विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.11
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६६
104
104814
417865
267844
2026-07-17T13:09:50Z
Geeta g hegde
6704
417865
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३३२|मनुस्मृतिः।|[ अध्यायः ८}}</noinclude>
{{gap}}पुमांसमिति ॥ अनन्तरोक्तं जारं पापकारिणं पुरुषमयोमयशयने प्रज्वलिते राजा
दाहयेत् । तत्र शयने वध्यघातिनः काष्ठानि निःक्षिपेयुर्यावत्पापकारी दग्धः स्यात् ॥
{{Block center|{{bold|<poem>संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः।
वात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ ३७३ ॥</poem>}}}}
संवत्सरेति ॥ परस्त्रीगमनेन दुष्टस्य पुंसोऽदण्डितस्य च संवत्सरातिक्रमेणाभि-
शस्तस्य पूर्वदण्डाद्विगुणो दमः कार्यः । तथा व्रात्यजायागमने यो दण्डः परिक-
ल्पितः चाण्डाल्या सह निर्देशाच्चाण्डालीगमनरूपः, तथा चाण्डालीगमने यो दण्डः
'सहस्रं त्वन्त्यजस्त्रियम्' इति, संवत्सरे त्वतीते यदि तामेव व्रात्यजायां तामेव
चाण्डाली पुनर्गच्छति तदा द्विगुणः कर्तव्यः । एतत्पूर्वस्यैवोदाहरणद्वयं व्रात्यजा-
{{gap}}यागमनेऽपि चाण्डालीगमनदण्डप्रदर्शनार्थम् । सर्वस्यैव तु पूर्वाभिशस्तदण्डितस्य
संवत्सरातिक्रमे पुनस्तामेव गच्छतः पूर्वाद्विगुणो दण्डो बोद्धव्यः ॥ ३७३ ॥
{{Block center|{{bold|<poem>शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् ।
अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ॥ ३७४ ।।</poem>}}}}
{{gap}}शूद्र इति ॥ भादिभी रक्षितामरक्षितां वा द्विजातिस्त्रियं यदि शूद्रो गच्छेत्तदा-
रक्षितां रक्षारहितां गच्छंल्लिङ्गसर्वस्वाभ्यां वियोजनीयः । अत्राङ्गविशेषाश्रवणेऽपि
आर्यख्यभिगमने लिङ्गोद्धारः। 'सर्वस्वहरणं गुप्तां चेद्वधोऽधिकः' इति गोतमव-
चनाल्लिङ्गच्छेदः । रक्षितायां तु गच्छछरीरधनहीनः कर्तव्यः ॥ ३७४ ।।
{{Block center|{{bold|<poem>वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः।
सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ ३७५ ॥</poem>}}}}
{{gap}}वैश्य इति ॥ वैश्यस्य गुप्तब्राह्मणीगमने संवत्सरबन्धादनन्तरं सर्वस्वग्रहण-
रूपो दण्डः कार्यः। क्षत्रियागमने तु 'वैश्यश्चेत्क्षत्रियान्' इति वक्ष्यति। क्षत्रियो गुल-
ब्राह्मणीगमने सहस्रं दण्डनीयः । खरमूत्रेण चास्य मुण्डनं कर्तव्यम् ॥ ३७५ ॥
{{Block center|{{bold|<poem>ब्राह्मणी यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥ ३७६ ॥</poem>}}}}
{{gap}}ब्राह्मणीमिति ॥ अरक्षितां तु ब्राह्मणी यदि वैश्यक्षत्रियौ गच्छतस्तदा वैश्य
पञ्चशतदण्डयुक्तं कुर्यात् । क्षत्रियं पुनः सहस्रदण्डोपेतम् । वैश्ये चायं पञ्चशतदण्डः
शूद्राभ्रमादिना निर्गुणजातिमानोपजीविब्राह्मणीगमनविषयः । तदितरब्राह्मणी-
गमने वैश्यस्यापि सहस्रं दण्ड एव ॥ ३७६ ॥
{{Block center|{{bold|<poem>उभावपि तु तावेव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ३७७ ।।</poem>}}}}
{{gap}}उभाविति ॥ तावेवोभावपि क्षत्रियवैश्यौ ब्राह्मण्या रक्षितया सह कृतमैथुनौ
शूद्रवत्सर्वेण हीयेते इति दण्ड्यौ । यद्वा कटेनावेष्टय दग्धव्यौ । तत्र 'वैश्य
लोहितदर्भः क्षत्रियं शरपत्रैवेष्टय' इति वसिष्टोत्तो विशेषो प्रायः । पूर्व 'सहस्त्रं
..<noinclude></noinclude>
t2nug7eg5whee06sif32erk06c28rdg
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६७
104
104815
417866
267845
2026-07-17T13:15:18Z
Geeta g hegde
6704
417866
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ८]|center=मन्वथमुक्तावलासवालता ।|right=३३३}}</noinclude>
{{gap}}क्षत्रियो दण्ड्यो', 'वैश्यः सर्वस्वम्' इत्युक्तत्वादयं प्राणान्तिकदण्डो गुणवद्राह्म-
जीगमनविषयो बोद्धव्यः॥ ३७७ ॥
{{Block center|{{bold|<poem>सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विनां वलाद्रजन् ।
शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥३७८॥</poem>}}}}
{{gap}}सहस्रमिति ॥ रक्षितां विनां ब्राह्मणो बलेनोपगच्छन्सहस्त्रं दण्ड्यः स्यात् ।
इच्छन्त्या पुनः सकृन्मैथुने पञ्च शतानि दण्डनीयो भवेत् ॥ ३७८ ॥
{{Block center|{{bold|<poem>मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ ३७९ ॥</poem>}}}}
{{gap}}मौण्ड्यमिति ॥ ब्राह्मणस्य वधदण्डस्थाने शिरोमुण्डनं दण्डः शास्त्रेणोपदि-
श्यते । क्षत्रियादीनां पुनरुक्तेन घातेन दण्डो भवति ॥ ३७९ ॥
{{Block center|{{bold|<poem>न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ।
राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम् ॥ ३८० ॥</poem>}}}}
{{gap}}न जात्वित्यादि ॥ ब्राह्मणं सर्वपापकारिणमपि कदाचिन्न हन्यादपिनु सर्वस्व-
युक्तमक्षतशरीरं राष्ट्रान्निर्वासयेत् ॥ ३८० ॥
{{Block center|{{bold|<poem>न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि ।
तसादस्य वधं राजा मनसापि न चिन्तयेत् ॥ ३८१ ॥</poem>}}}}
{{gap}}नेति ॥ ब्राह्मणवधान्महान्पृथिव्यामधर्मो नास्ति । तस्माद्राजा सर्वपापकारिणो
ब्राह्मणस्य मनसापि वधं न चिन्तयेत् ॥ ३८१ ॥
{{Block center|{{bold|<poem>वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमहतः ॥ ३८२ ॥</poem>}}}}
{{gap}}वैश्यश्चेदिति ॥ रक्षितां क्षत्रियां यदि वैश्यो गच्छेत्क्षत्रियो वा यदि रक्षितां वैश्यां
तदा तयोर्ब्राह्मण्यामगुप्तायां गमने यौ दण्डावुक्तौ 'वैश्यं पञ्चशतं कुर्यात्क्षत्रिय तु
सहस्रिणम्' इति द्वावेव दण्डौ वैश्यक्षत्रिययोर्भवतः । अयं च वैश्यस्य रक्षितक्ष.
त्रियागमने पञ्चशतरूपो दण्डो लधुत्वाद्गुणवद्वैश्यस्य निर्गुणजातिमात्रोपजीवि-
क्षत्रियायाः शूद्राभ्रान्त्यादिगमनविषयो बोद्धव्यः । क्षत्रियस्य रक्षितवैश्यायां
ज्ञानतो युक्तः सहस्रं दण्डः ॥ ३८२ ॥
{{Block center|{{bold|<poem>सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते वजन् ।
शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः॥३८३ ॥</poem>}}}}
{{gap}}सहस्रमित्यादि ॥ क्षत्रियावैश्ये रक्षिते ब्राह्मणो व्रजन्सहस्रं दण्डं दापनीयः ।
शूद्रायां रक्षितायां क्षत्रियवैश्ययोर्गमने सहस्रमेव दण्डः स्यात् ॥ ३८३ ॥
{{Block center|{{bold|<poem>क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः ।
मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियो दण्डमेव वा ॥ ३८४ ॥</poem>}}}}<noinclude></noinclude>
tfdvg4a94klyitvph0fl2o68v1o1hz0
सिद्धान्तार्थसमुच्चयः
0
165516
417867
2026-07-18T10:06:24Z
Shubha
190
{{header | title = सिद्धान्तार्थसमुच्चयः | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> सिद्धान्तार्थसमुच्चयः प्. ५७) श्रीमत्पद्मरसाराध्यपदाभ्यां नमः | सिद्धान्त... नवीन पृष्ठं निर्मीत अस्ती
417867
wikitext
text/x-wiki
{{header
| title = सिद्धान्तार्थसमुच्चयः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
सिद्धान्तार्थसमुच्चयः
प्. ५७)
श्रीमत्पद्मरसाराध्यपदाभ्यां नमः |
सिद्धान्तार्थसमुच्चयः |
येनानादि मलादि पाश निवर्द्ध्वंसायबद्धात्मनां
सर्वज्ञेन सदोदितेन कृपया ज्ञानं समाविष्कृतम् |
नत्वा तं परमं शिवं परगुरुन् सर्वान् गुरुंश्चापरान्
सिद्धान्तार्थसमुच्चयो गुरुमुखात्प्राप्तः स्फुटं लिख्यते ||
प्रमाणश्चना तत्र क्रियते बहुधा यतः |
सर्वेषु शिवशास्त्रेषु व्याख्यानेषु च दृश्यते ||
तस्मादागमयुक्तिभ्यां यथा योऽर्थो गुरुत्तमैः |
निर्णीतः स तथास्माभिः संक्षेपेण प्रदश्यते ||
तत्र तावत् पारमेश्वरं ज्ञानं द्विरूपमवबोधरूपं शब्दरूपं च |
तत्रावबोधरूपममलमनादिनिधनं सर्वार्थप्रकाशकं सर्वानुग्राहकं
शिवज्ञानात्मकं च | शब्दरूपं तु शास्त्रात्मकमेव | अवबोधरूपं पुनः
शब्दरूपारूढं परमकारुणिकः परमेश्वरः प्रतिसर्गं सृष्टिकाले
सर्वानुजिघृक्षया गुरुपरम्परया योग्येषु प्रवर्तयति | यदुक्तं
श्रिमत्स्वायम्भुवे -
अथात्ममलमायाख्य कर्मबन्धविमुक्तये |
व्यक्तये च शिवत्वस्य शिवाज्ज्ञानं प्रवर्तते ||
मोक्षकारिकासु च -
अनादिकालसंसिद्धं तद्गुणत्वेऽपि शंकरे |
प्. ५८)
तच्च सम्यक् परिच्छेदि शांकरं ज्ञानमीरितम् इति ||
गुरुपरम्पराक्रमश्च द्विविधः महौघक्रमलक्षणः
प्रतिसंहितगुरुक्रमलक्षणश्च | तत्र महौघक्रमलक्षणः प्रदर्श्यते | तत्र
परमेश्वरः प्रथमं विद्येशांननुगृह्य तेभ्योऽष्टाविंशति संहिताः
प्रकाशयति | ते च पुनः श्रीकण्ठादि क्रमेण मुनिमनुष्यान्तं सर्व संहिता
अवतारयन्ति | सोयं महौघलक्षणः शास्त्रावतारः | तदुक्तं
श्रीमन्मालिनीविजये -
सिसृक्षुर्जगतः सृष्टेरादावेव निजेच्छया |
विज्ञानकेवलानष्टौ बोधया मास पुद्गलानिति ||
एष च गुरुक्रमः श्रीमद्रौरवादौ श्रूयते -
जगतः कारणं देवमनलेशं परं गुरुम् |
तेनोक्तं परमेशेन श्रीकण्ठाय महात्मने || इति |
शिवोद्गीणमिदं ज्ञानं मन्त्र मन्त्रेश्वरेश्वरैः |
कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ||
तेभ्योऽवगत्य दृग्ज्योतिर्ज्वालालीर्ढस्मरद्रुमः |
ददावुमापतिर्मह्यं सहस्रैर्भव संमितैरिति | प्रतिसंहित गुरुक्रमः
प्रदर्श्यते | यतुक्तं श्रीमत्किरणे -
सृष्ट्यनन्तरमेवेशः शिवान् सृष्ट्वा दशात्मजान् |
ज्ञानमेकं विभज्याशु तेषां तत्संख्ययावदत् ||
कामिकं प्रणवाख्यस्य सुधाख्यस्य च योगजम् |
प्. ५९)
दीप्ताख्यस्याप्यचिन्त्यं तु कारणाख्यस्य कारणम् |
अजितं सुशिवाख्यस्य ईशस्यापि सुदीप्तकम् ||
सूक्ष्मं तु सूक्ष्मसंज्ञस्य कालस्यापि सहस्रकम् |
सुप्रभदं गणेशस्य अंशुसंज्ञस्य चांशुमत् ||
एवं प्राथमिकं प्रोक्तं पुनरन्यो गुरुक्रमः |
प्रणवात्रिकलः प्राप्तः कामिकं त्रिकलाद्धरः ||
सुधाख्याद्योगजं तन्त्रं भस्मसंज्ञस्ततः प्रभुः |
दीप्तसंज्ञादचिन्त्यं तु गोपतिश्च ततोऽम्बिका ||
कारणं कारणाच्छर्वस्ततः प्राप्तः प्रजापतिः |
अजितं सुशिवात्प्राप्तो ह्युमेशो ह्यच्युतस्ततः ||
ईशाद् दीप्तं त्रिमूर्तिस्तु ततः प्राप्तो हुताशनः |
सूक्ष्मं सूक्ष्माद्भवः प्राप्तस्तस्मात्प्राप्तः प्रभञ्जनः ||
काल संज्ञात् सहस्राख्यं भीमो धर्मस्ततः खग |
गणेशात् सुप्रभेदं तु विग्रहेशस्ततः शशी ||
अंशुमच्चांशु संज्ञात् तु प्राप्तोह्युग्रस्ततो रविः |
एवमेते समाख्याताः शिवभेदादशाद्यते ||
दशाष्टसंख्ययाप्यन्यो रुद्रभेदोऽपरो मतः |
दशाष्टसंख्यया रुद्रान् सृष्ट्वा पूर्वमुखाद्यतः ||
शिवस्तत् संख्ययैवे च पुनस्तान् बोधयेत् खग |
रुद्रस्यानादि संज्ञस्य विजयं तेन भाषितमित्यादिना
प्. ६०)
फलभेदो न कल्प्योऽत्र ज्ञानभेदः प्रकल्प्यते इत्यन्तेन |
अत्रायमर्थः - तन्त्राणां शिवभेदरुद्रभेदत्व भेदेन तावद्
द्वैविध्यं तत्र शिवभेदः प्रणवादीननुगृह्य सदाशिवतत्त्व वासिनः
कृत्वा तेषामेकमेवावबोधरूपं ज्ञानं यथाधिकारं शब्दरचना
सृष्टिपुरःसरं क्रियादि भेदेन दशधा विभिद्योपदिष्टः | रुद्रभेदस्तनादि
प्रभृभृतीनष्टादशरुद्रान् ज्ञानयुक्तानेवानुगृह्य शब्दरचनां
कृत्वा तथैव विजयादिरष्टादशभेदतन्त्रैः प्रकाशितः | ते च रुद्राः
सदाशिवतत्त्वाधो वर्तिनः | अत एव शिवभेदरुद्रभेदयोः परापरत्वमुक्तं
च श्रीमत्स्वतन्त्रे -
सकलस्तु वृतो देवैरोंकारद्यैरनुक्रमात् |
रुद्राष्टादशकं ब्राह्म इति | तयोरपि पुनरध्ये तृप्रवक्तृभेदोऽप्युक्तः |
एतेष्वपि भेदेषु अध्येतृभेदात् वक्तृभेदात् भेदोवक्तुमशक्य | अत एवास्य
शिवज्ञानस्यावतारभेदात् क्रियाभेदाच्च भेदो न त्वर्थव्यवस्था भेदाद्वा
फलभेदाद्वा | तदुक्तं श्रीमत्स्वायम्भुवे -
एकमेव शिवज्ञानं विभिन्नं दशधा पुनः |
तथाष्टादशधा भूयो भेदान्तरविसर्पितम् इति ||
एकमेव शिवज्ञानं विभिन्नं बहुधा पुनः |
उपभेदोपभेदानामस्य संख्या न विद्यते ||
भेदान्तराणि सर्वाणि महान्ति न महान्त्यपि |
दीक्षा संप्रत्ययार्थानि सिद्धिमुक्ति फलानि चेति ||
प्. ६१)
अन्येप्याहु - सर्वशाखाप्रत्ययमेकं कर्मेति | एषां च तन्त्र भेदानां
गुरुपूर्वक संबन्धः क्वचित् पञ्चप्रकारः क्वचित् षट्प्रकारः |
श्रीमतङ्गोक्तवत्पञ्चप्रकारः | तथा हि - शिवानन्तयोः परः
सम्बन्धः | अनन्त श्रीकण्ठयोः महान् | श्रीकण्ठमतङ्गयोर्दिव्यो
मतङ्गमुनिना मनुष्याणां दिव्यादिव्यो मनुष्यैश्च
मनुष्याणामदिव्यात्मकः | श्रीमन्मृगेन्द्रे तु षट्प्रकारः यथा -
शिवानन्तयोः परः सम्बन्धः अनन्तश्रीकण्ठयोः महान्
श्रीकण्ठशक्रयोरन्तराधः शक्रभरद्वाजयोद्धिव्यो भरद्वाज
हारीतयोर्दिव्यादिव्यो हारीतेन तच्छिष्याणामदिव्य इत्येव मन्येष्वपि यथायोगं
द्रष्टव्यम् | एवमापरमेश्वरादविच्छिन्न गुरु संप्रदायस्मरणात्
तत्कृतत्वेनस्य शास्त्रस्य प्रामाण्यं सिद्धम् | तदुक्तं श्रीमन्मतङ्गे -
प्रमाणमेकं तद्वाक्यं तत्त्वमीश्वर भाषितम् इति |
ननु नित्यत्वेनागमस्य प्रामाण्यमिति केचित् | तदयुक्तम् अस्य कृतक आगमः
संभवति रचनावत्वादभिनव विरचितवाक्यवत् | रचना च सेत्वादिवत् | तस्या
कर्तारं न व्यभिचरति | तस्मादाप्त प्रणीतत्वेनैवागमस्य प्रामाण्यम् |
परमेश्वरश्च परमाप्तः | नित्यनिर्मलनिरतिशय सर्वार्थ ज्ञानक्रिया
युक्तत्वाद्रागद्वेषा भावेन विप्रलम्भासंभवात् सर्वानुग्राहकत्वाच्च |
तदुक्तं श्रीमन्मोहशूरोत्तरे - यद्यथावस्थितं वस्तु सर्वज्ञस्तत् तथा
वदेदिति | ईश्वरश्च योगि प्रत्यक्षादनुमानाच्च सिद्धः |
प्. ६२)
तथा हि श्रीमन्मतङ्गे - शक्तिसिद्धिपूर्वमीश्वरसिद्धिमुक्त्वा योगि
प्रत्यक्षगम्यत्वमुक्तम् |
शक्तश्च शक्तिमान् सिद्धोप्यथवा मुनिपुङ्गव |
अक्षाणि प्रतिप्रत्यक्षं मनश्चाक्षमनुत्तमम् ||
संकल्पविषयं सिद्धं संकल्पादेव केवलात् |
प्रपत्तव्यं मुनिव्याघ्र किमन्यत् परिपृच्छसि ||
इति न च योगिनोऽसिद्धा इति वाच्यम् | यच्छ्रुयते -
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् |
ज्ञाननिर्मथनाभ्यासाद् देवं पश्येन् निगूढवदिति ||
अनुमानसिद्धत्वमप्युक्तं श्रीमन्मृगेन्द्रादौ -
अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् |
कर्तारमस्य जानीमो विशिष्टमनुमानतः ||
वैशिष्ट्यं कार्यवैशिष्ट्याद् दृष्टं लोकस्थितावपीति |
आगमसीद्धत्वमप्युक्तं श्रीमन्मतङ्गे -
पञ्चमन्त्रतनुः श्रीमान् सकलः परिपठ्यते |
सुप्रसन्नेन्द्रियग्रामः सर्वज्ञः सर्वगोचरः ||
योगयोगेश्वरः स्वामी स्वतन्त्रः पशुपाशहा |
तस्योक्तिः पौरुषैः स्थूलैः प्रमाणैर्न च बाध्यते || इति |
एषाचेश्वरसिद्धिः सर्वासु संहितासु न्यासादिषु च विस्तरेण साधितत्वान्नात्र
लिख्यते | न चेश्वर कृतादागमादीश्वरसिद्धा -
प्. ६३)
वितरेतराश्रयदोषः आशङ्कनीयः द्वयोरपि विसदृशक्रियत्वात् |
ईश्वरोह्यागमस्य कर्ता आगमस्तु तं ज्ञापयतीति | किं च तदुक्तेषु च
दृष्टार्थेषु फलवत्त्वमुपलभ्यादृष्टार्थस्यापि तच्छास्त्रस्यावितथत्वं
मनुमीयते | तदुक्तं श्रीमन्मतङ्गेपि -
विशेषस्यानुमानस्य त्रिविधस्यापि निश्चयात् |
आगमादाप्तवक्त्रोत्थान्नान्यथा मुनिपुङ्गव ||
आप्तश्चैवागमात् सिद्धः सचेदानीं विचार्यते |
आयुर्वेदात् सगणितान् मन्त्र वादाच्च सस्फुटात् ||
रसोपनिषदाटोपादाप्तः संपरिगृह्यते इति |
ननु देवतैव तावन्न सिद्धा | तत्संभवे हि तद्विशेषस्येश्वरस्य सिद्धिः | सा तु
शब्दमात्रैव | तथाहि - कर्मानुष्ठानादेव फलं न देवतायाः
तद्बाधकत्वेनाभिमतरुद्रेन्द्रादिशब्दभेदेन प्रमाणान्तरैरसिद्धेः | अत एव
तेन सह संबन्धग्रहणा संभवादागमेनाप्य सिद्धिः | तत एव च
संबन्धग्रहणेति तरेतराश्रयतोऽसिद्दिरेव | ततश्च रौद्रं चरुं
निवर्पेत्स्वर्गकाम इत्यादाबुद्देश्यकारकतया विशिष्टकर्माङ्गत्वेन स एव
देवताशब्दः प्रतीयत इति क्रियात एव फलं युक्तं न देवतात इति जैमिनीयाः |
अत्रोच्यते | एवं हि देवतायाः शब्दमात्रत्वे फलमपि
प्. ६४)
शब्दमात्रमेव स्याद्यतो ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ
स्वर्गाद्यात्मकं फलमपि तद्वदेव प्रमाणान्तरसिद्धम् | अथ यदि शब्दादि
योगं विनापि नार्थरहित परः शब्दः संभवतीति पुराणेतिहासांदिप्रसिद्धं
विशिष्टमेवात्र स्वर्गशब्दः फलत्वेनाभिदधातित्युच्यते तदिहापि समानमिति
न शब्द एव देवतापि तु तद्वाच्योऽर्थविशेष एव स्ववाचकाद्भिन्ना देवदत्रादि
शब्दवाच्यात्मवदिति सैव फलदान तु कर्ममात्रं तस्य कृष्यादि कर्मवत्
फलजननमात्र एव सामर्थ्यादचेतनत्वेनेदं फलमस्मै दास्यामीति
विवेकाभावात् | शब्दो हि विदितपदपदार्थ प्रत्यायकत्वेन भवतोपि सिद्ध इति
इन्द्रादि शब्दानामपि शब्दत्वेनैवार्थ प्रत्यायकत्व सिद्धेस्तत्प्रत्येयो देवता
लक्षणोऽर्थः स्वर्गलक्षण फलवत् सिद्ध एवमनुमानादि
सिद्धत्वमपीश्वरलक्षण देवतायाः प्रागेवोक्तमिति न प्रमाणान्तरासिद्धं
नापीतेस्तराश्रय दोषः | यदाहुः - श्रुतिसिद्ध्यर्थं श्रुतोपलब्धो
यत्नवता भवितव्यम् न श्रुतिसिद्धौ यत्न विशेषशैथिल्यमाचरणीयमिति |
ततश्च सोमपाःशतक्रतुरित्यादि श्रुतिसिद्धस्य देवता विशेषस्य
कर्मणोनिरूपस्य च वज्रहस्तं सहस्राक्षमिन्द्रमीडे चतुर्भुजमित्यादि
श्रुतिसिद्धस्य शब्दमात्रस्यासंभवात् तत् तद् विशेषेण विशिष्टा देवता
सिद्धैव | श्रुतिरपि ताविशेषया देवमैत्रः
प्. ६५)
दृश्यते यथा - इन्द्रो दिव इन्द्र-ईशे पृथिव्या इत्यादि | न च देवताया
मूर्तत्वात् अस्मदादि वदनेक देशयागसन्निधिरनुपपन्नेति वाच्यम् | अस्या
अणिमाद्यैश्वर्य योगेन वासुदेव सौभार्यादिवत् प्राकाम्यशक्त्या
युगपदमेक देशसन्निधिर्युज्यत एव यतः | तदुक्तं श्रीमत्पराख्ये -
शब्दमात्रस्थिते मन्त्रे शब्दमात्रं फलं तथा |
न चार्थरहितः शब्दः पदवाक्य गतक्रमः ||
वाच्यश्च वाचकाद् भिन्नो देवदत्तादि शब्दवत् |
प्रत्यायकश्च ते शब्दपत्ययेर्थ विवर्जितः ||
तेन सा वाचकाद् भिन्ना वाच्या सा देवता ध्रुवम् |
विशेषणं यतस्तस्यां कर्मरूपाभिधायकम् ||
प्रतिपन्नं विशेषेण वेदवाक्यैस्तथाविधैः |
स्तुतापि देवता यस्मात् स्तुत्या साभिमुखी भवेत् ||
अथार्थवादतस्तस्या देवताया विशेषणम् |
यदि तत्परमार्थेन विरोधः कतमो भवेदिति ||
देवता श्रूयते शास्त्रे तत एव फलं महत् |
महावीर्योपपन्नत्वात् तया स्थास्यति स कृतौ ||
वेदान्त वादिनां यद्वदनन्तत्वं त्वनुग्रहः | इति च कः प्रत्येत्यर्थ वर्जितः |
अर्थ विवर्जितः शब्दा इति को वेत्ति इत्थं श्रीमन्मृगेन्द्रे च - न जातु
देवतामूर्तिरस्मदादिशरीरवत् |
प्. ६६)
विशिष्टैश्वर्य संपन्ना सातो नैतन्निदर्शनम् | इत्यादि |
यद्येवमीश्वरस्यापि शरीरित्वादस्मदादिवदसर्वज्ञत्वमसर्वकर्तृकत्वं च
स्यात् | ततश्च परमाप्तत्वानुपपपत्तिः | अशरीरश्चेत् कर्तृत्वनुपपत्तिः |
यदाहुः -
कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् |
कार्यत्वात् तेन जगतः कर्ता देही प्रसज्यते || इति |
अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्मवद्भवेदिति च | ततश्चेश्वरस्यापि
सावयवत्वेना नित्यत्वात् तस्यान्येन कर्त्रा भवितव्यम् | तस्यापि शरीरित्वेन
कर्त्रन्तरापेक्षाया मनवस्था | तन्न आत्मनः स्वदेहस्पन्दादौ
शरीरान्तरानपेक्षया इच्छामात्रेण कर्तृत्वदर्शनात् | नन्विच्छामात्रेण
कर्तृत्वं स्वाधिष्टितशरीरस्यन्दादौ दृष्टम् | न तु बाह्ये मृदादिजन्ये
घटादौ | सत्यम् | अत-एव सदाधिष्ठायकत्वेन विश्वमीश्वरस्य
शरीरमिवानुमीयते | तस्मादिच्छामात्रेणेश्वरः सृष्टादि तनोति | आत्मनां हि
मलादियोगादेव ज्ञान क्रिययोः शरीरेन्द्रियापेक्षा | ईश्वरस्य तु नित्य
निर्मलत्त्वातदपेक्षा नास्त्येव | यतुक्तं श्रीमत्किरणे -
यथा कालो ह्यमूर्तोपि दृश्यते फलसाधकः |
एवं शिवो ह्यमूर्तोपि कुरुते कार्यमिच्छयेति ||
मोहकारिकासु च -
अजात मलसंबन्धः सर्वज्ञः सर्वकृद्विभुः |
प्. ६७)
सकलो निष्कलोऽनन्तः स्वेच्छानन्तरकार्य कृदिति |
शक्तिस्तु शरीरेन्द्रियादि कार्यं कुर्वाणा भगवतः शरीरतया करण तयोच्यते |
तदुक्तं श्रीमन्मृगेन्द्रादौ -
मूलाद्यसंभवाच्छाक्तं वपुर्नो तादृशं विभोः |
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ||
ईश तत्पुरुषाघोरवामाजैर्मस्तकादिकमित्युक्ता | इत्थं शक्तिः कुर्वती
देहकृत्यं देहाभावादुच्यते देहशब्दैः | तस्या भेदायेपि वामादयः स्युः
तेपि प्रोक्ता कृत्यभेदेन सद्भिः || इति | करणं च न शक्त्यन्याच्छक्तिर्ना
चेतनाचित इत्यादिना च | श्रुतावपि तस्य * * करणं च दृश्यते न च
तत्संश्चाप्यधिकश्च दृश्यते | परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी
ज्ञानबलक्रिया चेति | अत एव ज्ञानस्याप्यस्य न शरीरेन्द्रिया पेक्षा | यदुक्तं
श्रीमन्मृगेन्द्रे -
सर्वज्ञः सर्वकर्तृत्वात्साधनाङ्गफलैः सह |
यो यज्जानाति कुरुते स तदेवेति सुस्थितम् ||
तच्चस्या वृत्ति शून्यत्वान्न व्यञ्जकमपेक्षते |
तन्न सांशयिकं तस्माद् विपरीतं न जानुचित् ||
यानिव्यञ्जकमीहन्ते वृतत्वान् मलशक्तिभिः |
व्यञ्जकस्यानुरोधेन तानि स्युर्व्याहतान्यपि ||
नाध्यक्षं नापि तल्लैङ्गं न शब्दमपि शांकरम् |
ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुष्विति ||
प्. ६८)
कथं तर्हि पञ्चवक्त्रस्त्रिपञ्चदृगित्यादिभिरीश्वरस्य शरीरमागमेषु
स्तूयते ध्यानार्थमेव | तन्न | ध्यानाकारे ध्यानपूजाद्युपपद्यते | यदुक्तं
श्रीमत्पौष्करादौ -
साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् |
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ||
इत्यादिना अन्यैरप्युक्तं -
आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैनिबुद्धिः | इति कथं तस्य
शास्त्रोपदेशकत्वम् | इच्छामात्रेण विद्येश्वरादीनां
शास्त्रावबोधकत्वमेवात्रोपदेशकत्वं न तु वागिन्द्रियव्यापारः | यदुक्तं
श्रीमत्पराख्ये -
सन्निधाने यतस्तस्मिन् सर्वकार्यस्य संभवः |
अक्षहीनेपि सामर्थ्यं दृष्टं तत्कर्षकात्मनि ||
सामर्थ्यं तद्वदीशस्य सर्वकृत्ये निसर्गजम् | इति |
अन्येप्याहुः -
सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव |
निस्सरन्ति यथाकामं कुड्यादिभ्यो निदेशनाः || इति |
तस्मादीश्वर प्रणीतत्वेनास्य शैवागमस्य प्रामाण्यम् |
ननु दर्शनान्तरेष्वपि हिरण्यगर्भादय ईश्वराः श्रूयन्ते |
तेभ्योस्य को विशेषः | अत्रोच्यते | तेषां पशुपाशरूपत्वेनेश्वरान्तर
पूर्वकत्वान्न सर्वेश्वरत्वं संभवति | तथा हि प्रकृतिरेव परत्र
शब्दवाच्यो नारायणः
प्. ६९)
यो वा ईश्वरः कैश्चिदध्यात्मविद्भिः पाञ्चरात्रिकैश्चेष्यते तस्योपादान
कारणत्वादितत्यारप्रकृतेदि * * * पिहिरण्यगर्भ समवर्तताग्रे
भूतस्य जातः पतिरेक आसीदित्यादि श्रुत्यर्थतया हिरण्यगर्भाख्येश्वरस्तस्याः
प्रकृतेर्विकारे ध्यात्मविद्भेदैरीश्वरः प्रोक्तः पाञ्चरात्रिक भेदैर्वा
चातुरात्मलक्षणः | यतुक्तं -
ईशास्तु ते समभवन् प्रकृतेः पदस्याः
कृष्णानिरुद्धमकरध्वजरौहिणेयाः इति तस्याप्युत्पत्त्यपवर्गयोगित्वाद्
ब्रह्मेन्द्रादेदिव धात्रन्तरेण भवितव्यम् | यश्चापि बुद्धिसंयोगादीश्वरः
पातञ्जलैरुक्तः तनः संयोगान्नैयायिक
वैशेषिकैस्तस्यापीश्वरत्वोपायभूतासौ संयोगः संयोगत्वादेव
घटपटादि संओगवदनित्योऽव्यापकश्चेति न सर्वत्र सर्वदा चेश्वरत्वम् | अतो
भुवनेश्वराणामपि दात्तन्तरेण भवितव्यम् | यश्चैवं सर्वेषामेव दाता स
एवास्माभिर्महेश्वरत्वेनाभ्युपगतस्तस्यैवं दातृपूर्वकत्वेनासिद्धे | ननु
दर्शनान्तर सिद्धाना विशेश्वराणां लोकवेदसिद्धत्वात्कथं
महेश्वरत्वं प्रतिक्षिप्यत इति चेत् | तन्न | वेदादिशास्त्रतो लोकप्रसिद्धाचारस्यैव
महेश्वरत्व प्रदर्शनात् | तथा च श्रुतिः -
एक एव रुद्रो न द्वितीयायतस्व इति अत्र अवधारणेन द्वितीय निषेधेन च रुद्रस्यैव
महेश्वरत्वं स्थाप्यते | रुद्रेष्वपि महेश्वराय शितिकण्ठाय त्र्यम्बकाय न
च नमो नम इति पुराणेष्वपि- नौषधीभिर्महेशानमन्त्रैर्न च रसायनैः
| प्राप्यते कुशलं तादृग्यादृक्त्वं नाम कीर्तनादिति | भारतादावपि
वासुदेवार्जुनादिकृतेषु सप्तशतरुद्रादि
प्. ७०)
स्तोत्रेषु तस्यैव महेश्वरत्वेन प्रसिद्धिः | अत एव - भगवद्गीतासु
दशमेऽध्याये- ये मामजमनादि च वेत्ति लोकमहेश्वरमित्यात्मनो
नारायण भट्टारक परिमिततरामेव भूरादिद्विसप्तलोकविषय
महेश्वरत्वमाह | न तु सर्वभुवनादि विषयमिति | कथं तर्हि शेरते न
दौवं केशवात्परं इत्युक्तम् | अत एव भौतिक सर्गविषयात्पिशाचादि
पितामहान्तादष्टविधाद् देवयोनिवर्गादसौ परः प्रोक्तः न तु महेश्वर इति को
विरोधः | यदुक्तम् - अष्टविकल्पो दैवस्तिर्यग्योनिश्च पञ्चधा भवति |
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः | इति | एवमेव
चन्द्रब्रह्मादावप्यवसेयम् | यदुक्तम् - अग्निर्वै देवानामवमोऽपचर इति |
लोकेऽपि ब्रह्म विष्ण्वादीनां चक्रस्वामि मधुरास्वाम्यादिपदैः स्वामित्वेन
प्रसिद्धिः | भगवत एव प्रयागादिषु स्वस्वभूक्षेत्रेषु महेश्वरस्थानेश्वर
भूतेश्वरादि पदैः प्रतिष्ठास्थानेष्वपि ब्रह्मेश्वरसोमेश्वरादिभिः
प्रसिद्धिः | अतश्च यद्यपि स * * र्यं पठ्यते तथाप्यन्यथैव
तत्साम्यं पदं प्राप्तबलादावपि धनादिके दृश्यते | अन्यच्चेश्वरत्वं
प्रभुरूपं यत्प्रचण्डतरनृपत्यादौ सिद्धमपि लोकप्रसिद्ध्यापि स एव
महेश्वरः सिद्धः | उक्तश्च श्रीमत्पराख्ये - ईश्वरो रूढितो गम्य इति | न
च प्रमाणसिद्धः यदाहुः -
द्रव्यजाति क्रियाशब्दो गुणशब्दस्तथापरः |
यौगिको योगरूढश्च प्रसिद्ध्यैव व्यवस्थितः ||
प्. ७१)
सूर्यो गौश्चलनं शुक्लं पङ्कजं पङ्कजं यथा |
तत्तदर्थाभिधायित्वाच्छब्दः प्रोक्तस्तु तद्विधेति ||
ननूक्तं प्रसिद्धिः वटयक्षवदप्रमाणमिति तदप्ययुक्तम् | यतः
प्रसिद्धिनिबन्धनो हि सर्वः पदार्थसंबन्ध इत्युक्तम् | तस्याश्चाप्रामाण्ये
वेदार्थस्या प्रतिष्ठेति सर्वमसमञ्जसमिति शास्त्रतो लोकतश्चात एव
महेश्वरः सिद्ध इति उक्तं चास्माभिः पाषण्डपराजये -
श्रुतिभिः स्मृतिभिः पुराणवाक्यैः
मुनिमुख्यैरपरैश्च पूज्यमानाम् |
प्रभुतामवधार्य चन्द्रमौलेः
कथमेवं मनुजाः पुनर्विमूढाः ||
परमेष्ठिमुखैः पिपीलिकान्तैः
भुवनेऽस्मिन्निखिलैश्च जन्तुवर्गैः |
गिरिशः परिपूजीताङ्घ्रिपद्मो
न तु कश्चिद्गिरिशेन पूजनीयः || इति |
तस्मात् सर्वज्ञेन सर्वकर्त्रा परमाप्तेन परमेश्वरेण
प्रतीतत्वाछैवागमाख्यं प्रमाणं सर्वोत्कृष्टतयाज्ञेयम् | अत एव
वर्णाश्रमाचारव्यवस्थापकवेद
विरुद्धबौद्धादिशास्त्रवन्नास्यानुपादेयत्वप्रसङ्गः |
वर्णाश्रमस्थानामेवात्राधिकारश्रुतेर्वेदाविरोधाद्वेदवित्परिग्रहाच्च |
यदुक्तं श्रीमत्पराख्ये -
कार्या दीक्षापि सर्वेषां तच्छक्तिविधियोगिनाम् |
प्. ७२)
त्रयाणामपि वर्णानां न तु शूद्रान्त्यजादिषु |
अमद्यपास्तु ये शूद्राः शैवाचार क्रियादशः ||
शिवभक्ताश्च तेषां सा दीक्षा कार्यान्यथा नहि इति |
श्रीमत्सर्वज्ञानोत्तरेपि -
यस्मिन्वर्णे स्थितो दीक्षां प्राप्तो देही शिवात्मिकाम् |
तत्रैव संस्थितो नित्यं शिवधर्मं च पालयेदिति ||
उक्तं च श्रीमन्मतङ्गेन्द्रादौ -
स्नानमाशिरसः कृत्वा समाचम्योदगाननः |
प्राङ्मुखो वा भजेत् संध्यां वेदसिद्धां द्विराश्रमीति ||
धर्माधर्मसाधनसंसिद्धिराम्नायादेव ज्ञायते | तन्मूलत्वात्
स्मृतेश्चापि श्चामेवापरस्य त्विति | तथाचम्य पुरा ब्राह्मीं भजेत् सन्ध्यां
द्विराश्रमीति तथा इति वर्णाश्रमाचारान्मनसापि न लक्षयेत् | यो यस्मिन्नाश्रमे
तिष्ठन् प्राप्तो दीक्षां शिवात्मिकाम् | स तस्मिन् नेव सन्तिष्ठंश्छिवधर्मं च
पालयेदिनि पुराणेतिहासादौ श्वेतोपमन्युप्रभृतीनां
महर्षीणामत्रानुष्ठानं श्रूयते | भारते च
नरनारायणयोरश्वत्थाम्रञ्च आभ्यां लिङ्गेऽर्चितो देवस्तस्यार्चायां युगे
युगे | इति स्वर्णाक्षे च भगवतो वासुदेवस्य परमेश्वराराधनसिद्धिः |
रामायणेपि कार्तवीर्यादि स्तुतिषु च प्रतिष्ठापूर्वको धर्मः श्रूयते |
पक्वेष्टकथितं सम्यग् यः करोति शिवालयम् इत्यादि -
प्. ७३)
सूत्रे मोक्षं विनिर्दिशेदिति च उपनिषत्सु श्वेताश्वतरादिष्वथर्वशिरः
प्रभृतिषु च शिवस्याराध्यत्वं श्रूयते | सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
विश्वस्य स्रष्टारमनेकरूपम् | शिवस्य चैकं परिवेष्टितारं ज्ञात्वा शिवं
शान्तमत्यन्तमेतीत्यादि शिव एकोध्येयः शिवंकरः सर्वमन्यत् परित्यज्येत्यादि
च ततोऽस्य न विगानता वापि च्छिन्नमूलता न कैश्चिदेव परिग्रहः |
तस्माद्वेदविद्भिरन्यैश्च तत्प्रमाणतयाग्राह्यम् | तदुक्तं मोक्षकारिकासु ##-
न चान्येन प्रमाणेन संरुद्धस्तस्य गोचरः |
श्रोत्रियैरप्यतो ग्राह्यं तत्फलाधिकसाधनम् || इति |
तस्मात् परमेश्वर एव परमाप्तः | कपिलादयस्तु
परस्परविरुद्धार्थाभिधायित्वात् न परमाप्ताः | यदाहुः -
सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा |
अथो भावपि सर्वज्ञौ मतिभेदस्तयोः कथमिति ||
ततश्च सर्वाविरोधेन सर्वान्यागमप्राप्य स्थान प्रदर्शनपूर्वकं
तदनधिगतार्थ प्रदर्शकत्वाद्यथाधिकारं वेदादि सामान्यशास्त्रोक्त
फलसाधकत्वात् तदविषयस्यापि विशिष्टस्य भोगमोक्षात्मनः
फलसाधनत्वाच्च शिवागमाख्यं प्रमाणमव्याहतम् | यदाहुः -
अनधिगतार्थगन्तृ प्रमाणम् इति | अत एवोक्तं सिद्धगुरुभिः |
अशेषफलसाधकमिति | यदुक्तमा(गम?)शास्त्रेषु -
प्. ७४)
विद्यते यच्छिवागमे | न दृष्टं यच्छिवज्ञाने तदन्यत्र न विद्यते | इति |
तस्मादेतद्विरोधे तानि बाध्यन्ते | तद्विनाश्य(स्य?)बाधा यदुक्तं
सर्वज्ञानोत्तरे -
न पुंभिरार्षकं वाक्यं दैविकं मुनिभिस्तदा |
न देवैर्ब्रह्मणो वाक्यं वैष्णवं पद्मजन्मना ||
न शैवं वैष्णवाअद्वाक्याद्बाध्यते न कदाचने ति |
श्रीमन्मोहशूरोत्तरेपि -
पुराणं बाध्यते वेदैरागमैश्च तदुक्तयः |
सामान्यं च विशेषं च शैवं वैशिष्टिकं वचः इति ||
मोक्षकारिकासु स ताभिरभिभाव्याभिः सामान्याभिश्च बाध्यते | ताभ्यो
विलक्षणत्वात् तु तथा चाविषयत्वतः इति | यद्येवमन्यानि शास्त्राणि न
प्रमाणानि भवेयुः | मैवम् | नान्यपि स्वविषये प्रमाणान्येव
तत्तत्प्रणेनॄणां सर्वज्ञत्वाभावेऽपि स्वविषये ज्ञानादियोगात् | अत एव
तैरसर्वार्थ दशिभिः स्वशास्त्रादन्यदप्रमाणमित्युक्तम् | सर्वार्थ
दर्शितानातु शिवेन सर्वेषां स्वस्वविषये प्रामाण्यमुक्तं
श्रीमत्सर्वज्ञानोत्तरादौ ज्ञानचर्यान्वितो बौद्धौ
बुद्धितत्त्वमवाप्नुयादित्यादि | ते च तत्त्वप्राप्तिमेव परं मोक्षम् मन्यन्ते |
तदयुक्तम् | तदूर्ध्व भुवन भोग्यानां कर्मणां युक्त्यागमसिद्धानां
मलादिपाशानां चापरिक्षयान् परमप्राप्तिहेतुभूतशिवादिवस्त्वपरिज्ञानाच्च
|
प्. ७५)
तदुक्तं श्रीमन्मृगेन्द्रे -
यत्कैवल्यं पुंप्रकृत्योर्विवेकात्
यो वा सर्वं ब्रह्म मत्वा विरामः |
या वा काश्चिन् मुक्तयः पाशजन्या
स्तास्ता सर्वा भेदमायान्ति सृष्टौ || इति |
श्रीमदवधूतगुरुणापि -
त्वन्मते भवविज्ञाननिष्पन्ना अपि मुक्तयः |
भजन्ते नाविसंवादमाम्भसा इव वृष्टयः || इति |
कानि पुनर्दर्शनान्तरैस्तत्रच्छास्त्रसिद्धानां प्राप्यानि स्थानानि?
अत्रोच्यते -
लोकायतस्त्वात् - पृथिव्यापस्तेजोवायुरिति चत्वारितत्वादि चैतन्यविशिष्टः
कायः पुरुषः मदशक्तिवद्विज्ञानं प्रत्यक्षमेव
प्रमाणमित्यादिद्यभ्युपगमात्
प्रत्यक्षपरिदृश्यमानब्रह्माण्डोदरगतपृथिव्यादिभूतव्यतिरिक्त##-
चैहिकमेव सुखं मोक्ष इति मन्यते | यदाहुः -
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः |
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ||
इत्यादि | ते च भूतचैतनिकाः कथ्यन्ते | एषां चतुर्भूतविषयं ज्ञानं
प्रमाणमेव | इतरवस्तु कथनं भ्रान्तिरेवमन्येषामपि वादिनां
स्वस्वविषयवस्तु कथने प्रामाण्यम् | स्वविषय स्वभावकथन मां -
प्. ७६)
तदि स्वरूपान्यथा भाव कथनं च भ्रान्तिरेव |
केचित् पुनरात्मवादिनोऽनादिरेव पुरुषः कार्यकरणैः प्रवाहतः संसारबन्ध
तस्थानादेः शरीरेन्द्रिययोगस्य विनाशाभावात् केवलं परिदृश्यमानानि
दुःखशरीरनिवृत्यावशिष्टकर्मतः प्रकृष्टतरशरीरयोगेन नक्षत्र
मार्गेऽवस्थानं मोक्षमाहुः |
अन्ये त्वाग्नेय सौरवैष्णवादयोग्न्यादि देवतासाम्यं मोक्षः | ततः परं न
प्राप्यस्थानमस्तीत्याहुः | तेषामपि
ब्रह्माण्डान्तर्गततत्तद्भुवनदेवताप्राप्तिरेव स्यात् | ततस्तेपि भूतसिद्धा एव |
अपरे तु हिंसामैथुनादिकमेव पुरुषार्थोपायं मन्यमानाः कौलाः
घटपटन्यायेन भौतिकशरीरविनाशात् विशिष्टपदप्राप्तिमेव मोक्षं
मन्यन्ते | तेपि वस्तुतः पिशाचादि पदावस्थितत्वात् भूतसिद्धाः | एवं
कर्ममीमांसकाः जैमिनीयाः पुनर्न कदाचिदनीदृशं जगन्नास्य कर्ता
कश्चिदस्ति आत्मानस्तु नित्यास्ते च स्वानुष्ठितैः कर्मभिरेव स्वर्गनरकादि
फलभोक्तारः | एषां च श्रुतिस्मृति
विहितनित्यनैमित्तिकानुष्ठानात्परगतिप्राप्तिरित्याहुः |
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया |
मोक्षार्थि न प्रवर्तेत तत्र काम्यनिषिद्धयोः || इति |
मन्वादयोऽपि भूताण्डकारणं यत्तदेवं परं ब्रह्म ज्ञानात्प्राप्यं च |
नान्यतः संभवादित्याहुः |
ततः स्वयंभूर्भगवान् व्यक्तो व्यञ्जयन्निदम् |
प्. ७७)
महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदे | इत्यादि |
एते च सत्त्वादीनामपि ब्रह्माण्डमध्यजन्यत्वेनाभ्युपगमान् प्रकृतिजन्यानि
गुणादीनि तत्त्वानि नैव सन्ति | ते सर्वे वस्तुतस्तन्मात्रासिद्धा इत्यत्रोच्यन्ते |
इन्द्रियचैतनिकास्तु शरीरव्यतिरिक्तानीन्द्रियाण्येवात्मशब्दवाच्यानि
नान्यदित्याहुस्तेचेन्द्रियसिद्धाः कथ्यन्ते | तत्त्वेपि पुनरिन्द्रियाणां
प्रवृत्तिकारणम् मन एवात्मा तदेव परमं ब्रह्म तस्माज्जगत्सर्वं
प्रवर्तते | तदेव ज्ञानात् प्राप्यमित्याहुः | यदुक्तं तैः -
चित्तमेव हि संसारो रागादिक्लेशदुषितम् |
तदेव तद्विनिर्मुक्तो मोक्ष इत्यभिधीयत || इति |
तेप्यन्तः करण चैतनिकेषु मनश्चैतनिकाः | ये पुनर्निरूपाख्यमहं
प्रत्ययस्वरूपमेव ज्ञानात्प्राप्यमित्युपगछन्ति तेप्यहं कारचैतनिकाः | ये
त्वहंकारवृत्तिरूपं प्राणाख्य वायुमेवात्मानं मन्यन्ते
तेप्यहंकारचैतनिकाः तेप्यहंकारसिद्धाः एव |
बौद्धास्तावन्नैरात्म्यवादिनश्चतुर्विधाः | तत्र वैभाषिक सौत्रान्तिकौ
बाह्यार्थसद्भाववादिनौ सर्वेवस्तूनां क्षणिकत्वमभ्युपगम्य
बुद्धिवृत्त्यात्मिकामध्यवसायरूपां ज्ञानसन्ततिमेवात्मानं मन्यन्ते |
माहायनिकमाध्यमिकौ तु बाह्यार्थशून्याज्ञानसन्ततिरेव परमार्थभूत |
सैव च क्लेशादि वासनायोगात् संसारहेतुर्न तु ततोऽन्यदात्मादिकं
वस्त्वस्तीत्याहुः | एतेषु मध्यात् केचिज्ज्ञानचर्याभ्यां शुद्धचित्संतति
प्. ७८)
समुत्सादो मोक्ष इत्याहुः | प्रदीपनिर्वाण वादिनस्तु तस्याप्युपशमं मोक्षं
मन्यन्ते | ते बुद्धिचैतनिकाः प्रोक्ताः | नैयायिकवैशेषिकास्तु जगतः कर्ता
परमेश्वरस्तस्योपादानं परमाणवः ते च नित्याः |
अत्मानस्तुनित्याव्यापकाश्चं | तेसां च कर्मभोगार्थं मनः संयोगादेव
ज्ञानमुत्पद्यते इत्याहुः | तत्र नैयायिकाः
षोडशपदार्थज्ञानादात्मगुणविशेषेण बुद्ध्यादि विरहमेव मोक्षमाहुः
| वैशेषिकास्तु पदपदार्थज्ञानादिति भेदः | यदाहुः - प्रमाणप्रमेय
संशयप्रयोजन दृष्टान्त सिद्धन्तावयव
तर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां
तत्त्वज्ञानान्निःश्रेयसावाप्तिरिति | द्रव्यगुणकर्मसामान्य
विशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधर्म्यज्ञानं
निःश्रेयसहेतुरिति च | बुद्धि सुखदुःखेच्छा प्रयत्न
धर्माधर्मसंस्काराणां नवानामात्मगुणानां अत्यन्ताभावो मोक्ष इति च
परमार्थस्तेप्यात्मनां नित्यत्वाभ्युपगमेपि जडत्वाभ्युपगमात्
धर्माद्यष्टगुणानां बुद्धिमेवात्मत्वेममन्यमाना बुद्धिसिद्धा एव |
आर्हतास्तु अनेकान्तवादमभ्युपगम्य चलं गुणवृत्तमिति
पातञ्जलोक्तन्यायेन गुणतत्त्वमेव
तादृग्रूपमव्यापकमव्यापकशरीरपरिमितं परिणामिनं चात्मानं
नित्यं मन्यमानास्तस्यानादि मोहादि संक्षयादिति ततस्ते गुणसिद्धा कथ्यन्ते |
अन्ये तु पुरुषाणामनादिरेव प्रकृतिः | प्रकृतिसंबन्धो भोक्तृत्वं च | न
चानादेर्नित्यस्य स्वभावस्य
प्. ७९)
विनाशोयुक्तस्तस्मान्मुक्तावपि भोक्तृभोग्य संबन्धः
पुंप्रकृत्योरेष्टव्यः | केवलं चानादिकर्मक्षयान्मुक्तौ
शुद्धनिरन्तरानतिशयानवछिन्नसदात्म सुखरूपा सा भोग्या भवतीत्याहुः
| ते च सत्व भुजः कथ्यन्ते | तेषां च गुण भुवने स्थितिः सांख्याः पुनः
पुरुषाः प्रतिशरीरं भिन्नाः नित्याः निर्विकाराः निर्गुणा निर्मलाश्चित्स्वरूपा
व्यापका उदासीना अनाद्य विद्यादि क्लेशयुक्ताश्च प्रकृतिरप्येका
सत्वरजस्तमोरूपा नित्या चैतन्यरहिता व्यापिका समस्तजगदुपादानभूता च | सा
च महदादि पृथिव्यन्त तत्त्व तात्त्विक कॢप्तिरूपेण परिणता स्वात्मानं
भोग्यतया पुरुषेभ्यो दर्शयतीति स एव तेषां संसारः | तेषां मध्ये यदा तु
व्यक्ताव्यक्तात्मविषयेण ज्ञानेन प्रकृतिपुरुष विवेकपुरःसरं
सत्त्वान्यथाख्यातिर्भवति तदा सातं प्रत्युपरताधिकारा तस्मान्निवर्तते |
तदापदृष्टस्वरूपाद्यवस्थात्मकं कैवल्यं भवतीत्याहु | यदुक्तं तैः
-
वत्सविवृद्धि निमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य |
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्ये ति ||
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात् |
प्. ८०)
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिरिति च | तदेकदेशास्तु
पातऽऽञ्जलाः प्रागुक्तमभ्युपगम्य पुरुषेषु मध्यात् कस्यचित्
क्लेशादिवर्णितत्वं शास्त्रोपदेशकत्वं चोक्त्वा
ज्ञानयोगाभासान्मोक्षमिच्छन्ति | यदाहुः -
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः |
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष इश्वरः | स पूर्वेषामपि
गुरुः | इत्यादि | तेषां ज्ञानादिना गुणतत्वान्तभोग्यकर्मक्षयात्
तदूर्ध्वबुवनप्राप्तिरेव मोक्षः | ततुक्तम् परमोक्षनिरासकारिकासु -
