विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.13 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk सदस्यः:V(g) 2 25211 417927 417806 2026-07-31T11:10:31Z EmausBot 3495 [[सदस्यः:G(x)]] को दोहरे पुननिर्देशित ठीक किया। 417927 wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यः:G(x)]] 95d6euwz5uasoehai0z4cdinzeslj5p स्पन्दसन्दोहः 0 87269 417926 210771 2026-07-31T06:17:44Z Shubha 190 417926 wikitext text/x-wiki <poem> ॥ ओं नमः स्वात्मामृतवपुषे शंभवे ॥ अथ स्पन्दसंदोहः । श्रीमन्महामाहेश्वराचार्यवर्य - श्रीक्षेमराजाचार्यविरचितः । अकलितमहिमा यः क्ष्मादिसादाशिवान्तं कलयति हृदि विश्वं चित्रसंयोजनाभिः । प्रथयति च विचित्राः सृष्टिसंहारलीलाः । स जयति शिव एकः स्पन्दवान्स्वप्रतिष्ठः[१] ॥ १ ॥ ___________________________________________ (१)अकलित इति , न कलितः कलनाविषयीकर्तुमशक्यः स्वस्वरूपाद्बहिः इदन्तेयत्तायामप्रक्षिप्तो वा, महिमा विश्वाभिन्नपरामर्शमयस्वातन्त्र्यशक्त्यात्म ऐश्वर्यं यस्य । यश्च भूम्यादिसदाशिवपर्यन्तं भवाभवातिभवात्मकं विश्वं, हृदि निखिलप्रतिष्ठास्थानात्मचित्प्रकाशे, चित्रसंयोजनाभिः विविधोल्लेखपरामर्शनैः, कलयति उपादानादि सामग्रीनिरपेक्षमेव स्वानतिरिक्तत्वेऽपि अतिरिक्ततया दर्पणे प्रतिबिम्बवदवभासयति । यश्च विचित्रा एव सृष्टिसंहारलीलाः - आभासन - रक्ति - विमर्शन - बीजावस्थापन - विलापनात्मपञ्चविधकृत्यानि प्रख्यापयति । स एकः निर्णीतनीत्या अवभासितविश्वलीलाप्रपञ्चान्तर्बहिश्चार्यपि अद्वैतस्वरूपः सन्, स्वाभिन्नस्वातन्त्र्यशक्तिसमवेतः स्वस्वरूपविश्रान्त्यवस्थितः, समुद्र इव विश्वकल्लोलप्रसरेऽपि अविचलत्स्वस्वरूपावस्थानः, सर्वोत्कृष्टतया प्रस्फुरति इति ॥ १ ॥ ___________________________________________ ------------- पृष्ठम् २ ------------- चैतन्याब्धेः प्रसरदमृतं त्रोटितायासतन्त्रं सर्वस्यान्तः स्फुरदपि महामुद्रया मुद्रितं यत् । पूर्णानन्दप्रदमतितरामेतदुन्मुद्र्य युक्त्या योऽन्तर्वक्त्रं रसयति जयत्येष वीरः कुलेन्द्रः[१] ॥ २ ॥ ___________________________________________ (१) प्रथमेन परां देवतां परामृश्य अपरां देवतां परामृशति चैतन्याब्धेरिति, प्रकाशानन्दसामरस्यात्मचित्स्वरूपसमुद्रसकाशात् अविच्छिन्नप्रवाहपरिपाट्या निःसरणशीलं यत् अलौकिकं निरतिशयस्वात्मानन्दमयममृतम् उन्मूलितभवकदर्थनाव्यूहम्, यच्च सर्वस्य सप्तविधप्रमातृवर्गस्य ध्यानपूजादिपारतन्त्र्यदूषितनियन्त्रणाराहित्येनैव स्वभावतः अन्तरुन्मिषदपि सत् महामुद्रया अज्ञातया शाम्भवमुद्रया निरोधावस्थामापादितम्, तदेतत् अमृतं निरतिशयपूर्णाहन्ताह्लादाधायि युक्त्या परमशिवशक्तिपातोन्मिषच्छाम्भवाद्युपायपरिशीलनेन सम्यक् अपुनरन्तरायापत्ति यथा, तथा उन्मुद्र्य स्वोपभोगविधित्सया प्रोद्घाट्य, यः अन्तर्वक्त्रं बाह्यवृत्त्युल्लाससंकोचपुरःसरमन्तर्मुखतया योगिनीहृदयापरपर्यायपरशक्तिधाम्नि आस्वादयति, स एष वीरः दलितत्रिविधपाशबन्धः, कुलस्य करणेश्वरीचक्रस्य प्रसरसंकोचाधायित्वेन अधीश्वरतया देदीप्यमानो जयति । ___________________________________________ ------------- पृष्ठम् ३ ------------- [१]उन्मीलितं स्पन्दतत्त्वं महद्भिर्गुरुभिर्य[२]तः । तत एव तदाभोगे[३] किंचित्कौतुकमस्ति नः ॥ ३ ॥ तत्र आद्यमेव सूत्रं विमृश्यते, परमाद्वयप्रकाशानन्दमयमहेश्वरस्वरूपप्रत्यभिज्ञापनाय समस्तशास्त्रार्थगर्भां समुचितां स्तुतिमिमामुपदिदेश श्रीमान् वसुगुप्तगुरुः यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ । तं शक्तिचक्रविभव - प्रभवं शंकरं स्तुमः ॥ १ ॥ शम् अशेषोपद्र[४]वरहितपरमानन्दाद्वयचैतन्यप्रकाशप्रत्य- भिज्ञापनात्मकम् अनुग्रहं करोति यः तं स्वात्मपरमार्थं शंकरं स्तुमः[५] - समस्तदेहप्राणादिपरिमितप्रमातृपदमधस्पदीकृत्य ___________________________________________ अथ च यथा लौकिकममृतं क्षीराब्धौ स्फुरदपि अन्तर्निगूढतया नियतिशक्त्या नियमितमासीत्, तदपि युक्त्या मन्थनादिपरिशीलनेन निःसार्य सर्वदैवतेन्द्र आस्वादयन् अधिगतपूर्णानन्दसद्भावादपगतजरामरणादिकदर्थनः समपादि इति ॥ २ ॥ ___________________________________________ (१) रहस्यात्मतया अनुशिष्टम् । (२) श्रीवसुगुप्ताचार्यपादैः । (३) तच्चमत्कारप्रकाशने । (४) उपद्रवो भेदप्रथनात्मकः । (५) स्तुम इत्यत्र कर्तृपदापेक्षायां वयमिति पदं बोध्यम् । ___________________________________________ ------------- पृष्ठम् ४ ------------- विकल्पाविकल्पादिरूपासु सर्वासु दशासु सर्वोत्कृष्टतया परामृशामः । बहुवचनम् आत्मीकृताशेषानुग्राह्यजनाभेदप्रथनाय । तम् इति च असाधारणस्वरूपप्रत्यभिज्ञापनाय कोऽसौ शंकरः ? इत्याह यस्योन्मेष इति । अत्र एके स्वरूपप्रकाशनतद्गोपनाभ्यां यत्कर्तृकाभ्याम् उन्मेषनिमेषाभ्यां जगतो विश्वस्य प्रलयोदयौ विनाशसर्गौ इति व्याख्यातवन्तः तदेके न सेहिरे[१], तथाहि - उन्मेषनिमेषौ कादाचित्कौ कादाचित्कजगन्नाशोदयहेतू कथं नित्ये भगवति स्याताम् ? अत उन्मेषनिमेषधर्मकजगत्कारणत्वात् एकैव भगवच्छक्तिः उन्मेषनिमेषशब्दाभ्यां व्यवह्रियते । तथा च यथासंख्यं त्यक्त्वा यथासंभवं यस्य उन्मेषात् जगदुदयो, यन्निमेषात् च प्रलयः इति व्याचचक्षिरे । अत्रापि च शास्त्रार्थोपदेशदृशा शंकरस्वरूपाभिन्नस्य जगतोऽपि कथं कादाचित्कौ विनाशोदयौ भवेताम् ? इति तुल्ये प्रसङ्गे, यदि आभासपर[२]मार्थानुसारेण तथाभासपरमार्थस्य शंकरस्वभावाभिन्नस्य जगतः तथाभासनमयावेव विनाशोदयौ इष्येते[३] उन्मेषनिमेषावपि ___________________________________________ (१) कादाचित्कस्वरूपगोपनतत्प्रकाशनात्मधर्मवत्त्वात् सदा एकरूपस्य भगवतो नित्यताप्रसक्तेः । (२) तत्तद्विविधविश्ववैचित्र्येण प्रथमानं सर्वं वस्तुत आभासनमयमेव, आभासात् बहिः अनाभासनरूपम् अवस्तुत्वात् न किंश्चित् प्रथेतेत्यर्थः । (३) परप्रकाशात्ममहेश्वरस्वातन्त्र्यस्वभावपञ्चकृत्यमयावेव । ___________________________________________ ------------- पृष्ठम् ५ ------------- तथाभासपरमार्थौ भगवति किं न इष्येते । का[१]लोऽपि आभासनसारो, न तु तद्व्यतिरिक्तः कश्चित्, इति कथमसौ वराकः आभासयितरि भगवति भेदशंकास्पदम् । एक[२]चिन्ताप्रसक्तस्य (३ । ९) इति च उन्मेषलक्षणमत्रैव अस्ति । तदनुसारेण च निमेषलक्षणमपि स्वरूपगोपनारूपनारूपमूह्यम् इति यथासंख्येऽपि न क्षतिः इत्यपरे । तदलमाख्यायिकावर्णनेन । प्रकृतमुच्यते - यस्योन्मेष इति । इह परमेश्वरस्य महाप्रकाशात्मनो विमलस्यापि एकैव परामर्शशक्तिः किंचिच्चलत्ताभासरूपतया स्पन्दः इति, स्फुरत्ता इति, ऊर्मिः इति, बलम् इति, उद्योगः इति, हृदयम् इति, सारम् इति, मालिनी इति, परा - इत्याद्यनन्तसंज्ञाभिः आगमेषु उद्घो[३]ष्यते । सा च एकापि युगपदेव उन्मेषनिमेषमयी । तथाहि - सदाशिवादिक्षितिपर्यन्तस्य तत्त्वग्रामस्य प्राक्सृष्टस्य या संहारापेक्षया निमेषभूः सैव स्रक्ष्यमाणभेदापेक्षया उन्मेषदशा । प्राक्सृष्टभेदसंहाररूपा च या निमेषदशा सैव चिदभेदप्रथाया उन्मेषभूः । भेदा[४]सूत्रण- ___________________________________________ (१) उन्मेषनिमेषयोः पौर्वापर्यप्राणितः कालो भेदशङ्काकारित्वेन प्रसक्तोऽपि आभाससारतापरमार्थत्वात् तदन्तर्निमग्न एव नैव भेत्तुमलम् । (२) एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥ ३- ९ ॥ (३) अचलस्य चिदब्धेः ईषत् विश्वस्फुरत्तात्मनामूर्मीणाम् आभासनात् । (४) स्रक्ष्यमाणनीलसुखादिभेदप्रथनस्य इत्यर्थः । ___________________________________________ ------------- पृष्ठम् ६ ------------- रूपा च या उन्मेषदशा सैव चिदभेदप्रथाया निमेषभूः । माया[१]पदोऽपि च नीलदिदृक्षात्म[२]प्राग्भूमिरूपा उन्मेषावस्थैव स्फुरितनीलपूर्वपीतावभासनविश्रान्त्यात्मकनिमेषरूपां सर्वस्य स्वसंवित्सिद्धा । अपि च इयं दिदृक्षाभूमिः नीलस्य इदन्तावभासनासूत्रणस्वभावोन्मेषरूपापि, तदैव तस्यैव परमेश्वराभिन्नस्वभावनिमेषपरमार्थापि, वस्तुतस्तु मायापदेऽपि निमेषोन्मेषोपलक्षितसर्वशक्तिविलोलतारूपा इयं परा विमर्शभू[३]मिरेव सर्वदा सर्वस्य स्फुरन्त्यपि मायादशायां न निरूढिं लम्भयति संविदं स्वात्मनि, तत्रापि मध्ये मध्ये प्रकटीभवति । यत्स्वरूपाभिज्ञानाय स्फुटयिष्यति अतिक्रुद्ध------------- ।४ (१ । २२) इत्यादि ___________________________________________ (१) देहप्राणादिषु अहन्ताभिमननस्वीकरणात्मनि । (२) दिदृक्षैव सिसृक्षा, सैव प्राग्भूमिः इच्छारूपा, स एवोन्मेषः । (३) लोलीभूता परा स्थितिः इति नीत्या निमेषोन्मेषयोरेव सृष्टिसंहाररूपयोः अन्तर्गता विश्वशक्तयः इत्याशयः । (४) अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वामृशन् । धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥ २२ ॥ यामवस्थां समालम्ब्य यदयं मम वक्ष्यति । तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति ॥ २३ ॥ तामाश्रित्योर्ध्वमार्गेण सोमसूर्यावुभावपि । सौषुम्नेऽध्वन्यस्तमितौ हित्वा ब्रह्माण्डगोचरम् ॥ २४ ॥ तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ॥ २५ ॥ ___________________________________________ ------------- पृष्ठम् ७ ------------- ------अनावृतः ॥ (१ । २५) इत्यन्तं श्लोकचतुष्टयम् । परशक्तिपातप्रकाशध्वस्तमायावरणस्य तु शिवपदावाप्तौ करालम्बनं ददत्येव परं पूर्णतया सर्वदा न परिस्फुरति । यद्वक्ष्यति यदा क्षोभः पलीयेत-------------[१] (१ । ९) इत्यादि --------करोति च ॥ (१ । १०) इत्यन्तम् । तथा जाग्रदादि---(१- ३) इत्यारभ्य तदस्ति परमार्थतः [२] । (१- ५) इत्यन्तम् । त[३]थाहि - यदा प्रथमायाः शिवात्मनः सामरस्यभूमेः पूर्णाहन्तात्मसामरस्यावस्थितं विश्वं यदि न भवति अविद्यमानं कथं सृज्येत, नील[४]दिदृक्षारूपा तुटिपातापरपर्याया दशा उदिता, तदा नीलमात्रापेक्षया अहन्ताच्छादितेदन्तासूत्र[५]णरूपा तावती सदाशिवेश्वरता उच्यते । तदैव सैव च ___________________________________________ (१) यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥ ९ ॥ तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः । यतत्तदीप्सितं सर्वं जानाति च करोति च ॥ १० ॥ (२) जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वरूपादुपलब्धृतः ॥ ३ ॥ अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः । सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्र ताः स्फुटम् ॥ ४ ॥ न दुःखं न सुखं यत्र न ग्राह्यं ग्राहको न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥ ५ ॥ (३) प्रथमकलायां पूर्णाहन्ताख्यायां यदि तत्सामरस्यावस्थितं विश्वं नास्थास्यत् तत् कथमविद्यमानमस्रक्ष्यत इति । अतः प्राक्सृष्ठेः स्वरूपाभिन्नस्य विश्वस्य सत्ता अवश्यमभ्युपेया इत्ययमाशयः, उन्मेषस्वरूपाभिज्ञापनाय स्पष्टीक्रियते । (४) विश्वसिसृक्षाया उपलक्षणमेतत् । (५) स्रक्ष्यमाणेदन्ताया आसूत्रणदशा । ___________________________________________ ------------- पृष्ठम् ८ ------------- पूर्णाहन्तात्मसामरस्यावस्थितविश्वापेक्षया शिवतापि, यदि हि अन्या सदाशिवप्रकाशात्मतया नावस्थिता स्यात् कथम् उत्तरकालं सृज्येत चिद्रूपव्यतिरेकेण अन्यस्य स्रष्ट्टत्वानुप[१]पत्तेः । प्रमापितं च एतत् प्रत्यभिज्ञायाम् चिदात्मैव हि देवोऽन्तः स्थितमिच्छावशाद्बहिः । योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥ (१ । ५ । ७) इति । इहापि वक्ष्यति यत्र स्थितमिदं विश्वं कार्यं यस्माच्च निर्गतम् (१।२) इति । ते च एते शिवतासदाशिवेश्वरते परस्परव्याप्त्या अवस्थिते एकरूपे एव । यदा तदा इति हि उपदेश्यापेक्षया वाचि क्रमोऽयं, न वस्तुनि । अत एव युगपदेव इयं संवित् स्रष्ट्री च संहर्त्री च इति सक्रमाभासा, अस्रष्ट्टसंहर्तृरूपा शुद्धाहन्ताप्रकाशमयी अक्रमापि इत्यलम् । उपदेशधना एव एनां भूमिं चिन्वते इ[२]ति । इहापि च दिदृक्षयिव----------[३] (३ । ११) इत्यत्र सूत्रे तमधिष्ठातृभावेन[४]------------- (१ । ११) ___________________________________________ (१) चिद्रूपात् व्यतिरिक्तस्य मायाप्रकृत्यादेः भेदाभेदविकल्पोहतत्वात् नास्ति स्रष्ट्टत्वोपपत्तिः । तथा हि चित्प्रकाशात् भिन्नत्वे अप्रकाशमानत्वेन असत्त्वात् अभेदे तु प्रकाशमानतया चिन्मयतासिद्धेः । (२) उपदेश्यावबोधनाय अनाख्यस्वरूपात् आरभ्य शिवादिभूम्यन्तत खवर्णनक्रमः । वस्तुतोऽक्रममेव विश्वप्रथनं परमार्थमयमेव इत्याशयः । (३) दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते । तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥ ३ -११ ॥ (४) तमधिष्ठातृभावेन स्वभावमवलोकयन् । स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः ॥ १-११ ॥ ___________________________________________ ------------- पृष्ठम् ९ ------------- इत्यत्र च अयमेव उपदेशार्थः । स[१]दा सृष्टिविनोदाय ------------------। प्रतिक्षणमविश्रान्तः---------------। प्राकाम्यमात्मनि यदा-------------। इत्यादौ च गुरूणामयमेव आशयः । अस्ति च आगमः लेलिहाना सदा देवी सदा पूर्णा च भा[२]सते । ऊर्मिरेषा विबोधाब्धेः शक्तिरिच्छात्मिका प्रभोः ॥ इति । एवमियम् एकैव अविभागा विमर्शभूमिः उन्मेषनिमेषमयी उन्मेषनिमेषशब्दाभ्यामभिधीयते । ततश्च उन्मेषौ च निमेषौ च इति विगृह्य उन्मेषस्य निमेषमयस्य, निमेषस्य च उन्मेषमयस्य, प्राधान्येतरताविभक्तस्य धरण्यादि - सदाशिवान्तं जगत् प्रति प्रलयोदयहेतुत्वं व्याख्यातव्यम् । एवं च प्रलयौ च, उदयौ च इति विगृह्य प्रलयोदयौ इति व्याख्येयम् । तथाहि - नीलादेः यो बहीरूपताया उदयः स एव अहन्तारूपतायाः प्रलयः, एवं यो बहीरूपतायाः प्रलयः स एव अहन्तारूपताया उदयः इति प्रलयोऽपि उदयरूपः, उदयोऽपि प्रलयपरमार्थः । भेदाभेदप्रा- ___________________________________________ (१) सदा सृष्टिविनोदाय सदा स्थितिसुखासिने । सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥ इति स्तोत्रावलौ । स्तवचिन्तामणौ च प्रतिक्षणमविश्रान्तस्त्रैलोक्यं कल्पनाशतैः । कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥ (२) कृशतायामपि पूर्णैव राजते इत्यर्थः । ___________________________________________ ------------- पृष्ठम् १० ------------- धान्येतरताकृतस्तु अत्र विवेकः । वस्तुतः चिदात्मैव तथा भाति इति अक्रमतैव अत्र इत्युक्तम् । समासश्च इत्थमेव उपपन्नः । तथा च द्वन्द्वसमासे भाष्यम् यदि निदर्शयितुं बुद्धिः एवं निदर्शयितव्यम् धवा च खदिरौ च । इत्यादि । इहैव च स्वतन्त्रशिवाद्वयदर्शने एकैकस्य अर्थस्य अनेकत्वं संगच्[१]छते । अन्यत्र हि प्रतिनियतरूपा भावाः इत्येकोऽपि द्व्यर्थः, अपरोऽपि द्व्यर्थः इति का संगतिः इत्यलम् अप्रकृतेन । एवं च व्याख्याते सति यत् पञ्चविधकृत्यकारित्वं श्रीस्वच्छन्दादिशास्त्रेषु परमेश्वरस्य उच्यते, तद[२]पि स्वीकृतम् । तथा च - भेदासूत्रणतदुल्लासनरूपेण उन्मेषेण[३] किंचित्स्वरूपनिमेषमयेन शुद्धाशुद्धरूपा द्विविधा षडध्वनः सृष्टिः । एवं द्विविधभेदनिमेषेण किञ्चिदभेदस्पृगूर्ध्वोन्मेषणरूपेण संहारः । तथा उन्मेषनिमेषाभ्यां लोलीभूताभ्याम् आभासनानाभासनप्रसरपरमार्था स्थितिः । यथोक्तम् ----------------------------लोलीबूता परा स्थितिः । ___________________________________________ (१) प्रकाशमयतापरमार्थवादानुसृत्या एकस्यैव अर्थस्य षट्त्रिंशत्तत्त्वमयतात्मानेकार्थत्वम् आम्नातमस्ति । (२) उन्मेषनिमेषाभ्यां परमेश्वरस्य सर्गादिपञ्चविधकार्यमपि स्वीक्रियते । (३) निर्विकल्पसविकल्परूपेण उन्मेषेणेत्यर्थः । ___________________________________________ ------------- पृष्ठम् ११ ------------- इति सिद्धपादैः । तथा उत्पन्नस्वरूपोन्मेषाभासरूपो वस्तुतो निरयादिभोगमयो यः पूर्णो निमेषः स्वस्वरूपस्य स विलयः । सर्वात्मना पुनः यः पूर्णः उन्मेषः स चाशेषभेदोपशमनान्निरूपितपूर्वर्द्धितो निमेषमयः, सोऽनुग्र[१]हः इति परमेश्वरस्य पञ्चविधकृत्यकारित्वम् अनेनैव स्पृष्टम् । इत्थम् प्रलयोदयावपि संगमनीयौ । प्रलयादिकं च आभास्यनिष्ठं आभाससारमेव, न तु प्रकाशात्मनोऽस्य परमेश्वरस्य तत् किंचित् । यद्वक्ष्यति अव[२]स्थायुगलं चात्र-------------- (१ - १४) इत्यारभ्य ----------------------------------कर्तृत्वं--। (१ - १४) इत्यन्तम् । मायाप्रमातृभूमावपि परमेश्वरस्य प्रकाशात्मनः इदं पञ्चविधकृत्यकारित्वं स्थितमेव, पूर्ण तु तत्संबन्ध[३]सावधानविज्ञानशालिसंचेत्यम् । एवंभूतस्य हि भगवतो नीलप्रकाशादिकाले नीलाभासे देशकालसंभिन्ने स्रष्ट्टता, देशकालाकारान्तरसंभिन्नशंकायां ___________________________________________ (१) संस्कारविगलनेन सर्वभेदनाशे सति, यत्र नष्टस्य भेदस्यापि संस्कारो विनश्यति स तादृशः पूर्णोन्मेषात्मा, सृष्टि - स्थिति - संहार - विलयेषु अन्योन्यस्य संस्कारशेषता, विना अनुग्रहं वस्तुतो दुरुच्छेद्या, सैव हि संसारकारणम् । (२) अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यता क्षयिणी चात्र कर्तृत्वं पुनरक्षयम् ॥ (३) तत्र ग्राह्यग्राहकसंबन्धावधानवद्भि?रवगम्यते पूर्णम् । ___________________________________________ ------------- पृष्ठम् १२ ------------- संहारः, प्राक्सृष्टे नीलाद्याभाससामान्ये स्थितिहेतुता, तत्रैव अभेदांशसर्गे विलयहेतुता इत्यादि पीताभासादावपि योज्यम्, तथा प्रथमाभासितनीलतद्ग्राहक[१]भावापेक्षया संहर्तृत्वम्, अवभास[२]मानपीततद्ग्राहकभावापेक्षया सृष्ट्टत्वम्, विच्छिन्नताभासाद्यपेक्षया स्थितिहेतुता, अन्तःसंस्काररूपतापादिता[३]भासापेक्षया विलयकारित्वम्, शुद्धसंविदैक्यापन्न[४]प्रविलापितस्मृत्यादिबीजभावाभासापेक्षया अनुग्रहीतृत्वम् इत्येवं सर्वदा सर्वासु दशासु पञ्चविधकृत्यकारित्वं माहेश्वरमेव एकरूपं सर्वत्र जृम्भ[५]माणमवस्थितम् इति । तत्रैव चिच्च[६]क्रैश्वर्यात्मनि स्वस्वभावे शंकररूपे स्वप्रकाशे केषांचिदेव अनुत्तरसमाधिधनानां धिषणा अधिरोहति, न तु अन्येषां देहाद्यहंभावभाविनाम् । यदुक्तं भर्गशिखायाम् वीरभैरवदेवोऽपि परमानन्दविग्रहः । उदेति मोहपङ्काङ्के पशुहृत्कुहरे कथम् ॥ इति । एवं च व्याक्यातोपदेशप्रकारः इहैव अग्रे स्फुटी भविष्यति ___________________________________________ (१) नीलभावप्रमितिभाजः । (२) सृज्यमानपीतवस्तुनः । (३) भेदावभासमानपदार्थस्य । (४) चित्स्वरूपाभिन्नतां प्राप्तस्य । (५) वस्तुतः तथा तथा माहेश्वर्यमेव पञ्चधा सृष्ट्यादिविचित्रक्रीढया विलसतीत्यर्थः । (६) चिच्चक्रं चित्स्वरूपस्य तथा तथा विश्वरूपतया कचनं, तदेव ऐश्वर्यं तदात्मैव शंकरः । तत्र कैश्चिदेव योगिभिः विश्रान्तिरासाद्यते इत्यर्थः । ___________________________________________ ------------- पृष्ठम् १३ ------------- जाग्रदा[१]दि------------------------------------------- (१ - ३) इत्यारभ्य तदस्ति परमार्थतः ------------------------------॥ (१ - ५) इत्यत्र । तथा तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी । (१ - १७) अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये । (१ - २१) इति वा यस्य संवित्ति----------------------------[२] (२ - ५) प्रबुद्धः सर्वदा तिष्ठेत्---[३]----------------- (३ -१२) इत्यादिस्थानेषु । ग्रन्थप्रान्ते च इदमेव संहरिष्यति । यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भवौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥ (३ ।१९) इति । लयोदयौ हि अत्र व्याख्यात[४]परमार्थावेव । इदमेव च चक्रैश्वर्यं - यत् सर्वदा पञ्चविधकृत्यकारिचिन्मयस्वरूपा - ___________________________________________ (१) जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ॥ ३ ॥ अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः । सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्र ताः स्फुटम् ॥ ४ ॥ न दुःखं न सुखं यत्र न ग्राह्यो ग्राहको न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥ ५ ॥ (२) इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ॥ २ - ५ ॥ (३) प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोच्य गोचरम् । एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते ॥ ३ - २ ॥ (४) लय उदयपरमार्थः, उदयोऽपि लयपरमार्थः इति उभयमपि परमार्थप्रकाशमयम् । ___________________________________________ ------------- पृष्ठम् १४ ------------- वस्थानम् इति अलं कतिपयजनहृदयाश्वासदायिनीभिः कथाभिः । अपि च यस्य चिदानन्दघनस्य आत्मनः उन्मेषनिमेषाभ्यां स्वरूपोन्मीलननिमीलनाभ्यां यदन्तः तत् बहिः इ[१]ति कृत्वा जगतः शरीररूपस्य, तदनुषङ्गेण च बाह्यस्यापि विश्वस्य, प्रलयोदयौ निमज्जनोन्मज्जने इति समावेशव्युत्थानापेक्षया यथासंख्येनापि योज्यम्[२] । ननु च श्रीमत्स्वच्छन्दाद्यागमोक्तप्रकारेण यथा ब्रह्मा[३]दीनां स्वापप्रबोधावस्थयोः तदधरवर्तिलोकानां व्यतिरिक्तानामेव प्रलयोदयौ भवतः, तथा परमेश्वरापेक्षयापि विश्वस्य व्यतिरिक्तस्यैव प्रलयोदयौ इति तावत् उक्तम् । दृष्टं हि कुम्भकारादिनां व्यतिरिक्तकार्यकारित्वम् इति प्रमाणसिद्धमेव किम् अभ्युपगम्यते, आहोस्वित् अन्यथा[४] ? इति संशयं शमयितुं विशेषणद्वारेण हेतुमाह । शक्तिचक्रविभवप्रभवम् इति । शक्त्योऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः । ___________________________________________ (१) अनेन न्यायेन अन्तः स्थितमेव बहिः प्रकटीक्रियते इत्यर्थः । (२) चिदात्मनो यत् उन्मज्जनं स समावेशः, जगतो यत् उन्मज्जनं तत् व्युत्थानम्, अभिन्नताया यः उन्मेषः स जगतः प्रलयः । (३) सत्यादिलोकवर्तिनाम् । (४) अभेदरूपतया । ___________________________________________ ------------- पृष्ठम् १५ ------------- इत्यागमस्थित्या यावत् किंचित् आभासते, तत् सर्वं प्रकाशमथमेव - अप्रकाशस्य प्रकाशनानुपपत्तेः इति युक्तिवशेन स्वप्नसंकल्पादौ संविद एव आभासोल्लासनाहेतुत्वं दृष्टम् इति । अनुभवानुसारेण च प्रकाशस्यैव भगवतः प्रकाशमानं विश्वम् अस्य शक्तयः, तासां यत् चक्रं संयोजनादिवैचित्र्यव्यवस्थितः समुदायः, स[१] एव विभवः स्फीतता, तस्य प्रभवः प्रभवति अस्मात् इति कृत्वा तथातथावभासनपरमार्थः स्वस्वभाव एव यः, तम् । यद्वक्ष्यति यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवः । तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ॥ (२ - ३) इति । तादात्म्यात् तत्संवेदनं, तस्मात् हेतोः इत्यादि । यद्वा शक्तिचक्रस्य इन्द्रियवर्गस्य, यो विभवो निजनिजविषयप्रवृत्त्यादिकः, तस्य प्रभवं प्राग्वत् । यतो वक्ष्यति यतः करणवर्गोऽयं[२]----------------------------। --------------------------------प्रवृत्तिस्थितिसंहृतीः ॥ लभते----------------------------------------------------। (१ । ६) इति । _________________________________________ (१) विश्वसमुदायः । (२) यतः करणवर्गोऽयं विमूढोऽमूढवत्स्वयम् । सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः ॥ ___________________________________________ ------------- पृष्ठम् १६ ------------- अथ च शक्तिचक्रस्य करणेश्वरीच[१]क्रस्य यो विभवो विचित्रसृष्टिसंहारादिकारित्वं, तस्य प्रभवं क्रमार्थावभासनकारित्वकृतमक्रममहाप्रकाशमयम् । यद्वक्ष्यति सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः ॥ लभते-------------------------------। (१. ६) इति आन्तरं चक्रम् अत्रैतदेव व्याख्येयम्, न तु अन्तःकरणत्रयम् - तस्य करणवर्गेणैव स्वीकृतत्वात् । करणवर्गस्य स्वात्मनः प्रवृत्त्यादिमात्रत्वम्, करणेश्वरीचक्रस्य तु सृष्ट्यादिकारित्वमेव प्रवृत्त्यादिलाभ इति व्याख्येयम् इत्यलम् । शक्तिचक्रं मन्त्रगणो मुद्रा[२]समूहश्च, तस्य यो विभवः त्रिविधा[३]सिद्धिसाधनसमर्थत्वं, तस्य प्रभवम् इति प्रभवोपलक्षितोत्पत्तिविश्रान्तिस्थानम् । यद्वक्ष्यति तदाक्रम्य बलं मन्त्राः----------------------------(२ । १) इत्यादि ------------------------------------------------निरञ्जनाः[४] (२ । २) इत्यन्तम् । व्याख्यातेन च शक्तिचक्रविभवेन मन्त्रा ___________________________________________ (१) करणशक्तिवर्गस्य । (२) परापरमन्त्रमुद्रागणः शिवसूत्रादिषु बोध्यः । (३) पर - परापर - अपरात्मिका त्रिधा सिद्धिः । (४) तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः । प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ॥ तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः । ___________________________________________ ------------- पृष्ठम् १७ ------------- दिसामर्थ्यात्मना प्रभा दीप्तिः यस्य साधकचित्तस्य, तत् वाति गच्छति प्राप्नोति अधितिष्ठति गन्धयति च विनाशयति स्वात्मनि विश्रमयति यः तम् । यत् स्फुटीभविष्यति । सहाराधकचित्तेन------------------------[१]। (२ । २) इत्यादि शक्तिचक्रेण दीक्षानुग्रहध्येय[२]समापत्त्यादिना सामर्थ्यसंपदा विभवो यस्याचार्यस्योदयस्तस्य प्रभवं । यत् अभिधास्यति । अयमेवोदयस्तस्य[३]-----------------------(२ । ६) इत्यादि -------------------------शिवसद्भावदायिनी (२ । ७) इत्यन्तम् । अपि च शक्तयो ब्राह्म्यादिदेव्यो[४] ब्रह्मादिकारणमाला च, तासां संबन्धि चक्रं स्वभावशून्य[५]पशुप्रमातुः अद्वयरूपोर्ध्वभूम्यनारोहणक्षमो भेदमयाधरसरणिसंचारचतुरश्च ___________________________________________ (१) सहाराधकचित्तेन तेन ते शिवधर्मिणः ॥ (२) ध्यातव्यदेवतात्मना तादात्म्यम् । (३) अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिरिच्छतः साधकस्य या ॥ इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाणदीक्षा च शिवसद्भावदीयिनी ॥ (४) कादिक्षान्ततत्तद्वाचकात्मानः । (५) विस्मृतचित्स्वभावस्य पशोः । ___________________________________________ ------------- पृष्ठम् १८ ------------- व्यूहः, तस्य यो विभवः तथाकार्यकारित्वं[१] तस्य प्रभवम् । यद्वक्ष्यति शब्दराशिसमुत्थस्य शक्तिवर्गस्य[२]-------------------(३ । १३) इत्यादि बन्धयित्री----------------------(३ । १६) इत्यन्तम् । तन्मात्रोदय------------------------------[३] (३ । १७) इत्यादि -------------------------------प्रचक्ष्महे ॥ (३ । १८) इत्यन्तं च । तस्यैव शक्तिचक्रस्य यो विभवः स्वस्वभावपदापेक्षया अधराधरभूत्यागेन ऊर्ध्वोर्ध्वारोहणक्षमता, तस्यापि प्रभवं प्राग्वत् । यदत्रैव वदिष्यति -------------स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥ (३ । १६) ___________________________________________ (१) भेदमयाध्यवसायादि प्रसरनिपतनादि कार्यकरणशीलत्वम् । (२) शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः ॥ परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ॥ स्वरूपावरणे चास्य शक्तयः सततोत्थिताः । यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥ सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री-------- (३) तन्मात्रोदयरूपेण मनोऽहंबुद्धिवर्तिना । पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् ॥ भुङ्क्ते परवशो भोगं तद्भावात्संसरत्यतः । संसृतिप्रलययस्यास्य कारणं संप्रचक्ष्महे ॥ ___________________________________________ ------------- पृष्ठम् १९ ------------- इति । किं च शक्तिचक्रं खेचरी - गोचरी - दिक्चरी - भूचर्यादिः - बाह्यान्तरताभेदभिन्नो नानायोगिनीगणः, तदुपल[१]क्षितो वीरव्रातश्च, तस्य यो विभवः अतीतानागतज्ञानाणिमादिप्राप्तिस्वविषयाभोगसमयपूर्णप्रथावाप्त्या- द्यनन्तक्षुद्राक्षुद्रसिद्धिलाभम् ऐश्वर्यं प्राति पूरयति यः, स शक्तिचक्रविभवप्रः स च असौ भवो भवति तेन तेन रूपेण इति कृत्वा तम् । यद्वक्ष्यति विभूतिस्पन्दे यथेच्छाभ्यर्थितो धाता-----------------[२] (३ । १) इत्यादिना कुतः सा स्यादहेतुका ॥ (३ । ८) ___________________________________________ (१) शक्तिचक्रोपलक्षितः शक्तिमतां संघः विना शक्तिमन्तं शक्तीनां स्थित्यनुपपत्तेः । (२) यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान् । सोमसूर्योदयं कृत्वा संपादयति देहिनः ॥ तथा स्वप्नेऽप्यभीष्टार्थान् प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् ॥ अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः । सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ॥ यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ॥ तथा यत्परमार्थेन यदा यत्र यथा स्थितम् । तत् तथा बलमाक्रम्य न चिरात्संप्रवर्तते ॥ दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ॥ अनेनाधिष्ठिते देहं यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ॥ ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः । तदुन्मेषविलुप्तं चेत् कुतः सा स्यादहेतुका ॥ ___________________________________________ ------------- पृष्ठम् २० ------------- इत्यन्तेन श्लोकाष्टकेन । श्रीवामेश्वर्याधिष्ठितानि खेचरी - गोचरी - दिक्चरी - भूचरी - चक्राणि आन्तराणि, बाह्यानि च व्याख्यायन्ते यत्र वमन्ति विश्वं भेदाभेदमयं भेदसारं च, गृणन्ति उच्चैर्गिरन्ति च भेदसारं, भेदाभेदमयं च अभेदसारम् आपादयन्ति इति संसारवामाचाराः वामाः शक्तयः, तासाम् ईश्वरी स्वामिनी एकैव भगवती - तदधिष्ठितत्वात्[१] वामाचक्रमपि वामेश्वरीचक्रम् अभिधीयते इति । खे बोधगगने चरन्ति इति खेचर्यः प्रमातृभूमिस्थिताः, परशक्तिपातपवित्रितानां चिदानन्द[२]प्रसरोद्वमनसारा अकालकलितत्वादभेदसर्वकर्तृत्वसर्वज्ञत्वपूर्णत्वव्यापकत्वस्वरूपोन्मी- लनपरमार्थाः । मायामोहिता[३]नां तु अनानन्दप्रदाः शून्यप्रमातृभूमिचारिण्यः काल - कला - शुद्धविद्या - राग - नियतिमयतया बन्धयित्र्यः । गौः वाक् तदुपलक्षितासु संजल्पमयीषु बुद्ध्यहंकारमनोभूमिषु चरन्ति इति गोचर्यः शक्तिपातवतां शुद्धाध्यवसायाभिमानसंकल्पप्ररोहिण्यः, परेषां तु विपर्यासिन्यः । दिक्षु च दशसु बाह्येन्द्रियभूमिषु चरन्ति इति दिक्चर्यः अनुगृहीतानां अद्वयप्रथनसाराः, परेषां तु द्वयप्रतीतिपातिन्यः । भूः रूपादिपञ्चकात्मकं मेयपदं, तत्र चरन्ति ___________________________________________ (१) ईश्वर्याधिष्ठितत्वात् तत्स्थानां वामाख्यशक्तीनां तद्वत्सासर्थ्योत्पादात् (२) स्वशक्त्यविभिन्नतया परामर्शनात् । (३) मायाख्यया पारमेश्वर्या शक्त्या भेदप्रथामापादितानां संकुचितप्रमातॄणाम् । ___________________________________________ ------------- पृष्ठम् २१ ------------- तदाभोगमय्य आश्यानीभावेन तन्मयताम् आपन्ना भूचर्यः प्रबुद्धानां चित्प्रकाशशरीरतया स्फुरन्त्यः, इतरेषां सर्वतो व्यवच्छेदकतां दर्शयन्त्यः । इत्येवं वामेश्वरीशक्त्या प्रसारितानि आन्तराणि अपरपरापरपरप्रथाहेतुत्वात् अघोरघोरघोरतरनामनिरुक्तानि चत्वारि खेचरी - गोचरी - भूचरी - दिक्चरीचक्राणि तथाविधवीर[१]व्रातसहितानि तानि । यथोक्तं श्रीपूर्वशास्त्रे विषयेष्वेव संलीनानधोधः पातयन्त्यणून् । रुद्रा[२]णून्याः समालिङ्ग्य घोरतर्योऽपराः स्मृताः ॥ मिश्रकर्मफलासक्तिं पूर्ववज्जनयन्ति याः । मुक्तिमार्गनिरोधिन्यस्ताः स्युर्घोराः परापराः[३] ॥ पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः । पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः ॥ इति । बाह्यानि पुनरेतद्वामेश्वर्यधिष्ठितान्येव खेचरी - भूचरी - गोचरी - दिक्चरीचक्राणि । तत्र आकाशे चरन्त्योऽशरीराः खेचर्यः, यदिच्छामात्राधिष्ठितमिथुनसंयोगजः प्रबुद्धशुद्धविद्योदयो योगिनीगर्भोद्भूतो भवति । यथोक्तं श्रीतन्त्रालोके अन्याश्च गुरुतत्पत्न्यः श्रीमत्कालीकुलोदिताः । अनन्तदेहाः क्रीडन्त्यस्तैस्तैर्देहैरशङ्कितैः ॥ प्रबोधिततादिच्छाके तज्जं कौलं प्रकाशते । ___________________________________________ (१) वीराः शक्तिमन्तः । (२) रोदयन्ति पशून् अधःपातनेन, संसाररुजं द्रावयन्ति चेति वा रुद्राः । (३) भोगापवर्गात्ममिश्रकर्मणि या आसक्तिं जनयन्ति मुक्तिमार्गं च निरुन्धन्ति ता घोराख्याः परापरशक्तयः प्रोच्यन्ते इत्यन्वयः । ___________________________________________ ------------- पृष्ठम् २२ ------------- इति । गोचर्यस्तु गोशब्दवाच्यपशुहृदयसाराहरणरताः तेनैव क्रमेण स्वात्मनः, पशूनां च तत्तत्सिद्धिसाधनप्रवणा एकजन्मनः प्रभृतिसप्तजन्मान्तमपि पशुमाहरन्त्यः । दिक्चर्यस्तु भ्रान्तचक्रवत् सर्वत्र चरन्त्यः परापरसिद्धिप्रवणाः । भूचर्यस्तु स्वस्वभावतयैव कुङ्कुमनारि[१]केलादिवत् तत्तत्पीतादिभूमिजाताः पूर्णत्वापूर्णत्वादिनानाभेदितत्तद्देवतांशकोद्भूताः । अपि च शक्तिचक्रस्य आगमसंप्रदायप्रसिद्धनानादेवतापरमार्थस्य रागद्वेषक्रोधविकल्पादिप्रत्ययग्रामस्य, तथा देहाश्रिततत्तद्देवतापरमार्थनानाधात्वादिगणस्य, यो विभवः तत्तदुपनिषत्सिद्धः प्रभावविशेषः, मायामूढान् प्रतिबन्धहेतुत्वं च, तस्य उभयस्यापि प्रभवम् । तदेतत् उपदेक्ष्यति गुणादिस्पन्दनिष्यन्दाः सामान्यस्पन्दसंश्रयात्[२] (१ । १९) इत्यादि । --------------------------------संसारवर्त्मनि (१ । २०) इत्यन्तम् । तथा सेयं क्रियात्मिका शक्तिः शिवस्य-----------------(३ । १६) इत्यादि । अन्यत्रापि आगमेषूक्तम् ___________________________________________ (१) कुंकुमं पीतभूमौ, नारिकेलं भूमेरग्रभागे जायते इति प्रसिद्धिः । (२) गुणादिस्पन्दनिःःपन्दाः सामान्यस्पन्दसंश्रयात् । लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः ॥ अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः । पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ॥ ___________________________________________ ------------- पृष्ठम् २३ ------------- कुल[१]सारमजानन्तो ह्यद्वये निपतन्ति ये । स्वचित्तोत्थविकल्पान्धा निरये निपतन्ति ते ॥ इति । तथा येन येन निबध्यन्ते जन्तवो रौद्रकर्मणा । सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् ॥ इति । एवंप्रायं च व्याख्यानं नानागमसंवादितमस्ति, ग्रन्थगौरवभयात् तु न लिखितम्, स्वयमेव च परशक्तिपातपवित्रितैः अनुसर्तुंशक्यम् । अन्येषां तु संवादशतैरपि प्रदर्श्यमानम् इदं वस्तुतत्वं निदाघातपतप्तशिलापतितजलबिन्दुवत् न क्षणमपि तिष्ठति इति अलम् । अन्यच्च शक्तिचक्रस्य स्वतन्त्राद्वयनिजमहाप्रकाशानुप्रवेशकारिस्वमरीचिनिचयस्य, स्वामोदजृम्भात्मना विभवेन प्रकाशितहृदयसंतोषकारिण्यल्पा दीप्तिः, मितयोगिजनप्रयत्नसाध्यापि अयत्नेन स्वभावावष्टम्भमात्रसिद्धबिन्दुनादादिप्रकाशमयी क्षोभकत्वेन उत्थिता यस्य ज्ञानिजनस्य, तं वयति अनुत्तराद्वयसंवित्तन्तुसंतानितं संपादयति । यत्प्रथयिष्यति अतो बिन्दुरतो नादः[२]--------------------। इत्यादि । ------------क्षोभकत्वेन देहिनः ॥ (३ । १०) ___________________________________________ (१) कुलानां देहाक्षभुवनादीनां शक्तिरूपतया परिज्ञानमेव सारः । (२) अतो बिन्दुरतो नादो रूपमस्मादतो रसः । प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥ ___________________________________________ ------------- पृष्ठम् २४ ------------- इत्यन्तम् । एवंविधो यः तं शक्तिचक्रविभवप्रभवं व्याख्यातरूपं शंकरं स्वस्वभावं स्तुमः इति । एवमनेन श्लोकभागेन वर्तमानार्थोपक्षेपगर्भेण विश्वोत्तीर्णोर्विश्वमयश्च उत्तमाकुलत्रिकाद्याम्नायोपदेशदिशा स्वस्वभाव एव शंकरः इति उपपादितम्, न तु वेदान्तवादिवत् विश्वं यन्न तदेव ब्रह्म इत्येवं प्रायं, नाभावो भाव्यतामेति--------------------------। (१ । १२) इत्यादिना न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते । (१ । १३) इत्यन्तेन निषेधात् । नापि सिद्धान्तदृष्टिवत् विश्वोत्तीर्णमेव परं तत्त्वम् इत्येवंरूपम्, तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी । (१ । १७) इत्यादिविरुद्धत्वापत्तेः । नापि अप्रकटिताकुलस्वरूपकुलप्रक्रियाशास्त्रवत् विश्वमयमेव पूर्णं रूपम् इत्येवं स्वभावम् । यदा क्षोभः प्रलीयते तदा स्यात्परमं पदम् । (१ । ९) इत्याद्यसंगतेः । इति समस्तशास्त्रार्थं वाक्यैकवाक्यतया पर्यालोच्य सर्वदा सर्वासु दशासु दृढशंकरात्मकस्वस्वभावप्रतिपत्त्या अवस्थातव्यम्, न तु अत्र मनागपि अवज्ञा विधेया । अख्यातिनिर्हरणायैव तु सर्वदा यत्न आस्थेयः, न तु सा दशाऽस्ति यत्र शिवता न स्फुरति इति उपदिष्टं भवति । यदादिष्टं परमेष्ठिना श्रीस्वच्छन्दादिशास्त्रेषु यत्र यत्र निलीयेत मनस्तत्रैव भावयेत् । चलित्वा यास्यति कुत्र सर्वं शिवमयं यतः ॥ ___________________________________________ (१) नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ॥ अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ॥ ___________________________________________ ------------- पृष्ठम् २५ ------------- इति । इहापि वक्ष्यति । न सावस्था न यः शिवः (२ । ४) इत्यादि । अस्ति च शिवसूत्रम् सकृद्विभातोऽयमात्मा पूर्णोऽस्य न क्वापि अप्रकाशसंभवः । इति । तथा चिद्घनमात्मपूर्णं विश्वम् इत्यादिना इति । व्याख्यातमिदं समस्तशास्त्रार्थासूत्रणपरमार्थमतिप्रसन्नगम्भीरमादिसूत्रं, करोतु सर्वस्य शिवम् ॥ शास्त्राब्धेरर्थमात्रं परिमितमतयः केऽपि संप्राप्य तुष्टाः केचिन्नैवाप्नुवन्ति प्रविततयतनाः पारमस्यापरे तु । पोप्लूयन्तेऽर्धभागे तृणवदथ परे मज्जनोन्मज्जनाभिः खिद्यन्तेऽन्ये तु नेतुं निखिलमिदमथाप्यर्थिषूद्वान्तमीशाः ॥ १ ॥ स्मृतिपथजुषि यस्मिन्पाशबन्धप्रबन्धा झटिति विघटितान्तर्ग्रन्थयो विश्लथन्ते । स्फुरति च चितिचन्द्रानन्दनिःष्यन्दिधारा - मृतरसपरिषेकस्तं शिवं संश्रयामः ॥ २ ॥ सर्वत्र प्रतिबोधविद्धमहसो विद्याब्धिशीतद्युते - र्हेलालोकनकर्ममोचितनतानन्तार्थिसार्थाद्गुरोः । श्रुत्वा सम्यगिदं प्रभोरभिनवात्स्मृत्वा च किंचिन्मया क्षेमेणार्थिजनार्थितेन विवृतं श्रीस्पन्दसूत्रं मनाक् ॥ ३ ॥ इति स्पन्दसंदोहः समाप्तः ॥ कृतिर्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तपादपद्मोपजीविनो राजानकक्षेमराजस्य ॥ ___________________________________________ ------------- पृष्ठम् २६ ------------- सद्विद्यानां संश्रये ग्रन्थविद्वद् - व्यूहे ह्रासं कालवृत्त्योपयाते । तत्तत्सद्धर्मोद्दिधीर्षैकतान - सत्प्रेक्षौजःशालिना कर्मवृत्त्यै ॥ १ ॥ श्रीमत्कश्मीराधिराजेन मुख्यै - र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य । प्रत्यष्ठापि ज्ञानविज्ञानगर्भ - ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥ २ ॥ तत्राजीवं निर्विशद्भिर्मुकुन्द - रामाध्यक्षत्वाश्रितैः सद्भिरेषः । पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात् पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥ ३ ॥ तिलकम् । श्रीशिवार्पणं भूयात् </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] 1vqu4g92l3it2q75cvwhx3dpjm0q0vg स्पन्दनिर्णयः 0 87270 417923 210772 2026-07-31T06:06:37Z Shubha 190 417923 wikitext text/x-wiki <poem> ओं काश्मीरसंस्कृतग्रन्थावलिः । ग्रन्थाङ्कः ४२ स्पन्दकारिकाः क्षेमराजकृतनिर्णयोपेताः । श्रीभारतधर्ममार्तण्ड कश्मीरमहाराजश्रीप्रतापसिंहवरप्रतिष्ठापिता प्रत्नविद्याप्रकाश (रिसर्च) कार्यालये तदध्यक्षपण्डितमधुसूदन कौलशास्त्रिणा उद्दिष्टकार्यालयस्थपण्डितसहायेन संगृह्य संशोधनाङ्लभाषानुवादादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरात्युपत्याससंस्कारैः परिष्कृत्य श्रीनगरे कश्मीर प्रताप स्तीम प्रेस मुद्रणालये मुद्रापयित्वा प्रकाश्यं नीताः । खैस्ताब्द १९२५ काश्मीर श्रीनगर अस्य ग्रन्थस्य सर्वे प्रकाशन मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति श्रीसोमानन्दनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गो लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः । कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान् देशेऽन्यस्मिन्नदृष्टो घुसृणविसरवत्सर्ववन्द्यत्वमाप ॥ १ ॥ तरत तरसा संसाराब्धिं विधत्त परे पदे पदमविचलं नित्यालोकप्रमोदसुनिर्भरे । विमृशत शिवादिष्टाद्वैतावबोधसुधारसं प्रसभविलसत्सद्युक्त्यान्तः समुत्प्लवदायिनम् ॥ २ ॥ १) अथ स्पन्दनिर्णयः श्रीक्षेमराजविरचितः । सर्वं स्वात्मस्वरूपं मकुरनगरवत्स्वस्वरूपात्स्वतन्त्रस्वच्छस्वात्मस्वभित्तौ कलयति धरणीतः शिवान्तं सदा या । दृग्देवी मन्त्रवीर्यं सततसमुदिता शब्दराश्यात्मपूर्णा हन्तानन्तस्फुरत्ता [ग्: नन्देति पाठः ।] जयति जगति सा शाङ्करी स्पन्दशक्तिः ॥ १ ॥ स्पन्दामृते चर्वितेऽपि स्पन्दसंदोहतो मनाक् । पूर्णस्तच्चर्वणाभोगोद्योग एष मयाश्रितः ॥ २ ॥ सम्यक्सूत्रसमन्वयं परिगतिं तत्त्वे परस्मिन्परां तीक्ष्णां युक्तिकथामुपायघटनां स्पष्टार्थसद्व्याकृतिम् । ज्ञातुं वाञ्छथ चेच्छिवोपनिषदं [क्, ख्, ग्: चिदिति पाठः । ] श्रीस्पन्दशास्त्रस्य तद्वृत्तावत्र धियं निधत्त सुधियः स्पन्दश्रियं माप्नुत ॥ ३ ॥ इह हि विश्वानुजिघृक्षापरपरमशिवावेशोन्मीलितमहिमा स्वप्नोपलब्धोपदेशः श्रीमान्वसुगुप्ताचार्यो महादेवपर्वताद्भगवदिच्छयैव २) महाशिलातलोल्लिखितान्यतिरहस्यानि शिवसूत्राण्यासाद्य प्रसन्नगम्भीरैरेकपञ्चाशता श्लोकैरागमानुभवोपपत्त्यैकीकारं प्रदर्शयन्संगृहीतवान् । तत्र १ पञ्चविंशत्या स्वरूपस्पन्दः २ सप्तभिः सहजविद्योदयस्पन्दः ३ एकोनविंशत्या विभूतिस्पन्द उक्तः इति त्रिनिःष्यन्दमिदं स्पन्दशास्त्रम् । तत्र प्रथमनिःष्यन्देऽस्मिन् स्तुतिपूर्वं प्रकरणार्थः श्लोकेनोपक्षिप्तः । ततश्चतुर्भिः श्लोकैः सोपपत्तिकं स्पन्दतत्त्वं व्यवस्थापितम् । ततः श्लोकाभ्यां साभिज्ञानं तत्प्राप्तावुपाय उक्तः । श्लोकेनोपायविप्रतिपत्तिर्निरस्ता । श्लोकेनोपाय एवोपेयप्राप्त्यानुरूप्यकथनेनोपोद्वलितः । तत एकेन तदुपायलभ्यं यादृगुपेयस्य स्वरूपं तदुपदर्शितम् । ततस्तदवष्टम्भात्संसाराभावः श्लोकेनोक्तः । द्वयेनाभाववादिमतं व्युदस्यता तद्वैलक्षण्यं स्पन्दतत्त्वस्योक्तम् । श्लोकेन तदुल्लासितस्य कार्यस्य क्षयित्वेऽपि तदक्षयमित्याख्यातम् । एतदेव श्लोकाभ्यामुपपाद्याभाववाद एवोन्मूलितः । तत एकेन सुप्रबुद्धस्य सदैवैतत्प्राप्तिः प्रबुद्धस्य तु पूर्वापरकोट्योरित्यावेदितम् । एकेन सुप्रबुद्धस्य प्रतीतेर्विषयविभाग उक्तः । ततोऽन्येन सुप्रबुद्धस्यावरणाभावे युक्तिरुपक्षिप्ता । श्लोकेनाप्रबुद्धस्य स्थगितस्वरूपतोक्ता । तत एकेन सुप्रबुद्धतालाभाय सततमुद्यन्तव्यमित्युक्तम् । श्लोकेन व्यवहारावस्था एव काश्चित्तदितरसकलवृत्तिक्षयरूपा उद्योगस्य विषय इत्यावेदितम् । ततोऽपि प्राप्तप्रबोधेन सुप्रबुद्धतायै योग्युचितसौषुप्ततमोवरणविदलने प्रजागरितव्यमित्युक्तं श्लोकत्रयेण इति यस्योन्मेष इत्यादेः प्रबुद्धः स्यादनावृत इत्यन्तस्य तात्पर्यम् । अथ ग्रन्थार्थो व्याख्यायते ३) यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ । तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः ॥ १ ॥ शम् उपशान्ताशेषोपतापपरमानन्दाद्वयमयस्वचैतन्य- zaMkaraM stumastaM vizvotkarSitvena parAmRzantastatklRptakalpitapramAtRpadanimajjanena samAvizAmaH tatsamAveza eva hi jIvanmuktiphala iha prakaraNa upadezyaH | bahuvacanamanugrahadRSTikaTAkSitAzeSAnugrAhyAbhedaprathanAya | tamityanena yadasya niHsAmAnyatvamapi dhvanitaM tatprathayati yasyetyardhena | iha paramezvaraH prakAzAtmA mahAdevaH zabdarAziparamArthapUrNAhantAparAmarzasAratvAt sadaivAnandaghanasphurattAtmakobhayavisargAraNiparAzaktyAtmaka- स्वातन्त्र्यशक्तिरविभक्ताप्यशेषसर्गसंहारादिपरम्परां दर्पणनगरवत्स्वभित्तावेव भावियुक्त्यानधिकामप्यधिकामिव दर्शयन्ती किंचिच्चलत्तात्मकधात्वर्थानुगमात्स्पन्द इत्यभिहिता तेन भगवान्सदा स्पन्दतत्त्वसतत्त्वो न त्वस्पन्दः यदाहुः केचित् अस्पन्दं परं तत्त्वम् इति । एवं हि शान्तस्वरूपत्वादनीश्वरमेवैतद्भवेत् । स्फुरत्तासारस्पन्दशक्तिमयशंकरात्मकस्वस्वभावप्रतिपादनायैव चेदं शास्त्रं समुचितस्पन्दाभिधानं महागुरुभिर्निबद्धम् । एतच्च व्यक्तीभविष्यति । सा चैषा स्पन्दशक्तिर्गर्भीकृतामन्तसर्गसंहारैकषनाहन्ताचमत्कारानन्दरूपा ४) निःशेषशुद्धाशुद्धरूपामातृमेयसंकोचविकासाभासनसतत्त्वा सर्वोपनिषदुपास्या युगपदेवोन्मेषनिमेषमयी । तथा हि शिवादेः क्षित्यन्तस्याशेषस्य तत्त्वग्रामस्य प्राक्सृष्टस्य संहर्तृरूपा या निमेषभूरसावेवोद्भविष्यद्दशापेक्षया स्रष्टृरूपोन्मेषभूमिस्तथा विश्वनिमेषभूश्चिद्धनतोन्मेषसारा चिद्धनतानिमज्जनभूमिरपि विश्वोन्मेषरूपा यदागमः लेलिहाना सदा देवी सदा पूर्णा च भासते । ऊर्मिरेषा विवोधाब्धेः शक्तिरिच्छात्मिका प्रभोः ॥ इति । श्रीमान्महेश्वरो हि स्वातन्त्र्यशक्त्या शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रविज्ञानाकलप्रलयाकलसकलान्तां प्रमातृभूमिकां तद्वेद्यभूमिकां च गृह्णानः पूर्वपूर्वरूपतां भित्तिभूततया स्थितामप्यन्तः स्वरूपावच्छादनक्रीडया निमेषयन्नेवोन्मेषयति उत्तरोत्तररूपतामवरोहक्रमेण आरोहक्रमेण तूत्तरोत्तररूपतां निमेषयन्नेव ज्ञानयोगिनामुन्मेषयति पूर्वपूर्वरूपतामत एवोत्तरमुत्तरं पूर्वत्र पूर्वत्र संकोचात्मतां जहद्विकसितत्वेनासावाभासयति पूर्वं पूर्वं तु रूपं यथोत्तरं विकसिततां निमज्जयन् सङ्कुचितत्वेन दर्शयति । एवं च सर्वं सर्वमयमेव प्रथयति केवलं तदवभासितसंकोचमात्रत इयं भेदप्रतिपत्तिरिव यदुद्दलनायेहत्य उपदेश इत्यास्तां तावदेतत् । नीलसुखाद्याभासोन्मेषमय्यपि च संवित् प्रमात्रेकात्मकतत्स्वरूपनिमेषरूपावभातचरपीताद्याभासोपसंहार- pratibhAM bhagavatIM vicinvantu mahAdhiyaH saMsAravicchedAya | ata evonmeSanimeSAbhyAmityejJatpadaM 5) nijavRttau bhaTTazrIkallaTena saMkalpamAtreNa ityavibhaktamevecchAzaktirUpatayA vyAkhyAyi | saMgrahakRtApi [g: pratyakRteti pAThaH |] ekacintAprasaktasya yataH syAdaparodayaH | unmeSaH sa tu vijJeyaH svayaM tamupalakSayet || (3|9) ityatra prArabdhacintAsaMharaNameva parasvarUpodayaheturunmeSa ityabhidhAsyate pravRttacintAsaMhAraM vinA parasvarUpodayAmAvAt | etacca tatraiva vitaniSyAmaH | parAmRtarasApAyastasya yaH pratyayodbhavaH | tenAsvatantratAmeti sa ca tanmAtragocaraH || (3|14) ityatrApyudayaH pralayaparamArtha iti spaSTameva vakSyate | yadA kSobhaH pralIyeta tadA syAtparamaM padam | (1|9) ityatrApi kSobhapralayAtmA nimeSaH parapadonmeSarUpa ityapi nirUpayiSyate | tadevamekaivobhayarUpApi zaktiH kadAcidunmeSapradhAnatayA vyavahriyate kadAcinnimeSapradhAnatayA | tatazca yasya saMbandhinyAH svarUpanimeSAtmamaH kAryonmeSapradhAnAyAH zakterhetorjagato vizvasya zivAderdharaNyantasyodayo'bhedasAratAnimajjanasatattvo nAnAvaicitryazAlI bhedarUpaH sargaH svarUponmeSAtmanazca bAhyatAnimeSapradhAnAyAH zakterjagataH pralayo'bhedamayatodayAtmA vicitrabhedarUpatAsaMhAra iti pralayo'pyudayarUpa udayo'pi ca pralayarUpa iti vyAkhyeyam | vastutastu na kiMcidudeti vyayate vA kevalaM spandazaktireva bhagavatyakramApi tathAtathAbhAsarUpatayA sphurantyudetIva vyayata iva ceti darzayiSyAmaH | sthitivilayAnugrahANAM viziSTapralayodayarUpatvAnnAdhikyamiti pralayodayAbhyAmeva 6) paJcavidhaM pAramezvaryaM kRtyaM saMgRhItam | nirNItaM caivaMprAyaM [g: evaM prAgiti pAThaH |] mayaiva prathamasUtramAtravivaraNe spandasaMdohe | nanu zrImanmahArthadRSTyA sRSTyAdidevatAbhireva vicitrA jagataH pralayodayAH saMpAdyante tatkathametaduktaM yasyetyAdi ityAzaGkyAha taM zakticakravibhavaprabhavamiti | zaktInAM sRSTiraktAdimarIcidevInAM cakraM dvAdazAtmA samUhastasya yo vibhava udyogAvabhAsanacarvaNavilApanAtmA krIDADambarastasya prabhavaM hetum | etA hi devyaH zrImanmanthAnabhairavaM cakrezvaramAliGgya sarvadaiva jagatsargAdikrIDAM saMpAdayantItyAmnAyaH | atha ca kasmAtparamezvarasya jagatsargasaMhArAdihetutvamityAzaGkAyAmetadevottaraM [g: idamiti pAThaH |] zakticakreti | yAvaddhi kiMcidvizvaM saMbhavati tatprakAzamAnatvena prakAzamayatvAt svAminazcAtmasaMsthasya bhAvajAtasya bhAsanam | astyeva na vinA tasmAdicchAmarzaH pravartate || (I0 pra0 1|5|10) iti vipazcinnizcitanItyA paramezvarasyAntaH prakAzaikAtmyena prakAzamAnaM sthitaM sacchakticakramityucyate yataH paramezvarasyAgameSvanantazaktitvamuddhoSyate tasya zakticakrasyAbhAsaparamArthasya vizvasya yo vibhavaH parasparasaMyojanAviyojanAvaicitryamanantaprakAraM tasya prabhavaM kAraNam | sa eva hi bhagavAnvijJAnadehAtmakAnsvAtmaikAtmyena sthitAnvizvAnAbhAsAnanyonyaM nAnAvaicitryeNa saMyojayanviyojayaMzca vizvodayapralayahetuH | taduktaM [g: tadetaditi pAThaH |] zrIbhaTTakallaTena vijJAnadehAtmakasya zakticakraizvaryasyotpattihetutvam | ityetadvRttyakSarANAmatra vyAkhyAdvaye'pyAnurUpyam | api ca 7) zaktayo'sya jagatkRtsnam | ityAgamadRSTyA tasmAcchabdArthacintAsu na sAvasthA na yA zivaH | (2|4) itIhatyasthityA ca jagadAtmanaH tatkhecaryUrdhvamArgasthaM vyoma vAmezigocaram | iti rahasyanItyA ca vAmezvarIkhecarIgocarIdikcarIbhUcarIrUpasya mayaiva spandasandohe samyaGnirNItasya aprabuddhadhiyastvete svasthitisthaganodyatAH | (1|20) ityatrApi nirNeSyamANasyaitadvyAkhyAdvayavyAkhyAtazakticakraprapaJcabhUtasya ca yataH karaNavargo'yaM * * * * * * * * | (1| 6) iti sthityendriyagrAmAtmanaH tadAkramya balaM mantrAH * * * * * * * * | (2|1) iti nityamantrAtmanaH zabdarAzisamutthasya zaktivargasya * * * ? (3|13) iti nItyA [g: dRSTyeti pAThaH |] brAhmyAdidevatAsvabhAvasyaivamAderanantaprakArasyApi [g: anyeti pAThaH | ] mayaiva spandasandohe vitatya nirNItasya zakticakrasya yo vibhavo mAhAtmyaM tatra prabhavatIti prabhavaM svatantraM na tu pazuvatparatantram | zakticakrasya razmipuJjasya [g: svarazmicakrasyeti pAThaH |] yo vibhavo'ntarmukho vikAsastataH prabhava udayo'bhivyaktiryasyeti bahuvrIhiNA'ntarmukhatatsvarUpanibhAlanAdayatnena paramezvarasvarUpapratyabhijJAnaM bhavatItyarthaH | kiM ca yasya cidAnandaghanasyAtmana unmeSanimeSAbhyAM svarUponmIlananimIlanAbhyAM yadantastadbahiH iti yuktyA jagataH zarIrarUpasya tadanupaGgeNa 8) bAhyasyApi vizvasya pralayodayau yathAsaMkhyaM majjanonmajjane bhavatastaM zakticakravibhavasya parasaMviddevatAsphArasya prabhavaM bhaktibhAjAmetatsvarUpaprakAzakaM zaMkaraM stumaH | tathA yasya svAtmanaH saMbandhino bahirmukhatAprasararUpAdunmeSAjjagata udayo'ntarmukhatArUpAcca nimeSAtpralayastaM vizvasargAdikAryunmeSAdisvarUpasaMviddevImAhAtmyasya hetuM zaMkaraM stuma iti yathAsaMbhavamapi yojyam | dehAdyAviSTo'pi paramezvaraH karaNonmIlananimIlanAbhyAM rUpAdipaJcakamayasya jagataH sargasaMhArau karoti | yaduktaM rahasyatattvavidA tadevaM vyavahAre'pi prabhurdehAdimAvizan | bhAntamevAntararthaughamicchayA bhAsayedvahiH || (I0 pra0 1|6|7) iti | evaMvidhArthaparigrahAyApi yasya svAtantryazaktyA iti tyaktvA yasyonmeSanimeSAbhyAm iti nyarUpi guruNA | atra ca zaMkarastutiH samAvezarUpA prApyatvenAbhidheyA zakti cakravibhavAtprabhavo yasyeti bahuvrIhiNA zakticakravikAsastatprAptAvupAya uktaH zakticakravibhavasya parasaMviddevatAsphArasya bhaktibhAjAM prabhavaM prakAzakamiti tatpuruSeNa phalamuktam | yadvakSyati tatazcakrezvaro bhavet | (3|19) ityabhidheyopAyayorupAyopeyabhAvaH saMbandha ityabhidheyopAyasaMbandhaprayojanAnyanenaiva sUtreNa sUtritAni || 1 || nanvevaMbhUtazaMkarasvarUpasattAyAM kiM pramANaM kutazcopAdAnAdihetuM vinA jagadasau janayati tasyaivopAdAnatve mRtpiNDasyeva ghaTena jagatA tirodhAnaM kriyeta tirohitAtirohitatAyAM ca bhagavataH svabhAvabhedaH syAt punarunmajjane 9) ca hetuzcintyo jagadudaye ca dvaitaprasaGga ityetAH zaGkA ekaprahAreNApahartumAha yatra sthitamidaM sarvaM kAryaM yasmAcca nirgatam | tasyAnAvRtarUpatvAnna nirodho'sti kutracit || 2 || tasyAsya zaMkarAtmanaH prakAzAnandaghanasya svasvabhAvasya na kutraciddeze kAla AkAre vA nirodhaH prasaravyAghAto'sti anAvRtarUpatvAdasthagitasvabhAvatvAt | ayaM bhAvaH iha yatkiMcitprANapuryaSTakasukhanIlAdikaM citprakAzasyAvarakaM saMbhAvyate tadyadi na prakAzate na kiMcit prakAzamAnaM tu prakAzAtmakazaMkarasvarUpameveti kiM kasya nirodhakaM ko vA nirodhArthaH | etadeva tasyetyetadvizeSaNena yatretyAdinopapAdayati | yatra yasmiMzcidrUpe svAtmani idaM mAtRmAnameyAtmakaM sarvaM jagatkAryaM sthitaM yatprakAzena prakAzamAnaM satsthitiM labhate tasya kathaM tena nirodhaH zakyastannirodhe hi nirodhakAbhimatameva na cakAsyAdityAzayazeSaH [k: kiMcitsyAditi pAThaH |] | yathoktam tadAtmanaiva tasya syAtkathaM prANena yantraNA | (ajaDa pra0 23) ityajaDapramAtRsiddhau | nanUtpannasya sthityAtmA prakAzo bhavati utpattireva tvasya kuta ityAha yasmAcca nirgatamiti | smRtisvapnasaMkalpayoginirmANadRSTyA citaH svAnubhavasiddhaM jagatkAraNatvamujjhitvA apramANakamanupapannaM ca pradhAnaparamANvAdInAM na tatkalpayituM [kh: na tatkalpanamiti pAThaH |] yujyate | kAryapadena 10) cedameva dhvanitaM kartuH kriyayA niSpAdyaM hi kAryamucyate na tu jaDakAraNAnantarabhAvi jaDasya karaNatvAnupapatteH IzvarapratyabhijJoktanItyA [kh: nyAyAt iti pAThaH |] | bhaviSyati caitat avasthAyugalaM cAtra kAryakartRtvazabditam | [1|14] ityatra | sarvazabdenopAdAnAdinairapekSyaM karturdhvanitam | na ca kAryaM ghaTAdi kartuH kumbhakArAdeH kadAcitsvarUpaM tirodadhaddRSTam | nanu nirgatiravasthitasya bhavati tatkimetatkvacidAdAveva sthitaM nAnyatra sthitam api tu tatraiva cidAtmanItyAha yatra sthitamiti | AvRttyA caitadyojyam | ayamarthaH yadi cidAtmani jagadahaMprakAzAbhedena na bhavettatkathamupAdAnAdinirapekSaM tata udiyAt | yatastu yathA nyagrodhabIjasthaH zaktirUpo mahAdrumaH | tathA hRdayabIjasthaM jagadetacarAcaram || (pa0 trI 0 24) ityAmnAyasthityA svAminazcAtmasaMsthasya | (I0 pra0 1|5|10) iti pUrvoktayuktyA ca tatraitadabhedena sphuratsthitaM tato'yaM cidAtmA bhagavAnnijarasAzyAnatArUpaM jagadunmajjayatIti yujyate | evaM ca yatra sthitameva sadyasmAnnirgatamityatra yojanA jAtA | ca evArthe bhinnakramaH | nanu yadi tasmAtprakAzavapuSa idaM jaganniryAtaM tanna pratheta na hi prathAvAhyaM ca prathate ceti yuktamityAzaGkya yasmAnnirgatamapi sadyatra sthitamityAvRttyA saMgamanIyam | co'pyarthe bhinnakramaH | etaduktaM bhavati na prasevakAdivAkSoTAdi tattasmAnnirgatamapi tu sa eva bhagavAnsvasvAtantryAdanatiriktAmapyatiriktAmiva jagadrUpatAM 11) svabhittau darpaNanagaravatprakAzayansthitaH | nanu ca bhavatvevaM sargasthityavasthayorjagatAsyAniruddhatvaM saMhArAvasthayA tvabhAvAtmanA suSuptadezIyayA jagataH saMbandhinyA kathaM naitattirodhIyate nahi grAhyaM jagadvinA grAhakazcidAtmA kazcidityAvRttyaitadevottaraM yasmAnnirgatamapi sadyatraiva sthitamutpannamapi jagatsaMhArAvasthAyAM tadaikAtmyenaivAste na tvasyAnyaH kazciducchedaH zUnyarUpastasya vakSyamANayuktyA prakAzaM bhittibhUtaM vinAnupapatterityarthaH | yathoktaM zrIsvacchandazAstre azUnyaM zUnyamityuktaM zUnyaM cAbhAva ucyate | devyabhAvaH sa vijJeyo yatra bhAvAH kSayaM gatAH || [4|292] iti | evaM sarvaM yasya kAryaM yatprakAzenaiva prakAzate saMhRtamapi ca sadyatprakAzaikAtmyena tiSThati na tasya dezakAlAkArAdi kiMcinnirodhakaM yujyate iti vyApakaM nityaM vizvazaktisvacitaM [kh: AvRttyA iti pAThaH | ] svaprakAzamAdisiddhaM caitattattvamiti nAsya siddhAvajJAtArthaprakAzarUpaM pramANavarAkamupapadyata upayujyate saMbhavati vA pratyutaitattattvasiddhyadhInA pramANAdivizvavastusiddhiH | taduktamasmadgurubhistatrAloke pramANAnyapi ? vastUnAM jIvitaM yAni tanvate | teSAmapi paro jIvaH sa eva paramezvaraH || (taM0 1 A0 55 zlo0) iti | yasmAnnirgatamapIdaM jagadyatra sthitaM yatprakAzena prakAzamAnaM tathAbhUtamapi yatra sthitaM yatprakAzaikarUpaM yatprakAza eva yasya siddhyai tyakSeNekSyamANaM bhavati na tvanyajjagannAma kiMcit | atra yatra sthitamityAvartya dviryojyam | evaM ca svAnubhavasiddhamevAsya tattvasya sRSTisthitisaMhAramelanAvabhAsino'tidurghaTakAriNaH 12) sarvadA sarvatrAniruddhatvam | yathoktaM zrImadutpaladevAcAryaiH paramezvaratA jayatyapUrvA tava sarveza yadIzitavyazUnyA | aparApi tathaiva te yayedaM jagadAbhAti yathA tathA na bhAti || (u0 sto0 16| 30) iti | atra hi bhAsamAnameva jagadbhAsanaikazeSIbhUtatvAdbhAsanAtiriktaM na kiMcidbhAtItyarthaH | kiM ca yatra sthitamityuktyopazamapade yasmAcca nirgatamiti prasarapade yato'sya na nirodhastato nimIlanonmIlanasamAdhidvaye'pi yoginA svasvabhAvasamAvezapareNaiva bhavitavyam | yadvakSyate yadA kSobhaH pralIyeta tadA syAtparamaM padam | [1|9] iti | tathA tasmAcchabdArthacintAsu na sAvasthA na yA zivaH | [2|4] ityapi ca | kutracidanAtmavAdini saugatAdau pramAtari kutracicca bAdhakAbhimate pramANe sati na tasya nirodhaH pratiSedho'sti yato yastasya pratiSedhako yacca tasya pratiSedhakaM pramANaM tadyadi na siddhamabhittikametaccitraM siddhizcAsya prakAzate iti [k, kh: ataditi pAThaH |] tatsiddhyaiva bhagavAnAdisiddhasvaprakAzamUrtirastItyetatpratiSedhAyoditenApyanakSara- न तु योऽन्तर्मुखो भावः । [१।१६] इत्यत्रान्तरे । एवं चानेन विश्वोत्तीर्णं विश्वमयं विश्वसर्गसंहारादिकारि शांकरं स्वस्वभावात्मकं तत्त्वमित्यभिदधता सर्वेषु पारमेश्वरेषु यदुपास्यं तदितः स्पन्दतत्त्वान्नाधिकं केवलमेतत्स्वातन्त्र्यवशेनैव तदुपासावैचित्र्यमाभास्यते । १३) वस्तुतस्तु एतद्वीर्यसारमेवाशेषम् । यद्वक्ष्यति तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः । [२।१] इत्येतदपि भङ्ग्या प्रतिपादितम् । एवं च न कश्चिदुक्तचोद्यावकाशः । एवमेतादृशेषु चिन्तारत्नप्रायेषु श्रीस्पन्दसूत्रेषु यदन्यैः सर्वैर्विवृतिकृद्भिर्व्याख्यायि [ख्: वृत्तिकृद्भिरिति पाठः ।] यच्चास्माभिः किंचिद्व्याक्रियते तत्रान्तरममत्सरा अनवलिप्ताश्च स्वयमेव विचिन्वन्तु सचेतसो न तु तदस्माभिरुद्धाट्य प्रतिपदं प्रदर्श्यते ग्रन्थगौरवापत्तेः ॥ २ ॥ ननु जागरादिदशास्वीदृशः स्वभावो नानुभूयते यदि चायमुक्तयुक्तिभिर्न केनचित् निरुध्यते तत् जागराद्यवस्थासु स्वयमेव निरोत्स्यते इति शङ्कात उक्तमप्यर्थमप्रतिपद्यमानं प्रतिबोधयन्नुपदिशति जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ॥ ३ ॥ जागरापरपर्यायो जाग्रच्छब्दः शिष्टप्रयुक्तत्वात् । लोकप्रसिद्धे जाग्रत्स्वप्नसुषुप्तानां भेदे योगिप्रसिद्धेऽपि वा धारणाध्यानसमाधिरूपे प्रसर्पति अन्यान्यरूपे प्रवहति सति अर्थात् तत्तत्त्वं निजादनपायिनः सर्वस्यात्मभूताच्चानुभवितृरूपात्स्वभावान्नैव निवर्तते । यदि हि स्वयं निवर्तेत तज्जाग्रदाद्यपि तत्प्रकाशविनाकृतं न किंचित्प्रकाशेत् । उपलब्धृता चैतदीया जागरास्वप्नयोः सर्वस्य स्वसंवेदनसिद्धा १४) सौषुप्ते यद्यपि सा तथा न चेत्यते तथाप्यौत्तरकालिकस्मृत्यन्यथानुपपत्त्या सिद्धा उपलब्धृत एव च स्वभावान्न निवर्तते उपलभ्यं त्ववस्थादि तन्माहात्म्यान्निवर्ततां कामं कात्र क्षतिः । एवकारोऽप्यर्थे भिन्नक्रमस्तदभावेऽपि न निवर्तत इत्यर्थः । जागरादिविभेदस्य विशेषणद्वारेण हेतुस्तदभिन्ने इति तस्माच्छिवस्वभावादभेदेन प्रकाशमानत्वात्प्रकाशरूपे इत्यर्थः । यच्च यदेकात्मकं तत्कथं तन्निवृत्ताववतिष्ठते । यद्वा तदिति कर्तृपदम् । अभिन्न इति तु केवलमभिन्नत्वं जागरादेः शिवापेक्षमेव । अर्थात्तत्तत्त्वं जागरादिभेदेऽपि सति प्रसर्पति प्रसरति वैचित्र्यं गृह्णाति तन्नैव स्वभावान्निवर्तत इति योज्यम् । किंचायं जाग्रदादिभेदः परिणामो विवर्तो वेति यत्सांख्यपाञ्चरात्रशाब्दिकादयो मन्यन्ते तद्व्युदासायाप्युक्तं तदभिन्न इति । अवस्थाप्रपञ्चोऽपि यदि चिन्मात्रात्परिणामतया मनागप्यतिरिच्येत चिद्रूपं वा तत्परिणतौ मनागतिरिच्येत [क्, ग्: रिक्तमिति पाठः ।] तन्न किंचिच्चकास्यादिति तावन्न परिणामोऽस्ति । यथोक्तम् परिणामोऽचेतनस्य चेतनस्य न युज्यते । इति श्रीकिरणे । न च भासमानोऽसावसत्यो ब्रह्मतत्त्वस्यापि तथात्वापत्तेः इत्यसत्यविभक्तान्यरूपोपग्राहिता विवर्त इत्यपि न सङ्गतम् । अनेन चातिदुर्घटकारित्वमेव भगवतो ध्वनितम् । यस्माज्जागरादिविभेदं च प्रकाशयति तत्रैव च स्वाभेदमिति भेदात्मना तदभेदात्मनोभयात्मना [ग्: उभयमेखनात्मनेति पाठः ।] च रूपेणापरापरापरापराशक्तित्रयस्वरूपेण स्फुरतीत्यनुत्तरषडर्धतत्त्वात्मतया १५) भगवानेव स्फुरति । अतश्च जागरादिदशावस्थितोऽपि एवमिमं स्वस्वभावं परिशीलयन् यश्चिनुते स शंकर एवेत्युपदिष्टं भवति ॥ ३ ॥ अथ ये एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं [ख्: विश्रान्तमिति पाठः ।] पश्याम इत्युक्त्या ज्ञानसन्तान एव तत्त्वमिति सौगता मन्यन्ते ये चाहंप्रतीतिप्रत्येयः सदैव सुखाद्युपाधितिरस्कृत आत्मेति मीमांसकाः प्रतिपन्नास्तानेकेनैव श्लोकेनापवदति अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः । सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्र ताः स्फुटम् ॥ ४ ॥ य एवाहं सुखी स एव दुःखी सुखानुशायिना रागेण युक्तत्वाद्रक्तो दुःखानुशायिना द्वेषेण संबन्धाद्द्विष्टश्चेत्यादयः [क्, ख्: द्वेष्ठेति पाठः ।] संविदो ज्ञानानि ता अन्यत्रेति अवस्थातर्यात्मतत्त्वे वर्तन्ते तत्रैवान्तर्मुखे विश्राम्यन्ति स्फुटं स्वसाक्षिकं कृत्वा । अन्यथा क्षणिकज्ञानानां स्वात्ममात्रक्षीणत्वात्तत्संस्कारजन्मनामपि विकल्पानामनुभवागोचरे प्रवृत्त्यभावादनुसंधानमिदं न धटेत । चकारास्तुल्ययोगितापरा अनुसंधानं द्योतयन्ति । कीदृशेऽन्यत्र सुखाद्यवस्था उदयप्रलयिन्योऽनुस्यूता दृब्धा यस्मिंस्तस्मिन् सुखाद्यवस्थानुस्यूतेऽन्तः स्रक्सूत्रकल्पतया स्थिते । ता इत्यनेनानुसंधीयमानावस्थानां १६) स्मर्यमाणतामभिदधत्क्षणिकज्ञानवादिमतेऽनुभवसंस्कारोत्पन्नत्- tvanubhavAnubhUtAtItakAlArthavyavasthApakatvaM ghaTate sarvasaMvidantarmukhe tu pramAtari sati sarvaM yujyata iti sUcitavAn ityalaM sukumArahRdayopadezyajanavairasyadAyinIbhirAbhiH kathAbhiH | etadarthibhiH pratyabhijJA parIkSyA | granthakRtaiva tu yata iha yuktirAsUtritA tato'smAbhiH kiMciduddhATitamiti [g: etaditi pAThaH |] sacetobhirnAsmabhyamasUyayitavyam | mImAMsakaparihArAya tu etaditthaM vyAkhyAtavyam | ahaM sukhItyAdisaMvido yAstA anyatreti puryaSTakasvarUpe pramAtari sukhAdyavasthAbhiranusyUte otaprotarUpe sphuTaM lokapratItisAkSikaM vartante tiSThanti na tvasmadabhyupagate'smiMzcidAnandaghane zaMkarAtmani svasvabhAve iti na sarvadA sukhAdyupAdhitiraskRto'yamAtmApi tu cinmayaH | yadA tu nijAzuddhyA vakSyamANayAyaM svasvarUpaM gUhayitvA tiSThati tadA puryaSTakAdyavasthAyAM sukhitvAdirUpatAsya tatrApi na nirodhastaiH sukhAdibhirasyetyuktameveti na tattiraskRto'yaM kadAcidapi | ahaM kRzo'haM sthUla ityAdipratItiparihAreNa ahaM sukhI duHkhItyAdi vadato'yamAzayaH sukhitvAdipratItisaMbhinnAM puryaSTakabhUmimantarmukhe pade nimaJjayaMstadanuSaGgeNa bAhyasyApi dehaghaTAdergalanAtpratyabhijAnAtyeva svaM zivasvabhAvatvamiti sarvathA puryaSTakazamanAyaiva yatna Astheya iti || 4 || uktopapattisiddhAM samastavAdAnAmanupapannatAmanuvadannupapattisiddhaM spandatattvamevAstIti pratijAnAti yuktyanubhavAgamajJo rahasyagurupravaraH 17) na duHkhaM na sukhaM yatra na grAhyaM grAhakaM na ca | na cAsti mUDhabhAvo'pi tadasti paramArthataH || 5 || iha yatkiMcidduHkhasukhAdyAntaraM nIlapItAdikaM bAhyaM grAhyaM yaccaitadvrAhakaM puryaSTakazarIrendriyAdi tattAvatsauSuptavadasaMcetyamAnaM sphuTameva nAstIti vaktuM zakyam | yadApi tu saMcetyate tadA saMcetyamAnasyApyasya caitanyamayatvAcaitanyamevAstItyAyAtam | yadAhuH prakAzAtmA prakAzyo'rtho nAprakAzazca sidhyati | (I0 pra0 1|5|3) iti rahasyatattvavido'smatparameSThinaH zrImadutpaladevapAdAH zrImadIzvarapratyabhijJAyAm | ihApi vakSyate tatsaMvedanarUpeNa tAdAtmyapratipattitaH (2|3) ityato duHkhasukhAdi nIlAdi tadvrAhakaM ca yatra nAsti tatprakAzaikaghanaM tattvamasti | nanvevaM sarvagrAhyagrAhakocchede zUnyAtmaiva tattvamityAyAtaM netyAha na cAsti mUDhabhAvo'pi iti | mUDhabhAvo mUDhatvaM zUnyarUpatApi yatra nAsti so'pi hi na prathate kathamasti prathate cettahiM prathAtmakatvAnnAsau kazcitprathaivAsti na ca prathAyAH kadAcidabhAvo bhavati tadabhAve prathAbhAvasyApyasiddheH | bhaviSyati caitat na tu So'ntarmukho bhAvaH | (1|16) ityatra | api ca mUDhabhAva aizvaryAtmakavimarzazUnyaprakAzamAtratattvo brahmarUpo'pi yatra nAsti yacchrutyantavidaH 18) pratipannAH vijJAnaM brahma iti tasyApi svAtantryAtmakaspandazaktiM vinA jaDatvAt | yathoktaM pratyabhijJAyAm svabhAvamavabhAsasya vimarzaM viduranyathA | prakAzo'rthoparakto'pi sphaTikAdijaDopamaH || (I0 pra0 1|5|11) iti | bhaTTanAyakastotre'pi napuMsakamidaM nAtha paraM brahma phaletkiyat | tvatpauruSI niyoktrI cenna syAttvadbhaktisundarI || iti | evaM ca yatra sthitam ityataH prabhRti yattattvaM vicAritaM tadevAsti taccAstyeva paramArthato yuktyanubhavAgamasiddhena rUpeNa paramArthata eva cAkalpitena pUrNena rUpeNAsti na tu nIlAdivatkalpitena | yathoktaM mahAgurubhiH evamAtmanyasatkalpAH prakAzasyaiva santyamI | jaDAH prakAza evAsti svAtmanaH svaparAtmabhiH || (ajaDapra0 13) iti | tatrabhavadbhartRhariNApi yadAdau ca yadante ca yanmadhye tasya satyatA | na yadAbhAsate tasya satyatvaM tAvadeva hi || iti | sAvadhAraNatvAtsarvavAkyAnAmevakAro'tra triryojyaH | evamanena sUtreNa sukhAdyAkArasaMvitsaMtAnavAdinAM sukhAdikaluSitapramAtRtattvAdinAM grAhyagrAhakanAnAtvavAdinAM sarveSAmabhAvavAdinAM niSparAmarzaprakAzabrahmavAdinAM [kh: brahmatattvapAdinAmiti pAThaH | ] ca matamanupapannatvAdasattvenAnUdya pAramArthikaM spandazaktirUpameva tattvamastIti pratijJAtam | atha ca yasminnasmin sopadezasAvadhAnamahAnubhAvaparizIlye sphurattAsAre spandatattve sphurati duHkhasukhagrAhyagrAhakatadabhAvAdikamidaM sadapi na kiMcideva sarvasyaitaccamatkAraikasAratvAttadevaitadastItyupadiSTam | yanmahAguravaH 19) duHkhAnyapi sukhAyante viSamapyamRtAyate | mokSAyate ca saMsAro yatra mArgaH sa zAGkaraH || (u0 sto0 | 20|12) iti | zAMkaro mArgaH zaMkarAtmasvabhAvaprAptihetuH parAzaktirUpaH prasaraH || 5 || evamupapattiparighaTitatattvapratyabhijJAnAya sAbhijJAnamupAyaM nirUpayati yataH karaNavargo'yaM vimUDho'mUDhavatsvayam | sahAntareNa cakreNa pravRttisthitisaMhRtIH || 6 || labhate tatprayatnena parIkSyaM tattvamAdarAt | yataH svatantratA tasya sarvatreyamakRtrimA || 7 || tannirNItaM tattvamAdarAt zraddhayA prayatnena ca udyamo bhairavaH (1|5) iti zivasUtrapratipAditena sarvabhedopasaMhArAtmanA nijaujovRttisphAraNarUpeNa paripUrNAntarmukhasvarUpasevanAtmanA bhairavarUpeNodyamena parIkSyam | yata iyamiti sarvasya svasaMviditA tasya zaMkarAtmanaH svasvabhAvasyAkRtrimA sahajA spandatattvarUpA svatantratA sarvatra jaDAjaDaviSaye sphurantI sthiteti zeSaH | kiM tattattvamityAha yata ityAdi labhata ityantam | 20) ayamiti lokaprasiddho golakAdirUpo na tu zAstritastasya nityaparokSatvenAyamiti nirdezAbhAvAt karaNavargastrayodazendriyANi vizeSeNa mUDho mAyAvazAjjaDAbhAsIbhUto'NormUDhAdapyadhikaM mUDhatvaM prApto'mUDhavaccetanavatsvayaM pravRttisthitisaMhRtIrlabhate viSayonmukhI bhavati tatra rajyate tatazca nivartata ityarthaH | kathaM sahAntareNa cakreNa ihAntaraM cakraM karaNezvaryo nAntaH karaNAni teSAM vargazabdena svIkArAt na vakSyamANaM puryaSTakaM tatsthasyAntaH karaNatrayasya vargazabdenaiva gRhItatvAt tanmAtrANAM ca vAsanAmAtrarUpANAmupadezyamayoginaM prati sAkSAtpravRttyAdikartRtvenAsiddhe yoginastu sAkSAtkRtatanmAtrasya svayameva paratattvaparizIlanAvahitasyopadezyatvAbhAvAt tasmAdetadekIyamatamasat | vimUDho'mUDhavadityanena karaNavarga eva saMbandhyo natvAntaramapi karaNezvarIcakraM tasya ciccamatkArarUpatvAt | evamabhidadhAnasyAyamAzayaH yadayaM zaMkarAtmA svasvabhAvo'tidurghaTakAriNaH svAtantryAdyugapadeva saMvittisAraM ca karaNezvarIcakraM jaDAbhAsarUpaM ca karaNavargamekatayaiva nirbhAsayan pravRttisthitisaMhRtIH kArayati yena bhagavatyaH karaNezvaryo yathA tattadbhAvasRSTyAdi vidadhati tathA karaNavargo jaDo'pi tatkArIva lakSyate | yadyapi rahasyadRSTau na kazcijjaDaH karaNavargo'sti apitu vijJAnadehAH karaNezvarya eva vijRmbhante tathApIha suprasiddhapratItyanusAreNopadezyaH krameNa rahasyArthopadeze'nupravezya ityevamuktam | evaM ca golakAdirUpakaraNavargapravRttyAdikrameNa tadadhiSThAtRrUpaM nijamarIcicakraM cinvAnenaiva tadubhayapracodakaM zrImacchaGkarAtmakaM 21) svasvarUpaM parIkSaNIyaM yatastatprAptau tadIyAkRtrimA svatantratAsya [kh: svatantraH sarvatrAsyeti pAThaH |] yoginaH syAdityapyanenaivoktaM bhavati | tadetadeva parIkSaNArhaM paramopAdeyatvAde tadeva ca parIkSituM zakyamuktayuktyA sukhopAyatvAt ata evAdareNAbhilaSitaviSayopabhogAnirodhAtmanA bahumAnena | atra parIkSaNasyehatyopadezAnusAreNa prAptakAlatA | yathoktaM rahasyagurubhiH nijanijeSu padeSu pratantvimAH karaNavRttaya ullasitA mama | kSaNamapIza manAgapi maiva bhUttvadavibhedarasakSati sAhasam || (u0 sto0 8| 7) iti | parIkSyamityarhe zakye prAptakAlatAyAM praiSAdau ca kRtyaH | atha ca jaDaH karaNavargo yadbalAdamUDhavatpravRttyAdi labhate iti sarvasyAnubhavasAkSikamabhidadhadindriyAdicaitanyavAdicArvAkapata- अथ कथमुक्तं ततस्तत्त्वाच्चेतनतामिवासाद्येन्द्रियाणि स्वयं प्रवृत्त्यादि लभन्त इति यावतायमेव ग्राहक इच्छया दात्रादीनीव करणानि प्रेरयति । यदप्युक्तं तत्तत्त्वं प्रयत्नेन परीक्ष्यम् इति तदपि कथं यतोऽस्माकमिच्छा वहिरेवानुधावति न तु तत्त्वपरीक्षायां प्रवर्तितुमुत्सहत इत्याशङ्क्याह न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते । अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ॥ ८ ॥ २२) अयं लौकिकः पुरुष इच्छैव नोदनं प्रतोदस्तस्य प्रेरकत्वेन करणप्रवर्तनार्थव्यापारणाय यस्मान्न प्रवर्तते अपि तु आत्मनश्चिद्रूपस्य यद्बलं स्पन्दतत्त्वात्मकं तत्स्पर्शात्तत्कृतात्कियन्मात्रादावेशात्तत्समो भवेत् अहन्तारसविप्रुडभिषेकादचेतनोऽपि चेतनतामासादयत्येव । ततस्तत्तत्त्वं न केवलं करणानि यावत्तत्प्रेरकत्वेन शङ्कितं कल्पितमपि प्रमातारं चेतनीकृत्य स्वयं प्रवृत्त्यादिपात्रं करोति येनास्यायमभिमानोऽहं करणानि प्रेरयामीति । स्पन्दतत्त्वानुवेधं विनापि तु स एव न किंचिदिति करणानां ग्राहकस्य च स्वरश्मिचक्रप्रसरानुवेधेन चेतनीभावापादकं तत्त्वं परीक्ष्यमिति युक्तमेव । यदि पुनरिच्छाख्येन प्रतोदरूपेण करणान्तरेण करणानि प्रेरयेत् तदपीच्छाख्यं करणं प्रेर्यत्वात्करणान्तरं स्वप्रेरणायापेक्षेत तदप्यन्यदित्यनवस्था स्यात् । यत्तूक्तम् अस्माकमिच्छा न तत्र प्रवर्तितुमुत्सहते इति तत्राप्याद्यं श्लोकार्धमभ्युपगमेन परं तूत्तरतया योज्यम् । सत्यं नायं पुरुषस्तत्त्वपरीक्षार्थमिच्छां प्रवर्तयितुं शक्नोति नेच्छया तत्त्वं विषयीकर्तुं क्षमस्तस्याविकल्प्यत्वादपि तु विषयाननुधावन्तीमिच्छां तदुपभोगपुरःसरं प्रशमय्य यदा त्वन्तर्मुखमात्मबलं स्पन्दतत्त्वं स्वकरणानां च चेतनावहं स्पृशति तदा तत्समो भवेत् तत्समावेशात्तद्वत्सर्वत्र स्वतन्त्रतामासादयत्येव यस्मादेवं तस्मात्तत्त्वं परीक्ष्यमित्यर्थः । शक्तिभूमेः स्पर्शप्रधानत्वादात्मबलस्पर्शादित्युक्तम् ॥ ८ ॥ ननु चायं क्षेत्री परमेश्वरमयोऽपि किं न सदा पारिपूर्ण्येन स्फुरति कस्मादन्तर्मुखात्मबलस्पर्शमपेक्षत इत्याशङ्क्याह २३) निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः । यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥ ९ ॥ निजा स्वात्मीया स्वस्वातन्त्र्योल्लासिता येयं स्वरूपाविमर्शस्वभावा इच्छाशक्तिः संकुचिता सत्यपूर्णम्मन्यतारूपा अशुद्धिराणवं मलं तन्मलोत्थितकञ्चुकपञ्चकाबिलत्वात् ज्ञानशक्तिः क्रमेण भेदसर्वज्ञत्वकिंचिज्ज्ञत्वान्तः करणबुद्धीन्द्रियतापत्तिपूर्वमत्यन्तं संकोचग्रहणेन भिन्नवेद्यप्रथारूपं मायीयं मलमशुद्धिरेव क्रियाशक्तिः क्रमेण भेदसर्वकर्तृत्वकिंचित्कर्तृत्वकर्मेन्द्रियरूपसंकोचग्रहणपूर्वमत्यन्त ं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं मलमप्यशुद्धिः तयासमर्थस्य पूर्णज्ञत्वकर्तृत्वविकलस्य तत एव कर्तव्येषु लौकिकशास्त्रीयानुष्ठानेष्वभिलाषिणोऽभीष्टानवाप्तेर्नित्यमभिलाष- uktavakSyamANopapattyanubhavAvaSTambhato'bhilASavivazagrAhakA- अनात्मन्यात्माभिमाननिवृत्तिपुरःसरमात्मन्यनात्माभिमानोपशान्ति- pratyabhijJAviSayatAM yAyAdityarthaH | na tu tadaiva bhavati tasya nityatvAt | uktaM ca vijJAnabhairave mAnasaM cetanA zaktirAtmA ceti catuSTayam | yadA priye parikSINaM tadA tadbhairavaM vapuH || (zlo0 138) 24) iti | nijAzuddhizabdena malaM nAma dravyaM pRthagbhUtamastIti ye pratipannAste dUSyatvena kaTAkSitAH || 9 || nanu ca grAhakAhaMbhAvAtmani kSobhe kSINe nistaraGgajaladhiprakhyamaspandameva tattvaM prasaktamityAzaGkAM zamayati tadAsyAkRtrimo dharmo jJatvakartRtvalakSaNaH | yatastadepsitaM sarvaM jAnAti ca karoti ca || 10 || tadetyupadezyApekSayA akRtrimaH sahajo dharmaH prAGnirdiSTasvatantratArUpaH paramezvarasvabhAvo jJatvakartRtve sAmarasyAvasthitaprakAzAnandAtmanI jJAnakriye lakSaNamavyabhicArisvarUpaM yasya tAdRk tadA kSobhopazame'sya puruSasya syAdabhivyajyata ityarthaH | kuta etadabhivyajyata ityAha yatastadA paramapadapravezasamaye sarvamIpsitamiti yadyajjijJAsitaM cikIrSitaM vAsya tatpravivikSAyAmabhUt tattajjAnAti ca karoti ca | cakArAvatra yaugapadyamAhatuH na tu yathaike cakArAbhyAM jJAnakriyayoraikAtmyaM sUcayatIti taddhi jJatvakartRtvalakSaNa ityanenaivaikadharmavizeSaNena saMbandhinirdezena vAstavasvarUpAbhidhAyinoktam || 10 || atha yataH karaNeti nijAzuddhIti sUtrapratipAditonmeSakramasamAdhAnasAkSAtkRtasya spandatattvasya dRDhAvaSTambhAdvyutthAnamapi samAdhyekarasaM kurvato bhavocchedo bhavatItyAha tamadhiSThAtRbhAvena svabhAvamavalokayan | 25) smayamAna ivAste yastasyeyaM kusRtiH kutaH || 11 || uktopapattyupalabdhyanuzIlanapratyabhijJAtaM taM spandatattvAtmakaM svabhAvamAtmIyamadhiSThAtRbhAvena vyutthAnadazAyAmapi vyApnuvantamavalokayaMzcinvAnaH na vrajenna vizecchaktirmarudrUpA vikAsite | nirvikalpatayA madhye tayA bhairavarUpadhRk || (vi0 bhai0 26) iti tathA sarvAH zaktIzcetasA darzanAdyAH sve sve vedye yaugapadyena viSvak | kSiptvA madhye hATakastambhabhUtastiSThanvizvAkAra eko'vabhAsi [kh: vibhAtIti pAThaH |] || iti zrIvijJAnabhairavakakSyAstotranirdiSTasaMpradAyayuktyA nimIlanonmIlanasamAdhinA yugapadvyApakamadhyabhUmyavaSTambhAdadhyAsitaitadubhayavisargAraNi- अन्तर्लक्ष्यो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः । इयं सा भैरवी मुद्रा सर्वतन्त्रेषु गोपिता ॥ इत्याम्नातभगवद्भैरवमुद्रानुप्रविष्टो मुकुरान्तर्निमज्जदुन्मज्जन्नानाप्रतिबिम्बकदम्बकल्पमनल्पं भावराशिं चिदाकाश एवोदितमपि तत्रैव विलीयमानं पश्यन् जन्मसहस्रापूर्वपरमानन्दघनलोकोत्तरस्वस्वरूपप्रत्यभिज्ञानात् झटिति त्रुटितसकलवृत्तिः स्मयमानो विस्मयमुद्रानुप्रविष्ट इव महाविकासासादनाच्च सहसैव समुदितसमुचिततात्त्विकस्वभावो २६) यो योगीन्द्र आस्ते तिष्ठति न त्ववष्टम्भाच्छिथिलीभवति तस्येयमिति सकलजगत्कम्पकारिणी कुत्सिता जननमरणादिप्रबन्धरूपा सृतिः प्रवृत्तिः कुतो निजाशुद्धिलक्षणस्य तद्धेतोरभावान्नैव भवतीत्यर्थः । यथोक्तं श्रीपूर्वशास्त्रे तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि । नैव संस्पृश्यते दोषैः पद्मपत्रमिवाम्भसा ॥ विषापहारिमन्त्रादिसन्नद्धो भक्षयन्नपि । विषं न मुह्यते तेन तद्वद्योगी महामतिः ॥ (मा० वि० १८।१२०) इति ॥ ११ ॥ अथ ये श्रुत्यन्तविदक्षपादमाध्यमिकादयः क्षोभप्रलये विश्वोच्छेदरूपमभावात्मकमेव तत्त्वमवशिष्यत इत्युपादिक्षन् तान्प्रतिबोधयितुं तदुपगततत्त्वप्रातिपक्ष्येण लोकोत्तरतां प्रकरणशरीरस्य स्पन्दतत्त्वस्य निरूपयति नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ॥ १२ ॥ अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ॥ १३ ॥ २७) असदेवदमप्र आसीत् । [छा० ३।१९।१] इत्याद्युक्त्या श्रुत्यन्तविदाद्यभिमतोऽभावो भाव्यतां नैति भावनाया भाव्यवस्तुविषयत्वादभावस्य न किंचित्त्वाद्भाव्यमानतायां वा किंचित्त्वे सत्यभावत्वाभावात् किंच भावकस्यापि यत्राभावः स विश्वोच्छेदः कथं भावनीयः भावकाभ्युपगमे तु न विश्वोच्छेदो भावकस्यावशिष्यमाणत्वादिति न विश्वाभाव एव तत्त्वम् । अथ कल्पितोऽयं भावको विश्वोच्छेदं विकल्पकल्प्यमानं भावयन् भावनापरिनिष्पत्तौ भाव्यतादात्म्यादभावरूपः संपद्यत इति पक्षः । तत्रोच्यते तत्राभावभावनायां नामूढता न च तत्रास्त्यमूढता अपि तु मोह एवास्ति भावनापरिनिष्पत्तौ तत्स्फुटं कल्पधीफलम् ॥ इति न्यायाद्विश्वोच्छेदात्मन्यभावे भाव्यमाने न कदाचित्परमार्थाप्तिर्भवति । अथोच्यते सर्वालम्बनधर्मैश्च सर्वतत्त्वैरशेषतः । सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥ इति नागार्जुनोक्तमीदृशं तच्छून्यमिति । सत्यं यदि चिदानन्दघना स्वतन्त्रा पारमार्थिकी भित्तिभूता भूरभ्युपेयते यथा विज्ञानभैरवादौ पारमेश्वरीं दिक्कालकलनातीता । (वि० भै० १४) इत्यादिना पारमार्थिकीं भित्तिभूतां चिद्भूमिमवस्थाप्य शून्यभावनोक्ता अन्यथा न शून्यमिति शून्यैवेयमुक्तिः यद्य देवातिभाष्यते इति प्रतिपादितत्वात् । यत्तु २८) सावस्था काप्यविज्ञेया मादृशां शून्यतोच्यते । न पुनर्लोकरूढ्येव नास्तिक्यार्थानुपातिनी ॥ इत्यालोकमालायामुक्तं तत्तु सत्यं त्वादृशामविज्ञेया अविज्ञेयत्वाद्वक्तुमशक्येत्युच्यतां शून्यतेति तु कुतः शून्यतापि च यावद्भाव्यते तावद्विकल्पोल्लिखितत्वादसौ विवेज्ञैय । यदि च त्वादृशां सा ज्ञातुमशक्या तत् तत्पदसाक्षात्काराभिज्ञसद्गुरुसपर्या कार्या न तु शून्यतेति स्वमनीषिकयैव व्यवहृत्यात्मा परश्चागाधे महामोहे निक्षेप्तव्य इत्यलम् । अथ कुतो ज्ञातं तत्र मूढतास्तीत्यत्रानेनोत्तरमाह यत इति । अभियोगः समाधानोत्थितस्य कीदृगहमासमिति तदवस्थाभिमुखविमर्शात्माभिलापस्तत्संस्पर्शात् तद्वशाद्धेतोस्तदासीदिति यतो निश्चयः गाढमूढोऽहमासम् इति यतोऽस्ति प्रतिपत्तिः अतो मोहावस्थैव सा कल्पिता तथा स्मर्यमाणत्वात् सा चानुभूयमानत्वादनुभवितुः प्रमातुरवस्थातृरूपस्य प्रत्युत सत्तामावेदयते न त्वभावमिति विश्वाभावावस्थायां चिद्रूपस्याखण्डितमेव रूपं तिष्ठतीति नामुष्याभावो जातुचिद्वक्तुं शक्यत इत्युक्तं भवति । ननु दृष्टं निश्चितं नीलादि स्मर्यते न च शून्यभूतस्य न्यग्भूतबुद्धिवृत्तेर्निश्चयोऽस्ति तत्कथमुक्तं तदासीदित्यौत्तरकालिकान्निश्चयान्मूढता सेति । उच्यते वेद्यस्यैषा गतिः यस्मात्तदिदन्तासारमिदन्तया यावत्प्रमात्रा स्वात्मोपारोहेण न निश्चितं तावन्न स्मर्यते वेदकस्तु कल्पितशून्याद्यवस्थासु संकुचितोऽप्यसांकेतिकाहन्तापरमार्थ एवेति न तस्य स्वात्मनि पृथक्तास्तीति तन्निश्चायको विकल्पः इत्यहंविमृश्यमेव तदा स्वसंवेदनेनैव सिद्धं शून्यप्रमातृरूपं विश्वप्रतियोगित्वाच्च संकोचसारं २९) सदुत्तरकालं स्मर्यत इति न काचिदनुपपत्तिर्यस्मादेवमतस्तच्छून्यात्मकं पदं कृत्रिमम् तस्माद्भूतमभूतं वा यद्यदेवातिभाष्यते । इति तदुक्तयैव [क्, ख्: एतदिति पाठः ।] नीत्या अभूतभावनयैवोत्थापितं परमेश्वरेणैव ज्ञानगोपनायै मूढानामुपेयतया तथा भासितमित्यर्थः । ज्ञेयं ज्ञातव्यं ज्ञेयरूपं च सदा सुषुप्तवदिति दृष्टान्तः । अयं भावः सदा सुषुप्तं मोहरूपमप्रयाससिद्धं सर्वस्यास्त्येव तत्किमनेन समाधिप्रयत्नोपार्जितेनान्येन शून्येन कृत्यं द्वयस्याप्यवस्तुत्वाविशेषादिति । प्रायश्चास्मिन् शून्ये दुरुत्तरे महामोहार्णव एव वेदान्तविदक्षपादसांख्यसौगतादिप्राया वहवोऽनुप्रविष्टाः । स्पन्दतत्त्वसमाविविक्षूणामपि च शिथिलीभूतप्रयत्नानां शून्यमेतद्विघ्नभूतम् । यद्वक्ष्यति तदा तस्मिन्महाष्योम्नि । (१।२५) इत्यारभ्य सौषुप्तपद *? मूढ * * * * * * * इति । अत एतदुच्छेदे ग्रन्थकारस्य महान् संरम्भो लक्ष्यते । तथाचेह हेयतयैव तन्निर्णीयापि पुनरपि निर्णेष्यते कार्योन्मुखः प्रयत्नो यः * * * * * * * * ? ityatra | tato'smAbhiretaddUSaNArambhaH kRta iti na naH kopaH kAryo'trabhavadbhirupadezanibhAlanadattakarNaiH [kh: liphADaneti pAThaH | ] | saugateSu dUSiteSu zrutyantavAdAdayo dUSitA eva tulyanyAyatvAditi nAbhyadhikamuktam | tadidAnIM prakRtameva brUmahe tattu spandAkhyaM 30) tattvamevamiti zUnyavanna smaryamANatvaM pratipadyate tasya sarvadAnusyUtopalabdhrekarUpasya kadAcidapyanupalabhyatvAyogAt | tathA cAhuH vijJAtaramere kena vijAnIyAt | (bR0 A0 u0 4|5|15) iti | yadyapi ca samAvezadazA vyutthitena prANAdisaMskAravazAtsmaryate tathApi na tAvadeva spandatattvamapi tu sarvAnusyUtAnavacchinnaprakAzAnandasAraparapramAtRrUpameva tat | yadvakSyati tasmAcchabdArthacintAsu na sAvasthA na yA zivaH || 2|4) iti | ato'syAnavacchinnacamatkArarUpasya na jAtucitsmaryamANatvaM mUDhatvaM vA | yastu tattattvamitIha tacchabdenAsya nirdezaH kRtaH sa svAtantryAmuktamAtmAnaM * * * * * * * * ? इति श्रीप्रत्यभिज्ञाकारिकोक्तनीत्या कल्पितस्यैवापारमार्थिकस्वरूपस्य न तु तत्त्वतः पारमार्थिकस्य । न प्रतिपद्यते इत्यनेनेदमाह अस्य तत्त्वस्य स्मर्यमाणत्वेन प्रतीतिरेव नास्तीति ॥ १३ ॥ ननु यत्र स्थितमित्यादौ चिद्रूपस्यैव विश्वकार्यरूपताग्राहित्वमुक्तं तध्यानोत्थापितं कृत्रिममभावात्मकं रूपं तेनैव गृहीतमिति कथमस्यानवच्छिन्नचमत्काररूपममूढत्वमित्याशङ्कायामाह अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । ३१) कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥ १४ ॥ कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मि&ल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते [ख्: बुद्ध्यते इति पाठः ।] ॥ १५ ॥ न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ॥ १६ ॥ अत्र स्पन्दतत्त्वे कार्यत्वं कर्तृत्वमिति च शब्दितं शब्दव्यवहारमात्रेण भेदितमवस्थायुगलमस्ति वस्तुतो हि तदेकमेव स्वतन्त्रप्रकाशवनशंकररूपं तत्त्वं कर्तृसत्त्वाव्यतिरिक्तया प्रकाशात्मना क्रियया व्याप्तं तदभेदेन प्रकाशमानं तत्त्वभुवनशरीरवदभावादिरूपत्वं स्वीकुर्वत्कार्यमित्युच्यते तदन्यस्य कस्यापि कारणत्वायोगात् । यथोक्तं श्रीमत्यभिज्ञायाम् जडस्य तु न सा शक्तिः सत्ता यदसतः सतः । कर्तृकर्मत्वतत्वैव कार्यकारणता ततः ॥ (ई० प्र० २।४।२) इति । तस्य चेदमेव कार्यत्वं यदयं विचित्रदेशकालाद्याभाससंयोजनवियोजनक्रमेणानन्तान् ३२) देहनीलाद्याभासांश्चिदात्मनः स्वरूपादनतिरिक्तानपि मुकुरप्रतिबिम्बवदतिरिक्तानिवाभासयति यावच्च किंचिदाभासयति तत्सर्वमाभास्यमानत्वादेव बहिर्मुखेन रूपेण क्षयधर्मकं क्षयश्चास्येदन्ताभासनिमज्जनेनाहन्तारूपतयावस्थानम् अत एव देहादेर्ग्राहकस्य यो वेद्यांशः स एव भगवता सृज्यते संह्रियते च न त्वहन्ताप्रकाशात्मकं कर्तृरूपं तस्य देहाद्यावेशेऽपि भगवदेकरूपत्वात् अतस्तत्र तयोः कार्यकर्तृत्वयोर्मध्यात्कार्यता क्षयिणी कर्तृत्वं चित्स्वातन्त्र्यरूपं पुनरक्षयं जगदुदयापाययोरपि तस्य स्वभावादचलनात् । चलने तु जगदुदयापायावपि न कौचिच्चकास्यातामिति मूढाद्यवस्थायामप्यखण्डितचमत्कारसारममूढमेवैतत् । नन्वभावसमाधाननिष्पत्तौ सुषुप्तादौ चास्य कर्तृत्वं नोपलभामहे क्वचिदपि प्रवृत्त्यदर्शनात् । सत्यं कार्योन्मुख इन्द्रियादिप्रेरणात्मकव्यापारप्रवणो यः प्रयत्नः संरम्भः सोऽत्र कार्यक्षयपदे लुप्यते विच्छिद्यते तस्मि&ल्लुप्ते सति अबुधोऽभावसमाध्यपहारितात्मरूपो मूढो विलुप्तोऽस्मीति मन्यते । यः पुनरन्तर्मुखोऽहन्ताप्रकाशरूपः स्वभावोऽत एव सर्वज्ञत्वगुणस्यास्पदम् उपलक्षणं चैतत्सर्वकर्तृत्वादेरपि तस्य लोपो न कदाचित्स्याद्भवतीति न कदाचिदपि सम्भावनीयोऽन्यस्य तल्लोपमुपलब्धुः कस्याप्यनुपलम्भात् यदि स कश्चिदुपलभ्यते स एवासावन्तर्मुखश्चिद्रूपो न चेदुपलभ्यते तर्हि सा लोपदशास्तीति कुतो निश्चयः । अथ चान्यः कश्चित्तल्लोपं नोपलभतेऽपितु स एव प्रकाशात्मा तत्कथं तस्याभावः । एवं चान्यस्यानुपलम्भनादित्यत्रान्यकर्तृकस्योपलम्भस्याभावादित्यर्थः । ३३) अथ च घटाभावो यथा घटविविक्तभूतलाद्युपलम्भनान्निश्चीयते तथैवात्माभावोऽप्यात्मविविक्तस्य कस्यचिदुपलम्भान्निश्चीयेत तदुपलम्भकसत्तावश्यंभाविनीति तदुपलम्भकस्वात्मनास्तिता न सिद्ध्यति । यदि च कार्योन्मुखप्रयत्नलोपे स लुप्येत तदोत्तरकालमन्यस्य कस्याप्युपलम्भो न भवेत् अन्योपलम्भाभावः प्रसज्येतेत्यर्थः । अपि चान्यस्य बहिर्मुखस्य प्रयत्नस्य सौषुप्तादावनुपलम्भात् कथमन्तर्मुखस्य तत्त्वस्य वालिशैर्लोप आशङ्कितो यतोऽन्यस्य लोपेऽन्यस्य किं वृत्तम् । अथ चान्यस्य कार्योन्मुखप्रयत्नस्यानुपलम्भादनुपलम्भप्रकाशनान्न कदाचित्प्रकाशात्मनोऽन्तर्मुखस्य तस्योपलब्धुर्लोपः यतोऽसावन्तर्मुखोभावः सर्वज्ञत्वगुणस्यास्पदं तामप्यभावदशां वेत्त्येव अन्यथा सैव न सिध्येदिति । अन्यस्येति कर्तरि कर्मणि च षष्ठी । अन्तर्मुखे कार्यत्वप्रतियोगितामिव कर्तृत्वस्य संभाव्यावस्थात्वमुक्तं वस्तुतस्तु उक्तयुक्त्या तस्यावस्थातृत्वमेव । अन्तर्मुख इति अन्तः पूर्णाहन्तात्मकं मुखं प्रधानं यस्येति योज्यम् ॥ १६ ॥ एवमप्रबुद्धो बहिर्मुखव्यापारनिरोधे ग्राहकस्याप्यात्मनोऽनुपपन्नमप्यभावं निश्चिनुत इति प्रतिपाद्य सुप्रबुद्धाप्रबुद्धयोर्यादृगात्मोपलम्भस्तं निरूपयति तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी । नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु ॥ १७ ॥ ३४) तस्य प्राकरणिकस्वभावस्य योपलब्धिः अनवच्छिन्नः प्रकाशः सा कथितयुक्त्यवष्टम्भात्सुष्ठु प्रबुद्धस्याप्रबुद्धतासंस्कारेणापि शून्यस्य सततं त्रिष्वपि जागरस्वप्नसौषुप्तपदेषु नित्यमिति आदौ मध्येऽन्ते चाव्यभिचारिणी अनपायिनी स्याद्भवत्येव सदासौ शंकरात्मकस्वस्वभावतया स्फुरतीत्यर्थः । परस्याप्रबुद्धस्य पुनस्तासां दशानां स्वोचितसंविद्रूपाणां प्रत्येकमदावुद्बुभूषायामन्ते च विश्रान्त्यात्मकान्तर्मुखत्वे न तु स्वोचितार्थावभासावस्थितिरूपे मध्यपदे । यदुक्तं श्रीशिवदृष्टौ यावत्समग्रज्ञानाप्रज्ञातृस्पर्शदशास्वपि । स्थितैव लक्ष्यते सा तु तद्द्विश्रान्त्याथवा फले ॥ (शि० *? २।५) इति । भट्टलोल्लटेनापि तदाद्यन्त इत्येवमेव व्याख्यायि स्ववृत्तौ । भट्टश्रीकल्लटवृत्त्यक्षराण्यपेक्ष्य वयमपि तद्वृत्त्यक्षरानुरोधेन सौत्रमर्थमतिविमलमपि क्लिष्टकल्पनया व्याकर्तुमशिक्षिताः यत एवासुप्रबुद्धस्य तदाद्यन्तेऽस्ति तदुपलब्धिः अत एवायमिहाधिकारी स्पन्दोपदेशैः सुप्रबुद्धीक्रियते । यद्वक्ष्यति अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये । जाग्रत् * * * * * * * * * * * * इत्यादि सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः । [१।२५] इति तथा स्वप्नेऽपि [३।२] इत्यादि प्रबुद्धः सर्वदा तिष्ठेत् । [३।१२] इत्यादि च । अत्र हि जागरादित्रिषु पदेषु आद्यन्तकोटिवन्मध्यमप्यर्थावसायात्मकं ३५) पदं तुर्याभोगमयं कर्तुं प्रबुद्धस्य सुप्रबुद्धतापादनायोपदेशः प्रवृत्तः एतच्च निर्णेष्यामः । तथा च शिवसूत्रम् जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंभवः । (शि० सू० १।७) इति । तथा त्रिषु चतुर्थं तैलवदासेच्यम् । (शि० सू० ३।२०) इति त्रितयभोक्ता वीरेशः । (शि० सू० १।११) इति ॥ १७ ॥ सुप्रबुद्धस्य त्रिषु पदेषु यादृश्युपलब्धिस्तां विभागेन दर्शयति ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः । पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः ॥ १८ ॥ सुप्रबुद्धस्य भूम्ना ज्ञानज्ञेयस्वरूपया मध्यमे पदे ज्ञानाग्रपर्यन्तयोस्तु स्वस्वरूपयैव स्पन्दतत्त्वात्मना पराशक्त्या युक्तो विभुः शंकरात्मा स्वभावो जागरास्वप्नरूपे पदद्वये भाति । तत्र हि विश्वमसौ सदाशिवेश्वरवत्स्वाङ्गवत्पश्यति तदन्यत्र तु सुषुप्ते न तु यथान्ये सुषुप्ततुर्ययोरिति त्रिपदाव्यभिचारिणी इति प्रकान्ते तुर्यस्याप्रस्तुतत्वात् तदुपलब्धेरेव च तुर्यरूपत्वात् असौ विभुश्चिन्मय एवास्य भाति अशेषवेद्योपशमादित्येतत्सुप्रबुद्धाभिप्रायमेव न तु वस्तुवृत्तानुसारेण तदन्यत्र तु चिन्मयः इत्यस्यानुपपन्नत्वापत्तेः ३६) लोके सौषुप्तस्य मोहमयत्वात् शिवापेक्षया तु जाग्रत्स्वप्नयोरपि चिन्मयत्वात् एवमपि च प्रकृतानुपयुक्तत्वात् । इतः प्रभृति प्रथमनिःष्यन्दान्तो ग्रन्थः प्रबुद्धस्य सुप्रबुद्धतायै स्थितो यथा टीकाकारैर्न चेतितस्तथा परीक्ष्यतां स्वयमेव कियत्प्रतिपदं लिखामः ॥ १८ ॥ यथेयं जागरादिमध्यदशापि प्रबुद्धं न प्रतिबध्नाति तथोपपादयति गुणादिस्पन्दनिष्यन्दाः सामान्यस्पन्दसंश्रयात् । लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः ॥ १९ ॥ गुणाः सत्त्वरजस्तमांसि येषां प्रकृतितत्त्वं विभवभूः ते मायातत्त्वावस्थिता इहाभिप्रेताः । यथोक्तं श्रीस्वच्छन्दे मायामसूरकविन्यासे अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् । मध्ये तमो विजानीयाद्गुणास्त्वेते व्यवस्थिताः ॥ [स्व० तं० २।६५] इति । त आदयो येषां कलादीनां क्षित्यन्तानां स्पन्दानां विशेषप्रसराणां तेषां ये निःष्यन्दास्तनुकरणभुवनप्रसराः नीलसुखादिसंविदश्च तथा योग्यपेक्षया बिन्दुनादादयस्ते सततं ज्ञस्य सुप्रबुद्धस्य कस्यचिदेवापश्चिमजन्मनोऽपरिपन्थिनः स्वस्वभावाच्छादका न भवन्तीति निश्चयः यतस्ते सामान्यस्पन्दमुक्तरूपमाश्रित्य यत्र स्थितमित्यत्र निर्णीतदृशा लब्धात्मलाभास्तत एवोत्पन्नास्तन्मयाश्चेत्यर्थः । ३७) तथाहि स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या । मायातृतीये त एव पशोः सत्त्वं रजस्तमः ॥ [ई० प्र० ३।३।४] इति श्रीप्रत्यभिज्ञोक्तदृशा चितिशक्तिरेव पारमेश्वरी ज्ञानक्रियामायाशक्तित्रितयतया श्रीसदाशिवादिपदे स्फुरित्वा संकोचप्रकर्षात्सत्त्वरजस्तमोरूपं क्रीडाशरीरं श्रयति यतो निजचिच्छक्तिस्फारमयत्वात्तदधिष्ठितमेव सर्वदा सर्वं जानन्सुप्रबुद्धो गुणादिविशेषस्पन्दाननुच्छिन्दन्नपि स्पन्दतत्त्वावेशमय एव ॥ १९ ॥ यथा त्वप्रबुद्धान्बध्नन्त्येते तत्प्रतिपादयति अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः । पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ॥ २० ॥ अप्रबुद्धधियः प्रायः सर्वानप्रत्यभिज्ञातपारमेश्वरीशक्त्यात्मकनिजस्पन्दतत्त्वान्देहात्म- guNAdispandaniHSyandAH svasyAH spandatattvAtmanaH sthiteH sthaganAyodyatA nityaM tadudyamaikasArAH duHkhenottAryante'smAddaizikairjantucakramiti duruttAre laGghayitumazakye ghore duHkhamaye saMsaraNamArge pAtayanti | yathoktaM zrImAlinIvijaye viSayeSveva saMlInAnaSo'thaH pAtayantvaNun ? | rudrANUnyAH samAliGghya ghoratarpo'parAH smRtAH || [mA0 vi0 3|31] iti | tathA hi pUrva patipAditA yeyaM spandatattvAtmA parAzaktiH 38) saiva vizvasyAntarbahizca vamanAtsaMsAravAmAcAratvAcca vAmezvarIzaktiH tadutthApitAni tu khecarIgocarIdikcarIbhUcarIrUpANi catvAri devatAcakrANi suprabuddhasya parabhUmisaMcArINi aprabuddhAnAM tu adharAdharasaraNiprerakANi | tathA hi yA eva suprabuddhasya khe bodhagagane carantyaH khecaryo'kAlakalitatvAbhedasarvakartRtvasarvajJatvapUrNatvavyApakatva- कञ्चुकरूपतया स्थिताः कालकलितत्वकिंचित्कर्तृताकिंचिज्ज्ञताभिष्वङ्गनियमहेतवः । गौर्वाक् तदुपलक्षितासु संजल्पमयीषु बुद्ध्यहंकारमनोभूमिषु चरन्त्यो गोचर्यः सुप्रबुद्धस्य स्वात्माभेदमयाध्यवसायाभिमानसंकल्पाञ्जनयन्ति मूढानां तु भेदैकसारान् । दिक्षु दशसु बाह्येन्द्रियभूमिषु चरन्त्यो दिक्चर्यः सुप्रबुद्धस्याद्वयप्रथासाराः अन्येषां द्वयप्रथाहेतवः । भूः रूपादिपञ्चकात्मकं मेयपदं तत्र चरन्त्यो भूचर्यस्तदाभोगमय्या आश्यानीभावतया तन्मयत्वमापन्नाः भूचर्यः सुप्रबुद्धस्य चित्प्रकाशशरीरतयात्मानं दर्शयन्त्य इतरेषां सर्वतोऽप्यवच्छिन्नतां प्रथयन्त्यः स्थिताः इत्येवं प्रमात्रन्तः करणवहिष्करणप्रमेयरूपतयैव तानि चत्वारि चक्राणि गुणादिस्पन्दमयान्यप्रबुद्धबुद्धील्लौ&किकांस्तथा बिन्दुनादादिप्रथामात्रसंतुष्टान् योगिनस्तत्तत्त्वप्रसररूपे संसारे पातयन्ति ॥ २० ॥ यत एवम् अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये । ३९) जाग्रदेव निजं भावमचिरेणाधिगच्छति ॥ २१ ॥ उक्तवक्ष्यमाणरूपस्य स्पन्दतत्त्वस्य विविक्तये विमर्शनाय सततमुद्युक्तः मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । [भ० गी० १२।