येन चैतन्येन मतं प्रकाशितं मन इति वाक्यशेषे अपक्व मन एव चैतन्य भास्यमिति वक्तुमशक्यतया तत्र मनो मात्रग्रहणमावश्यकं तदैकरूप्याय न मनुत इति पूर्ववाक्येपि मनोमात्रं ग्राह्यमित्यर्थः | न चैवमिति | मनो मात्रस्य ब्रह्मे ज्ञानकरणत्वनिषेधोपगमे इत्यर्थः | अनुभुदितमिति | अप्रकाशितमित्यर्थः | न च वा इत्यस्य वेदांतातिरिक्तशब्दपरत्वं स्वीक्रियत इति वाच्यं | अत्रापि येन वागभ्युद्यत इति वाक्यशेषे शब्दमात्रस्य चैतन्यप्रकाश्यत्व प्रतिपादनेन तदैकरूप्याय पूर्ववाक्येपि वा चेत्यस्य शब्दमात्रपरत्वादित्याशवानाह | शब्दस्यापीति | मनोमात्रस्येव शब्दमात्रस्यापीत्यर्थः | सत्यं शब्दमात्रस्य ब्रह्मज्ञानकरणत्वं निषेधति तथापि शब्दस्य शक्त्या ब्रह्मज्ञानकरणत्वनिषेधपरं तद्वचनं न तु लक्षणयापि तत्करणत्वनिषेधपरं औपनिषदत्व श्रुतेर्निरालंबनत्व प्रसंगादिति समाधानमभिप्रेत्यविपक्षे परेषामपि बाधकं सूचयति | मनःकरणत्ववादिनापीति | वेदांतानां लक्षणयापि ब्रह्मबोधकत्वानभ्युपगमे ब्रह्मण एवासिध्यापत्यामनःकरणत्ववादिभिरपि तेषां प्. ४६ब्) ब्रह्मज्ञानकरणत्वस्याभ्युपगंतव्यत्वादित्यर्थः | परंतु वाक्यजन्यं ब्रह्मज्ञानं परोक्षं भवतां मते अस्माकं मते तु तदपरोक्षमिति विशेष इत्याशयेनाह | परोक्षेति | वेदांतानां शक्त्या ब्रह्मबोधकत्वनिषेधपरं यद्वा चानभ्युदितमिति वचनमिति व्यवस्थायां श्रुत्यंतरमनुकूलयति | तस्येति | यद्वा चानभ्युदितमिति निषेधे वचनस्येत्यर्थः | अप्राप्येति श्रुत्या ब्रह्मणि विषयशब्दानां प्राप्तिर्निषिध्यते | सा च प्राप्तिः शक्तिरेव तस्याः शब्दानामौत्सर्गिकत्वादिति भावः | वक्तव्य तयेति | मनः करणत्ववादिभिरपीतिशेषः तस्येति शब्दस्येत्यर्थः | तदिति ब्रह्मसाक्षात्कारेत्यर्थः | ब्रह्मगोचरवृतिं प्रतिकरणत्वं न तृतीया श्रुत्यर्थः पूर्वोदाहृत श्रुतिविरोधात् | किंतु एकाग्रस्य मनसः तां प्रत्युपादनतया हेतुत्वमात्रं तदर्थ इत्याह | शाब्दसाक्षात्कारजननेपीति | तथेति चाक्षुषज्ञानादौ मनसः करणत्वाभावेन हेतुत्व मात्रेणापि तृतीयादर्शनादिति भावः | शमदमादि संस्कृतं मन एवात्मदर्शने करणमिति गीताभाष्यवचनविरोधे परिहरति गीतेति | मतांतरेति | वृतिकारमतेत्यर्थः | न तु स्वमताभिप्रायेण उक्तप्रमाणविरोधादितिभावः || ननु तथापि शब्दस्य परोक्षज्ञानजनकत्व स्वभावस्य नापरोक्षज्ञानजनकत्वं संगछत इति चेत् | अत्र केचित् स्वतोऽसमर्थोपि शब्दः शास्त्रीयश्रवणमननपूर्वकप्रत्ययाभ्यासजनित संस्कारप्रचयलब्ध प्. ४७अ) ब्रह्मैकाग्र्यचितदर्पणानुगृहीतोऽपरोक्षज्ञानमुत्पादयति शास्त्रीयसंस्कृताऽग्र्यधिकरण इव होमोऽपूर्वमिति कल्प्यते | तरति शोकमात्मविदिति शास्त्रप्रामाण्यात् अपरोक्षस्य कर्तृत्वाद्यध्यासस्यापरोक्षाधिष्ठानज्ञानं विना निवृत्ययोगात् | औपनिषदे ब्रह्मणि मानांतराप्रवृतेः शब्दादप्यपरोक्षज्ञानानुपपतौ अनिर्मोक्षप्रसंगादित्याहुः | अन्ये तु भावनाप्रचय साहित्ये सति वहिरसमर्थस्यापि मनसो नष्ट वनिता साक्षात्कारजनकत्वदर्शनान्निदिध्यासन साहित्येन शब्दस्याप्यपरोक्षज्ञानजनकत्वं युक्तमिति दृष्टांतानुरोधेन समर्थयंते || ननु तथापीति | शब्दस्य ब्रह्मसाक्षात्कारकरणत्वपक्षे श्रुतिभाष्यविरोधाभावेपि शब्दप्रमाणस्वभावविरोधान्न महावाक्यं ब्रह्मसाक्षात्कारे करणमित्यर्थः | शब्दस्वभावमनुरुध्यैव तस्यापरोक्षज्ञानकरणत्वं साधयति | अत्र केचिदिति | प्रचयः समूहः प्रचयलब्धं यद्ब्रह्मण्यैकाग्र्यं तद्वच्चितमेव दर्पणं तदनुगृहीत इत्यर्थः | यथा चक्षुः स्वतः प्रतिबिंबानुभवजननासमर्थमपि दर्पणानुग्रहीतं प्. ४७ब्) सत् तदनुभवं जनयति तद्वदिति सूचयति चितदर्पणेति शास्त्रीयेति | यथा आधानादिजनित संस्काररहिताग्र्यधिकरणको होमस्तावदपूर्वं न जनयति | अग्र्यधिकरणकहोममात्रस्यापूर्वजननस्वभावाभात् शास्त्रीयसंस्कारविशिष्टाग्र्याधिकरणकहोमस्वपूर्वं जनयति तद्वदित्यर्थः | ननु दृष्टांते शास्त्रवला तथा स्वीक्रियते प्रकृते तथा शास्त्रं नोपलभ्यत इत्यत आह | तरतीति | नन्वनया श्रुत्या चिदात्मन्यध्यस्तस्य शोकोपलक्षितकर्तृत्वाद्यध्यासस्यात्मवेदनान्निवृतिरुच्यते | न तु शब्दस्यापरोक्षज्ञानकरणत्वमित्यत आह | अपरोक्षस्येति | यथा दृष्टांते होमाधिकरणस्याग्रेराधानादि संस्कृतत्वश्रवणान्यथानुपपत्याशास्त्रीयसंस्कारसहकृतग्र्यधि- करणको होमो पूर्वं जनयतीति कल्प्यते | तथात्मज्ञनस्यापरोक्षा ध्यासनिवर्तकत्वश्रवणान्यथानुपपत्या आत्मज्ञानजनक वेदांतानामेवापरोक्षज्ञानकरणत्वं कल्प्यत इत्यर्थः | अयोगादिति सत्यपि श्रवणजनितपरोक्षज्ञाने कर्तृत्वाद्यध्यासनिवृत्यदर्शनात् | परोक्षज्ञानमात्रेणाध्यासनिवृतौ मननादिविधि वैयर्थ्य प्रसंगाच्च अपरोक्षाध्यासरूपदिग्भ्रमादिग्याथात्म्यादि साक्षात्कारं विना निवृत्यदर्शनाच्चेति भावः | ननु कर्तृत्वाद्यध्यासनिवर्तकमधिष्ठानात्मतत्वसाक्षात्कररूपं ज्ञानं मनसैव संभवति किं शब्दस्य तत्करणत्व कल्पनयेति तत्राह | औपनिषद इति | अंतरिंद्रियस्य मनसः प्रत्यक्षप्रमाणत्वेन ब्रह्मणस्तद्गम्यत्वे उपनिषदेक गम्यत्व प्. ४८अ) प्रतिपादकश्रुतिबाधप्रसंग इति भावः | नन्वौपनिषदत्व श्रुति विरोधेन ब्रह्मणि मानांतराप्रवृतौ शब्दस्वभावविरोधेन शब्दस्यापि ब्रह्मसाक्षात्कारजनने प्रवृतिर्न संभवति | तथा च ब्रह्मसाक्षात्कारकरणस्यैवालाभात् | मास्तु तत्साक्षात्कार इत्यत आह | शब्दादपीति | तथा च मोक्षशास्त्रप्रामाण्याय शब्दस्यैव साक्षात्कारकरणत्वं कल्पनीयमितिभावः | शास्त्रप्रामाण्यमनुपजीव्यापि शब्दस्यापरोक्षज्ञानकरणत्वं साधयति | अन्ये त्विति || अपरे त्वपरोक्षार्थविषयत्वं ज्ञानस्यापरोक्ष्यं नामाऽन्याऽनिरुक्तेः अर्थापरोक्षत्वं तु नापरोक्षज्ञानविषयत्वं येनान्योन्याश्रयो भवेत् | किंतु तत्तत्पुरुषचैतन्याभेदः अंतःकरणतद्धर्माणां साक्षिणि कल्पिततया तदभेदसत्वात् | नाह्यचैतन्ये कल्पितानां घटादीनां बाह्यचैतन्ये वृतिकृत ततपुरुषीय चैतन्याभेदाभिव्यक्त्या तदभेदसत्वाच्च न क्वाप्यव्याप्तिः || इदानीं शब्दस्य परोक्षज्ञानजननस्वाभाव्यसेवा सिद्धमतो नित्यापरोक्षे ब्रह्मणि वेदांतानां साक्षात्कारकरणत्वं निरपवादमिति मतांतरमाह | अपरे त्विति | नन्विंद्रियजन्यज्ञानत्वादिकमेव ज्ञानस्यापरोक्षत्वं ब्रह्मगोचर प्. ४८ब्) शाब्दज्ञानस्य तदभावात्नापरोक्ष्यमित्यत आह | अन्यानिरुक्तेरिति | इंद्रियजज्ञानत्वादेश्च प्रथमपरिछेदावसाने निरस्तत्वादितिभावः | नन्वर्थस्यापरोक्षत्वमपरोक्षज्ञानविषयत्वमन्यस्यानिर्वचना तथा चानोन्याश्रयः अर्थस्यापरोक्षत्व ज्ञप्तौ ज्ञानस्यापरोक्षत्व ज्ञप्तिः ज्ञानस्यापरोक्षत्व ज्ञप्तौ च अर्थस्यापरोक्षत्व ज्ञप्तिरित्याशंक्यानिर्वचनमसिद्धमित्यभिप्रेत्याह | अर्थापरोक्षत्वं त्विति ततदिति | ततत्प्रमातृचैतन्याभिन्नत्वं तस्य तस्य विषयस्य तं तं प्रमातारं प्रमातारं प्रत्यपरोक्ष ततत्प्रमातृचैतन्याभिन्नार्थविषयकं ज्ञानं ततत्प्रमातुः | ततत्प्रमातृचैतन्याभिन्ने विषये अपरोक्षज्ञानमित्यर्थः | न चार्थापरोक्षादावननुगम इति वाच्यं ज्ञानगतस्यानुगता परोक्ष्यत्वस्य जातिरूपस्य उपाधिरूपस्य वा प्राऽऽन्निरस्तत्वेन तदभावार्थापरोक्ष्यस्याप्यनुगतस्यासंभवेन तस्या दोषत्वादिति भावः | ननु प्रमातृचैतन्याभिन्नत्वरूपस्यार्थापरोक्ष्यस्य जडरूपापरोक्षार्थे व्याप्तिः चैतन्यजडयीरैक्यस्य बाधितत्वादित्यत आह | अंतःकरणेति तदभेदसत्वादिति साक्षिशब्दित प्रमातृचैतन्याभेदसत्वादित्यर्थः | तथा चार्थापरोक्ष्यनिर्वचने कल्पिता कल्पित साधारणाभेदस्य विवक्षितत्वेन प्रमातृचैतन्यब्रह्मचैतन्ययोरिव प्रमात्रचैतन्यजडयोरकल्पिताभेदाभावेपि जडं सदिति सामान्याधिकरण्यानुभवसिद्ध कल्पिताभेद सत्वात्नाव्याप्तिरितिभावः | आंतरजडपदार्थेषु प्रमातृचैतन्या भिन्नत्वमुपपाद्य बाह्यापरोक्षार्थेषु तदुपपादयति | प्. ४९अ) बाह्येति अंतःकरण तद्धर्माणांदभेद सत्वात् | घटादीनां तदभेदसत्वाच्च न क्वाप्यांतरार्थे वाऽव्याप्तिरितिसंबंधः | घटादीनां ततत्पुरुषीय चैतन्याभेदसत्वे हेतुमाह | बाह्यचैतन्ये ततत्पुरुषीय चैतन्याभेदाभिव्यक्त्येति | ननु बाह्यचैतन्यस्य ततत्पुरुषीय चैतन्यस्य च वस्तुतः सदा अभेद सत्वेपि तदभिव्यक्तिः कुत इत्यत आह | वृति कृतेति | बाह्ये विषयावछिन्नचैतन्ये चक्षुरादि द्वारानिर्गताया वृतेः संसर्गे सति वृत्ति वृतिमतोरभेदाद्वृतिमदंतःकरणस्यापि तत्र संसर्गो लभ्यते | तथा च वृति संसृष्टबाह्यचैतन्यमेवांतःकरणसंबंधा ततत्पुरुषीय चैतन्यं भवतीत्यनेन प्रकारेण बाह्यचैतन्ये वृतिकृतातपुरुषीय चैतन्याभेदाभिव्यक्तिर्भवतीत्यर्थः | ननूक्त प्रकारेण बाह्य चैतन्यस्य प्रमात्रचैतन्याभिन्नत्व सिद्धावपि घटादीनां प्रमातृचैतन्याभिन्नत्वमसिद्धमेवेत्याशंक्याह | बाह्यचैतन्ये कल्पितानामिति | बाह्यचैतन्ये तावत् घटादीनामभेदः प्रागेव सिद्धः तत्र तेषां कल्पितत्वा तथा च बाह्यचैतन्यस्य वृत्तिकृत ततत्पुरुषीय चैतन्याभेदाभिव्यक्तिदशायां घटादीनामपि ततत्पुरुषीय चैतन्याभिन्नत्वं सिध्यतीनिभावः || न चांतःकरणधर्माणां ज्ञानादीनामिवधर्माधर्मसंस्काराणामपि साक्षिणि कल्पितत्वा विशेषादापरोक्षापतिः तेषामनुद्भूतत्वात् उद्भूतस्यैव ४९ब्) जडस्य चैतन्याभेदः | आपरोक्ष्यमित्यभ्युपगमात् | एवं च सर्वपुरुषचैतन्याभिन्नत्वाद्यत्साक्षादपरोक्षाद्ब्रह्मेति श्रुत्यासत एवापरोक्षं ब्रह्मेत्यपरोक्ष्यार्थविषयत्वाछाब्दस्यापि ब्रह्मज्ञानस्यापरोक्षत्व वाचो युक्तिर्युक्ता एवेत्याहुः | अद्वैत विद्याचार्यास्तु नापरोक्षार्य विषयत्वं ज्ञानस्यापरोक्ष्यं स्वरूपसुखापरोक्षरूपज्ञाना व्यापनात् | स्वविषयकत्वलक्षण स्वप्रकाशत्व निषेधात् | किंतु यथा ततदर्थस्य स्वव्यवहारानुकूलचैतन्याभेदोर्थापरोक्ष्यं | एवं ततद्व्यवहारानुकूलचैततन्यस्य तत्तदर्थाभेदोज्ञानापरोक्ष्यं | तथा च चैतन्यधर्म एवेदमापरोक्ष्यं न त्वनुमिति त्वेछात्वादिवदंतःकरणवृतिधर्मः | अर्थापरोक्ष्यलक्षणस्याति व्याप्ति मां शंक्य निराकरोति न चेत्यादिना | धर्मेति धर्मादीनामप्यधिष्ठान भूतप्रमातृचैतन्ये सहाभिन्न सताकत्वरूपाभेदसत्वादिति भावः | उद्भूतत्वे सति प्रमातृचैतन्याभिन्नत्वमर्थापरोक्ष्यं उद्भूतत्वं च फलवलकल्प्य स्वभावविशेषः | स च धर्मादेर्नास्तीति परिहारार्थः | एवं शब्दस्य ब्रह्मसाक्षात्कारे प्. ५०अ) करणत्वसिध्यर्थमुपोद्घातं कृत्वा प्रकृत दर्शयति | एवं चेति | ज्ञानापरोक्ष्यप्रयुक्तत्वे सतीत्यर्थः | अभिन्नत्वादिति | जीवरूपप्रमातुः ब्रह्माभेदस्य श्रुतिसिद्धत्वादिति भावः | इदं च ब्रह्मणो जीवाभिन्नत्वं जडस्य प्रमातृचैतन्याभिन्नत्ववत् काल्पनिकं न भवति किंतु वास्तवैक्यरूपमित्याशयेनाह | स्वत एवेति | ब्रह्मणो नित्यापरोक्षप्रमातृचैतन्याभेदे श्रुतिमाह | यत्साक्षादिति | ब्रह्म जडवत् स्वव्यतिरिक्तप्रमातृचैतन्यमपेक्ष्यापरोक्षं न भवति | किंतु साक्षात्प्रमातृचैतन्यस्वरूपत्वादेवापरोक्षमित्यर्थः | ज्ञानापरोक्ष्यमर्थापरोक्ष्यं च प्रकारांतरेण निरूपयति | अद्वैतविद्याचार्यास्त्विति | पूर्वोक्तं ज्ञानापरोक्ष्यलक्षणमव्याप्त्या दूषयति | नापरोक्षेति स्वरूपसुखस्यापरोक्ष्यरूपे स्वरूपज्ञानेऽव्यापनादित्यर्थः | नन्वात्मस्वरूपसुखानुभवस्य साक्षिचैतन्यरूपस्य स्वप्रकाशत्वाभ्युपगमात् | स्वप्रकाशत्वस्य च स्वविषयकत्वरूपत्वात् | स्वरूपसुखविषयकत्वं तदपरोक्षरूपे स्वरूपज्ञाने निरपवादमित्यत आह | स्वविषयकत्वलक्षणेति | एकस्मिन् चैतन्ये विषय विषपि भावलक्षणसंबंधो न भवति संबंधस्य द्विनिष्ठत्वात् स्वविषयत्वं विनापि स्वसत्ताप्रयुक्तसंशयाद्यगोचरत्वादिलक्षणस्य स्वप्रकाश तस्याकरेषु निरूपितत्वादिति भावः | किं तर्हि ज्ञानापरोक्ष्यमिति पृछति | किंत्विति ज्ञानापरोक्ष्यनिर्वचनं प्रतिदृष्टांतव्याजेन प्रथममर्थापरोक्ष्यं निर्वक्ति | यथेति | अर्थस्य प्. ५०ब्) स्वव्यवहारानुकूलचैतन्याभिन्नत्वमपरोक्षत्वं अस्ति चांतःकरण तद्धर्माणां स्वव्यवहारानुकूलेन साक्षिचैतन्येनाभिन्नत्वं तत्र तेषामध्यस्तत्वात् | तथा घटादीनामपि स्वव्यवहारानुकूलेन घटादिगोचर वृत्युपहितेन घटाद्यभिष्टानचैतन्येनाभिन्नत्वमस्ति | तथा च ब्रह्मणोपि स्वव्यवहानुकूलेन स्वगोचरवृत्युपहितेन साक्षिचैत्नयेनाभिन्नत्वमस्तीति न क्वाप्यव्याप्ति घटाद्यर्थस्य चैतन्ये कल्पितस्य चैतन्याभिन्नत्वं सदा वर्तते | अपरोक्षत्वं तु सदा नास्तीति व्यवहारानुकूलेत्युक्तं घटादिगोचरवृति दशायामेव घटाद्यधिष्ठानचैतन्यं घटादिव्यवहारानुकूलं भवति न सर्वदेति नाति प्रसंगः ननु ततद्व्यवहारानुकूलचैतन्यस्य ततदर्थाभिन्नत्वमपरोक्षत्वमस्तुनाम तथापि ज्ञानापरोक्ष्यं नोक्तमेव वृतिरूपज्ञानस्य चैतन्यापेक्षा भिन्नत्वादित्यत आह | तथा चेति चैतन्यस्यैव ततदर्थव्यवहारानुकूलत्वे विवक्षिते सतीत्यर्थः | तथा च ज्ञानापरोक्ष्यमित्यत्र ज्ञानपदं चैतन्यपरमेव न वृत्तिज्ञानपरमिति नानुक्तिदोष इति भावः || अत एव सुखादिप्रकाशरूपे साक्षिणि स्वरूपसुखप्रकाशरूपे चैतन्ये चापरोक्ष्यं | न च घटाद्येंद्रियकवृतौ तदनुभवविरोधः | अनुभवस्य वृत्यवछिन्नचैतन्यगता परोक्ष्य प्. ५१अ) विषयत्वोपपतेः | ननु उज्ञानार्थयोरापरोक्ष्यं हृदयादिगोचर शाब्दवृति तद्विषयोरति प्रसक्तं | तत्र दैवात् कदाचिद्वृतिविषयसंसर्गे सति वृत्यवछिन्नचैतन्यस्य विषयावछिन्नचैतन्यस्य चाभेदाभिव्यक्तेरवर्जनीयत्वादिति चेत् न परोक्षवृतेर्विषयावछिन्नचैतन्यगताः ज्ञाननिवर्तनाक्षमतया तत्रा ज्ञानेनावृतस्य विषयचैतन्यस्यानावृतेन वृत्यवछिन्नसाक्षिचैतन्येनाभेदाभिव्यक्तेरभावादापरोक्ष्या- प्रसक्तेः || ततदर्थव्यवहारानुकूलत्वे सति ततदर्थाभिन्नत्वरूपं ज्ञानापरोक्षत्वं चैतन्यधर्म एवेत्यत्र युक्तिमाह | अत एवेति | चैतन्यधर्मत्वाभ्युपगमादेवेत्यर्थः | तस्य वृतिधर्मत्वे तु सुखदुःखादिगोचरापरोक्षवृत्यनंगीकारात् | सुखदुःखादिभासकसाक्षिचैतन्ये वृतिधर्मस्यापरोक्ष्यस्यासंभवाच्च सुखदुःखादेरपरोक्षत्वानुभवविरोधः स्यादितिभावः लक्षणे सत्यं तं वह्निगोचरानुमिति वृत्युपहिते जीवचैतन्येव हि व्यवहारानुकूले गतमिति तत्राति व्याप्तिवारणाय विशेष्यं | अनुमिति वृतेः विषयदेशे गमनाभावेन तद्वृत्यवछिन्नचैतन्यस्य न वह्न्यभिर्न्नत्वमिति नाति व्याप्तिः प्. ५१ब्) घटादिगोचर वृत्यभावदशायां घटाद्यवछिन्नचैतन्ये घटाद्यपरोक्षत्व विरर्हिते घटाद्यर्थाभिन्नत्वमस्तीति तद्धारणाय सत्यं तं तदा तस्य चैतन्यस्यावृतत्वेन घटादि व्यवहारानुकूलत्वाभावात् | नाति व्याप्तिरिति मंतव्यं | न चेति | ज्ञानापरोक्ष्यस्य चैतन्यधर्मत्वे घटादि गोचरवृतौ घटसाक्षात्करोमीत्यादिप्रकारेणापरोक्षत्वानुभवविरोध इत्यर्थः | वृतिचैतन्ययोस्तादात्म्येन वृति साक्षात्कारत्वानुभवस्य चैतन्य गता परोक्षविषयकत्वोपपतेरित्यर्थः | ननु हृदयनाडीधर्मादिगोचरशाब्दवृतिरंतःशरीरव्यापिनी जायमाना दैवयोगात् हृदयनाड्याद्यवछिन्नांतःकरणप्रदेशे यदि जायेत तदा हृदयादिरूपविषयावछिन्नचैतन्यस्य हृदयादिगोचरशाब्दवृत्यवछिन्नस्य चाभेदाभिव्यक्तिरपरिहार्या घटादिस्थले वृतेः विषयसंसर्गे सति वृतिविषयावछिन्नचैतन्ययोरभेदाभिव्यक्ति स्वीकारा तथा च हृदयादिगोचरशाब्दानुमित्यादि वृत्यवछिन्नचैतन्यरूपे परोक्षज्ञाने हृदयाद्यर्थाभिन्ने हृदयादिव्यवहारानुकूले ज्ञानापरोक्ष्यलक्षणमति व्याप्तं | तथा हृदयादिरूपे परोक्षार्थे स्वव्यवहारानुकूलशाब्दादिवृत्यवछिन्नचैतन्याभिन्ने अर्थापरोक्ष्यलक्षणमति व्याप्तमिति शंकते | ननूक्तमिति | ययोश्चैतन्ययोरभेदाभिव्यक्तिरिष्यते | तयोरुभयोरप्यनावृतत्वमपेक्षितमन्यतरचैतन्यस्यावर्णदशायां तयोरभेदस्य प्रत्यक्षत्वलक्ष्ऽणाभिव्यक्त्ययोगात् तथा च हृदयादिगोचरशाब्द प्. ५२अ) वृतिस्थलेनाति व्याप्तिः तत्र विषयचैतन्यस्यावृतत्वादिति परिहरति | न परोक्षवृतेरिति | आपरोक्ष्याप्रसक्तेरिति | परोक्षहृदयादिविषयस्य हृदयादिगोचरशाब्दवृत्यवछिन्नचैतन्यरूपपरोक्षज्ञानस्य चेति शेषः तथा च हृदयादिगोचरशाब्दवृत्यवछिन्नचैतन्यरूपपरोक्षज्ञानस्य हृदयादिव्यवहारानु || कूलज्ञानत्वे सत्यपि हृदयादिविषयेण सहाभिव्यक्त्याभेदाभावादभिव्यक्त ततदर्थाभिन्नत्वे सति तदर्थव्यवहारानुकूलज्ञानत्वलक्षणं ज्ञानापरोक्ष्यं नास्ति | तथा हृदयाद्यर्थस्यापि स्वव्यवहारानुकूलशाब्दवृत्यवछिन्नसाक्षिचैतन्याभेदसत्वेपि तदभेदाभिव्यक्त्यभावेन स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्ति शालित्वरूपमर्थापरोक्ष्यं नास्तीत्यर्थः | न चाहं सुखीदुःखीत्याकारके सुखादिसाक्षिणी सुखदुःखादिरूपविषयाभेदो विद्ययाभेदो विद्यमानोपि नाभिव्यज्यते | सुखादिसाक्षिणो जीवस्य सुखादेश्चाधाराधेय भावप्रतीतेः | तथा च सुखदुःखादिप्रत्यक्षेभिव्यक्तविषयाभेदाभावादव्याप्तिरिति प्. ५२ब्) वाच्यं | घटादि प्रत्यक्षरूपे घटादि स्फुरणे घटस्फुरति पटस्फुरतीत्याकारानुभवमादाय घटाद्यर्थाभेदाभिव्यक्तिमत्वस्येव सुखं स्फुरतिः दुःखं स्फुरतीत्याकारानुभवमादायैव सुखदुःखादि प्रत्यक्षे सुखाद्यर्थाभेदाभिव्यक्तिमत्व सत्वात् | न च घटस्फुरतीत्यनुभवे घटस्य स्फुरणाश्रयत्वमेव भाति | न तु स्फुरणाभेद इति वाच्यं | घटस्फुरतीति प्रयोगे देवदत्तो गछतीत्यत्रगमनकर्त्रऽभिन्नो देवतदत इति वाक्यार्थवत्स्फुरणाश्रयाभिन्नो घट इति वाक्यार्थस्य वक्तव्य तया घटः स्फुरतीति प्रयोगमूलभूते घटः स्फुरतीत्यनुभवेपि स्फुरणाश्रयभूतचिदात्माभिन्नतया घटस्य भानावश्यं भावात् | नं च घटस्य स्फुरणाश्रयाभेदाभिव्यक्तावपि स्फुरणाभेदाभिव्यक्तिरद्यापि नोपयादितैवेति वाच्यं | घटस्य स्वरूपमिति प्रत्यक्षं हि घटमेव घटस्य स्वरूपतया यथा विषयी करोति | तथा घटस्फुरतीति प्रत्यक्षमपि घटादिवृति दशायां घटाद्यधिष्ठानभूतमनावृत्त चिदात्मानमेव प्. ५३अ) स्वप्रकाशचिदात्माश्रित स्फुरणरूपेण विषयीकरोतीत्यभ्युपगमेन घटे स्फुरणाश्रया भेदभानस्यैव स्फुरणाभेदभानरूपत्वात् | एतदुक्तं भवति घटस्य स्वरूपमिति शब्दप्रयोग एव घट तत्स्वरूपयोर्भेदोभासतेन तु तन्मूलभूते घटस्य स्वरूपमिति प्रत्यक्षे अन्यथा तत्प्रत्यक्षस्य भ्रमत्व प्रसंगात् घटतत्स्वरूपयोर्भेदाभावात् | न च तस्य भ्रमत्वमभ्युपगतुं शक्यते बाधकाभावात् | एवं स्फुरतीति शब्दप्रयोगे एव स्वप्रकाशात्मनः स्फुरण तदाश्रयनावेन भेदभानं न तु स्फुरतीति प्रत्यक्षे तत्र स्फुरण द्वित्वानुपलंभादिति | न च ब्रह्मगोचरशाब्दवृतेर्विषयसंसृष्टायाविषयगता ज्ञाननिवर्तनक्षमत्वदर्शनेन हृदयादिगोचरशाब्दवृतेरपि विषयसंसर्गाविशेषे कथं तस्यां स्वविषयचैतन्यगता ज्ञाननिवर्तन क्षमत्वं नेति वाच्यं | हृदयादिगोचरशाब्दवृतेः सत्यपि विषयसंसर्गे तस्यां वृतौ अज्ञाननिवर्तकत्व प्रजकाभावेनाज्ञाननिवर्तकत्वस्य प्रथमपरिछेदावसाने प्. ५३ब्) दर्शितत्वादितिभावः | अत एव जीवस्य संसारदशायां वस्तुतः सत्यपि ब्रह्माभेदेन तदा परोक्ष्यं | अज्ञानावणाकृतभेदसत्वात् | न चैवं ब्रह्मणोपि जीवापरोक्ष्यासंभवादसर्वज्ञत्वापतिः | अज्ञानस्येश्वरप्रत्यनावरकतया तं प्रतिजीवभेदानापादनात् | यदज्ञानं यं प्रत्यावरकं तस्य तं प्रत्येव स्वाश्रयभेदापादकत्वात् | अत एव चैत्र ज्ञानेन तस्य घटाज्ञाने निवृतेऽनिवृतं मैत्राज्ञानं मैत्रं प्रत्येव विषयचैतन्यस्य भेदापादकमिति न चैत्रस्य घटापरोक्ष्यानुपपतिरपि || अर्थस्य स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्तिमत्वमेवापरोक्ष्यं न तु तादृशा भेदवत्वमात्रमित्यत्र लिंगमाह | अत एवेति | अभेदाभिव्यक्तेरेवापरोक्षत्वप्रयोजकत्व स्वीकारादेवेत्यर्थः | संसारेति | तत्वसाक्षात्कारात् पूर्वकाल इत्यर्थः | जीवस्य ब्रह्माभेदे सत्यपीत्यनेन ब्रह्मणः स्वव्यवहारानुकूलजीवचैतन्याभिन्नत्वे सत्यपीत्यपीत्यर्थो विवक्षितः | तथा च संसारदशायां स्वव्यवहारानुकूल जीवचैतन्याभिन्नस्यापि ब्रह्मणो जीवं प्रत्यपरोक्षत्वाभावस्तयोरभेदाभिव्यक्त्य भावादेवेति प्. ५४अ) वक्तव्यतया अभेदाभिव्यक्तेरापरोक्ष्यप्रयोजकत्वं युक्तमितिभावः | न चैवमिति अज्ञानकृतभेदस्याभेदाभिव्यक्ति प्रतिबंधकत्व इत्यर्थः | असंभवादिति | जीवं साक्षात्करोमि जीवो मम परोक्ष इति जीवगोचरव्यवहारानुकूलं ज्ञानं ब्रह्मणो मायावृत्युपहितं ब्रह्मचैतन्यमेव तथा च ब्रह्मकर्तृकव्यवहारविषयस्य जीवस्य ब्रह्मकर्तृकव्यवहारानुकूल तादृशब्रह्मचैतन्याभिन्नत्वे सत्वेप्यभिव्यक्ताभेदशालित्वा भावात् जीवस्य ब्रह्मप्रत्यपरोक्षं न संभवति | न च ब्रह्मणो जीवगोचरापरोक्षज्ञोनासंभवेपि न सर्वज्ञत्वभंगः जीवगोचरपरोक्षज्ञानमात्रेणापि तत्संभवादिति वाच्यं | ईश्वरस्य परोक्षज्ञानानंगीकारादितिभावः | अज्ञानं हि जीवधर्मिकब्रह्मप्रतियोगिकभेदप्रयोजकं जीवस्य नाहं ब्रह्मेति ब्रह्मभेदानुभव सत्वात् | न तु ब्रह्मधर्मिक जीवप्रतियोगिकभेदप्रयोजकं ब्रह्मणो नाहं जीव इत्यनुभवे मानाभावात् | तथा च ब्रह्मप्रतिजीवस्य ब्रह्माभेदाभिव्यक्ति प्रतिबंधकस्याज्ञानकृतभेदस्याभावात् नोक्त दोष इति परिहरति | अज्ञानस्येति | अनावरकतयेति ईश्वरस्याहमज्ञ इत्यनुभवे मानाभावादज्ञानमीश्वरं प्रतिजीवावरकं न भवति | न चेश्वरस्यापि लीलाविग्रहपूर्वक व्यवहारकाले तदीये नैव वचनेन तस्याज्ञत्वानुभवोस्तीति गम्यत इति वाच्यं तदीयस्य तदीयाज्ञत्वगमकवचनस्यान्यथा सिद्धेश्चतुर्थपरिछेदे वक्ष्यमाणत्वादितिभावः | तमिति ईश्वरं प्रतिजीवप्रतियोगिक भेदाप्रयोजकत्वादित्यर्थः प्. ५४ब्) तं प्रतिजीवावरकस्यापि जीवभेदा पादकं किं न स्यादित्यत आह | यं प्रतीति | यं जीवं प्रति यदज्ञानं विषयचैतन्यावरकं तं प्रत्येव तस्याज्ञानस्य स्वाश्रय भूतविषयचैतन्य प्रतियोगिकभेदापादकत्वाभ्युपगमादित्यर्थः | उक्त व्यवस्थायां नियामकमाह | अत एवेति | यं प्रति यदज्ञानमित्यादिव्यवस्थाभ्युपगमादेव चैत्रस्य घटापरोक्ष्यानुभवानुपपतिरपि नेति संबंधः | घटावछिन्नचैतन्ये चैत्रं प्रतिघटचैतन्यावरकमज्ञानं यथा वर्तते तथा मैत्रं प्रत्यपि घटचैतन्यावरकमज्ञानं तत्रास्ति | तथा च चैत्रीय घटज्ञानेन चैत्रस्य घटाज्ञाने चैत्रं प्रतिस्वाश्रय भूतविषयचैतन्यप्रतियोगिक भेदापादके निवृते सति चैत्रीय घटज्ञानेनानिवृतं घटचैतन्यगतं मैत्रं प्रतिघटावरकाज्ञानमैत्रं प्रत्येव स्वाश्रय भूत घटचैतन्यप्रतियोगिकभेदा पादकं | न तु मैत्राज्ञानं चैत्रं प्रतिघट चैतन्यानावरकमपि | चैत्रं प्रतिस्वाश्रयी भूतघट चैतन्यप्रतियोगिक भेदापादकं | तथा सति चैत्रीय घटज्ञानेन चैत्रीयाज्ञाने निवृते सति तत्कृतभेदनिवृत्रावपि चैत्रस्य घटचैतन्यस्य च मैत्राज्ञानकृतभेदसत्वेनाभेदाभिव्यक्त्यभावात् चैत्रस्य घटापवोक्ष्यानुभवानुपपतिरेवस्यादतो मैत्राज्ञानं मैत्रं प्रतीव चैत्रं प्रतिस्वाश्रय भेदापादकं न भवति चैत्रं प्रतिस्वाश्रय चैतन्यानावरकत्वादिति वक्तव्यं तथा चोक्त व्यवस्थासिद्धेत्यर्थः || प्. ५५अ) नन्वेवं वृतिविषयचैतन्याभेदाभिव्यक्तिलक्षणस्यापरोक्षस्य विषयचैतन्यगताज्ञाननिवृतिप्रयोज्यत्वे तस्य अज्ञाननिवृतिप्रयोजकत्वायोगात् ज्ञानमात्रमज्ञाननिवर्तकं भवेदिति चेत् | न यत् ज्ञानमुत्पद्यमानं स्वकारणमहिम्नाविषयसंसृष्टमेवोत्पद्यते तदेवाज्ञाननिवर्तकमिति विशेषणात् | ऐंद्रियक ज्ञानानां तथा त्वात् | एवं च शब्दादुत्पद्यमानमपि ब्रह्मज्ञानं सर्वोपादानभूत स्वविषयब्रह्मचैतन्यसंसृष्टमेवोत्पद्यत इति तस्याज्ञाननिवर्तकत्वमज्ञाननिवृतौ तन्मूलकभेदप्रविलयादापरोक्ष्यं चेत्युपपद्यतेतरां | नन्वेवमध्ययन गृहीत वेदांतजन्येनापि तत् ज्ञानेन मूलाज्ञाननिवृत्या आपरोक्ष्यं किं न स्यात् || ननु परोक्षज्ञानमज्ञाननिवर्तकमितिरीत्याज्ञानस्य अज्ञाननिवर्तकत्वे अपरोक्षत्वं प्रयोजकमिति | वक्तुं न शक्यते ज्ञानगतापरोक्षत्वस्यैवाज्ञाननिवृत्यधीनत्वात् | न च मास्तु ज्ञानापरोक्ष्यस्याज्ञाननिवृतिप्रयोजकत्वमिति वाच्यं | तथा सति ज्ञानमात्रस्याज्ञाननिवर्तकत्वापरोक्षज्ञानस्यापि प्. ५५ब्) अज्ञाननिवर्तकत्वं प्रसंगादित्याशयेन शंकते | नन्वेवमिति | एवं शब्दार्थमवाह | वृतीति वृत्यवछिन्नचैतन्यरूपे ज्ञाने घटादिरूपविषये च वृत्यवछिन्नचैतन्यविषयावछिन्नचैतन्ययोरभेदाभिव्यक्ति घटितस्येत्यर्थः | अज्ञान निवृतिं प्रयोज्यत्व इति | प्रमातारं प्रतिषयचैतन्यावरणद्वाराविषयचैतन्यप्रतियोगिक- भेदापादकस्याज्ञानस्य निवृतिं विना अर्थस्य ज्ञानस्य वा अपरोक्ष्यासंभवस्योक्तत्वादापरोक्ष्यस्याज्ञाननिवृतिप्रयोज्यत्वमित्यर्थः | ज्ञानस्याज्ञाननिवर्तकतायामापरोक्ष्यस्य प्रयोजकत्वाभावेपि न हातिः | प्रयोजकोतरस्य प्रथमपरिछेदांते दर् शितत्वादित्याशयेन परिहरति | नेति | तथात्वादिति संनिकर्त्षरूपकारणमहिम्नाविषयसंसृष्टतयैव उत्पद्यमानत्वादित्यर्थः | अनुमित्यादि वृतीनाम तथात्वेनातिप्रसंगाभावाच्चेत्यपि द्रष्टव्यं | नन्वनु मे वह्न्यादि गोचरानुमिति वृतेरिव ब्रह्मगोचरशाब्दवृतेरपि | स्वविषयभूतेन ब्रह्मचैतन्येन संसर्गाभावान्मूलाज्ञाननिवर्तकत्वं न स्या तथा च तत्वज्ञानानंतरमपि ब्रह्मापरोक्ष्यं न स्यादित्यत आह | एवं चेति | एवमेवेत्यर्थः | ऐंद्रयकवृतिवदेवेति यावत् | ब्रह्मगोचरवृतेः स्वविषयसंसर्गनियमे कारणमाह | सर्वोपादानभूतेति जायमानस्य सर्वस्य ब्रह्मसंसर्गनियमे सति ब्रह्मगोचरवृतेः स्वविषयसंसर्ग नियमे किं वक्तव्यमित्याशयेन सर्वोपादानेत्युक्तं | कार्यस्योपादानसंसर्गनियमा प्. ५६अ) तथा च ब्रह्मगोचरवृतेर्नानुमेय वह्न्यादिगोचरानुमिति वृतितुल्यतेति भावः | आपरोक्ष्यं चेति | ननु ज्ञानापरोक्ष्यस्याज्ञाननिवृतावप्रयोजकत्वमते वेदांतजन्य ज्ञानस्यापरोक्षत्व प्रसाधनमस्मिन् शाब्दापरोक्षवादे व्यर्थमिति चेन्न अज्ञाननिवर्तकज्ञानमपरोक्षरूपमिति नियमस्य चक्षुरादिजन्य ज्ञानेषु दृष्टस्य ब्रह्माज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने व्यभिचारवारणार्थतया तत्साधनस्यार्थवत्वोपपतेः | मूलाज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने आपरोक्ष्यस्य तद्वैतत्पश्यन्नित्यादिश्रुत्या ब्रह्मसाक्षात्करोमीति विद्वदनुभवेन च सिधस्य तत्र तत्प्रसाधनं विना अनुपपतेश्चेति भावः | घटादौ घटादिगोचरवृतिकाल एवापरोक्ष्यं तद्वृत्युपरमे तु पुनरज्ञानांतरकृतभेदप्राप्त्या स्वव्यवहारानुकूल चैतन्याभेदाभिव्यक्त्यभावान्नापरोक्ष्यं ब्रह्मणि तु मूलाज्ञाननिवृतौ पुनरावरणकृतभेदाप्रसक्त्या ब्रह्मज्ञानानंतरं सदैवापरोक्ष्यमिति विशेषं सूचयति | तरामिति | नन्वेवमध्ययन गृहीतेति | नियमेन यज्ञानं विषयसंसृष्टतयोदेति | तज्ज्ञानमज्ञानं निवर्तपत्येवेति नियमोपगमे सतीत्येवं शब्दार्थः | आपात ज्ञातस्यापि स्वयब्रह्मसंसर्गितयैव उत्पन्नत्वादितिभावः || न च तत् सत्ता निश्चयरूपत्वाभावान्नाज्ञाननिवर्तकमिति वाच्यं तथापि कृत श्रवणस्य प्. ५६ब्) निर्विचिकित्सशाब्दज्ञानेन तन्निवृत्यामननादि वैयर्थ्यापतिरिति चेन्न सत्यपि श्रवणान्निर्विचिकित्सज्ञाने चितविक्षेपदोषेण प्रतिबंधात् | अज्ञानानिवृत्यातन्निराकरे मनननिदिध्यासननियमविध्यर्थानुष्टानस्यार्थवत्वात् | भवांतरीयमननाद्यनुष्ठाननिरस्तचितविक्षेपस्योपदेशमात्रात् ब्रह्मापरोक्ष्यस्येष्यमाणत्वाच्चेत्याहु | अथैवमपि कृतनिदिध्यासनस्य वेदांतजन्यब्रह्मब्रह्मानेनेव घटादिज्ञानेनापि ब्रह्माज्ञाननिवृतिः किं न स्यात् | न च तस्य ब्रह्माविषयत्वान्न ततो ब्रह्माज्ञाननिवृतिरिति वाच्यं | घटः सन्नित्यादिबुद्धिवृतेः सद्रूपब्रह्मविषयत्वोपगमात् | न च तत्र घटाद्याकारवृत्या तदज्ञाननिवृतौ स्वतः स्फुरणादेव तदवछिन्नचैतन्यं सदिति प्रकाशतेन तस्य घटाद्याकारवृतिविषयत्वमितिवाच्यं | तदभावे घटविषयं ज्ञानं तदवछिन्नचैतन्यविषयमज्ञानमिति भिन्नविषयेण ज्ञानेन तन्निवृतेरयोगात् | जडे आवरणकृत्याभावेन घटस्याज्ञाना प्. ५७अ) विषयत्वात् | न च घटादिवृतेस्तदवछिन्नचैतन्यविषयत्वेप्यखंडानंदाकारत्वा भावान्न ततो मूलाज्ञाननिवृतिरिति वाच्यं || सता निश्चयरूपत्वमपि निवर्तक ज्ञानविशेषणमतो नोक्ताति प्रसंग इति शंकते | न च तदिति | विचारप्राचीनमध्ययन गृहीत वेदांतजन्यज्ञानं तच्छब्दार्थः | विशेषणमभ्युपगम्याप्यति प्रसंगमाह | तथापीति | अप्रतिबद्धत्वमपि निवर्तक ज्ञानविशेषणमतो नोक्ताति प्रसंगोपीति समाधते | न सत्यपीति | ननु मननादेर्विक्षेप शब्दिता संभावनाविपरीतभावना निवृत्यर्थत्वे यस्य विद्याधिकारिणो जन्मांतरीय मननादि सहित श्रवणानुष्ठानेन समस्ती विक्षेप दोषो निरस्तः तस्योपदेशमात्रेणापि सता निश्चयरूपमप्रतिबद्धं च ब्रह्मज्ञानं जायते | तथा च तस्येह जन्मनि श्रवणमननाद्यनुष्ठानं विनापि मूलाज्ञाननिवृतिः ब्रह्मापरोक्ष्यं च स्यादित्यत आह | भवांतरीयेति | तथा चेष्टापतिरितिभावः | अथैवमपीति | विक्षेपदोषनिवृत्यर्थमननाद्यपेक्षायामपीत्यर्थः | कृतनिदिद्ध्यासनस्याधिकारिणी घटादिध्यासनस्याधिकारिणो घटादिज्ञानेनापि मूलाज्ञननिवृतिः | किं न स्याद्घटादिवृतेरपि मूलाज्ञानविषयचैतन्यविष्यकत्वाविशेषादित्याक्षेपाभिप्रायः मूलाज्ञानघटज्ञानयोः समानविषयत्वमसिद्धमिति सिद्धांतितः शंकामनूद्यनिराकरोति | न च तस्येति | घटादिज्ञानस्येत्यर्थः | तत प्. ५७ब्) इति घटादिज्ञानादित्यर्थः | घटः सन्नित्याद्याकारायावृतेः ब्रह्मचैतन्यविषयकत्वाभ्युपगमो असिद्ध इति सिद्धांती शंकते | न च तत्रेति | तत्रेत्यादितछब्दत्रये घटादिपरं तस्येति ब्रह्मण इत्यर्थः | घटाद्यवछिन्नचैतन्यस्य घटादिवृतिविषयत्वं पूर्ववादी साधयति | तदभाव इत्यादिना | चैतन्यस्य घटादिवृतिविषयत्वा भावे सतीत्यर्थः | ननु यदि घटमात्रविषयकज्ञानेन घटावछिन्नचैतन्यविषयकाज्ञाननिवृतिर्न संभवति तयोः समानविषयकत्वाभावात् | तर्हि घटज्ञानेन सहाज्ञानस्य समानविषयकत्वसंपतये अज्ञानमपि घटादिजडमात्रविषय मे वास्तु नेत्याह पूर्ववादी | जड इति | जडस्य जडत्वादेवप्रमाणानवतारदशायामप्रकाशोपपत्या जडस्याप्रकाशार्यामावरणकल्पनायोगादित्यर्थः | कृत्यं फलं तथा च वेदांतजन्य ज्ञानवत् घटादिज्ञानस्यापि ब्रह्मचैतन्यविषयकत्वावश्यंभावेन मूलाज्ञानसमानविषयकत्वा तेनापि तन्निवृतिप्रसंग इति स्थितं | तत्र सिद्धांती शंकते न चेति || वेदांतजन्यसाक्षात्कारेपि तदभावात् | न हि तत्राखंडत्वमानंदत्वं वा कश्चिदस्तिप्रकारः वेदांतानां संसर्गागोचरप्रमाननकत्वलक्षणाखंडार्थत्वहानापतेः | न च वेदांतजन्यज्ञानादेव तन्निवृतिनियम इति वाच्यं | कॢप्ता प्. ५८अ) ज्ञाननिवर्तकत्व प्रयोजकरूपस्य ज्ञानांतरेपि सद्भावे तथा नियंतुमशक्यत्वात् | न च घटाद्याकारवृतिविषयस्यावछिन्नचैतन्यस्य कल्पितत्वेन यन्मूलाज्ञानविषयभूतं सत्यमनवछिन्नं चैतन्यं तद्विषयत्वाभावाद्घटादि वृतीनां निवर्त्यत्वाभिमता ज्ञानसमानविषयत्वलक्षणं कॢप्त प्रयोजकमेव नास्तीति वाच्यं | तत्रावछेदकांशस्य कल्पितत्वेप्यवछेद्यांशस्याकल्पितमूलाज्ञानविषयचैतन्यरूपत्वात् | तस्य कल्पितत्वे घटवज्जडतयाऽवस्थाज्ञानं प्रत्यपि विषयत्वायोगेनावस्थाज्ञानविषयाकल्पितचैतन्यविषयत्वस्य वक्तव्यतया तन्निवर्तक घटादिज्ञानस्यापि तद्विषयत्वावश्यंभवेन तत्पक्षेपि ततो मूलाज्ञाननिवृतिप्रसंगस्यापरिहरात् || तर्हि वेदांतजन्यज्ञानमपि ब्रह्माज्ञानविवर्तकं न स्यादिति पूर्ववादी दूषधाति | वेदांतजन्येति | अखंडत्व मनवछिन्नत्वं वेदांतजन्यज्ञानस्याखंडत्वादि धर्मवैशिष्ट्यावगाहित्वोपगमे बाधकमाह | वेदांनामिति मूलाज्ञाननिवर्तकत्वानस्य वेदांतजन्यत्वमपि विशेषणं विवक्षितमतो प्. ५८ब्) घटादिज्ञानेनाति प्रसंग इत्याशयवती माशंकामनूद्यदूषयति | पूर्ववादी | न च वेदांतेत्यादिना | वेदांतजन्यज्ञानकॢप्तस्य मूलाज्ञाननिवर्तकत्व प्रयोजक रूपस्य मूलाज्ञानसमानविषयकत्व सता निश्चयरूपत्वा प्रतिबद्धत्वलक्षणस्य निदिध्यासनपरिपाककाले चक्षुरादिजन्यघटादिज्ञानेपि सत्वे सति वेदांतजन्यज्ञानादेवमूलाज्ञाननिवृतिः | न तु घटादिज्ञानादिति नियंतुमयुक्तत्वात् | वेदांतजन्यत्वस्यापि सता निश्चयरूपत्वादेरिव प्रयोजक विशेषणत्वे गौरवान्मानाभावाच्चेतिभावः | तर्हि वेदांतजन्यज्ञाने कॢप्तं यत्प्रयोजकं तदेव घटादिज्ञाने नास्तीति शंकते | न च घटाद्याकारेति | अवछिन्नत्वं कल्पितत्वे हेतुः | अनवछिन्नत्वं सत्यत्वे हेतुः घटादिवृर्तानां कल्पितचैतन्यविषयकत्वेन सत्य ब्रह्मविषयकत्वाभावादित्यर्थः | घटाद्यवछिन्नचैतन्यं क कल्पितमित्यत्र चैतन्यांशस्याकल्पितत्वं कल्पितत्वं वा विवक्षितं नाद्य इत्याह | तत्रेति | अवछिन्नचैतन्य इत्यर्थः | अवछेद्यचैतन्यांशस्य घटादिवृतिविषयस्याकल्पितं यन्मूलाज्ञानविषयब्रह्मचैतन्यं तद्रूपत्वादित्यर्थः | तथा च घटाद्यवछिन्नचैतन्यगोचरवृतेरपि निवर्त्यत्वाभिमतमूलाज्ञान समानविषयकत्वरूपं वेदांतजन्यज्ञाने कॢप्तं प्रयोजकमस्तीतिभावः | द्वितीय कल्पेपि घटादिवृतौ कॢप्त प्रयोजकमस्तीति दर्शयन् | तं कल्पं दूषयति | तस्य कल्पितत्व इति | अवछेद्यचैतन्यांशस्येत्यर्थः | वक्तव्य तयेति अवछेद्यचैतन्यांशस्य कल्पितत्वपक्षे तस्य जडत्वापत्या प्. ५९अ) जडस्य तस्याज्ञानविषयत्वासंभवादवस्थाज्ञानं प्रतिमूलाज्ञानविषय ब्रह्मचैतन्यमेव विषय इति वक्तव्यं निर्विषयाज्ञानासंभवात् | तथा च ब्रह्मचैतन्यविषयकावस्थाज्ञाननिवर्तकत्वाय घटादिवृती नामपि मूलाज्ञानविषयब्रह्मचैतन्यविषयकत्वमपरिहार्यं घटादि वृतीनां सत्यब्रह्मविषयकत्वाभावे अव आज्ञानेन सहसमानविषयकत्वाभावातासामवस्थाज्ञाननिवर्तकत्वं न स्यादित्यर्थः | तन्निवर्तकेति | अवस्थाज्ञानं तच्छब्दार्थः तद्विषयत्वेति मूलाज्ञानविषयब्रह्मचैतन्यं तछब्दार्थः तत्पक्षेपीति अवछेद्यांशस्य कल्पितत्वमिति द्वितीय कल्पेपीत्यर्थः | तत इति घटादिज्ञानादित्यर्थः | अपरिहारादिति | घटादिज्ञानस्यापि वेदांतजन्यज्ञानस्येव मूलाज्ञानसमानविषयकत्वादितिभावः || अत्राहुराचार्याः | न चैतन्यं चक्षुरादिजन्यवृतिविषयः न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनं परां विखानिव्यतृणत् स्वयंभूस्तस्मात्पराऽऽन्पश्यति नांतरात्मन्नित्यादि श्रुत्या तस्य परमाण्वादि वच्चक्षुराद्ययोग्यत्वोपदेशादौपनिषदमिति विशेषणाच्च | न च सर्वप्रत्ययवेद्येवा ब्रह्मरूपे व्यवस्थित इत्यादि वार्तिक विरोधः | तस्य घटाघाकार वृत्युदये सत्यावरणाभि भवात् | स्वप्नभं प्. ५९ब्) सद्रूपं ब्रह्मघटः सन्निति घटवद्व्यवहार्यं भवतीत्यौपचारिक घटादि वृति वेद्यत्व परत्वात् | आवरणांभिभावकत्वं च घटादिज्ञानस्य घटादिविषयत्वादेवोपपन्नं घटादेरप्यज्ञानविषयत्वात् | घटं न जानामि घटज्ञानेन घटाज्ञानं नष्टमित्यवस्थाज्ञानानां घटादिविषयत्वानुभवात् | न च तत्रावरण कृत्याभावादज्ञानांगीकारो न युक्तः | तद्भासकस्य तदवछिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपतेरिति वाच्यं || अत्राहुरिति | घटादिज्ञानमपि मूलाज्ञाननिवर्तकं स्याच्चैतन्यविषयकत्वाद्वेदांतजन्य ज्ञानवदिति चोद्ये हेत्व सिद्धिमाहरित्यर्थः | अस्यात्मनो रूपं संदृशे संदृशश्चक्षुषो योग्यत्वेन न तिष्ठति रूपादि हीनत्वात् | अतो न कश्चिदेनमात्मानं चक्षुषा पश्यति परांविपराग्विंषयाणिखानि इंद्रियाणि व्यतृणत् हिंसितवान् | ईश्वरः जडार्थ विषयत्वे नैवकरणानि सृष्टवानिति यावत् | तस्मात् तथा सृष्टत्वात्पराऽऽन्परां चं सर्वलोक इंद्रियैरुपलभते | न अंतरात्मानं चैतन्य स्वभावमित्यर्थः | न चक्षुषा गृह्यत इत्यादि श्रुतिरादिपदार्थः | तस्येति चैतन्यस्येत्यर्थः | ननु यदींद्रिया योग्यत्वोपदेशाब्दपनिषदेक गम्यत्व श्रवणाच्च प्. ६०अ) चैतन्यं घटादिवृतिविषयोनुभवमीत्युपेयते तर्हि वार्तिक विरोध इति शंकते | न च सर्वेति | यद्यद्वस्तु प्रतीयते तत्सर्वं सदित्येव प्रतीयते तथा चानुभव वलात्सद्रूपं ब्रह्मसर्वप्रत्यय वेद्यतया व्यवस्थितमित्यर्थः | चैतन्यस्य सर्वप्रत्यय वेद्यत्वं गौणमेव वार्तिककाराणामभिमतं न घटादिवन्मुख्यं उदाहृत श्रुतिविरोधात् | तथा च न वार्तिक विरोध इति समाधते | तस्येति वार्तिक वचनस्येत्यर्थः | यथा घटस्य घटगोचरवृत्यधीनव्यवहारविषयत्वं तथा घटाद्यधिष्ठानसद्रूपब्रह्मणोपि घटादिवृत्यधीन व्यवहारविषयत्वमस्तीत्यनेन गुणै न सद्रूपं ब्रह्मघटादि प्रत्यय वैद्यमिति वार्तिककारैरुच्यत इत्यर्थः | न चैवं परोक्षवृतिविषयेष्टावरणानुभिभवादुक्त गतिस्तत्र न संभवतीति वाच्यं | वार्तिके प्रत्यय पदस्यावरणाभिभावकवृति परत्वोपपतेरितिभावः | ननु घटादिवृतेर्घटाद्यवछिन्नचैतन्यविषयकत्वाभावे चैतन्यावरकाज्ञानाभिभावकत्वं न संभवति ज्ञानाज्ञानयोः समानविषयकत्वाभावादित्यत आह | आवरणाभिभावकत्वं चेति जडस्याप्यज्ञानविषयत्वमनुभवबलात् स्वीकार्यमित्याह | घटादेरपीति | अवस्था पदं मूलाज्ञानव्यवछेदाय तस्य ब्रह्मनुजानामीति ब्रह्ममात्रविषयकत्वानुभवात् | न जडविषयत्वमितिभावः | न च तत्रेति | जडवस्तुतीत्यर्थः | न युक्त इति अज्ञानाश्रयत्वं जडेन युक्तं तत्रावरणाभावत् | तदभावश्च फलाभावादित्यर्थः | घटं न जानामीत्यनुभवस्तु घट तदधिष्ठान चैतन्ययोस्तादात्म्याच्चैतन्यविषयकत्वेनाप्युपपद्यत प्. ६०ब्) इति भावः | ननु जडस्यावरणाभावे कथं तदप्रकाशः संभवति | न च तत्प्रकाशकचैतन्यसंसर्गाभावादेवाप्रकाशो न त्वावरण बलादिति वाच्यं | जडस्य स्वप्रकाश चैतन्ये अध्यस्ततया तस्य सदावभासकचैतन्यसंसर्गसत्वादतो जडस्याप्रकाश एव जडावरणफलमित्यत आह | तद्भासकस्येति | अत्र तच्छब्दत्रयं जडपरं || उक्त भंग्याजडस्य साक्षादज्ञानविषयत्व प्रतिक्षेपेपि जडावछिन्नचैतन्यप्रकाशस्याज्ञानेनावरणं ततो नित्यचैतन्यप्रकाशसंसर्गेपि जडस्य नास्ति न प्रकाशत इत्यादि व्यवहारयोग्यत्वमिति परंपरयाऽज्ञानविषयत्वाभ्युपगमात् | साक्षात्परंपरया वा यदज्ञानावरणीयं तद्विषयस्यैव ज्ञानस्य तदज्ञाननिवर्तकत्व प्रयोजक शरीरे निवेशात् | न चैवं घटादीनामुक्तरीत्यामूलाज्ञानविषयत्वमपि स्यादिति घटादिसाक्षात्कारादेव मूलाज्ञाननिवृत्यापातः फलबलातदज्ञानकार्यातिरिक्त तद्विषय विषयकत्वस्यैव तन्निवर्तकत्वे तंत्रत्वात् || उक्त भंग्येति | तत्रावरणकृत्याभावादज्ञानांगीकारो न प्. ६१अ) युक्त इति वाक्येन जडे साक्षादज्ञानाश्रयत्वस्य साक्षादज्ञानविषयत्वस्य च प्रतिक्षेपेपीत्यर्थः | ननु तद्वाक्यस्य जडे साक्षादज्ञानविषयत्व प्रतिक्षेपपरत्वं किमिति कल्पते साक्षात्परंपरा साधारणाज्ञानविषयत्व मात्रप्रतिक्षेपपरत्वं संभवादित्याशंक्य तथा सति तद्भासकस्य तदवछिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपतेरित्युतर वाक्येन जडेपि परंपरयाज्ञानविषयत्वाभ्युपगमविरोधप्रसंगादित्याशयेनाह | जडावछिन्नेत्यादिना शंका ग्रंथे तदप्रकाशोपपतेरित्यनेनांशेन जडे अस्ति | प्रकाशते प्रियं चेत्येवमात्मकव्यवहारायोग्यत्वलक्षणमावरणमभ्युपगतं चैतन्यस्यावरणादेवेत्यनेनांशेन जडावरणस्य कारणत्वेन चैतन्यावरणमभ्युपगतमिति प्रतिपादयति | अज्ञानेनेति तत इति चैतन्यावरणादित्यर्थः | चैतन्यस्य स्वप्रकाशतया तस्य यथा सदा प्रसक्तप्रकाशत्वमावरणकल्पकमस्ति तथा जडस्यापि सदा चैतन्यप्रकाशसंसृष्टतया सदा प्रसक्तप्रकाशत्वमावरणकल्पकं तुल्यमिति सूचयति | नित्यचैतन्यप्रकाशसंसर्गेपीति | इति शब्दः प्रकारवचनः ननूक्तरीत्यावछिन्नचैतन्यनिष्ठमवस्थाज्ञानं जड तदवछिन्नचैतन्ययोरुभयोरप्यावरकमिति लभ्यते | तथा च घटादिज्ञानस्य जडमात्रविषयकत्व स्वीकारेण तस्याज्ञानेन सह सर्वाशे समानविषयकत्वाभावादज्ञाननिवर्तकत्वं न स्यादित्यत आह | साक्षादिति | ज्ञानस्याज्ञानसमानविषयकत्वमात्रं विरोधप्रयोजक शरीरे प्. ६१अ) प्रविष्टं न तु सर्वांशेषि समानविषयकत्वं गौरवादितिभावः | न चैवमिति | ज्ञानाज्ञानयोः सर्वांशे समानविषकत्वानादर इत्यर्थः | उक्तरीत्येति | अवछिन्नचैतन्यस्य स्वरूपेण सत्यतया ब्रह्मस्वरूपस्यावस्थाज्ञानविषयत्ववत् मूलाज्ञानविषयत्वमप्यस्ति | तथा चावस्थाज्ञानकृतचैतन्यावरणबलाज्जडस्यापि परंपरयावस्थाज्ञानविषयत्वमित्युक्तरीत्या मूलाज्ञानकृतचैतन्यावरणबलात् | मूलाज्ञानविषयत्वमपि जडस्य घटादेरपरिहार्यं स्यादित्यर्थः | ततः किं तत्राह | घटादीति | यथा अवस्थापरं ज्ञानं प्रतिपरयाविषयभूत जडसाक्षात्कारादेवावछिन्न चैतन्यनिष्ठावस्थाज्ञानस्य निवृतिस्तथा मूलाज्ञानप्रत्यपि परंपरयाविषयभूत जडसाक्षात्कारादेव मूलाज्ञानस्यापि निवृत्यापात इत्यर्थः | मूलाज्ञाननिवृत्यापातो न चेत्यत्र हेतुमाह | फलबलादित्यादिना | घटादिसाक्षात्कारे सत्यपि मूलाज्ञानानुवृतिरूपफलबलादित्यर्थः | मूलाज्ञान तत्कार्यातिरिक्तो यो मूलाज्ञानविषयश्चिन्मात्रं तद्विषयकत्वख्यैवज्ञाने मूलाज्ञाननिवर्तकत्वे तंत्रत्व कल्पनात् | घटादिसाक्षात्कारे च तदभावान्न मूलाज्ञाननिवर्तकत्वापात इत्यर्थः || अथ वा मूलाज्ञानस्यैव जडं न विषयः अवस्था ज्ञानानां त्ववछिन्नचैतन्याश्रितानां तत जडमेव विषयः अन्यथा चाक्षुषवृत्याचंदनखंडे चैतन्याभिव्यक्तौ तत्संसर्गिणो गंधस्यापरोक्ष्यापतेः | प्. ६२/६३अ) तदनभिव्यक्तौ चंदन तद्रूपयोरप्यप्रकाशापतेः | न च चाक्षुष वृत्याचंदन तद्रूपावछिन्न चैतन्ययोरभिव्यक्त्यातयोः प्रकाशः गंधाकारवृत्यभावेन गंधावछिन्नचैतन्यस्यानभिव्यक्त्या तस्यानभिव्यक्त्या तस्याप्रकाशश्चेति वाच्यं | चैतन्यस्य द्विगुणीकृत्यवृत्यभावेनैक द्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक् पृथक् गगनावछेदकत्वस्येव चैतन्यावछेदकत्व स्याप्यसंभवा तेषां स्वाश्रय द्रव्यावछिन्नचैतन्येनैव शुक्तीदमंशावछिन्नचैतन्येन शुक्तिरजतवत्प्रकाश्यतया तस्याभिव्यक्तौ गंधस्यापि प्रकाशस्याऽनभिव्यक्तौ रूपादेरप्यप्रकाशस्या चापतेः | न च गंधाकारवृत्युपरक्त एव चैतन्ये पंधः प्रकाशत इति नियमः || जडमात्रगोचरवृत्या कथमवछिन्नचैतन्यावरकाज्ञाननिवृतिर्भिन्नविषयत्वादिति शंकायामवस्थाज्ञानमवछिन्नचैतन्यावरणद्वारा जडमप्यावृणोति अतो जडमात्रगोचरयापि वृत्या अवस्थाज्ञान निवृतिः संभवतीति प्रतिपादितमिदानीं तस्यामेव शंकायां प्रकारांतरेण समाधानं दर्शयति | अथवेति | अथवा अवस्थाज्ञानानां ततज्जडमेव विषय इति संबंधः | घटं न जानामीत्यादि पूर्वोक्तानुभवादेवेति प्. ६२/६३ब्) भावः | तर्ह्यवस्थाज्ञानानामाश्रयोपि तत्तज्जडमेवस्या तथा चाप सिद्धात इत्यत आह | अवछिन्नचैतन्याश्रितानामिति | ननु जडस्याज्ञानविषयत्वोपगमे जडमज्ञानस्य विषयो न भवतीति सिद्धांतस्य का गतिरित्यत आह | मूलाज्ञानस्यैवेति | जडस्याज्ञानाविषयत्व सिद्धांतो मूलाज्ञानमात्रविषय इति भावः | अन्यथेति | जडस्यानावृतत्वे इत्यर्थः | चंदनखंडगोचर चाक्षुष वृत्या तदवछिन्नचैतन्यमभिव्यज्यतेन वा आद्ये दोषमाह | तत्संसर्गिण इति | चंदननिष्ठगंधस्यापि चंदनस्येवापरोक्ष्यापतिरभिव्यक्ति चैतन्यसंसर्गित्वस्योभयत्राविशेषात् | जडस्यावृतत्वपक्षे तु नायं दोषः | चाक्षुषवृत्यागंधावरणानिवृतेरित्यर्थः | द्वितीये दोषमाह | तदनभिव्यक्ता इति | अप्रकाशापतेरिति | चंदनुगोचर चाक्षुषवृतिकाले चंदनदद्रूपप्रकाशाभावो निष्ठ इति भावः | चंदनखंडन घटपटादि द्रव्याणामिवैक द्रव्यवृतिगुणानामपि चैतन्यावछेदकत्वमस्तीत्यभिप्रेत्याशंकते | न चेति | एकत्रद्रव्ये रूपरसगंधादिभेदेन चैतन्यभेदो नास्ति मानाभावादित्याह | चैतन्यस्येति चैतन्यस्य निरवयवतया द्रव्ये द्रव्यावछेदेनैकागुणावछेदेनापरावृतिर्न संभवतीत्यर्थः | यद्येक द्रव्ये प्रदेशभेदेन गंधादयः स्युः तदा तत्र दव्ये गंधादिभेदेन चैतन्यभेदशंकापि स्यात् | न त्वेतदस्ति गंधादीनां व्याप्यवृतित्वानुभवादित्याशयेनाह | व्याप्येति | यथा घटादिद्रव्याणां गगनभेदकत्वमस्ति तथा गंधादीनां गगनभेदकत्वं नास्ति गंधादिभेदेन गगनभेदा ननु प्. ६४अ) भवादितिभावः | गंधादिभेदेन चैतन्यभेदाभावे सिद्धे चंदनचैतन्याभिव्यक्त्यनभिव्यक्तिकृतौ पूर्वोक्त दोषौ दुष्परिहरावित्याह | तेषामिति | शुक्तीति यथा शुक्तीदमंशावछिन्नचैतन्ये रजतस्याध्यासात् रजतं शुक्तीदमंश चैतन्येवावभास्यं नत्विदमंशावछिन्नचैतन्यापेक्षया पृथग्भूतेन स्वावछिन्नचैतन्येनावभास्यं तथा द्रव्यावछिन्नचैतन्ये कल्पितारूपादयोपि द्रव्यावछिन्नचैतन्येनैव प्रकाश्या इत्यर्थः | ननु चंदनगंधस्याभिव्यक्तचैतन्यप्रकाशसंसृष्टस्यापि गंधगोचरवृत्यभावादेवापरोक्ष्याभाव इति शंकामनूद्यनिराकरोति | न च गंधाकारेति || प्रकाशसंसर्गस्यैव प्रकाशमानशब्दार्थत्वेनासत्यामपि तदाकारवृतावनावृत प्रकाशसंसर्गेऽप्रकाशमानत्वकल्पनस्य विरुद्धत्वात् | अभिव्यक्तस्य च गंधोपादानचैतन्यस्य गंधासंसर्गोक्त्य संभवात् | तस्माद्यथा चैत्रस्य घटवतौ तं प्रत्यावरकस्यैवाज्ञानस्य निवृतिरिति तस्यैव विषयप्रकाशो नान्यस्य तथा तत्तद्विषयाकारवृत्यात तदवरकाज्ञानस्यैव निवृतेर्न विषयांतरस्यापरोक्ष्यमनावृत्तार्थस्यैव संविदभेदापरोक्ष्यमित्युपगमादिति प्रमातृभेदेनवविषयभेदेनाप्येकत्र प्. ६४ब्) चैतन्येवस्थाज्ञानभेदस्य वक्तव्यतयावस्थाज्ञानानां तत्तज्जडविषयकत्वमिति घटादिवृतीनां नावस्थाज्ञाननिवर्तकत्वे काचिदनुपपतिर्न वा मूलाज्ञाननिवर्तकत्वापतिः || नियमो न चेत्यत्र हेतुमाह | प्रकाशसंसर्गस्यैवेति | न तु वृत्युपहितानावृतप्रकाशसंसर्गस्य प्रकाशमानशब्दार्थत्वं सुखादिगोचरवृत्यनुयद्रित साक्षिप्रकाशसंयसर्गिणि सुखादौ प्रकाशमान शब्दार्थत्वाभावप्रसंगादित्यर्थः | गंधस्याभिव्यक्तचैतन्य संसर्ग एव नास्तीत्याशंक्याह | अभिव्यक्तस्य चेति चकारस्यासंभवादित्यनेन संबंधः उपादान पदमधिष्ठान परं | असंभवादिति | तथा च जडस्यानावृतत्वपक्षे चंदनचैतन्याभिव्यक्तिदशायां गंधस्याप्यापरोक्ष्यापतिरपरिहार्येति भावः | जडस्यावृतत्वपक्षे तु नोक्तदोषप्रसक्तिरित्याह | तस्मादिति | जडे आवरणस्य सिद्धत्वादित्यर्थः | ननु जडस्यावृतत्वपक्षेपि चंदनगोचरचाक्षुष वृत्यैव गंधावरणस्यापि निवृतिः स्यात् | गुणगुणिनोस्तादात्म्यात् | तथा च चंदनापरोक्ष्यदशायां तद्गंधां परोक्ष्यदोषोऽत्रापि तुल्य इति शंकां दृष्टांतेन परिहरति | यथेति | नान्यं प्रत्यावरकाज्ञानस्यापि निवृतिरित्येवकारार्थः | तस्यैवेति | चैत्रस्यैव घटप्रकाशो नान्यस्य मैत्रादेरित्यर्थः | तथेति गुणगुणिनोस्तादात्म्येपि भेदस्यापि सत्वात् न चंदनगोचरवृत्यागंधादेरापरोक्ष्यप्रसक्तिरित्यर्थः | प्. ६५अ) ननु चंदन संविदभिन्नस्य गंधस्यावृतस्यापि कथं नापरोक्ष्यमित्याशंक्यानावृत् सुखादावेव संविदभेदस्यापरोक्ष्य प्रयोजकत्वदर्शनान्मैवमित्याह | अनावृतार्थस्यैवेति | नन्वेकत्रचंदनावछिन्नचैतन्ये अवस्था ज्ञानस्य चैत्रं प्रतिचंदनावरकस्यैकत्वा तस्य च चंदनगोचरवृत्यानिवृतत्वाच्चंदनवृतिकाले गंधस्यावरणमयुक्तमित्याशंकां निराकरोति इति प्रमातृभेदनेवेति | यथा प्रमातृविषये चैत्रमैत्रादिभेदेनाज्ञानमनेकमस्ति तथा एकत्रापि चंदनावछिन्नचैतन्ये गंधादिविषयभेदेनाप्यज्ञानमनेकमस्तीति वक्तव्यं चंदनापरोक्ष्यदशायां गंधापरोक्ष्यादर्शनादेवेत्ययं हेतुः प्रकृतपरामर्शिनेति पदेन समर्प्यते | तथा च चंदनापरोक्ष्यकाले गंधादेरावरणसंभवात्नोक्तदोष इति भावः | जडविषयकत्वमितीति | जडविषयकत्वादित्यर्थः | न काचिदनुपपतिरिति | घटादिवृतीनां चैतन्यविषयकत्वाभावे ज्ञानाज्ञानयोः समानविषयकत्वरूपं विरोधप्रयोजकं न भवति | तासां जडमात्रगोचरत्वादज्ञानस्य च चैतन्यमात्रविषयकत्वादिति पूर्वोक्तानुपपतिर्नास्ति स्वस्थाज्ञानस्यापि जडमात्रविषयकत्वाभ्युपगमात् | तथा जडस्यावरणाभ्युपगमेपसिद्धांतापति रूपानुपपतिरपि नास्ति जडावरणानभ्युपगमस्य मूलाज्ञानविषयत्वात् | तथा च ततज्जडावरकाज्ञान नानात्वाभ्युपगमे तदेकत्व सिद्धांतविरोधरूपानुपपतिरपि नास्ति तदेकत्वाभ्युपगमस्यापि मूलाज्ञनविषयत्वात् | जडावरकाज्ञानानां प्. ६५ब्) चावस्थारूपत्वादित्यादिकमभिप्रेत्य न काचिदनुपपतिरित्युक्तं | परमप्रकृतमाह | न चेति | घटादिवृतीनामपि मूलाज्ञाननिवर्तकत्वापतिरिति यत्पूर्ववादिनश्चोद्यमादौ प्रकृतं तन्नास्त्येव घटादिवृतीनां मूलाज्ञानविषयचैतन्यविषयकत्वानभ्युपगमादित्यर्थः || न चैवमपि जीवविषयाया अहमाकारवृतेर्मूलाज्ञाननिवर्तकत्वापतिस्तस्याः स्वयं प्रकाशमानचित्संवलिताऽचिदंशमात्रविषयत्वात् | सोहमिति प्रतिभिज्ञाया अपि स्वयं प्रकाशचैतन्येतःकरणवैशिष्ट्येन सह पूर्वापरकालवैशिष्ट्यमात्रविषयत्वेन चैतन्यविषयत्वाभावादिति | केचित्तु घटादिवृतीनां ततदवछिन्नचैतन्यविषयत्वमभ्युपगम्य सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् | श्रोतव्येति वचः प्राहवेदांतावरुरुत्सयेति वार्तिकोक्तेः श्रोतव्यवाक्यार्थवेदांतनियमविध्यनुसारेण वेदांतजन्यमेव नियमादृष्ट सहितं ब्रह्मज्ञानमप्रतिबद्धं ब्रह्मज्ञाननिवर्तकमिति न घटादिज्ञाना तन्निवृतिप्रसंग इत्याहुः | अन्ये तु तत्वमस्यादिवाक्यजन्यं जीव ब्रह्मा प्. ६६अ) भेदगोचरमेव ज्ञान मूलाज्ञाननिवर्तकं मूलाज्ञानस्य तदभेदगोचरत्वादिति न चैतन्य स्वरूपमात्रगोचराद्घटादि ज्ञाना तन्निवृति प्रसंगः || न चैवमपीति घटादिवृतीनां चैतन्यविषयकत्वाभावेप्यहमर्थरूप जीवस्य विदचित्संबलितरूपतया अहं वृतेः चैतन्य विषयकत्वावश्यंभावादित्यर्थः | तस्या इति स्वप्रकाशतया स्वयमेव प्रकाशमानायां चिति संबलितः चितादात्म्येनाध्यस्तो यो यमचिदंशः तन्मात्रविषयकत्वादहमाकारवृतेर्न चैतन्यविषयकत्वमौपनिषदत्व श्रुतिविरोधादेवेत्यर्थः | ननु योहं स्वप्ने श्रीकृष्णमन्वभूवं सोहं जागरे तं स्मरामीत्यादि प्रत्यभिज्ञायाश्चैतन्यविषयकत्वमावश्यकमन्यथा तया चिदात्मनः स्थायित्वं संघातव्यतिरिक्तत्वं च न सिध्येदित्यत आह | सोहमिति | प्रत्यभिज्ञापि स्वयमेव प्रकाशमाने चैतन्ये अहमित्यंतःकरण तादात्म्यमिवततादिवैशिष्ट्यमपि विषयी करोति | न तु स्वप्रकाशचैतन्यमस्मिन्मते चिदात्मनः स्थापित्वादेः श्रुतिवलादेव सिद्धेः न प्रत्यभिज्ञाया इति बोध्यं घटादिवृतीनामपि चतन्यंविषयकत्वाविशेषाद्वेदांतजन्य ज्ञानवन्मूलाज्ञाननिवर्तकत्वापतिरिति चोद्ये हेतोरेवासत्वात् नोक्ताति प्रसंग इति समाधानमुक्तमिदानीं तासां चैतन्यविषयकत्वाभ्युपगमेपि नोक्ताति प्रसंग इत्याह | केचित्विति | अभ्युपगम्येति | न चैवमभ्युपगमे चैतन्यस्य चक्षुरादिविषयत्वनिषेधश्रुतिनां बाधः स्यादिति वाच्यं तासां निरुपाधिक प्. ६६ब्) चैतन्यविषयत्वाभ्युपगमेनावछिन्नचैतन्यस्य चक्षुरादिवृतिविषयत्वे तद्विरोधाभावादिति भावः | अत एव ब्रह्मचैतन्यस्य सर्वप्रत्यय वेद्यत्वप्रतिपादकं पूर्वोदाहृत वार्तिकवचनमपि संगछते | अज्ञातज्ञापकत्वं हि प्रामाण्यं अज्ञातं च वस्तुचैतन्यमेव तस्यैव स्वप्रकाशतया सदाप्रसक्तप्रकाशस्याज्ञानविषयत्वकल्पनौचित्यात् | अवभासकचैतन्यस्यावरणे सति जडानवभाससंभवेन तस्य पृथगावरणकल्पनायोगादज्ञानस्य चैतन्याश्रितत्वनियमेन तस्य तमस इव स्वाश्रयादन्यत्रावरण हेतुत्वानुपपतेश्च तथा च प्रत्यक्षादीनामपि प्रामाण्यसिद्धये घटाद्यवछिन्नचैतन्यविषयकत्वमेव स्वीकर्तव्यं न तु जडमात्रविषयकत्वमेवं सर्वेषामेव मानानां फलशब्दित चैतन्यविषयकत्वादमृतत्वसाधने ब्रह्मदर्शने सर्वेषां मानानांकारणत्वप्रसक्तौ वेदांतानामेवावरोधे छयानियमनेछया श्रोतव्येति वचःवेदांतानामेव विचारः कर्तव्य इत्यमुमर्थं प्राहेति वार्तिकार्थः घटादिवृतीनां तु चैतन्यविषयकत्वेपि वेदांतजन्यत्वाभावेन श्रोतव्यविधिसिद्धनियमादृष्टसाहित्याभावान्न मूलाज्ञाननिवर्तक प्रसंग इति भावः | अप्रतिवद्धमिति | नियमादृष्टेन प्रतिबंधक दुरितस्य क्षीणत्वादिति भावः | तत्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनमिति नारदवचन दर्शनात् | तत्वमस्यादि वाक्योत्थं यज्जीवपरमात्मनोः तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनमिति भगवत्पादीयवचनदर्शनाच्च मूलाज्ञानस्य जीवब्रह्माभेदावरकत्वाच्च जीव ब्रह्मणोरैक्यलक्षण तादात्म्यविषयकं यद्ज्ञानमिदमेव प्. ६७अ) मुक्तिसाधनमत्वो नोक्ताति प्रसंग इति समाधानांतरं दर्शयति | अन्ये त्विति | इतीति वाक्यजन्याभेदज्ञानमेवाज्ञाननिवर्तकमिति स्थिते तदभेदागोचरात् घटादिज्ञानात्न मूलाज्ञाननिवृति प्रसंग इत्यर्थः || न चाभेदस्य तत्वावेदकप्रमाणबोध्यस्य चैतन्यातिरेके द्वैतापतेश्चैतन्यमात्रमभेद इति तद्गोचरघटादिज्ञानमप्यभेदगोचरमिति वाच्यं | न ह्यभेदज्ञानमितिविषयतो विशेषं ब्रूमः किंतु || न चेति | जीवब्रह्माभेदः चैतन्यापेक्षयातिरिक्त इति वक्तुं न शक्यते तथा सति वेदांत तात्पर्यगोचरस्याभेदस्य सत्यत्वावश्यंभावेन चैतन्यस्याद्वितीयत्वहानापतेर्वेदांत तात्पर्यविषयस्याभेदस्यासत्यत्वे वेदांतानां तत्वावेदकत्वलक्षणस्य प्रामाण्यस्य सिद्धांत संमतस्य भंगापतेरित्यर्थः | अत्र तत्पदं परमार्थ वस्तुपरं नहीति | घटादिज्ञाने चैतन्यविषयकेपि जीवब्रह्माभेदो न विषयः महावाक्यार्थज्ञाने तु तयोरभेदो विषय इत्येवं घटादिज्ञानापेक्षया महावाक्यजन्य ज्ञानस्य विषयतो विशेषं न ब्रूमः | यं नोक्तदोष तादवस्थ्यं स्यादित्यर्थः | न त्विदं रजतमिति भ्रमे यावानधिष्ठानाशोभासते तावदपेक्षया अधिकप्युक्तित्वादिविशेषविषयकस्य शुक्त्यादि ज्ञानस्य रजतादिभ्रमविरोधित्वं दृष्टं तथा च सन्घटः प्. ६७ब्) स्फुरति घट इत्यादि भ्रमेषु यावदधिष्ठानभूतं चैतन्यं विषयः तावदपेक्षया अधिकाभेदविषयकत्वस्य वाक्यजन्य ज्ञानेऽनभ्युपगमे वाक्योत्थज्ञानस्य भ्रमनिवर्तकत्वमेव न स्यादतो विषयत्वो विशेषोभ्युपगंतव्य इति शंकते | किं त्विति भ्रमाधिकविषयाणामेव ज्ञानानां भ्रमनिवर्तकत्वमिति नियमो नास्ति भ्रमानधिकविषयाणामपि भ्रमनिवर्तकत्व दर्शनेन व्यभिचारात् | तथा हि वस्तुतो घोषाधारभूते गंगातीरे यस्य तटाकतीरत्व भ्रमैण तटाकतीरे घोष इति भ्रमोस्तितं प्रतिगंगायां घोष इति वाक्यप्रयोगे सति तस्माद्वाक्या तस्य पुरुषस्य गंगातीरे घोष इति बोधो जायते | तेन च बोधेन तस्य गंगातीरे तटाकतीरत्व भ्रमो निवर्ततेत च तत्र भ्रमविषयगंगातीरांशे भ्रमापेक्षया वाक्यजन्यबोधे कश्चिद्विशेषविषयो दृष्टः | न च तत्र वाक्यजन्य ज्ञाने तटाकतीर व्यावर्तकस्य गंगातीरत्व रूपविशेषस्य विषयत्वदर्शनाद्विशेषाविषयकत्वमसिद्धमिति वाच्यं | यत्र तीरत्व मात्रप्रकारक तात्पर्येण गंगायां घोष इति प्रयोगः | तथैव तस्य भ्रांतस्य तात्पर्य ग्रहश्च तत्र गंतातीरत्व प्रकारक बोधाभावेपि भ्रमनिवृतिदर्शनेन व्यभिचार ध्रौव्यात् | तथा येन केनचित् कपालेन तुषो एवापः कर्तव्य इति भ्रमवंतं पुरुषे प्रतिकपालत्वमात्रप्रकारक तात्पर्येण प्रयुक्ता तन्मात्र तात्पर्यवतया गृहीतात्पुरोडाशकपालेन तुषानु एवपतीति वाक्यात्कपालेन तुषोपवापः कर्तव्य इत्येव तस्य बोधो जायते तत्र कपालांशे कपालांतरव्यावर्तकविशेषाग्रहणेपि पुराडाशकपालातिरिक्तकपालेषु प्. ६८अ) तुषोपवाधसाधनत्व भ्रमनिवृतिदर्शनेन तत्रापि व्यभिचारात् | तस्मात् तीरे घोष इति शाब्दबोधस्य गंगातीरत्वरूपविशेषविषयकत्वाभावेपि तद्धेतु पदार्थोपस्थितिकाले तीरस्य गंगासंबधित्वेन उपस्थिति सत्वा तदुपस्थिति महिम्नावस्तुगत्यागंगातीरविषकस्य भ्रमानधिकविषयस्यापि तस्य भ्रमनिवर्तकत्वमिति वक्तव्यं | तथा कपालेन तुषोपवापः कर्तव्य इति शाब्दबोधस्य स्वयं कपालांतरव्यावर्तक विशेषविषयत्वाभावेपि तादृशशाब्दबोध हेतुपदार्थोपस्थितिकाले कपालस्य पुरोडाश संबंधित्वेन उपस्थिति सत्वा तदुपस्थिति महिम्ना तस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वमिति वक्तव्यं तथा च ज्ञानस्य भ्रमविरोधित्वे सामग्रीविशेषप्रयोज्यत्वं प्रयोजकं न तु भ्रमाधिकविषयत्वं व्यभिचारात् || तत्वं पद वाच्यार्थधर्मिद्वयपरामर्शादिरूपकारणविशेषाधीनेन स्वरूपसंबंधविशेषेण चैतन्यविषयत्वमेव तदभेदज्ञानत्वं यथा हि विशेषणविशेष्य तत्संबंधगोचरत्वा विशेषेपि विशेषेपि विशिष्टज्ञानस्य विशेषणज्ञानादिकारणविशेषाधिन स्वरूपसंबंधविशेषेण तत्त्रितयगोचरत्वमेव समूहालंबन व्यावृतं विशिष्टज्ञानत्वं यथा वा स्थाणुत्वविरुद्धपुरुषत्व वा नित्याहार्यव्यावृतं संशयत्वं प्. ६८ब्) विषयत्वं विषयतो विशेषानिरूपणात् | तथा घटादावपि सोयं घट इत्यादिज्ञानस्य स्वरूपसंबंधविशेषेण घटादिविषयत्वमेव लघटशब्दादिजन्य ज्ञानव्यावृतं तदभेदज्ञानत्वमतिरिक्ताभेदानिरूपणात् || किं च महावाक्यजन्य ज्ञानस्य संसारमूलभ्रमविरोधित्वं श्रुतिस्मृतिविद्वदनुभवैः सिद्धं महावाक्यानां च चैतन्य स्वरूपमात्र बोधकत्वं द्वितीयपरिछेदे मुक्तिसाधन महावाक्यजन्य ज्ञानं प्रतिचैतन्यमात्ररूपविषयनियामक श्रुत्युदाहरणेनास्माभिः साधितं प्रपंचितं च निबंधनेष्वे तत् तथा च शुक्तिरजतादि स्थले भ्रमाधिकविषयक शुक्तिज्ञानादौ भ्रमविरोधिनि भ्रमाधिकविषयत्वस्येव दोषाभावादि घटितसामग्री विशेषाधीनत्व स्यापि दृष्टत्वेनाखंडार्थक वेदांतानुसारेण पूर्वोदाहृत व्यभिचारस्थलानुरोधेन च ज्ञानस्य भ्रमविरोधित्वे सामग्री विशेषाधीनत्वमेवानुगतं प्रयोजकं कल्पयितुं युक्तं न तु भ्रमाधिकविषयत्वमित्यभिप्रेत्यमहावाक्यार्थज्ञानस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वं संभवतीति समाधते | तत्वमिति तत्वं पदयोर्वाच्यार्थ भूतौ जीवेश्वरावेव धर्मिद्वयं तस्य तत्वं पदाभ्यां प्रथमं शक्त्यास्मृतिरूपः परामर्शस्तदनंतरं तत्वं पदसमानाधिकरण्य बलात् | जीव प्. ६९अ) ईश्वराभिन्न इति तयोर्विशेषणविशेष्यभावेनावगतिः | तदनंतरं च विशिष्टयोरैक्यं न संभवतीति विरोधप्रतीतिः | तदनंतरं च तत्वं पदाभ्यां वाच्यार्थरूपविशिष्टांतर्गतयोर्विशेष्यचैतन्यांशयोरभेद योग्ययोलंक्षणया प्रतीस्ततश्च विशेष्य द्वयाभेदगोचरशाब्दबोध इति क्रममभिप्रेत्य आदिपदं वाक्यजन्यज्ञानस्य स्वविषयचैतन्येन सह यः स्वरूपसंबंधविशेषः सामग्रीविशेषाधीनत्व प्रयुक्तस्तेन संबंधेन चैतन्यगोचरत्वं घटज्ञानादि व्यावृतं तदेव तस्याभेदज्ञानत्वं तद्बलादेव तस्य मूलाज्ञानमिथ्याज्ञानादि विरोधित्वमित्यर्थः | महावाक्यजन्य ज्ञानस्य घटादिज्ञाना पेक्षया चैतन्यांशे विषयतो विशेषाभावेपि सामग्री विशेषा देवघटादिज्ञानापेक्षया अभेदज्ञानत्वरूपे वैलक्षण्यै दृष्टांतमाह | यथाहीति | विशिष्टज्ञानस्येति | दंडीपुरुष इति ज्ञानस्येत्यर्थः विशेषणविशेषण विशेष्ययोरसंसर्गाग्रह आदिपदार्थः समूहालंबनेति | दंडपुरुषसंयोगा इति ज्ञानं इत्यर्थः | तदुक्तं चिंतामणि क्र्ताकारणकृत इति विशिष्टज्ञानस्य समूहालंबनापेक्षया विशेषणज्ञानादिरूप कारणकृतो विशेष इति तदर्थः | स्थाणुत्वेति स्थाणुत्वविरुद्धपुरुषत्व वानिति निश्चयः संशयसमानविषयकोय आहार्यवृतिरूपः तद्व्यावृतमित्यर्थः विशेषदर्शनदशायामनाहार्यनिश्चया संभवादाहार्येत्युक्तं विषयत इति | विशिष्टज्ञाने स्थाणुः पुरुषोवेति संशये चेति शेषः | न केवलं तत्वमसि वाक्यजन्यज्ञानस्याभेदज्ञानत्वे इयं रीतिः सोयं प्. ६९ब्) घटः सोयं देवदत इत्यादिवाक्यजन ज्ञान्स्यापि केवल घटशब्ददेवदत शब्दादिजन्य ज्ञानव्यावृताभेद ज्ञानत्वेपीयंरीतिरनुसर्तव्येत्याह तथा घटादावपीति | अतिरिक्तेति | केवल घटशब्द देवदतशब्दादिजन्यज्ञानविषय घटस्वरूपापेक्षया सोयमित्यादिवाक्यगम्याभेदेस्यातिरिक्तत्वे मानाभावात् तथा च विषयतो विशेषाभावात् सोयं घट इत्यादावपि तत्वमसीत्यत्रेव सोयमिति पदद्वय वाच्यार्थरूपधर्मिद्वयपरामर्शादि रूपकारणविशेषाधीन स्वरूपसंबंधविशेषण घटादि स्वरूपविषयकत्वमेव घटाद्यभेदज्ञानत्वं नान्यदिति वक्तव्यमितिभावः || अभावसादृश्यादीनामधिकरण प्रतियोग्यादिभिः स्वरूपं संबंधयुक्तानामधिकरणेनाधाराधेय भावरूपस्वरूपसंबंधविशेषः प्रतियोगिना प्रतियोग्यनयोगिभावरूप इत्यादि प्रकारेण स्वरूपसंबंधेऽवांतरविशेषकल्पनवत् वृतीनां विषयेपि संयोग तादात्म्ययोरति प्रसक्त्याविषयैर्विषयविषयिभाव रूपस्वरूपसंबंधवतीनां विषयविशेषनिरूपणासंभवे | कॢप्त एव स्वरूपसंबंध अवांतरविशेषकल्पनेनाभेदज्ञानत्वादि परस्परवैलक्षण्य निर्वाहाच्च | प्. ७०अ) एवं च ब्रह्मज्ञानस्याभेदाख्य किंचित्संसर्गगोचरत्वानभ्युपगमान्न वेदांतानाम खेडार्थत्व हानिरपीत्याहुः || ननु केवल घटशब्दादिजन्यज्ञानस्यापि विषयेण स्वरूपसंबंध एव तथा च कथं स्वरूपसंबंधकृता अभेदज्ञानत्वादि व्यवस्था न च वृतिज्ञानानां विषयैः सह विषयविषयीभावप्रयोजक स्वरूपसंबंधानामविशेषेपि तेष्वेव विषय तद्ज्ञानस्वरूपात्म्क संबंधेषु सामग्री विशेषाधीनत्व प्रयुक्तं परस्य वैलक्षण्यकल्पनया व्यवस्थोपपादनं कर्तुं शक्यत इति वाच्यं | स्वरूपसंबंधेषु वैलक्षण्यस्य क्वाप्यदृष्टत्वेन तथा कल्पनानुपपतेरित्यत आह | अभाव सादृश्यादीनामिति | ननु वृतीनां विषयैः सह विषयविषयीभावः स्वरूपसंबंधकृत एव न भवति | किंतु संयोगादि कृतः तथा च तासां तैः सह स्वरूपसंबंधानामेवा सिद्धत्वात् | तेषु वैलक्षण्यात्मकविशेषकल्पनादूरापास्तेत्यत आह | संयोगेति | वृतिसंयोगस्य वृतिविषयत्वप्रयोजकत्वे चक्षुर्गोलकादेरपि घटादिवृतिसंयोगित्वेन तद्विषयत्वप्रसंगावृति तादातात्म्यस्य वृतिविषयत्वप्रयोजकत्वे वृत्यधिष्ठानतयोवृति तादात्म्यापन्नस्य घटाद्यवछिन्नचैतन्यस्य घटादिवृतिविषयत्वसंभवेपि घटादेर्वृति तादात्म्यरहितस्य तदविषयत्व प्रसंगा तद्वृतिपरिणाम्यतः करणस्य घटादिवृतिविषयत्वप्रसंगाच्च परिणाम प्. ७०ब्) परिणामिनोस्तादात्म्यादित्यर्थः | ननु तत्वमस्यादिवाक्यजन्यज्ञानस्य विषयेण सह यः स्वरूपसंबंधश्चैतन्य तद्गोचरज्ञानोभयस्वरूपात्मकः तत्र सामग्री विशेषवलादपि विषयस्वरूपात्मके संबंधे विशेषो निरूपयितुं न शक्यत इत्यत आह | विषयविशेषनिरूपणासंभवे इति | विषये निर्विशेष चैतन्यात्मके विशेषाधाना संभवेपि स्वरूपसंबंधांतर्गततया कॢप्त एव ज्ञानस्वरूपात्मके संबंधे सामग्री विशेष बलाद्विशेषाधान संभवान्नोक्तदोष इति भावः | यद्वा वृतीनां विषयेपि संयोग तादात्म्ययोरति प्रसक्त्याविषयविशेषनिरूपणासंभवे विषयैर्विषयविषयीभावरूपस्वरूप संबंधवती नामिति संबंधः | अभाव सादृश्यादीनामधिकरणादाविववृतीनामपि विषये संयोग तादात्म्ययोरति प्रसक्तत्वेन ताभ्यां वृतीं प्रतिविषयविशेषनियमनासंभवे सति परिशेषाद्विषयविषयीभावप्रयोजकस्वरूपसंबंधवतीनामित्यर्थः | रूपपदं नियामक परं विषयविषयिभावस्य स्वरूपसंबंध नियम्यत्वेन तयोरभेदस्य रूपशब्दार्थस्यायोगात् | ननु संयोग तादात्म्ययोर्विषयविशेषनियामकत्वाभावेपि वृतीनां विषये स्वरूपसंबंधत्वं परिशेषान्न सिध्यति स्वरूपसंबंधातिरिक्तस्य संबंधांतरस्य कल्पनोपपतेरित्यत आह | कॢप्त एवेति | स्वरूपसंबंधस्य वृत्यादि स्वरूपतया तस्य कॢप्तत्वात् | कॢप्त एव स्वरूपं बंधे विशेषकल्पनायां लाघवं संबंधांतर कल्पयित्वा तस्मिन् संबंधांतरे अभेदज्ञानत्वादि निर्वाहकविशेषकल्पनायां प्. ७१अ) गौरवं अतो वृतीनं विषयैः सह स्वरूपसंबंधत्वमेवेति भावः | ननु तत्वमसि वाक्यात् जीवस्य ब्रह्माभेदज्ञानोपगमे तदभेदस्यैव संसर्गविधयाभानाद्वेदांतानां संसर्गागोचर प्रमिति जनकत्वरूपा खंडार्थत्वाभ्युपगमहानिरित्ये तच्चोद्यं निरवकाशमित्याह | एवं चेति | महावाक्यजन्य ज्ञानगताभेदज्ञानत्वस्यान्यथोपपादितत्वेनाभेनाभेद- संसर्गभानानपेक्षायां सत्यामित्यर्थः | हानिरपीति | घटादि वृतीनां मूलाज्ञाननिवर्तकत्वापतिर्न्नास्ति | अखंडार्थत्वहानिश्च नास्तीत्यपि शब्दार्थः || ननु घटादिज्ञानवद्ब्रह्मज्ञानस्यापि न मूलाज्ञाननिवर्तकत्वं युक्तं निवर्तकत्वे तदवस्थानासहिष्णुत्वरूपस्य विरोधस्य तंत्र त्वात् कार्यस्य चोपादानेन सह तां दृशविरोधाभावादिति चेत्न कार्यकारणयोरन्यत्र तादृश विरोधादर्शनेप्येक विषयज्ञानाज्ञानप्रयुक्तस्य तादृश विरोधस्यात्र सत्वात्कार्यकारणयोरप्यग्नि संयोगपटयोस्तादृशविरोध दृष्टेश्च न चाग्निसंयोगे सत्यवयवविभागप्रक्रियया असमवायिकारणसंयोगनाशादेवपटनाशोनाग्निसंयोगादिति वाच्यं | दग्धपटेपि पूर्वसंस्थानानुवृतिदर्शनेन मुद्गरचूर्णीकृत घट वदवयवविभागा प्. ७१ब्) दर्शनात् | तत्रावयवविभागादिकल्पनाया अप्रामाणिकत्वात् नापि तत्र तंतूनामपि दाहेन समवापि कारण नाशात्पटनाश इति युक्तं अंशुतंत्वादिभिः सहयुगपदेव पदस्य दाहदर्शनेन क्रमकल्पनायोगात् | यतो नाधस्तादवयवनाशस्तत्रावयवेग्नि संयोगादेवनाशस्य वाच्यत्वात् | नन्वस्त्वेतदेवं तथापि सविलासाज्ञाननाशकमिदं ब्रह्मज्ञानं कथं नश्येत् नाशकांतराभावादिति चेत् || वेदांतजन्य ज्ञानस्यापि मूलाज्ञाननिवर्तकत्वमाक्षिपति | नन्विति तादृशेति | कार्यस्य लोके उपादान स्थिति विरोधित्वा दर्शनादित्यर्थः ब्रह्मगोचरवृतिप्रत्यंतःकरणस्यैव उपादानत्वेन तां प्रत्यज्ञानस्यानुपादानत्वात् | तन्निवर्तकत्वं संभवतीति मत्वाह | नेति | उपादानत्वमुपेत्याप्याह | कार्ययेति | उपादानोपादेययोर्निवर्त्यनिवर्तकभावप्रयोजकविरोधो नास्तीत्युत्सर्गः | स च ब्रह्मज्ञान तुदुपादानस्थले अपोद्यते निवर्तकभावप्रयोजकतया लोके कॢप्तसमानविषयज्ञानाज्ञान भावस्य विशेषरूपतया तेन सामान्यरूपस्य उपादानोपादेय भावप्रयुक्ताविरोधस्य बाधोपपतेरित्यर्थः | लोके उपादानोपादेययोर्निवर्त्यनिवर्तक भावप्रयोजक प्. ७२अ) विरोधादर्शनमसिद्धं चेत्याह | कार्यकारणयोरपीति | अग्निसंयोगरूपकार्यस्य स्वोपादानपटनाशकत्वदर्शनादित्यर्थः | ननु तत्राग्निसंयोगस्य नाशकत्वदर्शनं भ्रांतिरिति मत्वाशंकते | न चाग्नीति प्रक्रिपयेति | अग्निसंयोगातंतुषु क्रियाततस्तेषां विभागस्ततस्तेषां पटासमवायिकारणसंयोगनाशः ततः पटनाशः इति वैशेषिक प्रक्रिया तंतुषु विभाग प्रक्रियैव भ्रांति मूलेत्याह | दग्धपटेपीति | पूर्वसंस्थानसंयुक्तावस्था व्यतिरेक दृष्टांतमाह मुद्गरेति | यथा मुद्गर चूर्णीकृतस्य घटस्यावयवेषु विभागो दृश्यते | तथा पटदाहानंतरं दग्धतंतुषु विभागादर्शनेनेत्यर्थः | तत्रेति तंतुष्वित्यर्थः | वैशेषिक प्रक्रियांतरमपि भ्रांतिमूलमेवेत्याह | नापीत्यादिना तत्रेति पटदाहस्थल इत्यर्थः | अग्निसंयोगस्य क्वचिदुपादानद्रव्यनाशकताया आवश्यकत्वात् पटनाशकत्वमपि तस्यैवेत्याह | यत इति | यतो द्व्यणुकाधस्ताद्व्यणुकावयवस्य परमाणोर्न नाशः | तत्र द्व्यणुके विद्यमानादग्निसंयोगादेवतदुपादानभूतद्व्यणुकनाशस्य वाच्य त्वान्न च तत्रावयवविभागप्रक्रियया परमाणु द्वय संयोगनाशादेव द्व्यणुकनाश इति वाच्यं अवयवावयविविभागप्रक्रियाया निरस्तत्वात् | तथा चाग्निसंयोगस्य स्वोपादानपटनाशकशदर्शनं न भ्रांतिरिति भावः | नन्वस्त्वेतदेवमिति | एतद्ब्रह्मज्ञानमेवमंतःकरणद्वारा स्वोपादानाज्ञाननाशकमस्त्यित्यर्थः | तथापीति | ब्रह्मज्ञानस्य सविलासा प्. ७२ब्) ज्ञाननाशकत्वेपीत्यर्थः | सकार्याज्ञाननाशकस्याज्ञाननाशकाले अवशिष्यमाणस्य ब्रह्मज्ञानस्य नाशो न सिध्येत् स्वस्य स्वनाशकत्वायोगात् नाशकांतरानवशेषाच्चेत्यर्थः || यथा कतकरजः सलिले न संयुज्य पूर्वसंयुक्तरजोंतरविश्लेषं जनयत्स्वविश्लेषमपि जनयति | यथात्मन्यध्यस्य मानं ब्रह्मज्ञानं पूर्वाध्यस्त सर्वप्रपंच निवर्तयत् स्वात्मानमपि निवर्तयतीति केचित् | अन्ये त्वन्यन्निवर्त्य स्वयमपि निवृतौ दग्धलोहपीतांबुन्यायमुदाहरेति | अपरे त्वत्र दग्धतृणकूटदहनोदाहरणमाहः | न च ध्वंसस्य प्रतियोग्यतिरिक्त जन्यत्व नियमः | अप्रयोजकत्वात् | निरंधनदहनादि ध्वंसे व्यभिचाराच्च | न च ध्वंसस्य प्रतियोगिमात्रजन्यत्वेऽति प्रसंगात् | कारणांतरं अवश्यं वाच्यं | निरिंधन दहनादि ध्वंसेपि कालादृष्टेश्वरेछादिकारणांतरमस्तीति वाच्यं | अति प्रसंगापरिज्ञानात् | न च घटादिध्वंसस्यापि कारणांतरनिरपेक्षत्वं स्यदित्यति प्रसंगः ध्वंसमात्रे कारणांतरे नैरपेक्ष्याऽनभिधानात् प्. ७३अ) न च घटध्वंस दृष्टांतेन ब्रह्मज्ञानध्वंसस्य कारणांतरापेक्षासाधनं तद्दृष्टांतेन मुद्गरपतनापेक्षाया अपि साधनापतेः || प्रथमं ब्रह्मज्ञानव्यतिरिक्तस्य सकलस्य ब्रह्मज्ञानेन नाशः पश्चादवशिष्टस्य ब्रह्मज्ञानस्य नाशः इति क्रमोनोपेयते | किंतु ब्र * ज्ञानेन सविलासाज्ञाननाशकाले सविलासाक्षानेन सहैव ब्रह्मज्ञानस्यापि नाश इत्युपेयते ब्रह्मज्ञानस्यैव स्वनाशं प्रत्यपि हेतुत्वाभ्युपगमात् | न चैकस्यैव स्वपरविलापकत्वं न दृष्टमिति वाच्यं | कतकरजसिदृत्वादिति परिहरति | यथेति पूर्वेति | कतकरजः संयोगात्पूर्वं जलेन संयुक्तरजोंतरेर्जलस्य विश्लेषमित्यर्थः | पूर्वाध्यस्तेति ब्रह्मज्ञानाध्यासात्पूर्वेत्यर्थः | अन्येतिति | यथा वह्नितमलोहपिंडे प्रक्षिप्तमंबुलोहगतमग्निं नाशयदात्मानमपि नाशयति तथा ब्रह्मज्ञानमपीत्यर्थः | ब्रह्मज्ञानस्य स्वातिरिक्तं सर्वं निवर्तयतः | तदैव स्वस्यापि निवर्तने दग्धलोहेन पीतांबुरूपं दृष्टांतमुदाहरंतीत्यक्षरार्थः | अपरेतिति | यथा शुष्कतृणसमूहे प्रक्षिप्तो दहनस्तृणकूटं नाशयन्नात्मानमपि नाशयति तथा अज्ञान तत्कार्यसमुदाये समुत्पन्नो ब्रह्मप्रत्ययः तन्नाशयत् | आत्मानमपि नाशयतीत्यर्थः | ननु दग्धदाह्यदहनादि न्यायेन ब्रह्मज्ञाननाश इत्युपपादनमयुक्तं घटादिनाशे प्रतियोगि प्. ७३ब्) घटाद्यतिरिक्तमुद्गरपातादिकारणांतरदर्शनेन ध्वंसस्य प्रतियोग्यतिरिक्तकारणजन्यत्व नियमादितिशंकते | न च ध्वंसस्येति निरिंधनेति | इंधनानां निःशेषं नाशानंतरं दहनस्य स्वतरावनाशदर्शनेन निरिंधनदहनध्वंसे स्वापाव्यवहित पूर्वं कालीन ज्ञानादि ध्वंसे च प्रतियोगिमात्रजन्ये व्यभिचाराच्चेत्यर्थः | उक्तं व्यभिचारं पूर्ववादी परिहरति | निरिंधनेति | अति प्रसंगस्यैवासिध्याध्वंसे प्रतियोग्यतिरिक्तकारणजन्यत्वनियमस्याप्रयोजकत्वमित्याशयेन दूषयति सिद्धांती | अति प्रसंगापरिज्ञानादिति | ननु कुतो परिज्ञानमिति चेतन्न वक्तव्यं ब्रह्मज्ञानध्वंसस्य प्रतियोग्यतिरिक्त अजन्यत्वे घटादिध्वंसोपि प्रतियोग्यतिरिक्तकारणानपेक्षः स्यादित्यति प्रसंगो वा घटादिध्वंसवत् | ब्रह्मज्ञानध्वंसोपि प्रतियोग्यतिरिक्तकारणापेक्षः स्यादित्यति प्रसंगो वा ब्रह्मज्ञानध्वंवसत् | घटज्ञानादिध्वंसोपिकारणांतरानपेक्षः स्यादित्यति प्रसंगो वा ब्रह्मज्ञानस्य स्वोत्पति द्वितीय क्षण एव नाशः स्यादित्यति प्रसंगो वा विवक्षित इति तत्राद्य मनूद्यदूषयति न चेति | ध्वंसमात्र इति ध्वंसत्वावछिन्न इत्यर्थः | अत भिधानादिति | न च सिद्धांतिना तथा नभिधानेपि ध्वंसत्वाविशेषा तत्र तदा पाद्यत इति वाच्यं | अप्रयोजकत्वादिति भावः | द्वितीयमतिप्रसंगेन दूषयति | न च घट ध्वंस दृष्टांतेनेति ध्वंसत्व हेतुनेति शेषः || प्. ७४अ) नापि ज्ञानध्वंसत्व साम्याद्घटज्ञानादिध्वंसस्यापि कारणांतरनैरपेक्ष्यं स्यादित्यति प्रसंगः | सेंधनानलध्वंसस्य जलसेकादि दृष्टकारणापेक्षत्वेपि निरिंधनानलध्वंसस्य तदनपेक्षत्ववजाग्रत् ज्ञानध्वंसस्य विशेषगुणांतरापेक्षत्वेपि सुषुप्ति पूर्वज्ञानध्वंसस्य तदनपेक्षत्व वच्च मूलाज्ञाननिवर्तक ज्ञानध्वंसस्य तदनपेक्षत्वोपपतेः नापिकारणांतरनैरपेक्ष्ये स्वोत्पत्युतरक्षण एव नाशः स्यादित्यति प्रसंगः | इष्टापतेः तदुत्पत्युतरक्षण एव ब्रह्माध्यस्तनिखिलप्रपंचदाहेन तदंतर्गतस्य तस्यापि तदैव दाहाभ्युपगमात् | निरिंधन दहनध्वंसन्यायेन ब्रह्मज्ञानध्वंसस्यापि कालादृष्टेश्वरेछादिकारणांतरजन्यत्वेप्यविरोधाच्च | सर्वप्रपंचनिवृत्युतरमेक शेषस्य ब्रह्मज्ञानस्य निवृतिरित्यनन्युपगमेन युगपत्सर्वदाहे पूर्वक्षणे चिदविद्यासंबंधरूपस्य द्रव्यांतररूपस्य वा कालस्येश्वर प्रसादरूपस्यांतःकरणगुणविशेषरूपस्य वा दृष्टस्यान्येषां च सत्वात् | न च तत्र ज्ञानातिरिक्तकारणापेक्षणे ब्रह्मज्ञानस्या प्. ७४ब्) मिथ्यात्वप्रसंगः ज्ञानैक निवर्त्यत्वं मिथ्यात्वमित्युभ्युपगमादिति वाच्यं | ज्ञानाघटित सामग्र्य निवर्त्यत्वे सति ज्ञाननिवर्त्यत्वस्य तदर्थत्वात् || तृतीयमनूद्या * * * * जकत्वेन दूषयति | नापि ज्ञानध्वंसत्व साम्यादिति | ब्रह्मज्ञानध्वंसदृष्टांतेनेति शेषः सुषुप्तीति | सुषुप्तिपूर्वज्ञानादिगुणस्य नाशकगुणांतरापक्षायां तस्यापि नाशकात्मगुणांतरकल्पनापत्या सुषुप्त्युछेदप्रसंगः स्यात् तत्परिहाराय सुषुप्तिपूर्वज्ञानादि गुणस्य नाशकांतरानपेक्षत्वं वक्तव्यमितिभावः | मूलाज्ञाननिवर्तक इति ब्रह्मज्ञान इत्यर्थः | चतुर्थमति प्रसंगमनूद्यतस्येष्टत्वमाह | नापि कारणांतर नैनरपेक्ष्य इति | ब्रह्मज्ञानध्वंसस्येति शेषः | ननूदाहृतनिरिंधन दहनध्वंसादौ जलसेकादिविशेषकारणानां व्यभिचारदर्शनेपि साधारकारणानां व्यभिचारादर्शनेन ब्रह्मज्ञानध्वंसस्यापि साधारणकारणापेक्षादुर्वारेत्यत आह | निरिंधनधहनध्वंसन्यायेनेति | ननु प्रथमक्षणे ब्रह्मज्ञानस्य जन्म द्वीतियक्षणे सविलासाज्ञाननिवृतिः तृतीयक्षणे ब्रह्मज्ञानस्य निवृतिरिति क्रमे सति ब्रह्मज्ञाननाशात् पूर्वक्षणे कालादृष्टादीनामसत्वात्कथं तेषां ब्रह्मज्ञाननाश हेतुत्वाभ्युपगमे विरोधाभाव इत्यत आह | सर्वप्रपंचेति स्वमतेनाह | चिदविद्यति | परमतेनाह | द्रव्यांतरेति | यद्वा स्वमतेपीश्वरस्य कालत्वमभिप्रेत्याह | प्. ७५अ) द्रव्यांतरेति स्वमते नैवादृष्टस्य द्विप्रकारत्वमाह | ईश्वरेति | प्रसादग्रहणमुपलक्षणं पुण्यं ईश्वर प्रसादरूपं पापं ईश्वरक्रोधरूपमिति द्रष्टव्यं अंतःकरणेति आत्मनः स्वमते निर्गुणत्वादितिभावः | अन्येषां चेति | ईश्वरदिगादीनामपीत्यर्थः | न च तत्रेति | ब्रह्मज्ञानध्वंस इत्यर्थः | ज्ञानैकनिवर्त्यत्वं हि ज्ञानातिरिक्तानिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वरूपं यथा श्रुतं न भवति ज्ञानसाध्यायामज्ञाननिवृतौ ज्ञानातिरिक्तस्य प्रतियोगिनोपि हेतुत्वात् किं त्वन्यदेवतदित्याह | ज्ञानाघटितेति | ज्ञानाघटिताया सामग्री तदनिवर्त्यत्वे सतीत्यर्थः | प्रपंच सत्यत्वमतेपि घटादेर्ज्ञाननिवर्त्यत्वमस्ति घटं नाशयामीत्यादि ज्ञानपूर्वकं मुद्गरपातादिना तन्नाशदर्शनादिति तद्धारणाय सत्यं तं घटादिनाशस्य ज्ञानपूर्वकत्वनियमाभावेन ज्ञानाघटित सामग्री निवर्त्यजातीये घटादौ तद घटित सामान्यनिवर्त्यत्वस्याभावात् | न च परमते नाशमात्रेस्येश्वर ज्ञानघटित सामग्री साध्यत्वा तदीयज्ञा || नान्यः पंथा इति श्रुतिरपि तत्रैव तात्पर्यात् | अतो युक्त एव दग्धदाह्यदहनादिन्यायः केचित् तु वृतिरूपं ब्रह्मज्ञानं नाज्ञानतन्मूलप्रपंच निवर्तकं | अज्ञानस्य प्रकाशनिवर्त्यत्वनियमेन जडरूपवृतिनिवर्त्यत्वायोगात् | किंतु तदा प्. ७५ब्) रूढचैतन्यप्रकाशस्तन्निवर्तकः स्वरूपेण तस्याज्ञानादि साक्षितया तदनिवर्तकत्वेपि अखंडाकारवृत्युपारूढस्य तन्निवर्तकत्वोपपतेः | तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं देहेत् | सूर्यकांतमुपारुह्यतं न्यायं तत्र योजयेदित्यभियुक्तोक्तेः | एवं च यथा किंचित्काष्टमुपारुह्यग्रामनगरादिकं दहन् वह्निर्दहत्येव तदपि काष्ठं तथा चरमवृतिमुपारुह्यनिखिलं प्रपंचमुन्मूलयन्न खंडचैतन्यप्रकाशस्तन्निवर्तनेपि प्रगल्भत इति न तन्नाशे काचिदनुपपतिरित्याहुः || न मादाय कार्यमात्रे ज्ञानाघटितसामग्र्यनिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वमस्तीति नैतन्मिथ्यात्वनिर्वचनमिति वाच्यं | लक्षणे ज्ञानपदस्य जैवज्ञानपरत्वात् | आत्मन्यतिव्याप्तिवारणाय विशेष्यमितिभावः | ननु कार्यमात्रे कालादृष्टादेः कारणत्वमित्यंगीकृन्य ब्रह्मज्ञानध्वंसेपि कालादृष्टादेःकारणत्वाभ्युपगमे मूलाज्ञानध्वंसरूपे मोक्षेपि कालादेःकारणत्वं स्यात् कार्यत्वाविशेषात् | न चेष्टापतिः नान्यः पंथा इति श्रुति विरोधादित्यत आह | नान्यः पथां इति | अस्याः श्रुतेः ज्ञानमेकमेव मोक्षसाधनमित्यत्र न तात्पर्यं किंतु मोक्षस्य ज्ञानाघटितं प्. ७६अ) किमपि साधनं नास्तीत्यत्र तात्पर्य | अतो न श्रुति विरोध इत्यर्थः | अत इति श्रुतिविरोधादिरूपबाधकाभावादित्यर्थः | वृतिरूपस्य ब्रह्मज्ञानस्याविद्यादिनाशकत्ववदेवस्वनाशकत्वमप्यस्तीत्युक्तमिदानिं वृतिरूपब्रह्मज्ञानस्याविद्यादिनाशकत्वं स्वनाशकत्वं वा नास्ति किंतु तद्वृत्यारूढचैतन्यमेव तद्वृति सहित सर्वनाशेकमिति मतमाह | केचित्विति | ननु चैतन्यस्याज्ञानादि साधकत्वात्कथं तस्य नाशकत्व सत आह | स्वरूपेणेति | तत्र दृष्टांतं श्लोकेन दर्शयति | तृणादेरिति | एषा प्रत्यक्षा सूर्यदीप्तिः स्वरूपेण तृणादेः प्रकाशिकापि सूर्यकांतमणिमुपारुह्य तृणादिकं दहतीति प्रत्यक्षसिद्धं तत् न्यायं तत्र चैतन्ये योजयेत् | चैतन्यं स्वरूपेणाज्ञानादिप्रकाशकमपि वृतिविशेषसंसृष्टं सदज्ञानादेर्नाशकमिति निश्चिनुयादेव ननु साधकस्य कथं घातकत्वमित्यसंभावनया प्रमाणसिद्धमर्थमुपेक्षेतेति श्लोकतात्पर्यं ननु मण्यारूढा सूर्यदीप्तिः मणिव्यतिरिक्तमेव तृणादिकं दहति न तु मणिमपि तथा च वृत्यारूढं चैतन्यं वृति व्यतिरिक्तमेवाज्ञानादिकं नाशयेन्न वृतिमपि | तथा च ब्रह्मज्ञानं कथं नश्येत् नाशकांतराभावादिति शंकायाः समाधानं कथं लब्धं तत्राह | एवं चेति | चैतन्यस्य वृत्यारूढस्य नाशकत्वे प्रकाशाप्रकाशयोरेव लोके निवर्त्य निवर्तकभावदर्शनात् | प्रकाशस्यापि सहकारि विशेष च शेन नाशकत्वाविरोधाच्चेति युक्त द्वयेन सिद्धे सतीत्यर्थः | उन्मू * * * * न्नेति मूलभूताज्ञानेन सह प्. ७६ब्) नाशयन्नित्यर्थः | प्रगल्भत इति भवतीत्यर्थः | तन्नाश इति चरमवृतिनाश इत्यर्थः || अन्ये तु ब्रह्मज्ञानमज्ञानस्यैव निवर्तकं ज्ञानाज्ञानयोरेव साक्षाद्विरोधात् | प्रपंचस्य तूपादाननाशात्नाश इति प्रपंचांतर्गतस्य ब्रह्मज्ञानस्यापि तत एव नाशः न च प्रपंचस्य ज्ञानानिवर्त्यत्वे मिथ्यात्वानुपपतिः | प्रपंचनिवृतेः साक्षात्ज्ञानजन्यत्वाभावेपि ज्ञानजन्या ज्ञाननाशजन्यत्वात् साक्षात्परंपरया वा ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यंगीकारात् | एवं च तत्वसाक्षात्कारोदयेपि जीवन्मूक्तस्य देहादिप्रतिभास उपपद्यते | प्रारब्धकर्मणा प्रतिबंधेन तत्वसाक्षात्कारोदयेपि प्रारब्धकर्म तत्कार्यदेहादिप्रतिभासानुवृत्युपादानाविद्यलेशानिवृत्युपपतेः | अज्ञानवत्प्रपंचस्यापि साक्षाद्ब्रह्मसाक्षात्कारनिवर्त्यत्वेनायमुपपद्यतेऽतिविरोधिनि ब्रह्मसाक्षात्कारे सति प्रारब्धकर्मणः स्वयमवस्थानासंभवेनाविद्यालेशनिवृतिप्रतिबंधकत्वा- योगादित्याहुः | प्. ७७अ) इति श्रीशास्त्रसिद्धांतलेशसंग्रहे तृतीयः परिछेदः || ३ || अज्ञाननाश * * ब्रह्मज्ञाननाशहेतुरितिमतं दर्शयति | अन्ये त्विति | अज्ञानस्यैवेति | उक्तं च पंचपादिकायां ज्ञानमज्ञानस्यैव निवर्तकमिति साक्षादिति विरोध प्रयोजकस्य समानविषयत्वादेरज्ञान एव संभवादित्यर्थः | तत एवेति | उपादान नाशादेवेत्यर्थः | साक्षात्परंपरयावेति मूलाज्ञानमात्रस्य ज्ञानैकनिवर्त्यतया मिथ्यात्वसिद्धौ मूलाज्ञानातिरिक्त जडमात्रस्य तदधीनतया स्वयं साक्षात् ज्ञाननिवर्त्यत्वाभावेपि कृत्स्न प्रपंचस्य मिथ्यात्वसिद्धिरप्रत्युहेत्यपि मंतव्यं | अस्य मतस्य जीवन्मुक्तिशास्त्रानुगृहीतत्वं दर्शयति | एवं चेत्यादिना | अज्ञानातिरिक्तस्य जडस्य ज्ञानेन सह साक्षाद्विरोधाभावे सतीत्यर्थः | ननु तत्वसाक्षात्कारेणाज्ञाननाशे सत्युपादानाभावात् देहादेरवस्थानासंभवे सति कथं विद्योदये देहादि प्रतिभासः | इत्यत आह | प्रारब्धेति | तत्वसाक्षात्कारोदये सत्यज्ञानस्य निःशेषेण निवृतिप्रसक्तौ प्रारब्धकर्मकृतप्रतिबंधवशादज्ञानलेशस्य निवृतिर्न संभवति तल्लेशानुवृतौ च तत्वज्ञानानंतरमपि प्रारब्धकर्मणः तत्कार्यस्य देहादि प्रतिभासस्यापि अनुवृतिर्युज्यते देहाद्युपादानभूतस्याविद्यालेशस्यानुवृतेरित्यर्थः | पूर्वमते जीवन्मुक्त्यसिद्धिमाह | प्. ७७ब्) अज्ञानवदिति जीवन्मुक्तस्य देहादि प्रतिभास इत्यर्थः | विरोधिनीति | अज्ञानस्येव प्रारब्धकर्मणोपि साक्षाद्विरोधिनीत्यर्थः | श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं संप्रणम्य च व्याख्यातो यं परिछेदः श्रीकृष्ण परितुष्टये || || इति श्रीमत्परमहंसपरिव्राजिकाचार्य श्रीमत्स्वयंप्रकाशानंदसरस्वस्ती दिव्य श्रीचरणारविंदसंलग्नरजोभूतस्य अच्युतकृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धांतलेशसंग्रहव्याख्यायां श्रीकृष्णालंकाराख्यायां तृतीयः परिछेदः || ३ || समाप्तम् ||</poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] e52xcwip1gfqbg9csonoez89uqn2pz5 417862 417840 2026-07-16T11:13:20Z Shubha 190 417862 wikitext text/x-wiki {header | title = सिद्धान्तलेशसङ्ग्रहटीका - भागः २ | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> प्. २१अ) स्यादिति तत्परिहारायाहंकारशंबलितस्य भोक्तृत्वादि ततो निष्कृष्टस्य शुद्धस्योदासीन ब्रह्मरूपत्वमिति व्यवस्थामाथित्यभागत्यागलक्षणा श्रीयते । एवं कृष्णलं श्रययेदित्यादावपि प्रत्यक्षस्यात्यंत निर्विषयत्वप्रसक्तौ तत्परिहाराय श्रुतौ लक्षणा ।। तरेषु श्रुत्यंतरेषु च तात्पर्यलिंगानि द्रष्टव्यानि । तथा च उक्त तात्पर्यलिंगैरुपे तत्वादद्वैतश्रुतीनां प्रावल्यमित्वाशयेनाह । षद्विधेति । ननु तर्हि व्यावहारिको यजमान प्रस्तरयोरभेदः । श्रुत्यर्थोस्तु ततश्च व्यावहारिक तदमेद प्रतिपादकश्रुतिबाधितं तयोर्भेदप्रत्यक्षमपि व्यावहारिकभेदविषयकमस्तु । तथा च प्रत्यक्षस्य निरवकाशत्वा भावान्न श्रुतिबाधकत्वमिति चेन्न समान सताकयोर्भेदाभेदयोरेकत्रासंभवेन । तथा कल्पनायोगादस्तु तर्हि प्रातिभासिकस्तयोरभेदः । श्रुत्यर्थ न शुक्तो रजताभेदस्यैव प्रस्तरे यजमानाभेदस्य प्रत्यक्षप्रतिभास्य भावादितिभावः । श्रुते प्रत्यक्षात्प्रावल्यमित्युत्सर्गस्य यजमानः प्रस्तर इत्यत्रापवादस्थलं दर्शंयित्वा अपवादस्थलांतरमाह । एवं तत्वमसीति । तत्वमसीति वाक्येन हि स्वरसतः किं चिह्नत्वं कर्तृत्वभोक्तृत्वादिविशिष्टचैतन्यरूप जीवस्य तद्विपरीतेन सर्वज्ञत्वा भोक्तृत्वा भोक्तृत्वा कर्तृत्वादिविशिष्ट प्. २१ब्) चैतन्यरूपेण ब्रह्मणा सहाभेदः सार्वकालिकः प्रतिपाद्यते । तदनुरोधेन जीवे सदासर्वज्ञत्वादि धर्मांगीकारें जीवे तद्विरुद्धा सर्वज्ञत्व कर्तृत्वादिरूपसंसारोवगाहि प्रत्यक्षं निरालंबनं स्यादतो निरवकाशसंसारप्रत्यक्षेण श्रुतेर्बाधः स्वीकर्तव्यः स च बाधो विशेष्यचैतन्यांशमात्राभेदप्रतिपादकत्वेन श्रुतेः । संकोचरूप एव न तु यजमानः प्रस्तुर इत्यत्रेव कार्त्स्येन मुख्यार्थं त्यक्त्वागौणार्थकल्पनरूप इति विशेष इत्यर्थः । अहंकारशबलि तस्येति । अंतःकरणविशिष्टचैतन्यस्येत्यर्थः । भागत्यागेति । त्वं पदवाच्यस्य द्वौभागौस्तः विशेषणभागो विशेष्यभागश्चेति तत्र विशेषणरूपस्य भागस्य त्यागपूर्वकं त्वं पदस्य विशेष्यभागे चैतन्यमात्रे लक्षणा स्वीक्रियते । एवं तत्पदार्थेपि द्रष्टव्यं अपवादस्थलांतरमाह । एवं कृष्णलमिति । प्रसक्ताविति । श्रुतिवलात्कृष्णलेषु रूपरसपरावृतिप्रादुर्भावपर्यंतयाकरूपसाश्रपणस्यांगीकारे तेषु प्रपणाभावप्रत्यक्षस्य विषयो न लभ्यते । अद्वैत श्रुतिविरोधेन तेष्वपारमार्थिकस्य श्रपणाभावस्यासंभवात् । श्रुत्यक्त श्रपणस्य तेषु व्यावहारिकस्यैव वक्तव्यतया तेषु तदभावस्यापि व्यावहारिकस्यासंभवात् । व्यावहारकाले बाधरहितस्य श्रपणाभावस्य प्रातिभासिकत्वासंभवाच्च तस्मात् प्रर्क्षनिर्विषयं स्यादित्यर्थः । एवं सौमें न यजेतेत्यत्रापि सोमेन यागेनेष्वं प्. २२अ) भावयैदिति वाक्यार्थे स्थिते श्रुतिवलात्सोमयागयोरभेदांगीकारे तयोर्भेदग्राहि प्रत्यक्षं निरवकाशं स्यादिति तद्विरोधपरिहाराय सोमपदस्य मत्वर्थलक्षणा स्वीक्रियत इति दृष्टव्यं ।। नेह नानास्ति किंचनेत्यत्र कथंचिद्विषयोपपादनसंभवे तु न प्रवलायाः । श्रुतेरन्यथा नयनमिति न कश्चिदप्यव्यवस्था प्रसंगः । अथ वा कृष्णलं श्रययेत्सोमेन यजेतेत्यादौ न प्रत्यक्षानुरोधेनलक्षणाश्रयणं किं त्वनुष्टानाशक्त्या न हि कृष्णले उष्णीकरणमात्रमिव मुख्यः पाकोनुष्टातुं शक्यते न वा सोमद्रव्यकरणयो याग इव तदभिन्नो यागः केन चिदनुष्टातुं शक्यते । न चानुष्टेयत्वाभिमतस्य प्रत्यक्षविरोधयवानुष्टानाशक्तिरिति शब्दांतरेण व्यवह्रियत इति वाच्यं । शशिमंडलं कांतिमत्कुर्यादिति विधावनुष्टेयत्वाभिमतस्य शशिमंडले कांतिमत्वस्य प्रत्यक्षाविरोधेप्यनुष्ठानाशक्तिदर्शनेन तस्यास्ततोभिन्नत्वात् । तथा च तत एव तत्र लक्षणाश्रयणं । तस्मादपछेदन्यायादि सिद्धस्य श्रुति च लीयस्त्वस्य न कश्चिद्धाध इति । अथ कथमत्रापछेदन्यायप्रवृतिः उच्यते ।। प्. २२ब्) एवं निरवकाश प्रत्यक्षेण श्रुतिबाधमुत्सर्गस्यापवादरूपं दर्शयित्वा श्रौसर्गिकं श्रुति प्रावल्यं प्रकृताभिप्रायेण दर्शयति । कथंचिदिति । द्वैतमिथ्यात्व श्रुतीनां तत्सत्यग्राहिप्रत्यक्षस्य च विरोध स्थले प्रत्यक्षस्य श्रुतिबाधितस्यापि न निरवकाशतं । कल्पित द्वैत तद्गत सता जात्यादिविषयकत्वेन सावकाशत्वादतोत्र श्रुत्याप्रत्यक्षस्यैव बाध इति भावः । कथंचिदित्यस्य कल्पित द्वैतादि समर्पणेन वेत्यर्थः । कथंचिच्छब्दात् पूर्वं प्रत्यक्षस्येति शेषः । न कश्चिदपीति । तात्पर्यस्य प्रावल्यप्रयोजकत्वपक्षे यथा तात्पर्यविषयस्यापि श्रयणादेर्बाध दर्शनरूपा अव्यवस्था प्रसक्ता न तथा श्रुति प्रावल्यौत्सर्गिकत्व पक्षे साप्रसज्यते अनुपलंभादित्यर्थः । ननु प्रत्यक्षेण श्रुतिबाधे बह्नन्युदाहरणानि दर्शितानि श्रुत्या प्रत्यक्षबाधोदाहरणं त्वेकमेव दर्शितं तथा च प्रत्यक्षस्य श्रुत्यपेक्षया प्रावल्यमत्सर्ग इति वक्तव्य न तु वैपरीत्यमित्यस्वरसादाह । अथवेति । तदभिन्न इति । सोमाभिन्न इत्यर्थः । तस्या इति । अनुष्टानाशक्तेरित्यर्थः । तत इति प्रत्यक्षविरोधादित्यर्थः । तत एवेति । अनुष्टानाशक्तेरेव न तु प्रत्यक्षविरोधादतो न प्रत्यक्षप्रावल्यस्यौत्सर्गिकत्वं आगमबाध्यानां गगननैल्य प्रत्यक्षादीनां भूयसां प्राग्दर्शितत्वादित्यर्थः । तस्मादिति । आगप्रावल्यस्यौत्सर्गिकत्व संभवादित्यर्थः । न कश्चिद्बाध इति । आगमस्य प्रत्यक्षात्प्रावल्ये यजमानः प्रस्तर इत्यादावपि यजमान प्रस्तराभेदादि सिद्धिप्रसंग इति यो बाध आशंकितः प्. २३अ) पूर्वं स नास्ति तस्य बहुभिः प्रकारैः परिहृतत्वादित्यर्थः अपछेदन्यायं प्रकृते योजयितुमाक्षिपति । अथ कथमिति । कथं शब्दसूचितस्याक्षेपस्य विवरणं तन्निराकरणं च यत्वित्यादिना भविष्यति प्रथमं तं न्यायं प्रकृते यौजयति । उच्यत इति ।। यथा ज्योतिष्टोमेवहिष्यवमानं सर्षतामद्ज्ञातुरपछेदे सति यद्युद्ज्ञातापछिद्येतादक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेतेति श्रुतिनिरीक्षणेन जातोद्रात्रऽपछेदनिमित प्रायश्चित्त कर्तव्यताबुद्धिः पश्चात् प्रतिहर्त्रऽपछेदे सति यदि प्रतिहर्तापछिद्येत सर्ववेदसंदद्यादिति श्रुति निरीक्षणेन जातया तद्विरुद्धप्रतिहर्त्रऽपछेद निमित प्रायश्चित्त कर्तव्यता बुद्ध्या बाध्यते । एवं घटादि सत्यत्व प्रत्यक्षं परया तन्मिथ्यात्व श्रुतिजन्य बुद्ध्या बाध्यते । न चोदाहृतस्थुले । पूर्वनैमितककर्तव्यता बुद्धेः परनैमितिक कर्तव्यता बुद्ध्या बाधेपि पूर्वनैमित्तक कर्तव्यताबुद्धिजनकं शास्त्रं यत्रोद्ज्ञातृमात्रापछेद उभयोरपि युगपदपछेदो वा उद्गात्रऽपछेदस्य परत्वं वा तत्र सावकाशं । प्रत्यक्षं त्वद्वैत श्रुत्यावाधे विषयांतराभावान्निरालंबनं स्यादिति वैषस्यं शंकनीयं ।। प्. २३ब्) बहिष्यवमानं स्तोत्रमुद्दिश्यान्वारब्धतयागछता मृत्विजां मध्ये उद्गातुरपछेदे सति आरब्धं क्रतुमदक्षिणतया समाप्य पुनः स एव क्रतुरनुष्टेय इति तदपछेदनिमितकमारच्ये क्रतोरदक्षिणतया समापनं प्रायश्चिततयाविहितं । तथा प्रतिहर्त्रःपछेदनिमितकं सर्वस्वदानरूपदक्षिणादानविशिष्टतया आरब्धस्यैव क्रतोः समापनरूपं प्रायश्चितं विहितं । तथा च एकस्मिन् प्रयोगे दैवात् क्रमेणोभयोरपछेदे सति विरुद्धयोरुक्ते प्रायश्चितयोरनुष्टातुमशक्यत्वादन्यतरस्यानुष्टेयत्वे स्थिते सति किं पूर्वनिमितक प्रायश्चितमनुष्टेयं किं वा उत्तरनिमितकमिति विषये निणैयमाह । उद्गातुरपछेद इत्यादिना । यत्र प्रयोगे प्रथममुद्गातुरपछेदो भवति तत्प्रयोगाभिप्रायोयं ग्रंथः । श्रुतिनिरीक्षणेनेति । निमितोहुयजननानंतरमेव नैमितकशास्त्रस्य बुद्धिस्थत्वादिति भावः । अपछेदनिमितकर्तव्यताबुद्धिरिति । उद्गात्रऽपछेदो निमितं यस्य प्रायश्चितस्य तदुद्गात्रऽपछेदनिमितं तस्य कर्तव्यता बुद्धिरित्यर्थः । तद्विरुद्धेति उद्गात्रयछेदनिमित कर्तव्यता तच्छब्दार्थः तद्विरुद्धत्वं च कर्तव्यताविशेषणमेवमिति । एकस्मिन् प्रयोगे अदक्षिणत्व सर्वस्वदक्षणाकत्वयोरिव एकत्रघटादि प्रपंच सत्यत्वमिथ्यात्वयोरपि विरुद्धत्वातद्बुद्ध्योर्बाध्य बाधकत्व इति भावः । न चोदाहृत प्. २४अ) स्थल इति । यत्र प्रथममुद्गात्रऽपछेदस्तत्रेत्यर्थः । शास्त्रमिति । यद्युद्गातापछिद्येतेति शास्त्रमित्यर्थः । युगपदिति । उद्गाता प्रतिहर्त्रः पछेदयोर्यौगपद्यस्थले उद्गात्रःपछेदनिमितकमेव प्रायश्चितमनुष्टेयमित्याथस्तं वाचार्यैरुक्तत्वादितिभावः । प्रत्यक्षं त्विति द्वैत सत्यत्व प्रत्यक्षमित्यर्थः । अद्वैत श्रुत्येति । द्वैतमिथ्यात्व श्रुत्येत्यर्थः । विषयांतराभावादिति । द्वैत प्रपंचे प्रतीयमान सत्वस्य श्रुत्वाबाधे सति तत्र सत्वांतरा भावात् सत्व प्रक्षं निर्विषयं स्यान्न चैतद्युज्यते प्रत्यक्ष ज्ञानस्य निर्विषयत्वादर्शना तदनुपगमाच्चेति भावः ।। यत्र घटादौ श्रुतिबाध्यं प्रत्यक्षं प्रवर्तते तत्रैव व्यावहारिकं विषयं लब्धा कृतार्थस्य तस्य परापछेदस्वलेमर्वथा बाधितस्य पूर्वापछेदशास्त्रस्येव विषयांतरान्वेषणाभावदिहापि सर्वप्रत्ययवेद्य ब्रह्मसतायां सावकाशं प्रत्यक्षमिति वक्तुं शक्यत्वाच्च यत्वेकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां क्रतौ ततत् नैमितिक कर्तव्यतयोः वदरफलेश्यामरक्तरूपवोरिव क्रमेणोत्पादादूपद्वज्ञानवत्कर्तव्यताज्ञानद्वयमपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधेःपछेदत्याय उदाहरणं । अत एवापछेदाधिकरणेनै प्. २४ब्) मिकशास्त्रस्य ह्ययमर्थः । निमितो यजननान्प्रागन्यथा कर्तव्योपि क्रतुर्निमिते सत्यन्यथा कर्तव्य इति शास्त्रदीपिकावचनमिति । द्वैत प्रपंचे पारमार्थिकस्य सत्वस्य श्रुत्या अपहृतत्वेपि व्यावहारिकस्य तत्सत्वस्य तयानुयहृतत्वात् । सत्व प्रत्यक्षस्य न निरवकाशत्वमिति परिहरति । यत्रेति । विषयमिति सत्वरूपमितिशेषः । ननु ब्रह्मणि सत्वं पारमार्थिकं घटादि प्रपंचे सत्वं व्यावहारिकं शुक्तिरजतादौ सत्वं प्रातिभासिकमिति सत्तात्रैविध्यपक्षे घटादि सत्वप्रक्षस्य विषयांतरं नान्वेषणियं व्यावहारिक सत्वस्य घटादौ विद्यमानस्यैव तद्विषयस्य विविरुद्धापछदस्थले सर्वथा बाधितस्य पूर्वापछेदनिमितक प्रापश्रितशास्त्रस्यैत्याशंक्याह । इहापीति द्वैतसत्वप्रत्यक्षं घटादि द्वैते सतामलभमानेमपि न निरचकाशं पूर्वापछेदनिमितक प्रायश्चितशास्त्रस्य प्रयोगांतरे सावकाशत्ववदिहापि घटादि द्वैतादन्यत्र तदधिष्ठानभूतब्रह्मसतायां सावकाशत्व संभवादित्यर्थः ब्रह्मस्वरूपसतायाः प्रत्यक्षविषयत्वेकैयुतिक न्यायमभिप्रेत्याह । सर्वेति । सर्वप्रत्ययवेद्यत्वं सता विशेषणं लोके हि यद्यद्वस्तुमनसिस्कुलाभादेकैव सर्वत्र सतेति पक्षे व्यावहारिक सत्व प्रातिभासिक सत्वयोरभावात् सत्वप्रत्यक्षस्य विषयांतरमन्वेषणियमेव यथा उतरभार रति तत्सर्वं सदित्येव प्रतीयते । अतः सर्वस्य जगतः सता प्. २५अ) सर्वप्रत्ययवेद्यासा च सर्वाधिष्ठान ब्रह्मसतैव न तु तदतिरिक्ताकल्पनागौरवादितिभावः । पूर्वं कथं शब्दसूचितमाक्षेपमिदानीमुद्भावयति । यत्विति । वदरफल इति । यथा तत्र पूर्वं श्यामरूपमुत्पद्यते तत्रैव प्रश्चात् पूर्वरूपनाशपूर्वकं रक्तरूपमुत्पद्यते तथा पूर्वनिमितेन जातमात्रे पूर्वनैमितिक कर्तव्यता जायते याश्चात्ये न च निमितेन पूर्वकर्तव्यतानाशपूर्वकमुत्तरनैमितककर्तव्यतोत्पाद्यत इत्यर्थः । ततः किं तत्राह । रूपद्वयज्ञानवदिति । तथा चोतरभावि विरुद्धापछेदवत्यपि क्रतौ पूर्वनैमितिक शास्त्रस्य नाप्रामाण्यमिति तत्प्रामाण्य संरक्षणमेव तथा कल्पकमिति भावः । उतरनिमितो यजननात्प्राक पूर्वनैमितिक कर्तव्यता वस्तु तत्रासीदित्यत्र संमतिमाह । अत ऐवति पूर्वं वस्तुतस्तदभ्युपगमादेवेत्यर्थः । उतरभाविप्रतिहर्त्रःपछेदजननात्प्रागन्यथा अदक्षिणतया वस्तुतः कर्तव्योपि क्रतुः पश्चात् प्रतिहर्त्रऽपछेदरूपे निमिते सत्यत्थथा सर्ववे दक्षिणतया कर्तव्य इति शंककाभिप्रायानुसारेणवनार्थः ।। तत्र अंगस्य सतः कर्तव्यत्वं न च पश्चाद्भावि प्रतिहर्त्रऽपछेदवति क्रतौ पूर्वप्रवृतोद्गात्रःपछेदनैमितकस्य प्रायश्चितस्यांगत्वमस्ति । आहवनीपशास्त्रस्य पद होमातिरिक्त होमविषयत्ववद्युद्गातेति शास्त्रस्य पश्चाद्भवि प्रतिहर्त्रःपछेदरहित प्. २५ब्) क्रतु विषय त्वात् । उक्तं हि न्यायरत्नमालायां । साधारणस्य शास्त्रस्य विशेषविषयादिना संकोचः कॢप्तरूपस्य प्राप्तवाधो विधीयत इत्युक्त लक्षण प्राप्तवाध विवेचने । तत्रैवं सति शास्त्रार्थो भवति पश्चाद्भाव्युद्गात्रऽपछेदविधुर प्रतिहर्त्रःपछेदयतः क्रतोः सर्ववेद सदानमंगमेव मुद्गात्रऽपछेदेपि द्रष्टव्यमिति । यतु शास्त्रदीपीकावचनमुदाहृतं । तदपि तेनोत्पन्नमपि पूर्वप्रायश्चित ज्ञानं मिथ्या भवति बाधितत्वात् । उत्तरस्य तु न किंचिद्बाधकमस्तीति पूर्वकर्तव्यता बाध्यत्व प्रतिपादक ग्रंथोपसंहारपठिततात् ।। क्रमेण विरुद्धापछेद द्वयवति क्रतौ पूर्वनैमितिकस्य कर्तव्यतानि व्यातौमानं नास्तीति तत्र पूर्व प्रायश्चितस्यानंगत्वादनंगत्वं च द्बोधकमानाभावातन्न च पूर्वनैमितिकशास्त्रं ततृमानं । तस्य प्रयोगांतरेषु सावकाशत्वेन तत्राप्यंगबोधकत्वा भावादित्याशयेन दूषयति । तत्रेति । आहवनीयेति । आहवनीय जुहोतीति होममात्रे आहवनीयं विधातुं प्रवृतस्य सामान्यशास्त्रस्य होमविशेषे पदरूपाधिकरण विधायकविशेषशास्त्रवशेन पदहोमातिरिक्त होमेष्वाहवनीय विधायकत्ववदित्यर्थः । क्रतु विषयत्वादिति । तादृश क्रतावेव उद्गात्रऽपछेदनिमितक प्. २६अ) प्रायश्चितस्यागत्व बोधकत्वादित्यर्थः । उक्तार्थे संमतिमाह । उक्तहीति । कॢप्तरूपस्य प्रत्यक्षसिद्धस्य साधारणस्य होममात्रे प्राप्तस्याहवनीये जुहोतीति शास्त्रस्य विशेषशास्त्रेण यः संकोचः सः प्राप्तबाधोभिधीयते । यथा सामान्यशास्त्रयोरेव क्वचिद्विषये विरोधे सति पूर्वप्राप्तस्य पश्चात् प्राप्तं परत्वाहाधकं भवति यथा विरुधापछेदनिमितक शास्त्रयोस्तथा च विशेषविषयादि नेत्यादि पर्दे परत्वादि संग्रहार्थमिति श्लोकार्थः । तत्रैवं सुतीति । अपछेद स्थले उतरज्ञानेन पूर्वज्ञानबाधे सतीत्यर्थः । द्रष्टव्यमिति । पश्चाद्भावि प्रतिहर्त्रज्यछेदविधुरस्य उद्गात्रऽपछेदवतः । क्रतोरदक्षिणतया क्रतु समापनमंगमिति ज्ञातव्यमित्यर्थः । शास्त्रदीपिकावचनमपि न त्वदभिमतार्थ परं तत्पूर्वग्रंथविरोधात् पूर्वग्रंथार्थनिगमनरूपस्य त्वद्वराहृतवचनस्य पूर्वग्रंथानुसारेणैव नेतव्यत्वाच्चेत्याह तदपीति । तदपि कृत्वा चिंतामात्र परमिति संबंधः । कृत्वा चिंता परत्वे हेतुमाह । तेनेत्यादिना । तेनेत्यस्य कॢप्त पूर्वप्रवृति नैमितिक शास्त्रेणेत्यर्थः ।। निमितो यजननात्प्राऽऽन्निमितोपजननं विना निमितोपजननाभावे सत्यन्यथा कर्तव्योपीति कृत्वा चिंतामात्रपरं न तूतरनिमितोपजननात्प्राक् पूर्वनैमितिक कर्तव्यता वस्तुतः आसीदित्येवं प्. २६ब्) परं । पूर्वग्रंथसंदर्भविरोधापतेः । आस्तांमीमांसकमर्ययादा श्यामरक्तरूपे न्यायेन क्रमिक कर्तव्यता द्वयोत्यत्युपगमे को विरौधः । उच्यते किं तत्कर्तव्यत्वं यत्परनैमितिक कर्तव्यतोत्पत्यानिवर्तते । न तावत् पूर्वनैमितिकस्य कृति साध्यत्वयोग्यत्वं । तस्य पश्चादप्यनपायात् । नापि कलमुखं कृति साध्यत्वं । तस्य पूर्वमप्यजननात् । नापि यदननुष्टाने क्रतोर्वैकल्पं तत्त्वमंगत्वं वा ।। परोदाहृतवचनस्य शास्त्रदीपिकागतपूर्वग्रंथानुसारिणमर्थमाह । निमितोपजननं विनेति । क्रमेणविरुधापछेदद्वद्वयवति क्रतौ यदि द्वितीयमितोपजननं न स्या तदा पूर्वतिमितवशादन्यथा कर्तव्यो भवेदप्ययं क्रतुर्न त्वेतदस्तीत्ये तदर्थ परोयं ग्रंथ इत्यर्थः । पराभिमतं तद्वचनार्थं निषेधति । नन्विति । तिष्ठं तु मीमांसकाः दर्शित दर्शिनः कुशलैरस्माभिः कल्पितस्य श्रुत्यर्थस्य कानुपपतिरिति शंकते । आस्तामिति । उतरनैमितिक कर्तव्यतोत्पत्त्यानाश्यत्वेन पराधिमतं पूर्वनिमितिकस्य कर्तव्यत्व मे विवतावद्दर्निरूपं तथा हि तत्किं कृतिसाध्यत्वयोग्यत्वं किं वा फलमुखं कृति साध्यत्वं क्रतु वैकल्पप्रयोजकाननुष्ठानप्रतियोग्यनुष्ठान शालित्वं प्. २७अ) वा अंगत्वं वा अन्यद्वा किंचिदिति विकल्पं मनसिति धायाद्यं दूषयति । न तावदिति । अनुपायादिति । तथा चोत्तरनैमितिक कर्तव्यता कालेप्यनुवर्तमानायाः पूर्वकर्तव्यतायाः तन्नाश्यत्वाव्यारोनवदरफलगतश्यामुतारक्तरयोरिवतयोः क्रमिकत्वाभ्युपगमविरोध इति भावः । द्वितीयं दूषयति । नापि फलेति अजननादिति । तथा च पूर्वनैमितिक कर्तव्यताज्ञानस्य मीमांसकमर्ययादासिद्धं भ्रांतित्वमेवायातितनत्वदभिमतं श्यामताज्ञानस्येव प्रामत्वमितिभावः । तृतीयचतुर्थावनुदति । नापि यदिति । यस्यानुष्ठानाभावे क्रतोर्वैकल्पं भवति तत्क्रतुकैकल्पप्रयोजकाननुष्ठान प्रतियोग्यनुष्ठानशालित्वं पर्यवस्यति तत्वमित्यर्थः । यत्र प्रथममुद्गात्रःपछेदः पश्चात्प्रतिहर्त्रऽपछेदः तत्र उद्गात्रऽपछेदप्रायश्चिताननुष्ठानं क्रतु वैकस्त्यप्रयोजकं तत्प्रायश्चितं तस्य क्रतोरंगमिति च वदता वक्तव्यं । पूर्वप्रायश्चिताननुष्ठानस्य क्रतु वैकल्पप्रयोजकत्वं किं वैकल्पोत्पादकत्वं किं वा तद्व्यापकत्वं तद्व्याप्यत्वं वा नाद्यः । अभावरूपस्याननुष्ठानस्य उत्पादकत्वासंभवात् । क्रतु वैकल्पस्यापि क्रतूपकारप्रागभावरूपतया तदुत्पाद्यत्वायोगाच्च न द्वितीयः । यत्रोद्गातृमात्रापछेदवति क्रतौ तत्प्रायश्चितं कृतं कारणांतराद्वैकल्पं च तत्र क्रतु वैकल्प सत्वेपि उद्गात्रऽपछेदप्रायश्चिताननुष्ठानाभावेन व्यभिचारा तस्मात् तृतीयः परिशिष्यत इत्याशयेनाह ।। प्. २७ब्) अननुष्ठाने क्रतु वैकल्पप्रयोजकत्वस्य नियमविशेषरूपत्वेन कर्मांगत्वस्य फलोपकारितयासन्निपतितया वा कारणत्वविशेषरूपत्वेन च त्वयोः कादाचित्कत्वायोगेन स्वाभाविकत्वनिर्वाहाय पश्चाद्भाविविरुद्धापछेदाभाववतः क्रतोः पूर्वापछेदनैमितिकं मंगं तत्रैव तदनुष्ठानं क्रतु वैकल्पप्रयोजकं इति विशेषणीयतपापाश्चात्पापछेदवति क्रतौ पूर्वापछेदनैमितिके क्रत्वं गत्वस्य तदननुष्ठाने क्रतु वैकल्पप्रयोजकत्वस्य वा पाश्चात्पापछेदोत्पतेः पूर्वमसंभवात् । जहि वस्तु किंचित्कालं व्याप्यं पश्चान्नेति वा किंचित्कालंकारणं पश्चान्नेति वा क्वचिदृष्टं युक्तं वा नापि कर्तव्यत्वं नामधर्मांतरमेवागमापाययोग्यं कल्पनीयं मानाभावात् ।। नियमविशेषरूपत्वेनेति । व्याप्यत्वरूपत्वेनेत्यर्थः । फलोपकारित्वं परमापूर्वरूपफलं प्रत्यदृष्टद्वाराकारणत्वं यथा प्रयाजादीनां सन्निपत्योपकारकत्वं च यागस्वरूपोत्पादकत्वं यथा द्रव्यदेवत्वादेरस्तुतयो रुक्तरूपत्वमिति चेतत्र वक्तव्यं । क्रमिकविरुद्धापछेदद्वयवति क्रतौ पूर्वपापश्चिताननुष्ठानगतं प्. २८अ) क्रतु वैकल्पव्याप्यत्वरूपं तु वैकल्पप्रयोजकत्वं पूर्वप्रायश्चित गतमंगत्वं च द्वितीय निमित जननानंतरमप्यनुवर्ततेनवेति । आद्ये क्रतु वैकल्पप्रयोजकाननुष्ठान प्रतियोग्यनुष्ठानशालित्वरूपाः पूर्वप्रायश्चित कर्तव्यतायाः तत्प्रायश्चितगतांगत्वरूपकर्तव्यतायाश्च उतरनैमित कर्तव्यतानाश्यत्वाभ्युपगमभंगापतेः । द्वितीय कल्पे च पूर्वप्राथश्चिताननुष्ठानस्य क्रतु वैकल्पाव्याप्यत्वं द्वितीय निमित जननात् प्रागेवास्ति तज्जननानंतरं तु नास्तीति पर्यवस्यति । तथा पूर्वप्रायश्चित गतागत्वरूपा कर्तव्यता पूर्वप्रायश्चितस्य द्वितीय निमितजननात्प्रागेवास्ति पश्चात् तु नास्तीति पर्यवस्यति । तथा च व्याप्यत्वकारणात्वयोः स्वाश्रये कादाचित्कत्वमभ्युपगंतव्यं स्या तच्च न संभवतीत्यनुपदमेव वक्ष्यति । न हीत्यादिना । तस्मातयोर्यावदाश्रय भावित्वरूपस्वाभाविकत्वनिर्वाहायक्रमिकविरुद्धापछेदवक्त्र तु व्यावर्तकविशेषणमुभयत्रापि देषमित्याह । पश्चाद्भावीति । असंभवादिति । तथा च क्रमिकविरुद्धापछेदवति क्रतौ पूर्वनैमितिक कर्तव्यताज्ञानं भ्रांतिरेवेति भावः । तयोः कादाचित्कत्वायोगे हेतुमाह । न हीति । धूमादौ वह्न्यादि व्याप्यतापाः वह्न्यादौ धूमादिकारणतायाश्च कादाचित्कत्वादर्शनादित्यर्थः । नन्वदृष्टसपि युक्तं चेत्संग्राह्यमेव नेत्याह युक्तं वेति । वाकारो न जनुकर्षणार्थः । तयोः कादाचित्कत्वपक्षे धूमादौ कदाचिद्वह्न्यादेः व्याप्यत्वाभावापत्या तदभावप्रयोजकोपाधिमत्वप्रसंगः स्याद्वह्न्यादेः प्. २८ब्) कदाचिद्रूमादिकारणत्वाभापत्याधूमादिकार्यार्थिनो वह्न्याद्युपादाने तत्कारणकत्वाभावशंकयानिष्कंपप्रवृतिश्च न स्यादतस्तयोः कादाचित्कत्वमयुक्तमित्यर्थः । पंचमं निराकरोति । नापीति । प्रथमनिमितजननानंतरमेवा मम योग्यं द्वितीयनिमितजननानंतरमेवापाययोग्यं चेत्यर्थः ।। विरुद्धापछेदशास्त्रयोः पदाहवनीय शास्त्रवद्व्यवस्थोपपतेः । तस्मान्निरालंबनं क्रमिक कर्तव्यता द्वयोत्पति वचः । ननु चोपक्रमाधिकरणन्यायेनासंजातविरोधित्वात्प्रत्यक्षमेवा- गमाद्वलीयः किं न स्यात् । उच्यते । यत्रैक वाक्यता प्रतीयते तत्रैकस्मिन्नर्थे पर्यवसानेन भाव्यं अर्थभेदे प्रतितैकवाक्यताभंगप्रसंगात् । अतस्तत्र प्रथमसंसंजात प्रतिपक्षेण प्रजापतिर्वरुणा अमनयदित्याद्युपक्रमेणपरकृतिसरूपार्थ वादेन दातुरिष्टौ बुद्धिमधिरोपितायां तद्विरुद्धं यावतोश्चात्प्रतिगृह्णीया तावती वारुणांश्चतुः कपालान्निर्वपेदित्युपयं ह्यंहारगतं पदजातसुपसंजात प्रतिपक्षत्वाद्यथा श्रुतार्थसमर्पणेन तदेक वाक्यतामप्रतिपद्यमानसेकवाक्यतानिर्वाहायणिजर्थ- मंतर्भाव्य प्. २९अ) तदानुगुण्येनैवात्मानं लभत इत्युपक्रमस्य प्रावल्यं यत्र तु परस्परमेकवाक्यता न प्रतीयते तत्रैव पूर्ववृत्तमविगणप्यलब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थं बोधयत्ये वेति न तः त्वपूर्ववृतस्य प्रावल्यं । अत एव षोडशि ग्रहवाक्यं पूर्ववृतमविगणयय तद ग्रहवाक्यस्यापि स्वार्थबाधकत्वमुपैयते ।। पूर्वनैमितिकशास्त्रग्रावहनीयादि शास्त्रवदन्यत्र सावकाशतायाः । उक्त त्वेन तस्यै तादृश धर्मे मानत्वायोगादित्वाशयेनाह । विरुद्धेति । क्रमिकविरुद्धापछेदवति क्रतौ पूर्वनिमितिककर्तव्यत्वज्ञानस्य प्रमात्वासंभवात् सति विरोधे उतरज्ञानेन पूर्वज्ञानबाधे अपछेदन्याय उदाहरणं भवत्येवेत्याशयेनोपसंहरति । तस्मादिति । नन्वपछेद न्यायेन श्रुतेः प्रत्यक्षापेक्षया प्रावल्यावगति वदुपक्रमाधिकरणन्यायेन प्रत्यक्षस्यापि श्रुत्यपेक्षया प्रावल्यावगमाजयोर्बाध्य बाधकभावे विनिगमनाविरह इत्याशयेन शंकते । ननुवति । अज्ञंजातिति । यथा उपक्रमवाक्यार्थ ज्ञानकाले उपसंहारवाक्यार्थ ज्ञानाभावेन विरोधस्फुरणाभावादुपक्रमस्यासंजातविरोधित्वं तथा द्वत सत्वप्रवृतिकाले द्वैत मिथ्यात्वबोधक श्रुत्यर्थानुभवा भावेन प्. २९ब्) विरोधस्फूर्त्यभावात् । प्रत्यःक्षस्यासजातविरोधित्व मित्यर्थः । दृष्टांत वैषम्येण परिहरति । उच्यत इति । अथ मनय यदिति । अश्चंदतवान् इत्यर्थः परस्य प्रजापतेः कृतिरनुष्ठानं परकृतिः परकृतिपदं तत्प्रतिपादकवाक्यपरं तत्सदृशार्थवादेनेत्यर्थः । प्रजापतेः कर्माधिकाराभावेन वस्तु तस्तुत्प्रतिपादकत्वान्नावादिति स रूपेत्युक्तं । दातुरिति । स एतं वारुणं चतुष्कपालमपश्यत्तन्निरवपदित्युपक्रमे श्रवणादिति भावः । स इत्यनेन प्रकृतः प्रजापतिः परामृश्यते उपक्रमोपसंहारयोर्वरुणेष्टिरूपैकार्थस्पर्शित्वातयोरत्रैक वाक्यत्वमवगतं तत्संरक्षणायानयोरेकार्थपर्यवसानं वक्तव्यं । उपक्रमोदातुरिर्ष्टं विधे उपसंहारः प्रतिगृहीतुरिति यथा श्रुतवाक्यार्थाभ्युपगमे प्रतितैकवाक्यत्वं न स्यादित्यर्थः । णिजर्थमिति प्रतिगृह्णीयादित्यस्य प्रतिग्राहायेदित्यर्थः । एकवाक्य तु प्रतीति स्थल एवोतरस्य पूर्वापेक्षेत्युक्त्वार्थ दार्ढ्याय एकवाक्यत्वप्रतीत्यभावस्थले उतरेण पूर्वं नादर्त्तव्यमित्याशयेनाह । यत्र त्विति ।। किंतूभयोर्विषयांतराभावादगत्या तत्रैव विकल्पानुष्ठानमिष्यते । एवं चाद्वैतागमस्य प्रत्यक्षेणैकवाक्यताशंक्यभावात्पूर्ववृतमपि तदविगणयय स्वार्थबोधकत्वमप्रतिहतं । तदर्थ बोधजनने च पूर्वं परमजातत्वादबाधित्वैव जायते । परस्यानन्यथोत्पादान्नाऽद्याऽबाधैन संभव इत्यप प्. ३०अ) छेदन्यायस्यैव प्रवृतिर्नोपक्रमन्यायस्य । अत एव लोकेपि । प्रथमप्रवृतं शुक्तिरूप्यप्रत्यक्षमाप्तोपदेशेन बाध्यत इति । ननु तथाप्युपजीव्यत्वेन प्रत्यक्षस्यैवल्यं दुर्वारमपछेदशास्त्रयोर्हि न पूर्वं परस्योपजीव्यमिति युक्तः परेण पूर्वस्य बाध इह तु वर्णपदादि स्वरूपग्राहकतया मिथ्यात्वबोधकमागमं प्रतिप्रत्यक्षस्योपजीव्यत्वादागमस्यैव तद्विरुद्धमिथ्यात्वाः बोधकत्वरूपो बाधो युज्यते । न च मिथ्यात्व श्रुत्यावर्णपदादि सत्यत्वांशोपमर्द्देप्युपजीव्यस्वरूपांशोपमर्द्दाभावान्नोप- जीव्यविरोध इति वाच्यं । नेह नानास्ति किंचनेत्यादि श्रुतिभिः स्वरूपेणैव प्रपंचाभावबोधनात् ।। नत्वेकस्मिन्नति रात्र क्रतौ षोडशि ग्रह तदभावयोर्विरुद्धत्वाद्वाक्यद्वयं कथं प्रमाणं स्यादिति शंकते । किं त्विति । प्रयोगभेदेन विरोधसमाधानमाह । उभयोरिति । ननु ग्रहणवाक्यं तन्निषेधवाक्यं वक्रतु भेदेन व्यवस्थापितं किं न स्यादित्यत आह । विषयांतराभावादिति तयोर्वाक्ययारैकप्रकरणगतत्वादित्यर्थः । अगत्येति । समुच्चयस्याप्यसंभवेनेत्यर्थः । तत्रैवेति । अतिरात्र एवेत्यर्थः । एवं चेति । उपक्रम न्यायस्यैक वाक्यताक ग्रंथविषयत्वे सतीत्यर्थः । शंकाभावादिति । तथा च त्वप्रत्यक्षस्य श्रुत्युपेक्षया प्रावल्यशंकेति भावः प्. ३०ब्) अपछेदन्यायप्रवृतिं शंकासमाधानाभ्यां निरूप्यनिगमयति । तदर्थेति । पूर्वमिति । क्रमिकविरुद्धापछेदवति क्रतौ प्रथमापछेदनिमितकप्रायश्चित कर्तव्यता ज्ञानं पूर्वशब्दार्थः । उत्तरनैमितिक कर्तव्यताज्ञानं परशब्दार्थः पूर्वेण परस्य बाधाभावे हेतुमाह । अजातत्वादिति परस्यानन्यथा पूर्वज्ञान बाधमंतरेण उत्पत्ययोग्यत्वादाद्यस्याबाधेन परस्य संभवो नास्तीति श्लोकार्थः । पूर्वप्रवृतस्य प्रत्यक्षस्यापि परेणशब्देन बाधे उदाहरणमाह । अत एवेति । परत्वादेवेत्यर्थः । नन्विति । यद्यपीयं शंका न चैवमुपजीव्य प्रत्यक्षविरोध इत्यादिना निराकृतापूर्वमेव । तथापि तक्रोक्तं परिहारमाक्षेप्तुं तच्छंकापरिहारी पुनर्लिखितौ । तथापीति । आगमवत्प्रत्यक्षस्य स्वतः प्रावल्यो भावेपि इत्यर्थः । नन्वपछेद न्यायेन श्रुतेरपि प्रावल्यं दुर्वारं तथा च बाधकभावे विनिगमनाविरह एवेति शंक कस्य नेष्ट सिद्धिः प्रत्यक्षेण श्रुति बाधस्य तदिष्टत्वादित्याशंक्यापछेदन्यायानवतारं शंककः । प्रकृते दर्शयति । अपछेदशास्त्रयोर्हीति । उपजीव्यविरोधशंकायां पूर्वोक्तं परिहारं स्मारयति । न च मिथ्यात्व श्रुत्येति । श्रुत्या प्रपंच सत्यत्व मात्रप्रतिषेधे सति तथा परिहारो युज्यते सा तु प्रपंच स्वरूपमेव निषेधति । तथा च वर्णपदादि स्वरूपस्यैवाभावादुपजीव्यविरोधो दुर्वार इत्याह । नेहेति । इह ब्रह्मणि नानाभिन्नं वस्तु किंचिदपि नास्ति इत्यर्थः ।। अत्र केचिदाहुः । वृषमानयेत्यादि वाक्यं श्रवण प्. ३१अ) दोषाद्वृषभमानयेत्यादिरूपेण श्रुतवतोपि शाब्दप्रमिति दर्शनेन शाब्दप्रमितौ वर्णपदादि प्रत्यक्षं प्रमा भ्रमसाधारणमेवापेक्षितमित्यद्वैतागमेन वर्णपदादि प्रत्यक्षमात्रमपजीव्यस्वरूपोपमर्द्देपि नोपजीव्यविरोध इति । अन्ये त्वाहुः । शाब्दप्रमितौ वर्णपदादि स्वरूपसिद्ध्यनपेक्षायामपि अयोग्यशब्दात्प्रमित्यनुदयाद्योग्यतास्वरूपसिद्ध्यपेक्षास्ति । तदपेक्षायामपि नोपजीव्यविरोधः । नेह नानास्तीति श्रुत्यानानात्वनिषेधेपि यावद् ब्रह्मज्ञानमनुवर्तमानस्यार्थ क्रियासंवादिनोऽसद्विलक्षणप्रपंचस्वरूपस्यांगीकारात् । अन्यथा प्रत्यक्षादीनां व्यावहारिकप्रमाणानां निर्विषयत्व प्रसंगात् । न च स्वरूपेण निषेधे कथं प्रपंच स्वरूपस्यात्मलाभः निषेधस्य प्रतियोगि प्रतिक्षेपरूपत्वे व्याघातादिति वाच्यं ।। स्वरूपो मर्दमुपेत्यैवोपजीव्यविरोधं परिहरति । अत्र केचिदाहुरिति । प्रपंच सत्यत्वपक्षेपि वृषमानयेत्युदाहरणानुरोधेन भ्रमप्रमासाधारणमेव शब्दप्रत्यक्षं शाब्दबोधोपजीव्यमिति वक्तव्यमस्माकं तु मिषेध श्रुति प्रामाण्यात् । सर्वत्र भ्रमरूपमेव प्. ३१ब्) प्रत्यक्षशाब्दबोधे व्यवहोरांतरेषु च कारणमिति विशेष इति नोपजीव्यविरोधः शब्दस्वरूपस्यानुपजीव्यत्वादित्यर्थः । उपजीव्यविरोधं प्रकारांतरेण परिहरति । अन्ये त्वाहरिति । प्रथमं पूर्वमते अस्वरसंदर्शयति । शाब्दप्रमितिविति । अनपेक्षायामयीति । अत्रापि शब्देन । वस्तुतो न पेक्षानास्तीति सूचितं । तथा हि पूर्वमते प्रत्यक्षज्ञानमात्रसुपजीर्व्यविषयोवर्णपदादिलक्षणो नोपजीव्य इत्युक्त तदयुक्तं निर्विषय प्रत्यक्षज्ञानायोगादतो वर्णपदादि स्वरूपमपि स्वीकर्तव्यमेव तथा च उपजीव्यविरोधे पूर्वसमाधानं न साधिति भावः । अस्तीति । तथा च योग्यताया उपजीव्यत्वमवर्ज्जनीयमिति तद्विरोधः पूर्वमते आवश्यक इति भावः । न चैत्वावता पूर्ववाद्यभिमतस्य कृत्स्नप्रपंचस्य रूपं न सिध्यतीति वाच्यं । शाब्दप्रमिति लक्षणकार्यानुरोधेन ब्रह्मातिरिक्तयोग्यता स्वरूअपसिद्धौतद्वदेवजलाहरणादि कार्यानुरोधेन घटादि स्वरूपमपि सिध्यत्येवेत्याशयात् । ननु यदि चैतन्य व्यतिरिक्तं कृत्स्नं जगदुपेयते तर्हि तद्ग्राहि प्रत्यक्षादेः सविषयस्योपजीव्यत्वा तद्विरोध इत्यत आह । तदपेक्षायामपीति निषेध श्रुत्यर्था विरुद्धस्य प्रपंचस्वरूपस्यास्माभिरप्यंगीकारान्नास्माकं मते उपजीव्यविरोध इति भावः । असद्विलक्षणस्वरूपानंगीकारे बाधकं पूर्वमतानुवर्तिनं प्रत्याह अन्यथेति । प्रपंचसत्यत्ववादी शंकते । न चेति । ननु ब्रह्मणि प्रपंचस्तन्निषेधश्च युपदास्तां को दोष इत्याशंक्याह । निषेधस्येति । भूतलादौ घटाद्यभावस्य प्रतियोगि स्थिति प्. ३२अ) विरोधित्वदर्शनादितिभवः । व्याघातादिति निषेधत्वव्याघातादित्यर्थः ।। शुक्ता च पीदं रजतं नेदं रजतमिति प्रतीति द्वयानुरोधेनाधिष्ठान गताध्यस्ताभावस्य बाधपर्यंतानुवृतिका सद्विलक्षणप्रतियोगिस्वरूपसहिष्णुत्वाभ्युपगमात् । एतेन प्रपंचस्य स्वरूपेण निषेधे शशशृंगवदसत्वमेव स्यादिति निरस्तं । ब्रह्मज्ञाननिवर्त्यस्वरूपांगीकारेण वैययम्यात् । न चास्याध्यस्तस्याधिष्ठाने स्वरूपेण निषेधेऽन्यत्र तस्य स्वरूपैणनिषेधः स्वतः सिध इति तस्य सर्वदेशकालसंबंधि निषेधप्रतियोगित्वापत्याऽसत्वं दुर्वारं सर्वदेशकालसंबंधिनिषेध प्रतियोगित्वमसत्वमित्येवासत्वनिर्वचनात् । विधांतरेण तन्निवंचनायोगादिति वाच्यं । असतः सर्वदेशकालसंबंधिनिषेधप्रतियोगित्वमुपगछता तस्य तथात्वे प्रत्यक्षस्य सर्वदेशकालयोः प्रत्यक्षीकरणायोगेन आगमस्य तादृशागमानुपलंभेन च प्रमाणयितुमशक्यतया अनुमानमेव प्रमाणयितव्यमिति । तदनुमाने यत्सद्व्यावृतं प्. ३२ब्) लिंगं वाच्यं । तस्यैव प्रथमप्रतीतस्यासत्वनिर्वचनोपपतेरित्याहुः ।। कल्पितपदार्थप्रतियोगिकाभावस्याधिष्ठानादन्यत्र सदाप्रतियोगिविरोधित्वेष्वधिष्ठाने कंचित्कालं प्रतियोगि स्थिति सहिष्णुत्वं स्वभावः कल्प्यते । न च तथा कल्पकाभावः । द्वैतग्राहिप्रत्यक्षादे निषेध श्रुतेश्च मानत्वाद्यथापरमते घटात्यंताभावस्य स्वाधिकरणमात्रे प्रतियोगि प्रतिक्षेपकत्वेपि संयोगाद्यत्यंताभावस्य क्वचित्स्वाधिकरणे प्रतियोग्यप्रतिक्षेपकता प्रतीति बलात् स्वीक्रियते । तद्वदिति । समाधानाभिप्रायं मनसि निधाय स्वमतसिद्धं दृष्टांतं सोपपतिकमाह । शुक्ताविति । एतच्छब्दार्थमाह । ब्रह्मज्ञानेति । वैषम्यादिति । शशशृंगादि वैषम्यादित्यर्थः । अन्यत्रेति । अधिष्ठानादन्यत्रदेशे काले वेत्यर्थः । ननु प्रकारांतरेणासत्वनिर्वचनमस्तु तथा च प्रपंचे तदभावान्न तस्या सत्व प्रसक्तिरिति नेत्याह । विधांतरेणेति । प्रसिद्धाऽसतः शशशृंगादेरुक्तलक्षणे सिद्धे सति प्रपंचेपि तल्लक्षण सत्वा तस्याप्यसत्वापत्यातद्विलक्षणत्वाभ्युपगमपूर्वकवैषम्योक्तिरयुक्तेति शंकितुं शक्यंतदेवां सिद्धं मानाभावात् । कथं मानाभावः । इति चेत् तत्र वक्तव्यं किमसतः । उक्तलक्षणयोगे प्रत्यक्षं प्रमाणं किं वा आगमः । अथवानुमानमिति विकल्पं मनसि निधायाद्यद्वितीययोर्निराकरण पूर्वकं तृतीयं परिशेषयति । असत इत्यादिना । प्रत्यक्षस्यागमस्य च प्रमाणयितुमशक्यतयेति संबंधः । तादृशेति शशशृंगादिकं प्. ३३अ) सर्वदेशकालसंबंधि निषेध प्रतियोगीत्येवमाकारकागमानुपलंभेन चेत्यर्थः । अस्तु तर्हि परिशिष्टमनुमानमेव तत्र मानमिति नेत्याह । तदनुमान इति । यदिति । निःस्वरूपत्वमित्यर्थः । वाच्यमिति । त्वयेति शेषः विनिगमना विरहं परिहरति । प्रथम प्रतीतस्येति । उपपतेरिति । तथा च प्रपंचस्य ज्ञाननिवर्त्य स्वरूपांगीकारात् । निःस्वरूपत्वलक्षणाऽसत्वं नास्तीति तस्य शशशृंगादि वैषम्योक्तिर्मुक्तेतिभावः ।। अपरे तु नेह नानास्तीत्यादि श्रुतेः सत्वत्वेन प्रपंच निषेधे एव तात्पर्यं न स्वरूपेण निषेधस्य स्वरूपा प्रतिक्षेपकत्वे तस्य तन्निषेधत्वायोगात् । तत्प्रतिक्षेपकत्वे प्रत्यक्ष विरोधात् । न च सत्यत्वस्यापि सन् घट इत्यादि प्रत्यक्षसिद्धत्वान्न तेनापि स्वरूपेण निषेधो युक्त इति वाच्यं । प्रत्यक्षस्य श्रुत्यविरोधाय सत्यत्वाभासरूप व्यावहारिक सत्यत्वविषयत्वोपपत्तेः । न चैवं सति पारमार्थिक सत्य त्वस्य ब्रह्मगतस्य प्रपंचे प्रसक्त्याभावा तेन रूपेण प्रपंचनिषेधानुपपतिः । यथा शुक्तौ रजताभासप्रतीतिरेव सत्य रजतप्रसक्तिरिति तन्निषेधः । अत एव नेदं रजतं किंतु तत् नेयंमदीयागौः । किंतु सैव नात्र वर्तमानश्चैत्रः किंत्वपवरक प्. ३३ब्) इति निषिध्यमानस्यान्यत्र सत्वमवगम्यते । एवं सत्यत्वाभासप्रतीतिरेवसत्यत्व प्रसक्तिरिति तन्निषेधोपपतेः । अतो वर्णपदयोग्यतादि स्वरूपोपमर्द्दशंकाभावान्नोपजीव्यविरोध इत्याहुः ।। उपजीव्यविरोधं प्रकारांतरेण परिहरति । अपरे त्विति । अयोगादिति । तथा चात्रावाधिकरणमात्रे प्रतियोगि स्थित्ययोगात् । प्रपंचाधिकरणे ब्रह्मणि तदभावो न निषेध श्रुतिगम्य इति भावः । ननु सत्यत्वेन ब्रह्मणि प्रपंच निषेध इति मतेपि किं सत्यत्वविशिष्टप्रपंचाभावो ब्रह्मणि विवक्षितः किं वा सत्यत्व धर्मावछिन्नाप्रतियोगिना कः प्रपंचमात्र प्रतियोगिको निषेधो ब्रह्मणि विवक्षितः । नोभयथापि संभवति प्रतियोग्यधिकरणे तदभावानंगीकारात् प्रपंचे सत्यत्वस्यानंगीकारेण तस्य प्रतियोगि कोटिप्रवेशप्रतियोगितावछेदकत्वयोरसंभवाच्चेति चेदुच्यते । प्रपंचे धर्मणि सत्यत्व निषेधे श्रुतेस्तात्पर्यमित्ये तत्मताभिप्रायः । न तु यथा श्रुतार्थे तात्पर्यमस्य मतस्यात एव वक्ष्यति सत्यत्वाभासप्रतीतिरेव सत्यत्वप्रसक्तिरिति तन्निषेधोपपतेरिति । अत्र हि वाक्ये प्रपंच एव सत्यत्व निषेधः स्पष्टं प्रतीयते अतो नास्मिन्मते प्रतियोगि तदभावयोरेकाधिकरणत्वशंकावकाशः । ननु ब्रह्मणि प्रपंच स्वरूपं यथा प्रत्यक्षादि सिद्धमस्ति तथा प्रपंचे सत्यत्वमपि प्रत्यक्षादि सिद्धमस्त्येवेति प्. ३४अ) तन्निषेधेपि श्रुतेस्तात्पर्यं कल्पयितुं न शक्यमिति शंकते । न चेति । प्रत्यक्षादि ग्राह्यं प्रपंच सत्यत्वं ब्रह्मसत्यत्ववत् । पारमार्थं न भवति । तथा सति उपक्रमाद्यवगत स्वार्थतात्पर्यवतीनां भूयसीनां निषेध श्रुतीनां निर्विषयत्वप्रसंगात् किंतु व्यावहारिक सत्यत्वादिरूपं तत्कल्प्यते ततो न सत्यत्वनिषेधानुपपतिरिति परिहरति प्रत्यक्षस्येति । न चैवं सतीति । प्रपंच सत्यत्वस्य व्यावहारिकत्वांगीकार इत्यर्थः । दृष्टांतपूर्वकं प्रसाक्तिमाह । यथाप्युक्ताविति । नेदं रजतमिति निषेध प्रत्यक्षस्य सत्यरजतनिषेधविषयकत्वं वक्तव्यं प्रातिभासिकरजताधिकरणे शुक्ति शकले कल्पितरजताभावस्यास्मिन्मते नंगीकारेण बाधप्रत्यक्षस्य तद्विषयत्वायोगादितिभावः । शुक्त्यादौ निषिध्यमानस्य देशांतरस्थत्वे नियामकमाह । अत एवेति ।। अन्ये तु ब्रह्मणि पारमार्थिक सत्यत्वं प्रपंचे व्यावहारिक सत्यत्वं सत्यत्वान्नाभासरूपं । शुक्तिरजतादौ प्रातिभासिक सत्यत्वं ततोपि निकृष्टमिति सता त्रैविध्यं नोपेयते । अधिष्ठान ब्रह्मगतपारमार्थिकसतानुवेधादेवघटात्पदा- सत्यत्वाभिमानोपपत्यासत्यत्वाभासकल्पनस्य निःप्रमाणकत्वात् । एवं च प्रपंचे सत्यत्वः प्. ३४ब्) प्रतीत्यभावाततादात्म्यापन्ने ब्रह्मणि तत्प्रतीतेरेवाऽविवेकेन प्रपंचे तत्प्रसक्त्युपपतेश्च सत्यत्वेन प्रपंचनिषेधेनोपजीव्यविरोधो न वा प्रसक्तनिषेधता न च ब्रह्मगतपारमार्थिक सतातिरेकेण प्रपंचे सत्वाभासानुपगमे व्यवहित सत्यरजतातिरेकेण शुक्तौ रजताभासोत्पतिः किमर्थमुपेयते इति वाच्यं व्यवहितस्यासन्निकृष्टस्यापरोक्ष्यासंभवातन्निर्वाहाय तदुपगमात् । नन्ववं प्रतिबिंबभ्रमस्थलेपि ग्रीवास्थमुखातिरेकण दर्पणे मुखाभासोत्पतिरुपेया स्यात् । स्वकीये ग्रीवास्थे मुखेनासाद्यवछिन्नप्रदेशापरोक्ष्यसंभवैपि नयनगोलकललाटादि प्रदेशापरोक्ष्यायोगात् । प्रतिबिंब भ्रमे नयनमोलकादि प्रदेशापरोक्ष्यदर्शनाच्च ।। प्रपंचे पारमार्थिक सत्यत्वस्य प्रसक्त्यभावान्निषेधानुपपतिरिति शंकायां सत्वत्रैविध्यमतमालंव्य परिहारो दर्शितः । इदानीं सर्वत्र सतैक्यपक्षे प्रसक्त्यभावशंकां परिहरति । अन्ये त्विति । प्रथसंसता त्रैविध्यपक्षं दूषयति । ब्रह्मणीत्यादिना । ब्रह्म गतेति । पारमार्थिक सतायाः ब्रह्मरूपत्वेपि भेदकल्पनया तद्गत त्वोक्तिः । अनुवेधा देवेति प्. ३५अ) प्रतीतेरेवेत्यर्थः । एवं चेति सन् । घट इत्यादि प्रतीतेर्घटादि तादात्म्यापन्ने सन्निति प्रतियमाने सद्वस्त्वंशरूपे ब्रह्मण्येव सता विषयकत्वं मृद्वट इति प्रतीतेरिव सृदंशे मृत्वविषयकत्वं ब्रह्मणि सताप्रतीति वशादेव घटादौ सत्व व्यवहार इति स्थिते सतीत्यर्थः । यत्तु भेदवादिभिरुच्यते प्रपंचे श्रुत्यासत्यत्वनिषेधो न संभवति प्रपंचे सत्यत्व गोचरप्रत्यक्षप्रतीति विरोधादिति । तत्र हेत्वसिद्धेरित्याह । प्रपंच इति यच्चोक्तत्त?