गुणतत्त्वोध्वभोग्यस्य कर्मणोनुपलब्धितः |
कैवल्यमपि सांख्यानां नैव युक्तमसंक्षयात् || इति |
पाञ्चरात्राच्च गुणव्यतिरिक्ताया नारायणाख्यायाः परस्थाः
प्रकृतेश्चिदचितोः वस्तूनां सर्वेषां साक्षात्परम्परयाचोत्पत्तिस्तेषां च
जीवानां विद्या न कर्मानुबन्धेन संसारोज्ञानादिना तत्क्षयतः
समुपशान्तकार्यभेदरूपे तस्मिन् परमात्मनि कारणलयः परश्रेय इति
वदन्ति | यदाहुः -
भगवान् वासुदेवोसौ गुणेभ्यः प्रकृतिः परा |
अव्यक्तं व्यक्तमाहुस्तं परमस्मान्न विद्यते || इति |
ईशांस्तु ते समभवन् प्रकृतेः परस्याः
कृष्णानिरुद्ध मकरध्वजरौहिणेयाः |
इत्याति च | तेत्राव्यक्त सिद्धाः कथ्यन्ते | तद्विकार भूतानां कृष्णादीनां
तत्साधकानां
प्. ८१)
च गुणतत्त्वस्थे विष्णुभुवने वस्थितिः | तदुक्तं श्रीमत्पौष्करे -
अकृतं च कृतं चैव रैभवं ब्राह्मंमेव च |
वैष्णवं वाथ कौमारमौमं श्रैकण्ठमेव च ||
भुवनानि गुणेष्वष्टाविति | एते च सांख्यादयो माया महामाययोरपरिज्ञानात्
सविषयामेव प्रकृतिं परप्रकृतितया परव्योमतया च मन्यन्ते |
तदेकदेशास्तु प्रकृति मेव परब्रह्मत्वेनाभ्युपगम्य तद्विवर्तं
जगदित्याहुः परिणामं वेदान्तिनः परमात्मलषणायाः पर
प्रकृतेर्जीवात्मनां प्रपञ्चस्य चोत्पत्तिमुक्त्वा तेषां
जीवात्मनामात्मज्ञानादिना परमात्मनिलयो मोक्ष इत्याहुः | मायावादिनस्तु
सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चनेत्यादि श्रुतिसिद्धस्य ब्रह्मण एव
सत्यतया तदन्येषां च
भेदरूपाणामविद्यानिर्माणैकसारत्वेनासत्यत्वाज्जीवात्मनामपि
प्रमाणसिद्धप्रोक्तसत्यभूतपरमात्मासारत्वेनप्यविद्याकलुषितत्वेन
भ्रान्तत्वात् स्वप्नानुभवसंसाराभिधानो भेदप्रपञ्चस्वरू * *
* * विदं प्रथमस्यात् कदाचिदात्मा ज्ञातव्य इत्याद्युक्तक्रमेण
सम्यग् ज्ञानोदयात्तत्प्रतिपक्षभूत भ्रान्तिकारणप्रोन्मूलनेन
तिरस्कृताखिलभ्रान्तिः परमात्मबोधः सुप्तप्रबुद्धस्य
स्वरूपमात्रप्रतिष्ठो जीवात्मनः पूर्वप्रवाह विलयो भवति | सैव
परामुक्तिरित्याहुः | तस्मात् ते पुरुषतत्त्व एवावस्थिताः | यच्छ्रूयते -
प्. ८२)
बुद्धितत्त्वे स्थिता बौद्धा गुणेषु त्वार्हताः स्थिताः |
स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः || इत्यादि |
शब्दब्रह्मवादिनस्तु त आत्मनः क्रियाशक्तिमेव परं ब्रह्म
परव्योमादिशब्दवाच्यामभिधाय तत एव शब्दार्थरूपस्य
प्रपञ्चस्योत्पत्तिः | तत्परिज्ञानाल्लय एवापवर्ग इत्यहुः | तेपि परमार्थतः
पुरुषतत्त्व एवावस्थिताः पौराणिकास्तु सांख्योक्तवत्प्रकृत्यादि तत्त्वजातं
प्रकृतिपुरुषाधिष्ठातारं षड्विंशतिकमीश्वरं चाभ्युपगम्य
तत्सालोक्यादि रूपां तद्गणेश्वर प्राप्तिं चैव परां मुक्तिमाहुः | तेषां
वस्तुतः प्रेर्यत्वात् तदूर्ध्ववस्त्वपरिज्ञानाच्च न परा मुक्तिः | यदुक्तम्
परमोक्षनिरासकारिकासु - गणेन्द्राग्निसमो प्रेर्यावसंपूर्ण
मनोरथावित्यादि | एवं परमादित्यादि साम्यमोक्षवादिनोपि तत्तद्भुवनेषु
तत्तत्सालोक्यादिरूपां मुक्तिं व्रजन्तीत्यर्थतः सिद्धमेव | पाशुपताः पुनः
मायाव्यतिरिक्त मलमनभ्युपगच्छन्तो दीक्षाज्ञानादिना सर्वबन्धक्षये सति
परमेश्वारात् सिद्धे सर्वज्ञत्वादि गुणसंक्रान्तिस्तत्साम्यं मुक्तिरित्याहुः |
तेषां तु परमार्थतो मलापरिज्ञानात्तद्विनाशाभावेन मायातत्त्व
एवावस्थितिः | यच्छ्रूयते - पाशुपतास्तु मायायां विद्यायां तु
महाव्रताः इति | एवं तद्विशेषाणां शैवपुराणाद्युपन्यस्तानां
वैदिकयाशुपतावामप्यत्रैवावस्थितिः | केचिदुत्पत्त्या साम्यमोक्षवादिनः
शिवप्रसादा सिद्धे सर्वज्ञत्वाद्युत्पद्यत इत्याहुः | अपरे परमेश्वरावेशात्
सिद्धे सर्वज्ञत्वादि
प्. ८३)
स्यादित्याहुः | तेषामपि समलत्वेन पारमार्थिकस्वगुणव्यक्त्य भावात्
तत्रैवावस्थितिः स्यात् | महाव्रताश्च
सांख्यपक्षवद्बद्धदशायामप्यात्मना न कर्तृत्वं मुक्तौ च
सिद्धानां सर्वज्ञत्वमेवासर्वकर्तृत्वं तु
परमेश्वरस्यैवेत्यभ्युपगछन्ति | यदुक्तं पदयक्षिण्याम् -
परमशिवसिद्धात् प्रत्युपरनाधिकारोप्यन्येष्वनुपरताधिकारः सिद्धः
पुनरेकान्ते न सर्वत एवोपरताधिकार इति भेद इति | एवं भूते च विद्यातत्वान्त
एवाध्वनि तत्वान्तराप्त * * * रतन संज्ञाया कथयन्ति
परमार्थतस्तत् तत् तत्त्ववासिनामिव | सर्वकर्तृत्वानभ्युपगमात् ते
विद्यायामेवावस्थिताः इत्युक्तम् - विद्यायां तु महाव्रताः | अन्ये पुनः
सिद्धस्य सर्वज्ञत्वमभ्युपगम्य परमेश्वरप्रेर्यत्वमिच्छन्ति | परे तु
प्रवाहनित्येश्वरवादिनः सिद्ध एव सर्वकर्तृत्वमीश्वरेप्यन्यस्मिन्नेत्याहुः |
तेषामीश्वरप्रेर्यत्व सिद्धेर्वस्तुत ईश्वरतत्त्वेऽवक्ष्यानम् | शक्त्यद्वैतवादिनः
केचिच्छक्तिमेव परमकारणत्वेनाभ्युपगम्य तत्परिणामं जगदिच्छन्ति | ते
च वेदान्तवादिवज्ज्ञानादिना तल्लयमेव मोक्षं मन्यन्ते | ते परमार्थतः
शक्तेरूपादानत्वाभ्युपगमात्कुण्डलिनीय शक्तितत्वेऽवस्थिताः कौलादीनां तु
कैश्चित् पुरुषार्थसाधनत्वेन स्वीकृतानन्दतन्त्राणां मत्स्यादिभिः सर्वैः
स्वमनिषया प्रणीतत्वेना फलत्वान्नात्र शैवे स्वीकारः | एवमुक्तेन
प्रकारेणान्येपरमपिवामदक्षिण
प्. ८४)
गारुड भूततन्त्राख्यस्रोतोन्तराणामपि स्वस्वविषये प्रामाण्यमस्त्येव | एवं
सर्वागमानां स्वस्वविषये प्रामाण्यमभ्युपगम्य तदविषयाणि शिवादि
वस्तूनि प्रदृश्य तछास्त्रोपदिष्टमोक्षेभ्यः
प्रकृष्टतरस्यापुनरावृत्तेः परमशिव साम्यरूपस्य
स्वरूपव्यक्तिलाभात्मनः परस्य मोक्षस्य प्रदर्शना तदेव
प्रमाणमित्युक्तम् | एतत्सर्वागमप्रामाण्यं तत्र भवता रामकण्ठेन
श्रीमद्रौरववृत्तिविवेके प्रोक्तम् | यदुक्तं -
परस्पर विरोधेन प्राप्यबाधामनानताम् |
सर्वागमानामाहुर्ये तत्प्रतिक्षेप उच्यते ||
शक्तितत्त्वे तदद्वैतामुक्तिमिच्छन्ति ये स्थिताः |
विद्येशतत्त्वे पूर्वे तत्प्रेर्यमीश्वरमेव ये ||
मन्त्रेशशुद्धविद्यायां ये सर्वज्ञं मुनीश्वरम् |
मायायां ये स्वचिद्धीनं संक्रान्तगुणमीश्वरम् ||
ते स्थिता मुक्ति भेदोयं शुद्धोयं पशुदृक्कृतः |
पशौ ब्रह्मत्वमाहुर्ये चिद्विवर्तादनिर्मलात् ||
तत्रैव च-
ये प्राक् प्रपञ्चां क्रियाशक्तेः पराहि वाक् |
अव्यक्ते येऽप्युपादानं गुणानां ब्रह्म चात्मनाम् ||
अत्रैव करणं तेषां ये तु नारायाणाभिधम् |
गुणपृष्ठे गुणेभ्यो ये विवेकोक्तबलान्नरम् ||
गुणेषु येप्यनेकान्तं स्याद्वादचलवृत्तिषु |
प्. ८५)
बुद्धौ भ्रान्ताः पुमांस्ते ये ज्ञानादि गुणशान्तितः |
बुद्धिवृत्तौ क्षणध्वंसि ज्ञानमात्रं तु ये भ्रमात् ||
अहंकृतौ तु तद्वर्त्ति प्राणमात्रं भ्रमेण ये |
मनसीन्द्रियवृत्तौ यो हेतुमात्रं भ्रमान्तरम् ||
इन्द्रियेष्विन्द्रियाण्येव ज्ञात्वा ह्यात्मेति ये विदुः |
तन्मात्रेष्वाप्य माहुर्ये ब्रह्मभूताण्डकारणम् ||
हिंसामैथुनतः सिद्धाः पिशाचादिपदे स्थिताः |
भूतेषु येपि चैतन्यं प्राप्यं भूतात्मकं विदुः ||
तेपि मुक्तौ स्थिता स्वेच्छा मन्ये ये परदर्शनात् |
मुक्तिमिच्छन्ति तज्ज्ञेयास्तत्तत्तत्त्व युजो बुधैः ||
यच्चित्तस्तत्र योपेतो भवतीत्युच्यते बुधैः |
शश्वत्प्राप्य चितश्चैतं व्याप्नुवन्त्येव ते स्वतः ||
तत्त्वेभ्यो दक्षिणेभ्योन्यत्तैः प्राप्यं यद्यपीष्यते |
तथापि च तदेवोक्तं कार्यैकाध्यवसायतः ||
परोक्षस्यार्थतो भेदो भेदोयं कारणस्य वा |
कार्याद्भिन्नादभिनाच्च सिद्धवत्सिद्धिमेतियत् ||
कार्यैरेभिस्थितैर्यस्मात्तानि ज्ञानि तैः परैः |
तान्येव नामभिस्तत्त्वैर्न च नामार्थ भेदकम् ||
तत्रापि तेषामंशेन भ्रान्तिर्यद्यपि विद्यते |
सत्यकार्यानुमानैस्तैस्तथाप्य भ्रान्तबुद्धयः ||
प्. ८६)
भ्रान्तिरर्थान्तरारोपान् सत्यधर्मावलम्बिनि |
कार्यापैतीति सर्वस्य न विहन्तुं क्षमायतः ||
काचोग्निहेतुरिति यैः सूर्यकान्तः प्रतीयते |
काच भ्रान्त्यापि किं तत्र ते भ्रान्ताः परमार्थतः ||
अतः स्वसंकल्पनाभिस्तैः कल्पितं वस्तु यद्यपि |
तथाप्यन्ते विसंवादात्तद्रूपत्वं विशन्ति ते ||
तेषां भ्रान्तिस्तु सा प्रोक्ता तत्प्राप्तौ यानि वर्जिता |
तत्सचित्र विपक्षत्वात् प्राप्तेरपि विरोधिनी ||
षट्त्रिंशत् तत्त्वरूपस्य आत्मनोस्य क्रमस्थितेः |
तदेकदेशतत्त्वाप्तिर्न सत्त्वा न च निष्फला ||
इत्थं प्रत्यागमं येन भिन्नं प्राप्यमवस्थितम् |
सर्वागमानां तेनोक्तं प्रामाण्यमविरोधतः ||
प्रामाण्यमित्थं सकलागमानामीशेन गीतं क्वचिदेवयञ्च |
एतद् गुरुणामुपदेशसिद्धं युक्त्योक्तवांस्तद्वतरामकण्ठः || इति |
सर्वं च शास्त्रजातं लोकिकादि भेदात् पञ्चधा भिन्नं तत्र लौकिकं
शास्त्रमायुर्वेददण्डनीत्यादि दृष्टफलम् | वैदिकं तु मीमांसादि
दृष्टादृष्टफलम् | आध्यात्मिकं तु वेदान्तसांख्याद्यात्मज्ञानफलम् |
अतिमार्गं पुनः पाशुपतादि मायादि तत्त्वप्राप्ति फलं च | मान्त्रं तु
शैवाख्यं परापरभोगमोक्षफलम् | ततुपायोपदेशकं च तस्मादन्येषु
शास्त्रेषु शिवादिपरिज्ञानं भोगमोक्षं स्वरूपं तदुपाय कथनं च
चास्फुटं
प्. ८७)
यदुक्तं श्रीमन्मृगेन्द्रे -
प्रणेत्र सर्वदर्शित्वान्न स्फुटो वस्तुसंग्रहः |
उपायाः सफलास्तद्वच्छैवे सर्वमिदं परमिति ||
ननु स्रोतोऽन्तराणां वामदक्षिण गारुडभूत तन्त्राणामपि शैवत्वेन
प्रसिद्धेः कथं तेषु वस्तुसंग्रस्य भेदः | उच्यते | तेषां परस्पर
विरुद्धार्थ प्रतिपादकत्वेन सांख्यादिवदेककर्तृत्वा संभवात् सर्वज्ञस्य
सर्वानुग्राहकस्य रागद्वेषादि रहितस्य शिवस्य विरुद्धार्थाभिधायित्वा योगात्
परमेश्वरात्कामिकादि ज्ञानावतारकत्वेन प्रसिद्धानां प्रणवादीनामिव
स्रोतोऽन्तराणामपि परमशिवादवतारकत्वेन कस्य चिदस्मिन् शास्त्रोक्त
वचनादर्शनाच्च न तानि परमशिवकृतानि किंतु
तत्पुरुषशिवशक्त्यधिष्ठितैर्मलपरिणति
तारतम्याधिकारमनुगृतीतैर्वामादिवच्छिवशब्दवाच्यैरागमानन्तरैः
प्रणीतमित्यविरोधः | तानि च स्वविषये प्रमाणान्येव | तदुक्तं रत्नत्रये -
सिद्धान्त एव सिद्धान्तः पूर्वपक्षास्ततः परे |
आगमाः शिव एवैकः शिवोऽन्येत्व शिवा मताः || इति |
श्रीमन्मृगेन्द्रेपि -
स्रोतांसि कामिकायुर्ध्वमसिताङ्गादि दक्षिणम् |
संमोहाद्युत्तरं प्राच्यां तन्त्रं तालादिविस्तरम् |
आद्यं चण्डासि धारादि चण्डनाथ परिग्रहम् ||
इति कथं पुनस्तत्रैव -
सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये |
विधत्ते विमलं ज्ञानं पञ्चस्रोतोभिलक्षितमित्युक्तम् ||
प्. ८८)
अत एव विमलमित्युपदेशातपञ्चमन्त्र परिग्रहत्वात्पञ्चकृत्य
प्रतिपादकत्वात् मञ्चमन्त्रात्मक शिवदेहाभिव्यक्तत्वाच्च सिद्धान्तरूपमेव
ज्ञानं पञ्चस्रोतोभिलक्षितमित्युक्तं | अत एव स्रोतोऽन्तरस्थानां सर्वत्र
शैवत्वेन प्रसिद्धिः | तदुक्तं श्रीमत्ष्ट्सहस्रिकालोत्तरे -
शान्त्यतीते कामिकाख्यं शान्तेर्वै योगजं विभोः |
अचिन्त्यं विद्धि विद्यातः प्रतिष्ठा कारणात्मिका ||
निवृत्तेरजितं नाम शिवस्य वदनानि तु |
दीप्तं शिवस्य हृदयं सूक्ष्माख्यं तु शिरस्तथा ||
सहस्रं तु शिखा शम्भोरंशुमत्स्यात् तनुत्रम् |
सुप्रभं लोचनं ज्ञेयं सोमसूर्याग्निसन्निभमिति ||
मूर्धतो विजयं जातं ललाटात् पारमेश्वरम् |
नेत्रेभ्यश्चैव निश्वासं त्रिखण्डं निर्गतं पुरा ||
श्रवणाभ्यामयोद्गीतं द्विखण्डं भुक्तिमुक्तये |
त्रिंशत्प्रकारं विज्ञेयं मुखाच्च मुखबिम्बकम् ||
त्रिशतं तु तथा सैद्धं ग्रीवां साभ्यां समुत्थितम् |
द्विकाण्डं चैव संतानं तालु देशाद्विनिर्गतम् ||
एकभेदं नारसिंहं वक्षोदेशाद् विनिर्गतम् |
स्तनाभ्यां चन्द्रहासाख्यं तद्विभेदाद् विनिर्गतम् ||
प्. ८९)
हृद्ग्रीवाद्वीरभद्राख्यं तद्विभेदादिविनिर्गतम् |
आग्नेयं वातुलाज्ज्ञेयं जठरादेकभेदकम् ||
स्वायंभुव नाभिदेशात् भेदेनैकेन सर्पितम् |
विसरं पार्श्वयोर्जातं द्विभेदं शिवकायतः ||
रौरवं ब्रह्मदेशात्तु भेदैकेन व्यवस्थितम् |
प्राकुटं कटितो जातं त्रिभेदं तच्च शाङ्करि ||
एकभेदं तु किरणं प्रजननाद् विनिर्गतम् |
ऊरुयुग्मानु ललितं सिद्धान्तं तद्विभेदजम् ||
द्विभेदं सौरभेयं च जानुभ्या परमेष्ठिनः || इति |
तस्मात् सिद्धान्ताख्यं शास्त्रं सर्वोत्कृष्टमित्यनेन च सर्वाणि ज्ञेयानि
वस्तूनि प्रतिपाद्यन्ते |
अत्र हि पशुपति पाशाख्यं पदार्थत्रयं मुख्यतया ज्ञेयत्वेनोच्यते |
एतेष्वेवान्येषामप्यन्तर्भावात् | यदुक्तं श्रीमन्मृगेन्द्रे -
त्रिपदार्थं चतुःपादं महातन्त्रं जगत्पतिः |
सूत्रेणैकेन संगृह्य प्राह विस्तरशः पुनः || इति |
तत्र मन्त्र मन्त्रेश्वर मन्त्र महेश्वर मुक्तात्मशक्ति शिवानां
क्रियादिपादवाच्यस्य दीक्षादेर्भोगमोक्षसाधनकलापस्य च पतिपदार्थे
संग्रहः | पशुपदार्थे च विज्ञानाकल प्रलयाकल सकलान | तद्भेदानां
संग्रहः | पशुपदार्थे तु मलतिरोधानशक्तिकर्ममायामहामायारूपाः
पाशाः संगृह्यन्ते | अत्रापि च श्रीमन्मतङ्गादौ
प्. ९०)
पदार्थानां संज्ञाभेदाः संख्याभेदाश्च श्रूयन्ते | तत्राप्येतानि वस्तूनि
प्रकाशन्तरेणोच्यन्त इत्यविरोधः | पशुपतिपाशलक्षणं चोक्तं
श्रीमत्पराख्यादौ -
सर्वकर्ता महान् छक्तः सर्ववेत्ता महेश्वरः |
मन्त्राङ्गोऽनुग्रहोत्साहः शान्तो विद्येश बोधकः इत्यादि ||
देहान्यो नश्वरोव्यापी विभिन्नः समलो जड |
स्वकर्मफलभुक्कर्ता किञ्चिज्ज्ञः सेश्वरः पशुरित्यादि |
तथा प्रावृतीशबले कर्ममाया कार्यं चतुर्विधम् |
पाशजालं समासेन धर्मानाम्नैव कीर्तिता | इत्यादि च |
पशवस्त्रिविधाः तत्र मलमात्रयुतो विज्ञानाकलः मलकर्मयुतः प्रलयाकलः
मलमायाकर्मयुतः सकलः मलश्चैकोनात्मविद्या विद्यावारकोनेकशक्तियुक्तो
नित्यो व्यापकश्च | कर्मापि प्रतिपुरुषभिन्नं प्रवाहानाद्यात्मकर्तृकं
सुखदुःखादिप्रदं च | माया शुद्धाशुद्धा च | तत्राशुद्धा च
तत्राशुद्धा कलादिक्षित्यन्तत्रिंशत्तत्व तद्गतभुवनभुवनभूतभावानां
परमकारणभूता नित्या स्वकार्यव्यापिका शुद्धविद्यादि शक्तितत्त्वान्त
तत्त्वतात्विक भुवनादि परमकारण रूपा शब्दोपादान भूता च रोधशक्तिस्तु
मलपाकात्पूर्वं तत्पाकार्यं पशूनां तिरोधानभावनां कुर्वाणोपचारेण
पाश इत्युच्यते | किं च महामाया भुवनप्राप्तेरपरमुक्तित्वेपि तत्प्राप्तानां
परमुक्त्यपेक्षया पारतन्त्र्यादि योगात्रयाणां पाशत्वमुच्यते | एतच्च
प्. ९१)
सर्वं शास्त्रेषु विस्तरेण साधितत्वान्नात्र प्रपञ्चते |
ननु नित्य एव शब्दः | कथं तदुपादानतयात्र सिद्धा महामायोच्यते |
अत्रोच्यते वर्णानामाचैतन्ये सत्यनेकत्वेन तत्कारणतया विद्याख्या महामाया
सिद्धा | तदुक्तं श्रीमत्पराख्यादौ -
उपादानमतो बिन्दुर्यस्माद्वर्णा न तद्विना |
बहुसंख्याः स्मृता यस्मात् कृतास्ते चेतनायतः ||
निमित्तमीश्वरस्तेषामुपादानं स बिन्दुरा || इति ||
अमेनाक्षरबिन्दोः परमकारणस्य परबिन्दोर्विशेषमाह | ततश्च परमेश्वरो
बिन्द्वाख्यात्परमकारणान्नादादि क्रमेण समस्तपदादिरूप-
शब्दकारणत्वान्मातृकाशब्दवाच्यान्वर्णानुत्पादयति | तदुक्तं
श्रीमन्मृगेन्द्रे -
शक्तेर्नादो भवद्बिन्दुरक्षरं मातृका तत इति |
ननूच्चरिते ध्वंसिनां वर्णानां ताल्वोष्ठपुटसंयोगादुत्पत्तिर्दृश्यते |
उक्तं च -
आकाशवायुप्रभवः शरीरात्समुच्चरन्वक्रमुपैति नादः |
स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागछति यः स शब्दः ||
इति | तत्कथं महामायाजन्या मातृकोच्यते | अत्र ब्रूमः | परमेश्वरः
सर्गादौ नादादिक्रमेण मातृकामन्त्रं मन्त्रात्मकं च
सिद्धान्तशास्त्रमुत्पादयामास | स च शुद्धशब्द उच्यते | तदुक्तं
श्रीमत्पराख्यादौ -
बिन्दुः शुद्धस्तदिच्छातः शब्दराशिरभूत्तदेत्यादि |
तदुत्पन्नाश्च नादास्तत्वान्तरवत्प्रतिपुरुषमर्थप्रत्यायकत्वेन शिवेच्छया
संयुज्यन्ते | नादसिद्धिश्च नादकारिकासु द्रष्टव्या | तदुक्तं श्रीमत्कालोत्तरे
-
प्. ९२)
नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् इति |
ते च नादा विद्येश्वरादिषु वर्तमानाः शुद्धबैन्दवशरीरादिसहकारेण
शुद्धशब्दोच्चारहेतवो भवन्ति | सकलेषु तु बद्धात्मसु वर्तमाना मायीय
कार्यकरण सहकारेणं परमाक्षरबिन्द्वादि क्रमेण शब्दोच्चारभेदेनार्थ
प्रतिपत्तिहेतवश्च भवन्ति तदुच्चरितशब्दो मायीयाकाशादिजन्यत्वादशुद्ध
उच्यते | ततश्चास्मदाद्युच्चरितेषु शुद्धवर्ण सदृशेष्वङ्गारस्थानीयेषु
वर्णेषु परमेश्वराद्यवधानादिना तद्द्धिच्छया नादद्वारेणाभिव्यक्ता
अग्निस्थानीयाः शुद्धवर्णाः फलहेतवो भवन्ति | अत एव घटादिशब्देभ्यो
मन्त्र राजस्य विशेष | उक्तं च श्रीमन्मतङ्गे -
वाच्यवाचकभेदे यः सुप्रसिद्धौ महामुने |
तेषां व * * संनियुक्तानां वाच्यानां कारणेच्छया | नियुक्ता
वाचकत्वेन वर्णाः शास्त्रे शिवोदये | अस्वतन्त्रं जगद्यस्मात् स्वतन्त्रः
परमेश्वरः |
ददीरिताः साधकानां नित्यं संनिहिता गिरः |
पुरुषाणामचैतन्याद्वर्णानामप्यमूर्तता ||
मन्ये च परतन्त्रत्वात् साधकस्यापि शासने |
शक्त्यावेशात् ततः सिद्धा वाच सांनिध्यता मनोरिति ||
तस्माच्छब्दार्थ संघस्य नित्यत्वाच्छब्दोपि नित्य इत्ययमपि पक्षो निरस्तः |
वाच्यवाचकसंबधस्य परमेश्वरसंकेतकृतत्वान्त च संकेतः
सर्वशब्दानामेकेन कर्तुमशक्यमिति वाच्यामपरिमित शक्तित्वेन
प्. ९३)
परमेश्वरस्योक्तत्वात् | तदुक्तं श्रीपराख्ये -
तगदेतद्यथा सृष्टमिच्छया क्रमवर्जितम् ||
संकेतोपि तया सृष्टो जनैर्ज्ञातस्तदिच्छया |
अस्वतन्त्रं जगद्यस्मात्कर्मपाशतमोवृतम् ||
या काचित् तद्गताचेष्टा सा सर्वा तत्कृता यतः |
तेन संकेतकृत्सर्वो कुलहेतुर्यतः स्थितः ||
मन्त्राणामपि संकेतास्तेनैव परिकल्पिताः |
बहवस्तत्र ये सिद्धा मातृकापदलक्षिताः || इति |
तथा मन्त्रवार्तिके च -
विद्याविद्येशानां सामान्यविशेषविच्छम्भु |
मन्त्रानकरोद्यस्मादर्य विदभिधान कृद्दृष्टः || इति |
तस्मादितरशब्दरचनाया मायीयकार्यकरणे पशुकृतत्वात्
स्रोतोन्तराणामप्यात्मान्तर प्रणीतत्वाच्च सिद्धान्ताख्यमेव शास्त्रं
सर्वोत्कृष्टमिति स्थितम् | तत्प्रणेतुः परमेश्वरस्य कृत्यानि पञ्च
सूक्ष्मादीनि | यदुक्तं श्रीमन्मृगेन्द्रे - जगज्जन्मास्थितिध्वंसतिरोधान
विमुक्तयः कृत्यं सकारक फलं ज्ञेयमस्यैतदेव हीति | तत्र शिवस्य
साक्सात् सृष्टिः विन्द्वाख्यादुपादानाच्छुद्धतत्व भुवनाद्युत्सादनपूर्वं
विद्याविद्येश्वरादीनां बैन्दवशरीरादि योगजननादि क्रमेण शब्दोत्पादनं
च अनन्तादि द्वारात् मायाख्यादुपादानादशुद्धतत्त्वभुवनाद्युत्पादन
पूर्वमपद मन्त्रेश्वराणां सकलानां च मायीय कार्य करणादि
संयोजनम् | तदुक्तं श्रीमत्किरणे -
प्. ९४)
शुद्धे ध्वनि शिवः कर्ता प्रोक्तोऽनन्तोसिते प्रभुः | इति |
स्थितिः स्वेच्छया निरुद्धस्य सर्वस्य जगतः स्वेषु कार्येषु
नियमेनावस्थापनम् | संहारः पुनः शुद्धाशुद्धयोः सृष्टिप्रातिलोम्येन
माया महामाययोरूपसंहारः | तिरोभावेप्यात्मनां
यथानुगुणभोगभोजनं | अनुग्रहस्तु पाशच्छेदः शिवत्वाभिव्यक्तिश्च
ततश्च परमेश्वरः सृष्ट्यादिभिरात्मनां मलं परिपाच्यानुग्रहेण
मोक्षं करोति | तदुक्तं श्रीमत्स्वायम्भुवे -
अथात्मबन्धसंतान पशुत्व विनिवृत्तये |
व्यक्तये च शिवत्वस्य षड्विधोध्वेह कीर्त्यते ||