२] इति गीतोक्तदृशा सततमेवान्तर्मुखस्वरूपनिभालनप्रवणो यः स जाग्रदेव जागरावस्थास्थित एव निजमात्मीयं शंकरात्मकं स्वस्वभावमचिरेणाधिगच्छति तथा अस्य शंकरात्मा आन्तरः स्वभावः स्वयमेवोन्मज्जति येन प्रबुद्धो नित्योदितसमावेशासादनात्सुप्रबुद्धो जीवन्मुक्तो भवतीत्यर्थः ॥ २१ ॥ यथास्योद्युक्तस्य बलवदालम्बनवशोदितानायासतदन्यसकलवृत्तिक्षयमयीषु नियतासु यास्ववस्थासु स्पन्दनिधानमुन्मुद्रितमभिमुखीभूतमास्ते ता एताः प्रथममुद्योगस्य विषया इत्युपदेष्दुमाह अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥ २२ ॥ सर्वत्र तावदुपायमार्गे समस्तेतरवृत्तिप्रशमपूर्वमेकाग्रीभवन्ति योगिनः एतास्वतिक्रोधाद्यवस्थासु स्वरसत एव समस्तापरवृत्तिक्षयमयीषु यदि स्पन्दतत्त्वविविक्तये सततमुद्युक्तो ४०) झटित्यन्तर्मुखीभवन्ति योगिनस्तत्समीहितमचिरेणैव लभन्ते । अयोगिनस्त्वत्र मूढा एवेति तात्पर्यम् । तथाहि समनन्तरविहितदारुणोपघातशत्रुदर्शनान्मर्मस्पर्शितत्तद्वचना- prathamamevonmiSatsaMjihIrSAdevatAvalAdantarmukhIbhavadrazmicakro'ti- तत्क्षणमेवोन्मज्जत्पूर्णाभिलाषदेवतावशविकासितानुधावत्समस्तकरण- karomIti mRzanvikalpayansaMzayadhArAdhirohAtmani pade'nupraviSTaH kSINasakalAlambanavikasatsaMzayasaMvinnirAlambanIkRtavRttiprasaro vA mattavAraNAdyanuvadhyamAno dhAvan zarIranirapekSameva svAtmapravaNIkRtetaravRttiprasaradudyogadevIpreraNayAtitvaritapalAyana- सिंहाजगराद्यवलोकनजनितमहात्रासाद्यवस्थासु यद्वृत्तिक्षयात्मकं पदं गच्छेदधितिष्ठेत् स्पन्दतत्त्वविविक्तये सततमुद्युक्तो यो योगिजनस्तस्य तत्र वृत्तिक्षयात्मके पदेऽवस्थाविशेषे स्पन्दः प्रतिष्ठितः स्पन्दतत्त्वमभिमुखीभूतमेव तिष्ठति । तस्मादेतद्वृत्तिक्षयपदं संचेत्य झटिति कूर्माङ्गसंकोचयुक्त्या क्रोधसंशयवृत्तीः प्रशमय्य महाविकासव्याप्तियुक्त्या वा प्रहर्षधावनवृत्तीर्विस्फार्याभिमुखीभूतनिजस्पन्दशक्तिविमर्शवता योगिना भाव्यम् । यथोक्तं श्रीविज्ञानभैरवे कामक्रोधलोभमोहमदमात्सर्यगोचरे । बुद्धिं निस्तिमितां कृत्वा तत्तत्वमवशिष्यते ॥ (वि० भै० १०।१) आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् । ४१) आनन्दमुद्गतं ध्यात्वा तद्वयस्तन्मना भवेत् ॥ (वि० भै० ७१) क्षुताद्यस्ते भये शोके गहरे वारणद्रुते । कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा ॥ (वि० भै० ११।८) इति ॥ २२ ॥ एवमेतास्ववस्थासूक्तयुक्त्या प्रथमं स्पन्दशक्तिं परिशील्य तदनु तामेवानुसंदधत्सर्वास्ववस्थासु तद्दार्ढ्यानुप्रवेशमयीं जीवन्मुक्ततामाहरेत् [क्, ख्: आरोहयेदिति पाठः ।] सततोद्युक्त इत्युपदिशति यामवस्थां समालम्ब्य यदयं सम वक्ष्यति । तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति ॥ २३ ॥ तामाश्रित्योर्ध्वमार्गेण चन्द्रसूर्यावुभावपि । सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम् ॥ २४ ॥ तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ॥ २५ ॥ ४२) अयं शंकरात्मा स्वभावो यन्मम वक्ष्यति अभिव्यक्तं सत् यच्चिदानन्दघनमनुभूतपूर्वं [क्, ग्: सम्यगिति पाठः ।] स्वरूपं मां विमर्शयिष्यति तदवश्यमहं करिष्ये बहिर्मुखतां हित्वा तत्प्रवण एव भविष्यामि इति संकल्प्य निश्चित्य यामतिक्रोधाद्यवस्थास्वनुभूतचरीं चिदानन्दघनां स्पन्दात्मिकामवस्थामवलम्ब्य [ग्: तमवलम्ब्येति पाठः ।] प्राप्यत्वेनाभिसंधाय तिष्ठति शमितविकल्पगतिमविकल्पामवस्थामविचलत्वेन भजते यो योगी तदीयां तामवस्थां समाश्रित्य चन्द्रसूर्यौ अपानः प्राणश्चोभावपि हृदयभूमौ मिलित्वा युगपदेव सौषुम्नेऽध्वनि ब्रह्मनाड्यामूर्ध्वमार्गेणोदानपथेनास्तमितः शाम्यतः कथं ब्रह्माण्डलक्षणं गोचरं हित्वा ब्रह्मबिलाधिष्ठातृब्रह्माधिष्ठितमण्डं मुक्त्वा ऊर्ध्वकवाटान्तां देहव्याप्तिं त्यक्त्वा तदा चोल्लङ्घितदेहव्याप्तिकेऽत एव प्रकर्षेण लीनावुक्तरूपौ शशिभास्करौ यत्र तस्मिन्महाव्योम्नि निःशेषवेद्योपशमरूपे परमाकाशे प्राप्तेऽपि यः शिथिलप्रयत्नतया खेचर्याद्यात्मना गुणादिस्पन्दनिःष्यन्देन व्यामोहितत्वात् सौषुप्तपदवद्भवति सौषुप्तेन च सुप्तमप्युपलक्षितं तेन च स्वप्नसुषुप्तवत् यः शून्यादिभूमिमेवाधितिष्ठति स योगी सम्यगनभिव्यक्तस्वस्वभावो मूढ इत्युच्यते । यथोक्तं श्रीभट्टकल्लटेन यां स्पन्दात्मिकामवस्थामवलम्ब्य । इति योगिनः । इति च यस्य स्वस्वभावाभिव्यक्तिर्न सम्यक् वृत्ता स स्वप्नादिना मुह्यमानोऽप्रबुद्धो निरुद्धः स्यात् । ४३) इति । यस्तु तत्रापि प्रयत्नपाटवादुद्यन्तृताबलात् क्षणमपि न शिथिलीभवति स तमसानभिभूतत्वात् चिदाकाशमयत्वेनैवावस्थितः प्रबुद्ध उच्यते अत एव सततोद्योगवतैव योगिना भवितव्यम् इत्यादिष्टं गुरुभिः इति शिवम् ॥ २५ ॥ इति श्रीमहामाहेश्वराचार्यक्षेमराजानकनिर्मिते स्पन्दनिर्णये स्वरूपस्पन्दः प्रथमो निःष्यन्दः ॥ १ ॥ ४४) अथ द्वितीयो निष्यन्दः । एवं प्रथमनिःष्यन्देन स्वस्वरूपात्मकं युक्त्युपपन्नं साभिज्ञानं निमीलनसमाधिप्रत्यभिज्ञेयं स्पन्दतत्त्वं प्रतिपाद्य यथा सततं तत्स्वरूपसमासादनेन सुप्रबुद्धता प्राक्सूचिता भवति तथा इदानीं तस्यैव वैश्वात्म्यमुन्मीलनसमाधिप्रत्यभिज्ञेयं युक्तितोऽपि निर्णेतुं सर्वत्र चिदभेदप्रकाशकं सहजविद्योदयाख्यम् इमं द्वितीयं निःष्यन्दं तदाक्रम्य इत्यादिना शिवसद्भावदायिनी इत्यन्तेन श्लोकसप्तकेन निरूपयति । तत्र विश्वं शुद्धाशुद्धभेदेन द्विधा । तत्र शुद्धं मन्त्रादिरूपं तत एवोत्पन्नं तन्मयं तत्रैव विश्राम्यति इति श्लोकद्वयेनोक्तम् । अशुद्धमपि तन्मयमेव इत्यपरेण श्लोकद्वयेनाभिहितम् । तत्संवेदनाधिरूढो जीवन्मुक्तः इति श्लोकेनोक्तम् । एतत्तत्त्वसमासादनेनैव साधकानां स्वेष्टसिद्धिः इति श्लोकद्वयेनाभिहितमिति संक्षेपः । अथ ग्रन्थो व्याख्यायते । यदुक्तम् अत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् । (१।२) इति तत्र शुद्धं तावन्मन्त्रादिरूपं तद्यथा तत एवोत्पन्नं तद्बलेनैव प्रकाशमानं तत्रैव विश्राम्यति तत्प्रथमनिःष्यन्दपरिघटितदृष्टान्तपुरःसरं निरूपयति तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः । प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ॥ १ ॥ तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः । सहाराधकचित्तेन तेनैते शिवधर्मिणः ॥ २ ॥ तत् स्पन्दतत्त्वात्मकं बलं प्राणरूपं वीर्यमाक्रम्य अभेदेन आश्रयतया अवष्टभ्य भगवन्तोऽनन्तव्योमव्याप्यादयो मन्त्राः सर्वज्ञबलेन सर्वज्ञत्वादिसामर्थ्येन श्लाघमाना जृम्भमाणा अधिकाराय देहिनां प्रवर्तन्ते सृष्टिसंहारतिरोधानानुग्रहादि कुर्वन्तीत्यर्थः । सर्वज्ञशब्दो भावप्रधानः सर्वकर्तृत्वाद्युपलक्षयति । यथा देहिनां करणान्युपपादितदृशा तद्बलमाक्रम्य विषयप्रकाशादौ प्रवर्तन्ते इति दृष्टान्तः । तथा निरञ्जनाः कृतकृत्यत्वान्निवृत्ताधिकारमलाः शान्तविशिष्टवाचकात्मस्वरूपास्तत्रैव स्पन्दात्मके बले सम्यगभेदापत्त्या प्रकर्षेणापुनरावृत्त्या लीयन्ते अधिकारमलान्मुच्यन्ते आराधकचित्तेन उपासकलोकसंवेदनेन सह । यथोक्तम् ४६) अनुगृह्याणुसंघातं याताः पदमनामयम् । [मा० वि० १।४१] इति । यतश्च तत एवोदितास्तद्बलेन विसृष्टास्तत्रैव लीयन्ते तेनैते मन्त्रमन्त्रेश्वरादयः शिवस्य परमेश्वरस्य सम्बन्धी धर्मः स्वभावो विद्यते येषां ते तथा सामान्यस्पन्दसारा इत्यर्थः । ननु करणानां मन्त्राणां च तत उदयादौ तुल्ये किमिति करणानि न सर्वज्ञादिरूपाणि ? । उच्यते परमेश्वरो मायाशक्त्या शरीरकरणानि भेदमयानि निर्मिमीते विद्याशक्त्या त्वाकाशीयविचित्रवाचकपरामर्शशरीरान्मन्त्रान् । वाचकस्य मायापदेऽपि घटोऽयमित्यध्यवसा नामरूपातिरेकिणी । परेशशक्तिरात्मेव भासते न त्विदन्तया ॥ (१।५।२०) इति प्रत्यभिज्ञोक्तनीत्या प्रमातृभूम्यनतिक्रान्तेर्न शरीरपुर्यष्टकादिवद्बोधसंकोचकत्वमस्तीति युक्तमेवैषां सर्वज्ञत्वादि । एतच्च भेदे त्वेकरसे भाते * * * * * * * * ? । [३।१।८] इति श्रीप्रत्यभिज्ञाकारिकाटीकायां वितस्य दर्शितम् । एवं विद्यापदावस्थितसृष्ट्यादिकार्यनन्तभट्टारकाद्यपेक्षयैतद्व्याख्येयम् । तथा दीक्षादिप्रवृत्तानामाचार्यादीनां करणरूपाः सर्वे मन्त्रास्तत्स्पन्दतत्त्वरूपं बलमाक्रम्य अनुप्राणकत्वेन अवष्टभ्य आचार्यादीनामेव सम्बन्धिनाराधकचित्तेन ४७) सह मोक्षभोगसाधनाद्यधिकाराय प्रवर्तन्ते तत्रैव शान्तवाचकशब्दात्मकशरीररूपा अत एव च निरञ्जनाः शुद्धाः सम्यक् प्रलीयन्ते विश्राम्यन्ति । अत्र व्याख्याने सहाराधकचित्तेन इति पूर्वश्लोकेन योज्यम् । एवं च मन्त्राणामुदयप्रलयकोटिव्यापि प्रवृत्तावपि भित्तिभूतमिति अभिहितम् । एवं च दशाष्टादशादिभेदेन भिन्ने शैवे मन्त्राणां स्पन्दतत्त्वसारतैवेत्युक्तं भवति ॥ २ ॥ एवं मन्त्रमन्त्रेश्वरादिरूपा शुद्धाभिमता सृष्टिः शिवस्वभावेति प्रतिपाद्याधुना अशुद्धाभिमतापि सा मायादिरूपा शिवस्वरूपैव इति उपपादयन् श्रीमतशास्त्रादिरहस्यदृष्टिमपि उपक्षिपति यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् । तत्संवेदनरूपेण तादाम्यप्रतिपत्तितः ॥ ३ ॥ तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥ ४ ॥ यतो जीवो ग्राहकः सर्वमयः शिववद्विश्वरूपः तेन ४८) हेतुना शब्देषु वाचकेषु अर्थेषु वाच्येषु चिन्तासु विकल्पज्ञानादिरूपासु आदिमध्यान्तरूपा सावस्था नास्ति या शिवो न भवति सर्वमेव शिवस्वरूपमित्यर्थः । यतश्चैवमतो भोक्तैव चिदात्मा ग्राहको भोग्यभावेन देहनीलादिरूपेण सदा नित्यं सर्वत्र विचित्रतत्त्वभुवनादिपदे सम्यगनूनाधिकतया स्थितः न तु भोग्यं नाम किञ्चिद्भोक्तुर्भिन्नमस्ति । जीव इत्युपक्रम्य शिव इत्युपसंहारेण जीवशिवयोर्वास्तवो न कोऽपि भेदः इति देहाद्यवस्थासु न कासुचिदप्यपूर्णमन्यता मन्तव्या अपि तु चिद्धनशिवस्वभावतैवेति भङ्ग्योपदिशति । यथोक्तम् शरीरमपि ये षट्त्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति अर्चयन्ति च ते सिद्ध्यन्ति घटादिकमपि तथाभिनिविश्य पश्यन्ति अर्चयन्ति च तेऽपीति नास्त्यत्र विवादः इति श्रीप्रत्यभिज्ञाटीकायाम् । भट्टश्रीवामनेनाप्युक्तम् आलम्ब्य संविदं यस्मात्संवेद्यं न स्वभावतः । तस्मात्संविदितं सर्वमिति संविन्मयो भवेत् ॥ इति । कस्मात् जीवः सर्वमयः इत्यत्र हेतुः सर्वभावानां समुद्भवादुत्पत्तिहेतुत्वात् अपादानभावप्रधानश्च निर्देशः । प्रमातृमितिमानमेयमयभेदजातस्य ते विहार इह हेतुतां समुपयाति यस्मात्त्वयि । निवृत्तविवृहृतौ क्वचित्तदपयाति तेनाध्वधुना नयेन पुनरीक्ष्यते जगति जातुचित्केनचित् ॥ इति श्रीज्ञानगर्भस्तोत्रोक्तनीत्या संविद्येव प्रमृतायां जगतः ४९) सद्भावात्सर्वभावसमुद्भवत्वं जीवस्य यतश्च जीवादेव उदयति विश्वमतोऽयं सर्वमयो विश्वशक्तिरिति यावत् । निर्णीतं चैतद्द्वितीयसूत्रवृत्तौ । सर्वमयत्वे हेत्वन्तरमाह तत्संवेदन इत्यर्धेन । तस्य सर्वस्य नीलसुखादेर्यत्संवेदनं प्रकाशस्तेन रूपेण स्वभावेन तादात्म्यप्रतिपत्तेः सर्वमयत्वस्योपलम्भात् । एवमनेन श्लोकद्वयेन रहस्यचर्याः सर्वभेदपादपोन्मूलनोपपत्तिपरिघटिताश्च ज्ञानोपदेशकथाः प्रथमचरमसूत्राभ्यां महार्थतत्त्वं जाग्रदादिसूत्रेण षडर्धपरमार्थः तदाक्रम्य इत्यनेन सर्वोपासासारतेत्याद्युपक्षिप्तमिति स्पन्दतत्त्वेनैव विश्वोपदेशाः स्वीकृताः ॥ ४ ॥ अथैतत्प्रतिपत्तिसारतैव मोक्ष इत्यादिशति इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ॥ ५ ॥ वाशब्दः । प्रथमनिःष्यन्दोक्तनिमीलनसमाधिप्रकारं विकल्पयन् अस्याः समापत्तेर्दुर्लभतां ध्वनयति । तेनायमर्थः ईदृशी तावत्संवित्तिः दुर्लभा यस्य कस्यचिदेवापश्चिमजन्मनो भवति सोऽखिलं जगत्क्रीडात्वेन पश्यन् निजसंविदुन्मेषनिमेषाभ्यां सृजन् संहरंश्च मड्यावैश्य ? मनो ये मां नित्ययुक्ता उपासते । (भ० गी० १२।२) ५०) इति स्थित्या सततसमाविष्टो महायोगी जीवन्नेव प्राणादिमानपि विज्ञानाग्निनिर्दग्धाशेषबन्धनो देहपाते तु शिवएव जीवंश्चेद्दृङ्मुक्त एव न तु कथञ्चिदपि बद्धः । न संशयः इत्यनेन इदं ध्वनयति दीक्षादिना गुरुप्रत्ययतो मुक्तिः ईदृशात्तु ज्ञानात्समाचाराद्वा स्वप्रत्ययत एवेति ॥ ५ ॥ इयमेव महासमापत्तिः साधकाचार्यादीनामभीष्टप्राप्तिहेतुः इति श्लोकद्वयेनाह अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिरिच्छतः साधकस्य या ॥ ६ ॥ इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ॥ ७ ॥ इह शिवो भूत्वा शिवं यजेत् इति यदुद्धोष्यते तत्र ध्यायिनश्चेतसि संवेदने तस्येति न सावस्था न या शिवः इति प्रतिपादितशिवस्वभावस्य ध्येयस्य अन्यस्य वा कस्यचित्तत्तत्सिद्धिहेतोर्मन्त्रदेवताविशेषस्य अयमेधोदयः ५१) प्रकटीभावः या साधकस्य ध्यातुराचार्यादेः तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । (२।४) इति प्रतिपादितरूपा तदात्मतासमापत्तिः शिवैक्यावेशो न तु पञ्चवक्त्रादेर्व्यतिरिक्तस्याकारस्य दर्शनं न तु निश्चयमात्रेण तदात्मतासमापत्तिः अपि तु इच्छतोऽविकल्पविश्वाहन्तात्मकशिवैक्यरूपेच्छापरामर्शाधिरूढस्य । एतदुक्तं भवति अहमेव तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितो विश्वशरीरश्चिदानन्दघनः शिव इति सङ्कल्पो यस्याविकल्पशेषीभूतत्वेन फलति तस्य ध्येयमन्त्रदेवतादि किं न नाम अभिमुखीभवति सर्वस्यैतदद्वयप्रथालग्नत्वात् । यथोक्तमस्मत्परमेष्ठिपादैः साक्षाद्भवन्मये नाथ सर्वस्मिन्भुवनान्तरे । किं न भक्तिमतां क्षेत्रं मन्त्रः केषां न सिध्यति ॥ (घ० स्तो० १।४) इति । इयमेव च समापत्तिः परमाद्वयरूपस्यामृतस्य प्राप्तिः अन्यस्मि&स्त्वमृते कतिपयकालशरीरदार्ढ्यदायिनि प्राप्तेऽपि साधकैर्मरणमवश्यमवाप्यत एवेत्येवकाराशयः । एवं सर्वत्रानेनैवाशयेन श्रीस्वच्छन्दे स्थूलदृष्ट्यामृतप्राप्तिप्रकरणे नैव चामृतयोगेन कालमृत्युजयो भवेत् । इत्युक्त्योपसंहृत्य तात्त्विकस्तत्प्राप्तिप्रकारः अथवा परतत्त्वस्थः सर्वकालेनं बाध्यते ॥ [७।२२६] इत्यादिना ५२) इति मध्येन जीवन्नेव विमुक्तोऽसौ यस्येयं भावना सदा । यः शिवं भावयेन्नित्यं न कालः कलयेत्तु तम् । योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा । स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् । स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत्सदा । (७।२५८) इत्यनेन सहजसन्दर्भेण सप्रशंसं पश्चादुपदिष्टः । अयमेवात्मनो ग्रहो ज्ञानं यदुच्यते आत्मा ज्ञातव्य इति तत्रेदमेव सर्वज्ञसर्वकर्तृस्वतन्त्रशिवस्वरूपतया प्रत्यभिज्ञानमात्मनो ज्ञानं न तु पुरुष एवेदं सर्वम् । (श्वेत० उ० ३।१५) इति श्रुत्यन्तविदुक्तं त आत्मोपासकाः सर्वे न गच्छन्ति परं पदम् । (स्व० ४।३८८) इत्याम्नायोक्तेः । तथा दीक्षावसरे योजनिकाद्यर्थमयमेव शिष्यात्मनोऽनुग्रहः इमामेव समापत्तिं विद्वानाचार्यः शिष्यात्मानं शिवे योजयन्नाचार्यो भवतीत्यर्थः । इयं स्वप्रत्ययसिद्धा पुत्रकादेः शिवात्मनः सद्भावस्य पारमार्थिकस्वरूपस्य दायिनी निर्वाणदीक्षा । यथोक्तम् एवं यो वेद तत्त्वेन तस्य निर्वाणदायिनी [गामिनीति मूलपरात्रीशिकापुस्तकस्थः पाठः ।] । दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता ॥ (प० त्री० २५) ५३) इति । हौत्री दीक्षापि दीक्षैव तत्र मा भूत्कस्यचिदनाश्वास इत्याशयेनात्रैवकारो न कृतः श्रीमहागुरुप्रवरेणेति शिवम् ॥ इति श्रीमहामाहेश्वराचार्यक्षेमराजानकनिर्मिते स्पन्दनिर्णये सहजविद्योदयस्पन्दो द्वितीयो निष्यन्दः ॥ २ ॥ ५४) अथ तृतीयो निष्यन्दः । एवं निमीलनोन्मीलनसमाधिद्वयसमाधेय उभयविसर्गारणीभूतः सुप्रबुद्धताभिव्यक्तये स्पन्दतत्त्वसमावेशो निःष्यन्दद्वयेन निर्णीतः । अथेदानीमेतदवष्टभ्याम्भाभ्यासेन परापरविभूत्युदयो भवतीत्यभिधाय संक्षेपेण बन्धमोक्षस्वरूपं निरूप्य प्रथमोपक्रान्तं निगमयति यथेच्छेत्यादिभिः चक्रेश्वरो भवेदित्यन्तैरेकोनविंशत्या श्लोकैरनेन विभूतिस्पन्दाख्येन तृतीयनिःष्यन्देन । तत्र श्लोकद्वयेन जाग्रत्सिद्धस्वातन्त्र्यदृष्टान्तपुरःसरं स्वप्नस्वातन्त्र्यम् । एकेन तद्विपर्ययमभिदधता सततोद्युक्ततैवाश्रयणीयेति तात्पर्येणोक्तम् । द्वितयेनाभीष्टवस्तुज्ञानाविर्भावः । एकेन कर्तृशक्त्याविर्भूतिः क्षुधादिजयश्च । एकेन सर्वज्ञताप्राप्तिः । एकेन ग्लानिनाशश्चेत्यष्टके निरूपितम् । ततः स्पन्दात्मन उन्मेषस्यैकेन स्वरूपं लक्षितम् । एकेन परसमाधिविघ्नभूतानां सिद्धीनां हेयतोक्ता । एकेन द्वितीयनिःष्यन्दनिर्णीतविश्वात्मतास्वभावः समावेश उक्तः । ततः समाविष्टतालाभे युक्तिरुक्तैकेन । त्रयेण पशुपाशनिर्णय उक्तः । एकेन स्पन्दतत्त्वस्यैव बन्धमोक्षोभयपदाक्रांतिरुक्ता । ५५) द्वयेनोच्छेद्यत्वेन बन्धस्वरूपमनूदितम् । एकेन तदुच्छित्त्युपायमभिदधतादिसूत्रोक्तार्थो निगमित इति संक्षेपो निःष्यन्दस्य ॥ अथ ग्रन्थो व्याख्यायते । यदुक्तं सुप्रबुद्धस्य सततं स्पन्दतत्त्वोपलब्धिः इति । तत्र अतः सततमुद्युक्त इत्यनेन जागरायां तत्परिशीलनेन शिक्षा प्रबुद्धस्य सुप्रबुद्धताप्राप्त्यर्थमुक्ता । यामवस्थामित्यादिना प्रतिपदोपायपरिशीलनपाटवेन योगिसुषुप्तावरणभङ्ग उक्तः । इदानीं लौकिकस्वप्नसुषुप्तविदलनेन सुप्रबुद्धतामेव साधयितुं स्वप्नोचितां विभूतिमस्य दर्शयितुमाह यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान् । सोमसूर्योदयं कृत्वा संपादयति देहिनः ॥ १ ॥ तथा स्वप्नेऽप्यभीष्टार्थान् प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् ॥ २ ॥ धत्ते सर्वमात्मनीति धाता शंकरात्मा स्वभावः स ५६) यथा जाग्रतः जागरायामभिव्यक्तस्वस्वातन्त्र्यस्य देहिनो देहभूमिकायामेव प्रकटीभूतपिण्डस्थज्ञानस्य योगिनः सम्बन्धिन्येच्छयाभ्यर्थितोऽन्तर्मुखस्वरूपविमर्शबलेन प्रसादितो हृदि चेतसि स्थितानर्थानिति बिन्दुनादादिज्ञानपुरः (सर) क्षोभप्रतिभाचालनबोधस्तोभज्ञानसंचारादिप्रयोजनानि संपादयति । कथं सोमसूर्ययोर्ज्ञानक्रियाशक्त्योरुदयं कृत्वा ज्ञानशक्त्या भास्यमानं हि तत्तत्क्रियाशक्त्योन्मील्यते । समावेशोन्मिषत्प्रतिभात्मकमूलावष्टम्भयुक्तिस्फारितज्ञानक्रिया- saMpAdayati yogizarIrAnupraviSTaH paramezvaraH | yathA caivaM tathA anAgatAyAM nidrAyAM vinaSTe bAhyagocare | sAvasthA matasA gamyA parA devI prakAzate || [vi0 bhai0 75] iti pInAM ca durbalAM zaktiM dhyAtvA dvAdazagocare | pravizyaM hRdaye dhyAyan svapnasvAtantryamApnuyAt || [vi0 bhai0 55] iti saMpradAyasthityA vamanagrAsasaktatadubhayavisargAraNicitizaktiparAmarzamukhena nityaM praNayamanatikrAmato bhagavatprArthanAparasya yoganidrArUDhasya sphuTataramanAcchAditarUpatayA madhye sauSumnadhAmani sthito dhAtA svapnai'pyabhISTAnevANavazAktazAmbhavasamAvezAdInanyAnapi samAvezAbhyAsarasonmRSTamatimukurasya jijJAsitAnarthAnnavazyaM prakaTIkaroti 57) nAsya yoginaH svapnasuSuptayorvyAmoho bhavatItyarthaH | svapnena sauSuptamapyupalakSitam | atrAbhISTArthaprakAze AvRttyA ayameva hetuH praNayasya prArthanAyA antarmukhasvarUpaparizIlanopAsAsaMpAdyasya mAyAkAluSyopazamalakSaNasya prasAdasya bhagavatAnatikramAt | paramezvaro hi cidAtmA yadyantarmukhocitasevAkrameNArthyate tattatsaMpAdayata eva jAgrataH iti paratattve jAgarUkasya jAgarAvasthAsthasya ceti zleSoktyA vyAkhyeyam || 2 || yadi punarevaM sAvadhAno [na] bhavati tadA nAsya yogitetyAha anyathA tu svatantrA syAtsRSTistaddharmakatvataH | satataM laukikasyeva jAgratsvapnapadadvaye || 3 || yadyuktayuktyA nityaM nArAdhyate dhAtA tadA svasvarUpasthityabhAve satataM pratyahaM laukikasyeva cAsya yogino'pi jAgarAyAM svapne ca sAdhAraNAsAdhAraNArthaprakAzanatannizcayanAdisvabhAvA pAramezvarI sRSTiH svatantrA syAt laukikavadyoginamapi saMsArAvaTa evAsau pAtayedityarthaH | yathoktam 58) pravRttirbhUtAnAmaizvarI | iti | taddharmakatvataH iti svapnajAgarAdipadaprakAzane bhagavatsRSTeH svAtantryasvabhAvAdityarthaH || 3 || evaM svapnasauSuptanirdalanopAyaM svaprabuddhatAyai saMsAdhya spandatattvasamAvezopAyaM suprabuddhasya dRSTAntayuktipUrvakaM nirUpayati jijJAsitArthajJaptirapItthaM bhavatItyAdizati yathA hyartho'sphuTo dRSTaH sAvadhAne'pi cetasi | bhUyaH sphuTataro bhAti svabalodyogabhAvitaH || 4 || tathA yatparamArthena yena yatra yathA sthitam | tattathA balamAkramya na cirAtsaMpravartate || 5 || hizabdaH kilazabdArthe | sAvadhAne'pi cetasi dUratvAdidoSairyathA kilArtho'sphuTo dRSTo bhUyo'dhyakSanirIkSaNAtmanA svabalodyogena bhAvito bhRzamAlokito na kevalaM sphuTo yAvatsphuTataro'pi bhAti tathA yatspandatattvAtmakaM balaM yenAnandaghanatAtmanA paramArthena yatreti zaMkarAtmani svasvabhAve yatheti abhedavyAptyA sthitaM tatkartR 59) tatheti svabalodyogena antarmukhatadekAtmatAparizIlanaprayatnena saMbhAvitaM zIghrameva sphuTataratvena pravartate abhivyajyate | kathamAkramyArAdhakasya kalpitadehAdipramAtRbhUmiM svAtmanyeva nimagnAM kRtvA atha ca spandAtmakaM balamAkramya sthitasya kalpitadehabuddhipramAtRbhUmimasakRduttejayataH sAdhakasya yogino yajjijJAsitaM nidhAnAdi yatra dezAdau yena hemAdinA paramArthena yathA sannivezena sthitaM tathA tadacirAdeva prakAzate || 5 || kartRzaktyAdirapyamuta eva balAtprAdurbhavatItyAha durbalo'pi tadAkramya yataH kArye pravartate | AcchAdayedbubhukSAM ca tathA yo'tibubhukSitaH || 6 || yathA kSINadhAturRSiprAyaH so'pi spandAtmakaM balamAkramya spandasamAvezabalena prANapramAtRbhUmimasakRduttejya kArye'vazyakartavye karmaNi pravartate azakyamapi vastu tadbalAkramaNenaiva karotItyarthaH | tathA yo'ptyatiSubhukSitaH so'pi tadbalAkrAntyA kSutpipAsAdi zamayati | nahi ciddhanAM bhUmimanupraviSTasya dvandvAbhibhavaH kazcitprANAdibhuva eva tadAzrayatvAttasyAzceha cidbhUmau nimagnatvAt || 6 || 60) yata evamuktasUtropapattikramAnusAreNedRksiddhisamudAyo'smAdbhavatItyataH anenAdhiSThite dehe yathA sarvajJatAdayaH | tathA svAtmanyadhiSThAnAtsarvatraivaM bhaviSyati || 7 || anena svasvabhAvAtmanA spandatattvenAdhiSThite vyApte dehe sati yathA tadavasthocitArthAnubhavakaraNAdirUpAH sarvajJatAsarvakartRtAdayo dharmA Avirbhavanti dehinaH tathA yadyayaM kUrmAGgasaMkocavatsarvopasaMhAreNa mahAvikAsayuktyA vA svasminnanapAyinyAtmani cidrUpe adhiSThAnaM karoti uktAbhijJAnapratyabhijJAte tatraiva samAvezasthitiM badhnAti tadA sarvatreti zivAdau kSityante evamiti zaMkarataducitasarvajJatAsarvakartRtAdirUpo bhaviSyati || 7 || idamapyetatprasAdenetyAha glAnirviluNThikA dehe tasyAzcAjJAnataH sRtiH | tadunmeSaviluptaM cetkutaH sA syAdahetukA || 8 || 61) arthAddehAbhimAninaH puMso yo harSakSayo'sau vuluNThikA parasaMviddraviNApahAreNa pArimityadaurgatyapradA tasyAzca glAnerajJAnatazcidAnandaghanasvasvarUpApratyabhijJAnAtsRtirudbhavo'va- निकृत्तं तदासौ ग्लानिरज्ञानात्मनो हेतोरभावात् कुतः स्यान्न भवेदित्यर्थः । ग्लान्यभावे च देहेऽवश्यंभाविन्यो व्याध्यादिसन्तापावस्था अपि यथा यथा योगिनोऽपकृष्यन्ते तथा तथा हेम्न इवाति ताप्यमानस्य कालिकापगमे स्वस्वरूपं देदीप्यत एव । एवं च देहावस्थितस्यापि सर्वदा ग्लान्यभाव एव परयोगिनो विभूतिः । यथोक्तं परमयोगिन्या मदालसया बालदारकान् प्रयोगीकुर्वत्या त्वं कञ्चुके शीर्षमाणे निजेऽस्मिन्देहे हेये मूढतां मा व्रजेथाः । शुभाशुभैः कर्मभिर्देहमेतन्मदादिभिः कञ्चुकस्ते निबद्धः ॥ (सा० पु० २५।१४) इति मितसिध्यभिलाषिणो योगिनः समावेशाभ्यासरसेन देहं विध्यतो वलीपलितादिव्याधिजयो भवतीत्यपि भङ्गवानेन प्रतिपादितम् ॥ ८ ॥ अथ योज्यमुन्मेषः स किंस्वरूपः किमुपायलभ्यश्चेत्याकाङ्क्षायामाह ६२) एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥ ९ ॥ भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् । तदा तन्मध्यभावेन विकंसत्यतिभावना ॥ (वि० भै० ६२) इति नीत्या एकस्यां कस्यांचिदालम्बनविशेषनिभृतविकारात्मिकायां चिन्तायां प्रसक्तस्य एकाग्रीभूतस्य योगिनो यत इति तदेकाग्रताप्रकर्षोल्लसत्संवित्स्फारतस्तदालम्बननिमीलनाज्झटिति ग्रस्तसमस्तचिन्तासन्ततेरग्नी षोमाविभेदात्मनः स्पन्दतत्त्वादपर एवोदयश्चिच्चमत्कारात्मान्य एव लोकोत्तर उल्लासः स्यात् स तच्चमत्कारोन्मेषकत्वादेवोन्मेषो विज्ञातव्योऽन्वेषणीयः इत्थमेव योगिना ज्ञातुं शक्यः ततश्च स्वयमिति इदन्ताविषयत्वाभावादकृतकप्रयत्नात्मनावधानेनाहन्तयैवोपेत्यात्मनि लक्षयेत् असाधारणेन चमत्कारात्मना प्रत्यभिजानीयात् । यत एकस्यां विषयविचारादिचिन्तायां प्रसक्तस्य अपरस्याश्चिन्ताया झटित्युदयः स्यात् स चिन्ताद्वयव्यापकं उन्मेषः इत्यन्ये ॥ ९ ॥ इदानीं मितयोगिजनप्रयत्नसाध्यास्वपि तासु तासु ६३) सिद्धिषून्मेषपरिशीलनमात्रोदितासु परयोगिनो हेयत्वमेव मन्तव्यमित्यादिशति अतो विन्दुरतो नादो रूपमस्मादतो रसः । प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥ १० ॥ अत उन्मेषादुपलक्ष्यमाणादप्रलीयमानस्थूलसूक्ष्मादिदेहाहम्भावस्य योगिनोऽचिरेणैव भ्रूमध्यादौ तारकाप्रकाशरूपो विन्दुरशेषवेद्यसामान्यप्रकाशात्मा नादः सकलवाचकाविभेदिशब्दनरूपोऽनाहतध्वनिरूपो रूपमन्धकारेऽपि प्रकाशनं तेजः रसश्च रसनाग्रे लोकोत्तर आस्वादः क्षोभकत्वेन स्पन्दतत्त्वसमासादनविघ्नभूततावत्सन्तोषप्रदत्वेन वर्तन्ते । यदाहुः ते समाधावुपसर्गा व्युत्थाने सिद्धयः । (पात० सू० ३।३७) इति । एवमुन्मेषनिभालनोद्युक्तस्यापि देहात्ममानिनो योगिनो बिन्दुनादादयः क्षोभका भवन्तीत्युक्तम् ॥ १० ॥ इदानीमत्रोन्मेषात्मनि स्वभावे देहप्रमातृतां निमज्जयति तदाकारामपि परप्रमातृतां लभत इत्याह दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते । ६४) तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥ ११ ॥ यथा पश्यन्तीरूपाविकल्पकदिदृक्षावसरे दिदृक्षितोऽर्थोऽन्तरभेदेन स्फुरति तथैव स्वच्छन्दाद्यध्वप्रक्रियोक्तान् धरादिशिवान्तान्तर्भाविनोऽशेषानर्थान् व्याप्येति सर्वमहमिति सदाशिववत् स्वविकल्पानुसन्धानपूर्वकमविकल्पान्तमभेदविमर्शान्तः क्रोडीकारेणाच्छाद्य यदावतिष्ठते अस्याः समापत्तेर्न विचलति तावदशेषवेद्यैकीकारेणोन्मिषत्तावद्वेद्यग्रासीकारिमहाप्रमातृता- svasaMvidevAnubhaviSyati kimatra bahunA pratipAditena || 11 || tasyopalabdhiH satatam iti pratijJAya tadanantaramupapAditamupAyajAtaM parizIlayataH satataM spandatattvasamAviSTatvaM suprabuddhasya bhavatIti tadanantaprameyasaMbhinnatvAdupadezyahRdaye smArayannanupravezayuktyupasaMhArabhaGgyAha prabuddhaH sarvadA tiSThejjJAnenAlokya gocaram | ekatrAropayetsarvaM tato'nyena na pIDyate || 12 || sarvadA jAgarAsvamasuSuptasaMvidAdimadhyAntapadeSu prabuddhastiSThet 65) unmIlitaspandatattvAvaSTambhadivyadRSTiH suprabuddhatAmeva bhajeta | kathaM jJAnena bahirmukhenAvabhAsena sarvaM gocaraM nIlasukhAdirUpaM viSayamAlokya tasmAcchabdArthacintAsu na sAvasthA na yA zivaH (2|4) ityupapAditadRzA vimRzya ekatra sraSTari zaMkarAtmani svabhAve sarvamAropayet nimIlanonmIlanadazayostadabhedena jAnIyAt pUrvAparakoTyavaSTambhadArDhyAnmadhyabhUmimapi cidrasAzyAnatArUpatayaiva pazyedityarthaH | evaM ca na kenacidanyena vyatiriktena vastunA bAdhyate sarvasmin svAtmanaH svIkRtatvAt | yathoktaM zrIpratyabhijJAkAreNa yo'vikalpamidamarthamaNDalaM pazyatIza nikhilaM bhavadvapuH | svAtmapakSaparipUrite jagatyasya nityasukhinaH kuto bhayam || (u0 sto0 13| 16) iti || 12 || tato'nyena na pIDhyate iti yaduktaM tatra ko'sAvanyaH pIDakaH kazca pIDyaH yataH zivAtmakameva vizvamuktamitvAzaGkya pAzAnAM pazozca svarUpaM nirNetumAha zabdarAzisamutthasya zaktivargasya bhogyatAm | kalAviluptavibhavo gataH sansa pazuH smRtaH || 13 || 66) iha yo'yaM prakAzAtmA svasvabhAvaH zAMkara uktaH asau vyavasthitaH karotyaiSa vizvakAraNamIzvaraH | sRSTiM sthitiM ca saMhAraM tirodhAnamanupraham || (sva0 |) iti zrIsvacchandazAstradRSTyA nijazaktyAzliSTaH sadA paJcavidhakRtyakArI svatantraH spandalalitezvarAdizabdairAgameSUddhoSyate | svAtantryazaktirevAsya sanAtanI pUrNAhantA rUpA parA matsyodarI mahAsattA sphurattormiH sAraM hRdayaM bhairavI devI zikhA ityAdibhirasaMkhyaiH prakAraistatra tatra nirucyate | pUrNAhantaiva cAsyAnuttarAnAhatazaktisaMpuTIkArasvIkRtAdikSAntavarNabhaTTArikA tata eva svIkRtAnantavAcyavAkarUpaSaDadhvasphAramayAzeSazakticakra- शेषसर्गप्रलयादिपरम्पराप्यक्रमविमर्शरूपैव नित्योदितानुच्चार्यमहामन्त्रमयी सर्वजीवितभूता परा वाक् । एषिव भगवत इत्यद्विश्ववैचित्र्यचलत्तामिव स्वात्मनि प्रथयन्ती स्पन्दते इत्यर्थानुगमात् स्पन्द इति इहोच्यते । एवं चेयद्विश्वशक्तिखचितपराशक्तिसुन्दरस्य स्वात्मनः स्वरूपगोपनक्रीडया स्वात्मभित्तावेवांशांशिकया निर्भासनं भगवान् यावच्चिकीर्षति तावदेकैवाभिन्नाप्यसौ तदीया विमर्शशक्तिरिच्छात्वं प्रतिपद्य ज्ञानक्रियारूपतया स्थित्वा शिवशक्तिपरामर्शात्मकबीजयोनिभेदेन द्विधा भूत्वा वर्गभेदेन तत्कलाभेदेन च नवधा पञ्चाशद्धा च स्फुरन्ती तद्विमर्शसारैरघोरघोरघोरतरैः । संवित्तिदेवतात्मभिः ६७) रूपैः प्रथमाना भगवतः पञ्चविधकृत्यकारितां निर्वहति । यथोक्तं श्रीमालिनीविजयोत्तरे या सा शक्तिर्जगद्धातुः कथिता समवायिनी । इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते ॥ (३।५) सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु । एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् ॥ ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते । एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा ॥ जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते । एवमेवा द्विरूपापि पुनर्भेदैरनन्तताम् ॥ अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी । तत्र तावत्समापन्ना मातृभावं विभिद्यते ॥ द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी । बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा मताः ॥ कादयश्च स्मृता योनिर्नवधा वर्गभेदतः । पृथग्वर्ज्यविभेदेन शतार्धकिरणोज्ज्वला ॥ बीजमन्न शिवः शक्तिर्योनिरित्यभिधीयते । वर्गाष्टकमिति ज्ञेयमघोराद्यमनुक्रमात् ॥ तदेव शक्तिभेदेन माहेश्वर्यादि चाष्टकम् । शतार्धभेदभिन्ना च तत्संख्यानां वरानने ॥ रुद्राणां वाचकत्वेन कल्पिता परमेहिना । तद्वदेव च शक्तीनां तत्संख्यानामनुक्रमात् ॥ इत्यादि । तथा विषयेष्येव संज्ञीनानधोऽधः पातयन्त्यसून् । ? रुद्राशून्याः समाछिङ्ग्य घोरतर्वोऽपरास्तु ताः ॥ मिश्रकर्मचक्रासक्तिं पूर्ववज्रनवन्ति वाः । ? ६८) मुक्तिमार्गनिरोधिन्यस्ताः स्युर्योराः परापरः ॥ पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः । पराः प्रकथितास्तज्ज्~ऐरघोराः शिवशक्तयः ॥ (३।३३) इति । एवं शब्दराशेः समुत्थितो वर्गनवकरूपो यो ब्राह्म्यादिदेवतावर्गः शिवसहितस्तस्य भोग्यतां पाश्यतां गतः सन् स एव शंकरात्मा स्वभावः पशुः स्मृतः आगमेषु तथोक्तः । ननु कथं भोक्ता महेश्वरः इमामवस्थां प्राप्तः इत्याशङ्काशान्त्यै विशेषणद्वारेण हेतुमाह कलाविलुप्तविभव इति । कलयति वहिः क्षिपति पारिमित्येन परिच्छिनत्तीति कला मायाशक्तिः तया विलुप्तविभवः स्वमायया गूहितैश्वर्यः स्थित इत्यर्थः । अथ च कलया किंचित्कर्तृत्वोपोद्वलनात्मना शक्त्या तदुपलक्षितेन कलाविद्याकालनियतिरागात्मना कञ्चुकेन विलुप्तविभवः स्थगितपूर्णत्वकर्तृत्वादिधर्मः । भवत्वेवं भोग्यतां तु कथमसौ शक्तिवर्गस्य गतः इत्यत्रैतदेवोत्तरम् । कलाभिरकारादिवर्गाधिष्ठायिकाभिर्ब्राङ्म्यादिभिस्तद्वर्ण- kalAbhirakArAdivarNairviluptavibhavaH saMkucito'smi apUrNo'smi karavANi kiMcididamupAdade idaM jahAmi ityAdivicitravikalpakAvikalpakapratipattikadambakAntaranupraviSTasthUlasUkSma- स्वरूपस्थितिं न लभते यतः ६९) अतोऽसावुक्तरूपः शक्तिवर्गेण भुज्यमानः पशुरुक्तः । कलया अख्यात्यात्मनांशेन विलुप्तविभवः संकुचित इव न तु तत्त्वतः शिवात्मा स्वभावोऽस्य क्वापि गतः तदभावे हि स एव न स्फुरेत् । तथावभासमानैरेव कलाभिः संकुचितैः शब्दैर्ज्ञानैश्च विलुप्तविभवस्तथारूपमात्मानं न विम्रष्टुं क्षम इत्यर्थः ॥ १३ ॥ अधुना पशुः संकुचितदृक्छक्तिबाध्यः पाश्यश्चेत्येतद्विभजति परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ॥ १४ ॥ तस्य पशोर्यः प्रत्ययानां लौकिकशास्त्रीयविकल्पानां तदधिवासितानां भिन्नार्थज्ञानानां विकल्पानामप्युद्भवः विनाशाघ्रात उत्पादः स परस्यामृतरसस्य चिद्धनस्यानन्दप्रसरस्यापायो निमज्जनम् । उदितेषु भिन्नार्थेषु प्रत्ययेषु चिद्भूमिः स्थिताप्यपरामृश्यमानत्वादस्थितेव लक्ष्यते तत एवमुक्तम् । तेन च प्रत्ययोद्भवेनायमस्वतन्त्रतामेति तद्वशः सम्पद्यते । यदुक्तं श्रीशिवसूत्रेषु ज्ञानं बन्धः (१।२) इति । श्रीमद्व्यासमुनिनापि मातापितृमयो त्राल्ये इति । श्रीमदालसयापि ७०) तातेति किंचित्तनयेति किंचित् अभ्येति किंचिद्दयितेति किंचित् । ममेति किंचिन्न ममेति किंचित् भौतं संघं बहुधा मा लपेथाः ॥ (मा० पु० २५।१५) इति । प्रत्ययस्योद्भवस्तन्मात्राणि तीव्रातीव्रभेदसामान्यवृत्तयो गोचरो यस्य तथाभूतो भिन्नवेद्यविषय इत्यर्थः । अनेनेदमाह यावदियं भिन्नवेद्यप्रथा तावद्बद्ध एव यदा तूक्तोपदेशयुक्त्या सर्वमात्ममयमेवाविचलप्रतिपत्त्या प्रतिपद्यते तदा जीवन्मुक्त इति । यथोक्तं इति वा यस्य संवित्तिः [२।५] इत्यादि । एवं च यत्पूर्वमुक्तं तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । (२।४) इत्यादि न तेन सह परामृतरसापायस्तस्य यः प्रत्ययोद्भवः (३।१४) इत्यस्य वैषम्यं किंचित् ॥ १४ ॥ ननु यदि प्रत्ययोद्भवोऽप्यस्य परामृतरसापायः तत्कथमुक्तं शक्तिवर्गस्य भोग्यतां गतः इत्याशङ्कां परिहरति स्वरूपावरणे चास्य शक्तयः सततोत्थिताः । यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥ १५ ॥ चः शङ्कां द्योतयन् तत्परिहाररूपं प्रगेयान्तरं समुच्चिनोति । ७१) अस्य पशोः स्वस्य शिवात्मनो रूपस्यावरणे भित्तिभूतत्वेन प्रथमानस्यापि सम्यगपरामर्शने तन्निमित्तं व्याख्यातरूपाः शक्तयः सततमुत्थिताः यावद्धि परामृतरसात्मकस्वस्वरूपप्रत्यभिज्ञानमस्य न वृत्तं तावदेताः स्वस्वरूपावरणायोद्यच्छन्त्येव । यतोऽस्य यः प्रत्ययोद्भवो विकल्पकाविकल्पकज्ञानप्रसरः स शब्दानुवेधेन अहमिदं जानामि इत्यादिना सूक्ष्मान्तःशब्दानुरञ्जनेन स्थूलाभिलापसंसर्गेण च विना न भवति इति तिरश्चामप्यसांकेतिकः निर्देशप्रख्यः स्वात्मनि च शिरोनिर्देशप्रख्योऽन्तरभ्युपगमरूपः शब्दनविमर्शोऽस्त्येव अन्यथा बालस्य प्रथमसंकेतग्रहणं न घटेत अन्तरूहापोहात्मकविमर्शशून्यत्वात् । स्थूलशब्दानुवेधमयस्तु विकल्पः सर्वस्य स्वानुभवसिद्धः ॥ १५ ॥ श्लोकत्रयोक्तमर्थमुपसंहरन्नियतः प्रमेयस्य सामान्यस्पन्दतत्त्वादभिन्नतां प्रागुक्तामनुबध्नन् तत्प्रत्यभिज्ञानाप्रत्यभिज्ञानमयौ बन्धमोक्षौ इति लक्षयति सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥ १६ ॥ सेति श्लोकत्रयनिर्णीतत्वात् इयमिति प्रमेयपर्यन्तेन ७२) रूपेण स्फुरन्ती स्वस्वभावरूपस्य चिदात्मनः शिवस्य सम्बन्धिनी स्पन्दतत्त्वात्मिका पराभट्टारिकैव विश्ववैचित्र्यावस्थितिकारित्वात् क्रियाशक्तिः प्राङ्निर्णीतदृशा शिव एव गृहीतपशुभूमिके वर्तमाना प्राणपुर्यष्टकरूपममुं कर्तृतात्मनाहन्ताविप्रुषा प्रोक्षितं कुर्वाणा तथारूपेणाप्रत्यभिज्ञाय स्वरूपावारकत्वाद्धानादानादिपरिक्लेशहेतुत्वाच्च बन्धयित्री भवति । यदा तु स्वस्य शिवात्मनो रूपस्य यो मार्गः शक्त्यवस्थां प्रविष्टस्य निर्विभागेन भावना । तदासौ शिवरूपी स्याच्चैवी मुखमिहोच्यते ॥ (२०) इति श्रीविज्ञानभट्टारकोक्तनीत्या प्राप्त्युपायः पराशक्तिस्तदात्मतयासौ क्रियाशक्तिर्ज्ञायते योगिना यदा वा विकल्पकाविकल्पकप्रसरेऽपि शिवस्वरूपस्य स्वात्मनोंऽशभूतमेवाशेषवेद्यमनेनेक्ष्यते तदास्यासौ परानन्दमयीं परां सिद्धिमुपपादयति ॥ १७ ॥ इत्थंकारं (पशुरत्र बध्यते वक्ष्यमाणोपायपरिशीलनेन च मुच्यते इति प्रतिपादयन् बन्धस्वरूपमुच्छेद्यत्वेनानुवदति) तन्मात्रोदयरूपेण मनोऽहंबुद्धिवर्तिना । ७३) पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् [अस्य श्लोकस्य टीका न लब्धा ।] ॥ १७ ॥ भुङ्क्ते परवशो भोगं तद्भावात्संसरेदतः । संसृतिप्रलयस्यास्य कारणं संप्रचक्ष्महै ॥ १८ ॥ पुर्यष्टकोत्थितं भोगं भुङ्क्ते । यत एव प्रत्ययेषु सुखादिप्रत्ययोद्भवः अत एवासौ प्रत्ययोद्भवात् पशुः परवशः शब्दानुवेधक्रमेण पदे पदे ब्राह्म्यादिदेवीभिराक्षिप्यमाणः न तु सुप्रबुद्धवत् स्वतन्त्रः तस्य पुर्यष्टकस्य भावादेव पुनःपुनरुद्बोधितविचित्रवासनः संसरेत् तत्तद्भोगोचितभोगायतनानि शरीराण्यर्जयित्वा गृह्णाति चोत्सृजति च । यतश्चैवमतोऽस्य पुर्यष्टकसंरुद्धस्य या संसृतिस्तस्या यः प्रकृष्टो लयः पुर्यष्टकात्मकमलोच्छेदेन विनाशः तस्य कारणं सम्यक् सुखोपायं प्रचक्ष्महे समनन्तरमेव ब्रूमः तथा संप्रचक्ष्महे प्रकरणेऽस्मिन् स्वयं प्रतिपादितवन्तः । वर्तमानसामीप्ये वर्तमानवद्वा (पा० सू० ३।३।१३१) इति वर्तमानप्रयोगः ॥ १८ ॥ एतत् प्रतिपादयन् आद्यसूत्रोक्तमर्थं निगमयति ७४) यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥ १९ ॥ यदा पुनरयमुक्ताः परतत्त्वसमावेशोपदेशयुक्तीः परिशीलयन् एकत्र पूर्णाहन्तात्मनि स्पन्दतत्त्वे सम्यगविचलत्वेन रूढः समाविष्टस्तन्मयो भवति तदा तस्येति पूर्वसूत्रनिर्दिष्टस्य पुर्यष्टकस्य तद्द्वारेणैव विश्वस्य निमीलनोन्मीलनसमावेशाभ्यां लयोदयौ नियच्छन् प्रथमसूत्रनिर्णीतदृशा एकस्मादेव शंकरात्मनः स्वभावात् संहारं सर्गं च कुर्वन् भोक्तृतामेति धरादिशिवान्तसमग्रभोग्यकवलनेन परमप्रमातृतां सतीमेव प्रत्यभिज्ञानक्रमेणावलम्बते । ततश्च प्रथमसूत्रनिर्णीतस्य शक्तिचक्रस्य स्वमरीचिनिचयस्येश्वरोऽधिपतिर्भवेत् । अनेनैव च देहेन महेश्वरत्वमवाप्नोत्येवेति यावत् । एवं चोपक्रमोपसंहारयोर्महार्थसंपुटीकारं दर्शयन् तत्सारतया समस्तशांकरोपनिषन्मूर्धन्यतामस्याविष्करोति शास्त्रस्य श्रीमान्वसुगुप्ताचार्यः इति शिवम् ॥ इति श्रीस्पन्दनिर्णये विभूतिस्पन्दस्तृतीयो निःष्यन्दः समाप्तः ॥ ७५) अथ चतुर्थो निष्यन्दः ग्रन्थान्ते परमां स्पन्दभूमिं गुरुगिरं च श्लेषोक्त्या स्तौति अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् । वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् ॥ १ ॥ तामसामान्यां भगवतीं गुरुं शैवी मुखमिहोच्यते (वि० भै० २०) इति स्थित्या शिवधामप्राप्तिहेतुत्वादाचार्यरूपाम् । अथ च गुरुं पश्यन्त्यादिक्रोडीकारात् महतीं भारतीं परां वाचम् तथा गुरोराचार्यस्य सम्बन्धिनीमुपदेष्ट्रीं गिरं चित्रां लोकोत्तरचमत्काररूपां वन्दे सर्वोत्कृष्टत्वेन समाविशामि । अथ च सर्वावस्यासु स्फुरद्रूरूपत्वादमिवदन्तीमुद्यन्तृताप्रयत्नेनाभिवादये स्वरूपविमर्शनिष्ठां तां समावेष्ठुं संमुखीकरोमि । कीदृशीमगाधो दुरुत्तरो यः संशयः पूर्णाहन्तानिश्चयाभावात्मा विचित्रः ७६) शङ्काकलङ्कः स एव विततत्वेनाम्भोधिस्तस्य सम्यगुत्तरणे या तारिणी नौरिव तामित्युभयत्रापि योज्यम् । तथा विचित्रार्थानि नानाचमत्कारप्रयोजनानि पदानि विश्रान्तयो यस्यां परस्यां वाचि तां विचित्राणि रम्यरचनानुप्रविष्टानि अर्थपदानि वाच्यवाचकानि यस्यां गुरुवाचि ताम् ॥ १ ॥ प्रसिद्धप्रभावस्वनामोदीरणात्सम्भावनाप्रत्ययेनार्थिनः प्रवर्तयन् गूहनीयतया महाफलतामस्य शास्त्रस्य निरूपयति शास्त्रकारः लब्ध्वाप्यलभ्यमेतज्ज्ञानधनं हृद्गुहान्तकृतनिहितेः । वसुगुप्तवच्छिवाय हि भवति सदा सर्वलोकस्य ॥ २ ॥ एतच्छास्त्रोक्तमेतज्ज्ञानमेव पुरुषार्थप्राप्तिहेतुत्वाद्धनमलभ्यमपि दुष्प्रापमपि लब्ध्वा शंकरस्वप्नोपदेशसारं शिलातलादवाप्य प्रकाशविमर्शात्मकं हृदयमेव विश्वान्तः प्रवेशावकाशप्रदत्वाद्गुहा तस्यामन्तेन निश्चयेन कृता निहितिः स्थापना येन अर्थात्तस्यैव ज्ञानधनस्य तस्य स्वामिनः श्रीवसुगुप्ताभिधानस्य गुरोर्यथैव तच्छिवाय जातं तद्वदधिकारिनियमसंकोचाभावात्सर्वलोकस्यापि हृदुहान्तकृतनिहितेर्यत्नादसामयिकात् ७७) गोपयतः हृढप्रतिपत्त्या च स्वात्मीकुर्वतः सदा शिवाय भवति नित्यशंकरात्मकस्वस्वभावसमावेशलाभाय सम्पद्यत इति शिवम् ॥ २ ॥ यद्यप्यस्मिन् विवृतिगणना विद्यते नैव शास्त्रे लोकश्चायं यदपि मतिमान् भूयसोत्तानवृत्तिः । जानन्त्येते तदपि कुशलास्तेऽस्मदुक्तेर्विशेषं केचित्सारग्रहणनिपुणाश्चेतनाराजहंसाः ॥ १ ॥ अनन्तापरटीकाकृन्मध्ये स्थितिममृष्यता । विवृतं स्पन्दशास्त्रं नो गुरुणा नो मयास्य तु ॥ २ ॥ विशेषलेशः सन्दोहे दर्शितः पूर्वमद्य तु । रुद्रशक्तिसमावेशशालिनः शिवरूपिणः ॥ ३ ॥ शूरनाम्नः स्वशिष्यस्य प्रार्थनातिरसेन तत् । निर्णीतं क्षेमराजेन स्फारान्निजगुरोर्गुरोः ॥ ४ ॥ येषां नो धिषणोपदेशविशदा सद्दैशिकैर्दर्शिता श्रीमच्छाम्भवशासनोपनिषदा येषां न भग्नो भ्रमः । ये नास्वादितपूर्विणो मृदुधियः श्रीप्रत्यभिज्ञामृतं ते नात्राधिकृताः परैः पुनरिदं पूर्णाशयैश्चर्व्यताम् ॥ ५ ॥ शिवादिक्षित्यन्तो विततविततो योऽध्वविभवः स्फुरन्नानासर्गस्थितिलयदशाचित्रिततनुः । इयद्विश्वं यस्य प्रसरकणिकासौ विजयते परः संवित्स्पन्दो लसदसमसौख्यायतनभूः ॥ ६ ॥ ७८) समाप्तोऽयं श्रीस्पन्दनिर्णयः कृतिः श्रीप्रत्यभिज्ञाकारप्रशिष्यस्य महामाहेश्वराचार्य श्रीमदभिनवगुप्तनाथदत्तोपदेशस्य श्रीक्षेमराजस्येति शिवम् ॥ श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् । मधुसूदनकौलेन संपाद्यायं प्रकाशितः ॥ </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] nffcyllmq7funre0rlzqwqh5278wgm9 स्पन्दकारिका (रामकण्ठाचार्यविरचितविवृत्युपेता) 0 87271 417920 417899 2026-07-31T05:00:42Z Shubha 190 पुनर्निर्देशनम् अत्यक्त्वा Shubha इत्यनेन [[स्पन्दकारिका विवृत्युपेता]] तः [[स्पन्दकारिका (रामकण्ठाचार्यविरचितविवृत्युपेता)]] पृष्ठं स्थानान्तरितं 417899 wikitext text/x-wiki <poem> प्. १) ओं नमः स्वस्पन्दात्मसंविन्मूर्तये शंभवे । अथ स्पन्दकारिकाः श्रीरामकण्ठाचार्यविरचितविवृत्युपेताः । प्रथमो निष्यन्दः । दशादिक्कालाद्यैरकलितचिदालोकवपुषः सदा तादृक्स्वात्मानुभवितृतया विस्फुरति यः । निजो धर्मः शम्भोरनुपमचमत्कारसरसः परं शाक्तं तत्त्वं जगति जयति स्पन्द इति तत् [दिगादिवृत्तयः शक्तावनुद्भिन्नप्रसरत्या तन्मया एव स्वालक्षण्येन भातुमप्रभविष्णवः शक्तिरपि शक्तिमदौन्मुख्येन तन्मात्रावशेषा केवलमनुभवितृरूपविस्फुरणमाश्लिष्टा । अत एव दिगादिकलनया अकलितं चिन्मात्रं वपुः इति प्रथमपादेन शक्तिमान् परामृष्टः । शेषेण स्पन्दशब्दस्य सार्थकतां प्रकटयितुं शक्तिमदभिव्यञ्जिका तत्समवायिनी ब्रह्माह्रादादिपर्याया शाक्तविजृम्भणा परामृश्यते । जयति-पदाभिधेयं सर्वौत्कर्ष्यशालित्वं शाक्ततत्त्वस्य अवगम्यते । ततश्च तत्समावेशरसपरिभोगविगाहनवतां भक्तिभाजां भुक्तिमुक्तिसंपत्तिपात्रता विश्वाभिलषणीयता च ध्वन्यते ।] ॥ १ ॥ प्. २) तज्ज्ञैरदर्शितदिशः स्वयमाविशन्तः केचिन्निसर्गगहनं विषमं भ्रमन्तु । तेनैव यत्पुनरमी हतवर्त्मनान्यान् आकारयन्ति गमनाय महान्भ्रमोऽयम् [विज्ञजनोपदिष्टसत्संप्रदायमन्तरेण निसर्गगम्भीरं शैवागमाब्धिमवगाहमानानां वामाख्यशक्तिसंवृतसंविदां स्वोपज्ञतया संभावनावतां वस्तुतो विना पारतीरलाभं मध्ये निमग्नप्रायतैव । तदीयदुष्पथे तु भ्रमिमनुभवतां तदनुगानां या पारदर्शनाय तच्चोदना हन्त तत् चक्षुरुन्मेषमन्धकूपनिपतनम् । अतः तादृशजनान् पारं लङ्घयितुमयं मदीयो यत्रः इति ।] ॥ २ ॥ नानावादानिलौघाननवसरकृतान्योन्यसंघट्टघोरोद्घातानापादयद्भिः श्रवणविदलनोद्दामशब्दप्रबन्धान् । शास्त्राब्धिः क्षोभ्यते यैर्विवरणरभसादुद्यदावर्तभीमभ्रान्तिभ्रष्टागमार्थप्लवविधुरमति -स्तारितोऽर्थी जनस्तैः ॥ ३ ॥ कश्चिद्भिन्नरुचिर्विदन्नपि परं तत्त्वं विपर्यस्यति द्वेषध्वान्तविरुद्धबुद्धिरितरो जात्यैव चान्यो जडः । इत्थं दुर्लभ एव सर्वहृदयग्राही गिरां संग्रहः किंत्वेतेऽद्य विवेकिनः कतिपये सन्त्यत्र पात्रं सताम् ॥ ४ ॥ प्. ३) केनापि ग्रथितां प्रसारणधिया कैश्चिद्द्विसूत्रीकृतामेकीकृत्य यथागमं विरचितां स्पन्दार्थसूत्रावलीम् । ईशानुग्रहशक्तिवज्रशिखया विद्धेषु विद्वन्मनोमाणिक्येषु निवेशयाम्यहमिमां कर्तुं कृतार्थां द्वयीम् [प्रथमं श्रीवसुगुप्तपादैः सूत्रावलिः द्.ब्धा । तदनु भट्टश्रीकल्लटादिभिः सिद्धैः संवृतार्थविवृत्या प्रगुणीकृता । अधुना तु सूत्रसंदर्भण##- स्पन्दार्थसूत्रावली एकीकृत्य संयोज्य वृत्तिसंवादितार्थविवरणं क्रोडीकृत्य च आगमाम्नातपरमार्थनिर्णीत्या विशिष्टरचनया उपेता पराशक्तिपाताख्यचुभ्यकमणिशिखया अनुविद्धासु सहृदयानां विमलमनोरत्नजातिषु निगुम्पयते । यत्परिमलसौभाग्यादिचचनया सुधामयस्वामिप्रासादमध्यारुह्य निरतिशयसुखानुभूतिरनर्गलविकचितवृत्त्या सुरस्यते इति ।] ।। ५ ।। यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ । तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः ।। १ ।। तं शंकरं - श्रेयसः कर्तारं स्तुमः - प्रशंसामः । तं कं यस्य उन्मेष-निमेषाभ्यां - शक्तिप्रसरप्रलयाभ्यां जगतो - विश्वस्य प्रलयोदयौ - विनाशप्रादुर्भावौ । अत्र यथासंख्यं न विवक्षितमिति वक्ष्यामः । तं कीदृशं शक्तिचक्रविभवप्रभवं प्. ४) शक्तीनां वक्ष्यमाणस्वरूपाणां चक्रं - समूहः स एव विभव##- वस्तुसंगतिस्तु कथं (?) - इति विचार्यम् । शंकरस्तावत् नित्यम् अव्यभिचरदेकस्वभाव एक एव पदार्थः परमार्थसन् - इति प्रकरणस्य अस्य तात्पर्यं तथानिर्वाहात् तस्य परस्परविरुद्धौ अनित्यौ निमेषोन्मेषात्मकौ अवस्थाविशेषौ संबन्धित्वेन कथं प्रतिपादितौ (?) कर्तृप्रथया हि अनया एवं प्रतिपाद्यते - शंकर उन्मिषति निमिषति इति । एवं च अनित्यावस्थायोगित्वं नित्ये भगवति अनुपपन्नम् तत् कथमुक्तं यस्योन्मेषनिमेषाभ्याम् इति (?) अत्रोच्यते - उन्मेष-निमेषशब्दाभ्यां तदुपचरितवृत्तिभ्याम् इच्छामात्रमेकं शंकरसंबन्धि प्रतिपाद्यते स च तस्य नित्यो धर्मः स्वभावभूतः तस्य उन्मेष-निमेषशब्दवाच्यत्वं द्वित्वं च प्. ५) उपचारात् यतो जगत एव परमेश्वरमायाशक्त्युद्भावितकार्यरूपत्वात् अनित्यस्य प्रलयोदयसंभवे सति निमेषोन्मेषौ वस्तुतः संभवतः । तौ च ईश्वरेच्छामात्रनिमित्तकौ इति उदयात्मकोन्मेषहेतुत्वात् ईश्वरेच्छैव उन्मेषशब्देन प्रलयात्मकनिमेषहेतुत्वात् निमेषशब्देन च उपचर्यते । यथा आयुष्कारणत्वात् आयुःशब्देन घृतम् । सा च अव्यतिरिक्ता शंकरस्य शक्तिः तदवगम एव च आत्मैश्वर्यप्रत्यभिज्ञालक्षणसिद्धेर्हेतुः । सा च दिदृक्ष्येव सर्वार्थान् (३ नि. ११ का.) इत्यत्र वक्ष्यमाणन्यायेन सांसारिकपुरुषप्रसिद्धेच्छासादृश्यात् तदवगमोपायतया इच्छाशब्देन व्यपदिश्यते । यथा हि पुरुषस्य इच्छावस्थायाम् इष्यमाणः पदार्थः स्वरूपाव्यतिरेकेणैव अवतिष्ठते तथा भगवतः शक्तौ अनन्तावभासविशेषचित्रं जगत् मनागपि अनुपजातविशेषात् स्वरूपात् अव्यतिरेकेणैव अवतिष्टह्ते । सेयं परमार्थसती शिवदशा या एवं तद्विद्वद्भिः स्तूयते प्. ६) सदा सृष्टिविनोदाय सदा स्थितिसुखासिने । सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ।। इति । तथा ईश्वरप्रत्यभिज्ञायाम् या चैषा प्रतिभा तत्तत्पदार्थक्रमरूपिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ।। इति । इत्थम् एकस्या एव पारमेश्वर्याः शक्तेः इच्छा-ज्ञान-क्रियाव्यपदेशः इदन्तोन्मिषन्मायाशक्तिजनित एव यतः शिवदशामेकां मुक्त्वा मायाशक्तिः सर्वत्र कृतपदा यद्वशात् एकस्मिन् शिवतत्त्वे परमार्थसति सदाशिवादि##- नि० १४ का०) इत्यादिश्लोकव्याख्यानावसरे प्रतिपादयिष्यते । सा एवंलक्षणा पारमेश्वरी शक्तिः स्वलीलोल्लासितस्य जगतोऽवस्थाद्वयहेतुत्वात् द्वित्वेनापि च उपचरिता । तेन इदमत्र प्रथमश्लोकपूर्वार्धे तात्पर्यम् - यस्य इच्छामात्रेण जगतः प्रलयोदयौ तं स्तुमः । तच्च यथासंख्यम् अत्र मुख्यया प्. ७) वृत्त्या नापेक्षणीयम् उन्मेषेण उदयो निमेषेण प्रलयः - इति तु अर्थसंख्या समवैति । एतच्च इच्छामात्रम् उन्मेषनिमेषौ - इत्येतावत्तात्पर्यं प्रतिपादयितुं स्वयं वृत्तिकृता भट्टकल्लटेन व्याख्यातम् संकल्पमात्रेण इति । ये तु यथासंख्यसमर्थनानुरोधात् यस्य उन्मेषे क्रियाशक्तिप्रतिसंहारात् स्वरूपविकासे जगतः प्रलयो विनाशः निमेषे प्रसृतक्रियाशक्तित्वात् स्वरूपसंकोचरूपे जगतः उदय उद्भवः इति व्याचक्षाणाः शंकरस्यैव पारमार्थिकौ उन्मेषनिमेषौ धर्मत्वेन प्रतिपादयन्ति ते च काल्पनिकमेव अर्थं परमार्थत्वेन प्रतिपद्यमानाः तथा दर्शनस्य अस्य अन्तरं ननु प्रविष्टाः (?) - इति नमस्तेभ्यः । ननु नित्याव्यभिचरदेकस्वभावस्य भगवतः शक्तिरपि तादृगेव प्रतिपादिता तयोरभेदाभ्युपगमात् । तत् कथं व्याख्यातं शक्तीनां चक्रमिति (?) अत्र ब्रूमः । ननु इदमेव तत् निरतिशयम् प्. ८) ऐश्वर्यम् ईश्वरस्य इह विवक्षितं यत् सर्वत्र अहम् - इति स्वरूपपरामर्शमात्राव्यभिचारेऽपि निरवधिविजृम्भमाणविचित्रावभासखचितं त्रैलोक्यालेख्यम् इदम् उल्लिखतिः इत्थम् उल्लिख्यमानमपि एतत् परमार्थतः परामृश्यमानं तत्स्वभावात् मनागपि च यत् न भिद्यते । यथोक्तम् परमेश्वरता जयत्यपूर्वा तव सर्वेश यदीशितव्यशून्या । अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ।। इति । अन्यत्रापि लिखते जगत्त्रितयचित्रमद्भुतप्रतिभापरिस्फुरितशंसि ते नमः । सुसितैकसूक्ष्मनिजशक्तिवर्तिकारचितावभासशतशोभि शंभवे ।। इति । एतच्च एवंविधं शांकरमैश्वर्यं तदनुग्रहग्रस्तसमस्तमायातमस्त्वप्रकाशितपरमार्थानां स्वसंवेद्यमेव सुप्रबुद्धानां महात्मनाम् । ईश्वरशक्तिपातप्रबोधितानां तु सम्यक् उपनतसद्गुरूपदेशक्रमेण प्. ९) अभ्यस्यतां प्रत्यासन्नस्वानुभवम् । अप्रबुद्धाः पुनः अनुपदेश्या एव इति । एतदेव इह पुरस्तात् प्रतिपादयिष्यमाणम् । तत् एवंविधे स्थिते शंकरस्य पारमैश्वर्ये या इमाः परमाद्भुतमायाशक्तिवशात् चिदचिद्भेदेन द्विविधा अपि अवान्तरभेदात् अपर्यन्ता भावव्यक्तयः सा परमेश्वरस्य स्वरूपात् अभिन्ना शक्तिरेकैव तात्त्विकी इदमिति परामर्शभेदमात्रजन्मना तु नानानामरूपविभक्तभावभेदेन अवभासमाना सती बहुत्वेन व्यपदिष्टा शक्तीनां चक्रम् - इति । शक्तिशब्देन च भावव्यक्तीनां व्यपदेशे परमेश्वरात् शक्तिमतो भेदाभावप्रतिपादनमेव प्रयोजयम् । एता एव विभवः ऐश्वर्यमईश्वरस्य ताभिरेव तस्य इत्थं विभवनशीलत्वात् । यथोक्तं पारमेश्वरे सक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते । शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांश्च महेश्वरः ।। प्. १०) इति । एवं च स्वशक्तिभूतस्य अस्य विभवस्य असौ प्रभवः - उत्पत्तिकारणं न तु स्वरूपव्यतिरिक्तस्य अन्यतः कुतश्चित् लब्धात्मनः अतश्च यस्य इत्यादिना प्रथमश्लोकपूर्वार्धेन शंकरस्य जगत्कारणत्वे प्रतिपादितेऽपि शक्तिचक्रात्मकस्वैश्वर्यभूतजगत्प्रभवत्वलक्षणविशेषप्रत्यायनपरम् क्दम् तम् इत्यादिना श्लोकापरार्धेन विशेषणं न पुनरुक्तम् । एतदेव वृत्तिकृता व्याख्यातम् विज्ञानदेहात्मकस्य शक्तिचक्रैश्वर्यस्य उत्पत्तिहेतुत्वम् * * * * * * * * (?) । इत्यादिना । विज्ञानदेहो - विशुद्धसंविन्मात्रमूर्तिः महेश्वरः स आत्मा - स्वभावो यस्य शक्तिचक्रात्मन ऐश्वर्यस्य - इति हि तस्य अर्थोऽभिमतः । किं च यस्य एवंविधधर्माव्यभिचारः स परमेश्वरो व्याख्यास्यमानार्थेन शंकरशब्देन इह प्रतिपादितः । प्. ११) स च आत्मैव नान्यः - इति यत्तच्छब्दोपलक्षितवाक्योपनिबन्धः सूचयति यतः श्लोकपञ्चाशत्प्रपञ्चितप्रकरणार्थपर्यालोचनया तस्यैव प्रोक्तविशेषणाव्यभिचारः पर्यवस्यति । एतदेव वृत्तिकृता दर्शितम् अनेन स्वस्वभावस्यैव शिवात्मकस्य इति व्याचक्षणेन स्वस्य - आत्मनः स्व - आत्मीयो भावः - स्वरूपं स्वस्वभावः - इति हि तस्य विग्रहोऽभिप्रेतः । तत् अस्य आद्यश्लोकस्य अयं तात्पर्यार्थः प्रकरणनिर्वाह्यवस्तुप्रतिज्ञाबन्धरूपः यत् - परमेश्वरः इच्छामात्रेण जगतः प्रलयोदयौ विदधाति लब्धस्थितिकमपि जगत् तच्छक्तिविभूतिरेकैव मायावशात् तु नानात्वेन अवभासते - इति । इदमेव अर्थद्वयम् अत्र प्रकरणे विस्तार्यते उपपत्त्युपलब्धिप्रदर्शनक्रमेण । तथा च - प्रथमत एव मायावशात् स्वरूपप्रत्यवमर्शस्य अनुल्लासात् वेद्यात् देहादेरव्यतिरेकेण प्रतिभासमानस्यैव प्. १२) आत्मनो व्यतिरेकः प्रदर्श्यते । ततो वेद्यस्यैव जगतो वेदकात् तस्मात् उपलब्धतात्त्विकस्वभावात् शक्तिभावेन अव्यतिरिक्तत्वम् - इति अस्मिन्नेव अर्थद्वये उपपत्त्युपलब्धी - इति चतुर्निष्यन्दः स्पन्दसिद्धान्तोऽनेन श्लोकेन आसूत्रितः । सिद्धान्तता च अस्य सिद्धस्यैव - न साध्यस्य - ईश्वरतत्त्वस्य अन्तो - निष्ठा निश्चयः इति कृत्वा यदि वा नानासिद्धान्तोदितस्य ज्ञान-क्रिया##- इत्यस्यैव सिद्धान्तता । किं च प्रारब्धप्रकरणाविघ्नपरिसमाप्तिप्रयोजनेनापि अनेन आदिश्लोकेन संबन्धादयोऽपि सूच्यन्ते - इत्यादिशन्ति गुरवः । तच्च सर्वं शंकरं स्तुमः इत्यत एव वाक्यात् लभ्यते । यतः उपायलक्षणं श्रेयःशास्त्ररूपं मुख्यतया उपेयलक्षणं च आत्मैश्वर्यप्रत्यभिज्ञारूपं तदुभयमपि प्. १३) शम् इत्यनेन पदेन उक्तम् । तस्य कर्ता शंकरः इत्यन्वर्था इयं संज्ञा परमेश्वरस्य । अत एतच्छास्त्रात्मकश्रेयसः साक्षात् कर्ता परमेश्वर एव । तत्संप्रदायमिमं निबध्नद्भिः कर्तृव्यपदेशोऽधिगतः । एवम् ईश्वरशास्त्रयोः कर्तृकार्यलक्षणः संबन्धः । अभिधेयमिह शंकरस्वरूपमिति स्तुमः इति पदात् प्रतीयते । उपादेयवस्तुस्वरूपप्रतिपादनमेव स्तुत्यर्थः - इति हि निश्चितं विपश्चिद्भिः । अतः शास्त्राभिधेययोः प्रतिपाद्य-प्रतिपादकभावलक्षणः संबन्धः । प्रयोजनं च आत्मैश्वर्यप्रत्यभिज्ञात्मकं शंकरपदादेव अवसीयते । परस्यापि हि श्रेयसः कर्तृत्वेन ईश्वर एव व्याख्यातः - इति अभिधेय-प्रयोजनयोः उपायोपेयभावलक्षणः । संबन्धः । इति व्याख्याताः संबन्धादयस्त्रयः ।अभिधानमस्य शास्त्रस्य स्पन्द इति । यतः स्पन्दतत्त्वविविक्तये । (१ नि० २१ का० २ पा०) इत्यादौ इहैव व्यवहारः । स्पन्द-शब्दश्च अयं स्वस्वभावपरामर्शमात्रस्य प्. १४) नित्यस्य शून्यताव्यतिरेचनकारणभूतस्य तावन्मात्रसंरम्भात्मनः शक्त्यपराभिधानस्य पारमेश्वरस्य धर्मस्य किंचिच्चलनात् स्पन्द इति अर्थानुगमात् वाचकत्व्न व्यपदिष्टः । तत्प्रतिपादनहेतुत्वात् शास्त्रमपि इदं स्पन्दशब्देन अभिधीयते । विषयश्च [अग्र विषयशब्देन उपदेशविषयः अधिकारी निर्दिश्यते शास्त्रान्तरेषु विषयशब्देनाभिधेयं विवक्षितम् इह तु अभिधेयं व्याख्यातपूर्वम् ।] अस्य विशुद्धश्रद्धाभक्तिप्रकर्षपिशुनितपरमेश्वरपरशक्तिपातप्रोन्मील्यमान##- सम्यगुपनतदीक्षादिसंस्कारो गुरुवचनचोदनामात्रावशेषस्वात्मैश्वर्योपलब्धिः तादृशस्यैव इह उपदेश्यत्वेन पुरस्तात् परिगृहीतत्वात् । इति अभिधान-विषयावपि अवगन्तव्यौ । व्याख्यातश्च अयमादिश्लोकः समस्तप्रकरणार्थोपक्षेपगर्भः ।। १ ।। नन्नु सुर-नर-तिर्यगादिभेदेन प्रविभक्ततनु-करण##- प्. १५) प्राणभृत्प्रपञ्चस्य सुख-दुःख-क्षुत्तृष्णा##- परस्परदूरभिन्नो यः स्वभावः स कथं समनन्तरप्रतिपादिताद्भुतैश्वर्यशंकराभेदेन प्रतिज्ञातः येन एवं व्याख्यातम् (?) यस्य एवंप्रतिपादितविशेषणाव्यभिचारः स कथं शंकरो ममैव आत्मा (?) - इति अत आह यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् । तस्यानावृतरूपत्वान्न निरोधोस्ति कुत्रचित् ।। २ ।। तस्य - अस्य वक्ष्यमाणस्य तत्त्वस्य न क्वचित् - कस्मिंश्चित् देशे काले आकारे अवस्थाविशेषे वा निरोधः - अवच्छेदः इदन्तेयत्ताव्यपदेशहेतुः वेद्यवस्तुधर्मः अस्ति - विद्यते कुतो हेतोः (?) अनावृतरूपत्वात् - जात्याद्यभिमानरूपेण प्. १६) मलेन अनावृतम् अनाच्छादित. रूपं यस्य तत् तथा तस्य भावः तत्त्वं तस्मात् । तस्य अनावृतत्वोपपत्तिप्रतिपादनाय विशेषणमाह यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् - इति । इदम् इति वेद्यतयावस्थितं सर्वम् इति यत्र यत्र दर्शने यथा यथा परिकल्पितं तत् अशेषं कार्यं कर्त्रधीनसद्भावं यत्र - यस्मिन् वेदकत्वेन कर्तृत्वेन च अवस्थिते आधेयसमस्तपदार्थसार्थसामान्याधारभूते एकस्मिन् स्थित. - तेन तेन पृथिव्यादिना घटपट-गवादिना वा रूपेण लब्धप्रतिष्ठं यदन्तर्गतस्य सर्वस्य वस्तुनः प्रकाशमानत्वात् स्वरूपसत्तासादनमित्यर्थः । ननु सूर्यादिप्रकाशान्तर्गतं घटपटादिद्रव्यं तेन तेन रूपेण प्रकाशमानत्वात् सत्ताम् आसादयति तथैव सर्वमिदं कार्यं यत्र स्थितम् इत्युक्तम् उत अन्येन प्रकारेण (?) इत्याह - यस्माच्च निर्गतम् इति - प्रधानादिकारणान्तरपरिहारेण यस्मात् प्. १७) एककर्तृभूतात् एकस्मात् कारणात् निर्गतम् उद्भूतम् । तत् अयमत्रार्थः - यः पदार्थः सर्वस्य इदन्तापन्नतया प्रमेयभूतस्य शास्त्रेषु नानाविभागेन संगृहीतस्य तत्त्वव्रातस्य एकः प्रकाशकत्वेन स्थितिहेतुत्वात् आधारभूतः कर्तृत्वात् च प्रभवः कारणं स्वयं च वेद्यत्वसंस्पर्शासहिष्णुत्वात् मायीयप्रमात्रन्तराविषयभूतोऽनवच्छिन्नमहिमा निर्मलचिन्मात्रैकरूपः स इह स्वस्वभावशब्देनाभिमतः न तु जात्याद्यवच्छिन्नाभिमानसंकोचितात्मनो मायाशक्त्यपह्नुतस्वैश्वर्यसंविदः कार्यवर्गान्तःपातिनः प्राणिप्रबन्धस्य स्वरूपं स्वस्वभावः । इति युक्तम् उक्तम् आत्मैव शंकर इति । तत् एतत् वृत्तिकृता कथं पुनः स्वस्वभावस्यैव संसारिणः शिवत्वेन व्यपदेशः इति आक्षिप्य यत्र स्थितम् इदं जगत् यस्मात् च उत्पन्नम् प्. १८) इति विवृण्वता प्रतिसमाहितम् । तस्य संसार्यवस्थायाम् इति । वृत्तिरेवं बोद्धव्या - संसारिणां तन्मायावभासितजात्याद्यभिमाना मायीयावस्था तस्यामपि तस्य स्वस्वभावस्य तत्त्वतो निरोधो नास्ति इति ।। २ ।। ननु योऽयं स्वभावाख्य एवंप्रतिपादितः पदार्थः स किं केवलात् आगमाज्ञामात्रात् ओम् इति अभ्युपगन्तव्यः उत प्रगुणाभ्याम् उपपत्त्युपलब्धिभ्यां व्युत्पाद्याभ्यां प्रतिपत्तिगोचरतां नेतुं शक्यः (?) - इति संशयच्छेदाय श्लोकान्तरेण उपपत्तिं यां प्रतिपादयिष्यति तदवतारणार्थम् इदं तावत् उच्यते - सकलप्रकरणप्रतिपाद्यार्थतत्त्वलब्धप्रतिष्ठया परया प्रज्ञया स्वस्वभावस्य परामर्शावसरे रविकिरणस्पृष्टनीहारनिकरनिःसारनश्यत्स्वरूपया संप्रति तु द्वैतमहामोहतिमिरात्मना विजृम्भमाणया मायाशक्त्या प्. १९) आविष्टानां सर्वप्रमातॄणां पारमार्थिकात् वेदकात् स्वभावात् प्रच्युत्येव वेद्य एव देहादौ वेदकभावेन अहमिति प्रत्ययः परमदुर्भेदस्य भेदग्रन्थेर्मूलम् । ततस्तेभ्यो देहादिभ्यः तस्य अहंप्रत्ययात्मनः स्वस्वभावस्य व्यतिरेचनाय समनन्तरप्रतिज्ञातस्य सर्वथा निरोधाभावस्य उपलब्धये स्वानुभवप्रमाणाम् उपपत्तिं प्रस्तावयन् आह जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ।। ३ ।। अतः तस्य स्वभावस्य न क्वचित् निरोधः अस्ति यतः असौ निजात् आत्मीयात् अनुपाधेः स्वभावात् स्वरूपात् न निवर्तते नान्यथा भवति न च्यवते इति संबन्धः । कीदृशात् स्वभावात् (?) उपलब्धृतः उपलम्भकात् ज्ञातुः अनुभवितुः इत्यर्थः । कदा च न निवर्तते (?) जाग्रदादिविभेदे प्रसर्पति अपि जाग्रदादिना प्. २०) यो विभेदो व्यतिरेकः अवस्थानाम् अन्योन्यवैलक्षण्यं तस्मिन् प्रसर्पति विजृम्भमाणे आदिग्रहणात् स्वप्न-सुषुप्तावस्थे गृह्येते स्मृत्याद्यवस्थाः स्वप्नेनैव संगृहीताः तुल्यरूपत्वात् मदमूर्छाद्यवस्थाश सुषुप्तेन । तत्र जाग्रत् इति जागरावस्थैव शास्त्रेषु प्रसिद्धा यस्यां श्रोत्रादिभिः इन्द्रियैः शब्दादीन् इन्द्रियार्थान् गृह्णन् प्रसृतशक्तिः पुरुषः परिस्पन्दते । स्वप्नः स्वापावस्था यस्यां स्वव्यापारपरिश्रान्तः श्रोत्रादिविहारविरतावपि मनसैव असौ विषयान् परिगृह्णाति । सुषुप्तं गाढनिद्रारूपा सुखस्वापावस्था मनोव्यापारस्यापि व्युपरमे सति यत्र व्यतिरिक्तवेद्यसंवेदनं तात्कालिकं नास्ति । स्मृत्यवस्था अनुभूतविषयासंप्रमोषात्मिका स्वप्नसदृशी मनसैव विषयग्रहणसाम्यात् । मदः पानातिशयजः चित्तेन्द्रियवृत्तिप्रमोषरूपो विकारः । मूर्छा विषादविषादिभोजनादिजनितमोहात्मा । एवमादिवेद्यग्रहणाभावसाम्यात् सुषुप्ततुल्या प्. २१) अन्या अपि याः काश्चनापि अवस्थाः संभवन्ति ता एतासु एव अनर्भवन्ति । एतन्निमित्तके विभेदे प्रवर्तमानेऽपि निजात् उपलब्धुः स्वभावात् असौ न निवर्तते । यदि अवस्थात्मक एव अयम् उपलब्धा स्यात् तत् अवस्थावत् सोऽपि विभिद्येत । यावता तासां विभेदे प्रसर्पति अयं स्वभावात् अवस्थाव्यतिरिक्तात् न निवर्तते । इति अपिशब्दस्य अर्थः । कथम् एतत् प्रतिपद्यामहे - यत् अवस्थातापि सन् अवस्थासु भिन्नरूपासु प्रसरन्तीष्वपि स एकस्मात् स्वभावात् न निवर्तते इति (?) अत्र हेतुगर्भं विशेषणम् आह - कीदृशि तस्मिन् प्रसर्पति (?) तदभिन्ने अभिन्न एकरूपो निर्विशेषोपलब्धृत्वमात्रेण लक्षणेन युक्तः स्वस्वभावो व्यापकत्वेन स्वयम् अनुभूयमानो यत्र स तथा तस्मिन् । अवस्थाभेदेऽपि उपलब्धृलक्षणस्य अवस्थातुः अभेदः - प्. २२) इति सर्वस्य अत्र स्वानुभवः प्रमाणम् । तथाहि - योऽहम् अस्वाप्सं स जागर्मि इति एकानुसंधातृसूत्रनिबद्धत्वेन स्वयम् अनुभूयमाना जागरादयोऽवस्थाः प्रसर्पन्ति । एताभ्यश्च अन्यदवस्थान्तरम् आनन्त्येऽपि संसारिणां जन्तूनां न संभवति । अतो यथा एकस्मिन् देहे अवस्थाव्यतिरिक्तरूप उपलब्धा व्यापक एकः तथा सर्वदेहेष्वपि स एव एको व्यापकः सिद्धः देहभेदेऽपि तस्य उपलब्धृमात्रव्यतिरिक्तलक्षणान्तराभावात् । प्रतिपाणि पृथक्त्वेन अहमिति तु प्रत्ययो मायीयो न तत्त्विकः । तद्व्युदासार्थमेव प्रकरणारम्भः । सोऽपि च उपलब्धृत्वमात्रम् एकं स्वलक्षणं न व्यभिचरत्येव । इति स्वस्वभाव एव शंकर - इति सम्यक् उपपादितं स्वानुभवानपह्नविनः प्रबुद्धान् प्रति । एताभिरेव अवस्थाभिः योगशास्त्रप्रसिद्धास्वपि जागराद्यवस्थासु तस्य अभेदः प्रतिपादितो वेदितव्यः । प्. २३) तास्वपि तस्य उपलब्धृत्वेन व्यापकतया अवस्थानात् । ताश्च संक्षेपतो लक्ष्यन्ते । तत्र ध्येये अर्थे चेतसा झगिति प्रवृत्तिमात्रं जागरावस्था धारणा इति क्वचित्प्रसिद्धा । तत्रैव विसदृशप्रत्ययपरिहारेण समानप्रत्ययप्रवाहैकतानतानुसंधानं स्वप्नावस्था ध्यानम् इति याम् आहुः । क्रमेण ऐकाग्र्यातिशयात् प्रत्ययान्तरासंकीर्णसूक्ष्मध्येयाभासमात्रविशेषता चित्तस्य सवेद्यसुषुप्तावस्था यां वितर्कविचारानन्दास्मितानुरूपानुगमलक्षणस्य संप्रज्ञातस्य समाधेः आनन्दास्मितामात्रानुगतम् अवस्थाविशेषम् आचक्षते । यस्तु विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (पा० १ सू० १७ पातञ्जले) इति कृतलक्षणः असंप्रज्ञातः समाधिः तत् अपवेद्यसुषुप्तम् । सर्वासु एतासु च अनुभवितृरूपस्य व्यापकस्य एकस्य स्वभावस्य सत्ता स्थितैव । प्. २४) यतः सालम्बने तावत् समाधौ व्यतिरिक्तवेद्यसद्भावात् लौकिकावस्थावत् वेदकस्य उपलब्धुः सत्त्वं स्फुटम् एव । यत्र तु निरालम्बनत्वात् अभावरूपत्वं तत्र तत्कालमेव वेद्यासंवेदनमात्रं न तु वेदकस्य वेदकत्वाभावः सुषुप्तादिवत् ततो निःसृतस्य सा अवस्था स्मर्तव्यतया वेद्यत्वम् आपन्ना व्यापकस्य सद्भावम् अभिव्यञ्जयत्येव । ये पुनः वेद्यसंवेदनसामर्थ्याभावमात्रव्यामोहिता उपलब्धारमात्मानमेव असत्यं मन्यन्ते तान् पुरस्तात् प्रतिबोधयिष्यति । एतत् सर्वं वृत्तिकृता जाग्रदादिनापि भेदे प्रवर्तमाने न तस्य स्वरूपमाव्रियते इत्यादिना ग्रन्थेन सूचयित्वा विषशक्तिदृष्टान्तेन प्रमाणीकृतम् ।। ३ ।। ननु जागरादिषु अवस्थाविशेषेषु स्वभावात् उपलब्धुः [उपलब्धृरूपात् इत्यर्थः ।] असौ न निवर्तते स्वरय आत्मन प्. २५) उपलब्धुर्ज्ञानस्य भावात् स्वानुभवरूपात् एकरूपतया अवस्थानात् - इति यत् प्रतिपादितम् तत् कथम् (?) यतः तासु अवस्थासु अनुभवितुः एवंविधाः प्रत्ययाः प्रादुर्भवन्ति तत् यथा - मनुष्योऽहं ब्राह्मणोऽहं देवदत्तोऽहं युवाहं वृद्धोऽहं कृशोऽहं स्थूलोऽहम् - इत्यादयो देहालम्बनाः सुखितोऽहं दुःखितोऽहम् - इत्यादयो बुद्ध्यालम्बनाः क्षुधितोऽहं तृषितोऽहम् ##- - इति प्रत्यवमर्शप्रत्येयः सुषुप्ताद्यवस्थातः प्रतिबुद्धस्य शून्यालम्बनः प्रादुर्भवति । त एते देहादयः सर्व एव अनित्याः तदालम्बनश्च अहंप्रत्ययोऽपि अनित्य एव । इति कथमुक्तम् उपलब्धुः [उपलब्धृताविषयस्य इत्यर्थः ।] स्वभावात् असौ न निवर्तते (?) इत्यत आह प्. २६) अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः । सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्र ताः स्फुटम् ।। ४ ।। अहं सुखी इत्यादयो याः संविदः ता अन्यत्र वर्तन्ते ततः असौ स्वभावात् एकस्मात् न निवर्तते - इति संबन्धः । अन्तरङ्गत्वात् मुख्या बुद्ध्यालम्बनाः संविदोऽत्र निर्दिष्टाः । आदिग्रहणात् तु देहाद्यालम्बनाः संगृहीताः । ताश्च पूर्वं प्रतिपादिताः । तेन सर्वा एताः संविदः अन्यत्र यथाप्रतिपादिताभ्यः सुखादिभ्यः अवस्थाभ्यो व्यतिरिक्ते सुखाद्युपलब्धरि वर्तन्ते सरितः सागरे इव तत्र विगलितान्योन्यभेदा ऐक्येन अवतिष्ठन्ते तादात्म्यम् आपद्यन्ते इत्यर्थः । एतत् च स्फुटं स्वानुभवसंवेद्यत्वात् सुप्रकटमेव । अतश्च एकैव संवित् उपलब्धृरूपा अहमिति स्फुरन्ती पारमार्थिकी मायाशक्तिजनिततथाविधस्वभावपरामर्शाभावबलात् सुखाद्यनित्यवस्तुवेदकत्वेन प्. २७) अहं सुखी दुःखी च - इत्यादिना बुद्ध्याद्यवस्थासामानाधिकरण्यम् उपगता सती संविद इति बहुवचनेन निर्दिष्टा । यदि पुनः सुखादिवेद्यवस्तुसंबन्धात् सुखादिवत् संविदोऽपि अहं प्रत्ययरूपाः परमार्थत एव बह्वयः स्युः तदा स्मृतिप्रत्यभिज्ञाद्यनुसंधानं न स्यात् असति च तस्मिन् सर्वव्यवहारोच्छेदः प्रसक्तः स च नेष्टः ततः अन्यत्र इति निर्दिष्टस्य अर्थस्य विशेषणम् आह - एताः संविदः कीदृशि अन्यत्र वर्तन्ते (?) सुखाद्यवस्थानुस्यूते सर्वेषु सुखादिषु सुखदुःखमोहरूपेषु अवस्थाविशेषेषु उत्पादविनाशधर्मकत्वात् अनित्येषु वेद्यत्वसामान्यात् शब्दादिविषयसमानवृत्तिषु अहमिति उपलब्धात्मकेन एकेन रूपेण व्यापकतया स्थिते । यतः अहं सुखी दुःखी च इत्येवमादिषु प्रत्ययेषु उल्लसत्सु द्वौ अर्थौ स्फुरतः । एकः सुखाद्यात्मा प्. २८) वेद्यरूपः - स वेद्यत्वादेव घटादिवत् अनित्यत्वेन नानात्वेन च प्रतिपद्यते अहमिति अपरो वेदकरूपः - स च पूर्वापरावस्थाव्यापकत्वेन समस्तप्रमातृप्रसिद्धः सकलव्यवहारहेतोः अनुसंधानस्य कर्ता नित्य उपलब्धृमात्ररूपत्वात् एक एव प्रकाशते । तत् एवम् - यथा जाग्रदादिना हेतुना विभेदे प्रसर्पत्यपि अयम् अभिन्नस्वलक्षण एक एव तथा जाग्रदाद्यवस्थान्तर्गतसुखित्वादिप्रत्ययासंतानेन हेतुना विभेदे प्रवर्तमानेऽपि अभिन्नस्वलक्षण एक एव यतः इहापि योऽहं सुखी जातः स इदानीं दुःखी रक्तो वा स्थित - इति एकानुसंधातृनिबद्धा एव अवस्थाः प्रतीयन्ते । तस्मात् अनन्तजन्तुसंतानवर्तिभिः अशेषैः अवस्थाविशेषैः ईषदपि अनुपजनितोपलब्धृमात्रस्वभावान्यथाभावः स्वयंसिद्धो नित्यनिरावरणरूपत्वात् प्. २९) सर्वत्र अनिरुद्धः तात्त्विकः स्वस्वभाव एव शंकर इति । तत् एतत् स च अनुस्यूत एव सर्वासु अवस्थासु इत्यादिना व्याख्याय स स्वभावः परः स्मृतः ।। इति सिद्धान्तीकृतं वृत्तिकृता ।। ४ ।। एवं स्वस्वभावस्य शिवत्वेन व्यपदेशो युक्त इति उपपाद्य इदानीं तस्य संग्रहेण लक्षणम् अनुवदन् परमार्थसत्तां प्रतिपादयितुम् आह न दुःखं न सुखं यत्र न ग्राह्यं ग्राहको न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ।। ५ ।। तत् वक्ष्यमाणविशेषणं वस्तु स्वस्वभावशब्दवाच्यं परमार्थतः तत्त्वतः अस्ति तद्व्यतिरिक्तं सर्वम् असत्यसद्भावम् इत्यर्थः । किं तत् (?) यत्र न दुःखं न सुखं न च ग्राह्यं न ग्राहको न मूढभावोऽपि अस्ति । अनेन सुखादिरूपताप्रतिषेधेन वेद्यत्वम् अस्य प्रतिषिध्यते । द्विविधं प्. ३०) हि वेद्यम् - बाह्यम् आभ्यन्तरं च । तत्र आभ्यन्तरं सुखादि अन्तःकरणवेद्यत्वात् तत् यत्र नास्ति प्रतिपादितविविक्तवेदकैकस्वभावत्वात् तस्य । बाह्यं तु शब्दादि वेद्यं तत् ग्राह्यशब्देन निर्दिष्टं श्रोत्रादिबाह्येन्द्रियगृहीतं हि तत् अन्तःकरणेन सुखाद्यात्मकं वेद्यते तदपि यत्र नास्ति । न हि तस्य रूपं शब्दादिविषयात्मकत्वेन ग्राह्यताम् आपद्यते । ग्राहकोऽपि मायीयः प्रमाता अत्र विवक्षितः न तु तात्त्विक उपलब्धृमात्रस्वरूपः तस्य एवं नित्यसत्त्वेन प्रतिपाद्यमानत्वात् । एवं मायीयो देहाद्यहंकारमयो ग्राहकोऽपि यत्र नास्ति । ग्राहकमिति तु पाठे ग्राहकम् इन्द्रियम् इति व्याचक्षते तदपि यत्र नास्ति । एवं ग्राह्यग्रहणस्वरूपव्यतिरिक्तं ग्रहीतृमात्रस्वभावं यत् तत्त्वं तत् अस्ति इति । ननु च एवं सति मूढावस्थैव असौ - प्. ३१) इति प्रतिपादितं भवति तस्यां हि सुखादिरूपताभावः । एतत् निराकर्तुम् आह - न चास्ति मूढभावोऽपि इति - मूढस्य भावो मूढत्वं वेद्यवेदनसामर्थ्याभावः सोऽपि यत्र नास्ति न विद्यते यतः तस्यापि अवस्थान्तरे मूढोऽहमासम् - इति प्रत्यवमृश्यमानत्वात् वेद्यत्वं स्थितमेव केवलं तत्कालमनुपलम्भः । वेद्यत्वसद्भावे च मूढावस्थायाः कथं वेदकैकस्वभाववस्तुरूपत्वं स्यात् (?) यद्येवं मूढभावोऽपि तत्र नास्थि तत्प्रतिपत्तिगोचरसमस्तवेद्यवस्तुरूपताप्रतिषेधात् अभावमात्रं तत् - इति प्रतिपादितं स्यात् । तत्प्रतिक्षेपार्थम् आह - तदस्ति परमार्थतः इति - यत् एवंविशिष्टतया व्याख्यातं तत् वस्तु परमार्थतः अस्ति सततम् अविलुप्तोपलब्धृमात्रलक्षणस्वभावत्वात् । यत् पुनः सुखादि तत् कल्पनामात्रलब्धात्मकं क्षणभङ्गुरं सर्वदा वेद्यमेव वेदकैकस्वभावात् आत्मनो प्. ३२) दूरभिन्नम् । अतो यत् यत् वेद्यभूमिकायां वर्तते तत् सर्वम् असत् अनित्यत्वात् । यस्तु वेदकः स एक एव परमार्थसन् इत्यर्थः । तत् इदं तस्य चायं स्वभाव इत्यादिना ग्रन्थेन वृत्तिकृता व्याख्यातम् ।। ५ ।। इदानीम् अस्य परमार्थसत आत्मन एव शिवस्य समस्तवस्तुसंपादनस्वतन्त्रशक्तित्वप्रतिपादनपूर्वम् उपादेयतमत्वम् उपदेष्टुं युगलकमाह इदानीम् अस्य परमार्थसत आत्मन एव शिवस्य समस्तवस्तुसंपादनस्वतन्त्रशक्तित्वप्रतिपादनपूर्वम् उपादेयतमत्वम् उपदेष्टुं युगलकमाह यतः करणवर्गोऽयं विमूढोऽमूढवत्स्वयम् । सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः ।। लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ।। ६ ।। ७ ।। तत् तत्त्वं स्वस्वभावाख्यं वस्तु परमार्थसत्त्वेन अवस्थितं प्रयत्नेन प्रकृष्टेन यत्नेन सततम् अविलुप्तेन उद्योगेन आदरात् श्रद्धातिशयात् प्. ३३) परीक्ष्यं सर्वासु अनुभवदशासु वक्ष्यमाणोपदेशानुसारेण क्रमेण वेद्यवेदकलक्षणराशिद्वयविभजनपरतया वेदकस्वरूपपरामर्शात् आत्मत्वेन स्फुटीकार्यम् । यतः तस्य इयम् अधुनैव प्रस्तुतव्याख्याना स्वतन्त्रता स्वेच्छामात्रादीनसकलकार्यकर्तृत्वरूपा सर्वत्र सर्वस्मिन् देहे दशाविशेषे वा अवस्थितस्यापि अकृत्रिमा सहजैव न तु उपादानसहकार्यादिकारणान्तरापेक्षिणी - यतः संसारिणामपि तत्स्वातन्त्र्यमहिम्नैव समस्तव्यवहारसंपत्तिः मायाव्यामोहवशात् तु सत्यस्वभावपरामर्शाभावात् सर्वः संसारी परतन्त्र इव व्यवहरति सर्वक्रियासु व्यतिरिक्तकारणापेक्षसर्वार्थसिद्धिकत्वात् - तस्मात् स्वाभाविकस्वातन्त्र्यप्राप्तये तत् तत्त्वं परीक्ष्यम् न तु सुखदुःखमोहग्राह्यग्राहकरूपप्रतिषेधात् तत् अवस्तुभूतम् अवगन्तव्यम् इति उपदिष्टम् । इदानीम् प्. ३४) इयम् इति निर्दिष्टां स्वतन्त्रतां प्रतिपादयितुं यच्छब्दविशिष्टं विशेषणं व्याख्यायते । किं तत् तत्त्वं परीक्ष्यं (?) यतो यस्मात् अयं करणवर्गं करणानां श्रोत्रादीनां बाह्यानां मनःप्रभृतीनाम् आभ्यन्तराणाम् इन्द्रियाणां वर्गः त्रयोदशकरणसमूहः प्रवृत्तिस्थितिसंहृतीः लभते प्रवृत्तिः जिघृक्षितार्थोन्मुखतासमुन्मिषदवस्था स्थितिः गृहीतार्थविश्रान्त्यवस्था संहृतिः कृतकृत्यत्वात् बाह्यार्थपरित्यागे स्वव्यापारोपरमः प्रत्यस्तमयावस्था एताः लभते प्राप्नोति । कीदृशः करणवर्गः (?) विमूढः प्रायशो जडतयैव प्रसिद्धः । कथं लभते (##? बाह्याभ्यन्तरम् इन्द्रियचक्रं प्रवृत्त्यादिचेतनव्यापारसमर्थं यत्संस्पर्शबलात् भवति तत् तत्त्वम् आत्मत्वेन स्फुटीकृतं सत् इन्द्रियचैतन्यापादनस्वातन्त्र्यवत् सर्वविषयस्वातन्त्र्यलाभाय प्. ३५) कल्पते एव अतः परीक्ष्यं येन अभ्यासदशायामेव अभिव्यज्यमाने स्वातन्त्र्ये परशरीरावेशादिक्रीडा उपपद्यते । तत् इदम् न च सुखादिरूपो यदा नासौ इत्यादिना तस्मात्तत्तत्त्वं यत्नेन परीक्षितव्यम् इत्यादिना च पृथक् व्याख्यातं वृत्तौ ।। ७ ।। ननु किमिदम् उच्यते - तत् किंचित् तत्त्वं परीक्ष्यं यद्वशात् इन्द्रियाणि चेतनीभवन्तीति किल एवं व्यवहारो व्यवस्थितः - सर्वः कश्चित् चेतनः प्रमाता धर्माधर्मसंबन्धात् इच्छाख्येन गुणेन संयुज्यमानो हेये उपादेये वा विषयभूते प्रयत्नवान् भूत्वा तेनैव इच्छाख्येन गुणेन करणवर्गं जडमेव तत्तद्विषयहानोपादानादौ प्रेरयति स च तत्प्रेरितो जड एव दात्रादिवत् स्वकार्यं करोति । तत् कथमुक्तम् - यतः कारणभूतात् अमूढवत् प्. ३६) प्रवृत्त्यादि लभते इति व्याख्यातं च - यत्संस्पर्शबलात् एव हेतोः प्रवृत्त्यादिचेतनव्यापारसंपादनसमर्थो भवै (?) इत्याशङ्क्य यथा एष करणवर्गः चेतनीभवति तथा संसारिपुरुषस्य व्यवहारप्रदर्शनेन स्फुटीकर्तुमाह नहीच्छानोदनस्यायं प्रेरकत्वेन वर्तते । अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ।। ८ ।। नहि न खलु इच्छानोदनस्य इच्छैव नोदनं नुद्यते अनेन इति प्रतोदादि करणं तस्य प्रेरकत्वेन इन्द्रियवर्गं प्रति चोदकत्वेन असौ पुरुषः संसारी प्रमाता वर्तते अवतिष्ठते । यथा कश्चित् देवदत्तादिः केनचित् करणभूतेन हस्तादिना जडं प्रतोदादि प्रेरयति न एवम् अयम् आन्तरः पुरुषः इच्छया जडं करणवर्गं स्वविषये प्रवर्तयति अपि तु आत्मबलस्पर्शात् आत्मनः परस्य प्रमातुः सर्वकर्तुः ईश्वरस्यैव प्. ३७) स्वभावस्यैव यत् बलं सामर्थ्यं कारणान्तरनैरपेक्ष्येण अखिलवस्तुसंपादनशक्तता तत्स्पर्शात् तत्संपर्कात् तत्समो भवेत् तेन आत्मशब्दोक्तेन परेण कर्त्रा तुल्यः संपद्यते । इदमत्र तात्पर्यम् - यत्रैव स्वस्वभावे स्थित्वा आत्मशब्दप्रतिपादितः परमेश्वरो जगदिदं प्रवृत्तिस्थितिसंहृतीः यथेष्टं लम्भयितुं स्वतन्त्रः तत्रैव स्थित्वा पुरुषोऽपि अयं संसारी करणवर्गं स्वविषये प्रवृत्त्यादि लम्भयितुं स्वतन्त्रः तेन तत्समो भवेत् इति उक्तम् । ततो यथा ईश्वरः सर्वव्यापिकाभ्यां ज्ञानक्रियाख्याभ्यां शक्तिभ्यां विश्वं प्रवृत्त्यादि प्रापयन् सर्वं जानाति च करोति च तथा पुरुषः तद्बलस्पर्शादेव उपजातज्ञत्वकर्तृत्वसामर्थ्यो मायावशात् नियतविषयाभ्यां ज्ञानक्रियाशक्तिभ्यां अन्तर्बहीरूपकरणवर्गतया प्रसृताभ्यां स्वविषयं जानाति च करोति च - इति तत्साम्यम् अस्य उक्तम् न च इच्छाप्रेरणेन करणानि प्रेरयति प्. ३८) इत्यादि विवृतमेतत् वृत्तौ ।। ८ ।। ननु स्वव्यापारे करणवर्गं प्रवर्तयन् पुरुषः ईश्वरभूमिकासादनात् तद्वत् स्वातन्त्र्यम् आप्नोति - इति तयोः ईश्वरपुरुषयोः अभेदः एव प्रतिपादितः स्यात् कथं भेदनिबन्धनम् ईश्वरसाम्यं पुरुषस्य प्रतिपादितं तस्यां दशायाम् (##? निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः । यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ।। ९ ।। सत्यम् अस्ति अभेदः तस्याम् अवस्थायाम् अनयोः । किन्तु अयं पुरुषो निजया सहजया देहाद्यात्मप्रतिपत्तिमूलरागादिरूपया अशुद्ध्या मलेन हेतुना अभिलाषी क्षणिकसुखलवलुब्धः तयैव च तत्साधनभूतविषयावाप्तिहेतुषु कर्तव्येषु क्रियासु असमर्थः शक्तिदरिद्रो - यतः इच्छन् अपि अभिमतं न आप्नोति - एवंविधस्य अस्य यदा यस्मिन् प्. ३९) काले क्षोभः प्रत्नियतशरीराद्यालम्बनाहंप्रत्ययात्मा मायीय उपप्लवः प्रलीयेत कृत्रिमालम्बनोत्तीर्णस्वाभाविकाहंप्रत्ययप्रभाकर्प्रकाशसंपर्कात् प्रालेयपटलवत् विगलेत् विनश्येत् तदा परमं निरुत्तरं पदं स्थानं स्यात् सद्भावेन प्रकाशेत - अभेदः आत्मपुरुषशब्दप्रतिपादितयोः परापरयोः संविदोः तस्यामेव दशायाम् उपलभ्यतया प्रथेत इत्यर्थः । तदेतत् - स्वस्वभावे प्रतिष्ठानम् इदम् (इति) अनेन श्लोकेन प्रतिपादितम् । उपपाद्यतां नाम दर्शनान्तरेषु तैस्तैः प्रकारैः अशुद्धिः अस्य पुंसः इह तु एतावत्येव असौ ##- अहंप्रत्ययः प्रवर्तते तावन्मात्रनिबन्धना हि सर्वाः संसारित्वप्रतिपत्तयः तस्मिन्नेव विगलिते स्वस्वभावाभिव्यक्तिलक्षणा परा प्. ४०) शुद्धिरिति । यदुक्तम् जाते देहप्रत्ययद्वीपभङ्गे प्राप्तैकध्ये निर्मले बोधसिन्धौ । अव्यावर्त्यैवेन्द्रियग्राममन्तर्विश्वात्मा त्वं नित्यमेकोऽवभासि ।। तथा नात्माधीनत्वेऽप् विश्वं नियोक्तुं सर्वो हस्तादीनिवेष्टे यथेष्टम् । बालो राजेवात्मशक्त्यप्रबोधात् त्वययन्तःस्थे सर्वशक्तिस्तु सर्वः ।। इति । तदेतत् तावत् स चास्य इत्यादिना वृत्तौ व्याख्यातम् ।। ९ ।। ननु प्रलीनदेहाद्यहंप्रत्ययलक्षणक्षोभो निवातनिश्चलजलधिवत् सुप्रशान्तस्थितिः आत्मैव परमपदशब्दप्रतिपादितः तत् कथं तद्बलस्पर्शात् पुरुषः तद्विलक्षणं क्षोभात्मकमेव धर्मम् आसादयेत् येन युक्त इन्द्रियवर्गं प्रवृत्त्यादि लम्भयन् अहं करोमि अहं जानामि प्. ४१) इति स्वविषयं प्रतिपद्यमानः क्षुभित एव भवति (?) - इति अनात्मज्ञानां मतिविभ्रमभङ्गायाह तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः । यतस्तदेप्सितं सर्वं जानाति च करोति च ।। १० ।। तदा तस्मिन् यथोक्तक्षोभपरिक्षयोपलक्षिते काले आत्मनः अस्य अकृत्रिमः सहजसिद्धः सततमव्यतिरिक्तो ज्ञत्वकर्तृत्वलक्षणो धर्मः गुणोऽस्त्येवेति शेषः यतो यस्मात् अव्यभिचारिणो गुणात् कारणभूतात् सर्वम् अखिलम् ईप्सितं ज्ञेयतया कार्यतया अवाप्तुमिष्टं वस्तु स पुरुषः तदा तस्यां दशायां सत्यस्वभावसंबन्धलक्षणयोगात्मिकायां न तु अन्यदा - देहाद्यालम्बनाहंप्रतीतिसारसंसारिपुरुषदशायां जानाति च करोति च । किम् उक्तं भवति (?) - ज्ञत्वमुपलब्धृत्वं नाम अस्यात्मनोऽव्यतिरिक्तो गुणः स च इदन्तावसेयस्य प्. ४२) वस्तुनो ज्ञेयतया कार्यतया च द्वैविध्यात् द्वित्वेन उपचर्यते । वस्तुत एकैव ईश्वरस्य स्वभावप्रत्यवमर्शरूपा उच्यते तावन्मात्रसंरम्भरूपत्वात् क्रियाशब्देन च उद्घोष्यते । स च एवंविधो धर्मः अस्य वेद्यत्वप्रतीत्युपप्लवासंस्पृष्टे वेदकैकलक्षणे स्वभावे स्थितस्य सर्वज्ञतया सर्वकर्तृतया च विजृम्भते । यत् पुनः तादृक्स्वभावप्रत्यवमर्शाभावात् वेद्य एव देहादौ वेदकप्रत्ययनिबन्धनं ज्ञत्वं कर्तृत्वं च तत् कृत्रिमं परिमितविषयं च । तस्मात् आत्मनो ज्ञत्वकर्तृत्वलक्षणाव्यतिरिक्तधर्मता स्वभाव एव न तु क्षोभावस्था । तादृशं च आत्मबलं स्पृशन् संसारिपुरुषः करणवर्गप्रवर्तनादिना स्वविषये ज्ञत्वकर्तृत्वाभ्यां युज्यमानस्तत्समो भवेत् - इति यत् उक्तं तदेव उपपन्नम् । तदेतत् यतस्तस्मिन्प्रलीनक्षोभात्मके काले इत्यादिना वृत्तिकृत् व्याचष्ट ।। १० ।। प्. ४३) इत्थम् आत्मस्वरूपम् उपपत्त्या व्यवस्थाप्य तत्प्रतिपत्तिफलं प्रदर्शयितुम् आह तमधिष्ठातृभावेन स्वभावमवलोकयन् । स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः ।। ११ ।। तम् इति सर्वनाम्ना श्लोकदशकप्रतिपादितमात्मतत्त्वं प्रत्यवमृश्यते । तम् एवंलक्षणं स्वभावम् आत्मानम् अधिष्ठातृभावेन सर्वशरीरेषु सर्वावस्थासु सर्वदा सर्वत्र अनुभवितृमात्रेण सर्वम् आक्रम्य अवस्थितत्वात् अनन्याधिष्ठेयः अहमेव एकः स्वतन्त्रः परमेश्वरः अधिष्ठाता इत्येवंरूपतया अवलोकन् उक्तया उपपत्तिदृशा वक्ष्यमाणया च उपलब्ध्युपदेशदृशा पश्यन् प्रत्यभिजानन् स्मयमान इव विस्मृतपरप्रमातृरूपात्मतत्त्वप्रत्यभिज्ञानात् मायीयप्रमातृस्वरूपम् असत्यमपि इत्थं प्रथमानं विमृशन् विस्मयमिव आपन्नो य आस्ते निर्विप्लवां स्थितिम् अनुभवति तस्य एवंलक्षणस्य प्. ४४) योगिनः इयं सुप्रसिद्धा देहाद्यहंप्रतीतिमात्रमूला कुसृतिः जन्मजरामरणादिद्वन्द्वयोगात् कुत्सिता गर्हिता सृतिः सरणं नानायोन्यन्तरभ्रमणं कुतः (?) - प्रतिपादितक्षोभरूपाया अशुद्धेः हेतुभूताया अभावात् असीनस्य गतिरिव नास्त्येव इत्यर्थः । वृत्तिकृता च एवं यतः सर्वानुस्यूत एव अयमात्मा इत्यादिना व्याख्यातमेतत् ।। ११ ।। इदानीं समस्तवेद्यधर्मविरहितस्वरूपस्यात्मतत्त्वस्योपादेयतया प्रतिपादनादभाव एव प्राप्यतयोपदिष्टो भवति - इति मन्यमानान् प्रतिबोधयितुमाह नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ।। १२ ।। अभावो वस्तुशून्यता भाव्यतां भावनीयत्वं समाधावालम्बनभावं नैति न गच्छति अभावभावभावनयोः परस्परविरोधात् भावो प्. ४५) हि संविद्विषयतायोग्यः पदार्थो ध्येयतया आलम्बनीभवितुमर्हति न पुनः न किंचित् । यथा क्वचित् उपदिष्टम् अभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् ।। इति । भवतु वासौ ध्यातृ-ध्यान-ध्येयविकल्पोच्छेदरूपा समाध्यवस्था यामभाव इति मन्यन्ते विस्मृतात्मानः । न च तत्र तस्मिन्नवस्थाविशेषे अमूढता मूढत्वाभावो विद्यते यतोऽभियोगसंस्पर्शात् व्युत्थानावसरे तादृग्दशान्तरानुसंधानविषयेणाभियोगेन तत्कालप्रत्युदितेनाभिलापेन संस्पर्शात् संपर्कात् तत् दशान्तरम् आसीत् अभूदतीतम् इति निश्चयः अध्यवसायः स्यात् । किम् उक्तं भवति (?) - अभावसमाधिलब्धप्रतिष्ठो योगी ततो व्युत्थितः सन् यदि तामवस्थां नानुसंदध्यात् तत् कथं लब्धप्रतिष्ठोऽस्मि - इति प्रत्ययोऽस्य स्यात् (?) असति च तस्मिन् समाधिव्युत्थानयोः प्. ४६) व्यतिरेकाग्रहणम् । तस्मात् तदानीं तादृशीं दशाम् अहम् अन्वभवम् - इति अवश्यं स्मर्यते । तच्च अतीतत्वेन स्मर्यमाणत्वादेव अनित्यं सुखादिवत् आत्मनः स्वरूपं न भवति तस्य चिद्रूपस्य अनुभवितृत्वेन सर्वदा वर्तमानत्वात् स्मर्त्रन्तरेण स्मर्यमाणत्वं न संभवति । व्याख्यातम् एतत् वृत्तौ न त्वभावो भावनीयः इत्यादिना ।। १२ ।। तत् स्फुटीकर्तुम् आह अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ।। १३ ।। अत आसीत् तत् इति भूतत्वेन अभियुज्यमानत्वात् तत् अभावसमाधिसंज्ञितं वस्तु कृत्रिमं ज्ञेयं भावाभावदशायोगित्वात् कल्पनाकृतम् प्. ४७) अनित्यं बोद्धव्यं सदा न काचिदसौ कालकला विद्यते यस्यां सा तादृशी समाध्यवस्था नित्यत्वेन अवतिष्ठते । कथं कृत्रिमं ज्ञेयं (?) ##- संविदधिकरणं तेन तुल्यम् । किमुक्तं भवति (?) - यथा लौकिकी सुषुप्तावस्था निविडमोहात्मकत्वात् सतोऽपि वेद्यवेदकविभागस्य तत्कालम् अग्रहणे सति अभावरूपा इव सती प्रबोधकालप्रत्युदितानुसंधानविषयताम् आपाद्यमाना अतीतत्वेन स्मर्यमाणत्वात् अनित्या तद्वत् अभावसमाध्यवस्थापि अनित्या व्युत्थानसमये भूतत्वेन स्मर्यमाणत्वसाम्यात् । एतेन सर्वे एवंप्रायाः समाधयः सुषुप्तावस्थायामेव अन्तर्भवन्ति - इति प्रतिपादितम् न तु पुनः तत् तत्त्वम् इह उपादेयतमतया उपदिष्टं स्वस्वभावलक्षणं वस्तु एवम् अनेन उक्तप्रकारेण स्मर्यमाणत्वं प्रतिपद्यते तस्य हि नित्योदितत्वात् सदा वर्तमानत्वमेव । तदेतत् प्. ४८) अतोऽभावभावनया समाधिलब्धभूमिकस्यापि इत्यादिना वृत्तौ विवृतम् ।। १३ ।। अथैवं नित्योदितत्वात् सदा प्रकाशमानमपि तत् तत्त्वम् अप्रत्यभिज्ञायमानत्वात् बन्धहेतुः अतो लब्धोपदेशेन सर्वावस्थासु वेद्यवेदकरूपतत्त्वद्वयसंगृहीतविश्वप्रपञ्चविभजनपरतया वेदकांशम् अहमिति सर्ववेद्यस्वरूपोत्तीर्णमेव प्रत्यवमृशताम् आत्मीकार्यम् । - इति उपदेष्टुं तस्य तत्त्वस्य स्वमायावैभवोद्भासितं द्वैरूप्यं प्रतिपादयितुमाह अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ।। १४ ।। अत्र अस्मिन् इह प्रतिपादिते आत्माख्ये परस्मिन् तत्त्वे अवस्थायुगलं द्वे अवस्थे संभवतः । प्. ४९) अनेन विविधदर्शनप्रक्रियाप्रबन्धव्यवस्थापिततत्त्वादिभेदात् अपर्यन्तमपि हेयोपादेयरूपं वस्तु लक्षणद्वययोगात् द्वित्वेनैव संगृह्य प्रतिपादितम् आनन्त्येऽपि विश्ववैचित्र्यस्य द्वे एव तत्त्वे इत्यर्थः । एक एव तु परमार्थसन् परमेश्वर आत्मा निरुपम-निष्प्रतीघात - निरुपादाननिजैश्वर्यशक्तिबलाद् द्वित्वेन आत्मानम् अवभासयन् क्रीडति - इति प्रतिपादयितुम् अवस्थाशब्देन निर्देशः कृतः एकमेव तत् तत्त्वं द्वित्वेन अवतिष्ठते इत्यर्थः । कीदृशम् अवस्थायुगलं (##? अहम् इति एका अवस्था स्वतन्त्रा द्वितीया तु तद्विपरीता कार्यरूपा भोग्या वेद्या जडा परतन्त्रा ताभ्यां शब्दितं कथितम् । शब्दितशब्देन अनयोः संज्ञामात्रभेदो न वास्तवः - इति प्रतिपादितम् । ततः कार्यरूपा प्. ५०) या इयम् अवस्था सा प्रकाशमानत्वमात्रलब्धत्मकत्वात् आत्मनः परमकारणात् कर्तृशब्देन व्यपदिष्टात् प्रकाशैकस्वभावात् न भिद्यते यतः शक्तिचक्रात्मकस्य स्वविभवस्य प्रभवत्वेन एतत् तत्त्वं प्रागेव प्रतिपादितम् । तत्र तस्मिन् इत्थंभूते अवस्थायुगले कार्यता क्षयिणी कार्यरूपावस्था क्षणभङ्गिनी यत् यत् इदं मुकुलिततत्त्वपरामर्शतया कार्यरूपत्वेनैव अवसीयते तत् सर्वम् उदयव्ययसंबन्धात् प्रतिक्षणविनश्वरम् कर्तृत्वं पुनरक्षयं कर्तृरूपावस्था नित्या नित्योदितसर्वावस्थाव्यापकत्वोपलब्धृत्वमात्रधर्मकत्वात् अविनाशि । तदेवम् एकमेव कर्तारं ज्ञातारं सर्वाधिष्ठातारं सततम् आत्मत्वेन अनुसंदधानो यस्तिष्ठति तस्य बन्धानुपपत्तिः - इति पूर्वश्लोकेन संबन्धः । तदेतत् अवस्थाद्वयमेव इत्यादिना वृत्तौ व्याख्यातम् ।। १४ ।। प्. ५१) ननु यत् उपलब्धृरूपं तत्त्वं तत् अक्षयमित्युक्तं तच्च नोपपद्यत एव अभावसमाध्यवस्थासु उपलभ्यस्वरूपाभावात् कथं तस्याक्षयत्वम् (##? कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ।। १५ ।। कार्ये निर्मेये वेद्ये वा वस्तुनि उन्मुखः तस्य तथासंपादने प्रवणो यः प्रयत्नः कर्तृत्वं (त्वे) सहज उत्साहः स केवलं स एव परं कारणं व्यापारहेतुः तस्यां दशायां कार्यस्य स्थूलरूपस्य अभावात् लुप्यते अनभिव्यक्ततया आत्मन्येवं न्यग्भूयेव अवतिष्ठते । तस्मिन् प्रयत्ने तत्कालमेव लुप्ते सति अबुधः तत्त्वावबोधशून्यो विलुप्तोऽस्मि - इति प्रतिपद्यते नाहमस्मीति भावविलक्षणतया वस्तु परिछिन्दत एवंविधः प्रत्यय उपपन्नः प्. ५२) परिच्छिनत्ति चेत् कर्तृत्वेन प्रथमतरं सन्नेव असौ सिद्धः कथं निषेधस्य विषयः स्यात् (?) तत् इदम् आयातम् - यथा कश्चित् देवदत्तो गृहाद्यवस्थितः केनापि आहूतो - भो देवदत्त (?) - इति स आत्मानम् अपह्नोतुकामः प्रत्याह - नाहमस्मीति एवमुक्ते प्रत्युत स्थितोऽहमस्मि - इति प्रतिपादितं भवति न त्वसंनिधानम् । तस्मात् अभावसमाध्यवस्थासु कार्याभावात् करणव्यापारविरतिमात्रेणात्माभावप्रत्ययो भ्रान्तिरेवेति । व्याख्यातमेतत् वृत्तौ कार्यसंपादनसामर्थ्यम् इत्यादिना ।। १५ ।। एनमेवार्थं विशेषयितुम् आह । न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ।। १६ ।। न तु पुनः तस्य परमार्थसतः परस्य तत्त्वस्य प्. ५३) कदाचित् कस्याचिदपि समाध्याद्युपलक्षितायां कालकलायां लोपः स्वरूपोच्छेदः स्यात् उपपद्येत अन्यस्य तद्व्यतिरिक्तस्य वेद्यरूपस्य अनित्यस्य वस्तुनः अनुपलम्भनात् अनुभवाभावात् न हि वेद्यं नास्ति वेदकोऽपि नास्ति - इति वक्तुं शक्यम् । कस्य तस्य लोपो न स्यात् (?) यः अन्तर्मुखोव्यतिरिक्तबाह्यवेद्याभावात् अन्तः स्वात्मन्येव मुखं ज्ञशक्तिर्यस्य स तादृशो भाव आत्माख्यं तत्त्वं यतः सर्वज्ञत्वगुणास्पदं सकलवेद्यवर्गवेदकतारूपस्य गुणस्य धर्मस्यास्पदम् अनन्यसाधारणम् अधिकरणम् । इदमत्र तात्पर्यम् - आत्मनो ज्ञानक्रियाभेदेन द्विविधा या शक्तिः सा पुरुषावस्थायाम् अन्तःकरणबहिष्करणव्यापारोपरमे सति केवलस्वात्ममात्राभिमुखज्ञशक्तिमात्रत्वेनावशिष्यते तेन अन्तर्मुखो भाव इत्युक्तम् । मुखशब्देन च शक्तेः व्यवहारो दृष्टो यथा पारमेश्वरे प्. ५४) शैवीमुखमिहोच्यते ।। इत्यादौ । एवं च व्युत्थानावसरे तादृग्दशान्यथानुपपत्तिसद्भावः । स भावो बाह्यविषयाग्रहणमात्रव्यामोहैः अभाव इति तैः योगिभिः प्रतिपद्यते न तु सततम् अविलुप्तज्ञशकेः तस्य भावस्य आत्मविलक्षणवस्त्वनुपलम्भात् कथंचित् लोप उपपद्यते तदा हि असौ स्वभावमेव अभलगगनतलवत् सर्वतो व्यतिरिक्तं सर्वव्यापकं चित्मात्ररूपतया अनुभवति केवलं मोहपरवशतया विस्मृतानुसंधायकस्वात्मरूपः तथा न प्रतिपद्यते । प्रबुद्धस्तु यथा प्रतिपद्यते तथा उपायं पुरस्तात् उपदेक्ष्यति । व्याख्यातमेतत् न तु योऽन्तर्मुखोऽन्तश्चक्रारूढ इत्यादिना वृत्तौ ।। १६ ।। इति श्रीराजानकरामकृतायां विवृत्याख्यायां स्पन्दकारिकाटीकायां व्यतिरेकोपपत्तिनिर्देशो नाम प्रथमो निःष्यन्दः ।। १ ।। प्. ५५) अथ व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो निष्यन्दः ।। एवं यथाप्रतिज्ञातं देहादिव्यतिरिक्तमात्मतत्त्वं स्वानुभवसिद्धयोपपत्त्या व्यवस्थाप्य इदानीं तदुपलब्ध्युपायोपदेशावसरे सुप्रबुद्धप्रबुद्धाप्रबुद्धभेदेन त्रिविधे लोकतन्त्रे कस्तावत् प्रस्तुतोपदेशपात्रम् (?) - इति विषयव्यवस्थापनाय आह तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी । नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु ।। १ ।। तस्य यथाप्रतिपादितस्य स्वात्मन एव परमेश्वरस्य उपलब्धिः अनुभवो निर्विकल्पा प्रतिपत्तिः नित्यं सर्वदा सर्वासु अनुभव्दशासु सुप्रबुद्धस्य सुष्टु प्रबुद्धस्य देहाद्यहंप्रत्ययदीर्घदुःस्वप्नमयया प्. ५६) मोहमहानिद्रया मनागपि अनावृतसंविदः सिद्धसाध्यस्य सम्यग्दर्शिनः स्यात् उपपद्यते । कीदृशी (?) सततम् अव्यवधानेन त्रिपदाव्यभिचारिणी त्रिषु जागरस्वप्नसुषुप्तेषु पदेषु संवेदनभूमिकासु अव्यभिचारिणी अविसंवादिनी कयाचिदपि अवस्थया अनभिभूतत्वात् अव्यवहितसंनिधिः । एवम् एतस्य सुप्रबुद्धस्य स्वीकृतस्वात्मैश्वर्यलक्षणपरसिद्धेरिहोपदेशविषयत्वं नास्त्येव कृतकृत्यत्वात् । अपरस्य तत्समनन्तरस्य द्वितीयस्य प्रबुद्धस्य परशक्तिपातप्रभातालोकविलुप्यमानमायातमिस्रतया समुन्मिषद्विशदविवेकचक्षुषः क्षीयमाणमोहवशात् अविजृम्भमाणमोहोत्साहसंपदः तदाद्यन्ते तेषां जागरादीनां त्रयाणां पदानाम् आदिभूतं यत् पदं जाग्रदवस्थात्मकं तस्य अन्तभूतं यत्पदद्वयं स्वप्नसुषुप्ताख्यं तत्र तस्य प्. ५७) आत्मतत्त्वस्य उपलब्धिः स्यात् । वृत्तिकृदभिप्रायानुसारेण तदाद्यन्तपदस्य एवं विग्रहः कृतः यतः स्वप्नसुषुप्तादौ इति तेन एतत्पदं व्याख्यातम् । अत्र च आदिशब्देन स्वप्नसुषुप्तावस्थासंगृहीतस्मृतिमोहाद्यवस्थापरिग्रहः तस्याभिप्रेतः । एवं च व्याख्यानस्य अयमाशयः -इह द्विविध आत्मतत्त्वस्य उपलब्ध्युपदेशाः उपक्रान्तो निर्वाह्यश्च एकः सर्वव्यतिरिक्तचिन्मात्रस्वस्वरूपविषयः अपरो विश्वात्मकतच्छक्तिचक्रविषयः । उभयरूपोपि अयमुपदेशः अस्मिन् सुषुप्तस्वप्नरूपपदद्वयेऽपि प्रबुद्धस्य प्रायशो नोपयुज्यते पदत्रय इव सुप्रबुद्धस्य तत्त्वोपलब्धेरप्रयत्नसिद्धत्वात् यत एतत्पदद्वयवर्तिसंवित्प्रत्यवमर्शमात्रादेव यथाप्रतिपादितपरतत्त्वोपलब्धिः स्वयमेव तस्य उपपद्यते प्. ५८) तथाहि - यदा विगलितसकलवेद्यविकल्पत्वात् निष्केवलां सुषुप्तावस्थां प्रबोधदशायाम् आत्मनः परामृशति तदा सर्वोपरागरहितस्वरूपमात्रविशान्तनित्याविलुप्तचेतयितृमात्रस्वभावम् आत्मतत्त्वं स्वयमेव उपलभते । यदा च तत्तद्विभिन्नस्वकारणविरहेऽपि स्फुटतरावभासचेतनाचेतनविचित्रभावचक्रनिर्माणमयीं विनिद्रः सन् आत्मनः स्वप्नावस्थां परामृशति तदा तेनैव दृष्टान्तेन प्रबोधबलात् परमकारणस्य स्वभावस्यैव परमेश्वरस्य स्वेच्छामात्रव्यतिरिक्तकारणान्तरनिरपेक्षसर्वकर्तृतारूपं तत्त्वमुपलभते । अप्रबुद्धस्य पुनरेतत् प्रयत्नशतैरपि समर्प्यमाणं तुम्बकतोयद्रववत् नान्तः स्पर्शं करोति । तदेवम् अस्मिन् पदद्वये प्रबुद्धस्य उपलब्धिः स्यात् - इति प्रतिपाद्यते । परिशिष्टे जाग्रत्तुर्याख्ये पदद्वये प्. ५९) सा अस्य नास्ति - इति अर्थात् उक्तं भवति । अतो जागरावस्थायां शब्दादिविषयग्रहणव्यग्रेन्द्रियव्यापारव्यवहितं तुर्यावस्थायां च लोकोत्तरत्वात् अत्यन्तापरिचितं स्वयं दुर्लक्षं परं तत्त्वम् इति तदुपलब्धौ तत्र प्रबुद्धोऽपि उपदेशमपेक्षत एव । यत आह वृत्तिकारः जाग्रत्तुर्यौ त्वागममात्रगम्यौ इति । तस्य चिद्रूपस्य सर्वगतस्य इत्यादिना व्याख्यातवान् वृत्तिकृत् एतत् ।। १ ।। एवमुपदेशविषयं व्यवस्थाप्य इदानीं पारमेश्वरस्य तत्त्वस्य सर्वव्यतिरिक्तत्वेन सार्वरूप्येण च द्विप्रकारस्य जागरादिषु चतुर्ष्वपि पदेषु प्रविभागप्रतिपादनायाह ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः । पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः ।। २ ।। प्. ६०) विभुः व्यापक ईश्वरश्चिन्मात्रमूर्तिरात्मा पदद्वये जागरस्वप्नाभिधाने परमया अत्यद्भुतरूपत्वात् सर्वातिशायिन्या शक्त्या निजेन सामर्थ्येन युतः सहितो भाति चकास्ति प्रकाशते । कीदृश्या शक्त्या (?) ज्ञानेज्ञेयस्वरूपिण्या ज्ञायतेऽनेन इति ज्ञानं बाह्याभ्यन्तरं करणचक्रं ग्रहणात्मकं ज्ञप्तिमात्रं वा ज्ञेयं ग्राह्यं शब्दादि सुखादि च विषयजातमनन्तविशेषं तदेव रूपं विद्यते यस्याः सा तथा तया । किमुक्तं भवति (?) - परमेश्वर एव स्वमायावशात् नानाक्षेत्रज्ञरूपतयावभासमानः स्वामेव अव्यतिरिक्तां परां शक्तिं ज्ञानज्ञेयभावेन अवभासयन् जागरस्वप्नदशाव्यवहारमुद्भावयति एतदेव च अस्याः शक्तेः पारम्यम् - यत् स्वस्य वैभवस्वरूपस्य प्रकाशमानतामतिरोदधती ज्ञानज्ञेयमयानन्तरूपतया स्फुरति । भिन्ने तु अभेदाप्रथनमात्रप्राणे प्. ६१) मायातमसि विगलितज्ञातृज्ञानज्ञेयविभागविभ्रमम् एकमेव परमार्थसत् चित्प्रकाशैकरूपं तादृक्स्वभावानुभवितृतामात्रधर्मलक्षणशक्तिकं तत्त्वमिष्यते यत आह तदन्यत्र तु चिन्मय इति । तस्मात् उक्तरूपात् पदद्वयात् अन्यत्र अपरत्र सुषुप्ततुर्याभिधाने पदद्वये चिन्मयो विभुर्भाति चेतयत इति चित् उपलब्धृस्वभाव आत्मा ईश्वरः तन्मात्रप्रकृतिः तयोः पदयोर्व्यतिरिक्तवेदनीयाभावात् निष्कलस्वात्ममात्रविश्रान्तशक्तिरीश्वर एव प्रकाशत इत्यर्थः । ननु जागरस्वप्नयोर्ज्ञानज्ञेयमयत्वेन सुषुप्ततुर्ययोश्चिन्मयत्वेनैव प्रकाशनाभेदात् पदद्वयमेव तत्कथं पदचतुष्टयम् इति (?) अत्र उच्यते जागरस्वप्नपदार्थानां स्थैर्यास्थैर्यप्रतिपत्तिविकल्पकृतोऽस्ति भेद इति तत्पदद्वयम् यतः ईश्वरपरिकल्पितः सर्गो जागरावस्थाया दृढत्वेन प्. ६२) प्रतिपद्यते स्वप्ने तु अदृढत्वेन क्षेत्रज्ञपरिकल्पित इत्यनयोः पदयोर्भेदकारणम् । सुषुप्तावस्थायां तु सदपि चिन्मात्ररूपं तत्त्वं मोहवशादहमित्युपलब्धृचमत्कारविरहात् असदिवाभाति तस्यैव तु तत्त्वस्य परमार्थसत्तया आत्मत्वेनोपलब्धिस्तुर्यपदे - इत्ययं सुषुप्ततुर्ययोर्भेदः । तेन चत्वार्येव पदानि विश्व-तैजस-प्राज्ञ-तुर्यादिसंज्ञाभिः शास्त्रान्तरेष्वपि प्रसिद्धानि । ज्ञानज्ञेयभेदेन द्विरूपम् इत्यादिना व्याख्यातमेतद्वृत्तौ ।। २ ।। इदानीमुक्तेन प्रकरेङ् प्रबुद्धस्यैव उपदेश्यत्वमुपक्रान्तं दृढयितुम् अप्रबुद्धानां च तत्प्रतिषेद्धुं श्लोकत्रयमाह गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् । लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः ।। १३ ।। प्. ६३) अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः । पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ।। ४ ।। अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये । जाग्रदेव निजं भावमचिरेणाधिगच्छति ।। ५ ।। अतः प्रस्तुतव्याख्यानश्लोकत्रयनिर्दिष्टात् हेतोः जाग्रदेव प्रबुद्ध एव निजं भावम् आत्मीयां पारमार्थिकीं सत्ताम् अचिरेण अल्पीयसा कालेन अधिगच्छति सम्यग् उपलब्ध्या स्वीकरोति । एवकारेणाप्रबुद्धं व्यवच्छिनत्ति । कीदृशः सन्नधिगच्छति (##? उपचरितसामान्यविशेषात्मकतया द्विप्रकारत्वेन व्याख्यास्यमानस्य यत्तत्त्वं परमार्थः यथाक्रममुपादेयतया हेयतया च निश्चितं रूपं तस्य विविक्तये विवेकाय पृथक्करणाय एष उपादेयतमः प्. ६४) परमकारणभूतस्य सत्यस्य आत्मस्वरूपस्य - अयमहमस्मि अतः सर्वं प्रभवति अत्रैव च प्रलीयते - इति प्रत्यवमर्शात्मओ निजो धर्मः सामान्यस्पन्दः तथैते अत्यन्तहेया विशेषस्पन्दा अनात्मभूतेषु देहादिषु आत्माभिमानमुद्भावयन्तः परस्परभिन्नमायीयप्रमातृविषयाः - सुखितोऽहं दुःखितोऽहम् - इत्यादयो गुणमयाः प्रत्ययप्रवाहाः संसारहेतवः - इति विभागाय सततं सर्वासु अवस्थासु अव्यवधानेन उद्युक्तः उक्तवक्ष्यमाणोपपत्त्युपलब्ध्युपायप्रतिपत्त्यभिव्यज्यमानस्वबलवृंहणत्वात् अव्याहतोत्साहमध्यवसितः । एतेन प्रबुद्ध एव उपायपरिशीलनैकतानः सन् अचिरेण स्वरूपमुपलभते नान्यः - इति प्रतिपादितम् । कुतो हेतोः स एवाधिगच्छति नान्यः (?) इत्याह - गुणादिस्पन्दनिःष्यन्दा इत्यादि यतो गुणादिस्पन्दनिःष्यन्दा ज्ञस्यापरिपन्थिनः स्युः इति संबन्धः । स्पन्दानां क्षेत्रज्ञज्ञानादिशक्तीनां प्. ६५) निःष्यन्दा नानार्थौन्मुख्येन प्रसृताः प्रवाहा भिन्नाः प्रत्ययाः स्पन्दनिःष्यन्दाः गुणा आदयः प्रथमे प्रधानं येषां ते गुणादयः सुखाद्यात्मकत्वेन सत्त्वादिमयाः गुणादयश्च ते स्पन्दनिःष्यन्दा - अहं सुखी दुःखी मूढः - इत्यादयो ज्ञानभेदाः । किंरूपाः (?) सामान्यस्पन्दसंश्रयात् लब्धात्मलाभाः सामान्यस्य सर्वव्यापकस्यान्तर्लीनानन्तविशेषस्पन्दस्य परस्य शक्तिस्फुरितस्य संश्रयात् सम्यक् अनन्यशरणतया श्रयणाद् भजनाद्धेतोः लब्धात्मलाभाः लब्ध आसादितः तेन तेन भिन्नेनाकारेण आत्मनः स्वस्वरूपस्य लाभ उदयो यैस्ते तथाविधा गुणादिस्पन्दनिःष्यन्दाः ज्ञस्य परमेश्वरानुग्रहोदितहेयोपादेयप्रत्ययप्रमातृभावस्य सामान्यस्पन्द एव परमेश्वरमुख्यशक्तित्वेन प्. ६६) प्रतिष्ठितनिर्विकपप्रतिपत्तेः सुखाद्युपाध्युपरागजनितान्योन्यभिन्नरूपेभ्यो विशेषस्पन्देभ्यो व्यावृत्तस्वशक्त्यभिमानस्य उक्तवक्ष्यमाणयुक्त्यभ्यासनित्योद्योगेन विजिगीषमाणस्य अपरिपन्थिनः स्युः स्वबलाविर्भावात् प्रतिहतस्वभावावरणसामर्थ्याः सन्तः अप्रतिद्वन्द्विनः संपद्येरन् परतत्त्वोपलब्ध्युत्साहं निहन्तुं न प्रभवेयुरिति यावत् । इदमत्र तात्पर्यम् - ये केचन यस्य कस्यचिन्मायीयस्य प्रमातुः सुखाद्यात्मकत्वात् गुणमयाः स्पन्दनिःष्यन्दाः प्रत्ययसंधानाः प्रसरन्ति ते सर्वे एकमेव सामान्यस्पन्दमाश्रित्य तं तमात्मानं प्रतिलभन्ते प्रबुद्ध एव तु तदुदयाभिज्ञप्रज्ञापात्रम् अतस्तस्य नित्योद्योगिनः सतः एते प्रयोगिनो भवितुं न प्रभवन्ति । ये प्. ६७) त्वप्रबुद्धाः तैरेते दुर्निवारप्रसराः इत्याह - अप्रबुद्धधियस्तु इत्यादि - अप्रबुद्धा पारमेश्वरपरानुग्रहविरहादविगलितगाढाज्ञाननिद्रा धीः प्रज्ञा येषां ते तथा तान् पुनरमी यथाव्याख्याता गुणादिस्पन्दनिःष्यन्दा घोरे विभीषिकाशतसंकुलत्वाद् दारुणे अत एव दुरुत्तारे दुर्लङ्घ्ये संसारवर्त्मनि जन्मादि प्रबन्धमार्गे पातयन्ति तत्रानवरतं भ्रामयन्ति । कीदृशाः सन्तः (##? स्थितिर्निर्विकल्पप्रतिपत्तिप्रभवा सुस्थिरा प्रतिष्ठा तस्याः स्थगने सद्य एव आच्छादने उद्यता गृहीतोद्योगाः प्रतिपक्षभूतस्य प्रबोधस्याभावात् लब्धप्रसरत्वादेवमुपचरिताः । किम् उक्तं भवति (?) - यथा कांश्चित् राजादीन् प्. ६८) प्रमादित्वाद्यवस्थासत्त्वात् सदपि सैन्यादिस्वसामर्थ्यं सत्त्वेनाप्रतिपद्यमानान् अन्तरप्रेक्षिणो विपक्षाः स्वपदव्यपरोपणबद्धाभियोगा महति व्यसने पातयन्ति आ स्वसामर्थ्यसद्भावप्रतिपत्तेः । एवमप्रबुद्धस्य सर्वकर्तृत्वादिलक्षणं निजं महिमानं सामान्यस्पन्दरूपं विद्यमानमपि अप्रतिबुद्ध्यमानस्य सर्वकार्यपरतन्त्रं देहादिसर्गमेवात्मत्वेनावगच्छत एते लब्धप्रसराः सुखितोऽहम् इत्यादयो गुणप्रधानाः प्रत्ययप्रवाहाः सत्ये स्वात्मनि स्थितिं व्यवधाय संसारमेवासादयन्ति आ प्रबोधप्राप्तेः - इति प्रबुद्धा एवास्योपदेशस्य विषया नाप्रबुद्धाः । तेषां हि कथंचिद् गृहीतमप्युपदेशवचनं निश्चायकप्रतिपत्तिशिथिलप्रज्ञत्वान्नान्तर्विश्राम्यति । यथोक्तं केनापि ज्ञेयत्वमप्युपगता हृदये न रोढुं शक्ताः प्रमूढमनसामुपदेशवाचः । आर्द्रत्वमादधति किं नलिनीदलानां श्लिष्टा निरन्तरतयापि नभोऽम्बुधाराः ।। प्. ६९) इति । तत्र जाग्रदवस्थायामेव इति वृत्तिग्रन्थः प्रकृतानुसारेण प्रबुद्धावस्थायाम् - इति बोद्धव्यम् । यदि वा सततोद्युक्तपदेन प्रबुद्धस्वीकारे सति सततोद्युक्तः प्रबुद्धो वक्ष्यमाणोपदेशक्रमेण जाग्रदवस्थायां व्यवहारदशायामेव निजं भावमधिगच्छति - इति व्याख्येयम् । व्याख्यातमेतत् श्लोकत्रयं वृत्तौ विभागेन अतः सततं सर्वकालं यः करोति इत्यादिना । तथा गुणस्पन्दस्य सत्त्वरजस्तमोरूपस्य इत्यादिना । तथा स्वल्पबोधांस्तु इत्यादिना ग्रन्थेन ।। ३ ।। ४ ।। ५ ।। एवं प्रबुद्धस्यैव जागरतुर्यपदयोरुपदेश्यत्वे व्यवस्थापिते सर्वशरीरिसाधारणजाग्रद्वृत्त्यन्तरलीनामेव तावत्परतत्त्वोपलब्धिमुपदेष्टुमाह अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ।। ६ ।। प्. ७०) सामान्यविशेषभेदेन प्रतिष्ठिताप्रतिष्ठितरूपत्वात् स्पन्दस्य द्वैविध्ये स्थिते उपादेयः प्रतिष्ठितः स्पन्दः तत्र पदे उपलभ्यते इति संबन्धः । यः प्रतिष्ठितश्चलत्वव्यपदेशहेतुः सुखित्वाद्यनित्यविशेषस्पन्दाविषयत्वादप्रकम्पस्थितिः स्वभावमात्राधारः सामान्यरूपो मुख्यः स्पन्दः प्रत्यस्तमितसमस्तविशेषशक्तिचक्रपरमात्मधर्मः स तत्र तस्मिन् अधुनैव निर्दिश्यमाने पदे उपलक्षणीयः । कस्मिन् (?) यत्पदम् अतिक्रुद्धो गच्छेत् प्रत्यग्रक्षत-दारुणोपद्रव-द्विषद्दर्शनादिना तीव्रतरकोपाविष्टः तज्जन्यविकारावस्थायाः प्रागेव झटिति जातमात्रक्रोधो यत्पदं यां भूमिकां गच्छेत् मनसा आसादयेत् तथा अतिप्रहृष्टो यत्पदं गच्छेत् मृतप्रत्युत्थितप्राणसमप्रमदादिदर्शनादिना प्रहृष्टः प्रकृष्टेन परमेणातिशयेन हृष्टः प्रमुदित आनन्दनिर्भरः तथैव उत्पन्नमात्रहर्षो यत्पदं गच्छेत् तथा किं करोमि इति प्. ७१) मृशन् यत् पदं गच्छेत् क्रुद्धेन राज्ञा रिपुणा वा बलवताभियुक्तस्तत्प्रतीकाराय कर्तव्यनिश्चयमलभमानः केवलं किं करोमि किमुपायमत्रावलम्बेय - इति प्रतिपत्तिमूढ एव मृशन् विकल्पयन् निरालम्बनचित्तवृत्तिर्यां भूमिकामधितिष्ठेत् तत्र प्रतिष्ठितस्पन्दोपलब्धिरित्यर्थः एतेन प्रकारत्रयेण दुःख-सुख##- एवंविधानि प्रकारान्तराणि संगृहीतानि वेदितव्यानि । तेन अतिक्रुद्धवत् अशङ्कितेष्टजनविनाशश्रवणादिना कारणेन अतिशोकाविष्टोऽपिशोकव्यञ्जकास्रुप्रलयादिविकृतेः प्रागेव समुन्मिषितमात्रशोको यत्पदं गच्छेत् तथा अकस्मात् कुपितकृष्णोरगव्याघ्रादिग्रासगोचरगमनादिना निमित्तेन अतिभीतः तथैव सद्यः समुद्भूतमात्रभयो यत्पदं गच्छेत् तथात्यन्तजुगुप्सास्पदपदार्थदर्शनादिहेतुना प्. ७२) जातमात्रजुगुप्सो यत्पदं गच्छेत् तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः - इत्युपदिष्टं भवति क्रोध-शोक-भय-जुगुप्साभेदेन चतुर्विधस्य दुःखराशेः अतिक्रुद्धशब्देन उपलक्षितत्वात् । तथा प्रहृष्टवन्निजवीर्यबलसंपत्तिसंभावनादिहेतुना सुदुष्करमपि कार्यं निर्वर्तयितुं निर्विकल्पमेव उत्सहमानो झटिति यत्पदं गच्छेत् तथैव अदृष्टपूर्वपरमरमणीयादिपदार्थदर्शनादिना सपदि अतिविस्मयाविष्टो यत्पदं गच्छेत् तथा कुहनादिना कारणेन उत्पन्नमात्रातिहासो यत्पदं गच्छेत् तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः - इत्युपदिष्टं भवति हर्षोत्साह - विस्मय##- किंकर्तव्यतामूढवत् दूरत्वादिना दृष्टार्थनिश्चयावधारणाभावात् संशयाविष्टो यत्पदं गच्छेत् तत्रापि पूर्ववदुपलब्धिः - इत्युपदिष्टं भवति विस्मरणादिदशासु तत्त्वाप्रतिपत्तिलक्षणस्य प्. ७३) बहुविधस्य मोहराशेः किंकर्तव्यतामूढभावेन उपलक्षणात् । एवमन्तःकरणव्यापाररूपजाग्रदवस्थाश्रयं परतत्त्वोपलब्ध्युपायमभिधाय बुद्धीन्द्रियव्यापाररूपजाग्रदवस्थाश्रयस्य अस्य यथा ह्यर्थोऽस्फुटो दृष्टः (४ नि० ६ क०) इत्यत्र प्रसङ्गाद्वक्ष्यमाणत्वात् संप्रति कर्मेन्द्रियव्यापाररूपजाग्रदवस्थाश्रयं तं पदं प्रतिपादयितुमाह - धावन्वा यत्पदं गच्छेत् तत्र इति तत्र तस्मिन्नपि पदे प्रतिष्ठितस्पन्दोपलब्धिः । तत्र हि इच्छाप्रयत्नज्ञानक्रियादिवृत्तीनां विभागाग्रहणाद् अद्वयेश्वररूपाभिव्यक्तिः । तथा हि - धावतः प्रतिपदं पदोज्जिहीर्षोद्धारप्रयत्नदेशावधारणपदविन्यासक्रियादिषु वृत्तिविशेषेषु सत्स्वेव अनवधार्यमाणविभागत्वात् असत्स्विव संवित् अविभागपरस्वभावमात्रप्रतिष्ठिता भवति तदा परवश एव पुमानैश्वरं रूपमाविशति । एतदपि वागादिकर्मेन्द्रियव्यापारोपलक्षणार्थं वेदितव्यम् । तेन धावद्वद् प्. ७४) अतिचतुरवर्णस्वरोच्चारव्यग्रवाग्वृत्तिरपि यत्पदं गच्छेत् तथा वीणावेणुवादनादित्वरिततरव्यापार्यमाणकराङ्गुलिकलापो यत्पदं यच्छेत् तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः - इत्युपदिष्टं भवति सर्वकर्मेन्द्रियव्यापाराणां धावत्पदेन उपलक्षणात् । यथा ह्यर्थोऽस्फुटो दृ.