ह्याप्रसक्तप्रतिषेध इति तत्राह । ततादात्म्येति । तत्पदं घटादि परं प्रपंचब्रह्मणोर्भेदाग्रहेण ब्रह्मणि या सता प्रतीतिः सैव प्रपंचे संत्व प्रसक्तिर्भवति । नन्मूलश्च तत्र व्यवहार इत्यर्थः । नोपजीव्यविरोध इति । श्रौत मिथ्यात्वबोधं प्रत्युपजीव्यस्य वर्णपदादि प्रत्यक्षस्य सालंबनत्वाभ्युपगमातदबाधाच्चेति भावः । ननु यदि घटादि प्रपंचे ब्रह्मसतयैव सत्व व्यवहार सिद्धौ पृथक् सत्वं न कल्प्यते तत्कल्पने मानाभावाल्लाघवाच्च तर्ह्यति प्रसंग इति शंकते । न चेति । किमर्थमिति तत्कल्पने गौरवा तथा चानिर्वचनीयरजताद्यसिद्धिरिति शंकाभिप्रायः । गौरवं प्रामाणिकत्वान्न दोषायेत्याशयेन परिहरति । व्यवहितस्येति असन्निकृष्टस्येति । अभिव्यक्तचैतन्यतादात्म्य शून्यस्येति यावत् । नन्वेवमिति । आपरोक्ष्यापरजताभासोत्पत्यभ्युपगम इत्यर्थः । प्रतिबिंबस्य बिंबाभिन्नत्वेपि प्रतिबिंबापरोक्ष्यं संभवतीति न सा स्वीकार्येत्यत आह । स्वकीय इति मुख इति बिंबत्वेनोपेत इति शेषः । नासादीति तदंशे सन्निकर्ष संभवादित्यर्थः ।। ३५ब्) न च बिंबातिरिक्तप्रतिबिंबाभ्युपगमे । इष्टापतिः । ब्रह्मप्रतिबिंब जीवस्यापि ततो भेदेन मिथ्यात्वापते । अत्र विचरणानुसारिणः प्राहुः । ग्रीवास्थ एव मुखे दर्पणोपाधि सन्निधानदोषाद्दर्पणस्थत्व प्रत्यऽऽनमुखत्वबिंबभेदानामध्याससंभवान्न दर्पणे मुखाध्यासः कल्पनीयो मौरवोत् । दर्पगिं मुखं नास्तीति संसर्गमात्र बाधात् मिथ्यावस्त्वंतरत्वे चेदं मुखमिति स्वरूपबाधापतेः । दर्पणे मम मुखं भातीति स्वमुखाभेदप्रत्यभिज्ञानाच्च । न च ग्रीवास्थमुखस्याधिष्ठानस्यापरोक्ष्यासंभवः ।। यदि बिंबप्रतिबिंबयोरभेदे प्रतिबिंबापरोक्ष्यं स्वमुखप्रतिबिंब स्थलेन संभवति । तर्हि प्रतिबिंबो बिंबात् । भिन्नः मिथ्याभूत एवास्तुकाहातिरद्वैत वादिन इति शंकते । न चेति । तस्य हानिं पूर्ववादी दर्शयति । ब्रह्मप्रतिबिंबेति । जीवो ब्रह्मणः सकाशात् । स्वरूपतोभि च ते ब्रह्मप्रतिबिंबत्वात् । सामान्य व्याप्तौ मुखप्रतिबिंबवततश्च जीवो मिथ्या ब्रह्मभिन्नत्वात् । घटादिवदित्यर्थः । बिंबप्रतिबिंबयोर्लोके भेदाभावान्नोक्तदोष इति परिहरति । अत्र विवरणेति । ननु दर्पणे मुखस्याप्यध्यासो न कल्पनीयः गौरवादित्ययुक्तं प्रतिबिंबमुखे दर्पणे मुखमिति दर्पणस्थत्वा यौगा तथा प्रतिबिंबमुखस्य ग्रीवास्थमुखं प्रतिश्राभिमुख्यानुभवात् । मुखप्रतिमुखयोरभेदपक्षे प्. ३६अ) तस्यैव तदाभिमुख्यायोगात् । तयोर्भेदस्यैव स्फुटमुनुभवाच्च । तस्मादनुभवत्रयानुगेधेनोपाधावनिर्वचनीय प्रतिबिंबाध्यास उपेयः । गौरवं च प्रामाणिकत्वान्नदोषावहमित्याशंक्य तदनुभवत्रयस्यान्यथा सिद्धिमाह । ग्रीवास्थ एवेति । धर्मिकल्पनापेक्षया वहधर्मकल्पनयपिस्तत्वितिभावेः । ननु प्रतिबिंबस्य बाधदर्शनान्मिथ्यात्वमित्याशंका हेतु सिद्धिमाह । दर्पण इति । मात्र पदं प्रतिबिंबस्वरूपबाधाभावार्थकं बाधादित्यनंतरं दर्पणस्थत्वरूपसंसर्गस्य मिथ्यात्वं प्रतिबिंबस्य सत्यत्वं चेति शेषः । विपक्षे दोषमाह । मिथ्यावस्त्वंतरत्व इति । नन्वेवं भूतले घटो नास्तित्यत्रापि घटसंसर्गाभाव एव प्रतीयेतेति चेन्न इष्टापते । ननु तर्हि भूतले घटाभावो न सिद्ध्येदिति । चन्न घटाभाववद्भूतलमिति प्रतीत्या तत्संभवादितिभावः । बिंबप्रतिबिंबयोर्भेदमात्रकल्पनायां स्वरूपाभेदप्रत्यभिज्ञानमप्यनुकूलयति । दर्पणे ममेति । लाघवसमुच्चयार्थश्चकारः । यद्वा प्रतिबिंबस्य सत्यत्वेति बिंबाभिन्नत्वं हेतुमभिप्रेत्य तत्र मानमाह । दर्षणे ममेति । चकारो बाधान्नाबसमुच्चयार्थः । तथा च न प्रतिबिंबस्य मिथ्यात्वं बाधाभावात् । बिंबाभिन्नत्वाच्चेत्यर्थः । एवं लोके प्रतिबिंबस्य बिंबाभिन्नत्व सत्य त्वयोः । प्रसाधनेन ब्रह्मप्रतिबिंबस्य जीवस्य ब्रह्मभिन्नत्व मिथ्यात्वप्रसंगो निरस्तः । यतु तयोरभेदपक्षे ग्रीवास्थ सुखस्य नयनगोलकादि प्रदेशेषु स्वचक्षः सन्निकर्षाभावेन प्रतिबिंबस्य साकल्पेन प्रत्यक्षत्वं । न संभवतीत्युक्तं तदनूद्य निराकरोति । न चेत्या प्. ३६ब्) ना अधिष्ठानस्येति । प्रतिबिंबत्व प्रत्यऽऽन्मुखत्वदर्पणस्थत्व प्रतिबिंबभेदानां कल्पनाधिष्ठानस्येत्यर्थः ।। उपाधि प्रतिहत नयनरश्मीनां परावृत्यबिंबग्राहकत्व नियमाभ्युपगमाल्लतादिवत् । तन्नियमानभ्युपगमे परमाणोः कुड्यादि व्यवहितस्थूलस्यापि चाक्षुष प्रतिबिंबभ्रमप्रसंगात् । न चाव्यवहितस्थूलोद्भूतरूपवत् एव चाक्षुषप्रतिबिंबो भ्रमो नान्यस्येति नियम इति वाच्यं बिंबस्थौल्योद्भूतरूपयो कॢप्तेन चाक्षुष ज्ञानजननेनोपयोगसंभवेपि । विधांतरेणोपयोगकल्पनानुपपतेः ।। असंभवो न चेत्यत्र हेतुमाह । उपाधि प्रतिहतेति । नयन रश्मयः चक्षुर्गोलकाद्वहिर्न्निर्गत्य दर्पणाद्युपाधिं प्राप्यते न प्रतिहताः पुनरावृत्यग्रीवास्थमुख तदवयवैः संसृज्यंते ततश्चाभिमुख पुरुषांतरमुखसाक्षात्कारत् साकल्पेन स्वग्रीवास्थमुखसाक्षात्कारः संभवति । न च परावृत्तनयनरश्मीनां गोलकद्वारां तत्प्रवेशस्यैवान्यत्रकॢप्तत्वादत्र तथा कल्पनं गौरवग्रस्तमिति वाच्यं । प्रतिबिंबोत्पति वादिनापि चक्षुः सन्निकृष्टस्यैव बिंबताया वक्तव्यत्वेन उक्तनियमस्य तेनापि स्वीकार्यत्वादतः संप्रतिपन्नत्वात् गौरवं न दोषायेतिभावः । प्. ३७अ) ननु प्रतिबिंबाध्यासवादिना सन्निकृस्यैव बिंबत्वं नांगीक्रियते । अतो ग्रीवास्थमुखस्य बिंबत्वनिर्वाहाय स्वचक्षुः सन्निकर्षा पेक्षाभावान्नायं नियमस्तेनादर्तव्य इत्यत आह तन्नियमानभ्युपगम इति । बिंबसन्निकर्षस्य चाक्षुष प्रतिबिंबाध्यासा हेतुत्वे व्यवहितस्यापि चाक्षुष प्रतिबिंबप्रसंगः । विनानेन विशेषणेन यस्य कस्यापि प्रतिबिंबापत्या परमाणोर्वायोश्च तत्प्रसंगादित्यर्थः । प्रतिबिंबाध्यासे बिंबसन्निकर्षस्य हेतुत्वं विनैव उक्ताति प्रसंगं परिहरति प्रतिबिंबाध्यासवादी न चाव्यवहितेति । तथा च कुड्यादि व्यवहितमुखादेः परमाणोर्वायोश्च न चाक्षुष प्रतिबिंबापतिरिति नावः । द्रव्यचाक्षुषं प्रतिद्रव्यगतमहत्वोद्भूतरूपयोः कारणत्वं कॢप्तं तथा कुड्यादेः सन्निकर्ष विघटन द्वाराबाह्यवस्तु गोचर प्रत्यक्ष प्रतिबंधकत्वं कॢप्तं तथा च बिंबप्रतिबंबयोरभेदपक्षे बिंबचाक्षुषस्यैव प्रतिबिंबचाक्षुषत्वात् । बिंबभूतमुखादि गतयो स्थूलत्वोद्भूतरूपयोः कॢप्तचाक्षुष प्रत्यक्षादन्यत्रकारणत्वं न कल्पनीयमिति लाघवं शुक्तिरजतादिवता साक्षिभास्य प्रतिबिंबाध्योसोत्पति पक्षे तु बिंबसन्निकर्षस्य प्रतिबिंबाध्यास हेतुत्वानुपगमेन वायुपरमाण्वोश्चाक्षुष प्रतिबिंबवारणाय बिंबभूतद्रव्यगतयोर्महत्वोद्भूतरूपयोः स्वाश्रयगोचरचाक्षुष इव स्वाश्रयद्रव्यरूप बिंब हेतुक प्रतिबिंबाध्यासोत्पत्तावपि हेतुत्वं कल्पनीयमिति गौरवं । तथा बिंबप्रति प्. ३७ब्) बिंबाभेष्टपक्षे नयनरश्मीनां परावृत्यबिंबसंबंधाभ्युपगमेन प्रतिबिंबभ्रमस्थलेपि बिंबसन्निकर्षस्य हेतुत्व सत्वात् । घटादि चाक्षुष इव प्रतिबिंब चाक्षुषेपि कुड्यादेः सन्निकर्ष विघटन द्वारैव प्रतिबंधकत्वं कल्पनीयमिति लाघवं प्रतिबंबाध्यास पक्षे तु बिंबसन्निकर्षस्य हेतुत्वानुपगमेन कुड्यादेः सन्निकर्षविघटकत्वस्य कॢप्तस्य प्रतिबिंबभ्रमस्थले वक्तुमशक्यतया प्रतिबिंबाध्यासंप्रति साक्षादेव प्रतिबंधकत्वं व्यवहितस्य प्रतिबिंबवारणाय कल्पनीयमिति गौरवमित्याशयेन दूषयति । बिंबस्थौल्ययेति । विधांतरेणेति । स्वाश्रयभूतद्रव्यद्वाराप्रतिबिंबाध्यासोत्पतावुपयोगकल्पनानु- पपत्तेरित्यर्थः ।। कुड्यादि व्यवधानस्य प्रतिहत नयनरश्मिसंबंध विघटनं विनैवेह प्रतिबंधकत्वे तथैव घटप्रत्यक्षादि स्थलेपि तस्य प्रतिबंधकत्वसंभवेन चक्षुः सन्निकर्षमात्रस्य कारणत्वलोपप्रसंगाच्च दर्पणे मिथ्यामुखाध्यासवादिनापि कारणत्रयांतर्गत संस्कारसिद्ध्यर्थं नयनरश्मीनां कदाचित् परावृत्य स्वमुखग्राहकत्व कल्पनयैव पूर्वानुभवस्य समर्थनीय त्वाच्च । न च नासादि प्रदेशावछिन्न पूर्वानुभवा प्. ३८अ) देवसंस्कारोपपतिः । तावतानयनगोलकादि प्रतिबिंबाध्यासानुपपतेः । तटाक सलिले तदविचपि समारूढादृष्टचरपुरुषप्रतिबिंबाध्यासस्थले कथमपि पूर्वानुभवस्य दुर्वचत्वात् । एवं चोपाधिप्रतिहत नयनरश्मीनां बिंबं प्राप्यतद्ग्राहकत्वे वश्य वक्तव्ये । फलवलादर्पणाद्यभिहतानोमवबिंबं प्राप्यतद्ग्राहकत्वं । न शिलादिप्रतिहता नामनति स्वछताम्रादि प्रतिहतानां मलिनोपाधिसंबंधदोषान्मुखसंस्थानविशेषाग्राहकत्वं । साक्षात् सूर्यं प्रेप्सूनामिवोपाधिं प्राप्यनिवृतानां न तथा सौरतेजसा प्रतिहतिति बिंबसूर्यावलोकने साक्षातदवलोकन इव नाशक्यत्वं ।। इहेति प्रतिबिंबभ्रमस्थल इत्यर्थः । न केवलमकॢप्तकल्पनागौरवदोषः दोषांतरमपि प्रसज्यत इत्याह । तथैवैति । सन्निकर्षविघटनं विनैवेत्यर्थः । तथा चोक्त गौरवादि दोषपरिहाराय परावृत्येति नियम उपेयः बिंबसन्निकर्षायेति भावः । चाक्षुषप्रतिबिंबभ्रमस्थले बिंबसन्निकर्षस्य त्वयापि वाच्य त्वात् । परावृत्येति नियमोनाप्रयोजक इत्याह । दर्पणे मिथ्येति । कारणत्रयेति । दोषसंप्रयोग प्. ३८ब्) संस्काररूपकारणत्रयेत्यर्थः । स्वमुखस्य स्वचक्षुः सन्निकर्षानुपगमे दर्पणादावारोप्य प्रतिमुखसजातीइय स्वमुखसाक्षात्कारस्य कदाप्यसंभवेनाध्यासकारणभूतस्यारोप्य साजातीय गोचर पूर्वानुभवजन्य संस्कारस्यालाभात् । प्रतिबिंबरूपाद्यध्यासस्योत्पतिर्न स्यादतः स्वमुखस्य स्वचक्षुः सन्निकर्षलाभाय उक्तनियम आदर्तव्य इति भावः । तावतेति । नासदिप्रदेशावछिन्नपूर्वानुभवमात्रेणेत्यर्थः । इदमपि क्वचिद्दुर्ल्लभमित्याह । तटाकेति । अदृष्ट चरेति कदाप्यदृष्टेत्यर्थः । एवं चेति उक्तप्रकारेणेत्यर्थः । उक्त नियमस्याति प्रसंगं परिहरति । फलवलादिति । दर्पणादौ प्रतिबिंबभ्रमदर्शनलक्षणफलाक्षुरोधादित्यर्थः । एवकार व्यवछेद्यमाह । न शिलादीति । शिलादौ प्रतिबिंबादर्शनादितिभावः । नन्व स्वछताम्रादेः प्रतिबिंबग्राहित्वेन शिलादि वैलक्ष्यण्य सत्वा तत्प्रतिहंतानां दर्पणादि प्रतिहतानामिव नयनरश्मीनां साकल्पेन मुखादि ग्राहकत्वं स्यादत आह । मलिनोपाधीति । संस्थानविशेषः नयनगोलकादिः फलवलानुसारिपदार्थ स्वभावकल्पनेन दोषांतराण्यपि निरस्तानीत्याह । साक्षादित्यादिना । साक्षा तदिति । साक्षात्सूर्यावलोकन इत्यर्थः । ननु प्रतिबिंबोपाधिभूतजलेन प्रतिहतानां नयनरश्मीनां बिंबदेशप्राप्त्युपगमेज ।। प्. ३९अ) जलाद्युपाधिसन्निकर्षे केषांचिदुपाधिप्रतिहतानां बिंबप्राप्तावपि केषांचितदंतर्गतसिकतादि ग्रहणमित्यादि कल्पनान्न कश्चिद्दोष इति । अद्वैत विद्या कृतस्तु प्रतिबिंबस्य मिथ्यात्वमभ्युपगछतां त्रिविधजीववादिनां विद्यारण्य गुरुप्रभृतीनामेवमभिप्रायमाहुः । चैत्रमुखाद्भेदेन तत्सदृशत्वेन पार्श्व स्थितैः स्पष्टं निरीक्ष्यमाणं दर्पणे तत्प्रतिबिंबततोभिन्नं स्वरूपतो मिथ्यैव स्वकरगतादिवरजताच्छ्रुक्तिरजतं । न च दर्पणे मम मुखं भातीति बिंबाभेदज्ञानविरोधः स्पष्टभेद द्वित्व प्रत्यऽऽन्मुखत्वादिज्ञानविरोधेनाऽभेदासंभवात् । दर्पणे मम मुखमिति व्यपदेशस्य स्वछाया मुखे स्वमुखव्यपदेशवत् । गौणत्वाच्च । न चाभेदज्ञानविरोधाद्भेदव्यपदेश एवगौः किं न स्यादिति शंक्यं लांतर्गत सिकतादि प्रत्यक्षं न स्यात् । सन्निकर्षाभावादिति दूषणमपि निरस्तमित्याह । जलाद्युपाधाति । ननूपाधि प्रतिहतानां बिंबदेशप्राप्त्यपगमे पृष्टभाग व्यवहित पदार्थस्यापि प्रतिबिंबप्रसंग इति चेत् । नायं दोषः फलवलेन शरीरावयवानानां सन्निकर्षत्वकल्पनादित्यभिप्रेत्याह प्. ३९ब्) इत्योदि कल्पनादिति । नयनरश्मीनापरावृत्य बिंबग्राहित्वं सुरेश्वराचार्यैरुक्तं । दर्षणाभिहतादृष्टिः परावृत्यस्वमाननं व्याप्नुवत्याभिमुखेन व्यत्यस्तं दर्शयेन्मुखमिति । बिंबप्रतिबिंबयोर्भेदपक्षनिराकरणपूर्वकं तदभेदपक्षो निरूपितः । इदानीं तदभेदनिराकरण पूर्वकं भेदपक्षनिरूपयति । अद्वैतविद्याकृतस्त्विति । त्रिविधेति । पारमार्थिक व्यावहारिक प्रातिभासिक भेदेन जीवस्त्रिविध इति पक्षः । प्रथम परिछेदे निरूपित इति बोध्यं । एवमिति वक्ष्यमाणप्रकारेणोत्यर्थः । चैत्रेति । चैत्रो यदा दर्पणे स्वमुखं पश्यति तदा पार्थस्थैश्चैत्रग्रीवायां बिंबभूतं मुखं दर्पणे चैत्रमुखप्रतिबिंबं च परस्परं भिन्नत्वेन परस्परं सदृशत्वेन चासंदिग्धा विपर्ययस्तमनुभूयत इत्यर्थः । स्वेति स्वहस्तगतात् सत्यरजताद्भिन्नत्वेन तत्सदृशेत्वेन चानुभूयमानं शुक्तिरजतं यथा तद्भिन्नं मिथ्या च तद्वदित्यर्थः । अभेदज्ञानमसिद्धमित्याह । स्पष्टेति उदाहृतरजतयोरभेदज्ञानादर्शनादितिभावः । आदिपदं प्राऽऽन्मुखत्व ग्रीवास्थत्वदर्पणस्थत्व स्वातंत्र्यपारतंत्र्यादित्र ह्यर्थे । तर्हि सर्वानुभवसिद्धस्याभेदव्यपदेशस्य का गतिः । ज्ञानपूर्वकत्वाद्यपदेशस्येत्याशंक्यनायमभेदव्यपदेश इत्याह । दर्पणे ममेति । स्फुटभेदज्ञाने सति अभेद व्यपदेशायोगादिति भावः । ननु दर्पणे मम मुखं भाति मम मुखं मलिनं भाति मम मुखं दीर्घं भाति मुखं ग्रावास्थमेव न दर्पणादाविति । अभेदानुभवानामपि स्फुटानां भूयसां सत्वादभेदव्यपदेशो मुख्यः अभेदानुभवविरोधेन भेदानुभवस्यैवासंभवात् । भेदव्यपदेशमात्रमविशिष्यते तच्च बिंबप्रतिबिंबयोर्वस्तु गत्याभेदा प्. ४०अ) भावेपि कल्पित भेदसत्वादुपपद्यत इति वैपरीत्यमाशंक्य निषेधति । न चेत्यादिना ।। बालानां प्रतिबिंबे पुरुषांतरभ्रमस्य हानोपादित् साद्यर्थ क्रियापर्यंतस्यापलयितुमशक्यत्वात् न च प्रेक्षावतामपि स्वमुखविशेषपरिज्ञानायदर्पणाद्युपादान दर्शनादभेदज्ञानमप्यर्थ क्रियापर्यंतमिति वाच्यं । भेदेपि प्रतिबिंबस्य बिंबसमानाकारत्व नियमविशेषपरिज्ञानादेव तदुपादानोपपतेः ।। प्रतिबिंबगोचर प्रवृत्यादिदर्शनं तस्य बिंबाद्भेदं विना न सिध्यतीति विनिगमकमाह । वालावामिति । वालाजलाशयादौ भयंकरं प्रतिबिंबं दृष्ट्वा तं विहाय पलायंते सोम्यं प्रीतिकरं प्रतिबिंबं दृष्ट्वातमुपादातुमिछंति प्रतिबिंबदेशं गछंति चेति सर्वानुभवसिद्धं । तदुक्तं कर्णामृताचार्यैः । रत्नस्थले जानुचरः कुमारः संक्रांतमात्मीय मुखारबिंदं । आदातु कामस्तदलाभ खेदाद्विलोक्यधात्री वदनं रुरोद इति । हुमारः श्रीकृष्णरूपः शिशुः निर्मलरत्नमयवेदिकायां जानुभ्यां संचरन् तत्र संक्रांतं प्रतिबिंबितं विविंधैः । कुंडलादि भूषणैर्भूषितं निःसीमसौंदर्यौपेतं गोपीजन मनोहरं ब्रह्मादिभिरपि सदा स्पृहणीयं स्वकीयमुखारविंदमुपलभ्य लोकसिद्धां वाल चेष्ट्यमनुवर्तमानः । तदा दानेछया चिरकालं हस्तव्यापारं कृत्वापि । यदा तन्न लब्धवान् । तदा तदल्पभखेदेन धात्र्या मुखं दृष्ट्वा त्वया इदं गृहीत्वामह्यं देयमिति । प्. ४०ब्) अभिसंधिमान् । मुक्तकंथतयारोदनं कृतवानित्यर्थः । अभेदज्ञानस्याप्यर्थ क्रियापर्यंत त्वं समानमित्याशंक्यनिषेधति । न चेत्यादिना । यदि बिंबप्रतिबिंबयोर्वस्तुतो भेद एव तदा परिक्षकाणां तद्वेदनिर्णय आवश्यक इति तेषां स्वमुखगतविशेषनिर्णयाय दर्पणाद्यादानं नस्या तेषांमपि तद्दर्शनादभेदनिश्चयस्तेषां वाच्य इत्यर्थः । तेषां प्रवृतेरन्यथा सिद्धिमाह । भेदेपीति बिंबप्रतिबिंबयोः स्वरूपतो भेदे सत्यपीत्यर्थः । परीक्षकत्वादेव तेषामुक्तोपपतिभिः । भेद निश्चयवत्वं नियमविशेषज्ञानवत्वं च संभवतीति भावः । ननु बालानां प्रतिबिंबगोचरहानादि क्रियापि बिंबस्य उपाधिस्थत्व भ्रमादेव संभवतीत्यन्यथा सिद्धिः । तत्रापि तुल्या तथा च बिंबप्रतिबिंबयोर्भेदाभेदानुभवानां भेदाभेद प्रयुक्तार्थ क्रियाणां च तुल्यत्वे सत्यभेदस्य स्वाभाविकत्व कल्पनमेव युक्तं लाघवाद्बिंबप्रतिबिंबभावापन्नतया श्रुति सिद्ध जीवब्रह्माभेद प्रतिपत्युपयोगितया लौकिक बिंबप्रतिबिंबाभेदकल्पनस्याभेदश्रुत्युपोद्बलितत्वाच्च प्रतिबिंब जीवस्यैव ब्रह्माभेदसंभवे तदतिरिक्त पारमार्थिकावछिन्नजीवकल्पनायाः गौरवग्रस्तत्वाच्च । यथा ह्ययं ज्योतिरात्माविवस्वानित्यादि मंत्रस्य तयोरभेदपक्ष एव स्वारस्याच्च तत्र हि यथा विवस्वदादेर्वहुषूपाधिषु प्रतिबिंबितत्वप्रयुक्तं नानात्वं स्वत एकत्वं तथा चैतन्यस्य बहुषुपाधिषु प्रतिबिंबितत्वप्रयुक्तं नानात्वं स्वत एकत्वमिति प्रतिपाद्यते तच्च बिंबप्रतिबिंबयोर्भेदपक्षेन प्. ४१अ) संभवति तत्पक्षे हि बिंबचैतन्यस्यैकत्वं प्रतिबिंबानां नानात्वमिति पर्यवसानेनैकस्यैवोपाधिक नानात्व पर्यवसाना सभवा तस्माच्चैतन्य प्रतिबिंबांगीकारपक्षे लोके चैत्र प्रति ।। यत्तु नात्रमुखमिति दर्पणे मुखसंसर्गमात्रस्य बाधो न मुखस्येति । तत्र नेदं रजतमित्यत्रापि इदमर्थे रजततादात्म्यमात्रस्य बाधो न रजतस्येत्यापतेः । यदि चेदमंशे रजतस्य तादात्म्येनाड्यासान्नेदं रजतमिति तादात्म्येन रजतस्यैव बाधो न च तादात्म्य मात्रस्य तदा दर्पणे मुखस्य संसर्गितयाध्यासान्नात्र मुखमिति संसर्गितया मुखस्यैव बाधो न संसर्गमात्रस्येति तुल्यं । यत्तु धर्मिणोप्यध्यासकल्पनैगौरवमिति तद्रजताभासकल्पना गौरव च त्प्रामाणिक त्वान्न दोषः स्वनेत्र गोलकादि प्रतिबिंबभ्रमस्य लेपि बिंबापरोक्ष्य कल्पनीया या भावात् । नयनरश्मीनानामुपाधिप्रतिहतानां बिंबप्राप्ति कल्पने हि दृष्टि विरुद्धं वह्वा पद्येते । कथं हि जलसन्निकर्षे केषु केषु चिन्नयनरश्मिष्वप्रतिहतमंतर्गछत्स्वन्ये जलसंबंधेनापि प्रतिहन्यमाना नितांतं मृदवः सकलनयनरश्मिप्रतिघातिनं प्. ४१ब्) किरणसमूहविजित्यतन्मध्यगतं पूर्यमंडलं प्रविशेयुः ।। बिंबस्थले च बिंबप्रतिबिंबयोरभेदपक्ष एव विवरणाद्यभिमतः श्रेयानिति चेत् सत्यं सूक्ष्मदृष्ट्या एवमेव अत एव भामती निबंधनादिषु जीवब्रह्मणोरभेदेपि लौकिक बिंबप्रतिबिंबयोरिव कल्पित भेद सत्वाद्धर्म व्यवस्थेति सार्वत्रिको व्यवहारः । श्रीविद्यारण्य गुरुप्रभृतिभिस्तु मंदाधिकारिणां तत्वे बुध्यारोहाय प्रतिबिंबोत्पति प्रक्रिया उपपादिता मंदाधिकारिणां हि यथा कर्तृत्व भोक्तृत्वादि संसाराश्रयश्चिदाभासो मिथ्याभूतः स चात्मान भवति । आत्मा त्वसंगचैतन्यरूपः न संसाराश्रय इति प्रक्रियया तत्वं बुद्धां वा रोहति । न तथात्मनो ब्रह्मप्रतिबिंबस्य स्वतः सिद्धं ब्रह्मत्वमंतःकरण तादात्म्यात् संसाराश्रयत्वमिति । प्रक्रिययात्व त्वं बुद्धा वा रोहति । लोके विरुद्धधर्मा सांकर्यस्य धर्मिभेदस्थल इव धर्म्यभेदस्थले स्फुटत्वाभावादयं च तेषांमभिप्रायः । कूटस्थ दीपे यया यया भवेत्युंसामिति वार्तिकवचनोदाहरणेन स्पष्टः । तच्च वचनमादावेवोदाहृत्यव्याख्यानमिति संक्षेपः । प्रतिबिंबस्थले दर्पणस्थत्वादिरूपसंसर्गमात्रचाधमुक्तमनूद्य प्रतिवंद्या प्रतिबिंब स्वरूप बाधं साधयति । यत्वित्यादिना । आपतेरिति । तथा च शुक्तिरजतस्यानिर्वचनीयत्वं सिद्धांताभिमतं न स्यादिति भावः । अत्र यद्यपि तादात्म्य मात्रस्य बाध्यत्वेपि रजतस्यानिर्वचनीयस्योत्पतिरनिवार्व्यादेशांतरस्थरजतादेः प्. ४२अ) संविदभिन्नत्वाभावेन पुरोवर्त्यभिन्नतया प्रत्यक्षानुपपतित्युक्तत्वा तथापि शुक्तिरजतस्य बाधोप्युपपादयितुं शक्यत इति मत्वादि प्रतिबिंबाभेदवादी शंकते । यदि चेति संसर्गितुयेति । आधेय तयेत्यर्थः प्रामाणिकत्वादिति । बाधक प्रमाणस्य शुक्तिरजत इव प्रतिबिंबे संत्वेनाध्यासकल्पना गौरवस्य तन्मूलकत्वाविशेषादित्यर्थः । अभेदपक्षे स्वमुखगत नयनगोलकादि प्रतिबिंबस्यापरोक्षासंभवाच्च तदध्यासकल्पना गौरवं प्रामाणिकमित्याह । स्वनेत्रेति पूर्वोक्तो यायमनूद्यनिराकरोति । नयन रश्मीनामिति । किरणसमूहमिति । सूर्यकिरणसमूहमित्यर्थः ।। कथं च चंद्रालोकन इव तत्प्रतिबिंबालोकनेपि अमतशीतलतद्बिंबसन्निकर्षाविशेषे लोचनयोः शैत्याभिव्यक्ता आप्यायनं न स्यात् । कथं च जलसंबंधेनापि प्रतिहन्यमानाऽशिलादिसंबंधेन न प्रतिहन्येरन् । तत्प्रतिहन्य परावृतौ वा नयनगोलकादिभिर्न संसृज्येरन् तत्संसर्गे वा संसृष्टं किं न साक्षात्कारयेयुः दोषेणापि हि विशेषांशग्रहणमात्रं प्रतिबध्यमानं दृश्यते न तु सन्निकृष्टधर्मिस्वरूपग्रहणमपि । प्रतिमुखाध्यासपक्षे तु न किंचिद् दृष्टविरुद्धं प्. ४२ब्) कल्पनीयं तथा ह्यव्यवहित स्थूलोद्भूतरूपस्यैव चाक्षुषाध्यासदर्शनाद्बिंबगतस्थौल्योद्भूतरूपयोः स्वाश्रयसाक्षात्कारकारण त्वेन कॢप्तयोः स्वाश्रय प्रतिबिंबाध्यासेपि कारणत्वं ।। नन्वत्र जलस्य प्रतिघातकत्वं न कल्प्यते । किंतु जलांतर्गत सिकतादीनामतो न नितांतमृदुत्वं यथा सूर्यादिकिरणा तां स्वतस्तृणादि दाहकत्वा भावेपि सूर्यकांतमणि प्रतिहतानां तद्दाहकत्वं तथा नयनकिरणानास्वतः । सूर्यकिरणप्रतिघातकत्वा भावेपि प्रतिबिंबोपाधिप्रतिहतानां तद्विजये सामर्थ्यातिशय कल्पनोपपद्यते । तथा च नोक्तदोष इत्यस्वरसादाह । कथं चेति । कथं चाप्यायनं न स्यादिति संबंधः । अमृतमिवशीतलं यतस्य चंद्रस्य बिंबं तत्सन्निकर्षाविशेष इत्यर्थः । आप्यायनं औष्ण्यशांतिः । यदा पुमानधो मुखः सन् जलाशयादौ चंद्रमंडस्तप्रतिबिंबं नैरंतर्येण पश्यति तदा लोचनयोः शैत्याभिव्यक्त्यादिकं स्यात् । बिंबप्रतिबिंबयोरभेदेन प्रतिबिंबसन्निकर्षस्यैव बिंबसन्निकर्षत्वादित्यर्थः । ननु लोचनयोः शेत्याभिव्यक्तिश्चंद्रसन्निकर्षादिकता न भवति । किंतु तयोश्चंद्रकिरणसंसर्गसंतति कृता तथा चाधो सुखस्य लोचनयोस्तदभावाच्चंद्रसन्निकर्षद्दर्शनसत्वेपि न शैत्याभिव्यक्त्यादि प्रसक्तिरित्यस्वरसादाह प्. ४३अ) कथं च जलेति । कथं च न प्रतिहन्येरन्निति संबंधः प्रतिहन्येरन्नेवेत्यर्थः । ततः किं तत्राह । तत्प्रतिहत्येति । नयन गोलकादिभिः कथं न संसृज्येरन्निति संबंधः । ततोपि किं तत्राह । तत्संसर्गेवेति शिलादिदर्शनकाले शिलादिना प्रतिहर्ताः नयनरश्मयः स्वमुखगतनयनगोलकादिभिः संसृष्टाश्चेत् । संसृष्टं नयनगोलकादिकं कथं न साक्षात्कारयेयुः साक्षात्कारयेयुरेवेत्यर्थः । ननु दोषबलात्संसृष्टमपि न साक्षात्कारयेयुः । अतो नोक्तदोष इत्यत आह । दोषेणापि हीति दृश्यते इति । शुक्तिरजतादि भ्रमस्थलेष्वपीति शेषः । तथा च शिलादि सन्निकर्षकाले मुखत्वादि सामान्यरूपेण वा स्वमुख साक्षत्कार प्रसंग इति भावः । वस्तु तस्तु अनन्यथा सिद्धफलवन्यत् स्वछद्रव्यस्य तत्संसृष्टस्य वा प्रतिबिंबोदय योग्यस्यैव प्रतिघातकत्वमुपेयते । अतो नोक्तदोष इति बोध्यं । एवं बिंबप्रतिबिंबभेदपक्षे दृष्टविरोधबाहुल्यमापाततो दर्शयित्वा प्रतिबिंबाध्यासोत्पति पक्षमुपपादयति प्रतिमुखाध्यासपक्षे त्विति । कारणत्वं प्रतिबंधकत्वं च कल्पनीयमिति संबंधः स्वाश्रयेति । महत्वोद्भूतरूपाश्रय द्रव्यगोचरचाक्षुषत्वावछिन्नं प्रतिघटादि चाक्षुषे कॢप्ते योरित्यर्थः । द्वितीयः स्वपदमपि स्थौल्योद्भूतरूपपरं । अध्यासेपीति बिंबभूतमुखादि चाक्षुष इव स्वाश्रयमुखादेर्यः प्रतिबिंबरूपोध्यासः तदुत्पतावर्पात्यर्थः । कुड्याद्यावरणद्रव्यस्यत्वगिंद्रिय न्यायेन प्राप्य प्. ४३ब्) कारितयावगतनयनसन्निकर्षविघटनद्वाराव्यवहित वस्तु साक्षात्कारप्रतिबंधकत्वेन कॢप्तस्य व्यवहित प्रतिबिंबाध्यासेपि विनैव द्वारांतरं प्रतिबंधकत्वं च कल्पनीयं । तत्र को विरोधः क्वचित्कारणत्वादिना कॢप्तस्य फलवलादन्यत्रापि कारणत्वादि कल्पने । एतेनोपाधिप्रतिहतनयनरश्मीनां बिंबप्राप्त्यनुपगमे व्यवहितस्योद्भूतरूपादिरहितस्य च चाक्षुषप्रतिबिंबतमप्रसंम इति निरस्तं । किं च तदभ्युपगम एवोक्त दूषणप्रसंगः कथं साक्षात्सूर्यावलोकन इव विना चक्षुर्विक्षेपमवनतमोलिनानिरीक्ष्यमाणे सलिले ततः प्रतिहतानां नयनरश्मीनां ऊर्द्धमुत्यबिंबसूर्यग्राहकत्ववतिर्यक चक्षुर्विक्षेपं विना ऋजुचक्षुषादर्पणे विलोक्यमाने तत्प्रतिहतानां पार्श्वस्थमुखग्राहकत्व वच्च वदनसाचीकरणाभावेप्युपाधिप्रतिहतानां पृष्ठभाग व्यवहित ग्राहकत्वं तावत् दुर्वारं उपाधिप्रतिहतनयनरश्मीनां प्रतिनिवृतिनियमं विहाय यत्र बिंबं तत्रैव गमनोपगमात् ।। प्. ४४अ) यदुक्तं प्रतिबिंबाध्यासं प्रतिकुड्यादेः साक्षात्प्रतिबंधकत्वसीकारे अन्यत्रापि तथात्वापत्या सन्निकर्षमात्रविलोपप्रसंग इति तन्न सन्निकर्षहेतुत्व ग्राहंक प्रमाणानुरोधेन सन्निकर्षविघटन द्वारैव तस्य प्रत्यक्षप्रतिबंधकत्वाभ्युपगमादित्याशयेन सन्निकर्षस्य हेतुत्व ग्राहक प्रमाणं सूचयति । त्वगिंद्रियेति । त्वगिंद्रियस्य विषयं प्राप्तस्यैव विषयप्रत्यक्ष कारित्व दर्शनातदृष्टांतेन नयनादेरपि प्राप्यकारित्वमवगतमित्यर्थः । व्यवहितेति छेदः व्यवहित प्रतिबिंबेति । कुड्यादि व्यवहितस्य मुखादेः प्रतिबिंबाध्यासे साक्षात्प्रतिबंधकत्वं कल्पनीयं । अन्यथा प्रतिबिंबोत्पति पक्षे बिंबसन्निकर्षस्य हेतुत्वानुपगमेन व्यवहितस्यापि प्रतिबिंब प्रसंगस्य प्राग्दर्शिततत्वादित्यर्थः । तत्र कल्पने को विरोध इति संबंधः तस्मिन् कल्पने इत्यर्थः । अव्यवहितत्व स्थूलत्वोद्भूतरूपाणां मुखादि प्रतिबिंबाध्यासोपयोगकल्पन प्रयोजनमाह । एतेनेति । आदिपदं स्थूल्यसंग्रहार्थं । उक्तेति व्यवहितादि बिंबप्रसंग इत्यर्थः । प्रसंग प्रकारानभिज्ञः पृछति । कथमिति तमाह साक्षादिति । गगनस्थसूर्यावलोकने चक्षुर्विक्षेपः कॢप्तः तं विनेत्यर्थः । अवनतमौलिना अधोमुखेन तिर्यगिति । स्वाभिमुखे दर्पणे स्वप्रतिबिंबग्रहणकाले स्वपार्श्व स्थित पुरुष प्रतिबिंब ग्रहणमप्यस्ति प्रतिबिंबाभावकाले स्वपार्श्वस्थितपुरुषग्रहणाय स्वचक्षुषस्तिर्यग्विक्षेपोस्ति ऋजु चक्षुषा स्वाभिमुखपुरुषस्येव स्वपार्श्वास्थितपुरुषस्य ग्रहणा दर्शना तथा च स्वाभिमुखे दर्पणे प्. ४४ब्) स्वपार्श्व च स्थित पुरुषप्रतिबिंबग्रहणाय चक्षुषस्तिर्यखिक्षेपं विना दर्पण प्रतिहतानां स्वपाश्वं स्थित पुरुषग्राहकात्ववदित्यर्थः । वदनेति । वदनुसाचीकरणं नामचक्षुषा स्वपृष्ठभागव्यवहित पदार्थग्रहणानुकूलोवदनव्यापारः । प्रतिनिवृतिनियममिति । नयनगोलकाभिमुखविषयप्रतिहतानां पुनर्गोलकद्वारा शरीरांतः प्रवेशनियममित्यर्थः ।। तथा मलिनदर्पणे श्यामतयागौरमुखप्रतिबिंबस्थले विद्यमानस्यापि बिंबगतगौररूपस्य चाक्षुषज्ञानेऽनुपयोगितयापीतशंखभ्रमन्यायेनारोप्यरूप- वैशिष्ट्ये नैव बिंबमुखस्य चाक्षुषत्वं निर्वाह्यमिति तथैव निरूपस्यापि दर्पणोपाधि श्यामत्व वैशिष्ट्येन चाक्षुष प्रतिबिंबभ्रमविषयत्वमपि दुर्वारं स्वतोनीरूपस्यापि नभसोऽध्यस्तनैल्यवैशिष्ट्येन चाक्षुषत्व संप्रतिपतेः । तस्मात् स्वरूपतः प्रतिमुखाध्यासपक्ष एव श्रेयान् ।। ननु प्रतिनिवृतिनियमाभावपक्षेपि बिंबसन्निकर्षविघटक व्यवधानाभावोपेक्षास्ति अवनत मौलि नयनरश्मीनां सूर्यशप्तिस्थले ऋजुचक्षुषादर्पणे विलोक्यमाने दर्पण प्रतिहतानां पार्श्वस्थपुरुषप्राप्तिस्थले च सन्निकर्षविघटकाभावात् । तत्प्राप्तिः संभवति प्रकृते च शरीर प्. ४५अ) तदवयवानां व्यवधायकानां सत्वाद्दर्पण प्रतिहतानां न पृष्ठभागव्यवहितवस्तुप्राप्तिरित्यस्वरसादाह । तथेति । उपाधि प्रतिहत नयनरश्मीनां प्रतिनिवृतिनिवृतिनियमाभावपक्षेष्वष्टभागव्यवहितस्य प्रतिबिंबापतिवन्नीरूपवाम्नादेरपि । चाक्षुष प्रतिबिंबापतिरिति दूषणांतर ससुच्चयार्थस्तथा शब्दः । ननु नीरुपस्यापि वाग्वादेर्दर्पणद्युपाधिगतरूपोपादानेन चाक्षुषप्रतिबिंबभ्रमविषयत्वं दुर्वारमित्यनुपपन्नं द्रव्यस्य चाक्षुष प्रतिबिंबभ्रमे बिंबरातस्य महत्वेवदुद्भूतरूपस्यापि कारणत्वादित्याशंक्यद्रव्यगोचरचाक्षुष प्रतिबिंबभ्रमे बिंबिंवगतरूपस्यानुपयोगान्नेवमित्याह । मलिंनेति । मलिन दर्पणे गौरमुखस्य प्रतिबिंबे सति प्रतिबिंबं श्यामतया गृहतेन गौरतया । तथा च तत्र गौरमुखे आरोप्येणैव श्यामरूपेणोपहितस्य गौरमुखस्य चाक्षुषत्वं निर्वाह्यमित्यर्थः । आरोप्यरूपेणैवा क्वचिद्द्रव्यस्य चाक्षुषत्वे दृष्टांतमाह । पीतशंखेति । कविता किंकमतोपपादनावसरे शंखस्यारोप्यपीतरूपविशिष्टतयैव भ्रमस्थले चाक्षुषत्वं नान्यथेत्युक्तमिति भावः । वस्तु तस्तु द्रव्यचाक्षुषे द्रव्यगतमेवोद्भूतरूपं कारणमिति न नीरूपद्रव्यस्य चाक्षुषप्रतिबिंबभ्रमविषयत्वं प्रसज्यते मलिन दर्पणे गौरमुखप्रतिबिंबस्थले पीतशंखादि भ्रमस्थले च श्यामं मुखं पीतः शंख इत्यादि भ्रमप्राचीन धर्मिज्ञाने अध्यासकारणभूतै गौरशुक्लादिरूपस्य कारणतया उपयोगाभावासिद्धेः द्रव्यचाक्षुषे रूपविषयकनियमाभावस्यकवितार्किक ग्रंथव्याख्यानावसरे प्. ४५ब्) दर्शितत्वेन पीतशंखभ्रमसंभवाच्चेति बोध्यं । आरोप्यरूपविशिष्टतयैव चाक्षुषत्वे उदाहरणांतरमाह । स्वत इति । संप्रतिपतेरित्यापाततः गगनस्य चाक्षुष वृति विषयत्वं कवितार्किकमात्रसंमतं न तु पूर्वाचार्यैः पूर्वाचार्याणां मते तु गगनव्यापि सौरालोकादिगोचरचाक्षुषवृत्या आलोकाद्यवछिन्न चैतन्याभिव्यक्तिकाले आलोकानुगत गगनावछिन्नचैतन्यस्याप्यभिव्यक्तिं स्वीकृत्याभिव्यक्ते गगनावछिन्ने साक्षिणि नैल्याध्यासाभ्युपगमेन नैल्यादिविशिष्टगगनस्य साक्षिमात्रभास्यत्वादिति ध्येयं । तस्मादिति दृष्टविरोधरूपबाधकाभावात् स्यधकत्वाच्चैतिभावः । श्रेयानिति मंदाधिकारिणः प्रतीति वस्तु गतिः ।। न च तत्रापि पूर्वानुभवसंस्कार दौर्घट्यं । पुरुषसामान्यानुभवसंस्कारमात्रेण स्वप्नेप्यवृष्टचरपुरुषाध्यासवन्मुख सामान्यानुभव संस्कारमात्रेण दर्पणे मुखविशेषाध्यासोपपतेः । इयांस्तु भेदः स्वप्नेषु शुभाशुभहेतु दृष्टानुरोधेन पुरुषाकृतिविशेषाध्यासः । इह तु बिंबसन्निधानानुरोधेन मुखाकृतिविशेषाध्यास इति । न च प्रतिबिंबस्य स्वरूपतो मिथ्यात्वे ब्रह्मप्रतिबिंबस्य जीवस्यापि मिथ्यात्वापतिर्दोषः प्. ४६अ) प्रतिबिंबजीवस्य तथात्वेप्यवछिन्न जीवस्य सत्यतया मुक्तिभाक्त्वोपपतेरिति । यतु प्रतिबिंबं दर्पणादिषु मुखछायाविशेषरूपतयासत्यमेवेति । कस्यचिन्मतं तन्न छाया हि नाम शरीरादिस्ततदवयवैरालोकेकिसित यद्देशे व्यापिनि निरुद्धे तत्तद्देशे लघ्वात्मकं तम एव न च मौक्तिकमाणिक्यादि प्रतिबिंबस्य तमो विरुद्धसितलोहितादिरूपवतस्तमोरूपछायात्वं युक्तै न वा तमोरूपछायारहितनयनादि प्रतिबिंबस्य तथात्वमुपपन्नं ननु तर्हि प्रतिबिंबरूपछायायास्तमौ रूपत्वासंभवे द्रव्यांतरत्वमस्त्वकॢप्तद्रव्यानंतर्भावेन तमो वट् द्रव्यांतरकल्पनोपपतेरिति चेत् । किं तत् द्रव्यांतरं प्रतीयमानरूपपरिमाणसंस्था न विशेष प्रत्यऽऽनमुखत्वादि वद्रधर्मयुक्तं तद्रहितं वा स्यात् । अतेन तेन द्रव्यांतरेण रूपविशेषादि घटिते प्रतिबिंबोपलंभ निर्वाह इति व्यर्थ तत्कल्पंनं ।। उपाधिप्रतिहतानां बिंबप्राप्त्यनुपगमे अध्यस्यमानमुख सजातीय गोचरपूर्वानुभवानुभवासंभवादध्यासु प्. ४६ब्) कारणसंस्कारानुपपतिरित्युक्तमनूद्यनिराकरोति । न च तत्रापीति । प्रतिबिंबाध्यासपक्षे स्वसंस्कार दौर्घट्यमपि न चेत्यर्थः । अदृष्ट चरेति । कदाप्य ननु भूतेत्यर्थः । ननु मुखसामान्यानुभवजन्यसंस्कारस्य प्रतिमुख्यध्यासहेतुत्वे चैत्र मुखदर्पणयोः सन्निधे सति यस्य कस्यापि मुखस्याध्यासप्रसंगः । स्वप्नवदेव न तु नियमे नाभिमुखमुखाध्यास इत्याशंक्य व्यवस्थामाह । इयांस्तु भेद इति । स्वप्न प्रतिबिंबाध्यासयोरिति शेषः । आदौ त्रिविध जीववादिनामिति विशेषणेन सूचितं परिहारमाविष्करोति । प्रतिबिंब जीवस्यैति । मुक्तिभाक् तं ब्रह्माभेदः प्रतिबिंबस्य मिथ्यात्व दार्ढ्याय तत्सत्यत्वमतं दूषयितु मनुभाषते । यत्विति । ननु वृक्षादिछायोयाः नैल्य दर्शनात् । प्रतिबिंबेषु प्रायेण नैल्यादर्शनेन छाया वैलक्षण्य सत्वात् प्रतिबिंबस्य छायारूपत्वमनुपपन्नमिति शंकानिराकरणार्थं विशेष पदं तथा च बिंबभिन्नोपि मुखाद्याभासः । शुक्तिरजतादिवत् प्रातिभासिको न भवति । किंतु बिंबवत् सत्यः छाया विशेषरूपत्वाभ्युपगमातस्येत्यर्थः । छायायानीलरूपवत्वनियमा तद्विशेषरूपत्वं प्रतिबिंबस्य न्वसंभवतीति छाया स्वरूप कथन पूर्वकं दूषयति तन्नेति शरीरादेः छायानामतम एव नान्यदिति प्रसिद्धमित्यर्थः । किं यद्देशव्यापिन्या लोके शरीर तदवयवैनिरुद्धे सतीति संबंधः । न चेति मौक्तिक स्फुटिकादि प्रतिबिंबस्य सितरूपवतः तद्विरुद्धतमोरूपछायात्वं न युक्तं प्. ४७अ) तथा माणिक्य कनकादि प्रतिबिंबस्य लोहितपीतरूपादि मतस्तद्विरुद्धछायात्वं न युक्तमिति विभज्य योजनीयं नयनादे छायैव नास्तिति तत्प्रतिबिंबस्य छायारूपत्वमनुपपन्नमेवेत्यर्थः । तमो वदिति यथा तमसो द्रव्यस्य कॢप्त द्रव्यानंतर्भावे सिद्धांते दशम द्रव्यत्वं कल्पितं तद्वदित्यर्थः ।। प्रथमे कथमेकस्मिन्नल्यपरिमाणे दर्पणे युगपदसंकीर्णतया प्रतीयमानानां महापरिमाणानामनेक मुखप्रतिबिंबानां सत्यता निर्वाहः । कथं च निविडा वयवानुस्यूते दर्पणे तथैवावतिष्ठमाने तदंतहिनुनासिकाद्यनेक निम्नोन्नत प्रदेशवतो द्रव्यांतरस्योत्पतिः । किं च सितरक्तपीताद्यनेक वणीदिमतः प्रतिबिंबस्योत्पतौ दर्पणमध्ये स्थितं तान्सन्निहितं न तादृशं कारणमस्ति । यद्युच्येतोपाधिमध्यविश्रांति योग्यपरिमाणा नामेव । प्रतिबिंबानां मेहापरिमाणज्ञानं तादृशनिम्नोन्नतादि ज्ञानं च भ्रम एव यथा पूर्वं दर्पण तदवयीवावस्थानाविरोधेन तादृक् प्रतिबिंबोत्पादन समर्थ च किंचित् कारणं परिकल्प्यमिति तर्हि प्. ४७ब्) शुक्तिरजतमपि सत्यमस्तु । तत्रापि शुक्तौ यथापूर्वं स्थितायामेवततादात्म्यापन्नरजतोत्पादनसमर्थं । किंचित्कारणं परिकल्प्य तस्य रजतस्य दोषत्वाभिमतकारणसहकृतेंद्रिय ग्राह्यत्वनियम वर्णनोपपतेः ।। प्रथमे कथं सत्यता निर्वाह इति संबंधः । यद्येकमपि दर्पणं विशालं स्यातदानेक प्रतिबिंबानामसंकीर्णतया तत्रावस्वानं संभवेदिति शंकावारणायाह । अल्पेति । अल्पपरिमाणानामपि दर्पणानामनेकत्वे सत्येकैकस्मिन् दर्पणे एकैकं प्रतिबिंबमसंकीर्णतया च तिष्ठे तदपि नास्तीत्याह एकस्मिन्निति । एकस्मिन्नल्यपरिमाणेपि दर्पणे क्रमेणानेक प्रतिबिंबानाम संकीर्णता स्या तदपि नास्तीत्याह । युगपदिति । प्रतिबिंबस्य मिथ्यात्व तु नायं दोषो भवति स्वप्न दशायां स्वल्पेपि शरीरस्यांतराकाशे रथगजादि पदार्थानां तदुचित वैशाल्यस्य चाध्यासवदल्पपरिमाणेपि दर्पणे परस्परमसंकीर्णतया अनेक प्रतिबिंबानां तदुचित वैशाल्यस्य चाध्याससंभवादितिभावः । कथं च द्रव्यांतरस्योत्पतिरिति संबंधः सत्यस्येति शेषः । सामग्र्य भावाच्च न तस्योत्पतिः । संभवतीत्याह । किं चेति । दर्पणस्य यो वर्णः स एव प्रतिबिंबस्यापीति नियमसुत्वे तद्वर्णयुक्तं किंचित्कारणे दर्पणे संभाव्ये तापि नत्वे तदस्ति दर्पणरूपविलक्षण नानारूपवतां प्रतिबिंबा प्. ४८अ) नामनुभवादित्याह । अनेकेति । सितपीतरक्ताद्यनेकवर्णयुक्तानां बिंबानामेवकारणत्वमस्तु नेत्याह । दर्पणमध्ये स्थितमिति । तेषां निमितत्वेप्युपादानत्वं न संभवति प्रतिबिंबोत्पति देशे तेषामभावादित्यर्थः । तादृशमिति । सितपीतरक्ताद्यनेकवर्णयुक्तं कारणं प्रतिबिंबोदयकाले नियमेन नास्त्यनुपलंभादित्यर्थः । प्रतिबिंबं हि दर्पणस्यांतः दर्पणस्य पृष्ठभागे दर्पणसन्निहितमनुभूयते न तु दर्पणगतरूपपरिमाणादिवद्दर्पणस्यो परिभागे ततस्तत्कारणेनापि तत्रैव भवितव्यमिति मत्वा दर्पणमध्ये स्थितं तत्सन्निहितमित्युक्तं मध्यशब्दोंतरर्थकः प्रतिबिंबस्वरूपमात्रं सत्यं तत्र प्रतीयमानधर्मास्तु कल्पिता एवेति तत्सत्यत्वेभिनिवेशमानः शंकते । यद्युच्येतेति । वस्तु गत्या उपाधि मध्ये विश्रांति योग्यान्येव प्रतिबिंबान्युत्पद्यंते तेषु महापरिमाणादिकं भ्रांत्याभासत इत्यर्थः । कल्प्यमिति । नीवारावयवेषुर्ब्राह्मवयवा यथा मीमांसकैः कल्प्यं तं तद्वद्दर्पणावयवसंसृष्टाः प्रतिबिंबावयवाः कल्प्या इत्यर्थः । प्रतिबंदीमाह तहीति पूर्वोक्त दृष्टांतमनसि निधाय शुक्तिरजतस्यापि कारणं कल्पयति तत्रापीति । शुक्तिरजतस्थलेपीत्यर्थः । ननु शुक्तिरजतं सत्यमिति स्वीकारे तस्य शुक्तौ सदा सत्वाच्छुक्ति प्रत्यक्षकाले नियमेन तदपि गृह्येत न च गृह्यते अतो न तस्य सत्यत्वं संभवतीत्याशंकां परिहरति । तस्येति ।। प्. ४८ब्) किं शुक्तिरजतमसत्यं प्रतिबिंबः सत्य इत्यर्ध्वजरतीय न्यायेन न च तथा सति रजतमिति दृश्यमानायाः शुक्तेरग्नौ प्रक्षेपे रजतो चितद्रवीभावापतिः । अनलकस्तूरिकादि प्रतिबिंबस्थौल्यसौरभादिराहित्यवच्छुक्ति रजतस्य द्रवीभावयोग्यतानृराहित्योपपतेः । अथोच्येत नेदं रजतं मिथ्यैव रजतमभादिति सर्वसंप्रतिपन्नबाधान्न शुक्तिरजतं सत्यमिति । तर्हि दर्पणे मुखं नास्ति मिथ्यैवात्र दर्पणे मुखमन्नादित्यादि सर्वसिद्धबाधात्प्रतिबिंबमपि न सत्यमिति युक्तं । तस्मादसंगतः प्रतिबिंबसत्यत्ववादः । ननु मिथ्यात्ववादोप्ययुक्तः । शुक्तिरजत इव कस्यचिदन्वयव्यतिरेक शालिनः कारणस्याज्ञानस्य तन्निवर्तकस्य ज्ञानस्य चानिरूपणात् । अत्र केचित् ।। ततः किं तत्राह । किमिति । अर्धजरतीय न्यायेनेति । जरतीद्ब्रद्धातस्या(?) अर्धं मुखमात्रं कामयते नाधः कायमित्ये तद्यथोपपति श्रन्यमेवमिदमपीत्यर्थः । ननु प्रसिद्धरजतमग्नौ प्रक्षिप्तं द्रवी भवति शुक्तिरजतं तु न तथेति । तस्य मिथ्यात्वमेवेति मत्वा शंकते । न च तथो सतीति तस्य सत्यत्वे सतीत्यर्थः । प्रतिबंदीं समर्थयते । अनलेति ।। प्. ४९अ) यद्यप्यन्नेष्टापतिरेव प्रतिबिंबसत्यत्ववादिमते शुक्तिरजतादेरपि सत्यत्वसंभवा तथापि प्रतिबंदी व्याजेन शुक्तिरजतादेः अपि मिथ्यात्व निरूपणे तात्पर्यं बोध्यं प्रतिबंद्याः परिहारं शंकते प्रतिबिंबसत्यतवादी अश्वोच्येतेति । परिहारसाम्यमाह । तर्हीति मिथ्यैवात्रेति । बिंबप्रतिबिंबाभेदपक्षे प्रतिबिंबमिथ्यात्वानुभवः प्रतिबिंबत्व विशिष्टवेषेण प्रतिबिंबगौचरो न स्वरूपेणेति बोध्यं । ननु तर्हि शुक्तिरजतमिथ्यात्वानुभवोपीदर्मर्थ तादात्म्यापन्नतयैव रजतयो चरः न स्वरूपेणेति वक्तं शक्यतयारजतेदमर्थयोस्तादात्म्यमात्रकल्पितं त्व कल्पितमिति प्रसज्येतेति चेन्न रजतस्य शुक्तावनुत्पतौ तस्य संविदभिन्नत्वाभावेन प्रत्यक्षानुपपतेस्तस्य तत्रोत्पतिरपरिहार्यातदुत्पतौ चान्वयव्यतिरेकाभ्यामनिर्वचनीयाज्ञानमेव कारणं नान्यदिति । प्राक्प्रतिपादितत्वेन तस्य मिथ्यात्वोपयतेः । पूर्वोक्तरीत्या बिंबप्रतिबिंबा भेदसाधकप्रमाणसत्ववच्छुक्ति रजतत्यत्व साधका नन्यथा सिद्धप्रमाणो भावेन शुक्तिरजतमिथ्यात्वानुभवस्य रजत स्वरूपगोचरत्वोपपतेश्च तस्य मिथ्यात्वमिति भावः । तस्मादिति बिंबभिन्नस्य प्रतिबिंबस्य सत्यत्वे मानाभावादित्यर्थः । नन्विति । प्रतिबिंबाध्यासपक्षे हि तस्योपादानमज्ञानं वाच्यं तच्च न संभवति । सर्वात्मनादर्पणादिरूपाधिष्ठानगोचरसाक्षात्कारेण दर्पणाद्यवछिन्न चैतन्यनिष्ठाज्ञानस्यति वृतत्वाता प्. ४९ब्) दृशसाक्षात्कारे सत्ये वानुवर्तमानस्य प्रतिबिंबाध्यासस्य तन्निवर्त्यत्वायोगात् । तन्निवर्तक ज्ञानांतरानुपलंभाच्च ज्ञानैकनिवर्त्यत्वं विना तस्य मिथ्यानुपपतेः तस्मातन्मिथ्यात्व वादोप्यसंगत इत्याक्षेपाभिप्रायः यथा शुक्तिरजते शुक्त्यज्ञनस्य तत्कारणस्यान्वयव्यतिरेक सिद्धस्य पूर्वे निरूपणं कृतं तथा प्रतिबिंबाध्यासे दर्पणाद्यज्ञाने सति प्रतिबिंबाध्यासः । तदभावे तदभावः । इत्यत्वयव्यतिरेक शालिनस्तत्कारणस्याज्ञानस्य कस्यचिदनिरूपणातन्निवर्तक ज्ञानस्य चानिरूपणादित्यक्षरार्थः । परिहरति । अत्र केचिदिति ।। यद्यपि सर्वात्मनाधिष्ठान ज्ञानानंतरमपि जायमाने प्रतिंबिंबाध्यासेनाधिष्ठानावरणमज्ञानमुपादानं नखाधिष्ठानविशेष्यंशज्ञानं निवर्तकं । तथाप्यधिष्ठानाज्ञानस्यावरणशक्त्यंशेन निवृतावपि विक्षेपशक्त्यंशेनानुवृति संभवातदेवोपादानं । बिंबोपाधिसन्निधिनिवृति सचिवंचाधिष्ठानज्ञानं सोपादानस्य तस्य निवर्तकमिति । अन्ये तु ज्ञानस्य विक्षेप शक्त्यंशं विहायावरणशक्त्यंशमात्रनिवर्तकत्वं न स्वाभाविकं ब्रह्मज्ञानेन मूलाज्ञानस्य शुक्त्यादि ज्ञानेनावस्था ज्ञानस्य चावर प्. ५०अ) रणशक्त्यंशमात्र निवृतौ तस्य विक्षेप शक्त्या सर्वदानुवृति प्रसंगात् । न च तद्बिंबोपाधि संनिधिरूपं विक्षेपशक्त्यंश निवृति प्रतिबंधकप्रयुक्तां बिंबोपाधि सन्निधातात्प्रागेव बिंबे चैत्रमुखे दर्पणसंसर्गाद्यभावे दर्पणे चैत्रमुखाभावे वा प्रत्यक्षतोवगम्यमाने विक्षेपशक्त्यंशस्यापि निंवृत्यवश्यं भावेन तत्कालं तयोः सन्निधाने सत्युपादानाभावेन प्रतिबिंबभ्रमाभावप्रसंगात् ।। आक्षेयाभिप्रायमनुवदति । यद्यपीति । सर्वात्मानेति शुक्तिरजताध्यासात्पूर्वमिदं त्वात्मना साक्षात्कार सत्वेपि शुक्तित्वादि विशेषात्मना साक्षात्कारो नास्तीति तत्राधिष्ठानविशेषांशावरणमज्ञानमुपादानं लभ्यते प्रकृते तु चक्षुः संनिकृष्टे दर्पणे प्रतिबिंबाध्यासात्पूर्वमिदं त्वात्मनेव दर्पणत्वादि विशेषात्मनापि साक्षात्कार सत्वेन सर्वात्मनाधिष्ठान साक्षात्कारोस्ति तथा च तेनाधिष्ठान विशेषावरणस्याज्ञानस्य निवृतत्वान्न तदुपादानं संभवतीत्ये तद्युक्तमेवेत्यर्थः । अपिरवधारणे निवेर्तकमिति । प्रतिबिंबाध्यासस्येति शेषः । कथं तर्ह्युपादानादि लाभः तत्राह । तथापीति । तदेवेति । अधिष्ठाना ज्ञानमेवेत्यर्थः । सर्वात्मनाधिष्ठान साक्षात्कारेणाप्यज्ञानैक देशस्यैव निवृतिर्न तु कार्त्स्न्येनेति प्. ५०ब्) फलवलात्कल्प्यत इति भावः । निवर्तक ज्ञानं च निरूपयति बिंबेति । बिंबोपाध्योः सन्निधिनिवृति सहकृते दर्पणे मुखं नास्तीति ज्ञानमेव प्रतिबिंबाध्यासस्य निवर्तकमित्यर्थः । दर्पणाद्युपादानभूतं मूलाज्ञानमेकमस्ति दर्पणादि ज्ञाननिवर्त्यमवस्म्यारूपाज्ञानमप्यपरमस्ति तत्र मूला ज्ञानस्यैव दर्पणाद्युपादानत्ववत् प्रतिबिंबाध्यासोपादानत्वमपीति परिहारांतरमाह । अन्येत्विति । ननु पूर्वोक्तमतरीत्याशुक्तिरजतादिरिव प्रतिबिंबाध्यासस्याप्यवस्थाज्ञानपरिणामत्वसंभवे । किं मूलाज्ञानस्य तत्कल्पनयेति नेत्याह । ज्ञानस्येत्यादिनेति । ज्ञानस्यावरणमात्रनिवर्तकत्वं किं स्वाभाविकं किं वा विक्षेपशक्त्यंश निवृति प्रतिबंधक सत्व प्रयुक्तं नाद्य इत्यत्र हेतुमाह । ब्रह्मज्ञानेनेति । तस्येति । द्विधस्याप्यज्ञानस्य निवर्तकाभावेन विक्षेप शक्ति सहकृतस्य विदेह कैवल्येप्यनुवृति प्रसंगादित्यर्थः । द्वितीयमनुवदति । न चेति । तदिति । आवरणमात्रनिवर्तकत्वमित्यर्थः । विक्षेपशक्तिमदज्ञानांश निवृति प्रतिबंधक प्रारब्ध नाशे सति ब्रह्मज्ञानसंस्कारविशिष्टचैतन्यमात्रादेवविक्षेपांश निवृति संभवान्न पूर्वोक्तदोष इति मत्वादोषमाह । बिंबोपाधिसन्निधानात्प्रागिति । बिंबोपाध्योराभिमुख्यलक्ष्णसन्निधानात्पूर्वक्षण एवेत्यर्थः । प्. ५१अ) बिंबप्रतिबिंबाभेदपक्षे प्रतिबिंबोत्पत्यभावेपि चैत्रस्य मुखे बिंबभूते बिंब तु प्रतिबिंबत्वदर्पणस्थत्वादेरे निर्वचनीयस्योत्पत्युपगमेन तस्य चैत्रमुखावछिन्नचैतन्यनिष्ठावस्थाज्ञानमेवकारणं वाच्यं तच्च चैत्र मुखे दर्पणाभिमुख्यात् प्राक् विष्णुमित्रेण निरीक्ष्यमाणे सति तदा प्रतिबंधकाभावाच्चैत्रमुखगोचरेण विष्णुमि ।। अतो मूलाज्ञानमेव प्रतिबिंबाध्यासोपादानं न चात्राप्युक्तदोषतोल्यं । पराग्विषयवृतिपरिणामानां स्वस्वविषयावछिन्नचैतन्यप्रदेशे मूलाज्ञानावरणशक्त्यंशाभिभावकत्वेपि तदीय विक्षेप शक्त्यंशा निवर्तक त्वात् । अन्यथा तत्प्रदेश स्थित व्यावहारिक विक्षेपाणामपि विलयापतेः । न च प्रतिबिंबस्य मूलाक्ष्यान कार्यत्वे व्यावहारिकत्वापतिः । अविद्याति रिक्तदोषाजन्य त्वस्य व्यावहारिकत्वे प्रयोजकत्वात् । प्रकृते च तदतिरिक्तबिंबोपाधि सन्निधानदोषसद्भावेन प्रातिभासिकत्वोपपतेः । न चैवं सति बिंबोपाधिसन्निधिनिवृति सह कृतस्याप्यधिष्ठान ज्ञानस्य प्रतिबिंबाध्यासाऽनिवर्तकत्व प्रसंगस्तन्मूलाज्ञान प्. ५१ब्) निर्वतकत्वाभावादिति वाच्यं ।। त्रीय साक्षात्कारेण विक्षेप शक्त्या सह निवर्तते । उतरक्षण एव चैत्र मुखस्य दर्पणाभिमुखे सति विष्णुमित्रस्य दर्पणे चैत्रस्य मुखमिति प्रतिबिंब भ्रमो भवति । तत्र चैत्रमुखे दर्पणस्थत्वादेरुत्पतिर्न स्यादुपादानाभावादित्याहे । बिंब इति । दर्पण संसर्गो दर्पणस्थत्वमादिपदं प्रत्यऽऽन्मुखत्वादिसंग्रहार्थं । तथा च संसर्गाद्यभावे प्रत्यक्षतोवगम्यमान इति संबंधः । चैत्रमुखैदर्पणस्थत्वादिकं नास्तीत्यवगति प्रकारो बोध्यः । दपणे प्रतिबिंबाध्यासोत्पति पक्षे अवगति प्रकारमाह दर्पण इति । प्रतिबिंबाध्यासपक्षे संसर्गितया प्रतिमुखस्यैवाध्यासोपगमाद्दर्पणे चैत्रमुखं नास्तीत्यनेन प्रकारेण दर्पणे चैत्रमुखाभावे प्रत्यक्षतोवगम्यमान इत्यर्थः । एवं मतभेदेनाधिष्ठान भेदे तत्साक्षात्कार भेदयोः प्रदर्शनार्थमेव चैत्रमुखे दर्पणे च पृथक् सप्तमी निर्द्वेशः कृतः सतभेदज्ञापनार्थश्च वाकारः तत्कालमिति । अधिष्ठान भूतचैत्रमुखे दर्पणे च विक्षेप शक्त्यासहा ज्ञाननिवर्तक साक्षात्कारोत्पतेर्द्वितीयक्षण इत्यर्थः । तयोरिति । चैत्रमुखदर्पणयोः सन्निधाने सत्यधिष्ठान साक्षात्कारवतो विष्णुमित्रस्य दर्पणे चैत्र मुखमिति यः प्रतिबिंबभुमो भवति तस्याभावप्रसंगादित्यत्र हेतुमाह उपादानाभावेनेति । तत्र हेतुमाह विक्षेप शक्त्यंशस्यापि प्. ५२अ) निवृत्यवश्यंभावेनेति । अत इति अवस्थाज्ञानस्य प्रतिबिंबाध्यासे कारणत्वायोगादित्यर्थः । नन्वस्मिन् पक्षेपि बिंबोपाधिसन्निधानात् पूर्वक्षणोत्पन्नचैत्रमुखसाक्षात्कारेण चैत्रमुखाद्यवछिन्नचैतन्यावरकमूलाज्ञानस्यापि निवृतेतोदुपादानाभाव दोषस्तुल्यः तेन तदनिवृतौ च चैत्र मुखायनवभासप्रसंगः । यत्किंचिदावरणस्य सत्वादित्याशंक्याह । न चात्रापीति । ब्रह्मज्ञानस्यैव मूलाज्ञाननिवर्तकत्वं जडविषयकवृतिरूपाणामंतःकरणपरिणामानां तु स्वस्वविषयचैतन्यस्थमूलाज्ञानस्य योयमावरणांशः तदभिभावकत्वमात्रं यावद्विषयस्फुरणमंगीक्रियतेनत्ववस्थाज्ञानविक्षेपांशं निवर्तकत्ववन्मूलाज्ञानविक्षेपांशनिवर्तकत्वमपीत्यर्थः । अन्यथेति । विषयचैतन्यस्थस्य मूलाज्ञानस्य विषयज्ञानेन निवृतौ दर्पणादीनां यावहारिकाणां विक्षेपशब्दितकार्याणां नाशप्रसंगः उपादाननाशादित्यर्थः । प्रातिभासिकविक्षेपाणामिवेत्यपि शब्दार्थः । ननु मूलाज्ञानकार्यस्य दर्पणादेर्व्यावहारिकत्व दर्शनात् । प्रतिबिंबाध्यासस्यापि तत्कार्यत्वे तदापतिरित्याशंक्यनिरोति । न चेत्यादिनामूलाज्ञानकार्यत्वं व्यावहारकत्वप्रयोजकं न भवति अनाद्यविद्यादौ तदभावेपि व्यावहरिकत्व सत्वात् । किं त्वन्यदेव तत्प्रयोजकमित्याह । अविद्यातिरिक्तेति । अनाद्यविद्यादावविद्याजन्यत्वाभावेपि तदतिरिक्तदोष्यजनात्वस्य सत्वात्र्यव्याप्तिरितिभावः । प्रतिबिंबाध्यासस्य मूलाज्ञानकार्यस्यापि न व्यावहारिकत्वं तत्प्रयोजकाभावादित्याह । प्रकृते चेति । प्रतिबिंबाध्यास प्. ५२ब्) इत्यर्थः । न चैवं सतीति प्रतिबिंबाध्यासस्य मूलाज्ञानकार्यत्वे सतीत्यर्थः । तन्मूलेति शुक्तिरनतादि मूलाविद्यानिवर्तक शुक्त्यादि साक्षात्कारस्यैव रजताद्य ध्यासनिवर्तकत्व दर्शनादिति भावः ।। विरोधाभावात् । ब्रह्माज्ञानानिवर्तकत्वेपि तदुपादानक प्रतिबिंबाध्यासविरोधिविषयकतयाधिष्ठानयाथात्म्यज्ञानस्य प्रतिबंधकविरह सचिवस्य तन्निवर्तकत्वोपपतेः । अवस्थाज्ञानोपादानत्वपक्षेपि तस्य प्राचीनाधिष्ठानज्ञानविवर्तिलावरणशक्ति कस्य समानविषयत्वमंगेन प्रतिबंधकाभावकालीनाधिष्ठानज्ञानेन निवर्तयितुमशक्यतया प्रतिबिंबाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वात् । अथवा स्वोपादानाज्ञाननिवर्तक ब्रह्मज्ञाननिवर्त्य एवाय मध्यासोस्तु व्यावहारिकत्वापतिस्त विद्यातिरिक्तदोषजन्यं त्वेन प्रत्युक्तैनत्याहुः । एवं स्वप्नाध्यासस्याप्यनवछिन्नचैतन्येहंकारोपहित चैतन्येवावस्थारूपाज्ञानशून्येध्यासात् ।। विरोधाभावादिति । मूलाज्ञानं ब्रह्मविषयकं प्रतिबिंबाध्यासाधिष्ट्वान भूतदर्पणादिज्ञानं तु दर्पणाद्यवछिन्न प्. ५३अ) चैतन्यविषयकमिति तयोः समानविषयकत्वस्य विरोधप्रयोजकस्याभावेन विरोधाभावादधिष्ठानयाथात्म्यज्ञानस्य ब्रह्माज्ञानानिवर्तकत्वेपीत्यर्थः । तत्पदं ब्रह्माज्ञानपरं विरोधिविषयकतयेति । दर्पणे मुखं नास्तीत्यादि रूपस्याधिष्ठानयाथात्म्यज्ञानस्य प्रतिबिंबाध्यासा भावविषयकतयेत्यर्थः । ननु प्रतिबिंबाध्यासस्यावस्थाज्ञानोपादानकत्वपक्षे बिंबोपाधिसन्निधिनिवृतिसहकृताधिष्ठान ज्ञानस्य तदुपादाना ज्ञाननिवर्तकत्वं लभ्यते । तथा च ज्ञानमज्ञानस्यैव निवर्तकमज्ञानकार्यस्य तु उपादानाज्ञाननिवृत्या निवृतिरिति पंचपादिकाकारोक्तं संगच्छत इत्याशंक्याह । अवस्थाज्ञानेति । तस्येति । अवस्थाज्ञानस्येत्यर्थः । प्राचीनेति बिंबाध्यासात् प्राचीनेनाधिष्ठानज्ञानेन दर्पणे मुखं नास्तीत्याद्याकारेण निवर्तिता आवरणशक्तिर्यस्यावस्थाज्ञानस्यत तथा तस्येत्यर्थः । अज्ञानविषयत्वमज्ञानावृतत्वमावरणनाशे च दर्पणाद्यवछिन्न चैतन्यस्यावस्थाज्ञानविषयत्वाभावादधिष्ठान ज्ञानस्यावस्थाज्ञानगमा न विषयकत्वं विरोधे प्रयोजकं भग्नमित्यर्थः । प्रतिबंधकपदं बिंबौपाध्योः सन्निधिपरं तस्य निवर्तयितुमशक्यतयेति संबंधः तन्निवत्येति । तत्पदमधिष्ठानज्ञानपरं अवस्थाज्ञानोपादानत्वपक्षेपि प्रतिबिंबाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वादिति संबंधः । तथा च पंचपादिकाविरोधः प्रतिबिंबाध्यासस्थावस्थाज्ञानोपादानत्वपक्षेपि तुल्य इति भावः तदविरुद्धप्रकारमाह । अथवेति । स्वपदं प्रतिबिंबाध्यासपरं । निवर्त्य एवेति । बिंबोपाध्योः सन्निधिविगमकाले प्रतिबिंबाध्यासस्य सूक्ष्मावस्था प्. ५३ब्) लक्षणनाशे सत्यपि व्यावहारिकत्वापतिरिति नेत्याह । व्यावहारिकत्वापतिस्त्विति तु शब्दोवधारणैप्रत्युक्तैवेति संबंधः । बिंबोपाधिसंन्निधिः दोषः । उक्त न्यायमन्यत्राप्यति दिशति । एवमिति । एवं स्वप्नाध्यासस्यापि मूलाज्ञानकार्यतया अविद्यातिरिक्तनिद्रादि दोषजन्य तयैव प्रातिभासिकत्वमिति संबंधः । नत्ववस्था ज्ञानकार्यतया प्रातिभासिक तमित्येव कारार्थः । अवस्था ज्ञानस्य स्वप्नो पादानत्वाभावै हेतुमाह । अवस्थारूपाज्ञानशून्ये ध्यासादिति । मतभेदेन स्वप्नाध्यासाधिष्ठान भेदमाहपि बाधरूपानिवृतिस्तथा नास्ति सा तु ब्रह्मज्ञानाधीनैव तस्यैव तदुपादानमूलाज्ञाननिवर्तकत्वादिति भावः । ननु ब्रह्मज्ञान बाध्यस्य घटादेरिव तद्बाध्यस्या अनवछिन्नेति अहंकारानवछिन्न ब्रह्मचैतन्यस्य मूलाज्ञानमात्राश्रयत्वादवस्था ज्ञानशून्यत्वमहंकारोपहितस्य साक्षि चैतन्यस्य सुखाद्यधिष्ठानस्यावरणानंगीकारादऽवस्थाऽज्ञानशून्यत्वमिति भावः ।। सुषुप्त्याख्यं तमोऽज्ञानं यद्बीजं स्वप्नबोधयोरित्याचार्याणां स्वप्नजाग्रत्प्रपंचयोरेका ज्ञानकार्यत्वोक्तेश्च मूलाज्ञानकार्यतया स्वोपादान निवर्तक ब्रह्मज्ञानैक बाध्यस्याविद्यातिरिक्त निद्रादि दोषजन्य तयैव प्रातिभासिकत्वमिति केचित् । अन्येत बाध्यंते चैते रथादयः स्वप्नदृष्टाः प्रबोध इति भाष्योक्तेरवि चात्मक बंध प्. ५४अ) प्रत्यनीकत्वाज्जाग्रद्बोधवदिति विवरण दर्शनादुत्थितस्य स्वप्नमिथ्यात्वानुभवाच्च जाग्रद्बोधः स्वप्नाध्यास निवर्तक इति । ब्रह्मज्ञानेतरज्ञानबाध्यते यैव तस्य प्रातिभासिकत्वं । न चाधिष्ठानयाथात्म्यागोचरं स्वोपादानाज्ञानानिवर्तकं । ज्ञानं कथमध्यासनिवर्तकं स्यादिति वाच्यं रजुसर्षाध्यासस्य स्वोपादाना अज्ञाननिवर्तकाधिष्ठानयाथात्म्यज्ञानेनेव तत्रैव स्वानंतरोत्पन्न दंडभ्रमेणापि निवृति दर्शनादित्याहुः ।। अत्राज्ञानकार्यस्य स्वप्नाध्यासस्यावस्था ज्ञानशून्यचैतन्ये अध्यासोक्त्यार्थान्मूलाज्ञानकार्यत्वमुक्तं । तत्र हेत्वंतरमाह । सषुप्त्याख्यमिति । सुषुप्तेरज्ञानावस्थारूपत्व विवक्षयासुषुप्त्याख्यत्वमज्ञानस्योक्तं बीजमुपादानं बोधो जाग्रत् प्रपंचः । तस्य शुक्तिरजतादि व्यतिरिक्तस्य मूलाज्ञानकार्यत्वं संप्रतिपन्नमितिभावः । आचार्याणामुक्तेश्चेति संबंधः स्वपदस्वप्नाध्यासपरंब्रह्मज्ञानैकेति । प्रबोधकाले स्वप्नप्रपंचस्य सूक्ष्मावस्थापति रूपनाशे सत्यपि बाधरूपानिवृतिर्ब्रह्मज्ञानैक साध्येति बोध्यं । अविद्यातिरिक्तदोषजन्यत्वं प्रातिभासिकत्वप्रयोजकमिति मतेन स्वप्नाध्यासस्य निद्रादिदोषजन्यस्य प्रातिभासिकत्वमुपपादितं व्यवहारकाले बाध्यमानत्वं प्रातिभासिकत्व प्रयोजकमिति मतेन तस्य प्. ५४ब्) तदुपपादयति । अन्ये त्विति । भाष्यगतं प्रबोध पदं सप्तम्यंतं बंधस्याविद्याकार्यत्वादविद्यात्मकत्वं प्रत्यनीकत्वं निवर्तकत्वं पंचम्यनंतरं ब्रह्मज्ञानस्येति शेषः यथा जाग्रत्कालीनो घटादिबोधः स्वप्नबंधनिवर्तकस्तद्वदित्यर्थः । उत्थितस्येति । मिथ्यैव मया स्वप्ने महाजनसमागमो दृष्टः नह्यस्ति महाजनसमागम इति तस्य मिथ्यात्वानुभवादित्यर्थः । यदि स्वप्नप्रपंचस्य ब्रह्मज्ञानबाध्यत्व प्रयुक्तं मिथ्यात्वं तदा स्वप्नादुत्थितस्य तत् मिथ्यात्वानुभवो न स्यात् । ब्रह्मज्ञानात् पूर्वं तद्बाध्ये घटादौ मिथ्यात्वानुभवादर्शनात् । अतो ब्रह्मज्ञानादितरेण जाग्रत् प्रबोधेनैव बाधः स्वप्नप्रपंचस्य वक्तव्य इति शुक्तिरजतादिवत् व्यवहार कालीन बाधवशादेव तस्य प्रातिभासिकत्वं व्यवहारकालश्च ब्रह्मतत्वज्ञानात् । पूर्वकाल इति भावः । ज्ञानमिति ब्रह्मज्ञानेतर ज्ञानमित्यर्थः । तस्य स्वप्नाध्यासनिवर्तकत्वाभावे हेतुं सूचयति । स्वेति । स्वस्य स्वप्नाध्यासस्य उपादानं मूलाज्ञानं तदनिवर्तकमित्यर्थः । तदनिवर्तकत्वे हेतुं सूचयति । अधिष्ठानेति । स्वप्नाधिष्ठानस्य पूर्वोक्तस्य यद्याथात्म्यमनवछिन्न ब्रह्मचैतन्यादि तदविषकमित्यर्थः । अधिष्ठानयाथात्म्यज्ञानस्यैवाज्ञाननिवृतिद्वाराध्यास निवर्तकत्वनियमादिति भावः । उक्तनियमासिध्या दूषयति । रजु सर्पेति । स्वपदं सर्पाध्यासपरं ज्ञानेनेवेति नायं सर्पः रजुरेषेति ज्ञानेनेवेत्यर्थः । तत्रैवेति सर्पाध्यासाधिष्ट्वान रजावेवेत्यर्थः प्. ५५अ) स्वेति सर्पभ्रमानंतरोत्पन्नेन नायं सर्पः दंडोयमिति भ्रमेणेत्यर्थः । निवृतिदर्शनादिति बाधदर्शनादित्यर्थः ।। अपरे तु जाग्रद्भोगप्रदकर्मोपरमे जाग्रत्प्रपंच द्रष्टारं प्रतिबिंबरूपं व्यावहारिकं जीवंत दृष्टं जाग्रत्प्रपंचमप्यावृत्यजायमानो निद्रारूपो मूलाज्ज्ञानस्यावस्था भेदः स्वाप्नप्रपंचाध्यासस्योपादानं न मूलाज्ञानं न च निद्राया अवस्थाज्ञानरूपत्वे मानाभावः मूलाज्ञानानेनावृतस्य जाग्रत्प्रपंचद्रष्टर्व्यावहारिक जीवस्य मनुष्योहं ब्राह्मणोहं देवदतपुत्रोहमित्यादिनां स्वात्मानमसंदिग्धाविपर्ययस्तमभिमन्यमानस्य तदीय चिरपरिचयेन तं प्रति सर्वदानावृतैकरूपस्य स्वपितामहात्ययादि जाग्रत्प्रपंचवृतांतस्य च स्वप्नकाले केनचिदावरणाभावे जाग्रत् दशायामिव स्वप्नेपि व्याघ्रोहं शूद्रोहं प्रज्ञदत्तपुत्रोहमित्यादि भ्रमस्य स्वपितामह जीवद्दशादिभ्रमस्य चाभावप्रसंगेन निद्राया एव तत्कालोत्पन्न व्यावहारिक जगज्जिवावरकाज्ञानावस्थाभेदरूपत्व सिद्धेः । न चैवं जीवस्याप्यावृतत्वात् स्वप्नप्रपंच दृष्टृत्वाभाव प्रसंगः ।। प्. ५५ब्) अधिष्ठान याथात्म्यज्ञानस्यैवाध्यासनिवर्तकत्व नियमेपि प्रकृतेनानुपपतिरिति मत्वा तदनुगुणं मतांतरमाह । अपरे त्विति । अस्मिन् मते व्यावहारिक जीवः स्वप्नप्रपंच द्रष्टः प्रातिभासिक जीवस्याधिष्ठानं स्वप्नप्रपंचस्य च जाग्रत्पपंच एवाधिष्ठानं नत्व नवछिन्नचैतन्यादिकं द्विविधाधिष्ठानावरणद्वारा च निद्रारूपमवस्थाज्ञानं दृष्ट्वदृश्यात्मक द्विविध स्वप्नप्रपंचोपादोनं न तु मूलाज्ञानं तस्या ब्रह्मचैतन्यमात्रावरकत्वेन व्यावहारिक जीवाद्यावरकत्वाभावात् । ततश्च व्यावहारिक जीव जगद्गोचरस्य प्रबोधस्याधिष्ठान याथात्म्यज्ञानरूपत्वा ते नैव स्वप्नाध्यासबाधः संभवतीति तात्पर्यार्थः कर्मो परमे सति जायमान इति संबंधः आवृत्येत्यनेन उपादानमित्यनेन च निद्राया आवरणविक्षेपशक्तिमत्वरूपमज्ञानलक्षणमुक्तमेवमज्ञानत्वे तस्यासिद्धे सत्युत्पतिमत्वात् । तदवस्थारूपत्वं सिध्यति । अस्मिन्मते सर्वेषामेवावस्थाज्ञानानामादिमत्वस्य प्रथमपरिछेदे उक्तत्वादिति भावः । संग्रहंणोक्तं मर्थमाशंकापूर्वकं प्रपंचयति । न च निद्राया इत्यादिना । मूलाज्ञाने नानावृतस्य व्यावहारिक जीवस्य जाग्रत्प्रपंचवृतांतस्य च स्वप्नकाले केनचिदावरणाभावे यज्ञदतपुत्रोंहमित्यादि भ्रमस्य स्वपितामह जीवदशानुभवस्य चाभावे प्रसंगेन निद्राया एवभेदरूउपत्वसिद्धेरिति संबंधः । जाग्रत्काले ब्राह्मणत्वादिरूपसत्वे संशविपर्ययोरभावमाह । असंदिग्धेति । असंदिग्धाविपर्यस्तं यथा भवति तथा अभिमन्यमानस्येति संदेहविपर्यास- प्. ५६अ) भिन्नत्वमभिमानक्रियाविशेषणं स्वपितामहात्ययादेर्जाग्रत्प्रपंचवृतांतस्य तं देवदत्तपुत्रं प्रतिसर्वदानावृतत्वेनैकरूपतयावस्थाने हेतुमाह । तदीयेति देवदतपुत्रो हि स्वपितामहादिमरणं प्रथममनुभूय पश्चात् प्रतिमासंवत्सरं च श्राद्धतर्पणादिकं करोति । ततश्च तन्मरणादिगोचरानुभवस्मरणाभ्यासः चिरपरिचयस्तेन स्वपितामहान्यपादौ संशयादिनिवृतिभात्कलक्षणमनावृतत्वं सदा एकरूपेण वर्तत इत्यर्थः । जागरणे यथा देवदत्तपुत्रस्य व्याघ्रादि भ्रमाभावः स्वपितामह जीवदशानुभवा भावश्च तथा स्वप्नेप्यभावप्रसंगेनेत्यर्थः । तत्कालेति । निराकाले उत्पन्नो यो व्यावहारिक जगज्जीवयोरावरको ज्ञानावस्थाभेदः तद्रूपत्वं निद्राया एव सिध्यति नान्यस्यावरणविक्षेपशक्तिमत्वेन तस्या उपस्थितत्वादन्यस्यानुपस्थितत्वादित्यर्थः न चैवमिति । निद्राया व्यावहारिक । जीवाद्यावरकाज्ञानावस्थाविशेषरूपत्वसिद्धौ सत्यामित्यर्थः ।। स्वाप्नप्रपंचेन सहद्रष्ट्रर्जीवस्यापि प्रातिभासिकाध्यासात् । एवं च पुनर्जाग्रद्भोगप्रदकर्मोद्भूते बोधे व्यावहारिक जीवस्वरूपज्ञानात्स्वोपादाननिद्रारूपाज्ञाननिवर्तकादेव स्वाप्नप्रपंचबाधः । न चैवं तत् द्रष्टः प्रातिभासिक जीवस्यापि ततो बाधे स्वप्ने करिणमन्वभूवमित्यनुसंधानं न स्यादिति वाच्यं व्यावहारिक प्. ५६ब्) जीवे प्रातिभासिक जीवस्याध्यस्ततया तदनुभवाद्व्यावहारिक जीवस्यानुसंधानोपगमेप्यति प्रसंगादिति । नन्वनवछिन्नचैतन्येऽहंकारावछिन्नचैतन्येवास्वाप्न- प्रपंचाध्यास इति प्रागुक्तं पक्षद्वयमप्ययुक्तं । आद्ये स्वाप्नगजादेरहंकारोपहितसाक्षिणो विछिन्न देशत्वेन सखादिवदंतःकरणवृतिसंसर्गमनपेक्ष्यतेन प्रकाशनस्य चक्षुरादिनामुपरततयावृत्युदयासंभवेन तत्संसर्गमपेक्ष्यतैन प्रकाशनस्य चायोगात् । द्वितीये इदं रजतमिति वदहं गज इति वा अहं सुखीति वदहं गजवानिति वाध्यासप्रसंगात् ।। प्रातिभासिकांतःकरणे चित्प्रतिबिंबरूपस्य जीवांतरस्याभ्युपगमान्नैतच्चोचावकाश इत्याशयेनाह । स्वाप्नप्रपंचेन सहेति । एवं चेति व्यावहारिक जीवजगतोरेव स्वाप्नजीवजगदधिष्ठानत्वे सिद्धे सतीत्यर्थः । कर्माद्भूते बोध इति । कर्मजन्ये जागरण इत्यर्थः । जीवस्वरूपज्ञानादिति मनुष्योहं ब्राह्मणोहं देवदतपुत्रोहमित्यादिरूपादित्यर्थः । उपलक्षणचैतत् स्वपितामहात्ययादि ज्ञानाच्चेत्यपि द्रष्टव्यं स्वपदं स्वप्नप्रपंचपरं न चैमिति एवं शब्दार्थमेवाह । तदृष्टरिति । तस्य स्वप्रपंचस्य द्रष्ट्रः व्याघ्रोहं शूद्रोहमित्यादिरूपेण स्वात्मानं मन्यमानस्येत्यर्थः । प्. ५७अ) तत इति व्यावहारिक जीवस्वरूपज्ञानावित्यर्थः । न स्यादिति अन्यानुभूतेर्थे अन्यस्य स्मरणायोगादितिभावेः । अध्यस्तयेति । तथा च व्यावहारिक प्रातिभासिक जीवयोरधिष्ठानारोप्ययोः । तादात्म्य स त्वात् प्रातिभासिक जीवकर्तृकानुभवाद्व्यावहारिक जीवस्य स्वप्नपदार्थानुसंधानं संभवतीत्यर्थः । अति प्रसंगेति । यज्ञदतानुभूतार्थे विष्णुमित्रस्याप्यनुसंधानप्रसंगरूपाति प्रसंगाभावादित्यर्थः । तयोस्तादात्म्याभावादिति भावः । ननु जीवत्रैविध्यपक्षे द्रष्टृ दृश्यत्मक स्वप्नाध्यासाधिष्ठानत्वेनोपगतस्य व्यावहारिक जीवादेर्मिथ्यात्वेन जडतया स्वप्नप्रपंचावभासकत्वं न संभवति । न च चैतन्यमेव तदवभासकमिति वाच्यं तथा सति तस्यैवाधिष्ठानतया तत्सतास्पूर्तिरूपत्वसंभवे जडस्याधिष्ठानत्वाभ्युपगमायोगात् । तर्हि तदेवाधिष्ठानमस्त्विति चेन्न तत्राप्यनुपपतिसत्वादित्याह । नन्वित्यादिना । अनवछिन्नचैतन्यस्वाधिष्टानत्वपक्षे स्वाप्नगजादेर्देहात् । बाह्य देहस्थत्वं वक्तव्यं तथा च तस्य किं साक्षि भास्यत्व मैंद्रियकत्वं वा नाद्य इत्याह । अहंकारेति । साक्षिण इति पंचमी विछेदोक्त्या साक्षिणः स्वप्नगजदिनासहस्वतः संसर्गाभावो दर्शितः । अंतःकरणवृतिसंसर्गमनपेक्ष्यस्वाप्नगजादेस्तेन प्रकाशस्य तत्संसर्गमपेक्ष्यतेन प्रकाशस्य चायोगादिति संबंधः तेनेति पदद्वयं साक्षि परं यथा सुखादेः सुखादि गोचरांतःकरणवृति संसर्गमनपेक्ष्यतेन प्रकाशः तथा तेन स्वाप्नगजादेः प्रकाशायोगादित्यर्थः । द्वितीयं निरस्यति । चक्षुरादीनामिति । द्वितीय इति अहमनुभवगोचराहंकारोपहितचैतन्यस्य स्वप्नाध्यासाधिष्ठानत्व प्. ५७ब्) पक्ष इत्यर्थः । किं गजादेस्तादात्म्येन तत्राध्यासः किं वा अधारोधेय भावसंसर्गेण आद्यं दूवयति इदं रजतमिति वदिति द्वितीयं निराकरोति । अहंसुखीति । वदिति । द्वितीये अहंगज इत्यहं गजवानिति बाध्यास प्रसंगादिति योजना ।। अत्र केचिदाद्यपक्षं समर्थयंते । अहंकारानवछिन्नं चैतन्यं न देहाद्बहिः स्वाप्नप्रपंचस्याधिष्ठानमुपेयते किंतु तदंतरेव । अत एव दृश्यमान परिमाणोचित देशसंपत्यभावान्स्वाप्नगजादीनां मायामयत्वमुच्यते । एवं चांतःकरणस्य देहाद्बहिरस्वातेत्र्या जागरणे बाह्यशुक्तीदमंशादि गोचरवृत्युत्पादाय चक्षुराद्यपेक्षायामपिंदहांतरं तष्करणस्य स्वतंत्रस्य स्वयमेववृतिसंभवाद्देहांतरं तष्करणवृत्यभिव्यक्तस्यानवछिन्नचैतन्यस्याधिष्ठानत्वेन काचिदनुपयतिः । अत एव यथा जागरणं संप्रयोगजन्यवृत्यभिव्यक्त शुक्तीदमंशावछिन्नचैतन्यस्थिता विद्यारूप्याकारेण विवर्तते तथा स्वप्नेपि देहस्यांतरंतःकरणवृतो निद्रादिदोषोपेतायामभिव्यक्त चैतन्यस्थाऽविद्याऽदृष्टोद्बोधित नानाविषयसंस्कार सहिता प्रपंचाकारेणविवर्ततामिति विवरणोयन्यासे प्. ५८अ) भारतीतीर्थवचनमिति । अन्ये त्वनवछिन्नचैतन्यं न वृत्यभिव्यक्तं सत्स्वाप्नप्रपंचस्याधिष्ठानं । अशब्दमूलकानवछिन्नचैतन्यगोचरवृत्युदयास भवात् । मूल टीका । अहंकारानवाछिन्नेति । अविद्यायां बिंबभूतमीश्वरचैतन्यमिहानछिन्नचैतन्यं विवक्षितमीश्वरचैतन्यस्यैव सर्वाधिष्ठानत्वान्नाविद्याप्रतिबिंबरूपं जीवचैतन्यं तस्यानुपादानत्वादिति बोध्य व्यांतरचैतन्यस्यैवाधिष्ठानत्वे नियामकमाह । व्यत एवेति । आंतरं चैतन्यस्याधिष्ठानत्वोपगमादेवेत्यर्थः । स्वप्नकाले दृश्यमानपरिमाणवतां गजादीनां शरीरस्यांतरुचित देश संपत्यभावात् । प्रातिभासिकत्वमुच्यते सूत्रकारादिभिः शरीराद्बाह्यचैतन्यस्याधिष्ठानत्वे तु जाग्रद्गजादीनामिव स्वाप्नगजादीनामपि योग्यदेशलाभाद्व्यावहारिकत्वमेव स्यात् । तथा च सूत्रादि विरोध इत्यर्थः । एवं चेति । आंतरस्यैव चैतन्यस्य स्वप्नाध्यासाधिष्ठानते प्रमाणसिद्धे सतीत्यर्थः । ननु शरीरांतगंतस्यापि ब्रह्मचैतन्यस्यावतत्वात् । तत्राध्यस्तानां स्वाप्नगजादीनामनवभासप्रसंगः । न चांतःकरणवृत्यावरणनाशे सति तेषामवभासः संभवतीति वाच्यै स्वप्ने चक्षुरादीनामुपरतत्वेन वृत्यसंभवान्न च स्वयमैवांतःकरणवृतिस्तदा संभवतीति वाच्यं । जागरणेपि तथा प्रसंगेन तदापि चक्षुराद्यपेक्षाभावप्रसंगादित्यत आह । अंतःकरणस्येति स्वयमेवेति । चक्षुरादिके मनपेक्ष्येवेत्यर्थः । न काचिदिति अभिव्यक्तचैतन्यस्येवांतरस्यैवाधिष्ठानत्वोपगमेन स्वप्नप्रपंचस्यावभासानुपपतिर्वा प्रातिभासिकत्वानुपपतिर्वा नास्तीत्यर्थः । अंतःकरणवृत्यभिव्यक्तचैतन्य प्. ५८ब्) स्याधिष्ठानते संमतिमाह । अत एवेति । अंतःकरणवृत्यभिव्यक्तै चैतन्यै सदासुलभे सदास्वप्नाध्यास प्रसंग इत्यत आह । निद्रादीति । पीतोद्रेकादिरादिपदार्थः । दोषोपप्लुतायां वृतावभिव्यक्तं यच्चैतन्यं तत्र विद्यमानाविद्येत्यर्थः । स्वप्नप्रपंचवैविचित्र्यप्रयोजकमाह । नानाविषयेति । जागरणे नानाविधविषयानुभवजनिताः संस्काराः अंतःकरणे तिष्ठंति तैरदृष्टोद्बोधितैः सहिता विद्याविचित्रप्रपंचाकारेण परिणमत इत्यर्थः । इदानीमविद्यायां प्रतिबिंबभूतमनवछिन्न जीवचैतन्यमेवाधिष्ठानमिति मतांतरमाह । अन्ये त्विति । पूर्वमते अनुपपतिमाह । अनवछिन्नचैतन्यमिति । बिंबभूतमितिशेषः अशब्दमूलकेति । शुद्धब्रह्मण इव ईश्वरचैतस्यापि शास्त्रैकराम्यत्वादितिभावः ।। अहंकाराद्यवछिन्नचैतन्य एवाहमाकारवृत्युदय दर्शना तस्मात् स्वतो परोक्षमहंकाराद्यनवछिन्नं चैतन्यं तदधिष्ठानं । अत एव संक्षेप शारीरके । अपरोक्षरूपविषयभ्रमधीरपरोक्षमास्पदमपेक्ष्य भवेत् । मनसा स्वतो नयनतो यदि वा स्वप्नभ्रमादिषु तथा प्रथितेः । इति श्लोकेनापरोक्षाध्यासापेक्षितमधिष्ठानापरोक्ष्यं क्वचिन्मानसवृत्या क्वचिद्बहिरिंद्रियवृत्येत्यभिधाय स्वतो परोक्षाविति । रत्रविभ्रमेस्तथापि रूपाकृतिरत्र जायते । मनो निमित्रं स्वपने मुहुर्मुहुर्विनापि चक्षुर्विषयं स्वमास्पदम् । मनोवगम्येप्यपरोक्षताबलात्तथाम्वटे प्. ५९अ) रूपमुपोलिखन्भ्रमः सितादिभेदैर्वहुधा समीक्ष्यते तथाक्षिगम्ये इजतादि विभ्रम इत्याद्यनंतरश्लोकेन स्वप्नाप्यासे स्वतोधिष्ठानापरोक्ष्यमुदाहृते न चाहकारानवछिन्नचैतन्यमात्रमावृतमिति वृतिमतरेण न तदेभिव्यक्तिरिति वाच्यं ब्रह्मचैतन्यमेवावृतमविद्याप्रतिबिंबजीवचैतन्यमहंकारा- नवछिन्नमप्यनावृतमित्यभ्युपगमात् ।। नन्वऽनवछिन्नेप्यविद्या प्रतिबिंबरूपजीवचैतन्ये शब्दनिरपेक्षाहमाकारवृत्युदयदर्शनात् । ब्रह्मचैतन्येपि तथा किं न स्यादिति नेत्याह । अहंकाराद्यवछिन्नचैतन्य इति । इयं विषय सप्तमी आदिपदं शरीरादि संग्रहार्थं न त्वहंकाराद्यनवछिन्न जीवचैतन्य इत्येव कारार्थः । जीवचैतन्यस्यापि व्यापकत्वं त्वं पदार्थशोधक श्रुति तदनुकूलन्यायगम्य मेवेति दृष्टोता सिद्धिरिति भावः । तस्मादिति बिंबभूतानवछिन्नब्रह्मचैतन्यस्याभिष्ठानत्वासंभवादित्यर्थः । स्वत इति वृतिमंतरेणैवाभिव्यक्तमित्यर्थः । चैतन्यमिति । पूर्वमत इव आंतरमेवेतिशेषः । अत एवेति । स्वतोपरोक्षचैतन्यस्यैव स्वप्नाध्यासाधिष्ठानत्वेन स्वीकारादेवेत्यर्थः । अपरोक्षरूपाविषयस्य शुक्तिरजतादेर्याभ्रमरूपाधीः सा अपरोक्षाधिष्ठानमपेक्ष्य भवति । यद्वा अपरोक्षरूपस्य विषयस्य शुक्तिरजतादिर्या भ्रमरूपाधीः सेत्यर्थः । तच्चाधिष्ठानापरोक्ष्यं केन भवतीत्यत आह । मनसेत्यादिना मनसा स्वतो प्. ५९ब्) वा यदि वा नयनत इति योजना । तत्र प्रमाणमाह । स्वप्नभ्रमादिषु तथा प्रथितेरिति । अन्वयादिना तथा प्रतीतेरित्यर्थः । तथाहि शुक्तीदमंशस्य नयनसंनिकर्षे सति तस्य रजताध्यासापेक्षितमापरोक्ष्यं भवति नान्यथेत्यन्वयव्यतिरेकाभ्यां क्वचिदधिष्ठानापरोक्ष्यं नयनत इति प्रथितेः । तथा गगननैल्याष्वध्यासापेक्षितं गगनावछिन्नचैतन्यरूपाधिष्ठानापरोक्ष्यं मनसा संभवतीति गम्यते । मत्रसेत्यनेन गगनावछिन्नचैतन्यव्यंतिकादि गोचरचाक्षुष वृतिर्विवक्षितानीरूपगगनगोचरचाक्षुष वृतेरसंभवाच्चक्षुरुन्मीलनानंतरमेव नीलं नभ इत्यादि प्रत्यक्षं नान्यथेत्यन्वयव्यतिरेकाभ्यां गगनचैतन्याभिव्यक्तौ चाक्षुषवृतेरुपयोगावगमाच्च तथा च फलबलादन्याकारवृत्याप्यन्यावछिन्नचैतन्याभिव्यक्तिरिष्यत इदं चाद्वैत दीपिकादौ प्रपंचितमिति बोध्यं उदाहृत श्लोकस्य तात्पर्यमाह । इति श्लोकेनेति । अत्रेति । प्रकृते विभ्रमे स्वप्नाध्यासरूपे स्वतोपरोक्ष चैतन्यमधिष्ठानमित्यर्थः । अत एव संक्षेपशारीरके स्वप्नाध्यासे स्वतोधिष्ठानापरोक्ष्यमुदाहृतमिति संबंधः स्वप्नाध्यासाधिष्ठानचैतन्यापरोक्षस्य स्वतः सिद्धत्वमाक्षेप समाध्यनाभ्यां दर्शयति । न चाहंकारानवछिन्नेति । मात्रपदं कार्त्स्नार्थकं तथा च शरीरांतर्गतमपि चैतन्यमावृतमेवेति भावः वृतिमिति वृतिरप्यनवछिन्नगोचराशब्दमतरेण न संभवतीति प्रागुक्तमिति ध्येयं । अनावृतमिति । तदेव स्वप्नाध्यासाधिष्ठानमितिभावः । ननु सर्वगतस्य जीवचैतन्यस्यांनावृतत्वे तस्य घटादिविषयदेशे सदा सत्वेन प्. ६०अ) चाक्षुषादिवृतिमनुपेक्ष्य सदासर्वविषयावभासप्रसंग इति चेन्न सर्वत्र विद्यमानस्यापि तस्यानुपदानतया घटादि विषयैः सह संवेधा भावेन संबंधाभवेन संबंधार्थतया वृत्यपेक्षायाः प्रतिकर्मव्यवस्थाया मुक्तत्वात् ।। एवं चाहंकारानवछिन्नचैतन्येध्यस्यमाने स्वाप्न गजादौ तत्समनियताधिष्ठानगोचरांतःकरणादि वृति कृता भेदाभिव्यक्त्याप्रमातृचैतन्यस्यापीदं पश्यामीति व्यवहार इत्याहः । अपरे तु द्वितीयं पक्षं समर्थयंते । अहंकारावछिन्न चेतन्यमधिष्ठानमित्यहंकारस्य विशेषणभावेनाधिष्ठान कोटिप्रवेशोनोपेयते । किं त्वहंकारोपहितं तत्प्रतिबिंबरूपचेतन्यमात्रमधिष्ठानमित्यतोनाहं गज इत्याद्यनुभवप्रसंग इति एवं शुक्तिरजतमपि शुक्तीदमंशावछिन्न चैदन्यप्रतिबिंबवृतिमदंतःकरणगतेध्यस्यते शुक्तीदसंशावछिन्न बिंबचैतन्ये सर्वसाधारणे तस्याध्यासे सुखादि वदनन्यवेधत्वाभावप्रसंगादिति केचित् ।। ननु विद्याप्रतिबिंबरूपजीवचैतन्ये शरीरांतर्गते विशेषणत्वेनोपाधित्वेन वा अहंकारनिरपेक्षे अनवछिन्नशब्दिते स्वप्नाध्यासोपगमे सति तस्यैव स्वप्नकाले द्रष्टृत्वं स्यात् प्. ६०ब्) न तु प्रमातुः तस्याहंकार तादात्म्यापत्या तदवछिन्नस्य ततोभिन्न त्वात् न चेष्टापतिः स्वप्नकाले अहं श्रीकृष्णं पश्यामीति प्रमातुः स्वप्नपदार्थद्रष्ट्रत्वानुभवविरोधापतेरित्यत आह । एवं चेति । स्वतो परोक्षजीवचैतन्यस्याधिष्ठानत्वै सतीत्यर्थः । तत्समनियतेति । यदा गजादिरध्यस्यते तदैव तदधिष्ठान गोचरांतःकरणवृतिरविद्यावृतिर्वा जायते तथा च स्वाप्नगजाद्यधिष्ठान चैतन्यस्य वृतिद्वारावृतिमदंतःकरणसंबंधेन प्रमातृत्व प्राप्तौ सत्यां प्रमातुस्तद्द्रष्टृत्वं संभवतीत्यर्थः । अभेदाभिव्यक्त्येति । उक्त प्रकारेण प्रमातृविषयचैतन्ययोरभेदाभिव्यक्त्येत्यर्थः । द्वितीयमिति । अवछिन्नचैतन्यस्वप्नाध्यासाधिष्ठानमिति पक्षमिति पक्षमित्यर्थः । अयं गज इति प्रत्यय स्थाने अहं गज इत्यादि प्रत्ययप्रसंगवारणायाहंकारांशस्याधिष्ठानतं नांगीक्रियते चेतर्हि अनवछिन्नस्याधिष्ठानत्वमागतमिति पूर्वमताभेदे प्रसक्तिरिति शंकते । किं त्विति । अंतःकरणे चैतन्यप्रतिबिंबभूतं यज्जीवचैतन्यं तन्मात्रमधिष्ठानमुपेयते तच्च परिछिन्नमेव उपाधेः परिछिन्नत्वादिति परिहरति । अहंकारोपहितमिति । अत इति अहमुल्ले स्वप्रयोजकस्य अहंकारात्मकांतःकरणस्याधिष्ठानकोटावननुप्रवेशादित्यर्थः । अविद्यायां बिंबभूतब्रह्मचैतन्यस्य तस्यां प्रतिबिंबभूत जीवचैतन्यस्य वा स्वप्नप्रपंचाध्यासाधिष्ठानत्वमते तयोः सर्वप्रमातृसाधारणत्वात् । स्वप्नप्रपंचस्यापि साधारण्यं स्यात् । अंतःकरणप्रतिबिंबचैतन्यस्य तदधिष्ठानत्वे प्. ६१अ) तु साधारण्य प्रसंगदोषो नास्तीत्याशयेनास्य द्वितीय पक्षस्य प्रवृतिरिति बोध्यं । नन्वेवं । शुक्तिरजतादेरसाधारण्यं न स्यात् । तदधिष्ठान चैतन्यस्य साधारणोत्वादित्याशंक्यहेत्वसिद्धिमाह । एवमिति । वृतिमदंतःकरण इति । शुक्तिदमंश संसृष्टायां वृतौ शुक्तीदमंशावछिन्नब्रह्मचैतन्यस्य यः प्रतिबिंबः तस्मिन् न ध्यस्यते स च प्रतिबिंबो वृतिगत ऐव तस्य वृतिवृतिमतोरभेदोपचारात् । वृतिमदंतःकरणगतत्वोक्तिरनन्य वेद्यत्वस्फुटीकरणायेति बोध्यं । वृतिगतस्य ब्रह्मप्रतिबिंबस्य शुक्तिरजताधिष्ठानत्वानुपगमे साधारण्यप्रसंगतादवस्थामभिप्रेत्याह । शुक्तीदमंशावछिन्नेति । सुखादेरिव शुक्तिरजतादेर्यदनन्यवेद्यत्वं तस्याभावप्रसंगादित्यर्थः । देवदत्त सुखदुःखरागद्वेषादिक देवदत्तादन्यस्य वेद्यं प्रत्यक्षं न भवतीत्यनन्य वेद्यंतदित्यर्थः ।। केचित् तु बिंबचैतन्य एव तदध्यासमुपेत्य यदीयाज्ञानोपादानकं यत तस्यैव प्रत्यक्षं न जीवांतरस्येत्यनन्य वेद्यत्वमुपपादयंति । ननु शुक्तिरजताथासे चाक्षुषत्वानुभवः साक्षाद्वाधिष्ठान ज्ञानद्वारा तदपेक्षणाद्वासमर्थ्यते स्वाप्नगजादि चाक्षुषत्वानुभवः कथं समर्थनीयः । उच्यते न तावतत्समर्थनाय स्वाप्नदेहवद्विसयवच्चेंद्रियाणामपि प्रातिभासिको विवर्तः प्. ६१ब्) शक्यते वक्तुं प्रातिभासिकस्याज्ञातसत्वाभावात् इंद्रियाणां चातींद्रियाणां सत्वे अज्ञात सत्वस्य वश्य वाच्यत्वात् । नापि व्यावहारिकाणामेवेंद्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्नदेहमाश्रित्य स्वस्वविषयग्राहकत्वं वक्तुं शक्यते । स्वप्नसमये तेषां व्यापारराहित्यरूपोपरति श्रवणात् ।। अधिष्ठान चैतन्यस्य साधारणत्वेपि शुक्तिरजताद्युपादानाज्ञानस्यासाधारण्याच्छक्तिरजतादेर साधारण्यमित्याह । केचित्विति बिंबचैतन्य एवेति वृतिगत प्रतिबिंबं प्रतिबिंबचैतन्य इत्यर्थः । यद्वा अविद्याप्रतिबिंब । प्रतिबिंबभूते ब्रह्मचैतन्ये शुक्तीदमंशावछिन्न इत्यर्थः । न त्वसाधारणे वृति प्रतिबिंब इत्येव कारार्थः । यदीयेति यद्रजतं यत्पुरुर्षाया ज्ञानोपादानकं त व्रजतं तस्यैव पुरुषस्यै प्रत्यक्षं नान्यस्येति कल्पनोपपतेः । न शुक्तिरजतादेः साधारण्य प्रसंग इत्यर्थः । एव स्वप्नप्रपंचाध्यासस्याधिष्ठानं निरूप्य स्वाप्न पदार्थानुभवः किमैंद्रियकः किं वा साक्षिरूप इति संशये निर्णयाषाक्षेपमवतारयति । नन्विति साक्षाद्वेति । इदं च शुक्तिरजतादिरैंद्रियकत्वमिति कविता किंकमतानुसारेणेति बोध्य शुक्तिरजतादेः साक्षिभाष्यत्वमतानुसारेणाह । अधिष्ठानज्ञानद्वारेति धर्मिज्ञानद्वाराचक्षुर प्. ६२अ) पेक्षत्वाच्छुक्तिरजतादेरित्यर्थः । कथमिति स्वाप्नगजादि चाक्षुषत्वानुभवो हि वासना मयैरिंद्रियैर्वा व्यावहारिकेंद्रियैर्वा सूक्ष्मेंद्रियैर्वा आरोपरूपतया वा समर्थनीयतया संभाव्यते तथा च स केन प्रकारेण समर्थनीय इति प्रश्नार्थः । चतुर्थप्रकारेण तत्समर्थनं प्रतिजानीते । उच्यत इति । आद्यं प्रकारत्रयं निराकरोति न तावदित्यादिना । वासना मयैः प्रातिभासिकैः इंद्रयैः चाक्षषत्वानुभवसमर्थनप्रकारं प्रथमं दूषयति स्वाप्नदेहवदिति । स्वाप्नाश्च विषयाः प्रातिभासिकाश्चैतन्यविवर्तरूपा यथाभ्युपगम्यं तेन तथेंद्रियाणां स्वरूपभूतश्चैतन्यविवर्तः प्रातिभासिकोभ्युपगंतुं शक्यते इत्यर्थः । वाच्यत्वादिति । तेषामज्ञात सत्वनियमस्य दर्शनाद् दृष्टानुसारित्वाच्च कल्पनाया इति भावः । द्वितीयं प्रकारं निराकरोति । नापीति । ननु व्यावहारिकैरिंद्रियैः स्वाप्नगजादीनां चाक्षुषत्वानुभवसमर्थन प्रकारस्य उत्थितिरेव नास्ति तेषां जाग्रद्देहस्थत्वेन सुप्तदेहस्थत्वाभावादित्याशंक्याह । स्वस्वेति श्रवणादिति । यपषसुप्तेषु जाग्रतीत्यादि श्रुतिष्विशेषः श्रुतौ सुप्तेष्वित्यनंतरं करणेष्वितिशेषः करणानां स्वायो नाम उपरतिः सा च स्वप्नसमये व्यापार राहित्यरूपैव न तु तेषां स्वरूपोपरतिस्तस्याः सुषुप्तावेव श्रवणादिति बोध्यं ।। व्यावहारिकस्य स्पर्शनेंद्रियस्य स्वोचित व्यावहारिक देशसंपति विधुरेतः शरीरे स्वाधिकपरिमाणकृत्स्न स्वाप्नशरीरव्यापित्वा योगाच्च प्. ६२ब्) तदेक देशाश्रयत्वे च तस्य स्वाप्नजलावगाह न जन्य सर्वागीनशीतस्पर्शानिर्वाहात् । अत एव स्वप्ने जाग्रदिंद्रियाणामुपरतावपि तैजसव्यवहारोपयुक्तानि सूक्ष्मशरीरावयवभूतानि सूक्ष्मेंद्रियाणि संतीतितैः स्वाप्नपदार्थानामैंद्रियकत्वमित्युपपादन शंकापि निरस्ता जाग्रदिंद्रिय व्यतिरिक्त सूक्ष्मेंद्रिया प्रसिद्धेः । किं चात्रायं पुरुषः स्वयं ज्योतिरिति जागरे आदित्यादि ज्योतिर्व्यतिकराच्चक्षुरादि वृतिसंचाराच्च दुर्विवेकमात्मनः स्वयं ज्योतिष्ट्टमिति स्वप्नावस्थामधिकृत्य तत्रात्मनः स्वयं ज्योतिष्ट्टं प्रतिपादयति ।। त्वगिंद्रियमात्रे दोषांतरमाह । व्यावहारिकस्येति । स्वस्य स्पर्शनेंद्रियस्य उचितो यो व्यावहारिक देशः तत्संपति विधुरे शरीरस्यांतः प्रदेशे स्थितं व्यावहारिकत्वगिंद्रियपरिमाणापेक्षया कदाचिदधिकपरिमाणवत्स्वाप्नदेहं कृत्स्नं न व्याप्नुयात् । त्वगिंद्रियमित्यर्थः । व्यावहारिक स्पर्शनेंद्रियस्योचित देशकालसंपति वैधुर्यविशेषणेन तस्य स्वप्न देहप्रवेशायांतः शरीरे गमनमेव न संभवतीति सूचितं । प्. ६३अ) यदि व्यावहारिकस्पर्शनेंद्रियस्य कृत्स्नस्वाप्नदेहव्यापित्वा योगस्तहि स्वाप्नदहैकदेशाश्रयत्वमेवास्त को दोषस्तत्राह । तदेक देशेति । तस्येति । स्पर्शनेंद्रियस्येत्यर्थः । तृतीयं प्रकारं निराकरोति । अत एवेति । व्यावहारिकस्पर्शनैंद्रियस्यैव स्वाधिकपरिमाण कृत्स्न स्वप्नशरीरव्यापित्वायोगे सति तदवयवभूतसूक्ष्मस्पर्शनेंद्रियस्य सुतरां स्वप्नदेहव्यापित्वायोगादेवेत्यर्थः । तैजसः स्वप्नावस्था गतो जीवः सूक्ष्मशरीरशब्देन व्यावहारिकाण्येकादशेंद्रियाण्युच्यंते । स्पर्शनेंद्रियमात्रे दोषमति देशेन दर्शयित्वा साधारणदोषमाह जाग्रदिंद्रियेति । नन्व प्रसिद्धान्यपि स्वप्नकाले पदार्थानां चाक्षुषत्वाद्यनुभवानुरोधेन कल्प्यंत इत्याशंक्यश्रुतिविरोधान्नैवमित्याह । किं चात्रेति । श्रुतावत्रेति पदेन स्वप्नावस्थाग्रहणस्य तात्पर्यमाह । जागर इति । जागरे कार्यकारणसंघातानामासनममनागमनादिलक्षणव्यवहार साधनत्वेनादित्यादि ज्योतींपि व्यवहिषमाणपदार्थैः सहसंकीर्णानिविष्टंति तथा व्यवहारसाधनत्वेनैव चक्षुरादि जन्यावृतयो विषयदेशं प्रतिगछंतीत्यर्थः । व्यतिकरः स्वंपर्कः संसर्ग इति यावत् । जागरे दुर्विवेकमिति संबंधः । दुःखेन षिवेको निर्णयो यस्य तदुर्विवेकमनायासेन निर्णेतुमशक्यमिति यावत् । आत्मनः स्वयं ज्योतिष्टां नाम अन्यानवभास्यत्वे सति स्वव्यतिरिक्त सकलावभासकत्व योग्यत्वं तच्च जागरे गृहीतुमशक्यंतेथा ह्यात्मव्यतिरिक्तस्य सर्वस्यात्ममात्रावभास्यत्वं न वक्तं शक्यते । आदित्यादि ज्योतिषां चक्षुरादि जन्यवृतिज्ञानानां च लोके जगदवभासकत्वेन प्रसिद्धानां प्. ६३ब्) सत्वादात्मनोप्यहमिति ज्ञानप्रकाशत्वेन तस्यान्यानवभास्य त्वस्य वक्तुमशक्यत्वाच्चेति शंकायाः । जागरे परिहर्तुमशक्यत्वे जागरे स्वयं ज्योतिष्टनिर्णयायोगात् । स्वप्नावस्थायां तु जागरणे प्रसिद्धानामादित्यादि ज्योतिषां चक्षुरादिजन्य ज्ञानानां चाभावादात्मचैतन्यमात्रावभास्यं स्वाप्नजगदिति निर्णयः संभवति । तथाहमिति ज्ञानं वृतिरूपमात्मनः प्रकाशकं न भवतीति वक्ष्यते । तथा च अन्यानवभास्यत्वे सति सकलजगदवभासकत्वयोग्यत्व रूपं स्वयं ज्येतिष्ट्वमात्मनः स्वप्नावस्था साक्षित्वेन निर्णेतुं शक्यमित्यर्थः । ननु स्वप्नदशायामेव तस्य स्वयं ज्योतिष्ट्वं न त्ववस्थांतर इति यथा श्रुतार्थ एव श्रुतेस्ता ।। अन्यथा तस्य सर्वदा स्वयं ज्योतिष्ट्टंःत्रेति वैयर्थ्यात् । तत्र यदि स्वप्नेपि चक्षुरादि वृतिसंचारः कल्प्येत तदा तत्रापि जागर इव तस्य स्वयं ज्योतिष्टं दुर्विववेचं स्यादित्युदाहृता श्रुतिः पीड्येत । ननु स्वप्ने चक्षुरायुपरमकल्पनेर्प्यतः । करणमनुपरतमास्त इति परिशेषा सिद्धेर्न स्वयं ज्योतिष्ट्व विवेकः मैवं कर्ता शास्त्रार्थवत्वादित्यधिकरणे न्यायनिर्णयोक्तरीत्यांतःकरणस्य चक्षुरादिकरणांतर निरपेक्षस्य ज्ञानासाधनत्वाद्वा तत्वप्रदीपकोक्तरीत्या प्. ६४अ) स्वप्ने तस्यैव गजाद्याकारेण परिणामेन ज्ञानकर्मतयावस्थित त्वेन तदानीं ज्ञानसाधनत्वायोगात् वा परिशेषोपपतेः । न च स्वर्मेतःकरणवृत्यभावे उत्थितस्य स्वमदृष्टगजाद्यनुसंधानानुपपतिः सुषुप्ति कॢप्तया विद्यावृत्या तदुपपतेः । सुषुप्तौ तदवस्थोपहितमेव स्वरूपचैतन्यमज्ञानसुखादि प्रकाशः उत्थितस्यानुसंधानमुपाधिभूतावस्थाविनाशजन्यसंस्कारेणेति वेदांत कौमुद्यभिमते सुषुप्तावविद्यावृत्यभावपक्षे इहापि स्वाप्नगजादिभासिक चैतन्योपाधिभूत स्वप्नावस्था विनाशजन्य संस्कारादनुसंधानोपपतेश्च ।। त्यर्यं किं न स्यादिति नेत्याह । अन्यथेति । श्रुतेः स्वप्नावस्थामाश्रित्य तत्साक्षित्वेन स्वयंज्योतिष्ट्वमात्मनः । स विवेकमिति तात्पर्याकल्पन इत्यर्थः । सर्वदेति तमेव भातमनुभाति सर्वमित्यादि श्रुति पर्यालोचनया तस्य सर्वदा स्वयंज्योतिष्ट निश्चयादिति भावः । अत्रेतीति । अत्रेति विशेषणस्य व्यावर्तकत्वा संभवेन व्यर्थत्वं स्यादतो न यथा श्रुतार्थे तात्पर्यं किं तूक्तार्थे तात्पर्थेमिति भावः । एवं श्रुति तात्पर्यं निरूप्य स्वप्नकाले चक्षुरादि व्यापार कल्पनं प्. ६४ब्) तद्बाधितमित्याह । तत्रेति । स्वयं ज्योतिष्टं स्वप्नावस्था साक्षित्वेन सुगममित्यत्र श्रुति तात्पर्यं सिद्धे सतीत्यर्थः । ननु स्वप्नजगतोवभासकांतराभावादात्ममात्रभास्यत्वमित्युक्तमयुक्तमिति शंकते । नन्विति । अनुपरतमास्त इतीति तथा च मनस एव स्वाप्नजगदवभासकत्व संभवादवभासकांतराभावरूपपरिशेषा सिद्धिरित्यर्थः । स्वप्नावस्थायां स नमोज्ञोनकरणत्वमसिद्धमतस्तस्य स्वाप्नजगदवभासकत्वासंभवात् परिशेषसिद्धिरिति परिहरति । मैवमिति । आत्मा कर्ता भवतु मर्हति तथा सति कर्ता विज्ञानात्मापुरुष इत्यादि शास्त्रस्यार्थवत्वोपपतेरिति सूत्रार्थः । उक्तरीत्येति । मनस उपादानत्वेन स्वतो ज्ञानकरणत्वं नास्तीत्युक्तरीत्येत्यर्थः । तत्वप्रदीपकोक्तरीत्येति स्वप्ने मनस एव विविध सस्कारविशिष्टस्य स्वप्नप्रपंचाकारेण परिणामित्वं । न त्वविद्यायास्तस्याः संस्काराश्रयत्वाभावेन विचित्रपदार्थपरिणामित्वायोगादित्युक्तरीत्येत्यर्थः । कर्मतयेति । विषयत्वेनैवोपक्षीणस्य विषयित्व रूपप्रकाशकत्वाभावादित्यर्थः । तदानीमित्यनेन अस्त वा जागरणे ज्ञानकारणत्वं तथापि स्वप्ने तन्नोपेयते तस्य विषयत्वेनैवावस्थितत्वादिति सूचित अनुपपतिरिति संस्काराभावादितिभावः । ननु सुषुप्तावपि अविद्यावृतिर्न कल्पनीया सुषुप्त्यादि साक्षि चैतन्यस्यतित्यत्वेपि साक्षि भास्यायाः सुषुप्त्यवस्थायाः विनाशित्वेन विषयभूतसुषुप्त्यवस्थाविशिष्टवेषेण तत्साक्षिणो नाशलक्षणसंस्कारसंभवात् सुषुप्तिसुखादीनामनुसंधानोपपतिरिति चेतर्हि स्वप्न प्. ६५अ) साक्षिणोपि प्रातिभासिकविषयविशिष्टवेषेण नाशलक्षणसंस्कार संभवात् । स्वप्नदृष्टगजाद्यनुसंधानोपपतिरित्याह । सुषुप्ताविति । तत्पदं सुषुप्तिपरं अज्ञानसुखादि प्रकाश इति । अज्ञानाद्यनुभव इत्यर्थः । इहापीति । स्वप्नावस्थायामपि इत्यर्थः । उपाधि भूतेति विषयतया उपाधिभूतेत्यर्थः ।। अथवा तदेतत्सत्वं येन स्वप्नं पश्यतीत्यादि श्रुतेरस्तु स्वप्नेपि कल्पतरूक्तरीत्या स्वाप्नगजादिगोचरांतःकरणवृतिः । न च तावता परिशेषासिद्धिः अंतःकरणस्याहमिति गृह्यमणस्य सर्वात्मना जीवैक्येनाध्यस्ततयालोक दृष्ट्या तस्य तद्यतिरेकाप्रसिद्धेः । परिशेषार्थ चक्षुरादि व्यापाराभावमात्रस्यैवापेक्षितत्वात् । प्रसिद्धदृश्यमात्रं दृगवभासयोग्यमिति निश्चय सत्वेन परिशेषार्थमन्यानपेक्षणात् । तस्मात् स्वप्ने सर्वथापि चक्षुरादि व्यापारासंभवात् स्वाप्न गजादौ चाक्षुषत्वाद्यनुभवो भ्रम एव ननु स्वप्नेपि चक्षुरुन्मीलने गजाद्यनुभवस्तन्निमीलनेनेति जागर इव गजाद्यनुभवस्य चक्षुरुन्मीलिनाद्यनुविधान प्रतीयते इति चेत् चक्षुषारजतं पश्यामीत्यनुभववदयमपि कश्चित् स्वाप्न भ्रमो भविष्यति यत्केवलसाक्षिरूपे प्. ६५ब्) स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधान तदनुविधाधिनीवृतिर्बाध्यस्यते किमिव हि दुर्घटमपि भ्रमं माया न करोति विशेषतो निद्रारूपेण परिणता यस्या माहात्म्यात् स्वप्ने रथः प्रतीतः क्षणेन मनुष्यः प्रतीयते स च क्षणेन मार्जारः स्वप्नद्रष्टश्च न पूर्वापरविरोधानुसंधानं जागर इव स्वप्नेपि गजादिगोचरांतःकरणवृतिरेवोपेयते । अतो न संस्काराभावशंकावकाशः । न च तदंतःकरणवृतिसत्वे परिशेषा सिद्धिरिति वाच्यं परिशेषस्यापि लोकदृष्ट्या उपपतेरिति मतांतरमाह । अथवेति सत्व शब्दितांतःकरणस्य तृतीया श्रुत्यास्वाप्नगजादिगोचरज्ञानकरणत्वं भाति तथा च श्रुतिं प्रामाण्यात् स्वप्ने चक्षुरादिजन्य वृत्यभावेपि मानसवृतिरस्ति । अतो न संस्कारानुपपतिरिति कल्पतरूक्तरीत्येत्यर्थः । तावता इत्यस्य अंतःकरणवृति सद्भावमात्रेणेत्यर्थः । अंतःकरणस्य सर्वात्मना जीवचैतन्यैकेनाध्यस्ततया अहं पश्यामीत्यादिरूपेण द्रष्टतया गृह्यमाणस्य तस्यांतःकरणस्याज्ञ दृष्ट्या तस्माच्चिदात्मनः सकाशाद्भेदा प्रसिद्ध्यापरिशेषार्थं लोकप्रसिद्ध द्रष्ट्टव्यतिरिक्तं करणादि व्यांपाराभावस्यैवापेक्षितत्वा तावता परिशेषा सिद्धिर्न चेत्यर्थः । एतदुक्ते भवति अंतःकरणवृतिलक्षणो व्यापारो वस्तुतःकरण व्यापारोपि प्रतीतितो द्रष्टव्यापारो भवति । अंतःकरणस्य द्रष्टत्वेन गृहीतत्वाल्लोकैरिति स्वयं ज्योतिष्ट्वनिर्णयप्रकारं दर्शयति । प्. ६६अ) प्रसिद्धेति । पूर्वमुच्यत इत्यनेन सूचितां स्वाप्न पदार्थेषु चाक्षुषत्वाद्यनुभवस्य गतिमिदानीं प्रपंचयति तस्मादिति पंचमीं व्याचष्टे । सर्वथति । पूर्वोक्त सर्वप्रकारैरपीत्यर्थः । स्वप्नानुभवस्य साक्षिरूपत्वे चक्षुराद्यनुविधानविरोधमाशंक्य दृष्टांतेन समाधते । स्वप्नेत्यादिना । तदनुविधायिनीति । जागरे चक्षुराद्यनुविधायिनीया प्रसिद्धावृतिः सा स्वप्नसाक्षिण्यध्यस्यत इति यथा श्रुतार्थो न ग्राह्यः अन्यथा ख्याति प्रसंगात् । किंतु तदेतत्सत्वं येन स्वप्नं पश्यतीति श्रुत्यनुसारेण कल्पतरुकारैयां गजादिगोचरमानसवृतिरुपेता तस्यां तदनुविधायित्वं वाप्यस्यत इत्यर्थः । तथा च केवलसाक्षिरूपे स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधायिनी वृतिर्वा तत्राध्यस्यत इति यतच्च भ्रममात्रमित्यर्थः । नन्वै तावान्भमो दुर्घट इत्याशंक्याह । किंमिवहाति दुर्घटमपि भ्रमं माया किमिव न करोतीति संबंधः । किमिव केन दृष्टांतेन न करोति दुर्घटाकरणे मायाया दृष्टांतो नास्तीत्यर्थः । प्रत्युत तस्यास्तत्कारित्वमैंद्रिजालिक मायादौ प्रसिद्धमिति हि शब्दार्थः । वियदादि प्रद्यं च भ्रमहेतुभूता माया दुर्घटमपि प्रपंच भ्रमं व्यवस्थितरूपं घटयति निद्रारूपेण परिणता तु सा ततो विलक्षणमेव भ्रमं कारयतीति मत्वाविशेषत इत्युक्तं । यस्या इति निद्रारूपेण परिणताया इत्यर्थः ।। तस्मादन्वयाद्यनुविधानप्रतीति तौल्येपि जाग्रद्गजाद्यनुभव एव चक्षुरादि जन्यो न स्वाप्न गजाद्यनुभवः दृष्टि सृष्टि वादिनस्तु कल्पितस्याज्ञातसत्वमनुपपन्नमिति कृत्स्नस्य जाग्रत्प्रपंचस्य प्. ६६ब्) दृष्टि समसमयां सृष्टिमुपेत्य घटादि दृष्टेश्चक्षुः सन्निकर्षानुवियान प्रतीतिं दृष्टेः पूर्वे घटाद्यभावेनासंगछमानां स्वप्नवदेवसमर्थयमानाजाग्रद्गजाद्यनुभवोपि न चाक्षुष इत्याहुः । ननु दृष्टि सृष्टिमवलंव्यकृत्स्नस्य जाग्रत्प्रपंचस्य कल्पितत्वोपगमेकस्कल्पको निरुपाधिरात्मावा विद्योपहितो वा नाद्यः । मोक्षेपि साधनांतर निरपेक्षस्य कल्पकस्य सत्वेन प्रपंचानुवृत्या संसाराविशेषप्रसंगात् । न द्वितीयः अविद्याया अपि कल्पनीयत्वेन तत्कल्पनात् प्रागेव कल्पकसिद्धेर्वक्तव्यत्वात् । अत्र केचिदाहुः पूर्व पूर्वकल्पिताविद्योपहित उतरोतराविद्याकल्पकः । अनिंदं प्रथमत्वाच्च कल्पककल्पनाप्रवाहस्य नानवस्थादोषः । न चाविद्याया अनादित्वोपगमाच्छुक्तिरजतवत कल्पितत्वं न युज्यते ।। स्वप्ने चाक्षुषत्वाद्यनुभवस्य गतिनिरूपणमुपसंहरति । तस्मादिति । स्वप्ने चक्षुरादि व्यापारासंभवादित्यर्थः । ये त्वधिकारिणो बहुविधज्ञानकर्मानुष्ठानासादितनिरतिशय परमेश्वरप्रसादमहिम्नानितांत निर्मलीकृतांतःकरणाः प्. ६७अ) संतः जागरेपि स्वप्नाद्विशेषं न पश्यंतिता न ब्रह्मविद्याकामानधिकृत्य प्रवृतां कृत्स्नस्य जगतः प्रबोधस्वापावस्थायोः प्रभव प्रलय प्रतिपदिकां श्रुति मनुसृत्य दृष्टि सृष्टिवादाः पूर्वाचार्यै निरूपितः तं स्वप्न विचारेण बुद्धिमागतं दर्शयति । दृष्टि सृष्टि वादिनस्त्विति दृष्ट्या सह समः समयो यस्याः सा तादृष्टिं कृत्स्नस्या जाग्रत्प्रपंचस्योपेत्येत्यत्र पूर्ववाक्येन हेतुमाह । कल्पितस्येति । स्वाप्नप्रपंचस्येवेत्यर्थः । घटादिदृष्टेर्या अनुविधानप्रतीतिः तामसंगछमानां स्वप्नवदे भ्रममात्ररूपा समर्थयमाना इति संबंधः । असंगछमानत्वे हेतुर्दृष्टेः । पूर्वं घटाद्यभावेनेति । तत्र हेतु दृष्टिसमसमयासृष्टिः न चाक्षुष इति किं तु स्वप्नानुभववदेव केवलसाक्षिरूप इत्यर्थः । कल्पितत्वोपगम इति प्रातिभासिकत्वोपगम इत्यर्थः । कं शब्दसूचितं विकल्पं दर्शयति निरुपाधिरिति निरपेक्षश्चिदात्मैव संसारकल्पक इति प्रथमकल्पं दूषयति । मोक्षेपीति अनुवृत्येति । अनुवृत्यापत्येत्यर्थः । अविद्याया अपीति । तस्या अपि कादाचित्कत्वाभ्युपगमे अ अविद्यासृष्टेः पूर्वमेवाविद्योपहितस्य चिदात्मनो विद्यादिकल्पकस्य वक्तयत्वातदभावादविधादि सृष्टिं न संभवति । तथा च सदासंसारानुपलंभ प्रसंग इति भावः । नन्वेवमपि प्रथमाविद्यायाः कः कल्पकः तत्राह अनिदमिति । इदं प्रथमत्वाभावात् प्रथमाविद्यैव काचिन्नास्ति अतो न चोद्या च काश इति भावः । तर्ह्य नवस्थेत्योशंक्यसान दोषाया विद्योपहितात्मनः प्रपंच कल्पकत्वेनश्चति प्. ६७ब्) सिद्धस्य पूर्वपूर्व अविद्यां विना तत्कल्पकत्वनिर्वाहाभावादित्याशयेवाह । नानवस्थादोष इति । ननु जीव ईशो विशुद्धावित् तथा जीवेशयोर्भिदा अविद्यातच्चितोर्योगः षडस्माकमनादय इति सिद्धांतविरुद्धमविद्यायाः प्रवाहानादित्व कल्पनं तस्याः स्वरूपानादित्वस्यैव सिद्धांतसंग्रहश्लोके चैतन्यवत् प्रतीतेरिति शंकते । न चेति ।। अन्यथा साषनादि विभागानुपपतेरिति वाच्यं । यथा स्वप्ने कल्पमानं गोपुरादि किंचित् पूर्वसिधत्वेन कल्पते । किं वितदामीमुत्पाद्यत्वेन एवं जागरेपि किंचित्कल्प्यमानं सादित्वेन कल्पते । किंचिदन्यथेत्येतावता साद्यनादि विभागोपपतेः । एतेन कारणविभागोपि व्याख्यात इति अन्ये तु वस्तुतो नाद्येवा विद्यादि तत्र दृष्टिसृष्टिर्नोपेयते । किंतु ततोन्यत्र प्रपंचमात्र इत्याहु । नन्वेवमपि श्रुतिमात्र प्रतीतस्य वियदादि सर्गतत् क्रमादेः कः कल्पकः न कोपि किमालंवना तर्ह्यात्मन आकाशः संभूत इत्यादि श्रुतिः निष्प्रपंच ब्रह्मात्मैक्यावलंवनेत्यवे हि ।। सिद्धांतमुल्लंघ्यप्रवृतावपि दोषमाह । अन्यथेति । अविद्यादीनां प्. ६८अ) स्वरूपानादित्वानुपगम इत्यर्थः । अनुपपतेरिति । उक्तविभागस्य लोकशास्त्रसिद्धत्वादिति भावः । श्रुत्यैकसमधिगम्य विशुद्ध चैतन्य व्यतिरिक्तमात्रे दृष्टिसृष्टिमुपेत्यैव साद्यनादि विभागबोधक लौकिक वैदिक प्रमाणां सिद्धांत प्रवादस्य चावलंबनत्वेन भ्रमविशेषं सदृष्टांतमाह । यथोत्पादिना । किंचिदन्यथेति । किंचिद विद्यादिकमन्यथा नादित्वेन कल्पाते पूर्वपूर्वाविद्योपहितेनात्मनेत्यर्थः । एतावता कल्पनामात्रेणेत्यर्थः । ननु प्रत्यक्षे विषयस्य कारणतया घटादि दृष्टेः पूर्वमज्ञातो घटादिर्वाच्यः । अन्यथा कार्यकारणविभागोमस्या तथा अविद्योपहितस्य चिदात्मन एकस्यैव स्वस्मिन् संसारकल्पकत्वे संसारवतो जीवस्यैकत्वेन गुरुशिष्यविभागो देव तिर्यऽऽन्मनुष्यादि विभागश्च न स्यादित्यत आह । एतेनेति । साद्यनादिविभागोपपति कथनेनेत्यर्थः । व्याख्यात इति वस्तुतः प्रत्यक्षे विषयस्याकारणत्वेपि सः तत्कारणत्वेन कल्पते । तथा अन्यदपि स्वप्न वदेव सर्वमूह्यमित्यर्थः । कल्पकस्याविद्योपहितस्यानंत्य परिहाराय साद्यनादिविभागांजस्याव च दृष्टिसृष्टेः संकोचमाह । अन्ये त्विति । वस्तुत इति स्वरूपत इत्यर्थः । तर्हि दृष्टिसृष्टिः कुत्रापि नोपेयामानाभावादिति शंकते किं त्विति स्वापप्रबोधयोः कार्यप्रपंच मात्रस्य प्रलयप्रभव प्रतिपादक बहुश्रुतिसिद्धत्वान्नैवमिति परिहरति । ततोन्यत्रेति । अविद्यादेः सकाशादितिशेषः मात्रपदं कृत्स्नार्थकं । ननु दृष्टिसमय एव प्रपंच सृष्टिरिति मतेपि प्. ६८ब्) दृष्टिशब्देन प्रत्यक्षप्रतीतिरेव विवक्षिता न परोक्ष प्रतीतिः । अपरोक्ष प्रतीतिरेव विषया विना भूतत्वेन प्रातिभासिक विषय साधकत्वात् । परोक्ष प्रतितेश्चा तथा त्वात् तथा स्थिते सति बाधकमाशंकते । नन्वेवमपीति । अविद्योपहितस्यात्मनः प्रत्यक्षवस्तुकल्पकत्वेपीत्यर्थः । यदि वियदादिसर्गः श्रुत्याप्रत्यक्षेण च प्रतीतो भवे तदा प्रत्यक्ष वलाद्घटादेरिव तस्यापि प्रातिभासिकत्वस्य सिद्धिः संभवेन्नत्वे तदस्तीत्याशयेन मात्रं पदं दतं वायादिसंग्रहार्थं प्रथममादिपदं वियदादि प्रलय तत्क्रमसंग्राहार्थं द्वितीयादपदंक इति । कल्पको न संभवत्येवेत्यर्थः । कल्पकाभावे इष्टापतिमाह दृष्टिसृष्टि वादीन कोपीति । तर्हि सृष्ट्यादि श्रुतिप्रतिपाद्यस्य वियदादि सृष्टि तत्क्रमादेः शशशृंगायमानतया श्रुतेरालंबनाभावादप्रामाण्यां स्यादिति शंकते । किमिति । तात्पर्यविषयीभूतार्थस्य सत्वान्नाप्रामाण्यापतिरिति परिहरति निश्चयं चेति ।। अध्यारोपापवादाभ्यां निष्प्रपंचब्रह्मप्रतिपतिर्भवतीति तत्प्रतिपत्युपायतया श्रुतिषु सृष्टिप्रलयोपन्यासो न तात्पर्येणेति भाष्याद्युद्घोषः व्यर्थस्तर्हि तात्पर्याभावे वियत्प्राणपादयोर्वियदादि सर्ग तत्क्रमादि विषयश्रुतीनां परस्परविरोधपरिहाराय यत्नः न व्यर्थः न्यायव्युत्पत्यर्थमभ्युपेत्यतात्पर्यं प्. ६९अ) तत्प्रवृतेः । उक्तं हि शास्त्रदर्पणे श्रुतीनां सृष्टि तात्पर्यं स्वीकृत्येदमिहेरितं ब्रह्मात्मैक्य परत्वात्ततासां तत्रैव विद्यत इति । ज्योतिष्टोमादिश्रुतिं बोधितानुष्ठानात्फलसिद्धिः ।। ननु सृष्ट्यादिवाक्यानां शुतार्थपरित्यामेनाश्रुतार्थे तात्पर्यकल्पनमयुक्तं किंतु श्रुत्यनुसारेण विपदादि सर्गस्य तत्कल्पकस्य च कल्पनमेव युक्तमित्यत आह । अध्यारोपेति । यथालोके गगनतत्वबोधनापप्रवृतः कश्चित् प्रथमं नैल्यवैशाल्याद्यध्यारोपौपेतं गगनं ग्राहयित्वा पश्चात् नेदं वस्तुतो नैल्यादि युक्तमिति तदपे वादेन नीरूपं व्यापकमुदासीनं गगनतत्वमिति बोधयति । तथा वेदांता अपि प्रथमं पद्विपदादि सर्गप्रलयादिकारणं सृष्ट्यादि वाक्यैः प्रतीयते तद्ब्रह्मेत्यच्यारोपितसर्गादि युक्ततया ब्रह्मग्राहियित्वा पश्चात् । निषेधवाक्यैरध्यारोपित सर्गाद्यपवादेन निश्रपंच ब्रह्मात्मैक्यं प्रतिपादयंति । तथा च सृष्ट्यादि वाक्यानां निषेधवाक्यापेक्षितनिषेध्य समर्प्यकतया तदेक वाक्यतापन्नानां निश्रपंच ब्रह्मप्रतिप्रयोजनकत्वमेव न तु स्वार्थ सृष्ट्यादि प्रतिपादनमात्रेणचारितार्थ्यमर्थवादादीनामिव तेषां स्वार्थप्रतिपादने फलाभावान्निष्फलेर्थे वेद तात्पर्या योगादतो युक्तमेव स्वार्थत्यागेन निष्प्रपंच ब्रह्मात्मैक्ये तात्पर्य कल्पनं तहानस्य मुक्तिफलकतायाः श्रुतिसिद्धत्वादेवं च प्रथममध्यारोपेण स प्रपंच प्. ६९ब्) ब्रह्मप्रतिपतिर्भवति पश्चात्प्रपंचापवादेन तस्यैव ब्रह्मणो निष्प्रपंचत्व प्रतिपतिर्भवति पूर्वप्रतिपतिश्चोतरप्रतिपतेः शेष एव न स्वतंत्रेति निष्कर्षः प्रपंचस्तु भाष्यादिष्वेव द्रव्य इत्यर्थः । शंकते । व्यर्थ इति । तर्हीत्यस्य व्याख्या तात्पर्याभाव इति वियदादि सर्ग तत्क्रमादावितिशेषः । यत्नोव्यर्थः सूत्रकारभाष्यकारयोरितिशेषः तात्पर्याविषये विद्यमानस्यापि श्रुतिविरोधस्या किंचितेत्करत्वादिति भावः । परिहरति । न व्यर्थ इति । न्यायेति । वियत्प्राणपादद्वयगताधिकरणेषु निरूपिताये सिद्धांत न्यायाः तेषां बोधार्थमित्यर्थः । तेषां न्यायानां सृष्ट्यादि वाक्यार्थाविरोधनिर्णयायानपेक्षितानामपि श्रुति तात्पर्य विषये क्वचिदेवं विरोध प्रसक्तौ तत्समाधानाय उपयोगस्तेषां भविष्यतीत्याशयेन प्रवृतः सूत्रकारादि यत्नोर्थ वा नित्यर्थः । तत्प्रवृतेरिति । वियत्प्राण पादयोः प्रवृतेरित्यर्थः । सृष्ट्यादि श्रुतीनां स्वार्थे तात्पर्यमभ्युपेत्यैव वियत्पादादि प्रवृतिरित्यत्रकल्पतरुकारसंमतिमाह । उक्तं हीति इदमिति । विरोधसमाधानमित्यर्थः । इहेति । वियत्प्राणपादयोरित्यर्थः । तु शब्दोवधारणे तासां सृष्ट्यादि श्रुतीनां ब्रह्मात्मैक्य परत्वादेव तत् तात्पर्यं नास्त्येव तासां स्वार्थेपि तात्पर्ये वाक्य भेदप्रसंगात् । स्वार्थे फलाभावाच्चेत्यर्थः । एवं दृष्टि सृष्टि वादे सृष्ट्यादि श्रुतीनां निरालंबनत्वं परिहृत्य कर्मोपासनावाक्यानामपि निरालंबनत्वं परिहरति । ज्योतिष्टोमेत्यादिना ज्योतिष्टोमादि श्रुत्या प्. ७०अ) स्वर्गादिसाधनत्वेन बोधितस्य यागादेरनुष्ठानात् स्वर्गादिफलसिद्धिरित्यर्थः ।। स्वाप्नश्रुतिबोधितानुष्ठानप्रयुक्तफलसंवादतुल्या ज्योतिष्टोमादि श्रुतीनां च सत्व शुद्धिद्वाराब्रह्मणि तात्पर्यान्नाप्रामाण्यमित्यादि दृष्टिसृष्टिव्युत्पादनप्रक्रिया प्रपंचस्त्वाकरे एव द्रष्टव्यः अयमेको दृष्टिसमसमयाविश्वसृष्टिरिति दृष्टिसृष्टि वादः अन्यस्तदृष्टिरेव विश्वसृष्टिः दृश्यस्य दृष्टिभेदे प्रमाणभावात् । ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः अर्थस्वरूपं ध्वाम्यंतः पश्यंत्यन्ये कुदृष्टय इति स्मृतेश्चेति सिद्धांतमुक्तावल्यदि दर्शितो दृष्टिसृष्टिवादः द्विविधेपि दृष्टिसृष्टिवादे मनः प्रत्ययमलभमानाः केचिदाचार्याः सृष्टिदृष्टिवादं रोचपंते ।। स्वामेति स्व मे हि कश्चित् कदाचिज्ज्योतिष्टोमादिश्रुतिं कल्पयित्वा ततः साधनविशेषमुपलभ्यतदनुष्ठानात्फलं लभते । तत्तुल्यं जागरणेपि स्वर्गादिफललभनमित्यर्थः । वस्तुतस्तु श्रुतिमात्रप्रतीतवियदादिसर्गतत्क्रमादेरिव श्रुतिमात्रप्रतीतस्वर्गादिफलस्याप्यसत्वमैवाभिप्रेतं प्. ७०ब्) कल्पकाभावस्य तुल्यत्वादिति बोध्यं । तर्हि तासामप्रमाण्यं स्यादिति नेत्याह । ज्योतिष्टोमादि श्रुतिनां चेति । कर्मवाक्यैरुपासनावाक्यैश्च विहितानि कर्मोपासनान्यनुतिष्ठतः । सत्वशुद्धिर्भवति शुद्धसत्वस्य चाधिकारिणो वेदांतशास्त्रं ब्रह्मप्रमिति जनयति तथा च कर्मोपासनाकांडयोरधिकारिसंपादनद्वारा ब्रह्मप्रसिति शेषत्वातयोस्तत्रैव तात्पर्यं न स्वार्थं स्वर्गसाधनत्वादावितिना प्रामाण्यप्रसंग इति भावः । न च वेदांतानां अशेषतो ब्रह्मप्रतिपतिपरत्वे नास्ति मानमिति वाच्यं । सर्वे वैक्ष्य यत्पदमामनंतितमेतं वेदानुवचनेन ब्राह्मणाविविदिषंतीत्यादिश्रुति सहस्रस्य तत्र मानत्वादित्यादिकमभिप्रेत्याह । इत्यादि दृष्टिसृष्टिव्युत्पादनप्रक्रियाप्रपंचस्त्विति अयमेको दृष्टिसृष्टित्वाद इति संबंदः अन्यस्तु सिद्धां तु मुक्तावल्यादि दर्शितः दृष्टिसृष्टिवाद इति संबंधः द्वितीयं नीरूपयति दृष्टेरेवेति । दृष्टिर्दर्शनं स्वप्रकाशज्ञानस्वरूपमित्यर्थः । एतदुक्तं भवति । दृश्यप्रपंच तादात्म्यापन्नं ज्ञानस्वरूपमेव प्रपंचस्याद्यक्षणावछिन्नं स तस्य सृष्टिरित्युच्यत इति । ननु दृग्दृश्ययोर्भिन्नयोरभिन्नसताकत्वरूपं तादात्म्यमसिद्धमित्याशंक्याह । दृश्यस्येति । दृष्टिर्ज्ञानं तस्माद्भेदे भिन्नसत्वाकत्वे इत्यर्थः । अन्यथा सन् घट इत्यादि रूपेण सद्रूपस्य ज्ञानस्य घटादेश्च प्. ७१अ) सामानाधिकरण्य प्रत्ययो न स्यादितिभावः । स्मृतावे तदिति प्रत्यक्षसिद्धसित्यर्थः । अर्थ स्वरूपमिति । अर्थपदं स्वतंत्रपरं कुदृष्टय इति । कुतर्क दूषित ज्ञाना इत्यर्थः । तथा चैतज्जगदन्ये कुदृष्टयो भ्रांताः ज्ञानस्वरूपसता पेक्षयाभिन्नसनाकं पश्यंतीत्युतरार्धेन भेददृष्ट्यपवादाच्च तयोरभेदसताकत्वसिद्धेरित्यर्थः । स्मृतेश्चेति । चकाराच्छ्रुतेश्चेत्यर्थः चिद्वीदं सर्वमित्यादि श्रुतिरुदाहर्तव्यामनः प्रत्ययो मानसो विश्वासः प्रामाणिकत्व निश्चयः तमलभमाना इत्यर्थः । तदलाभे च हेतुः । जाग्रत्प्रपंचस्यापि प्रातिभासिकत्वाभ्युपगमो वियदादि सर्गाद्यपलापः कर्मोपासनाकांडार्थानुष्ठानाधीन स्वर्गलोकब्रह्मलोकाद्यपलायो जाग्रति चक्षुराद्यनुविधान प्रतीतेर्भ्रमत्वं इत्यादिरिति द्रष्टव्यं ।। श्रुति दर्शितेन क्रमेण परमेश्वर सृष्टमज्ञातसतायुक्तमेव विश्वं ततद्विषयप्रमाणावतरणे तस्य तस्य दृष्टि सिद्धिरिति । न चैवं प्रपंचस्य कल्पितत्वाभावे श्रुत्यादि प्रतिपन्न सृष्टिप्रलयादिमतः प्रत्यक्षादि प्रतिपन्नार्थक्रियाकारिणश्च तस्य सत्यत्वमेवाभ्युपगतं स्यादिति वाच्यं शुक्तिरजतादिवत्संप्रयोगसंस्कारदोषरूपेणाधिष्ठान ज्ञानसंस्कारदोषरूपेण प्. ७१ब्) वा कारणत्रयेणाजन्यतया कल्पना समसमयत्वाभावेपि ज्ञानेक निवर्त्यत्वरूपस्य सदसद्विलक्षणत्वरूपस्य प्रतिपन्नोपाधिगत त्रैकालिकप्रतिषेध प्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात् । सत्यत्वपक्षे प्रपंचे उक्तरूपमिथ्यात्वाभावेन ततो भेदात् । सृष्टिदृष्टि पदं व्याचष्टे । श्रुति दर्शिते नेत्यादिना । अय सिद्धांतं शंकते । न चैवमिति । उक्तरीत्याप्रामाणिकत्वे प्रपंचस्य स्वीकृते सतीत्यर्थः । कल्पितत्वाभावे सत्वमेवाभ्युपगतं स्यादिति संबंधः । प्रपंचः सत्यः श्रुतिसिद्धत्वात् । ब्रह्मवत् । न च तस्य प्रत्यक्ष सिद्धस्य श्रुति सिद्धत्वमसिद्धमिति वाच्यं । तस्य स्वरूपेण प्रत्यक्ष सिधत्वे सृष्टिप्रलयादिविशिष्टतया श्रुतिस्मृत्यादि सिद्धत्वात् । तथा प्रपंचः सत्यः अर्थक्रियाकारित्वात् । सृष्ट्याद्यर्थ क्रियाकारिब्रह्मवत् । न च हैत्वसिद्धिः पृथिवीजलादौ तस्य प्रत्यक्षादि सिद्धत्वादितिभावः । प्रपंचस्य ब्रह्मवत्परमार्थसत्यत्वे हेतुद्वयमप्रयोजकमतोनापसिद्धांतापतिरित्याशयेन परिहरति शुक्ति रजतादि वदिति । वियदादि प्रपंचे शुक्तिरजतादाविवकल्पनासमसमयत्वस्य दृष्टिसृष्टिवाद्यभिमतस्याभावेपि पारमार्थिक सत्यत्वविरुद्धस्य मिथ्यात्वस्याभ्युपगमादिति संबंधः वियदादि प्. ७२अ) प्रपंचे कल्पना समसमयत्वाभावे कारणत्रयाजन्यत्वं हेतुः संप्रयोगस्य स्वप्नभमव्यापित्वाभावात् । संप्रयोगस्थाने अधिष्ठानसामान्यज्ञानं निक्षिपति । अधिष्ठान ज्ञानेति । मिथ्यात्वनिर्वचनं त्रेधा दर्शयति । क्षानैकेत्यादिना । अधिष्ठान तत्वज्ञानमात्रनिवर्त्यत्व रूपस्येत्यर्थः । सद्विलक्षणत्वमात्रं असत्पति व्याप्तं । असद्विलक्षणत्वमात्रं सति ब्रह्मण्यति व्याप्तं अत उभयो पादानं प्रपंचस्य तूभयविलक्षणत्वं प्रमाणसिद्धमितिभावः । प्रतिपन्नेति । ब्रह्मणि प्रतिपन्नस्य प्रतीतस्य आरोपितस्यैति यावत् । ब्रह्मोपाधिरधिष्ठानं तत्र ब्रह्मणि तस्य त्रैकालिको निषेधः श्रुतिगम्योत्यंताभावोस्ति तत्प्रतिशेगित्वं तस्याक्षतमितिभावः । तत्राद्यस्तक्षणेपि घटादिकं नाशयामीत्यादि ज्ञाननिवर्त्यत्व सत्वादेक पदं दतं ज्ञानमात्रनिवर्त्यस्य च सत्यत्व वादिभिरनंगीकारात् । न सत्यत्व पक्षाविशेषः । तथा प्रपंचे परैः सद्रूपत्वांगीकारेण सद्विलक्षणत्वानंगीकारात् । द्वितीयलक्षणेपि न सत्यत्वपक्षाविशेषः । प्रपंचस्य तदुपादाने ब्रह्मणि सिद्धांत इव घटाद्युपादान वस्तुनि घटादेस्त्रैकालिक निषेधस्य परैरनंगीकारात् । न तृतीये लक्षणेपि परमताविशेष इत्याशयेनाह । सत्यत्वपक्ष इति । नन्वेवमहंकार तद्धर्माणामप्युक्तरूपमिथ्यात्वं वियदादिवत्कल्पितत्वाभावेपि सिध्यतीति प्. ७२ब्) भाष्यटीकाविवरणेषु तदध्यासे कारणत्रितय संपादनादिश्रयो व्यर्थ इति चेत् । अहंकारादीनामपि केवलसाक्षिवेद्यतया शुक्तिरजतवत् प्रातिभासिकत्वमभिमतमिति चित्सुखाचार्याः अभ्युपेत्यवादमात्रे तदद्वितीयाधिष्ठान ब्रह्मात्मप्रमाणस्य चैतन्यस्येत्यादि तत्रत्यकारणत्रितयसंपादनग्रंथस्य चैतन्यस्य प्रमाकरणत्वे वेदांतकरणत्वादिकल्पनार्भगप्रसंगेन प्रौढिवादत्वस्य स्फुटत्वादिति रामाद्वयाचार्ययाः । ननु दृष्टिसृष्टिवादे सृष्टिदृष्टिवादे च मिथ्यात्व संप्रतिपतेः । कथं मिथ्याभूतस्यार्थक्रियाकारित्वं स्वप्नवदिति ब्रूमः । ननु स्वाप्नजलादि साध्यावगाहनादि रूपार्थक्रिया असत्यैव किंतु जाग्रज्जलादिसाध्यासा सत्या ।। दृष्टिसृष्टिवाद्येव शंकते । नन्वेवमिति । ज्ञानैकनिवर्त्यत्वादेः मिथ्यात्वस्वरूपत्वे सतीत्यर्थः । अहंकारतद्धर्माणामपि उक्तरूपमिथ्यात्वं वियदादिवत्सिध्यतीति संबंधः । कल्पितत्वाभावेपीति । प्रातिभासिकत्वाभावेपीत्यर्थः । तत्पदमहंकारादिपरं चिदात्मनोधिष्ठानत्वादि समर्थनमादि पदार्थः । अभिमतमिति । प्. ७३अ) भाष्यकारादीनामितिशेषः । तथा च तत्संपादनादि यत्नः । सफल इति भावः । अहंकारतद्धर्माणां केवलसाक्षिवेद्यत्वेपि शुक्तिरजतादिवत् । प्रातिभासिकत्वं वक्तुमयुक्तं व्यवहारकाले बाधानुपलंभादतो वस्तुगत्या तेषां प्रातिभासिकत्वाभावेपि तदत्युपेत्यकारणत्रयसंपादनादि यत्नः तैः कृत इति परिहारांतरमाह । अभ्युपेत्येति । तद्भाष्यादि प्रातिभासिकत्वमभ्युपेत्यवचनमेव न वस्तुगतिमनुरुध्येत्यर्थः । अद्वितीयाधिष्ठान ब्रह्मात्मनि प्रमाणं चैतन्यमिति प्रतिपादयतिष्ठीकाविवरणादि गतस्य ग्रंथस्य प्रौद्धिवादत्व स्पष्टत्वादिति संबंधः । प्रौढि वादत्वे उपपतिमाह । चैतन्यस्य प्रमाकरणत्व इति । ब्रह्मप्रमाकरणत्व इत्यर्थः । औपनिषदत्व श्रुत्यनुसारैणवेदांतानामेव ब्रह्मप्रमाकरणत्व कल्पनेत्यर्थः । वेदांतजन्यब्रह्मप्रमायाः अपरोक्षत्वकल्पनमादिपदार्थः प्रपंचस्य परमार्थत्वे पूर्वमर्थकिर्याकारित्वमप्रयोजकमिति सूचितं तदयुक्तं मिथ्याभूतस्य शुक्तिरूप्यादेः कदकाद्यर्थ क्रियाकारित्वा दर्शनादिति मत्वाशंकते । नन्विति । अर्थक्रियाकारित्वं सत्यत्व व्यभिचारीति परिहरति स्वप्नवदिति । स्वाप्नजलादाववगाहनादिरूपार्थक्रियाकारित्वमस्ति तत्र सत्यत्वं नास्तीति व्यभिचार इत्यर्थः । नन्वर्थ । क्रियाकारित्वमात्रं न हेतुः । किंतु सत्यार्थक्रियाकारित्वं तच्च स्वाप्नजलादौ नास्तीति न व्यभिचार इति प्. ७३ब्) शंकते । नन्विति असत्येव न तु सतीत्यर्थः । असत्यैवेति पाठे असत्या न तु सत्येत्यर्थः । तर्हि प्रपंचः सत्यः सत्यार्थक्रियाकारित्वादित्यत्र हेतुत्वसिद्धिमाह सिद्धांती । किंत्विति । जाग्रज्जलादि साध्यासार्थक्रियासत्या किमिति संबंधः तु शब्दोवधारणे किं शब्दः आक्षेपार्थः सासत्या न भवत्येवेत्यर्थः । अतो हेत्वसंप्रतिपति परिहारायार्थ क्रियाकारित्वमात्रं सत्यत्व प्रयोजकं वाच्यं तच्च स्वाप्नजलादावस्त्येवेति व्यभिचारतादवस्थामितिभावः ।। अविशिष्टमुभयन्नापि स्वसमानसताकार्थक्रियाकारित्वमिति केचित् । अद्वैतविद्याचार्यास्त्वाहुः । स्वाप्नपदार्थानां न केवलं प्रबोधबाध्यार्थक्रियामात्रकारित्वं स्वाप्नांगना भुजंगमादीनां तदबाध्यसुखभयादि जनकत्वस्योपि दर्शनात् । स्वाप्नविषयजन्यस्यापि हि सुखभयादेः प्रबोधानंतरं न बाधोनुभूयते । प्रत्युत प्रबोधानंतरमपि मनः प्रसाद शरीरकं पादिनामह तदनुवृतिदर्शनात्प्रागपि सत्वमेवावसीयते । अत एव प्राणिनां पुनरपि सुखजनकविषयगोचर स्वप्ने वांछा अतादृशे स्वप्ने च प्रद्वेषः संभवति च स्वप्ने ज्ञानवंदतःकरणवृतिरूपस्य सुखभयादेरुदयः ।। प्. ७४अ) ननु स्वाप्नजलादौ सत्यार्थक्रियाकारित्वाभावेपि स्वसमानसताकार्य क्रियाकारित्वमस्त्येव तर्हि जाग्रत्प्रपंचस्यापि तदस्तनैतावता त्वदभिमतपरमार्थ सत्यत्वं सिध्यतीत्याशयेन परिहरति । अविशिष्टमिति । उभयत्रापीति । जाग्रत्स्वप्नावस्था द्वयेपीत्यर्थः । स्वपदं अर्थक्रिया हेतुभूतवस्तुपरं स्वप्न वदिति बूम इति समाधाने स्वप्नेवदर्थक्रियासत्या न भवति जागरे तु सा सत्येति वैषम्यशंकायां प्रतिवंद्या केषांचित् सामाधानं दर्शितं । इदानीं स्वप्नादि पदार्थानामपि सत्यार्थक्रियाकारित्व दर्शनान्न दृष्टांत वैषम्यमिति परिहारांतरमाह । अद्वैतेति । प्रबोधबाध्या अर्थक्रियाप्रातिभासिकी प्रबोधा बाध्यार्थ क्रियास्वप्नकालीनापि व्यावहारिकसत्यैवेति विभागस्तथा च स्वाप्नपदार्थानां प्रातिभासिकार्थक्रियाकारित्वमात्रं केवलं न भवति किंतु व्यावहारिकार्थ क्रियाकारित्वमप्यस्ति स्वप्नांगनादीनारव्यावहारिकार्थ क्रियाकारित्वं कैमुतिकन्याय सिधमिति मिथ्यात्वपक्षेनार्थक्रियाकारित्वानुपपतिरितिभावः । ननु स्वाप्नभुजंग मांगनादिरूपविषयाणां प्रबोधबाध्यत्वदर्शनात् । तत्कार्यभयसुखादीनां कथं प्रबोधा बाध्यत्वमित्याशंक्याह । स्वाप्नविषयेति । न प्रबोधाबाध्यसुख जनकत्वस्य स्वप्नभुजंगादीनां प्रबोधाबाध्यभयाकपादिजनकत्वस्य च दर्शनादेवं च प्. ७४ब्) व्यावहारिक जाग्रत्पदार्थानां त्रुटत् हि प्रबोधानंतरं स्वप्नकाले सुखभयादिकं समनाभूदिति सुखभयादेर्बाधो अनुभूयते इत्यर्थः । प्रत्युतेति वर्तमानसुखानुभवकार्यं मनः प्रसादः वर्तमानभय दुःखानुभवकार्यं गात्रकंपादिः ततश्च प्रबोधानंतरमनुवर्तमानत्वे गमकं मनः प्रसादत्वादि तथा च तदनंतरमनुवर्तमानस्य भयादेः । सत्यत्वात् । प्रबोधात्प्रागपि तस्य सत्यत्वं निश्रीयत इत्यर्थः । स्वप्नकालीनमपि सुखभयादिकं जाग्रत्सुखदिवत् व्यावहारिक सत्यमेव न प्रातिभासिकं प्रबोधानंतरं बाधाभावात् तदनंतरमप्यनुवर्तमानत्वाच्चेति निष्कर्षः स्वाप्नसुखभयादेः सत्यत्वे गमकांतरमाह । अत एवेति स्वाप्नभयादेरप्रातिभासिकत्वादेवेत्यर्थः । रागद्वेषयोः सत्यसुखदुःखगोचरत्वनियमादितिभावः । ननु स्वप्ने सर्वस्य वासनामात्रत्वात् । कथं सत्यस्य भयादेः संभव इत्यत आह । संभवति चेति । तदेतत्सत्वं येन स्वप्नं पश्यतीति श्रुत्यनुसारेण कल्पतरुकारैर्मानसवृतिरूपज्ञानस्य स्वीकारात् । तद्वदंतःकरणपरिणामरूपभयादेर्व्यावहारिकस्य संभवः तदतिरिक्तपदार्थानामेव वासनापरिणामत्वेन प्रातिभासिकत्वाभ्युपगमादिति भावः ।। प्. ७५अ) न च स्वप्नांगनादि ज्ञानमेव सुखादिजनकं तच्च सदेवेति वाच्यं । तस्यापि दर्शनस्पर्शनादि वृतिरूपस्य स्वप्नप्रपंचसाक्षिण्यध्यस्तस्य कल्पनामात्र सिद्धत्वात् । न ह्युपरतेंद्रियस्य चक्षुरादि वृतयः सत्याभवंति । न च तद्विषयापरोक्ष्यमात्रं सुखजनकं तच्च साक्षिरूपं स देवेति वाच्यं । दर्शेनात् स्पर्शनेकामिन्याः पदास्पर्शनात् पाणिनास्पर्शने भुजंगस्या मर्मस्थले स्पर्शनात्मर्मस्थले स्पर्शने च सुखविशेषस्य भयविशेषस्य चानुभवसिद्धत्वेन स्वप्नेपि ततत्सुखभयादिविशेषस्य कल्पित दर्शनस्पर्शनादि विशेषजन्यत्वस्य वक्तव्यत्वादिति । तथा जागरे घटादि प्रकाशनक्षम तत्रत्यपुरुषांतरनिरीक्ष्यमाणालोकवत्पापूवरके सद्यः प्रविष्टेन पुंसा कल्पितस्य संतमसस्य प्रसिद्धसंतमसोचितार्थ क्रियाकारित्वं दृष्टंतेन तं प्रतिघटाद्यावरणं दीपाद्यानयने तदपसरणं तन्नयने पुनरावरणमित्यादि दर्शनादित्यपि केचित् ।। प्. ७५ब्) ननु स्वाप्नभयादिकं न भुजंगमांगनादि पदार्थजन्यं किंतु तद्गोचरज्ञानजन्यं तथा च ज्ञानस्य सत्यत्वादसत्यात् सत्यस्यापि कार्यस्य जन्यत्वं स्वप्ने दृष्टमित्युनुपपन्नमिति शंकते । न चेति । तच्च सदेवेति वदता वक्तव्यं किं तन्मनो मात्रजन्यवृतिरूपं किं वा चक्षुरादिजन्यवृतिरूपं केवलसाक्षिरूपं वा आद्येपि किं वृतिमात्रं भयादि हेतुरुतसाप्नभुजंगमादि रूपविषयविशेषितं । नाद्यः यत्किंचिद्गोचरवृतिज्ञानादपि भयादिप्रसंगात् । न द्वितीयः वृतिमात्रस्य सत्यत्वेपि विषयस्यासत्यतया तद्विशिष्टस्यापि प्रातिभासिकत्वा तथा च प्रातिभासिकज्ञानाद्व्यावहारिकार्थ क्रियोत्पतौ तदुदाहरणं भवत्येवेति मत्वा प्रथमविकल्पत्रयमध्ये द्वितीयं दूषयति । तस्यापीति । ज्ञानस्यापीत्यर्थः । ननु चक्षुरादिजन्यमेव दर्शनस्पर्शनादि वृतिरूपं सत्यज्ञानं कुंतो नोपेयते तत्राह । नहीति । तृतीयं शंकते । न च तदति दूषयति दर्शनादित्यादिना । कामिन्याः दर्शनात् तस्याः स्पर्शने तस्या एव पदास्पर्शनात् पाणिनास्पर्शने सुखविशेषस्यानुभवसिद्धेत्वेनेनेति संबंधः भुजंगमस्यामर्मस्थले पुछादौ स्पर्शनात् मर्मस्थले शिरसि स्पर्शनेव भयविशेषस्यानुभवसिद्धत्वेनेति संबंधः । स्वप्नेपीति । यथा जागरे सुखविशेषभयविशेषादेर्दर्शनस्पर्शनादि रूपवृतिविशेषविशिष्टविषयापरोक्ष्यजन्यत्वं न तु विषयापरोक्ष्यमात्रजन्यत्वं तन्मात्रस्यैकरूपत्वेन कार्यविशेषाप्रयोजकत्वात् । प्. ७६अ) तथा स्वप्नेपि तथा च तत्तद्विषयापरोक्ष्यमात्रस्य साक्षिरूपस्य सत्यत्वेपि सुखभयादिजनकस्य प्रातिभासिक दर्शनादि वृतिविशेषविशिष्टस्य तत्तद्विषयापरोक्ष्यस्य प्रातिभासिकत्वात् प्रातिभासिकाद्व्यावहारिकसुखभयादि संभव इत्यर्थः । एवं स्वप्नावस्थायामसत्यात् सत्यार्थ क्रियामुदाहृत्यजागरेपि तामुदाहरति । तथेति । प्रकाशन क्षमो यः तत्रत्यैरपवरकस्थैः पुरुषांतरैः निरीक्ष्यमाणालोकः तद्वतीत्यर्थः । अपवरकं स्वल्पग्रहं तत्रत्यालोकासत्वशंका व्यावृतये पुरुषांतरनिरीक्ष्यमाणत्व विशेषणं दृष्टमित्येतत्प्रपंचयति । तैनेति । संतमसेनेत्यर्थः । अपि शब्दस्य तथा जागरेपीति संबंधः ।। अन्ये तु पानावगाहनाद्यर्थ क्रियायां जलादिस्वरूपमात्रमुपयोगिन तद्गतं सत्यत्वं तस्य कारणत्व तदवछेदकत्वयोरभावादिति किं तेन न चैवं सति मरुमरीचिकोदक शुक्ति रजतादेरपि प्रसिद्धोदकाद्युचितार्थ क्रियाकारित्वप्रसंगः मरीचिकोदकादाबुदकत्वादि जातिनीस्तीति । तद्विषयक भ्रमस्योदकशब्दोल्लेखित्वं तदुल्लेखि पूर्वानुभवसंस्कारजन्यत्व प्रयुक्तमिति तत्व शुद्धिकारादिमर्ते प्. ७६ब्) तदर्थक्रियाप्रयोजकोदकत्वादि जात्याभावादेव तदप्रसंगात् । तत्राप्युदकत्वादि जातिरस्त्यन्यथा तद्वैशिष्ट्योल्लेखिभ्रमविरोधादुदकाद्यर्थिनस्तत्र प्रवृत्यभावप्रसंगाच्चेति ।। अन्ये त्विति जगत्सत्यत्ववादिभिरपि हि अर्थक्रियाकारित्वमेव सत्यत्वमिति वक्तुं न शक्यते अर्थक्रियानुत्पति दशायां घटादेरसत्यत्वप्रसंगात् । किंतु सत्वमर्थ क्रियाप्रयोजकमिति वक्तव्यं तथा च किं सत्वमर्थक्रियाकारणमभिप्रेतं किं वा कारणतावछेदकं नोभयथापीत्याह । पानेत्यादिना । जलादिपदं जलत्वादेरपि संग्राहकं बोध्यं । उपयोगीति । जलादि स्वरूपं कारणतया जलत्वादि स्वरूपं कारणतावछेदकतयेति विभागः । मात्रपदव्यवछेद्यमाह । न तद्गतमिति सत्यत्वस्य जलादि स्वरूपातिरिक्ततयाकारणत्वाभावादति प्रसक्ततया कारणतावछेदकत्वाभावाच्चेत्यर्थः । किं तेनेति सत्यत्वेनेत्यर्थः । तथा च सत्यत्वाभावेपि प्रपंचस्यार्थक्रियाकारित्वं संभवान्न मिथ्यात्वविरोध इति भावः । ननु सत्यत्वस्य ततदर्थक्रियाकारिताया सति प्रसक्तत्वेप्यर्थक्रियाकारित्व सामान्ये सत्वमनति प्रसक्तत्वादवछेदकमेवान्यथा बाधकमाशंकते । न चैवं सतीति । सत्यत्वस्य कारणतासामान्यानवछेदकत्वे सतीत्यर्थः । एवं सति प्रसंग इति न प्. ७७अ) चेत्यत्र हेतुमाह । मरीचिकोदकादिविति । मरुभूमिसंसृष्टासमरीचिकासुसमारोपितं तोयं मरीचिकोदकं तस्य तोयाभासत्वा तत्र तोयत्वं नास्ति कथं तर्हि तोयमिदमुदकमिति शब्दोल्लेखिप्रत्ययं इत्याशंक्य तस्यान्यथा सिद्धिमाह । तद्विषयकभ्रमस्येति । मरीचिकोदकविषयकभ्रमस्येत्यर्थः । उदकशब्दोल्लेखीयः पूर्वानुभवः सत्योदकविषयः तजन्यसंस्कारजन्यत्वान्म्रीचिकोदकस्य तत्प्रयुक्तं तच्छब्दोल्लेखित्वमित्यर्थः । प्रयोजकेति । प्रसिद्धोदकस्य उचितार्थक्रियायापानादि रुपातस्यामुदकत्वजातिः प्रयोजिका उदकादन्यत्रपानादेरदर्शना तथा प्रसिद्धरजतादेरुचितार्थक्रियाकटकादिलक्षणा तत्र च रजतत्वादिकं प्रयोजकं मदोदौ कटकाद्यर्थक्रियादर्शनादितिभावः । तदप्रसंगादिति । प्रसिद्धोदकाद्युचितार्थ क्रियाकारित्व प्रसंगाभावादित्यर्थः । मरीचिकोदकादावर्थक्रियाकारित्व प्रयोजकजातिमभ्युपगम्याप्युक्ताति प्रसंगं परिहरति तत्रापीत्यादिना मरीचिकोदकादावपीत्यर्थः । अन्यथेति । तत्र जलत्वादि जात्यभावे सतीत्यर्थः । तत्रेति मरीचिकोदकादाविष्टनावछेदक जलत्वाधिवैशिष्ट्यभानं विना तदर्थिनस्तत्र प्रवृतिर्न संभवतीतिभावः ।। प्रातिभासिके पूर्वदृष्टसजातीयत्व व्यवहारानुरोधिनां मते क्वचिदधिष्ठानविशेष प्. ७७ब्) ज्ञानेन समूलाध्यासनिवृति संभवात् । क्वचिदधिष्ठान सामान्यज्ञानोपरमेण केवलाध्यासनाशात् । क्वचिद्गंजादौ चक्षुषावह्न्याद्यध्यासस्थले दाहपाकादिप्रयोजकस्योलस्पर्शादेरनुध्यासाच्च तत्र तत्रोर्थ क्रियाभावोपपतेः । क्वचित्कासांचिदर्थ क्रियाणापिष्यमाणत्वाच्च । मरीचिकोदकादिव्यावर्तकस्यार्थ क्रियोययोगिरूपस्य वक्तव्यत्वे च श्रुतिविरुद्धं प्रत्यक्षादिना दुर्ग्रहंत्रिकालाबाध्यत्वं विहाय दोषविशेषाजन्यरजतत्वादेरेव रजताद्युचितार्थक्रियोपयोगिरूपस्य वक्तुं शक्यत्वाच्च । तस्मान्मिथ्यात्वेप्यर्थक्रियाकारित्व संभवान्मिथ्यैव प्रपंचो न सत्य इति ।। किं च शुक्तिरजतादौ सत्यरजतादौ च रजतत्वादि जातेरेकस्या अभावे प्रातिभासिकाध्यासेषु पूर्वदृष्टसाजात्यव्यवहारो भाष्यादि गतो न स्यात् तदनुरोधेनापि तत्र जातिरंगी कर्तव्येत्याशयेनाह । प्रातिभासिके इति । क्वचिदिति । दूरे मरीचिकोदकभ्रमानंतरं स्नानाद्यर्थ समीपं गतस्यनेदं जलं प्. ७८अ) मरीचिमात्रमिति विशेषदर्शने सति जलाध्यासस्य स्वमूलाज्ञानेन सहैव नाशात् न ततोर्थ क्रियोत्पतिरापादयितुं शक्येत्यर्थः । क्वचिदधिष्ठानेति । शुक्त्यादौ रजता ध्यासानंतरं यत्र विशेषदर्शनमस्ति तत्र पूर्वोक्तारीतिर्यत्र तत्रास्ति तत्राधिष्ठानसामान्यज्ञानरूपं कारणनाशेन रजताध्यासमात्र नाशसंभवात् । तत्रापि नार्थक्रियोत्पतिरापादपादयितुं शक्येत्यर्थः । स्वप्नवदिति ब्रूमरूत्यादि पूर्वग्रंथे प्रातिभासिक पदार्थानामपि अर्थं क्रियाकारित्वस्य दर्शितत्वादुक्ताति प्रसंगे इष्टापतिरपीत्याह । क्वचित्कासांचिदिति । इदानीं प्रातिभासिकेष्वर्थक्रियाकारित्वराहित्यमुपेत्यापि सत्यत्वं कारणतावछेदकं न वक्तव्यमित्याह । मरीचिकोदकादीति । च शब्दोप्यर्थः श्रुतीति मिथ्यात्व श्रुतीत्यर्थः । सद्रजतात् कटकादि कार्यं संभवति तद्विलक्षणाछ्रक्ति रजता तन्न संभवतीत्यन्वय व्यतिरेक सह कृत प्रत्यक्षेण हि त्वया सत्वमर्थ क्रियाकारितायामवछेदकतया ग्राह्यं तादृशं च सत्वं मिथ्यात्व विरुद्धकालत्रया बाध्यत्वरूपं न भवति । तस्य प्रत्यक्षा योग्यत्वादतोन्यदेव किंचितदवछेदकं वाच्यमित्याशयेनाह प्रत्यक्षादिनेति । अत्रादि पदमनुमानादि संग्रहार्थं प्रत्यक्षश्रुतिविरोधेनानुमानादेरपि प्रपंचे कालत्रया बाध्यत्वरूपसत्वसाधकस्यानुदयादेवतस्थानुमानादिनापि दुर्ग्रहत्वमुक्तमिति बोध्यं । प्. ७८ब्) रजतत्वादेरिति व्यवहारकालीत बाधरहित सर्पत्वादिकमादिपदार्थः । तस्मादिति सत्यत्व स्यार्थ क्रियां प्रत्यप्रयोजकत्वादित्यर्थः ।। ननु मिथ्यात्वस्य प्रपंचधर्मस्य सत्यत्वे ब्रह्मा द्वैतक्षतेस्तदपि मिथ्यैव वक्तव्यमिति कुतः प्रपंचस्य सत्यत्वक्षतिः मिथ्याभूतं ब्रह्मणः स प्रपंचत्वं ननिः प्रपंचत्वाविरोधीति त्वदुक्तरीत्या मिथ्याभूतमिथ्यात्वस्य सत्यत्वाविरोधित्वात् । अत्रोक्तमद्वैत दीपिकायां वियदादि प्रपंच समान स्वभावं मिथ्यात्वं । तच्च धर्मिणः सत्यत्व प्रतिक्षेपकं धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि उभयवादि सिद्धं धर्मि समसत्वं तंत्रं न पारमार्थकत्वं । अघटत्वादि प्रतिक्षेपके घटत्वादावस्माकं पारमार्थिकत्वा संप्रतिपतेः । ब्रह्मणः स प्रपंच त्वेन धर्मि समसताकमिति ननिः प्रपंचत्व प्रतिक्षेपकं । अत एव मिथ्यात्वस्य व्यावहारिकत्वे तद्विरोधिनोऽप्रातिभासिकस्य प्रपंच सत्यत्वस्य पारमार्थिकत्वं स्यादिति निरस्तं ।। प्. ७९अ) प्रकारांतरेण प्रपंचस्य सत्यत्वं शंकते । नन्विति वक्तव्यमिति । सिद्धांति नेतिशेषः । ननु मिथ्या भूतस्यापि मिथ्यात्वस्य स्वाश्रये प्रपंचे स्वविरोधि सत्यत्व प्रतिक्षेपकत्वा तस्य सत्यत्वक्षतिरपरिहार्येत्याशंक्यसिधांति संमतदृष्टांतेन परिहरति । मिथ्याभूतमिति । सप्रपंचत्वं प्रपंच तादात्म्यं निष्प्रपंचत्वं प्रपंचात्यताभाववत्वं तच्च वास्तवं व्यावहारिक प्रपंचात्यंताभावस्य ब्रह्मणि परमार्थत्वाभ्युपयमादतः सप्रपंचत्व निःप्रपंचत्वयोर्यथा एकत्राविरोधस्तथा मिथ्यात्वसत्यत्वयोरप्यविरोध इति भावः । मिथ्यात्वभुमी मिथ्या भूत इति पक्षमेव परिगृह्यसमाधते । अत्रोक्तमिति । समान स्वभावमिति । समानसताकमित्यर्थः । वियदादि प्रपंचस्य च?