तत्त्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकः |
मन्त्राध्वा च कलाध्वा च विशत्येकं शिवं पदमिति ||
ते च प्रत्येकं क्रमेण शिवपदप्राप्ति हेतुत्वात् अध्वानः कथ्यन्ते | तत्र
कलाध्वा शान्त्यतिता शान्तिविद्याप्रतिष्ठा निवृत्त्यात्मक पञ्चकलात्मा |
वर्णाध्वाप्यकारादि क्षकारान्तपञ्चाशद्वर्णमातृकात्मा | पदाध्वा
पुनर्व्योम व्यापिपदरूपस्तत्पदानि च क्वचिदेकाशीतिसंख्यानि क्वचित्
षण्णषतिसंख्यानि | मन्त्राध्वा तु क्वचिन्नेत्र वर्जिताङ्ग
ब्रह्मशिवमन्त्रात्मा क्वचिन्नवव्यूह मन्त्ररूपः शिवादि मन्त्राश्च
प्रतितन्त्रं भिद्यन्ते | तेन च मन्त्रभेदः क्रियाभेदश्च तन्त्रविरोधस्य हेतुः |
क * * * त्र भेदस्यैव बोधायनादिसूत्रेषु यथा | यदुक्तं -
क्रियादिभेदभेदेन तन्त्रभेदो यतः स्मृतः |
प्. ९५)
तस्मात् तत्र यथैवोक्तं कर्तव्यं नान्यतन्त्रतः |
शब्दसामर्थ्यलभ्यं यदर्थसामर्थ्यतोऽपि वा ||
वस्तुशक्त्या यथाप्राप्तं तद्वाक्यं संहितान्तरात् || इति |
याज्ञसूत्रेऽपि - यः स्वसूत्रमतिक्रम्य परं सूत्रेण वर्तते |
अप्रमाणमृषिं कृत्वा सोऽप्यधर्मेण युज्यते || इति |
भुवनानि शुद्धाशुद्धानि भोगस्थानानि | सवप्रतितन्त्रं संख्याभेदेन
श्रूयते | तत्र केषुचिद्भुवनेषु केषां चिदन्तर्भावाभ्युपगमादविरोधः |
तत्त्वाध्वा तु पूर्वोक्तमुक्तिस्थानतारतम्य प्रदर्शनार्थं विस्तरेण लिख्यते |
स च द्विविधोऽशुद्धः शुद्धश्च | तत्राशुद्धाध्वसृष्टिः
साधारणासाधारणोभयरूपेण त्रिधा | तत्रासाधारणसृष्टिः
प्रतिपुरुषनियता सूक्ष्मदेहात्मिका | साधारणानु भुवनाद्यात्मिका |
उभयरूपा तु भुवनजशरीरात्मिका | तत्र मायातत्वमशुद्धाध्व
परमकारणमित्युक्तम् | तस्मात् कलादिक्षित्यन्तानि | तस्मात् कालकलेरागविद्याद्
व्यक्तं गुणाद्धियं | बुद्धितत्त्वादहंकारः तन्मात्राणीन्द्रियाणि च |
तन्मात्रेभ्यश्च भूतानि सर्वं च क्रमशोऽसृजदिति | तत्र कलाशब्देन तन्त्रेण
न्यायेन नियतिरपि संगृहीतेति वृत्तिकारेणोक्तम् | ग्नियतेरपि सर्वत्र तद्वत्तेन
श्रवणात् | उक्तं च तत्रैवाध्वनि मायाधः कलातत्त्वं तु संस्थितम् |
तत्पदद्वये नियतिश्च परेऽन्यस्मिन् कालविद्या ततः पुनरिति तत्र संहारक्रमेण
पृथिव्यादीनि महाभूतानि पञ्च | तदुक्तं सृष्टिक्रमेण श्रीमन्मृगोन्दे
-
प्. ९६)
व्योमप्रभञ्जनाग्न्यम्बु भूमयो भूतपञ्चकम् |
शब्दाह्येकोत्तरगुणमवकाशादि वृत्तिमदिति ||
तदुपादानानि पञ्चतन्मात्राणि | तदुक्तं श्रीमन्मृगेन्द्रे -
शब्दः स्पर्शश्च रूपं च रसोगन्धश्च पञ्चकम् |
गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयोगिता इति |
तत्त्वसंग्रहे च - तद्भूतसमानगुणं कारणमापूरकं च तस्यैव |
तन्मात्रं भूतस्य ह्ययं विशेषो विशेषरहितं तदिति एतानि
स्थूलसूक्ष्मरूपेणेन्द्रियाधाराणि स्थितानि | तदुक्तं श्रीमन्मृगेन्द्रे -
तन्मात्राणीह कट्वन्महाभूतानि लेपवदिति | तत्त्वसंग्रहेपि -
एतत् कार्यं दशधा करणैराविश्य कार्यते चेष्टाम् |
अविभुत्वात्करणानि तु कार्यमधिष्ठाय चेष्टन्ते || इति |
तानि च करणानि कर्मेन्द्रिय बुद्धिन्द्रियान्तः करण भेदानिधा | तत्र
कर्मेन्द्रियाणि श्रीमन्मतङ्गोतवत्संहार क्रमेणानन्दादि क्रियाकरणत्वेन
सिद्धान्युपस्थपायुपादपाणि वागाख्यानि पञ्च | उक्तं च श्रीमन्मृगेन्द्रे
- वाणी पाणी भगः पायुः पादौ चेति रजोभवाः | इति | वचनादान संवाद
विसर्गविहृति क्रिया | इति च | बुद्धिन्द्रियाणि गन्धादि ग्रहणान्यथानुपपत्ति
सिद्धानि | तदुक्तं तत्त्वसंग्रहे -
श्रोत्रस्पर्शनदर्शनजिह्वा घ्राणानि बुद्धिकरणानि |
प्रत्येकं शब्दादिष्वेषामालोचनं वृत्तिरिति ||
प्. ९७)
दशधा करणं बहिरिच्छासंरम्भ बोध वृत्त्यन्यत् |
अन्तःकरणं त्रिविधं चित्ताहंकारबुद्धिनिर्वाच्यमिति ||
अतश्चान्तः करणत्रयं मनोहंकारबुद्ध्याख्यं तत्र मनोऽवधानवृत्ति
सिद्धं | उक्तं च श्रीमन्मृगेन्द्रे -
देवप्रवर्तकं शीघ्रचारि संकल्प धर्मि च |
मनः शब्दादि विषयग्राहकाः श्रवणादयः || इति |
अहंकारस्तु संरम्भवृत्त्यहं प्रत्ययहेतुः | तदुक्तं भोगकारिकासु -
संरम्भोहं कृतेर्वृत्तिः इति | श्रीमन्मृगेन्द्रेपि -
अथ व्यक्तान्तराद्बुद्धेर्गर्वोभूत्करणाञ्चितः |
व्यापाराद्यस्य चेष्टन्ते शारीराः पञ्च वायवः || इति |
अहं प्रत्ययहेतुत्वं च श्रीमन्मतङ्गे विस्तरेण साधितम् | स चाहंकारः
सत्त्वादिगुणाधिक्यात्तैजसवैकारिकभूतादि संज्ञया त्रिधा भिद्यते | तत्र
सात्त्विकात्तैजसात्प्रकाशकानां बुद्धीन्द्रियाणां मनसश्चोत्पत्तिः |
वैकारिकाद्राजसात् प्रवृत्ति हेतूनां कर्मेन्द्रियाणां तामसात्तु
भूतादेस्तन्मात्राणामिति ज्ञेयम् | तदुक्तं भोगकारिकासु -
स मनोबुद्धि देवानां गणो यस्मात् प्रकाशकः |
तस्मात् स सात्त्विकाज्जातः स्वानुरूपादहंकृतेः ||
राजसाद्वैकृताद्वर्गः कर्माक्षाणां तु कर्मकृत् |
जातः कार्यस्य येनेह काराणानु विधायिता ||
मात्रा संघोप्यहंकाराद्वर्गद्वय विलक्षणं |
प्. ९८)
प्रकाश्यस्तामसस्तस्माज्जातीभूतादि संज्ञकात् | इति |
तदुपादानतया बार्ह्यार्थाध्यवसायहेतुत्वेन च बुद्धिः सिद्धा | सा च
गुणतत्त्वादुत्पना | तदुक्तं श्रीमन्मतङ्गे -
क्षुब्धेभ्यः सहसा पूर्वं गुणेभ्यो भूतगोचरा |
बुद्धिरध्यवसायेन भावानां जननी शुभेति ||
सा च धर्मादीनामात्मसंस्कारकत्वेन तद्गुणत्वादभ्युपगन्तव्यं विकारित्व
प्रसङ्गात् | कृष्यादि कर्मणां च प्रकृतिसंस्कारकत्वेनैव
दर्शनाद्बुद्धिरेव धर्माद्यष्टगुणोपेतात्र कथ्यते | तदुक्तं
श्रीमन्मृगेन्द्रे -
भावाबुद्धि गुणाधर्म ज्ञानवैराग्य भूतयः |
सात्विका व्यत्ययेनैते रागमुत्सृज्य तामसाः || इति |
भोगकारिकासु च -
अधर्मादित्रयं रागो धर्मादि च चतुष्टयम् |
तमोरजःसत्त्वमयं रूपं तत्कर्मजन्मनामिति ||
गुणतत्त्वं सत्त्वरजस्तमोरूपैस्त्रिभिः प्रकाशप्रवृत्ति नियमाख्यैः धमैः
सिद्ध्यति | तदुक्तं श्रीमन्मृगेन्द्रे -
ततो बुद्ध्याद्युपादानं गौणं सत्त्वं रजस्तमः |
तद्वृत्तयः प्रकाशाद्याः प्रसिद्धा एव भूयसा ||
त्रयोगौणास्तथाप्येकं तत्त्वं तदवियोगतः |
एकैकश्रुतिरेतेषां वृत्त्याधिक्य निबन्धनेति ||
प्. ९९)
ततश्च गुणानामाचैतन्ये सत्यनेकत्वात्तत्कारणतया गुणमस्तकस्य
क्रोधेशादिभुवनोपादनत्वेन चाव्यक्ता एषा प्रकृतिः सिद्धा | तदुक्तं
श्रीपराख्ये -
प्रकृतेर्गुणहेतुत्वाद्गुणानां कार्यता ध्रुवमिति |
तेषां येनात्मकार्याणि पृथक् सिद्धानि कार्यतः || इति |
अत्र कलादिपञ्चकञ्चुकयुक्तस्य पुंसो भाक्तत्वेन
पुंस्त्वमलयोगाद्दिक्षायां तच्छुद्ध्यर्थं शोध्यः पुरुषः सर्वाध्वोत्तीर्ण
शोधकशिववच्छास्त्रेषु पठ्यते | तस्य तु चेततत्वात् व्यापकत्वादविकारित्वेन
तत्त्वान्तरोपादानत्वायोगात् भुवनाधारत्वाभावाच्च नाध्वरूपत्वम् | ततः
पञ्चकञ्चुकसंबन्धयोजनं भोगाधिकारात्मकं पुंस्तत्त्वं
मायाजन्यत्वेनात्रोच्यते | तदुक्तं श्रीमन्मतङ्गे -
अथ पुंस्तत्त्वनिर्देशं स्वाधिष्ठानोपसर्पतः |
न च तत्त्वं मुनिव्याघ्र द्वितीयं पुरुषाह्वयम् ||
कञ्चुकत्रितयाविद्धं कालेन कलितं शनैः |
निपत्यालिङ्गितं यान्ति पुंभावेनात्मवर्तिनेति ||
तथा तस्यात्मनः तत्वविभागस्थो यया सहोक्तेति समर्थितात्मा सेयं मया ते
कथिता यथावत् भोग्यसनं जगच्च विभौ विधास्येति | ननु पुरुषतत्त्वेपि
केषुचिच्छास्त्रेषु भुवनानि श्रूयन्ते | सत्यम् | तदधिपतीनां
रुद्राणामाश्रयत्वेन भुवनानि श्रूयन्ते एव | तानि तु पुरुषस्य चेतनत्वेन
भुवनाधारत्वायोगात् पुंस्त्वमलसंबन्ध
प्. १००)
समानदेशरागतत्व एवावस्थितानि | अत एव श्रीमन्मृगेन्द्रे पुंस्तत्त्वं तत
एवाभुत्पुंप्रत्ययनिबन्धनम् आपूरकं प्रधानादेर्भौवने
रुद्रसंश्रयमित्युक्तम् | श्रीमत्किरणे -
रागतत्त्वे स्थिता एते रुद्रास्तीव्रबलोत्कटाः |
तत्रैव पुरुषोज्ञेयः प्रधानगृहपालकः || इति |
कला विद्याभ्यां समर्थितज्ञानक्रियस्यात्मनोभिलाष जनको रागः सिद्धः |
तदुक्तं श्रीमन्मृगेन्द्रे -
तदभिव्यक्तदृक्छक्तिर्दृष्टार्थोप्यनुपासितः |
नैति तज्जनकं रागं तस्मादेवासृजत्प्रभुरिति | भोगकारिकासु च -
भोग्यानुभवमासाद्य भोगे सक्तिः प्रवर्तते |
तत्सिद्ध्यर्थमतस्तस्य रागो भोगानुरञ्जकः || इति |
अथा अन्तःकरण बहिःकरणानां संनिहिता संनिहिते
विषयोपस्थापकत्वेनोपयोगादध्यवसितविषयाया बुद्धेः साक्षाद्भोग्यत्वाच्च
तद्ग्रहणे पुरुषस्य करणत्वेन विद्या वेदितव्या | तदुक्तं श्रीमन्मृगेन्द्रे
-
एवं व्यक्तक्रियाशक्तिद्दिदृक्षुर्गोचरं दृशः |
भवत्यनुग्रहापेक्षां स्वयं द्रष्टुमशक्नुवन् ||
तदर्थं क्षोभयित्वेशः कलामेव जनिक्षमाम् |
तत्त्वं विद्याख्यमसृजत्करणं परमात्मनः ||
तेन प्रकाशरूपेण ज्ञानशक्तिप्ररोचिना |
प्. १०१)
सर्वकारक निष्पाद्यमवैति विषयं परम | इति |
तत्त्वसंग्रहेपि -
बुद्धिर्विषयाकारा सुखादिरूपासमासतो भोग्या |
रविवत्प्रकाशरूपो यदि नाम महांस्तथापि कर्मत्वात् ||
कारणान्तरसापेक्षः शक्तो ग्राहयितुमात्मानम् || इति |
एतच्चाव्यक्तरागविद्याख्यतत्त्वत्रयं कलातत्त्वादजनि | यदुकं श्रीमद्रौरवे
-
कलातत्त्वाद्रागविद्ये द्वे तत्वे संवभूवतुः |
अव्यक्तं चेति तथा प्रलकेवलावस्थायां पुंसो मलावृतत्वेन
किञ्चिज्ज्ञत्वस्याप्यसंभवात्तदेकदेशमलप्रोत्सारणाय मायातत्त्वादुत्पन्ना
कला बोद्धव्या | यदुक्तं श्रीमन्मृगेन्द्रे -
कर्तृशक्तिरणोर्नित्या विभ्वी चेश्वरशक्तिवत् |
नमश्छन्नतयार्थेषु नाभानि निरनुग्रहा ||
तदनुग्राहकं तत्त्वं कलाख्यं तैजसं हरः |
मायां विक्षोभ्य कुरुते प्रवृत्त्यङ्गं परं हि तत् ||
तेन प्रदीपकल्पेन तथा स्वच्छचितेरणोः |
प्रकाशय ह्येकदेशे विदार्य तिमिरं घनम् || इति |
श्रीमन्मतङ्गेपि -
सुसूक्ष्मा विमला सा या सा ज्ञानक्रियात्मिका |
समर्थीकृत्यकलया भोगेषु विनिपात्यते || इति |
अपि च व्यापकत्वेनात्मनं सर्वत्र सन्निहितत्वात्सर्वेषां
सर्वकर्मफलयोगप्रसंगात् स्वकर्मफलभोगनियामकत्वेन नियतिः सिद्ध्यति |
प्रवृत्तभोगस्याप्यवध्यपेक्षत्वात्तत्परिच्छेदक चिरक्षिप्रादि
प्. १०२)
प्रत्ययलिङ्गश्च कालः सिद्धः | तौ च मायातः सहैवोत्पन्नावित्युक्तं
श्रीमन्मृगेन्द्रे -
तृप्त्यादि प्रत्ययस्यार्थः कालो माया समुद्भवः |
कलयन्नासमुत्थानान्नियत्यानियतं पशुम् || इति |
श्रीमन्मतङ्गेपि -
अथ कालः क्रमात् प्राप्तः कञ्चकत्रयदर्शनात् |
येनासौ कल्प्यते सूक्ष्मः शिवसामर्थ्ययोगतः || इति ||
तथा शक्तिर्नियामिका पुंसः सहतत्त्वेन सर्पितेत्यादि च | अत्र कालनियत्योः
श्रीमन्मृगेन्द्रादौ प्रवृत्तिक्रमेण रागतत्त्वादधः पाठस्तु सिद्धिश्च
श्रूयते श्रीमत्स्वायम्भुवादौ तूत्पत्तिक्रमेणेत्यविरोधः |
एषकलादिक्षित्यन्तत्रिंशत्तत्त्वात्मकः सूक्ष्मदेहः प्रतिपुरुषनियतो
साधारणः सर्ग इत्युक्तम् | उक्तं च श्रीमन्मृगेन्द्रे -
प्रयोक्त्र्यादिं महीप्रान्तमेतदष्वर्थसाधकम् |
प्रत्यात्मनियतं भोगभेदतोप्यवसीयते || इति |
तत्त्वसंग्रहेऽपि -
वसुधाद्यस्तत्त्वगणः प्रतिपुंनियतः कलान्तोऽयं पर्यटनि कर्मवशतो
भुवनजदेहेष्वयं च सर्वेष्विति | अत्र केचित् सांख्यवत्प्रकृति
गुणयोरेकत्वमभ्युपगम्य पुरुषं तत्त्वमध्ये पठित्वा त्रिंशकसंख्यां
कथयन्ति | तदयुक्तम् | प्रोक्तमूलश्रुतिविरोधात् एवं च
समस्ताशूधतत्त्वपरमकारण मत एव नित्यं स्वकार्यव्यापकमचेतनं
मायातत्त्वं श्रूयते यदुक्तं श्रीमन्मृगेन्द्रे -
तदेकमशिवं बीजं जगतश्चित्त्रशक्तिमन् |
प्. १०३)
सहकार्यधिकारान्तसंरोधि व्याप्य नश्वरम् |
कर्तानुमीयते येन जगद्धर्मेण हेतुना ||
तेनोपादानमप्यस्ति न परस्तन्तुभिर्विनेति |
अत्र च मायाया नित्यत्वेन भुवनाद्याधारत्वायोगात् तद्भुवनानि कलामस्तक
एव स्थितानि | तदुक्तं श्रीमन्मृगेन्द्रे -
मायायामपि पठ्यन्ते गहनेशादयोधिपाः |
तत्त्वशुद्धिश्च दीक्षायां सर्वं तत्कृतिमस्तके || इति |
अत्र च कलादिक्षित्यन्तस्य सूक्ष्मदेहस्य दीक्षायां प्रकृतितत्त्वान्त
भोगप्रदत्वमात्रं विच्छिद्य कलातत्त्वादूर्ध्वं
वर्तमानशरीरभोगप्रदत्वमात्रमवस्थाप्य सर्वथाविच्छेदः कार्यः
सद्योनिर्वाण इत्युच्यते | तदधिष्ठाय शिवोपि शिव एव च निर्वाण दीक्षायां तु
तदविच्छेदः कर्तव्यः माया तत्त्वादूर्ध्वं मलस्यापि तथा विच्छेदः कार्यः
| एवमनेकानि मायातत्त्वस्त्रोतांसि | यदुक्तं बृहस्पतिपादैः अपि
सर्वसिद्धिवाचः क्षीयेरन् दीर्घकालमुद्गीर्णः मायायामानन्त्यान्नोच्येत
स्रोतसां संख्येति | उक्तं च श्रीमन्मतङ्गे -
मधुकोशपुटाकारा निचिना परमाणुभिदिति | शुद्धाध्वात्वेक रूप एव |
एवमशुद्धाध्वा प्रदर्शितः | शुद्धाध्वा प्रदर्श्यते | तत्र यस्मिंस्तत्त्वे
सप्तकोटिसंख्यातानां मन्त्राणामवस्थितिः तद्विद्यातत्त्वं तदूर्ध्वं
यस्मिन्ननन्तादयो विद्येश्वरास्थितास्तदीश्वरतत्त्वं तदुक्तं
श्रीमत्सर्वज्ञानोत्तरे -
प्. १०४)
तदूर्ध्वं तु भवेदन्यद्विद्यातत्वं षडाननेत्यादिनाविद्यातत्वमुक्त्वा -
विद्योर्ध्वात्तु भवेदन्यद्विश्वेशावरणं पुनः |
दीप्तपावकवर्णाभं किञ्चिद् वृत्तं सुनिर्मलम् |
अष्टौ विद्येश्वराः स्कन्द स्थितास्तस्मिन्विभूतिदाः इति ||
श्रीपराख्येपि -
शम्बरः सर्वविद्यायामनन्ताख्यस्तथेश्वर || इति |
तस्मादूर्ध्वं सदाशिवतत्त्वमधिकारावस्थेन प्रवृत्तशिवेनाधिष्ठितं
सदाशिवभुवनाधारः | तदुक्तं श्रीमत्सर्वज्ञानोत्तरे -
अथोर्ध्वं तु भवेदन्यत्सर्वैश्वर्यमयं शुभम् |
सदाशिवं परं तत्त्वं शुद्धस्फटिकनिर्मलेमित्युपक्रम्य ||
तत्रास्ते भगवान् देवः सर्वतत्त्वेश्वरो हरः |
सदाशिवो विभुर्व्यापी मन्त्रमूर्तिमयः परः || इति |
तस्मादप्यूर्ध्वं भोगावस्थेनानेन कार्यमुक्तेन शिवेनाधिष्ठितो
निवृत्त्यादिबिन्दुकलाभुवनचतुष्टयाधारो बिन्दुपरिणतिविशेषः
शक्तितत्त्वमुच्यते | यदुक्तं श्रीमन्मृगेन्द्रे -
सदाशिवे पवित्राङ्गः सकलादिपरिच्छिदः |
देवः सदाशिवो बिन्दौ निवृत्यादिकलेश्वरः इति |
अत्र च निवृत्यादि कलेश्वरकेवलसद्योजाताद्याकारेण भोगावस्थेन
शिवेनाधिष्ठितत्त्वाद् बिन्दुशब्देन बिन्दुकलाभुवनाधारः शक्तितत्त्वमुच्यते |
उक्तं च सर्वज्ञानोत्तरे -
अथोर्ध्वं बैन्दवं तत्त्वं विमलं सर्वतो मुखमिति |
प्. १०५)
श्रीमन्मतङ्गे च -
चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् |
तस्मिन् भोगः समुद्दिष्टः पत्युर्विश्वस्य सर्वदेति ||
तदूर्ध्वं शुद्धाध्वपरमकारणरूपो बिन्दुर्नयावस्थस्य परमशिवस्य
नित्याधिष्ठेयत्वात् परिग्रह शक्तित्वाच्च शुद्धाध्वपरशोध्य इत्युच्यते |
तदधिष्ठाय शिवोपि शिव एव शिवतत्त्वमिति व्युत्पत्त्या शिवं शिवत्वमित्युच्यते
| स बिन्दुः शान्त्यतीतकला महामाया कुण्डलिनीत्यादि शब्देनाप्युचते | तदुक्तं
श्रीमन्मतङ्गे- शान्त्यतीतं परं तत्त्वमविनाश्यव्ययात्मकमिति |
नादकारिकासु च - सिद्धो नादः परमः सुमङ्गला मालिनी महामाया
समनानाहतबिन्दुरघोषावाग्छद्म कुण्डली तत्त्वं विद्याख्यं चेत्युक्तं
तैस्तैः शब्दैस्तदागमेष्वित्थमिति | तत्कार्यभूतं
केवलेशानाकारशिवाधिष्ठेयं शान्त्यतीतभुवनं
तदूर्ध्वस्थंधिकादिनादकलाभुवनवृन्दं च भोगावस्थ
शिवाधिष्ठितशक्तितत्त्वमस्तकस्थमेव | यदुक्तं श्रीमन्मृगेन्द्रे -
शुद्धाध्वनापि मायायाः परस्याः हि * * * तौ |
ये तस्यामपि पठ्यन्ते ते पि तत्कृतिमस्तक इति |
नादकलाभुवनाधिष्ठितः शिवो नादपतिरित्युच्यते | तदुक्तं
श्रीमन्मृगेन्द्रे- नादेध्वनि पतिःशक्तौ सर्वशक्तिमतांवरः इति |
प्. १०६)
एतच्च शक्तिशिवाख्यं तत्त्वद्वयं कलाध्वनि शान्त्यतीतकलाव्याप्त्या
शोध्यमित्याचार्याः | यदुक्तं सोमशम्भुपद्धत्याम् शान्त्यतीतकलाव्याप्तौ
उभे शक्तिशिवतत्त्वे भुवनाष्टकमण्डिते इत्यादि | रत्नत्रयेऽपि पञ्चमी तु कला
पराशिवतत्त्वात्मकं तत्र पुराणि दश पञ्चचेति | एवं चाधिष्ठेयस्य
चेतनस्य शोध्यस्य बिन्दुतत्परिणामविशेषान्मनस्तत्त्वत्रयस्य भेदे | वास्तव
एव अधिष्ठातुस्तस्य शिवस्यात्रौपचादिको भेदः | यदुक्तं
श्रीमन्मृगेन्द्रादौ -
किं तु यः पतिभेदेस्मिन् सशास्त्रे शिक्तिभेदवत् |
कृत्यभेदोपचारेण तद्भेदस्थानभेदज इत्यादि ||
अधिकारि स भोगी च लयी स्यादुपचारत इति |
ईशः सदाशिवः शान्तः कृत्यमेदाद्विभिद्यते | इति च |
तद्भेदः कृत्यभेदेन न भेदः परमार्थतः || इति |
एवं च बद्धात्मनः शोध्यान्यशुद्धानि तत्त्वानि मायया सहैकत्रिंशत् |
शुद्धानि तु महामायया सह पञ्च | ततश्च दीक्षायां मायातत्त्वादूर्ध्वं
मलविच्छेदान्तं पाशच्छेदं कृत्वा शुद्धविद्यादिषु पञ्चसु तत्त्वेषु
क्रमात् क्रियाशक्त्युत्कर्षक्रमेण शिवतत्त्वाभिव्यक्तिः कार्या | पश्चात् तु
शिखाछेदेन पाशानुग्राहिकायास्तिरोधानशक्तेः प्रेर्यत्वम् |
निवर्त्यशिवसाध्या पादनाय निरुपाधिशक्तियुक्ते निष्कले परमशिवे *
* * * * * शिवे
प्. १०७)
कर्तरि तादात्म्यान्नेयं कुण्डलिनी स्थिता |
उपादनत्वतो हेतोः कुलाले मृत्तिका यथेति ||
समवेतशक्तेस्तु तस्या एकत्वात् ज्ञेयकार्यादि भेदादौपचारिको भेदः शास्त्रेषु
श्रूयते | यदुक्तं सर्वज्ञानोत्तरे -
निष्कलस्था पराशक्तिरचिन्त्या सर्वतो मुखी |
सुसूक्ष्मा निर्मला नित्यानन्ता निर्वाणदायिनी ||
या विजृम्भति तत्त्वेषु सर्वतत्त्वेषु चैव हि |
तया धृतं जगत्सर्वमेकयानेक रूपये ति ||
उक्तं च मोक्षकारिकादौ -
सर्वज्ञानक्रियारूपा शक्तिरेकैव शूलिनः | इति |
एकैवानेकतां याति शिवशक्तिरूपाधित इति |
अत्र च श्रीमत्सर्वज्ञानोत्तरादौ बैन्दवविद्यात्मनोः शक्तिशिवतत्त्वयोः
तत्त्वदीक्षायामेकोद्यमेन शुद्ध्यर्थमेकत्वमुक्त्वा परमशिवे
संयोजनमुक्तम् | श्रीमत्स्वायम्भुवे - न शोध्यं शिवतत्त्वादि
तत्त्वत्रयं तदर्थमेव शिवसंबन्धित्वाद्यतिरिक्ताधिष्ठात्तन्तराभावाच्च
सदाशिवतत्त्वेनोक्त्वा बिन्द्वधिष्ठायकशोधकं परमशिवं शिवतत्त्वेन
प्रतिपाद्य तत्त्व संयोजन मुक्तम् | यतुक्तं तत्र -
अप्रमेयमनिर्देश्य मनौपम्य मनामयम् |
सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् ||
अप्रमेयमन्तन्तत्वादनिर्देश्यमलक्ष्यतः |
प्. १०८)
अनौपम्यमसादृश्याद्विमलत्वादनामयम् |
सूक्ष्मं चानुपलक्ष्यत्वाद्व्यापकत्वाच्च सर्वगम् ||
नित्यं कारणशून्यत्वादचलत्वाच्च तद्ध्रुवम् |
अव्ययं परिपूर्णत्वात् स्वामिभावात्तथेश्वरम् ||
शिवतत्त्वमिदं प्रोक्तं सर्वाध्वोपरिसंस्थितम् | इति |
ततः सदाशिवं तत्त्वं स्थितं पदचतुष्टयम् || इति |
एतदभिप्रायेणैव श्रीमन्मृगेन्द्रे भुवनाध्वनिभेदे नैवोक्त्वा तत्त्वाध्वनि
सदाशिवादि तत्त्वस्य त्रयस्य सदाशिवसंज्ञोक्ता | यदुक्तं तत्रैव -
ईशानतीत्य शान्तान्तं तत्त्वं सादाशिवं स्मृतं |
भुवनान्यपि नादादि कलानान्यः पतिः शिवात् || इति |
तत्रैव संहारक घने विद्यामत्ति सदातत्त्वं तद्बिन्दुर्बैन्दवं ध्वनिः |
नादमत्ति पराशक्तिः शक्तिमीष्टे स्वयं हर इति | श्रीमन्मतङ्गादौ तु
शिवस्याधिष्ठातुर्लयाद्यवस्था भेदमेव तत्त्वत्रयेणोक्त्वा शोध्ययोः
शक्तिशिवयोः भोगतत्त्वे सदाशिवतत्त्वेश्वरतत्त्वयोर्विचारतत्त्वे
चान्तर्भावमुक्त्व तद्भुद्ध्यालयावस्थानात्मनि परमशिवे संयोजनमुक्तम्
| एवमन्येष्वपि तन्त्रेषु यथायथं कस्यचिदन्तर्भावो बोद्धव्यः | एवं च
संहितानामविरोधः सर्ववचनानां च प्रामाण्यं स्थितम् | तेनैक्यं च
सिद्ध्यति | अन्यथा एकतन्त्रोक्तार्थाभ्युपगमेनान्यतन्त्रोक्तार्थाभावकथने
प्. १०९)
पररूपख्याहते सर्वसंहितायां न प्रामाण्यं भवेत् | एवं स्थितेनैक्येपि
तत्तत्संहितानुसारिभिस्तत् तत् संहितोक्तेनैव क्रमेण नित्यादिकर्मवद्दिक्षायां
शुद्ध्यादिकं कार्यम् | पूर्वमेव क्रियादिभेदेन तन्त्रभेदो यतः स्मृतः |
तस्मात् तत्र यथैवोक्तं कर्तव्यं नान्यतन्त्रतः |
समस्तपाशविच्छित्तिः सर्वविषयशिवत्वाभिव्यक्ति कारिण्या
मलपरिपाकशक्तिपातपूर्विकया दीक्षयैव परमेश्वरसाम्यरूपः
परमोक्षः सिद्ध्यति | यदुक्तं श्रीमत्स्वांभुवादौ -
शिवेच्छया पुरानन्ता शैवी शैवार्थदायिनी |
सा शक्तिरायतत्याद्या पुंसो जन्मन्य पश्चिमे ||
तन्निपातात् क्षरत्यस्य मलं संसारकारणं |
क्षीणे तस्मिन्नियासास्यात्परं निःश्रेयसंप्रति ||
स देशिकमनुप्राप्य दीक्षाविच्छिन्नबन्धनः |
प्रयाति शिवसायुज्यं निर्मलो निरूपप्लवः ||
अनेन क्रमयोगेन परां केवलतां गतः |
अनाद्यशुद्धिशून्यत्वात् प्राप्नोति न भवान्तरम् || इति |
दिक्षिताः परमं शान्तं प्रदिशन्ति तनुक्षयादिति च |
ननु सदाशिव पदं योगाच्चर्याभोगद्य दीक्षया प्राप्यते | चित्तभेदेन मोक्षो
वाथ चतुष्टयादिति श्रीमन्मतङ्गश्रुतेर्दीक्षा ज्ञानचर्या योगाख्यानि
चत्वार्यपि समविकल्पानि
प्. ११०)
भोगमोक्षसाधनानि प्रतीयन्ते | नैवं वाक्यार्थानभिज्ञानत् | एवं हि तत्र
वाक्यार्थः | सदाशिवपदस्य तत्रोपलक्षणत्वात्तत्तद्भुवनेश्वर साक्षात्कार
फलाद्योगात् तत् तदाराधनात्मिकया वा चर्यया तत्तद्भुवन योजनात्मिकया वा
दीक्षया तत् तद्भुवनेश्वररूप निष्ठेन वा चित्तभेदेन ज्ञानेन तत्तद्भुवन
प्राप्तिर्भवत्येव न तु समविकल्पतया वक्ष्यमाणवज्ज्ञानादिष्वपि दीक्षया
विनानधिकारात्तस्या एव प्राधान्यं यतः | ततश्च मोक्षो वाथ चतुष्टयादिति
मोक्ष चतुष्टयादस्मात् समुच्चितादेकैका * * भोगो न वेति वा
शब्दार्थः | तथा हि चर्यायोगयोस्तावत् ज्ञानं विनानुष्ठानमेव नोपपद्यते
| न ह्यज्ञानेर्थे योगः समाधिश्चर्यावानित्याका संभवति | ज्ञानमपि
द्रव्यत्वान्मलादिबन्धानां चक्षुःपटलानामिव चक्षुर्वैद्यव्यापादं विना
न तेभ्यः पुंसां मोक्षं कर्तुं क्षममित्युक्तमतो दीक्षैव मोक्षहेतुरिति |
उक्तं च तत्रैव प्रकरणान्तरे - तस्मान्मन्त्रक्रियामुख्यासेश्वरी
भुक्तिम्क्तिदेति | श्रीमत्स्वायम्भुवेपि -
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्पीति |
श्रीमत्षट्सहस्रिकालोत्तरे -
दीक्षैव मोक्षदा पुषां चिदभिव्यक्तिकारणं || इति |
ज्ञानादीनां चाचार्य संस्कारद्वारेण दीक्षायां विनियोगदर्शनाच्च |
यदुक्तं तत्रैव श्रीमन्मतङ्गे -
विद्यापादार्घ्य कुशलः क्रियापादगतक्रमः |
योगपादकृताभ्यासः चर्यापादानुवर्तकः ||
प्. १११)
गुरुदीक्षां प्रकुर्वीतेति | केवलं सद्यो निर्वाण
दीक्षयारब्धकार्याणामनपेक्षया भोगोपरोधेन मलमायीययोर्वासयोर्थ इति
सकलागमसारसंग्रहे सिद्धान्तसारसमुच्चये
(अत्र ग्रन्थः समाप्तिमगमत् | न ज्ञायते संपूर्णो वासम्पूर्णोवेति | आदौ
ग्रन्थ नाम सिद्धान्तार्थसमुच्चय इति दत्तम् | चरमपङ्क्तिदर्शनात्
सिद्धान्तसारसमुच्चय इति सकलागमसारसंग्रह इति वा भवेदिति सन्दिह्यते |
)
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
qwi4pmla675s046vd50cq66m6g5rgox
417868
417867
2026-07-18T10:06:48Z
Shubha
190
417868
wikitext
text/x-wiki
{{header
| title = सिद्धान्तार्थसमुच्चयः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
सिद्धान्तार्थसमुच्चयः
प्. ५७)
श्रीमत्पद्मरसाराध्यपदाभ्यां नमः ।
सिद्धान्तार्थसमुच्चयः ।
येनानादि मलादि पाश निवर्द्ध्वंसायबद्धात्मनां
सर्वज्ञेन सदोदितेन कृपया ज्ञानं समाविष्कृतम् ।
नत्वा तं परमं शिवं परगुरुन् सर्वान् गुरुंश्चापरान्
सिद्धान्तार्थसमुच्चयो गुरुमुखात्प्राप्तः स्फुटं लिख्यते ।।
प्रमाणश्चना तत्र क्रियते बहुधा यतः ।
सर्वेषु शिवशास्त्रेषु व्याख्यानेषु च दृश्यते ।।
तस्मादागमयुक्तिभ्यां यथा योऽर्थो गुरुत्तमैः ।
निर्णीतः स तथास्माभिः संक्षेपेण प्रदश्यते ।।
तत्र तावत् पारमेश्वरं ज्ञानं द्विरूपमवबोधरूपं शब्दरूपं च ।
तत्रावबोधरूपममलमनादिनिधनं सर्वार्थप्रकाशकं सर्वानुग्राहकं
शिवज्ञानात्मकं च । शब्दरूपं तु शास्त्रात्मकमेव । अवबोधरूपं पुनः
शब्दरूपारूढं परमकारुणिकः परमेश्वरः प्रतिसर्गं सृष्टिकाले
सर्वानुजिघृक्षया गुरुपरम्परया योग्येषु प्रवर्तयति । यदुक्तं
श्रिमत्स्वायम्भुवे -
अथात्ममलमायाख्य कर्मबन्धविमुक्तये ।
व्यक्तये च शिवत्वस्य शिवाज्ज्ञानं प्रवर्तते ।।
मोक्षकारिकासु च -
अनादिकालसंसिद्धं तद्गुणत्वेऽपि शंकरे ।
प्. ५८)
तच्च सम्यक् परिच्छेदि शांकरं ज्ञानमीरितम् इति ।।
गुरुपरम्पराक्रमश्च द्विविधः महौघक्रमलक्षणः
प्रतिसंहितगुरुक्रमलक्षणश्च । तत्र महौघक्रमलक्षणः प्रदर्श्यते । तत्र
परमेश्वरः प्रथमं विद्येशांननुगृह्य तेभ्योऽष्टाविंशति संहिताः
प्रकाशयति । ते च पुनः श्रीकण्ठादि क्रमेण मुनिमनुष्यान्तं सर्व संहिता
अवतारयन्ति । सोयं महौघलक्षणः शास्त्रावतारः । तदुक्तं
श्रीमन्मालिनीविजये -
सिसृक्षुर्जगतः सृष्टेरादावेव निजेच्छया ।
विज्ञानकेवलानष्टौ बोधया मास पुद्गलानिति ।।
एष च गुरुक्रमः श्रीमद्रौरवादौ श्रूयते -
जगतः कारणं देवमनलेशं परं गुरुम् ।
तेनोक्तं परमेशेन श्रीकण्ठाय महात्मने ।। इति ।
शिवोद्गीणमिदं ज्ञानं मन्त्र मन्त्रेश्वरेश्वरैः ।
कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ।।
तेभ्योऽवगत्य दृग्ज्योतिर्ज्वालालीर्ढस्मरद्रुमः ।
ददावुमापतिर्मह्यं सहस्रैर्भव संमितैरिति । प्रतिसंहित गुरुक्रमः
प्रदर्श्यते । यतुक्तं श्रीमत्किरणे -
सृष्ट्यनन्तरमेवेशः शिवान् सृष्ट्वा दशात्मजान् ।
ज्ञानमेकं विभज्याशु तेषां तत्संख्ययावदत् ।।
कामिकं प्रणवाख्यस्य सुधाख्यस्य च योगजम् ।
प्. ५९)
दीप्ताख्यस्याप्यचिन्त्यं तु कारणाख्यस्य कारणम् ।
अजितं सुशिवाख्यस्य ईशस्यापि सुदीप्तकम् ।।
सूक्ष्मं तु सूक्ष्मसंज्ञस्य कालस्यापि सहस्रकम् ।
सुप्रभदं गणेशस्य अंशुसंज्ञस्य चांशुमत् ।।
एवं प्राथमिकं प्रोक्तं पुनरन्यो गुरुक्रमः ।
प्रणवात्रिकलः प्राप्तः कामिकं त्रिकलाद्धरः ।।
सुधाख्याद्योगजं तन्त्रं भस्मसंज्ञस्ततः प्रभुः ।
दीप्तसंज्ञादचिन्त्यं तु गोपतिश्च ततोऽम्बिका ।।
कारणं कारणाच्छर्वस्ततः प्राप्तः प्रजापतिः ।
अजितं सुशिवात्प्राप्तो ह्युमेशो ह्यच्युतस्ततः ।।
ईशाद् दीप्तं त्रिमूर्तिस्तु ततः प्राप्तो हुताशनः ।
सूक्ष्मं सूक्ष्माद्भवः प्राप्तस्तस्मात्प्राप्तः प्रभञ्जनः ।।
काल संज्ञात् सहस्राख्यं भीमो धर्मस्ततः खग ।
गणेशात् सुप्रभेदं तु विग्रहेशस्ततः शशी ।।
अंशुमच्चांशु संज्ञात् तु प्राप्तोह्युग्रस्ततो रविः ।
एवमेते समाख्याताः शिवभेदादशाद्यते ।।
दशाष्टसंख्ययाप्यन्यो रुद्रभेदोऽपरो मतः ।
दशाष्टसंख्यया रुद्रान् सृष्ट्वा पूर्वमुखाद्यतः ।।
शिवस्तत् संख्ययैवे च पुनस्तान् बोधयेत् खग ।
रुद्रस्यानादि संज्ञस्य विजयं तेन भाषितमित्यादिना
प्. ६०)
फलभेदो न कल्प्योऽत्र ज्ञानभेदः प्रकल्प्यते इत्यन्तेन ।
अत्रायमर्थः - तन्त्राणां शिवभेदरुद्रभेदत्व भेदेन तावद्
द्वैविध्यं तत्र शिवभेदः प्रणवादीननुगृह्य सदाशिवतत्त्व वासिनः
कृत्वा तेषामेकमेवावबोधरूपं ज्ञानं यथाधिकारं शब्दरचना
सृष्टिपुरःसरं क्रियादि भेदेन दशधा विभिद्योपदिष्टः । रुद्रभेदस्तनादि
प्रभृभृतीनष्टादशरुद्रान् ज्ञानयुक्तानेवानुगृह्य शब्दरचनां
कृत्वा तथैव विजयादिरष्टादशभेदतन्त्रैः प्रकाशितः । ते च रुद्राः
सदाशिवतत्त्वाधो वर्तिनः । अत एव शिवभेदरुद्रभेदयोः परापरत्वमुक्तं
च श्रीमत्स्वतन्त्रे -
सकलस्तु वृतो देवैरोंकारद्यैरनुक्रमात् ।
रुद्राष्टादशकं ब्राह्म इति । तयोरपि पुनरध्ये तृप्रवक्तृभेदोऽप्युक्तः ।
एतेष्वपि भेदेषु अध्येतृभेदात् वक्तृभेदात् भेदोवक्तुमशक्य । अत एवास्य
शिवज्ञानस्यावतारभेदात् क्रियाभेदाच्च भेदो न त्वर्थव्यवस्था भेदाद्वा
फलभेदाद्वा । तदुक्तं श्रीमत्स्वायम्भुवे -
एकमेव शिवज्ञानं विभिन्नं दशधा पुनः ।
तथाष्टादशधा भूयो भेदान्तरविसर्पितम् इति ।।
एकमेव शिवज्ञानं विभिन्नं बहुधा पुनः ।
उपभेदोपभेदानामस्य संख्या न विद्यते ।।
भेदान्तराणि सर्वाणि महान्ति न महान्त्यपि ।
दीक्षा संप्रत्ययार्थानि सिद्धिमुक्ति फलानि चेति ।।
प्. ६१)
अन्येप्याहु - सर्वशाखाप्रत्ययमेकं कर्मेति । एषां च तन्त्र भेदानां
गुरुपूर्वक संबन्धः क्वचित् पञ्चप्रकारः क्वचित् षट्प्रकारः ।
श्रीमतङ्गोक्तवत्पञ्चप्रकारः । तथा हि - शिवानन्तयोः परः
सम्बन्धः । अनन्त श्रीकण्ठयोः महान् । श्रीकण्ठमतङ्गयोर्दिव्यो
मतङ्गमुनिना मनुष्याणां दिव्यादिव्यो मनुष्यैश्च
मनुष्याणामदिव्यात्मकः । श्रीमन्मृगेन्द्रे तु षट्प्रकारः यथा -
शिवानन्तयोः परः सम्बन्धः अनन्तश्रीकण्ठयोः महान्
श्रीकण्ठशक्रयोरन्तराधः शक्रभरद्वाजयोद्धिव्यो भरद्वाज
हारीतयोर्दिव्यादिव्यो हारीतेन तच्छिष्याणामदिव्य इत्येव मन्येष्वपि यथायोगं
द्रष्टव्यम् । एवमापरमेश्वरादविच्छिन्न गुरु संप्रदायस्मरणात्
तत्कृतत्वेनस्य शास्त्रस्य प्रामाण्यं सिद्धम् । तदुक्तं श्रीमन्मतङ्गे -
प्रमाणमेकं तद्वाक्यं तत्त्वमीश्वर भाषितम् इति ।
ननु नित्यत्वेनागमस्य प्रामाण्यमिति केचित् । तदयुक्तम् अस्य कृतक आगमः
संभवति रचनावत्वादभिनव विरचितवाक्यवत् । रचना च सेत्वादिवत् । तस्या
कर्तारं न व्यभिचरति । तस्मादाप्त प्रणीतत्वेनैवागमस्य प्रामाण्यम् ।
परमेश्वरश्च परमाप्तः । नित्यनिर्मलनिरतिशय सर्वार्थ ज्ञानक्रिया
युक्तत्वाद्रागद्वेषा भावेन विप्रलम्भासंभवात् सर्वानुग्राहकत्वाच्च ।
तदुक्तं श्रीमन्मोहशूरोत्तरे - यद्यथावस्थितं वस्तु सर्वज्ञस्तत् तथा
वदेदिति । ईश्वरश्च योगि प्रत्यक्षादनुमानाच्च सिद्धः ।
प्. ६२)
तथा हि श्रीमन्मतङ्गे - शक्तिसिद्धिपूर्वमीश्वरसिद्धिमुक्त्वा योगि
प्रत्यक्षगम्यत्वमुक्तम् ।
शक्तश्च शक्तिमान् सिद्धोप्यथवा मुनिपुङ्गव ।
अक्षाणि प्रतिप्रत्यक्षं मनश्चाक्षमनुत्तमम् ।।
संकल्पविषयं सिद्धं संकल्पादेव केवलात् ।
प्रपत्तव्यं मुनिव्याघ्र किमन्यत् परिपृच्छसि ।।
इति न च योगिनोऽसिद्धा इति वाच्यम् । यच्छ्रुयते -
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ज्ञाननिर्मथनाभ्यासाद् देवं पश्येन् निगूढवदिति ।।
अनुमानसिद्धत्वमप्युक्तं श्रीमन्मृगेन्द्रादौ -
अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् ।
कर्तारमस्य जानीमो विशिष्टमनुमानतः ।।
वैशिष्ट्यं कार्यवैशिष्ट्याद् दृष्टं लोकस्थितावपीति ।
आगमसीद्धत्वमप्युक्तं श्रीमन्मतङ्गे -
पञ्चमन्त्रतनुः श्रीमान् सकलः परिपठ्यते ।
सुप्रसन्नेन्द्रियग्रामः सर्वज्ञः सर्वगोचरः ।।
योगयोगेश्वरः स्वामी स्वतन्त्रः पशुपाशहा ।
तस्योक्तिः पौरुषैः स्थूलैः प्रमाणैर्न च बाध्यते ।। इति ।
एषाचेश्वरसिद्धिः सर्वासु संहितासु न्यासादिषु च विस्तरेण साधितत्वान्नात्र
लिख्यते । न चेश्वर कृतादागमादीश्वरसिद्धा -
प्. ६३)
वितरेतराश्रयदोषः आशङ्कनीयः द्वयोरपि विसदृशक्रियत्वात् ।
ईश्वरोह्यागमस्य कर्ता आगमस्तु तं ज्ञापयतीति । किं च तदुक्तेषु च
दृष्टार्थेषु फलवत्त्वमुपलभ्यादृष्टार्थस्यापि तच्छास्त्रस्यावितथत्वं
मनुमीयते । तदुक्तं श्रीमन्मतङ्गेपि -
विशेषस्यानुमानस्य त्रिविधस्यापि निश्चयात् ।
आगमादाप्तवक्त्रोत्थान्नान्यथा मुनिपुङ्गव ।।
आप्तश्चैवागमात् सिद्धः सचेदानीं विचार्यते ।
आयुर्वेदात् सगणितान् मन्त्र वादाच्च सस्फुटात् ।।
रसोपनिषदाटोपादाप्तः संपरिगृह्यते इति ।
ननु देवतैव तावन्न सिद्धा । तत्संभवे हि तद्विशेषस्येश्वरस्य सिद्धिः । सा तु
शब्दमात्रैव । तथाहि - कर्मानुष्ठानादेव फलं न देवतायाः
तद्बाधकत्वेनाभिमतरुद्रेन्द्रादिशब्दभेदेन प्रमाणान्तरैरसिद्धेः । अत एव
तेन सह संबन्धग्रहणा संभवादागमेनाप्य सिद्धिः । तत एव च
संबन्धग्रहणेति तरेतराश्रयतोऽसिद्दिरेव । ततश्च रौद्रं चरुं
निवर्पेत्स्वर्गकाम इत्यादाबुद्देश्यकारकतया विशिष्टकर्माङ्गत्वेन स एव
देवताशब्दः प्रतीयत इति क्रियात एव फलं युक्तं न देवतात इति जैमिनीयाः ।
अत्रोच्यते । एवं हि देवतायाः शब्दमात्रत्वे फलमपि
प्. ६४)
शब्दमात्रमेव स्याद्यतो ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ
स्वर्गाद्यात्मकं फलमपि तद्वदेव प्रमाणान्तरसिद्धम् । अथ यदि शब्दादि
योगं विनापि नार्थरहित परः शब्दः संभवतीति पुराणेतिहासांदिप्रसिद्धं
विशिष्टमेवात्र स्वर्गशब्दः फलत्वेनाभिदधातित्युच्यते तदिहापि समानमिति
न शब्द एव देवतापि तु तद्वाच्योऽर्थविशेष एव स्ववाचकाद्भिन्ना देवदत्रादि
शब्दवाच्यात्मवदिति सैव फलदान तु कर्ममात्रं तस्य कृष्यादि कर्मवत्
फलजननमात्र एव सामर्थ्यादचेतनत्वेनेदं फलमस्मै दास्यामीति
विवेकाभावात् । शब्दो हि विदितपदपदार्थ प्रत्यायकत्वेन भवतोपि सिद्ध इति
इन्द्रादि शब्दानामपि शब्दत्वेनैवार्थ प्रत्यायकत्व सिद्धेस्तत्प्रत्येयो देवता
लक्षणोऽर्थः स्वर्गलक्षण फलवत् सिद्ध एवमनुमानादि
सिद्धत्वमपीश्वरलक्षण देवतायाः प्रागेवोक्तमिति न प्रमाणान्तरासिद्धं
नापीतेस्तराश्रय दोषः । यदाहुः - श्रुतिसिद्ध्यर्थं श्रुतोपलब्धो
यत्नवता भवितव्यम् न श्रुतिसिद्धौ यत्न विशेषशैथिल्यमाचरणीयमिति ।
ततश्च सोमपाःशतक्रतुरित्यादि श्रुतिसिद्धस्य देवता विशेषस्य
कर्मणोनिरूपस्य च वज्रहस्तं सहस्राक्षमिन्द्रमीडे चतुर्भुजमित्यादि
श्रुतिसिद्धस्य शब्दमात्रस्यासंभवात् तत् तद् विशेषेण विशिष्टा देवता
सिद्धैव । श्रुतिरपि ताविशेषया देवमैत्रः
प्. ६५)
दृश्यते यथा - इन्द्रो दिव इन्द्र-ईशे पृथिव्या इत्यादि । न च देवताया
मूर्तत्वात् अस्मदादि वदनेक देशयागसन्निधिरनुपपन्नेति वाच्यम् । अस्या
अणिमाद्यैश्वर्य योगेन वासुदेव सौभार्यादिवत् प्राकाम्यशक्त्या
युगपदमेक देशसन्निधिर्युज्यत एव यतः । तदुक्तं श्रीमत्पराख्ये -
शब्दमात्रस्थिते मन्त्रे शब्दमात्रं फलं तथा ।
न चार्थरहितः शब्दः पदवाक्य गतक्रमः ।।
वाच्यश्च वाचकाद् भिन्नो देवदत्तादि शब्दवत् ।
प्रत्यायकश्च ते शब्दपत्ययेर्थ विवर्जितः ।।
तेन सा वाचकाद् भिन्ना वाच्या सा देवता ध्रुवम् ।
विशेषणं यतस्तस्यां कर्मरूपाभिधायकम् ।।
प्रतिपन्नं विशेषेण वेदवाक्यैस्तथाविधैः ।
स्तुतापि देवता यस्मात् स्तुत्या साभिमुखी भवेत् ।।
अथार्थवादतस्तस्या देवताया विशेषणम् ।
यदि तत्परमार्थेन विरोधः कतमो भवेदिति ।।
देवता श्रूयते शास्त्रे तत एव फलं महत् ।
महावीर्योपपन्नत्वात् तया स्थास्यति स कृतौ ।।
वेदान्त वादिनां यद्वदनन्तत्वं त्वनुग्रहः । इति च कः प्रत्येत्यर्थ वर्जितः ।
अर्थ विवर्जितः शब्दा इति को वेत्ति इत्थं श्रीमन्मृगेन्द्रे च - न जातु
देवतामूर्तिरस्मदादिशरीरवत् ।
प्. ६६)
विशिष्टैश्वर्य संपन्ना सातो नैतन्निदर्शनम् । इत्यादि ।
यद्येवमीश्वरस्यापि शरीरित्वादस्मदादिवदसर्वज्ञत्वमसर्वकर्तृकत्वं च
स्यात् । ततश्च परमाप्तत्वानुपपपत्तिः । अशरीरश्चेत् कर्तृत्वनुपपत्तिः ।
यदाहुः -
कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् ।
कार्यत्वात् तेन जगतः कर्ता देही प्रसज्यते ।। इति ।
अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्मवद्भवेदिति च । ततश्चेश्वरस्यापि
सावयवत्वेना नित्यत्वात् तस्यान्येन कर्त्रा भवितव्यम् । तस्यापि शरीरित्वेन
कर्त्रन्तरापेक्षाया मनवस्था । तन्न आत्मनः स्वदेहस्पन्दादौ
शरीरान्तरानपेक्षया इच्छामात्रेण कर्तृत्वदर्शनात् । नन्विच्छामात्रेण
कर्तृत्वं स्वाधिष्टितशरीरस्यन्दादौ दृष्टम् । न तु बाह्ये मृदादिजन्ये
घटादौ । सत्यम् । अत-एव सदाधिष्ठायकत्वेन विश्वमीश्वरस्य
शरीरमिवानुमीयते । तस्मादिच्छामात्रेणेश्वरः सृष्टादि तनोति । आत्मनां हि
मलादियोगादेव ज्ञान क्रिययोः शरीरेन्द्रियापेक्षा । ईश्वरस्य तु नित्य
निर्मलत्त्वातदपेक्षा नास्त्येव । यतुक्तं श्रीमत्किरणे -
यथा कालो ह्यमूर्तोपि दृश्यते फलसाधकः ।
एवं शिवो ह्यमूर्तोपि कुरुते कार्यमिच्छयेति ।।
मोहकारिकासु च -
अजात मलसंबन्धः सर्वज्ञः सर्वकृद्विभुः ।
प्. ६७)
सकलो निष्कलोऽनन्तः स्वेच्छानन्तरकार्य कृदिति ।
शक्तिस्तु शरीरेन्द्रियादि कार्यं कुर्वाणा भगवतः शरीरतया करण तयोच्यते ।
तदुक्तं श्रीमन्मृगेन्द्रादौ -
मूलाद्यसंभवाच्छाक्तं वपुर्नो तादृशं विभोः ।
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ।।
ईश तत्पुरुषाघोरवामाजैर्मस्तकादिकमित्युक्ता । इत्थं शक्तिः कुर्वती
देहकृत्यं देहाभावादुच्यते देहशब्दैः । तस्या भेदायेपि वामादयः स्युः
तेपि प्रोक्ता कृत्यभेदेन सद्भिः ।। इति । करणं च न शक्त्यन्याच्छक्तिर्ना
चेतनाचित इत्यादिना च । श्रुतावपि तस्य * * करणं च दृश्यते न च
तत्संश्चाप्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी
ज्ञानबलक्रिया चेति । अत एव ज्ञानस्याप्यस्य न शरीरेन्द्रिया पेक्षा । यदुक्तं
श्रीमन्मृगेन्द्रे -
सर्वज्ञः सर्वकर्तृत्वात्साधनाङ्गफलैः सह ।
यो यज्जानाति कुरुते स तदेवेति सुस्थितम् ।।
तच्चस्या वृत्ति शून्यत्वान्न व्यञ्जकमपेक्षते ।
तन्न सांशयिकं तस्माद् विपरीतं न जानुचित् ।।
यानिव्यञ्जकमीहन्ते वृतत्वान् मलशक्तिभिः ।
व्यञ्जकस्यानुरोधेन तानि स्युर्व्याहतान्यपि ।।
नाध्यक्षं नापि तल्लैङ्गं न शब्दमपि शांकरम् ।
ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुष्विति ।।
प्. ६८)
कथं तर्हि पञ्चवक्त्रस्त्रिपञ्चदृगित्यादिभिरीश्वरस्य शरीरमागमेषु
स्तूयते ध्यानार्थमेव । तन्न । ध्यानाकारे ध्यानपूजाद्युपपद्यते । यदुक्तं
श्रीमत्पौष्करादौ -
साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् ।
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।।
इत्यादिना अन्यैरप्युक्तं -
आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैनिबुद्धिः । इति कथं तस्य
शास्त्रोपदेशकत्वम् । इच्छामात्रेण विद्येश्वरादीनां
शास्त्रावबोधकत्वमेवात्रोपदेशकत्वं न तु वागिन्द्रियव्यापारः । यदुक्तं
श्रीमत्पराख्ये -
सन्निधाने यतस्तस्मिन् सर्वकार्यस्य संभवः ।
अक्षहीनेपि सामर्थ्यं दृष्टं तत्कर्षकात्मनि ।।
सामर्थ्यं तद्वदीशस्य सर्वकृत्ये निसर्गजम् । इति ।
अन्येप्याहुः -
सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव ।
निस्सरन्ति यथाकामं कुड्यादिभ्यो निदेशनाः ।। इति ।
तस्मादीश्वर प्रणीतत्वेनास्य शैवागमस्य प्रामाण्यम् ।
ननु दर्शनान्तरेष्वपि हिरण्यगर्भादय ईश्वराः श्रूयन्ते ।
तेभ्योस्य को विशेषः । अत्रोच्यते । तेषां पशुपाशरूपत्वेनेश्वरान्तर