ष्त इत्यादिश्लोके बुद्धीन्द्रियव्यापारगताम् एतामुपलब्धिं दर्शयिष्यति । यद्यपि च सर्वस्य प्राणभृतः सर्वासु अवस्थासु सर्वेन्द्रियवृत्तयो न अन्तरेण नित्योदितप्रतिष्ठितस्पन्दप्रकाशपरिस्फुरितसमापत्तिम् उन्मिषितुमेव प्रभवन्ति तथापि मायाशक्त्युद्भावितभेदावभासबलात् नानात्वेन उल्लसद्भिः अनन्तैः ज्ञानक्रियाविशेषैः व्यवधीयमान इवासौ प्रतिष्ठितः स्पन्दः प्रबुद्धस्यापि उपलब्धिगोचरत्वं गमयितुमशक्य - इति तदुपलब्धियोग्याः काश्चिदेव अतिक्रुद्धत्वादयो दशा उपायत्वेन संगृह्य उपदिष्टाः । एताश्च प्रबुद्धस्य प्रत्यवमृश्यमानाः सद्यः प्रतिष्ठितस्पन्दोपलब्ध्युपायतां प्. ७५) भजन्ते न तु अनुभूयमानाः सा हि अवस्था दुःखादिमययेव । ततो निष्क्रान्तस्तु प्रबुद्ध उपदेशबलाद् उपजाततादृशात्मस्वरूपविवेचनक्षमप्रज्ञातिशयः स्पन्दतत्त्वमनुभवति यदनुशीलनैकाग्र्यात् क्रमेण सुप्रबुद्धपदवीमधिरूढः सर्वत्र अनुभविष्यति - इति । विवृतमेतत् तस्य च स्पन्दतत्त्वस्य इत्यादिना वृत्तौ ।। ६ ।। अथ जाग्रद्वृत्त्यन्तर्लीनतुर्यदशागतस्वभावोपलब्धये श्लोकत्रयमुपायोपदेशमाह तत्र युगलकं तावत् यामवस्थां समालम्ब्य यदयं मम वक्ष्यति । तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति ।। तामाश्रित्योर्ध्वमार्गेण चन्द्रसूर्यावुभावपि । सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम् ।। ७ ।। ८ ।। तां यच्छब्दोपलक्षितवाक्यनिर्दिष्टाम् अवस्थां प्. ७६) दशाम् आश्रित्य आसाद्य पुरुषस्य चन्द्रसूर्यौ मनःप्राणौ द्वावपि युगपदेव अस्तमितः प्रलीयेते । किं कृत्वा (?) तादृग्दशाश्रयणसामर्थ्यादेव ब्रह्माण्डगोचरं हित्वा यदन्तस्तद्बहिः - इति ब्रह्माण्ड. शरीरं स एव गोचरः स्वप्रसराधिकरणं तं हित्वा त्यक्त्वा संवेद्यताभावादतिक्रम्येत्यर्थः । केन पथा अस्तमितः (?) ऊर्ध्वमार्गेण सर्वातिरिक्तेन अलौकिकेन वर्त्मना । तथा च##- - इति द्विधा संसारगोचरैव आलम्बनीयं निजं विषयमतीत्य तस्यां दशायां मध्यस्थतां प्राप्य स्वकारण एव अस्तमेति तथा सूर्यशब्दोदिता प्राणप्रसररूपा क्रियाशक्तिः नानानाडीसंचारलक्षणां कुसृतिमखिलां खिलीकृत्य सामान्यप्राणरूपतामापन्ना लोकातिरिक्तेन पथा स्वपद एव शाम्यति । ततः सौषुम्नेऽध्वन्यस्तमित इत्याह - सुषुम्नाभिधा शरीरमध्यमध्यासिता या नाडी प्. ७७) तदीये अध्वनि परस्याः पारमेश्वर्याः शक्तेः प्रवहणमार्गे प्रशाम्यतः ज्ञेयकार्योपरागपरित्यागात् परशक्तिरूपतामापद्येते - इति यावत् । कां तां दशामाश्रित्य (?) इत्याह - यामवस्थां समालम्ब्य सम्यक्त्यक्तसमस्तवस्तुव्यापृतिस्तिमितसर्वशक्तितया अवलम्ब्य अवष्टभ्य कस्मिंश्चिदवसरे पुरुषस्तिष्ठति । किं कृत्वा (?) समालम्ब्येति समालम्बनक्रियापूर्वभाविक्रियान्तरनिष्ठं वाक्यमाह - इति संकल्प्य इति इत्येवं संकल्पं कृत्वा । कथं (?) यदयं मम वक्ष्यति तदवश्यं करिष्येऽहम् इति यस्य आज्ञातिक्रमात् सद्य एव प्राणात्ययादिरनर्थः समापतति सोऽत्र राजादिः अयम् इति निर्दिष्टः अयं यद् वस्तु मम कर्तव्यतंया वक्ष्यति जल्पिष्यति तदवश्यं सर्वात्मना परिहृतसमस्तान्यकरणीयोऽहं करिष्ये संपादयामि - इति युगलकस्य वाक्यार्थसंगतिः । इदं तु तात्पर्यम् - केनचित्कारणेन अवश्यकरणीयवचसा प्रभविष्णुना कारयितव्यवस्तुविवक्षया प्. ७८) आक्षिप्तस्य पुंसः तद्वचनशुश्रूषामात्रनिविडावधानत्वात् समस्तवृत्तिप्रत्यस्तमये सति संवित् तुरीयां दशाम् अवश्यमेवाविशति तत्प्रत्यवमर्शाभ्यासात् परतत्त्वोपलब्धिः - इति । अत्र ब्रह्माण्डगोचरशब्देन शरीराकाशस्य चन्द्रसूर्यशब्दाभ्यां मनःप्राणप्रसरयोश्च प्रतिपादनम् । प्रयोजनम् अनेन उपदेशेन प्रत्यभिज्ञापिततुरीयदशाप्रत्यवमर्शाभ्यासकाष्ठाधिरोहिणः प्रबुद्धस्य निखिलबाह्याभ्यन्तराध्वातिक्रान्तपरमपदविश्रान्तिलाभः - इति । व्याख्यातमेतत् पृथक् वृत्तिकृता यां स्पन्दरूपामवस्थाम् इत्यादिना तस्य तामवस्थाम् इत्यादिना च ग्रन्थेन ।। ८ ।। ननु एवंविधा दशा सर्वस्य कस्यचित्कथंचित् उपजायत एव तत्किमुपदेशेन - इत्याह तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ।। ९ ।। प्. ७९) तदा तत्र तादृशदशाविशिष्टे काले सौषुम्नाध्वशब्दप्रतिपादिते महाव्योम्नि परमाकाशे समस्तवेद्यव्यतिरिक्तस्वरूपत्वात् शब्दगुणात्मकभूताकाशस्वरूपवैलक्षण्याच्च महाव्योमशब्दप्रतिपादिते स्वस्वभाव एव कीदृशे (?) प्रलीनशशिभास्करे प्रत्यस्तमितसमस्तज्ञानक्रियाप्रसरप्रपञ्चे मूढः परमेशतिग्मरश्मिपरमशक्त्यंशुस्पर्शाभावाद् अनिद्राणपशुप्रत्ययनिद्रावसादः सौषुप्तपदवत्स्यात् सुषुप्तावस्थायामिव भवेत् । यथा सुषुप्तावस्था प्रलीनाखिलवेद्यप्रपञ्चरूपापि अप्रबुद्धस्य तत्कालम् अनुभवसामर्थ्याभावात् मोहमययेव तथा एषा तुर्यदशापि मोहात्मिकैव । प्रबुद्धः पुनरीश्वरशक्तिपातप्रभावात् प्रकर्षेण लोकातिरिक्तातिशयेन बुद्धः प्रत्युदितसम्यग्ज्ञानदृष्टिः तादृग्दशाप्रत्यवमर्शावसरानुभूततुर्याभोगः अनावृतो देहाद्यवच्छिन्नाहंप्रत्ययरूपेण प्. ८०) आवरणेन वियुक्तः स्यात् संपद्येत । तदेतत् तस्मिन्महाव्योम्नि इत्यादिना ग्रन्थेन व्याख्यातं वृत्तौ ।। ९ ।। एवं देहादिवेद्यवर्गव्यतिरिक्तत्वेन सर्वदशानुस्यूतोपलब्धृमात्रलक्षणैकस्वभावत्वेन च उपपादितस्य प्रतिपादितोपलब्ध्युपायस्य स्वात्मन एव शंकरस्य यत्सामर्थ्यं तदेव अवश्यकरणीयशास्त्रचोदितक्रियासाधनभूतानां मन्त्राणां वीर्यम् - इति प्रबुद्धमेव उपलब्धतादृगात्मस्वभावं प्रति उपदेष्टुं युगलकमाह तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः । प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ।। तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः । सहाराधकचित्तेन तेनैते शिवधर्मिणः ।। १० ।। ११ ।। तेन प्रस्तुतव्याख्यानेन हेतुना एते मन्त्रा आराध्यदेवतावाचका वर्णादिसंनिवेशाः शिवधर्मिणः शिवस्य परमेश्वरस्यानन्यसाधारणः सर्वज्ञत्वादिर्गुणो प्. ८१) धर्मः स विद्यते येषां ते तथा शिवादभिन्नस्वरूपा इत्यर्थः । केन हेतुना (##? सामर्थ्यं शक्तिम् आक्रम्य उच्चिचारयिषावस्थायां तदभेदोपपत्त्या स्वीकृत्य सर्वज्ञबलशालिनः सर्वज्ञस्य शिवस्य बलेन शक्त्या श्लाघमाना सन्तः अधिकाराय प्रवर्तन्ते यथास्वं प्रतिनियतकार्यसंपादनस्वाम्यार्थ्यं प्रसरन्ति । एते हि अनासादितपरमेश्वराभेददशा उत्पादविनाशधर्मकवर्णमात्रात्मकाः तृणमपि कुब्जयितुमशक्ताः उक्तबलाक्रमणेन तु नियतेतिकर्तव्यतासहाया दीक्षादिवृश्चिकविषाकर्षणान्तपरापरस्वकार्यसंपादनाधिकाराप्रतिहतशक्तयो भवन्ति । यद्येवं सर्वमन्त्राणामुक्तबलाक्रमणलक्षणवीर्यसाम्यं तत् कथमेषां भिन्नाधिकारित्वं सर्वे सर्वार्थसाधनाधिकृताः कथं न भवेयुः (?) - इत्यत्र परमेश्वरपरिकल्पितनियतिनियन्त्रितत्वमेव प्. ८२) हेतुं प्रतिपादयितुमुपमानमाह - कथमेते मन्त्रा नियताधिकाराय प्रवर्तन्ते साधकानां (?) - देहिनां करणनीव यथा हि देहादिमात्रानित्यवस्तुव्यवस्थितात्माभिमानानां सर्वशरीरभृतां करणानि इन्द्रियाणि यतः करणवर्गोऽयम् इत्यत्र प्रतिपादितयुक्त्या परमेश्वरादेव चेतनत्वापादनहेतुप्रवृत्त्यादिलाभसाम्ये सत्यपि करणानि तत्परिकल्पितनियतिशक्तिबलात् शब्दादिविषयप्रकाशनमात्रपर्यवसितसामर्थ्यानि यथास्वं पृथक्पृथगधिकाराय प्रवर्तन्ते न सर्वाणि सर्वस्मै तथैवैते मन्त्राः साधकानां स्वीकृतपरस्वभावाहंभावप्रतिपत्तीनां यथानियमिताधिकाराय प्रवर्तन्ते तस्मात् करणवत् सर्वज्ञबलशालिनोऽपि मन्त्रा नियताधिकारा एव । ततश्च शिवधर्मिणो मन्त्रा यत्कृताधिकाराः सन्तो निरञ्जना अञ्जनात् वाच्योपरागरूपात् मलात् वर्णादिरूपभावनात्मकाद्वा निष्क्रान्ताः अत एव शान्तरूपाः शान्तं शुद्धं संविन्मात्रावशेषत्वात् प्. ८३) निर्विकारं रूपमात्मा येषां ते तादृशाः सन्तः तत्रैव शिवे परमकारणे स्वस्वभावे संप्रलीयन्ते तदैक्यमुपगच्छन्ति । केन साकम् (?) आराधकचित्तेन सह साधकमनसा साकं । तस्यां हि दशायामभिसम्ध्युपाधिविरहात् स्वाभाविकमात्रावशेषं यत् साधकचित्तं तेन साकम् । किमनेन तात्त्विकमन्त्रवीर्यं पतिपादितं भवति (?) तदिदं भवति - मन्त्रचेतसोः उदयास्तमयदशयोः परमकारणात् शिवादभेदः - इति मन्त्रात्मकतया साधकचित्तात्मकतया च शिवशक्तिरेव वर्णसंकल्पादिरूपधारिणी उदिता सती संप्रति अनासादितस्वस्वभावबलस्पर्शप्रतिपत्तीनां साधकानां भेदविभ्रममुत्पादयन्ती नियतार्थसाधनाधिकाराय पर्यवस्यति । यस्तु यथाप्रतिपादिते स्वस्वभावे एव सुदृढात्मप्रतिपत्तिः तस्य उदयास्तमयज्ञस्य सर्वमन्त्राः प्. ८४) सर्वार्थसाधनाधिकारिणो भवन्ति तत्तदितिकर्तव्यतासाहित्यनियमाद्यपेक्षां विना आ सतां वा मन्त्राः यद्यद्वचनं येन येनाभिसंधिना उच्चारयति तत् तस्यामोघमन्त्रतामापद्यते - इति स्वभावबलाक्रमणमेव सिद्धं स्वतो मन्त्राणां वीर्यं प्रत्यवम्रष्टव्यं योगिना - इति तात्पर्यार्थः । उपलक्षणार्थं मन्तव्यं चैतत् । उक्तोपपत्त्या न केवलं मन्त्रा एव शिवधर्मिणो यावन्न काचित्क्रिया ज्ञानं कार्यं ज्ञेयं वा वस्तु संभवति यत् परतत्त्वाभेदापत्तिलब्धात्मकं सत् शिवात्मकमेव न भवति - इति समनन्तरमेव वक्ष्यति । व्याख्यातम् एतत् वृत्तौ यद्बलं निरावरणाचिद्रूपम् इत्यादिना ।। ११ ।। इति राजानकश्रीरामविरचितायां स्पन्दविवृतौ व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो निष्यन्दः ।। २ ।। प्. ८५) अथ विश्वस्वभावशक्त्युपपत्तिर्नाम तृतीयो निःष्यन्दः ।। इदानीं पक्षान्तरोपन्यासभङ्ग्या प्रकरणारम्भश्लोकापरार्धप्रतिज्ञातं स्वस्वभावस्यैव शिवस्य विश्वव्यक्तिमयशक्तिचक्रविभवनशीलत्वमवसरप्रप्तम् उपपत्त्युपलब्धिभ्यां निर्वाहयितुं श्लोकत्रयमाह यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् । तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ।। १ ।। तेन शब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ।। २ ।। इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ।। ३ ।। प्. ८६) यस्य इति वा संवित्तिः स जीवन्मुक्त इति संबन्धः इत्येवम् इदानीमेव प्रतिपाद्यप्रकारेण यस्य वा साधकोत्तमस्य संवित्तिः सम्यक् ज्ञानं स सततम् अव्यवधानेन सर्वावस्थासु युक्तः समाहितः उक्तवक्ष्यमाणोपदेशदृशा स्वभावबलपरिशीलनाप्रमत्तैकाग्रमानसः स जीवन् नियतदेहाधिकरणान् प्राणान् धारयन् एव मुक्तः सर्वव्यापकसर्वात्मकसर्वेश्वरस्वतन्त्रस्वस्वभावाहंकारप्रतिपत्तिदार्ढ्येन जन्मादिविरोधात् निष्क्रान्तः परमेश्वर एव संवृत्त - इत्यत्र न संशयो न भ्रान्तिः स्वसंवेद्योपपत्त्युपलब्धिनिष्प्रकम्पत्वात् अस्य अर्थस्य । किं कुर्वन् जीवन्मुक्तः (?) अखिलम् अशेषमनन्तवस्तुव्यक्तिविचित्रं जगत् विश्वं क्रीडात्वेन स्वनिर्मितचराचरभावक्रीडनकोपरचितलीलामात्रतया पश्यन् विभावयन् । सर्वो हि जनः अनुन्मिषितस्वस्वभावनिभालनक्षमविमलविज्ञानदृष्टिरात्मनोऽन्योन्यतश्च प्. ८७) विभिन्न इदमखिलं भावजातं कुतश्चिदन्यतः कारणात् उद्भूतम् अनिशं मन्यमानः तद्भावजन्यहर्षशोकभयादिविकारान् अनुभवन् भवाध्वनि पुनः पुनः जन्मादिबन्धनभाजनतां भजते । यस्तु प्रतिपाद्यप्रकारेण उत्पन्नपरसंविदभिव्यक्तिः स यथा कश्चित् क्रीडापरः स्वपरिकल्पितैः भयक्रोधादिकारणभूतभावप्रतिच्छन्दकैः क्रीडन् तद्याथात्म्यवेदित्वात् भयादिविकारकालुष्यं मनागपि नापद्यते तथैव भावानां स्वस्वभावशक्तिविजृम्भितमात्रतया याथात्म्यवेदी सन् सन् मनागपि विकृतिं न आपद्यते । एवं सर्वं क्रीडात्वेनैव पश्यन् जीवन्नेव मुक्तः । कथं यस्य संवित्तिः (?) इति - तेनेत्यादिश्लोकेन प्रतिपादयति तेन वक्ष्यमाणेन हेतुना शब्दार्थचिन्तासु सा अवस्थैव नास्ति या न शिवः - इति यस्य संवित्तिः स जीवन्मुक्तः इति । शब्दोऽर्थप्रत्यायकः पदसमुदायः अर्थोजात्यादिभेदात् बहुविधम् प्. ८८) अभिधेयं वस्तुजातं तयोः चिन्ता तथा तथा विकल्पनाः अनन्तचिन्तनीयवस्तूपरागात् विचित्राणि ज्ञानानि यन्मयो व्यवहारः एतासु शब्दार्थचिन्तासु सा अवस्था दशा न काचित् शब्दचिन्तारूपा अर्थचिन्तारूपा वा संभवति या शिव एव साक्षात् न भवति । यत एवं तदा भोक्ता अनुभवितैव ईश्वरः सदा नित्यं सर्वत्र सर्वासु अवस्थासु भोग्यभावेन अनुभवनीयवस्त्वात्मना स्थितो न पृथक् किंचित् भोग्यं नामास्ति तत्त्वानवमर्शमात्रविजृम्भितम् एतत् भोक्तृभोग्यविभागरूपम् । केन हेतुना न सावस्था न या शिवः (?) इत्याह - यस्मात् जीवः आत्मा सर्वमयो विश्वरूपः परस्परव्यतिरिक्तप्रतिपत्तिः जीवस्यापि यो व्यवहारः सोऽपि वेद्यवेदकाभेदपूर्वकतयैव उपपन्न - इत्यर्थः कुत एतत् (?) तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः सर्वभावसमुद्भवात् प्. ८९) सर्वमयो जीवः तस्य कस्यचित् संवेद्यस्य घटसुखादेः यत् संवेदनं ज्ञानं तस्य यत् स्वभावः तेन हेतुना या तादात्म्यप्रतिपत्तिः तदभेदसंवित् ततो हेतोः निर्वर्तमानो यः सर्वभावसमुद्भवः सर्वेषां भावानां उत्पत्तिः तस्मात् सर्वमयो जीवः । किमुक्तं भवति - जीवस्यैव व्यवहारो विचार्यमाणोऽयं वस्तुयाथात्म्यमुपपादयति । तथाहि - अयं स्वविषयं संविदन्नेव समुद्भावयति सृजति संवेद्यमानमेव हि वस्तु स्वरूपं लभते न तु असंवेद्यमानं संवेद्यमानता च तेन तेन रूपेण प्रकाशमानता प्रकाशमानत्वं च प्रकाशादव्यतिरिक्तं नान्यत् किंचित् । यदाह न्यायवादी चेतनाच्चापि वेद्यत्वादतद्रूपाप्रवेदनात् । इति । एवं च यत् यत् अयं जीवः संवेत्ति तत्तदस्य शरीरमेव संपद्यते न तु नियतशिरपाण्याद्यवयवसम्निवेश प्. ९०) एव सोऽपि हि अस्य संवेद्यमानतावस्थायामेव शरीरीभवति अन्यदा तु व्यतिरिक्तो विषय एव । तथा च - संवेद्यमानत्वसामान्यात् द्विविधं शरीरमस्याम्नातं तत्त्वविद्भिः भूतात्मकं भावात्मकं च तत्र मायाशक्तिवैभवविस्मारिततात्त्विकस्वभावतया वस्तुसंवेदनावसरे स्वरूपापरामर्शत्वमुकुलितसामर्थ्योऽयं जीवः अवच्छिन्नाहंकारास्पदतया शिरःपाण्यादिमच्छरीरत्वेन यत् परामृशति तत् अस्य सृष्ट्यादिमयत्वात् भूतात्मकम् - इत्युक्तम् । यत्तु व्यतिरिक्तं शब्दादिविषयत्वेन परामृशति तद्भावात्मकं । परमार्थे तु विचार्यमाणे द्वयमप्यस्य शरीरं संवेद्यमानत्वाविशेषात् । एवं संवेद्यमानतालक्षणभावसंसर्गावस्थायां जीवः संवेद्यवस्त्वव्यतिरेकात् सर्वमयो विश्वरूपः स्थितोऽपि सन् तथावस्तुसंवेदनतत्त्वपरामर्शानुन्मेषात् सर्वमिदम् आत्मव्यतिरिक्तकारणान्तरलब्धात्मकत्वेन आत्मनः परस्परतश्च पृथक्त्वेन व्यवच्छिन्दन् प्. ९१) आत्मानं च देहाद्यनित्यभावाहंभावेन अध्यवस्यन् जन्मादिबन्धभाक् संसारी जीव इति व्यपदिश्यते । यदा तु शिवदिवाकरशक्त्यंशुपातजनितप्रबोधोन्मिषितविशददृष्टिस्फुटतर##- यथावस्थितवस्तुसंवेदनपरामर्शशक्तिभिर्व्यक्तिभाक् भवति तदा स एव संकल्पमात्रविलिखिताविचित्रविश्वव्यक्तिमयशक्तिचक्रः शिवः संपद्यते । तेन उक्तम् - तत्तद्वस्तुसंवेदनस्वभावबलेन या तादात्म्यप्रतिपत्तिः संवेद्यमानवस्त्वभेदसंवित्तितः सर्वभावसमुद्भवः तस्मात् जीवः तावत् सर्वमयः तेन च तस्य सर्वमयत्वप्रतिपत्तिलक्षणेन हेतुना सा अवस्था नास्ति या शिवमयी न भवति ततश्च भोक्तैव ईश्वरो भोग्यभावेन ईशितव्यवस्तुरूपतया सदा सर्वत्र संस्थितः । एवं यस्य वा संवित्तिः स जीवन्मुक्त - इति वाक्यसमन्वयसंकलनार्थमेतत् प्. ९२) पुनरुक्तम् - इत्यनेन श्लोकत्रयेण आत्मन एव विश्वरूपत्वेन स्थितिः प्रतिपादिता विश्वप्रपञ्चस्य निमित्तान्तरानुपपत्तेः । यथोक्तं ब्रह्मविदा कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया । स एव बुद्ध्यते भेदादिति वेदान्तनिश्चयः ।। इति । तथा अन्येनापि स्तुतिद्वारेणोक्तम् विविधैरुपाधिभिरवस्थितैर्बहिः स्फटिकादिवत्तव विचित्रतोच्यताम् । यदि ते कदाचन कथंचन क्वचिद्भवितुं क्षमास्त्वदवभासतः पृथक् ।। परमाणुपाकपरिणामविभ्रमाद्युत वा विवर्त इति विश्वमिष्यताम् । विबुधोत्तमैर्यदिह तद्विकल्पनास्तव शक्तिरेव न तथोपपादयेत् ।। तदिहापि च प्रतिनिमेषमुन्मिषन्निमिषद्विकल्पविविधांशुमण्डलः । अथ चातिशुद्धवपुरद्भुतैकभूः स्फुरसि त्वमेव शिव चिन्मयो मणिः ।। प्. ९३) व्याख्यातमेतत् वृत्तौ पृथक् पृथक् सर्वात्मक एवायमात्मा इत्यादिना तेन तथाविधेन इत्यादिना एवं स्वभावे यस्य इत्यादिना च ग्रन्थेन ।। १ ।। २ ।। ३ ।। इति श्रीराजानकश्रीरामविरचितायां स्पन्दविवृतौ विश्वस्य स्वस्वभावशक्तिमात्रत्वोपपत्तिर्नाम तृतीयो निःष्यन्दः ।। ३ ।। प्. ९४) अथ अभेदोपलब्धिर्नाम चतुर्थो निःष्यन्दः ।। इदानीमियमेव उपपत्तिः सुगृहीता सती अभेदोपलब्ध्युपायः - इति प्रदर्शयितुं मन्त्रन्यासादिसमस्तविधिसंस्कारकत्वमस्याः प्रतिपादयितुमाह अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसिः । तदात्मतासमापत्तिरिच्छतः साधकस्य या ।। १ ।। तस्य कस्यचित् ध्येयस्य तेन तेनाकारेण स्मर्तव्यस्य मन्त्रवाच्यस्य देवताविशेषस्य उदयः तत्तदर्थक्रियासंपादिना अमोघशक्तिना तेन तेनोपास्येनाकारेण प्रथनम् क्व अधिकरणे (?) - ध्यायिचेतसि ध्यायिनः स्मर्तुः संबन्धिनि चेतसि संकल्पे कोऽसावुदयः (?) - इच्छतः इच्छावस्थायां प्. ९५) वर्तमानस्य मन्त्रमुच्चिचारयिषोः साधकस्य अभियुक्तस्य वस्तुसामर्थ्यसिद्धा या तदात्मतासमापत्तिः तस्य ध्येयस्य य आत्मा स्वरूपं तस्य भावस्तदात्मता तया समापत्तिरेकीभावः । इदमत्र तात्पर्यम् - न्यासादिहेतोर्मन्त्रोच्चारणेच्छावस्थायां मन्त्ररुद्धान्यदेवताकारायां साधकचेतसः स्वयमप्रयत्नेन संपाद्यमानं यदभिन्नरूपत्वं स एव परामर्शक्षमसंविदो ध्यातुर्मुख्य आराध्यदेवतायाः प्रत्यक्षदर्शनरूप उदयो न तु व्यतिरेकविभाव्यमानाकारता - इति अनयैव संविदा शिवरूपतापत्तेः । शिवो भूत्वा शिवं यजेत् । इत्यस्य विधेः चरितार्थत्वम् । अयमेव तत्संवेदनद्वारेण इत्यादिना व्याख्यातमेतत् वृत्तौ ।। १ ।। अस्या एव संविदो विध्यन्तरसंस्कारकत्वमाह इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ।। २ ।। प्. ९६) इयमेव यथाप्रतिपादिता शरीरादिविनश्वरवस्त्वालम्बनाहंप्रत्ययरूपस्य स्वप्रकाशव्यतिरिक्तवेद्यभावप्रतीतिमयस्य मिथ्याज्ञानस्य उच्छेदात् अनवच्छिन्नस्वच्छस्वच्छन्दस्वभावमात्रैकतत्त्वोपलब्धिरूपा संवित् सम्यग् ज्ञानम् अमृतप्राप्तिः अमृतस्य अविनाशिनः शिवात्मकस्यात्मनः प्राप्तिरुपलब्धिः किल अर्थानुगतामृतप्राप्तिर्भवति न तु द्रव्यविशेषात्मकस्य जडस्यानित्यस्य वस्तुनः कस्यचित् प्राप्तिरमृतप्राप्तिः सा हि जीवस्य कालान्तरस्थायिशरीरत्वकारणभावात् एतदुपचारेण एवमुच्यते । तथा अयमेवात्मनो ग्रहः या एवंविधा मन्त्रोच्चारणेच्छाक्षणभाविनी संवित् सोऽयमेवात्मनो जीवस्य ग्रहो ग्रहणं तेषु तेषु हि दीक्षादिषु विधिविशेषेषु आत्मनः शिष्यसंबन्धिनः स्वस्य वा ग्रहणं शास्त्रेषु उपदिश्यते । यथा उदाहृतं वृत्तौ आत्मओ ग्रहणं कुर्याद्दीक्षाकाले गुरुर्धिया । प्. ९७) इति । तेन तादृग्विधिसंपत्तये परिकल्पितरूपविशेषस्यात्मनो या परमकारणभूतस्वभावाभेदसमापत्तिरुपजायते सा परामृश्यमाना आत्मग्रहणात्मकविधिसंपदिका भवति न तु अन्यथा तस्यामूर्तस्य ग्रहणं संभवति ग्रहीतुः परमात्मनः सर्वव्यापकसंविद्रूपात् तस्याभिन्नत्वात् । तथा इयमेव निर्वाणदीक्षा निर्वाणं निर्वृतिर्द्वैतप्रत्ययलक्षणक्षोभपरिक्षयात् आत्यन्तिकी प्रशान्तिः संविदः स्वस्वभावव्यवस्थितिः तदर्था दीक्षा स्वरूपसंबोधदानात्मको भेदमयबन्धक्षपणलक्षणश्च संस्कारविशेषः सा चैवंरूपा निर्वाणदीक्षा इयमेव प्रतिपादिता संवित् एतत्कारणत्वात् तस्याः । यत एषा संवित् शिवसद्भावदायिनी शिवस्य स्वस्वभावस्यैव परमेश्वरस्य यः सद्भावः सत्ता येन रूपेण अहमेवास्मि प्. ९८) इति प्रतिपत्तिरबाधिता सिद्ध्यवस्थायामुपपद्यते तस्य दायिनी प्रतिपादिका स हि निरुत्तरः संस्कारः सुप्रबुद्धगुरोर्गोचरः परमशिवात्मकस्वरूपप्राप्तिमात्रो न तु बाह्यसाधनसाध्यविधिविशेषात्मक इति । व्याख्यातमेतत् इयमेव सा मिथ्याज्ञानशून्यस्य इत्यादिना वृत्तौ ।। २ ।। एवमुत्तमविधिसंस्कारकारणत्वमस्याः संविदः प्रतिपाद्य इदानीं सिद्ध्यन्तरकारणत्वं संसारिव्यवहारनिदर्शनेन प्रतिपादयितुं श्लोकद्वयमाह यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान् । सोमसूर्योदयं कृत्वा संपादयति देहिनः ।। ३ ।। तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् ।। ४ ।। प्. ९९) यथा देहिनो देहमात्रमेव आत्मत्वेन प्रतिपन्नस्य सर्वस्य संसारिणो जाग्रतो यथास्वं विषयग्रहणव्यग्रेन्द्रियवृत्तिलक्षणां जागरावस्थाम् अनुभवतो हृदि स्थितान् आशयनिविष्टान् द्रष्टुम् अभीष्टान् भावान् इच्छाभ्यर्थितः इच्छया दिदृक्षारूपया अभ्यर्थितः तदवस्थास्वभावबलात् तादात्म्यसमापत्त्या तदर्थसंपत्तेः याचित इव धाता सर्वकर्ता परमेश्वरः परमात्म संपादयति यथाभिप्रायं चक्षुषोः उदयम् अभिप्रेतार्थावधारणमात्रावधानरूपस्वरूपप्रथनं विधाय - इत्युपमानवाक्यम् । इदमत्र तात्पर्यम् - यो यः कश्चित् संसारी यमेवार्थं द्रष्टुमुत्पन्नेच्छो भवति स तद्दिदृक्षावस्थायां झगित्यवश एव परमात्मानं धातारमभेदेन आविशति सा अवस्था अस्य प्रार्थना - इत्युपचरिता तत्पूर्वकतया अभीष्टार्थप्राप्तेः । प्. १००) स तया अभ्यर्थितो धाता तावन्मात्रार्थप्रथनाय अवधानात्मना चक्षुषोः स्वरूपव्यक्तिलक्षणमुदयं कृत्वा संनिहितेष्वपि अन्येषु बहुषु दृश्येषु यद्दिदृक्षयैव अभ्यर्थितः तमेवार्थं प्रदर्शयति नान्यत् । चक्षुषोरुदयं कृत्वा - इति उपलक्षणमात्रमेतत् मन्तव्यम् । तेन शुश्रूषाभ्यर्थितः श्रवणयोरुदयं कृत्वा श्रव्यान्तरसंनिधावपि शुश्रूषितमेव अर्थं श्रावयति धाता देहिनः - इति सर्वेन्द्रियेष्वपि योज्यम् । चक्षुषोश्च सोमसूर्यशब्देन प्रतिपादनेन विश्वरूपात् धातुर्जीवस्य वास्तवाभेदप्रतिपादनप्रयोजनम् । उपलक्षणार्थं च वृत्तिकृतैव व्याख्यातम् चक्षुरादिष्ववधानेन इत्यत्रादिग्रहणात् । इत्थं सर्वजीवानां सर्वार्थप्रथनमिच्छापूर्वकं भवत् सा च इच्छावस्था संसारिणः परमकारणाभेदरूपा - इति परमेश्वर एव स्वतन्त्रो यथेष्टमिदमखिलं प्रकाशयति - प्. १०१) इति परमार्थं तदीयमायाशक्तिजनितदेहादिव्यवच्छेदाः संसारिणो न प्रपद्यन्ते । यस्तु प्रबुद्ध उक्तोपदेशाभ्यासप्रकर्षकषणपाषाणनिशितीकृतप्रज्ञाकृपाणीनिकृत्तकल्प##- संस्मर्यमाणः तं प्रत्यभिज्ञातुमलम् - इति सिद्धाव्यतिरेकसमाधियोगिनं प्रति इदमुपमेयवाक्येनोपदिश्यते । यथा वा तैरेव प्रतिपादितयुक्त्या इच्छाभ्यर्थितः सन् सर्वार्थान् प्रथयति तथैव तेन प्रकारेण नित्यं सर्वदा सर्वासु ज्ञातृज्ञेयसंबन्धदशासु प्रणयस्य इच्छावस्थायां तादात्म्यप्रतिपत्तिरूपायाः प्रार्थनायाः अनतिक्रमात् अनुल्लङ्घनात् प्रत्यवमर्शावहितत्वेन अनुपेक्षणात् स्वप्नेऽपि स्वव्यापारोपरतचक्षुरादौ मनोमात्रग्राह्यस्वसृष्टिविषयायां स्वापावस्थायां यावद् अभीष्टान् साधकाभिमतानेव अर्थान् स्फुटतरम् प्. १०२) अतिप्रकटं कृत्वा मध्ये स्थितो हृदये सदासीनोऽवश्यं नियमेन असौ धाता प्रकाशयेत् प्रथयेत् - इति तथेत्यादेरुपमेयवाक्यस्यार्थः । तात्पर्यं पुनरिदं - यः सर्वदा सर्वानुभवेषु धातुः सर्वेश्वरस्य स्वस्वभावस्य तल्लीनत्वलक्षणं प्रणयं स्वसामर्थ्यसिद्धं प्रतिक्षणप्रत्यवमर्शावहितत्वात् नातिक्रामति तस्यासौ धाता जागरवत् स्वप्नेऽपि अभिमतानेवार्थान् प्रकाशयति न तस्य स्वप्नपदार्थाः स्वातन्त्र्येण प्रवर्तमानाः सर्वकर्तृत्वलक्षणस्वशक्तिप्रतिबन्धमुद्भावयन्ति असंसारित्वात् किंतु स्वतन्त्रः स्वशक्त्या यथेष्टं तान् सृजति । यथाह भर्तृहरिः प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् । सर्वेश्वरः सर्वशक्तिः स्वप्ने भोक्ता प्रपद्यते ।। इति । अत एव स्वप्नस्वातन्त्र्यमेतत् - इत्युक्तम् । तस्य स्वप्नजागरयोर्विशेषो नास्ति - इति तमोवरणनिर्भेदः स एवोक्तः । देहाद्यहन्ताजनितोऽनवच्छिन्नस्वमाहात्म्यनिरोधः प्. १०३) तमः तेन वरणं स्थगनं स्वभावतिरोधानं तस्य निर्भेदोऽनन्तनिजवैभवाभिव्यक्तिवशात् विनाशः स हि तस्यामवस्थायामाविर्भवति । व्याख्यातमेतत् वृत्तौ पृथक् पृथक् यथा अस्य अनभिव्यक्तस्वस्वरूपस्य इत्यादिना । तथा स्वप्नेऽप्यभीष्टार्थानेव पश्यति इत्यादिना ग्रन्थेन ।। ३ ।। ४ ।। अथ एवंविधसमाधिव्युत्थानमात्रात् संसारिसमानतां योगिनः प्रतिपादयन् नित्ययुक्ततां द्रढयितुमाह अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः । सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ।। ५ ।। अन्यथा तु उक्तात्प्रकारात् अन्येन प्रकारेण सर्वकर्तुः स्वतन्त्रस्य परमेश्वरस्य एकस्य ममैवेदं प्. १०४) जगत्कार्यम् - इति प्रतिपत्त्यभावरूपेण वर्तमानस्य योगिनो जाग्रत्स्वप्नपदद्वये जागरस्वापदशयोः तद्धर्मकत्वतः सर्गगुणात्मकत्वात् सृष्टिः नानाभावनिर्मितिः सततम् आत्मतत्त्वसंविदुदयात् स्वतन्त्रा स्यात् वास्तवेन स्वतन्त्रस्वात्ममात्रकर्तृत्वेन अपरामृश्यमाना सती विचित्रविभ्रमदानस्वच्छन्दा दुर्निवारतादृक्सामर्थ्यप्रसरा भवेत् । कस्येव (?) - लौकिकस्येव संसारिणो लोकस्य यथा । इदमत्र तात्पर्यम् - जागरास्वप्नलक्षणं पदद्वयं सर्गस्वभावं तत्र हि ज्ञानज्ञेयभावेन पारमेश्वर्याः शक्तेः स्थितिः प्रतिपादिता तादृशि अस्मिन् द्वयात्मके पदद्वये यो योगी यथोक्तसंवित्तिसमाधानापरित्यागात् अप्युत्थितः स्यात् तस्य सर्वथा स्वतन्त्रे सर्वकर्तरि स्वात्मनि सुव्यवस्थितस्य प्. १०५) सृष्टिस्वभावं तत्पदद्वयं शक्तिप्रतिबन्धाय न प्रभवति यस्तु अतोऽन्यथा स्यात् स लोकवन्निजयैव भावसृष्ट्या परवशीक्रियते - इति नित्ययुक्तेन योगिना भाव्यमित्यर्थः । तदेतत् अन्यथा स्वरूपस्थित्यभावे इत्यादिना व्याख्यातमेतद्वृत्तौ ।। ५ ।। इदानीमतीतानागतव्यवहितविप्रकृष्टादिवस्तुविज्ञानमनयैव संविदा सुलभम् ##- यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ।। ६ ।। एवं यत्परमार्थेन यत्र येन यथा स्थितम् । तत्तथा बलमाक्रम्य न चिरात्संप्रवर्तते ।। ७ ।। प्. १०६) यथा हि कस्यचित् सावधाने तदर्थदिदृक्षानिविडप्रयत्नेऽपि चेतसि सति झगिति दृष्टमात्रोऽर्थः अस्फुटः अप्रकटो भाति प्रथते भूयोऽनन्तरं स्वबलोद्योगभावितः स्वस्यात्मनः सर्वज्ञस्य बलं सामर्थ्यं ज्ञत्वादिलक्षणा शक्तिः तया उद्योगः उद्यमो निविडतरावधानतया दर्शनोत्साहः तेन भावितो लक्षितः सन् स्फुटतरो भाति प्रत्यभिज्ञायमाननिरवशेषविशेषः सोऽयम् इति प्रथते - इत्युपमानवाक्यम् । अस्येदं तात्पर्यं - यस्य कस्यचित् द्रष्टुमभीष्टोऽर्थो झगिति विस्फारितमात्रचक्षुषो न सम्यक् दृश्यतामापद्यते पुनः क्षणान्तरे तद्देशगतस्यैव तथैव न्यक्षनिक्षिप्ताक्षस्य स्फुटतरः प्रकाशते तत्र को हेतुः (?) - न हि तेन द्रष्ट्टव्यतिरिक्तं विशेषदर्शनसाधनं किंचिदाह्रियते तेन तात्त्विकस्वभावानुप्रवेश प्. १०७) एव तस्य संजायते यद्बलस्पर्शात् तस्य सोऽर्थो याथात्म्येन प्रथते - ततः स्वबलोद्योगमात्रं सर्वार्थप्रकाशनसाधनं सर्वदेहिनां नान्यत्किंचित् । एवंविधार्थप्रकाशनं सर्वप्राणिसाधारणमपि प्रबुद्धस्य योगिन एव प्रत्यवमृश्यमानं सत् तथा प्रकाशते नान्यस्य मायातिमिरतिरस्कृतसम्यग्दर्शनस्य इति योगी एव अनेन उपदेशेन स्मार्यते एवम् इत्याद्युपमेयवाक्योक्तेन । यथा हि अस्फुटदृष्टोऽर्थः स्वबलमेवाक्रम्य स्फुटतरं प्रकाशते एवम् अनेनैव उपमानवाक्योक्तेन प्रकारेण बलं स्वस्वभावसामर्थ्यम् आक्रम्य दिदृक्षाक्षणे तत् अभेदेन अधिष्ठाय वर्तमानस्य योगिनः तथा तेनैव तत्तदवस्थाकारदेशकालाद्यविसंवादिना प्रकारेण संप्रवर्तते सम्यगभिव्यक्तिमेति सम्यक् प्. १०८) ज्ञेयतया अभिमुखीभवति । किं तद्वस्तु (?) - परमार्थेन तत्त्वतो यत् वस्तु गवादि यथा येन अवस्थात्मना प्रकारेण येन यादृशेन विशिष्टसास्नादिमता आकारेण यत्र यस्मिन् व्यवहितविप्रकृष्टादौ देशे भूतादौ वा काले स्थितं तत्तथा संप्रवर्तत - इति । अयमत्र भावार्थः - अस्फुटेऽर्थे दृष्टे तस्य स्फुटतरावभासाय सर्वज्ञस्वस्वभावाभेदो यः सर्वस्य कस्यचित् अप्रयत्नेन उत्पद्यते प्रबुद्धः तत्परामर्शाभ्यासात् देशकालादिव्यवहितानपि यथाभिमतानर्थान् तत्त्वतो जानाति - इत्यबाधितायां युक्तौ स्थितायां सर्वज्ञत्वादिगुणाभिव्यक्तौ अयमेव हेतुः । अत एवोक्तम् परिमितविषयमतीतानागतज्ञानं न किंचिदाश्चर्यं निरावरणस्वस्वभावत्वात् इति । तस्यां हि दशायां देशकालाद्यनिरुद्धं स्वस्वभावबलमभिव्यज्यते । प्. १०९) अस्फुटोऽर्थो दृष्टः इत्युपलक्षणार्थमेतन्मन्तव्यम् तेन श्रुतादिष्वेवमेव योज्यम् । एतेन च दृश्यादेरर्थस्य स्फुटतरदर्शनाद्यर्थं प्रयत्नविशेषावस्थायां संपाद्यमानेन प्रतिष्ठितस्पन्दानुप्रवेशेन सर्वबुद्ध्यक्षव्यापारात्मकजाग्रदवस्थाश्रयः परतत्त्वोपलब्ध्युपायः प्रसङ्गात् प्रतिपादितो वेदितव्यः व्याख्यातमेतद्वृत्तिकृता श्लोकद्वयं पृथक् पृथक् यथा किल दूरस्थित इत्यादिना तथा तेनैव प्रयत्नविशेषेण इत्यादिना ग्रन्थेन ।। ६ ।। ७ ।। अथैतयैव युक्त्या क्षुत्तृष्णादिजयं प्रतिपादयितुमाह दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ।। ८ ।। यतो यस्माद्धेतोर्बलं सर्वकर्तृत्वस्वातन्त्र्यलक्षणं प्. ११०) सामर्थ्यमात्मीयमाक्रम्य पूर्वोक्तया युक्त्या तत्राव्यतिरेकेण स्थित्वा दुर्बलोऽपि अपचितदेहधातुत्वात् असमर्थोऽपि सन् कश्चित् कार्ये भारोद्वहनादिव्यापारे प्रवर्तते क्रियाप्रधानो भवति - एतत् दृष्टान्तवाक्यम् । अस्येदं तात्पर्यम् - यः परिकृशकायत्वात् अशक्त एव संध्यादिव्यापारमारभमाणः अभ्यासबलात् विषयान्तरे बलवत्तरेणाप्यशक्यं व्यायामादिकर्म कर्तुं प्रभवति तस्य तथा सामर्थ्योत्पत्तौ प्राक्प्रतिपादितयुक्त्या स्वस्वभावबलाक्रमणमेकं वर्जयित्वा नान्यत्किंचिन्निमित्तम् । तत्तु यथेष्टसर्वकर्तृत्वलक्षणं बलमात्मतत्त्वस्य मायीयः कर्ता मायाप्रतिबद्धशक्तित्वात् नियतकारणान्तरापेक्षनियतकार्यसंपादनसामर्थ्यं मन्यते । सोऽपीदमहं कर्तुं शक्नोमि - इत्यविकलोत्साहदशायां तदेव बलमवलम्बमानः तत्कार्यसंपादनक्षमो भवति - इति युक्तिर्योगिन एव प्रतिपत्तिगोचरी भवति - इति तामेतां दृष्टान्तीकृत्य प्. १११) तं प्रत्येव इदं दार्ष्टान्तिकवाक्येन उपदिश्यते - यथा दुर्बलोऽपि बलवत्संपाद्यकार्यसपादनसमर्थः स्वस्वभावबलाक्रमणादेव भवति तथा तेनैव प्रकारेण सर्वकार्यसंपादनस्वतन्त्रं स्वबलमाक्रम्य तत् स्वशक्तितया अधिष्ठाय योऽतिबुभुक्षितः अत्यर्थं भोजनेच्छाविष्टः स तां बुभुक्षाम् आच्छादयेत् स्थगयेत् न्यक्कुर्यात् नित्यतृप्ताकृतकस्वरूपसामर्थ्यप्रथनात् अन्नाद्यभ्यवहारकारणमेव क्षुन्निवृत्त्यादिकार्यम् - इति नियतिशक्तिप्रतिबन्धविदलने सति अत्यन्तं तां तिरोभावयेत् नित्यतृप्त एव स्यादित्यर्थः । दुर्बलः क्षीणधातुरपि इत्यादिना व्याख्यातमेतद्वृत्तौ ।। ८ ।। एवं पृथक् सर्वज्ञत्वसर्वकर्तृत्वादिगुणव्यक्त्युपायोपपत्तीः प्रतिपाद्य पुनरेकोपपत्तिनिदर्शनेन प्. ११२) ताः प्रतिपादयितुमाह अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ।। ९ ।। अनेन आत्मना चेतयित्रा अधिष्ठिते अहमिति प्रतिपत्त्या अध्यासिते देहे शरीरे सर्वज्ञतादयः शरीराश्रयाणि सर्वाणि ज्ञेयानि कार्याणि च तेषु ज्ञता ज्ञातृत्वमादिर्येषां तान्येव कर्तृत्वादयो धर्माः यथा सर्वस्य स्थिता - इति दृष्टान्तवाक्यम् । अस्येदं तात्पर्यम् - यद्यदयमात्मा अहमिति-प्रतिपत्त्या अधितिष्ठति तत्तदस्य शरीरम् तदाश्रयं च सर्वमयं स्थूलं सूक्ष्मं वा ज्ञेयं कार्यं च जानाति च करोति च - इत्यनेन निदर्शनेन तथैव तेनैव प्रकारेण अहंतया देहाधिष्ठानवत् स्वात्मनि स्वस्वभावे न दुःखं न सुखं यत्र इत्यादिनोक्तलक्षणे देहादिव्यतिरिक्तविशुद्धाद्वयचिन्मात्रवपुषि अधिष्ठानात् अहंतया अध्यासनात् एवं शरीराश्रयसमस्तज्ञेयकार्यवस्तु प्. ११३) ज्ञातृत्वादिवत् सर्वत्र सकलेष्वपि भुवनेषु योगिनः सर्वज्ञतादयो भविष्यन्ति अवश्यमभिव्यक्तिं यास्यन्ति परस्परव्यतिरिक्त-देहमात्राहंभावलक्षण##- सर्वज्ञतादयः सर्वत्र अभिव्यज्यन्त एव इत्यर्थः । अनेन आत्मस्वभावेन इत्यादिना व्याख्यातमेतत् वृत्तौ ।। ९ ।। एवं व्याधिवलीपलिताद्युच्छेदाय उपपत्तिमाह ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञान्तः सृतिः । तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका ।। १० ।। ग्लानिः मान्द्यादिजनिता हर्षहानिः सा देहे शरीरे विलुण्ठिका धातुबलवर्णतेजःशक्त्यादीनां हठेन हर्त्री तस्याश्चाज्ञानतः प्रतिपादिततत्त्वावगमाभावात् प्. ११४) सृतिः सरणं प्रवृत्तिः तत् अज्ञानम् उन्मेषविलुप्तं चेत् उन्मेषेण वक्ष्यमाणेन स्वभावालोकविकासेन विलुप्तं विच्छिन्नं निर्मूलतां नीतं यदि तदा असौ ग्लानिः अहेतुका कारणरहिता कुतो भवेत् न भवेदेव निर्निमित्तस्य उत्पादाभावात् अज्ञानं नाम जन्म-परिणाम-विवृद्धि-क्षय##- जन्मादिविकाराधिकरणे कलेवरादौ आत्माभिमानः यस्मिंश्च सति अप्रबुद्धो जनः तद्विकारान् जन्मादीन् आत्मनि आरोपयन् ग्लान्या विलुण्ठ्यते । यस्तु वक्ष्यमाणोन्मेषपरिशीलनाद् आविर्भूतसत्यात्मप्रत्ययः तस्य कुतः ग्लानिः - इति मुख्यं फलं सहजानन्दहानिरूपाया प्. ११५) ग्लानेरभावः गौणस्तु वलीपलिताद्यभावः यतः तदा कुतः सा ग्लानिः कारणरहिता भवेत् - इति व्याख्याय पुनर्वृत्तिकृता व्याख्यातम् अनेनैव कारणेन वलीपलिताभावः शरीरदार्ढ्यं च योगिनाम् इति ।। १० ।। अथ उन्मेषस्य ग्लानिकारणभूताज्ञानविनाशहेतोः स्वरूपप्रतिपादनाय आह एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ।। ११ ।। स तु स पुनरुन्मेषः स्वस्वभावाभासविकासो विज्ञेयो बोद्धव्यो लक्षणीयः । कोऽसौ (?) - एकचिन्ताप्रसक्तस्य एकस्यां चिन्तायां दृश्यमान##- चिन्त्याभासानुपरक्तज्ञानात्मनः स्वस्वभावप्रकाशात् कारणभूतात् प्. ११६) अपरस्याः चिन्तायाः ग्राह्यालम्बिनो ज्ञानान्तरस्य उदयः उत्पत्तिः स्यात् । तं च योगी स्वयं आत्मनैव उपलक्षयेत् - परमार्थपरमेश्वरः सर्वतो विविक्तः परमकारणं परमात्मा अयमहमस्मि - इति प्रतिपद्येत । नहि तस्य शब्दादिवत् इदन्तया स्वरूपमुपलक्षयितुं शक्यं - स्वसंवेदनसंविदितस्वभावत्वात् । तस्यैवंविधस्य नित्योदितस्यापि उपदेश्यं प्रति तदानीमेव अभिव्यज्यमानत्वात् उन्मेषशब्देन व्यपदेशः कृतः । यस्त्वेवं मन्यते - यस्यां चिन्तायां सत्याम् अपरचिन्तोदयः सा चिन्तैव चिन्तान्तरकारणं नान्तरालवर्ति वस्त्वन्तरं विद्यते यच्चिन्ताद्वयस्वरूपव्यतिरेकेण उपलक्षणीयात्मकं द्वितीयचिन्ताकारणं स्यात् - इति तं प्रतिकारणभावेन कार्यभावेन च अभिमतस्य पूर्वापरीभूतस्य चिन्ताद्वयस्य एष संबन्धो न सिद्ध्यति अनुसंधातारं तृतीयं विना । पूर्वं कारणम् प्. ११७) अपरा च कार्यभूता चिन्ता - इति योऽनुसंधत्ते यश्चासौ अनपह्नवनीयोऽनुसंधाता सोऽनुसंधेयचिन्ताद्वयव्यापकविशुद्धचिन्मात्रस्वरूपः सर्वकारणमात्मैवोन्मेष इत्युक्तः । अत एव वृत्तिकृता व्याख्यातम् चिन्ताद्वयान्ते व्यापकतया अनुभूयमानः इत्यादिना ।। ११ ।। इदानीं तत्तत्साधनविशेषाभिनिविष्टानां योगिनां प्रायेण याः प्राप्यफलतया अभीष्टाः सिद्धयः ता एतदुपासायोगिनो विघ्नपरम्परा एव इत्युन्मेषाभ्यासप्रभावं प्रतिपादयितुमाह अतो बिन्दुरतो नादो रूपमस्मादतो रसः । प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ।। १२ ।। अतः अस्मात् प्रतिपादितस्वरूपात् उन्मेषात् जागराद्यवस्थागतसुखदुःखाद्यनुभवदशासु अविलुप्तेन अवधाएनन प्रतिक्षणविनश्वरविचित्रपरतन्त्रतुच्छरूपात् प्. ११८) वेद्यवस्तुनो वैधर्म्येण भाव्यमानात् सर्वकारणभूतात् अचिरेण अल्पेन कालेन एतानि सिद्धचिह्नानि क्षोभकत्वेन संतोष-स्मयाभिमानादिभिः चित्तव्युत्थापकत्वेन देहिनो नितरामनुन्मूलितदेहाद्यहंप्रत्ययस्य योगिनः प्रवर्तन्ते प्रादुर्भवन्ति । कानि तानि (?) - बिन्दुः भ्रूमध्यादौ प्रदेशे ध्यानाभ्यासप्रकर्षप्रवर्धमानोत्तरोत्तरप्रसादस्तेजोविशेषो यो बिन्दुभेदाभ्यासात् धरातत्त्वध्यायिनामभिव्यज्यते । तथा - नादो वेगवन्नद्योघनिर्घोषघनोपक्रमः क्रमसूक्ष्मीभावाभिव्यज्यमानमधुमत्तमधुकरध्वनितानुकारी स्वोच्चरितो ध्वनिविशेषो यं व्योमतत्त्वाभ्यासिनः शृण्वन्ति । तथा - रूपं सन्तमसाद्यावरणेऽपि सति तत्तद्दृश्यवस्त्वाकारदर्शनं यत् तेजस्तत्त्वन्यक्षनिक्षिप्तमतयो [न्येक्षेण कार्त्स्न्येनेत्यर्थः ।] प्. ११९) निरीक्षन्ते । तथा - रसो रसवद्वस्तुविरहेऽपि अमृतास्वादो मुखे लोलाग्रलम्बिकादिधारणानिरतैः [लोलाग्रं जिह्वामूलम् । ; लम्बिका तालुरन्ध्रम् । ] अप्तत्त्वध्यायिभिर्य उपलभ्यते पवनतत्त्वध्यायिनां स्पर्शविशेषोऽपि योऽभिव्यज्यते सोऽपि अस्मात् प्रवर्तत - इति अत्र द्रष्टव्यम् । इदमत्र तात्पर्यम् - उन्मेषाभ्यासयोगिना तत्तद्धारणाद्यभ्यासचिरलभ्यास्वपि अचिरप्राप्यासु एतासु उपलब्धिषु संतिषिणा न भाव्यम् - निरुत्तरपदारोहप्रत्यूहभूतत्वादासाम् । एताश्चेतरयोगिनां क्रमभाविन्योऽपि उन्मेषाभ्यासयोगिनां तदभिसंधिविरहात् अक्रमेणापि प्रवर्तन्ते इति तथैव निर्दिष्टाः । व्याख्यातमेतत् अतोऽस्मात् उन्मेषात् इत्यादिना वृत्तौ ।। १२ ।। प्. १२०) एवम् उन्मेषोपदेशेन आत्मनो देहादिवेद्यव्यतिरिक्तस्वरूपतां प्राक् बहुभिः प्रकारैः प्रतिपादितां संग्रहेण प्रतिपाद्य इदानीं तथैव तस्य सकललोकस्वानुभवसिद्धं व्यवहारं प्रदर्शनीकृत्य विश्वरूपतां संक्षेपतः प्रतिपादयन् समस्तप्रकरणार्थतात्पर्यमाह दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते । तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ।। १३ ।। यदा यस्मिन् काले साधको दिदृक्षयेव द्रष्टुमिच्छया यथा सर्वार्थान् अखिलान् प्रमेयपदवीजुषो भावान् व्याप्य स्वसंवित्प्रकाशेन आच्छाद्य तदन्तर्लीनान् कृत्वा अवतिष्ठते नानात्वदर्शनभ्रान्तिनिवृत्तेरेकत्र तत्त्वे विश्राम्यति तदा तस्यां दशायां यत्फलमनुभूयते तत्र बहुना भूयसा उक्तेन फलाभिधानेन किं (?) प्. १२१) तत्प्रतिपादनेच्छया ग्रन्थसहस्राण्यपि उक्तानि निरर्थकानि भवन्ति तस्य वचनगोचरातीतत्वात् अत आह स्वयं तदवभोत्स्यते इति तत् तादृशं फलं स्वयमात्मनैव व्यतिरिक्तसाधननिरपेक्षेण प्रतिपत्स्यते अभियुक्तः स्वसंवेद्यत्वात् तस्य । इदमत्र तात्पर्यम् - योगिना सर्वभावानां स्वस्वभावाव्यतिरेकजिज्ञासुना स्वानुभूता दिदृक्षावस्था निदर्शनीकार्या तथा हि - द्रष्टुमभीष्टा भावाः स्वस्वभावाभेदेन व्यवतिष्ठन्ते भावभेदहेतोरिदन्ताप्रत्ययस्य अनुन्मेषात् तदा यथा दिदृक्षावस्थायां क्षेत्रज्ञस्वभावादभेदः तद्दिदृक्षितानां भावानां तथा परमात्मस्वभावात् अखिलजगद्भावानामभेद एव - इति पूर्वोपदिष्टव्यतिरिक्तात्मस्वरूपोपलब्धिपरामर्शाभ्यासात् उन्मिषितदिदृक्षाक्षणोपलक्षणक्षमविज्ञानचक्षुषं योगिनं प्रत्येव अयमुपदेशः मायाशक्तिजनितेन हि विकल्पतिमिरेण तिरस्कृतसम्यग्ज्ञानदृश एकमेव निर्विभागचिन्मात्रस्वरूपमात्मतत्त्वं प्. १२२) प्रमातृभेदेन प्रमेयभेदेन च नानारूपं पश्यन्तो दिदृक्षितदृश्यमानदृष्टाद्यवस्थाविभागं भावानां परिकल्प्य दिदृक्षितानामपि तेषां जीवस्वभावादभेदं वस्तुसन्तमेव पराम्रष्टुमशक्ताः कुतो जगद्भावानां परमात्मस्वभावानाम् अभेदं प्रतिपद्येरन् तदा योगिनैव दृष्टान्तीकृतस्वदिदृक्षाक्षणपरामर्शदिशा स्वस्वभावाभेदमखिलभुवनभावाभासानां भावयता भेदध्वान्तनिर्भेदभास्करेण भवितव्यम् । व्याख्यातमेतत् दिदृक्षा द्रष्टुमिच्छा तदवस्थास्थ इव इत्यादिना वृत्तौ ।। १३ ।। एनमेव उपदेशं द्रढयितुमाह प्. १२३) प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोच्य गोचरम् । एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते ।। १४ ।। सर्वदा सर्वासु अनुभवदशासु प्रबुद्धस्तिष्ठेत् प्रतिपादितोपदेशाभ्यासपरत्वात् अनिमीलितसम्यग्ज्ञानदृष्टिः जाग्रदेव आसीत । कथं (?) - ज्ञानेन संवेदनेन गोचरं विषयम् आलोच्य परिच्छेद्य तथारूपतया निश्चित्य एकत्र ज्ञातरि स्वात्मनि सर्वं परिच्छेद्यम् आरोपयेत् अर्पयेत् तदभिन्नतया प्रतिपद्येत इत्यर्थः । ततश्च सर्वभावानामेकप्रमातृस्वरूपाभेदप्रतिपत्तिरूपात् आरोपणात् अन्येन व्यतिरिक्ततया अवभासमानेन प्रमेयेण वक्ष्यमाणेन कलाद्यात्मकेन भावजातेन न पीड्यते विनश्वरभावाहंभावप्रतिपत्त्यादिना पाशेन संसारचक्रे निबध्य न कदर्थ्यते । इदमत्र तात्पर्यम् - यं प्. १२४) यमर्थं रूपादिकं चक्षुरादिज्ञानेन प्रमाता आलोचयति निश्चिनोति स स निश्चयावस्थायां प्रमातृरूपात् अभिन्न एव भवति निश्चितत्वं हि नाम वस्तुनः प्रकाशमानत्वं तच्च प्रकाशमानत्वादभिन्नमेव नान्यद्भवितुमर्हति प्रकाशव्यतिरिक्तरूपत्वे तस्य प्रकाशमानतानुपपत्तेः । एवं निश्चयावस्थायां प्रकाशमात्रस्वरूपप्रमात्रभेदः सर्वभावानां स्वभावसिद्धः तत एवंविधो ग्राह्यग्रहीतृग्रहणसंबन्धः स्थितोऽपि अपरामृश्यमानो नानात्वमोहजालेन बध्नाति सर्वजन्तून् अतः सर्वावस्थासु अविरतपरामर्शो भवेत् येनैकप्रमातृपरमार्थत्वं जगद्भावानां प्रतिपन्नः सन् पुनः संसारी न स्यात् । तदेवं प्रबुद्धः सर्वदा तिष्ठेत् इत्युक्तम् । प्रबुद्धोऽसंकुचितशक्तिः इत्यादिना व्याख्यातमेतत् वृत्तौ ।। १४ ।। प्. १२५) इदानीमेवं स्वयं संव्यवस्थितः स्वात्मैव परमेश्वरः एकः पदार्थः सन् निजयैव मायाशक्त्या प्रतिपशु भेदेन आत्मानमवभासयन् क्रीडति - इति तत्त्वतो द्वितीयपदार्थाभावमेव समर्थयमानः पशुस्वरूपप्रतिपादनद्वारेण शक्तिप्रसरक्रीडामेव अस्य प्रतिपादयितुमाह शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः ।। १५ ।। स इयता प्रबन्धेन प्रतिपादयितव्यस्वरूप आत्मैव ईश्वरो वक्ष्यमाणेन हेतुना पराधीनसर्ववृत्तित्वेन अनवबासितात्मा पशुः तिर्यक्प्रायः स्मृतः अनादित्वात् संसारक्रीडाव्यवहारस्य सदा स्मर्यमाणत्वेन स्थितः । कीदृशः सन् (##? प्. १२६) कलाविलुप्तविभवो भोग्यतां गतः सन् पारमेश्वर्याः शक्तेः वक्ष्यमाणवाग्रूपप्रसराभिप्रायेण आदि-क्षान्तवर्णसमुदायात्मिकाया स्तद्विपरीतं [विपरीतम् इत्यतोऽनन्तरमस्य श्लोकस्यावशिष्टव्याख्याभागो यावत्समसमूलादर्शपुस्तकेषु विनष्टसत्तया त्रुटितोऽस्ति । अतः इदं व्याख्यानं पद्यार्थभिज्ञानाय स्पन्दप्रदीपिकाग्रन्थात् प्रक्षिप्योपन्यस्यते - शब्दानां राशिः शब्दराशिः वर्णसमूहः मातृका अकारादि क्षकारान्ता शब्दजननी वर्णात्मकत्वात् शब्दानाम् तत्समुत्थस्य कादिवर्गात्मकस्य ब्राह्मयादिशक्तिचक्रस्य कलाभिः ककाराद्यक्षरैः विलुप्तविभवः दृतमहा व्याप्तिः स्वस्वभावात्प्रच्यावितः अत एवास्य भोग्यतां गतः सन् पुरुषः पशुः उच्यते अज्ञत्वात् । उक्तं च ईश्वरप्रत्यभिज्ञायाम् स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः । मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः ।। इति । अन्यत्रापि भेदग्रन्थिविभङ्गे हि कर्मात्मैक्यं प्रपद्यते । सोऽविज्ञातः पशुः प्रोक्तो विज्ञातः पतिरेव सः । इति ।। १५ ।।] परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ।। १६ ।। प्. १२७) * * * * * * * * * * * * * * * * (?) (परामृतेति अस्य पद्यस्यापि अस्वतन्त्र्य इत्यन्त आद्यव्याख्याभागः समस्तमूलादर्शपुस्तकेषु पूर्वपद्यव्याख्याभागवद्विनष्टसत्तया त्रुटितोऽस्ति । अतोऽस्य पद्यस्याप्यर्थज्ञापकं व्याख्यानं स्पन्दप्रदीपिकाग्रन्थादेव प्रक्षिप्य उपन्यस्यते - तस्य च पशोर्यः प्रत्ययोद्भवः श्रोत्रादिद्वारेण विषयदर्शने स्मरणादिज्ञानोत्पत्तिः स एव परामृतरसात् स्वरूपोदयात् अपायः प्रच्युतिः यतः स पुमान् तेनास्वतन्त्रतां पारतन्त्र्यम् असर्वगतादिम् एति प्राप्नोति स च प्रत्ययोद्भवः तन्मात्रगोचरः शब्दादिविषयविषयः तदभिलाषात्मक इत्यर्थः ।। १६ ।। अस्वतन्त्रो व्यतिरिक्तसाधनसामग्र्यपेक्षसकलसमीहितार्थः पुमान् तद्भावमापद्यते जागरस्वप्नसुषुप्तावस्थोपमेयसकल-विज्ञानाकल##- यतस्तस्य प्रत्ययोद्भव एव परामृतरसापायः परम् अनुत्तरम् अमृतमविनाशि अद्वयचिन्मयं शिवाख्यं स्वरूपं तस्य रसः तथाप्रत्यवमर्शात्मक आस्वादः तस्मात् अपायः पृथग्भावोऽन्यथावृत्तिः इदमित्यादिविकल्परूपः । प्. १२८) इदमत्र वाक्ये गर्भीकृतम् - एकस्यैव परस्य तत्त्वस्य स्वेच्छापरिकल्पितानुग्राह्यानुग्राहकभावविविक्तात्मनोऽनुग्राह्योपायार्थं तथैव स्वेच्छया परिकल्पितशिवशक्तिसदाशिवेश्वराविद्यात्मकविभागाभासस्य प्रक्रियाशास्त्रेषु यत् पञ्च्रूपत्वं व्यवस्थितं तत् परामृतशब्देन रसशब्देन च संग्रहेण उक्तम् । तथा च - अहमित्येव अत्यन्तभेदसंस्पर्शशून्यपरमशिवाख्यस्वभाववाचकत्वेन परामृतशब्दः तत्परामर्शरूपशक्तितत्त्ववाचकत्वेन च रसशब्दः अत्यन्तप्रशान्न्तनिष्परामर्शशून्यप्रायशिवतत्त्ववादिमतनिरासार्थं यः प्रयुक्तः स पूर्वं व्याख्यात एव तदेवं तत्त्वद्वयं शिवशक्त्याख्यं यदभिन्नमपि स्वरूपप्रतिपादनान्यथानुपपत्त्या विभज्य तत्त्वविद्भिः प्. १२९) प्रकाशयते । तथा च तत्त्वगर्भस्तोत्रे गुरुभिः सततमविलुप्तोपलब्धृत्वलक्षणस्वधर्मरूपायाः शक्तेः प्राधान्यप्रतिपादनाभिप्रायेण शिवतत्त्वमेवमस्तूयत । यस्या निरुपधिज्योतीरूपायाः शिवसंज्ञया । व्यपदेशः परां तां त्वामम्बां नित्यमुपास्महे ।। इति । शक्तितत्त्वं च विदितपरमार्थैः स्वरूपप्रत्यवमर्शसामान्यस्पन्दादिसंज्ञाभिः व्यवह्रियमाणं तत्पर्यायभूतोन्मेषादिपदाभिधेयतया प्रतिपादितम् । यदुक्तम् किंचिदुच्छूनतापत्तेरुन्मेषादिपदाभिधाः । प्रवर्तन्ते त्वयि शिवे शक्तिता ते यदाम्बिके ।। इति । न च यदाशब्दश्रुतिभ्रमात् कदाचिदेषा शक्त्यवस्था भवति कदाचिन्न भवति इति मन्तव्यम् यतः स्वभावसंवेदनात्मको नित्यः सामान्यस्पन्दरूप एव धर्मः किंचिदुच्छूनता इत्युक्तम् । प्. १३०) ततः परं सदाशिवेश्वरविद्याख्यं तत्त्वत्रयमपि परामृतशब्दवाच्यमेव यतः परमेश्वरस्य परमार्थतः एकत्वेऽपि अत्यद्भुतस्वैश्वर्यवीर्येण विशुद्धचिन्मात्ररूपतया विश्वात्मकत्वेन च अन्तर्बहीरूपं द्वैविध्यं यदवस्थितम् तत्र विश्वात्मकस्य बाह्यस्य रूपस्य ज्ञेयकार्यभावेन लब्धस्वरूपत्वात् एकापि तच्छक्तिः ज्ञानक्रियारूपतया द्वित्वेन उपचर्यते । तच्च ज्ञानक्रियात्मकत्वं यत्र बहिरगृहीतोन्मेषमन्तः साम्येनैवावतिष्ठते त्रैगुण्यमिव अव्यक्तावस्थायां सा परमेश्वरभोगात्मकज्ञानक्रियारूपत्वेऽपि अन्तर्मुखत्वात् निमेषात्मिका सदाशिवदशा । यत्र पुनः शक्तेः क्रियाप्राधान्येन बहिर्गृहीतोन्मेषायाः पराहंभावविश्रान्तिः सा ईश्वरदशा । यस्यां पुनर्ज्ञानशक्त्युद्रेकेण अस्या बहिर्मुखत्वं बाह्याभ्यन्तररूपसामानाधिकरण्यपर्यवसायित्वात् स्वरूपविश्रान्तिनिष्ठत्वमेव प्. १३१) सा विद्यादशा इति । तिसृष्वपि एतासु दशासु भेदप्रतिपत्तिमूलत्वात् लब्धात्मिकापि मायाशक्तिः परस्याः संविदः सर्वापूरकपरिपूर्णाहंकारलक्षणे स्वभावे एव विश्रान्तत्वात् प्रत्यस्तमिता सती परमानन्दनिर्भरशिवरूपं तिरोधातुं नालम् इति पदत्रयमेतत्परामृतमेव । यदुक्तं तत्त्वगर्भ एव ज्ञानक्रियास्वरूपेण प्रवृत्तायास्तु ते शिवे । सदाशिवत्वं जगदुर्भोगाह्वं तत्त्ववेदिनः ।। गुणीभूतज्ञशक्तिस्त्वं व्यक्तीभूतक्रियात्मिका । यदा तदैश्वरं तत्त्वं व्यक्ततामेति वृत्तिमत् ।। प्रवृत्तावुन्मुखीभूता भवेस्त्वं परमे यदा । ज्ञानशक्तिस्तदोदारा विद्या त्वं परिगीयसे ।। इति । तथा ईश्वरप्रत्यभिज्ञायाम् एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा । मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी ।। प्. १३२) किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः । बहिर्भावपरत्वे तु परतः पारमेश्वरम् ।। ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः । सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ।। इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् । भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ।। इति । ततः परं तु परस्परपरिहारावस्थिताहंप्रतीतिलक्षणभिन्नविषयापेषिणि नानाभेदनियतात्माभिमानत्वात् तात्त्विकस्वैश्वर्यानभिज्ञे क्षेत्रज्ञत्त्वे मायाशक्तिरेव केवला प्रभोर्विश्वरूपैश्वर्यप्रथास्पदभूता विजृम्भते । यथोक्तं तत्त्वगर्भे एव यदा त्वेवंविधादत्र निजा भोगाज्ञता पशोः । तदा मायास्वरूपेति गीयसे वैभवाश्रयः ।। इति । प्रत्यभिज्ञायामपि प्. १३३) भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते । शून्ये बुद्धौ शरीरे वा मायाशक्तिर्विजृम्भते ।। इति । सा इह प्रत्ययोद्भवशब्देन प्रतिपादिता यतोऽहमित्येव शिवात्मकस्य स्वभावस्य परामर्शात्मकं सम्यक् ज्ञानं तस्यैव च स्वभावस्य विश्वरूपतया अवभासमानस्य इदन्तोल्लेखने भेदोद्भावनसामर्थ्यं मायाख्या शक्तिराख्याता न तु वस्त्वन्तरं किंचित् । इदमिति च परामृश्यमानोऽर्थः प्रकाशमानत्वमतिक्रम्य अन्यथाभवितुं यतो न शक्नोति ततो भेदरूपाणि असौ माया प्रकाशात्मकपारमेश्वरधर्मत्वानतिक्रमात् भगवतः शक्तिरेव इयमत्यद्भुता यत् स्वरूपं स एव एवं प्रत्यपादयत् । दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। इति । तथाहि अत्रायमर्थः - एषा मम दैवीमाया देवस्य इत्थंक्रीडनैकरसस्य ईश्वरस्य प्. १३४) सतः शक्तित्वेन संबन्धिनी किंस्वरूपा (?) - गुनभयी गुणाः सुखाद्यात्मानः सत्त्वाद्यभिधानाः तत्प्रकृतिका सा हि भेदावभासस्वभावा भिन्नश्चार्थः शब्दादिविषयात्मकः विषयश्च सुखादिसंवेदनपर्यवसितात्मा ##- दुःखेन अत्येतुं शक्या तदतिक्रमणे कृतोत्साहैः प्रबुद्धैरपि सपदि सकलसंसार्यवस्थोच्छेदानुपपत्तेः भेदव्यवहारस्य दुर्लङ्घ्यत्वात् । किं तु मामेव ये प्रपद्यन्ते छिन्नद्वैतदशाप्रतिष्ठितसंविदः सुप्रबुद्धाः सन्तो मामेवैकं तत्त्वमभेदेनात्मतया प्रत्यभिजानते ते मद्भावमापन्ना एनामतितरन्ति । तस्यां हि दशायां दिवसद्युताविव द्योतमानायाम् इयं यामिनीव निर्मूलनष्टस्वरूपा तैरेवातिक्रान्ता प्. १३५) भवति । यदुक्तं स्तोत्रे समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः । परामृष्टश्च नष्टश्च त्वद्भक्तिबलशालिभिः ।। एवंप्रत्ययोद्भवमात्रं माया तन्मूलं च क्षेत्रज्ञतत्त्वं पशुपर्यायेण अस्वतन्त्रशब्देनात्र प्रतिपादितम् । प्रत्ययोद्भवरूपया हि अनया मायया स्वभावात् प्रच्यावितस्य अस्य तद्धर्मविपरीतेन कालादिरूपेण सुप्रसवेन पाशपञ्चकेन ग्रथितस्य पारतन्त्र्यं पशुत्वमुद्भाव्यते । तथा च - अयम् अनया व्यामोहितः अनवच्छिन्नत्वादिरूपं स्वधर्मम् अपरामृशन् तद्विपरीतेन अवच्छेदकेन कलनात्मना भूतभविष्यदादिविकल्पविभक्तेन कालाख्येन तथा सर्वात्मकत्वधर्मविस्मृतेः सर्वत्र नियतकार्यकारणभावाख्यात्मकेन नियतिनाम्ना तथा सर्वकर्तृत्वसर्वज्ञत्वलक्षणधर्मद्वयौदासीन्यात् किंचित्कर्तृत्व-किंचिज्ज्ञत्वरूपाभ्यां प्. १३६) कलाविद्याभिधानाभ्यां तथा प्रेप्सितार्थविरहात् नित्यनिरभिलाषत्वलक्षणस्वदह्र्मापरामर्शात् विषयाभिलाषितारूपेण रागाख्येन च पाशेन बध्यमानः पराधीनवृत्तिः पशुः संबध्यते । एष च मायाशक्तेः पञ्चभेदः प्रसवः समस्तस्य पशुप्रबन्धस्य अविशेषेण स्वरूपमावृत्य व्यवस्थितः । यस्तु प्रतिप्राणि विचित्रबुद्ध्यादिरूपतया परिणमन् तमावृणोति तस्य प्रधानाख्यस्य प्रसवस्य प्रपञ्चं प्रत्ययोद्भवविषयप्रतिपादनद्वारेणाह स च तन्मात्रगोचरः इति स च पशुत्वकारणं प्रत्ययोद्भवः तन्मात्रगोचरः तन्मात्राणि शब्दादिसामान्यानि गोचरो विषयो यस्य स तथा प्रत्ययो हि अयं प्रत्येयं भिन्नं विषयमपेक्ष्य प्रादुर्भवति विषयविषयिभावश्च ग्रहीतृग्रहणग्राह्यरूपे त्रितये सति उपपद्यते । तदपि त्रितयं साधारणं प्रवृत्तिकारणं विना न प्. १३७) स्यात् इति । तच्चतुष्टयमनेन वाक्येनाक्षिप्तम् । तत्र ग्रहीता प्रत्ययवान् पशुः ग्राह्याः प्राधान्येन शब्दस्पर्शरसरूपगन्धाः आकाशादिस्थूलभूताश्रया विशेषात्मका गुणाः तदात्मना समस्तविषयोपलब्धेः । तेषां चात्रोपादाने उपपन्ने सामान्ये सर्वविशेषाणामन्तर्भावः - इति सामान्यवाचिना तन्मात्रशब्द्देन उपात्ताः । तैः शब्दादिभिराश्रयभूतानि स्थूलानि आकाशादिभूतानि आक्षिप्तानि निराश्रयाणां तेषामनुपपत्तेः । तदेतत् दशविधम् कार्यम् । स च प्रत्ययवान् परवशः पशुः विषयित्वे सति इष्टानिष्टविषये हानादानक्रियायां करणमपेक्षते । तत्र येन विषयं निश्चिनोति तत्प्रकाशप्रधानं बुद्ध्याख्यं करणं । येन च अनात्मभूतं देहादिकमर्थम् आत्मतया अभिमन्यते तद्विपर्ययात्मकं नियमप्रधानमहंकाराख्यं येन च प्रवृत्तिप्रधाने न विषयं विकल्पयति तत्संशयात्मकं मनोऽभिधानम् - प्. १३८) इति त्रिविधमन्तःकरणं यथोत्तरं कार्यत्वेनोक्तम् । येन तु शब्दादीन् गृह्णाति तच्छ्रोत्रादिबुद्धीन्द्रियपञ्चकम् । येन वचनादिक्रियां करोति तद्वागादिकर्मेन्द्रियपञ्चकम् - इति दशविधं बहिष्करणम् । तच्च अहंकारकार्तयैव उक्तम् । तदेतदाभ्यन्तरं बाह्यं च करणम् । एवं त्रयोविंशतिविधः कार्यकरणवर्गो विषयित्वान्यथानुपपत्त्या अत्राक्षिप्तः । तथा प्रवर्तकं हेतुमन्तरेण विषयप्रवृत्तेरभावादपि विषयत्वं उपपद्यते - इति स हेतुरत्र सुखाद्यात्मा प्रधानाभिधान आक्षिप्तः । तथाहि - सुखं प्रतिप्राणि स्ववासनानुगुणेष्टविषयप्राप्तेस्तृप्तिरनित्य आनन्दः तेन प्रयुक्तः सन् इष्टविषयादानाय प्रवर्तते तद्विपर्ययो दुःखम् अनिर्वृतिः ततोऽनिष्टविषयहानायः उभयन्यग्भावस्तु मोहः तस्मिन् सति व्यवतिष्ठते - इति सुखदुःखमोहात्मकं प्रकाशप्रवृतितिनियमार्थं सत्त्वाद्यभिधानगुणत्रयमयं विकारावस्थायामपि अन्योन्याविनाभूतत्वात् प्. १३९) एकमेव प्रधानाख्यं सर्वप्राणभृतां विविधवासनानुगुणनानारूपकार्यकरणात्मकस्वपरिणामप्रपञ्चानुगत##- अनेनैवाभिप्रायेण वृत्तिकृता स च तन्मात्रगोचरः इत्यस्य पदस्य रूपाद्यभिलाषात्मकः इति पर्यायः प्रयुक्तः । रूपादिषु योऽभिलाषो रागः तन्निमित्तकत्वात् तदात्मकः प्रत्ययोद्भवः ततश्च अभिलाषप्रपञ्च एव सुखाद्यात्मकं प्रधानं कारणं इत्येषा प्राधानिकी तत्त्वचतुर्विंशतिः स च तन्मात्रगोचरः इत्यनेनाक्षिप्ता । प्राक् च द्वादश तत्त्वानि निर्णीतानि तद्यथा - शिवादिविद्यान्तानि पञ्च माया कालादिपञ्चकं पशुतत्त्वं च - इति षट्त्रिंशत्तत्त्वरूपतया पारमेश्वरी एकैव शक्तिर्विजृम्भते । व्याख्यातप्रायमेतत् वृत्तौ प्. १४०) परामृतरसात् स्वरूपात् अपायः प्रच्युतिः इत्यादिना ।। १६ ।। एवं प्रत्ययोद्भवस्य पशुत्वकारणभावे प्रतिपादिते शक्तिवर्गस्य भोग्यतां गतः सन् पशुः स्मृतः - इति पूर्वोक्तविरोधपरिहारार्थमाह स्वरूपावरणे चास्य शक्तयः सततोत्थिताः । यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ।। १७ ।। अस्य एवंप्रत्ययापादितपशुत्वस्य आत्मनः स्वरूपावरणे स्वरूपस्य शिवात्मकस्य स्वभावस्य आवरणे तथाप्रत्यवमर्शाभावमात्रेण हेतुना व्यवधाने स्थगने तन्निमित्तं शकयः प्रागुक्ताः सततोत्थिताः पतिपशुव्यवहारस्य न कदाचित् उपरमात् सततं नित्यम् उत्थिताः उदिताः यतः अस्वतन्त्रतापादनात्मना अमृतरसापायहेतुत्वेन प्रतिपादितो यः प्रत्ययोद्भवः प्. १४१) स शब्दानुवेधेन शब्दसंभेदेन विना न संभवति - इति शेषः । एतदेव कुतः (?) इति चेत् तदुच्यते - शब्दः खलु प्रत्यवमर्शात्मा अवभासात्मनोऽर्थस्य अन्यतः खड्गोदकादर्शादेरन्तःक्रोडीकृततत्तत्पदार्थसार्थात् जडात् भेदतः स्वभावभूत एव । तथा च प्रत्यभिज्ञा स्वभावमवभासस्य विमर्शं विदुरन्यथा । प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ।। इति । अन्यत्रापि उक्तम् न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमं विना । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ।। इति । स च सर्वावच्छेदविरहितविशुद्धचित्प्रकाशात्मकमुख्यार्थनिष्ठः सन् प्रत्यवमर्श इत्युच्यते । जातिगुणक्रियाभिधानादिविविधविशेषावच्छिन्नभिन्नरूपविश्वात्मकार्थाव##- रूपं तत्संकेतत्वेन व्यवस्थितः प्. १४२) श्रोत्रग्राह्यो ध्वनिविशेषात्मकोऽर्थ एव प्रायेण शब्द इति व्यवह्रियते । तस्माच्छब्दरूपतामापन्नाः प्रत्ययोद्भवप्राणभूताः शक्तय एवास्य स्वरूपावरणे सदोद्युक्ता - इति शक्तिवर्गस्य भोग्यतां गतः सन् पशुः स्मृतः - इति पूर्वोक्तेनाविरोधः प्रतिपादितः । स्वरूपस्यस्वस्वभावस्याच्छादने इत्यादिना वृत्तौ व्याख्यातमेतत् ।। १७ ।। अथास्य शब्दपर्यन्तस्य प्रसरस्य परस्याश्च शक्तेरभेदप्रतिपादनपूर्वं तत्स्वरूपाप्रत्यभिज्ञामात्रनिबन्धनौ बन्धमोक्षौ प्रतिपादयितुमाह सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ।। १८ ।। सा शिवस्य स्वस्वभावस्यैव परमेश्वरस्य क्रियात्मिका तत्स्वरूपप्रत्यवमर्शलक्षणव्यापारशरीरा प्. १४३) शक्तिः अव्यभिचारी धर्मः समर्थतारूपः इयं प्रतिपादितप्रसररूपा शक्तिः यैव अद्वयचिन्मात्रस्वभावप्रत्यवमर्शिनी परा शक्तिः परमेश्वरस्य सैव इयम् इत्थं-प्रसृत्य अवभासते तत्त्वतो नास्ति अस्याः ततो भेद इत्यर्थः । यथोक्तं वृत्तौ न सा जीवकला काचित्संतानद्वयवर्तिनी । व्याप्त्री शिवकला यस्यामधिष्ठात्री न विद्यते ।। इति । अस्य हि श्लोकस्यायमर्थः - जीवस्य पुंसः पशोः कलानां द्विविधः संतानो - ज्ञानरूपः क्रियारूपश्च तत्र ज्ञानरूपोऽन्तःकरणात्मकः त्रिविधः क्रियारूपो बहिष्करणात्मकः स्वभावस्थप्राणशक्तिसहित एकादशविधः - इति चतुर्दशविधो जीवकलासंतानः संग्रहात् द्विविध एव संतानद्वयवर्तिनी जीवस्यात्मनः कला सा न काचित् संभवति इति शेषः यस्यां व्याप्त्री देशकालाद्यनवच्छिन्नवैभवाधिष्ठात्री वेद्यत्वादिना सर्वमधिष्ठाय आत्मपरतन्त्रं कृत्वा वर्तमाना प्. १४४) शिवकला शिवस्य परमात्मनः कला परा शक्तिः उक्तरूपा न विद्यते सत्तां व्यभिचरति सैव इत्थमवभासते इत्यर्थः । वैश्वरूप्येऽपि अवभासलक्षणस्य सामान्यरूपस्य शिवधर्मस्य व्यापकस्य अतिरोभावात् सैव परा शक्तिरियम् अपरा स्थूलक्रियारूपा - इति परापरयोः शक्त्योरभेद एव पारमार्थिकः प्रत्यभिज्ञापितः । तदेतत् ज्ञानगर्भस्तोत्रेऽप्युक्तम् बहिष्करणबुद्ध्यहंकृतिमनःसुषुम्नाश्रयाच्चतुर्दशसु चण्डिके पथिषु येन येन व्रजेत् । कला शिवनिकेतनं जननि तत्र स्म ते दशोदयाति दुर्लभा जगति या सुरैरप्यहो ।। अस्यापि श्लोकस्यायं तात्पर्यार्थः - श्रोत्रादिपञ्चकं वागादिपञ्चकं दशविधं बहिष्करणं बुद्ध्यहंकारमनांसि त्रिविधमन्तःकरणं मध्यमप्राणश्च - इति कलायाः चिदात्मिकायाः शक्तेः चतुर्दश भेदाः । तेषां ये तावन्त एव पन्थानः प्. १४५) प्रसरमार्गास्तेषु मध्ये येन येन केनचिदेकतमेन पथा एषा कला शिवनिकेतनं व्रजेत् शिवः परमात्मा स एव निकेतनमालयस्तद् गच्छेत् तत्र दशा उदयति - इति संबन्धः । शिवनिकेतनं व्रजेत् - इति मायीयभेदप्रत्ययव्यतिरेकेण शिवाख्यस्वपदाश्रयणरूपः पारमार्थिकः कलाया व्यापारः सिद्धवत् व्यवहृतः । इयं हि कला शिवात्मकात् निजास्पदात् न दुःखं न सुखम् इत्यादिना कृतलक्षणात् उदेति कृतकृत्या च तत्रैवान्ते(न्तः)प्रविश्य समरसीभवति सरिदिव सागरे मध्येऽपि बुद्ध्याद्यन्योन्यभिन्नप्रसररूपतया नानात्वेन अवभासमानापि जलरूपत्वमिव सामान्यं चिदात्मकत्वं न व्यभिचरति - इति न कदाचित् शिवस्वभावात् अपैति किंतु मायाशक्तिव्यामोहितैः न तथा प्रत्यभिज्ञायते - इति । एवमेषा कला येन येन पथा शिवनिकेतनं व्रजेत् प्. १४६) तत्र सा तादृशी स्वसंवेद्यत्वात् व्यपदेष्टुमशक्या कस्यचित् प्रबुद्धस्यैव दशा अवस्था उदयति अभिव्यज्यते या सुरैर्ब्रह्मादिभिरपि दुर्लभा ते हि प्रत्ययोद्भवजनितब्रह्मत्वाद्यवच्छिन्नपाशवाभिमानानतिक्रमात् शिवरूपां पतिदशां कथमाप्नुयुः - इति । प्रकृतमिदानीं व्याख्यायते - किंतु एवं-रूपापि असौ पारमेश्वरी क्रियात्मिका परा शक्तिः पशुवर्तिनी बन्धयित्री पशौ भेदप्रत्ययोद्भवापादितपारतन्त्र्ये पुंसि वर्तमाना बन्धस्य जन्मादिप्रबन्धपरिवर्तनात्मकस्य संसारस्य कर्त्री । - पशुः किल सर्वतो व्यवच्छिन्नस्य आत्मन एव स्वत्वेन एनाम् अध्यवस्यन् इष्टानिष्टविषयोपादानहानजनितसुखाद्यनुभवमात्रपर्यवसितनिजज्ञानक्रियापरिस्प् अन्दत्वात् अपरामृष्टतत्परमार्थो व्यवछ्हिनत्ति । सा चैवं व्यवछ्हिन्नत्वेन गृह्यमाणा तम् आ प्रबोधप्रयुदयात् प्. १४७) पशुत्वेन बध्नाति - इति पशुवर्तिनी बन्धयित्री इत्युक्तम् । ननु एवं##- - ज्ञाता विदिता शिवात्मकस्वस्वभावप्रत्यवमर्शक्रियारूपतया प्रत्यभिज्ञाता सती सिद्ध्युपपादिका सिद्धेः आत्मैश्वर्याधिगमलक्षणायाः परायाः आनुषङ्गिकविविधविभूत्याविर्भावऊपायाश्च अपरायाः उपपादिका वस्तुस्वभावबलात् संपादयित्री यत एषा स्वमार्गस्था स्वस्मिन् आत्मीये शिवस्वभावरूपे मार्गे अध्वनि स्थिता तद्व्यतिरिक्तविषयान्तरनिवृत्तगतिरित्यर्थः प्रत्ययोद्भवरूपमायावैभवोद्गावितभिदापेक्षया तु पशुवर्तिनी जीवकला - इत्युच्यते प्रत्युदितप्रबोधस्य तु यथावस्थितत्वेन प्रत्यभिज्ञायमाना सर्वाः सिद्धीरुपपादयति । इति श्लोकार्थं व्याख्याय इदानीं यथा एषा स्वमार्गस्था तथा वितित्य प्रतिपाद्यते । एषा प्. १४८) हि परमेश्वरस्वरूपप्रकाशप्रत्यवमर्शमात्ररूपा परैव शक्तिः वाग्रूपतया प्रसृता - इति परमेश्वरेण शास्त्रेषु बहुशः प्रदर्शयता सर्वदा स्वमार्गस्थत्वमस्याः प्रतिपादितम् । तथा च श्रीमालिनीविजये या सा शक्तिर्जगद्धातुः कथिता समवायिनी । इच्छात्वं तस्य सा देवि सिसृक्षोः संप्रपद्यते ।। सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु । एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् ।। ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते । एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा ।। जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रिया मता । एवं यथा द्विरूपैव पुनर्भेदैरनेकताम् ।। अर्थोपाधिवशाद्याति चिन्तामणिरिवैश्वरी । तत्र तावत्समापन्ना मातृभावं विभिद्यते ।। द्विधा च नवधा भेदैः पञ्चाशद्धा च मालिनी । इत्यादिना प्रकाशितोऽयमर्थः । तथा शब्दाद्वयवादिभिरपि प्. १४९) विवृत्तिवाचोयुक्त्या तत्प्रसरं प्रतिपादयद्भिः स्वमार्गस्थत्वमेव अस्याः प्रदर्शितम् । यदाहुः वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ।। इति । सैषा अत्यन्ताभेददशा यस्यां स्फुटमेव अस्याः स्वमार्गस्थत्वम् । यदा पुनः इदमिति नानारूपं विभक्तत्वेन क्रमिकत्वेन च अन्तः परिस्फुरितमखिलं जगत् अविमर्शात् उपसंहृत्य विभागक्रमशून्यस्वमहिम्नि स्वभावव्योम्नि निमिषन्ती स्वरूपप्रकाशमात्रपरिशेषैव भवति तदा आन्तरस्य परस्य ज्ञातुः पश्यन्त्यभिधानवाग्रूपा विवृत्तिः - इत्युक्ता । यदाहुः अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ।। इति । अत्रापि स्वमर्गस्थैव एषा । यदा प्राणप्रयत्नव्यतिरेकेण प्रतिप्राणि शरीरान्तरस्वोदितानादिनिधनध्वनिविशेषात्मकतया प्. १५०) कालादिक्रमं वर्णादिविभागं भाविनमनुगच्छन्ती प्रसरं गृह्णाति तदा मध्यमाख्यवाग्रूपा विवृत्तिः - इत्यभिहिता तदापि संविन्मात्रप्रकृतिकत्वमनतिक्रान्ता स्वमार्गस्थैव एषा । यदुक्तम् केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ।। इति । यदा तु प्रयोक्तृपुरुषेच्छानुविधायिप्रयत्नप्रेरिते प्राणाभिधाने मरुति शरीरोद्देशेषु उरःप्रभृतिषु जाताभिघाते सैव सामान्यध्वनिरूपा स्वरव्यञ्जनादिभेदविभक्ताकारादिनियतवर्णरूपतां प्रयोक्तृभेदेऽपि अव्यभिचरन्ती प्रसरति तदा वर्णभेदादिव्यञ्जकप्राणमात्राश्रया वैखर्यभिधानवाग्रूपा विवृत्तिः - इत्युक्तम् । प्. १५१) यदुक्तम् स्थानेष्वभिहते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ।। इति । तदापि असौ देशकालाधारप्रयोक्तादिवैचित्र्यैः अविकायनियतवर्णसमुदायात्मिकतां पुरुषेच्छादिसापेक्षाभिव्यक्तिकामजहती नित्यैव संविद्रूपत्वमपि अनुगतमेव मध्यमावदस्यामपि - इति स्वमार्गस्थत्वमपि अस्या न व्याहन्यते । एवमसौ वैखरीरूपतामापन्नापि मातृकावर्गवर्णपदवाक्यार्थभेदेन अपर्यन्तं प्रसरं गृह्णाति । यथा च वर्णवैखरीरूपा इयम् एवमनन्तप्रसरा तथा स्वरवैखरीरूपापि स्वरग्राममूर्च्छनातानजातरागादिभेदेनापि अनन्तप्रसरा । तदेवम् इयं पारमेश्वरी परा शक्तिः प्. १५२) स्वभावप्रत्यवमर्शक्रियादिना सांकेतिकशब्दपर्यन्तेन निरवधिना स्वमहिम्ना प्रसृतापि सर्वस्यैव पदार्थजातस्य सामान्यसंवित्प्रकाशव्यतिरेकेण अनुपपन्नस्वात्मलाभस्य प्रत्यवमर्शिनी सती सर्वदा स्वमार्गस्थत्वं न व्यभिचरति । ततश्च - जगत्क्रीडार्थम् ईश्वरोद्भावितमायाशक्तिजनितैः नानाविकल्परूपैरावरणैः संबध्यमानापि अनुग्रहशक्तिस्पर्शोन्मेषितसत्यतद्रूपग्रहणकुशलविमलविज्ञानदृशः प्रमातॄन् प्रतितैः स्थगयितुमत्यन्तं तिरोधातुमशक्यैव - यदुक्तम् सेयमाकीर्यमाणापि नित्यमागन्तुकैर्मलैः । अन्त्या कलेव सोमस्य नात्यन्तमभिभूयते ।। इति । तत् इत्थं परममेव कारणं यथाविभक्तशब्दरूपतयापि प्रसृतम् - इति स्थितम् । सत्यं परागतं सूक्ष्मं निरवद्यमनुत्तरम् । अथ ब्रह्म परं शान्तमादिवर्णत्वमागतम् ।। प्. १५३) इत्यादि । तथा च शब्दाद्वयम्वादे सामान्येन शब्दार्थोभयरूपोऽपर्यन्तावान्तरभेदो योऽयमीश्वरस्य शक्तिप्रसरः तं विवर्तवाचोयुक्त्या व्यवहरति स्म । यदाह अथायमान्तरो ज्ञाता सूक्ष्मे वागात्मनि स्थितः । व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ।। अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।। इति । अत्र ब्रह्मपर्यायशब्दतत्त्वतया पारमेश्वररमेव रूपं निर्दिष्टम् । तत् - इयं परा शक्तिरेव स्वमार्गस्था ज्ञाता तथा सम्यक्प्रतिपन्नस्वभावा सती संपूर्णां सिद्धिम् उपपादयति - इत्युक्तम् । सेयमेव वैखरीरूपतामापन्ना पुरुषप्राणपरिस्पन्दाधीनाभिव्यक्तिकत्वात् स्थूला क्रियाशक्तिः - इत्यपि क्वचिदुक्ता तत्पूर्वा च मध्यमा वाक् इच्छाशक्तिः तत्पूर्वा च पश्यन्ती प्. १५४) ज्ञानशक्तिः - इति । तदेवं शक्तित्वे सति शक्तिमन्तमियम् अपेक्षते - इत्यभिन्नमातृकात्मकः शब्दराशिरूपक्रियाशक्तिप्रधान ऐश्वरो विग्रहोऽस्याः समाश्रयः यत्र इदं वर्गादिभिः वाक्यपर्यन्तैः स्वप्रसरभेदैः विजृम्भते । योऽपि वाक्यरूपः प्रसरोऽस्याः स नित्यानित्यभेदेन द्विविधः - तत्र मन्त्रात्मकः शास्त्रात्मकश्च नित्यः लोकिकव्यवहारविषयलौकिकवाक्यात्मकस्तु अनित्यः । एवं परमेश्वरशक्तित्वेन प्रत्यभिज्ञायमाना एषा वाङ्मयी विभूतिः परसिद्धिप्रदा नानापशुसंबन्धितया तु अवच्छिद्यमाना बन्धहेतुर्भवति - इति । व्याख्यातमेतद् वृत्तौ सा चेयं क्रियात्मिका क्रियास्वभावा इत्यादिना ।। १८ ।। एवं पतिस्वभावस्यैव आत्मतत्त्वस्य स्वमायावभासितं पशुत्वं प्रतिपाद्य इदानीं पशोः सतो विद्योदयात् स्वमार्गस्थत्वेन अभिज्ञायमाना एषा प्. १५५) परा शक्तिः पतित्वाभिव्यक्तिमावहन्ती संसारविच्छेदहेतुः यथा भवति तथा संसारकारणप्रतिपादनपूर्वं हेतुकथनं प्रतिजानानः श्लोकद्वयमाह तन्मात्रोदयरूपेण मनोऽहंबुद्धिवृत्तिना । पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् ।। १९ ।। भुङ्क्ते परवशो भोगं तद्भावात्संसरेदतः । संसृतिप्रलयस्यास्य कारणं संप्रचक्ष्महे ।। २० ।। अतो हेतोः अस्य उक्तवक्ष्यमाणरूपस्य पशोः यः संसृतिप्रलयः संसारक्षयः तस्य कारणं हेतुं संप्रचक्ष्महे युगलकात् अस्मादुत्तरेण श्लोकेन सम्यक् प्रकर्षेण च ब्रूमहे । अत्र व्यधिकरणेन षष्ठ्यौ व्याख्येये । कुतो हेतोः (##? सूक्ष्मे शरीरे तन्मात्रपञ्चकं गुणत्रयम् - इति स्थूलशरीरकारणभूतमष्टकम् प्. १५६) यत् संनिविष्टं तन्मुखं पुर्यष्टकम् तत्कार्यत्वात् स्थूलमपि शरीरं तच्छब्देन इह पुर्यष्टकम् - इत्युच्यते तेन संरुद्धः तावन्मात्रमात्मत्वेनाभिमन्यमानो विस्मृतसर्वात्मकत्वादिस्वसामर्थ्यवशात् बद्धः अत एव परवशः सर्वशक्तिस्वभावव्यतिरिक्तकारणान्तराधीनसकलसमीहितार्थसिद्धत्वात् अस्वतन्त्रः सन् भोगं मायावभासितानादिनिजकर्मोपचितवासनानुगुणसुखादिसंवेदनात्मकतया पर्यवसितं स्वविषयमात्रं भुङ्क्ते अनुभवति । कीदृशं तदुत्थं तस्मात् पुर्यष्टकात् उत्थितमुद्भूतं - देहबन्धे हि सति भोगनिर्वृत्तिरुपपद्यते - । कं तं भोगम् (?) प्रत्ययोद्भवं प्राग्व्याख्यानस्वरूपनियतस्वविषयज्ञानोत्पादरूपं - स्वविषयमात्रभोक्तृत्वाभिमानरूपस्य प्रत्ययस्य उत्पाद एव भोगः - इत्यर्थः । कीदृशेन पुर्यष्टकेन संरुद्धः (?) - तन्मात्रोदयरूपेण तन्मात्राणि प्. १५७) स्थूलभूतकारणभावेन ईश्वरेच्छयैव अवभासिताः सूक्ष्माः शब्दादयः तेषामुदयः स्थूलशरीरभावपरिणताकाशाद्यात्मना अभिव्यक्तिः । तथा च - अत्र यद्यन्नाड्यादि सुषिरं तदाकाशं शब्दतन्मात्रोदयः यद्यत् सक्रियं प्राणादि स वायुः स्पर्शतन्मात्रोदयः यद्यत् उष्णप्रभास्वरादिरूपं अग्न्यादि तत्तेजो रूपतन्मात्रोदयः यद्यत् द्रवरूपं रुधिरादि ता आपः रसतन्मात्रोदयः यद्यत् कठिनं मांसास्थिस्नायवादि सा पृथ्वी गन्धतन्मात्रोदयः - इति तन्मात्रोदयो रूपमाकारो यस्य तत् तथा तेन । एवं तन्मात्रोदयरूपत्वं व्याख्याय गुणोदयरूपत्वं दर्शयितुं विशेषणान्तरमाह - मनोऽहंबुद्धिवृत्तिना इति । अनुभूयमानस्य अस्य आत्मलाभोऽनुभवश्च अन्तःकरणनिष्ठः - इति मनसि रजोगुणोदये अहङ्कारे तमोगुणोदये बुद्धौ च सत्त्वगुणोदयरूपायां वृत्तिर्वर्तनम् प्. १५८) अवस्थितिः यस्य तादृशेन । स च एवंविधेन पुर्यष्टकेन संरुद्धः सन् पशुः तद्भावात् तस्य पुर्यष्टकस्य स्थूलसूक्ष्मस्य भावात् विद्यमानत्वात् अप्रबोधे सति अनुच्छेदात् संसरेत् अनवरतं नानाशरीरभोगवासनाकर्मचक्रभ्रममनुभवेत् आ प्रबोधप्रयुदयात् । इदमत्र तात्पर्यम् - देहसंरुद्धस्य पुंसः प्रतिनियतसुखादिसंवेदनात्मनि भोगे यो भोक्तृत्वाभिमानः तत् संसारकारणम् अतोऽस्य निरावणस्वस्वरूपस्थितिमात्रं संसारविनाशहेतुं संप्रचक्ष्महे - इति । व्याख्यातमेतत् वृत्तिकृता तन्मात्रोदय इत्यादिना भुंक्तेऽश्नाति परवशः इत्यादिना च ।। १९ ।। २० ।। अधुना आत्मन एव शिवस्य यथोक्तैश्वर्यरूपं पतित्वं येन अभिव्यज्यते तत् समनन्तरं प्रतिज्ञातम् उपायान्तरम् उपदिशन् प्रकरणमुपसंहरति यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भ्वौ । नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ।। २१ ।। यदा तु यस्मिन् पुनः काले स्थूलसूक्ष्मत्वात् अनयोः पुर्यष्टकसंज्ञानिर्दिष्टयोः प्रत्ययोद्भवमात्रमूलयोः शरीरयोः मध्यात् एकत्र अन्यतरस्मिन् अथवा - प्राक्प्रतिपादितोपपत्त्या संवेद्यमानस्यैव अर्थस्य शरीरत्वे व्यवस्थिते भूतात्मकभावात्मकभेदेन स्थूलसूक्ष्मयोः शरीरयोर्मध्यादेकत्र अथवा - ध्येयतया आलम्बनीययोः स्थूलसूक्ष्मयोर्भावयोर्मध्यात् एकत्र संरूढः सम्यक् अविलम्बतया रूढः प्. १६०) एकाग्रताप्रकर्षात् अभेदेन परिणतसंवित् साधकः तदा तस्मिन् क्षणे तस्य अभेदेन प्रतिपन्नस्य यथोक्तस्य शरीरस्य लयोद्भवौ त्यागग्रहरूपौ विनाशोत्पादौ नियच्छन् भोक्तृशब्देन वक्ष्यमाणस्य सत्यस्य कर्तुः आत्मन एव कार्यतया अवधारयन् ##- निर्विकल्पतया व्यवस्थापयन् भोक्तृतामेति भोक्तुरुपलब्धृमात्रस्वभावस्य परमात्मनो भावो भोक्तृता तामाप्नोति सतीमपि तदानीमेव प्रत्यभिज्ञया स्वीकुरुते ततः सत्यात्मस्वरूपप्रत्यभिज्ञालक्षणात् हेतोः चक्रेश्वरो भवेत् चक्रस्य प्राक्प्रतिपादितस्थित्या चराचरभावपर्यन्तेन प्रपञ्चेन प्रसृतस्य शब्दराशिसमुत्थस्य स्वशक्तिसमूहस्य ईश्वरोऽधिष्ठाता स्वैश्वर्यविजृम्भामात्रतया अवगम्यमानस्य प्. १६१) यथेष्टविनियोक्ता संपद्येत । तदैव स्वाभाविकस्वातन्त्र्याभिव्यक्तेः पशुप्रत्ययप्रध्वंसे सति शक्तिचक्रभोग्यतां विमुच्य तद्भोक्तृभावरूपमैश्वर्यं प्रतिपाद्येत अतः तौ लयोद्भवौ तत्र भोक्तरि आत्मनि नियच्छेत् - इति वाक्यार्थः । इदमत्र तात्पर्यम् - यथा सर्वः कश्चित् देही देहमात्रप्रतिष्ठितात्माभिमानो बाह्यस्य घटादेः पदार्थस्य ग्राह्यतयैव प्रतिपन्नस्य त्यागग्रहौ तादृशि स्वात्मनि नियच्छन् अहमेव एतयोः कर्ता - इति निश्चिन्वन् तावति स्वतन्त्रं कर्तारं शरीरितानिविष्टमात्मानं मन्यते तथैव तस्य शरीरस्य वेद्यभूमिकापादनेन क्रियमाणौ त्यागग्रहौ तद्विलक्षणे सर्वदा वेद्यत्वसंस्पर्शासहिष्णौ अनन्यसाधारणकर्तृत्वस्वभावे सत्ये स्वात्मनि वस्तुसामर्थ्यात् नियमं प्. १६२) भजन्तावपि अप्रबुद्धत्वात् न प्रतिपद्यते ततः शरीरशरीरिविवेकग्रहणयोग्यप्रज्ञप्रबुद्धमेव प्रति अयमुपदेशः यतः तादृश एव अनुग्रहशक्तिशकलितसंशयग्रन्थिः परमेश्वरस्य एवंविधविशेषोपदेशपात्रम् । यदाह अयं सर्वस्य प्रभव इतः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ।। मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति रमयन्ति च ।। तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मां प्रापयन्ति ते ।। तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ।। इति । यस्मात् उपदेशात् अनुशील्यमानात् अस्य एकत्र इति प्रतिपादितस्य शरीरस्य अभेदेन प्रतिभासमानस्य सतः समनन्तरं प्. १६३) वेद्यीक्रियमाणस्य त्यागग्रहात्मकौ लयोद्भवौ तद्विधर्मिणि भोक्तरि सर्वेश्वरे स्वात्मन्येव स्वातन्त्र्येण कार्यतया नियम्यमानौ नियन्तुः परस्वभावप्रत्यभिज्ञामावहन्तौ सर्वैश्वर्याय कल्पेते ततः तौ तत्र नियच्छेत् ##- प्रलयोदयौ जगदपि तत्स्वरूपाभेदात् तस्य स्वशक्तिचक्रमयो विभव - इति यथोपक्रान्तार्थनिर्वाहात् एकमेव तत्त्वं स्वरूपपरामर्शमात्राव्यभिचारधर्मकं परमार्थसन् अतो व्यतिरिक्तं किंचित् न संभवति - इति उपपादितम् । यदुक्तम् परमार्थे तु नैकत्वं पृथक्त्वाद्भिन्नलक्षणम् । पृथक्त्वैकत्वरूपेण तत्त्वमेकं प्रकाशते ।। यत्पृथक्त्वमसंदिग्धं तदेकत्वान्न भिद्यते । यदेकत्वमसंदिग्धं तत्पृथक्त्वान्न भिद्यते ।। प्. १६४) द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः ।। इति । अयमेवार्थः उक्त्यन्तरेण स्वस्तोत्रे प्रतिपादितोऽस्माभिः चित्रालोकविकल्पकल्पितनवाकल्पाङ्कनानाकृतिं नृत्यन्तीं बहुधा बहिः स्ववपुषोऽप्यन्तर्न भिन्नां पुनः । नित्यं नूतनकौतुकः प्रियतमां स्वां शक्तिमालोकयन् अच्छिन्नाप्रतिमप्रमोदमहिमा शंभुर्जयत्येककः ।। इति । तत् अत्र समनन्तरव्याख्याते श्लोके प्रकरणारम्भश्लोकप्रतिज्ञातः स्वसंवेदनसंवेद्य आत्मैश्वर्याद्वयलक्षणोऽर्थो निर्वाहितः । व्याख्यातमेतत् वृत्तिकृता यदा पुनरेकत्र स्थूले सूक्ष्मे वा इत्यादिना ग्रन्थेन ।। २१ ।। इति श्रीराजानकश्रीरामविरचितायां स्पन्दविवृतौ शक्त्यात्मकविश्वाव्यतिरेकोपलब्धिः प्रकीर्णं च चतुर्थो निष्यन्दः समाप्तः ।। ४ ।। प्. १६५) इदानीम् आत्मन एव एकस्य तत्त्वस्य संशयमात्रम् अप्रथने कारणं तच्च सद्गुरूपदेशव्यतिरेकेण न शक्यमुन्मूलयितुम् परमेश्वरो हि गुरुमूर्तिमाविश्य अनुग्राह्यान् स्वप्रत्यभिज्ञापनेन प्रबोधयति - इति निजगुरुसरस्वईस्तवनद्वारेणाह अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् । वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् ।। १ ।। ताम् अशक्यस्वरूपप्रतिपादनां हृदि स्फुरन्तीं गुरुभारतीं वन्दे गुरोः वसुगुप्ताभिधानस्य साक्षात् सिद्धमुखसंक्रान्तसमस्तरहस्योपनिषद्भूतस्पन्दतत्त्वामृतनिःष्यन्दस्य भारतीं वाचं स्तौमि । कीदृशीम् (?) - अगाध प्. १६६) इत्याद्यार्धेन विशेषणम् अविद्यमानो गाधो विश्रान्तिभूमिका यत्र तादृशो यः संशयः तत्त्वाप्रतिपत्तिरूपो विभ्रमः स एव दुर्जरविकल्पोर्मिजालसंकुलत्वादिना अम्भोधिः समुद्रः तस्य समुत्तरणे सम्यक् विलङ्घने तारिणीम् नावम् । तथा विचित्रार्थपदां विचित्रः अत्यद्भुतः अर्थोऽभिधेयं वस्तु येषां तादृशि पदानि यस्यां सा । तथा तां चित्रां घटनाविशेषशालित्वात् विस्मयाधायिनीम् । विशेषणाद्वयेन अनेन अर्थगतं शब्दगतं च अतिशयं तुष्टाव यतोऽत्र सकललोकाशयनिर्विषयः कतिपयलोकोत्तरप्रबुद्धहृदयसंवादी विचित्रोऽर्थः पदानां तादृगर्थप्रतिपादनशालिनी च चित्रा पदवाक्यरचना - इति ओम् । व्याख्यातमेतत् वृत्तौ अगाधो हि अप्रतिष्ठोऽनन्तः इत्यादिना ग्रन्थेन ।। १ ।। प्. १६७) एष स्पन्दाभिधानो निधिरिह विवृतो वीतसंदेहसर्पत्रासः संपूर्णसिद्धिप्रदनिरतिशयज्ञानमाणिक्यगर्भः । सर्वार्थिभ्यो विलब्ध्या स्वयमपि सहजानन्दभोगोपलब्ध्या भव्यानामस्य लाभं सफलयतु परं शंकरस्य प्रसादः ।। १ ।। सद्विद्यासरसीविभूषणवरस्फारोत्पलोच्चाशयप्रोत्सर्पत्परिपक्वबोधमधुपेनेदं मयागायि यत् । रामेणानुपमप्रमोदमधुरं बद्धावधानस्य तच्छ्रोतुः कस्य न चेतनस्य तनुते विश्रान्तिमन्तः पराम् ।। २ ।। चेतस्याकुलिते क्वचित्कुविषये तूष्णीं विद्वत्य स्थितां व्यावर्त्य प्रणयात्प्रसाद्य च शनैः कान्तां निजां चेतनाम् । चुम्बन्तो विगलद्विभागनिविडाश्लेषोल्लसन्नूतनानन्दस्पन्दनिमीलिताक्षमनिशं भूयास्त भव्याशयाः ।। ३ ।। अत्युक्तं यदिहास्त्यनुक्तमपि यद्यद्वा दुरुक्तं बुधैस्तत्सूक्ष्मांशनिरूपणैकनिभृतप्रज्ञैरवज्ञायताम् । पुष्पान्तर्मकरन्दसारकणिकास्वादोत्सुकाः कानने किं विन्दन्ति कठोरकण्टकशिखास्पर्श यथां षट्पदाः ।। ४ ।। शशिज्योतिर्दीपप्रभृतिभिरशक्यं शमयितुं यदासीन्निःस्पन्दीकृतसकललोकं किल तमः । गते तत्रेदानीं क्षयममलसूर्यागमहते कृतार्थाः संकोचं विजहतु विनिद्रा जनदृशः ।। ५ ।। प्. १६८) जयति जनमरिष्टादुद्धरन्ती भवानी जयति निजविभूतिव्याप्तविश्वः स्मरारिः । जयति च गजवक्त्रः सोऽत्र यस्य प्रसादादुपरमति समस्तो विघ्नवर्गोपसर्गः ।। ६ ।। संपूर्णा इयं वृत्त्यनुसारिणी स्पन्दविवृतिः । कृतिस्तत्रभयतो महामाहेश्वराचार्यशिरोमणिराजानकश्रीमदुत्पलदेवपादपद्मानुजीविनो राजानकश्रीरामकण्ठस्य इति शिवम् ।। </poem> [[वर्गः:तन्त्रग्रन्थाः]] 2bidn2datp9pq7x29sjdr8zc9vzw2kq पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७४ 104 104704 417917 417905 2026-07-30T13:09:17Z Geeta g hegde 6704 417917 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|३४०|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude> पुरुषस्येति ॥ पुरुषस्य पल्याश्च धर्माय हि ते अन्योन्याच्यभिचारिलक्षणे वर्मनि वर्तमानयोः संयुक्तवियुक्तयोश्च धर्मान्पारंपर्यागतत्वेन नित्यान्वक्ष्यामि । दम्पत्योः परस्परधर्मव्यतिक्रमे सत्यन्यतरज्ञाने दण्डेनापि स्वधर्मव्यवस्थानं राज्ञा कर्तव्यमिति व्यवहारमध्येऽस्योपदेशः ॥ १ ॥ {{Block center|{{bold|<poem>अस्वतत्राः स्त्रियः कार्याः पुरुषैः खैर्दिवानिशम् । विषयेषु च सञ्जन्त्यः संस्थाप्या आत्मनो वशे ॥ २ ॥</poem>}}}} {{gap}}अस्वतन्त्रा इति ॥ स्वीयैर्भादिभिः सदा स्त्रियः स्वाधीनाः कार्याः । अनिषि- हेप्वपि रूपरसादिविषयेपु प्रसक्ता अपि आरमवशाः कार्याः ॥ २ ॥ {{Block center|{{bold|<poem>पिता रक्षति कौमारे भो रक्षति यौवने । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातव्यमर्हति ॥ ३ ॥</poem>}}}} पितेति ॥ पिता विवाहात्पूर्व स्त्रियं रक्षेत्पश्चागर्ता तदभावे पुत्राः । तस्मान्न स्त्री कस्यांचिदप्यवस्थायां स्वातन्त्र्यं भजेत् । भर्ता रक्षति यौवने इत्यादि प्रायि- कम् । अभर्तृपुत्रायाः संनिहितायाः पित्रादिभिरपि रक्षणात् ॥ ३ ॥ {{Block center|{{bold|<poem>कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः। मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥ ४ ॥</poem>}}}} {{gap}}काल इति ॥ प्रदानकाले पिता तामददन् गर्यो भवति । 'प्रदानं प्रागृतोः' इति गौतमवचनादृतोः प्राक्प्रदानकालः । पतिश्च ऋतुकाले पत्नीमंगच्छन्गर्हणीयो भवति । पत्यौ मृते मातरमरक्षन्पुत्रो निन्द्यः स्यात् ॥ ४ ॥ {{Block center|{{bold|<poem>सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः । द्वयोहि कुलयोः शोकमावहेयुररक्षिताः ॥ ५ ॥</poem>}}}} {{gap}}सूक्ष्मेभ्य इति ॥ स्वल्पेभ्योऽपि दुःसङ्गेभ्यो दौःशील्यसंपादकेभ्यो विशेषेण स्त्रियो रक्षणीयाः किंपुनर्महद्यः । यस्मादुपेक्षितरक्षणादयोः पितृभर्तृगणयोः संतापं दापयेयुः ॥ ५॥ {{Block center|{{bold|<poem>इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् । यतन्ते रक्षितुं भार्या भर्तारो दुर्बला अपि ॥ ६॥</poem>}}}} इममिति ॥ सर्वेषां भार्यारक्षणलक्षणं धर्म वक्ष्यमाणश्लोक- रीत्या सर्वधर्मेभ्य उत्कृष्ट जानन्तोऽन्धपङ्ग्वादयोऽपि भायो रक्षितुं यतेरन् ॥ ६ ॥ {{Block center|{{bold|<poem>खां प्रमूर्ति चरित्रं च कुलमात्मानमेव च । खं च धर्म प्रयत्नेन जायां रक्षन्हि रक्षति ॥ ७॥</poem>}}}} {{gap}}स्वामिति ॥ यस्माद्भार्या रक्षतो रक्षणमसंकीर्णविशुद्धापत्योत्पादनेन स्वसंतति तथा शिष्टसमाचारं पितृपितामहाद्यन्वयमात्मानं विशुद्धसंताननिमित्तौदेहिक-<noinclude></noinclude> 670i736954fpujzqt9n0h6k52cg72na 417918 417917 2026-07-30T13:10:25Z Geeta g hegde 6704 417918 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|३४०|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude> {{gap}}पुरुषस्येति ॥ पुरुषस्य पल्याश्च धर्माय हि ते अन्योन्याच्यभिचारिलक्षणे वर्मनि वर्तमानयोः संयुक्तवियुक्तयोश्च धर्मान्पारंपर्यागतत्वेन नित्यान्वक्ष्यामि । दम्पत्योः परस्परधर्मव्यतिक्रमे सत्यन्यतरज्ञाने दण्डेनापि स्वधर्मव्यवस्थानं राज्ञा कर्तव्यमिति व्यवहारमध्येऽस्योपदेशः ॥ १ ॥ {{Block center|{{bold|<poem>अस्वतत्राः स्त्रियः कार्याः पुरुषैः खैर्दिवानिशम् । विषयेषु च सञ्जन्त्यः संस्थाप्या आत्मनो वशे ॥ २ ॥</poem>}}}} {{gap}}अस्वतन्त्रा इति ॥ स्वीयैर्भादिभिः सदा स्त्रियः स्वाधीनाः कार्याः । अनिषि- हेप्वपि रूपरसादिविषयेपु प्रसक्ता अपि आरमवशाः कार्याः ॥ २ ॥ {{Block center|{{bold|<poem>पिता रक्षति कौमारे भो रक्षति यौवने । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातव्यमर्हति ॥ ३ ॥</poem>}}}} {{gap}}पितेति ॥ पिता विवाहात्पूर्व स्त्रियं रक्षेत्पश्चागर्ता तदभावे पुत्राः । तस्मान्न स्त्री कस्यांचिदप्यवस्थायां स्वातन्त्र्यं भजेत् । भर्ता रक्षति यौवने इत्यादि प्रायि- कम् । अभर्तृपुत्रायाः संनिहितायाः पित्रादिभिरपि रक्षणात् ॥ ३ ॥ {{Block center|{{bold|<poem>कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः। मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥ ४ ॥</poem>}}}} {{gap}}काल इति ॥ प्रदानकाले पिता तामददन् गर्यो भवति । 'प्रदानं प्रागृतोः' इति गौतमवचनादृतोः प्राक्प्रदानकालः । पतिश्च ऋतुकाले पत्नीमंगच्छन्गर्हणीयो भवति । पत्यौ मृते मातरमरक्षन्पुत्रो निन्द्यः स्यात् ॥ ४ ॥ {{Block center|{{bold|<poem>सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः । द्वयोहि कुलयोः शोकमावहेयुररक्षिताः ॥ ५ ॥</poem>}}}} {{gap}}सूक्ष्मेभ्य इति ॥ स्वल्पेभ्योऽपि दुःसङ्गेभ्यो दौःशील्यसंपादकेभ्यो विशेषेण स्त्रियो रक्षणीयाः किंपुनर्महद्यः । यस्मादुपेक्षितरक्षणादयोः पितृभर्तृगणयोः संतापं दापयेयुः ॥ ५॥ {{Block center|{{bold|<poem>इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् । यतन्ते रक्षितुं भार्या भर्तारो दुर्बला अपि ॥ ६॥</poem>}}}} इममिति ॥ सर्वेषां भार्यारक्षणलक्षणं धर्म वक्ष्यमाणश्लोक- रीत्या सर्वधर्मेभ्य उत्कृष्ट जानन्तोऽन्धपङ्ग्वादयोऽपि भायो रक्षितुं यतेरन् ॥ ६ ॥ {{Block center|{{bold|<poem>खां प्रमूर्ति चरित्रं च कुलमात्मानमेव च । खं च धर्म प्रयत्नेन जायां रक्षन्हि रक्षति ॥ ७॥</poem>}}}} {{gap}}स्वामिति ॥ यस्माद्भार्या रक्षतो रक्षणमसंकीर्णविशुद्धापत्योत्पादनेन स्वसंतति तथा शिष्टसमाचारं पितृपितामहाद्यन्वयमात्मानं विशुद्धसंताननिमित्तौदेहिक-<noinclude></noinclude> eb256a7ef70nzvm7israylqnkt0fdyf पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७६ 104 104823 417916 267854 2026-07-30T13:08:50Z Geeta g hegde 6704 417916 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३४२|मनुस्मृतिः।|[ अध्यायः ९}}</noinclude> {{Block center|{{bold|<poem>पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । खप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ १३ ॥</poem>}}}} {{gap}}पानमिति ॥ मद्यपानं, असत्पुरुषसंसर्गः, भर्ना सह विरहः, इतस्ततश्च श्रमणं, अकालस्वापः, परगृहनिवासः, इत्येतानि पद स्त्रिया व्यभिचाराख्यदोषजनकानि । तस्मादेतेभ्य एता रक्षणीयाः ॥ १३ ॥ {{Block center|{{bold|<poem>नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः। सुरूपं वा विरूपं वा पुमाहिश्येव भुञ्जते ॥ १४ ॥</poem>}}}} {{gap}}नैता इति ॥ नैताः कमनीयरूपं वित्तिन्ति । न चासां यौवनादिके वय- स्यादरो भवति । किंतु सुरूपं कुरूपं वातुमानित्येतावतैव तमुपभुञ्जते ॥ १४ ॥ {{Block center|{{bold|<poem>पौंश्चल्याचलचित्ताच नैस्नेह्याच स्वभावतः । रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ॥ १५ ॥</poem>}}}} {{gap}}पोश्चल्यादिति ॥ पुंसो दर्शने संभोगाद्यभिलापशीलत्वात् , चित्तस्थैर्याभावात् , स्वभावतः स्नेहरहितत्वाच्च एता यत्नेनापि लोके रक्षिताः सत्यो व्यभिचाराश्रयणेन भर्तृषु विक्रियां गच्छन्ति ॥ १५ ॥ {{Block center|{{bold|<poem>एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति ॥ १६ ॥</poem>}}}} {{gap}}एवमिति ॥ एवं श्लोकद्वयोक्तमासां सभावं हिरण्यगर्भसृष्टिकालजनितं ज्ञात्वा रक्षणार्थं प्रकृष्टं यत्रं पुरुषः कुर्यात् ॥ १६ ॥ {{Block center|{{bold|<poem>शय्यासनमलंकारं कामं क्रोधमनार्जवम् । द्रोहभावं कुचर्या च स्त्रीभ्यो मनुरकल्पयत् ॥ १७ ॥</poem>}}}} {{gap}}शय्येति ॥ शयनोपवेशनालंकरणशीलत्वं कामक्रोधानार्जवपरहिंसाकुत्सिताचा. रत्वानि सर्गादौ मनुः स्त्रीभ्यः कल्पितवान् । तस्माद्यनतो रक्षणीयाः ॥ १७ ॥ {{Block center|{{bold|<poem>नास्ति स्त्रीणां क्रिया मवैरिति धर्मे व्यवस्थितिः । निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः ॥ १८ ॥</poem>}}}} {{gap}}नास्तीति ॥ जातकर्मादिक्रिया स्त्रीणां मन्त्रैर्नास्तीत्येषा शास्त्रमर्यादा व्यव स्थिता । ततश्च मत्रवत्संस्कारगणाभावान्न निष्पापान्तःकरणाः । इन्द्रियं प्रमाणं धर्मप्रमाणश्रुतिस्मृतिरहितत्वान्न धर्मज्ञाः । अमत्राः पापापनोदनमन्त्रजपरहित स्वाजातेऽपि पापे तन्निर्णेजनाक्षमाः । अनृतवदशुभाः स्त्रिय इति शास्त्रमर्यादा तस्माद्यत्नतो रक्षणीया इत्यत्र तात्पर्यम् ॥ १८ ॥<noinclude></noinclude> 7eafqxhmxpoaevtxr1e9zcjp7penf83 पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७७ 104 104824 417919 267855 2026-07-30T13:23:45Z Geeta g hegde 6704 417919 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ९]|center=मन्वथमुक्तावलासवालता ।|right=३४३}}</noinclude> {{Block center|{{bold|<poem>तथा च श्रुतयो बढ्यो निगीता निगमप्वपि । स्वालक्षण्यपरीक्षार्थ तासां शृणुत निष्कृतीः ॥ १९ ॥</poem>}}}} {{gap}}तथा चेति ॥ व्यभिचारशीलत्वं स्त्रीणां स्वभाव इत्युक्तं तत्र श्रुति प्रमाणतयो- पन्यस्यति । तथा बढ्यः श्रुतयो बहूनि श्रुतिदाक्यानि 'न चैतद्वियो ब्राह्मणाः मोऽब्राह्मणा वा' इत्येवमादीनि निगमेषु स्वालक्षण्यं व्यभिचारशीलवं तत्परि- ज्ञानार्थं पठितानि । तासां श्रुतीनां मध्ये या निष्कृतिरूपा व्यनिचारप्रायश्चित्त- भूतास्ताः श्रुतीः शृणुत । एकस्याः श्रुतेर्वेक्ष्यमाणवाच्छ्रुति शृगुतेत्यर्थः । 'सुपा सुपो भवन्ति' इति द्वितीयैकवचने बहुवचनम् ॥ १९ ॥ {{Block center|{{bold|<poem>यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता। तन्मे रेतः पिता वृक्तामित्यस्यैतन्निदर्शनम् ॥ २० ॥</poem>}}}} {{gap}}यदिति ॥ कश्चित्पुत्रो मातुर्मानसव्यभिचारमवगम्य ब्रूते । मनोवाक्कायकर्मभिः पतिव्यतिरिक्तं पुरुपं या न कामयते सा पतिव्रता ततोऽन्याऽपतिव्रता । मम माता अपतिव्रतासती परगृहान्गच्छन्ती यत्प्रलुलुभे परपुरुषं प्रति संजातलोभा- भूत्तत्पुरुषसंकल्पदुष्टं मातृरजोरूपं रेतो मम पिता शोधयन्वित्यस्य स्त्रिया व्यभि- चारशीलत्वस्यैतदितिकरणान्तं मत्रपादत्रयं ज्ञापकम् । अयं च मन्त्रश्चातुर्मा- स्यादिषु विनियुक्तः ॥ २० ॥ {{gap}}संप्रति मानसव्यभिचारप्रायश्चित्तरूपतामस्य मन्त्रस्याह- {{Block center|{{bold|<poem>ध्यायत्यनिष्टं यत्किचित्पाणिग्राहस्य चेतसा । तस्यैष व्यभिचारस्य निदवः सम्यगुच्यते ॥ २१ ॥</poem>}}}} {{gap}}ध्यायतीति ॥ भर्तुरप्रियं यत्किंचित्पुरुषान्तरगमनं स्त्री मनसा चिन्तयति तस्य मानसस्य व्यभिचारस्यैष प्रकृतो मन्त्रः सम्यक् शोधनो मन्वादिभिरुच्यते । मातेति श्रवणात्पुत्रस्यैवायं प्रायश्चित्तरूपो मत्रो न मातुः ॥ २१ ॥ {{Block center|{{bold|<poem>यादृग्गुणेन भर्ना स्त्री संयुज्येत यथाविधि । तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥ २२ ॥