श्च व्यावहारिक सता इति भावः । नन्वरोपित घटत्वादेरारोपाधिष्ठानभूते स्वाश्रये स्वविरुद्धां घटत्वादि प्रतिक्षेपकत्वादर्शनात् सत्यमेव घटत्वादि स्वाश्रये सविरुद्धर्मप्रतिक्षेपकत्वेन कल्पनीयमिति कथं मिथ्याभूतं मिथ्यात्वं स्वधर्मिणि प्रपंचे सत्यत्व प्रतिक्षेपकं भवेदित्याशंक्याह धर्मस्येति । घटत्वादौ परमतरीत्या पारमार्थिकत्वरूपं सत्यत्वमस्ति तथा धर्मि समानसताकत्वं मतद्वयसंमतमस्ति तथा च घटत्वादि धर्मस्य स्वाभाविकाश्रये स्वविरुद्धधर्मप्रतिक्षेपकत्वे प्रयोजकाकांक्षायां संप्रतिपन्नमेव प्रयोजकं कल्पनीयं न विप्रतिपन्नमित्यर्थः । दृष्टांतं प्. ७९ब्) विघटयति ब्रह्मण इति । नुधर्मीति । ब्रह्मणः पारमार्थिकत्वात् सप्रपंचस्य च व्यावहारिकत्वादितिभावः । ननु प्रपंचगत मिथ्यात्वस्य मिथ्यात्वपक्षे तद्व्यावहारिकमैव वाच्यं ब्रह्मज्ञानैक निवर्त्यस्य मिथ्या मिथ्यात्वधर्मस्य प्रातिभसिकत्व पारमार्थिकत्वयोरयोगा तस्य व्यावहारिकत्वे तु प्रपंच गतं सत्यत्वं पारिमार्थिकं सिध्यति तस्यापि स न घट इत्यादि प्रत्यक्षसिद्धस्य यावतत्वज्ञानमनुवर्तमानस्य प्रातिभासिकत्वायोगात् । व्यावहारिक मिथ्यात्व धर्मवति प्रपंचे तत्सत्यत्वस्य व्यावहारिकस्यायोगाच्च तथा च प्रपंच गतस्य सत्वत्व धर्मस्य पारमार्थिकत्व सिद्धौ धर्मिणः प्रपंचस्यापि पारमार्थिकत्वमनिर्वार्यमिति । ब्रह्माद्वैतक्षतिरिति कस्य चिच्चोद्यं वक्ष्यमाण हेतुना निरस्तमित्याह । अत एवेति ।। धर्मि समसता कस्य मिथ्यात्वस्य व्यावहारिकत्वे धर्मिणोपि व्यावहारिकत्व नियमात् । अथ वायो यस्य स्वाविषयमाक्षात्कारानिवृर्त्योधर्मः स तत्र स्वविरुद्धधर्मप्रतिक्षेपकः शुक्तौ शुक्ति तादात्म्यं तद्विषयसाक्षात्कारानिवर्त्यमशुक्तित्वविरोधि तत्रैव रजत तादात्म्यं तन्निवर्त्यमरजतत्वाने विरोधीति व्यवस्था दर्शनात् । एवं च मिथ्यात्वं कल्पितमपि प्. ८०अ) प्रपंचसाक्षात्कारानिवर्त्यमिति सत्वत्व प्रतिक्षेपकमेव ब्रह्मणः सप्रपंचत्वं तु ब्रह्मसाक्षात्कारनिवर्त्यमिति ननिः प्रपंचत्वप्रतिक्षेपकमिति । एतेन शब्दगम्यस्य ब्रह्मणा सत्यत्वे शब्दयोग्यतायाः शाब्दधी प्रामाण्यस्य च सत्यत्वं वक्तव्यं प्रातिभासिक योग्यतावताः नाप्तवाक्येन व्यावहारिकार्थस्य व्यावहारिकयोषतावतावताग्निहोत्रादि वाक्येन तात्विकार्थस्य वामिद्व्यभावेन योग्यता समानसताकस्यैव शब्दार्थस्य सिद्धिनियमात् ।। नियमादिति मिथ्यात्व धर्मस्य धर्मिसमानसताकत्वप्रयुक्तं व्यावहारिकत्वमुपेत्यमिथ्यात्वधर्मिणि प्रपंचे सत्यत्व पर्यवसायिनः प्रपंच सत्यत्वे पारमर्थिकत्वा पादनस्य विरोधेनासंभवादित्यर्थः । न च प्रपंचे पारमार्थिकस्य सत्यत्वस्याभावे प्रातिभासिक सत्यत्वयोरपि प्राऽऽननिरस्तत्वा तत्र सत्वानुभवविरोध इति वाच्यं । व्यावेहारिकस्यैव सत्वस्य प्रपंचे स्वीकारैणानुभवविरोधाभावात् । न च मिथ्यात्व सत्यत्वयोर्व्यावहारिकत्वेन समानसताकयोरेकत्र विरोध इति वाच्यं । मिथ्यात्वाविरुद्धस्य या वृतत्वज्ञानं बाध प्. ८०ब्) रहित स्वरूपत्व लक्षणसत्वस्य प्रत्यक्षादि विषयस्या सकृदुक्तत्वादितिभावः । सर्वत्रब्रह्मसतैव प्रतीय तेन तदतिरकेर्णव्यावहारिकं प्रातिभासिकं वा सत्वमस्तीति मते धर्मिसमसत्वं तंत्रमिति समाधानं न संभवतीति मत्वासमाधानांतरमाह । अथवेति । धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि स्वाश्रयसाक्षात्कारा निवर्त्यत्वं प्रयोजकं कल्पाते संप्रति पन्नुत्वान्नतु पारमार्थिकत्वं तस्यास्मा वामसंप्रतिपतेरितिभावः । यो धर्मो यस्य धर्मिणो धर्मि गोचर साक्षात्कारा निवर्त्यः । स धर्मस्तत्र धर्मिणीत्यक्षरार्थः उक्त प्रयोजके हेत्वंतरमाह । शुक्ताविति । तत्पदं शुक्तिपरं अशुक्तित्वविरोधीति । अशुक्तित्वस्य प्रतिक्षेपकमित्यर्थः । तत्रैवेति । शुक्तावेव रजत तादात्म्यरूपो धर्मो वर्तते स च स्वविरुद्धस्यारजतत्वस्य रजत भिन्नत्वस्य शुक्तिगतस्याविरोधी प्रतिक्षेपको न संभवतीत्यत्र हेतुगर्भं विशेषणं तन्निवर्त्यमिति । शुक्तिसाक्षारनिवर्त्यमित्यर्थः । एवं वेति स्वाश्रयसाक्षात्कारानिवर्त्य धर्मस्य स्वाश्रये स्वविरुद्धधर्मस्थिति विरोधित्वे प्रमाणेन निश्चिते सतीत्यर्थः । अनिवर्त्यमिति यथा शुक्तिसाक्षात्कारे सति शुक्ति तादात्म्यं न निवर्त्यते तथा घटादिरूपप्रपंच साक्षात्कारे सति श्रुति न्यायसिद्धं मिथ्यात्वं न निवर्तत इत्यर्थः । चोद्यांतरमपि वक्ष्यमाण हेतुना निरस्तमित्याह । एतेनेति । शब्दगम्यस्य प्. ८१अ) ब्रह्मणः सत्यत्वे शब्दनिष्टयोग्यतायाः सत्यत्वं वक्तव्यमित्यत्र हेतुमाह । योग्यता समान सता कस्यैवेति । वाक्यार्थ वाक्यनिष्ठयोग्यतयोः समानसताकत्वनियमं साधयति । प्रातिभासिक योग्यतावतेति । व्यावहारिकार्थस्य सिध्यभावेनेति संबंधः अर्था बाधरूपप्रामाण्यस्यासत्यत्वेर्थस्य सत्यत्वा योगाच्च । तथा च ब्रह्मातिरिक्त सत्यवस्तुसत्वेन द्वैतावश्यंभाव इति वियदादि प्रपंचोपि सत्योऽस्तिति निरस्तां व्यावहारिकस्यार्थ क्रियाकारित्वस्य व्यवस्थापितत्वेन व्यावहारिकयोग्यताया अपि सत्यब्रह्मसिद्धि संभवात् । ब्रह्मपरे वेदांते सत्यादि पद सत्वाद्ब्रह्मसत्यत्वसिद्धेः । अग्निहोत्रादिवाक्ये तादृशपदाभावा तत्सत्वेपि प्रबलब्रह्माद्वैत श्रुतिविरोधा तदसिद्धिरित्येव वैषम्योपपतेः । शब्दार्थयोग्यतयोः समानसताकत्व नियमस्य निःप्रमाणकत्वात् घटज्ञानप्रामाण्यस्था घटत्ववत् सत्यभूतब्रह्मज्ञानप्रामाण्यस्यापि तदतिरिक्तघटितत्वेन मिथ्यात्वोपपतेश्च ।। प्. ८१ब्) शब्दगम्यस्य ब्रहमणः सत्यत्वे ब्रह्मगोचरशाब्दज्ञाननिष्टस्य प्रामाण्यस्य सत्यत्वं वक्तव्यमित्यत्र हेतुमाह । अर्था बाधरूपेति तथा च वेदांतार्थस्य ब्रह्मणः सत्यत्वसंरक्षणाय तद्वीप्रामाण्यस्य सत्यत्वं वक्तव्यमितिभावः । ननु ब्रह्मव्यतिरिक्त निरुक्तयोग्यतादेः सत्यत्व सिद्धावपि पूर्ववाद्यभिमतं निखिलद्वैत सत्यत्वं कथं सिध्यति तत्राह । तथा चेति । द्वैतावश्यंभाव इति । अद्वैतभंगावश्यंभाव इत्यर्थः । वेदांतशब्दनिष्टयोग्यतायाः सत्यत्वं किं तस्याः शादबोधरूपार्थक्रियाकारित्वसिध्यर्थमपेक्ष्यते किं वा ब्राह्मणः सत्यत्व सिध्यर्थं नाद्यत इत्याह । व्यावहारिकस्येति । प्रपंचस्येति शेषः । योग्यताया इति पंचमी सत्वस्य ब्रह्मणः सिद्धिः शाब्दबोधः द्वितीये योग्यतायाः सत्यत्वाभावेपि ब्रह्मणस्तत्सिध्यतीत्याह । ब्रह्मपर इति । अत्रादि पदं चित्पदादि संग्रहार्थं । तर्ह्यग्निहोत्रादि धर्मि स्यापि सत्यादि यदात्सत्यत्वसिद्धिः स्यादिति नेत्याह । अग्निहोत्रादीति । ननु यो वै स धर्मः सत्यं चैतदिति धर्मेपि सत्यपदं श्रुतौ प्रयुक्तमस्ति तत्राह । तत्सत्वेपीति तदसिद्धिरिति । यो वै स धर्म इति वाक्यस्याग्निहोत्रादौ परमार्थत्व प्रतिपादने तात्पर्यलिंगानाम भावेना तत्परस्य तं स्यतेत्परत्वरत्व न प्रवलया द्वैत श्रुत्यावाधाद्धर्मस्य न ब्रह्मवत्परमार्थत्वसिद्धिरित्यर्थः श्रुतावग्निहोवादेरवगत्यर्थत्वेन प्. ८२अ) सत्यत्वमनुष्टीय मानावस्थत्वेन धर्मत्वं च विवक्षित्वा यो वै स धर्मः सत्यं चैतदिति सत्यधर्मयोरभेद उक्त इति मंतव्यं व्यावहारिकयोग्यतावता वेदांतवाक्येन सत्यस्य ब्रह्मणः सिद्धौ फलितमाह शब्दार्थयोग्यतयोरिति । ब्रह्मणः सत्यत्वेपितहाननिष्टप्रामाण्यस्य न सत्यत्वं सिध्यति । तस्य ब्रह्ममात्रत्वाभावादित्याह । घटज्ञानेति । तदतिरिक्तेति । ब्रह्मत्ववति ब्रह्मत्वप्रकारकानुभवत्वरूप तत्प्रामाण्यस्यापि ब्रह्मातिरिक्त ब्रह्मत्व वैशिष्ट्य घटितत्वेनेत्यर्थः । यदि च ब्रह्मज्ञानगतं प्रामाण्यमबाधितार्थानुभवत्वरूपं तच्च विवक्षितविवैकेन बाधायोग्यविषयस्वरूपमात्रं पर्यवस्यति तन्मात्रपर्यवसित प्रामाण्यस्य चाखंडार्थ परवेदांतेषु ब्रह्ममात्रत्वमेव न तदतिरिक्त घटितत्वमिति ब्रह्मज्ञानप्रामाण्यस्य सत्यत्वं संभवतीत्युच्येत तर्हि ब्रह्मगोचरशाब्दधी प्रामाण्यस्य सत्यत्वेपि न तवेष्टसिद्धिः । तस्य ब्रह्ममात्रत्वेन ब्रह्मातिरिक्त सत्यवस्त्वसिद्धेरितिभावः ।। तस्मादारंभणाधिकरणोक्त न्यायेन कृत्स्नस्य वियदादि प्रपंस्य मिथ्यात्वं वज्रलेपायते नन्वारंभणशब्दादिभिरचेतनस्य वियदादि प्रपंचस्य मिथ्यात्वसिद्धावपि चेतनानामपवर्गभाजां प्. ८२ब्) मिथ्यात्वायोगादद्वितीय ब्रह्मणि समन्वयो न युक्तः । न च तेषां ब्रह्माभेदः प्रागुक्तो युक्तः परस्परभिन्नानां तेषामेकेन ब्रह्मणाभेदासंभवात् । न च तद्भेदासिद्धिः सुखदुःखादि व्यवस्थया तत्सिद्धेरिति चेत् । न तेषामभेदेप्युपाधिभेदादेव तद्यवस्थोपपतेः । ननूपाधिभेदेपि तदभेदा न पायात् कथं व्यवस्था न ह्याश्रयभेदं नोपपादनीयो विरुद्धधर्मा संकरस्तदतिरिक्तस्य कस्यचिद्भेदोपगमेन सिध्यति । अत्र केचिदाहुः सिद्धात्येवांतःकरणोपाधिभेदेन सुखदुःखादिव्यवस्था कामः संकल्पो विचिकित्सा श्रद्धा श्रद्धा धृतिरधृतिर्ह्रीर्ध्रीर्भीरित्येतत्सर्वं मन एव विज्ञानं यज्ञं तनुत इत्यादिभिः श्रुतिभिस्तस्यैव निखिलानर्था श्रयत्वप्रतिपादनादसंगो ह्ययं पुरुषः असंगो न हि सजत इत्यादि श्रुतिभिश्चेतनस्य सर्वात्मनौदासीन्य प्रतिपादनाच्च न चैवं सति कर्तृत्वादि बंधस्य प्. ८३अ) चैतन्यसामानाधिकरण्यानुभवविरोधः तस्मादिति । विरोधाभावादित्यर्थः । प्रपंचस्य मिथ्यात्वपक्षे प्रत्यक्षादि विरोधाभावो निरूपितः । इदानीं सर्वेषु शरीरेष्टात्मन एकत्वपक्षे सुखदुःखादि व्यवस्थाविरोधमाशंक्यतां निरूपयितुं प्रसंगमाह । नन्वित्यादिना अपवर्गेति । जीवानां स्वरूपेण मिथ्यात्वज्ञानेन निवृत्यापत्या तेषां मुक्तिभात्कं न स्यादित्यर्थः । ननु जीवानां ब्रह्माभेदस्य वेदांतप्रमाणकस्य प्रथमपरिछेदावसाने उक्तत्वात् । ब्रह्माणेनाद्वितीयत्वानुपपतिरित्याशंक्य निराकरोति । न च तेषामिति । जीवानां परस्य भेदासिद्धिमाशंक्याह । न च तदिति । एकस्य यदाहुः खं भवति तदा जीवांतरस्य सुखं भवतीति सुखदुःखव्यवस्था एवं रागद्वेषादि व्यवस्थाप्यनुभवसिद्धा द्रष्टव्यांत तया तेषां परस्परभेदः सिध्यतीत्याह । सुखेति नन्वारंभणेत्यादिना प्राप्तं प्रतिशरीरमात्मभेदपक्षं प्रतिक्षिपति नेति । उपपतेरिति । नात्मभेदः प्रामाणिक इत्यर्थः । तदभेदेति । आत्मा भेदेत्यर्थः । कथं शब्दसूचितामनुपपतिमाह न हीति । तदतिरिक्तस्येति विरुद्ध सुखदुःखाद्याश्च याति रिक्तस्य कस्यचिदहमनुभवगोचरस्येत्यर्थः । अंतःकरणमेव बंधाश्रयो अहमनुभवगोचरश्च नत्वात्मा प्. ८३ब्) तस्य कूटस्थत्वात् तथा चाश्रयभेदादेव धर्मव्यवस्थेति समाधते । अत्र केचिदाहुरिति मन एवेति । मनोंतःकरणं कामसंकल्पादीनां तत्परिणामत्वात् सामानाधिकरण्यं विज्ञानमंतःकरणं तनुते करोति यज्ञं शास्त्रीयं कर्म आदिपदेन कामायेऽस्य हृदिश्रिता इत्यादिश्रुतिर्ग्राह्याचिदात्मनः कूटस्थत्वे प्रमाणमाह । असंगो ह्ययमिति असंगो न हि सज्जत इति संगा योग्यत्वादित्यर्थः । आदिपदेन साक्षी चेता केवलो निर्गुणंश्च अनश्ननऽन्यो अभिचाकशीतीत्यादि श्रुतिसंग्रहः । न चैवं सतीति अंतःकरणस्यैव बंधाश्रयत्वे सतीत्यर्थः । अहंकरोम्यहं सुख्यहं दुःख्यहमुपलभे इत्यादिरूपेण उपलब्धिरूप चैतन्यस्य कर्तृत्वसुखदुःखाद्यात्मकबंधसामानाधिकरण्यमनुभूयते तद्विरोध इत्यर्थः । अंतःकरणस्य चैतन तादात्म्येनाध्यस्ततया तद्धर्माणां चैतन्यसामानाधिकरण्यानुभवोपपतेः । न चांतःकरणस्य कर्तृत्वादि बंधाश्रयत्वे चेतनः संसारीनस्यादिति वाच्यं कर्तृत्वादि बंधाश्रयाहंकारग्रंथि तादात्म्याध्यासाधिष्ठानभाव एव तस्य संसार इत्युपरामात् प्. ८४अ) तावतैव भीषणत्वाश्रय सर्प तादात्म्याध्यासाधिष्ठाने रजादावयं भीषण इत्यभिमानवदात्मनोनर्था श्रयत्वाभिमानोपपतेः । एतदभिप्रायेणैव ध्यायतीवलेला स्मृतिव अहंकार विमूढात्मा कर्ताहमिति मन्यत इत्यादि श्रुतिदर्शनाच्च न चैकस्मिन्नेवात्मनिविचित्रसुखदुःखाश्रयत तदंतःकरणानामध्यासादात्मन्याभिमानिक सुखदुःखादि व्यवस्थैवमपि न सिद्ध्यतीति वाच्यं ।। यथा इदमंश तादात्म्येनाध्यस्ते रजते रजतत्वस्य इदं त्व सामानाधिकरण्यानुभवः । तद्वदिति समाधते अंतःकरणस्येति । तद्धर्माणामित्यत्र तत्पदमंतःकरणपरं एतदुक्तं भवति । आत्मनश्चैतन्यरूपत्वेपि भेदकल्पनया चैतन्यमात्मधर्मः । तथा चात्म्यंतःकरणयोरैक्याध्यासे सति तयोर्धर्माणां चैतन्य कर्तृत्वादीनां सामानाधिकरण्यं संपद्यत इति न तदनुभवविरोध इति । चेतन इति । चैतन्याश्रय आत्मा संसारी कर्तृत्वादि धर्मवान् न स्यादित्यर्थः । चेतनस्य स्वतः संसाराश्रयत्वाभावेपि बुद्धिनिष्टस्य संसाराश्रयत्वस्य साक्षिणानुभूयमानस्यात्मन्यारोधोपपतेः प्. ८४ब्) आरोपित संसाराश्रयत्वमस्तीति परिहरति । कर्तृत्वादीति । अहंकारस्य चेतनेन सह ग्रंथितुल्यो यस्तादात्म्यरूपो ध्यासस्तदधिष्ठानत्वमेवेत्यर्थः । तस्य चेतनस्य इत्यर्थः । संसार इति संसाराश्रयत्व भ्रांतिप्रयोजक इत्युपगमादित्यर्थः । तावतैवेति । उपाधेः संसाराश्रयत्वमात्रेणेत्यर्थः । भीषणत्वं भय हेतुत्वं तच्च सर्पधर्मः अभिमानो भ्रांतिः न चान्य निष्टसंसाराश्रयत्वस्यात्मन्यारोपे अन्यथा ख्याति प्रसंग इति वाच्यं । अनुभूयमानारोपस्थले आरोप्याधिष्ठानयोः संसर्गस्यानिर्वचनीयस्योत्पत्युपगमेन तदप्रसंगादिति भावः । एतदिति बुद्धिनिष्टसंसारस्यात्मन्यारोपाभिप्रायेणैवेत्यर्थः । बुद्धौ ध्यायंत्वामात्माध्यायतीवभाति तस्यामेवलेलायंत्यां चलंत्यामात्माचलतीव न तु वस्तुतो ध्यानाद्याश्रय इति इव शब्दार्थः । ध्यानादिग्रहणमशेषबुद्धिधर्माणामुपलक्षणार्थं अहंकारेण कर्तृत्वाश्रयेण सह विमोहं तादात्म्याध्यासमापन्नः स न आत्मा नमहं कर्तेति मन्यते कर्तृत्वमननमशेषसंसारमननोपलक्षणार्थं । ननु बुद्धेः स्वतः संसाराश्रयत्वं चिदात्मनस्तु भ्रांति सिद्धं संसाराश्रयत्वमिति । विभागाभ्युपगमे प्रतिशरीरं बुद्धिभेदातद्धेर्मव्यवस्थासिद्धावपि प्रतिशरीरमात्मभेदाभावात् । तद्गतस्य बंधस्य न प्. ८५अ) व्यवस्थासिध्यतीति शंकते । न चैकस्मिन्नेवेति । विचित्राणां सुखदुःखानां माश्रयभूतानि ततदंतःकरणानि तेषामेकस्मिन्नेवात्मन्यध्यासाद्धेतोर्य आत्मन्याभिमानिकः सुखदुःखादिः तस्य व्यवस्था न सिध्यतीत्यर्थः । एवमपीति । बुद्धि धर्मव्यवस्थासिद्धावपीत्यर्थः ।। आध्यासिक तादात्म्यापन्नांतःकरणगतानर्थजातस्येव तद्गतपरस्परभेदस्याप्यभिमानत आत्मीय तयात्मनो यादृशमनर्थभात्कं तादृशेन भेदेन तद्यवस्थोपपतेः । एतेन सुखदुःखादीनामंतःकरणधर्मत्वंपि तदनुभवः साक्षिरूप इति तस्यैकत्वात् सुखदुःखाद्यनुभवरूप भोगव्यवस्थान सिद्ध्यतीति निरस्तं तन्हद्रन्तःकरण तादात्म्यापत्त्या ततदंतःकरणभेदेन भेदेवते एव साक्षिणस्तम्नदंतःकरण सुखदुःखाद्यनुभवरूपत्वेन तद्व्यवस्थाया अप्युपपतेरिति । अन्ये तु जडस्य कर्तृत्वादि बंधाश्रयत्वानुपपतेः कर्ता शास्त्रार्थवत्वादिति चेतनस्यैव तदाश्रयत्वप्रतिपादकसूत्रेणांतःकरणे प्. ८५ब्) चिदाभासोबंधाश्रयस्तस्य चासत्यस्य बिंबाद्भिन्नस्य प्रत्यंतःकरणं भेदाद्विद्वदविद्वत्सुखिदुःखिकर्त्रऽकर्त्रादि व्यवस्था ।। बंधाश्रयत्वस्येव बुद्धिगतस्य परस्परभेदाश्रयत्वस्याप्यात्मन्यारोपाभ्युपगमान्ना व्यवस्थेति परिहरति । आध्यासिकेति । नन्वारोपितेन भेदेन कथं व्यवस्थेत्याशंक्य व्यवस्थापनीय स्यात्मन्यारोपितत्वान्ना व्यवस्थापकत्वं तादृश भेदस्येत्याह । यादृशमिति । आत्मसाक्षिचैतन्ययोरभेदेपि भेदं कल्पयित्वा कल्पितबंधाश्रयस्यात्मन एकसुखदुःखादेः त्व प्रयुक्तौ दोषो निरस्तः । इदानीं साक्षि चैतन्यस्य सर्वशरीरष्वेकत्वप्रयुक्तं दोषमाशंक्यनिराकरोति । एतेनेति । वक्ष्यमाणहेतुनेत्यर्यः । तदनुभव इति । सुखाद्यनुभव इत्यर्थः । सुखेति देवदत्तस्य यः सुखानुभवः स एव चेद्यज्ञदतस्यापि तदा देवदत्तस्य सुखानुभवकाले तमेव सुखानुभवमादाय यज्ञदत्तस्याप्यहं सुखीति भोगप्रसंग इत्यर्थः । यथा अंतःकरणगतभेदस्यात्मन्यारोपः तथा साक्षि चैतन्यरूपे सुखाद्यनुभवेपि तद्गतभेदारोपाभ्युपगमात् । न भोगा व्यवस्थेति परिहरति ते तदिति । भेदेनेति । ततदंतःकरण भेदेन साक्षिण्यारौपितेन प्. ८६अ) भेदविशिष्टस्यैवेत्यर्थः । धान्येन धनवानित्यत्रैव तृतीया साक्षिण्यंतःकरणभेदारोपे हेतुः । तादात्म्यापत्येति । सर्वशरीरेष्वात्मन एकत्वे सुखादि व्यवस्थानस्यादिति पूर्ववाद्याक्षेपे । अन्यत् समाधानमाह । अन्ये त्विति पूर्वोक्तं बुद्धेर्बंधाश्रयत्वं दूषयति । जडस्येति । अनुपपतेरिति । बंधस्य चेतनधर्मत्वप्रसिद्धिविरोधादितिभावः । बुद्धेरेव कर्तृत्वं न चेतनस्य तस्य कूटस्थ त्वादिति सांख्यमत निराकरण पूर्वकं चेतनस्यैव कर्तृत्व व्यवस्थापक सूत्रानुसाराच्चेत्याह । कर्तेति । चेतनः कर्ता भवितु मर्हति तथा सत्यैव चेतनस्य कर्तृत्व प्रतिपादकं कर्ता विज्ञानात्मा पुरुष इति शास्त्रमर्थवद्भवति । अन्यथा तदनर्थकं स्यादिति सूत्रार्थः । चिदाभास इति । न तु साक्षाच्चिदात्मैव तस्य कूटस्थत्वेन बंध परिणामित्वा योगादिति भावः । चिदाभासस्य बंधा श्रयत्वेपि कथं व्यवस्था सिद्धिस्तत्राह । तस्य चैति बिंबपति बिंबयोरे भेदेपि प्रत्यंतःकरणं प्रतिबिंबभेदो लभ्यते उपाधि भेदेन तन्निरूपित प्रतिबिबानामपि कल्पित भेदाभ्युपगमा तथापि प्रतिबिंबमिथ्यात्वमत एव तस्य बंधाश्रयत्वं स्वाभाविकं भवतीति तन्मिथ्यात्वमतमाश्रितं ।। न चैवमसत्यस्य बंधाश्रयत्वे बंधमोक्षयोर्वैयधिकरण्यापतिः प्. ८६ब्) अस्य चिदाभासस्यांतःकरणावछिन्ने स्वरूपतः सत्यतया मुक्त्य नयिनि पारमार्थिक जीवेऽध्यस्ततया कर्तृत्वाद्याश्रय चिदाभास तादात्म्याध्यासाधिष्ठान भावस्तस्य बंध इत्युपगमादित्याहुः । अपरे त्वात्मेंद्रियमेनोयुक्तं भोक्तेत्याहुर्मरमीषिण इति सह कारित्वेन देहेंद्रियैस्तादात्म्यो न मनसा च युक्तस्य चेतनेस्य भोत्कृत्व श्रवणादंतःकरणभेदनतेद्विशिष्टभेदाद्व्यवस्थान चैवं विशिष्टस्य बंधः शुद्धस्य मोक्ष इति वैयधिकरण्यं विशिष्टगतस्य बंधस्य विशेष्ये अनन्वयाभावात् विशिष्टस्यानतिरेकादित्याहुः ।। न चैवमिति । बिंबप्रतिबिंबयोर्भेदांगीकारेत्यर्थः । सत्यस्य बिंबचैतन्यस्य ब्रह्मभावलक्षणमोक्षाश्रयत्वे च सतीतिशेषः मुक्त्यन्वपि नो बिंबभूतावछिन्नचैतन्यस्य स्वतः संसाराश्रयत्वाभावेपि भ्रांति सिद्धस्य तदाश्रयत्वस्य संभवान्न वैयधिकरण्य दोष इत्याह अस्येति । चिदाभास गत बंधस्य चिदात्मन्यध्यासे चिदात्मचिदाभासयोस्तादात्म्याध्यासं हेतुमाह प्. ८७अ) अध्यस्ततयेति । अस्य चिदाभासस्य परमार्थ जीवे ध्यस्तनयेति संबंधः । तस्य बंध इति बंधः । बंधारोपे हेतुरित्युपगमादित्यर्थः । यथा श्रुतस्याध्यासाधिष्ठानत्वस्य बंधरूपत्वाभावात् सुखादेरेव बंधरूपत्वाच्चेति बोध्यं । सर्वशरीरेषु चिदात्मन एकत्वेपि तस्य केवलस्य बंधाश्रयत्वं नोपेयते । किंतु बुद्धिविशिष्टस्य चिदात्मनस्तथा च बंधाश्रयस्य विशिष्टस्य प्रतिशरीरं भेदान्न सुखदुःकादि सांकार्यमिति मतांतरमाह । अपरे त्विति । विशिष्टस्य भोक्तत्वे मानमाह । आत्मेति आत्मशब्दो देहपरः श्रुतावात्मानमित्यध्याहारः इति शब्दो द्वितीया समानार्थकः । ततश्च देहेंद्रियांतःकरणयुक्तमात्मानं भोक्तारमाहुर्विद्वांस इत्यर्थः । ननु देहस्य विशेषणतया भोक्तृ कोटौ निवेशो न संभवति तस्यात्मनि भोगं प्रत्यवछेदकतया उपकरणं त्वादिंद्रियाणामपि भोक्तृ कोटौ निवेशौ न संभवति । तेषामुपकरणमात्रत्वात् स्वप्ने तेषामभावेपि भोगदर्शनाच्च तस्माद्देहेंद्रियैर्युक्तस्यात्मनो भोक्तत्व श्रुतिरनुपपत्तेत्याशंक्य युक्तपदोदितं योगं यथायोग्यं दर्शयति । सह कारित्वेनेति । आत्मनि तावत् कामसंकल्पादयोनुभूयंते ते च मनोधर्मत्वेन श्रुति सिद्धास्तथा च कामादिमन्मनस्तादात्म्यं विनात्मनः प्. ८७ब्) कामाद्याश्रयत्वानुपपतेः । ततादात्म्येन तद्विशिष्टस्य भोक्तृत्वं युक्तमित्याशयेनाह । तादात्म्येनेति । ननु बुद्धिविशिष्टात्मा केवलात्मनः सकाशाद्भिन्नः विशिष्टं केवलं न भवतिति प्रतीतेः विशिष्टवृति केवलप्रतियोगिक भेदस्य विशेष्यवृतित्व नियमा तथा च विशिष्टात्मगत बंधस्य विशेष्यान्वपि त्वेपि मुक्तान्वपि केवलचैतन्ये बंधानन्वयाद्वैयधिकरण्यतादवस्थ्यमिति नेत्याह । विशिष्टस्येति । विशिष्टांतर्गतविशेष्यस्य केवलादनतिरेकादित्यर्थः । अयं भावः । लोके दंडविशिष्टपुरुषे कैवलपुरुषाभेदस्य प्रत्यभिज्ञायमानतात् । तत्प्रत्यभिज्ञाया बाधका भावाच्च विशिष्टांतर्गत विशेष्यस्य केवलस्य च स्वाभाविकमेकत्वं विशिष्टत्वाविशिष्टत्वरूपभेदेन काल्पनिको भेदश्च कल्प्यते तथा च विशिष्टगत बंधस्य विशेष्यान्वयिनः केवलात्मन्यययन्वयः सिद्ध इति ।। इतरे तु अस्तु केवलश्चेतनः कर्तृत्वादिबंधाश्रयः स्फटिकलौहित्य न्यायेनांतःकरणस्य तद्विशिष्टस्य वा कर्तृत्वाद्या अपस्य सन्निधानाच्चेतनेपि कर्तृत्वाद्यंतराध्यासोपगमात् । न च तस्यैकत्वाद्व्यवस्थानुपपतिः । उपाधिभेदादेव तदुपपते । न चान्यभेदादन्यत्रविरुद्ध प्. ८८अ) धर्मव्यवस्थानुयुज्यत इति वाच्यं । मूलाग्ररूपोपाधिमात्रेण वृक्षे संयोग तदभावव्यवस्था दर्शनात् । तत्तत्पुरुषकर्णपुटोपाधिभेदेन श्रोत्रभावमुपगतस्याकाशस्य तत्र शब्दोपलंभकत्वानुपलंभकत्वतारमंदेष्टानिष्ट शब्दोपलंभकत्वादि वैचित्र्यदर्शनाच्चेत्याहुः । एके तु यद्याश्रयभेदादेवविरुद्धधर्मव्यवस्थोपपादनीया तदा चेतने निकृष्टे एवोपाधिवशाद्भेदकल्पनास्तु अकल्पिताश्रयभेद एव व्यवस्थाप्रयोजक इति क्वाप्य संप्रतिपतैः मणिमुकरकृपाणाद्युपाधिकल्पितेन भेदेन मुखे श्यामा वदातवर्तुलदीर्घभावादि धर्माणां अंगुल्युपष्टंभोपाधिकल्पितेन भेदेन दीपे पाश्चात्यपौरस्त्यभावादि धर्माणां च व्यवस्थासंप्रतिपतेरित्याहुः ।। अंजसाबंधमोक्षयोः सामानाधिकरण्यमाह । इतरे त्विति । स्फुटिकेति । यथा लोहित्याश्रयस्य जपाकुसुमादेः सन्निधानात् स्फटिके उपाधिगतलौहित्यापेक्षया तत्प्रतिबिंबभूतस्य लौहित्यांतरस्योत्पतिः तथा चिदात्मनि बुध्यादि गतत बंधापैक्षया अन्यस्य प्. ८८ब्) कर्तृत्वादिबंधस्याभ्रमात्मकस्योपगमादित्यर्थः । न च बुध्यादौ साक्षिणानुभूयमानस्य बंधस्य चिदात्मनि संसर्गमात्राध्यासोपगमेन वैयधिकरण्य शंका परिहारसंभवात् तत्र बुध्यादिनिष्टकर्तृत्वादि सदृश कर्तृत्व प्रमुख बंधोत्पति कल्पनं न प्रामाणिकमिति वाच्यं । बुद्धेर्गुणेनाराग्रमात्रो ह्यवर इति श्रुताववरशब्दित जीवस्याराग्रमात्रशब्दितमल्पपरिमाणं बुद्धिगुणशब्दित परिमाण हेतुकमिति प्रतिपादनेन तुल्यन्यायतया कर्तृत्वादिकमपि बुद्धिधर्मसदृशमात्मन्युत्पद्यत इति । अस्यार्थस्य श्रुति संमतत्वेन प्रामाणिकत्वात् । न च तस्येति । कर्तृत्वाद्यध्यासाधिष्ठानस्यात्मन इत्यर्थः । मूलेति परमते नेदं दृष्टांत द्वयं सिद्धांते मूलावछिन्नवृक्षस्याग्रावछिन्नवृक्षस्य च काल्पनिक भेदाभ्युपगमेनैव संयोग तदभावव्यवस्थोपगमात् । श्रोत्रेंद्रियस्पदिगारभ्यत्वोपगमाच्चेति योध्यं । तारेति । तारशब्दोपलंभकत्वमंदशब्दोपलंभकत्वेष्टशब्दोपलंभकत्वा निष्टशब्दोपलंभकत्वादिलक्षणस्य वैचित्र्यस्य दर्शनादित्यर्थः । यदि दृष्टांतयोरुपाधिभेदेन तदुपहित वृक्षादिभेदं परो ब्रूया तदा प्रकृतेपि तथास्त्वित्याशयेनाह । एके त्विति । निकृष्ट इति । अंतःकरणविशिष्टवेषान्निकृष्टे तदुपहिते चिदात्मनीत्यर्थः । ननु सत्यभे एव व्यवस्था प्रयोजक इति नेत्याह । अकल्पितेति । घटादिभेदस्यापि सत्यत्वस्यास्माकमसंमतत्वादित्यर्थः । प्. ८९अ) ननु स्वाभाविकभेदे एव व्यवस्था प्रयोजको नत्वौपाधिकभेद इत्याशंक्याह । मणीति । मुखे हि मलिन मणि दर्पण कृतेन भेदेन श्यामत्वावदातत्व व्यवस्था संप्रतियतेः । कृपाणमणिमयस्तंभादि कृतेन भेदेन वर्तुलत्व दीर्घभावादि व्यवस्था संप्रतिपतेरित्यर्थः । न च बिंबप्रतिबिंबयोरभेदे स्वाभाविके खलुभेद औपाधिक इति सिध्यति तद्वशाद्व्यवस्थापि सिध्यति तयोरभेद एव कथं सिद्ध इति वाच्यं तस्य प्रागेव साधितत्वादितिभावः । अवछेदपक्षे औपाधिकभेदस्य व्यवस्थापकत्व संप्रतिपतिं दर्शयति अंगुलीति ।। एवमुपाधिवशाद्व्यवस्थोपपादने संभाविते जीवानां परस्परसुखाद्यनुनुसंधानप्रयोजक उपाधिः क इति निरूपणीयं । अत्र केचिदाहुः भोगायतनाभेद तद्भेदावनुसंधानाननुसंधानप्रयोजका उपाधी शरीरावछिन्नवेदनायास्तदवछिन्नेनानुसंधानात् चरणावछिन्नवेदनाया हस्तावछिन्नेनाननुसंधानाच्च हस्तावछिन्नोहं पादावछिन्नवेदनामनुभवामीत्यप्रत्ययात् । कथं तर्हि चरणलग्नकंटको द्वाराय हस्तव्यापारः प्. ८९ब्) नायं हस्तव्यापारो हे स्तावछिन्नानुसंधानात् । किं त्वव एवावयविनोश्ररण शरीरयोरभेदसत्वेन वरणावछिन्नवेदनाशरीरावछिन्नेनाहं चरणे वेदना वा नित्यनुसंधीयत इति तदनुसंधानात् । एवं च चैत्रमैत्रशरीरयोरभेदाभावाच्चैत्रशरीरावछिन्नवेदनामैत्र शरीरावछिन्नेन नानुसंधीयते । नाप्युभयशरीरानुस्यूतावयव्यंतरावछिन्नेनानुसंधीयते उभयानुस्यूतस्यावयविनो भोगायतनस्या भावादिति न चैत्रशरीरलग्नकंटकाद्वासय मैत्रशरीरव्यापारमप्रसंग इति ।। जीवानामुपाधिभेदाद्वा औपाधिकभेदाद्वासुखदुःखादि व्यवस्थासिद्धौ तेषां वस्तुतः परस्पर भेदे प्रमाणाभादादेक ब्रह्माभेदः सिध्यति । तत्सिद्धौवजीवाभिन्ने निष्प्रपंचे ब्रह्मणि वेदांतसमन्वयः सिद्ध इति प्रतिपादितं । संप्रति विचारांतरमारभते । एवमिति । उक्त प्रकारेणेत्यर्थः । अनुसंदानाननुसंधानयोः किं भोगायतनाभेद तद्भेदौ प्रयोजकौ किं वा विश्लिष्टभोव्यायतनाभेद तद्भेदौ । अथवा शरीराभेदतद्भेदौ । अंतःकरणाभेदतद्भेदौ वा अज्ञानाभेद तद्भेदौ प्. ९०अ) वा इति प्रश्रे प्रतिवचनं निरूपणीयमित्यर्थः । तत्राद्यपक्षमादाय प्रतिवचनं निरूपयति । अत्र केचिदाहुरिति तत्रान्वयव्यतिरेकौ प्रमाणयति शरीरावछिन्नेति । भोगायतनं ह्यवछेदकता स बंधेन भोगाश्रयः सन्नदेहः तदवयवहस्तादिश्च भवतीत्याशयेनाह । चरणेति । अननुसंधानमेव दर्शयति । हस्तावछिन्न इति हस्तावछिन्नात्मनः पादावछिन्नात्म गत दुःखानुसंधातृत्वाभावे बाधकं शंकते । कथं तर्हीति । अयं हस्तव्यापादो हस्तावछिन्नस्यानुसंधानान्न भवति । किंतु तदनुसंधानादिति संबंधः तस्य शरीरोवछिन्नस्य यच्चरणावछिन्नगत वेदनानुसंधनं तस्मादित्यर्थः । ननु चरणावछिन्नगतवेदना कथं शरीरावछिन्नेनानुसंधीयते अवयवावयविनोर्भेदात् । भेदप्यनुसंधानोपगमें चैत्र शरीरावचिन्नवेदना मैत्र शरीरावछिन्नेनाप्यनुसंधीयेत भेदा विशेषात् । तथा च चैत्र शरीरलग्नकंटको द्वाराय मैत्र शरीरस्य स्वारसिकौ व्यापारः प्रसज्येतात आह । अवयवावयविनोरिति । अवयवानां परस्पर भेदेपि शरीर तदवयवयोस्तादात्म्योपगमादित्यर्थः । एवं चेति । शरीरावछिन्नस्य चरणावछिन्नस्ये चरणावच्छिनवैदनानुसंधानं प्रतिशरीरचरणयोस्तादात्म्यस्य नियामकत्वे प्. ९०ब्) सतीत्यर्थः । ननु हस्तावछिन्नस्य चरणावछिन्नगवेदनानुसंधातृत्वाभावेपि चरणलग्नकंटको द्वाराय हस्त व्यापार चरेत् मैत्र शरीवछिन्नस्य चैत्रशरीरावछिन्नगतवेदनानुसंधातृत्वाभावेपि चैत्रशरीरलग्नकंटको द्वारापमैत्रशरीरव्यापारप्रसंगः परिहर्तुं न शकाते तत्राह नापीति । चैत्रमैत्र शरीरद्वयानुस्यूतेत्यर्थः । चैत्रशरीरावछिन्नवेदना उभयाअनुस्यूताऽवयव्यंतरावछिन्नेनापि नानुसंधीय इति संबंधः । अतो न दृष्टांतस्य म्य?मितिभावः ।। अन्ये तु विश्लिष्टोपाधिभेदो ननु संधानप्रयोजकः । तथा च हस्तावछिन्नस्य चरणावछिन्नवेदनानुसंधानाभ्युपगमेपि न दोषः । न चैवं सति गर्भस्थस्य मातृसुखानुसंधान प्रसंगः । एकस्मिन्न वयविन्यवयवभावेनाननुप्रविष्टयोर्विश्लिष्टशब्देन विवक्षितत्वात् । मातृगर्भशरीरयोस्तथात्वादित्वाहुः । न च उघदायुधदोर्दंडाः । पतित स्वशिरोक्षिभिः पश्यंतः यातयंतिस्मकबंधा अप्यरी तन् । इहेति भारतोक्त्याविश्लेषेप्यनुसंधानमवगमिति वाच्यं । तत्रापि शिरः कबंधयोरेकस्मिन्नवयविन्य च यवभावेनानुप्रविष्ट प्. ९१अ) चरत्वात् । शिरश्चेदानंतरं मूर्छामरणयोरन्यतरावश्यंभावे न दृष्टविरुद्धार्थस्य तादृशवचनस्य केंमुत्यन्यायेन योद्धुत्साहातिशय प्रशंसा परत्वात् । तादृक् प्रभाव युक्त पुरुषविशेषविषयत्वेन भूतार्थवादत्वेपि निरुक्तस्योत्सर्वातो । ननुसंधानतंत्रत्वा विघाताच्च । अत एवोक्त वक्ष्यमाणपक्षेषुयोगिनां जाति स्मराणां च शरीरांतरवृतांतानुसंधानेन दोष प्रसक्तिः ।। चरणलग्नं कंटको द्वाराध हस्त व्यापारानुरोधेन हस्तावछिन्नस्यैव चरणावछिन्नवेदनानुसंधातृत्वमुपेयते । न च तथा सति भोगायतन भेदस्याननुसंधानप्रयोजकत्वं न स्याच्चरणहस्तभेदे व्यभिचारादिति वाच्यं । तद्धारणाय विशेषणदानोपपतेरिति मत्वा द्वितीयं उपाधिं निरूपयति । अन्ये त्विति । उपाधि पदं भोगायतनपरं । न दोष इति । भोगायतनयोर्हस्तचरणयोर्भेदे सत्यपि तयोर्विश्लिष्टत्वाभावेन विश्लिष्टभोगायतन भेदस्याननुसंधानप्रयोजकस्याभावात् । न तत्र व्यभिचार दोष इत्यर्थः । न चैवं सतीति विश्रिष्टत्वविशेषणदाने सतीत्यर्थः । गर्भस्य जीवस्य यद्भोगायतने तस्य मातृशरीरस्य च विश्लोषाभावादितिभावः । विश्लिष्टपदार्था न भिज्ञ स्पंदे प्. ९१ब्) चाद्यमिति परिहरति । एकस्मिन्निति तथात्वादिति । एकस्मिन्न वयविनि अवयव भावे नाननुप्रविष्टत्वादित्यर्थः । तथा च विश्लिष्टोपाधिभैदसत्वान्न गर्भस्थ जीवस्य हृसुखानुसंधान प्रसंग इति भावः निरुक्ताननुसंधानप्रयोजकस्य व्यभिचारं शंकते । न चेति । दोर्दंडाः क बंधाः छिन्नशिरस्का देहाः । इह युद्धे भूमो वा अत्र वचने चैत्र मैत्र शरीरयोरिव विश्लिष्टयोः क बंध शिरसोर्भेदै सत्यपि शिरोवछिन्नस्य क चैधावछिन्नगतयोद्धृत्वानुसंधातृत्वमवगम्यत इति व्यभिचार इत्यर्थः । तत्रानुसंधानमुपेत्य चैत्र मैत्र शरीवैलक्ष्ण्येन समाधते । तत्रापीति चरत्वादिति । पूर्वमनुप्रविष्टत्वादित्यर्थः । अस्य वचनस्य स्वार्थे मानुत्वाभावाद्व्यभिचार शंकैवा युक्तेत्याशयेनाभ्युपगमं परित्यजति । शिरस्छेदानंतरमिति । कबंधा अपि पातयंति किमुतान्य इति योद्धृणामुत्साहातिशयं प्रशंसत्ये तद्वचनमित्यर्थः । ननु शिरस्छेदानंतरमपि युद्धानुसंधानादिकं योगमहिम्नातयो महिम्ना वा चरदान महिम्ना वा केषांचित् संभवति । ततो विद्यमानार्थकमेवेदं वचनमित्याशंकायां पुनरनुसंधानमुपेत्य व्यभिचारं परहरति । तादृगिति । विश्लिष्टभोगायतन भेदो ननुसंधानप्रयोजक इत्युत्सर्ग प्. ९२अ) इत्युपगमादुदाहृतानुसंधानस्थलस्य तदपवादस्थलत्वाभ्युपगमात् । तत्र व्यभिचारो न दोषायेतिभावः । अत एवेति उत्सर्गरूपत्वाभ्युपगमादेवेत्यर्थः । न दोष प्रक्तिरिति भोगायतन भेदादेरननुसंधानप्रयोजकत्वनियमाभ्युपगमे हि योगियुजाति स्मरेषु च भोगायतनभेदादि प्रयोजक चतुष्टयस्य सत्वेप्यननुसंधानाभावेन व्यभिचाररूप दोष प्रसक्तिर्न भवेदित्यर्थः ।। अपरे तु शरीरैक्यभेदावनुसंधान तदभावप्रयोजकोपाधीवाल्य भवांतरानुभूतयोरनुसंधान तदभावदृष्टेः । न च वाल्यैयोवनयोरपि शरीरभेदः शंकनीयः प्रत्यभिज्ञानात् । न च परिमाणभेदा तद्भेदावगमः एकस्मिन् वृक्षे मूलाग्रभेदेनेव कालभेदेनैकस्मिन्ननेकपरिमाणान्वयोपपतेः । नन्ववयवोपचयमंतरेण न परिमाणभेदः । अवयवाश्च पश्चादापतंतो न पूर्वसिद्धं शरीरं परियुज्यंत इति परिमाणभेदे शरीरभेदे आवश्यक इति चैन्न प्रदीपारोपणक्रियासमसमयसौधोदरव्यापि प्रभामंडलविकास तत्पिधानसमसमयत् प्. ९२ब्) त्संकोचाद्यननुरोधिं नः परिमाणुप्रक्रियारंभवादस्यानभ्युपगमात् । विवर्तवादे चेंद्रजालिक दर्शित शरीरवद्विनैवावयवोपचयं मायया शरीरस्य वृद्युपपतेरित्याहुः । इतरेत्वंतःकरणाभेदतद्भेदाभ्यां अनुसंधानाननुसंधान व्यवस्थामाहुः । अयं च पक्षः प्रागुपपादितः । केचित् तु अज्ञानानि जीवभेदोपाधिभूतानि नानेति स्वीकृत्य तद्भेदाभेदाभ्या अनुसंधाना ननुसंधान व्यवस्थामाहुः । अत्र केचित् तु ।। अदृष्टविशेषा सह कृतस्य भोगायतनभेदादेरननुसंधानप्रयोजकत्वस्य विवक्षितत्वात् न योग्यादिषु व्यभिचार इति तात्पर्यं तृतीयपक्षमादाय प्रतिवचनं निरूपयति । अपरे त्विति । तत्र मानमाह । बाल्येति । बाल्येऽनुभूतस्य वार्धिके अनुसंधानं दृश्यते बाल्यवार्धकयोः शराभेदात् । तत् भेदादेव भवांतरानुभूतस्यास्मित् जन्मन्यनुसंधानं न दृश्यत इत्यर्थः । शंकनीय इति । परिमाणभेदादितिभावः । बाल्याद्यवस्थाभेदेपि तदेवेदं शरीरमिति प्रत्यभिज्ञा दर्शनात् । न शरीरभेद इति परिहरति । प्रत्यभिज्ञानादि शंका बीजमरुद्य अन्यथा सिद्धिमाह । प्. ९३अ) न चेत्यादिना । आरंभवादमाश्रित्यशंकते । नन्विति न पूर्वसिद्धमिति । पूर्वसिद्धे शरीरे उपादानत्वा योगात् पूर्वसिद्ध शरीरनाशपूर्वं तदवयवैरुपचितावयवैश्च मिलित्वा शरीरांतरद्व्यणुकत्र्यणुकादिक्रमेणारब्धव्यमिति परिमाणभेदे शरीरभेद आवश्यकः प्रत्यभिज्ञा च शरीरत्वसामान्यविषया भविष्यतीत्यर्थः । समसमयकत्वं विकास विशेषणं समयश्च क्षणरूपौ बोध्यः । तत्पदं तदीय दीप्तिपरं उपादाना पादे ययोः सामानाधिकरण्यानुभवादिरादिपदार्थः । अननुरोधिन इति द्यष्णुकादिक्रमेण स्थूलावयव्युत्पतिपक्षे बिलंबापतेः समसमयत्वानुभवविरोधात्परिमाणुसंयोगनाशक्रमेण प्रभादिनाशेपि बिलंबापतेरारंभवादे उपादानो पादेययोरत्यंतभेदाभ्युपगमेन सामानाधिकरण्यानुभवविरोधाच्च तद्वादस्य हेयत्वमेवेत्यर्थः । अवयवो पचय क्रमेण शरांतरांरंभानुपगमे कथमेकस्मिन् शरीरे विरुद्धपरिमाणयोग इत्यत आह । विवर्तवादेवेति चतुर्थपक्षमादाय प्रतिवचनं ददाति । इतरे त्विति प्रागिति सुखदुःखादि व्यवस्थोपपादनग्रंथ इत्यर्थः । पंचमपक्षमाह केचित्विति प्रतिजीवमज्ञानभेदे प्रमाणं ब्रह्मलक्षणविचारावसरे दर्शितं एवमैकात्म्यवादे व्यवस्थामुपपादातन्नानात्ववादे व्यवस्थानुपपतिमाह । अत्रेति ।। प्. ९३ब्) अंशो नानाव्यपदेशादित्यधिकरणे अदृष्टानियमात अभिसंध्यादिष्वपि चैवं प्रदेशादिति चेन्नांतर्भावादिति सूत्रतद्भाष्यरीति मनुसृत्यैकस्मिन्नात्मन्युपाधिभेदेन व्यवस्थानुपगमेकणभुगादिरीत्यात्मभेदवादेपि व्यवस्थानुपपति तौल्यमाहुः । तथा हि चैत्रचरणलग्नकंटकेन चैत्रस्य वेदनोत्पादे समयेऽन्येषामप्यात्मनां कुतो वेदना न जायेत । सर्वात्मनां सर्वगत्वत्वेन चैत्रशरीरांतर्भावाविशेषात् । न च यस्य शरीरे कंटकवेधादि तस्यैव वेदनानान्येषामिति व्यवस्था सर्वात्मसन्निधावुत्पद्यमानं शरीरं कस्यचिदेव नान्येषामिति नियंतुमशक्यत्वात् न च यददृष्टोत्पादितं यच्छरीरं ततदीयमिति नियमः । अदृष्टस्यापि नियमासिद्धेः । यदा हि तदृष्टोत्पादाय केन चिदात्मना संयुज्यते मनः संयुज्यत एवं तदान्यैरपि कथं कारणसाधारण्यै क्वचिदेव तदृष्टमुत्पद्येत । ननु मनः संयोगमात्रसाधारण्येप्यहमिदं फलं प्राप्नुयामित्यभि प्. ९४अ) संधिरदृष्टोत्पादककर्मानुकूलकृतिरित्येवमादि व्यवस्थितमिति तत एवादृष्टनियमो भविष्यतीति चेन्न अभिसंध्यादीनामपि साधारण मनः संयोगादिति ध्याद्यतया व्यवस्थित्यसिद्धेः । ननु स्वकीयमनः संयोगोभिसंध्यादिकारणमिति मनसंयोग एवासाधारण्ये भविष्यतीति । न नित्यं सर्वात्मसंयुक्तं मनः कस्यचिदेव स्वमिति नियंतुमशक्यत्वात् । न चादृष्टविशेषादात्मविशेषेणमनसः स्वस्वामिभावसिद्धिः तस्याप्यदृष्टस्य पूर्ववद्व्यस्थित्यसिद्धेः ।। अंशो ब्रह्मणो जीवः श्रुतिषु जीवब्रह्मणोर्नानात्व व्यपदेशान्न च ब्रह्मणो निरंशस्य कथं जीव अंश इति वाच्यं । अवछिन्नाकाशो महाकाशस्य यथा अंशस्तथा अवाछिन्नमनछिन्नचैतन्यरूपस्य ब्रह्मणोंश इत्युपगमादिति सूत्रभागार्थः । अदृष्टानियमादि सूत्रत्रयस्य व्याख्यानं भविष्यति काणभुगादिभिर्हि प्रतिशरीरमात्मभेदाभावे व्यवस्थान संभवतीत्यात्मभेद आश्रितः न चात्मनः एकत्वेपि उपाधि कृता व्यवस्था संभवतीति । तद्भेदाश्रयणं तैषां व्यर्थमिति वाच्यं । उपाधि कृत व्यवस्थायाः क्लिष्टत्वात् । अतोंजसा व्यवस्था सिद्धये आत्मभेदस्तैराश्रित तदेतन्मतं प्. ९४ब्) दूषयति । कणभुगादिरीत्येति । व्यवस्थेति व्यवस्थांजस्यांभावस्य तूल्यत्वमाहुरित्यर्थः । यथा चैत्रस्य तथाऽन्येषामपीत्यर्थः । कंटकवेधादीत्यादिपदं खड्गघातादि संग्रहार्थं । शरीरस्थात्मविशेषं प्रत्यसाधारण्यससिद्धमिति दूषयति सर्वात्मसंनिधाविति । अदृष्टानियमादिति सूत्रमवतारयति । यद दृष्टेति । सूत्रं व्याचष्टे अदृष्टस्यापीति । अनियमं साधयति । यदा हीति । तदान्यैरप्यात्मभिः संयुज्यत इत्यर्थः । संयोगमात्रेति मात्रपदमभिसंध्यादिसाधारण्य व्यवछेदार्थं न तु समवापि कारणस्य तद्व्यवछेदार्थमिति बोध्यं । अभिसंधिफलेछा आदिपदेन कृतिजनककार्यताज्ञानचिंकीर्ययोः संग्रहः अभिसंध्यादिष्वपि चैवमिति सूत्रं योजयन्नुतरमाह । नेत्यादिना मनसो अंसाधारण्यमाशंक्यनिराकरोति । ननु स्वकीयेति । तथा च तत्संयोगा समवायि कारणकं सर्वमसाधारणं भविष्यतीति भावः । ततः किं तत्राह कथमिति आत्मममः संयोगरूपासमवायि कारणस्य समवायि कारणरूपात्मनश्च साधारणत्वादित्यर्थः त्रुटत् ३५ ।। नन्वात्मनां विभुत्वेपि तेषां प्रदेशविशेषा एवबंधभाज इत्यात्मांतराणां चैत्र शरीरे तत्प्रदेशविशेषाभावात् सखादि व्यवस्था भविष्यतीति । प्. ९५अ) न यस्मिन् । प्रदेशे चैत्रः सुखाद्यनुभूय तस्मात् प्रदेशादपक्रांतस्तस्मिन्नेव मैत्रे समागते तस्यापि तत्र सुखदुःखादि दर्शनेन शरीरांतरे आत्मातंरप्रदेशविशेषस्याप्यंतर्भावात् । तस्मादात्मभेदेपि व्यवस्थादुरुपपादैव कथंचितदुपपादने च श्रुत्यनुरोधाल्लाघवाच्चैकात्म्यमंगीकृत्य तत्रैव तदुपपादनं कर्तुं युक्तमिति । संतु तर्ह्यणव एवात्मानो खदि विभुत्वे व्यवस्थान स्रुवचा नैवं आत्मनामणुत्वे कदाचित् सर्वांगीण सुखोदयस्य करशिरश्चरणाधिष्ठानस्य चानुपपतेः । यदत्रार्वाची न कल्पन मत्क्रांति गत्यागति श्रवणान्यथानुपपत्या अणुर्ह्येवैष आत्मायं वा एतेसिनीतः पुण्यं च पापं च वालाग्र शतभागस्येत्यादि श्रुतिषु साक्षादणुदत्व श्रवणेन चाणव एव जीवाः ।। प्रदेशादिति चेन्नांतर्भावादिति सूत्रं व्याचक्षाण एव प्रदेश कृतां व्यवस्थामाशंक्यनिराकरोति । नन्वात्मनामिति । बंधः सुखदुःखादिः ततदात्मासाधारणात् प्रदेशविशेषाद्यवस्थेति । चेदिति सौत्र प्. ९५ब्) शंकाभागाक्षरार्थः । एकस्मिन् शरीरे एकस्यैवात्मनः प्रदेशोनात्मांतराणामिति नियमो असिद्ध इति दूषयति । न यस्मिन्निति । अदृष्टसुखादेरव्याप्यवृतित्वादात्मनो यः प्रदेशो अदृष्टाद्याश्रयः स एवात्र प्रदेशशब्दार्थः । तथा च यस्मिन्नासनादि प्रदेशे चैत्र शरीरं स्थितं सच्चैत्रस्य सुखाद्यायतनं भवति । तस्मिन्नेव प्रदेशे चैत्र शरीराय क्रमणानंतरं मैत्र शरीरमागत्य स्थितं सन्मैत्रस्य सुखाद्यायतनं दृश्यते । अतस्तत्र पश्चादागतमेत्र शरीरे चैत्रमैत्रात्मप्रदेशयोरदृष्टायश्रयोः प्रवेशात् । तच्छरीरे चैत्रमैत्रयोरुभयोरपि भोगप्रसंगः । न च पूर्वशरीरापक्रमणसमये तच्छरीरगतस्य चैत्रात्मप्रदेशस्याप्यपक्रमणमेवास्त्विति वाच्यं प्रदेशवत्वः आत्मनः स्थिर त्वेन प्रदेशस्य चलनानुपपतेरेव मन्येषामप्यात्मनां प्रदेशांतभीवप्रयुक्तं भोगसांकर्यमूह्यं तस्मादिति । आत्मनां व्यापकत्वाभ्युपगमादित्यर्थः । नन्वात्मैक्य मते इव तन्नानात्वमतेपि कथंचिद्व्यवस्था स्वीक्रियत इत्याशंक्याह । श्रुतीति आत्मैक्यश्रुतीत्यर्थः । तत्रैवेति । एकस्मिन्नेवात्मनीत्यर्थः । जीवाणुत्वगमक श्रुतियुक्त्यवष्टंभेन पुनर्जीवब्रह्माभेदमाक्षिपति । संत्विति । निराकरोति नैवमिति । अधिष्ठानस्य चेति । युगपत्करादि प्रेररणस्येत्यर्थः प्. ९६अ) जीवस्याणुत्वेपि सर्वशरीरव्यापि सुखादिकं संभवतीति शंकते । यदत्रेति । कल्पनाप्रकारस्तेषामणुत्वेपीत्यादिना भविष्यति । आदौ तस्याणुत्वे मानमाह । उत्क्रांतीति । तु मुत्क्रामंतमित्यादि श्रुतिषूत्क्रांत्यादिकं श्रूयत इति भावः । ननु मध्यमपरिमाणस्य जीवस्योत्क्रांत्याद्यन्यथाऽनुपपत्या चेदणुत्वं कल्पते तर्हि जीवस्य ब्रह्मभावश्रवणानुपपत्या तस्य विभुत्वं कल्प्यते श्रुतार्थापतेरविशेषादित्याशंक्य श्रुतिमप्याह । अणुर्हीति । यमात्मानमेतेसिनीतः । वध्नीनः केते तत्राह । पुण्यं च पापं च एष आत्मा अणुर्हीत्यर्थः । बालः केशः शतधा कल्पितस्य च भागो जीवः स विज्ञेय इति । वाक्यमादिपदेन गृह्यते । बालाग्रस्य यः शत तमो भागः तस्यापि शतधा विभक्तस्य यो भागस्तुल्यपरिमाणो जीव इत्यर्थः ।। तेषामणुत्वेपि ज्ञानसुखादीनां प्रदीपप्रभान्यायेनाश्रयातिरिक्तप्रदेशविशेषव्यापि गुणतया सर्वांगीणतया सर्वांगीणसुखाद्युपलंभः द्रोणं बृहस्पतेर्भागमित्यादि स्मृत्यनुरोधेन जीवानामंश सत्वात् । करशिरश्चरणाद्यनुर्गतेषु सुखदुःखादि प्. ९६ब्) यौगपद्यंकाय व्यूहगतेषु योगिनां भोग वैचित्र्यं चेति न काचिदनुपपतिः । एवं च जीवानामणुत्वेनासंकरात् सुखदुःखादिव्यवस्थाविभोरीश्वराद्भेदश्चेति । अत्रोक्तमद्वैतदीपिकायां एवमपि कथं व्यवस्था सिद्धिः । चैत्रस्य पादै वेदना शिरसि सुखमिति स्वांशभेदगतसुखदुःकानुभववन्मैत्रगत सुखदुःखानुसंधानस्यापि दुर्वारत्वात् । अविशेषो हि चैत्र जीवातदंशयोर्मैत्रस्य च भेदः कायव्यूहस्थले वियुज्यान्यत्रसंसरणसमर्थानामंशानां जीवाद्भेदावश्यंभावादंशांशिनोस्त्वयाभेदाभेदाभ्युप- गमाच्च । न च शुद्धभेदोऽननुसंधानप्रयोजक इति वाच्यं । शुद्धत्वं हि भेदस्यांशांशिभावा सहचरि तत्वमभेदा सहचरित्वत्वं वा स्यात् । जीवस्याणुत्व साधकप्रमाणानुसारिणमर्वाचीन कल्पना प्रकारं दर्शयति । तेषामणुत्वेपीति । यथा प्रभायाः स्वाश्रयं प्रदीपं विहाय प्रदेशांतर व्यापित्वं तथा ज्ञानादीनां स्वाश्रयमणुमात्मानं विहाय कदाचिच्छरीर व्यापित्वं कल्पत इत्यर्थः । नन्वात्मनः शशरीरव्यापित्वे सति प्. ९७अ) युगपत्सुखप्रयत्नादय उत्पद्यमानाः तस्मिन्नवछेदकभेदेन संभवंति तस्याणुत्वे तु कथं तेषां यौगपद्यनिर्वाहः । तत्राह द्रोणमिति । अनुगतेष्टित्यनंतरं जीवांशेष्वितिशेषः व्यूहः काय व्यूहगतेष्वित्यनंतरमपि जीवांशेष्वितिशेषः । भोगानां भुज्यमानसुखादीनां वैचित्र्यं युगपन्नाना विधत्वं युगपदनेकशरीराधिष्ठानं च योगिनां खांशैः संभवतीत्यर्थः । जीवाणुत्वपक्षेन केवलमनुपपति सामान्याभावः । किं तु लाभोप्यस्तीत्याह । एवं चेति । जीवस्याणुत्वे सतीत्यर्थः असंकरादिति । एकस्मिन् शरीरे सर्वेषां जीवानां प्रवेशाभावादित्यर्थः । विभोरिति । जीवस्यापि विभुत्वे लक्षणभेदाभावादीशात् भेदो न सिध्येत् अणुत्वेत्वत्यंत वैलक्षण्यात् भेदः सुगम इति भावः । अर्वाचीन कल्पनं दूषयति । अत्रोक्तमिति । एवमपीति जीवस्याणुत्वसांशत्व कल्पनेपीत्यर्थः । जीवस्य स्वांशगतसुखाद्यनुसंधानं जीवांतरगतसुखाद्यननुसंधानं चाभ्युपगछतात्वयाभेदो ननु संधानप्रयोजकः । अभेदश्च तदनुसंधानप्रयोजक इति वक्तव्यं तत्राननुसंधानप्रयोजकभेदोभेदमात्रं वा शुद्धभेदो वा आद्ये चैत्रः स्वांशगतसुखादिकं नानुसंधानप्रयोजकभेदस्य सत्वाद्यदि सत्यपि भेदे स्वांशगतमनुसंदध्यात् । तदा चैत्रोगेत्र गत सुखादिकं प्. ९७ब्) मप्यनुसंदध्यादित्याह । चैत्रस्येति । अंशांऽशिनोरननुसंधानप्रयोजकभेदासिद्धिमाशंक्यतं । साधयति कायव्यूहेति वियुज्येति । अंशिनः सकाशाद्विभागं प्राप्येत्यर्थः । अन्यत्रेति । योगिनो निजशरीरादन्यत्र कायव्यूह इत्यर्थः । तयोर्भेदो नास्माभिः साधनीय इत्याशयेनाह । अंशांशिनोरिति । ननुभेदमात्रं अननुसंधानप्रयोजकतयानेष्यते । येन जीवस्वांशगमपि सुखादिकं नानुसंदध्यात् यद्यनुसंदध्यात् । तदा जीवांतरगतमपि तदनुसंदध्यात् दितिदोषः प्रसज्येत किंतु विशेषतो भेद इति द्वितीयं शंकते । न चेति ।। नाद्यः अंशो ह्येष परमस्य ममैवांशो जीवलोके अंशो नानाव्यपदेशादिति श्रुतिस्मृति सूत्रैर्जीवस्य ब्रह्मांशत्वप्रतिपादनैन ब्रह्मजीवयोर्भोगसांकर्य प्रसंगात् । ननु जीवांशानां जीवं प्रतीव जीवस्य ब्रह्मप्रतिनांशत्वं किं त्व चंद्रबिंबस्य गुरुबिंबः शतांश इति वत्सदृशत्वे सति ततो न्यूनत्वमात्रमौपचारिकांशत्वमिति चेत् । किं तदेनदतिरेकेण मुख्यमंशत्वं जीवांशानां जीवं प्रतिपदत्राननुसंधानप्रयोजकं शरीरे निवेश्यते । प्. ९८अ) न तावत् पटं प्रतिजंतूनामिवारंभकत्वं जीवस्यानादित्वात् । नापि महाकाशं प्रतिघटाकाशादीनामिव प्रदेशत्वं टंकछिन्नपाषाणशकलादीनामिव खंडत्वं वा अणुत्वेन निःप्रदेशत्वात् । अछेद्यत्वाच्च भिन्नाभिन्नद्रव्यत्वमंशत्वमभिमतमिति चेत् न तथा सति जीवेश्वरयोर्जीवांशानां च भोगसांकर्यप्रसंगात् । स्वतो भिन्नानां तेषां चेतनत्वादिनाऽभेदस्यापि त्वयांगीकारात् । समूहसमूहिनोर्भेदाभेदवादिनस्तवमते एकसमूहांतर्गतानां जीवानां परस्परमप्यभेदस्य त्वाच्च ।। आद्ये कल्पे जीवेश्वरभेदस्यांशांशिभाव सह चरितत्वेन शुद्धभेदत्वान्नावातयोः परस्परं सुखाद्यनुसंधानं स्यादित्याह । नाद्य इति । जीवेश्वरयोरंशांशिभावे मानमाह । अंशोहिति । परमस्य परमात्मनः जीवलक्षणो लोको जीवलोकः ननु भेदस्यांशांशिभावमात्रा सह चरितत्वं शुद्धत्वं न भवति । किंतु मुख्यांशांशिभावा सह चरितत्वं जीवेश्वरयोरंशांशित्वं तु न मुख्यमतेः तयोर्भेदे मुखाशांशिभावा सह चरितत्वरूपशुद्धत्वस्य सत्वान्नोक्त दोष इति शंकते । प्. ९८ब्) नन्विति जीवं प्रतीति । तथा च जीव तदंशयोर्भेदे मुख्यांशांशिभाव सह चरितत्वस्यैव सत्वेन तद सह चरितत्वरूपशुद्धत्वाभावादनुसंधो नोपपतिरितिभावः । नांशत्वमित्यनंतरं मुखमितिशेषः कांतिमत्वं । मुख्यांशांशिभावा सह चरित भेदो ननुसंधानप्रयोजक इत्यत्र मुख्यांशांशिभावो दुर्निरूप इत्याह । किं तदिति । यन्मुख्यमंशत्वमत्रप्रयोजकशरीरे निवेश्यते तदेतदतिरेकेण किमिति योजना मुख्यमंशत्वं आरंभकावयवत्वं वो प्रदेशत्वं वा खंडत्वं वा भिन्नाभिन्नद्रव्यत्वं वेति किं शब्दार्थः । तत्राद्यं निराकरोति । न तावदिति । द्वितीय तृतीयौ क्रमेणानूद्यदूषयति । नापीत्यादिना । जीवस्याणुत्वेन प्रदेशासंभवादणुत्वेनैव द्वैधीभावा योग्यत्वाच्चेत्यर्थः । चतुर्थं शंकते । भिन्नाभिन्नेति । जीवांशानां जीवेन सह भिन्नद्रव्यत्वं मुख्यमंशत्वमभिमतं तदेव चाननुसंधानप्रयोजकशरीरे निवेश्यते । तथा च भिन्नाभिन्नद्रव्यत्वा सहचरितभेदः शुद्धभेदः स चाननुसंधानप्रयोजक इति निष्कर्षः । तत्र दूषणमाह । तथा सतीति । जीवेश्वरयोस्त्वयाभिन्नाभिन्नद्रव्यत्वाभ्युपगमात् । तयोर्भेदः शुद्धभेदो न भवति । तथा जीवाशानां परस्परं भिन्नाभिन्नद्रव्यत्वस्य त्वया स्वीकारा तेषां भेदोपि शुद्धभेदो न भवति । तथा चाननुसंधानप्रयोजका भावाज्जीवेश्वरयोर्जीवांशानां च भोगसांकर्य प्रसंग इत्यर्थः । चेतनत्वादिनेति सत्व द्रव्यत्व संग्रहार्थमादिपदं दूषणांतरमाह । समूहेति । समूहस्य समूहिनां च परस्परं भिन्नात्वे सत्य प्. ९९अ) भिन्नत्वमंगीकुर्वतस्तवमते समूहिनामपि परस्परभिन्नत्वमावश्यकं । तथा च उत्मवादौवेकत्रमिलितानां जीवानां भिन्नानां परस्परमभिन्नद्रव्यत्वस्यापि सत्वा तेषां परस्परं भेदः शुद्धभेदो न भवति भिन्नाभिन्नाभिन्नद्रव्यत्व सहचरितत्वा तथा च परस्परं तेषां सुखाद्यनुसंधान प्रसंग इत्यर्थः ।। स्वाभिन्नसमूहाभिन्नेन स्वस्याप्यभेदस्य दुर्वारत्वात् । यदि संयोगादीनां जातेश्चानेकाश्रितत्वं स्या तदागुणगुण्यादेरभेदात् । तदा घटाभिन्नसंयोगाभिन्नपटादेरपि घटाभेदः प्रसज्येत इत्यादि च दतात्वया तदभिन्नाभिन्नस्य तदभेदनियमाभ्युपगमात् । न च जीवांतरस्य धारण चेतनत्वादि धर्मैक रूप्यैक समूहांतर्गत्यादि प्रयुक्ताभेदविलक्षणमभेदांतरमंशांशिनोरस्ति भेदेप्यनुसंधानप्रयोजकं यदत्रा नति प्रसंगाय विनक्ष्येत तथा सति तस्यैव विशिष्यनिर्वक्तव्यत्वापतेः । धर्मैकरूप्याद्यप्रयुक्तत्वमंशाशिनोरभेदे विशेष इति चेत् ।। प्. ९९ब्) ननु समूहिनां समूह्य भिन्नत्वेपि । न तेषां परस्परमभिन्नत्वमस्मन्मतेऽस्ति अतो नोक्तदोष इत्याशंक्याह । स्वाभिन्नेति । स्वयमेकः समूही देवदतः तदभिन्नः समूहः तदभिन्नो यज्ञदतः तेन सहस्वस्यापि देवदतस्याप्यभेदस्य तस्य च मते दुर्वारत्वात् । त्वया तदभिन्नाभिन्नस्य तदभिन्नत्वनियमाभ्युपगमादित्यर्थः परं प्रत्युक्त नियमाभ्युपगमं साधयति । यदीत्यादिना । गुणगुण्योर्जाति व्यक्त्योश्चाभेदवादिनं प्रतिदूषणपरोयं जीवाणुत्ववादिग्रंथो यदीत्यादिः । गुणगुण्योरभेदमंगीकृत्य यदि गुणस्य संयोगविभागद्वित्वादेरनेकाश्रितत्वमभ्युपगम्येत तथा जातिव्यक्त्यारभेदमुपेत्य यदि जातेरनेकाश्रितत्वेमभ्युपगम्येत तदा पटादेरपि घटाभेदप्रसंग इति । तत्र हेतुगर्भं विशेषणमाह । घटाभिन्नेति । घटाभिन्नः संयोगः तदभिन्नत्वात्पटादरित्यर्थः । ननु जीवेश्वरयोर्जीवोंशानां समूहाभिन्नजीवानां च योयंवेतनत्वादि धर्मप्रयुक्ताभेदः एकसमूहाभेदप्रयुक्ताभेदश्च तदपेक्षयान्य एवाभेदो जीव तदंयोरस्ति अतस्तयोर्भेदे सत्यपि परस्परमनुसंधानं जीवेश्वरयोर्जीवांशानां समूहिजीवानां च तादृशाभेदाभावाच्चेतनत्वादि प्रयुक्ताभेदे सत्यपि न परस्परमनुसंधानमिति प्. १००अ) व्यवस्था तथा च भिन्नाभिन्नद्रव्यत्वा सहचरितभेदः शुद्धे भेदः स चाननुसंधानप्रयोजक इत्यत्र जीव तदंशयोः परस्परानुसंधानप्रयोजकत्वाभिमतो विलक्षणाभेद एव प्रविष्ट इति जीवेश्वरादौ तादृशाभेदघटित भिन्नाभिन्नद्रव्यत्वा सहचरितभेदसत्वान्नोक्ताति प्रसंग इति शंकां निराकरोति । न चेति । जीवतदंशयोरिव जीवांतराणामपि साधारणो यश्चेतनत्वादि धर्मैकरूप्यप्रयुक्त एकसमूहांतर्गत्यादिप्रयुक्तश्चाभेदः तद्विलक्षणमित्यर्थः । जीवेश्वर गतस्यामुख्यांशांशिभावस्य संग्रहार्थमादिपदं अंशांशिनोर्भेदे सत्यपि तयोरनुसंधानप्रयोजकभेदांतरं ने चास्ति यदभेदांतरं जीवेश्वरादावति प्रसंगपरिहाराय भिन्नाभिन्नद्रव्यत्व शरीरप्रविष्टतया विवक्ष्येतेति योजना नन्वभेदांतरं कुतो नास्तीत्वाशंक्याह तथा सतीति विलक्षणाभेदस्यांशांशिनोः सत्व इत्यर्थः । जीवेश्वराद्यभेदापेक्षया जीव तदंशयोरभेदस्य विशेषं विशेषतौ निर्वक्ति धर्मैकरूप्याद्य प्रयुक्तत्वमिति ।। न जीवतदंशयोश्चोतनत्वादि धर्मैकरूप्यसत्वैनेकशरीरावछेदेकायव्यूहमेलने च समूह सत्वेन च तयोरभेदे धर्मैकरूप्यादि प्रयुक्तत्वस्यापि संभवात् धर्मैक प्. १००ब्) रूप्यादिप्रयुक्ताभेदांतर सत्वेपि जीव तदंशयोरंशांशिभावप्रयोजकाभेदो न तत्प्रयुक्त इति चेत् न तयोरभेदद्वयाभावात् । त्वन्मतेऽधिकरणैक्ये सति भेदस्याभेदस्य वा प्रतियोगिभेदेन तदाकारभेदेन वानेकत्वानभ्युपगमात् । तस्मादाद्यपक्षे सुस्थोति प्रसंगः । एतेनैव द्वितीय पक्षोपि निरस्तः । अभेदा सह चरितभेदस्याननुसंधानप्रयोजकत्वे उक्तरीत्यात्वन्मते जीवब्रह्मणो जीवानां चाभेदस्यापि सत्वेनाति प्रसंगस्य दुर्वारत्वात् । नन्वभेदप्रत्यक्षमनुसंधाने तंत्रमिति तदभावेः । ननुसंधानं स्वस्य स्वाभेदः स्वांशाभेदश्च प्रत्यक्ष इति तद्द्रष्ट्रर्दुखाद्यनुसंधानं जीवांतरेणऽभेदसत्वेपि तस्याप्रत्यक्षत्वान्न तदुःखाद्यनुसंधानं । उक्त विशेषासिद्धिमाह । न जीवेति । जीवस्य तदंशानां च चेतनत्व सत्वद्रव्यत्वादि धर्मैकरूप्यमस्ति तथा जीवस्य तदवयवानां चैकशरीरानुप्रवेशकाले प्. १०१अ) तछरीरावछेदेन समूहोप्यस्ति तथा योगि जीवावयनां कायव्यूहशब्दितानेकशरीरेषु प्रविष्टानां कदाचित् तेषां शरीराणां मेलने सति योगि जीवेनांशिना सहस्रमूहोस्मि तथा च जीवतदंशयोरभेदे धर्मैकरूप्यादिप्रयुक्तत्व संभवातदप्रयुक्तत्वमसिद्धमित्यर्थः । ननु जीवानां चेतनत्वादि धर्मैकरूप्यादिप्रयुक्ताभेदसत्वेपि तेषामंशांशिभावादंशांशिभावप्रयोजकाभेदोन्य एव स च न धर्मैकरूप्यादिप्रयुक्त इति शंकते । धर्मैकरूप्यादीति जीवांतरसाधारणाभेदस्य धर्मैकरूप्यादि प्रयुक्तस्याप्य परिहार्यत्वा तस्याप्यभ्युपगमे सति जीव तदंशयोरभेदद्वयमभ्युपगते परस्य मते प्रसज्यते । ओमिति वदंतं परं प्रत्याह । न तयोरिति । अंशांशिनोरित्यर्थः । तदा कोरेति प्रतियोग्याकारेत्यर्थः । प्रतियोगितावछेदकेति यावत् । भेदस्यानेकत्वानभ्युपगमोपन्यासो दृष्टांतार्थः । तस्यादिति । जीवेश्वरयोर्यः पूर्वमंशाशिभावो निरूपिता तदतिरेकेण जीवतदंशयोर्मुखस्यांशांशिभावस्य दुर्निरूपत्वादित्यर्थः । तथा च जीवैश्वरयोर्भेदस्य निरूपितांशांशिभावसहचरितत्वेन तदसहचरितत्वरूपशुद्धत्वाभावे सत्यननुसंधानप्रयोजक शुद्धभेदाभावाज्जीवेश्वरयोः परस्परं भोगसांकर्यप्रसंगरूपो दोषः स्थिर इत्यर्थः । आद्यपक्ष इति अशांशिभावा सहचरितत्वं शुद्धत्वमिति पक्ष इत्यर्थः । अभेदासहचरितत्वं शुद्धत्वं भेदस्येति पक्षं प्. १०१ब्) वक्ष्यमाण हेतुना निराकरोति । एतेनेनैवेति । उक्तरीत्येति । चेतनत्वादि धर्मैकरूप्यमुक्तारीतिः । जीव तदंशयोरिव जीव ब्रह्मणोर्जीवाअनां चाभेदमुपेत्यापि पूर्वोक्ताति प्रसंगपरिहारं शंकते नन्विति स्वस्येति अंशिनो जीवस्येत्यर्थः । जीवांतरेणेति । स्वस्येत्यिनुसंगः ।। जातिस्मरस्य प्राग्भवीयात्मनाप्यभेदस्य प्रत्यक्ष सत्वा तद्वृतांतानुसंधानमन्येषां तदभावान्नेत्यादि सर्वं संगछत इति चेत् । तर्हि ऐकात्म्यवादेपि सर्वात्मतावरकाज्ञानावरणाच्चैत्रस्य न मैत्रात्माद्य भेदप्रत्यक्षमिति तत एव सर्वव्यवस्थोपपतेर्व्यर्थः । श्रुति विरुद्धात्मभेदाभ्युपगमः । न चेत्थमपि प्रपंचतत्ववादिनः तव व्यवस्था निर्वाहः सर्वज्ञस्येश्वरस्य वस्तु स जीवांतराभेदप्रत्यक्षावश्यंभावे न जीवेषु दुःखवत् स्वहं दुःखीत्यनुभवापतेः । अस्मन्मते त्वीश्वरः स्वाभिन्ने जीवे संसारं प्रतिमुखे मालिन्यमिव पश्यन्नपि मिथ्यात्वनिश्चयान्न शोचतीति नैष प्रसंगः स्यादे प्. १०२अ) तन्माभूदंश भेदं शंकरशिरश्चरणादीनां काय व्यूहस्य चाधिष्ठानमात्मदीपस्यानपायिनी ज्ञानप्रभास्तिव्यापिनीति तयैव सर्वाधिष्ठानं भविष्यतीति चेत् ।। जातिस्मरस्येति । पूर्वजन्मस्मरणवत इत्यर्थः । सर्वेति सर्वात्मतावरकं । यदज्ञानं तत्प्रयुक्तावरणादित्यर्थः । तत एवेति चैत्र मैंत्रादीनां सर्वेषां परस्परमभेद प्रत्यक्षाभावादेव व्यवस्थिततया सुखाद्यननुसंधानोपपतेरित्यर्थः । अभेदप्रत्यक्षस्यानुसंधानप्रयोजकत्वमुपेत्यपरमते आत्माभेदकल्पनागौरवं श्रुतिविरोधं च दर्शयित्वा परमते तस्य प्रयोजकत्वमपि न संभवत्यति प्रसंगादित्याह । न चेत्थमपीति । अभेदप्रत्यक्षमवुसंधानप्रयोजकमिति कल्पनयापीत्यर्थः । वस्तुसन् परमार्थो यो जीवांतराभेदः तत्प्रत्यक्षमीश्वरस्यावश्यकं । अन्यथा असर्वज्ञत्वप्रसंगः स्यादित्यर्थः । ननु सिद्धंतेपि ब्रह्मणः सर्वज्ञत्वजीवाभिन्नत्वयोः सत्वादुक्तदोषप्रसंग इति नेत्याह । अस्मत्मत इति । यत्तु जीवानां सावयवत्वात् करशिरश्चरणानुगतेषु जीवांशेषु सुखदुःखादि यौगपद्यं संभवति योगिनां कायव्यूहगतेषु योगिजीवावयवेषु युगपत्सुखदुःखादिभोगवैचित्र्यं च संभवतीति न काचिदनुपपतिरिति तन्न जीवं प्रतिजीवांशानां प्. १०२ब्) सुख्यांशत्वस्यापि निरस्तत्वाज्जीवं प्रति तदंशानां जीवसदृशत्वे सति जीवापेक्षया न्यूनपरिमाणत्वरूपौपाचारिकांशत्वस्यापि जीवाणुत्वपक्षे बाधितत्वाच्च अणुपरिमाणस्यैव सर्वपरिमाणापेक्षया न्यूनपरिमाणत्वेन ततोपि न्यूनपरिमाणाभावात् सदृशत्वे सति ततो न्यूनत्वरूपांशत्वस्य चंद्रबिंबांश गुरुबिंबवज्जीवांशानां जीवापेक्षयात्यंतभेदप्रयोजकत्वेन जीवस्य स्वांशगतसुखाद्यनुसंधातृत्वासंभवाच्च तथा योगि जीवांशानां कायव्यूहाधिष्ठातृत्वेपि तेभ्योत्यंतभिन्नस्य योगि जीवस्य कायव्यूहाधिष्ठातृत्वाभावप्रसंगा तथा शरीरधिष्ठातुर्जीवस्य शरीरावयवशिरश्चरणाद्यधिष्ठातॄणां जीवांशानां चात्यंतभिन्नत्वेनैकस्मिन् शरीरे भोक्तृतानात्वप्रसंगात् जीवस्य सांशत्वे मानान्नावाच्च द्रोणं बृहस्पतेभीगमिति । वचनस्य वर्णितरीत्यादुक्तांशपरत्वाभावेन बृहस्पत्यादेर्योगप्रभावेणभूतारहरणादिदेव कार्यार्थं शरीरांतरपरिग्रहमात्रपरत्वात् । एतेन श्रीरामकृष्णादेर्विष्णुंशत्व व्यवहारोपि व्याख्यातः तस्माज्जीवांशविशेषस्य करशिरश्चरणाद्यधिष्टातृत्वं कायव्यूहाद्यधिष्ठातृत्वं च न संभवतीति पूर्वग्रंथस्याशये स्थिते शंकते स्यादेतदिति अधिष्ठानमिति । प्रेरक इत्यी भविष्यतीति । जीवः स्वयमणुतया शरीरैकदेशस्थोपि स्वसमचैतेन व्यापि ज्ञानेन करशिरश्चरणादीन् कायव्यूहं चाधि तिष्ठतीति प्. १०३अ) निरंशस्याप्यणोर्जीवस्य कृत्स्नशरीरोधिष्ठातृत्वादिकं नानुपपन्नमितिभावः ।। न ज्ञानवदात्मसुधर्मस्य सुखदुःखभोगस्य ज्ञानमाश्रित्योत्यत्यसंभवे नर चरणाद्यवयवभेदेन कायव्यूहवतः कायभेदेन च भोगवैचित्र्याभावप्रसंगात् । सुखदुःखभोगादिर्ज्ञानधर्म एवनात्मधर्म इत्युपगमे तद्वैचित्र्येण आत्मगुणस्य ज्ञानस्य भेदसिद्धावप्यात्मनो भेदासिद्ध्याभोगवैचित्र्यादिना आत्माभेदप्रतिक्षेपा योगाद्भोगाद्याश्रयस्यात्मनोणत्वेन प्रतिशरीरं विछिन्नतया तद्व्यापित्ववाद इव तदभेदवाद इवचनधर्मसंकरापतिरिति मतहानेश्च तस्माज्जीवस्याणुत्वोपगमेन व्यवस्थोपपादनेन युक्तं नापि तेन तस्येश्वराद्भेदसाधनं युक्तं उत्क्रांत्यादिश्रवणात्साक्षादणुत्व श्रवणाच्चाणुर्जीव इति वदतस्तवमते तत्सृष्टातदेवानुप्राविशत् अंतःप्रविष्टः शास्ताजनानां गुहां प्रविष्टौ परे मे परार्द्ध्ये इत्यादि श्रुतिषु प्रवैशादिश्रवणात् स एषोणिमा एषम प्. १०३ब्) आत्मांतं हृदयोणीयान् ब्रीहेर्वायवाद्धेति श्रुतेः साक्षादणुत्व श्रवणाच्च परोप्यणुरेव सिध्येदिति कुतः परजीवयोर्विभुत्वाणुत्वाभ्यां भेदसिद्धिः नन्वाकाशवत्सर्वगतश्च नित्यः ज्यायान् दिवोज्ज्यायांनंतरिक्षादित्यादि श्रवणात् ।। ज्ञानमाश्रित्येति । ज्ञानधर्मत्वे हि सुखादेर्ज्ञाने उत्पतिः संभवे ततश्च ज्ञानस्य व्यापकता तदाश्रित सुखादिरूपभोगस्यापि करशिरश्चरणादौ कायव्यूह च युगपदुदयः संभवेन्नतत्वया सुखादेर्ज्ञानधर्मत्वमिष्यते । तस्य ज्ञानवदात्मधर्मत्वाभ्युपगमादंशि ज्ञानस्य व्यापित्वेपि न करशिरश्चरणादौ कायव्यूहे च युगपद्भोगवैचित्र्यं संभवतीत्यर्थः । कायव्यूहवृत इति । योगिन इति शेषः तस्य च भोगवैचित्र्यं स्मर्यर्तौ क्षिपेच्च पुनस्तानि सूर्योरश्मिगणानिवेति । आत्मनां शरीराणां बलं योगजनितं सामर्थ्यं । तर्हि ज्ञानधर्मत्वमेव सुखादेरस्तु यदि तद्धर्षत्व भोगवैचित्र्यं संभवेत् तत्राह । सुखदुःखभोगादिरिति । असिद्ध्यति आत्मगुणज्ञाननिष्ठस्य भोगवैचित्र्यस्य व्यधिकरणतयो आत्मभेद साधकत्वासंभवादित्यर्थः । सुखादेर्व्यापि ज्ञानधर्मत्वं स्वमतविरुद्धं चेत्याह । भोगाद्याश्रयस्येति । नैययायिकादि मत इवाद्वैतमत इव चेत्यर्थः । तस्मादिति । आत्मगुणस्य ज्ञानसुखादेर्व्यापि प्. १०४अ) त्वकल्पनायोगादित्यर्थः । जीवाणुत्वाभ्युपगमस्य पराभिमतं प्रयोजनांतरं । आत्मनां च सहस्राणि बहूनि भरतर्षभयोगी कुर्यात् बलं प्राप्यतैश्च सर्वां सह्ये चरेत् प्राप्नुयाद्विषयान् कैश्चित्कैश्चिदुग्रंत पश्चरेत् सं ५ त्रुटित् दूषयति । नापि तेन तस्येति जीवस्याणुत्वे नेत्यर्थः । श्रुति तदर्थापतिभ्यां जीवस्याणुत्वं वदतस्तवमते ताभ्यामेवेश्वराणुत्वस्थापि दुर्वारत्वान्नेश्वरस्य विभुत्वसिद्धिस्तदसिद्धौवनतवेष्टसिद्धिरिति दूषयति । उत्क्रांत्वादिति । वदंतस्तवपक्षेप्यणुरेवसिध्येदिति संबंधः । तत्सृष्टोत्यवतत्पदद्वयं जगत्परं प्रकृतः परमात्मासृष्ट्यादिकर्ता अंतरिति शरीरेष्वितिशेषः शास्तानियंतापरस्यार्द्धस्थानमर्हतीति परार्द्ध्यं परममुत्कृष्टं हार्दाकाशं तस्मिन् या बुद्धिलक्षणागुहातां प्रविष्टौ जीवेश्वरावित्यर्थः । प्रवेशादिति । शरीरांतस्थत्वादिकमादिपदार्थः स उपक्रमे प्रकृत एषः संनिहितः अणिमा अणुर्भाव प्रत्ययो न विवक्षिप्तः मे हृदयेंतरेषः प्रकृतोभाक्रूपत्वादिगुणक आत्मावर्तते स च ब्रीह्माद्यपेक्षयाणुतर इत्यर्थः । अनन्यथा सिद्धशुत्यादि वशेन विभुत्वमीश्वरस्य शंकते । नन्विति । ज्यायात्महतरःराः ।। सर्वप्रपंचोपादानत्वाच्च परस्य सर्वगत्वसिद्धेः तदणत्वश्रुतयः उपासनार्थादुर्ग्रहत्वाभिप्रावा उन्नेयाः प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः । न च जीवोत्क्रांत्यादि श्रुतयोपि प्. १०४ब्) बुद्ध्या उपाधिनानिर्वोदुंशक्या इति शंक्यं तमुत्क्रामंतं प्राणोनूत्क्रामतीति प्राणाख्य बुद्व्युत्क्रांतेः प्रावेव जीवोत्क्रांति वचनात् । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति टिव्यमिति नामरूपमोक्षानंतरमपि गति श्रवणाच्च त चथानः सुसमाहितमुत्सुर्जन्यायादेवमेवायं शारीर आत्माप्राज्ञे नात्मनान्वारूढ उत्सर्जन्यातीति स्वाभाविकगत्याश्रयशकट दृष्टांतोक्तेश्चेति चेत् । नैतत्सारं स वा एष महानज आत्मायोयं विज्ञानमयः घटसंवृत आकाशे नीयमाने घटे यथा घटोनियेतनाकाशं तद्वज्जीवो नभोपम इत्यादि श्रुतिषु जीवस्यापि विभुत्वश्रवणात् ।। परस्य विभुत्वे लिंगमाह । सर्वेति । परमाणुत्व श्रुतीनामन्युथा सिद्धिमाह । तदणुत्वेति । उपासनार्था इति अणीयान् ब्रीहेर्वेत्या विश्रुतय इत्यर्थः । दुर्ग्रहत्वेति स एषोणिमेत्यादि श्रुतय इत्यर्थः । आसामुपासनाप्रकरणगतत्वाभावादिति भावः । व्यवस्थितविकल्पवाचीवाकारः प्रवेशादि श्रवणस्यान्यथा सिद्धिमाह । प्रवेश श्रुतयश्चेति परमेश्वरस्य स्वेछापरिगृहीत प्. १०५अ) शरीरेंद्रिय प्रवेशोपाधिकः शरीरेष्वंतः प्रवेश इत्यर्थः । ननु जीवाणुत्व श्रुति लिंगानामप्यन्यथा नयन संभवाज्जीवस्यापि स्वाभाविकं विभुत्वं किं न स्यात् तथा च न तस्याणुत्वसिद्धिरिति सिद्धांतिनः शंका मनूद्यनिराकरोति । जीवाणुत्ववादी न चेत्यादिनातमुत्क्रामंतमिति । न चात्र श्रुतौ प्राणोप्राणोत्क्रांतेः प्रागेव जीवस्योत्क्रांति श्रवणेपि न केवलस्य तस्योत्क्रांति सिद्धिंर्बुद्धि विशिष्टस्योत्क्रांति संभवादिति वाच्यं बुद्धिप्राणयोर्भेदासिद्धेस्तयोरभेदस्यैव श्रुति सिद्धत्वाच्च तथा च श्रुतिर्यो वै प्राणः सा प्रज्ञाया वा प्रज्ञा स प्राण इति प्रज्ञाबुद्धिरित्याशयेनाह प्राणाख्या बुद्ध्यत्क्रांतेरिति । नामरूपशब्दितोपाधिनिवृत्यनंतरमपि जीवस्य ब्रह्म प्रतिगतिः श्रूयते । तथा च यथा उत्क्रांते रौपायिकत्वं न संभवति तथा गतेररपौपाधिकत्वं न संभवतीत्य मध्यमपरिमाणस्य जीवस्य स्वाभाविकमणुत्वं स्वीकर्तव्यमित्याशयेनाह । तथा विद्वानिति पराद्धिरण्यगर्भात् जीवस्या स्वाभाविके गत्याश्रयत्वे सत्येव दृष्टांतविशेषः संगछते न्यथा तद्वैरूप्यं स्यादित्याशयेनाह । तद्यथेति । ततत्र जीवस्य पारलोकं प्रतिगमने दृष्टां तत उच्यते । अनः शकठंसुसमाहितं गृहोपकरणैः पूर्णमुत्सर्जन् शब्दं कुर्वन् पायात् । गछेद्यथा एवं जीव ईश्वरेणान्वारूढः प्रेरितो गछति परलोक इत्यर्थः । तथा च जीवस्याणुत्वे प्. १०५ब्) स्वाभाविके सिद्धे सत्यणुत्वविभुत्वाभ्यां जीवेश्वरयोर्भेदसिद्धिरिति भावः । सिद्धांती दूषय इति । नैतत् सारमिति । यथा परमात्मप्रकरणे श्रुतं परस्य विभुत्वमन्यथानेतुमयुक्तं तथा जीव प्रकरणे श्रुतं जीवस्य विभुत्वमप्यन्यथा नेतुमयुक्तमित्याशयेनकतम आत्मेत्यादि जीवप्रकरण गतं वाक्यं जातमुदाहरति । स वा इत्यादिना विज्ञानमयो जीवो महान् व्यापक आत्मेति जीवस्य व्यापकत्व श्रवणादित्यर्थः । नभोपम इत्यनेन स्वतो जीवस्य विभुत्वमुच्यत इत्यर्थः । इयं श्रुतिः प्रागेव व्याख्याता ।। त्वन्मते प्रकृतेरेव जगदुपादानत्वेन ब्रह्मणो जगदुपादानत्वा भावात् । जीवस्य कायव्यूहुगत सुखदुःखोपादानत्ववदणुत्वेपि जगदुपादानत्वसंभवाच्च । ततस्तस्य सर्वगत्वासिद्धेः । तत्प्रवेश श्रुतीनां शरीरोपाधिकत्वकल्पने जीवोत्क्रांत्यादि श्रुतीनामपि बुद्ध्युपाधिकत्वोपगमसंभवात् । पंचवृतिर्मनोवद्यय दिश्यत इति सूत्रभाष्ये बुद्धिप्रायोः कार्यभेदस्य प्रतिपादितत्वेन बुद्ध्यपाधिके जीवे प्रथममुत्क्रामति प्राणस्यानूत्क्रमणोपपतेः प्. १०६अ) नामरूपमोक्षानंतरं ब्रह्मप्रामिश्रवणस्य प्राप्तरिजीवे इव प्राप्ये ब्रह्मण्यपि विभुत्वविरोधित्वात् । प्राकृतनामरूपविमोक्षातंतरमर्प्य प्राकृततोकविग्रहाद्युपाधाने ब्रह्मणः प्राप्तव्यत्ववादिमने प्राप्तुर्जीवस्याप्यप्राकृत देहेन्द्रियादि सत्त्वेन तदुप्राधानेन ब्रह्मप्राप्ति श्रवणाविरोधात् । स्वाभाविक गत्याश्रय शकट दृष्टांतश्रवणमात्राज्जीवस्य स्वाभाविक गति सिद्धौ गुहां प्रदिष्टाविति स्वाभाविक प्रवेशाश्रय जीवसमभिव्याहारेण ब्रह्मणोपि स्वाभाविक प्रवेशसिद्धिसंभवात् । विभुत्वेन न्यथासिद्धश्रुतिसाम्यमुक्त्वापरस्परोक्त विभुत्व लिंगं विघटयति । तन्मत इति । प्रकृतिर्माया परस्य ब्रह्मणः सर्वप्रपंचोपादानत्वमुपेत्यापि न तद्विभुत्वसाधकमियत्याह । जीवस्येति । अणोरितिशेषः । ततः सर्वोपादान त्वात्तस्येत्यर्थः । जीवाणुत्वश्रुतिलिंगानामन्यथा नयनमपि तुल्यमेवैत्याह । तत्प्रवेश श्रुतीति । ब्रह्मप्रवेशेत्यर्थः । पंचप्राणापानादिलक्षणावृतयो यस्य मुख्यप्राणस्य सः पंचवृतिः प्राणः श्रुतिषु व्यपदिश्यतै बहुवृतिमत्वमात्रे च दृष्टांतः मनो वदिति । प्. १०६ब्) प्राणापानादि वृतीनां चोछासादिकं प्रत्येत्येकं कार्यमिति द्रष्टव्यं । तथा च दृष्टांत दार्ष्टांतिक भावेन सूत्रे मनःशब्दितबुद्धेः प्राणस्य च भेदौ निर्दिष्टः । स च बुद्धींद्रिय कार्यविषयो लोचनापेक्षया विलक्षणस्योछासादि क्रियारूपकार्यस्य प्राणे दर्शनात् । प्राणो बुद्ध्यादिभ्यो भिन्न इत्यादिप्रकारेण भाष्ये साधित इत्यर्थः । यो वै प्राणः सा प्रज्ञेति श्रुतौ प्रज्ञाप्राणयोर्भेदे सत्यपि प्रज्ञाप्राणोपहितस्य प्रत्यगात्मन एकत्वादुपहितात्प्राधान्येन तयोरेकीकरणमविरुद्धमिति प्रतर्दनाधिकरणभाष्यो प्रतिपादितत्वान्न श्रुतिविरोधोपीतिभावः । यतु नामरूपोपाधि निवृत्यनंतरं जीवस्य ब्रह्मप्रतिगति श्रवणं जीवस्य विभुत्व विरोधीति तदयुक्तं तस्य ब्रह्मण्यपि विभुत्वविरोधित्वेन ब्रह्मणोपि तदंसिद्धिप्रसंगात् । लोके परिछिन्नस्यैव गंतव्यत्वनियमदर्शनादित्याह । नामरूपेति । ननु परमते ब्रह्मणो व्यापक स्वरूपेण न मुक्तप्राप्यत्वं किंतु लोकविशेषाद्युपहितत्वेन उपहितरूपेण प्राप्तव्य त्वं च न ब्रह्मणः स्वरूपेण व्यापकत्वविदोधीत्याशंक्यतुल्यमेव तत्तवमते जीवस्यापीत्याह । प्राकृतेति विद्वाम्नामरूपाद्विमुक्त इति श्रुतौ प्राकृतनामरूपाद्विमुक्त इत्यर्थं कल्पयता त्वया विदुषो जीवस्याप्यप्राकृतनामरूप स्वीकारेण स्वतो विभोरपि जीवस्याप्राकृतनामरूपोपाधिपरिछिन्नस्य प्. १०७अ) ब्रह्मप्रतिगंतृत्व संभवान्न विभुत्व श्रुतयो जीवविषयावायनीया इत्यर्थः ।। ब्रह्मजीवोभयान्वयि न एकस्य प्रवेश पदस्य एकरूपप्रवेशपरत्वस्य वक्तव्यत्वात् ततः परमते ब्रह्मजीवयोर्विभुत्वाणुत्वादि व्यवस्थित्य सिद्धेर्न कुतोपि भेदसिद्धिं प्रत्याशा अस्मत्मते ब्रह्मात्मैक्य परमहावाक्यानुरोधेनावांतरवाक्यानां नेयत्वात् स्वरूपेण जीवस्य विभुत्वमौपाधिकरूपेण परिछेद इत्यादिप्रकारेण जीव ब्रह्मभेदे प्रात्यायक श्रुतीनांमुपपादेनं भाष्यादिषु व्यक्तं तस्मादचेतनस्य प्रपंचस्य मिथ्यात्वाच्चेतन प्रपंचस्य ब्रह्माभेदाच्च न वेदांतानाम द्वितीये ब्रह्मणि विद्यैक प्राप्ये समन्वयस्य कश्चिद्विरोध इति । इति शास्त्रसिद्धांतलेशसंग्रहे द्वितीयः परिच्छेदः ।। २ ।। ननु प्रविष्टावित्यत्र प्रविष्टपदं जीवे स्वाभाविक प्रवेशार्थकं ब्रह्मणि तु शरीराद्युपाधिकृतप्रवेशार्थकमित्याशंक्य तथा सति सकृच्छृतस्य प्रतिष्टपदस्यार्थ प्. १०७ब्) वैरूप्यं प्रसज्येतेतिमत्वाह । ब्रह्मजीवो भयेति । यदि च ब्रह्मणो विभुत्व श्रुत्याद्यवुरोधेन प्रवेशमान्य परत्वमेव प्रविष्टपदस्य कल्पाते ननु तद्गतविशेषपरत्वमपि तर्हि जीवस्यापि विभुत्वश्रुत्यनुरोधेन शकटदृष्टांते गमनादि साम्यमात्रं विवक्ष्यतेन तु स्वाभाविक गत्या श्रयत्वादिकमपीति न जीवस्य स्वाभाविकाणुत्व सिद्धिः । तस्य तत्सिद्धौ वा ब्रह्मणोप्यणुत्वं दुर्वारं विनिगमनाविरहादिति भावः । तत इति उक्त व्यवस्थितेरित्यर्थः । ननु परमते जीवेश्वरयोरपि विभुत्वाणुत्व श्रुतिलिंगानामविशेषादुभयाणुत्व श्रुतिलिंगानामन्यथा सिद्ध्यविशेषाच्च तयोरणुत्वं विभुत्वं वा ससान तयैव सिध्येन्नत्वे कस्य विभुत्वमपरस्याणुत्वमिति व्यवस्था सिध्येदिति यथा दोषः प्रसज्यते । तथा सिद्ध्यंतेपि जीवस्य परिच्छिन्नत्व विभुत्वश्रुतिलिंगानामविशेषा तस्य स्वान्नाविकंविभुत्वं परिछिन्नत्वमौपाधिकमिति व्यवस्थान सिध्येदिति दोषः । प्रसज्यत एवेति नेत्याह । अस्मन्मत इति । ब्रह्मात्मैक्य ज्ञानस्य मुक्तिसाधनत्वातक्यानजनकानि तत्वमस्यादिवाक्यानि महावाक्यानि महावाक्यार्थज्ञानकारणी भूततत्वं पदार्थज्ञानं प्रतिसाधनभूतानि जीवस्वरूपप्रतिपादकवाक्यानीश्वर स्वरूपप्रतिपादकवाक्यानि चावांतर वाक्यानि महावाक्यशेषत्वात्पदार्थ प्रति प्. १०८अ) पादकवाक्यानामिति प्रधानवाक्यानुरोधेन गुणभूतवाक्यानां नेयत्वादित्यर्थः । स्वरूपेणेति । जीवस्य स्वरूपेणाणुत्वे महावाक्याप्रतिपाद्य ब्रह्माभेदानुपपतेर्ब्रमणश्च स्वरूपेण पूर्णत्वाभावे बहुश्रुत्यादि विरोधादितिभावः । अद्वितीये ब्रह्मणि वेदांतसमन्वयाविरोधसमर्थनरूपं परिछेदार्थमुपसंहरति । तस्मादिति । पंचम्यांतं पंचमीभ्यां विवृणोति । अचेतनस्येति । इति श्रीमत्परमहंसपरिव्राजिकाचार्य श्रीमत्स्वयंप्रकाशानंदसरस्वती दिव्यश्रीचरणारबिंदसंलग्नरजोभूतस्याच्युत कृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धान्तलेशसंग्रहव्याख्यायां द्वितीयः परिछेदः ।। २ ।। ओं श्रीगणेशाय नमः । अथ कोयमविद्यालेशोपदनुवृत्याजीवन्मुक्तिः आवरणविक्षेपशक्तिमत्यामूलाविद्यायाः प्रारब्धकर्म वर्तमानदेहाद्यनुवृति प्रयोजको विक्षेप शक्त्यंश इति केचित् । क्षालितलथुन भांडानुवृतलथुनवासना कल्पो विद्यासंस्कार इत्यन्येदपि पटन्यायेनानुवृतामूलाविद्यैवेत्यपरे सर्वज्ञात्मगुरवस्तु विरोधि साक्षात्कारोदये लेशतोप्यविद्यानुवृत्यसंभवात् ।। ओं श्रीगणेशाय नमः ।। ओं स्मृते सकलकल्याणभाजनं यन्न जायते । पुरुषस्तमजं नित्यं ब्रजामि शरणं हरिं ।। यत्र यस्मिन् हरौ स्मृते सतीत्यर्थः । नंदहस्तमवलंव्यपाणिनामंदमंदमरविदलोचनः संचरन् कनककिंकिणीरवस्संततं मम तनो तु मंगलं । यस्याः स्मरणमात्रेंण वाम्बिभूतिर्विजृंभते । सा भारती चिरं नित्यं रमतां मन्मुखां नुजें ।। यश्शिवो नामरूपाभ्यां या देवी सर्वमंगला । तयोस्संस्मरणात् पुंसां सर्वतो जयमंगलं ।। विघ्नेश विधिमार्तेड चंद्रेंद्रोपेंद्र वंदित । नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ।। अथ कोपमिति । तृतीय परिछेदे ब्रह्मज्ञानरूपं मुक्तिसाधनं सपरिकरन्निरूपितमिदानीं तत्फलभूतामुक्तिर्निरूप्यते । तथा च फलनिरूपण परस्य चतुर्थ प्. १ब्) स्मृतौ तत्पदं ब्रह्मपरमुक्तमिति । तेनैति ब्रह्मवित् पुण्यकृदित्यादि श्रुत्येति शेषः । तेन ब्रह्मवेद न पुण्ययोः समुच्चयेन एति ब्रह्मप्राप्नोतीति श्रुत्यर्थः । ज्ञानकर्मणोः समुच्चयस्य ब्रह्मप्राप्ति हेतुत्व श्रवणमनुमोदते । सत्यमिति । ब्रह्मप्राप्तेर्विद्यामात्रसाध्यत्व प्रतिपादक श्रुत्यंतरेण उपपति सहितेन विरोधात् समुच्चय श्रवणं तन्मूलकस्मृतिवचनं चक्रमसमुच्चय परतया नेतव्यमित्याशयेनाह । नान्यः पंथा इति । ब्रह्मज्ञानापेक्षया अन्यः ज्ञानकर्मसमुच्चयरूपः केवलकर्मरूपो वा पंथा । उपायो मोक्षं प्रतितास्तीति श्रुत्यर्थः । नित्यमात्मस्वरूपतया सिद्धस्य ब्रह्मणो वाप्तिरप्रात्यत्वभ्रमादि निवृतिरूपा भ्रमादि निवृतिश्च ज्ञानमात्रसाध्यत्वेन लोकै दृष्टा । यथा कंठगतायामेव कनमालायां विस्मृतायां सत्यां तस्यामप्राप्तत्वभ्रमेण बहुविधविक्षेपं प्राप्तस्य आप्तोपदेशजन्य ज्ञानमात्रेणाप्राप्तत्वभ्रमनिवृतिरूपा पूर्वसिद्धकनकमालावाप्तिः । तत्तुल्यायां नित्यसिद्धब्रह्मावाप्तौ विद्यातिरिक्तसाधनापेक्षाभावा तदतिरिक्तस्य भ्रमादि निवृतौ सामर्थ्या भावाच्चेत्यर्थः । परंपरया मुक्तावुक्तं कर्मणामुपयोगं प्रपंचयितुं पृछति । क्वतर्हीति । तर्हि ज्ञानवत् साक्षान्मुक्ति हेतुत्वाभावे सति क्वचि विदिषायां विद्यायां वा साधनत्वं तेषामित्यर्थः । तमेतमिति तछब्दः प्रकृत परमात्म परः एतछब्दः नित्यापरोक्ष जीवपरः । तथा च जीवाभिन्नं परमात्मानं वेदानुवचनादिभिर्वेदितुमिछंतीत्यर्थः । प्. २अ) अनशनादिलक्षणतयो व्यावृतये तपसो विशेषणमनाशकेनेति । तथा च हितमितमेध्याशनादिरूपं तप इह विवक्षितमिति लभ्यते । ननु विविदिषायामपुरुषार्थभूतायां कथं विनियोगः तत्राह । विद्याशंपादन द्वारेति । ततश्च गौणपुरुषार्थत्वं तस्याः संभवतीत्यर्थः । ननु मुक्तिं प्रतिप्रत्यासन्नत्वात् । विद्यायास्तस्यामेव विनियोगः कुतो न कल्प्यते । श्रुतत्वाविशेषाच्च कागनाविषयत्वेन श्रुतस्वर्गादेरेव कर्मफलतयान्यत्र स्वीकाराच्चेति मत्वाशंकते । नन्विति । स्वर्गकामादिवाक्येषु यागादेर्विधिप्रत्ययेन इष्टसाधनत्वे बोधिते किं तदिष्टमितिविशे ।। न स्यात् । प्रत्ययार्थस्य प्राधान्यात् । विद्यासंप्रयोगात् । प्रत्यासन्नानि विद्यासाधनानिशमदमादीनि विविदिषासंप्रयोगा तु वाह्यतराणि यज्ञादीनीति । सर्वापेक्षाधिकरणभाष्याच्च । ननु विविदिषार्थं यज्ञाद्यनुष्ठातुर्वेदनगोचरेछावत्वे विविदिषायाः सिद्धत्वेन तदभावे वेदनोपाये विविदिषायां कामनाऽसंभवेन च विविदिषार्थं यज्ञाद्यनुष्ठाना योगात् । न यज्ञादीनां विविदिषायां विनियोगो युक्त इति चेन्न अन्न द्वेषेण प्. २ब्) कार्श्यं प्राप्तस्य तत्परिहारायान्न विषयौत्कंठ्यलक्षणायामिछायां सत्यामप्युत्सुकाजीर्णादि प्रयुक्तथा तु वैषम्य दोषात् तत्र प्रवृतिपर्यंतारुचिर्न जायत इति तद्रोचकौषध विधिवत् ।। षाकांक्षायां सत्यां पुरुषविशेषणत्वेन श्रुतयोः कामनास्वर्गयोरन्यतरस्यापि शब्दतः प्राधान्याभावेन तत्रार्थतः प्राधान्यस्यैवाश्रयणीयत्वे स्वतः पुरुषार्थतया स्वर्गस्यैव फलत्वेनान्वयः स्वीकृतः यागः स्वर्गसाधनमिति न तु कामवायाः । इह तु वेदनकामनाया एव फलत्वेनान्वय उचितः शब्दतः प्रधानत्वादतः फलप्रत्यासत्यादिकमपि अकिंचित्करमिति मत्वासमाधते । न स्यादिति । सत्प्रत्ययः प्रत्ययशब्दार्थः विविदिषायामेव विनियोग इत्यत्र भाष्यसंमतिमाह । विद्यासंप्रयोगादिति । विद्यासाधनत्वादित्यर्थः । प्रत्यासन्नानीति । यावद्विद्योदयमनुष्ठेयानीत्यर्थः । शमादिवैषम्यं कर्मसुदर्शयति । विविदिषा संप्रयोगात्विति । तत्सायनत्वादेवेत्यर्थः । वास्पतगणीति । विविदिषोदय पर्यंतमेवानुष्ठेयानीति यावत् । विद्योत्पतौ सर्वाणि कर्माण्यपेक्षितव्यानीति प्रतिपादकाधिकरणेत्यर्थः । विविदिषाविनियोगं प्रकारांतरेणाक्षिपति । नन्विति । वेदनेछाया यज्ञादिफलत्वे वेदनेछा गोचरेछया यज्ञाद्यनुष्ठानं वाच्यं । वेदने छायाश्च स्वतः फलत्वाभावाद्वेदनद्वारा प्. ३अ) मुक्तिफलकत्वं वाच्यं । तथा चायं क्रमः प्रथमं मुक्तौ स्वतः पुरुषार्थत्वज्ञानादिछा ततो वेदने मुक्तिसाधनत्व ज्ञानादिछा ततो वेदनेछायां वेदन साधनत्व ज्ञानादिछातया च यज्ञाद्यनुष्ठानमिति । तथा च वेदनेछारूपविविदिषोद्देशेन यज्ञाद्यनुष्ठाने प्रवर्तमानस्य ब्रह्मवेदने विविदिषाफले किमिछास्ति न वा आद्ये यज्ञानुष्ठान वैयर्थ्यमित्यभिप्रेत्याह । वेदन गोचरेति । वेदनगोचरेछाया एव विविदिषात्वादितिभावः । सिद्धत्वेन विविदिषार्थं यज्ञाद्यनुष्ठानायोगादिति संबंधः । न द्वितीयः । विविदिषा फले वेदने कामनायाः असत्वे विविदिषायामपि कामनाया अभावाद्विविदिषोद्देशेन यज्ञाद्यनुष्ठानायोग इत्याह । तदभाव इति । वेदनगोचरे छाया अभाव इत्यर्थः । विविदिषार्थं यज्ञाद्यनुष्ठातुरस्त्येव वेदनगोचरेछा न चैतावता तदनुष्ठान वैयर्थ्यं विविदिषाया द्वैविध्योपपतेः । तथा हि वेदनेछा द्विविधा विद्याया मौन्मुख्यलक्षणा रुचिलक्षणा च तत्राद्या यज्ञाद्यनुष्ठानात्प्रागपि वेदनेपि वर्तत इति तामादाय वेदनसाधनभूतायां विविदिषायां कामना संभवतीति विदिषार्थं यज्ञाद्यनुष्ठानमुपपन्नं द्वितीया तु यज्ञादि फलभूता तदनुष्ठानानंतरभाविनीति युक्त एव विविदिषायां यज्ञादि विनियोग इति समाधानमभिप्रेत्याह । नेति वेदनेछायाः द्वैवित्प्रेयक्षाद्यनुष्ठानादौ च दृष्टांतमाह । अन्न द्वेषेणेति । तत्परिहारायेति कार्श्यपरिहारायान्न भक्षणविषयकोत्कटेछाया सत्यासपीत्यर्थः । प्. ३ब्) उत्सकेति अधिकेत्यर्थः धातुवैषम्यप्रयोजकात्यंतानशनादि संग्रहार्थमादिपदं तत्रेति अन्नभक्षण इत्यर्थः । न जायत इति । एतच्चानुभवसिद्धमितिभावः ।। निरतिशयानंदरूपं ब्रह्म तत्प्राप्तौविद्यासाधनमित्यर्थे । प्राचीन बहुजन्मानुष्ठितानभिसंहितफलनित्यनैमितिक कर्मोपार्जितचितप्रसादमहिम्नासंपन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ विद्यायां च तदौत्कंठ्यलक्षणायामिछायां सत्यामप्यनादिभवसंचितानेक दुरित दोषेणास्तिक कामुकस्य हेयकर्मणीव विषयभोगे प्रावण्यं संपादयता प्रतिबंधाद्विद्यासाधने श्रवणादौ प्रवृतिपर्यंता रुचिनं जायत इति प्रतिबंधनिरासपूर्वं तत्संपादक यज्ञादि विधानोपपतेरिति । विवरणानुसारिणस्त्वाहुः । प्रकृति प्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति सामान्यन्यायात् ।। अधीत सांग स्वाध्यायः पुरुषो वेदातैः ब्राह्मणो निरतिशयानंदरूपत्वं विद्यायां तत्प्राप्ति साधनत्वं च ज्ञात्वा तस्मिन्नर्थे संपन्नविश्वासो भवतीत्ययुक्तं । तथा विधानामपि प्. ४अ) पुरुषाणां बहूनां तस्मिन् नर्थे विश्वाससंपतेरदर्शनादित्याशंक्याह । प्राचीनेति । प्राचीनेषु बहुषु जन्मस्वनुष्टितानि फलाभिसंधिरहितानि च यानि नित्यनैमितिकानि कर्माणि तैरुपसंजातौपश्चितप्रसादः शुद्धिविशेषस्तस्य महिम्नेत्यर्थः । तथा च स्मृतिः । मनुष्याणां सहस्रेषु कश्चिद्यतति सिधय इति । कश्चिदिति । उक्तचितप्रसाद वा नित्यर्थः । सिद्धये विद्यालाभायन सर्व इति भावः । ननु ब्रह्मप्राप्ति तत् साधनविद्यागोचरोत्कटेछायां सत्यां तत्साधनश्रवणादौ प्रवृतिपर्यंता रुचिर्न वेदेवेति कृतं तस्य यज्ञाद्यनुष्ठानेन तत्राह । अनादीति । दुरित दोषेण प्रतिबंधात् रुचिनं जायत इति संबंधः । ननु पूर्वोक्त चितप्रसादमहिम्ना ब्रह्मविद्यादौ संपन्नविश्वासस्यास्तिकतमस्यानर्थ बहले विषयभोगे प्रावण्यं कथं संभवतीत्याशांक्यानुभवसिद्ध दृष्टांतेन तत्संभावयति । आस्निक कामुकस्येति । विहितानुष्टानादं वश्यं श्रेयो भवति निषिद्धकरणादितश्चावश्यं महाननर्थो भवति । शास्त्रप्रामाण्यादिति निश्चय वा नास्तिकः । तस्यापि कस्यचित् कामोद्रेको निंदिता गम्यागमनादौ प्रावण्यं च यथा पाप विशेषात् संभवति तथा यथोक्तमुमुक्षोरपीत्यर्थः । प्रतिबंधेति । अनादिभवसंचितानेक दुरित दोषकृत प्रतिबंधेत्यर्थः । तत्संपादकेति । विविदिषाशदिताया श्रवणादौ प्रवृतिपर्यंतारुचिः तत्संपादकेत्यर्थः । क्व तर्हि कर्मणामुपयोग इत्यत्र प्रश्रे विद्यायां विनियोग इति प्रतिवचनांतरमवतारयति । प्. ४ब्) विवरणेति पूर्वत्र यज्ञादीनां तृतीया श्रुत्यासाधनत्वेनावगतानां साध्याकांक्षायां विविदिषैव साध्यत्वेनान्वेति । तस्याः शब्दतः प्रधान त्वात् शब्दतः प्रधानस्यैव पदार्थस्य राजपुरुषमानयेत् पादौ सर्वत्रसमभिव्याहृतपदार्थांतरेणान्वयस्य व्युत्पति सिद्धत्वादित्याशयेन यज्ञादीनां विविदिषायां विनियोगदुक्तः । तत्रास्वरसंदर्शयत् विद्यायां तेषां विनियोगमुपपादयति । प्रकृतीति । प्रकृति प्रत्ययार्थयोर्वेदन तदिछयोर्मध्ये प्रत्ययार्थस्य विविदिषा लक्षणस्य प्रत्ययार्थत्वाछब्दतः प्राधान्यं । ततश्च विविदिषाया एव यज्ञादिफलत्वेनान्वय इत्यत्र हेतु भूतो यः सामान्य न्यायो राजपुरुषमानयेत्पादौ प्रसिद्धः शब्दतः प्रधानस्यैव समभिव्याहृतक्रियाकारकान्वय इत्येवं रूपः तस्मादित्यर्थः । विधिप्रत्ययेनेष्टसाधनत्वेनावगतयागादेरिष्टविशेषा कांक्षायां सत्यां शब्दतः प्राधान्याभावेपि स्वर्गस्य फलत्वेनान्वयः कॢप्त इत्यर्थः ।। इछाविषयतया शब्दबोध्य एव शाब्दसाधनतान्वय इति स्वर्ग कामादि वाक्ये कॢप्त विशेष न्यायस्य वलीयस्त्वादश्वेन जिगमिषति असिनाजिघांसुतीत्यादि लौकिक प्रयोगेऽश्वादिरूपसाधनस्य तदन्वेष्टव्यंतद्वावविजिज्ञासितव्यं निदिध्यासितव्य इत्यादि वै प्. ५अ) दिकप्रयोगे तव्यार्थ भूतविधेश्च सन्प्रत्ययाभिहितेछाविषय एव गमनादावन्वयस्य व्युत्पन्नत्वाच्च प्रकृत्यभिहितायां विद्यायां यज्ञादीनां विनियोगः । ननु तथा सति यावद् विद्योदयं कर्मानुष्ठानापतेस्त्यजतैव हितकर्षणाज्ञेयमित्यादि श्रुतिसिद्धकर्मत्यागरूपस्य संन्यासस्य विद्यार्थत्वं पीड्येतेति चेन्न प्रागबीजा वा पात्कर्षणं तदनंतरमकर्षणमिति कर्षणाभ्यां ब्रीह्यादि निष्पति वदारुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यतेत्यादिवचनानुसारेण चेतसः शुद्धौ विविदिषादिरूपप्रत्यक्प्रावण्योदयपर्यंतं कर्मानुष्ठानं ततः संन्यास इति कर्म तत्सन्यासाभ्यां विद्या निष्पत्युपगमात् ।। शाब्दप्राधान्याभवाविशेषे कामनाया एवयादि फलत्वेनान्वयः कुतो न कल्पितस्तत्राह । इछारिषपतयेति । इछाविषयत्वस्य फलत्व व्यंजक त्वात् । पुरुषार्थत्वेन प्रतीतस्य स्वर्गस्यैव फलत्वं न कामनाया इत्यर्थः । ननु कामनाविषयत्वस्य मुक्ति साधारण त्वात सैव यागादिफलं प्. ५ब्) कस्मान्न कल्प्यते तत्राह । शब्दबोध्य इति । शाब्दी ह्याकांक्षाशब्देनैव पूर्वत इति न्यायात्नाति प्रसंगः । तथा च इछेष्यमाण समभि व्याहारे इष्यमाणस्यै च प्राधान्यं न त्विछाया इति विशेषन्यायेन उक्त सामान्यन्याय बाधस्य कामोपबंधवाक्येषु कॢप्तत्वाद्विविदिषंतीत्यत्रापि प्रत्ययार्थत्वप्रयुक्तं विविदिषाया शब्दप्राधान्यं त्यक्ता वेदनप्राधान्यमेवादरणीयमित्यर्थः । इछावाचिसन्प्रत्यय समभिव्याहृतेष्वेव लौकिक वैदिक प्रयोगेषु प्रत्ययार्थतया प्रधानामपीछामुल्लंघ्य तद्विषयेस्वेव समभिव्याहतपदार्थांतरान्वय दर्शनाच्चेत्याह । अश्वेनेति । तदन्वेष्टव्यमिति । तद्दहराकाशाख्यं ब्रह्मविचार्यमित्यर्थः । विजिज्ञासितव्यमिति । तदेव ब्रह्मध्यातव्यमित्यर्थः । निदिध्यासितव्य इति । आत्माध्यातव्य इत्यर्थः । ननूदाहृतप्रयोगेषु इछाया अश्वादिसाधनाद्यन्वयायोगात्वा तस्याः परित्याग इति चेतर्हि प्रकृतेपि वेदनेछायाः तदतयोगात्वात् । ब्रह्मवेदनस्य च ब्रह्मानंदसाक्षात्काररूपतया फलत्वनान्वेतुं योग्यत्वाद्वेदन एव यज्ञाद्यन्वयो न विविदिषायामिति तुल्यमितिभावः । विद्याविनियोगपक्षे विध्यंतरविरोधं शंकते । न त्विति । कर्माणित्यजतैवमुमुक्षुणात्यक्तुः स्वस्य प्रत्यगात्मस्वरूपं पदं ब्रह्मसाक्षात्कर्तव्यं नत्वत्यजतेति श्रुत्यर्थः । अथ परिव्राडित्युपक्रम्य ब्रह्मभूयायकल्पत इत्यंतेन श्रुत्यंतरेणापि परिव्राट् शब्दोपातसंन्यासस्य ब्रह्मभूयशब्दित ब्रह्मसाक्षात्कार हेतुत्वमुक्तं । एवं श्रुत्यंतरेष्वित्यभिप्रेत्यादि पदं प्. ६अ) द्रष्टव्यं । विविदिषावाक्यसंन्यासविध्योरविरोधं सदृष्टांतं सप्रमाणं च दर्शयति । न प्रागिति । वचने कारणपदद्वयं कर्तव्यार्थकं शमः संन्यासः चित्तशुद्धिविविदिषादिरूपप्रत्यक्प्रावण्येत्ये तद्गीतावचनगतयोगपदव्याख्यानमितिबोध्यं ।। उक्तं हि नैष्कर्मसिद्धौ । प्रत्यक् प्रवणतां बुद्धेः कर्माण्यापाद्यथुद्धितः कृतार्थान्यस्तमायांति प्रावृडंते घना इवेति । कर्मणां विद्यार्थत्वपक्षेपि विविदिषापर्यंतमेव कर्मानुष्ठाने विविदिषार्थत्वपक्षात्को भेद इति चेत् । अयं भेदः कर्म्मणां विद्यार्थत्वपक्षे द्वारभूतविविदिषा सिद्ध्यनंतरमुपरतावपि फलपर्यंतानि विशिष्टगुरुलाभात्निर्विघ्नश्रवणमनननिदिध्यासनसाधनानि निवृति प्रमुखानि संपाद्यविद्योत्पादकत्वनियमोस्ति विविदिषार्थत्व पक्षे तु श्रवणादिप्रवृतिजननसमर्थोत्कटेछा संपादनमात्रेण कृतार्थतेति नावश्यं विद्योत्पादकत्वनियमः यस्यैतेष्टाचत्वारिंशत्संस्कारा इति स्मृति मूले कर्मणामात्मज्ञानयोग्यतापादकमलापकर्षणगुणाधान प्. ६ब्) लक्षणसंस्कारार्थत्वपक्ष इवेति वदंति ।। रागादिराहित्यरूप चितशुद्धिविविदिषा वैराग्यगुरुदेवतादि भक्तिलक्षणप्रत्यक् प्रावण्यजन्मपर्यंतं कर्मानुष्ठानमित्यत्र सुरेश्वराचार्य संमतिमाह । उक्तं हीति शुद्धित इति । शुद्धिद्वारेत्यर्थः । अस्तमायांतीतित्यागमायांति त्यक्तव्यान्येव भवंति । कृतप्रयोजनत्वादित्यर्थः । कृतप्रयोजनानां निवृतौ दृष्टांतमाह । प्रावृडंत इति वर्षाकालावसान इत्यर्थः । विविदिषायां विनियोगपक्षे विविदिषोदय पर्यंतमेव यज्ञाद्यनुष्ठानमित्य विवादं विद्यायां विनियोगपक्षेप्येवं चेत्कस्तयोर्भेद इति शंकते । कर्मणामिति । अनुष्ठाने विशेषाभावेपि फलतो विषोस्तीत्याह । अयं भेद इति । वक्ष्यमाण इत्यर्थः । उपरताविति त्यागेपीत्यर्थः । अदृष्टद्वारेति शेषः विविदिषाविनियोगपक्षे हि यज्ञादिकर्मजनितादृष्टं श्रवणादिषु प्रवृतिपर्यंतां विविदिषा शब्दितां रुचिमुत्पाद्व्य नश्यति । फलैक्य नाश्यत्वाददृष्टस्य विविदिषोत्यत्यनंतरं च श्रवणादि प्रतिबंधक दुरिताभावे सति विविदिषावलादेव श्रवणादिकं संपाद्यविद्यां लभते । श्रवणादि प्रतिबंधक दुरित सत्वे तु तत्सत्वं यत्ने कृतेपि श्रवणाद्यलाभेन निश्चित्य तन्निवृत्युपायमनुतिष्ठति प्रायेण तन्निवर्तकोपायाननुष्ठाने वा तदनुष्ठानस्यापि विघ्नबाहुल्ये वा श्रवणाद्यसंभवात् न ज्ञानोदयः । यथा औषधवीर्येणात् न भक्षणे रुच्युत्पतौ सत्यामपि अप्रतिबंधेनावलाभे प्. ७अ) तद्भक्षणेन कार्श्य निवृतिं लभते तदलाभे तु तल्लाभाय स पतते यत्ने कृतेपि यद्यत्नं न लभते तदानुकार्श्यनिवृतिं लभते एवमिहापीत्यभिप्रेत्याह । नावश्यमिति । विविदिषा विनियोगपक्षस्य संस्कारे कर्मणां विनियोगपक्षं दृष्टांतयति । यस्यैति इति । यस्य पुरुषस्य एते श्रौतस्मार्तधर्मा अष्टाचत्वारिंशत्संख्याकाः संस्काराः संति शमादि संपतिश्च वर्तते । तस्य कर्मभिः संस्कृतस्य विद्याधिकारिणः श्रवणादि संपत्यां तत्वज्ञानद्वारा परब्रह्मप्राप्तिर्भवति । तदसंपतौ च पुण्यलोकावाप्तिरिति कर्मणां संस्कारकत्वपक्षे यथा ज्ञानोत्पादकत्वनियमो नास्ति संस्कारजननमात्रेण सं ।। ननु केषां कर्मणामयमुदाहृत शुत्या विनियोगो बोध्यते । अत्र कैश्चिदुक्तं वेदानुवचनेनेति । ब्रह्मचारिधर्माणां यज्ञेन दानेनेति ग्रहस्थधर्माणां तपसा नाशकेनेति वानप्रस्थधर्माणां चोपलक्षणमित्याश्रमधर्माणामेव विद्योपयोगः । अत एव विहितत्वाच्च श्रमकर्मापीति शारीरकसूत्रे विद्यार्थकर्मस्वाश्रमकर्मपदप्रयोग इति कल्पतरौ तु नाश्रमधर्माणामेव विद्योपयोगः ।। चरितार्थानां कर्मणां विद्योत्पतिपर्यंत व्यापारा भावात् प्. ७ब्) तथा तेषां विविदिषार्थत्वपक्षेपीत्यर्थः । आत्मज्ञानयोग्यता कार्यकारणसंघातनिष्ठा तदा पादकौ यौमलापकर्षणगुणाधानलक्षणौ संस्कारौ तदर्थत्वपक्ष इत्यर्थः । कर्मणां विविदिशार्थत्वपक्षे संस्कारार्थत्वपक्षे च ज्ञानोत्पत्यनियमे समानेपि विविदिषार्थत्वपक्षे प्रायिकी ज्ञानोत्पतिः तीव्रवुभुक्षाया इव दृढ विविदिषायाः सर्वप्रयत्नेन विद्यासंपादनसमर्थत्वात् । संस्कारार्थत्वपक्षे तु ब्रह्मज्ञानयोग्यतामात्र सिद्धावपि विविदिषाया अप्यनियतत्वेन विद्योत्पतिः प्रायिक्यपि न भवतीति विविदिषासंस्कारार्थत्वपक्षयोरपि भेद ऊहनीय इति भावः । केषामिति । किमाश्रमकर्मणामेव किं वाऽन्येषामपीत्यर्थः । नन्वाश्रमधर्माणामपि सर्वेषां विविदिषा वाक्ये श्रवणाभावात् तेषामपि न सर्वेषां विनियोगो लभ्यते तत्राह । वेदानुवचनेनेति । वेदस्य गुरुवचनमनुशिष्यस्य वचनं वेदानुवचनं वेदाध्ययनं तच्च ब्रह्मचारिधर्माणां मध्ये प्रधानं तेन तद्धर्माः सर्वे गृह्यंत इत्यर्थः । एवमुत्तरत्रापि प्राधान्यं द्रष्टव्यं तपः कृछ्रचांद्रायणादिरूपं वानप्रस्था साधारणमिह तपः शब्दरूढ्याभातीतिभावः । अनाश्रितः कर्मफलं कार्यं कर्मकरोति यः । इत्यादि स्मृतिषु नित्याश्रमिणां कार्यं कर्तव्यं यद्यत्कर्मास्ति तत्सर्वं फलाभि संधिंत्यक्ता यः करोति स योगपदोदितं पूर्वोक्त चितशुद्धि विविदिषारूपं प्रत्यक् प्रावण्यं लभत इति प्रतिपादना तन्मूलभूते विविदिषा वाक्येपि सर्वेषामाश्रमकर्मणामुपलक्षणं युक्तमिति मंतव्यं आश्रमकर्मणामेव प्. ८अ) विनियोग इत्यत्र सौत्रलिंगमाह । अत एवेति आश्रमकर्मणामेव विनियोगाभ्युपगमादेवेत्यर्थः । आश्रमकर्मणां विविदिषावाक्येन विद्यादौ विनियुक्तत्वा तत्कामनारहिते नाश्रमिणा स्वाश्रमविहितं कर्मनानुष्ठेयमिति शंकायामुतरं सूत्रे तेनापि कर्तव्यमेव तं प्रतिविहितत्वादन्यथा प्रत्यवाय प्रसंगादिति सूत्रार्थो बोध्यः । अन्येषामपि विनियोग इति पक्षं नित्यकर्ममात्रविषयतया प्रथमं दर्शयति । कल्पतरौ त्विति । कल्पतरावुक्तमिति संबंधः । आश्रमधर्मव्यतिरिक्तानामप्यस्ति विद्योपयोग इति कल्पतरुकारमतमयुक्तं सूत्रे विद्यार्थकर्मस्वाश्रमकर्मथदप्रयोगविरोधान्न च सौत्राश्रमकर्मपदस्य वर्णधर्मेष्वप्यजहदल्लक्षणोपपतेर्न तद्विरोध इति वाच्यं । लक्षणायामेव प्रमाणाभावादित्याशंक्य तत्र नियामकं दर्शयति । नाश्रमधर्माणामेव विद्योपयोग इति ।। अंतरा चापि तु तद्दृष्टेरित्यधिकरणे आश्रम रहित विधुराद्यनुष्ठितकर्मणामपि विद्योपयोगनिरूपणात् । न च विधुरादीनामनाश्रमिणां प्राग्जन्माद्यनुष्ठित यज्ञाद्युत्पादित विविदिषाणां विद्यासाधनश्रवणादावधिकारनिरूपणमात्रपरं तदधिकरणं न तु तदनुष्ठित कर्मणां विद्योपयोग निरूपणपरमिति शंक्यं ।। प्. ८ब्) आश्रमधर्मव्यतिरिक्तानां वर्णधर्माणामप्यस्ति विद्योपयोग इत्येव कारार्थे हेतुमाह । अंतरा चापि त्विति । विद्यां प्रतिबहिरंगसाधनेषु कर्म स्वंतरंग साधनेषु श्रवणादिषु चानाश्रमिणामधिकारोस्ति न वेति संदेहे सति नास्त्यधिकार इति पूर्वपक्षः आश्रमकर्मणामेव विद्यायां विनियुक्तत्वातेषामाश्रमकर्मा भावात् । साधन चतुष्टय संपन्नस्यैव श्रवणादिष्वधिकाराच्च अनाश्रमिणां च साधन चतुष्टयांतर्गतस्य उपरति शब्दितसंन्यासस्याभावे न तत्स्वंपत्यभावादिति । सिद्धांतस्त सूत्रे तु शब्दः पूर्वपक्षव्यावृत्यर्थः । अंतराशब्दः आश्रमाणामंतरालमनाश्रमित्वमाह । तथा चानाश्रमित्वे वर्तमानोपि पुरुषः श्रवणादिषु विद्यार्थ कर्मसु चाधिक्रियते कुतः श्रुतिस्मृतिषुरैक्व वा चक्रवी प्रभृतीनामनाश्रमिणामपि विद्यावत्वोपलब्धेः परित्राजकस्य श्रवणादिषु मुख्याधिकारेपि ग्रहस्थादीनामिव अनाश्रमिणामपि गौणाधिकारोपपतेः । तथा च तदधिकरणे भाष्यं दृष्टार्था च विद्या प्रतिषेधा भावमात्रेणार्थिनममधिकरोति । श्रवणादिति । अविद्यानिवृतिः विद्यायाः दृष्टं फलं अर्थिनमविद्यानिवर्तकसाक्षात्कारार्थिनमधिकारित्वेन स्वीकरोति शूद्रस्येव वेदांत श्रवणादिष्वनाश्रमिणां प्रतिषेधा भावात् । गौणाधिकारे संन्यासापेक्षा नास्तीति मत्वामात्र पदमिति भाष्यार्थः । प्. ९अ) अंतरा चापि त्वित्यधिकरणमनाश्रमिणां श्रवणाद्यधिकारमात्रनिरूपण परं न त्वनाश्रमिकर्मणामपि विद्योपयोगनिरूपणपरं तथा च सौत्राश्रमकर्मपदस्य वर्णधर्मोपलक्षणत्वं न सिध्यतीति मत्वा शंकते । न च विधुरादीनामिति । ननु तेषां विद्यार्थकर्माभावे विविदिषोदया संभवादनाश्रमिणां श्रवणाधिकारनिरूपणमयुक्तमित्याशंक्याह । प्राग्जन्मेति । अनाश्रमिणोपि ये जन्मांतरीयाश्रमकर्मानुष्ठान जनित विविदिषावंतः संन्यासहेतु तीव्रवैराग्या भावात् मुख्याधिकारात् प्रच्युताश्च तेषां श्रवणाधिकार निरूपण परं तदधिकरणं न त्वनाश्रमिमात्रविषयं अविविदिषूणां श्रवणादौ प्रवृत्यसंभवादेवेत्यर्थः । इति न च शंक्यमिति संबंधः ।। विशेषानुग्रहश्चेति तदधिकरणसूत्र तद्भाष्ययोः तदनुष्ठितानां जपादिरूपवर्णमात्रधर्माणामपि विद्योपयोगस्य कंठोक्तेर्विहितत्वाच्चाश्रमकर्मापीति सूत्रे आश्रमकर्मपदस्य वर्णधर्माणामप्युपलक्षणत्वादित्यभिसंधायोक्त- माश्रर्मधर्माति रिक्तानामप्यस्ति विद्योपयोगः । किंतु नित्यानामेव तेषां हि फलं दुरितक्षयं विद्यापेक्षते । प्. ९ब्) न काम्यानां फलं स्वर्गादि ।। ननु अंतराचापि त्विति सूत्रे विद्यार्थकर्मसु विधुरादी नामधिकारे श्रुत्यादिष्वनाश्रमिणां रैक्व वा चक्रवी प्रभृतीनां विद्यावत्वदर्शने हेतुत्वेनोक्तं तदयुक्तं रैक्व वा चक्रवी विदुर प्रभृतीनां जन्मांतरीय विद्यासाधनानुष्ठान वलादैव विद्याजातेति शंका संभवादतोऽनाश्रमिकर्मणां विद्योपयोग इत्यत्र तेषां विद्यावत्वदर्शनमन्यथा सिद्धं लिंगं न भवतीत्य स्वरसादनन्यथा सिद्धं हेतुमन्यमभिप्रेत्योक्तं । विशेषानुग्रहश्चेति विशेषैः धर्मविशेषैः जपादिलक्षणैः ब्राह्मणत्वादि वर्णमात्रसंबंधिभिरपि वितशुद्धि विविदिषादि द्वारा आश्रमधर्मैरिव विद्याया अनुग्रहः उपकारः संभवत्येव कुतः जप्येनैव तु संसिध्येत् ब्राह्मणो नात्रसंशयः गंगायां स्नानमात्रेण मुच्यते नात्रसंशयः । यस्य स्मरणमात्रेणेत्यादि वचनैः जपतीर्थस्नान देवताध्यानादि धर्माणां शुद्ध्यादिद्वाराविद्यासाधनत्वस्य प्रतिपादनादिति सूत्रार्थः । तदनुष्ठितानामिति । अनाश्रमिणः तछब्दार्थाः एवमनाश्रमधर्माणामपि सूत्रकारेणैव स्पष्टं विद्योपयोगस्य साधितत्वात्तदविरोधाय सौत्रमाश्रमकर्मपदं वर्णधर्माणामप्युपलक्षकं वाच्यमित्याशयेनाह । सूत्र इति । एवं कल्पतरु काराणामभिप्रायमुपवर्ण्य तन्मतमुपपादयति । आश्रमधर्मेत्यादिना । ननु यज्ञादीनां विनियोगः कल्प्यमानः प्. १०अ) किं काम्यसाधारणः कल्प्यते किं वा नित्यानामेव नाद्यः काम्यकर्मफलस्य स्वर्गादेर्विद्ययानपेक्षितत्वेन तेषां विद्योपकारकत्वा संभवात् । न द्वितीयः नित्यकर्मफलस्य दुरितक्षयस्यापि प्रमाणसाध्य विद्यापेक्षितत्वे मानाभावेन तेषामपि विद्याविनियोगानुपपतेरिति । शंकते । किं त्विति समाधते । नित्यानामेवेति ज्ञानमुत्पद्यते पुंसां क्षपात्पापस्य कर्मणः इत्यादि वचनं नित्यकर्मफलस्य दुरितक्षयस्य विद्यया अपेक्षितत्वे प्रमाणत्वेन सूचयति हीति । प्रमाणजन्यायामपि विद्यायां दुरितस्य प्रतिबंधकत्वसंभवात् दुरितक्षपापेक्षायुक्तेतिभावः । काम्यकर्मणां विद्यानुपकारकत्वमंगीकरोति । नेति । न च काम्यानां नित्यानामिव दुरितक्षयफलकत्वमप्यस्तु तथा च तेषामपि विद्यापेक्षित दुरितक्षयलक्षणोपकारजनकत्वं संभवतीति वाच्यं । तेषां दुरितक्षयफलकत्वे मानाभावेन विद्योपकारकत्व स्या कॢप्तत्वादितिभावः ।। तत्र यथा प्रकृतौ कॢप्तोपकाराणामंगानामति देशे सति न प्रकृतोपकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनियुक्तानां यज्ञादीनां कॢप्तनित्यफल पापक्षयातिरेकेण न नित्यकाम्यसाधारणविद्योपयोग्युपकारकल्पन निमिति संक्षेपशारीरके प्. १०ब्) तु नित्यानां काम्यानां च कर्मणां विनियोग उक्तः यज्ञादिशब्दाविशेषात् । प्रकृतौ कॢप्तोपकाराणां पदार्थानां कॢप्तप्राकृतोपकाराति देशमुखेनैव विकृतिष्वति देशेन संबंधो न तु पदार्थानामति देशानंतरमुपकारकल्पनेति न तत्र प्राकृतोपकारातिरिक्तोपकारकल्पना प्रसक्तिः । इह तु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनामुपदिष्टानामिव पश्चात् कल्पनीय उपकारः प्रथमावगत विनियोग निर्वाहाया कॢप्तोपि सामान्यशब्दोपात सकलनित्यकाम्यसाधारणः कथं न कल्प्यः ।। कर्मणां विद्यायां विनियोग विधेः कॢप्तोपकारैः नित्यकर्मभिरेव चारितार्थ्ये दृष्टांतमाह । तत्र यथेति । यद्वा काम्यानां पापक्षयफलकत्वस्यान्यतः । प्राप्त्यभावेपि यज्ञादीनां विनियोग बलादेव तेषां तत्कल्प्यतामिति नेत्याह । तत्रेति । काम्यकर्मणाविद्यापेक्षितोपकार हेतुत्वा कॢप्तौ सत्वामित्यर्थः । न नित्यंति । गौरवादितिभावः । आश्रमकर्मव्यतिरिक्तानामपि विनियोग इति पक्षं काम्यसाधारणं दर्शयति । संक्षेपेति अविशेषादिति । यज्ञादिशब्दानां नित्ययज्ञादिष्विवकाम्य प्. ११अ) यज्ञादिष्वपि रूढत्वाविशेषात् । नित्यानामिव काम्यानामपि विनियोगः । श्रुत्वाभातीति तत्साधारण एव कर्मणामुपकारः कल्प्यत इत्यर्थः । काम्यसाधारण्येन विद्योपयोग्युपकार कल्पनं न संभवति तत्कल्पने पूर्वतंत्र न्यायविरोधादिति मत्वा विकृतिष्वति दिष्टान्यंगानि दृष्टांतत्वेन कल्पतरावुदाहृतानि न तानि यज्ञादीनां दृष्टांतत्वेनोदाहरणे योग्यानीत्याह । प्रकृताविति । दर्शपूर्णमासादिषु प्रकृतियागादिषु यः पदार्थानां कॢप्त उपकारः । तस्य प्रथममति देशः तत्पृष्ठभावेन पदार्थानां विकृतिषु सौर्य पशुयागादिष्वति देशः न तु प्राकृतपदार्थानां अतिदेशेन विकृतिषु विनियोगानंतरं पदार्थानामुपकारकल्पनमिति न तत्र कॢप्तोपकारपरित्यागेनोपकारांतरप्रसक्तिरस्तीत्यर्थः । एतदुक्तं भवति प्रकृते यज्ञादीनां विनियोगानंतरं उपकारकल्पनमति देशस्थले तु उपकृतावुपकारकल्पनानंतरं प्राकृतपदार्थानां विकृतिषु विनियोगः । ततो दृष्टांतो विषम इति । इह त्विति । दार्ष्टांतिक इत्यर्थः । प्रकृतानुगुणं दृष्टांतमाह । उपदिष्टानामिति । दर्शपुमासादिप्रकरणेष्वन्यत्र वा श्रुतानां पदार्थानां श्रुतिलिंगादिभिः दर्शपूर्णमासादिषु विनियुक्तानां प्रथमावगतविनियोगनिर्वाहाय यथा योग्यं दृष्टादृष्टलक्षण उपकारः कल्प्यते यथा तथा उपकारोन्नापि कल्प्य प्. ११ब्) एव न तु प्रथमावगत विनियोगपरित्याग उचितः यज्ञाद्यविशेषश्रुति वाध प्रसंगादित्यर्थः । सामान्यशब्देति । नित्यकाम्य साधारण यज्ञादि शब्देत्यर्थः ।। अध्वरेष्वरमीमांसकैरपि ह्युपकारमुखेन पदार्थान्वय एव कॢप्तोपकारनियमः पदार्थान्वयानंतरमुपकारकल्पने त्वकॢप्तोपि विनियुक्तपदार्थानुगुण एवोपकारः कल्पनीय इति संप्रतिपद्यैव वाधलक्षणारंभ सिद्ध्यर्थमुपकारमुखो विकृतिषु प्राकृतान्वयोदशमाद्ये समर्थितः ।। यथा कॢप्तोपकारातिरिक्तोपकाराकल्पनं कल्पतरुकारोक्तं मिमांसक संमतं तथा प्रथमावगत विनियोगानुसारेणाकॢप्तोपकारकल्पनमपि मीमांसक संमतमेवेत्याह । अध्वरेष्विति कर्ममीमांसकैरपीत्यर्थः । अध्वरमीमांशकैरपि संप्रतिपद्यैव प्राकृतान्वयः समर्थित इति संबंधः । पदार्थान्वय एवेति । पदार्थान्वयस्थल एवेत्यर्थः । कॢप्तोपकार नियमः कॢप्तोपकारातिरिक्तोपकाराकल्पनमित्यर्थः । एवकार व्यावर्त्यमाह । पदार्थान्वयानंतरमिति । उपकारकल्पनस्थले त्वित्यर्थः । संप्रतिपद्यैवेति स्वीकृत्यैवेत्यर्थः । वाधलक्षणेति वाधाध्यायारंभ सिध्यर्थमित्यर्थः । प्राकृतान्वय प्. १२अ) इति प्रकृति यागादौ शेषभूताये पदार्थाः । तेषां विकृति यागादिष्वति देशेन प्राप्तिरित्यर्थः । एतदुक्तं भवति पूर्वतंत्रे दशमाध्याये विकृतावति दिष्टानामंगानां प्रकृतौ कॢप्तस्योपकारस्यासंभवे वाधो निरूप्यते तच्च वाधनिरूपणं विकृतिष्वति देशेन पदार्थप्राम्यनंतरमुपकारकल्पनपक्ष्ये न सिध्यति प्रकृतौ श्रुत्यादिभिर्विनियुक्तपदार्थानां दृष्टोपकारासंभवे अदृष्टोपकारकल्पनवत् । विकृतिष्वति देशेन विनियुक्तानां पदार्थानां दृष्टोपकारासंभवे अदृष्टोपकारकल्पनया तत्सिध्यर्थं सर्वंषामेवांगानामनुष्ठानावश्यंभावेन केषांचिदंगानामननुष्ठान तदति देशाप्रामाण्यरूपबाधा संभवादतो बाधनिरूपणासिद्ध्यर्थं प्रकृति कॢप्तोपकारमुखेनैव प्राकृतानामन्वयो विकृतिष्विति दशमाध्याय प्रथमाधिकरणे साधितं तथा च यत्र पदार्थानां विनियोगानंतरमुपकारकल्पनं तत्र ततत्पदार्थं सामर्थ्यानुसारेण प्रथमावगत विनियोगनिर्वाहाया कॢप्तोपकारकल्पनं मीमांसक संमतमिति प्रतीयते । यदि विनियोगानंतरमुकारकल्पनास्थलेपि कॢप्तोपकारासंभवे विनियुक्तपदार्थपरित्याग एव न त्वकॢप्तोपकारकल्पनं तत्संमतं भवे तदा उपकारमुखेनैव पदार्थानामति देश इति निरूपणपरमधिकरणं व्यर्थं स्यात् । पदार्थानामेव श्रयणावचातादीनामति देशेन्स विनियोगेपि विकृति गत कृष्णलादिषु श्रयणादेर्विक्लिति तुष प्. १२ब्) विमोकरूपदृष्टोपकारस्य लोकसिद्धस्याभावादकॢप्तोपकारकल्पनानंगीकाराच्च श्रयणादेरननुष्ठानादिलक्षणबाधस्य दशमाध्याये निरूपणीयस्य संभवेन तदर्थमुपकारमुखेनैव पदार्थानामतिदेश इति निरूपणस्यानपेक्षितत्वात् । तस्माद्विविदिषावाक्येनाविशेषेण नित्यकाम्यसाधारणे विनियोगे प्रथममवगते सति तन्निर्वोहाया कॢत्प्तोपकारकल्पनं युक्तमेवेति ।। किं च कॢप्तोपकारालाभान्नित्यानामेवायं विनियोग इत्यभ्युपगमे नित्येभ्योदुरितक्षयस्य तस्माद्वज्ञानोत्पतेरन्यत सिद्धौ व्यर्थोयं विनियोगः । अन्यतस्तदसिद्धौ ज्ञानापेक्षितोपकारजनकत्वं नित्येषु न कॢप्तमित्यविशेषान्नित्यकाम्यसाधारणविनियोगो दुर्वारः । ननु नित्यानां दुरितक्षयमात्र हेतुत्व स्यान्यतः सिद्धावपि विशिष्यज्ञानोत्पति प्रतिबंधक दुरित निवर्हकत्वं न सिद्धं । किं तु अस्मिन् विनियोगे सति ज्ञानोद्देशेन नित्यान्यनुतिष्ठतो वश्यं ज्ञानं भवति । इतरथा शुद्धिमात्रमनियता ज्ञानोत्पतिरिति सार्थकोयं विनियोग इति चेत् । तर्हि नित्यानामप्यकॢप्तमेव प्. १३अ) नियमतोज्ञानोत्पति प्रतिबंधक दुरित निवर्हणत्वं ।। वस्तुतस्तु नित्यकर्मस्वपि विद्यापेक्षितोपकारजनकत्व कॢप्तिरसिद्धेत्याह । किं चेत्यादिना । अलाभादिति । काम्येष्विति शेषः नित्यानां विद्यापेक्षित दुरितक्षयलक्षणोपकार द्वाराविद्याहेतुत्वं विविदिषा वाक्यादन्यतः सिद्धमसिद्धं वा तत्र नाद्यः विविदिषा वाक्यवैपर्थ्यप्रसंगादित्याह । नित्येभ्य इति । विनियोग इति । शेषत्वरूपविनियोगबोधक शब्द इत्यर्थः । द्वितीये नित्येष्वपि विद्योपकारकत्वमकॢप्तमेव कल्पनीयमिति नित्यकाम्यसाधारणोपकारकल्पनं युक्तमेवेत्याह । अन्यतस्तद सिद्धाविति । नित्यानां विद्योपकारकत्वासिध्हावित्यर्थः । अन्यतः सिद्धिपक्षमवलंव्य विनियोगार्थवत्वं शंकते । नन्विति दुरितं तावत् द्विविधं ज्ञानोत्पति प्रतिबंधकं ज्ञानोत्पतिं प्रत्युदासीनं सन् नरकादिप्रदं च तथा च नित्यानां ज्ञाने विनियोगाभावे नित्यकर्मभिज्ञानप्रतिबंधक दुरितस्यैव क्षय इत्यत्रमानं नास्ति धर्मेण पापमपनुदति । यज्ञोदानं तपश्चैव पावनानि मनीषिणां इत्यादि श्रुतिस्मृति वचनानां नित्यानां दुरितसामान्यक्षय हेतुत्वबोधनमात्रपरत्वादतो नियमेन ज्ञानप्रतिबंधक दुरितक्षय हेतुत्वं नित्यकर्मणामन्यतो न प्राममिति तत्प्राप्त्यर्थोयं विनियोग इत्यर्थः ।। प्. १३ब्) नित्यैरेव यज्ञादिभिर्दुरितक्षयद्वाराज्ञानं संपादयेदिति प्रकारेण विविदिषावाक्यीये नित्यानां ज्ञाने विनियोगे सति वा कथं ज्ञानप्रतिबंधक दुरितस्यैव क्षयोनित्यानुष्ठानतो लभ्यत इति पृछति । किं त्विति । तल्लाभप्रकारमाह । अस्मिन्निति अवश्यमिति । नित्यानुष्ठानात् ज्ञानप्रतिबंधक दुरित क्षपे सति प्रतिबंधक रहित महावाक्यादवश्यं ज्ञानं भवतीत्यर्थः । इतरथेति एतद्विनियोगाभावे इत्यर्थः । दुरितसामान्यक्षयरूपाशुद्धिर्भवति न तु नियमेन ज्ञानप्रतिबंधक दुरित क्षयरूपशुद्धिविशेषो भवति । ज्ञानो देशेन नित्यानामनुष्टानात् । तथा च बहुजन्मसु नित्यकर्मानुष्ठान शीलस्यापि नियमेन ज्ञानं न जायते किं तु दैव योगात् कदाचित् ज्ञानप्रतिबंधक दुरित संघस्य निःशेषं क्षयसंभवात् ज्ञानमपि कदाचित् भवतीत्यनियताज्ञानोत्पतिरित्यर्थः । ज्ञानापेक्षितोपकारो नित्येषु कॢप्त इति मनं निरालंबनमित्यभिप्रेत्यकाम्येष्विव नित्येष्वप्यकॢप्तोपकारकल्पनं तुल्यमिति दूषयति । तहीति नित्येषु ज्ञानोपकारकत्वनियमासिद्धावित्यर्थः ।। ज्ञानसाधनविशिष्टगुरुलाभश्रवणमननादि संपादकापूर्वं च द्वारं कल्पनीयमित्यकॢप्तोपकारकल्पनाविशेषान्न सामान्य प्. १४अ) श्रुत्या पादितो नित्यकाम्यसाधारणविनियोगो भंजनीय इति । नन्वेवमपि कथं कर्मणैव हि संसिद्धिमास्थिता जनकादय इत्यादिस्मरणनिर्वाहः । न च तस्य विद्यार्थकर्मनुष्ठान परत्वं विविदिषावाक्ये ब्राह्मण ग्रहणेन ब्राह्मणानामेव विद्यार्थकर्मण्यधिकार प्रतीतेः । अतो जनकाद्यनुष्ठित कर्मणां साक्षादेवमुक्त्युपयोगो वक्तव्यः मैवं विविदिषावाक्यै ब्राह्मण ग्रहणस्य त्रैवर्णिकोपलक्षणत्वात् ।। नन्वेवमपि नित्यानामेव विनियोग पक्षे विधेर्लाघवमस्ति तेषां पक्षे ज्ञानप्रतिबंधक दुरित निर्वहकत्वस्य वचनांतरात् प्राप्तत्वेन नियममात्रविधिलभ्यत्वात् । काम्येषु तु ज्ञानप्रतिबंधकदुरितनिवर्हकत्वं सर्वर्था न प्राप्तमिति काम्यानामपि विनियोगपक्षे विधेस्तात्पर्यगौरवमपरिहार्यमिति चेत् । सत्यं तथापि यज्ञादिश्रुतीनां संकोचलक्षणबाधपरिहारायकाम्यानामपि विनियोग आवश्यक इत्यत्रैव तात्पर्य बोध्यं नित्येभ्यो ज्ञानप्रतिबंधक दुरितस्यैव क्षयरूपशुद्धिविशेषलाभेपि तावन्मात्रात्न ज्ञानोत्पतिरस्ति प्रमाणप्रमेयासंभावनादिरूपदृष्टप्रतिबंधक सत्वादतः प्. १४ब्) तन्निरासोपयोगिनामुत्कृष्टगुरुतदधीनश्रवणमननध्यानादीनां संपादको दृष्टजनकत्वं नित्यानाम कॢप्तमेव विविदिषा वाक्यीय विनियोग बलात् कल्पनीयमित्याह । ज्ञानसाधनेति । एवं विविदिषाद्वाराविद्यायां कर्मणां विनियोगं निरूप्य तेषु त्रैवर्णिकानामधिकार इति निरूपणार्थमाक्षेप व्याजेन प्रसंगं दर्शयति । नन्वित्यादिना एवमपीति । तत्प्राप्तिहेतुर्विज्ञानं कर्मचोक्तं महामुन इति ज्ञानकर्मसमुच्चय प्रतिपादकस्मरणस्य विविदिषावाक्याविरोधेन ज्ञानं साक्षाद्ब्रह्मप्राप्तिसाधनं कर्म च विद्या द्वारातत्प्राप्ति साधनमिति क्रमसमुच्चय परतया निर्वाहैपीत्यर्थः । अत्रावधारणेन संसिद्धि शब्दितमुक्तिं प्रतिकर्मातिरिक्तोपायनिषेधात् । जनकाद्यनुष्ठित कर्मणां मुक्तिं प्रतिसाक्षादेवोपयोगः प्रतीयते । स च विविदिषावाक्यविरुद्ध इति समुच्चय स्मरणवदस्य स्मरणस्य निर्वाहो न सिध्यतीत्यर्थः । अस्यापि विविदिषा वाक्याविरुद्धं सिद्धांत्यभिमतमर्थमाशंक्यनिषेधति । न च तस्येति विद्यार्थेति । अस्मिन् स्मरणे संसिद्धिपदं विद्यापरं तथा च शुद्धिद्वाराकर्मणैव विद्यां प्राप्ता इति स्मरणार्थ इति भावः । तस्य स्मरणस्य विद्यार्थकर्मानुष्ठान परत्वं न चेत्यत्र हेतुमाह । विविदिषा वाक्य इति अत इति । विविदिषा वाक्य बोध्ये विद्यासाधनकर्मणित्रैवर्णिकानामनधिकारादित्यर्थः । उपलक्षण त्वादिति । तथा च भाष्यं ब्राह्मणग्रहणमुपलक्षणार्थं । प्. १५अ) अविशिष्टो ह्यधिकारः । त्रयाणां वर्णानामिति तथा च विद्यार्थ कर्मसुजनकादीनामप्यधिकारसत्वात् । कर्मणैव हीति स्मरणं विद्यार्थकर्मानुष्ठान परमेवेति न तद्बलात् । तमेव विदित्वाति मृत्युमेति । नान्यः यथा इत्यादि श्रुति विरुद्धः साक्षादेव कर्मणां मुक्त्युपयोगो वक्तव्य इति भावः ।। यथाहुरत्र भवंतो वार्तिककाराः ब्राह्मण ग्रहणं चात्र द्विजानामुपलक्षणं । अविशिष्टाधिकारित्वात् सर्वेषामात्मबोधन इति । न हि विद्याकामो यज्ञादी ननु तिष्ठेदिति विपरिणमते विद्याकामाधिकार विधौ ब्राह्मपदस्याधिकारि विशेषण समर्पकत्वं युज्यते । उद्देश्ये विशेषणायोगात् । नापि राजास्वाराज्य कामो राजसूयेन यजेतेति स्वाराज्यकामाधिकारे राजसूयविधौ स्वाराज्यकामो राजकर्तृकेण राजसूयेन यजेतेनिति कर्तृतया यागविशेषणत्वेन विधे यस्य राज्ञो राजकर्तृकराजसूयस्याराज्ञा संपादयितुमशक्यत्वादर्थादधिकारि कोटि निवेश वदिह यज्ञादि कर्तृतया विधेयस्य ब्राह्मणस्यार्थादधिकारि कोटिनिवेश इति युज्यते ।। प्. १५ब्) अत्र भवंत इति पूज्या इत्यर्थः । आत्मबोधन इति । आत्मबोधसाधन यज्ञादिकर्मणीत्यर्थः । विद्यार्थकर्माधिकारस्यैव प्रकृतत्वादिति मंतंतव्यं । ननु विविदिषा वाक्ये ब्राह्मण पदस्य त्रैवर्णिकौपलक्षणत्वे सिद्धे त्रयाणां वर्णानामविशेषेण विद्यार्थं कर्मस्वधिकारः सिध्यति । तत्र सर्वेषां अविशिष्टाधिकारत्वे सिद्धे तदनुरोधेने ब्राह्मण ग्रहणस्योपलक्षणत्वं सिध्यतीति परस्पराश्रयत्वप्रसंग इति वेन्न व्राणग्रहणस्य द्विजोपलक्षणत्वमनुपजीव्यैव सर्वेषां द्विजानां विद्यार्थकर्मस्वधिकार सिद्धेर्वार्तिकवनैन विवक्षितत्वात । ननु विविदिषा वाक्ये ब्राह्मण ग्रहणेन ब्राह्मणस्यैव विद्यार्थकर्मस्वधिकारे प्रतीयमाने कथं वर्णत्र साधारणाधिकारः सिध्येदिति चेतन्न वक्तव्यं किं ब्राह्मण पदस्य यज्ञादि विधावुद्देश्य विशेषणसमर्पकतया ब्राह्मणमात्राधिकारप्रापकत्वं किं वा विधेय कर्तृसमर्पकतया तदुभयसमर्पकत्वाभावेपि स्वसंनिधिमात्रेण तन्मात्राधिकार प्रापकत्वं वा गत्यंतराभावा तत्र नाद्य इत्याह । नहीति । यज्ञादीनां विद्यालक्षणफले विनियोगपरे विधौ विपाकामस्याधिकारः सिद्ध एव तथा च ब्राह्मण्य विशिष्टस्य विद्याकामस्याधिकारो विवक्षित इति स्वीकृत्य ब्राह्मपदस्याधिकारिविशेषण समर्पकत्वं वक्तुं न शक्यते विधेय यज्ञादि निरूपितोद्देश्यतायाः विद्याकाममात्रे पर्यवसान संभवेन ब्राह्मण्यरूपविशेषणस्यानाकांक्षिततया प्. १६अ) विद्याकामंष्वतिविशेषणत्वे नान्वयायोगात् । विशिष्टस्योद्देश्यत्वकल्पने गौरवाच्च विद्याकामब्राह्मण्ययोः प्रत्येकमुद्देश्यत्त्वे च वाक्यभेदप्रसंगात् । विद्याकामोपज्ञादीन तु तिष्ठेत ब्राह्मणो यज्ञादीननुतिष्ठेदितिभावः । द्वितीयं सदृष्टांतमाशंक्यनिरोति । नापीति । स्वाराज्यकामवाक्ये राजपदस्य पूर्वोक्तरीत्यास्वाराज्यकामप्रतिविशेषणत्वायोगात् । कर्तृविधायकत्वं स्वीकृत्यराजसूये राज्ञः सतः स्वाराज्यकामस्याधिकारः साधित इत्यर्थः । राज्ञोर्थादधिकारिकोटि निवेशवदिति संबंधः । अर्थादिति पदोक्तामर्थापतिं स्फुटयति । राजकर्तृकेति इहेति । विविदिषा वाक्य इत्यर्थः । विधे यस्येति । विद्याकामो ब्राह्मण कर्तृक यज्ञादीन ननु तिष्ठेत् इत्येवं विधे यस्येत्यर्थः । अर्थादिति ब्राह्मण कर्तृक यज्ञादेरब्राह्मणेन संपादयितुमशक्यत्वादित्यर्थः ।। सर्वथापित एवोभयलिंगादिति सूत्रेऽन्यत्रविहितानामेव यज्ञावीनां विविदिषा वाक्ये फलविशेषसंबंधविधिर्नापूर्वयज्ञादि विधिरिति व्यवस्थापितत्वेन प्राप्त यज्ञाद्यनुवादेनैकस्मिन्वाक्ये कर्तृरूपगुणविधिः फलसंबंधविधिश्चेत्युभयविधानात् वाक्यभेदापतेः । प्. १६ब्) नापि राजसूयवाक्ये राज्ञः कर्तृतया विधेयत्वाभावपक्षे राजपदसमभिव्याहारमात्राद्विशिष्टकर्तृत्वलाभवदिह वाक्याभेदायकर्तृतया ब्राह्मणाविधानेपि ब्राह्मणपद समभिव्याहारमात्रेण ब्राह्मकर्तृत्वलाभात् । तदधिकारपर्यवसानमित्युपपद्यते । अन्यत्र त्रैवर्णिकाधिकारकत्वेन कॢप्तानामिहापि त्रैवर्णिकारात्मविद्यार्थत्वेन विधीयमानानां यज्ञादीनां त्रैवर्णिकाधिकारित्वस्य युक्ततया