पूर्वकत्वान्न सर्वेश्वरत्वं संभवति । तथा हि प्रकृतिरेव परत्र
शब्दवाच्यो नारायणः
प्. ६९)
यो वा ईश्वरः कैश्चिदध्यात्मविद्भिः पाञ्चरात्रिकैश्चेष्यते तस्योपादान
कारणत्वादितत्यारप्रकृतेदि * * * पिहिरण्यगर्भ समवर्तताग्रे
भूतस्य जातः पतिरेक आसीदित्यादि श्रुत्यर्थतया हिरण्यगर्भाख्येश्वरस्तस्याः
प्रकृतेर्विकारे ध्यात्मविद्भेदैरीश्वरः प्रोक्तः पाञ्चरात्रिक भेदैर्वा
चातुरात्मलक्षणः । यतुक्तं -
ईशास्तु ते समभवन् प्रकृतेः पदस्याः
कृष्णानिरुद्धमकरध्वजरौहिणेयाः इति तस्याप्युत्पत्त्यपवर्गयोगित्वाद्
ब्रह्मेन्द्रादेदिव धात्रन्तरेण भवितव्यम् । यश्चापि बुद्धिसंयोगादीश्वरः
पातञ्जलैरुक्तः तनः संयोगान्नैयायिक
वैशेषिकैस्तस्यापीश्वरत्वोपायभूतासौ संयोगः संयोगत्वादेव
घटपटादि संओगवदनित्योऽव्यापकश्चेति न सर्वत्र सर्वदा चेश्वरत्वम् । अतो
भुवनेश्वराणामपि दात्तन्तरेण भवितव्यम् । यश्चैवं सर्वेषामेव दाता स
एवास्माभिर्महेश्वरत्वेनाभ्युपगतस्तस्यैवं दातृपूर्वकत्वेनासिद्धे । ननु
दर्शनान्तर सिद्धाना विशेश्वराणां लोकवेदसिद्धत्वात्कथं
महेश्वरत्वं प्रतिक्षिप्यत इति चेत् । तन्न । वेदादिशास्त्रतो लोकप्रसिद्धाचारस्यैव
महेश्वरत्व प्रदर्शनात् । तथा च श्रुतिः -
एक एव रुद्रो न द्वितीयायतस्व इति अत्र अवधारणेन द्वितीय निषेधेन च रुद्रस्यैव
महेश्वरत्वं स्थाप्यते । रुद्रेष्वपि महेश्वराय शितिकण्ठाय त्र्यम्बकाय न
च नमो नम इति पुराणेष्वपि- नौषधीभिर्महेशानमन्त्रैर्न च रसायनैः
। प्राप्यते कुशलं तादृग्यादृक्त्वं नाम कीर्तनादिति । भारतादावपि
वासुदेवार्जुनादिकृतेषु सप्तशतरुद्रादि
प्. ७०)
स्तोत्रेषु तस्यैव महेश्वरत्वेन प्रसिद्धिः । अत एव - भगवद्गीतासु
दशमेऽध्याये- ये मामजमनादि च वेत्ति लोकमहेश्वरमित्यात्मनो
नारायण भट्टारक परिमिततरामेव भूरादिद्विसप्तलोकविषय
महेश्वरत्वमाह । न तु सर्वभुवनादि विषयमिति । कथं तर्हि शेरते न
दौवं केशवात्परं इत्युक्तम् । अत एव भौतिक सर्गविषयात्पिशाचादि
पितामहान्तादष्टविधाद् देवयोनिवर्गादसौ परः प्रोक्तः न तु महेश्वर इति को
विरोधः । यदुक्तम् - अष्टविकल्पो दैवस्तिर्यग्योनिश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः । इति । एवमेव
चन्द्रब्रह्मादावप्यवसेयम् । यदुक्तम् - अग्निर्वै देवानामवमोऽपचर इति ।
लोकेऽपि ब्रह्म विष्ण्वादीनां चक्रस्वामि मधुरास्वाम्यादिपदैः स्वामित्वेन
प्रसिद्धिः । भगवत एव प्रयागादिषु स्वस्वभूक्षेत्रेषु महेश्वरस्थानेश्वर
भूतेश्वरादि पदैः प्रतिष्ठास्थानेष्वपि ब्रह्मेश्वरसोमेश्वरादिभिः
प्रसिद्धिः । अतश्च यद्यपि स * * र्यं पठ्यते तथाप्यन्यथैव
तत्साम्यं पदं प्राप्तबलादावपि धनादिके दृश्यते । अन्यच्चेश्वरत्वं
प्रभुरूपं यत्प्रचण्डतरनृपत्यादौ सिद्धमपि लोकप्रसिद्ध्यापि स एव
महेश्वरः सिद्धः । उक्तश्च श्रीमत्पराख्ये - ईश्वरो रूढितो गम्य इति । न
च प्रमाणसिद्धः यदाहुः -
द्रव्यजाति क्रियाशब्दो गुणशब्दस्तथापरः ।
यौगिको योगरूढश्च प्रसिद्ध्यैव व्यवस्थितः ।।
प्. ७१)
सूर्यो गौश्चलनं शुक्लं पङ्कजं पङ्कजं यथा ।
तत्तदर्थाभिधायित्वाच्छब्दः प्रोक्तस्तु तद्विधेति ।।
ननूक्तं प्रसिद्धिः वटयक्षवदप्रमाणमिति तदप्ययुक्तम् । यतः
प्रसिद्धिनिबन्धनो हि सर्वः पदार्थसंबन्ध इत्युक्तम् । तस्याश्चाप्रामाण्ये
वेदार्थस्या प्रतिष्ठेति सर्वमसमञ्जसमिति शास्त्रतो लोकतश्चात एव
महेश्वरः सिद्ध इति उक्तं चास्माभिः पाषण्डपराजये -
श्रुतिभिः स्मृतिभिः पुराणवाक्यैः
मुनिमुख्यैरपरैश्च पूज्यमानाम् ।
प्रभुतामवधार्य चन्द्रमौलेः
कथमेवं मनुजाः पुनर्विमूढाः ।।
परमेष्ठिमुखैः पिपीलिकान्तैः
भुवनेऽस्मिन्निखिलैश्च जन्तुवर्गैः ।
गिरिशः परिपूजीताङ्घ्रिपद्मो
न तु कश्चिद्गिरिशेन पूजनीयः ।। इति ।
तस्मात् सर्वज्ञेन सर्वकर्त्रा परमाप्तेन परमेश्वरेण
प्रतीतत्वाछैवागमाख्यं प्रमाणं सर्वोत्कृष्टतयाज्ञेयम् । अत एव
वर्णाश्रमाचारव्यवस्थापकवेद
विरुद्धबौद्धादिशास्त्रवन्नास्यानुपादेयत्वप्रसङ्गः ।
वर्णाश्रमस्थानामेवात्राधिकारश्रुतेर्वेदाविरोधाद्वेदवित्परिग्रहाच्च ।
यदुक्तं श्रीमत्पराख्ये -
कार्या दीक्षापि सर्वेषां तच्छक्तिविधियोगिनाम् ।
प्. ७२)
त्रयाणामपि वर्णानां न तु शूद्रान्त्यजादिषु ।
अमद्यपास्तु ये शूद्राः शैवाचार क्रियादशः ।।
शिवभक्ताश्च तेषां सा दीक्षा कार्यान्यथा नहि इति ।
श्रीमत्सर्वज्ञानोत्तरेपि -
यस्मिन्वर्णे स्थितो दीक्षां प्राप्तो देही शिवात्मिकाम् ।
तत्रैव संस्थितो नित्यं शिवधर्मं च पालयेदिति ।।
उक्तं च श्रीमन्मतङ्गेन्द्रादौ -
स्नानमाशिरसः कृत्वा समाचम्योदगाननः ।
प्राङ्मुखो वा भजेत् संध्यां वेदसिद्धां द्विराश्रमीति ।।
धर्माधर्मसाधनसंसिद्धिराम्नायादेव ज्ञायते । तन्मूलत्वात्
स्मृतेश्चापि श्चामेवापरस्य त्विति । तथाचम्य पुरा ब्राह्मीं भजेत् सन्ध्यां
द्विराश्रमीति तथा इति वर्णाश्रमाचारान्मनसापि न लक्षयेत् । यो यस्मिन्नाश्रमे
तिष्ठन् प्राप्तो दीक्षां शिवात्मिकाम् । स तस्मिन् नेव सन्तिष्ठंश्छिवधर्मं च
पालयेदिनि पुराणेतिहासादौ श्वेतोपमन्युप्रभृतीनां
महर्षीणामत्रानुष्ठानं श्रूयते । भारते च
नरनारायणयोरश्वत्थाम्रञ्च आभ्यां लिङ्गेऽर्चितो देवस्तस्यार्चायां युगे
युगे । इति स्वर्णाक्षे च भगवतो वासुदेवस्य परमेश्वराराधनसिद्धिः ।
रामायणेपि कार्तवीर्यादि स्तुतिषु च प्रतिष्ठापूर्वको धर्मः श्रूयते ।
पक्वेष्टकथितं सम्यग् यः करोति शिवालयम् इत्यादि -
प्. ७३)
सूत्रे मोक्षं विनिर्दिशेदिति च उपनिषत्सु श्वेताश्वतरादिष्वथर्वशिरः
प्रभृतिषु च शिवस्याराध्यत्वं श्रूयते । सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
विश्वस्य स्रष्टारमनेकरूपम् । शिवस्य चैकं परिवेष्टितारं ज्ञात्वा शिवं
शान्तमत्यन्तमेतीत्यादि शिव एकोध्येयः शिवंकरः सर्वमन्यत् परित्यज्येत्यादि
च ततोऽस्य न विगानता वापि च्छिन्नमूलता न कैश्चिदेव परिग्रहः ।
तस्माद्वेदविद्भिरन्यैश्च तत्प्रमाणतयाग्राह्यम् । तदुक्तं मोक्षकारिकासु ##-
न चान्येन प्रमाणेन संरुद्धस्तस्य गोचरः ।
श्रोत्रियैरप्यतो ग्राह्यं तत्फलाधिकसाधनम् ।। इति ।
तस्मात् परमेश्वर एव परमाप्तः । कपिलादयस्तु
परस्परविरुद्धार्थाभिधायित्वात् न परमाप्ताः । यदाहुः -
सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा ।
अथो भावपि सर्वज्ञौ मतिभेदस्तयोः कथमिति ।।
ततश्च सर्वाविरोधेन सर्वान्यागमप्राप्य स्थान प्रदर्शनपूर्वकं
तदनधिगतार्थ प्रदर्शकत्वाद्यथाधिकारं वेदादि सामान्यशास्त्रोक्त
फलसाधकत्वात् तदविषयस्यापि विशिष्टस्य भोगमोक्षात्मनः
फलसाधनत्वाच्च शिवागमाख्यं प्रमाणमव्याहतम् । यदाहुः -
अनधिगतार्थगन्तृ प्रमाणम् इति । अत एवोक्तं सिद्धगुरुभिः ।
अशेषफलसाधकमिति । यदुक्तमा(गम?)शास्त्रेषु -
प्. ७४)
विद्यते यच्छिवागमे । न दृष्टं यच्छिवज्ञाने तदन्यत्र न विद्यते । इति ।
तस्मादेतद्विरोधे तानि बाध्यन्ते । तद्विनाश्य(स्य?)बाधा यदुक्तं
सर्वज्ञानोत्तरे -
न पुंभिरार्षकं वाक्यं दैविकं मुनिभिस्तदा ।
न देवैर्ब्रह्मणो वाक्यं वैष्णवं पद्मजन्मना ।।
न शैवं वैष्णवाअद्वाक्याद्बाध्यते न कदाचने ति ।
श्रीमन्मोहशूरोत्तरेपि -
पुराणं बाध्यते वेदैरागमैश्च तदुक्तयः ।
सामान्यं च विशेषं च शैवं वैशिष्टिकं वचः इति ।।
मोक्षकारिकासु स ताभिरभिभाव्याभिः सामान्याभिश्च बाध्यते । ताभ्यो
विलक्षणत्वात् तु तथा चाविषयत्वतः इति । यद्येवमन्यानि शास्त्राणि न
प्रमाणानि भवेयुः । मैवम् । नान्यपि स्वविषये प्रमाणान्येव
तत्तत्प्रणेनॄणां सर्वज्ञत्वाभावेऽपि स्वविषये ज्ञानादियोगात् । अत एव
तैरसर्वार्थ दशिभिः स्वशास्त्रादन्यदप्रमाणमित्युक्तम् । सर्वार्थ
दर्शितानातु शिवेन सर्वेषां स्वस्वविषये प्रामाण्यमुक्तं
श्रीमत्सर्वज्ञानोत्तरादौ ज्ञानचर्यान्वितो बौद्धौ
बुद्धितत्त्वमवाप्नुयादित्यादि । ते च तत्त्वप्राप्तिमेव परं मोक्षम् मन्यन्ते ।
तदयुक्तम् । तदूर्ध्व भुवन भोग्यानां कर्मणां युक्त्यागमसिद्धानां
मलादिपाशानां चापरिक्षयान् परमप्राप्तिहेतुभूतशिवादिवस्त्वपरिज्ञानाच्च
।
प्. ७५)
तदुक्तं श्रीमन्मृगेन्द्रे -
यत्कैवल्यं पुंप्रकृत्योर्विवेकात्
यो वा सर्वं ब्रह्म मत्वा विरामः ।
या वा काश्चिन् मुक्तयः पाशजन्या
स्तास्ता सर्वा भेदमायान्ति सृष्टौ ।। इति ।
श्रीमदवधूतगुरुणापि -
त्वन्मते भवविज्ञाननिष्पन्ना अपि मुक्तयः ।
भजन्ते नाविसंवादमाम्भसा इव वृष्टयः ।। इति ।
कानि पुनर्दर्शनान्तरैस्तत्रच्छास्त्रसिद्धानां प्राप्यानि स्थानानि?
अत्रोच्यते -
लोकायतस्त्वात् - पृथिव्यापस्तेजोवायुरिति चत्वारितत्वादि चैतन्यविशिष्टः
कायः पुरुषः मदशक्तिवद्विज्ञानं प्रत्यक्षमेव
प्रमाणमित्यादिद्यभ्युपगमात्
प्रत्यक्षपरिदृश्यमानब्रह्माण्डोदरगतपृथिव्यादिभूतव्यतिरिक्त##-
चैहिकमेव सुखं मोक्ष इति मन्यते । यदाहुः -
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।।
इत्यादि । ते च भूतचैतनिकाः कथ्यन्ते । एषां चतुर्भूतविषयं ज्ञानं
प्रमाणमेव । इतरवस्तु कथनं भ्रान्तिरेवमन्येषामपि वादिनां
स्वस्वविषयवस्तु कथने प्रामाण्यम् । स्वविषय स्वभावकथन मां -
प्. ७६)
तदि स्वरूपान्यथा भाव कथनं च भ्रान्तिरेव ।
केचित् पुनरात्मवादिनोऽनादिरेव पुरुषः कार्यकरणैः प्रवाहतः संसारबन्ध
तस्थानादेः शरीरेन्द्रिययोगस्य विनाशाभावात् केवलं परिदृश्यमानानि
दुःखशरीरनिवृत्यावशिष्टकर्मतः प्रकृष्टतरशरीरयोगेन नक्षत्र
मार्गेऽवस्थानं मोक्षमाहुः ।
अन्ये त्वाग्नेय सौरवैष्णवादयोग्न्यादि देवतासाम्यं मोक्षः । ततः परं न
प्राप्यस्थानमस्तीत्याहुः । तेषामपि
ब्रह्माण्डान्तर्गततत्तद्भुवनदेवताप्राप्तिरेव स्यात् । ततस्तेपि भूतसिद्धा एव ।
अपरे तु हिंसामैथुनादिकमेव पुरुषार्थोपायं मन्यमानाः कौलाः
घटपटन्यायेन भौतिकशरीरविनाशात् विशिष्टपदप्राप्तिमेव मोक्षं
मन्यन्ते । तेपि वस्तुतः पिशाचादि पदावस्थितत्वात् भूतसिद्धाः । एवं
कर्ममीमांसकाः जैमिनीयाः पुनर्न कदाचिदनीदृशं जगन्नास्य कर्ता
कश्चिदस्ति आत्मानस्तु नित्यास्ते च स्वानुष्ठितैः कर्मभिरेव स्वर्गनरकादि
फलभोक्तारः । एषां च श्रुतिस्मृति
विहितनित्यनैमित्तिकानुष्ठानात्परगतिप्राप्तिरित्याहुः ।
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ।
मोक्षार्थि न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।। इति ।
मन्वादयोऽपि भूताण्डकारणं यत्तदेवं परं ब्रह्म ज्ञानात्प्राप्यं च ।
नान्यतः संभवादित्याहुः ।
ततः स्वयंभूर्भगवान् व्यक्तो व्यञ्जयन्निदम् ।
प्. ७७)
महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदे । इत्यादि ।
एते च सत्त्वादीनामपि ब्रह्माण्डमध्यजन्यत्वेनाभ्युपगमान् प्रकृतिजन्यानि
गुणादीनि तत्त्वानि नैव सन्ति । ते सर्वे वस्तुतस्तन्मात्रासिद्धा इत्यत्रोच्यन्ते ।
इन्द्रियचैतनिकास्तु शरीरव्यतिरिक्तानीन्द्रियाण्येवात्मशब्दवाच्यानि
नान्यदित्याहुस्तेचेन्द्रियसिद्धाः कथ्यन्ते । तत्त्वेपि पुनरिन्द्रियाणां
प्रवृत्तिकारणम् मन एवात्मा तदेव परमं ब्रह्म तस्माज्जगत्सर्वं
प्रवर्तते । तदेव ज्ञानात् प्राप्यमित्याहुः । यदुक्तं तैः -
चित्तमेव हि संसारो रागादिक्लेशदुषितम् ।
तदेव तद्विनिर्मुक्तो मोक्ष इत्यभिधीयत ।। इति ।
तेप्यन्तः करण चैतनिकेषु मनश्चैतनिकाः । ये पुनर्निरूपाख्यमहं
प्रत्ययस्वरूपमेव ज्ञानात्प्राप्यमित्युपगछन्ति तेप्यहं कारचैतनिकाः । ये
त्वहंकारवृत्तिरूपं प्राणाख्य वायुमेवात्मानं मन्यन्ते
तेप्यहंकारचैतनिकाः तेप्यहंकारसिद्धाः एव ।
बौद्धास्तावन्नैरात्म्यवादिनश्चतुर्विधाः । तत्र वैभाषिक सौत्रान्तिकौ
बाह्यार्थसद्भाववादिनौ सर्वेवस्तूनां क्षणिकत्वमभ्युपगम्य
बुद्धिवृत्त्यात्मिकामध्यवसायरूपां ज्ञानसन्ततिमेवात्मानं मन्यन्ते ।
माहायनिकमाध्यमिकौ तु बाह्यार्थशून्याज्ञानसन्ततिरेव परमार्थभूत ।
सैव च क्लेशादि वासनायोगात् संसारहेतुर्न तु ततोऽन्यदात्मादिकं
वस्त्वस्तीत्याहुः । एतेषु मध्यात् केचिज्ज्ञानचर्याभ्यां शुद्धचित्संतति
प्. ७८)
समुत्सादो मोक्ष इत्याहुः । प्रदीपनिर्वाण वादिनस्तु तस्याप्युपशमं मोक्षं
मन्यन्ते । ते बुद्धिचैतनिकाः प्रोक्ताः । नैयायिकवैशेषिकास्तु जगतः कर्ता
परमेश्वरस्तस्योपादानं परमाणवः ते च नित्याः ।
अत्मानस्तुनित्याव्यापकाश्चं । तेसां च कर्मभोगार्थं मनः संयोगादेव
ज्ञानमुत्पद्यते इत्याहुः । तत्र नैयायिकाः
षोडशपदार्थज्ञानादात्मगुणविशेषेण बुद्ध्यादि विरहमेव मोक्षमाहुः
। वैशेषिकास्तु पदपदार्थज्ञानादिति भेदः । यदाहुः - प्रमाणप्रमेय
संशयप्रयोजन दृष्टान्त सिद्धन्तावयव
तर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां
तत्त्वज्ञानान्निःश्रेयसावाप्तिरिति । द्रव्यगुणकर्मसामान्य
विशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधर्म्यज्ञानं
निःश्रेयसहेतुरिति च । बुद्धि सुखदुःखेच्छा प्रयत्न
धर्माधर्मसंस्काराणां नवानामात्मगुणानां अत्यन्ताभावो मोक्ष इति च
परमार्थस्तेप्यात्मनां नित्यत्वाभ्युपगमेपि जडत्वाभ्युपगमात्
धर्माद्यष्टगुणानां बुद्धिमेवात्मत्वेममन्यमाना बुद्धिसिद्धा एव ।
आर्हतास्तु अनेकान्तवादमभ्युपगम्य चलं गुणवृत्तमिति
पातञ्जलोक्तन्यायेन गुणतत्त्वमेव
तादृग्रूपमव्यापकमव्यापकशरीरपरिमितं परिणामिनं चात्मानं
नित्यं मन्यमानास्तस्यानादि मोहादि संक्षयादिति ततस्ते गुणसिद्धा कथ्यन्ते ।
अन्ये तु पुरुषाणामनादिरेव प्रकृतिः । प्रकृतिसंबन्धो भोक्तृत्वं च । न
चानादेर्नित्यस्य स्वभावस्य
प्. ७९)
विनाशोयुक्तस्तस्मान्मुक्तावपि भोक्तृभोग्य संबन्धः
पुंप्रकृत्योरेष्टव्यः । केवलं चानादिकर्मक्षयान्मुक्तौ
शुद्धनिरन्तरानतिशयानवछिन्नसदात्म सुखरूपा सा भोग्या भवतीत्याहुः
। ते च सत्व भुजः कथ्यन्ते । तेषां च गुण भुवने स्थितिः सांख्याः पुनः
पुरुषाः प्रतिशरीरं भिन्नाः नित्याः निर्विकाराः निर्गुणा निर्मलाश्चित्स्वरूपा
व्यापका उदासीना अनाद्य विद्यादि क्लेशयुक्ताश्च प्रकृतिरप्येका
सत्वरजस्तमोरूपा नित्या चैतन्यरहिता व्यापिका समस्तजगदुपादानभूता च । सा
च महदादि पृथिव्यन्त तत्त्व तात्त्विक कॢप्तिरूपेण परिणता स्वात्मानं
भोग्यतया पुरुषेभ्यो दर्शयतीति स एव तेषां संसारः । तेषां मध्ये यदा तु
व्यक्ताव्यक्तात्मविषयेण ज्ञानेन प्रकृतिपुरुष विवेकपुरःसरं
सत्त्वान्यथाख्यातिर्भवति तदा सातं प्रत्युपरताधिकारा तस्मान्निवर्तते ।
तदापदृष्टस्वरूपाद्यवस्थात्मकं कैवल्यं भवतीत्याहु । यदुक्तं तैः
-
वत्सविवृद्धि निमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्ये ति ।।
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात् ।
प्. ८०)
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिरिति च । तदेकदेशास्तु
पातऽऽञ्जलाः प्रागुक्तमभ्युपगम्य पुरुषेषु मध्यात् कस्यचित्
क्लेशादिवर्णितत्वं शास्त्रोपदेशकत्वं चोक्त्वा
ज्ञानयोगाभासान्मोक्षमिच्छन्ति । यदाहुः -
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ।
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष इश्वरः । स पूर्वेषामपि
गुरुः । इत्यादि । तेषां ज्ञानादिना गुणतत्वान्तभोग्यकर्मक्षयात्
तदूर्ध्वबुवनप्राप्तिरेव मोक्षः । ततुक्तम् परमोक्षनिरासकारिकासु -
गुणतत्त्वोध्वभोग्यस्य कर्मणोनुपलब्धितः ।
कैवल्यमपि सांख्यानां नैव युक्तमसंक्षयात् ।। इति ।
पाञ्चरात्राच्च गुणव्यतिरिक्ताया नारायणाख्यायाः परस्थाः
प्रकृतेश्चिदचितोः वस्तूनां सर्वेषां साक्षात्परम्परयाचोत्पत्तिस्तेषां च
जीवानां विद्या न कर्मानुबन्धेन संसारोज्ञानादिना तत्क्षयतः
समुपशान्तकार्यभेदरूपे तस्मिन् परमात्मनि कारणलयः परश्रेय इति
वदन्ति । यदाहुः -
भगवान् वासुदेवोसौ गुणेभ्यः प्रकृतिः परा ।
अव्यक्तं व्यक्तमाहुस्तं परमस्मान्न विद्यते ।। इति ।
ईशांस्तु ते समभवन् प्रकृतेः परस्याः
कृष्णानिरुद्ध मकरध्वजरौहिणेयाः ।
इत्याति च । तेत्राव्यक्त सिद्धाः कथ्यन्ते । तद्विकार भूतानां कृष्णादीनां
तत्साधकानां
प्. ८१)
च गुणतत्त्वस्थे विष्णुभुवने वस्थितिः । तदुक्तं श्रीमत्पौष्करे -
अकृतं च कृतं चैव रैभवं ब्राह्मंमेव च ।
वैष्णवं वाथ कौमारमौमं श्रैकण्ठमेव च ।।
भुवनानि गुणेष्वष्टाविति । एते च सांख्यादयो माया महामाययोरपरिज्ञानात्
सविषयामेव प्रकृतिं परप्रकृतितया परव्योमतया च मन्यन्ते ।
तदेकदेशास्तु प्रकृति मेव परब्रह्मत्वेनाभ्युपगम्य तद्विवर्तं
जगदित्याहुः परिणामं वेदान्तिनः परमात्मलषणायाः पर
प्रकृतेर्जीवात्मनां प्रपञ्चस्य चोत्पत्तिमुक्त्वा तेषां
जीवात्मनामात्मज्ञानादिना परमात्मनिलयो मोक्ष इत्याहुः । मायावादिनस्तु
सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चनेत्यादि श्रुतिसिद्धस्य ब्रह्मण एव
सत्यतया तदन्येषां च
भेदरूपाणामविद्यानिर्माणैकसारत्वेनासत्यत्वाज्जीवात्मनामपि
प्रमाणसिद्धप्रोक्तसत्यभूतपरमात्मासारत्वेनप्यविद्याकलुषितत्वेन
भ्रान्तत्वात् स्वप्नानुभवसंसाराभिधानो भेदप्रपञ्चस्वरू * *
* * विदं प्रथमस्यात् कदाचिदात्मा ज्ञातव्य इत्याद्युक्तक्रमेण
सम्यग् ज्ञानोदयात्तत्प्रतिपक्षभूत भ्रान्तिकारणप्रोन्मूलनेन
तिरस्कृताखिलभ्रान्तिः परमात्मबोधः सुप्तप्रबुद्धस्य
स्वरूपमात्रप्रतिष्ठो जीवात्मनः पूर्वप्रवाह विलयो भवति । सैव
परामुक्तिरित्याहुः । तस्मात् ते पुरुषतत्त्व एवावस्थिताः । यच्छ्रूयते -
प्. ८२)
बुद्धितत्त्वे स्थिता बौद्धा गुणेषु त्वार्हताः स्थिताः ।
स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः ।। इत्यादि ।
शब्दब्रह्मवादिनस्तु त आत्मनः क्रियाशक्तिमेव परं ब्रह्म
परव्योमादिशब्दवाच्यामभिधाय तत एव शब्दार्थरूपस्य
प्रपञ्चस्योत्पत्तिः । तत्परिज्ञानाल्लय एवापवर्ग इत्यहुः । तेपि परमार्थतः
पुरुषतत्त्व एवावस्थिताः पौराणिकास्तु सांख्योक्तवत्प्रकृत्यादि तत्त्वजातं
प्रकृतिपुरुषाधिष्ठातारं षड्विंशतिकमीश्वरं चाभ्युपगम्य
तत्सालोक्यादि रूपां तद्गणेश्वर प्राप्तिं चैव परां मुक्तिमाहुः । तेषां
वस्तुतः प्रेर्यत्वात् तदूर्ध्ववस्त्वपरिज्ञानाच्च न परा मुक्तिः । यदुक्तम्
परमोक्षनिरासकारिकासु - गणेन्द्राग्निसमो प्रेर्यावसंपूर्ण
मनोरथावित्यादि । एवं परमादित्यादि साम्यमोक्षवादिनोपि तत्तद्भुवनेषु
तत्तत्सालोक्यादिरूपां मुक्तिं व्रजन्तीत्यर्थतः सिद्धमेव । पाशुपताः पुनः
मायाव्यतिरिक्त मलमनभ्युपगच्छन्तो दीक्षाज्ञानादिना सर्वबन्धक्षये सति
परमेश्वारात् सिद्धे सर्वज्ञत्वादि गुणसंक्रान्तिस्तत्साम्यं मुक्तिरित्याहुः ।
तेषां तु परमार्थतो मलापरिज्ञानात्तद्विनाशाभावेन मायातत्त्व
एवावस्थितिः । यच्छ्रूयते - पाशुपतास्तु मायायां विद्यायां तु
महाव्रताः इति । एवं तद्विशेषाणां शैवपुराणाद्युपन्यस्तानां
वैदिकयाशुपतावामप्यत्रैवावस्थितिः । केचिदुत्पत्त्या साम्यमोक्षवादिनः