</poem>}}}} {{gap}}यादृग्गुणेनेति ॥ यथारूपेण भर्ना साधुनासाधुना वा स्त्री विवाहविधिना संयु- ज्यते सा भर्तृसदृशगुणा भवति । यथा समुद्रेण संयुज्यमाना नदी स्वादूदकापि क्षारजला जायते । भर्तुरात्मसमानाख्यस्त्रीरक्षणोपायान्तरोपदेशार्थमिदम् ॥ २२ ॥ {{gap}}अनोत्कर्षदृष्टान्तमाह- {{Block center|{{bold|<poem>अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा। शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥ २३ ॥</poem>}}}}<noinclude></noinclude> exu9ailtsrx4ovb3bb83je5v8iy1qql स्पन्दकारिका (कल्लटाचार्यविरचितविवृत्युपेता) 0 165522 417921 2026-07-31T05:09:57Z Shubha 190 {{header | title = स्पन्दकारिका (कल्लटाचार्यविरचितविवृत्युपेता) | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ओं श्रीचिदात्मवपुषे शंकराय नमः | अथ स्पन्दकारिकाः | श... नवीन पृष्ठं निर्मीत अस्ती 417921 wikitext text/x-wiki {{header | title = स्पन्दकारिका (कल्लटाचार्यविरचितविवृत्युपेता) | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ओं श्रीचिदात्मवपुषे शंकराय नमः | अथ स्पन्दकारिकाः | श्रीमत्कल्लटाचार्यविरचितवृत्त्युपेताः | ओं नमः स्वस्पन्दात्मसंविन्मूर्तये शंभवे | अथ स्पन्दकारिकाः | श्रीरामकण्ठाचार्यविरचितविवृत्युपेताः | प्रथमो निःष्यन्दः | विवृति: दशादिक्कालाद्यैरकलितचिदालोकवपुषः सदा तादृक्स्वात्मानुभवितृतया विस्फुरति यः | निजो धर्मः शम्भोरनुपमचमत्कारसरसः परं शाक्तं तत्त्वं जगति जयति स्पन्द इति तत् || [(fओओत्नोते १) दिगादिवृत्तयः शक्तावनुद्भिन्नप्रसरतया तन्मया एव स्वालक्षण्येन भातुमप्रभविष्णवः, शक्तिरपि शक्तिमदौन्मुख्येन तन्मात्रावशेषा केवलमनुभवितृरूपविस्फुरणमाश्लिषिवात्मका उच्यन्ते (घ्: इति - शब्दानन्तरं ते इति पदमप्यस्ति |) || २७ || टिप्पणी: इदमत्र तात्पर्यम् - शिवशक्तिरेव मन्त्रसंनिवेशादिरूपधारिणी उदयास्तमयदशयोः शिवाभेदवत्त्वात्, यत्र यत्र शिवाभेदवत् -त्वं तत्र तत्र शाक्तरूपत्वं, यथा संकल्पस्वप्नपुरादिषु, - इति व्याप्त्यादिना सुदृढप्रतिपत्तेर्मन्त्रवीर्यानभिज्ञस्य भेदविभ्र -मात् नियतसाध्यसाधनाय पर्यवसायिनः प्रबुद्धस्य पुनर्मन्त्राः सर्वार्थसाधनाधिकारिणो भवन्ति; न केवलं मन्त्रा एव, यावल्लौकिकभाषामात्रमपि अमोघमन्त्रभावमुप -गच्छति - इत्यनेन क्रियाज्ञानं कार्यं ज्ञेयं वा वस्तु शिवधर्मकमेवेत्युपलक्ष्यते || २७ || विवृति: (प्. ८०) तेन प्रस्तुतव्याख्यानेन हेतुना एते मन्त्रा आराध्यदेवतावाचका वर्णादिसंनिवेशाः, शिवधर्मिणः शिवस्य परमेश्वरस्यानन्यसाधारणः सर्वज्ञत्वादिर्गुणो धर्मः स विद्यते येषां ते तथा, शिवादभिन्नस्वरूपा इत्यर्थः | केन हेतुना ? - यतः तत् समनन्तरप्रतिपादितस्वरूपस्य शिवस्य संबन्धि बलं सामर्थ्यं शक्तिम् आक्रम्य उच्चिचारयिषावस्थायां तदभेदोपपत्त्या स्वीकृत्य सर्वज्ञबलशालिनः सर्वज्ञस्य शिवस्य बलेन शक्त्या श्लाघमाना सन्तः अधिकाराय प्रवर्तन्ते यथास्वं प्रतिनियतकार्यसंपादनस्वसामर्थ्यं [-स्वाम्यार्थ्यं] प्रसरन्ति | एते हि अनासादितपरमेश्वराभेददशा उत्पादविनाशधर्मकवर्णमात्रात्मकाः तृणमपि कुब्जयितुमशक्ताः; उक्तबलाक्रमणेन तु नियतेतिकर्तव्यतासहाया दीक्षादिवृश्चिकविषाकर्षणान्तपरापरस्वकार्यसंपादनाधि- काराप्रतिहतशक्तयो भवन्ति | यद्येवं सर्वमन्त्राणामुक्तबलाक्रमणलक्षणवीर्यसाम्यं, तत् कथमेषां भिन्नाधिकारित्वं, सर्वे सर्वार्थसाधनाधिकृताः कथं न भवेयुः ? - इत्यत्र परमेश्वरपरिकल्पितनियतिनियन्त्रितत्वमेव (प्. ८२) हेतुं प्रतिपादयितुमुपमानमाह - कथमेते मन्त्रा नियताधिकाराय प्रवर्तन्ते साधकानां ? - देहिनां करणानीव यथा हि देहादिमात्रानित्यवस्तुव्यवस्थितात्माभिमानानां सर्वशरीरभृतां करणानि इन्द्रियाणि यतः करणवर्गोऽयम् इत्यत्र प्रतिपादितयुक्त्या परमेश्वरादेव चेतनत्वापादनहेतुप्रवृत्त्यादिलाभसाम्ये सत्यपि करणानि तत्परिकल्पितनियतिशक्तिबलात् शब्दादिविषयप्रकाशनमात्रपर्यवसितसामर्थ्यानि यथास्वं पृथक्पृथगधिकाराय प्रवर्तन्ते न सर्वाणि सर्वस्मै?; तथैवैते मन्त्राः साधकानां स्वीकृतपरस्वभावाहंभावप्रतिपत्तीनां यथानियमिताधिकाराय प्रवर्तन्ते, तस्मात् करणवत् सर्वज्ञबलशालिनोऽपि मन्त्रा नियताधिकारा एव | ततश्च शिवधर्मिणो मन्त्रा यत्कृताधिकाराः सन्तो निरञ्जना अञ्जनात् वाच्योपरागरूपात् मलात् वर्णादिरूपभावनात्मकाद्वा निष्क्रान्ताः; अत एव शान्तरूपाः शान्तं शुद्धं संविन्मात्रावशेषत्वात् (प्. ८३) निर्विकारं रूपमात्मा येषां ते तादृशाः सन्तः तत्रैव शिवे परमकारणे स्वस्वभावे संप्रलीयन्ते तदैक्यमुपगच्छन्ति | केन साकम् ? आराधकचित्तेन सह साधकमनसा साकं | तस्यां हि दशायामभिसंध्युपाधिविरहात् स्वाभाविकमात्रावशेषं यत् साधकचित्तं तेन साकम् | किमनेन तात्त्विकमन्त्रवीर्यं प्रतिपादितं भवति ? तदिदं भवति - मन्त्रचेतसोः उदयास्तमयदशयोः परमकारणात् शिवादभेदः, - इति मन्त्रात्मकतया साधकचित्तात्मकतया च शिवशक्तिरेव वर्णसंकल्पादिरूपधारिणी उदिता सती, संप्रति अनासादितस्वस्वभावबलस्पर्शप्रतिपत्तीनां साधकानां भेदविभ्रममुत्पादयन्ती नियतार्थसाधनाधिकाराय पर्यवस्यति | यस्तु यथाप्रतिपादिते स्वस्वभावे एव सुदृढात्मप्रतिपत्तिः, तस्य उदयास्तमयज्ञस्य सर्वमन्त्राः (प्. ८४) सर्वार्थसाधनाधिकारिणो भवन्ति तत्तदितिकर्तव्यतासाहित्यनियमाद्यपेक्षां विना; आसतां वा मन्त्राः, यद्यद्वचनं येन येनाभिसंधिना उच्चारयति तत् तस्यामोघमन्त्रतामापद्यते, - इति स्वभावबलाक्रमणेनैव [स्वभावबलाक्रमणमेव सिद्धं स्वतो मन्त्राणां वीर्यं प्रत्यवम्रष्टव्यं योगिना, - इति तात्पर्यार्थः | उपलक्षणार्थं मन्तव्यं चैतत् | उक्तोपपत्त्या न केवलं मन्त्रा एव शिवधर्मिणो, यावन्न काचित्क्रिया ज्ञानं कार्यं ज्ञेयं वा वस्तु संभवति, यत् परतत्त्वाभेदापत्तिलब्धात्मकं सत् शिवात्मकमेव न भवति, - इति समनन्तरमेव वक्ष्यति | व्याख्यातम् एतत् वृत्तौ यद्बलं निरावरणचिद्रूपम् इत्यादिना || ११ || इति राजानकश्रीरामविरचितायां स्पन्दविवृतौ व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो निःष्यन्दः || २ || अथ विश्वस्वभावशक्त्युपपत्तिर्नाम तृतीयो निःष्यन्दः || इदानीं पक्षान्तरोपन्यासभङ्ग्या प्रकरणारम्भश्लोकापरार्धप्रतिज्ञातं स्वस्वभावस्यैव शिवस्य विश्वव्यक्तिमयशक्तिचक्रविभवनशीलत्वमवसरप्राप्तम् उपपत्त्युपलब्धिभ्यां निर्वाहयितुं श्लोकत्रयमाह यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः || ३/१ (२८) || वृति: सर्वात्मक एवायमात्मा सर्वभावोत्पत्तिद्वारेण [सर्वानुभावो-] (अयमिति पदं; घ्: पुस्तकादुपन्यस्तम् |) (प्. २४) अनुभूयमानस्यैव संवेदनात् बाह्यार्थमनुभूय -मानमेव शरीरत्वेन गृह्णाति, न तु शिरः पाण्यादिलक्षितम् (ख्: पाण्यादिरक्षितम्; ग्: पाण्यादिलक्षणम्) एकमेवास्य शरीरम् || २८ || टिप्पणी: संचेत्यमानं प्रत्येकं वस्तु वस्तुतो विज्ञानिनो जीवस्य स्वाङ्गकल्पमेव - इति न केवलं भूतात्मकमेवास्य वपुः, यावद्भावात्मकमपि | घटसुखादेर्भावस्य हि संवेदनं समुत्पत्तिः, संवेद्यमानतैव तत्स्वरूपप्रतिष्ठा असंवेद्यमानस्य स्वप्रतिष्ठानासादनात् इत्यतो जीवादपि सर्ववस्तुसमुत्पादः | तस्मात्सोऽपि विश्वमयः | अवच्छिन्नाहं - कृतिपदं शिरःपाण्यादिमच्छरीरं भूतात्मकं, भावात्मकं तु शब्दादिविषयसंवेद्यम् || २८ || तेन शब्दार्थचिन्तासु न सावस्था न यः* शिवः | भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः || ३/२ (२९) || (* विवृति: या) वृति: तेन तथाविधेन सर्वात्मकेन स्वभावेन, शब्दार्थयोः चिन्तासु न सा अवस्था या शिवस्वभावं न व्यञ्जयति (ग्: शिवं न व्यञ्जयति), अतो भोक्तैव हि भोग्यभावेन सर्वत्रावस्थितो, न त्वन्यत् भोग्यमस्ति || २९ || टिप्पणी: प्रोक्तविश्वमयताप्रतिपत्त्या वाच्यवाचकात्मसु षडध्वजातेषु या काचित् संवित्तिप्रवाहपद्धतिः सा परप्रकाशात्मशिवमययेव, तस्मात् ग्राहकात्मा परमेश्वर एवेच्छादिचक्रप्रेषणद्वारा ईशितव्यात्मज्ञेयकार्यवस्तुचमत्करणोद्युक्तस्तत्तादात्म्यसंपा - दनात् सदोदितसार्वत्रिकस्थितिरिति स्वस्वभावस्यैव जगद्विकासमय - शक्तिविभवनशीलता निर्व्यूढा || २९ || प्. २५) इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् | स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः || ३/३ (३०) || वृति: एवंस्वभावं यस्य चित्तं, यथा - मन्मयमेव जगत् सर्वम् इति, स सर्वं क्रिडात्वेन पश्यन् नित्ययुक्तत्वात् जीवन्नेव ईश्वरवत् मुक्तो, न त्वस्य शरीरादि बन्धकत्वेन वर्तते || ३० || टिप्पणी: समनन्तरपद्योद्दिष्टनीत्या अव्युच्छिन्नपरामर्शावधानपरि -शीलनवतो योगिनः सर्वेश्वरस्वतन्त्रचिद्भैरवीयपूर्णाहं -भावप्रतिपत्त्या अशेषमिदं विश्वं स्वरचितक्रीडनकलीला -मात्रेण विभाव्य स्वलीलाजनितहर्षशोकाद्युपरागेऽपि शङ्कातङ्ककलङ्कयन्त्रणाभिर्मनागपि नोपलिप्तिरिति याथात्म्यवेदितृत्वाज्जीवत एव मुक्तिरित्यर्थः || ३० || विवृति: (प्. ८६) यस्य इति वा संवित्तिः स जीवन्मुक्त इति संबन्धः, इत्येवम् इदानीमेव प्रतिपाद्यप्रकारेण यस्य वा साधकोत्तमस्य संवित्तिः सम्यक् ज्ञानं स सततम् अव्यवधानेन सर्वावस्थासु युक्तः समाहितः, उक्तवक्ष्यमाणोपदेशदृशा स्वभावबलपरिशीलनाप्रमत्तैकाग्रमानसः स जीवन् नियतदेहाधिकरणान् प्राणान् धारयन् एव मुक्तः सर्वव्यापकसर्वात्मकसर्वेश्वरस्वतन्त्रस्वस्वभावाहंकार- प्रतिपत्तिदार्ढ्येन जन्मादिविरोधात् निष्क्रान्तः परमेश्वर एव संवृत्त - इत्यत्र न संशयो न भ्रान्तिः; स्वसंवेद्योपपत्त्युपलब्धिनिष्प्रकम्पत्वात् अस्य अर्थस्य | किं कुर्वन् जीवन्मुक्तः ? - अखिलम् अशेषमनन्तवस्तुव्यक्तिविचित्रं जगत् विश्वं क्रीडात्वेन स्वनिर्मितचराचरभावक्रीडनकोपरचितलीलामात्रतया पश्यन् विभावयन् | सर्वो हि जनः अनुन्मिषितस्वस्वभावनिभालनक्षमविमलविज्ञानदृष्टि- रात्मनोऽन्योन्यतश्च (प्. ८७) विभिन्नम् इदमखिलं भावजातं कुतश्चिदन्यतः कारणात् उद्भूतम् अनिशं मन्यमानः, तद्भावजन्यहर्षशोकभयादिविकारान् अनुभवन्, भवाध्वनि पुनः पुनः जन्मादिबन्धनभाजनतां भजते | यस्तु प्रतिपाद्यप्रकारेण उत्पन्नपरसंविदभिव्यक्तिः, स यथा कश्चित् क्रीडापरः स्वपरिकल्पितैः भयक्रोधादिकारणभूतभावप्रतिच्छन्दकैः क्रीडन् तद्याथात्म्यवेदित्वात् भयादिविकारकालुष्यं मनागपि नापद्यते, तथैव भावानां स्वस्वभावशक्तिविजृम्भितमात्रतया याथात्म्यवेदी सन् मनागपि विकृतिं न आपद्यते | एवं सर्वं क्रीडात्वेनैव पश्यन् जीवन्नेव मुक्तः | कथं यस्य संवित्तिः ? इति, - तेनेत्यादिश्लोकेन प्रतिपादयति; तेन वक्ष्यमाणेन हेतुना शब्दार्थचिन्तासु सा अवस्थैव नास्ति या न शिवः - इति यस्य संवित्तिः स जीवन्मुक्तः, इति | शब्दोऽर्थप्रत्यायकः पदसमुदायः, अर्थो जात्यादिभेदात् बहुविधम् (प्. ८८) अभिधेयं वस्तुजातं, तयोः चिन्ता तथा तथा विकल्पनाः अनन्तचिन्तनीयवस्तूपरागात् विचित्राणि ज्ञानानि, यन्मयो व्यवहारः एतासु शब्दार्थचिन्तासु सा अवस्था दशा न काचित्, शब्दचिन्तारूपा अर्थचिन्तारूपा वा संभवति, या शिव एव साक्षात् न भवति | यत एवं तदा भोक्ता अनुभवितैव ईश्वरः सदा नित्यं सर्वत्र सर्वासु अवस्थासु भोग्यभावेन अनुभवनीयवस्त्वात्मना स्थितो न पृथक् किंचित् भोग्यं नामास्ति, तत्त्वानवमर्शमात्रविजृम्भितम् एतत् भोक्तृभोग्यविभागरूपम् | केन हेतुना न सावस्था न या शिवः ? इत्याह, - यस्मात् जीवः आत्मा सर्वमयो विश्वरूपः परस्परव्यतिरिक्तप्रतिपत्तिः, जीवस्यापि यो व्यवहारः सोऽपि वेद्यवेदकाभेदपूर्वकतयैव उपपन्न - इत्यर्थः, कुत एतत् ? तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः सर्वभावसमुद्भवात् सर्वमयो जीवः तस्य कस्यचित् संवेद्यस्य घटसुखादेः यत् संवेदनं ज्ञानं, तस्य यत् रूपं स्वभावः, तेन हेतुना या तादात्म्यप्रतिपत्तिः तदभेदसंवित्, ततो हेतोः निर्वर्तमानो यः सर्वभावसमुद्भवः सर्वेषां भावानां उत्पत्तिः, तस्मात् सर्वमयो जीवः | किमुक्तं भवति - जीवस्यैव व्यवहारो विचार्यमाणोऽयं वस्तुयाथात्म्यमुपपादयति | तथाहि - अयं स्वविषयं संविदन्नेव समुद्भावयति सृजति, संवेद्यमानमेव हि वस्तु स्वरूपं लभते, न तु असंवेद्यमानं; संवेद्यमानता च तेन तेन रूपेण प्रकाशमानता; प्रकाशमानत्वं च प्रकाशादव्यतिरिक्तं, नान्यत् किंचित् | यदाह न्यायवादी चेतनाच्चापि वेद्यत्वादतद्रूपाप्रवेदनात् | इति | एवं च यत् यत् अयं जीवः संवेत्ति तत्तदस्य शरीरमेव संपद्यते, न तु नियतशिरःपाण्याद्यवयवसंनिवेश (प्. ९०) एव, सोऽपि हि अस्य संवेद्यमानतावस्थायामेव शरीरीभवति, अन्यदा तु व्यतिरिक्तो विषय एव | तथा च - संवेद्यमानत्वसामान्यात् द्विविधं शरीरमस्याम्नातं तत्त्वविद्भिः, भूतात्मकं भावात्मकं च; तत्र मायाशक्तिवैभवविस्मारिततात्त्टा | अत एव दिगादिकलनया अकलितं चिन्मात्रं वपुः इति प्रथमपादेन शक्तिमान् परामृष्टः | शेषेण स्पन्दशब्दस्य सार्थकतां प्रकटयितुं शक्तिमदभिव्यञ्जिका तत्समवायिनी ब्रह्माह्लादादिपर्याया शाक्तविजृम्भणा परामृश्यते | जयति - पदाभिधेयं सर्वौत्कर्ष्यशालित्वं शाक्ततत्त्वस्य अवगम्यते | ततश्च तत्समावेशरसपरिभोगविगाहनवतां भक्तिभाजां भुक्तिमुक्तिसंपत्तिपात्रता विश्वाभिलषणीयता च ध्वन्यते |] | (प्. २) तज्ज्ञैरदर्शितदिशः स्वयमाविशन्तः केचिन्निसर्गगहनं विषमं भ्रमन्तु | तेनैव यत्पुनरमी हतवर्त्मनान्यान् आकारयन्ति गमनाय महान्भ्रमोऽयम् || २ || [(fओओत्नोते २) विज्ञजनोपदिष्टसत्संप्रदायमन्तरेण निसर्गगम्भीरं शैवागमाब्धिमवगाहमानानां वामाख्यशक्तिसंवृतसंविदां स्वोपज्ञतया संभावनावतां, वस्तुतो विना पारतीरलाभं मध्ये निमग्नप्रायतैव | तदीयदुष्पथे तु भ्रमिमनुभवतां तदनुगानां या पारदर्शनाय तच्चोदना, हन्त तत् चक्षुरुन्मेषमन्धकूपनिपतनम् | अतः तादृशजनान् पारं लङ्घयितुमयं मदीयो यत्नः इति |] नानावादानिलौघाननवसरकृतान्योन्यसंघट्टघोरो- द्धातानापादयद्भिः श्रवणविदलनोद्दामशब्दप्रबन्धान् | शास्त्राब्धिः क्षोभ्यते यैर्विवरणरभसादुद्यदावर्तधीम- भ्रान्तिभ्रष्टागमार्थप्लवविधुरमतिस्तारितोऽर्थी जनस्तैः || ३ || कश्चिद्भिन्नरुचिर्विदन्नपि परं तत्त्वं विपर्यस्यति द्वेषध्वान्तविरुद्धबुद्धिरितरो जात्यैव चान्यो जडः | इत्थं दुर्लभ एव सर्वहृदयग्राही गिरां संग्रहः किंत्वेतेऽद्य विवेकिनः कतिपये सन्त्यत्र पात्रं सताम् || ४ || (प्. ३) केनापि ग्रथितां प्रसारणधिया कैश्चिद्द्विसूत्रीकृता- मेकीकृत्य यथागमं विरचितां स्पन्दार्थसूत्रावलीम् | ईशानुग्रहशक्तिवज्रशिखया विद्धेषु विद्वन्मनो- माणिक्येषु निवेशयाम्यहमिमां कर्तुं कृतार्थां द्वयीम् || ५ || [(fओओत्नोते ३) प्रथमं श्रीवसुगुप्तपादैः सूत्रावलिः दृब्धा | तदनु भट्टश्रीकल्लटादिभिः सिद्धैः संवृतार्थविवृत्या प्रगुणीकृता | अधुना तु सूत्रसंदर्भण - प्रगुणीकरणात्म पूर्वसिद्धं कार्यद्वयं सफलीकर्तुं सैव इयं स्पन्दार्थसूत्रावली, एकीकृत्य संयोज्य, वृत्तिसंवादितार्थविवरणं क्रोडीकृत्य च, आगमाम्नातपरमार्थनिर्णीत्या विशिष्टरचनया उपेता, पराशक्तिपाताख्यचुम्बकमणिशिखया अनुविद्वासु सहृदयानां विमलमनोरत्नजातिषु निगुम्फ्यते | यत्परिमलसौभाग्यादिचर्चनया सुधामयस्वामिप्रासादमध्यारुह्य निरतिशयसुखानुभूतिरनर्गलविकचितवृत्त्या सुरस्यते इति |] यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ | तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः (क्: नुम) || १ || वृति: (प्. २) अनेन स्वस्वभावस्यैव शिवात्मकस्य संकल्पमात्रेण जगदुत्पत्तिसंहारयोः कारणत्वं विज्ञानदेहात्मकस्य शक्तिचक्रैश्वर्यस्योत्पत्तिहेतुत्वं नमस्कारद्वारेण प्रतिपाद्यते || टिप्पणी: श्रीशिवाद्वैतसद्भावसंभूत्यै भवतात्सदा | पर्यायः संगृहीतोऽयं स्पन्दवृत्त्यर्थद्योतकः || यथा हि संकल्पोत्पिपादयिषापूर्वकोटाविष्यमाणं वस्तु एषितुरविभिन्नम्, एवमत्र शिवावस्थायां निरवध्यवभास - विच्छित्तिचित्रं सद्विकस्वभावतया वस्तुसंवेदनावसरे स्वरूपापरामर्शत्वमुकुलितसामर्थ्योऽयं जीवः अवच्छिन्नाहंकारास्पदतया शिरः - पाण्यादिमच्छरीरत्वेन यत् परामृशति तत् अस्य सृष्ट्यादिमयत्वात् भूतात्मकम् - इत्युक्तम् | यत्तु व्यतिरिक्तं शब्दादिविषयत्वेन परामृशति तद्भावात्मकं | परमार्थे तु विचार्यमाणे द्वयमप्यस्य शरीरं संवेद्यमानत्वाविशेषात् | एवं संवेद्यमानतालक्षणभावसंसर्गावस्थायां जीवः संवेद्यवस्त्वव्यतिरेकात् सर्वमयो विश्वरूपः स्थितोऽपि सन् तथावस्तुसंवेदनतत्त्वपरामर्शानुन्मेषात् सर्वमिदम् आत्मव्यतिरिक्तकारणान्तरलब्धात्मकत्वेन आत्मनः परस्परतश्च पृथक्त्वेन व्यवच्छिन्दन्, (प्. ९१) आत्मानं च देहाद्यनित्यभावाहंभावेन अध्यवस्यन् जन्मादिबन्धभाक् संसारी जीव इति व्यपदिश्यते | यदा तु शिवदिवाकरशक्त्यंशुपातजनितप्रबोधोन्मिषितविशददृष्टि- स्फुटतरप्रकाशमानदेहादिव्यतिरिक्तसत्यात्मस्वभाव- सुस्थिताहंप्रतिपत्तिः सन् यथावस्थितवस्तुसंवेदनपरामर्शशक्तिभिर्व्यक्तिभाक् भवति, तदा स एव संकल्पमात्रविलिखितविचित्रविश्वव्यक्तिमयशक्तिचक्रः शिवः संपद्यते | तेन उक्तम् - तत्तद्वस्तुसंवेदनस्वभावबलेन या तादात्म्यप्रतिपत्तिः संवेद्यमानवस्त्वभेदसंवित्तितः सर्वभावसमुद्भवः, तस्मात् जीवः तावत् सर्वमयः; तेन च तस्य सर्वमयत्वप्रतिपत्तिलक्षणेन हेतुना सा अवस्था नास्ति या शिवमयी न भवति, ततश्च भोक्तैव ईश्वरो भोग्यभावेन ईशितव्यवस्तुरूपतया सदा सर्वत्र संस्थितः | एवं यस्य वा संवित्तिः स जीवन्मुक्त - इति वाक्यसमन्वयसंकलनार्थमेतत् (प्. ९२) पुनरुक्तम्, - इत्यनेन श्लोकत्रयेण आत्मन एव विश्वरूपत्वेन स्थितिः प्रतिपादिता, विश्वप्रपञ्चस्य निमित्तान्तरानुपपत्तेः | यथोक्तं ब्रह्मविदा कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया | स एव बुद्ध्यते भेदादिति वेदान्तनिश्चयः || इति | तथा अन्येनापि स्तुतिद्वारेणोक्तम् आशिवादिपृथिव्यन्तं भावजातमव्यतिरिक्तमास्ते, तदेवशक्तिशब्देन व्यपदेश्यं नित्याव्यभिचरदेकस्वभावे शिवे समवेतं तयोरभेदस्य अभ्युपगतत्वात् | वस्तुवस्तु परा सक्तिरेकै -व परिपूर्णाहंपरामर्शशालित्वात् अत्यद्भुतशक्तिपरिस्फुरिते पारमैश्वर्ये मायाशक्त्युद्भावितानन्तवैचित्र्या भावव्यक्त -यः अवरपरामर्शौन्मुख्यमात्रोत्पन्नेन तु भेदोपभेदभाव - मापन्नेन भावराशिना अवभासमानतया बहुव्यपदेशा शक्तिशक्तिमतोरभेदाभिप्रायप्रत्यायिका | अयं भावः - शंकरात्मनि तदिच्छयैव विश्वमुन्मीलितं लब्धस्थितिकमपि तच्छक्तिविजृंभणमात्रं, मायाशक्त्या तु नानावभासि इति तन्नुतिद्वारा तत्समापत्तिराशंस्यते || विवृति: (प्. ३) तं शंकरं - श्रेयसः कर्तारं स्तुमः - प्रशंसामः | तं कं, यस्य उन्मेष - निमेषाभ्यां - शक्तिप्रसरप्रलयाभ्यां जगतो - विश्वस्य प्रलयोदयौ - विनाशप्रादुर्भावौ | अत्र यथासंख्यं न विवक्षितमिति वक्ष्यामः | तं कीदृशं शक्तिचक्रविभवप्रभवं - (प्. ४) शक्तीनां वक्ष्यमाणस्वरूपाणां चक्रं - समूहः, स एव विभव - ऐश्वर्यं, तस्य प्रभवं - कारणम्, - इति पदसंबन्धयोजना तावत् सुबोधा | वस्तुसंगतिस्तु कथं ? - इति विचार्यम् | शंकरस्तावत् नित्यम् अव्यभिचरदेकस्वभाव एक एव पदार्थः परमार्थसन्, - इति प्रकरणस्य अस्य तात्पर्यं तथानिर्वाहात्; तस्य परस्परविरुद्दौ अनित्यौ निमेषोन्मेषात्मकौ अवस्थाविशेषौ संबन्धित्वेन कथं प्रतिपादितौ ? कर्तृप्रथया हि अनया एवं प्रतिपाद्यते - शंकर उन्मिषति निमिषति इति | एवं च अनित्यावस्थायोगित्वं नित्ये भगवति अनुपपन्नम्, तत् कथमुक्तं यस्योन्मेषनिमेषाभ्याम् इति? अत्रोच्यते | उन्मेष - निमेषशब्दाभ्यां तदुपचरितवृत्तिभ्याम् इच्छामात्रमेकं शंकरसंबन्धि प्रतिपाद्यते; स च तस्य नित्यो धर्मः स्वभावभूतः, तस्य उन्मेष - निमेषशब्दवाच्यत्वं द्वित्वं च (प्. ५) उपचारात्; यतो जगत एव परमेश्वरमायाशक्त्युद्भावितकार्यरूपत्वात् अनित्यस्य प्रलयोदयसंभवे सति, निमेषोन्मेषौ वस्तुतः संभवतः | तौ च ईश्वरेच्छामात्रनिमित्तकौ; - इति उदयात्मकोन्मेषहेतुत्वात् ईश्वरेच्छैव उन्मेषशब्देन, प्रलयात्मकनिमेषहेतुत्वात् निमेषशब्देन च उपचर्यते | यथा आयुष्कारणत्वात् आयुःशब्देन घृतम् | सा च अव्यतिरिक्ता शंकरस्य शक्तिः; तदवगम एव च आत्मैश्वर्यप्रत्यभिज्ञालक्षणसिद्धेर्हेतुः | सा च दिदृक्षयेव सर्वार्थान् (ष्प्. Kआ. ३/११) इत्यत्र वक्ष्यमाणन्यायेन सांसारिकपुरुषप्रसिद्धेच्छासादृश्यात् तदवगमोपायतया इच्छाशब्देन व्यपदिश्यते | यथा हि पुरुषस्य इच्छावस्थायाम् इष्यमाणः पदार्थः स्वरूपाव्यतिरेकेणैव अवतिष्ठते, तथा भगवतः शक्तौ अनन्तावभासविशेषचित्रं जगत् मनागपि अनुपजातविशेषात् स्वरूपात् अव्यतिरेकेणैव अवतिष्ठते | सेयं परमार्थसती शिवदशा, या एवं तद्विद्वद्भिः स्तूयते (प्. ६) सदा सृष्टिविनोदाय सदा स्थितिसुखासिने | सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः || इति | तथा ईश्वरप्रत्यभिज्ञायाम् या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता | अक्रमा?नन्तचिद्रूपः प्रमाता स महेश्वरः || इति | इत्थम् एकस्या एव पारमेश्वर्याः शक्तेः इच्छा - ज्ञान - क्रियाव्यपदेशः इदन्तोन्मिषन्मायाशक्तिजनित एव; यतः शिवदशामेकां मुक्त्वा मायाशक्तिः सर्वत्र कृतपदा, यद्वशात् एकस्मिन् शिवतत्त्वे परमार्थसति सदाशिवादि - तत्त्वान्तरव्यपदेशः प्रक्रियाशास्त्रेषु | एतच्च पुरस्तात् परामृतरसापायः (ष्प्. Kआ. ३/१४) इत्यादिश्लोकव्याख्यानावसरे प्रतिपादयिष्यते | सा एवंलक्षणा पारमेश्वरी शक्तिः स्वलीलोल्लासितस्य जगतोऽवस्थाद्वयहेतुत्वात् द्वित्वेनापि च उपचरिता | तेन इदमत्र प्रथमश्लोकपूर्वार्धे तात्पर्यम्, - यस्य इच्छामात्रेण जगतः प्रलयोदयौ तं स्तुमः | तच्च यथासंख्यम् अत्र मुख्यया (प्. ७) वृत्त्या नापेक्षणीयम् उन्मेषेण उदयो, निमेषेण प्रलयः, - इति तु अर्थसंख्या समवैति | एतच्च, इच्छामात्रम् उन्मेषनिमेषौ - इत्येतावत्तात्पर्यं प्रतिपादयितुं, स्वयं वृत्तिकृता भट्टकल्लटेन व्याख्यातम् संकल्पमात्रेण............................... इति | ये तु यथासंख्यसमर्थनानुरोधात्, यस्य उन्मेषे क्रियाशक्तिप्रतिसंहारात् स्वरूपविकासे जगतः प्रलयो विनाशः, निमेषे प्रसृतक्रियाशक्तित्वात् स्वरूपसंकोचरूपे जगतः उदय उद्भवः, इति व्याचक्षाणाः, शंकरस्यैव पारमार्थिकौ उन्मेषनिमेषौ धर्मत्वेन प्रतिपादयन्ति, ते च काल्पनिकमेव अर्थं परमार्थत्वेन प्रतिपद्यमानाः तथा दर्शनस्य अस्य अन्तरं ननु प्रविष्टाः ? - इति नमस्तेभ्यः | ननु नित्याव्यभिचरदेकस्वभावस्य भगवतः शक्तिरपि तादृगेव प्रतिपादिता, तयोरभेदाभ्युपगमात् | तत् कथं व्याख्यातं शक्तीनां चक्रमिति ? अत्र ब्रूमः | ननु इदमेव तत् निरतिशयम् (प्. ८) ऐश्वर्यम् ईश्वरस्य इह विवक्षितं, यत् सर्वत्र अहम् - इति स्वरूपपरामर्शमात्राव्यभिचारेऽपि निरवधिविजृम्भमाणविचित्रावभासखचितं त्रैलोक्यालेख्यम् इदम् उल्लिखति; इत्थम् उल्लिख्यमानमपि एतत् परमार्थतः परामृश्यमानं तत्स्वभावात् मनागपि च यत् न भिद्यते | यथोक्तम् परमेश्वरता जयत्यपूर्वा तव सर्वेश यदीशितव्यशून्या | अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति || इति | अन्यत्रापि लिखते जगत्त्रितयचित्रमद्भुत- प्रतिभापरिस्फुरितशंसि ते नमः | सुसितैकसूक्ष्मनिजशक्तिवर्तिका- रचितावभासशतशोभि शंभवे || इति | एतच्च एवंविधं शांकरमैश्वर्यं तदनुग्रहग्रस्तसमस्तमायातमस्त्वप्रकाशितपरमार्थानां स्वसंवेद्यमेव सुप्रबुद्धानां महात्मनाम् | ईश्वरशक्तिपातप्रबोधितानां तु सम्यक् उपनतसद्गुरूपदेशक्रमेण (प्. ९) अभ्यस्यतां प्रत्यासन्नस्वानुभवम् | अप्रबुद्धाः पुनः अनुपदेश्या एव, इति | एतदेव इह पुरस्तात् प्रतिपादयिष्यमाणम् | तत् एवंविधे स्थिते शंकरस्य पारमैश्वर्ये या इमाः परमाद्भुतमायाशक्तिवशात् चिदचिद्भेदेन द्विविधा अपि अवान्तरभेदात् अपर्यन्ता भावव्यक्तयः, सा परमेश्वरस्य स्वरूपात् अभिन्ना शक्तिरेकैव तात्त्विकी, इदमिति परामर्शभेदमात्रजन्मना तु नानानामरूपविभक्तभावभेदेन अवभासमाना सती बहुत्वेन व्यपदिष्टा शक्तीनां चक्रम् - इति | शक्तिशब्देन च भावव्यक्तीनां व्यपदेशे परमेश्वरात् शक्तिमतो भेदाभावप्रतिपादनमेव प्रयोजनम् | एता एव विभवः ऐश्वर्यमीश्वरस्य, ताभिरेव तस्य इत्थं विभवनशीलत्वात् | यथोक्तं पारमेश्वरे शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते | शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांश्च महेश्वरः || (प्. १०) इति | एवं च स्वशक्तिभूतस्य अस्य विभवस्य असौ प्रभवः - उत्पत्तिकारणं, न तु स्वरूपव्यतिरिक्तस्य अन्यतः कुतश्चित् लब्धात्मनः; अतश्च यस्य इत्यादिना प्रथमश्लोकपूर्वार्धेन शंकरस्य जगत्कारणत्वे प्रतिपादितेऽपि, शक्तिचक्रात्मकस्वैश्वर्यभूतजगत्प्रभवत्वलक्षणविशेष- प्रत्यायनपरम् इदम् तम् इत्यादिना श्लोकापरार्धेन विशेषणं, न पुनरुक्तम् | एतदेव वृत्तिकृता व्याख्यातम् विज्ञानदेहात्मकस्य शक्तिचक्रैश्वर्यस्य उत्पत्तिहेतुत्वम् ................................................... इत्यादिना | विज्ञानदेहो - विशुद्धसंविन्मात्रमूर्तिः महेश्वरः, स आत्मा - स्वभावो यस्य शक्तिचक्रात्मन ऐश्वर्यस्य - इति हि तस्य अर्थोऽभिमतः | किं च यस्य एवंविधधर्माव्यभिचारः स परमेश्वरो व्याख्यास्यमानार्थेन शंकरशब्देन इह प्रतिपादितः | (प्. ११) स च आत्मैव नान्यः, - इति यत्तच्छब्दोपलक्षितवाक्योपनिबन्धः सूचयति; यतः श्लोकपञ्चाशत्प्रपञ्चितप्रकरणार्थपर्यालोचनया तस्यैव प्रोक्तविशेषणाव्यभिचारः पर्यवस्यति | एतदेव वृत्तिकृता दर्शितम् अनेन स्वस्वभावस्यैव शिवात्मकस्य इति व्याचक्षाणेन; स्वस्य - आत्मनः स्व - आत्मीयो भावः - स्वरूपं, स्वस्वभावः, - इति हि तस्य विग्रहोऽभिप्रेतः | तत् अस्य आद्यश्लोकस्य अयं तात्पर्यार्थः प्रकरणनिर्वाह्यवस्तुप्रतिज्ञाबन्धरूपः यत्, - परमेश्वरः इच्छामात्रेण जगतः प्रलयोदयौ विदधाति, लब्धस्थितिकमपि जगत् तच्छक्तिविभूतिरेकैव मायावशात् तु नानात्वेन अवभासते, - इति | इदमेव अर्थद्वयम् अत्र प्रकरणे विस्तार्यते उपपत्त्युपलब्धिप्रदर्शनक्रमेण | तथा च - प्रथमत एव मायावशात् स्वरूपप्रत्यवमर्शस्य अनुल्लासात्, वेद्यात् देहादेरव्यतिरेकेण प्रतिभासमानस्यैव (प्. १२) आत्मनो व्यतिरेकः प्रदर्श्यते | ततो वेद्यस्यैव जगतो वेदकात् तस्मात् उपलब्धतात्त्विकस्वभावात् शक्तिभावेन अव्यतिरिक्तत्वम्, - इति अस्मिन्नेव अर्थद्वये उपपत्त्युपलब्धी, - इति चतुर्निःष्यन्दः स्पन्दसिद्धान्तोऽनेन श्लोकेन आसूत्रितः | सिद्धान्तता च अस्य, सिद्धस्यैव - न साध्यस्य - ईश्वरतत्त्वस्य, अन्तो - निष्ठा निश्चयः, इति कृत्वा; यदि वा नानासिद्धान्तोदितस्य ज्ञान - क्रिया - योग - चर्यात्मकस्य चतुष्टयस्य एतद्विज्ञानं संस्कारकत्वात् साफल्यकारणम् इत्यस्यैव सिद्धान्तता | किं च प्रारब्धप्रकरणाविघ्नपरिसमाप्तिप्रयोजनेनापि अनेन आदिश्लोकेन संबन्धादयोऽपि सूच्यन्ते - इत्यादिशन्ति गुरवः | तच्च सर्वं शंकरं स्तुमः इत्यत एव वाक्यात् लभ्यते | यतः उपायलक्षणं श्रेयःशास्त्ररूपं मुख्यतया, उपेयलक्षणं च आत्मैश्वर्यप्रत्यभिज्ञारूपं; तदुभयमपि (प्. १३) शम् इत्यनेन पदेन उक्तम् | तस्य कर्ता शकरः इत्यन्वर्था इयं संज्ञा परमेश्वरस्य | अत एतच्छास्त्रात्मकश्रेयसः साक्षात् कर्ता परमेश्वर एव | तत्संप्रदायमिमं निबध्नद्भिः कर्तृव्यपदेशोऽधिगतः | एवम् ईश्वरशास्त्रयोः कर्तृकार्यलक्षणः संबन्धः | अभिधेयमिह शंकरस्वरूपमिति स्तुमः इति पदात् प्रतीयते | उपादेयवस्तुस्वरूपप्रतिपादनमेव स्तुत्यर्थः, - इति हि निश्चितं विपश्चिद्भिः | अतः शास्त्राभिधेययोः प्रतिपाद्य - प्रतिपादकभावलक्षणः संबन्धः | प्रयोजनं च आत्मैश्वर्यप्रत्यभिज्ञात्मकं शंकरपदादेव अवसीयते | परस्यापि हि श्रेयसः कर्तृत्वेन ईश्वर एव व्याख्यातः; - इति अभिधेय - प्रयोजनयोः उपायोपेयभावलक्षणः संबन्धः | इति व्याख्याताः संबन्धादयस्त्रयः | अभिधानमस्य शास्त्रस्य स्पन्द इति | यतः स्पन्दतत्त्वविविक्तये | (ष्प्. Kआ. १/२१) इत्यादौ इहैव व्यवहारः | स्पन्द - शब्दश्च अयं स्वस्वभावपरामर्शमात्रस्य (प्. १४) नित्यस्य शून्यताव्यतिरेचनकारणभूतस्य तावन्मात्रसंरम्भात्मनः शक्त्यपराभिधानस्य पारमेश्वरस्य धर्मस्य किंचिच्चलनात् स्पन्द इति, अर्थानुगमात् वाचकत्वेन व्यपदिष्टः | तत्प्रतिपादनहेतुत्वात् शास्त्रमपि इदं स्पन्दशब्देन अभिधीयते | विषयश्च [अत्र विषयशब्देन उपदेशविषयः अधिकारी निर्दिश्यते, शास्त्रान्तरेषु विषयशब्देनाभिधेयं विवक्षितम्, इह तु अभिधेयं व्याख्यातपूर्वम् |] अस्य विशुद्धश्रद्धाभक्तिप्रकर्षपिशुनितपरमेश्वरपरशक्तिपात- प्रोन्मील्यमानस्वभावालोकतिरस्कृतसकलसंदेहान्धकारत्वात् प्रबुद्धः सम्यगुपनतदीक्षादिसंस्कारो गुरुवचनचोदनामात्रावशेषस्वात्मैश्वर्योपलब्धिः; तादृशस्यैव इह उपदेश्यत्वेन पुरस्तात् परिगृहीतत्वात् | - इति अभिधान - विषयावपि अवगन्तव्यौ | व्याख्यातश्च अयमादिश्लोकः समस्तप्रकरणार्थोपक्षेपगर्भः || १ || ननु सुर - नर - तिर्यगादिभेदेन प्रविभक्त - तनु - करण - भुवनाभोगादेः अपरिसंख्येयावान्तरभेदभिन्नस्य (प्. १५) प्राणभृत्प्रपञ्चस्य सुख - दुःख - क्षुत्तृष्णा - जरामरणद्वन्द्वानुविद्धस्य जात्याद्यवच्छिन्नाभिमानभाजः सततं संसरतः परस्परदूरभिन्नो यः स्वभावः, स कथं समनन्तरप्रतिपादिताद्भुतैश्वर्यशंकराभेदेन प्रतिज्ञातः येन एवं व्याख्यातम् ? यस्य एवंप्रतिपादितविशेषणाव्यभिचारः, स कथं शंकरो ममैव आत्मा ? - इति अत आह यत्र स्थितमिदं सर्वं (ग्: इदं विश्वम्) कार्यं यस्माच्च निर्गतम् | तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् || २ || वृति: (प्. ३) कथं पुनः स्वस्वभावस्यैव संसारिणः शिवत्वेन निर्देशः - इति यद्युच्यते (घ्: इत्युच्यते इति यदि - शब्दहीनः पाठः |), तत् यत्र स्थितम् इदं जगत्, यस्मात् च उत्पन्नं तस्य संसार्यवस्थायामपि अनाच्छादितस्वभावत्वात् न क्वचित् निरोधः, अतः शिवत्वमुच्यते टिप्पणी: नानाविभक्तवेद्यात्मतत्त्वनिचयस्य प्रकाशनस्थितिहेतुतया कर्तृतया च य आधारकारणभूतः प्रमेयसंपर्कासहिष्णु -तया अप्रमेयोनिरवच्छिन्नमहिमचिन्मात्रैकस्वरूपः स एवेह स्वस्वभावशव्दाभिमतो, न तु जातिव्यक्त्यभिमानवतो मायापहृ - तैश्वर्यसंविदोऽणोः स्वरूपं, तस्य निरुद्धस्वभावत्वात् || २ || विवृति: (प्. १५) तस्य - अस्य वक्ष्यमाणस्य तत्त्वस्य न क्वचित् - कस्मिंश्चित् देशे काले आकारे अवस्थाविशेषे वा निरोधः - अवच्छेदः इदन्तेयत्ताव्यपदेशहेतुः वेद्यवस्तुधर्मः अस्ति - विद्यते; कुतो हेतोः ? अनावृतरूपत्वात् - जात्याद्यभिमानरूपेण (प्. १६) मलेन अनावृतम् अनाच्छादितं रूपं यस्य तत्, तथा तस्य भावः तत्त्वं तस्मात् | तस्य अनावृतत्वोपपत्तिप्रतिपादनाय विशेषणमाह यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् - इति | इदम् इति वेद्यतयावस्थितं; सर्वम् इति यत्र यत्र दर्शने यथा यथा परिकल्पितं; तत् अशेषं कार्यं कर्त्रधीनसद्भावं यत्र - यस्मिन् वेदकत्वेन कर्तृत्वेन च अवस्थिते आधेयसमस्तपदार्थसार्थसामान्याधारभूते एकस्मिन् स्थितं - तेन तेन पृथिव्यादिना घटपट - गवादिना वा रूपेण लब्धप्रतिष्ठं, यदन्तर्गतस्य सर्वस्य वस्तुनः प्रकाशमानत्वात् स्वरूपसत्तासादनमित्यर्थः | ननु सूर्यादिप्रकाशान्तर्गतं घटपटादिद्रव्यं तेन तेन रूपेण प्रकाशमानत्वात् सत्ताम् आसादयति, तथैव सर्वमिदं कार्यं यत्र स्थितम् इत्युक्तम्, उत अन्येन प्रकारेण ? इत्याह - यस्माच्च निर्गतम् इति, - प्रधानादिकारणान्तरपरिहारेण यस्मात् (प्. १७) एककर्तृभूतात् एकस्मात् कारणात् निर्गतम् उद्भूतम् | तत् अयमत्रार्थः, - यः पदार्थः सर्वस्य इदन्तापन्नतया प्रमेयभूतस्य शास्त्रेषु नानाविभागेन संगृहीतस्य तत्त्वव्रातस्य एकः प्रकाशकत्वेन स्थितिहेतुत्वात् आधारभूतः, कर्तृत्वात् च प्रभवः कारणं, स्वयं च वेद्यत्वसंस्पर्शासहिष्णुत्वात् मायीयप्रमात्रन्तराविषयभूतोऽनवच्छिन्नमहिमा निर्मलचिन्मात्रैकरूपः, स इह स्वस्वभावशब्देनाभिमतः, न तु जात्याद्यवच्छिन्नाभिमानसंकोचितात्मनो मायाशक्त्यपह्नुतस्वैश्वर्यसंविदः कार्यवर्गान्तःपातिनः प्राणिप्रबन्धस्य स्वरूपं स्वस्वभावः | - इति युक्तम् उक्तम् आत्मैव शंकर इति | तत् एतत् वृत्तिकृता कथं पुनः स्वस्वभावस्यैव संसारिणः शिवत्वेन व्यपदेशः इति आक्षिप्य यत्र स्थितम् इदं जगत्, यस्मात् च उत्पन्नम् (प्. १८) इति विवृण्वता प्रतिसमाहितम् | तस्य संसार्यवस्थायाम् इति | वृत्तिरेवं बोद्धव्या, - संसारिणां तन्मायावभासितजात्याद्यभिमाना मायीयावस्था, तस्यामपि तस्य स्वस्वभावस्य तत्त्वतो निरोधो नास्ति इति || २ || ननु योऽयं स्वभावाख्य एवंप्रतिपादितः पदार्थः, स किं केवलात् आगमाज्ञामात्रात् ओं इति अभ्युपगन्तव्यः, उत प्रगुणाभ्याम् उपपत्त्युपलब्धिभ्यां व्युत्पाद्याभ्यां प्रतिपत्तिगोचरतां नेतुं शक्यः ? - इति संशयच्छेदाय श्लोकान्तरेण उपपत्तिं यां प्रतिपादयिष्यति तदवतारणार्थम् इदं तावत् उच्यते, - सकलप्रकरणप्रतिपाद्यार्थतत्त्वलब्धप्रतिष्ठया परया प्रज्ञया स्वस्वभावस्य परामर्शावसरे रविकिरणस्पृष्टनीहारनिकरनिःसारनश्यत्स्वरूपया, संप्रति तु द्वैतमहामोहतिमिरात्मना विजृम्भमाणया मायाशक्त्या (प्. १९) आविष्टानां सर्वप्रमातॄणां पारमार्थिकात् वेदकात् स्वभावात् प्रच्युत्येव वेद्य एव देहादौ वेदकभावेन अहमिति प्रत्ययः परमदुर्भेदस्य भेदग्रन्थेर्मूलम् | ततस्तेभ्यो देहादिभ्यः तस्य अहंप्रत्ययात्मनः स्वस्वभावस्य व्यतिरेचनाय समनन्तरप्रतिज्ञातस्य सर्वथा निरोधाभावस्य उपलब्धये स्वानुभवप्रमाणाम् उपपत्तिं प्रस्तावयन् आह जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति | निवर्तते निजान्नैव स्वभावादुपलब्धृतः || ३ || वृति: (प्. ४) जाग्रदादिनापि भेदे प्रथमानेन (ख्, घ्: भेदे प्रवर्तमाने) तस्य स्वरूपम् आव्रियते, यस्मात् उपलब्धृरूपत्वं त्रिष्वपि पदेषु साधारणम्, न तस्य स्वरूपान्यथाभावः, यथा विषस्याङ्कुरादिषु (वृक्ष्स्याङ्कुरादिषु इति क्वाचित्कः पाठोऽमौलिकः |) च पञ्चसु स्कन्धेषु || टिप्पणी: आदिशब्दनिर्देशेन स्वप्नसुषुप्ताख्ये अवस्थे विज्ञेये | स्मृतिमदमूर्छादयस्तयोरेवान्तर्भूताः | तत्र यस्यां बुद्धीन्द्रियैर्बहिर्विषयान् परिग्रहीतुं विकसितकरणेश्वरीको जनः परिस्पन्दते सा जागरावस्था | यत्र बाह्यतो व्युपरतकरणचक्रस्य मनसैव सकलकरणशक्तिमता उपकल्पितविषयोपभोगपरिग्रह -णं सा स्वप्नावस्था | यत्र मनसोऽपि व्यापृत्युपरतौ सत्यां प्रोक्तोभयथाकारविषयजातासंवेदनं सा सुषुप्तावस्था | स्मृतिरनुभूतविषयासंप्रमोषः | मदः पानातिशयजत्यश्चित्त - वृत्तिसंमोहः | मूर्छा विषादादिजनितमोहात्मा इति एतासु विजृम्भमाणास्वत्रस्थासु अनुसंधानैक्यबलवत्स्वानुभवप्र - माणेन उपलब्धृतायावस्थातुरभेदः सिद्धः | तदभिन्नेति बहुव्रीहिर्बोध्यः | विवृति: (प्. १९) अतः तस्य स्वभावस्य न क्वचित् निरोधः अस्ति, यतः असौ निजात् आत्मीयात् अनुपाधेः स्वभावात् स्वरूपात् न निवर्तते नान्यथा भवति, न च्यवते इति संबन्धः | कीदृशात् स्वभावात् ? उपलब्धृतः उपलम्भकात् ज्ञातुः अनुभवितुः इत्यर्थः | कदा च न निवर्तते ? जाग्रदादिविभेदे प्रसर्पति अपि जाग्रदादिना (प्. २०) यो विभेदो व्यतिरेकः, अवस्थानाम् अन्योन्यवैलक्षण्यं, तस्मिन् प्रसर्पति विजृम्भमाणे | आदिग्रहणात् स्वप्न - सुषुप्तावस्थे गृह्येते; स्मृत्याद्यवस्थाः स्वप्नेनैव संगृहीताः, तुल्यरूपत्वात्; मदमूर्छाद्यवस्थाश्च सुषुप्तेन | तत्र जाग्रत् इति जागरावस्थैव शास्त्रेषु प्रसिद्धा, यस्यां श्रोत्रादिभिः इन्द्रियैः शब्दादीन् इन्द्रियार्थान् गृह्णन् प्रसृतशक्तिः पुरुषः परिस्पन्दते | स्वप्नः स्वापावस्था, यस्यां स्वव्यापारपरिश्रान्तः श्रोत्रादिविहारविरतावपि मनसैव असौ विषयान् परिगृह्णाति | सुषुप्तं गाढनिद्रारूपा सुखस्वापावस्था, मनोव्यापारस्यापि व्युपरमे सति यत्र व्यतिरिक्तवेद्यसंवेदनं तात्कालिकं नास्ति | स्मृत्यवस्था अनुभूतविषयासंप्रमोषात्मिका स्वप्नसदृशी, मनसैव विषयग्रहणसाम्यात् | मदः पानातिशयजः चित्तेन्द्रियवृत्तिप्रमोषरूपो विकारः | मूर्छा विषादविषादिभोजनादिजनितमोहात्मा | एवमादिवेद्यग्रहणाभावसाम्यात् सुषुप्ततुल्या (प्. २१) अन्या अपि याः काश्चनापि अवस्थाः संभवन्ति, ता एतासु एव अन्तर्भवन्ति | एतन्निमित्तके विभेदे प्रवर्तमानेऽपि, निजात् उपलब्धुः स्वभावात् असौ न निवर्तते | यदि अवस्थात्मक एव अयम् उपलब्धा स्यात्, तत् अवस्थावत् सोऽपि विभिद्येत | यावता तासां विभेदे प्रसर्पति, अयं स्वभावात् अवस्थाव्यतिरिक्तात् न निवर्तते, - इति अपिशब्दस्य अर्थः | कथम् एतत् प्रतिपद्यामहे, - यत् अवस्थातापि सन् अवस्थासु भिन्नरूपासु प्रसरन्तीष्वपि स एकस्मात् स्वभावात् न निवर्तते इति ? अत्र हेतुगर्भं विशेषणम् आह, - कीदृशि तस्मिन् प्रसर्पति ? तदभिन्ने अभिन्न एकरूपो निर्विशेषोपलब्धृत्वमात्रेण लक्षणेन युक्तः स्वस्वभावो व्यापकत्वेन स्वयम् अनुभूयमानो यत्र स तथा तस्मिन् | अवस्थाभेदेऽपि उपलब्धृलक्षणस्य अवस्थातुः अभेदः, - (प्. २२) इति सर्वस्य अत्र स्वानुभवः प्रमाणम् | तथाहि, - योऽहम् अस्वाप्सं स जागर्मि इति एकानुसंधातृसूत्रनिबद्धत्वेन स्वयम् अनुभूयमाना जागरादयोऽवस्थाः प्रसर्पन्ति | एताभ्यश्च अन्यदवस्थान्तरम् आनन्त्येऽपि संसारिणां जन्तूनां न संभवति | अतो यथा एकस्मिन् देहे अवस्थाव्यतिरिक्तरूप उपलब्धा व्यापक एकः, तथा सर्वदेहेष्वपि स एव एको व्यापकः सिद्धः; देहभेदेऽपि तस्य उपलब्धृमात्रव्यतिरिक्तलक्षणान्तराभावात् | प्रतिप्राणि पृथक्त्वेन अहमिति तु प्रत्ययो मायीयो, न तात्त्विकः | तद्व्युदासार्थमेव प्रकरणारम्भः | सोऽपि च उपलब्धृत्वमात्रम् एकं स्वलक्षणं न व्यभिचरत्येव | - इति स्वस्वभाव एव शंकर - इति सम्यक् उपपादितं स्वानुभवानपह्नविनः प्रबुद्धान् प्रति | एताभिरेव अवस्थाभिः योगशास्त्रप्रसिद्धास्वपि जागराद्यवस्थासु तस्य अभेदः प्रतिपादितो वेदितव्यः | (प्. २३) तास्वपि तस्य उपलब्धृत्वेन व्यापकतया अवस्थानात् | ताश्च संक्षेपतो लक्ष्यन्ते | - तत्र ध्येये अर्थे चेतसा झगिति प्रवृत्तिमात्रं जागरावस्था, धारणा इति क्वचित्प्रसिद्धा | तत्रैव विसदृशप्रत्ययपरिहारेण समानप्रत्ययप्रवाहैकतानतानुसंधानं स्वप्नावस्था, ध्यानम् इति याम् आहुः | क्रमेण ऐकाग्र्यातिशयात् प्रत्ययान्तरासंकीर्णसूक्ष्मध्येयाभासमात्रविशेषता चित्तस्य सवेद्यसुषुप्तावस्था, यां वितर्कविचारानन्दास्मितानुरूपानुगमलक्षणस्य संप्रज्ञातस्य समाधेः आनन्दास्मितामात्रानुगतम् अवस्थाविशेषम् आचक्षते | यस्तु विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (यो सू १/१७) इति कृतलक्षणः असंप्रज्ञातः समाधिः, तत् अपवेद्यसुषुप्तम् | सर्वासु एतासु च अनुभवितृरूपस्य व्यापकस्य एकस्य स्वभावस्य सत्ता (प्. २४) स्थितैव | यतः सालम्बने तावत् समाधौ व्यतिरिक्तवेद्यसद्भावात् लौकिकावस्थावत् वेदकस्य उपलब्धुः सत्त्वं स्फुटम् एव | यत्र तु निरालम्बनत्वात् अभावरूपत्वं तत्र तत्कालमेव वेद्यासंवेदनमात्रं, न तु वेदकस्य वेदकत्वाभावः सुषुप्तादिवत्; ततो निःसृतस्य सा अवस्था स्मर्तव्यतया वेद्यत्वम् आपन्ना व्यापकस्य सद्भावम् अभिव्यञ्जयत्येव | ये पुनः वेद्यसंवेदनसामर्थ्याभावमात्रव्यामोहिता उपलब्धारमात्मानमेव असत्यं मन्यन्ते तान् पुरस्तात् प्रतिबोधयिष्यति | एतत् सर्वं वृत्तिकृता जाग्रदादिनापि भेदे प्रवर्तमाने न तस्य स्वरूपमाव्रियते इत्यादिना ग्रन्थेन सूचयित्वा विषशक्तिदृष्टान्तेन प्रमाणीकृतम् || ३ || ननु जागरादिषु अवस्थाविशेषेषु स्वभावात् उपलब्धुः असौ न निवर्तते, स्वस्य आत्मन (प्. २५) उपलब्धुर्ज्ञानस्य भावात् स्वानुभवरूपात् एकरूपतया अवस्थानात्, - इति यत् प्रतिपादितम् तत् कथम्? यतः तासु अवस्थासु अनुभवितुः एवंविधाः प्रत्ययाः प्रादुर्भवन्ति, तत् यथा, - मनुष्योऽहं, ब्राह्मणोऽहं, देवदत्तोऽहं, युवाहं, वृद्धोऽहं, कृशोऽहं, स्थूलोऽहम्, - इत्यादयो देहालम्बनाः; सुखितोऽहं, दुःखितोऽहम्, - इत्यादयो बुद्ध्यालम्बनाः; क्षुधितोऽहं, तृषितोऽहम्, - इत्यादयः प्राणालम्बनाः | शून्यताप्रमातृप्रत्ययश्च नाहं किंचित् अवेदिषम्, - इति प्रत्यवमर्शप्रत्येयः सुषुप्ताद्यवस्थातः प्रतिबुद्धस्य शून्यालम्बनः प्रादुर्भवति | त एते देहादयः सर्व एव अनित्याः, तदालम्बनश्च अहंप्रत्ययोऽपि अनित्य एव | - इति कथमुक्तम् उपलब्धुः स्वभावात् असौ न निवर्तते ? - इत्यत आह अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः | सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्रताः स्फुटम् || ४ || वृति: स चानुस्यूत एव सर्वास्ववस्थासु, यस्मात् ऽय एव अहं सुखी स एव अहं दुःखीऽ ऽरक्तो वा प्. ५) पश्चात् स्थितऽ (क्: पृथक्स्थित; घ्: पश्चात्सित) इति अनुस्यूतत्वेन; अन्यत्र अवस्थाव्यतिरिक्ते | यदागमः ऽ................ष स्वभावः परः स्मृतः |ऽ इति टिप्पणी: संविद इति बहुवचनस्य (ज्ञानसंतान एव क्षणिकः स्वतन्त्रः स एव स्मृत्युत्प्रेक्षादिपद्धत्या दूरतरं विसार्यमाणो बहुप्रकारं शाखोपशाखोद्भिन्नोऽहंप्रतीत्यापि बुद्ध्याद्यालम्बनो नान्यस्य स्मर्तृद्रष्ट्टताभिमतस्य संबन्धितामवलम्बते) इत्येवमभिप्रायः, तथात्वे स्मृतिप्रत्यभिज्ञाद्यनुसंधानं न स्यात् असति च तस्मिन् सर्वव्यवहारोच्छेदः प्रसज्येतेत्येतत् सर्वं प्रसक्तं परिहर्तुं विशिष्यते अन्यत्रेति, सुखित्वादिप्रत्ययसंतानेन प्रवर्तमाना - वस्थानामुपलब्धरि पूर्वापरव्यवस्थाव्यापकतया सर्वप्रमातृस्वानुभवसिद्धे निर्निरोधानुसंधात्रेकाश्रयत्व - स्वभावः शंकरः सुव्यक्तः || ४ || विवृति: (प्. २६) अहं सुखी इत्यादयो याः संविदः ता अन्यत्र वर्तन्ते ततः असौ स्वभावात् एकस्मात् न निवर्तते, - इति संबन्धः | अन्तरङ्गत्वात् मुख्या बुद्ध्यालम्बनाः संविदोऽत्र निर्दिष्टाः | आदिग्रहणात् तु देहाद्यालम्बनाः संगृहीताः | ताश्च पूर्वं प्रतिपादिताः | तेन सर्वा एताः संविदः अन्यत्र यथाप्रतिपादिताभ्यः सुखादिभ्यः अवस्थाभ्यो व्यतिरिक्ते सुखाद्युपलब्धरि वर्तन्ते, सरितः सागरे इव तत्र विगलितान्योन्यभेदा ऐक्येन अवतिष्ठन्ते, तादात्म्यम् आपद्यन्ते इत्यर्थः | एतत् च स्फुटं स्वानुभवसंवेद्यत्वात् सुप्रकटमेव | अतश्च एकैव संवित् उपलब्धृरूपा अहमिति स्फुरन्ती पारमार्थिकी, मायाशक्तिजनिततथाविधस्वभावपरामर्शाभावबलात् सुखाद्यनित्यवस्तुवेदकत्वेन (प्. २७) अहं सुखी दुःखी च - इत्यादिना बुद्ध्याद्यवस्थासामानाधिकरण्यम् उपगता सती, संविद इति बहुवचनेन निर्दिष्टा | यदि पुनः सुखादिवेद्यवस्तुसंबन्धात् सुखादिवत् संविदोऽपि अहं प्रत्ययरूपाः परमार्थत एव वह्व्यः स्युः, तदा स्मृतिप्रत्यभिज्ञाद्यनुसंधानं न स्यात्; असति च तस्मिन् सर्वव्यवहारोच्छेदः प्रसक्तः; स च नेष्टः; ततः अन्यत्र इति निर्दिष्टस्य अर्थस्य विशेषणम् आह, - एताः संविदः कीदृशि अन्यत्र वर्तन्ते ? सुखाद्यवस्थानुस्यूते सर्वेषु सुखादिषु सुखदुःखमोहरूपेषु अवस्थाविशेषेषु, उत्पादविनाशधर्मकत्वात् अनित्येषु, वेद्यत्वसामान्यात् शब्दादिविषयसमानवृत्तिषु अहमिति उपलब्धात्मकेन एकेन रूपेण व्यापकतया स्थिते | यतः अहं सुखी दुःखी च इत्येवमादिषु प्रत्ययेषु उल्लसत्सु द्वौ अर्थौ स्फुरतः | एकः सुखाद्यात्मा (प्. २८) वेद्यरूपः, - स वेद्यत्वादेव घटादिवत् अनित्यत्वेन नानात्वेन च प्रतिपद्यते; अहमिति अपरो वेदकरूपः, - स च पूर्वापरावस्थाव्यापकत्वेन समस्तप्रमातृप्रसिद्धः, सकलव्यवहारहेतोः अनुसंधानस्य कर्ता, नित्य उपलब्धृमात्ररूपत्वात् एक एव प्रकाशते | तत् एवम्, - यथा जाग्रदादिना हेतुना विभेदे प्रसर्पत्यपि अयम् अभिन्नस्वलक्षण एक एव, तथा जाग्रदाद्यवस्थान्तर्गतसुखित्वादिप्रत्ययसंतानेन हेतुना विभेदे प्रवर्तमानेऽपि अभिन्नस्वलक्षण एक एव; यतः इहापि योऽहं सुखी जातः, स इदानीं दुःखी रक्तो वा स्थित - इति एकानुसंधातृनिबद्धा एव अवस्थाः प्रतीयन्ते | तस्मात् अनन्तजन्तुसंतानवर्तिभिः अशेषैः अवस्थाविशेषैः ईषदपि अनुपजनितोपलब्धृमात्रस्वभावान्यथाभावः, स्वयंसिद्धो, नित्यनिरावरणरूपत्वात् (प्. २९) सर्वत्र अनिरुद्धः, तात्त्विकः, स्वस्वभाव एव शंकर इति | तत् एतत् स च अनुस्यूत एव सर्वासु अवस्थासु इत्यादिना व्याख्याय ................................. स स्वभावः परः स्मृतः || इति सिद्धान्तीकृतं वृत्तिकृता || ४ || एवं स्वस्वभावस्य शिवत्वेन व्यपदेशो युक्त इति उपपाद्य, इदानीं तस्य संग्रहेण लक्षणम् अनुवदन् परमार्थसत्तां प्रतिपादयितुम् आह न दुःखं न सुखं यत्र न ग्राह्यो* (घ्: न ग्राह्यम्) ग्राहको न च | न चास्ति मूढभावोऽपि तदस्ति परमार्थतः || ५ || (* विवृति: ग्राह्यं) वृति: तस्य चायं स्वभावो - यत् सुखदुःखग्राह्यग्राहक - मूढतादिभावैरस्पृष्टः स एव च परमार्थतोऽस्ति (क्: परमार्थोऽस्ति) नित्यत्वात्; सुखादयः पुनः संकल्पोत्थाः क्षण - (प्. ६) भङ्गुरा आत्मस्वरूपबाह्याः शब्दादिविषयतुल्याः ; न च, सुखादिस्वरूपो यदा नासौ तदा पाषाणप्रख्य एव || ५ || टिप्पणी: सुखादिरूपताप्रतिषेधेन वाह्याभ्यन्तरतया द्विविधवेद्यता प्रतिषिध्यते | ग्राहकशब्देन देहादिमायीयप्रमातृभावप्रति -क्षेपः | वेद्यवेदनासंचेतनावस्थापि उत्तरकालं प्रत्यव - मृश्यमानत्वात् वेद्यभूमिमाश्रितैव इति ज्ञानगोचरप्रमेय - वस्तुत्वनिषेधात् अभावमात्रं प्रतिक्षेप्तुमाह तदस्तीति | सदोदिताविलुप्तोपलब्ध्रेकस्वभावं तत् वेद्यवेदकयोरन्योन्यं विप्रकृष्टस्वभावत्वात्, वेद्यमसत्यस्वभावं क्षणभङ्गुरं, वेदितैव परमार्थसन् इति प्रतिपाद्यते |] || ५ || विवृति: (प्. २९) तत् वक्ष्यमाणविशेषणं वस्तु स्वस्वभावशब्दवाच्यं परमार्थतः तत्त्वतः अस्ति, तद्व्यतिरिक्तं सर्वम् असत्यसद्भावम् इत्यर्थः | किं तत् ? यत्र न दुःखं, न सुखं, न च ग्राह्यं, न ग्राहको, न मूढभावोऽपि अस्ति | अनेन सुखादिरूपताप्रतिषेधेन वेद्यत्वम् अस्य प्रतिषिध्यते | द्विविधं (प्. ३०) हि वेद्यम्, - बाह्यम् आभ्यन्तरं च | तत्र आभ्यन्तरं सुखादि अन्तःकरणवेद्यत्वात्; तत् यत्र नास्ति, प्रतिपादितविविक्तवेदकैकस्वभावत्वात् तस्य | बाह्यं तु शब्दादि वेद्यं, तत् ग्राह्यशब्देन निर्दिष्टं, श्रोत्रादिबाह्येन्द्रियगृहीतं हि तत् अन्तःकरणेन सुखाद्यात्मकं वेद्यते; तदपि यत्र नास्ति | न हि तस्य रूपं शब्दादिविषयात्मकत्वेन ग्राह्यताम् आपद्यते | ग्राहकोऽपि मायीयः प्रमाता अत्र विवक्षितः, न तु तात्त्विक उपलब्धृमात्रस्वरूपः, तस्य एवं नित्यसत्त्वेन प्रतिपाद्यमानत्वात् | एवं मायीयो देहाद्यहंकारमयो ग्राहकोऽपि यत्र नास्ति | ग्राहकमिति तु पाठे, ग्राहकम् इन्द्रियम् इति व्याचक्षते; तदपि यत्र नास्ति | एवं ग्राह्यग्रहणस्वरूपव्यतिरिक्तं ग्रहीतृमात्रस्वभावं यत् तत्त्वं तत् अस्ति इति | ननु च एवं सति, मूढावस्थैव असौ - (प्. ३१) इति प्रतिपादितं भवति, तस्यां हि सुखादिरूपताभावः | एतत् निराकर्तुम् आह, - न चास्ति मूढभावोऽपि इति, - मूढस्य भावो मूढत्वं वेद्यवेदनसामर्थ्याभावः; सोऽपि यत्र नास्ति न विद्यते; यतः तस्यापि अवस्थान्तरे मूढोऽहमासम् - इति प्रत्यवमृश्यमानत्वात् वेद्यत्वं स्थितमेव, केवलं तत्कालमनुपलम्भः | वेद्यत्वसद्भावे च मूढावस्थायाः कथं वेदकैकस्वभाववस्तुरूपत्वं स्यात् ? यद्येवं मूढभावोऽपि तत्र नास्ति, तत्प्रतिपत्तिगोचरसमस्तवेद्यवस्तुरूपताप्रतिषेधात् अभावमात्रं तत्, - इति प्रतिपादितं स्यात् | तत्प्रतिक्षेपार्थम् आह, - तदस्ति परमार्थतः इति; - यत् एवंविशिष्टतया व्याख्यातं, तत् वस्तु परमार्थतः अस्ति, सततम् अविलुप्तोपलब्धृमात्रलक्षणस्वभावत्वात् | यत् पुनः सुखादि, तत् कल्पनामात्रलब्धात्मकं क्षणभङ्गुरं सर्वदा वेद्यमेव, वेदकैकस्वभावात् आत्म (प्. ३२) नो दूरभिन्नम् | अतो यत् यत् वेद्यभूमिकायां वर्तते, तत् सर्वम् असत्, अनित्यत्वात् | यस्तु वेदकः, स एक एव परमार्थसन् इत्यर्थः | तत् इदं तस्य चायं स्वभाव इत्यादिना ग्रन्थेन वृत्तिकृता व्याख्यातम् || ५ || इदानीम् अस्य परमार्थसत आत्मन एव शिवस्य समस्तवस्तुसंपादनस्वतन्त्रशक्तित्वप्रतिपादनपूर्वम् उपादेयतमत्वम् उपदेष्टुं युगलकमाह यतः करणवर्गोऽयं विमूढोऽमूढवत् स्वयम् | सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः || ६ || लभते, तत् प्रयत्नेन परीक्ष्यं तत्त्वमादरात् | यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा || ७ || (युगलकं) वृति: (प्. ७) यतः (ख्: यत इत्यनन्तरं ऽचैतन्यस्वभावात्ऽ इत्यप्यधिकः पाठोऽस्ति |) करणवर्गस्य अन्तश्चक्रसहितस्य विभूढस्याप्य -मूढवत् उत्पत्तिस्थितिनिरोधाः, सोऽन्येषां चैतन्यापादने समर्थः कथं निःस्वभावः || तस्मात् तत् तत्त्वं यत्नेन परीक्षितव्यं योगिना, यथास्य करणादिषु चैतन्यदाने स्वातन्त्र्यम्, तथा परपुरादिष्वपि संभाव्यते; स्वातन्त्र्यस्य स्वस्वभावभूतस्य सर्वत्राकृतृमस्याभ्यासात् यतो व्यक्तिः (क्, ग्, घ्: यदा व्यक्तिः) || ६ - ७|| टिप्पणी: उत्पत्तिः विविदिषितविषयमुखप्रेक्षित्वात्मसमुन्मिषद- वस्था | स्थितिः उपरक्तार्थचमत्कृतिविश्रान्त्यवस्था | निरोधः कृतकृत्य -तया विषयस्य स्वात्मसात्करणे स्वत्र्यापारोपरत्यात्मप्रत्यस्त -मयावस्था इत्येता यत्संपर्कबलात् त्रयोदशसंख्यानां करणानां जडतयाभिमतानामुपलभ्याः | परमार्थतत्त्व -मात्मभावेन विज्ञातं करणस्वातन्त्र्याधानवत् सर्व - साधारणार्थस्वातन्त्र्यलाभायापि अभ्यासातिशयदशापरिपाके कल्पते, तस्य स्वेच्छामात्राधीनसमस्तनिर्मातृत्वलक्षणं स्वातन्त्र्यं समावेशसंपत्तिमत्सु देहतद्दशाविशेषेषु उपादानसहकार्यादिकारणनिरपेक्षं सहजसिद्धं संसारिदशायामपि तन्महिम्नैव व्यवहारसिद्धेः, मायाव्या - मोहमात्रवशात् तु स्वात्मप्रत्यवमर्शाभावे व्यतिरिक्तकारण - सापेक्षतया वस्तुसिद्धेः पारतन्त्र्यव्यवहार इत्यत्र स्वातन्त्र्यप्रतिपादनात् उपादेयतातिशययते | || ६-७ || विवृति: (प्. ३२) तत् तत्त्वं स्वस्वभावाख्यं वस्तु परमार्थसत्त्वेन अवस्थितं प्रयत्नेन प्रकृष्टेन यत्नेन सततम् अविलुप्तेन उद्योगेन, आदरात् श्रद्धातिशयात् (प्. ३३) परीक्ष्यं सर्वासु अनुभवदशासु वक्ष्यमाणोपदेशानुसारेण क्रमेण, वेद्यवेदकलक्षणराशिद्वयविभजनपरतया, वेदकस्वरूपपरामर्शात् आत्मत्वेन स्फुटीकार्यम् | यतः तस्य इयम् अधुनैव प्रस्तुतव्याख्याना स्वतन्त्रता स्वेच्छामात्राधीनसकलकार्यकर्तृत्वरूपा सर्वत्र सर्वस्मिन् देहे दशाविशेषे वा अवस्थितस्यापि अकृत्रिमा सहजैव, न तु उपादानसहकार्यादिकारणान्तरापेक्षिणी, - यतः संसारिणामपि तत्स्वातन्त्र्यमहिम्नैव समस्तव्यवहारसंपत्तिः; मायाव्यामोहवशात् तु सत्यस्वभावपरामर्शाभावात् सर्वः संसारी परतन्त्र इव व्यवहरति सर्वक्रियासु व्यतिरिक्तकारणापेक्षसर्वार्थसिद्धिकत्वात्, - तस्मात् स्वाभाविकस्वातन्त्र्यप्राप्तये तत् तत्त्वं परीक्ष्यम्, न तु सुखदुःखमोहग्राह्यग्राहकरूपप्रतिषेधात् तत् अवस्तुभूतम् अवगन्तव्यम् इति उपदिष्टम् | इदानीम् (प्. ३४) इयम् इति निर्दिष्टां स्वतन्त्रतां प्रतिपादयितुं यच्छब्दविशिष्टं विशेषणं व्याख्यायते | - किं तत् तत्त्वं परीक्ष्यं ? यतो यस्मात् अयं करणवर्गः करणानां श्रोत्रादीनां बाह्यानां, मनःप्रभृतीनाम् आभ्यन्तराणाम् इन्द्रियाणां वर्गः त्रयोदशकरणसमूहः प्रवृत्तिस्थितिसंहृतीः लभते प्रवृत्तिः जिघृक्षितार्थोन्मुखतासमुन्मिपदवस्था, स्थितिः गृहीतार्थविश्रान्त्यवस्था, संहृतिः कृतकृत्यत्वात् बाह्यार्थपरित्यागे स्वव्यापारोपरमः प्रत्यस्तमयावस्था, एताः लभते प्राप्नोति | कीदृशः करणवर्गः ? विमूढः प्रायशो जडतयैव प्रसिद्धः | कथं लभते ? अमूढवत् चेतनवत् | एतत् उक्तं भवति - प्राकृतं जडमपि एतत् बाह्याभ्यन्तरम् इन्द्रियचक्रं प्रवृत्त्यादिचेतनव्यापारसमर्थं यत्संस्पर्शबलात् भवति, तत् तत्त्वम् आत्मत्वेन स्फुटीकृतं सत् इन्द्रियचैतन्यापादनस्वातन्त्र्यवत् सर्वविषयस्वातन्त्र्यलाभाय (प्. ३५) कल्पते एव; अतः परीक्ष्यं, येन अभ्यासदशायामेव अभिव्यज्यमाने स्वातन्त्र्ये परशरीरावेशादिक्रीडा उपपद्यते | तत् इदम् न च सुखादिरूपो यदा नासौ इत्यादिना तस्मात्तत्तत्त्वं यत्नेन परीक्षितव्यम् इत्यादिना च पृथक् व्याख्यातं वृत्तौ || ७ || ननु किमिदम् उच्यते, - तत् किंचित् तत्त्वं परीक्ष्यं यद्वशात् इन्द्रियाणि चेतनीभवन्तीति, किल एवं व्यवहारो व्यवस्थितः, - सर्वः कश्चित् चेतनः प्रमाता धर्माधर्मसंबन्धात् इच्छाख्येन गुणेन संयुज्यमानो हेये उपादेये वा विषयभूते प्रयत्नवान् भूत्वा, तेनैव इच्छाख्येन गुणेन करणवर्गं जडमेव तत्तद्विषयहानोपादानादौ प्रेरयति; स च तत्प्रेरितो जड एव दात्रादिवत् स्वकार्यं करोति | तत् कथमुक्तम्; - यतः कारणभूतात् अमूढवत् (प्. ३६) प्रवृत्त्यादि लभते इति; व्याख्यातं च, - यत्संस्पर्शबलात् एव हेतोः प्रवृत्त्यादिचेतनव्यापारसंपादनसमर्थो भवति ? - इत्याशङ्क्य यथा एष करणवर्गः चेतनीभवति तथा संसारिपुरुषस्य व्यवहारप्रदर्शनेन स्फुटीकर्तुमाह न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते | अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् || ८ || वृति: (प्. ८) न च इच्छाप्रेषणेन करणानि प्रेषयति (ग्: इच्छाप्रेरणेन करणानि प्रेरयतीत्यपि पाठान्तरं वर्तते |), अपि तु स्वस्वरूपे स्थित्वा केवलं यादृशी तस्येच्छा प्रवर्तते तथाविधमेव स बाह्यान्तरं कार्यमुत्पादयति, तेन न करणविषयमेव सामर्थ्यम्, किं तु तत्स्य सर्वत्र || ८ || टिप्पणी: अयमत्राशयः - यथा परमेश्वरः पूर्णज्ञातृत्वकर्तृत्वशक्ति -भ्यां जगन्ति प्रवृत्त्यादिव्यापारं लम्भयन् विश्वत्र ज्ञान - क्रियावत्तामधिरोहति एवमनुत्तरतद्बलसंपर्कादेव योगिनो ज्ञातृत्वादिसामथ्यैमुपजायते मायावशात् संकोचोन्मुखी - भावेन ज्ञानक्रिये शक्ती अपि अन्तर्बहिष्करणतया संकुचितीभूय प्रसृते प्रतिनिजनियतविषयेषु व्यापरितुं शक्नुतः इत्यतोऽणुरपि स्वस्वभावमध्यास्य करणचक्रप्रेरणादौ स्वतन्त्रो न तु अस्य धर्माधर्मसंबद्धेच्छाख्यगुणप्रेरणया करणचोदितदात्रादिवदुपचरितकर्तृत्वम् || ८ || विवृति: (प्. ३६) नहि न खलु इच्छानोदनस्य इच्छैव नोदनं, नुद्यते अनेन इति प्रतोदादि करणं, तस्य प्रेरकत्वेन इन्द्रियवर्गं प्रति चोदकत्वेन असौ पुरुषः संसारी प्रमाता वर्तते अवतिष्ठते | यथा कश्चित् देवदत्तादिः केनचित् करणभूतेन हस्तादिना जडं प्रतोदादि प्रेरयति, न एवम् अयम् आन्तरः पुरुषः इच्छया जडं करणवर्गं स्वविषये प्रवर्तयति; अपि तु आत्मबलस्पर्शात् आत्मनः परस्य प्रमातुः सर्वकर्तुः ईश्वरस्यैव (प्. ३७) स्वभावस्यैव यत् बलं सामर्थ्यं कारणान्तरनैरपेक्ष्येण अखिलवस्तुसंपादनशक्तता, तत्स्पर्शात् तत्संपर्कात् तत्समो भवेत् तेन आत्मशब्दोक्तेन परेण कर्त्रा तुल्यः संपद्यते | इदमत्र तात्पर्यम्, - यत्रैव स्वस्वभावे स्थित्वा आत्मशब्दप्रतिपादितः परमेश्वरो जगदिदं प्रवृत्तिस्थितिसंहृतीः यथेष्टं लम्भयितुं स्वतन्त्रः, तत्रैव स्थित्वा पुरुषोऽपि अयं संसारी करणवर्गं स्वविषये प्रवृत्त्यादि लम्भयितुं स्वतन्त्रः, तेन तत्समो भवेत् इति उक्तम् | ततो यथा ईश्वरः सर्वव्यापिकाभ्यां ज्ञानक्रियाख्याभ्यां शक्तिभ्यां, विश्वं प्रवृत्त्यादि प्रापयन् सर्वं जानाति च करोति च, तथा पुरुषः तद्बलस्पर्शादेव उपजातज्ञत्वकर्तृत्वसामर्थ्यो मायावशात् नियतविषयाभ्यां ज्ञानक्रियाशक्तिभ्यां अन्तर्बहीरूपकरणवर्गतया प्रसृताभ्यां स्वविषयं जानाति च करोति च, - इति तत्साम्यम् अस्य उक्तम् न च इच्छाप्रेरणेन करणानि प्रेरयति (प्. ३८) इत्यादि विवृतमेतत् वृत्तौ || ८ || ननु स्वव्यापारे करणवर्गं प्रवर्तयन् पुरुषः ईश्वरभूमिकासादनात् तद्वत् स्वातन्त्र्यम् आप्नोति, - इति तयोः ईश्वरपुरुषयोः अभेदः एव प्रतिपादितः स्यात्; कथं भेदनिबन्धनम् ईश्वरसाम्यं पुरुषस्य प्रतिपादितं तस्यां दशायाम् ? - इत्यत आह निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः | यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् || ९ || वृति: स चास्य आत्मबलस्पर्शः (ख्: स आत्मबल) सहजया अशुद्ध्या व्याप्तस्य कार्यमिच्छतोऽपि न भवति, किंतु यदा क्षोभः ऽअहमितिऽ (घ्: क्षोभो देहाद्यहमिति शोधितपाठः, प्रलीयते इति च पाठोऽस्ति |) प्रत्ययभावरूपोऽस्य प्रलीयेत (प्. ९) तदास्य भवति परमे पदे प्रतिष्ठानम् || ९ || टिप्पणी: सत्यपि परमेश्वरसाम्यासादनात् ईश्वरपुरुषयोरभेदे केवलं पुरुषस्य रागादिनिबन्धनमलाक्रान्ततया अनित्यपरिपूर्णतृप्तिता, यया साध्यसाधनोपार्जनेषु अशक्तत्वेन शक्तिदारिद्र्यम्, अत एव भेदनिबन्धनमीश्वरसाम्यं मायीयोपद्रवप्रलये पुनः संविदैकात्म्यमनुपचरितप्रथं सैव परमशुद्धिः |] || ९ || विवृति: (प्. ३८) सत्यम्, अस्ति अभेदः तस्याम् अवस्थायाम् अनयोः | किन्तु अयं पुरुषो निजया सहजया देहाद्यात्मप्रतिपत्तिमूलरागादिरूपया अशुद्ध्या मलेन हेतुना अभिलाषी क्षणिकसुखलवलुब्धः, तयैव च तत्साधनभूतविषयावाप्तिहेतुषु कर्तव्येषु क्रियासु असमर्थः शक्तिदरिद्रो - यतः इच्छन् अपि अभिमतं न आप्नोति - ; एवंविधस्य अस्य यदा यस्मिन् (प्. ३९) काले क्षोभः प्रतिनियतशरीराद्यालम्बनाहंप्रत्ययात्मा मायीय उपप्लवः प्रलीयेत कृत्रिमालम्बनोत्तिर्णस्वाभाविकाहंप्रत्ययप्रभाकर- प्रकाशसंपर्कात् प्रालेयपटलवत् विगलेत् विनश्येत्; तदा परमं निरुत्तरं पदं स्थानं स्यात् सद्भावेन प्रकाशेत - अभेदः आत्मपुरुषशब्दप्रतिपादितयोः परापरयोः संविदोः तस्यामेव दशायाम् उपलभ्यतया प्रथेत इत्यर्थः | तदेतत् - स्वस्वभावे प्रतिष्ठानम् इदम् (इति) अनेन श्लोकेन प्रतिपादितम् | उपपाद्यतां नाम दर्शनान्तरेषु तैस्तैः प्रकारैः अशुद्धिः अस्य पुंसः; इह तु एतावत्येव असौ, - यत् अचित्स्वरूपेषु अनित्येषु परतन्त्रेषु देहादिषु तद्विलक्षणार्थनिष्ठतया उपपन्नः अहंप्रत्ययः प्रवर्तते; तावन्मात्रनिबन्धना हि सर्वाः संसारित्वप्रतिपत्तयः; तस्मिन्नेव विगलिते स्वस्वभावाभिव्यक्तिलक्षणा परा (प्. ४०) शुद्धिरिति | यदुक्तम् जाते देहप्रत्ययद्वीपभङ्गे प्राप्तैकध्ये निर्मले बोधसिन्धौ | अव्यावर्त्यैवेन्द्रियग्राममन्त- र्विश्वात्मा त्वं नित्यमेकोऽवभासि || तथा नात्माधीनत्वेऽपि विश्वं नियोक्तुं सर्वो हस्तादीनिवेष्टे यथेष्टम् | बालो राजेवात्मशक्त्यप्रबोधात् त्वययन्तःस्थे सर्वशक्तिस्तु सर्वः || इति | तदेतत् तावत् स चास्य इत्यादिना वृत्तौ व्याख्यातम् || ९ || ननु प्रलीनदेहाद्यहंप्रत्ययलक्षणक्षोभो निर्वातनिश्चलजलधिवत् सुप्रशान्तस्थितिः आत्मैव परमपदशब्दप्रतिपादितः; तत् कथं तद्बलस्पर्शात् पुरुषः तद्विलक्षणं क्षोभात्मकमेव धर्मम् आसादयेत्, येन युक्त इन्द्रियवर्गं प्रवृत्त्यादि लम्भयन्, अहं करोमि, अहं जानामि, (प्. ४१) इति स्वविषयं प्रतिपद्यमानः क्षुभित एव भवति ? - इति अनात्मज्ञानां मतिविभ्रमभङ्गायाह तदास्याकृत्रिमो (क्: तदा स्यात्कृत्रिम) धर्मो ज्ञत्वकर्तृत्वलक्षणः | यतस्तदीप्सितं सर्वं जानाति च करोति च || १० || वृति: यतः, तस्मिन् प्रलीनक्षोभात्मके काले अकृत्रिमः सहजो ज्ञत्वकर्तृत्वभावरूपो धर्मो (ख्, घ्: धर्म इति शब्दो नास्ति |) यस्मात्, तस्मिन् एव प्राप्तयोगात्म -के काले यत् यत् ज्ञातुम् इच्छति तत् तत् जानाति च करोति च; नान्यदा संसार्यवस्थायाम् || १० || टिप्पणी: एकमेव अव्यभिचारि आत्मन उपलब्धृत्वं नाम अयुतसिद्धो गुणः स्वात्मप्रत्यवमर्शरूपः, स एव ज्ञेयकार्यविषयतया ज्ञान -क्रियाद्वैरूप्येण आम्नायते अस्यैव गुणस्य स्वमहिमविजृम्भ -णं निरुपरोधं स्वसंवेदनीयं केवलं सर्वज्ञत्वसर्वकर्तृत्वशक्तिविकासिन्युपलब्धृलक्षणे आस्पदेवि -कल्पकलङ्कोपप्लवासंपृक्ते | यस्मात् तत्र ज्ञेयकार्यप्रत्यव -मृश्येषु निर्यन्त्रणं स्वातन्त्र्यं, यत्तु संसार्यवस्थायाम -ख्यातिमुग्धतया वेद्येषु ज्ञत्वकर्तृत्वाहंमतिः सा कृत्रिमा परिमिता च नियमितस्वातन्त्र्यगतिमत्त्वात् अतो ज्ञत्वकर्तृत्वलक्षणो धर्मः स्वभाव एव न पुनः क्षुब्धावस्था | तस्मात् स्वबलसंस्पर्शात् करणचक्रप्रवर्तनादिकार्यवृत्त्या संयुज्य -मानस्य तत्साम्योपलब्धिः || १० || विवृति: (प्. ४१) तदा तस्मिन् यथोक्तक्षोभपरिक्षयोपलक्षिते काले, आत्मनः अस्य अकृत्रिमः सहजसिद्धः सततमव्यतिरिक्तो ज्ञत्वकर्तृत्वलक्षणो धर्मः गुणोऽस्त्येवेति शेषः; यतो यस्मात् अव्यभिचारिणो गुणात् कारणभूतात् सर्वम् अखिलम् ईप्सितं ज्ञेयतया कार्यतया अवाप्तुमिष्टं वस्तु, स पुरुषः तदा तस्यां दशायां सत्यस्वभावसंबन्धलक्षणयोगात्मिकायां, न तु अन्यदा - देहाद्यालम्बनाहंप्रतीतिसारसंसारिपुरुषदशायां जानाति च करोति च | किम् उक्तं भवति ? - ज्ञत्वमुपलब्धृत्वं नाम अस्यात्मनोऽव्यतिरिक्तो गुणः; स च इदन्तावसेयस्य (प्. ४२) वस्तुनो ज्ञेयतया कार्यतया च द्वैविध्यात् द्वित्वेन उपचर्यते | वस्तुत एकैव ईश्वरस्य स्वभावप्रत्यवमर्शरूपा शक्तिः; सा संवेदनरूपत्वात् ज्ञानशब्देन उच्यते, तावन्मात्रसंरम्भरूपत्वात् क्रियाशब्देन च उद्घोष्यते | स च एवंविधो धर्मः अस्य वेद्यत्वप्रतीत्युपप्लवासंस्पृष्टे वेदकैकलक्षणे स्वभावे स्थितस्य सर्वज्ञतया सर्वकर्तृतया च विजृम्भते | यत् पुनः तादृक्स्वभावप्रत्यवमर्शाभावात् वेद्य एव देहादौ वेदकप्रत्ययनिबन्धनं ज्ञत्वं कर्तृत्वं च, तत् कृत्रिमं परिमितविषयं च | तस्मात् आत्मनो ज्ञत्वकर्तृत्वलक्षणाव्यतिरिक्तधर्मता स्वभाव एव, न तु क्षोभावस्था | तादृशं च आत्मबलं स्पृशन् संसारिपुरुषः करणवर्गप्रवर्तनादिना स्वविषये ज्ञत्वकर्तृत्वाभ्यां युज्यमानस्तत्समो भवेत् - इति यत् उक्तं तदेव उपपन्नम् | तदेतत् यतस्तस्मिन्प्रलीनक्षोभात्मके काले इत्यादिना वृत्तिकृत् व्याचष्टे || १० || (प्. ४३) इत्थम् आत्मस्वरूपम् उपपत्त्या व्यवस्थाप्य तत्प्रतिपत्तिफलं प्रदर्शयितुम् आह तमधिष्ठातृभावेन स्वभावमवलोकयन् | स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः || ११ || वृति: तदेवम्, यतः सर्वानुस्यूतः सर्वसामर्थ्ययुक्तश्च आत्मस्वभावः, तस्मात् तम् अधिष्ठातृभावेन सर्वव्यापकत्वेन स्वभावं पश्यन्, विस्मयाविष्ट इव यस्तिष्ठति, तस्य कुत्सिता सृतिः सरणं न भवति || ११ || टिप्पणी: उपपत्तिव्यवस्थापितस्य शंकरस्वभावस्य अविरतकालप्रबन्ध -तया सदोदितान्तर्बहीरूपतया स्फुरदधिष्ठातृत्वं प्रत्यभिजा -नतो विस्मृतशिवस्वरूपविज्ञानात् ऽमायीयप्रमातृभावोऽसन्नेव इत्थं शुक्तिकारजतवद्भासमानःऽ इत्येवं विम्रष्टुरनुक्षणं नवनवानुत्तरातिशयचमत्काररसास्वादनेन विस्मयावस्थितिर - लौकिकी अनुभवपदवीमधिशेते यत्प्राप्तौ परिमिताहंमतिनिबन् - धनः संसरणायासक्षोभो विरम्यते इति || ११ || विवृति: (प्. ४३) तम् इति सर्वनाम्ना श्लोकदशकप्रतिपादितमात्मतत्त्वं प्रत्यवमृश्यते | तम् एवंलक्षणं स्वभावम् आत्मानम् अधिष्ठातृभावेन सर्वशरीरेषु सर्वावस्थासु सर्वदा सर्वत्र अनुभवितृमात्रेण सर्वम् आक्रम्य अवस्थितत्वात् अनन्याधिष्ठेयः अहमेव एकः स्वतन्त्रः परमेश्वरः अधिष्ठाता इत्येवंरूपतया अवलोकन् उक्तया उपपत्तिदृशा वक्ष्यमाणया च उपलब्ध्युपदेशदृशा पश्यन् प्रत्यभिजानन् स्मयमान् इव विस्मृतपरप्रमातृरूपात्मतत्त्वप्रत्यभिज्ञानात् मायीयप्रमातृस्वरूपम् असत्यमपि इत्थं प्रथमानं विमृशन् विस्मयमिव आपन्नो य आस्ते निर्विप्लवां स्थितिम् अनुभवति, तस्य एवंलक्षणस्य (प्. ४४) योगिनः इयं सुप्रसिद्धा देहाद्यहंप्रतीतिमात्रमूला कुसृतिः जन्मजरामरणादिद्वन्द्वयोगात् कुत्सिता गर्हिता सृतिः सरणं नानायोन्यन्तरभ्रमणं कुतः ? - प्रतिपादितक्षोभरूपाया अशुद्धेः हेतुभूताया अभावात् असीनस्य गतिरिव नास्त्येव इत्यर्थः | वृत्तिकृता च एवं यतः सर्वानुस्यूत एव अयमात्मा इत्यादिना व्याख्यातमेतत् || ११ || इदानीं समस्तवेद्यधर्मविरहितस्वरूपस्यात्मतत्त्वस्यो- पादेयतया प्रतिपादनादभाव एव प्राप्यतयोपदिष्टो भवति - इति मन्यमानान् प्रतिबोधयितुमाह नाभावो भाव्यतामेति न च तत्रास्त्यमूढता | यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः || १२ || वृति: (प्. ११) न तु अभावो भावनीयो, यथा अन्यैर्योगिभिः उपदिश्यते, ऽअभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् |ऽ इति | न चैतत् युक्तम्, यस्मात् नाभावे भावना युज्यते मूढावस् - थैव सा, यस्मात् उत्तरकालम् अभियोगसंस्पर्शात् (क्: अभिलाषेति; ग्: संयोगात्मा शून्येति च पाठः|) अभिलापसंयोगात् सा शून्यावस्था अतीता मम इति स्मर्यते, न च आत्मस्वभाव एषः, यस्मात् न त्वेवं चिद्रूपत्वं मूढावस्थावत् स्मर्यते, तस्य सर्वकालमनुभवितृत्वेनानुभवो नित्योदितत्वात् || १२ || टिप्पणी: वेद्यवेदनोल्लेखोच्छेदरूपे समाधौ कैश्चिदभाव इति मन्यते, न चैतत् तस्य भाव्यमानतया व्याघातात् तत्रलब्धप्रतिष्ठेन योगिना अभावसमाधेर्व्युत्थाय उत्तरकालं ऽसा दशा मयान्व -भूयतऽ इत्यनुसंधानेन तद्दशान्तरं स्मर्यमाणतां नीयते तत् स्मरणमेव तदानीमनुभवितृसत्तां विविक्तामुपलम्भयेत् इति स्मर्यमाणं वस्तु अभावरूपं स्वात्मा भवितुं नार्हति सुखादिवत् तस्य वेद्यत्वात् इति | तस्मात् समस्तवेद्यधर्मोज्झितः परस्वभाव उपादेयः || १२ || विवृति: (प्. ४४) अभावो वस्तुशून्यता भाव्यतां भावनीयत्वं समाधावालम्बनभावं नैति न गच्छति, अभावभावभावनयोः परस्परविरोधात् | भावो (प्. ४५) हि संविद्विषयतायोग्यः पदार्थो, ध्येयतया आलम्बनीभवितुमर्हति, न पुनः न किंचित् | यथा क्वचित् उपदिष्टम् अभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् || इति | भवतु वासौ ध्यातृ - ध्यान - ध्येयविकल्पोच्छेदरूपा समाध्यवस्था, यामभाव इति मन्यन्ते विस्मृतात्मानः | न च तत्र तस्मिन्नवस्थाविशेषे अमूढता मूढत्वाभावो विद्यते, यतोऽभियोगसंस्पर्शात् व्युत्थानावसरे तादृग्दशान्तरानुसंधानविषयेणाभियोगेन तत्कालप्रत्युदितेनाभिलापेन संस्पर्शात् संपर्कात् तत् दशान्तरम् आसीत् अभूदतीतम् इति निश्चयः अध्यवसायः स्यात् | किम् उक्तं भवति ? - अभावसमाधिलब्धप्रतिष्ठो योगी ततो व्युत्थितः सन् यदि तामवस्थां नानुसंदध्यात् तत् कथं लब्धप्रतिष्ठोऽस्मि - इति प्रत्ययोऽस्य स्यात् ? असति च तस्मिन् समाधिव्युत्थानयोः (प्. ४६) व्यतिरेकाग्रहणम् | तस्मात् तदानीं तादृशीं दशाम् अहम् अन्वभवम् - इति अवश्यं स्मर्यते | तच्च अतीतत्वेन स्मर्यमाणत्वादेव अनित्यं सुखादिवत् आत्मनः स्वरूपं न भवति; तस्य चिद्रूपस्य अनुभवितृत्वेन सर्वदा वर्तमानत्वात् स्मर्त्रन्तरेण स्मर्यमाणत्वं न संभवति | व्याख्यातम् एतत् वृत्तौ न त्वभावो भावनीयः, इत्यादिना || १२ || तत् स्फुटीकर्तुम् आह अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा | न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते || १३ || वृति: (प्. १२) अभावभावनालब्धभूमिकस्यापि कृत्रिमा अनित्या सा अवस्था, यथा सौषुप्ते पदे; यस्मात् चिद्रूपत्वं तु आत्मनः स्वरूपं नित्यसंनिहितम्, तदेव गुरुपदेशेन नित्यमेवानु - शीलनीयम् || १३ || टिप्पणी: अत्रैतदुच्यते - यथा मोहघना सुषुप्तावस्था तदात्वे वेद्यवेदकविभागाग्रहणमयी अभावरूपेव उपलभ्यमाना प्रबोधदशायामुदितावमर्शगोचरतामापद्य स्मर्यमाणत्वे - नानित्या | एवमभावसमाध्यवस्थापि अतीतत्वेन प्रबोधकाले विचिन्त्यत्वात् अनित्या - इत्येवं - प्रायाः समाधिविशेषाः सुषुप्ति - दशान्तर्भाव्याः, न पुनरुपेयतमस्वरूपे एवंरूपो भूत - कालाक्रान्तः स्मरणप्रत्यवमर्शः स्मर्त्रन्तरस्मार्यः, परतत्त्वस्य सदोदित विज्ञातृस्वभावतया शाश्वताविचलविद्य - मानपरमसत्त्वात् || १३ || विवृति: (प्. ४६) अत आसीत् तत् इति भूतत्वेन अभियुज्यमानत्वात् तत् अभावसमाधिसंज्ञितं वस्तु कृत्रिमं ज्ञेयं भावाभावदशायोगित्वात् कल्पनाकृतम् (प्. ४७) अनित्यं बोद्धव्यं सदा न काचिदसौ कालकला विद्यते, यस्यां सा तादृशी समाध्यवस्था नित्यत्वेन अवतिष्ठते | कथं कृत्रिमं ज्ञेयं ? - सौषुप्तपदवत् सुषुप्तमेव सौषुप्तं सुखस्वापावस्था तदेव पदं संविदधिकरणं तेन तुल्यम् | किमुक्तं भवति ? - यथा लौकिकी सुषुप्तावस्था निविडमोहात्मकत्वात् सतोऽपि वेद्यवेदकविभागस्य तत्कालम् अग्रहणे सति अभावरूपा इव सती प्रबोधकालप्रत्युदितानुसंधानविषयताम् आपाद्यमाना अतीतत्वेन स्मर्यमाणत्वात् अनित्या, तद्वत् अभावसमाध्यवस्थापि अनित्या, व्युत्थानसमये भुतत्वेन स्मर्यमाणत्वसाम्यात् | एतेन सर्वे एवंप्रायाः समाधयः सुषुप्तावस्थायामेव अन्तर्भवन्ति - इति प्रतिपादितम् न तु पुनः तत् तत्त्वम् इह उपादेयतमतया उपदिष्टं स्वस्वभावलक्षणं वस्तु एवम् अनेन उक्तप्रकारेण स्मर्यमाणत्वं प्रतिपद्यते तस्य हि नित्योदितत्वात् (प्. ४८) सदा वर्तमानत्वमेव | तदेतत् अतोऽभावभावनया समाधिलब्धभूमिकस्यापि इत्यादिना वृत्तौ विवृतम् || १३ || अथैवं नित्योदितत्वात् सदा प्रकाशमानमपि तत् तत्त्वम् अप्रत्यभिज्ञायमानत्वात् बन्धहेतुः; अतो लब्धोपदेशेन सर्वावस्थासु वेद्यवेदकरूपतत्त्वद्वयसंगृहीतविश्वप्रपञ्चविभजनपरतया वेदकांशम् अहमिति सर्ववेद्यस्वरूपोत्तिर्णमेव प्रत्यवमृशताम् आत्मीकार्यम् | - इति उपदेष्टुं तस्य तत्त्वस्य स्वमायावैभवोद्भासितं द्वैरूप्यं प्रतिपादयितुमाह अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् | कार्यताक्षयिणी तत्र कर्तृत्वं पुनरक्षयम् || १४ || वृति: (प्. १३) अवस्थायुगलम् (क्, ग्: अवस्थायुगलमिति वाक्यं नास्ति |), अवस्थाद्वयमेव कार्यकर्तृत्वसंज्ञं भोग्यभोक्तृभेदभिन्नं, तत्र यो भोग्यरूपो भेदः स उत्पद्यते नश्यति च; भोक्तृभेदस्तु (ख्: भोक्तृरूप) चिद्रूपः पुनर्नजायते, न कदाचित् विनश्यति तेन नित्यः || १४ || टिप्पणी: अवस्थाशब्देनेदमत्र उद्देश्यम् | एक एव स्वतन्त्रः परमेश्वरो विश्वत्र परमार्थतः समस्ति | स एव अनुत्तरनिर्यन्त्रणस्वात्मै -श्वर्यशक्तिविजृम्भणया निरुपादानसंभारं द्विविधं स्वात्मानमवभास्य विक्रीडति | द्वैविध्यं च कार्यकर्तृत्वा -ख्यं, येन हेयतयोपादेयतया च द्वैलक्षण्यं वस्तु संगृह्यते | तत्र कार्यावस्था परप्रकाशोपजीविनी अन्तरेण प्राशयितारमव -स्थातुमप्रभुः तदभिन्नं निजरूपमावेदयति शाक्तोल्लासमय -त्वात्, केवलं कार्यतोपाधिरचिरायैव अनुविलयी, कर्तृतावस्थितिः पुनः सदोदिताविलुप्तदृशिमात्रधर्मकत्वात् अविनाशिनी इति | तदेवं स्वमायोद्भासितविश्वोल्लासज्ञप्तिपूर्वं स्वसंवेद्यमुत्तिर्ण - तममात्मानं निदिध्यासतां सर्वावस्थासु बन्धहेतुनिवृत्तिः || १४ || विवृति: (प्. ४८) अत्र अस्मिन् इह प्रतिपादिते आत्माख्ये परस्मिन् तत्त्वे अवस्थायुगलं द्वे अवस्थे संभवतः | अनेन विविधदर्शनप्रक्रियाप्रबन्धव्यवस्थापिततत्त्वादिभेदान् [-भेदात्] अपर्यन्तमपि हेयोपादेयरूपं वस्तु लक्षणद्वययोगात् द्वित्वेनैव संगृह्य प्रतिपादितम्; आनन्त्येऽपि विश्ववैचित्र्यस्य द्वे एव तत्त्वे इत्यर्थः | एक एव तु परमार्थसन् परमेश्वर आत्मा निरुपम - निष्प्रतीघात - निरुपादाननिजैश्वर्यशक्तिबलाद् द्वित्वेन आत्मानम् अवभासयन् क्रीडति - इति प्रतिपादयितुम् अवस्थाशब्देन निर्देशः कृतः, एकमेव तत् तत्त्वं द्वित्वेन अवतिष्ठते इत्यर्थः | कीदृशम् अवस्थायुगलं ? कार्यकर्तृत्वशब्दितं कर्तृत्वेन भोक्तृत्वेन वेदकत्वेन चेतनभावेन अहम् इति एका अवस्था स्वतन्त्रा, द्वितीया तु तद्विपरीता कार्यरूपा भोग्या वेद्या जडा परतन्त्रा ताभ्यां शब्दितं कथितम् | शब्दितशब्देन अनयोः संज्ञामात्रभेदो, न वास्तवः - इति प्रतिपादितम् | ततः कार्यरूपा (प्. ५०) या इयम् अवस्था सा प्रकाशमानत्वमात्रलब्धात्मकत्वात् आत्मनः परमकारणात् कर्तृशब्देन व्यपदिष्टात् प्रकाशैकस्वभावात् न भिद्यते, यतः शक्तिचक्रात्मकस्य स्वविभवस्य प्रभवत्वेन एतत् तत्त्वं प्रागेव प्रतिपादितम् | तत्र तस्मिन् इत्थंभूते अवस्थायुगले कार्यता क्षयिणी कार्यरूपावस्था क्षणभङ्गिनी, यत् यत् इदं मुकुलिततत्त्वपरामर्शतया कार्यरूपत्वेनैव अवसीयते, तत् सर्वम् उदयव्ययसंबन्धात् प्रतिक्षणविनश्वरम् कर्तृत्वं पुनरक्षयं कर्तृरूपावस्था नित्या नित्योदितसर्वावस्थाव्यापकत्वोपलब्धृत्वमात्रधर्मकत्वात् अविनाशि | तदेवम् एकमेव कर्तारं ज्ञातारं सर्वाधिष्ठातारं सततम् आत्मत्वेन अनुसंदधानो यस्तिष्ठति तस्य बन्धानुपपतीः - इति पूर्वश्लोकेन संबन्धः | तदेतत् अवस्थाद्वयमेव इत्यादिना वृत्तौ व्याख्यातम् || १४ || (प्. ५१) ननु यत् उपलब्धृरूपं तत्त्वं तत् अक्षयमित्युक्तं; तच्च नोपपद्यत एव; अभावसमाध्यवस्थासु उपलभ्यस्वरूपाभावात्; कथं तस्याक्षयत्वम् ? - इत्याक्षेपे प्राक्प्रतिज्ञातं समाधानमाह कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते | तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते || १५ || वृति: कार्यसंपादनसामर्थ्यं बाह्यकरणव्यापाररूपं केवलं विलुप्यते, स्थगितेन्द्रियस्य तस्मिन् विलुप्ते सामर्थ्ये (प्. १४) स्वभावो मे (मे इति पदं; घ्: पुस्तकादुपन्यस्तम् |) विलुप्त इति अबुधो जानाति, न तु भावस्य विनाशोऽस्ति || १५ || टिप्पणी: वेद्योन्मुखतामवलम्ब्यैव सहजोद्यमनशक्तेर्विश्ववैचित्र्यो -ल्लेखनकारितया बहिर्विलसितुं यः प्रसरणादरः स केवलमिन्द्रिय - व्यापारविरतिदशायामनभिव्यक्ततया आत्मन्येव अवलीनः, तदव्यक्तिदशायामबुद्धस्य अयं परामर्शो यत् नाहमस्मीति स्वाभावं स मन्यते; नैतत् जानाति यत् अभावपरामर्श एव प्रत्युत तत्साक्षितया स्वात्मानं स्थिरीभावयति इति अतोऽभाव - समाध्याद्यवस्थासु तात्कालिकानुपलभ्यतया आत्मनः क्षयित्वं नैवाक्षेप्तव्यम् || १५ || विवृति: (प्. ५१) कार्ये निर्मेये वेद्ये वा वस्तुनि उन्मुखः तस्य तथासंपादने प्रवणो यः प्रयत्नः कर्तृत्वे (-त्वं) सहज उत्साहः स केवलं स एव परं कारणं व्यापारहेतुः, तस्यां दशायां कार्यस्य स्थूलरूपस्य अभावात् लुप्यते अनभिव्यक्ततया आत्मन्येव न्यग्भूयेव अवतिष्ठते | तस्मिन् प्रयत्ने तत्कालमेव लुप्ते सति अबुधः तत्त्वावबोधशून्यो विलुप्तोऽस्मि - इति प्रतिपद्यते नाहमस्मीति भावविलक्षणतया वस्तु परिच्छिन्दत एवंविधः प्रत्यय उपपन्नः; (प्. ५२) परिच्छिनत्ति चेत् कर्तृत्वेन प्रथमतरं सन्नेव असौ सिद्धः कथं निषेधस्य विषयः स्यात् ? तत् इदम् आयातम्, - यथा कश्चित् देवदत्तो गृहाद्यवस्थितः केनापि आहूतो - भो देवदत्त ? - इति, स आत्मानम् अपह्नोतुकामः प्रत्याह, - नाहमस्मीति; एवमुक्ते प्रत्युत स्थितोऽहमस्मि - इति प्रतिपादितं भवति, न त्वसंनिधानम् | तस्मात् अभावसमाध्यवस्थासु कार्याभावात् करणव्यापारविरतिमात्रेणात्माभावप्रत्ययो भ्रान्तिरेवेति | व्याख्यातमेतत् वृत्तौ कार्यसंपादनसामर्थ्यम् इत्यादिना || १५ || एनमेवार्थं विशेषयितुम् आह | न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् | तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् || १६ || वृति: न तु यः अन्तर्मुखः अन्तश्चक्रारूढस्वभाः सर्वज्ञत्वादिगुणाश्रयः तस्य विनाशः कदाचित्, (प्. १५) तस्मात् द्वितीयस्यान्यस्याभावात् तत्स्वरूपमेव व्योमवत् चिद्रूपतया सर्वत्र अनुभवति इति || १६ || टिप्पणी: एकैव पारमेश्वरी शक्तिः संकोचग्रहणोपक्रमे स्वात्मानं द्विधा अवभास्य ज्ञानक्रियायुगलोद्भावनोत्तरमत्यन्तमर्वा -चीनपदे अन्तर्बहिष्करणभावमुपाश्रयते संकोचहानदशा - परिशीलनादौ विविधीभूतं स्वं रूपं प्रत्याहृत्य सर्वतो विमलनभःप्रख्ये वितताभोगे स्वस्मिन् स्वानुभूतिपारिपूर्ण्य - चमत्कृतिमास्वदते | तत्र विभिन्नविभक्तवेद्याभावात् अन्तर्मुख - तत्त्वस्य विलोपः संभावयितुमनर्हो यो बाह्यवेद्यग्रहणा - ग्रहवद्भिः व्यामूढैः प्रतिपद्यते, अथवा चतुर्थपादस्य हेतुभावेन प्रयोगः, यस्मादुपलब्धृस्वरूपस्य विलुप्तौ विश्वमनेलमूकप्रायं स्यात् विश्वव्यवहारोऽपि व्युच्छिद्येत इति || १६ || विवृति: न तु पुनः तस्य परमार्थसतः परस्य तत्त्वस्य (प्. ५३) कदाचित् कस्याचिदपि समाध्याद्युपलक्षितायां कालकलायां लोपः स्वरूपोच्छेदः स्यात् उपपद्येत; अन्यस्य तद्व्यतिरिक्तस्य वेद्यरूपस्य अनित्यस्य वस्तुनः अनुपलम्भनात् अनुभवाभावात्, न हि वेद्यं नास्ति, वेदकोऽपि नास्ति - इति वक्तुं शक्यम् | कस्य तस्य लोपो न स्यात् ? यः अन्तर्मुखो व्यतिरिक्तबाह्यवेद्याभावात् अन्तः स्वात्मन्येव मुखं ज्ञशक्तिर्यस्य स तादृशो भाव आत्माख्यं तत्त्वं, यतः सर्वज्ञत्वगुणास्पदं सकलवेद्यवर्गवेदकतारूपस्य गुणस्य धर्मस्यास्पदम् अनन्यसाधारणम् अधिकरणम् | इदमत्र तात्पर्यम् - आत्मनो ज्ञानक्रियाभेदेन द्विविधा या शक्तिः सा पुरुषावस्थायाम् अन्तःकरणबहिषकरणव्यापारोपरमे सति, केवलस्वात्ममात्राभिमुखज्ञशक्तिमात्रत्वेनावशिष्यते; तेन अन्तर्मुखो भाव इत्युक्तम् | मुखशब्देन च शक्तेः व्यवहारो दृष्टो यथा पारमेश्वरे (प्. ५४) ..........................शैवीमुखमिहोच्यते || इत्यादौ | एवं च व्युत्थानावसरे तादृग्दशान्यथानुपपत्तिसद्भावः | स भावो बाह्यविषयाग्रहणमात्रव्यामोहैः अभाव इति तैः योगिभिः प्रतिपद्यते; न तु सततम् अविलुप्तज्ञशक्तेः तस्य भावस्य आत्मविलक्षणवस्त्वनुपलम्भात् कथंचित् लोप उपपद्यते; तदा हि असौ स्वभावमेव अमलगगनतलवत् सर्वतो व्यतिरिक्तं सर्वव्यापकं चित्मात्ररूपतया अनुभवति, केवलं मोहपरवशतया विस्मृतानुसंधायकस्वात्मरूपः तथा न प्रतिपद्यते | प्रबुद्धस्तु यथा प्रतिपद्यते तथा उपायं पुरस्तात् उपदेक्ष्यति | व्याख्यातमेतत् न तु योऽन्तर्मुखोऽन्तश्चक्रारूढ इत्यादिना वृत्तौ || १६ || इति श्री राजानकरामकृतायां विवृत्याख्यायां स्पन्दकारिकाटीकायां व्यतिरेकोपपत्तिनिर्देशो नाम प्रथमो निःष्यन्दः || १ || विवृति: (प्. ५५) अथ व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो निःष्यन्दः || एवं यथा प्रतिज्ञातं देहादिव्यतिरिक्तमात्मतत्त्वं स्वानुभवसिद्धयोपपत्त्या व्यवस्थाप्य इदानीं तदुपलब्ध्युपायोपदेशावसरे सुप्रबुद्धप्रबुद्धाप्रबुद्धभेदेन त्रिविधे लोकतन्त्रे, कस्तावत् प्रस्तुतोपदेशपात्रम् ? - इति विषयव्यवस्थापनाय आह तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी | नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु || २/१ (१७) || वृति: तस्य चिद्रूपस्य सर्वगतस्य स्वस्वभावस्य उपलब्धिः त्रिषु जाग्रदादिषु पदेषु नित्यं सुप्रबुद्धस्य भवति; तदाद्यन्ते अपरस्य प्रबुद्धस्य स्वप्नसुषुप्तादौ; जाग्रत्तुर्यौ (ख्: जाग्रत्तुर्ये आगममात्रगम्ये इति; ग्: स्वप्नसुषुप्त्यादौ जागत्तुर्ययोस्त्वागममात्रगम्या इति पाठः |) त्वागममात्रगम्यौ || १७ || टिप्पणी: सर्वोत्तीर्णचिन्मात्रविषयो विश्वमयशक्तिचक्रविषयश्च - इति उपक्रान्तनिर्वाह्यात्मकतया द्विविधोपदेशस्य प्रायशोऽप्रबुद्धविषयेऽनुपयोगितैव सुप्रबुद्धस्येव पदत्रये स्वात्मोपलब्धेरयत्नसिद्धत्वात्, प्रबुद्धस्य हि पदद्वयवर्ति साक्षिरूपं प्रबोधावस्थायां परामृशतो विश्वोत्तीर्णनिरुपरागचेतयितृमात्रस्वरूपोपलब्धिः सौषुप्तप्रत्यवमृश्या, स्वप्नावगम्या च विश्वमयनिर्माणविस्फुरणशालिनः कारणन्तरनिरपेक्षस्य सर्वकर्तृत्वधाम्नः स्वात्मन उपलब्धिरनायासं सिद्ध्यति | अप्रबुद्धः पुनर्युक्तिसहस्रैरपि उपदेश्यमानं परतत्त्वं नैव पारयति हृदयंगमीकर्तुम्, अतोऽवशिष्टपदद्वये व्यवहित्यपरिचितिभ्यां दुर्बोधस्य परतत्त्वस्योपदेशमपेक्षते इत्युपदेशविषयव्यवस्थितिः केवलं प्रबुद्धस्यैव || १७ || विवृति: तस्य यथाप्रतिपादितस्य स्वात्मन एव परमेश्वरस्य उपलब्धिः अनुभवो निर्विकल्पा प्रतिपत्तिः नित्यं सर्वदा सर्वासु अनुभवदशासु सुप्रबुद्धस्य सुष्टु प्रबुद्धस्य देहाद्यहंप्रत्ययदीर्घदुःस्वप्नमयया (प्. ५६) मोहमहानिद्रया मनागपि अनावृतसंविदः सिद्धसाध्यस्य सम्यग्दर्शिनः स्यात् उपपद्यते | कीदृशी ? सततम् अव्यवधानेन त्रिपदाव्यभिचारिणी त्रिषु जागरस्वप्नसुषुप्तेषु पदेषु संवेदनभूमिकासु अव्यभिचारिणी अविसंवादिनी कयाचिदपि अवस्थया अनभिभूतत्वात् अव्यवहितसंनिधिः | एवम् एतस्य सुप्रबुद्धस्य स्वीकृतस्वात्मैश्वर्यलक्षणपरसिद्धेरिहोपदेशविषयत्वं नास्त्येव कृतकृत्यत्वात् | अपरस्य तत्समनन्तरस्य द्वितीयस्य प्रबुद्धस्य परशक्तिपातप्रभातालोकविलुप्यमानमायातमिस्रतया समुन्मिषद्विशदविवेकचक्षुषः क्षीयमाणमोहवशात् अविजृम्भमाणमोहोत्साहसंपदः तदाद्यन्ते तेषां जागरादीनां त्रयाणां पदानाम् आदिभूतं यत् पदं जाग्रदवस्थात्मकं, तस्य अन्तभूतं यत्पदद्वयं स्वप्नसुषुप्ताख्यं, तत्र तस्य (प्. ५७) आत्मतत्त्वस्य उपलब्धिः स्यात् | वृत्तिकृदभिप्रायानुसारेण तदाद्यन्तपदस्य एवं विग्रहः कृतः यतः स्वप्नसुषुप्तादौ इति तेन एतत्पदं व्याख्यातम् | अत्र च आदिशब्देन स्वप्नसुषुप्तावस्थासंगृहीतस्मृतिमोहाद्यवस्थापरिग्रहः तस्याभिप्रेतः | एवं च व्याख्यानस्य अयमाशयः - इह द्विविध आत्मतत्त्वस्य उपलब्ध्युपदेशः उपक्रान्तो निर्वाह्यश्च; एकः सर्वव्यतिरिक्तचिन्मात्रस्वस्वरूपविषयः; अपरो विश्वात्मकतच्छक्तिचक्रविषयः | उभयरूपोपि अयमुपदेशः अस्मिन् सुषुप्तस्वप्नरूपपदद्वयेऽपि प्रबुद्धस्य प्रायशो नोपयुज्यते, पदत्रय इव सुप्रबुद्धस्य, तत्त्वोपलब्धेरप्रयत्नसिद्धत्वात्; यत एतत्पदद्वयवर्तिसंवित्प्रत्यवमर्शमात्रादेव यथाप्रतिपादितपरतत्त्वोपलब्धिः स्वयमेव तस्य उपपद्यते, (प्. ५८) तथाहि - यदा विगलितसकलवेद्यविकल्पत्वात् निष्कलां [निष्केवलां] सुषुप्तावस्थां प्रबोधदशायाम् आत्मनः परामृशति, तदा सर्वोपरागरहितस्वरूपमात्रविश्रान्तनित्याविलुप्तचेतयितृमात्र- स्वभावम् आत्मतत्त्वं स्वयमेव उपलभते | यदा च तत्तद्विभिन्नस्वकारणविरहेऽपि स्फुटतरावभासचेतनाचेतनविचित्रभावचक्रनिर्माणमयीं विनिद्रः सन् आत्मनः स्वप्नावस्थां परामृशति तदा तेनैव दृष्टान्तेन प्रबोधबलात् परमकारणस्य स्वभावस्यैव परमेश्वरस्य स्वेच्छामात्रव्यतिरिक्तकारणान्तरनिरपेक्षसर्वकर्तृतारूपं तत्त्वमुपलभते | अप्रबुद्धस्य पुनरेतत् प्रयत्नशतैरपि समर्प्यमाणं तुम्बकतोयद्रववत् नान्तः स्पर्शं करोति | तदेवम् अस्मिन् पदद्वये प्रबुद्धस्य उपलब्धिः स्यात् - इति प्रतिपाद्यते | परिशिष्टे जाग्रत्तुर्याख्ये पदद्वये (प्. ५९) सा अस्य नास्ति - इति अर्थात् उक्तं भवति | अतो जागरावस्थायां शब्दादिविषयग्रहणव्यग्रेन्द्रियव्यापारव्यवहितं, तुर्यावस्थायां च लोकोत्तरत्वात् अत्यन्तापरिचितं स्वयं दुर्लक्षं परं तत्त्वम् इति तदुपलब्धौ तत्र प्रबुद्धोऽपि उपदेशमपेक्षत एव | यत आह वृत्तिकारः जाग्रत्तुर्यौ त्वागममात्रगम्यौ इति | तस्य चिद्रूपस्य सर्वगतस्य इत्यादिना व्याख्यातवान् वृत्तिकृत् एतत् || १ || एवमुपदेशविषयं व्यवस्थाप्य इदानीं पारमेश्वरस्य तत्त्वस्य सर्वव्यतिरिक्तत्वेन सार्वरूप्येण च द्विप्रकारस्य जागरादिषु चतुर्ष्वपि पदेषु प्रविभागप्रतिपादनायाह ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः | पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः || २/२ (१८) || वृति: ज्ञानज्ञेयभेदेन द्विरूपं [द्विरूपे] जाग्रत्स्वप्नात्मके पदद्वये संवेदनम्, सुषुप्ततुर्यात्मके पदद्वये पुनश्चिद्रूपत्वेन केवलम् अनुभवः, न तु द्वितीयमन्यत्वेन उपलभ्यते || १८ || टिप्पणी: परमेश्वर एव स्वमायाशक्तिमहिम्ना विचित्रक्षेत्रज्ञभावेन प्रथमानः स्वव्यतिरेकिणी पराशक्तिं पदद्वये जाग्रत्स्वप्नाख्ये आभ्यन्तरकरणसुखादीना बहिष्करणनीलादिना च अवभास्य तत्तद्दशाव्यवहारानुद्भावयति परन्तु एतदेव शक्तेः परत्वं - यत् शिवप्रकाशमतिरोधाय अनन्तवैभवेन स्फुरणं, सुषुप्ततुर्ययोस्तु विभक्तभिन्नसंवेदनीयाभावात् स्वात्मनि समरसीभूतशक्तिरीश्वर एव प्रकाशते | भावानां स्थैर्यास्यथैर्यप्रतिपत्तिविकल्पेन प्रथमपदयोर्भेदः | अपरत्र चिन्मात्ररूपस्य उपलब्धृचमत्कृतिसद्भावासद्भावाभ्यां भेदः इति चतुर्षु पदेषु सर्वोत्तीर्णतया सार्वरूप्येण च प्रकाशविजृम्भणम् || १८ || विवृति: (प्. ६०) विभुः व्यापक ईश्वरश्चिन्मात्रमूर्तिरात्मा पदद्वये जागरस्वप्नाभिधाने परमया अत्यद्भूतरूपत्वात् सर्वातिशायिन्या शक्त्या निजेन सामर्थ्येन युतः सहितो भाति चकास्ति प्रकाशते | कीदृश्या शक्त्या ? ज्ञानज्ञेयस्वरूपिण्या ज्ञायतेऽनेन इति ज्ञानं, बाह्याभ्यन्तरं करणचक्रं ग्रहणात्मकं ज्ञप्तिमात्रं वा, ज्ञेयं ग्राह्यं शब्दादि सुखादि च विषयजातमनन्तविशेषं, तदेव रूपं विद्यते यस्याः सा तथा तया | किमुक्तं भवति ? - परमेश्वर एव स्वमायावशात् नानाक्षेत्रज्ञरूपतयावभासमानः स्वामेव अव्यतिरिक्तां परां शक्तिं ज्ञानज्ञेयभावेन अवभासयन् जागरस्वप्नदशाव्यवहारमुद्भावयति; एतदेव च अस्याः शक्तेः पारम्यम् - यत् स्वस्व वैभवस्वरूपस्य प्रकाशमानतामतिरोदधती ज्ञानज्ञेयमयानन्तरूपतया स्फुरति | भिन्ने तु अभेदाप्रथनमात्रप्राणे (प्. ६१) मायातमसि विगलितज्ञातृज्ञानज्ञेयविभागविभ्रमम् एकमेव परमार्थसत् चित्प्रकाशैकरूपं तादृक्स्वभावानुभवितृतामात्रधर्मलक्षणशक्तिकं तत्त्वमिष्यते, यत आह तदन्यत्र तु चिन्मय इति | तस्मात् उक्तरूपात् पदद्वयात् अन्यत्र अपरत्र सुषुप्ततुर्याभिधाने पदद्वये चिन्मयो विभुर्भाति चेतयत इति चित् उपलब्धृस्वभाव आत्मा ईश्वरः तन्मात्रप्रकृतिः, तयोः पदयोर्व्यतिरिक्तवेदनीयाभावात् निष्कलस्वात्ममात्रविश्रान्तशक्तिरीश्वर एव प्रकाशत इत्यर्थः | ननु जागरस्वप्नयोर्ज्ञानज्ञेयमयत्वेन, सुषुप्ततुर्ययोश्चिन्मयत्वेनैव प्रकाशनाभेदात् पदद्वयमेव, तत्कथं पदचतुष्टयम् इति ? - अत्र उच्यते, जागरस्वप्नपदार्थानां स्थैर्यास्थैर्यप्रतिपत्तिविकल्पकृतोऽस्ति भेद इति तत्पदद्वयम्; यतः ईश्वरपरिकल्पितः सर्गो जागरावस्थाया दृढत्वेन (प्. ६२) प्रतिपद्यते, स्वप्ने तु अदृढत्वेन क्षेत्रज्ञपरिकल्पित इत्यनयोः पदयोर्भेदकारणम् | सुषुप्तावस्थायां तु सदपि चिन्मात्ररूपं तत्त्वं मोहवशादहमित्युपलब्धृचमत्कारविरहात् असदिवाभाति; तस्यैव तु तत्त्वस्य परमार्थसत्तया आत्मत्वेनोपलब्धिस्तुर्यपदे; - इत्ययं सुषुप्ततुर्ययोर्भेदः | तेन चत्वार्येव पदानि विश्व - तैजस - प्राज्ञ - तुर्यादिसंज्ञाभिः शास्त्रान्तरेष्वपि प्रसिद्धानि | ज्ञानज्ञेयभेदेन द्विरूपम् इत्यादिना व्याख्यातमेतद्वृत्तौ || २ || इदानीमुक्तेन प्रकारेण प्रबुद्धस्यैव उपदेश्यत्वमुपक्रान्तं द्रढयितुम्, अप्रबुद्धानां च तत्प्रतिषेद्धुं श्लोकत्रयमाह गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततम् स्युर्ज्ञस्यापरिपन्थिनः || २/३ (१९) || वृति: (प्. १७) गुणस्पन्दस्य सत्त्वरजस्तमोरूपस्य ये निःष्यन्दाः प्रवाहाः, ते सामान्यस्पन्दमाश्रित्य प्रसृता अपि सततं ज्ञस्य विदितवेद्यस्य योगिनः स्युर्भवेयुः, भवन्त्यपरिपन्थिनः अनाच्छादकाः स्वभावस्य || १९ || टिप्पणी: पारमेश्वर्यानुग्रहशक्त्या प्रत्युत्पन्नहेयोपादेयविवेकस्य नैर्विकल्पिकां प्रतिष्ठामाश्रित्य सत्तर्कागमयुक्त्यभ्यासोत् -साहेन उच्चपदारुरुक्षां परिशीलयतो ज्ञस्य सुखिदुःखिमूढ -तादिप्रत्ययप्रवाहाः खेचर्याद्यधिष्ठिताः क्रोडीकृतविश्व -स्पन्दं परशक्तिस्फुरितं समाश्रित्यैव लब्धस्वात्मप्रतिष्ठाः स्वात्मवीर्याविर्भावनात् विगलितावरणसामर्थ्याः परतत्त्वोपलम्भं विहन्तुं न शक्नुयुरिति तात्पर्यम् || १९ || अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः | पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि || २/४ (२०) || वृति: स्वल्पप्रबोधांस्तु (क्, ख्: अल्पप्रबोधानाम्) स्वस्थितेः चिद्रूपायाः स्थगनं कृत्वा, ते गुणाः पातयन्ति दुरुत्तारे अस्मिन् विषमे संसारवर्त्मनि, यतस्तदात्मकमेव नित्यमात्मानं पश्यन्ति, न तु शुद्धबुद्धस्वरूपतया || २० || टिप्पणी: अप्रभुद्धो विद्यमानमपि स्वैश्वर्यं सार्वज्ञादिगुणास्पदं स्पन्दतत्त्वमविदन् सर्वथा परतन्त्रं देहादिकमेव आत्मत्वेन स्वीकरोति | अत एव ज्ञानगुणप्रसराः परमात्मस्थितिं तिरोधाप्य यावत् प्रबोधप्राप्तिमप्रबुद्धं जन्मादिस्रोतस्यावर्तयन्त्येव - इत्यतः प्रबुद्धस्यैवोपदेश्यता निरूढद्रढिमा, अप्रबुद्धविषये विहितनिषेधेति भावार्थः || २०|| प्. १८) अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये | जाग्रदेव निजं भावं न चिरेणाधिगच्छति* (घ्: भावमचिरेणेति शोधितः पाठः |) || २/५ (२१) || (* विवृति: भावमचिरेणाधिगच्छति) वृति: अतः सततं सर्वकालं यः करोत्युद्योगं स्पन्दतत्त्वस्य स्वरूपाभिव्यक्त्यर्थं, स जाग्रदवस्थायामेव निजमात्मीयं तुर्यभोगाख्यं स्वभावम् अचिरेणैव कालेन प्राप्नोति टिप्पणि: प्रकृतश्लोकनिर्दिष्टहेतोः प्रबुद्धस्यात्मीयपरमार्थसत्तायाः अधिगमोऽनतिविलम्बेनैवेत्यर्थः || २१ || विवृति: (प्. ६३) अतः प्रस्तुतव्याख्यानश्लोकत्रयनिर्दिष्टात् हेतोः जाग्रदेव प्रबुद्ध एव निजं भावम् आत्मीयां पारमार्थिकीं सत्ताम् अचिरेण अल्पीयसा कालेन अधिगच्छति सम्यग् उपलब्ध्या स्वीकरोति | एवकारेणाप्रबुद्धं व्यवच्छिनत्ति | कीदृशः सन्नधिगच्छति ? - स्पन्दतत्त्वविविक्तये सततमुद्युक्तः स्पन्दस्य, परस्य शाक्तस्य तत्त्वस्य उपचरितसामान्यविशेषात्मकतया द्विप्रकारत्वेन व्याख्यास्यमानस्य, यत्तत्त्वं परमार्थः यथाक्रममुपादेयतया हेयतया च निश्चितं रूपं, तस्य विविक्तये विवेकाय पृथक्करणाय, एष उपादेयतमः (प्. ६४) परमकारणभूतस्य सत्यस्य आत्मस्वरूपस्य - अयमहमस्मि, अतः सर्वं प्रभवति, अत्रैव च प्रलीयते - इति प्रत्यवमर्शात्मको निजो धर्मः सामान्यस्पन्दः; तथैते अत्यन्तहेया विशेषस्पन्दा अनात्मभूतेषु देहादिषु आत्माभिमानमुद्भावयन्तः परस्परभिन्नमायीयप्रमातृविषयाः - सुखितोऽहं दुःखितोऽहम् - इत्यादयो गुणमयाः प्रत्ययप्रवाहाः संसारहेतवः; - इति विभागाय सततं सर्वासु अवस्थासु अव्यवधानेन उद्युक्तः उक्तवक्ष्यमाणोपपत्त्युपलब्ध्युपायप्रतिपत्त्यभिव्यज्यमान - स्वबलवृंहणत्वात् अव्याहतोत्साहाध्यासितः [अव्याहतोत्साहमध्यवसितः] | एतेन प्रबुद्ध एव उपायपरिशीलनैकतानः सन् अचिरेण स्वरूपमुपलभते नान्यः, - इति प्रतिपादितम् | कुतो हेतोः स एवाधिगच्छति नान्यः ? इत्याह - गुणादिस्पन्दनिःष्यन्दा इत्यादि यतो गुणादिस्पन्दनिःष्यन्दा ज्ञस्यापरिपन्थिनः स्युः इति संबन्धः | स्पन्दानां क्षेत्रज्ञज्ञानादिशक्तीनां, (प्. ६५) निःष्यन्दा नानार्थौन्मुख्येन प्रसृताः प्रवाहा भिन्नाः प्रत्ययाः स्पन्दनिःष्यन्दाः गुणा आदयः प्रथमे प्रधानं येषां ते गुणादयः, सुखाद्यात्मकत्वेन सत्त्वादिमयाः गुणादयश्च ते स्पन्दनिःष्यन्दा, - अहं सुखी, दुःखी, मूढः - इत्यादयो ज्ञानभेदाः | किंरूपाः ? सामान्यस्पन्दसंश्रयात् लब्धात्मलाभाः सामान्यस्य सर्वव्यापकस्यान्तर्लीनानन्तविशेषस्पन्दस्य परस्य शक्तिस्फुरितस्य संश्रयात् सम्यक् अनन्यशरणतया श्रयणाद् भजनाद्धेतोः लब्धात्मलाभाः लब्ध आसादितः तेन तेन भिन्नेनाकारेण आत्मनः स्वस्वरूपस्य लाभ उदयो यैस्ते तथाविधा गुणादिस्पन्दनिःष्यन्दाः ज्ञस्य परमेश्वरानुग्रहोणोदितहेयोपादेयप्रत्ययप्रमातृभावस्य [परमेश्वरानुग्रहोदित-], सामान्यस्पन्द एव परमेश्वरमुख्यशक्तित्वेन (प्. ६६) प्रतिष्ठितनिर्विकल्पप्रतिपत्तेः सुखाद्युपाध्युपरागजनितान्योन्यभिन्नरूपेभ्यो विशेषस्पन्देभ्यो व्यावृत्तस्वशक्त्यभिमानस्य उक्तवक्ष्यमाणयुक्त्यभ्यासनित्योद्योगेन विजिगीषमाणस्य अपरिपन्थिनः स्युः स्वबलाविर्भावात् प्रतिहतस्वभावावरणसामर्थ्याः सन्तः अप्रतिद्वन्द्विनः संपद्येरन्, परतत्त्वोपलब्ध्युत्साहं निहन्तुं न प्रभवेयुरिति यावत् | इदमत्र तात्पर्यम् - ये केचन यस्य कस्यचिन्मायीयस्य प्रमातुः सुखाद्यात्मकत्वात् गुणमयाः स्पन्दनिःष्यन्दाः प्रत्ययसंधानाः प्रसरन्ति ते सर्वे एकमेव सामान्यस्पन्दमाश्रित्य तं तमात्मानं प्रतिलभन्ते; प्रबुद्ध एव तु तदुदयाभिज्ञप्रज्ञापात्रम्; अतस्तस्य नित्योद्योगिनः सतः एते प्रयोगिनो भवितुं न प्रभवन्ति | ये (प्. ६७) त्वप्रबुद्धाः तैरेते दुर्निवारप्रसराः, इत्याह - अप्रबुद्धधियस्तु इत्यादि, - अप्रबुद्धा पारमेश्वरपरानुग्रहविरहादविगलितगाढाज्ञाननिद्रा धीः प्रज्ञा येषां ते तथा, तान् पुनरमी यथाव्याख्याता गुणादिस्पन्दनिःष्यन्दा घोरे विभीषिकाशतसंकुलत्वाद् दारुणे, अत एव दुरुत्तारे दुर्लङ्घ्ये संसारवर्त्मनि जन्मादिप्रबन्धमार्गे पातयन्ति तत्रानवरतं भ्रामयन्ति | कीदृशाः सन्तः | - स्वस्थितिस्थगनोद्यताः स्वस्मिन् परमात्मनि सामान्यस्पन्दमात्रकर्मके स्थितिर्निर्विकल्पप्रतिपत्तिप्रभवा सुस्थिरा प्रतिष्ठा तस्याः स्थगने सद्य एव आच्छादने उद्यता गृहीतोद्योगाः प्रतिपक्षभूतस्य प्रबोधस्याभावात् लब्धप्रसरत्वादेवमुपचरिताः | किम् उक्तं भवति ? - यथा कांश्चिद् राजादीन् (प्. ६८) प्रमादित्वाद्यवस्थासत्त्वात् सदपि सैन्यादिस्वसामर्थ्यं सत्त्वेनाप्रतिपद्यमानान् अन्तरप्रेक्षिणो विपक्षाः स्वपदव्यपरोपणबद्धाभियोगा महति व्यसने पातयन्ति, आ स्वसामर्थ्यसद्भावप्रतिपत्तेः | एवमप्रबुद्धस्य सर्वकर्तृत्वादिलक्षणं निजं महिमानं सामान्यस्पन्दरूपं विद्यमानमपि अप्रतिबुद्ध्यमानस्य सर्वकार्यपरतन्त्रं देहादिसर्गमेवात्मत्वेनावगच्छत एते लब्धप्रसराः सुखितोऽहम् इत्यादयो गुणप्रधानाः प्रत्ययप्रवाहाः सत्ये स्वात्मनि स्थितिं व्यवधाय संसारमेवासादयन्ति, आ प्रबोधप्राप्तेः, - इति प्रबुद्धा एवास्योपदेशस्य विषया नाप्रबुद्धाः | तेषां हि कथंचिद् गृहीतमप्युपदेशवचनं निश्चायकप्रतिपत्तिशिथिलप्रज्ञत्वान्नान्तर्विश्राम्यति | यथोक्तं केनापि ज्ञेयत्वमप्युपगता हृदये न रोढुं शक्ताः प्रमूढमनसामुपदेशवाचः | आर्द्रत्वमादधति किं नलिनीदलानां श्लिष्टा निरन्तरतयापि नभोऽम्बुधाराः || (प्. ६९) इति | तत्र जाग्रदवस्थायामेव इति वृत्तिग्रन्थः, प्रकृतानुसारेण प्रबुद्धावस्थायाम्, - इति बोद्धव्यम् | यदि वा सततोद्युक्तपदेन प्रबुद्धस्वीकारे सति सततोद्युक्तः प्रबुद्धो वक्ष्यमाणोपदेशक्रमेण जाग्रदवस्थायां व्यवहारदशायामेव निजं भावमधिगच्छति, - इति व्याख्येयम् | व्याख्यातमेतत् श्लोकत्रयं वृत्तौ विभागेन अतः सततं सर्वकालं यः करोति इत्यादिना | तथा गुणस्पन्दस्य सत्त्वरजस्तमोरूपस्य इत्यादिना | तथा स्वल्पबोधांस्तु इत्यादिना ग्रन्थेन || ३ || ४ || ५ || एवं प्रबुद्धस्यैव जागरतुर्यपदयोरुपदेश्यत्वे व्यवस्थापिते सर्वशरीरिसाधारणजाग्रद्वृत्त्यन्तरलीनामेव तावत्परतत्त्वोपलब्धिमुपदेष्टुमाह अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् | धावन् वा यत्पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः || २/६ (२२) || वृति: तस्य च स्पन्दतत्त्वस्य अतिक्रुद्धे प्रहृष्टे धावमाने (प्. १९) च किं करोमि, - इत्येवं चिन्ताविष्टे यदा शक्तिप्रत्यस्तमयः, तदा स्पन्दतत्त्वस्य स्फुट एवोदयो गुरूपदेशात् अधिगन्तव्यः || २२ || टिप्पणी: तीव्रतरोपद्रवद्विषद्दर्शनादौ मृतप्रत्युज्जीवितप्रियासंग -मादौ बलवदभियुक्ततायां च तत्प्रतीकारकिंकर्तव्यता -विचारणेऽपि निरालम्बनचित्तवृत्तितया तत्तद्धर्षादिव्यञ्जकवस् -तूत्पत्तेः प्रागेव समुद्भूतमात्रस्थायिभावस्य प्रतिष्ठित -स्पन्दस्योपलब्धिः | एवं कर्मेन्द्रियव्यापृतिविशेषेऽपि ऐश्वर -रूपसमावेशः || २२ || विवृति: (प्. ७०) सामान्यविशेषभेदेन प्रतिष्ठिताप्रतिष्ठितरूपत्वात् स्पन्दस्य द्वैविध्ये स्थिते, उपादेयः प्रतिष्ठितः स्पन्दः तत्र पदे उपलभ्यते इति संबन्धः | यः प्रतिष्ठितश्चलत्वव्यपदेशहेतुसुखित्वाद्यनित्यविशेषस्पन्दाविषयत्व् आदप्रकम्पस्थितिः [-हेतुः सुखित्वाद्य-] स्वभावमात्राधारः सामान्यरूपो मुख्यः स्पन्दः प्रत्यस्तमितसमस्तविशेषशक्तिचक्रपरमात्मधर्मः, स तत्र तस्मिन् अधुनैव निर्दिश्यमाने पदे उपलक्षणीयः | कस्मिन् ? यत्पदम् अतिक्रुद्धो गच्छेत् प्रत्यग्रक्षत - दारुणोपद्रव - द्विषद्दर्शनादिना तीव्रतरकोपाविष्टः तज्जन्यविकारावस्थायाः प्रागेव झटिति जातमात्रक्रोधो यत्पदं यां भूमिकां गच्छेत् मनसा आसादयेत्; तथा अतिप्रहृष्टो यत्पदं गच्छेत् मृत्प्रत्युत्थितप्राणसमप्रमदादिदर्शनादिना प्रहृष्टः प्रकृष्टेन परमेणातिशयेन हृष्टः प्रमुदित आनन्दनिर्भरः, तथैव उत्पन्नमात्रहर्षो यत्पदं गच्छेत्; तथा किं करोमि इति (प्. ७१) मृशन् यत् पदं गच्छेत्; क्रुद्धेन राज्ञा रिपुणा वा बलवताभियुक्तस्तत्प्रतीकाराय कर्तव्यनिश्चयमलभमानः केवलं किं करोमि किमुपायमत्रावलम्बेय - इति प्रतिपत्तिमूढ एव मृशन् विकल्पयन् निरालम्बनचित्तवृत्तिर्यां भूमिकामधितिष्ठेत् तत्र प्रतिष्ठितस्पन्दोपलब्धिरित्यर्थः एतेन प्रकारत्रयेण दुःख - सुख - मोहात्मविषयग्रहणरूपान्तःकरणव्यापारमयजाग्रद- वस्थाविषयेण एवंविधानि प्रकारान्तराणि संगृहीतानि वेदितव्यानि | तेन अतिक्रुद्धवत् अशङ्कितेष्टजनविनाशश्रवणादिना कारणेन अतिशोकाविष्टोऽपि शोकव्यञ्जकास्रुप्रलयादिविकृतेः प्रागेव समुन्मिषितमात्रशोको यत्पदं गच्छेत्; तथा अकस्मात् कुपितकृष्णोरगव्याघ्रादिग्रासगोचरगमनादिना निमित्तेन अतिभीतः तथैव सद्यः समुद्भूतमात्रभयो यत्पदं गच्छेत्; तथात्यन्तजुगुप्सास्पद (प्. ७२) पदार्थदर्शनादिहेतुना जातमात्रजुगुप्सो यत्पदं गच्छेत्, तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः, - इत्युपदिष्टं भवति; क्रोध - शोक - भय - जुगुप्साभेदेन चतुर्विधस्य दुःखराशेः अतिक्रुद्धशब्देन