विधिसंसर्गहीन ब्राह्मणपद समभिव्याहारमात्रादधिकारसंकोचासंभवेन ब्राह्मण पदस्य यथा प्राप्तविद्याधिकारिमात्रोपलक्षणौवित्यात् अर्थादधिकारिकोटिनिवेश इत्यपि न युज्यत इत्यत्र दृष्टांतवैषम्यमभिप्रेत्य हेतुमाह । सर्वथापीत्यादिना । यज्ञादीनामाश्रमकर्मत्वपक्षे विद्या सहकारित्व पक्षे च यावजीवादिवाक्येषु येग्निर्हेत्रादयोधर्माविहितास्त एवानुष्ठेयाः कुतः श्रुतिस्मृतिरूपो भयलिंगात् । श्रुतिस्तावद्विविदिषा वाक्य गत यज्ञादि श्रुतिरेवतया प्रसिद्धयज्ञादीनां प्रसिद्धदानादीनां प्. १७अ) च प्रत्यभिजिञायमानत्वादपूर्वयज्ञादिविधायकत्वे प्रत्यभिज्ञाविरोधात् । प्रसिद्धयज्ञाद्यनुवादेन फलसंबंधमात्र बोधने लाघवाच्च यज्ञादीनां स्रुवंत यज्ञादिपदोषातत्वेनात्रविधेयत्वा प्रतीतेश्च स्मृतिश्च अनाश्रताकर्मफलमित्याद्याप्रसिद्धयज्ञादीनामेव फलाभिसंधिविनानुष्ठितानां विद्या हेतुत्वं दर्शयतीति सूत्रार्थः । अन्यत्रेति । विविदिषावाक्यादन्यत्र कर्मकांड इत्यर्थः । उभयविधानादिति । राजसूयवाक्ये तु कर्त्रादिगुणविशिष्टस्यापूर्वकर्मण एव विध्युपगमान्न वाक्यभेदप्रसक्तिरिति तत्र राजपदस्य कर्तृ रूपगुणविधायकत्वं युक्तमितिभावः । तृतीयमपि सदृष्टांतमाशंक्यनिराकरोति । नापीति । राज्ञ इति राज्ञः कर्तृतया विधेयत्वाभावेपि राज्ञ एव राजसूयाधिकारः सिध्यति राजपदसंनिधानेन स्वाराज्यकामपदस्य क्षत्रिय परत्वावगमादन्यथा राजपदवैयर्थ्यप्रसंगादिति तात्पर्येण येषां मते राजः कर्तृतयाविधिर्नाभ्युपगम्यते तेषां पक्षे इत्यर्थः । ब्राह्मणाधिकारपर्यवसानमित्यपि नोपपद्यत इत्यत्र हेतुमाह । अन्यत्रेति । कर्मकांड इत्यर्थः । इहापीति । विविदिषावाक्येपि इत्यर्थः । त्रैवर्णिकाधिकारात्मविद्येति । ब्राह्मणे व क्षत्रियवैश्ययोरपि विद्यायामर्थित्वलक्षणाधिकाराविशेषात् । शूद्रस्येव विद्यार्थ यज्ञादिषु तयोः प्रतिषेधाभावाच्चेत्यर्थः । युक्ततयेति । अधिकारिणामसंकोचस्य विधिगतानष्टापकत्वलक्षणप्रामाण्योपपादकत्वादितिभावः । प्. १७ब्) अन्यत्र कॢप्तत्वाद्युपपति त्रय प्राप्तस्यापि क्षत्रिय वैश्ययोरधिकारस्य ब्राह्मणपदं अपवादकमित्याशंक्याह । विधिसंसर्गहीनेति उद्देश्यसमर्पकतया विधेयसमर्पकतया वा विधिवाक्यार्थान्वयबोधानुपयोगीत्यर्थः । राजसूयवाक्ये तु राजसूयस्यात्रैव विधेयत्वेन त्रैवर्णिकाधिकारिकत्वेनान्यत्रा कॢप्तत्वाद्युक्तं विविसंसर्गहीन राजपदसमभिव्याहारमात्राद्राजकर्तृनियम इति भावः । ननूक्त न्यायेन ब्राह्मणपदाभावेपि क्षत्रिय वैश्ययोरिव ब्राह्मणस्यापि विद्यार्थकर्मस्वधिकार सिद्धेः । ब्राह्मण ग्रहणं व्यर्थमेव स्यादिति चेन्न विद्यार्थ कर्मसु ब्राह्मणस्य मुख्याधिकार ज्ञापनार्थतोपपतेः वैयर्थ्यानवकाणादिति भावः ।। ननु विद्याधिकारिमात्रोपलक्षणत्वे शूद्रस्यापि विद्यायामर्थित्वादि संभवेन तस्यापि विद्यार्थकर्माधिकार प्रसंग इति चेन्न । अध्ययन ग्रहीतस्वाध्यायजन्य तदर्थज्ञानवत एव वैदिकेष्वधिकार इत्यपशूद्राधिकरणे अध्ययनवेदवाक्य श्रवणादि विधुरस्य शूद्रस्य विद्याधिकार निषेधात् । न शूद्रायमतिं दद्यादिति स्मृतेरापा ततोपि तस्य विद्यां महिमा प्. १८अ) ऽवगत्युपाया संभवेन तदर्थित्वानुपपतेश्च तस्य विद्यायामनधिकारादिति केचित् अन्ये त्वाहुः शूद्रस्याप्यस्त्येव विद्यार्थकर्माधिकारः तस्य वेदानुवचनाऽग्निहोत्राद्यसंभवेपि कंठोक्त सर्ववर्णाधिकार श्रीपंचाक्षरमंत्रराजविद्यादि जप पापक्षय हेतुतपोदानपाक यज्ञादि संभवात् । वेदानुवचनेन यज्ञेन दानेनेत्यादि पृथक्करणविभक्तिश्रुतेर्विधुरादीनां विर्थंपदानादि मात्रानुष्ठानानुमतेश्च वेदानुवचनादि समुच्चयान पेक्षणात् ।। ब्राह्मणग्रहणस्योपलक्षणत्वपक्षेति प्रसंगं शंकते । नन्विति । अविधेयायां हि विद्यायामधिकारो नामविद्यार्थित्वमात्रं तच्च शूद्रस्यापि संभवतीति क्षत्रियादेरिव तस्यापि विद्यार्थकर्मस्वधिकारो दुर्निवारा इत्यर्थः । शूद्रस्य शुत्युक्त सगुणब्रह्मविद्यासुनिर्गुणब्रह्मविद्यासाधन वेदांतश्रवणादिषु चाधिकारमाशंक्यनास्त्यध्कार इति निर्णीतमपशूद्राधिकरणे तस्याधिकाराभावे च भाष्ये हेतुरुपन्यस्तः वेदाध्ययनाभावादिति शूद्रस्य वेदोच्चारणश्रवणसाधारण निषेधेन वेदाध्ययनाभावेपि वेदार्थभूतोपासनाद्यनुष्ठानं किं नस्यादित्याशंक्य अध्ययन विधिनावेदजन्यवेदार्थ ज्ञानस्य प्. १८ब्) वेदार्थानुष्ठानेषु नियमितत्वादध्ययन शून्यस्य तदभावात् न सगुणनिर्गुणविद्यानुष्ठानेष्वधिकार इत्युक्तं । तर्था च तुल्यार्थतया विद्यार्थकर्मस्वप्यधिकारो नास्तीत्यर्थः । ननु शूद्रस्य वेदोक्तयज्ञादिष्वधिकारा भावेपि वक्ष्यमाणरीत्या तस्य विद्यासाधनकर्मणां संभवाद्विद्याकामनया शूद्रूस्यापि तेषामनुष्ठानं संभवतीत्याशंक्य तस्य विद्या कामनैव न संभवतीत्याह । न शूद्रायेति । मतिं शास्त्रार्थज्ञानं विद्यामहिमानिरतिशयानंदरू ब्रह्मप्राप्तिसाधनत्वं शूद्रस्यापि विद्यार्थकर्माधिकार प्रसंग इत्यर्त्र इष्टापतिरित्याह । अन्ये त्विति । कंठत उक्तः सर्ववर्णाधिकारो यस्मिन् तादृश विद्यादि जपे स तथोक्तः श्रीमत्पंचाक्षरमेव मंत्रराजविद्या आदिपदं च आगमिकपौराणिकमंत्रांतरसंग्रहार्थं तथा च ब्रह्मोतरखंडे किं तस्य बहुभिर्मंत्रैः किं तीर्थैः किं तपोध्वरैः यस्यों नमः शिवायेति मंत्रो हृदयगोचरः मंत्राअधिराजराजो यः सर्ववेदांतशेखरः सर्वज्ञाननिधानं च सोयं शैव षडक्षरः प्रणवेन निनामंत्रः सोयं पंचाक्षर स्मृतः स्त्रीभिः शूद्रैश्च संकीर्णै धीर्यते मुक्तिकांक्षिभिरिति । पाकयज्ञादीत्यादिपदं द्विजशुश्रुषानामकीर्तनतीर्थस्नानदिसंग्रहार्थं । ननु विविदिषा वाक्ये शूद्रसाधारणवर्णधर्माणामुपलक्षणेपि यज्ञादीनामेक वाक्योपादानातेषां समुच्चयस्य विद्यासाधनत्वं भाति यज्ञादिषु समुच्चयश्च शूद्रे वाधित इति कथं तस्य विद्यार्थ कर्माधिका इत्याशंक्यहेत्वसिध्या दूषयति । वेदानुवचनेनेति । वेदानुवचनेन विविदिषंति प्. १९अ) यज्ञेन विविदिषंतीत्यादिरूपेणप्रत्येकं साधनत्व प्रतीतेः न समुच्चयापेक्षा तद्विवक्षायां हि वेदानुवचनयज्ञदानतपोभिर्विविदिषंतीति वाक्यं स्यात् पृथक्करणविभक्ति प्रवणेपि वेदानुवचनेन यज्ञेन च दानेन च तपसा चेति प्रतिपदार्थं चकारयुक्तं वा वाक्यं स्यात् यदग्नये च प्रजापतये चेत्यादि वदिति भावः न च शूद्रस्य विद्यायामर्थित्वासंभवः श्रावयेच्चतुरो वर्णात् । कृत्वा ब्राह्मणमग्रत इत्यादीतिहासपुराणश्रवणे चातुर्वर्ण्याधिकारस्मरणेन पुराणाद्यवगत विद्या माहात्म्यस्य तस्यापि विद्यार्थित्वसंभवात् । न शूद्रायमतिं दद्यादिति स्मृतेश्च तदनुष्ठानानुपयोग्यग्निहोत्रादिकर्मज्ञाननिषेधपरत्वात् । अन्यथा तस्य स्ववर्णधर्मस्याप्यवगत्युपायासंभवै न शूद्रः चतुर्थो वर्ण एकजातिस्तस्यापि सत्यमक्रोधः शौचमाचमनार्थे पाणिपादप्रक्षालनमेवैकं श्राद्धकर्मभृत्यभरणं स्वदार तुष्टिः परिचर्याचोतरेषामित्यादि तद्धर्मविभाजकवचनानामननुष्ठानलक्षणाप्रामाण्यापतेः । न चैवं सत्यपशूद्राधिकरणस्य प्. १९ब्) निर्विषयत्वं तस्य न शूद्रे पातकं किंचिन्न च संस्कारमर्हतीति स्मृतेर्गुरूपदनाख्य विद्यांगोपनयनसंस्कारविधुरस्य शूद्रस्य सगुणविद्यासुनिर्गुणविद्यासाधन वेदांतश्रवणादिषु चाधिकारनिषेधपरत्वात् ।। यत्वापाततो विद्यामहिमावगत्युपाया संभवेन विद्यायामर्थित्वलक्षणाधिकारानुपपतिरिति । तदनूद्यनिराकरोति । न च शूद्रस्येति श्रावयेदिति ब्राह्मण इति शेषः । यदा क्षत्रियादी न श्रावयेत् तदा विशेषमाह । कृत्येति । पुराणादिभिः साधनभूतैरवगतं विद्यामाहात्म्यं येन शूद्रेण स तथा तस्येत्यर्थः । मति निषेधवचनस्य संकोचं दर्शयति । न शूद्रायेति अन्यथेति । शास्त्रार्थज्ञानमात्रदाननिषेधपरत्व इत्यर्थः । शूद्रस्य स्वतः पुराणादि पठननिषेधादन्येभ्योपि पुराणादिश्रवणाभावे स्वधर्मावगतिर्न संभवतीत्यर्थः । इष्टापतिमाशंक्याह । शूद्रश्चतुर्थो वर्ण इत्यादिना । जातिर्जन्म उपनयनाख्य द्वितीयजन्मशून्य इत्यर्थः । प्रक्षालनमेवेति नत्वपांप्राशनमंगस्पर्शनादिकं वेत्येवकारार्थः । उत्तरेषामिति । द्विजानामित्यर्थः । न शूद्रायमति दंद्यादिति स्मृतेः शास्त्रार्थज्ञानमात्रदाननिषेधपरत्वेपि वृद्धौ च मातापितरौ भार्यासाध्वीसुतः शिशुः अप्यकार्यं शतं कृत्वा भर्तव्यामतुर प्. २०अ) ब्रवीदित्यादिवचनदर्शनेन ये ब्राह्मणा उक्तलक्षणमात्रादि संरक्षणोपयोग्यर्थे लाभाय शूद्रान् प्रतिपुराणादि पठने प्रवर्तंते तेभ्यो विद्यामाहात्म्य स्वधर्मयोरवगतिसंभवात् न काप्यनुपपतिरिति मंतव्यं । न चैवमिति । शूद्रस्यापि विद्यार्थकर्माधिकार स्वीकार इत्यर्थः । निर्विषयत्वमिति । तदधिकरणस्य शूद्राधिकार निषेधपरत्वादितिभावः । सत्यं तदधिकरणं शूद्राधिकार निषेधपरं किंतु विद्यार्थ कर्माधिकार निषेधपरं न भवति । वेदांतश्रवणाधिकारनिषेधपरत्वा तस्येति परिहरति । तस्य न शूद्र इत्याअदिना । वेदांतश्रवण सगुणोपासनेषु अधिकाराभावे हेतुगर्भविशेषणमाह । गुरूपसदनाख्येति । शूद्रस्य संस्कारशून्यत्वेमानमाह । न शूद्र इति । पातकमिति । अभक्ष्यभक्षणादिकृतमित्यर्थः । अध्ययनांगोपनयनलक्षणः विद्यांगोपनयनलक्षणश्च द्विविधमपि संस्कारं निषेधति । न च संस्कार मर्हतीति । शिष्यत्वेन स्वीकृत्य समीपे स्थापनरूपं विद्यांगोपनयनमाचार्यकर्तृकं तच्च शिष्यकर्तृकगुरूपसदनपूर्वकत्वात् । गुरूपसदनाख्यमित्युक्तं गुरूपसदनं च तद्विज्ञानार्थं स गुरुमेवाभिगछेदित्यादिना विद्यांगत्वेमविहितं तथातंहोपनिन्ये इत्यादि श्रुत्या विद्यांगत्वेनोपनयनं च प्रतीयत इति भावः । तं विद्यार्थिनं गुरुरुपनीतवानित्यर्थः ।। निर्गुणविद्यायां शूद्रस्यापि विषयसौंदर्य प्. २०ब्) प्रयुक्तस्यार्थित्वस्य निषेद्धुमशक्यत्वात् । अविधेयायां च तस्यां तदतिरिक्ताधिकारा प्रसक्त्या तन्निषेधायोगाच्च । न च तस्य वेदांतश्रवणासंभवे विद्यार्थकर्मानुष्ठान संभवेपि विद्यानुत्पतें तस्य तदर्थ कर्मानुष्ठानं व्यर्थमिति वाच्यं । तस्य वेदांतश्रवणाधिकाराभावेपि भगवत्पादैः । श्रावयेच्चतुरो वर्णानिति चेतिहासपुराणाधिगमे चातुर्वण्याधिकार स्मरणाद्वेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितमित्यपशूद्राधिकरण उपसंहारभाष्ये ब्रह्मात्मैक्य परपुराणादि श्रवणे विद्यासाधनेधिकारस्य दर्शितत्वात् ।। ननु श्रुत्युक्त सगुणोपासनेष्विव निर्गुणविद्यासाधनवेदांतश्रवणादिष्विव च निर्गुणविद्यायामप्यधिकारनिषेधपरमपशूद्राधिकरणं किं न स्याद्विनिगमकाभावा तथा च निर्गुणविद्यायामधिकाराभावे तत्साधनकर्मसुशूद्राधिकारो न सिध्येदित्यत आह । निर्गुण विद्यायामिति । ब्रह्मविद्यालक्षणस्य विषयस्य सौंदर्यं मुक्तिसाधनत्वं तद्ज्ञानप्रयुक्तस्य विद्यायामर्थित्वलक्षणाधिकारस्य तदधिकरण न्याये प्. २१अ) ननिषेद्धुमशक्यत्वादित्यर्थः । ननु शूद्रस्य विद्यायामर्थित्वलक्षणाधिकार सत्वेपि तदतिरिक्तस्य अधीतवेदत्वादिरूपविशेषणांतरस्याभावात् । कथं तस्याधिकारो विद्यायामित्यत आह । अविधेयायामिति । च शब्दः शंका निरासार्थः । तदतिरिक्तेति अर्थित्वाति रिक्तेत्यर्थः । स्वर्गानुभववत् ब्रह्मानंदानुभवरूपाया निर्गुणविद्यायाः फलरूपत्वादविधेयत्वं फलस्याविधेयत्वा तथा च यथा स्वर्गानुभवादीं फले तदर्थित्वमात्रमधिकारस्तथा निर्गुणविद्यायामपि तदर्थित्वमात्रमेवाधिकारः स च निषेद्धुमशक्यः विधेयेष्वेवोपासनादिषु पूर्वोक्ताधिकारि विशेषणांतरापेक्षा शास्त्रे निरूपितेति विषमो दृष्टांत इति भावः । असंभव इति । अपशूद्राधिकरण न्यायेन तदसंभवे सतीत्यर्थः । तस्य वेदांतश्रवणासंभवेपि ब्रह्मात्मैक्य परपुराणादिश्रवणाधिकारस्य भाष्ये दर्शितत्वात् शूद्रस्यापि संभवति विद्योत्पतिरित्यर्थः भाष्ये तु शब्दोवधारणार्थः । श्रावयेच्चतुरो वर्णानिति वचनेन शूद्रस्य पुराणादिश्रवणाभ्यनुज्ञानेपि मनननिदिध्यासनयोरभ्यनुज्ञानाभावात् । नमननाद्यनुष्ठानं तस्य सिध्यति । न च मननादेः श्रवणांगत्वात् न पृथगभ्यनुज्ञानापेक्षेति वाच्यं । प्रयाजदर्शपूर्णमासादेरिव प्रकृते शेषशेषिभावबोधक प्रमाणाभावेन श्रवणादिष्वंगांगिभावव्यवहारस्य गौणत्वात् । तथा च शूद्रस्याद्वैतपरपुराणादिभागश्रवणे कृतेपि विद्योदया संभवात् । विद्यार्थकर्मानुष्ठान वैयर्थ्ये प्. २१अ) तदवस्थमेवेत्यैस्वरसादाह । विद्योत्पति योग्येति । यद्वा इतिहासपुराणाभ्यां वेदं समुपवृंहयेदिति वचनादितिहासादि गत ब्रह्मात्मैक्य परभागस्य वेदांतश्रवणाज्जनित वेदांतार्थज्ञानोपकारकत्वमात्रमेव न तु वेदांतश्रवणमनपेक्ष्यस्वातंत्र्येण ब्रह्मात्मैक्यज्ञानजनकत्वमिति निश्चीयते । तथा सत्येव तद्वचनपूर्वार्धं संगछते विभेत्यल्पश्रुताद्वेदो मामयं प्रतरेदितीति । अयमर्थः अल्पं वेदमात्रं श्रुतं विचारितं येन पुरुषेण सोल्पश्रुतः ।। विद्योत्पति योग्यविमलदेवशरीरनिष्पादनद्वारा मुक्त्यर्थं भविष्यतीति त्रैवर्णिकानां क्रममुक्तिफलक स गुणविद्यार्थ कर्मानुष्ठानवत् वेदांतश्रवणयोग्य त्रैवर्णिकशरीरनिष्पादनद्वारा विद्योत्पत्यर्थत्वं भविष्यतीति शूद्रस्य विद्यार्थ कर्मानुष्ठानाविरोधाच्च तस्माद्विविदिषा वाक्ये ब्राह्मण पदस्य यथा प्राप्तविद्याधिकारि मात्रोपलक्षणत्वेन शूद्रस्यापि विद्यार्थ कर्माधिकारः सिद्ध्यत्येवेति । ननु अस्तु कर्मणां चित्तशुद्धिद्वाराविद्योपयोगः संन्यासस्य किं द्वारातदुपयोगः केचिदाहुः विद्योत्पतिप्रतिबंधक दुरिता प्. २२अ) नामनंतत्वात किं विद्यज्ञाद्यनुष्ठान निवर्त्यं किंचित् संन्यासापूर्वनिवर्त्यमिति कर्मवच्चितशुद्धिद्वारैव संन्यासस्यापि तदुपयोगः तस्मात् पुरुषा तेन श्रुतो वेदो विभेति । कथंति भेति तत्राह मासिति । अयमल्पश्रुतः पुरुषः मांश्रुतं वेदं प्रतरेत् । मद्विचाररूपायां मीमांसायां न्यायाभासत्वादि शंकया मामप्यर्थांतर परं संभावयेत् । इति शब्दो हेत्वर्थः । एवं प्रतारणसंभवाद्धेतोः इतिहासपुराणाभ्यां वेदं संम्यगुपवृंहयेत् । इतिहासपुराणवचनैर्मीमांसानुसारिभिः । तस्यां दृढन्यायत्वनिश्चयसंपादन द्वारा मीमांसानिर्णीतार्थपवमां वेदं स्थापयेदिति । तथा च शूद्रस्य वेदांतश्रवणरहितस्य वेदांतार्थोपवृहणरूपब्रह्मात्मैक्यपरे इतिहासादिश्रवणे प्रवजावपि नास्ति विद्योदयः श्रावयेच्चतुरो वर्णानिति वचनमपि शूद्रस्याद्वैतपरपुराणादि श्रवणांशे अदृष्टार्थमभ्युनुज्ञापरं अपशुद्राधिकरणभाष्येपि शूद्रस्याद्वैतपुराणस्रवणादि वर्णनं विभेत्यल्पश्रुतादिति वचनं नास्तीति कृत्वाकृतमिति न भाष्यविरोधापि तथा च वेदांतश्रवणैक साध्या विद्यात् तदभावे शूद्रस्य न सिध्यदैवेत्यस्वरसादाह । विद्योत्पति योग्येति मुक्त्यर्थमिति सुगुणब्रह्मोपासनमितिशेषः । विद्योत्यर्थत्वमिति शूद्रस्य मदनुष्ठितद्यर्माण्यं विद्योत्पत्यर्थत्वं भविष्यनीति प्. २२ब्) निश्चयेन तदनुष्ठानसंभवादित्यर्थः । तस्मादिति । शूद्रस्य विद्यार्थकर्मानुष्ठाने बाधकाभावादित्यर्थः । विद्याधिकारिमात्रेति । न तु ब्राह्मण पदस्य ब्राह्मणमात्रपरत्वं न वा त्रैवर्णिकमात्रपरत्वमिति मात्रशब्दार्थः ब्राह्मण पदस्य द्विजोपलक्षणत्वे वार्तिक वचने यो हेतुरुक्तः त्रयाणामात्मबोधनसाधनकर्मस्वधिकाराविशेषादिति तस्य हेतोः शूद्रसाधारणत्वादितिभावः । किं द्वारेति । किमदृष्टद्वाराविद्योपयोगः किं वा दृष्टद्वारानाद्यः विद्योत्पति प्रतिबंधक दुरितस्य यज्ञाद्यनुष्ठान जनिता पूर्वेणैव निवर्तितत्वेन संन्यास जनिता पूर्वनिवर्त्यदुरितालाभे सति संन्यास वैयर्थ्यप्रसंगात् । न द्वितीयः । तदनुपलंभादित्याक्षेपाभिप्रायः । तत्राद्यं पक्षं समर्थयते । केचिदाहुरिति । ननु संन्यासापूर्वस्य न विद्योदय हेतुत्वं असंन्यासिनामपि केषांचिद्विद्व्योद्देशेन श्रवणाद्यनुष्ठान दर्शनात् । केषांचित् संन्यासं विनैव विद्योदयस्य प्रमाणसिद्धत्वाच्चेत्यत आह ।। तथा च गृहस्थादीनां कर्मछिद्रेषु श्रवणाद्यनुतिष्ठतां न तस्मिन् जन्मनि विद्यावाप्तिः किं तु जन्मांतरे संन्यासंलब्धैव येषां तु गृहस्थानामेव सतांजनकादीनां विद्यादृश्यते तेषां पूर्वजन्मनि संन्यासाद्विद्यावाप्तिः प्. २३अ) अतो न विद्यायाः संन्यासापूर्वव्यभिचारशंकापीति । अन्ये तु शांतोदांत उपरत इत्यादि श्रुतौ उपरतशब्दगृहीततया संन्यासस्य साधनचतुष्टयांतर्गतत्वात् । सहकार्यांतरविधिरिति सूत्रभाष्ये तद्वतो विद्यावतः संन्यासिनो बाल्यपांडित्यापेक्षया तृतीयमिदं मौनं विधीयते । तस्माद्ब्राह्मणः पांडित्यमित्यादि श्रुतौ । ततः प्राक् भिक्षाचर्यं चरंतीति संन्यासाधिकारादिति प्रतिपादनात् ।। तथा चेति संन्यासस्य विद्यां प्रतिदृष्टद्वारानुपलंभेनादृष्ट द्वारैव विद्या वाप्ति हेतुत्वे संन्यासविधिना सिद्धे सतीत्यर्थः । न च दृष्टद्वारानुपलंभो सिद्धः लौकिक वैदिक व्यापार विक्षिप्त चितस्य विद्योदया संभवेन सर्वकर्मसंन्यासस्य विक्षेपनिवृतिरूप दृष्टद्वाराविद्याहेतुत्वसंभवादिति वाच्यं । लौकिक वैदिक कर्मवतामपि केषांचित् पुरुषधौरे याणां दैन्यहर्ष क्रोधभयादिलक्षणविक्षेपनिवृतेरनुभवसिद्धत्वेन तदर्थंसे न्यासा न पेक्षणादितिभावः । संन्यासस्यादृष्टद्वारकत्वपक्षमेवावलंव्य संन्यासा पूर्वस्य श्रवणाद्यधिकारि विशेषणत्वेन विद्योपयोगं सप्रमाणमाह । अन्येतिति शांत इति । तितिक्षुः समाहितः प्. २३ब्) श्रद्धावितो भूत्वात्मन्येवात्मानं पश्येदिति श्रुतिशेषः शमः अंतरिंद्रियनिग्रहःदमो बाह्येंद्रिय निग्रहः उपरतिर्नित्यकर्मत्यागः । ननु शांतदांतपदाभ्यामेव कर्ममात्रस्य वारितत्वादुपरति श्रुतिर्व्यर्थेति चेन्नशमदम विधिशास्त्रस्य सामान्यशास्त्रत्वात् । तस्य नित्यकर्मविधिना विशेषशास्त्रेण नित्यनैमितिककर्मव्यतिरिक्त बाह्यांतःकरणव्यापारनिवृतिमात्र परतया संकोचे सति नित्यकर्मत्यागा लाभात् । पुनरुपरति श्रुत्यानित्यकर्मत्यागो बोध्यत इति न तस्य वैयर्थ्यं तितिक्षुः शीतोष्णादि द्वंद्व सहिष्णुः समाहितः श्रवणाद्यपेक्षित चित समाधानवान् देवता गुरुवेदांतेषु श्रद्धैववितं यस्य सः श्रद्धावितो भूत्वेत्यस्य प्रत्येकमन्वयः आत्मन्येवकार्यकारणसंघात एसंघात एव संघातसाक्षिणमात्मानमहं ब्रह्मास्मीति पश्येदिति श्रुत्यर्थः । साधनचतुष्टयेति नित्यानित्यवस्तुविवेकः ऐहिकामुष्मिकभोगविरागः शमादिषऽऽन्कं मुमुक्षा चेति साधनचतुष्टयं तच्च श्रवणाद्यधिकारिविशेषणमिति व्यवस्थापितं प्रथमसूत्र इति भावः संन्यासा पूर्वस्याधिकारिविशेषणत्वे हेत्वंतरमाह । सहकार्यतरेत्यादिना प्रतिपादनादित्यंतेन सह कार्यंतरस्य विद्यां प्रतिसाधनांतरस्य मौनस्य विधिरथ मुनिरिति शब्द इति सूत्रभागार्थः । सौत्र पदं तद्वत इति तस्य व्याख्यानं विद्यावत इति श्रवणाद्यनुष्ठानोपयोग्यापात प्. २४अ) ज्ञानवत इत्यर्थः । तद्वतः सह कार्यंतर विधिरिति सूत्रे संन्यासिन इति कथं लभ्यते तत्राह । तस्मादिति । तस्मादित्यपि श्रुति पदमेव यस्मादतीताः ब्राह्मणाः आपाततो ब्रह्मात्मानं विदित्वा तत्वसाक्षात्कारार्थं व्युत्थान शब्दितं संन्यासं कृत चेतः तस्मादिदानीं तनोपि ब्राह्मणो मुमुक्षुः संन्यस्य पांडित्यादिकं तत्वसाक्षात्कारार्थमनुतिष्वेदिति श्रुत्यर्थः । पांडित्यं श्रवणं मौनं ध्यानं तत इति तस्माद्ब्राह्मण इति वाक्यात् पूर्वमित्यर्थः ।। त्यक्ताशेष क्रियस्यैव संसारं प्रजिहासतः जिज्ञासोरेव चैकात्म्यंत्रप्यंतेष्वधिकारितेति वार्तिकोक्तेश्च संन्यासापूर्वस्य विद्यासाधन वेदांतश्रवणाद्यधिकारि विशेषणत्वमिति तस्य विद्योपयोगमाहुः । अपरे तु श्रवणाद्यंगतयात्मज्ञानफलता संन्यासस्य सिद्धेति विवरणोक्तेरनन्यव्याअपारतया श्रवणादिनिष्पादनं कुर्वतस्तस्य विद्यायामुपयोगः । दृष्टद्वारे संभवत्य दृष्टकल्पनायोगात् । यदित्वनलसस्य धीमतः पुरुषधौरेयस्याश्रमांतरस्थस्यापि प्. २४ब्) कर्मछिद्रेषु श्रवणादिसंपद्यते ।। संन्यासापूर्वस्याधिकारि विशेषणत्वे वार्तिक संमतिरूप हेत्वंतरमाह । त्यक्तेति । वार्तिके प्रथमविशेषणं संन्यासपरं ततश्च संन्यासमुमुक्षा जिज्ञासानां समुच्चयार्थेन च कारेण मुमुक्षुत्वादेरिव संन्यासस्यापि वेदांतश्रवणादिष्वधिकारि विशेषणत्वं भातीतिभावः । संन्यासापूर्वस्येति । संन्यासस्य त्यागलक्षण क्रियारूपेणानुवृत्ययोगादपूर्वपर्यंत धावनमिति । संन्यासस्य दृष्टद्वाराविद्योपप्योग इति द्वितीयं पक्षं समर्थयते । अपरे त्विति । ननु संन्यासस्य विद्यांगत्वबोधक श्रुत्यादि वृतस्य श्रवणाद्यंगत्वबोधकप्रमाणाभावाद्विवरणोक्तिरयुक्तेत्याशंक्य तस्यास्तात्पर्यमाह । अनन्य व्यापार तयेति कादाचित्कं श्रवणादिकं विद्योदयद्वारानामृतत्वसाधनं किंतु सार्वकालिकं ब्रह्मसंस्थो मृतत्वमेति । आसुप्तेरामृतेः कालं नयेद्वेदांतचिंतयेत्यादि श्रुतिस्मृति शतेभ्यः तथा चानन्यव्यापारतयाश्रवणाद्यनुष्ठानं विदधताशास्त्रेण संन्यासोपेक्ष्यते गृहस्थादेः स्वाश्रमविहितकर्मव्यग्रस्य सदा श्रवणाद्यनुष्ठानासंभवात् । तथा विद्यासाधनत्वेन संन्यासं विदधतापि शास्त्रेण द्वारतया निरंतरश्रवणाद्यनुष्ठानमपेक्ष्यते संन्यासस्य साक्षाद्विद्यासाधनत्वाभावात् । दृष्टद्वारसंभवे अदृष्टद्वारकल्पनानुपपतेश्च । तत्रापि श्रवणादिकं प्. २५अ) तत्वव्यंजकत्वादर्थतः । प्रधानं भवति संन्यासस्तूक्त हेत्वभावाद्गणभूत तया व्यवतिष्ठते एवं श्रवणादि विधेः संन्यासविधेश्च परस्परापेक्षाबलादेक वाक्यभावमापन्नाभ्यां विधिभ्यां संन्यासांगकं मनननिदिध्यासन सहितं श्रवणं विधीयत इति सिद्धासंन्यासस्य श्रवणाद्यंगतया आत्मज्ञानफलकतेति भावः । यद्वा विवरणोक्तेरयंभावः श्रवणविधिस्तावत् श्रवणसाधनतया विक्षेप निवृतिं तद्धेतु संन्यासं चापेक्षते विक्षिप्तस्य चेतसः श्रवणाद्यनुष्ठाने प्रवृत्यसंभवात् । गृहस्थादेश्च स्वाश्रमकर्मकरणकालातिरिक्तकालेपि बहुविषयतयाविक्षेपावश्यं भावात् । संन्यासविधेरपि विक्षेपनिवृतिरूपदृष्टद्वाराश्रवणादिकं घटयित्वाविद्यां संपादयतः संन्यासस्य विधानेन चारितार्थ्यसंभवे अदृष्टद्वाराविद्यासाधनसंन्यासविधायकत्वा संभवात् । तथा च पूर्ववत् संन्यासस्य श्रवणाद्यंगतयैव विद्याफलकत्वं न त्वदृष्टद्वारेति सिद्धमित्यस्मिन् व्याख्याने अनन्यव्यापारतयेत्यस्य विक्षेपनिवृति द्वारेत्यर्थो विवक्षितः तस्येति संन्यासस्येत्यर्थः । ननु संन्यासस्य विक्षेपनिवृतिद्वारा श्रवणाद्यंगभावमापन्नस्य विद्यासाधनत्वमुक्तमनुपपन्नं संन्यासं विनापि विक्षेपनिवृतिः केषुचित् श्रवणाधिकारिषु संभवादिति शंकते यदि त्विति । अनलसस्येति । सत्त्वगुणप्रधानस्येति यावत् । धीमत इति विषयेषु दोषदर्शनशीलस्येति यावत् । पुरुषधौरे यस्येति विषयेभ्यः सकाशादिंद्रियाणां निग्रहे समर्थस्येत्यर्थः ।। तदा चतुर्ष्वाश्रमेषु संन्यासाश्रमपरिग्रहेणैव श्रवणादि निवर्ततीयमिति नियमोभ्युपेय इति । नन्वस्मिन् पक्षद्वये क्षत्रियवैस्ययोः कथं वेदांतश्रवणाद्यनुष्ठानं संन्यासस्य ब्राह्मणाधिकारत्वात् । ब्राह्मणो निर्वेदमायात् ब्राह्मणोव्युत्थाय ब्राह्मणः प्रव्रजेदिति संन्यासविधिषु ब्राह्मणग्रहणात् । अधिकारि विशेषस्य ज्ञानाय ब्राह्मण ग्रहः न संन्यासविधिर्यस्मात् श्रुतौ क्षत्रियवैश्ययोरिति वार्तिकोक्तेश्चेति चेत् । अत्र केचिद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्ग्रहाद्वाचनाद्वेत्यविशेषश्रुत्याब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद् ग्रहात् । त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमा इति स्मृत्यनुगृहीतया क्षत्रियवैश्ययोरपि संन्यासाधिकारसिद्धेः श्रुत्यंतरेषु ब्राह्मणग्रहणं श्रयाणामुपलक्षणं । अत एव वार्तिकेप्यधिकारिविशेषस्येति श्लोकेन भाष्याभिप्रायमुक्त्वात्रयाणामविशेषेण संन्यासः । श्रूयते श्रुतौ यदोपलक्षणार्थं स्याद्ब्राह्मण ग्रहणं तदेत्यनंतरश्लोकेन स्वमते क्षत्रियवैश्ययोरपि संन्यासाधिकारो दर्शित प्. २६अ) इति तयोः श्रवणाद्यनुष्ठानसिद्धिं समर्थयंते । अन्ये त्वनेकेषु संन्यासविधिवाक्येषु ब्राह्मणग्रहणादुदाहृतजावाल शुर्तौ संन्यासविधिवाक्ये ब्राह्मण ग्रहणाभावेपि श्रुत्यंतरसिद्ध ब्राह्मणाधिकारमेव सिद्धं कृत्वा संन्यासावस्थायामयज्ञोपवीती कथं ब्राह्मण इति ब्राह्मपरामर्शाच्च ब्राह्मणस्यैव संन्यासाधिकारः ।। एतैर्विशेषणैर्विक्षेप हेतूनामभावसूचनात् । विक्षेपनिवृतिरुक्ता संन्यासफलस्य विक्षेपाभावस्य संन्यासादिव संन्यासादन्यतोपि प्राप्तौ संन्यासस्य विधित्सितस्य श्रवणाद्यपेक्षितविक्षेप निवृतिं प्रतिपक्षे प्राप्तिः पक्षे चाप्राप्तिरिति लभ्यते । तथा च माभूत् संन्यासाश्रमविधिरपूर्वविधिः नियमविधिस्तु भवे देवेति समायते । तदेति परिग्रहेणैवेति । विक्षेप निवृति द्वारेति शेषः नन्वस्मिन् पक्षद्वय इति । संन्यासस्याधिकारिविशेषणत्वपक्षे श्रवणांगत्वपक्षे चेत्यर्थः । कथमिति । संन्यासाभावादिति भावः । तयोः संन्यासाभावे हेतुमाह । संन्यासस्येति । ब्राह्मणस्यै संन्यासाधिकारे मानमाह । ब्राह्मण इति निर्वेदं वैराग्यं तत्पूर्वक संन्यासं न्यासं कुर्यादित्यर्थः निर्वेदशब्दितवैराग्यस्य संप्रतिसामग्रीत्वेन तस्मिन सति संन्यासस्यावश्यकत्वात् । संन्यासविधिरेवायमितिभावः । प्. २६ब्) व्युत्थायेति संन्यस्येत्यर्थः । यस्माछ्रुतावधिकरिविशेषस्य ज्ञानाय ब्राह्मणग्रहः । तस्मात् क्षत्रियं वेश्ययोः संन्यासविधिर्नास्तीति वार्तिकयोजना । अत्र केचित् तयो श्रवणाद्यनुष्ठानसिद्धिं समर्थयंत इति संबंधः ब्रह्मचर्यं समाप्यगृही भवेत् ग्वहाद्वनी भूताप्रवजेदिति पूर्वश्रुतौ च स्तुर्णीमप्याश्रमाणां समुच्चयं प्रतिपाढद्यतेषां विकल्पं दर्शयति । यदि वेतरथेति । यदि वेत्यस्य ब्रह्मचर्याश्रम एव वैराग्यमुत्पन्नं चेदित्यर्थः । तत्र तदनुत्पतावाह ग्रहाद्वेति ग्रहाश्रमेपि तदनुत्पतावाह । वनाद्वेति अविशेषेति । ब्राह्मणादिविशेषग्रहरहितेत्यर्थः । अत एवेति वर्णत्रय साधारणतया संन्यासस्य श्रुतिस्मृति सिद्धत्वादेवेत्यर्थः । यदा यदि वेति श्रुतौ श्रूयते । तदा उपलक्षणार्थं स्यादिति संबंधः । अन्ये त्विति । भाष्यानुवर्तिन इत्यर्थः । श्रुत्यंतरसिद्धमिति । ब्राह्मणो व्युत्थायेत्यादि श्रुत्यंतरसिद्धमित्यर्थः सिद्धं कृत्वेति । विद्योद्देशेन संन्यासविधिवाक्यानां सर्वेशामेक वाक्यत्वादितिभावः । कथमिति तां । तव यज्ञोपवीतादेर्ब्राह्मणत्वव्यंजकत्त्रात परमहंस संन्यासे चतुदभावादपि इत्यर्थः । यद्यत्र क्षत्रियवैश्ययोरपि संन्यासो विवक्षितः स्यात् तदा कथं ब्राह्मण इति वत् कथं क्षत्रियः कथं वैश्य इत्यपि श्रूयेत न तु श्रूयते तस्मात् न तयोः संन्यासः श्रुत्यभिमत इति भावः ।। प्. २७अ) विरोधाधिकरणन्यायेन श्रुत्यविरुद्धस्यैव स्मृत्यर्थस्य ग्राह्य त्वात् । यतु संन्यारास्य सर्वाधिकारत्वे वार्तिक वचनं तद्विद्वत्संन्यासविषयं न त्वातुरविविदिषा संन्यासे भाष्याभिप्रायविरुद्धसर्वाधिकारप्रतिपादनपरं सर्वाधिकार विछेदि विज्ञानं चेदुपेयते कुतोधिकार नियमो व्युत्थाने क्रियते बलादित्यनंतरश्लोकेन ब्रह्मज्ञानोदयानंतरं जीवन्मुक्तेन क्रियमाणे विद्वत्संन्यासे एवाधिकरनियमनिराकरणात् । एवं च ब्राह्मणानामेव श्रवणायनुष्ठाने संन्यासोंगं क्षत्रियवैश्ययोस्तप्रि?रपेक्षः श्रवणाद्यधिकार इति तयोः श्रवणाद्यनुष्ठाननिर्वाहः न हि संन्यासस्य श्रवणापेक्षितत्वपक्षे श्रवणमात्रस्य तदपेक्षानियतुं शक्यते क्रममुक्तिफलकसगुणोपासनयादेवभावं प्राप्तस्य श्रवणादौ संन्यासनैरपेक्ष्यस्यावश्यं वक्तव्यत्वात् ।। एवं संन्यासविधीनामैककंठ्ये स्थिते सति ब्राह्मणः क्षत्रियो वापीति स्मृति वचनं जावाल श्रुति तात्पर्याज्ञान प्. २७ब्) मूलत्वादप्रमाणमित्याह । विरोधाधिकरणत्यायेनेति । प्रत्यक्षश्रुतिविरुद्धस्मृतिवचनमप्रमाणमिति विरोधाधिकरणन्यासः । तस्माद्ब्राह्मणः पांडित्यं निर्विद्येत्यादि श्रुतौ संन्यासाधिकारानुरोधेन ब्राह्मणः संन्यस्य पांडित्यादिकमनुतिष्ठेदिति वाक्यार्थलाभात् । विद्यार्थसंन्यासे विविदिषुणा क्रियमाणे ब्राह्मणस्यैवाधिकार इति भगवतो भाष्यकारस्य मतं यदि वार्तिकवचनस्य प्रमाणमूलभाष्यकारमत विरुद्धेर्थे तात्पर्थे कल्पे तत् तदा संन्यासस्य साधारण्य प्रतिपादकस्मृतिवचनवद्वार्तिकवचनमपि हेयमेव स्यादतो भाष्याविरुद्धार्थ परं वार्तिकवचनमित्याह । तद्विद्वत्संन्यास विषयमिति । विविदिषा संन्यासे सर्वाधिकारप्रतिपादनपरं न संभवतीत्यत्र हेत्वंतरमाह । सर्वाधिकारेति । क्षत्रियवैश्ययोस्तत्वज्ञानमप्युपेय तेन वानांत्यः जनकादीनां तत्वज्ञानवत्वप्रतिपादकशास्त्रविरोधानापः तत्वज्ञानेन कर्माधिकारप्रयोजकवर्णाश्रमाद्यध्यासनिवृतौ सकलकर्मनिवृतिरूपविद्वत्संन्यासस्य क्षत्रियवैश्ययोरपि वारयितुमशक्यतया विविदिषा संन्यास इव विद्वत्संन्यासेपि ब्राह्मणस्यैव अधिकार इति नियमासंभवादितिभावः । कुतो बलान्नियमः क्रियते तादृशं बलं नास्तीत्यर्थः । एवं चेति श्रवणांगत्वेनापि कारिविशेषणत्वेन वा विद्या साधने विविदिषासंन्यासे ब्राह्मणस्यैवाधिकार इति सिद्धे सतीत्यर्थः । ननु संन्यासस्याधिकारिविशेषणतया अंगतया वा श्रवणापेक्षितत्वपक्षे प्. २८अ) श्रवणमात्रस्य संन्यासापेक्षत्वावगमात् । क्षत्रियवैश्ययोर्विविदिषासंन्यासरहितयोः श्रवणानुष्ठानं नास्तीत्येव पर्यवस्यति न तु तयोः श्रवणं संन्यासनिरपेक्षमिति तथा च कथं तयोः श्रवणाद्यनुष्ठाननिर्वाहः । तत्राह नहीति । देवभावं प्राप्तस्येति । न च सगुणोपासकस्य ब्रह्मलोकं गतस्य उपासनयादेवभावं प्राप्तस्य निर्गुणब्रह्मसाक्षात्कारायोपासकेन क्रियमाणे श्रवणादौ संन्यासस्य व्यभिचार इत्ययुक्तं तस्य सुगुणविद्यासामर्थ्यादेव निर्गुणसाक्षात्कारसंभवेन श्रवणाद्यनुष्ठानस्याभावादिति वाच्यं । देवताधिकरणे सगुणविद्ययादेवभावं प्राप्तमुपासकमेव प्राधान्येन विषयाकृत्य श्रवणादौ देवाद्यधिकारस्य निरूपितत्वेन तस्यापि श्रवणाद्यनुष्ठानं विना विद्यानुदयस्य प्रागेव श्रवणविधिविचारावसरे दर्शितत्वात् । तथा च तत्र व्यभिचारात् । संन्यासो न श्रवणमात्रांगं किंतु ब्राह्मणकर्तृकश्रवणस्यैवांगमिति क्षत्रियवैश्ययोः सन्यासाभावेपि श्रवणाद्यनुष्ठान निर्वाह इत्यर्थः ।। देवानां कर्मानुष्ठाना प्रसक्त्यातत्यागरूपस्य संन्यासस्य तेष्वसंभवादित्याहुः । अपरे तु ब्रह्मसंस्थो मृतत्वमेतीति श्रुत्युदिता यस्य ब्रह्मणि संस्था समाप्तिरनन्यव्यापारत्वरूपं तत्निष्ठत्वं तस्य श्रवणादिषु मुख्योधिकारः प्. २८ब्) गछतस्तिष्ठतो वापि जाग्रतः स्वप्नोपि वा न विचार परं चेतो यस्या सौमृत उच्यते । आसुप्तेरामृतेः कालं नयेद्वेदांतचिंतयेत्यादि स्मृतिषु सर्वदाविचारविधानात् । सा च ब्रह्मणि संस्था विना संन्यासमाश्रमांतरस्थस्य न संभवति । स्वस्वाश्रमविहित कर्मानुष्ठान वैयग्र्यादिति संन्यासरहितयोः क्षत्रियवैश्ययोर्न मुख्यः श्रवणाद्यधिकारः ।। ननु देवानामपि कुतः संन्यासाभावः तत्राह । देवानामिति । ननु देवकर्तृक श्रवणे संन्यासा श्रमस्य यदि व्यभिचारः तर्हि त्रैवर्णिक मनुष्य कर्तृक श्रवणे संन्यासाश्रमस्य हेतुत्वमस्तु न तु ब्राह्मणमात्रकर्तृके तथा संकोचे मानाभावात् । उक्तं हि प्रागेव चतुर्ष्वाश्रमेषु संन्यासाश्रमपरिग्रहेणैव श्रवणादिर्निर्वर्तनीयमिति स चाश्रमविभागो वर्णत्रय साधारण एव न ब्राह्मणमात्रगतः तथा च संन्यासिनो ब्राह्मणस्येव संन्यासहीनयोः क्षत्रियवैश्ययोः श्रवणादौ नाधिकारः संभवतीत्यस्वरसादाह । अपरे त्विति । श्रत्युदिता ब्रह्मणि संस्था यस्य संभवति तस्य मुख्योधिकार इति संबंधः । संस्थापदस्यो व्याख्यानं समाप्तिस्तस्यापि व्याख्यानमनन्येति अमृतत्वकामस्य नैरंतर्येण प्. २९अ) विचारकर्तव्यतायां स्मृतिवचनान्यप्युदाहरति । गछत इति स्वपत इति । शयानस्येत्यर्थः । स जीवति मनो यस्य मननेनैव जीवतीत्यादि वचनसंग्रहार्थमादिपदं मननं तत्वचितनं तद्रहितो जीवन्नेव मृत इत्यर्थः । अयं च मुख्याधिकारः संन्यासिनामेवेत्याह । सा चेति । वैयग्र्यादिति । व्यग्रत्वादित्यर्थः सार्वकालिकी विक्षेपनिवृतिरसंन्यासिनां न भवतीति भावः । न मुख्य इति शास्त्रीयोधिकारो नास्तीर्थः । अयं भावः ब्रह्मसंस्थोमृतंत्वमेतीति श्रुत्यापांडित्य श्रुत्येव ब्रह्मनिष्ठाधर्मकः संन्यासाश्रमो विधीयते ब्रह्मसंस्थाशब्दितायाः ब्रह्मनिष्ठायाः संन्यासाश्रमे संभवादाश्रमांतरेष्वसंभवादिति प्रतिपादितं संन्यासाधिकरणभाष्यांदौ तथा च ब्रह्मनिष्ठत्वस्य संन्यासाश्रमधर्मत्वेन विहितत्वात्संन्यासिनो ब्राह्मणस्य ब्रह्मनिष्ठत्वं स्वधर्म इति संन्यासिनः तत्र मुख्योधिकारः । तस्य ब्रह्मनिष्ठत्व व्यतिक्रमे प्रत्यवायावगमाच्च तथा च परमहंसोपनिषदि श्रूयते काष्टदंडो धृतो येन सर्वाशी ज्ञानवर्ज्जिताः स याति नरकान् घोरान् महारौरवसंज्ञकानिति काष्टदंडोपलक्षितः संन्यासाश्रमोधृतः परिगृहीतो येन सः सर्वाशी सर्वे विषयजातमशितुं भोक्तुं शीलमस्यास्तीति सर्वाशी बाह्यांतःकरणजयरहितः इति यावत् ज्ञानवर्जितः ज्ञानाभ्यासरहित इत्यर्थः यः संन्यस्य शमादि सहितं ब्रह्मनिष्ठत्वं नानुतिष्ठति सतो वां दुर्गतिं गछतीत्यर्थः । यथा संन्यासिनो ज्ञाननिष्ठाविधायकानि संन्यस्य प्. २९ब्) श्रवणं कुर्यात् । गछतस्तिष्ठतो वापि आसुप्तेरामृतेः कालमित्यादीनि स्मृतिवचनानि सहस्रशः संति तथा तत्परित्यागे पातित्यबोधकान्यपि स्मृतिवचनानि सहस्रशः संतित्वं पदार्थविवेकाय संन्यासः सर्वकर्मणां श्रुत्याविधीयते यस्मातत्यागी पतितो भवेत् । नित्यकर्मपरित्यज्य वेदांत श्रवणं विना वर्तमानस्तु शंन्यासी पतत्येव न संशय इत्यादीनि सर्वाश्रमसाधा ।। किंतु दृष्टार्था च विद्याप्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोति श्रवणादिष्विति अंतराचापि तु तद्दृष्टेरित्यधिकरणभाष्योक्त न्यायेन शूद्रवद प्रतिषिद्धयोर्विधुरादीनामिव देहांतरे विद्या प्रापकेणा मुख्याधिकारमात्रेण श्रवणानुमतिः न ह्यंतरा चापि तु तदृष्टेरित्यधिकरणे विषुरादीनामनाश्रमिणामंगीकृतः श्रवणाद्यधिकारो मुख्य इति शक्यते ।। रण्येनापि स्वधर्मस्य विगुणस्यापि परित्यागे महान नर्थः स्मर्यते श्रेयान्स्वधर्मो विगुणः परिधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावह इत्यादौ । संन्यासाधिकरणे भाष्यकारैरेव तत्सर्वमभिप्रेत्य संन्यासिनो प्. ३०अ) नन्यव्यापारतया श्रवणादितिष्पादनमकुर्वतः पातित्यं कंठत एवोक्तं तथा च भाष्यं ब्रह्मनिष्ठत्वमेव हि तस्य शमाद्युपवृंहितं स्वाश्रमविहितं कर्मयज्ञादीनीवेतरेषां तद्व्यतिक्रमे च तस्य प्रत्यवाय इति तस्माछ्रवणादेर्भिक्षुं प्रतिविहितत्वात् । तदति क्रमेभिक्षीः प्रत्यवायावगमाच्च संन्यासिनः श्रवणादौ मख्योधिकारः संन्यासरहितान् प्रति तु श्रवणादेरविहितत्वादकरणे प्रत्यवाया नवगमाच्च नास्ति । तेषां मुख्योधिकार इति ननु क्षत्रियादिकं प्रतिश्रवणादिविधानाभावे सत्यधिकार एव नास्तीति कुतो नोच्यते इति शंकते । किं त्विति । नित्याधिकाररूपमुख्याधिकारासंभवेपि काम्याधिकाररूपगौणाधिकार संभवान्नैवमिति भाष्येणोतरमाह । दृष्टार्था चेति । किं त्वमुख्याधिकारमात्रेण श्रवणाद्यनुमितिरिति संबंधः । यथा भुजिक्रियाक्षुद्वाधा निवृतिरूपदृष्टफला तथा विद्यापि सर्वानर्थ मूलाविद्यानिवृतिरूपदृष्टफलाश्रुतिसिद्धा तथा च तस्यां विद्यायामनर्थ निवृतिकामानां सर्वेषामेवार्थित्वलक्षणाधिकारः संभवति । तथा च विद्याधिकारिणां सर्वेषामविशेषेण वेदांतश्रवणादावधिकारप्रसक्तौ शूद्रस्य वेदश्रवणादि प्रतिषेधात्नाधिकार इत्युक्तमपशूद्राधिकरणे क्षत्रियादीनां च तथा प्रतिषेधा भावाद्वेदांतश्रवणाधिकारो भाष्यानुमतो विधुरादेरिवेत्यर्थः । नन्व मुख्याधिकारिभिरनुष्ठित श्रवणादेरपि विद्योत्पादकत्वमवश्यं प्. ३०ब्) वाच्यं अन्यथा गौणाधिकारनिरूपण परभाष्य वैयर्थ्य प्रसंगात् । विद्योत्पादकत्वावश्यंभावे च न काम्याधिकारस्य गौणत्वं मुख्यगौणाधिकारयोः फलतौ विशेषाभावादित्यत आह । देहांतर इति । अयं भावः मुख्याधिकारिणामनन्यव्यापारतया प्रत्यहं निर्वर्त्यमानं श्रवणादिकं निरंकुशब्रह्मचर्या हिंसाशमदमादि युक्तमस्मिन्नेव जन्मनि प्रायेण विद्योत्पादकं संपद्यते । अमुख्याधिकारिणां तु श्रवणादिकमनन्यव्यापाररूपत्वाभावात् । संकुचितब्रह्मचर्यादि युक्तत्वाच्चास्मिन् जन्मनि विद्योत्पादनयोग्यमेव न भवति किंतु बहुषु जन्मसु किंचित् किं छ्रवणादिकं संपाद्यमानं संभूय देहांतरे क्वचिदेवं ज्ञानमुत्पादयेदिति महान्फलभेदो गौणमुख्याधिकारयोः । तथा च स्मृतिः । अनेकजन्मसंसिद्धस्ततो पातिपरांगतिमिति अनेकेषु जन्मसुकृतश्रवणादिना क्वचिज्जन्मनि संसिद्धः उत्पन्नविद्यः सन्ततः सिद्धिवलान्मुक्तिं गछतीति स्मृत्यर्थः । ननु क्षत्रियवैश्ययोर्विधुरादीनामिवामुख्याधिकार इत्ययुक्तं । दृष्टांता संप्रतिपतेरित्यत आह । न हीति वक्तुं हि न शक्यत इति संबंधः ।। अतस्त्वितरज्ज्यायो लिंगाच्चेति सूत्रकारेणैव तेषाममुख्याधिकार स्फुटीकरणात् । न च तत्र तेषां श्रवणाधिकार एव नोक्तः किंतु तदीय कर्मणां प्. ३१अ) विद्यानुग्राहकत्वमिति शंक्यं । दृष्टार्था च विद्येत्युदाहत तदधिकरणभाष्यविरोधात् । न च क्षत्रियवैश्ययोः संन्यासाभावादमुख्याधिकारे तत एव देवानामपि श्रवणादिषुं अमुख्य एवाधिकारः स्यात् । तथा च क्रममुक्तिफलक सगुणविद्ययादेवभावं प्राप्य श्रवणाद्यनुतिष्ठतां विप्राम्यर्थं संन्यासार्हं पुनर्ब्राह्मणजन्म वक्तव्यमिति ब्रह्ममभिसंपद्यतेन स पुनरावर्तत अनावृतिः शब्दादित्यादि श्रुतिरूत्रविरोध इति वाच्यदेवानामनुष्टेय कर्मवैयग्न्याऽभावात् स्वत एवानन्य व्यापारत्वं संभवतीति क्रमं मुक्तिफलक सगुणविद्याविधापि शास्त्रप्रामाण्याद्विनापि संन्यासं तेषां मुख्याधिकाराभ्युपगमादित्याहुः ।। यद्यपि संन्यासिन एव मुख्याधिकार इति पूर्वप्रतिपादितत्वेन विधुरादिनां संन्यासाभावादेवगौणाधिकारः सिद्धस्तथापि तेषां गौणाधिकारे सूत्रसंगृहीतामप्युपपतिमाह । अतस्त्वितरदिति । अतः अनाश्रमिभिरनुष्ठित विद्यासाधनापेक्षया इतरदाश्रमिभिरनुष्ठितं विद्यासाधनं कर्मश्रवणादिकं वाज्यायः प्रशस्तं विद्यासाधनं प्. ३१ब्) ज्यायस्त्वावधारणार्थस्तु शब्दः श्रुतिलिंगात् स्मृति लिंगाच्च तेनैति ब्रह्मवित् पुण्यकृदिति वाक्यं श्रुतिलिंगं । अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विज इत्यादिवाक्यं स्मृतिलिंगं तेन पुण्यलब्धेन ब्रह्मवेदनेन ब्रह्म एति ब्रह्मप्राप्नोतीति श्रुत्यर्थः । अत्र श्रुतौ पुण्यत्वेन प्रसिद्धानामाश्रमधर्माणामेव विशिष्य ब्रह्मप्राप्ति साधनत्व प्रतिपादनादनाश्रमिधर्माणां विशेषानुग्रहश्चेति सूत्रोक्त न्यायेन विद्योपयोगीनामपि निकर्षो भाति स च निकर्षो विधुरादीनां विद्यार्थ कर्मसु श्रवणादिषु च मुख्याधिकाराभावप्रयुक्त एवेति वक्तव्यं हित्वंतराभावादनाश्रमित्वस्य निदितत्वाच्च न हि कर्मज्ञानयोर्मुख्याधिकारी निंदार्ह इति सूत्रभाष्यकारयोरभिप्राय इत्यर्थः । ननु विधुराधिकरणे विधुराद्यनुष्ठितं कर्मविद्यासाधनमित्येतावदेवोक्तं न तु विधुरादेः श्रवणाधिकारोपि तत्र प्रतिपादितः । तथा च श्रवणादौ विधुराद्यधिकारस्य गौणमुख्यत्वचिंतातिरालंबनेत्याशंक्य परिहरति । न च तत्रेति । विधुराधिकरण इत्यर्थः । तत एवेति संन्यासाभावादेवेत्यर्थः । अस्तु पुनर्ब्राह्मणजन्म इत्यत आह । ब्रह्मलोकमिति । न स पुनरिति ब्रह्मलोकमभिसंपद्य पुनरिमंलोकं प्रतिनावर्तत इत्यर्थः । एतछ्रुति मूलं सूत्रमुदाहरति । अनावृतिरिति । अनावृतिरिवृतिरिति । ब्रह्मलोकं गतानामुपासकानामावृतिर्नास्ति । उदाहृत श्रुतेरित्यर्थः स्मृतेश्चेत्यादिसूत्रसंग्रहार्थमादि प्. ३१२अ) पदं तथा च स्मृतिः । ब्रह्मणा सहते सर्वे संप्राप्ते प्रतिसंचरे परस्यांते कृतात्मानः प्रविशंति परं पदमिति । ते ब्रह्मलोकवासिनः ब्रह्मोपासकारः प्रतिसंचरे महाप्रलये परस्य हिरण्यगर्भस्य ब्रह्मलोक स्वामिनः आपुषों ते कृतः साक्षात्कृतः आत्मा येषां ते तथा । नन्वन्यव्यापारत्वसंभवेपि संन्यासो नास्तीति आशंक्याह । क्रममुक्तीति मनुष्येष्वेव संन्यासो मुख्याधिकार प्रयोजकः वर्णाश्रमविभागस्य मनुष्य विषयत्वादितिभावः ।। नन्वमुख्याधिकारिणादृष्टफलभूतवाक्यार्थावगत्यर्थं अविहित शास्त्रांतरविचारवक्रियमाणो वेदांत विचारः कथं जन्मांतरीय विद्यावाप्तावुपयुज्यते । न खलु विचारस्य दिनांतरीय विचार्ययावगति हेतुत्वं युज्यते । दूरे जन्मांतरीय तद्धेतुत्वं न च वाच्यं मुख्याधिकारिणापरिव्राजकेन क्रियमाणमपि श्रवणं दृष्टार्थमेव सर्वत्रविचार्ययावगतेर्दृष्टफलत्वा तस्य यथा प्रारब्धकर्मविशेषरूपप्रतिबंधादिह जन्मनि फलमजनयतो जन्मांतरे प्रतिबंधकापगमेन फलजनकत्वमैहिकमयय प्रस्तुत प्. ३२ब्) प्रतिबंधे तद्दर्शनादित्यधिकरणे तथा निर्णयात् । एवमुम्बुख्याधिकारिकृतस्यापि स्यादिति । यतः शास्त्रीयाअंग युक्तं श्रवणमपूर्वविधित्वपक्षे फलपर्यंतमपूर्वं नियमविधित्वपक्षे नियमादृष्टं वा जनयति । तच्च जाति स्मरत्व प्रापका दृष्टवत् प्राग्भवीय संस्कारमुद्बोध्य तन्मूल भूतस्य विचारस्य जन्मांतरीय विद्योपयोगितां घटयतीति पुज्यते शास्त्रीयांग विधुरं श्रवणं नादृष्टोत्पादकमिति कुतस्तस्य जन्मोतरी विद्योपयोगित्वमुपपद्यते । घटकादृष्टं विना जन्मांतरीय प्रमाण व्यापारस्य जन्मांतरीयावगति हेत्वोपगमेति प्रसंगात् ।। अविहितेति । न्यायशास्त्रादिविचारवदित्यर्थः । एतज्जन्मीय वेदांतविचारस्यागामि जन्मीयां वेदांतार्थावगर्तिप्रतिहैतुत्वासंभवं कैमुति कन्या येन दृढयति । न खल्विति । मुख्याधिकारिकृतविचारदृष्टांतेन गौणाधिकारि श्रवणादेरपि जन्मांतरीय विद्योपयोगं शंकते । न च वाच्यमिति । ततः किं तत्राह । तस्येति । यथा तस्य मुख्याधिकारिकृतश्रवणस्य प्रतिबंधादिह जन्मनि विद्यालक्षणं फलमजनयतो जन्मांतरे फलजनकत्वं एवं अमुख्याधिकारिकृतमपि प्. ३३अ) श्रवणं जन्मांतरे फलजनकं स्यादिति न च वाच्यमितिसंबंधः । मुख्याधिकारिकृतश्रवणस्य सति प्रतिबंधके आमुष्मिकं विद्याजन्मेत्यत्र मानमाह । ऐहिकमपीति । प्रस्तुत प्रतिबंधे असतिविद्याजन्म इह जन्मन्यपिवति । अयि शब्दात् सति प्रतिबंधे जन्मांतरे भवति । कुतः तद्दर्शनात् । तस्य प्रतिबंधक वशात् जन्मांतरे विद्योदयस्य वामदेवादिषु दर्शनादित्यर्थः । दृष्टांत वैषम्येणोतरमाह । शास्त्रीयांग युक्तमिति शास्त्रीयांगं संन्यासः तद्युक्तं संन्यासिनानुष्ठीयमानमिति यावत् । तथा च शास्त्रीयांग सहितं श्रवणं श्रवणविधिरपूर्वविधिरिति पक्षे स्वयमेव विद्यालक्षणफलपर्यंतमदृष्टं जनयति । श्रवणविधिर्नियमविधिरिति पक्षे तु मादृशं श्रवणं नियमविशिष्टं सत् फलपर्यंतं नियमादृष्टं जनयतीत्यर्थः । तच्चेति श्रवणजनितादृष्टमित्यर्थः । जातीति जातिर्जन्म ततश्च यथा जाति स्मरत्व संपादकमदृष्टं पूवजन्म तद्वृतांतानुभवजन्य संस्कारमस्मिन् जन्मन्युद्बोध्य तद्वद्बोधनद्वारा पूर्वजन्म तद्वृतांत स्मृतिं घटयति तथा प्राचिभवे श्रवणादिजनतं संस्कारमुद्बोध्य तत्संस्कारकारणभूतस्य श्रवणस्य भावि जन्मनिविद्योपयोगित्वं घटयतीत्यर्थः । शास्त्रीयांगविधुरमिति । संन्यासरहितक्षत्रिययादीना क्रियमाणं श्रवणमदृष्टोत्पादकं न भवति क्षत्रियादिकं प्रत्यविहितत्वाछ्रवणादेरितिभावः । नन्वविहित श्रवणस्यादृष्टानुत्पादकत्वेपि प्. ३३ब्) संस्कारजनकत्वसंभवात् । तद्वलादेवजन्मांतरीय विद्या हेतुत्वं कुतो न स्यादित्यत आह । घटकादृष्टं विनेति । अतिप्रसंगादिति जन्मांतरानुभूत सकलपदार्थस्मृतिप्रसंगादित्यर्थः ।। उच्यते अमुख्याधिकारिणाप्युत्पन्नविविदिषेण क्रियमाणं श्रवणं द्वारभूतविविदिषोत्पादक प्राचीनयज्ञाद्यनुष्ठान जन्यापूर्वप्रयुक्तमिति तदेवापूर्वं विद्यारूपफलपर्यंतं व्याप्रियमाणं जन्मांतरीयायामपि विद्यायां स्वकारित श्रवणस्योपकारिकतां गटयतीति नानुपपति । श्रवणादौ विध्यभावपक्षे तु संन्यासपूर्वकृतस्यापि श्रवणस्यादृष्टानुत्पादकत्वात्सति प्रतिबंधे तस्य जन्मांतरीय विद्या हेतुत्वमित्थमेव निर्वाह्यं । आचार्यास्तु नियमविधिपक्षेप्ययमेव निर्वाहः श्रवणमभ्यस्यतः फलप्राप्तेरर्वाक् प्रयाणे तन्नियमादृष्टस्यानुत्पतेस्तस्य फलपर्यंता वृतिगुणक श्रवणानुष्ठाननियमसाध्यत्वात् । न हि नियमादृष्टजनकः श्रवण नियमः फलपर्यंतमार्वर्तनी प्. ३४अ) यस्य श्रवणस्योपक्रममात्रेण निर्वर्तितो भवति । येन तज्जन्यनियमादृष्टस्यापि फलपर्यंत श्रवणावृतेः प्रागेवोत्पतिः संभाव्येत् ।। कर्मणां विद्यायां विनियोग इति पक्षमाश्रित्य परिहरति । उच्यत इति । यज्ञादिभिर्विद्यायां संपादनीयायां द्वारभूताया विविदिषा तस्या उत्पादकं प्राचीनं यद्विद्यार्थ यज्ञाद्यनुष्ठानं तज्जन्येत्यर्थः । स्वपदं यज्ञाद्यनुष्ठानजन्यापूर्वपरं वाचस्पतिमते मुख्याधिकारिकृतश्रवणस्यापि यज्ञाद्यपूर्वेणैव निर्वाह इति दृष्टांताभिप्रायेणाह । श्रवणादौ विध्यभावपक्षे त्विति । विवरण पक्षेप्येवमेव निर्वाह इत्याह । आचार्यो त्विति । अयं भावः प्रमाणासंभावना निवृतिः श्रवणफलं प्रमेयासंभावना निवृति मनतफलं विपरीत भावना निवृति । निदिध्यासन फलं तथा च त्रिविधप्रतिबंधकनिवृतिलक्षणफलपर्यंतमावृतिविशिष्टानि श्रवणादी नियस्य मुख्यायिकारिणो निष्पन्नानि तस्य नियमादृष्टमुत्पन्नमेव । एवं संपन्नविद्यासाधनस्यापि प्रतिबंधवशात् । यदि विद्या न जाता तदा पुनर्जन्मलाभेन प्रतिबंधक्षये सति पुनर्विचारमनपेक्ष्यैव विद्या जायते । यथा वामदेव हिरण्यगर्भादेः यस्य तूक्तप्रतिबंधनिवृतिपर्यंत श्रवणाद्यावृतिर्न जाता मध्ये मृतिश्च जाता तस्य मुख्याधिकारिणोपि नियमादृष्टं प्. ३४ब्) न जायते । स च पुनर्जन्मांतरे उक्त प्रतिबंधनिवृतिपर्यंत श्रवणादिकमभ्यस्य श्रवणादिनियमादृष्टवशेन विद्याप्रतिबंधककल्मषक्षये सति विद्यां लभते । तदुक्तं भगवता श्रीकृष्णेन तत्र तं बुद्धिसंयोगं लभते । पौर्वदैहिकं यतते च ततो भूयः संसिद्धौ कुरु नंदन । इति तत्र प्राप्ते साधुजन्मनि पूर्व देहे भवमिदानिं संस्कारात्मनानुवर्तमानं बुद्धिसंयोगं श्रवणादि कर्तव्यता बुध्या संबंधं लभते अस्मिन्नपि जन्मनि प्रतिबंधनिवृतिद्वाराविद्योदयोयमयाश्रवणादिकमनुष्ठेयमिति बुध्यायुक्तो भवतीत्यर्थः । ततः पूर्वजन्मोय पत्नीपेक्षयाभूयः अधिकं यत्तत्ते संसिध्यर्थमित्यर्थः । तथा च योयं फलपर्यंतावृतिगुणकश्रवणादिरहितो योगभ्रष्टः तस्य नियमादृष्टाभावाद्यज्ञाद्यदृष्टादेव निर्वाहः कर्तव्य इति । प्रतिबंधनिवृतिरूपफलप्राप्तेः पूर्वं नियमादृष्टानुत्पतौ हेतुमाह । तस्येति । नियमादृष्टस्येत्यर्थः । नियमादृष्टं हि न श्रवणमात्रजन्यं किंतु श्रवणनियमजन्यं तन्नियमश्च श्रवणादेरेव फलपर्यंतमावृतौ सत्यां निष्पद्यते । तथा च फलोत्पतेरर्वाक् श्रवणादि नियमस्ये वा भावात् न नियमादृष्टोत्पतिरित्यर्थः । उक्तं प्रपंचयति । न हीत्यादिना ।। अवघातादिवदावृतिगुणकस्यैव श्रवणस्य प्. ३५अ) फलसाधनत्वेन फलसाधनपदार्थनिष्पतेः प्राक् तन्नियमनिर्वतिवचनस्य निरालंबनत्वात् श्रवणावघाताद्युपक्रममात्रेण नियमनिष्पतौ तावतैव नियमशास्त्रानुष्ठानं सिद्धमिति तेदंनावृतावप्यवैकल्पप्रसंगाच्चेत्याहुः । केचित् तु दृष्टार्थस्यापि श्रवणस्य दिने दिने तु वेदांतश्रवणाद्भक्ति संयुतात् गुरुशुश्रूषयालब्धात्कृछ्राशीति फलं लभेदित्यादि वचनप्रामाण्यात् स्वतत्रादृष्टोत्पादकत्वमप्यस्ति । यथाग्नि संस्कारार्थस्याधानस्य पुरुषसंस्कारेषु परिगनात्तदर्थत्वमपि । एवं च वचनवलादुभयार्थत्वोपपतेः तथा च प्रतिदिन श्रवणजनितादृष्टमहिम्नैवामुष्मिक विद्योपयोगित्वं श्रवणमननादि साधनानामित्याहुः । एवं श्रवणमननादि साधनानुष्ठानप्रणाड्या विद्यावाप्तिरित्यस्मिन्नर्थे सर्वसंप्रतिपन्ने स्थिते भारतीतीर्थाः ध्यान दीपे विद्यावाप्तावुपायांतरमप्याहुः । प्. ३५ब्) श्रवणनियमः श्रवणस्योपक्रममात्रेण निर्वर्तितो न भवतीत्यत्र हेतुमाह । अवघातादि वदिति । आवृति विशिष्टस्यैवावहन नस्य तंडुलनिष्पतिलक्षणफलसाधनतायाः लोकसिद्धत्वादितिभावः । प्राक् तदिति फलपर्यंतं श्रवणस्यैवावृतौ सत्यांश्रवणस्याप्राप्तांशपरिपूरणलक्षण नियमो निष्पन्नो भवति न ततः प्रागित्यर्थः श्रवणस्यारंभमात्रे वा कतिपयावृतिमात्रे वा जाते सति श्रवणनियमो निष्पन्न इति वचनं विषयाभावान्निरालंबनमित्यर्थः । तदनावृतावपीति । श्रवणावघाताद्यनुष्ठानमुपक्रम्य श्रवणादिकं त्यक्ताभाषाप्रबंधादि विचारे नखविदलनादौघग्रवृतावपि नियमविधिविरोधाभावप्रसंगादित्यर्थः । मुख्याधिकरिभिरन्वहं क्रियमाणस्य वेदांतश्रवणस्य प्रतिबंधकनिवृतिरूपदृष्टफलोत्पादकत्ववददृष्टोत्पादकत्वमप्यस्ति तथा च तद्बलात् जन्मांतरे विद्योपयोगित्वं विचारस्य घटत इति परिहारांरतमाह केचित्विति । फलमिति पुण्यरूपमित्यर्थः । वचने तु शब्दश्चार्थे । तथा च वेदांतश्रवणस्य देवतागुरुवेदांतविषयभक्ति गुरुशुश्रूषाभ्यामुपाताभ्यामनुपातैश्च शमदम ब्रह्मचर्या हिंसादिभिः समुच्चयार्थः तु शब्द इति भावः । स्वतंत्रेति वेदांतश्रवणस्य स्वतंत्रतया अदृष्टोत्पादकत्वमस्तीत्यर्थः स्वातंत्र्यं चादृष्टजनने श्रवणस्य विद्यायां विनियोगबोधकश्रवणविधिनैरपेक्ष्यमिति बोध्यं । एकस्योभयार्थत्वे दृष्टांतमाह प्. ३६अ) यथा प्रीति । अग्नीना दधीतेति वचनादाधानस्याहवनी पाद्यग्निसंस्कारत्वोपगमादितिभावः । पुरुषसंस्कारेष्विति । अग्न्याधेयमग्निहोत्रमित्यादिपुरुषसंस्कारसंग्राहक सूत्रे अग्न्याधानस्यापि पावादित्यर्थः । अदृष्टमहिम्नैवेति । वेदांतश्रवणजनितादृष्टस्य योग्यतया विद्यायामेव विनियोगस्य वक्तव्यतया तद्बलाज्जन्मांतरीय विद्योपयोगित्वमितिभावः । एवं उत्तममध्यमाधिकारिणां सांख्यमार्गं निरूप्यतदशक्तानां अत्यंतमंदाधिकारिणां योगमार्गं निरूपयितुमुपक्रमते । एवमिति । सर्वसंप्रतिपन्न इति सर्वश्रुति स्मृतिषु सम्यक् प्रतिपन्ने निश्चित इत्यर्थः । आहुरिति सम्यक् निरूपितवंत इत्यर्थः ।। तत्कारणं सांख्ययोगाभिपन्नं यत्साख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते इति श्रुतिस्मृतिदर्शनाद्यथा सांख्यं नाम वेदांतविचारः श्रवणशब्दितो मननादि सहकृतो विद्यावाप्युपायः एवं योगशब्दितं निर्गुणब्रह्मोपासनपि । न च निर्गुणस्योपासनमेव नास्तीति शंक्यं । प्रश्नोपनिषदि शैव्यप्रश्नेयः पुनरेतं त्रिमात्रेणोंकारेण परमपुरुषमभिध्यायीतेति निर्गुणस्यैवोपासनप्रतिपादनात् प्. ३६ब्) तदनंतरं स एतस्माज्जीव घनात्परात्परं पुरिशयं पुरुषमीक्षत इत्युपासनाफलवादे ईक्षति कर्मत्वेन निर्दिष्टं यन्निर्गुणं ब्रह्मतदेवोपासनावाक्येपि ध्यायति कर्मनान्यत् ईक्षति ध्यानयोः कार्यकारणभूतयोरेकविषयत्व नियमादित्यस्यार्थस्ये क्षति कर्माधिकरणे भाष्यकारादिभिरंगीकृतत्वात् । न तु नूतनतया कल्पितवंत इति भ्रमितव्यं तथापि श्रुत्यादि सिद्धत्वात् । तत्प्रकृतं कारणत्वोपलक्षितं ब्रह्मसांख्ययोगाभ्यां विद्याद्वारा आभिमुख्येन प्रत्यक्तेन प्राप्तमिति श्रुत्यर्थः सांख्यैः श्रवणादिपरैः योगैरुपासकैः यत्स्थानं ब्रह्मस्वरूपं विद्याद्वारागम्यते प्राप्यत इत्यर्थः योगैरपीत्यपि शब्दाद्योगमार्गस्यानुकल्पत्वं भातीति बोध्यं अपीति । विद्यां प्राप्त्युपाय इत्यनुषंगः निर्गुणब्रह्मोपासनं मान शून्यमित्याशंक्यपरिहरति । न चेत्यादित्या नन्वियं शंका न युक्ता तत्कारणं यत्सांख्यैरिति श्रुतिस्मृत्योरादावेव तत्र प्रमाणत्वेनोदाहृतत्वात् । न चोदाहृत श्रुतिस्मृतिगतयोग पदस्य सगुणोपासन परत्व संभवादाशंकायुक्तेति वाच्यं । भिन्नविषयोरुपासनसाक्षात्कारयोः कार्यकारणभावा संभवेन निर्गुणविद्या हेतुभूतस्य योगस्य निर्गुणोपासनरूपत्वावश्यं भावान्न च सांख्यैरिति वचनगतयोगपदस्योपास्ति प्. ३७अ) परत्वमेवासिद्धं तस्य गीताभाष्यकर्मयोगपरत्वेन व्याख्या तत्वादिति वाच्यं । यत्सांख्यैरिति वचनस्य वस्तुतो निर्गुणोपास्ति परस्यैव सतो भगवता श्रीकृष्णेन कर्मविषये उदाहृतत्वेन तदनुरोधेन भाष्ये तथा व्याख्यानोपपतेः । योग पदस्य ध्याने रूढत्वैन वस्तुतः कर्मपरत्वाभावात् । तद्वचन मूलभूतायां तत्कारणमिति श्रुतौ योगपदस्य ध्यानपरतया शारीरकभाष्ये व्याख्या तत्वाच्च कर्मयोगस्य मुखयोगद्वारा ब्रह्मप्राप्तिसाधनत्वं न तु साक्षादिति ज्ञापनायास्य वचनस्य कर्मविषयतया भगवतो दाहरण संभवाच्च तस्मान्मानाभावा शंका न युक्तेति च्चेन्न । उदाहृत श्रुतिस्मृति व्यतिरेकेणान्यत्र क्वापि निर्गुणोपासनं न दृष्टमित्येताभिप्रायेण शंकोपपतेः । अत एव सर्वासु श्रुतिषु निर्गुणोपासनं दृष्टमिति । मंदाधिकारिणमासश्चानायाह । प्रश्नोपसिषदात्यादिना त्रिमात्रेणेति द्वितीयार्थे तृतीया तिस्रः अकारोकारमकाराख्यामात्रा यस्योंकारस्य स त्रिमात्रः ओंकारे निर्गुणमेव ब्रह्म तदभेदेन ध्येयमित्यत्र भाष्यादि संमतिमाह । तदनंतरमित्यर्थः । जीवरूपः परमात्मनो घनः घटाकाशवदुपाधिपरिछिन्नचैतन्यात्मा जीवघनः तस्मात् परः पुरुषः निरुपाधिकः परमात्मानं सः ध्यातापुरिहार्द्दाकाशे बुद्धि साक्षित्वेन शयं वर्तमानमीक्षते साक्षात्कारोतीत्यर्थः । उपासना वाक्ये परं पुरुषममिध्यायीतेति वाक्य इत्यर्थः । प्. ३७ब्) कार्येति ईक्षण वाक्यस्य ध्यानफलभूतसाक्षात्कारप्रतिपादकत्वेन ध्याशवाक्यैक वाक्यत्वात् । ध्याने क्षणयोः कार्यकारणभावोवगम्यत इति भावः । नियमादिति । अन्य ध्यानादन्यसाक्षारादननादिति भावः । अन्यत्रापि तापनीय कठवल्ल्यादि श्रुत्यंतरे निर्गुणोपास्तेः प्रपंचित त्वात् सूत्रकृताप्युपास्य गुणपरिछेदार्थमारब्धे गुणोपसंहार पादे निर्गुणेप्यानंदादयः प्रधानस्येति सूत्रेण भावरूपाणां ज्ञानानंदादिगुणानामक्षरधियांत्ववरोध इत्यादि सूत्रेणाभावरूपाणामस्थूलत्वादि गुणानां चोपसंहारस्य दर्शितत्वाच्च । ननु आनंदादि गुणोपसंहारे उपास्यं निर्गुणमेव न स्यादिति चेन्न आनंदादिभिरस्थूलत्वादिभिश्चोपलक्षितमखंडैकरसं ब्रह्मास्मीति निर्गुर्णत्वानुपमर्देनोपासनासंभवात् । ननु तदेव ब्रह्मत्वं विद्धिनैदं यदिदमुपासत इति श्रुतेर्न परब्रह्मोपास्यमिति चेतन ।। ननु कल्पतरौ ध्यातव्यस्य सूर्यांतस्थत्वं स तेजसि सूर्ये प्. ३८अ) संपन्न इति सूर्यसपतिवचनानुसारै विशेषणं दत्तं तथा चोंकारे ध्यातव्य पुरुषस्य निर्गुणब्रह्मरूपत्वं कल्पतरुकारैर्नांगीकृतमिति प्रतीयत इति चेन्न सूर्यसंपतिवचनस्यार्चिरादिभार्गप्राप्ति परतायाः चतुर्थाध्याये व्यवस्थापितत्वेन सूर्य तदंतस्थेश्वर प्राप्ति परत्वाभावात् । कल्पतरुकाराणामपि तदीयवचनांतरपर्यालोचनया श्रुतेर्मार्गपरतया च सूर्यांतस्थत्व विशेषण दाने तात्पर्याभावस्य परिमले प्रतिपादितत्वाच्चेतिभावः । देवाहवै प्रतिपतिमब्रुवन् । अणोरणीयां समिममात्मानमोंकारं नो व्याचक्ष्वेत्पाद्यातापनीय श्रुतिः अणोः सूक्ष्मादपि सूक्ष्मं दुर्विज्ञेयमिमं प्रत्यग्रूपं परमात्मानं ओंकारगम्यमित्यर्थः । एतद्धेवाक्षरं ब्रह्मेत्पाद्याकठवल्ली श्रुतिः ओमित्येतदक्षरमिदं सर्वमित्यादिमांडूक्यश्रुतिः ओमित्येवं ध्यायथ आत्मानमिति मुंडकश्रुतिश्चादिपदार्थः निर्गुणस्योपास्यचि सूत्रसंमतिमाह । सूत्रकृतापीति । सूत्रकृतानिर्गुणेपि गुणानामुपसंहारस्य दर्शितत्वादिति संबंधः निर्गुणे गुणोपसंहारो निर्गुणब्रह्मप्रमित्यर्थ एव न निर्गुणब्रह्मोपास्त्यर्थ इति शंकाव्यवछेदाय पादं विशिनष्टि उपास्य गुणपरिछेदार्थमिति । परिछेदो निर्णयः निर्गुणे गुणोपसंहारनिरूपणस्य निर्गुणोपास्तिरपि फलमिति वक्तव्यं अन्यथा तन्निरूपणस्य पादासंगति प्रसंगादितिभावः । आनंदादयः क्वचिछ्रुता अन्यत्राप्युपसंहर्तव्याः प्रधानस्य वेद्यस्य ब्रह्मणः प्. ३८ब्) सर्ववेदांतेष्वभेदेन ब्रह्मविद्याया एकत्वादिति सूत्रार्थः भावरूपाणामिति विशेषणमक्षरधियामित्यधिकरणस्यानंदादय इत्यधिकरणेन पौनरुक्त्यपरिहारार्थमिति बोध्यं । अक्षरे ब्रह्मणि धीर्यैरस्थूलादिशब्दवाच्यार्थभूतैरभावैर्भवतितेक्षरयियः । तेषामवरोध उपसंहारः इतरेषु वेदांतेषु कर्तव्य एवेति सूत्रभागार्थः स्थौल्यादिनिषेधानां निष्प्रपंच ब्रह्मप्रमिति हेतुत्वादितिभावः । व्याघातं शंक्यते । नन्विति । आनंदादि गुणानामुपास्य कोटौ निवेशोनांगीक्रियते येनोपास्यं ब्रह्मसगुणं स्यात् किंतूपास्य निर्गुणनिर्णयद्वारा निगुणोपास्तावुपयोगमात्रं स्वीक्रियत इति समाधते । नेति । आनंदादि गुणानामस्थूलादि गुणानां च उपसंहारो हि तद्वाचकपदानां सहोच्चारणरूपो विवक्षितस्तथा च उपाधिविशिष्ट चैतन्य वाचकैरानंदादि पदैःर्स्थैल्याद्यभावविशिष्ट चैतन्यवाचकैरस्थूलादिशब्दैश्च सर्वेषु वाच्यार्थेष्वनुगतमखंडे करसं यद्ब्रह्मलक्षणया बोध्यते न दहमस्मीत्युपासनसंभवादित्यर्थः । उक्तं च ध्यान दीपे । आनंदादिभिरस्थूलादिभिश्चात्मात्रलक्षितः यो खंडैकरसः सोहमस्मीत्येवमुपासत इति । अत्रेति वेदांतेष्वित्यर्थः । एवं श्रुति सूत्राभ्यां निर्गुणस्थौपास्येत्वं निरूप्यनिर्गुणोपासनस्य श्रुत्यंतरविरोधमाशंक्यपरिहरति । ननु तदेवेत्यादिना । तदेवेति बुध्यादि साक्षिचैतन्यमेवेत्यर्थः ।। प्. ३९अ) अन्यदेव तद्विदितादथो अविदितादिति श्रुतेस्तस्य वेद्यत्वस्याप्यसिध्यापातात् । श्रुत्यंतरेषु ब्रह्मवेदन प्रसिद्धेरवेद्यत्व श्रुतिर्वास्तवावेद्यत्वपराचेदाथर्वणों तदुपासनाप्रसिद्धेस्तदनुपास्यत्व श्रुतिरपि वस्तुवृत परास्तु । एवं च श्रवणायापि बहुभिर्यो न लभ्य इति श्रवणात् । येषां बुद्धिमांद्यान्न्यायव्युत्पादनकुशलविशिष्टगुर्वलाभाद्वा-श्रव. नादि न संभवति । तेषामध्ययने गृहीतैर्वेदांतैरापाततोधिगमित ब्रह्मात्मभावानां तद्विचारं विनैव प्रश्नोपनिषदाद्युक्तमार्षग्रंथेषु ब्राह्मवासिष्टादि कल्पेषु पंचीकरणादिषु चानेक शाखाविप्रकीर्ण सर्वार्थोपसंहारेण कल्पसूत्रेष्वग्निहोत्रादिवन्निर्धारितानुष्ठानप्रकारं निर्गुणोषासनं संप्रदायमात्रविद्ध्यो गुरुभ्योवधार्य तदनुष्ठानात्क्रमेणोपास्य भूतनिर्गुणब्रह्मसाक्षात्कारः संपद्यते ।। उपास्यस्य ब्रह्मत्वनिषेधवद्वेद्यस्यापि ब्रह्मत्वनिषेधात् परब्रह्मवेदनमपि न सिध्येदित्याह । अन्यदेवेति । वेदनविषयादन्यत् ब्रह्मेत्युक्ते अर्थाद्ब्रह्मवेद्यं न भवतीति प्. ३९ब्) सिध्यतीत्यर्थः । अस्त्विति वेद्यत्वमुपास्यत्वं ब्राह्मणि परमार्थतो नास्तीति । निषेध श्रुतीनां तात्पर्यमितिभावः । निर्गुणोपासने अधिकारिणं दर्शयति । एवं चेति निर्गुणोपास मे प्रमाणसिद्धे सतीत्यर्थः । केषांचित् मुमुक्षूणां श्रवणासंभवे प्रमाणंमाह । श्रवणायार्पाति वहभिर्मुमुक्षुभिर्यः परमात्माश्रोतुमपि नभ्यते । तस्याश्रुतस्यापि साक्षात्कारोदूरापास्त इत्यर्थः । बहुनां श्रवणा लाभे श्रुत्यभिमत्तं कारणं दर्शयति । येषामिति । बुद्धीति उक्तं च ध्यानदीपे । अत्यंतबुद्धिमांद्याद्वासामग्र्यावाप्यसंभवात् । यो विचारं न लभति ब्रह्मोपासितसोनिशमिति । तत्र सामग्र्यभावं विवृणोति । न्यायेति । येषामत्यंतबुद्धिमांद्यात् श्रवणादिकं । न संभवति येषां च कुशलमती नामपि सामग्र्यभावात् । श्रवणादिकं न संभवतीत्यर्थः । विशिष्टत्वं असंभिन्नार्यमर्यादत्वकारुणीकत्वादिलक्षणं बोध्यं । तेषां ब्रह्मजिज्ञासा हेतुमाह । अध्ययनेति । अधिगमितः अवगमितः ब्रह्मात्मभावो येषां ते तथोक्ताः तेषामित्यर्थः । तषां तद्विचारं विनैव गुरुभ्योवधार्य तदनुष्ठानात् । साक्षात्कारः संपद्यते इति संबंधः । निर्गुणब्रह्मविचारं विनैव निर्गुणब्रह्मोपासनादित्यर्थः । ननु प्रश्नोपनिषिदादावुपासनामात्रमुक्तं न तु तदनुष्ठानप्रकारोपीत्याशंक्याह । आर्षग्रंथेष्विति । ननु पंचीकरणे वेदांतलक्ष्ये अखंडैकरसे प्रणवमात्रात्मककृत्स्न प्रपंचप्रविलापनोक्ति पूर्वकमहं ब्रह्मास्मीत्यभेदेनावस्थानं समाधिरित्युक्त्यायो खंडैक रसः सोहमस्मीत्येवमुपासत प्. ४०अ) इत्याद्युदाहृत ध्यानदीपवचनाच्च प्रकृतं निर्गुणोपासनमहंग्रहरूपं विवक्षितं । प्रश्नोपनिषिद्गत शैव्यप्रश्ने तु ओंकाररूपे प्रतीके निर्गुणब्रह्मदृष्टिर्विवक्षिता तथा कठवल्यामपि तथा च कथं प्रश्नादि वाक्यं प्रकृतोपासने प्रमाणत्वेनोदाहृतमिति चेत् । न प्रकृतोपासने तापनीय मांडूक्यमुंडक श्रुतीनामेव प्रमाणत्वेन विवक्षितत्वात् । प्रश्नकठवल्ली श्रुत्युदाहरणं तु निर्गुणस्याप्युपासनमन्यत्रापि दृष्टमित्ये तावन्मात्रणेति न विरोध इति भावः पंचीकरणादिषु च निर्धारितानुष्ठानप्रकारमिति संबंधः । तत्र दृष्टांतमाह । अनेकशाखेति । अनेकासु शाखासु विप्रकीर्णतया विशकलिततया स्थितानां पदार्थानामुपसंहारेण यथा अग्निहोत्रादिकर्मनिर्धारितानुष्ठानप्रकारं भवति । तथेत्यर्थः । उपासनानुष्ठानप्रकारः संप्रदायः तन्मात्रविद्भ्योपि गुरुभ्यः सकाशात् निश्चित्येत्यर्थः । उक्तं च भगवता श्रीक्र्ष्णेन निर्गुणप्रकरणे श्रुत्वान्येभ्य उपासत इति क्रमेणेति उपासनापरिपाकक्रमेणेत्यर्थः ।। अविसंवादि विभ्रमन्यायेनोपास्तेरपि क्वचित्फलकाले प्रमापर्यवसान संभवात् । पाणौ पंचवराटकाः पिधाय केनचित्करे कति वराटका इति पृष्ठे पंचवराटका इति तदुतर प्. ४०ब्) वक्तुर्वाक्यप्रयोग मूलभूतसंख्याविशेषज्ञानस्य मूलप्रमाण शून्यस्याहायीरोपस्यापि यथार्थत्ववन्निर्गुणब्रह्मोपासनस्यार्थ तथात्व विवेचकनिर्विचिकित्समूलप्रमाणनिरपेक्षस्य दहराद्युपासनावदुपासना शास्त्रमात्रमवलंव्यक्रियमाणस्यापि वस्तुतो यथार्थत्वेन दहराद्युपासनेनेव निर्गुणोपासनेन जन्यस्य स्वविषयसाक्षात्कारस्य श्रवणादि प्रणाड्याजन्यसाक्षात्कारवदेवतत्वार्थविषयत्वावश्यं भावाच्च ।। ननु निर्गुणोपासनस्य कथं प्रमालक्षणसाक्षात्कारपर्यवसानमित्यत आह । अविसंवादीति । अयमर्थः क्वचिद्ग्रहविशेषे स्थितस्य श्रीकृष्णरूपबिंबस्य प्रतिबिंबं गृहाद्बहिः पश्यतो दूरे स्थितस्य पुरुषस्य प्रतिबिंबे श्रीकृंष्णोयमिति भ्रमो जायते तेन भ्रमेण प्रतिबिंबाध्यासोपाधिसमीपं गतस्य पुरुषस्य सत्य श्रीकृष्णगोचरप्रमाजायत इति लोकप्रसिद्धं । तत्र प्रतिबिंबे बिंबभूत श्रीकृष्ण भ्रमो विसंवादीभ्रमः विसंवादः फलाभावः तद्रहितोऽविसंवादिभ्रमः फलवद्भ्रम इति यावत् । यथा तेन भ्रमेण प्रवतस्य श्रीकृष्णप्राप्तिलक्षणफलकाले श्रीकृष्णप्रमाजायते तथा प्. ४१अ) निर्गुणोपासने प्रवृत्तस्यापि ब्रह्मप्राप्तिलक्षणफलकाले निर्गुणप्रमाजायत इति । ननु संवादिभ्रम दृष्टांतेन निर्गुणोपास्तेः प्रमापर्यवसानमुक्तमनुपपन्नं दृष्टांत वैषम्या तत्र हि समीपोपसर्पणानंतरं सत्य श्रीकृष्णस्य चक्षुः सन्निकर्षे सति श्रीकृष्णप्रमाजायतेन तु संवादिभ्रममात्रात् । प्रकृते च निर्गुणोपासनस्य प्रमाजनने सामर्थ्याभावात् । सामग्र्यंतराभावाच्च कथं प्रमापर्यवसानमित्याशंक्यनिर्गुणोपासनस्यैव स्वसमानविषयकप्रमाजनन सामर्थ्यसंभावनाय तस्य यथार्थत्वं सदृष्टांतमाह । पाणाविति पिधायेति । तदुत्तरवक्तुरविदितमितिशेषः । तदुतरेति । दैवयोगात् पंचैव वराटकास्तवपाणौ संतीत्युतरवक्तुरित्यर्थः निर्गुणोपासनस्यापि वस्तुतो यथार्थत्वेनेति संबंधः । अखंडैकरसंब्रह्माहमस्मीति प्रत्यय संतति रूपोपास्तेर्विषयबाधाभावाद्यथार्थत्वमितिभावः । ननु प्रकृतोपासनस्य निर्विकित्स तत्वज्ञानपूर्वकत्वादेवश्रवणमननोतरकालीन निदिध्यासनस्येव यथार्थत्वसंभवात् । किमिति दैवयोगाद्यथार्थत्वं समर्थ्यतै तत्राह । अर्थ तथात्वेनि अर्थस्य ब्रह्मणः तथात्वं प्रत्यग्रूपत्वनिष्प्रपंचत्वादितस्य विवेचकं निर्णायकं यन्निर्विचिकित्समन्य परत्वाशंकाशून्यं मूलप्रमाणं श्रुतिरूपं तन्निरपेक्षस्येत्यर्थः । निदिध्यासनस्येव प्रकृतनिर्गुणोपासनस्य विचारपूर्वकत्वाभावात् । न निर्विचिकित्स तत्वनिर्णयपूर्वकत्व प्रयुक्तं यथार्थत्वमितिभावः । प्. ४१ब्) ननु विचारपूर्वकं प्रत्यगभिन्नब्रह्मनिर्णयाभावे कथमहंब्रह्मास्मीति प्रत्यय संतति रूपोपास्तिरनुष्ठीयते तत्राह । दहरादीति । यथा सगुणेश्वरस्य विचारपूर्वकं जीवाभिन्नत्व निर्णयाभावेपि स्वस्य सगुणेश्वराभेदचिंतनं कर्तव्यमित्येवं रूपं सगुणोपासनाविधिशास्त्रमवलंव्यसगुणोपासनं क्रियते तथा निर्गुणोपासनं कर्तव्यमित्येवमात्मकं शास्त्रमात्रमवलंव्य निर्गुणोपास्तिरनुष्ठीयते इत्यर्थः । निर्गुणोपासनस्य साक्षात्कार हेतुत्वे दृष्टांतमाह । दहराद्युपासनेनेवेति । अवश्यं भावादिति । समानविषयकध्यानसामर्थ्याद्विषयाबाधाच्चेत्यर्थः ।। इयांस्तु विशेषः प्रतिबंधरहितस्य पुंसः श्रवणादिप्रणाड्या ब्रह्मसाक्षात्कारो फटिति सिध्यतीति सांख्यमार्गो मुख्यः कल्पः उपास्त्या तु विलंबेनेति योगमार्गोनुकल्प इति । नन्वस्मिन्पक्षद्वयेपि ब्रह्मसाक्षात्कारे किं करणं केचिदाहुः प्रत्ययाभ्यासरूपं प्रसंख्यानमेव । योगमार्गे आदित आरभ्योपासनारूपस्य सांख्यमार्गे मननानंतरनिदिध्यासनरूपस्य च तस्य सत्वात् । न च तस्य ब्रह्मसात्कारकारणत्वे मानाभावः ततस्तुतं पश्यति निष्कलं ध्ययमान इति प्. ४२अ) श्रवणात् । कामातुरव्यवहित कामिनी साक्षात्कारे प्रसंख्यानस्य कारणं त्वकॢप्तेश्च आप्रापणा तत्रापि हि दृष्टमित्यधिकरणे विकल्पो विशिष्टफलत्वादित्यधिकरणे च दहराद्यहंग्रहोपासकानां प्रसंख्यानादुपास्य सगुणब्रह्मसाक्षात्कारांगीकाराच्च । ननु च प्रसंख्यानस्य प्रमाकरणेष्वपरिगणनातज्जन्यो ब्रह्मसाक्षात्कारः प्रमा न स्यात् । न च काकतालीय संवादिवराटक संख्याविशेषाहार्यज्ञानवदर्थाबाधेन प्रमाणत्वोपपतिः प्रमाणामूलकस्य प्रमात्वायोगात् आहार्य वृतेश्चोपासनावृतिवत् ज्ञानभिन्नयान सक्रियारूपतया इछादिवदवाधितार्थविषयत्वेपि प्रमात्वानभ्युपगमात् ।। सांख्ययोगमार्गयोस्तुल्यकल्पत्व भ्रममपनपति । इयांस्त्विति । बुद्धिमांद्यादि प्रतिबंधरहितस्य विशिष्टगुर्वादिलाभे सति सांख्यमार्ग एवानुष्ठेयः तस्य त्वरया सिद्धिहेतुत्वात् । सांख्यालाभे तु योगोनुष्ठेय इत्यनुकल्पः स इत्यर्थः । नत्वस्मिन्निति । सांख्ययोगमार्गद्वयेपीत्यर्थः । ननु योगमार्गे निर्गुणोपासनस्य सगुणोपासन प्. ४२ब्) दृष्टांतोदाहरणेन साक्षात्कारकारणत्वस्यानुपदमुक्तत्वात् । पक्षद्वय साधारण्येन प्रश्नानुपपतिरिति चिन्नैषदोषः उपासनस्य साक्षात्कारकारणत्वे प्रमाणाभिप्रायेणै प्रश्नोपपतेरत एव तत्र प्रमाणं वक्ष्यति न चेत्यादिना । अथवा पूर्वत्र सगुणोपासन दृष्टांतेन निर्गुणोपासनस्य हेतुत्वमात्रमुक्तं न तु करणत्वं तथा च योगमार्गेपि किमुपासनमेव करणं किं वा अन्यदिति प्रश्नाभिप्रायः संगछत इति भावः । मार्गद्वयेपि साक्षात्कारोदयकास्ते प्रसंख्यानस्यानुवृतिमाह । योगमार्ग इत्यादिना । निष्कलं निर्विशेषं परमात्मानं ध्यायमानः ततो ध्याना तं पश्यतीत्यर्थः । कामातुरेति । कामातुरस्यासंनिकृष्टकामिनीसाक्षात्कारे इत्यर्थः । तत्र सन्निकर्षाभावेन चक्षुषः करणत्वासंभवात् मनसो बहिरस्वातंत्र्याच्च कामिनी गोचरप्रसंख्यानमेव कारणमितिभावः । सगुणोपासनं प्रायणपर्यंतमावर्तनीयं कुतः तत्रापि मरणकालेपि योगिनो ब्रह्मचिंतनस्य श्रुतिस्मृतिसिद्धत्वात् । सदा प्रत्यभ्यासं विना मरणकाले तदसंभवादिति सूत्रार्थः । अहंग्रहीपासनानां विकल्पः उपास्य देवता साक्षात्कारलक्षणस्य फलस्याविशिष्टत्वादेकार्थालां विकल्पस्य प्रसिद्धत्वादिति सूत्रार्थः ब्रह्मसाक्षात्कारस्य प्रमाकरणजन्यत्वाभावेपि विषयाबाधात् । प्रमास्वमाशंक्यनिषेधति । न च काकतालीयेति । यादृछिकेत्यर्थः । कॢप्तचानकरणा जन्यस्य ज्ञानत्वमेव नास्ति प्. ४३अ) प्रमात्वं तु दूरापास्तमित्यंभिप्रायेणाह । प्रमाणामूलकस्येति । अविसंवादिवराटकसंख्याविशेषगोचराहार्यवृतेरपि ज्ञानत्वमसिद्धमित्याह । आहार्य वृतेश्चेति अवार्धितार्थ ज्ञानत्वं हि प्रमात्वं नत्व बाधितार्थकत्वमात्रमति प्रसंगादिति मत्वाह । इछादि वदिति ।। मैवं कॢप्तप्रमाकरणामूलकत्वेपि ईश्वर मायावृतिवत्प्रमात्वोपपतेः । विषयाबाधतौल्यान्मार्गद्वयेपि प्रसंख्यानस्य विचारिताद उविचारिताद्वावेदांताद्ब्रह्मात्मैक्यावगममूलकतया प्रसंख्यानजन्यस्यापि ब्रह्मसाक्षात्कारस्य प्रमाणमूलकत्वाच्च । उक्तं हि कल्पतरुकारैः । वेदांतवाक्यजज्ञानभावनाजापरोक्षधीः मूलप्रमाणदार्द्व्येन न भ्रमत्वं प्रपद्यते । न च प्रामाण्यपरतस्त्वापतिस्तु प्रसज्ज्यते । अपवादनिरासायमूलशुद्धानुरोधनादिति । अन्ये तु एषोणुरात्मा चेतसा वेदितव्यः दृश्यते त्वग्र्यया बुध्येत्यादि श्रुतेर्मन एव ब्रह्मसाक्षात्कारे करणं । तस्य सोपाधिकात्मन्यहं वृतिरूपप्रमाकरणकॢप्तेः । स्वप्नप्रपंचविपरीतप्रमात्रादि ज्ञानसाधन प्. ४३ब्) स्यांतःकरणस्येत्यादि पंचपादिका विवरण ग्रंथेनापि तथा प्रतिपादनात् ।। ननु च प्रसंख्यानस्येत्यादिना प्राप्तं चोद्यं परिहरति । मैवमिति । मायावृतिवदिति । न च माया वृतेरपि मास्तु ज्ञानत्वमिति वाच्यं । तथा सतीश्वरीय मायावृतेर्यः सर्वज्ञः सर्वविदित्यादि श्रुतिषु ज्ञाधात्वर्थत्वाभावप्रसंगादितिभावः । तौल्यादिति । न चेछादावति प्रसंग इति वाच्यं तद्भिन्नत्वेन विशेषणोपपतेरितिभावः । प्रसंख्या न जन्य साक्षात्कारस्य प्रमाणमूलकत्वात् । प्रमाणत्वमिति समाधानांतरमाह । मार्गद्वयेपीति । अविचारितादिति । योगमार्गाभिप्रायं वैदांताद्या ब्रह्मावगतिः तन्मूलकतयेत्यर्थः । न च विचारिताद्वा यदि ब्रह्मावगतिर्जाता तर्हि किमर्थं प्रसंख्यानमिति वाच्यं । प्रसंख्यानात्पूर्वमविद्यानिवर्तका प्रतिबधब्रह्मावगतेरलाभातदर्थ तदावश्यकमितिभावः । प्रमाणाजन्यस्यापि प्रमाणप्रयोज्यत्वमात्रेण प्रमात्वे संमतिमाह । उक्तं हीति । ज्ञानभावना ज्ञानाभ्यासरूपं प्रसंख्यानंतजन्यमपरोक्षज्ञानमित्यर्थः । मूलप्रमाणं वेदांतवाक्यं तज्जन्यप्रमातस्य दाढ्यांनामाविप्रतिपन्नप्रामाण्यकत्वमिति बोध्यं । प्रसंख्यानजन्यसाक्षात्कारनिष्टप्रामाण्यज्ञप्तौ मूलप्रमाणज्ञप्त्यपेक्षायामपसिद्धांतापात इति शंकते । न चेति । प्रसंख्यानजसाक्षात्कारनिष्टमपि प्रामाण्यं नियमेन स्वाश्रयग्राहकसाक्षिभास्यमेवेति न प्. ४४अ) तत्प्रामाण्यज्ञप्त्यर्थ मूलप्रमाणानुसरणं किंतु प्रसंख्यानजन्य व्यवहितकामिनीसाक्षात्कारस्याप्रमात्वादर्शनात् । प्रसंख्यानजन्यब्रह्मसाक्षात्कारेपि कदाचिदप्रामाण्य शंकासंभाव्यते ततस्तन्निरासाय मूलप्रमाणानुसरणमिति नापसिद्धांत इति भावः । अपवादेति । अप्रमाण्यशंका अपवादः । प्रसंख्या न मात्रं न साक्षात्कारे करणं किंतु तत्सहकृतं मनस्तत्रकरमितिमतं दर्शयति । अन्ये त्विति । अणुः दुर्विज्ञेयः अग्न्यत्वं प्रसंख्यान संस्कृतत्वं मनसैवानुद्रष्टव्यमित्यादि श्रुतिरादिपदार्थः जीवसाक्षात्कारे मनसः करणत्वे संमतिमाह । स्वप्नेति । प्रातिभासिकस्वप्नप्रपंचापेक्षया विपरीतो व्यावहारिकः प्रमात्रादिः तज्ज्ञानसाधनस्येत्यर्थः । आदिपदं प्रमेयादिसंग्रहार्थं । तथेति प्रमातृशब्दित सोपाधिकात्मसाक्षात्कारे मनसःकरणतयेति तथा शब्दार्थः ।। अहमेवेदं सर्वं सर्वोस्मीति मन्यते सोस्य परमो लोक इति श्रुत्युक्ते स्वाप्ने ब्रह्मसाक्षात्कारे एव मनसः करणत्व संप्रतिपत्तेश्च तदाकरणांतराभावात् । प्रसंख्यानं तु मनः सहकारिभावेनोपयुज्यते । वाक्यार्थभावनापरिपाकसहितमंतःकरणं त्वंपदार्थस्यापरोक्षस्य तत् दुपाध्याकारनिषेधेन तत्पदार्थतामाविभीवयतीतिभामतीवचनात् । प्. ४४ब्) ज्ञानप्रसादेन विशुद्धे सत्वस्तस्तु तं पश्यति निष्कलं ध्यायमान इति श्रुतावपि ज्ञानप्रसादशब्दितचितैकाग्र हेतु तयैव ध्यानोपादानात् । ननु प्रसंख्यानं स्वयं करणं तस्य क्वचिदपि ज्ञानकरणत्वा कॢप्तेः कामातुरकामिनी साक्षात्कारादावपि प्रसंख्यान सहकृतस्य मनस एव करणत्वोपपत्याऽकॢप्तज्ञानकरणांतरकल्पनायोगादित्याहुः । अपरे तु तद्धास्य विजिज्ञौतमसः पारं दर्शयति । आचार्यवान् पुरुषो वेद तस्य तावदेव चिरमित्यादि श्रुतिषु आचार्योपदेशानंतरमेव ब्रह्मसाक्षात्कारोदये जीवन्मुक्तिश्रवणाद्वेदांतविज्ञान सुनिश्चितार्थाः इति ज्ञानांतरनैराकांक्ष्यश्रवणातंत्वौपनिषदं पुरुषंमिति ब्रह्मण उपनिषदेकगम्यत्व श्रवणाच्चौपनिषदं महावाक्यमेव ब्रह्मसाक्षात्कारे करणं न मनः यन्मनसानमनुत इति तस्य ब्रह्मज्ञानकरणत्वनिषेधात् ।। निरुपाधिकात्मसाक्षात्कारेपि मनसः करणत्वं कॢप्तमित्याह । प्. ४५अ) अहमेवेति । इदं सद्रूपेण सर्ववस्तुनि अनुभूयमानं सर्वात्मकं ब्रह्मैवाहमस्मि ततः सर्वोस्मीति स्वप्ने ब्रह्मविन्मन्यत इत्यर्थः । ननु स्वप्ने ब्रह्मविदो महावाक्यानुसंधानसंभवाद्वाक्यमेव करणं किं न स्यादित्यत आह । तदेति । स्वप्ने महावाक्यानुसंधानस्यानियतत्वाद्वाक्यस्यापरोक्षधी हेतुत्वानुपगमाच्चेति भावः संमतिमाह वाक्यार्थेति । महावाक्यार्थेत्यर्थः । स्थूलसूक्ष्मकारणोपाधीनांतेति नेतीत्यादि । वाक्यैर्निषेधद्वाराशोधितो यः त्वं पदार्थः स्वप्रकाश चैतन्यात्मकः तस्य पूर्णतामाविर्भाव अवृतिसाक्षात्कार इत्यर्थः । यत्तु निष्कलं ध्यायमानस्ततो ध्याना तं पश्यति इति योजनामभिप्रेत्य ध्यानस्य साक्षात्कार करणत्वं श्रुतिसिद्धमित्युक्तं तद्दूषयति । ज्ञानप्रसादेनेति । करणव्युत्पत्याज्ञानपदं चितपरं ज्ञानस्य प्रसादः ऐकाग्र्यं तथा च ध्यायमानो ध्यानाल्लब्धेन ज्ञानप्रसादेन पश्यत इति योजना विवक्षितेति भावः । एवं योजनायां विनिगमकं पूर्वोदाहृतानि मनसः करणत्व बोधकवचनान्येवेत्यभिप्रेत्यप्रसंख्यानमात्रस्य करणत्वं दूषयति । नत्विति । महावाक्यमेव तत्र करणमिति मतमाह । अपरे त्विति । अस्य पितुरुपदेशात् तद्ब्रह्मविजज्ञौ साक्षात्कृतवान् हकिलेत्यर्थः । पारमधिष्ठानभूतं ब्रह्म तस्य विदुषस्तावानेव विलंबो विदेह कैवल्यं प्रतियावत्प्रारब्धान्न विमोक्ष्यत इत्यर्थः । वेदांतेति । अत्र वेदांतजन्य ज्ञानादेव ब्रह्मात्मैक्यलक्षणस्यार्थस्य सुनिश्चितत्वोक्त्यावाक्यार्थावगत्यनंतरं प्रसंख्यानानुष्ठानं नापेक्षितमिति प्रतीयत । इदं च तन्निरपेक्ष्यं वाक्यादेवापरोक्षज्ञानोत्पति पक्षे संगछते । अन्यथा प्. ४५ब्) अपरोक्षज्ञानाय तस्यापेक्षितत्वा तत्तेरपैक्ष्यं न संगछते । अतो वेदांतविज्ञानश्रुत्यावाक्यमेवापरोक्षज्ञाने करणमिति निश्चीयत इति भावः । महावाक्यमेवेति सांख्यमार्गानुष्ठानेन योगामार्गानुष्ठामेत वा दृष्टलक्षणसकलप्रतिबंधक्षये सति बंधरहितं सद्वाक्यमेव साक्षात्कारं जनयतीति वाक्यस्य करणत्वपक्षेन सांख्ययोगमार्गयोर्वेयर्थ्य शंकेति मंतव्यं लोको मनसा यच्चैतन्यं न मनुते तदेवत्वं ब्रह्मविद्धीति योजना ।। न चापक्वमनोविषयमिदं येनाहुर्मनोमतमिति वाक्यशेषे मनोमात्रग्रहणात् । न चैवं यद्वाचानभ्युदितमिति शब्दस्यापि तत्करणत्वं निषिध्यत इति शंक्यं । मनःकरणत्ववादिनापि शब्दस्य निर्विशेषपरोक्षज्ञानकरणत्वस्याभ्युपगतत्वेन तस्य यतो वाचो निवतंते अप्राप्यमनसा सहेति श्रुत्यनुरोधेन शब्दार्थ प्राप्ति रूपशक्तिमुखेन शब्दस्य तत्करणत्वनिषेधे तात्पर्यस्य वक्तव्यतयाशक्य संबंधरूपलक्षणामुखेन तस्य तत्करणत्वाविरोधात् न च मनसैवानुद्रष्टव्यमिति श्रुतिसिद्धं मनसोपि तत्र करणत्व न पराकर्तुं शक्यमिति वाच्यं । शाब्दसाक्षात्कारजननेपि तदैकाग्र्यस्यापेक्षितत्वेन प्. ४६अ) हेतुत्वमात्रेण तृतीयोपपतेः । मनसा ह्येव पश्यति मनसा शृणोतीत्यादौ । तथा दर्शनात् । गीता विवरणे भाष्यकारीय मनः करणत्व वचनस्य मतांतराभिप्रायेण प्रवृतेरित्याहुः ।। न मनुत इति वाक्यं अशुद्धमनस एव ब्रह्मज्ञानकरणत्वं निषेधतीति न चेत्यत्र हेतुमाह । येनाहुरिति येन चैतन्येन मतं प्रकाशितं मन इति वाक्यशेषे अपक्व मन एव चैतन्य भास्यमिति वक्तुमशक्यतया तत्र मनो मात्रग्रहणमावश्यकं तदैकरूप्याय न मनुत इति पूर्ववाक्येपि मनोमात्रं ग्राह्यमित्यर्थः । न चैवमिति । मनो मात्रस्य ब्रह्मे ज्ञानकरणत्वनिषेधोपगमे इत्यर्थः । अनुभुदितमिति । अप्रकाशितमित्यर्थः । न च वा इत्यस्य वेदांतातिरिक्तशब्दपरत्वं स्वीक्रियत इति वाच्यं । अत्रापि येन वागभ्युद्यत इति वाक्यशेषे शब्दमात्रस्य चैतन्यप्रकाश्यत्व प्रतिपादनेन तदैकरूप्याय पूर्ववाक्येपि वा चेत्यस्य शब्दमात्रपरत्वादित्याशवानाह । शब्दस्यापीति । मनोमात्रस्येव शब्दमात्रस्यापीत्यर्थः । सत्यं शब्दमात्रस्य ब्रह्मज्ञानकरणत्वं निषेधति तथापि शब्दस्य शक्त्या ब्रह्मज्ञानकरणत्वनिषेधपरं तद्वचनं न तु लक्षणयापि तत्करणत्वनिषेधपरं औपनिषदत्व श्रुतेर्निरालंबनत्व प्रसंगादिति समाधानमभिप्रेत्यविपक्षे परेषामपि बाधकं सूचयति । मनःकरणत्ववादिनापीति । वेदांतानां लक्षणयापि ब्रह्मबोधकत्वानभ्युपगमे ब्रह्मण एवासिध्यापत्यामनःकरणत्ववादिभिरपि तेषां प्. ४६ब्) ब्रह्मज्ञानकरणत्वस्याभ्युपगंतव्यत्वादित्यर्थः । परंतु वाक्यजन्यं ब्रह्मज्ञानं परोक्षं भवतां मते अस्माकं मते तु तदपरोक्षमिति विशेष इत्याशयेनाह । परोक्षेति । वेदांतानां शक्त्या ब्रह्मबोधकत्वनिषेधपरं यद्वा चानभ्युदितमिति वचनमिति व्यवस्थायां श्रुत्यंतरमनुकूलयति । तस्येति । यद्वा चानभ्युदितमिति निषेधे वचनस्येत्यर्थः । अप्राप्येति श्रुत्या ब्रह्मणि विषयशब्दानां प्राप्तिर्निषिध्यते । सा च प्राप्तिः शक्तिरेव तस्याः शब्दानामौत्सर्गिकत्वादिति भावः । वक्तव्य तयेति । मनः करणत्ववादिभिरपीतिशेषः तस्येति शब्दस्येत्यर्थः । तदिति ब्रह्मसाक्षात्कारेत्यर्थः । ब्रह्मगोचरवृतिं प्रतिकरणत्वं न तृतीया श्रुत्यर्थः पूर्वोदाहृत श्रुतिविरोधात् । किंतु एकाग्रस्य मनसः तां प्रत्युपादनतया हेतुत्वमात्रं तदर्थ इत्याह । शाब्दसाक्षात्कारजननेपीति । तथेति चाक्षुषज्ञानादौ मनसः करणत्वाभावेन हेतुत्व मात्रेणापि तृतीयादर्शनादिति भावः । शमदमादि संस्कृतं मन एवात्मदर्शने करणमिति गीताभाष्यवचनविरोधे परिहरति गीतेति । मतांतरेति । वृतिकारमतेत्यर्थः । न तु स्वमताभिप्रायेण उक्तप्रमाणविरोधादितिभावः ।। ननु तथापि शब्दस्य परोक्षज्ञानजनकत्व स्वभावस्य नापरोक्षज्ञानजनकत्वं संगछत इति चेत् । अत्र केचित् स्वतोऽसमर्थोपि शब्दः शास्त्रीयश्रवणमननपूर्वकप्रत्ययाभ्यासजनित संस्कारप्रचयलब्ध प्. ४७अ) ब्रह्मैकाग्र्यचितदर्पणानुगृहीतोऽपरोक्षज्ञानमुत्पादयति शास्त्रीयसंस्कृताऽग्र्यधिकरण इव होमोऽपूर्वमिति कल्प्यते । तरति शोकमात्मविदिति शास्त्रप्रामाण्यात् अपरोक्षस्य कर्तृत्वाद्यध्यासस्यापरोक्षाधिष्ठानज्ञानं विना निवृत्ययोगात् । औपनिषदे ब्रह्मणि मानांतराप्रवृतेः शब्दादप्यपरोक्षज्ञानानुपपतौ अनिर्मोक्षप्रसंगादित्याहुः । अन्ये तु भावनाप्रचय साहित्ये सति वहिरसमर्थस्यापि मनसो नष्ट वनिता साक्षात्कारजनकत्वदर्शनान्निदिध्यासन साहित्येन शब्दस्याप्यपरोक्षज्ञानजनकत्वं युक्तमिति दृष्टांतानुरोधेन समर्थयंते ।। ननु तथापीति । शब्दस्य ब्रह्मसाक्षात्कारकरणत्वपक्षे श्रुतिभाष्यविरोधाभावेपि शब्दप्रमाणस्वभावविरोधान्न महावाक्यं ब्रह्मसाक्षात्कारे करणमित्यर्थः । शब्दस्वभावमनुरुध्यैव तस्यापरोक्षज्ञानकरणत्वं साधयति । अत्र केचिदिति । प्रचयः समूहः प्रचयलब्धं यद्ब्रह्मण्यैकाग्र्यं तद्वच्चितमेव दर्पणं तदनुगृहीत इत्यर्थः । यथा चक्षुः स्वतः प्रतिबिंबानुभवजननासमर्थमपि दर्पणानुग्रहीतं प्. ४७ब्) सत् तदनुभवं जनयति तद्वदिति सूचयति चितदर्पणेति शास्त्रीयेति । यथा आधानादिजनित संस्काररहिताग्र्यधिकरणको होमस्तावदपूर्वं न जनयति । अग्र्यधिकरणकहोममात्रस्यापूर्वजननस्वभावाभात् शास्त्रीयसंस्कारविशिष्टाग्र्याधिकरणकहोमस्वपूर्वं जनयति तद्वदित्यर्थः । ननु दृष्टांते शास्त्रवला तथा स्वीक्रियते प्रकृते तथा शास्त्रं नोपलभ्यत इत्यत आह । तरतीति । नन्वनया श्रुत्या चिदात्मन्यध्यस्तस्य शोकोपलक्षितकर्तृत्वाद्यध्यासस्यात्मवेदनान्निवृतिरुच्यते । न तु शब्दस्यापरोक्षज्ञानकरणत्वमित्यत आह । अपरोक्षस्येति । यथा दृष्टांते होमाधिकरणस्याग्रेराधानादि संस्कृतत्वश्रवणान्यथानुपपत्याशास्त्रीयसंस्कारसहकृतग्र्यधि- करणको होमो पूर्वं जनयतीति कल्प्यते । तथात्मज्ञनस्यापरोक्षा ध्यासनिवर्तकत्वश्रवणान्यथानुपपत्या आत्मज्ञानजनक वेदांतानामेवापरोक्षज्ञानकरणत्वं कल्प्यत इत्यर्थः । अयोगादिति सत्यपि श्रवणजनितपरोक्षज्ञाने कर्तृत्वाद्यध्यासनिवृत्यदर्शनात् । परोक्षज्ञानमात्रेणाध्यासनिवृतौ मननादिविधि वैयर्थ्य प्रसंगाच्च अपरोक्षाध्यासरूपदिग्भ्रमादिग्याथात्म्यादि साक्षात्कारं विना निवृत्यदर्शनाच्चेति भावः । ननु कर्तृत्वाद्यध्यासनिवर्तकमधिष्ठानात्मतत्वसाक्षात्कररूपं ज्ञानं मनसैव संभवति किं शब्दस्य तत्करणत्व कल्पनयेति तत्राह । औपनिषद इति । अंतरिंद्रियस्य मनसः प्रत्यक्षप्रमाणत्वेन ब्रह्मणस्तद्गम्यत्वे उपनिषदेक गम्यत्व प्. ४८अ) प्रतिपादकश्रुतिबाधप्रसंग इति भावः । नन्वौपनिषदत्व श्रुति विरोधेन ब्रह्मणि मानांतराप्रवृतौ शब्दस्वभावविरोधेन शब्दस्यापि ब्रह्मसाक्षात्कारजनने प्रवृतिर्न संभवति । तथा च ब्रह्मसाक्षात्कारकरणस्यैवालाभात् । मास्तु तत्साक्षात्कार इत्यत आह । शब्दादपीति । तथा च मोक्षशास्त्रप्रामाण्याय शब्दस्यैव साक्षात्कारकरणत्वं कल्पनीयमितिभावः । शास्त्रप्रामाण्यमनुपजीव्यापि शब्दस्यापरोक्षज्ञानकरणत्वं साधयति । अन्ये त्विति ।। अपरे त्वपरोक्षार्थविषयत्वं ज्ञानस्यापरोक्ष्यं नामाऽन्याऽनिरुक्तेः अर्थापरोक्षत्वं तु नापरोक्षज्ञानविषयत्वं येनान्योन्याश्रयो भवेत् । किंतु तत्तत्पुरुषचैतन्याभेदः अंतःकरणतद्धर्माणां साक्षिणि कल्पिततया तदभेदसत्वात् । नाह्यचैतन्ये कल्पितानां घटादीनां बाह्यचैतन्ये वृतिकृत ततपुरुषीय चैतन्याभेदाभिव्यक्त्या तदभेदसत्वाच्च न क्वाप्यव्याप्तिः ।। इदानीं शब्दस्य परोक्षज्ञानजननस्वाभाव्यसेवा सिद्धमतो नित्यापरोक्षे ब्रह्मणि वेदांतानां साक्षात्कारकरणत्वं निरपवादमिति मतांतरमाह । अपरे त्विति । नन्विंद्रियजन्यज्ञानत्वादिकमेव ज्ञानस्यापरोक्षत्वं ब्रह्मगोचर प्. ४८ब्) शाब्दज्ञानस्य तदभावात्नापरोक्ष्यमित्यत आह । अन्यानिरुक्तेरिति । इंद्रियजज्ञानत्वादेश्च प्रथमपरिछेदावसाने निरस्तत्वादितिभावः । नन्वर्थस्यापरोक्षत्वमपरोक्षज्ञानविषयत्वमन्यस्यानिर्वचना तथा चानोन्याश्रयः अर्थस्यापरोक्षत्व ज्ञप्तौ ज्ञानस्यापरोक्षत्व ज्ञप्तिः ज्ञानस्यापरोक्षत्व ज्ञप्तौ च अर्थस्यापरोक्षत्व ज्ञप्तिरित्याशंक्यानिर्वचनमसिद्धमित्यभिप्रेत्याह । अर्थापरोक्षत्वं त्विति ततदिति । ततत्प्रमातृचैतन्याभिन्नत्वं तस्य तस्य विषयस्य तं तं प्रमातारं प्रमातारं प्रत्यपरोक्ष ततत्प्रमातृचैतन्याभिन्नार्थविषयकं ज्ञानं ततत्प्रमातुः । ततत्प्रमातृचैतन्याभिन्ने विषये अपरोक्षज्ञानमित्यर्थः । न चार्थापरोक्षादावननुगम इति वाच्यं ज्ञानगतस्यानुगता परोक्ष्यत्वस्य जातिरूपस्य उपाधिरूपस्य वा प्राऽऽन्निरस्तत्वेन तदभावार्थापरोक्ष्यस्याप्यनुगतस्यासंभवेन तस्या दोषत्वादिति भावः । ननु प्रमातृचैतन्याभिन्नत्वरूपस्यार्थापरोक्ष्यस्य जडरूपापरोक्षार्थे व्याप्तिः चैतन्यजडयीरैक्यस्य बाधितत्वादित्यत आह । अंतःकरणेति तदभेदसत्वादिति साक्षिशब्दित प्रमातृचैतन्याभेदसत्वादित्यर्थः । तथा चार्थापरोक्ष्यनिर्वचने कल्पिता कल्पित साधारणाभेदस्य विवक्षितत्वेन प्रमातृचैतन्यब्रह्मचैतन्ययोरिव प्रमात्रचैतन्यजडयोरकल्पिताभेदाभावेपि जडं सदिति सामान्याधिकरण्यानुभवसिद्ध कल्पिताभेद सत्वात्नाव्याप्तिरितिभावः । आंतरजडपदार्थेषु प्रमातृचैतन्या भिन्नत्वमुपपाद्य बाह्यापरोक्षार्थेषु तदुपपादयति । प्. ४९अ) बाह्येति अंतःकरण तद्धर्माणांदभेद सत्वात् । घटादीनां तदभेदसत्वाच्च न क्वाप्यांतरार्थे वाऽव्याप्तिरितिसंबंधः । घटादीनां ततत्पुरुषीय चैतन्याभेदसत्वे हेतुमाह । बाह्यचैतन्ये ततत्पुरुषीय चैतन्याभेदाभिव्यक्त्येति । ननु बाह्यचैतन्यस्य ततत्पुरुषीय चैतन्यस्य च वस्तुतः सदा अभेद सत्वेपि तदभिव्यक्तिः कुत इत्यत आह । वृति कृतेति । बाह्ये विषयावछिन्नचैतन्ये चक्षुरादि द्वारानिर्गताया वृतेः संसर्गे सति वृत्ति वृतिमतोरभेदाद्वृतिमदंतःकरणस्यापि तत्र संसर्गो लभ्यते । तथा च वृति संसृष्टबाह्यचैतन्यमेवांतःकरणसंबंधा ततत्पुरुषीय चैतन्यं भवतीत्यनेन प्रकारेण बाह्यचैतन्ये वृतिकृतातपुरुषीय चैतन्याभेदाभिव्यक्तिर्भवतीत्यर्थः । ननूक्त प्रकारेण बाह्य चैतन्यस्य प्रमात्रचैतन्याभिन्नत्व सिद्धावपि घटादीनां प्रमातृचैतन्याभिन्नत्वमसिद्धमेवेत्याशंक्याह । बाह्यचैतन्ये कल्पितानामिति । बाह्यचैतन्ये तावत् घटादीनामभेदः प्रागेव सिद्धः तत्र तेषां कल्पितत्वा तथा च बाह्यचैतन्यस्य वृत्तिकृत ततत्पुरुषीय चैतन्याभेदाभिव्यक्तिदशायां घटादीनामपि ततत्पुरुषीय चैतन्याभिन्नत्वं सिध्यतीनिभावः ।। न चांतःकरणधर्माणां ज्ञानादीनामिवधर्माधर्मसंस्काराणामपि साक्षिणि कल्पितत्वा विशेषादापरोक्षापतिः तेषामनुद्भूतत्वात् उद्भूतस्यैव ४९ब्) जडस्य चैतन्याभेदः । आपरोक्ष्यमित्यभ्युपगमात् । एवं च सर्वपुरुषचैतन्याभिन्नत्वाद्यत्साक्षादपरोक्षाद्ब्रह्मेति श्रुत्यासत एवापरोक्षं ब्रह्मेत्यपरोक्ष्यार्थविषयत्वाछाब्दस्यापि ब्रह्मज्ञानस्यापरोक्षत्व वाचो युक्तिर्युक्ता एवेत्याहुः । अद्वैत विद्याचार्यास्तु नापरोक्षार्य विषयत्वं ज्ञानस्यापरोक्ष्यं स्वरूपसुखापरोक्षरूपज्ञाना व्यापनात् । स्वविषयकत्वलक्षण स्वप्रकाशत्व निषेधात् । किंतु यथा ततदर्थस्य स्वव्यवहारानुकूलचैतन्याभेदोर्थापरोक्ष्यं । एवं ततद्व्यवहारानुकूलचैततन्यस्य तत्तदर्थाभेदोज्ञानापरोक्ष्यं । तथा च चैतन्यधर्म एवेदमापरोक्ष्यं न त्वनुमिति त्वेछात्वादिवदंतःकरणवृतिधर्मः । अर्थापरोक्ष्यलक्षणस्याति व्याप्ति मां शंक्य निराकरोति न चेत्यादिना । धर्मेति धर्मादीनामप्यधिष्ठान भूतप्रमातृचैतन्ये सहाभिन्न सताकत्वरूपाभेदसत्वादिति भावः । उद्भूतत्वे सति प्रमातृचैतन्याभिन्नत्वमर्थापरोक्ष्यं उद्भूतत्वं च फलवलकल्प्य स्वभावविशेषः । स च धर्मादेर्नास्तीति परिहारार्थः । एवं शब्दस्य ब्रह्मसाक्षात्कारे प्. ५०अ) करणत्वसिध्यर्थमुपोद्घातं कृत्वा प्रकृत दर्शयति । एवं चेति । ज्ञानापरोक्ष्यप्रयुक्तत्वे सतीत्यर्थः । अभिन्नत्वादिति । जीवरूपप्रमातुः ब्रह्माभेदस्य श्रुतिसिद्धत्वादिति भावः । इदं च ब्रह्मणो जीवाभिन्नत्वं जडस्य प्रमातृचैतन्याभिन्नत्ववत् काल्पनिकं न भवति किंतु वास्तवैक्यरूपमित्याशयेनाह । स्वत एवेति । ब्रह्मणो नित्यापरोक्षप्रमातृचैतन्याभेदे श्रुतिमाह । यत्साक्षादिति । ब्रह्म जडवत् स्वव्यतिरिक्तप्रमातृचैतन्यमपेक्ष्यापरोक्षं न भवति । किंतु साक्षात्प्रमातृचैतन्यस्वरूपत्वादेवापरोक्षमित्यर्थः । ज्ञानापरोक्ष्यमर्थापरोक्ष्यं च प्रकारांतरेण निरूपयति । अद्वैतविद्याचार्यास्त्विति । पूर्वोक्तं ज्ञानापरोक्ष्यलक्षणमव्याप्त्या दूषयति । नापरोक्षेति स्वरूपसुखस्यापरोक्ष्यरूपे स्वरूपज्ञानेऽव्यापनादित्यर्थः । नन्वात्मस्वरूपसुखानुभवस्य साक्षिचैतन्यरूपस्य स्वप्रकाशत्वाभ्युपगमात् । स्वप्रकाशत्वस्य च स्वविषयकत्वरूपत्वात् । स्वरूपसुखविषयकत्वं तदपरोक्षरूपे स्वरूपज्ञाने निरपवादमित्यत आह । स्वविषयकत्वलक्षणेति । एकस्मिन् चैतन्ये विषय विषपि भावलक्षणसंबंधो न भवति संबंधस्य द्विनिष्ठत्वात् स्वविषयत्वं विनापि स्वसत्ताप्रयुक्तसंशयाद्यगोचरत्वादिलक्षणस्य स्वप्रकाश तस्याकरेषु निरूपितत्वादिति भावः । किं तर्हि ज्ञानापरोक्ष्यमिति पृछति । किंत्विति ज्ञानापरोक्ष्यनिर्वचनं प्रतिदृष्टांतव्याजेन प्रथममर्थापरोक्ष्यं निर्वक्ति । यथेति । अर्थस्य प्. ५०ब्) स्वव्यवहारानुकूलचैतन्याभिन्नत्वमपरोक्षत्वं अस्ति चांतःकरण तद्धर्माणां स्वव्यवहारानुकूलेन साक्षिचैतन्येनाभिन्नत्वं तत्र तेषामध्यस्तत्वात् । तथा घटादीनामपि स्वव्यवहारानुकूलेन घटादिगोचर वृत्युपहितेन घटाद्यभिष्टानचैतन्येनाभिन्नत्वमस्ति । तथा च ब्रह्मणोपि स्वव्यवहानुकूलेन स्वगोचरवृत्युपहितेन साक्षिचैत्नयेनाभिन्नत्वमस्तीति न क्वाप्यव्याप्ति घटाद्यर्थस्य चैतन्ये कल्पितस्य चैतन्याभिन्नत्वं सदा वर्तते । अपरोक्षत्वं तु सदा नास्तीति व्यवहारानुकूलेत्युक्तं घटादिगोचरवृति दशायामेव घटाद्यधिष्ठानचैतन्यं घटादिव्यवहारानुकूलं भवति न सर्वदेति नाति प्रसंगः ननु ततद्व्यवहारानुकूलचैतन्यस्य ततदर्थाभिन्नत्वमपरोक्षत्वमस्तुनाम तथापि ज्ञानापरोक्ष्यं नोक्तमेव वृतिरूपज्ञानस्य चैतन्यापेक्षा भिन्नत्वादित्यत आह । तथा चेति चैतन्यस्यैव ततदर्थव्यवहारानुकूलत्वे विवक्षिते सतीत्यर्थः । तथा च ज्ञानापरोक्ष्यमित्यत्र ज्ञानपदं चैतन्यपरमेव न वृत्तिज्ञानपरमिति नानुक्तिदोष इति भावः ।। अत एव सुखादिप्रकाशरूपे साक्षिणि स्वरूपसुखप्रकाशरूपे चैतन्ये चापरोक्ष्यं । न च घटाद्येंद्रियकवृतौ तदनुभवविरोधः । अनुभवस्य वृत्यवछिन्नचैतन्यगता परोक्ष्य प्. ५१अ) विषयत्वोपपतेः । ननु उज्ञानार्थयोरापरोक्ष्यं हृदयादिगोचर शाब्दवृति तद्विषयोरति प्रसक्तं । तत्र दैवात् कदाचिद्वृतिविषयसंसर्गे सति वृत्यवछिन्नचैतन्यस्य विषयावछिन्नचैतन्यस्य चाभेदाभिव्यक्तेरवर्जनीयत्वादिति चेत् न परोक्षवृतेर्विषयावछिन्नचैतन्यगताः ज्ञाननिवर्तनाक्षमतया तत्रा ज्ञानेनावृतस्य विषयचैतन्यस्यानावृतेन वृत्यवछिन्नसाक्षिचैतन्येनाभेदाभिव्यक्तेरभावादापरोक्ष्या- प्रसक्तेः ।। ततदर्थव्यवहारानुकूलत्वे सति ततदर्थाभिन्नत्वरूपं ज्ञानापरोक्षत्वं चैतन्यधर्म एवेत्यत्र युक्तिमाह । अत एवेति । चैतन्यधर्मत्वाभ्युपगमादेवेत्यर्थः । तस्य वृतिधर्मत्वे तु सुखदुःखादिगोचरापरोक्षवृत्यनंगीकारात् । सुखदुःखादिभासकसाक्षिचैतन्ये वृतिधर्मस्यापरोक्ष्यस्यासंभवाच्च सुखदुःखादेरपरोक्षत्वानुभवविरोधः स्यादितिभावः लक्षणे सत्यं तं वह्निगोचरानुमिति वृत्युपहिते जीवचैतन्येव हि व्यवहारानुकूले गतमिति तत्राति व्याप्तिवारणाय विशेष्यं । अनुमिति वृतेः विषयदेशे गमनाभावेन तद्वृत्यवछिन्नचैतन्यस्य न वह्न्यभिर्न्नत्वमिति नाति व्याप्तिः प्. ५१ब्) घटादिगोचर वृत्यभावदशायां घटाद्यवछिन्नचैतन्ये घटाद्यपरोक्षत्व विरर्हिते घटाद्यर्थाभिन्नत्वमस्तीति तद्धारणाय सत्यं तं तदा तस्य चैतन्यस्यावृतत्वेन घटादि व्यवहारानुकूलत्वाभावात् । नाति व्याप्तिरिति मंतव्यं । न चेति । ज्ञानापरोक्ष्यस्य चैतन्यधर्मत्वे घटादि गोचरवृतौ घटसाक्षात्करोमीत्यादिप्रकारेणापरोक्षत्वानुभवविरोध इत्यर्थः । वृतिचैतन्ययोस्तादात्म्येन वृति साक्षात्कारत्वानुभवस्य चैतन्य गता परोक्षविषयकत्वोपपतेरित्यर्थः । ननु हृदयनाडीधर्मादिगोचरशाब्दवृतिरंतःशरीरव्यापिनी जायमाना दैवयोगात् हृदयनाड्याद्यवछिन्नांतःकरणप्रदेशे यदि जायेत तदा हृदयादिरूपविषयावछिन्नचैतन्यस्य हृदयादिगोचरशाब्दवृत्यवछिन्नस्य चाभेदाभिव्यक्तिरपरिहार्या घटादिस्थले वृतेः विषयसंसर्गे सति वृतिविषयावछिन्नचैतन्ययोरभेदाभिव्यक्ति स्वीकारा तथा च हृदयादिगोचरशाब्दानुमित्यादि वृत्यवछिन्नचैतन्यरूपे परोक्षज्ञाने हृदयाद्यर्थाभिन्ने हृदयादिव्यवहारानुकूले ज्ञानापरोक्ष्यलक्षणमति व्याप्तं । तथा हृदयादिरूपे परोक्षार्थे स्वव्यवहारानुकूलशाब्दादिवृत्यवछिन्नचैतन्याभिन्ने अर्थापरोक्ष्यलक्षणमति व्याप्तमिति शंकते । ननूक्तमिति । ययोश्चैतन्ययोरभेदाभिव्यक्तिरिष्यते । तयोरुभयोरप्यनावृतत्वमपेक्षितमन्यतरचैतन्यस्यावर्णदशायां तयोरभेदस्य प्रत्यक्षत्वलक्ष्ऽणाभिव्यक्त्ययोगात् तथा च हृदयादिगोचरशाब्द प्. ५२अ) वृतिस्थलेनाति व्याप्तिः तत्र विषयचैतन्यस्यावृतत्वादिति परिहरति । न परोक्षवृतेरिति । आपरोक्ष्याप्रसक्तेरिति । परोक्षहृदयादिविषयस्य हृदयादिगोचरशाब्दवृत्यवछिन्नचैतन्यरूपपरोक्षज्ञानस्य चेति शेषः तथा च हृदयादिगोचरशाब्दवृत्यवछिन्नचैतन्यरूपपरोक्षज्ञानस्य हृदयादिव्यवहारानु ।। कूलज्ञानत्वे सत्यपि हृदयादिविषयेण सहाभिव्यक्त्याभेदाभावादभिव्यक्त ततदर्थाभिन्नत्वे सति तदर्थव्यवहारानुकूलज्ञानत्वलक्षणं ज्ञानापरोक्ष्यं नास्ति । तथा हृदयाद्यर्थस्यापि स्वव्यवहारानुकूलशाब्दवृत्यवछिन्नसाक्षिचैतन्याभेदसत्वेपि तदभेदाभिव्यक्त्यभावेन स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्ति शालित्वरूपमर्थापरोक्ष्यं नास्तीत्यर्थः । न चाहं सुखीदुःखीत्याकारके सुखादिसाक्षिणी सुखदुःखादिरूपविषयाभेदो विद्ययाभेदो विद्यमानोपि नाभिव्यज्यते । सुखादिसाक्षिणो जीवस्य सुखादेश्चाधाराधेय भावप्रतीतेः । तथा च सुखदुःखादिप्रत्यक्षेभिव्यक्तविषयाभेदाभावादव्याप्तिरिति प्. ५२ब्) वाच्यं । घटादि प्रत्यक्षरूपे घटादि स्फुरणे घटस्फुरति पटस्फुरतीत्याकारानुभवमादाय घटाद्यर्थाभेदाभिव्यक्तिमत्वस्येव सुखं स्फुरतिः दुःखं स्फुरतीत्याकारानुभवमादायैव सुखदुःखादि प्रत्यक्षे सुखाद्यर्थाभेदाभिव्यक्तिमत्व सत्वात् । न च घटस्फुरतीत्यनुभवे घटस्य स्फुरणाश्रयत्वमेव भाति । न तु स्फुरणाभेद इति वाच्यं । घटस्फुरतीति प्रयोगे देवदत्तो गछतीत्यत्रगमनकर्त्रऽभिन्नो देवतदत इति वाक्यार्थवत्स्फुरणाश्रयाभिन्नो घट इति वाक्यार्थस्य वक्तव्य तया घटः स्फुरतीति प्रयोगमूलभूते घटः स्फुरतीत्यनुभवेपि स्फुरणाश्रयभूतचिदात्माभिन्नतया घटस्य भानावश्यं भावात् । नं च घटस्य स्फुरणाश्रयाभेदाभिव्यक्तावपि स्फुरणाभेदाभिव्यक्तिरद्यापि नोपयादितैवेति वाच्यं । घटस्य स्वरूपमिति प्रत्यक्षं हि घटमेव घटस्य स्वरूपतया यथा विषयी करोति । तथा घटस्फुरतीति प्रत्यक्षमपि घटादिवृति दशायां घटाद्यधिष्ठानभूतमनावृत्त चिदात्मानमेव प्. ५३अ) स्वप्रकाशचिदात्माश्रित स्फुरणरूपेण विषयीकरोतीत्यभ्युपगमेन घटे स्फुरणाश्रया भेदभानस्यैव स्फुरणाभेदभानरूपत्वात् । एतदुक्तं भवति घटस्य स्वरूपमिति शब्दप्रयोग एव घट तत्स्वरूपयोर्भेदोभासतेन तु तन्मूलभूते घटस्य स्वरूपमिति प्रत्यक्षे अन्यथा तत्प्रत्यक्षस्य भ्रमत्व प्रसंगात् घटतत्स्वरूपयोर्भेदाभावात् । न च तस्य भ्रमत्वमभ्युपगतुं शक्यते बाधकाभावात् । एवं स्फुरतीति शब्दप्रयोगे एव स्वप्रकाशात्मनः स्फुरण तदाश्रयनावेन भेदभानं न तु स्फुरतीति प्रत्यक्षे तत्र स्फुरण द्वित्वानुपलंभादिति । न च ब्रह्मगोचरशाब्दवृतेर्विषयसंसृष्टायाविषयगता ज्ञाननिवर्तनक्षमत्वदर्शनेन हृदयादिगोचरशाब्दवृतेरपि विषयसंसर्गाविशेषे कथं तस्यां स्वविषयचैतन्यगता ज्ञाननिवर्तन क्षमत्वं नेति वाच्यं । हृदयादिगोचरशाब्दवृतेः सत्यपि विषयसंसर्गे तस्यां वृतौ अज्ञाननिवर्तकत्व प्रजकाभावेनाज्ञाननिवर्तकत्वस्य प्रथमपरिछेदावसाने प्. ५३ब्) दर्शितत्वादितिभावः । अत एव जीवस्य संसारदशायां वस्तुतः सत्यपि ब्रह्माभेदेन तदा परोक्ष्यं । अज्ञानावणाकृतभेदसत्वात् । न चैवं ब्रह्मणोपि जीवापरोक्ष्यासंभवादसर्वज्ञत्वापतिः । अज्ञानस्येश्वरप्रत्यनावरकतया तं प्रतिजीवभेदानापादनात् । यदज्ञानं यं प्रत्यावरकं तस्य तं प्रत्येव स्वाश्रयभेदापादकत्वात् । अत एव चैत्र ज्ञानेन तस्य घटाज्ञाने निवृतेऽनिवृतं मैत्राज्ञानं मैत्रं प्रत्येव विषयचैतन्यस्य भेदापादकमिति न चैत्रस्य घटापरोक्ष्यानुपपतिरपि ।। अर्थस्य स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्तिमत्वमेवापरोक्ष्यं न तु तादृशा भेदवत्वमात्रमित्यत्र लिंगमाह । अत एवेति । अभेदाभिव्यक्तेरेवापरोक्षत्वप्रयोजकत्व स्वीकारादेवेत्यर्थः । संसारेति । तत्वसाक्षात्कारात् पूर्वकाल इत्यर्थः । जीवस्य ब्रह्माभेदे सत्यपीत्यनेन ब्रह्मणः स्वव्यवहारानुकूलजीवचैतन्याभिन्नत्वे सत्यपीत्यपीत्यर्थो विवक्षितः । तथा च संसारदशायां स्वव्यवहारानुकूल जीवचैतन्याभिन्नस्यापि ब्रह्मणो जीवं प्रत्यपरोक्षत्वाभावस्तयोरभेदाभिव्यक्त्य भावादेवेति प्. ५४अ) वक्तव्यतया अभेदाभिव्यक्तेरापरोक्ष्यप्रयोजकत्वं युक्तमितिभावः । न चैवमिति अज्ञानकृतभेदस्याभेदाभिव्यक्ति प्रतिबंधकत्व इत्यर्थः । असंभवादिति । जीवं साक्षात्करोमि जीवो मम परोक्ष इति जीवगोचरव्यवहारानुकूलं ज्ञानं ब्रह्मणो मायावृत्युपहितं ब्रह्मचैतन्यमेव तथा च ब्रह्मकर्तृकव्यवहारविषयस्य जीवस्य ब्रह्मकर्तृकव्यवहारानुकूल तादृशब्रह्मचैतन्याभिन्नत्वे सत्वेप्यभिव्यक्ताभेदशालित्वा भावात् जीवस्य ब्रह्मप्रत्यपरोक्षं न संभवति । न च ब्रह्मणो जीवगोचरापरोक्षज्ञोनासंभवेपि न सर्वज्ञत्वभंगः जीवगोचरपरोक्षज्ञानमात्रेणापि तत्संभवादिति वाच्यं । ईश्वरस्य परोक्षज्ञानानंगीकारादितिभावः । अज्ञानं हि जीवधर्मिकब्रह्मप्रतियोगिकभेदप्रयोजकं जीवस्य नाहं ब्रह्मेति ब्रह्मभेदानुभव सत्वात् । न तु ब्रह्मधर्मिक जीवप्रतियोगिकभेदप्रयोजकं ब्रह्मणो नाहं जीव इत्यनुभवे मानाभावात् । तथा च ब्रह्मप्रतिजीवस्य ब्रह्माभेदाभिव्यक्ति प्रतिबंधकस्याज्ञानकृतभेदस्याभावात् नोक्त दोष इति परिहरति । अज्ञानस्येति । अनावरकतयेति ईश्वरस्याहमज्ञ इत्यनुभवे मानाभावादज्ञानमीश्वरं प्रतिजीवावरकं न भवति । न चेश्वरस्यापि लीलाविग्रहपूर्वक व्यवहारकाले तदीये नैव वचनेन तस्याज्ञत्वानुभवोस्तीति गम्यत इति वाच्यं तदीयस्य तदीयाज्ञत्वगमकवचनस्यान्यथा सिद्धेश्चतुर्थपरिछेदे वक्ष्यमाणत्वादितिभावः । तमिति ईश्वरं प्रतिजीवप्रतियोगिक भेदाप्रयोजकत्वादित्यर्थः प्. ५४ब्) तं प्रतिजीवावरकस्यापि जीवभेदा पादकं किं न स्यादित्यत आह । यं प्रतीति । यं जीवं प्रति यदज्ञानं विषयचैतन्यावरकं तं प्रत्येव तस्याज्ञानस्य स्वाश्रय भूतविषयचैतन्य प्रतियोगिकभेदापादकत्वाभ्युपगमादित्यर्थः । उक्त व्यवस्थायां नियामकमाह । अत एवेति । यं प्रति यदज्ञानमित्यादिव्यवस्थाभ्युपगमादेव चैत्रस्य घटापरोक्ष्यानुभवानुपपतिरपि नेति संबंधः । घटावछिन्नचैतन्ये चैत्रं प्रतिघटचैतन्यावरकमज्ञानं यथा वर्तते तथा मैत्रं प्रत्यपि घटचैतन्यावरकमज्ञानं तत्रास्ति । तथा च चैत्रीय घटज्ञानेन चैत्रस्य घटाज्ञाने चैत्रं प्रतिस्वाश्रय भूतविषयचैतन्यप्रतियोगिक भेदापादके निवृते सति चैत्रीय घटज्ञानेनानिवृतं घटचैतन्यगतं मैत्रं प्रतिघटावरकाज्ञानमैत्रं प्रत्येव स्वाश्रय भूत घटचैतन्यप्रतियोगिकभेदा पादकं । न तु मैत्राज्ञानं चैत्रं प्रतिघट चैतन्यानावरकमपि । चैत्रं प्रतिस्वाश्रयी भूतघट चैतन्यप्रतियोगिक भेदापादकं । तथा सति चैत्रीय घटज्ञानेन चैत्रीयाज्ञाने निवृते सति तत्कृतभेदनिवृत्रावपि चैत्रस्य घटचैतन्यस्य च मैत्राज्ञानकृतभेदसत्वेनाभेदाभिव्यक्त्यभावात् चैत्रस्य घटापवोक्ष्यानुभवानुपपतिरेवस्यादतो मैत्राज्ञानं मैत्रं प्रतीव चैत्रं प्रतिस्वाश्रय भेदापादकं न भवति चैत्रं प्रतिस्वाश्रय चैतन्यानावरकत्वादिति वक्तव्यं तथा चोक्त व्यवस्थासिद्धेत्यर्थः ।। प्. ५५अ) नन्वेवं वृतिविषयचैतन्याभेदाभिव्यक्तिलक्षणस्यापरोक्षस्य विषयचैतन्यगताज्ञाननिवृतिप्रयोज्यत्वे तस्य अज्ञाननिवृतिप्रयोजकत्वायोगात् ज्ञानमात्रमज्ञाननिवर्तकं भवेदिति चेत् । न यत् ज्ञानमुत्पद्यमानं स्वकारणमहिम्नाविषयसंसृष्टमेवोत्पद्यते तदेवाज्ञाननिवर्तकमिति विशेषणात् । ऐंद्रियक ज्ञानानां तथा त्वात् । एवं च शब्दादुत्पद्यमानमपि ब्रह्मज्ञानं सर्वोपादानभूत स्वविषयब्रह्मचैतन्यसंसृष्टमेवोत्पद्यत इति तस्याज्ञाननिवर्तकत्वमज्ञाननिवृतौ तन्मूलकभेदप्रविलयादापरोक्ष्यं चेत्युपपद्यतेतरां । नन्वेवमध्ययन गृहीत वेदांतजन्येनापि तत् ज्ञानेन मूलाज्ञाननिवृत्या आपरोक्ष्यं किं न स्यात् ।। ननु परोक्षज्ञानमज्ञाननिवर्तकमितिरीत्याज्ञानस्य अज्ञाननिवर्तकत्वे अपरोक्षत्वं प्रयोजकमिति । वक्तुं न शक्यते ज्ञानगतापरोक्षत्वस्यैवाज्ञाननिवृत्यधीनत्वात् । न च मास्तु ज्ञानापरोक्ष्यस्याज्ञाननिवृतिप्रयोजकत्वमिति वाच्यं । तथा सति ज्ञानमात्रस्याज्ञाननिवर्तकत्वापरोक्षज्ञानस्यापि प्. ५५ब्) अज्ञाननिवर्तकत्वं प्रसंगादित्याशयेन शंकते । नन्वेवमिति । एवं शब्दार्थमवाह । वृतीति वृत्यवछिन्नचैतन्यरूपे ज्ञाने घटादिरूपविषये च वृत्यवछिन्नचैतन्यविषयावछिन्नचैतन्ययोरभेदाभिव्यक्ति घटितस्येत्यर्थः । अज्ञान निवृतिं प्रयोज्यत्व इति । प्रमातारं प्रतिषयचैतन्यावरणद्वाराविषयचैतन्यप्रतियोगिक- भेदापादकस्याज्ञानस्य निवृतिं विना अर्थस्य ज्ञानस्य वा अपरोक्ष्यासंभवस्योक्तत्वादापरोक्ष्यस्याज्ञाननिवृतिप्रयोज्यत्वमित्यर्थः । ज्ञानस्याज्ञाननिवर्तकतायामापरोक्ष्यस्य प्रयोजकत्वाभावेपि न हातिः । प्रयोजकोतरस्य प्रथमपरिछेदांते दर् शितत्वादित्याशयेन परिहरति । नेति । तथात्वादिति संनिकर्त्षरूपकारणमहिम्नाविषयसंसृष्टतयैव उत्पद्यमानत्वादित्यर्थः । अनुमित्यादि वृतीनाम तथात्वेनातिप्रसंगाभावाच्चेत्यपि द्रष्टव्यं । नन्वनु मे वह्न्यादि गोचरानुमिति वृतेरिव ब्रह्मगोचरशाब्दवृतेरपि । स्वविषयभूतेन ब्रह्मचैतन्येन संसर्गाभावान्मूलाज्ञाननिवर्तकत्वं न स्या तथा च तत्वज्ञानानंतरमपि ब्रह्मापरोक्ष्यं न स्यादित्यत आह । एवं चेति । एवमेवेत्यर्थः । ऐंद्रयकवृतिवदेवेति यावत् । ब्रह्मगोचरवृतेः स्वविषयसंसर्गनियमे कारणमाह । सर्वोपादानभूतेति जायमानस्य सर्वस्य ब्रह्मसंसर्गनियमे सति ब्रह्मगोचरवृतेः स्वविषयसंसर्ग नियमे किं वक्तव्यमित्याशयेन सर्वोपादानेत्युक्तं । कार्यस्योपादानसंसर्गनियमा प्. ५६अ) तथा च ब्रह्मगोचरवृतेर्नानुमेय वह्न्यादिगोचरानुमिति वृतितुल्यतेति भावः । आपरोक्ष्यं चेति । ननु ज्ञानापरोक्ष्यस्याज्ञाननिवृतावप्रयोजकत्वमते वेदांतजन्य ज्ञानस्यापरोक्षत्व प्रसाधनमस्मिन् शाब्दापरोक्षवादे व्यर्थमिति चेन्न अज्ञाननिवर्तकज्ञानमपरोक्षरूपमिति नियमस्य चक्षुरादिजन्य ज्ञानेषु दृष्टस्य ब्रह्माज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने व्यभिचारवारणार्थतया तत्साधनस्यार्थवत्वोपपतेः । मूलाज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने आपरोक्ष्यस्य तद्वैतत्पश्यन्नित्यादिश्रुत्या ब्रह्मसाक्षात्करोमीति विद्वदनुभवेन च सिधस्य तत्र तत्प्रसाधनं विना अनुपपतेश्चेति भावः । घटादौ घटादिगोचरवृतिकाल एवापरोक्ष्यं तद्वृत्युपरमे तु पुनरज्ञानांतरकृतभेदप्राप्त्या स्वव्यवहारानुकूल चैतन्याभेदाभिव्यक्त्यभावान्नापरोक्ष्यं ब्रह्मणि तु मूलाज्ञाननिवृतौ पुनरावरणकृतभेदाप्रसक्त्या ब्रह्मज्ञानानंतरं सदैवापरोक्ष्यमिति विशेषं सूचयति । तरामिति । नन्वेवमध्ययन गृहीतेति । नियमेन यज्ञानं विषयसंसृष्टतयोदेति । तज्ज्ञानमज्ञानं निवर्तपत्येवेति नियमोपगमे सतीत्येवं शब्दार्थः । आपात ज्ञातस्यापि स्वयब्रह्मसंसर्गितयैव उत्पन्नत्वादितिभावः ।। न च तत् सत्ता निश्चयरूपत्वाभावान्नाज्ञाननिवर्तकमिति वाच्यं तथापि कृत श्रवणस्य प्. ५६ब्) निर्विचिकित्सशाब्दज्ञानेन तन्निवृत्यामननादि वैयर्थ्यापतिरिति चेन्न सत्यपि श्रवणान्निर्विचिकित्सज्ञाने चितविक्षेपदोषेण प्रतिबंधात् । अज्ञानानिवृत्यातन्निराकरे मनननिदिध्यासननियमविध्यर्थानुष्टानस्यार्थवत्वात् । भवांतरीयमननाद्यनुष्ठाननिरस्तचितविक्षेपस्योपदेशमात्रात् ब्रह्मापरोक्ष्यस्येष्यमाणत्वाच्चेत्याहु । अथैवमपि कृतनिदिध्यासनस्य वेदांतजन्यब्रह्मब्रह्मानेनेव घटादिज्ञानेनापि ब्रह्माज्ञाननिवृतिः किं न स्यात् । न च तस्य ब्रह्माविषयत्वान्न ततो ब्रह्माज्ञाननिवृतिरिति वाच्यं । घटः सन्नित्यादिबुद्धिवृतेः सद्रूपब्रह्मविषयत्वोपगमात् । न च तत्र घटाद्याकारवृत्या तदज्ञाननिवृतौ स्वतः स्फुरणादेव तदवछिन्नचैतन्यं सदिति प्रकाशतेन तस्य घटाद्याकारवृतिविषयत्वमितिवाच्यं । तदभावे घटविषयं ज्ञानं तदवछिन्नचैतन्यविषयमज्ञानमिति भिन्नविषयेण ज्ञानेन तन्निवृतेरयोगात् । जडे आवरणकृत्याभावेन घटस्याज्ञाना प्. ५७अ) विषयत्वात् । न च घटादिवृतेस्तदवछिन्नचैतन्यविषयत्वेप्यखंडानंदाकारत्वा भावान्न ततो मूलाज्ञाननिवृतिरिति वाच्यं ।। सता निश्चयरूपत्वमपि निवर्तक ज्ञानविशेषणमतो नोक्ताति प्रसंग इति शंकते । न च तदिति । विचारप्राचीनमध्ययन गृहीत वेदांतजन्यज्ञानं तच्छब्दार्थः । विशेषणमभ्युपगम्याप्यति प्रसंगमाह । तथापीति । अप्रतिबद्धत्वमपि निवर्तक ज्ञानविशेषणमतो नोक्ताति प्रसंगोपीति समाधते । न सत्यपीति । ननु मननादेर्विक्षेप शब्दिता संभावनाविपरीतभावना निवृत्यर्थत्वे यस्य विद्याधिकारिणो जन्मांतरीय मननादि सहित श्रवणानुष्ठानेन समस्ती विक्षेप दोषो निरस्तः तस्योपदेशमात्रेणापि सता निश्चयरूपमप्रतिबद्धं च ब्रह्मज्ञानं जायते । तथा च तस्येह जन्मनि श्रवणमननाद्यनुष्ठानं विनापि मूलाज्ञाननिवृतिः ब्रह्मापरोक्ष्यं च स्यादित्यत आह । भवांतरीयेति । तथा चेष्टापतिरितिभावः । अथैवमपीति । विक्षेपदोषनिवृत्यर्थमननाद्यपेक्षायामपीत्यर्थः । कृतनिदिद्ध्यासनस्याधिकारिणी घटादिध्यासनस्याधिकारिणो घटादिज्ञानेनापि मूलाज्ञननिवृतिः । किं न स्याद्घटादिवृतेरपि मूलाज्ञानविषयचैतन्यविष्यकत्वाविशेषादित्याक्षेपाभिप्रायः मूलाज्ञानघटज्ञानयोः समानविषयत्वमसिद्धमिति सिद्धांतितः शंकामनूद्यनिराकरोति । न च तस्येति । घटादिज्ञानस्येत्यर्थः । तत प्. ५७ब्) इति घटादिज्ञानादित्यर्थः । घटः सन्नित्याद्याकारायावृतेः ब्रह्मचैतन्यविषयकत्वाभ्युपगमो असिद्ध इति सिद्धांती शंकते । न च तत्रेति । तत्रेत्यादितछब्दत्रये घटादिपरं तस्येति ब्रह्मण इत्यर्थः । घटाद्यवछिन्नचैतन्यस्य घटादिवृतिविषयत्वं पूर्ववादी साधयति । तदभाव इत्यादिना । चैतन्यस्य घटादिवृतिविषयत्वा भावे सतीत्यर्थः । ननु यदि घटमात्रविषयकज्ञानेन घटावछिन्नचैतन्यविषयकाज्ञाननिवृतिर्न संभवति तयोः समानविषयकत्वाभावात् । तर्हि घटज्ञानेन सहाज्ञानस्य समानविषयकत्वसंपतये अज्ञानमपि घटादिजडमात्रविषय मे वास्तु नेत्याह पूर्ववादी । जड इति । जडस्य जडत्वादेवप्रमाणानवतारदशायामप्रकाशोपपत्या जडस्याप्रकाशार्यामावरणकल्पनायोगादित्यर्थः । कृत्यं फलं तथा च वेदांतजन्य ज्ञानवत् घटादिज्ञानस्यापि ब्रह्मचैतन्यविषयकत्वावश्यंभावेन मूलाज्ञानसमानविषयकत्वा तेनापि तन्निवृतिप्रसंग इति स्थितं । तत्र सिद्धांती शंकते न चेति ।। वेदांतजन्यसाक्षात्कारेपि तदभावात् । न हि तत्राखंडत्वमानंदत्वं वा कश्चिदस्तिप्रकारः वेदांतानां संसर्गागोचरप्रमाननकत्वलक्षणाखंडार्थत्वहानापतेः । न च वेदांतजन्यज्ञानादेव तन्निवृतिनियम इति वाच्यं । कॢप्ता प्. ५८अ) ज्ञाननिवर्तकत्व प्रयोजकरूपस्य ज्ञानांतरेपि सद्भावे तथा नियंतुमशक्यत्वात् । न च घटाद्याकारवृतिविषयस्यावछिन्नचैतन्यस्य कल्पितत्वेन यन्मूलाज्ञानविषयभूतं सत्यमनवछिन्नं चैतन्यं तद्विषयत्वाभावाद्घटादि वृतीनां निवर्त्यत्वाभिमता ज्ञानसमानविषयत्वलक्षणं कॢप्त प्रयोजकमेव नास्तीति वाच्यं । तत्रावछेदकांशस्य कल्पितत्वेप्यवछेद्यांशस्याकल्पितमूलाज्ञानविषयचैतन्यरूपत्वात् । तस्य कल्पितत्वे घटवज्जडतयाऽवस्थाज्ञानं प्रत्यपि विषयत्वायोगेनावस्थाज्ञानविषयाकल्पितचैतन्यविषयत्वस्य वक्तव्यतया तन्निवर्तक घटादिज्ञानस्यापि तद्विषयत्वावश्यंभवेन तत्पक्षेपि ततो मूलाज्ञाननिवृतिप्रसंगस्यापरिहरात् ।। तर्हि वेदांतजन्यज्ञानमपि ब्रह्माज्ञानविवर्तकं न स्यादिति पूर्ववादी दूषधाति । वेदांतजन्येति । अखंडत्व मनवछिन्नत्वं वेदांतजन्यज्ञानस्याखंडत्वादि धर्मवैशिष्ट्यावगाहित्वोपगमे बाधकमाह । वेदांनामिति मूलाज्ञाननिवर्तकत्वानस्य वेदांतजन्यत्वमपि विशेषणं विवक्षितमतो प्. ५८ब्) घटादिज्ञानेनाति प्रसंग इत्याशयवती माशंकामनूद्यदूषयति । पूर्ववादी । न च वेदांतेत्यादिना । वेदांतजन्यज्ञानकॢप्तस्य मूलाज्ञाननिवर्तकत्व प्रयोजक रूपस्य मूलाज्ञानसमानविषयकत्व सता निश्चयरूपत्वा प्रतिबद्धत्वलक्षणस्य निदिध्यासनपरिपाककाले चक्षुरादिजन्यघटादिज्ञानेपि सत्वे सति वेदांतजन्यज्ञानादेवमूलाज्ञाननिवृतिः । न तु घटादिज्ञानादिति नियंतुमयुक्तत्वात् । वेदांतजन्यत्वस्यापि सता निश्चयरूपत्वादेरिव प्रयोजक विशेषणत्वे गौरवान्मानाभावाच्चेतिभावः । तर्हि वेदांतजन्यज्ञाने कॢप्तं यत्प्रयोजकं तदेव घटादिज्ञाने नास्तीति शंकते । न च घटाद्याकारेति । अवछिन्नत्वं कल्पितत्वे हेतुः । अनवछिन्नत्वं सत्यत्वे हेतुः घटादिवृर्तानां कल्पितचैतन्यविषयकत्वेन सत्य ब्रह्मविषयकत्वाभावादित्यर्थः । घटाद्यवछिन्नचैतन्यं क कल्पितमित्यत्र चैतन्यांशस्याकल्पितत्वं कल्पितत्वं वा विवक्षितं नाद्य इत्याह । तत्रेति । अवछिन्नचैतन्य इत्यर्थः । अवछेद्यचैतन्यांशस्य घटादिवृतिविषयस्याकल्पितं यन्मूलाज्ञानविषयब्रह्मचैतन्यं तद्रूपत्वादित्यर्थः । तथा च घटाद्यवछिन्नचैतन्यगोचरवृतेरपि निवर्त्यत्वाभिमतमूलाज्ञान समानविषयकत्वरूपं वेदांतजन्यज्ञाने कॢप्तं प्रयोजकमस्तीतिभावः । द्वितीय कल्पेपि घटादिवृतौ कॢप्त प्रयोजकमस्तीति दर्शयन् । तं कल्पं दूषयति । तस्य कल्पितत्व इति । अवछेद्यचैतन्यांशस्येत्यर्थः । वक्तव्य तयेति अवछेद्यचैतन्यांशस्य कल्पितत्वपक्षे तस्य जडत्वापत्या प्. ५९अ) जडस्य तस्याज्ञानविषयत्वासंभवादवस्थाज्ञानं प्रतिमूलाज्ञानविषय ब्रह्मचैतन्यमेव विषय इति वक्तव्यं निर्विषयाज्ञानासंभवात् । तथा च ब्रह्मचैतन्यविषयकावस्थाज्ञाननिवर्तकत्वाय घटादिवृती नामपि मूलाज्ञानविषयब्रह्मचैतन्यविषयकत्वमपरिहार्यं घटादि वृतीनां सत्यब्रह्मविषयकत्वाभावे अव आज्ञानेन सहसमानविषयकत्वाभावातासामवस्थाज्ञाननिवर्तकत्वं न स्यादित्यर्थः । तन्निवर्तकेति । अवस्थाज्ञानं तच्छब्दार्थः तद्विषयत्वेति मूलाज्ञानविषयब्रह्मचैतन्यं तछब्दार्थः तत्पक्षेपीति अवछेद्यांशस्य कल्पितत्वमिति द्वितीय कल्पेपीत्यर्थः । तत इति घटादिज्ञानादित्यर्थः । अपरिहारादिति । घटादिज्ञानस्यापि वेदांतजन्यज्ञानस्येव मूलाज्ञानसमानविषयकत्वादितिभावः ।। अत्राहुराचार्याः । न चैतन्यं चक्षुरादिजन्यवृतिविषयः न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनं परां विखानिव्यतृणत् स्वयंभूस्तस्मात्पराऽऽन्पश्यति नांतरात्मन्नित्यादि श्रुत्या तस्य परमाण्वादि वच्चक्षुराद्ययोग्यत्वोपदेशादौपनिषदमिति विशेषणाच्च । न च सर्वप्रत्ययवेद्येवा ब्रह्मरूपे व्यवस्थित इत्यादि वार्तिक विरोधः । तस्य घटाघाकार वृत्युदये सत्यावरणाभि भवात् । स्वप्नभं प्. ५९ब्) सद्रूपं ब्रह्मघटः सन्निति घटवद्व्यवहार्यं भवतीत्यौपचारिक घटादि वृति वेद्यत्व परत्वात् । आवरणांभिभावकत्वं च घटादिज्ञानस्य घटादिविषयत्वादेवोपपन्नं घटादेरप्यज्ञानविषयत्वात् । घटं न जानामि घटज्ञानेन घटाज्ञानं नष्टमित्यवस्थाज्ञानानां घटादिविषयत्वानुभवात् । न च तत्रावरण कृत्याभावादज्ञानांगीकारो न युक्तः । तद्भासकस्य तदवछिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपतेरिति वाच्यं ।। अत्राहुरिति । घटादिज्ञानमपि मूलाज्ञाननिवर्तकं स्याच्चैतन्यविषयकत्वाद्वेदांतजन्य ज्ञानवदिति चोद्ये हेत्व सिद्धिमाहरित्यर्थः । अस्यात्मनो रूपं संदृशे संदृशश्चक्षुषो योग्यत्वेन न तिष्ठति रूपादि हीनत्वात् । अतो न कश्चिदेनमात्मानं चक्षुषा पश्यति परांविपराग्विंषयाणिखानि इंद्रियाणि व्यतृणत् हिंसितवान् । ईश्वरः जडार्थ विषयत्वे नैवकरणानि सृष्टवानिति यावत् । तस्मात् तथा सृष्टत्वात्पराऽऽन्परां चं सर्वलोक इंद्रियैरुपलभते । न अंतरात्मानं चैतन्य स्वभावमित्यर्थः । न चक्षुषा गृह्यत इत्यादि श्रुतिरादिपदार्थः । तस्येति चैतन्यस्येत्यर्थः । ननु यदींद्रिया योग्यत्वोपदेशाब्दपनिषदेक गम्यत्व श्रवणाच्च प्. ६०अ) चैतन्यं घटादिवृतिविषयोनुभवमीत्युपेयते तर्हि वार्तिक विरोध इति शंकते । न च सर्वेति । यद्यद्वस्तु प्रतीयते तत्सर्वं सदित्येव प्रतीयते तथा चानुभव वलात्सद्रूपं ब्रह्मसर्वप्रत्यय वेद्यतया व्यवस्थितमित्यर्थः । चैतन्यस्य सर्वप्रत्यय वेद्यत्वं गौणमेव वार्तिककाराणामभिमतं न घटादिवन्मुख्यं उदाहृत श्रुतिविरोधात् । तथा च न वार्तिक विरोध इति समाधते । तस्येति वार्तिक वचनस्येत्यर्थः । यथा घटस्य घटगोचरवृत्यधीनव्यवहारविषयत्वं तथा घटाद्यधिष्ठानसद्रूपब्रह्मणोपि घटादिवृत्यधीन व्यवहारविषयत्वमस्तीत्यनेन गुणै न सद्रूपं ब्रह्मघटादि प्रत्यय वैद्यमिति वार्तिककारैरुच्यत इत्यर्थः । न चैवं परोक्षवृतिविषयेष्टावरणानुभिभवादुक्त गतिस्तत्र न संभवतीति वाच्यं । वार्तिके प्रत्यय पदस्यावरणाभिभावकवृति परत्वोपपतेरितिभावः । ननु घटादिवृतेर्घटाद्यवछिन्नचैतन्यविषयकत्वाभावे चैतन्यावरकाज्ञानाभिभावकत्वं न संभवति ज्ञानाज्ञानयोः समानविषयकत्वाभावादित्यत आह । आवरणाभिभावकत्वं चेति जडस्याप्यज्ञानविषयत्वमनुभवबलात् स्वीकार्यमित्याह । घटादेरपीति । अवस्था पदं मूलाज्ञानव्यवछेदाय तस्य ब्रह्मनुजानामीति ब्रह्ममात्रविषयकत्वानुभवात् । न जडविषयत्वमितिभावः । न च तत्रेति । जडवस्तुतीत्यर्थः । न युक्त इति अज्ञानाश्रयत्वं जडेन युक्तं तत्रावरणाभावत् । तदभावश्च फलाभावादित्यर्थः । घटं न जानामीत्यनुभवस्तु घट तदधिष्ठान चैतन्ययोस्तादात्म्याच्चैतन्यविषयकत्वेनाप्युपपद्यत प्. ६०ब्) इति भावः । ननु जडस्यावरणाभावे कथं तदप्रकाशः संभवति । न च तत्प्रकाशकचैतन्यसंसर्गाभावादेवाप्रकाशो न त्वावरण बलादिति वाच्यं । जडस्य स्वप्रकाश चैतन्ये अध्यस्ततया तस्य सदावभासकचैतन्यसंसर्गसत्वादतो जडस्याप्रकाश एव जडावरणफलमित्यत आह । तद्भासकस्येति । अत्र तच्छब्दत्रयं जडपरं ।। उक्त भंग्याजडस्य साक्षादज्ञानविषयत्व प्रतिक्षेपेपि जडावछिन्नचैतन्यप्रकाशस्याज्ञानेनावरणं ततो नित्यचैतन्यप्रकाशसंसर्गेपि जडस्य नास्ति न प्रकाशत इत्यादि व्यवहारयोग्यत्वमिति परंपरयाऽज्ञानविषयत्वाभ्युपगमात् । साक्षात्परंपरया वा यदज्ञानावरणीयं तद्विषयस्यैव ज्ञानस्य तदज्ञाननिवर्तकत्व प्रयोजक शरीरे निवेशात् । न चैवं घटादीनामुक्तरीत्यामूलाज्ञानविषयत्वमपि स्यादिति घटादिसाक्षात्कारादेव मूलाज्ञाननिवृत्यापातः फलबलातदज्ञानकार्यातिरिक्त तद्विषय विषयकत्वस्यैव तन्निवर्तकत्वे तंत्रत्वात् ।। उक्त भंग्येति । तत्रावरणकृत्याभावादज्ञानांगीकारो न प्. ६१अ) युक्त इति वाक्येन जडे साक्षादज्ञानाश्रयत्वस्य साक्षादज्ञानविषयत्वस्य च प्रतिक्षेपेपीत्यर्थः । ननु तद्वाक्यस्य जडे साक्षादज्ञानविषयत्व प्रतिक्षेपपरत्वं किमिति कल्पते साक्षात्परंपरा साधारणाज्ञानविषयत्व मात्रप्रतिक्षेपपरत्वं संभवादित्याशंक्य तथा सति तद्भासकस्य तदवछिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपतेरित्युतर वाक्येन जडेपि परंपरयाज्ञानविषयत्वाभ्युपगमविरोधप्रसंगादित्याशयेनाह । जडावछिन्नेत्यादिना शंका ग्रंथे तदप्रकाशोपपतेरित्यनेनांशेन जडे अस्ति । प्रकाशते प्रियं चेत्येवमात्मकव्यवहारायोग्यत्वलक्षणमावरणमभ्युपगतं चैतन्यस्यावरणादेवेत्यनेनांशेन जडावरणस्य कारणत्वेन चैतन्यावरणमभ्युपगतमिति प्रतिपादयति । अज्ञानेनेति तत इति चैतन्यावरणादित्यर्थः । चैतन्यस्य स्वप्रकाशतया तस्य यथा सदा प्रसक्तप्रकाशत्वमावरणकल्पकमस्ति तथा जडस्यापि सदा चैतन्यप्रकाशसंसृष्टतया सदा प्रसक्तप्रकाशत्वमावरणकल्पकं तुल्यमिति सूचयति । नित्यचैतन्यप्रकाशसंसर्गेपीति । इति शब्दः प्रकारवचनः ननूक्तरीत्यावछिन्नचैतन्यनिष्ठमवस्थाज्ञानं जड तदवछिन्नचैतन्ययोरुभयोरप्यावरकमिति लभ्यते । तथा च घटादिज्ञानस्य जडमात्रविषयकत्व स्वीकारेण तस्याज्ञानेन सह सर्वाशे समानविषयकत्वाभावादज्ञाननिवर्तकत्वं न स्यादित्यत आह । साक्षादिति । ज्ञानस्याज्ञानसमानविषयकत्वमात्रं विरोधप्रयोजक शरीरे प्. ६१अ) प्रविष्टं न तु सर्वांशेषि समानविषयकत्वं गौरवादितिभावः । न चैवमिति । ज्ञानाज्ञानयोः सर्वांशे समानविषकत्वानादर इत्यर्थः । उक्तरीत्येति । अवछिन्नचैतन्यस्य स्वरूपेण सत्यतया ब्रह्मस्वरूपस्यावस्थाज्ञानविषयत्ववत् मूलाज्ञानविषयत्वमप्यस्ति । तथा चावस्थाज्ञानकृतचैतन्यावरणबलाज्जडस्यापि परंपरयावस्थाज्ञानविषयत्वमित्युक्तरीत्या