शिवप्रसादा सिद्धे सर्वज्ञत्वाद्युत्पद्यत इत्याहुः । अपरे परमेश्वरावेशात्
सिद्धे सर्वज्ञत्वादि
प्. ८३)
स्यादित्याहुः । तेषामपि समलत्वेन पारमार्थिकस्वगुणव्यक्त्य भावात्
तत्रैवावस्थितिः स्यात् । महाव्रताश्च
सांख्यपक्षवद्बद्धदशायामप्यात्मना न कर्तृत्वं मुक्तौ च
सिद्धानां सर्वज्ञत्वमेवासर्वकर्तृत्वं तु
परमेश्वरस्यैवेत्यभ्युपगछन्ति । यदुक्तं पदयक्षिण्याम् -
परमशिवसिद्धात् प्रत्युपरनाधिकारोप्यन्येष्वनुपरताधिकारः सिद्धः
पुनरेकान्ते न सर्वत एवोपरताधिकार इति भेद इति । एवं भूते च विद्यातत्वान्त
एवाध्वनि तत्वान्तराप्त * * * रतन संज्ञाया कथयन्ति
परमार्थतस्तत् तत् तत्त्ववासिनामिव । सर्वकर्तृत्वानभ्युपगमात् ते
विद्यायामेवावस्थिताः इत्युक्तम् - विद्यायां तु महाव्रताः । अन्ये पुनः
सिद्धस्य सर्वज्ञत्वमभ्युपगम्य परमेश्वरप्रेर्यत्वमिच्छन्ति । परे तु
प्रवाहनित्येश्वरवादिनः सिद्ध एव सर्वकर्तृत्वमीश्वरेप्यन्यस्मिन्नेत्याहुः ।
तेषामीश्वरप्रेर्यत्व सिद्धेर्वस्तुत ईश्वरतत्त्वेऽवक्ष्यानम् । शक्त्यद्वैतवादिनः
केचिच्छक्तिमेव परमकारणत्वेनाभ्युपगम्य तत्परिणामं जगदिच्छन्ति । ते
च वेदान्तवादिवज्ज्ञानादिना तल्लयमेव मोक्षं मन्यन्ते । ते परमार्थतः
शक्तेरूपादानत्वाभ्युपगमात्कुण्डलिनीय शक्तितत्वेऽवस्थिताः कौलादीनां तु
कैश्चित् पुरुषार्थसाधनत्वेन स्वीकृतानन्दतन्त्राणां मत्स्यादिभिः सर्वैः
स्वमनिषया प्रणीतत्वेना फलत्वान्नात्र शैवे स्वीकारः । एवमुक्तेन
प्रकारेणान्येपरमपिवामदक्षिण
प्. ८४)
गारुड भूततन्त्राख्यस्रोतोन्तराणामपि स्वस्वविषये प्रामाण्यमस्त्येव । एवं
सर्वागमानां स्वस्वविषये प्रामाण्यमभ्युपगम्य तदविषयाणि शिवादि
वस्तूनि प्रदृश्य तछास्त्रोपदिष्टमोक्षेभ्यः
प्रकृष्टतरस्यापुनरावृत्तेः परमशिव साम्यरूपस्य
स्वरूपव्यक्तिलाभात्मनः परस्य मोक्षस्य प्रदर्शना तदेव
प्रमाणमित्युक्तम् । एतत्सर्वागमप्रामाण्यं तत्र भवता रामकण्ठेन
श्रीमद्रौरववृत्तिविवेके प्रोक्तम् । यदुक्तं -
परस्पर विरोधेन प्राप्यबाधामनानताम् ।
सर्वागमानामाहुर्ये तत्प्रतिक्षेप उच्यते ।।
शक्तितत्त्वे तदद्वैतामुक्तिमिच्छन्ति ये स्थिताः ।
विद्येशतत्त्वे पूर्वे तत्प्रेर्यमीश्वरमेव ये ।।
मन्त्रेशशुद्धविद्यायां ये सर्वज्ञं मुनीश्वरम् ।
मायायां ये स्वचिद्धीनं संक्रान्तगुणमीश्वरम् ।।
ते स्थिता मुक्ति भेदोयं शुद्धोयं पशुदृक्कृतः ।
पशौ ब्रह्मत्वमाहुर्ये चिद्विवर्तादनिर्मलात् ।।
तत्रैव च-
ये प्राक् प्रपञ्चां क्रियाशक्तेः पराहि वाक् ।
अव्यक्ते येऽप्युपादानं गुणानां ब्रह्म चात्मनाम् ।।
अत्रैव करणं तेषां ये तु नारायाणाभिधम् ।
गुणपृष्ठे गुणेभ्यो ये विवेकोक्तबलान्नरम् ।।
गुणेषु येप्यनेकान्तं स्याद्वादचलवृत्तिषु ।
प्. ८५)
बुद्धौ भ्रान्ताः पुमांस्ते ये ज्ञानादि गुणशान्तितः ।
बुद्धिवृत्तौ क्षणध्वंसि ज्ञानमात्रं तु ये भ्रमात् ।।
अहंकृतौ तु तद्वर्त्ति प्राणमात्रं भ्रमेण ये ।
मनसीन्द्रियवृत्तौ यो हेतुमात्रं भ्रमान्तरम् ।।
इन्द्रियेष्विन्द्रियाण्येव ज्ञात्वा ह्यात्मेति ये विदुः ।
तन्मात्रेष्वाप्य माहुर्ये ब्रह्मभूताण्डकारणम् ।।
हिंसामैथुनतः सिद्धाः पिशाचादिपदे स्थिताः ।
भूतेषु येपि चैतन्यं प्राप्यं भूतात्मकं विदुः ।।
तेपि मुक्तौ स्थिता स्वेच्छा मन्ये ये परदर्शनात् ।
मुक्तिमिच्छन्ति तज्ज्ञेयास्तत्तत्तत्त्व युजो बुधैः ।।
यच्चित्तस्तत्र योपेतो भवतीत्युच्यते बुधैः ।
शश्वत्प्राप्य चितश्चैतं व्याप्नुवन्त्येव ते स्वतः ।।
तत्त्वेभ्यो दक्षिणेभ्योन्यत्तैः प्राप्यं यद्यपीष्यते ।
तथापि च तदेवोक्तं कार्यैकाध्यवसायतः ।।
परोक्षस्यार्थतो भेदो भेदोयं कारणस्य वा ।
कार्याद्भिन्नादभिनाच्च सिद्धवत्सिद्धिमेतियत् ।।
कार्यैरेभिस्थितैर्यस्मात्तानि ज्ञानि तैः परैः ।
तान्येव नामभिस्तत्त्वैर्न च नामार्थ भेदकम् ।।
तत्रापि तेषामंशेन भ्रान्तिर्यद्यपि विद्यते ।
सत्यकार्यानुमानैस्तैस्तथाप्य भ्रान्तबुद्धयः ।।
प्. ८६)
भ्रान्तिरर्थान्तरारोपान् सत्यधर्मावलम्बिनि ।
कार्यापैतीति सर्वस्य न विहन्तुं क्षमायतः ।।
काचोग्निहेतुरिति यैः सूर्यकान्तः प्रतीयते ।
काच भ्रान्त्यापि किं तत्र ते भ्रान्ताः परमार्थतः ।।
अतः स्वसंकल्पनाभिस्तैः कल्पितं वस्तु यद्यपि ।
तथाप्यन्ते विसंवादात्तद्रूपत्वं विशन्ति ते ।।
तेषां भ्रान्तिस्तु सा प्रोक्ता तत्प्राप्तौ यानि वर्जिता ।
तत्सचित्र विपक्षत्वात् प्राप्तेरपि विरोधिनी ।।
षट्त्रिंशत् तत्त्वरूपस्य आत्मनोस्य क्रमस्थितेः ।
तदेकदेशतत्त्वाप्तिर्न सत्त्वा न च निष्फला ।।
इत्थं प्रत्यागमं येन भिन्नं प्राप्यमवस्थितम् ।
सर्वागमानां तेनोक्तं प्रामाण्यमविरोधतः ।।
प्रामाण्यमित्थं सकलागमानामीशेन गीतं क्वचिदेवयञ्च ।
एतद् गुरुणामुपदेशसिद्धं युक्त्योक्तवांस्तद्वतरामकण्ठः ।। इति ।
सर्वं च शास्त्रजातं लोकिकादि भेदात् पञ्चधा भिन्नं तत्र लौकिकं
शास्त्रमायुर्वेददण्डनीत्यादि दृष्टफलम् । वैदिकं तु मीमांसादि
दृष्टादृष्टफलम् । आध्यात्मिकं तु वेदान्तसांख्याद्यात्मज्ञानफलम् ।
अतिमार्गं पुनः पाशुपतादि मायादि तत्त्वप्राप्ति फलं च । मान्त्रं तु
शैवाख्यं परापरभोगमोक्षफलम् । ततुपायोपदेशकं च तस्मादन्येषु
शास्त्रेषु शिवादिपरिज्ञानं भोगमोक्षं स्वरूपं तदुपाय कथनं च
चास्फुटं
प्. ८७)
यदुक्तं श्रीमन्मृगेन्द्रे -
प्रणेत्र सर्वदर्शित्वान्न स्फुटो वस्तुसंग्रहः ।
उपायाः सफलास्तद्वच्छैवे सर्वमिदं परमिति ।।
ननु स्रोतोऽन्तराणां वामदक्षिण गारुडभूत तन्त्राणामपि शैवत्वेन
प्रसिद्धेः कथं तेषु वस्तुसंग्रस्य भेदः । उच्यते । तेषां परस्पर
विरुद्धार्थ प्रतिपादकत्वेन सांख्यादिवदेककर्तृत्वा संभवात् सर्वज्ञस्य
सर्वानुग्राहकस्य रागद्वेषादि रहितस्य शिवस्य विरुद्धार्थाभिधायित्वा योगात्
परमेश्वरात्कामिकादि ज्ञानावतारकत्वेन प्रसिद्धानां प्रणवादीनामिव
स्रोतोऽन्तराणामपि परमशिवादवतारकत्वेन कस्य चिदस्मिन् शास्त्रोक्त
वचनादर्शनाच्च न तानि परमशिवकृतानि किंतु
तत्पुरुषशिवशक्त्यधिष्ठितैर्मलपरिणति
तारतम्याधिकारमनुगृतीतैर्वामादिवच्छिवशब्दवाच्यैरागमानन्तरैः
प्रणीतमित्यविरोधः । तानि च स्वविषये प्रमाणान्येव । तदुक्तं रत्नत्रये -
सिद्धान्त एव सिद्धान्तः पूर्वपक्षास्ततः परे ।
आगमाः शिव एवैकः शिवोऽन्येत्व शिवा मताः ।। इति ।
श्रीमन्मृगेन्द्रेपि -
स्रोतांसि कामिकायुर्ध्वमसिताङ्गादि दक्षिणम् ।
संमोहाद्युत्तरं प्राच्यां तन्त्रं तालादिविस्तरम् ।
आद्यं चण्डासि धारादि चण्डनाथ परिग्रहम् ।।
इति कथं पुनस्तत्रैव -
सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये ।
विधत्ते विमलं ज्ञानं पञ्चस्रोतोभिलक्षितमित्युक्तम् ।।
प्. ८८)
अत एव विमलमित्युपदेशातपञ्चमन्त्र परिग्रहत्वात्पञ्चकृत्य
प्रतिपादकत्वात् मञ्चमन्त्रात्मक शिवदेहाभिव्यक्तत्वाच्च सिद्धान्तरूपमेव
ज्ञानं पञ्चस्रोतोभिलक्षितमित्युक्तं । अत एव स्रोतोऽन्तरस्थानां सर्वत्र
शैवत्वेन प्रसिद्धिः । तदुक्तं श्रीमत्ष्ट्सहस्रिकालोत्तरे -
शान्त्यतीते कामिकाख्यं शान्तेर्वै योगजं विभोः ।
अचिन्त्यं विद्धि विद्यातः प्रतिष्ठा कारणात्मिका ।।
निवृत्तेरजितं नाम शिवस्य वदनानि तु ।
दीप्तं शिवस्य हृदयं सूक्ष्माख्यं तु शिरस्तथा ।।
सहस्रं तु शिखा शम्भोरंशुमत्स्यात् तनुत्रम् ।
सुप्रभं लोचनं ज्ञेयं सोमसूर्याग्निसन्निभमिति ।।
मूर्धतो विजयं जातं ललाटात् पारमेश्वरम् ।
नेत्रेभ्यश्चैव निश्वासं त्रिखण्डं निर्गतं पुरा ।।
श्रवणाभ्यामयोद्गीतं द्विखण्डं भुक्तिमुक्तये ।
त्रिंशत्प्रकारं विज्ञेयं मुखाच्च मुखबिम्बकम् ।।
त्रिशतं तु तथा सैद्धं ग्रीवां साभ्यां समुत्थितम् ।
द्विकाण्डं चैव संतानं तालु देशाद्विनिर्गतम् ।।
एकभेदं नारसिंहं वक्षोदेशाद् विनिर्गतम् ।
स्तनाभ्यां चन्द्रहासाख्यं तद्विभेदाद् विनिर्गतम् ।।
प्. ८९)
हृद्ग्रीवाद्वीरभद्राख्यं तद्विभेदादिविनिर्गतम् ।
आग्नेयं वातुलाज्ज्ञेयं जठरादेकभेदकम् ।।
स्वायंभुव नाभिदेशात् भेदेनैकेन सर्पितम् ।
विसरं पार्श्वयोर्जातं द्विभेदं शिवकायतः ।।
रौरवं ब्रह्मदेशात्तु भेदैकेन व्यवस्थितम् ।
प्राकुटं कटितो जातं त्रिभेदं तच्च शाङ्करि ।।
एकभेदं तु किरणं प्रजननाद् विनिर्गतम् ।
ऊरुयुग्मानु ललितं सिद्धान्तं तद्विभेदजम् ।।
द्विभेदं सौरभेयं च जानुभ्या परमेष्ठिनः ।। इति ।
तस्मात् सिद्धान्ताख्यं शास्त्रं सर्वोत्कृष्टमित्यनेन च सर्वाणि ज्ञेयानि
वस्तूनि प्रतिपाद्यन्ते ।
अत्र हि पशुपति पाशाख्यं पदार्थत्रयं मुख्यतया ज्ञेयत्वेनोच्यते ।
एतेष्वेवान्येषामप्यन्तर्भावात् । यदुक्तं श्रीमन्मृगेन्द्रे -
त्रिपदार्थं चतुःपादं महातन्त्रं जगत्पतिः ।
सूत्रेणैकेन संगृह्य प्राह विस्तरशः पुनः ।। इति ।
तत्र मन्त्र मन्त्रेश्वर मन्त्र महेश्वर मुक्तात्मशक्ति शिवानां
क्रियादिपादवाच्यस्य दीक्षादेर्भोगमोक्षसाधनकलापस्य च पतिपदार्थे
संग्रहः । पशुपदार्थे च विज्ञानाकल प्रलयाकल सकलान । तद्भेदानां
संग्रहः । पशुपदार्थे तु मलतिरोधानशक्तिकर्ममायामहामायारूपाः
पाशाः संगृह्यन्ते । अत्रापि च श्रीमन्मतङ्गादौ
प्. ९०)
पदार्थानां संज्ञाभेदाः संख्याभेदाश्च श्रूयन्ते । तत्राप्येतानि वस्तूनि
प्रकाशन्तरेणोच्यन्त इत्यविरोधः । पशुपतिपाशलक्षणं चोक्तं
श्रीमत्पराख्यादौ -
सर्वकर्ता महान् छक्तः सर्ववेत्ता महेश्वरः ।
मन्त्राङ्गोऽनुग्रहोत्साहः शान्तो विद्येश बोधकः इत्यादि ।।
देहान्यो नश्वरोव्यापी विभिन्नः समलो जड ।
स्वकर्मफलभुक्कर्ता किञ्चिज्ज्ञः सेश्वरः पशुरित्यादि ।
तथा प्रावृतीशबले कर्ममाया कार्यं चतुर्विधम् ।
पाशजालं समासेन धर्मानाम्नैव कीर्तिता । इत्यादि च ।
पशवस्त्रिविधाः तत्र मलमात्रयुतो विज्ञानाकलः मलकर्मयुतः प्रलयाकलः
मलमायाकर्मयुतः सकलः मलश्चैकोनात्मविद्या विद्यावारकोनेकशक्तियुक्तो
नित्यो व्यापकश्च । कर्मापि प्रतिपुरुषभिन्नं प्रवाहानाद्यात्मकर्तृकं
सुखदुःखादिप्रदं च । माया शुद्धाशुद्धा च । तत्राशुद्धा च
तत्राशुद्धा कलादिक्षित्यन्तत्रिंशत्तत्व तद्गतभुवनभुवनभूतभावानां
परमकारणभूता नित्या स्वकार्यव्यापिका शुद्धविद्यादि शक्तितत्त्वान्त
तत्त्वतात्विक भुवनादि परमकारण रूपा शब्दोपादान भूता च रोधशक्तिस्तु
मलपाकात्पूर्वं तत्पाकार्यं पशूनां तिरोधानभावनां कुर्वाणोपचारेण
पाश इत्युच्यते । किं च महामाया भुवनप्राप्तेरपरमुक्तित्वेपि तत्प्राप्तानां
परमुक्त्यपेक्षया पारतन्त्र्यादि योगात्रयाणां पाशत्वमुच्यते । एतच्च
प्. ९१)
सर्वं शास्त्रेषु विस्तरेण साधितत्वान्नात्र प्रपञ्चते ।
ननु नित्य एव शब्दः । कथं तदुपादानतयात्र सिद्धा महामायोच्यते ।
अत्रोच्यते वर्णानामाचैतन्ये सत्यनेकत्वेन तत्कारणतया विद्याख्या महामाया
सिद्धा । तदुक्तं श्रीमत्पराख्यादौ -
उपादानमतो बिन्दुर्यस्माद्वर्णा न तद्विना ।
बहुसंख्याः स्मृता यस्मात् कृतास्ते चेतनायतः ।।
निमित्तमीश्वरस्तेषामुपादानं स बिन्दुरा ।। इति ।।
अमेनाक्षरबिन्दोः परमकारणस्य परबिन्दोर्विशेषमाह । ततश्च परमेश्वरो
बिन्द्वाख्यात्परमकारणान्नादादि क्रमेण समस्तपदादिरूप-
शब्दकारणत्वान्मातृकाशब्दवाच्यान्वर्णानुत्पादयति । तदुक्तं
श्रीमन्मृगेन्द्रे -
शक्तेर्नादो भवद्बिन्दुरक्षरं मातृका तत इति ।
ननूच्चरिते ध्वंसिनां वर्णानां ताल्वोष्ठपुटसंयोगादुत्पत्तिर्दृश्यते ।
उक्तं च -
आकाशवायुप्रभवः शरीरात्समुच्चरन्वक्रमुपैति नादः ।
स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागछति यः स शब्दः ।।
इति । तत्कथं महामायाजन्या मातृकोच्यते । अत्र ब्रूमः । परमेश्वरः
सर्गादौ नादादिक्रमेण मातृकामन्त्रं मन्त्रात्मकं च
सिद्धान्तशास्त्रमुत्पादयामास । स च शुद्धशब्द उच्यते । तदुक्तं
श्रीमत्पराख्यादौ -
बिन्दुः शुद्धस्तदिच्छातः शब्दराशिरभूत्तदेत्यादि ।
तदुत्पन्नाश्च नादास्तत्वान्तरवत्प्रतिपुरुषमर्थप्रत्यायकत्वेन शिवेच्छया
संयुज्यन्ते । नादसिद्धिश्च नादकारिकासु द्रष्टव्या । तदुक्तं श्रीमत्कालोत्तरे
-
प्. ९२)
नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् इति ।
ते च नादा विद्येश्वरादिषु वर्तमानाः शुद्धबैन्दवशरीरादिसहकारेण
शुद्धशब्दोच्चारहेतवो भवन्ति । सकलेषु तु बद्धात्मसु वर्तमाना मायीय
कार्यकरण सहकारेणं परमाक्षरबिन्द्वादि क्रमेण शब्दोच्चारभेदेनार्थ
प्रतिपत्तिहेतवश्च भवन्ति तदुच्चरितशब्दो मायीयाकाशादिजन्यत्वादशुद्ध
उच्यते । ततश्चास्मदाद्युच्चरितेषु शुद्धवर्ण सदृशेष्वङ्गारस्थानीयेषु
वर्णेषु परमेश्वराद्यवधानादिना तद्द्धिच्छया नादद्वारेणाभिव्यक्ता
अग्निस्थानीयाः शुद्धवर्णाः फलहेतवो भवन्ति । अत एव घटादिशब्देभ्यो
मन्त्र राजस्य विशेष । उक्तं च श्रीमन्मतङ्गे -
वाच्यवाचकभेदे यः सुप्रसिद्धौ महामुने ।
तेषां व * * संनियुक्तानां वाच्यानां कारणेच्छया । नियुक्ता
वाचकत्वेन वर्णाः शास्त्रे शिवोदये । अस्वतन्त्रं जगद्यस्मात् स्वतन्त्रः
परमेश्वरः ।
ददीरिताः साधकानां नित्यं संनिहिता गिरः ।
पुरुषाणामचैतन्याद्वर्णानामप्यमूर्तता ।।
मन्ये च परतन्त्रत्वात् साधकस्यापि शासने ।
शक्त्यावेशात् ततः सिद्धा वाच सांनिध्यता मनोरिति ।।
तस्माच्छब्दार्थ संघस्य नित्यत्वाच्छब्दोपि नित्य इत्ययमपि पक्षो निरस्तः ।
वाच्यवाचकसंबधस्य परमेश्वरसंकेतकृतत्वान्त च संकेतः
सर्वशब्दानामेकेन कर्तुमशक्यमिति वाच्यामपरिमित शक्तित्वेन
प्. ९३)
परमेश्वरस्योक्तत्वात् । तदुक्तं श्रीपराख्ये -
तगदेतद्यथा सृष्टमिच्छया क्रमवर्जितम् ।।
संकेतोपि तया सृष्टो जनैर्ज्ञातस्तदिच्छया ।
अस्वतन्त्रं जगद्यस्मात्कर्मपाशतमोवृतम् ।।
या काचित् तद्गताचेष्टा सा सर्वा तत्कृता यतः ।
तेन संकेतकृत्सर्वो कुलहेतुर्यतः स्थितः ।।
मन्त्राणामपि संकेतास्तेनैव परिकल्पिताः ।
बहवस्तत्र ये सिद्धा मातृकापदलक्षिताः ।। इति ।
तथा मन्त्रवार्तिके च -
विद्याविद्येशानां सामान्यविशेषविच्छम्भु ।
मन्त्रानकरोद्यस्मादर्य विदभिधान कृद्दृष्टः ।। इति ।
तस्मादितरशब्दरचनाया मायीयकार्यकरणे पशुकृतत्वात्
स्रोतोन्तराणामप्यात्मान्तर प्रणीतत्वाच्च सिद्धान्ताख्यमेव शास्त्रं
सर्वोत्कृष्टमिति स्थितम् । तत्प्रणेतुः परमेश्वरस्य कृत्यानि पञ्च
सूक्ष्मादीनि । यदुक्तं श्रीमन्मृगेन्द्रे - जगज्जन्मास्थितिध्वंसतिरोधान
विमुक्तयः कृत्यं सकारक फलं ज्ञेयमस्यैतदेव हीति । तत्र शिवस्य
साक्सात् सृष्टिः विन्द्वाख्यादुपादानाच्छुद्धतत्व भुवनाद्युत्सादनपूर्वं
विद्याविद्येश्वरादीनां बैन्दवशरीरादि योगजननादि क्रमेण शब्दोत्पादनं
च अनन्तादि द्वारात् मायाख्यादुपादानादशुद्धतत्त्वभुवनाद्युत्पादन
पूर्वमपद मन्त्रेश्वराणां सकलानां च मायीय कार्य करणादि
संयोजनम् । तदुक्तं श्रीमत्किरणे -
प्. ९४)
शुद्धे ध्वनि शिवः कर्ता प्रोक्तोऽनन्तोसिते प्रभुः । इति ।
स्थितिः स्वेच्छया निरुद्धस्य सर्वस्य जगतः स्वेषु कार्येषु
नियमेनावस्थापनम् । संहारः पुनः शुद्धाशुद्धयोः सृष्टिप्रातिलोम्येन
माया महामाययोरूपसंहारः । तिरोभावेप्यात्मनां
यथानुगुणभोगभोजनं । अनुग्रहस्तु पाशच्छेदः शिवत्वाभिव्यक्तिश्च
ततश्च परमेश्वरः सृष्ट्यादिभिरात्मनां मलं परिपाच्यानुग्रहेण
मोक्षं करोति । तदुक्तं श्रीमत्स्वायम्भुवे -
अथात्मबन्धसंतान पशुत्व विनिवृत्तये ।
व्यक्तये च शिवत्वस्य षड्विधोध्वेह कीर्त्यते ।।
तत्त्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकः ।
मन्त्राध्वा च कलाध्वा च विशत्येकं शिवं पदमिति ।।
ते च प्रत्येकं क्रमेण शिवपदप्राप्ति हेतुत्वात् अध्वानः कथ्यन्ते । तत्र
कलाध्वा शान्त्यतिता शान्तिविद्याप्रतिष्ठा निवृत्त्यात्मक पञ्चकलात्मा ।
वर्णाध्वाप्यकारादि क्षकारान्तपञ्चाशद्वर्णमातृकात्मा । पदाध्वा
पुनर्व्योम व्यापिपदरूपस्तत्पदानि च क्वचिदेकाशीतिसंख्यानि क्वचित्
षण्णषतिसंख्यानि । मन्त्राध्वा तु क्वचिन्नेत्र वर्जिताङ्ग
ब्रह्मशिवमन्त्रात्मा क्वचिन्नवव्यूह मन्त्ररूपः शिवादि मन्त्राश्च
प्रतितन्त्रं भिद्यन्ते । तेन च मन्त्रभेदः क्रियाभेदश्च तन्त्रविरोधस्य हेतुः ।
क * * * त्र भेदस्यैव बोधायनादिसूत्रेषु यथा । यदुक्तं -
क्रियादिभेदभेदेन तन्त्रभेदो यतः स्मृतः ।
प्. ९५)
तस्मात् तत्र यथैवोक्तं कर्तव्यं नान्यतन्त्रतः ।
शब्दसामर्थ्यलभ्यं यदर्थसामर्थ्यतोऽपि वा ।।
वस्तुशक्त्या यथाप्राप्तं तद्वाक्यं संहितान्तरात् ।। इति ।
याज्ञसूत्रेऽपि - यः स्वसूत्रमतिक्रम्य परं सूत्रेण वर्तते ।
अप्रमाणमृषिं कृत्वा सोऽप्यधर्मेण युज्यते ।। इति ।
भुवनानि शुद्धाशुद्धानि भोगस्थानानि । सवप्रतितन्त्रं संख्याभेदेन
श्रूयते । तत्र केषुचिद्भुवनेषु केषां चिदन्तर्भावाभ्युपगमादविरोधः ।
तत्त्वाध्वा तु पूर्वोक्तमुक्तिस्थानतारतम्य प्रदर्शनार्थं विस्तरेण लिख्यते ।
स च द्विविधोऽशुद्धः शुद्धश्च । तत्राशुद्धाध्वसृष्टिः
साधारणासाधारणोभयरूपेण त्रिधा । तत्रासाधारणसृष्टिः
प्रतिपुरुषनियता सूक्ष्मदेहात्मिका । साधारणानु भुवनाद्यात्मिका ।
उभयरूपा तु भुवनजशरीरात्मिका । तत्र मायातत्वमशुद्धाध्व
परमकारणमित्युक्तम् । तस्मात् कलादिक्षित्यन्तानि । तस्मात् कालकलेरागविद्याद्
व्यक्तं गुणाद्धियं । बुद्धितत्त्वादहंकारः तन्मात्राणीन्द्रियाणि च ।
तन्मात्रेभ्यश्च भूतानि सर्वं च क्रमशोऽसृजदिति । तत्र कलाशब्देन तन्त्रेण
न्यायेन नियतिरपि संगृहीतेति वृत्तिकारेणोक्तम् । ग्नियतेरपि सर्वत्र तद्वत्तेन
श्रवणात् । उक्तं च तत्रैवाध्वनि मायाधः कलातत्त्वं तु संस्थितम् ।
तत्पदद्वये नियतिश्च परेऽन्यस्मिन् कालविद्या ततः पुनरिति तत्र संहारक्रमेण
पृथिव्यादीनि महाभूतानि पञ्च । तदुक्तं सृष्टिक्रमेण श्रीमन्मृगोन्दे
-
प्. ९६)
व्योमप्रभञ्जनाग्न्यम्बु भूमयो भूतपञ्चकम् ।
शब्दाह्येकोत्तरगुणमवकाशादि वृत्तिमदिति ।।
तदुपादानानि पञ्चतन्मात्राणि । तदुक्तं श्रीमन्मृगेन्द्रे -
शब्दः स्पर्शश्च रूपं च रसोगन्धश्च पञ्चकम् ।
गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयोगिता इति ।
तत्त्वसंग्रहे च - तद्भूतसमानगुणं कारणमापूरकं च तस्यैव ।
तन्मात्रं भूतस्य ह्ययं विशेषो विशेषरहितं तदिति एतानि
स्थूलसूक्ष्मरूपेणेन्द्रियाधाराणि स्थितानि । तदुक्तं श्रीमन्मृगेन्द्रे -
तन्मात्राणीह कट्वन्महाभूतानि लेपवदिति । तत्त्वसंग्रहेपि -
एतत् कार्यं दशधा करणैराविश्य कार्यते चेष्टाम् ।
अविभुत्वात्करणानि तु कार्यमधिष्ठाय चेष्टन्ते ।। इति ।
तानि च करणानि कर्मेन्द्रिय बुद्धिन्द्रियान्तः करण भेदानिधा । तत्र
कर्मेन्द्रियाणि श्रीमन्मतङ्गोतवत्संहार क्रमेणानन्दादि क्रियाकरणत्वेन
सिद्धान्युपस्थपायुपादपाणि वागाख्यानि पञ्च । उक्तं च श्रीमन्मृगेन्द्रे
- वाणी पाणी भगः पायुः पादौ चेति रजोभवाः । इति । वचनादान संवाद
विसर्गविहृति क्रिया । इति च । बुद्धिन्द्रियाणि गन्धादि ग्रहणान्यथानुपपत्ति
सिद्धानि । तदुक्तं तत्त्वसंग्रहे -