उपलक्षितत्वात् | तथा प्रहृष्टवन्निजवीर्यबलसंपत्तिसंभावनादिहेतुना सुदुष्करमपि कार्यं निर्वर्तयितुं निर्विकल्पमेव उत्सहमानो झटिति यत्पदं गच्छेत्; तथैव अदृष्टपूर्वपरमरमणीयादिपदार्थदर्शनादिना सपदि अतिविस्मयाविष्टो यत्पदं गच्छेत्; तथा कुहनादिना कारणेन उत्पन्नमात्रातिहासो यत्पदं गच्छेत्, तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः, - इत्युपदिष्टं भवति; हर्षोत्साह - विस्मय - हासभेदेन चतूरूपसुखराशेरतिप्रहृष्टशब्देनोपलक्षितत्वात् | तथा किंकर्तव्यतामूढवत् दूरत्वादिना दृष्टार्थनिश्चयावधारणाभावात् संशयाविष्टो यत्पदं गच्छेत्, तत्रापि पूर्ववदुपलब्धिः, - इत्युपदिष्टं भवति; विस्मरणादिदशासु तत्त्वाप्रतिपत्तिलक्षणस्य (प्. ७३) बहुविधस्य मोहराशेः किंकर्तव्यतामूढभावेन उपलक्षणात् | एवमन्तःकरणव्यापाररूपजाग्रदवस्थाश्रयं परतत्त्वोपलब्ध्युपायमभिधाय, बुद्धिन्द्रियव्यापाररूपजाग्रदवस्थाश्रयस्य अस्य यथा ह्यर्थोऽस्फुटो दृष्टः (ष्प् का ४/६) इत्यत्र प्रसङ्गाद्वक्ष्यमाणत्वात्; संप्रति कर्मेन्द्रियव्यापाररूपजाग्रदवस्थाश्रयं तं पदं प्रतिपादयितुमाह - धावन्वा यत्पदं गच्छेत् तत्र इति, तत्र तस्मिन्नपि पदे प्रतिष्ठितस्पन्दोपलब्धिः | तत्र हि इच्छाप्रयत्नज्ञानक्रियादि वृत्तीनां विभागाग्रहणाद् अद्वयेश्वररूपाभिव्यक्तिः | तथा हि - धावतः प्रतिपदं पदोज्जिहिर्षोद्धारप्रयत्नदेशावधारणपदविन्यासक्रियादिषु वृत्तिविशेषेषु सत्स्वेव अनवधार्यमाणविभागत्वात् असत्स्विव संवित् अविभागपरस्वभावमात्रप्रतिष्ठिता भवति, तदा परवश एव पुमानैश्वरं रूपमाविशति | एतदपि वागादिकर्मेन्द्रियव्यापारोपलक्षणार्थं वेदितव्यम् | तेन धावद्वद् (प्. ७४) अतिचतुरवर्णस्वरोच्चारव्यग्रवाग्वृत्तिरपि यत्पदं गच्छेत्, तथा वीणावेणुवादनादित्वरिततरव्यापार्यमाणकराङ्गुलिकलापो यत्पदं गच्छेत्; तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः, - इत्युपदिष्टं भवति; सर्वकर्मेन्द्रियव्यापाराणां धावत्पदेन उपलक्षणात् | यथा ह्यर्थोऽस्फुटो दृष्ट इत्यादि श्लोके बुद्धीन्द्रियव्यापारगताम् एतामुपलब्धिं दर्शयिष्यति | यद्यपि च सर्वस्य प्राणभृतः सर्वासु अवस्थासु सर्वेन्द्रियवृत्तयो न अन्तरेण नित्योदितप्रतिष्ठितस्पन्दप्रकाशपरिस्फुरितसमापत्तिम् उन्मिषितुमेव प्रभवन्ति, तथापि मायाशक्त्युद्भावितभेदावभासबलात् नानात्वेन उल्लसद्भिः अनन्तैः ज्ञानक्रियाविशेषैः व्यवधीयमान इवासौ प्रतिष्ठितः स्पन्दः प्रबुद्धस्यापि उपलब्धिगोचरत्वं गमयितुमशक्य, - इति तदुपलब्धियोग्याः काश्चिदेव अतिक्रुद्धत्वादयो दशा उपायत्वेन संगृह्य उपदिष्टाः | एताश्च प्रबुद्धस्य प्रत्यवमृश्यमानाः सद्यः प्रतिष्ठितस्पन्दोपलब्ध्युपायतां (प्. ७५) भजन्ते, न तु अनुभूयमानाः; सा हि अवस्था दुःखादिमययेव | ततो निष्क्रान्तस्तु प्रबुद्ध उपदेशबलाद् उपजाततादृशात्मस्वरूपविवेचनक्षमप्रज्ञातिशयः स्पन्दतत्त्वमनुभवति; यदनुशीलनैकाग्र्यात् क्रमेण सुप्रबुद्धपदवीमधिरूढः सर्वत्र अनुभविष्यति, - इति | विवृतमेतत् तस्य च स्पन्दतत्त्वस्य इत्यादिना वृत्तौ || ६ || अथ जाग्रद्वृत्त्यन्तर्लीनतुर्यदशागतस्वभावोपलब्धये श्लोकत्रयमुपायोपदेशमाह, तत्र युगलकं तावत् यामवस्थां समालम्ब्य यदयं मम वक्ष्यति | तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति || २/७ (२३) || वृति: यां स्पन्दस्वरूपरूपामवस्थामवलम्ब्य यत्किंचित् अयं मम वक्ष्यति, तत् अवश्यं करिष्यामि - इत्यध्यवसोयन (अध्यवसायेनेत्यतोऽनन्तरं; ख्, घ्: ऽवर्तते तथाविधाध्यव - सायेनऽ इती यान्पाठोऽधिकोऽस्ति |) स्पन्दतत्त्वमधिष्ठाय यो वर्तते || २३ || टिप्पणी: अत्र सामलम्बनक्रियातः पूर्वभाविनि क्रियान्तरे परितिष्ठितवा -क्यस्यायमाशयः - यथा प्रभोराज्ञानिर्वहणेऽवहितमनस्क -तया सर्वा वृत्तयो विलीनाः संपद्यन्ते, निस्तरङ्गदशा चोदेति | एवं सर्वात्मना समस्तान्यकरणीयतां परिहृत्य स्पन्ददशा - वधाननिविडावमर्शस्याभ्यासात् परतत्त्वोपलब्धिरिति || २३ || तामाश्रित्योर्ध्वमार्गेण सोमसूर्यावुभावपि* | सौषुम्नेऽध्वन्यस्तमितो (ख्, ग्: अस्तमितौ) हित्वा ब्रह्माण्डगोचरम् || २/८ (२४) || (* विवृति: चन्द्रसूर्यावुभावपि) वृति: (प्. २०) तस्य, तामवस्थामाश्रित्य पुरुषस्य, सोमसूर्यौ द्वावपि सौषुम्ने अध्वनि मध्यनाड्यभिधाने, अस्तमयं कुरुतः; ब्रह्माण्डगोचरं शरीरमार्गं परित्यज्य योगिनः || २४ || टिप्पणी: सोमसूर्यावित्यस्य तात्पर्यमिदम् | स्पन्ददशामाश्रितस्य मनः प्राणौ मध्यनाड्यां लीयेते | संविदेव यथोत्तरं संकोच -ग्रहणेन संकुचिता ज्ञानक्रियाशक्तिभावप्राप्तिपूर्वं मनः - प्राणप्रसररूपतामापद्यते | प्रत्याहरणकाष्ठाधिरोहणे उभावेव ज्ञानक्रियाशक्तिमयावुभयविधमेव हेयोपादेय - विषयवेदनं नाडीसंचारणात्मकार्यमपि परिहाय सामान्य - मौलिकरूपं प्रत्यापद्येते इति || २४ || विवृति: तां यच्छब्दोपलक्षितवाक्यनिर्दिष्टाम् अवस्थां (प्. ७६) दशाम् आश्रित्य आसाद्य पुरुषस्य चन्द्रसूर्यौ मनःप्राणौ द्वावपि युगपदेव अस्तमितः प्रलीयेते | किं कृत्वा ? तादृग्दशाश्रयणसामर्थ्यादेव ब्रह्माण्डगोचरं हित्वा यदन्तस्तद्बहिः - इति ब्रह्माण्डं शरीरं स एव गोचरः स्वप्रसराधिकरणं, तं हित्वा त्यक्त्वा संवेद्यताभावादतिक्रम्येत्यर्थः | केन पथा अस्तमितः ? ऊर्ध्वमार्गेण सर्वातिरिक्तेन अलौकिकेन वर्त्मना | तथा च - चन्द्रशब्दप्रतिपादिता मनःप्रसररूपा ज्ञानशक्तिः इदं हेयमिदमुपादेयम् - इति द्विधा संसारगोचरैव, आलम्बनीयं निजं विषयमतीत्य तस्यां दशायां मध्यस्थतां प्राप्य स्वकारण एव अस्तमेति; तथा सूर्यशब्दोदिता प्राणप्रसररूपा क्रियाशक्तिः नानानाडीसंचारलक्षणां कुसृतिमखिलां खिलीकृत्य सामान्यप्राणरूपतामापन्ना लोकातिरिक्तेन पथा स्वपद एव शाम्यति | ततः सौषुम्नेऽध्वन्यस्तमित इत्याह - सुषुमनाभिधा शरीरमध्यमध्यासिता या नाडी (प्. ७७) तदीये अध्वनि परस्याः पारमेश्वर्याः शक्तेः प्रवहणमार्गे प्रशाम्यतः; ज्ञेयकार्योपरागपरित्यागात् परशक्तिरूपतामापद्येते, - इति यावत् | कां तां दशामाश्रित्य ? इत्याह - यामवस्थां समालम्ब्य सम्यक्त्यक्तसमस्तवस्तुव्यापृतिस्तिमितसर्वशक्तितया अवलम्ब्य अवष्टभ्य कस्मिंश्चिदवसरे पुरुषस्तिष्ठति | किं कृत्वा ? समालम्ब्येति, समालम्बनक्रियापूर्वभाविक्रियान्तरनिष्ठं वाक्यमाह - इति संकल्प्य इति, इत्येवं संकल्पं कृत्वा | कथं यदयं मम वक्ष्यति तदवश्यं करिष्येऽहम् इति, यस्य आज्ञातिक्रमात् सद्य एव प्राणात्ययादिरनर्थः समापतति, सोऽत्र राजादिः अयम् इति निर्दिष्टः, अयं यद् वस्तु मम कर्तव्यतया वक्ष्यति जल्पिष्यति तदवश्यं सर्वात्मना परिहृतसमस्तान्यकरणीयोऽहं करिष्ये संपादयामि, - इति युगलकस्य वाक्यार्थसंगतिः | इदं तु तात्पर्यम् - केनचित्कारणेन अवश्यकरणीयवचसा प्रभविष्णुना कारयितव्यवस्तुविवक्षया (प्. ७८) आक्षिप्तस्य पुंसः तद्वचनशुश्रुषामात्रनिविडावधानत्वात् समस्तवृत्तिप्रत्यस्तमये सति, संवित् तुरीयां दशाम् अवश्यमेवाविशति, तत्प्रत्यवमर्शाभ्यासात् परतत्त्वोपलब्धिः, - इति | अत्र ब्रह्माण्डगोचरशब्देन शरीराकाशस्य चन्द्रसूर्यशब्दाभ्यां मनःप्राणप्रसरयोश्च प्रतिपादनम् | प्रयोजनम् | अनेन उपदेशेन प्रत्यभिज्ञापिततुरीयदशाप्रत्यवमर्शाभ्यासकाष्ठाधिरोहिणः प्रबुद्धस्य निखिलबाह्याभ्यन्तराध्वातिक्रान्तपरमपदविश्रान्तिलाभः, - इति | व्याख्यातमेतत् पृथक् वृत्तिकृता यां स्पन्दरूपामवस्थाम् इत्यादिना तस्य तामवस्थाम् इत्यादिना च ग्रन्थेन || ८ || ननु एवंविधा दशा सर्वस्य कस्यचित्कथंचित् उपजायत एव, तत्किमुपदेशेन - इत्याह तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे | सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः || २/९ (२५) || वृति: तस्मिन् महाव्योम्नि प्रत्यस्तमितशशिभास्करे यस्य स्वस्वभावाभिव्यक्तिः न सम्यक् वृत्ता, स (प्. २१) स्वप्नादिना मुह्यमानोऽप्रबुद्धो निरुद्धः स्यात्; प्रबुद्धः पुनरनावृत एव भवति || २५ || टिप्पणी: परमाकाशे समस्तज्ञेयकार्याणांविलीनप्रायत्वात् मूढा -नां वर्णितपूर्वा तुर्यदशा सौषुप्तपदवत् शून्यरूपा, ईशितृशक्तिपातेन समुदितज्ञानदृष्टीनां पुनस्तस्यां दशायामनुभूयमानतुर्यचमत्कृतिर्निरावरणं निर्भासते इति तत्र दशायां यथाकथंचित् सर्वेषामुपजायमानायां सत्यामपि उपदेशनिरपेक्षणं तमःपदप्रवेशानर्थः स्यात् तत्परिहारायोपदेशस्य सापेक्षतेति || २५ || इति श्रीकल्लटाचार्यविरचितायां स्पन्दकारिकावृत्तौ स्वरूपस्पन्दः प्रथमो निःष्यन्दः || १ || विवृति: (प्. ७९) तदा तत्र तादृशदशाविशिष्टे काले सौषुम्नाध्वशब्दप्रतिपादिते महाव्योम्नि परमाकाशे समस्तवेद्यव्यतिरिक्तस्वरूपत्वात् शब्दगुणात्मकभूताकाशस्वरूपवैलक्षण्याच्च महाव्योमशब्दप्रतिपादिते स्वस्वभाव एव, कीदृशे ? प्रलीनशशिभास्करे प्रत्यस्तमितसमस्तज्ञानक्रियाप्रसरप्रपञ्चे, मूढः परमेशतिग्मरश्मिपरमशक्त्यंशुस्पर्शाभावाद् अनिद्राणपशुप्रत्ययनिद्रावसादः सौषुप्तपदवत् स्यात् सुषुप्तावस्थायामिव भवेत् | यथा सुषुप्तावस्था प्रलीनाखिलवेद्यप्रपञ्चरूपापि अप्रबुद्धस्य तत्कालम् अनुभवसामर्थ्याभावात् मोहमययेव, तथा एषा तुर्यदशापि मोहात्मिकैव | प्रबुद्धः पुनरीश्वरशक्तिपातप्रभावात् प्रकर्षेण लोकातिरिक्तातिशयेन बुद्धः प्रत्युदितसम्यग्ज्ञानदृष्टिः तादृग्दशाप्रत्यवमर्शावसरानुभूततुर्याभोगः अनावृतो देहाद्यवच्छिन्नाहंप्रत्ययरूपेण (प्. ८०) आवरणेन वियुक्तः स्यात् संपद्येत | तदेतत् तस्मिन्महाव्योम्नि इत्यादिअना ग्रन्थेन व्याख्यातं वृत्तौ || ९ || एवं देहादिवेद्यवर्गव्यतिरिक्तत्वेन सर्वदशानुस्यूतोपलब्धृमात्रलक्षणैकस्वभावत्वेन च उपपादितस्य प्रतिपादितोपलब्ध्युपायस्य स्वात्मन एव शंकरस्य यत्सामर्थ्यं तदेव अवश्यकरणीयशास्त्रचोदितक्रियासाधनभूतानां मन्त्राणां वीर्यम् - इति प्रबुद्धमेव उपलब्धतादृगात्मस्वभावं प्रति उपदेष्टुं युगलकमाह अथ सहजविद्योदयाख्यो द्वितीयो निःष्यन्दः | तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः | प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् || २/१० (२६) || वृति: तत् बलं निरावरणचिद्रूपमधिष्ठाय, मन्त्राः सर्वज्ञत्वादिना बलेन श्लाघायुक्ताः प्रवर्तन्ते अनुग्रहादौ स्वाधिकारे | करणानि यथा देहिनाम्, नान्येन आकारादिविशेषेण || २६ || टिप्पणी: शाक्तबलाक्रमणादेव नियन्त्रितेतिकर्तव्यतासचिवा मन्त्राः प्राणभृत्करणवत् यथास्वं प्रतिनियतप्रयोक्तव्यकार्यसिद्धिषु अप्रतिहतशक्तयः, तद्विना तृणमात्रमपि कुब्जयितुमसमर्थाः, नियतिशक्तिबलात् भिन्नभिन्ननियोगेभ्यः प्रवर्तन्ते न सर्वे सर्वेभ्य इति भावः || २६ || तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः | सहाराधकचित्तेन तेन ते* शिवधर्मिणः || २/११ (२७) || (* विवृति: तेनैते) वृति: (प्. २३) तत्रैव स्वस्वभावव्योम्नि निवृत्ताधिकाराः प्रलीयन्ते, शान्तरूपाः, मायाकालुष्यरहिताः, सह साधकचित्तेन; अनेन कारणेन शिवसंयोजनास्वभावेन, इति शिवात्मका उच्यन्ते (घ्: इति - शब्दानन्तरं ते इति पदमप्यस्ति |) || २७ || टिप्पणी: इदमत्र तात्पर्यम् - शिवशक्तिरेव मन्त्रसंनिवेशादिरूपधारिणी उदयास्तमयदशयोः शिवाभेदवत्त्वात्, यत्र यत्र शिवाभेदवत् -त्वं तत्र तत्र शाक्तरूपत्वं, यथा संकल्पस्वप्नपुरादिषु, - इति व्याप्त्यादिना सुदृढप्रतिपत्तेर्मन्त्रवीर्यानभिज्ञस्य भेदविभ्र -मात् नियतसाध्यसाधनाय पर्यवसायिनः प्रबुद्धस्य पुनर्मन्त्राः सर्वार्थसाधनाधिकारिणो भवन्ति; न केवलं मन्त्रा एव, यावल्लौकिकभाषामात्रमपि अमोघमन्त्रभावमुप -गच्छति - इत्यनेन क्रियाज्ञानं कार्यं ज्ञेयं वा वस्तु शिवधर्मकमेवेत्युपलक्ष्यते || २७ || विवृति: (प्. ८०) तेन प्रस्तुतव्याख्यानेन हेतुना एते मन्त्रा आराध्यदेवतावाचका वर्णादिसंनिवेशाः, शिवधर्मिणः शिवस्य परमेश्वरस्यानन्यसाधारणः सर्वज्ञत्वादिर्गुणो धर्मः स विद्यते येषां ते तथा, शिवादभिन्नस्वरूपा इत्यर्थः | केन हेतुना ? - यतः तत् समनन्तरप्रतिपादितस्वरूपस्य शिवस्य संबन्धि बलं सामर्थ्यं शक्तिम् आक्रम्य उच्चिचारयिषावस्थायां तदभेदोपपत्त्या स्वीकृत्य सर्वज्ञबलशालिनः सर्वज्ञस्य शिवस्य बलेन शक्त्या श्लाघमाना सन्तः अधिकाराय प्रवर्तन्ते यथास्वं प्रतिनियतकार्यसंपादनस्वसामर्थ्यं [-स्वाम्यार्थ्यं] प्रसरन्ति | एते हि अनासादितपरमेश्वराभेददशा उत्पादविनाशधर्मकवर्णमात्रात्मकाः तृणमपि कुब्जयितुमशक्ताः; उक्तबलाक्रमणेन तु नियतेतिकर्तव्यतासहाया दीक्षादिवृश्चिकविषाकर्षणान्तपरापरस्वकार्यसंपादनाधि- काराप्रतिहतशक्तयो भवन्ति | यद्येवं सर्वमन्त्राणामुक्तबलाक्रमणलक्षणवीर्यसाम्यं, तत् कथमेषां भिन्नाधिकारित्वं, सर्वे सर्वार्थसाधनाधिकृताः कथं न भवेयुः ? - इत्यत्र परमेश्वरपरिकल्पितनियतिनियन्त्रितत्वमेव (प्. ८२) हेतुं प्रतिपादयितुमुपमानमाह - कथमेते मन्त्रा नियताधिकाराय प्रवर्तन्ते साधकानां ? - देहिनां करणानीव यथा हि देहादिमात्रानित्यवस्तुव्यवस्थितात्माभिमानानां सर्वशरीरभृतां करणानि इन्द्रियाणि यतः करणवर्गोऽयम् इत्यत्र प्रतिपादितयुक्त्या परमेश्वरादेव चेतनत्वापादनहेतुप्रवृत्त्यादिलाभसाम्ये सत्यपि करणानि तत्परिकल्पितनियतिशक्तिबलात् शब्दादिविषयप्रकाशनमात्रपर्यवसितसामर्थ्यानि यथास्वं पृथक्पृथगधिकाराय प्रवर्तन्ते न सर्वाणि सर्वस्मै?; तथैवैते मन्त्राः साधकानां स्वीकृतपरस्वभावाहंभावप्रतिपत्तीनां यथानियमिताधिकाराय प्रवर्तन्ते, तस्मात् करणवत् सर्वज्ञबलशालिनोऽपि मन्त्रा नियताधिकारा एव | ततश्च शिवधर्मिणो मन्त्रा यत्कृताधिकाराः सन्तो निरञ्जना अञ्जनात् वाच्योपरागरूपात् मलात् वर्णादिरूपभावनात्मकाद्वा निष्क्रान्ताः; अत एव शान्तरूपाः शान्तं शुद्धं संविन्मात्रावशेषत्वात् (प्. ८३) निर्विकारं रूपमात्मा येषां ते तादृशाः सन्तः तत्रैव शिवे परमकारणे स्वस्वभावे संप्रलीयन्ते तदैक्यमुपगच्छन्ति | केन साकम् ? आराधकचित्तेन सह साधकमनसा साकं | तस्यां हि दशायामभिसंध्युपाधिविरहात् स्वाभाविकमात्रावशेषं यत् साधकचित्तं तेन साकम् | किमनेन तात्त्विकमन्त्रवीर्यं प्रतिपादितं भवति ? तदिदं भवति - मन्त्रचेतसोः उदयास्तमयदशयोः परमकारणात् शिवादभेदः, - इति मन्त्रात्मकतया साधकचित्तात्मकतया च शिवशक्तिरेव वर्णसंकल्पादिरूपधारिणी उदिता सती, संप्रति अनासादितस्वस्वभावबलस्पर्शप्रतिपत्तीनां साधकानां भेदविभ्रममुत्पादयन्ती नियतार्थसाधनाधिकाराय पर्यवस्यति | यस्तु यथाप्रतिपादिते स्वस्वभावे एव सुदृढात्मप्रतिपत्तिः, तस्य उदयास्तमयज्ञस्य सर्वमन्त्राः (प्. ८४) सर्वार्थसाधनाधिकारिणो भवन्ति तत्तदितिकर्तव्यतासाहित्यनियमाद्यपेक्षां विना; आसतां वा मन्त्राः, यद्यद्वचनं येन येनाभिसंधिना उच्चारयति तत् तस्यामोघमन्त्रतामापद्यते, - इति स्वभावबलाक्रमणेनैव [स्वभावबलाक्रमणमेव सिद्धं स्वतो मन्त्राणां वीर्यं प्रत्यवम्रष्टव्यं योगिना, - इति तात्पर्यार्थः | उपलक्षणार्थं मन्तव्यं चैतत् | उक्तोपपत्त्या न केवलं मन्त्रा एव शिवधर्मिणो, यावन्न काचित्क्रिया ज्ञानं कार्यं ज्ञेयं वा वस्तु संभवति, यत् परतत्त्वाभेदापत्तिलब्धात्मकं सत् शिवात्मकमेव न भवति, - इति समनन्तरमेव वक्ष्यति | व्याख्यातम् एतत् वृत्तौ यद्बलं निरावरणचिद्रूपम् इत्यादिना || ११ || इति राजानकश्रीरामविरचितायां स्पन्दविवृतौ व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो निःष्यन्दः || २ || अथ विश्वस्वभावशक्त्युपपत्तिर्नाम तृतीयो निःष्यन्दः || इदानीं पक्षान्तरोपन्यासभङ्ग्या प्रकरणारम्भश्लोकापरार्धप्रतिज्ञातं स्वस्वभावस्यैव शिवस्य विश्वव्यक्तिमयशक्तिचक्रविभवनशीलत्वमवसरप्राप्तम् उपपत्त्युपलब्धिभ्यां निर्वाहयितुं श्लोकत्रयमाह यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः || ३/१ (२८) || वृति: सर्वात्मक एवायमात्मा सर्वभावोत्पत्तिद्वारेण [सर्वानुभावो-] (अयमिति पदं; घ्: पुस्तकादुपन्यस्तम् |) (प्. २४) अनुभूयमानस्यैव संवेदनात् बाह्यार्थमनुभूय -मानमेव शरीरत्वेन गृह्णाति, न तु शिरः पाण्यादिलक्षितम् (ख्: पाण्यादिरक्षितम्; ग्: पाण्यादिलक्षणम्) एकमेवास्य शरीरम् || २८ || टिप्पणी: संचेत्यमानं प्रत्येकं वस्तु वस्तुतो विज्ञानिनो जीवस्य स्वाङ्गकल्पमेव - इति न केवलं भूतात्मकमेवास्य वपुः, यावद्भावात्मकमपि | घटसुखादेर्भावस्य हि संवेदनं समुत्पत्तिः, संवेद्यमानतैव तत्स्वरूपप्रतिष्ठा असंवेद्यमानस्य स्वप्रतिष्ठानासादनात् इत्यतो जीवादपि सर्ववस्तुसमुत्पादः | तस्मात्सोऽपि विश्वमयः | अवच्छिन्नाहं - कृतिपदं शिरःपाण्यादिमच्छरीरं भूतात्मकं, भावात्मकं तु शब्दादिविषयसंवेद्यम् || २८ || तेन शब्दार्थचिन्तासु न सावस्था न यः* शिवः | भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः || ३/२ (२९) || (* विवृति: या) वृति: तेन तथाविधेन सर्वात्मकेन स्वभावेन, शब्दार्थयोः चिन्तासु न सा अवस्था या शिवस्वभावं न व्यञ्जयति (ग्: शिवं न व्यञ्जयति), अतो भोक्तैव हि भोग्यभावेन सर्वत्रावस्थितो, न त्वन्यत् भोग्यमस्ति || २९ || टिप्पणी: प्रोक्तविश्वमयताप्रतिपत्त्या वाच्यवाचकात्मसु षडध्वजातेषु या काचित् संवित्तिप्रवाहपद्धतिः सा परप्रकाशात्मशिवमययेव, तस्मात् ग्राहकात्मा परमेश्वर एवेच्छादिचक्रप्रेषणद्वारा ईशितव्यात्मज्ञेयकार्यवस्तुचमत्करणोद्युक्तस्तत्तादात्म्यसंपा - दनात् सदोदितसार्वत्रिकस्थितिरिति स्वस्वभावस्यैव जगद्विकासमय - शक्तिविभवनशीलता निर्व्यूढा || २९ || प्. २५) इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् | स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः || ३/३ (३०) || वृति: एवंस्वभावं यस्य चित्तं, यथा - मन्मयमेव जगत् सर्वम् इति, स सर्वं क्रिडात्वेन पश्यन् नित्ययुक्तत्वात् जीवन्नेव ईश्वरवत् मुक्तो, न त्वस्य शरीरादि बन्धकत्वेन वर्तते || ३० || टिप्पणी: समनन्तरपद्योद्दिष्टनीत्या अव्युच्छिन्नपरामर्शावधानपरि -शीलनवतो योगिनः सर्वेश्वरस्वतन्त्रचिद्भैरवीयपूर्णाहं -भावप्रतिपत्त्या अशेषमिदं विश्वं स्वरचितक्रीडनकलीला -मात्रेण विभाव्य स्वलीलाजनितहर्षशोकाद्युपरागेऽपि शङ्कातङ्ककलङ्कयन्त्रणाभिर्मनागपि नोपलिप्तिरिति याथात्म्यवेदितृत्वाज्जीवत एव मुक्तिरित्यर्थः || ३० || विवृति: (प्. ८६) यस्य इति वा संवित्तिः स जीवन्मुक्त इति संबन्धः, इत्येवम् इदानीमेव प्रतिपाद्यप्रकारेण यस्य वा साधकोत्तमस्य संवित्तिः सम्यक् ज्ञानं स सततम् अव्यवधानेन सर्वावस्थासु युक्तः समाहितः, उक्तवक्ष्यमाणोपदेशदृशा स्वभावबलपरिशीलनाप्रमत्तैकाग्रमानसः स जीवन् नियतदेहाधिकरणान् प्राणान् धारयन् एव मुक्तः सर्वव्यापकसर्वात्मकसर्वेश्वरस्वतन्त्रस्वस्वभावाहंकार- प्रतिपत्तिदार्ढ्येन जन्मादिविरोधात् निष्क्रान्तः परमेश्वर एव संवृत्त - इत्यत्र न संशयो न भ्रान्तिः; स्वसंवेद्योपपत्त्युपलब्धिनिष्प्रकम्पत्वात् अस्य अर्थस्य | किं कुर्वन् जीवन्मुक्तः ? - अखिलम् अशेषमनन्तवस्तुव्यक्तिविचित्रं जगत् विश्वं क्रीडात्वेन स्वनिर्मितचराचरभावक्रीडनकोपरचितलीलामात्रतया पश्यन् विभावयन् | सर्वो हि जनः अनुन्मिषितस्वस्वभावनिभालनक्षमविमलविज्ञानदृष्टि- रात्मनोऽन्योन्यतश्च (प्. ८७) विभिन्नम् इदमखिलं भावजातं कुतश्चिदन्यतः कारणात् उद्भूतम् अनिशं मन्यमानः, तद्भावजन्यहर्षशोकभयादिविकारान् अनुभवन्, भवाध्वनि पुनः पुनः जन्मादिबन्धनभाजनतां भजते | यस्तु प्रतिपाद्यप्रकारेण उत्पन्नपरसंविदभिव्यक्तिः, स यथा कश्चित् क्रीडापरः स्वपरिकल्पितैः भयक्रोधादिकारणभूतभावप्रतिच्छन्दकैः क्रीडन् तद्याथात्म्यवेदित्वात् भयादिविकारकालुष्यं मनागपि नापद्यते, तथैव भावानां स्वस्वभावशक्तिविजृम्भितमात्रतया याथात्म्यवेदी सन् मनागपि विकृतिं न आपद्यते | एवं सर्वं क्रीडात्वेनैव पश्यन् जीवन्नेव मुक्तः | कथं यस्य संवित्तिः ? इति, - तेनेत्यादिश्लोकेन प्रतिपादयति; तेन वक्ष्यमाणेन हेतुना शब्दार्थचिन्तासु सा अवस्थैव नास्ति या न शिवः - इति यस्य संवित्तिः स जीवन्मुक्तः, इति | शब्दोऽर्थप्रत्यायकः पदसमुदायः, अर्थो जात्यादिभेदात् बहुविधम् (प्. ८८) अभिधेयं वस्तुजातं, तयोः चिन्ता तथा तथा विकल्पनाः अनन्तचिन्तनीयवस्तूपरागात् विचित्राणि ज्ञानानि, यन्मयो व्यवहारः एतासु शब्दार्थचिन्तासु सा अवस्था दशा न काचित्, शब्दचिन्तारूपा अर्थचिन्तारूपा वा संभवति, या शिव एव साक्षात् न भवति | यत एवं तदा भोक्ता अनुभवितैव ईश्वरः सदा नित्यं सर्वत्र सर्वासु अवस्थासु भोग्यभावेन अनुभवनीयवस्त्वात्मना स्थितो न पृथक् किंचित् भोग्यं नामास्ति, तत्त्वानवमर्शमात्रविजृम्भितम् एतत् भोक्तृभोग्यविभागरूपम् | केन हेतुना न सावस्था न या शिवः ? इत्याह, - यस्मात् जीवः आत्मा सर्वमयो विश्वरूपः परस्परव्यतिरिक्तप्रतिपत्तिः, जीवस्यापि यो व्यवहारः सोऽपि वेद्यवेदकाभेदपूर्वकतयैव उपपन्न - इत्यर्थः, कुत एतत् ? तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः सर्वभावसमुद्भवात् सर्वमयो जीवः तस्य कस्यचित् संवेद्यस्य घटसुखादेः यत् संवेदनं ज्ञानं, तस्य यत् रूपं स्वभावः, तेन हेतुना या तादात्म्यप्रतिपत्तिः तदभेदसंवित्, ततो हेतोः निर्वर्तमानो यः सर्वभावसमुद्भवः सर्वेषां भावानां उत्पत्तिः, तस्मात् सर्वमयो जीवः | किमुक्तं भवति - जीवस्यैव व्यवहारो विचार्यमाणोऽयं वस्तुयाथात्म्यमुपपादयति | तथाहि - अयं स्वविषयं संविदन्नेव समुद्भावयति सृजति, संवेद्यमानमेव हि वस्तु स्वरूपं लभते, न तु असंवेद्यमानं; संवेद्यमानता च तेन तेन रूपेण प्रकाशमानता; प्रकाशमानत्वं च प्रकाशादव्यतिरिक्तं, नान्यत् किंचित् | यदाह न्यायवादी चेतनाच्चापि वेद्यत्वादतद्रूपाप्रवेदनात् | इति | एवं च यत् यत् अयं जीवः संवेत्ति तत्तदस्य शरीरमेव संपद्यते, न तु नियतशिरःपाण्याद्यवयवसंनिवेश (प्. ९०) एव, सोऽपि हि अस्य संवेद्यमानतावस्थायामेव शरीरीभवति, अन्यदा तु व्यतिरिक्तो विषय एव | तथा च - संवेद्यमानत्वसामान्यात् द्विविधं शरीरमस्याम्नातं तत्त्वविद्भिः, भूतात्मकं भावात्मकं च; तत्र मायाशक्तिवैभवविस्मारिततात्त्विकस्वभावतया वस्तुसंवेदनावसरे स्वरूपापरामर्शत्वमुकुलितसामर्थ्योऽयं जीवः अवच्छिन्नाहंकारास्पदतया शिरः - पाण्यादिमच्छरीरत्वेन यत् परामृशति तत् अस्य सृष्ट्यादिमयत्वात् भूतात्मकम् - इत्युक्तम् | यत्तु व्यतिरिक्तं शब्दादिविषयत्वेन परामृशति तद्भावात्मकं | परमार्थे तु विचार्यमाणे द्वयमप्यस्य शरीरं संवेद्यमानत्वाविशेषात् | एवं संवेद्यमानतालक्षणभावसंसर्गावस्थायां जीवः संवेद्यवस्त्वव्यतिरेकात् सर्वमयो विश्वरूपः स्थितोऽपि सन् तथावस्तुसंवेदनतत्त्वपरामर्शानुन्मेषात् सर्वमिदम् आत्मव्यतिरिक्तकारणान्तरलब्धात्मकत्वेन आत्मनः परस्परतश्च पृथक्त्वेन व्यवच्छिन्दन्, (प्. ९१) आत्मानं च देहाद्यनित्यभावाहंभावेन अध्यवस्यन् जन्मादिबन्धभाक् संसारी जीव इति व्यपदिश्यते | यदा तु शिवदिवाकरशक्त्यंशुपातजनितप्रबोधोन्मिषितविशददृष्टि- स्फुटतरप्रकाशमानदेहादिव्यतिरिक्तसत्यात्मस्वभाव- सुस्थिताहंप्रतिपत्तिः सन् यथावस्थितवस्तुसंवेदनपरामर्शशक्तिभिर्व्यक्तिभाक् भवति, तदा स एव संकल्पमात्रविलिखितविचित्रविश्वव्यक्तिमयशक्तिचक्रः शिवः संपद्यते | तेन उक्तम् - तत्तद्वस्तुसंवेदनस्वभावबलेन या तादात्म्यप्रतिपत्तिः संवेद्यमानवस्त्वभेदसंवित्तितः सर्वभावसमुद्भवः, तस्मात् जीवः तावत् सर्वमयः; तेन च तस्य सर्वमयत्वप्रतिपत्तिलक्षणेन हेतुना सा अवस्था नास्ति या शिवमयी न भवति, ततश्च भोक्तैव ईश्वरो भोग्यभावेन ईशितव्यवस्तुरूपतया सदा सर्वत्र संस्थितः | एवं यस्य वा संवित्तिः स जीवन्मुक्त - इति वाक्यसमन्वयसंकलनार्थमेतत् (प्. ९२) पुनरुक्तम्, - इत्यनेन श्लोकत्रयेण आत्मन एव विश्वरूपत्वेन स्थितिः प्रतिपादिता, विश्वप्रपञ्चस्य निमित्तान्तरानुपपत्तेः | यथोक्तं ब्रह्मविदा कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया | स एव बुद्ध्यते भेदादिति वेदान्तनिश्चयः || इति | तथा अन्येनापि स्तुतिद्वारेणोक्तम् विविधैरुपाधिभिरवस्थितैर्वहिः स्फटिकादिवत्तव विचित्रतोच्यताम् | यदि ते कदाचन कथंचन क्वचि- द्भवितुं क्षमास्त्वदवभासतः पृथक् || परमाणुपाकपरिणामविभ्रमा- द्युत वा विवर्त इति विश्वमिष्यताम् | विबुधोत्तमैर्यदिह तद्विकल्पना- स्तव शक्तिरेव न तथोपपादयेत् || तदिहापि च प्रतिनिमेषमुन्मिष- न्निमिषद्विकल्पविविधांशुमण्डलः | अथ चातिशुद्धवपुरद्भुतैकभूः स्फुरसि त्वमेव शिव चिन्मयो मणिः || (प्. ९३) व्याख्यातमेतत् वृत्तौ पृथक् पृथक् सर्वात्मक एवायमात्मा इत्यादिना तेन तथाविधेन इत्यादिना एवं स्वभावे यस्य इत्यादिना च ग्रन्थेन || १ || २ || ३ || इति श्रीराजानकश्रीरामविरचितायां स्पन्दविवृतौ विश्वस्य स्वस्वभावशक्तिमात्रत्वोपपत्तिर्नाम तृतीयो निःष्यन्दः || ३ || (प्. ९४) अथ अभेदोपलब्धिर्नाम चतुर्थो निःष्यन्दः इदानीमियमेव उपपत्तिः सुगृहीता सती, अभेदोपलब्ध्युपायः - इति प्रदर्शयितुं मन्त्रन्यासादिसमस्तविधिसंस्कारकत्वमस्याः प्रतिपादयितुमाह अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि | तदात्मतासमापत्तिरिच्छतः साधकस्य या || ४/१ (३१) || वृति: तत्संवेदनद्वारेण यः तदात्मग्रहो मन्त्रन्यासात्मकः स एवोदयः तस्य ध्येयस्य मन्त्रात्मनः (प्. २६) साधकचेतसि, तादात्म्यं तत्स्वभावत्वप्राप्तिः मन्त्रदेवत -या (क्: मन्त्रस्य देवतया) सह साधकस्य मन्त्रोच्चारणेच्छया (ख्, ग्: मन्त्रोच्चारेणेच्छया संपादिका) संपादिता || ३१ || टिप्पणी: इदमिह प्रतिपादनीयम्, साधकचेतसो मन्त्रोच्चिचारयिषावस्था -यां यदनायासेन ध्येयवस्तुना सहैकात्म्यं संपाद्यमा -नं स एव मन्त्राभिधेयस्य स्मर्तव्यदेवस्य तत्तदर्थक्रियाकार्य -मोघशक्तिना उपास्याकारेण प्रत्यक्षावलोकनात्मोदयः, न तु विभाव्यमाना व्यतिरिक्ताकृतिरिति प्रागुक्तोपपत्त्या सुगृहीतयाभेदोपलब्धिरुपेयते इति || ३१ || विवृति: तस्य कस्यचिद् ध्येयस्य तेन तेनाकारेण स्मर्तव्यस्य मन्त्रवाच्यस्य देवताविशेषस्य उदयः तत्तदर्थक्रियासंपादिना अमोघशक्तिना तेन तेनोपास्येनाकारेण प्रथनम्; क्व अधिकरणे ? - ध्यायिचेतसि ध्यायिनः स्मर्तुः संबन्धिनि चेतसि संकल्पे; कोऽसावुदयः ? - इच्छतः इच्छावस्थायां (प्. ९५) वर्तमानस्य मन्त्रमुच्चिचारयिषोः साधकस्य अभियुक्तस्य, वस्तुसामर्थ्यसिद्धा या तदात्मतासमापत्तिः तस्य ध्येयस्य य आत्मा स्वरूपं तस्य भावस्तदात्मता तया समापत्तिरेकीभावः | इदमत्र तात्पर्यम् - न्यासादिहेतोर्मन्त्रोच्चारणेच्छावस्थायां मन्त्ररुद्धदेवताकारारायां [मन्त्ररुद्धान्यदेवताकारायां] साधकचेतसः स्वयमप्रयत्नेन संपाद्यमानं यदभिन्नरूपत्वं, स एव परामर्शक्षमसंविदो ध्यातुर्मुख्य आराध्यदेवतायाः प्रत्यक्षदर्शनरूप उदयो, न तु व्यतिरेकविभाव्यमानाकारता, - इति अनयैव संविदा शिवरूपतापत्त्ःः [-पत्तेः] | ......................... शिवो भूत्वा शिवं यजेत् | इत्यस्य विधेः चरितार्थत्वम् | अयमेव तत्संवेदनद्वारेण इत्यादिना व्याख्यातमेतत् वृत्तौ || १ || अस्या एव संविदो विध्यन्तरसंस्कारकत्वमाह इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः | इयं निर्वाणदीक्षा च शिवसद्भावदायिनी || ४/२ (३२) || वृति: इयमेव सा मिथ्याज्ञानशून्यस्य साधकस्य निरावरण - स्वस्वरूपसंवित्तिः अमृतत्वप्राप्तिः, न तु रसास्वादरूपस्य धातुसारस्य स्थूलस्यास्वादनम् अमृतप्राप्तिरुक्ता, यैव मन्त्रोच्चारणमात्रेणैव (ख्, ग्: मात्रेणैव स्वस्वरूपावस्थिति) मन्त्रस्वरूपावस्थितिप्राप्तिः सैवात्मनो ग्रहणमित्युक्ता | यस्मात् आत्मनो ग्रहणं कुर्याद्दीक्षाकाले गुरुर्धिया (प्. २७) इति | न पुनर्लोष्टादिवत् हस्तेन तस्यामूर्तस्य ग्रहणं भवति, अत एव चेयमेव सा निर्वाणदीक्षा शिवसद्भावदायिनी, परमशिवस्वरूपाभिव्यञ्जिका || ३२ || टिप्पणी: प्राग्वर्णितायाः संविद एव अनित्यजडवस्त्वात्मनोऽमृतात् बाह्यसाधनाद्यधीन -दीक्षातोऽपि अनुत्तमवैलक्ष्येण अनुत्तरामृतरसमयता, उत्तम विधिसंस्करणकारणत्वं चेति || ३२ || इति श्रीकल्लटाचार्यविरचितायां स्पन्दकारिकावृत्तौ सहजविद्योदयो नाम द्वितीयो निःष्यन्दः || २ || विवृति: (प्. ९६) इयमेव यथाप्रतिपादिता शरीरादिविनश्वरवस्त्वालम्बनाहंप्रत्ययरूपस्य स्वप्रकाशव्यतिरिक्तवेद्यभावप्रतीतिमयस्य मिथ्याज्ञानस्य उच्छेदात् अनवच्छिन्नस्वच्छस्वच्छन्दस्वभावमात्रैकतत्त्वोपलब्धि- रूपा संवित् सम्यग् ज्ञानम् अमृतप्राप्तिः अमृतस्य अविनाशिनः शिवात्मकस्यात्मनः प्राप्तिरुपलब्धिः किल अर्थानुगतामृतप्राप्तिर्भवति, न तु द्रव्यविशेषात्मकस्य जडस्यानित्यस्य वस्तुनः कस्यचित् प्राप्तिरमृतप्राप्तिः, सा हि जीवस्य कालान्तरस्थायिशरीरत्वकारणभावात् एतदुपचारेण एवमुच्यते | तथा अयमेवात्मनो ग्रहः या एवंविधा मन्त्रोच्चारणेच्छाक्षणभाविनी संवित् सोऽयमेवात्मनो जीवस्य ग्रहो ग्रहणं, तेषु तेषु हि दीक्षादिषु विधिविशेषेषु आत्मनः शिष्यसंबन्धिनः स्वस्य वा ग्रहणं शास्त्रेषु उपदिश्यते | यथा उदाहृतं वृत्तौ आत्मनो ग्रहणं कुर्याद्दिक्षाकाले गुरुर्धिया | (प्. ९७) इति | तेन तादृग्विधिसंपत्तये परिकल्पितरूपविशेषस्यात्मनो या परमकारणभूतस्वभावाभेदसमापत्तिरुपजायते, सा परामृश्यमाना आत्मग्रहणात्मकविधिसंपदिका भवति, न तु अन्यथा तस्यामूर्तस्य ग्रहणं संभवति, ग्रहीतुः परमात्मनः सर्वव्यापकसंविद्रूपात् तस्याभिन्नत्वात् | तथा इयमेव निर्वाणदीक्षा निर्वाणं निर्वृतिर्द्वैतप्रत्ययलक्षणक्षोभपरिक्षयात् आत्यन्तिकी प्रशान्तिः संविदः स्वस्वभावव्यवस्थितिः, तदर्था दीक्षा स्वरूपसंबोधदानात्मको भेदमयबन्धक्षपणलक्षणश्च संस्कारविशेषः, सा चैवंरूपा निर्वाणदीक्षा इयमेव प्रतिपादिता संवित्, एतत्कारणत्वात् तस्याः | यत एषा संवित् शिवसद्भावदायिनी शिवस्य स्वस्वभावस्यैव परमेश्वरस्य यः सद्भावः सत्ता, येन रूपेण अहमेवास्मि - (प्. ९८) इति प्रतिपत्तिरबाधिता सिद्ध्यवस्थायामुपपद्यते तस्य दायिनी प्रतिपादिका, स हि निरुत्तरः संस्कारः सुप्रबुद्धगुरोर्गोचरः परमशिवात्मकस्वरूपप्राप्तिमात्रो, न तु बाह्यसाधनसाध्यविधिविशेषात्मक इति | व्याख्यातमेतत् इयमेव सा मिथ्याज्ञानशून्यस्य इत्यादिना वृत्तौ || २ || एवमुत्तमविधिसंस्कारकारणत्वमस्याः संविदः प्रतिपाद्य, इदानीं सिद्ध्यन्तरकारणत्वं संसारिव्यवहारनिदर्शनेन प्रतिपादयितुं श्लोकद्वयमाह अथ विभूतिस्पन्दाख्यस्तृतीयो निःष्यन्दः | यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान्हृदिस्थितान् | सोमसूर्योदयं कृत्वा संपादयति देहिनः || ४/३ (३३) || वृति: (प्. २८) यथास्यानभिव्यक्तस्वस्वरूपस्य योगिनो जाग्रदवस्थायां यथा यथा इच्छा भवति, तथैव तस्यानेकार्थसंनिधानेऽभिम -तस्यैव कस्यचिदर्थस्य दर्शनं भवति नटमल्लप्रेक्षादिषु सोमसूर्योदयं कृत्वा चक्षुरादिष्ववधानेन || ३३ || टिप्पणी: अर्थदिदृक्षोर्दिदृक्षावस्थायामीप्सितवस्त्ववधारणा- वधानस्वभावमाविश्यैव इष्टार्थप्राप्तिरिति सावस्था प्रार्थनात्मेत्युप -चरिता | वृत्तौ तु चक्षुषोरिति इन्द्रियान्तरोपलक्षणम्, तेन शुश्रषापि -स्पृक्षावस्थापि एवमेवोपचर्यते इच्छापूर्वकत्वादेव समस्तार्थस्फुरणस्येति || ३३ || तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात् | नित्यं स्फुटतरं मध्ये स्थितोऽवंश्यं* प्रकाशयेत् || ४/४ (३४) || (* विवृति: स्थितोऽवश्यं) वृति: तथा स्वप्नेऽपि अभीष्टार्थानेव पश्यति, प्रणयस्यानति - क्रमात् (प्. २९) इच्छाभ्यर्थनाया अनतिक्रमात्, यच्च तन्मध्ये हृदयं स्फुटतरम् अभिव्यक्तं नित्यं तदेतत् स्वप्नस्वातन्त्र्यम् इत्युच्यते, अयमेव तमोवरणनिर्भेद इत्यर्थः || ३४ || टिप्पणी: उक्तप्रकारेण निखिलग्राह्यग्राहकसंबन्धिदशासु तादात्म्य -प्रतिपत्तिरूपस्य प्रणयस्यानुल्लङ्घनात् मनोवेद्यसृष्टिविषयेऽपि अभिमतार्थानां सुप्रकटतरमेव प्रथनमिति स्वाप्निका अर्थाः स्वातन्त्र्येण प्रसर्तुं नैव प्रभवेयुरिति अतो योगिनो निर्दिष्टदश -योरविशेषात् तमोवरणनिर्भेद आविर्भवेत् येन सिद्ध्यन्तरप्रसवः || ३४ || विवृति: (प्. ९९) यथा देहिनो देहमात्रमेव आत्मत्वेन प्रतिपन्नस्य सर्वस्य संसारिणो जाग्रतो यथास्वं विषयग्रहणव्यग्रेन्द्रियवृत्तिलक्षणां जागरावस्थाम् अनुभवतो हृदि स्थितान् आशयनिविष्टान् द्रष्टुम् अभीष्टान् भावान् इच्छाभ्यर्थितः इच्छयादिदृक्षारूपया अभ्यर्थितः, तदवस्थास्वभावबलात् तादात्म्यसमापत्त्या तदर्थसंपत्तेः याचित इव धाता सर्वकर्ता परमेश्वरः परमात्मा संपादयति यथाभिप्रायं प्रकाशयति | किं कृत्वा ? - सोमसूर्ययोः चक्षुषोः उदयम् अभिप्रेतार्थावधारणमात्रावधानरूप- स्वरूपप्रथनं विधाय, - इत्युपमानवाक्यम् | इदमत्र तात्पर्यम् - यो यः कश्चित् संसारी यमेवार्थं द्रष्टुमुत्पन्नेच्छो भवति, स तद्दिदृक्षावस्थायां झगित्यवश एव परमात्मानं धातारमभेदेन आविशति, सा अवस्था अस्य प्रार्थना - इत्युपचरिता, तत्पूर्वकतया अभीष्टार्थप्राप्तेः | (प्. १००) स तया अभ्यर्थितो धाता तावन्मात्रार्थप्रथनाय अवधानात्मना चक्षुषोः स्वरूपव्यक्तिलक्षणमुदयं कृत्वा, संनिहितेष्वपि अन्येषु बहुषु दृश्येषु यद्दिदृक्षयैव अभ्यर्थितः तमेवार्थं प्रदर्शयति, नान्यत् | चक्षुषोरुदयं कृत्वा - इति उपलक्षणमात्रमेतत् मन्तव्यम् | तेन शुश्रूषाभ्यर्थितः श्रवणयोरुदयं कृत्वा श्रव्यान्तरसंनिधावपि शुश्रूषितमेव अर्थं श्रावयति धाता देहिनः, - इति सर्वेन्द्रियेष्वपि योज्यम् | चक्षुषोश्च सोमसूर्यशब्देन प्रतिपादनेन विश्वरूपात् धातुर्जीवस्य वास्तवाभेदप्रतिपादनप्रयोजनम् | उपलक्षणार्थं च वृत्तिकृतैव व्याख्यातम् चक्षुरादिष्ववधानेन इत्यत्रादिग्रहणात् | इत्थं सर्वजीवानां सर्वार्थप्रथनमिच्छापूर्वकं भवति, सा च इच्छावस्था संसारिणः परमकारणाभेदरूपा, - इति परमेश्वर एव स्वतन्त्रो यथेष्टमिदमखिलं प्रकाशयति (प्. १०१) इति परमार्थं तदीयमायाशक्तिजनितदेहादिव्यवच्छेदाः संसारिणो न प्रपद्यन्ते | यस्तु प्रबुद्ध उक्तोपदेशाभ्यासप्रकर्षकषणपाषाणानिशिती- कृतप्रज्ञाकृपाणीनिकृत्तकल्पकायाद्यहंकारकर्कशग्रन्थिरुदित- निरावरणसत्यात्मसंवित्स एव संस्मर्यमाणः तं प्रत्यभिज्ञातुमलम्, - इति सिद्धाव्यतिरेकसमाधियोगिनं प्रति इदमुपमेयवाक्येनोपदिश्यते | यथा वा तैरेव प्रतिपादितयुक्त्या इच्छाभ्यर्थितः सन् सर्वार्थान् प्रथयति; तथैव तेन प्रकारेण नित्यं सर्वदा सर्वासु ज्ञातृज्ञेयसंबन्धदशासु प्रणयस्य इच्छावस्थायां तादात्म्यप्रतिपत्तिरूपायाः प्रार्थनायाः अनतिक्रमात् अनुल्लङ्घनात् प्रत्यवमर्शावहितत्वेन अनुपेक्षणात् स्वप्नेऽपि स्वव्यापारोपरतचक्षुरादौ मनोमात्रग्राह्यस्वसृष्टिविषयायां स्वापावस्थायां यावद् अभीष्टान् साधकाभिमतानेव अर्थान् स्फुटतरम् (प्. १०२) अतिप्रकटं कृत्वा मध्ये स्थितो हृदये सदासीनो ऽवश्यं नियमेन असौ धाता प्रकाशयेत् प्रथयेत् - इति तथेत्यादेरुपमेयवाक्यस्यार्थः | तात्पर्यं पुनरिदं - यः सर्वदा सर्वानुभवेषु, धातुः सर्वेश्वरस्य स्वस्वभावस्य तल्लीनत्वलक्षणं प्रणयं स्वसामर्थ्यसिद्धं प्रतिक्षणप्रत्यवमर्शावहितत्वात् नातिक्रामति, तस्यासौ धाता जागरवत् स्वप्नेऽपि अभिमतानेवार्थान् प्रकाशयति, न तस्य स्वप्नपदार्थाः स्वातन्त्र्येण प्रवर्तमानाः सर्वकर्तृत्वलक्षणस्वशक्तिप्रतिबन्धमुद्भावयन्ति असंसारित्वात्; किंतु स्वतन्त्रः स्वशक्त्या यथेष्टं तान् सृजति | यथाह भर्तृहरिः प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् | सर्वेश्वरः सर्वशक्तिः स्वप्ने भोक्ता प्रपद्यते || इति | अत एव स्वप्नस्वातन्त्र्यमेतत् - इत्युक्तम् | तस्य स्वप्नजागरयोर्विशेषो नास्ति, - इति तमोवरणनिर्भेदः स एवोक्तः | देहाद्यहन्ताजनितोऽनवच्छिन्नस्वमाहात्म्यनिरोधः (प्. १०३) तमः, तेन वरणं स्थगनं स्वभावतिरोधानं, तस्य निर्भेदोऽनन्तनिजवैभवाभिव्यक्तिवशात् विनाशः, स हि तस्यामवस्थायामाविर्भवति | व्याख्यातमेतत् वृत्तौ पृथक् पृथक् यथा अस्य अनभिव्यक्तस्वस्वरूपस्य इत्यादिना | तथा स्वप्नेऽप्यभीष्टार्थानेव पश्यति इत्यादिना ग्रन्थेन || ३ || ४ || अथ एवंविधसमाधिव्युत्थानमात्रात् संसारिसमानतां योगिनः प्रतिपादयन्, नित्ययुक्ततां द्रढयितुमाह अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः | सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये || ४/५ (३५) || वृति: अन्यथा तु स्वरूपस्थित्यभावे स्वतन्त्रा स्यात् स्वप्ने आलबिडालदर्शनरूपा (ख्, ग्: आडबिड) सृष्टिः, यस्मात् तत्तत्त्वं सृष्टिस्वभावं प्रसवधर्मत्वात्; यथा सततं (क्, ख्: यया सततम्) सर्वस्य (प्. ३०) लोकस्य जाग्रद्वृत्तौ स्वप्नावस्थायां च संबन्धासंबन्धविकल्पाः (घ्: स्वप्नावस्थायां च संबद्धा विकल्पा इति पाठान्तरं च संदृश्यते |) टिप्पणी: ज्ञानज्ञेयभावेन विजृम्भमाणे पदद्वयात्मनि शाक्तप्रसरे स्वसंवित्समाधाननिविडपरिशीलनानपायात् नित्ययुक्तस्य सृष्टिस्वभावमुक्तपदद्वयं शक्तिप्रतिबन्धं विधातुं नैव प्रभु, अन्यथावर्तमानस्तु लोकवत् स्वयैव भावसृष्ट्या परवशीक्रियते * * * *?हितेन भाव्यमित्यर्थः || ३५ || विवृति: अन्यथा तु उक्तात्प्रकारात् अन्येन प्रकारेण, सर्वकर्तुः स्वतन्त्रस्य परमेश्वरस्य एकस्य ममैवेदं (प्. १०४) जगत्कार्यम् - इति प्रतिपत्त्यभावरूपेण वर्तमानस्य योगिनो जाग्रत्स्वप्नपदद्वये जागरस्वापदशयोः तद्धर्मकत्वतः सर्गगुणात्मकत्वात् सृष्टिः नानाभावनिर्मितिः सततम् आत्मतत्त्वसंविदपायाद् [- संविदुदयात्] स्वतन्त्रा स्यात् वास्तवेन स्वतन्त्रस्वात्ममात्रकर्तृत्वेन अपरामृश्यमाना सती, विचित्रविभ्रमदानस्वच्छन्दा दुर्निवारतादृक्सामर्थ्यप्रसरा भवेत् | कस्येव ? - लौकिकस्येव संसारिणो लोकस्य यथा | इदमत्र तात्पर्यम् - जागरास्वप्नलक्षणं पदद्वयं सर्गस्वभावं, तत्र हि ज्ञानज्ञेयभावेन पारमेश्वर्याः शक्तेः स्थितिः प्रतिपादिता, तादृशि अस्मिन् द्वयात्मके पदद्वये यो योगी यथोक्तसंवित्तिसमाधानापरित्यागात् अप्युत्थितः स्यात्, तस्य सर्वथा स्वतन्त्रे सर्वकर्तरि स्वात्मनि सुव्यवस्थितस्य (प्. १०५) सृष्टिस्वभावं तत्पदद्वयं शक्तिप्रतिबन्धाय न प्रभवति; यस्तु अतोऽन्यथा स्यात् स लोकवन्निजयैव भावसृष्ट्या परवशीक्रियते - इति नित्ययुक्तेन योगिना भाव्यमित्यर्थः | तदेतत् अन्यथा स्वरूपस्थित्यभावे इत्यादिना व्याख्यातमेतद्वृत्तौ || ५ || इदानीमतीतानागतव्यवहितविप्रकृष्टादिवस्तुविज्ञानमनयैव संविदा सुलभम्, - इति युगलकेनाह यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि | भूयः स्फुटतरो भाति स्वबलोद्योगभावितः || ४/६ (३६) || वृति: यथा किल दूरस्थितः कश्चिदर्थः पुरुषेण पूर्वं सावधानेनापि न लक्ष्यते स एव स्फुटरो भवति, प्रयत्नविशेषेण निरूप्यमाणस्तत्रैव स्थितस्य || ३६ || टिप्पणी: दिदृक्षोश्चक्षुविस्फारणमात्रोपक्रमे विषयस्यास्फुटतयोपलम् -भात् क्षणान्तरे स्फुटतरप्रकाशः, यस्माद्द्रष्टुर्दर्शनविषये -ऽतिरिक्तदर्शनसाधनं नैव किमपि आह्रियते वास्तवस्वभावानु -प्रवेशमन्तरेण, तदनाक्रमणादेव यथात्म्यप्रथोपपत्तेः इत्येवमर्थप्रथा सर्वसाधारणापि केवलं योगिन एवोक्तबल -प्रत्यवमर्शप्रकाशिनी, नान्यस्य मायातिमिरान्धस्येति || ३६ || तथा यत्परमार्थेन यदा यत्र यथा स्थितम्* | तत्तथा बलमाक्रम्य न चिरात्संप्रवर्तते || ४/७ (३७) || (* विवृति: एवं यत्परमार्थेन यत्र येन यथा स्थितम्) वृति: (प्. ३१) तथा तेनैव प्रयत्नविशेषेण यत् वस्तु येन रूपेण (क्, ख्: स्वेन रूपेण) यदा यस्मिन् काले, यत्र देशे, यथा येनाकारेण संस्थितं, तत् वस्तु तथा स्वबलं स्वस्वरूपमाश्रितस्याचिरेणैव कालेन प्रतिभाति निरावरणस्वरूपत्वात् तेनातीतानागतं ज्ञानं परिमितविषयं न किंचिदाश्चर्यम् || ३७ || टिप्पणी: एवमुक्तबलाधिष्ठानादेव तत्तदवस्थाकारदेशकालाद्यविसं -वादितया अतीतादिव्यवहितविप्रकृष्टवस्तूनां विज्ञानं सुलभ -मेवेति पूर्व श्लोकदृष्टान्तद्वारोपोद्बलितमिति भावः || ३७ || विवृति: (प्. १०६) यथा हि कस्यचित् सावधाने तदर्थदिदृक्षानिविडप्रयत्नेऽपि चेतसि सति, झगिति दृष्टमात्रो ऽर्थः अस्फुटः अप्रकटो भाति प्रथते, भूयो ऽनन्तरं स्वबलोद्योगभावितः स्वस्यात्मनः सर्वज्ञस्य बलं सामर्थ्यं ज्ञत्वादिलक्षणा शक्तिः तया, उद्योगः उद्यमो निविडतरावधानतया दर्शनोत्साहः, तेन भावितो लक्षितः सन् स्फुटतरो भाति प्रत्यभिज्ञायमाननिरवशेषविशेषः सोऽयम् इति प्रथते, - इत्युपमानवाक्यम् | अस्येदं तात्पर्यं - यस्य कस्यचित् द्रष्टुमभीष्टोऽर्थो झगिति विस्फारितमात्रचक्षुषो न सम्यक् दृश्यतामापद्यते, पुनः क्षणान्तरे तद्देशगतस्यैव तथैव न्यक्षनिक्षिप्ताक्षस्य स्फुटतरः प्रकाशते, तत्र को हेतुः ? - न हि तेन द्रष्टृव्यतिरिक्तं विशेषदर्शनसाधनं किंचिदाह्रियते, तेन तात्त्विकस्वभावानुप्रवेश (प्. १०७) एव तस्य संजायते, यद्बलस्पर्शात् तस्य सोऽर्थो याथात्म्येन प्रथते-; ततः स्वबलोद्योगमात्रं सर्वार्थप्रकाशनसाधनं सर्वदेहिनां, नान्यत्किंचित् | एवंविधार्थप्रकाशनं सर्वप्राणिसाधारणमपि प्रबुद्धस्य योगिन एव प्रत्यवमृश्यमानं सत् तथा प्रकाशते, नान्यस्य मायातिमिरतिरस्कृतसम्यग्दर्शनस्य, - इति योगी एव अनेन उपदेशेन स्मार्यते एवम् इत्याद्युपमेयवाक्योक्तेन | यथा हि अस्फुटदृष्टोऽर्थः स्वबलमेवाक्रम्य स्फुटतरं प्रकाशते, एवम् अनेनैव उपमानवाक्योक्तेन प्रकारेण बलं स्वस्वभावसामर्थ्यम् आक्रम्य दिदृक्षाक्षणे तत् अभेदेन अधिष्ठाय, वर्तमानस्य योगिनः तथा तेनैव तत्तदवस्थाकारदेशकालाद्यविसंवादिना प्रकारेण संप्रवर्तते सम्यगभिव्यक्तिमेति सम्यक् (प्. १०८) ज्ञेयतया अभिमुखीभवति | किं तद्वस्तु ? - परमार्थेन तत्त्वतो यत् वस्तु गवादि यथा येन अवस्थात्मना प्रकारेण येन यादृशेन विशिष्टसास्नादिमता आकारेण यत्र यस्मिन् व्यवहितविप्रकृष्टादौ देशे, भूतादौ वा काले स्थितं तत्तथा संप्रवर्तत - इति | अयमत्र भावार्थः - अस्फुटेऽर्थे दृष्टे तस्य स्फुटतरावभासाय सर्वज्ञस्वस्वभावाभेदो यः सर्वस्य कस्यचित् अप्रयत्नेन उत्पद्यते, प्रबुद्धः तत्परामर्शाभ्यासात् देशकालादिव्यवहितानपि यथाभिमतानर्थान् तत्त्वतो जानाति - इत्यबाधितायां युक्तौ स्थितायां सर्वज्ञत्वादिगुणाभिव्यक्तौ अयमेव हेतुः | अत एवोक्तम् परिमितविषयमतीतानागतज्ञानं न किंचिदाश्चर्यं निरावरणस्वस्वभावत्वात् इति | तस्यां हि दशायां देशकालाद्यनिरुद्धं स्वस्वभावबलमभिव्यज्यते | (प्. १०९) अस्फुटोऽर्थो दृष्टः इत्युपलक्षणार्थमेतन्मन्तव्यम्, तेन श्रुतादिष्वेवमेव योज्यम् | एतेन च दृश्यादेरर्थस्य स्फुटतरदर्शनाद्यर्थं प्रयत्नविशेषावस्थायां संपाद्यमानेन प्रतिष्ठितस्पन्दानुप्रवेशेन सर्वबुद्ध्यक्षव्यापारात्मकजाग्रदवस्थाश्रयः परतत्त्वोपलब्ध्युपायः प्रसङ्गात् प्रतिपादितो वेदितव्यः व्याख्यातमेतद्वृत्तिकृता श्लोकद्वयं पृथक् पृथक् यथा किल दुरस्थित इत्यादिना, तथा तेनैव प्रयत्नविशेषेण इत्यादिना ग्रन्थेन || ६ || ७ || अथैतयैव युक्त्या क्षुत्तृष्णादिजयं प्रतिपादयितुमाह दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते | आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः || ४/८ (३८) || वृति: क्षीणधातुरपि तद्वलमुत्साहलक्षणमाक्रम्य यतः कार्ये प्रवर्तते, यथा च कश्चित् (ख्: तथा च कश्चिद्) अशक्तोऽपि व्यायामाभ्यासेन महतीं शक्तिं प्राप्नोति उद्योगबलेन, तथानेन स्वभावानुशीलनेन बुभुक्षामपि आच्छादयति योऽतिबुभुक्षितः स्यात्, यतः सर्वत्रैवात्मस्वरूपस्य (प्. ३२) कार्यकारणसंपादनसामर्थ्यमविलम्बम् || ३८ || टिप्पणी: बुभुक्षानिवृत्त्याद्यपि नित्यतृप्ताकृतकस्वबलप्रथनादेव सिध्यति इत्याद्युपलक्षितोऽन्यः सिद्धिप्रपञ्चोऽपि प्रोक्ततत्त्वासादनादेव प्रोन्मील्यते || ३८ || विवृति: यतो यस्माद्धेतोर्बलं सर्वकर्तृत्वस्वातन्त्र्यलक्षणं (प्. ११०) सामर्थ्यमात्मीयमाक्रम्य, पूर्वोक्तया युक्त्या तत्राव्यतिरेकेण स्थित्वा दुर्बलोऽपि अपचितदेहधातुत्वात् असमर्थोऽपि सन्, कश्चित् कार्ये भारोद्वहनादिव्यापारे प्रवर्तते क्रियाप्रधानो भवति, - एतत् दृष्टान्तवाक्यम् | अस्येदं तात्पर्यम् - यः परिकृशकायत्वात् अशक्त एव संध्यादिव्यापारमारभमाणः, अभ्यासबलात् विषयान्तरे बलवत्तरेणाप्यशक्यं व्यायामादिकर्म कर्तुं प्रभवति, तस्य तथा सामर्थ्योत्पत्तौ प्राक् प्रतिपादितयुक्त्या स्वस्वभावबलाक्रमणमेकं वर्जयित्वा नान्यत्किंचिन्निमित्तम् | तत्तु यथेष्टसर्वकर्तृत्वलक्षणं बलमात्मतत्त्वस्य, मायीयः कर्ता मायाप्रतिवद्धशक्तित्वात् नियतकारणान्तरापेक्षनियतकार्यसंपादनसामर्थ्यं मन्यते | सोऽपीदमहं कर्तुं शक्नोमि - इत्यविकलोत्साहदशायां तदेव बलमवलम्बमानः तत्कार्यसंपादनक्षमो भवति, - इति युक्तिर्योगिन एव प्रतिपत्तिगोचरीभवति - इति, तामेतां दृष्टान्तीकृत्य (प्. १११) तं प्रत्येव इदं दार्ष्टान्तिकवाक्येन उपदिश्यते, - यथा दुर्बलोऽपि बलवत्संपाद्यकार्यसंपादनसमर्थः स्वस्वभावबलाक्रमणादेव भवति, तथा तेनैव प्रकारेण सर्वकार्यसंपादनस्वतन्त्रं स्वबलमाक्रम्य तत् स्वशक्तितया अधिष्ठाय योऽतिबुभुक्षितः अत्यर्थं भोजनेच्छाविष्टः, स तां बुभुक्षाम् आच्छादयेत् स्थगयेत् न्यक्कुर्यात्, नित्यतृप्ताकृतकस्वरूपसामर्थ्यप्रथनात् अन्नाद्यभ्यवहारकारणमेव क्षुन्निवृत्त्यादिकार्यम्, - इति नियतिशक्तिप्रतिबन्धविदलने सति अत्यन्तं तां तिरोभावयेत्, नित्यतृप्त एव स्यादित्यर्थः | दुर्बलः क्षीणधातुरपि इत्यादिना व्याख्यातमेतद्वृत्तौ || ८ || एवं पृथक् सर्वज्ञत्वसर्वकर्तृत्वादिगुणव्यक्त्युपायोपपत्तीः प्रतिपाद्य पुनरेकोपपत्तिनिदर्शनेन ताः प्रतिपादयितुमाह अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः | तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति || ४/९ (३९) || वृति: अनेनात्मस्वभावेन अधिष्ठिते व्याप्ते शरीरे सर्वजञतादयो यस्मात्, तत्र स्वल्पयूकाभक्षणमपि क्षिप्रमेव जानाति, तथा स्वात्मन्यवहितस्य सर्वत्र सर्वज्ञता भविष्यति || ३९ || टिप्पणी: कल्पिताहंभावप्रत्ययप्रतिबन्धभङ्गात् चिन्मात्रात्मनि प्रप्रमातरि पूर्णाहंभाववतां निष्प्रत्यूहं सर्वविषयाः पूर्णज्ञातृत्वादयो गुणा अभिव्यज्यन्ते | अत्र च सर्वकर्तृत्वसर्व - ज्ञत्वादिगुणानां व्यक्त्युपायः सनिदर्शनं प्रतिपाद्यते इति || ३९ || विवृति: (प्. ११२) अनेन आत्मना चेतयित्रा अधिष्ठिते अहमिति प्रतिपत्त्या अध्यासिते देहे शरीरे सर्वज्ञतादयः शरीराश्रयाणि सर्वाणि ज्ञेयानि कार्याणि च, तेषु ज्ञता ज्ञातृत्वमादिर्येषां तान्येव कर्तृत्वादयो धर्माः यथा सर्वस्य स्थिता - इति दृष्टान्तवाक्यम् | अस्येदं तात्पर्यम् - यद्यदयमात्मा अहमिति - प्रतिपत्त्या अधितिष्ठति तत्तदस्य शरीरम्, तदाश्रयं च सर्वमयं स्थूलं सूक्ष्मं वा ज्ञेयं कार्यं च जानाति च करोति च - इत्यनेन निदर्शनेन तथैव तेनैव प्रकारेण अहंतया देहाधिष्ठानवत् स्वात्मनि स्वस्वभावे न दुःखं न सुखं यत्र इत्यादिनोक्तलक्षणे देहादिव्यतिरिक्तविशुद्धाद्वयचिन्मात्रवपुषि अधिष्ठानात् अहंतया अध्यासनात्, एवं शरीराश्रयसमस्तज्ञेयकार्यवस्तु (प्. ११३) ज्ञातृत्वादिवत् सर्वत्र सकलेष्वपि भुवनेषु, योगिनः सर्वज्ञतादयो भविष्यन्ति अवश्यमभिव्यक्तिं यास्यन्ति; परस्परव्यतिरिक्त - देहमात्राहंभावलक्षण - प्रतिबन्धभङ्गाद् अद्वयचिन्मात्रस्वात्मप्रतिष्ठिताहंकारस्य योगिनो निर्विघ्नाः सर्वज्ञतादयः सर्वत्र अभिव्यज्यन्त एव इत्यर्थः | अनेन आत्मस्वभावेन इत्यादिना व्याख्यातमेतत् वृत्तौ || ९ || एवं व्याधिवलीपलिताद्युच्छेदाय उपपत्तिमाह ग्लानिर्विलुम्पिका* (क्: विलुण्ठिका) देहे तस्याश्चाज्ञानतः सृतिः | तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका || ४/१० (४०) || (* विवृति: ग्लानिर्विलुण्ठिका) वृति: (प्. ३३) ग्लानिः किल शरीरस्य विनाशिनी, सा च ग्लानिरज्ञानादुत् - पद्यते, तदज्ञानम् उन्मेषेणात्मस्वभावेन यदि नित्योज्झितं (यदि पदं; घ्: पुस्तकाश्रयेणोपन्यस्तम् |) तदा सा कुतः, कारणरहिता भवेत्; अनेनैव कारणेन वलीपलिताभावः शरीरदार्ढ्यं च योगिनाम् || ४० || टिप्पणी: अज्ञानेनैव पारमार्थिकस्वभावाख्यातेः शरीरोपचयापच - यादिविकारास्तद्रहितचिदानन्दघनतत्त्वप्रत्यभिज्ञानात् पुनर्ग्लान्यादेरभावः इति तत्त्वप्रत्यभिज्ञानमेव व्याधिवलीपलितादेरुच्छेदोपायः || ४० || विवृति: ग्लानिः मान्द्यादिजनिता हर्षहानिः, सा देहे शरीरे विलुण्ठिका धातुबलवर्णतेजःशक्त्यादीनां हठेन हर्त्री; तस्याश्चाज्ञानतः प्रतिपादिततत्त्वावगमाभावात् (प्. ११४) सृतिः सरणं प्रवृत्तिः; तत् अज्ञानम् उन्मेषविलुप्तं चेत् उन्मेषेण वक्ष्यमाणेन स्वभावालोकविकासेन, विलुप्तं विच्छिन्नं निर्मूलतां नीतं यदि, तदा असौ ग्लानिः अहेतुका कारणरहिता कुतो भवेत् न भवेदेव, निर्निमित्तस्य उत्पादाभावात्; अज्ञानं नाम जन्म - परिणाम - विवृद्धि - क्षय - विनाशात्मक - विकारविरहितनित्यनिर्विकारस्वस्वभावाप्रत्यभिज्ञानात् जन्मादिविकाराधिकरणे कलेवरादौ आत्माभिमानः, यस्मिंश्च सति अप्रबुद्धो जनः तद्विकारान् जन्मादीन् आत्मनि आरोपयन् ग्लान्या विलुण्ठ्यते | यस्तु वक्ष्यमाणोन्मेषपरिशीलनाद् आविर्भूतसत्यात्मप्रत्ययः तस्य कुतः ग्लानिः, - इति मुख्यं फलं सहजानन्दहानिरूपाया (प्. ११५) ग्लानेरभावः; गौणस्तु वलीपलिताद्यभावः, यतः तदा कुतः सा ग्लानिः कारणरहिता भवेत्, - इति व्याख्याय पुनर्वृत्तिकृता व्याख्यातम् अनेनैव कारणेन वलीपलिताभावः शरीरदार्ढ्यं च योगिनाम् इति || १० || अथ उन्मेषस्य ग्लानिकारणभूताज्ञानविनाशहेतोः स्वरूपप्रतिपादनाय आह एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः | उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् || ४/११ (४१) || वृति: एकत्र विषये व्यापृतचित्तस्य यतो यस्मात् स्वभावात् झगि [टि] त्यन्या चिन्तोपद्यते, स चिन्तायाः कारणं उन्मेषो ज्ञातव्यः, स तु स्वयमेव योगिना लक्षणीयः, चिन्ताद्वयान्तर्व्यापकतयानुभूय - मानः (क्: द्वयान्ते व्यापक) || टिप्पणी: अनुसंधातव्यवस्तुद्वयव्यापिनो विशुद्धचिन्मात्रस्य सर्वकारणस्यात्मन उन्मेषशब्देन व्यपदेश्यत्वात् तत्परिशीलना - वधानादिकमेव उक्ताज्ञानविजाशीत्यर्थः || ४१ || विवृति: (प्. ११५) स तु स पुनरुन्मेषः स्वस्वभावाभासविकासो विज्ञेयो बोद्धव्यो लक्षणीयः | कोऽसौ ? - एकचिन्ताप्रसक्तस्य एकस्यां चिन्तायां दृश्यमान - स्मर्यमाणतत्तद्वस्तूपरक्ते ज्ञाने प्रसक्तस्य, एकाग्रस्य चिन्तयितुः यतो यस्मात् चिन्त्याभासानुपरक्तज्ञानात्मनः स्वस्वभावप्रकाशात् कारणभूतात् (प्. ११६) अपरस्याः चिन्तायाः ग्राह्यालम्बिनो ज्ञानान्तरस्य उदयः उत्पत्तिः स्यात् | तं च योगी स्वयं आत्मनैव उपलक्षयेत् - परमार्थ - परमेश्वरः सर्वतो विविक्तः परमकारणं परमात्मा अयमहमस्मि - इति प्रतिपद्येत | नहि तस्य शब्दादिवत् इदन्तया स्वरूपमुपलक्षयितुं शक्यं, - स्वसंवेदनसंविदितस्वभावत्वात् | तस्यैवंविधस्य नित्योदितस्यापि उपदेश्यं प्रति तदानीमेव अभिव्यज्यमानत्वात् उन्मेषशब्देन व्यपदेशः कृतः | यस्त्वेवं मन्यते - यस्यां चिन्तायां सत्याम् अपरचिन्तोदयः सा चिन्तैव चिन्तान्तरकारणं नान्तरालवर्ति वस्त्वन्तरं विद्यते, यच्चिन्ताद्वयस्वरूपव्यतिरेकेण उपलक्षणीयात्मकं द्वितीयचिन्ताकारणं स्यात् - इति, तं प्रति कारणभावेन कार्यभावेन च अभिमतस्य पूर्वापरीभूतस्य चिन्ताद्वयस्य एष संबन्धो न सिद्ध्यति, अनुसंधातारं तृतीयं विना | पूर्वं कारणम् (प्. ११७) अपरा च कार्यभूता चिन्ता, - इति योऽनुसंधत्ते, यश्चासौ अनपह्नवनीयोऽनुसंधाता सोऽनुसंधेयचिन्ताद्वयव्यापकविशुद्धचिन्मात्रस्वरूपः सर्वकारणमात्मैवोन्मेष इत्युक्तः | अत एव वृत्तिकृता व्याख्यातम् चिन्ताद्वयान्ते व्यापकतया अनुभूयमानः इत्यादिना || ११ || इदानीं तत्तत्साधनविशेषाभिनिविष्टानां योगिनां प्रायेण याः प्राप्यफलतया अभीष्टाः सिद्धयः ता एतदुपासायोगिनो विघ्नपरम्परा एव, इत्युन्मेषाभ्यासप्रभावं प्रतिपादयितुमाह प्. ३४) अतो बिन्दुरतो नादो रूपमस्मादतो रसः | प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः || ४/१२ (४२) || वृति: अतः, अस्मादुन्मेषादनुशील्यमानात् बिन्दुः तेजोरूपः, नादः प्रणवाख्यः शब्दः, रूपमन्धकारे दर्शनं (ग्: प्राणाख्य इति पाठः, अन्धकारे दर्शनमितिवाक्यं तु; घ्: एव संदृष्टमुपन्यस्तम् |), रसः अमृतास्वादो मुखे, एते क्षोभकत्वेन प्रवर्तन्ते आचिरेण कालेन || ४२ || टिप्पणी: धरातत्त्ववध्यायिनां भ्रूमध्यादिप्रदेशे प्रथमानस्तेजो -विशेषो बिन्दुः | व्योमधारणाभ्यासवतां स्वयमुच्चरितो ध्वनिविशेषो नादः | तेजोधारणाभ्यासिनामन्धतमसेऽपि दृश्यवस्तुदर्शनं रूपम् | रसवद्वस्तुराहित्येऽपि तदास्वादो रसोऽप्तत्त्वध्यायिगम्यः इत्येतत्सर्वमुन्मेषाभ्यासिनो विघ्नरूपं सिद्धिजातं समुल्लसतीत्यर्थः || ४२ || विवृति: अतः अस्मात् प्रतिपादितस्वरूपात् उन्मेषात्, जागराद्यवस्थागतसुखदुःखाद्यनुभवदशासु अविलुप्तेन अवधानेन, प्रतिक्षणविनश्वरविचित्रपरतन्त्रतुच्छरूपात् वेद्यवस्तुनो वैधर्म्येण भाव्यमानात् सर्वकारणभूतात् अचिरेण अल्पेन कालेन, एतानि सिद्धचिह्नानि, क्षोभकत्वेन संतोष- स्मयाभिमानादिभिः चित्तव्युत्थापकत्वेन देहिनो नितरामनुन्मूलितदेहाद्यहंप्रत्ययस्य योगिनः प्रवर्तन्ते प्रादुर्भवन्ति | कानि तानि ? - बिन्दुः भ्रूमध्यादौ प्रदेशे ध्यानाभ्यासप्रकर्षप्रवर्धमानोत्तरोत्तरप्रसादस्तेजो - विशेषो, यो बिन्दुभेदाभ्यासात् धरातत्त्वध्यायिनामभिव्यज्यते | तथा - नादो वेगवन्नद्योघनिर्घोषघनोपक्रमः क्रमसूक्ष्मीभावाभिव्यज्यमानमधुमत्तमधुकरध्वनितानु- कारी स्वोच्चरितो ध्वनिविशेषो, यं व्योमतत्त्वाभ्यासिनः शृण्वन्ति | तथा - रूपं सन्तमसाद्यावरणेऽपि सति तत्तद् - दृश्यवस्त्वाकारदर्शनं, यत् तेजस्तत्त्वन्यक्षनिक्षिप्तमतयो (प्. ११९) निरीक्षन्ते | तथा - रसो रसवद्वस्तु - विरहेऽपि अमृतास्वादो मुखे, लोलाग्रलम्बिकादिधारणानिरतैः अप्तत्त्वध्यायिभिर्य उपलभ्यते; पवनतत्त्वध्यायिनां स्पर्शविशेषोऽपि योऽभिव्यज्यते सोऽपि अस्मात् प्रवर्तत, - इति अत्र द्रष्टव्यम् | इदमत्र तात्पर्यम् - उन्मेषाभ्यासयोगिना तत्तद्धारणाद्यभ्यासचिरलभ्यास्वपि अचिरप्राप्यासु एतासु उपलब्धिषु संतोषिणा न भाव्यम्, - निरुत्तरपदारोहप्रत्यूहभूतत्वादासाम् | एताश्चेतरयोगिनां क्रमभाविन्योऽपि उन्मेषाभ्यासयोगिनां तदभिसंधिविरहात् अक्रमेणापि प्रवर्तन्ते इति तथैव निर्दिष्टाः | व्याख्यातमेतत् अतोऽस्मात् उन्मेषात् इत्यादिना वृत्तौ || १२ || (प्. १२०) एवम् उन्मेषोपदेशेन आत्मनो देहादिवेद्यव्यतिरिक्तस्वरूपतां प्राक् बहुभिः प्रकारैः प्रतिपादितां संग्रहेण प्रतिपाद्य, इदानीं तथैव तस्य सकललोकस्वानुभवसिद्धं व्यवहारं प्रदर्शनीकृत्य विश्वरूपतां संक्षेपतः प्रतिपादयन् समस्तप्रकरणार्थतात्पर्यमाह दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते | तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते (ख्, ग्: स्वयमेवावगंस्यति) || ४/१२० (४३) || वृति: दिदृक्षा द्रष्टुमिच्छा, तदवस्थास्थ इव सर्वान् (प्. ३५) भावान् यदा व्याप्यावतिष्ठते, तदा किं बहुना उक्तेन, स्वयमेव तत्त्वस्वभावमवभोत्स्यते (क्: तत्त्वस्वभावोऽवगम्यते इति; ग्: स्वभावमवगच्छतीति; घ्: स्वभावोऽवगंस्यते) ज्ञास्यति || ४३ || टिप्पणी: यथा क्षेत्रज्ञानां स्वसंविदो दिदृक्षित -भावानां दर्शने -च्छायामभेदः तथैव विश्वगतभावा -नां परमात्मतत्त्वा -दव्यतिरेक इति संवित्तत्त्वान्तर्लीनान् भावात् विधाय प्रोक्तपरतत्त्वपरामर्शा -भ्यासात् साधनान्तरनिरपे -क्षं तद्दशाफलं केवलं योगिन एव स्वसंवेद्यं, विकल्पतिमिरोपहतचक्षुषस्तु पाशवसृष्टौ स्वाभेदमपि वस्तु पराम्रष्टुमक्षमता कुतो नु जगद्भावाभेदपरामर्श -प्रतिपदिति योग्येव एतत्प्रज्ञापात्रम् || ४३ || विवृति: (प्. १२०) यदा यस्मिन् काले, साधको दिदृक्षयेव द्रष्टुमिच्छया यथा सर्वार्थान् अखिलान् प्रमेयपदवीजुषो भावान् व्याप्य स्वसंवित्प्रकाशेन आच्छाद्य, तदन्तर्लीनान् कृत्वा अवतिष्ठते नानात्वदर्शनभ्रान्तिनिवृत्तेरेकत्र तत्त्वे विश्राम्यति; तदा तस्यां दशायां यत्फलमनुभूयते तत्र बहुना भूयसा उक्तेन फलाभिधानेन किं ? (प्. १२१) तत्प्रतिपादनेच्छया ग्रन्थसहस्राण्यपि उक्तानि निरर्थकानि भवन्ति, तस्य वचनगोचरातीतत्वात्, अत आह स्वयं तदवभोत्स्यते इति, तत् तादृशं फलं, स्वयमात्मनैव, व्यतिरिक्तसाधननिरपेक्षेण प्रतिपत्स्यते अभियुक्तः, स्वसंवेद्यत्वात् तस्य | इदमत्र तात्पर्यम्, - योगिना सर्वभावानां स्वस्वभावाव्यतिरेकजिज्ञासुना स्वानुभूतादिदृक्षावस्था निदर्शनीकार्या, तथा हि - द्रष्टुमभीष्टा भावाः स्वस्वभावाभेदेन व्यवतिष्ठन्ते, भावभेदहेतोरिदन्ताप्रत्ययस्य अनुन्मेषात्, तदा यथा दिदृक्षावस्थायां क्षेत्रज्ञस्वभावादभेदः तद्दिदृक्षितानां भावानां, तथा परमात्मस्वभावात् अखिलजगद्भावानामभेद एव, - इति पूर्वोपदिष्टव्यतिरिक्तात्मस्वरूपोपलब्धिपरामर्शा- भ्यासात् उन्मिषितदिदृक्षाक्षणोपलक्षणक्षमविज्ञानचक्षुषं योगिनं प्रत्येव अयमुपदेशः; मायाशक्तिजनितेन हि विकल्पतिमिरेण तिरस्कृतसम्यग्ज्ञानदृश एकमेव निर्विभागचिन्मात्रस्वरूपमात्मतत्त्वं प्रमातृभेदेन प्रमेयभेदेन च नानारूपं पश्यन्तो दिदृक्षितदृश्यमानदृष्टाद्यवस्थाविभागं भावानां परिकल्प्य, दिदृक्षितानामपि तेषां जीवस्वभावादभेदं वस्तुसन्तमेव पराम्रष्टुमशक्ताः, कुतो जगद्भावानां परमात्मस्वभावानाम् अभेदं प्रतिपद्येरन्, तदा योगिनैव दृष्टान्तीकृतस्वदिदृक्षाक्षणपरामर्शदिशा स्वस्वभावाभेदमखिलभुवनभावाभासानां भावयता भेदध्वान्तनिर्भेदभासकरेण भवितव्यम् - | व्याख्यातमेतत् दिदृक्षा द्रष्टुमिच्छा तदवस्थास्थ इव इत्यादिना वृत्तौ || १३ || एनमेव उपदेशं द्रढयितुमाह प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोच्य गोचरम् | एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते || ४/१४ (४४) || वृति: प्रबुद्धोऽसंकुचितशक्तिः सर्वकालं तिष्ठेत्, ज्ञानेनालोच्य गोचरम् ज्ञेयं परिच्छिद्य, एवमेकत्र तत्त्वसद्भावे (घ्: तत्त्वस्वभावे इति पाठान्तरं च दृश्यते |) विद्यात्मके आरोपयेत् सर्वम्, ततोऽन्येन वक्ष्यमाणेन कलासमूहेन न पीड्यते || ४४ || टिप्पणी: यत्किंचिद्वस्तु प्रमाणोपारोहक्रमेण परप्रमात्रावेशभाक् अन्यथा प्रकाशपदव्यामनारूढेर्वस्तुसत्तानुपपत्तेः, इत्येतत्संबन्धेऽवहिता उद्रिक्तायमानेनेव कलादिक्षित्यन्तेन वेद्याभिमानेन नैव खिद्यन्ते इत्युक्तोपदेशद्रढिमा समर्थ्यते || ४४ || विवृति: (प्. १२३) सर्वदा सर्वासु अनुभवदशासु प्रबुद्धस्तिष्ठेत् प्रतिपादितोपदेशाभ्यासपरत्वात् अनिमीलितसम्यग्ज्ञानदृष्टिः जाग्रदेव आसीत | कथं ? - ज्ञानेन संवेदनेन गोचरं विषयम् आलोच्य परिच्छेद्य, तथारूपतया निश्चित्य एकत्र ज्ञातरि स्वात्मनि सर्वं परिच्छेद्यम् आरोपयेत् अर्पयेत्, तदभिन्नतया प्रतिपद्येत इत्यर्थः | ततश्च सर्वभावानामेकप्रमातृस्वरूपाभेदप्रतिपत्तिरूपात् आरोपणात् अन्येन व्यतिरिक्ततया अवभासमानेन प्रमेयेण, वक्ष्यमाणेन कलाद्यात्मकेन भावजातेन न पीड्यते विनश्वरभावाहंभावप्रतिपत्त्यादिना पाशेन संसारचक्रे निबध्य न कदर्थ्यते | इदमत्र तात्पर्यम्, - यं (प्. १२४) यमर्थं रूपादिकं चक्षुरादिज्ञानेन प्रमाता आलोचयति निश्चिनोति, स स निश्चयावस्थायां प्रमातृरूपात् अभिन्न एव भवति; निश्चितत्वं हि नाम वस्तुनः प्रकाशमानत्वं, तच्च प्रकाशमानत्वादभिन्नमेव, नान्यद्भवितुमर्हति, प्रकाशव्यतिरिक्तरूपत्वे तस्य प्रकाशमानतानुपपत्तेः | एवं निश्चयावस्थायां प्रकाशमात्रस्वरूपप्रमात्रभेदः सर्वभावानां स्वभावसिद्धः, तत एवंविधो ग्राह्यग्रहीतृग्रहणसंबन्धः स्थितोऽपि अपरामृश्यमानो नानात्वमोहजालेन बध्नाति सर्वजन्तून्, अतः सर्वावस्थासु अविरतपरामर्शो भवेत्, येनैकप्रमातृपरमार्थत्वं जगद्भावानां प्रतिपन्नः सन् पुनः संसारी न स्यात् | तदेवं प्रबुद्धः सर्वदा तिष्ठेत् इत्युक्तम् | प्रबुद्धोऽसंकुचितशक्तिः इत्यादिना व्याख्यातमेतत् वृत्तौ || १४ || (प्. १२५) इदानीमेवं स्वयं संव्यवस्थितः स्वात्मैव परमेश्वरः एकः पदार्थः सन् निजयैव मायाशक्त्या प्रतिपशु भेदेन आत्मानमवभासयन् क्रीडति - इति तत्त्वतो द्वितीयपदार्थाभावमेव समर्थयमानः पशुस्वरूपप्रतिपादनद्वारेण शक्तिप्रसरक्रिडामेव अस्य प्रतिपादयितुमाह प्. ३६) शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् | कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः || ४/१५ (४५) || वृति: शब्दराशिरकारादिक्षकारान्तः, तत्समुद्भूतस्य कादिवर्गात्मकस्य ब्राह्म्यादिशक्तिसमूहस्य, भोग्यतां गतः पुरुषो, ब्राह्म्यादीनां कलाभिः ककाराद्यक्षरैर्विलुप्तविभवः स्वस्वभावात् प्रच्यावितः पशुरुच्यते || ४५ || टिप्पणी: भूचर्यादिशक्तिभिरनवरतं प्रदर्श्यमानभेदप्रथत्वात् पराधीनाखिलवृत्तिकोऽपहृतैश्वर्यः स्ववशीक्रियते इत्यर्थः || ४५ || विवृति: (प्. १२५) स इयता प्रबन्धेन प्रतिपादयितव्यस्वरूप आत्मैव ईश्वरो, वक्ष्यमाणेन हेतुना पराधीनसर्ववृत्तित्वेन अनवभासितात्मा पशुः तिर्यक्प्रायः स्मृतः अनादित्वात् संसारक्रीडाव्यवहारस्य सदा स्मर्यमाणत्वेन स्थितः | कीदृशः सन् ? - शब्दराशिसमुत्थस्य शक्तिवर्गस्य (प्. १२६) कलाविलुप्तविभवो भोग्यतां गतः सन् पारमेश्वर्याः शक्तेः वक्ष्यमाणवाग्रूपप्रसराभिप्रायेण आदि - क्षान्तवर्णसमुदायात्मिक(अ या) स्तद्विपरीतं .... .... .... .... .... .... .... [(१ fओओत्नोते) विपरीतम् इत्यतोऽनन्तरमस्य श्लोकस्यावशिष्टव्याख्याभागो यावत्समस्तमूलादर्शपुस्तकेषु विनष्टसत्तया त्रुटितोऽस्ति | अतः इदं व्याख्यानं पद्यार्थाभिज्ञानाय स्पन्दप्रदीपिकाग्रन्थात् प्रक्षिप्योपन्यस्यते - शब्दानां राशिः शब्दराशिः वर्णसमूहः, मातृका अकारादि क्षकारान्ता शब्दजननी वर्णात्मकत्वात् शब्दानाम्, तत्समुत्थस्य कादिवर्गात्मकस्य ब्राह्म्यादिशक्तिचक्रस्य कलाभिः ककाराद्यक्षरैः विलुप्तविभवः हृतमहाव्याप्तिः स्वस्वभावात्प्रच्यावितः अत एवास्य भोग्यतां गतः सन् पुरुषः पशुः उच्यते अज्ञत्वात् | उक्तं च ईश्वरप्रत्यभिज्ञायाम् स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः | मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः || इति | अन्यत्रापि भेदग्रन्थिविभङ्गे हि कर्मात्मैक्यं प्रपद्यते | सोऽविज्ञातः पशुः प्रोक्तो विज्ञातः पतिरेव सः || इति || १५ ||] .... .... .... .... .... .... .... .... परामृतरसापायस्तस्य यः प्रत्ययोद्भवः | तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः || ४/१६ (४६) || वृति: परामृतरसात् स्वरूपात् अपायः प्रच्युतिः तस्य यः प्रत्ययोद् - भवो विषयदर्शने स्मरणोदयो (ग्: विषयदर्शनस्मरणेति समस्तः पाठः |) यतः, तेन पुरुषोऽस्वतन्त्रताम् असर्वगत्वं च प्राप्नोति, (प्. ३७) स च प्रत्ययः तन्मात्रगोचरो रूपाद्यभिलाषात्मकः || ४६ || टिप्पणी: सहजमलमूलकमेव पशोरस्वातन्त्र्यं तदधिकरणेन विशेषवृत्तिमायीयप्राकृतिकावरणेन अत्यन्ताश्यानदुर्भेद - सुदृढावरणप्रतिबन्धोऽनर्थरूपोऽनन्तप्रतान इति भावः || ४६ || विवृति: (प्. १२७) .... .... .... .... .... .... .... .... .... .... .... .... .... [(१ fओओत्नोते) परामृतेति अस्य पद्यस्यापि अस्वतन्त्र इत्यन्त आद्यव्याख्याभागः समस्तमूलादर्शपुस्तकेषु पूर्वपद्यव्याख्याभागवद्विनष्टसत्तया त्रुटितोऽस्ति | अतोऽस्य पद्यस्याप्यर्थज्ञापकं व्याख्यानं स्पन्दप्रदीपिकाग्रन्थादेव प्रक्षिप्य उपन्यस्यते - तस्य च पशोर्यः प्रत्ययोद्भवः श्रोत्रादिद्वारेण विषयदर्शने स्मरणादिज्ञानोत्पत्तिः, स एव परामृतरसात् स्वरूपोदयात् अपायः प्रच्युतिः यतः स पुमान् तेनास्वतन्त्रतां पारतन्त्र्यम् असर्वगतादिम् एति प्राप्नोति, स च प्रत्ययोद्भवः तन्मात्रगोचरः शब्दादिविषयविषयः तदभिलाषात्मक इत्यर्थः || १६ || ] अस्वतन्त्रो व्यतिरिक्तसाधनसामग्र्यपेक्षसकलसमीहितार्थः पुमान् तद्भावमापद्यते, जागरस्वप्नसुषुप्तावस्थोपमेयसकल - विज्ञानाकल - प्रलयकेवलाख्यभेदत्रययोगी सहजादिमलत्रयावृतः पशुर्भवति इत्यर्थः | यतस्तस्य प्रत्ययोद्भव एव परामृतरसापायः परम् अनुत्तरम् अमृतमविनाशि अद्वयचिन्मयं शिवाख्यं स्वरूपं तस्य रसः तथाप्रत्यवमर्शात्मक आस्वादः, तस्मात् अपायः पृथग्भावोऽन्यथावृत्तिः इदमित्यादिविकल्परूपः | (प्. १२८) इदमत्र वाक्ये गर्भीकृतम् - एकस्यैव परस्य तत्त्वस्य स्वेच्छापरिकल्पितानुग्राह्यानुग्राहकभावविविक्तात्मनोऽनुग्राह्यो- पायार्थं, तथैव स्वेच्छया परिकल्पितशिवशक्तिसदाशिवेश्वरविद्यात्मकविभागाभासस्य प्रक्रियाशास्त्रेषु यत् पञ्चरूपत्वं व्यवस्थितं, तत् परामृतशब्देन रसशब्देन च संग्रहेण उक्तम् | तथा च - अहमित्येव अत्यन्तभेदसंस्पर्शशून्यपरमशिवाख्यस्वभाव- वाचकत्वेन परामृतशब्दः, तत्परामर्शरूपशक्तितत्त्ववाचकत्वेन च रसशब्दः अत्यन्तप्रशान्तनिष्परामर्शशून्यप्रायशिवतत्त्ववादिमतनिरा- सर्थं यः प्रयुक्तः स पूर्वं व्याख्यात एव; तदेवं तत्त्वद्वयं शिवशक्त्याख्यं, यदभिन्नमपि स्वरूपप्रतिपादनान्यथानुपपत्त्या विभज्य तत्त्वविद्भिः (प्. १२९) प्रकाश्यते | तथा च तत्त्वगर्भस्तोत्रे गुरुभिः सततमविलुप्तोपलब्धृत्वलक्षणस्वधर्मरूपायाः शक्तेः प्राधान्यप्रतिपादनाभिप्रायेण शिवतत्त्वमेवमस्तूयत | यस्या निरुपधिज्योतीरूपायाः शिवसंज्ञया | व्यपदेशः परां तां त्वामम्बां नित्यमुपास्महे || इति | शक्तितत्त्वं च विदितपरमार्थैः स्वरूपप्रत्यवमर्शसामान्यस्पन्दादिसंज्ञाभिः व्यवह्रियमाणं तत्पर्यायभूतोन्मेषादिपदाभिधेयतया प्रतिपादितम् | यदुक्तम् किंचिदुच्छूनतापत्तेरुन्मेषादिपदाभिधाः | प्रवर्तन्ते त्वयि शिवे शक्तिता ते यदाम्बिके || इति | न च यदाशब्दश्रुतिभ्रमात् कदाचिदेषा शक्त्यवस्था भवति, कदाचिन्न भवति इति मन्तव्यम्; यतः स्वभावसंवेदनात्मको नित्यः सामान्यस्पन्दरूप एव धर्मः किंचिदुच्छूनता इत्युक्तम् | (प्. १३०) ततः परं सदाशिवेश्वरविद्याख्यं तत्त्वत्रयमपि परामृतशब्दवाच्यमेव; यतः परमेश्वरस्य परमार्थतः एकत्वेऽपि अत्यद्भुतस्वैश्वर्यवीर्येण विशुद्धचिन्मात्ररूपतया विश्वात्मकत्वेन च अन्तर्बहीरूपं द्वैविध्यं यदवस्थितम्, तत्र विश्वात्मकस्य बाह्यस्य रूपस्य ज्ञेयकार्यभावेन लब्धस्वरूपत्वात् एकापि तच्छक्तिः ज्ञानक्रियारूपतया द्वित्वेन उपचर्यते | तच्च ज्ञानक्रियात्मकत्वं यत्र बहिरगृहीतोन्मेषमन्तः साम्येनैवावतिष्ठते त्रैगुण्यमिव अव्यक्तावस्थायां, सा परमेश्वरभोगात्मकज्ञानक्रियारूपत्वेऽपि अन्तर्मुखत्वात् निमेषात्मिका सदाशिवदशा | यत्र पुनः शक्तेः क्रियाप्राधान्येन बहिर्गृहीतोन्मेषायाः पराहंभावविश्रान्तिः सा ईश्वरदशा | यस्यां पुनर्ज्ञानशक्त्युद्रेकेण अस्या बहिर्मुखत्वं बाह्याभ्यन्तररूपसामानाधिकरण्यपर्यवसायित्वात् स्वरूपविश्रान्तिनिष्ठत्वमेव (प्. १३१) सा विद्यादशा इति | तिसृष्वपि एतासु दशासु भेदप्रतिपत्तिमूलत्वात् लब्धात्मिकापि मायाशक्तिः परस्याः संविदः सर्वापूरकपरिपूर्णाहंकारलक्षणे स्वभावे एव विश्रान्तत्वात् प्रत्यस्तमिता सती परमानन्दनिर्भरशिवरूपं तिरोधातुं नालम्, इति पदत्रयमेतत्परामृतमेव | यदुक्तं तत्त्वगर्भ एव ज्ञानक्रियास्वरूपेण प्रवृत्तायास्तु ते शिवे | सदाशिवत्वं जगदुर्भोगाह्वं तत्त्ववेदिनः || गुणीभूतज्ञशक्तिस्त्वं व्यक्तीभूतक्रियात्मिका | यदा तदैश्वरं तत्त्वं व्यक्ततामेति वृत्तिमत् || प्रवृत्तावुन्मुखीभूता भवेस्त्वं परमे यदा | ज्ञानशक्तिस्तदोदारा विद्या त्वं परिगीयसे || इति | तथा ईश्वरप्रत्यभिज्ञायाम् एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा | मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी || (प्. १३२) किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः | बहिर्भावपरत्वे तु परतः पारमेश्वरम् || ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः | सामानाधिकरण्यं च सद्विद्याहमिदंधियोः || इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् | भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् || इति | ततः परं तु परस्परपरिहारावस्थिताहंप्रतीतिलक्षणभिन्नविषयापेक्षिणि नानाभेदनियतात्माभिमानत्वात् तात्त्विकस्वैश्वर्यानभिज्ञे क्षेत्रज्ञतत्त्वे मायाशक्तिरेव केवला प्रभोर्विश्वरूपैश्वर्यप्रथास्पदभूता विजृम्भते | यथोक्तं तत्त्वगर्भे एव यदा त्वेवंविधादत्र निजा भोगाज्ञता पशोः | तदा मायास्वरूपेति गीयसे वैभवाश्रयः || इति | प्रत्यभिज्ञायामपि (प्. १३३) भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते | शून्ये बुद्धौ शरीरे वा मायाशक्तिर्विजृम्भते || इति | सा इह प्रत्ययोद्भवशब्देन प्रतिपादिता, यतोऽहमित्येव शिवात्मकस्य स्वभावस्य परामर्शात्मकं सम्यक् ज्ञानं, तस्यैव च स्वभावस्य विश्वरूपतया अवभासमानस्य इदन्तोल्लेखने भेदोद्भावनसामर्थ्यं मायाख्या शक्तिराख्याता, न तु वस्त्वन्तरं किंचित् | इदमिति च परामृश्यमानोऽर्थः प्रकाशमानत्वमतिक्रम्य अन्यथाभवितुं यतो न शक्नोति ततो भेदरूपापि असौ माया प्रकाशात्मकपारमेश्वरधर्मत्वानतिक्रमात् भगवतः शक्तिरेव इयमत्यद्भुता, यत् स्वरूपं स एव एवं प्रत्यपादयत् | दैवी ह्येषा गुणमयी मम माया दुरत्यया | मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते || इति | तथाहि अत्रायमर्थः - एषा मम दैवीमाया, देवस्य इत्थंक्रीडनैकरसस्य ईश्वरस्य (प्. १३४) सतः शक्तित्वेन संबन्धिनी; किंस्वरूपा ? - गुणमयी, गुणाः सुखाद्यात्मानः सत्त्वाद्यभिधानाः तत्प्रकृतिका; सा हि भेदावभासस्वभावा, भिन्नश्चार्थः शबादिविषयात्मकः, विषयश्च सुखादिसंवेदनपर्यवसितात्मा, - इति सुखादिरूपग्राह्याकारनिर्भासिनी माया गुणमयी इत्युक्ता | तथा दुरत्यया दुःखेन अत्येतुं शक्या, तदतिक्रमणे कृतोत्साहैः प्रबुद्धैरपि सपदि सकलसंसार्यवस्थोच्छेदानुपपत्तेः भेदव्यवहारस्य दुर्लङ्घ्यत्वात् | किं तु मामेव ये प्रपद्यन्ते छिन्नद्वैतदशाप्रतिष्ठितसंविदः सुप्रबुद्धाः सन्तो मामेवैकं तत्त्वमभेदेनात्मतया प्रत्यभिजानते, ते मद्भावमापन्ना एनामतितरन्ति | तस्यां हि दशायां दिवसद्युताविव द्योतमानायाम् इयं यामिनीव निर्मूलनष्टस्वरूपा तैरेवातिक्रान्ता (प्. १३५) भवति | यदुक्तं स्तोत्रे समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः | परामृष्टश्च नष्टश्च त्वद्भक्तिवलशालिभिः || एवंप्रत्ययोद्भवमात्रं माया, तन्मूलं च क्षेत्रज्ञतत्त्वं पशुपर्यायेण अस्वतन्त्रशब्देनात्र प्रतिपादितम् | प्रत्ययोद्भवरूपया हि अनया मायया स्वभावात् प्रच्यावितस्य अस्य तद्धर्मविपरीतेन कालादिरूपेण सुप्रसवेन पाशपञ्चकेन ग्रथितस्य पारतन्त्र्यं पशुत्वमुद्भाव्यते | तथा च - अयम् अनया व्यामोहितः अनवच्छिन्नत्वादिरूपं स्वधर्मम् अपरामृशन्, तद्विपरीतेन अवच्छेदकेन कलनात्मना भूतभविष्यदादिविकल्पविभक्तेन कालाख्येन, तथा सर्वात्मकत्वधर्मविस्मृतेः सर्वत्र नियतकार्यकारणभावाख्यात्मकेन नियतिनाम्ना, तथा सर्वकर्तृत्वसर्वज्ञत्वलक्षणधर्मद्वयौदासीन्यात् किंचित्कर्तृत्व - किंचिज्ज्ञत्वरूपाभ्यां (प्. १३६) कलाविद्याभिधानाभ्यां, तथा प्रेप्सितार्थविरहात् नित्यनिरभिलाषत्वलक्षणस्वधर्मापरामर्शात् विषयाभिलाषितारूपेण रागाख्येन च पाशेन बध्यमानः पराधीनवृत्तिः पशुः संबध्यते | एष च मायाशक्तेः पञ्चभेदः प्रसवः समस्तस्य पशुप्रबन्धस्य अविशेषेण स्वरूपमावृत्य व्यवस्थितः | यस्तु प्रतिप्राणि विचित्रबुद्ध्यादिरूपतया परिणमन् तमावृणोति, तस्य प्रधानाख्यस्य प्रसवस्य प्रपञ्चं प्रत्ययोद्भवविषयप्रतिपादनद्वारेणाह स च तन्मात्रगोचरः इति, स च पशुत्वकारणं प्रत्ययोद्भवः, तन्मात्रगोचरः तन्मात्राणि शब्दादिसामान्यानि गोचरो विषयो यस्य स तथा; प्रत्ययो हि अयं प्रत्येयं भिन्नं विषयमपेक्ष्य प्रादुर्भवति, विषयविषयिभावश्च ग्रहीतृग्रहणग्राह्यरूपे त्रितये सति उपपद्यते | तदपि त्रितयं साधारणं प्रवृत्तिकारणं विना न (प्. १३७) स्यात् इति | तच्चतुष्टयमनेन वाक्येनाक्षिप्तम् | तत्र ग्रहीता प्रत्ययवान् पशुः, ग्राह्याः प्राधान्येन शब्दस्पर्शरसरूपगन्धाः आकाशादिस्थूलभूताश्रया विशेषात्मका गुणाः, तदात्मना समस्तविषयोपलब्धेः | तेषां चात्रोपादाने उपपन्ने सामान्ये सर्वविशेषाणामन्तर्भावः, - इति सामान्यवाचिना तन्मात्रशब्देन उपात्ताः | तैः शब्दादिभिराश्रयभूतानि स्थूलानि आकाशादिभूतानि आक्षिप्तानि, निराश्रयाणां तेषामनुपपत्तेः | तदेतत् दशविधं कार्यम् | स च प्रत्ययवान् परवशः पशुः विषयित्वे सति इष्टानिष्टविषये हानादानक्रियायां करणमपेक्षते | तत्र येन विषयं निश्चिनोति तत्प्रकाशप्रधानं बुद्ध्याख्यं करणं | येन च अनात्मभूतं देहादिकमर्थम् आत्मतया अभिमन्यते तद्विपर्ययात्मकं नियमप्रधानमहंकाराख्यं, येन च प्रवृत्तिप्रधानेन विषयं विकल्पयति तत्संशयात्मकं मनोऽभिधानम्, - (प्. १३८) इति त्रिविधमन्तःकरणं यथोत्तरं कार्यत्वेनोक्तम् | येन तु शब्दादीन् गृह्णाति तच्छ्रोत्रादिबुद्धिन्द्रियपञ्चकम् | येन वचनादिक्रियां करोति तद्वागादिकर्मेन्द्रियपञ्चकम्, - इति दशविधं बहिष्करणम् | तच्च अहंकारकार्यतयैव उक्तम् | तदेतदाभ्यन्तरं बाह्यं च करणम् | एवं त्रयोविंशतिविधः कार्यकरणवर्गो विषयित्वान्यथानुपपत्त्या अत्राक्षिप्तः | तथा प्रवर्तकं हेतुमन्तरेण विषयप्रवृत्तेरभावादपि विषयत्वं न उपपद्यते, - इति स हेतुरत्र सुखाद्यात्मा प्रधानाभिधान आक्षिप्तः | तथाहि - सुखं प्रतिप्राणि स्ववासनानुगुणेष्टविषयप्राप्तेस्तृप्तिरनित्य आनन्दः, तेन प्रयुक्तः सन् इष्टविषयादानाय प्रवर्तते, तद्विपर्ययो दुःखम् अनिर्वृतिः ततोऽनिष्टविषयहानाय; उभयन्यग्भावस्तु मोहः, तस्मिन् सति व्यवतिष्ठते, - इति सुखदुःखमोहात्मकं प्रकाशप्रवृत्तिनियमार्थं सत्त्वाद्यभिधानगुणत्रयमयं विकारावस्थायामपि अन्योन्याविनाभूतत्वात् (प्. १३९) एकमेव प्रधानाख्यं सर्वप्राणभृतां विविधवासनानुगुणनानारूपकार्यकरणात्मकस्वपरिणाम- प्रपञ्चानुगतसाधारणं प्रवृत्तिकारणं रागाख्यमायीयमलप्रपञ्चभूतम् | अनेनैवाभिप्रायेण वृत्तिकृता स च तन्मात्रगोचरः, इत्यस्य पदस्य रूपाद्यभिलाषात्मकः इति पर्यायः प्रयुक्तः | रूपादिषु योऽभिलाषो रागः, तन्निमित्तकत्वात् तदात्मकः प्रत्ययोद्भवः; ततश्च अभिलाषप्रपञ्च एव सुखाद्यात्मकं प्रधानं कारणम् इत्येषा प्राधानिकी तत्त्वचतुर्विंशतिः स च तन्मात्रगोचरः इत्यनेनाक्षिप्ता | प्राक् च द्वादश तत्त्वानि निर्णीतानि, तद्यथा - शिवादिविद्यान्तानि पञ्च, माया, कालादिपञ्चकं, पशुतत्त्वं च, - इति षट्त्रिंशत्तत्त्वरूपतया पारमेश्वरी एकैव शक्तिर्विजृम्भते | व्याख्यातप्रायमेतत् वृत्तौ (प्. १४०) परामृतरसात् स्वरूपात् अपायः प्रच्युतिः इत्यादिना || १६ || एवं प्रत्ययोद्भवस्य पशुत्वकारणभावे प्रतिपादिते शक्तिवर्गस्य भोग्यतां गतः सन् पशुः स्मृतः, - इति पूर्वोक्तविरोधपरिहारार्थमाह स्वरूपावरणे चास्य शक्तयः सततोत्थिताः | यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः || ४/१७ (४७) || वृति: स्वरूपस्य स्वभावस्याच्छादने चास्य पुरुषस्य शक्तयो ब्राह्म्याद्याः पूर्वमुक्ता याः, ताः सततम् उद्युक्ताः, यतः शब्दरहितस्य प्रत्ययस्य ज्ञानस्य नास्त्येव कस्यचिदुद्भवः || ४७ || टिप्पणी: कवर्गाद्युत्पन्ना एव प्रत्ययाः, तदधिष्ठात्र्यः पीठेश्वर्यो माहेश्याद्यास्ता एव पशोः पारस्वरूपमावरीतुं सदोद्युक्ताः, अत एवोत्तरोत्तरं विषयभोगासक्तानामणूनां संसृतिरविरतप्रसरणेति || ४७ || विवृति: (प्. १४०) अस्य एवंप्रत्ययापादितपशुत्वस्य आत्मनः स्वरूपावरणे स्वरूपस्य शिवात्मकस्य स्वभावस्य आवरणे, तथाप्रत्यवमर्शाभावमात्रेण हेतुना व्यवधाने स्थगने; तन्निमित्तं शक्तयः प्रागुक्ताः सततोत्थिताः पतिपशुव्यवहारस्य न कदाचित् उपरमात् सततं नित्यम् उत्थिताः उदिताः; यतः अस्वतन्त्रतापादनात्मना अमृतरसापायहेतुत्वेन प्रतिपादितो यः प्रत्ययोद्भवः (प्. १४१) स शब्दानुवेधेन शब्दसंभेदेन विना न संभवति, - इति शेषः | एतदेव कुतः ? इति चेत्, तदुच्यते, - शब्दः खलु प्रत्यवमर्शात्मा अवभासात्मनोऽर्थस्य अन्यतः खड्गोदकादर्शादेरन्तःक्रोडीकृततत्तत्पदार्थसार्थात् जडात् भेदतः स्वभावभूत एव | तथा च प्रत्यभिज्ञा स्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः || इति | अन्यत्रापि उक्तम् न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमं विना | अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते || इति | स च सर्वावच्छेदविरहितविशुद्धचित्प्रकाशात्मकमुख्यार्थ- निष्टः सन् प्रत्यवमर्श इत्युच्यते | जातिगुणक्रियाभिधानादिविविध- विशेषावच्छिन्नभिन्नरूपविश्वात्मकार्थावभासनिष्टस्तु विविधकल्पनात्मकत्वात् विकल्प इत्युच्यते | तदेव शब्दस्य मुख्यं रूपं, तत्संकेतत्वेन व्यवस्थितः (प्. १४२) श्रोत्रग्राह्यो ध्वनिविशेषात्मकोऽर्थ एव प्रायेण शब्दः इति व्यवह्रियते | तस्माच्छब्दरूपतामापन्नाः प्रत्ययोद्भवप्राणभूताः शक्तय एवास्य स्वरूपावरणे सदोद्युक्ता, - इति शक्तिवर्गस्य भोग्यतां गतः सन् पशुः स्मृतः, - इति पूर्वोक्तेनाविरोधः प्रतिपादितः | स्वरूपस्य स्वस्वभावस्याच्छादने इत्यादिना वृत्तौ व्याख्यातमेतत् || १७ || अथास्य शब्दपर्यन्तस्य प्रसरस्य, परस्याश्च शक्तेरभेदप्रतिपादनपूर्वं तत्स्वरूपाप्रत्यभिज्ञामात्रनिबन्धनौ बन्धमोक्षौ प्रतिपादयितुमाह सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपदादिका || ४/१८ (४८) || वृति: सा चेयं क्रियास्वभावा भगवतः पशुवर्तिनी शक्तिः | यदुक्तम् (प्. ३८) ऽन सा जीवकला काचित्संतानद्वयवर्तिनी | व्याप्त्री शिवकला यस्यामधिष्ठात्री न विद्यते ||ऽ इति | सैव च बन्धकारणम् अज्ञाता, ज्ञाता सा च पुनः परापरसिद्धिप्रदा भवति पुंसाम् || ४८ || टिप्पणी: बहिर्भावपर्यन्तं प्रसृतायाः पारमेश्वर्याः क्रियाशक्तेरेव हेतोर्भेदाभेदसंवेदननिबन्धनैव बन्धमोक्षविकल्पनेत्यर्थः || ४८ || विवृति: सा शिवस्य स्वस्वभावस्यैव परमेश्वरस्य क्रियात्मिका तत्स्वरूपप्रत्यवमर्शलक्षणव्यापारशरीरा (प्. १४३) शक्तिः अव्यभिचारी धर्मः समर्थतारूपः इयं प्रतिपादितप्रसररूपा शक्तिः यैव अद्वयचिन्मात्रस्वभावप्रत्यवमर्शिनी परा शक्तिः परमेश्वरस्य सैव इयम् इत्थं - प्रसृत्य अवभासते, तत्त्वतो नास्ति अस्याः ततो भेद इत्यर्थः | यथोक्तं वृत्तौ न सा जीवकला काचित्संतानद्वयवर्तिनी | व्याप्त्री शिवकला यस्यामधिष्ठात्री न विद्यते || इति | अस्य हि श्लोकस्यायमर्थः - जीवस्य पुंसः पशोः कलानां द्विविधः संतानो - ज्ञानरूपः क्रियारूपश्च; तत्र ज्ञानरूपोऽन्तःकरणात्मकः त्रिविधः, क्रियारूपो बहिष्करणात्मकः स्वभावस्थप्राणशक्तिसहित एकादशविधः, - इति चतुर्दशविधो जीवकलासंतानः संग्रहात् द्विविध एव, संतानद्वयवर्तिनी जीवस्यात्मनः कला सा न काचित् संभवति इति शेषः यस्यां व्याप्त्री देशकालाद्यनवच्छिन्नवैभवाधिष्ठात्री वेद्यत्वादिना सर्वमधिष्ठाय आत्मपरतन्त्रं कृत्वा वर्तमाना (प्. १४४) शिवकला, शिवस्य परमात्मनः कला परा शक्तिः उक्तरूपा न विद्यते सत्तां व्यभिचरति, सैव इत्थमवभासते इत्यर्थः | वैश्वरूप्येऽपि अवभासलक्षणस्य सामान्यरूपस्य शिवधर्मस्य व्यापकस्य अतिरोभावात्, सैव परा शक्तिरित्यम्, अपरा स्थूलक्रियारूपा, - इति परापरयोः शक्त्योरभेद एव पारमार्थिकः प्रत्यभिज्ञापितः | तदेतत् ज्ञानगर्भस्तोत्रेऽप्युक्तम् बहिषकरणबुद्ध्यहंकृतिमनःसुषुम्नाश्रया- च्चतुर्दशसु चण्डिके पथिषु येन येन व्रजेत् | कला शिवनिकेतनं जननि तत्र तत्र स्म ते दशोदयति दुर्लभा जगति या सुरैरप्यहो || अस्यापि श्लोकस्यायं तात्पर्यार्थः - श्रोत्रादिपञ्चकं वागादिपञ्चकं दशविधं बहिष्करणं, बुद्ध्यहंकारमनांसि त्रिविधमन्तःकरणं मध्यमप्राणश्च, - इति कलायाः चिदात्मिकायाः शक्तेः चतुर्दश भेदाः | तेषां ये तावन्त एव पन्थानः (प्. १४५) प्रसरमार्गास्तेषु मध्ये येन येन केनचिदेकतमेन पथा एषा कला शिवनिकेतनं व्रजेत्, शिवः परमात्मा स एव निकेतनमालयस्तद् गच्छेत्, तत्र दशा उदयति - इति संबन्धः | शिवनिकेतनं व्रजेत् - इति मायीयभेदप्रत्ययव्यतिरेकेण शिवाख्यस्वपदाश्रयणरूपः पारमार्थिकः कलाया व्यापारः सिद्धवत् व्यवहृतः | इयं हि कला शिवात्मकात् निजास्पदात् न दुःखं न सुखम् इत्यादिना कृतलक्षणात् उदेति, कृतकृत्या च तत्रैवान्ते(न्तः)प्रविश्य समरसीभवति सरिदिव सागरे; मध्येऽपि बुद्ध्याद्यन्योन्यभिन्नप्रसररूपतया नानात्वेन अवभासमानापि जलरूपत्वमिव सामान्यं चिदात्मकत्वं न व्यभिचरति, - इति न कदाचित् शिवस्वभावात् अपैति; किंतु मायाशक्तिव्यामोहितैः न तथा प्रत्यभिज्ञायते - इति | एवमेषा कला येन येन पथा शिवनिकेतनं व्रजेत्, (प्. १४६) तत्र सा तादृशी स्वसंवेद्यत्वात् व्यपदेष्टुमशक्या कस्यचित् प्रबुद्धस्यैव दशा अवस्था उदयति अभिव्यज्यते, या सुरैर्ब्रह्मादिभिरपि दुर्लभा, ते हि प्रत्ययोद्भवजनितब्रह्मत्वाद्यवच्छिन्नपाशवाभिमानानति- क्रमात् शिवरूपां पतिदशां कथमाप्नुयुः - इति | प्रकृतमिदानीं व्याख्यायते, - किंतु एवं - रूपापि असौ पारमेश्वरी क्रियात्मिका परा शक्तिः पशुवर्तिनी बन्धयित्री पशौ भेदप्रत्ययोद्भवापादितपारतन्त्र्ये पुंसि वर्तमाना, बन्धस्य जन्मादिप्रबन्धपरिवर्तनात्मकस्य संसारस्य कर्त्री | - पशुः किल सर्वतो व्यवच्छिन्नस्य आत्मन एव स्वत्वेन एनाम् अध्यवस्यन् इष्टानिष्टविषयोपादानहानजनितसुखाद्यनुभवमात्रपर्य- वसितनिजज्ञानक्रियापरिस्पन्दत्वात् अपरामृष्टतत्परमार्थो व्यवच्छिन्नत्ति; | सा चैवं व्यवच्छिन्नत्वेन गृह्यमाणा तम् आ प्रबोधप्रत्युदयात् (प्. १४७) पशुत्वेन बध्नाति; - इति पशुवर्तिनी बन्धयित्री इत्युक्तम् | ननु एवं - स्वभावत्वात् अस्याः, पशोः बन्धध्वंसाभावप्रसङ्गः ? तत आह - ज्ञाता विदिता शिवात्मकस्वस्वभावप्रत्यवमर्शक्रियारूपतया प्रत्यभिज्ञाता सती सिद्ध्युपपादिका सिद्धेः आत्मैश्वर्याधिगमलक्षणायाः परायाः, आनुषङ्गिकविविधविभूत्याविर्भावरूपायाश्च अपरायाः उपपादिका, वस्तुस्वभावबलात् संपादयित्री; यत एषा स्वमार्गस्था स्वस्मिन् आत्मीये शिवस्वभावरूपे मार्गे अध्वनि स्थिता, तद्व्यतिरिक्तविषयान्तरनिवृत्तगतिरित्यर्थः; प्रत्ययोद्भवरूपमायावैभवोद्भावितभिदापेक्षया तु पशुवर्तिनी जीवकला - इत्युच्यते; प्रत्युदितप्रबोधस्य तु यथावस्थितत्वेन प्रत्यभिज्ञायमाना सर्वाः सिद्धीरुपपादयति | - इति श्लोकार्थं व्याख्याय, इदानीं यथा एषा स्वमार्गस्था तथा वितत्य प्रतिपाद्यते | एषा (प्. १४८) हि परमेऽऽवरस्वरूपप्रकाशप्रत्यवमर्शमात्ररूपा परैव शक्तिः वाग्रूपतया प्रसृता, - इति परमेश्वरेण शास्त्रेषु बहुशः प्रदर्शयता सर्वदा स्वमार्गस्थत्वमस्याः प्रतिपादितम् | तथा च श्रीमालिनीविजये या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवि सिसृक्षोः संप्रपद्यते || सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु | एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् || ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते | एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा || जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रिया मता | एवं यथा द्विरूपैव पुनर्भेदैरनेकताम् || अर्थोपाधिवशाद्याति चिन्तामणिरिवैश्वरी | तत्र तावत्समापन्ना मातृभावं विभिद्यते || द्विधा च नवधा भेदैः पञ्चाशद्धा च मालिनी | इत्यादिना प्रकाशितोऽयमर्थः | तथा शब्दाद्वयवादिभिरपि (प्. १४९) विवृत्तिवाचोयुक्त्या तत्प्रसरं प्रतिपादयद्भिः स्वमार्गस्थत्वमेव अस्याः प्रदर्शितम् | यदाहुः वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती | न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी || इति | सैषा अत्यन्ताभेददशा, यस्यां स्फुटमेव अस्याः स्वमार्गस्थत्वम् | यदा पुनः इदमिति नानारूपं विभक्तत्वेन क्रमिकत्वेन च अन्तः परिस्फुरितमखिलं जगत् अविमर्शात् उपसंहृत्य विभागक्रमशून्यस्वमहिम्नि स्वभावव्योम्नि निमिषन्ती स्वरूपप्रकाशमात्रपरिशेषैव भवति, तदा आन्तरस्य परस्य ज्ञातुः पश्यन्त्यभिधानवाग्रूपा विवृत्तिः - इत्युक्ता | यदाहुः अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा | स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी || इति | अत्रापि स्वमार्गस्थैव एषा | यदा प्राणप्रयत्नव्यतिरेकेण प्रतिप्राणि शरीरान्तरस्वोदितानादिनिधनध्वनिविशेषात्मकतया (प्. १५०) कालादिक्रमं वर्णादिविभागं भाविनमनुगच्छन्ती प्रसरं गृह्णाति, तदा मध्यमाख्यवाग्रूपा विवृत्तिः - इत्यभिहिता; तदापि संविन्मात्रप्रकृतिकत्वमनतिक्रान्ता स्वमार्गस्थैव एषा | यदुक्तम् केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी | प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते || इति | यदा तु प्रयोक्तृपुरुषेच्छानुविधायिप्रयत्नप्रेरिते प्राणाभिधाने मरुति शरीरोद्देशेषु उरःप्रभृतिषु जाताभिघाते, सैव सामान्यध्वनिरूपा स्वरव्यञ्जनादिभेदविभक्ताकारादि- नियतवर्णरूपतां प्रयोक्तृभेदेऽपि अव्यभिचरन्ती प्रसरति, तदा वर्णभेदादिव्यञ्जकप्राणमात्राश्रया वैखर्यभिधानवाग्रूपा विवृत्तिः - इत्युक्तम् | (प्. १५१) यदुक्तम् स्थानेष्वभिहते वायौ कृतवर्णपरिग्रहा | वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना || इति | तदापि असौ देशकालाधारप्रयोक्तादिवैचित्र्यैः अविकार्यनियतवर्णसमुदायात्मिकतां पुरुषेच्छादिसापेक्षाभिव्यक्तिकामजहती नित्यैव, संविद्रूपत्वमपि अनुगतमेव मध्यमावदस्यामपि; - इति स्वमार्गस्थत्वमपि अस्या न व्याहन्यते | एवमसौ वैखरीरूपतामापन्नापि मातृकावर्गवर्णपदवाक्यार्थभेदेन अपर्यन्तं प्रसरं गृह्णाति | यथा च वर्णवैखरीरूपा इयम् एवमनन्तप्रसरा, तथा स्वरवैखरीरूपापि स्वरग्राममूर्च्छनातानजातरागादिभेदेनापि अनन्तप्रसरा | तदेवम् इयं पारमेश्वरी परा शक्तिः (प्. १५२) स्वभावप्रत्यवमर्शक्रियादिना सांकेतिकशब्दपर्यन्तेन निरवधिना स्वमहिम्ना प्रसृतापि, सर्वस्यैव पदार्थजातस्य सामान्यसंवित्प्रकाशव्यतिरेकेण अनुपपन्नस्वात्मलाभस्य प्रत्यवमर्शिनी सती, सर्वदा स्वमार्गस्थत्वं न व्यभिचरति | ततश्च - जगत्क्रीडार्थम् ईश्वरोद्भावितमायाशक्तिजनितैः नानाविकल्परूपैरावरणैः संबध्यमानापि अनुग्रहशक्तिस्पर्शोन्मेषितसत्यतद्रूपग्रहणकुशलविमल- विज्ञानदृशः प्रमातॄन् प्रति तैः स्थगयितुमत्यन्तं तिरोधातुमशक्यैव - | यदुक्तम् सेयमाकीर्यमाणापि नित्यमागन्तुकैर्मलैः | अन्त्या कलेव सोमस्य नात्यन्तमभिभूयते || इति | तत् इत्थं परममेव कारणं यथाविभक्तशब्दरूपतयापि प्रसृतम् - इति स्थितम् | सत्यं परागतं सूक्ष्मं निरवद्यमनुत्तरम् | अथ ब्रह्म परं शान्तमादिवर्णत्वमागतम् || (प्. १५३) इत्यादि | तथा च शब्दाद्वयवादे सामान्येन शब्दार्थोभयरूपोऽपर्यन्तावान्तरभेदो योऽयमीश्वरस्य शक्तिप्रसरः, तं विवर्तवाचोयुक्त्या व्यवहरति स्म | यदाह अथायमान्तरो ज्ञाता सूक्ष्मे वागात्मनि स्थितः | व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते || अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् | विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः || इति | अत्र ब्रह्मपर्यायशब्दतत्त्वतया पारमेश्वरमेव रूपं निर्दिष्टम् | तत् - इयं परा शक्तिरेव स्वमार्गस्था ज्ञाता तथा सम्यक्प्रतिपन्नस्वभावा सती संपूर्णां सिद्धिम् उपपादयति, - इत्युक्तम् | सेयमेव वैखरीरूपतामापन्ना पुरुषप्राणपरिस्पन्दाधिनाभिव्यक्तिकत्वात् स्थूला क्रियाशक्तिः, - इत्यपि क्वचिदुक्ता, तत्पूर्वा च मध्यमा वाक् इच्छाशक्तिः, तत्पूर्वा च पश्यन्ती (प्. १५४) ज्ञानशक्तिः - इति | तदेवं शक्तित्वे सति शक्तिमन्तमियम् अपेक्षते, - इत्यभिन्नमातृकात्मकः शब्दराशिरूपक्रियाशक्तिप्रधान ऐश्वरो विग्रहोऽस्याः समाश्रयः, यत्र इयं वर्गादिभिः वाक्यपर्यन्तैः स्वप्रसरभेदैः विजृम्भते | योऽपि वाक्यरूपः प्रसरोऽस्याः, स नित्यानित्यभेदेन द्विविधः, - तत्र मन्त्रात्मकः शास्त्रात्मकश्च नित्यः, लोकिकव्यवहारविषयलौकिकवाक्यात्मकस्तु अनित्यः | एवं परमेश्वरशक्तित्वेन प्रत्यभिज्ञायमाना एषा वाङ्मयी विभूतिः परसिद्धिप्रदा, नानापशुसंबन्धितया तु अवच्छिद्यमाना बन्धहेतुर्भवति - इति | व्याख्यातमेतद् वृत्तौ सा चेयं क्रियात्मिका क्रियास्वभावा इत्यादिना || १८ || एवं पतिस्वभावस्यैव आत्मतत्त्वस्य स्वमायावभासितं पशुत्वं प्रतिपाद्य, इदानीं पशोः सतो विद्योदयात् स्वमार्गस्थत्वेन अभिज्ञायमाना एषा (प्. १५५) परा शक्तिः, पतित्वाभिव्यक्तिमावहन्ती संसारविच्छेदहेतुः यथा भवति, तथा संसारकारणप्रतिपादनपूर्वं हेतुकथनं प्रतिजानानः श्लोकद्वयमाह तन्मात्रोदयरूपेण मनोऽहंबुद्धिवर्तिना* | पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् || ४/१९ (४९) || (* विवृति: मनोऽहंबुद्धिवृत्तिना) वृति: तन्मात्रोदयः, तन्मात्राणां शब्दादीनामनुभव -रूपेण, मनोऽहंकारबुद्धिभिः इति त्रिभिः परामृश्यमानेन पुर्यष्टकेन बद्धः, तदुत्थं तस्मादुद्भूतं सुखदुःखसंवेदनरूपं तदा || ४९ || टिप्पणी: पुर्यष्टकसंरुद्धत्वादेवास्य पशोः कर्मचक्र भ्रम्यनुभवः || ४९ || भुङ्क्ते परवशो भोगं तद्भावात्संसरत्यतः* | संसृतिप्रलयस्यास्य कारणं संप्रचक्ष्महे (घ्: संसृतिप्रत्ययस्येतीत्थं शोधितः पाठः संलक्ष्यते |) || ४/२० (५०) || (* विवृति: तद्भावात्संसरेदतः) वृति: भुङ्क्ते अश्नाति, अस्वतन्त्रो, भोगं सुखदुःखसंवेदन - रूपं, तस्य पुर्यष्टकस्य भावात् संसरति (प्. ३९) संसारशरीरे, अतः संसृतिप्रलयस्य (घ्: संसृतिप्रत्ययस्येतीत्थं शोधितः पाठः |) जन्ममरणप्रवाह -रूपस्य संसारस्य विनाशकारणं संप्रचक्ष्महे वक्ष्यामः || ५० || टिप्पणी: इत्यतः संसृतिविनाशकारणं साधनं वक्ष्यमाणमुपपद्यते || ५० || विवृति: (प्. १५५) अतो हेतोः अस्य उक्तवक्ष्यमाणरूपस्य पशोः, यः संसृतिप्रलयः संसारक्षयः, तस्य कारणं हेतुं संप्रचक्ष्महे युगलकात् अस्मादुत्तरेण श्लोकेन सम्यक् प्रकर्षेण च ब्रूमहे | अत्र व्यधिकरणेन षष्ठ्यौ व्याख्येये | कुतो हेतोः ? - यतोऽयं पशुः पुर्यष्टकेन संरुद्धः सन् भोगं भुङ्क्ते पुर्यां सूक्ष्मे शरीरे तन्मात्रपञ्चकं गुणत्रयम् - इति स्थूलशरीरकारणभूतमष्टकम् (प्. १५६) यत् संनिविष्टं, तन्मुख्यं [तन्मुखं] पुर्यष्टकम्, तत्कार्यत्वात् स्थूलमपि शरीरं तच्छब्देन इह पुर्यष्टकम् - इत्युच्यते, तेन संरुद्धः तावन्मात्रमात्मत्वेनाभिमन्यमानो विस्मृतसर्वात्मकत्वादिस्वसामर्थ्यवशात् बद्धः, अत एव परवशः सर्वशक्तिस्वभावव्यतिरिक्तकारणान्तराधीनसकलसमीहितार्थ- सिद्धत्वात् अस्वतन्त्रः सन् भोगं मायावभासितानादिनिजकर्मोपचितवासनानुगुणसुखादि- संवेदनात्मकतया पर्यवसितं स्वविषयमात्रं भुङ्क्ते अनुभवति | कीदृशं ? तदुत्थं तस्मात् पुर्यष्टकात् उत्थितमुद्भूतं, - देहबन्धे हि सति भोगनिर्वृत्तिरुपपद्यते - | कं तं भोगम् ? - प्रत्ययोद्भवं प्राग्व्याख्यातस्वरूपनियतस्वविषयज्ञानोत्पादरूपं, - स्वविषयमात्रभोक्तृत्वाभिमानरूपस्य प्रत्ययस्य उत्पाद एव भोगः - इत्यर्थः | कीदृशेन पुर्यष्टकेन संरुद्धः ? - तन्मात्रोदयरूपेण तन्मात्राणि (प्. १५७) स्थूलभूतकारणभावेन ईश्वरेच्छयैव अवभासिताः सूक्ष्माः शब्दादयः, तेषामुदयः स्थूलशरीरभावपरिणताकाशाद्यात्मना अभिव्यक्तिः | तथा च - अत्र यद्यन्नाड्यादि सुषिरं तदाकाशं शब्दतन्मात्रोदयः, यद्यत् सक्रियं प्राणादि स वायुः स्पर्शतन्मात्रोदयः, यद्यत् उष्णप्रभास्वरादिरूपं अग्न्यादि तत्तेजो रूपतन्मात्रोदयः, यद्यत् द्रवरूपं रुधिरादि ता आपः रसतन्मात्रोदयः, यद्यत् कठिनं मांसास्थिस्नायवादि सा पृथ्वी गन्धतन्मात्रोदयः, - इति तन्मात्रोदयो रूपमाकारो यस्य तत् तथा तेन | एवं तन्मात्रोदयरूपत्वं व्याख्याय, गुणोदयरूपत्वं दर्शयितुं विशेषणान्तरमाह, - मनोऽहंबुद्धिवृत्तिना इति | अनुभूयमानस्य अस्य आत्मलाभोऽनुभवश्च अन्तःकरणनिष्ठः - इति मनसि रजोगुणोदये, अहङ्कारे तमोगुणोदये, बुद्धौ च सत्त्वगुणोदयरूपायां वृत्तिर्वर्तनम् (प्. १५८) अवस्थितिः यस्य तादृशेन | स च एवंविधेन पुर्यष्टकेन संरुद्धः सन् पशुः तद्भावात् तस्य पुर्यष्टकस्य स्थूलसूक्ष्मस्य भावात् विद्यमानत्वात् अप्रबोधे सति अनुच्छेदात् संसरेत् अनवरतं नानाशरीरभोगवासनाकर्मचक्रभ्रममनुभवेत् आ प्रबोधप्रत्युदयात् | इदमत्र तात्पर्यम् - देहसंरुद्धस्य पुंसः प्रतिनियतसुखादिसंवेदनात्मनि भोगे यो भोक्तृत्वाभिमानः, तत् संसारकारणम्, अतोऽस्य निरावरणस्वरूपस्थितिमात्रं [निराव * ण-] संसारविनाशहेतुं संप्रचक्ष्महे - इति | व्याख्यातमेतत् वृत्तिकृता तन्मात्रोदय इत्यादिना भुंक्तेऽश्नाति परवशः इत्यादिना च || १९ || २० || अधुना आत्मन एव शिवस्य यथोक्तैश्वर्यरूपं पतित्वं येन अभिव्यज्यते, तत् समनन्तरं (प्. १५९) प्रतिज्ञातम् उपायान्तरम् उपदिशन् प्रकरणमुपसंहरति यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ* | नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् || ४/२१ (५१) || (* विवृति: लयोद्भवौ) वृति: यदा पुनस्त्वेकत्र स्थूले सूक्ष्मे वा संरूढो लीनचित्तः, तदा तस्य प्रत्ययोद्भवस्य लयोद्भवौ ध्वंसप्रादुर्भावौ नियच्छन् कुर्वन् भोक्तृतां प्राप्नोति, ततः चक्रेश्वरो भवेत् सर्वाधिपतिर्भवति || ५१ || टिप्पणी: एवं प्राक्प्रतिपादितस्योपलब्ध्रेकस्वभावस्य स्वात्मनो निविड -वितर्कपरिशीलनया विकल्पहान्याद्युपायवृत्त्या भूतभावात्म -कयोः शरीरयोरन्यतरस्मिन् अविकल्पसंवित्स्वरूपप्राप्तेः गोचर्यादिशक्तिचक्रस्यानधीनवृत्तित्वात् स्वैश्वर्यविजृम्भामात्र -विज्ञानेन तदीश्वरः पतिः संपद्यते इति | कश्मीरेन्द्रैः श्रीमत्प्रतापसिंहैः पुराणविद्यानाम् | जीर्णोद्धारादिकर्मणि नियुक्तसद्भिर्मुकुन्दरामाद्यैः || शाकेग्निघ्नशिवाङ्केन्दुमिते स्पन्दस्य कारिकावृत्तेः संक्षिप्तार्थप्रकाशः समग्राहिस्ताच्छिवाय भव्यानाम् || ५१ || विवृति: (प्. १५९) यदा तु यस्मिन् पुनः काले स्थूलसूक्ष्मत्वात् अनयोः पुर्यष्टकसंज्ञानिर्दिष्टयोः प्रत्ययोद्भवमात्रमूलयोः शरीरयोः मध्यात् एकत्र अन्यतरस्मिन्, अथवा - प्राक्प्रतिपादितोपपत्त्या संवेद्यमानस्यैव अर्थस्य शरीरत्वे व्यवस्थिते भूतात्मकभावात्मकभेदेन स्थूलसूक्ष्मयोः शरीरयोर्मध्यादेकत्र, अथवा - ध्येयतया आलम्बनीययोः स्थूलसूक्ष्मयोर्भावयोर्मध्यात् एकत्र संरूद्धः सम्यक् अविलम्बतया रूढः, (प्. १६०) एकाग्रताप्रकर्षात् अभेदेन परिणतसंवित् साधकः तदा, तस्मिन् क्षणे तस्य अभेदेन प्रतिपन्नस्य यथोक्तस्य शरीरस्य लयोद्भवौ त्यागग्रहरूपौ विनाशोत्पादौ नियच्छन् भोक्तृशब्देन वक्ष्यमाणस्य सत्यस्य कर्तुः आत्मन एव कार्यतया अवधारयन्, - अहमेव नित्यनिरावरणस्वतन्त्रचिन्मात्रस्वरूपः अनयोः कर्ता - इति निर्विकल्पतया व्यवस्थापयन् भोक्तृतामेति भोक्तुरुपलब्धृमात्रस्वभावस्य परमात्मनो भावो भोक्तृता तामाप्नोति, सतीमपि तदानीमेव प्रत्यभिज्ञया स्वीकुरुते ततः सत्यात्मस्वरूपप्रत्यभिज्ञालक्षणात् हेतोः चक्रेश्वरो भवेत् चक्रस्य प्राक्प्रतिपादितस्थित्या चराचरभावपर्यन्तेन प्रपञ्चेन प्रसृतस्य शब्दराशिसमुत्थस्य स्वशक्तिसमूहस्य, ईश्वरोऽधिष्ठाता, स्वैश्वर्यविजृम्भामात्रतया अवगम्यमानस्य (प्. १६१) यथेष्टविनियोक्ता संपद्येत | तदैव स्वाभाविकस्वातन्त्र्याभिव्यक्तेः पशुप्रत्ययप्रध्वंसे सति, शक्तिचक्रभोग्यतां विमुच्य, तद्भोक्तृभावरूपमैश्वर्यं प्रतिपाद्येत; अतः तौ लयोद्भवौ तत्र भोक्तरि आत्मनि नियच्छेत् - इति वाक्यार्थः | इदमत्र तात्पर्यम् - यथा सर्वः कश्चित् देही देहमात्रप्रतिष्ठितात्माभिमानो वाह्यस्य घटादेः पदार्थस्य ग्राह्यतयैव प्रतिपन्नस्य त्यागग्रहौ तादृशि स्वात्मनि नियच्छन् अहमेव एतयोः कर्ता - इति निश्चिन्वन्, तावति स्वतन्त्रं कर्तारं शरीरितानिविष्टमात्मानं मन्यते, तथैव तस्य शरीरस्य वेद्यभूमिकापादनेन क्रियमाणौ त्यागग्रहौ तद्विलक्षणे सर्वदा वेद्यत्वसंस्पर्शासहिष्णौ अनन्यसाधारणकर्तृत्वस्वभावे सत्ये स्वात्मनि वस्तुसामर्थ्यात् नियमं (प्. १६२) भजन्तावपि अप्रबुद्धत्वात् न प्रतिपद्यते; ततः शरीरशरीरिविवेकग्रहणयोग्यप्रज्ञप्रबुद्धमेव प्रति अयमुपदेशः; यतः तादृश एव अनुग्रहशक्तिशकलितसंशयग्रन्थिः परमेश्वरस्य एवंविधविशेषोपदेशपात्रम् | यदाह अयं सर्वस्य प्रभव इतः सर्वं प्रवर्तते | इति मत्वा भजन्ते मां बुधा भावसमन्विताः || मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् | कथयन्तश्च मां नित्यं तुष्यन्ति रमयन्ति च || तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् | ददामि बुद्धियोगं तं येन मां प्रापयन्ति ते || तेषामेवानुकम्पार्थमहमज्ञानजं तमः | नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || इति | यस्मात् उपदेशात् अनुशील्यमानात्, अस्य एकत्र इति प्रतिपादितस्य शरीरस्य अभेदेन प्रतिभासमानस्य सतः, समनन्तरं (प्. १६३) वेद्यीक्रियमाणस्य त्यागग्रहात्मकौ लयोद्भवौ तद्विधर्मिणि भोक्तरि सर्वेश्वरे स्वात्मन्येव स्वातन्त्र्येण कार्यतया नियम्यमानौ नियन्तुः परस्वभावप्रत्यभिज्ञामावहन्तौ सर्वैश्वर्याय कल्पेते, ततः तौ तत्र नियच्छेत् - इति वाक्यार्थः | तत् अनेन आत्मन एव शिवस्य स्वेच्छामात्राधीनौ जगतः प्रलयोदयौ, जगदपि तत्स्वरूपाभेदात् तस्य स्वशक्तिचक्रमयो विभव - इति यथोपक्रान्तार्थनिर्वाहात् एकमेव तत्त्वं स्वरूपपरामर्शमात्राव्यभिचारधर्मकं परमार्थसन्, अतो व्यतिरिक्तं किंचित् न संभवति - इति उपपादितम् | यदुक्तम् परमार्थे तु नैकत्वं पृथक्त्वाद्भिन्नलक्षणम् | पृथक्त्वैकत्वरूपेण तत्त्वमेकं प्रकाशते || यत्पृथक्त्वमसंदिग्धं तदेकत्वान्न भिद्यते | यदेकत्वमसंदिग्धं तत्पृथक्त्वान्न भिद्यते || (प्. १६४) द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः | अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः || इति | अयमेवार्थः उक्त्यन्तरेण स्वस्तोत्रे प्रतिपादितोऽस्माभिः चित्रालोकविकल्पकल्पितनवाकल्पाङ्कनानाकृतिं नृत्यन्तीं बहुधा बहिः स्ववपुषोऽप्यन्तर्न भिन्नां पुनः | नित्यं नूतनकौतुकः प्रियतमां स्वां शक्तिमालोकयन् अच्छिन्नाप्रतिमप्रमोदमहिमा शंभुर्जयत्येककः || इति | तत् अत्र समनन्तरव्याख्याते श्लोके प्रकरणारम्भश्लोकप्रतिज्ञातः स्वसंवेदनसंवेद्य आत्मैश्वर्याद्वयलक्षणोऽर्थो निर्वाहितः | व्याख्यातमेतत् वृत्तिकृता यदा पुनरेकत्र स्थूले सूक्ष्मे वा इत्यादिना ग्रन्थेन || २१ || इति श्रीराजानकश्रीरामविरचितायां स्पन्दविवृतौ शक्त्यात्मकविश्वाव्यतिरेकोपलब्धिः प्रकीर्णं च चतुर्थो निःष्यन्दः समाप्तः || ४ || (प्. १६५) विवृति: इदानीम् आत्मन एव एकस्य तत्त्वस्य संशयमात्रम् अप्रथने कारणं, तच्च सद्गुरूपदेशव्यतिरेकेण न शक्यमुन्मूलयितुम्, परमेश्वरो हि गुरुमूर्तिमाविश्य अनुग्राह्यान् स्वप्रत्यभिज्ञापनेन प्रबोधयति, - इति निजगुरुसरस्वतीस्तवनद्वारेणाह अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् (क्: संशयाम्भोधेरिति; ग्: संशयाम्भोधौ) | वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् || ५/१ (५२) || वृती अगाधो ह्यप्रतिष्ठोऽनन्तः || ५२ || इति श्रीभट्टकल्लटविरचितायां स्पन्दकारिकावृत्तौ विभूतिस्पन्दस् - तृतीयो निःष्यन्दः || ३ || (प्. ४०) समाप्तं स्पन्दसर्वस्वं प्रवृत्तं भट्टकल्लटात् | स्वप्रकाशैकचित्तत्त्वपरिरम्भरसोत्सुकात् || १ || दृब्धं महादेवगिरौ महेशस्वप्नोपदिष्टाच्छिवसूत्रसिन्धोः | स्पन्दामृतं यद्वसुगुप्तपादैः श्रीकल्लटस्तत्प्रकटीचकार (क्: चित्तत्त्वे परिरम्भ) || २ || आ तपनान्मोटकान्तं यस्य मे गुरुसंततिः | तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता || ३ || परिपूर्णेयं स्पन्दवृत्तिः कृतिस्तत्रभवन्महामाहेश्वराचार्यवर्यभट्टश्रीकल्लट- पादानाम् || विवृति: (प्. १६५) ताम् अशक्यस्वरूपप्रतिपादनां हृदि स्फुरन्तीं गुरुभारतीं वन्दे गुरोः वसुगुप्ताभिधानस्य साक्षात् सिद्धमुखसंक्रान्तसमस्तरहस्योपनिषद्भूतस्पन्दतत्त्वा- मृतनिःष्यन्दस्य, भारतीं वाचं स्तौमि | कीदृशीम् ? - अगाध (प्. १६६) इत्याद्यार्धेन विशेषणम्, अविद्यमानो गाधो विश्रान्तिभूमिका यत्र तादृशो यः संशयः तत्त्वाप्रतिपत्तिरूपो विभ्रमः, स एव दुर्जरविकल्पोर्मिजालसंकुलत्वादिना अम्भोधिः समुद्रः, तस्य समुत्तरणे सम्यक् विलङ्घने तारिणीम् नावम् | तथा विचित्रार्थपदां विचित्रः अत्यद्भुतः अर्थोऽभिधेयं वस्तु येषां तादृंशि पदानि यस्यां सा | तथा तां चित्रां घटनाविशेषशालित्वात् विस्मयाधायिनीम् | विशेषणद्वयेन अनेन अर्थगतं शब्दगतं च अतिशयं तुष्टाव, यतोऽत्र सकललोकाशयनिर्विषयः कतिपयलोकोत्तरप्रबुद्धहृदयसंवादी विचित्रोऽर्थः पदानां, तादृगर्थप्रतिपादनशालिनी च चित्रा पदवाक्यरचना - इति ओं | व्याख्यातमेतत् वृत्तौ अगाधो हि अप्रतिष्ठोऽन्तः इत्यादिना ग्रन्थेन || १ || (प्. १६७) एष स्पन्दाभिधानो निधिरिह विवृतो वीतसंदेहसर्प- त्रासः संपूर्णासिद्धिप्रदनिरतिशयज्ञानमाणिक्यगर्भः | सर्वार्थिभ्यो विलब्ध्या स्वयमपि सहजानन्दभोगोपलब्ध्या भव्यानामस्य लाभं सफलयतु परः शंकरस्य प्रसादः || १ || सद्विद्यासरसीविभूषणवरस्फारोत्पलोच्चाशय- प्रोत्सर्पत्परिपक्ववोधमधुपेनेदं मयागायि यत् | रामेणानुपमप्रमोदमधुरं बद्धावधानस्य त- च्छ्रोतुः कस्य न चेतनस्य तनुते विश्रान्तिमन्तः पराम् || २ || चेतस्याकुलिते क्वचित्कुविषये तूष्णीं विवृत्य स्थितां व्यावर्त्य प्रणयात्प्रसाद्य च शनैः कान्तां निजां चेतनाम् | चुम्बन्तो विगलद्विभागनिविडाश्लेषोल्लसन्नूतना- नन्दस्पन्दनिमीलिताक्षमनिशं भूयास्त भव्याशयाः || ३ || अत्युक्तं यदिहास्त्यनुक्तमपि यद्यद्वा दुरुक्तं बुधै- स्तत्सूक्ष्मांशनिरूपणैकनिभृतप्रज्ञैरवज्ञायताम् | पुष्पान्तर्मकरन्दसारकणिकास्वादोत्सुकाः कानने किं विन्दन्ति कठोरकण्टकशिखास्पर्शव्यथां षट्पदाः || ४ || शशिज्योतिर्दीपप्रभृतिभिरशक्यं शमयितुं यदासीन्निःस्पन्दीकृतसकललोकं किल तमः | गते तत्रेदानीं क्षयममलसूर्यागमहते कृतार्थाः संकोचं विजहतु विनिद्रा जनदृशः || ५ || जयति जनमरिष्टादुद्धरन्ती भवानी जयति निजविभूतिव्याप्तविश्वः स्मरारिः | जयति च गजवक्त्रः सोऽत्र यस्य प्रसादा- दुपरमति समस्तो विघ्नवर्गोपसर्गः || ६ || संपूर्णा इयं वृत्त्यनुसारिणी स्पन्दविवृतिः | कृतिस्तत्रभवतो महामाहेश्वराचार्यशिरोमणिराजानक- श्रीमदुत्पलदेवपादपद्मानुजीविनो राजानकश्रीरामकण्ठस्य इति शिवम् || || </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] 6csm0712n44mqi6re32bfvkmahskq4d 417922 417921 2026-07-31T05:11:59Z Shubha 190 417922 wikitext text/x-wiki {{header | title = स्पन्दकारिका (कल्लटाचार्यविरचितविवृत्युपेता) | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ओं श्रीचिदात्मवपुषे शंकराय नमः । अथ स्पन्दकारिकाः । श्रीमत्कल्लटाचार्यविरचितवृत्त्युपेताः । ओं नमः स्वस्पन्दात्मसंविन्मूर्तये शंभवे । अथ स्पन्दकारिकाः । श्रीरामकण्ठाचार्यविरचितविवृत्युपेताः । प्रथमो निःष्यन्दः । विवृति: दशादिक्कालाद्यैरकलितचिदालोकवपुषः सदा तादृक्स्वात्मानुभवितृतया विस्फुरति यः । निजो धर्मः शम्भोरनुपमचमत्कारसरसः परं शाक्तं तत्त्वं जगति जयति स्पन्द इति तत् ।। [(fओओत्नोते १) दिगादिवृत्तयः शक्तावनुद्भिन्नप्रसरतया तन्मया एव स्वालक्षण्येन भातुमप्रभविष्णवः, शक्तिरपि शक्तिमदौन्मुख्येन तन्मात्रावशेषा केवलमनुभवितृरूपविस्फुरणमाश्लिषिवात्मका उच्यन्ते (घ्: इति - शब्दानन्तरं ते इति पदमप्यस्ति ।) ।। २७ ।। टिप्पणी: इदमत्र तात्पर्यम् - शिवशक्तिरेव मन्त्रसंनिवेशादिरूपधारिणी उदयास्तमयदशयोः शिवाभेदवत्त्वात्, यत्र यत्र शिवाभेदवत् -त्वं तत्र तत्र शाक्तरूपत्वं, यथा संकल्पस्वप्नपुरादिषु, - इति व्याप्त्यादिना सुदृढप्रतिपत्तेर्मन्त्रवीर्यानभिज्ञस्य भेदविभ्र -मात् नियतसाध्यसाधनाय पर्यवसायिनः प्रबुद्धस्य पुनर्मन्त्राः सर्वार्थसाधनाधिकारिणो भवन्ति; न केवलं मन्त्रा एव, यावल्लौकिकभाषामात्रमपि अमोघमन्त्रभावमुप -गच्छति - इत्यनेन क्रियाज्ञानं कार्यं ज्ञेयं वा वस्तु शिवधर्मकमेवेत्युपलक्ष्यते ।। २७ ।। विवृति: (प्. ८०) तेन प्रस्तुतव्याख्यानेन हेतुना एते मन्त्रा आराध्यदेवतावाचका वर्णादिसंनिवेशाः, शिवधर्मिणः शिवस्य परमेश्वरस्यानन्यसाधारणः सर्वज्ञत्वादिर्गुणो धर्मः स विद्यते येषां ते तथा, शिवादभिन्नस्वरूपा इत्यर्थः । केन हेतुना ? - यतः तत् समनन्तरप्रतिपादितस्वरूपस्य शिवस्य संबन्धि बलं सामर्थ्यं शक्तिम् आक्रम्य उच्चिचारयिषावस्थायां तदभेदोपपत्त्या स्वीकृत्य सर्वज्ञबलशालिनः सर्वज्ञस्य शिवस्य बलेन शक्त्या श्लाघमाना सन्तः अधिकाराय प्रवर्तन्ते यथास्वं प्रतिनियतकार्यसंपादनस्वसामर्थ्यं [-स्वाम्यार्थ्यं] प्रसरन्ति । एते हि अनासादितपरमेश्वराभेददशा उत्पादविनाशधर्मकवर्णमात्रात्मकाः तृणमपि कुब्जयितुमशक्ताः; उक्तबलाक्रमणेन तु नियतेतिकर्तव्यतासहाया दीक्षादिवृश्चिकविषाकर्षणान्तपरापरस्वकार्यसंपादनाधि- काराप्रतिहतशक्तयो भवन्ति । यद्येवं सर्वमन्त्राणामुक्तबलाक्रमणलक्षणवीर्यसाम्यं, तत् कथमेषां भिन्नाधिकारित्वं, सर्वे सर्वार्थसाधनाधिकृताः कथं न भवेयुः ? - इत्यत्र परमेश्वरपरिकल्पितनियतिनियन्त्रितत्वमेव (प्. ८२) हेतुं प्रतिपादयितुमुपमानमाह - कथमेते मन्त्रा नियताधिकाराय प्रवर्तन्ते साधकानां ? - देहिनां करणानीव यथा हि देहादिमात्रानित्यवस्तुव्यवस्थितात्माभिमानानां सर्वशरीरभृतां करणानि इन्द्रियाणि यतः करणवर्गोऽयम् इत्यत्र प्रतिपादितयुक्त्या परमेश्वरादेव चेतनत्वापादनहेतुप्रवृत्त्यादिलाभसाम्ये सत्यपि करणानि तत्परिकल्पितनियतिशक्तिबलात् शब्दादिविषयप्रकाशनमात्रपर्यवसितसामर्थ्यानि यथास्वं पृथक्पृथगधिकाराय प्रवर्तन्ते न सर्वाणि सर्वस्मै?; तथैवैते मन्त्राः साधकानां स्वीकृतपरस्वभावाहंभावप्रतिपत्तीनां यथानियमिताधिकाराय प्रवर्तन्ते, तस्मात् करणवत् सर्वज्ञबलशालिनोऽपि मन्त्रा नियताधिकारा एव । ततश्च शिवधर्मिणो मन्त्रा यत्कृताधिकाराः सन्तो निरञ्जना अञ्जनात् वाच्योपरागरूपात् मलात् वर्णादिरूपभावनात्मकाद्वा निष्क्रान्ताः; अत एव शान्तरूपाः शान्तं शुद्धं संविन्मात्रावशेषत्वात् (प्. ८३) निर्विकारं रूपमात्मा येषां ते तादृशाः सन्तः तत्रैव शिवे परमकारणे स्वस्वभावे संप्रलीयन्ते तदैक्यमुपगच्छन्ति । केन साकम् ? आराधकचित्तेन सह साधकमनसा साकं । तस्यां हि दशायामभिसंध्युपाधिविरहात् स्वाभाविकमात्रावशेषं यत् साधकचित्तं तेन साकम् । किमनेन तात्त्विकमन्त्रवीर्यं प्रतिपादितं भवति ? तदिदं भवति - मन्त्रचेतसोः उदयास्तमयदशयोः परमकारणात् शिवादभेदः, - इति मन्त्रात्मकतया साधकचित्तात्मकतया च शिवशक्तिरेव वर्णसंकल्पादिरूपधारिणी उदिता सती, संप्रति अनासादितस्वस्वभावबलस्पर्शप्रतिपत्तीनां साधकानां भेदविभ्रममुत्पादयन्ती नियतार्थसाधनाधिकाराय पर्यवस्यति । यस्तु यथाप्रतिपादिते स्वस्वभावे एव सुदृढात्मप्रतिपत्तिः, तस्य उदयास्तमयज्ञस्य सर्वमन्त्राः (प्. ८४) सर्वार्थसाधनाधिकारिणो भवन्ति तत्तदितिकर्तव्यतासाहित्यनियमाद्यपेक्षां विना; आसतां वा मन्त्राः, यद्यद्वचनं येन येनाभिसंधिना उच्चारयति तत् तस्यामोघमन्त्रतामापद्यते, - इति स्वभावबलाक्रमणेनैव [स्वभावबलाक्रमणमेव सिद्धं स्वतो मन्त्राणां वीर्यं प्रत्यवम्रष्टव्यं योगिना, - इति तात्पर्यार्थः । उपलक्षणार्थं मन्तव्यं चैतत् । उक्तोपपत्त्या न केवलं मन्त्रा एव शिवधर्मिणो, यावन्न काचित्क्रिया ज्ञानं कार्यं ज्ञेयं वा वस्तु संभवति, यत् परतत्त्वाभेदापत्तिलब्धात्मकं सत् शिवात्मकमेव न भवति, - इति समनन्तरमेव वक्ष्यति । व्याख्यातम् एतत् वृत्तौ यद्बलं निरावरणचिद्रूपम् इत्यादिना ।। ११ ।। इति राजानकश्रीरामविरचितायां स्पन्दविवृतौ व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो निःष्यन्दः ।। २ ।। अथ विश्वस्वभावशक्त्युपपत्तिर्नाम तृतीयो निःष्यन्दः ।। इदानीं पक्षान्तरोपन्यासभङ्ग्या प्रकरणारम्भश्लोकापरार्धप्रतिज्ञातं स्वस्वभावस्यैव शिवस्य विश्वव्यक्तिमयशक्तिचक्रविभवनशीलत्वमवसरप्राप्तम् उपपत्त्युपलब्धिभ्यां निर्वाहयितुं श्लोकत्रयमाह यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् । तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ।। ३/१ (२८) ।। वृति: सर्वात्मक एवायमात्मा सर्वभावोत्पत्तिद्वारेण [सर्वानुभावो-] (अयमिति पदं; घ्: पुस्तकादुपन्यस्तम् ।) (प्. २४) अनुभूयमानस्यैव संवेदनात् बाह्यार्थमनुभूय -मानमेव शरीरत्वेन गृह्णाति, न तु शिरः पाण्यादिलक्षितम् (ख्: पाण्यादिरक्षितम्; ग्: पाण्यादिलक्षणम्) एकमेवास्य शरीरम् ।। २८ ।। टिप्पणी: संचेत्यमानं प्रत्येकं वस्तु वस्तुतो विज्ञानिनो जीवस्य स्वाङ्गकल्पमेव - इति न केवलं भूतात्मकमेवास्य वपुः, यावद्भावात्मकमपि । घटसुखादेर्भावस्य हि संवेदनं समुत्पत्तिः, संवेद्यमानतैव तत्स्वरूपप्रतिष्ठा असंवेद्यमानस्य स्वप्रतिष्ठानासादनात् इत्यतो जीवादपि सर्ववस्तुसमुत्पादः । तस्मात्सोऽपि विश्वमयः । अवच्छिन्नाहं - कृतिपदं शिरःपाण्यादिमच्छरीरं भूतात्मकं, भावात्मकं तु शब्दादिविषयसंवेद्यम् ।। २८ ।। तेन शब्दार्थचिन्तासु न सावस्था न यः* शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ।। ३/२ (२९) ।। (* विवृति: या) वृति: तेन तथाविधेन सर्वात्मकेन स्वभावेन, शब्दार्थयोः चिन्तासु न सा अवस्था या शिवस्वभावं न व्यञ्जयति (ग्: शिवं न व्यञ्जयति), अतो भोक्तैव हि भोग्यभावेन सर्वत्रावस्थितो, न त्वन्यत् भोग्यमस्ति ।। २९ ।। टिप्पणी: प्रोक्तविश्वमयताप्रतिपत्त्या वाच्यवाचकात्मसु षडध्वजातेषु या काचित् संवित्तिप्रवाहपद्धतिः सा परप्रकाशात्मशिवमययेव, तस्मात् ग्राहकात्मा परमेश्वर एवेच्छादिचक्रप्रेषणद्वारा ईशितव्यात्मज्ञेयकार्यवस्तुचमत्करणोद्युक्तस्तत्तादात्म्यसंपा - दनात् सदोदितसार्वत्रिकस्थितिरिति स्वस्वभावस्यैव जगद्विकासमय - शक्तिविभवनशीलता निर्व्यूढा ।। २९ ।। प्. २५) इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ।। ३/३ (३०) ।। वृति: एवंस्वभावं यस्य चित्तं, यथा - मन्मयमेव जगत् सर्वम् इति, स सर्वं क्रिडात्वेन पश्यन् नित्ययुक्तत्वात् जीवन्नेव ईश्वरवत् मुक्तो, न त्वस्य शरीरादि बन्धकत्वेन वर्तते ।। ३० ।। टिप्पणी: समनन्तरपद्योद्दिष्टनीत्या अव्युच्छिन्नपरामर्शावधानपरि -शीलनवतो योगिनः सर्वेश्वरस्वतन्त्रचिद्भैरवीयपूर्णाहं -भावप्रतिपत्त्या अशेषमिदं विश्वं स्वरचितक्रीडनकलीला -मात्रेण विभाव्य स्वलीलाजनितहर्षशोकाद्युपरागेऽपि शङ्कातङ्ककलङ्कयन्त्रणाभिर्मनागपि नोपलिप्तिरिति याथात्म्यवेदितृत्वाज्जीवत एव मुक्तिरित्यर्थः ।। ३० ।। विवृति: (प्. ८६) यस्य इति वा संवित्तिः स जीवन्मुक्त इति संबन्धः, इत्येवम् इदानीमेव प्रतिपाद्यप्रकारेण यस्य वा साधकोत्तमस्य संवित्तिः सम्यक् ज्ञानं स सततम् अव्यवधानेन सर्वावस्थासु युक्तः समाहितः, उक्तवक्ष्यमाणोपदेशदृशा स्वभावबलपरिशीलनाप्रमत्तैकाग्रमानसः स जीवन् नियतदेहाधिकरणान् प्राणान् धारयन् एव मुक्तः सर्वव्यापकसर्वात्मकसर्वेश्वरस्वतन्त्रस्वस्वभावाहंकार- प्रतिपत्तिदार्ढ्येन जन्मादिविरोधात् निष्क्रान्तः परमेश्वर एव संवृत्त - इत्यत्र न संशयो न भ्रान्तिः; स्वसंवेद्योपपत्त्युपलब्धिनिष्प्रकम्पत्वात् अस्य अर्थस्य । किं कुर्वन् जीवन्मुक्तः ? - अखिलम् अशेषमनन्तवस्तुव्यक्तिविचित्रं जगत् विश्वं क्रीडात्वेन स्वनिर्मितचराचरभावक्रीडनकोपरचितलीलामात्रतया पश्यन् विभावयन् । सर्वो हि जनः अनुन्मिषितस्वस्वभावनिभालनक्षमविमलविज्ञानदृष्टि- रात्मनोऽन्योन्यतश्च (प्. ८७) विभिन्नम् इदमखिलं भावजातं कुतश्चिदन्यतः कारणात् उद्भूतम् अनिशं मन्यमानः, तद्भावजन्यहर्षशोकभयादिविकारान् अनुभवन्, भवाध्वनि पुनः पुनः जन्मादिबन्धनभाजनतां भजते । यस्तु प्रतिपाद्यप्रकारेण उत्पन्नपरसंविदभिव्यक्तिः, स यथा कश्चित् क्रीडापरः स्वपरिकल्पितैः भयक्रोधादिकारणभूतभावप्रतिच्छन्दकैः क्रीडन् तद्याथात्म्यवेदित्वात् भयादिविकारकालुष्यं मनागपि नापद्यते, तथैव भावानां स्वस्वभावशक्तिविजृम्भितमात्रतया याथात्म्यवेदी सन् मनागपि विकृतिं न आपद्यते । एवं सर्वं क्रीडात्वेनैव पश्यन् जीवन्नेव मुक्तः । कथं यस्य संवित्तिः ? इति, - तेनेत्यादिश्लोकेन प्रतिपादयति; तेन वक्ष्यमाणेन हेतुना शब्दार्थचिन्तासु सा अवस्थैव नास्ति या न शिवः - इति यस्य संवित्तिः स जीवन्मुक्तः, इति । शब्दोऽर्थप्रत्यायकः पदसमुदायः, अर्थो जात्यादिभेदात् बहुविधम् (प्. ८८) अभिधेयं वस्तुजातं, तयोः चिन्ता तथा तथा विकल्पनाः अनन्तचिन्तनीयवस्तूपरागात् विचित्राणि ज्ञानानि, यन्मयो व्यवहारः एतासु शब्दार्थचिन्तासु सा अवस्था दशा न काचित्, शब्दचिन्तारूपा अर्थचिन्तारूपा वा संभवति, या शिव एव साक्षात् न भवति । यत एवं तदा भोक्ता अनुभवितैव ईश्वरः सदा नित्यं सर्वत्र सर्वासु अवस्थासु भोग्यभावेन अनुभवनीयवस्त्वात्मना स्थितो न पृथक् किंचित् भोग्यं नामास्ति, तत्त्वानवमर्शमात्रविजृम्भितम् एतत् भोक्तृभोग्यविभागरूपम् । केन हेतुना न सावस्था न या शिवः ? इत्याह, - यस्मात् जीवः आत्मा सर्वमयो विश्वरूपः परस्परव्यतिरिक्तप्रतिपत्तिः, जीवस्यापि यो व्यवहारः सोऽपि वेद्यवेदकाभेदपूर्वकतयैव उपपन्न - इत्यर्थः, कुत एतत् ? तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः सर्वभावसमुद्भवात् सर्वमयो जीवः तस्य कस्यचित् संवेद्यस्य घटसुखादेः यत् संवेदनं ज्ञानं, तस्य यत् रूपं स्वभावः, तेन हेतुना या तादात्म्यप्रतिपत्तिः तदभेदसंवित्, ततो हेतोः निर्वर्तमानो यः सर्वभावसमुद्भवः सर्वेषां भावानां उत्पत्तिः, तस्मात् सर्वमयो जीवः । किमुक्तं भवति - जीवस्यैव व्यवहारो विचार्यमाणोऽयं वस्तुयाथात्म्यमुपपादयति । तथाहि - अयं स्वविषयं संविदन्नेव समुद्भावयति सृजति, संवेद्यमानमेव हि वस्तु स्वरूपं लभते, न तु असंवेद्यमानं; संवेद्यमानता च तेन तेन रूपेण प्रकाशमानता; प्रकाशमानत्वं च प्रकाशादव्यतिरिक्तं, नान्यत् किंचित् । यदाह न्यायवादी चेतनाच्चापि वेद्यत्वादतद्रूपाप्रवेदनात् । इति । एवं च यत् यत् अयं जीवः संवेत्ति तत्तदस्य शरीरमेव संपद्यते, न तु नियतशिरःपाण्याद्यवयवसंनिवेश (प्. ९०) एव, सोऽपि हि अस्य संवेद्यमानतावस्थायामेव शरीरीभवति, अन्यदा तु व्यतिरिक्तो विषय एव । तथा च - संवेद्यमानत्वसामान्यात् द्विविधं शरीरमस्याम्नातं तत्त्वविद्भिः, भूतात्मकं भावात्मकं च; तत्र मायाशक्तिवैभवविस्मारिततात्त्टा । अत एव दिगादिकलनया अकलितं चिन्मात्रं वपुः इति प्रथमपादेन शक्तिमान् परामृष्टः । शेषेण स्पन्दशब्दस्य सार्थकतां प्रकटयितुं शक्तिमदभिव्यञ्जिका तत्समवायिनी ब्रह्माह्लादादिपर्याया शाक्तविजृम्भणा परामृश्यते । जयति - पदाभिधेयं सर्वौत्कर्ष्यशालित्वं शाक्ततत्त्वस्य अवगम्यते । ततश्च तत्समावेशरसपरिभोगविगाहनवतां भक्तिभाजां भुक्तिमुक्तिसंपत्तिपात्रता विश्वाभिलषणीयता च ध्वन्यते ।] । (प्. २) तज्ज्ञैरदर्शितदिशः स्वयमाविशन्तः केचिन्निसर्गगहनं विषमं भ्रमन्तु । तेनैव यत्पुनरमी हतवर्त्मनान्यान् आकारयन्ति गमनाय महान्भ्रमोऽयम् ।। २ ।। [(fओओत्नोते २) विज्ञजनोपदिष्टसत्संप्रदायमन्तरेण निसर्गगम्भीरं शैवागमाब्धिमवगाहमानानां वामाख्यशक्तिसंवृतसंविदां स्वोपज्ञतया संभावनावतां, वस्तुतो विना पारतीरलाभं मध्ये निमग्नप्रायतैव । तदीयदुष्पथे तु भ्रमिमनुभवतां तदनुगानां या पारदर्शनाय तच्चोदना, हन्त तत् चक्षुरुन्मेषमन्धकूपनिपतनम् । अतः तादृशजनान् पारं लङ्घयितुमयं मदीयो यत्नः इति ।] नानावादानिलौघाननवसरकृतान्योन्यसंघट्टघोरो- द्धातानापादयद्भिः श्रवणविदलनोद्दामशब्दप्रबन्धान् । शास्त्राब्धिः क्षोभ्यते यैर्विवरणरभसादुद्यदावर्तधीम- भ्रान्तिभ्रष्टागमार्थप्लवविधुरमतिस्तारितोऽर्थी जनस्तैः ।। ३ ।। कश्चिद्भिन्नरुचिर्विदन्नपि परं तत्त्वं विपर्यस्यति द्वेषध्वान्तविरुद्धबुद्धिरितरो जात्यैव चान्यो जडः । इत्थं दुर्लभ एव सर्वहृदयग्राही गिरां संग्रहः किंत्वेतेऽद्य विवेकिनः कतिपये सन्त्यत्र पात्रं सताम् ।। ४ ।। (प्. ३) केनापि ग्रथितां प्रसारणधिया कैश्चिद्द्विसूत्रीकृता- मेकीकृत्य यथागमं विरचितां स्पन्दार्थसूत्रावलीम् । ईशानुग्रहशक्तिवज्रशिखया विद्धेषु विद्वन्मनो- माणिक्येषु निवेशयाम्यहमिमां कर्तुं कृतार्थां द्वयीम् ।। ५ ।। [(fओओत्नोते ३) प्रथमं श्रीवसुगुप्तपादैः सूत्रावलिः दृब्धा । तदनु भट्टश्रीकल्लटादिभिः सिद्धैः संवृतार्थविवृत्या प्रगुणीकृता । अधुना तु सूत्रसंदर्भण - प्रगुणीकरणात्म पूर्वसिद्धं कार्यद्वयं सफलीकर्तुं सैव इयं स्पन्दार्थसूत्रावली, एकीकृत्य संयोज्य, वृत्तिसंवादितार्थविवरणं क्रोडीकृत्य च, आगमाम्नातपरमार्थनिर्णीत्या विशिष्टरचनया उपेता, पराशक्तिपाताख्यचुम्बकमणिशिखया अनुविद्वासु सहृदयानां विमलमनोरत्नजातिषु निगुम्फ्यते । यत्परिमलसौभाग्यादिचर्चनया सुधामयस्वामिप्रासादमध्यारुह्य निरतिशयसुखानुभूतिरनर्गलविकचितवृत्त्या सुरस्यते इति ।] यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ । तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः (क्: नुम) ।। १ ।। वृति: (प्. २) अनेन स्वस्वभावस्यैव शिवात्मकस्य संकल्पमात्रेण जगदुत्पत्तिसंहारयोः कारणत्वं विज्ञानदेहात्मकस्य शक्तिचक्रैश्वर्यस्योत्पत्तिहेतुत्वं नमस्कारद्वारेण प्रतिपाद्यते ।। टिप्पणी: श्रीशिवाद्वैतसद्भावसंभूत्यै भवतात्सदा । पर्यायः संगृहीतोऽयं स्पन्दवृत्त्यर्थद्योतकः ।। यथा हि संकल्पोत्पिपादयिषापूर्वकोटाविष्यमाणं वस्तु एषितुरविभिन्नम्, एवमत्र शिवावस्थायां निरवध्यवभास - विच्छित्तिचित्रं सद्विकस्वभावतया वस्तुसंवेदनावसरे स्वरूपापरामर्शत्वमुकुलितसामर्थ्योऽयं जीवः अवच्छिन्नाहंकारास्पदतया शिरः - पाण्यादिमच्छरीरत्वेन यत् परामृशति तत् अस्य सृष्ट्यादिमयत्वात् भूतात्मकम् - इत्युक्तम् । यत्तु व्यतिरिक्तं शब्दादिविषयत्वेन परामृशति तद्भावात्मकं । परमार्थे तु विचार्यमाणे द्वयमप्यस्य शरीरं संवेद्यमानत्वाविशेषात् । एवं संवेद्यमानतालक्षणभावसंसर्गावस्थायां जीवः संवेद्यवस्त्वव्यतिरेकात् सर्वमयो विश्वरूपः स्थितोऽपि सन् तथावस्तुसंवेदनतत्त्वपरामर्शानुन्मेषात् सर्वमिदम् आत्मव्यतिरिक्तकारणान्तरलब्धात्मकत्वेन आत्मनः परस्परतश्च पृथक्त्वेन व्यवच्छिन्दन्, (प्. ९१) आत्मानं च देहाद्यनित्यभावाहंभावेन अध्यवस्यन् जन्मादिबन्धभाक् संसारी जीव इति व्यपदिश्यते । यदा तु शिवदिवाकरशक्त्यंशुपातजनितप्रबोधोन्मिषितविशददृष्टि- स्फुटतरप्रकाशमानदेहादिव्यतिरिक्तसत्यात्मस्वभाव- सुस्थिताहंप्रतिपत्तिः सन् यथावस्थितवस्तुसंवेदनपरामर्शशक्तिभिर्व्यक्तिभाक् भवति, तदा स एव संकल्पमात्रविलिखितविचित्रविश्वव्यक्तिमयशक्तिचक्रः शिवः संपद्यते । तेन उक्तम् - तत्तद्वस्तुसंवेदनस्वभावबलेन या तादात्म्यप्रतिपत्तिः संवेद्यमानवस्त्वभेदसंवित्तितः सर्वभावसमुद्भवः, तस्मात् जीवः तावत् सर्वमयः; तेन च तस्य सर्वमयत्वप्रतिपत्तिलक्षणेन हेतुना सा अवस्था नास्ति या शिवमयी न भवति, ततश्च भोक्तैव ईश्वरो भोग्यभावेन ईशितव्यवस्तुरूपतया सदा सर्वत्र संस्थितः । एवं यस्य वा संवित्तिः स जीवन्मुक्त - इति वाक्यसमन्वयसंकलनार्थमेतत् (प्. ९२) पुनरुक्तम्, - इत्यनेन श्लोकत्रयेण आत्मन एव विश्वरूपत्वेन स्थितिः प्रतिपादिता, विश्वप्रपञ्चस्य निमित्तान्तरानुपपत्तेः । यथोक्तं ब्रह्मविदा कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया । स एव बुद्ध्यते भेदादिति वेदान्तनिश्चयः ।। इति । तथा अन्येनापि स्तुतिद्वारेणोक्तम् आशिवादिपृथिव्यन्तं भावजातमव्यतिरिक्तमास्ते, तदेवशक्तिशब्देन व्यपदेश्यं नित्याव्यभिचरदेकस्वभावे शिवे समवेतं तयोरभेदस्य अभ्युपगतत्वात् । वस्तुवस्तु परा सक्तिरेकै -व परिपूर्णाहंपरामर्शशालित्वात् अत्यद्भुतशक्तिपरिस्फुरिते पारमैश्वर्ये मायाशक्त्युद्भावितानन्तवैचित्र्या भावव्यक्त -यः अवरपरामर्शौन्मुख्यमात्रोत्पन्नेन तु भेदोपभेदभाव - मापन्नेन भावराशिना अवभासमानतया बहुव्यपदेशा शक्तिशक्तिमतोरभेदाभिप्रायप्रत्यायिका । अयं भावः - शंकरात्मनि तदिच्छयैव विश्वमुन्मीलितं लब्धस्थितिकमपि तच्छक्तिविजृंभणमात्रं, मायाशक्त्या तु नानावभासि इति तन्नुतिद्वारा तत्समापत्तिराशंस्यते ।। विवृति: (प्. ३) तं शंकरं - श्रेयसः कर्तारं स्तुमः - प्रशंसामः । तं कं, यस्य उन्मेष - निमेषाभ्यां - शक्तिप्रसरप्रलयाभ्यां जगतो - विश्वस्य प्रलयोदयौ - विनाशप्रादुर्भावौ । अत्र यथासंख्यं न विवक्षितमिति वक्ष्यामः । तं कीदृशं शक्तिचक्रविभवप्रभवं - (प्. ४) शक्तीनां वक्ष्यमाणस्वरूपाणां चक्रं - समूहः, स एव विभव - ऐश्वर्यं, तस्य प्रभवं - कारणम्, - इति पदसंबन्धयोजना तावत् सुबोधा । वस्तुसंगतिस्तु कथं ? - इति विचार्यम् । शंकरस्तावत् नित्यम् अव्यभिचरदेकस्वभाव एक एव पदार्थः परमार्थसन्, - इति प्रकरणस्य अस्य तात्पर्यं तथानिर्वाहात्; तस्य परस्परविरुद्दौ अनित्यौ निमेषोन्मेषात्मकौ अवस्थाविशेषौ संबन्धित्वेन कथं प्रतिपादितौ ? कर्तृप्रथया हि अनया एवं प्रतिपाद्यते - शंकर उन्मिषति निमिषति इति । एवं च अनित्यावस्थायोगित्वं नित्ये भगवति अनुपपन्नम्, तत् कथमुक्तं यस्योन्मेषनिमेषाभ्याम् इति? अत्रोच्यते । उन्मेष - निमेषशब्दाभ्यां तदुपचरितवृत्तिभ्याम् इच्छामात्रमेकं शंकरसंबन्धि प्रतिपाद्यते; स च तस्य नित्यो धर्मः स्वभावभूतः, तस्य उन्मेष - निमेषशब्दवाच्यत्वं द्वित्वं च (प्. ५) उपचारात्; यतो जगत एव परमेश्वरमायाशक्त्युद्भावितकार्यरूपत्वात् अनित्यस्य प्रलयोदयसंभवे सति, निमेषोन्मेषौ वस्तुतः संभवतः । तौ च ईश्वरेच्छामात्रनिमित्तकौ; - इति उदयात्मकोन्मेषहेतुत्वात् ईश्वरेच्छैव उन्मेषशब्देन, प्रलयात्मकनिमेषहेतुत्वात् निमेषशब्देन च उपचर्यते । यथा आयुष्कारणत्वात् आयुःशब्देन घृतम् । सा च अव्यतिरिक्ता शंकरस्य शक्तिः; तदवगम एव च आत्मैश्वर्यप्रत्यभिज्ञालक्षणसिद्धेर्हेतुः । सा च दिदृक्षयेव सर्वार्थान् (ष्प्. Kआ. ३/११) इत्यत्र वक्ष्यमाणन्यायेन सांसारिकपुरुषप्रसिद्धेच्छासादृश्यात् तदवगमोपायतया इच्छाशब्देन व्यपदिश्यते । यथा हि पुरुषस्य इच्छावस्थायाम् इष्यमाणः पदार्थः स्वरूपाव्यतिरेकेणैव अवतिष्ठते, तथा भगवतः शक्तौ अनन्तावभासविशेषचित्रं जगत् मनागपि अनुपजातविशेषात् स्वरूपात् अव्यतिरेकेणैव अवतिष्ठते । सेयं परमार्थसती शिवदशा, या एवं तद्विद्वद्भिः स्तूयते (प्. ६) सदा सृष्टिविनोदाय सदा स्थितिसुखासिने । सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ।। इति । तथा ईश्वरप्रत्यभिज्ञायाम् या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता । अक्रमा?नन्तचिद्रूपः प्रमाता स महेश्वरः ।। इति । इत्थम् एकस्या एव पारमेश्वर्याः शक्तेः इच्छा - ज्ञान - क्रियाव्यपदेशः इदन्तोन्मिषन्मायाशक्तिजनित एव; यतः शिवदशामेकां मुक्त्वा मायाशक्तिः सर्वत्र कृतपदा, यद्वशात् एकस्मिन् शिवतत्त्वे परमार्थसति सदाशिवादि - तत्त्वान्तरव्यपदेशः प्रक्रियाशास्त्रेषु । एतच्च पुरस्तात् परामृतरसापायः (ष्प्. Kआ. ३/१४) इत्यादिश्लोकव्याख्यानावसरे प्रतिपादयिष्यते । सा एवंलक्षणा पारमेश्वरी शक्तिः स्वलीलोल्लासितस्य जगतोऽवस्थाद्वयहेतुत्वात् द्वित्वेनापि च उपचरिता । तेन इदमत्र प्रथमश्लोकपूर्वार्धे तात्पर्यम्, - यस्य इच्छामात्रेण जगतः प्रलयोदयौ तं स्तुमः । तच्च यथासंख्यम् अत्र मुख्यया (प्. ७) वृत्त्या नापेक्षणीयम् उन्मेषेण उदयो, निमेषेण प्रलयः, - इति तु अर्थसंख्या समवैति । एतच्च, इच्छामात्रम् उन्मेषनिमेषौ - इत्येतावत्तात्पर्यं प्रतिपादयितुं, स्वयं वृत्तिकृता भट्टकल्लटेन व्याख्यातम् संकल्पमात्रेण............................... इति । ये तु यथासंख्यसमर्थनानुरोधात्, यस्य उन्मेषे क्रियाशक्तिप्रतिसंहारात् स्वरूपविकासे जगतः प्रलयो विनाशः, निमेषे प्रसृतक्रियाशक्तित्वात् स्वरूपसंकोचरूपे जगतः उदय उद्भवः, इति व्याचक्षाणाः, शंकरस्यैव पारमार्थिकौ उन्मेषनिमेषौ धर्मत्वेन प्रतिपादयन्ति, ते च काल्पनिकमेव अर्थं परमार्थत्वेन प्रतिपद्यमानाः तथा दर्शनस्य अस्य अन्तरं ननु प्रविष्टाः ? - इति नमस्तेभ्यः । ननु नित्याव्यभिचरदेकस्वभावस्य भगवतः शक्तिरपि तादृगेव प्रतिपादिता, तयोरभेदाभ्युपगमात् । तत् कथं व्याख्यातं शक्तीनां चक्रमिति ? अत्र ब्रूमः । ननु इदमेव तत् निरतिशयम् (प्. ८) ऐश्वर्यम् ईश्वरस्य इह विवक्षितं, यत् सर्वत्र अहम् - इति स्वरूपपरामर्शमात्राव्यभिचारेऽपि निरवधिविजृम्भमाणविचित्रावभासखचितं त्रैलोक्यालेख्यम् इदम् उल्लिखति; इत्थम् उल्लिख्यमानमपि एतत् परमार्थतः परामृश्यमानं तत्स्वभावात् मनागपि च यत् न भिद्यते । यथोक्तम् परमेश्वरता जयत्यपूर्वा तव सर्वेश यदीशितव्यशून्या । अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ।। इति । अन्यत्रापि लिखते जगत्त्रितयचित्रमद्भुत- प्रतिभापरिस्फुरितशंसि ते नमः । सुसितैकसूक्ष्मनिजशक्तिवर्तिका- रचितावभासशतशोभि शंभवे ।। इति । एतच्च एवंविधं शांकरमैश्वर्यं तदनुग्रहग्रस्तसमस्तमायातमस्त्वप्रकाशितपरमार्थानां स्वसंवेद्यमेव सुप्रबुद्धानां महात्मनाम् । ईश्वरशक्तिपातप्रबोधितानां तु सम्यक् उपनतसद्गुरूपदेशक्रमेण (प्. ९) अभ्यस्यतां प्रत्यासन्नस्वानुभवम् । अप्रबुद्धाः पुनः अनुपदेश्या एव, इति । एतदेव इह पुरस्तात् प्रतिपादयिष्यमाणम् । तत् एवंविधे स्थिते शंकरस्य पारमैश्वर्ये या इमाः परमाद्भुतमायाशक्तिवशात् चिदचिद्भेदेन द्विविधा अपि अवान्तरभेदात् अपर्यन्ता भावव्यक्तयः, सा परमेश्वरस्य स्वरूपात् अभिन्ना शक्तिरेकैव तात्त्विकी, इदमिति परामर्शभेदमात्रजन्मना तु नानानामरूपविभक्तभावभेदेन अवभासमाना सती बहुत्वेन व्यपदिष्टा शक्तीनां चक्रम् - इति । शक्तिशब्देन च भावव्यक्तीनां व्यपदेशे परमेश्वरात् शक्तिमतो भेदाभावप्रतिपादनमेव प्रयोजनम् । एता एव विभवः ऐश्वर्यमीश्वरस्य, ताभिरेव तस्य इत्थं विभवनशीलत्वात् । यथोक्तं पारमेश्वरे शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते । शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांश्च महेश्वरः ।। (प्. १०) इति । एवं च स्वशक्तिभूतस्य अस्य विभवस्य असौ प्रभवः - उत्पत्तिकारणं, न तु स्वरूपव्यतिरिक्तस्य अन्यतः कुतश्चित् लब्धात्मनः; अतश्च यस्य इत्यादिना प्रथमश्लोकपूर्वार्धेन शंकरस्य जगत्कारणत्वे प्रतिपादितेऽपि, शक्तिचक्रात्मकस्वैश्वर्यभूतजगत्प्रभवत्वलक्षणविशेष- प्रत्यायनपरम् इदम् तम् इत्यादिना श्लोकापरार्धेन विशेषणं, न पुनरुक्तम् । एतदेव वृत्तिकृता व्याख्यातम् विज्ञानदेहात्मकस्य शक्तिचक्रैश्वर्यस्य उत्पत्तिहेतुत्वम् ................................................... इत्यादिना । विज्ञानदेहो - विशुद्धसंविन्मात्रमूर्तिः महेश्वरः, स आत्मा - स्वभावो यस्य शक्तिचक्रात्मन ऐश्वर्यस्य - इति हि तस्य अर्थोऽभिमतः । किं च यस्य एवंविधधर्माव्यभिचारः स परमेश्वरो व्याख्यास्यमानार्थेन शंकरशब्देन इह प्रतिपादितः । (प्. ११) स च आत्मैव नान्यः, - इति यत्तच्छब्दोपलक्षितवाक्योपनिबन्धः सूचयति; यतः श्लोकपञ्चाशत्प्रपञ्चितप्रकरणार्थपर्यालोचनया तस्यैव प्रोक्तविशेषणाव्यभिचारः पर्यवस्यति । एतदेव वृत्तिकृता दर्शितम् अनेन स्वस्वभावस्यैव शिवात्मकस्य इति व्याचक्षाणेन; स्वस्य - आत्मनः स्व - आत्मीयो भावः - स्वरूपं, स्वस्वभावः, - इति हि तस्य विग्रहोऽभिप्रेतः । तत् अस्य आद्यश्लोकस्य अयं तात्पर्यार्थः प्रकरणनिर्वाह्यवस्तुप्रतिज्ञाबन्धरूपः यत्, - परमेश्वरः इच्छामात्रेण जगतः प्रलयोदयौ विदधाति, लब्धस्थितिकमपि जगत् तच्छक्तिविभूतिरेकैव मायावशात् तु नानात्वेन अवभासते, - इति । इदमेव अर्थद्वयम् अत्र प्रकरणे विस्तार्यते उपपत्त्युपलब्धिप्रदर्शनक्रमेण । तथा च - प्रथमत एव मायावशात् स्वरूपप्रत्यवमर्शस्य अनुल्लासात्, वेद्यात् देहादेरव्यतिरेकेण प्रतिभासमानस्यैव (प्. १२) आत्मनो व्यतिरेकः प्रदर्श्यते । ततो वेद्यस्यैव जगतो वेदकात् तस्मात् उपलब्धतात्त्विकस्वभावात् शक्तिभावेन अव्यतिरिक्तत्वम्, - इति अस्मिन्नेव अर्थद्वये उपपत्त्युपलब्धी, - इति चतुर्निःष्यन्दः स्पन्दसिद्धान्तोऽनेन श्लोकेन आसूत्रितः । सिद्धान्तता च अस्य, सिद्धस्यैव - न साध्यस्य - ईश्वरतत्त्वस्य, अन्तो - निष्ठा निश्चयः, इति कृत्वा; यदि वा नानासिद्धान्तोदितस्य ज्ञान - क्रिया - योग - चर्यात्मकस्य चतुष्टयस्य एतद्विज्ञानं संस्कारकत्वात् साफल्यकारणम् इत्यस्यैव सिद्धान्तता । किं च प्रारब्धप्रकरणाविघ्नपरिसमाप्तिप्रयोजनेनापि अनेन आदिश्लोकेन संबन्धादयोऽपि सूच्यन्ते - इत्यादिशन्ति गुरवः । तच्च सर्वं शंकरं स्तुमः इत्यत एव वाक्यात् लभ्यते । यतः उपायलक्षणं श्रेयःशास्त्ररूपं मुख्यतया, उपेयलक्षणं च आत्मैश्वर्यप्रत्यभिज्ञारूपं; तदुभयमपि (प्. १३) शम् इत्यनेन पदेन उक्तम् । तस्य कर्ता शकरः इत्यन्वर्था इयं संज्ञा परमेश्वरस्य । अत एतच्छास्त्रात्मकश्रेयसः साक्षात् कर्ता परमेश्वर एव । तत्संप्रदायमिमं निबध्नद्भिः कर्तृव्यपदेशोऽधिगतः । एवम् ईश्वरशास्त्रयोः कर्तृकार्यलक्षणः संबन्धः । अभिधेयमिह शंकरस्वरूपमिति स्तुमः इति पदात् प्रतीयते । उपादेयवस्तुस्वरूपप्रतिपादनमेव स्तुत्यर्थः, - इति हि निश्चितं विपश्चिद्भिः । अतः शास्त्राभिधेययोः प्रतिपाद्य - प्रतिपादकभावलक्षणः संबन्धः । प्रयोजनं च आत्मैश्वर्यप्रत्यभिज्ञात्मकं शंकरपदादेव अवसीयते । परस्यापि हि श्रेयसः कर्तृत्वेन ईश्वर एव व्याख्यातः; - इति अभिधेय - प्रयोजनयोः उपायोपेयभावलक्षणः संबन्धः । इति व्याख्याताः संबन्धादयस्त्रयः । अभिधानमस्य शास्त्रस्य स्पन्द इति । यतः स्पन्दतत्त्वविविक्तये । (ष्प्. Kआ. १/२१) इत्यादौ इहैव व्यवहारः । स्पन्द - शब्दश्च अयं स्वस्वभावपरामर्शमात्रस्य (प्. १४) नित्यस्य शून्यताव्यतिरेचनकारणभूतस्य तावन्मात्रसंरम्भात्मनः शक्त्यपराभिधानस्य पारमेश्वरस्य धर्मस्य किंचिच्चलनात् स्पन्द इति, अर्थानुगमात् वाचकत्वेन व्यपदिष्टः । तत्प्रतिपादनहेतुत्वात् शास्त्रमपि इदं स्पन्दशब्देन अभिधीयते । विषयश्च [अत्र विषयशब्देन उपदेशविषयः अधिकारी निर्दिश्यते, शास्त्रान्तरेषु विषयशब्देनाभिधेयं विवक्षितम्, इह तु अभिधेयं व्याख्यातपूर्वम् ।] अस्य विशुद्धश्रद्धाभक्तिप्रकर्षपिशुनितपरमेश्वरपरशक्तिपात- प्रोन्मील्यमानस्वभावालोकतिरस्कृतसकलसंदेहान्धकारत्वात् प्रबुद्धः सम्यगुपनतदीक्षादिसंस्कारो गुरुवचनचोदनामात्रावशेषस्वात्मैश्वर्योपलब्धिः; तादृशस्यैव इह उपदेश्यत्वेन पुरस्तात् परिगृहीतत्वात् । - इति अभिधान - विषयावपि अवगन्तव्यौ । व्याख्यातश्च अयमादिश्लोकः समस्तप्रकरणार्थोपक्षेपगर्भः ।। १ ।। ननु सुर - नर - तिर्यगादिभेदेन प्रविभक्त - तनु - करण - भुवनाभोगादेः अपरिसंख्येयावान्तरभेदभिन्नस्य (प्. १५) प्राणभृत्प्रपञ्चस्य सुख - दुःख - क्षुत्तृष्णा - जरामरणद्वन्द्वानुविद्धस्य जात्याद्यवच्छिन्नाभिमानभाजः सततं संसरतः परस्परदूरभिन्नो यः स्वभावः, स कथं समनन्तरप्रतिपादिताद्भुतैश्वर्यशंकराभेदेन प्रतिज्ञातः येन एवं व्याख्यातम् ? यस्य एवंप्रतिपादितविशेषणाव्यभिचारः, स कथं शंकरो ममैव आत्मा ? - इति अत आह यत्र स्थितमिदं सर्वं (ग्: इदं विश्वम्) कार्यं यस्माच्च निर्गतम् । तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ।। २ ।। वृति: (प्. ३) कथं पुनः स्वस्वभावस्यैव संसारिणः शिवत्वेन निर्देशः - इति यद्युच्यते (घ्: इत्युच्यते इति यदि - शब्दहीनः पाठः ।), तत् यत्र स्थितम् इदं जगत्, यस्मात् च उत्पन्नं तस्य संसार्यवस्थायामपि अनाच्छादितस्वभावत्वात् न क्वचित् निरोधः, अतः शिवत्वमुच्यते टिप्पणी: नानाविभक्तवेद्यात्मतत्त्वनिचयस्य प्रकाशनस्थितिहेतुतया कर्तृतया च य आधारकारणभूतः प्रमेयसंपर्कासहिष्णु -तया अप्रमेयोनिरवच्छिन्नमहिमचिन्मात्रैकस्वरूपः स एवेह स्वस्वभावशव्दाभिमतो, न तु जातिव्यक्त्यभिमानवतो मायापहृ - तैश्वर्यसंविदोऽणोः स्वरूपं, तस्य निरुद्धस्वभावत्वात् ।। २ ।। विवृति: (प्. १५) तस्य - अस्य वक्ष्यमाणस्य तत्त्वस्य न क्वचित् - कस्मिंश्चित् देशे काले आकारे अवस्थाविशेषे वा निरोधः - अवच्छेदः इदन्तेयत्ताव्यपदेशहेतुः वेद्यवस्तुधर्मः अस्ति - विद्यते; कुतो हेतोः ? अनावृतरूपत्वात् - जात्याद्यभिमानरूपेण (प्. १६) मलेन अनावृतम् अनाच्छादितं रूपं यस्य तत्, तथा तस्य भावः तत्त्वं तस्मात् । तस्य अनावृतत्वोपपत्तिप्रतिपादनाय विशेषणमाह यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् - इति । इदम् इति वेद्यतयावस्थितं; सर्वम् इति यत्र यत्र दर्शने यथा यथा परिकल्पितं; तत् अशेषं कार्यं कर्त्रधीनसद्भावं यत्र - यस्मिन् वेदकत्वेन कर्तृत्वेन च अवस्थिते आधेयसमस्तपदार्थसार्थसामान्याधारभूते एकस्मिन् स्थितं - तेन तेन पृथिव्यादिना घटपट - गवादिना वा रूपेण लब्धप्रतिष्ठं, यदन्तर्गतस्य सर्वस्य वस्तुनः प्रकाशमानत्वात् स्वरूपसत्तासादनमित्यर्थः । ननु सूर्यादिप्रकाशान्तर्गतं घटपटादिद्रव्यं तेन तेन रूपेण प्रकाशमानत्वात् सत्ताम् आसादयति, तथैव सर्वमिदं कार्यं यत्र स्थितम् इत्युक्तम्, उत अन्येन प्रकारेण ? इत्याह - यस्माच्च निर्गतम् इति, - प्रधानादिकारणान्तरपरिहारेण यस्मात् (प्. १७) एककर्तृभूतात् एकस्मात् कारणात् निर्गतम् उद्भूतम् । तत् अयमत्रार्थः, - यः पदार्थः सर्वस्य इदन्तापन्नतया प्रमेयभूतस्य शास्त्रेषु नानाविभागेन संगृहीतस्य तत्त्वव्रातस्य एकः प्रकाशकत्वेन स्थितिहेतुत्वात् आधारभूतः, कर्तृत्वात् च प्रभवः कारणं, स्वयं च वेद्यत्वसंस्पर्शासहिष्णुत्वात् मायीयप्रमात्रन्तराविषयभूतोऽनवच्छिन्नमहिमा निर्मलचिन्मात्रैकरूपः, स इह स्वस्वभावशब्देनाभिमतः, न तु जात्याद्यवच्छिन्नाभिमानसंकोचितात्मनो मायाशक्त्यपह्नुतस्वैश्वर्यसंविदः कार्यवर्गान्तःपातिनः प्राणिप्रबन्धस्य स्वरूपं स्वस्वभावः । - इति युक्तम् उक्तम् आत्मैव शंकर इति । तत् एतत् वृत्तिकृता कथं पुनः स्वस्वभावस्यैव संसारिणः शिवत्वेन व्यपदेशः इति आक्षिप्य यत्र स्थितम् इदं जगत्, यस्मात् च उत्पन्नम् (प्. १८) इति विवृण्वता प्रतिसमाहितम् । तस्य संसार्यवस्थायाम् इति । वृत्तिरेवं बोद्धव्या, - संसारिणां तन्मायावभासितजात्याद्यभिमाना मायीयावस्था, तस्यामपि तस्य स्वस्वभावस्य तत्त्वतो निरोधो नास्ति इति ।। २ ।। ननु योऽयं स्वभावाख्य एवंप्रतिपादितः पदार्थः, स किं केवलात् आगमाज्ञामात्रात् ओं इति अभ्युपगन्तव्यः, उत प्रगुणाभ्याम् उपपत्त्युपलब्धिभ्यां व्युत्पाद्याभ्यां प्रतिपत्तिगोचरतां नेतुं शक्यः ? - इति संशयच्छेदाय श्लोकान्तरेण उपपत्तिं यां प्रतिपादयिष्यति तदवतारणार्थम् इदं तावत् उच्यते, - सकलप्रकरणप्रतिपाद्यार्थतत्त्वलब्धप्रतिष्ठया परया प्रज्ञया स्वस्वभावस्य परामर्शावसरे रविकिरणस्पृष्टनीहारनिकरनिःसारनश्यत्स्वरूपया, संप्रति तु द्वैतमहामोहतिमिरात्मना विजृम्भमाणया मायाशक्त्या (प्. १९) आविष्टानां सर्वप्रमातॄणां पारमार्थिकात् वेदकात् स्वभावात् प्रच्युत्येव वेद्य एव देहादौ वेदकभावेन अहमिति प्रत्ययः परमदुर्भेदस्य भेदग्रन्थेर्मूलम् । ततस्तेभ्यो देहादिभ्यः तस्य अहंप्रत्ययात्मनः स्वस्वभावस्य व्यतिरेचनाय समनन्तरप्रतिज्ञातस्य सर्वथा निरोधाभावस्य उपलब्धये स्वानुभवप्रमाणाम् उपपत्तिं प्रस्तावयन् आह जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ।। ३ ।। वृति: (प्. ४) जाग्रदादिनापि भेदे प्रथमानेन (ख्, घ्: भेदे प्रवर्तमाने) तस्य स्वरूपम् आव्रियते, यस्मात् उपलब्धृरूपत्वं त्रिष्वपि पदेषु साधारणम्, न तस्य स्वरूपान्यथाभावः, यथा विषस्याङ्कुरादिषु (वृक्ष्स्याङ्कुरादिषु इति क्वाचित्कः पाठोऽमौलिकः ।) च पञ्चसु स्कन्धेषु ।। टिप्पणी: आदिशब्दनिर्देशेन स्वप्नसुषुप्ताख्ये अवस्थे विज्ञेये । स्मृतिमदमूर्छादयस्तयोरेवान्तर्भूताः । तत्र यस्यां बुद्धीन्द्रियैर्बहिर्विषयान् परिग्रहीतुं विकसितकरणेश्वरीको जनः परिस्पन्दते सा जागरावस्था । यत्र बाह्यतो व्युपरतकरणचक्रस्य मनसैव सकलकरणशक्तिमता उपकल्पितविषयोपभोगपरिग्रह -णं सा स्वप्नावस्था । यत्र मनसोऽपि व्यापृत्युपरतौ सत्यां प्रोक्तोभयथाकारविषयजातासंवेदनं सा सुषुप्तावस्था । स्मृतिरनुभूतविषयासंप्रमोषः । मदः पानातिशयजत्यश्चित्त - वृत्तिसंमोहः । मूर्छा विषादादिजनितमोहात्मा इति एतासु विजृम्भमाणास्वत्रस्थासु अनुसंधानैक्यबलवत्स्वानुभवप्र - माणेन उपलब्धृतायावस्थातुरभेदः सिद्धः । तदभिन्नेति बहुव्रीहिर्बोध्यः । विवृति: (प्. १९) अतः तस्य स्वभावस्य न क्वचित् निरोधः अस्ति, यतः असौ निजात् आत्मीयात् अनुपाधेः स्वभावात् स्वरूपात् न निवर्तते नान्यथा भवति, न च्यवते इति संबन्धः । कीदृशात् स्वभावात् ? उपलब्धृतः उपलम्भकात् ज्ञातुः अनुभवितुः इत्यर्थः । कदा च न निवर्तते ? जाग्रदादिविभेदे प्रसर्पति अपि जाग्रदादिना (प्. २०) यो विभेदो व्यतिरेकः, अवस्थानाम् अन्योन्यवैलक्षण्यं, तस्मिन् प्रसर्पति विजृम्भमाणे । आदिग्रहणात् स्वप्न - सुषुप्तावस्थे गृह्येते; स्मृत्याद्यवस्थाः स्वप्नेनैव संगृहीताः, तुल्यरूपत्वात्; मदमूर्छाद्यवस्थाश्च सुषुप्तेन । तत्र जाग्रत् इति जागरावस्थैव शास्त्रेषु प्रसिद्धा, यस्यां श्रोत्रादिभिः इन्द्रियैः शब्दादीन् इन्द्रियार्थान् गृह्णन् प्रसृतशक्तिः पुरुषः परिस्पन्दते । स्वप्नः स्वापावस्था, यस्यां स्वव्यापारपरिश्रान्तः श्रोत्रादिविहारविरतावपि मनसैव असौ विषयान् परिगृह्णाति । सुषुप्तं गाढनिद्रारूपा सुखस्वापावस्था, मनोव्यापारस्यापि व्युपरमे सति यत्र व्यतिरिक्तवेद्यसंवेदनं तात्कालिकं नास्ति । स्मृत्यवस्था अनुभूतविषयासंप्रमोषात्मिका स्वप्नसदृशी, मनसैव विषयग्रहणसाम्यात् । मदः पानातिशयजः चित्तेन्द्रियवृत्तिप्रमोषरूपो विकारः । मूर्छा विषादविषादिभोजनादिजनितमोहात्मा । एवमादिवेद्यग्रहणाभावसाम्यात् सुषुप्ततुल्या (प्. २१) अन्या अपि याः काश्चनापि अवस्थाः संभवन्ति, ता एतासु एव अन्तर्भवन्ति । एतन्निमित्तके विभेदे प्रवर्तमानेऽपि, निजात् उपलब्धुः स्वभावात् असौ न निवर्तते । यदि अवस्थात्मक एव अयम् उपलब्धा स्यात्, तत् अवस्थावत् सोऽपि विभिद्येत । यावता तासां विभेदे प्रसर्पति, अयं स्वभावात् अवस्थाव्यतिरिक्तात् न निवर्तते, - इति अपिशब्दस्य अर्थः । कथम् एतत् प्रतिपद्यामहे, - यत् अवस्थातापि सन् अवस्थासु भिन्नरूपासु प्रसरन्तीष्वपि स एकस्मात् स्वभावात् न निवर्तते इति ? अत्र हेतुगर्भं विशेषणम् आह, - कीदृशि तस्मिन् प्रसर्पति ? तदभिन्ने अभिन्न एकरूपो निर्विशेषोपलब्धृत्वमात्रेण लक्षणेन युक्तः स्वस्वभावो व्यापकत्वेन स्वयम् अनुभूयमानो यत्र स तथा तस्मिन् । अवस्थाभेदेऽपि उपलब्धृलक्षणस्य अवस्थातुः अभेदः, - (प्. २२) इति सर्वस्य अत्र स्वानुभवः प्रमाणम् । तथाहि, - योऽहम् अस्वाप्सं स जागर्मि इति एकानुसंधातृसूत्रनिबद्धत्वेन स्वयम् अनुभूयमाना जागरादयोऽवस्थाः प्रसर्पन्ति । एताभ्यश्च अन्यदवस्थान्तरम् आनन्त्येऽपि संसारिणां जन्तूनां न संभवति । अतो यथा एकस्मिन् देहे अवस्थाव्यतिरिक्तरूप उपलब्धा व्यापक एकः, तथा सर्वदेहेष्वपि स एव एको व्यापकः सिद्धः; देहभेदेऽपि तस्य उपलब्धृमात्रव्यतिरिक्तलक्षणान्तराभावात् । प्रतिप्राणि पृथक्त्वेन अहमिति तु प्रत्ययो मायीयो, न तात्त्विकः । तद्व्युदासार्थमेव प्रकरणारम्भः । सोऽपि च उपलब्धृत्वमात्रम् एकं स्वलक्षणं न व्यभिचरत्येव । - इति स्वस्वभाव एव शंकर - इति सम्यक् उपपादितं स्वानुभवानपह्नविनः प्रबुद्धान् प्रति । एताभिरेव अवस्थाभिः योगशास्त्रप्रसिद्धास्वपि जागराद्यवस्थासु तस्य अभेदः प्रतिपादितो वेदितव्यः । (प्. २३) तास्वपि तस्य उपलब्धृत्वेन व्यापकतया अवस्थानात् । ताश्च संक्षेपतो लक्ष्यन्ते । - तत्र ध्येये अर्थे चेतसा झगिति प्रवृत्तिमात्रं जागरावस्था, धारणा इति क्वचित्प्रसिद्धा । तत्रैव विसदृशप्रत्ययपरिहारेण समानप्रत्ययप्रवाहैकतानतानुसंधानं स्वप्नावस्था, ध्यानम् इति याम् आहुः । क्रमेण ऐकाग्र्यातिशयात् प्रत्ययान्तरासंकीर्णसूक्ष्मध्येयाभासमात्रविशेषता चित्तस्य सवेद्यसुषुप्तावस्था, यां वितर्कविचारानन्दास्मितानुरूपानुगमलक्षणस्य संप्रज्ञातस्य समाधेः आनन्दास्मितामात्रानुगतम् अवस्थाविशेषम् आचक्षते । यस्तु विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (यो सू १/१७) इति कृतलक्षणः असंप्रज्ञातः समाधिः, तत् अपवेद्यसुषुप्तम् । सर्वासु एतासु च अनुभवितृरूपस्य व्यापकस्य एकस्य स्वभावस्य सत्ता (प्. २४) स्थितैव । यतः सालम्बने तावत् समाधौ व्यतिरिक्तवेद्यसद्भावात् लौकिकावस्थावत् वेदकस्य उपलब्धुः सत्त्वं स्फुटम् एव । यत्र तु निरालम्बनत्वात् अभावरूपत्वं तत्र तत्कालमेव वेद्यासंवेदनमात्रं, न तु वेदकस्य वेदकत्वाभावः सुषुप्तादिवत्; ततो निःसृतस्य सा अवस्था स्मर्तव्यतया वेद्यत्वम् आपन्ना व्यापकस्य सद्भावम् अभिव्यञ्जयत्येव । ये पुनः वेद्यसंवेदनसामर्थ्याभावमात्रव्यामोहिता उपलब्धारमात्मानमेव असत्यं मन्यन्ते तान् पुरस्तात् प्रतिबोधयिष्यति । एतत् सर्वं वृत्तिकृता जाग्रदादिनापि भेदे प्रवर्तमाने न तस्य स्वरूपमाव्रियते इत्यादिना ग्रन्थेन सूचयित्वा विषशक्तिदृष्टान्तेन प्रमाणीकृतम् ।। ३ ।। ननु जागरादिषु अवस्थाविशेषेषु स्वभावात् उपलब्धुः असौ न निवर्तते, स्वस्य आत्मन (प्. २५) उपलब्धुर्ज्ञानस्य भावात् स्वानुभवरूपात् एकरूपतया अवस्थानात्, - इति यत् प्रतिपादितम् तत् कथम्? यतः तासु अवस्थासु अनुभवितुः एवंविधाः प्रत्ययाः प्रादुर्भवन्ति, तत् यथा, - मनुष्योऽहं, ब्राह्मणोऽहं, देवदत्तोऽहं, युवाहं, वृद्धोऽहं, कृशोऽहं, स्थूलोऽहम्, - इत्यादयो देहालम्बनाः; सुखितोऽहं, दुःखितोऽहम्, - इत्यादयो बुद्ध्यालम्बनाः; क्षुधितोऽहं, तृषितोऽहम्, - इत्यादयः प्राणालम्बनाः । शून्यताप्रमातृप्रत्ययश्च नाहं किंचित् अवेदिषम्, - इति प्रत्यवमर्शप्रत्येयः सुषुप्ताद्यवस्थातः प्रतिबुद्धस्य शून्यालम्बनः प्रादुर्भवति । त एते देहादयः सर्व एव अनित्याः, तदालम्बनश्च अहंप्रत्ययोऽपि अनित्य एव । - इति कथमुक्तम् उपलब्धुः स्वभावात् असौ न निवर्तते ? - इत्यत आह अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः । सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्रताः स्फुटम् ।। ४ ।। वृति: स चानुस्यूत एव सर्वास्ववस्थासु, यस्मात् ऽय एव अहं सुखी स एव अहं दुःखीऽ ऽरक्तो वा प्. ५) पश्चात् स्थितऽ (क्: पृथक्स्थित; घ्: पश्चात्सित) इति अनुस्यूतत्वेन; अन्यत्र अवस्थाव्यतिरिक्ते । यदागमः ऽ................ष स्वभावः परः स्मृतः ।ऽ इति टिप्पणी: संविद इति बहुवचनस्य (ज्ञानसंतान एव क्षणिकः स्वतन्त्रः स एव स्मृत्युत्प्रेक्षादिपद्धत्या दूरतरं विसार्यमाणो बहुप्रकारं शाखोपशाखोद्भिन्नोऽहंप्रतीत्यापि बुद्ध्याद्यालम्बनो नान्यस्य स्मर्तृद्रष्ट्टताभिमतस्य संबन्धितामवलम्बते) इत्येवमभिप्रायः, तथात्वे स्मृतिप्रत्यभिज्ञाद्यनुसंधानं न स्यात् असति च तस्मिन् सर्वव्यवहारोच्छेदः प्रसज्येतेत्येतत् सर्वं प्रसक्तं परिहर्तुं विशिष्यते अन्यत्रेति, सुखित्वादिप्रत्ययसंतानेन प्रवर्तमाना - वस्थानामुपलब्धरि पूर्वापरव्यवस्थाव्यापकतया सर्वप्रमातृस्वानुभवसिद्धे निर्निरोधानुसंधात्रेकाश्रयत्व - स्वभावः शंकरः सुव्यक्तः ।। ४ ।। विवृति: (प्. २६) अहं सुखी इत्यादयो याः संविदः ता अन्यत्र वर्तन्ते ततः असौ स्वभावात् एकस्मात् न निवर्तते, - इति संबन्धः । अन्तरङ्गत्वात् मुख्या बुद्ध्यालम्बनाः संविदोऽत्र निर्दिष्टाः । आदिग्रहणात् तु देहाद्यालम्बनाः संगृहीताः । ताश्च पूर्वं प्रतिपादिताः । तेन सर्वा एताः संविदः अन्यत्र यथाप्रतिपादिताभ्यः सुखादिभ्यः अवस्थाभ्यो व्यतिरिक्ते सुखाद्युपलब्धरि वर्तन्ते, सरितः सागरे इव तत्र विगलितान्योन्यभेदा ऐक्येन अवतिष्ठन्ते, तादात्म्यम् आपद्यन्ते इत्यर्थः । एतत् च स्फुटं स्वानुभवसंवेद्यत्वात् सुप्रकटमेव । अतश्च एकैव संवित् उपलब्धृरूपा अहमिति स्फुरन्ती पारमार्थिकी, मायाशक्तिजनिततथाविधस्वभावपरामर्शाभावबलात् सुखाद्यनित्यवस्तुवेदकत्वेन (प्. २७) अहं सुखी दुःखी च - इत्यादिना बुद्ध्याद्यवस्थासामानाधिकरण्यम् उपगता सती, संविद इति बहुवचनेन निर्दिष्टा । यदि पुनः सुखादिवेद्यवस्तुसंबन्धात् सुखादिवत् संविदोऽपि अहं प्रत्ययरूपाः परमार्थत एव वह्व्यः स्युः, तदा स्मृतिप्रत्यभिज्ञाद्यनुसंधानं न स्यात्; असति च तस्मिन् सर्वव्यवहारोच्छेदः प्रसक्तः; स च नेष्टः; ततः अन्यत्र इति निर्दिष्टस्य अर्थस्य विशेषणम् आह, - एताः संविदः कीदृशि अन्यत्र वर्तन्ते ? सुखाद्यवस्थानुस्यूते सर्वेषु सुखादिषु सुखदुःखमोहरूपेषु अवस्थाविशेषेषु, उत्पादविनाशधर्मकत्वात् अनित्येषु, वेद्यत्वसामान्यात् शब्दादिविषयसमानवृत्तिषु अहमिति उपलब्धात्मकेन एकेन रूपेण व्यापकतया स्थिते । यतः अहं सुखी दुःखी च इत्येवमादिषु प्रत्ययेषु उल्लसत्सु द्वौ अर्थौ स्फुरतः । एकः सुखाद्यात्मा (प्. २८) वेद्यरूपः, - स वेद्यत्वादेव घटादिवत् अनित्यत्वेन नानात्वेन च प्रतिपद्यते; अहमिति अपरो वेदकरूपः, - स च पूर्वापरावस्थाव्यापकत्वेन समस्तप्रमातृप्रसिद्धः, सकलव्यवहारहेतोः अनुसंधानस्य कर्ता, नित्य उपलब्धृमात्ररूपत्वात् एक एव प्रकाशते । तत् एवम्, - यथा जाग्रदादिना हेतुना विभेदे प्रसर्पत्यपि अयम् अभिन्नस्वलक्षण एक एव, तथा जाग्रदाद्यवस्थान्तर्गतसुखित्वादिप्रत्ययसंतानेन हेतुना विभेदे प्रवर्तमानेऽपि अभिन्नस्वलक्षण एक एव; यतः इहापि योऽहं सुखी जातः, स इदानीं दुःखी रक्तो वा स्थित - इति एकानुसंधातृनिबद्धा एव अवस्थाः प्रतीयन्ते । तस्मात् अनन्तजन्तुसंतानवर्तिभिः अशेषैः अवस्थाविशेषैः ईषदपि अनुपजनितोपलब्धृमात्रस्वभावान्यथाभावः, स्वयंसिद्धो, नित्यनिरावरणरूपत्वात् (प्. २९) सर्वत्र अनिरुद्धः, तात्त्विकः, स्वस्वभाव एव शंकर इति । तत् एतत् स च अनुस्यूत एव सर्वासु अवस्थासु इत्यादिना व्याख्याय ................................. स स्वभावः परः स्मृतः ।। इति सिद्धान्तीकृतं वृत्तिकृता ।। ४ ।। एवं स्वस्वभावस्य शिवत्वेन व्यपदेशो युक्त इति उपपाद्य, इदानीं तस्य संग्रहेण लक्षणम् अनुवदन् परमार्थसत्तां प्रतिपादयितुम् आह न दुःखं न सुखं यत्र न ग्राह्यो* (घ्: न ग्राह्यम्) ग्राहको न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ।। ५ ।। (* विवृति: ग्राह्यं) वृति: तस्य चायं स्वभावो - यत् सुखदुःखग्राह्यग्राहक - मूढतादिभावैरस्पृष्टः स एव च परमार्थतोऽस्ति (क्: परमार्थोऽस्ति) नित्यत्वात्; सुखादयः पुनः संकल्पोत्थाः क्षण - (प्. ६) भङ्गुरा आत्मस्वरूपबाह्याः शब्दादिविषयतुल्याः ; न च, सुखादिस्वरूपो यदा नासौ तदा पाषाणप्रख्य एव ।। ५ ।। टिप्पणी: सुखादिरूपताप्रतिषेधेन वाह्याभ्यन्तरतया द्विविधवेद्यता प्रतिषिध्यते । ग्राहकशब्देन देहादिमायीयप्रमातृभावप्रति -क्षेपः । वेद्यवेदनासंचेतनावस्थापि उत्तरकालं प्रत्यव - मृश्यमानत्वात् वेद्यभूमिमाश्रितैव इति ज्ञानगोचरप्रमेय - वस्तुत्वनिषेधात् अभावमात्रं प्रतिक्षेप्तुमाह तदस्तीति । सदोदिताविलुप्तोपलब्ध्रेकस्वभावं तत् वेद्यवेदकयोरन्योन्यं विप्रकृष्टस्वभावत्वात्, वेद्यमसत्यस्वभावं क्षणभङ्गुरं, वेदितैव परमार्थसन् इति प्रतिपाद्यते ।] ।। ५ ।। विवृति: (प्. २९) तत् वक्ष्यमाणविशेषणं वस्तु स्वस्वभावशब्दवाच्यं परमार्थतः तत्त्वतः अस्ति, तद्व्यतिरिक्तं सर्वम् असत्यसद्भावम् इत्यर्थः । किं तत् ? यत्र न दुःखं, न सुखं, न च ग्राह्यं, न ग्राहको, न मूढभावोऽपि अस्ति । अनेन सुखादिरूपताप्रतिषेधेन वेद्यत्वम् अस्य प्रतिषिध्यते । द्विविधं (प्. ३०) हि वेद्यम्, - बाह्यम् आभ्यन्तरं च । तत्र आभ्यन्तरं सुखादि अन्तःकरणवेद्यत्वात्; तत् यत्र नास्ति, प्रतिपादितविविक्तवेदकैकस्वभावत्वात् तस्य । बाह्यं तु शब्दादि वेद्यं, तत् ग्राह्यशब्देन निर्दिष्टं, श्रोत्रादिबाह्येन्द्रियगृहीतं हि तत् अन्तःकरणेन सुखाद्यात्मकं वेद्यते; तदपि यत्र नास्ति । न हि तस्य रूपं शब्दादिविषयात्मकत्वेन ग्राह्यताम् आपद्यते । ग्राहकोऽपि मायीयः प्रमाता अत्र विवक्षितः, न तु तात्त्विक उपलब्धृमात्रस्वरूपः, तस्य एवं नित्यसत्त्वेन प्रतिपाद्यमानत्वात् । एवं मायीयो देहाद्यहंकारमयो ग्राहकोऽपि यत्र नास्ति । ग्राहकमिति तु पाठे, ग्राहकम् इन्द्रियम् इति व्याचक्षते; तदपि यत्र नास्ति । एवं ग्राह्यग्रहणस्वरूपव्यतिरिक्तं ग्रहीतृमात्रस्वभावं यत् तत्त्वं तत् अस्ति इति । ननु च एवं सति, मूढावस्थैव असौ - (प्. ३१) इति प्रतिपादितं भवति, तस्यां हि सुखादिरूपताभावः । एतत् निराकर्तुम् आह, - न चास्ति मूढभावोऽपि इति, - मूढस्य भावो मूढत्वं वेद्यवेदनसामर्थ्याभावः; सोऽपि यत्र नास्ति न विद्यते; यतः तस्यापि अवस्थान्तरे मूढोऽहमासम् - इति प्रत्यवमृश्यमानत्वात् वेद्यत्वं स्थितमेव, केवलं तत्कालमनुपलम्भः । वेद्यत्वसद्भावे च मूढावस्थायाः कथं वेदकैकस्वभाववस्तुरूपत्वं स्यात् ? यद्येवं मूढभावोऽपि तत्र नास्ति, तत्प्रतिपत्तिगोचरसमस्तवेद्यवस्तुरूपताप्रतिषेधात् अभावमात्रं तत्, - इति प्रतिपादितं स्यात् । तत्प्रतिक्षेपार्थम् आह, - तदस्ति परमार्थतः इति; - यत् एवंविशिष्टतया व्याख्यातं, तत् वस्तु परमार्थतः अस्ति, सततम् अविलुप्तोपलब्धृमात्रलक्षणस्वभावत्वात् । यत् पुनः सुखादि, तत् कल्पनामात्रलब्धात्मकं क्षणभङ्गुरं सर्वदा वेद्यमेव, वेदकैकस्वभावात् आत्म (प्. ३२) नो दूरभिन्नम् । अतो यत् यत् वेद्यभूमिकायां वर्तते, तत् सर्वम् असत्, अनित्यत्वात् । यस्तु वेदकः, स एक एव परमार्थसन् इत्यर्थः । तत् इदं तस्य चायं स्वभाव इत्यादिना ग्रन्थेन वृत्तिकृता व्याख्यातम् ।। ५ ।। इदानीम् अस्य परमार्थसत आत्मन एव शिवस्य समस्तवस्तुसंपादनस्वतन्त्रशक्तित्वप्रतिपादनपूर्वम् उपादेयतमत्वम् उपदेष्टुं युगलकमाह यतः करणवर्गोऽयं विमूढोऽमूढवत् स्वयम् । सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः ।। ६ ।। लभते, तत् प्रयत्नेन परीक्ष्यं तत्त्वमादरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ।। ७ ।। (युगलकं) वृति: (प्. ७) यतः (ख्: यत इत्यनन्तरं ऽचैतन्यस्वभावात्ऽ इत्यप्यधिकः पाठोऽस्ति ।) करणवर्गस्य अन्तश्चक्रसहितस्य विभूढस्याप्य -मूढवत् उत्पत्तिस्थितिनिरोधाः, सोऽन्येषां चैतन्यापादने समर्थः कथं निःस्वभावः ।। तस्मात् तत् तत्त्वं यत्नेन परीक्षितव्यं योगिना, यथास्य करणादिषु चैतन्यदाने स्वातन्त्र्यम्, तथा परपुरादिष्वपि संभाव्यते; स्वातन्त्र्यस्य स्वस्वभावभूतस्य सर्वत्राकृतृमस्याभ्यासात् यतो व्यक्तिः (क्, ग्, घ्: यदा व्यक्तिः) ।। ६ - ७।। टिप्पणी: उत्पत्तिः विविदिषितविषयमुखप्रेक्षित्वात्मसमुन्मिषद- वस्था । स्थितिः उपरक्तार्थचमत्कृतिविश्रान्त्यवस्था । निरोधः कृतकृत्य -तया विषयस्य स्वात्मसात्करणे स्वत्र्यापारोपरत्यात्मप्रत्यस्त -मयावस्था इत्येता यत्संपर्कबलात् त्रयोदशसंख्यानां करणानां जडतयाभिमतानामुपलभ्याः । परमार्थतत्त्व -मात्मभावेन विज्ञातं करणस्वातन्त्र्याधानवत् सर्व - साधारणार्थस्वातन्त्र्यलाभायापि अभ्यासातिशयदशापरिपाके कल्पते, तस्य स्वेच्छामात्राधीनसमस्तनिर्मातृत्वलक्षणं स्वातन्त्र्यं समावेशसंपत्तिमत्सु देहतद्दशाविशेषेषु उपादानसहकार्यादिकारणनिरपेक्षं सहजसिद्धं संसारिदशायामपि तन्महिम्नैव व्यवहारसिद्धेः, मायाव्या - मोहमात्रवशात् तु स्वात्मप्रत्यवमर्शाभावे व्यतिरिक्तकारण - सापेक्षतया वस्तुसिद्धेः पारतन्त्र्यव्यवहार इत्यत्र स्वातन्त्र्यप्रतिपादनात् उपादेयतातिशययते । ।। ६-७ ।। विवृति: (प्. ३२) तत् तत्त्वं स्वस्वभावाख्यं वस्तु परमार्थसत्त्वेन अवस्थितं प्रयत्नेन प्रकृष्टेन यत्नेन सततम् अविलुप्तेन उद्योगेन, आदरात् श्रद्धातिशयात् (प्. ३३) परीक्ष्यं सर्वासु अनुभवदशासु वक्ष्यमाणोपदेशानुसारेण क्रमेण, वेद्यवेदकलक्षणराशिद्वयविभजनपरतया, वेदकस्वरूपपरामर्शात् आत्मत्वेन स्फुटीकार्यम् । यतः तस्य इयम् अधुनैव प्रस्तुतव्याख्याना स्वतन्त्रता स्वेच्छामात्राधीनसकलकार्यकर्तृत्वरूपा सर्वत्र सर्वस्मिन् देहे दशाविशेषे वा अवस्थितस्यापि अकृत्रिमा सहजैव, न तु उपादानसहकार्यादिकारणान्तरापेक्षिणी, - यतः संसारिणामपि तत्स्वातन्त्र्यमहिम्नैव समस्तव्यवहारसंपत्तिः; मायाव्यामोहवशात् तु सत्यस्वभावपरामर्शाभावात् सर्वः संसारी परतन्त्र इव व्यवहरति सर्वक्रियासु व्यतिरिक्तकारणापेक्षसर्वार्थसिद्धिकत्वात्, - तस्मात् स्वाभाविकस्वातन्त्र्यप्राप्तये तत् तत्त्वं परीक्ष्यम्, न तु सुखदुःखमोहग्राह्यग्राहकरूपप्रतिषेधात् तत् अवस्तुभूतम् अवगन्तव्यम् इति उपदिष्टम् । इदानीम् (प्. ३४) इयम् इति निर्दिष्टां स्वतन्त्रतां प्रतिपादयितुं यच्छब्दविशिष्टं विशेषणं व्याख्यायते । - किं तत् तत्त्वं परीक्ष्यं ? यतो यस्मात् अयं करणवर्गः करणानां श्रोत्रादीनां बाह्यानां, मनःप्रभृतीनाम् आभ्यन्तराणाम् इन्द्रियाणां वर्गः त्रयोदशकरणसमूहः प्रवृत्तिस्थितिसंहृतीः लभते प्रवृत्तिः जिघृक्षितार्थोन्मुखतासमुन्मिपदवस्था, स्थितिः गृहीतार्थविश्रान्त्यवस्था, संहृतिः कृतकृत्यत्वात् बाह्यार्थपरित्यागे स्वव्यापारोपरमः प्रत्यस्तमयावस्था, एताः लभते प्राप्नोति । कीदृशः करणवर्गः ? विमूढः प्रायशो जडतयैव प्रसिद्धः । कथं लभते ? अमूढवत् चेतनवत् । एतत् उक्तं भवति - प्राकृतं जडमपि एतत् बाह्याभ्यन्तरम् इन्द्रियचक्रं प्रवृत्त्यादिचेतनव्यापारसमर्थं यत्संस्पर्शबलात् भवति, तत् तत्त्वम् आत्मत्वेन स्फुटीकृतं सत् इन्द्रियचैतन्यापादनस्वातन्त्र्यवत् सर्वविषयस्वातन्त्र्यलाभाय (प्. ३५) कल्पते एव; अतः परीक्ष्यं, येन अभ्यासदशायामेव अभिव्यज्यमाने स्वातन्त्र्ये परशरीरावेशादिक्रीडा उपपद्यते । तत् इदम् न च सुखादिरूपो यदा नासौ इत्यादिना तस्मात्तत्तत्त्वं यत्नेन परीक्षितव्यम् इत्यादिना च पृथक् व्याख्यातं वृत्तौ ।। ७ ।। ननु किमिदम् उच्यते, - तत् किंचित् तत्त्वं परीक्ष्यं यद्वशात् इन्द्रियाणि चेतनीभवन्तीति, किल एवं व्यवहारो व्यवस्थितः, - सर्वः कश्चित् चेतनः प्रमाता धर्माधर्मसंबन्धात् इच्छाख्येन गुणेन संयुज्यमानो हेये उपादेये वा विषयभूते प्रयत्नवान् भूत्वा, तेनैव इच्छाख्येन गुणेन करणवर्गं जडमेव तत्तद्विषयहानोपादानादौ प्रेरयति; स च तत्प्रेरितो जड एव दात्रादिवत् स्वकार्यं करोति । तत् कथमुक्तम्; - यतः कारणभूतात् अमूढवत् (प्. ३६) प्रवृत्त्यादि लभते इति; व्याख्यातं च, - यत्संस्पर्शबलात् एव हेतोः प्रवृत्त्यादिचेतनव्यापारसंपादनसमर्थो भवति ? - इत्याशङ्क्य यथा एष करणवर्गः चेतनीभवति तथा संसारिपुरुषस्य व्यवहारप्रदर्शनेन स्फुटीकर्तुमाह न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते । अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ।। ८ ।। वृति: (प्. ८) न च इच्छाप्रेषणेन करणानि प्रेषयति (ग्: इच्छाप्रेरणेन करणानि प्रेरयतीत्यपि पाठान्तरं वर्तते ।), अपि तु स्वस्वरूपे स्थित्वा केवलं यादृशी तस्येच्छा प्रवर्तते तथाविधमेव स बाह्यान्तरं कार्यमुत्पादयति, तेन न करणविषयमेव सामर्थ्यम्, किं तु तत्स्य सर्वत्र ।। ८ ।। टिप्पणी: अयमत्राशयः - यथा परमेश्वरः पूर्णज्ञातृत्वकर्तृत्वशक्ति -भ्यां जगन्ति प्रवृत्त्यादिव्यापारं लम्भयन् विश्वत्र ज्ञान - क्रियावत्तामधिरोहति एवमनुत्तरतद्बलसंपर्कादेव योगिनो ज्ञातृत्वादिसामथ्यैमुपजायते मायावशात् संकोचोन्मुखी - भावेन ज्ञानक्रिये शक्ती अपि अन्तर्बहिष्करणतया संकुचितीभूय प्रसृते प्रतिनिजनियतविषयेषु व्यापरितुं शक्नुतः इत्यतोऽणुरपि स्वस्वभावमध्यास्य करणचक्रप्रेरणादौ स्वतन्त्रो न तु अस्य धर्माधर्मसंबद्धेच्छाख्यगुणप्रेरणया करणचोदितदात्रादिवदुपचरितकर्तृत्वम् ।। ८ ।। विवृति: (प्. ३६) नहि न खलु इच्छानोदनस्य इच्छैव नोदनं, नुद्यते अनेन इति प्रतोदादि करणं, तस्य प्रेरकत्वेन इन्द्रियवर्गं प्रति चोदकत्वेन असौ पुरुषः संसारी प्रमाता वर्तते अवतिष्ठते । यथा कश्चित् देवदत्तादिः केनचित् करणभूतेन हस्तादिना जडं प्रतोदादि प्रेरयति, न एवम् अयम् आन्तरः पुरुषः इच्छया जडं करणवर्गं स्वविषये प्रवर्तयति; अपि तु आत्मबलस्पर्शात् आत्मनः परस्य प्रमातुः सर्वकर्तुः ईश्वरस्यैव (प्. ३७) स्वभावस्यैव यत् बलं सामर्थ्यं कारणान्तरनैरपेक्ष्येण अखिलवस्तुसंपादनशक्तता, तत्स्पर्शात् तत्संपर्कात् तत्समो भवेत् तेन आत्मशब्दोक्तेन परेण कर्त्रा तुल्यः संपद्यते । इदमत्र तात्पर्यम्, - यत्रैव स्वस्वभावे स्थित्वा आत्मशब्दप्रतिपादितः परमेश्वरो जगदिदं प्रवृत्तिस्थितिसंहृतीः यथेष्टं लम्भयितुं स्वतन्त्रः, तत्रैव स्थित्वा पुरुषोऽपि अयं संसारी करणवर्गं स्वविषये प्रवृत्त्यादि लम्भयितुं स्वतन्त्रः, तेन तत्समो भवेत् इति उक्तम् । ततो यथा ईश्वरः सर्वव्यापिकाभ्यां ज्ञानक्रियाख्याभ्यां शक्तिभ्यां, विश्वं प्रवृत्त्यादि प्रापयन् सर्वं जानाति च करोति च, तथा पुरुषः तद्बलस्पर्शादेव उपजातज्ञत्वकर्तृत्वसामर्थ्यो मायावशात् नियतविषयाभ्यां ज्ञानक्रियाशक्तिभ्यां अन्तर्बहीरूपकरणवर्गतया प्रसृताभ्यां स्वविषयं जानाति च करोति च, - इति तत्साम्यम् अस्य उक्तम् न च इच्छाप्रेरणेन करणानि प्रेरयति (प्. ३८) इत्यादि विवृतमेतत् वृत्तौ ।। ८ ।। ननु स्वव्यापारे करणवर्गं प्रवर्तयन् पुरुषः ईश्वरभूमिकासादनात् तद्वत् स्वातन्त्र्यम् आप्नोति, - इति तयोः ईश्वरपुरुषयोः अभेदः एव प्रतिपादितः स्यात्; कथं भेदनिबन्धनम् ईश्वरसाम्यं पुरुषस्य प्रतिपादितं तस्यां दशायाम् ? - इत्यत आह निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः । यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ।। ९ ।। वृति: स चास्य आत्मबलस्पर्शः (ख्: स आत्मबल) सहजया अशुद्ध्या व्याप्तस्य कार्यमिच्छतोऽपि न भवति, किंतु यदा क्षोभः ऽअहमितिऽ (घ्: क्षोभो देहाद्यहमिति शोधितपाठः, प्रलीयते इति च पाठोऽस्ति ।) प्रत्ययभावरूपोऽस्य प्रलीयेत (प्. ९) तदास्य भवति परमे पदे प्रतिष्ठानम् ।। ९ ।। टिप्पणी: सत्यपि परमेश्वरसाम्यासादनात् ईश्वरपुरुषयोरभेदे केवलं पुरुषस्य रागादिनिबन्धनमलाक्रान्ततया अनित्यपरिपूर्णतृप्तिता, यया साध्यसाधनोपार्जनेषु अशक्तत्वेन शक्तिदारिद्र्यम्, अत एव भेदनिबन्धनमीश्वरसाम्यं मायीयोपद्रवप्रलये पुनः संविदैकात्म्यमनुपचरितप्रथं सैव परमशुद्धिः ।] ।। ९ ।। विवृति: (प्. ३८) सत्यम्, अस्ति अभेदः तस्याम् अवस्थायाम् अनयोः । किन्तु अयं पुरुषो निजया सहजया देहाद्यात्मप्रतिपत्तिमूलरागादिरूपया अशुद्ध्या मलेन हेतुना अभिलाषी क्षणिकसुखलवलुब्धः, तयैव च तत्साधनभूतविषयावाप्तिहेतुषु कर्तव्येषु क्रियासु असमर्थः शक्तिदरिद्रो - यतः इच्छन् अपि अभिमतं न आप्नोति - ; एवंविधस्य अस्य यदा यस्मिन् (प्. ३९) काले क्षोभः प्रतिनियतशरीराद्यालम्बनाहंप्रत्ययात्मा मायीय उपप्लवः प्रलीयेत कृत्रिमालम्बनोत्तिर्णस्वाभाविकाहंप्रत्ययप्रभाकर- प्रकाशसंपर्कात् प्रालेयपटलवत् विगलेत् विनश्येत्; तदा परमं निरुत्तरं पदं स्थानं स्यात् सद्भावेन प्रकाशेत - अभेदः आत्मपुरुषशब्दप्रतिपादितयोः परापरयोः संविदोः तस्यामेव दशायाम् उपलभ्यतया प्रथेत इत्यर्थः । तदेतत् - स्वस्वभावे प्रतिष्ठानम् इदम् (इति) अनेन श्लोकेन प्रतिपादितम् । उपपाद्यतां नाम दर्शनान्तरेषु तैस्तैः प्रकारैः अशुद्धिः अस्य पुंसः; इह तु एतावत्येव असौ, - यत् अचित्स्वरूपेषु अनित्येषु परतन्त्रेषु देहादिषु तद्विलक्षणार्थनिष्ठतया उपपन्नः अहंप्रत्ययः प्रवर्तते; तावन्मात्रनिबन्धना हि सर्वाः संसारित्वप्रतिपत्तयः; तस्मिन्नेव विगलिते स्वस्वभावाभिव्यक्तिलक्षणा परा (प्. ४०) शुद्धिरिति । यदुक्तम् जाते देहप्रत्ययद्वीपभङ्गे प्राप्तैकध्ये निर्मले बोधसिन्धौ । अव्यावर्त्यैवेन्द्रियग्राममन्त- र्विश्वात्मा त्वं नित्यमेकोऽवभासि ।। तथा नात्माधीनत्वेऽपि विश्वं नियोक्तुं सर्वो हस्तादीनिवेष्टे यथेष्टम् । बालो राजेवात्मशक्त्यप्रबोधात् त्वययन्तःस्थे सर्वशक्तिस्तु सर्वः ।। इति । तदेतत् तावत् स चास्य इत्यादिना वृत्तौ व्याख्यातम् ।। ९ ।। ननु प्रलीनदेहाद्यहंप्रत्ययलक्षणक्षोभो निर्वातनिश्चलजलधिवत् सुप्रशान्तस्थितिः आत्मैव परमपदशब्दप्रतिपादितः; तत् कथं तद्बलस्पर्शात् पुरुषः तद्विलक्षणं क्षोभात्मकमेव धर्मम् आसादयेत्, येन युक्त इन्द्रियवर्गं प्रवृत्त्यादि लम्भयन्, अहं करोमि, अहं जानामि, (प्. ४१) इति स्वविषयं प्रतिपद्यमानः क्षुभित एव भवति ? - इति अनात्मज्ञानां मतिविभ्रमभङ्गायाह तदास्याकृत्रिमो (क्: तदा स्यात्कृत्रिम) धर्मो ज्ञत्वकर्तृत्वलक्षणः । यतस्तदीप्सितं सर्वं जानाति च करोति च ।। १० ।। वृति: यतः, तस्मिन् प्रलीनक्षोभात्मके काले अकृत्रिमः सहजो ज्ञत्वकर्तृत्वभावरूपो धर्मो (ख्, घ्: धर्म इति शब्दो नास्ति ।) यस्मात्, तस्मिन् एव प्राप्तयोगात्म -के काले यत् यत् ज्ञातुम् इच्छति तत् तत् जानाति च करोति च; नान्यदा संसार्यवस्थायाम् ।। १० ।। टिप्पणी: एकमेव अव्यभिचारि आत्मन उपलब्धृत्वं नाम अयुतसिद्धो गुणः स्वात्मप्रत्यवमर्शरूपः, स एव ज्ञेयकार्यविषयतया ज्ञान -क्रियाद्वैरूप्येण आम्नायते अस्यैव गुणस्य स्वमहिमविजृम्भ -णं निरुपरोधं स्वसंवेदनीयं केवलं सर्वज्ञत्वसर्वकर्तृत्वशक्तिविकासिन्युपलब्धृलक्षणे आस्पदेवि -कल्पकलङ्कोपप्लवासंपृक्ते । यस्मात् तत्र ज्ञेयकार्यप्रत्यव -मृश्येषु निर्यन्त्रणं स्वातन्त्र्यं, यत्तु संसार्यवस्थायाम -ख्यातिमुग्धतया वेद्येषु ज्ञत्वकर्तृत्वाहंमतिः सा कृत्रिमा परिमिता च नियमितस्वातन्त्र्यगतिमत्त्वात् अतो ज्ञत्वकर्तृत्वलक्षणो धर्मः स्वभाव एव न पुनः क्षुब्धावस्था । तस्मात् स्वबलसंस्पर्शात् करणचक्रप्रवर्तनादिकार्यवृत्त्या संयुज्य -मानस्य तत्साम्योपलब्धिः ।। १० ।। विवृति: (प्. ४१) तदा तस्मिन् यथोक्तक्षोभपरिक्षयोपलक्षिते काले, आत्मनः अस्य अकृत्रिमः सहजसिद्धः सततमव्यतिरिक्तो ज्ञत्वकर्तृत्वलक्षणो धर्मः गुणोऽस्त्येवेति शेषः; यतो यस्मात् अव्यभिचारिणो गुणात् कारणभूतात् सर्वम् अखिलम् ईप्सितं ज्ञेयतया कार्यतया अवाप्तुमिष्टं वस्तु, स पुरुषः तदा तस्यां दशायां सत्यस्वभावसंबन्धलक्षणयोगात्मिकायां, न तु अन्यदा - देहाद्यालम्बनाहंप्रतीतिसारसंसारिपुरुषदशायां जानाति च करोति च । किम् उक्तं भवति ? - ज्ञत्वमुपलब्धृत्वं नाम अस्यात्मनोऽव्यतिरिक्तो गुणः; स च इदन्तावसेयस्य (प्. ४२) वस्तुनो ज्ञेयतया कार्यतया च द्वैविध्यात् द्वित्वेन उपचर्यते । वस्तुत एकैव ईश्वरस्य स्वभावप्रत्यवमर्शरूपा शक्तिः; सा संवेदनरूपत्वात् ज्ञानशब्देन उच्यते, तावन्मात्रसंरम्भरूपत्वात् क्रियाशब्देन च उद्घोष्यते । स च एवंविधो धर्मः अस्य वेद्यत्वप्रतीत्युपप्लवासंस्पृष्टे वेदकैकलक्षणे स्वभावे स्थितस्य सर्वज्ञतया सर्वकर्तृतया च विजृम्भते । यत् पुनः तादृक्स्वभावप्रत्यवमर्शाभावात् वेद्य एव देहादौ वेदकप्रत्ययनिबन्धनं ज्ञत्वं कर्तृत्वं च, तत् कृत्रिमं परिमितविषयं च । तस्मात् आत्मनो ज्ञत्वकर्तृत्वलक्षणाव्यतिरिक्तधर्मता स्वभाव एव, न तु क्षोभावस्था । तादृशं च आत्मबलं स्पृशन् संसारिपुरुषः करणवर्गप्रवर्तनादिना स्वविषये ज्ञत्वकर्तृत्वाभ्यां युज्यमानस्तत्समो भवेत् - इति यत् उक्तं तदेव उपपन्नम् । तदेतत् यतस्तस्मिन्प्रलीनक्षोभात्मके काले इत्यादिना वृत्तिकृत् व्याचष्टे ।। १० ।। (प्. ४३) इत्थम् आत्मस्वरूपम् उपपत्त्या व्यवस्थाप्य तत्प्रतिपत्तिफलं प्रदर्शयितुम् आह तमधिष्ठातृभावेन स्वभावमवलोकयन् । स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः ।। ११ ।। वृति: तदेवम्, यतः सर्वानुस्यूतः सर्वसामर्थ्ययुक्तश्च आत्मस्वभावः, तस्मात् तम् अधिष्ठातृभावेन सर्वव्यापकत्वेन स्वभावं पश्यन्, विस्मयाविष्ट इव यस्तिष्ठति, तस्य कुत्सिता सृतिः सरणं न भवति ।। ११ ।। टिप्पणी: उपपत्तिव्यवस्थापितस्य शंकरस्वभावस्य अविरतकालप्रबन्ध -तया सदोदितान्तर्बहीरूपतया स्फुरदधिष्ठातृत्वं प्रत्यभिजा -नतो विस्मृतशिवस्वरूपविज्ञानात् ऽमायीयप्रमातृभावोऽसन्नेव इत्थं शुक्तिकारजतवद्भासमानःऽ इत्येवं विम्रष्टुरनुक्षणं नवनवानुत्तरातिशयचमत्काररसास्वादनेन विस्मयावस्थितिर - लौकिकी अनुभवपदवीमधिशेते यत्प्राप्तौ परिमिताहंमतिनिबन् - धनः संसरणायासक्षोभो विरम्यते इति ।। ११ ।। विवृति: (प्. ४३) तम् इति सर्वनाम्ना श्लोकदशकप्रतिपादितमात्मतत्त्वं प्रत्यवमृश्यते । तम् एवंलक्षणं स्वभावम् आत्मानम् अधिष्ठातृभावेन सर्वशरीरेषु सर्वावस्थासु सर्वदा सर्वत्र अनुभवितृमात्रेण सर्वम् आक्रम्य अवस्थितत्वात् अनन्याधिष्ठेयः अहमेव एकः स्वतन्त्रः परमेश्वरः अधिष्ठाता इत्येवंरूपतया अवलोकन् उक्तया उपपत्तिदृशा वक्ष्यमाणया च उपलब्ध्युपदेशदृशा पश्यन् प्रत्यभिजानन् स्मयमान् इव विस्मृतपरप्रमातृरूपात्मतत्त्वप्रत्यभिज्ञानात् मायीयप्रमातृस्वरूपम् असत्यमपि इत्थं प्रथमानं विमृशन् विस्मयमिव आपन्नो य आस्ते निर्विप्लवां स्थितिम् अनुभवति, तस्य एवंलक्षणस्य (प्. ४४) योगिनः इयं सुप्रसिद्धा देहाद्यहंप्रतीतिमात्रमूला कुसृतिः जन्मजरामरणादिद्वन्द्वयोगात् कुत्सिता गर्हिता सृतिः सरणं नानायोन्यन्तरभ्रमणं कुतः ? - प्रतिपादितक्षोभरूपाया अशुद्धेः हेतुभूताया अभावात् असीनस्य गतिरिव नास्त्येव इत्यर्थः । वृत्तिकृता च एवं यतः सर्वानुस्यूत एव अयमात्मा इत्यादिना व्याख्यातमेतत् ।। ११ ।। इदानीं समस्तवेद्यधर्मविरहितस्वरूपस्यात्मतत्त्वस्यो- पादेयतया प्रतिपादनादभाव एव प्राप्यतयोपदिष्टो भवति - इति मन्यमानान् प्रतिबोधयितुमाह नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ।। १२ ।। वृति: (प्. ११) न तु अभावो भावनीयो, यथा अन्यैर्योगिभिः उपदिश्यते, ऽअभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् ।ऽ इति । न चैतत् युक्तम्, यस्मात् नाभावे भावना युज्यते मूढावस् - थैव सा, यस्मात् उत्तरकालम् अभियोगसंस्पर्शात् (क्: अभिलाषेति; ग्: संयोगात्मा शून्येति च पाठः।) अभिलापसंयोगात् सा शून्यावस्था अतीता मम इति स्मर्यते, न च आत्मस्वभाव एषः, यस्मात् न त्वेवं चिद्रूपत्वं मूढावस्थावत् स्मर्यते, तस्य सर्वकालमनुभवितृत्वेनानुभवो नित्योदितत्वात् ।। १२ ।। टिप्पणी: वेद्यवेदनोल्लेखोच्छेदरूपे समाधौ कैश्चिदभाव इति मन्यते, न चैतत् तस्य भाव्यमानतया व्याघातात् तत्रलब्धप्रतिष्ठेन योगिना अभावसमाधेर्व्युत्थाय उत्तरकालं ऽसा दशा मयान्व -भूयतऽ इत्यनुसंधानेन तद्दशान्तरं स्मर्यमाणतां नीयते तत् स्मरणमेव तदानीमनुभवितृसत्तां विविक्तामुपलम्भयेत् इति स्मर्यमाणं वस्तु अभावरूपं स्वात्मा भवितुं नार्हति सुखादिवत् तस्य वेद्यत्वात् इति । तस्मात् समस्तवेद्यधर्मोज्झितः परस्वभाव उपादेयः ।। १२ ।। विवृति: (प्. ४४) अभावो वस्तुशून्यता भाव्यतां भावनीयत्वं समाधावालम्बनभावं नैति न गच्छति, अभावभावभावनयोः परस्परविरोधात् । भावो (प्. ४५) हि संविद्विषयतायोग्यः पदार्थो, ध्येयतया आलम्बनीभवितुमर्हति, न पुनः न किंचित् । यथा क्वचित् उपदिष्टम् अभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् ।। इति । भवतु वासौ ध्यातृ - ध्यान - ध्येयविकल्पोच्छेदरूपा समाध्यवस्था, यामभाव इति मन्यन्ते विस्मृतात्मानः । न च तत्र तस्मिन्नवस्थाविशेषे अमूढता मूढत्वाभावो विद्यते, यतोऽभियोगसंस्पर्शात् व्युत्थानावसरे तादृग्दशान्तरानुसंधानविषयेणाभियोगेन तत्कालप्रत्युदितेनाभिलापेन संस्पर्शात् संपर्कात् तत् दशान्तरम् आसीत् अभूदतीतम् इति निश्चयः अध्यवसायः स्यात् । किम् उक्तं भवति ? - अभावसमाधिलब्धप्रतिष्ठो योगी ततो व्युत्थितः सन् यदि तामवस्थां नानुसंदध्यात् तत् कथं लब्धप्रतिष्ठोऽस्मि - इति प्रत्ययोऽस्य स्यात् ? असति च तस्मिन् समाधिव्युत्थानयोः (प्. ४६) व्यतिरेकाग्रहणम् । तस्मात् तदानीं तादृशीं दशाम् अहम् अन्वभवम् - इति अवश्यं स्मर्यते । तच्च अतीतत्वेन स्मर्यमाणत्वादेव अनित्यं सुखादिवत् आत्मनः स्वरूपं न भवति; तस्य चिद्रूपस्य अनुभवितृत्वेन सर्वदा वर्तमानत्वात् स्मर्त्रन्तरेण स्मर्यमाणत्वं न संभवति । व्याख्यातम् एतत् वृत्तौ न त्वभावो भावनीयः, इत्यादिना ।। १२ ।। तत् स्फुटीकर्तुम् आह अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ।। १३ ।। वृति: (प्. १२) अभावभावनालब्धभूमिकस्यापि कृत्रिमा अनित्या सा अवस्था, यथा सौषुप्ते पदे; यस्मात् चिद्रूपत्वं तु आत्मनः स्वरूपं नित्यसंनिहितम्, तदेव गुरुपदेशेन नित्यमेवानु - शीलनीयम् ।। १३ ।। टिप्पणी: अत्रैतदुच्यते - यथा मोहघना सुषुप्तावस्था तदात्वे वेद्यवेदकविभागाग्रहणमयी अभावरूपेव उपलभ्यमाना प्रबोधदशायामुदितावमर्शगोचरतामापद्य स्मर्यमाणत्वे - नानित्या । एवमभावसमाध्यवस्थापि अतीतत्वेन प्रबोधकाले विचिन्त्यत्वात् अनित्या - इत्येवं - प्रायाः समाधिविशेषाः सुषुप्ति - दशान्तर्भाव्याः, न पुनरुपेयतमस्वरूपे एवंरूपो भूत - कालाक्रान्तः स्मरणप्रत्यवमर्शः स्मर्त्रन्तरस्मार्यः, परतत्त्वस्य सदोदित विज्ञातृस्वभावतया शाश्वताविचलविद्य - मानपरमसत्त्वात् ।। १३ ।। विवृति: (प्. ४६) अत आसीत् तत् इति भूतत्वेन अभियुज्यमानत्वात् तत् अभावसमाधिसंज्ञितं वस्तु कृत्रिमं ज्ञेयं भावाभावदशायोगित्वात् कल्पनाकृतम् (प्. ४७) अनित्यं बोद्धव्यं सदा न काचिदसौ कालकला विद्यते, यस्यां सा तादृशी समाध्यवस्था नित्यत्वेन अवतिष्ठते । कथं कृत्रिमं ज्ञेयं ? - सौषुप्तपदवत् सुषुप्तमेव सौषुप्तं सुखस्वापावस्था तदेव पदं संविदधिकरणं तेन तुल्यम् । किमुक्तं भवति ? - यथा लौकिकी सुषुप्तावस्था निविडमोहात्मकत्वात् सतोऽपि वेद्यवेदकविभागस्य तत्कालम् अग्रहणे सति अभावरूपा इव सती प्रबोधकालप्रत्युदितानुसंधानविषयताम् आपाद्यमाना अतीतत्वेन स्मर्यमाणत्वात् अनित्या, तद्वत् अभावसमाध्यवस्थापि अनित्या, व्युत्थानसमये भुतत्वेन स्मर्यमाणत्वसाम्यात् । एतेन सर्वे एवंप्रायाः समाधयः सुषुप्तावस्थायामेव अन्तर्भवन्ति - इति प्रतिपादितम् न तु पुनः तत् तत्त्वम् इह उपादेयतमतया उपदिष्टं स्वस्वभावलक्षणं वस्तु एवम् अनेन उक्तप्रकारेण स्मर्यमाणत्वं प्रतिपद्यते तस्य हि नित्योदितत्वात् (प्. ४८) सदा वर्तमानत्वमेव । तदेतत् अतोऽभावभावनया समाधिलब्धभूमिकस्यापि इत्यादिना वृत्तौ विवृतम् ।। १३ ।। अथैवं नित्योदितत्वात् सदा प्रकाशमानमपि तत् तत्त्वम् अप्रत्यभिज्ञायमानत्वात् बन्धहेतुः; अतो लब्धोपदेशेन सर्वावस्थासु वेद्यवेदकरूपतत्त्वद्वयसंगृहीतविश्वप्रपञ्चविभजनपरतया वेदकांशम् अहमिति सर्ववेद्यस्वरूपोत्तिर्णमेव प्रत्यवमृशताम् आत्मीकार्यम् । - इति उपदेष्टुं तस्य तत्त्वस्य स्वमायावैभवोद्भासितं द्वैरूप्यं प्रतिपादयितुमाह अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यताक्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ।। १४ ।। वृति: (प्. १३) अवस्थायुगलम् (क्, ग्: अवस्थायुगलमिति वाक्यं नास्ति ।), अवस्थाद्वयमेव कार्यकर्तृत्वसंज्ञं भोग्यभोक्तृभेदभिन्नं, तत्र यो भोग्यरूपो भेदः स उत्पद्यते नश्यति च; भोक्तृभेदस्तु (ख्: भोक्तृरूप) चिद्रूपः पुनर्नजायते, न कदाचित् विनश्यति तेन नित्यः ।। १४ ।। टिप्पणी: अवस्थाशब्देनेदमत्र उद्देश्यम् । एक एव स्वतन्त्रः परमेश्वरो विश्वत्र परमार्थतः समस्ति । स एव अनुत्तरनिर्यन्त्रणस्वात्मै -श्वर्यशक्तिविजृम्भणया निरुपादानसंभारं द्विविधं स्वात्मानमवभास्य विक्रीडति । द्वैविध्यं च कार्यकर्तृत्वा -ख्यं, येन हेयतयोपादेयतया च द्वैलक्षण्यं वस्तु संगृह्यते । तत्र कार्यावस्था परप्रकाशोपजीविनी अन्तरेण प्राशयितारमव -स्थातुमप्रभुः तदभिन्नं निजरूपमावेदयति शाक्तोल्लासमय -त्वात्, केवलं कार्यतोपाधिरचिरायैव अनुविलयी, कर्तृतावस्थितिः पुनः सदोदिताविलुप्तदृशिमात्रधर्मकत्वात् अविनाशिनी इति । तदेवं स्वमायोद्भासितविश्वोल्लासज्ञप्तिपूर्वं स्वसंवेद्यमुत्तिर्ण - तममात्मानं निदिध्यासतां सर्वावस्थासु बन्धहेतुनिवृत्तिः ।। १४ ।। विवृति: (प्. ४८) अत्र अस्मिन् इह प्रतिपादिते आत्माख्ये परस्मिन् तत्त्वे अवस्थायुगलं द्वे अवस्थे संभवतः । अनेन विविधदर्शनप्रक्रियाप्रबन्धव्यवस्थापिततत्त्वादिभेदान् [-भेदात्] अपर्यन्तमपि हेयोपादेयरूपं वस्तु लक्षणद्वययोगात् द्वित्वेनैव संगृह्य प्रतिपादितम्; आनन्त्येऽपि विश्ववैचित्र्यस्य द्वे एव तत्त्वे इत्यर्थः । एक एव तु परमार्थसन् परमेश्वर आत्मा निरुपम - निष्प्रतीघात - निरुपादाननिजैश्वर्यशक्तिबलाद् द्वित्वेन आत्मानम् अवभासयन् क्रीडति - इति प्रतिपादयितुम् अवस्थाशब्देन निर्देशः कृतः, एकमेव तत् तत्त्वं द्वित्वेन अवतिष्ठते इत्यर्थः । कीदृशम् अवस्थायुगलं ? कार्यकर्तृत्वशब्दितं कर्तृत्वेन भोक्तृत्वेन वेदकत्वेन चेतनभावेन अहम् इति एका अवस्था स्वतन्त्रा, द्वितीया तु तद्विपरीता कार्यरूपा भोग्या वेद्या जडा परतन्त्रा ताभ्यां शब्दितं कथितम् । शब्दितशब्देन अनयोः संज्ञामात्रभेदो, न वास्तवः - इति प्रतिपादितम् । ततः कार्यरूपा (प्. ५०) या इयम् अवस्था सा प्रकाशमानत्वमात्रलब्धात्मकत्वात् आत्मनः परमकारणात् कर्तृशब्देन व्यपदिष्टात् प्रकाशैकस्वभावात् न भिद्यते, यतः शक्तिचक्रात्मकस्य स्वविभवस्य प्रभवत्वेन एतत् तत्त्वं प्रागेव प्रतिपादितम् । तत्र तस्मिन् इत्थंभूते अवस्थायुगले कार्यता क्षयिणी कार्यरूपावस्था क्षणभङ्गिनी, यत् यत् इदं मुकुलिततत्त्वपरामर्शतया कार्यरूपत्वेनैव अवसीयते, तत् सर्वम् उदयव्ययसंबन्धात् प्रतिक्षणविनश्वरम् कर्तृत्वं पुनरक्षयं कर्तृरूपावस्था नित्या नित्योदितसर्वावस्थाव्यापकत्वोपलब्धृत्वमात्रधर्मकत्वात् अविनाशि । तदेवम् एकमेव कर्तारं ज्ञातारं सर्वाधिष्ठातारं सततम् आत्मत्वेन अनुसंदधानो यस्तिष्ठति तस्य बन्धानुपपतीः - इति पूर्वश्लोकेन संबन्धः । तदेतत् अवस्थाद्वयमेव इत्यादिना वृत्तौ व्याख्यातम् ।। १४ ।। (प्. ५१) ननु यत् उपलब्धृरूपं तत्त्वं तत् अक्षयमित्युक्तं; तच्च नोपपद्यत एव; अभावसमाध्यवस्थासु उपलभ्यस्वरूपाभावात्; कथं तस्याक्षयत्वम् ? - इत्याक्षेपे प्राक्प्रतिज्ञातं समाधानमाह कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ।। १५ ।। वृति: कार्यसंपादनसामर्थ्यं बाह्यकरणव्यापाररूपं केवलं विलुप्यते, स्थगितेन्द्रियस्य तस्मिन् विलुप्ते सामर्थ्ये (प्. १४) स्वभावो मे (मे इति पदं; घ्: पुस्तकादुपन्यस्तम् ।) विलुप्त इति अबुधो जानाति, न तु भावस्य विनाशोऽस्ति ।। १५ ।। टिप्पणी: वेद्योन्मुखतामवलम्ब्यैव सहजोद्यमनशक्तेर्विश्ववैचित्र्यो -ल्लेखनकारितया बहिर्विलसितुं यः प्रसरणादरः स केवलमिन्द्रिय - व्यापारविरतिदशायामनभिव्यक्ततया आत्मन्येव अवलीनः, तदव्यक्तिदशायामबुद्धस्य अयं परामर्शो यत् नाहमस्मीति स्वाभावं स मन्यते; नैतत् जानाति यत् अभावपरामर्श एव प्रत्युत तत्साक्षितया स्वात्मानं स्थिरीभावयति इति अतोऽभाव - समाध्याद्यवस्थासु तात्कालिकानुपलभ्यतया आत्मनः क्षयित्वं नैवाक्षेप्तव्यम् ।। १५ ।। विवृति: (प्. ५१) कार्ये निर्मेये वेद्ये वा वस्तुनि उन्मुखः तस्य तथासंपादने प्रवणो यः प्रयत्नः कर्तृत्वे (-त्वं) सहज उत्साहः स केवलं स एव परं कारणं व्यापारहेतुः, तस्यां दशायां कार्यस्य स्थूलरूपस्य अभावात् लुप्यते अनभिव्यक्ततया आत्मन्येव न्यग्भूयेव अवतिष्ठते । तस्मिन् प्रयत्ने तत्कालमेव लुप्ते सति अबुधः तत्त्वावबोधशून्यो विलुप्तोऽस्मि - इति प्रतिपद्यते नाहमस्मीति भावविलक्षणतया वस्तु परिच्छिन्दत एवंविधः प्रत्यय उपपन्नः; (प्. ५२) परिच्छिनत्ति चेत् कर्तृत्वेन प्रथमतरं सन्नेव असौ सिद्धः कथं निषेधस्य विषयः स्यात् ? तत् इदम् आयातम्, - यथा कश्चित् देवदत्तो गृहाद्यवस्थितः केनापि आहूतो - भो देवदत्त ? - इति, स आत्मानम् अपह्नोतुकामः प्रत्याह, - नाहमस्मीति; एवमुक्ते प्रत्युत स्थितोऽहमस्मि - इति प्रतिपादितं भवति, न त्वसंनिधानम् । तस्मात् अभावसमाध्यवस्थासु कार्याभावात् करणव्यापारविरतिमात्रेणात्माभावप्रत्ययो भ्रान्तिरेवेति । व्याख्यातमेतत् वृत्तौ कार्यसंपादनसामर्थ्यम् इत्यादिना ।। १५ ।। एनमेवार्थं विशेषयितुम् आह । न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ।। १६ ।। वृति: न तु यः अन्तर्मुखः अन्तश्चक्रारूढस्वभाः सर्वज्ञत्वादिगुणाश्रयः तस्य विनाशः कदाचित्, (प्. १५) तस्मात् द्वितीयस्यान्यस्याभावात् तत्स्वरूपमेव व्योमवत् चिद्रूपतया सर्वत्र अनुभवति इति ।। १६ ।। टिप्पणी: एकैव पारमेश्वरी शक्तिः संकोचग्रहणोपक्रमे स्वात्मानं द्विधा अवभास्य ज्ञानक्रियायुगलोद्भावनोत्तरमत्यन्तमर्वा -चीनपदे अन्तर्बहिष्करणभावमुपाश्रयते संकोचहानदशा - परिशीलनादौ विविधीभूतं स्वं रूपं प्रत्याहृत्य सर्वतो विमलनभःप्रख्ये वितताभोगे स्वस्मिन् स्वानुभूतिपारिपूर्ण्य - चमत्कृतिमास्वदते । तत्र विभिन्नविभक्तवेद्याभावात् अन्तर्मुख - तत्त्वस्य विलोपः संभावयितुमनर्हो यो बाह्यवेद्यग्रहणा - ग्रहवद्भिः व्यामूढैः प्रतिपद्यते, अथवा चतुर्थपादस्य हेतुभावेन प्रयोगः, यस्मादुपलब्धृस्वरूपस्य विलुप्तौ विश्वमनेलमूकप्रायं स्यात् विश्वव्यवहारोऽपि व्युच्छिद्येत इति ।। १६ ।। विवृति: न तु पुनः तस्य परमार्थसतः परस्य तत्त्वस्य (प्. ५३) कदाचित् कस्याचिदपि समाध्याद्युपलक्षितायां कालकलायां लोपः स्वरूपोच्छेदः स्यात् उपपद्येत; अन्यस्य तद्व्यतिरिक्तस्य वेद्यरूपस्य अनित्यस्य वस्तुनः अनुपलम्भनात् अनुभवाभावात्, न हि वेद्यं नास्ति, वेदकोऽपि नास्ति - इति वक्तुं शक्यम् । कस्य तस्य लोपो न स्यात् ? यः अन्तर्मुखो व्यतिरिक्तबाह्यवेद्याभावात् अन्तः स्वात्मन्येव मुखं ज्ञशक्तिर्यस्य स तादृशो भाव आत्माख्यं तत्त्वं, यतः सर्वज्ञत्वगुणास्पदं सकलवेद्यवर्गवेदकतारूपस्य गुणस्य धर्मस्यास्पदम् अनन्यसाधारणम् अधिकरणम् । इदमत्र तात्पर्यम् - आत्मनो ज्ञानक्रियाभेदेन द्विविधा या शक्तिः सा पुरुषावस्थायाम् अन्तःकरणबहिषकरणव्यापारोपरमे सति, केवलस्वात्ममात्राभिमुखज्ञशक्तिमात्रत्वेनावशिष्यते; तेन अन्तर्मुखो भाव इत्युक्तम् । मुखशब्देन च शक्तेः व्यवहारो दृष्टो यथा पारमेश्वरे (प्. ५४) ..........................शैवीमुखमिहोच्यते ।। इत्यादौ । एवं च व्युत्थानावसरे तादृग्दशान्यथानुपपत्तिसद्भावः । स भावो बाह्यविषयाग्रहणमात्रव्यामोहैः अभाव इति तैः योगिभिः प्रतिपद्यते; न तु सततम् अविलुप्तज्ञशक्तेः तस्य भावस्य आत्मविलक्षणवस्त्वनुपलम्भात् कथंचित् लोप उपपद्यते; तदा हि असौ स्वभावमेव अमलगगनतलवत् सर्वतो व्यतिरिक्तं सर्वव्यापकं चित्मात्ररूपतया अनुभवति, केवलं मोहपरवशतया विस्मृतानुसंधायकस्वात्मरूपः तथा न प्रतिपद्यते । प्रबुद्धस्तु यथा प्रतिपद्यते तथा उपायं पुरस्तात् उपदेक्ष्यति । व्याख्यातमेतत् न तु योऽन्तर्मुखोऽन्तश्चक्रारूढ इत्यादिना वृत्तौ ।। १६ ।। इति श्री राजानकरामकृतायां विवृत्याख्यायां स्पन्दकारिकाटीकायां व्यतिरेकोपपत्तिनिर्देशो नाम प्रथमो निःष्यन्दः ।। १ ।। विवृति: (प्. ५५) अथ व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो निःष्यन्दः ।। एवं यथा प्रतिज्ञातं देहादिव्यतिरिक्तमात्मतत्त्वं स्वानुभवसिद्धयोपपत्त्या व्यवस्थाप्य इदानीं तदुपलब्ध्युपायोपदेशावसरे सुप्रबुद्धप्रबुद्धाप्रबुद्धभेदेन त्रिविधे लोकतन्त्रे, कस्तावत् प्रस्तुतोपदेशपात्रम् ? - इति विषयव्यवस्थापनाय आह तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी । नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु ।। २/१ (१७) ।। वृति: तस्य चिद्रूपस्य सर्वगतस्य स्वस्वभावस्य उपलब्धिः त्रिषु जाग्रदादिषु पदेषु नित्यं सुप्रबुद्धस्य भवति; तदाद्यन्ते अपरस्य प्रबुद्धस्य स्वप्नसुषुप्तादौ; जाग्रत्तुर्यौ (ख्: जाग्रत्तुर्ये आगममात्रगम्ये इति; ग्: स्वप्नसुषुप्त्यादौ जागत्तुर्ययोस्त्वागममात्रगम्या इति पाठः ।) त्वागममात्रगम्यौ ।। १७ ।। टिप्पणी: सर्वोत्तीर्णचिन्मात्रविषयो विश्वमयशक्तिचक्रविषयश्च - इति उपक्रान्तनिर्वाह्यात्मकतया द्विविधोपदेशस्य प्रायशोऽप्रबुद्धविषयेऽनुपयोगितैव सुप्रबुद्धस्येव पदत्रये स्वात्मोपलब्धेरयत्नसिद्धत्वात्, प्रबुद्धस्य हि पदद्वयवर्ति साक्षिरूपं प्रबोधावस्थायां परामृशतो विश्वोत्तीर्णनिरुपरागचेतयितृमात्रस्वरूपोपलब्धिः सौषुप्तप्रत्यवमृश्या, स्वप्नावगम्या च विश्वमयनिर्माणविस्फुरणशालिनः कारणन्तरनिरपेक्षस्य सर्वकर्तृत्वधाम्नः स्वात्मन उपलब्धिरनायासं सिद्ध्यति । अप्रबुद्धः पुनर्युक्तिसहस्रैरपि उपदेश्यमानं परतत्त्वं नैव पारयति हृदयंगमीकर्तुम्, अतोऽवशिष्टपदद्वये व्यवहित्यपरिचितिभ्यां दुर्बोधस्य परतत्त्वस्योपदेशमपेक्षते इत्युपदेशविषयव्यवस्थितिः केवलं प्रबुद्धस्यैव ।। १७ ।। विवृति: तस्य यथाप्रतिपादितस्य स्वात्मन एव परमेश्वरस्य उपलब्धिः अनुभवो निर्विकल्पा प्रतिपत्तिः नित्यं सर्वदा सर्वासु अनुभवदशासु सुप्रबुद्धस्य सुष्टु प्रबुद्धस्य देहाद्यहंप्रत्ययदीर्घदुःस्वप्नमयया (प्. ५६) मोहमहानिद्रया मनागपि अनावृतसंविदः सिद्धसाध्यस्य सम्यग्दर्शिनः स्यात् उपपद्यते । कीदृशी ? सततम् अव्यवधानेन त्रिपदाव्यभिचारिणी त्रिषु जागरस्वप्नसुषुप्तेषु पदेषु संवेदनभूमिकासु अव्यभिचारिणी अविसंवादिनी कयाचिदपि अवस्थया अनभिभूतत्वात् अव्यवहितसंनिधिः । एवम् एतस्य सुप्रबुद्धस्य स्वीकृतस्वात्मैश्वर्यलक्षणपरसिद्धेरिहोपदेशविषयत्वं नास्त्येव कृतकृत्यत्वात् । अपरस्य तत्समनन्तरस्य द्वितीयस्य प्रबुद्धस्य परशक्तिपातप्रभातालोकविलुप्यमानमायातमिस्रतया समुन्मिषद्विशदविवेकचक्षुषः क्षीयमाणमोहवशात् अविजृम्भमाणमोहोत्साहसंपदः तदाद्यन्ते तेषां जागरादीनां त्रयाणां पदानाम् आदिभूतं यत् पदं जाग्रदवस्थात्मकं, तस्य अन्तभूतं यत्पदद्वयं स्वप्नसुषुप्ताख्यं, तत्र तस्य (प्. ५७) आत्मतत्त्वस्य उपलब्धिः स्यात् । वृत्तिकृदभिप्रायानुसारेण तदाद्यन्तपदस्य एवं विग्रहः कृतः यतः स्वप्नसुषुप्तादौ इति तेन एतत्पदं व्याख्यातम् । अत्र च आदिशब्देन स्वप्नसुषुप्तावस्थासंगृहीतस्मृतिमोहाद्यवस्थापरिग्रहः तस्याभिप्रेतः । एवं च व्याख्यानस्य अयमाशयः - इह द्विविध आत्मतत्त्वस्य उपलब्ध्युपदेशः उपक्रान्तो निर्वाह्यश्च; एकः सर्वव्यतिरिक्तचिन्मात्रस्वस्वरूपविषयः; अपरो विश्वात्मकतच्छक्तिचक्रविषयः । उभयरूपोपि अयमुपदेशः अस्मिन् सुषुप्तस्वप्नरूपपदद्वयेऽपि प्रबुद्धस्य प्रायशो नोपयुज्यते, पदत्रय इव सुप्रबुद्धस्य, तत्त्वोपलब्धेरप्रयत्नसिद्धत्वात्; यत एतत्पदद्वयवर्तिसंवित्प्रत्यवमर्शमात्रादेव यथाप्रतिपादितपरतत्त्वोपलब्धिः स्वयमेव तस्य उपपद्यते, (प्. ५८) तथाहि - यदा विगलितसकलवेद्यविकल्पत्वात् निष्कलां [निष्केवलां] सुषुप्तावस्थां प्रबोधदशायाम् आत्मनः परामृशति, तदा सर्वोपरागरहितस्वरूपमात्रविश्रान्तनित्याविलुप्तचेतयितृमात्र- स्वभावम् आत्मतत्त्वं स्वयमेव उपलभते । यदा च तत्तद्विभिन्नस्वकारणविरहेऽपि स्फुटतरावभासचेतनाचेतनविचित्रभावचक्रनिर्माणमयीं विनिद्रः सन् आत्मनः स्वप्नावस्थां परामृशति तदा तेनैव दृष्टान्तेन प्रबोधबलात् परमकारणस्य स्वभावस्यैव परमेश्वरस्य स्वेच्छामात्रव्यतिरिक्तकारणान्तरनिरपेक्षसर्वकर्तृतारूपं तत्त्वमुपलभते । अप्रबुद्धस्य पुनरेतत् प्रयत्नशतैरपि समर्प्यमाणं तुम्बकतोयद्रववत् नान्तः स्पर्शं करोति । तदेवम् अस्मिन् पदद्वये प्रबुद्धस्य उपलब्धिः स्यात् - इति प्रतिपाद्यते । परिशिष्टे जाग्रत्तुर्याख्ये पदद्वये (प्. ५९) सा अस्य नास्ति - इति अर्थात् उक्तं भवति । अतो जागरावस्थायां शब्दादिविषयग्रहणव्यग्रेन्द्रियव्यापारव्यवहितं, तुर्यावस्थायां च लोकोत्तरत्वात् अत्यन्तापरिचितं स्वयं दुर्लक्षं परं तत्त्वम् इति तदुपलब्धौ तत्र प्रबुद्धोऽपि उपदेशमपेक्षत एव । यत आह वृत्तिकारः जाग्रत्तुर्यौ त्वागममात्रगम्यौ इति । तस्य चिद्रूपस्य सर्वगतस्य इत्यादिना व्याख्यातवान् वृत्तिकृत् एतत् ।। १ ।। एवमुपदेशविषयं व्यवस्थाप्य इदानीं पारमेश्वरस्य तत्त्वस्य सर्वव्यतिरिक्तत्वेन सार्वरूप्येण च द्विप्रकारस्य जागरादिषु चतुर्ष्वपि पदेषु प्रविभागप्रतिपादनायाह ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः । पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः ।। २/२ (१८) ।। वृति: ज्ञानज्ञेयभेदेन द्विरूपं [द्विरूपे] जाग्रत्स्वप्नात्मके पदद्वये संवेदनम्, सुषुप्ततुर्यात्मके पदद्वये पुनश्चिद्रूपत्वेन केवलम् अनुभवः, न तु द्वितीयमन्यत्वेन उपलभ्यते ।। १८ ।। टिप्पणी: परमेश्वर एव स्वमायाशक्तिमहिम्ना विचित्रक्षेत्रज्ञभावेन प्रथमानः स्वव्यतिरेकिणी पराशक्तिं पदद्वये जाग्रत्स्वप्नाख्ये आभ्यन्तरकरणसुखादीना बहिष्करणनीलादिना च अवभास्य तत्तद्दशाव्यवहारानुद्भावयति परन्तु एतदेव शक्तेः परत्वं - यत् शिवप्रकाशमतिरोधाय अनन्तवैभवेन स्फुरणं, सुषुप्ततुर्ययोस्तु विभक्तभिन्नसंवेदनीयाभावात् स्वात्मनि समरसीभूतशक्तिरीश्वर एव प्रकाशते । भावानां स्थैर्यास्यथैर्यप्रतिपत्तिविकल्पेन प्रथमपदयोर्भेदः । अपरत्र चिन्मात्ररूपस्य उपलब्धृचमत्कृतिसद्भावासद्भावाभ्यां भेदः इति चतुर्षु पदेषु सर्वोत्तीर्णतया सार्वरूप्येण च प्रकाशविजृम्भणम् ।। १८ ।। विवृति: (प्. ६०) विभुः व्यापक ईश्वरश्चिन्मात्रमूर्तिरात्मा पदद्वये जागरस्वप्नाभिधाने परमया अत्यद्भूतरूपत्वात् सर्वातिशायिन्या शक्त्या निजेन सामर्थ्येन युतः सहितो भाति चकास्ति प्रकाशते । कीदृश्या शक्त्या ? ज्ञानज्ञेयस्वरूपिण्या ज्ञायतेऽनेन इति ज्ञानं, बाह्याभ्यन्तरं करणचक्रं ग्रहणात्मकं ज्ञप्तिमात्रं वा, ज्ञेयं ग्राह्यं शब्दादि सुखादि च विषयजातमनन्तविशेषं, तदेव रूपं विद्यते यस्याः सा तथा तया । किमुक्तं भवति ? - परमेश्वर एव स्वमायावशात् नानाक्षेत्रज्ञरूपतयावभासमानः स्वामेव अव्यतिरिक्तां परां शक्तिं ज्ञानज्ञेयभावेन अवभासयन् जागरस्वप्नदशाव्यवहारमुद्भावयति; एतदेव च अस्याः शक्तेः पारम्यम् - यत् स्वस्व वैभवस्वरूपस्य प्रकाशमानतामतिरोदधती ज्ञानज्ञेयमयानन्तरूपतया स्फुरति । भिन्ने तु अभेदाप्रथनमात्रप्राणे (प्. ६१) मायातमसि विगलितज्ञातृज्ञानज्ञेयविभागविभ्रमम् एकमेव परमार्थसत् चित्प्रकाशैकरूपं तादृक्स्वभावानुभवितृतामात्रधर्मलक्षणशक्तिकं तत्त्वमिष्यते, यत आह तदन्यत्र तु चिन्मय इति । तस्मात् उक्तरूपात् पदद्वयात् अन्यत्र अपरत्र सुषुप्ततुर्याभिधाने पदद्वये चिन्मयो विभुर्भाति चेतयत इति चित् उपलब्धृस्वभाव आत्मा ईश्वरः तन्मात्रप्रकृतिः, तयोः पदयोर्व्यतिरिक्तवेदनीयाभावात् निष्कलस्वात्ममात्रविश्रान्तशक्तिरीश्वर एव प्रकाशत इत्यर्थः । ननु जागरस्वप्नयोर्ज्ञानज्ञेयमयत्वेन, सुषुप्ततुर्ययोश्चिन्मयत्वेनैव प्रकाशनाभेदात् पदद्वयमेव, तत्कथं पदचतुष्टयम् इति ? - अत्र उच्यते, जागरस्वप्नपदार्थानां स्थैर्यास्थैर्यप्रतिपत्तिविकल्पकृतोऽस्ति भेद इति तत्पदद्वयम्; यतः ईश्वरपरिकल्पितः सर्गो जागरावस्थाया दृढत्वेन (प्. ६२) प्रतिपद्यते, स्वप्ने तु अदृढत्वेन क्षेत्रज्ञपरिकल्पित इत्यनयोः पदयोर्भेदकारणम् । सुषुप्तावस्थायां तु सदपि चिन्मात्ररूपं तत्त्वं मोहवशादहमित्युपलब्धृचमत्कारविरहात् असदिवाभाति; तस्यैव तु तत्त्वस्य परमार्थसत्तया आत्मत्वेनोपलब्धिस्तुर्यपदे; - इत्ययं सुषुप्ततुर्ययोर्भेदः । तेन चत्वार्येव पदानि विश्व - तैजस - प्राज्ञ - तुर्यादिसंज्ञाभिः शास्त्रान्तरेष्वपि प्रसिद्धानि । ज्ञानज्ञेयभेदेन द्विरूपम् इत्यादिना व्याख्यातमेतद्वृत्तौ ।। २ ।। इदानीमुक्तेन प्रकारेण प्रबुद्धस्यैव उपदेश्यत्वमुपक्रान्तं द्रढयितुम्, अप्रबुद्धानां च तत्प्रतिषेद्धुं श्लोकत्रयमाह गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् । लब्धात्मलाभाः सततम् स्युर्ज्ञस्यापरिपन्थिनः ।। २/३ (१९) ।। वृति: (प्. १७) गुणस्पन्दस्य सत्त्वरजस्तमोरूपस्य ये निःष्यन्दाः प्रवाहाः, ते सामान्यस्पन्दमाश्रित्य प्रसृता अपि सततं ज्ञस्य विदितवेद्यस्य योगिनः स्युर्भवेयुः, भवन्त्यपरिपन्थिनः अनाच्छादकाः स्वभावस्य ।। १९ ।। टिप्पणी: पारमेश्वर्यानुग्रहशक्त्या प्रत्युत्पन्नहेयोपादेयविवेकस्य नैर्विकल्पिकां प्रतिष्ठामाश्रित्य सत्तर्कागमयुक्त्यभ्यासोत् -साहेन उच्चपदारुरुक्षां परिशीलयतो ज्ञस्य सुखिदुःखिमूढ -तादिप्रत्ययप्रवाहाः खेचर्याद्यधिष्ठिताः क्रोडीकृतविश्व -स्पन्दं परशक्तिस्फुरितं समाश्रित्यैव लब्धस्वात्मप्रतिष्ठाः स्वात्मवीर्याविर्भावनात् विगलितावरणसामर्थ्याः परतत्त्वोपलम्भं विहन्तुं न शक्नुयुरिति तात्पर्यम् ।। १९ ।। अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः । पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ।। २/४ (२०) ।। वृति: स्वल्पप्रबोधांस्तु (क्, ख्: अल्पप्रबोधानाम्) स्वस्थितेः चिद्रूपायाः स्थगनं कृत्वा, ते गुणाः पातयन्ति दुरुत्तारे अस्मिन् विषमे संसारवर्त्मनि, यतस्तदात्मकमेव नित्यमात्मानं पश्यन्ति, न तु शुद्धबुद्धस्वरूपतया ।। २० ।। टिप्पणी: अप्रभुद्धो विद्यमानमपि स्वैश्वर्यं सार्वज्ञादिगुणास्पदं स्पन्दतत्त्वमविदन् सर्वथा परतन्त्रं देहादिकमेव आत्मत्वेन स्वीकरोति । अत एव ज्ञानगुणप्रसराः परमात्मस्थितिं तिरोधाप्य यावत् प्रबोधप्राप्तिमप्रबुद्धं जन्मादिस्रोतस्यावर्तयन्त्येव - इत्यतः प्रबुद्धस्यैवोपदेश्यता निरूढद्रढिमा, अप्रबुद्धविषये विहितनिषेधेति भावार्थः ।। २०।। प्. १८) अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये । जाग्रदेव निजं भावं न चिरेणाधिगच्छति* (घ्: भावमचिरेणेति शोधितः पाठः ।) ।। २/५ (२१) ।। (* विवृति: भावमचिरेणाधिगच्छति) वृति: अतः सततं सर्वकालं यः करोत्युद्योगं स्पन्दतत्त्वस्य स्वरूपाभिव्यक्त्यर्थं, स जाग्रदवस्थायामेव निजमात्मीयं तुर्यभोगाख्यं स्वभावम् अचिरेणैव कालेन प्राप्नोति टिप्पणि: प्रकृतश्लोकनिर्दिष्टहेतोः प्रबुद्धस्यात्मीयपरमार्थसत्तायाः अधिगमोऽनतिविलम्बेनैवेत्यर्थः ।। २१ ।। विवृति: (प्. ६३) अतः प्रस्तुतव्याख्यानश्लोकत्रयनिर्दिष्टात् हेतोः जाग्रदेव प्रबुद्ध एव निजं भावम् आत्मीयां पारमार्थिकीं सत्ताम् अचिरेण अल्पीयसा कालेन अधिगच्छति सम्यग् उपलब्ध्या स्वीकरोति । एवकारेणाप्रबुद्धं व्यवच्छिनत्ति । कीदृशः सन्नधिगच्छति ? - स्पन्दतत्त्वविविक्तये सततमुद्युक्तः स्पन्दस्य, परस्य शाक्तस्य तत्त्वस्य उपचरितसामान्यविशेषात्मकतया द्विप्रकारत्वेन व्याख्यास्यमानस्य, यत्तत्त्वं परमार्थः यथाक्रममुपादेयतया हेयतया च निश्चितं रूपं, तस्य विविक्तये विवेकाय पृथक्करणाय, एष उपादेयतमः (प्. ६४) परमकारणभूतस्य सत्यस्य आत्मस्वरूपस्य - अयमहमस्मि, अतः सर्वं प्रभवति, अत्रैव च प्रलीयते - इति प्रत्यवमर्शात्मको निजो धर्मः सामान्यस्पन्दः; तथैते अत्यन्तहेया विशेषस्पन्दा अनात्मभूतेषु देहादिषु आत्माभिमानमुद्भावयन्तः परस्परभिन्नमायीयप्रमातृविषयाः - सुखितोऽहं दुःखितोऽहम् - इत्यादयो गुणमयाः प्रत्ययप्रवाहाः संसारहेतवः; - इति विभागाय सततं सर्वासु अवस्थासु अव्यवधानेन उद्युक्तः उक्तवक्ष्यमाणोपपत्त्युपलब्ध्युपायप्रतिपत्त्यभिव्यज्यमान - स्वबलवृंहणत्वात् अव्याहतोत्साहाध्यासितः [अव्याहतोत्साहमध्यवसितः] । एतेन प्रबुद्ध एव उपायपरिशीलनैकतानः सन् अचिरेण स्वरूपमुपलभते नान्यः, - इति प्रतिपादितम् । कुतो हेतोः स एवाधिगच्छति नान्यः ? इत्याह - गुणादिस्पन्दनिःष्यन्दा इत्यादि यतो गुणादिस्पन्दनिःष्यन्दा ज्ञस्यापरिपन्थिनः स्युः इति संबन्धः । स्पन्दानां क्षेत्रज्ञज्ञानादिशक्तीनां, (प्. ६५) निःष्यन्दा नानार्थौन्मुख्येन प्रसृताः प्रवाहा भिन्नाः प्रत्ययाः स्पन्दनिःष्यन्दाः गुणा आदयः प्रथमे प्रधानं येषां ते गुणादयः, सुखाद्यात्मकत्वेन सत्त्वादिमयाः गुणादयश्च ते स्पन्दनिःष्यन्दा, - अहं सुखी, दुःखी, मूढः - इत्यादयो ज्ञानभेदाः । किंरूपाः ? सामान्यस्पन्दसंश्रयात् लब्धात्मलाभाः सामान्यस्य सर्वव्यापकस्यान्तर्लीनानन्तविशेषस्पन्दस्य परस्य शक्तिस्फुरितस्य संश्रयात् सम्यक् अनन्यशरणतया श्रयणाद् भजनाद्धेतोः लब्धात्मलाभाः लब्ध आसादितः तेन तेन भिन्नेनाकारेण आत्मनः स्वस्वरूपस्य लाभ उदयो यैस्ते तथाविधा गुणादिस्पन्दनिःष्यन्दाः ज्ञस्य परमेश्वरानुग्रहोणोदितहेयोपादेयप्रत्ययप्रमातृभावस्य [परमेश्वरानुग्रहोदित-], सामान्यस्पन्द एव परमेश्वरमुख्यशक्तित्वेन (प्. ६६) प्रतिष्ठितनिर्विकल्पप्रतिपत्तेः सुखाद्युपाध्युपरागजनितान्योन्यभिन्नरूपेभ्यो विशेषस्पन्देभ्यो व्यावृत्तस्वशक्त्यभिमानस्य उक्तवक्ष्यमाणयुक्त्यभ्यासनित्योद्योगेन विजिगीषमाणस्य अपरिपन्थिनः स्युः स्वबलाविर्भावात् प्रतिहतस्वभावावरणसामर्थ्याः सन्तः अप्रतिद्वन्द्विनः संपद्येरन्, परतत्त्वोपलब्ध्युत्साहं निहन्तुं न प्रभवेयुरिति यावत् । इदमत्र तात्पर्यम् - ये केचन यस्य कस्यचिन्मायीयस्य प्रमातुः सुखाद्यात्मकत्वात् गुणमयाः स्पन्दनिःष्यन्दाः प्रत्ययसंधानाः प्रसरन्ति ते सर्वे एकमेव सामान्यस्पन्दमाश्रित्य तं तमात्मानं प्रतिलभन्ते; प्रबुद्ध एव तु तदुदयाभिज्ञप्रज्ञापात्रम्; अतस्तस्य नित्योद्योगिनः सतः एते प्रयोगिनो भवितुं न प्रभवन्ति । ये (प्. ६७) त्वप्रबुद्धाः तैरेते दुर्निवारप्रसराः, इत्याह - अप्रबुद्धधियस्तु इत्यादि, - अप्रबुद्धा पारमेश्वरपरानुग्रहविरहादविगलितगाढाज्ञाननिद्रा धीः प्रज्ञा येषां ते तथा, तान् पुनरमी यथाव्याख्याता गुणादिस्पन्दनिःष्यन्दा घोरे विभीषिकाशतसंकुलत्वाद् दारुणे, अत एव दुरुत्तारे दुर्लङ्घ्ये संसारवर्त्मनि जन्मादिप्रबन्धमार्गे पातयन्ति तत्रानवरतं भ्रामयन्ति । कीदृशाः सन्तः । - स्वस्थितिस्थगनोद्यताः स्वस्मिन् परमात्मनि सामान्यस्पन्दमात्रकर्मके स्थितिर्निर्विकल्पप्रतिपत्तिप्रभवा सुस्थिरा प्रतिष्ठा तस्याः स्थगने सद्य एव आच्छादने उद्यता गृहीतोद्योगाः प्रतिपक्षभूतस्य प्रबोधस्याभावात् लब्धप्रसरत्वादेवमुपचरिताः । किम् उक्तं भवति ? - यथा कांश्चिद् राजादीन् (प्. ६८) प्रमादित्वाद्यवस्थासत्त्वात् सदपि सैन्यादिस्वसामर्थ्यं सत्त्वेनाप्रतिपद्यमानान् अन्तरप्रेक्षिणो विपक्षाः स्वपदव्यपरोपणबद्धाभियोगा महति