मूलाज्ञानकृतचैतन्यावरणबलात् । मूलाज्ञानविषयत्वमपि जडस्य घटादेरपरिहार्यं स्यादित्यर्थः । ततः किं तत्राह । घटादीति । यथा अवस्थापरं ज्ञानं प्रतिपरयाविषयभूत जडसाक्षात्कारादेवावछिन्न चैतन्यनिष्ठावस्थाज्ञानस्य निवृतिस्तथा मूलाज्ञानप्रत्यपि परंपरयाविषयभूत जडसाक्षात्कारादेव मूलाज्ञानस्यापि निवृत्यापात इत्यर्थः । मूलाज्ञाननिवृत्यापातो न चेत्यत्र हेतुमाह । फलबलादित्यादिना । घटादिसाक्षात्कारे सत्यपि मूलाज्ञानानुवृतिरूपफलबलादित्यर्थः । मूलाज्ञान तत्कार्यातिरिक्तो यो मूलाज्ञानविषयश्चिन्मात्रं तद्विषयकत्वख्यैवज्ञाने मूलाज्ञाननिवर्तकत्वे तंत्रत्व कल्पनात् । घटादिसाक्षात्कारे च तदभावान्न मूलाज्ञाननिवर्तकत्वापात इत्यर्थः ।। अथ वा मूलाज्ञानस्यैव जडं न विषयः अवस्था ज्ञानानां त्ववछिन्नचैतन्याश्रितानां तत जडमेव विषयः अन्यथा चाक्षुषवृत्याचंदनखंडे चैतन्याभिव्यक्तौ तत्संसर्गिणो गंधस्यापरोक्ष्यापतेः । प्. ६२/६३अ) तदनभिव्यक्तौ चंदन तद्रूपयोरप्यप्रकाशापतेः । न च चाक्षुष वृत्याचंदन तद्रूपावछिन्न चैतन्ययोरभिव्यक्त्यातयोः प्रकाशः गंधाकारवृत्यभावेन गंधावछिन्नचैतन्यस्यानभिव्यक्त्या तस्यानभिव्यक्त्या तस्याप्रकाशश्चेति वाच्यं । चैतन्यस्य द्विगुणीकृत्यवृत्यभावेनैक द्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक् पृथक् गगनावछेदकत्वस्येव चैतन्यावछेदकत्व स्याप्यसंभवा तेषां स्वाश्रय द्रव्यावछिन्नचैतन्येनैव शुक्तीदमंशावछिन्नचैतन्येन शुक्तिरजतवत्प्रकाश्यतया तस्याभिव्यक्तौ गंधस्यापि प्रकाशस्याऽनभिव्यक्तौ रूपादेरप्यप्रकाशस्या चापतेः । न च गंधाकारवृत्युपरक्त एव चैतन्ये पंधः प्रकाशत इति नियमः ।। जडमात्रगोचरवृत्या कथमवछिन्नचैतन्यावरकाज्ञाननिवृतिर्भिन्नविषयत्वादिति शंकायामवस्थाज्ञानमवछिन्नचैतन्यावरणद्वारा जडमप्यावृणोति अतो जडमात्रगोचरयापि वृत्या अवस्थाज्ञान निवृतिः संभवतीति प्रतिपादितमिदानीं तस्यामेव शंकायां प्रकारांतरेण समाधानं दर्शयति । अथवेति । अथवा अवस्थाज्ञानानां ततज्जडमेव विषय इति संबंधः । घटं न जानामीत्यादि पूर्वोक्तानुभवादेवेति प्. ६२/६३ब्) भावः । तर्ह्यवस्थाज्ञानानामाश्रयोपि तत्तज्जडमेवस्या तथा चाप सिद्धात इत्यत आह । अवछिन्नचैतन्याश्रितानामिति । ननु जडस्याज्ञानविषयत्वोपगमे जडमज्ञानस्य विषयो न भवतीति सिद्धांतस्य का गतिरित्यत आह । मूलाज्ञानस्यैवेति । जडस्याज्ञानाविषयत्व सिद्धांतो मूलाज्ञानमात्रविषय इति भावः । अन्यथेति । जडस्यानावृतत्वे इत्यर्थः । चंदनखंडगोचर चाक्षुष वृत्या तदवछिन्नचैतन्यमभिव्यज्यतेन वा आद्ये दोषमाह । तत्संसर्गिण इति । चंदननिष्ठगंधस्यापि चंदनस्येवापरोक्ष्यापतिरभिव्यक्ति चैतन्यसंसर्गित्वस्योभयत्राविशेषात् । जडस्यावृतत्वपक्षे तु नायं दोषः । चाक्षुषवृत्यागंधावरणानिवृतेरित्यर्थः । द्वितीये दोषमाह । तदनभिव्यक्ता इति । अप्रकाशापतेरिति । चंदनुगोचर चाक्षुषवृतिकाले चंदनदद्रूपप्रकाशाभावो निष्ठ इति भावः । चंदनखंडन घटपटादि द्रव्याणामिवैक द्रव्यवृतिगुणानामपि चैतन्यावछेदकत्वमस्तीत्यभिप्रेत्याशंकते । न चेति । एकत्रद्रव्ये रूपरसगंधादिभेदेन चैतन्यभेदो नास्ति मानाभावादित्याह । चैतन्यस्येति चैतन्यस्य निरवयवतया द्रव्ये द्रव्यावछेदेनैकागुणावछेदेनापरावृतिर्न संभवतीत्यर्थः । यद्येक द्रव्ये प्रदेशभेदेन गंधादयः स्युः तदा तत्र दव्ये गंधादिभेदेन चैतन्यभेदशंकापि स्यात् । न त्वेतदस्ति गंधादीनां व्याप्यवृतित्वानुभवादित्याशयेनाह । व्याप्येति । यथा घटादिद्रव्याणां गगनभेदकत्वमस्ति तथा गंधादीनां गगनभेदकत्वं नास्ति गंधादिभेदेन गगनभेदा ननु प्. ६४अ) भवादितिभावः । गंधादिभेदेन चैतन्यभेदाभावे सिद्धे चंदनचैतन्याभिव्यक्त्यनभिव्यक्तिकृतौ पूर्वोक्त दोषौ दुष्परिहरावित्याह । तेषामिति । शुक्तीति यथा शुक्तीदमंशावछिन्नचैतन्ये रजतस्याध्यासात् रजतं शुक्तीदमंश चैतन्येवावभास्यं नत्विदमंशावछिन्नचैतन्यापेक्षया पृथग्भूतेन स्वावछिन्नचैतन्येनावभास्यं तथा द्रव्यावछिन्नचैतन्ये कल्पितारूपादयोपि द्रव्यावछिन्नचैतन्येनैव प्रकाश्या इत्यर्थः । ननु चंदनगंधस्याभिव्यक्तचैतन्यप्रकाशसंसृष्टस्यापि गंधगोचरवृत्यभावादेवापरोक्ष्याभाव इति शंकामनूद्यनिराकरोति । न च गंधाकारेति ।। प्रकाशसंसर्गस्यैव प्रकाशमानशब्दार्थत्वेनासत्यामपि तदाकारवृतावनावृत प्रकाशसंसर्गेऽप्रकाशमानत्वकल्पनस्य विरुद्धत्वात् । अभिव्यक्तस्य च गंधोपादानचैतन्यस्य गंधासंसर्गोक्त्य संभवात् । तस्माद्यथा चैत्रस्य घटवतौ तं प्रत्यावरकस्यैवाज्ञानस्य निवृतिरिति तस्यैव विषयप्रकाशो नान्यस्य तथा तत्तद्विषयाकारवृत्यात तदवरकाज्ञानस्यैव निवृतेर्न विषयांतरस्यापरोक्ष्यमनावृत्तार्थस्यैव संविदभेदापरोक्ष्यमित्युपगमादिति प्रमातृभेदेनवविषयभेदेनाप्येकत्र प्. ६४ब्) चैतन्येवस्थाज्ञानभेदस्य वक्तव्यतयावस्थाज्ञानानां तत्तज्जडविषयकत्वमिति घटादिवृतीनां नावस्थाज्ञाननिवर्तकत्वे काचिदनुपपतिर्न वा मूलाज्ञाननिवर्तकत्वापतिः ।। नियमो न चेत्यत्र हेतुमाह । प्रकाशसंसर्गस्यैवेति । न तु वृत्युपहितानावृतप्रकाशसंसर्गस्य प्रकाशमानशब्दार्थत्वं सुखादिगोचरवृत्यनुयद्रित साक्षिप्रकाशसंयसर्गिणि सुखादौ प्रकाशमान शब्दार्थत्वाभावप्रसंगादित्यर्थः । गंधस्याभिव्यक्तचैतन्य संसर्ग एव नास्तीत्याशंक्याह । अभिव्यक्तस्य चेति चकारस्यासंभवादित्यनेन संबंधः उपादान पदमधिष्ठान परं । असंभवादिति । तथा च जडस्यानावृतत्वपक्षे चंदनचैतन्याभिव्यक्तिदशायां गंधस्याप्यापरोक्ष्यापतिरपरिहार्येति भावः । जडस्यावृतत्वपक्षे तु नोक्तदोषप्रसक्तिरित्याह । तस्मादिति । जडे आवरणस्य सिद्धत्वादित्यर्थः । ननु जडस्यावृतत्वपक्षेपि चंदनगोचरचाक्षुष वृत्यैव गंधावरणस्यापि निवृतिः स्यात् । गुणगुणिनोस्तादात्म्यात् । तथा च चंदनापरोक्ष्यदशायां तद्गंधां परोक्ष्यदोषोऽत्रापि तुल्य इति शंकां दृष्टांतेन परिहरति । यथेति । नान्यं प्रत्यावरकाज्ञानस्यापि निवृतिरित्येवकारार्थः । तस्यैवेति । चैत्रस्यैव घटप्रकाशो नान्यस्य मैत्रादेरित्यर्थः । तथेति गुणगुणिनोस्तादात्म्येपि भेदस्यापि सत्वात् न चंदनगोचरवृत्यागंधादेरापरोक्ष्यप्रसक्तिरित्यर्थः । प्. ६५अ) ननु चंदन संविदभिन्नस्य गंधस्यावृतस्यापि कथं नापरोक्ष्यमित्याशंक्यानावृत् सुखादावेव संविदभेदस्यापरोक्ष्य प्रयोजकत्वदर्शनान्मैवमित्याह । अनावृतार्थस्यैवेति । नन्वेकत्रचंदनावछिन्नचैतन्ये अवस्था ज्ञानस्य चैत्रं प्रतिचंदनावरकस्यैकत्वा तस्य च चंदनगोचरवृत्यानिवृतत्वाच्चंदनवृतिकाले गंधस्यावरणमयुक्तमित्याशंकां निराकरोति इति प्रमातृभेदनेवेति । यथा प्रमातृविषये चैत्रमैत्रादिभेदेनाज्ञानमनेकमस्ति तथा एकत्रापि चंदनावछिन्नचैतन्ये गंधादिविषयभेदेनाप्यज्ञानमनेकमस्तीति वक्तव्यं चंदनापरोक्ष्यदशायां गंधापरोक्ष्यादर्शनादेवेत्ययं हेतुः प्रकृतपरामर्शिनेति पदेन समर्प्यते । तथा च चंदनापरोक्ष्यकाले गंधादेरावरणसंभवात्नोक्तदोष इति भावः । जडविषयकत्वमितीति । जडविषयकत्वादित्यर्थः । न काचिदनुपपतिरिति । घटादिवृतीनां चैतन्यविषयकत्वाभावे ज्ञानाज्ञानयोः समानविषयकत्वरूपं विरोधप्रयोजकं न भवति । तासां जडमात्रगोचरत्वादज्ञानस्य च चैतन्यमात्रविषयकत्वादिति पूर्वोक्तानुपपतिर्नास्ति स्वस्थाज्ञानस्यापि जडमात्रविषयकत्वाभ्युपगमात् । तथा जडस्यावरणाभ्युपगमेपसिद्धांतापति रूपानुपपतिरपि नास्ति जडावरणानभ्युपगमस्य मूलाज्ञानविषयत्वात् । तथा च ततज्जडावरकाज्ञान नानात्वाभ्युपगमे तदेकत्व सिद्धांतविरोधरूपानुपपतिरपि नास्ति तदेकत्वाभ्युपगमस्यापि मूलाज्ञनविषयत्वात् । जडावरकाज्ञानानां प्. ६५ब्) चावस्थारूपत्वादित्यादिकमभिप्रेत्य न काचिदनुपपतिरित्युक्तं । परमप्रकृतमाह । न चेति । घटादिवृतीनामपि मूलाज्ञाननिवर्तकत्वापतिरिति यत्पूर्ववादिनश्चोद्यमादौ प्रकृतं तन्नास्त्येव घटादिवृतीनां मूलाज्ञानविषयचैतन्यविषयकत्वानभ्युपगमादित्यर्थः ।। न चैवमपि जीवविषयाया अहमाकारवृतेर्मूलाज्ञाननिवर्तकत्वापतिस्तस्याः स्वयं प्रकाशमानचित्संवलिताऽचिदंशमात्रविषयत्वात् । सोहमिति प्रतिभिज्ञाया अपि स्वयं प्रकाशचैतन्येतःकरणवैशिष्ट्येन सह पूर्वापरकालवैशिष्ट्यमात्रविषयत्वेन चैतन्यविषयत्वाभावादिति । केचित्तु घटादिवृतीनां ततदवछिन्नचैतन्यविषयत्वमभ्युपगम्य सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् । श्रोतव्येति वचः प्राहवेदांतावरुरुत्सयेति वार्तिकोक्तेः श्रोतव्यवाक्यार्थवेदांतनियमविध्यनुसारेण वेदांतजन्यमेव नियमादृष्ट सहितं ब्रह्मज्ञानमप्रतिबद्धं ब्रह्मज्ञाननिवर्तकमिति न घटादिज्ञाना तन्निवृतिप्रसंग इत्याहुः । अन्ये तु तत्वमस्यादिवाक्यजन्यं जीव ब्रह्मा प्. ६६अ) भेदगोचरमेव ज्ञान मूलाज्ञाननिवर्तकं मूलाज्ञानस्य तदभेदगोचरत्वादिति न चैतन्य स्वरूपमात्रगोचराद्घटादि ज्ञाना तन्निवृति प्रसंगः ।। न चैवमपीति घटादिवृतीनां चैतन्यविषयकत्वाभावेप्यहमर्थरूप जीवस्य विदचित्संबलितरूपतया अहं वृतेः चैतन्य विषयकत्वावश्यंभावादित्यर्थः । तस्या इति स्वप्रकाशतया स्वयमेव प्रकाशमानायां चिति संबलितः चितादात्म्येनाध्यस्तो यो यमचिदंशः तन्मात्रविषयकत्वादहमाकारवृतेर्न चैतन्यविषयकत्वमौपनिषदत्व श्रुतिविरोधादेवेत्यर्थः । ननु योहं स्वप्ने श्रीकृष्णमन्वभूवं सोहं जागरे तं स्मरामीत्यादि प्रत्यभिज्ञायाश्चैतन्यविषयकत्वमावश्यकमन्यथा तया चिदात्मनः स्थायित्वं संघातव्यतिरिक्तत्वं च न सिध्येदित्यत आह । सोहमिति । प्रत्यभिज्ञापि स्वयमेव प्रकाशमाने चैतन्ये अहमित्यंतःकरण तादात्म्यमिवततादिवैशिष्ट्यमपि विषयी करोति । न तु स्वप्रकाशचैतन्यमस्मिन्मते चिदात्मनः स्थापित्वादेः श्रुतिवलादेव सिद्धेः न प्रत्यभिज्ञाया इति बोध्यं घटादिवृतीनामपि चतन्यंविषयकत्वाविशेषाद्वेदांतजन्य ज्ञानवन्मूलाज्ञाननिवर्तकत्वापतिरिति चोद्ये हेतोरेवासत्वात् नोक्ताति प्रसंग इति समाधानमुक्तमिदानीं तासां चैतन्यविषयकत्वाभ्युपगमेपि नोक्ताति प्रसंग इत्याह । केचित्विति । अभ्युपगम्येति । न चैवमभ्युपगमे चैतन्यस्य चक्षुरादिविषयत्वनिषेधश्रुतिनां बाधः स्यादिति वाच्यं तासां निरुपाधिक प्. ६६ब्) चैतन्यविषयत्वाभ्युपगमेनावछिन्नचैतन्यस्य चक्षुरादिवृतिविषयत्वे तद्विरोधाभावादिति भावः । अत एव ब्रह्मचैतन्यस्य सर्वप्रत्यय वेद्यत्वप्रतिपादकं पूर्वोदाहृत वार्तिकवचनमपि संगछते । अज्ञातज्ञापकत्वं हि प्रामाण्यं अज्ञातं च वस्तुचैतन्यमेव तस्यैव स्वप्रकाशतया सदाप्रसक्तप्रकाशस्याज्ञानविषयत्वकल्पनौचित्यात् । अवभासकचैतन्यस्यावरणे सति जडानवभाससंभवेन तस्य पृथगावरणकल्पनायोगादज्ञानस्य चैतन्याश्रितत्वनियमेन तस्य तमस इव स्वाश्रयादन्यत्रावरण हेतुत्वानुपपतेश्च तथा च प्रत्यक्षादीनामपि प्रामाण्यसिद्धये घटाद्यवछिन्नचैतन्यविषयकत्वमेव स्वीकर्तव्यं न तु जडमात्रविषयकत्वमेवं सर्वेषामेव मानानां फलशब्दित चैतन्यविषयकत्वादमृतत्वसाधने ब्रह्मदर्शने सर्वेषां मानानांकारणत्वप्रसक्तौ वेदांतानामेवावरोधे छयानियमनेछया श्रोतव्येति वचःवेदांतानामेव विचारः कर्तव्य इत्यमुमर्थं प्राहेति वार्तिकार्थः घटादिवृतीनां तु चैतन्यविषयकत्वेपि वेदांतजन्यत्वाभावेन श्रोतव्यविधिसिद्धनियमादृष्टसाहित्याभावान्न मूलाज्ञाननिवर्तक प्रसंग इति भावः । अप्रतिवद्धमिति । नियमादृष्टेन प्रतिबंधक दुरितस्य क्षीणत्वादिति भावः । तत्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनमिति नारदवचन दर्शनात् । तत्वमस्यादि वाक्योत्थं यज्जीवपरमात्मनोः तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनमिति भगवत्पादीयवचनदर्शनाच्च मूलाज्ञानस्य जीवब्रह्माभेदावरकत्वाच्च जीव ब्रह्मणोरैक्यलक्षण तादात्म्यविषयकं यद्ज्ञानमिदमेव प्. ६७अ) मुक्तिसाधनमत्वो नोक्ताति प्रसंग इति समाधानांतरं दर्शयति । अन्ये त्विति । इतीति वाक्यजन्याभेदज्ञानमेवाज्ञाननिवर्तकमिति स्थिते तदभेदागोचरात् घटादिज्ञानात्न मूलाज्ञाननिवृति प्रसंग इत्यर्थः ।। न चाभेदस्य तत्वावेदकप्रमाणबोध्यस्य चैतन्यातिरेके द्वैतापतेश्चैतन्यमात्रमभेद इति तद्गोचरघटादिज्ञानमप्यभेदगोचरमिति वाच्यं । न ह्यभेदज्ञानमितिविषयतो विशेषं ब्रूमः किंतु ।। न चेति । जीवब्रह्माभेदः चैतन्यापेक्षयातिरिक्त इति वक्तुं न शक्यते तथा सति वेदांत तात्पर्यगोचरस्याभेदस्य सत्यत्वावश्यंभावेन चैतन्यस्याद्वितीयत्वहानापतेर्वेदांत तात्पर्यविषयस्याभेदस्यासत्यत्वे वेदांतानां तत्वावेदकत्वलक्षणस्य प्रामाण्यस्य सिद्धांत संमतस्य भंगापतेरित्यर्थः । अत्र तत्पदं परमार्थ वस्तुपरं नहीति । घटादिज्ञाने चैतन्यविषयकेपि जीवब्रह्माभेदो न विषयः महावाक्यार्थज्ञाने तु तयोरभेदो विषय इत्येवं घटादिज्ञानापेक्षया महावाक्यजन्य ज्ञानस्य विषयतो विशेषं न ब्रूमः । यं नोक्तदोष तादवस्थ्यं स्यादित्यर्थः । न त्विदं रजतमिति भ्रमे यावानधिष्ठानाशोभासते तावदपेक्षया अधिकप्युक्तित्वादिविशेषविषयकस्य शुक्त्यादि ज्ञानस्य रजतादिभ्रमविरोधित्वं दृष्टं तथा च सन्घटः प्. ६७ब्) स्फुरति घट इत्यादि भ्रमेषु यावदधिष्ठानभूतं चैतन्यं विषयः तावदपेक्षया अधिकाभेदविषयकत्वस्य वाक्यजन्य ज्ञानेऽनभ्युपगमे वाक्योत्थज्ञानस्य भ्रमनिवर्तकत्वमेव न स्यादतो विषयत्वो विशेषोभ्युपगंतव्य इति शंकते । किं त्विति भ्रमाधिकविषयाणामेव ज्ञानानां भ्रमनिवर्तकत्वमिति नियमो नास्ति भ्रमानधिकविषयाणामपि भ्रमनिवर्तकत्व दर्शनेन व्यभिचारात् । तथा हि वस्तुतो घोषाधारभूते गंगातीरे यस्य तटाकतीरत्व भ्रमैण तटाकतीरे घोष इति भ्रमोस्तितं प्रतिगंगायां घोष इति वाक्यप्रयोगे सति तस्माद्वाक्या तस्य पुरुषस्य गंगातीरे घोष इति बोधो जायते । तेन च बोधेन तस्य गंगातीरे तटाकतीरत्व भ्रमो निवर्ततेत च तत्र भ्रमविषयगंगातीरांशे भ्रमापेक्षया वाक्यजन्यबोधे कश्चिद्विशेषविषयो दृष्टः । न च तत्र वाक्यजन्य ज्ञाने तटाकतीर व्यावर्तकस्य गंगातीरत्व रूपविशेषस्य विषयत्वदर्शनाद्विशेषाविषयकत्वमसिद्धमिति वाच्यं । यत्र तीरत्व मात्रप्रकारक तात्पर्येण गंगायां घोष इति प्रयोगः । तथैव तस्य भ्रांतस्य तात्पर्य ग्रहश्च तत्र गंतातीरत्व प्रकारक बोधाभावेपि भ्रमनिवृतिदर्शनेन व्यभिचार ध्रौव्यात् । तथा येन केनचित् कपालेन तुषो एवापः कर्तव्य इति भ्रमवंतं पुरुषे प्रतिकपालत्वमात्रप्रकारक तात्पर्येण प्रयुक्ता तन्मात्र तात्पर्यवतया गृहीतात्पुरोडाशकपालेन तुषानु एवपतीति वाक्यात्कपालेन तुषोपवापः कर्तव्य इत्येव तस्य बोधो जायते तत्र कपालांशे कपालांतरव्यावर्तकविशेषाग्रहणेपि पुराडाशकपालातिरिक्तकपालेषु प्. ६८अ) तुषोपवाधसाधनत्व भ्रमनिवृतिदर्शनेन तत्रापि व्यभिचारात् । तस्मात् तीरे घोष इति शाब्दबोधस्य गंगातीरत्वरूपविशेषविषयकत्वाभावेपि तद्धेतु पदार्थोपस्थितिकाले तीरस्य गंगासंबधित्वेन उपस्थिति सत्वा तदुपस्थिति महिम्नावस्तुगत्यागंगातीरविषकस्य भ्रमानधिकविषयस्यापि तस्य भ्रमनिवर्तकत्वमिति वक्तव्यं । तथा कपालेन तुषोपवापः कर्तव्य इति शाब्दबोधस्य स्वयं कपालांतरव्यावर्तक विशेषविषयत्वाभावेपि तादृशशाब्दबोध हेतुपदार्थोपस्थितिकाले कपालस्य पुरोडाश संबंधित्वेन उपस्थिति सत्वा तदुपस्थिति महिम्ना तस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वमिति वक्तव्यं तथा च ज्ञानस्य भ्रमविरोधित्वे सामग्रीविशेषप्रयोज्यत्वं प्रयोजकं न तु भ्रमाधिकविषयत्वं व्यभिचारात् ।। तत्वं पद वाच्यार्थधर्मिद्वयपरामर्शादिरूपकारणविशेषाधीनेन स्वरूपसंबंधविशेषेण चैतन्यविषयत्वमेव तदभेदज्ञानत्वं यथा हि विशेषणविशेष्य तत्संबंधगोचरत्वा विशेषेपि विशेषेपि विशिष्टज्ञानस्य विशेषणज्ञानादिकारणविशेषाधिन स्वरूपसंबंधविशेषेण तत्त्रितयगोचरत्वमेव समूहालंबन व्यावृतं विशिष्टज्ञानत्वं यथा वा स्थाणुत्वविरुद्धपुरुषत्व वा नित्याहार्यव्यावृतं संशयत्वं प्. ६८ब्) विषयत्वं विषयतो विशेषानिरूपणात् । तथा घटादावपि सोयं घट इत्यादिज्ञानस्य स्वरूपसंबंधविशेषेण घटादिविषयत्वमेव लघटशब्दादिजन्य ज्ञानव्यावृतं तदभेदज्ञानत्वमतिरिक्ताभेदानिरूपणात् ।। किं च महावाक्यजन्य ज्ञानस्य संसारमूलभ्रमविरोधित्वं श्रुतिस्मृतिविद्वदनुभवैः सिद्धं महावाक्यानां च चैतन्य स्वरूपमात्र बोधकत्वं द्वितीयपरिछेदे मुक्तिसाधन महावाक्यजन्य ज्ञानं प्रतिचैतन्यमात्ररूपविषयनियामक श्रुत्युदाहरणेनास्माभिः साधितं प्रपंचितं च निबंधनेष्वे तत् तथा च शुक्तिरजतादि स्थले भ्रमाधिकविषयक शुक्तिज्ञानादौ भ्रमविरोधिनि भ्रमाधिकविषयत्वस्येव दोषाभावादि घटितसामग्री विशेषाधीनत्व स्यापि दृष्टत्वेनाखंडार्थक वेदांतानुसारेण पूर्वोदाहृत व्यभिचारस्थलानुरोधेन च ज्ञानस्य भ्रमविरोधित्वे सामग्री विशेषाधीनत्वमेवानुगतं प्रयोजकं कल्पयितुं युक्तं न तु भ्रमाधिकविषयत्वमित्यभिप्रेत्यमहावाक्यार्थज्ञानस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वं संभवतीति समाधते । तत्वमिति तत्वं पदयोर्वाच्यार्थ भूतौ जीवेश्वरावेव धर्मिद्वयं तस्य तत्वं पदाभ्यां प्रथमं शक्त्यास्मृतिरूपः परामर्शस्तदनंतरं तत्वं पदसमानाधिकरण्य बलात् । जीव प्. ६९अ) ईश्वराभिन्न इति तयोर्विशेषणविशेष्यभावेनावगतिः । तदनंतरं च विशिष्टयोरैक्यं न संभवतीति विरोधप्रतीतिः । तदनंतरं च तत्वं पदाभ्यां वाच्यार्थरूपविशिष्टांतर्गतयोर्विशेष्यचैतन्यांशयोरभेद योग्ययोलंक्षणया प्रतीस्ततश्च विशेष्य द्वयाभेदगोचरशाब्दबोध इति क्रममभिप्रेत्य आदिपदं वाक्यजन्यज्ञानस्य स्वविषयचैतन्येन सह यः स्वरूपसंबंधविशेषः सामग्रीविशेषाधीनत्व प्रयुक्तस्तेन संबंधेन चैतन्यगोचरत्वं घटज्ञानादि व्यावृतं तदेव तस्याभेदज्ञानत्वं तद्बलादेव तस्य मूलाज्ञानमिथ्याज्ञानादि विरोधित्वमित्यर्थः । महावाक्यजन्य ज्ञानस्य घटादिज्ञाना पेक्षया चैतन्यांशे विषयतो विशेषाभावेपि सामग्री विशेषा देवघटादिज्ञानापेक्षया अभेदज्ञानत्वरूपे वैलक्षण्यै दृष्टांतमाह । यथाहीति । विशिष्टज्ञानस्येति । दंडीपुरुष इति ज्ञानस्येत्यर्थः विशेषणविशेषण विशेष्ययोरसंसर्गाग्रह आदिपदार्थः समूहालंबनेति । दंडपुरुषसंयोगा इति ज्ञानं इत्यर्थः । तदुक्तं चिंतामणि क्र्ताकारणकृत इति विशिष्टज्ञानस्य समूहालंबनापेक्षया विशेषणज्ञानादिरूप कारणकृतो विशेष इति तदर्थः । स्थाणुत्वेति स्थाणुत्वविरुद्धपुरुषत्व वानिति निश्चयः संशयसमानविषयकोय आहार्यवृतिरूपः तद्व्यावृतमित्यर्थः विशेषदर्शनदशायामनाहार्यनिश्चया संभवादाहार्येत्युक्तं विषयत इति । विशिष्टज्ञाने स्थाणुः पुरुषोवेति संशये चेति शेषः । न केवलं तत्वमसि वाक्यजन्यज्ञानस्याभेदज्ञानत्वे इयं रीतिः सोयं प्. ६९ब्) घटः सोयं देवदत इत्यादिवाक्यजन ज्ञान्स्यापि केवल घटशब्ददेवदत शब्दादिजन्य ज्ञानव्यावृताभेद ज्ञानत्वेपीयंरीतिरनुसर्तव्येत्याह तथा घटादावपीति । अतिरिक्तेति । केवल घटशब्द देवदतशब्दादिजन्यज्ञानविषय घटस्वरूपापेक्षया सोयमित्यादिवाक्यगम्याभेदेस्यातिरिक्तत्वे मानाभावात् तथा च विषयतो विशेषाभावात् सोयं घट इत्यादावपि तत्वमसीत्यत्रेव सोयमिति पदद्वय वाच्यार्थरूपधर्मिद्वयपरामर्शादि रूपकारणविशेषाधीन स्वरूपसंबंधविशेषण घटादि स्वरूपविषयकत्वमेव घटाद्यभेदज्ञानत्वं नान्यदिति वक्तव्यमितिभावः ।। अभावसादृश्यादीनामधिकरण प्रतियोग्यादिभिः स्वरूपं संबंधयुक्तानामधिकरणेनाधाराधेय भावरूपस्वरूपसंबंधविशेषः प्रतियोगिना प्रतियोग्यनयोगिभावरूप इत्यादि प्रकारेण स्वरूपसंबंधेऽवांतरविशेषकल्पनवत् वृतीनां विषयेपि संयोग तादात्म्ययोरति प्रसक्त्याविषयैर्विषयविषयिभाव रूपस्वरूपसंबंधवतीनां विषयविशेषनिरूपणासंभवे । कॢप्त एव स्वरूपसंबंध अवांतरविशेषकल्पनेनाभेदज्ञानत्वादि परस्परवैलक्षण्य निर्वाहाच्च । प्. ७०अ) एवं च ब्रह्मज्ञानस्याभेदाख्य किंचित्संसर्गगोचरत्वानभ्युपगमान्न वेदांतानाम खेडार्थत्व हानिरपीत्याहुः ।। ननु केवल घटशब्दादिजन्यज्ञानस्यापि विषयेण स्वरूपसंबंध एव तथा च कथं स्वरूपसंबंधकृता अभेदज्ञानत्वादि व्यवस्था न च वृतिज्ञानानां विषयैः सह विषयविषयीभावप्रयोजक स्वरूपसंबंधानामविशेषेपि तेष्वेव विषय तद्ज्ञानस्वरूपात्म्क संबंधेषु सामग्री विशेषाधीनत्व प्रयुक्तं परस्य वैलक्षण्यकल्पनया व्यवस्थोपपादनं कर्तुं शक्यत इति वाच्यं । स्वरूपसंबंधेषु वैलक्षण्यस्य क्वाप्यदृष्टत्वेन तथा कल्पनानुपपतेरित्यत आह । अभाव सादृश्यादीनामिति । ननु वृतीनां विषयैः सह विषयविषयीभावः स्वरूपसंबंधकृत एव न भवति । किंतु संयोगादि कृतः तथा च तासां तैः सह स्वरूपसंबंधानामेवा सिद्धत्वात् । तेषु वैलक्षण्यात्मकविशेषकल्पनादूरापास्तेत्यत आह । संयोगेति । वृतिसंयोगस्य वृतिविषयत्वप्रयोजकत्वे चक्षुर्गोलकादेरपि घटादिवृतिसंयोगित्वेन तद्विषयत्वप्रसंगावृति तादातात्म्यस्य वृतिविषयत्वप्रयोजकत्वे वृत्यधिष्ठानतयोवृति तादात्म्यापन्नस्य घटाद्यवछिन्नचैतन्यस्य घटादिवृतिविषयत्वसंभवेपि घटादेर्वृति तादात्म्यरहितस्य तदविषयत्व प्रसंगा तद्वृतिपरिणाम्यतः करणस्य घटादिवृतिविषयत्वप्रसंगाच्च परिणाम प्. ७०ब्) परिणामिनोस्तादात्म्यादित्यर्थः । ननु तत्वमस्यादिवाक्यजन्यज्ञानस्य विषयेण सह यः स्वरूपसंबंधश्चैतन्य तद्गोचरज्ञानोभयस्वरूपात्मकः तत्र सामग्री विशेषवलादपि विषयस्वरूपात्मके संबंधे विशेषो निरूपयितुं न शक्यत इत्यत आह । विषयविशेषनिरूपणासंभवे इति । विषये निर्विशेष चैतन्यात्मके विशेषाधाना संभवेपि स्वरूपसंबंधांतर्गततया कॢप्त एव ज्ञानस्वरूपात्मके संबंधे सामग्री विशेष बलाद्विशेषाधान संभवान्नोक्तदोष इति भावः । यद्वा वृतीनां विषयेपि संयोग तादात्म्ययोरति प्रसक्त्याविषयविशेषनिरूपणासंभवे विषयैर्विषयविषयीभावरूपस्वरूप संबंधवती नामिति संबंधः । अभाव सादृश्यादीनामधिकरणादाविववृतीनामपि विषये संयोग तादात्म्ययोरति प्रसक्तत्वेन ताभ्यां वृतीं प्रतिविषयविशेषनियमनासंभवे सति परिशेषाद्विषयविषयीभावप्रयोजकस्वरूपसंबंधवतीनामित्यर्थः । रूपपदं नियामक परं विषयविषयिभावस्य स्वरूपसंबंध नियम्यत्वेन तयोरभेदस्य रूपशब्दार्थस्यायोगात् । ननु संयोग तादात्म्ययोर्विषयविशेषनियामकत्वाभावेपि वृतीनां विषये स्वरूपसंबंधत्वं परिशेषान्न सिध्यति स्वरूपसंबंधातिरिक्तस्य संबंधांतरस्य कल्पनोपपतेरित्यत आह । कॢप्त एवेति । स्वरूपसंबंधस्य वृत्यादि स्वरूपतया तस्य कॢप्तत्वात् । कॢप्त एव स्वरूपं बंधे विशेषकल्पनायां लाघवं संबंधांतर कल्पयित्वा तस्मिन् संबंधांतरे अभेदज्ञानत्वादि निर्वाहकविशेषकल्पनायां प्. ७१अ) गौरवं अतो वृतीनं विषयैः सह स्वरूपसंबंधत्वमेवेति भावः । ननु तत्वमसि वाक्यात् जीवस्य ब्रह्माभेदज्ञानोपगमे तदभेदस्यैव संसर्गविधयाभानाद्वेदांतानां संसर्गागोचर प्रमिति जनकत्वरूपा खंडार्थत्वाभ्युपगमहानिरित्ये तच्चोद्यं निरवकाशमित्याह । एवं चेति । महावाक्यजन्य ज्ञानगताभेदज्ञानत्वस्यान्यथोपपादितत्वेनाभेनाभेद- संसर्गभानानपेक्षायां सत्यामित्यर्थः । हानिरपीति । घटादि वृतीनां मूलाज्ञाननिवर्तकत्वापतिर्न्नास्ति । अखंडार्थत्वहानिश्च नास्तीत्यपि शब्दार्थः ।। ननु घटादिज्ञानवद्ब्रह्मज्ञानस्यापि न मूलाज्ञाननिवर्तकत्वं युक्तं निवर्तकत्वे तदवस्थानासहिष्णुत्वरूपस्य विरोधस्य तंत्र त्वात् कार्यस्य चोपादानेन सह तां दृशविरोधाभावादिति चेत्न कार्यकारणयोरन्यत्र तादृश विरोधादर्शनेप्येक विषयज्ञानाज्ञानप्रयुक्तस्य तादृश विरोधस्यात्र सत्वात्कार्यकारणयोरप्यग्नि संयोगपटयोस्तादृशविरोध दृष्टेश्च न चाग्निसंयोगे सत्यवयवविभागप्रक्रियया असमवायिकारणसंयोगनाशादेवपटनाशोनाग्निसंयोगादिति वाच्यं । दग्धपटेपि पूर्वसंस्थानानुवृतिदर्शनेन मुद्गरचूर्णीकृत घट वदवयवविभागा प्. ७१ब्) दर्शनात् । तत्रावयवविभागादिकल्पनाया अप्रामाणिकत्वात् नापि तत्र तंतूनामपि दाहेन समवापि कारण नाशात्पटनाश इति युक्तं अंशुतंत्वादिभिः सहयुगपदेव पदस्य दाहदर्शनेन क्रमकल्पनायोगात् । यतो नाधस्तादवयवनाशस्तत्रावयवेग्नि संयोगादेवनाशस्य वाच्यत्वात् । नन्वस्त्वेतदेवं तथापि सविलासाज्ञाननाशकमिदं ब्रह्मज्ञानं कथं नश्येत् नाशकांतराभावादिति चेत् ।। वेदांतजन्य ज्ञानस्यापि मूलाज्ञाननिवर्तकत्वमाक्षिपति । नन्विति तादृशेति । कार्यस्य लोके उपादान स्थिति विरोधित्वा दर्शनादित्यर्थः ब्रह्मगोचरवृतिप्रत्यंतःकरणस्यैव उपादानत्वेन तां प्रत्यज्ञानस्यानुपादानत्वात् । तन्निवर्तकत्वं संभवतीति मत्वाह । नेति । उपादानत्वमुपेत्याप्याह । कार्ययेति । उपादानोपादेययोर्निवर्त्यनिवर्तकभावप्रयोजकविरोधो नास्तीत्युत्सर्गः । स च ब्रह्मज्ञान तुदुपादानस्थले अपोद्यते निवर्तकभावप्रयोजकतया लोके कॢप्तसमानविषयज्ञानाज्ञान भावस्य विशेषरूपतया तेन सामान्यरूपस्य उपादानोपादेय भावप्रयुक्ताविरोधस्य बाधोपपतेरित्यर्थः । लोके उपादानोपादेययोर्निवर्त्यनिवर्तक भावप्रयोजक प्. ७२अ) विरोधादर्शनमसिद्धं चेत्याह । कार्यकारणयोरपीति । अग्निसंयोगरूपकार्यस्य स्वोपादानपटनाशकत्वदर्शनादित्यर्थः । ननु तत्राग्निसंयोगस्य नाशकत्वदर्शनं भ्रांतिरिति मत्वाशंकते । न चाग्नीति प्रक्रिपयेति । अग्निसंयोगातंतुषु क्रियाततस्तेषां विभागस्ततस्तेषां पटासमवायिकारणसंयोगनाशः ततः पटनाशः इति वैशेषिक प्रक्रिया तंतुषु विभाग प्रक्रियैव भ्रांति मूलेत्याह । दग्धपटेपीति । पूर्वसंस्थानसंयुक्तावस्था व्यतिरेक दृष्टांतमाह मुद्गरेति । यथा मुद्गर चूर्णीकृतस्य घटस्यावयवेषु विभागो दृश्यते । तथा पटदाहानंतरं दग्धतंतुषु विभागादर्शनेनेत्यर्थः । तत्रेति तंतुष्वित्यर्थः । वैशेषिक प्रक्रियांतरमपि भ्रांतिमूलमेवेत्याह । नापीत्यादिना तत्रेति पटदाहस्थल इत्यर्थः । अग्निसंयोगस्य क्वचिदुपादानद्रव्यनाशकताया आवश्यकत्वात् पटनाशकत्वमपि तस्यैवेत्याह । यत इति । यतो द्व्यणुकाधस्ताद्व्यणुकावयवस्य परमाणोर्न नाशः । तत्र द्व्यणुके विद्यमानादग्निसंयोगादेवतदुपादानभूतद्व्यणुकनाशस्य वाच्य त्वान्न च तत्रावयवविभागप्रक्रियया परमाणु द्वय संयोगनाशादेव द्व्यणुकनाश इति वाच्यं अवयवावयविविभागप्रक्रियाया निरस्तत्वात् । तथा चाग्निसंयोगस्य स्वोपादानपटनाशकशदर्शनं न भ्रांतिरिति भावः । नन्वस्त्वेतदेवमिति । एतद्ब्रह्मज्ञानमेवमंतःकरणद्वारा स्वोपादानाज्ञाननाशकमस्त्यित्यर्थः । तथापीति । ब्रह्मज्ञानस्य सविलासा प्. ७२ब्) ज्ञाननाशकत्वेपीत्यर्थः । सकार्याज्ञाननाशकस्याज्ञाननाशकाले अवशिष्यमाणस्य ब्रह्मज्ञानस्य नाशो न सिध्येत् स्वस्य स्वनाशकत्वायोगात् नाशकांतरानवशेषाच्चेत्यर्थः ।। यथा कतकरजः सलिले न संयुज्य पूर्वसंयुक्तरजोंतरविश्लेषं जनयत्स्वविश्लेषमपि जनयति । यथात्मन्यध्यस्य मानं ब्रह्मज्ञानं पूर्वाध्यस्त सर्वप्रपंच निवर्तयत् स्वात्मानमपि निवर्तयतीति केचित् । अन्ये त्वन्यन्निवर्त्य स्वयमपि निवृतौ दग्धलोहपीतांबुन्यायमुदाहरेति । अपरे त्वत्र दग्धतृणकूटदहनोदाहरणमाहः । न च ध्वंसस्य प्रतियोग्यतिरिक्त जन्यत्व नियमः । अप्रयोजकत्वात् । निरंधनदहनादि ध्वंसे व्यभिचाराच्च । न च ध्वंसस्य प्रतियोगिमात्रजन्यत्वेऽति प्रसंगात् । कारणांतरं अवश्यं वाच्यं । निरिंधन दहनादि ध्वंसेपि कालादृष्टेश्वरेछादिकारणांतरमस्तीति वाच्यं । अति प्रसंगापरिज्ञानात् । न च घटादिध्वंसस्यापि कारणांतरनिरपेक्षत्वं स्यदित्यति प्रसंगः ध्वंसमात्रे कारणांतरे नैरपेक्ष्याऽनभिधानात् प्. ७३अ) न च घटध्वंस दृष्टांतेन ब्रह्मज्ञानध्वंसस्य कारणांतरापेक्षासाधनं तद्दृष्टांतेन मुद्गरपतनापेक्षाया अपि साधनापतेः ।। प्रथमं ब्रह्मज्ञानव्यतिरिक्तस्य सकलस्य ब्रह्मज्ञानेन नाशः पश्चादवशिष्टस्य ब्रह्मज्ञानस्य नाशः इति क्रमोनोपेयते । किंतु ब्र * ज्ञानेन सविलासाज्ञाननाशकाले सविलासाक्षानेन सहैव ब्रह्मज्ञानस्यापि नाश इत्युपेयते ब्रह्मज्ञानस्यैव स्वनाशं प्रत्यपि हेतुत्वाभ्युपगमात् । न चैकस्यैव स्वपरविलापकत्वं न दृष्टमिति वाच्यं । कतकरजसिदृत्वादिति परिहरति । यथेति पूर्वेति । कतकरजः संयोगात्पूर्वं जलेन संयुक्तरजोंतरेर्जलस्य विश्लेषमित्यर्थः । पूर्वाध्यस्तेति ब्रह्मज्ञानाध्यासात्पूर्वेत्यर्थः । अन्येतिति । यथा वह्नितमलोहपिंडे प्रक्षिप्तमंबुलोहगतमग्निं नाशयदात्मानमपि नाशयति तथा ब्रह्मज्ञानमपीत्यर्थः । ब्रह्मज्ञानस्य स्वातिरिक्तं सर्वं निवर्तयतः । तदैव स्वस्यापि निवर्तने दग्धलोहेन पीतांबुरूपं दृष्टांतमुदाहरंतीत्यक्षरार्थः । अपरेतिति । यथा शुष्कतृणसमूहे प्रक्षिप्तो दहनस्तृणकूटं नाशयन्नात्मानमपि नाशयति तथा अज्ञान तत्कार्यसमुदाये समुत्पन्नो ब्रह्मप्रत्ययः तन्नाशयत् । आत्मानमपि नाशयतीत्यर्थः । ननु दग्धदाह्यदहनादि न्यायेन ब्रह्मज्ञाननाश इत्युपपादनमयुक्तं घटादिनाशे प्रतियोगि प्. ७३ब्) घटाद्यतिरिक्तमुद्गरपातादिकारणांतरदर्शनेन ध्वंसस्य प्रतियोग्यतिरिक्तकारणजन्यत्व नियमादितिशंकते । न च ध्वंसस्येति निरिंधनेति । इंधनानां निःशेषं नाशानंतरं दहनस्य स्वतरावनाशदर्शनेन निरिंधनदहनध्वंसे स्वापाव्यवहित पूर्वं कालीन ज्ञानादि ध्वंसे च प्रतियोगिमात्रजन्ये व्यभिचाराच्चेत्यर्थः । उक्तं व्यभिचारं पूर्ववादी परिहरति । निरिंधनेति । अति प्रसंगस्यैवासिध्याध्वंसे प्रतियोग्यतिरिक्तकारणजन्यत्वनियमस्याप्रयोजकत्वमित्याशयेन दूषयति सिद्धांती । अति प्रसंगापरिज्ञानादिति । ननु कुतो परिज्ञानमिति चेतन्न वक्तव्यं ब्रह्मज्ञानध्वंसस्य प्रतियोग्यतिरिक्त अजन्यत्वे घटादिध्वंसोपि प्रतियोग्यतिरिक्तकारणानपेक्षः स्यादित्यति प्रसंगो वा घटादिध्वंसवत् । ब्रह्मज्ञानध्वंसोपि प्रतियोग्यतिरिक्तकारणापेक्षः स्यादित्यति प्रसंगो वा ब्रह्मज्ञानध्वंवसत् । घटज्ञानादिध्वंसोपिकारणांतरानपेक्षः स्यादित्यति प्रसंगो वा ब्रह्मज्ञानस्य स्वोत्पति द्वितीय क्षण एव नाशः स्यादित्यति प्रसंगो वा विवक्षित इति तत्राद्य मनूद्यदूषयति न चेति । ध्वंसमात्र इति ध्वंसत्वावछिन्न इत्यर्थः । अत भिधानादिति । न च सिद्धांतिना तथा नभिधानेपि ध्वंसत्वाविशेषा तत्र तदा पाद्यत इति वाच्यं । अप्रयोजकत्वादिति भावः । द्वितीयमतिप्रसंगेन दूषयति । न च घट ध्वंस दृष्टांतेनेति ध्वंसत्व हेतुनेति शेषः ।। प्. ७४अ) नापि ज्ञानध्वंसत्व साम्याद्घटज्ञानादिध्वंसस्यापि कारणांतरनैरपेक्ष्यं स्यादित्यति प्रसंगः । सेंधनानलध्वंसस्य जलसेकादि दृष्टकारणापेक्षत्वेपि निरिंधनानलध्वंसस्य तदनपेक्षत्ववजाग्रत् ज्ञानध्वंसस्य विशेषगुणांतरापेक्षत्वेपि सुषुप्ति पूर्वज्ञानध्वंसस्य तदनपेक्षत्व वच्च मूलाज्ञाननिवर्तक ज्ञानध्वंसस्य तदनपेक्षत्वोपपतेः नापिकारणांतरनैरपेक्ष्ये स्वोत्पत्युतरक्षण एव नाशः स्यादित्यति प्रसंगः । इष्टापतेः तदुत्पत्युतरक्षण एव ब्रह्माध्यस्तनिखिलप्रपंचदाहेन तदंतर्गतस्य तस्यापि तदैव दाहाभ्युपगमात् । निरिंधन दहनध्वंसन्यायेन ब्रह्मज्ञानध्वंसस्यापि कालादृष्टेश्वरेछादिकारणांतरजन्यत्वेप्यविरोधाच्च । सर्वप्रपंचनिवृत्युतरमेक शेषस्य ब्रह्मज्ञानस्य निवृतिरित्यनन्युपगमेन युगपत्सर्वदाहे पूर्वक्षणे चिदविद्यासंबंधरूपस्य द्रव्यांतररूपस्य वा कालस्येश्वर प्रसादरूपस्यांतःकरणगुणविशेषरूपस्य वा दृष्टस्यान्येषां च सत्वात् । न च तत्र ज्ञानातिरिक्तकारणापेक्षणे ब्रह्मज्ञानस्या प्. ७४ब्) मिथ्यात्वप्रसंगः ज्ञानैक निवर्त्यत्वं मिथ्यात्वमित्युभ्युपगमादिति वाच्यं । ज्ञानाघटित सामग्र्य निवर्त्यत्वे सति ज्ञाननिवर्त्यत्वस्य तदर्थत्वात् ।। तृतीयमनूद्या * * * * जकत्वेन दूषयति । नापि ज्ञानध्वंसत्व साम्यादिति । ब्रह्मज्ञानध्वंसदृष्टांतेनेति शेषः सुषुप्तीति । सुषुप्तिपूर्वज्ञानादिगुणस्य नाशकगुणांतरापक्षायां तस्यापि नाशकात्मगुणांतरकल्पनापत्या सुषुप्त्युछेदप्रसंगः स्यात् तत्परिहाराय सुषुप्तिपूर्वज्ञानादि गुणस्य नाशकांतरानपेक्षत्वं वक्तव्यमितिभावः । मूलाज्ञाननिवर्तक इति ब्रह्मज्ञान इत्यर्थः । चतुर्थमति प्रसंगमनूद्यतस्येष्टत्वमाह । नापि कारणांतर नैनरपेक्ष्य इति । ब्रह्मज्ञानध्वंसस्येति शेषः । ननूदाहृतनिरिंधन दहनध्वंसादौ जलसेकादिविशेषकारणानां व्यभिचारदर्शनेपि साधारकारणानां व्यभिचारादर्शनेन ब्रह्मज्ञानध्वंसस्यापि साधारणकारणापेक्षादुर्वारेत्यत आह । निरिंधनधहनध्वंसन्यायेनेति । ननु प्रथमक्षणे ब्रह्मज्ञानस्य जन्म द्वीतियक्षणे सविलासाज्ञाननिवृतिः तृतीयक्षणे ब्रह्मज्ञानस्य निवृतिरिति क्रमे सति ब्रह्मज्ञाननाशात् पूर्वक्षणे कालादृष्टादीनामसत्वात्कथं तेषां ब्रह्मज्ञाननाश हेतुत्वाभ्युपगमे विरोधाभाव इत्यत आह । सर्वप्रपंचेति स्वमतेनाह । चिदविद्यति । परमतेनाह । द्रव्यांतरेति । यद्वा स्वमतेपीश्वरस्य कालत्वमभिप्रेत्याह । प्. ७५अ) द्रव्यांतरेति स्वमते नैवादृष्टस्य द्विप्रकारत्वमाह । ईश्वरेति । प्रसादग्रहणमुपलक्षणं पुण्यं ईश्वर प्रसादरूपं पापं ईश्वरक्रोधरूपमिति द्रष्टव्यं अंतःकरणेति आत्मनः स्वमते निर्गुणत्वादितिभावः । अन्येषां चेति । ईश्वरदिगादीनामपीत्यर्थः । न च तत्रेति । ब्रह्मज्ञानध्वंस इत्यर्थः । ज्ञानैकनिवर्त्यत्वं हि ज्ञानातिरिक्तानिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वरूपं यथा श्रुतं न भवति ज्ञानसाध्यायामज्ञाननिवृतौ ज्ञानातिरिक्तस्य प्रतियोगिनोपि हेतुत्वात् किं त्वन्यदेवतदित्याह । ज्ञानाघटितेति । ज्ञानाघटिताया सामग्री तदनिवर्त्यत्वे सतीत्यर्थः । प्रपंच सत्यत्वमतेपि घटादेर्ज्ञाननिवर्त्यत्वमस्ति घटं नाशयामीत्यादि ज्ञानपूर्वकं मुद्गरपातादिना तन्नाशदर्शनादिति तद्धारणाय सत्यं तं घटादिनाशस्य ज्ञानपूर्वकत्वनियमाभावेन ज्ञानाघटित सामग्री निवर्त्यजातीये घटादौ तद घटित सामान्यनिवर्त्यत्वस्याभावात् । न च परमते नाशमात्रेस्येश्वर ज्ञानघटित सामग्री साध्यत्वा तदीयज्ञा ।। नान्यः पंथा इति श्रुतिरपि तत्रैव तात्पर्यात् । अतो युक्त एव दग्धदाह्यदहनादिन्यायः केचित् तु वृतिरूपं ब्रह्मज्ञानं नाज्ञानतन्मूलप्रपंच निवर्तकं । अज्ञानस्य प्रकाशनिवर्त्यत्वनियमेन जडरूपवृतिनिवर्त्यत्वायोगात् । किंतु तदा प्. ७५ब्) रूढचैतन्यप्रकाशस्तन्निवर्तकः स्वरूपेण तस्याज्ञानादि साक्षितया तदनिवर्तकत्वेपि अखंडाकारवृत्युपारूढस्य तन्निवर्तकत्वोपपतेः । तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं देहेत् । सूर्यकांतमुपारुह्यतं न्यायं तत्र योजयेदित्यभियुक्तोक्तेः । एवं च यथा किंचित्काष्टमुपारुह्यग्रामनगरादिकं दहन् वह्निर्दहत्येव तदपि काष्ठं तथा चरमवृतिमुपारुह्यनिखिलं प्रपंचमुन्मूलयन्न खंडचैतन्यप्रकाशस्तन्निवर्तनेपि प्रगल्भत इति न तन्नाशे काचिदनुपपतिरित्याहुः ।। न मादाय कार्यमात्रे ज्ञानाघटितसामग्र्यनिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वमस्तीति नैतन्मिथ्यात्वनिर्वचनमिति वाच्यं । लक्षणे ज्ञानपदस्य जैवज्ञानपरत्वात् । आत्मन्यतिव्याप्तिवारणाय विशेष्यमितिभावः । ननु कार्यमात्रे कालादृष्टादेः कारणत्वमित्यंगीकृन्य ब्रह्मज्ञानध्वंसेपि कालादृष्टादेःकारणत्वाभ्युपगमे मूलाज्ञानध्वंसरूपे मोक्षेपि कालादेःकारणत्वं स्यात् कार्यत्वाविशेषात् । न चेष्टापतिः नान्यः पंथा इति श्रुति विरोधादित्यत आह । नान्यः पथां इति । अस्याः श्रुतेः ज्ञानमेकमेव मोक्षसाधनमित्यत्र न तात्पर्यं किंतु मोक्षस्य ज्ञानाघटितं प्. ७६अ) किमपि साधनं नास्तीत्यत्र तात्पर्य । अतो न श्रुति विरोध इत्यर्थः । अत इति श्रुतिविरोधादिरूपबाधकाभावादित्यर्थः । वृतिरूपस्य ब्रह्मज्ञानस्याविद्यादिनाशकत्ववदेवस्वनाशकत्वमप्यस्तीत्युक्तमिदानिं वृतिरूपब्रह्मज्ञानस्याविद्यादिनाशकत्वं स्वनाशकत्वं वा नास्ति किंतु तद्वृत्यारूढचैतन्यमेव तद्वृति सहित सर्वनाशेकमिति मतमाह । केचित्विति । ननु चैतन्यस्याज्ञानादि साधकत्वात्कथं तस्य नाशकत्व सत आह । स्वरूपेणेति । तत्र दृष्टांतं श्लोकेन दर्शयति । तृणादेरिति । एषा प्रत्यक्षा सूर्यदीप्तिः स्वरूपेण तृणादेः प्रकाशिकापि सूर्यकांतमणिमुपारुह्य तृणादिकं दहतीति प्रत्यक्षसिद्धं तत् न्यायं तत्र चैतन्ये योजयेत् । चैतन्यं स्वरूपेणाज्ञानादिप्रकाशकमपि वृतिविशेषसंसृष्टं सदज्ञानादेर्नाशकमिति निश्चिनुयादेव ननु साधकस्य कथं घातकत्वमित्यसंभावनया प्रमाणसिद्धमर्थमुपेक्षेतेति श्लोकतात्पर्यं ननु मण्यारूढा सूर्यदीप्तिः मणिव्यतिरिक्तमेव तृणादिकं दहति न तु मणिमपि तथा च वृत्यारूढं चैतन्यं वृति व्यतिरिक्तमेवाज्ञानादिकं नाशयेन्न वृतिमपि । तथा च ब्रह्मज्ञानं कथं नश्येत् नाशकांतराभावादिति शंकायाः समाधानं कथं लब्धं तत्राह । एवं चेति । चैतन्यस्य वृत्यारूढस्य नाशकत्वे प्रकाशाप्रकाशयोरेव लोके निवर्त्य निवर्तकभावदर्शनात् । प्रकाशस्यापि सहकारि विशेष च शेन नाशकत्वाविरोधाच्चेति युक्त द्वयेन सिद्धे सतीत्यर्थः । उन्मू * * * * न्नेति मूलभूताज्ञानेन सह प्. ७६ब्) नाशयन्नित्यर्थः । प्रगल्भत इति भवतीत्यर्थः । तन्नाश इति चरमवृतिनाश इत्यर्थः ।। अन्ये तु ब्रह्मज्ञानमज्ञानस्यैव निवर्तकं ज्ञानाज्ञानयोरेव साक्षाद्विरोधात् । प्रपंचस्य तूपादाननाशात्नाश इति प्रपंचांतर्गतस्य ब्रह्मज्ञानस्यापि तत एव नाशः न च प्रपंचस्य ज्ञानानिवर्त्यत्वे मिथ्यात्वानुपपतिः । प्रपंचनिवृतेः साक्षात्ज्ञानजन्यत्वाभावेपि ज्ञानजन्या ज्ञाननाशजन्यत्वात् साक्षात्परंपरया वा ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यंगीकारात् । एवं च तत्वसाक्षात्कारोदयेपि जीवन्मूक्तस्य देहादिप्रतिभास उपपद्यते । प्रारब्धकर्मणा प्रतिबंधेन तत्वसाक्षात्कारोदयेपि प्रारब्धकर्म तत्कार्यदेहादिप्रतिभासानुवृत्युपादानाविद्यलेशानिवृत्युपपतेः । अज्ञानवत्प्रपंचस्यापि साक्षाद्ब्रह्मसाक्षात्कारनिवर्त्यत्वेनायमुपपद्यतेऽतिविरोधिनि ब्रह्मसाक्षात्कारे सति प्रारब्धकर्मणः स्वयमवस्थानासंभवेनाविद्यालेशनिवृतिप्रतिबंधकत्वा- योगादित्याहुः । प्. ७७अ) इति श्रीशास्त्रसिद्धांतलेशसंग्रहे तृतीयः परिछेदः ।। ३ ।। अज्ञाननाश * * ब्रह्मज्ञाननाशहेतुरितिमतं दर्शयति । अन्ये त्विति । अज्ञानस्यैवेति । उक्तं च पंचपादिकायां ज्ञानमज्ञानस्यैव निवर्तकमिति साक्षादिति विरोध प्रयोजकस्य समानविषयत्वादेरज्ञान एव संभवादित्यर्थः । तत एवेति । उपादान नाशादेवेत्यर्थः । साक्षात्परंपरयावेति मूलाज्ञानमात्रस्य ज्ञानैकनिवर्त्यतया मिथ्यात्वसिद्धौ मूलाज्ञानातिरिक्त जडमात्रस्य तदधीनतया स्वयं साक्षात् ज्ञाननिवर्त्यत्वाभावेपि कृत्स्न प्रपंचस्य मिथ्यात्वसिद्धिरप्रत्युहेत्यपि मंतव्यं । अस्य मतस्य जीवन्मुक्तिशास्त्रानुगृहीतत्वं दर्शयति । एवं चेत्यादिना । अज्ञानातिरिक्तस्य जडस्य ज्ञानेन सह साक्षाद्विरोधाभावे सतीत्यर्थः । ननु तत्वसाक्षात्कारेणाज्ञाननाशे सत्युपादानाभावात् देहादेरवस्थानासंभवे सति कथं विद्योदये देहादि प्रतिभासः । इत्यत आह । प्रारब्धेति । तत्वसाक्षात्कारोदये सत्यज्ञानस्य निःशेषेण निवृतिप्रसक्तौ प्रारब्धकर्मकृतप्रतिबंधवशादज्ञानलेशस्य निवृतिर्न संभवति तल्लेशानुवृतौ च तत्वज्ञानानंतरमपि प्रारब्धकर्मणः तत्कार्यस्य देहादि प्रतिभासस्यापि अनुवृतिर्युज्यते देहाद्युपादानभूतस्याविद्यालेशस्यानुवृतेरित्यर्थः । पूर्वमते जीवन्मुक्त्यसिद्धिमाह । प्. ७७ब्) अज्ञानवदिति जीवन्मुक्तस्य देहादि प्रतिभास इत्यर्थः । विरोधिनीति । अज्ञानस्येव प्रारब्धकर्मणोपि साक्षाद्विरोधिनीत्यर्थः । श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं संप्रणम्य च व्याख्यातो यं परिछेदः श्रीकृष्ण परितुष्टये ।। ।। इति श्रीमत्परमहंसपरिव्राजिकाचार्य श्रीमत्स्वयंप्रकाशानंदसरस्वस्ती दिव्य श्रीचरणारविंदसंलग्नरजोभूतस्य अच्युतकृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धांतलेशसंग्रहव्याख्यायां श्रीकृष्णालंकाराख्यायां तृतीयः परिछेदः ।। ३ ।। समाप्तम् ।।</poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] amn017mljdi3jiw5wbzyzjcjh9x11ha 417863 417862 2026-07-16T11:13:56Z Shubha 190 417863 wikitext text/x-wiki {{header | title = सिद्धान्तलेशसङ्ग्रहटीका - भागः २ | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> प्. २१अ) स्यादिति तत्परिहारायाहंकारशंबलितस्य भोक्तृत्वादि ततो निष्कृष्टस्य शुद्धस्योदासीन ब्रह्मरूपत्वमिति व्यवस्थामाथित्यभागत्यागलक्षणा श्रीयते । एवं कृष्णलं श्रययेदित्यादावपि प्रत्यक्षस्यात्यंत निर्विषयत्वप्रसक्तौ तत्परिहाराय श्रुतौ लक्षणा ।। तरेषु श्रुत्यंतरेषु च तात्पर्यलिंगानि द्रष्टव्यानि । तथा च उक्त तात्पर्यलिंगैरुपे तत्वादद्वैतश्रुतीनां प्रावल्यमित्वाशयेनाह । षद्विधेति । ननु तर्हि व्यावहारिको यजमान प्रस्तरयोरभेदः । श्रुत्यर्थोस्तु ततश्च व्यावहारिक तदमेद प्रतिपादकश्रुतिबाधितं तयोर्भेदप्रत्यक्षमपि व्यावहारिकभेदविषयकमस्तु । तथा च प्रत्यक्षस्य निरवकाशत्वा भावान्न श्रुतिबाधकत्वमिति चेन्न समान सताकयोर्भेदाभेदयोरेकत्रासंभवेन । तथा कल्पनायोगादस्तु तर्हि प्रातिभासिकस्तयोरभेदः । श्रुत्यर्थ न शुक्तो रजताभेदस्यैव प्रस्तरे यजमानाभेदस्य प्रत्यक्षप्रतिभास्य भावादितिभावः । श्रुते प्रत्यक्षात्प्रावल्यमित्युत्सर्गस्य यजमानः प्रस्तर इत्यत्रापवादस्थलं दर्शंयित्वा अपवादस्थलांतरमाह । एवं तत्वमसीति । तत्वमसीति वाक्येन हि स्वरसतः किं चिह्नत्वं कर्तृत्वभोक्तृत्वादिविशिष्टचैतन्यरूप जीवस्य तद्विपरीतेन सर्वज्ञत्वा भोक्तृत्वा भोक्तृत्वा कर्तृत्वादिविशिष्ट प्. २१ब्) चैतन्यरूपेण ब्रह्मणा सहाभेदः सार्वकालिकः प्रतिपाद्यते । तदनुरोधेन जीवे सदासर्वज्ञत्वादि धर्मांगीकारें जीवे तद्विरुद्धा सर्वज्ञत्व कर्तृत्वादिरूपसंसारोवगाहि प्रत्यक्षं निरालंबनं स्यादतो निरवकाशसंसारप्रत्यक्षेण श्रुतेर्बाधः स्वीकर्तव्यः स च बाधो विशेष्यचैतन्यांशमात्राभेदप्रतिपादकत्वेन श्रुतेः । संकोचरूप एव न तु यजमानः प्रस्तुर इत्यत्रेव कार्त्स्येन मुख्यार्थं त्यक्त्वागौणार्थकल्पनरूप इति विशेष इत्यर्थः । अहंकारशबलि तस्येति । अंतःकरणविशिष्टचैतन्यस्येत्यर्थः । भागत्यागेति । त्वं पदवाच्यस्य द्वौभागौस्तः विशेषणभागो विशेष्यभागश्चेति तत्र विशेषणरूपस्य भागस्य त्यागपूर्वकं त्वं पदस्य विशेष्यभागे चैतन्यमात्रे लक्षणा स्वीक्रियते । एवं तत्पदार्थेपि द्रष्टव्यं अपवादस्थलांतरमाह । एवं कृष्णलमिति । प्रसक्ताविति । श्रुतिवलात्कृष्णलेषु रूपरसपरावृतिप्रादुर्भावपर्यंतयाकरूपसाश्रपणस्यांगीकारे तेषु प्रपणाभावप्रत्यक्षस्य विषयो न लभ्यते । अद्वैत श्रुतिविरोधेन तेष्वपारमार्थिकस्य श्रपणाभावस्यासंभवात् । श्रुत्यक्त श्रपणस्य तेषु व्यावहारिकस्यैव वक्तव्यतया तेषु तदभावस्यापि व्यावहारिकस्यासंभवात् । व्यावहारकाले बाधरहितस्य श्रपणाभावस्य प्रातिभासिकत्वासंभवाच्च तस्मात् प्रर्क्षनिर्विषयं स्यादित्यर्थः । एवं सौमें न यजेतेत्यत्रापि सोमेन यागेनेष्वं प्. २२अ) भावयैदिति वाक्यार्थे स्थिते श्रुतिवलात्सोमयागयोरभेदांगीकारे तयोर्भेदग्राहि प्रत्यक्षं निरवकाशं स्यादिति तद्विरोधपरिहाराय सोमपदस्य मत्वर्थलक्षणा स्वीक्रियत इति दृष्टव्यं ।। नेह नानास्ति किंचनेत्यत्र कथंचिद्विषयोपपादनसंभवे तु न प्रवलायाः । श्रुतेरन्यथा नयनमिति न कश्चिदप्यव्यवस्था प्रसंगः । अथ वा कृष्णलं श्रययेत्सोमेन यजेतेत्यादौ न प्रत्यक्षानुरोधेनलक्षणाश्रयणं किं त्वनुष्टानाशक्त्या न हि कृष्णले उष्णीकरणमात्रमिव मुख्यः पाकोनुष्टातुं शक्यते न वा सोमद्रव्यकरणयो याग इव तदभिन्नो यागः केन चिदनुष्टातुं शक्यते । न चानुष्टेयत्वाभिमतस्य प्रत्यक्षविरोधयवानुष्टानाशक्तिरिति शब्दांतरेण व्यवह्रियत इति वाच्यं । शशिमंडलं कांतिमत्कुर्यादिति विधावनुष्टेयत्वाभिमतस्य शशिमंडले कांतिमत्वस्य प्रत्यक्षाविरोधेप्यनुष्ठानाशक्तिदर्शनेन तस्यास्ततोभिन्नत्वात् । तथा च तत एव तत्र लक्षणाश्रयणं । तस्मादपछेदन्यायादि सिद्धस्य श्रुति च लीयस्त्वस्य न कश्चिद्धाध इति । अथ कथमत्रापछेदन्यायप्रवृतिः उच्यते ।। प्. २२ब्) एवं निरवकाश प्रत्यक्षेण श्रुतिबाधमुत्सर्गस्यापवादरूपं दर्शयित्वा श्रौसर्गिकं श्रुति प्रावल्यं प्रकृताभिप्रायेण दर्शयति । कथंचिदिति । द्वैतमिथ्यात्व श्रुतीनां तत्सत्यग्राहिप्रत्यक्षस्य च विरोध स्थले प्रत्यक्षस्य श्रुतिबाधितस्यापि न निरवकाशतं । कल्पित द्वैत तद्गत सता जात्यादिविषयकत्वेन सावकाशत्वादतोत्र श्रुत्याप्रत्यक्षस्यैव बाध इति भावः । कथंचिदित्यस्य कल्पित द्वैतादि समर्पणेन वेत्यर्थः । कथंचिच्छब्दात् पूर्वं प्रत्यक्षस्येति शेषः । न कश्चिदपीति । तात्पर्यस्य प्रावल्यप्रयोजकत्वपक्षे यथा तात्पर्यविषयस्यापि श्रयणादेर्बाध दर्शनरूपा अव्यवस्था प्रसक्ता न तथा श्रुति प्रावल्यौत्सर्गिकत्व पक्षे साप्रसज्यते अनुपलंभादित्यर्थः । ननु प्रत्यक्षेण श्रुतिबाधे बह्नन्युदाहरणानि दर्शितानि श्रुत्या प्रत्यक्षबाधोदाहरणं त्वेकमेव दर्शितं तथा च प्रत्यक्षस्य श्रुत्यपेक्षया प्रावल्यमत्सर्ग इति वक्तव्य न तु वैपरीत्यमित्यस्वरसादाह । अथवेति । तदभिन्न इति । सोमाभिन्न इत्यर्थः । तस्या इति । अनुष्टानाशक्तेरित्यर्थः । तत इति प्रत्यक्षविरोधादित्यर्थः । तत एवेति । अनुष्टानाशक्तेरेव न तु प्रत्यक्षविरोधादतो न प्रत्यक्षप्रावल्यस्यौत्सर्गिकत्वं आगमबाध्यानां गगननैल्य प्रत्यक्षादीनां भूयसां प्राग्दर्शितत्वादित्यर्थः । तस्मादिति । आगप्रावल्यस्यौत्सर्गिकत्व संभवादित्यर्थः । न कश्चिद्बाध इति । आगमस्य प्रत्यक्षात्प्रावल्ये यजमानः प्रस्तर इत्यादावपि यजमान प्रस्तराभेदादि सिद्धिप्रसंग इति यो बाध आशंकितः प्. २३अ) पूर्वं स नास्ति तस्य बहुभिः प्रकारैः परिहृतत्वादित्यर्थः अपछेदन्यायं प्रकृते योजयितुमाक्षिपति । अथ कथमिति । कथं शब्दसूचितस्याक्षेपस्य विवरणं तन्निराकरणं च यत्वित्यादिना भविष्यति प्रथमं तं न्यायं प्रकृते यौजयति । उच्यत इति ।। यथा ज्योतिष्टोमेवहिष्यवमानं सर्षतामद्ज्ञातुरपछेदे सति यद्युद्ज्ञातापछिद्येतादक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेतेति श्रुतिनिरीक्षणेन जातोद्रात्रऽपछेदनिमित प्रायश्चित्त कर्तव्यताबुद्धिः पश्चात् प्रतिहर्त्रऽपछेदे सति यदि प्रतिहर्तापछिद्येत सर्ववेदसंदद्यादिति श्रुति निरीक्षणेन जातया तद्विरुद्धप्रतिहर्त्रऽपछेद निमित प्रायश्चित्त कर्तव्यता बुद्ध्या बाध्यते । एवं घटादि सत्यत्व प्रत्यक्षं परया तन्मिथ्यात्व श्रुतिजन्य बुद्ध्या बाध्यते । न चोदाहृतस्थुले । पूर्वनैमितककर्तव्यता बुद्धेः परनैमितिक कर्तव्यता बुद्ध्या बाधेपि पूर्वनैमित्तक कर्तव्यताबुद्धिजनकं शास्त्रं यत्रोद्ज्ञातृमात्रापछेद उभयोरपि युगपदपछेदो वा उद्गात्रऽपछेदस्य परत्वं वा तत्र सावकाशं । प्रत्यक्षं त्वद्वैत श्रुत्यावाधे विषयांतराभावान्निरालंबनं स्यादिति वैषस्यं शंकनीयं ।। प्. २३ब्) बहिष्यवमानं स्तोत्रमुद्दिश्यान्वारब्धतयागछता मृत्विजां मध्ये उद्गातुरपछेदे सति आरब्धं क्रतुमदक्षिणतया समाप्य पुनः स एव क्रतुरनुष्टेय इति तदपछेदनिमितकमारच्ये क्रतोरदक्षिणतया समापनं प्रायश्चिततयाविहितं । तथा प्रतिहर्त्रःपछेदनिमितकं सर्वस्वदानरूपदक्षिणादानविशिष्टतया आरब्धस्यैव क्रतोः समापनरूपं प्रायश्चितं विहितं । तथा च एकस्मिन् प्रयोगे दैवात् क्रमेणोभयोरपछेदे सति विरुद्धयोरुक्ते प्रायश्चितयोरनुष्टातुमशक्यत्वादन्यतरस्यानुष्टेयत्वे स्थिते सति किं पूर्वनिमितक प्रायश्चितमनुष्टेयं किं वा उत्तरनिमितकमिति विषये निणैयमाह । उद्गातुरपछेद इत्यादिना । यत्र प्रयोगे प्रथममुद्गातुरपछेदो भवति तत्प्रयोगाभिप्रायोयं ग्रंथः । श्रुतिनिरीक्षणेनेति । निमितोहुयजननानंतरमेव नैमितकशास्त्रस्य बुद्धिस्थत्वादिति भावः । अपछेदनिमितकर्तव्यताबुद्धिरिति । उद्गात्रऽपछेदो निमितं यस्य प्रायश्चितस्य तदुद्गात्रऽपछेदनिमितं तस्य कर्तव्यता बुद्धिरित्यर्थः । तद्विरुद्धेति उद्गात्रयछेदनिमित कर्तव्यता तच्छब्दार्थः तद्विरुद्धत्वं च कर्तव्यताविशेषणमेवमिति । एकस्मिन् प्रयोगे अदक्षिणत्व सर्वस्वदक्षणाकत्वयोरिव एकत्रघटादि प्रपंच सत्यत्वमिथ्यात्वयोरपि विरुद्धत्वातद्बुद्ध्योर्बाध्य बाधकत्व इति भावः । न चोदाहृत प्. २४अ) स्थल इति । यत्र प्रथममुद्गात्रऽपछेदस्तत्रेत्यर्थः । शास्त्रमिति । यद्युद्गातापछिद्येतेति शास्त्रमित्यर्थः । युगपदिति । उद्गाता प्रतिहर्त्रः पछेदयोर्यौगपद्यस्थले उद्गात्रःपछेदनिमितकमेव प्रायश्चितमनुष्टेयमित्याथस्तं वाचार्यैरुक्तत्वादितिभावः । प्रत्यक्षं त्विति द्वैत सत्यत्व प्रत्यक्षमित्यर्थः । अद्वैत श्रुत्येति । द्वैतमिथ्यात्व श्रुत्येत्यर्थः । विषयांतराभावादिति । द्वैत प्रपंचे प्रतीयमान सत्वस्य श्रुत्वाबाधे सति तत्र सत्वांतरा भावात् सत्व प्रक्षं निर्विषयं स्यान्न चैतद्युज्यते प्रत्यक्ष ज्ञानस्य निर्विषयत्वादर्शना तदनुपगमाच्चेति भावः ।। यत्र घटादौ श्रुतिबाध्यं प्रत्यक्षं प्रवर्तते तत्रैव व्यावहारिकं विषयं लब्धा कृतार्थस्य तस्य परापछेदस्वलेमर्वथा बाधितस्य पूर्वापछेदशास्त्रस्येव विषयांतरान्वेषणाभावदिहापि सर्वप्रत्ययवेद्य ब्रह्मसतायां सावकाशं प्रत्यक्षमिति वक्तुं शक्यत्वाच्च यत्वेकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां क्रतौ ततत् नैमितिक कर्तव्यतयोः वदरफलेश्यामरक्तरूपवोरिव क्रमेणोत्पादादूपद्वज्ञानवत्कर्तव्यताज्ञानद्वयमपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधेःपछेदत्याय उदाहरणं । अत एवापछेदाधिकरणेनै प्. २४ब्) मिकशास्त्रस्य ह्ययमर्थः । निमितो यजननान्प्रागन्यथा कर्तव्योपि क्रतुर्निमिते सत्यन्यथा कर्तव्य इति शास्त्रदीपिकावचनमिति । द्वैत प्रपंचे पारमार्थिकस्य सत्वस्य श्रुत्या अपहृतत्वेपि व्यावहारिकस्य तत्सत्वस्य तयानुयहृतत्वात् । सत्व प्रत्यक्षस्य न निरवकाशत्वमिति परिहरति । यत्रेति । विषयमिति सत्वरूपमितिशेषः । ननु ब्रह्मणि सत्वं पारमार्थिकं घटादि प्रपंचे सत्वं व्यावहारिकं शुक्तिरजतादौ सत्वं प्रातिभासिकमिति सत्तात्रैविध्यपक्षे घटादि सत्वप्रक्षस्य विषयांतरं नान्वेषणियं व्यावहारिक सत्वस्य घटादौ विद्यमानस्यैव तद्विषयस्य विविरुद्धापछदस्थले सर्वथा बाधितस्य पूर्वापछेदनिमितक प्रापश्रितशास्त्रस्यैत्याशंक्याह । इहापीति द्वैतसत्वप्रत्यक्षं घटादि द्वैते सतामलभमानेमपि न निरचकाशं पूर्वापछेदनिमितक प्रायश्चितशास्त्रस्य प्रयोगांतरे सावकाशत्ववदिहापि घटादि द्वैतादन्यत्र तदधिष्ठानभूतब्रह्मसतायां सावकाशत्व संभवादित्यर्थः ब्रह्मस्वरूपसतायाः प्रत्यक्षविषयत्वेकैयुतिक न्यायमभिप्रेत्याह । सर्वेति । सर्वप्रत्ययवेद्यत्वं सता विशेषणं लोके हि यद्यद्वस्तुमनसिस्कुलाभादेकैव सर्वत्र सतेति पक्षे व्यावहारिक सत्व प्रातिभासिक सत्वयोरभावात् सत्वप्रत्यक्षस्य विषयांतरमन्वेषणियमेव यथा उतरभार रति तत्सर्वं सदित्येव प्रतीयते । अतः सर्वस्य जगतः सता प्. २५अ) सर्वप्रत्ययवेद्यासा च सर्वाधिष्ठान ब्रह्मसतैव न तु तदतिरिक्ताकल्पनागौरवादितिभावः । पूर्वं कथं शब्दसूचितमाक्षेपमिदानीमुद्भावयति । यत्विति । वदरफल इति । यथा तत्र पूर्वं श्यामरूपमुत्पद्यते तत्रैव प्रश्चात् पूर्वरूपनाशपूर्वकं रक्तरूपमुत्पद्यते तथा पूर्वनिमितेन जातमात्रे पूर्वनैमितिक कर्तव्यता जायते याश्चात्ये न च निमितेन पूर्वकर्तव्यतानाशपूर्वकमुत्तरनैमितककर्तव्यतोत्पाद्यत इत्यर्थः । ततः किं तत्राह । रूपद्वयज्ञानवदिति । तथा चोतरभावि विरुद्धापछेदवत्यपि क्रतौ पूर्वनैमितिक शास्त्रस्य नाप्रामाण्यमिति तत्प्रामाण्य संरक्षणमेव तथा कल्पकमिति भावः । उतरनिमितो यजननात्प्राक पूर्वनैमितिक कर्तव्यता वस्तु तत्रासीदित्यत्र संमतिमाह । अत ऐवति पूर्वं वस्तुतस्तदभ्युपगमादेवेत्यर्थः । उतरभाविप्रतिहर्त्रःपछेदजननात्प्रागन्यथा अदक्षिणतया वस्तुतः कर्तव्योपि क्रतुः पश्चात् प्रतिहर्त्रऽपछेदरूपे निमिते सत्यत्थथा सर्ववे दक्षिणतया कर्तव्य इति शंककाभिप्रायानुसारेणवनार्थः ।। तत्र अंगस्य सतः कर्तव्यत्वं न च पश्चाद्भावि प्रतिहर्त्रऽपछेदवति क्रतौ पूर्वप्रवृतोद्गात्रःपछेदनैमितकस्य प्रायश्चितस्यांगत्वमस्ति । आहवनीपशास्त्रस्य पद होमातिरिक्त होमविषयत्ववद्युद्गातेति शास्त्रस्य पश्चाद्भवि प्रतिहर्त्रःपछेदरहित प्. २५ब्) क्रतु विषय त्वात् । उक्तं हि न्यायरत्नमालायां । साधारणस्य शास्त्रस्य विशेषविषयादिना संकोचः कॢप्तरूपस्य प्राप्तवाधो विधीयत इत्युक्त लक्षण प्राप्तवाध विवेचने । तत्रैवं सति शास्त्रार्थो भवति पश्चाद्भाव्युद्गात्रऽपछेदविधुर प्रतिहर्त्रःपछेदयतः क्रतोः सर्ववेद सदानमंगमेव मुद्गात्रऽपछेदेपि द्रष्टव्यमिति । यतु शास्त्रदीपीकावचनमुदाहृतं । तदपि तेनोत्पन्नमपि पूर्वप्रायश्चित ज्ञानं मिथ्या भवति बाधितत्वात् । उत्तरस्य तु न किंचिद्बाधकमस्तीति पूर्वकर्तव्यता बाध्यत्व प्रतिपादक ग्रंथोपसंहारपठिततात् ।। क्रमेण विरुद्धापछेद द्वयवति क्रतौ पूर्वनैमितिकस्य कर्तव्यतानि व्यातौमानं नास्तीति तत्र पूर्व प्रायश्चितस्यानंगत्वादनंगत्वं च द्बोधकमानाभावातन्न च पूर्वनैमितिकशास्त्रं ततृमानं । तस्य प्रयोगांतरेषु सावकाशत्वेन तत्राप्यंगबोधकत्वा भावादित्याशयेन दूषयति । तत्रेति । आहवनीयेति । आहवनीय जुहोतीति होममात्रे आहवनीयं विधातुं प्रवृतस्य सामान्यशास्त्रस्य होमविशेषे पदरूपाधिकरण विधायकविशेषशास्त्रवशेन पदहोमातिरिक्त होमेष्वाहवनीय विधायकत्ववदित्यर्थः । क्रतु विषयत्वादिति । तादृश क्रतावेव उद्गात्रऽपछेदनिमितक प्. २६अ) प्रायश्चितस्यागत्व बोधकत्वादित्यर्थः । उक्तार्थे संमतिमाह । उक्तहीति । कॢप्तरूपस्य प्रत्यक्षसिद्धस्य साधारणस्य होममात्रे प्राप्तस्याहवनीये जुहोतीति शास्त्रस्य विशेषशास्त्रेण यः संकोचः सः प्राप्तबाधोभिधीयते । यथा सामान्यशास्त्रयोरेव क्वचिद्विषये विरोधे सति पूर्वप्राप्तस्य पश्चात् प्राप्तं परत्वाहाधकं भवति यथा विरुधापछेदनिमितक शास्त्रयोस्तथा च विशेषविषयादि नेत्यादि पर्दे परत्वादि संग्रहार्थमिति श्लोकार्थः । तत्रैवं सुतीति । अपछेद स्थले उतरज्ञानेन पूर्वज्ञानबाधे सतीत्यर्थः । द्रष्टव्यमिति । पश्चाद्भावि प्रतिहर्त्रज्यछेदविधुरस्य उद्गात्रऽपछेदवतः । क्रतोरदक्षिणतया क्रतु समापनमंगमिति ज्ञातव्यमित्यर्थः । शास्त्रदीपिकावचनमपि न त्वदभिमतार्थ परं तत्पूर्वग्रंथविरोधात् पूर्वग्रंथार्थनिगमनरूपस्य त्वद्वराहृतवचनस्य पूर्वग्रंथानुसारेणैव नेतव्यत्वाच्चेत्याह तदपीति । तदपि कृत्वा चिंतामात्र परमिति संबंधः । कृत्वा चिंता परत्वे हेतुमाह । तेनेत्यादिना । तेनेत्यस्य कॢप्त पूर्वप्रवृति नैमितिक शास्त्रेणेत्यर्थः ।। निमितो यजननात्प्राऽऽन्निमितोपजननं विना निमितोपजननाभावे सत्यन्यथा कर्तव्योपीति कृत्वा चिंतामात्रपरं न तूतरनिमितोपजननात्प्राक् पूर्वनैमितिक कर्तव्यता वस्तुतः आसीदित्येवं प्. २६ब्) परं । पूर्वग्रंथसंदर्भविरोधापतेः । आस्तांमीमांसकमर्ययादा श्यामरक्तरूपे न्यायेन क्रमिक कर्तव्यता द्वयोत्यत्युपगमे को विरौधः । उच्यते किं तत्कर्तव्यत्वं यत्परनैमितिक कर्तव्यतोत्पत्यानिवर्तते । न तावत् पूर्वनैमितिकस्य कृति साध्यत्वयोग्यत्वं । तस्य पश्चादप्यनपायात् । नापि कलमुखं कृति साध्यत्वं । तस्य पूर्वमप्यजननात् । नापि यदननुष्टाने क्रतोर्वैकल्पं तत्त्वमंगत्वं वा ।। परोदाहृतवचनस्य शास्त्रदीपिकागतपूर्वग्रंथानुसारिणमर्थमाह । निमितोपजननं विनेति । क्रमेणविरुधापछेदद्वद्वयवति क्रतौ यदि द्वितीयमितोपजननं न स्या तदा पूर्वतिमितवशादन्यथा कर्तव्यो भवेदप्ययं क्रतुर्न त्वेतदस्तीत्ये तदर्थ परोयं ग्रंथ इत्यर्थः । पराभिमतं तद्वचनार्थं निषेधति । नन्विति । तिष्ठं तु मीमांसकाः दर्शित दर्शिनः कुशलैरस्माभिः कल्पितस्य श्रुत्यर्थस्य कानुपपतिरिति शंकते । आस्तामिति । उतरनैमितिक कर्तव्यतोत्पत्त्यानाश्यत्वेन पराधिमतं पूर्वनिमितिकस्य कर्तव्यत्व मे विवतावद्दर्निरूपं तथा हि तत्किं कृतिसाध्यत्वयोग्यत्वं किं वा फलमुखं कृति साध्यत्वं क्रतु वैकल्पप्रयोजकाननुष्ठानप्रतियोग्यनुष्ठान शालित्वं प्. २७अ) वा अंगत्वं वा अन्यद्वा किंचिदिति विकल्पं मनसिति धायाद्यं दूषयति । न तावदिति । अनुपायादिति । तथा चोत्तरनैमितिक कर्तव्यता कालेप्यनुवर्तमानायाः पूर्वकर्तव्यतायाः तन्नाश्यत्वाव्यारोनवदरफलगतश्यामुतारक्तरयोरिवतयोः क्रमिकत्वाभ्युपगमविरोध इति भावः । द्वितीयं दूषयति । नापि फलेति अजननादिति । तथा च पूर्वनैमितिक कर्तव्यताज्ञानस्य मीमांसकमर्ययादासिद्धं भ्रांतित्वमेवायातितनत्वदभिमतं श्यामताज्ञानस्येव प्रामत्वमितिभावः । तृतीयचतुर्थावनुदति । नापि यदिति । यस्यानुष्ठानाभावे क्रतोर्वैकल्पं भवति तत्क्रतुकैकल्पप्रयोजकाननुष्ठान प्रतियोग्यनुष्ठानशालित्वं पर्यवस्यति तत्वमित्यर्थः । यत्र प्रथममुद्गात्रःपछेदः पश्चात्प्रतिहर्त्रऽपछेदः तत्र उद्गात्रऽपछेदप्रायश्चिताननुष्ठानं क्रतु वैकस्त्यप्रयोजकं तत्प्रायश्चितं तस्य क्रतोरंगमिति च वदता वक्तव्यं । पूर्वप्रायश्चिताननुष्ठानस्य क्रतु वैकल्पप्रयोजकत्वं किं वैकल्पोत्पादकत्वं किं वा तद्व्यापकत्वं तद्व्याप्यत्वं वा नाद्यः । अभावरूपस्याननुष्ठानस्य उत्पादकत्वासंभवात् । क्रतु वैकल्पस्यापि क्रतूपकारप्रागभावरूपतया तदुत्पाद्यत्वायोगाच्च न द्वितीयः । यत्रोद्गातृमात्रापछेदवति क्रतौ तत्प्रायश्चितं कृतं कारणांतराद्वैकल्पं च तत्र क्रतु वैकल्प सत्वेपि उद्गात्रऽपछेदप्रायश्चिताननुष्ठानाभावेन व्यभिचारा तस्मात् तृतीयः परिशिष्यत इत्याशयेनाह ।। प्. २७ब्) अननुष्ठाने क्रतु वैकल्पप्रयोजकत्वस्य नियमविशेषरूपत्वेन कर्मांगत्वस्य फलोपकारितयासन्निपतितया वा कारणत्वविशेषरूपत्वेन च त्वयोः कादाचित्कत्वायोगेन स्वाभाविकत्वनिर्वाहाय पश्चाद्भाविविरुद्धापछेदाभाववतः क्रतोः पूर्वापछेदनैमितिकं मंगं तत्रैव तदनुष्ठानं क्रतु वैकल्पप्रयोजकं इति विशेषणीयतपापाश्चात्पापछेदवति क्रतौ पूर्वापछेदनैमितिके क्रत्वं गत्वस्य तदननुष्ठाने क्रतु वैकल्पप्रयोजकत्वस्य वा पाश्चात्पापछेदोत्पतेः पूर्वमसंभवात् । जहि वस्तु किंचित्कालं व्याप्यं पश्चान्नेति वा किंचित्कालंकारणं पश्चान्नेति वा क्वचिदृष्टं युक्तं वा नापि कर्तव्यत्वं नामधर्मांतरमेवागमापाययोग्यं कल्पनीयं मानाभावात् ।। नियमविशेषरूपत्वेनेति । व्याप्यत्वरूपत्वेनेत्यर्थः । फलोपकारित्वं परमापूर्वरूपफलं प्रत्यदृष्टद्वाराकारणत्वं यथा प्रयाजादीनां सन्निपत्योपकारकत्वं च यागस्वरूपोत्पादकत्वं यथा द्रव्यदेवत्वादेरस्तुतयो रुक्तरूपत्वमिति चेतत्र वक्तव्यं । क्रमिकविरुद्धापछेदद्वयवति क्रतौ पूर्वपापश्चिताननुष्ठानगतं प्. २८अ) क्रतु वैकल्पव्याप्यत्वरूपं तु वैकल्पप्रयोजकत्वं पूर्वप्रायश्चित गतमंगत्वं च द्वितीय निमित जननानंतरमप्यनुवर्ततेनवेति । आद्ये क्रतु वैकल्पप्रयोजकाननुष्ठान प्रतियोग्यनुष्ठानशालित्वरूपाः पूर्वप्रायश्चित कर्तव्यतायाः तत्प्रायश्चितगतांगत्वरूपकर्तव्यतायाश्च उतरनैमित कर्तव्यतानाश्यत्वाभ्युपगमभंगापतेः । द्वितीय कल्पे च पूर्वप्राथश्चिताननुष्ठानस्य क्रतु वैकल्पाव्याप्यत्वं द्वितीय निमित जननात् प्रागेवास्ति तज्जननानंतरं तु नास्तीति पर्यवस्यति । तथा पूर्वप्रायश्चित गतागत्वरूपा कर्तव्यता पूर्वप्रायश्चितस्य द्वितीय निमितजननात्प्रागेवास्ति पश्चात् तु नास्तीति पर्यवस्यति । तथा च व्याप्यत्वकारणात्वयोः स्वाश्रये कादाचित्कत्वमभ्युपगंतव्यं स्या तच्च न संभवतीत्यनुपदमेव वक्ष्यति । न हीत्यादिना । तस्मातयोर्यावदाश्रय भावित्वरूपस्वाभाविकत्वनिर्वाहायक्रमिकविरुद्धापछेदवक्त्र तु व्यावर्तकविशेषणमुभयत्रापि देषमित्याह । पश्चाद्भावीति । असंभवादिति । तथा च क्रमिकविरुद्धापछेदवति क्रतौ पूर्वनैमितिक कर्तव्यताज्ञानं भ्रांतिरेवेति भावः । तयोः कादाचित्कत्वायोगे हेतुमाह । न हीति । धूमादौ वह्न्यादि व्याप्यतापाः वह्न्यादौ धूमादिकारणतायाश्च कादाचित्कत्वादर्शनादित्यर्थः । नन्वदृष्टसपि युक्तं चेत्संग्राह्यमेव नेत्याह युक्तं वेति । वाकारो न जनुकर्षणार्थः । तयोः कादाचित्कत्वपक्षे धूमादौ कदाचिद्वह्न्यादेः व्याप्यत्वाभावापत्या तदभावप्रयोजकोपाधिमत्वप्रसंगः स्याद्वह्न्यादेः प्. २८ब्) कदाचिद्रूमादिकारणत्वाभापत्याधूमादिकार्यार्थिनो वह्न्याद्युपादाने तत्कारणकत्वाभावशंकयानिष्कंपप्रवृतिश्च न स्यादतस्तयोः कादाचित्कत्वमयुक्तमित्यर्थः । पंचमं निराकरोति । नापीति । प्रथमनिमितजननानंतरमेवा मम योग्यं द्वितीयनिमितजननानंतरमेवापाययोग्यं चेत्यर्थः ।। विरुद्धापछेदशास्त्रयोः पदाहवनीय शास्त्रवद्व्यवस्थोपपतेः । तस्मान्निरालंबनं क्रमिक कर्तव्यता द्वयोत्पति वचः । ननु चोपक्रमाधिकरणन्यायेनासंजातविरोधित्वात्प्रत्यक्षमेवा- गमाद्वलीयः किं न स्यात् । उच्यते । यत्रैक वाक्यता प्रतीयते तत्रैकस्मिन्नर्थे पर्यवसानेन भाव्यं अर्थभेदे प्रतितैकवाक्यताभंगप्रसंगात् । अतस्तत्र प्रथमसंसंजात प्रतिपक्षेण प्रजापतिर्वरुणा अमनयदित्याद्युपक्रमेणपरकृतिसरूपार्थ वादेन दातुरिष्टौ बुद्धिमधिरोपितायां तद्विरुद्धं यावतोश्चात्प्रतिगृह्णीया तावती वारुणांश्चतुः कपालान्निर्वपेदित्युपयं ह्यंहारगतं पदजातसुपसंजात प्रतिपक्षत्वाद्यथा श्रुतार्थसमर्पणेन तदेक वाक्यतामप्रतिपद्यमानसेकवाक्यतानिर्वाहायणिजर्थ- मंतर्भाव्य प्. २९अ) तदानुगुण्येनैवात्मानं लभत इत्युपक्रमस्य प्रावल्यं यत्र तु परस्परमेकवाक्यता न प्रतीयते तत्रैव पूर्ववृत्तमविगणप्यलब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थं बोधयत्ये वेति न तः त्वपूर्ववृतस्य प्रावल्यं । अत एव षोडशि ग्रहवाक्यं पूर्ववृतमविगणयय तद ग्रहवाक्यस्यापि स्वार्थबाधकत्वमुपैयते ।। पूर्वनैमितिकशास्त्रग्रावहनीयादि शास्त्रवदन्यत्र सावकाशतायाः । उक्त त्वेन तस्यै तादृश धर्मे मानत्वायोगादित्वाशयेनाह । विरुद्धेति । क्रमिकविरुद्धापछेदवति क्रतौ पूर्वनिमितिककर्तव्यत्वज्ञानस्य प्रमात्वासंभवात् सति विरोधे उतरज्ञानेन पूर्वज्ञानबाधे अपछेदन्याय उदाहरणं भवत्येवेत्याशयेनोपसंहरति । तस्मादिति । नन्वपछेद न्यायेन श्रुतेः प्रत्यक्षापेक्षया प्रावल्यावगति वदुपक्रमाधिकरणन्यायेन प्रत्यक्षस्यापि श्रुत्यपेक्षया प्रावल्यावगमाजयोर्बाध्य बाधकभावे विनिगमनाविरह इत्याशयेन शंकते । ननुवति । अज्ञंजातिति । यथा उपक्रमवाक्यार्थ ज्ञानकाले उपसंहारवाक्यार्थ ज्ञानाभावेन विरोधस्फुरणाभावादुपक्रमस्यासंजातविरोधित्वं तथा द्वत सत्वप्रवृतिकाले द्वैत मिथ्यात्वबोधक श्रुत्यर्थानुभवा भावेन प्. २९ब्) विरोधस्फूर्त्यभावात् । प्रत्यःक्षस्यासजातविरोधित्व मित्यर्थः । दृष्टांत वैषम्येण परिहरति । उच्यत इति । अथ मनय यदिति । अश्चंदतवान् इत्यर्थः परस्य प्रजापतेः कृतिरनुष्ठानं परकृतिः परकृतिपदं तत्प्रतिपादकवाक्यपरं तत्सदृशार्थवादेनेत्यर्थः । प्रजापतेः कर्माधिकाराभावेन वस्तु तस्तुत्प्रतिपादकत्वान्नावादिति स रूपेत्युक्तं । दातुरिति । स एतं वारुणं चतुष्कपालमपश्यत्तन्निरवपदित्युपक्रमे श्रवणादिति भावः । स इत्यनेन प्रकृतः प्रजापतिः परामृश्यते उपक्रमोपसंहारयोर्वरुणेष्टिरूपैकार्थस्पर्शित्वातयोरत्रैक वाक्यत्वमवगतं तत्संरक्षणायानयोरेकार्थपर्यवसानं वक्तव्यं । उपक्रमोदातुरिर्ष्टं विधे उपसंहारः प्रतिगृहीतुरिति यथा श्रुतवाक्यार्थाभ्युपगमे प्रतितैकवाक्यत्वं न स्यादित्यर्थः । णिजर्थमिति प्रतिगृह्णीयादित्यस्य प्रतिग्राहायेदित्यर्थः । एकवाक्य तु प्रतीति स्थल एवोतरस्य पूर्वापेक्षेत्युक्त्वार्थ दार्ढ्याय एकवाक्यत्वप्रतीत्यभावस्थले उतरेण पूर्वं नादर्त्तव्यमित्याशयेनाह । यत्र त्विति ।। किंतूभयोर्विषयांतराभावादगत्या तत्रैव विकल्पानुष्ठानमिष्यते । एवं चाद्वैतागमस्य प्रत्यक्षेणैकवाक्यताशंक्यभावात्पूर्ववृतमपि तदविगणयय स्वार्थबोधकत्वमप्रतिहतं । तदर्थ बोधजनने च पूर्वं परमजातत्वादबाधित्वैव जायते । परस्यानन्यथोत्पादान्नाऽद्याऽबाधैन संभव इत्यप प्. ३०अ) छेदन्यायस्यैव प्रवृतिर्नोपक्रमन्यायस्य । अत एव लोकेपि । प्रथमप्रवृतं शुक्तिरूप्यप्रत्यक्षमाप्तोपदेशेन बाध्यत इति । ननु तथाप्युपजीव्यत्वेन प्रत्यक्षस्यैवल्यं दुर्वारमपछेदशास्त्रयोर्हि न पूर्वं परस्योपजीव्यमिति युक्तः परेण पूर्वस्य बाध इह तु वर्णपदादि स्वरूपग्राहकतया मिथ्यात्वबोधकमागमं प्रतिप्रत्यक्षस्योपजीव्यत्वादागमस्यैव तद्विरुद्धमिथ्यात्वाः बोधकत्वरूपो बाधो युज्यते । न च मिथ्यात्व श्रुत्यावर्णपदादि सत्यत्वांशोपमर्द्देप्युपजीव्यस्वरूपांशोपमर्द्दाभावान्नोप- जीव्यविरोध इति वाच्यं । नेह नानास्ति किंचनेत्यादि श्रुतिभिः स्वरूपेणैव प्रपंचाभावबोधनात् ।। नत्वेकस्मिन्नति रात्र क्रतौ षोडशि ग्रह तदभावयोर्विरुद्धत्वाद्वाक्यद्वयं कथं प्रमाणं स्यादिति शंकते । किं त्विति । प्रयोगभेदेन विरोधसमाधानमाह । उभयोरिति । ननु ग्रहणवाक्यं तन्निषेधवाक्यं वक्रतु भेदेन व्यवस्थापितं किं न स्यादित्यत आह । विषयांतराभावादिति तयोर्वाक्ययारैकप्रकरणगतत्वादित्यर्थः । अगत्येति । समुच्चयस्याप्यसंभवेनेत्यर्थः । तत्रैवेति । अतिरात्र एवेत्यर्थः । एवं चेति । उपक्रम न्यायस्यैक वाक्यताक ग्रंथविषयत्वे सतीत्यर्थः । शंकाभावादिति । तथा च त्वप्रत्यक्षस्य श्रुत्युपेक्षया प्रावल्यशंकेति भावः प्. ३०ब्) अपछेदन्यायप्रवृतिं शंकासमाधानाभ्यां निरूप्यनिगमयति । तदर्थेति । पूर्वमिति । क्रमिकविरुद्धापछेदवति क्रतौ प्रथमापछेदनिमितकप्रायश्चित कर्तव्यता ज्ञानं पूर्वशब्दार्थः । उत्तरनैमितिक कर्तव्यताज्ञानं परशब्दार्थः पूर्वेण परस्य बाधाभावे हेतुमाह । अजातत्वादिति परस्यानन्यथा पूर्वज्ञान बाधमंतरेण उत्पत्ययोग्यत्वादाद्यस्याबाधेन परस्य संभवो नास्तीति श्लोकार्थः । पूर्वप्रवृतस्य प्रत्यक्षस्यापि परेणशब्देन बाधे उदाहरणमाह । अत एवेति । परत्वादेवेत्यर्थः । नन्विति । यद्यपीयं शंका न चैवमुपजीव्य प्रत्यक्षविरोध इत्यादिना निराकृतापूर्वमेव । तथापि तक्रोक्तं परिहारमाक्षेप्तुं तच्छंकापरिहारी पुनर्लिखितौ । तथापीति । आगमवत्प्रत्यक्षस्य स्वतः प्रावल्यो भावेपि इत्यर्थः । नन्वपछेद न्यायेन श्रुतेरपि प्रावल्यं दुर्वारं तथा च बाधकभावे विनिगमनाविरह एवेति शंक कस्य नेष्ट सिद्धिः प्रत्यक्षेण श्रुति बाधस्य तदिष्टत्वादित्याशंक्यापछेदन्यायानवतारं शंककः । प्रकृते दर्शयति । अपछेदशास्त्रयोर्हीति । उपजीव्यविरोधशंकायां पूर्वोक्तं परिहारं स्मारयति । न च मिथ्यात्व श्रुत्येति । श्रुत्या प्रपंच सत्यत्व मात्रप्रतिषेधे सति तथा परिहारो युज्यते सा तु प्रपंच स्वरूपमेव निषेधति । तथा च वर्णपदादि स्वरूपस्यैवाभावादुपजीव्यविरोधो दुर्वार इत्याह । नेहेति । इह ब्रह्मणि नानाभिन्नं वस्तु किंचिदपि नास्ति इत्यर्थः ।। अत्र केचिदाहुः । वृषमानयेत्यादि वाक्यं श्रवण प्. ३१अ) दोषाद्वृषभमानयेत्यादिरूपेण श्रुतवतोपि शाब्दप्रमिति दर्शनेन शाब्दप्रमितौ वर्णपदादि प्रत्यक्षं प्रमा भ्रमसाधारणमेवापेक्षितमित्यद्वैतागमेन वर्णपदादि प्रत्यक्षमात्रमपजीव्यस्वरूपोपमर्द्देपि नोपजीव्यविरोध इति । अन्ये त्वाहुः । शाब्दप्रमितौ वर्णपदादि स्वरूपसिद्ध्यनपेक्षायामपि अयोग्यशब्दात्प्रमित्यनुदयाद्योग्यतास्वरूपसिद्ध्यपेक्षास्ति । तदपेक्षायामपि नोपजीव्यविरोधः । नेह नानास्तीति श्रुत्यानानात्वनिषेधेपि यावद् ब्रह्मज्ञानमनुवर्तमानस्यार्थ क्रियासंवादिनोऽसद्विलक्षणप्रपंचस्वरूपस्यांगीकारात् । अन्यथा प्रत्यक्षादीनां व्यावहारिकप्रमाणानां निर्विषयत्व प्रसंगात् । न च स्वरूपेण निषेधे कथं प्रपंच स्वरूपस्यात्मलाभः निषेधस्य प्रतियोगि प्रतिक्षेपरूपत्वे व्याघातादिति वाच्यं ।। स्वरूपो मर्दमुपेत्यैवोपजीव्यविरोधं परिहरति । अत्र केचिदाहुरिति । प्रपंच सत्यत्वपक्षेपि वृषमानयेत्युदाहरणानुरोधेन भ्रमप्रमासाधारणमेव शब्दप्रत्यक्षं शाब्दबोधोपजीव्यमिति वक्तव्यमस्माकं तु मिषेध श्रुति प्रामाण्यात् । सर्वत्र भ्रमरूपमेव प्. ३१ब्) प्रत्यक्षशाब्दबोधे व्यवहोरांतरेषु च कारणमिति विशेष इति नोपजीव्यविरोधः शब्दस्वरूपस्यानुपजीव्यत्वादित्यर्थः । उपजीव्यविरोधं प्रकारांतरेण परिहरति । अन्ये त्वाहरिति । प्रथमं पूर्वमते अस्वरसंदर्शयति । शाब्दप्रमितिविति । अनपेक्षायामयीति । अत्रापि शब्देन । वस्तुतो न पेक्षानास्तीति सूचितं । तथा हि पूर्वमते प्रत्यक्षज्ञानमात्रसुपजीर्व्यविषयोवर्णपदादिलक्षणो नोपजीव्य इत्युक्त तदयुक्तं निर्विषय प्रत्यक्षज्ञानायोगादतो वर्णपदादि स्वरूपमपि स्वीकर्तव्यमेव तथा च उपजीव्यविरोधे पूर्वसमाधानं न साधिति भावः । अस्तीति । तथा च योग्यताया उपजीव्यत्वमवर्ज्जनीयमिति तद्विरोधः पूर्वमते आवश्यक इति भावः । न चैत्वावता पूर्ववाद्यभिमतस्य कृत्स्नप्रपंचस्य रूपं न सिध्यतीति वाच्यं । शाब्दप्रमिति लक्षणकार्यानुरोधेन ब्रह्मातिरिक्तयोग्यता स्वरूअपसिद्धौतद्वदेवजलाहरणादि कार्यानुरोधेन घटादि स्वरूपमपि सिध्यत्येवेत्याशयात् । ननु यदि चैतन्य व्यतिरिक्तं कृत्स्नं जगदुपेयते तर्हि तद्ग्राहि प्रत्यक्षादेः सविषयस्योपजीव्यत्वा तद्विरोध इत्यत आह । तदपेक्षायामपीति निषेध श्रुत्यर्था विरुद्धस्य प्रपंचस्वरूपस्यास्माभिरप्यंगीकारान्नास्माकं मते उपजीव्यविरोध इति भावः । असद्विलक्षणस्वरूपानंगीकारे बाधकं पूर्वमतानुवर्तिनं प्रत्याह अन्यथेति । प्रपंचसत्यत्ववादी शंकते । न चेति । ननु ब्रह्मणि प्रपंचस्तन्निषेधश्च युपदास्तां को दोष इत्याशंक्याह । निषेधस्येति । भूतलादौ घटाद्यभावस्य प्रतियोगि स्थिति प्. ३२अ) विरोधित्वदर्शनादितिभवः । व्याघातादिति निषेधत्वव्याघातादित्यर्थः ।। शुक्ता च पीदं रजतं नेदं रजतमिति प्रतीति द्वयानुरोधेनाधिष्ठान गताध्यस्ताभावस्य बाधपर्यंतानुवृतिका सद्विलक्षणप्रतियोगिस्वरूपसहिष्णुत्वाभ्युपगमात् । एतेन प्रपंचस्य स्वरूपेण निषेधे शशशृंगवदसत्वमेव स्यादिति निरस्तं । ब्रह्मज्ञाननिवर्त्यस्वरूपांगीकारेण वैययम्यात् । न चास्याध्यस्तस्याधिष्ठाने स्वरूपेण निषेधेऽन्यत्र तस्य स्वरूपैणनिषेधः स्वतः सिध इति तस्य सर्वदेशकालसंबंधि निषेधप्रतियोगित्वापत्याऽसत्वं दुर्वारं सर्वदेशकालसंबंधिनिषेध प्रतियोगित्वमसत्वमित्येवासत्वनिर्वचनात् । विधांतरेण तन्निवंचनायोगादिति वाच्यं । असतः सर्वदेशकालसंबंधिनिषेधप्रतियोगित्वमुपगछता तस्य तथात्वे प्रत्यक्षस्य सर्वदेशकालयोः प्रत्यक्षीकरणायोगेन आगमस्य तादृशागमानुपलंभेन च प्रमाणयितुमशक्यतया अनुमानमेव प्रमाणयितव्यमिति । तदनुमाने यत्सद्व्यावृतं प्. ३२ब्) लिंगं वाच्यं । तस्यैव प्रथमप्रतीतस्यासत्वनिर्वचनोपपतेरित्याहुः ।। कल्पितपदार्थप्रतियोगिकाभावस्याधिष्ठानादन्यत्र सदाप्रतियोगिविरोधित्वेष्वधिष्ठाने कंचित्कालं प्रतियोगि स्थिति सहिष्णुत्वं स्वभावः कल्प्यते । न च तथा कल्पकाभावः । द्वैतग्राहिप्रत्यक्षादे निषेध श्रुतेश्च मानत्वाद्यथापरमते घटात्यंताभावस्य स्वाधिकरणमात्रे प्रतियोगि प्रतिक्षेपकत्वेपि संयोगाद्यत्यंताभावस्य क्वचित्स्वाधिकरणे प्रतियोग्यप्रतिक्षेपकता प्रतीति बलात् स्वीक्रियते । तद्वदिति । समाधानाभिप्रायं मनसि निधाय स्वमतसिद्धं दृष्टांतं सोपपतिकमाह । शुक्ताविति । एतच्छब्दार्थमाह । ब्रह्मज्ञानेति । वैषम्यादिति । शशशृंगादि वैषम्यादित्यर्थः । अन्यत्रेति । अधिष्ठानादन्यत्रदेशे काले वेत्यर्थः । ननु प्रकारांतरेणासत्वनिर्वचनमस्तु तथा च प्रपंचे तदभावान्न तस्या सत्व प्रसक्तिरिति नेत्याह । विधांतरेणेति । प्रसिद्धाऽसतः शशशृंगादेरुक्तलक्षणे सिद्धे सति प्रपंचेपि तल्लक्षण सत्वा तस्याप्यसत्वापत्यातद्विलक्षणत्वाभ्युपगमपूर्वकवैषम्योक्तिरयुक्तेति शंकितुं शक्यंतदेवां सिद्धं मानाभावात् । कथं मानाभावः । इति चेत् तत्र वक्तव्यं किमसतः । उक्तलक्षणयोगे प्रत्यक्षं प्रमाणं किं वा आगमः । अथवानुमानमिति विकल्पं मनसि निधायाद्यद्वितीययोर्निराकरण पूर्वकं तृतीयं परिशेषयति । असत इत्यादिना । प्रत्यक्षस्यागमस्य च प्रमाणयितुमशक्यतयेति संबंधः । तादृशेति शशशृंगादिकं प्. ३३अ) सर्वदेशकालसंबंधि निषेध प्रतियोगीत्येवमाकारकागमानुपलंभेन चेत्यर्थः । अस्तु तर्हि परिशिष्टमनुमानमेव तत्र मानमिति नेत्याह । तदनुमान इति । यदिति । निःस्वरूपत्वमित्यर्थः । वाच्यमिति । त्वयेति शेषः विनिगमना विरहं परिहरति । प्रथम प्रतीतस्येति । उपपतेरिति । तथा च प्रपंचस्य ज्ञाननिवर्त्य स्वरूपांगीकारात् । निःस्वरूपत्वलक्षणाऽसत्वं नास्तीति तस्य शशशृंगादि वैषम्योक्तिर्मुक्तेतिभावः ।। अपरे तु नेह नानास्तीत्यादि श्रुतेः सत्वत्वेन प्रपंच निषेधे एव तात्पर्यं न स्वरूपेण निषेधस्य स्वरूपा प्रतिक्षेपकत्वे तस्य तन्निषेधत्वायोगात् । तत्प्रतिक्षेपकत्वे प्रत्यक्ष विरोधात् । न च सत्यत्वस्यापि सन् घट इत्यादि प्रत्यक्षसिद्धत्वान्न तेनापि स्वरूपेण निषेधो युक्त इति वाच्यं । प्रत्यक्षस्य श्रुत्यविरोधाय सत्यत्वाभासरूप व्यावहारिक सत्यत्वविषयत्वोपपत्तेः । न चैवं सति पारमार्थिक सत्य त्वस्य ब्रह्मगतस्य प्रपंचे प्रसक्त्याभावा तेन रूपेण प्रपंचनिषेधानुपपतिः । यथा शुक्तौ रजताभासप्रतीतिरेव सत्य रजतप्रसक्तिरिति तन्निषेधः । अत एव नेदं रजतं किंतु तत् नेयंमदीयागौः । किंतु सैव नात्र वर्तमानश्चैत्रः किंत्वपवरक प्. ३३ब्) इति निषिध्यमानस्यान्यत्र सत्वमवगम्यते । एवं सत्यत्वाभासप्रतीतिरेवसत्यत्व प्रसक्तिरिति तन्निषेधोपपतेः । अतो वर्णपदयोग्यतादि स्वरूपोपमर्द्दशंकाभावान्नोपजीव्यविरोध इत्याहुः ।। उपजीव्यविरोधं प्रकारांतरेण परिहरति । अपरे त्विति । अयोगादिति । तथा चात्रावाधिकरणमात्रे प्रतियोगि स्थित्ययोगात् । प्रपंचाधिकरणे ब्रह्मणि तदभावो न निषेध श्रुतिगम्य इति भावः । ननु सत्यत्वेन ब्रह्मणि प्रपंच निषेध इति मतेपि किं सत्यत्वविशिष्टप्रपंचाभावो ब्रह्मणि विवक्षितः किं वा सत्यत्व धर्मावछिन्नाप्रतियोगिना कः प्रपंचमात्र प्रतियोगिको निषेधो ब्रह्मणि विवक्षितः । नोभयथापि संभवति प्रतियोग्यधिकरणे तदभावानंगीकारात् प्रपंचे सत्यत्वस्यानंगीकारेण तस्य प्रतियोगि कोटिप्रवेशप्रतियोगितावछेदकत्वयोरसंभवाच्चेति चेदुच्यते । प्रपंचे धर्मणि सत्यत्व निषेधे श्रुतेस्तात्पर्यमित्ये तत्मताभिप्रायः । न तु यथा श्रुतार्थे तात्पर्यमस्य मतस्यात एव वक्ष्यति सत्यत्वाभासप्रतीतिरेव सत्यत्वप्रसक्तिरिति तन्निषेधोपपतेरिति । अत्र हि वाक्ये प्रपंच एव सत्यत्व निषेधः स्पष्टं प्रतीयते अतो नास्मिन्मते प्रतियोगि तदभावयोरेकाधिकरणत्वशंकावकाशः । ननु ब्रह्मणि प्रपंच स्वरूपं यथा प्रत्यक्षादि सिद्धमस्ति तथा प्रपंचे सत्यत्वमपि प्रत्यक्षादि सिद्धमस्त्येवेति प्. ३४अ) तन्निषेधेपि श्रुतेस्तात्पर्यं कल्पयितुं न शक्यमिति शंकते । न चेति । प्रत्यक्षादि ग्राह्यं प्रपंच सत्यत्वं ब्रह्मसत्यत्ववत् । पारमार्थं न भवति । तथा सति उपक्रमाद्यवगत स्वार्थतात्पर्यवतीनां भूयसीनां निषेध श्रुतीनां निर्विषयत्वप्रसंगात् किंतु व्यावहारिक सत्यत्वादिरूपं तत्कल्प्यते ततो न सत्यत्वनिषेधानुपपतिरिति परिहरति प्रत्यक्षस्येति । न चैवं सतीति । प्रपंच सत्यत्वस्य व्यावहारिकत्वांगीकार इत्यर्थः । दृष्टांतपूर्वकं प्रसाक्तिमाह । यथाप्युक्ताविति । नेदं रजतमिति निषेध प्रत्यक्षस्य सत्यरजतनिषेधविषयकत्वं वक्तव्यं प्रातिभासिकरजताधिकरणे शुक्ति शकले कल्पितरजताभावस्यास्मिन्मते नंगीकारेण बाधप्रत्यक्षस्य तद्विषयत्वायोगादितिभावः । शुक्त्यादौ निषिध्यमानस्य देशांतरस्थत्वे नियामकमाह । अत एवेति ।। अन्ये तु ब्रह्मणि पारमार्थिक सत्यत्वं प्रपंचे व्यावहारिक सत्यत्वं सत्यत्वान्नाभासरूपं । शुक्तिरजतादौ प्रातिभासिक सत्यत्वं ततोपि निकृष्टमिति सता त्रैविध्यं नोपेयते । अधिष्ठान ब्रह्मगतपारमार्थिकसतानुवेधादेवघटात्पदा- सत्यत्वाभिमानोपपत्यासत्यत्वाभासकल्पनस्य निःप्रमाणकत्वात् । एवं च प्रपंचे सत्यत्वः प्. ३४ब्) प्रतीत्यभावाततादात्म्यापन्ने ब्रह्मणि तत्प्रतीतेरेवाऽविवेकेन प्रपंचे तत्प्रसक्त्युपपतेश्च सत्यत्वेन प्रपंचनिषेधेनोपजीव्यविरोधो न वा प्रसक्तनिषेधता न च ब्रह्मगतपारमार्थिक सतातिरेकेण प्रपंचे सत्वाभासानुपगमे व्यवहित सत्यरजतातिरेकेण शुक्तौ रजताभासोत्पतिः किमर्थमुपेयते इति वाच्यं व्यवहितस्यासन्निकृष्टस्यापरोक्ष्यासंभवातन्निर्वाहाय तदुपगमात् । नन्ववं प्रतिबिंबभ्रमस्थलेपि ग्रीवास्थमुखातिरेकण दर्पणे मुखाभासोत्पतिरुपेया स्यात् । स्वकीये ग्रीवास्थे मुखेनासाद्यवछिन्नप्रदेशापरोक्ष्यसंभवैपि नयनगोलकललाटादि प्रदेशापरोक्ष्यायोगात् । प्रतिबिंब भ्रमे नयनमोलकादि प्रदेशापरोक्ष्यदर्शनाच्च ।। प्रपंचे पारमार्थिक सत्यत्वस्य प्रसक्त्यभावान्निषेधानुपपतिरिति शंकायां सत्वत्रैविध्यमतमालंव्य परिहारो दर्शितः । इदानीं सर्वत्र सतैक्यपक्षे प्रसक्त्यभावशंकां परिहरति । अन्ये त्विति । प्रथसंसता त्रैविध्यपक्षं दूषयति । ब्रह्मणीत्यादिना । ब्रह्म गतेति । पारमार्थिक सतायाः ब्रह्मरूपत्वेपि भेदकल्पनया तद्गत त्वोक्तिः । अनुवेधा देवेति प्. ३५अ) प्रतीतेरेवेत्यर्थः । एवं चेति सन् । घट इत्यादि प्रतीतेर्घटादि तादात्म्यापन्ने सन्निति प्रतियमाने सद्वस्त्वंशरूपे ब्रह्मण्येव सता विषयकत्वं मृद्वट इति प्रतीतेरिव सृदंशे मृत्वविषयकत्वं ब्रह्मणि सताप्रतीति वशादेव घटादौ सत्व व्यवहार इति स्थिते सतीत्यर्थः । यत्तु भेदवादिभिरुच्यते प्रपंचे श्रुत्यासत्यत्वनिषेधो न संभवति प्रपंचे सत्यत्व गोचरप्रत्यक्षप्रतीति विरोधादिति । तत्र हेत्वसिद्धेरित्याह । प्रपंच इति यच्चोक्तत्त?ह्याप्रसक्तप्रतिषेध इति तत्राह । ततादात्म्येति । तत्पदं घटादि परं प्रपंचब्रह्मणोर्भेदाग्रहेण ब्रह्मणि या सता प्रतीतिः सैव प्रपंचे संत्व प्रसक्तिर्भवति । नन्मूलश्च तत्र व्यवहार इत्यर्थः । नोपजीव्यविरोध इति । श्रौत मिथ्यात्वबोधं प्रत्युपजीव्यस्य वर्णपदादि प्रत्यक्षस्य सालंबनत्वाभ्युपगमातदबाधाच्चेति भावः । ननु यदि घटादि प्रपंचे ब्रह्मसतयैव सत्व व्यवहार सिद्धौ पृथक् सत्वं न कल्प्यते तत्कल्पने मानाभावाल्लाघवाच्च तर्ह्यति प्रसंग इति शंकते । न चेति । किमर्थमिति तत्कल्पने गौरवा तथा चानिर्वचनीयरजताद्यसिद्धिरिति शंकाभिप्रायः । गौरवं प्रामाणिकत्वान्न दोषायेत्याशयेन परिहरति । व्यवहितस्येति असन्निकृष्टस्येति । अभिव्यक्तचैतन्यतादात्म्य शून्यस्येति यावत् । नन्वेवमिति । आपरोक्ष्यापरजताभासोत्पत्यभ्युपगम इत्यर्थः । प्रतिबिंबस्य बिंबाभिन्नत्वेपि प्रतिबिंबापरोक्ष्यं संभवतीति न सा स्वीकार्येत्यत आह । स्वकीय इति मुख इति बिंबत्वेनोपेत इति शेषः । नासादीति तदंशे सन्निकर्ष संभवादित्यर्थः ।। ३५ब्) न च बिंबातिरिक्तप्रतिबिंबाभ्युपगमे । इष्टापतिः । ब्रह्मप्रतिबिंब जीवस्यापि ततो भेदेन मिथ्यात्वापते । अत्र विचरणानुसारिणः प्राहुः । ग्रीवास्थ एव मुखे दर्पणोपाधि सन्निधानदोषाद्दर्पणस्थत्व प्रत्यऽऽनमुखत्वबिंबभेदानामध्याससंभवान्न दर्पणे मुखाध्यासः कल्पनीयो मौरवोत् । दर्पगिं मुखं नास्तीति संसर्गमात्र बाधात् मिथ्यावस्त्वंतरत्वे चेदं मुखमिति स्वरूपबाधापतेः । दर्पणे मम मुखं भातीति स्वमुखाभेदप्रत्यभिज्ञानाच्च । न च ग्रीवास्थमुखस्याधिष्ठानस्यापरोक्ष्यासंभवः ।। यदि बिंबप्रतिबिंबयोरभेदे प्रतिबिंबापरोक्ष्यं स्वमुखप्रतिबिंब स्थलेन संभवति । तर्हि प्रतिबिंबो बिंबात् । भिन्नः मिथ्याभूत एवास्तुकाहातिरद्वैत वादिन इति शंकते । न चेति । तस्य हानिं पूर्ववादी दर्शयति । ब्रह्मप्रतिबिंबेति । जीवो ब्रह्मणः सकाशात् । स्वरूपतोभि च ते ब्रह्मप्रतिबिंबत्वात् । सामान्य व्याप्तौ मुखप्रतिबिंबवततश्च जीवो मिथ्या ब्रह्मभिन्नत्वात् । घटादिवदित्यर्थः । बिंबप्रतिबिंबयोर्लोके भेदाभावान्नोक्तदोष इति परिहरति । अत्र विवरणेति । ननु दर्पणे मुखस्याप्यध्यासो न कल्पनीयः गौरवादित्ययुक्तं प्रतिबिंबमुखे दर्पणे मुखमिति दर्पणस्थत्वा यौगा तथा प्रतिबिंबमुखस्य ग्रीवास्थमुखं प्रतिश्राभिमुख्यानुभवात् । मुखप्रतिमुखयोरभेदपक्षे प्. ३६अ) तस्यैव तदाभिमुख्यायोगात् । तयोर्भेदस्यैव स्फुटमुनुभवाच्च । तस्मादनुभवत्रयानुगेधेनोपाधावनिर्वचनीय प्रतिबिंबाध्यास उपेयः । गौरवं च प्रामाणिकत्वान्नदोषावहमित्याशंक्य तदनुभवत्रयस्यान्यथा सिद्धिमाह । ग्रीवास्थ एवेति । धर्मिकल्पनापेक्षया वहधर्मकल्पनयपिस्तत्वितिभावेः । ननु प्रतिबिंबस्य बाधदर्शनान्मिथ्यात्वमित्याशंका हेतु सिद्धिमाह । दर्पण इति । मात्र पदं प्रतिबिंबस्वरूपबाधाभावार्थकं बाधादित्यनंतरं दर्पणस्थत्वरूपसंसर्गस्य मिथ्यात्वं प्रतिबिंबस्य सत्यत्वं चेति शेषः । विपक्षे दोषमाह । मिथ्यावस्त्वंतरत्व इति । नन्वेवं भूतले घटो नास्तित्यत्रापि घटसंसर्गाभाव एव प्रतीयेतेति चेन्न इष्टापते । ननु तर्हि भूतले घटाभावो न सिद्ध्येदिति । चन्न घटाभाववद्भूतलमिति प्रतीत्या तत्संभवादितिभावः । बिंबप्रतिबिंबयोर्भेदमात्रकल्पनायां स्वरूपाभेदप्रत्यभिज्ञानमप्यनुकूलयति । दर्पणे ममेति । लाघवसमुच्चयार्थश्चकारः । यद्वा प्रतिबिंबस्य सत्यत्वेति बिंबाभिन्नत्वं हेतुमभिप्रेत्य तत्र मानमाह । दर्षणे ममेति । चकारो बाधान्नाबसमुच्चयार्थः । तथा च न प्रतिबिंबस्य मिथ्यात्वं बाधाभावात् । बिंबाभिन्नत्वाच्चेत्यर्थः । एवं लोके प्रतिबिंबस्य बिंबाभिन्नत्व सत्य त्वयोः । प्रसाधनेन ब्रह्मप्रतिबिंबस्य जीवस्य ब्रह्मभिन्नत्व मिथ्यात्वप्रसंगो निरस्तः । यतु तयोरभेदपक्षे ग्रीवास्थ सुखस्य नयनगोलकादि प्रदेशेषु स्वचक्षः सन्निकर्षाभावेन प्रतिबिंबस्य साकल्पेन प्रत्यक्षत्वं । न संभवतीत्युक्तं तदनूद्य निराकरोति । न चेत्या प्. ३६ब्) ना अधिष्ठानस्येति । प्रतिबिंबत्व प्रत्यऽऽन्मुखत्वदर्पणस्थत्व प्रतिबिंबभेदानां कल्पनाधिष्ठानस्येत्यर्थः ।। उपाधि प्रतिहत नयनरश्मीनां परावृत्यबिंबग्राहकत्व नियमाभ्युपगमाल्लतादिवत् । तन्नियमानभ्युपगमे परमाणोः कुड्यादि व्यवहितस्थूलस्यापि चाक्षुष प्रतिबिंबभ्रमप्रसंगात् । न चाव्यवहितस्थूलोद्भूतरूपवत् एव चाक्षुषप्रतिबिंबो भ्रमो नान्यस्येति नियम इति वाच्यं बिंबस्थौल्योद्भूतरूपयो कॢप्तेन चाक्षुष ज्ञानजननेनोपयोगसंभवेपि । विधांतरेणोपयोगकल्पनानुपपतेः ।। असंभवो न चेत्यत्र हेतुमाह । उपाधि प्रतिहतेति । नयन रश्मयः चक्षुर्गोलकाद्वहिर्न्निर्गत्य दर्पणाद्युपाधिं प्राप्यते न प्रतिहताः पुनरावृत्यग्रीवास्थमुख तदवयवैः संसृज्यंते ततश्चाभिमुख पुरुषांतरमुखसाक्षात्कारत् साकल्पेन स्वग्रीवास्थमुखसाक्षात्कारः संभवति । न च परावृत्तनयनरश्मीनां गोलकद्वारां तत्प्रवेशस्यैवान्यत्रकॢप्तत्वादत्र तथा कल्पनं गौरवग्रस्तमिति वाच्यं । प्रतिबिंबोत्पति वादिनापि चक्षुः सन्निकृष्टस्यैव बिंबताया वक्तव्यत्वेन उक्तनियमस्य तेनापि स्वीकार्यत्वादतः संप्रतिपन्नत्वात् गौरवं न दोषायेतिभावः । प्. ३७अ) ननु प्रतिबिंबाध्यासवादिना सन्निकृस्यैव बिंबत्वं नांगीक्रियते । अतो ग्रीवास्थमुखस्य बिंबत्वनिर्वाहाय स्वचक्षुः सन्निकर्षा पेक्षाभावान्नायं नियमस्तेनादर्तव्य इत्यत आह तन्नियमानभ्युपगम इति । बिंबसन्निकर्षस्य चाक्षुष प्रतिबिंबाध्यासा हेतुत्वे व्यवहितस्यापि चाक्षुष प्रतिबिंबप्रसंगः । विनानेन विशेषणेन यस्य कस्यापि प्रतिबिंबापत्या परमाणोर्वायोश्च तत्प्रसंगादित्यर्थः । प्रतिबिंबाध्यासे बिंबसन्निकर्षस्य हेतुत्वं विनैव उक्ताति प्रसंगं परिहरति प्रतिबिंबाध्यासवादी न चाव्यवहितेति । तथा च कुड्यादि व्यवहितमुखादेः परमाणोर्वायोश्च न चाक्षुष प्रतिबिंबापतिरिति नावः । द्रव्यचाक्षुषं प्रतिद्रव्यगतमहत्वोद्भूतरूपयोः कारणत्वं कॢप्तं तथा कुड्यादेः सन्निकर्ष विघटन द्वाराबाह्यवस्तु गोचर प्रत्यक्ष प्रतिबंधकत्वं कॢप्तं तथा च बिंबप्रतिबंबयोरभेदपक्षे बिंबचाक्षुषस्यैव प्रतिबिंबचाक्षुषत्वात् । बिंबभूतमुखादि गतयो स्थूलत्वोद्भूतरूपयोः कॢप्तचाक्षुष प्रत्यक्षादन्यत्रकारणत्वं न कल्पनीयमिति लाघवं शुक्तिरजतादिवता साक्षिभास्य प्रतिबिंबाध्योसोत्पति पक्षे तु बिंबसन्निकर्षस्य प्रतिबिंबाध्यास हेतुत्वानुपगमेन वायुपरमाण्वोश्चाक्षुष प्रतिबिंबवारणाय बिंबभूतद्रव्यगतयोर्महत्वोद्भूतरूपयोः स्वाश्रयगोचरचाक्षुष इव स्वाश्रयद्रव्यरूप बिंब हेतुक प्रतिबिंबाध्यासोत्पत्तावपि हेतुत्वं कल्पनीयमिति गौरवं । तथा बिंबप्रति प्. ३७ब्) बिंबाभेष्टपक्षे नयनरश्मीनां परावृत्यबिंबसंबंधाभ्युपगमेन प्रतिबिंबभ्रमस्थलेपि बिंबसन्निकर्षस्य हेतुत्व सत्वात् । घटादि चाक्षुष इव प्रतिबिंब चाक्षुषेपि कुड्यादेः सन्निकर्ष विघटन द्वारैव प्रतिबंधकत्वं कल्पनीयमिति लाघवं प्रतिबंबाध्यास पक्षे तु बिंबसन्निकर्षस्य हेतुत्वानुपगमेन कुड्यादेः सन्निकर्षविघटकत्वस्य कॢप्तस्य प्रतिबिंबभ्रमस्थले वक्तुमशक्यतया प्रतिबिंबाध्यासंप्रति साक्षादेव प्रतिबंधकत्वं व्यवहितस्य प्रतिबिंबवारणाय कल्पनीयमिति गौरवमित्याशयेन दूषयति । बिंबस्थौल्ययेति । विधांतरेणेति । स्वाश्रयभूतद्रव्यद्वाराप्रतिबिंबाध्यासोत्पतावुपयोगकल्पनानु- पपत्तेरित्यर्थः ।। कुड्यादि व्यवधानस्य प्रतिहत नयनरश्मिसंबंध विघटनं विनैवेह प्रतिबंधकत्वे तथैव घटप्रत्यक्षादि स्थलेपि तस्य प्रतिबंधकत्वसंभवेन चक्षुः सन्निकर्षमात्रस्य कारणत्वलोपप्रसंगाच्च दर्पणे मिथ्यामुखाध्यासवादिनापि कारणत्रयांतर्गत संस्कारसिद्ध्यर्थं नयनरश्मीनां कदाचित् परावृत्य स्वमुखग्राहकत्व कल्पनयैव पूर्वानुभवस्य समर्थनीय त्वाच्च । न च नासादि प्रदेशावछिन्न पूर्वानुभवा प्. ३८अ) देवसंस्कारोपपतिः । तावतानयनगोलकादि प्रतिबिंबाध्यासानुपपतेः । तटाक सलिले तदविचपि समारूढादृष्टचरपुरुषप्रतिबिंबाध्यासस्थले कथमपि पूर्वानुभवस्य दुर्वचत्वात् । एवं चोपाधिप्रतिहत नयनरश्मीनां बिंबं प्राप्यतद्ग्राहकत्वे वश्य वक्तव्ये । फलवलादर्पणाद्यभिहतानोमवबिंबं प्राप्यतद्ग्राहकत्वं । न शिलादिप्रतिहता नामनति स्वछताम्रादि प्रतिहतानां मलिनोपाधिसंबंधदोषान्मुखसंस्थानविशेषाग्राहकत्वं । साक्षात् सूर्यं प्रेप्सूनामिवोपाधिं प्राप्यनिवृतानां न तथा सौरतेजसा प्रतिहतिति बिंबसूर्यावलोकने साक्षातदवलोकन इव नाशक्यत्वं ।। इहेति प्रतिबिंबभ्रमस्थल इत्यर्थः । न केवलमकॢप्तकल्पनागौरवदोषः दोषांतरमपि प्रसज्यत इत्याह । तथैवैति । सन्निकर्षविघटनं विनैवेत्यर्थः । तथा चोक्त गौरवादि दोषपरिहाराय परावृत्येति नियम उपेयः बिंबसन्निकर्षायेति भावः । चाक्षुषप्रतिबिंबभ्रमस्थले बिंबसन्निकर्षस्य त्वयापि वाच्य त्वात् । परावृत्येति नियमोनाप्रयोजक इत्याह । दर्पणे मिथ्येति । कारणत्रयेति । दोषसंप्रयोग प्. ३८ब्) संस्काररूपकारणत्रयेत्यर्थः । स्वमुखस्य स्वचक्षुः सन्निकर्षानुपगमे दर्पणादावारोप्य प्रतिमुखसजातीइय स्वमुखसाक्षात्कारस्य कदाप्यसंभवेनाध्यासकारणभूतस्यारोप्य साजातीय गोचर पूर्वानुभवजन्य संस्कारस्यालाभात् । प्रतिबिंबरूपाद्यध्यासस्योत्पतिर्न स्यादतः स्वमुखस्य स्वचक्षुः सन्निकर्षलाभाय उक्तनियम आदर्तव्य इति भावः । तावतेति । नासदिप्रदेशावछिन्नपूर्वानुभवमात्रेणेत्यर्थः । इदमपि क्वचिद्दुर्ल्लभमित्याह । तटाकेति । अदृष्ट चरेति कदाप्यदृष्टेत्यर्थः । एवं चेति उक्तप्रकारेणेत्यर्थः । उक्त नियमस्याति प्रसंगं परिहरति । फलवलादिति । दर्पणादौ प्रतिबिंबभ्रमदर्शनलक्षणफलाक्षुरोधादित्यर्थः । एवकार व्यवछेद्यमाह । न शिलादीति । शिलादौ प्रतिबिंबादर्शनादितिभावः । नन्व स्वछताम्रादेः प्रतिबिंबग्राहित्वेन शिलादि वैलक्ष्यण्य सत्वा तत्प्रतिहंतानां दर्पणादि प्रतिहतानामिव नयनरश्मीनां साकल्पेन मुखादि ग्राहकत्वं स्यादत आह । मलिनोपाधीति । संस्थानविशेषः नयनगोलकादिः फलवलानुसारिपदार्थ स्वभावकल्पनेन दोषांतराण्यपि निरस्तानीत्याह । साक्षादित्यादिना । साक्षा तदिति । साक्षात्सूर्यावलोकन इत्यर्थः । ननु प्रतिबिंबोपाधिभूतजलेन प्रतिहतानां नयनरश्मीनां बिंबदेशप्राप्त्युपगमेज ।। प्. ३९अ) जलाद्युपाधिसन्निकर्षे केषांचिदुपाधिप्रतिहतानां बिंबप्राप्तावपि केषांचितदंतर्गतसिकतादि ग्रहणमित्यादि कल्पनान्न कश्चिद्दोष इति । अद्वैत विद्या कृतस्तु प्रतिबिंबस्य मिथ्यात्वमभ्युपगछतां त्रिविधजीववादिनां विद्यारण्य गुरुप्रभृतीनामेवमभिप्रायमाहुः । चैत्रमुखाद्भेदेन तत्सदृशत्वेन पार्श्व स्थितैः स्पष्टं निरीक्ष्यमाणं दर्पणे तत्प्रतिबिंबततोभिन्नं स्वरूपतो मिथ्यैव स्वकरगतादिवरजताच्छ्रुक्तिरजतं । न च दर्पणे मम मुखं भातीति बिंबाभेदज्ञानविरोधः स्पष्टभेद द्वित्व प्रत्यऽऽन्मुखत्वादिज्ञानविरोधेनाऽभेदासंभवात् । दर्पणे मम मुखमिति व्यपदेशस्य स्वछाया मुखे स्वमुखव्यपदेशवत् । गौणत्वाच्च । न चाभेदज्ञानविरोधाद्भेदव्यपदेश एवगौः किं न स्यादिति शंक्यं लांतर्गत सिकतादि प्रत्यक्षं न स्यात् । सन्निकर्षाभावादिति दूषणमपि निरस्तमित्याह । जलाद्युपाधाति । ननूपाधि प्रतिहतानां बिंबदेशप्राप्त्यपगमे पृष्टभाग व्यवहित पदार्थस्यापि प्रतिबिंबप्रसंग इति चेत् । नायं दोषः फलवलेन शरीरावयवानानां सन्निकर्षत्वकल्पनादित्यभिप्रेत्याह प्. ३९ब्) इत्योदि कल्पनादिति । नयनरश्मीनापरावृत्य बिंबग्राहित्वं सुरेश्वराचार्यैरुक्तं । दर्षणाभिहतादृष्टिः परावृत्यस्वमाननं व्याप्नुवत्याभिमुखेन व्यत्यस्तं दर्शयेन्मुखमिति । बिंबप्रतिबिंबयोर्भेदपक्षनिराकरणपूर्वकं तदभेदपक्षो निरूपितः । इदानीं तदभेदनिराकरण पूर्वकं भेदपक्षनिरूपयति । अद्वैतविद्याकृतस्त्विति । त्रिविधेति । पारमार्थिक व्यावहारिक प्रातिभासिक भेदेन जीवस्त्रिविध इति पक्षः । प्रथम परिछेदे निरूपित इति बोध्यं । एवमिति वक्ष्यमाणप्रकारेणोत्यर्थः । चैत्रेति । चैत्रो यदा दर्पणे स्वमुखं पश्यति तदा पार्थस्थैश्चैत्रग्रीवायां बिंबभूतं मुखं दर्पणे चैत्रमुखप्रतिबिंबं च परस्परं भिन्नत्वेन परस्परं सदृशत्वेन चासंदिग्धा विपर्ययस्तमनुभूयत इत्यर्थः । स्वेति स्वहस्तगतात् सत्यरजताद्भिन्नत्वेन तत्सदृशेत्वेन चानुभूयमानं शुक्तिरजतं यथा तद्भिन्नं मिथ्या च तद्वदित्यर्थः । अभेदज्ञानमसिद्धमित्याह । स्पष्टेति उदाहृतरजतयोरभेदज्ञानादर्शनादितिभावः । आदिपदं प्राऽऽन्मुखत्व ग्रीवास्थत्वदर्पणस्थत्व स्वातंत्र्यपारतंत्र्यादित्र ह्यर्थे । तर्हि सर्वानुभवसिद्धस्याभेदव्यपदेशस्य का गतिः । ज्ञानपूर्वकत्वाद्यपदेशस्येत्याशंक्यनायमभेदव्यपदेश इत्याह । दर्पणे ममेति । स्फुटभेदज्ञाने सति अभेद व्यपदेशायोगादिति भावः । ननु दर्पणे मम मुखं भाति मम मुखं मलिनं भाति मम मुखं दीर्घं भाति मुखं ग्रावास्थमेव न दर्पणादाविति । अभेदानुभवानामपि स्फुटानां भूयसां सत्वादभेदव्यपदेशो मुख्यः अभेदानुभवविरोधेन भेदानुभवस्यैवासंभवात् । भेदव्यपदेशमात्रमविशिष्यते तच्च बिंबप्रतिबिंबयोर्वस्तु गत्याभेदा प्. ४०अ) भावेपि कल्पित भेदसत्वादुपपद्यत इति वैपरीत्यमाशंक्य निषेधति । न चेत्यादिना ।। बालानां प्रतिबिंबे पुरुषांतरभ्रमस्य हानोपादित् साद्यर्थ क्रियापर्यंतस्यापलयितुमशक्यत्वात् न च प्रेक्षावतामपि स्वमुखविशेषपरिज्ञानायदर्पणाद्युपादान दर्शनादभेदज्ञानमप्यर्थ क्रियापर्यंतमिति वाच्यं । भेदेपि प्रतिबिंबस्य बिंबसमानाकारत्व नियमविशेषपरिज्ञानादेव तदुपादानोपपतेः ।। प्रतिबिंबगोचर प्रवृत्यादिदर्शनं तस्य बिंबाद्भेदं विना न सिध्यतीति विनिगमकमाह । वालावामिति । वालाजलाशयादौ भयंकरं प्रतिबिंबं दृष्ट्वा तं विहाय पलायंते सोम्यं प्रीतिकरं प्रतिबिंबं दृष्ट्वातमुपादातुमिछंति प्रतिबिंबदेशं गछंति चेति सर्वानुभवसिद्धं । तदुक्तं कर्णामृताचार्यैः । रत्नस्थले जानुचरः कुमारः संक्रांतमात्मीय मुखारबिंदं । आदातु कामस्तदलाभ खेदाद्विलोक्यधात्री वदनं रुरोद इति । हुमारः श्रीकृष्णरूपः शिशुः निर्मलरत्नमयवेदिकायां जानुभ्यां संचरन् तत्र संक्रांतं प्रतिबिंबितं विविंधैः । कुंडलादि भूषणैर्भूषितं निःसीमसौंदर्यौपेतं गोपीजन मनोहरं ब्रह्मादिभिरपि सदा स्पृहणीयं स्वकीयमुखारविंदमुपलभ्य लोकसिद्धां वाल चेष्ट्यमनुवर्तमानः । तदा दानेछया चिरकालं हस्तव्यापारं कृत्वापि । यदा तन्न लब्धवान् । तदा तदल्पभखेदेन धात्र्या मुखं दृष्ट्वा त्वया इदं गृहीत्वामह्यं देयमिति । प्. ४०ब्) अभिसंधिमान् । मुक्तकंथतयारोदनं कृतवानित्यर्थः । अभेदज्ञानस्याप्यर्थ क्रियापर्यंत त्वं समानमित्याशंक्यनिषेधति । न चेत्यादिना । यदि बिंबप्रतिबिंबयोर्वस्तुतो भेद एव तदा परिक्षकाणां तद्वेदनिर्णय आवश्यक इति तेषां स्वमुखगतविशेषनिर्णयाय दर्पणाद्यादानं नस्या तेषांमपि तद्दर्शनादभेदनिश्चयस्तेषां वाच्य इत्यर्थः । तेषां प्रवृतेरन्यथा सिद्धिमाह । भेदेपीति बिंबप्रतिबिंबयोः स्वरूपतो भेदे सत्यपीत्यर्थः । परीक्षकत्वादेव तेषामुक्तोपपतिभिः । भेद निश्चयवत्वं नियमविशेषज्ञानवत्वं च संभवतीति भावः । ननु बालानां प्रतिबिंबगोचरहानादि क्रियापि बिंबस्य उपाधिस्थत्व भ्रमादेव संभवतीत्यन्यथा सिद्धिः । तत्रापि तुल्या तथा च बिंबप्रतिबिंबयोर्भेदाभेदानुभवानां भेदाभेद प्रयुक्तार्थ क्रियाणां च तुल्यत्वे सत्यभेदस्य स्वाभाविकत्व कल्पनमेव युक्तं लाघवाद्बिंबप्रतिबिंबभावापन्नतया श्रुति सिद्ध जीवब्रह्माभेद प्रतिपत्युपयोगितया लौकिक बिंबप्रतिबिंबाभेदकल्पनस्याभेदश्रुत्युपोद्बलितत्वाच्च प्रतिबिंब जीवस्यैव ब्रह्माभेदसंभवे तदतिरिक्त पारमार्थिकावछिन्नजीवकल्पनायाः गौरवग्रस्तत्वाच्च । यथा ह्ययं ज्योतिरात्माविवस्वानित्यादि मंत्रस्य तयोरभेदपक्ष एव स्वारस्याच्च तत्र हि यथा विवस्वदादेर्वहुषूपाधिषु प्रतिबिंबितत्वप्रयुक्तं नानात्वं स्वत एकत्वं तथा चैतन्यस्य बहुषुपाधिषु प्रतिबिंबितत्वप्रयुक्तं नानात्वं स्वत एकत्वमिति प्रतिपाद्यते तच्च बिंबप्रतिबिंबयोर्भेदपक्षेन प्. ४१अ) संभवति तत्पक्षे हि बिंबचैतन्यस्यैकत्वं प्रतिबिंबानां नानात्वमिति पर्यवसानेनैकस्यैवोपाधिक नानात्व पर्यवसाना सभवा तस्माच्चैतन्य प्रतिबिंबांगीकारपक्षे लोके चैत्र प्रति ।। यत्तु नात्रमुखमिति दर्पणे मुखसंसर्गमात्रस्य बाधो न मुखस्येति । तत्र नेदं रजतमित्यत्रापि इदमर्थे रजततादात्म्यमात्रस्य बाधो न रजतस्येत्यापतेः । यदि चेदमंशे रजतस्य तादात्म्येनाड्यासान्नेदं रजतमिति तादात्म्येन रजतस्यैव बाधो न च तादात्म्य मात्रस्य तदा दर्पणे मुखस्य संसर्गितयाध्यासान्नात्र मुखमिति संसर्गितया मुखस्यैव बाधो न संसर्गमात्रस्येति तुल्यं । यत्तु धर्मिणोप्यध्यासकल्पनैगौरवमिति तद्रजताभासकल्पना गौरव च त्प्रामाणिक त्वान्न दोषः स्वनेत्र गोलकादि प्रतिबिंबभ्रमस्य लेपि बिंबापरोक्ष्य कल्पनीया या भावात् । नयनरश्मीनानामुपाधिप्रतिहतानां बिंबप्राप्ति कल्पने हि दृष्टि विरुद्धं वह्वा पद्येते । कथं हि जलसन्निकर्षे केषु केषु चिन्नयनरश्मिष्वप्रतिहतमंतर्गछत्स्वन्ये जलसंबंधेनापि प्रतिहन्यमाना नितांतं मृदवः सकलनयनरश्मिप्रतिघातिनं प्. ४१ब्) किरणसमूहविजित्यतन्मध्यगतं पूर्यमंडलं प्रविशेयुः ।। बिंबस्थले च बिंबप्रतिबिंबयोरभेदपक्ष एव विवरणाद्यभिमतः श्रेयानिति चेत् सत्यं सूक्ष्मदृष्ट्या एवमेव अत एव भामती निबंधनादिषु जीवब्रह्मणोरभेदेपि लौकिक बिंबप्रतिबिंबयोरिव कल्पित भेद सत्वाद्धर्म व्यवस्थेति सार्वत्रिको व्यवहारः । श्रीविद्यारण्य गुरुप्रभृतिभिस्तु मंदाधिकारिणां तत्वे बुध्यारोहाय प्रतिबिंबोत्पति प्रक्रिया उपपादिता मंदाधिकारिणां हि यथा कर्तृत्व भोक्तृत्वादि संसाराश्रयश्चिदाभासो मिथ्याभूतः स चात्मान भवति । आत्मा त्वसंगचैतन्यरूपः न संसाराश्रय इति प्रक्रियया तत्वं बुद्धां वा रोहति । न तथात्मनो ब्रह्मप्रतिबिंबस्य स्वतः सिद्धं ब्रह्मत्वमंतःकरण तादात्म्यात् संसाराश्रयत्वमिति । प्रक्रिययात्व त्वं बुद्धा वा रोहति । लोके विरुद्धधर्मा सांकर्यस्य धर्मिभेदस्थल इव धर्म्यभेदस्थले स्फुटत्वाभावादयं च तेषांमभिप्रायः । कूटस्थ दीपे यया यया भवेत्युंसामिति वार्तिकवचनोदाहरणेन स्पष्टः । तच्च वचनमादावेवोदाहृत्यव्याख्यानमिति संक्षेपः । प्रतिबिंबस्थले दर्पणस्थत्वादिरूपसंसर्गमात्रचाधमुक्तमनूद्य प्रतिवंद्या प्रतिबिंब स्वरूप बाधं साधयति । यत्वित्यादिना । आपतेरिति । तथा च शुक्तिरजतस्यानिर्वचनीयत्वं सिद्धांताभिमतं न स्यादिति भावः । अत्र यद्यपि तादात्म्य मात्रस्य बाध्यत्वेपि रजतस्यानिर्वचनीयस्योत्पतिरनिवार्व्यादेशांतरस्थरजतादेः प्. ४२अ) संविदभिन्नत्वाभावेन पुरोवर्त्यभिन्नतया प्रत्यक्षानुपपतित्युक्तत्वा तथापि शुक्तिरजतस्य बाधोप्युपपादयितुं शक्यत इति मत्वादि प्रतिबिंबाभेदवादी शंकते । यदि चेति संसर्गितुयेति । आधेय तयेत्यर्थः प्रामाणिकत्वादिति । बाधक प्रमाणस्य शुक्तिरजत इव प्रतिबिंबे संत्वेनाध्यासकल्पना गौरवस्य तन्मूलकत्वाविशेषादित्यर्थः । अभेदपक्षे स्वमुखगत नयनगोलकादि प्रतिबिंबस्यापरोक्षासंभवाच्च तदध्यासकल्पना गौरवं प्रामाणिकमित्याह । स्वनेत्रेति पूर्वोक्तो यायमनूद्यनिराकरोति । नयन रश्मीनामिति । किरणसमूहमिति । सूर्यकिरणसमूहमित्यर्थः ।। कथं च चंद्रालोकन इव तत्प्रतिबिंबालोकनेपि अमतशीतलतद्बिंबसन्निकर्षाविशेषे लोचनयोः शैत्याभिव्यक्ता आप्यायनं न स्यात् । कथं च जलसंबंधेनापि प्रतिहन्यमानाऽशिलादिसंबंधेन न प्रतिहन्येरन् । तत्प्रतिहन्य परावृतौ वा नयनगोलकादिभिर्न संसृज्येरन् तत्संसर्गे वा संसृष्टं किं न साक्षात्कारयेयुः दोषेणापि हि विशेषांशग्रहणमात्रं प्रतिबध्यमानं दृश्यते न तु सन्निकृष्टधर्मिस्वरूपग्रहणमपि । प्रतिमुखाध्यासपक्षे तु न किंचिद् दृष्टविरुद्धं प्. ४२ब्) कल्पनीयं तथा ह्यव्यवहित स्थूलोद्भूतरूपस्यैव चाक्षुषाध्यासदर्शनाद्बिंबगतस्थौल्योद्भूतरूपयोः स्वाश्रयसाक्षात्कारकारण त्वेन कॢप्तयोः स्वाश्रय प्रतिबिंबाध्यासेपि कारणत्वं ।। नन्वत्र जलस्य प्रतिघातकत्वं न कल्प्यते । किंतु जलांतर्गत सिकतादीनामतो न नितांतमृदुत्वं यथा सूर्यादिकिरणा तां स्वतस्तृणादि दाहकत्वा भावेपि सूर्यकांतमणि प्रतिहतानां तद्दाहकत्वं तथा नयनकिरणानास्वतः । सूर्यकिरणप्रतिघातकत्वा भावेपि प्रतिबिंबोपाधिप्रतिहतानां तद्विजये सामर्थ्यातिशय कल्पनोपपद्यते । तथा च नोक्तदोष इत्यस्वरसादाह । कथं चेति । कथं चाप्यायनं न स्यादिति संबंधः । अमृतमिवशीतलं यतस्य चंद्रस्य बिंबं तत्सन्निकर्षाविशेष इत्यर्थः । आप्यायनं औष्ण्यशांतिः । यदा पुमानधो मुखः सन् जलाशयादौ चंद्रमंडस्तप्रतिबिंबं नैरंतर्येण पश्यति तदा लोचनयोः शैत्याभिव्यक्त्यादिकं स्यात् । बिंबप्रतिबिंबयोरभेदेन प्रतिबिंबसन्निकर्षस्यैव बिंबसन्निकर्षत्वादित्यर्थः । ननु लोचनयोः शेत्याभिव्यक्तिश्चंद्रसन्निकर्षादिकता न भवति । किंतु तयोश्चंद्रकिरणसंसर्गसंतति कृता तथा चाधो सुखस्य लोचनयोस्तदभावाच्चंद्रसन्निकर्षद्दर्शनसत्वेपि न शैत्याभिव्यक्त्यादि प्रसक्तिरित्यस्वरसादाह प्. ४३अ) कथं च जलेति । कथं च न प्रतिहन्येरन्निति संबंधः प्रतिहन्येरन्नेवेत्यर्थः । ततः किं तत्राह । तत्प्रतिहत्येति । नयन गोलकादिभिः कथं न संसृज्येरन्निति संबंधः । ततोपि किं तत्राह । तत्संसर्गेवेति शिलादिदर्शनकाले शिलादिना प्रतिहर्ताः नयनरश्मयः स्वमुखगतनयनगोलकादिभिः संसृष्टाश्चेत् । संसृष्टं नयनगोलकादिकं कथं न साक्षात्कारयेयुः साक्षात्कारयेयुरेवेत्यर्थः । ननु दोषबलात्संसृष्टमपि न साक्षात्कारयेयुः । अतो नोक्तदोष इत्यत आह । दोषेणापि हीति दृश्यते इति । शुक्तिरजतादि भ्रमस्थलेष्वपीति शेषः । तथा च शिलादि सन्निकर्षकाले मुखत्वादि सामान्यरूपेण वा स्वमुख साक्षत्कार प्रसंग इति भावः । वस्तु तस्तु अनन्यथा सिद्धफलवन्यत् स्वछद्रव्यस्य तत्संसृष्टस्य वा प्रतिबिंबोदय योग्यस्यैव प्रतिघातकत्वमुपेयते । अतो नोक्तदोष इति बोध्यं । एवं बिंबप्रतिबिंबभेदपक्षे दृष्टविरोधबाहुल्यमापाततो दर्शयित्वा प्रतिबिंबाध्यासोत्पति पक्षमुपपादयति प्रतिमुखाध्यासपक्षे त्विति । कारणत्वं प्रतिबंधकत्वं च कल्पनीयमिति संबंधः स्वाश्रयेति । महत्वोद्भूतरूपाश्रय द्रव्यगोचरचाक्षुषत्वावछिन्नं प्रतिघटादि चाक्षुषे कॢप्ते योरित्यर्थः । द्वितीयः स्वपदमपि स्थौल्योद्भूतरूपपरं । अध्यासेपीति बिंबभूतमुखादि चाक्षुष इव स्वाश्रयमुखादेर्यः प्रतिबिंबरूपोध्यासः तदुत्पतावर्पात्यर्थः । कुड्याद्यावरणद्रव्यस्यत्वगिंद्रिय न्यायेन प्राप्य प्. ४३ब्) कारितयावगतनयनसन्निकर्षविघटनद्वाराव्यवहित वस्तु साक्षात्कारप्रतिबंधकत्वेन कॢप्तस्य व्यवहित प्रतिबिंबाध्यासेपि विनैव द्वारांतरं प्रतिबंधकत्वं च कल्पनीयं । तत्र को विरोधः क्वचित्कारणत्वादिना कॢप्तस्य फलवलादन्यत्रापि कारणत्वादि कल्पने । एतेनोपाधिप्रतिहतनयनरश्मीनां बिंबप्राप्त्यनुपगमे व्यवहितस्योद्भूतरूपादिरहितस्य च चाक्षुषप्रतिबिंबतमप्रसंम इति निरस्तं । किं च तदभ्युपगम एवोक्त दूषणप्रसंगः कथं साक्षात्सूर्यावलोकन इव विना चक्षुर्विक्षेपमवनतमोलिनानिरीक्ष्यमाणे सलिले ततः प्रतिहतानां नयनरश्मीनां ऊर्द्धमुत्यबिंबसूर्यग्राहकत्ववतिर्यक चक्षुर्विक्षेपं विना ऋजुचक्षुषादर्पणे विलोक्यमाने तत्प्रतिहतानां पार्श्वस्थमुखग्राहकत्व वच्च वदनसाचीकरणाभावेप्युपाधिप्रतिहतानां पृष्ठभाग व्यवहित ग्राहकत्वं तावत् दुर्वारं उपाधिप्रतिहतनयनरश्मीनां प्रतिनिवृतिनियमं विहाय यत्र बिंबं तत्रैव गमनोपगमात् ।। प्. ४४अ) यदुक्तं प्रतिबिंबाध्यासं प्रतिकुड्यादेः साक्षात्प्रतिबंधकत्वसीकारे अन्यत्रापि तथात्वापत्या सन्निकर्षमात्रविलोपप्रसंग इति तन्न सन्निकर्षहेतुत्व ग्राहंक प्रमाणानुरोधेन सन्निकर्षविघटन द्वारैव तस्य प्रत्यक्षप्रतिबंधकत्वाभ्युपगमादित्याशयेन सन्निकर्षस्य हेतुत्व ग्राहक प्रमाणं सूचयति । त्वगिंद्रियेति । त्वगिंद्रियस्य विषयं प्राप्तस्यैव विषयप्रत्यक्ष कारित्व दर्शनातदृष्टांतेन नयनादेरपि प्राप्यकारित्वमवगतमित्यर्थः । व्यवहितेति छेदः व्यवहित प्रतिबिंबेति । कुड्यादि व्यवहितस्य मुखादेः प्रतिबिंबाध्यासे साक्षात्प्रतिबंधकत्वं कल्पनीयं । अन्यथा प्रतिबिंबोत्पति पक्षे बिंबसन्निकर्षस्य हेतुत्वानुपगमेन व्यवहितस्यापि प्रतिबिंब प्रसंगस्य प्राग्दर्शिततत्वादित्यर्थः । तत्र कल्पने को विरोध इति संबंधः तस्मिन् कल्पने इत्यर्थः । अव्यवहितत्व स्थूलत्वोद्भूतरूपाणां मुखादि प्रतिबिंबाध्यासोपयोगकल्पन प्रयोजनमाह । एतेनेति । आदिपदं स्थूल्यसंग्रहार्थं । उक्तेति व्यवहितादि बिंबप्रसंग इत्यर्थः । प्रसंग प्रकारानभिज्ञः पृछति । कथमिति तमाह साक्षादिति । गगनस्थसूर्यावलोकने चक्षुर्विक्षेपः कॢप्तः तं विनेत्यर्थः । अवनतमौलिना अधोमुखेन तिर्यगिति । स्वाभिमुखे दर्पणे स्वप्रतिबिंबग्रहणकाले स्वपार्श्व स्थित पुरुष प्रतिबिंब ग्रहणमप्यस्ति प्रतिबिंबाभावकाले स्वपार्श्वस्थितपुरुषग्रहणाय स्वचक्षुषस्तिर्यग्विक्षेपोस्ति ऋजु चक्षुषा स्वाभिमुखपुरुषस्येव स्वपार्श्वास्थितपुरुषस्य ग्रहणा दर्शना तथा च स्वाभिमुखे दर्पणे प्. ४४ब्) स्वपार्श्व च स्थित पुरुषप्रतिबिंबग्रहणाय चक्षुषस्तिर्यखिक्षेपं विना दर्पण प्रतिहतानां स्वपाश्वं स्थित पुरुषग्राहकात्ववदित्यर्थः । वदनेति । वदनुसाचीकरणं नामचक्षुषा स्वपृष्ठभागव्यवहित पदार्थग्रहणानुकूलोवदनव्यापारः । प्रतिनिवृतिनियममिति । नयनगोलकाभिमुखविषयप्रतिहतानां पुनर्गोलकद्वारा शरीरांतः प्रवेशनियममित्यर्थः ।। तथा मलिनदर्पणे श्यामतयागौरमुखप्रतिबिंबस्थले विद्यमानस्यापि बिंबगतगौररूपस्य चाक्षुषज्ञानेऽनुपयोगितयापीतशंखभ्रमन्यायेनारोप्यरूप- वैशिष्ट्ये नैव बिंबमुखस्य चाक्षुषत्वं निर्वाह्यमिति तथैव निरूपस्यापि दर्पणोपाधि श्यामत्व वैशिष्ट्येन चाक्षुष प्रतिबिंबभ्रमविषयत्वमपि दुर्वारं स्वतोनीरूपस्यापि नभसोऽध्यस्तनैल्यवैशिष्ट्येन चाक्षुषत्व संप्रतिपतेः । तस्मात् स्वरूपतः प्रतिमुखाध्यासपक्ष एव श्रेयान् ।। ननु प्रतिनिवृतिनियमाभावपक्षेपि बिंबसन्निकर्षविघटक व्यवधानाभावोपेक्षास्ति अवनत मौलि नयनरश्मीनां सूर्यशप्तिस्थले ऋजुचक्षुषादर्पणे विलोक्यमाने दर्पण प्रतिहतानां पार्श्वस्थपुरुषप्राप्तिस्थले च सन्निकर्षविघटकाभावात् । तत्प्राप्तिः संभवति प्रकृते च शरीर प्. ४५अ) तदवयवानां व्यवधायकानां सत्वाद्दर्पण प्रतिहतानां न पृष्ठभागव्यवहितवस्तुप्राप्तिरित्यस्वरसादाह । तथेति । उपाधि प्रतिहत नयनरश्मीनां प्रतिनिवृतिनिवृतिनियमाभावपक्षेष्वष्टभागव्यवहितस्य प्रतिबिंबापतिवन्नीरूपवाम्नादेरपि । चाक्षुष प्रतिबिंबापतिरिति दूषणांतर ससुच्चयार्थस्तथा शब्दः । ननु नीरुपस्यापि वाग्वादेर्दर्पणद्युपाधिगतरूपोपादानेन चाक्षुषप्रतिबिंबभ्रमविषयत्वं दुर्वारमित्यनुपपन्नं द्रव्यस्य चाक्षुष प्रतिबिंबभ्रमे बिंबरातस्य महत्वेवदुद्भूतरूपस्यापि कारणत्वादित्याशंक्यद्रव्यगोचरचाक्षुष प्रतिबिंबभ्रमे बिंबिंवगतरूपस्यानुपयोगान्नेवमित्याह । मलिंनेति । मलिन दर्पणे गौरमुखस्य प्रतिबिंबे सति प्रतिबिंबं श्यामतया गृहतेन गौरतया । तथा च तत्र गौरमुखे आरोप्येणैव श्यामरूपेणोपहितस्य गौरमुखस्य चाक्षुषत्वं निर्वाह्यमित्यर्थः । आरोप्यरूपेणैवा क्वचिद्द्रव्यस्य चाक्षुषत्वे दृष्टांतमाह । पीतशंखेति । कविता किंकमतोपपादनावसरे शंखस्यारोप्यपीतरूपविशिष्टतयैव भ्रमस्थले चाक्षुषत्वं नान्यथेत्युक्तमिति भावः । वस्तु तस्तु द्रव्यचाक्षुषे द्रव्यगतमेवोद्भूतरूपं कारणमिति न नीरूपद्रव्यस्य चाक्षुषप्रतिबिंबभ्रमविषयत्वं प्रसज्यते मलिन दर्पणे गौरमुखप्रतिबिंबस्थले पीतशंखादि भ्रमस्थले च श्यामं मुखं पीतः शंख इत्यादि भ्रमप्राचीन धर्मिज्ञाने अध्यासकारणभूतै गौरशुक्लादिरूपस्य कारणतया उपयोगाभावासिद्धेः द्रव्यचाक्षुषे रूपविषयकनियमाभावस्यकवितार्किक ग्रंथव्याख्यानावसरे प्. ४५ब्) दर्शितत्वेन पीतशंखभ्रमसंभवाच्चेति बोध्यं । आरोप्यरूपविशिष्टतयैव चाक्षुषत्वे उदाहरणांतरमाह । स्वत इति । संप्रतिपतेरित्यापाततः गगनस्य चाक्षुष वृति विषयत्वं कवितार्किकमात्रसंमतं न तु पूर्वाचार्यैः पूर्वाचार्याणां मते तु गगनव्यापि सौरालोकादिगोचरचाक्षुषवृत्या आलोकाद्यवछिन्न चैतन्याभिव्यक्तिकाले आलोकानुगत गगनावछिन्नचैतन्यस्याप्यभिव्यक्तिं स्वीकृत्याभिव्यक्ते गगनावछिन्ने साक्षिणि नैल्याध्यासाभ्युपगमेन नैल्यादिविशिष्टगगनस्य साक्षिमात्रभास्यत्वादिति ध्येयं । तस्मादिति दृष्टविरोधरूपबाधकाभावात् स्यधकत्वाच्चैतिभावः । श्रेयानिति मंदाधिकारिणः प्रतीति वस्तु गतिः ।। न च तत्रापि पूर्वानुभवसंस्कार दौर्घट्यं । पुरुषसामान्यानुभवसंस्कारमात्रेण स्वप्नेप्यवृष्टचरपुरुषाध्यासवन्मुख सामान्यानुभव संस्कारमात्रेण दर्पणे मुखविशेषाध्यासोपपतेः । इयांस्तु भेदः स्वप्नेषु शुभाशुभहेतु दृष्टानुरोधेन पुरुषाकृतिविशेषाध्यासः । इह तु बिंबसन्निधानानुरोधेन मुखाकृतिविशेषाध्यास इति । न च प्रतिबिंबस्य स्वरूपतो मिथ्यात्वे ब्रह्मप्रतिबिंबस्य जीवस्यापि मिथ्यात्वापतिर्दोषः प्. ४६अ) प्रतिबिंबजीवस्य तथात्वेप्यवछिन्न जीवस्य सत्यतया मुक्तिभाक्त्वोपपतेरिति । यतु प्रतिबिंबं दर्पणादिषु मुखछायाविशेषरूपतयासत्यमेवेति । कस्यचिन्मतं तन्न छाया हि नाम शरीरादिस्ततदवयवैरालोकेकिसित यद्देशे व्यापिनि निरुद्धे तत्तद्देशे लघ्वात्मकं तम एव न च मौक्तिकमाणिक्यादि प्रतिबिंबस्य तमो विरुद्धसितलोहितादिरूपवतस्तमोरूपछायात्वं युक्तै न वा तमोरूपछायारहितनयनादि प्रतिबिंबस्य तथात्वमुपपन्नं ननु तर्हि प्रतिबिंबरूपछायायास्तमौ रूपत्वासंभवे द्रव्यांतरत्वमस्त्वकॢप्तद्रव्यानंतर्भावेन तमो वट् द्रव्यांतरकल्पनोपपतेरिति चेत् । किं तत् द्रव्यांतरं प्रतीयमानरूपपरिमाणसंस्था न विशेष प्रत्यऽऽनमुखत्वादि वद्रधर्मयुक्तं तद्रहितं वा स्यात् । अतेन तेन द्रव्यांतरेण रूपविशेषादि घटिते प्रतिबिंबोपलंभ निर्वाह इति व्यर्थ तत्कल्पंनं ।। उपाधिप्रतिहतानां बिंबप्राप्त्यनुपगमे अध्यस्यमानमुख सजातीय गोचरपूर्वानुभवानुभवासंभवादध्यासु प्. ४६ब्) कारणसंस्कारानुपपतिरित्युक्तमनूद्यनिराकरोति । न च तत्रापीति । प्रतिबिंबाध्यासपक्षे स्वसंस्कार दौर्घट्यमपि न चेत्यर्थः । अदृष्ट चरेति । कदाप्य ननु भूतेत्यर्थः । ननु मुखसामान्यानुभवजन्यसंस्कारस्य प्रतिमुख्यध्यासहेतुत्वे चैत्र मुखदर्पणयोः सन्निधे सति यस्य कस्यापि मुखस्याध्यासप्रसंगः । स्वप्नवदेव न तु नियमे नाभिमुखमुखाध्यास इत्याशंक्य व्यवस्थामाह । इयांस्तु भेद इति । स्वप्न प्रतिबिंबाध्यासयोरिति शेषः । आदौ त्रिविध जीववादिनामिति विशेषणेन सूचितं परिहारमाविष्करोति । प्रतिबिंब जीवस्यैति । मुक्तिभाक् तं ब्रह्माभेदः प्रतिबिंबस्य मिथ्यात्व दार्ढ्याय तत्सत्यत्वमतं दूषयितु मनुभाषते । यत्विति । ननु वृक्षादिछायोयाः नैल्य दर्शनात् । प्रतिबिंबेषु प्रायेण नैल्यादर्शनेन छाया वैलक्षण्य सत्वात् प्रतिबिंबस्य छायारूपत्वमनुपपन्नमिति शंकानिराकरणार्थं विशेष पदं तथा च बिंबभिन्नोपि मुखाद्याभासः । शुक्तिरजतादिवत् प्रातिभासिको न भवति । किंतु बिंबवत् सत्यः छाया विशेषरूपत्वाभ्युपगमातस्येत्यर्थः । छायायानीलरूपवत्वनियमा तद्विशेषरूपत्वं प्रतिबिंबस्य न्वसंभवतीति छाया स्वरूप कथन पूर्वकं दूषयति तन्नेति शरीरादेः छायानामतम एव नान्यदिति प्रसिद्धमित्यर्थः । किं यद्देशव्यापिन्या लोके शरीर तदवयवैनिरुद्धे सतीति संबंधः । न चेति मौक्तिक स्फुटिकादि प्रतिबिंबस्य सितरूपवतः तद्विरुद्धतमोरूपछायात्वं न युक्तं प्. ४७अ) तथा माणिक्य कनकादि प्रतिबिंबस्य लोहितपीतरूपादि मतस्तद्विरुद्धछायात्वं न युक्तमिति विभज्य योजनीयं नयनादे छायैव नास्तिति तत्प्रतिबिंबस्य छायारूपत्वमनुपपन्नमेवेत्यर्थः । तमो वदिति यथा तमसो द्रव्यस्य कॢप्त द्रव्यानंतर्भावे सिद्धांते दशम द्रव्यत्वं कल्पितं तद्वदित्यर्थः ।। प्रथमे कथमेकस्मिन्नल्यपरिमाणे दर्पणे युगपदसंकीर्णतया प्रतीयमानानां महापरिमाणानामनेक मुखप्रतिबिंबानां सत्यता निर्वाहः । कथं च निविडा वयवानुस्यूते दर्पणे तथैवावतिष्ठमाने तदंतहिनुनासिकाद्यनेक निम्नोन्नत प्रदेशवतो द्रव्यांतरस्योत्पतिः । किं च सितरक्तपीताद्यनेक वणीदिमतः प्रतिबिंबस्योत्पतौ दर्पणमध्ये स्थितं तान्सन्निहितं न तादृशं कारणमस्ति । यद्युच्येतोपाधिमध्यविश्रांति योग्यपरिमाणा नामेव । प्रतिबिंबानां मेहापरिमाणज्ञानं तादृशनिम्नोन्नतादि ज्ञानं च भ्रम एव यथा पूर्वं दर्पण तदवयीवावस्थानाविरोधेन तादृक् प्रतिबिंबोत्पादन समर्थ च किंचित् कारणं परिकल्प्यमिति तर्हि प्. ४७ब्) शुक्तिरजतमपि सत्यमस्तु । तत्रापि शुक्तौ यथापूर्वं स्थितायामेवततादात्म्यापन्नरजतोत्पादनसमर्थं । किंचित्कारणं परिकल्प्य तस्य रजतस्य दोषत्वाभिमतकारणसहकृतेंद्रिय ग्राह्यत्वनियम वर्णनोपपतेः ।। प्रथमे कथं सत्यता निर्वाह इति संबंधः । यद्येकमपि दर्पणं विशालं स्यातदानेक प्रतिबिंबानामसंकीर्णतया तत्रावस्वानं संभवेदिति शंकावारणायाह । अल्पेति । अल्पपरिमाणानामपि दर्पणानामनेकत्वे सत्येकैकस्मिन् दर्पणे एकैकं प्रतिबिंबमसंकीर्णतया च तिष्ठे तदपि नास्तीत्याह एकस्मिन्निति । एकस्मिन्नल्यपरिमाणेपि दर्पणे क्रमेणानेक प्रतिबिंबानाम संकीर्णता स्या तदपि नास्तीत्याह । युगपदिति । प्रतिबिंबस्य मिथ्यात्व तु नायं दोषो भवति स्वप्न दशायां स्वल्पेपि शरीरस्यांतराकाशे रथगजादि पदार्थानां तदुचित वैशाल्यस्य चाध्यासवदल्पपरिमाणेपि दर्पणे परस्परमसंकीर्णतया अनेक प्रतिबिंबानां तदुचित वैशाल्यस्य चाध्याससंभवादितिभावः । कथं च द्रव्यांतरस्योत्पतिरिति संबंधः सत्यस्येति शेषः । सामग्र्य भावाच्च न तस्योत्पतिः । संभवतीत्याह । किं चेति । दर्पणस्य यो वर्णः स एव प्रतिबिंबस्यापीति नियमसुत्वे तद्वर्णयुक्तं किंचित्कारणे दर्पणे संभाव्ये तापि नत्वे तदस्ति दर्पणरूपविलक्षण नानारूपवतां प्रतिबिंबा प्. ४८अ) नामनुभवादित्याह । अनेकेति । सितपीतरक्ताद्यनेकवर्णयुक्तानां बिंबानामेवकारणत्वमस्तु नेत्याह । दर्पणमध्ये स्थितमिति । तेषां निमितत्वेप्युपादानत्वं न संभवति प्रतिबिंबोत्पति देशे तेषामभावादित्यर्थः । तादृशमिति । सितपीतरक्ताद्यनेकवर्णयुक्तं कारणं प्रतिबिंबोदयकाले नियमेन नास्त्यनुपलंभादित्यर्थः । प्रतिबिंबं हि दर्पणस्यांतः दर्पणस्य पृष्ठभागे दर्पणसन्निहितमनुभूयते न तु दर्पणगतरूपपरिमाणादिवद्दर्पणस्यो परिभागे ततस्तत्कारणेनापि तत्रैव भवितव्यमिति मत्वा दर्पणमध्ये स्थितं तत्सन्निहितमित्युक्तं मध्यशब्दोंतरर्थकः प्रतिबिंबस्वरूपमात्रं सत्यं तत्र प्रतीयमानधर्मास्तु कल्पिता एवेति तत्सत्यत्वेभिनिवेशमानः शंकते । यद्युच्येतेति । वस्तु गत्या उपाधि मध्ये विश्रांति योग्यान्येव प्रतिबिंबान्युत्पद्यंते तेषु महापरिमाणादिकं भ्रांत्याभासत इत्यर्थः । कल्प्यमिति । नीवारावयवेषुर्ब्राह्मवयवा यथा मीमांसकैः कल्प्यं तं तद्वद्दर्पणावयवसंसृष्टाः प्रतिबिंबावयवाः कल्प्या इत्यर्थः । प्रतिबंदीमाह तहीति पूर्वोक्त दृष्टांतमनसि निधाय शुक्तिरजतस्यापि कारणं कल्पयति तत्रापीति । शुक्तिरजतस्थलेपीत्यर्थः । ननु शुक्तिरजतं सत्यमिति स्वीकारे तस्य शुक्तौ सदा सत्वाच्छुक्ति प्रत्यक्षकाले नियमेन तदपि गृह्येत न च गृह्यते अतो न तस्य सत्यत्वं संभवतीत्याशंकां परिहरति । तस्येति ।। प्. ४८ब्) किं शुक्तिरजतमसत्यं प्रतिबिंबः सत्य इत्यर्ध्वजरतीय न्यायेन न च तथा सति रजतमिति दृश्यमानायाः शुक्तेरग्नौ प्रक्षेपे रजतो चितद्रवीभावापतिः । अनलकस्तूरिकादि प्रतिबिंबस्थौल्यसौरभादिराहित्यवच्छुक्ति रजतस्य द्रवीभावयोग्यतानृराहित्योपपतेः । अथोच्येत नेदं रजतं मिथ्यैव रजतमभादिति सर्वसंप्रतिपन्नबाधान्न शुक्तिरजतं सत्यमिति । तर्हि दर्पणे मुखं नास्ति मिथ्यैवात्र दर्पणे मुखमन्नादित्यादि सर्वसिद्धबाधात्प्रतिबिंबमपि न सत्यमिति युक्तं । तस्मादसंगतः प्रतिबिंबसत्यत्ववादः । ननु मिथ्यात्ववादोप्ययुक्तः । शुक्तिरजत इव कस्यचिदन्वयव्यतिरेक शालिनः कारणस्याज्ञानस्य तन्निवर्तकस्य ज्ञानस्य चानिरूपणात् । अत्र केचित् ।। ततः किं तत्राह । किमिति । अर्धजरतीय न्यायेनेति । जरतीद्ब्रद्धातस्या(?) अर्धं मुखमात्रं कामयते नाधः कायमित्ये तद्यथोपपति श्रन्यमेवमिदमपीत्यर्थः । ननु प्रसिद्धरजतमग्नौ प्रक्षिप्तं द्रवी भवति शुक्तिरजतं तु न तथेति । तस्य मिथ्यात्वमेवेति मत्वा शंकते । न च तथो सतीति तस्य सत्यत्वे सतीत्यर्थः । प्रतिबंदीं समर्थयते । अनलेति ।। प्. ४९अ) यद्यप्यन्नेष्टापतिरेव प्रतिबिंबसत्यत्ववादिमते शुक्तिरजतादेरपि सत्यत्वसंभवा तथापि प्रतिबंदी व्याजेन शुक्तिरजतादेः अपि मिथ्यात्व निरूपणे तात्पर्यं बोध्यं प्रतिबंद्याः परिहारं शंकते प्रतिबिंबसत्यतवादी अश्वोच्येतेति । परिहारसाम्यमाह । तर्हीति मिथ्यैवात्रेति । बिंबप्रतिबिंबाभेदपक्षे प्रतिबिंबमिथ्यात्वानुभवः प्रतिबिंबत्व विशिष्टवेषेण प्रतिबिंबगौचरो न स्वरूपेणेति बोध्यं । ननु तर्हि शुक्तिरजतमिथ्यात्वानुभवोपीदर्मर्थ तादात्म्यापन्नतयैव