श्रोत्रस्पर्शनदर्शनजिह्वा घ्राणानि बुद्धिकरणानि ।
प्रत्येकं शब्दादिष्वेषामालोचनं वृत्तिरिति ।।
प्. ९७)
दशधा करणं बहिरिच्छासंरम्भ बोध वृत्त्यन्यत् ।
अन्तःकरणं त्रिविधं चित्ताहंकारबुद्धिनिर्वाच्यमिति ।।
अतश्चान्तः करणत्रयं मनोहंकारबुद्ध्याख्यं तत्र मनोऽवधानवृत्ति
सिद्धं । उक्तं च श्रीमन्मृगेन्द्रे -
देवप्रवर्तकं शीघ्रचारि संकल्प धर्मि च ।
मनः शब्दादि विषयग्राहकाः श्रवणादयः ।। इति ।
अहंकारस्तु संरम्भवृत्त्यहं प्रत्ययहेतुः । तदुक्तं भोगकारिकासु -
संरम्भोहं कृतेर्वृत्तिः इति । श्रीमन्मृगेन्द्रेपि -
अथ व्यक्तान्तराद्बुद्धेर्गर्वोभूत्करणाञ्चितः ।
व्यापाराद्यस्य चेष्टन्ते शारीराः पञ्च वायवः ।। इति ।
अहं प्रत्ययहेतुत्वं च श्रीमन्मतङ्गे विस्तरेण साधितम् । स चाहंकारः
सत्त्वादिगुणाधिक्यात्तैजसवैकारिकभूतादि संज्ञया त्रिधा भिद्यते । तत्र
सात्त्विकात्तैजसात्प्रकाशकानां बुद्धीन्द्रियाणां मनसश्चोत्पत्तिः ।
वैकारिकाद्राजसात् प्रवृत्ति हेतूनां कर्मेन्द्रियाणां तामसात्तु
भूतादेस्तन्मात्राणामिति ज्ञेयम् । तदुक्तं भोगकारिकासु -
स मनोबुद्धि देवानां गणो यस्मात् प्रकाशकः ।
तस्मात् स सात्त्विकाज्जातः स्वानुरूपादहंकृतेः ।।
राजसाद्वैकृताद्वर्गः कर्माक्षाणां तु कर्मकृत् ।
जातः कार्यस्य येनेह काराणानु विधायिता ।।
मात्रा संघोप्यहंकाराद्वर्गद्वय विलक्षणं ।
प्. ९८)
प्रकाश्यस्तामसस्तस्माज्जातीभूतादि संज्ञकात् । इति ।
तदुपादानतया बार्ह्यार्थाध्यवसायहेतुत्वेन च बुद्धिः सिद्धा । सा च
गुणतत्त्वादुत्पना । तदुक्तं श्रीमन्मतङ्गे -
क्षुब्धेभ्यः सहसा पूर्वं गुणेभ्यो भूतगोचरा ।
बुद्धिरध्यवसायेन भावानां जननी शुभेति ।।
सा च धर्मादीनामात्मसंस्कारकत्वेन तद्गुणत्वादभ्युपगन्तव्यं विकारित्व
प्रसङ्गात् । कृष्यादि कर्मणां च प्रकृतिसंस्कारकत्वेनैव
दर्शनाद्बुद्धिरेव धर्माद्यष्टगुणोपेतात्र कथ्यते । तदुक्तं
श्रीमन्मृगेन्द्रे -
भावाबुद्धि गुणाधर्म ज्ञानवैराग्य भूतयः ।
सात्विका व्यत्ययेनैते रागमुत्सृज्य तामसाः ।। इति ।
भोगकारिकासु च -
अधर्मादित्रयं रागो धर्मादि च चतुष्टयम् ।
तमोरजःसत्त्वमयं रूपं तत्कर्मजन्मनामिति ।।
गुणतत्त्वं सत्त्वरजस्तमोरूपैस्त्रिभिः प्रकाशप्रवृत्ति नियमाख्यैः धमैः
सिद्ध्यति । तदुक्तं श्रीमन्मृगेन्द्रे -
ततो बुद्ध्याद्युपादानं गौणं सत्त्वं रजस्तमः ।
तद्वृत्तयः प्रकाशाद्याः प्रसिद्धा एव भूयसा ।।
त्रयोगौणास्तथाप्येकं तत्त्वं तदवियोगतः ।
एकैकश्रुतिरेतेषां वृत्त्याधिक्य निबन्धनेति ।।
प्. ९९)
ततश्च गुणानामाचैतन्ये सत्यनेकत्वात्तत्कारणतया गुणमस्तकस्य
क्रोधेशादिभुवनोपादनत्वेन चाव्यक्ता एषा प्रकृतिः सिद्धा । तदुक्तं
श्रीपराख्ये -
प्रकृतेर्गुणहेतुत्वाद्गुणानां कार्यता ध्रुवमिति ।
तेषां येनात्मकार्याणि पृथक् सिद्धानि कार्यतः ।। इति ।
अत्र कलादिपञ्चकञ्चुकयुक्तस्य पुंसो भाक्तत्वेन
पुंस्त्वमलयोगाद्दिक्षायां तच्छुद्ध्यर्थं शोध्यः पुरुषः सर्वाध्वोत्तीर्ण
शोधकशिववच्छास्त्रेषु पठ्यते । तस्य तु चेततत्वात् व्यापकत्वादविकारित्वेन
तत्त्वान्तरोपादानत्वायोगात् भुवनाधारत्वाभावाच्च नाध्वरूपत्वम् । ततः
पञ्चकञ्चुकसंबन्धयोजनं भोगाधिकारात्मकं पुंस्तत्त्वं
मायाजन्यत्वेनात्रोच्यते । तदुक्तं श्रीमन्मतङ्गे -
अथ पुंस्तत्त्वनिर्देशं स्वाधिष्ठानोपसर्पतः ।
न च तत्त्वं मुनिव्याघ्र द्वितीयं पुरुषाह्वयम् ।।
कञ्चुकत्रितयाविद्धं कालेन कलितं शनैः ।
निपत्यालिङ्गितं यान्ति पुंभावेनात्मवर्तिनेति ।।
तथा तस्यात्मनः तत्वविभागस्थो यया सहोक्तेति समर्थितात्मा सेयं मया ते
कथिता यथावत् भोग्यसनं जगच्च विभौ विधास्येति । ननु पुरुषतत्त्वेपि
केषुचिच्छास्त्रेषु भुवनानि श्रूयन्ते । सत्यम् । तदधिपतीनां
रुद्राणामाश्रयत्वेन भुवनानि श्रूयन्ते एव । तानि तु पुरुषस्य चेतनत्वेन
भुवनाधारत्वायोगात् पुंस्त्वमलसंबन्ध
प्. १००)
समानदेशरागतत्व एवावस्थितानि । अत एव श्रीमन्मृगेन्द्रे पुंस्तत्त्वं तत
एवाभुत्पुंप्रत्ययनिबन्धनम् आपूरकं प्रधानादेर्भौवने
रुद्रसंश्रयमित्युक्तम् । श्रीमत्किरणे -
रागतत्त्वे स्थिता एते रुद्रास्तीव्रबलोत्कटाः ।
तत्रैव पुरुषोज्ञेयः प्रधानगृहपालकः ।। इति ।
कला विद्याभ्यां समर्थितज्ञानक्रियस्यात्मनोभिलाष जनको रागः सिद्धः ।
तदुक्तं श्रीमन्मृगेन्द्रे -
तदभिव्यक्तदृक्छक्तिर्दृष्टार्थोप्यनुपासितः ।
नैति तज्जनकं रागं तस्मादेवासृजत्प्रभुरिति । भोगकारिकासु च -
भोग्यानुभवमासाद्य भोगे सक्तिः प्रवर्तते ।
तत्सिद्ध्यर्थमतस्तस्य रागो भोगानुरञ्जकः ।। इति ।
अथा अन्तःकरण बहिःकरणानां संनिहिता संनिहिते
विषयोपस्थापकत्वेनोपयोगादध्यवसितविषयाया बुद्धेः साक्षाद्भोग्यत्वाच्च
तद्ग्रहणे पुरुषस्य करणत्वेन विद्या वेदितव्या । तदुक्तं श्रीमन्मृगेन्द्रे
-
एवं व्यक्तक्रियाशक्तिद्दिदृक्षुर्गोचरं दृशः ।
भवत्यनुग्रहापेक्षां स्वयं द्रष्टुमशक्नुवन् ।।
तदर्थं क्षोभयित्वेशः कलामेव जनिक्षमाम् ।
तत्त्वं विद्याख्यमसृजत्करणं परमात्मनः ।।
तेन प्रकाशरूपेण ज्ञानशक्तिप्ररोचिना ।
प्. १०१)
सर्वकारक निष्पाद्यमवैति विषयं परम । इति ।
तत्त्वसंग्रहेपि -
बुद्धिर्विषयाकारा सुखादिरूपासमासतो भोग्या ।
रविवत्प्रकाशरूपो यदि नाम महांस्तथापि कर्मत्वात् ।।
कारणान्तरसापेक्षः शक्तो ग्राहयितुमात्मानम् ।। इति ।
एतच्चाव्यक्तरागविद्याख्यतत्त्वत्रयं कलातत्त्वादजनि । यदुकं श्रीमद्रौरवे
-
कलातत्त्वाद्रागविद्ये द्वे तत्वे संवभूवतुः ।
अव्यक्तं चेति तथा प्रलकेवलावस्थायां पुंसो मलावृतत्वेन
किञ्चिज्ज्ञत्वस्याप्यसंभवात्तदेकदेशमलप्रोत्सारणाय मायातत्त्वादुत्पन्ना
कला बोद्धव्या । यदुक्तं श्रीमन्मृगेन्द्रे -
कर्तृशक्तिरणोर्नित्या विभ्वी चेश्वरशक्तिवत् ।
नमश्छन्नतयार्थेषु नाभानि निरनुग्रहा ।।
तदनुग्राहकं तत्त्वं कलाख्यं तैजसं हरः ।
मायां विक्षोभ्य कुरुते प्रवृत्त्यङ्गं परं हि तत् ।।
तेन प्रदीपकल्पेन तथा स्वच्छचितेरणोः ।
प्रकाशय ह्येकदेशे विदार्य तिमिरं घनम् ।। इति ।
श्रीमन्मतङ्गेपि -
सुसूक्ष्मा विमला सा या सा ज्ञानक्रियात्मिका ।
समर्थीकृत्यकलया भोगेषु विनिपात्यते ।। इति ।
अपि च व्यापकत्वेनात्मनं सर्वत्र सन्निहितत्वात्सर्वेषां
सर्वकर्मफलयोगप्रसंगात् स्वकर्मफलभोगनियामकत्वेन नियतिः सिद्ध्यति ।
प्रवृत्तभोगस्याप्यवध्यपेक्षत्वात्तत्परिच्छेदक चिरक्षिप्रादि
प्. १०२)
प्रत्ययलिङ्गश्च कालः सिद्धः । तौ च मायातः सहैवोत्पन्नावित्युक्तं
श्रीमन्मृगेन्द्रे -
तृप्त्यादि प्रत्ययस्यार्थः कालो माया समुद्भवः ।
कलयन्नासमुत्थानान्नियत्यानियतं पशुम् ।। इति ।
श्रीमन्मतङ्गेपि -
अथ कालः क्रमात् प्राप्तः कञ्चकत्रयदर्शनात् ।
येनासौ कल्प्यते सूक्ष्मः शिवसामर्थ्ययोगतः ।। इति ।।
तथा शक्तिर्नियामिका पुंसः सहतत्त्वेन सर्पितेत्यादि च । अत्र कालनियत्योः
श्रीमन्मृगेन्द्रादौ प्रवृत्तिक्रमेण रागतत्त्वादधः पाठस्तु सिद्धिश्च
श्रूयते श्रीमत्स्वायम्भुवादौ तूत्पत्तिक्रमेणेत्यविरोधः ।
एषकलादिक्षित्यन्तत्रिंशत्तत्त्वात्मकः सूक्ष्मदेहः प्रतिपुरुषनियतो
साधारणः सर्ग इत्युक्तम् । उक्तं च श्रीमन्मृगेन्द्रे -
प्रयोक्त्र्यादिं महीप्रान्तमेतदष्वर्थसाधकम् ।
प्रत्यात्मनियतं भोगभेदतोप्यवसीयते ।। इति ।
तत्त्वसंग्रहेऽपि -
वसुधाद्यस्तत्त्वगणः प्रतिपुंनियतः कलान्तोऽयं पर्यटनि कर्मवशतो
भुवनजदेहेष्वयं च सर्वेष्विति । अत्र केचित् सांख्यवत्प्रकृति
गुणयोरेकत्वमभ्युपगम्य पुरुषं तत्त्वमध्ये पठित्वा त्रिंशकसंख्यां
कथयन्ति । तदयुक्तम् । प्रोक्तमूलश्रुतिविरोधात् एवं च
समस्ताशूधतत्त्वपरमकारण मत एव नित्यं स्वकार्यव्यापकमचेतनं
मायातत्त्वं श्रूयते यदुक्तं श्रीमन्मृगेन्द्रे -
तदेकमशिवं बीजं जगतश्चित्त्रशक्तिमन् ।
प्. १०३)
सहकार्यधिकारान्तसंरोधि व्याप्य नश्वरम् ।
कर्तानुमीयते येन जगद्धर्मेण हेतुना ।।
तेनोपादानमप्यस्ति न परस्तन्तुभिर्विनेति ।
अत्र च मायाया नित्यत्वेन भुवनाद्याधारत्वायोगात् तद्भुवनानि कलामस्तक
एव स्थितानि । तदुक्तं श्रीमन्मृगेन्द्रे -
मायायामपि पठ्यन्ते गहनेशादयोधिपाः ।
तत्त्वशुद्धिश्च दीक्षायां सर्वं तत्कृतिमस्तके ।। इति ।
अत्र च कलादिक्षित्यन्तस्य सूक्ष्मदेहस्य दीक्षायां प्रकृतितत्त्वान्त
भोगप्रदत्वमात्रं विच्छिद्य कलातत्त्वादूर्ध्वं
वर्तमानशरीरभोगप्रदत्वमात्रमवस्थाप्य सर्वथाविच्छेदः कार्यः
सद्योनिर्वाण इत्युच्यते । तदधिष्ठाय शिवोपि शिव एव च निर्वाण दीक्षायां तु
तदविच्छेदः कर्तव्यः माया तत्त्वादूर्ध्वं मलस्यापि तथा विच्छेदः कार्यः
। एवमनेकानि मायातत्त्वस्त्रोतांसि । यदुक्तं बृहस्पतिपादैः अपि
सर्वसिद्धिवाचः क्षीयेरन् दीर्घकालमुद्गीर्णः मायायामानन्त्यान्नोच्येत
स्रोतसां संख्येति । उक्तं च श्रीमन्मतङ्गे -
मधुकोशपुटाकारा निचिना परमाणुभिदिति । शुद्धाध्वात्वेक रूप एव ।
एवमशुद्धाध्वा प्रदर्शितः । शुद्धाध्वा प्रदर्श्यते । तत्र यस्मिंस्तत्त्वे
सप्तकोटिसंख्यातानां मन्त्राणामवस्थितिः तद्विद्यातत्त्वं तदूर्ध्वं
यस्मिन्ननन्तादयो विद्येश्वरास्थितास्तदीश्वरतत्त्वं तदुक्तं
श्रीमत्सर्वज्ञानोत्तरे -
प्. १०४)
तदूर्ध्वं तु भवेदन्यद्विद्यातत्वं षडाननेत्यादिनाविद्यातत्वमुक्त्वा -
विद्योर्ध्वात्तु भवेदन्यद्विश्वेशावरणं पुनः ।
दीप्तपावकवर्णाभं किञ्चिद् वृत्तं सुनिर्मलम् ।
अष्टौ विद्येश्वराः स्कन्द स्थितास्तस्मिन्विभूतिदाः इति ।।
श्रीपराख्येपि -
शम्बरः सर्वविद्यायामनन्ताख्यस्तथेश्वर ।। इति ।
तस्मादूर्ध्वं सदाशिवतत्त्वमधिकारावस्थेन प्रवृत्तशिवेनाधिष्ठितं
सदाशिवभुवनाधारः । तदुक्तं श्रीमत्सर्वज्ञानोत्तरे -
अथोर्ध्वं तु भवेदन्यत्सर्वैश्वर्यमयं शुभम् ।
सदाशिवं परं तत्त्वं शुद्धस्फटिकनिर्मलेमित्युपक्रम्य ।।
तत्रास्ते भगवान् देवः सर्वतत्त्वेश्वरो हरः ।
सदाशिवो विभुर्व्यापी मन्त्रमूर्तिमयः परः ।। इति ।
तस्मादप्यूर्ध्वं भोगावस्थेनानेन कार्यमुक्तेन शिवेनाधिष्ठितो
निवृत्त्यादिबिन्दुकलाभुवनचतुष्टयाधारो बिन्दुपरिणतिविशेषः
शक्तितत्त्वमुच्यते । यदुक्तं श्रीमन्मृगेन्द्रे -
सदाशिवे पवित्राङ्गः सकलादिपरिच्छिदः ।
देवः सदाशिवो बिन्दौ निवृत्यादिकलेश्वरः इति ।
अत्र च निवृत्यादि कलेश्वरकेवलसद्योजाताद्याकारेण भोगावस्थेन
शिवेनाधिष्ठितत्त्वाद् बिन्दुशब्देन बिन्दुकलाभुवनाधारः शक्तितत्त्वमुच्यते ।
उक्तं च सर्वज्ञानोत्तरे -
अथोर्ध्वं बैन्दवं तत्त्वं विमलं सर्वतो मुखमिति ।
प्. १०५)
श्रीमन्मतङ्गे च -
चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् ।
तस्मिन् भोगः समुद्दिष्टः पत्युर्विश्वस्य सर्वदेति ।।
तदूर्ध्वं शुद्धाध्वपरमकारणरूपो बिन्दुर्नयावस्थस्य परमशिवस्य
नित्याधिष्ठेयत्वात् परिग्रह शक्तित्वाच्च शुद्धाध्वपरशोध्य इत्युच्यते ।
तदधिष्ठाय शिवोपि शिव एव शिवतत्त्वमिति व्युत्पत्त्या शिवं शिवत्वमित्युच्यते
। स बिन्दुः शान्त्यतीतकला महामाया कुण्डलिनीत्यादि शब्देनाप्युचते । तदुक्तं
श्रीमन्मतङ्गे- शान्त्यतीतं परं तत्त्वमविनाश्यव्ययात्मकमिति ।
नादकारिकासु च - सिद्धो नादः परमः सुमङ्गला मालिनी महामाया
समनानाहतबिन्दुरघोषावाग्छद्म कुण्डली तत्त्वं विद्याख्यं चेत्युक्तं
तैस्तैः शब्दैस्तदागमेष्वित्थमिति । तत्कार्यभूतं
केवलेशानाकारशिवाधिष्ठेयं शान्त्यतीतभुवनं
तदूर्ध्वस्थंधिकादिनादकलाभुवनवृन्दं च भोगावस्थ
शिवाधिष्ठितशक्तितत्त्वमस्तकस्थमेव । यदुक्तं श्रीमन्मृगेन्द्रे -
शुद्धाध्वनापि मायायाः परस्याः हि * * * तौ ।
ये तस्यामपि पठ्यन्ते ते पि तत्कृतिमस्तक इति ।
नादकलाभुवनाधिष्ठितः शिवो नादपतिरित्युच्यते । तदुक्तं
श्रीमन्मृगेन्द्रे- नादेध्वनि पतिःशक्तौ सर्वशक्तिमतांवरः इति ।
प्. १०६)
एतच्च शक्तिशिवाख्यं तत्त्वद्वयं कलाध्वनि शान्त्यतीतकलाव्याप्त्या
शोध्यमित्याचार्याः । यदुक्तं सोमशम्भुपद्धत्याम् शान्त्यतीतकलाव्याप्तौ
उभे शक्तिशिवतत्त्वे भुवनाष्टकमण्डिते इत्यादि । रत्नत्रयेऽपि पञ्चमी तु कला
पराशिवतत्त्वात्मकं तत्र पुराणि दश पञ्चचेति । एवं चाधिष्ठेयस्य
चेतनस्य शोध्यस्य बिन्दुतत्परिणामविशेषान्मनस्तत्त्वत्रयस्य भेदे । वास्तव
एव अधिष्ठातुस्तस्य शिवस्यात्रौपचादिको भेदः । यदुक्तं
श्रीमन्मृगेन्द्रादौ -
किं तु यः पतिभेदेस्मिन् सशास्त्रे शिक्तिभेदवत् ।
कृत्यभेदोपचारेण तद्भेदस्थानभेदज इत्यादि ।।
अधिकारि स भोगी च लयी स्यादुपचारत इति ।
ईशः सदाशिवः शान्तः कृत्यमेदाद्विभिद्यते । इति च ।
तद्भेदः कृत्यभेदेन न भेदः परमार्थतः ।। इति ।
एवं च बद्धात्मनः शोध्यान्यशुद्धानि तत्त्वानि मायया सहैकत्रिंशत् ।
शुद्धानि तु महामायया सह पञ्च । ततश्च दीक्षायां मायातत्त्वादूर्ध्वं
मलविच्छेदान्तं पाशच्छेदं कृत्वा शुद्धविद्यादिषु पञ्चसु तत्त्वेषु
क्रमात् क्रियाशक्त्युत्कर्षक्रमेण शिवतत्त्वाभिव्यक्तिः कार्या । पश्चात् तु
शिखाछेदेन पाशानुग्राहिकायास्तिरोधानशक्तेः प्रेर्यत्वम् ।
निवर्त्यशिवसाध्या पादनाय निरुपाधिशक्तियुक्ते निष्कले परमशिवे *
* * * * * शिवे
प्. १०७)
कर्तरि तादात्म्यान्नेयं कुण्डलिनी स्थिता ।
उपादनत्वतो हेतोः कुलाले मृत्तिका यथेति ।।
समवेतशक्तेस्तु तस्या एकत्वात् ज्ञेयकार्यादि भेदादौपचारिको भेदः शास्त्रेषु
श्रूयते । यदुक्तं सर्वज्ञानोत्तरे -
निष्कलस्था पराशक्तिरचिन्त्या सर्वतो मुखी ।
सुसूक्ष्मा निर्मला नित्यानन्ता निर्वाणदायिनी ।।
या विजृम्भति तत्त्वेषु सर्वतत्त्वेषु चैव हि ।
तया धृतं जगत्सर्वमेकयानेक रूपये ति ।।
उक्तं च मोक्षकारिकादौ -
सर्वज्ञानक्रियारूपा शक्तिरेकैव शूलिनः । इति ।
एकैवानेकतां याति शिवशक्तिरूपाधित इति ।
अत्र च श्रीमत्सर्वज्ञानोत्तरादौ बैन्दवविद्यात्मनोः शक्तिशिवतत्त्वयोः
तत्त्वदीक्षायामेकोद्यमेन शुद्ध्यर्थमेकत्वमुक्त्वा परमशिवे
संयोजनमुक्तम् । श्रीमत्स्वायम्भुवे - न शोध्यं शिवतत्त्वादि
तत्त्वत्रयं तदर्थमेव शिवसंबन्धित्वाद्यतिरिक्ताधिष्ठात्तन्तराभावाच्च
सदाशिवतत्त्वेनोक्त्वा बिन्द्वधिष्ठायकशोधकं परमशिवं शिवतत्त्वेन
प्रतिपाद्य तत्त्व संयोजन मुक्तम् । यतुक्तं तत्र -
अप्रमेयमनिर्देश्य मनौपम्य मनामयम् ।
सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् ।।
अप्रमेयमन्तन्तत्वादनिर्देश्यमलक्ष्यतः ।
प्. १०८)
अनौपम्यमसादृश्याद्विमलत्वादनामयम् ।
सूक्ष्मं चानुपलक्ष्यत्वाद्व्यापकत्वाच्च सर्वगम् ।।
नित्यं कारणशून्यत्वादचलत्वाच्च तद्ध्रुवम् ।
अव्ययं परिपूर्णत्वात् स्वामिभावात्तथेश्वरम् ।।
शिवतत्त्वमिदं प्रोक्तं सर्वाध्वोपरिसंस्थितम् । इति ।
ततः सदाशिवं तत्त्वं स्थितं पदचतुष्टयम् ।। इति ।
एतदभिप्रायेणैव श्रीमन्मृगेन्द्रे भुवनाध्वनिभेदे नैवोक्त्वा तत्त्वाध्वनि
सदाशिवादि तत्त्वस्य त्रयस्य सदाशिवसंज्ञोक्ता । यदुक्तं तत्रैव -
ईशानतीत्य शान्तान्तं तत्त्वं सादाशिवं स्मृतं ।
भुवनान्यपि नादादि कलानान्यः पतिः शिवात् ।। इति ।
तत्रैव संहारक घने विद्यामत्ति सदातत्त्वं तद्बिन्दुर्बैन्दवं ध्वनिः ।
नादमत्ति पराशक्तिः शक्तिमीष्टे स्वयं हर इति । श्रीमन्मतङ्गादौ तु
शिवस्याधिष्ठातुर्लयाद्यवस्था भेदमेव तत्त्वत्रयेणोक्त्वा शोध्ययोः
शक्तिशिवयोः भोगतत्त्वे सदाशिवतत्त्वेश्वरतत्त्वयोर्विचारतत्त्वे
चान्तर्भावमुक्त्व तद्भुद्ध्यालयावस्थानात्मनि परमशिवे संयोजनमुक्तम्
। एवमन्येष्वपि तन्त्रेषु यथायथं कस्यचिदन्तर्भावो बोद्धव्यः । एवं च
संहितानामविरोधः सर्ववचनानां च प्रामाण्यं स्थितम् । तेनैक्यं च
सिद्ध्यति । अन्यथा एकतन्त्रोक्तार्थाभ्युपगमेनान्यतन्त्रोक्तार्थाभावकथने
प्. १०९)
पररूपख्याहते सर्वसंहितायां न प्रामाण्यं भवेत् । एवं स्थितेनैक्येपि
तत्तत्संहितानुसारिभिस्तत् तत् संहितोक्तेनैव क्रमेण नित्यादिकर्मवद्दिक्षायां
शुद्ध्यादिकं कार्यम् । पूर्वमेव क्रियादिभेदेन तन्त्रभेदो यतः स्मृतः ।
तस्मात् तत्र यथैवोक्तं कर्तव्यं नान्यतन्त्रतः ।
समस्तपाशविच्छित्तिः सर्वविषयशिवत्वाभिव्यक्ति कारिण्या
मलपरिपाकशक्तिपातपूर्विकया दीक्षयैव परमेश्वरसाम्यरूपः
परमोक्षः सिद्ध्यति । यदुक्तं श्रीमत्स्वांभुवादौ -
शिवेच्छया पुरानन्ता शैवी शैवार्थदायिनी ।
सा शक्तिरायतत्याद्या पुंसो जन्मन्य पश्चिमे ।।
तन्निपातात् क्षरत्यस्य मलं संसारकारणं ।
क्षीणे तस्मिन्नियासास्यात्परं निःश्रेयसंप्रति ।।
स देशिकमनुप्राप्य दीक्षाविच्छिन्नबन्धनः ।
प्रयाति शिवसायुज्यं निर्मलो निरूपप्लवः ।।
अनेन क्रमयोगेन परां केवलतां गतः ।
अनाद्यशुद्धिशून्यत्वात् प्राप्नोति न भवान्तरम् ।। इति ।
दिक्षिताः परमं शान्तं प्रदिशन्ति तनुक्षयादिति च ।
ननु सदाशिव पदं योगाच्चर्याभोगद्य दीक्षया प्राप्यते । चित्तभेदेन मोक्षो
वाथ चतुष्टयादिति श्रीमन्मतङ्गश्रुतेर्दीक्षा ज्ञानचर्या योगाख्यानि
चत्वार्यपि समविकल्पानि
प्. ११०)
भोगमोक्षसाधनानि प्रतीयन्ते । नैवं वाक्यार्थानभिज्ञानत् । एवं हि तत्र
वाक्यार्थः । सदाशिवपदस्य तत्रोपलक्षणत्वात्तत्तद्भुवनेश्वर साक्षात्कार
फलाद्योगात् तत् तदाराधनात्मिकया वा चर्यया तत्तद्भुवन योजनात्मिकया वा
दीक्षया तत् तद्भुवनेश्वररूप निष्ठेन वा चित्तभेदेन ज्ञानेन तत्तद्भुवन
प्राप्तिर्भवत्येव न तु समविकल्पतया वक्ष्यमाणवज्ज्ञानादिष्वपि दीक्षया
विनानधिकारात्तस्या एव प्राधान्यं यतः । ततश्च मोक्षो वाथ चतुष्टयादिति
मोक्ष चतुष्टयादस्मात् समुच्चितादेकैका * * भोगो न वेति वा
शब्दार्थः । तथा हि चर्यायोगयोस्तावत् ज्ञानं विनानुष्ठानमेव नोपपद्यते
। न ह्यज्ञानेर्थे योगः समाधिश्चर्यावानित्याका संभवति । ज्ञानमपि
द्रव्यत्वान्मलादिबन्धानां चक्षुःपटलानामिव चक्षुर्वैद्यव्यापादं विना
न तेभ्यः पुंसां मोक्षं कर्तुं क्षममित्युक्तमतो दीक्षैव मोक्षहेतुरिति ।
उक्तं च तत्रैव प्रकरणान्तरे - तस्मान्मन्त्रक्रियामुख्यासेश्वरी
भुक्तिम्क्तिदेति । श्रीमत्स्वायम्भुवेपि -
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्पीति ।
श्रीमत्षट्सहस्रिकालोत्तरे -
दीक्षैव मोक्षदा पुषां चिदभिव्यक्तिकारणं ।। इति ।
ज्ञानादीनां चाचार्य संस्कारद्वारेण दीक्षायां विनियोगदर्शनाच्च ।
यदुक्तं तत्रैव श्रीमन्मतङ्गे -
विद्यापादार्घ्य कुशलः क्रियापादगतक्रमः ।
योगपादकृताभ्यासः चर्यापादानुवर्तकः ।।
प्. १११)
गुरुदीक्षां प्रकुर्वीतेति । केवलं सद्यो निर्वाण
दीक्षयारब्धकार्याणामनपेक्षया भोगोपरोधेन मलमायीययोर्वासयोर्थ इति
सकलागमसारसंग्रहे सिद्धान्तसारसमुच्चये
(अत्र ग्रन्थः समाप्तिमगमत् । न ज्ञायते संपूर्णो वासम्पूर्णोवेति । आदौ
ग्रन्थ नाम सिद्धान्तार्थसमुच्चय इति दत्तम् । चरमपङ्क्तिदर्शनात्
सिद्धान्तसारसमुच्चय इति सकलागमसारसंग्रह इति वा भवेदिति सन्दिह्यते ।
)
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
3clhyxtvx4ftm8e6ze7fid90ex2nlr2