रजतयो चरः न स्वरूपेणेति वक्तं शक्यतयारजतेदमर्थयोस्तादात्म्यमात्रकल्पितं त्व कल्पितमिति प्रसज्येतेति चेन्न रजतस्य शुक्तावनुत्पतौ तस्य संविदभिन्नत्वाभावेन प्रत्यक्षानुपपतेस्तस्य तत्रोत्पतिरपरिहार्यातदुत्पतौ चान्वयव्यतिरेकाभ्यामनिर्वचनीयाज्ञानमेव कारणं नान्यदिति । प्राक्प्रतिपादितत्वेन तस्य मिथ्यात्वोपयतेः । पूर्वोक्तरीत्या बिंबप्रतिबिंबा भेदसाधकप्रमाणसत्ववच्छुक्ति रजतत्यत्व साधका नन्यथा सिद्धप्रमाणो भावेन शुक्तिरजतमिथ्यात्वानुभवस्य रजत स्वरूपगोचरत्वोपपतेश्च तस्य मिथ्यात्वमिति भावः । तस्मादिति बिंबभिन्नस्य प्रतिबिंबस्य सत्यत्वे मानाभावादित्यर्थः । नन्विति । प्रतिबिंबाध्यासपक्षे हि तस्योपादानमज्ञानं वाच्यं तच्च न संभवति । सर्वात्मनादर्पणादिरूपाधिष्ठानगोचरसाक्षात्कारेण दर्पणाद्यवछिन्न चैतन्यनिष्ठाज्ञानस्यति वृतत्वाता प्. ४९ब्) दृशसाक्षात्कारे सत्ये वानुवर्तमानस्य प्रतिबिंबाध्यासस्य तन्निवर्त्यत्वायोगात् । तन्निवर्तक ज्ञानांतरानुपलंभाच्च ज्ञानैकनिवर्त्यत्वं विना तस्य मिथ्यानुपपतेः तस्मातन्मिथ्यात्व वादोप्यसंगत इत्याक्षेपाभिप्रायः यथा शुक्तिरजते शुक्त्यज्ञनस्य तत्कारणस्यान्वयव्यतिरेक सिद्धस्य पूर्वे निरूपणं कृतं तथा प्रतिबिंबाध्यासे दर्पणाद्यज्ञाने सति प्रतिबिंबाध्यासः । तदभावे तदभावः । इत्यत्वयव्यतिरेक शालिनस्तत्कारणस्याज्ञानस्य कस्यचिदनिरूपणातन्निवर्तक ज्ञानस्य चानिरूपणादित्यक्षरार्थः । परिहरति । अत्र केचिदिति ।। यद्यपि सर्वात्मनाधिष्ठान ज्ञानानंतरमपि जायमाने प्रतिंबिंबाध्यासेनाधिष्ठानावरणमज्ञानमुपादानं नखाधिष्ठानविशेष्यंशज्ञानं निवर्तकं । तथाप्यधिष्ठानाज्ञानस्यावरणशक्त्यंशेन निवृतावपि विक्षेपशक्त्यंशेनानुवृति संभवातदेवोपादानं । बिंबोपाधिसन्निधिनिवृति सचिवंचाधिष्ठानज्ञानं सोपादानस्य तस्य निवर्तकमिति । अन्ये तु ज्ञानस्य विक्षेप शक्त्यंशं विहायावरणशक्त्यंशमात्रनिवर्तकत्वं न स्वाभाविकं ब्रह्मज्ञानेन मूलाज्ञानस्य शुक्त्यादि ज्ञानेनावस्था ज्ञानस्य चावर प्. ५०अ) रणशक्त्यंशमात्र निवृतौ तस्य विक्षेप शक्त्या सर्वदानुवृति प्रसंगात् । न च तद्बिंबोपाधि संनिधिरूपं विक्षेपशक्त्यंश निवृति प्रतिबंधकप्रयुक्तां बिंबोपाधि सन्निधातात्प्रागेव बिंबे चैत्रमुखे दर्पणसंसर्गाद्यभावे दर्पणे चैत्रमुखाभावे वा प्रत्यक्षतोवगम्यमाने विक्षेपशक्त्यंशस्यापि निंवृत्यवश्यं भावेन तत्कालं तयोः सन्निधाने सत्युपादानाभावेन प्रतिबिंबभ्रमाभावप्रसंगात् ।। आक्षेयाभिप्रायमनुवदति । यद्यपीति । सर्वात्मानेति शुक्तिरजताध्यासात्पूर्वमिदं त्वात्मना साक्षात्कार सत्वेपि शुक्तित्वादि विशेषात्मना साक्षात्कारो नास्तीति तत्राधिष्ठानविशेषांशावरणमज्ञानमुपादानं लभ्यते प्रकृते तु चक्षुः संनिकृष्टे दर्पणे प्रतिबिंबाध्यासात्पूर्वमिदं त्वात्मनेव दर्पणत्वादि विशेषात्मनापि साक्षात्कार सत्वेन सर्वात्मनाधिष्ठान साक्षात्कारोस्ति तथा च तेनाधिष्ठान विशेषावरणस्याज्ञानस्य निवृतत्वान्न तदुपादानं संभवतीत्ये तद्युक्तमेवेत्यर्थः । अपिरवधारणे निवेर्तकमिति । प्रतिबिंबाध्यासस्येति शेषः । कथं तर्ह्युपादानादि लाभः तत्राह । तथापीति । तदेवेति । अधिष्ठाना ज्ञानमेवेत्यर्थः । सर्वात्मनाधिष्ठान साक्षात्कारेणाप्यज्ञानैक देशस्यैव निवृतिर्न तु कार्त्स्न्येनेति प्. ५०ब्) फलवलात्कल्प्यत इति भावः । निवर्तक ज्ञानं च निरूपयति बिंबेति । बिंबोपाध्योः सन्निधिनिवृति सहकृते दर्पणे मुखं नास्तीति ज्ञानमेव प्रतिबिंबाध्यासस्य निवर्तकमित्यर्थः । दर्पणाद्युपादानभूतं मूलाज्ञानमेकमस्ति दर्पणादि ज्ञाननिवर्त्यमवस्म्यारूपाज्ञानमप्यपरमस्ति तत्र मूला ज्ञानस्यैव दर्पणाद्युपादानत्ववत् प्रतिबिंबाध्यासोपादानत्वमपीति परिहारांतरमाह । अन्येत्विति । ननु पूर्वोक्तमतरीत्याशुक्तिरजतादिरिव प्रतिबिंबाध्यासस्याप्यवस्थाज्ञानपरिणामत्वसंभवे । किं मूलाज्ञानस्य तत्कल्पनयेति नेत्याह । ज्ञानस्येत्यादिनेति । ज्ञानस्यावरणमात्रनिवर्तकत्वं किं स्वाभाविकं किं वा विक्षेपशक्त्यंश निवृति प्रतिबंधक सत्व प्रयुक्तं नाद्य इत्यत्र हेतुमाह । ब्रह्मज्ञानेनेति । तस्येति । द्विधस्याप्यज्ञानस्य निवर्तकाभावेन विक्षेप शक्ति सहकृतस्य विदेह कैवल्येप्यनुवृति प्रसंगादित्यर्थः । द्वितीयमनुवदति । न चेति । तदिति । आवरणमात्रनिवर्तकत्वमित्यर्थः । विक्षेपशक्तिमदज्ञानांश निवृति प्रतिबंधक प्रारब्ध नाशे सति ब्रह्मज्ञानसंस्कारविशिष्टचैतन्यमात्रादेवविक्षेपांश निवृति संभवान्न पूर्वोक्तदोष इति मत्वादोषमाह । बिंबोपाधिसन्निधानात्प्रागिति । बिंबोपाध्योराभिमुख्यलक्ष्णसन्निधानात्पूर्वक्षण एवेत्यर्थः । प्. ५१अ) बिंबप्रतिबिंबाभेदपक्षे प्रतिबिंबोत्पत्यभावेपि चैत्रस्य मुखे बिंबभूते बिंब तु प्रतिबिंबत्वदर्पणस्थत्वादेरे निर्वचनीयस्योत्पत्युपगमेन तस्य चैत्रमुखावछिन्नचैतन्यनिष्ठावस्थाज्ञानमेवकारणं वाच्यं तच्च चैत्र मुखे दर्पणाभिमुख्यात् प्राक् विष्णुमित्रेण निरीक्ष्यमाणे सति तदा प्रतिबंधकाभावाच्चैत्रमुखगोचरेण विष्णुमि ।। अतो मूलाज्ञानमेव प्रतिबिंबाध्यासोपादानं न चात्राप्युक्तदोषतोल्यं । पराग्विषयवृतिपरिणामानां स्वस्वविषयावछिन्नचैतन्यप्रदेशे मूलाज्ञानावरणशक्त्यंशाभिभावकत्वेपि तदीय विक्षेप शक्त्यंशा निवर्तक त्वात् । अन्यथा तत्प्रदेश स्थित व्यावहारिक विक्षेपाणामपि विलयापतेः । न च प्रतिबिंबस्य मूलाक्ष्यान कार्यत्वे व्यावहारिकत्वापतिः । अविद्याति रिक्तदोषाजन्य त्वस्य व्यावहारिकत्वे प्रयोजकत्वात् । प्रकृते च तदतिरिक्तबिंबोपाधि सन्निधानदोषसद्भावेन प्रातिभासिकत्वोपपतेः । न चैवं सति बिंबोपाधिसन्निधिनिवृति सह कृतस्याप्यधिष्ठान ज्ञानस्य प्रतिबिंबाध्यासाऽनिवर्तकत्व प्रसंगस्तन्मूलाज्ञान प्. ५१ब्) निर्वतकत्वाभावादिति वाच्यं ।। त्रीय साक्षात्कारेण विक्षेप शक्त्या सह निवर्तते । उतरक्षण एव चैत्र मुखस्य दर्पणाभिमुखे सति विष्णुमित्रस्य दर्पणे चैत्रस्य मुखमिति प्रतिबिंब भ्रमो भवति । तत्र चैत्रमुखे दर्पणस्थत्वादेरुत्पतिर्न स्यादुपादानाभावादित्याहे । बिंब इति । दर्पण संसर्गो दर्पणस्थत्वमादिपदं प्रत्यऽऽन्मुखत्वादिसंग्रहार्थं । तथा च संसर्गाद्यभावे प्रत्यक्षतोवगम्यमान इति संबंधः । चैत्रमुखैदर्पणस्थत्वादिकं नास्तीत्यवगति प्रकारो बोध्यः । दपणे प्रतिबिंबाध्यासोत्पति पक्षे अवगति प्रकारमाह दर्पण इति । प्रतिबिंबाध्यासपक्षे संसर्गितया प्रतिमुखस्यैवाध्यासोपगमाद्दर्पणे चैत्रमुखं नास्तीत्यनेन प्रकारेण दर्पणे चैत्रमुखाभावे प्रत्यक्षतोवगम्यमान इत्यर्थः । एवं मतभेदेनाधिष्ठान भेदे तत्साक्षात्कार भेदयोः प्रदर्शनार्थमेव चैत्रमुखे दर्पणे च पृथक् सप्तमी निर्द्वेशः कृतः सतभेदज्ञापनार्थश्च वाकारः तत्कालमिति । अधिष्ठान भूतचैत्रमुखे दर्पणे च विक्षेप शक्त्यासहा ज्ञाननिवर्तक साक्षात्कारोत्पतेर्द्वितीयक्षण इत्यर्थः । तयोरिति । चैत्रमुखदर्पणयोः सन्निधाने सत्यधिष्ठान साक्षात्कारवतो विष्णुमित्रस्य दर्पणे चैत्र मुखमिति यः प्रतिबिंबभुमो भवति तस्याभावप्रसंगादित्यत्र हेतुमाह उपादानाभावेनेति । तत्र हेतुमाह विक्षेप शक्त्यंशस्यापि प्. ५२अ) निवृत्यवश्यंभावेनेति । अत इति अवस्थाज्ञानस्य प्रतिबिंबाध्यासे कारणत्वायोगादित्यर्थः । नन्वस्मिन् पक्षेपि बिंबोपाधिसन्निधानात् पूर्वक्षणोत्पन्नचैत्रमुखसाक्षात्कारेण चैत्रमुखाद्यवछिन्नचैतन्यावरकमूलाज्ञानस्यापि निवृतेतोदुपादानाभाव दोषस्तुल्यः तेन तदनिवृतौ च चैत्र मुखायनवभासप्रसंगः । यत्किंचिदावरणस्य सत्वादित्याशंक्याह । न चात्रापीति । ब्रह्मज्ञानस्यैव मूलाज्ञाननिवर्तकत्वं जडविषयकवृतिरूपाणामंतःकरणपरिणामानां तु स्वस्वविषयचैतन्यस्थमूलाज्ञानस्य योयमावरणांशः तदभिभावकत्वमात्रं यावद्विषयस्फुरणमंगीक्रियतेनत्ववस्थाज्ञानविक्षेपांशं निवर्तकत्ववन्मूलाज्ञानविक्षेपांशनिवर्तकत्वमपीत्यर्थः । अन्यथेति । विषयचैतन्यस्थस्य मूलाज्ञानस्य विषयज्ञानेन निवृतौ दर्पणादीनां यावहारिकाणां विक्षेपशब्दितकार्याणां नाशप्रसंगः उपादाननाशादित्यर्थः । प्रातिभासिकविक्षेपाणामिवेत्यपि शब्दार्थः । ननु मूलाज्ञानकार्यस्य दर्पणादेर्व्यावहारिकत्व दर्शनात् । प्रतिबिंबाध्यासस्यापि तत्कार्यत्वे तदापतिरित्याशंक्यनिरोति । न चेत्यादिनामूलाज्ञानकार्यत्वं व्यावहारकत्वप्रयोजकं न भवति अनाद्यविद्यादौ तदभावेपि व्यावहरिकत्व सत्वात् । किं त्वन्यदेव तत्प्रयोजकमित्याह । अविद्यातिरिक्तेति । अनाद्यविद्यादावविद्याजन्यत्वाभावेपि तदतिरिक्तदोष्यजनात्वस्य सत्वात्र्यव्याप्तिरितिभावः । प्रतिबिंबाध्यासस्य मूलाज्ञानकार्यस्यापि न व्यावहारिकत्वं तत्प्रयोजकाभावादित्याह । प्रकृते चेति । प्रतिबिंबाध्यास प्. ५२ब्) इत्यर्थः । न चैवं सतीति प्रतिबिंबाध्यासस्य मूलाज्ञानकार्यत्वे सतीत्यर्थः । तन्मूलेति शुक्तिरनतादि मूलाविद्यानिवर्तक शुक्त्यादि साक्षात्कारस्यैव रजताद्य ध्यासनिवर्तकत्व दर्शनादिति भावः ।। विरोधाभावात् । ब्रह्माज्ञानानिवर्तकत्वेपि तदुपादानक प्रतिबिंबाध्यासविरोधिविषयकतयाधिष्ठानयाथात्म्यज्ञानस्य प्रतिबंधकविरह सचिवस्य तन्निवर्तकत्वोपपतेः । अवस्थाज्ञानोपादानत्वपक्षेपि तस्य प्राचीनाधिष्ठानज्ञानविवर्तिलावरणशक्ति कस्य समानविषयत्वमंगेन प्रतिबंधकाभावकालीनाधिष्ठानज्ञानेन निवर्तयितुमशक्यतया प्रतिबिंबाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वात् । अथवा स्वोपादानाज्ञाननिवर्तक ब्रह्मज्ञाननिवर्त्य एवाय मध्यासोस्तु व्यावहारिकत्वापतिस्त विद्यातिरिक्तदोषजन्यं त्वेन प्रत्युक्तैनत्याहुः । एवं स्वप्नाध्यासस्याप्यनवछिन्नचैतन्येहंकारोपहित चैतन्येवावस्थारूपाज्ञानशून्येध्यासात् ।। विरोधाभावादिति । मूलाज्ञानं ब्रह्मविषयकं प्रतिबिंबाध्यासाधिष्ट्वान भूतदर्पणादिज्ञानं तु दर्पणाद्यवछिन्न प्. ५३अ) चैतन्यविषयकमिति तयोः समानविषयकत्वस्य विरोधप्रयोजकस्याभावेन विरोधाभावादधिष्ठानयाथात्म्यज्ञानस्य ब्रह्माज्ञानानिवर्तकत्वेपीत्यर्थः । तत्पदं ब्रह्माज्ञानपरं विरोधिविषयकतयेति । दर्पणे मुखं नास्तीत्यादि रूपस्याधिष्ठानयाथात्म्यज्ञानस्य प्रतिबिंबाध्यासा भावविषयकतयेत्यर्थः । ननु प्रतिबिंबाध्यासस्यावस्थाज्ञानोपादानकत्वपक्षे बिंबोपाधिसन्निधिनिवृतिसहकृताधिष्ठान ज्ञानस्य तदुपादाना ज्ञाननिवर्तकत्वं लभ्यते । तथा च ज्ञानमज्ञानस्यैव निवर्तकमज्ञानकार्यस्य तु उपादानाज्ञाननिवृत्या निवृतिरिति पंचपादिकाकारोक्तं संगच्छत इत्याशंक्याह । अवस्थाज्ञानेति । तस्येति । अवस्थाज्ञानस्येत्यर्थः । प्राचीनेति बिंबाध्यासात् प्राचीनेनाधिष्ठानज्ञानेन दर्पणे मुखं नास्तीत्याद्याकारेण निवर्तिता आवरणशक्तिर्यस्यावस्थाज्ञानस्यत तथा तस्येत्यर्थः । अज्ञानविषयत्वमज्ञानावृतत्वमावरणनाशे च दर्पणाद्यवछिन्न चैतन्यस्यावस्थाज्ञानविषयत्वाभावादधिष्ठान ज्ञानस्यावस्थाज्ञानगमा न विषयकत्वं विरोधे प्रयोजकं भग्नमित्यर्थः । प्रतिबंधकपदं बिंबौपाध्योः सन्निधिपरं तस्य निवर्तयितुमशक्यतयेति संबंधः तन्निवत्येति । तत्पदमधिष्ठानज्ञानपरं अवस्थाज्ञानोपादानत्वपक्षेपि प्रतिबिंबाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वादिति संबंधः । तथा च पंचपादिकाविरोधः प्रतिबिंबाध्यासस्थावस्थाज्ञानोपादानत्वपक्षेपि तुल्य इति भावः तदविरुद्धप्रकारमाह । अथवेति । स्वपदं प्रतिबिंबाध्यासपरं । निवर्त्य एवेति । बिंबोपाध्योः सन्निधिविगमकाले प्रतिबिंबाध्यासस्य सूक्ष्मावस्था प्. ५३ब्) लक्षणनाशे सत्यपि व्यावहारिकत्वापतिरिति नेत्याह । व्यावहारिकत्वापतिस्त्विति तु शब्दोवधारणैप्रत्युक्तैवेति संबंधः । बिंबोपाधिसंन्निधिः दोषः । उक्त न्यायमन्यत्राप्यति दिशति । एवमिति । एवं स्वप्नाध्यासस्यापि मूलाज्ञानकार्यतया अविद्यातिरिक्तनिद्रादि दोषजन्य तयैव प्रातिभासिकत्वमिति संबंधः । नत्ववस्था ज्ञानकार्यतया प्रातिभासिक तमित्येव कारार्थः । अवस्था ज्ञानस्य स्वप्नो पादानत्वाभावै हेतुमाह । अवस्थारूपाज्ञानशून्ये ध्यासादिति । मतभेदेन स्वप्नाध्यासाधिष्ठान भेदमाहपि बाधरूपानिवृतिस्तथा नास्ति सा तु ब्रह्मज्ञानाधीनैव तस्यैव तदुपादानमूलाज्ञाननिवर्तकत्वादिति भावः । ननु ब्रह्मज्ञान बाध्यस्य घटादेरिव तद्बाध्यस्या अनवछिन्नेति अहंकारानवछिन्न ब्रह्मचैतन्यस्य मूलाज्ञानमात्राश्रयत्वादवस्था ज्ञानशून्यत्वमहंकारोपहितस्य साक्षि चैतन्यस्य सुखाद्यधिष्ठानस्यावरणानंगीकारादऽवस्थाऽज्ञानशून्यत्वमिति भावः ।। सुषुप्त्याख्यं तमोऽज्ञानं यद्बीजं स्वप्नबोधयोरित्याचार्याणां स्वप्नजाग्रत्प्रपंचयोरेका ज्ञानकार्यत्वोक्तेश्च मूलाज्ञानकार्यतया स्वोपादान निवर्तक ब्रह्मज्ञानैक बाध्यस्याविद्यातिरिक्त निद्रादि दोषजन्य तयैव प्रातिभासिकत्वमिति केचित् । अन्येत बाध्यंते चैते रथादयः स्वप्नदृष्टाः प्रबोध इति भाष्योक्तेरवि चात्मक बंध प्. ५४अ) प्रत्यनीकत्वाज्जाग्रद्बोधवदिति विवरण दर्शनादुत्थितस्य स्वप्नमिथ्यात्वानुभवाच्च जाग्रद्बोधः स्वप्नाध्यास निवर्तक इति । ब्रह्मज्ञानेतरज्ञानबाध्यते यैव तस्य प्रातिभासिकत्वं । न चाधिष्ठानयाथात्म्यागोचरं स्वोपादानाज्ञानानिवर्तकं । ज्ञानं कथमध्यासनिवर्तकं स्यादिति वाच्यं रजुसर्षाध्यासस्य स्वोपादाना अज्ञाननिवर्तकाधिष्ठानयाथात्म्यज्ञानेनेव तत्रैव स्वानंतरोत्पन्न दंडभ्रमेणापि निवृति दर्शनादित्याहुः ।। अत्राज्ञानकार्यस्य स्वप्नाध्यासस्यावस्था ज्ञानशून्यचैतन्ये अध्यासोक्त्यार्थान्मूलाज्ञानकार्यत्वमुक्तं । तत्र हेत्वंतरमाह । सषुप्त्याख्यमिति । सुषुप्तेरज्ञानावस्थारूपत्व विवक्षयासुषुप्त्याख्यत्वमज्ञानस्योक्तं बीजमुपादानं बोधो जाग्रत् प्रपंचः । तस्य शुक्तिरजतादि व्यतिरिक्तस्य मूलाज्ञानकार्यत्वं संप्रतिपन्नमितिभावः । आचार्याणामुक्तेश्चेति संबंधः स्वपदस्वप्नाध्यासपरंब्रह्मज्ञानैकेति । प्रबोधकाले स्वप्नप्रपंचस्य सूक्ष्मावस्थापति रूपनाशे सत्यपि बाधरूपानिवृतिर्ब्रह्मज्ञानैक साध्येति बोध्यं । अविद्यातिरिक्तदोषजन्यत्वं प्रातिभासिकत्वप्रयोजकमिति मतेन स्वप्नाध्यासस्य निद्रादिदोषजन्यस्य प्रातिभासिकत्वमुपपादितं व्यवहारकाले बाध्यमानत्वं प्रातिभासिकत्व प्रयोजकमिति मतेन तस्य प्. ५४ब्) तदुपपादयति । अन्ये त्विति । भाष्यगतं प्रबोध पदं सप्तम्यंतं बंधस्याविद्याकार्यत्वादविद्यात्मकत्वं प्रत्यनीकत्वं निवर्तकत्वं पंचम्यनंतरं ब्रह्मज्ञानस्येति शेषः यथा जाग्रत्कालीनो घटादिबोधः स्वप्नबंधनिवर्तकस्तद्वदित्यर्थः । उत्थितस्येति । मिथ्यैव मया स्वप्ने महाजनसमागमो दृष्टः नह्यस्ति महाजनसमागम इति तस्य मिथ्यात्वानुभवादित्यर्थः । यदि स्वप्नप्रपंचस्य ब्रह्मज्ञानबाध्यत्व प्रयुक्तं मिथ्यात्वं तदा स्वप्नादुत्थितस्य तत् मिथ्यात्वानुभवो न स्यात् । ब्रह्मज्ञानात् पूर्वं तद्बाध्ये घटादौ मिथ्यात्वानुभवादर्शनात् । अतो ब्रह्मज्ञानादितरेण जाग्रत् प्रबोधेनैव बाधः स्वप्नप्रपंचस्य वक्तव्य इति शुक्तिरजतादिवत् व्यवहार कालीन बाधवशादेव तस्य प्रातिभासिकत्वं व्यवहारकालश्च ब्रह्मतत्वज्ञानात् । पूर्वकाल इति भावः । ज्ञानमिति ब्रह्मज्ञानेतर ज्ञानमित्यर्थः । तस्य स्वप्नाध्यासनिवर्तकत्वाभावे हेतुं सूचयति । स्वेति । स्वस्य स्वप्नाध्यासस्य उपादानं मूलाज्ञानं तदनिवर्तकमित्यर्थः । तदनिवर्तकत्वे हेतुं सूचयति । अधिष्ठानेति । स्वप्नाधिष्ठानस्य पूर्वोक्तस्य यद्याथात्म्यमनवछिन्न ब्रह्मचैतन्यादि तदविषकमित्यर्थः । अधिष्ठानयाथात्म्यज्ञानस्यैवाज्ञाननिवृतिद्वाराध्यास निवर्तकत्वनियमादिति भावः । उक्तनियमासिध्या दूषयति । रजु सर्पेति । स्वपदं सर्पाध्यासपरं ज्ञानेनेवेति नायं सर्पः रजुरेषेति ज्ञानेनेवेत्यर्थः । तत्रैवेति सर्पाध्यासाधिष्ट्वान रजावेवेत्यर्थः प्. ५५अ) स्वेति सर्पभ्रमानंतरोत्पन्नेन नायं सर्पः दंडोयमिति भ्रमेणेत्यर्थः । निवृतिदर्शनादिति बाधदर्शनादित्यर्थः ।। अपरे तु जाग्रद्भोगप्रदकर्मोपरमे जाग्रत्प्रपंच द्रष्टारं प्रतिबिंबरूपं व्यावहारिकं जीवंत दृष्टं जाग्रत्प्रपंचमप्यावृत्यजायमानो निद्रारूपो मूलाज्ज्ञानस्यावस्था भेदः स्वाप्नप्रपंचाध्यासस्योपादानं न मूलाज्ञानं न च निद्राया अवस्थाज्ञानरूपत्वे मानाभावः मूलाज्ञानानेनावृतस्य जाग्रत्प्रपंचद्रष्टर्व्यावहारिक जीवस्य मनुष्योहं ब्राह्मणोहं देवदतपुत्रोहमित्यादिनां स्वात्मानमसंदिग्धाविपर्ययस्तमभिमन्यमानस्य तदीय चिरपरिचयेन तं प्रति सर्वदानावृतैकरूपस्य स्वपितामहात्ययादि जाग्रत्प्रपंचवृतांतस्य च स्वप्नकाले केनचिदावरणाभावे जाग्रत् दशायामिव स्वप्नेपि व्याघ्रोहं शूद्रोहं प्रज्ञदत्तपुत्रोहमित्यादि भ्रमस्य स्वपितामह जीवद्दशादिभ्रमस्य चाभावप्रसंगेन निद्राया एव तत्कालोत्पन्न व्यावहारिक जगज्जिवावरकाज्ञानावस्थाभेदरूपत्व सिद्धेः । न चैवं जीवस्याप्यावृतत्वात् स्वप्नप्रपंच दृष्टृत्वाभाव प्रसंगः ।। प्. ५५ब्) अधिष्ठान याथात्म्यज्ञानस्यैवाध्यासनिवर्तकत्व नियमेपि प्रकृतेनानुपपतिरिति मत्वा तदनुगुणं मतांतरमाह । अपरे त्विति । अस्मिन् मते व्यावहारिक जीवः स्वप्नप्रपंच द्रष्टः प्रातिभासिक जीवस्याधिष्ठानं स्वप्नप्रपंचस्य च जाग्रत्पपंच एवाधिष्ठानं नत्व नवछिन्नचैतन्यादिकं द्विविधाधिष्ठानावरणद्वारा च निद्रारूपमवस्थाज्ञानं दृष्ट्वदृश्यात्मक द्विविध स्वप्नप्रपंचोपादोनं न तु मूलाज्ञानं तस्या ब्रह्मचैतन्यमात्रावरकत्वेन व्यावहारिक जीवाद्यावरकत्वाभावात् । ततश्च व्यावहारिक जीव जगद्गोचरस्य प्रबोधस्याधिष्ठान याथात्म्यज्ञानरूपत्वा ते नैव स्वप्नाध्यासबाधः संभवतीति तात्पर्यार्थः कर्मो परमे सति जायमान इति संबंधः आवृत्येत्यनेन उपादानमित्यनेन च निद्राया आवरणविक्षेपशक्तिमत्वरूपमज्ञानलक्षणमुक्तमेवमज्ञानत्वे तस्यासिद्धे सत्युत्पतिमत्वात् । तदवस्थारूपत्वं सिध्यति । अस्मिन्मते सर्वेषामेवावस्थाज्ञानानामादिमत्वस्य प्रथमपरिछेदे उक्तत्वादिति भावः । संग्रहंणोक्तं मर्थमाशंकापूर्वकं प्रपंचयति । न च निद्राया इत्यादिना । मूलाज्ञाने नानावृतस्य व्यावहारिक जीवस्य जाग्रत्प्रपंचवृतांतस्य च स्वप्नकाले केनचिदावरणाभावे यज्ञदतपुत्रोंहमित्यादि भ्रमस्य स्वपितामह जीवदशानुभवस्य चाभावे प्रसंगेन निद्राया एवभेदरूउपत्वसिद्धेरिति संबंधः । जाग्रत्काले ब्राह्मणत्वादिरूपसत्वे संशविपर्ययोरभावमाह । असंदिग्धेति । असंदिग्धाविपर्यस्तं यथा भवति तथा अभिमन्यमानस्येति संदेहविपर्यास- प्. ५६अ) भिन्नत्वमभिमानक्रियाविशेषणं स्वपितामहात्ययादेर्जाग्रत्प्रपंचवृतांतस्य तं देवदत्तपुत्रं प्रतिसर्वदानावृतत्वेनैकरूपतयावस्थाने हेतुमाह । तदीयेति देवदतपुत्रो हि स्वपितामहादिमरणं प्रथममनुभूय पश्चात् प्रतिमासंवत्सरं च श्राद्धतर्पणादिकं करोति । ततश्च तन्मरणादिगोचरानुभवस्मरणाभ्यासः चिरपरिचयस्तेन स्वपितामहान्यपादौ संशयादिनिवृतिभात्कलक्षणमनावृतत्वं सदा एकरूपेण वर्तत इत्यर्थः । जागरणे यथा देवदत्तपुत्रस्य व्याघ्रादि भ्रमाभावः स्वपितामह जीवदशानुभवा भावश्च तथा स्वप्नेप्यभावप्रसंगेनेत्यर्थः । तत्कालेति । निराकाले उत्पन्नो यो व्यावहारिक जगज्जीवयोरावरको ज्ञानावस्थाभेदः तद्रूपत्वं निद्राया एव सिध्यति नान्यस्यावरणविक्षेपशक्तिमत्वेन तस्या उपस्थितत्वादन्यस्यानुपस्थितत्वादित्यर्थः न चैवमिति । निद्राया व्यावहारिक । जीवाद्यावरकाज्ञानावस्थाविशेषरूपत्वसिद्धौ सत्यामित्यर्थः ।। स्वाप्नप्रपंचेन सहद्रष्ट्रर्जीवस्यापि प्रातिभासिकाध्यासात् । एवं च पुनर्जाग्रद्भोगप्रदकर्मोद्भूते बोधे व्यावहारिक जीवस्वरूपज्ञानात्स्वोपादाननिद्रारूपाज्ञाननिवर्तकादेव स्वाप्नप्रपंचबाधः । न चैवं तत् द्रष्टः प्रातिभासिक जीवस्यापि ततो बाधे स्वप्ने करिणमन्वभूवमित्यनुसंधानं न स्यादिति वाच्यं व्यावहारिक प्. ५६ब्) जीवे प्रातिभासिक जीवस्याध्यस्ततया तदनुभवाद्व्यावहारिक जीवस्यानुसंधानोपगमेप्यति प्रसंगादिति । नन्वनवछिन्नचैतन्येऽहंकारावछिन्नचैतन्येवास्वाप्न- प्रपंचाध्यास इति प्रागुक्तं पक्षद्वयमप्ययुक्तं । आद्ये स्वाप्नगजादेरहंकारोपहितसाक्षिणो विछिन्न देशत्वेन सखादिवदंतःकरणवृतिसंसर्गमनपेक्ष्यतेन प्रकाशनस्य चक्षुरादिनामुपरततयावृत्युदयासंभवेन तत्संसर्गमपेक्ष्यतैन प्रकाशनस्य चायोगात् । द्वितीये इदं रजतमिति वदहं गज इति वा अहं सुखीति वदहं गजवानिति वाध्यासप्रसंगात् ।। प्रातिभासिकांतःकरणे चित्प्रतिबिंबरूपस्य जीवांतरस्याभ्युपगमान्नैतच्चोचावकाश इत्याशयेनाह । स्वाप्नप्रपंचेन सहेति । एवं चेति व्यावहारिक जीवजगतोरेव स्वाप्नजीवजगदधिष्ठानत्वे सिद्धे सतीत्यर्थः । कर्माद्भूते बोध इति । कर्मजन्ये जागरण इत्यर्थः । जीवस्वरूपज्ञानादिति मनुष्योहं ब्राह्मणोहं देवदतपुत्रोहमित्यादिरूपादित्यर्थः । उपलक्षणचैतत् स्वपितामहात्ययादि ज्ञानाच्चेत्यपि द्रष्टव्यं स्वपदं स्वप्नप्रपंचपरं न चैमिति एवं शब्दार्थमेवाह । तदृष्टरिति । तस्य स्वप्रपंचस्य द्रष्ट्रः व्याघ्रोहं शूद्रोहमित्यादिरूपेण स्वात्मानं मन्यमानस्येत्यर्थः । प्. ५७अ) तत इति व्यावहारिक जीवस्वरूपज्ञानावित्यर्थः । न स्यादिति अन्यानुभूतेर्थे अन्यस्य स्मरणायोगादितिभावेः । अध्यस्तयेति । तथा च व्यावहारिक प्रातिभासिक जीवयोरधिष्ठानारोप्ययोः । तादात्म्य स त्वात् प्रातिभासिक जीवकर्तृकानुभवाद्व्यावहारिक जीवस्य स्वप्नपदार्थानुसंधानं संभवतीत्यर्थः । अति प्रसंगेति । यज्ञदतानुभूतार्थे विष्णुमित्रस्याप्यनुसंधानप्रसंगरूपाति प्रसंगाभावादित्यर्थः । तयोस्तादात्म्याभावादिति भावः । ननु जीवत्रैविध्यपक्षे द्रष्टृ दृश्यत्मक स्वप्नाध्यासाधिष्ठानत्वेनोपगतस्य व्यावहारिक जीवादेर्मिथ्यात्वेन जडतया स्वप्नप्रपंचावभासकत्वं न संभवति । न च चैतन्यमेव तदवभासकमिति वाच्यं तथा सति तस्यैवाधिष्ठानतया तत्सतास्पूर्तिरूपत्वसंभवे जडस्याधिष्ठानत्वाभ्युपगमायोगात् । तर्हि तदेवाधिष्ठानमस्त्विति चेन्न तत्राप्यनुपपतिसत्वादित्याह । नन्वित्यादिना । अनवछिन्नचैतन्यस्वाधिष्टानत्वपक्षे स्वाप्नगजादेर्देहात् । बाह्य देहस्थत्वं वक्तव्यं तथा च तस्य किं साक्षि भास्यत्व मैंद्रियकत्वं वा नाद्य इत्याह । अहंकारेति । साक्षिण इति पंचमी विछेदोक्त्या साक्षिणः स्वप्नगजदिनासहस्वतः संसर्गाभावो दर्शितः । अंतःकरणवृतिसंसर्गमनपेक्ष्यस्वाप्नगजादेस्तेन प्रकाशस्य तत्संसर्गमपेक्ष्यतेन प्रकाशस्य चायोगादिति संबंधः तेनेति पदद्वयं साक्षि परं यथा सुखादेः सुखादि गोचरांतःकरणवृति संसर्गमनपेक्ष्यतेन प्रकाशः तथा तेन स्वाप्नगजादेः प्रकाशायोगादित्यर्थः । द्वितीयं निरस्यति । चक्षुरादीनामिति । द्वितीय इति अहमनुभवगोचराहंकारोपहितचैतन्यस्य स्वप्नाध्यासाधिष्ठानत्व प्. ५७ब्) पक्ष इत्यर्थः । किं गजादेस्तादात्म्येन तत्राध्यासः किं वा अधारोधेय भावसंसर्गेण आद्यं दूवयति इदं रजतमिति वदिति द्वितीयं निराकरोति । अहंसुखीति । वदिति । द्वितीये अहंगज इत्यहं गजवानिति बाध्यास प्रसंगादिति योजना ।। अत्र केचिदाद्यपक्षं समर्थयंते । अहंकारानवछिन्नं चैतन्यं न देहाद्बहिः स्वाप्नप्रपंचस्याधिष्ठानमुपेयते किंतु तदंतरेव । अत एव दृश्यमान परिमाणोचित देशसंपत्यभावान्स्वाप्नगजादीनां मायामयत्वमुच्यते । एवं चांतःकरणस्य देहाद्बहिरस्वातेत्र्या जागरणे बाह्यशुक्तीदमंशादि गोचरवृत्युत्पादाय चक्षुराद्यपेक्षायामपिंदहांतरं तष्करणस्य स्वतंत्रस्य स्वयमेववृतिसंभवाद्देहांतरं तष्करणवृत्यभिव्यक्तस्यानवछिन्नचैतन्यस्याधिष्ठानत्वेन काचिदनुपयतिः । अत एव यथा जागरणं संप्रयोगजन्यवृत्यभिव्यक्त शुक्तीदमंशावछिन्नचैतन्यस्थिता विद्यारूप्याकारेण विवर्तते तथा स्वप्नेपि देहस्यांतरंतःकरणवृतो निद्रादिदोषोपेतायामभिव्यक्त चैतन्यस्थाऽविद्याऽदृष्टोद्बोधित नानाविषयसंस्कार सहिता प्रपंचाकारेणविवर्ततामिति विवरणोयन्यासे प्. ५८अ) भारतीतीर्थवचनमिति । अन्ये त्वनवछिन्नचैतन्यं न वृत्यभिव्यक्तं सत्स्वाप्नप्रपंचस्याधिष्ठानं । अशब्दमूलकानवछिन्नचैतन्यगोचरवृत्युदयास भवात् । मूल टीका । अहंकारानवाछिन्नेति । अविद्यायां बिंबभूतमीश्वरचैतन्यमिहानछिन्नचैतन्यं विवक्षितमीश्वरचैतन्यस्यैव सर्वाधिष्ठानत्वान्नाविद्याप्रतिबिंबरूपं जीवचैतन्यं तस्यानुपादानत्वादिति बोध्य व्यांतरचैतन्यस्यैवाधिष्ठानत्वे नियामकमाह । व्यत एवेति । आंतरं चैतन्यस्याधिष्ठानत्वोपगमादेवेत्यर्थः । स्वप्नकाले दृश्यमानपरिमाणवतां गजादीनां शरीरस्यांतरुचित देश संपत्यभावात् । प्रातिभासिकत्वमुच्यते सूत्रकारादिभिः शरीराद्बाह्यचैतन्यस्याधिष्ठानत्वे तु जाग्रद्गजादीनामिव स्वाप्नगजादीनामपि योग्यदेशलाभाद्व्यावहारिकत्वमेव स्यात् । तथा च सूत्रादि विरोध इत्यर्थः । एवं चेति । आंतरस्यैव चैतन्यस्य स्वप्नाध्यासाधिष्ठानते प्रमाणसिद्धे सतीत्यर्थः । ननु शरीरांतगंतस्यापि ब्रह्मचैतन्यस्यावतत्वात् । तत्राध्यस्तानां स्वाप्नगजादीनामनवभासप्रसंगः । न चांतःकरणवृत्यावरणनाशे सति तेषामवभासः संभवतीति वाच्यै स्वप्ने चक्षुरादीनामुपरतत्वेन वृत्यसंभवान्न च स्वयमैवांतःकरणवृतिस्तदा संभवतीति वाच्यं । जागरणेपि तथा प्रसंगेन तदापि चक्षुराद्यपेक्षाभावप्रसंगादित्यत आह । अंतःकरणस्येति स्वयमेवेति । चक्षुरादिके मनपेक्ष्येवेत्यर्थः । न काचिदिति अभिव्यक्तचैतन्यस्येवांतरस्यैवाधिष्ठानत्वोपगमेन स्वप्नप्रपंचस्यावभासानुपपतिर्वा प्रातिभासिकत्वानुपपतिर्वा नास्तीत्यर्थः । अंतःकरणवृत्यभिव्यक्तचैतन्य प्. ५८ब्) स्याधिष्ठानते संमतिमाह । अत एवेति । अंतःकरणवृत्यभिव्यक्तै चैतन्यै सदासुलभे सदास्वप्नाध्यास प्रसंग इत्यत आह । निद्रादीति । पीतोद्रेकादिरादिपदार्थः । दोषोपप्लुतायां वृतावभिव्यक्तं यच्चैतन्यं तत्र विद्यमानाविद्येत्यर्थः । स्वप्नप्रपंचवैविचित्र्यप्रयोजकमाह । नानाविषयेति । जागरणे नानाविधविषयानुभवजनिताः संस्काराः अंतःकरणे तिष्ठंति तैरदृष्टोद्बोधितैः सहिता विद्याविचित्रप्रपंचाकारेण परिणमत इत्यर्थः । इदानीमविद्यायां प्रतिबिंबभूतमनवछिन्न जीवचैतन्यमेवाधिष्ठानमिति मतांतरमाह । अन्ये त्विति । पूर्वमते अनुपपतिमाह । अनवछिन्नचैतन्यमिति । बिंबभूतमितिशेषः अशब्दमूलकेति । शुद्धब्रह्मण इव ईश्वरचैतस्यापि शास्त्रैकराम्यत्वादितिभावः ।। अहंकाराद्यवछिन्नचैतन्य एवाहमाकारवृत्युदय दर्शना तस्मात् स्वतो परोक्षमहंकाराद्यनवछिन्नं चैतन्यं तदधिष्ठानं । अत एव संक्षेप शारीरके । अपरोक्षरूपविषयभ्रमधीरपरोक्षमास्पदमपेक्ष्य भवेत् । मनसा स्वतो नयनतो यदि वा स्वप्नभ्रमादिषु तथा प्रथितेः । इति श्लोकेनापरोक्षाध्यासापेक्षितमधिष्ठानापरोक्ष्यं क्वचिन्मानसवृत्या क्वचिद्बहिरिंद्रियवृत्येत्यभिधाय स्वतो परोक्षाविति । रत्रविभ्रमेस्तथापि रूपाकृतिरत्र जायते । मनो निमित्रं स्वपने मुहुर्मुहुर्विनापि चक्षुर्विषयं स्वमास्पदम् । मनोवगम्येप्यपरोक्षताबलात्तथाम्वटे प्. ५९अ) रूपमुपोलिखन्भ्रमः सितादिभेदैर्वहुधा समीक्ष्यते तथाक्षिगम्ये इजतादि विभ्रम इत्याद्यनंतरश्लोकेन स्वप्नाप्यासे स्वतोधिष्ठानापरोक्ष्यमुदाहृते न चाहकारानवछिन्नचैतन्यमात्रमावृतमिति वृतिमतरेण न तदेभिव्यक्तिरिति वाच्यं ब्रह्मचैतन्यमेवावृतमविद्याप्रतिबिंबजीवचैतन्यमहंकारा- नवछिन्नमप्यनावृतमित्यभ्युपगमात् ।। नन्वऽनवछिन्नेप्यविद्या प्रतिबिंबरूपजीवचैतन्ये शब्दनिरपेक्षाहमाकारवृत्युदयदर्शनात् । ब्रह्मचैतन्येपि तथा किं न स्यादिति नेत्याह । अहंकाराद्यवछिन्नचैतन्य इति । इयं विषय सप्तमी आदिपदं शरीरादि संग्रहार्थं न त्वहंकाराद्यनवछिन्न जीवचैतन्य इत्येव कारार्थः । जीवचैतन्यस्यापि व्यापकत्वं त्वं पदार्थशोधक श्रुति तदनुकूलन्यायगम्य मेवेति दृष्टोता सिद्धिरिति भावः । तस्मादिति बिंबभूतानवछिन्नब्रह्मचैतन्यस्याभिष्ठानत्वासंभवादित्यर्थः । स्वत इति वृतिमंतरेणैवाभिव्यक्तमित्यर्थः । चैतन्यमिति । पूर्वमत इव आंतरमेवेतिशेषः । अत एवेति । स्वतोपरोक्षचैतन्यस्यैव स्वप्नाध्यासाधिष्ठानत्वेन स्वीकारादेवेत्यर्थः । अपरोक्षरूपाविषयस्य शुक्तिरजतादेर्याभ्रमरूपाधीः सा अपरोक्षाधिष्ठानमपेक्ष्य भवति । यद्वा अपरोक्षरूपस्य विषयस्य शुक्तिरजतादिर्या भ्रमरूपाधीः सेत्यर्थः । तच्चाधिष्ठानापरोक्ष्यं केन भवतीत्यत आह । मनसेत्यादिना मनसा स्वतो प्. ५९ब्) वा यदि वा नयनत इति योजना । तत्र प्रमाणमाह । स्वप्नभ्रमादिषु तथा प्रथितेरिति । अन्वयादिना तथा प्रतीतेरित्यर्थः । तथाहि शुक्तीदमंशस्य नयनसंनिकर्षे सति तस्य रजताध्यासापेक्षितमापरोक्ष्यं भवति नान्यथेत्यन्वयव्यतिरेकाभ्यां क्वचिदधिष्ठानापरोक्ष्यं नयनत इति प्रथितेः । तथा गगननैल्याष्वध्यासापेक्षितं गगनावछिन्नचैतन्यरूपाधिष्ठानापरोक्ष्यं मनसा संभवतीति गम्यते । मत्रसेत्यनेन गगनावछिन्नचैतन्यव्यंतिकादि गोचरचाक्षुष वृतिर्विवक्षितानीरूपगगनगोचरचाक्षुष वृतेरसंभवाच्चक्षुरुन्मीलनानंतरमेव नीलं नभ इत्यादि प्रत्यक्षं नान्यथेत्यन्वयव्यतिरेकाभ्यां गगनचैतन्याभिव्यक्तौ चाक्षुषवृतेरुपयोगावगमाच्च तथा च फलबलादन्याकारवृत्याप्यन्यावछिन्नचैतन्याभिव्यक्तिरिष्यत इदं चाद्वैत दीपिकादौ प्रपंचितमिति बोध्यं उदाहृत श्लोकस्य तात्पर्यमाह । इति श्लोकेनेति । अत्रेति । प्रकृते विभ्रमे स्वप्नाध्यासरूपे स्वतोपरोक्ष चैतन्यमधिष्ठानमित्यर्थः । अत एव संक्षेपशारीरके स्वप्नाध्यासे स्वतोधिष्ठानापरोक्ष्यमुदाहृतमिति संबंधः स्वप्नाध्यासाधिष्ठानचैतन्यापरोक्षस्य स्वतः सिद्धत्वमाक्षेप समाध्यनाभ्यां दर्शयति । न चाहंकारानवछिन्नेति । मात्रपदं कार्त्स्नार्थकं तथा च शरीरांतर्गतमपि चैतन्यमावृतमेवेति भावः वृतिमिति वृतिरप्यनवछिन्नगोचराशब्दमतरेण न संभवतीति प्रागुक्तमिति ध्येयं । अनावृतमिति । तदेव स्वप्नाध्यासाधिष्ठानमितिभावः । ननु सर्वगतस्य जीवचैतन्यस्यांनावृतत्वे तस्य घटादिविषयदेशे सदा सत्वेन प्. ६०अ) चाक्षुषादिवृतिमनुपेक्ष्य सदासर्वविषयावभासप्रसंग इति चेन्न सर्वत्र विद्यमानस्यापि तस्यानुपदानतया घटादि विषयैः सह संवेधा भावेन संबंधाभवेन संबंधार्थतया वृत्यपेक्षायाः प्रतिकर्मव्यवस्थाया मुक्तत्वात् ।। एवं चाहंकारानवछिन्नचैतन्येध्यस्यमाने स्वाप्न गजादौ तत्समनियताधिष्ठानगोचरांतःकरणादि वृति कृता भेदाभिव्यक्त्याप्रमातृचैतन्यस्यापीदं पश्यामीति व्यवहार इत्याहः । अपरे तु द्वितीयं पक्षं समर्थयंते । अहंकारावछिन्न चेतन्यमधिष्ठानमित्यहंकारस्य विशेषणभावेनाधिष्ठान कोटिप्रवेशोनोपेयते । किं त्वहंकारोपहितं तत्प्रतिबिंबरूपचेतन्यमात्रमधिष्ठानमित्यतोनाहं गज इत्याद्यनुभवप्रसंग इति एवं शुक्तिरजतमपि शुक्तीदमंशावछिन्न चैदन्यप्रतिबिंबवृतिमदंतःकरणगतेध्यस्यते शुक्तीदसंशावछिन्न बिंबचैतन्ये सर्वसाधारणे तस्याध्यासे सुखादि वदनन्यवेधत्वाभावप्रसंगादिति केचित् ।। ननु विद्याप्रतिबिंबरूपजीवचैतन्ये शरीरांतर्गते विशेषणत्वेनोपाधित्वेन वा अहंकारनिरपेक्षे अनवछिन्नशब्दिते स्वप्नाध्यासोपगमे सति तस्यैव स्वप्नकाले द्रष्टृत्वं स्यात् प्. ६०ब्) न तु प्रमातुः तस्याहंकार तादात्म्यापत्या तदवछिन्नस्य ततोभिन्न त्वात् न चेष्टापतिः स्वप्नकाले अहं श्रीकृष्णं पश्यामीति प्रमातुः स्वप्नपदार्थद्रष्ट्रत्वानुभवविरोधापतेरित्यत आह । एवं चेति । स्वतो परोक्षजीवचैतन्यस्याधिष्ठानत्वै सतीत्यर्थः । तत्समनियतेति । यदा गजादिरध्यस्यते तदैव तदधिष्ठान गोचरांतःकरणवृतिरविद्यावृतिर्वा जायते तथा च स्वाप्नगजाद्यधिष्ठान चैतन्यस्य वृतिद्वारावृतिमदंतःकरणसंबंधेन प्रमातृत्व प्राप्तौ सत्यां प्रमातुस्तद्द्रष्टृत्वं संभवतीत्यर्थः । अभेदाभिव्यक्त्येति । उक्त प्रकारेण प्रमातृविषयचैतन्ययोरभेदाभिव्यक्त्येत्यर्थः । द्वितीयमिति । अवछिन्नचैतन्यस्वप्नाध्यासाधिष्ठानमिति पक्षमिति पक्षमित्यर्थः । अयं गज इति प्रत्यय स्थाने अहं गज इत्यादि प्रत्ययप्रसंगवारणायाहंकारांशस्याधिष्ठानतं नांगीक्रियते चेतर्हि अनवछिन्नस्याधिष्ठानत्वमागतमिति पूर्वमताभेदे प्रसक्तिरिति शंकते । किं त्विति । अंतःकरणे चैतन्यप्रतिबिंबभूतं यज्जीवचैतन्यं तन्मात्रमधिष्ठानमुपेयते तच्च परिछिन्नमेव उपाधेः परिछिन्नत्वादिति परिहरति । अहंकारोपहितमिति । अत इति अहमुल्ले स्वप्रयोजकस्य अहंकारात्मकांतःकरणस्याधिष्ठानकोटावननुप्रवेशादित्यर्थः । अविद्यायां बिंबभूतब्रह्मचैतन्यस्य तस्यां प्रतिबिंबभूत जीवचैतन्यस्य वा स्वप्नप्रपंचाध्यासाधिष्ठानत्वमते तयोः सर्वप्रमातृसाधारणत्वात् । स्वप्नप्रपंचस्यापि साधारण्यं स्यात् । अंतःकरणप्रतिबिंबचैतन्यस्य तदधिष्ठानत्वे प्. ६१अ) तु साधारण्य प्रसंगदोषो नास्तीत्याशयेनास्य द्वितीय पक्षस्य प्रवृतिरिति बोध्यं । नन्वेवं । शुक्तिरजतादेरसाधारण्यं न स्यात् । तदधिष्ठान चैतन्यस्य साधारणोत्वादित्याशंक्यहेत्वसिद्धिमाह । एवमिति । वृतिमदंतःकरण इति । शुक्तिदमंश संसृष्टायां वृतौ शुक्तीदमंशावछिन्नब्रह्मचैतन्यस्य यः प्रतिबिंबः तस्मिन् न ध्यस्यते स च प्रतिबिंबो वृतिगत ऐव तस्य वृतिवृतिमतोरभेदोपचारात् । वृतिमदंतःकरणगतत्वोक्तिरनन्य वेद्यत्वस्फुटीकरणायेति बोध्यं । वृतिगतस्य ब्रह्मप्रतिबिंबस्य शुक्तिरजताधिष्ठानत्वानुपगमे साधारण्यप्रसंगतादवस्थामभिप्रेत्याह । शुक्तीदमंशावछिन्नेति । सुखादेरिव शुक्तिरजतादेर्यदनन्यवेद्यत्वं तस्याभावप्रसंगादित्यर्थः । देवदत्त सुखदुःखरागद्वेषादिक देवदत्तादन्यस्य वेद्यं प्रत्यक्षं न भवतीत्यनन्य वेद्यंतदित्यर्थः ।। केचित् तु बिंबचैतन्य एव तदध्यासमुपेत्य यदीयाज्ञानोपादानकं यत तस्यैव प्रत्यक्षं न जीवांतरस्येत्यनन्य वेद्यत्वमुपपादयंति । ननु शुक्तिरजताथासे चाक्षुषत्वानुभवः साक्षाद्वाधिष्ठान ज्ञानद्वारा तदपेक्षणाद्वासमर्थ्यते स्वाप्नगजादि चाक्षुषत्वानुभवः कथं समर्थनीयः । उच्यते न तावतत्समर्थनाय स्वाप्नदेहवद्विसयवच्चेंद्रियाणामपि प्रातिभासिको विवर्तः प्. ६१ब्) शक्यते वक्तुं प्रातिभासिकस्याज्ञातसत्वाभावात् इंद्रियाणां चातींद्रियाणां सत्वे अज्ञात सत्वस्य वश्य वाच्यत्वात् । नापि व्यावहारिकाणामेवेंद्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्नदेहमाश्रित्य स्वस्वविषयग्राहकत्वं वक्तुं शक्यते । स्वप्नसमये तेषां व्यापारराहित्यरूपोपरति श्रवणात् ।। अधिष्ठान चैतन्यस्य साधारणत्वेपि शुक्तिरजताद्युपादानाज्ञानस्यासाधारण्याच्छक्तिरजतादेर साधारण्यमित्याह । केचित्विति बिंबचैतन्य एवेति वृतिगत प्रतिबिंबं प्रतिबिंबचैतन्य इत्यर्थः । यद्वा अविद्याप्रतिबिंब । प्रतिबिंबभूते ब्रह्मचैतन्ये शुक्तीदमंशावछिन्न इत्यर्थः । न त्वसाधारणे वृति प्रतिबिंब इत्येव कारार्थः । यदीयेति यद्रजतं यत्पुरुर्षाया ज्ञानोपादानकं त व्रजतं तस्यैव पुरुषस्यै प्रत्यक्षं नान्यस्येति कल्पनोपपतेः । न शुक्तिरजतादेः साधारण्य प्रसंग इत्यर्थः । एव स्वप्नप्रपंचाध्यासस्याधिष्ठानं निरूप्य स्वाप्न पदार्थानुभवः किमैंद्रियकः किं वा साक्षिरूप इति संशये निर्णयाषाक्षेपमवतारयति । नन्विति साक्षाद्वेति । इदं च शुक्तिरजतादिरैंद्रियकत्वमिति कविता किंकमतानुसारेणेति बोध्य शुक्तिरजतादेः साक्षिभाष्यत्वमतानुसारेणाह । अधिष्ठानज्ञानद्वारेति धर्मिज्ञानद्वाराचक्षुर प्. ६२अ) पेक्षत्वाच्छुक्तिरजतादेरित्यर्थः । कथमिति स्वाप्नगजादि चाक्षुषत्वानुभवो हि वासना मयैरिंद्रियैर्वा व्यावहारिकेंद्रियैर्वा सूक्ष्मेंद्रियैर्वा आरोपरूपतया वा समर्थनीयतया संभाव्यते तथा च स केन प्रकारेण समर्थनीय इति प्रश्नार्थः । चतुर्थप्रकारेण तत्समर्थनं प्रतिजानीते । उच्यत इति । आद्यं प्रकारत्रयं निराकरोति न तावदित्यादिना । वासना मयैः प्रातिभासिकैः इंद्रयैः चाक्षषत्वानुभवसमर्थनप्रकारं प्रथमं दूषयति स्वाप्नदेहवदिति । स्वाप्नाश्च विषयाः प्रातिभासिकाश्चैतन्यविवर्तरूपा यथाभ्युपगम्यं तेन तथेंद्रियाणां स्वरूपभूतश्चैतन्यविवर्तः प्रातिभासिकोभ्युपगंतुं शक्यते इत्यर्थः । वाच्यत्वादिति । तेषामज्ञात सत्वनियमस्य दर्शनाद् दृष्टानुसारित्वाच्च कल्पनाया इति भावः । द्वितीयं प्रकारं निराकरोति । नापीति । ननु व्यावहारिकैरिंद्रियैः स्वाप्नगजादीनां चाक्षुषत्वानुभवसमर्थन प्रकारस्य उत्थितिरेव नास्ति तेषां जाग्रद्देहस्थत्वेन सुप्तदेहस्थत्वाभावादित्याशंक्याह । स्वस्वेति श्रवणादिति । यपषसुप्तेषु जाग्रतीत्यादि श्रुतिष्विशेषः श्रुतौ सुप्तेष्वित्यनंतरं करणेष्वितिशेषः करणानां स्वायो नाम उपरतिः सा च स्वप्नसमये व्यापार राहित्यरूपैव न तु तेषां स्वरूपोपरतिस्तस्याः सुषुप्तावेव श्रवणादिति बोध्यं ।। व्यावहारिकस्य स्पर्शनेंद्रियस्य स्वोचित व्यावहारिक देशसंपति विधुरेतः शरीरे स्वाधिकपरिमाणकृत्स्न स्वाप्नशरीरव्यापित्वा योगाच्च प्. ६२ब्) तदेक देशाश्रयत्वे च तस्य स्वाप्नजलावगाह न जन्य सर्वागीनशीतस्पर्शानिर्वाहात् । अत एव स्वप्ने जाग्रदिंद्रियाणामुपरतावपि तैजसव्यवहारोपयुक्तानि सूक्ष्मशरीरावयवभूतानि सूक्ष्मेंद्रियाणि संतीतितैः स्वाप्नपदार्थानामैंद्रियकत्वमित्युपपादन शंकापि निरस्ता जाग्रदिंद्रिय व्यतिरिक्त सूक्ष्मेंद्रिया प्रसिद्धेः । किं चात्रायं पुरुषः स्वयं ज्योतिरिति जागरे आदित्यादि ज्योतिर्व्यतिकराच्चक्षुरादि वृतिसंचाराच्च दुर्विवेकमात्मनः स्वयं ज्योतिष्ट्टमिति स्वप्नावस्थामधिकृत्य तत्रात्मनः स्वयं ज्योतिष्ट्टं प्रतिपादयति ।। त्वगिंद्रियमात्रे दोषांतरमाह । व्यावहारिकस्येति । स्वस्य स्पर्शनेंद्रियस्य उचितो यो व्यावहारिक देशः तत्संपति विधुरे शरीरस्यांतः प्रदेशे स्थितं व्यावहारिकत्वगिंद्रियपरिमाणापेक्षया कदाचिदधिकपरिमाणवत्स्वाप्नदेहं कृत्स्नं न व्याप्नुयात् । त्वगिंद्रियमित्यर्थः । व्यावहारिक स्पर्शनेंद्रियस्योचित देशकालसंपति वैधुर्यविशेषणेन तस्य स्वप्न देहप्रवेशायांतः शरीरे गमनमेव न संभवतीति सूचितं । प्. ६३अ) यदि व्यावहारिकस्पर्शनेंद्रियस्य कृत्स्नस्वाप्नदेहव्यापित्वा योगस्तहि स्वाप्नदहैकदेशाश्रयत्वमेवास्त को दोषस्तत्राह । तदेक देशेति । तस्येति । स्पर्शनेंद्रियस्येत्यर्थः । तृतीयं प्रकारं निराकरोति । अत एवेति । व्यावहारिकस्पर्शनैंद्रियस्यैव स्वाधिकपरिमाण कृत्स्न स्वप्नशरीरव्यापित्वायोगे सति तदवयवभूतसूक्ष्मस्पर्शनेंद्रियस्य सुतरां स्वप्नदेहव्यापित्वायोगादेवेत्यर्थः । तैजसः स्वप्नावस्था गतो जीवः सूक्ष्मशरीरशब्देन व्यावहारिकाण्येकादशेंद्रियाण्युच्यंते । स्पर्शनेंद्रियमात्रे दोषमति देशेन दर्शयित्वा साधारणदोषमाह जाग्रदिंद्रियेति । नन्व प्रसिद्धान्यपि स्वप्नकाले पदार्थानां चाक्षुषत्वाद्यनुभवानुरोधेन कल्प्यंत इत्याशंक्यश्रुतिविरोधान्नैवमित्याह । किं चात्रेति । श्रुतावत्रेति पदेन स्वप्नावस्थाग्रहणस्य तात्पर्यमाह । जागर इति । जागरे कार्यकारणसंघातानामासनममनागमनादिलक्षणव्यवहार साधनत्वेनादित्यादि ज्योतींपि व्यवहिषमाणपदार्थैः सहसंकीर्णानिविष्टंति तथा व्यवहारसाधनत्वेनैव चक्षुरादि जन्यावृतयो विषयदेशं प्रतिगछंतीत्यर्थः । व्यतिकरः स्वंपर्कः संसर्ग इति यावत् । जागरे दुर्विवेकमिति संबंधः । दुःखेन षिवेको निर्णयो यस्य तदुर्विवेकमनायासेन निर्णेतुमशक्यमिति यावत् । आत्मनः स्वयं ज्योतिष्टां नाम अन्यानवभास्यत्वे सति स्वव्यतिरिक्त सकलावभासकत्व योग्यत्वं तच्च जागरे गृहीतुमशक्यंतेथा ह्यात्मव्यतिरिक्तस्य सर्वस्यात्ममात्रावभास्यत्वं न वक्तं शक्यते । आदित्यादि ज्योतिषां चक्षुरादि जन्यवृतिज्ञानानां च लोके जगदवभासकत्वेन प्रसिद्धानां प्. ६३ब्) सत्वादात्मनोप्यहमिति ज्ञानप्रकाशत्वेन तस्यान्यानवभास्य त्वस्य वक्तुमशक्यत्वाच्चेति शंकायाः । जागरे परिहर्तुमशक्यत्वे जागरे स्वयं ज्योतिष्टनिर्णयायोगात् । स्वप्नावस्थायां तु जागरणे प्रसिद्धानामादित्यादि ज्योतिषां चक्षुरादिजन्य ज्ञानानां चाभावादात्मचैतन्यमात्रावभास्यं स्वाप्नजगदिति निर्णयः संभवति । तथाहमिति ज्ञानं वृतिरूपमात्मनः प्रकाशकं न भवतीति वक्ष्यते । तथा च अन्यानवभास्यत्वे सति सकलजगदवभासकत्वयोग्यत्व रूपं स्वयं ज्येतिष्ट्वमात्मनः स्वप्नावस्था साक्षित्वेन निर्णेतुं शक्यमित्यर्थः । ननु स्वप्नदशायामेव तस्य स्वयं ज्योतिष्ट्वं न त्ववस्थांतर इति यथा श्रुतार्थ एव श्रुतेस्ता ।। अन्यथा तस्य सर्वदा स्वयं ज्योतिष्ट्टंःत्रेति वैयर्थ्यात् । तत्र यदि स्वप्नेपि चक्षुरादि वृतिसंचारः कल्प्येत तदा तत्रापि जागर इव तस्य स्वयं ज्योतिष्टं दुर्विववेचं स्यादित्युदाहृता श्रुतिः पीड्येत । ननु स्वप्ने चक्षुरायुपरमकल्पनेर्प्यतः । करणमनुपरतमास्त इति परिशेषा सिद्धेर्न स्वयं ज्योतिष्ट्व विवेकः मैवं कर्ता शास्त्रार्थवत्वादित्यधिकरणे न्यायनिर्णयोक्तरीत्यांतःकरणस्य चक्षुरादिकरणांतर निरपेक्षस्य ज्ञानासाधनत्वाद्वा तत्वप्रदीपकोक्तरीत्या प्. ६४अ) स्वप्ने तस्यैव गजाद्याकारेण परिणामेन ज्ञानकर्मतयावस्थित त्वेन तदानीं ज्ञानसाधनत्वायोगात् वा परिशेषोपपतेः । न च स्वर्मेतःकरणवृत्यभावे उत्थितस्य स्वमदृष्टगजाद्यनुसंधानानुपपतिः सुषुप्ति कॢप्तया विद्यावृत्या तदुपपतेः । सुषुप्तौ तदवस्थोपहितमेव स्वरूपचैतन्यमज्ञानसुखादि प्रकाशः उत्थितस्यानुसंधानमुपाधिभूतावस्थाविनाशजन्यसंस्कारेणेति वेदांत कौमुद्यभिमते सुषुप्तावविद्यावृत्यभावपक्षे इहापि स्वाप्नगजादिभासिक चैतन्योपाधिभूत स्वप्नावस्था विनाशजन्य संस्कारादनुसंधानोपपतेश्च ।। त्यर्यं किं न स्यादिति नेत्याह । अन्यथेति । श्रुतेः स्वप्नावस्थामाश्रित्य तत्साक्षित्वेन स्वयंज्योतिष्ट्वमात्मनः । स विवेकमिति तात्पर्याकल्पन इत्यर्थः । सर्वदेति तमेव भातमनुभाति सर्वमित्यादि श्रुति पर्यालोचनया तस्य सर्वदा स्वयंज्योतिष्ट निश्चयादिति भावः । अत्रेतीति । अत्रेति विशेषणस्य व्यावर्तकत्वा संभवेन व्यर्थत्वं स्यादतो न यथा श्रुतार्थे तात्पर्यं किं तूक्तार्थे तात्पर्थेमिति भावः । एवं श्रुति तात्पर्यं निरूप्य स्वप्नकाले चक्षुरादि व्यापार कल्पनं प्. ६४ब्) तद्बाधितमित्याह । तत्रेति । स्वयं ज्योतिष्टं स्वप्नावस्था साक्षित्वेन सुगममित्यत्र श्रुति तात्पर्यं सिद्धे सतीत्यर्थः । ननु स्वप्नजगतोवभासकांतराभावादात्ममात्रभास्यत्वमित्युक्तमयुक्तमिति शंकते । नन्विति । अनुपरतमास्त इतीति तथा च मनस एव स्वाप्नजगदवभासकत्व संभवादवभासकांतराभावरूपपरिशेषा सिद्धिरित्यर्थः । स्वप्नावस्थायां स नमोज्ञोनकरणत्वमसिद्धमतस्तस्य स्वाप्नजगदवभासकत्वासंभवात् परिशेषसिद्धिरिति परिहरति । मैवमिति । आत्मा कर्ता भवतु मर्हति तथा सति कर्ता विज्ञानात्मापुरुष इत्यादि शास्त्रस्यार्थवत्वोपपतेरिति सूत्रार्थः । उक्तरीत्येति । मनस उपादानत्वेन स्वतो ज्ञानकरणत्वं नास्तीत्युक्तरीत्येत्यर्थः । तत्वप्रदीपकोक्तरीत्येति स्वप्ने मनस एव विविध सस्कारविशिष्टस्य स्वप्नप्रपंचाकारेण परिणामित्वं । न त्वविद्यायास्तस्याः संस्काराश्रयत्वाभावेन विचित्रपदार्थपरिणामित्वायोगादित्युक्तरीत्येत्यर्थः । कर्मतयेति । विषयत्वेनैवोपक्षीणस्य विषयित्व रूपप्रकाशकत्वाभावादित्यर्थः । तदानीमित्यनेन अस्त वा जागरणे ज्ञानकारणत्वं तथापि स्वप्ने तन्नोपेयते तस्य विषयत्वेनैवावस्थितत्वादिति सूचित अनुपपतिरिति संस्काराभावादितिभावः । ननु सुषुप्तावपि अविद्यावृतिर्न कल्पनीया सुषुप्त्यादि साक्षि चैतन्यस्यतित्यत्वेपि साक्षि भास्यायाः सुषुप्त्यवस्थायाः विनाशित्वेन विषयभूतसुषुप्त्यवस्थाविशिष्टवेषेण तत्साक्षिणो नाशलक्षणसंस्कारसंभवात् सुषुप्तिसुखादीनामनुसंधानोपपतिरिति चेतर्हि स्वप्न प्. ६५अ) साक्षिणोपि प्रातिभासिकविषयविशिष्टवेषेण नाशलक्षणसंस्कार संभवात् । स्वप्नदृष्टगजाद्यनुसंधानोपपतिरित्याह । सुषुप्ताविति । तत्पदं सुषुप्तिपरं अज्ञानसुखादि प्रकाश इति । अज्ञानाद्यनुभव इत्यर्थः । इहापीति । स्वप्नावस्थायामपि इत्यर्थः । उपाधि भूतेति विषयतया उपाधिभूतेत्यर्थः ।। अथवा तदेतत्सत्वं येन स्वप्नं पश्यतीत्यादि श्रुतेरस्तु स्वप्नेपि कल्पतरूक्तरीत्या स्वाप्नगजादिगोचरांतःकरणवृतिः । न च तावता परिशेषासिद्धिः अंतःकरणस्याहमिति गृह्यमणस्य सर्वात्मना जीवैक्येनाध्यस्ततयालोक दृष्ट्या तस्य तद्यतिरेकाप्रसिद्धेः । परिशेषार्थ चक्षुरादि व्यापाराभावमात्रस्यैवापेक्षितत्वात् । प्रसिद्धदृश्यमात्रं दृगवभासयोग्यमिति निश्चय सत्वेन परिशेषार्थमन्यानपेक्षणात् । तस्मात् स्वप्ने सर्वथापि चक्षुरादि व्यापारासंभवात् स्वाप्न गजादौ चाक्षुषत्वाद्यनुभवो भ्रम एव ननु स्वप्नेपि चक्षुरुन्मीलने गजाद्यनुभवस्तन्निमीलनेनेति जागर इव गजाद्यनुभवस्य चक्षुरुन्मीलिनाद्यनुविधान प्रतीयते इति चेत् चक्षुषारजतं पश्यामीत्यनुभववदयमपि कश्चित् स्वाप्न भ्रमो भविष्यति यत्केवलसाक्षिरूपे प्. ६५ब्) स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधान तदनुविधाधिनीवृतिर्बाध्यस्यते किमिव हि दुर्घटमपि भ्रमं माया न करोति विशेषतो निद्रारूपेण परिणता यस्या माहात्म्यात् स्वप्ने रथः प्रतीतः क्षणेन मनुष्यः प्रतीयते स च क्षणेन मार्जारः स्वप्नद्रष्टश्च न पूर्वापरविरोधानुसंधानं जागर इव स्वप्नेपि गजादिगोचरांतःकरणवृतिरेवोपेयते । अतो न संस्काराभावशंकावकाशः । न च तदंतःकरणवृतिसत्वे परिशेषा सिद्धिरिति वाच्यं परिशेषस्यापि लोकदृष्ट्या उपपतेरिति मतांतरमाह । अथवेति सत्व शब्दितांतःकरणस्य तृतीया श्रुत्यास्वाप्नगजादिगोचरज्ञानकरणत्वं भाति तथा च श्रुतिं प्रामाण्यात् स्वप्ने चक्षुरादिजन्य वृत्यभावेपि मानसवृतिरस्ति । अतो न संस्कारानुपपतिरिति कल्पतरूक्तरीत्येत्यर्थः । तावता इत्यस्य अंतःकरणवृति सद्भावमात्रेणेत्यर्थः । अंतःकरणस्य सर्वात्मना जीवचैतन्यैकेनाध्यस्ततया अहं पश्यामीत्यादिरूपेण द्रष्टतया गृह्यमाणस्य तस्यांतःकरणस्याज्ञ दृष्ट्या तस्माच्चिदात्मनः सकाशाद्भेदा प्रसिद्ध्यापरिशेषार्थं लोकप्रसिद्ध द्रष्ट्टव्यतिरिक्तं करणादि व्यांपाराभावस्यैवापेक्षितत्वा तावता परिशेषा सिद्धिर्न चेत्यर्थः । एतदुक्ते भवति अंतःकरणवृतिलक्षणो व्यापारो वस्तुतःकरण व्यापारोपि प्रतीतितो द्रष्टव्यापारो भवति । अंतःकरणस्य द्रष्टत्वेन गृहीतत्वाल्लोकैरिति स्वयं ज्योतिष्ट्वनिर्णयप्रकारं दर्शयति । प्. ६६अ) प्रसिद्धेति । पूर्वमुच्यत इत्यनेन सूचितां स्वाप्न पदार्थेषु चाक्षुषत्वाद्यनुभवस्य गतिमिदानीं प्रपंचयति तस्मादिति पंचमीं व्याचष्टे । सर्वथति । पूर्वोक्त सर्वप्रकारैरपीत्यर्थः । स्वप्नानुभवस्य साक्षिरूपत्वे चक्षुराद्यनुविधानविरोधमाशंक्य दृष्टांतेन समाधते । स्वप्नेत्यादिना । तदनुविधायिनीति । जागरे चक्षुराद्यनुविधायिनीया प्रसिद्धावृतिः सा स्वप्नसाक्षिण्यध्यस्यत इति यथा श्रुतार्थो न ग्राह्यः अन्यथा ख्याति प्रसंगात् । किंतु तदेतत्सत्वं येन स्वप्नं पश्यतीति श्रुत्यनुसारेण कल्पतरुकारैयां गजादिगोचरमानसवृतिरुपेता तस्यां तदनुविधायित्वं वाप्यस्यत इत्यर्थः । तथा च केवलसाक्षिरूपे स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधायिनी वृतिर्वा तत्राध्यस्यत इति यतच्च भ्रममात्रमित्यर्थः । नन्वै तावान्भमो दुर्घट इत्याशंक्याह । किंमिवहाति दुर्घटमपि भ्रमं माया किमिव न करोतीति संबंधः । किमिव केन दृष्टांतेन न करोति दुर्घटाकरणे मायाया दृष्टांतो नास्तीत्यर्थः । प्रत्युत तस्यास्तत्कारित्वमैंद्रिजालिक मायादौ प्रसिद्धमिति हि शब्दार्थः । वियदादि प्रद्यं च भ्रमहेतुभूता माया दुर्घटमपि प्रपंच भ्रमं व्यवस्थितरूपं घटयति निद्रारूपेण परिणता तु सा ततो विलक्षणमेव भ्रमं कारयतीति मत्वाविशेषत इत्युक्तं । यस्या इति निद्रारूपेण परिणताया इत्यर्थः ।। तस्मादन्वयाद्यनुविधानप्रतीति तौल्येपि जाग्रद्गजाद्यनुभव एव चक्षुरादि जन्यो न स्वाप्न गजाद्यनुभवः दृष्टि सृष्टि वादिनस्तु कल्पितस्याज्ञातसत्वमनुपपन्नमिति कृत्स्नस्य जाग्रत्प्रपंचस्य प्. ६६ब्) दृष्टि समसमयां सृष्टिमुपेत्य घटादि दृष्टेश्चक्षुः सन्निकर्षानुवियान प्रतीतिं दृष्टेः पूर्वे घटाद्यभावेनासंगछमानां स्वप्नवदेवसमर्थयमानाजाग्रद्गजाद्यनुभवोपि न चाक्षुष इत्याहुः । ननु दृष्टि सृष्टिमवलंव्यकृत्स्नस्य जाग्रत्प्रपंचस्य कल्पितत्वोपगमेकस्कल्पको निरुपाधिरात्मावा विद्योपहितो वा नाद्यः । मोक्षेपि साधनांतर निरपेक्षस्य कल्पकस्य सत्वेन प्रपंचानुवृत्या संसाराविशेषप्रसंगात् । न द्वितीयः अविद्याया अपि कल्पनीयत्वेन तत्कल्पनात् प्रागेव कल्पकसिद्धेर्वक्तव्यत्वात् । अत्र केचिदाहुः पूर्व पूर्वकल्पिताविद्योपहित उतरोतराविद्याकल्पकः । अनिंदं प्रथमत्वाच्च कल्पककल्पनाप्रवाहस्य नानवस्थादोषः । न चाविद्याया अनादित्वोपगमाच्छुक्तिरजतवत कल्पितत्वं न युज्यते ।। स्वप्ने चाक्षुषत्वाद्यनुभवस्य गतिनिरूपणमुपसंहरति । तस्मादिति । स्वप्ने चक्षुरादि व्यापारासंभवादित्यर्थः । ये त्वधिकारिणो बहुविधज्ञानकर्मानुष्ठानासादितनिरतिशय परमेश्वरप्रसादमहिम्नानितांत निर्मलीकृतांतःकरणाः प्. ६७अ) संतः जागरेपि स्वप्नाद्विशेषं न पश्यंतिता न ब्रह्मविद्याकामानधिकृत्य प्रवृतां कृत्स्नस्य जगतः प्रबोधस्वापावस्थायोः प्रभव प्रलय प्रतिपदिकां श्रुति मनुसृत्य दृष्टि सृष्टिवादाः पूर्वाचार्यै निरूपितः तं स्वप्न विचारेण बुद्धिमागतं दर्शयति । दृष्टि सृष्टि वादिनस्त्विति दृष्ट्या सह समः समयो यस्याः सा तादृष्टिं कृत्स्नस्या जाग्रत्प्रपंचस्योपेत्येत्यत्र पूर्ववाक्येन हेतुमाह । कल्पितस्येति । स्वाप्नप्रपंचस्येवेत्यर्थः । घटादिदृष्टेर्या अनुविधानप्रतीतिः तामसंगछमानां स्वप्नवदे भ्रममात्ररूपा समर्थयमाना इति संबंधः । असंगछमानत्वे हेतुर्दृष्टेः । पूर्वं घटाद्यभावेनेति । तत्र हेतु दृष्टिसमसमयासृष्टिः न चाक्षुष इति किं तु स्वप्नानुभववदेव केवलसाक्षिरूप इत्यर्थः । कल्पितत्वोपगम इति प्रातिभासिकत्वोपगम इत्यर्थः । कं शब्दसूचितं विकल्पं दर्शयति निरुपाधिरिति निरपेक्षश्चिदात्मैव संसारकल्पक इति प्रथमकल्पं दूषयति । मोक्षेपीति अनुवृत्येति । अनुवृत्यापत्येत्यर्थः । अविद्याया अपीति । तस्या अपि कादाचित्कत्वाभ्युपगमे अ अविद्यासृष्टेः पूर्वमेवाविद्योपहितस्य चिदात्मनो विद्यादिकल्पकस्य वक्तयत्वातदभावादविधादि सृष्टिं न संभवति । तथा च सदासंसारानुपलंभ प्रसंग इति भावः । नन्वेवमपि प्रथमाविद्यायाः कः कल्पकः तत्राह अनिदमिति । इदं प्रथमत्वाभावात् प्रथमाविद्यैव काचिन्नास्ति अतो न चोद्या च काश इति भावः । तर्ह्य नवस्थेत्योशंक्यसान दोषाया विद्योपहितात्मनः प्रपंच कल्पकत्वेनश्चति प्. ६७ब्) सिद्धस्य पूर्वपूर्व अविद्यां विना तत्कल्पकत्वनिर्वाहाभावादित्याशयेवाह । नानवस्थादोष इति । ननु जीव ईशो विशुद्धावित् तथा जीवेशयोर्भिदा अविद्यातच्चितोर्योगः षडस्माकमनादय इति सिद्धांतविरुद्धमविद्यायाः प्रवाहानादित्व कल्पनं तस्याः स्वरूपानादित्वस्यैव सिद्धांतसंग्रहश्लोके चैतन्यवत् प्रतीतेरिति शंकते । न चेति ।। अन्यथा साषनादि विभागानुपपतेरिति वाच्यं । यथा स्वप्ने कल्पमानं गोपुरादि किंचित् पूर्वसिधत्वेन कल्पते । किं वितदामीमुत्पाद्यत्वेन एवं जागरेपि किंचित्कल्प्यमानं सादित्वेन कल्पते । किंचिदन्यथेत्येतावता साद्यनादि विभागोपपतेः । एतेन कारणविभागोपि व्याख्यात इति अन्ये तु वस्तुतो नाद्येवा विद्यादि तत्र दृष्टिसृष्टिर्नोपेयते । किंतु ततोन्यत्र प्रपंचमात्र इत्याहु । नन्वेवमपि श्रुतिमात्र प्रतीतस्य वियदादि सर्गतत् क्रमादेः कः कल्पकः न कोपि किमालंवना तर्ह्यात्मन आकाशः संभूत इत्यादि श्रुतिः निष्प्रपंच ब्रह्मात्मैक्यावलंवनेत्यवे हि ।। सिद्धांतमुल्लंघ्यप्रवृतावपि दोषमाह । अन्यथेति । अविद्यादीनां प्. ६८अ) स्वरूपानादित्वानुपगम इत्यर्थः । अनुपपतेरिति । उक्तविभागस्य लोकशास्त्रसिद्धत्वादिति भावः । श्रुत्यैकसमधिगम्य विशुद्ध चैतन्य व्यतिरिक्तमात्रे दृष्टिसृष्टिमुपेत्यैव साद्यनादि विभागबोधक लौकिक वैदिक प्रमाणां सिद्धांत प्रवादस्य चावलंबनत्वेन भ्रमविशेषं सदृष्टांतमाह । यथोत्पादिना । किंचिदन्यथेति । किंचिद विद्यादिकमन्यथा नादित्वेन कल्पाते पूर्वपूर्वाविद्योपहितेनात्मनेत्यर्थः । एतावता कल्पनामात्रेणेत्यर्थः । ननु प्रत्यक्षे विषयस्य कारणतया घटादि दृष्टेः पूर्वमज्ञातो घटादिर्वाच्यः । अन्यथा कार्यकारणविभागोमस्या तथा अविद्योपहितस्य चिदात्मन एकस्यैव स्वस्मिन् संसारकल्पकत्वे संसारवतो जीवस्यैकत्वेन गुरुशिष्यविभागो देव तिर्यऽऽन्मनुष्यादि विभागश्च न स्यादित्यत आह । एतेनेति । साद्यनादिविभागोपपति कथनेनेत्यर्थः । व्याख्यात इति वस्तुतः प्रत्यक्षे विषयस्याकारणत्वेपि सः तत्कारणत्वेन कल्पते । तथा अन्यदपि स्वप्न वदेव सर्वमूह्यमित्यर्थः । कल्पकस्याविद्योपहितस्यानंत्य परिहाराय साद्यनादिविभागांजस्याव च दृष्टिसृष्टेः संकोचमाह । अन्ये त्विति । वस्तुत इति स्वरूपत इत्यर्थः । तर्हि दृष्टिसृष्टिः कुत्रापि नोपेयामानाभावादिति शंकते किं त्विति स्वापप्रबोधयोः कार्यप्रपंच मात्रस्य प्रलयप्रभव प्रतिपादक बहुश्रुतिसिद्धत्वान्नैवमिति परिहरति । ततोन्यत्रेति । अविद्यादेः सकाशादितिशेषः मात्रपदं कृत्स्नार्थकं । ननु दृष्टिसमय एव प्रपंच सृष्टिरिति मतेपि प्. ६८ब्) दृष्टिशब्देन प्रत्यक्षप्रतीतिरेव विवक्षिता न परोक्ष प्रतीतिः । अपरोक्ष प्रतीतिरेव विषया विना भूतत्वेन प्रातिभासिक विषय साधकत्वात् । परोक्ष प्रतितेश्चा तथा त्वात् तथा स्थिते सति बाधकमाशंकते । नन्वेवमपीति । अविद्योपहितस्यात्मनः प्रत्यक्षवस्तुकल्पकत्वेपीत्यर्थः । यदि वियदादिसर्गः श्रुत्याप्रत्यक्षेण च प्रतीतो भवे तदा प्रत्यक्ष वलाद्घटादेरिव तस्यापि प्रातिभासिकत्वस्य सिद्धिः संभवेन्नत्वे तदस्तीत्याशयेन मात्रं पदं दतं वायादिसंग्रहार्थं प्रथममादिपदं वियदादि प्रलय तत्क्रमसंग्राहार्थं द्वितीयादपदंक इति । कल्पको न संभवत्येवेत्यर्थः । कल्पकाभावे इष्टापतिमाह दृष्टिसृष्टि वादीन कोपीति । तर्हि सृष्ट्यादि श्रुतिप्रतिपाद्यस्य वियदादि सृष्टि तत्क्रमादेः शशशृंगायमानतया श्रुतेरालंबनाभावादप्रामाण्यां स्यादिति शंकते । किमिति । तात्पर्यविषयीभूतार्थस्य सत्वान्नाप्रामाण्यापतिरिति परिहरति निश्चयं चेति ।। अध्यारोपापवादाभ्यां निष्प्रपंचब्रह्मप्रतिपतिर्भवतीति तत्प्रतिपत्युपायतया श्रुतिषु सृष्टिप्रलयोपन्यासो न तात्पर्येणेति भाष्याद्युद्घोषः व्यर्थस्तर्हि तात्पर्याभावे वियत्प्राणपादयोर्वियदादि सर्ग तत्क्रमादि विषयश्रुतीनां परस्परविरोधपरिहाराय यत्नः न व्यर्थः न्यायव्युत्पत्यर्थमभ्युपेत्यतात्पर्यं प्. ६९अ) तत्प्रवृतेः । उक्तं हि शास्त्रदर्पणे श्रुतीनां सृष्टि तात्पर्यं स्वीकृत्येदमिहेरितं ब्रह्मात्मैक्य परत्वात्ततासां तत्रैव विद्यत इति । ज्योतिष्टोमादिश्रुतिं बोधितानुष्ठानात्फलसिद्धिः ।। ननु सृष्ट्यादिवाक्यानां शुतार्थपरित्यामेनाश्रुतार्थे तात्पर्यकल्पनमयुक्तं किंतु श्रुत्यनुसारेण विपदादि सर्गस्य तत्कल्पकस्य च कल्पनमेव युक्तमित्यत आह । अध्यारोपेति । यथालोके गगनतत्वबोधनापप्रवृतः कश्चित् प्रथमं नैल्यवैशाल्याद्यध्यारोपौपेतं गगनं ग्राहयित्वा पश्चात् नेदं वस्तुतो नैल्यादि युक्तमिति तदपे वादेन नीरूपं व्यापकमुदासीनं गगनतत्वमिति बोधयति । तथा वेदांता अपि प्रथमं पद्विपदादि सर्गप्रलयादिकारणं सृष्ट्यादि वाक्यैः प्रतीयते तद्ब्रह्मेत्यच्यारोपितसर्गादि युक्ततया ब्रह्मग्राहियित्वा पश्चात् । निषेधवाक्यैरध्यारोपित सर्गाद्यपवादेन निश्रपंच ब्रह्मात्मैक्यं प्रतिपादयंति । तथा च सृष्ट्यादि वाक्यानां निषेधवाक्यापेक्षितनिषेध्य समर्प्यकतया तदेक वाक्यतापन्नानां निश्रपंच ब्रह्मप्रतिप्रयोजनकत्वमेव न तु स्वार्थ सृष्ट्यादि प्रतिपादनमात्रेणचारितार्थ्यमर्थवादादीनामिव तेषां स्वार्थप्रतिपादने फलाभावान्निष्फलेर्थे वेद तात्पर्या योगादतो युक्तमेव स्वार्थत्यागेन निष्प्रपंच ब्रह्मात्मैक्ये तात्पर्य कल्पनं तहानस्य मुक्तिफलकतायाः श्रुतिसिद्धत्वादेवं च प्रथममध्यारोपेण स प्रपंच प्. ६९ब्) ब्रह्मप्रतिपतिर्भवति पश्चात्प्रपंचापवादेन तस्यैव ब्रह्मणो निष्प्रपंचत्व प्रतिपतिर्भवति पूर्वप्रतिपतिश्चोतरप्रतिपतेः शेष एव न स्वतंत्रेति निष्कर्षः प्रपंचस्तु भाष्यादिष्वेव द्रव्य इत्यर्थः । शंकते । व्यर्थ इति । तर्हीत्यस्य व्याख्या तात्पर्याभाव इति वियदादि सर्ग तत्क्रमादावितिशेषः । यत्नोव्यर्थः सूत्रकारभाष्यकारयोरितिशेषः तात्पर्याविषये विद्यमानस्यापि श्रुतिविरोधस्या किंचितेत्करत्वादिति भावः । परिहरति । न व्यर्थ इति । न्यायेति । वियत्प्राणपादद्वयगताधिकरणेषु निरूपिताये सिद्धांत न्यायाः तेषां बोधार्थमित्यर्थः । तेषां न्यायानां सृष्ट्यादि वाक्यार्थाविरोधनिर्णयायानपेक्षितानामपि श्रुति तात्पर्य विषये क्वचिदेवं विरोध प्रसक्तौ तत्समाधानाय उपयोगस्तेषां भविष्यतीत्याशयेन प्रवृतः सूत्रकारादि यत्नोर्थ वा नित्यर्थः । तत्प्रवृतेरिति । वियत्प्राण पादयोः प्रवृतेरित्यर्थः । सृष्ट्यादि श्रुतीनां स्वार्थे तात्पर्यमभ्युपेत्यैव वियत्पादादि प्रवृतिरित्यत्रकल्पतरुकारसंमतिमाह । उक्तं हीति इदमिति । विरोधसमाधानमित्यर्थः । इहेति । वियत्प्राणपादयोरित्यर्थः । तु शब्दोवधारणे तासां सृष्ट्यादि श्रुतीनां ब्रह्मात्मैक्य परत्वादेव तत् तात्पर्यं नास्त्येव तासां स्वार्थेपि तात्पर्ये वाक्य भेदप्रसंगात् । स्वार्थे फलाभावाच्चेत्यर्थः । एवं दृष्टि सृष्टि वादे सृष्ट्यादि श्रुतीनां निरालंबनत्वं परिहृत्य कर्मोपासनावाक्यानामपि निरालंबनत्वं परिहरति । ज्योतिष्टोमेत्यादिना ज्योतिष्टोमादि श्रुत्या प्. ७०अ) स्वर्गादिसाधनत्वेन बोधितस्य यागादेरनुष्ठानात् स्वर्गादिफलसिद्धिरित्यर्थः ।। स्वाप्नश्रुतिबोधितानुष्ठानप्रयुक्तफलसंवादतुल्या ज्योतिष्टोमादि श्रुतीनां च सत्व शुद्धिद्वाराब्रह्मणि तात्पर्यान्नाप्रामाण्यमित्यादि दृष्टिसृष्टिव्युत्पादनप्रक्रिया प्रपंचस्त्वाकरे एव द्रष्टव्यः अयमेको दृष्टिसमसमयाविश्वसृष्टिरिति दृष्टिसृष्टि वादः अन्यस्तदृष्टिरेव विश्वसृष्टिः दृश्यस्य दृष्टिभेदे प्रमाणभावात् । ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः अर्थस्वरूपं ध्वाम्यंतः पश्यंत्यन्ये कुदृष्टय इति स्मृतेश्चेति सिद्धांतमुक्तावल्यदि दर्शितो दृष्टिसृष्टिवादः द्विविधेपि दृष्टिसृष्टिवादे मनः प्रत्ययमलभमानाः केचिदाचार्याः सृष्टिदृष्टिवादं रोचपंते ।। स्वामेति स्व मे हि कश्चित् कदाचिज्ज्योतिष्टोमादिश्रुतिं कल्पयित्वा ततः साधनविशेषमुपलभ्यतदनुष्ठानात्फलं लभते । तत्तुल्यं जागरणेपि स्वर्गादिफललभनमित्यर्थः । वस्तुतस्तु श्रुतिमात्रप्रतीतवियदादिसर्गतत्क्रमादेरिव श्रुतिमात्रप्रतीतस्वर्गादिफलस्याप्यसत्वमैवाभिप्रेतं प्. ७०ब्) कल्पकाभावस्य तुल्यत्वादिति बोध्यं । तर्हि तासामप्रमाण्यं स्यादिति नेत्याह । ज्योतिष्टोमादि श्रुतिनां चेति । कर्मवाक्यैरुपासनावाक्यैश्च विहितानि कर्मोपासनान्यनुतिष्ठतः । सत्वशुद्धिर्भवति शुद्धसत्वस्य चाधिकारिणो वेदांतशास्त्रं ब्रह्मप्रमिति जनयति तथा च कर्मोपासनाकांडयोरधिकारिसंपादनद्वारा ब्रह्मप्रसिति शेषत्वातयोस्तत्रैव तात्पर्यं न स्वार्थं स्वर्गसाधनत्वादावितिना प्रामाण्यप्रसंग इति भावः । न च वेदांतानां अशेषतो ब्रह्मप्रतिपतिपरत्वे नास्ति मानमिति वाच्यं । सर्वे वैक्ष्य यत्पदमामनंतितमेतं वेदानुवचनेन ब्राह्मणाविविदिषंतीत्यादिश्रुति सहस्रस्य तत्र मानत्वादित्यादिकमभिप्रेत्याह । इत्यादि दृष्टिसृष्टिव्युत्पादनप्रक्रियाप्रपंचस्त्विति अयमेको दृष्टिसृष्टित्वाद इति संबंदः अन्यस्तु सिद्धां तु मुक्तावल्यादि दर्शितः दृष्टिसृष्टिवाद इति संबंधः द्वितीयं नीरूपयति दृष्टेरेवेति । दृष्टिर्दर्शनं स्वप्रकाशज्ञानस्वरूपमित्यर्थः । एतदुक्तं भवति । दृश्यप्रपंच तादात्म्यापन्नं ज्ञानस्वरूपमेव प्रपंचस्याद्यक्षणावछिन्नं स तस्य सृष्टिरित्युच्यत इति । ननु दृग्दृश्ययोर्भिन्नयोरभिन्नसताकत्वरूपं तादात्म्यमसिद्धमित्याशंक्याह । दृश्यस्येति । दृष्टिर्ज्ञानं तस्माद्भेदे भिन्नसत्वाकत्वे इत्यर्थः । अन्यथा सन् घट इत्यादि रूपेण सद्रूपस्य ज्ञानस्य घटादेश्च प्. ७१अ) सामानाधिकरण्य प्रत्ययो न स्यादितिभावः । स्मृतावे तदिति प्रत्यक्षसिद्धसित्यर्थः । अर्थ स्वरूपमिति । अर्थपदं स्वतंत्रपरं कुदृष्टय इति । कुतर्क दूषित ज्ञाना इत्यर्थः । तथा चैतज्जगदन्ये कुदृष्टयो भ्रांताः ज्ञानस्वरूपसता पेक्षयाभिन्नसनाकं पश्यंतीत्युतरार्धेन भेददृष्ट्यपवादाच्च तयोरभेदसताकत्वसिद्धेरित्यर्थः । स्मृतेश्चेति । चकाराच्छ्रुतेश्चेत्यर्थः चिद्वीदं सर्वमित्यादि श्रुतिरुदाहर्तव्यामनः प्रत्ययो मानसो विश्वासः प्रामाणिकत्व निश्चयः तमलभमाना इत्यर्थः । तदलाभे च हेतुः । जाग्रत्प्रपंचस्यापि प्रातिभासिकत्वाभ्युपगमो वियदादि सर्गाद्यपलापः कर्मोपासनाकांडार्थानुष्ठानाधीन स्वर्गलोकब्रह्मलोकाद्यपलायो जाग्रति चक्षुराद्यनुविधान प्रतीतेर्भ्रमत्वं इत्यादिरिति द्रष्टव्यं ।। श्रुति दर्शितेन क्रमेण परमेश्वर सृष्टमज्ञातसतायुक्तमेव विश्वं ततद्विषयप्रमाणावतरणे तस्य तस्य दृष्टि सिद्धिरिति । न चैवं प्रपंचस्य कल्पितत्वाभावे श्रुत्यादि प्रतिपन्न सृष्टिप्रलयादिमतः प्रत्यक्षादि प्रतिपन्नार्थक्रियाकारिणश्च तस्य सत्यत्वमेवाभ्युपगतं स्यादिति वाच्यं शुक्तिरजतादिवत्संप्रयोगसंस्कारदोषरूपेणाधिष्ठान ज्ञानसंस्कारदोषरूपेण प्. ७१ब्) वा कारणत्रयेणाजन्यतया कल्पना समसमयत्वाभावेपि ज्ञानेक निवर्त्यत्वरूपस्य सदसद्विलक्षणत्वरूपस्य प्रतिपन्नोपाधिगत त्रैकालिकप्रतिषेध प्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात् । सत्यत्वपक्षे प्रपंचे उक्तरूपमिथ्यात्वाभावेन ततो भेदात् । सृष्टिदृष्टि पदं व्याचष्टे । श्रुति दर्शिते नेत्यादिना । अय सिद्धांतं शंकते । न चैवमिति । उक्तरीत्याप्रामाणिकत्वे प्रपंचस्य स्वीकृते सतीत्यर्थः । कल्पितत्वाभावे सत्वमेवाभ्युपगतं स्यादिति संबंधः । प्रपंचः सत्यः श्रुतिसिद्धत्वात् । ब्रह्मवत् । न च तस्य प्रत्यक्ष सिद्धस्य श्रुति सिद्धत्वमसिद्धमिति वाच्यं । तस्य स्वरूपेण प्रत्यक्ष सिधत्वे सृष्टिप्रलयादिविशिष्टतया श्रुतिस्मृत्यादि सिद्धत्वात् । तथा प्रपंचः सत्यः अर्थक्रियाकारित्वात् । सृष्ट्याद्यर्थ क्रियाकारिब्रह्मवत् । न च हैत्वसिद्धिः पृथिवीजलादौ तस्य प्रत्यक्षादि सिद्धत्वादितिभावः । प्रपंचस्य ब्रह्मवत्परमार्थसत्यत्वे हेतुद्वयमप्रयोजकमतोनापसिद्धांतापतिरित्याशयेन परिहरति शुक्ति रजतादि वदिति । वियदादि प्रपंचे शुक्तिरजतादाविवकल्पनासमसमयत्वस्य दृष्टिसृष्टिवाद्यभिमतस्याभावेपि पारमार्थिक सत्यत्वविरुद्धस्य मिथ्यात्वस्याभ्युपगमादिति संबंधः वियदादि प्. ७२अ) प्रपंचे कल्पना समसमयत्वाभावे कारणत्रयाजन्यत्वं हेतुः संप्रयोगस्य स्वप्नभमव्यापित्वाभावात् । संप्रयोगस्थाने अधिष्ठानसामान्यज्ञानं निक्षिपति । अधिष्ठान ज्ञानेति । मिथ्यात्वनिर्वचनं त्रेधा दर्शयति । क्षानैकेत्यादिना । अधिष्ठान तत्वज्ञानमात्रनिवर्त्यत्व रूपस्येत्यर्थः । सद्विलक्षणत्वमात्रं असत्पति व्याप्तं । असद्विलक्षणत्वमात्रं सति ब्रह्मण्यति व्याप्तं अत उभयो पादानं प्रपंचस्य तूभयविलक्षणत्वं प्रमाणसिद्धमितिभावः । प्रतिपन्नेति । ब्रह्मणि प्रतिपन्नस्य प्रतीतस्य आरोपितस्यैति यावत् । ब्रह्मोपाधिरधिष्ठानं तत्र ब्रह्मणि तस्य त्रैकालिको निषेधः श्रुतिगम्योत्यंताभावोस्ति तत्प्रतिशेगित्वं तस्याक्षतमितिभावः । तत्राद्यस्तक्षणेपि घटादिकं नाशयामीत्यादि ज्ञाननिवर्त्यत्व सत्वादेक पदं दतं ज्ञानमात्रनिवर्त्यस्य च सत्यत्व वादिभिरनंगीकारात् । न सत्यत्व पक्षाविशेषः । तथा प्रपंचे परैः सद्रूपत्वांगीकारेण सद्विलक्षणत्वानंगीकारात् । द्वितीयलक्षणेपि न सत्यत्वपक्षाविशेषः । प्रपंचस्य तदुपादाने ब्रह्मणि सिद्धांत इव घटाद्युपादान वस्तुनि घटादेस्त्रैकालिक निषेधस्य परैरनंगीकारात् । न तृतीये लक्षणेपि परमताविशेष इत्याशयेनाह । सत्यत्वपक्ष इति । नन्वेवमहंकार तद्धर्माणामप्युक्तरूपमिथ्यात्वं वियदादिवत्कल्पितत्वाभावेपि सिध्यतीति प्. ७२ब्) भाष्यटीकाविवरणेषु तदध्यासे कारणत्रितय संपादनादिश्रयो व्यर्थ इति चेत् । अहंकारादीनामपि केवलसाक्षिवेद्यतया शुक्तिरजतवत् प्रातिभासिकत्वमभिमतमिति चित्सुखाचार्याः अभ्युपेत्यवादमात्रे तदद्वितीयाधिष्ठान ब्रह्मात्मप्रमाणस्य चैतन्यस्येत्यादि तत्रत्यकारणत्रितयसंपादनग्रंथस्य चैतन्यस्य प्रमाकरणत्वे वेदांतकरणत्वादिकल्पनार्भगप्रसंगेन प्रौढिवादत्वस्य स्फुटत्वादिति रामाद्वयाचार्ययाः । ननु दृष्टिसृष्टिवादे सृष्टिदृष्टिवादे च मिथ्यात्व संप्रतिपतेः । कथं मिथ्याभूतस्यार्थक्रियाकारित्वं स्वप्नवदिति ब्रूमः । ननु स्वाप्नजलादि साध्यावगाहनादि रूपार्थक्रिया असत्यैव किंतु जाग्रज्जलादिसाध्यासा सत्या ।। दृष्टिसृष्टिवाद्येव शंकते । नन्वेवमिति । ज्ञानैकनिवर्त्यत्वादेः मिथ्यात्वस्वरूपत्वे सतीत्यर्थः । अहंकारतद्धर्माणामपि उक्तरूपमिथ्यात्वं वियदादिवत्सिध्यतीति संबंधः । कल्पितत्वाभावेपीति । प्रातिभासिकत्वाभावेपीत्यर्थः । तत्पदमहंकारादिपरं चिदात्मनोधिष्ठानत्वादि समर्थनमादि पदार्थः । अभिमतमिति । प्. ७३अ) भाष्यकारादीनामितिशेषः । तथा च तत्संपादनादि यत्नः । सफल इति भावः । अहंकारतद्धर्माणां केवलसाक्षिवेद्यत्वेपि शुक्तिरजतादिवत् । प्रातिभासिकत्वं वक्तुमयुक्तं व्यवहारकाले बाधानुपलंभादतो वस्तुगत्या तेषां प्रातिभासिकत्वाभावेपि तदत्युपेत्यकारणत्रयसंपादनादि यत्नः तैः कृत इति परिहारांतरमाह । अभ्युपेत्येति । तद्भाष्यादि प्रातिभासिकत्वमभ्युपेत्यवचनमेव न वस्तुगतिमनुरुध्येत्यर्थः । अद्वितीयाधिष्ठान ब्रह्मात्मनि प्रमाणं चैतन्यमिति प्रतिपादयतिष्ठीकाविवरणादि गतस्य ग्रंथस्य प्रौद्धिवादत्व स्पष्टत्वादिति संबंधः । प्रौढि वादत्वे उपपतिमाह । चैतन्यस्य प्रमाकरणत्व इति । ब्रह्मप्रमाकरणत्व इत्यर्थः । औपनिषदत्व श्रुत्यनुसारैणवेदांतानामेव ब्रह्मप्रमाकरणत्व कल्पनेत्यर्थः । वेदांतजन्यब्रह्मप्रमायाः अपरोक्षत्वकल्पनमादिपदार्थः प्रपंचस्य परमार्थत्वे पूर्वमर्थकिर्याकारित्वमप्रयोजकमिति सूचितं तदयुक्तं मिथ्याभूतस्य शुक्तिरूप्यादेः कदकाद्यर्थ क्रियाकारित्वा दर्शनादिति मत्वाशंकते । नन्विति । अर्थक्रियाकारित्वं सत्यत्व व्यभिचारीति परिहरति स्वप्नवदिति । स्वाप्नजलादाववगाहनादिरूपार्थक्रियाकारित्वमस्ति तत्र सत्यत्वं नास्तीति व्यभिचार इत्यर्थः । नन्वर्थ । क्रियाकारित्वमात्रं न हेतुः । किंतु सत्यार्थक्रियाकारित्वं तच्च स्वाप्नजलादौ नास्तीति न व्यभिचार इति प्. ७३ब्) शंकते । नन्विति असत्येव न तु सतीत्यर्थः । असत्यैवेति पाठे असत्या न तु सत्येत्यर्थः । तर्हि प्रपंचः सत्यः सत्यार्थक्रियाकारित्वादित्यत्र हेतुत्वसिद्धिमाह सिद्धांती । किंत्विति । जाग्रज्जलादि साध्यासार्थक्रियासत्या किमिति संबंधः तु शब्दोवधारणे किं शब्दः आक्षेपार्थः सासत्या न भवत्येवेत्यर्थः । अतो हेत्वसंप्रतिपति परिहारायार्थ क्रियाकारित्वमात्रं सत्यत्व प्रयोजकं वाच्यं तच्च स्वाप्नजलादावस्त्येवेति व्यभिचारतादवस्थामितिभावः ।। अविशिष्टमुभयन्नापि स्वसमानसताकार्थक्रियाकारित्वमिति केचित् । अद्वैतविद्याचार्यास्त्वाहुः । स्वाप्नपदार्थानां न केवलं प्रबोधबाध्यार्थक्रियामात्रकारित्वं स्वाप्नांगना भुजंगमादीनां तदबाध्यसुखभयादि जनकत्वस्योपि दर्शनात् । स्वाप्नविषयजन्यस्यापि हि सुखभयादेः प्रबोधानंतरं न बाधोनुभूयते । प्रत्युत प्रबोधानंतरमपि मनः प्रसाद शरीरकं पादिनामह तदनुवृतिदर्शनात्प्रागपि सत्वमेवावसीयते । अत एव प्राणिनां पुनरपि सुखजनकविषयगोचर स्वप्ने वांछा अतादृशे स्वप्ने च प्रद्वेषः संभवति च स्वप्ने ज्ञानवंदतःकरणवृतिरूपस्य सुखभयादेरुदयः ।। प्. ७४अ) ननु स्वाप्नजलादौ सत्यार्थक्रियाकारित्वाभावेपि स्वसमानसताकार्य क्रियाकारित्वमस्त्येव तर्हि जाग्रत्प्रपंचस्यापि तदस्तनैतावता त्वदभिमतपरमार्थ सत्यत्वं सिध्यतीत्याशयेन परिहरति । अविशिष्टमिति । उभयत्रापीति । जाग्रत्स्वप्नावस्था द्वयेपीत्यर्थः । स्वपदं अर्थक्रिया हेतुभूतवस्तुपरं स्वप्न वदिति बूम इति समाधाने स्वप्नेवदर्थक्रियासत्या न भवति जागरे तु सा सत्येति वैषम्यशंकायां प्रतिवंद्या केषांचित् सामाधानं दर्शितं । इदानीं स्वप्नादि पदार्थानामपि सत्यार्थक्रियाकारित्व दर्शनान्न दृष्टांत वैषम्यमिति परिहारांतरमाह । अद्वैतेति । प्रबोधबाध्या अर्थक्रियाप्रातिभासिकी प्रबोधा बाध्यार्थ क्रियास्वप्नकालीनापि व्यावहारिकसत्यैवेति विभागस्तथा च स्वाप्नपदार्थानां प्रातिभासिकार्थक्रियाकारित्वमात्रं केवलं न भवति किंतु व्यावहारिकार्थ क्रियाकारित्वमप्यस्ति स्वप्नांगनादीनारव्यावहारिकार्थ क्रियाकारित्वं कैमुतिकन्याय सिधमिति मिथ्यात्वपक्षेनार्थक्रियाकारित्वानुपपतिरितिभावः । ननु स्वाप्नभुजंग मांगनादिरूपविषयाणां प्रबोधबाध्यत्वदर्शनात् । तत्कार्यभयसुखादीनां कथं प्रबोधा बाध्यत्वमित्याशंक्याह । स्वाप्नविषयेति । न प्रबोधाबाध्यसुख जनकत्वस्य स्वप्नभुजंगादीनां प्रबोधाबाध्यभयाकपादिजनकत्वस्य च दर्शनादेवं च प्. ७४ब्) व्यावहारिक जाग्रत्पदार्थानां त्रुटत् हि प्रबोधानंतरं स्वप्नकाले सुखभयादिकं समनाभूदिति सुखभयादेर्बाधो अनुभूयते इत्यर्थः । प्रत्युतेति वर्तमानसुखानुभवकार्यं मनः प्रसादः वर्तमानभय दुःखानुभवकार्यं गात्रकंपादिः ततश्च प्रबोधानंतरमनुवर्तमानत्वे गमकं मनः प्रसादत्वादि तथा च तदनंतरमनुवर्तमानस्य भयादेः । सत्यत्वात् । प्रबोधात्प्रागपि तस्य सत्यत्वं निश्रीयत इत्यर्थः । स्वप्नकालीनमपि सुखभयादिकं जाग्रत्सुखदिवत् व्यावहारिक सत्यमेव न प्रातिभासिकं प्रबोधानंतरं बाधाभावात् तदनंतरमप्यनुवर्तमानत्वाच्चेति निष्कर्षः स्वाप्नसुखभयादेः सत्यत्वे गमकांतरमाह । अत एवेति स्वाप्नभयादेरप्रातिभासिकत्वादेवेत्यर्थः । रागद्वेषयोः सत्यसुखदुःखगोचरत्वनियमादितिभावः । ननु स्वप्ने सर्वस्य वासनामात्रत्वात् । कथं सत्यस्य भयादेः संभव इत्यत आह । संभवति चेति । तदेतत्सत्वं येन स्वप्नं पश्यतीति श्रुत्यनुसारेण कल्पतरुकारैर्मानसवृतिरूपज्ञानस्य स्वीकारात् । तद्वदंतःकरणपरिणामरूपभयादेर्व्यावहारिकस्य संभवः तदतिरिक्तपदार्थानामेव वासनापरिणामत्वेन प्रातिभासिकत्वाभ्युपगमादिति भावः ।। प्. ७५अ) न च स्वप्नांगनादि ज्ञानमेव सुखादिजनकं तच्च सदेवेति वाच्यं । तस्यापि दर्शनस्पर्शनादि वृतिरूपस्य स्वप्नप्रपंचसाक्षिण्यध्यस्तस्य कल्पनामात्र सिद्धत्वात् । न ह्युपरतेंद्रियस्य चक्षुरादि वृतयः सत्याभवंति । न च तद्विषयापरोक्ष्यमात्रं सुखजनकं तच्च साक्षिरूपं स देवेति वाच्यं । दर्शेनात् स्पर्शनेकामिन्याः पदास्पर्शनात् पाणिनास्पर्शने भुजंगस्या मर्मस्थले स्पर्शनात्मर्मस्थले स्पर्शने च सुखविशेषस्य भयविशेषस्य चानुभवसिद्धत्वेन स्वप्नेपि ततत्सुखभयादिविशेषस्य कल्पित दर्शनस्पर्शनादि विशेषजन्यत्वस्य वक्तव्यत्वादिति । तथा जागरे घटादि प्रकाशनक्षम तत्रत्यपुरुषांतरनिरीक्ष्यमाणालोकवत्पापूवरके सद्यः प्रविष्टेन पुंसा कल्पितस्य संतमसस्य प्रसिद्धसंतमसोचितार्थ क्रियाकारित्वं दृष्टंतेन तं प्रतिघटाद्यावरणं दीपाद्यानयने तदपसरणं तन्नयने पुनरावरणमित्यादि दर्शनादित्यपि केचित् ।। प्. ७५ब्) ननु स्वाप्नभयादिकं न भुजंगमांगनादि पदार्थजन्यं किंतु तद्गोचरज्ञानजन्यं तथा च ज्ञानस्य सत्यत्वादसत्यात् सत्यस्यापि कार्यस्य जन्यत्वं स्वप्ने दृष्टमित्युनुपपन्नमिति शंकते । न चेति । तच्च सदेवेति वदता वक्तव्यं किं तन्मनो मात्रजन्यवृतिरूपं किं वा चक्षुरादिजन्यवृतिरूपं केवलसाक्षिरूपं वा आद्येपि किं वृतिमात्रं भयादि हेतुरुतसाप्नभुजंगमादि रूपविषयविशेषितं । नाद्यः यत्किंचिद्गोचरवृतिज्ञानादपि भयादिप्रसंगात् । न द्वितीयः वृतिमात्रस्य सत्यत्वेपि विषयस्यासत्यतया तद्विशिष्टस्यापि प्रातिभासिकत्वा तथा च प्रातिभासिकज्ञानाद्व्यावहारिकार्थ क्रियोत्पतौ तदुदाहरणं भवत्येवेति मत्वा प्रथमविकल्पत्रयमध्ये द्वितीयं दूषयति । तस्यापीति । ज्ञानस्यापीत्यर्थः । ननु चक्षुरादिजन्यमेव दर्शनस्पर्शनादि वृतिरूपं सत्यज्ञानं कुंतो नोपेयते तत्राह । नहीति । तृतीयं शंकते । न च तदति दूषयति दर्शनादित्यादिना । कामिन्याः दर्शनात् तस्याः स्पर्शने तस्या एव पदास्पर्शनात् पाणिनास्पर्शने सुखविशेषस्यानुभवसिद्धेत्वेनेनेति संबंधः भुजंगमस्यामर्मस्थले पुछादौ स्पर्शनात् मर्मस्थले शिरसि स्पर्शनेव भयविशेषस्यानुभवसिद्धत्वेनेति संबंधः । स्वप्नेपीति । यथा जागरे सुखविशेषभयविशेषादेर्दर्शनस्पर्शनादि रूपवृतिविशेषविशिष्टविषयापरोक्ष्यजन्यत्वं न तु विषयापरोक्ष्यमात्रजन्यत्वं तन्मात्रस्यैकरूपत्वेन कार्यविशेषाप्रयोजकत्वात् । प्. ७६अ) तथा स्वप्नेपि तथा च तत्तद्विषयापरोक्ष्यमात्रस्य साक्षिरूपस्य सत्यत्वेपि सुखभयादिजनकस्य प्रातिभासिक दर्शनादि वृतिविशेषविशिष्टस्य तत्तद्विषयापरोक्ष्यस्य प्रातिभासिकत्वात् प्रातिभासिकाद्व्यावहारिकसुखभयादि संभव इत्यर्थः । एवं स्वप्नावस्थायामसत्यात् सत्यार्थ क्रियामुदाहृत्यजागरेपि तामुदाहरति । तथेति । प्रकाशन क्षमो यः तत्रत्यैरपवरकस्थैः पुरुषांतरैः निरीक्ष्यमाणालोकः तद्वतीत्यर्थः । अपवरकं स्वल्पग्रहं तत्रत्यालोकासत्वशंका व्यावृतये पुरुषांतरनिरीक्ष्यमाणत्व विशेषणं दृष्टमित्येतत्प्रपंचयति । तैनेति । संतमसेनेत्यर्थः । अपि शब्दस्य तथा जागरेपीति संबंधः ।। अन्ये तु पानावगाहनाद्यर्थ क्रियायां जलादिस्वरूपमात्रमुपयोगिन तद्गतं सत्यत्वं तस्य कारणत्व तदवछेदकत्वयोरभावादिति किं तेन न चैवं सति मरुमरीचिकोदक शुक्ति रजतादेरपि प्रसिद्धोदकाद्युचितार्थ क्रियाकारित्वप्रसंगः मरीचिकोदकादाबुदकत्वादि जातिनीस्तीति । तद्विषयक भ्रमस्योदकशब्दोल्लेखित्वं तदुल्लेखि पूर्वानुभवसंस्कारजन्यत्व प्रयुक्तमिति तत्व शुद्धिकारादिमर्ते प्. ७६ब्) तदर्थक्रियाप्रयोजकोदकत्वादि जात्याभावादेव तदप्रसंगात् । तत्राप्युदकत्वादि जातिरस्त्यन्यथा तद्वैशिष्ट्योल्लेखिभ्रमविरोधादुदकाद्यर्थिनस्तत्र प्रवृत्यभावप्रसंगाच्चेति ।। अन्ये त्विति जगत्सत्यत्ववादिभिरपि हि अर्थक्रियाकारित्वमेव सत्यत्वमिति वक्तुं न शक्यते अर्थक्रियानुत्पति दशायां घटादेरसत्यत्वप्रसंगात् । किंतु सत्वमर्थ क्रियाप्रयोजकमिति वक्तव्यं तथा च किं सत्वमर्थक्रियाकारणमभिप्रेतं किं वा कारणतावछेदकं नोभयथापीत्याह । पानेत्यादिना । जलादिपदं जलत्वादेरपि संग्राहकं बोध्यं । उपयोगीति । जलादि स्वरूपं कारणतया जलत्वादि स्वरूपं कारणतावछेदकतयेति विभागः । मात्रपदव्यवछेद्यमाह । न तद्गतमिति सत्यत्वस्य जलादि स्वरूपातिरिक्ततयाकारणत्वाभावादति प्रसक्ततया कारणतावछेदकत्वाभावाच्चेत्यर्थः । किं तेनेति सत्यत्वेनेत्यर्थः । तथा च सत्यत्वाभावेपि प्रपंचस्यार्थक्रियाकारित्वं संभवान्न मिथ्यात्वविरोध इति भावः । ननु सत्यत्वस्य ततदर्थक्रियाकारिताया सति प्रसक्तत्वेप्यर्थक्रियाकारित्व सामान्ये सत्वमनति प्रसक्तत्वादवछेदकमेवान्यथा बाधकमाशंकते । न चैवं सतीति । सत्यत्वस्य कारणतासामान्यानवछेदकत्वे सतीत्यर्थः । एवं सति प्रसंग इति न प्. ७७अ) चेत्यत्र हेतुमाह । मरीचिकोदकादिविति । मरुभूमिसंसृष्टासमरीचिकासुसमारोपितं तोयं मरीचिकोदकं तस्य तोयाभासत्वा तत्र तोयत्वं नास्ति कथं तर्हि तोयमिदमुदकमिति शब्दोल्लेखिप्रत्ययं इत्याशंक्य तस्यान्यथा सिद्धिमाह । तद्विषयकभ्रमस्येति । मरीचिकोदकविषयकभ्रमस्येत्यर्थः । उदकशब्दोल्लेखीयः पूर्वानुभवः सत्योदकविषयः तजन्यसंस्कारजन्यत्वान्म्रीचिकोदकस्य तत्प्रयुक्तं तच्छब्दोल्लेखित्वमित्यर्थः । प्रयोजकेति । प्रसिद्धोदकस्य उचितार्थक्रियायापानादि रुपातस्यामुदकत्वजातिः प्रयोजिका उदकादन्यत्रपानादेरदर्शना तथा प्रसिद्धरजतादेरुचितार्थक्रियाकटकादिलक्षणा तत्र च रजतत्वादिकं प्रयोजकं मदोदौ कटकाद्यर्थक्रियादर्शनादितिभावः । तदप्रसंगादिति । प्रसिद्धोदकाद्युचितार्थ क्रियाकारित्व प्रसंगाभावादित्यर्थः । मरीचिकोदकादावर्थक्रियाकारित्व प्रयोजकजातिमभ्युपगम्याप्युक्ताति प्रसंगं परिहरति तत्रापीत्यादिना मरीचिकोदकादावपीत्यर्थः । अन्यथेति । तत्र जलत्वादि जात्यभावे सतीत्यर्थः । तत्रेति मरीचिकोदकादाविष्टनावछेदक जलत्वाधिवैशिष्ट्यभानं विना तदर्थिनस्तत्र प्रवृतिर्न संभवतीतिभावः ।। प्रातिभासिके पूर्वदृष्टसजातीयत्व व्यवहारानुरोधिनां मते क्वचिदधिष्ठानविशेष प्. ७७ब्) ज्ञानेन समूलाध्यासनिवृति संभवात् । क्वचिदधिष्ठान सामान्यज्ञानोपरमेण केवलाध्यासनाशात् । क्वचिद्गंजादौ चक्षुषावह्न्याद्यध्यासस्थले दाहपाकादिप्रयोजकस्योलस्पर्शादेरनुध्यासाच्च तत्र तत्रोर्थ क्रियाभावोपपतेः । क्वचित्कासांचिदर्थ क्रियाणापिष्यमाणत्वाच्च । मरीचिकोदकादिव्यावर्तकस्यार्थ क्रियोययोगिरूपस्य वक्तव्यत्वे च श्रुतिविरुद्धं प्रत्यक्षादिना दुर्ग्रहंत्रिकालाबाध्यत्वं विहाय दोषविशेषाजन्यरजतत्वादेरेव रजताद्युचितार्थक्रियोपयोगिरूपस्य वक्तुं शक्यत्वाच्च । तस्मान्मिथ्यात्वेप्यर्थक्रियाकारित्व संभवान्मिथ्यैव प्रपंचो न सत्य इति ।। किं च शुक्तिरजतादौ सत्यरजतादौ च रजतत्वादि जातेरेकस्या अभावे प्रातिभासिकाध्यासेषु पूर्वदृष्टसाजात्यव्यवहारो भाष्यादि गतो न स्यात् तदनुरोधेनापि तत्र जातिरंगी कर्तव्येत्याशयेनाह । प्रातिभासिके इति । क्वचिदिति । दूरे मरीचिकोदकभ्रमानंतरं स्नानाद्यर्थ समीपं गतस्यनेदं जलं प्. ७८अ) मरीचिमात्रमिति विशेषदर्शने सति जलाध्यासस्य स्वमूलाज्ञानेन सहैव नाशात् न ततोर्थ क्रियोत्पतिरापादयितुं शक्येत्यर्थः । क्वचिदधिष्ठानेति । शुक्त्यादौ रजता ध्यासानंतरं यत्र विशेषदर्शनमस्ति तत्र पूर्वोक्तारीतिर्यत्र तत्रास्ति तत्राधिष्ठानसामान्यज्ञानरूपं कारणनाशेन रजताध्यासमात्र नाशसंभवात् । तत्रापि नार्थक्रियोत्पतिरापादपादयितुं शक्येत्यर्थः । स्वप्नवदिति ब्रूमरूत्यादि पूर्वग्रंथे प्रातिभासिक पदार्थानामपि अर्थं क्रियाकारित्वस्य दर्शितत्वादुक्ताति प्रसंगे इष्टापतिरपीत्याह । क्वचित्कासांचिदिति । इदानीं प्रातिभासिकेष्वर्थक्रियाकारित्वराहित्यमुपेत्यापि सत्यत्वं कारणतावछेदकं न वक्तव्यमित्याह । मरीचिकोदकादीति । च शब्दोप्यर्थः श्रुतीति मिथ्यात्व श्रुतीत्यर्थः । सद्रजतात् कटकादि कार्यं संभवति तद्विलक्षणाछ्रक्ति रजता तन्न संभवतीत्यन्वय व्यतिरेक सह कृत प्रत्यक्षेण हि त्वया सत्वमर्थ क्रियाकारितायामवछेदकतया ग्राह्यं तादृशं च सत्वं मिथ्यात्व विरुद्धकालत्रया बाध्यत्वरूपं न भवति । तस्य प्रत्यक्षा योग्यत्वादतोन्यदेव किंचितदवछेदकं वाच्यमित्याशयेनाह प्रत्यक्षादिनेति । अत्रादि पदमनुमानादि संग्रहार्थं प्रत्यक्षश्रुतिविरोधेनानुमानादेरपि प्रपंचे कालत्रया बाध्यत्वरूपसत्वसाधकस्यानुदयादेवतस्थानुमानादिनापि दुर्ग्रहत्वमुक्तमिति बोध्यं । प्. ७८ब्) रजतत्वादेरिति व्यवहारकालीत बाधरहित सर्पत्वादिकमादिपदार्थः । तस्मादिति सत्यत्व स्यार्थ क्रियां प्रत्यप्रयोजकत्वादित्यर्थः ।। ननु मिथ्यात्वस्य प्रपंचधर्मस्य सत्यत्वे ब्रह्मा द्वैतक्षतेस्तदपि मिथ्यैव वक्तव्यमिति कुतः प्रपंचस्य सत्यत्वक्षतिः मिथ्याभूतं ब्रह्मणः स प्रपंचत्वं ननिः प्रपंचत्वाविरोधीति त्वदुक्तरीत्या मिथ्याभूतमिथ्यात्वस्य सत्यत्वाविरोधित्वात् । अत्रोक्तमद्वैत दीपिकायां वियदादि प्रपंच समान स्वभावं मिथ्यात्वं । तच्च धर्मिणः सत्यत्व प्रतिक्षेपकं धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि उभयवादि सिद्धं धर्मि समसत्वं तंत्रं न पारमार्थकत्वं । अघटत्वादि प्रतिक्षेपके घटत्वादावस्माकं पारमार्थिकत्वा संप्रतिपतेः । ब्रह्मणः स प्रपंच त्वेन धर्मि समसताकमिति ननिः प्रपंचत्व प्रतिक्षेपकं । अत एव मिथ्यात्वस्य व्यावहारिकत्वे तद्विरोधिनोऽप्रातिभासिकस्य प्रपंच सत्यत्वस्य पारमार्थिकत्वं स्यादिति निरस्तं ।। प्. ७९अ) प्रकारांतरेण प्रपंचस्य सत्यत्वं शंकते । नन्विति वक्तव्यमिति । सिद्धांति नेतिशेषः । ननु मिथ्या भूतस्यापि मिथ्यात्वस्य स्वाश्रये प्रपंचे स्वविरोधि सत्यत्व प्रतिक्षेपकत्वा तस्य सत्यत्वक्षतिरपरिहार्येत्याशंक्यसिधांति संमतदृष्टांतेन परिहरति । मिथ्याभूतमिति । सप्रपंचत्वं प्रपंच तादात्म्यं निष्प्रपंचत्वं प्रपंचात्यताभाववत्वं तच्च वास्तवं व्यावहारिक प्रपंचात्यंताभावस्य ब्रह्मणि परमार्थत्वाभ्युपयमादतः सप्रपंचत्व निःप्रपंचत्वयोर्यथा एकत्राविरोधस्तथा मिथ्यात्वसत्यत्वयोरप्यविरोध इति भावः । मिथ्यात्वभुमी मिथ्या भूत इति पक्षमेव परिगृह्यसमाधते । अत्रोक्तमिति । समान स्वभावमिति । समानसताकमित्यर्थः । वियदादि प्रपंचस्य च?श्च व्यावहारिक सता इति भावः । नन्वरोपित घटत्वादेरारोपाधिष्ठानभूते स्वाश्रये स्वविरुद्धां घटत्वादि प्रतिक्षेपकत्वादर्शनात् सत्यमेव घटत्वादि स्वाश्रये सविरुद्धर्मप्रतिक्षेपकत्वेन कल्पनीयमिति कथं मिथ्याभूतं मिथ्यात्वं स्वधर्मिणि प्रपंचे सत्यत्व प्रतिक्षेपकं भवेदित्याशंक्याह धर्मस्येति । घटत्वादौ परमतरीत्या पारमार्थिकत्वरूपं सत्यत्वमस्ति तथा धर्मि समानसताकत्वं मतद्वयसंमतमस्ति तथा च घटत्वादि धर्मस्य स्वाभाविकाश्रये स्वविरुद्धधर्मप्रतिक्षेपकत्वे प्रयोजकाकांक्षायां संप्रतिपन्नमेव प्रयोजकं कल्पनीयं न विप्रतिपन्नमित्यर्थः । दृष्टांतं प्. ७९ब्) विघटयति ब्रह्मण इति । नुधर्मीति । ब्रह्मणः पारमार्थिकत्वात् सप्रपंचस्य च व्यावहारिकत्वादितिभावः । ननु प्रपंचगत मिथ्यात्वस्य मिथ्यात्वपक्षे तद्व्यावहारिकमैव वाच्यं ब्रह्मज्ञानैक निवर्त्यस्य मिथ्या मिथ्यात्वधर्मस्य प्रातिभसिकत्व पारमार्थिकत्वयोरयोगा तस्य व्यावहारिकत्वे तु प्रपंच गतं सत्यत्वं पारिमार्थिकं सिध्यति तस्यापि स न घट इत्यादि प्रत्यक्षसिद्धस्य यावतत्वज्ञानमनुवर्तमानस्य प्रातिभासिकत्वायोगात् । व्यावहारिक मिथ्यात्व धर्मवति प्रपंचे तत्सत्यत्वस्य व्यावहारिकस्यायोगाच्च तथा च प्रपंच गतस्य सत्वत्व धर्मस्य पारमार्थिकत्व सिद्धौ धर्मिणः प्रपंचस्यापि पारमार्थिकत्वमनिर्वार्यमिति । ब्रह्माद्वैतक्षतिरिति कस्य चिच्चोद्यं वक्ष्यमाण हेतुना निरस्तमित्याह । अत एवेति ।। धर्मि समसता कस्य मिथ्यात्वस्य व्यावहारिकत्वे धर्मिणोपि व्यावहारिकत्व नियमात् । अथ वायो यस्य स्वाविषयमाक्षात्कारानिवृर्त्योधर्मः स तत्र स्वविरुद्धधर्मप्रतिक्षेपकः शुक्तौ शुक्ति तादात्म्यं तद्विषयसाक्षात्कारानिवर्त्यमशुक्तित्वविरोधि तत्रैव रजत तादात्म्यं तन्निवर्त्यमरजतत्वाने विरोधीति व्यवस्था दर्शनात् । एवं च मिथ्यात्वं कल्पितमपि प्. ८०अ) प्रपंचसाक्षात्कारानिवर्त्यमिति सत्वत्व प्रतिक्षेपकमेव ब्रह्मणः सप्रपंचत्वं तु ब्रह्मसाक्षात्कारनिवर्त्यमिति ननिः प्रपंचत्वप्रतिक्षेपकमिति । एतेन शब्दगम्यस्य ब्रह्मणा सत्यत्वे शब्दयोग्यतायाः शाब्दधी प्रामाण्यस्य च सत्यत्वं वक्तव्यं प्रातिभासिक योग्यतावताः नाप्तवाक्येन व्यावहारिकार्थस्य व्यावहारिकयोषतावतावताग्निहोत्रादि वाक्येन तात्विकार्थस्य वामिद्व्यभावेन योग्यता समानसताकस्यैव शब्दार्थस्य सिद्धिनियमात् ।। नियमादिति मिथ्यात्व धर्मस्य धर्मिसमानसताकत्वप्रयुक्तं व्यावहारिकत्वमुपेत्यमिथ्यात्वधर्मिणि प्रपंचे सत्यत्व पर्यवसायिनः प्रपंच सत्यत्वे पारमर्थिकत्वा पादनस्य विरोधेनासंभवादित्यर्थः । न च प्रपंचे पारमार्थिकस्य सत्यत्वस्याभावे प्रातिभासिक सत्यत्वयोरपि प्राऽऽननिरस्तत्वा तत्र सत्वानुभवविरोध इति वाच्यं । व्यावेहारिकस्यैव सत्वस्य प्रपंचे स्वीकारैणानुभवविरोधाभावात् । न च मिथ्यात्व सत्यत्वयोर्व्यावहारिकत्वेन समानसताकयोरेकत्र विरोध इति वाच्यं । मिथ्यात्वाविरुद्धस्य या वृतत्वज्ञानं बाध प्. ८०ब्) रहित स्वरूपत्व लक्षणसत्वस्य प्रत्यक्षादि विषयस्या सकृदुक्तत्वादितिभावः । सर्वत्रब्रह्मसतैव प्रतीय तेन तदतिरकेर्णव्यावहारिकं प्रातिभासिकं वा सत्वमस्तीति मते धर्मिसमसत्वं तंत्रमिति समाधानं न संभवतीति मत्वासमाधानांतरमाह । अथवेति । धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि स्वाश्रयसाक्षात्कारा निवर्त्यत्वं प्रयोजकं कल्पाते संप्रति पन्नुत्वान्नतु पारमार्थिकत्वं तस्यास्मा वामसंप्रतिपतेरितिभावः । यो धर्मो यस्य धर्मिणो धर्मि गोचर साक्षात्कारा निवर्त्यः । स धर्मस्तत्र धर्मिणीत्यक्षरार्थः उक्त प्रयोजके हेत्वंतरमाह । शुक्ताविति । तत्पदं शुक्तिपरं अशुक्तित्वविरोधीति । अशुक्तित्वस्य प्रतिक्षेपकमित्यर्थः । तत्रैवेति । शुक्तावेव रजत तादात्म्यरूपो धर्मो वर्तते स च स्वविरुद्धस्यारजतत्वस्य रजत भिन्नत्वस्य शुक्तिगतस्याविरोधी प्रतिक्षेपको न संभवतीत्यत्र हेतुगर्भं विशेषणं तन्निवर्त्यमिति । शुक्तिसाक्षारनिवर्त्यमित्यर्थः । एवं वेति स्वाश्रयसाक्षात्कारानिवर्त्य धर्मस्य स्वाश्रये स्वविरुद्धधर्मस्थिति विरोधित्वे प्रमाणेन निश्चिते सतीत्यर्थः । अनिवर्त्यमिति यथा शुक्तिसाक्षात्कारे सति शुक्ति तादात्म्यं न निवर्त्यते तथा घटादिरूपप्रपंच साक्षात्कारे सति श्रुति न्यायसिद्धं मिथ्यात्वं न निवर्तत इत्यर्थः । चोद्यांतरमपि वक्ष्यमाण हेतुना निरस्तमित्याह । एतेनेति । शब्दगम्यस्य प्. ८१अ) ब्रह्मणः सत्यत्वे शब्दनिष्टयोग्यतायाः सत्यत्वं वक्तव्यमित्यत्र हेतुमाह । योग्यता समान सता कस्यैवेति । वाक्यार्थ वाक्यनिष्ठयोग्यतयोः समानसताकत्वनियमं साधयति । प्रातिभासिक योग्यतावतेति । व्यावहारिकार्थस्य सिध्यभावेनेति संबंधः अर्था बाधरूपप्रामाण्यस्यासत्यत्वेर्थस्य सत्यत्वा योगाच्च । तथा च ब्रह्मातिरिक्त सत्यवस्तुसत्वेन द्वैतावश्यंभाव इति वियदादि प्रपंचोपि सत्योऽस्तिति निरस्तां व्यावहारिकस्यार्थ क्रियाकारित्वस्य व्यवस्थापितत्वेन व्यावहारिकयोग्यताया अपि सत्यब्रह्मसिद्धि संभवात् । ब्रह्मपरे वेदांते सत्यादि पद सत्वाद्ब्रह्मसत्यत्वसिद्धेः । अग्निहोत्रादिवाक्ये तादृशपदाभावा तत्सत्वेपि प्रबलब्रह्माद्वैत श्रुतिविरोधा तदसिद्धिरित्येव वैषम्योपपतेः । शब्दार्थयोग्यतयोः समानसताकत्व नियमस्य निःप्रमाणकत्वात् घटज्ञानप्रामाण्यस्था घटत्ववत् सत्यभूतब्रह्मज्ञानप्रामाण्यस्यापि तदतिरिक्तघटितत्वेन मिथ्यात्वोपपतेश्च ।। प्. ८१ब्) शब्दगम्यस्य ब्रहमणः सत्यत्वे ब्रह्मगोचरशाब्दज्ञाननिष्टस्य प्रामाण्यस्य सत्यत्वं वक्तव्यमित्यत्र हेतुमाह । अर्था बाधरूपेति तथा च वेदांतार्थस्य ब्रह्मणः सत्यत्वसंरक्षणाय तद्वीप्रामाण्यस्य सत्यत्वं वक्तव्यमितिभावः । ननु ब्रह्मव्यतिरिक्त निरुक्तयोग्यतादेः सत्यत्व सिद्धावपि पूर्ववाद्यभिमतं निखिलद्वैत सत्यत्वं कथं सिध्यति तत्राह । तथा चेति । द्वैतावश्यंभाव इति । अद्वैतभंगावश्यंभाव इत्यर्थः । वेदांतशब्दनिष्टयोग्यतायाः सत्यत्वं किं तस्याः शादबोधरूपार्थक्रियाकारित्वसिध्यर्थमपेक्ष्यते किं वा ब्राह्मणः सत्यत्व सिध्यर्थं नाद्यत इत्याह । व्यावहारिकस्येति । प्रपंचस्येति शेषः । योग्यताया इति पंचमी सत्वस्य ब्रह्मणः सिद्धिः शाब्दबोधः द्वितीये योग्यतायाः सत्यत्वाभावेपि ब्रह्मणस्तत्सिध्यतीत्याह । ब्रह्मपर इति । अत्रादि पदं चित्पदादि संग्रहार्थं । तर्ह्यग्निहोत्रादि धर्मि स्यापि सत्यादि यदात्सत्यत्वसिद्धिः स्यादिति नेत्याह । अग्निहोत्रादीति । ननु यो वै स धर्मः सत्यं चैतदिति धर्मेपि सत्यपदं श्रुतौ प्रयुक्तमस्ति तत्राह । तत्सत्वेपीति तदसिद्धिरिति । यो वै स धर्म इति वाक्यस्याग्निहोत्रादौ परमार्थत्व प्रतिपादने तात्पर्यलिंगानाम भावेना तत्परस्य तं स्यतेत्परत्वरत्व न प्रवलया द्वैत श्रुत्यावाधाद्धर्मस्य न ब्रह्मवत्परमार्थत्वसिद्धिरित्यर्थः श्रुतावग्निहोवादेरवगत्यर्थत्वेन प्. ८२अ) सत्यत्वमनुष्टीय मानावस्थत्वेन धर्मत्वं च विवक्षित्वा यो वै स धर्मः सत्यं चैतदिति सत्यधर्मयोरभेद उक्त इति मंतव्यं व्यावहारिकयोग्यतावता वेदांतवाक्येन सत्यस्य ब्रह्मणः सिद्धौ फलितमाह शब्दार्थयोग्यतयोरिति । ब्रह्मणः सत्यत्वेपितहाननिष्टप्रामाण्यस्य न सत्यत्वं सिध्यति । तस्य ब्रह्ममात्रत्वाभावादित्याह । घटज्ञानेति । तदतिरिक्तेति । ब्रह्मत्ववति ब्रह्मत्वप्रकारकानुभवत्वरूप तत्प्रामाण्यस्यापि ब्रह्मातिरिक्त ब्रह्मत्व वैशिष्ट्य घटितत्वेनेत्यर्थः । यदि च ब्रह्मज्ञानगतं प्रामाण्यमबाधितार्थानुभवत्वरूपं तच्च विवक्षितविवैकेन बाधायोग्यविषयस्वरूपमात्रं पर्यवस्यति तन्मात्रपर्यवसित प्रामाण्यस्य चाखंडार्थ परवेदांतेषु ब्रह्ममात्रत्वमेव न तदतिरिक्त घटितत्वमिति ब्रह्मज्ञानप्रामाण्यस्य सत्यत्वं संभवतीत्युच्येत तर्हि ब्रह्मगोचरशाब्दधी प्रामाण्यस्य सत्यत्वेपि न तवेष्टसिद्धिः । तस्य ब्रह्ममात्रत्वेन ब्रह्मातिरिक्त सत्यवस्त्वसिद्धेरितिभावः ।। तस्मादारंभणाधिकरणोक्त न्यायेन कृत्स्नस्य वियदादि प्रपंस्य मिथ्यात्वं वज्रलेपायते नन्वारंभणशब्दादिभिरचेतनस्य वियदादि प्रपंचस्य मिथ्यात्वसिद्धावपि चेतनानामपवर्गभाजां प्. ८२ब्) मिथ्यात्वायोगादद्वितीय ब्रह्मणि समन्वयो न युक्तः । न च तेषां ब्रह्माभेदः प्रागुक्तो युक्तः परस्परभिन्नानां तेषामेकेन ब्रह्मणाभेदासंभवात् । न च तद्भेदासिद्धिः सुखदुःखादि व्यवस्थया तत्सिद्धेरिति चेत् । न तेषामभेदेप्युपाधिभेदादेव तद्यवस्थोपपतेः । ननूपाधिभेदेपि तदभेदा न पायात् कथं व्यवस्था न ह्याश्रयभेदं नोपपादनीयो विरुद्धधर्मा संकरस्तदतिरिक्तस्य कस्यचिद्भेदोपगमेन सिध्यति । अत्र केचिदाहुः सिद्धात्येवांतःकरणोपाधिभेदेन सुखदुःखादिव्यवस्था कामः संकल्पो विचिकित्सा श्रद्धा श्रद्धा धृतिरधृतिर्ह्रीर्ध्रीर्भीरित्येतत्सर्वं मन एव विज्ञानं यज्ञं तनुत इत्यादिभिः श्रुतिभिस्तस्यैव निखिलानर्था श्रयत्वप्रतिपादनादसंगो ह्ययं पुरुषः असंगो न हि सजत इत्यादि श्रुतिभिश्चेतनस्य सर्वात्मनौदासीन्य प्रतिपादनाच्च न चैवं सति कर्तृत्वादि बंधस्य प्. ८३अ) चैतन्यसामानाधिकरण्यानुभवविरोधः तस्मादिति । विरोधाभावादित्यर्थः । प्रपंचस्य मिथ्यात्वपक्षे प्रत्यक्षादि विरोधाभावो निरूपितः । इदानीं सर्वेषु शरीरेष्टात्मन एकत्वपक्षे सुखदुःखादि व्यवस्थाविरोधमाशंक्यतां निरूपयितुं प्रसंगमाह । नन्वित्यादिना अपवर्गेति । जीवानां स्वरूपेण मिथ्यात्वज्ञानेन निवृत्यापत्या तेषां मुक्तिभात्कं न स्यादित्यर्थः । ननु जीवानां ब्रह्माभेदस्य वेदांतप्रमाणकस्य प्रथमपरिछेदावसाने उक्तत्वात् । ब्रह्माणेनाद्वितीयत्वानुपपतिरित्याशंक्य निराकरोति । न च तेषामिति । जीवानां परस्य भेदासिद्धिमाशंक्याह । न च तदिति । एकस्य यदाहुः खं भवति तदा जीवांतरस्य सुखं भवतीति सुखदुःखव्यवस्था एवं रागद्वेषादि व्यवस्थाप्यनुभवसिद्धा द्रष्टव्यांत तया तेषां परस्परभेदः सिध्यतीत्याह । सुखेति नन्वारंभणेत्यादिना प्राप्तं प्रतिशरीरमात्मभेदपक्षं प्रतिक्षिपति नेति । उपपतेरिति । नात्मभेदः प्रामाणिक इत्यर्थः । तदभेदेति । आत्मा भेदेत्यर्थः । कथं शब्दसूचितामनुपपतिमाह न हीति । तदतिरिक्तस्येति विरुद्ध सुखदुःखाद्याश्च याति रिक्तस्य कस्यचिदहमनुभवगोचरस्येत्यर्थः । अंतःकरणमेव बंधाश्रयो अहमनुभवगोचरश्च नत्वात्मा प्. ८३ब्) तस्य कूटस्थत्वात् तथा चाश्रयभेदादेव धर्मव्यवस्थेति समाधते । अत्र केचिदाहुरिति मन एवेति । मनोंतःकरणं कामसंकल्पादीनां तत्परिणामत्वात् सामानाधिकरण्यं विज्ञानमंतःकरणं तनुते करोति यज्ञं शास्त्रीयं कर्म आदिपदेन कामायेऽस्य हृदिश्रिता इत्यादिश्रुतिर्ग्राह्याचिदात्मनः कूटस्थत्वे प्रमाणमाह । असंगो ह्ययमिति असंगो न हि सज्जत इति संगा योग्यत्वादित्यर्थः । आदिपदेन साक्षी चेता केवलो निर्गुणंश्च अनश्ननऽन्यो अभिचाकशीतीत्यादि श्रुतिसंग्रहः । न चैवं सतीति अंतःकरणस्यैव बंधाश्रयत्वे सतीत्यर्थः । अहंकरोम्यहं सुख्यहं दुःख्यहमुपलभे इत्यादिरूपेण उपलब्धिरूप चैतन्यस्य कर्तृत्वसुखदुःखाद्यात्मकबंधसामानाधिकरण्यमनुभूयते तद्विरोध इत्यर्थः । अंतःकरणस्य चैतन तादात्म्येनाध्यस्ततया तद्धर्माणां चैतन्यसामानाधिकरण्यानुभवोपपतेः । न चांतःकरणस्य कर्तृत्वादि बंधाश्रयत्वे चेतनः संसारीनस्यादिति वाच्यं कर्तृत्वादि बंधाश्रयाहंकारग्रंथि तादात्म्याध्यासाधिष्ठानभाव एव तस्य संसार इत्युपरामात् प्. ८४अ) तावतैव भीषणत्वाश्रय सर्प तादात्म्याध्यासाधिष्ठाने रजादावयं भीषण इत्यभिमानवदात्मनोनर्था श्रयत्वाभिमानोपपतेः । एतदभिप्रायेणैव ध्यायतीवलेला स्मृतिव अहंकार विमूढात्मा कर्ताहमिति मन्यत इत्यादि श्रुतिदर्शनाच्च न चैकस्मिन्नेवात्मनिविचित्रसुखदुःखाश्रयत तदंतःकरणानामध्यासादात्मन्याभिमानिक सुखदुःखादि व्यवस्थैवमपि न सिद्ध्यतीति वाच्यं ।। यथा इदमंश तादात्म्येनाध्यस्ते रजते रजतत्वस्य इदं त्व सामानाधिकरण्यानुभवः । तद्वदिति समाधते अंतःकरणस्येति । तद्धर्माणामित्यत्र तत्पदमंतःकरणपरं एतदुक्तं भवति । आत्मनश्चैतन्यरूपत्वेपि भेदकल्पनया चैतन्यमात्मधर्मः । तथा चात्म्यंतःकरणयोरैक्याध्यासे सति तयोर्धर्माणां चैतन्य कर्तृत्वादीनां सामानाधिकरण्यं संपद्यत इति न तदनुभवविरोध इति । चेतन इति । चैतन्याश्रय आत्मा संसारी कर्तृत्वादि धर्मवान् न स्यादित्यर्थः । चेतनस्य स्वतः संसाराश्रयत्वाभावेपि बुद्धिनिष्टस्य संसाराश्रयत्वस्य साक्षिणानुभूयमानस्यात्मन्यारोधोपपतेः प्. ८४ब्) आरोपित संसाराश्रयत्वमस्तीति परिहरति । कर्तृत्वादीति । अहंकारस्य चेतनेन सह ग्रंथितुल्यो यस्तादात्म्यरूपो ध्यासस्तदधिष्ठानत्वमेवेत्यर्थः । तस्य चेतनस्य इत्यर्थः । संसार इति संसाराश्रयत्व भ्रांतिप्रयोजक इत्युपगमादित्यर्थः । तावतैवेति । उपाधेः संसाराश्रयत्वमात्रेणेत्यर्थः । भीषणत्वं भय हेतुत्वं तच्च सर्पधर्मः अभिमानो भ्रांतिः न चान्य निष्टसंसाराश्रयत्वस्यात्मन्यारोपे अन्यथा ख्याति प्रसंग इति वाच्यं । अनुभूयमानारोपस्थले आरोप्याधिष्ठानयोः संसर्गस्यानिर्वचनीयस्योत्पत्युपगमेन तदप्रसंगादिति भावः । एतदिति बुद्धिनिष्टसंसारस्यात्मन्यारोपाभिप्रायेणैवेत्यर्थः । बुद्धौ ध्यायंत्वामात्माध्यायतीवभाति तस्यामेवलेलायंत्यां चलंत्यामात्माचलतीव न तु वस्तुतो ध्यानाद्याश्रय इति इव शब्दार्थः । ध्यानादिग्रहणमशेषबुद्धिधर्माणामुपलक्षणार्थं अहंकारेण कर्तृत्वाश्रयेण सह विमोहं तादात्म्याध्यासमापन्नः स न आत्मा नमहं कर्तेति मन्यते कर्तृत्वमननमशेषसंसारमननोपलक्षणार्थं । ननु बुद्धेः स्वतः संसाराश्रयत्वं चिदात्मनस्तु भ्रांति सिद्धं संसाराश्रयत्वमिति । विभागाभ्युपगमे प्रतिशरीरं बुद्धिभेदातद्धेर्मव्यवस्थासिद्धावपि प्रतिशरीरमात्मभेदाभावात् । तद्गतस्य बंधस्य न प्. ८५अ) व्यवस्थासिध्यतीति शंकते । न चैकस्मिन्नेवेति । विचित्राणां सुखदुःखानां माश्रयभूतानि ततदंतःकरणानि तेषामेकस्मिन्नेवात्मन्यध्यासाद्धेतोर्य आत्मन्याभिमानिकः सुखदुःखादिः तस्य व्यवस्था न सिध्यतीत्यर्थः । एवमपीति । बुद्धि धर्मव्यवस्थासिद्धावपीत्यर्थः ।। आध्यासिक तादात्म्यापन्नांतःकरणगतानर्थजातस्येव तद्गतपरस्परभेदस्याप्यभिमानत आत्मीय तयात्मनो यादृशमनर्थभात्कं तादृशेन भेदेन तद्यवस्थोपपतेः । एतेन सुखदुःखादीनामंतःकरणधर्मत्वंपि तदनुभवः साक्षिरूप इति तस्यैकत्वात् सुखदुःखाद्यनुभवरूप भोगव्यवस्थान सिद्ध्यतीति निरस्तं तन्हद्रन्तःकरण तादात्म्यापत्त्या ततदंतःकरणभेदेन भेदेवते एव साक्षिणस्तम्नदंतःकरण सुखदुःखाद्यनुभवरूपत्वेन तद्व्यवस्थाया अप्युपपतेरिति । अन्ये तु जडस्य कर्तृत्वादि बंधाश्रयत्वानुपपतेः कर्ता शास्त्रार्थवत्वादिति चेतनस्यैव तदाश्रयत्वप्रतिपादकसूत्रेणांतःकरणे प्. ८५ब्) चिदाभासोबंधाश्रयस्तस्य चासत्यस्य बिंबाद्भिन्नस्य प्रत्यंतःकरणं भेदाद्विद्वदविद्वत्सुखिदुःखिकर्त्रऽकर्त्रादि व्यवस्था ।। बंधाश्रयत्वस्येव बुद्धिगतस्य परस्परभेदाश्रयत्वस्याप्यात्मन्यारोपाभ्युपगमान्ना व्यवस्थेति परिहरति । आध्यासिकेति । नन्वारोपितेन भेदेन कथं व्यवस्थेत्याशंक्य व्यवस्थापनीय स्यात्मन्यारोपितत्वान्ना व्यवस्थापकत्वं तादृश भेदस्येत्याह । यादृशमिति । आत्मसाक्षिचैतन्ययोरभेदेपि भेदं कल्पयित्वा कल्पितबंधाश्रयस्यात्मन एकसुखदुःखादेः त्व प्रयुक्तौ दोषो निरस्तः । इदानीं साक्षि चैतन्यस्य सर्वशरीरष्वेकत्वप्रयुक्तं दोषमाशंक्यनिराकरोति । एतेनेति । वक्ष्यमाणहेतुनेत्यर्यः । तदनुभव इति । सुखाद्यनुभव इत्यर्थः । सुखेति देवदत्तस्य यः सुखानुभवः स एव चेद्यज्ञदतस्यापि तदा देवदत्तस्य सुखानुभवकाले तमेव सुखानुभवमादाय यज्ञदत्तस्याप्यहं सुखीति भोगप्रसंग इत्यर्थः । यथा अंतःकरणगतभेदस्यात्मन्यारोपः तथा साक्षि चैतन्यरूपे सुखाद्यनुभवेपि तद्गतभेदारोपाभ्युपगमात् । न भोगा व्यवस्थेति परिहरति ते तदिति । भेदेनेति । ततदंतःकरण भेदेन साक्षिण्यारौपितेन प्. ८६अ) भेदविशिष्टस्यैवेत्यर्थः । धान्येन धनवानित्यत्रैव तृतीया साक्षिण्यंतःकरणभेदारोपे हेतुः । तादात्म्यापत्येति । सर्वशरीरेष्वात्मन एकत्वे सुखादि व्यवस्थानस्यादिति पूर्ववाद्याक्षेपे । अन्यत् समाधानमाह । अन्ये त्विति पूर्वोक्तं बुद्धेर्बंधाश्रयत्वं दूषयति । जडस्येति । अनुपपतेरिति । बंधस्य चेतनधर्मत्वप्रसिद्धिविरोधादितिभावः । बुद्धेरेव कर्तृत्वं न चेतनस्य तस्य कूटस्थ त्वादिति सांख्यमत निराकरण पूर्वकं चेतनस्यैव कर्तृत्व व्यवस्थापक सूत्रानुसाराच्चेत्याह । कर्तेति । चेतनः कर्ता भवितु मर्हति तथा सत्यैव चेतनस्य कर्तृत्व प्रतिपादकं कर्ता विज्ञानात्मा पुरुष इति शास्त्रमर्थवद्भवति । अन्यथा तदनर्थकं स्यादिति सूत्रार्थः । चिदाभास इति । न तु साक्षाच्चिदात्मैव तस्य कूटस्थत्वेन बंध परिणामित्वा योगादिति भावः । चिदाभासस्य बंधा श्रयत्वेपि कथं व्यवस्था सिद्धिस्तत्राह । तस्य चैति बिंबपति बिंबयोरे भेदेपि प्रत्यंतःकरणं प्रतिबिंबभेदो लभ्यते उपाधि भेदेन तन्निरूपित प्रतिबिबानामपि कल्पित भेदाभ्युपगमा तथापि प्रतिबिंबमिथ्यात्वमत एव तस्य बंधाश्रयत्वं स्वाभाविकं भवतीति तन्मिथ्यात्वमतमाश्रितं ।। न चैवमसत्यस्य बंधाश्रयत्वे बंधमोक्षयोर्वैयधिकरण्यापतिः प्. ८६ब्) अस्य चिदाभासस्यांतःकरणावछिन्ने स्वरूपतः सत्यतया मुक्त्य नयिनि पारमार्थिक जीवेऽध्यस्ततया कर्तृत्वाद्याश्रय चिदाभास तादात्म्याध्यासाधिष्ठान भावस्तस्य बंध इत्युपगमादित्याहुः । अपरे त्वात्मेंद्रियमेनोयुक्तं भोक्तेत्याहुर्मरमीषिण इति सह कारित्वेन देहेंद्रियैस्तादात्म्यो न मनसा च युक्तस्य चेतनेस्य भोत्कृत्व श्रवणादंतःकरणभेदनतेद्विशिष्टभेदाद्व्यवस्थान चैवं विशिष्टस्य बंधः शुद्धस्य मोक्ष इति वैयधिकरण्यं विशिष्टगतस्य बंधस्य विशेष्ये अनन्वयाभावात् विशिष्टस्यानतिरेकादित्याहुः ।। न चैवमिति । बिंबप्रतिबिंबयोर्भेदांगीकारेत्यर्थः । सत्यस्य बिंबचैतन्यस्य ब्रह्मभावलक्षणमोक्षाश्रयत्वे च सतीतिशेषः मुक्त्यन्वपि नो बिंबभूतावछिन्नचैतन्यस्य स्वतः संसाराश्रयत्वाभावेपि भ्रांति सिद्धस्य तदाश्रयत्वस्य संभवान्न वैयधिकरण्य दोष इत्याह अस्येति । चिदाभास गत बंधस्य चिदात्मन्यध्यासे चिदात्मचिदाभासयोस्तादात्म्याध्यासं हेतुमाह प्. ८७अ) अध्यस्ततयेति । अस्य चिदाभासस्य परमार्थ जीवे ध्यस्तनयेति संबंधः । तस्य बंध इति बंधः । बंधारोपे हेतुरित्युपगमादित्यर्थः । यथा श्रुतस्याध्यासाधिष्ठानत्वस्य बंधरूपत्वाभावात् सुखादेरेव बंधरूपत्वाच्चेति बोध्यं । सर्वशरीरेषु चिदात्मन एकत्वेपि तस्य केवलस्य बंधाश्रयत्वं नोपेयते । किंतु बुद्धिविशिष्टस्य चिदात्मनस्तथा च बंधाश्रयस्य विशिष्टस्य प्रतिशरीरं भेदान्न सुखदुःकादि सांकार्यमिति मतांतरमाह । अपरे त्विति । विशिष्टस्य भोक्तत्वे मानमाह । आत्मेति आत्मशब्दो देहपरः श्रुतावात्मानमित्यध्याहारः इति शब्दो द्वितीया समानार्थकः । ततश्च देहेंद्रियांतःकरणयुक्तमात्मानं भोक्तारमाहुर्विद्वांस इत्यर्थः । ननु देहस्य विशेषणतया भोक्तृ कोटौ निवेशो न संभवति तस्यात्मनि भोगं प्रत्यवछेदकतया उपकरणं त्वादिंद्रियाणामपि भोक्तृ कोटौ निवेशौ न संभवति । तेषामुपकरणमात्रत्वात् स्वप्ने तेषामभावेपि भोगदर्शनाच्च तस्माद्देहेंद्रियैर्युक्तस्यात्मनो भोक्तत्व श्रुतिरनुपपत्तेत्याशंक्य युक्तपदोदितं योगं यथायोग्यं दर्शयति । सह कारित्वेनेति । आत्मनि तावत् कामसंकल्पादयोनुभूयंते ते च मनोधर्मत्वेन श्रुति सिद्धास्तथा च कामादिमन्मनस्तादात्म्यं विनात्मनः प्. ८७ब्) कामाद्याश्रयत्वानुपपतेः । ततादात्म्येन तद्विशिष्टस्य भोक्तृत्वं युक्तमित्याशयेनाह । तादात्म्येनेति । ननु बुद्धिविशिष्टात्मा केवलात्मनः सकाशाद्भिन्नः विशिष्टं केवलं न भवतिति प्रतीतेः विशिष्टवृति केवलप्रतियोगिक भेदस्य विशेष्यवृतित्व नियमा तथा च विशिष्टात्मगत बंधस्य विशेष्यान्वपि त्वेपि मुक्तान्वपि केवलचैतन्ये बंधानन्वयाद्वैयधिकरण्यतादवस्थ्यमिति नेत्याह । विशिष्टस्येति । विशिष्टांतर्गतविशेष्यस्य केवलादनतिरेकादित्यर्थः । अयं भावः । लोके दंडविशिष्टपुरुषे कैवलपुरुषाभेदस्य प्रत्यभिज्ञायमानतात् । तत्प्रत्यभिज्ञाया बाधका भावाच्च विशिष्टांतर्गत विशेष्यस्य केवलस्य च स्वाभाविकमेकत्वं विशिष्टत्वाविशिष्टत्वरूपभेदेन काल्पनिको भेदश्च कल्प्यते तथा च विशिष्टगत बंधस्य विशेष्यान्वयिनः केवलात्मन्यययन्वयः सिद्ध इति ।। इतरे तु अस्तु केवलश्चेतनः कर्तृत्वादिबंधाश्रयः स्फटिकलौहित्य न्यायेनांतःकरणस्य तद्विशिष्टस्य वा कर्तृत्वाद्या अपस्य सन्निधानाच्चेतनेपि कर्तृत्वाद्यंतराध्यासोपगमात् । न च तस्यैकत्वाद्व्यवस्थानुपपतिः । उपाधिभेदादेव तदुपपते । न चान्यभेदादन्यत्रविरुद्ध प्. ८८अ) धर्मव्यवस्थानुयुज्यत इति वाच्यं । मूलाग्ररूपोपाधिमात्रेण वृक्षे संयोग तदभावव्यवस्था दर्शनात् । तत्तत्पुरुषकर्णपुटोपाधिभेदेन श्रोत्रभावमुपगतस्याकाशस्य तत्र शब्दोपलंभकत्वानुपलंभकत्वतारमंदेष्टानिष्ट शब्दोपलंभकत्वादि वैचित्र्यदर्शनाच्चेत्याहुः । एके तु यद्याश्रयभेदादेवविरुद्धधर्मव्यवस्थोपपादनीया तदा चेतने निकृष्टे एवोपाधिवशाद्भेदकल्पनास्तु अकल्पिताश्रयभेद एव व्यवस्थाप्रयोजक इति क्वाप्य संप्रतिपतैः मणिमुकरकृपाणाद्युपाधिकल्पितेन भेदेन मुखे श्यामा वदातवर्तुलदीर्घभावादि धर्माणां अंगुल्युपष्टंभोपाधिकल्पितेन भेदेन दीपे पाश्चात्यपौरस्त्यभावादि धर्माणां च व्यवस्थासंप्रतिपतेरित्याहुः ।। अंजसाबंधमोक्षयोः सामानाधिकरण्यमाह । इतरे त्विति । स्फुटिकेति । यथा लोहित्याश्रयस्य जपाकुसुमादेः सन्निधानात् स्फटिके उपाधिगतलौहित्यापेक्षया तत्प्रतिबिंबभूतस्य लौहित्यांतरस्योत्पतिः तथा चिदात्मनि बुध्यादि गतत बंधापैक्षया अन्यस्य प्. ८८ब्) कर्तृत्वादिबंधस्याभ्रमात्मकस्योपगमादित्यर्थः । न च बुध्यादौ साक्षिणानुभूयमानस्य बंधस्य चिदात्मनि संसर्गमात्राध्यासोपगमेन वैयधिकरण्य शंका परिहारसंभवात् तत्र बुध्यादिनिष्टकर्तृत्वादि सदृश कर्तृत्व प्रमुख बंधोत्पति कल्पनं न प्रामाणिकमिति वाच्यं । बुद्धेर्गुणेनाराग्रमात्रो ह्यवर इति श्रुताववरशब्दित जीवस्याराग्रमात्रशब्दितमल्पपरिमाणं बुद्धिगुणशब्दित परिमाण हेतुकमिति प्रतिपादनेन तुल्यन्यायतया कर्तृत्वादिकमपि बुद्धिधर्मसदृशमात्मन्युत्पद्यत इति । अस्यार्थस्य श्रुति संमतत्वेन प्रामाणिकत्वात् । न च तस्येति । कर्तृत्वाद्यध्यासाधिष्ठानस्यात्मन इत्यर्थः । मूलेति परमते नेदं दृष्टांत द्वयं सिद्धांते मूलावछिन्नवृक्षस्याग्रावछिन्नवृक्षस्य च काल्पनिक भेदाभ्युपगमेनैव संयोग तदभावव्यवस्थोपगमात् । श्रोत्रेंद्रियस्पदिगारभ्यत्वोपगमाच्चेति योध्यं । तारेति । तारशब्दोपलंभकत्वमंदशब्दोपलंभकत्वेष्टशब्दोपलंभकत्वा निष्टशब्दोपलंभकत्वादिलक्षणस्य वैचित्र्यस्य दर्शनादित्यर्थः । यदि दृष्टांतयोरुपाधिभेदेन तदुपहित वृक्षादिभेदं परो ब्रूया तदा प्रकृतेपि तथास्त्वित्याशयेनाह । एके त्विति । निकृष्ट इति । अंतःकरणविशिष्टवेषान्निकृष्टे तदुपहिते चिदात्मनीत्यर्थः । ननु सत्यभे एव व्यवस्था प्रयोजक इति नेत्याह । अकल्पितेति । घटादिभेदस्यापि सत्यत्वस्यास्माकमसंमतत्वादित्यर्थः । प्. ८९अ) ननु स्वाभाविकभेदे एव व्यवस्था प्रयोजको नत्वौपाधिकभेद इत्याशंक्याह । मणीति । मुखे हि मलिन मणि दर्पण कृतेन भेदेन श्यामत्वावदातत्व व्यवस्था संप्रतियतेः । कृपाणमणिमयस्तंभादि कृतेन भेदेन वर्तुलत्व दीर्घभावादि व्यवस्था संप्रतिपतेरित्यर्थः । न च बिंबप्रतिबिंबयोरभेदे स्वाभाविके खलुभेद औपाधिक इति सिध्यति तद्वशाद्व्यवस्थापि सिध्यति तयोरभेद एव कथं सिद्ध इति वाच्यं तस्य प्रागेव साधितत्वादितिभावः । अवछेदपक्षे औपाधिकभेदस्य व्यवस्थापकत्व संप्रतिपतिं दर्शयति अंगुलीति ।। एवमुपाधिवशाद्व्यवस्थोपपादने संभाविते जीवानां परस्परसुखाद्यनुनुसंधानप्रयोजक उपाधिः क इति निरूपणीयं । अत्र केचिदाहुः भोगायतनाभेद तद्भेदावनुसंधानाननुसंधानप्रयोजका उपाधी शरीरावछिन्नवेदनायास्तदवछिन्नेनानुसंधानात् चरणावछिन्नवेदनाया हस्तावछिन्नेनाननुसंधानाच्च हस्तावछिन्नोहं पादावछिन्नवेदनामनुभवामीत्यप्रत्ययात् । कथं तर्हि चरणलग्नकंटको द्वाराय हस्तव्यापारः प्. ८९ब्) नायं हस्तव्यापारो हे स्तावछिन्नानुसंधानात् । किं त्वव एवावयविनोश्ररण शरीरयोरभेदसत्वेन वरणावछिन्नवेदनाशरीरावछिन्नेनाहं चरणे वेदना वा नित्यनुसंधीयत इति तदनुसंधानात् । एवं च चैत्रमैत्रशरीरयोरभेदाभावाच्चैत्रशरीरावछिन्नवेदनामैत्र शरीरावछिन्नेन नानुसंधीयते । नाप्युभयशरीरानुस्यूतावयव्यंतरावछिन्नेनानुसंधीयते उभयानुस्यूतस्यावयविनो भोगायतनस्या भावादिति न चैत्रशरीरलग्नकंटकाद्वासय मैत्रशरीरव्यापारमप्रसंग इति ।। जीवानामुपाधिभेदाद्वा औपाधिकभेदाद्वासुखदुःखादि व्यवस्थासिद्धौ तेषां वस्तुतः परस्पर भेदे प्रमाणाभादादेक ब्रह्माभेदः सिध्यति । तत्सिद्धौवजीवाभिन्ने निष्प्रपंचे ब्रह्मणि वेदांतसमन्वयः सिद्ध इति प्रतिपादितं । संप्रति विचारांतरमारभते । एवमिति । उक्त प्रकारेणेत्यर्थः । अनुसंदानाननुसंधानयोः किं भोगायतनाभेद तद्भेदौ प्रयोजकौ किं वा विश्लिष्टभोव्यायतनाभेद तद्भेदौ । अथवा शरीराभेदतद्भेदौ । अंतःकरणाभेदतद्भेदौ वा अज्ञानाभेद तद्भेदौ प्. ९०अ) वा इति प्रश्रे प्रतिवचनं निरूपणीयमित्यर्थः । तत्राद्यपक्षमादाय प्रतिवचनं निरूपयति । अत्र केचिदाहुरिति तत्रान्वयव्यतिरेकौ प्रमाणयति शरीरावछिन्नेति । भोगायतनं ह्यवछेदकता स बंधेन भोगाश्रयः सन्नदेहः तदवयवहस्तादिश्च भवतीत्याशयेनाह । चरणेति । अननुसंधानमेव दर्शयति । हस्तावछिन्न इति हस्तावछिन्नात्मनः पादावछिन्नात्म गत दुःखानुसंधातृत्वाभावे बाधकं शंकते । कथं तर्हीति । अयं हस्तव्यापादो हस्तावछिन्नस्यानुसंधानान्न भवति । किंतु तदनुसंधानादिति संबंधः तस्य शरीरोवछिन्नस्य यच्चरणावछिन्नगत वेदनानुसंधनं तस्मादित्यर्थः । ननु चरणावछिन्नगतवेदना कथं शरीरावछिन्नेनानुसंधीयते अवयवावयविनोर्भेदात् । भेदप्यनुसंधानोपगमें चैत्र शरीरावचिन्नवेदना मैत्र शरीरावछिन्नेनाप्यनुसंधीयेत भेदा विशेषात् । तथा च चैत्र शरीरलग्नकंटको द्वाराय मैत्र शरीरस्य स्वारसिकौ व्यापारः प्रसज्येतात आह । अवयवावयविनोरिति । अवयवानां परस्पर भेदेपि शरीर तदवयवयोस्तादात्म्योपगमादित्यर्थः । एवं चेति । शरीरावछिन्नस्य चरणावछिन्नस्ये चरणावच्छिनवैदनानुसंधानं प्रतिशरीरचरणयोस्तादात्म्यस्य नियामकत्वे प्. ९०ब्) सतीत्यर्थः । ननु हस्तावछिन्नस्य चरणावछिन्नगवेदनानुसंधातृत्वाभावेपि चरणलग्नकंटको द्वाराय हस्त व्यापार चरेत् मैत्र शरीवछिन्नस्य चैत्रशरीरावछिन्नगतवेदनानुसंधातृत्वाभावेपि चैत्रशरीरलग्नकंटको द्वारापमैत्रशरीरव्यापारप्रसंगः परिहर्तुं न शकाते तत्राह नापीति । चैत्रमैत्र शरीरद्वयानुस्यूतेत्यर्थः । चैत्रशरीरावछिन्नवेदना उभयाअनुस्यूताऽवयव्यंतरावछिन्नेनापि नानुसंधीय इति संबंधः । अतो न दृष्टांतस्य म्य?मितिभावः ।। अन्ये तु विश्लिष्टोपाधिभेदो ननु संधानप्रयोजकः । तथा च हस्तावछिन्नस्य चरणावछिन्नवेदनानुसंधानाभ्युपगमेपि न दोषः । न चैवं सति गर्भस्थस्य मातृसुखानुसंधान प्रसंगः । एकस्मिन्न वयविन्यवयवभावेनाननुप्रविष्टयोर्विश्लिष्टशब्देन विवक्षितत्वात् । मातृगर्भशरीरयोस्तथात्वादित्वाहुः । न च उघदायुधदोर्दंडाः । पतित स्वशिरोक्षिभिः पश्यंतः यातयंतिस्मकबंधा अप्यरी तन् । इहेति भारतोक्त्याविश्लेषेप्यनुसंधानमवगमिति वाच्यं । तत्रापि शिरः कबंधयोरेकस्मिन्नवयविन्य च यवभावेनानुप्रविष्ट प्. ९१अ) चरत्वात् । शिरश्चेदानंतरं मूर्छामरणयोरन्यतरावश्यंभावे न दृष्टविरुद्धार्थस्य तादृशवचनस्य केंमुत्यन्यायेन योद्धुत्साहातिशय प्रशंसा परत्वात् । तादृक् प्रभाव युक्त पुरुषविशेषविषयत्वेन भूतार्थवादत्वेपि निरुक्तस्योत्सर्वातो । ननुसंधानतंत्रत्वा विघाताच्च । अत एवोक्त वक्ष्यमाणपक्षेषुयोगिनां जाति स्मराणां च शरीरांतरवृतांतानुसंधानेन दोष प्रसक्तिः ।। चरणलग्नं कंटको द्वाराध हस्त व्यापारानुरोधेन हस्तावछिन्नस्यैव चरणावछिन्नवेदनानुसंधातृत्वमुपेयते । न च तथा सति भोगायतन भेदस्याननुसंधानप्रयोजकत्वं न स्याच्चरणहस्तभेदे व्यभिचारादिति वाच्यं । तद्धारणाय विशेषणदानोपपतेरिति मत्वा द्वितीयं उपाधिं निरूपयति । अन्ये त्विति । उपाधि पदं भोगायतनपरं । न दोष इति । भोगायतनयोर्हस्तचरणयोर्भेदे सत्यपि तयोर्विश्लिष्टत्वाभावेन विश्लिष्टभोगायतन भेदस्याननुसंधानप्रयोजकस्याभावात् । न तत्र व्यभिचार दोष इत्यर्थः । न चैवं सतीति विश्रिष्टत्वविशेषणदाने सतीत्यर्थः । गर्भस्य जीवस्य यद्भोगायतने तस्य मातृशरीरस्य च विश्लोषाभावादितिभावः । विश्लिष्टपदार्था न भिज्ञ स्पंदे प्. ९१ब्) चाद्यमिति परिहरति । एकस्मिन्निति तथात्वादिति । एकस्मिन्न वयविनि अवयव भावे नाननुप्रविष्टत्वादित्यर्थः । तथा च विश्लिष्टोपाधिभैदसत्वान्न गर्भस्थ जीवस्य हृसुखानुसंधान प्रसंग इति भावः निरुक्ताननुसंधानप्रयोजकस्य व्यभिचारं शंकते । न चेति । दोर्दंडाः क बंधाः छिन्नशिरस्का देहाः । इह युद्धे भूमो वा अत्र वचने चैत्र मैत्र शरीरयोरिव विश्लिष्टयोः क बंध शिरसोर्भेदै सत्यपि शिरोवछिन्नस्य क चैधावछिन्नगतयोद्धृत्वानुसंधातृत्वमवगम्यत इति व्यभिचार इत्यर्थः । तत्रानुसंधानमुपेत्य चैत्र मैत्र शरीवैलक्ष्ण्येन समाधते । तत्रापीति चरत्वादिति । पूर्वमनुप्रविष्टत्वादित्यर्थः । अस्य वचनस्य स्वार्थे मानुत्वाभावाद्व्यभिचार शंकैवा युक्तेत्याशयेनाभ्युपगमं परित्यजति । शिरस्छेदानंतरमिति । कबंधा अपि पातयंति किमुतान्य इति योद्धृणामुत्साहातिशयं प्रशंसत्ये तद्वचनमित्यर्थः । ननु शिरस्छेदानंतरमपि युद्धानुसंधानादिकं योगमहिम्नातयो महिम्ना वा चरदान महिम्ना वा केषांचित् संभवति । ततो विद्यमानार्थकमेवेदं वचनमित्याशंकायां पुनरनुसंधानमुपेत्य व्यभिचारं परहरति । तादृगिति । विश्लिष्टभोगायतन भेदो ननुसंधानप्रयोजक इत्युत्सर्ग प्. ९२अ) इत्युपगमादुदाहृतानुसंधानस्थलस्य तदपवादस्थलत्वाभ्युपगमात् । तत्र व्यभिचारो न दोषायेतिभावः । अत एवेति उत्सर्गरूपत्वाभ्युपगमादेवेत्यर्थः । न दोष प्रक्तिरिति भोगायतन भेदादेरननुसंधानप्रयोजकत्वनियमाभ्युपगमे हि योगियुजाति स्मरेषु च भोगायतनभेदादि प्रयोजक चतुष्टयस्य सत्वेप्यननुसंधानाभावेन व्यभिचाररूप दोष प्रसक्तिर्न भवेदित्यर्थः ।। अपरे तु शरीरैक्यभेदावनुसंधान तदभावप्रयोजकोपाधीवाल्य भवांतरानुभूतयोरनुसंधान तदभावदृष्टेः । न च वाल्यैयोवनयोरपि शरीरभेदः शंकनीयः प्रत्यभिज्ञानात् । न च परिमाणभेदा तद्भेदावगमः एकस्मिन् वृक्षे मूलाग्रभेदेनेव कालभेदेनैकस्मिन्ननेकपरिमाणान्वयोपपतेः । नन्ववयवोपचयमंतरेण न परिमाणभेदः । अवयवाश्च पश्चादापतंतो न पूर्वसिद्धं शरीरं परियुज्यंत इति परिमाणभेदे शरीरभेदे आवश्यक इति चैन्न प्रदीपारोपणक्रियासमसमयसौधोदरव्यापि प्रभामंडलविकास तत्पिधानसमसमयत् प्. ९२ब्) त्संकोचाद्यननुरोधिं नः परिमाणुप्रक्रियारंभवादस्यानभ्युपगमात् । विवर्तवादे चेंद्रजालिक दर्शित शरीरवद्विनैवावयवोपचयं मायया शरीरस्य वृद्युपपतेरित्याहुः । इतरेत्वंतःकरणाभेदतद्भेदाभ्यां अनुसंधानाननुसंधान व्यवस्थामाहुः । अयं च पक्षः प्रागुपपादितः । केचित् तु अज्ञानानि जीवभेदोपाधिभूतानि नानेति स्वीकृत्य तद्भेदाभेदाभ्या अनुसंधाना ननुसंधान व्यवस्थामाहुः । अत्र केचित् तु ।। अदृष्टविशेषा सह कृतस्य भोगायतनभेदादेरननुसंधानप्रयोजकत्वस्य विवक्षितत्वात् न योग्यादिषु व्यभिचार इति तात्पर्यं तृतीयपक्षमादाय प्रतिवचनं निरूपयति । अपरे त्विति । तत्र मानमाह । बाल्येति । बाल्येऽनुभूतस्य वार्धिके अनुसंधानं दृश्यते बाल्यवार्धकयोः शराभेदात् । तत् भेदादेव भवांतरानुभूतस्यास्मित् जन्मन्यनुसंधानं न दृश्यत इत्यर्थः । शंकनीय इति । परिमाणभेदादितिभावः । बाल्याद्यवस्थाभेदेपि तदेवेदं शरीरमिति प्रत्यभिज्ञा दर्शनात् । न शरीरभेद इति परिहरति । प्रत्यभिज्ञानादि शंका बीजमरुद्य अन्यथा सिद्धिमाह । प्. ९३अ) न चेत्यादिना । आरंभवादमाश्रित्यशंकते । नन्विति न पूर्वसिद्धमिति । पूर्वसिद्धे शरीरे उपादानत्वा योगात् पूर्वसिद्ध शरीरनाशपूर्वं तदवयवैरुपचितावयवैश्च मिलित्वा शरीरांतरद्व्यणुकत्र्यणुकादिक्रमेणारब्धव्यमिति परिमाणभेदे शरीरभेद आवश्यकः प्रत्यभिज्ञा च शरीरत्वसामान्यविषया भविष्यतीत्यर्थः । समसमयकत्वं विकास विशेषणं समयश्च क्षणरूपौ बोध्यः । तत्पदं तदीय दीप्तिपरं उपादाना पादे ययोः सामानाधिकरण्यानुभवादिरादिपदार्थः । अननुरोधिन इति द्यष्णुकादिक्रमेण स्थूलावयव्युत्पतिपक्षे बिलंबापतेः समसमयत्वानुभवविरोधात्परिमाणुसंयोगनाशक्रमेण प्रभादिनाशेपि बिलंबापतेरारंभवादे उपादानो पादेययोरत्यंतभेदाभ्युपगमेन सामानाधिकरण्यानुभवविरोधाच्च तद्वादस्य हेयत्वमेवेत्यर्थः । अवयवो पचय क्रमेण शरांतरांरंभानुपगमे कथमेकस्मिन् शरीरे विरुद्धपरिमाणयोग इत्यत आह । विवर्तवादेवेति चतुर्थपक्षमादाय प्रतिवचनं ददाति । इतरे त्विति प्रागिति सुखदुःखादि व्यवस्थोपपादनग्रंथ इत्यर्थः । पंचमपक्षमाह केचित्विति प्रतिजीवमज्ञानभेदे प्रमाणं ब्रह्मलक्षणविचारावसरे दर्शितं एवमैकात्म्यवादे व्यवस्थामुपपादातन्नानात्ववादे व्यवस्थानुपपतिमाह । अत्रेति ।। प्. ९३ब्) अंशो नानाव्यपदेशादित्यधिकरणे अदृष्टानियमात अभिसंध्यादिष्वपि चैवं प्रदेशादिति चेन्नांतर्भावादिति सूत्रतद्भाष्यरीति मनुसृत्यैकस्मिन्नात्मन्युपाधिभेदेन व्यवस्थानुपगमेकणभुगादिरीत्यात्मभेदवादेपि व्यवस्थानुपपति तौल्यमाहुः । तथा हि चैत्रचरणलग्नकंटकेन चैत्रस्य वेदनोत्पादे समयेऽन्येषामप्यात्मनां कुतो वेदना न जायेत । सर्वात्मनां सर्वगत्वत्वेन चैत्रशरीरांतर्भावाविशेषात् । न च यस्य शरीरे कंटकवेधादि तस्यैव वेदनानान्येषामिति व्यवस्था सर्वात्मसन्निधावुत्पद्यमानं शरीरं कस्यचिदेव नान्येषामिति नियंतुमशक्यत्वात् न च यददृष्टोत्पादितं यच्छरीरं ततदीयमिति नियमः । अदृष्टस्यापि नियमासिद्धेः । यदा हि तदृष्टोत्पादाय केन चिदात्मना संयुज्यते मनः संयुज्यत एवं तदान्यैरपि कथं कारणसाधारण्यै क्वचिदेव तदृष्टमुत्पद्येत । ननु मनः संयोगमात्रसाधारण्येप्यहमिदं फलं प्राप्नुयामित्यभि प्. ९४अ) संधिरदृष्टोत्पादककर्मानुकूलकृतिरित्येवमादि व्यवस्थितमिति तत एवादृष्टनियमो भविष्यतीति चेन्न अभिसंध्यादीनामपि साधारण मनः संयोगादिति ध्याद्यतया व्यवस्थित्यसिद्धेः । ननु स्वकीयमनः संयोगोभिसंध्यादिकारणमिति मनसंयोग एवासाधारण्ये भविष्यतीति । न नित्यं सर्वात्मसंयुक्तं मनः कस्यचिदेव स्वमिति नियंतुमशक्यत्वात् । न चादृष्टविशेषादात्मविशेषेणमनसः स्वस्वामिभावसिद्धिः तस्याप्यदृष्टस्य पूर्ववद्व्यस्थित्यसिद्धेः ।। अंशो ब्रह्मणो जीवः श्रुतिषु जीवब्रह्मणोर्नानात्व व्यपदेशान्न च ब्रह्मणो निरंशस्य कथं जीव अंश इति वाच्यं । अवछिन्नाकाशो महाकाशस्य यथा अंशस्तथा अवाछिन्नमनछिन्नचैतन्यरूपस्य ब्रह्मणोंश इत्युपगमादिति सूत्रभागार्थः । अदृष्टानियमादि सूत्रत्रयस्य व्याख्यानं भविष्यति काणभुगादिभिर्हि प्रतिशरीरमात्मभेदाभावे व्यवस्थान संभवतीत्यात्मभेद आश्रितः न चात्मनः एकत्वेपि उपाधि कृता व्यवस्था संभवतीति । तद्भेदाश्रयणं तैषां व्यर्थमिति वाच्यं । उपाधि कृत व्यवस्थायाः क्लिष्टत्वात् । अतोंजसा व्यवस्था सिद्धये आत्मभेदस्तैराश्रित तदेतन्मतं प्. ९४ब्) दूषयति । कणभुगादिरीत्येति । व्यवस्थेति व्यवस्थांजस्यांभावस्य तूल्यत्वमाहुरित्यर्थः । यथा चैत्रस्य तथाऽन्येषामपीत्यर्थः । कंटकवेधादीत्यादिपदं खड्गघातादि संग्रहार्थं । शरीरस्थात्मविशेषं प्रत्यसाधारण्यससिद्धमिति दूषयति सर्वात्मसंनिधाविति । अदृष्टानियमादिति सूत्रमवतारयति । यद दृष्टेति । सूत्रं व्याचष्टे अदृष्टस्यापीति । अनियमं साधयति । यदा हीति । तदान्यैरप्यात्मभिः संयुज्यत इत्यर्थः । संयोगमात्रेति मात्रपदमभिसंध्यादिसाधारण्य व्यवछेदार्थं न तु समवापि कारणस्य तद्व्यवछेदार्थमिति बोध्यं । अभिसंधिफलेछा आदिपदेन कृतिजनककार्यताज्ञानचिंकीर्ययोः संग्रहः अभिसंध्यादिष्वपि चैवमिति सूत्रं योजयन्नुतरमाह । नेत्यादिना मनसो अंसाधारण्यमाशंक्यनिराकरोति । ननु स्वकीयेति । तथा च तत्संयोगा समवायि कारणकं सर्वमसाधारणं भविष्यतीति भावः । ततः किं तत्राह कथमिति आत्मममः संयोगरूपासमवायि कारणस्य समवायि कारणरूपात्मनश्च साधारणत्वादित्यर्थः त्रुटत् ३५ ।। नन्वात्मनां विभुत्वेपि तेषां प्रदेशविशेषा एवबंधभाज इत्यात्मांतराणां चैत्र शरीरे तत्प्रदेशविशेषाभावात् सखादि व्यवस्था भविष्यतीति । प्. ९५अ) न यस्मिन् । प्रदेशे चैत्रः सुखाद्यनुभूय तस्मात् प्रदेशादपक्रांतस्तस्मिन्नेव मैत्रे समागते तस्यापि तत्र सुखदुःखादि दर्शनेन शरीरांतरे आत्मातंरप्रदेशविशेषस्याप्यंतर्भावात् । तस्मादात्मभेदेपि व्यवस्थादुरुपपादैव कथंचितदुपपादने च श्रुत्यनुरोधाल्लाघवाच्चैकात्म्यमंगीकृत्य तत्रैव तदुपपादनं कर्तुं युक्तमिति । संतु तर्ह्यणव एवात्मानो खदि विभुत्वे व्यवस्थान स्रुवचा नैवं आत्मनामणुत्वे कदाचित् सर्वांगीण सुखोदयस्य करशिरश्चरणाधिष्ठानस्य चानुपपतेः । यदत्रार्वाची न कल्पन मत्क्रांति गत्यागति श्रवणान्यथानुपपत्या अणुर्ह्येवैष आत्मायं वा एतेसिनीतः पुण्यं च पापं च वालाग्र शतभागस्येत्यादि श्रुतिषु साक्षादणुदत्व श्रवणेन चाणव एव जीवाः ।। प्रदेशादिति चेन्नांतर्भावादिति सूत्रं व्याचक्षाण एव प्रदेश कृतां व्यवस्थामाशंक्यनिराकरोति । नन्वात्मनामिति । बंधः सुखदुःखादिः ततदात्मासाधारणात् प्रदेशविशेषाद्यवस्थेति । चेदिति सौत्र प्. ९५ब्) शंकाभागाक्षरार्थः । एकस्मिन् शरीरे एकस्यैवात्मनः प्रदेशोनात्मांतराणामिति नियमो असिद्ध इति दूषयति । न यस्मिन्निति । अदृष्टसुखादेरव्याप्यवृतित्वादात्मनो यः प्रदेशो अदृष्टाद्याश्रयः स एवात्र प्रदेशशब्दार्थः । तथा च यस्मिन्नासनादि प्रदेशे चैत्र शरीरं स्थितं सच्चैत्रस्य सुखाद्यायतनं भवति । तस्मिन्नेव प्रदेशे चैत्र शरीराय क्रमणानंतरं मैत्र शरीरमागत्य स्थितं सन्मैत्रस्य सुखाद्यायतनं दृश्यते । अतस्तत्र पश्चादागतमेत्र शरीरे चैत्रमैत्रात्मप्रदेशयोरदृष्टायश्रयोः प्रवेशात् । तच्छरीरे चैत्रमैत्रयोरुभयोरपि भोगप्रसंगः । न च पूर्वशरीरापक्रमणसमये तच्छरीरगतस्य चैत्रात्मप्रदेशस्याप्यपक्रमणमेवास्त्विति वाच्यं प्रदेशवत्वः आत्मनः स्थिर त्वेन प्रदेशस्य चलनानुपपतेरेव मन्येषामप्यात्मनां प्रदेशांतभीवप्रयुक्तं भोगसांकर्यमूह्यं तस्मादिति । आत्मनां व्यापकत्वाभ्युपगमादित्यर्थः । नन्वात्मैक्य मते इव तन्नानात्वमतेपि कथंचिद्व्यवस्था स्वीक्रियत इत्याशंक्याह । श्रुतीति आत्मैक्यश्रुतीत्यर्थः । तत्रैवेति । एकस्मिन्नेवात्मनीत्यर्थः । जीवाणुत्वगमक श्रुतियुक्त्यवष्टंभेन पुनर्जीवब्रह्माभेदमाक्षिपति । संत्विति । निराकरोति नैवमिति । अधिष्ठानस्य चेति । युगपत्करादि प्रेररणस्येत्यर्थः प्. ९६अ) जीवस्याणुत्वेपि सर्वशरीरव्यापि सुखादिकं संभवतीति शंकते । यदत्रेति । कल्पनाप्रकारस्तेषामणुत्वेपीत्यादिना भविष्यति । आदौ तस्याणुत्वे मानमाह । उत्क्रांतीति । तु मुत्क्रामंतमित्यादि श्रुतिषूत्क्रांत्यादिकं श्रूयत इति भावः । ननु मध्यमपरिमाणस्य जीवस्योत्क्रांत्याद्यन्यथाऽनुपपत्या चेदणुत्वं कल्पते तर्हि जीवस्य ब्रह्मभावश्रवणानुपपत्या तस्य विभुत्वं कल्प्यते श्रुतार्थापतेरविशेषादित्याशंक्य श्रुतिमप्याह । अणुर्हीति । यमात्मानमेतेसिनीतः । वध्नीनः केते तत्राह । पुण्यं च पापं च एष आत्मा अणुर्हीत्यर्थः । बालः केशः शतधा कल्पितस्य च भागो जीवः स विज्ञेय इति । वाक्यमादिपदेन गृह्यते । बालाग्रस्य यः शत तमो भागः तस्यापि शतधा विभक्तस्य यो भागस्तुल्यपरिमाणो जीव इत्यर्थः ।। तेषामणुत्वेपि ज्ञानसुखादीनां प्रदीपप्रभान्यायेनाश्रयातिरिक्तप्रदेशविशेषव्यापि गुणतया सर्वांगीणतया सर्वांगीणसुखाद्युपलंभः द्रोणं बृहस्पतेर्भागमित्यादि स्मृत्यनुरोधेन जीवानामंश सत्वात् । करशिरश्चरणाद्यनुर्गतेषु सुखदुःखादि प्. ९६ब्) यौगपद्यंकाय व्यूहगतेषु योगिनां भोग वैचित्र्यं चेति न काचिदनुपपतिः । एवं च जीवानामणुत्वेनासंकरात् सुखदुःखादिव्यवस्थाविभोरीश्वराद्भेदश्चेति । अत्रोक्तमद्वैतदीपिकायां एवमपि कथं व्यवस्था सिद्धिः । चैत्रस्य पादै वेदना शिरसि सुखमिति स्वांशभेदगतसुखदुःकानुभववन्मैत्रगत सुखदुःखानुसंधानस्यापि दुर्वारत्वात् । अविशेषो हि चैत्र जीवातदंशयोर्मैत्रस्य च भेदः कायव्यूहस्थले वियुज्यान्यत्रसंसरणसमर्थानामंशानां जीवाद्भेदावश्यंभावादंशांशिनोस्त्वयाभेदाभेदाभ्युप- गमाच्च । न च शुद्धभेदोऽननुसंधानप्रयोजक इति वाच्यं । शुद्धत्वं हि भेदस्यांशांशिभावा सहचरि तत्वमभेदा सहचरित्वत्वं वा स्यात् । जीवस्याणुत्व साधकप्रमाणानुसारिणमर्वाचीन कल्पना प्रकारं दर्शयति । तेषामणुत्वेपीति । यथा प्रभायाः स्वाश्रयं प्रदीपं विहाय प्रदेशांतर व्यापित्वं तथा ज्ञानादीनां स्वाश्रयमणुमात्मानं विहाय कदाचिच्छरीर व्यापित्वं कल्पत इत्यर्थः । नन्वात्मनः शशरीरव्यापित्वे सति प्. ९७अ) युगपत्सुखप्रयत्नादय उत्पद्यमानाः तस्मिन्नवछेदकभेदेन संभवंति तस्याणुत्वे तु कथं तेषां यौगपद्यनिर्वाहः । तत्राह द्रोणमिति । अनुगतेष्टित्यनंतरं जीवांशेष्वितिशेषः व्यूहः काय व्यूहगतेष्वित्यनंतरमपि जीवांशेष्वितिशेषः । भोगानां भुज्यमानसुखादीनां वैचित्र्यं युगपन्नाना विधत्वं युगपदनेकशरीराधिष्ठानं च योगिनां खांशैः संभवतीत्यर्थः । जीवाणुत्वपक्षेन केवलमनुपपति सामान्याभावः । किं तु लाभोप्यस्तीत्याह । एवं चेति । जीवस्याणुत्वे सतीत्यर्थः असंकरादिति । एकस्मिन् शरीरे सर्वेषां जीवानां प्रवेशाभावादित्यर्थः । विभोरिति । जीवस्यापि विभुत्वे लक्षणभेदाभावादीशात् भेदो न सिध्येत् अणुत्वेत्वत्यंत वैलक्षण्यात् भेदः सुगम इति भावः । अर्वाचीन कल्पनं दूषयति । अत्रोक्तमिति । एवमपीति जीवस्याणुत्वसांशत्व कल्पनेपीत्यर्थः । जीवस्य स्वांशगतसुखाद्यनुसंधानं जीवांतरगतसुखाद्यननुसंधानं चाभ्युपगछतात्वयाभेदो ननु संधानप्रयोजकः । अभेदश्च तदनुसंधानप्रयोजक इति वक्तव्यं तत्राननुसंधानप्रयोजकभेदोभेदमात्रं वा शुद्धभेदो वा आद्ये चैत्रः स्वांशगतसुखादिकं नानुसंधानप्रयोजकभेदस्य सत्वाद्यदि सत्यपि भेदे स्वांशगतमनुसंदध्यात् । तदा चैत्रोगेत्र गत सुखादिकं प्. ९७ब्) मप्यनुसंदध्यादित्याह । चैत्रस्येति । अंशांऽशिनोरननुसंधानप्रयोजकभेदासिद्धिमाशंक्यतं । साधयति कायव्यूहेति वियुज्येति । अंशिनः सकाशाद्विभागं प्राप्येत्यर्थः । अन्यत्रेति । योगिनो निजशरीरादन्यत्र कायव्यूह इत्यर्थः । तयोर्भेदो नास्माभिः साधनीय इत्याशयेनाह । अंशांशिनोरिति । ननुभेदमात्रं अननुसंधानप्रयोजकतयानेष्यते । येन जीवस्वांशगमपि सुखादिकं नानुसंदध्यात् यद्यनुसंदध्यात् । तदा जीवांतरगतमपि तदनुसंदध्यात् दितिदोषः प्रसज्येत किंतु विशेषतो भेद इति द्वितीयं शंकते । न चेति ।। नाद्यः अंशो ह्येष परमस्य ममैवांशो जीवलोके अंशो नानाव्यपदेशादिति श्रुतिस्मृति सूत्रैर्जीवस्य ब्रह्मांशत्वप्रतिपादनैन ब्रह्मजीवयोर्भोगसांकर्य प्रसंगात् । ननु जीवांशानां जीवं प्रतीव जीवस्य ब्रह्मप्रतिनांशत्वं किं त्व चंद्रबिंबस्य गुरुबिंबः शतांश इति वत्सदृशत्वे सति ततो न्यूनत्वमात्रमौपचारिकांशत्वमिति चेत् । किं तदेनदतिरेकेण मुख्यमंशत्वं जीवांशानां जीवं प्रतिपदत्राननुसंधानप्रयोजकं शरीरे निवेश्यते । प्. ९८अ) न तावत् पटं प्रतिजंतूनामिवारंभकत्वं जीवस्यानादित्वात् । नापि महाकाशं प्रतिघटाकाशादीनामिव प्रदेशत्वं टंकछिन्नपाषाणशकलादीनामिव खंडत्वं वा अणुत्वेन निःप्रदेशत्वात् । अछेद्यत्वाच्च भिन्नाभिन्नद्रव्यत्वमंशत्वमभिमतमिति चेत् न तथा सति जीवेश्वरयोर्जीवांशानां च भोगसांकर्यप्रसंगात् । स्वतो भिन्नानां तेषां चेतनत्वादिनाऽभेदस्यापि त्वयांगीकारात् । समूहसमूहिनोर्भेदाभेदवादिनस्तवमते एकसमूहांतर्गतानां जीवानां परस्परमप्यभेदस्य त्वाच्च ।। आद्ये कल्पे जीवेश्वरभेदस्यांशांशिभाव सह चरितत्वेन शुद्धभेदत्वान्नावातयोः परस्परं सुखाद्यनुसंधानं स्यादित्याह । नाद्य इति । जीवेश्वरयोरंशांशिभावे मानमाह । अंशोहिति । परमस्य परमात्मनः जीवलक्षणो लोको जीवलोकः ननु भेदस्यांशांशिभावमात्रा सह चरितत्वं शुद्धत्वं न भवति । किंतु मुख्यांशांशिभावा सह चरितत्वं जीवेश्वरयोरंशांशित्वं तु न मुख्यमतेः तयोर्भेदे मुखाशांशिभावा सह चरितत्वरूपशुद्धत्वस्य सत्वान्नोक्त दोष इति शंकते । प्. ९८ब्) नन्विति जीवं प्रतीति । तथा च जीव तदंशयोर्भेदे मुख्यांशांशिभाव सह चरितत्वस्यैव सत्वेन तद सह चरितत्वरूपशुद्धत्वाभावादनुसंधो नोपपतिरितिभावः । नांशत्वमित्यनंतरं मुखमितिशेषः कांतिमत्वं । मुख्यांशांशिभावा सह चरित भेदो ननुसंधानप्रयोजक इत्यत्र मुख्यांशांशिभावो दुर्निरूप इत्याह । किं तदिति । यन्मुख्यमंशत्वमत्रप्रयोजकशरीरे निवेश्यते तदेतदतिरेकेण किमिति योजना मुख्यमंशत्वं आरंभकावयवत्वं वो प्रदेशत्वं वा खंडत्वं वा भिन्नाभिन्नद्रव्यत्वं वेति किं शब्दार्थः । तत्राद्यं निराकरोति । न तावदिति । द्वितीय तृतीयौ क्रमेणानूद्यदूषयति । नापीत्यादिना । जीवस्याणुत्वेन प्रदेशासंभवादणुत्वेनैव द्वैधीभावा योग्यत्वाच्चेत्यर्थः । चतुर्थं शंकते । भिन्नाभिन्नेति । जीवांशानां जीवेन सह भिन्नद्रव्यत्वं मुख्यमंशत्वमभिमतं तदेव चाननुसंधानप्रयोजकशरीरे निवेश्यते । तथा च भिन्नाभिन्नद्रव्यत्वा सहचरितभेदः शुद्धभेदः स चाननुसंधानप्रयोजक इति निष्कर्षः । तत्र दूषणमाह । तथा सतीति । जीवेश्वरयोस्त्वयाभिन्नाभिन्नद्रव्यत्वाभ्युपगमात् । तयोर्भेदः शुद्धभेदो न भवति । तथा जीवाशानां परस्परं भिन्नाभिन्नद्रव्यत्वस्य त्वया स्वीकारा तेषां भेदोपि शुद्धभेदो न भवति । तथा चाननुसंधानप्रयोजका भावाज्जीवेश्वरयोर्जीवांशानां च भोगसांकर्य प्रसंग इत्यर्थः । चेतनत्वादिनेति सत्व द्रव्यत्व संग्रहार्थमादिपदं दूषणांतरमाह । समूहेति । समूहस्य समूहिनां च परस्परं भिन्नात्वे सत्य प्. ९९अ) भिन्नत्वमंगीकुर्वतस्तवमते समूहिनामपि परस्परभिन्नत्वमावश्यकं । तथा च उत्मवादौवेकत्रमिलितानां जीवानां भिन्नानां परस्परमभिन्नद्रव्यत्वस्यापि सत्वा तेषां परस्परं भेदः शुद्धभेदो न भवति भिन्नाभिन्नाभिन्नद्रव्यत्व सहचरितत्वा तथा च परस्परं तेषां सुखाद्यनुसंधान प्रसंग इत्यर्थः ।। स्वाभिन्नसमूहाभिन्नेन स्वस्याप्यभेदस्य दुर्वारत्वात् । यदि संयोगादीनां जातेश्चानेकाश्रितत्वं स्या तदागुणगुण्यादेरभेदात् । तदा घटाभिन्नसंयोगाभिन्नपटादेरपि घटाभेदः प्रसज्येत इत्यादि च दतात्वया तदभिन्नाभिन्नस्य तदभेदनियमाभ्युपगमात् । न च जीवांतरस्य धारण चेतनत्वादि धर्मैक रूप्यैक समूहांतर्गत्यादि प्रयुक्ताभेदविलक्षणमभेदांतरमंशांशिनोरस्ति भेदेप्यनुसंधानप्रयोजकं यदत्रा नति प्रसंगाय विनक्ष्येत तथा सति तस्यैव विशिष्यनिर्वक्तव्यत्वापतेः । धर्मैकरूप्याद्यप्रयुक्तत्वमंशाशिनोरभेदे विशेष इति चेत् ।। प्. ९९ब्) ननु समूहिनां समूह्य भिन्नत्वेपि । न तेषां परस्परमभिन्नत्वमस्मन्मतेऽस्ति अतो नोक्तदोष इत्याशंक्याह । स्वाभिन्नेति । स्वयमेकः समूही देवदतः तदभिन्नः समूहः तदभिन्नो यज्ञदतः तेन सहस्वस्यापि देवदतस्याप्यभेदस्य तस्य च मते दुर्वारत्वात् । त्वया तदभिन्नाभिन्नस्य तदभिन्नत्वनियमाभ्युपगमादित्यर्थः परं प्रत्युक्त नियमाभ्युपगमं साधयति । यदीत्यादिना । गुणगुण्योर्जाति व्यक्त्योश्चाभेदवादिनं प्रतिदूषणपरोयं जीवाणुत्ववादिग्रंथो यदीत्यादिः । गुणगुण्योरभेदमंगीकृत्य यदि गुणस्य संयोगविभागद्वित्वादेरनेकाश्रितत्वमभ्युपगम्येत तथा जातिव्यक्त्यारभेदमुपेत्य यदि जातेरनेकाश्रितत्वेमभ्युपगम्येत तदा पटादेरपि घटाभेदप्रसंग इति । तत्र हेतुगर्भं विशेषणमाह । घटाभिन्नेति । घटाभिन्नः संयोगः तदभिन्नत्वात्पटादरित्यर्थः । ननु जीवेश्वरयोर्जीवोंशानां समूहाभिन्नजीवानां च योयंवेतनत्वादि धर्मप्रयुक्ताभेदः एकसमूहाभेदप्रयुक्ताभेदश्च तदपेक्षयान्य एवाभेदो जीव तदंयोरस्ति अतस्तयोर्भेदे सत्यपि परस्परमनुसंधानं जीवेश्वरयोर्जीवांशानां समूहिजीवानां च तादृशाभेदाभावाच्चेतनत्वादि प्रयुक्ताभेदे सत्यपि न परस्परमनुसंधानमिति प्. १००अ) व्यवस्था तथा च भिन्नाभिन्नद्रव्यत्वा सहचरितभेदः शुद्धे भेदः स चाननुसंधानप्रयोजक इत्यत्र जीव तदंशयोः परस्परानुसंधानप्रयोजकत्वाभिमतो विलक्षणाभेद एव प्रविष्ट इति जीवेश्वरादौ तादृशाभेदघटित भिन्नाभिन्नद्रव्यत्वा सहचरितभेदसत्वान्नोक्ताति प्रसंग इति शंकां निराकरोति । न चेति । जीवतदंशयोरिव जीवांतराणामपि साधारणो यश्चेतनत्वादि धर्मैकरूप्यप्रयुक्त एकसमूहांतर्गत्यादिप्रयुक्तश्चाभेदः तद्विलक्षणमित्यर्थः । जीवेश्वर गतस्यामुख्यांशांशिभावस्य संग्रहार्थमादिपदं अंशांशिनोर्भेदे सत्यपि तयोरनुसंधानप्रयोजकभेदांतरं ने चास्ति यदभेदांतरं जीवेश्वरादावति प्रसंगपरिहाराय भिन्नाभिन्नद्रव्यत्व शरीरप्रविष्टतया विवक्ष्येतेति योजना नन्वभेदांतरं कुतो नास्तीत्वाशंक्याह तथा सतीति विलक्षणाभेदस्यांशांशिनोः सत्व इत्यर्थः । जीवेश्वराद्यभेदापेक्षया जीव तदंशयोरभेदस्य विशेषं विशेषतौ निर्वक्ति धर्मैकरूप्याद्य प्रयुक्तत्वमिति ।। न जीवतदंशयोश्चोतनत्वादि धर्मैकरूप्यसत्वैनेकशरीरावछेदेकायव्यूहमेलने च समूह सत्वेन च तयोरभेदे धर्मैकरूप्यादि प्रयुक्तत्वस्यापि संभवात् धर्मैक प्. १००ब्) रूप्यादिप्रयुक्ताभेदांतर सत्वेपि जीव तदंशयोरंशांशिभावप्रयोजकाभेदो न तत्प्रयुक्त इति चेत् न तयोरभेदद्वयाभावात् । त्वन्मतेऽधिकरणैक्ये सति भेदस्याभेदस्य वा प्रतियोगिभेदेन तदाकारभेदेन वानेकत्वानभ्युपगमात् । तस्मादाद्यपक्षे सुस्थोति प्रसंगः । एतेनैव द्वितीय पक्षोपि निरस्तः । अभेदा सह चरितभेदस्याननुसंधानप्रयोजकत्वे उक्तरीत्यात्वन्मते जीवब्रह्मणो जीवानां चाभेदस्यापि सत्वेनाति प्रसंगस्य दुर्वारत्वात् । नन्वभेदप्रत्यक्षमनुसंधाने तंत्रमिति तदभावेः । ननुसंधानं स्वस्य स्वाभेदः स्वांशाभेदश्च प्रत्यक्ष इति तद्द्रष्ट्रर्दुखाद्यनुसंधानं जीवांतरेणऽभेदसत्वेपि तस्याप्रत्यक्षत्वान्न तदुःखाद्यनुसंधानं । उक्त विशेषासिद्धिमाह । न जीवेति । जीवस्य तदंशानां च चेतनत्व सत्वद्रव्यत्वादि धर्मैकरूप्यमस्ति तथा जीवस्य तदवयवानां चैकशरीरानुप्रवेशकाले प्. १०१अ) तछरीरावछेदेन समूहोप्यस्ति तथा योगि जीवावयनां कायव्यूहशब्दितानेकशरीरेषु प्रविष्टानां कदाचित् तेषां शरीराणां मेलने सति योगि जीवेनांशिना सहस्रमूहोस्मि तथा च जीवतदंशयोरभेदे धर्मैकरूप्यादिप्रयुक्तत्व संभवातदप्रयुक्तत्वमसिद्धमित्यर्थः । ननु जीवानां चेतनत्वादि धर्मैकरूप्यादिप्रयुक्ताभेदसत्वेपि तेषामंशांशिभावादंशांशिभावप्रयोजकाभेदोन्य एव स च न धर्मैकरूप्यादिप्रयुक्त इति शंकते । धर्मैकरूप्यादीति जीवांतरसाधारणाभेदस्य धर्मैकरूप्यादि प्रयुक्तस्याप्य परिहार्यत्वा तस्याप्यभ्युपगमे सति जीव तदंशयोरभेदद्वयमभ्युपगते परस्य मते प्रसज्यते । ओमिति वदंतं परं प्रत्याह । न तयोरिति । अंशांशिनोरित्यर्थः । तदा कोरेति प्रतियोग्याकारेत्यर्थः । प्रतियोगितावछेदकेति यावत् । भेदस्यानेकत्वानभ्युपगमोपन्यासो दृष्टांतार्थः । तस्यादिति । जीवेश्वरयोर्यः पूर्वमंशाशिभावो निरूपिता तदतिरेकेण जीवतदंशयोर्मुखस्यांशांशिभावस्य दुर्निरूपत्वादित्यर्थः । तथा च जीवैश्वरयोर्भेदस्य निरूपितांशांशिभावसहचरितत्वेन तदसहचरितत्वरूपशुद्धत्वाभावे सत्यननुसंधानप्रयोजक शुद्धभेदाभावाज्जीवेश्वरयोः परस्परं भोगसांकर्यप्रसंगरूपो दोषः स्थिर इत्यर्थः । आद्यपक्ष इति अशांशिभावा सहचरितत्वं शुद्धत्वमिति पक्ष इत्यर्थः । अभेदासहचरितत्वं शुद्धत्वं भेदस्येति पक्षं प्. १०१ब्) वक्ष्यमाण हेतुना निराकरोति । एतेनेनैवेति । उक्तरीत्येति । चेतनत्वादि धर्मैकरूप्यमुक्तारीतिः । जीव तदंशयोरिव जीव ब्रह्मणोर्जीवाअनां चाभेदमुपेत्यापि पूर्वोक्ताति प्रसंगपरिहारं शंकते नन्विति स्वस्येति अंशिनो जीवस्येत्यर्थः । जीवांतरेणेति । स्वस्येत्यिनुसंगः ।। जातिस्मरस्य प्राग्भवीयात्मनाप्यभेदस्य प्रत्यक्ष सत्वा तद्वृतांतानुसंधानमन्येषां तदभावान्नेत्यादि सर्वं संगछत इति चेत् । तर्हि ऐकात्म्यवादेपि सर्वात्मतावरकाज्ञानावरणाच्चैत्रस्य न मैत्रात्माद्य भेदप्रत्यक्षमिति तत एव सर्वव्यवस्थोपपतेर्व्यर्थः । श्रुति विरुद्धात्मभेदाभ्युपगमः । न चेत्थमपि प्रपंचतत्ववादिनः तव व्यवस्था निर्वाहः सर्वज्ञस्येश्वरस्य वस्तु स जीवांतराभेदप्रत्यक्षावश्यंभावे न जीवेषु दुःखवत् स्वहं दुःखीत्यनुभवापतेः । अस्मन्मते त्वीश्वरः स्वाभिन्ने जीवे संसारं प्रतिमुखे मालिन्यमिव पश्यन्नपि मिथ्यात्वनिश्चयान्न शोचतीति नैष प्रसंगः स्यादे प्. १०२अ) तन्माभूदंश भेदं शंकरशिरश्चरणादीनां काय व्यूहस्य चाधिष्ठानमात्मदीपस्यानपायिनी ज्ञानप्रभास्तिव्यापिनीति तयैव सर्वाधिष्ठानं भविष्यतीति चेत् ।। जातिस्मरस्येति । पूर्वजन्मस्मरणवत इत्यर्थः । सर्वेति सर्वात्मतावरकं । यदज्ञानं तत्प्रयुक्तावरणादित्यर्थः । तत एवेति चैत्र मैंत्रादीनां सर्वेषां परस्परमभेद प्रत्यक्षाभावादेव व्यवस्थिततया सुखाद्यननुसंधानोपपतेरित्यर्थः । अभेदप्रत्यक्षस्यानुसंधानप्रयोजकत्वमुपेत्यपरमते आत्माभेदकल्पनागौरवं श्रुतिविरोधं च दर्शयित्वा परमते तस्य प्रयोजकत्वमपि न संभवत्यति प्रसंगादित्याह । न चेत्थमपीति । अभेदप्रत्यक्षमवुसंधानप्रयोजकमिति कल्पनयापीत्यर्थः । वस्तुसन् परमार्थो यो जीवांतराभेदः तत्प्रत्यक्षमीश्वरस्यावश्यकं । अन्यथा असर्वज्ञत्वप्रसंगः स्यादित्यर्थः । ननु सिद्धंतेपि ब्रह्मणः सर्वज्ञत्वजीवाभिन्नत्वयोः सत्वादुक्तदोषप्रसंग इति नेत्याह । अस्मत्मत इति । यत्तु जीवानां सावयवत्वात् करशिरश्चरणानुगतेषु जीवांशेषु सुखदुःखादि यौगपद्यं संभवति योगिनां कायव्यूहगतेषु योगिजीवावयवेषु युगपत्सुखदुःखादिभोगवैचित्र्यं च संभवतीति न काचिदनुपपतिरिति तन्न जीवं प्रतिजीवांशानां प्. १०२ब्) सुख्यांशत्वस्यापि निरस्तत्वाज्जीवं प्रति तदंशानां जीवसदृशत्वे सति जीवापेक्षया न्यूनपरिमाणत्वरूपौपाचारिकांशत्वस्यापि जीवाणुत्वपक्षे बाधितत्वाच्च अणुपरिमाणस्यैव सर्वपरिमाणापेक्षया न्यूनपरिमाणत्वेन ततोपि न्यूनपरिमाणाभावात् सदृशत्वे सति ततो न्यूनत्वरूपांशत्वस्य चंद्रबिंबांश गुरुबिंबवज्जीवांशानां जीवापेक्षयात्यंतभेदप्रयोजकत्वेन जीवस्य स्वांशगतसुखाद्यनुसंधातृत्वासंभवाच्च तथा योगि जीवांशानां कायव्यूहाधिष्ठातृत्वेपि तेभ्योत्यंतभिन्नस्य योगि जीवस्य कायव्यूहाधिष्ठातृत्वाभावप्रसंगा तथा शरीरधिष्ठातुर्जीवस्य शरीरावयवशिरश्चरणाद्यधिष्ठातॄणां जीवांशानां चात्यंतभिन्नत्वेनैकस्मिन् शरीरे भोक्तृतानात्वप्रसंगात् जीवस्य सांशत्वे मानान्नावाच्च द्रोणं बृहस्पतेभीगमिति । वचनस्य वर्णितरीत्यादुक्तांशपरत्वाभावेन बृहस्पत्यादेर्योगप्रभावेणभूतारहरणादिदेव कार्यार्थं शरीरांतरपरिग्रहमात्रपरत्वात् । एतेन श्रीरामकृष्णादेर्विष्णुंशत्व व्यवहारोपि व्याख्यातः तस्माज्जीवांशविशेषस्य करशिरश्चरणाद्यधिष्टातृत्वं कायव्यूहाद्यधिष्ठातृत्वं च न संभवतीति पूर्वग्रंथस्याशये स्थिते शंकते स्यादेतदिति अधिष्ठानमिति । प्रेरक इत्यी भविष्यतीति । जीवः स्वयमणुतया शरीरैकदेशस्थोपि स्वसमचैतेन व्यापि ज्ञानेन करशिरश्चरणादीन् कायव्यूहं चाधि तिष्ठतीति प्. १०३अ) निरंशस्याप्यणोर्जीवस्य कृत्स्नशरीरोधिष्ठातृत्वादिकं नानुपपन्नमितिभावः ।। न ज्ञानवदात्मसुधर्मस्य सुखदुःखभोगस्य ज्ञानमाश्रित्योत्यत्यसंभवे नर चरणाद्यवयवभेदेन कायव्यूहवतः कायभेदेन च भोगवैचित्र्याभावप्रसंगात् । सुखदुःखभोगादिर्ज्ञानधर्म एवनात्मधर्म इत्युपगमे तद्वैचित्र्येण आत्मगुणस्य ज्ञानस्य भेदसिद्धावप्यात्मनो भेदासिद्ध्याभोगवैचित्र्यादिना आत्माभेदप्रतिक्षेपा योगाद्भोगाद्याश्रयस्यात्मनोणत्वेन प्रतिशरीरं विछिन्नतया तद्व्यापित्ववाद इव तदभेदवाद इवचनधर्मसंकरापतिरिति मतहानेश्च तस्माज्जीवस्याणुत्वोपगमेन व्यवस्थोपपादनेन युक्तं नापि तेन तस्येश्वराद्भेदसाधनं युक्तं उत्क्रांत्यादिश्रवणात्साक्षादणुत्व श्रवणाच्चाणुर्जीव इति वदतस्तवमते तत्सृष्टातदेवानुप्राविशत् अंतःप्रविष्टः शास्ताजनानां गुहां प्रविष्टौ परे मे परार्द्ध्ये इत्यादि श्रुतिषु प्रवैशादिश्रवणात् स एषोणिमा एषम प्. १०३ब्) आत्मांतं हृदयोणीयान् ब्रीहेर्वायवाद्धेति श्रुतेः साक्षादणुत्व श्रवणाच्च परोप्यणुरेव सिध्येदिति कुतः परजीवयोर्विभुत्वाणुत्वाभ्यां भेदसिद्धिः नन्वाकाशवत्सर्वगतश्च नित्यः ज्यायान् दिवोज्ज्यायांनंतरिक्षादित्यादि श्रवणात् ।। ज्ञानमाश्रित्येति । ज्ञानधर्मत्वे हि सुखादेर्ज्ञाने उत्पतिः संभवे ततश्च ज्ञानस्य व्यापकता तदाश्रित सुखादिरूपभोगस्यापि करशिरश्चरणादौ कायव्यूह च युगपदुदयः संभवेन्नतत्वया सुखादेर्ज्ञानधर्मत्वमिष्यते । तस्य ज्ञानवदात्मधर्मत्वाभ्युपगमादंशि ज्ञानस्य व्यापित्वेपि न करशिरश्चरणादौ कायव्यूहे च युगपद्भोगवैचित्र्यं संभवतीत्यर्थः । कायव्यूहवृत इति । योगिन इति शेषः तस्य च भोगवैचित्र्यं स्मर्यर्तौ क्षिपेच्च पुनस्तानि सूर्योरश्मिगणानिवेति । आत्मनां शरीराणां बलं योगजनितं सामर्थ्यं । तर्हि ज्ञानधर्मत्वमेव सुखादेरस्तु यदि तद्धर्षत्व भोगवैचित्र्यं संभवेत् तत्राह । सुखदुःखभोगादिरिति । असिद्ध्यति आत्मगुणज्ञाननिष्ठस्य भोगवैचित्र्यस्य व्यधिकरणतयो आत्मभेद साधकत्वासंभवादित्यर्थः । सुखादेर्व्यापि ज्ञानधर्मत्वं स्वमतविरुद्धं चेत्याह । भोगाद्याश्रयस्येति । नैययायिकादि मत इवाद्वैतमत इव चेत्यर्थः । तस्मादिति । आत्मगुणस्य ज्ञानसुखादेर्व्यापि प्. १०४अ) त्वकल्पनायोगादित्यर्थः । जीवाणुत्वाभ्युपगमस्य पराभिमतं प्रयोजनांतरं । आत्मनां च सहस्राणि बहूनि भरतर्षभयोगी कुर्यात् बलं प्राप्यतैश्च सर्वां सह्ये चरेत् प्राप्नुयाद्विषयान् कैश्चित्कैश्चिदुग्रंत पश्चरेत् सं ५ त्रुटित् दूषयति । नापि तेन तस्येति जीवस्याणुत्वे नेत्यर्थः । श्रुति तदर्थापतिभ्यां जीवस्याणुत्वं वदतस्तवमते ताभ्यामेवेश्वराणुत्वस्थापि दुर्वारत्वान्नेश्वरस्य विभुत्वसिद्धिस्तदसिद्धौवनतवेष्टसिद्धिरिति दूषयति । उत्क्रांत्वादिति । वदंतस्तवपक्षेप्यणुरेवसिध्येदिति संबंधः । तत्सृष्टोत्यवतत्पदद्वयं जगत्परं प्रकृतः परमात्मासृष्ट्यादिकर्ता अंतरिति शरीरेष्वितिशेषः शास्तानियंतापरस्यार्द्धस्थानमर्हतीति परार्द्ध्यं परममुत्कृष्टं हार्दाकाशं तस्मिन् या बुद्धिलक्षणागुहातां प्रविष्टौ जीवेश्वरावित्यर्थः । प्रवेशादिति । शरीरांतस्थत्वादिकमादिपदार्थः स उपक्रमे प्रकृत एषः संनिहितः अणिमा अणुर्भाव प्रत्ययो न विवक्षिप्तः मे हृदयेंतरेषः प्रकृतोभाक्रूपत्वादिगुणक आत्मावर्तते स च ब्रीह्माद्यपेक्षयाणुतर इत्यर्थः । अनन्यथा सिद्धशुत्यादि वशेन विभुत्वमीश्वरस्य शंकते । नन्विति । ज्यायात्महतरःराः ।। सर्वप्रपंचोपादानत्वाच्च परस्य सर्वगत्वसिद्धेः तदणत्वश्रुतयः उपासनार्थादुर्ग्रहत्वाभिप्रावा उन्नेयाः प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः । न च जीवोत्क्रांत्यादि श्रुतयोपि प्. १०४ब्) बुद्ध्या उपाधिनानिर्वोदुंशक्या इति शंक्यं तमुत्क्रामंतं प्राणोनूत्क्रामतीति प्राणाख्य बुद्व्युत्क्रांतेः प्रावेव जीवोत्क्रांति वचनात् । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति टिव्यमिति नामरूपमोक्षानंतरमपि गति श्रवणाच्च त चथानः सुसमाहितमुत्सुर्जन्यायादेवमेवायं शारीर आत्माप्राज्ञे नात्मनान्वारूढ उत्सर्जन्यातीति स्वाभाविकगत्याश्रयशकट दृष्टांतोक्तेश्चेति चेत् । नैतत्सारं स वा एष महानज आत्मायोयं विज्ञानमयः घटसंवृत आकाशे नीयमाने घटे यथा घटोनियेतनाकाशं तद्वज्जीवो नभोपम इत्यादि श्रुतिषु जीवस्यापि विभुत्वश्रवणात् ।। परस्य विभुत्वे लिंगमाह । सर्वेति । परमाणुत्व श्रुतीनामन्युथा सिद्धिमाह । तदणुत्वेति । उपासनार्था इति अणीयान् ब्रीहेर्वेत्या विश्रुतय इत्यर्थः । दुर्ग्रहत्वेति स एषोणिमेत्यादि श्रुतय इत्यर्थः । आसामुपासनाप्रकरणगतत्वाभावादिति भावः । व्यवस्थितविकल्पवाचीवाकारः प्रवेशादि श्रवणस्यान्यथा सिद्धिमाह । प्रवेश श्रुतयश्चेति परमेश्वरस्य स्वेछापरिगृहीत प्. १०५अ) शरीरेंद्रिय प्रवेशोपाधिकः शरीरेष्वंतः प्रवेश इत्यर्थः । ननु जीवाणुत्व श्रुति लिंगानामप्यन्यथा नयन संभवाज्जीवस्यापि स्वाभाविकं विभुत्वं किं न स्यात् तथा च न तस्याणुत्वसिद्धिरिति सिद्धांतिनः शंका मनूद्यनिराकरोति । जीवाणुत्ववादी न चेत्यादिनातमुत्क्रामंतमिति । न चात्र श्रुतौ प्राणोप्राणोत्क्रांतेः प्रागेव जीवस्योत्क्रांति श्रवणेपि न केवलस्य तस्योत्क्रांति सिद्धिंर्बुद्धि विशिष्टस्योत्क्रांति संभवादिति वाच्यं बुद्धिप्राणयोर्भेदासिद्धेस्तयोरभेदस्यैव श्रुति सिद्धत्वाच्च तथा च श्रुतिर्यो वै प्राणः सा प्रज्ञाया वा प्रज्ञा स प्राण इति प्रज्ञाबुद्धिरित्याशयेनाह प्राणाख्या बुद्ध्यत्क्रांतेरिति । नामरूपशब्दितोपाधिनिवृत्यनंतरमपि जीवस्य ब्रह्म प्रतिगतिः श्रूयते । तथा च यथा उत्क्रांते रौपायिकत्वं न संभवति तथा गतेररपौपाधिकत्वं न संभवतीत्य मध्यमपरिमाणस्य जीवस्य स्वाभाविकमणुत्वं स्वीकर्तव्यमित्याशयेनाह । तथा विद्वानिति पराद्धिरण्यगर्भात् जीवस्या स्वाभाविके गत्याश्रयत्वे सत्येव दृष्टांतविशेषः संगछते न्यथा तद्वैरूप्यं स्यादित्याशयेनाह । तद्यथेति । ततत्र जीवस्य पारलोकं प्रतिगमने दृष्टां तत उच्यते । अनः शकठंसुसमाहितं गृहोपकरणैः पूर्णमुत्सर्जन् शब्दं कुर्वन् पायात् । गछेद्यथा एवं जीव ईश्वरेणान्वारूढः प्रेरितो गछति परलोक इत्यर्थः । तथा च जीवस्याणुत्वे प्. १०५ब्) स्वाभाविके सिद्धे सत्यणुत्वविभुत्वाभ्यां जीवेश्वरयोर्भेदसिद्धिरिति भावः । सिद्धांती दूषय इति । नैतत् सारमिति । यथा परमात्मप्रकरणे श्रुतं परस्य विभुत्वमन्यथानेतुमयुक्तं तथा जीव प्रकरणे श्रुतं जीवस्य विभुत्वमप्यन्यथा नेतुमयुक्तमित्याशयेनकतम आत्मेत्यादि जीवप्रकरण गतं वाक्यं जातमुदाहरति । स वा इत्यादिना विज्ञानमयो जीवो महान् व्यापक आत्मेति जीवस्य व्यापकत्व श्रवणादित्यर्थः । नभोपम इत्यनेन स्वतो जीवस्य विभुत्वमुच्यत इत्यर्थः । इयं श्रुतिः प्रागेव व्याख्याता ।। त्वन्मते प्रकृतेरेव जगदुपादानत्वेन ब्रह्मणो जगदुपादानत्वा भावात् । जीवस्य कायव्यूहुगत सुखदुःखोपादानत्ववदणुत्वेपि जगदुपादानत्वसंभवाच्च । ततस्तस्य सर्वगत्वासिद्धेः । तत्प्रवेश श्रुतीनां शरीरोपाधिकत्वकल्पने जीवोत्क्रांत्यादि श्रुतीनामपि बुद्ध्युपाधिकत्वोपगमसंभवात् । पंचवृतिर्मनोवद्यय दिश्यत इति सूत्रभाष्ये बुद्धिप्रायोः कार्यभेदस्य प्रतिपादितत्वेन बुद्ध्यपाधिके जीवे प्रथममुत्क्रामति प्राणस्यानूत्क्रमणोपपतेः प्. १०६अ) नामरूपमोक्षानंतरं ब्रह्मप्रामिश्रवणस्य प्राप्तरिजीवे इव प्राप्ये ब्रह्मण्यपि विभुत्वविरोधित्वात् । प्राकृतनामरूपविमोक्षातंतरमर्प्य प्राकृततोकविग्रहाद्युपाधाने ब्रह्मणः प्राप्तव्यत्ववादिमने प्राप्तुर्जीवस्याप्यप्राकृत देहेन्द्रियादि सत्त्वेन तदुप्राधानेन ब्रह्मप्राप्ति श्रवणाविरोधात् । स्वाभाविक गत्याश्रय शकट दृष्टांतश्रवणमात्राज्जीवस्य स्वाभाविक गति सिद्धौ गुहां प्रदिष्टाविति स्वाभाविक प्रवेशाश्रय जीवसमभिव्याहारेण ब्रह्मणोपि स्वाभाविक प्रवेशसिद्धिसंभवात् । विभुत्वेन न्यथासिद्धश्रुतिसाम्यमुक्त्वापरस्परोक्त विभुत्व लिंगं विघटयति । तन्मत इति । प्रकृतिर्माया परस्य ब्रह्मणः सर्वप्रपंचोपादानत्वमुपेत्यापि न तद्विभुत्वसाधकमियत्याह । जीवस्येति । अणोरितिशेषः । ततः सर्वोपादान त्वात्तस्येत्यर्थः । जीवाणुत्वश्रुतिलिंगानामन्यथा नयनमपि तुल्यमेवैत्याह । तत्प्रवेश श्रुतीति । ब्रह्मप्रवेशेत्यर्थः । पंचप्राणापानादिलक्षणावृतयो यस्य मुख्यप्राणस्य सः पंचवृतिः प्राणः श्रुतिषु व्यपदिश्यतै बहुवृतिमत्वमात्रे च दृष्टांतः मनो वदिति । प्. १०६ब्) प्राणापानादि वृतीनां चोछासादिकं प्रत्येत्येकं कार्यमिति द्रष्टव्यं । तथा च दृष्टांत दार्ष्टांतिक भावेन सूत्रे मनःशब्दितबुद्धेः प्राणस्य च भेदौ निर्दिष्टः । स च बुद्धींद्रिय कार्यविषयो लोचनापेक्षया विलक्षणस्योछासादि क्रियारूपकार्यस्य प्राणे दर्शनात् । प्राणो बुद्ध्यादिभ्यो भिन्न इत्यादिप्रकारेण भाष्ये साधित इत्यर्थः । यो वै प्राणः सा प्रज्ञेति श्रुतौ प्रज्ञाप्राणयोर्भेदे सत्यपि प्रज्ञाप्राणोपहितस्य प्रत्यगात्मन एकत्वादुपहितात्प्राधान्येन तयोरेकीकरणमविरुद्धमिति प्रतर्दनाधिकरणभाष्यो प्रतिपादितत्वान्न श्रुतिविरोधोपीतिभावः । यतु नामरूपोपाधि निवृत्यनंतरं जीवस्य ब्रह्मप्रतिगति श्रवणं जीवस्य विभुत्व विरोधीति तदयुक्तं तस्य ब्रह्मण्यपि विभुत्वविरोधित्वेन ब्रह्मणोपि तदंसिद्धिप्रसंगात् । लोके परिछिन्नस्यैव गंतव्यत्वनियमदर्शनादित्याह । नामरूपेति । ननु परमते ब्रह्मणो व्यापक स्वरूपेण न मुक्तप्राप्यत्वं किंतु लोकविशेषाद्युपहितत्वेन उपहितरूपेण प्राप्तव्य त्वं च न ब्रह्मणः स्वरूपेण व्यापकत्वविदोधीत्याशंक्यतुल्यमेव तत्तवमते जीवस्यापीत्याह । प्राकृतेति विद्वाम्नामरूपाद्विमुक्त इति श्रुतौ प्राकृतनामरूपाद्विमुक्त इत्यर्थं कल्पयता त्वया विदुषो जीवस्याप्यप्राकृतनामरूप स्वीकारेण स्वतो विभोरपि जीवस्याप्राकृतनामरूपोपाधिपरिछिन्नस्य प्. १०७अ) ब्रह्मप्रतिगंतृत्व संभवान्न विभुत्व श्रुतयो जीवविषयावायनीया इत्यर्थः ।। ब्रह्मजीवोभयान्वयि न एकस्य प्रवेश पदस्य एकरूपप्रवेशपरत्वस्य वक्तव्यत्वात् ततः परमते ब्रह्मजीवयोर्विभुत्वाणुत्वादि व्यवस्थित्य सिद्धेर्न कुतोपि भेदसिद्धिं प्रत्याशा अस्मत्मते ब्रह्मात्मैक्य परमहावाक्यानुरोधेनावांतरवाक्यानां नेयत्वात् स्वरूपेण जीवस्य विभुत्वमौपाधिकरूपेण परिछेद इत्यादिप्रकारेण जीव ब्रह्मभेदे प्रात्यायक श्रुतीनांमुपपादेनं भाष्यादिषु व्यक्तं तस्मादचेतनस्य प्रपंचस्य मिथ्यात्वाच्चेतन प्रपंचस्य ब्रह्माभेदाच्च न वेदांतानाम द्वितीये ब्रह्मणि विद्यैक प्राप्ये समन्वयस्य कश्चिद्विरोध इति । इति शास्त्रसिद्धांतलेशसंग्रहे द्वितीयः परिच्छेदः ।। २ ।। ननु प्रविष्टावित्यत्र प्रविष्टपदं जीवे स्वाभाविक प्रवेशार्थकं ब्रह्मणि तु शरीराद्युपाधिकृतप्रवेशार्थकमित्याशंक्य तथा सति सकृच्छृतस्य प्रतिष्टपदस्यार्थ प्. १०७ब्) वैरूप्यं प्रसज्येतेतिमत्वाह । ब्रह्मजीवो भयेति । यदि च ब्रह्मणो विभुत्व श्रुत्याद्यवुरोधेन प्रवेशमान्य परत्वमेव प्रविष्टपदस्य कल्पाते ननु तद्गतविशेषपरत्वमपि तर्हि जीवस्यापि विभुत्वश्रुत्यनुरोधेन शकटदृष्टांते गमनादि साम्यमात्रं विवक्ष्यतेन तु स्वाभाविक गत्या श्रयत्वादिकमपीति न जीवस्य स्वाभाविकाणुत्व सिद्धिः । तस्य तत्सिद्धौ वा ब्रह्मणोप्यणुत्वं दुर्वारं विनिगमनाविरहादिति भावः । तत इति उक्त व्यवस्थितेरित्यर्थः । ननु परमते जीवेश्वरयोरपि विभुत्वाणुत्व श्रुतिलिंगानामविशेषादुभयाणुत्व श्रुतिलिंगानामन्यथा सिद्ध्यविशेषाच्च तयोरणुत्वं विभुत्वं वा ससान तयैव सिध्येन्नत्वे कस्य विभुत्वमपरस्याणुत्वमिति व्यवस्था सिध्येदिति यथा दोषः प्रसज्यते । तथा सिद्ध्यंतेपि जीवस्य परिच्छिन्नत्व विभुत्वश्रुतिलिंगानामविशेषा तस्य स्वान्नाविकंविभुत्वं परिछिन्नत्वमौपाधिकमिति व्यवस्थान सिध्येदिति दोषः । प्रसज्यत एवेति नेत्याह । अस्मन्मत इति । ब्रह्मात्मैक्य ज्ञानस्य मुक्तिसाधनत्वातक्यानजनकानि तत्वमस्यादिवाक्यानि महावाक्यानि महावाक्यार्थज्ञानकारणी भूततत्वं पदार्थज्ञानं प्रतिसाधनभूतानि जीवस्वरूपप्रतिपादकवाक्यानीश्वर स्वरूपप्रतिपादकवाक्यानि चावांतर वाक्यानि महावाक्यशेषत्वात्पदार्थ प्रति प्. १०८अ) पादकवाक्यानामिति प्रधानवाक्यानुरोधेन गुणभूतवाक्यानां नेयत्वादित्यर्थः । स्वरूपेणेति । जीवस्य स्वरूपेणाणुत्वे महावाक्याप्रतिपाद्य ब्रह्माभेदानुपपतेर्ब्रमणश्च स्वरूपेण पूर्णत्वाभावे बहुश्रुत्यादि विरोधादितिभावः । अद्वितीये ब्रह्मणि वेदांतसमन्वयाविरोधसमर्थनरूपं परिछेदार्थमुपसंहरति । तस्मादिति । पंचम्यांतं पंचमीभ्यां विवृणोति । अचेतनस्येति । इति श्रीमत्परमहंसपरिव्राजिकाचार्य श्रीमत्स्वयंप्रकाशानंदसरस्वती दिव्यश्रीचरणारबिंदसंलग्नरजोभूतस्याच्युत कृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धान्तलेशसंग्रहव्याख्यायां द्वितीयः परिछेदः ।। २ ।। ओं श्रीगणेशाय नमः । अथ कोयमविद्यालेशोपदनुवृत्याजीवन्मुक्तिः आवरणविक्षेपशक्तिमत्यामूलाविद्यायाः प्रारब्धकर्म वर्तमानदेहाद्यनुवृति प्रयोजको विक्षेप शक्त्यंश इति केचित् । क्षालितलथुन भांडानुवृतलथुनवासना कल्पो विद्यासंस्कार इत्यन्येदपि पटन्यायेनानुवृतामूलाविद्यैवेत्यपरे सर्वज्ञात्मगुरवस्तु विरोधि साक्षात्कारोदये लेशतोप्यविद्यानुवृत्यसंभवात् ।। ओं श्रीगणेशाय नमः ।। ओं स्मृते सकलकल्याणभाजनं यन्न जायते । पुरुषस्तमजं नित्यं ब्रजामि शरणं हरिं ।। यत्र यस्मिन् हरौ स्मृते सतीत्यर्थः । नंदहस्तमवलंव्यपाणिनामंदमंदमरविदलोचनः संचरन् कनककिंकिणीरवस्संततं मम तनो तु मंगलं । यस्याः स्मरणमात्रेंण वाम्बिभूतिर्विजृंभते । सा भारती चिरं नित्यं रमतां मन्मुखां नुजें ।। यश्शिवो नामरूपाभ्यां या देवी सर्वमंगला । तयोस्संस्मरणात् पुंसां सर्वतो जयमंगलं ।। विघ्नेश विधिमार्तेड चंद्रेंद्रोपेंद्र वंदित । नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ।। अथ कोपमिति । तृतीय परिछेदे ब्रह्मज्ञानरूपं मुक्तिसाधनं सपरिकरन्निरूपितमिदानीं तत्फलभूतामुक्तिर्निरूप्यते । तथा च फलनिरूपण परस्य चतुर्थ प्. १ब्) स्मृतौ तत्पदं ब्रह्मपरमुक्तमिति । तेनैति ब्रह्मवित् पुण्यकृदित्यादि श्रुत्येति शेषः । तेन ब्रह्मवेद न पुण्ययोः समुच्चयेन एति ब्रह्मप्राप्नोतीति श्रुत्यर्थः । ज्ञानकर्मणोः समुच्चयस्य ब्रह्मप्राप्ति हेतुत्व श्रवणमनुमोदते । सत्यमिति । ब्रह्मप्राप्तेर्विद्यामात्रसाध्यत्व प्रतिपादक श्रुत्यंतरेण उपपति सहितेन विरोधात् समुच्चय श्रवणं तन्मूलकस्मृतिवचनं चक्रमसमुच्चय परतया नेतव्यमित्याशयेनाह । नान्यः पंथा इति । ब्रह्मज्ञानापेक्षया अन्यः ज्ञानकर्मसमुच्चयरूपः केवलकर्मरूपो वा पंथा । उपायो मोक्षं प्रतितास्तीति श्रुत्यर्थः । नित्यमात्मस्वरूपतया सिद्धस्य ब्रह्मणो वाप्तिरप्रात्यत्वभ्रमादि निवृतिरूपा भ्रमादि निवृतिश्च ज्ञानमात्रसाध्यत्वेन लोकै दृष्टा । यथा कंठगतायामेव कनमालायां विस्मृतायां सत्यां तस्यामप्राप्तत्वभ्रमेण बहुविधविक्षेपं प्राप्तस्य आप्तोपदेशजन्य ज्ञानमात्रेणाप्राप्तत्वभ्रमनिवृतिरूपा पूर्वसिद्धकनकमालावाप्तिः । तत्तुल्यायां नित्यसिद्धब्रह्मावाप्तौ विद्यातिरिक्तसाधनापेक्षाभावा तदतिरिक्तस्य भ्रमादि निवृतौ सामर्थ्या भावाच्चेत्यर्थः । परंपरया मुक्तावुक्तं कर्मणामुपयोगं प्रपंचयितुं पृछति । क्वतर्हीति । तर्हि ज्ञानवत् साक्षान्मुक्ति हेतुत्वाभावे सति क्वचि विदिषायां विद्यायां वा साधनत्वं तेषामित्यर्थः । तमेतमिति तछब्दः प्रकृत परमात्म परः एतछब्दः नित्यापरोक्ष जीवपरः । तथा च जीवाभिन्नं परमात्मानं वेदानुवचनादिभिर्वेदितुमिछंतीत्यर्थः । प्. २अ) अनशनादिलक्षणतयो व्यावृतये तपसो विशेषणमनाशकेनेति । तथा च हितमितमेध्याशनादिरूपं तप इह विवक्षितमिति लभ्यते । ननु विविदिषायामपुरुषार्थभूतायां कथं विनियोगः तत्राह । विद्याशंपादन द्वारेति । ततश्च गौणपुरुषार्थत्वं तस्याः संभवतीत्यर्थः । ननु मुक्तिं प्रतिप्रत्यासन्नत्वात् । विद्यायास्तस्यामेव विनियोगः कुतो न कल्प्यते । श्रुतत्वाविशेषाच्च कागनाविषयत्वेन श्रुतस्वर्गादेरेव कर्मफलतयान्यत्र स्वीकाराच्चेति मत्वाशंकते । नन्विति । स्वर्गकामादिवाक्येषु यागादेर्विधिप्रत्ययेन इष्टसाधनत्वे बोधिते किं तदिष्टमितिविशे ।। न स्यात् । प्रत्ययार्थस्य प्राधान्यात् । विद्यासंप्रयोगात् । प्रत्यासन्नानि विद्यासाधनानिशमदमादीनि विविदिषासंप्रयोगा तु वाह्यतराणि यज्ञादीनीति । सर्वापेक्षाधिकरणभाष्याच्च । ननु विविदिषार्थं यज्ञाद्यनुष्ठातुर्वेदनगोचरेछावत्वे विविदिषायाः सिद्धत्वेन तदभावे वेदनोपाये विविदिषायां कामनाऽसंभवेन च विविदिषार्थं यज्ञाद्यनुष्ठाना योगात् । न यज्ञादीनां विविदिषायां विनियोगो युक्त इति चेन्न अन्न द्वेषेण प्. २ब्) कार्श्यं प्राप्तस्य तत्परिहारायान्न विषयौत्कंठ्यलक्षणायामिछायां सत्यामप्युत्सुकाजीर्णादि प्रयुक्तथा तु वैषम्य दोषात् तत्र प्रवृतिपर्यंतारुचिर्न जायत इति तद्रोचकौषध विधिवत् ।। षाकांक्षायां सत्यां पुरुषविशेषणत्वेन श्रुतयोः कामनास्वर्गयोरन्यतरस्यापि शब्दतः प्राधान्याभावेन तत्रार्थतः प्राधान्यस्यैवाश्रयणीयत्वे स्वतः पुरुषार्थतया स्वर्गस्यैव फलत्वेनान्वयः स्वीकृतः यागः स्वर्गसाधनमिति न तु कामवायाः । इह तु वेदनकामनाया एव फलत्वेनान्वय उचितः शब्दतः प्रधानत्वादतः फलप्रत्यासत्यादिकमपि अकिंचित्करमिति मत्वासमाधते । न स्यादिति । सत्प्रत्ययः प्रत्ययशब्दार्थः विविदिषायामेव विनियोग इत्यत्र भाष्यसंमतिमाह । विद्यासंप्रयोगादिति । विद्यासाधनत्वादित्यर्थः । प्रत्यासन्नानीति । यावद्विद्योदयमनुष्ठेयानीत्यर्थः । शमादिवैषम्यं कर्मसुदर्शयति । विविदिषा संप्रयोगात्विति । तत्सायनत्वादेवेत्यर्थः । वास्पतगणीति । विविदिषोदय पर्यंतमेवानुष्ठेयानीति यावत् । विद्योत्पतौ सर्वाणि कर्माण्यपेक्षितव्यानीति प्रतिपादकाधिकरणेत्यर्थः । विविदिषाविनियोगं प्रकारांतरेणाक्षिपति । नन्विति । वेदनेछाया यज्ञादिफलत्वे वेदनेछा गोचरेछया यज्ञाद्यनुष्ठानं वाच्यं । वेदने छायाश्च स्वतः फलत्वाभावाद्वेदनद्वारा प्. ३अ) मुक्तिफलकत्वं वाच्यं । तथा चायं क्रमः प्रथमं मुक्तौ स्वतः पुरुषार्थत्वज्ञानादिछा ततो वेदने मुक्तिसाधनत्व ज्ञानादिछा ततो वेदनेछायां वेदन साधनत्व ज्ञानादिछातया च यज्ञाद्यनुष्ठानमिति । तथा च वेदनेछारूपविविदिषोद्देशेन यज्ञाद्यनुष्ठाने प्रवर्तमानस्य ब्रह्मवेदने विविदिषाफले किमिछास्ति न वा आद्ये यज्ञानुष्ठान वैयर्थ्यमित्यभिप्रेत्याह । वेदन गोचरेति । वेदनगोचरेछाया एव विविदिषात्वादितिभावः । सिद्धत्वेन विविदिषार्थं यज्ञाद्यनुष्ठानायोगादिति संबंधः । न द्वितीयः । विविदिषा फले वेदने कामनायाः असत्वे विविदिषायामपि कामनाया अभावाद्विविदिषोद्देशेन यज्ञाद्यनुष्ठानायोग इत्याह । तदभाव इति । वेदनगोचरे छाया अभाव इत्यर्थः । विविदिषार्थं यज्ञाद्यनुष्ठातुरस्त्येव वेदनगोचरेछा न चैतावता तदनुष्ठान वैयर्थ्यं विविदिषाया द्वैविध्योपपतेः । तथा हि वेदनेछा द्विविधा विद्याया मौन्मुख्यलक्षणा रुचिलक्षणा च तत्राद्या यज्ञाद्यनुष्ठानात्प्रागपि वेदनेपि वर्तत इति तामादाय वेदनसाधनभूतायां विविदिषायां कामना संभवतीति विदिषार्थं यज्ञाद्यनुष्ठानमुपपन्नं द्वितीया तु यज्ञादि फलभूता तदनुष्ठानानंतरभाविनीति युक्त एव विविदिषायां यज्ञादि विनियोग इति समाधानमभिप्रेत्याह । नेति वेदनेछायाः द्वैवित्प्रेयक्षाद्यनुष्ठानादौ च दृष्टांतमाह । अन्न द्वेषेणेति । तत्परिहारायेति कार्श्यपरिहारायान्न भक्षणविषयकोत्कटेछाया सत्यासपीत्यर्थः । प्. ३ब्) उत्सकेति अधिकेत्यर्थः धातुवैषम्यप्रयोजकात्यंतानशनादि संग्रहार्थमादिपदं तत्रेति अन्नभक्षण इत्यर्थः । न जायत इति । एतच्चानुभवसिद्धमितिभावः ।। निरतिशयानंदरूपं ब्रह्म तत्प्राप्तौविद्यासाधनमित्यर्थे । प्राचीन बहुजन्मानुष्ठितानभिसंहितफलनित्यनैमितिक कर्मोपार्जितचितप्रसादमहिम्नासंपन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ विद्यायां च तदौत्कंठ्यलक्षणायामिछायां सत्यामप्यनादिभवसंचितानेक दुरित दोषेणास्तिक कामुकस्य हेयकर्मणीव विषयभोगे प्रावण्यं संपादयता प्रतिबंधाद्विद्यासाधने श्रवणादौ प्रवृतिपर्यंता रुचिनं जायत इति प्रतिबंधनिरासपूर्वं तत्संपादक यज्ञादि विधानोपपतेरिति । विवरणानुसारिणस्त्वाहुः । प्रकृति प्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति सामान्यन्यायात् ।। अधीत सांग स्वाध्यायः पुरुषो वेदातैः ब्राह्मणो निरतिशयानंदरूपत्वं विद्यायां तत्प्राप्ति साधनत्वं च ज्ञात्वा तस्मिन्नर्थे संपन्नविश्वासो भवतीत्ययुक्तं । तथा विधानामपि प्. ४अ) पुरुषाणां बहूनां तस्मिन् नर्थे विश्वाससंपतेरदर्शनादित्याशंक्याह । प्राचीनेति । प्राचीनेषु बहुषु जन्मस्वनुष्टितानि फलाभिसंधिरहितानि च यानि नित्यनैमितिकानि कर्माणि तैरुपसंजातौपश्चितप्रसादः शुद्धिविशेषस्तस्य महिम्नेत्यर्थः । तथा च स्मृतिः । मनुष्याणां सहस्रेषु कश्चिद्यतति सिधय इति । कश्चिदिति । उक्तचितप्रसाद वा नित्यर्थः । सिद्धये विद्यालाभायन सर्व इति भावः । ननु ब्रह्मप्राप्ति तत् साधनविद्यागोचरोत्कटेछायां सत्यां तत्साधनश्रवणादौ प्रवृतिपर्यंता रुचिर्न वेदेवेति कृतं तस्य यज्ञाद्यनुष्ठानेन तत्राह । अनादीति । दुरित दोषेण प्रतिबंधात् रुचिनं जायत इति संबंधः । ननु पूर्वोक्त चितप्रसादमहिम्ना ब्रह्मविद्यादौ संपन्नविश्वासस्यास्तिकतमस्यानर्थ बहले विषयभोगे प्रावण्यं कथं संभवतीत्याशांक्यानुभवसिद्ध दृष्टांतेन तत्संभावयति । आस्निक कामुकस्येति । विहितानुष्टानादं वश्यं श्रेयो भवति निषिद्धकरणादितश्चावश्यं महाननर्थो भवति । शास्त्रप्रामाण्यादिति निश्चय वा नास्तिकः । तस्यापि कस्यचित् कामोद्रेको निंदिता गम्यागमनादौ प्रावण्यं च यथा पाप विशेषात् संभवति तथा यथोक्तमुमुक्षोरपीत्यर्थः । प्रतिबंधेति । अनादिभवसंचितानेक दुरित दोषकृत प्रतिबंधेत्यर्थः । तत्संपादकेति । विविदिषाशदिताया श्रवणादौ प्रवृतिपर्यंतारुचिः तत्संपादकेत्यर्थः । क्व तर्हि कर्मणामुपयोग इत्यत्र प्रश्रे विद्यायां विनियोग इति प्रतिवचनांतरमवतारयति । प्. ४ब्) विवरणेति पूर्वत्र यज्ञादीनां तृतीया श्रुत्यासाधनत्वेनावगतानां साध्याकांक्षायां विविदिषैव साध्यत्वेनान्वेति । तस्याः शब्दतः प्रधान त्वात् शब्दतः प्रधानस्यैव पदार्थस्य राजपुरुषमानयेत् पादौ सर्वत्रसमभिव्याहृतपदार्थांतरेणान्वयस्य व्युत्पति सिद्धत्वादित्याशयेन यज्ञादीनां विविदिषायां विनियोगदुक्तः । तत्रास्वरसंदर्शयत् विद्यायां तेषां विनियोगमुपपादयति । प्रकृतीति । प्रकृति प्रत्ययार्थयोर्वेदन तदिछयोर्मध्ये प्रत्ययार्थस्य विविदिषा लक्षणस्य प्रत्ययार्थत्वाछब्दतः प्राधान्यं । ततश्च विविदिषाया एव यज्ञादिफलत्वेनान्वय इत्यत्र हेतु भूतो यः सामान्य न्यायो राजपुरुषमानयेत्पादौ प्रसिद्धः शब्दतः प्रधानस्यैव समभिव्याहृतक्रियाकारकान्वय इत्येवं रूपः तस्मादित्यर्थः । विधिप्रत्ययेनेष्टसाधनत्वेनावगतयागादेरिष्टविशेषा कांक्षायां सत्यां शब्दतः प्राधान्याभावेपि स्वर्गस्य फलत्वेनान्वयः कॢप्त इत्यर्थः ।। इछाविषयतया शब्दबोध्य एव शाब्दसाधनतान्वय इति स्वर्ग कामादि वाक्ये कॢप्त विशेष न्यायस्य वलीयस्त्वादश्वेन जिगमिषति असिनाजिघांसुतीत्यादि लौकिक प्रयोगेऽश्वादिरूपसाधनस्य तदन्वेष्टव्यंतद्वावविजिज्ञासितव्यं निदिध्यासितव्य इत्यादि वै प्. ५अ) दिकप्रयोगे तव्यार्थ भूतविधेश्च सन्प्रत्ययाभिहितेछाविषय एव गमनादावन्वयस्य व्युत्पन्नत्वाच्च प्रकृत्यभिहितायां विद्यायां यज्ञादीनां विनियोगः । ननु तथा सति यावद् विद्योदयं कर्मानुष्ठानापतेस्त्यजतैव हितकर्षणाज्ञेयमित्यादि श्रुतिसिद्धकर्मत्यागरूपस्य संन्यासस्य विद्यार्थत्वं पीड्येतेति चेन्न प्रागबीजा वा पात्कर्षणं तदनंतरमकर्षणमिति कर्षणाभ्यां ब्रीह्यादि निष्पति वदारुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यतेत्यादिवचनानुसारेण चेतसः शुद्धौ विविदिषादिरूपप्रत्यक्प्रावण्योदयपर्यंतं कर्मानुष्ठानं ततः संन्यास इति कर्म तत्सन्यासाभ्यां विद्या निष्पत्युपगमात् ।। शाब्दप्राधान्याभवाविशेषे कामनाया एवयादि फलत्वेनान्वयः कुतो न कल्पितस्तत्राह । इछारिषपतयेति । इछाविषयत्वस्य फलत्व व्यंजक त्वात् । पुरुषार्थत्वेन प्रतीतस्य स्वर्गस्यैव फलत्वं न कामनाया इत्यर्थः । ननु कामनाविषयत्वस्य मुक्ति साधारण त्वात सैव यागादिफलं प्. ५ब्) कस्मान्न कल्प्यते तत्राह । शब्दबोध्य इति । शाब्दी ह्याकांक्षाशब्देनैव पूर्वत इति न्यायात्नाति प्रसंगः । तथा च इछेष्यमाण समभि व्याहारे इष्यमाणस्यै च प्राधान्यं न त्विछाया इति विशेषन्यायेन उक्त सामान्यन्याय बाधस्य कामोपबंधवाक्येषु कॢप्तत्वाद्विविदिषंतीत्यत्रापि प्रत्ययार्थत्वप्रयुक्तं विविदिषाया शब्दप्राधान्यं त्यक्ता वेदनप्राधान्यमेवादरणीयमित्यर्थः । इछावाचिसन्प्रत्यय समभिव्याहृतेष्वेव लौकिक वैदिक प्रयोगेषु प्रत्ययार्थतया प्रधानामपीछामुल्लंघ्य तद्विषयेस्वेव समभिव्याहतपदार्थांतरान्वय दर्शनाच्चेत्याह । अश्वेनेति । तदन्वेष्टव्यमिति । तद्दहराकाशाख्यं ब्रह्मविचार्यमित्यर्थः । विजिज्ञासितव्यमिति । तदेव ब्रह्मध्यातव्यमित्यर्थः । निदिध्यासितव्य इति । आत्माध्यातव्य इत्यर्थः । ननूदाहृतप्रयोगेषु इछाया अश्वादिसाधनाद्यन्वयायोगात्वा तस्याः परित्याग इति चेतर्हि प्रकृतेपि वेदनेछायाः तदतयोगात्वात् । ब्रह्मवेदनस्य च ब्रह्मानंदसाक्षात्काररूपतया फलत्वनान्वेतुं योग्यत्वाद्वेदन एव यज्ञाद्यन्वयो न विविदिषायामिति तुल्यमितिभावः । विद्याविनियोगपक्षे विध्यंतरविरोधं शंकते । न त्विति । कर्माणित्यजतैवमुमुक्षुणात्यक्तुः स्वस्य प्रत्यगात्मस्वरूपं पदं ब्रह्मसाक्षात्कर्तव्यं नत्वत्यजतेति श्रुत्यर्थः । अथ परिव्राडित्युपक्रम्य ब्रह्मभूयायकल्पत इत्यंतेन श्रुत्यंतरेणापि परिव्राट् शब्दोपातसंन्यासस्य ब्रह्मभूयशब्दित ब्रह्मसाक्षात्कार हेतुत्वमुक्तं । एवं श्रुत्यंतरेष्वित्यभिप्रेत्यादि पदं प्. ६अ) द्रष्टव्यं । विविदिषावाक्यसंन्यासविध्योरविरोधं सदृष्टांतं सप्रमाणं च दर्शयति । न प्रागिति । वचने कारणपदद्वयं कर्तव्यार्थकं शमः संन्यासः चित्तशुद्धिविविदिषादिरूपप्रत्यक्प्रावण्येत्ये तद्गीतावचनगतयोगपदव्याख्यानमितिबोध्यं ।। उक्तं हि नैष्कर्मसिद्धौ । प्रत्यक् प्रवणतां बुद्धेः कर्माण्यापाद्यथुद्धितः कृतार्थान्यस्तमायांति प्रावृडंते घना इवेति । कर्मणां विद्यार्थत्वपक्षेपि विविदिषापर्यंतमेव कर्मानुष्ठाने विविदिषार्थत्वपक्षात्को भेद इति चेत् । अयं भेदः कर्म्मणां विद्यार्थत्वपक्षे द्वारभूतविविदिषा सिद्ध्यनंतरमुपरतावपि फलपर्यंतानि विशिष्टगुरुलाभात्निर्विघ्नश्रवणमनननिदिध्यासनसाधनानि निवृति प्रमुखानि संपाद्यविद्योत्पादकत्वनियमोस्ति विविदिषार्थत्व पक्षे तु श्रवणादिप्रवृतिजननसमर्थोत्कटेछा संपादनमात्रेण कृतार्थतेति नावश्यं विद्योत्पादकत्वनियमः यस्यैतेष्टाचत्वारिंशत्संस्कारा इति स्मृति मूले कर्मणामात्मज्ञानयोग्यतापादकमलापकर्षणगुणाधान प्. ६ब्) लक्षणसंस्कारार्थत्वपक्ष इवेति वदंति ।। रागादिराहित्यरूप चितशुद्धिविविदिषा वैराग्यगुरुदेवतादि भक्तिलक्षणप्रत्यक् प्रावण्यजन्मपर्यंतं कर्मानुष्ठानमित्यत्र सुरेश्वराचार्य संमतिमाह । उक्तं हीति शुद्धित इति । शुद्धिद्वारेत्यर्थः । अस्तमायांतीतित्यागमायांति त्यक्तव्यान्येव भवंति । कृतप्रयोजनत्वादित्यर्थः । कृतप्रयोजनानां निवृतौ दृष्टांतमाह । प्रावृडंत इति वर्षाकालावसान इत्यर्थः । विविदिषायां विनियोगपक्षे विविदिषोदय पर्यंतमेव यज्ञाद्यनुष्ठानमित्य विवादं विद्यायां विनियोगपक्षेप्येवं चेत्कस्तयोर्भेद इति शंकते । कर्मणामिति । अनुष्ठाने विशेषाभावेपि फलतो विषोस्तीत्याह । अयं भेद इति । वक्ष्यमाण इत्यर्थः । उपरताविति त्यागेपीत्यर्थः । अदृष्टद्वारेति शेषः विविदिषाविनियोगपक्षे हि यज्ञादिकर्मजनितादृष्टं श्रवणादिषु प्रवृतिपर्यंतां विविदिषा शब्दितां रुचिमुत्पाद्व्य नश्यति । फलैक्य नाश्यत्वाददृष्टस्य विविदिषोत्यत्यनंतरं च श्रवणादि प्रतिबंधक दुरिताभावे सति विविदिषावलादेव श्रवणादिकं संपाद्यविद्यां लभते । श्रवणादि प्रतिबंधक दुरित सत्वे तु तत्सत्वं यत्ने कृतेपि श्रवणाद्यलाभेन निश्चित्य तन्निवृत्युपायमनुतिष्ठति प्रायेण तन्निवर्तकोपायाननुष्ठाने वा तदनुष्ठानस्यापि विघ्नबाहुल्ये वा श्रवणाद्यसंभवात् न ज्ञानोदयः । यथा औषधवीर्येणात् न भक्षणे रुच्युत्पतौ सत्यामपि अप्रतिबंधेनावलाभे प्. ७अ) तद्भक्षणेन कार्श्य निवृतिं लभते तदलाभे तु तल्लाभाय स पतते यत्ने कृतेपि यद्यत्नं न लभते तदानुकार्श्यनिवृतिं लभते एवमिहापीत्यभिप्रेत्याह । नावश्यमिति । विविदिषा विनियोगपक्षस्य संस्कारे कर्मणां विनियोगपक्षं दृष्टांतयति । यस्यैति इति । यस्य पुरुषस्य एते श्रौतस्मार्तधर्मा अष्टाचत्वारिंशत्संख्याकाः संस्काराः संति शमादि संपतिश्च वर्तते । तस्य कर्मभिः संस्कृतस्य विद्याधिकारिणः श्रवणादि संपत्यां तत्वज्ञानद्वारा परब्रह्मप्राप्तिर्भवति । तदसंपतौ च पुण्यलोकावाप्तिरिति कर्मणां संस्कारकत्वपक्षे यथा ज्ञानोत्पादकत्वनियमो नास्ति संस्कारजननमात्रेण सं ।। ननु केषां कर्मणामयमुदाहृत शुत्या विनियोगो बोध्यते । अत्र कैश्चिदुक्तं वेदानुवचनेनेति । ब्रह्मचारिधर्माणां यज्ञेन दानेनेति ग्रहस्थधर्माणां तपसा नाशकेनेति वानप्रस्थधर्माणां चोपलक्षणमित्याश्रमधर्माणामेव विद्योपयोगः । अत एव विहितत्वाच्च श्रमकर्मापीति शारीरकसूत्रे विद्यार्थकर्मस्वाश्रमकर्मपदप्रयोग इति कल्पतरौ तु नाश्रमधर्माणामेव विद्योपयोगः ।। चरितार्थानां कर्मणां विद्योत्पतिपर्यंत व्यापारा भावात् प्. ७ब्) तथा तेषां विविदिषार्थत्वपक्षेपीत्यर्थः । आत्मज्ञानयोग्यता कार्यकारणसंघातनिष्ठा तदा पादकौ यौमलापकर्षणगुणाधानलक्षणौ संस्कारौ तदर्थत्वपक्ष इत्यर्थः । कर्मणां विविदिशार्थत्वपक्षे संस्कारार्थत्वपक्षे च ज्ञानोत्पत्यनियमे समानेपि विविदिषार्थत्वपक्षे प्रायिकी ज्ञानोत्पतिः तीव्रवुभुक्षाया इव दृढ विविदिषायाः सर्वप्रयत्नेन विद्यासंपादनसमर्थत्वात् । संस्कारार्थत्वपक्षे तु ब्रह्मज्ञानयोग्यतामात्र सिद्धावपि विविदिषाया अप्यनियतत्वेन विद्योत्पतिः प्रायिक्यपि न भवतीति विविदिषासंस्कारार्थत्वपक्षयोरपि भेद ऊहनीय इति भावः । केषामिति । किमाश्रमकर्मणामेव किं वाऽन्येषामपीत्यर्थः । नन्वाश्रमधर्माणामपि सर्वेषां विविदिषा वाक्ये श्रवणाभावात् तेषामपि न सर्वेषां विनियोगो लभ्यते तत्राह । वेदानुवचनेनेति । वेदस्य गुरुवचनमनुशिष्यस्य वचनं वेदानुवचनं वेदाध्ययनं तच्च ब्रह्मचारिधर्माणां मध्ये प्रधानं तेन तद्धर्माः सर्वे गृह्यंत इत्यर्थः । एवमुत्तरत्रापि प्राधान्यं द्रष्टव्यं तपः कृछ्रचांद्रायणादिरूपं वानप्रस्था साधारणमिह तपः शब्दरूढ्याभातीतिभावः । अनाश्रितः कर्मफलं कार्यं कर्मकरोति यः । इत्यादि स्मृतिषु नित्याश्रमिणां कार्यं कर्तव्यं यद्यत्कर्मास्ति तत्सर्वं फलाभि संधिंत्यक्ता यः करोति स योगपदोदितं पूर्वोक्त चितशुद्धि विविदिषारूपं प्रत्यक् प्रावण्यं लभत इति प्रतिपादना तन्मूलभूते विविदिषा वाक्येपि सर्वेषामाश्रमकर्मणामुपलक्षणं युक्तमिति मंतव्यं आश्रमकर्मणामेव प्. ८अ) विनियोग इत्यत्र सौत्रलिंगमाह । अत एवेति आश्रमकर्मणामेव विनियोगाभ्युपगमादेवेत्यर्थः । आश्रमकर्मणां विविदिषावाक्येन विद्यादौ विनियुक्तत्वा तत्कामनारहिते नाश्रमिणा स्वाश्रमविहितं कर्मनानुष्ठेयमिति शंकायामुतरं सूत्रे तेनापि कर्तव्यमेव तं प्रतिविहितत्वादन्यथा प्रत्यवाय प्रसंगादिति सूत्रार्थो बोध्यः । अन्येषामपि विनियोग इति पक्षं नित्यकर्ममात्रविषयतया प्रथमं दर्शयति । कल्पतरौ त्विति । कल्पतरावुक्तमिति संबंधः । आश्रमधर्मव्यतिरिक्तानामप्यस्ति विद्योपयोग इति कल्पतरुकारमतमयुक्तं सूत्रे विद्यार्थकर्मस्वाश्रमकर्मथदप्रयोगविरोधान्न च सौत्राश्रमकर्मपदस्य वर्णधर्मेष्वप्यजहदल्लक्षणोपपतेर्न तद्विरोध इति वाच्यं । लक्षणायामेव प्रमाणाभावादित्याशंक्य तत्र नियामकं दर्शयति । नाश्रमधर्माणामेव विद्योपयोग इति ।। अंतरा चापि तु तद्दृष्टेरित्यधिकरणे आश्रम रहित विधुराद्यनुष्ठितकर्मणामपि विद्योपयोगनिरूपणात् । न च विधुरादीनामनाश्रमिणां प्राग्जन्माद्यनुष्ठित यज्ञाद्युत्पादित विविदिषाणां विद्यासाधनश्रवणादावधिकारनिरूपणमात्रपरं तदधिकरणं न तु तदनुष्ठित कर्मणां विद्योपयोग निरूपणपरमिति शंक्यं ।। प्. ८ब्) आश्रमधर्मव्यतिरिक्तानां वर्णधर्माणामप्यस्ति विद्योपयोग इत्येव कारार्थे हेतुमाह । अंतरा चापि त्विति । विद्यां प्रतिबहिरंगसाधनेषु कर्म स्वंतरंग साधनेषु श्रवणादिषु चानाश्रमिणामधिकारोस्ति न वेति संदेहे सति नास्त्यधिकार इति पूर्वपक्षः आश्रमकर्मणामेव विद्यायां विनियुक्तत्वातेषामाश्रमकर्मा भावात् । साधन चतुष्टय संपन्नस्यैव श्रवणादिष्वधिकाराच्च अनाश्रमिणां च साधन चतुष्टयांतर्गतस्य उपरति शब्दितसंन्यासस्याभावे न तत्स्वंपत्यभावादिति । सिद्धांतस्त सूत्रे तु शब्दः पूर्वपक्षव्यावृत्यर्थः । अंतराशब्दः आश्रमाणामंतरालमनाश्रमित्वमाह । तथा चानाश्रमित्वे वर्तमानोपि पुरुषः श्रवणादिषु विद्यार्थ कर्मसु चाधिक्रियते कुतः श्रुतिस्मृतिषुरैक्व वा चक्रवी प्रभृतीनामनाश्रमिणामपि विद्यावत्वोपलब्धेः परित्राजकस्य श्रवणादिषु मुख्याधिकारेपि ग्रहस्थादीनामिव अनाश्रमिणामपि गौणाधिकारोपपतेः । तथा च तदधिकरणे भाष्यं दृष्टार्था च विद्या प्रतिषेधा भावमात्रेणार्थिनममधिकरोति । श्रवणादिति । अविद्यानिवृतिः विद्यायाः दृष्टं फलं अर्थिनमविद्यानिवर्तकसाक्षात्कारार्थिनमधिकारित्वेन स्वीकरोति शूद्रस्येव वेदांत श्रवणादिष्वनाश्रमिणां प्रतिषेधा भावात् । गौणाधिकारे संन्यासापेक्षा नास्तीति मत्वामात्र पदमिति भाष्यार्थः । प्. ९अ) अंतरा चापि त्वित्यधिकरणमनाश्रमिणां श्रवणाद्यधिकारमात्रनिरूपण परं न त्वनाश्रमिकर्मणामपि विद्योपयोगनिरूपणपरं तथा च सौत्राश्रमकर्मपदस्य वर्णधर्मोपलक्षणत्वं न सिध्यतीति मत्वा शंकते । न च विधुरादीनामिति । ननु तेषां विद्यार्थकर्माभावे विविदिषोदया संभवादनाश्रमिणां श्रवणाधिकारनिरूपणमयुक्तमित्याशंक्याह । प्राग्जन्मेति । अनाश्रमिणोपि ये जन्मांतरीयाश्रमकर्मानुष्ठान जनित विविदिषावंतः संन्यासहेतु तीव्रवैराग्या भावात् मुख्याधिकारात् प्रच्युताश्च तेषां श्रवणाधिकार निरूपण परं तदधिकरणं न त्वनाश्रमिमात्रविषयं अविविदिषूणां श्रवणादौ प्रवृत्यसंभवादेवेत्यर्थः । इति न च शंक्यमिति संबंधः ।। विशेषानुग्रहश्चेति तदधिकरणसूत्र तद्भाष्ययोः तदनुष्ठितानां जपादिरूपवर्णमात्रधर्माणामपि विद्योपयोगस्य कंठोक्तेर्विहितत्वाच्चाश्रमकर्मापीति सूत्रे आश्रमकर्मपदस्य वर्णधर्माणामप्युपलक्षणत्वादित्यभिसंधायोक्त- माश्रर्मधर्माति रिक्तानामप्यस्ति विद्योपयोगः । किंतु नित्यानामेव तेषां हि फलं दुरितक्षयं विद्यापेक्षते । प्. ९ब्) न काम्यानां फलं स्वर्गादि ।। ननु अंतराचापि त्विति सूत्रे विद्यार्थकर्मसु विधुरादी नामधिकारे श्रुत्यादिष्वनाश्रमिणां रैक्व वा चक्रवी प्रभृतीनां विद्यावत्वदर्शने हेतुत्वेनोक्तं तदयुक्तं रैक्व वा चक्रवी विदुर प्रभृतीनां जन्मांतरीय विद्यासाधनानुष्ठान वलादैव विद्याजातेति शंका संभवादतोऽनाश्रमिकर्मणां विद्योपयोग इत्यत्र तेषां विद्यावत्वदर्शनमन्यथा सिद्धं लिंगं न भवतीत्य स्वरसादनन्यथा सिद्धं हेतुमन्यमभिप्रेत्योक्तं । विशेषानुग्रहश्चेति विशेषैः धर्मविशेषैः जपादिलक्षणैः ब्राह्मणत्वादि वर्णमात्रसंबंधिभिरपि वितशुद्धि विविदिषादि द्वारा आश्रमधर्मैरिव विद्याया अनुग्रहः उपकारः संभवत्येव कुतः जप्येनैव तु संसिध्येत् ब्राह्मणो नात्रसंशयः गंगायां स्नानमात्रेण मुच्यते नात्रसंशयः । यस्य स्मरणमात्रेणेत्यादि वचनैः जपतीर्थस्नान देवताध्यानादि धर्माणां शुद्ध्यादिद्वाराविद्यासाधनत्वस्य प्रतिपादनादिति सूत्रार्थः । तदनुष्ठितानामिति । अनाश्रमिणः तछब्दार्थाः एवमनाश्रमधर्माणामपि सूत्रकारेणैव स्पष्टं विद्योपयोगस्य साधितत्वात्तदविरोधाय सौत्रमाश्रमकर्मपदं वर्णधर्माणामप्युपलक्षकं वाच्यमित्याशयेनाह । सूत्र इति । एवं कल्पतरु काराणामभिप्रायमुपवर्ण्य तन्मतमुपपादयति । आश्रमधर्मेत्यादिना । ननु यज्ञादीनां विनियोगः कल्प्यमानः प्. १०अ) किं काम्यसाधारणः कल्प्यते किं वा नित्यानामेव नाद्यः काम्यकर्मफलस्य स्वर्गादेर्विद्ययानपेक्षितत्वेन तेषां विद्योपकारकत्वा संभवात् । न द्वितीयः नित्यकर्मफलस्य दुरितक्षयस्यापि प्रमाणसाध्य विद्यापेक्षितत्वे मानाभावेन तेषामपि विद्याविनियोगानुपपतेरिति । शंकते । किं त्विति समाधते । नित्यानामेवेति ज्ञानमुत्पद्यते पुंसां क्षपात्पापस्य कर्मणः इत्यादि वचनं नित्यकर्मफलस्य दुरितक्षयस्य विद्यया अपेक्षितत्वे प्रमाणत्वेन सूचयति हीति । प्रमाणजन्यायामपि विद्यायां दुरितस्य प्रतिबंधकत्वसंभवात् दुरितक्षपापेक्षायुक्तेतिभावः । काम्यकर्मणां विद्यानुपकारकत्वमंगीकरोति । नेति । न च काम्यानां नित्यानामिव दुरितक्षयफलकत्वमप्यस्तु तथा च तेषामपि विद्यापेक्षित दुरितक्षयलक्षणोपकारजनकत्वं संभवतीति वाच्यं । तेषां दुरितक्षयफलकत्वे मानाभावेन विद्योपकारकत्व स्या कॢप्तत्वादितिभावः ।। तत्र यथा प्रकृतौ कॢप्तोपकाराणामंगानामति देशे सति न प्रकृतोपकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनियुक्तानां यज्ञादीनां कॢप्तनित्यफल पापक्षयातिरेकेण न नित्यकाम्यसाधारणविद्योपयोग्युपकारकल्पन निमिति संक्षेपशारीरके प्. १०ब्) तु नित्यानां काम्यानां च कर्मणां विनियोग उक्तः यज्ञादिशब्दाविशेषात् । प्रकृतौ कॢप्तोपकाराणां पदार्थानां कॢप्तप्राकृतोपकाराति देशमुखेनैव विकृतिष्वति देशेन संबंधो न तु पदार्थानामति देशानंतरमुपकारकल्पनेति न तत्र प्राकृतोपकारातिरिक्तोपकारकल्पना प्रसक्तिः । इह तु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनामुपदिष्टानामिव पश्चात् कल्पनीय उपकारः प्रथमावगत विनियोग निर्वाहाया कॢप्तोपि सामान्यशब्दोपात सकलनित्यकाम्यसाधारणः कथं न कल्प्यः ।। कर्मणां विद्यायां विनियोग विधेः कॢप्तोपकारैः नित्यकर्मभिरेव चारितार्थ्ये दृष्टांतमाह । तत्र यथेति । यद्वा काम्यानां पापक्षयफलकत्वस्यान्यतः । प्राप्त्यभावेपि यज्ञादीनां विनियोग बलादेव तेषां तत्कल्प्यतामिति नेत्याह । तत्रेति । काम्यकर्मणाविद्यापेक्षितोपकार हेतुत्वा कॢप्तौ सत्वामित्यर्थः । न नित्यंति । गौरवादितिभावः । आश्रमकर्मव्यतिरिक्तानामपि विनियोग इति पक्षं काम्यसाधारणं दर्शयति । संक्षेपेति अविशेषादिति । यज्ञादिशब्दानां नित्ययज्ञादिष्विवकाम्य प्. ११अ) यज्ञादिष्वपि रूढत्वाविशेषात् । नित्यानामिव काम्यानामपि विनियोगः । श्रुत्वाभातीति तत्साधारण एव कर्मणामुपकारः कल्प्यत इत्यर्थः । काम्यसाधारण्येन विद्योपयोग्युपकार कल्पनं न संभवति तत्कल्पने पूर्वतंत्र न्यायविरोधादिति मत्वा विकृतिष्वति दिष्टान्यंगानि दृष्टांतत्वेन कल्पतरावुदाहृतानि न तानि यज्ञादीनां दृष्टांतत्वेनोदाहरणे योग्यानीत्याह । प्रकृताविति । दर्शपूर्णमासादिषु प्रकृतियागादिषु यः पदार्थानां कॢप्त उपकारः । तस्य प्रथममति देशः तत्पृष्ठभावेन पदार्थानां विकृतिषु सौर्य पशुयागादिष्वति देशः न तु प्राकृतपदार्थानां अतिदेशेन विकृतिषु विनियोगानंतरं पदार्थानामुपकारकल्पनमिति न तत्र कॢप्तोपकारपरित्यागेनोपकारांतरप्रसक्तिरस्तीत्यर्थः । एतदुक्तं भवति प्रकृते यज्ञादीनां विनियोगानंतरं उपकारकल्पनमति देशस्थले तु उपकृतावुपकारकल्पनानंतरं प्राकृतपदार्थानां विकृतिषु विनियोगः । ततो दृष्टांतो विषम इति । इह त्विति । दार्ष्टांतिक इत्यर्थः । प्रकृतानुगुणं दृष्टांतमाह । उपदिष्टानामिति । दर्शपुमासादिप्रकरणेष्वन्यत्र वा श्रुतानां पदार्थानां श्रुतिलिंगादिभिः दर्शपूर्णमासादिषु विनियुक्तानां प्रथमावगतविनियोगनिर्वाहाय यथा योग्यं दृष्टादृष्टलक्षण उपकारः कल्प्यते यथा तथा उपकारोन्नापि कल्प्य प्. ११ब्) एव न तु प्रथमावगत विनियोगपरित्याग उचितः यज्ञाद्यविशेषश्रुति वाध प्रसंगादित्यर्थः । सामान्यशब्देति । नित्यकाम्य साधारण यज्ञादि शब्देत्यर्थः ।। अध्वरेष्वरमीमांसकैरपि ह्युपकारमुखेन पदार्थान्वय एव कॢप्तोपकारनियमः पदार्थान्वयानंतरमुपकारकल्पने त्वकॢप्तोपि विनियुक्तपदार्थानुगुण एवोपकारः कल्पनीय इति संप्रतिपद्यैव वाधलक्षणारंभ सिद्ध्यर्थमुपकारमुखो विकृतिषु प्राकृतान्वयोदशमाद्ये समर्थितः ।। यथा कॢप्तोपकारातिरिक्तोपकाराकल्पनं कल्पतरुकारोक्तं मिमांसक संमतं तथा प्रथमावगत विनियोगानुसारेणाकॢप्तोपकारकल्पनमपि मीमांसक संमतमेवेत्याह । अध्वरेष्विति कर्ममीमांसकैरपीत्यर्थः । अध्वरमीमांशकैरपि संप्रतिपद्यैव प्राकृतान्वयः समर्थित इति संबंधः । पदार्थान्वय एवेति । पदार्थान्वयस्थल एवेत्यर्थः । कॢप्तोपकार नियमः कॢप्तोपकारातिरिक्तोपकाराकल्पनमित्यर्थः । एवकार व्यावर्त्यमाह । पदार्थान्वयानंतरमिति । उपकारकल्पनस्थले त्वित्यर्थः । संप्रतिपद्यैवेति स्वीकृत्यैवेत्यर्थः । वाधलक्षणेति वाधाध्यायारंभ सिध्यर्थमित्यर्थः । प्राकृतान्वय प्. १२अ) इति प्रकृति यागादौ शेषभूताये पदार्थाः । तेषां विकृति यागादिष्वति देशेन प्राप्तिरित्यर्थः । एतदुक्तं भवति पूर्वतंत्रे दशमाध्याये विकृतावति दिष्टानामंगानां प्रकृतौ कॢप्तस्योपकारस्यासंभवे वाधो निरूप्यते तच्च वाधनिरूपणं विकृतिष्वति देशेन पदार्थप्राम्यनंतरमुपकारकल्पनपक्ष्ये न सिध्यति प्रकृतौ श्रुत्यादिभिर्विनियुक्तपदार्थानां दृष्टोपकारासंभवे अदृष्टोपकारकल्पनवत् । विकृतिष्वति देशेन विनियुक्तानां पदार्थानां दृष्टोपकारासंभवे अदृष्टोपकारकल्पनया तत्सिध्यर्थं सर्वंषामेवांगानामनुष्ठानावश्यंभावेन केषांचिदंगानामननुष्ठान तदति देशाप्रामाण्यरूपबाधा संभवादतो बाधनिरूपणासिद्ध्यर्थं प्रकृति कॢप्तोपकारमुखेनैव प्राकृतानामन्वयो विकृतिष्विति दशमाध्याय प्रथमाधिकरणे साधितं तथा च यत्र पदार्थानां विनियोगानंतरमुपकारकल्पनं तत्र ततत्पदार्थं सामर्थ्यानुसारेण प्रथमावगत विनियोगनिर्वाहाया कॢप्तोपकारकल्पनं मीमांसक संमतमिति प्रतीयते । यदि विनियोगानंतरमुकारकल्पनास्थलेपि कॢप्तोपकारासंभवे विनियुक्तपदार्थपरित्याग एव न त्वकॢप्तोपकारकल्पनं तत्संमतं भवे तदा उपकारमुखेनैव पदार्थानामति देश इति निरूपणपरमधिकरणं व्यर्थं स्यात् । पदार्थानामेव श्रयणावचातादीनामति देशेन्स विनियोगेपि विकृति गत कृष्णलादिषु श्रयणादेर्विक्लिति तुष प्. १२ब्) विमोकरूपदृष्टोपकारस्य लोकसिद्धस्याभावादकॢप्तोपकारकल्पनानंगीकाराच्च श्रयणादेरननुष्ठानादिलक्षणबाधस्य दशमाध्याये निरूपणीयस्य संभवेन तदर्थमुपकारमुखेनैव पदार्थानामतिदेश इति निरूपणस्यानपेक्षितत्वात् । तस्माद्विविदिषावाक्येनाविशेषेण नित्यकाम्यसाधारणे विनियोगे प्रथममवगते सति तन्निर्वोहाया कॢत्प्तोपकारकल्पनं युक्तमेवेति ।। किं च कॢप्तोपकारालाभान्नित्यानामेवायं विनियोग इत्यभ्युपगमे नित्येभ्योदुरितक्षयस्य तस्माद्वज्ञानोत्पतेरन्यत सिद्धौ व्यर्थोयं विनियोगः । अन्यतस्तदसिद्धौ ज्ञानापेक्षितोपकारजनकत्वं नित्येषु न कॢप्तमित्यविशेषान्नित्यकाम्यसाधारणविनियोगो दुर्वारः । ननु नित्यानां दुरितक्षयमात्र हेतुत्व स्यान्यतः सिद्धावपि विशिष्यज्ञानोत्पति प्रतिबंधक दुरित निवर्हकत्वं न सिद्धं । किं तु अस्मिन् विनियोगे सति ज्ञानोद्देशेन नित्यान्यनुतिष्ठतो वश्यं ज्ञानं भवति । इतरथा शुद्धिमात्रमनियता ज्ञानोत्पतिरिति सार्थकोयं विनियोग इति चेत् । तर्हि नित्यानामप्यकॢप्तमेव प्. १३अ) नियमतोज्ञानोत्पति प्रतिबंधक दुरित निवर्हणत्वं ।। वस्तुतस्तु नित्यकर्मस्वपि विद्यापेक्षितोपकारजनकत्व कॢप्तिरसिद्धेत्याह । किं चेत्यादिना । अलाभादिति । काम्येष्विति शेषः नित्यानां विद्यापेक्षित दुरितक्षयलक्षणोपकार द्वाराविद्याहेतुत्वं विविदिषा वाक्यादन्यतः सिद्धमसिद्धं वा तत्र नाद्यः विविदिषा वाक्यवैपर्थ्यप्रसंगादित्याह । नित्येभ्य इति । विनियोग इति । शेषत्वरूपविनियोगबोधक शब्द इत्यर्थः । द्वितीये नित्येष्वपि विद्योपकारकत्वमकॢप्तमेव कल्पनीयमिति नित्यकाम्यसाधारणोपकारकल्पनं युक्तमेवेत्याह । अन्यतस्तद सिद्धाविति । नित्यानां विद्योपकारकत्वासिध्हावित्यर्थः । अन्यतः सिद्धिपक्षमवलंव्य विनियोगार्थवत्वं शंकते । नन्विति दुरितं तावत् द्विविधं ज्ञानोत्पति प्रतिबंधकं ज्ञानोत्पतिं प्रत्युदासीनं सन् नरकादिप्रदं च तथा च नित्यानां ज्ञाने विनियोगाभावे नित्यकर्मभिज्ञानप्रतिबंधक दुरितस्यैव क्षय इत्यत्रमानं नास्ति धर्मेण पापमपनुदति । यज्ञोदानं तपश्चैव पावनानि मनीषिणां इत्यादि श्रुतिस्मृति वचनानां नित्यानां दुरितसामान्यक्षय हेतुत्वबोधनमात्रपरत्वादतो नियमेन ज्ञानप्रतिबंधक दुरितक्षय हेतुत्वं नित्यकर्मणामन्यतो न प्राममिति तत्प्राप्त्यर्थोयं विनियोग इत्यर्थः ।। प्. १३ब्) नित्यैरेव यज्ञादिभिर्दुरितक्षयद्वाराज्ञानं संपादयेदिति प्रकारेण विविदिषावाक्यीये नित्यानां ज्ञाने विनियोगे सति वा कथं ज्ञानप्रतिबंधक दुरितस्यैव क्षयोनित्यानुष्ठानतो लभ्यत इति पृछति । किं त्विति । तल्लाभप्रकारमाह । अस्मिन्निति अवश्यमिति । नित्यानुष्ठानात् ज्ञानप्रतिबंधक दुरित क्षपे सति प्रतिबंधक रहित महावाक्यादवश्यं ज्ञानं भवतीत्यर्थः । इतरथेति एतद्विनियोगाभावे इत्यर्थः । दुरितसामान्यक्षयरूपाशुद्धिर्भवति न तु नियमेन ज्ञानप्रतिबंधक दुरित क्षयरूपशुद्धिविशेषो भवति । ज्ञानो देशेन नित्यानामनुष्टानात् । तथा च बहुजन्मसु नित्यकर्मानुष्ठान शीलस्यापि नियमेन ज्ञानं न जायते किं तु दैव योगात् कदाचित् ज्ञानप्रतिबंधक दुरित संघस्य निःशेषं क्षयसंभवात् ज्ञानमपि कदाचित् भवतीत्यनियताज्ञानोत्पतिरित्यर्थः । ज्ञानापेक्षितोपकारो नित्येषु कॢप्त इति मनं निरालंबनमित्यभिप्रेत्यकाम्येष्विव नित्येष्वप्यकॢप्तोपकारकल्पनं तुल्यमिति दूषयति । तहीति नित्येषु ज्ञानोपकारकत्वनियमासिद्धावित्यर्थः ।। ज्ञानसाधनविशिष्टगुरुलाभश्रवणमननादि संपादकापूर्वं च द्वारं कल्पनीयमित्यकॢप्तोपकारकल्पनाविशेषान्न सामान्य प्. १४अ) श्रुत्या पादितो नित्यकाम्यसाधारणविनियोगो भंजनीय इति । नन्वेवमपि कथं कर्मणैव हि संसिद्धिमास्थिता जनकादय इत्यादिस्मरणनिर्वाहः । न च तस्य विद्यार्थकर्मनुष्ठान परत्वं विविदिषावाक्ये ब्राह्मण ग्रहणेन ब्राह्मणानामेव विद्यार्थकर्मण्यधिकार प्रतीतेः । अतो जनकाद्यनुष्ठित कर्मणां साक्षादेवमुक्त्युपयोगो वक्तव्यः मैवं विविदिषावाक्यै ब्राह्मण ग्रहणस्य त्रैवर्णिकोपलक्षणत्वात् ।। नन्वेवमपि नित्यानामेव विनियोग पक्षे विधेर्लाघवमस्ति तेषां पक्षे ज्ञानप्रतिबंधक दुरित निर्वहकत्वस्य वचनांतरात् प्राप्तत्वेन नियममात्रविधिलभ्यत्वात् । काम्येषु तु ज्ञानप्रतिबंधकदुरितनिवर्हकत्वं सर्वर्था न प्राप्तमिति काम्यानामपि विनियोगपक्षे विधेस्तात्पर्यगौरवमपरिहार्यमिति चेत् । सत्यं तथापि यज्ञादिश्रुतीनां संकोचलक्षणबाधपरिहारायकाम्यानामपि विनियोग आवश्यक इत्यत्रैव तात्पर्य बोध्यं नित्येभ्यो ज्ञानप्रतिबंधक दुरितस्यैव क्षयरूपशुद्धिविशेषलाभेपि तावन्मात्रात्न ज्ञानोत्पतिरस्ति प्रमाणप्रमेयासंभावनादिरूपदृष्टप्रतिबंधक सत्वादतः प्. १४ब्) तन्निरासोपयोगिनामुत्कृष्टगुरुतदधीनश्रवणमननध्यानादीनां संपादको दृष्टजनकत्वं नित्यानाम कॢप्तमेव विविदिषा वाक्यीय विनियोग बलात् कल्पनीयमित्याह । ज्ञानसाधनेति । एवं विविदिषाद्वाराविद्यायां कर्मणां विनियोगं निरूप्य तेषु त्रैवर्णिकानामधिकार इति निरूपणार्थमाक्षेप व्याजेन प्रसंगं दर्शयति । नन्वित्यादिना एवमपीति । तत्प्राप्तिहेतुर्विज्ञानं कर्मचोक्तं महामुन इति ज्ञानकर्मसमुच्चय प्रतिपादकस्मरणस्य विविदिषावाक्याविरोधेन ज्ञानं साक्षाद्ब्रह्मप्राप्तिसाधनं कर्म च विद्या द्वारातत्प्राप्ति साधनमिति क्रमसमुच्चय परतया निर्वाहैपीत्यर्थः । अत्रावधारणेन संसिद्धि शब्दितमुक्तिं प्रतिकर्मातिरिक्तोपायनिषेधात् । जनकाद्यनुष्ठित कर्मणां मुक्तिं प्रतिसाक्षादेवोपयोगः प्रतीयते । स च विविदिषावाक्यविरुद्ध इति समुच्चय स्मरणवदस्य स्मरणस्य निर्वाहो न सिध्यतीत्यर्थः । अस्यापि विविदिषा वाक्याविरुद्धं सिद्धांत्यभिमतमर्थमाशंक्यनिषेधति । न च तस्येति विद्यार्थेति । अस्मिन् स्मरणे संसिद्धिपदं विद्यापरं तथा च शुद्धिद्वाराकर्मणैव विद्यां प्राप्ता इति स्मरणार्थ इति भावः । तस्य स्मरणस्य विद्यार्थकर्मानुष्ठान परत्वं न चेत्यत्र हेतुमाह । विविदिषा वाक्य इति अत इति । विविदिषा वाक्य बोध्ये विद्यासाधनकर्मणित्रैवर्णिकानामनधिकारादित्यर्थः । उपलक्षण त्वादिति । तथा च भाष्यं ब्राह्मणग्रहणमुपलक्षणार्थं । प्. १५अ) अविशिष्टो ह्यधिकारः । त्रयाणां वर्णानामिति तथा च विद्यार्थ कर्मसुजनकादीनामप्यधिकारसत्वात् । कर्मणैव हीति स्मरणं विद्यार्थकर्मानुष्ठान परमेवेति न तद्बलात् । तमेव विदित्वाति मृत्युमेति । नान्यः यथा इत्यादि श्रुति विरुद्धः साक्षादेव कर्मणां मुक्त्युपयोगो वक्तव्य इति भावः ।। यथाहुरत्र भवंतो वार्तिककाराः ब्राह्मण ग्रहणं चात्र द्विजानामुपलक्षणं । अविशिष्टाधिकारित्वात् सर्वेषामात्मबोधन इति । न हि विद्याकामो यज्ञादी ननु तिष्ठेदिति विपरिणमते विद्याकामाधिकार विधौ ब्राह्मपदस्याधिकारि विशेषण समर्पकत्वं युज्यते । उद्देश्ये विशेषणायोगात् । नापि राजास्वाराज्य कामो राजसूयेन यजेतेति स्वाराज्यकामाधिकारे राजसूयविधौ स्वाराज्यकामो राजकर्तृकेण राजसूयेन यजेतेनिति कर्तृतया यागविशेषणत्वेन विधे यस्य राज्ञो राजकर्तृकराजसूयस्याराज्ञा संपादयितुमशक्यत्वादर्थादधिकारि कोटि निवेश वदिह यज्ञादि कर्तृतया विधेयस्य ब्राह्मणस्यार्थादधिकारि कोटिनिवेश इति युज्यते ।। प्. १५ब्) अत्र भवंत इति पूज्या इत्यर्थः । आत्मबोधन इति । आत्मबोधसाधन यज्ञादिकर्मणीत्यर्थः । विद्यार्थकर्माधिकारस्यैव प्रकृतत्वादिति मंतंतव्यं । ननु विविदिषा वाक्ये ब्राह्मण पदस्य त्रैवर्णिकौपलक्षणत्वे सिद्धे त्रयाणां वर्णानामविशेषेण विद्यार्थं कर्मस्वधिकारः सिध्यति । तत्र सर्वेषां अविशिष्टाधिकारत्वे सिद्धे तदनुरोधेने ब्राह्मण ग्रहणस्योपलक्षणत्वं सिध्यतीति परस्पराश्रयत्वप्रसंग इति वेन्न व्राणग्रहणस्य द्विजोपलक्षणत्वमनुपजीव्यैव सर्वेषां द्विजानां विद्यार्थकर्मस्वधिकार सिद्धेर्वार्तिकवनैन विवक्षितत्वात । ननु विविदिषा वाक्ये ब्राह्मण ग्रहणेन ब्राह्मणस्यैव विद्यार्थकर्मस्वधिकारे प्रतीयमाने कथं वर्णत्र साधारणाधिकारः सिध्येदिति चेतन्न वक्तव्यं किं ब्राह्मण पदस्य यज्ञादि विधावुद्देश्य विशेषणसमर्पकतया ब्राह्मणमात्राधिकारप्रापकत्वं किं वा विधेय कर्तृसमर्पकतया तदुभयसमर्पकत्वाभावेपि स्वसंनिधिमात्रेण तन्मात्राधिकार प्रापकत्वं वा गत्यंतराभावा तत्र नाद्य इत्याह । नहीति । यज्ञादीनां विद्यालक्षणफले विनियोगपरे विधौ विपाकामस्याधिकारः सिद्ध एव तथा च ब्राह्मण्य विशिष्टस्य विद्याकामस्याधिकारो विवक्षित इति स्वीकृत्य ब्राह्मपदस्याधिकारिविशेषण समर्पकत्वं वक्तुं न शक्यते विधेय यज्ञादि निरूपितोद्देश्यतायाः विद्याकाममात्रे पर्यवसान संभवेन ब्राह्मण्यरूपविशेषणस्यानाकांक्षिततया प्. १६अ) विद्याकामंष्वतिविशेषणत्वे नान्वयायोगात् । विशिष्टस्योद्देश्यत्वकल्पने गौरवाच्च विद्याकामब्राह्मण्ययोः प्रत्येकमुद्देश्यत्त्वे च वाक्यभेदप्रसंगात् । विद्याकामोपज्ञादीन तु तिष्ठेत ब्राह्मणो यज्ञादीननुतिष्ठेदितिभावः । द्वितीयं सदृष्टांतमाशंक्यनिरोति । नापीति । स्वाराज्यकामवाक्ये राजपदस्य पूर्वोक्तरीत्यास्वाराज्यकामप्रतिविशेषणत्वायोगात् । कर्तृविधायकत्वं स्वीकृत्यराजसूये राज्ञः सतः स्वाराज्यकामस्याधिकारः साधित इत्यर्थः । राज्ञोर्थादधिकारिकोटि निवेशवदिति संबंधः । अर्थादिति पदोक्तामर्थापतिं स्फुटयति । राजकर्तृकेति इहेति । विविदिषा वाक्य इत्यर्थः । विधे यस्येति । विद्याकामो ब्राह्मण कर्तृक यज्ञादीन ननु तिष्ठेत् इत्येवं विधे यस्येत्यर्थः । अर्थादिति ब्राह्मण कर्तृक यज्ञादेरब्राह्मणेन संपादयितुमशक्यत्वादित्यर्थः ।। सर्वथापित एवोभयलिंगादिति सूत्रेऽन्यत्रविहितानामेव यज्ञावीनां विविदिषा वाक्ये फलविशेषसंबंधविधिर्नापूर्वयज्ञादि विधिरिति व्यवस्थापितत्वेन प्राप्त यज्ञाद्यनुवादेनैकस्मिन्वाक्ये कर्तृरूपगुणविधिः फलसंबंधविधिश्चेत्युभयविधानात् वाक्यभेदापतेः । प्. १६ब्) नापि राजसूयवाक्ये राज्ञः कर्तृतया विधेयत्वाभावपक्षे राजपदसमभिव्याहारमात्राद्विशिष्टकर्तृत्वलाभवदिह वाक्याभेदायकर्तृतया ब्राह्मणाविधानेपि ब्राह्मणपद समभिव्याहारमात्रेण ब्राह्मकर्तृत्वलाभात् । तदधिकारपर्यवसानमित्युपपद्यते । अन्यत्र त्रैवर्णिकाधिकारकत्वेन कॢप्तानामिहापि त्रैवर्णिकारात्मविद्यार्थत्वेन विधीयमानानां यज्ञादीनां त्रैवर्णिकाधिकारित्वस्य युक्ततया विधिसंसर्गहीन ब्राह्मणपद समभिव्याहारमात्रादधिकारसंकोचासंभवेन ब्राह्मण पदस्य यथा प्राप्तविद्याधिकारिमात्रोपलक्षणौवित्यात् अर्थादधिकारिकोटिनिवेश इत्यपि न युज्यत इत्यत्र दृष्टांतवैषम्यमभिप्रेत्य हेतुमाह । सर्वथापीत्यादिना । यज्ञादीनामाश्रमकर्मत्वपक्षे विद्या सहकारित्व पक्षे च यावजीवादिवाक्येषु येग्निर्हेत्रादयोधर्माविहितास्त एवानुष्ठेयाः कुतः श्रुतिस्मृतिरूपो भयलिंगात् । श्रुतिस्तावद्विविदिषा वाक्य गत यज्ञादि श्रुतिरेवतया प्रसिद्धयज्ञादीनां प्रसिद्धदानादीनां प्. १७अ) च प्रत्यभिजिञायमानत्वादपूर्वयज्ञादिविधायकत्वे प्रत्यभिज्ञाविरोधात् । प्रसिद्धयज्ञाद्यनुवादेन फलसंबंधमात्र बोधने लाघवाच्च यज्ञादीनां स्रुवंत यज्ञादिपदोषातत्वेनात्रविधेयत्वा प्रतीतेश्च स्मृतिश्च अनाश्रताकर्मफलमित्याद्याप्रसिद्धयज्ञादीनामेव फलाभिसंधिविनानुष्ठितानां विद्या हेतुत्वं दर्शयतीति सूत्रार्थः । अन्यत्रेति । विविदिषावाक्यादन्यत्र कर्मकांड इत्यर्थः । उभयविधानादिति । राजसूयवाक्ये तु कर्त्रादिगुणविशिष्टस्यापूर्वकर्मण एव विध्युपगमान्न वाक्यभेदप्रसक्तिरिति तत्र राजपदस्य कर्तृ रूपगुणविधायकत्वं युक्तमितिभावः । तृतीयमपि सदृष्टांतमाशंक्यनिराकरोति । नापीति । राज्ञ इति राज्ञः कर्तृतया विधेयत्वाभावेपि राज्ञ एव राजसूयाधिकारः सिध्यति राजपदसंनिधानेन स्वाराज्यकामपदस्य क्षत्रिय परत्वावगमादन्यथा राजपदवैयर्थ्यप्रसंगादिति तात्पर्येण येषां मते राजः कर्तृतयाविधिर्नाभ्युपगम्यते तेषां पक्षे इत्यर्थः । ब्राह्मणाधिकारपर्यवसानमित्यपि नोपपद्यत इत्यत्र हेतुमाह । अन्यत्रेति । कर्मकांड इत्यर्थः । इहापीति । विविदिषावाक्येपि इत्यर्थः । त्रैवर्णिकाधिकारात्मविद्येति । ब्राह्मणे व क्षत्रियवैश्ययोरपि विद्यायामर्थित्वलक्षणाधिकाराविशेषात् । शूद्रस्येव विद्यार्थ यज्ञादिषु तयोः प्रतिषेधाभावाच्चेत्यर्थः । युक्ततयेति । अधिकारिणामसंकोचस्य विधिगतानष्टापकत्वलक्षणप्रामाण्योपपादकत्वादितिभावः । प्. १७ब्) अन्यत्र कॢप्तत्वाद्युपपति त्रय प्राप्तस्यापि क्षत्रिय वैश्ययोरधिकारस्य ब्राह्मणपदं अपवादकमित्याशंक्याह । विधिसंसर्गहीनेति उद्देश्यसमर्पकतया विधेयसमर्पकतया वा विधिवाक्यार्थान्वयबोधानुपयोगीत्यर्थः । राजसूयवाक्ये तु राजसूयस्यात्रैव विधेयत्वेन त्रैवर्णिकाधिकारिकत्वेनान्यत्रा कॢप्तत्वाद्युक्तं विविसंसर्गहीन राजपदसमभिव्याहारमात्राद्राजकर्तृनियम इति भावः । ननूक्त न्यायेन ब्राह्मणपदाभावेपि क्षत्रिय वैश्ययोरिव ब्राह्मणस्यापि विद्यार्थकर्मस्वधिकार सिद्धेः । ब्राह्मण ग्रहणं व्यर्थमेव स्यादिति चेन्न विद्यार्थ कर्मसु ब्राह्मणस्य मुख्याधिकार ज्ञापनार्थतोपपतेः वैयर्थ्यानवकाणादिति भावः ।। ननु विद्याधिकारिमात्रोपलक्षणत्वे शूद्रस्यापि विद्यायामर्थित्वादि संभवेन तस्यापि विद्यार्थकर्माधिकार प्रसंग इति चेन्न । अध्ययन ग्रहीतस्वाध्यायजन्य तदर्थज्ञानवत एव वैदिकेष्वधिकार इत्यपशूद्राधिकरणे अध्ययनवेदवाक्य श्रवणादि विधुरस्य शूद्रस्य विद्याधिकार निषेधात् । न शूद्रायमतिं दद्यादिति स्मृतेरापा ततोपि तस्य विद्यां महिमा प्. १८अ) ऽवगत्युपाया संभवेन तदर्थित्वानुपपतेश्च तस्य विद्यायामनधिकारादिति केचित् अन्ये त्वाहुः शूद्रस्याप्यस्त्येव विद्यार्थकर्माधिकारः तस्य वेदानुवचनाऽग्निहोत्राद्यसंभवेपि कंठोक्त सर्ववर्णाधिकार श्रीपंचाक्षरमंत्रराजविद्यादि जप पापक्षय हेतुतपोदानपाक यज्ञादि संभवात् । वेदानुवचनेन यज्ञेन दानेनेत्यादि पृथक्करणविभक्तिश्रुतेर्विधुरादीनां विर्थंपदानादि मात्रानुष्ठानानुमतेश्च वेदानुवचनादि समुच्चयान पेक्षणात् ।। ब्राह्मणग्रहणस्योपलक्षणत्वपक्षेति प्रसंगं शंकते । नन्विति । अविधेयायां हि विद्यायामधिकारो नामविद्यार्थित्वमात्रं तच्च शूद्रस्यापि संभवतीति क्षत्रियादेरिव तस्यापि विद्यार्थकर्मस्वधिकारो दुर्निवारा इत्यर्थः । शूद्रस्य शुत्युक्त सगुणब्रह्मविद्यासुनिर्गुणब्रह्मविद्यासाधन वेदांतश्रवणादिषु चाधिकारमाशंक्यनास्त्यध्कार इति निर्णीतमपशूद्राधिकरणे तस्याधिकाराभावे च भाष्ये हेतुरुपन्यस्तः वेदाध्ययनाभावादिति शूद्रस्य वेदोच्चारणश्रवणसाधारण निषेधेन वेदाध्ययनाभावेपि वेदार्थभूतोपासनाद्यनुष्ठानं किं नस्यादित्याशंक्य अध्ययन विधिनावेदजन्यवेदार्थ ज्ञानस्य प्. १८ब्) वेदार्थानुष्ठानेषु नियमितत्वादध्ययन शून्यस्य तदभावात् न सगुणनिर्गुणविद्यानुष्ठानेष्वधिकार इत्युक्तं । तर्था च तुल्यार्थतया विद्यार्थकर्मस्वप्यधिकारो नास्तीत्यर्थः । ननु शूद्रस्य वेदोक्तयज्ञादिष्वधिकारा भावेपि वक्ष्यमाणरीत्या तस्य विद्यासाधनकर्मणां संभवाद्विद्याकामनया शूद्रूस्यापि तेषामनुष्ठानं संभवतीत्याशंक्य तस्य विद्या कामनैव न संभवतीत्याह । न शूद्रायेति । मतिं शास्त्रार्थज्ञानं विद्यामहिमानिरतिशयानंदरू ब्रह्मप्राप्तिसाधनत्वं शूद्रस्यापि विद्यार्थकर्माधिकार प्रसंग इत्यर्त्र इष्टापतिरित्याह । अन्ये त्विति । कंठत उक्तः सर्ववर्णाधिकारो यस्मिन् तादृश विद्यादि जपे स तथोक्तः श्रीमत्पंचाक्षरमेव मंत्रराजविद्या आदिपदं च आगमिकपौराणिकमंत्रांतरसंग्रहार्थं तथा च ब्रह्मोतरखंडे किं तस्य बहुभिर्मंत्रैः किं तीर्थैः किं तपोध्वरैः यस्यों नमः शिवायेति मंत्रो हृदयगोचरः मंत्राअधिराजराजो यः सर्ववेदांतशेखरः सर्वज्ञाननिधानं च सोयं शैव षडक्षरः प्रणवेन निनामंत्रः सोयं पंचाक्षर स्मृतः स्त्रीभिः शूद्रैश्च संकीर्णै धीर्यते मुक्तिकांक्षिभिरिति । पाकयज्ञादीत्यादिपदं द्विजशुश्रुषानामकीर्तनतीर्थस्नानदिसंग्रहार्थं । ननु विविदिषा वाक्ये शूद्रसाधारणवर्णधर्माणामुपलक्षणेपि यज्ञादीनामेक वाक्योपादानातेषां समुच्चयस्य विद्यासाधनत्वं भाति यज्ञादिषु समुच्चयश्च शूद्रे वाधित इति कथं तस्य विद्यार्थ कर्माधिका इत्याशंक्यहेत्वसिध्या दूषयति । वेदानुवचनेनेति । वेदानुवचनेन विविदिषंति प्. १९अ) यज्ञेन विविदिषंतीत्यादिरूपेणप्रत्येकं साधनत्व प्रतीतेः न समुच्चयापेक्षा तद्विवक्षायां हि वेदानुवचनयज्ञदानतपोभिर्विविदिषंतीति वाक्यं स्यात् पृथक्करणविभक्ति प्रवणेपि वेदानुवचनेन यज्ञेन च दानेन च तपसा चेति प्रतिपदार्थं चकारयुक्तं वा वाक्यं स्यात् यदग्नये च प्रजापतये चेत्यादि वदिति भावः न च शूद्रस्य विद्यायामर्थित्वासंभवः श्रावयेच्चतुरो वर्णात् । कृत्वा ब्राह्मणमग्रत इत्यादीतिहासपुराणश्रवणे चातुर्वर्ण्याधिकारस्मरणेन पुराणाद्यवगत विद्या माहात्म्यस्य तस्यापि विद्यार्थित्वसंभवात् । न शूद्रायमतिं दद्यादिति स्मृतेश्च तदनुष्ठानानुपयोग्यग्निहोत्रादिकर्मज्ञाननिषेधपरत्वात् । अन्यथा तस्य स्ववर्णधर्मस्याप्यवगत्युपायासंभवै न शूद्रः चतुर्थो वर्ण एकजातिस्तस्यापि सत्यमक्रोधः शौचमाचमनार्थे पाणिपादप्रक्षालनमेवैकं श्राद्धकर्मभृत्यभरणं स्वदार तुष्टिः परिचर्याचोतरेषामित्यादि तद्धर्मविभाजकवचनानामननुष्ठानलक्षणाप्रामाण्यापतेः । न चैवं सत्यपशूद्राधिकरणस्य प्. १९ब्) निर्विषयत्वं तस्य न शूद्रे पातकं किंचिन्न च संस्कारमर्हतीति स्मृतेर्गुरूपदनाख्य विद्यांगोपनयनसंस्कारविधुरस्य शूद्रस्य सगुणविद्यासुनिर्गुणविद्यासाधन वेदांतश्रवणादिषु चाधिकारनिषेधपरत्वात् ।। यत्वापाततो विद्यामहिमावगत्युपाया संभवेन विद्यायामर्थित्वलक्षणाधिकारानुपपतिरिति । तदनूद्यनिराकरोति । न च शूद्रस्येति श्रावयेदिति ब्राह्मण इति शेषः । यदा क्षत्रियादी न श्रावयेत् तदा विशेषमाह । कृत्येति । पुराणादिभिः साधनभूतैरवगतं विद्यामाहात्म्यं येन शूद्रेण स तथा तस्येत्यर्थः । मति निषेधवचनस्य संकोचं दर्शयति । न शूद्रायेति अन्यथेति । शास्त्रार्थज्ञानमात्रदाननिषेधपरत्व इत्यर्थः । शूद्रस्य स्वतः पुराणादि पठननिषेधादन्येभ्योपि पुराणादिश्रवणाभावे स्वधर्मावगतिर्न संभवतीत्यर्थः । इष्टापतिमाशंक्याह । शूद्रश्चतुर्थो वर्ण इत्यादिना । जातिर्जन्म उपनयनाख्य द्वितीयजन्मशून्य इत्यर्थः । प्रक्षालनमेवेति नत्वपांप्राशनमंगस्पर्शनादिकं वेत्येवकारार्थः । उत्तरेषामिति । द्विजानामित्यर्थः । न शूद्रायमति दंद्यादिति स्मृतेः शास्त्रार्थज्ञानमात्रदाननिषेधपरत्वेपि वृद्धौ च मातापितरौ भार्यासाध्वीसुतः शिशुः अप्यकार्यं शतं कृत्वा भर्तव्यामतुर प्. २०अ) ब्रवीदित्यादिवचनदर्शनेन ये ब्राह्मणा उक्तलक्षणमात्रादि संरक्षणोपयोग्यर्थे लाभाय शूद्रान् प्रतिपुराणादि पठने प्रवर्तंते तेभ्यो विद्यामाहात्म्य स्वधर्मयोरवगतिसंभवात् न काप्यनुपपतिरिति मंतव्यं । न चैवमिति । शूद्रस्यापि विद्यार्थकर्माधिकार स्वीकार इत्यर्थः । निर्विषयत्वमिति । तदधिकरणस्य शूद्राधिकार निषेधपरत्वादितिभावः । सत्यं तदधिकरणं शूद्राधिकार निषेधपरं किंतु विद्यार्थ कर्माधिकार निषेधपरं न भवति । वेदांतश्रवणाधिकारनिषेधपरत्वा तस्येति परिहरति । तस्य न शूद्र इत्याअदिना । वेदांतश्रवण सगुणोपासनेषु अधिकाराभावे हेतुगर्भविशेषणमाह । गुरूपसदनाख्येति । शूद्रस्य संस्कारशून्यत्वेमानमाह । न शूद्र इति । पातकमिति । अभक्ष्यभक्षणादिकृतमित्यर्थः । अध्ययनांगोपनयनलक्षणः विद्यांगोपनयनलक्षणश्च द्विविधमपि संस्कारं निषेधति । न च संस्कार मर्हतीति । शिष्यत्वेन स्वीकृत्य समीपे स्थापनरूपं विद्यांगोपनयनमाचार्यकर्तृकं तच्च शिष्यकर्तृकगुरूपसदनपूर्वकत्वात् । गुरूपसदनाख्यमित्युक्तं गुरूपसदनं च तद्विज्ञानार्थं स गुरुमेवाभिगछेदित्यादिना विद्यांगत्वेमविहितं तथातंहोपनिन्ये इत्यादि श्रुत्या विद्यांगत्वेनोपनयनं च प्रतीयत इति भावः । तं विद्यार्थिनं गुरुरुपनीतवानित्यर्थः ।। निर्गुणविद्यायां शूद्रस्यापि विषयसौंदर्य प्. २०ब्) प्रयुक्तस्यार्थित्वस्य निषेद्धुमशक्यत्वात् । अविधेयायां च तस्यां तदतिरिक्ताधिकारा प्रसक्त्या तन्निषेधायोगाच्च । न च तस्य वेदांतश्रवणासंभवे विद्यार्थकर्मानुष्ठान संभवेपि विद्यानुत्पतें तस्य तदर्थ कर्मानुष्ठानं व्यर्थमिति वाच्यं । तस्य वेदांतश्रवणाधिकाराभावेपि भगवत्पादैः । श्रावयेच्चतुरो वर्णानिति चेतिहासपुराणाधिगमे चातुर्वण्याधिकार स्मरणाद्वेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितमित्यपशूद्राधिकरण उपसंहारभाष्ये ब्रह्मात्मैक्य परपुराणादि श्रवणे विद्यासाधनेधिकारस्य दर्शितत्वात् ।। ननु श्रुत्युक्त सगुणोपासनेष्विव निर्गुणविद्यासाधनवेदांतश्रवणादिष्विव च निर्गुणविद्यायामप्यधिकारनिषेधपरमपशूद्राधिकरणं किं न स्याद्विनिगमकाभावा तथा च निर्गुणविद्यायामधिकाराभावे तत्साधनकर्मसुशूद्राधिकारो न सिध्येदित्यत आह । निर्गुण विद्यायामिति । ब्रह्मविद्यालक्षणस्य विषयस्य सौंदर्यं मुक्तिसाधनत्वं तद्ज्ञानप्रयुक्तस्य विद्यायामर्थित्वलक्षणाधिकारस्य तदधिकरण न्याये प्. २१अ) ननिषेद्धुमशक्यत्वादित्यर्थः । ननु शूद्रस्य विद्यायामर्थित्वलक्षणाधिकार सत्वेपि तदतिरिक्तस्य अधीतवेदत्वादिरूपविशेषणांतरस्याभावात् । कथं तस्याधिकारो विद्यायामित्यत आह । अविधेयायामिति । च शब्दः शंका निरासार्थः । तदतिरिक्तेति अर्थित्वाति रिक्तेत्यर्थः । स्वर्गानुभववत् ब्रह्मानंदानुभवरूपाया निर्गुणविद्यायाः फलरूपत्वादविधेयत्वं फलस्याविधेयत्वा तथा च यथा स्वर्गानुभवादीं फले तदर्थित्वमात्रमधिकारस्तथा निर्गुणविद्यायामपि तदर्थित्वमात्रमेवाधिकारः स च निषेद्धुमशक्यः विधेयेष्वेवोपासनादिषु पूर्वोक्ताधिकारि विशेषणांतरापेक्षा शास्त्रे निरूपितेति विषमो दृष्टांत इति भावः । असंभव इति । अपशूद्राधिकरण न्यायेन तदसंभवे सतीत्यर्थः । तस्य वेदांतश्रवणासंभवेपि ब्रह्मात्मैक्य परपुराणादिश्रवणाधिकारस्य भाष्ये दर्शितत्वात् शूद्रस्यापि संभवति विद्योत्पतिरित्यर्थः भाष्ये तु शब्दोवधारणार्थः । श्रावयेच्चतुरो वर्णानिति वचनेन शूद्रस्य पुराणादिश्रवणाभ्यनुज्ञानेपि मनननिदिध्यासनयोरभ्यनुज्ञानाभावात् । नमननाद्यनुष्ठानं तस्य सिध्यति । न च मननादेः श्रवणांगत्वात् न पृथगभ्यनुज्ञानापेक्षेति वाच्यं । प्रयाजदर्शपूर्णमासादेरिव प्रकृते शेषशेषिभावबोधक प्रमाणाभावेन श्रवणादिष्वंगांगिभावव्यवहारस्य गौणत्वात् । तथा च शूद्रस्याद्वैतपरपुराणादिभागश्रवणे कृतेपि विद्योदया संभवात् । विद्यार्थकर्मानुष्ठान वैयर्थ्ये प्. २१अ) तदवस्थमेवेत्यैस्वरसादाह । विद्योत्पति योग्येति । यद्वा इतिहासपुराणाभ्यां वेदं समुपवृंहयेदिति वचनादितिहासादि गत ब्रह्मात्मैक्य परभागस्य वेदांतश्रवणाज्जनित वेदांतार्थज्ञानोपकारकत्वमात्रमेव न तु वेदांतश्रवणमनपेक्ष्यस्वातंत्र्येण ब्रह्मात्मैक्यज्ञानजनकत्वमिति निश्चीयते । तथा सत्येव तद्वचनपूर्वार्धं संगछते विभेत्यल्पश्रुताद्वेदो मामयं प्रतरेदितीति । अयमर्थः अल्पं वेदमात्रं श्रुतं विचारितं येन पुरुषेण सोल्पश्रुतः ।। विद्योत्पति योग्यविमलदेवशरीरनिष्पादनद्वारा मुक्त्यर्थं भविष्यतीति त्रैवर्णिकानां क्रममुक्तिफलक स गुणविद्यार्थ कर्मानुष्ठानवत् वेदांतश्रवणयोग्य त्रैवर्णिकशरीरनिष्पादनद्वारा विद्योत्पत्यर्थत्वं भविष्यतीति शूद्रस्य विद्यार्थ कर्मानुष्ठानाविरोधाच्च तस्माद्विविदिषा वाक्ये ब्राह्मण पदस्य यथा प्राप्तविद्याधिकारि मात्रोपलक्षणत्वेन शूद्रस्यापि विद्यार्थ कर्माधिकारः सिद्ध्यत्येवेति । ननु अस्तु कर्मणां चित्तशुद्धिद्वाराविद्योपयोगः संन्यासस्य किं द्वारातदुपयोगः केचिदाहुः विद्योत्पतिप्रतिबंधक दुरिता प्. २२अ) नामनंतत्वात किं विद्यज्ञाद्यनुष्ठान निवर्त्यं किंचित् संन्यासापूर्वनिवर्त्यमिति कर्मवच्चितशुद्धिद्वारैव संन्यासस्यापि तदुपयोगः तस्मात् पुरुषा तेन श्रुतो वेदो विभेति । कथंति भेति तत्राह मासिति । अयमल्पश्रुतः पुरुषः मांश्रुतं वेदं प्रतरेत् । मद्विचाररूपायां मीमांसायां न्यायाभासत्वादि शंकया मामप्यर्थांतर परं संभावयेत् । इति शब्दो हेत्वर्थः । एवं प्रतारणसंभवाद्धेतोः इतिहासपुराणाभ्यां वेदं संम्यगुपवृंहयेत् । इतिहासपुराणवचनैर्मीमांसानुसारिभिः । तस्यां दृढन्यायत्वनिश्चयसंपादन द्वारा मीमांसानिर्णीतार्थपवमां वेदं स्थापयेदिति । तथा च शूद्रस्य वेदांतश्रवणरहितस्य वेदांतार्थोपवृहणरूपब्रह्मात्मैक्यपरे इतिहासादिश्रवणे प्रवजावपि नास्ति विद्योदयः श्रावयेच्चतुरो वर्णानिति वचनमपि शूद्रस्याद्वैतपरपुराणादि श्रवणांशे अदृष्टार्थमभ्युनुज्ञापरं अपशुद्राधिकरणभाष्येपि शूद्रस्याद्वैतपुराणस्रवणादि वर्णनं विभेत्यल्पश्रुतादिति वचनं नास्तीति कृत्वाकृतमिति न भाष्यविरोधापि तथा च वेदांतश्रवणैक साध्या विद्यात् तदभावे शूद्रस्य न सिध्यदैवेत्यस्वरसादाह । विद्योत्पति योग्येति मुक्त्यर्थमिति सुगुणब्रह्मोपासनमितिशेषः । विद्योत्यर्थत्वमिति शूद्रस्य मदनुष्ठितद्यर्माण्यं विद्योत्पत्यर्थत्वं भविष्यनीति प्. २२ब्) निश्चयेन तदनुष्ठानसंभवादित्यर्थः । तस्मादिति । शूद्रस्य विद्यार्थकर्मानुष्ठाने बाधकाभावादित्यर्थः । विद्याधिकारिमात्रेति । न तु ब्राह्मण पदस्य ब्राह्मणमात्रपरत्वं न वा त्रैवर्णिकमात्रपरत्वमिति मात्रशब्दार्थः ब्राह्मण पदस्य द्विजोपलक्षणत्वे वार्तिक वचने यो हेतुरुक्तः त्रयाणामात्मबोधनसाधनकर्मस्वधिकाराविशेषादिति तस्य हेतोः शूद्रसाधारणत्वादितिभावः । किं द्वारेति । किमदृष्टद्वाराविद्योपयोगः किं वा दृष्टद्वारानाद्यः विद्योत्पति प्रतिबंधक दुरितस्य यज्ञाद्यनुष्ठान जनिता पूर्वेणैव निवर्तितत्वेन संन्यास जनिता पूर्वनिवर्त्यदुरितालाभे सति संन्यास वैयर्थ्यप्रसंगात् । न द्वितीयः । तदनुपलंभादित्याक्षेपाभिप्रायः । तत्राद्यं पक्षं समर्थयते । केचिदाहुरिति । ननु संन्यासापूर्वस्य न विद्योदय हेतुत्वं असंन्यासिनामपि केषांचिद्विद्व्योद्देशेन श्रवणाद्यनुष्ठान दर्शनात् । केषांचित् संन्यासं विनैव विद्योदयस्य प्रमाणसिद्धत्वाच्चेत्यत आह ।। तथा च गृहस्थादीनां कर्मछिद्रेषु श्रवणाद्यनुतिष्ठतां न तस्मिन् जन्मनि विद्यावाप्तिः किं तु जन्मांतरे संन्यासंलब्धैव येषां तु गृहस्थानामेव सतांजनकादीनां विद्यादृश्यते तेषां पूर्वजन्मनि संन्यासाद्विद्यावाप्तिः प्. २३अ) अतो न विद्यायाः संन्यासापूर्वव्यभिचारशंकापीति । अन्ये तु शांतोदांत उपरत इत्यादि श्रुतौ उपरतशब्दगृहीततया संन्यासस्य साधनचतुष्टयांतर्गतत्वात् । सहकार्यांतरविधिरिति सूत्रभाष्ये तद्वतो विद्यावतः संन्यासिनो बाल्यपांडित्यापेक्षया तृतीयमिदं मौनं विधीयते । तस्माद्ब्राह्मणः पांडित्यमित्यादि श्रुतौ । ततः प्राक् भिक्षाचर्यं चरंतीति संन्यासाधिकारादिति प्रतिपादनात् ।। तथा चेति संन्यासस्य विद्यां प्रतिदृष्टद्वारानुपलंभेनादृष्ट द्वारैव विद्या वाप्ति हेतुत्वे संन्यासविधिना सिद्धे सतीत्यर्थः । न च दृष्टद्वारानुपलंभो सिद्धः लौकिक वैदिक व्यापार विक्षिप्त चितस्य विद्योदया संभवेन सर्वकर्मसंन्यासस्य विक्षेपनिवृतिरूप दृष्टद्वाराविद्याहेतुत्वसंभवादिति वाच्यं । लौकिक वैदिक कर्मवतामपि केषांचित् पुरुषधौरे याणां दैन्यहर्ष क्रोधभयादिलक्षणविक्षेपनिवृतेरनुभवसिद्धत्वेन तदर्थंसे न्यासा न पेक्षणादितिभावः । संन्यासस्यादृष्टद्वारकत्वपक्षमेवावलंव्य संन्यासा पूर्वस्य श्रवणाद्यधिकारि विशेषणत्वेन विद्योपयोगं सप्रमाणमाह । अन्येतिति शांत इति । तितिक्षुः समाहितः प्. २३ब्) श्रद्धावितो भूत्वात्मन्येवात्मानं पश्येदिति श्रुतिशेषः शमः अंतरिंद्रियनिग्रहःदमो बाह्येंद्रिय निग्रहः उपरतिर्नित्यकर्मत्यागः । ननु शांतदांतपदाभ्यामेव कर्ममात्रस्य वारितत्वादुपरति श्रुतिर्व्यर्थेति चेन्नशमदम विधिशास्त्रस्य सामान्यशास्त्रत्वात् । तस्य नित्यकर्मविधिना विशेषशास्त्रेण नित्यनैमितिककर्मव्यतिरिक्त बाह्यांतःकरणव्यापारनिवृतिमात्र परतया संकोचे सति नित्यकर्मत्यागा लाभात् । पुनरुपरति श्रुत्यानित्यकर्मत्यागो बोध्यत इति न तस्य वैयर्थ्यं तितिक्षुः शीतोष्णादि द्वंद्व सहिष्णुः समाहितः श्रवणाद्यपेक्षित चित समाधानवान् देवता गुरुवेदांतेषु श्रद्धैववितं यस्य सः श्रद्धावितो भूत्वेत्यस्य प्रत्येकमन्वयः आत्मन्येवकार्यकारणसंघात एसंघात एव संघातसाक्षिणमात्मानमहं ब्रह्मास्मीति पश्येदिति श्रुत्यर्थः । साधनचतुष्टयेति नित्यानित्यवस्तुविवेकः ऐहिकामुष्मिकभोगविरागः शमादिषऽऽन्कं मुमुक्षा चेति साधनचतुष्टयं तच्च श्रवणाद्यधिकारिविशेषणमिति व्यवस्थापितं प्रथमसूत्र इति भावः संन्यासा पूर्वस्याधिकारिविशेषणत्वे हेत्वंतरमाह । सहकार्यतरेत्यादिना प्रतिपादनादित्यंतेन सह कार्यंतरस्य विद्यां प्रतिसाधनांतरस्य मौनस्य विधिरथ मुनिरिति शब्द इति सूत्रभागार्थः । सौत्र पदं तद्वत इति तस्य व्याख्यानं विद्यावत इति श्रवणाद्यनुष्ठानोपयोग्यापात प्. २४अ) ज्ञानवत इत्यर्थः । तद्वतः सह कार्यंतर विधिरिति सूत्रे संन्यासिन इति कथं लभ्यते तत्राह । तस्मादिति । तस्मादित्यपि श्रुति पदमेव यस्मादतीताः ब्राह्मणाः आपाततो ब्रह्मात्मानं विदित्वा तत्वसाक्षात्कारार्थं व्युत्थान शब्दितं संन्यासं कृत चेतः तस्मादिदानीं तनोपि ब्राह्मणो मुमुक्षुः संन्यस्य पांडित्यादिकं तत्वसाक्षात्कारार्थमनुतिष्वेदिति श्रुत्यर्थः । पांडित्यं श्रवणं मौनं ध्यानं तत इति तस्माद्ब्राह्मण इति वाक्यात् पूर्वमित्यर्थः ।। त्यक्ताशेष क्रियस्यैव संसारं प्रजिहासतः जिज्ञासोरेव चैकात्म्यंत्रप्यंतेष्वधिकारितेति वार्तिकोक्तेश्च संन्यासापूर्वस्य विद्यासाधन वेदांतश्रवणाद्यधिकारि विशेषणत्वमिति तस्य विद्योपयोगमाहुः । अपरे तु श्रवणाद्यंगतयात्मज्ञानफलता संन्यासस्य सिद्धेति विवरणोक्तेरनन्यव्याअपारतया श्रवणादिनिष्पादनं कुर्वतस्तस्य विद्यायामुपयोगः । दृष्टद्वारे संभवत्य दृष्टकल्पनायोगात् । यदित्वनलसस्य धीमतः पुरुषधौरेयस्याश्रमांतरस्थस्यापि प्. २४ब्) कर्मछिद्रेषु श्रवणादिसंपद्यते ।। संन्यासापूर्वस्याधिकारि विशेषणत्वे वार्तिक संमतिरूप हेत्वंतरमाह । त्यक्तेति । वार्तिके प्रथमविशेषणं संन्यासपरं ततश्च संन्यासमुमुक्षा जिज्ञासानां समुच्चयार्थेन च कारेण मुमुक्षुत्वादेरिव संन्यासस्यापि वेदांतश्रवणादिष्वधिकारि विशेषणत्वं भातीतिभावः । संन्यासापूर्वस्येति । संन्यासस्य त्यागलक्षण क्रियारूपेणानुवृत्ययोगादपूर्वपर्यंत धावनमिति । संन्यासस्य दृष्टद्वाराविद्योपप्योग इति द्वितीयं पक्षं समर्थयते । अपरे त्विति । ननु संन्यासस्य विद्यांगत्वबोधक श्रुत्यादि वृतस्य श्रवणाद्यंगत्वबोधकप्रमाणाभावाद्विवरणोक्तिरयुक्तेत्याशंक्य तस्यास्तात्पर्यमाह । अनन्य व्यापार तयेति कादाचित्कं श्रवणादिकं विद्योदयद्वारानामृतत्वसाधनं किंतु सार्वकालिकं ब्रह्मसंस्थो मृतत्वमेति । आसुप्तेरामृतेः कालं नयेद्वेदांतचिंतयेत्यादि श्रुतिस्मृति शतेभ्यः तथा चानन्यव्यापारतयाश्रवणाद्यनुष्ठानं विदधताशास्त्रेण संन्यासोपेक्ष्यते गृहस्थादेः स्वाश्रमविहितकर्मव्यग्रस्य सदा श्रवणाद्यनुष्ठानासंभवात् । तथा विद्यासाधनत्वेन संन्यासं विदधतापि शास्त्रेण द्वारतया निरंतरश्रवणाद्यनुष्ठानमपेक्ष्यते संन्यासस्य साक्षाद्विद्यासाधनत्वाभावात् । दृष्टद्वारसंभवे अदृष्टद्वारकल्पनानुपपतेश्च । तत्रापि श्रवणादिकं प्. २५अ) तत्वव्यंजकत्वादर्थतः । प्रधानं भवति संन्यासस्तूक्त हेत्वभावाद्गणभूत तया व्यवतिष्ठते एवं श्रवणादि विधेः संन्यासविधेश्च परस्परापेक्षाबलादेक वाक्यभावमापन्नाभ्यां विधिभ्यां संन्यासांगकं मनननिदिध्यासन सहितं श्रवणं विधीयत इति सिद्धासंन्यासस्य श्रवणाद्यंगतया आत्मज्ञानफलकतेति भावः । यद्वा विवरणोक्तेरयंभावः श्रवणविधिस्तावत् श्रवणसाधनतया विक्षेप निवृतिं तद्धेतु संन्यासं चापेक्षते विक्षिप्तस्य चेतसः श्रवणाद्यनुष्ठाने प्रवृत्यसंभवात् । गृहस्थादेश्च स्वाश्रमकर्मकरणकालातिरिक्तकालेपि बहुविषयतयाविक्षेपावश्यं भावात् । संन्यासविधेरपि विक्षेपनिवृतिरूपदृष्टद्वाराश्रवणादिकं घटयित्वाविद्यां संपादयतः संन्यासस्य विधानेन चारितार्थ्यसंभवे अदृष्टद्वाराविद्यासाधनसंन्यासविधायकत्वा संभवात् । तथा च पूर्ववत् संन्यासस्य श्रवणाद्यंगतयैव विद्याफलकत्वं न त्वदृष्टद्वारेति सिद्धमित्यस्मिन् व्याख्याने अनन्यव्यापारतयेत्यस्य विक्षेपनिवृति द्वारेत्यर्थो विवक्षितः तस्येति संन्यासस्येत्यर्थः । ननु संन्यासस्य विक्षेपनिवृतिद्वारा श्रवणाद्यंगभावमापन्नस्य विद्यासाधनत्वमुक्तमनुपपन्नं संन्यासं विनापि विक्षेपनिवृतिः केषुचित् श्रवणाधिकारिषु संभवादिति शंकते यदि त्विति । अनलसस्येति । सत्त्वगुणप्रधानस्येति यावत् । धीमत इति विषयेषु दोषदर्शनशीलस्येति यावत् । पुरुषधौरे यस्येति विषयेभ्यः सकाशादिंद्रियाणां निग्रहे समर्थस्येत्यर्थः ।। तदा चतुर्ष्वाश्रमेषु संन्यासाश्रमपरिग्रहेणैव श्रवणादि निवर्ततीयमिति नियमोभ्युपेय इति । नन्वस्मिन् पक्षद्वये क्षत्रियवैस्ययोः कथं वेदांतश्रवणाद्यनुष्ठानं संन्यासस्य ब्राह्मणाधिकारत्वात् । ब्राह्मणो निर्वेदमायात् ब्राह्मणोव्युत्थाय ब्राह्मणः प्रव्रजेदिति संन्यासविधिषु ब्राह्मणग्रहणात् । अधिकारि विशेषस्य ज्ञानाय ब्राह्मण ग्रहः न संन्यासविधिर्यस्मात् श्रुतौ क्षत्रियवैश्ययोरिति वार्तिकोक्तेश्चेति चेत् । अत्र केचिद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्ग्रहाद्वाचनाद्वेत्यविशेषश्रुत्याब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद् ग्रहात् । त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमा इति स्मृत्यनुगृहीतया क्षत्रियवैश्ययोरपि संन्यासाधिकारसिद्धेः श्रुत्यंतरेषु ब्राह्मणग्रहणं श्रयाणामुपलक्षणं । अत एव वार्तिकेप्यधिकारिविशेषस्येति श्लोकेन भाष्याभिप्रायमुक्त्वात्रयाणामविशेषेण संन्यासः । श्रूयते श्रुतौ यदोपलक्षणार्थं स्याद्ब्राह्मण ग्रहणं तदेत्यनंतरश्लोकेन स्वमते क्षत्रियवैश्ययोरपि संन्यासाधिकारो दर्शित प्. २६अ) इति तयोः श्रवणाद्यनुष्ठानसिद्धिं समर्थयंते । अन्ये त्वनेकेषु संन्यासविधिवाक्येषु ब्राह्मणग्रहणादुदाहृतजावाल शुर्तौ संन्यासविधिवाक्ये ब्राह्मण ग्रहणाभावेपि श्रुत्यंतरसिद्ध ब्राह्मणाधिकारमेव सिद्धं कृत्वा संन्यासावस्थायामयज्ञोपवीती कथं ब्राह्मण इति ब्राह्मपरामर्शाच्च ब्राह्मणस्यैव संन्यासाधिकारः ।। एतैर्विशेषणैर्विक्षेप हेतूनामभावसूचनात् । विक्षेपनिवृतिरुक्ता संन्यासफलस्य विक्षेपाभावस्य संन्यासादिव संन्यासादन्यतोपि प्राप्तौ संन्यासस्य विधित्सितस्य श्रवणाद्यपेक्षितविक्षेप निवृतिं प्रतिपक्षे प्राप्तिः पक्षे चाप्राप्तिरिति लभ्यते । तथा च माभूत् संन्यासाश्रमविधिरपूर्वविधिः नियमविधिस्तु भवे देवेति समायते । तदेति परिग्रहेणैवेति । विक्षेप निवृति द्वारेति शेषः नन्वस्मिन् पक्षद्वय इति । संन्यासस्याधिकारिविशेषणत्वपक्षे श्रवणांगत्वपक्षे चेत्यर्थः । कथमिति । संन्यासाभावादिति भावः । तयोः संन्यासाभावे हेतुमाह । संन्यासस्येति । ब्राह्मणस्यै संन्यासाधिकारे मानमाह । ब्राह्मण इति निर्वेदं वैराग्यं तत्पूर्वक संन्यासं न्यासं कुर्यादित्यर्थः निर्वेदशब्दितवैराग्यस्य संप्रतिसामग्रीत्वेन तस्मिन सति संन्यासस्यावश्यकत्वात् । संन्यासविधिरेवायमितिभावः । प्. २६ब्) व्युत्थायेति संन्यस्येत्यर्थः । यस्माछ्रुतावधिकरिविशेषस्य ज्ञानाय ब्राह्मणग्रहः । तस्मात् क्षत्रियं वेश्ययोः संन्यासविधिर्नास्तीति वार्तिकयोजना । अत्र केचित् तयो श्रवणाद्यनुष्ठानसिद्धिं समर्थयंत इति संबंधः ब्रह्मचर्यं समाप्यगृही भवेत् ग्वहाद्वनी भूताप्रवजेदिति पूर्वश्रुतौ च स्तुर्णीमप्याश्रमाणां समुच्चयं प्रतिपाढद्यतेषां विकल्पं दर्शयति । यदि वेतरथेति । यदि वेत्यस्य ब्रह्मचर्याश्रम एव वैराग्यमुत्पन्नं चेदित्यर्थः । तत्र तदनुत्पतावाह ग्रहाद्वेति ग्रहाश्रमेपि तदनुत्पतावाह । वनाद्वेति अविशेषेति । ब्राह्मणादिविशेषग्रहरहितेत्यर्थः । अत एवेति वर्णत्रय साधारणतया संन्यासस्य श्रुतिस्मृति सिद्धत्वादेवेत्यर्थः । यदा यदि वेति श्रुतौ श्रूयते । तदा उपलक्षणार्थं स्यादिति संबंधः । अन्ये त्विति । भाष्यानुवर्तिन इत्यर्थः । श्रुत्यंतरसिद्धमिति । ब्राह्मणो व्युत्थायेत्यादि श्रुत्यंतरसिद्धमित्यर्थः सिद्धं कृत्वेति । विद्योद्देशेन संन्यासविधिवाक्यानां सर्वेशामेक वाक्यत्वादितिभावः । कथमिति तां । तव यज्ञोपवीतादेर्ब्राह्मणत्वव्यंजकत्त्रात परमहंस संन्यासे चतुदभावादपि इत्यर्थः । यद्यत्र क्षत्रियवैश्ययोरपि संन्यासो विवक्षितः स्यात् तदा कथं ब्राह्मण इति वत् कथं क्षत्रियः कथं वैश्य इत्यपि श्रूयेत न तु श्रूयते तस्मात् न तयोः संन्यासः श्रुत्यभिमत इति भावः ।। प्. २७अ) विरोधाधिकरणन्यायेन श्रुत्यविरुद्धस्यैव स्मृत्यर्थस्य ग्राह्य त्वात् । यतु संन्यारास्य सर्वाधिकारत्वे वार्तिक वचनं तद्विद्वत्संन्यासविषयं न त्वातुरविविदिषा संन्यासे भाष्याभिप्रायविरुद्धसर्वाधिकारप्रतिपादनपरं सर्वाधिकार विछेदि विज्ञानं चेदुपेयते कुतोधिकार नियमो व्युत्थाने क्रियते बलादित्यनंतरश्लोकेन ब्रह्मज्ञानोदयानंतरं जीवन्मुक्तेन क्रियमाणे विद्वत्संन्यासे एवाधिकरनियमनिराकरणात् । एवं च ब्राह्मणानामेव श्रवणायनुष्ठाने संन्यासोंगं क्षत्रियवैश्ययोस्तप्रि?रपेक्षः श्रवणाद्यधिकार इति तयोः श्रवणाद्यनुष्ठाननिर्वाहः न हि संन्यासस्य श्रवणापेक्षितत्वपक्षे श्रवणमात्रस्य तदपेक्षानियतुं शक्यते क्रममुक्तिफलकसगुणोपासनयादेवभावं प्राप्तस्य श्रवणादौ संन्यासनैरपेक्ष्यस्यावश्यं वक्तव्यत्वात् ।। एवं संन्यासविधीनामैककंठ्ये स्थिते सति ब्राह्मणः क्षत्रियो वापीति स्मृति वचनं जावाल श्रुति तात्पर्याज्ञान प्. २७ब्) मूलत्वादप्रमाणमित्याह । विरोधाधिकरणत्यायेनेति । प्रत्यक्षश्रुतिविरुद्धस्मृतिवचनमप्रमाणमिति विरोधाधिकरणन्यासः । तस्माद्ब्राह्मणः पांडित्यं निर्विद्येत्यादि श्रुतौ संन्यासाधिकारानुरोधेन ब्राह्मणः संन्यस्य पांडित्यादिकमनुतिष्ठेदिति वाक्यार्थलाभात् । विद्यार्थसंन्यासे विविदिषुणा क्रियमाणे ब्राह्मणस्यैवाधिकार इति भगवतो भाष्यकारस्य मतं यदि वार्तिकवचनस्य प्रमाणमूलभाष्यकारमत विरुद्धेर्थे तात्पर्थे कल्पे तत् तदा संन्यासस्य साधारण्य प्रतिपादकस्मृतिवचनवद्वार्तिकवचनमपि हेयमेव स्यादतो भाष्याविरुद्धार्थ परं वार्तिकवचनमित्याह । तद्विद्वत्संन्यास विषयमिति । विविदिषा संन्यासे सर्वाधिकारप्रतिपादनपरं न संभवतीत्यत्र हेत्वंतरमाह । सर्वाधिकारेति । क्षत्रियवैश्ययोस्तत्वज्ञानमप्युपेय तेन वानांत्यः जनकादीनां तत्वज्ञानवत्वप्रतिपादकशास्त्रविरोधानापः तत्वज्ञानेन कर्माधिकारप्रयोजकवर्णाश्रमाद्यध्यासनिवृतौ सकलकर्मनिवृतिरूपविद्वत्संन्यासस्य क्षत्रियवैश्ययोरपि वारयितुमशक्यतया विविदिषा संन्यास इव विद्वत्संन्यासेपि ब्राह्मणस्यैव अधिकार इति नियमासंभवादितिभावः । कुतो बलान्नियमः क्रियते तादृशं बलं नास्तीत्यर्थः । एवं चेति श्रवणांगत्वेनापि कारिविशेषणत्वेन वा विद्या साधने विविदिषासंन्यासे ब्राह्मणस्यैवाधिकार इति सिद्धे सतीत्यर्थः । ननु संन्यासस्याधिकारिविशेषणतया अंगतया वा श्रवणापेक्षितत्वपक्षे प्. २८अ) श्रवणमात्रस्य संन्यासापेक्षत्वावगमात् । क्षत्रियवैश्ययोर्विविदिषासंन्यासरहितयोः श्रवणानुष्ठानं नास्तीत्येव पर्यवस्यति न तु तयोः श्रवणं संन्यासनिरपेक्षमिति तथा च कथं तयोः श्रवणाद्यनुष्ठाननिर्वाहः । तत्राह नहीति । देवभावं प्राप्तस्येति । न च सगुणोपासकस्य ब्रह्मलोकं गतस्य उपासनयादेवभावं प्राप्तस्य निर्गुणब्रह्मसाक्षात्कारायोपासकेन क्रियमाणे श्रवणादौ संन्यासस्य व्यभिचार इत्ययुक्तं तस्य सुगुणविद्यासामर्थ्यादेव निर्गुणसाक्षात्कारसंभवेन श्रवणाद्यनुष्ठानस्याभावादिति वाच्यं । देवताधिकरणे सगुणविद्ययादेवभावं प्राप्तमुपासकमेव प्राधान्येन विषयाकृत्य श्रवणादौ देवाद्यधिकारस्य निरूपितत्वेन तस्यापि श्रवणाद्यनुष्ठानं विना विद्यानुदयस्य प्रागेव श्रवणविधिविचारावसरे दर्शितत्वात् । तथा च तत्र व्यभिचारात् । संन्यासो न श्रवणमात्रांगं किंतु ब्राह्मणकर्तृकश्रवणस्यैवांगमिति क्षत्रियवैश्ययोः सन्यासाभावेपि श्रवणाद्यनुष्ठान निर्वाह इत्यर्थः ।। देवानां कर्मानुष्ठाना प्रसक्त्यातत्यागरूपस्य संन्यासस्य तेष्वसंभवादित्याहुः । अपरे तु ब्रह्मसंस्थो मृतत्वमेतीति श्रुत्युदिता यस्य ब्रह्मणि संस्था समाप्तिरनन्यव्यापारत्वरूपं तत्निष्ठत्वं तस्य श्रवणादिषु मुख्योधिकारः प्. २८ब्) गछतस्तिष्ठतो वापि जाग्रतः स्वप्नोपि वा न विचार परं चेतो यस्या सौमृत उच्यते । आसुप्तेरामृतेः कालं नयेद्वेदांतचिंतयेत्यादि स्मृतिषु सर्वदाविचारविधानात् । सा च ब्रह्मणि संस्था विना संन्यासमाश्रमांतरस्थस्य न संभवति । स्वस्वाश्रमविहित कर्मानुष्ठान वैयग्र्यादिति संन्यासरहितयोः क्षत्रियवैश्ययोर्न मुख्यः श्रवणाद्यधिकारः ।। ननु देवानामपि कुतः संन्यासाभावः तत्राह । देवानामिति । ननु देवकर्तृक श्रवणे संन्यासा श्रमस्य यदि व्यभिचारः तर्हि त्रैवर्णिक मनुष्य कर्तृक श्रवणे संन्यासाश्रमस्य हेतुत्वमस्तु न तु ब्राह्मणमात्रकर्तृके तथा संकोचे मानाभावात् । उक्तं हि प्रागेव चतुर्ष्वाश्रमेषु संन्यासाश्रमपरिग्रहेणैव श्रवणादिर्निर्वर्तनीयमिति स चाश्रमविभागो वर्णत्रय साधारण एव न ब्राह्मणमात्रगतः तथा च संन्यासिनो ब्राह्मणस्येव संन्यासहीनयोः क्षत्रियवैश्ययोः श्रवणादौ नाधिकारः संभवतीत्यस्वरसादाह । अपरे त्विति । श्रत्युदिता ब्रह्मणि संस्था यस्य संभवति तस्य मुख्योधिकार इति संबंधः । संस्थापदस्यो व्याख्यानं समाप्तिस्तस्यापि व्याख्यानमनन्येति अमृतत्वकामस्य नैरंतर्येण प्. २९अ) विचारकर्तव्यतायां स्मृतिवचनान्यप्युदाहरति । गछत इति स्वपत इति । शयानस्येत्यर्थः । स जीवति मनो यस्य मननेनैव जीवतीत्यादि वचनसंग्रहार्थमादिपदं मननं तत्वचितनं तद्रहितो जीवन्नेव मृत इत्यर्थः । अयं च मुख्याधिकारः संन्यासिनामेवेत्याह । सा चेति । वैयग्र्यादिति । व्यग्रत्वादित्यर्थः सार्वकालिकी विक्षेपनिवृतिरसंन्यासिनां न भवतीति भावः । न मुख्य इति शास्त्रीयोधिकारो नास्तीर्थः । अयं भावः ब्रह्मसंस्थोमृतंत्वमेतीति श्रुत्यापांडित्य श्रुत्येव ब्रह्मनिष्ठाधर्मकः संन्यासाश्रमो विधीयते ब्रह्मसंस्थाशब्दितायाः ब्रह्मनिष्ठायाः संन्यासाश्रमे संभवादाश्रमांतरेष्वसंभवादिति प्रतिपादितं संन्यासाधिकरणभाष्यांदौ तथा च ब्रह्मनिष्ठत्वस्य संन्यासाश्रमधर्मत्वेन विहितत्वात्संन्यासिनो ब्राह्मणस्य ब्रह्मनिष्ठत्वं स्वधर्म इति संन्यासिनः तत्र मुख्योधिकारः । तस्य ब्रह्मनिष्ठत्व व्यतिक्रमे प्रत्यवायावगमाच्च तथा च परमहंसोपनिषदि श्रूयते काष्टदंडो धृतो येन सर्वाशी ज्ञानवर्ज्जिताः स याति नरकान् घोरान् महारौरवसंज्ञकानिति काष्टदंडोपलक्षितः संन्यासाश्रमोधृतः परिगृहीतो येन सः सर्वाशी सर्वे विषयजातमशितुं भोक्तुं शीलमस्यास्तीति सर्वाशी बाह्यांतःकरणजयरहितः इति यावत् ज्ञानवर्जितः ज्ञानाभ्यासरहित इत्यर्थः यः संन्यस्य शमादि सहितं ब्रह्मनिष्ठत्वं नानुतिष्ठति सतो वां दुर्गतिं गछतीत्यर्थः । यथा संन्यासिनो ज्ञाननिष्ठाविधायकानि संन्यस्य प्. २९ब्) श्रवणं कुर्यात् । गछतस्तिष्ठतो वापि आसुप्तेरामृतेः कालमित्यादीनि स्मृतिवचनानि सहस्रशः संति तथा तत्परित्यागे पातित्यबोधकान्यपि स्मृतिवचनानि सहस्रशः संतित्वं पदार्थविवेकाय संन्यासः सर्वकर्मणां श्रुत्याविधीयते यस्मातत्यागी पतितो भवेत् । नित्यकर्मपरित्यज्य वेदांत श्रवणं विना वर्तमानस्तु शंन्यासी पतत्येव न संशय इत्यादीनि सर्वाश्रमसाधा ।। किंतु दृष्टार्था च विद्याप्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोति श्रवणादिष्विति अंतराचापि तु तद्दृष्टेरित्यधिकरणभाष्योक्त न्यायेन शूद्रवद प्रतिषिद्धयोर्विधुरादीनामिव देहांतरे विद्या प्रापकेणा मुख्याधिकारमात्रेण श्रवणानुमतिः न ह्यंतरा चापि तु तदृष्टेरित्यधिकरणे विषुरादीनामनाश्रमिणामंगीकृतः श्रवणाद्यधिकारो मुख्य इति शक्यते ।। रण्येनापि स्वधर्मस्य विगुणस्यापि परित्यागे महान नर्थः स्मर्यते श्रेयान्स्वधर्मो विगुणः परिधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावह इत्यादौ । संन्यासाधिकरणे भाष्यकारैरेव तत्सर्वमभिप्रेत्य संन्यासिनो प्. ३०अ) नन्यव्यापारतया श्रवणादितिष्पादनमकुर्वतः पातित्यं कंठत एवोक्तं तथा च भाष्यं ब्रह्मनिष्ठत्वमेव हि तस्य शमाद्युपवृंहितं स्वाश्रमविहितं कर्मयज्ञादीनीवेतरेषां तद्व्यतिक्रमे च तस्य प्रत्यवाय इति तस्माछ्रवणादेर्भिक्षुं प्रतिविहितत्वात् । तदति क्रमेभिक्षीः प्रत्यवायावगमाच्च संन्यासिनः श्रवणादौ मख्योधिकारः संन्यासरहितान् प्रति तु श्रवणादेरविहितत्वादकरणे प्रत्यवाया नवगमाच्च नास्ति । तेषां मुख्योधिकार इति ननु क्षत्रियादिकं प्रतिश्रवणादिविधानाभावे सत्यधिकार एव नास्तीति कुतो नोच्यते इति शंकते । किं त्विति । नित्याधिकाररूपमुख्याधिकारासंभवेपि काम्याधिकाररूपगौणाधिकार संभवान्नैवमिति भाष्येणोतरमाह । दृष्टार्था चेति । किं त्वमुख्याधिकारमात्रेण श्रवणाद्यनुमितिरिति संबंधः । यथा भुजिक्रियाक्षुद्वाधा निवृतिरूपदृष्टफला तथा विद्यापि सर्वानर्थ मूलाविद्यानिवृतिरूपदृष्टफलाश्रुतिसिद्धा तथा च तस्यां विद्यायामनर्थ निवृतिकामानां सर्वेषामेवार्थित्वलक्षणाधिकारः संभवति । तथा च विद्याधिकारिणां सर्वेषामविशेषेण वेदांतश्रवणादावधिकारप्रसक्तौ शूद्रस्य वेदश्रवणादि प्रतिषेधात्नाधिकार इत्युक्तमपशूद्राधिकरणे क्षत्रियादीनां च तथा प्रतिषेधा भावाद्वेदांतश्रवणाधिकारो भाष्यानुमतो विधुरादेरिवेत्यर्थः । नन्व मुख्याधिकारिभिरनुष्ठित श्रवणादेरपि विद्योत्पादकत्वमवश्यं प्. ३०ब्) वाच्यं अन्यथा गौणाधिकारनिरूपण परभाष्य वैयर्थ्य प्रसंगात् । विद्योत्पादकत्वावश्यंभावे च न काम्याधिकारस्य गौणत्वं मुख्यगौणाधिकारयोः फलतौ विशेषाभावादित्यत आह । देहांतर इति । अयं भावः मुख्याधिकारिणामनन्यव्यापारतया प्रत्यहं निर्वर्त्यमानं श्रवणादिकं निरंकुशब्रह्मचर्या हिंसाशमदमादि युक्तमस्मिन्नेव जन्मनि प्रायेण विद्योत्पादकं संपद्यते । अमुख्याधिकारिणां तु श्रवणादिकमनन्यव्यापाररूपत्वाभावात् । संकुचितब्रह्मचर्यादि युक्तत्वाच्चास्मिन् जन्मनि विद्योत्पादनयोग्यमेव न भवति किंतु बहुषु जन्मसु किंचित् किं छ्रवणादिकं संपाद्यमानं संभूय देहांतरे क्वचिदेवं ज्ञानमुत्पादयेदिति महान्फलभेदो गौणमुख्याधिकारयोः । तथा च स्मृतिः । अनेकजन्मसंसिद्धस्ततो पातिपरांगतिमिति अनेकेषु जन्मसुकृतश्रवणादिना क्वचिज्जन्मनि संसिद्धः उत्पन्नविद्यः सन्ततः सिद्धिवलान्मुक्तिं गछतीति स्मृत्यर्थः । ननु क्षत्रियवैश्ययोर्विधुरादीनामिवामुख्याधिकार इत्ययुक्तं । दृष्टांता संप्रतिपतेरित्यत आह । न हीति वक्तुं हि न शक्यत इति संबंधः ।। अतस्त्वितरज्ज्यायो लिंगाच्चेति सूत्रकारेणैव तेषाममुख्याधिकार स्फुटीकरणात् । न च तत्र तेषां श्रवणाधिकार एव नोक्तः किंतु तदीय कर्मणां प्. ३१अ) विद्यानुग्राहकत्वमिति शंक्यं । दृष्टार्था च विद्येत्युदाहत तदधिकरणभाष्यविरोधात् । न च क्षत्रियवैश्ययोः संन्यासाभावादमुख्याधिकारे तत एव देवानामपि श्रवणादिषुं अमुख्य एवाधिकारः स्यात् । तथा च क्रममुक्तिफलक सगुणविद्ययादेवभावं प्राप्य श्रवणाद्यनुतिष्ठतां विप्राम्यर्थं संन्यासार्हं पुनर्ब्राह्मणजन्म वक्तव्यमिति ब्रह्ममभिसंपद्यतेन स पुनरावर्तत अनावृतिः शब्दादित्यादि श्रुतिरूत्रविरोध इति वाच्यदेवानामनुष्टेय कर्मवैयग्न्याऽभावात् स्वत एवानन्य व्यापारत्वं संभवतीति क्रमं मुक्तिफलक सगुणविद्याविधापि शास्त्रप्रामाण्याद्विनापि संन्यासं तेषां मुख्याधिकाराभ्युपगमादित्याहुः ।। यद्यपि संन्यासिन एव मुख्याधिकार इति पूर्वप्रतिपादितत्वेन विधुरादिनां संन्यासाभावादेवगौणाधिकारः सिद्धस्तथापि तेषां गौणाधिकारे सूत्रसंगृहीतामप्युपपतिमाह । अतस्त्वितरदिति । अतः अनाश्रमिभिरनुष्ठित विद्यासाधनापेक्षया इतरदाश्रमिभिरनुष्ठितं विद्यासाधनं कर्मश्रवणादिकं वाज्यायः प्रशस्तं विद्यासाधनं प्. ३१ब्) ज्यायस्त्वावधारणार्थस्तु शब्दः श्रुतिलिंगात् स्मृति लिंगाच्च तेनैति ब्रह्मवित् पुण्यकृदिति वाक्यं श्रुतिलिंगं । अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विज इत्यादिवाक्यं स्मृतिलिंगं तेन पुण्यलब्धेन ब्रह्मवेदनेन ब्रह्म एति ब्रह्मप्राप्नोतीति श्रुत्यर्थः । अत्र श्रुतौ पुण्यत्वेन प्रसिद्धानामाश्रमधर्माणामेव विशिष्य ब्रह्मप्राप्ति साधनत्व प्रतिपादनादनाश्रमिधर्माणां विशेषानुग्रहश्चेति सूत्रोक्त न्यायेन विद्योपयोगीनामपि निकर्षो भाति स च निकर्षो विधुरादीनां विद्यार्थ कर्मसु श्रवणादिषु च मुख्याधिकाराभावप्रयुक्त एवेति वक्तव्यं हित्वंतराभावादनाश्रमित्वस्य निदितत्वाच्च न हि कर्मज्ञानयोर्मुख्याधिकारी निंदार्ह इति सूत्रभाष्यकारयोरभिप्राय इत्यर्थः । ननु विधुराधिकरणे विधुराद्यनुष्ठितं कर्मविद्यासाधनमित्येतावदेवोक्तं न तु विधुरादेः श्रवणाधिकारोपि तत्र प्रतिपादितः । तथा च श्रवणादौ विधुराद्यधिकारस्य गौणमुख्यत्वचिंतातिरालंबनेत्याशंक्य परिहरति । न च तत्रेति । विधुराधिकरण इत्यर्थः । तत एवेति संन्यासाभावादेवेत्यर्थः । अस्तु पुनर्ब्राह्मणजन्म इत्यत आह । ब्रह्मलोकमिति । न स पुनरिति ब्रह्मलोकमभिसंपद्य पुनरिमंलोकं प्रतिनावर्तत इत्यर्थः । एतछ्रुति मूलं सूत्रमुदाहरति । अनावृतिरिति । अनावृतिरिवृतिरिति । ब्रह्मलोकं गतानामुपासकानामावृतिर्नास्ति । उदाहृत श्रुतेरित्यर्थः स्मृतेश्चेत्यादिसूत्रसंग्रहार्थमादि प्. ३१२अ) पदं तथा च स्मृतिः । ब्रह्मणा सहते सर्वे संप्राप्ते प्रतिसंचरे परस्यांते कृतात्मानः प्रविशंति परं पदमिति । ते ब्रह्मलोकवासिनः ब्रह्मोपासकारः प्रतिसंचरे महाप्रलये परस्य हिरण्यगर्भस्य ब्रह्मलोक स्वामिनः आपुषों ते कृतः साक्षात्कृतः आत्मा येषां ते तथा । नन्वन्यव्यापारत्वसंभवेपि संन्यासो नास्तीति आशंक्याह । क्रममुक्तीति मनुष्येष्वेव संन्यासो मुख्याधिकार प्रयोजकः वर्णाश्रमविभागस्य मनुष्य विषयत्वादितिभावः ।। नन्वमुख्याधिकारिणादृष्टफलभूतवाक्यार्थावगत्यर्थं अविहित शास्त्रांतरविचारवक्रियमाणो वेदांत विचारः कथं जन्मांतरीय विद्यावाप्तावुपयुज्यते । न खलु विचारस्य दिनांतरीय विचार्ययावगति हेतुत्वं युज्यते । दूरे जन्मांतरीय तद्धेतुत्वं न च वाच्यं मुख्याधिकारिणापरिव्राजकेन क्रियमाणमपि श्रवणं दृष्टार्थमेव सर्वत्रविचार्ययावगतेर्दृष्टफलत्वा तस्य यथा प्रारब्धकर्मविशेषरूपप्रतिबंधादिह जन्मनि फलमजनयतो जन्मांतरे प्रतिबंधकापगमेन फलजनकत्वमैहिकमयय प्रस्तुत प्. ३२ब्) प्रतिबंधे तद्दर्शनादित्यधिकरणे तथा निर्णयात् । एवमुम्बुख्याधिकारिकृतस्यापि स्यादिति । यतः शास्त्रीयाअंग युक्तं श्रवणमपूर्वविधित्वपक्षे फलपर्यंतमपूर्वं नियमविधित्वपक्षे नियमादृष्टं वा जनयति । तच्च जाति स्मरत्व प्रापका दृष्टवत् प्राग्भवीय संस्कारमुद्बोध्य तन्मूल भूतस्य विचारस्य जन्मांतरीय विद्योपयोगितां घटयतीति पुज्यते शास्त्रीयांग विधुरं श्रवणं नादृष्टोत्पादकमिति कुतस्तस्य जन्मोतरी विद्योपयोगित्वमुपपद्यते । घटकादृष्टं विना जन्मांतरीय प्रमाण व्यापारस्य जन्मांतरीयावगति हेत्वोपगमेति प्रसंगात् ।। अविहितेति । न्यायशास्त्रादिविचारवदित्यर्थः । एतज्जन्मीय वेदांतविचारस्यागामि जन्मीयां वेदांतार्थावगर्तिप्रतिहैतुत्वासंभवं कैमुति कन्या येन दृढयति । न खल्विति । मुख्याधिकारिकृतविचारदृष्टांतेन गौणाधिकारि श्रवणादेरपि जन्मांतरीय विद्योपयोगं शंकते । न च वाच्यमिति । ततः किं तत्राह । तस्येति । यथा तस्य मुख्याधिकारिकृतश्रवणस्य प्रतिबंधादिह जन्मनि विद्यालक्षणं फलमजनयतो जन्मांतरे फलजनकत्वं एवं अमुख्याधिकारिकृतमपि प्. ३३अ) श्रवणं जन्मांतरे फलजनकं स्यादिति न च वाच्यमितिसंबंधः । मुख्याधिकारिकृतश्रवणस्य सति प्रतिबंधके आमुष्मिकं विद्याजन्मेत्यत्र मानमाह । ऐहिकमपीति । प्रस्तुत प्रतिबंधे असतिविद्याजन्म इह जन्मन्यपिवति । अयि शब्दात् सति प्रतिबंधे जन्मांतरे भवति । कुतः तद्दर्शनात् । तस्य प्रतिबंधक वशात् जन्मांतरे विद्योदयस्य वामदेवादिषु दर्शनादित्यर्थः । दृष्टांत वैषम्येणोतरमाह । शास्त्रीयांग युक्तमिति शास्त्रीयांगं संन्यासः तद्युक्तं संन्यासिनानुष्ठीयमानमिति यावत् । तथा च शास्त्रीयांग सहितं श्रवणं श्रवणविधिरपूर्वविधिरिति पक्षे स्वयमेव विद्यालक्षणफलपर्यंतमदृष्टं जनयति । श्रवणविधिर्नियमविधिरिति पक्षे तु मादृशं श्रवणं नियमविशिष्टं सत् फलपर्यंतं नियमादृष्टं जनयतीत्यर्थः । तच्चेति श्रवणजनितादृष्टमित्यर्थः । जातीति जातिर्जन्म ततश्च यथा जाति स्मरत्व संपादकमदृष्टं पूवजन्म तद्वृतांतानुभवजन्य संस्कारमस्मिन् जन्मन्युद्बोध्य तद्वद्बोधनद्वारा पूर्वजन्म तद्वृतांत स्मृतिं घटयति तथा प्राचिभवे श्रवणादिजनतं संस्कारमुद्बोध्य तत्संस्कारकारणभूतस्य श्रवणस्य भावि जन्मनिविद्योपयोगित्वं घटयतीत्यर्थः । शास्त्रीयांगविधुरमिति । संन्यासरहितक्षत्रिययादीना क्रियमाणं श्रवणमदृष्टोत्पादकं न भवति क्षत्रियादिकं प्रत्यविहितत्वाछ्रवणादेरितिभावः । नन्वविहित श्रवणस्यादृष्टानुत्पादकत्वेपि प्. ३३ब्) संस्कारजनकत्वसंभवात् । तद्वलादेवजन्मांतरीय विद्या हेतुत्वं कुतो न स्यादित्यत आह । घटकादृष्टं विनेति । अतिप्रसंगादिति जन्मांतरानुभूत सकलपदार्थस्मृतिप्रसंगादित्यर्थः ।। उच्यते अमुख्याधिकारिणाप्युत्पन्नविविदिषेण क्रियमाणं श्रवणं द्वारभूतविविदिषोत्पादक प्राचीनयज्ञाद्यनुष्ठान जन्यापूर्वप्रयुक्तमिति तदेवापूर्वं विद्यारूपफलपर्यंतं व्याप्रियमाणं जन्मांतरीयायामपि विद्यायां स्वकारित श्रवणस्योपकारिकतां गटयतीति नानुपपति । श्रवणादौ विध्यभावपक्षे तु संन्यासपूर्वकृतस्यापि श्रवणस्यादृष्टानुत्पादकत्वात्सति प्रतिबंधे तस्य जन्मांतरीय विद्या हेतुत्वमित्थमेव निर्वाह्यं । आचार्यास्तु नियमविधिपक्षेप्ययमेव निर्वाहः श्रवणमभ्यस्यतः फलप्राप्तेरर्वाक् प्रयाणे तन्नियमादृष्टस्यानुत्पतेस्तस्य फलपर्यंता वृतिगुणक श्रवणानुष्ठाननियमसाध्यत्वात् । न हि नियमादृष्टजनकः श्रवण नियमः फलपर्यंतमार्वर्तनी प्. ३४अ) यस्य श्रवणस्योपक्रममात्रेण निर्वर्तितो भवति । येन तज्जन्यनियमादृष्टस्यापि फलपर्यंत श्रवणावृतेः प्रागेवोत्पतिः संभाव्येत् ।। कर्मणां विद्यायां विनियोग इति पक्षमाश्रित्य परिहरति । उच्यत इति । यज्ञादिभिर्विद्यायां संपादनीयायां द्वारभूताया विविदिषा तस्या उत्पादकं प्राचीनं यद्विद्यार्थ यज्ञाद्यनुष्ठानं तज्जन्येत्यर्थः । स्वपदं यज्ञाद्यनुष्ठानजन्यापूर्वपरं वाचस्पतिमते मुख्याधिकारिकृतश्रवणस्यापि यज्ञाद्यपूर्वेणैव निर्वाह इति दृष्टांताभिप्रायेणाह । श्रवणादौ विध्यभावपक्षे त्विति । विवरण पक्षेप्येवमेव निर्वाह इत्याह । आचार्यो त्विति । अयं भावः प्रमाणासंभावना निवृतिः श्रवणफलं प्रमेयासंभावना निवृति मनतफलं विपरीत भावना निवृति । निदिध्यासन फलं तथा च त्रिविधप्रतिबंधकनिवृतिलक्षणफलपर्यंतमावृतिविशिष्टानि श्रवणादी नियस्य मुख्यायिकारिणो निष्पन्नानि तस्य नियमादृष्टमुत्पन्नमेव । एवं संपन्नविद्यासाधनस्यापि प्रतिबंधवशात् । यदि विद्या न जाता तदा पुनर्जन्मलाभेन प्रतिबंधक्षये सति पुनर्विचारमनपेक्ष्यैव विद्या जायते । यथा वामदेव हिरण्यगर्भादेः यस्य तूक्तप्रतिबंधनिवृतिपर्यंत श्रवणाद्यावृतिर्न जाता मध्ये मृतिश्च जाता तस्य मुख्याधिकारिणोपि नियमादृष्टं प्. ३४ब्) न जायते । स च पुनर्जन्मांतरे उक्त प्रतिबंधनिवृतिपर्यंत श्रवणादिकमभ्यस्य श्रवणादिनियमादृष्टवशेन विद्याप्रतिबंधककल्मषक्षये सति विद्यां लभते । तदुक्तं भगवता श्रीकृष्णेन तत्र तं बुद्धिसंयोगं लभते । पौर्वदैहिकं यतते च ततो भूयः संसिद्धौ कुरु नंदन । इति तत्र प्राप्ते साधुजन्मनि पूर्व देहे भवमिदानिं संस्कारात्मनानुवर्तमानं बुद्धिसंयोगं श्रवणादि कर्तव्यता बुध्या संबंधं लभते अस्मिन्नपि जन्मनि प्रतिबंधनिवृतिद्वाराविद्योदयोयमयाश्रवणादिकमनुष्ठेयमिति बुध्यायुक्तो भवतीत्यर्थः । ततः पूर्वजन्मोय पत्नीपेक्षयाभूयः अधिकं यत्तत्ते संसिध्यर्थमित्यर्थः । तथा च योयं फलपर्यंतावृतिगुणकश्रवणादिरहितो योगभ्रष्टः तस्य नियमादृष्टाभावाद्यज्ञाद्यदृष्टादेव निर्वाहः कर्तव्य इति । प्रतिबंधनिवृतिरूपफलप्राप्तेः पूर्वं नियमादृष्टानुत्पतौ हेतुमाह । तस्येति । नियमादृष्टस्येत्यर्थः । नियमादृष्टं हि न श्रवणमात्रजन्यं किंतु श्रवणनियमजन्यं तन्नियमश्च श्रवणादेरेव फलपर्यंतमावृतौ सत्यां निष्पद्यते । तथा च फलोत्पतेरर्वाक् श्रवणादि नियमस्ये वा भावात् न नियमादृष्टोत्पतिरित्यर्थः । उक्तं प्रपंचयति । न हीत्यादिना ।। अवघातादिवदावृतिगुणकस्यैव श्रवणस्य प्. ३५अ) फलसाधनत्वेन फलसाधनपदार्थनिष्पतेः प्राक् तन्नियमनिर्वतिवचनस्य निरालंबनत्वात् श्रवणावघाताद्युपक्रममात्रेण नियमनिष्पतौ तावतैव नियमशास्त्रानुष्ठानं सिद्धमिति तेदंनावृतावप्यवैकल्पप्रसंगाच्चेत्याहुः । केचित् तु दृष्टार्थस्यापि श्रवणस्य दिने दिने तु वेदांतश्रवणाद्भक्ति संयुतात् गुरुशुश्रूषयालब्धात्कृछ्राशीति फलं लभेदित्यादि वचनप्रामाण्यात् स्वतत्रादृष्टोत्पादकत्वमप्यस्ति । यथाग्नि संस्कारार्थस्याधानस्य पुरुषसंस्कारेषु परिगनात्तदर्थत्वमपि । एवं च वचनवलादुभयार्थत्वोपपतेः तथा च प्रतिदिन श्रवणजनितादृष्टमहिम्नैवामुष्मिक विद्योपयोगित्वं श्रवणमननादि साधनानामित्याहुः । एवं श्रवणमननादि साधनानुष्ठानप्रणाड्या विद्यावाप्तिरित्यस्मिन्नर्थे सर्वसंप्रतिपन्ने स्थिते भारतीतीर्थाः ध्यान दीपे विद्यावाप्तावुपायांतरमप्याहुः । प्. ३५ब्) श्रवणनियमः श्रवणस्योपक्रममात्रेण निर्वर्तितो न भवतीत्यत्र हेतुमाह । अवघातादि वदिति । आवृति विशिष्टस्यैवावहन नस्य तंडुलनिष्पतिलक्षणफलसाधनतायाः लोकसिद्धत्वादितिभावः । प्राक् तदिति फलपर्यंतं श्रवणस्यैवावृतौ सत्यांश्रवणस्याप्राप्तांशपरिपूरणलक्षण नियमो निष्पन्नो भवति न ततः प्रागित्यर्थः श्रवणस्यारंभमात्रे वा कतिपयावृतिमात्रे वा जाते सति श्रवणनियमो निष्पन्न इति वचनं विषयाभावान्निरालंबनमित्यर्थः । तदनावृतावपीति । श्रवणावघाताद्यनुष्ठानमुपक्रम्य श्रवणादिकं त्यक्ताभाषाप्रबंधादि विचारे नखविदलनादौघग्रवृतावपि नियमविधिविरोधाभावप्रसंगादित्यर्थः । मुख्याधिकरिभिरन्वहं क्रियमाणस्य वेदांतश्रवणस्य प्रतिबंधकनिवृतिरूपदृष्टफलोत्पादकत्ववददृष्टोत्पादकत्वमप्यस्ति तथा च तद्बलात् जन्मांतरे विद्योपयोगित्वं विचारस्य घटत इति परिहारांरतमाह केचित्विति । फलमिति पुण्यरूपमित्यर्थः । वचने तु शब्दश्चार्थे । तथा च वेदांतश्रवणस्य देवतागुरुवेदांतविषयभक्ति गुरुशुश्रूषाभ्यामुपाताभ्यामनुपातैश्च शमदम ब्रह्मचर्या हिंसादिभिः समुच्चयार्थः तु शब्द इति भावः । स्वतंत्रेति वेदांतश्रवणस्य स्वतंत्रतया अदृष्टोत्पादकत्वमस्तीत्यर्थः स्वातंत्र्यं चादृष्टजनने श्रवणस्य विद्यायां विनियोगबोधकश्रवणविधिनैरपेक्ष्यमिति बोध्यं । एकस्योभयार्थत्वे दृष्टांतमाह प्. ३६अ) यथा प्रीति । अग्नीना दधीतेति वचनादाधानस्याहवनी पाद्यग्निसंस्कारत्वोपगमादितिभावः । पुरुषसंस्कारेष्विति । अग्न्याधेयमग्निहोत्रमित्यादिपुरुषसंस्कारसंग्राहक सूत्रे अग्न्याधानस्यापि पावादित्यर्थः । अदृष्टमहिम्नैवेति । वेदांतश्रवणजनितादृष्टस्य योग्यतया विद्यायामेव विनियोगस्य वक्तव्यतया तद्बलाज्जन्मांतरीय विद्योपयोगित्वमितिभावः । एवं उत्तममध्यमाधिकारिणां सांख्यमार्गं निरूप्यतदशक्तानां अत्यंतमंदाधिकारिणां योगमार्गं निरूपयितुमुपक्रमते । एवमिति । सर्वसंप्रतिपन्न इति सर्वश्रुति स्मृतिषु सम्यक् प्रतिपन्ने निश्चित इत्यर्थः । आहुरिति सम्यक् निरूपितवंत इत्यर्थः ।। तत्कारणं सांख्ययोगाभिपन्नं यत्साख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते इति श्रुतिस्मृतिदर्शनाद्यथा सांख्यं नाम वेदांतविचारः श्रवणशब्दितो मननादि सहकृतो विद्यावाप्युपायः एवं योगशब्दितं निर्गुणब्रह्मोपासनपि । न च निर्गुणस्योपासनमेव नास्तीति शंक्यं । प्रश्नोपनिषदि शैव्यप्रश्नेयः पुनरेतं त्रिमात्रेणोंकारेण परमपुरुषमभिध्यायीतेति निर्गुणस्यैवोपासनप्रतिपादनात् प्. ३६ब्) तदनंतरं स एतस्माज्जीव घनात्परात्परं पुरिशयं पुरुषमीक्षत इत्युपासनाफलवादे ईक्षति कर्मत्वेन निर्दिष्टं यन्निर्गुणं ब्रह्मतदेवोपासनावाक्येपि ध्यायति कर्मनान्यत् ईक्षति ध्यानयोः कार्यकारणभूतयोरेकविषयत्व नियमादित्यस्यार्थस्ये क्षति कर्माधिकरणे भाष्यकारादिभिरंगीकृतत्वात् । न तु नूतनतया कल्पितवंत इति भ्रमितव्यं तथापि श्रुत्यादि सिद्धत्वात् । तत्प्रकृतं कारणत्वोपलक्षितं ब्रह्मसांख्ययोगाभ्यां विद्याद्वारा आभिमुख्येन प्रत्यक्तेन प्राप्तमिति श्रुत्यर्थः सांख्यैः श्रवणादिपरैः योगैरुपासकैः यत्स्थानं ब्रह्मस्वरूपं विद्याद्वारागम्यते प्राप्यत इत्यर्थः योगैरपीत्यपि शब्दाद्योगमार्गस्यानुकल्पत्वं भातीति बोध्यं अपीति । विद्यां प्राप्त्युपाय इत्यनुषंगः निर्गुणब्रह्मोपासनं मान शून्यमित्याशंक्यपरिहरति । न चेत्यादित्या नन्वियं शंका न युक्ता तत्कारणं यत्सांख्यैरिति श्रुतिस्मृत्योरादावेव तत्र प्रमाणत्वेनोदाहृतत्वात् । न चोदाहृत श्रुतिस्मृतिगतयोग पदस्य सगुणोपासन परत्व संभवादाशंकायुक्तेति वाच्यं । भिन्नविषयोरुपासनसाक्षात्कारयोः कार्यकारणभावा संभवेन निर्गुणविद्या हेतुभूतस्य योगस्य निर्गुणोपासनरूपत्वावश्यं भावान्न च सांख्यैरिति वचनगतयोगपदस्योपास्ति प्. ३७अ) परत्वमेवासिद्धं तस्य गीताभाष्यकर्मयोगपरत्वेन व्याख्या तत्वादिति वाच्यं । यत्सांख्यैरिति वचनस्य वस्तुतो निर्गुणोपास्ति परस्यैव सतो भगवता श्रीकृष्णेन कर्मविषये उदाहृतत्वेन तदनुरोधेन भाष्ये तथा व्याख्यानोपपतेः । योग पदस्य ध्याने रूढत्वैन वस्तुतः कर्मपरत्वाभावात् । तद्वचन मूलभूतायां तत्कारणमिति श्रुतौ योगपदस्य ध्यानपरतया शारीरकभाष्ये व्याख्या तत्वाच्च कर्मयोगस्य मुखयोगद्वारा ब्रह्मप्राप्तिसाधनत्वं न तु साक्षादिति ज्ञापनायास्य वचनस्य कर्मविषयतया भगवतो दाहरण संभवाच्च तस्मान्मानाभावा शंका न युक्तेति च्चेन्न । उदाहृत श्रुतिस्मृति व्यतिरेकेणान्यत्र क्वापि निर्गुणोपासनं न दृष्टमित्येताभिप्रायेण शंकोपपतेः । अत एव सर्वासु श्रुतिषु निर्गुणोपासनं दृष्टमिति । मंदाधिकारिणमासश्चानायाह । प्रश्नोपसिषदात्यादिना त्रिमात्रेणेति द्वितीयार्थे तृतीया तिस्रः अकारोकारमकाराख्यामात्रा यस्योंकारस्य स त्रिमात्रः ओंकारे निर्गुणमेव ब्रह्म तदभेदेन ध्येयमित्यत्र भाष्यादि संमतिमाह । तदनंतरमित्यर्थः । जीवरूपः परमात्मनो घनः घटाकाशवदुपाधिपरिछिन्नचैतन्यात्मा जीवघनः तस्मात् परः पुरुषः निरुपाधिकः परमात्मानं सः ध्यातापुरिहार्द्दाकाशे बुद्धि साक्षित्वेन शयं वर्तमानमीक्षते साक्षात्कारोतीत्यर्थः । उपासना वाक्ये परं पुरुषममिध्यायीतेति वाक्य इत्यर्थः । प्. ३७ब्) कार्येति ईक्षण वाक्यस्य ध्यानफलभूतसाक्षात्कारप्रतिपादकत्वेन ध्याशवाक्यैक वाक्यत्वात् । ध्याने क्षणयोः कार्यकारणभावोवगम्यत इति भावः । नियमादिति । अन्य ध्यानादन्यसाक्षारादननादिति भावः । अन्यत्रापि तापनीय कठवल्ल्यादि श्रुत्यंतरे निर्गुणोपास्तेः प्रपंचित त्वात् सूत्रकृताप्युपास्य गुणपरिछेदार्थमारब्धे गुणोपसंहार पादे निर्गुणेप्यानंदादयः प्रधानस्येति सूत्रेण भावरूपाणां ज्ञानानंदादिगुणानामक्षरधियांत्ववरोध इत्यादि सूत्रेणाभावरूपाणामस्थूलत्वादि गुणानां चोपसंहारस्य दर्शितत्वाच्च । ननु आनंदादि गुणोपसंहारे उपास्यं निर्गुणमेव न स्यादिति चेन्न आनंदादिभिरस्थूलत्वादिभिश्चोपलक्षितमखंडैकरसं ब्रह्मास्मीति निर्गुर्णत्वानुपमर्देनोपासनासंभवात् । ननु तदेव ब्रह्मत्वं विद्धिनैदं यदिदमुपासत इति श्रुतेर्न परब्रह्मोपास्यमिति चेतन ।। ननु कल्पतरौ ध्यातव्यस्य सूर्यांतस्थत्वं स तेजसि सूर्ये प्. ३८अ) संपन्न इति सूर्यसपतिवचनानुसारै विशेषणं दत्तं तथा चोंकारे ध्यातव्य पुरुषस्य निर्गुणब्रह्मरूपत्वं कल्पतरुकारैर्नांगीकृतमिति प्रतीयत इति चेन्न सूर्यसंपतिवचनस्यार्चिरादिभार्गप्राप्ति परतायाः चतुर्थाध्याये व्यवस्थापितत्वेन सूर्य तदंतस्थेश्वर प्राप्ति परत्वाभावात् । कल्पतरुकाराणामपि तदीयवचनांतरपर्यालोचनया श्रुतेर्मार्गपरतया च सूर्यांतस्थत्व विशेषण दाने तात्पर्याभावस्य परिमले प्रतिपादितत्वाच्चेतिभावः । देवाहवै प्रतिपतिमब्रुवन् । अणोरणीयां समिममात्मानमोंकारं नो व्याचक्ष्वेत्पाद्यातापनीय श्रुतिः अणोः सूक्ष्मादपि सूक्ष्मं दुर्विज्ञेयमिमं प्रत्यग्रूपं परमात्मानं ओंकारगम्यमित्यर्थः । एतद्धेवाक्षरं ब्रह्मेत्पाद्याकठवल्ली श्रुतिः ओमित्येतदक्षरमिदं सर्वमित्यादिमांडूक्यश्रुतिः ओमित्येवं ध्यायथ आत्मानमिति मुंडकश्रुतिश्चादिपदार्थः निर्गुणस्योपास्यचि सूत्रसंमतिमाह । सूत्रकृतापीति । सूत्रकृतानिर्गुणेपि गुणानामुपसंहारस्य दर्शितत्वादिति संबंधः निर्गुणे गुणोपसंहारो निर्गुणब्रह्मप्रमित्यर्थ एव न निर्गुणब्रह्मोपास्त्यर्थ इति शंकाव्यवछेदाय पादं विशिनष्टि उपास्य गुणपरिछेदार्थमिति । परिछेदो निर्णयः निर्गुणे गुणोपसंहारनिरूपणस्य निर्गुणोपास्तिरपि फलमिति वक्तव्यं अन्यथा तन्निरूपणस्य पादासंगति प्रसंगादितिभावः । आनंदादयः क्वचिछ्रुता अन्यत्राप्युपसंहर्तव्याः प्रधानस्य वेद्यस्य ब्रह्मणः प्. ३८ब्) सर्ववेदांतेष्वभेदेन ब्रह्मविद्याया एकत्वादिति सूत्रार्थः भावरूपाणामिति विशेषणमक्षरधियामित्यधिकरणस्यानंदादय इत्यधिकरणेन पौनरुक्त्यपरिहारार्थमिति बोध्यं । अक्षरे ब्रह्मणि धीर्यैरस्थूलादिशब्दवाच्यार्थभूतैरभावैर्भवतितेक्षरयियः । तेषामवरोध उपसंहारः इतरेषु वेदांतेषु कर्तव्य एवेति सूत्रभागार्थः स्थौल्यादिनिषेधानां निष्प्रपंच ब्रह्मप्रमिति हेतुत्वादितिभावः । व्याघातं शंक्यते । नन्विति । आनंदादि गुणानामुपास्य कोटौ निवेशोनांगीक्रियते येनोपास्यं ब्रह्मसगुणं स्यात् किंतूपास्य निर्गुणनिर्णयद्वारा निगुणोपास्तावुपयोगमात्रं स्वीक्रियत इति समाधते । नेति । आनंदादि गुणानामस्थूलादि गुणानां च उपसंहारो हि तद्वाचकपदानां सहोच्चारणरूपो विवक्षितस्तथा च उपाधिविशिष्ट चैतन्य वाचकैरानंदादि पदैःर्स्थैल्याद्यभावविशिष्ट चैतन्यवाचकैरस्थूलादिशब्दैश्च सर्वेषु वाच्यार्थेष्वनुगतमखंडे करसं यद्ब्रह्मलक्षणया बोध्यते न दहमस्मीत्युपासनसंभवादित्यर्थः । उक्तं च ध्यान दीपे । आनंदादिभिरस्थूलादिभिश्चात्मात्रलक्षितः यो खंडैकरसः सोहमस्मीत्येवमुपासत इति । अत्रेति वेदांतेष्वित्यर्थः । एवं श्रुति सूत्राभ्यां निर्गुणस्थौपास्येत्वं निरूप्यनिर्गुणोपासनस्य श्रुत्यंतरविरोधमाशंक्यपरिहरति । ननु तदेवेत्यादिना । तदेवेति बुध्यादि साक्षिचैतन्यमेवेत्यर्थः ।। प्. ३९अ) अन्यदेव तद्विदितादथो अविदितादिति श्रुतेस्तस्य वेद्यत्वस्याप्यसिध्यापातात् । श्रुत्यंतरेषु ब्रह्मवेदन प्रसिद्धेरवेद्यत्व श्रुतिर्वास्तवावेद्यत्वपराचेदाथर्वणों तदुपासनाप्रसिद्धेस्तदनुपास्यत्व श्रुतिरपि वस्तुवृत परास्तु । एवं च श्रवणायापि बहुभिर्यो न लभ्य इति श्रवणात् । येषां बुद्धिमांद्यान्न्यायव्युत्पादनकुशलविशिष्टगुर्वलाभाद्वा-श्रव. नादि न संभवति । तेषामध्ययने गृहीतैर्वेदांतैरापाततोधिगमित ब्रह्मात्मभावानां तद्विचारं विनैव प्रश्नोपनिषदाद्युक्तमार्षग्रंथेषु ब्राह्मवासिष्टादि कल्पेषु पंचीकरणादिषु चानेक शाखाविप्रकीर्ण सर्वार्थोपसंहारेण कल्पसूत्रेष्वग्निहोत्रादिवन्निर्धारितानुष्ठानप्रकारं निर्गुणोषासनं संप्रदायमात्रविद्ध्यो गुरुभ्योवधार्य तदनुष्ठानात्क्रमेणोपास्य भूतनिर्गुणब्रह्मसाक्षात्कारः संपद्यते ।। उपास्यस्य ब्रह्मत्वनिषेधवद्वेद्यस्यापि ब्रह्मत्वनिषेधात् परब्रह्मवेदनमपि न सिध्येदित्याह । अन्यदेवेति । वेदनविषयादन्यत् ब्रह्मेत्युक्ते अर्थाद्ब्रह्मवेद्यं न भवतीति प्. ३९ब्) सिध्यतीत्यर्थः । अस्त्विति वेद्यत्वमुपास्यत्वं ब्राह्मणि परमार्थतो नास्तीति । निषेध श्रुतीनां तात्पर्यमितिभावः । निर्गुणोपासने अधिकारिणं दर्शयति । एवं चेति निर्गुणोपास मे प्रमाणसिद्धे सतीत्यर्थः । केषांचित् मुमुक्षूणां श्रवणासंभवे प्रमाणंमाह । श्रवणायार्पाति वहभिर्मुमुक्षुभिर्यः परमात्माश्रोतुमपि नभ्यते । तस्याश्रुतस्यापि साक्षात्कारोदूरापास्त इत्यर्थः । बहुनां श्रवणा लाभे श्रुत्यभिमत्तं कारणं दर्शयति । येषामिति । बुद्धीति उक्तं च ध्यानदीपे । अत्यंतबुद्धिमांद्याद्वासामग्र्यावाप्यसंभवात् । यो विचारं न लभति ब्रह्मोपासितसोनिशमिति । तत्र सामग्र्यभावं विवृणोति । न्यायेति । येषामत्यंतबुद्धिमांद्यात् श्रवणादिकं । न संभवति येषां च कुशलमती नामपि सामग्र्यभावात् । श्रवणादिकं न संभवतीत्यर्थः । विशिष्टत्वं असंभिन्नार्यमर्यादत्वकारुणीकत्वादिलक्षणं बोध्यं । तेषां ब्रह्मजिज्ञासा हेतुमाह । अध्ययनेति । अधिगमितः अवगमितः ब्रह्मात्मभावो येषां ते तथोक्ताः तेषामित्यर्थः । तषां तद्विचारं विनैव गुरुभ्योवधार्य तदनुष्ठानात् । साक्षात्कारः संपद्यते इति संबंधः । निर्गुणब्रह्मविचारं विनैव निर्गुणब्रह्मोपासनादित्यर्थः । ननु प्रश्नोपनिषिदादावुपासनामात्रमुक्तं न तु तदनुष्ठानप्रकारोपीत्याशंक्याह । आर्षग्रंथेष्विति । ननु पंचीकरणे वेदांतलक्ष्ये अखंडैकरसे प्रणवमात्रात्मककृत्स्न प्रपंचप्रविलापनोक्ति पूर्वकमहं ब्रह्मास्मीत्यभेदेनावस्थानं समाधिरित्युक्त्यायो खंडैक रसः सोहमस्मीत्येवमुपासत प्. ४०अ) इत्याद्युदाहृत ध्यानदीपवचनाच्च प्रकृतं निर्गुणोपासनमहंग्रहरूपं विवक्षितं । प्रश्नोपनिषिद्गत शैव्यप्रश्ने तु ओंकाररूपे प्रतीके निर्गुणब्रह्मदृष्टिर्विवक्षिता तथा कठवल्यामपि तथा च कथं प्रश्नादि वाक्यं प्रकृतोपासने प्रमाणत्वेनोदाहृतमिति चेत् । न प्रकृतोपासने तापनीय मांडूक्यमुंडक श्रुतीनामेव प्रमाणत्वेन विवक्षितत्वात् । प्रश्नकठवल्ली श्रुत्युदाहरणं तु निर्गुणस्याप्युपासनमन्यत्रापि दृष्टमित्ये तावन्मात्रणेति न विरोध इति भावः पंचीकरणादिषु च निर्धारितानुष्ठानप्रकारमिति संबंधः । तत्र दृष्टांतमाह । अनेकशाखेति । अनेकासु शाखासु विप्रकीर्णतया विशकलिततया स्थितानां पदार्थानामुपसंहारेण यथा अग्निहोत्रादिकर्मनिर्धारितानुष्ठानप्रकारं भवति । तथेत्यर्थः । उपासनानुष्ठानप्रकारः संप्रदायः तन्मात्रविद्भ्योपि गुरुभ्यः सकाशात् निश्चित्येत्यर्थः । उक्तं च भगवता श्रीक्र्ष्णेन निर्गुणप्रकरणे श्रुत्वान्येभ्य उपासत इति क्रमेणेति उपासनापरिपाकक्रमेणेत्यर्थः ।। अविसंवादि विभ्रमन्यायेनोपास्तेरपि क्वचित्फलकाले प्रमापर्यवसान संभवात् । पाणौ पंचवराटकाः पिधाय केनचित्करे कति वराटका इति पृष्ठे पंचवराटका इति तदुतर प्. ४०ब्) वक्तुर्वाक्यप्रयोग मूलभूतसंख्याविशेषज्ञानस्य मूलप्रमाण शून्यस्याहायीरोपस्यापि यथार्थत्ववन्निर्गुणब्रह्मोपासनस्यार्थ तथात्व विवेचकनिर्विचिकित्समूलप्रमाणनिरपेक्षस्य दहराद्युपासनावदुपासना शास्त्रमात्रमवलंव्यक्रियमाणस्यापि वस्तुतो यथार्थत्वेन दहराद्युपासनेनेव निर्गुणोपासनेन जन्यस्य स्वविषयसाक्षात्कारस्य श्रवणादि प्रणाड्याजन्यसाक्षात्कारवदेवतत्वार्थविषयत्वावश्यं भावाच्च ।। ननु निर्गुणोपासनस्य कथं प्रमालक्षणसाक्षात्कारपर्यवसानमित्यत आह । अविसंवादीति । अयमर्थः क्वचिद्ग्रहविशेषे स्थितस्य श्रीकृष्णरूपबिंबस्य प्रतिबिंबं गृहाद्बहिः पश्यतो दूरे स्थितस्य पुरुषस्य प्रतिबिंबे श्रीकृंष्णोयमिति भ्रमो जायते तेन भ्रमेण प्रतिबिंबाध्यासोपाधिसमीपं गतस्य पुरुषस्य सत्य श्रीकृष्णगोचरप्रमाजायत इति लोकप्रसिद्धं । तत्र प्रतिबिंबे बिंबभूत श्रीकृष्ण भ्रमो विसंवादीभ्रमः विसंवादः फलाभावः तद्रहितोऽविसंवादिभ्रमः फलवद्भ्रम इति यावत् । यथा तेन भ्रमेण प्रवतस्य श्रीकृष्णप्राप्तिलक्षणफलकाले श्रीकृष्णप्रमाजायते तथा प्. ४१अ) निर्गुणोपासने प्रवृत्तस्यापि ब्रह्मप्राप्तिलक्षणफलकाले निर्गुणप्रमाजायत इति । ननु संवादिभ्रम दृष्टांतेन निर्गुणोपास्तेः प्रमापर्यवसानमुक्तमनुपपन्नं दृष्टांत वैषम्या तत्र हि समीपोपसर्पणानंतरं सत्य श्रीकृष्णस्य चक्षुः सन्निकर्षे सति श्रीकृष्णप्रमाजायतेन तु संवादिभ्रममात्रात् । प्रकृते च निर्गुणोपासनस्य प्रमाजनने सामर्थ्याभावात् । सामग्र्यंतराभावाच्च कथं प्रमापर्यवसानमित्याशंक्यनिर्गुणोपासनस्यैव स्वसमानविषयकप्रमाजनन सामर्थ्यसंभावनाय तस्य यथार्थत्वं सदृष्टांतमाह । पाणाविति पिधायेति । तदुत्तरवक्तुरविदितमितिशेषः । तदुतरेति । दैवयोगात् पंचैव वराटकास्तवपाणौ संतीत्युतरवक्तुरित्यर्थः निर्गुणोपासनस्यापि वस्तुतो यथार्थत्वेनेति संबंधः । अखंडैकरसंब्रह्माहमस्मीति प्रत्यय संतति रूपोपास्तेर्विषयबाधाभावाद्यथार्थत्वमितिभावः । ननु प्रकृतोपासनस्य निर्विकित्स तत्वज्ञानपूर्वकत्वादेवश्रवणमननोतरकालीन निदिध्यासनस्येव यथार्थत्वसंभवात् । किमिति दैवयोगाद्यथार्थत्वं समर्थ्यतै तत्राह । अर्थ तथात्वेनि अर्थस्य ब्रह्मणः तथात्वं प्रत्यग्रूपत्वनिष्प्रपंचत्वादितस्य विवेचकं निर्णायकं यन्निर्विचिकित्समन्य परत्वाशंकाशून्यं मूलप्रमाणं श्रुतिरूपं तन्निरपेक्षस्येत्यर्थः । निदिध्यासनस्येव प्रकृतनिर्गुणोपासनस्य विचारपूर्वकत्वाभावात् । न निर्विचिकित्स तत्वनिर्णयपूर्वकत्व प्रयुक्तं यथार्थत्वमितिभावः । प्. ४१ब्) ननु विचारपूर्वकं प्रत्यगभिन्नब्रह्मनिर्णयाभावे कथमहंब्रह्मास्मीति प्रत्यय संतति रूपोपास्तिरनुष्ठीयते तत्राह । दहरादीति । यथा सगुणेश्वरस्य विचारपूर्वकं जीवाभिन्नत्व निर्णयाभावेपि स्वस्य सगुणेश्वराभेदचिंतनं कर्तव्यमित्येवं रूपं सगुणोपासनाविधिशास्त्रमवलंव्यसगुणोपासनं क्रियते तथा निर्गुणोपासनं कर्तव्यमित्येवमात्मकं शास्त्रमात्रमवलंव्य निर्गुणोपास्तिरनुष्ठीयते इत्यर्थः । निर्गुणोपासनस्य साक्षात्कार हेतुत्वे दृष्टांतमाह । दहराद्युपासनेनेवेति । अवश्यं भावादिति । समानविषयकध्यानसामर्थ्याद्विषयाबाधाच्चेत्यर्थः ।। इयांस्तु विशेषः प्रतिबंधरहितस्य पुंसः श्रवणादिप्रणाड्या ब्रह्मसाक्षात्कारो फटिति सिध्यतीति सांख्यमार्गो मुख्यः कल्पः उपास्त्या तु विलंबेनेति योगमार्गोनुकल्प इति । नन्वस्मिन्पक्षद्वयेपि ब्रह्मसाक्षात्कारे किं करणं केचिदाहुः प्रत्ययाभ्यासरूपं प्रसंख्यानमेव । योगमार्गे आदित आरभ्योपासनारूपस्य सांख्यमार्गे मननानंतरनिदिध्यासनरूपस्य च तस्य सत्वात् । न च तस्य ब्रह्मसात्कारकारणत्वे मानाभावः ततस्तुतं पश्यति निष्कलं ध्ययमान इति प्. ४२अ) श्रवणात् । कामातुरव्यवहित कामिनी साक्षात्कारे प्रसंख्यानस्य कारणं त्वकॢप्तेश्च आप्रापणा तत्रापि हि दृष्टमित्यधिकरणे विकल्पो विशिष्टफलत्वादित्यधिकरणे च दहराद्यहंग्रहोपासकानां प्रसंख्यानादुपास्य सगुणब्रह्मसाक्षात्कारांगीकाराच्च । ननु च प्रसंख्यानस्य प्रमाकरणेष्वपरिगणनातज्जन्यो ब्रह्मसाक्षात्कारः प्रमा न स्यात् । न च काकतालीय संवादिवराटक संख्याविशेषाहार्यज्ञानवदर्थाबाधेन प्रमाणत्वोपपतिः प्रमाणामूलकस्य प्रमात्वायोगात् आहार्य वृतेश्चोपासनावृतिवत् ज्ञानभिन्नयान सक्रियारूपतया इछादिवदवाधितार्थविषयत्वेपि प्रमात्वानभ्युपगमात् ।। सांख्ययोगमार्गयोस्तुल्यकल्पत्व भ्रममपनपति । इयांस्त्विति । बुद्धिमांद्यादि प्रतिबंधरहितस्य विशिष्टगुर्वादिलाभे सति सांख्यमार्ग एवानुष्ठेयः तस्य त्वरया सिद्धिहेतुत्वात् । सांख्यालाभे तु योगोनुष्ठेय इत्यनुकल्पः स इत्यर्थः । नत्वस्मिन्निति । सांख्ययोगमार्गद्वयेपीत्यर्थः । ननु योगमार्गे निर्गुणोपासनस्य सगुणोपासन प्. ४२ब्) दृष्टांतोदाहरणेन साक्षात्कारकारणत्वस्यानुपदमुक्तत्वात् । पक्षद्वय साधारण्येन प्रश्नानुपपतिरिति चिन्नैषदोषः उपासनस्य साक्षात्कारकारणत्वे प्रमाणाभिप्रायेणै प्रश्नोपपतेरत एव तत्र प्रमाणं वक्ष्यति न चेत्यादिना । अथवा पूर्वत्र सगुणोपासन दृष्टांतेन निर्गुणोपासनस्य हेतुत्वमात्रमुक्तं न तु करणत्वं तथा च योगमार्गेपि किमुपासनमेव करणं किं वा अन्यदिति प्रश्नाभिप्रायः संगछत इति भावः । मार्गद्वयेपि साक्षात्कारोदयकास्ते प्रसंख्यानस्यानुवृतिमाह । योगमार्ग इत्यादिना । निष्कलं निर्विशेषं परमात्मानं ध्यायमानः ततो ध्याना तं पश्यतीत्यर्थः । कामातुरेति । कामातुरस्यासंनिकृष्टकामिनीसाक्षात्कारे इत्यर्थः । तत्र सन्निकर्षाभावेन चक्षुषः करणत्वासंभवात् मनसो बहिरस्वातंत्र्याच्च कामिनी गोचरप्रसंख्यानमेव कारणमितिभावः । सगुणोपासनं प्रायणपर्यंतमावर्तनीयं कुतः तत्रापि मरणकालेपि योगिनो ब्रह्मचिंतनस्य श्रुतिस्मृतिसिद्धत्वात् । सदा प्रत्यभ्यासं विना मरणकाले तदसंभवादिति सूत्रार्थः । अहंग्रहीपासनानां विकल्पः उपास्य देवता साक्षात्कारलक्षणस्य फलस्याविशिष्टत्वादेकार्थालां विकल्पस्य प्रसिद्धत्वादिति सूत्रार्थः ब्रह्मसाक्षात्कारस्य प्रमाकरणजन्यत्वाभावेपि विषयाबाधात् । प्रमास्वमाशंक्यनिषेधति । न च काकतालीयेति । यादृछिकेत्यर्थः । कॢप्तचानकरणा जन्यस्य ज्ञानत्वमेव नास्ति प्. ४३अ) प्रमात्वं तु दूरापास्तमित्यंभिप्रायेणाह । प्रमाणामूलकस्येति । अविसंवादिवराटकसंख्याविशेषगोचराहार्यवृतेरपि ज्ञानत्वमसिद्धमित्याह । आहार्य वृतेश्चेति अवार्धितार्थ ज्ञानत्वं हि प्रमात्वं नत्व बाधितार्थकत्वमात्रमति प्रसंगादिति मत्वाह । इछादि वदिति ।। मैवं कॢप्तप्रमाकरणामूलकत्वेपि ईश्वर मायावृतिवत्प्रमात्वोपपतेः । विषयाबाधतौल्यान्मार्गद्वयेपि प्रसंख्यानस्य विचारिताद उविचारिताद्वावेदांताद्ब्रह्मात्मैक्यावगममूलकतया प्रसंख्यानजन्यस्यापि ब्रह्मसाक्षात्कारस्य प्रमाणमूलकत्वाच्च । उक्तं हि कल्पतरुकारैः । वेदांतवाक्यजज्ञानभावनाजापरोक्षधीः मूलप्रमाणदार्द्व्येन न भ्रमत्वं प्रपद्यते । न च प्रामाण्यपरतस्त्वापतिस्तु प्रसज्ज्यते । अपवादनिरासायमूलशुद्धानुरोधनादिति । अन्ये तु एषोणुरात्मा चेतसा वेदितव्यः दृश्यते त्वग्र्यया बुध्येत्यादि श्रुतेर्मन एव ब्रह्मसाक्षात्कारे करणं । तस्य सोपाधिकात्मन्यहं वृतिरूपप्रमाकरणकॢप्तेः । स्वप्नप्रपंचविपरीतप्रमात्रादि ज्ञानसाधन प्. ४३ब्) स्यांतःकरणस्येत्यादि पंचपादिका विवरण ग्रंथेनापि तथा प्रतिपादनात् ।। ननु च प्रसंख्यानस्येत्यादिना प्राप्तं चोद्यं परिहरति । मैवमिति । मायावृतिवदिति । न च माया वृतेरपि मास्तु ज्ञानत्वमिति वाच्यं । तथा सतीश्वरीय मायावृतेर्यः सर्वज्ञः सर्वविदित्यादि श्रुतिषु ज्ञाधात्वर्थत्वाभावप्रसंगादितिभावः । तौल्यादिति । न चेछादावति प्रसंग इति वाच्यं तद्भिन्नत्वेन विशेषणोपपतेरितिभावः । प्रसंख्या न जन्य साक्षात्कारस्य प्रमाणमूलकत्वात् । प्रमाणत्वमिति समाधानांतरमाह । मार्गद्वयेपीति । अविचारितादिति । योगमार्गाभिप्रायं वैदांताद्या ब्रह्मावगतिः तन्मूलकतयेत्यर्थः । न च विचारिताद्वा यदि ब्रह्मावगतिर्जाता तर्हि किमर्थं प्रसंख्यानमिति वाच्यं । प्रसंख्यानात्पूर्वमविद्यानिवर्तका प्रतिबधब्रह्मावगतेरलाभातदर्थ तदावश्यकमितिभावः । प्रमाणाजन्यस्यापि प्रमाणप्रयोज्यत्वमात्रेण प्रमात्वे संमतिमाह । उक्तं हीति । ज्ञानभावना ज्ञानाभ्यासरूपं प्रसंख्यानंतजन्यमपरोक्षज्ञानमित्यर्थः । मूलप्रमाणं वेदांतवाक्यं तज्जन्यप्रमातस्य दाढ्यांनामाविप्रतिपन्नप्रामाण्यकत्वमिति बोध्यं । प्रसंख्यानजन्यसाक्षात्कारनिष्टप्रामाण्यज्ञप्तौ मूलप्रमाणज्ञप्त्यपेक्षायामपसिद्धांतापात इति शंकते । न चेति । प्रसंख्यानजसाक्षात्कारनिष्टमपि प्रामाण्यं नियमेन स्वाश्रयग्राहकसाक्षिभास्यमेवेति न प्. ४४अ) तत्प्रामाण्यज्ञप्त्यर्थ मूलप्रमाणानुसरणं किंतु प्रसंख्यानजन्य व्यवहितकामिनीसाक्षात्कारस्याप्रमात्वादर्शनात् । प्रसंख्यानजन्यब्रह्मसाक्षात्कारेपि कदाचिदप्रामाण्य शंकासंभाव्यते ततस्तन्निरासाय मूलप्रमाणानुसरणमिति नापसिद्धांत इति भावः । अपवादेति । अप्रमाण्यशंका अपवादः । प्रसंख्या न मात्रं न साक्षात्कारे करणं किंतु तत्सहकृतं मनस्तत्रकरमितिमतं दर्शयति । अन्ये त्विति । अणुः दुर्विज्ञेयः अग्न्यत्वं प्रसंख्यान संस्कृतत्वं मनसैवानुद्रष्टव्यमित्यादि श्रुतिरादिपदार्थः जीवसाक्षात्कारे मनसः करणत्वे संमतिमाह । स्वप्नेति । प्रातिभासिकस्वप्नप्रपंचापेक्षया विपरीतो व्यावहारिकः प्रमात्रादिः तज्ज्ञानसाधनस्येत्यर्थः । आदिपदं प्रमेयादिसंग्रहार्थं । तथेति प्रमातृशब्दित सोपाधिकात्मसाक्षात्कारे मनसःकरणतयेति तथा शब्दार्थः ।। अहमेवेदं सर्वं सर्वोस्मीति मन्यते सोस्य परमो लोक इति श्रुत्युक्ते स्वाप्ने ब्रह्मसाक्षात्कारे एव मनसः करणत्व संप्रतिपत्तेश्च तदाकरणांतराभावात् । प्रसंख्यानं तु मनः सहकारिभावेनोपयुज्यते । वाक्यार्थभावनापरिपाकसहितमंतःकरणं त्वंपदार्थस्यापरोक्षस्य तत् दुपाध्याकारनिषेधेन तत्पदार्थतामाविभीवयतीतिभामतीवचनात् । प्. ४४ब्) ज्ञानप्रसादेन विशुद्धे सत्वस्तस्तु तं पश्यति निष्कलं ध्यायमान इति श्रुतावपि ज्ञानप्रसादशब्दितचितैकाग्र हेतु तयैव ध्यानोपादानात् । ननु प्रसंख्यानं स्वयं करणं तस्य क्वचिदपि ज्ञानकरणत्वा कॢप्तेः कामातुरकामिनी साक्षात्कारादावपि प्रसंख्यान सहकृतस्य मनस एव करणत्वोपपत्याऽकॢप्तज्ञानकरणांतरकल्पनायोगादित्याहुः । अपरे तु तद्धास्य विजिज्ञौतमसः पारं दर्शयति । आचार्यवान् पुरुषो वेद तस्य तावदेव चिरमित्यादि श्रुतिषु आचार्योपदेशानंतरमेव ब्रह्मसाक्षात्कारोदये जीवन्मुक्तिश्रवणाद्वेदांतविज्ञान सुनिश्चितार्थाः इति ज्ञानांतरनैराकांक्ष्यश्रवणातंत्वौपनिषदं पुरुषंमिति ब्रह्मण उपनिषदेकगम्यत्व श्रवणाच्चौपनिषदं महावाक्यमेव ब्रह्मसाक्षात्कारे करणं न मनः यन्मनसानमनुत इति तस्य ब्रह्मज्ञानकरणत्वनिषेधात् ।। निरुपाधिकात्मसाक्षात्कारेपि मनसः करणत्वं कॢप्तमित्याह । प्. ४५अ) अहमेवेति । इदं सद्रूपेण सर्ववस्तुनि अनुभूयमानं सर्वात्मकं ब्रह्मैवाहमस्मि ततः सर्वोस्मीति स्वप्ने ब्रह्मविन्मन्यत इत्यर्थः । ननु स्वप्ने ब्रह्मविदो महावाक्यानुसंधानसंभवाद्वाक्यमेव करणं किं न स्यादित्यत आह । तदेति । स्वप्ने महावाक्यानुसंधानस्यानियतत्वाद्वाक्यस्यापरोक्षधी हेतुत्वानुपगमाच्चेति भावः संमतिमाह वाक्यार्थेति । महावाक्यार्थेत्यर्थः । स्थूलसूक्ष्मकारणोपाधीनांतेति नेतीत्यादि । वाक्यैर्निषेधद्वाराशोधितो यः त्वं पदार्थः स्वप्रकाश चैतन्यात्मकः तस्य पूर्णतामाविर्भाव अवृतिसाक्षात्कार इत्यर्थः । यत्तु निष्कलं ध्यायमानस्ततो ध्याना तं पश्यति इति योजनामभिप्रेत्य ध्यानस्य साक्षात्कार करणत्वं श्रुतिसिद्धमित्युक्तं तद्दूषयति । ज्ञानप्रसादेनेति । करणव्युत्पत्याज्ञानपदं चितपरं ज्ञानस्य प्रसादः ऐकाग्र्यं तथा च ध्यायमानो ध्यानाल्लब्धेन ज्ञानप्रसादेन पश्यत इति योजना विवक्षितेति भावः । एवं योजनायां विनिगमकं पूर्वोदाहृतानि मनसः करणत्व बोधकवचनान्येवेत्यभिप्रेत्यप्रसंख्यानमात्रस्य करणत्वं दूषयति । नत्विति । महावाक्यमेव तत्र करणमिति मतमाह । अपरे त्विति । अस्य पितुरुपदेशात् तद्ब्रह्मविजज्ञौ साक्षात्कृतवान् हकिलेत्यर्थः । पारमधिष्ठानभूतं ब्रह्म तस्य विदुषस्तावानेव विलंबो विदेह कैवल्यं प्रतियावत्प्रारब्धान्न विमोक्ष्यत इत्यर्थः । वेदांतेति । अत्र वेदांतजन्य ज्ञानादेव ब्रह्मात्मैक्यलक्षणस्यार्थस्य सुनिश्चितत्वोक्त्यावाक्यार्थावगत्यनंतरं प्रसंख्यानानुष्ठानं नापेक्षितमिति प्रतीयत । इदं च तन्निरपेक्ष्यं वाक्यादेवापरोक्षज्ञानोत्पति पक्षे संगछते । अन्यथा प्. ४५ब्) अपरोक्षज्ञानाय तस्यापेक्षितत्वा तत्तेरपैक्ष्यं न संगछते । अतो वेदांतविज्ञानश्रुत्यावाक्यमेवापरोक्षज्ञाने करणमिति निश्चीयत इति भावः । महावाक्यमेवेति सांख्यमार्गानुष्ठानेन योगामार्गानुष्ठामेत वा दृष्टलक्षणसकलप्रतिबंधक्षये सति बंधरहितं सद्वाक्यमेव साक्षात्कारं जनयतीति वाक्यस्य करणत्वपक्षेन सांख्ययोगमार्गयोर्वेयर्थ्य शंकेति मंतव्यं लोको मनसा यच्चैतन्यं न मनुते तदेवत्वं ब्रह्मविद्धीति योजना ।। न चापक्वमनोविषयमिदं येनाहुर्मनोमतमिति वाक्यशेषे मनोमात्रग्रहणात् । न चैवं यद्वाचानभ्युदितमिति शब्दस्यापि तत्करणत्वं निषिध्यत इति शंक्यं । मनःकरणत्ववादिनापि शब्दस्य निर्विशेषपरोक्षज्ञानकरणत्वस्याभ्युपगतत्वेन तस्य यतो वाचो निवतंते अप्राप्यमनसा सहेति श्रुत्यनुरोधेन शब्दार्थ प्राप्ति रूपशक्तिमुखेन शब्दस्य तत्करणत्वनिषेधे तात्पर्यस्य वक्तव्यतयाशक्य संबंधरूपलक्षणामुखेन तस्य तत्करणत्वाविरोधात् न च मनसैवानुद्रष्टव्यमिति श्रुतिसिद्धं मनसोपि तत्र करणत्व न पराकर्तुं शक्यमिति वाच्यं । शाब्दसाक्षात्कारजननेपि तदैकाग्र्यस्यापेक्षितत्वेन प्. ४६अ) हेतुत्वमात्रेण तृतीयोपपतेः । मनसा ह्येव पश्यति मनसा शृणोतीत्यादौ । तथा दर्शनात् । गीता विवरणे भाष्यकारीय मनः करणत्व वचनस्य मतांतराभिप्रायेण प्रवृतेरित्याहुः ।। न मनुत इति वाक्यं अशुद्धमनस एव ब्रह्मज्ञानकरणत्वं निषेधतीति न चेत्यत्र हेतुमाह । येनाहुरिति येन चैतन्येन मतं प्रकाशितं मन इति वाक्यशेषे अपक्व मन एव चैतन्य भास्यमिति वक्तुमशक्यतया तत्र मनो मात्रग्रहणमावश्यकं तदैकरूप्याय न मनुत इति पूर्ववाक्येपि मनोमात्रं ग्राह्यमित्यर्थः । न चैवमिति । मनो मात्रस्य ब्रह्मे ज्ञानकरणत्वनिषेधोपगमे इत्यर्थः । अनुभुदितमिति । अप्रकाशितमित्यर्थः । न च वा इत्यस्य वेदांतातिरिक्तशब्दपरत्वं स्वीक्रियत इति वाच्यं । अत्रापि येन वागभ्युद्यत इति वाक्यशेषे शब्दमात्रस्य चैतन्यप्रकाश्यत्व प्रतिपादनेन तदैकरूप्याय पूर्ववाक्येपि वा चेत्यस्य शब्दमात्रपरत्वादित्याशवानाह । शब्दस्यापीति । मनोमात्रस्येव शब्दमात्रस्यापीत्यर्थः । सत्यं शब्दमात्रस्य ब्रह्मज्ञानकरणत्वं निषेधति तथापि शब्दस्य शक्त्या ब्रह्मज्ञानकरणत्वनिषेधपरं तद्वचनं न तु लक्षणयापि तत्करणत्वनिषेधपरं औपनिषदत्व श्रुतेर्निरालंबनत्व प्रसंगादिति समाधानमभिप्रेत्यविपक्षे परेषामपि बाधकं सूचयति । मनःकरणत्ववादिनापीति । वेदांतानां लक्षणयापि ब्रह्मबोधकत्वानभ्युपगमे ब्रह्मण एवासिध्यापत्यामनःकरणत्ववादिभिरपि तेषां प्. ४६ब्) ब्रह्मज्ञानकरणत्वस्याभ्युपगंतव्यत्वादित्यर्थः । परंतु वाक्यजन्यं ब्रह्मज्ञानं परोक्षं भवतां मते अस्माकं मते तु तदपरोक्षमिति विशेष इत्याशयेनाह । परोक्षेति । वेदांतानां शक्त्या ब्रह्मबोधकत्वनिषेधपरं यद्वा चानभ्युदितमिति वचनमिति व्यवस्थायां श्रुत्यंतरमनुकूलयति । तस्येति । यद्वा चानभ्युदितमिति निषेधे वचनस्येत्यर्थः । अप्राप्येति श्रुत्या ब्रह्मणि विषयशब्दानां प्राप्तिर्निषिध्यते । सा च प्राप्तिः शक्तिरेव तस्याः शब्दानामौत्सर्गिकत्वादिति भावः । वक्तव्य तयेति । मनः करणत्ववादिभिरपीतिशेषः तस्येति शब्दस्येत्यर्थः । तदिति ब्रह्मसाक्षात्कारेत्यर्थः । ब्रह्मगोचरवृतिं प्रतिकरणत्वं न तृतीया श्रुत्यर्थः पूर्वोदाहृत श्रुतिविरोधात् । किंतु एकाग्रस्य मनसः तां प्रत्युपादनतया हेतुत्वमात्रं तदर्थ इत्याह । शाब्दसाक्षात्कारजननेपीति । तथेति चाक्षुषज्ञानादौ मनसः करणत्वाभावेन हेतुत्व मात्रेणापि तृतीयादर्शनादिति भावः । शमदमादि संस्कृतं मन एवात्मदर्शने करणमिति गीताभाष्यवचनविरोधे परिहरति गीतेति । मतांतरेति । वृतिकारमतेत्यर्थः । न तु स्वमताभिप्रायेण उक्तप्रमाणविरोधादितिभावः ।। ननु तथापि शब्दस्य परोक्षज्ञानजनकत्व स्वभावस्य नापरोक्षज्ञानजनकत्वं संगछत इति चेत् । अत्र केचित् स्वतोऽसमर्थोपि शब्दः शास्त्रीयश्रवणमननपूर्वकप्रत्ययाभ्यासजनित संस्कारप्रचयलब्ध प्. ४७अ) ब्रह्मैकाग्र्यचितदर्पणानुगृहीतोऽपरोक्षज्ञानमुत्पादयति शास्त्रीयसंस्कृताऽग्र्यधिकरण इव होमोऽपूर्वमिति कल्प्यते । तरति शोकमात्मविदिति शास्त्रप्रामाण्यात् अपरोक्षस्य कर्तृत्वाद्यध्यासस्यापरोक्षाधिष्ठानज्ञानं विना निवृत्ययोगात् । औपनिषदे ब्रह्मणि मानांतराप्रवृतेः शब्दादप्यपरोक्षज्ञानानुपपतौ अनिर्मोक्षप्रसंगादित्याहुः । अन्ये तु भावनाप्रचय साहित्ये सति वहिरसमर्थस्यापि मनसो नष्ट वनिता साक्षात्कारजनकत्वदर्शनान्निदिध्यासन साहित्येन शब्दस्याप्यपरोक्षज्ञानजनकत्वं युक्तमिति दृष्टांतानुरोधेन समर्थयंते ।। ननु तथापीति । शब्दस्य ब्रह्मसाक्षात्कारकरणत्वपक्षे श्रुतिभाष्यविरोधाभावेपि शब्दप्रमाणस्वभावविरोधान्न महावाक्यं ब्रह्मसाक्षात्कारे करणमित्यर्थः । शब्दस्वभावमनुरुध्यैव तस्यापरोक्षज्ञानकरणत्वं साधयति । अत्र केचिदिति । प्रचयः समूहः प्रचयलब्धं यद्ब्रह्मण्यैकाग्र्यं तद्वच्चितमेव दर्पणं तदनुगृहीत इत्यर्थः । यथा चक्षुः स्वतः प्रतिबिंबानुभवजननासमर्थमपि दर्पणानुग्रहीतं प्. ४७ब्) सत् तदनुभवं जनयति तद्वदिति सूचयति चितदर्पणेति शास्त्रीयेति । यथा आधानादिजनित संस्काररहिताग्र्यधिकरणको होमस्तावदपूर्वं न जनयति । अग्र्यधिकरणकहोममात्रस्यापूर्वजननस्वभावाभात् शास्त्रीयसंस्कारविशिष्टाग्र्याधिकरणकहोमस्वपूर्वं जनयति तद्वदित्यर्थः । ननु दृष्टांते शास्त्रवला तथा स्वीक्रियते प्रकृते तथा शास्त्रं नोपलभ्यत इत्यत आह । तरतीति । नन्वनया श्रुत्या चिदात्मन्यध्यस्तस्य शोकोपलक्षितकर्तृत्वाद्यध्यासस्यात्मवेदनान्निवृतिरुच्यते । न तु शब्दस्यापरोक्षज्ञानकरणत्वमित्यत आह । अपरोक्षस्येति । यथा दृष्टांते होमाधिकरणस्याग्रेराधानादि संस्कृतत्वश्रवणान्यथानुपपत्याशास्त्रीयसंस्कारसहकृतग्र्यधि- करणको होमो पूर्वं जनयतीति कल्प्यते । तथात्मज्ञनस्यापरोक्षा ध्यासनिवर्तकत्वश्रवणान्यथानुपपत्या आत्मज्ञानजनक वेदांतानामेवापरोक्षज्ञानकरणत्वं कल्प्यत इत्यर्थः । अयोगादिति सत्यपि श्रवणजनितपरोक्षज्ञाने कर्तृत्वाद्यध्यासनिवृत्यदर्शनात् । परोक्षज्ञानमात्रेणाध्यासनिवृतौ मननादिविधि वैयर्थ्य प्रसंगाच्च अपरोक्षाध्यासरूपदिग्भ्रमादिग्याथात्म्यादि साक्षात्कारं विना निवृत्यदर्शनाच्चेति भावः । ननु कर्तृत्वाद्यध्यासनिवर्तकमधिष्ठानात्मतत्वसाक्षात्कररूपं ज्ञानं मनसैव संभवति किं शब्दस्य तत्करणत्व कल्पनयेति तत्राह । औपनिषद इति । अंतरिंद्रियस्य मनसः प्रत्यक्षप्रमाणत्वेन ब्रह्मणस्तद्गम्यत्वे उपनिषदेक गम्यत्व प्. ४८अ) प्रतिपादकश्रुतिबाधप्रसंग इति भावः । नन्वौपनिषदत्व श्रुति विरोधेन ब्रह्मणि मानांतराप्रवृतौ शब्दस्वभावविरोधेन शब्दस्यापि ब्रह्मसाक्षात्कारजनने प्रवृतिर्न संभवति । तथा च ब्रह्मसाक्षात्कारकरणस्यैवालाभात् । मास्तु तत्साक्षात्कार इत्यत आह । शब्दादपीति । तथा च मोक्षशास्त्रप्रामाण्याय शब्दस्यैव साक्षात्कारकरणत्वं कल्पनीयमितिभावः । शास्त्रप्रामाण्यमनुपजीव्यापि शब्दस्यापरोक्षज्ञानकरणत्वं साधयति । अन्ये त्विति ।। अपरे त्वपरोक्षार्थविषयत्वं ज्ञानस्यापरोक्ष्यं नामाऽन्याऽनिरुक्तेः अर्थापरोक्षत्वं तु नापरोक्षज्ञानविषयत्वं येनान्योन्याश्रयो भवेत् । किंतु तत्तत्पुरुषचैतन्याभेदः अंतःकरणतद्धर्माणां साक्षिणि कल्पिततया तदभेदसत्वात् । नाह्यचैतन्ये कल्पितानां घटादीनां बाह्यचैतन्ये वृतिकृत ततपुरुषीय चैतन्याभेदाभिव्यक्त्या तदभेदसत्वाच्च न क्वाप्यव्याप्तिः ।। इदानीं शब्दस्य परोक्षज्ञानजननस्वाभाव्यसेवा सिद्धमतो नित्यापरोक्षे ब्रह्मणि वेदांतानां साक्षात्कारकरणत्वं निरपवादमिति मतांतरमाह । अपरे त्विति । नन्विंद्रियजन्यज्ञानत्वादिकमेव ज्ञानस्यापरोक्षत्वं ब्रह्मगोचर प्. ४८ब्) शाब्दज्ञानस्य तदभावात्नापरोक्ष्यमित्यत आह । अन्यानिरुक्तेरिति । इंद्रियजज्ञानत्वादेश्च प्रथमपरिछेदावसाने निरस्तत्वादितिभावः । नन्वर्थस्यापरोक्षत्वमपरोक्षज्ञानविषयत्वमन्यस्यानिर्वचना तथा चानोन्याश्रयः अर्थस्यापरोक्षत्व ज्ञप्तौ ज्ञानस्यापरोक्षत्व ज्ञप्तिः ज्ञानस्यापरोक्षत्व ज्ञप्तौ च अर्थस्यापरोक्षत्व ज्ञप्तिरित्याशंक्यानिर्वचनमसिद्धमित्यभिप्रेत्याह । अर्थापरोक्षत्वं त्विति ततदिति । ततत्प्रमातृचैतन्याभिन्नत्वं तस्य तस्य विषयस्य तं तं प्रमातारं प्रमातारं प्रत्यपरोक्ष ततत्प्रमातृचैतन्याभिन्नार्थविषयकं ज्ञानं ततत्प्रमातुः । ततत्प्रमातृचैतन्याभिन्ने विषये अपरोक्षज्ञानमित्यर्थः । न चार्थापरोक्षादावननुगम इति वाच्यं ज्ञानगतस्यानुगता परोक्ष्यत्वस्य जातिरूपस्य उपाधिरूपस्य वा प्राऽऽन्निरस्तत्वेन तदभावार्थापरोक्ष्यस्याप्यनुगतस्यासंभवेन तस्या दोषत्वादिति भावः । ननु प्रमातृचैतन्याभिन्नत्वरूपस्यार्थापरोक्ष्यस्य जडरूपापरोक्षार्थे व्याप्तिः चैतन्यजडयीरैक्यस्य बाधितत्वादित्यत आह । अंतःकरणेति तदभेदसत्वादिति साक्षिशब्दित प्रमातृचैतन्याभेदसत्वादित्यर्थः । तथा चार्थापरोक्ष्यनिर्वचने कल्पिता कल्पित साधारणाभेदस्य विवक्षितत्वेन प्रमातृचैतन्यब्रह्मचैतन्ययोरिव प्रमात्रचैतन्यजडयोरकल्पिताभेदाभावेपि जडं सदिति सामान्याधिकरण्यानुभवसिद्ध कल्पिताभेद सत्वात्नाव्याप्तिरितिभावः । आंतरजडपदार्थेषु प्रमातृचैतन्या भिन्नत्वमुपपाद्य बाह्यापरोक्षार्थेषु तदुपपादयति । प्. ४९अ) बाह्येति अंतःकरण तद्धर्माणांदभेद सत्वात् । घटादीनां तदभेदसत्वाच्च न क्वाप्यांतरार्थे वाऽव्याप्तिरितिसंबंधः । घटादीनां ततत्पुरुषीय चैतन्याभेदसत्वे हेतुमाह । बाह्यचैतन्ये ततत्पुरुषीय चैतन्याभेदाभिव्यक्त्येति । ननु बाह्यचैतन्यस्य ततत्पुरुषीय चैतन्यस्य च वस्तुतः सदा अभेद सत्वेपि तदभिव्यक्तिः कुत इत्यत आह । वृति कृतेति । बाह्ये विषयावछिन्नचैतन्ये चक्षुरादि द्वारानिर्गताया वृतेः संसर्गे सति वृत्ति वृतिमतोरभेदाद्वृतिमदंतःकरणस्यापि तत्र संसर्गो लभ्यते । तथा च वृति संसृष्टबाह्यचैतन्यमेवांतःकरणसंबंधा ततत्पुरुषीय चैतन्यं भवतीत्यनेन प्रकारेण बाह्यचैतन्ये वृतिकृतातपुरुषीय चैतन्याभेदाभिव्यक्तिर्भवतीत्यर्थः । ननूक्त प्रकारेण बाह्य चैतन्यस्य प्रमात्रचैतन्याभिन्नत्व सिद्धावपि घटादीनां प्रमातृचैतन्याभिन्नत्वमसिद्धमेवेत्याशंक्याह । बाह्यचैतन्ये कल्पितानामिति । बाह्यचैतन्ये तावत् घटादीनामभेदः प्रागेव सिद्धः तत्र तेषां कल्पितत्वा तथा च बाह्यचैतन्यस्य वृत्तिकृत ततत्पुरुषीय चैतन्याभेदाभिव्यक्तिदशायां घटादीनामपि ततत्पुरुषीय चैतन्याभिन्नत्वं सिध्यतीनिभावः ।। न चांतःकरणधर्माणां ज्ञानादीनामिवधर्माधर्मसंस्काराणामपि साक्षिणि कल्पितत्वा विशेषादापरोक्षापतिः तेषामनुद्भूतत्वात् उद्भूतस्यैव ४९ब्) जडस्य चैतन्याभेदः । आपरोक्ष्यमित्यभ्युपगमात् । एवं च सर्वपुरुषचैतन्याभिन्नत्वाद्यत्साक्षादपरोक्षाद्ब्रह्मेति श्रुत्यासत एवापरोक्षं ब्रह्मेत्यपरोक्ष्यार्थविषयत्वाछाब्दस्यापि ब्रह्मज्ञानस्यापरोक्षत्व वाचो युक्तिर्युक्ता एवेत्याहुः । अद्वैत विद्याचार्यास्तु नापरोक्षार्य विषयत्वं ज्ञानस्यापरोक्ष्यं स्वरूपसुखापरोक्षरूपज्ञाना व्यापनात् । स्वविषयकत्वलक्षण स्वप्रकाशत्व निषेधात् । किंतु यथा ततदर्थस्य स्वव्यवहारानुकूलचैतन्याभेदोर्थापरोक्ष्यं । एवं ततद्व्यवहारानुकूलचैततन्यस्य तत्तदर्थाभेदोज्ञानापरोक्ष्यं । तथा च चैतन्यधर्म एवेदमापरोक्ष्यं न त्वनुमिति त्वेछात्वादिवदंतःकरणवृतिधर्मः । अर्थापरोक्ष्यलक्षणस्याति व्याप्ति मां शंक्य निराकरोति न चेत्यादिना । धर्मेति धर्मादीनामप्यधिष्ठान भूतप्रमातृचैतन्ये सहाभिन्न सताकत्वरूपाभेदसत्वादिति भावः । उद्भूतत्वे सति प्रमातृचैतन्याभिन्नत्वमर्थापरोक्ष्यं उद्भूतत्वं च फलवलकल्प्य स्वभावविशेषः । स च धर्मादेर्नास्तीति परिहारार्थः । एवं शब्दस्य ब्रह्मसाक्षात्कारे प्. ५०अ) करणत्वसिध्यर्थमुपोद्घातं कृत्वा प्रकृत दर्शयति । एवं चेति । ज्ञानापरोक्ष्यप्रयुक्तत्वे सतीत्यर्थः । अभिन्नत्वादिति । जीवरूपप्रमातुः ब्रह्माभेदस्य श्रुतिसिद्धत्वादिति भावः । इदं च ब्रह्मणो जीवाभिन्नत्वं जडस्य प्रमातृचैतन्याभिन्नत्ववत् काल्पनिकं न भवति किंतु वास्तवैक्यरूपमित्याशयेनाह । स्वत एवेति । ब्रह्मणो नित्यापरोक्षप्रमातृचैतन्याभेदे श्रुतिमाह । यत्साक्षादिति । ब्रह्म जडवत् स्वव्यतिरिक्तप्रमातृचैतन्यमपेक्ष्यापरोक्षं न भवति । किंतु साक्षात्प्रमातृचैतन्यस्वरूपत्वादेवापरोक्षमित्यर्थः । ज्ञानापरोक्ष्यमर्थापरोक्ष्यं च प्रकारांतरेण निरूपयति । अद्वैतविद्याचार्यास्त्विति । पूर्वोक्तं ज्ञानापरोक्ष्यलक्षणमव्याप्त्या दूषयति । नापरोक्षेति स्वरूपसुखस्यापरोक्ष्यरूपे स्वरूपज्ञानेऽव्यापनादित्यर्थः । नन्वात्मस्वरूपसुखानुभवस्य साक्षिचैतन्यरूपस्य स्वप्रकाशत्वाभ्युपगमात् । स्वप्रकाशत्वस्य च स्वविषयकत्वरूपत्वात् । स्वरूपसुखविषयकत्वं तदपरोक्षरूपे स्वरूपज्ञाने निरपवादमित्यत आह । स्वविषयकत्वलक्षणेति । एकस्मिन् चैतन्ये विषय विषपि भावलक्षणसंबंधो न भवति संबंधस्य द्विनिष्ठत्वात् स्वविषयत्वं विनापि स्वसत्ताप्रयुक्तसंशयाद्यगोचरत्वादिलक्षणस्य स्वप्रकाश तस्याकरेषु निरूपितत्वादिति भावः । किं तर्हि ज्ञानापरोक्ष्यमिति पृछति । किंत्विति ज्ञानापरोक्ष्यनिर्वचनं प्रतिदृष्टांतव्याजेन प्रथममर्थापरोक्ष्यं निर्वक्ति । यथेति । अर्थस्य प्. ५०ब्) स्वव्यवहारानुकूलचैतन्याभिन्नत्वमपरोक्षत्वं अस्ति चांतःकरण तद्धर्माणां स्वव्यवहारानुकूलेन साक्षिचैतन्येनाभिन्नत्वं तत्र तेषामध्यस्तत्वात् । तथा घटादीनामपि स्वव्यवहारानुकूलेन घटादिगोचर वृत्युपहितेन घटाद्यभिष्टानचैतन्येनाभिन्नत्वमस्ति । तथा च ब्रह्मणोपि स्वव्यवहानुकूलेन स्वगोचरवृत्युपहितेन साक्षिचैत्नयेनाभिन्नत्वमस्तीति न क्वाप्यव्याप्ति घटाद्यर्थस्य चैतन्ये कल्पितस्य चैतन्याभिन्नत्वं सदा वर्तते । अपरोक्षत्वं तु सदा नास्तीति व्यवहारानुकूलेत्युक्तं घटादिगोचरवृति दशायामेव घटाद्यधिष्ठानचैतन्यं घटादिव्यवहारानुकूलं भवति न सर्वदेति नाति प्रसंगः ननु ततद्व्यवहारानुकूलचैतन्यस्य ततदर्थाभिन्नत्वमपरोक्षत्वमस्तुनाम तथापि ज्ञानापरोक्ष्यं नोक्तमेव वृतिरूपज्ञानस्य चैतन्यापेक्षा भिन्नत्वादित्यत आह । तथा चेति चैतन्यस्यैव ततदर्थव्यवहारानुकूलत्वे विवक्षिते सतीत्यर्थः । तथा च ज्ञानापरोक्ष्यमित्यत्र ज्ञानपदं चैतन्यपरमेव न वृत्तिज्ञानपरमिति नानुक्तिदोष इति भावः ।। अत एव सुखादिप्रकाशरूपे साक्षिणि स्वरूपसुखप्रकाशरूपे चैतन्ये चापरोक्ष्यं । न च घटाद्येंद्रियकवृतौ तदनुभवविरोधः । अनुभवस्य वृत्यवछिन्नचैतन्यगता परोक्ष्य प्. ५१अ) विषयत्वोपपतेः । ननु उज्ञानार्थयोरापरोक्ष्यं हृदयादिगोचर शाब्दवृति तद्विषयोरति प्रसक्तं । तत्र दैवात् कदाचिद्वृतिविषयसंसर्गे सति वृत्यवछिन्नचैतन्यस्य विषयावछिन्नचैतन्यस्य चाभेदाभिव्यक्तेरवर्जनीयत्वादिति चेत् न परोक्षवृतेर्विषयावछिन्नचैतन्यगताः ज्ञाननिवर्तनाक्षमतया तत्रा ज्ञानेनावृतस्य विषयचैतन्यस्यानावृतेन वृत्यवछिन्नसाक्षिचैतन्येनाभेदाभिव्यक्तेरभावादापरोक्ष्या- प्रसक्तेः ।। ततदर्थव्यवहारानुकूलत्वे सति ततदर्थाभिन्नत्वरूपं ज्ञानापरोक्षत्वं चैतन्यधर्म एवेत्यत्र युक्तिमाह । अत एवेति । चैतन्यधर्मत्वाभ्युपगमादेवेत्यर्थः । तस्य वृतिधर्मत्वे तु सुखदुःखादिगोचरापरोक्षवृत्यनंगीकारात् । सुखदुःखादिभासकसाक्षिचैतन्ये वृतिधर्मस्यापरोक्ष्यस्यासंभवाच्च सुखदुःखादेरपरोक्षत्वानुभवविरोधः स्यादितिभावः लक्षणे सत्यं तं वह्निगोचरानुमिति वृत्युपहिते जीवचैतन्येव हि व्यवहारानुकूले गतमिति तत्राति व्याप्तिवारणाय विशेष्यं । अनुमिति वृतेः विषयदेशे गमनाभावेन तद्वृत्यवछिन्नचैतन्यस्य न वह्न्यभिर्न्नत्वमिति नाति व्याप्तिः प्. ५१ब्) घटादिगोचर वृत्यभावदशायां घटाद्यवछिन्नचैतन्ये घटाद्यपरोक्षत्व विरर्हिते घटाद्यर्थाभिन्नत्वमस्तीति तद्धारणाय सत्यं तं तदा तस्य चैतन्यस्यावृतत्वेन घटादि व्यवहारानुकूलत्वाभावात् । नाति व्याप्तिरिति मंतव्यं । न चेति । ज्ञानापरोक्ष्यस्य चैतन्यधर्मत्वे घटादि गोचरवृतौ घटसाक्षात्करोमीत्यादिप्रकारेणापरोक्षत्वानुभवविरोध इत्यर्थः । वृतिचैतन्ययोस्तादात्म्येन वृति साक्षात्कारत्वानुभवस्य चैतन्य गता परोक्षविषयकत्वोपपतेरित्यर्थः । ननु हृदयनाडीधर्मादिगोचरशाब्दवृतिरंतःशरीरव्यापिनी जायमाना दैवयोगात् हृदयनाड्याद्यवछिन्नांतःकरणप्रदेशे यदि जायेत तदा हृदयादिरूपविषयावछिन्नचैतन्यस्य हृदयादिगोचरशाब्दवृत्यवछिन्नस्य चाभेदाभिव्यक्तिरपरिहार्या घटादिस्थले वृतेः विषयसंसर्गे सति वृतिविषयावछिन्नचैतन्ययोरभेदाभिव्यक्ति स्वीकारा तथा च हृदयादिगोचरशाब्दानुमित्यादि वृत्यवछिन्नचैतन्यरूपे परोक्षज्ञाने हृदयाद्यर्थाभिन्ने हृदयादिव्यवहारानुकूले ज्ञानापरोक्ष्यलक्षणमति व्याप्तं । तथा हृदयादिरूपे परोक्षार्थे स्वव्यवहारानुकूलशाब्दादिवृत्यवछिन्नचैतन्याभिन्ने अर्थापरोक्ष्यलक्षणमति व्याप्तमिति शंकते । ननूक्तमिति । ययोश्चैतन्ययोरभेदाभिव्यक्तिरिष्यते । तयोरुभयोरप्यनावृतत्वमपेक्षितमन्यतरचैतन्यस्यावर्णदशायां तयोरभेदस्य प्रत्यक्षत्वलक्ष्ऽणाभिव्यक्त्ययोगात् तथा च हृदयादिगोचरशाब्द प्. ५२अ) वृतिस्थलेनाति व्याप्तिः तत्र विषयचैतन्यस्यावृतत्वादिति परिहरति । न परोक्षवृतेरिति । आपरोक्ष्याप्रसक्तेरिति । परोक्षहृदयादिविषयस्य हृदयादिगोचरशाब्दवृत्यवछिन्नचैतन्यरूपपरोक्षज्ञानस्य चेति शेषः तथा च हृदयादिगोचरशाब्दवृत्यवछिन्नचैतन्यरूपपरोक्षज्ञानस्य हृदयादिव्यवहारानु ।। कूलज्ञानत्वे सत्यपि हृदयादिविषयेण सहाभिव्यक्त्याभेदाभावादभिव्यक्त ततदर्थाभिन्नत्वे सति तदर्थव्यवहारानुकूलज्ञानत्वलक्षणं ज्ञानापरोक्ष्यं नास्ति । तथा हृदयाद्यर्थस्यापि स्वव्यवहारानुकूलशाब्दवृत्यवछिन्नसाक्षिचैतन्याभेदसत्वेपि तदभेदाभिव्यक्त्यभावेन स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्ति शालित्वरूपमर्थापरोक्ष्यं नास्तीत्यर्थः । न चाहं सुखीदुःखीत्याकारके सुखादिसाक्षिणी सुखदुःखादिरूपविषयाभेदो विद्ययाभेदो विद्यमानोपि नाभिव्यज्यते । सुखादिसाक्षिणो जीवस्य सुखादेश्चाधाराधेय भावप्रतीतेः । तथा च सुखदुःखादिप्रत्यक्षेभिव्यक्तविषयाभेदाभावादव्याप्तिरिति प्. ५२ब्) वाच्यं । घटादि प्रत्यक्षरूपे घटादि स्फुरणे घटस्फुरति पटस्फुरतीत्याकारानुभवमादाय घटाद्यर्थाभेदाभिव्यक्तिमत्वस्येव सुखं स्फुरतिः दुःखं स्फुरतीत्याकारानुभवमादायैव सुखदुःखादि प्रत्यक्षे सुखाद्यर्थाभेदाभिव्यक्तिमत्व सत्वात् । न च घटस्फुरतीत्यनुभवे घटस्य स्फुरणाश्रयत्वमेव भाति । न तु स्फुरणाभेद इति वाच्यं । घटस्फुरतीति प्रयोगे देवदत्तो गछतीत्यत्रगमनकर्त्रऽभिन्नो देवतदत इति वाक्यार्थवत्स्फुरणाश्रयाभिन्नो घट इति वाक्यार्थस्य वक्तव्य तया घटः स्फुरतीति प्रयोगमूलभूते घटः स्फुरतीत्यनुभवेपि स्फुरणाश्रयभूतचिदात्माभिन्नतया घटस्य भानावश्यं भावात् । नं च घटस्य स्फुरणाश्रयाभेदाभिव्यक्तावपि स्फुरणाभेदाभिव्यक्तिरद्यापि नोपयादितैवेति वाच्यं । घटस्य स्वरूपमिति प्रत्यक्षं हि घटमेव घटस्य स्वरूपतया यथा विषयी करोति । तथा घटस्फुरतीति प्रत्यक्षमपि घटादिवृति दशायां घटाद्यधिष्ठानभूतमनावृत्त चिदात्मानमेव प्. ५३अ) स्वप्रकाशचिदात्माश्रित स्फुरणरूपेण विषयीकरोतीत्यभ्युपगमेन घटे स्फुरणाश्रया भेदभानस्यैव स्फुरणाभेदभानरूपत्वात् । एतदुक्तं भवति घटस्य स्वरूपमिति शब्दप्रयोग एव घट तत्स्वरूपयोर्भेदोभासतेन तु तन्मूलभूते घटस्य स्वरूपमिति प्रत्यक्षे अन्यथा तत्प्रत्यक्षस्य भ्रमत्व प्रसंगात् घटतत्स्वरूपयोर्भेदाभावात् । न च तस्य भ्रमत्वमभ्युपगतुं शक्यते बाधकाभावात् । एवं स्फुरतीति शब्दप्रयोगे एव स्वप्रकाशात्मनः स्फुरण तदाश्रयनावेन भेदभानं न तु स्फुरतीति प्रत्यक्षे तत्र स्फुरण द्वित्वानुपलंभादिति । न च ब्रह्मगोचरशाब्दवृतेर्विषयसंसृष्टायाविषयगता ज्ञाननिवर्तनक्षमत्वदर्शनेन हृदयादिगोचरशाब्दवृतेरपि विषयसंसर्गाविशेषे कथं तस्यां स्वविषयचैतन्यगता ज्ञाननिवर्तन क्षमत्वं नेति वाच्यं । हृदयादिगोचरशाब्दवृतेः सत्यपि विषयसंसर्गे तस्यां वृतौ अज्ञाननिवर्तकत्व प्रजकाभावेनाज्ञाननिवर्तकत्वस्य प्रथमपरिछेदावसाने प्. ५३ब्) दर्शितत्वादितिभावः । अत एव जीवस्य संसारदशायां वस्तुतः सत्यपि ब्रह्माभेदेन तदा परोक्ष्यं । अज्ञानावणाकृतभेदसत्वात् । न चैवं ब्रह्मणोपि जीवापरोक्ष्यासंभवादसर्वज्ञत्वापतिः । अज्ञानस्येश्वरप्रत्यनावरकतया तं प्रतिजीवभेदानापादनात् । यदज्ञानं यं प्रत्यावरकं तस्य तं प्रत्येव स्वाश्रयभेदापादकत्वात् । अत एव चैत्र ज्ञानेन तस्य घटाज्ञाने निवृतेऽनिवृतं मैत्राज्ञानं मैत्रं प्रत्येव विषयचैतन्यस्य भेदापादकमिति न चैत्रस्य घटापरोक्ष्यानुपपतिरपि ।। अर्थस्य स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्तिमत्वमेवापरोक्ष्यं न तु तादृशा भेदवत्वमात्रमित्यत्र लिंगमाह । अत एवेति । अभेदाभिव्यक्तेरेवापरोक्षत्वप्रयोजकत्व स्वीकारादेवेत्यर्थः । संसारेति । तत्वसाक्षात्कारात् पूर्वकाल इत्यर्थः । जीवस्य ब्रह्माभेदे सत्यपीत्यनेन ब्रह्मणः स्वव्यवहारानुकूलजीवचैतन्याभिन्नत्वे सत्यपीत्यपीत्यर्थो विवक्षितः । तथा च संसारदशायां स्वव्यवहारानुकूल जीवचैतन्याभिन्नस्यापि ब्रह्मणो जीवं प्रत्यपरोक्षत्वाभावस्तयोरभेदाभिव्यक्त्य भावादेवेति प्. ५४अ) वक्तव्यतया अभेदाभिव्यक्तेरापरोक्ष्यप्रयोजकत्वं युक्तमितिभावः । न चैवमिति अज्ञानकृतभेदस्याभेदाभिव्यक्ति प्रतिबंधकत्व इत्यर्थः । असंभवादिति । जीवं साक्षात्करोमि जीवो मम परोक्ष इति जीवगोचरव्यवहारानुकूलं ज्ञानं ब्रह्मणो मायावृत्युपहितं ब्रह्मचैतन्यमेव तथा च ब्रह्मकर्तृकव्यवहारविषयस्य जीवस्य ब्रह्मकर्तृकव्यवहारानुकूल तादृशब्रह्मचैतन्याभिन्नत्वे सत्वेप्यभिव्यक्ताभेदशालित्वा भावात् जीवस्य ब्रह्मप्रत्यपरोक्षं न संभवति । न च ब्रह्मणो जीवगोचरापरोक्षज्ञोनासंभवेपि न सर्वज्ञत्वभंगः जीवगोचरपरोक्षज्ञानमात्रेणापि तत्संभवादिति वाच्यं । ईश्वरस्य परोक्षज्ञानानंगीकारादितिभावः । अज्ञानं हि जीवधर्मिकब्रह्मप्रतियोगिकभेदप्रयोजकं जीवस्य नाहं ब्रह्मेति ब्रह्मभेदानुभव सत्वात् । न तु ब्रह्मधर्मिक जीवप्रतियोगिकभेदप्रयोजकं ब्रह्मणो नाहं जीव इत्यनुभवे मानाभावात् । तथा च ब्रह्मप्रतिजीवस्य ब्रह्माभेदाभिव्यक्ति प्रतिबंधकस्याज्ञानकृतभेदस्याभावात् नोक्त दोष इति परिहरति । अज्ञानस्येति । अनावरकतयेति ईश्वरस्याहमज्ञ इत्यनुभवे मानाभावादज्ञानमीश्वरं प्रतिजीवावरकं न भवति । न चेश्वरस्यापि लीलाविग्रहपूर्वक व्यवहारकाले तदीये नैव वचनेन तस्याज्ञत्वानुभवोस्तीति गम्यत इति वाच्यं तदीयस्य तदीयाज्ञत्वगमकवचनस्यान्यथा सिद्धेश्चतुर्थपरिछेदे वक्ष्यमाणत्वादितिभावः । तमिति ईश्वरं प्रतिजीवप्रतियोगिक भेदाप्रयोजकत्वादित्यर्थः प्. ५४ब्) तं प्रतिजीवावरकस्यापि जीवभेदा पादकं किं न स्यादित्यत आह । यं प्रतीति । यं जीवं प्रति यदज्ञानं विषयचैतन्यावरकं तं प्रत्येव तस्याज्ञानस्य स्वाश्रय भूतविषयचैतन्य प्रतियोगिकभेदापादकत्वाभ्युपगमादित्यर्थः । उक्त व्यवस्थायां नियामकमाह । अत एवेति । यं प्रति यदज्ञानमित्यादिव्यवस्थाभ्युपगमादेव चैत्रस्य घटापरोक्ष्यानुभवानुपपतिरपि नेति संबंधः । घटावछिन्नचैतन्ये चैत्रं प्रतिघटचैतन्यावरकमज्ञानं यथा वर्तते तथा मैत्रं प्रत्यपि घटचैतन्यावरकमज्ञानं तत्रास्ति । तथा च चैत्रीय घटज्ञानेन चैत्रस्य घटाज्ञाने चैत्रं प्रतिस्वाश्रय भूतविषयचैतन्यप्रतियोगिक भेदापादके निवृते सति चैत्रीय घटज्ञानेनानिवृतं घटचैतन्यगतं मैत्रं प्रतिघटावरकाज्ञानमैत्रं प्रत्येव स्वाश्रय भूत घटचैतन्यप्रतियोगिकभेदा पादकं । न तु मैत्राज्ञानं चैत्रं प्रतिघट चैतन्यानावरकमपि । चैत्रं प्रतिस्वाश्रयी भूतघट चैतन्यप्रतियोगिक भेदापादकं । तथा सति चैत्रीय घटज्ञानेन चैत्रीयाज्ञाने निवृते सति तत्कृतभेदनिवृत्रावपि चैत्रस्य घटचैतन्यस्य च मैत्राज्ञानकृतभेदसत्वेनाभेदाभिव्यक्त्यभावात् चैत्रस्य घटापवोक्ष्यानुभवानुपपतिरेवस्यादतो मैत्राज्ञानं मैत्रं प्रतीव चैत्रं प्रतिस्वाश्रय भेदापादकं न भवति चैत्रं प्रतिस्वाश्रय चैतन्यानावरकत्वादिति वक्तव्यं तथा चोक्त व्यवस्थासिद्धेत्यर्थः ।। प्. ५५अ) नन्वेवं वृतिविषयचैतन्याभेदाभिव्यक्तिलक्षणस्यापरोक्षस्य विषयचैतन्यगताज्ञाननिवृतिप्रयोज्यत्वे तस्य अज्ञाननिवृतिप्रयोजकत्वायोगात् ज्ञानमात्रमज्ञाननिवर्तकं भवेदिति चेत् । न यत् ज्ञानमुत्पद्यमानं स्वकारणमहिम्नाविषयसंसृष्टमेवोत्पद्यते तदेवाज्ञाननिवर्तकमिति विशेषणात् । ऐंद्रियक ज्ञानानां तथा त्वात् । एवं च शब्दादुत्पद्यमानमपि ब्रह्मज्ञानं सर्वोपादानभूत स्वविषयब्रह्मचैतन्यसंसृष्टमेवोत्पद्यत इति तस्याज्ञाननिवर्तकत्वमज्ञाननिवृतौ तन्मूलकभेदप्रविलयादापरोक्ष्यं चेत्युपपद्यतेतरां । नन्वेवमध्ययन गृहीत वेदांतजन्येनापि तत् ज्ञानेन मूलाज्ञाननिवृत्या आपरोक्ष्यं किं न स्यात् ।। ननु परोक्षज्ञानमज्ञाननिवर्तकमितिरीत्याज्ञानस्य अज्ञाननिवर्तकत्वे अपरोक्षत्वं प्रयोजकमिति । वक्तुं न शक्यते ज्ञानगतापरोक्षत्वस्यैवाज्ञाननिवृत्यधीनत्वात् । न च मास्तु ज्ञानापरोक्ष्यस्याज्ञाननिवृतिप्रयोजकत्वमिति वाच्यं । तथा सति ज्ञानमात्रस्याज्ञाननिवर्तकत्वापरोक्षज्ञानस्यापि प्. ५५ब्) अज्ञाननिवर्तकत्वं प्रसंगादित्याशयेन शंकते । नन्वेवमिति । एवं शब्दार्थमवाह । वृतीति वृत्यवछिन्नचैतन्यरूपे ज्ञाने घटादिरूपविषये च वृत्यवछिन्नचैतन्यविषयावछिन्नचैतन्ययोरभेदाभिव्यक्ति घटितस्येत्यर्थः । अज्ञान निवृतिं प्रयोज्यत्व इति । प्रमातारं प्रतिषयचैतन्यावरणद्वाराविषयचैतन्यप्रतियोगिक- भेदापादकस्याज्ञानस्य निवृतिं विना अर्थस्य ज्ञानस्य वा अपरोक्ष्यासंभवस्योक्तत्वादापरोक्ष्यस्याज्ञाननिवृतिप्रयोज्यत्वमित्यर्थः । ज्ञानस्याज्ञाननिवर्तकतायामापरोक्ष्यस्य प्रयोजकत्वाभावेपि न हातिः । प्रयोजकोतरस्य प्रथमपरिछेदांते दर् शितत्वादित्याशयेन परिहरति । नेति । तथात्वादिति संनिकर्त्षरूपकारणमहिम्नाविषयसंसृष्टतयैव उत्पद्यमानत्वादित्यर्थः । अनुमित्यादि वृतीनाम तथात्वेनातिप्रसंगाभावाच्चेत्यपि द्रष्टव्यं । नन्वनु मे वह्न्यादि गोचरानुमिति वृतेरिव ब्रह्मगोचरशाब्दवृतेरपि । स्वविषयभूतेन ब्रह्मचैतन्येन संसर्गाभावान्मूलाज्ञाननिवर्तकत्वं न स्या तथा च तत्वज्ञानानंतरमपि ब्रह्मापरोक्ष्यं न स्यादित्यत आह । एवं चेति । एवमेवेत्यर्थः । ऐंद्रयकवृतिवदेवेति यावत् । ब्रह्मगोचरवृतेः स्वविषयसंसर्गनियमे कारणमाह । सर्वोपादानभूतेति जायमानस्य सर्वस्य ब्रह्मसंसर्गनियमे सति ब्रह्मगोचरवृतेः स्वविषयसंसर्ग नियमे किं वक्तव्यमित्याशयेन सर्वोपादानेत्युक्तं । कार्यस्योपादानसंसर्गनियमा प्. ५६अ) तथा च ब्रह्मगोचरवृतेर्नानुमेय वह्न्यादिगोचरानुमिति वृतितुल्यतेति भावः । आपरोक्ष्यं चेति । ननु ज्ञानापरोक्ष्यस्याज्ञाननिवृतावप्रयोजकत्वमते वेदांतजन्य ज्ञानस्यापरोक्षत्व प्रसाधनमस्मिन् शाब्दापरोक्षवादे व्यर्थमिति चेन्न अज्ञाननिवर्तकज्ञानमपरोक्षरूपमिति नियमस्य चक्षुरादिजन्य ज्ञानेषु दृष्टस्य ब्रह्माज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने व्यभिचारवारणार्थतया तत्साधनस्यार्थवत्वोपपतेः । मूलाज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने आपरोक्ष्यस्य तद्वैतत्पश्यन्नित्यादिश्रुत्या ब्रह्मसाक्षात्करोमीति विद्वदनुभवेन च सिधस्य तत्र तत्प्रसाधनं विना अनुपपतेश्चेति भावः । घटादौ घटादिगोचरवृतिकाल एवापरोक्ष्यं तद्वृत्युपरमे तु पुनरज्ञानांतरकृतभेदप्राप्त्या स्वव्यवहारानुकूल चैतन्याभेदाभिव्यक्त्यभावान्नापरोक्ष्यं ब्रह्मणि तु मूलाज्ञाननिवृतौ पुनरावरणकृतभेदाप्रसक्त्या ब्रह्मज्ञानानंतरं सदैवापरोक्ष्यमिति विशेषं सूचयति । तरामिति । नन्वेवमध्ययन गृहीतेति । नियमेन यज्ञानं विषयसंसृष्टतयोदेति । तज्ज्ञानमज्ञानं निवर्तपत्येवेति नियमोपगमे सतीत्येवं शब्दार्थः । आपात ज्ञातस्यापि स्वयब्रह्मसंसर्गितयैव उत्पन्नत्वादितिभावः ।। न च तत् सत्ता निश्चयरूपत्वाभावान्नाज्ञाननिवर्तकमिति वाच्यं तथापि कृत श्रवणस्य प्. ५६ब्) निर्विचिकित्सशाब्दज्ञानेन तन्निवृत्यामननादि वैयर्थ्यापतिरिति चेन्न सत्यपि श्रवणान्निर्विचिकित्सज्ञाने चितविक्षेपदोषेण प्रतिबंधात् । अज्ञानानिवृत्यातन्निराकरे मनननिदिध्यासननियमविध्यर्थानुष्टानस्यार्थवत्वात् । भवांतरीयमननाद्यनुष्ठाननिरस्तचितविक्षेपस्योपदेशमात्रात् ब्रह्मापरोक्ष्यस्येष्यमाणत्वाच्चेत्याहु । अथैवमपि कृतनिदिध्यासनस्य वेदांतजन्यब्रह्मब्रह्मानेनेव घटादिज्ञानेनापि ब्रह्माज्ञाननिवृतिः किं न स्यात् । न च तस्य ब्रह्माविषयत्वान्न ततो ब्रह्माज्ञाननिवृतिरिति वाच्यं । घटः सन्नित्यादिबुद्धिवृतेः सद्रूपब्रह्मविषयत्वोपगमात् । न च तत्र घटाद्याकारवृत्या तदज्ञाननिवृतौ स्वतः स्फुरणादेव तदवछिन्नचैतन्यं सदिति प्रकाशतेन तस्य घटाद्याकारवृतिविषयत्वमितिवाच्यं । तदभावे घटविषयं ज्ञानं तदवछिन्नचैतन्यविषयमज्ञानमिति भिन्नविषयेण ज्ञानेन तन्निवृतेरयोगात् । जडे आवरणकृत्याभावेन घटस्याज्ञाना प्. ५७अ) विषयत्वात् । न च घटादिवृतेस्तदवछिन्नचैतन्यविषयत्वेप्यखंडानंदाकारत्वा भावान्न ततो मूलाज्ञाननिवृतिरिति वाच्यं ।। सता निश्चयरूपत्वमपि निवर्तक ज्ञानविशेषणमतो नोक्ताति प्रसंग इति शंकते । न च तदिति । विचारप्राचीनमध्ययन गृहीत वेदांतजन्यज्ञानं तच्छब्दार्थः । विशेषणमभ्युपगम्याप्यति प्रसंगमाह । तथापीति । अप्रतिबद्धत्वमपि निवर्तक ज्ञानविशेषणमतो नोक्ताति प्रसंगोपीति समाधते । न सत्यपीति । ननु मननादेर्विक्षेप शब्दिता संभावनाविपरीतभावना निवृत्यर्थत्वे यस्य विद्याधिकारिणो जन्मांतरीय मननादि सहित श्रवणानुष्ठानेन समस्ती विक्षेप दोषो निरस्तः तस्योपदेशमात्रेणापि सता निश्चयरूपमप्रतिबद्धं च ब्रह्मज्ञानं जायते । तथा च तस्येह जन्मनि श्रवणमननाद्यनुष्ठानं विनापि मूलाज्ञाननिवृतिः ब्रह्मापरोक्ष्यं च स्यादित्यत आह । भवांतरीयेति । तथा चेष्टापतिरितिभावः । अथैवमपीति । विक्षेपदोषनिवृत्यर्थमननाद्यपेक्षायामपीत्यर्थः । कृतनिदिद्ध्यासनस्याधिकारिणी घटादिध्यासनस्याधिकारिणो घटादिज्ञानेनापि मूलाज्ञननिवृतिः । किं न स्याद्घटादिवृतेरपि मूलाज्ञानविषयचैतन्यविष्यकत्वाविशेषादित्याक्षेपाभिप्रायः मूलाज्ञानघटज्ञानयोः समानविषयत्वमसिद्धमिति सिद्धांतितः शंकामनूद्यनिराकरोति । न च तस्येति । घटादिज्ञानस्येत्यर्थः । तत प्. ५७ब्) इति घटादिज्ञानादित्यर्थः । घटः सन्नित्याद्याकारायावृतेः ब्रह्मचैतन्यविषयकत्वाभ्युपगमो असिद्ध इति सिद्धांती शंकते । न च तत्रेति । तत्रेत्यादितछब्दत्रये घटादिपरं तस्येति ब्रह्मण इत्यर्थः । घटाद्यवछिन्नचैतन्यस्य घटादिवृतिविषयत्वं पूर्ववादी साधयति । तदभाव इत्यादिना । चैतन्यस्य घटादिवृतिविषयत्वा भावे सतीत्यर्थः । ननु यदि घटमात्रविषयकज्ञानेन घटावछिन्नचैतन्यविषयकाज्ञाननिवृतिर्न संभवति तयोः समानविषयकत्वाभावात् । तर्हि घटज्ञानेन सहाज्ञानस्य समानविषयकत्वसंपतये अज्ञानमपि घटादिजडमात्रविषय मे वास्तु नेत्याह पूर्ववादी । जड इति । जडस्य जडत्वादेवप्रमाणानवतारदशायामप्रकाशोपपत्या जडस्याप्रकाशार्यामावरणकल्पनायोगादित्यर्थः । कृत्यं फलं तथा च वेदांतजन्य ज्ञानवत् घटादिज्ञानस्यापि ब्रह्मचैतन्यविषयकत्वावश्यंभावेन मूलाज्ञानसमानविषयकत्वा तेनापि तन्निवृतिप्रसंग इति स्थितं । तत्र सिद्धांती शंकते न चेति ।। वेदांतजन्यसाक्षात्कारेपि तदभावात् । न हि तत्राखंडत्वमानंदत्वं वा कश्चिदस्तिप्रकारः वेदांतानां संसर्गागोचरप्रमाननकत्वलक्षणाखंडार्थत्वहानापतेः । न च वेदांतजन्यज्ञानादेव तन्निवृतिनियम इति वाच्यं । कॢप्ता प्. ५८अ) ज्ञाननिवर्तकत्व प्रयोजकरूपस्य ज्ञानांतरेपि सद्भावे तथा नियंतुमशक्यत्वात् । न च घटाद्याकारवृतिविषयस्यावछिन्नचैतन्यस्य कल्पितत्वेन यन्मूलाज्ञानविषयभूतं सत्यमनवछिन्नं चैतन्यं तद्विषयत्वाभावाद्घटादि वृतीनां निवर्त्यत्वाभिमता ज्ञानसमानविषयत्वलक्षणं कॢप्त प्रयोजकमेव नास्तीति वाच्यं । तत्रावछेदकांशस्य कल्पितत्वेप्यवछेद्यांशस्याकल्पितमूलाज्ञानविषयचैतन्यरूपत्वात् । तस्य कल्पितत्वे घटवज्जडतयाऽवस्थाज्ञानं प्रत्यपि विषयत्वायोगेनावस्थाज्ञानविषयाकल्पितचैतन्यविषयत्वस्य वक्तव्यतया तन्निवर्तक घटादिज्ञानस्यापि तद्विषयत्वावश्यंभवेन तत्पक्षेपि ततो मूलाज्ञाननिवृतिप्रसंगस्यापरिहरात् ।। तर्हि वेदांतजन्यज्ञानमपि ब्रह्माज्ञानविवर्तकं न स्यादिति पूर्ववादी दूषधाति । वेदांतजन्येति । अखंडत्व मनवछिन्नत्वं वेदांतजन्यज्ञानस्याखंडत्वादि धर्मवैशिष्ट्यावगाहित्वोपगमे बाधकमाह । वेदांनामिति मूलाज्ञाननिवर्तकत्वानस्य वेदांतजन्यत्वमपि विशेषणं विवक्षितमतो प्. ५८ब्) घटादिज्ञानेनाति प्रसंग इत्याशयवती माशंकामनूद्यदूषयति । पूर्ववादी । न च वेदांतेत्यादिना । वेदांतजन्यज्ञानकॢप्तस्य मूलाज्ञाननिवर्तकत्व प्रयोजक रूपस्य मूलाज्ञानसमानविषयकत्व सता निश्चयरूपत्वा प्रतिबद्धत्वलक्षणस्य निदिध्यासनपरिपाककाले चक्षुरादिजन्यघटादिज्ञानेपि सत्वे सति वेदांतजन्यज्ञानादेवमूलाज्ञाननिवृतिः । न तु घटादिज्ञानादिति नियंतुमयुक्तत्वात् । वेदांतजन्यत्वस्यापि सता निश्चयरूपत्वादेरिव प्रयोजक विशेषणत्वे गौरवान्मानाभावाच्चेतिभावः । तर्हि वेदांतजन्यज्ञाने कॢप्तं यत्प्रयोजकं तदेव घटादिज्ञाने नास्तीति शंकते । न च घटाद्याकारेति । अवछिन्नत्वं कल्पितत्वे हेतुः । अनवछिन्नत्वं सत्यत्वे हेतुः घटादिवृर्तानां कल्पितचैतन्यविषयकत्वेन सत्य ब्रह्मविषयकत्वाभावादित्यर्थः । घटाद्यवछिन्नचैतन्यं क कल्पितमित्यत्र चैतन्यांशस्याकल्पितत्वं कल्पितत्वं वा विवक्षितं नाद्य इत्याह । तत्रेति । अवछिन्नचैतन्य इत्यर्थः । अवछेद्यचैतन्यांशस्य घटादिवृतिविषयस्याकल्पितं यन्मूलाज्ञानविषयब्रह्मचैतन्यं तद्रूपत्वादित्यर्थः । तथा च घटाद्यवछिन्नचैतन्यगोचरवृतेरपि निवर्त्यत्वाभिमतमूलाज्ञान समानविषयकत्वरूपं वेदांतजन्यज्ञाने कॢप्तं प्रयोजकमस्तीतिभावः । द्वितीय कल्पेपि घटादिवृतौ कॢप्त प्रयोजकमस्तीति दर्शयन् । तं कल्पं दूषयति । तस्य कल्पितत्व इति । अवछेद्यचैतन्यांशस्येत्यर्थः । वक्तव्य तयेति अवछेद्यचैतन्यांशस्य कल्पितत्वपक्षे तस्य जडत्वापत्या प्. ५९अ) जडस्य तस्याज्ञानविषयत्वासंभवादवस्थाज्ञानं प्रतिमूलाज्ञानविषय ब्रह्मचैतन्यमेव विषय इति वक्तव्यं निर्विषयाज्ञानासंभवात् । तथा च ब्रह्मचैतन्यविषयकावस्थाज्ञाननिवर्तकत्वाय घटादिवृती नामपि मूलाज्ञानविषयब्रह्मचैतन्यविषयकत्वमपरिहार्यं घटादि वृतीनां सत्यब्रह्मविषयकत्वाभावे अव आज्ञानेन सहसमानविषयकत्वाभावातासामवस्थाज्ञाननिवर्तकत्वं न स्यादित्यर्थः । तन्निवर्तकेति । अवस्थाज्ञानं तच्छब्दार्थः तद्विषयत्वेति मूलाज्ञानविषयब्रह्मचैतन्यं तछब्दार्थः तत्पक्षेपीति अवछेद्यांशस्य कल्पितत्वमिति द्वितीय कल्पेपीत्यर्थः । तत इति घटादिज्ञानादित्यर्थः । अपरिहारादिति । घटादिज्ञानस्यापि वेदांतजन्यज्ञानस्येव मूलाज्ञानसमानविषयकत्वादितिभावः ।। अत्राहुराचार्याः । न चैतन्यं चक्षुरादिजन्यवृतिविषयः न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनं परां विखानिव्यतृणत् स्वयंभूस्तस्मात्पराऽऽन्पश्यति नांतरात्मन्नित्यादि श्रुत्या तस्य परमाण्वादि वच्चक्षुराद्ययोग्यत्वोपदेशादौपनिषदमिति विशेषणाच्च । न च सर्वप्रत्ययवेद्येवा ब्रह्मरूपे व्यवस्थित इत्यादि वार्तिक विरोधः । तस्य घटाघाकार वृत्युदये सत्यावरणाभि भवात् । स्वप्नभं प्. ५९ब्) सद्रूपं ब्रह्मघटः सन्निति घटवद्व्यवहार्यं भवतीत्यौपचारिक घटादि वृति वेद्यत्व परत्वात् । आवरणांभिभावकत्वं च घटादिज्ञानस्य घटादिविषयत्वादेवोपपन्नं घटादेरप्यज्ञानविषयत्वात् । घटं न जानामि घटज्ञानेन घटाज्ञानं नष्टमित्यवस्थाज्ञानानां घटादिविषयत्वानुभवात् । न च तत्रावरण कृत्याभावादज्ञानांगीकारो न युक्तः । तद्भासकस्य तदवछिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपतेरिति वाच्यं ।। अत्राहुरिति । घटादिज्ञानमपि मूलाज्ञाननिवर्तकं स्याच्चैतन्यविषयकत्वाद्वेदांतजन्य ज्ञानवदिति चोद्ये हेत्व सिद्धिमाहरित्यर्थः । अस्यात्मनो रूपं संदृशे संदृशश्चक्षुषो योग्यत्वेन न तिष्ठति रूपादि हीनत्वात् । अतो न कश्चिदेनमात्मानं चक्षुषा पश्यति परांविपराग्विंषयाणिखानि इंद्रियाणि व्यतृणत् हिंसितवान् । ईश्वरः जडार्थ विषयत्वे नैवकरणानि सृष्टवानिति यावत् । तस्मात् तथा सृष्टत्वात्पराऽऽन्परां चं सर्वलोक इंद्रियैरुपलभते । न अंतरात्मानं चैतन्य स्वभावमित्यर्थः । न चक्षुषा गृह्यत इत्यादि श्रुतिरादिपदार्थः । तस्येति चैतन्यस्येत्यर्थः । ननु यदींद्रिया योग्यत्वोपदेशाब्दपनिषदेक गम्यत्व श्रवणाच्च प्. ६०अ) चैतन्यं घटादिवृतिविषयोनुभवमीत्युपेयते तर्हि वार्तिक विरोध इति शंकते । न च सर्वेति । यद्यद्वस्तु प्रतीयते तत्सर्वं सदित्येव प्रतीयते तथा चानुभव वलात्सद्रूपं ब्रह्मसर्वप्रत्यय वेद्यतया व्यवस्थितमित्यर्थः । चैतन्यस्य सर्वप्रत्यय वेद्यत्वं गौणमेव वार्तिककाराणामभिमतं न घटादिवन्मुख्यं उदाहृत श्रुतिविरोधात् । तथा च न वार्तिक विरोध इति समाधते । तस्येति वार्तिक वचनस्येत्यर्थः । यथा घटस्य घटगोचरवृत्यधीनव्यवहारविषयत्वं तथा घटाद्यधिष्ठानसद्रूपब्रह्मणोपि घटादिवृत्यधीन व्यवहारविषयत्वमस्तीत्यनेन गुणै न सद्रूपं ब्रह्मघटादि प्रत्यय वैद्यमिति वार्तिककारैरुच्यत इत्यर्थः । न चैवं परोक्षवृतिविषयेष्टावरणानुभिभवादुक्त गतिस्तत्र न संभवतीति वाच्यं । वार्तिके प्रत्यय पदस्यावरणाभिभावकवृति परत्वोपपतेरितिभावः । ननु घटादिवृतेर्घटाद्यवछिन्नचैतन्यविषयकत्वाभावे चैतन्यावरकाज्ञानाभिभावकत्वं न संभवति ज्ञानाज्ञानयोः समानविषयकत्वाभावादित्यत आह । आवरणाभिभावकत्वं चेति जडस्याप्यज्ञानविषयत्वमनुभवबलात् स्वीकार्यमित्याह । घटादेरपीति । अवस्था पदं मूलाज्ञानव्यवछेदाय तस्य ब्रह्मनुजानामीति ब्रह्ममात्रविषयकत्वानुभवात् । न जडविषयत्वमितिभावः । न च तत्रेति । जडवस्तुतीत्यर्थः । न युक्त इति अज्ञानाश्रयत्वं जडेन युक्तं तत्रावरणाभावत् । तदभावश्च फलाभावादित्यर्थः । घटं न जानामीत्यनुभवस्तु घट तदधिष्ठान चैतन्ययोस्तादात्म्याच्चैतन्यविषयकत्वेनाप्युपपद्यत प्. ६०ब्) इति भावः । ननु जडस्यावरणाभावे कथं तदप्रकाशः संभवति । न च तत्प्रकाशकचैतन्यसंसर्गाभावादेवाप्रकाशो न त्वावरण बलादिति वाच्यं । जडस्य स्वप्रकाश चैतन्ये अध्यस्ततया तस्य सदावभासकचैतन्यसंसर्गसत्वादतो जडस्याप्रकाश एव जडावरणफलमित्यत आह । तद्भासकस्येति । अत्र तच्छब्दत्रयं जडपरं ।। उक्त भंग्याजडस्य साक्षादज्ञानविषयत्व प्रतिक्षेपेपि जडावछिन्नचैतन्यप्रकाशस्याज्ञानेनावरणं ततो नित्यचैतन्यप्रकाशसंसर्गेपि जडस्य नास्ति न प्रकाशत इत्यादि व्यवहारयोग्यत्वमिति परंपरयाऽज्ञानविषयत्वाभ्युपगमात् । साक्षात्परंपरया वा यदज्ञानावरणीयं तद्विषयस्यैव ज्ञानस्य तदज्ञाननिवर्तकत्व प्रयोजक शरीरे निवेशात् । न चैवं घटादीनामुक्तरीत्यामूलाज्ञानविषयत्वमपि स्यादिति घटादिसाक्षात्कारादेव मूलाज्ञाननिवृत्यापातः फलबलातदज्ञानकार्यातिरिक्त तद्विषय विषयकत्वस्यैव तन्निवर्तकत्वे तंत्रत्वात् ।। उक्त भंग्येति । तत्रावरणकृत्याभावादज्ञानांगीकारो न प्. ६१अ) युक्त इति वाक्येन जडे साक्षादज्ञानाश्रयत्वस्य साक्षादज्ञानविषयत्वस्य च प्रतिक्षेपेपीत्यर्थः । ननु तद्वाक्यस्य जडे साक्षादज्ञानविषयत्व प्रतिक्षेपपरत्वं किमिति कल्पते साक्षात्परंपरा साधारणाज्ञानविषयत्व मात्रप्रतिक्षेपपरत्वं संभवादित्याशंक्य तथा सति तद्भासकस्य तदवछिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपतेरित्युतर वाक्येन जडेपि परंपरयाज्ञानविषयत्वाभ्युपगमविरोधप्रसंगादित्याशयेनाह । जडावछिन्नेत्यादिना शंका ग्रंथे तदप्रकाशोपपतेरित्यनेनांशेन जडे अस्ति । प्रकाशते प्रियं चेत्येवमात्मकव्यवहारायोग्यत्वलक्षणमावरणमभ्युपगतं चैतन्यस्यावरणादेवेत्यनेनांशेन जडावरणस्य कारणत्वेन चैतन्यावरणमभ्युपगतमिति प्रतिपादयति । अज्ञानेनेति तत इति चैतन्यावरणादित्यर्थः । चैतन्यस्य स्वप्रकाशतया तस्य यथा सदा प्रसक्तप्रकाशत्वमावरणकल्पकमस्ति तथा जडस्यापि सदा चैतन्यप्रकाशसंसृष्टतया सदा प्रसक्तप्रकाशत्वमावरणकल्पकं तुल्यमिति सूचयति । नित्यचैतन्यप्रकाशसंसर्गेपीति । इति शब्दः प्रकारवचनः ननूक्तरीत्यावछिन्नचैतन्यनिष्ठमवस्थाज्ञानं जड तदवछिन्नचैतन्ययोरुभयोरप्यावरकमिति लभ्यते । तथा च घटादिज्ञानस्य जडमात्रविषयकत्व स्वीकारेण तस्याज्ञानेन सह सर्वाशे समानविषयकत्वाभावादज्ञाननिवर्तकत्वं न स्यादित्यत आह । साक्षादिति । ज्ञानस्याज्ञानसमानविषयकत्वमात्रं विरोधप्रयोजक शरीरे प्. ६१अ) प्रविष्टं न तु सर्वांशेषि समानविषयकत्वं गौरवादितिभावः । न चैवमिति । ज्ञानाज्ञानयोः सर्वांशे समानविषकत्वानादर इत्यर्थः । उक्तरीत्येति । अवछिन्नचैतन्यस्य स्वरूपेण सत्यतया ब्रह्मस्वरूपस्यावस्थाज्ञानविषयत्ववत् मूलाज्ञानविषयत्वमप्यस्ति । तथा चावस्थाज्ञानकृतचैतन्यावरणबलाज्जडस्यापि परंपरयावस्थाज्ञानविषयत्वमित्युक्तरीत्या मूलाज्ञानकृतचैतन्यावरणबलात् । मूलाज्ञानविषयत्वमपि जडस्य घटादेरपरिहार्यं स्यादित्यर्थः । ततः किं तत्राह । घटादीति । यथा अवस्थापरं ज्ञानं प्रतिपरयाविषयभूत जडसाक्षात्कारादेवावछिन्न चैतन्यनिष्ठावस्थाज्ञानस्य निवृतिस्तथा मूलाज्ञानप्रत्यपि परंपरयाविषयभूत जडसाक्षात्कारादेव मूलाज्ञानस्यापि निवृत्यापात इत्यर्थः । मूलाज्ञाननिवृत्यापातो न चेत्यत्र हेतुमाह । फलबलादित्यादिना । घटादिसाक्षात्कारे सत्यपि मूलाज्ञानानुवृतिरूपफलबलादित्यर्थः । मूलाज्ञान तत्कार्यातिरिक्तो यो मूलाज्ञानविषयश्चिन्मात्रं तद्विषयकत्वख्यैवज्ञाने मूलाज्ञाननिवर्तकत्वे तंत्रत्व कल्पनात् । घटादिसाक्षात्कारे च तदभावान्न मूलाज्ञाननिवर्तकत्वापात इत्यर्थः ।। अथ वा मूलाज्ञानस्यैव जडं न विषयः अवस्था ज्ञानानां त्ववछिन्नचैतन्याश्रितानां तत जडमेव विषयः अन्यथा चाक्षुषवृत्याचंदनखंडे चैतन्याभिव्यक्तौ तत्संसर्गिणो गंधस्यापरोक्ष्यापतेः । प्. ६२/६३अ) तदनभिव्यक्तौ चंदन तद्रूपयोरप्यप्रकाशापतेः । न च चाक्षुष वृत्याचंदन तद्रूपावछिन्न चैतन्ययोरभिव्यक्त्यातयोः प्रकाशः गंधाकारवृत्यभावेन गंधावछिन्नचैतन्यस्यानभिव्यक्त्या तस्यानभिव्यक्त्या तस्याप्रकाशश्चेति वाच्यं । चैतन्यस्य द्विगुणीकृत्यवृत्यभावेनैक द्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक् पृथक् गगनावछेदकत्वस्येव चैतन्यावछेदकत्व स्याप्यसंभवा तेषां स्वाश्रय द्रव्यावछिन्नचैतन्येनैव शुक्तीदमंशावछिन्नचैतन्येन शुक्तिरजतवत्प्रकाश्यतया तस्याभिव्यक्तौ गंधस्यापि प्रकाशस्याऽनभिव्यक्तौ रूपादेरप्यप्रकाशस्या चापतेः । न च गंधाकारवृत्युपरक्त एव चैतन्ये पंधः प्रकाशत इति नियमः ।। जडमात्रगोचरवृत्या कथमवछिन्नचैतन्यावरकाज्ञाननिवृतिर्भिन्नविषयत्वादिति शंकायामवस्थाज्ञानमवछिन्नचैतन्यावरणद्वारा जडमप्यावृणोति अतो जडमात्रगोचरयापि वृत्या अवस्थाज्ञान निवृतिः संभवतीति प्रतिपादितमिदानीं तस्यामेव शंकायां प्रकारांतरेण समाधानं दर्शयति । अथवेति । अथवा अवस्थाज्ञानानां ततज्जडमेव विषय इति संबंधः । घटं न जानामीत्यादि पूर्वोक्तानुभवादेवेति प्. ६२/६३ब्) भावः । तर्ह्यवस्थाज्ञानानामाश्रयोपि तत्तज्जडमेवस्या तथा चाप सिद्धात इत्यत आह । अवछिन्नचैतन्याश्रितानामिति । ननु जडस्याज्ञानविषयत्वोपगमे जडमज्ञानस्य विषयो न भवतीति सिद्धांतस्य का गतिरित्यत आह । मूलाज्ञानस्यैवेति । जडस्याज्ञानाविषयत्व सिद्धांतो मूलाज्ञानमात्रविषय इति भावः । अन्यथेति । जडस्यानावृतत्वे इत्यर्थः । चंदनखंडगोचर चाक्षुष वृत्या तदवछिन्नचैतन्यमभिव्यज्यतेन वा आद्ये दोषमाह । तत्संसर्गिण इति । चंदननिष्ठगंधस्यापि चंदनस्येवापरोक्ष्यापतिरभिव्यक्ति चैतन्यसंसर्गित्वस्योभयत्राविशेषात् । जडस्यावृतत्वपक्षे तु नायं दोषः । चाक्षुषवृत्यागंधावरणानिवृतेरित्यर्थः । द्वितीये दोषमाह । तदनभिव्यक्ता इति । अप्रकाशापतेरिति । चंदनुगोचर चाक्षुषवृतिकाले चंदनदद्रूपप्रकाशाभावो निष्ठ इति भावः । चंदनखंडन घटपटादि द्रव्याणामिवैक द्रव्यवृतिगुणानामपि चैतन्यावछेदकत्वमस्तीत्यभिप्रेत्याशंकते । न चेति । एकत्रद्रव्ये रूपरसगंधादिभेदेन चैतन्यभेदो नास्ति मानाभावादित्याह । चैतन्यस्येति चैतन्यस्य निरवयवतया द्रव्ये द्रव्यावछेदेनैकागुणावछेदेनापरावृतिर्न संभवतीत्यर्थः । यद्येक द्रव्ये प्रदेशभेदेन गंधादयः स्युः तदा तत्र दव्ये गंधादिभेदेन चैतन्यभेदशंकापि स्यात् । न त्वेतदस्ति गंधादीनां व्याप्यवृतित्वानुभवादित्याशयेनाह । व्याप्येति । यथा घटादिद्रव्याणां गगनभेदकत्वमस्ति तथा गंधादीनां गगनभेदकत्वं नास्ति गंधादिभेदेन गगनभेदा ननु प्. ६४अ) भवादितिभावः । गंधादिभेदेन चैतन्यभेदाभावे सिद्धे चंदनचैतन्याभिव्यक्त्यनभिव्यक्तिकृतौ पूर्वोक्त दोषौ दुष्परिहरावित्याह । तेषामिति । शुक्तीति यथा शुक्तीदमंशावछिन्नचैतन्ये रजतस्याध्यासात् रजतं शुक्तीदमंश चैतन्येवावभास्यं नत्विदमंशावछिन्नचैतन्यापेक्षया पृथग्भूतेन स्वावछिन्नचैतन्येनावभास्यं तथा द्रव्यावछिन्नचैतन्ये कल्पितारूपादयोपि द्रव्यावछिन्नचैतन्येनैव प्रकाश्या इत्यर्थः । ननु चंदनगंधस्याभिव्यक्तचैतन्यप्रकाशसंसृष्टस्यापि गंधगोचरवृत्यभावादेवापरोक्ष्याभाव इति शंकामनूद्यनिराकरोति । न च गंधाकारेति ।। प्रकाशसंसर्गस्यैव प्रकाशमानशब्दार्थत्वेनासत्यामपि तदाकारवृतावनावृत प्रकाशसंसर्गेऽप्रकाशमानत्वकल्पनस्य विरुद्धत्वात् । अभिव्यक्तस्य च गंधोपादानचैतन्यस्य गंधासंसर्गोक्त्य संभवात् । तस्माद्यथा चैत्रस्य घटवतौ तं प्रत्यावरकस्यैवाज्ञानस्य निवृतिरिति तस्यैव विषयप्रकाशो नान्यस्य तथा तत्तद्विषयाकारवृत्यात तदवरकाज्ञानस्यैव निवृतेर्न विषयांतरस्यापरोक्ष्यमनावृत्तार्थस्यैव संविदभेदापरोक्ष्यमित्युपगमादिति प्रमातृभेदेनवविषयभेदेनाप्येकत्र प्. ६४ब्) चैतन्येवस्थाज्ञानभेदस्य वक्तव्यतयावस्थाज्ञानानां तत्तज्जडविषयकत्वमिति घटादिवृतीनां नावस्थाज्ञाननिवर्तकत्वे काचिदनुपपतिर्न वा मूलाज्ञाननिवर्तकत्वापतिः ।। नियमो न चेत्यत्र हेतुमाह । प्रकाशसंसर्गस्यैवेति । न तु वृत्युपहितानावृतप्रकाशसंसर्गस्य प्रकाशमानशब्दार्थत्वं सुखादिगोचरवृत्यनुयद्रित साक्षिप्रकाशसंयसर्गिणि सुखादौ प्रकाशमान शब्दार्थत्वाभावप्रसंगादित्यर्थः । गंधस्याभिव्यक्तचैतन्य संसर्ग एव नास्तीत्याशंक्याह । अभिव्यक्तस्य चेति चकारस्यासंभवादित्यनेन संबंधः उपादान पदमधिष्ठान परं । असंभवादिति । तथा च जडस्यानावृतत्वपक्षे चंदनचैतन्याभिव्यक्तिदशायां गंधस्याप्यापरोक्ष्यापतिरपरिहार्येति भावः । जडस्यावृतत्वपक्षे तु नोक्तदोषप्रसक्तिरित्याह । तस्मादिति । जडे आवरणस्य सिद्धत्वादित्यर्थः । ननु जडस्यावृतत्वपक्षेपि चंदनगोचरचाक्षुष वृत्यैव गंधावरणस्यापि निवृतिः स्यात् । गुणगुणिनोस्तादात्म्यात् । तथा च चंदनापरोक्ष्यदशायां तद्गंधां परोक्ष्यदोषोऽत्रापि तुल्य इति शंकां दृष्टांतेन परिहरति । यथेति । नान्यं प्रत्यावरकाज्ञानस्यापि निवृतिरित्येवकारार्थः । तस्यैवेति । चैत्रस्यैव घटप्रकाशो नान्यस्य मैत्रादेरित्यर्थः । तथेति गुणगुणिनोस्तादात्म्येपि भेदस्यापि सत्वात् न चंदनगोचरवृत्यागंधादेरापरोक्ष्यप्रसक्तिरित्यर्थः । प्. ६५अ) ननु चंदन संविदभिन्नस्य गंधस्यावृतस्यापि कथं नापरोक्ष्यमित्याशंक्यानावृत् सुखादावेव संविदभेदस्यापरोक्ष्य प्रयोजकत्वदर्शनान्मैवमित्याह । अनावृतार्थस्यैवेति । नन्वेकत्रचंदनावछिन्नचैतन्ये अवस्था ज्ञानस्य चैत्रं प्रतिचंदनावरकस्यैकत्वा तस्य च चंदनगोचरवृत्यानिवृतत्वाच्चंदनवृतिकाले गंधस्यावरणमयुक्तमित्याशंकां निराकरोति इति प्रमातृभेदनेवेति । यथा प्रमातृविषये चैत्रमैत्रादिभेदेनाज्ञानमनेकमस्ति तथा एकत्रापि चंदनावछिन्नचैतन्ये गंधादिविषयभेदेनाप्यज्ञानमनेकमस्तीति वक्तव्यं चंदनापरोक्ष्यदशायां गंधापरोक्ष्यादर्शनादेवेत्ययं हेतुः प्रकृतपरामर्शिनेति पदेन समर्प्यते । तथा च चंदनापरोक्ष्यकाले गंधादेरावरणसंभवात्नोक्तदोष इति भावः । जडविषयकत्वमितीति । जडविषयकत्वादित्यर्थः । न काचिदनुपपतिरिति । घटादिवृतीनां चैतन्यविषयकत्वाभावे ज्ञानाज्ञानयोः समानविषयकत्वरूपं विरोधप्रयोजकं न भवति । तासां जडमात्रगोचरत्वादज्ञानस्य च चैतन्यमात्रविषयकत्वादिति पूर्वोक्तानुपपतिर्नास्ति स्वस्थाज्ञानस्यापि जडमात्रविषयकत्वाभ्युपगमात् । तथा जडस्यावरणाभ्युपगमेपसिद्धांतापति रूपानुपपतिरपि नास्ति जडावरणानभ्युपगमस्य मूलाज्ञानविषयत्वात् । तथा च ततज्जडावरकाज्ञान नानात्वाभ्युपगमे तदेकत्व सिद्धांतविरोधरूपानुपपतिरपि नास्ति तदेकत्वाभ्युपगमस्यापि मूलाज्ञनविषयत्वात् । जडावरकाज्ञानानां प्. ६५ब्) चावस्थारूपत्वादित्यादिकमभिप्रेत्य न काचिदनुपपतिरित्युक्तं । परमप्रकृतमाह । न चेति । घटादिवृतीनामपि मूलाज्ञाननिवर्तकत्वापतिरिति यत्पूर्ववादिनश्चोद्यमादौ प्रकृतं तन्नास्त्येव घटादिवृतीनां मूलाज्ञानविषयचैतन्यविषयकत्वानभ्युपगमादित्यर्थः ।। न चैवमपि जीवविषयाया अहमाकारवृतेर्मूलाज्ञाननिवर्तकत्वापतिस्तस्याः स्वयं प्रकाशमानचित्संवलिताऽचिदंशमात्रविषयत्वात् । सोहमिति प्रतिभिज्ञाया अपि स्वयं प्रकाशचैतन्येतःकरणवैशिष्ट्येन सह पूर्वापरकालवैशिष्ट्यमात्रविषयत्वेन चैतन्यविषयत्वाभावादिति । केचित्तु घटादिवृतीनां ततदवछिन्नचैतन्यविषयत्वमभ्युपगम्य सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् । श्रोतव्येति वचः प्राहवेदांतावरुरुत्सयेति वार्तिकोक्तेः श्रोतव्यवाक्यार्थवेदांतनियमविध्यनुसारेण वेदांतजन्यमेव नियमादृष्ट सहितं ब्रह्मज्ञानमप्रतिबद्धं ब्रह्मज्ञाननिवर्तकमिति न घटादिज्ञाना तन्निवृतिप्रसंग इत्याहुः । अन्ये तु तत्वमस्यादिवाक्यजन्यं जीव ब्रह्मा प्. ६६अ) भेदगोचरमेव ज्ञान मूलाज्ञाननिवर्तकं मूलाज्ञानस्य तदभेदगोचरत्वादिति न चैतन्य स्वरूपमात्रगोचराद्घटादि ज्ञाना तन्निवृति प्रसंगः ।। न चैवमपीति घटादिवृतीनां चैतन्यविषयकत्वाभावेप्यहमर्थरूप जीवस्य विदचित्संबलितरूपतया अहं वृतेः चैतन्य विषयकत्वावश्यंभावादित्यर्थः । तस्या इति स्वप्रकाशतया स्वयमेव प्रकाशमानायां चिति संबलितः चितादात्म्येनाध्यस्तो यो यमचिदंशः तन्मात्रविषयकत्वादहमाकारवृतेर्न चैतन्यविषयकत्वमौपनिषदत्व श्रुतिविरोधादेवेत्यर्थः । ननु योहं स्वप्ने श्रीकृष्णमन्वभूवं सोहं जागरे तं स्मरामीत्यादि प्रत्यभिज्ञायाश्चैतन्यविषयकत्वमावश्यकमन्यथा तया चिदात्मनः स्थायित्वं संघातव्यतिरिक्तत्वं च न सिध्येदित्यत आह । सोहमिति । प्रत्यभिज्ञापि स्वयमेव प्रकाशमाने चैतन्ये अहमित्यंतःकरण तादात्म्यमिवततादिवैशिष्ट्यमपि विषयी करोति । न तु स्वप्रकाशचैतन्यमस्मिन्मते चिदात्मनः स्थापित्वादेः श्रुतिवलादेव सिद्धेः न प्रत्यभिज्ञाया इति बोध्यं घटादिवृतीनामपि चतन्यंविषयकत्वाविशेषाद्वेदांतजन्य ज्ञानवन्मूलाज्ञाननिवर्तकत्वापतिरिति चोद्ये हेतोरेवासत्वात् नोक्ताति प्रसंग इति समाधानमुक्तमिदानीं तासां चैतन्यविषयकत्वाभ्युपगमेपि नोक्ताति प्रसंग इत्याह । केचित्विति । अभ्युपगम्येति । न चैवमभ्युपगमे चैतन्यस्य चक्षुरादिविषयत्वनिषेधश्रुतिनां बाधः स्यादिति वाच्यं तासां निरुपाधिक प्. ६६ब्) चैतन्यविषयत्वाभ्युपगमेनावछिन्नचैतन्यस्य चक्षुरादिवृतिविषयत्वे तद्विरोधाभावादिति भावः । अत एव ब्रह्मचैतन्यस्य सर्वप्रत्यय वेद्यत्वप्रतिपादकं पूर्वोदाहृत वार्तिकवचनमपि संगछते । अज्ञातज्ञापकत्वं हि प्रामाण्यं अज्ञातं च वस्तुचैतन्यमेव तस्यैव स्वप्रकाशतया सदाप्रसक्तप्रकाशस्याज्ञानविषयत्वकल्पनौचित्यात् । अवभासकचैतन्यस्यावरणे सति जडानवभाससंभवेन तस्य पृथगावरणकल्पनायोगादज्ञानस्य चैतन्याश्रितत्वनियमेन तस्य तमस इव स्वाश्रयादन्यत्रावरण हेतुत्वानुपपतेश्च तथा च प्रत्यक्षादीनामपि प्रामाण्यसिद्धये घटाद्यवछिन्नचैतन्यविषयकत्वमेव स्वीकर्तव्यं न तु जडमात्रविषयकत्वमेवं सर्वेषामेव मानानां फलशब्दित चैतन्यविषयकत्वादमृतत्वसाधने ब्रह्मदर्शने सर्वेषां मानानांकारणत्वप्रसक्तौ वेदांतानामेवावरोधे छयानियमनेछया श्रोतव्येति वचःवेदांतानामेव विचारः कर्तव्य इत्यमुमर्थं प्राहेति वार्तिकार्थः घटादिवृतीनां तु चैतन्यविषयकत्वेपि वेदांतजन्यत्वाभावेन श्रोतव्यविधिसिद्धनियमादृष्टसाहित्याभावान्न मूलाज्ञाननिवर्तक प्रसंग इति भावः । अप्रतिवद्धमिति । नियमादृष्टेन प्रतिबंधक दुरितस्य क्षीणत्वादिति भावः । तत्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनमिति नारदवचन दर्शनात् । तत्वमस्यादि वाक्योत्थं यज्जीवपरमात्मनोः तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनमिति भगवत्पादीयवचनदर्शनाच्च मूलाज्ञानस्य जीवब्रह्माभेदावरकत्वाच्च जीव ब्रह्मणोरैक्यलक्षण तादात्म्यविषयकं यद्ज्ञानमिदमेव प्. ६७अ) मुक्तिसाधनमत्वो नोक्ताति प्रसंग इति समाधानांतरं दर्शयति । अन्ये त्विति । इतीति वाक्यजन्याभेदज्ञानमेवाज्ञाननिवर्तकमिति स्थिते तदभेदागोचरात् घटादिज्ञानात्न मूलाज्ञाननिवृति प्रसंग इत्यर्थः ।। न चाभेदस्य तत्वावेदकप्रमाणबोध्यस्य चैतन्यातिरेके द्वैतापतेश्चैतन्यमात्रमभेद इति तद्गोचरघटादिज्ञानमप्यभेदगोचरमिति वाच्यं । न ह्यभेदज्ञानमितिविषयतो विशेषं ब्रूमः किंतु ।। न चेति । जीवब्रह्माभेदः चैतन्यापेक्षयातिरिक्त इति वक्तुं न शक्यते तथा सति वेदांत तात्पर्यगोचरस्याभेदस्य सत्यत्वावश्यंभावेन चैतन्यस्याद्वितीयत्वहानापतेर्वेदांत तात्पर्यविषयस्याभेदस्यासत्यत्वे वेदांतानां तत्वावेदकत्वलक्षणस्य प्रामाण्यस्य सिद्धांत संमतस्य भंगापतेरित्यर्थः । अत्र तत्पदं परमार्थ वस्तुपरं नहीति । घटादिज्ञाने चैतन्यविषयकेपि जीवब्रह्माभेदो न विषयः महावाक्यार्थज्ञाने तु तयोरभेदो विषय इत्येवं घटादिज्ञानापेक्षया महावाक्यजन्य ज्ञानस्य विषयतो विशेषं न ब्रूमः । यं नोक्तदोष तादवस्थ्यं स्यादित्यर्थः । न त्विदं रजतमिति भ्रमे यावानधिष्ठानाशोभासते तावदपेक्षया अधिकप्युक्तित्वादिविशेषविषयकस्य शुक्त्यादि ज्ञानस्य रजतादिभ्रमविरोधित्वं दृष्टं तथा च सन्घटः प्. ६७ब्) स्फुरति घट इत्यादि भ्रमेषु यावदधिष्ठानभूतं चैतन्यं विषयः तावदपेक्षया अधिकाभेदविषयकत्वस्य वाक्यजन्य ज्ञानेऽनभ्युपगमे वाक्योत्थज्ञानस्य भ्रमनिवर्तकत्वमेव न स्यादतो विषयत्वो विशेषोभ्युपगंतव्य इति शंकते । किं त्विति भ्रमाधिकविषयाणामेव ज्ञानानां भ्रमनिवर्तकत्वमिति नियमो नास्ति भ्रमानधिकविषयाणामपि भ्रमनिवर्तकत्व दर्शनेन व्यभिचारात् । तथा हि वस्तुतो घोषाधारभूते गंगातीरे यस्य तटाकतीरत्व भ्रमैण तटाकतीरे घोष इति भ्रमोस्तितं प्रतिगंगायां घोष इति वाक्यप्रयोगे सति तस्माद्वाक्या तस्य पुरुषस्य गंगातीरे घोष इति बोधो जायते । तेन च बोधेन तस्य गंगातीरे तटाकतीरत्व भ्रमो निवर्ततेत च तत्र भ्रमविषयगंगातीरांशे भ्रमापेक्षया वाक्यजन्यबोधे कश्चिद्विशेषविषयो दृष्टः । न च तत्र वाक्यजन्य ज्ञाने तटाकतीर व्यावर्तकस्य गंगातीरत्व रूपविशेषस्य विषयत्वदर्शनाद्विशेषाविषयकत्वमसिद्धमिति वाच्यं । यत्र तीरत्व मात्रप्रकारक तात्पर्येण गंगायां घोष इति प्रयोगः । तथैव तस्य भ्रांतस्य तात्पर्य ग्रहश्च तत्र गंतातीरत्व प्रकारक बोधाभावेपि भ्रमनिवृतिदर्शनेन व्यभिचार ध्रौव्यात् । तथा येन केनचित् कपालेन तुषो एवापः कर्तव्य इति भ्रमवंतं पुरुषे प्रतिकपालत्वमात्रप्रकारक तात्पर्येण प्रयुक्ता तन्मात्र तात्पर्यवतया गृहीतात्पुरोडाशकपालेन तुषानु एवपतीति वाक्यात्कपालेन तुषोपवापः कर्तव्य इत्येव तस्य बोधो जायते तत्र कपालांशे कपालांतरव्यावर्तकविशेषाग्रहणेपि पुराडाशकपालातिरिक्तकपालेषु प्. ६८अ) तुषोपवाधसाधनत्व भ्रमनिवृतिदर्शनेन तत्रापि व्यभिचारात् । तस्मात् तीरे घोष इति शाब्दबोधस्य गंगातीरत्वरूपविशेषविषयकत्वाभावेपि तद्धेतु पदार्थोपस्थितिकाले तीरस्य गंगासंबधित्वेन उपस्थिति सत्वा तदुपस्थिति महिम्नावस्तुगत्यागंगातीरविषकस्य भ्रमानधिकविषयस्यापि तस्य भ्रमनिवर्तकत्वमिति वक्तव्यं । तथा कपालेन तुषोपवापः कर्तव्य इति शाब्दबोधस्य स्वयं कपालांतरव्यावर्तक विशेषविषयत्वाभावेपि तादृशशाब्दबोध हेतुपदार्थोपस्थितिकाले कपालस्य पुरोडाश संबंधित्वेन उपस्थिति सत्वा तदुपस्थिति महिम्ना तस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वमिति वक्तव्यं तथा च ज्ञानस्य भ्रमविरोधित्वे सामग्रीविशेषप्रयोज्यत्वं प्रयोजकं न तु भ्रमाधिकविषयत्वं व्यभिचारात् ।। तत्वं पद वाच्यार्थधर्मिद्वयपरामर्शादिरूपकारणविशेषाधीनेन स्वरूपसंबंधविशेषेण चैतन्यविषयत्वमेव तदभेदज्ञानत्वं यथा हि विशेषणविशेष्य तत्संबंधगोचरत्वा विशेषेपि विशेषेपि विशिष्टज्ञानस्य विशेषणज्ञानादिकारणविशेषाधिन स्वरूपसंबंधविशेषेण तत्त्रितयगोचरत्वमेव समूहालंबन व्यावृतं विशिष्टज्ञानत्वं यथा वा स्थाणुत्वविरुद्धपुरुषत्व वा नित्याहार्यव्यावृतं संशयत्वं प्. ६८ब्) विषयत्वं विषयतो विशेषानिरूपणात् । तथा घटादावपि सोयं घट इत्यादिज्ञानस्य स्वरूपसंबंधविशेषेण घटादिविषयत्वमेव लघटशब्दादिजन्य ज्ञानव्यावृतं तदभेदज्ञानत्वमतिरिक्ताभेदानिरूपणात् ।। किं च महावाक्यजन्य ज्ञानस्य संसारमूलभ्रमविरोधित्वं श्रुतिस्मृतिविद्वदनुभवैः सिद्धं महावाक्यानां च चैतन्य स्वरूपमात्र बोधकत्वं द्वितीयपरिछेदे मुक्तिसाधन महावाक्यजन्य ज्ञानं प्रतिचैतन्यमात्ररूपविषयनियामक श्रुत्युदाहरणेनास्माभिः साधितं प्रपंचितं च निबंधनेष्वे तत् तथा च शुक्तिरजतादि स्थले भ्रमाधिकविषयक शुक्तिज्ञानादौ भ्रमविरोधिनि भ्रमाधिकविषयत्वस्येव दोषाभावादि घटितसामग्री विशेषाधीनत्व स्यापि दृष्टत्वेनाखंडार्थक वेदांतानुसारेण पूर्वोदाहृत व्यभिचारस्थलानुरोधेन च ज्ञानस्य भ्रमविरोधित्वे सामग्री विशेषाधीनत्वमेवानुगतं प्रयोजकं कल्पयितुं युक्तं न तु भ्रमाधिकविषयत्वमित्यभिप्रेत्यमहावाक्यार्थज्ञानस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वं संभवतीति समाधते । तत्वमिति तत्वं पदयोर्वाच्यार्थ भूतौ जीवेश्वरावेव धर्मिद्वयं तस्य तत्वं पदाभ्यां प्रथमं शक्त्यास्मृतिरूपः परामर्शस्तदनंतरं तत्वं पदसमानाधिकरण्य बलात् । जीव प्. ६९अ) ईश्वराभिन्न इति तयोर्विशेषणविशेष्यभावेनावगतिः । तदनंतरं च विशिष्टयोरैक्यं न संभवतीति विरोधप्रतीतिः । तदनंतरं च तत्वं पदाभ्यां वाच्यार्थरूपविशिष्टांतर्गतयोर्विशेष्यचैतन्यांशयोरभेद योग्ययोलंक्षणया प्रतीस्ततश्च विशेष्य द्वयाभेदगोचरशाब्दबोध इति क्रममभिप्रेत्य आदिपदं वाक्यजन्यज्ञानस्य स्वविषयचैतन्येन सह यः स्वरूपसंबंधविशेषः सामग्रीविशेषाधीनत्व प्रयुक्तस्तेन संबंधेन चैतन्यगोचरत्वं घटज्ञानादि व्यावृतं तदेव तस्याभेदज्ञानत्वं तद्बलादेव तस्य मूलाज्ञानमिथ्याज्ञानादि विरोधित्वमित्यर्थः । महावाक्यजन्य ज्ञानस्य घटादिज्ञाना पेक्षया चैतन्यांशे विषयतो विशेषाभावेपि सामग्री विशेषा देवघटादिज्ञानापेक्षया अभेदज्ञानत्वरूपे वैलक्षण्यै दृष्टांतमाह । यथाहीति । विशिष्टज्ञानस्येति । दंडीपुरुष इति ज्ञानस्येत्यर्थः विशेषणविशेषण विशेष्ययोरसंसर्गाग्रह आदिपदार्थः समूहालंबनेति । दंडपुरुषसंयोगा इति ज्ञानं इत्यर्थः । तदुक्तं चिंतामणि क्र्ताकारणकृत इति विशिष्टज्ञानस्य समूहालंबनापेक्षया विशेषणज्ञानादिरूप कारणकृतो विशेष इति तदर्थः । स्थाणुत्वेति स्थाणुत्वविरुद्धपुरुषत्व वानिति निश्चयः संशयसमानविषयकोय आहार्यवृतिरूपः तद्व्यावृतमित्यर्थः विशेषदर्शनदशायामनाहार्यनिश्चया संभवादाहार्येत्युक्तं विषयत इति । विशिष्टज्ञाने स्थाणुः पुरुषोवेति संशये चेति शेषः । न केवलं तत्वमसि वाक्यजन्यज्ञानस्याभेदज्ञानत्वे इयं रीतिः सोयं प्. ६९ब्) घटः सोयं देवदत इत्यादिवाक्यजन ज्ञान्स्यापि केवल घटशब्ददेवदत शब्दादिजन्य ज्ञानव्यावृताभेद ज्ञानत्वेपीयंरीतिरनुसर्तव्येत्याह तथा घटादावपीति । अतिरिक्तेति । केवल घटशब्द देवदतशब्दादिजन्यज्ञानविषय घटस्वरूपापेक्षया सोयमित्यादिवाक्यगम्याभेदेस्यातिरिक्तत्वे मानाभावात् तथा च विषयतो विशेषाभावात् सोयं घट इत्यादावपि तत्वमसीत्यत्रेव सोयमिति पदद्वय वाच्यार्थरूपधर्मिद्वयपरामर्शादि रूपकारणविशेषाधीन स्वरूपसंबंधविशेषण घटादि स्वरूपविषयकत्वमेव घटाद्यभेदज्ञानत्वं नान्यदिति वक्तव्यमितिभावः ।। अभावसादृश्यादीनामधिकरण प्रतियोग्यादिभिः स्वरूपं संबंधयुक्तानामधिकरणेनाधाराधेय भावरूपस्वरूपसंबंधविशेषः प्रतियोगिना प्रतियोग्यनयोगिभावरूप इत्यादि प्रकारेण स्वरूपसंबंधेऽवांतरविशेषकल्पनवत् वृतीनां विषयेपि संयोग तादात्म्ययोरति प्रसक्त्याविषयैर्विषयविषयिभाव रूपस्वरूपसंबंधवतीनां विषयविशेषनिरूपणासंभवे । कॢप्त एव स्वरूपसंबंध अवांतरविशेषकल्पनेनाभेदज्ञानत्वादि परस्परवैलक्षण्य निर्वाहाच्च । प्. ७०अ) एवं च ब्रह्मज्ञानस्याभेदाख्य किंचित्संसर्गगोचरत्वानभ्युपगमान्न वेदांतानाम खेडार्थत्व हानिरपीत्याहुः ।। ननु केवल घटशब्दादिजन्यज्ञानस्यापि विषयेण स्वरूपसंबंध एव तथा च कथं स्वरूपसंबंधकृता अभेदज्ञानत्वादि व्यवस्था न च वृतिज्ञानानां विषयैः सह विषयविषयीभावप्रयोजक स्वरूपसंबंधानामविशेषेपि तेष्वेव विषय तद्ज्ञानस्वरूपात्म्क संबंधेषु सामग्री विशेषाधीनत्व प्रयुक्तं परस्य वैलक्षण्यकल्पनया व्यवस्थोपपादनं कर्तुं शक्यत इति वाच्यं । स्वरूपसंबंधेषु वैलक्षण्यस्य क्वाप्यदृष्टत्वेन तथा कल्पनानुपपतेरित्यत आह । अभाव सादृश्यादीनामिति । ननु वृतीनां विषयैः सह विषयविषयीभावः स्वरूपसंबंधकृत एव न भवति । किंतु संयोगादि कृतः तथा च तासां तैः सह स्वरूपसंबंधानामेवा सिद्धत्वात् । तेषु वैलक्षण्यात्मकविशेषकल्पनादूरापास्तेत्यत आह । संयोगेति । वृतिसंयोगस्य वृतिविषयत्वप्रयोजकत्वे चक्षुर्गोलकादेरपि घटादिवृतिसंयोगित्वेन तद्विषयत्वप्रसंगावृति तादातात्म्यस्य वृतिविषयत्वप्रयोजकत्वे वृत्यधिष्ठानतयोवृति तादात्म्यापन्नस्य घटाद्यवछिन्नचैतन्यस्य घटादिवृतिविषयत्वसंभवेपि घटादेर्वृति तादात्म्यरहितस्य तदविषयत्व प्रसंगा तद्वृतिपरिणाम्यतः करणस्य घटादिवृतिविषयत्वप्रसंगाच्च परिणाम प्. ७०ब्) परिणामिनोस्तादात्म्यादित्यर्थः । ननु तत्वमस्यादिवाक्यजन्यज्ञानस्य विषयेण सह यः स्वरूपसंबंधश्चैतन्य तद्गोचरज्ञानोभयस्वरूपात्मकः तत्र सामग्री विशेषवलादपि विषयस्वरूपात्मके संबंधे विशेषो निरूपयितुं न शक्यत इत्यत आह । विषयविशेषनिरूपणासंभवे इति । विषये निर्विशेष चैतन्यात्मके विशेषाधाना संभवेपि स्वरूपसंबंधांतर्गततया कॢप्त एव ज्ञानस्वरूपात्मके संबंधे सामग्री विशेष बलाद्विशेषाधान संभवान्नोक्तदोष इति भावः । यद्वा वृतीनां विषयेपि संयोग तादात्म्ययोरति प्रसक्त्याविषयविशेषनिरूपणासंभवे विषयैर्विषयविषयीभावरूपस्वरूप संबंधवती नामिति संबंधः । अभाव सादृश्यादीनामधिकरणादाविववृतीनामपि विषये संयोग तादात्म्ययोरति प्रसक्तत्वेन ताभ्यां वृतीं प्रतिविषयविशेषनियमनासंभवे सति परिशेषाद्विषयविषयीभावप्रयोजकस्वरूपसंबंधवतीनामित्यर्थः । रूपपदं नियामक परं विषयविषयिभावस्य स्वरूपसंबंध नियम्यत्वेन तयोरभेदस्य रूपशब्दार्थस्यायोगात् । ननु संयोग तादात्म्ययोर्विषयविशेषनियामकत्वाभावेपि वृतीनां विषये स्वरूपसंबंधत्वं परिशेषान्न सिध्यति स्वरूपसंबंधातिरिक्तस्य संबंधांतरस्य कल्पनोपपतेरित्यत आह । कॢप्त एवेति । स्वरूपसंबंधस्य वृत्यादि स्वरूपतया तस्य कॢप्तत्वात् । कॢप्त एव स्वरूपं बंधे विशेषकल्पनायां लाघवं संबंधांतर कल्पयित्वा तस्मिन् संबंधांतरे अभेदज्ञानत्वादि निर्वाहकविशेषकल्पनायां प्. ७१अ) गौरवं अतो वृतीनं विषयैः सह स्वरूपसंबंधत्वमेवेति भावः । ननु तत्वमसि वाक्यात् जीवस्य ब्रह्माभेदज्ञानोपगमे तदभेदस्यैव संसर्गविधयाभानाद्वेदांतानां संसर्गागोचर प्रमिति जनकत्वरूपा खंडार्थत्वाभ्युपगमहानिरित्ये तच्चोद्यं निरवकाशमित्याह । एवं चेति । महावाक्यजन्य ज्ञानगताभेदज्ञानत्वस्यान्यथोपपादितत्वेनाभेनाभेद- संसर्गभानानपेक्षायां सत्यामित्यर्थः । हानिरपीति । घटादि वृतीनां मूलाज्ञाननिवर्तकत्वापतिर्न्नास्ति । अखंडार्थत्वहानिश्च नास्तीत्यपि शब्दार्थः ।। ननु घटादिज्ञानवद्ब्रह्मज्ञानस्यापि न मूलाज्ञाननिवर्तकत्वं युक्तं निवर्तकत्वे तदवस्थानासहिष्णुत्वरूपस्य विरोधस्य तंत्र त्वात् कार्यस्य चोपादानेन सह तां दृशविरोधाभावादिति चेत्न कार्यकारणयोरन्यत्र तादृश विरोधादर्शनेप्येक विषयज्ञानाज्ञानप्रयुक्तस्य तादृश विरोधस्यात्र सत्वात्कार्यकारणयोरप्यग्नि संयोगपटयोस्तादृशविरोध दृष्टेश्च न चाग्निसंयोगे सत्यवयवविभागप्रक्रियया असमवायिकारणसंयोगनाशादेवपटनाशोनाग्निसंयोगादिति वाच्यं । दग्धपटेपि पूर्वसंस्थानानुवृतिदर्शनेन मुद्गरचूर्णीकृत घट वदवयवविभागा प्. ७१ब्) दर्शनात् । तत्रावयवविभागादिकल्पनाया अप्रामाणिकत्वात् नापि तत्र तंतूनामपि दाहेन समवापि कारण नाशात्पटनाश इति युक्तं अंशुतंत्वादिभिः सहयुगपदेव पदस्य दाहदर्शनेन क्रमकल्पनायोगात् । यतो नाधस्तादवयवनाशस्तत्रावयवेग्नि संयोगादेवनाशस्य वाच्यत्वात् । नन्वस्त्वेतदेवं तथापि सविलासाज्ञाननाशकमिदं ब्रह्मज्ञानं कथं नश्येत् नाशकांतराभावादिति चेत् ।। वेदांतजन्य ज्ञानस्यापि मूलाज्ञाननिवर्तकत्वमाक्षिपति । नन्विति तादृशेति । कार्यस्य लोके उपादान स्थिति विरोधित्वा दर्शनादित्यर्थः ब्रह्मगोचरवृतिप्रत्यंतःकरणस्यैव उपादानत्वेन तां प्रत्यज्ञानस्यानुपादानत्वात् । तन्निवर्तकत्वं संभवतीति मत्वाह । नेति । उपादानत्वमुपेत्याप्याह । कार्ययेति । उपादानोपादेययोर्निवर्त्यनिवर्तकभावप्रयोजकविरोधो नास्तीत्युत्सर्गः । स च ब्रह्मज्ञान तुदुपादानस्थले अपोद्यते निवर्तकभावप्रयोजकतया लोके कॢप्तसमानविषयज्ञानाज्ञान भावस्य विशेषरूपतया तेन सामान्यरूपस्य उपादानोपादेय भावप्रयुक्ताविरोधस्य बाधोपपतेरित्यर्थः । लोके उपादानोपादेययोर्निवर्त्यनिवर्तक भावप्रयोजक प्. ७२अ) विरोधादर्शनमसिद्धं चेत्याह । कार्यकारणयोरपीति । अग्निसंयोगरूपकार्यस्य स्वोपादानपटनाशकत्वदर्शनादित्यर्थः । ननु तत्राग्निसंयोगस्य नाशकत्वदर्शनं भ्रांतिरिति मत्वाशंकते । न चाग्नीति प्रक्रिपयेति । अग्निसंयोगातंतुषु क्रियाततस्तेषां विभागस्ततस्तेषां पटासमवायिकारणसंयोगनाशः ततः पटनाशः इति वैशेषिक प्रक्रिया तंतुषु विभाग प्रक्रियैव भ्रांति मूलेत्याह । दग्धपटेपीति । पूर्वसंस्थानसंयुक्तावस्था व्यतिरेक दृष्टांतमाह मुद्गरेति । यथा मुद्गर चूर्णीकृतस्य घटस्यावयवेषु विभागो दृश्यते । तथा पटदाहानंतरं दग्धतंतुषु विभागादर्शनेनेत्यर्थः । तत्रेति तंतुष्वित्यर्थः । वैशेषिक प्रक्रियांतरमपि भ्रांतिमूलमेवेत्याह । नापीत्यादिना तत्रेति पटदाहस्थल इत्यर्थः । अग्निसंयोगस्य क्वचिदुपादानद्रव्यनाशकताया आवश्यकत्वात् पटनाशकत्वमपि तस्यैवेत्याह । यत इति । यतो द्व्यणुकाधस्ताद्व्यणुकावयवस्य परमाणोर्न नाशः । तत्र द्व्यणुके विद्यमानादग्निसंयोगादेवतदुपादानभूतद्व्यणुकनाशस्य वाच्य त्वान्न च तत्रावयवविभागप्रक्रियया परमाणु द्वय संयोगनाशादेव द्व्यणुकनाश इति वाच्यं अवयवावयविविभागप्रक्रियाया निरस्तत्वात् । तथा चाग्निसंयोगस्य स्वोपादानपटनाशकशदर्शनं न भ्रांतिरिति भावः । नन्वस्त्वेतदेवमिति । एतद्ब्रह्मज्ञानमेवमंतःकरणद्वारा स्वोपादानाज्ञाननाशकमस्त्यित्यर्थः । तथापीति । ब्रह्मज्ञानस्य सविलासा प्. ७२ब्) ज्ञाननाशकत्वेपीत्यर्थः । सकार्याज्ञाननाशकस्याज्ञाननाशकाले अवशिष्यमाणस्य ब्रह्मज्ञानस्य नाशो न सिध्येत् स्वस्य स्वनाशकत्वायोगात् नाशकांतरानवशेषाच्चेत्यर्थः ।। यथा कतकरजः सलिले न संयुज्य पूर्वसंयुक्तरजोंतरविश्लेषं जनयत्स्वविश्लेषमपि जनयति । यथात्मन्यध्यस्य मानं ब्रह्मज्ञानं पूर्वाध्यस्त सर्वप्रपंच निवर्तयत् स्वात्मानमपि निवर्तयतीति केचित् । अन्ये त्वन्यन्निवर्त्य स्वयमपि निवृतौ दग्धलोहपीतांबुन्यायमुदाहरेति । अपरे त्वत्र दग्धतृणकूटदहनोदाहरणमाहः । न च ध्वंसस्य प्रतियोग्यतिरिक्त जन्यत्व नियमः । अप्रयोजकत्वात् । निरंधनदहनादि ध्वंसे व्यभिचाराच्च । न च ध्वंसस्य प्रतियोगिमात्रजन्यत्वेऽति प्रसंगात् । कारणांतरं अवश्यं वाच्यं । निरिंधन दहनादि ध्वंसेपि कालादृष्टेश्वरेछादिकारणांतरमस्तीति वाच्यं । अति प्रसंगापरिज्ञानात् । न च घटादिध्वंसस्यापि कारणांतरनिरपेक्षत्वं स्यदित्यति प्रसंगः ध्वंसमात्रे कारणांतरे नैरपेक्ष्याऽनभिधानात् प्. ७३अ) न च घटध्वंस दृष्टांतेन ब्रह्मज्ञानध्वंसस्य कारणांतरापेक्षासाधनं तद्दृष्टांतेन मुद्गरपतनापेक्षाया अपि साधनापतेः ।। प्रथमं ब्रह्मज्ञानव्यतिरिक्तस्य सकलस्य ब्रह्मज्ञानेन नाशः पश्चादवशिष्टस्य ब्रह्मज्ञानस्य नाशः इति क्रमोनोपेयते । किंतु ब्र * ज्ञानेन सविलासाज्ञाननाशकाले सविलासाक्षानेन सहैव ब्रह्मज्ञानस्यापि नाश इत्युपेयते ब्रह्मज्ञानस्यैव स्वनाशं प्रत्यपि हेतुत्वाभ्युपगमात् । न चैकस्यैव स्वपरविलापकत्वं न दृष्टमिति वाच्यं । कतकरजसिदृत्वादिति परिहरति । यथेति पूर्वेति । कतकरजः संयोगात्पूर्वं जलेन संयुक्तरजोंतरेर्जलस्य विश्लेषमित्यर्थः । पूर्वाध्यस्तेति ब्रह्मज्ञानाध्यासात्पूर्वेत्यर्थः । अन्येतिति । यथा वह्नितमलोहपिंडे प्रक्षिप्तमंबुलोहगतमग्निं नाशयदात्मानमपि नाशयति तथा ब्रह्मज्ञानमपीत्यर्थः । ब्रह्मज्ञानस्य स्वातिरिक्तं सर्वं निवर्तयतः । तदैव स्वस्यापि निवर्तने दग्धलोहेन पीतांबुरूपं दृष्टांतमुदाहरंतीत्यक्षरार्थः । अपरेतिति । यथा शुष्कतृणसमूहे प्रक्षिप्तो दहनस्तृणकूटं नाशयन्नात्मानमपि नाशयति तथा अज्ञान तत्कार्यसमुदाये समुत्पन्नो ब्रह्मप्रत्ययः तन्नाशयत् । आत्मानमपि नाशयतीत्यर्थः । ननु दग्धदाह्यदहनादि न्यायेन ब्रह्मज्ञाननाश इत्युपपादनमयुक्तं घटादिनाशे प्रतियोगि प्. ७३ब्) घटाद्यतिरिक्तमुद्गरपातादिकारणांतरदर्शनेन ध्वंसस्य प्रतियोग्यतिरिक्तकारणजन्यत्व नियमादितिशंकते । न च ध्वंसस्येति निरिंधनेति । इंधनानां निःशेषं नाशानंतरं दहनस्य स्वतरावनाशदर्शनेन निरिंधनदहनध्वंसे स्वापाव्यवहित पूर्वं कालीन ज्ञानादि ध्वंसे च प्रतियोगिमात्रजन्ये व्यभिचाराच्चेत्यर्थः । उक्तं व्यभिचारं पूर्ववादी परिहरति । निरिंधनेति । अति प्रसंगस्यैवासिध्याध्वंसे प्रतियोग्यतिरिक्तकारणजन्यत्वनियमस्याप्रयोजकत्वमित्याशयेन दूषयति सिद्धांती । अति प्रसंगापरिज्ञानादिति । ननु कुतो परिज्ञानमिति चेतन्न वक्तव्यं ब्रह्मज्ञानध्वंसस्य प्रतियोग्यतिरिक्त अजन्यत्वे घटादिध्वंसोपि प्रतियोग्यतिरिक्तकारणानपेक्षः स्यादित्यति प्रसंगो वा घटादिध्वंसवत् । ब्रह्मज्ञानध्वंसोपि प्रतियोग्यतिरिक्तकारणापेक्षः स्यादित्यति प्रसंगो वा ब्रह्मज्ञानध्वंवसत् । घटज्ञानादिध्वंसोपिकारणांतरानपेक्षः स्यादित्यति प्रसंगो वा ब्रह्मज्ञानस्य स्वोत्पति द्वितीय क्षण एव नाशः स्यादित्यति प्रसंगो वा विवक्षित इति तत्राद्य मनूद्यदूषयति न चेति । ध्वंसमात्र इति ध्वंसत्वावछिन्न इत्यर्थः । अत भिधानादिति । न च सिद्धांतिना तथा नभिधानेपि ध्वंसत्वाविशेषा तत्र तदा पाद्यत इति वाच्यं । अप्रयोजकत्वादिति भावः । द्वितीयमतिप्रसंगेन दूषयति । न च घट ध्वंस दृष्टांतेनेति ध्वंसत्व हेतुनेति शेषः ।। प्. ७४अ) नापि ज्ञानध्वंसत्व साम्याद्घटज्ञानादिध्वंसस्यापि कारणांतरनैरपेक्ष्यं स्यादित्यति प्रसंगः । सेंधनानलध्वंसस्य जलसेकादि दृष्टकारणापेक्षत्वेपि निरिंधनानलध्वंसस्य तदनपेक्षत्ववजाग्रत् ज्ञानध्वंसस्य विशेषगुणांतरापेक्षत्वेपि सुषुप्ति पूर्वज्ञानध्वंसस्य तदनपेक्षत्व वच्च मूलाज्ञाननिवर्तक ज्ञानध्वंसस्य तदनपेक्षत्वोपपतेः नापिकारणांतरनैरपेक्ष्ये स्वोत्पत्युतरक्षण एव नाशः स्यादित्यति प्रसंगः । इष्टापतेः तदुत्पत्युतरक्षण एव ब्रह्माध्यस्तनिखिलप्रपंचदाहेन तदंतर्गतस्य तस्यापि तदैव दाहाभ्युपगमात् । निरिंधन दहनध्वंसन्यायेन ब्रह्मज्ञानध्वंसस्यापि कालादृष्टेश्वरेछादिकारणांतरजन्यत्वेप्यविरोधाच्च । सर्वप्रपंचनिवृत्युतरमेक शेषस्य ब्रह्मज्ञानस्य निवृतिरित्यनन्युपगमेन युगपत्सर्वदाहे पूर्वक्षणे चिदविद्यासंबंधरूपस्य द्रव्यांतररूपस्य वा कालस्येश्वर प्रसादरूपस्यांतःकरणगुणविशेषरूपस्य वा दृष्टस्यान्येषां च सत्वात् । न च तत्र ज्ञानातिरिक्तकारणापेक्षणे ब्रह्मज्ञानस्या प्. ७४ब्) मिथ्यात्वप्रसंगः ज्ञानैक निवर्त्यत्वं मिथ्यात्वमित्युभ्युपगमादिति वाच्यं । ज्ञानाघटित सामग्र्य निवर्त्यत्वे सति ज्ञाननिवर्त्यत्वस्य तदर्थत्वात् ।। तृतीयमनूद्या * * * * जकत्वेन दूषयति । नापि ज्ञानध्वंसत्व साम्यादिति । ब्रह्मज्ञानध्वंसदृष्टांतेनेति शेषः सुषुप्तीति । सुषुप्तिपूर्वज्ञानादिगुणस्य नाशकगुणांतरापक्षायां तस्यापि नाशकात्मगुणांतरकल्पनापत्या सुषुप्त्युछेदप्रसंगः स्यात् तत्परिहाराय सुषुप्तिपूर्वज्ञानादि गुणस्य नाशकांतरानपेक्षत्वं वक्तव्यमितिभावः । मूलाज्ञाननिवर्तक इति ब्रह्मज्ञान इत्यर्थः । चतुर्थमति प्रसंगमनूद्यतस्येष्टत्वमाह । नापि कारणांतर नैनरपेक्ष्य इति । ब्रह्मज्ञानध्वंसस्येति शेषः । ननूदाहृतनिरिंधन दहनध्वंसादौ जलसेकादिविशेषकारणानां व्यभिचारदर्शनेपि साधारकारणानां व्यभिचारादर्शनेन ब्रह्मज्ञानध्वंसस्यापि साधारणकारणापेक्षादुर्वारेत्यत आह । निरिंधनधहनध्वंसन्यायेनेति । ननु प्रथमक्षणे ब्रह्मज्ञानस्य जन्म द्वीतियक्षणे सविलासाज्ञाननिवृतिः तृतीयक्षणे ब्रह्मज्ञानस्य निवृतिरिति क्रमे सति ब्रह्मज्ञाननाशात् पूर्वक्षणे कालादृष्टादीनामसत्वात्कथं तेषां ब्रह्मज्ञाननाश हेतुत्वाभ्युपगमे विरोधाभाव इत्यत आह । सर्वप्रपंचेति स्वमतेनाह । चिदविद्यति । परमतेनाह । द्रव्यांतरेति । यद्वा स्वमतेपीश्वरस्य कालत्वमभिप्रेत्याह । प्. ७५अ) द्रव्यांतरेति स्वमते नैवादृष्टस्य द्विप्रकारत्वमाह । ईश्वरेति । प्रसादग्रहणमुपलक्षणं पुण्यं ईश्वर प्रसादरूपं पापं ईश्वरक्रोधरूपमिति द्रष्टव्यं अंतःकरणेति आत्मनः स्वमते निर्गुणत्वादितिभावः । अन्येषां चेति । ईश्वरदिगादीनामपीत्यर्थः । न च तत्रेति । ब्रह्मज्ञानध्वंस इत्यर्थः । ज्ञानैकनिवर्त्यत्वं हि ज्ञानातिरिक्तानिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वरूपं यथा श्रुतं न भवति ज्ञानसाध्यायामज्ञाननिवृतौ ज्ञानातिरिक्तस्य प्रतियोगिनोपि हेतुत्वात् किं त्वन्यदेवतदित्याह । ज्ञानाघटितेति । ज्ञानाघटिताया सामग्री तदनिवर्त्यत्वे सतीत्यर्थः । प्रपंच सत्यत्वमतेपि घटादेर्ज्ञाननिवर्त्यत्वमस्ति घटं नाशयामीत्यादि ज्ञानपूर्वकं मुद्गरपातादिना तन्नाशदर्शनादिति तद्धारणाय सत्यं तं घटादिनाशस्य ज्ञानपूर्वकत्वनियमाभावेन ज्ञानाघटित सामग्री निवर्त्यजातीये घटादौ तद घटित सामान्यनिवर्त्यत्वस्याभावात् । न च परमते नाशमात्रेस्येश्वर ज्ञानघटित सामग्री साध्यत्वा तदीयज्ञा ।। नान्यः पंथा इति श्रुतिरपि तत्रैव तात्पर्यात् । अतो युक्त एव दग्धदाह्यदहनादिन्यायः केचित् तु वृतिरूपं ब्रह्मज्ञानं नाज्ञानतन्मूलप्रपंच निवर्तकं । अज्ञानस्य प्रकाशनिवर्त्यत्वनियमेन जडरूपवृतिनिवर्त्यत्वायोगात् । किंतु तदा प्. ७५ब्) रूढचैतन्यप्रकाशस्तन्निवर्तकः स्वरूपेण तस्याज्ञानादि साक्षितया तदनिवर्तकत्वेपि अखंडाकारवृत्युपारूढस्य तन्निवर्तकत्वोपपतेः । तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं देहेत् । सूर्यकांतमुपारुह्यतं न्यायं तत्र योजयेदित्यभियुक्तोक्तेः । एवं च यथा किंचित्काष्टमुपारुह्यग्रामनगरादिकं दहन् वह्निर्दहत्येव तदपि काष्ठं तथा चरमवृतिमुपारुह्यनिखिलं प्रपंचमुन्मूलयन्न खंडचैतन्यप्रकाशस्तन्निवर्तनेपि प्रगल्भत इति न तन्नाशे काचिदनुपपतिरित्याहुः ।। न मादाय कार्यमात्रे ज्ञानाघटितसामग्र्यनिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वमस्तीति नैतन्मिथ्यात्वनिर्वचनमिति वाच्यं । लक्षणे ज्ञानपदस्य जैवज्ञानपरत्वात् । आत्मन्यतिव्याप्तिवारणाय विशेष्यमितिभावः । ननु कार्यमात्रे कालादृष्टादेः कारणत्वमित्यंगीकृन्य ब्रह्मज्ञानध्वंसेपि कालादृष्टादेःकारणत्वाभ्युपगमे मूलाज्ञानध्वंसरूपे मोक्षेपि कालादेःकारणत्वं स्यात् कार्यत्वाविशेषात् । न चेष्टापतिः नान्यः पंथा इति श्रुति विरोधादित्यत आह । नान्यः पथां इति । अस्याः श्रुतेः ज्ञानमेकमेव मोक्षसाधनमित्यत्र न तात्पर्यं किंतु मोक्षस्य ज्ञानाघटितं प्. ७६अ) किमपि साधनं नास्तीत्यत्र तात्पर्य । अतो न श्रुति विरोध इत्यर्थः । अत इति श्रुतिविरोधादिरूपबाधकाभावादित्यर्थः । वृतिरूपस्य ब्रह्मज्ञानस्याविद्यादिनाशकत्ववदेवस्वनाशकत्वमप्यस्तीत्युक्तमिदानिं वृतिरूपब्रह्मज्ञानस्याविद्यादिनाशकत्वं स्वनाशकत्वं वा नास्ति किंतु तद्वृत्यारूढचैतन्यमेव तद्वृति सहित सर्वनाशेकमिति मतमाह । केचित्विति । ननु चैतन्यस्याज्ञानादि साधकत्वात्कथं तस्य नाशकत्व सत आह । स्वरूपेणेति । तत्र दृष्टांतं श्लोकेन दर्शयति । तृणादेरिति । एषा प्रत्यक्षा सूर्यदीप्तिः स्वरूपेण तृणादेः प्रकाशिकापि सूर्यकांतमणिमुपारुह्य तृणादिकं दहतीति प्रत्यक्षसिद्धं तत् न्यायं तत्र चैतन्ये योजयेत् । चैतन्यं स्वरूपेणाज्ञानादिप्रकाशकमपि वृतिविशेषसंसृष्टं सदज्ञानादेर्नाशकमिति निश्चिनुयादेव ननु साधकस्य कथं घातकत्वमित्यसंभावनया प्रमाणसिद्धमर्थमुपेक्षेतेति श्लोकतात्पर्यं ननु मण्यारूढा सूर्यदीप्तिः मणिव्यतिरिक्तमेव तृणादिकं दहति न तु मणिमपि तथा च वृत्यारूढं चैतन्यं वृति व्यतिरिक्तमेवाज्ञानादिकं नाशयेन्न वृतिमपि । तथा च ब्रह्मज्ञानं कथं नश्येत् नाशकांतराभावादिति शंकायाः समाधानं कथं लब्धं तत्राह । एवं चेति । चैतन्यस्य वृत्यारूढस्य नाशकत्वे प्रकाशाप्रकाशयोरेव लोके निवर्त्य निवर्तकभावदर्शनात् । प्रकाशस्यापि सहकारि विशेष च शेन नाशकत्वाविरोधाच्चेति युक्त द्वयेन सिद्धे सतीत्यर्थः । उन्मू * * * * न्नेति मूलभूताज्ञानेन सह प्. ७६ब्) नाशयन्नित्यर्थः । प्रगल्भत इति भवतीत्यर्थः । तन्नाश इति चरमवृतिनाश इत्यर्थः ।। अन्ये तु ब्रह्मज्ञानमज्ञानस्यैव निवर्तकं ज्ञानाज्ञानयोरेव साक्षाद्विरोधात् । प्रपंचस्य तूपादाननाशात्नाश इति प्रपंचांतर्गतस्य ब्रह्मज्ञानस्यापि तत एव नाशः न च प्रपंचस्य ज्ञानानिवर्त्यत्वे मिथ्यात्वानुपपतिः । प्रपंचनिवृतेः साक्षात्ज्ञानजन्यत्वाभावेपि ज्ञानजन्या ज्ञाननाशजन्यत्वात् साक्षात्परंपरया वा ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यंगीकारात् । एवं च तत्वसाक्षात्कारोदयेपि जीवन्मूक्तस्य देहादिप्रतिभास उपपद्यते । प्रारब्धकर्मणा प्रतिबंधेन तत्वसाक्षात्कारोदयेपि प्रारब्धकर्म तत्कार्यदेहादिप्रतिभासानुवृत्युपादानाविद्यलेशानिवृत्युपपतेः । अज्ञानवत्प्रपंचस्यापि साक्षाद्ब्रह्मसाक्षात्कारनिवर्त्यत्वेनायमुपपद्यतेऽतिविरोधिनि ब्रह्मसाक्षात्कारे सति प्रारब्धकर्मणः स्वयमवस्थानासंभवेनाविद्यालेशनिवृतिप्रतिबंधकत्वा- योगादित्याहुः । प्. ७७अ) इति श्रीशास्त्रसिद्धांतलेशसंग्रहे तृतीयः परिछेदः ।। ३ ।। अज्ञाननाश * * ब्रह्मज्ञाननाशहेतुरितिमतं दर्शयति । अन्ये त्विति । अज्ञानस्यैवेति । उक्तं च पंचपादिकायां ज्ञानमज्ञानस्यैव निवर्तकमिति साक्षादिति विरोध प्रयोजकस्य समानविषयत्वादेरज्ञान एव संभवादित्यर्थः । तत एवेति । उपादान नाशादेवेत्यर्थः । साक्षात्परंपरयावेति मूलाज्ञानमात्रस्य ज्ञानैकनिवर्त्यतया मिथ्यात्वसिद्धौ मूलाज्ञानातिरिक्त जडमात्रस्य तदधीनतया स्वयं साक्षात् ज्ञाननिवर्त्यत्वाभावेपि कृत्स्न प्रपंचस्य मिथ्यात्वसिद्धिरप्रत्युहेत्यपि मंतव्यं । अस्य मतस्य जीवन्मुक्तिशास्त्रानुगृहीतत्वं दर्शयति । एवं चेत्यादिना । अज्ञानातिरिक्तस्य जडस्य ज्ञानेन सह साक्षाद्विरोधाभावे सतीत्यर्थः । ननु तत्वसाक्षात्कारेणाज्ञाननाशे सत्युपादानाभावात् देहादेरवस्थानासंभवे सति कथं विद्योदये देहादि प्रतिभासः । इत्यत आह । प्रारब्धेति । तत्वसाक्षात्कारोदये सत्यज्ञानस्य निःशेषेण निवृतिप्रसक्तौ प्रारब्धकर्मकृतप्रतिबंधवशादज्ञानलेशस्य निवृतिर्न संभवति तल्लेशानुवृतौ च तत्वज्ञानानंतरमपि प्रारब्धकर्मणः तत्कार्यस्य देहादि प्रतिभासस्यापि अनुवृतिर्युज्यते देहाद्युपादानभूतस्याविद्यालेशस्यानुवृतेरित्यर्थः । पूर्वमते जीवन्मुक्त्यसिद्धिमाह । प्. ७७ब्) अज्ञानवदिति जीवन्मुक्तस्य देहादि प्रतिभास इत्यर्थः । विरोधिनीति । अज्ञानस्येव प्रारब्धकर्मणोपि साक्षाद्विरोधिनीत्यर्थः । श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं संप्रणम्य च व्याख्यातो यं परिछेदः श्रीकृष्ण परितुष्टये ।। ।। इति श्रीमत्परमहंसपरिव्राजिकाचार्य श्रीमत्स्वयंप्रकाशानंदसरस्वस्ती दिव्य श्रीचरणारविंदसंलग्नरजोभूतस्य अच्युतकृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धांतलेशसंग्रहव्याख्यायां श्रीकृष्णालंकाराख्यायां तृतीयः परिछेदः ।। ३ ।। समाप्तम् ।।</poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] 6cfx96p6fmtacl13uieqqcv6fwx04ps