व्यसने पातयन्ति, आ स्वसामर्थ्यसद्भावप्रतिपत्तेः । एवमप्रबुद्धस्य सर्वकर्तृत्वादिलक्षणं निजं महिमानं सामान्यस्पन्दरूपं विद्यमानमपि अप्रतिबुद्ध्यमानस्य सर्वकार्यपरतन्त्रं देहादिसर्गमेवात्मत्वेनावगच्छत एते लब्धप्रसराः सुखितोऽहम् इत्यादयो गुणप्रधानाः प्रत्ययप्रवाहाः सत्ये स्वात्मनि स्थितिं व्यवधाय संसारमेवासादयन्ति, आ प्रबोधप्राप्तेः, - इति प्रबुद्धा एवास्योपदेशस्य विषया नाप्रबुद्धाः । तेषां हि कथंचिद् गृहीतमप्युपदेशवचनं निश्चायकप्रतिपत्तिशिथिलप्रज्ञत्वान्नान्तर्विश्राम्यति । यथोक्तं केनापि ज्ञेयत्वमप्युपगता हृदये न रोढुं शक्ताः प्रमूढमनसामुपदेशवाचः । आर्द्रत्वमादधति किं नलिनीदलानां श्लिष्टा निरन्तरतयापि नभोऽम्बुधाराः ।। (प्. ६९) इति । तत्र जाग्रदवस्थायामेव इति वृत्तिग्रन्थः, प्रकृतानुसारेण प्रबुद्धावस्थायाम्, - इति बोद्धव्यम् । यदि वा सततोद्युक्तपदेन प्रबुद्धस्वीकारे सति सततोद्युक्तः प्रबुद्धो वक्ष्यमाणोपदेशक्रमेण जाग्रदवस्थायां व्यवहारदशायामेव निजं भावमधिगच्छति, - इति व्याख्येयम् । व्याख्यातमेतत् श्लोकत्रयं वृत्तौ विभागेन अतः सततं सर्वकालं यः करोति इत्यादिना । तथा गुणस्पन्दस्य सत्त्वरजस्तमोरूपस्य इत्यादिना । तथा स्वल्पबोधांस्तु इत्यादिना ग्रन्थेन ।। ३ ।। ४ ।। ५ ।। एवं प्रबुद्धस्यैव जागरतुर्यपदयोरुपदेश्यत्वे व्यवस्थापिते सर्वशरीरिसाधारणजाग्रद्वृत्त्यन्तरलीनामेव तावत्परतत्त्वोपलब्धिमुपदेष्टुमाह अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन् वा यत्पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः ।। २/६ (२२) ।। वृति: तस्य च स्पन्दतत्त्वस्य अतिक्रुद्धे प्रहृष्टे धावमाने (प्. १९) च किं करोमि, - इत्येवं चिन्ताविष्टे यदा शक्तिप्रत्यस्तमयः, तदा स्पन्दतत्त्वस्य स्फुट एवोदयो गुरूपदेशात् अधिगन्तव्यः ।। २२ ।। टिप्पणी: तीव्रतरोपद्रवद्विषद्दर्शनादौ मृतप्रत्युज्जीवितप्रियासंग -मादौ बलवदभियुक्ततायां च तत्प्रतीकारकिंकर्तव्यता -विचारणेऽपि निरालम्बनचित्तवृत्तितया तत्तद्धर्षादिव्यञ्जकवस् -तूत्पत्तेः प्रागेव समुद्भूतमात्रस्थायिभावस्य प्रतिष्ठित -स्पन्दस्योपलब्धिः । एवं कर्मेन्द्रियव्यापृतिविशेषेऽपि ऐश्वर -रूपसमावेशः ।। २२ ।। विवृति: (प्. ७०) सामान्यविशेषभेदेन प्रतिष्ठिताप्रतिष्ठितरूपत्वात् स्पन्दस्य द्वैविध्ये स्थिते, उपादेयः प्रतिष्ठितः स्पन्दः तत्र पदे उपलभ्यते इति संबन्धः । यः प्रतिष्ठितश्चलत्वव्यपदेशहेतुसुखित्वाद्यनित्यविशेषस्पन्दाविषयत्व् आदप्रकम्पस्थितिः [-हेतुः सुखित्वाद्य-] स्वभावमात्राधारः सामान्यरूपो मुख्यः स्पन्दः प्रत्यस्तमितसमस्तविशेषशक्तिचक्रपरमात्मधर्मः, स तत्र तस्मिन् अधुनैव निर्दिश्यमाने पदे उपलक्षणीयः । कस्मिन् ? यत्पदम् अतिक्रुद्धो गच्छेत् प्रत्यग्रक्षत - दारुणोपद्रव - द्विषद्दर्शनादिना तीव्रतरकोपाविष्टः तज्जन्यविकारावस्थायाः प्रागेव झटिति जातमात्रक्रोधो यत्पदं यां भूमिकां गच्छेत् मनसा आसादयेत्; तथा अतिप्रहृष्टो यत्पदं गच्छेत् मृत्प्रत्युत्थितप्राणसमप्रमदादिदर्शनादिना प्रहृष्टः प्रकृष्टेन परमेणातिशयेन हृष्टः प्रमुदित आनन्दनिर्भरः, तथैव उत्पन्नमात्रहर्षो यत्पदं गच्छेत्; तथा किं करोमि इति (प्. ७१) मृशन् यत् पदं गच्छेत्; क्रुद्धेन राज्ञा रिपुणा वा बलवताभियुक्तस्तत्प्रतीकाराय कर्तव्यनिश्चयमलभमानः केवलं किं करोमि किमुपायमत्रावलम्बेय - इति प्रतिपत्तिमूढ एव मृशन् विकल्पयन् निरालम्बनचित्तवृत्तिर्यां भूमिकामधितिष्ठेत् तत्र प्रतिष्ठितस्पन्दोपलब्धिरित्यर्थः एतेन प्रकारत्रयेण दुःख - सुख - मोहात्मविषयग्रहणरूपान्तःकरणव्यापारमयजाग्रद- वस्थाविषयेण एवंविधानि प्रकारान्तराणि संगृहीतानि वेदितव्यानि । तेन अतिक्रुद्धवत् अशङ्कितेष्टजनविनाशश्रवणादिना कारणेन अतिशोकाविष्टोऽपि शोकव्यञ्जकास्रुप्रलयादिविकृतेः प्रागेव समुन्मिषितमात्रशोको यत्पदं गच्छेत्; तथा अकस्मात् कुपितकृष्णोरगव्याघ्रादिग्रासगोचरगमनादिना निमित्तेन अतिभीतः तथैव सद्यः समुद्भूतमात्रभयो यत्पदं गच्छेत्; तथात्यन्तजुगुप्सास्पद (प्. ७२) पदार्थदर्शनादिहेतुना जातमात्रजुगुप्सो यत्पदं गच्छेत्, तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः, - इत्युपदिष्टं भवति; क्रोध - शोक - भय - जुगुप्साभेदेन चतुर्विधस्य दुःखराशेः अतिक्रुद्धशब्देन उपलक्षितत्वात् । तथा प्रहृष्टवन्निजवीर्यबलसंपत्तिसंभावनादिहेतुना सुदुष्करमपि कार्यं निर्वर्तयितुं निर्विकल्पमेव उत्सहमानो झटिति यत्पदं गच्छेत्; तथैव अदृष्टपूर्वपरमरमणीयादिपदार्थदर्शनादिना सपदि अतिविस्मयाविष्टो यत्पदं गच्छेत्; तथा कुहनादिना कारणेन उत्पन्नमात्रातिहासो यत्पदं गच्छेत्, तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः, - इत्युपदिष्टं भवति; हर्षोत्साह - विस्मय - हासभेदेन चतूरूपसुखराशेरतिप्रहृष्टशब्देनोपलक्षितत्वात् । तथा किंकर्तव्यतामूढवत् दूरत्वादिना दृष्टार्थनिश्चयावधारणाभावात् संशयाविष्टो यत्पदं गच्छेत्, तत्रापि पूर्ववदुपलब्धिः, - इत्युपदिष्टं भवति; विस्मरणादिदशासु तत्त्वाप्रतिपत्तिलक्षणस्य (प्. ७३) बहुविधस्य मोहराशेः किंकर्तव्यतामूढभावेन उपलक्षणात् । एवमन्तःकरणव्यापाररूपजाग्रदवस्थाश्रयं परतत्त्वोपलब्ध्युपायमभिधाय, बुद्धिन्द्रियव्यापाररूपजाग्रदवस्थाश्रयस्य अस्य यथा ह्यर्थोऽस्फुटो दृष्टः (ष्प् का ४/६) इत्यत्र प्रसङ्गाद्वक्ष्यमाणत्वात्; संप्रति कर्मेन्द्रियव्यापाररूपजाग्रदवस्थाश्रयं तं पदं प्रतिपादयितुमाह - धावन्वा यत्पदं गच्छेत् तत्र इति, तत्र तस्मिन्नपि पदे प्रतिष्ठितस्पन्दोपलब्धिः । तत्र हि इच्छाप्रयत्नज्ञानक्रियादि वृत्तीनां विभागाग्रहणाद् अद्वयेश्वररूपाभिव्यक्तिः । तथा हि - धावतः प्रतिपदं पदोज्जिहिर्षोद्धारप्रयत्नदेशावधारणपदविन्यासक्रियादिषु वृत्तिविशेषेषु सत्स्वेव अनवधार्यमाणविभागत्वात् असत्स्विव संवित् अविभागपरस्वभावमात्रप्रतिष्ठिता भवति, तदा परवश एव पुमानैश्वरं रूपमाविशति । एतदपि वागादिकर्मेन्द्रियव्यापारोपलक्षणार्थं वेदितव्यम् । तेन धावद्वद् (प्. ७४) अतिचतुरवर्णस्वरोच्चारव्यग्रवाग्वृत्तिरपि यत्पदं गच्छेत्, तथा वीणावेणुवादनादित्वरिततरव्यापार्यमाणकराङ्गुलिकलापो यत्पदं गच्छेत्; तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः, - इत्युपदिष्टं भवति; सर्वकर्मेन्द्रियव्यापाराणां धावत्पदेन उपलक्षणात् । यथा ह्यर्थोऽस्फुटो दृष्ट इत्यादि श्लोके बुद्धीन्द्रियव्यापारगताम् एतामुपलब्धिं दर्शयिष्यति । यद्यपि च सर्वस्य प्राणभृतः सर्वासु अवस्थासु सर्वेन्द्रियवृत्तयो न अन्तरेण नित्योदितप्रतिष्ठितस्पन्दप्रकाशपरिस्फुरितसमापत्तिम् उन्मिषितुमेव प्रभवन्ति, तथापि मायाशक्त्युद्भावितभेदावभासबलात् नानात्वेन उल्लसद्भिः अनन्तैः ज्ञानक्रियाविशेषैः व्यवधीयमान इवासौ प्रतिष्ठितः स्पन्दः प्रबुद्धस्यापि उपलब्धिगोचरत्वं गमयितुमशक्य, - इति तदुपलब्धियोग्याः काश्चिदेव अतिक्रुद्धत्वादयो दशा उपायत्वेन संगृह्य उपदिष्टाः । एताश्च प्रबुद्धस्य प्रत्यवमृश्यमानाः सद्यः प्रतिष्ठितस्पन्दोपलब्ध्युपायतां (प्. ७५) भजन्ते, न तु अनुभूयमानाः; सा हि अवस्था दुःखादिमययेव । ततो निष्क्रान्तस्तु प्रबुद्ध उपदेशबलाद् उपजाततादृशात्मस्वरूपविवेचनक्षमप्रज्ञातिशयः स्पन्दतत्त्वमनुभवति; यदनुशीलनैकाग्र्यात् क्रमेण सुप्रबुद्धपदवीमधिरूढः सर्वत्र अनुभविष्यति, - इति । विवृतमेतत् तस्य च स्पन्दतत्त्वस्य इत्यादिना वृत्तौ ।। ६ ।। अथ जाग्रद्वृत्त्यन्तर्लीनतुर्यदशागतस्वभावोपलब्धये श्लोकत्रयमुपायोपदेशमाह, तत्र युगलकं तावत् यामवस्थां समालम्ब्य यदयं मम वक्ष्यति । तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति ।। २/७ (२३) ।। वृति: यां स्पन्दस्वरूपरूपामवस्थामवलम्ब्य यत्किंचित् अयं मम वक्ष्यति, तत् अवश्यं करिष्यामि - इत्यध्यवसोयन (अध्यवसायेनेत्यतोऽनन्तरं; ख्, घ्: ऽवर्तते तथाविधाध्यव - सायेनऽ इती यान्पाठोऽधिकोऽस्ति ।) स्पन्दतत्त्वमधिष्ठाय यो वर्तते ।। २३ ।। टिप्पणी: अत्र सामलम्बनक्रियातः पूर्वभाविनि क्रियान्तरे परितिष्ठितवा -क्यस्यायमाशयः - यथा प्रभोराज्ञानिर्वहणेऽवहितमनस्क -तया सर्वा वृत्तयो विलीनाः संपद्यन्ते, निस्तरङ्गदशा चोदेति । एवं सर्वात्मना समस्तान्यकरणीयतां परिहृत्य स्पन्ददशा - वधाननिविडावमर्शस्याभ्यासात् परतत्त्वोपलब्धिरिति ।। २३ ।। तामाश्रित्योर्ध्वमार्गेण सोमसूर्यावुभावपि* । सौषुम्नेऽध्वन्यस्तमितो (ख्, ग्: अस्तमितौ) हित्वा ब्रह्माण्डगोचरम् ।। २/८ (२४) ।। (* विवृति: चन्द्रसूर्यावुभावपि) वृति: (प्. २०) तस्य, तामवस्थामाश्रित्य पुरुषस्य, सोमसूर्यौ द्वावपि सौषुम्ने अध्वनि मध्यनाड्यभिधाने, अस्तमयं कुरुतः; ब्रह्माण्डगोचरं शरीरमार्गं परित्यज्य योगिनः ।। २४ ।। टिप्पणी: सोमसूर्यावित्यस्य तात्पर्यमिदम् । स्पन्ददशामाश्रितस्य मनः प्राणौ मध्यनाड्यां लीयेते । संविदेव यथोत्तरं संकोच -ग्रहणेन संकुचिता ज्ञानक्रियाशक्तिभावप्राप्तिपूर्वं मनः - प्राणप्रसररूपतामापद्यते । प्रत्याहरणकाष्ठाधिरोहणे उभावेव ज्ञानक्रियाशक्तिमयावुभयविधमेव हेयोपादेय - विषयवेदनं नाडीसंचारणात्मकार्यमपि परिहाय सामान्य - मौलिकरूपं प्रत्यापद्येते इति ।। २४ ।। विवृति: तां यच्छब्दोपलक्षितवाक्यनिर्दिष्टाम् अवस्थां (प्. ७६) दशाम् आश्रित्य आसाद्य पुरुषस्य चन्द्रसूर्यौ मनःप्राणौ द्वावपि युगपदेव अस्तमितः प्रलीयेते । किं कृत्वा ? तादृग्दशाश्रयणसामर्थ्यादेव ब्रह्माण्डगोचरं हित्वा यदन्तस्तद्बहिः - इति ब्रह्माण्डं शरीरं स एव गोचरः स्वप्रसराधिकरणं, तं हित्वा त्यक्त्वा संवेद्यताभावादतिक्रम्येत्यर्थः । केन पथा अस्तमितः ? ऊर्ध्वमार्गेण सर्वातिरिक्तेन अलौकिकेन वर्त्मना । तथा च - चन्द्रशब्दप्रतिपादिता मनःप्रसररूपा ज्ञानशक्तिः इदं हेयमिदमुपादेयम् - इति द्विधा संसारगोचरैव, आलम्बनीयं निजं विषयमतीत्य तस्यां दशायां मध्यस्थतां प्राप्य स्वकारण एव अस्तमेति; तथा सूर्यशब्दोदिता प्राणप्रसररूपा क्रियाशक्तिः नानानाडीसंचारलक्षणां कुसृतिमखिलां खिलीकृत्य सामान्यप्राणरूपतामापन्ना लोकातिरिक्तेन पथा स्वपद एव शाम्यति । ततः सौषुम्नेऽध्वन्यस्तमित इत्याह - सुषुमनाभिधा शरीरमध्यमध्यासिता या नाडी (प्. ७७) तदीये अध्वनि परस्याः पारमेश्वर्याः शक्तेः प्रवहणमार्गे प्रशाम्यतः; ज्ञेयकार्योपरागपरित्यागात् परशक्तिरूपतामापद्येते, - इति यावत् । कां तां दशामाश्रित्य ? इत्याह - यामवस्थां समालम्ब्य सम्यक्त्यक्तसमस्तवस्तुव्यापृतिस्तिमितसर्वशक्तितया अवलम्ब्य अवष्टभ्य कस्मिंश्चिदवसरे पुरुषस्तिष्ठति । किं कृत्वा ? समालम्ब्येति, समालम्बनक्रियापूर्वभाविक्रियान्तरनिष्ठं वाक्यमाह - इति संकल्प्य इति, इत्येवं संकल्पं कृत्वा । कथं यदयं मम वक्ष्यति तदवश्यं करिष्येऽहम् इति, यस्य आज्ञातिक्रमात् सद्य एव प्राणात्ययादिरनर्थः समापतति, सोऽत्र राजादिः अयम् इति निर्दिष्टः, अयं यद् वस्तु मम कर्तव्यतया वक्ष्यति जल्पिष्यति तदवश्यं सर्वात्मना परिहृतसमस्तान्यकरणीयोऽहं करिष्ये संपादयामि, - इति युगलकस्य वाक्यार्थसंगतिः । इदं तु तात्पर्यम् - केनचित्कारणेन अवश्यकरणीयवचसा प्रभविष्णुना कारयितव्यवस्तुविवक्षया (प्. ७८) आक्षिप्तस्य पुंसः तद्वचनशुश्रुषामात्रनिविडावधानत्वात् समस्तवृत्तिप्रत्यस्तमये सति, संवित् तुरीयां दशाम् अवश्यमेवाविशति, तत्प्रत्यवमर्शाभ्यासात् परतत्त्वोपलब्धिः, - इति । अत्र ब्रह्माण्डगोचरशब्देन शरीराकाशस्य चन्द्रसूर्यशब्दाभ्यां मनःप्राणप्रसरयोश्च प्रतिपादनम् । प्रयोजनम् । अनेन उपदेशेन प्रत्यभिज्ञापिततुरीयदशाप्रत्यवमर्शाभ्यासकाष्ठाधिरोहिणः प्रबुद्धस्य निखिलबाह्याभ्यन्तराध्वातिक्रान्तपरमपदविश्रान्तिलाभः, - इति । व्याख्यातमेतत् पृथक् वृत्तिकृता यां स्पन्दरूपामवस्थाम् इत्यादिना तस्य तामवस्थाम् इत्यादिना च ग्रन्थेन ।। ८ ।। ननु एवंविधा दशा सर्वस्य कस्यचित्कथंचित् उपजायत एव, तत्किमुपदेशेन - इत्याह तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ।। २/९ (२५) ।। वृति: तस्मिन् महाव्योम्नि प्रत्यस्तमितशशिभास्करे यस्य स्वस्वभावाभिव्यक्तिः न सम्यक् वृत्ता, स (प्. २१) स्वप्नादिना मुह्यमानोऽप्रबुद्धो निरुद्धः स्यात्; प्रबुद्धः पुनरनावृत एव भवति ।। २५ ।। टिप्पणी: परमाकाशे समस्तज्ञेयकार्याणांविलीनप्रायत्वात् मूढा -नां वर्णितपूर्वा तुर्यदशा सौषुप्तपदवत् शून्यरूपा, ईशितृशक्तिपातेन समुदितज्ञानदृष्टीनां पुनस्तस्यां दशायामनुभूयमानतुर्यचमत्कृतिर्निरावरणं निर्भासते इति तत्र दशायां यथाकथंचित् सर्वेषामुपजायमानायां सत्यामपि उपदेशनिरपेक्षणं तमःपदप्रवेशानर्थः स्यात् तत्परिहारायोपदेशस्य सापेक्षतेति ।। २५ ।। इति श्रीकल्लटाचार्यविरचितायां स्पन्दकारिकावृत्तौ स्वरूपस्पन्दः प्रथमो निःष्यन्दः ।। १ ।। विवृति: (प्. ७९) तदा तत्र तादृशदशाविशिष्टे काले सौषुम्नाध्वशब्दप्रतिपादिते महाव्योम्नि परमाकाशे समस्तवेद्यव्यतिरिक्तस्वरूपत्वात् शब्दगुणात्मकभूताकाशस्वरूपवैलक्षण्याच्च महाव्योमशब्दप्रतिपादिते स्वस्वभाव एव, कीदृशे ? प्रलीनशशिभास्करे प्रत्यस्तमितसमस्तज्ञानक्रियाप्रसरप्रपञ्चे, मूढः परमेशतिग्मरश्मिपरमशक्त्यंशुस्पर्शाभावाद् अनिद्राणपशुप्रत्ययनिद्रावसादः सौषुप्तपदवत् स्यात् सुषुप्तावस्थायामिव भवेत् । यथा सुषुप्तावस्था प्रलीनाखिलवेद्यप्रपञ्चरूपापि अप्रबुद्धस्य तत्कालम् अनुभवसामर्थ्याभावात् मोहमययेव, तथा एषा तुर्यदशापि मोहात्मिकैव । प्रबुद्धः पुनरीश्वरशक्तिपातप्रभावात् प्रकर्षेण लोकातिरिक्तातिशयेन बुद्धः प्रत्युदितसम्यग्ज्ञानदृष्टिः तादृग्दशाप्रत्यवमर्शावसरानुभूततुर्याभोगः अनावृतो देहाद्यवच्छिन्नाहंप्रत्ययरूपेण (प्. ८०) आवरणेन वियुक्तः स्यात् संपद्येत । तदेतत् तस्मिन्महाव्योम्नि इत्यादिअना ग्रन्थेन व्याख्यातं वृत्तौ ।। ९ ।। एवं देहादिवेद्यवर्गव्यतिरिक्तत्वेन सर्वदशानुस्यूतोपलब्धृमात्रलक्षणैकस्वभावत्वेन च उपपादितस्य प्रतिपादितोपलब्ध्युपायस्य स्वात्मन एव शंकरस्य यत्सामर्थ्यं तदेव अवश्यकरणीयशास्त्रचोदितक्रियासाधनभूतानां मन्त्राणां वीर्यम् - इति प्रबुद्धमेव उपलब्धतादृगात्मस्वभावं प्रति उपदेष्टुं युगलकमाह अथ सहजविद्योदयाख्यो द्वितीयो निःष्यन्दः । तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः । प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ।। २/१० (२६) ।। वृति: तत् बलं निरावरणचिद्रूपमधिष्ठाय, मन्त्राः सर्वज्ञत्वादिना बलेन श्लाघायुक्ताः प्रवर्तन्ते अनुग्रहादौ स्वाधिकारे । करणानि यथा देहिनाम्, नान्येन आकारादिविशेषेण ।। २६ ।। टिप्पणी: शाक्तबलाक्रमणादेव नियन्त्रितेतिकर्तव्यतासचिवा मन्त्राः प्राणभृत्करणवत् यथास्वं प्रतिनियतप्रयोक्तव्यकार्यसिद्धिषु अप्रतिहतशक्तयः, तद्विना तृणमात्रमपि कुब्जयितुमसमर्थाः, नियतिशक्तिबलात् भिन्नभिन्ननियोगेभ्यः प्रवर्तन्ते न सर्वे सर्वेभ्य इति भावः ।। २६ ।। तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः । सहाराधकचित्तेन तेन ते* शिवधर्मिणः ।। २/११ (२७) ।। (* विवृति: तेनैते) वृति: (प्. २३) तत्रैव स्वस्वभावव्योम्नि निवृत्ताधिकाराः प्रलीयन्ते, शान्तरूपाः, मायाकालुष्यरहिताः, सह साधकचित्तेन; अनेन कारणेन शिवसंयोजनास्वभावेन, इति शिवात्मका उच्यन्ते (घ्: इति - शब्दानन्तरं ते इति पदमप्यस्ति ।) ।। २७ ।। टिप्पणी: इदमत्र तात्पर्यम् - शिवशक्तिरेव मन्त्रसंनिवेशादिरूपधारिणी उदयास्तमयदशयोः शिवाभेदवत्त्वात्, यत्र यत्र शिवाभेदवत् -त्वं तत्र तत्र शाक्तरूपत्वं, यथा संकल्पस्वप्नपुरादिषु, - इति व्याप्त्यादिना सुदृढप्रतिपत्तेर्मन्त्रवीर्यानभिज्ञस्य भेदविभ्र -मात् नियतसाध्यसाधनाय पर्यवसायिनः प्रबुद्धस्य पुनर्मन्त्राः सर्वार्थसाधनाधिकारिणो भवन्ति; न केवलं मन्त्रा एव, यावल्लौकिकभाषामात्रमपि अमोघमन्त्रभावमुप -गच्छति - इत्यनेन क्रियाज्ञानं कार्यं ज्ञेयं वा वस्तु शिवधर्मकमेवेत्युपलक्ष्यते ।। २७ ।। विवृति: (प्. ८०) तेन प्रस्तुतव्याख्यानेन हेतुना एते मन्त्रा आराध्यदेवतावाचका वर्णादिसंनिवेशाः, शिवधर्मिणः शिवस्य परमेश्वरस्यानन्यसाधारणः सर्वज्ञत्वादिर्गुणो धर्मः स विद्यते येषां ते तथा, शिवादभिन्नस्वरूपा इत्यर्थः । केन हेतुना ? - यतः तत् समनन्तरप्रतिपादितस्वरूपस्य शिवस्य संबन्धि बलं सामर्थ्यं शक्तिम् आक्रम्य उच्चिचारयिषावस्थायां तदभेदोपपत्त्या स्वीकृत्य सर्वज्ञबलशालिनः सर्वज्ञस्य शिवस्य बलेन शक्त्या श्लाघमाना सन्तः अधिकाराय प्रवर्तन्ते यथास्वं प्रतिनियतकार्यसंपादनस्वसामर्थ्यं [-स्वाम्यार्थ्यं] प्रसरन्ति । एते हि अनासादितपरमेश्वराभेददशा उत्पादविनाशधर्मकवर्णमात्रात्मकाः तृणमपि कुब्जयितुमशक्ताः; उक्तबलाक्रमणेन तु नियतेतिकर्तव्यतासहाया दीक्षादिवृश्चिकविषाकर्षणान्तपरापरस्वकार्यसंपादनाधि- काराप्रतिहतशक्तयो भवन्ति । यद्येवं सर्वमन्त्राणामुक्तबलाक्रमणलक्षणवीर्यसाम्यं, तत् कथमेषां भिन्नाधिकारित्वं, सर्वे सर्वार्थसाधनाधिकृताः कथं न भवेयुः ? - इत्यत्र परमेश्वरपरिकल्पितनियतिनियन्त्रितत्वमेव (प्. ८२) हेतुं प्रतिपादयितुमुपमानमाह - कथमेते मन्त्रा नियताधिकाराय प्रवर्तन्ते साधकानां ? - देहिनां करणानीव यथा हि देहादिमात्रानित्यवस्तुव्यवस्थितात्माभिमानानां सर्वशरीरभृतां करणानि इन्द्रियाणि यतः करणवर्गोऽयम् इत्यत्र प्रतिपादितयुक्त्या परमेश्वरादेव चेतनत्वापादनहेतुप्रवृत्त्यादिलाभसाम्ये सत्यपि करणानि तत्परिकल्पितनियतिशक्तिबलात् शब्दादिविषयप्रकाशनमात्रपर्यवसितसामर्थ्यानि यथास्वं पृथक्पृथगधिकाराय प्रवर्तन्ते न सर्वाणि सर्वस्मै?; तथैवैते मन्त्राः साधकानां स्वीकृतपरस्वभावाहंभावप्रतिपत्तीनां यथानियमिताधिकाराय प्रवर्तन्ते, तस्मात् करणवत् सर्वज्ञबलशालिनोऽपि मन्त्रा नियताधिकारा एव । ततश्च शिवधर्मिणो मन्त्रा यत्कृताधिकाराः सन्तो निरञ्जना अञ्जनात् वाच्योपरागरूपात् मलात् वर्णादिरूपभावनात्मकाद्वा निष्क्रान्ताः; अत एव शान्तरूपाः शान्तं शुद्धं संविन्मात्रावशेषत्वात् (प्. ८३) निर्विकारं रूपमात्मा येषां ते तादृशाः सन्तः तत्रैव शिवे परमकारणे स्वस्वभावे संप्रलीयन्ते तदैक्यमुपगच्छन्ति । केन साकम् ? आराधकचित्तेन सह साधकमनसा साकं । तस्यां हि दशायामभिसंध्युपाधिविरहात् स्वाभाविकमात्रावशेषं यत् साधकचित्तं तेन साकम् । किमनेन तात्त्विकमन्त्रवीर्यं प्रतिपादितं भवति ? तदिदं भवति - मन्त्रचेतसोः उदयास्तमयदशयोः परमकारणात् शिवादभेदः, - इति मन्त्रात्मकतया साधकचित्तात्मकतया च शिवशक्तिरेव वर्णसंकल्पादिरूपधारिणी उदिता सती, संप्रति अनासादितस्वस्वभावबलस्पर्शप्रतिपत्तीनां साधकानां भेदविभ्रममुत्पादयन्ती नियतार्थसाधनाधिकाराय पर्यवस्यति । यस्तु यथाप्रतिपादिते स्वस्वभावे एव सुदृढात्मप्रतिपत्तिः, तस्य उदयास्तमयज्ञस्य सर्वमन्त्राः (प्. ८४) सर्वार्थसाधनाधिकारिणो भवन्ति तत्तदितिकर्तव्यतासाहित्यनियमाद्यपेक्षां विना; आसतां वा मन्त्राः, यद्यद्वचनं येन येनाभिसंधिना उच्चारयति तत् तस्यामोघमन्त्रतामापद्यते, - इति स्वभावबलाक्रमणेनैव [स्वभावबलाक्रमणमेव सिद्धं स्वतो मन्त्राणां वीर्यं प्रत्यवम्रष्टव्यं योगिना, - इति तात्पर्यार्थः । उपलक्षणार्थं मन्तव्यं चैतत् । उक्तोपपत्त्या न केवलं मन्त्रा एव शिवधर्मिणो, यावन्न काचित्क्रिया ज्ञानं कार्यं ज्ञेयं वा वस्तु संभवति, यत् परतत्त्वाभेदापत्तिलब्धात्मकं सत् शिवात्मकमेव न भवति, - इति समनन्तरमेव वक्ष्यति । व्याख्यातम् एतत् वृत्तौ यद्बलं निरावरणचिद्रूपम् इत्यादिना ।। ११ ।। इति राजानकश्रीरामविरचितायां स्पन्दविवृतौ व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो निःष्यन्दः ।। २ ।। अथ विश्वस्वभावशक्त्युपपत्तिर्नाम तृतीयो निःष्यन्दः ।। इदानीं पक्षान्तरोपन्यासभङ्ग्या प्रकरणारम्भश्लोकापरार्धप्रतिज्ञातं स्वस्वभावस्यैव शिवस्य विश्वव्यक्तिमयशक्तिचक्रविभवनशीलत्वमवसरप्राप्तम् उपपत्त्युपलब्धिभ्यां निर्वाहयितुं श्लोकत्रयमाह यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् । तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ।। ३/१ (२८) ।। वृति: सर्वात्मक एवायमात्मा सर्वभावोत्पत्तिद्वारेण [सर्वानुभावो-] (अयमिति पदं; घ्: पुस्तकादुपन्यस्तम् ।) (प्. २४) अनुभूयमानस्यैव संवेदनात् बाह्यार्थमनुभूय -मानमेव शरीरत्वेन गृह्णाति, न तु शिरः पाण्यादिलक्षितम् (ख्: पाण्यादिरक्षितम्; ग्: पाण्यादिलक्षणम्) एकमेवास्य शरीरम् ।। २८ ।। टिप्पणी: संचेत्यमानं प्रत्येकं वस्तु वस्तुतो विज्ञानिनो जीवस्य स्वाङ्गकल्पमेव - इति न केवलं भूतात्मकमेवास्य वपुः, यावद्भावात्मकमपि । घटसुखादेर्भावस्य हि संवेदनं समुत्पत्तिः, संवेद्यमानतैव तत्स्वरूपप्रतिष्ठा असंवेद्यमानस्य स्वप्रतिष्ठानासादनात् इत्यतो जीवादपि सर्ववस्तुसमुत्पादः । तस्मात्सोऽपि विश्वमयः । अवच्छिन्नाहं - कृतिपदं शिरःपाण्यादिमच्छरीरं भूतात्मकं, भावात्मकं तु शब्दादिविषयसंवेद्यम् ।। २८ ।। तेन शब्दार्थचिन्तासु न सावस्था न यः* शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ।। ३/२ (२९) ।। (* विवृति: या) वृति: तेन तथाविधेन सर्वात्मकेन स्वभावेन, शब्दार्थयोः चिन्तासु न सा अवस्था या शिवस्वभावं न व्यञ्जयति (ग्: शिवं न व्यञ्जयति), अतो भोक्तैव हि भोग्यभावेन सर्वत्रावस्थितो, न त्वन्यत् भोग्यमस्ति ।। २९ ।। टिप्पणी: प्रोक्तविश्वमयताप्रतिपत्त्या वाच्यवाचकात्मसु षडध्वजातेषु या काचित् संवित्तिप्रवाहपद्धतिः सा परप्रकाशात्मशिवमययेव, तस्मात् ग्राहकात्मा परमेश्वर एवेच्छादिचक्रप्रेषणद्वारा ईशितव्यात्मज्ञेयकार्यवस्तुचमत्करणोद्युक्तस्तत्तादात्म्यसंपा - दनात् सदोदितसार्वत्रिकस्थितिरिति स्वस्वभावस्यैव जगद्विकासमय - शक्तिविभवनशीलता निर्व्यूढा ।। २९ ।। प्. २५) इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ।। ३/३ (३०) ।। वृति: एवंस्वभावं यस्य चित्तं, यथा - मन्मयमेव जगत् सर्वम् इति, स सर्वं क्रिडात्वेन पश्यन् नित्ययुक्तत्वात् जीवन्नेव ईश्वरवत् मुक्तो, न त्वस्य शरीरादि बन्धकत्वेन वर्तते ।। ३० ।। टिप्पणी: समनन्तरपद्योद्दिष्टनीत्या अव्युच्छिन्नपरामर्शावधानपरि -शीलनवतो योगिनः सर्वेश्वरस्वतन्त्रचिद्भैरवीयपूर्णाहं -भावप्रतिपत्त्या अशेषमिदं विश्वं स्वरचितक्रीडनकलीला -मात्रेण विभाव्य स्वलीलाजनितहर्षशोकाद्युपरागेऽपि शङ्कातङ्ककलङ्कयन्त्रणाभिर्मनागपि नोपलिप्तिरिति याथात्म्यवेदितृत्वाज्जीवत एव मुक्तिरित्यर्थः ।। ३० ।। विवृति: (प्. ८६) यस्य इति वा संवित्तिः स जीवन्मुक्त इति संबन्धः, इत्येवम् इदानीमेव प्रतिपाद्यप्रकारेण यस्य वा साधकोत्तमस्य संवित्तिः सम्यक् ज्ञानं स सततम् अव्यवधानेन सर्वावस्थासु युक्तः समाहितः, उक्तवक्ष्यमाणोपदेशदृशा स्वभावबलपरिशीलनाप्रमत्तैकाग्रमानसः स जीवन् नियतदेहाधिकरणान् प्राणान् धारयन् एव मुक्तः सर्वव्यापकसर्वात्मकसर्वेश्वरस्वतन्त्रस्वस्वभावाहंकार- प्रतिपत्तिदार्ढ्येन जन्मादिविरोधात् निष्क्रान्तः परमेश्वर एव संवृत्त - इत्यत्र न संशयो न भ्रान्तिः; स्वसंवेद्योपपत्त्युपलब्धिनिष्प्रकम्पत्वात् अस्य अर्थस्य । किं कुर्वन् जीवन्मुक्तः ? - अखिलम् अशेषमनन्तवस्तुव्यक्तिविचित्रं जगत् विश्वं क्रीडात्वेन स्वनिर्मितचराचरभावक्रीडनकोपरचितलीलामात्रतया पश्यन् विभावयन् । सर्वो हि जनः अनुन्मिषितस्वस्वभावनिभालनक्षमविमलविज्ञानदृष्टि- रात्मनोऽन्योन्यतश्च (प्. ८७) विभिन्नम् इदमखिलं भावजातं कुतश्चिदन्यतः कारणात् उद्भूतम् अनिशं मन्यमानः, तद्भावजन्यहर्षशोकभयादिविकारान् अनुभवन्, भवाध्वनि पुनः पुनः जन्मादिबन्धनभाजनतां भजते । यस्तु प्रतिपाद्यप्रकारेण उत्पन्नपरसंविदभिव्यक्तिः, स यथा कश्चित् क्रीडापरः स्वपरिकल्पितैः भयक्रोधादिकारणभूतभावप्रतिच्छन्दकैः क्रीडन् तद्याथात्म्यवेदित्वात् भयादिविकारकालुष्यं मनागपि नापद्यते, तथैव भावानां स्वस्वभावशक्तिविजृम्भितमात्रतया याथात्म्यवेदी सन् मनागपि विकृतिं न आपद्यते । एवं सर्वं क्रीडात्वेनैव पश्यन् जीवन्नेव मुक्तः । कथं यस्य संवित्तिः ? इति, - तेनेत्यादिश्लोकेन प्रतिपादयति; तेन वक्ष्यमाणेन हेतुना शब्दार्थचिन्तासु सा अवस्थैव नास्ति या न शिवः - इति यस्य संवित्तिः स जीवन्मुक्तः, इति । शब्दोऽर्थप्रत्यायकः पदसमुदायः, अर्थो जात्यादिभेदात् बहुविधम् (प्. ८८) अभिधेयं वस्तुजातं, तयोः चिन्ता तथा तथा विकल्पनाः अनन्तचिन्तनीयवस्तूपरागात् विचित्राणि ज्ञानानि, यन्मयो व्यवहारः एतासु शब्दार्थचिन्तासु सा अवस्था दशा न काचित्, शब्दचिन्तारूपा अर्थचिन्तारूपा वा संभवति, या शिव एव साक्षात् न भवति । यत एवं तदा भोक्ता अनुभवितैव ईश्वरः सदा नित्यं सर्वत्र सर्वासु अवस्थासु भोग्यभावेन अनुभवनीयवस्त्वात्मना स्थितो न पृथक् किंचित् भोग्यं नामास्ति, तत्त्वानवमर्शमात्रविजृम्भितम् एतत् भोक्तृभोग्यविभागरूपम् । केन हेतुना न सावस्था न या शिवः ? इत्याह, - यस्मात् जीवः आत्मा सर्वमयो विश्वरूपः परस्परव्यतिरिक्तप्रतिपत्तिः, जीवस्यापि यो व्यवहारः सोऽपि वेद्यवेदकाभेदपूर्वकतयैव उपपन्न - इत्यर्थः, कुत एतत् ? तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः सर्वभावसमुद्भवात् सर्वमयो जीवः तस्य कस्यचित् संवेद्यस्य घटसुखादेः यत् संवेदनं ज्ञानं, तस्य यत् रूपं स्वभावः, तेन हेतुना या तादात्म्यप्रतिपत्तिः तदभेदसंवित्, ततो हेतोः निर्वर्तमानो यः सर्वभावसमुद्भवः सर्वेषां भावानां उत्पत्तिः, तस्मात् सर्वमयो जीवः । किमुक्तं भवति - जीवस्यैव व्यवहारो विचार्यमाणोऽयं वस्तुयाथात्म्यमुपपादयति । तथाहि - अयं स्वविषयं संविदन्नेव समुद्भावयति सृजति, संवेद्यमानमेव हि वस्तु स्वरूपं लभते, न तु असंवेद्यमानं; संवेद्यमानता च तेन तेन रूपेण प्रकाशमानता; प्रकाशमानत्वं च प्रकाशादव्यतिरिक्तं, नान्यत् किंचित् । यदाह न्यायवादी चेतनाच्चापि वेद्यत्वादतद्रूपाप्रवेदनात् । इति । एवं च यत् यत् अयं जीवः संवेत्ति तत्तदस्य शरीरमेव संपद्यते, न तु नियतशिरःपाण्याद्यवयवसंनिवेश (प्. ९०) एव, सोऽपि हि अस्य संवेद्यमानतावस्थायामेव शरीरीभवति, अन्यदा तु व्यतिरिक्तो विषय एव । तथा च - संवेद्यमानत्वसामान्यात् द्विविधं शरीरमस्याम्नातं तत्त्वविद्भिः, भूतात्मकं भावात्मकं च; तत्र मायाशक्तिवैभवविस्मारिततात्त्विकस्वभावतया वस्तुसंवेदनावसरे स्वरूपापरामर्शत्वमुकुलितसामर्थ्योऽयं जीवः अवच्छिन्नाहंकारास्पदतया शिरः - पाण्यादिमच्छरीरत्वेन यत् परामृशति तत् अस्य सृष्ट्यादिमयत्वात् भूतात्मकम् - इत्युक्तम् । यत्तु व्यतिरिक्तं शब्दादिविषयत्वेन परामृशति तद्भावात्मकं । परमार्थे तु विचार्यमाणे द्वयमप्यस्य शरीरं संवेद्यमानत्वाविशेषात् । एवं संवेद्यमानतालक्षणभावसंसर्गावस्थायां जीवः संवेद्यवस्त्वव्यतिरेकात् सर्वमयो विश्वरूपः स्थितोऽपि सन् तथावस्तुसंवेदनतत्त्वपरामर्शानुन्मेषात् सर्वमिदम् आत्मव्यतिरिक्तकारणान्तरलब्धात्मकत्वेन आत्मनः परस्परतश्च पृथक्त्वेन व्यवच्छिन्दन्, (प्. ९१) आत्मानं च देहाद्यनित्यभावाहंभावेन अध्यवस्यन् जन्मादिबन्धभाक् संसारी जीव इति व्यपदिश्यते । यदा तु शिवदिवाकरशक्त्यंशुपातजनितप्रबोधोन्मिषितविशददृष्टि- स्फुटतरप्रकाशमानदेहादिव्यतिरिक्तसत्यात्मस्वभाव- सुस्थिताहंप्रतिपत्तिः सन् यथावस्थितवस्तुसंवेदनपरामर्शशक्तिभिर्व्यक्तिभाक् भवति, तदा स एव संकल्पमात्रविलिखितविचित्रविश्वव्यक्तिमयशक्तिचक्रः शिवः संपद्यते । तेन उक्तम् - तत्तद्वस्तुसंवेदनस्वभावबलेन या तादात्म्यप्रतिपत्तिः संवेद्यमानवस्त्वभेदसंवित्तितः सर्वभावसमुद्भवः, तस्मात् जीवः तावत् सर्वमयः; तेन च तस्य सर्वमयत्वप्रतिपत्तिलक्षणेन हेतुना सा अवस्था नास्ति या शिवमयी न भवति, ततश्च भोक्तैव ईश्वरो भोग्यभावेन ईशितव्यवस्तुरूपतया सदा सर्वत्र संस्थितः । एवं यस्य वा संवित्तिः स जीवन्मुक्त - इति वाक्यसमन्वयसंकलनार्थमेतत् (प्. ९२) पुनरुक्तम्, - इत्यनेन श्लोकत्रयेण आत्मन एव विश्वरूपत्वेन स्थितिः प्रतिपादिता, विश्वप्रपञ्चस्य निमित्तान्तरानुपपत्तेः । यथोक्तं ब्रह्मविदा कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया । स एव बुद्ध्यते भेदादिति वेदान्तनिश्चयः ।। इति । तथा अन्येनापि स्तुतिद्वारेणोक्तम् विविधैरुपाधिभिरवस्थितैर्वहिः स्फटिकादिवत्तव विचित्रतोच्यताम् । यदि ते कदाचन कथंचन क्वचि- द्भवितुं क्षमास्त्वदवभासतः पृथक् ।। परमाणुपाकपरिणामविभ्रमा- द्युत वा विवर्त इति विश्वमिष्यताम् । विबुधोत्तमैर्यदिह तद्विकल्पना- स्तव शक्तिरेव न तथोपपादयेत् ।। तदिहापि च प्रतिनिमेषमुन्मिष- न्निमिषद्विकल्पविविधांशुमण्डलः । अथ चातिशुद्धवपुरद्भुतैकभूः स्फुरसि त्वमेव शिव चिन्मयो मणिः ।। (प्. ९३) व्याख्यातमेतत् वृत्तौ पृथक् पृथक् सर्वात्मक एवायमात्मा इत्यादिना तेन तथाविधेन इत्यादिना एवं स्वभावे यस्य इत्यादिना च ग्रन्थेन ।। १ ।। २ ।। ३ ।। इति श्रीराजानकश्रीरामविरचितायां स्पन्दविवृतौ विश्वस्य स्वस्वभावशक्तिमात्रत्वोपपत्तिर्नाम तृतीयो निःष्यन्दः ।। ३ ।। (प्. ९४) अथ अभेदोपलब्धिर्नाम चतुर्थो निःष्यन्दः इदानीमियमेव उपपत्तिः सुगृहीता सती, अभेदोपलब्ध्युपायः - इति प्रदर्शयितुं मन्त्रन्यासादिसमस्तविधिसंस्कारकत्वमस्याः प्रतिपादयितुमाह अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिरिच्छतः साधकस्य या ।। ४/१ (३१) ।। वृति: तत्संवेदनद्वारेण यः तदात्मग्रहो मन्त्रन्यासात्मकः स एवोदयः तस्य ध्येयस्य मन्त्रात्मनः (प्. २६) साधकचेतसि, तादात्म्यं तत्स्वभावत्वप्राप्तिः मन्त्रदेवत -या (क्: मन्त्रस्य देवतया) सह साधकस्य मन्त्रोच्चारणेच्छया (ख्, ग्: मन्त्रोच्चारेणेच्छया संपादिका) संपादिता ।। ३१ ।। टिप्पणी: इदमिह प्रतिपादनीयम्, साधकचेतसो मन्त्रोच्चिचारयिषावस्था -यां यदनायासेन ध्येयवस्तुना सहैकात्म्यं संपाद्यमा -नं स एव मन्त्राभिधेयस्य स्मर्तव्यदेवस्य तत्तदर्थक्रियाकार्य -मोघशक्तिना उपास्याकारेण प्रत्यक्षावलोकनात्मोदयः, न तु विभाव्यमाना व्यतिरिक्ताकृतिरिति प्रागुक्तोपपत्त्या सुगृहीतयाभेदोपलब्धिरुपेयते इति ।। ३१ ।। विवृति: तस्य कस्यचिद् ध्येयस्य तेन तेनाकारेण स्मर्तव्यस्य मन्त्रवाच्यस्य देवताविशेषस्य उदयः तत्तदर्थक्रियासंपादिना अमोघशक्तिना तेन तेनोपास्येनाकारेण प्रथनम्; क्व अधिकरणे ? - ध्यायिचेतसि ध्यायिनः स्मर्तुः संबन्धिनि चेतसि संकल्पे; कोऽसावुदयः ? - इच्छतः इच्छावस्थायां (प्. ९५) वर्तमानस्य मन्त्रमुच्चिचारयिषोः साधकस्य अभियुक्तस्य, वस्तुसामर्थ्यसिद्धा या तदात्मतासमापत्तिः तस्य ध्येयस्य य आत्मा स्वरूपं तस्य भावस्तदात्मता तया समापत्तिरेकीभावः । इदमत्र तात्पर्यम् - न्यासादिहेतोर्मन्त्रोच्चारणेच्छावस्थायां मन्त्ररुद्धदेवताकारारायां [मन्त्ररुद्धान्यदेवताकारायां] साधकचेतसः स्वयमप्रयत्नेन संपाद्यमानं यदभिन्नरूपत्वं, स एव परामर्शक्षमसंविदो ध्यातुर्मुख्य आराध्यदेवतायाः प्रत्यक्षदर्शनरूप उदयो, न तु व्यतिरेकविभाव्यमानाकारता, - इति अनयैव संविदा शिवरूपतापत्त्ःः [-पत्तेः] । ......................... शिवो भूत्वा शिवं यजेत् । इत्यस्य विधेः चरितार्थत्वम् । अयमेव तत्संवेदनद्वारेण इत्यादिना व्याख्यातमेतत् वृत्तौ ।। १ ।। अस्या एव संविदो विध्यन्तरसंस्कारकत्वमाह इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ।। ४/२ (३२) ।। वृति: इयमेव सा मिथ्याज्ञानशून्यस्य साधकस्य निरावरण - स्वस्वरूपसंवित्तिः अमृतत्वप्राप्तिः, न तु रसास्वादरूपस्य धातुसारस्य स्थूलस्यास्वादनम् अमृतप्राप्तिरुक्ता, यैव मन्त्रोच्चारणमात्रेणैव (ख्, ग्: मात्रेणैव स्वस्वरूपावस्थिति) मन्त्रस्वरूपावस्थितिप्राप्तिः सैवात्मनो ग्रहणमित्युक्ता । यस्मात् आत्मनो ग्रहणं कुर्याद्दीक्षाकाले गुरुर्धिया (प्. २७) इति । न पुनर्लोष्टादिवत् हस्तेन तस्यामूर्तस्य ग्रहणं भवति, अत एव चेयमेव सा निर्वाणदीक्षा शिवसद्भावदायिनी, परमशिवस्वरूपाभिव्यञ्जिका ।। ३२ ।। टिप्पणी: प्राग्वर्णितायाः संविद एव अनित्यजडवस्त्वात्मनोऽमृतात् बाह्यसाधनाद्यधीन -दीक्षातोऽपि अनुत्तमवैलक्ष्येण अनुत्तरामृतरसमयता, उत्तम विधिसंस्करणकारणत्वं चेति ।। ३२ ।। इति श्रीकल्लटाचार्यविरचितायां स्पन्दकारिकावृत्तौ सहजविद्योदयो नाम द्वितीयो निःष्यन्दः ।। २ ।। विवृति: (प्. ९६) इयमेव यथाप्रतिपादिता शरीरादिविनश्वरवस्त्वालम्बनाहंप्रत्ययरूपस्य स्वप्रकाशव्यतिरिक्तवेद्यभावप्रतीतिमयस्य मिथ्याज्ञानस्य उच्छेदात् अनवच्छिन्नस्वच्छस्वच्छन्दस्वभावमात्रैकतत्त्वोपलब्धि- रूपा संवित् सम्यग् ज्ञानम् अमृतप्राप्तिः अमृतस्य अविनाशिनः शिवात्मकस्यात्मनः प्राप्तिरुपलब्धिः किल अर्थानुगतामृतप्राप्तिर्भवति, न तु द्रव्यविशेषात्मकस्य जडस्यानित्यस्य वस्तुनः कस्यचित् प्राप्तिरमृतप्राप्तिः, सा हि जीवस्य कालान्तरस्थायिशरीरत्वकारणभावात् एतदुपचारेण एवमुच्यते । तथा अयमेवात्मनो ग्रहः या एवंविधा मन्त्रोच्चारणेच्छाक्षणभाविनी संवित् सोऽयमेवात्मनो जीवस्य ग्रहो ग्रहणं, तेषु तेषु हि दीक्षादिषु विधिविशेषेषु आत्मनः शिष्यसंबन्धिनः स्वस्य वा ग्रहणं शास्त्रेषु उपदिश्यते । यथा उदाहृतं वृत्तौ आत्मनो ग्रहणं कुर्याद्दिक्षाकाले गुरुर्धिया । (प्. ९७) इति । तेन तादृग्विधिसंपत्तये परिकल्पितरूपविशेषस्यात्मनो या परमकारणभूतस्वभावाभेदसमापत्तिरुपजायते, सा परामृश्यमाना आत्मग्रहणात्मकविधिसंपदिका भवति, न तु अन्यथा तस्यामूर्तस्य ग्रहणं संभवति, ग्रहीतुः परमात्मनः सर्वव्यापकसंविद्रूपात् तस्याभिन्नत्वात् । तथा इयमेव निर्वाणदीक्षा निर्वाणं निर्वृतिर्द्वैतप्रत्ययलक्षणक्षोभपरिक्षयात् आत्यन्तिकी प्रशान्तिः संविदः स्वस्वभावव्यवस्थितिः, तदर्था दीक्षा स्वरूपसंबोधदानात्मको भेदमयबन्धक्षपणलक्षणश्च संस्कारविशेषः, सा चैवंरूपा निर्वाणदीक्षा इयमेव प्रतिपादिता संवित्, एतत्कारणत्वात् तस्याः । यत एषा संवित् शिवसद्भावदायिनी शिवस्य स्वस्वभावस्यैव परमेश्वरस्य यः सद्भावः सत्ता, येन रूपेण अहमेवास्मि - (प्. ९८) इति प्रतिपत्तिरबाधिता सिद्ध्यवस्थायामुपपद्यते तस्य दायिनी प्रतिपादिका, स हि निरुत्तरः संस्कारः सुप्रबुद्धगुरोर्गोचरः परमशिवात्मकस्वरूपप्राप्तिमात्रो, न तु बाह्यसाधनसाध्यविधिविशेषात्मक इति । व्याख्यातमेतत् इयमेव सा मिथ्याज्ञानशून्यस्य इत्यादिना वृत्तौ ।। २ ।। एवमुत्तमविधिसंस्कारकारणत्वमस्याः संविदः प्रतिपाद्य, इदानीं सिद्ध्यन्तरकारणत्वं संसारिव्यवहारनिदर्शनेन प्रतिपादयितुं श्लोकद्वयमाह अथ विभूतिस्पन्दाख्यस्तृतीयो निःष्यन्दः । यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान्हृदिस्थितान् । सोमसूर्योदयं कृत्वा संपादयति देहिनः ।। ४/३ (३३) ।। वृति: (प्. २८) यथास्यानभिव्यक्तस्वस्वरूपस्य योगिनो जाग्रदवस्थायां यथा यथा इच्छा भवति, तथैव तस्यानेकार्थसंनिधानेऽभिम -तस्यैव कस्यचिदर्थस्य दर्शनं भवति नटमल्लप्रेक्षादिषु सोमसूर्योदयं कृत्वा चक्षुरादिष्ववधानेन ।। ३३ ।। टिप्पणी: अर्थदिदृक्षोर्दिदृक्षावस्थायामीप्सितवस्त्ववधारणा- वधानस्वभावमाविश्यैव इष्टार्थप्राप्तिरिति सावस्था प्रार्थनात्मेत्युप -चरिता । वृत्तौ तु चक्षुषोरिति इन्द्रियान्तरोपलक्षणम्, तेन शुश्रषापि -स्पृक्षावस्थापि एवमेवोपचर्यते इच्छापूर्वकत्वादेव समस्तार्थस्फुरणस्येति ।। ३३ ।। तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितोऽवंश्यं* प्रकाशयेत् ।। ४/४ (३४) ।। (* विवृति: स्थितोऽवश्यं) वृति: तथा स्वप्नेऽपि अभीष्टार्थानेव पश्यति, प्रणयस्यानति - क्रमात् (प्. २९) इच्छाभ्यर्थनाया अनतिक्रमात्, यच्च तन्मध्ये हृदयं स्फुटतरम् अभिव्यक्तं नित्यं तदेतत् स्वप्नस्वातन्त्र्यम् इत्युच्यते, अयमेव तमोवरणनिर्भेद इत्यर्थः ।। ३४ ।। टिप्पणी: उक्तप्रकारेण निखिलग्राह्यग्राहकसंबन्धिदशासु तादात्म्य -प्रतिपत्तिरूपस्य प्रणयस्यानुल्लङ्घनात् मनोवेद्यसृष्टिविषयेऽपि अभिमतार्थानां सुप्रकटतरमेव प्रथनमिति स्वाप्निका अर्थाः स्वातन्त्र्येण प्रसर्तुं नैव प्रभवेयुरिति अतो योगिनो निर्दिष्टदश -योरविशेषात् तमोवरणनिर्भेद आविर्भवेत् येन सिद्ध्यन्तरप्रसवः ।। ३४ ।। विवृति: (प्. ९९) यथा देहिनो देहमात्रमेव आत्मत्वेन प्रतिपन्नस्य सर्वस्य संसारिणो जाग्रतो यथास्वं विषयग्रहणव्यग्रेन्द्रियवृत्तिलक्षणां जागरावस्थाम् अनुभवतो हृदि स्थितान् आशयनिविष्टान् द्रष्टुम् अभीष्टान् भावान् इच्छाभ्यर्थितः इच्छयादिदृक्षारूपया अभ्यर्थितः, तदवस्थास्वभावबलात् तादात्म्यसमापत्त्या तदर्थसंपत्तेः याचित इव धाता सर्वकर्ता परमेश्वरः परमात्मा संपादयति यथाभिप्रायं प्रकाशयति । किं कृत्वा ? - सोमसूर्ययोः चक्षुषोः उदयम् अभिप्रेतार्थावधारणमात्रावधानरूप- स्वरूपप्रथनं विधाय, - इत्युपमानवाक्यम् । इदमत्र तात्पर्यम् - यो यः कश्चित् संसारी यमेवार्थं द्रष्टुमुत्पन्नेच्छो भवति, स तद्दिदृक्षावस्थायां झगित्यवश एव परमात्मानं धातारमभेदेन आविशति, सा अवस्था अस्य प्रार्थना - इत्युपचरिता, तत्पूर्वकतया अभीष्टार्थप्राप्तेः । (प्. १००) स तया अभ्यर्थितो धाता तावन्मात्रार्थप्रथनाय अवधानात्मना चक्षुषोः स्वरूपव्यक्तिलक्षणमुदयं कृत्वा, संनिहितेष्वपि अन्येषु बहुषु दृश्येषु यद्दिदृक्षयैव अभ्यर्थितः तमेवार्थं प्रदर्शयति, नान्यत् । चक्षुषोरुदयं कृत्वा - इति उपलक्षणमात्रमेतत् मन्तव्यम् । तेन शुश्रूषाभ्यर्थितः श्रवणयोरुदयं कृत्वा श्रव्यान्तरसंनिधावपि शुश्रूषितमेव अर्थं श्रावयति धाता देहिनः, - इति सर्वेन्द्रियेष्वपि योज्यम् । चक्षुषोश्च सोमसूर्यशब्देन प्रतिपादनेन विश्वरूपात् धातुर्जीवस्य वास्तवाभेदप्रतिपादनप्रयोजनम् । उपलक्षणार्थं च वृत्तिकृतैव व्याख्यातम् चक्षुरादिष्ववधानेन इत्यत्रादिग्रहणात् । इत्थं सर्वजीवानां सर्वार्थप्रथनमिच्छापूर्वकं भवति, सा च इच्छावस्था संसारिणः परमकारणाभेदरूपा, - इति परमेश्वर एव स्वतन्त्रो यथेष्टमिदमखिलं प्रकाशयति (प्. १०१) इति परमार्थं तदीयमायाशक्तिजनितदेहादिव्यवच्छेदाः संसारिणो न प्रपद्यन्ते । यस्तु प्रबुद्ध उक्तोपदेशाभ्यासप्रकर्षकषणपाषाणानिशिती- कृतप्रज्ञाकृपाणीनिकृत्तकल्पकायाद्यहंकारकर्कशग्रन्थिरुदित- निरावरणसत्यात्मसंवित्स एव संस्मर्यमाणः तं प्रत्यभिज्ञातुमलम्, - इति सिद्धाव्यतिरेकसमाधियोगिनं प्रति इदमुपमेयवाक्येनोपदिश्यते । यथा वा तैरेव प्रतिपादितयुक्त्या इच्छाभ्यर्थितः सन् सर्वार्थान् प्रथयति; तथैव तेन प्रकारेण नित्यं सर्वदा सर्वासु ज्ञातृज्ञेयसंबन्धदशासु प्रणयस्य इच्छावस्थायां तादात्म्यप्रतिपत्तिरूपायाः प्रार्थनायाः अनतिक्रमात् अनुल्लङ्घनात् प्रत्यवमर्शावहितत्वेन अनुपेक्षणात् स्वप्नेऽपि स्वव्यापारोपरतचक्षुरादौ मनोमात्रग्राह्यस्वसृष्टिविषयायां स्वापावस्थायां यावद् अभीष्टान् साधकाभिमतानेव अर्थान् स्फुटतरम् (प्. १०२) अतिप्रकटं कृत्वा मध्ये स्थितो हृदये सदासीनो ऽवश्यं नियमेन असौ धाता प्रकाशयेत् प्रथयेत् - इति तथेत्यादेरुपमेयवाक्यस्यार्थः । तात्पर्यं पुनरिदं - यः सर्वदा सर्वानुभवेषु, धातुः सर्वेश्वरस्य स्वस्वभावस्य तल्लीनत्वलक्षणं प्रणयं स्वसामर्थ्यसिद्धं प्रतिक्षणप्रत्यवमर्शावहितत्वात् नातिक्रामति, तस्यासौ धाता जागरवत् स्वप्नेऽपि अभिमतानेवार्थान् प्रकाशयति, न तस्य स्वप्नपदार्थाः स्वातन्त्र्येण प्रवर्तमानाः सर्वकर्तृत्वलक्षणस्वशक्तिप्रतिबन्धमुद्भावयन्ति असंसारित्वात्; किंतु स्वतन्त्रः स्वशक्त्या यथेष्टं तान् सृजति । यथाह भर्तृहरिः प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् । सर्वेश्वरः सर्वशक्तिः स्वप्ने भोक्ता प्रपद्यते ।। इति । अत एव स्वप्नस्वातन्त्र्यमेतत् - इत्युक्तम् । तस्य स्वप्नजागरयोर्विशेषो नास्ति, - इति तमोवरणनिर्भेदः स एवोक्तः । देहाद्यहन्ताजनितोऽनवच्छिन्नस्वमाहात्म्यनिरोधः (प्. १०३) तमः, तेन वरणं स्थगनं स्वभावतिरोधानं, तस्य निर्भेदोऽनन्तनिजवैभवाभिव्यक्तिवशात् विनाशः, स हि तस्यामवस्थायामाविर्भवति । व्याख्यातमेतत् वृत्तौ पृथक् पृथक् यथा अस्य अनभिव्यक्तस्वस्वरूपस्य इत्यादिना । तथा स्वप्नेऽप्यभीष्टार्थानेव पश्यति इत्यादिना ग्रन्थेन ।। ३ ।। ४ ।। अथ एवंविधसमाधिव्युत्थानमात्रात् संसारिसमानतां योगिनः प्रतिपादयन्, नित्ययुक्ततां द्रढयितुमाह अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः । सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ।। ४/५ (३५) ।। वृति: अन्यथा तु स्वरूपस्थित्यभावे स्वतन्त्रा स्यात् स्वप्ने आलबिडालदर्शनरूपा (ख्, ग्: आडबिड) सृष्टिः, यस्मात् तत्तत्त्वं सृष्टिस्वभावं प्रसवधर्मत्वात्; यथा सततं (क्, ख्: यया सततम्) सर्वस्य (प्. ३०) लोकस्य जाग्रद्वृत्तौ स्वप्नावस्थायां च संबन्धासंबन्धविकल्पाः (घ्: स्वप्नावस्थायां च संबद्धा विकल्पा इति पाठान्तरं च संदृश्यते ।) टिप्पणी: ज्ञानज्ञेयभावेन विजृम्भमाणे पदद्वयात्मनि शाक्तप्रसरे स्वसंवित्समाधाननिविडपरिशीलनानपायात् नित्ययुक्तस्य सृष्टिस्वभावमुक्तपदद्वयं शक्तिप्रतिबन्धं विधातुं नैव प्रभु, अन्यथावर्तमानस्तु लोकवत् स्वयैव भावसृष्ट्या परवशीक्रियते * * * *?हितेन भाव्यमित्यर्थः ।। ३५ ।। विवृति: अन्यथा तु उक्तात्प्रकारात् अन्येन प्रकारेण, सर्वकर्तुः स्वतन्त्रस्य परमेश्वरस्य एकस्य ममैवेदं (प्. १०४) जगत्कार्यम् - इति प्रतिपत्त्यभावरूपेण वर्तमानस्य योगिनो जाग्रत्स्वप्नपदद्वये जागरस्वापदशयोः तद्धर्मकत्वतः सर्गगुणात्मकत्वात् सृष्टिः नानाभावनिर्मितिः सततम् आत्मतत्त्वसंविदपायाद् [- संविदुदयात्] स्वतन्त्रा स्यात् वास्तवेन स्वतन्त्रस्वात्ममात्रकर्तृत्वेन अपरामृश्यमाना सती, विचित्रविभ्रमदानस्वच्छन्दा दुर्निवारतादृक्सामर्थ्यप्रसरा भवेत् । कस्येव ? - लौकिकस्येव संसारिणो लोकस्य यथा । इदमत्र तात्पर्यम् - जागरास्वप्नलक्षणं पदद्वयं सर्गस्वभावं, तत्र हि ज्ञानज्ञेयभावेन पारमेश्वर्याः शक्तेः स्थितिः प्रतिपादिता, तादृशि अस्मिन् द्वयात्मके पदद्वये यो योगी यथोक्तसंवित्तिसमाधानापरित्यागात् अप्युत्थितः स्यात्, तस्य सर्वथा स्वतन्त्रे सर्वकर्तरि स्वात्मनि सुव्यवस्थितस्य (प्. १०५) सृष्टिस्वभावं तत्पदद्वयं शक्तिप्रतिबन्धाय न प्रभवति; यस्तु अतोऽन्यथा स्यात् स लोकवन्निजयैव भावसृष्ट्या परवशीक्रियते - इति नित्ययुक्तेन योगिना भाव्यमित्यर्थः । तदेतत् अन्यथा स्वरूपस्थित्यभावे इत्यादिना व्याख्यातमेतद्वृत्तौ ।। ५ ।। इदानीमतीतानागतव्यवहितविप्रकृष्टादिवस्तुविज्ञानमनयैव संविदा सुलभम्, - इति युगलकेनाह यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ।। ४/६ (३६) ।। वृति: यथा किल दूरस्थितः कश्चिदर्थः पुरुषेण पूर्वं सावधानेनापि न लक्ष्यते स एव स्फुटरो भवति, प्रयत्नविशेषेण निरूप्यमाणस्तत्रैव स्थितस्य ।। ३६ ।। टिप्पणी: दिदृक्षोश्चक्षुविस्फारणमात्रोपक्रमे विषयस्यास्फुटतयोपलम् -भात् क्षणान्तरे स्फुटतरप्रकाशः, यस्माद्द्रष्टुर्दर्शनविषये -ऽतिरिक्तदर्शनसाधनं नैव किमपि आह्रियते वास्तवस्वभावानु -प्रवेशमन्तरेण, तदनाक्रमणादेव यथात्म्यप्रथोपपत्तेः इत्येवमर्थप्रथा सर्वसाधारणापि केवलं योगिन एवोक्तबल -प्रत्यवमर्शप्रकाशिनी, नान्यस्य मायातिमिरान्धस्येति ।। ३६ ।। तथा यत्परमार्थेन यदा यत्र यथा स्थितम्* । तत्तथा बलमाक्रम्य न चिरात्संप्रवर्तते ।। ४/७ (३७) ।। (* विवृति: एवं यत्परमार्थेन यत्र येन यथा स्थितम्) वृति: (प्. ३१) तथा तेनैव प्रयत्नविशेषेण यत् वस्तु येन रूपेण (क्, ख्: स्वेन रूपेण) यदा यस्मिन् काले, यत्र देशे, यथा येनाकारेण संस्थितं, तत् वस्तु तथा स्वबलं स्वस्वरूपमाश्रितस्याचिरेणैव कालेन प्रतिभाति निरावरणस्वरूपत्वात् तेनातीतानागतं ज्ञानं परिमितविषयं न किंचिदाश्चर्यम् ।। ३७ ।। टिप्पणी: एवमुक्तबलाधिष्ठानादेव तत्तदवस्थाकारदेशकालाद्यविसं -वादितया अतीतादिव्यवहितविप्रकृष्टवस्तूनां विज्ञानं सुलभ -मेवेति पूर्व श्लोकदृष्टान्तद्वारोपोद्बलितमिति भावः ।। ३७ ।। विवृति: (प्. १०६) यथा हि कस्यचित् सावधाने तदर्थदिदृक्षानिविडप्रयत्नेऽपि चेतसि सति, झगिति दृष्टमात्रो ऽर्थः अस्फुटः अप्रकटो भाति प्रथते, भूयो ऽनन्तरं स्वबलोद्योगभावितः स्वस्यात्मनः सर्वज्ञस्य बलं सामर्थ्यं ज्ञत्वादिलक्षणा शक्तिः तया, उद्योगः उद्यमो निविडतरावधानतया दर्शनोत्साहः, तेन भावितो लक्षितः सन् स्फुटतरो भाति प्रत्यभिज्ञायमाननिरवशेषविशेषः सोऽयम् इति प्रथते, - इत्युपमानवाक्यम् । अस्येदं तात्पर्यं - यस्य कस्यचित् द्रष्टुमभीष्टोऽर्थो झगिति विस्फारितमात्रचक्षुषो न सम्यक् दृश्यतामापद्यते, पुनः क्षणान्तरे तद्देशगतस्यैव तथैव न्यक्षनिक्षिप्ताक्षस्य स्फुटतरः प्रकाशते, तत्र को हेतुः ? - न हि तेन द्रष्टृव्यतिरिक्तं विशेषदर्शनसाधनं किंचिदाह्रियते, तेन तात्त्विकस्वभावानुप्रवेश (प्. १०७) एव तस्य संजायते, यद्बलस्पर्शात् तस्य सोऽर्थो याथात्म्येन प्रथते-; ततः स्वबलोद्योगमात्रं सर्वार्थप्रकाशनसाधनं सर्वदेहिनां, नान्यत्किंचित् । एवंविधार्थप्रकाशनं सर्वप्राणिसाधारणमपि प्रबुद्धस्य योगिन एव प्रत्यवमृश्यमानं सत् तथा प्रकाशते, नान्यस्य मायातिमिरतिरस्कृतसम्यग्दर्शनस्य, - इति योगी एव अनेन उपदेशेन स्मार्यते एवम् इत्याद्युपमेयवाक्योक्तेन । यथा हि अस्फुटदृष्टोऽर्थः स्वबलमेवाक्रम्य स्फुटतरं प्रकाशते, एवम् अनेनैव उपमानवाक्योक्तेन प्रकारेण बलं स्वस्वभावसामर्थ्यम् आक्रम्य दिदृक्षाक्षणे तत् अभेदेन अधिष्ठाय, वर्तमानस्य योगिनः तथा तेनैव तत्तदवस्थाकारदेशकालाद्यविसंवादिना प्रकारेण संप्रवर्तते सम्यगभिव्यक्तिमेति सम्यक् (प्. १०८) ज्ञेयतया अभिमुखीभवति । किं तद्वस्तु ? - परमार्थेन तत्त्वतो यत् वस्तु गवादि यथा येन अवस्थात्मना प्रकारेण येन यादृशेन विशिष्टसास्नादिमता आकारेण यत्र यस्मिन् व्यवहितविप्रकृष्टादौ देशे, भूतादौ वा काले स्थितं तत्तथा संप्रवर्तत - इति । अयमत्र भावार्थः - अस्फुटेऽर्थे दृष्टे तस्य स्फुटतरावभासाय सर्वज्ञस्वस्वभावाभेदो यः सर्वस्य कस्यचित् अप्रयत्नेन उत्पद्यते, प्रबुद्धः तत्परामर्शाभ्यासात् देशकालादिव्यवहितानपि यथाभिमतानर्थान् तत्त्वतो जानाति - इत्यबाधितायां युक्तौ स्थितायां सर्वज्ञत्वादिगुणाभिव्यक्तौ अयमेव हेतुः । अत एवोक्तम् परिमितविषयमतीतानागतज्ञानं न किंचिदाश्चर्यं निरावरणस्वस्वभावत्वात् इति । तस्यां हि दशायां देशकालाद्यनिरुद्धं स्वस्वभावबलमभिव्यज्यते । (प्. १०९) अस्फुटोऽर्थो दृष्टः इत्युपलक्षणार्थमेतन्मन्तव्यम्, तेन श्रुतादिष्वेवमेव योज्यम् । एतेन च दृश्यादेरर्थस्य स्फुटतरदर्शनाद्यर्थं प्रयत्नविशेषावस्थायां संपाद्यमानेन प्रतिष्ठितस्पन्दानुप्रवेशेन सर्वबुद्ध्यक्षव्यापारात्मकजाग्रदवस्थाश्रयः परतत्त्वोपलब्ध्युपायः प्रसङ्गात् प्रतिपादितो वेदितव्यः व्याख्यातमेतद्वृत्तिकृता श्लोकद्वयं पृथक् पृथक् यथा किल दुरस्थित इत्यादिना, तथा तेनैव प्रयत्नविशेषेण इत्यादिना ग्रन्थेन ।। ६ ।। ७ ।। अथैतयैव युक्त्या क्षुत्तृष्णादिजयं प्रतिपादयितुमाह दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ।। ४/८ (३८) ।। वृति: क्षीणधातुरपि तद्वलमुत्साहलक्षणमाक्रम्य यतः कार्ये प्रवर्तते, यथा च कश्चित् (ख्: तथा च कश्चिद्) अशक्तोऽपि व्यायामाभ्यासेन महतीं शक्तिं प्राप्नोति उद्योगबलेन, तथानेन स्वभावानुशीलनेन बुभुक्षामपि आच्छादयति योऽतिबुभुक्षितः स्यात्, यतः सर्वत्रैवात्मस्वरूपस्य (प्. ३२) कार्यकारणसंपादनसामर्थ्यमविलम्बम् ।। ३८ ।। टिप्पणी: बुभुक्षानिवृत्त्याद्यपि नित्यतृप्ताकृतकस्वबलप्रथनादेव सिध्यति इत्याद्युपलक्षितोऽन्यः सिद्धिप्रपञ्चोऽपि प्रोक्ततत्त्वासादनादेव प्रोन्मील्यते ।। ३८ ।। विवृति: यतो यस्माद्धेतोर्बलं सर्वकर्तृत्वस्वातन्त्र्यलक्षणं (प्. ११०) सामर्थ्यमात्मीयमाक्रम्य, पूर्वोक्तया युक्त्या तत्राव्यतिरेकेण स्थित्वा दुर्बलोऽपि अपचितदेहधातुत्वात् असमर्थोऽपि सन्, कश्चित् कार्ये भारोद्वहनादिव्यापारे प्रवर्तते क्रियाप्रधानो भवति, - एतत् दृष्टान्तवाक्यम् । अस्येदं तात्पर्यम् - यः परिकृशकायत्वात् अशक्त एव संध्यादिव्यापारमारभमाणः, अभ्यासबलात् विषयान्तरे बलवत्तरेणाप्यशक्यं व्यायामादिकर्म कर्तुं प्रभवति, तस्य तथा सामर्थ्योत्पत्तौ प्राक् प्रतिपादितयुक्त्या स्वस्वभावबलाक्रमणमेकं वर्जयित्वा नान्यत्किंचिन्निमित्तम् । तत्तु यथेष्टसर्वकर्तृत्वलक्षणं बलमात्मतत्त्वस्य, मायीयः कर्ता मायाप्रतिवद्धशक्तित्वात् नियतकारणान्तरापेक्षनियतकार्यसंपादनसामर्थ्यं मन्यते । सोऽपीदमहं कर्तुं शक्नोमि - इत्यविकलोत्साहदशायां तदेव बलमवलम्बमानः तत्कार्यसंपादनक्षमो भवति, - इति युक्तिर्योगिन एव प्रतिपत्तिगोचरीभवति - इति, तामेतां दृष्टान्तीकृत्य (प्. १११) तं प्रत्येव इदं दार्ष्टान्तिकवाक्येन उपदिश्यते, - यथा दुर्बलोऽपि बलवत्संपाद्यकार्यसंपादनसमर्थः स्वस्वभावबलाक्रमणादेव भवति, तथा तेनैव प्रकारेण सर्वकार्यसंपादनस्वतन्त्रं स्वबलमाक्रम्य तत् स्वशक्तितया अधिष्ठाय योऽतिबुभुक्षितः अत्यर्थं भोजनेच्छाविष्टः, स तां बुभुक्षाम् आच्छादयेत् स्थगयेत् न्यक्कुर्यात्, नित्यतृप्ताकृतकस्वरूपसामर्थ्यप्रथनात् अन्नाद्यभ्यवहारकारणमेव क्षुन्निवृत्त्यादिकार्यम्, - इति नियतिशक्तिप्रतिबन्धविदलने सति अत्यन्तं तां तिरोभावयेत्, नित्यतृप्त एव स्यादित्यर्थः । दुर्बलः क्षीणधातुरपि इत्यादिना व्याख्यातमेतद्वृत्तौ ।। ८ ।। एवं पृथक् सर्वज्ञत्वसर्वकर्तृत्वादिगुणव्यक्त्युपायोपपत्तीः प्रतिपाद्य पुनरेकोपपत्तिनिदर्शनेन ताः प्रतिपादयितुमाह अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ।। ४/९ (३९) ।। वृति: अनेनात्मस्वभावेन अधिष्ठिते व्याप्ते शरीरे सर्वजञतादयो यस्मात्, तत्र स्वल्पयूकाभक्षणमपि क्षिप्रमेव जानाति, तथा स्वात्मन्यवहितस्य सर्वत्र सर्वज्ञता भविष्यति ।। ३९ ।। टिप्पणी: कल्पिताहंभावप्रत्ययप्रतिबन्धभङ्गात् चिन्मात्रात्मनि प्रप्रमातरि पूर्णाहंभाववतां निष्प्रत्यूहं सर्वविषयाः पूर्णज्ञातृत्वादयो गुणा अभिव्यज्यन्ते । अत्र च सर्वकर्तृत्वसर्व - ज्ञत्वादिगुणानां व्यक्त्युपायः सनिदर्शनं प्रतिपाद्यते इति ।। ३९ ।। विवृति: (प्. ११२) अनेन आत्मना चेतयित्रा अधिष्ठिते अहमिति प्रतिपत्त्या अध्यासिते देहे शरीरे सर्वज्ञतादयः शरीराश्रयाणि सर्वाणि ज्ञेयानि कार्याणि च, तेषु ज्ञता ज्ञातृत्वमादिर्येषां तान्येव कर्तृत्वादयो धर्माः यथा सर्वस्य स्थिता - इति दृष्टान्तवाक्यम् । अस्येदं तात्पर्यम् - यद्यदयमात्मा अहमिति - प्रतिपत्त्या अधितिष्ठति तत्तदस्य शरीरम्, तदाश्रयं च सर्वमयं स्थूलं सूक्ष्मं वा ज्ञेयं कार्यं च जानाति च करोति च - इत्यनेन निदर्शनेन तथैव तेनैव प्रकारेण अहंतया देहाधिष्ठानवत् स्वात्मनि स्वस्वभावे न दुःखं न सुखं यत्र इत्यादिनोक्तलक्षणे देहादिव्यतिरिक्तविशुद्धाद्वयचिन्मात्रवपुषि अधिष्ठानात् अहंतया अध्यासनात्, एवं शरीराश्रयसमस्तज्ञेयकार्यवस्तु (प्. ११३) ज्ञातृत्वादिवत् सर्वत्र सकलेष्वपि भुवनेषु, योगिनः सर्वज्ञतादयो भविष्यन्ति अवश्यमभिव्यक्तिं यास्यन्ति; परस्परव्यतिरिक्त - देहमात्राहंभावलक्षण - प्रतिबन्धभङ्गाद् अद्वयचिन्मात्रस्वात्मप्रतिष्ठिताहंकारस्य योगिनो निर्विघ्नाः सर्वज्ञतादयः सर्वत्र अभिव्यज्यन्त एव इत्यर्थः । अनेन आत्मस्वभावेन इत्यादिना व्याख्यातमेतत् वृत्तौ ।। ९ ।। एवं व्याधिवलीपलिताद्युच्छेदाय उपपत्तिमाह ग्लानिर्विलुम्पिका* (क्: विलुण्ठिका) देहे तस्याश्चाज्ञानतः सृतिः । तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका ।। ४/१० (४०) ।। (* विवृति: ग्लानिर्विलुण्ठिका) वृति: (प्. ३३) ग्लानिः किल शरीरस्य विनाशिनी, सा च ग्लानिरज्ञानादुत् - पद्यते, तदज्ञानम् उन्मेषेणात्मस्वभावेन यदि नित्योज्झितं (यदि पदं; घ्: पुस्तकाश्रयेणोपन्यस्तम् ।) तदा सा कुतः, कारणरहिता भवेत्; अनेनैव कारणेन वलीपलिताभावः शरीरदार्ढ्यं च योगिनाम् ।। ४० ।। टिप्पणी: अज्ञानेनैव पारमार्थिकस्वभावाख्यातेः शरीरोपचयापच - यादिविकारास्तद्रहितचिदानन्दघनतत्त्वप्रत्यभिज्ञानात् पुनर्ग्लान्यादेरभावः इति तत्त्वप्रत्यभिज्ञानमेव व्याधिवलीपलितादेरुच्छेदोपायः ।। ४० ।। विवृति: ग्लानिः मान्द्यादिजनिता हर्षहानिः, सा देहे शरीरे विलुण्ठिका धातुबलवर्णतेजःशक्त्यादीनां हठेन हर्त्री; तस्याश्चाज्ञानतः प्रतिपादिततत्त्वावगमाभावात् (प्. ११४) सृतिः सरणं प्रवृत्तिः; तत् अज्ञानम् उन्मेषविलुप्तं चेत् उन्मेषेण वक्ष्यमाणेन स्वभावालोकविकासेन, विलुप्तं विच्छिन्नं निर्मूलतां नीतं यदि, तदा असौ ग्लानिः अहेतुका कारणरहिता कुतो भवेत् न भवेदेव, निर्निमित्तस्य उत्पादाभावात्; अज्ञानं नाम जन्म - परिणाम - विवृद्धि - क्षय - विनाशात्मक - विकारविरहितनित्यनिर्विकारस्वस्वभावाप्रत्यभिज्ञानात् जन्मादिविकाराधिकरणे कलेवरादौ आत्माभिमानः, यस्मिंश्च सति अप्रबुद्धो जनः तद्विकारान् जन्मादीन् आत्मनि आरोपयन् ग्लान्या विलुण्ठ्यते । यस्तु वक्ष्यमाणोन्मेषपरिशीलनाद् आविर्भूतसत्यात्मप्रत्ययः तस्य कुतः ग्लानिः, - इति मुख्यं फलं सहजानन्दहानिरूपाया (प्. ११५) ग्लानेरभावः; गौणस्तु वलीपलिताद्यभावः, यतः तदा कुतः सा ग्लानिः कारणरहिता भवेत्, - इति व्याख्याय पुनर्वृत्तिकृता व्याख्यातम् अनेनैव कारणेन वलीपलिताभावः शरीरदार्ढ्यं च योगिनाम् इति ।। १० ।। अथ उन्मेषस्य ग्लानिकारणभूताज्ञानविनाशहेतोः स्वरूपप्रतिपादनाय आह एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ।। ४/११ (४१) ।। वृति: एकत्र विषये व्यापृतचित्तस्य यतो यस्मात् स्वभावात् झगि [टि] त्यन्या चिन्तोपद्यते, स चिन्तायाः कारणं उन्मेषो ज्ञातव्यः, स तु स्वयमेव योगिना लक्षणीयः, चिन्ताद्वयान्तर्व्यापकतयानुभूय - मानः (क्: द्वयान्ते व्यापक) ।। टिप्पणी: अनुसंधातव्यवस्तुद्वयव्यापिनो विशुद्धचिन्मात्रस्य सर्वकारणस्यात्मन उन्मेषशब्देन व्यपदेश्यत्वात् तत्परिशीलना - वधानादिकमेव उक्ताज्ञानविजाशीत्यर्थः ।। ४१ ।। विवृति: (प्. ११५) स तु स पुनरुन्मेषः स्वस्वभावाभासविकासो विज्ञेयो बोद्धव्यो लक्षणीयः । कोऽसौ ? - एकचिन्ताप्रसक्तस्य एकस्यां चिन्तायां दृश्यमान - स्मर्यमाणतत्तद्वस्तूपरक्ते ज्ञाने प्रसक्तस्य, एकाग्रस्य चिन्तयितुः यतो यस्मात् चिन्त्याभासानुपरक्तज्ञानात्मनः स्वस्वभावप्रकाशात् कारणभूतात् (प्. ११६) अपरस्याः चिन्तायाः ग्राह्यालम्बिनो ज्ञानान्तरस्य उदयः उत्पत्तिः स्यात् । तं च योगी स्वयं आत्मनैव उपलक्षयेत् - परमार्थ - परमेश्वरः सर्वतो विविक्तः परमकारणं परमात्मा अयमहमस्मि - इति प्रतिपद्येत । नहि तस्य शब्दादिवत् इदन्तया स्वरूपमुपलक्षयितुं शक्यं, - स्वसंवेदनसंविदितस्वभावत्वात् । तस्यैवंविधस्य नित्योदितस्यापि उपदेश्यं प्रति तदानीमेव अभिव्यज्यमानत्वात् उन्मेषशब्देन व्यपदेशः कृतः । यस्त्वेवं मन्यते - यस्यां चिन्तायां सत्याम् अपरचिन्तोदयः सा चिन्तैव चिन्तान्तरकारणं नान्तरालवर्ति वस्त्वन्तरं विद्यते, यच्चिन्ताद्वयस्वरूपव्यतिरेकेण उपलक्षणीयात्मकं द्वितीयचिन्ताकारणं स्यात् - इति, तं प्रति कारणभावेन कार्यभावेन च अभिमतस्य पूर्वापरीभूतस्य चिन्ताद्वयस्य एष संबन्धो न सिद्ध्यति, अनुसंधातारं तृतीयं विना । पूर्वं कारणम् (प्. ११७) अपरा च कार्यभूता चिन्ता, - इति योऽनुसंधत्ते, यश्चासौ अनपह्नवनीयोऽनुसंधाता सोऽनुसंधेयचिन्ताद्वयव्यापकविशुद्धचिन्मात्रस्वरूपः सर्वकारणमात्मैवोन्मेष इत्युक्तः । अत एव वृत्तिकृता व्याख्यातम् चिन्ताद्वयान्ते व्यापकतया अनुभूयमानः इत्यादिना ।। ११ ।। इदानीं तत्तत्साधनविशेषाभिनिविष्टानां योगिनां प्रायेण याः प्राप्यफलतया अभीष्टाः सिद्धयः ता एतदुपासायोगिनो विघ्नपरम्परा एव, इत्युन्मेषाभ्यासप्रभावं प्रतिपादयितुमाह प्. ३४) अतो बिन्दुरतो नादो रूपमस्मादतो रसः । प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ।। ४/१२ (४२) ।। वृति: अतः, अस्मादुन्मेषादनुशील्यमानात् बिन्दुः तेजोरूपः, नादः प्रणवाख्यः शब्दः, रूपमन्धकारे दर्शनं (ग्: प्राणाख्य इति पाठः, अन्धकारे दर्शनमितिवाक्यं तु; घ्: एव संदृष्टमुपन्यस्तम् ।), रसः अमृतास्वादो मुखे, एते क्षोभकत्वेन प्रवर्तन्ते आचिरेण कालेन ।। ४२ ।। टिप्पणी: धरातत्त्ववध्यायिनां भ्रूमध्यादिप्रदेशे प्रथमानस्तेजो -विशेषो बिन्दुः । व्योमधारणाभ्यासवतां स्वयमुच्चरितो ध्वनिविशेषो नादः । तेजोधारणाभ्यासिनामन्धतमसेऽपि दृश्यवस्तुदर्शनं रूपम् । रसवद्वस्तुराहित्येऽपि तदास्वादो रसोऽप्तत्त्वध्यायिगम्यः इत्येतत्सर्वमुन्मेषाभ्यासिनो विघ्नरूपं सिद्धिजातं समुल्लसतीत्यर्थः ।। ४२ ।। विवृति: अतः अस्मात् प्रतिपादितस्वरूपात् उन्मेषात्, जागराद्यवस्थागतसुखदुःखाद्यनुभवदशासु अविलुप्तेन अवधानेन, प्रतिक्षणविनश्वरविचित्रपरतन्त्रतुच्छरूपात् वेद्यवस्तुनो वैधर्म्येण भाव्यमानात् सर्वकारणभूतात् अचिरेण अल्पेन कालेन, एतानि सिद्धचिह्नानि, क्षोभकत्वेन संतोष- स्मयाभिमानादिभिः चित्तव्युत्थापकत्वेन देहिनो नितरामनुन्मूलितदेहाद्यहंप्रत्ययस्य योगिनः प्रवर्तन्ते प्रादुर्भवन्ति । कानि तानि ? - बिन्दुः भ्रूमध्यादौ प्रदेशे ध्यानाभ्यासप्रकर्षप्रवर्धमानोत्तरोत्तरप्रसादस्तेजो - विशेषो, यो बिन्दुभेदाभ्यासात् धरातत्त्वध्यायिनामभिव्यज्यते । तथा - नादो वेगवन्नद्योघनिर्घोषघनोपक्रमः क्रमसूक्ष्मीभावाभिव्यज्यमानमधुमत्तमधुकरध्वनितानु- कारी स्वोच्चरितो ध्वनिविशेषो, यं व्योमतत्त्वाभ्यासिनः शृण्वन्ति । तथा - रूपं सन्तमसाद्यावरणेऽपि सति तत्तद् - दृश्यवस्त्वाकारदर्शनं, यत् तेजस्तत्त्वन्यक्षनिक्षिप्तमतयो (प्. ११९) निरीक्षन्ते । तथा - रसो रसवद्वस्तु - विरहेऽपि अमृतास्वादो मुखे, लोलाग्रलम्बिकादिधारणानिरतैः अप्तत्त्वध्यायिभिर्य उपलभ्यते; पवनतत्त्वध्यायिनां स्पर्शविशेषोऽपि योऽभिव्यज्यते सोऽपि अस्मात् प्रवर्तत, - इति अत्र द्रष्टव्यम् । इदमत्र तात्पर्यम् - उन्मेषाभ्यासयोगिना तत्तद्धारणाद्यभ्यासचिरलभ्यास्वपि अचिरप्राप्यासु एतासु उपलब्धिषु संतोषिणा न भाव्यम्, - निरुत्तरपदारोहप्रत्यूहभूतत्वादासाम् । एताश्चेतरयोगिनां क्रमभाविन्योऽपि उन्मेषाभ्यासयोगिनां तदभिसंधिविरहात् अक्रमेणापि प्रवर्तन्ते इति तथैव निर्दिष्टाः । व्याख्यातमेतत् अतोऽस्मात् उन्मेषात् इत्यादिना वृत्तौ ।। १२ ।। (प्. १२०) एवम् उन्मेषोपदेशेन आत्मनो देहादिवेद्यव्यतिरिक्तस्वरूपतां प्राक् बहुभिः प्रकारैः प्रतिपादितां संग्रहेण प्रतिपाद्य, इदानीं तथैव तस्य सकललोकस्वानुभवसिद्धं व्यवहारं प्रदर्शनीकृत्य विश्वरूपतां संक्षेपतः प्रतिपादयन् समस्तप्रकरणार्थतात्पर्यमाह दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते । तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते (ख्, ग्: स्वयमेवावगंस्यति) ।। ४/१२० (४३) ।। वृति: दिदृक्षा द्रष्टुमिच्छा, तदवस्थास्थ इव सर्वान् (प्. ३५) भावान् यदा व्याप्यावतिष्ठते, तदा किं बहुना उक्तेन, स्वयमेव तत्त्वस्वभावमवभोत्स्यते (क्: तत्त्वस्वभावोऽवगम्यते इति; ग्: स्वभावमवगच्छतीति; घ्: स्वभावोऽवगंस्यते) ज्ञास्यति ।। ४३ ।। टिप्पणी: यथा क्षेत्रज्ञानां स्वसंविदो दिदृक्षित -भावानां दर्शने -च्छायामभेदः तथैव विश्वगतभावा -नां परमात्मतत्त्वा -दव्यतिरेक इति संवित्तत्त्वान्तर्लीनान् भावात् विधाय प्रोक्तपरतत्त्वपरामर्शा -भ्यासात् साधनान्तरनिरपे -क्षं तद्दशाफलं केवलं योगिन एव स्वसंवेद्यं, विकल्पतिमिरोपहतचक्षुषस्तु पाशवसृष्टौ स्वाभेदमपि वस्तु पराम्रष्टुमक्षमता कुतो नु जगद्भावाभेदपरामर्श -प्रतिपदिति योग्येव एतत्प्रज्ञापात्रम् ।। ४३ ।। विवृति: (प्. १२०) यदा यस्मिन् काले, साधको दिदृक्षयेव द्रष्टुमिच्छया यथा सर्वार्थान् अखिलान् प्रमेयपदवीजुषो भावान् व्याप्य स्वसंवित्प्रकाशेन आच्छाद्य, तदन्तर्लीनान् कृत्वा अवतिष्ठते नानात्वदर्शनभ्रान्तिनिवृत्तेरेकत्र तत्त्वे विश्राम्यति; तदा तस्यां दशायां यत्फलमनुभूयते तत्र बहुना भूयसा उक्तेन फलाभिधानेन किं ? (प्. १२१) तत्प्रतिपादनेच्छया ग्रन्थसहस्राण्यपि उक्तानि निरर्थकानि भवन्ति, तस्य वचनगोचरातीतत्वात्, अत आह स्वयं तदवभोत्स्यते इति, तत् तादृशं फलं, स्वयमात्मनैव, व्यतिरिक्तसाधननिरपेक्षेण प्रतिपत्स्यते अभियुक्तः, स्वसंवेद्यत्वात् तस्य । इदमत्र तात्पर्यम्, - योगिना सर्वभावानां स्वस्वभावाव्यतिरेकजिज्ञासुना स्वानुभूतादिदृक्षावस्था निदर्शनीकार्या, तथा हि - द्रष्टुमभीष्टा भावाः स्वस्वभावाभेदेन व्यवतिष्ठन्ते, भावभेदहेतोरिदन्ताप्रत्ययस्य अनुन्मेषात्, तदा यथा दिदृक्षावस्थायां क्षेत्रज्ञस्वभावादभेदः तद्दिदृक्षितानां भावानां, तथा परमात्मस्वभावात् अखिलजगद्भावानामभेद एव, - इति पूर्वोपदिष्टव्यतिरिक्तात्मस्वरूपोपलब्धिपरामर्शा- भ्यासात् उन्मिषितदिदृक्षाक्षणोपलक्षणक्षमविज्ञानचक्षुषं योगिनं प्रत्येव अयमुपदेशः; मायाशक्तिजनितेन हि विकल्पतिमिरेण तिरस्कृतसम्यग्ज्ञानदृश एकमेव निर्विभागचिन्मात्रस्वरूपमात्मतत्त्वं प्रमातृभेदेन प्रमेयभेदेन च नानारूपं पश्यन्तो दिदृक्षितदृश्यमानदृष्टाद्यवस्थाविभागं भावानां परिकल्प्य, दिदृक्षितानामपि तेषां जीवस्वभावादभेदं वस्तुसन्तमेव पराम्रष्टुमशक्ताः, कुतो जगद्भावानां परमात्मस्वभावानाम् अभेदं प्रतिपद्येरन्, तदा योगिनैव दृष्टान्तीकृतस्वदिदृक्षाक्षणपरामर्शदिशा स्वस्वभावाभेदमखिलभुवनभावाभासानां भावयता भेदध्वान्तनिर्भेदभासकरेण भवितव्यम् - । व्याख्यातमेतत् दिदृक्षा द्रष्टुमिच्छा तदवस्थास्थ इव इत्यादिना वृत्तौ ।। १३ ।। एनमेव उपदेशं द्रढयितुमाह प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोच्य गोचरम् । एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते ।। ४/१४ (४४) ।। वृति: प्रबुद्धोऽसंकुचितशक्तिः सर्वकालं तिष्ठेत्, ज्ञानेनालोच्य गोचरम् ज्ञेयं परिच्छिद्य, एवमेकत्र तत्त्वसद्भावे (घ्: तत्त्वस्वभावे इति पाठान्तरं च दृश्यते ।) विद्यात्मके आरोपयेत् सर्वम्, ततोऽन्येन वक्ष्यमाणेन कलासमूहेन न पीड्यते ।। ४४ ।। टिप्पणी: यत्किंचिद्वस्तु प्रमाणोपारोहक्रमेण परप्रमात्रावेशभाक् अन्यथा प्रकाशपदव्यामनारूढेर्वस्तुसत्तानुपपत्तेः, इत्येतत्संबन्धेऽवहिता उद्रिक्तायमानेनेव कलादिक्षित्यन्तेन वेद्याभिमानेन नैव खिद्यन्ते इत्युक्तोपदेशद्रढिमा समर्थ्यते ।। ४४ ।। विवृति: (प्. १२३) सर्वदा सर्वासु अनुभवदशासु प्रबुद्धस्तिष्ठेत् प्रतिपादितोपदेशाभ्यासपरत्वात् अनिमीलितसम्यग्ज्ञानदृष्टिः जाग्रदेव आसीत । कथं ? - ज्ञानेन संवेदनेन गोचरं विषयम् आलोच्य परिच्छेद्य, तथारूपतया निश्चित्य एकत्र ज्ञातरि स्वात्मनि सर्वं परिच्छेद्यम् आरोपयेत् अर्पयेत्, तदभिन्नतया प्रतिपद्येत इत्यर्थः । ततश्च सर्वभावानामेकप्रमातृस्वरूपाभेदप्रतिपत्तिरूपात् आरोपणात् अन्येन व्यतिरिक्ततया अवभासमानेन प्रमेयेण, वक्ष्यमाणेन कलाद्यात्मकेन भावजातेन न पीड्यते विनश्वरभावाहंभावप्रतिपत्त्यादिना पाशेन संसारचक्रे निबध्य न कदर्थ्यते । इदमत्र तात्पर्यम्, - यं (प्. १२४) यमर्थं रूपादिकं चक्षुरादिज्ञानेन प्रमाता आलोचयति निश्चिनोति, स स निश्चयावस्थायां प्रमातृरूपात् अभिन्न एव भवति; निश्चितत्वं हि नाम वस्तुनः प्रकाशमानत्वं, तच्च प्रकाशमानत्वादभिन्नमेव, नान्यद्भवितुमर्हति, प्रकाशव्यतिरिक्तरूपत्वे तस्य प्रकाशमानतानुपपत्तेः । एवं निश्चयावस्थायां प्रकाशमात्रस्वरूपप्रमात्रभेदः सर्वभावानां स्वभावसिद्धः, तत एवंविधो ग्राह्यग्रहीतृग्रहणसंबन्धः स्थितोऽपि अपरामृश्यमानो नानात्वमोहजालेन बध्नाति सर्वजन्तून्, अतः सर्वावस्थासु अविरतपरामर्शो भवेत्, येनैकप्रमातृपरमार्थत्वं जगद्भावानां प्रतिपन्नः सन् पुनः संसारी न स्यात् । तदेवं प्रबुद्धः सर्वदा तिष्ठेत् इत्युक्तम् । प्रबुद्धोऽसंकुचितशक्तिः इत्यादिना व्याख्यातमेतत् वृत्तौ ।। १४ ।। (प्. १२५) इदानीमेवं स्वयं संव्यवस्थितः स्वात्मैव परमेश्वरः एकः पदार्थः सन् निजयैव मायाशक्त्या प्रतिपशु भेदेन आत्मानमवभासयन् क्रीडति - इति तत्त्वतो द्वितीयपदार्थाभावमेव समर्थयमानः पशुस्वरूपप्रतिपादनद्वारेण शक्तिप्रसरक्रिडामेव अस्य प्रतिपादयितुमाह प्. ३६) शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः ।। ४/१५ (४५) ।। वृति: शब्दराशिरकारादिक्षकारान्तः, तत्समुद्भूतस्य कादिवर्गात्मकस्य ब्राह्म्यादिशक्तिसमूहस्य, भोग्यतां गतः पुरुषो, ब्राह्म्यादीनां कलाभिः ककाराद्यक्षरैर्विलुप्तविभवः स्वस्वभावात् प्रच्यावितः पशुरुच्यते ।। ४५ ।। टिप्पणी: भूचर्यादिशक्तिभिरनवरतं प्रदर्श्यमानभेदप्रथत्वात् पराधीनाखिलवृत्तिकोऽपहृतैश्वर्यः स्ववशीक्रियते इत्यर्थः ।। ४५ ।। विवृति: (प्. १२५) स इयता प्रबन्धेन प्रतिपादयितव्यस्वरूप आत्मैव ईश्वरो, वक्ष्यमाणेन हेतुना पराधीनसर्ववृत्तित्वेन अनवभासितात्मा पशुः तिर्यक्प्रायः स्मृतः अनादित्वात् संसारक्रीडाव्यवहारस्य सदा स्मर्यमाणत्वेन स्थितः । कीदृशः सन् ? - शब्दराशिसमुत्थस्य शक्तिवर्गस्य (प्. १२६) कलाविलुप्तविभवो भोग्यतां गतः सन् पारमेश्वर्याः शक्तेः वक्ष्यमाणवाग्रूपप्रसराभिप्रायेण आदि - क्षान्तवर्णसमुदायात्मिक(अ या) स्तद्विपरीतं .... .... .... .... .... .... .... [(१ fओओत्नोते) विपरीतम् इत्यतोऽनन्तरमस्य श्लोकस्यावशिष्टव्याख्याभागो यावत्समस्तमूलादर्शपुस्तकेषु विनष्टसत्तया त्रुटितोऽस्ति । अतः इदं व्याख्यानं पद्यार्थाभिज्ञानाय स्पन्दप्रदीपिकाग्रन्थात् प्रक्षिप्योपन्यस्यते - शब्दानां राशिः शब्दराशिः वर्णसमूहः, मातृका अकारादि क्षकारान्ता शब्दजननी वर्णात्मकत्वात् शब्दानाम्, तत्समुत्थस्य कादिवर्गात्मकस्य ब्राह्म्यादिशक्तिचक्रस्य कलाभिः ककाराद्यक्षरैः विलुप्तविभवः हृतमहाव्याप्तिः स्वस्वभावात्प्रच्यावितः अत एवास्य भोग्यतां गतः सन् पुरुषः पशुः उच्यते अज्ञत्वात् । उक्तं च ईश्वरप्रत्यभिज्ञायाम् स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः । मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः ।। इति । अन्यत्रापि भेदग्रन्थिविभङ्गे हि कर्मात्मैक्यं प्रपद्यते । सोऽविज्ञातः पशुः प्रोक्तो विज्ञातः पतिरेव सः ।। इति ।। १५ ।।] .... .... .... .... .... .... .... .... परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ।। ४/१६ (४६) ।। वृति: परामृतरसात् स्वरूपात् अपायः प्रच्युतिः तस्य यः प्रत्ययोद् - भवो विषयदर्शने स्मरणोदयो (ग्: विषयदर्शनस्मरणेति समस्तः पाठः ।) यतः, तेन पुरुषोऽस्वतन्त्रताम् असर्वगत्वं च प्राप्नोति, (प्. ३७) स च प्रत्ययः तन्मात्रगोचरो रूपाद्यभिलाषात्मकः ।। ४६ ।। टिप्पणी: सहजमलमूलकमेव पशोरस्वातन्त्र्यं तदधिकरणेन विशेषवृत्तिमायीयप्राकृतिकावरणेन अत्यन्ताश्यानदुर्भेद - सुदृढावरणप्रतिबन्धोऽनर्थरूपोऽनन्तप्रतान इति भावः ।। ४६ ।। विवृति: (प्. १२७) .... .... .... .... .... .... .... .... .... .... .... .... .... [(१ fओओत्नोते) परामृतेति अस्य पद्यस्यापि अस्वतन्त्र इत्यन्त आद्यव्याख्याभागः समस्तमूलादर्शपुस्तकेषु पूर्वपद्यव्याख्याभागवद्विनष्टसत्तया त्रुटितोऽस्ति । अतोऽस्य पद्यस्याप्यर्थज्ञापकं व्याख्यानं स्पन्दप्रदीपिकाग्रन्थादेव प्रक्षिप्य उपन्यस्यते - तस्य च पशोर्यः प्रत्ययोद्भवः श्रोत्रादिद्वारेण विषयदर्शने स्मरणादिज्ञानोत्पत्तिः, स एव परामृतरसात् स्वरूपोदयात् अपायः प्रच्युतिः यतः स पुमान् तेनास्वतन्त्रतां पारतन्त्र्यम् असर्वगतादिम् एति प्राप्नोति, स च प्रत्ययोद्भवः तन्मात्रगोचरः शब्दादिविषयविषयः तदभिलाषात्मक इत्यर्थः ।। १६ ।। ] अस्वतन्त्रो व्यतिरिक्तसाधनसामग्र्यपेक्षसकलसमीहितार्थः पुमान् तद्भावमापद्यते, जागरस्वप्नसुषुप्तावस्थोपमेयसकल - विज्ञानाकल - प्रलयकेवलाख्यभेदत्रययोगी सहजादिमलत्रयावृतः पशुर्भवति इत्यर्थः । यतस्तस्य प्रत्ययोद्भव एव परामृतरसापायः परम् अनुत्तरम् अमृतमविनाशि अद्वयचिन्मयं शिवाख्यं स्वरूपं तस्य रसः तथाप्रत्यवमर्शात्मक आस्वादः, तस्मात् अपायः पृथग्भावोऽन्यथावृत्तिः इदमित्यादिविकल्परूपः । (प्. १२८) इदमत्र वाक्ये गर्भीकृतम् - एकस्यैव परस्य तत्त्वस्य स्वेच्छापरिकल्पितानुग्राह्यानुग्राहकभावविविक्तात्मनोऽनुग्राह्यो- पायार्थं, तथैव स्वेच्छया परिकल्पितशिवशक्तिसदाशिवेश्वरविद्यात्मकविभागाभासस्य प्रक्रियाशास्त्रेषु यत् पञ्चरूपत्वं व्यवस्थितं, तत् परामृतशब्देन रसशब्देन च संग्रहेण उक्तम् । तथा च - अहमित्येव अत्यन्तभेदसंस्पर्शशून्यपरमशिवाख्यस्वभाव- वाचकत्वेन परामृतशब्दः, तत्परामर्शरूपशक्तितत्त्ववाचकत्वेन च रसशब्दः अत्यन्तप्रशान्तनिष्परामर्शशून्यप्रायशिवतत्त्ववादिमतनिरा- सर्थं यः प्रयुक्तः स पूर्वं व्याख्यात एव; तदेवं तत्त्वद्वयं शिवशक्त्याख्यं, यदभिन्नमपि स्वरूपप्रतिपादनान्यथानुपपत्त्या विभज्य तत्त्वविद्भिः (प्. १२९) प्रकाश्यते । तथा च तत्त्वगर्भस्तोत्रे गुरुभिः सततमविलुप्तोपलब्धृत्वलक्षणस्वधर्मरूपायाः शक्तेः प्राधान्यप्रतिपादनाभिप्रायेण शिवतत्त्वमेवमस्तूयत । यस्या निरुपधिज्योतीरूपायाः शिवसंज्ञया । व्यपदेशः परां तां त्वामम्बां नित्यमुपास्महे ।। इति । शक्तितत्त्वं च विदितपरमार्थैः स्वरूपप्रत्यवमर्शसामान्यस्पन्दादिसंज्ञाभिः व्यवह्रियमाणं तत्पर्यायभूतोन्मेषादिपदाभिधेयतया प्रतिपादितम् । यदुक्तम् किंचिदुच्छूनतापत्तेरुन्मेषादिपदाभिधाः । प्रवर्तन्ते त्वयि शिवे शक्तिता ते यदाम्बिके ।। इति । न च यदाशब्दश्रुतिभ्रमात् कदाचिदेषा शक्त्यवस्था भवति, कदाचिन्न भवति इति मन्तव्यम्; यतः स्वभावसंवेदनात्मको नित्यः सामान्यस्पन्दरूप एव धर्मः किंचिदुच्छूनता इत्युक्तम् । (प्. १३०) ततः परं सदाशिवेश्वरविद्याख्यं तत्त्वत्रयमपि परामृतशब्दवाच्यमेव; यतः परमेश्वरस्य परमार्थतः एकत्वेऽपि अत्यद्भुतस्वैश्वर्यवीर्येण विशुद्धचिन्मात्ररूपतया विश्वात्मकत्वेन च अन्तर्बहीरूपं द्वैविध्यं यदवस्थितम्, तत्र विश्वात्मकस्य बाह्यस्य रूपस्य ज्ञेयकार्यभावेन लब्धस्वरूपत्वात् एकापि तच्छक्तिः ज्ञानक्रियारूपतया द्वित्वेन उपचर्यते । तच्च ज्ञानक्रियात्मकत्वं यत्र बहिरगृहीतोन्मेषमन्तः साम्येनैवावतिष्ठते त्रैगुण्यमिव अव्यक्तावस्थायां, सा परमेश्वरभोगात्मकज्ञानक्रियारूपत्वेऽपि अन्तर्मुखत्वात् निमेषात्मिका सदाशिवदशा । यत्र पुनः शक्तेः क्रियाप्राधान्येन बहिर्गृहीतोन्मेषायाः पराहंभावविश्रान्तिः सा ईश्वरदशा । यस्यां पुनर्ज्ञानशक्त्युद्रेकेण अस्या बहिर्मुखत्वं बाह्याभ्यन्तररूपसामानाधिकरण्यपर्यवसायित्वात् स्वरूपविश्रान्तिनिष्ठत्वमेव (प्. १३१) सा विद्यादशा इति । तिसृष्वपि एतासु दशासु भेदप्रतिपत्तिमूलत्वात् लब्धात्मिकापि मायाशक्तिः परस्याः संविदः सर्वापूरकपरिपूर्णाहंकारलक्षणे स्वभावे एव विश्रान्तत्वात् प्रत्यस्तमिता सती परमानन्दनिर्भरशिवरूपं तिरोधातुं नालम्, इति पदत्रयमेतत्परामृतमेव । यदुक्तं तत्त्वगर्भ एव ज्ञानक्रियास्वरूपेण प्रवृत्तायास्तु ते शिवे । सदाशिवत्वं जगदुर्भोगाह्वं तत्त्ववेदिनः ।। गुणीभूतज्ञशक्तिस्त्वं व्यक्तीभूतक्रियात्मिका । यदा तदैश्वरं तत्त्वं व्यक्ततामेति वृत्तिमत् ।। प्रवृत्तावुन्मुखीभूता भवेस्त्वं परमे यदा । ज्ञानशक्तिस्तदोदारा विद्या त्वं परिगीयसे ।। इति । तथा ईश्वरप्रत्यभिज्ञायाम् एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा । मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी ।। (प्. १३२) किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः । बहिर्भावपरत्वे तु परतः पारमेश्वरम् ।। ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः । सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ।। इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् । भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ।। इति । ततः परं तु परस्परपरिहारावस्थिताहंप्रतीतिलक्षणभिन्नविषयापेक्षिणि नानाभेदनियतात्माभिमानत्वात् तात्त्विकस्वैश्वर्यानभिज्ञे क्षेत्रज्ञतत्त्वे मायाशक्तिरेव केवला प्रभोर्विश्वरूपैश्वर्यप्रथास्पदभूता विजृम्भते । यथोक्तं तत्त्वगर्भे एव यदा त्वेवंविधादत्र निजा भोगाज्ञता पशोः । तदा मायास्वरूपेति गीयसे वैभवाश्रयः ।। इति । प्रत्यभिज्ञायामपि (प्. १३३) भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते । शून्ये बुद्धौ शरीरे वा मायाशक्तिर्विजृम्भते ।। इति । सा इह प्रत्ययोद्भवशब्देन प्रतिपादिता, यतोऽहमित्येव शिवात्मकस्य स्वभावस्य परामर्शात्मकं सम्यक् ज्ञानं, तस्यैव च स्वभावस्य विश्वरूपतया अवभासमानस्य इदन्तोल्लेखने भेदोद्भावनसामर्थ्यं मायाख्या शक्तिराख्याता, न तु वस्त्वन्तरं किंचित् । इदमिति च परामृश्यमानोऽर्थः प्रकाशमानत्वमतिक्रम्य अन्यथाभवितुं यतो न शक्नोति ततो भेदरूपापि असौ माया प्रकाशात्मकपारमेश्वरधर्मत्वानतिक्रमात् भगवतः शक्तिरेव इयमत्यद्भुता, यत् स्वरूपं स एव एवं प्रत्यपादयत् । दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। इति । तथाहि अत्रायमर्थः - एषा मम दैवीमाया, देवस्य इत्थंक्रीडनैकरसस्य ईश्वरस्य (प्. १३४) सतः शक्तित्वेन संबन्धिनी; किंस्वरूपा ? - गुणमयी, गुणाः सुखाद्यात्मानः सत्त्वाद्यभिधानाः तत्प्रकृतिका; सा हि भेदावभासस्वभावा, भिन्नश्चार्थः शबादिविषयात्मकः, विषयश्च सुखादिसंवेदनपर्यवसितात्मा, - इति सुखादिरूपग्राह्याकारनिर्भासिनी माया गुणमयी इत्युक्ता । तथा दुरत्यया दुःखेन अत्येतुं शक्या, तदतिक्रमणे कृतोत्साहैः प्रबुद्धैरपि सपदि सकलसंसार्यवस्थोच्छेदानुपपत्तेः भेदव्यवहारस्य दुर्लङ्घ्यत्वात् । किं तु मामेव ये प्रपद्यन्ते छिन्नद्वैतदशाप्रतिष्ठितसंविदः सुप्रबुद्धाः सन्तो मामेवैकं तत्त्वमभेदेनात्मतया प्रत्यभिजानते, ते मद्भावमापन्ना एनामतितरन्ति । तस्यां हि दशायां दिवसद्युताविव द्योतमानायाम् इयं यामिनीव निर्मूलनष्टस्वरूपा तैरेवातिक्रान्ता (प्. १३५) भवति । यदुक्तं स्तोत्रे समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः । परामृष्टश्च नष्टश्च त्वद्भक्तिवलशालिभिः ।। एवंप्रत्ययोद्भवमात्रं माया, तन्मूलं च क्षेत्रज्ञतत्त्वं पशुपर्यायेण अस्वतन्त्रशब्देनात्र प्रतिपादितम् । प्रत्ययोद्भवरूपया हि अनया मायया स्वभावात् प्रच्यावितस्य अस्य तद्धर्मविपरीतेन कालादिरूपेण सुप्रसवेन पाशपञ्चकेन ग्रथितस्य पारतन्त्र्यं पशुत्वमुद्भाव्यते । तथा च - अयम् अनया व्यामोहितः अनवच्छिन्नत्वादिरूपं स्वधर्मम् अपरामृशन्, तद्विपरीतेन अवच्छेदकेन कलनात्मना भूतभविष्यदादिविकल्पविभक्तेन कालाख्येन, तथा सर्वात्मकत्वधर्मविस्मृतेः सर्वत्र नियतकार्यकारणभावाख्यात्मकेन नियतिनाम्ना, तथा सर्वकर्तृत्वसर्वज्ञत्वलक्षणधर्मद्वयौदासीन्यात् किंचित्कर्तृत्व - किंचिज्ज्ञत्वरूपाभ्यां (प्. १३६) कलाविद्याभिधानाभ्यां, तथा प्रेप्सितार्थविरहात् नित्यनिरभिलाषत्वलक्षणस्वधर्मापरामर्शात् विषयाभिलाषितारूपेण रागाख्येन च पाशेन बध्यमानः पराधीनवृत्तिः पशुः संबध्यते । एष च मायाशक्तेः पञ्चभेदः प्रसवः समस्तस्य पशुप्रबन्धस्य अविशेषेण स्वरूपमावृत्य व्यवस्थितः । यस्तु प्रतिप्राणि विचित्रबुद्ध्यादिरूपतया परिणमन् तमावृणोति, तस्य प्रधानाख्यस्य प्रसवस्य प्रपञ्चं प्रत्ययोद्भवविषयप्रतिपादनद्वारेणाह स च तन्मात्रगोचरः इति, स च पशुत्वकारणं प्रत्ययोद्भवः, तन्मात्रगोचरः तन्मात्राणि शब्दादिसामान्यानि गोचरो विषयो यस्य स तथा; प्रत्ययो हि अयं प्रत्येयं भिन्नं विषयमपेक्ष्य प्रादुर्भवति, विषयविषयिभावश्च ग्रहीतृग्रहणग्राह्यरूपे त्रितये सति उपपद्यते । तदपि त्रितयं साधारणं प्रवृत्तिकारणं विना न (प्. १३७) स्यात् इति । तच्चतुष्टयमनेन वाक्येनाक्षिप्तम् । तत्र ग्रहीता प्रत्ययवान् पशुः, ग्राह्याः प्राधान्येन शब्दस्पर्शरसरूपगन्धाः आकाशादिस्थूलभूताश्रया विशेषात्मका गुणाः, तदात्मना समस्तविषयोपलब्धेः । तेषां चात्रोपादाने उपपन्ने सामान्ये सर्वविशेषाणामन्तर्भावः, - इति सामान्यवाचिना तन्मात्रशब्देन उपात्ताः । तैः शब्दादिभिराश्रयभूतानि स्थूलानि आकाशादिभूतानि आक्षिप्तानि, निराश्रयाणां तेषामनुपपत्तेः । तदेतत् दशविधं कार्यम् । स च प्रत्ययवान् परवशः पशुः विषयित्वे सति इष्टानिष्टविषये हानादानक्रियायां करणमपेक्षते । तत्र येन विषयं निश्चिनोति तत्प्रकाशप्रधानं बुद्ध्याख्यं करणं । येन च अनात्मभूतं देहादिकमर्थम् आत्मतया अभिमन्यते तद्विपर्ययात्मकं नियमप्रधानमहंकाराख्यं, येन च प्रवृत्तिप्रधानेन विषयं विकल्पयति तत्संशयात्मकं मनोऽभिधानम्, - (प्. १३८) इति त्रिविधमन्तःकरणं यथोत्तरं कार्यत्वेनोक्तम् । येन तु शब्दादीन् गृह्णाति तच्छ्रोत्रादिबुद्धिन्द्रियपञ्चकम् । येन वचनादिक्रियां करोति तद्वागादिकर्मेन्द्रियपञ्चकम्, - इति दशविधं बहिष्करणम् । तच्च अहंकारकार्यतयैव उक्तम् । तदेतदाभ्यन्तरं बाह्यं च करणम् । एवं त्रयोविंशतिविधः कार्यकरणवर्गो विषयित्वान्यथानुपपत्त्या अत्राक्षिप्तः । तथा प्रवर्तकं हेतुमन्तरेण विषयप्रवृत्तेरभावादपि विषयत्वं न उपपद्यते, - इति स हेतुरत्र सुखाद्यात्मा प्रधानाभिधान आक्षिप्तः । तथाहि - सुखं प्रतिप्राणि स्ववासनानुगुणेष्टविषयप्राप्तेस्तृप्तिरनित्य आनन्दः, तेन प्रयुक्तः सन् इष्टविषयादानाय प्रवर्तते, तद्विपर्ययो दुःखम् अनिर्वृतिः ततोऽनिष्टविषयहानाय; उभयन्यग्भावस्तु मोहः, तस्मिन् सति व्यवतिष्ठते, - इति सुखदुःखमोहात्मकं प्रकाशप्रवृत्तिनियमार्थं सत्त्वाद्यभिधानगुणत्रयमयं विकारावस्थायामपि अन्योन्याविनाभूतत्वात् (प्. १३९) एकमेव प्रधानाख्यं सर्वप्राणभृतां विविधवासनानुगुणनानारूपकार्यकरणात्मकस्वपरिणाम- प्रपञ्चानुगतसाधारणं प्रवृत्तिकारणं रागाख्यमायीयमलप्रपञ्चभूतम् । अनेनैवाभिप्रायेण वृत्तिकृता स च तन्मात्रगोचरः, इत्यस्य पदस्य रूपाद्यभिलाषात्मकः इति पर्यायः प्रयुक्तः । रूपादिषु योऽभिलाषो रागः, तन्निमित्तकत्वात् तदात्मकः प्रत्ययोद्भवः; ततश्च अभिलाषप्रपञ्च एव सुखाद्यात्मकं प्रधानं कारणम् इत्येषा प्राधानिकी तत्त्वचतुर्विंशतिः स च तन्मात्रगोचरः इत्यनेनाक्षिप्ता । प्राक् च द्वादश तत्त्वानि निर्णीतानि, तद्यथा - शिवादिविद्यान्तानि पञ्च, माया, कालादिपञ्चकं, पशुतत्त्वं च, - इति षट्त्रिंशत्तत्त्वरूपतया पारमेश्वरी एकैव शक्तिर्विजृम्भते । व्याख्यातप्रायमेतत् वृत्तौ (प्. १४०) परामृतरसात् स्वरूपात् अपायः प्रच्युतिः इत्यादिना ।। १६ ।। एवं प्रत्ययोद्भवस्य पशुत्वकारणभावे प्रतिपादिते शक्तिवर्गस्य भोग्यतां गतः सन् पशुः स्मृतः, - इति पूर्वोक्तविरोधपरिहारार्थमाह स्वरूपावरणे चास्य शक्तयः सततोत्थिताः । यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ।। ४/१७ (४७) ।। वृति: स्वरूपस्य स्वभावस्याच्छादने चास्य पुरुषस्य शक्तयो ब्राह्म्याद्याः पूर्वमुक्ता याः, ताः सततम् उद्युक्ताः, यतः शब्दरहितस्य प्रत्ययस्य ज्ञानस्य नास्त्येव कस्यचिदुद्भवः ।। ४७ ।। टिप्पणी: कवर्गाद्युत्पन्ना एव प्रत्ययाः, तदधिष्ठात्र्यः पीठेश्वर्यो माहेश्याद्यास्ता एव पशोः पारस्वरूपमावरीतुं सदोद्युक्ताः, अत एवोत्तरोत्तरं विषयभोगासक्तानामणूनां संसृतिरविरतप्रसरणेति ।। ४७ ।। विवृति: (प्. १४०) अस्य एवंप्रत्ययापादितपशुत्वस्य आत्मनः स्वरूपावरणे स्वरूपस्य शिवात्मकस्य स्वभावस्य आवरणे, तथाप्रत्यवमर्शाभावमात्रेण हेतुना व्यवधाने स्थगने; तन्निमित्तं शक्तयः प्रागुक्ताः सततोत्थिताः पतिपशुव्यवहारस्य न कदाचित् उपरमात् सततं नित्यम् उत्थिताः उदिताः; यतः अस्वतन्त्रतापादनात्मना अमृतरसापायहेतुत्वेन प्रतिपादितो यः प्रत्ययोद्भवः (प्. १४१) स शब्दानुवेधेन शब्दसंभेदेन विना न संभवति, - इति शेषः । एतदेव कुतः ? इति चेत्, तदुच्यते, - शब्दः खलु प्रत्यवमर्शात्मा अवभासात्मनोऽर्थस्य अन्यतः खड्गोदकादर्शादेरन्तःक्रोडीकृततत्तत्पदार्थसार्थात् जडात् भेदतः स्वभावभूत एव । तथा च प्रत्यभिज्ञा स्वभावमवभासस्य विमर्शं विदुरन्यथा । प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ।। इति । अन्यत्रापि उक्तम् न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमं विना । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ।। इति । स च सर्वावच्छेदविरहितविशुद्धचित्प्रकाशात्मकमुख्यार्थ- निष्टः सन् प्रत्यवमर्श इत्युच्यते । जातिगुणक्रियाभिधानादिविविध- विशेषावच्छिन्नभिन्नरूपविश्वात्मकार्थावभासनिष्टस्तु विविधकल्पनात्मकत्वात् विकल्प इत्युच्यते । तदेव शब्दस्य मुख्यं रूपं, तत्संकेतत्वेन व्यवस्थितः (प्. १४२) श्रोत्रग्राह्यो ध्वनिविशेषात्मकोऽर्थ एव प्रायेण शब्दः इति व्यवह्रियते । तस्माच्छब्दरूपतामापन्नाः प्रत्ययोद्भवप्राणभूताः शक्तय एवास्य स्वरूपावरणे सदोद्युक्ता, - इति शक्तिवर्गस्य भोग्यतां गतः सन् पशुः स्मृतः, - इति पूर्वोक्तेनाविरोधः प्रतिपादितः । स्वरूपस्य स्वस्वभावस्याच्छादने इत्यादिना वृत्तौ व्याख्यातमेतत् ।। १७ ।। अथास्य शब्दपर्यन्तस्य प्रसरस्य, परस्याश्च शक्तेरभेदप्रतिपादनपूर्वं तत्स्वरूपाप्रत्यभिज्ञामात्रनिबन्धनौ बन्धमोक्षौ प्रतिपादयितुमाह सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपदादिका ।। ४/१८ (४८) ।। वृति: सा चेयं क्रियास्वभावा भगवतः पशुवर्तिनी शक्तिः । यदुक्तम् (प्. ३८) ऽन सा जीवकला काचित्संतानद्वयवर्तिनी । व्याप्त्री शिवकला यस्यामधिष्ठात्री न विद्यते ।।ऽ इति । सैव च बन्धकारणम् अज्ञाता, ज्ञाता सा च पुनः परापरसिद्धिप्रदा भवति पुंसाम् ।। ४८ ।। टिप्पणी: बहिर्भावपर्यन्तं प्रसृतायाः पारमेश्वर्याः क्रियाशक्तेरेव हेतोर्भेदाभेदसंवेदननिबन्धनैव बन्धमोक्षविकल्पनेत्यर्थः ।। ४८ ।। विवृति: सा शिवस्य स्वस्वभावस्यैव परमेश्वरस्य क्रियात्मिका तत्स्वरूपप्रत्यवमर्शलक्षणव्यापारशरीरा (प्. १४३) शक्तिः अव्यभिचारी धर्मः समर्थतारूपः इयं प्रतिपादितप्रसररूपा शक्तिः यैव अद्वयचिन्मात्रस्वभावप्रत्यवमर्शिनी परा शक्तिः परमेश्वरस्य सैव इयम् इत्थं - प्रसृत्य अवभासते, तत्त्वतो नास्ति अस्याः ततो भेद इत्यर्थः । यथोक्तं वृत्तौ न सा जीवकला काचित्संतानद्वयवर्तिनी । व्याप्त्री शिवकला यस्यामधिष्ठात्री न विद्यते ।। इति । अस्य हि श्लोकस्यायमर्थः - जीवस्य पुंसः पशोः कलानां द्विविधः संतानो - ज्ञानरूपः क्रियारूपश्च; तत्र ज्ञानरूपोऽन्तःकरणात्मकः त्रिविधः, क्रियारूपो बहिष्करणात्मकः स्वभावस्थप्राणशक्तिसहित एकादशविधः, - इति चतुर्दशविधो जीवकलासंतानः संग्रहात् द्विविध एव, संतानद्वयवर्तिनी जीवस्यात्मनः कला सा न काचित् संभवति इति शेषः यस्यां व्याप्त्री देशकालाद्यनवच्छिन्नवैभवाधिष्ठात्री वेद्यत्वादिना सर्वमधिष्ठाय आत्मपरतन्त्रं कृत्वा वर्तमाना (प्. १४४) शिवकला, शिवस्य परमात्मनः कला परा शक्तिः उक्तरूपा न विद्यते सत्तां व्यभिचरति, सैव इत्थमवभासते इत्यर्थः । वैश्वरूप्येऽपि अवभासलक्षणस्य सामान्यरूपस्य शिवधर्मस्य व्यापकस्य अतिरोभावात्, सैव परा शक्तिरित्यम्, अपरा स्थूलक्रियारूपा, - इति परापरयोः शक्त्योरभेद एव पारमार्थिकः प्रत्यभिज्ञापितः । तदेतत् ज्ञानगर्भस्तोत्रेऽप्युक्तम् बहिषकरणबुद्ध्यहंकृतिमनःसुषुम्नाश्रया- च्चतुर्दशसु चण्डिके पथिषु येन येन व्रजेत् । कला शिवनिकेतनं जननि तत्र तत्र स्म ते दशोदयति दुर्लभा जगति या सुरैरप्यहो ।। अस्यापि श्लोकस्यायं तात्पर्यार्थः - श्रोत्रादिपञ्चकं वागादिपञ्चकं दशविधं बहिष्करणं, बुद्ध्यहंकारमनांसि त्रिविधमन्तःकरणं मध्यमप्राणश्च, - इति कलायाः चिदात्मिकायाः शक्तेः चतुर्दश भेदाः । तेषां ये तावन्त एव पन्थानः (प्. १४५) प्रसरमार्गास्तेषु मध्ये येन येन केनचिदेकतमेन पथा एषा कला शिवनिकेतनं व्रजेत्, शिवः परमात्मा स एव निकेतनमालयस्तद् गच्छेत्, तत्र दशा उदयति - इति संबन्धः । शिवनिकेतनं व्रजेत् - इति मायीयभेदप्रत्ययव्यतिरेकेण शिवाख्यस्वपदाश्रयणरूपः पारमार्थिकः कलाया व्यापारः सिद्धवत् व्यवहृतः । इयं हि कला शिवात्मकात् निजास्पदात् न दुःखं न सुखम् इत्यादिना कृतलक्षणात् उदेति, कृतकृत्या च तत्रैवान्ते(न्तः)प्रविश्य समरसीभवति सरिदिव सागरे; मध्येऽपि बुद्ध्याद्यन्योन्यभिन्नप्रसररूपतया नानात्वेन अवभासमानापि जलरूपत्वमिव सामान्यं चिदात्मकत्वं न व्यभिचरति, - इति न कदाचित् शिवस्वभावात् अपैति; किंतु मायाशक्तिव्यामोहितैः न तथा प्रत्यभिज्ञायते - इति । एवमेषा कला येन येन पथा शिवनिकेतनं व्रजेत्, (प्. १४६) तत्र सा तादृशी स्वसंवेद्यत्वात् व्यपदेष्टुमशक्या कस्यचित् प्रबुद्धस्यैव दशा अवस्था उदयति अभिव्यज्यते, या सुरैर्ब्रह्मादिभिरपि दुर्लभा, ते हि प्रत्ययोद्भवजनितब्रह्मत्वाद्यवच्छिन्नपाशवाभिमानानति- क्रमात् शिवरूपां पतिदशां कथमाप्नुयुः - इति । प्रकृतमिदानीं व्याख्यायते, - किंतु एवं - रूपापि असौ पारमेश्वरी क्रियात्मिका परा शक्तिः पशुवर्तिनी बन्धयित्री पशौ भेदप्रत्ययोद्भवापादितपारतन्त्र्ये पुंसि वर्तमाना, बन्धस्य जन्मादिप्रबन्धपरिवर्तनात्मकस्य संसारस्य कर्त्री । - पशुः किल सर्वतो व्यवच्छिन्नस्य आत्मन एव स्वत्वेन एनाम् अध्यवस्यन् इष्टानिष्टविषयोपादानहानजनितसुखाद्यनुभवमात्रपर्य- वसितनिजज्ञानक्रियापरिस्पन्दत्वात् अपरामृष्टतत्परमार्थो व्यवच्छिन्नत्ति; । सा चैवं व्यवच्छिन्नत्वेन गृह्यमाणा तम् आ प्रबोधप्रत्युदयात् (प्. १४७) पशुत्वेन बध्नाति; - इति पशुवर्तिनी बन्धयित्री इत्युक्तम् । ननु एवं - स्वभावत्वात् अस्याः, पशोः बन्धध्वंसाभावप्रसङ्गः ? तत आह - ज्ञाता विदिता शिवात्मकस्वस्वभावप्रत्यवमर्शक्रियारूपतया प्रत्यभिज्ञाता सती सिद्ध्युपपादिका सिद्धेः आत्मैश्वर्याधिगमलक्षणायाः परायाः, आनुषङ्गिकविविधविभूत्याविर्भावरूपायाश्च अपरायाः उपपादिका, वस्तुस्वभावबलात् संपादयित्री; यत एषा स्वमार्गस्था स्वस्मिन् आत्मीये शिवस्वभावरूपे मार्गे अध्वनि स्थिता, तद्व्यतिरिक्तविषयान्तरनिवृत्तगतिरित्यर्थः; प्रत्ययोद्भवरूपमायावैभवोद्भावितभिदापेक्षया तु पशुवर्तिनी जीवकला - इत्युच्यते; प्रत्युदितप्रबोधस्य तु यथावस्थितत्वेन प्रत्यभिज्ञायमाना सर्वाः सिद्धीरुपपादयति । - इति श्लोकार्थं व्याख्याय, इदानीं यथा एषा स्वमार्गस्था तथा वितत्य प्रतिपाद्यते । एषा (प्. १४८) हि परमेऽऽवरस्वरूपप्रकाशप्रत्यवमर्शमात्ररूपा परैव शक्तिः वाग्रूपतया प्रसृता, - इति परमेश्वरेण शास्त्रेषु बहुशः प्रदर्शयता सर्वदा स्वमार्गस्थत्वमस्याः प्रतिपादितम् । तथा च श्रीमालिनीविजये या सा शक्तिर्जगद्धातुः कथिता समवायिनी । इच्छात्वं तस्य सा देवि सिसृक्षोः संप्रपद्यते ।। सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु । एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् ।। ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते । एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा ।। जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रिया मता । एवं यथा द्विरूपैव पुनर्भेदैरनेकताम् ।। अर्थोपाधिवशाद्याति चिन्तामणिरिवैश्वरी । तत्र तावत्समापन्ना मातृभावं विभिद्यते ।। द्विधा च नवधा भेदैः पञ्चाशद्धा च मालिनी । इत्यादिना प्रकाशितोऽयमर्थः । तथा शब्दाद्वयवादिभिरपि (प्. १४९) विवृत्तिवाचोयुक्त्या तत्प्रसरं प्रतिपादयद्भिः स्वमार्गस्थत्वमेव अस्याः प्रदर्शितम् । यदाहुः वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ।। इति । सैषा अत्यन्ताभेददशा, यस्यां स्फुटमेव अस्याः स्वमार्गस्थत्वम् । यदा पुनः इदमिति नानारूपं विभक्तत्वेन क्रमिकत्वेन च अन्तः परिस्फुरितमखिलं जगत् अविमर्शात् उपसंहृत्य विभागक्रमशून्यस्वमहिम्नि स्वभावव्योम्नि निमिषन्ती स्वरूपप्रकाशमात्रपरिशेषैव भवति, तदा आन्तरस्य परस्य ज्ञातुः पश्यन्त्यभिधानवाग्रूपा विवृत्तिः - इत्युक्ता । यदाहुः अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ।। इति । अत्रापि स्वमार्गस्थैव एषा । यदा प्राणप्रयत्नव्यतिरेकेण प्रतिप्राणि शरीरान्तरस्वोदितानादिनिधनध्वनिविशेषात्मकतया (प्. १५०) कालादिक्रमं वर्णादिविभागं भाविनमनुगच्छन्ती प्रसरं गृह्णाति, तदा मध्यमाख्यवाग्रूपा विवृत्तिः - इत्यभिहिता; तदापि संविन्मात्रप्रकृतिकत्वमनतिक्रान्ता स्वमार्गस्थैव एषा । यदुक्तम् केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ।। इति । यदा तु प्रयोक्तृपुरुषेच्छानुविधायिप्रयत्नप्रेरिते प्राणाभिधाने मरुति शरीरोद्देशेषु उरःप्रभृतिषु जाताभिघाते, सैव सामान्यध्वनिरूपा स्वरव्यञ्जनादिभेदविभक्ताकारादि- नियतवर्णरूपतां प्रयोक्तृभेदेऽपि अव्यभिचरन्ती प्रसरति, तदा वर्णभेदादिव्यञ्जकप्राणमात्राश्रया वैखर्यभिधानवाग्रूपा विवृत्तिः - इत्युक्तम् । (प्. १५१) यदुक्तम् स्थानेष्वभिहते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ।। इति । तदापि असौ देशकालाधारप्रयोक्तादिवैचित्र्यैः अविकार्यनियतवर्णसमुदायात्मिकतां पुरुषेच्छादिसापेक्षाभिव्यक्तिकामजहती नित्यैव, संविद्रूपत्वमपि अनुगतमेव मध्यमावदस्यामपि; - इति स्वमार्गस्थत्वमपि अस्या न व्याहन्यते । एवमसौ वैखरीरूपतामापन्नापि मातृकावर्गवर्णपदवाक्यार्थभेदेन अपर्यन्तं प्रसरं गृह्णाति । यथा च वर्णवैखरीरूपा इयम् एवमनन्तप्रसरा, तथा स्वरवैखरीरूपापि स्वरग्राममूर्च्छनातानजातरागादिभेदेनापि अनन्तप्रसरा । तदेवम् इयं पारमेश्वरी परा शक्तिः (प्. १५२) स्वभावप्रत्यवमर्शक्रियादिना सांकेतिकशब्दपर्यन्तेन निरवधिना स्वमहिम्ना प्रसृतापि, सर्वस्यैव पदार्थजातस्य सामान्यसंवित्प्रकाशव्यतिरेकेण अनुपपन्नस्वात्मलाभस्य प्रत्यवमर्शिनी सती, सर्वदा स्वमार्गस्थत्वं न व्यभिचरति । ततश्च - जगत्क्रीडार्थम् ईश्वरोद्भावितमायाशक्तिजनितैः नानाविकल्परूपैरावरणैः संबध्यमानापि अनुग्रहशक्तिस्पर्शोन्मेषितसत्यतद्रूपग्रहणकुशलविमल- विज्ञानदृशः प्रमातॄन् प्रति तैः स्थगयितुमत्यन्तं तिरोधातुमशक्यैव - । यदुक्तम् सेयमाकीर्यमाणापि नित्यमागन्तुकैर्मलैः । अन्त्या कलेव सोमस्य नात्यन्तमभिभूयते ।। इति । तत् इत्थं परममेव कारणं यथाविभक्तशब्दरूपतयापि प्रसृतम् - इति स्थितम् । सत्यं परागतं सूक्ष्मं निरवद्यमनुत्तरम् । अथ ब्रह्म परं शान्तमादिवर्णत्वमागतम् ।। (प्. १५३) इत्यादि । तथा च शब्दाद्वयवादे सामान्येन शब्दार्थोभयरूपोऽपर्यन्तावान्तरभेदो योऽयमीश्वरस्य शक्तिप्रसरः, तं विवर्तवाचोयुक्त्या व्यवहरति स्म । यदाह अथायमान्तरो ज्ञाता सूक्ष्मे वागात्मनि स्थितः । व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ।। अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।। इति । अत्र ब्रह्मपर्यायशब्दतत्त्वतया पारमेश्वरमेव रूपं निर्दिष्टम् । तत् - इयं परा शक्तिरेव स्वमार्गस्था ज्ञाता तथा सम्यक्प्रतिपन्नस्वभावा सती संपूर्णां सिद्धिम् उपपादयति, - इत्युक्तम् । सेयमेव वैखरीरूपतामापन्ना पुरुषप्राणपरिस्पन्दाधिनाभिव्यक्तिकत्वात् स्थूला क्रियाशक्तिः, - इत्यपि क्वचिदुक्ता, तत्पूर्वा च मध्यमा वाक् इच्छाशक्तिः, तत्पूर्वा च पश्यन्ती (प्. १५४) ज्ञानशक्तिः - इति । तदेवं शक्तित्वे सति शक्तिमन्तमियम् अपेक्षते, - इत्यभिन्नमातृकात्मकः शब्दराशिरूपक्रियाशक्तिप्रधान ऐश्वरो विग्रहोऽस्याः समाश्रयः, यत्र इयं वर्गादिभिः वाक्यपर्यन्तैः स्वप्रसरभेदैः विजृम्भते । योऽपि वाक्यरूपः प्रसरोऽस्याः, स नित्यानित्यभेदेन द्विविधः, - तत्र मन्त्रात्मकः शास्त्रात्मकश्च नित्यः, लोकिकव्यवहारविषयलौकिकवाक्यात्मकस्तु अनित्यः । एवं परमेश्वरशक्तित्वेन प्रत्यभिज्ञायमाना एषा वाङ्मयी विभूतिः परसिद्धिप्रदा, नानापशुसंबन्धितया तु अवच्छिद्यमाना बन्धहेतुर्भवति - इति । व्याख्यातमेतद् वृत्तौ सा चेयं क्रियात्मिका क्रियास्वभावा इत्यादिना ।। १८ ।। एवं पतिस्वभावस्यैव आत्मतत्त्वस्य स्वमायावभासितं पशुत्वं प्रतिपाद्य, इदानीं पशोः सतो विद्योदयात् स्वमार्गस्थत्वेन अभिज्ञायमाना एषा (प्. १५५) परा शक्तिः, पतित्वाभिव्यक्तिमावहन्ती संसारविच्छेदहेतुः यथा भवति, तथा संसारकारणप्रतिपादनपूर्वं हेतुकथनं प्रतिजानानः श्लोकद्वयमाह तन्मात्रोदयरूपेण मनोऽहंबुद्धिवर्तिना* । पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् ।। ४/१९ (४९) ।। (* विवृति: मनोऽहंबुद्धिवृत्तिना) वृति: तन्मात्रोदयः, तन्मात्राणां शब्दादीनामनुभव -रूपेण, मनोऽहंकारबुद्धिभिः इति त्रिभिः परामृश्यमानेन पुर्यष्टकेन बद्धः, तदुत्थं तस्मादुद्भूतं सुखदुःखसंवेदनरूपं तदा ।। ४९ ।। टिप्पणी: पुर्यष्टकसंरुद्धत्वादेवास्य पशोः कर्मचक्र भ्रम्यनुभवः ।। ४९ ।। भुङ्क्ते परवशो भोगं तद्भावात्संसरत्यतः* । संसृतिप्रलयस्यास्य कारणं संप्रचक्ष्महे (घ्: संसृतिप्रत्ययस्येतीत्थं शोधितः पाठः संलक्ष्यते ।) ।। ४/२० (५०) ।। (* विवृति: तद्भावात्संसरेदतः) वृति: भुङ्क्ते अश्नाति, अस्वतन्त्रो, भोगं सुखदुःखसंवेदन - रूपं, तस्य पुर्यष्टकस्य भावात् संसरति (प्. ३९) संसारशरीरे, अतः संसृतिप्रलयस्य (घ्: संसृतिप्रत्ययस्येतीत्थं शोधितः पाठः ।) जन्ममरणप्रवाह -रूपस्य संसारस्य विनाशकारणं संप्रचक्ष्महे वक्ष्यामः ।। ५० ।। टिप्पणी: इत्यतः संसृतिविनाशकारणं साधनं वक्ष्यमाणमुपपद्यते ।। ५० ।। विवृति: (प्. १५५) अतो हेतोः अस्य उक्तवक्ष्यमाणरूपस्य पशोः, यः संसृतिप्रलयः संसारक्षयः, तस्य कारणं हेतुं संप्रचक्ष्महे युगलकात् अस्मादुत्तरेण श्लोकेन सम्यक् प्रकर्षेण च ब्रूमहे । अत्र व्यधिकरणेन षष्ठ्यौ व्याख्येये । कुतो हेतोः ? - यतोऽयं पशुः पुर्यष्टकेन संरुद्धः सन् भोगं भुङ्क्ते पुर्यां सूक्ष्मे शरीरे तन्मात्रपञ्चकं गुणत्रयम् - इति स्थूलशरीरकारणभूतमष्टकम् (प्. १५६) यत् संनिविष्टं, तन्मुख्यं [तन्मुखं] पुर्यष्टकम्, तत्कार्यत्वात् स्थूलमपि शरीरं तच्छब्देन इह पुर्यष्टकम् - इत्युच्यते, तेन संरुद्धः तावन्मात्रमात्मत्वेनाभिमन्यमानो विस्मृतसर्वात्मकत्वादिस्वसामर्थ्यवशात् बद्धः, अत एव परवशः सर्वशक्तिस्वभावव्यतिरिक्तकारणान्तराधीनसकलसमीहितार्थ- सिद्धत्वात् अस्वतन्त्रः सन् भोगं मायावभासितानादिनिजकर्मोपचितवासनानुगुणसुखादि- संवेदनात्मकतया पर्यवसितं स्वविषयमात्रं भुङ्क्ते अनुभवति । कीदृशं ? तदुत्थं तस्मात् पुर्यष्टकात् उत्थितमुद्भूतं, - देहबन्धे हि सति भोगनिर्वृत्तिरुपपद्यते - । कं तं भोगम् ? - प्रत्ययोद्भवं प्राग्व्याख्यातस्वरूपनियतस्वविषयज्ञानोत्पादरूपं, - स्वविषयमात्रभोक्तृत्वाभिमानरूपस्य प्रत्ययस्य उत्पाद एव भोगः - इत्यर्थः । कीदृशेन पुर्यष्टकेन संरुद्धः ? - तन्मात्रोदयरूपेण तन्मात्राणि (प्. १५७) स्थूलभूतकारणभावेन ईश्वरेच्छयैव अवभासिताः सूक्ष्माः शब्दादयः, तेषामुदयः स्थूलशरीरभावपरिणताकाशाद्यात्मना अभिव्यक्तिः । तथा च - अत्र यद्यन्नाड्यादि सुषिरं तदाकाशं शब्दतन्मात्रोदयः, यद्यत् सक्रियं प्राणादि स वायुः स्पर्शतन्मात्रोदयः, यद्यत् उष्णप्रभास्वरादिरूपं अग्न्यादि तत्तेजो रूपतन्मात्रोदयः, यद्यत् द्रवरूपं रुधिरादि ता आपः रसतन्मात्रोदयः, यद्यत् कठिनं मांसास्थिस्नायवादि सा पृथ्वी गन्धतन्मात्रोदयः, - इति तन्मात्रोदयो रूपमाकारो यस्य तत् तथा तेन । एवं तन्मात्रोदयरूपत्वं व्याख्याय, गुणोदयरूपत्वं दर्शयितुं विशेषणान्तरमाह, - मनोऽहंबुद्धिवृत्तिना इति । अनुभूयमानस्य अस्य आत्मलाभोऽनुभवश्च अन्तःकरणनिष्ठः - इति मनसि रजोगुणोदये, अहङ्कारे तमोगुणोदये, बुद्धौ च सत्त्वगुणोदयरूपायां वृत्तिर्वर्तनम् (प्. १५८) अवस्थितिः यस्य तादृशेन । स च एवंविधेन पुर्यष्टकेन संरुद्धः सन् पशुः तद्भावात् तस्य पुर्यष्टकस्य स्थूलसूक्ष्मस्य भावात् विद्यमानत्वात् अप्रबोधे सति अनुच्छेदात् संसरेत् अनवरतं नानाशरीरभोगवासनाकर्मचक्रभ्रममनुभवेत् आ प्रबोधप्रत्युदयात् । इदमत्र तात्पर्यम् - देहसंरुद्धस्य पुंसः प्रतिनियतसुखादिसंवेदनात्मनि भोगे यो भोक्तृत्वाभिमानः, तत् संसारकारणम्, अतोऽस्य निरावरणस्वरूपस्थितिमात्रं [निराव * ण-] संसारविनाशहेतुं संप्रचक्ष्महे - इति । व्याख्यातमेतत् वृत्तिकृता तन्मात्रोदय इत्यादिना भुंक्तेऽश्नाति परवशः इत्यादिना च ।। १९ ।। २० ।। अधुना आत्मन एव शिवस्य यथोक्तैश्वर्यरूपं पतित्वं येन अभिव्यज्यते, तत् समनन्तरं (प्. १५९) प्रतिज्ञातम् उपायान्तरम् उपदिशन् प्रकरणमुपसंहरति यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ* । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ।। ४/२१ (५१) ।। (* विवृति: लयोद्भवौ) वृति: यदा पुनस्त्वेकत्र स्थूले सूक्ष्मे वा संरूढो लीनचित्तः, तदा तस्य प्रत्ययोद्भवस्य लयोद्भवौ ध्वंसप्रादुर्भावौ नियच्छन् कुर्वन् भोक्तृतां प्राप्नोति, ततः चक्रेश्वरो भवेत् सर्वाधिपतिर्भवति ।। ५१ ।। टिप्पणी: एवं प्राक्प्रतिपादितस्योपलब्ध्रेकस्वभावस्य स्वात्मनो निविड -वितर्कपरिशीलनया विकल्पहान्याद्युपायवृत्त्या भूतभावात्म -कयोः शरीरयोरन्यतरस्मिन् अविकल्पसंवित्स्वरूपप्राप्तेः गोचर्यादिशक्तिचक्रस्यानधीनवृत्तित्वात् स्वैश्वर्यविजृम्भामात्र -विज्ञानेन तदीश्वरः पतिः संपद्यते इति । कश्मीरेन्द्रैः श्रीमत्प्रतापसिंहैः पुराणविद्यानाम् । जीर्णोद्धारादिकर्मणि नियुक्तसद्भिर्मुकुन्दरामाद्यैः ।। शाकेग्निघ्नशिवाङ्केन्दुमिते स्पन्दस्य कारिकावृत्तेः संक्षिप्तार्थप्रकाशः समग्राहिस्ताच्छिवाय भव्यानाम् ।। ५१ ।। विवृति: (प्. १५९) यदा तु यस्मिन् पुनः काले स्थूलसूक्ष्मत्वात् अनयोः पुर्यष्टकसंज्ञानिर्दिष्टयोः प्रत्ययोद्भवमात्रमूलयोः शरीरयोः मध्यात् एकत्र अन्यतरस्मिन्, अथवा - प्राक्प्रतिपादितोपपत्त्या संवेद्यमानस्यैव अर्थस्य शरीरत्वे व्यवस्थिते भूतात्मकभावात्मकभेदेन स्थूलसूक्ष्मयोः शरीरयोर्मध्यादेकत्र, अथवा - ध्येयतया आलम्बनीययोः स्थूलसूक्ष्मयोर्भावयोर्मध्यात् एकत्र संरूद्धः सम्यक् अविलम्बतया रूढः, (प्. १६०) एकाग्रताप्रकर्षात् अभेदेन परिणतसंवित् साधकः तदा, तस्मिन् क्षणे तस्य अभेदेन प्रतिपन्नस्य यथोक्तस्य शरीरस्य लयोद्भवौ त्यागग्रहरूपौ विनाशोत्पादौ नियच्छन् भोक्तृशब्देन वक्ष्यमाणस्य सत्यस्य कर्तुः आत्मन एव कार्यतया अवधारयन्, - अहमेव नित्यनिरावरणस्वतन्त्रचिन्मात्रस्वरूपः अनयोः कर्ता - इति निर्विकल्पतया व्यवस्थापयन् भोक्तृतामेति भोक्तुरुपलब्धृमात्रस्वभावस्य परमात्मनो भावो भोक्तृता तामाप्नोति, सतीमपि तदानीमेव प्रत्यभिज्ञया स्वीकुरुते ततः सत्यात्मस्वरूपप्रत्यभिज्ञालक्षणात् हेतोः चक्रेश्वरो भवेत् चक्रस्य प्राक्प्रतिपादितस्थित्या चराचरभावपर्यन्तेन प्रपञ्चेन प्रसृतस्य शब्दराशिसमुत्थस्य स्वशक्तिसमूहस्य, ईश्वरोऽधिष्ठाता, स्वैश्वर्यविजृम्भामात्रतया अवगम्यमानस्य (प्. १६१) यथेष्टविनियोक्ता संपद्येत । तदैव स्वाभाविकस्वातन्त्र्याभिव्यक्तेः पशुप्रत्ययप्रध्वंसे सति, शक्तिचक्रभोग्यतां विमुच्य, तद्भोक्तृभावरूपमैश्वर्यं प्रतिपाद्येत; अतः तौ लयोद्भवौ तत्र भोक्तरि आत्मनि नियच्छेत् - इति वाक्यार्थः । इदमत्र तात्पर्यम् - यथा सर्वः कश्चित् देही देहमात्रप्रतिष्ठितात्माभिमानो वाह्यस्य घटादेः पदार्थस्य ग्राह्यतयैव प्रतिपन्नस्य त्यागग्रहौ तादृशि स्वात्मनि नियच्छन् अहमेव एतयोः कर्ता - इति निश्चिन्वन्, तावति स्वतन्त्रं कर्तारं शरीरितानिविष्टमात्मानं मन्यते, तथैव तस्य शरीरस्य वेद्यभूमिकापादनेन क्रियमाणौ त्यागग्रहौ तद्विलक्षणे सर्वदा वेद्यत्वसंस्पर्शासहिष्णौ अनन्यसाधारणकर्तृत्वस्वभावे सत्ये स्वात्मनि वस्तुसामर्थ्यात् नियमं (प्. १६२) भजन्तावपि अप्रबुद्धत्वात् न प्रतिपद्यते; ततः शरीरशरीरिविवेकग्रहणयोग्यप्रज्ञप्रबुद्धमेव प्रति अयमुपदेशः; यतः तादृश एव अनुग्रहशक्तिशकलितसंशयग्रन्थिः परमेश्वरस्य एवंविधविशेषोपदेशपात्रम् । यदाह अयं सर्वस्य प्रभव इतः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ।। मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति रमयन्ति च ।। तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मां प्रापयन्ति ते ।। तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ।। इति । यस्मात् उपदेशात् अनुशील्यमानात्, अस्य एकत्र इति प्रतिपादितस्य शरीरस्य अभेदेन प्रतिभासमानस्य सतः, समनन्तरं (प्. १६३) वेद्यीक्रियमाणस्य त्यागग्रहात्मकौ लयोद्भवौ तद्विधर्मिणि भोक्तरि सर्वेश्वरे स्वात्मन्येव स्वातन्त्र्येण कार्यतया नियम्यमानौ नियन्तुः परस्वभावप्रत्यभिज्ञामावहन्तौ सर्वैश्वर्याय कल्पेते, ततः तौ तत्र नियच्छेत् - इति वाक्यार्थः । तत् अनेन आत्मन एव शिवस्य स्वेच्छामात्राधीनौ जगतः प्रलयोदयौ, जगदपि तत्स्वरूपाभेदात् तस्य स्वशक्तिचक्रमयो विभव - इति यथोपक्रान्तार्थनिर्वाहात् एकमेव तत्त्वं स्वरूपपरामर्शमात्राव्यभिचारधर्मकं परमार्थसन्, अतो व्यतिरिक्तं किंचित् न संभवति - इति उपपादितम् । यदुक्तम् परमार्थे तु नैकत्वं पृथक्त्वाद्भिन्नलक्षणम् । पृथक्त्वैकत्वरूपेण तत्त्वमेकं प्रकाशते ।। यत्पृथक्त्वमसंदिग्धं तदेकत्वान्न भिद्यते । यदेकत्वमसंदिग्धं तत्पृथक्त्वान्न भिद्यते ।। (प्. १६४) द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः ।। इति । अयमेवार्थः उक्त्यन्तरेण स्वस्तोत्रे प्रतिपादितोऽस्माभिः चित्रालोकविकल्पकल्पितनवाकल्पाङ्कनानाकृतिं नृत्यन्तीं बहुधा बहिः स्ववपुषोऽप्यन्तर्न भिन्नां पुनः । नित्यं नूतनकौतुकः प्रियतमां स्वां शक्तिमालोकयन् अच्छिन्नाप्रतिमप्रमोदमहिमा शंभुर्जयत्येककः ।। इति । तत् अत्र समनन्तरव्याख्याते श्लोके प्रकरणारम्भश्लोकप्रतिज्ञातः स्वसंवेदनसंवेद्य आत्मैश्वर्याद्वयलक्षणोऽर्थो निर्वाहितः । व्याख्यातमेतत् वृत्तिकृता यदा पुनरेकत्र स्थूले सूक्ष्मे वा इत्यादिना ग्रन्थेन ।। २१ ।। इति श्रीराजानकश्रीरामविरचितायां स्पन्दविवृतौ शक्त्यात्मकविश्वाव्यतिरेकोपलब्धिः प्रकीर्णं च चतुर्थो निःष्यन्दः समाप्तः ।। ४ ।। (प्. १६५) विवृति: इदानीम् आत्मन एव एकस्य तत्त्वस्य संशयमात्रम् अप्रथने कारणं, तच्च सद्गुरूपदेशव्यतिरेकेण न शक्यमुन्मूलयितुम्, परमेश्वरो हि गुरुमूर्तिमाविश्य अनुग्राह्यान् स्वप्रत्यभिज्ञापनेन प्रबोधयति, - इति निजगुरुसरस्वतीस्तवनद्वारेणाह अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् (क्: संशयाम्भोधेरिति; ग्: संशयाम्भोधौ) । वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् ।। ५/१ (५२) ।। वृती अगाधो ह्यप्रतिष्ठोऽनन्तः ।। ५२ ।। इति श्रीभट्टकल्लटविरचितायां स्पन्दकारिकावृत्तौ विभूतिस्पन्दस् - तृतीयो निःष्यन्दः ।। ३ ।। (प्. ४०) समाप्तं स्पन्दसर्वस्वं प्रवृत्तं भट्टकल्लटात् । स्वप्रकाशैकचित्तत्त्वपरिरम्भरसोत्सुकात् ।। १ ।। दृब्धं महादेवगिरौ महेशस्वप्नोपदिष्टाच्छिवसूत्रसिन्धोः । स्पन्दामृतं यद्वसुगुप्तपादैः श्रीकल्लटस्तत्प्रकटीचकार (क्: चित्तत्त्वे परिरम्भ) ।। २ ।। आ तपनान्मोटकान्तं यस्य मे गुरुसंततिः । तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ।। ३ ।। परिपूर्णेयं स्पन्दवृत्तिः कृतिस्तत्रभवन्महामाहेश्वराचार्यवर्यभट्टश्रीकल्लट- पादानाम् ।। विवृति: (प्. १६५) ताम् अशक्यस्वरूपप्रतिपादनां हृदि स्फुरन्तीं गुरुभारतीं वन्दे गुरोः वसुगुप्ताभिधानस्य साक्षात् सिद्धमुखसंक्रान्तसमस्तरहस्योपनिषद्भूतस्पन्दतत्त्वा- मृतनिःष्यन्दस्य, भारतीं वाचं स्तौमि । कीदृशीम् ? - अगाध (प्. १६६) इत्याद्यार्धेन विशेषणम्, अविद्यमानो गाधो विश्रान्तिभूमिका यत्र तादृशो यः संशयः तत्त्वाप्रतिपत्तिरूपो विभ्रमः, स एव दुर्जरविकल्पोर्मिजालसंकुलत्वादिना अम्भोधिः समुद्रः, तस्य समुत्तरणे सम्यक् विलङ्घने तारिणीम् नावम् । तथा विचित्रार्थपदां विचित्रः अत्यद्भुतः अर्थोऽभिधेयं वस्तु येषां तादृंशि पदानि यस्यां सा । तथा तां चित्रां घटनाविशेषशालित्वात् विस्मयाधायिनीम् । विशेषणद्वयेन अनेन अर्थगतं शब्दगतं च अतिशयं तुष्टाव, यतोऽत्र सकललोकाशयनिर्विषयः कतिपयलोकोत्तरप्रबुद्धहृदयसंवादी विचित्रोऽर्थः पदानां, तादृगर्थप्रतिपादनशालिनी च चित्रा पदवाक्यरचना - इति ओं । व्याख्यातमेतत् वृत्तौ अगाधो हि अप्रतिष्ठोऽन्तः इत्यादिना ग्रन्थेन ।। १ ।। (प्. १६७) एष स्पन्दाभिधानो निधिरिह विवृतो वीतसंदेहसर्प- त्रासः संपूर्णासिद्धिप्रदनिरतिशयज्ञानमाणिक्यगर्भः । सर्वार्थिभ्यो विलब्ध्या स्वयमपि सहजानन्दभोगोपलब्ध्या भव्यानामस्य लाभं सफलयतु परः शंकरस्य प्रसादः ।। १ ।। सद्विद्यासरसीविभूषणवरस्फारोत्पलोच्चाशय- प्रोत्सर्पत्परिपक्ववोधमधुपेनेदं मयागायि यत् । रामेणानुपमप्रमोदमधुरं बद्धावधानस्य त- च्छ्रोतुः कस्य न चेतनस्य तनुते विश्रान्तिमन्तः पराम् ।। २ ।। चेतस्याकुलिते क्वचित्कुविषये तूष्णीं विवृत्य स्थितां व्यावर्त्य प्रणयात्प्रसाद्य च शनैः कान्तां निजां चेतनाम् । चुम्बन्तो विगलद्विभागनिविडाश्लेषोल्लसन्नूतना- नन्दस्पन्दनिमीलिताक्षमनिशं भूयास्त भव्याशयाः ।। ३ ।। अत्युक्तं यदिहास्त्यनुक्तमपि यद्यद्वा दुरुक्तं बुधै- स्तत्सूक्ष्मांशनिरूपणैकनिभृतप्रज्ञैरवज्ञायताम् । पुष्पान्तर्मकरन्दसारकणिकास्वादोत्सुकाः कानने किं विन्दन्ति कठोरकण्टकशिखास्पर्शव्यथां षट्पदाः ।। ४ ।। शशिज्योतिर्दीपप्रभृतिभिरशक्यं शमयितुं यदासीन्निःस्पन्दीकृतसकललोकं किल तमः । गते तत्रेदानीं क्षयममलसूर्यागमहते कृतार्थाः संकोचं विजहतु विनिद्रा जनदृशः ।। ५ ।। जयति जनमरिष्टादुद्धरन्ती भवानी जयति निजविभूतिव्याप्तविश्वः स्मरारिः । जयति च गजवक्त्रः सोऽत्र यस्य प्रसादा- दुपरमति समस्तो विघ्नवर्गोपसर्गः ।। ६ ।। संपूर्णा इयं वृत्त्यनुसारिणी स्पन्दविवृतिः । कृतिस्तत्रभवतो महामाहेश्वराचार्यशिरोमणिराजानक- श्रीमदुत्पलदेवपादपद्मानुजीविनो राजानकश्रीरामकण्ठस्य इति शिवम् ।। ।। </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] 3hc8sudae58kwy91mwnd0ag0oepk957 स्पन्दप्रदीपिका 0 165523 417924 2026-07-31T06:11:43Z Shubha 190 {{header | title = स्पन्दप्रदीपिका | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> Description: The Spandapradīpikā by the Vaiṣṇ ava Bhagavatutpala. A commentary on the Spandakārikā. प्. १] स्पन्दप्रदीपिका: उत्पलाचार्यविर... नवीन पृष्ठं निर्मीत अस्ती 417924 wikitext text/x-wiki {{header | title = स्पन्दप्रदीपिका | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> Description: The Spandapradīpikā by the Vaiṣṇ ava Bhagavatutpala. A commentary on the Spandakārikā. प्. १] स्पन्दप्रदीपिका: उत्पलाचार्यविरचिता यत् परापरभूस्पर्शि यत्सङ्कल्पाल्लयोदयौ | स्पन्दसंज्ञं ज्ञरूपं तच्छक्तीशं स्वबलं नुमः || नत्वा विकल्पविलसत्सत्स्वभावगुरुं गुरुम् | भुक्तिमुक्त्यै युक्तियुक्तं किञ्चिद्वच्म्यर्थितोऽर्थिभिः || ज्ञानान्तराणि सन्त्याशु नात्यन्तसुखदानि तु | मुक्तात्मज्ञानममृतं सुरसेष्विव मृत्युजित् || चिन्तामणिस्त्वेक एव सगुणेषुमणिष्विव | तेजस्विषु यथैकोऽर्को निःशेषध्वान्तहा तथा || नारायणस्थानसंस्थद्विजवर्यत्रिविक्रमात् | जातो जनानुग्रहार्थ व्याख्याति स्पन्दमुत्पलः || मायाश्यामतमश्छन्न आत्मचिन्तामणिर्यतः | न दृश्यतेऽतस्तत्प्राप्त्यै ग्राह्या स्पन्दप्रदीपिका || अयमत्र किलाम्नायः सिद्धमुखेनागतं रहस्यं यत् | तद् भट्टकल्लटेन्दुर्वसुगुप्तगुरोरवाप्य शिष्याणाम् || अवबोधार्थमनुष्टुप्पञ्चाशिकयाऽत्र सड्ग्रहं कृतवान् | यदपि तदर्थो व्याख्याज्योत्स्नाप्रकटीकृतोऽस्ति तेनेषत् || मोहनिशामध्यगता मन्ददृशस्तदपि नार्थमीक्षन्ते | सूक्ष्मं दीपिकयाऽन्ते स्वतस्तदुद्दीपनार्थमहमद्य || प्. २] स्वोद्यन्तृतः स्वरूपस्पन्दोल्लासेन चोदितश्च यदा | परवश इव प्रवृत्तस्तदा न गर्वान्मयेयमारब्धा || (कलापकोऽयम्) अत्रादौ तावत्सम्बन्धाभिधानाभिधेयविषयप्रयोजनप्रयोजन - प्रयोजनानीति षडुच्यन्ते | यतस्तैर्विना श्रोतॄणां शास्त्रं प्रत्यनादर एव स्यादप्रयत्नश्च | इहैवोक्तं हि - प्रयत्नेन परीक्ष्यं तत्त्वमादरादिति शास्त्रमन्तरेण च हेयोपादेयविचारमात्रमपि न भवेत् किं पुनस्तत्त्वपरीक्षणम् | तथा चोक्तमागमरहस्यस्तोत्रे - साक्षाद्भवान् यदि विधाय न मूर्तिमाद्यां तत्त्वं निजं तदवदिष्यदतोऽतिगुह्यम् | नाज्ञास्यत त्रिभुवनम् ध्रुवमन्धमूक - कल्पं समस्तमसमञ्जसतामयास्यत् || षाड्गुण्यविवेकेऽपि - साक्षात् त्वमेव वा शास्त्रं त्वदीयैव हि सा मतिः | शब्दद्वारेण सङ्क्रम्य संस्करोत्यधिकारिणः || पञ्चरात्रश्रुतावपि - यद्वत् सोपानेन प्रासादमारुहेत् प्लवेन वा नदीं तरेत् तद्वच्छास्त्रेणैव हि भगवाञ्छास्ताऽवगन्तव्य इति | तत्रामीषां शास्त्राणां सम्बन्धस्तावत् पञ्चविधः | परो महान् दिव्यो दिव्येतर इतरेतरश्चेति | तत्रेह सिद्धपुरुषयोः प्रायेण दिव्येतरः | अथ वाच्यवाचकलक्षणः | वाच्योर्थः | वाचकं शास्त्रम् | स्पन्दाभिधोऽर्थोऽत्र वाच्यः | तद्वाचकत्वा - दुपचाराच्छास्त्रस्याप्येतत्संज्ञा | स्पन्दशब्दस्यार्थो यद्यप्याद्यश्लोके युक्त्यैवोक्तस्तथापि धात्वर्थेन सहोच्यते | स्पदि किञ्चिच्चलने इति | प्. ३] स्पन्दनात् स्पन्दः | स्पन्दनं निस्तरङ्गस्यास्य तावत् परमात्मनो युगपन्निर्विकल्पा या सर्वत्रौन्मुख्यवृत्तिता | तस्मात् - शान्तषाड्गुण्यरूपस्य यः स्फुरन् प्रतिभोदयः | स चाऽऽत्मबलशक्तीशश्चिद्रूपः स्पन्दसंज्ञकः || अतश्चाऽस्मत्पितुर्मातामहाचार्येण महाबलेन - यथार्थनाम्ना क्रोधे इत्यादिनाक्तो विभवोदयो रहस्यस्तोत्रे | उक्तं चेश्वरप्रत्यभिज्ञायाम् - या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता | अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः || व्यापकत्वात्स सामान्यः सर्वसाधारणादपि | अस्य च - स्पन्दः सामान्यपूर्वंश्च शुद्धात्मा शङ्करः शिवः | भावः स्वभावस्तत्त्वं च ज्ञातेत्याद्यभिधाः स्मृताः || अन्यच्च, चित् संविज्ज्ञानं बोधश्चेति पर्यायाः | एष एव निरावरणचित्स्वरूपत्वाद् दिक्कालाद्यनवच्छिन्नप्रसरोऽद्वितीयः स्वानुभवैकप्रमाणः शक्तिचक्रेश्वर आत्मचिन्तामणिरुपेयतयाऽ -भिधेयः | कुतोऽस्य चिन्तामणित्वमिति चेत् | शास्त्रात् | श्रीपौष्करायां ह्युक्तम् - चिन्तामणो स्वरूपेण न किञ्चिदुपलभ्यते | अथ चाभिमतं सूते ब्रह्मैवं सर्वशक्तिकम् || परमार्थसारे च - सर्वाकारो भगवानुपास्यते येन येन भावेन | तं तं भावं भूत्वा चिन्तामणिरिव समभ्येति || ज्ञानसम्बोधेऽपि - स्वभावादेकरूपापि नानात्वं प्रतिपद्यते | ज्ञानस्य शक्तिः सङ्कल्पैर्लक्ष्मीश्चिन्तामणेरिव || प्. ४] अस्य च शास्त्रकारेणान्वर्थसंज्ञयाऽऽत्यन्तिकश्रेयस्करत् - वाच्छिवशङ्करशब्दाभ्यां निर्देशः कृतः | वस्तुवस्तु निर्नामक एव | प्रोक्तं च सिद्धनाथेनाभेदार्थकारिकास्विदम् - वस्तुनो भावशून्यस्य त्वग्राह्यस्य निराकृतेः | कल्पनामात्रमेवैतत् यच्छिवव्यपदेशनम् || नेत्थं विभोर्विवर्तोऽस्ति परिणामश्च न क्वचित् | अथवा द्वयमप्यस्तु तथाप्यस्य न खण्डना || संवित्प्रकाशेऽपि - इति निर्मलबोधैकरूपे देहपरिग्रहः | विवर्तपरिणामाभ्यां द्वाभ्यामप्युपपद्यते || विवर्तेऽप्यतथारूपस्तथा भासि त्वमच्युत | परिणामे स एव त्वं सुवर्णमिव कुण्डले || ननु कथमस्य निरावरणत्वं यतः सुखदुःखमोहात्मक -गुणादिस्पन्दनिष्यन्दैरावृतमेव पश्यामः | अत्रोच्यते | एते हि ज्ञेयत्वात् स्वयं निःसत्ताकाः | ज्ञातृसंश्रयात्तु लब्धप्रतिष्ठा इवाप्रबुद्धबुद्धीनां स्वं शुद्धबुद्धस्वरूपं विहायाहम् -प्रत्ययेन कामकामात्तादात्म्यं प्रतिपन्नानां निजधर्मैरधि - वास्य सङ्कोचरूपतामापादयन्त्यविद्यारूपत्वात् | न पुनः स्वस्वरूपस्थितानाम् | उक्तं चेहाग्रे - गुणादिस्पन्द इत्यादि | धातुसमीक्षायां च - अविद्याशबलस्यास्य स्थितं मेयत्वमात्मनः | गृहीतं न निजं रूपं शबलेन तदात्मना || सा चाऽनृतात्मिकाऽविद्या नानृतस्य हि वस्तुता | नावस्तु वस्तुनो नाशं विकारं वा करोत्यतः || प्. ५] नाच्छादितस्य तमसा रज्जुखण्डस्य विक्रिया | नाशो वा क्रियते यद्वत् तद्वन्नाऽविद्ययाऽऽत्मनः || नाऽतः स्वतो न परतो बन्धोऽस्य परमात्मनः | बद्धोऽथाऽविद्यया जीवो मुक्तिस्तस्य हि तत्क्षये || तत्वयुक्तौ च - येन येन हि बद्ध्यन्ते जन्तवो रौद्रकर्मणा | सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् || कुलयुक्तौ च - प्राणिनां पतनं येन तेनैवोत्पतनं स्मृतम् | अज्ञत्वा बध्यते येन ज्ञात्वा तेनैव मुच्यते || तथा मयाऽपि - सीदति येनैव जडः प्राज्ञस्तेनैव सन्तरति दुःखात् | पिण्डितमयोऽप्सु मज्जति तदेव पात्रीकृतं प्लवते || गीतासु चेदृगेवाऽत्र युक्त्योपायः प्रदर्शितः - आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् | तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || तथा - रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् | आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || अन्यच्च - असंत्यक्तात्मभावानां विषयाननुगृह्णताम् | विज्ञातपरमार्थानां जीवतामेव मुक्तता || ते चैवास्यात्मनः स्पन्दो नटस्येवान्यरूपता | उक्तं च योगिनाथेन ह्येतच्चिच्छक्तिसंस्तुतौ - प्. ६] तदेवं त्वत्प्रवृत्त्या त्वन्निवृत्त्या चोदयेतरे | जुषन्ते येन तत्त्वानि तान्यतः स्पन्द एव ते || वैसादृश्येऽपि कार्यस्यास्यात्र दृष्टान्तमाह यत् | ज्वलनाद् धूमोद्गतिरिव विविधाकृतिरम्बरे गता भाति | तद्वद्विष्णोः सृष्टिः स्वभावजा द्वैतरूपेयम् || प्राश्यानश्चिद्रसस्यौधः साकारत्वमुपागतः | अवश्यायः प्रबोधार्के तूदिते स्वस्वभावभाक् || इत्यलमतिविस्तरेण, ग्रन्थगौरवभयात् | इह चैतदेवाशमा -प्तेर्विचार्यते | उपायोपेयप्रतिपादनमेव शास्त्रस्य प्रयोजनम् | या तदवबोधादुपेयस्वरूपापत्तिः स्थिरा तदेव प्रयोजनप्रयोजनमिति | अस्य चेदं दर्शनं स्वतन्त्रम् | प्रागुक्तोपपत्त्या सर्वशास्त्रसमुद् -भूतं चाद्वैतप्रतिपादकत्वं निर्बाधमेव | यतो विमर्शात्म - स्पन्दभूम्युपारोहात् पश्यन्त्यादिक्रमेण वाक्प्रसवलाभः | उक्तं च संवित्प्रकाशे - संविन्मूलाद् वर्णपर्णाज्ज्ञानस्तम्भात् सरस्वती | प्रागघोषा सनादाऽनु पुण्यतीर्था प्रवर्तते || त्वत्प्रवृत्ता प्राणयति शक्तिः सा विश्वमोजसा | प्रतियान्ती पुनस्त्वां सा संकोचयति संभवम् || कार्याऽनुरूपं सा रूपं तथा नामापि बिभ्रती | निर्वाहयति विश्वस्मिंश्चित्रां यात्रां चराचराम् || तद्विना च सर्ववादिनां सत्तैव नास्त्यतस्ते निरस्ता एव स्थिताः | अत एवेश्वरप्रत्यभिज्ञायामादिसिद्धरित्युक्तम् - प्. ७] कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे | अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः || इति | तदप्यत्र ये मोहाद्विप्रतिपद्यन्ते तेष्विदमापतितम् | यथा कश्चिन्माण्डलिको राजा चक्रवर्तिनः सकाशात् किञ्चिच्चतुरङ्गादि -साधनं प्रार्थ्यानन्तरं साम्राज्यजिगीषया तेनैव सह युद्धं कर्तुमिच्छति, तदात्मविनाशायैव तस्य स्यात् | एवं तेषामपि तत् | इत्थमप्यस्याजययत्वं सिद्धमेवेति | अथ संग्रहग्रन्थकृता समग्रमग्र्यग्रन्थार्थ गर्भीकृत्य ग्रन्थनिष्पत्त्यर्थमभिमतदेवतां स्तोतुं यः श्लोक उपन्यस्तस्तस् -यार्थः प्राक् श्लोके ध्वनितोऽपि वितत्योच्यते - यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ | तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः || १ || तं भगवन्तं शङ्करं स्तुमो नुमः | भोगापवर्गाख्यं शं श्रेयः सुखं वा करोतीति शङ्करः | अमलः स्वस्वभावो य प्रागभिधेयतयोपात्तः | इह हि जीवन्मुक्ततैव मोक्षः | उक्तं चेहाग्रे - इति वा यस्य संवित्तिरित्यादि | तस्याश्चैतद् द्वयमप्यन्तःस्थम् | यतः सा ज्ञत्वकर्तृत्वभोक् -तृत्वेश्वरतारूपा उक्तं चेह - तदास्याकृत्रिमो धर्म इत्यादि तथा - यदा त्वेकत्रेत्यादि | सर्वज्ञभैरवे च - नान्यत्र गमनं स्थानं मोक्षोऽस्ति सुरसुन्दरि | अज्ञानग्रन्थिभेदो यः स मोक्ष इति कथ्यते || मोक्षधर्मेषु - प्. ८] चित्तमेव हि संसारो रागादिक्लेशदूषितम् | तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते || बौद्धे च - रागादिमलिनं चित्तं संसारस्तद्विमुक्तता | संक्षेपात् कथितो मोक्षः प्रहीणावरणैर्जिनैः || नारदसंग्रहे च - सर्वो विकल्पः संसारो नान्यो बन्धो विकल्पतः | ग्रन्थकर्तुश्च स्वस्वभावसम्बोधने - बन्धनं बन्धकृद् बध्यस्त्रिष्वप्येको न भिद्यते | स्वविकल्पकृतैर्बन्धैर्बद्ध्यते त्वनिशं जगत् || आत्मसप्ततौ च - वस्तुस्थित्या न बन्धोऽस्ति तदभावान्न मुक्तता | विकल्पघटितावेतावुभावपि न किञ्चिन || पञ्चरात्रेऽपि - त्रिविधो दोषः - स्वभावजस्तामसो विकल्पजो राजस इत्यादि यावत् -तेनैव देहेन वशीभवति भगवद्भूतस्तदा सर्वज्ञो भवति सर्वदर्शी सर्वेश्वरः सर्वशक्तिरित्यादि | अत एवाऽत्र भगवच्छव्दः प्रयुक्तः | यतः - ऐश्वर्यस्य समग्रस्य ज्ञानस्य यशसः श्रियः | वैराग्यस्य च मोक्षस्य षण्णां भग इति स्मृतः || भगवद्व्यतिरेकेण न च स्तुत्योऽस्ति मानिनाम् | तत्स्वरूपानुप्रवेश एव स्तुतिरत्र त्वभिन्नत्वमेवाभिमतम् | अन्यथा कः स्तोता कः स्तुत्यः का वा स्तुतिर्यस्मात् - प्. ९] विरुद्धमेतदद्वैतात् स्वच्छायोल्लङ्घनं यथा | उक्तं च - वेद्यं स्वरूपतां नीत्वा यदा जानाति वेदनम् | तदानीं वेद्यता का स्यात् का वा वेदनता परा || केवलं त्वत्र शब्दकृतो भेदः | सोऽपि विकल्पमूलत्वात्तेषाम् | उक्तं च - विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः | यथा राहोः शिर इति धारा वा सर्पिषो यथा || अन्यच्च - यदभिन्नं स्वसंवित्तौ तत् परस्य यदोच्यते | तद्भिन्नमिवाभाति शाब्दीं भूमिमुपागतम् || तैश्च विना व्यवहारोऽपि न निर्वहति | उक्तं संवित्प्रकाशे - वागेवास्याः कारणं विश्ववृत्तेर् - न्याययं चैतन्नागमः केवलोऽयम् | नासङ्कल्पं किञ्चिदस्तीह कार्यं वाचं विना न विकल्पोऽस्ति कश्चित् || एषाऽपि बोधमूलेति प्रागेवोक्तम् | अन्यच्च जयाख्यसंहितायाम् - निष्कम्पबोधसामान्यरूपो भूत्वा पुरा स्वयम् | ये शब्दजनिता भावाः सूक्ष्मसूक्ष्मतराऽखिलाः || सामान्यबोधशब्दस्य पश्यतस्त्वेकतां गताः | यदाऽभिमुखमायान्ति सङ्कल्पाद्युत्थितस्य च || शब्दरूपपदार्थस्य शब्दः स परमः स्मृतः | सङ्कल्पपदवीरूढः स्फुरत्यन्तः स्थितः स्फुटम् || पदार्थोपरि यः शब्दो मध्यमं विद्धि तं मुने | चिद्वायुकरणोत्थासु प्रयत्नपदवीषु च || प्. १०] वाच्यवाचकभावेनाऽभिव्यक्तः स्थूल उच्यते | दृश्यादृश्येषु भावेषु योऽभिव्यक्तिं प्रयाति च || स तु स्थूलतरश्चैव व्यवहारेऽखिले स्थितः | अन्यत्रापि - शरीरजो वा शाब्दो वा मानसो वा समुद्गतः | व्यवहारोऽप्यसौ नास्ति यत्र त्वं नाथ नाग्रगः || इत्युपपन्नमेतत् | तं स्तुम इत्युक्तम् | तं कम्? यदुन्मेषादौन् -मुख्याज्जगतो विश्वस्योदयः प्रभवः सन्ततिरिति यावत् | निमेषाद् -विश्रामात् प्रलयोऽप्ययः | न ह्येतद्व्यतिरिक्तस्य जगतोऽस्त्युदयोऽप्ययो वा | किन्त्वीशशक्तिप्रसरविरामौ प्रभवाऽप्ययौ | सिद्धोक्तं च - समुदेति जगदशेषं तवोदयविमलसंविदाकारे | अस्तं याति समस्तं पुनरपि निजरूपरूढायाः || इति | ग्रन्थकृताप्युक्तं तत्त्वविचारे - शक्तिप्रसरसङ्कोचनिबद्धावुदयव्ययौ | यस्यात्मा स शिवो ज्ञेयः सर्वभावप्रवर्तकः || कक्ष्यास्तोत्रेऽपि - त्वदाशयोन्मेषनिमेषमात्रमयौ जगत्सर्गलयावितीदृक् | स्फुटे स्फुटं त्वन्महिमाऽवभाति विचित्रनिर्माणनिदर्शनेन || ज्ञानक्रियादिगर्भेच्छाशक्तिर्यः प्रसरात्मकः | सङ्कल्पोक्तः स उन्मेषः प्रोक्तो ह्येतत् स्वतन्त्रके || यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते | क्रियाकरणसंयोगात् पदार्थस्योदयो भवेत् || तद्विरतिश्च निमेषः | उदयप्रलयाविति वक्तव्ये प्रलयोदयाविति यदुक्तं तद्वृत्तभङ्गभयात् | विपर्ययेण चोन्मेषशब्दस्य मङ्गलार्थत्वादादिप्रयोगः सृष्टेश्चाद्यत्वात् | प्. ११] यस्माद्वस्त्वभिधेयं नातः शब्दक्रमेऽत्र भवबन्धः | तत्पक्षो नीचः स्याद्ये तु ब्रुवते यथासंख्यम् || आभ्यामस्य जगत्सृष्टिसंहारयोः कारणभावः प्रोक्तो भुक्तिमुक्ती च | तत्रोन्मेषाद्भोगो नानाविधः | निमेषान्मोक्षो निस्तरङ्गरूपता | अन्यच्च | तं किंभूतम् शक्तिचक्रविभवप्रभव -मिति | इच्छाख्यैका विभोः शक्तिः प्राग्द्विधा ज्ञक्रियाभिदा || इति | तन्नानात्वं चक्रशब्देनोक्तम् | तदुक्तं मालिनीविजये - या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते || सैकाऽपि सत्यनेकत्वं यथा गच्छति तच्छृणु | एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् || ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते | एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा || जाता तदैव सा तत्तद्वत्कुर्वत्यत्र क्रियोच्यते | एवमेषा द्विरूपाऽपि पुनर्भेदैरनेकताम् || अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी | तत्र मातृत्वमापन्ना पञ्चाशद्वर्णमालिनी || इति | शक्तीनां चक्रं शक्तिचक्रं मातृवर्गस्तच्च मुख्यं चतुर्विधम् | उक्तं च - खेचरी गोचरी चाऽथ दिक्चरी भूचरी भिदा | परादिभारतीसंस्थं शक्तिचक्रं चतुर्विधं || तथा - आनन्देच्छा ज्ञ -क्रियाख्यं खेचर्याद्यं चतुष्टयम् || इति | तस्य यो विभवो विभूतिर्विस्तरो वा तस्याऽपि प्रभवम् | प्रभवत् -यस्मादिति प्रभव उत्पत्तिस्थानम् | प्. १२] यतः सर्वासां शक्तीनां सस्फारचिच्छक्त्यवगमनाच्छक्ति -त्वम् | सा च तदभिन्नैव | प्रोक्तं हि श्रीजयायाम् - तत्त्वनिर्मुक्तदेहस्य केवलस्य चिदात्मनः | य उदेति महानन्दः सा शक्तिर्वैष्णवी परा || इति | विष्णुयामले च - पाहि पाहीति वचनात्तत्त्राणात्तस्वविग्रहाः | परापरबलस्पर्शात् स्वस्वरूपसमाश्रयात् || निहता दानववराः परं वीर्य प्रकाशितम् | तेन ता मातरः प्रोक्ता विश्वसम्भवकारणात् || इति | अत एव ग्रन्थकारेणासां विज्ञानदेहात्मकत्वमुक्तम् | अथवालमत्र | किमनेनासां रहस्यस्वरूपातिप्रकाशनेन योगिनी -नां मुखगतेन | शक्तयश्च खेचर्याद्या वेच्छाद्या वा पराद्या वा अघोराद्या वा वामाद्या वा ब्राह्म्याद्या वा अन्या वैष्णव -शैव -सौरबौद्धाद्युक्ता वा | अथवा शब्दराशिसमुत्थस्येत्यादिना | वक्ष्यमाणा अकाराद्यक्षररूपा करणरूपा वा भवन्तु | एतावत् प्रयोजनमत्राभिर्यदासां सर्वासां स्पन्दरूपो भगवानेव प्रभव इति प्रतिपादनम् | तथा च मायांवामनसंहितायाम् - विष्णु -शिव -सूर्य -बुद्धादि रूपतया तत्तच्छक्तिचक्रपरिवारयुतस्तत् -कारणं भगवानेक एव ध्यानभेदेनोपास्यत्वेनाभिहितः | उक्तं च कुलयुक्तौ - वेदान्ते वैष्णवे शैवे सौरे बौद्धेऽन्यतोऽपि च | एक एव परो ह्यात्मा ज्ञाता ज्ञेयं महेश्वरि || अन्यच्च - यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ | तं स्तुमः इत्येतावता सर्वमुक्तं स्याज्जगत्यन्तस्फुरणाच्छक्तिचक्रस्य | उक्तं हि रहस्यशास्त्रेषु - शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते | प्. १३] शक्तयश्च जगत् सर्वं शक्तिमांस्तु महेश्वरः || इति | यत्तु शक्तिचक्रविभवप्रभवमिति पदमुपन्यस्तं तदुद्देशार्थम् | साभिप्रायत्वान्महाकवेः | उक्तं च ध्वनौ - प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् | यत्तत् प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु || तेनैतदेव शक्तीनां यतोऽन्तःप्रसरोदयौ | तद्बलालम्भनात्तासां प्रभुत्वं प्राप्यतेऽचिरात् || उक्तं चेह - अपि त्वात्मबलस्पर्शात् पुरुषस्तत्समो भवेत् | इति | यदिदं पदमग्रेऽस्ति परीक्ष्यं तत्त्वमादरात् | इतः प्रभृति सर्वत्रेहानुयोज्यं तु तद्बुधैः || इति || १ || ननु संसार्यवस्थायां कथं शङ्करताऽऽत्मनि | इत्याशङ्कोत्थदुर्दोषपरिहाराय तूच्यते || - यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् | तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् || २ || यत्र यस्मिन् स्पन्दतत्त्वे इदं सर्वं जगल्लक्षणं कार्यं ज्ञानरूपतया शक्त्यात्मना स्थितं निमेषावस्थायां सत्कार्य -त्वात् | यस्माच्च निर्गतमभिव्यक्तिं गतमुन्मेषावस्थायां तस्या - नावृतरूपत्वाद् बोधरूपतयाऽनाच्छादितस्वभाव त्वाद्धेतोर्न कुत्रचिन्निरो धोऽस्ति | यतो बोध्यस्य स्वयं सत्तैव नास्त्यतो बोधृरूपमनावृतमेवावस्थाद्वयेऽपि | उक्तं च - यथा हेम्नो रूपकेषु वैचित्र्यं स्वापरिच्युतेः | प्. १४] अथ नित्यस्वरूपस्य तथा ते विश्वरूपता || यथा गलितरूपस्य हेम्नः पिण्डात्मना स्थितिः | तथा गलितवेद्यस्य तव शुद्धचिदात्मता || ज्ञानसम्बोधेऽपि - विश्वस्याश्रय आकाशं न विश्वं नभसो भवेत् | ज्ञानं नभ इवानन्तं ज्ञेयं विश्ववदल्पकम् || आकाशस्य यथान्येन प्रतिबन्धो न केनचित् | व्यापित्वात् तद्वदस्याऽपि ज्ञानस्याऽप्रतिबन्धता || इति || २ || सर्ववृत्त्युपसंहारे निरोधो मास्तु तस्य तु | जाग्रदाद्यास्ववस्थासु कुतः स्यादनिरुद्धता || जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति | निवर्तते निजान्नैव स्वभावादुपलब्धृतः || ३ || जाग्रदादिविभेदे प्रसर्पति प्रसरत्यपि सति तत् स्पन्दतत्त्वं निजादात्मीयात् स्वभावादुपलब्धृरूपात् स्वसंवित्स्वरूपान्नैव निवर्तते | कुतः उपलब्धृतो हेतोर्वा | यस्मादुपलब्धृरूपत्वं तिसृष्वप्यवस्थासु साधारणम् | उक्तं च - अवस्थास्वेव भेदोऽयं नावस्थातुः कदाचन | यथा विषस्याङ्कुरादौ तच्छक्तेर्न तु भिन्नता || इति | जाग्रत्स्वप्नयोस्तावत्संवेदनं सर्वेषां प्रसिद्धमेव सुषुप्तेऽप्युत्तरकालं सुखमहमस्वाप्समित्याद्यज्ञस्याऽपि संवेदनात् सवेत्ता निर्नष्ट एव | उक्तं च - वेल्लत्सु प्रतिबिम्बेषु जलस्पन्दानुवर्तिषु | यंथेन्दोर्न क्रियावेशस्तथाऽत्र परमात्मनः || अन्यच्च, कीदृशे विभेदे विशेषेण भेदो विभेदस्तस्मिन् | किंभूते तदभिन्ने | तस्यैव ताद्रूप्येणावस्थानात् | तथा च - प्. १५] अक्षैर्योऽर्थग्रहो द्रष्टुस्तज्जाग्रदिति कथ्यते | यत्तैर्विनार्थस्मरणं मनसा स्वप्नसंज्ञितम् || यत्रार्थस्मरणं नास्ति तत् सौषुप्तमुदाहृतम् | शुद्धबोधैकरूपो योऽवस्थाता सैव तुर्यता || || ३ || अवस्था एव विश्वान्तर्नावस्थातेति ये जगुः | प्रत्यभिज्ञादियुक्त्येयं तन्निरासाय कारिका || - अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः | सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्रताः स्फुटम् || ४ || अहं सुखीत्यादि याः संविदः संवेदनान्यवस्थाः | ताः संविद्भ्योऽन्यत्र संवेत्तर्यवस्थातरि सुखाद्युपलब्धरि उपराग -तया स्फुटं कृत्वा वर्तन्तेऽवतिष्ठन्ते | संवेत्तारं विना संवेदनस्याऽभावात् | नद्योऽब्धाविव तादात्म्यं तत्प्रविष्टाः प्रयान्ति वा | क्षणिकज्ञानानां ह्येव न तु ता एव केवलाः || यस्मात् - कार्यकारणभावो हि बाध्यबाधकताऽपि च | पूर्वापरैकमातारमन्तरेण न सिध्यतः || इति | तत्र हि - प्रमाण्यं क्षणिकत्वेन प्रत्यक्षेणोपपद्यते | प्राग्भाव्युत्तरज्ञानदार्ढ्यात् प्रामाण्यसिद्धितः || प्रतिक्षणमथान्यत्वात् सामान्यस्याग्रहे सति | विलक्षणाः क्षणाः सर्वे प्रामाण्यं किं निबन्धनम् || प्. १६] सम्बन्धस्याग्रहश्चापि तेन मानस्य का गतिः | मिथ्याज्ञानस्य मिथ्यात्वं ब्रूहि वा किं निबन्धनम् || क्षणान्तरे शुक्तिकायां रजतं केन वार्यते | भिन्नज्ञानस्य कर्तृत्वे सर्व प्रामाण्यमाप्नुयात् || अन्यस्वरूपसंसिद्धावन्यसिद्धिर्भवेद्यदि | घटस्वरूपसंसिद्धौ पटस्यावगमो भवेत् || योऽयं स एवायमिति प्रत्ययः स्थिरकालजः | कर्तुं शक्यो न तद्बाधप्रामाण्यात् क्षणिकैस्ततः || प्राग्विज्ञानस्मृतिं प्रत्यभिज्ञा नित्यं प्रतिष्ठिता | अतो नित्यस्वभावस्यैवात्मनः कर्तृतोदिता || इति | किं वा बहूक्त्या - एकप्रमात्रभावात् स्यात् क्षणिकत्वादनिश्चयात् | प्रमाणमप्यप्रमाणं बौद्धानां हि निराश्रयम् || इति | उक्तं च बौद्धायनसंहितायाम् - कार्यकारणभावस्तु नास्ति ज्ञाने क्षणक्षयः | क्षणं द्वितीयं नास्तिचेत् स्मृतिबीजं कथं भवेत् || जनकं तत् कथं नष्टमनष्टं वार्धनष्टकम् | नष्टस्य जनकत्वं चेदभावाद्भावसन्ततिः || जनकत्वे त्वनष्टस्य क्षणभङ्गः प्रहीयते | द्वितीयं यत्क्षणं तिष्ठेत्तदास्ते शतमप्यथ || जनकत्वेऽर्धनष्टस्यार्धे नाऽभावमेति तत् | तस्माद्भावाः स्थिराः सर्वे न च्यवन्ते स्वरूपतः || आत्मावबोधविषये सुस्थिराः क्षणिका न ते | प्. १७] बाध्यबाधकभावोऽपि न स्यान्निश्चायकं विना || शुक्तौ हि रजतज्ञानभ्रान्तिभङ्गोऽस्ति नान्यथा | तस्माज्ज्ञानं नित्यमेकं क्षणिकानि बहूनि नो || इति | सत्कार्यसिद्धौ च - न हि स्वनिष्ठैर्विज्ञानैरितरेतरवेदनम् | तस्मात् पूर्वापरावस्था परिग्रहणपण्डितः || एकः प्रमाता चित्राभिर्वृत्तिभिर्व्यवहारभाक् | प्रत्यभिज्ञायां च - एवमन्योन्यभिन्नानाम परस्परवेदिनाम् | ज्ञानानामनुसन्धानजन्मा नश्येज्जनस्थितिः || न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः | स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान् || गीतास्वपि - मत्तः स्मृतिर्ज्ञानमपोहनं च इत्यलं कुतर्काश्मनां चर्वणेन | अन्यच्च, किंभूते संवेत्तरि ? सुखाद्यवस्थासु बोद्धृरूपतयाऽनुस्यूतेङुविद्धे | मणिषु सूत्रमिव सदानुस्यूते एव सर्वास्ववस्थासु | यस्माद्य एवाहं प्राक्सुखी स एवाद्य दुःखी | आदिग्रहणाद्रक्तोऽहं विरक्तोऽहं मूढोऽहं प्रबुद्धोऽहं धनादिमानहमिति स्मृतिप्रत्यभिज्ञानुसन्धानात् | नन्वेवमसौ सावरणः | नैतत्सत्यम् | विकल्परूपतया तासामनित्यत्वात् | तद्व्यतिरिक्तत्वाच्च संवेत्तुः तास्त्वविद्यावशादुपरागमात्रमस्य | उक्तं च भर्तृहरिणा - नाच्छादितस्य तमसा रज्जुखण्डस्य विक्रिया | नाशो वा क्रियते यद्वत्तद्वन्नाविद्ययाऽऽत्मनः || संवित्प्रकाशे च - अत्यन्ताच्छस्वभावत्वात् स्फटिकस्य यथा स्वकम् | रूपं परोपरक्तस्य नित्यमेवोपलभ्यते || प्. १८] तथा भावसमासक्तं भगवंस्तावकं वपुः | अत्यन्तनिर्मलतया पृथक् तैर्नोपलभ्यते || नैतावताऽसौ स्फटिकः पृथङ्नास्त्येव रञ्जकात् | भावरूपपरित्यक्ता तव वा निर्मला तनुः || इति | तथा - उपरागेऽपि शुद्धत्वं न त्यक्तमनया प्रभो | परित्यज्य निजं रूपं संविदाख्या कुतः श्रयेत् || अथाऽप्राप्यैव तद्रूपं भवेद्रूपान्तरानुगा | तद्रूपापि हि दृश्येत कारणस्याऽपि सम्भवात् || तथाऽत्रैव - सदैव शुद्धोऽनुभवोऽयं प्रत्याकारकर्बुरः | आकारान्तरसञ्चारकाले तस्यापि निर्मलः || यथा जात्या सितं वस्त्रं रक्तं रागेण केनचित् | तत्पदं प्राप्तशुक्लत्वं पुना रागान्तरं श्रयेत् || एवं शुद्धा चितिर्जात्या यदाकारोपरागिणी | तत्त्यागापरसञ्चारमध्ये शुद्धैव तिष्ठति || तथा - नीले पीते सुखे दुःखे चित्स्वरूपमखण्डितम् | विशिनष्टि विकल्पस्तच्चित्रयोपाधिसम्पदा || || ४ || तद्व्यतिरिक्तस्य च रूपमाह - न दुःखं न सुखं यत्र न ग्राह्यो ग्राहको न च | न चास्ति मूढभावोऽपि तदस्ति परमार्थतः || ५ || प्. १९] तत् स्पन्दतत्त्वं परमार्थतोऽस्ति नित्यत्वात्तस्य | यत्र न दुःख -माध्यात्मिकादि | न सुखं वैषयिकम् | न ग्राह्यं घटपटादि न ग्राहकमहमिदं गृह्णामीति प्राकृतं सविकल्पाहङ्काररूपत्व - मविद्यात्मकत्वादहङ्कारस्य | न त्वनेनाधिष्ठातृरूपस्य ग्राहकस्याभाव उक्तः | उपेयत्वात्तस्य | उक्तं च तत्त्वगर्भ - परमार्थेन न ग्राह्यं ग्राहकं वा न किञ्चन | यस्मादृते तत् स्वाभासमस्वाभासमिवेक्ष्यते || इति | एवं तर्हि तत् पाषाणप्रख्यं मूढत्वमेव शून्यं वा | अत्रोच्यते - न चास्ति मुढभावोऽपीति | कुतश्चिद्रूपत्वात् | उक्तं च मुनिना - यथा शीतोष्णयोर्मध्ये काले नोष्णो न शीतलः | एवं हि सुखदुःखाभ्यां हीनमस्ति पदं विभोः || स्तुतौ च - समुदेति यथा भावान् विना भानुर्नभस्तले | वेद्यं विनैव भगवान् भवार्केण स्वतोदयः || तथा - यथोद्धृतविशेषस्य सामान्यस्य निजा स्थितिः | पृथङ् न शक्या निर्देष्टुं न च तत्रास्ति तावता || यथोद्धृता कुण्डलादेः केन कस्य निजा स्थितिः | पृथङ् न शक्या निर्देष्टुं न च तत्रास्ति तावता || एवं नित्या निजा शुद्धा सुखदुःखाविशेषिता | स्वसंवेदनसंवेद्या तव संविन्मयी स्थितिः || नागार्जुनेनाऽप्युक्तम् - सर्वालम्बनधर्मैश्च सर्वतत्त्वैरशेषतः | सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः || इति | प्. २०] आलोकमालायां च - विरुद्धत्वात्तमोवृत्तेर्नावकाशं ददाति या | साऽवस्था काऽप्यविज्ञेया मादशां शून्यतोच्यते || न पुनर्लोकरूढ्यैव नास्तिक्यार्थानुपातिनी | इति || ५ || अत्रास्याऽमूढत्वाऽस्तित्वयोः सन्दानितकेनोपपत्तिमाह - यतः करणवर्गोऽयं विमूढोऽमूढवत् स्वयम् | सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः || ६ || लभते, तत् प्रयत्नेन परीक्ष्यं तत्त्वमादरात् | यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा || ७ || यतो यस्मात् स्पन्दतत्त्वादयं बाह्यः करणवर्गो बुद्धिकर्मेन्द्रियाख्योऽन्त - करणचक्रेण सह विशेषेण मूढ -चेतनोऽविचेतनवत् स्वयं प्रवृत्तिस्थितिसंहृतीर्लभते | एषोपपत्तिहेतुस्तु दृष्टान्तो भ्रामको मणिः | यथा वाताग्निसंपर्कादयः पिण्डोऽग्निवद्भवेत् || दाहपाकप्रकाशादौ शक्तस्तद्वदयं गणः | इति | एवं योऽन्येषां चैतन्यापादने समर्थः स कथं निःस्वभावः | उक्तं षाड्गुण्यविवेके - स्वदेहसाक्षिकं चैतत् सर्वस्य ज्ञानचेष्टितम् | ज्ञानानधिष्ठितः कायो लुठत्येव यतोऽधृतः || अत एव जडानामप्यधिष्ठातृकृता धृतिः | गम्यते गगने ग्रावा न धार्येताऽन्यथा कथम् || इति | तस्मात्तत् तत्त्वं प्रयत्नेनादरात्परीक्ष्यम् | प्रयत्न उद्योगरूप उत्साहः | आदरः श्रद्धा | अत्र च परीक्षणमुद्योग -बलानुप्रवेशेन स्वीकरणम् | उक्तं चेह - अतः सततमुद्युक्त इत्यादि | प्. २१] सिद्धोक्तं च - अदृश्यं नेत्रवद् ब्रह्म द्रष्टृत्वं चास्ति नेत्रवत् | स्वात्मन्येवोपलम्भोऽस्य दर्शनं घटवन्न तु || इति | यतो यस्मात्तस्येयमकृत्रिमा निजैव स्वतन्त्रता सर्वत्र | तेनैतदुक्तम् - यथास्य करणादिषु चैतन्यापादने स्वातन्त्र्यं तथा परपुरादिष्वपि सम्भाव्यतेऽभ्यासात् || ७ || तदिच्छयास्तु सामर्थ्यं करणानां स्वतन्त्रता | सर्वत्रोक्ताऽस्य या सा तु भुक्तियुक्तिरतस्त्वियम् || न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते | अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् || ८ || अयं पुरुषो जीवात्मा नेच्छानोदनस्य नेच्छाप्रेषणस्य करणचक्रचोदकस्यैव केवलं प्रेरकभावेन वर्तते | हिशब्द एवशब्दार्थेऽत्र केवलशब्दार्थे वा | अपित्विति निपातः प्रतिषेधनिवृत्तौ स्वरूपद्योतकः | आत्मनो बलमात्मबलं निरावरणचिद्रूपं ज्ञत्वकर्तृत्वलक्षणम् | तत्स्पर्शात्तदवष्टम् -भात् तत्समो भवेत् | सर्वज्ञः सर्वकर्ता स्यादित्यर्थः || ८ || अनेन सर्वस्वातन्त्र्यमुक्तमस्य च तद्भवेत् | अभिमानात्मकक्षोभक्षयेन त्वन्यदाह च || - निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः | यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् || ९ || निजा सहजानादिर्याऽशुद्धिरविद्याऽविवेकमूला भोगाभि -लाषमलरूपतयाऽसमर्थस्य सङ्कुचितशक्तेः | अत एव च कर्तव्येषु कार्येष्वभिलाषिणः साभिलाषस्य सतो न कार्यमिच्छतोऽपि भवति | तथा च श्रीसात्वता - अज्ञानव्यापकत्वं च सुखदुःखादिवेदनम् | सर्वज्ञस्यात्मतत्त्वस्य कर्मचक्रावलम्बनात् || प्. २२] गीतास्वेषा प्रकृत्याख्याशुद्धिः प्राक्कर्मवासना | मायाऽविद्या भ्रमो मोहोऽज्ञानं मलमिति क्वचित् || गीतं च - प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि | विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् || इति | अनादित्वे समानेऽस्या विशेषोऽयं विचारतः | लयो यन्मायारूपत्वात् | तदुक्तं संवित्प्रकाशे - मायात्वमेतदेवास्या यन्नाशस्तत्त्वदर्शनात् | नहि विज्ञातरज्ज्वात्मा सर्पादीन्मन्यते पुनः || इति | अन्यत्र च - त्वत्तो द्वितीयमिह वस्तु यदस्ति किञ्चित्तत्तद्विचारपदवीमवतारितं चेत् | गन्धर्वपत्तनमिवोपलयं प्रयाति त्वं शिष्यसे ध्रुवमतस्तव शेषसंज्ञा || इति | विद्याधिपतेश्च - भक्षणप्रकृतिना समाधिना युक्तितो विषयधाम्नि भक्षिते | सर्वभक्षपदवीमुपेयुपः शिष्यते परमभक्षितो भवान् || सा चेन्द्रजालिनो मायेवाऽ स्थिता बाधकात्मनि | यथाऽग्नेर्धूमबिम्ब मलवद्दर्पणस्य वा || बुद्बुदाः सलिलस्येव तच्छान्तौ निर्विकारिता | यदा तु क्षोभो विकारोऽशुद्धिजनितो देहाहम्प्रत्ययरूपो विवेकेनात्मबलस्पर्शात् प्रलीयते प्रलयं याति तदा स्यात् परमं पदं स्वस्वरूपे स्थितिर्भवेदित्यर्थः | उक्तं षडधातुसमीक्षायाम् - कर्माणि मोहमूलानि संसृतेः कारणं यतः | तत्क्षयात् कर्मनिर्मुक्तः स्वस्थः शान्ततमस्ततः || प्. २३] नारदसंग्रहेऽपि - यथा सुभर्जितं बीजं नेह भूयः प्ररोहति | विकल्पक्षीणचित्तस्य तथा भूयो न संसृतिः || स च क्षोभक्षयः शनैः शनैरभ्यासाद्भवेत् | उक्तं ह्यात्मसंबोधे - यथाग्निपोत्रं ज्वलनोद्धृतं सच्छैत्यं प्रयायाच्छनकैर्न सद्यः | अज्ञानपङ्केऽपि तथा निरस्ते कालेन कैवल्यमुपैति देही || षाङ्गुण्यविवेकेऽप्यात्मपरमात्मनोरेतावान् भेदोऽभिहितः - अविद्याकृतसङ्कोचगृहीताहंयुतास्य या | तया भिन्नोऽप्यभिन्नोऽयं तत्त्वतः स्वप्नभीतवत् || अभीत एव यः स्वप्ने बिभ्यदभ्येति सम्भ्रमम् | तस्य स्वप्नादभिन्नस्य को भेदः पारमार्थिकः || तथा हि मिथ्यैव भयं ममेति यदि बुद्ध्यते | स्वप्नतत्त्वं परामृश्य भीतिभिन्नैन बाध्यते || एवं त्वन्मय एवाऽहमिति भावनया त्वयि | प्रलीनाऽहङ्कृतिग्रन्थिः पश्यत्येव त्वदात्मताम् || इति | संवित्प्रकाशे च - कर्मेदं त्वत्कृतमपि त्वन्मयं येन माधव | विहीनाऽहङ्कृतिस्ततस्त्वमेव परिशिष्यसे || एतावतैव भेदोऽस्य यदहम्मानिताऽऽत्मनि | सा चेद्विलीना त्वद्भक्त्या नप्टो भेदः स्थितैकता || || ९ || स्वरूपस्थस्य गुणानाह - तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः | यतस्तदीप्सितं सर्वं जानाति च करोति च || १० || तदा तस्मिन् प्रलीनक्षोभात्मके कालेऽस्यात्मनः स्वरूपस्थत् -वादकृत्रिमः सहजो धर्मः स्वभावो भवतीति वाक्यशेषः | प्. २४] किंभूतः जानातीति ज्ञः | तस्य भावो ज्ञत्वं | करोतीति कर्ता | कर्तुर्भावः कर्तृत्वं | आभ्यां यो लक्ष्यते, एते वा लक्षणरूपं चिह्न यस्य धर्मस्य स ज्ञत्वकर्तृत्वलक्षणः | यतो यस्माद्धर्माद् -धेतोर्वा यज्ज्ञातुमीप्सितमभिमतं तज्जानाति यत् कर्तुमिष्टं तत् करोति स्वात्मनो वा परस्य वा | पञ्चरात्रे चैष एव धर्मो विवेकजज्ञानशब्देनोक्तः - तस्य च प्रादुर्भवतः किं पूर्वरूपं यत् सर्वज्ञो भवति संवदर्शी सर्वेश्वरः सर्वशक्तिरिति | स चाऽस्य करणैर्विनाऽपि स्यात् | तत्रैवोक्तं हि - तद्यथा अग्निर्नाम कस्मिंश्चिद्दह्ये नान्यत्किञ्चिदुपादत्ते तेन घक्ष्यामीति स्वयमेव दहति | एवमयमात्माऽनुपादाय ज्ञाताऽनुपादायकारी स्वात्मनैव सर्वकरः | कुतो बोधरूपत्वात् | षाङ्गुण्यविवेके उक्तम् - नहि बोधो विचित्रार्थनिर्माणेऽन्यमपेक्षते | सङ्कल्पादेव यो रूपसहस्राणि सृजत्यजः || ये त्वस्य ज्ञत्वकर्तृत्वादीन्यन्यतो वदन्ति तेषामनीशतैव स्यात् | उक्तं ह्यागमरहस्ये - येऽपीश्वरं व्यपदिशन्ति निमित्तहेतुं तैरर्पितस्तिल जलाञ्जलिरोशितायै | अन्याङ्गनोपगमनेन वशीकृतस्य कामीश्वरस्थितिममी बत सङ्गिरन्ते || इति || तस्माद्युक्तमुक्तम् || १० || अस्याऽकृत्रिमधर्मस्य स्थैर्यायोपाय उच्यते - तमधिष्ठातृभावेन स्वभावमवलोकयन् | स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः || ११ || तं शुद्धमात्मस्वभावमधिष्ठातृभावेन चिद्रूपतया सर्वव्यापकत्वेनावलोकयन् पश्यन् प्रतिजानन् स्मयमान इव विस्मयाविष्ट इव विकसन्निवास्ते यस्तिष्ठति तस्याविद्याविलयादियं कुतः कुसृतिः कुत्सितसंसरणं न कुतश्चिद् भवतीति वाक्यशेषः | प्. २५] उक्तं च शिवसूत्रेषु - विस्मयो योगभूमिका | अस्य चैतदवलोकनं यद् द्रष्टृरूपतयाऽनुभवनम् | उक्तं हीष्टोपदेशे - यदिदं दृश्यते दृष्ट्या गृहं पुत्राऽत्र सन्त्यज | येन पश्यसि तं पश्य यं दृष्ट्वा पश्यसेऽखिलम् || कर्त्रा चोक्तम् - यो जगु पश्चि एषु किनु वीक्षोमा -इत्थ करो | विषयालविलुद्दि एसे पत्तापत्त रावीक्षो अपल -इयद अस्त्युबुद्दि || तथाऽस्यान्यतः कुतः साभिलाषतया विकल्पशिल्पादिकुमार्गा -नुसरणमपि त्वेवं सदैव स्वस्वरूपे स्थितिर्भवेत् | तत्स्थत्वाच्चेश्व -रवत् सत्यसङ्कल्पः स्यादित्यतोऽस्मिन्नेवासति | यतोऽभ्यास विना ज्ञातमपि स्वोकर्तुं न शक्यते | तदन्तरेण च कुतः सिद्धिः ? | उक्तं मुनिना - यदि वाचनिकाज्ज्ञानान्मुक्तिः स्याद्भावनां विना | शारीरमानसैर्दुःखैर्मुच्येरन् सर्वजन्तवः || तथा च युक्तौ - रसायनं विनास्वादात् सूचितं ह्यप्यसिद्धिदम् | इति | अन्यच्चोक्तम् - आगोपबालवनितं भगवंस्त्वमित्थं ज्ञातोऽप्युपायविरहान्न तु मोक्षदोऽसि | नान्तः स्थितं भवति धेनुषु तृड्विहर्तृ क्षीरं तदेव पुनरभ्यवहारतः स्यात् || || ११ || तान् ध्वंसयितुमाहेदं ये त्वाहुः शून्यवादिनः | अभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् || इति | नाभावो भाव्यतामेति न च तत्रास्त्यमूढता | यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः || १२ || अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा | न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते || १३ || प्. २६] नाऽभावः शशविषाणसदृशो भाव्यतामनुभवविषयता -मेति प्राप्नोत्यवस्तुत्वात् | न च तत्राऽभावेऽमूढतास्त्यपि तु मूढावस्थैव सा | यतोऽभियोगसंस्पर्शादभिलाषसंयोगात् - तदभावभावनमासीदभूदतीतमिति निश्चयः | यस्मात् स मम शून्यावस्थातीतेति स्मर्यते | तदुक्तम् - अभावो येन भावेन बोध्यतेऽस्ति न नास्ति सः | तस्य भावस्य सद्भावो वद केन निवार्यते || सोऽस्त्यतश्चिन्मयो भावो येन सर्व विभाव्यते | इति | अतो हेतोस्तदभावभावनं कृत्रिममनित्यं सदा ज्ञेयम् | किमित्र सौषुप्तपदवत् सुषुप्तावस्थेव | न त्वेवं मूढावस्थावत् तदात्मतत्त्वं स्मर्यमाणत्वं स्मर्तव्यतां प्रतिपद्यते गच्छति, स्मर्तृत्वाच्चिद्रूपस्य, नित्योदितत्वाच्च | तस्मात्तत्तत्त्वं गुरूपदेशे -नादरात् परीक्ष्यमिति || १२ -१३ || एवम् - अवस्थाद्वयमत्राऽस्ति स्मर्तृस्मर्तव्यभेदतः | यत्तस्य नित्यानित्यत्वविचारायेदमुच्यते || - अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् | कार्यताक्षयिणी तत्र कर्तृत्वं पुनरक्षयम् || १४ || अत्रास्मिन् पूर्वोक्ते स्पन्दतत्त्वेऽवस्थायुगलं दशाद्वयं यदस्ति कार्यकर्तृत्वशब्दितं कार्यकारणसंज्ञितं भोग्यभोक् - तृभेदभिन्नदृश्यद्रष्टृभिदा वेद्यवेदकरूपम् | तत्र तयोर्मध्याद्या कार्यता सा क्षयिणी उत्पत्तिविनाशयुक्ता | यत्पुनः कर्तृत्वं तदक्षयिनिर्बाधं चित्स्वरूपत्वात् || १४ || अत एव - कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते | तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते || १५ || प्. २७] अत्रास्मिन् कार्ये बाह्येऽर्थे क्षयिणि सति कार्योन्मुखः कार्यसंपादनाभिमुखो यः प्रयत्नो बाह्यकरणव्यापाररूपः स केवलं लुप्यते न लक्ष्यते न्यग्भूयैव स्वात्मन्यास्ते, स्थगितेन्द्रि -यस्य वा व्यापारासामर्थ्यात् | तस्मिन् प्रयत्ने लुप्ते सति अस्मि अहं विलुप्तो नष्ट इत्यबुधोऽज्ञः प्रतिपद्यते जानाति | न तु चिद्रूपस्य विनाशोऽस्ति | उक्तं च - विज्ञप्तेर्न विनाशोऽस्ति विनष्टेऽपि शरीरके | अभावे सूर्यकान्तस्य नैवास्ति सवितुः क्षतिः || इति || १५ || कस्माच्चेत्याह - न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् | तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् || १६ || देशकालादिविच्छिन्नस्य कार्यस्यैव लोपो निवृत्तिर्न तु योऽन्तर्मु -खो भावो बहिरप्रसुतेः स्वस्वरूपस्थः स्वस्वभावः सर्वज्ञतादी -नां गुणानामास्पदमाश्रयस्तस्य भावस्य लोपः कदाचित्स्याद् - भवेद् उपपद्यते | कुतो न स्यात् | चिद्रूपं मुक्त्वाऽन्यस्य द्वितीय -स्यानुपलम्भनादनुपलब्धेः | तस्यैव हि सर्वत्र सर्वदोपलब्धिः | एतदुक्तम् - देशकालक्रियाकारैरवच्छिन्नेषु वस्तुषु | अनवच्छिन्नरूपस्त्वं भासि तस्य बहिः स्थितेः || इति | अत्र च - भेदः सर्वज्ञतादीनां ज्ञानादीनां च नास्त्यमी | ज्ञानस्यैव धर्मतया चिद्रूपस्य स्थितिर्यतः || इति | उक्तं च षाड्गुण्यविवेके - गुणेषु ज्ञानमाद्यन्ते तेन तत्त्वेऽवधारिते | धर्मत्वेनेशिताशक्तिबलवीर्यौजसां स्थितेः || इति | कक्ष्यास्तोत्रे च - ज्ञानं प्रशान्तं तव बोधवृत्ति - रैश्वर्यमुद्यत्प्रसरा परेषाम् | प्रकाशनं प्रत्यपि योग्यरूपा शक्तिर्बहिःस्थैर्यवती बलं सा || प्. २८] उत्पन्नबाह्यप्रसरा तु वीर्य तेजश्च बाह्यानवभासयन्ती | षोढेत्थमेकैव तव स्वशक्तिर् - बाह्यावमर्शात्तु भवेदविद्या || तत्र सर्वज्ञता ज्ञानं सर्व हि जायते ततः | बलस्य तृप्तिमूलत्वात् क्षम्यस्य तदभावतः | अनादिबोधस्तेजोऽत्र बोधमूलं हि तत्सदा || तदुक्तम् - प्रभावलक्षणं यच्च तेजः प्रह्वयते परान् | बोधत्वादेव तद्वेद्यं बोधः प्रह्वयते जगत् || स्वतन्त्रताऽत्र चैस्?वर्यं स्वातन्त्र्यादीश्वरस्य तु | इति | तदुक्तम् - स्वतन्त्रः सर्वकृत्येषु न नियोज्यो न विघ्नवान् | प्रवृत्तोऽप्यप्रवृत्तो वा यतस्तेन त्वमीश्वरः || वीर्यं सदाऽलुप्तशक्तिर्नाशाभावश्च तद्वतः | तदुक्तम् - आत्मसत्त्वापरिभ्रंशलक्षणाद्वैर्यमासते | वीर्यादेतच्च ते कार्येऽप्यन्वयः स्वर्णवच्च यः | अनन्तशक्तिः शक्तिः सा सामर्थ्यात् सर्वतः सदा || || १६ || तस्य तु क्व कस्योपलब्धिरित्याह - तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी | नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु || १७ || तस्य चिद्रूपस्यात्मनो योगिनः सततमुपलब्धिरनुभवो भवेत् | कीदृशस्य योगिनः नित्यं सदैव सुप्रबुद्धस्य | कीदृश्युपलब्धिः | त्रिपदाव्यभिचारिणी त्रिष्वपि जाग्रदादिषु पदेष्ववस्थासु या न व्यभिचरति न निवर्तते सा तथोक्ता | तुर्ये तु निर्भ्रान्तैव | प्. २९] उक्तं च - काप्यवस्था न ते साऽस्ति यस्यां संविन्न वर्तते | तेन चिद्धनमेव त्वां योगिनः पर्युपासते || अपरस्य पुनरीषत्प्रबुद्धस्य प्रबुद्धस्य च | तदाद्यन्ते तदिति पदत्रयस्य परामर्शः | एतदुक्तम् - तदादौ प्रागवस्थायां (तदन्तेऽपि) च तन्मयम् | पदं प्रत्ययस्याद्यन्ते जाग्रत्तुर्याव वागमात् || इति | अथवा तदादौ तदन्ते च तन्मध्ये जाग्रत्स्वप्नयोरित्यर्थः | यतः प्रबुद्धस्यैतयोरेव स्फुटोपलब्धिः संवेदनम् || १७ || स च तस्य क्व कथमिति स्फुटीकर्तुमाह - ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः | पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः || १८ || विभुर्व्यापकः चिन्मयश्चिद्रूपः परमात्मा परमया शक्त्याऽत्युत्कृष्टेन सामर्थ्येन युक्तः | पदद्वये जाग्रत्स्वप्नात् -मके *?ति दीप्यते प्रकाशते | कीदृश्या शक्त्या ? ज्ञानज्ञेयभेदेन द्विरूपया | द्वैरूप्यात्त्वस्याः पारम्यम् | अत एवास्मिन्नवस्थाद्वये द्विविधोपलब्धिः | तदन्यत्र पुनस्तस्मात्पदद्वयादन्यस्मिन् पदद्वये सुषुप्ततुर्याख्ये चिन्मयश्चिन्मात्र एव | ज्ञेयाभावाज् - ज्ञानस्वरूप एवेत्यर्थः || १८ || तस्योपलब्धिर्योक्ता सा गुणस्पन्दादिभिः स्थितैः | कुतस्त्या चेति सा शङ्का ये तान् प्रत्युच्यते त्विदम् || - गुणादिस्पन्दनिःष्पन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततम् स्युर्ज्ञस्यापरिपन्थिनः || १९ || गुणाः सत्त्वरजस्तमांसि | आदिग्रहणान्महदहङ्कारतन्मा -त्रेन्द्रियभूतानि च | गुडादिश्चासौ स्पन्दः गुणादिस्पन्दः | तस्य ये निष्यन्दाः प्रवाहाः सुखदुःखमोहोर्मिज्ञानविशेषास्ते प्रागुक्तलक्षणस्य सामान्यस्पन्दस्यान्तर्लीनाऽनन्तविशेषस्य संश्रयादालम्बनाद्धेतोर्लब्धात्मलाभाः प्राप्तसत्ताकाः | अत एव ज्ञस्य विदितवेद्यस्य योगिनः स्वरूपाव्यवधानादसम्पर्कात् सततं नित्यमपरिपन्थिनः स्युः | प्. ३०] स्वभावाच्छादका न भवन्तीत्यर्थः | सिद्धोक्तं च - यद्वत्प्रकाशकस्य प्रकाश्यविषये न दृश्यते मानः | सम्पर्कात्तव तद्वत् संविद्वेद्ये न भाव्यते जातु || ते चास्यैव स्पन्द इति प्रागेवोक्तम् | मतङ्गपारमेश्वरेऽपि - शिवाद्यवनिपर्यन्तो योऽयमध्वाऽतिविस्तरः | स समस्तश्चितौ ज्ञेयस्तया संवेद्यते यतः || गीतासु च - दैवी ह्येषा गुणमयी मम माया दुरत्यया | मामेव ये प्रपद्यन्ते मायामतितरन्ति ते || || १९ || अज्ञस्य तु - अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः | पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि || २० || अप्रबुद्धा सम्मूढा धीर्बुद्धिर्यस्य पुंसस्तस्य पुनरेते गुणादिस्पन्दनिष्यन्दाः स्वस्थितेश्चिद्रूपाया अवस्थायाः स्थगनेऽवच्छादने प्रोद्यताः | यतोऽसौ तदात्मकमेव नित्यमात्मानं पश्यति, न शुद्धबुद्धरूपतया | उक्तं च - यथादर्श शिशुः स्वच्छं निःश्वासैः स्वैर्मलीमसम् | करोति तद्वद्विज्ञानं स्वविकल्पैर्जडाशयः || इति | अत एव संसारवर्त्मनि पातयन्ति जननमरणप्रवाहमार्गे प्रेरयन्ति | कीदृशे ? दुरुत्तारे दुःखेनोत्तरणं निस्तारो यत्रात एव घोरे क्लेशप्रदे | तदुक्तं ज्ञानसम्बोधे - यद्यपि स्वात्मशक्त्यैव गतिः साक्षान्धयोर्द्वयोः | तथाप्येकः स्वयं याति द्वितीयोऽन्येन नीयते || साक्षवत् स्फीतबोधानां स्वातन्त्र्यं विषमेष्वपि | अन्धवन्मन्दबुद्धीनां पारतन्त्र्यं समेष्वपि || इति || २० || प्. ३१] अथात्राऽज्ञस्याप्युत्तरणोपायमाह - अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये | जाग्रदेव निजं भावं न चिरेणाधिगच्छति || २१ || यतस्ते पातनशीलाः | अतोऽस्मात् कारणाद्यः सततं सर्वकाल -मुद्युक्तो विकस्वरस्वभावतया कृतोद्योगः | किमर्थम् स्पन्दतत्त्वस्य विविक्तये विवेचनाय स्वरूपाभिव्यक्त्यर्थम् | यदुद्योक्तृरूपं तत् | उक्तञ्च शिवसूत्रेषु - उद्योगः शिव इति | अतः प्रजाग्रदेव जाग्रदवस्थायामेव व्युत्थानेऽपि निजमात् -मीयं स्वभावमचिरेण शीघ्रमधिगच्छति प्राप्नोति | अस्य चैतद् -विवेचनम् | यदहं शुद्धबोधैकरूपो जगच्चेदं मत्स्फार एव | उक्तं च - सर्वो ममायं विभव इत्येवं परिजानतः | विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता || पञ्चरात्रेऽपि यदात्मनि सर्वभूतानि पश्यत्यात्मानं च तेषु पृथक्च तेभ्यस्तदा मृत्योर्मुच्यते जन्मनश्च | अन्यत्र च - निर्मला नन्तबोधैकरूपस्त्वं भव्यबुद्धिभिः | वेद्याद्वा वेदकाद्वापि लभ्यसेऽवहितात्मभिः || तत्त्वार्थचिन्तामणौ च - इत्थं तत्तदनल्पमोहदलनप्राप्तस्वरूपोदयो योगो नित्यमनात्मभावविरहात् स्वात्मस्थितो निर्वृतः | दृश्यद्रष्टृविवेकविद्भवपदव्यापी विमुक्तामयो व्युत्थानेऽपि समाधिभाग्भवति सन्मोक्षश्रियः कारणम् || इति || २१ || प्. ३२] जाग्रदेव स्वभावोक्तिर्योक्ता साऽज्ञैर्न लक्ष्यते | अतः स्पन्दोदयपदान्युच्यन्ते येषु लक्ष्यते || अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् | धावन् वा यत्पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः || २२ || द्विषोद्दीपितामर्षोऽतिक्रुद्धः सन् प्राग् यत्पदं गच्छेत् यं स्फारमालम्बते यामौन्मुख्यवृतिं स्पृशेत् | अथवा सुचिरागत -प्रियदर्शनादिना प्रहृष्टः प्रहर्षितो यत्पदं गच्छेत् परानन्द -रूपं गृह्णीयात् | तथा अनेककार्यकल्लोलाकुलतया किं करोमि ? इदं करोमि, अथवेदं करोमीति मृशन् परामृशंश्चिन्ताविष्टो यत्पदं गच्छेन्निश्चयकारिणीं दशामाश्रयेत्, तथा कान्ताहृतचित्ततया सम्भ्रमाद्वा धावन् धावमानो यत्पदं गच्छेद्यामवस्था -मारोहति, तत्र तस्मिन् पदे स्पन्दः प्रागुक्त आत्मस्वभावः प्रतिष्ठितः स्फुटोपलभ्यतया स्थितः | एतदुक्तं भवति - यत्र यत्र यदा येन सर्वशक्तिलयो भवेत् | स्फुटः स्यात् स्पन्दतत्त्वस्य तत्र तत्र तदोदयः || इति | यतः - क्रोधाद् दुःखभुवः सर्वा हर्षात् सुखभुवः स्मृताः | किं करोमीति मोहोत्था धावन्तीन्द्रियवृत्तयः || इति | उक्तं च विज्ञानभैरवे - क्रोधाद्यन्ते भये शोके गह्वरे वारणे रणे | कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा || इति | रहस्यस्तोत्रे च - क्रोधहर्षविवशः परां दंशामाश्रितोऽथ विमृशश्च यः क्रियाम् | यत्स्पृशत्यनियतक्रियास्पदं स्पन्दमात्मबलदं वदन्ति ते || एषोऽन्यत्र तुटेः पातः प्रोक्तः सर्वज्ञतादिभाक् || इति | तुटिपाते सर्वज्ञत्वसर्वकर्तृत्वसर्वेशितादयः | एष च गुरुपदेशेनादरात् परीक्ष्यः || २२ || प्. ३३] अस्यैवोदयायोपायान्तरं विशेषकेणाह - यामवस्थां समालम्ब्य यदयं मम वक्ष्यति | तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति || २३ || तामाश्रित्योर्ध्वमार्गेण सोमसूर्यावुभावपि | सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम् || २४ || तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे | सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः || २५ || अयमेष देवदत्तो ज्ञाता अद्भुतसद्वस्त्वभिधाययनुल्लङ् -ध्याज्ञो यत्किञ्चिन्मम वक्ष्यति वदिष्यति तदवश्यमहं करिष्ये -ऽनुष्ठाष्यामि करिष्यामीति सङ्कल्प्य यामवस्थामौन्मुख्य -रूपां वृत्तिं समालम्ब्य गृहीत्वा यस्तिष्ठति तस्य पुंसस्ताम -वस्थामांश्रित्योर्ध्वमार्गेण विषुवत्प्रवाहेण सोमसूर्यावु -भावपि द्वावप्यपानप्राणौ मनःप्राणौ वा | सौषुम्णेऽध्वनि मध्यमनाड्यां परशक्तिमार्गे स्वयमस्तमितो लयं गच्छतः | किमस्य हृद्गतं स्यादिति कुतूहलात् | कि कृत्वा भवतः ? ब्रह्माण्ड - गोचरं हित्वा शरीरविषयं विहाय, देहाहंभावं त्यक्त्वेत्यर्थः | उक्तं च - जाते देहप्रत्ययद्वीपभङ्गे प्राप्तैकत्वे निर्मले बोधसिन्धौ | अव्यावर्त्यैवेन्द्रियग्राममन्तर् - विश्वात्मा त्वं नित्यमेकोऽवभासि || इति | तदा तस्मिन् काले तस्मिन् महाव्योम्नि च परचिदाकाशे प्रत्यस्त -मितशशिभास्करे प्रशान्तज्ञानक्रिये मूढोऽनभिव्यक्तस्वस्व -भावः स्वप्नादिना मुह्यमानोऽप्रबुद्धो निरुद्धः स्यात् सौषुप्तपदवत् | यथा सुषुप्तपदे तथा प्रबुद्धस्त्वनावृत एव भवेत् | उक्तं च रहस्यस्तोत्रे - स्वात्मनि स्तिमितसोमभास्करं व्योममार्गमतिवृत्य तस्थुषः | भावनाञ्जितदृशोऽपि खेचराः केचिदेव तव धामदर्शिनः || इति | प्राणापानप्रशान्तिरेव चान्यत्र निरञ्जनतत्त्वोदये युक्तिः प्रोक्ता | मायाप्युक्तं भोगमोक्षप्रदीपिकायाम् - प्. ३४] कामाख्ये विषतत्त्वे निरञ्जनाह्वे क्रमाच्च सिद्धिः स्यात् | सूर्ये सोमे हृदयात्तयोः शमाच्चेति शास्त्रसर्वस्वम् || इति | एवं स्पन्दतत्त्वस्योदयः प्रोक्तः | तदाऽस्मादेव च सहजो मन्त्रोदयः | उक्तं च बौद्धायनसंहितायाम् - शान्ते चन्द्रे त्वमान्ताख्ये यावन्नोच्चरते रविः | उदयः सर्वमन्त्राणां विलयश्च दिवौकसाम् || इति | मालिनीविजयेऽपि - यत्राधारविनिर्मुक्तो जीवो लयमवाप्स्यति | तत् स्थानं सर्वमन्त्राणामुत्पत्तिक्षेत्रमिष्यते || तथा - धर्माधर्मान्तरे चित्तं रुद्धं यस्य तदा तु सः | यद्वक्ति स भवेन्मन्त्रः किं पुनर्मातृकोत्थितः || इति || २३ - २४ - २५ || अत एव तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः | प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् || २६ || तद्बलं निरावरणचिदुल्लासरूपं परशक्त्याख्यमाक्रम्या -धिष्ठाय मन्त्राः बीज - पिण्ड - पद - नामरूपा मननत्राणधर् -मिणः सहजनादशक्त्युद्बोधदीप्तत्वात् सर्वज्ञत्वादिना बलेन श्लाघायुक्ता मन्त्रिप्रयुक्ता अधिकारायानुग्रहादौ प्रवर्तन्ते | किमिव यथा शरीरिणः करचरणादीनि करणानि | अनेन मन्त्रिणः परतत्त्वावबोधान्मन्त्रेष्विच्छामात्रेण यथेष्टविनियोज्यत्वमुक्तम् | तदुक्तं त्रिकसारे - विदिते तु परे तत्त्वे वर्णातीते ह्यविग्रहे | किङ्करत्वं तु गच्छन्ति मन्त्रा मन्त्राधिपैः सह || अन्यथा तु प्रयत्नप्रयुक्ता अपि ये पूर्वोक्तसङ्कल्पत्वाद्यास्प -दचिच्छक्तिबलास्पर्शात् केवलवर्णरूपत्वान्मन्त्राः पुत्रिकाकरण -वन्निष्फलचेष्टा भवन्ति | प्. ३५] उक्तं च हंसपारमेश्वरे - पशुभावे स्थिता मन्त्राः केवला वर्णरूपिणः | सौषुम्णेऽध्वन्युच्चरिताः पतित्वं प्राप्नुवन्ति ते || यत एष शाक्तो मार्गोऽत्र च मन्त्राणां साफल्यम् | तदुक्तं तत्त्वरक्षाविधाने - अशक्तत्वान्निष्क्रियत्वान्न पुंसि न परे पदे | शक्तौ नियोजयेन्मन्त्रं जपस्तु सफलो भवेत् || इति | श्रीवैहायस्यां च - विषुवत्स्थं जपं कुर्यान्नादोर्ध्वध्वनिबोधितम् | मन्त्राक्षराणि मणिवच्छक्तौ प्रोतानि भावयेत् || तामेव च परे व्योम्नि परमामृतबृंहिताम् | दर्शयत्यात्मसद्भावमेवं मन्त्रो हुति विना || इति | श्रीकालपरायाम् - शब्दो नादात्मकस्तस्मात् प्रत्ययेनोपबृंहितः | मन्त्रबोधस्वरूपस्थमभिन्नो बोधयत्यपि || इति | अन्यच्च सङ्कर्षणसूत्रेषु - स्वात्मैकनिष्ठं चिद्रूपं भावाभावपरिष्कृतम् | स्वसंवेदनसंवेद्यं प्रकृत्यातीतगोचरम् || इयं योनिः स्मृता विप्र मन्त्राणां प्रत्ययात्मिका | ते मन्त्रा वर्णरूपेण सबाह्याभ्यन्तरोदिताः || नैष्कालिकपदावस्थाः करणानीव देहिनाम् | प्रयुक्ताः सर्वकालेषु सिद्ध्यन्ते वीर्ययोगतः || एवं शुद्धबोधात्मकत्वेनान्तर्बाह्योदयादेकोऽपि जपो लक्षसङ्ख्याकः | तदुक्तं जयायाम् - एकस्य मन्त्रनाथस्याप्यन्तर्बाह्योदितस्य च | यदैक्यं तं जपं विद्धि लक्षसंख्याभिधं मुने || इति | || २६ || प्. ३६] अनया युक्त्या मन्त्रवीर्यमुक्तम्, प्राक्चोदयोऽधुनास्तमय -माह - तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः | सहाराधकचित्तेन तेन ते शिवधर्मिणः || २७ || तत्रैव स्वस्वभावे शक्तिमत्येते मन्त्राः साधकचित्तेन तत् -प्रवृत्तिनिमित्तेन तदाधारभूतयेच्छया सह सम्यक् प्रलीयन्ते अस्तं गच्छन्ति | यतस्ते तदनुगास्तच्छक्तिरूपाश्च | उक्तं च कालपरायाम् - पराक्षरतरोर्धातुर्नानाशक्तेर्विवर्तगाः | शक्तयो वर्णदेहेषु वक्त्राद्वर्णत्वमागताः || इति | किंभूताः कृतकृत्यत्वाच्छान्तरूपाः | अत एव निरञ्जनाः महाकालुष्यरहिताः | निरञ्जनतत्त्वानुप्राणनाद्वा | अनेनैव च हेतुना शिवधर्मिणः शिवस्येव धर्मा गुणा येषाम् | सर्वज्ञाः सर्वकर्तार इत्यर्थः | एवमेष एव मन्त्रात्मा | तेषां चात एव शिवधर्मित्वं सिद्धमिति || २७ || सह साधकचित्तेन लीयन्ते तत्र यत् स्मृतम् | शिवतात्मनि सर्वात्म्याच्चाहैतत्सोपपत्तिकम् || यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः || २८ || तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः | भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः || २९ || यस्माज्जीव आत्मैव सर्वमयः सर्वात्मको विश्वरूपो बोद्धृरूपत्वात् | उक्तं च - यदैव विदितं विश्वं तदानीमेव चिन्मयम् | यन्नास्ति भागो वेद्योऽसौ नाथ यो वेदकाद्बहिः || प्. ३७] वेद्यो वेदकतामाप्तो वेदकः संविदात्मताम् | संवित् त्वदात्मा चेत् सत्यं तदिदं त्वन्मयं जगत् || इति | श्रुतिश्च - आत्मैवेदं जगत् सर्व नेह नानास्ति किञ्चन | अन्यच्च | सर्वभावसमुद्भव इति विशेषणं हेतुगर्भम् | हेतुर्वाऽयं समुद्भवादिति सर्वेषां भावानां समुद्भवो यस्मात् | परादिवाग्रूपतया संविद्युपारोहेण हि तेषामुदयः सत्ता च | तदुक्तम् - त्वत्कारणत्वं सर्वस्मिन्नपि ज्ञातं त्वदन्वयात् | संवित्समन्विते विश्वे नाऽसंवित् कारणं भवेत् || संविदायतनं ज्ञातं तत् सदाख्यां प्रपद्यते | तावतैव न लभ्या स्यादनुपासितसंविदा || इति | अन्यच्च - त्वदात्मकत्वं भावानां विवदन्ते न केचन | यत्प्रकाश्यदशां यातो नाऽप्रकाशः प्रकाशते || इति | तथा - सृजन् वदन् ज्ञापयंश्च त्रिधैकस्त्वं प्रकाशकः | व्यतिरिक्तः प्रकाशेभ्यो न यथाऽन्यप्रकाशकाः || न प्रकाशाः प्रकाशन्ते त्वत्प्रकाशोदयं विना | इति | पञ्चरात्रेऽपि - न तत्रादित्यो भातीत्यादि | यावत् - तस्य भासा सर्वमिदं विभातीति | सर्वमयत्वेऽस्य हेत्वन्तरमाह - तत्संवेदन इत्यादि | तदिति भावानां संवेद्यानां परामर्शः तेषां संवेदनरूपे -णानुभवद्वारेण यतस्तादात्म्यप्रतिपत्तिर्भावरूपतासम्प्राप्ति - स्तदभेदसंवित्तिस्ततो हेतोः | उक्तं हि स्वात्मसप्ततौ - प्. ३८] यद्वद् वस्तु स्वभावेन ज्ञानेन विषयीकृतम् | तद्वत्तादात्म्यमायाति जीवः सर्वमयो ह्यतः || इति | अन्यत् संवित्प्रकरणे - यथाऽग्निना समाविष्टं सर्व तद्रूपमीक्ष्यते | तथा ज्ञानसमाविष्टं सर्व तद्रूपमीक्ष्यताम् || इति | तथाऽऽगमरहस्ये - आकारवर्ग उपरि प्रतिभासतेऽस्य ज्ञानस्य सापि तव विश्वमयी विभूतिः | विश्वात्मकस्त्वमिति नाऽऽगमसिद्धमेतत् किन्तु स्वसंविदितरूपतयापि सिद्धम् || इति | एवं संविदेव प्राणद्वारेण वाग्रूपतां धत्ते | तदुक्तम् - स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा | वैखरी वाक् प्रायोक्तॄणां प्राणवृत्तिनिबन्धना || केवलं बुद्ध्युपादानात् क्रमरूपानुपातिनी | प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते || अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा | स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी || इति | तथा - स्वयं रौति य एषोऽन्तर्निर्विशेषरवात्मकः | स परः परमः स्थायी नित्योदितनिजाकृतिः || चिदिच्छाशक्तिसम्बुद्धः स्पन्द आत्मबलेरितः | सवितेव स तेजांसि विचिन्वन् हृदि राजते || इति | प्रत्यभिज्ञायां च - चितिः प्रत्यवमर्शात्मा परावाक् स्वरसोदिता | स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्य परमात्मनः || सा स्फुरत्ता महासत्ता देशकालाविशेषिणी | सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः || इति | प्. ३९] तस्यां चान्तःसंजल्परूपायां द्वावपि शब्दार्थौ समं स्फुरतः | अत एव तयोरभेद एव विख्यातः | उक्तं चेह - यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः | वाक् च संविन्मूलेति प्रागेवोक्तम् - संविन्मूलादित्यादि | तथाजातीयैः श्लोकैरन्यच्चोक्तम् - यथा त्वया जगद्विद्धं सर्वमेव निजात्मना | तथा त्वयाऽनुविद्धेयं सर्वतो भाति भारती || योगिनाथेन चोक्तम् - तस्मात् सर्वस्य सिद्ध्यर्थं भारती कारणं परे | परेष्टव्या तदारोपारूषणेनार्थनिश्चयात् || तस्या औन्मुख्यवृत्त्यैव सद्भावपरिकल्पना | नहि तामन्तरेणैषा लभेताऽऽत्मानमम्बिके || सा च तस्यामवस्थायां स्वरूपज्योतिरिष्यते | निर्विभागक्रमापेक्षा योगिगम्यानुरूपिणी || तत औन्मुख्यतश्चिन्तामयी भवति वाक् शिवे | विशिष्टशब्दविषयविवक्षास्फुरणात्मिका || ततः शब्दात्मकत्वेन विवृत्तार्थमयी भवेत् | तदात्मतामन्तरेण यस्मान्नार्थावधारणम् || एवं संवित्स्वरूपस्य सर्वप्रकाशकस्य प्रभैव प्रकाशन -शक्तिर्या वागन्तःसञ्जल्परूपा वर्ण -पद - वाक्य -जीवितभूता सैव पदार्थरूपतया बहिर्भवतीति स्वानुभवप्रसिद्धमेव प्रबुद्धानाम् | उक्तं च - चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद् बहिः | योगीव निरूपादानमर्थजातं प्रकाशयेत् || स्वमिनश्चात्मसंस्थस्य भावजातस्य भासनम् | अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते || प्. ४०] अन्यच्चोक्तम् - यत्किञ्चिदाभाति बहिस्तदीश नूनं तवास्त्येव समस्तमन्तः | निमीलिताक्षा हृदि लक्षयेयुस्तथैव सर्व कथमन्यथा तत् || इत्थं स्वभाव एव यतः सर्वात्मस्थेन तथाविधेन सर्वात्म -केन स्वभावेन हतुना शब्दार्थयोश्चिन्तासु मध्याद्विषये वा न सा काचिदवस्यास्ति या न शिवस्वबावमभिव्यञ्जयति, या न चित्स्वरूपेत्यर्थः | संवित्स्वीकरणैक्यात् यतः सर्वस्यास्तित्वम् | तदुक्तम् - येन येन विभिद्यन्ते हेतुना भावनिम्नगाः | तेन तेनैक्यमायान्ति बोधोदधिसमागताः || प्रागुक्तं च - शरीरजो वा शाब्दो वा मानसो वा समुद्गतः | व्यवहारोऽप्यसौ नास्ति यत्र त्वं नाथ नाग्रगः || इति | अतश्च भोक्तैवानुभवितैव भोग्यभावेनानुभाव्यतया सदा सर्वत्र संस्थितो न त्वन्यद्भोग्यमस्ति | तथा च श्रुतिः - अहमन्नमहमन्नमहमन्नम् | अहमन्नादोऽहमन्नादोऽहमन्नादः || ग्रन्थकृता तत्त्वविचारेऽप्युक्तम् - स्वस्वभावस्थिता भावाः संबध्यन्ते परस्परम् | भोग्यभोक्तृत्वभावेन न कदाचित् स्वभावतः || द्रष्टाऽनुभविता स्मर्ता ग्राहको भोक्तृवेदकः | कर्तोपलब्धा संवेत्ता ज्ञातेति ज्ञानसंज्ञकाः || इति | तेन ज्ञानमेव ज्ञेयरूपतया प्रथते इत्यर्थः | उक्तं च - भोक्तुर्विभोर्ये भवतो विभिन्नः स दृश्यते मुग्धतया स्व आत्मा | ते भोग्यभूताः पशुवत् परेषां भोगाय भूयोऽत्र भवे भ्रमन्ति || भवं भवद्वै भवभूतमेव विभावयन्तो भगवन् भवेयुः | भवद्वदेव प्रभुभावभाजो विश्वं वशे वर्तयितुं समर्थाः || इति | ज्ञानसम्बोधेऽपि - ज्ञाता ज्ञेयं ज्ञानमिति ज्ञानस्यैव त्रिधा स्थितिः | प्. ४१] ब्रह्मार्पणं ब्रह्महविरित्यत्रोक्तं तदेव यत् || मयैव चोक्तं क्वाऽपि - द्रष्टैवाऽस्ति न दृश्यमेतद्बुधैरध्यात्मना ज्ञायते आदर्शप्रतिबिम्बवज्जगदिदं भिन्नं द्विधा भाति यत् | सत्तां यान्ति घटादयो बहिरमी बोधानुवेधात् सदा ज्ञानाद्वैतमतः स्वतोऽस्ति न पुनर्ज्ञेयस्य सत्ता क्वचित् || इति | तथात्मसप्ततौ - यदिदं दृश्यते किञ्चिद्दर्शनात्तन्न भिद्यते | दर्शनं द्रष्टृतो नान्यद् द्रष्टैव हि ततो जगत् || इति | सङ्कर्षणसूत्रेष्वपि - येनेदं दृश्यते विश्वं द्रष्टा सर्वस्य यः सदा | दृश्यश्चराचरत्वे यः स विष्णुरिति गीयते || इति | जाबालिसूत्रेष्वपि - द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धाऽपरि -लुप्तचैतन्यस्वभावो जगदुत्पत्ति -स्थिति - लयैकहेतुर्भगवान् वासुदेव आत्मेति | पञ्चरात्रोपनिषदि च - ज्ञाता च ज्ञेयं च वक्ता च वाच्यं च भोक्ता च भोग्यं च | इत्यादि | तथाऽत्रैव - ऽसर्वान्तरं सर्वबाह्य स्वयंज्योतिः स्वयंसम् -बोध्यं स्वयंभूरिति चऽ इति | श्रुतिरपि - स एव ज्ञाता तज्ज्ञानमिति | २८ -२९ || अत्रैव प्रशंसाद्वारेण स्वीकरणोपायं प्राह - इति वा यस्य संवित्तिः क्रिडात्वेनाखिलं जगत् | स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः || ३० || प्. ४२] वाशब्दः स्वार्थेऽत्र | किं बहुना, इत्येवं चोक्तप्रकाररूपा यस्य संवित्तिः संवेदनं ज्ञानं यथा मन्मयमेव सर्व सोऽखिलं समग्रं जगत् क्रीडारामतया पश्यन् विभावयन्नित्य -युक्तत्वाच्च बन्धकारणस्याज्ञानस्य क्षयात् प्रबोधाप्तौ जीवन्ने -वेश्वरवन्मुक्तो नाऽत्र संशयः | उपपत्त्युपलब्धिभ्यां सिद्धत्वाद् भ्रान्तिरत्र नो | उक्तं च - सम्यक् स्वबोधविश्रान्तौ योऽलुप्तानुभवः स्थितः | विषयानपि सोऽश्नन् स्याज्जीवन्मुक्तस्तु तत्त्ववित् || इति | ये त्वाहुः - विनोत्क्रान्तिं कुतो मोक्षः | तन्निरासायाह - विना स्वभावानुभवेन पुंसः कैवल्यमुत्क्रान्तिबलाद्यदि स्यात् | अत्राऽपि पक्षे ननु मोक्षभागुद्बन्धनं यः कुरुते प्रमूढः || तथा - विदेहा अपि बद्ध्यन्ते प्रलये गुणवासिताः | शरीरिणोऽपि मुच्यन्ते विशुद्धज्ञानसंश्रयात् || इति || ज्ञानगर्भेऽपि - मयि स्थितमिदं जगत् सकलमेव सर्वत्र वा स्थितोऽहमिति धारणाद्वितयभावनावेशतः | जगत्त्रितयनाथ तैर्नातिचिरेण सम्प्राप्यते नृभिस्तव सपर्यया दलितकिल्बिषोपप्लवैः || गीतास्वपि - यो मां पश्यति सर्वत्र सर्व च मयि पश्यति | तस्याऽहं न प्रणश्यामि स च मे न प्रणश्यति || पञ्चरात्रेऽपि - प्. ४३] प्रज्ञाप्रासादमारुह्य अशोच्योऽशोचतो जनान् | भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति || अत्र च नित्योद्युक्तरूपत्वमेवोपायो युक्त्या ध्वनितः | प्राक् चोक्तं हि - अतः सततमुद्युक्त इत्यादि || ३० || अथ प्रागुक्तस्य मन्त्रात्मनो युक्त्यन्तरोदयवर्णनद्वारेण निगमनं करोति - अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि | तदात्मतासमापत्तिरिच्छतः साधकस्य या || ३१ || अयमेव तस्य पूर्वोक्तस्य ध्येयस्य मन्त्रात्मनो ध्यायिचेतस् -युदयः समापत्तिमेकीभावं मन्त्रात्मतापत्तिमिच्छतो गृह्णतः साधकस्य ध्यायिनो या तदात्मता ध्येयस्वरूपापत्तिरित्यर्थः | उक्तं हि विश्वसंहितायाम् - ध्येये चित्तं यदा लीनं तदा ध्यानमुदाहृतम् | ध्येयः प्रत्यक्षतां याति ध्याता तन्मयतां व्रजेत् || ऋच्छतस्त्विति पाठाद्वा ध्येयं चिन्तयतोऽत्र या | तदात्मतासमापत्तिरैक्यं तस्योदयः स तु || ग्रन्थकृतस्तु द्वयमप्याशयः सहते | यतो मन्त्रोच्चारणेच्छ -या मन्त्रदेवतया सह यत्तादात्म्यं योऽन्तःसंवेदनद्वारेण तदत्मग्रहो मन्त्रन्यासात्मकः स एवास्यो दय आविर्भाव इति || ३१ || अस्यैव व्याप्तिफलमाह - इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः | इयं निर्वाणदिक्षा च शिवसद्भावदायिनी || ३२ || येयं स्वरूपसंवित्तिः साऽमृताप्तिरिहात्मनः | जरामरणविच्छेदाद् पुनर्भवता न तु || प्. ४४] दुग्धाब्ध्युद्गतस्यायमेव चात्मनोऽनुग्रहः स्वतः | निर्वाणदीक्षा तच्चेयं परमात्मनियोजिका || इति | उक्तं च मोक्षधर्मेषु - हित्वा तु सर्वसङ्कल्पान् सत्त्वे चित्तं निवेशयेत् | सत्त्वे चित्तं यदा लीनं ततः कालञ्जयो भवेत् || इति | आत्मसम्बोधे च - भवेद्भवानामभवाय नूनं स्वभावसंविद्विदितैव पुंसाम् | आमर्त्यतां मर्त्यजने करोति सकृत्सुधाप्राशनमात्रमेव || इति | दीक्षार्थोऽयम् - ददाति ज्ञानसद्भावं क्षपयत्यखिलं मलम् | बोधानुवेधाद्दीक्षोक्ता दानक्षपणधर्मिणी || इति || ३२ || स्पन्दतत्त्वोदयं प्रोच्याकृत्रिमं तत्र एव च | मन्त्रोदयं च तद्वीर्य तद्विभूतीरथाऽऽह तु || यथोक्तस्य जाग्रत्येव निजभावाप्त्या स्वातन्त्र्यं तथा स्वप्नेऽप्यस्तीति वक्तुमाह - यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान्हृदिस्थितान् | सोमसूर्योदयं कृत्वा संपादयति देहिनः || ३३ || तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात् | नित्यं स्फुटतरं मध्ये स्थितोऽवंश्यं प्रकाशयेत् || ३४ || यथा जाग्रति जाग्रदवस्थायां धाता स्रष्टाऽऽत्मस्वभाव इच्छया दिदृक्षात्मिकया ऽभ्यर्थितो याचितः सन् देहिनः पुंसो हृदि स्थितानभिनतानर्थान् पदार्थान् सम्पादयति प्रकाशयति | स्वबला -वष्टम्भात् | किं कृत्वा सोमसूर्ययोरपानप्राणयोश्चक्षुषोश्चो -दयं कृत्वा चक्षुरादिष्व वधानेनेत्यर्थः | प्. ४५] एतदुक्तं भवति - अनेकार्थसन्निधानेऽपि गणिकानटमल्ल -प्रेक्षकादिषु मध्याद्यदेव वस्त्वभिमतं तदेव यथा पश्यति | स्वरूपानुप्रवेशात् | तथा स्वप्नेऽप्यभीष्टानेवार्थान् मध्ये हृदि स्वस्वभावे स्थितः सन् स्फुटतरं कृत्वा नित्यं सदैव प्रकाशयेद् दर्शयति | कुतः प्रणयस्येच्छाभ्यर्थनाया अनतिक्रमात् त्यागात् | मुक्त्वा दृढामभीष्टेच्छां नाऽन्यवृत्तिर्यदा भवेदिति | एतदुक्तम् - यदीच्छा तदनुगैव भवेन्न स्वातन्त्र्येण प्रभवति तदैतत्स्यात् तां चासौ नाप्यतिक्रामति | उक्तं च रहस्यस्तोत्रे - विस्मृतार्थमभियुज्यधीर्यथा त्वामशेषविदमाशु शंसति | यद्यदित्थमनयाऽर्थ्यते रसात् स्वप्नगोऽपि न विलङ्घयिष्यसि || इति | सिद्धोक्तं च - चिद्व्योम्निस्थोऽनुसन्धत्ते यत्तत्पश्यत्यखण्डितमिति | ज्योतिःशास्त्रेऽपि - येन येनेन्द्रियार्थेन विद्धः स्वपिति मानवः | तस्य तस्येन्द्रियार्थस्य सुप्तः कर्माणि पश्यति || इति || ३३ - ३४ || एवं स्वप्नस्वातन्त्र्यवर्णनद्वारेण युक्त्या सौषुप्ततमोव -रणनिर्भेद उक्तः | इत्थं स्वरूपस्थस्यैव जाग्रत्स्वप्नादौ स्वातत्र्यं न त्वन्यथेत्यभिधातुमाह - अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः | सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये || ३५ || अन्यथा पुनः स्वरूपस्थित्याभावे चित्तस्य चञ्चलत्वात् स्वप्ना -दौ सृष्टिरिच्छारूपा स्वतन्त्रा स्यात् | स्वप्नादिप्रसरोऽसमञ्जसरूपो भवेदित्यर्थः | कुतस्तद्धर्मकत्वात् सृष्टिस्वभावत्वात् | यतस्तत्तत्त्व - मिच्छाख्यप्रसवधर्मि नित्यम् | कस्येव | यथा लौकिकस्याप्रबुद्ध -मतेर्जाग्रत्स्वप्नपदद्वये सततं सर्वकालं सृष्टिरिच्छैव स्वतन्त्रा | प्. ४६] न त्वसौ ह्यप्रबुद्धतया | साऽस्य सहस्रशः सम्बद्धाऽसम् -बद्धविकल्परूपैव भवेदवस्थाद्वितयेऽपीति यावत् || ३५ || एवमात्मनो विभूतिषु स्वातन्त्र्याख्यां युक्तिमुक्त्वाथेदा -नीं ज्ञत्वकार्यसामर्थ्याख्या या तां तत्र कथयति | सूक्ष्मव्य -वहितादौ ज्ञत्वोपायं तावत्कारिकाद्वयेन प्राह - यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि | भूयः स्फुटतरो भाति स्वबलोद्योगभावितः || ३६ || यथा दूरस्थितः कश्चिदर्थ पदार्थो घटपटादिवस्तु विशेषो -ऽस्फुटः संदिग्धो दृष्टः सावधानेऽप्यन्यव्यावृत्तेऽप्येकाग्रेऽ -पि चेतसि सति हि यस्मात् स एवार्थो भूयः पुनः स्वबलोद्योगेनात्मब - प्रयत्नविशेषेण भावितो विचारिता सन्स्फुटतरो भाति निःसन्दिग्धः प्रकाशतेऽवभासते | तस्मात्तथा यद्वस्तु येन रूपेण यत्र यस्मिन् काले स्थितं तद्वस्तु तथा तेनैव प्रकारेण प्रयत्नविशेषेण स्वबलं स्वस्वरू -पं विकस्वरमाक्रम्याश्ह्रित्याऽवष्टभ्याभ्यासान्नचिरात् त्वरितं सम्प्रर्तते सम्यक प्रतिभाति निरावरणस्वरूपत्वात् | प्रागुक्तं हि - अपि त्वात्मबलस्पर्शात् पुरुषस्तत्समो भवेत् | तत्त्वयुक्तौ च - विषयाधिपतिर्यो हि येन जानाति पार्वति | तस्य यो वेत्ति तत्त्वेन तेन ज्ञातं चराचरम् || तेनाऽतीताऽनागतज्ञानं परिमितविषयं न किञ्चिदाश्चर्यम् || ३६ - ३७ || एवं ज्ञत्वमुक्त्वाऽधुना कार्यकर्तृत्वसामर्थ्ये क्षुज्जयाय चोपायान्तरमाह - दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते | आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः || ३८ || प्. ४७] दुर्बलः क्षीणधातुरशक्तः कृशोऽपि तद् बलमुत्साहलक्षण -मुद्योगरूपमाक्रम्याऽधिष्ठाय स्वीकृत्य यतः कार्ये प्रवर्तते यस्माद् व्यापारं सम्पादयति | अतिकृशस्याप्युद्योगबलावलम्बनात् समरादौ शक्तिदर्शनात् | एतदुक्तं भवति - यथा कश्चिदसमर्थोऽपि व्यायामाभ्यासान्महतीं शक्तिं प्राप्नोत्युद्योगबलेन तथा योऽतिबुभुक्षितः क्षुधार्तः सोऽपि तेनैव स्वस्वभावानुशीलनेन बुभुक्षां भोक्तुमिच्छामप्याच्छादयेत् क्षुधं शमयति | प्रोक्तं च पतंञ्जलिना - कण्ठकूपे क्षुत्पिपासानिवृत्तिः | तथा - बलेषु हस्तिबलादीनि | बुभुक्षाशब्दोऽत्रोपलक्षणार्थम् | तेन क्षुत्तृषौ शोकमोहौ जरामृत्यू चेति षडूर्मयोऽपि नश्यन्तीत्यर्थः || ३८ || एवं न केवलमस्मिन्नेव शरीरे तस्य सर्वज्ञतादयः सन्ति, यावत्सर्वत्रापीत्युपायद्वारेणाऽऽह - अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः | तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति || ३९ || अनेन प्रागुक्तेनात्मस्वभावेनाऽस्मिन् देहेऽधिष्ठिते व्याप्ते -ऽन्वीक्षिते सति यथा सर्वज्ञतादयो गुणा विद्यन्ते | यस्मादत्र स्वल्पयूकादिभक्षणाद्यपि क्षिप्रमेव जानाति | उक्तं च ज्ञानसम्बोधे - सर्वः स एव व्यापित्वाद् ज्ञः स एव स्वभावतः | सर्वज्ञश्चेति सर्वज्ञः पुमानेव निरुच्यते || अन्यच्च - सर्वज्ञः सर्वदैव त्वं सर्वस्य हृदये न चेत् | केनाऽन्यथाऽस्य सम्भाव्या नष्टार्थविषया स्मृतिः || प्. ४८] तदहर्जातबालैश्च स्तनपानं क्व शिक्षितम् | प्राणिभिर्वाप्सु तरणमेतत् सर्वज्ञचेष्टितम् || अन्यच्च - भक्ष्यं स्यात्किमभक्ष्यं वा स्वाद्वस्वाद्विति निश्चये | मक्षिकाणां कुतः संवित् क्षौद्रसंचितिकर्मणि || सर्वज्ञस्याप्यधिष्ठातुस्तद्विजृम्भितमन्यथा | कृमिमात्राल्पकायानां सम्भृतिर्विस्मयास्पदम् || कतकस्य फलं वारिप्रसादनविधित्सया | द्विपः क्षिपति तस्यैषा प्रज्ञा ह्यज्ञस्य किं पशोः || गीताकर्णनवैदग्ध्यं मुग्धबुद्धेर्मृगस्य किम् | सम्भाव्यते हि येनाऽस्य रोमन्थविरता स्थितिः || भक्षयिष्यति मामित्थमाखोर्विवरवर्तिनः | मार्जारं प्रति का शङ्का सर्वज्ञज्ञापनं विना || भयात् कूर्मः स वार्यन्तः सर्वाण्यङ्गानि गूहते | दुर्भेदबुद्धिस्तत्रास्य विवेकविकलस्य किम् | वीक्ष्यान्यक्षीणपक्षाणां वैलक्षण्यमचेतनः || नृत्तमारभते बर्ही स्फुरितं तज्जगद्गुरोः || अगाधजलमध्यस्थमत्स्यभक्षणलक्षणम् | केनोपदष्टिं तन्मद्गोरनुमानं विना कृतम् || अशक्यशक्तिः कस्येयं सलिलात् पिबतः पयः | हंसस्य न पुनस्तस्य हृदयान्तरवर्तिनः || प्रतिभातप्रभातस्य मन्दिरान्तरवर्तिनः | कृक्रवाकोर्गिरः कस्मात् क्षेत्रज्ञप्यापिनं विना || यासामाकलनोद्युक्ता कालवित्कलना ततः | प्रवर्तते दिनारम्भे निर्भ्रान्तकृतसंविधिः || शृङ्गदन्तनखादीनि प्राणिनामायुधानि यत् | परप्रहरणोद्रेके केनाऽऽख्यातान्यसंविदाम् || प्. ४९] बलं तेजः करो सिंहो जानाति निजमूर्जितम् | को हेतुर्यावदन्तस्थप्रतिपत्तिर्न सस्फुरा || अतिवृष्टेरनावृष्टेर्व्यञ्जकं चिह्नमिङ्गितैः | सूचयन्ति न तच्चित्रं पशवः पक्षिणोऽपि यत् || कृतान्तकल्पैः सिंहाद्यैः प्रीतिः प्राणभृतां कुतः | विनैकस्य हृदिस्थस्य संवित्संवादसुस्थितिम् || इति | तेषां च प्रागुक्तयुक्त्या विशेषाभिव्यक्तिः | तथा स्वात्मन्य -धिष्ठानात् स्वरूपाच्यवनादेवं सर्वत्र सर्वज्ञतादयो भविष्यन्त्यभिव्यक्तिं यान्तीत्यर्थः | उक्तं च - एको भावः सर्वभावस्वभावः सर्वे भावा ह्येकभावस्वभावाः | एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः || रहस्ययुक्तिरत्रेयं शरीरे यत्र यत्र च | संविदो दार्ढ्यलाभः स्यात्तत्र तत्र गुणोदयः || इति || ३९ || अथैषां गुणानामाच्छादकमूलविच्छेदार्थमाह - ग्लानिर्हर्षक्षतिरनुत्साहरूपा देहे किल विलुम्पिका विनाशिनी | तस्याश्च ग्लानेरज्ञानतः सृतिः सरणमुत्पत्तिः | तच्चाऽज्ञानमुन् -मेषेण वक्ष्यमाणलक्षणेनाऽऽत्मस्वभावेन यदा विलुप्तं निर्णोदितं नाशितं तदा कुतः सा ग्लानिरेव का स्यात्कारण रहिता भवेदित्यर्थः | अत एव च योगिनां जरारोगाद्यभावः शरीरदार् -ढ्यं च भवेत् || ४० || अथोन्मेषस्य स्वरूपमाह - एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः | उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् || ४१ || प्. ५०] एकस्यां चिन्तायां प्रसक्तस्यैकत्र विषये क्वचिद् व्यापृतचित् -तस्य सतो यतो यस्मात् स्वस्वभावादपरस्याश्चिन्ताया उदयोऽभिव्य -क्तिर्भवेत् | झटिति यतोऽन्या चिन्तोत्पद्यते विस्मृतस्मरणादिका स चिन्तायाः कारणमुन्मेषो विज्ञेयः | तं च पुनरुन्मेषं स्वयमात्मनोपलक्षयेद्विजानीयात् | चिन्ताद्वयमध्ये व्यापकत्वेना -ऽनुभूयमानतया स्वसंवेद्यत्वाद् बृहत्कुमारीसुखवदनुपदे -श्य इत्यर्थः || ४१ || अस्य चानुशील्यमानस्य प्रत्ययानाह - अतो बिन्दुरतो नादो रूपमस्मादतो रसः | प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः || ४२ || अतोऽस्मादुन्मेषादनुशील्यमानादचिरेणैव कालेन देहिनः पुंसि बिन्द्वादयः प्रवर्तन्ते उत्पद्यन्ते | बिन्दुस्तेजोरूपो भ्रूमध् -यादौ | नादोऽकृत्रिमोऽनाहतात्मकः शब्दब्रह्माख्यो दूराच्छ्र - वणं च | रूपमन्धकारे दर्शनं देवतानां च सूक्ष्मादिप्र -दर्शनं च | रसो मुखेऽमृताश्वादः षड्रसानां च | कथमेते प्रवर्तन्ते क्षोभकत्वेन उत्कृष्टसिद्धिविघ्नकारित्वेन | तथा च पतञ्जलिः - ततः प्रातिभश्रावणवेदनाऽदर्शनाश्वादवार्ता जायन्ते | ते समाधावुपसर्गा व्युत्थाने सिद्धयः इति | अन्यच्च अनेन युक्त्या सृष्ट्यादिक्रमो ध्वनितः | यतः प्रागुन्मे -षात् सृष्टिरुक्ता | सा च कथम् ? अतोऽस्मदादौ विन्दुरिच्छादृग्शक्तिप्र -सररूपः | ततो नादः शब्दात्मको वागाख्यः क्रियाशक्तिरूपः | ततो रूपं पदार्थदर्शनविचारस्वरूपम् | ततस्तत्रैव रसोऽभिलाष उपभोगरूपश्चेति | एष एवातिरहस्यक्रमार्थविदामुद्योगावभास - चर्वणविलापनरूपः क्रमचतुष्कक्रमोऽत्रैव युक्त्यैवोक्तः - न बाधते विशेषो हि प्रकृतं परिभाषया इति | तद्यदुक्तं स्वयं तमुपलक्षयेदिति || ४२ || तत्कथमित्यत्रोपायमाह - दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते | तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते || ४३ || प्. ५१] द्रष्टुमिच्छा दिदृक्षा तदवस्थास्थ इव सर्वार्थान् सर्वभा -वान् व्याप्याधिष्ठाय यदाऽवतिष्ठते वर्तते तदा किं बहु -नोक्तेनाधिककथनेन | स्वयमेवात्मनैव तत्तत्स्वभावमवभोत् -स्यतेऽवगम्यते ज्ञास्यतीत्यर्थः | अयमत्रोपदेशाशयः - यथा कुतूहलदिदृक्षुर्विकासवृत्त्यास्ते एवं यः सर्वभावौन्मुख्य -रूपोद्यन्तृतास्वरूपे तिष्ठति स स्वभावं सर्वज्ञतादिगुणास् -पदं स्वयमाप्नोति | यतः प्रागुक्तम् - अतः सततमुद्युक्त इत्यादि | या चैषा स्थितिः सैव तत्त्वार्थचिन्तामणौ रहस्यमुद्रेत्युक्ता | मयोक्तं भोगमोक्षप्रदीपिकायाम् - उद्यन्तृताबलेन तु विकासवृत्त्या स्वरूपगस्तिष्ठेत् | स्वयमुपसृतेन्द्रियार्थानश्नन्नानन्दभूमिगो योगी || एषोच्छृङ्खलरूपा विकस्वरतरा प्रबुद्धबुद्धीनाम् | सिद्धाः स्थिता सदाऽस्यां ह्यानन्दरताः परा च मुद्रैषा || अन्यत्रोक्तं च - सर्वाः शक्तीश्चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् | क्षिप्त्वा मध्ये हाटकस्तम्भभूत - स्तिष्ठन्विश्वाधार एकोऽवभासि || तथा - स्वच्छन्दं वा यत्र तत्र व्रजन्तीर्वेश्या - स्त्रीवच्चञ्चला या दृगाद्याः | शक्तीः पश्यन् केवलं नानुगच्छेद्विश्वं बिभ्रद्भासि तस्य त्वमन्तः || इति || ४३ || अस्यामेव स्थितौ युक्तिमाह - प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोच्य गोचरम् | एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते || ४४ || प्. ५२] प्रबुद्धोऽसंकुचितशक्तिनिर्विकल्प उद्योक्तृरूपतया सर्वकालं तिष्ठेद् वर्तेत | ज्ञानगोचरं विषयमालोक्य परिच्छिद्य संविद्दीप्त्या ज्ञेयं विलाप्याऽविभागं नीत्वेत्यर्थः | मयैव चोक्तं भोगमोक्षप्रदीपिकायाम् - अथवाविभागबोधज्वलनेन विलाप्य वेद्यपीयूषम् | पीत्वा तृप्तो विचरन्नीरोगो योऽचिरात् सदैकाकी || एतत्क्रमार्थसारं परधाराभूमिका च शक्तीनाम् | तदनुज्ञयाऽत्र कथितं सच्छिष्यविबोधनाय मया || अतः सा निर्विभागा चित् | उक्तं हि - देशकालक्रियाकाराः प्रसिद्धा भागहेतवः | तेन सन्ति पुनर्यस्य विभागस्तस्य किंकृतः || अन्यच्च - मनः सविषयं दाह्यं ज्ञानाग्निर्दर्शनैर्दहेत् | अन्तर्बहिर्मुखश्चैवं समाधिरूपपद्यते || तथा - विज्ञानवाडवो दीप्तः स्वशक्त्या ज्ञेयतोयधीन् | अजस्रं ग्रसते नान्यस्तद्ग्रासे शक्तिमान् भवेत् || नाऽप्राप्त्या पयसां तृष्णा प्राप्त्या वा भूयसामपि | यस्यास्ति कृतकृत्यत्वं कोऽप्यसौ वडवामुखम् || इति | प्राक्चैतत्सोपपत्तिकं वितत्योक्तम् | यस्मात् सर्वमयो जीव इत्यादि | एवमेकत्र तत्त्वस्वभावे विद्यात्मके ज्ञानरूपे सर्वमारोपयेदै -क्यं नयेत् | अत एव ततोऽन्येन वक्ष्यमाणेन कलासमूहेन शक्त्यात्मकेन विकल्परूपेण न पीड्यते न बाध्यते न स्वरूपात् प्रच्याव्यत इत्यर्थः | उक्तं च - एकं व्यापि व्योम कुड्यादियोगात् तस्मिन् बाह्याऽभ्यन्तरत्वं तथा त्वाम् | पश्यत्येकं ग्राहकग्राह्यरूपं व्याक्षिप्ताक्षेप्यक्षतस्त्वत् समाधिः || इति || ४४ || एवं यः प्रबुद्धः पतिः सोऽन्येन न पीड्यते | अर्थाद्योऽप्र -बुद्धः पशुः स हन्यते | प्. ५३] स च कथं किंलक्षणश्चेत्युच्यते - शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् | कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः || ४५ || शब्दानां राशिः शब्दराशिः वर्णसमूहो मातृका अकारादिक्षकारान्ता शब्दजननी | वर्णात्मकत्वाच्छब्दानाम् | तत्समुत्थस्य कादिवर्गात्मकस्य ब्राह्म्यादिशक्तिचक्रस्य कलाभिः ककाराद्यक्षरैर्विलुप्तविभवो हृतमहाव्याप्तिः स्वभावात् प्रच्यावितोऽत एवास्य भोग्यतां गतः सन् पुरुषः पशुरुच्यते अज्ञत्वात् | उक्तं चेश्वरप्रत्यभिज्ञायाम् - स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः | मायातो भेदिषु क्लेशं कर्मादिकलुषः पशुः || क्वापि च - भेदग्रन्थिविभङ्गे हि कर्मात्मैक्यं प्रपद्यते | सोऽविज्ञातः पशुः प्रोक्तो विज्ञातः पतिरेव सः || इति || ४५ || अतश्च - परामृतरसापायस्तस्य यः प्रत्ययोद्भवः | तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः || ४६ || तस्य च पशोर्यः प्रत्ययोद्भवः श्रोत्रादिद्वारेण विषयदर् -शनेन स्मरणादिज्ञानोत्पत्तिः स एव परामृतरसात् स्वरूपोदयाद -पायः प्रच्युतिः | यतस्तेन स पुमानस्वतन्त्रतां पारतन्त्र्यमसर्व -गतत्वाद्यमेति प्राप्नोति | स च प्रत्ययोद्भवस्तन्मात्रगोचरः शब्दादिविषयविषयस्तदभिलाषात्मक इत्यर्थः || ४६ || अत एव च - स्वरूपावरणे चास्य शक्तयः सततोत्थिताः | यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः || ४७ || प्. ५४] अस्य च पुंसः स्वरूपावरणे स्वस्वभावाच्छादने शक्तयः पूर्वोक्ताब्राह्म्याद्या शब्दरूपाः क्रियाशक्तिद्वारेण सततमुद्य -ताः सदा सन्निहिताः पुंरूपग्लपनाय | यतः शब्दानुवेधेन वर्णानुगमेन विना न प्रत्ययोद्भवो ज्ञानसंवेदनमस्ति | शब्दायत्तत्वात्पदार्थस्य वाच्यवाचकयोरन्योन्यद्योतकत्वाच्च | तथा चोक्तं वाक्यपदीये - न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते | अनुविद्धमिव ज्ञानं सर्वं शब्देन दृश्यते || इति || प्राक्चोक्तं हि - वागेवास्याः कारणं विश्ववृत्तेरित्यादि | अन्यच्च - वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती | न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी || इति || ४७ || अथास्या एव क्रियाशक्तेर्बन्धमोक्षहेतुतामाह - सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपदादिका || ४८ || यैषा अज्ञानां बन्धयित्रीबन्धजननीभगवत् क्रियात्मिका क्रियास्वभावाऽशक्तिः सैवेयं शिवस्य सुप्रबुद्धस्य पशुवर्तिनी पशुवद्यथेष्टविनियोज्यतया या वर्तते सा यथोक्ता | सा च स्वमार्ग -स्था मदीयेति ज्ञाता सिद्ध्युपपादिका परापरसिद्धिप्रदा भोगमो - क्षावहेत्यर्थः | अर्थाच्च भिन्ना ज्ञाता बन्धदा भवति | अथवेयं व्याख्या - सेयमित्याद्यन्यस्तुल्यार्थः | स्वमार्गस्था स्वतन्त्रा अज्ञाता बन्धयित्री | ज्ञाता तु सिद्ध्युपपादिकेति | उक्तं चैतत्प्राक् - प्राणिनां पतनं येन इत्यादिना || ४८ || कथं त्वेषा बन्धहेतुतामापद्यत इति स्फुटीकर्तुमाह - तन्मात्रोदयरूपेण मनोऽहंबुद्धिवर्तिना | पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् || ४९ || प्. ५५] पुर्यष्टकस्य किल द्वे रूपे स्तः - एकं सूक्ष्ममातिवाहिका -ख्यं तन्मात्रमभिलापात्मकम् द्वितीयं स्थूलं भौतिकं भोगाख्यम् | तत्र सूक्ष्मेण पुर्यष्टकेन संरुद्धो बद्ध आवृतोऽतः एव परवशः सन् तदुत्थप्रत्ययोद्भवं सुखदुःख -संवेदनरूपं भोगं भुङ्क्ते अश्नाति | कीदृशम् | तन्मात्रा -णां शब्दादीनामनुभवद्वारेण य उदयोऽभिव्यक्तिः स एव रूपं यस्य तेन तथा मनोहङ्कारबुद्धिवर्तिना चान्तःकरणसं -युक्तेन | तस्य च पुर्यष्टकस्य भावात्तद्वशाच्छरीरी संसरेत् संसारं याति | अत एवास्य संसृतिप्रलयस्य जननमरणप्रवाहस् -यैतदेव कारणं हेतुं संप्रचक्ष्महे कथयामः || ४९ - ५० || एवं बन्धनिमित्तमुपवर्ण्यास्योच्छेदो पायमाह - यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ | नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् || ५१ || एवम् - बन्धमोक्षविचारेण प्रबोधाख्या यदा पुन इति | पुर्यष्टकद्वयमध्यादेकत्रैकस्मिन् पुर्यष्टके स्थूले सूक्ष्मे वा पतित्वेन संरूढो लीनचित्तस्तदा तस्य तदुत्थप्रत्ययोद्भवस्य शब्दार्थोर्लयोद्भवौ प्रध्वंसप्रादुर्भावौ नियच्छन् स्वेच्छया कुर्वन् भोक्तृतामेति | प्रभुत्वं प्राप्नोति | भोग्यरूपात् पशुत्वान्मुच्यते इत्यर्थः | तदुक्तम् - प्. ५६] पशुनां तु पतिर्भूत्वा पशूनां तु पतिर्भवेत् | पशुत्वान्मुच्यते सद्यो भूत्वा पशुपतेः पतिः || इति | स्वबोधोदयमञ्जर्यां च - यद्यन्मनोहरं किञ्चिदक्षिगोचरमागतम् | एकाग्रं भावयेत्तावद्यावल्लीनं निरोधकृत् || इति | एवं सति स्वातन्त्र्याप्तेस्ततश्चक्रेश्वरः शक्तिचक्रस्वामी सर्वज्ञतादियुतः सर्वाधिपतिर्भवेदित्यर्थः || ५१ || एवमस्याद्यश्लोके शक्तिचक्रैश्वर्यं यदुक्तं तदिहापि - अथेत्थं ग्रन्थनिष्पत्तेर्ग्रन्थकर्ता गुरोर्गिरम् | प्रहर्षवशतः स्तौति नीतिं शिष्यांश्च शिक्षयन् || अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् | वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् || ५२ || तमहं गुरुभारतीं वन्दे | कीदृशीम् | दुरवगाहसन्देहार् -णवपारोत्तारिणीम् | अन्यच्च विचित्रोऽर्थोऽभिधेयो विचित्राणि पदानि शब्दा यस्याः सा यथोक्ता | अत एव चित्रामाश्चर्यभूतामाचार्य -सरस्वतीं स्तौमि | नहि गुरोर्गरीयानन्योऽस्ति | तदुक्तं जयायाम् - यस्माद्देवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् | मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना || इति | नारदसंग्रहे च - गुरवे दक्षिणां दद्यात् सर्वस्वं स्वार्धमेव वा | सर्वस्वमथवाऽत्यल्पं संसारोच्छेदहेतवे || इति | मयोक्तं क्वापि - भगवत्प्राप्तिकामो यस्तेनान्वेष्यो गुरुर्यतः | भगवान् ज्ञायते शास्त्राच्छास्त्रं च ज्ञायते गुरोः || प्. ५७] तद्बोधाद् ज्ञानविलयाज्ज्ञानाप्तौ प्राप्त एव सः | तस्माच्छास्त्रादीश्वराच्च गरीयान् गुरुरुच्यते || इति | पञ्चरात्रेऽपि - यथा भगवत्येव वक्तरि वृत्तिरिति || ५२ || अथाम्नायक्रमवर्णनद्वारेण संग्रहकृत्स्वकीर्त्यर्थ श्लोकेन स्वनामोपबध्नाति - वसुगुप्तादवाप्येदं गुरोस्तत्त्वार्थदर्शिनः | रहस्यं श्लोकयामास सम्यक् श्रीभट्टकल्लटः || ५३ || अस्यार्थः प्रारम्भ एवोक्त इति पुनर्नोच्यते | इदं च ब्रह्मविद् -याबीजं नाऽपरीक्ष्याऽस्थाने वपेत् | उक्तं ह्यनेनैवाऽन्यत्र - गुणैरूपेताऽपि तु सिद्धविद्या कन्येव दत्ता गुणवर्जिताय | सम्भोगहीना विदधात्यकीर्तिं दातुर्यतस्तत्प्रगुणाय दद्यात् || इति || ५३ || इत्यविद्यातमःस्थानां दर्शनाय प्रकाशिता | सतां सुपूर्णादेशेव शुद्धामलगुणोज्ज्वला || वाग्लुण्ठनार्थमन्येषां विद्वन्मन्यतयाऽपि तु | शुद्धबोलोल्लासवशात् कृत्वा स्पन्दप्रदीपिका || तस्मात् प्रोत्सार्य मात्सर्यमर्थमर्थ विचार्य च | आर्यैराश्चर्यभूताया न कार्योऽस्या अनादरः || नारायणस्थानज उत्पलाख्यस्त्रिविक्रमाख्यस्य सुतोऽग्र्यजन्मा | यस्तेन सच्छिष्यहिताय दृब्धा व्याख्या मयैषा च तमोनुदे स्यात् || प्. ५८] गतिः स्खलन्ती न क्वचिद्यथा निशि स्याद्दोपहस्तस्य तथा स न क्वचित् | स्खलत्यमार्गेऽपि करेऽस्ति यस्य हि प्रदीपिकेयं प्रगुणप्रकाशिका || किं वा बहूक्तिभिरिमां तु सरस्वतीं मे बोधद्रुमोत्तमसृतां परतीर्थयुक्ताम् | स्वच्छां विगाह्य विबुधत्वमुपैति मर्त्यो - ऽप्यत्यक्तदेह इह चित्रमतः परं किम् || इत्याचार्यभगवदुत्पलविरचिता स्पन्दप्रदीपिका समाप्ता || || शुभं भूयात् || </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] r45xq5cv03ykdfc8655m6k5426atb8h 417925 417924 2026-07-31T06:12:41Z Shubha 190 417925 wikitext text/x-wiki {{header | title = स्पन्दप्रदीपिका | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> Description: The Spandapradīpikā by the Vaiṣṇ ava Bhagavatutpala. A commentary on the Spandakārikā. प्. १] स्पन्दप्रदीपिका: उत्पलाचार्यविरचिता यत् परापरभूस्पर्शि यत्सङ्कल्पाल्लयोदयौ । स्पन्दसंज्ञं ज्ञरूपं तच्छक्तीशं स्वबलं नुमः ।। नत्वा विकल्पविलसत्सत्स्वभावगुरुं गुरुम् । भुक्तिमुक्त्यै युक्तियुक्तं किञ्चिद्वच्म्यर्थितोऽर्थिभिः ।। ज्ञानान्तराणि सन्त्याशु नात्यन्तसुखदानि तु । मुक्तात्मज्ञानममृतं सुरसेष्विव मृत्युजित् ।। चिन्तामणिस्त्वेक एव सगुणेषुमणिष्विव । तेजस्विषु यथैकोऽर्को निःशेषध्वान्तहा तथा ।। नारायणस्थानसंस्थद्विजवर्यत्रिविक्रमात् । जातो जनानुग्रहार्थ व्याख्याति स्पन्दमुत्पलः ।। मायाश्यामतमश्छन्न आत्मचिन्तामणिर्यतः । न दृश्यतेऽतस्तत्प्राप्त्यै ग्राह्या स्पन्दप्रदीपिका ।। अयमत्र किलाम्नायः सिद्धमुखेनागतं रहस्यं यत् । तद् भट्टकल्लटेन्दुर्वसुगुप्तगुरोरवाप्य शिष्याणाम् ।। अवबोधार्थमनुष्टुप्पञ्चाशिकयाऽत्र सड्ग्रहं कृतवान् । यदपि तदर्थो व्याख्याज्योत्स्नाप्रकटीकृतोऽस्ति तेनेषत् ।। मोहनिशामध्यगता मन्ददृशस्तदपि नार्थमीक्षन्ते । सूक्ष्मं दीपिकयाऽन्ते स्वतस्तदुद्दीपनार्थमहमद्य ।। प्. २] स्वोद्यन्तृतः स्वरूपस्पन्दोल्लासेन चोदितश्च यदा । परवश इव प्रवृत्तस्तदा न गर्वान्मयेयमारब्धा ।। (कलापकोऽयम्) अत्रादौ तावत्सम्बन्धाभिधानाभिधेयविषयप्रयोजनप्रयोजन - प्रयोजनानीति षडुच्यन्ते । यतस्तैर्विना श्रोतॄणां शास्त्रं प्रत्यनादर एव स्यादप्रयत्नश्च । इहैवोक्तं हि - प्रयत्नेन परीक्ष्यं तत्त्वमादरादिति शास्त्रमन्तरेण च हेयोपादेयविचारमात्रमपि न भवेत् किं पुनस्तत्त्वपरीक्षणम् । तथा चोक्तमागमरहस्यस्तोत्रे - साक्षाद्भवान् यदि विधाय न मूर्तिमाद्यां तत्त्वं निजं तदवदिष्यदतोऽतिगुह्यम् । नाज्ञास्यत त्रिभुवनम् ध्रुवमन्धमूक - कल्पं समस्तमसमञ्जसतामयास्यत् ।। षाड्गुण्यविवेकेऽपि - साक्षात् त्वमेव वा शास्त्रं त्वदीयैव हि सा मतिः । शब्दद्वारेण सङ्क्रम्य संस्करोत्यधिकारिणः ।। पञ्चरात्रश्रुतावपि - यद्वत् सोपानेन प्रासादमारुहेत् प्लवेन वा नदीं तरेत् तद्वच्छास्त्रेणैव हि भगवाञ्छास्ताऽवगन्तव्य इति । तत्रामीषां शास्त्राणां सम्बन्धस्तावत् पञ्चविधः । परो महान् दिव्यो दिव्येतर इतरेतरश्चेति । तत्रेह सिद्धपुरुषयोः प्रायेण दिव्येतरः । अथ वाच्यवाचकलक्षणः । वाच्योर्थः । वाचकं शास्त्रम् । स्पन्दाभिधोऽर्थोऽत्र वाच्यः । तद्वाचकत्वा - दुपचाराच्छास्त्रस्याप्येतत्संज्ञा । स्पन्दशब्दस्यार्थो यद्यप्याद्यश्लोके युक्त्यैवोक्तस्तथापि धात्वर्थेन सहोच्यते । स्पदि किञ्चिच्चलने इति । प्. ३] स्पन्दनात् स्पन्दः । स्पन्दनं निस्तरङ्गस्यास्य तावत् परमात्मनो युगपन्निर्विकल्पा या सर्वत्रौन्मुख्यवृत्तिता । तस्मात् - शान्तषाड्गुण्यरूपस्य यः स्फुरन् प्रतिभोदयः । स चाऽऽत्मबलशक्तीशश्चिद्रूपः स्पन्दसंज्ञकः ।। अतश्चाऽस्मत्पितुर्मातामहाचार्येण महाबलेन - यथार्थनाम्ना क्रोधे इत्यादिनाक्तो विभवोदयो रहस्यस्तोत्रे । उक्तं चेश्वरप्रत्यभिज्ञायाम् - या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ।। व्यापकत्वात्स सामान्यः सर्वसाधारणादपि । अस्य च - स्पन्दः सामान्यपूर्वंश्च शुद्धात्मा शङ्करः शिवः । भावः स्वभावस्तत्त्वं च ज्ञातेत्याद्यभिधाः स्मृताः ।। अन्यच्च, चित् संविज्ज्ञानं बोधश्चेति पर्यायाः । एष एव निरावरणचित्स्वरूपत्वाद् दिक्कालाद्यनवच्छिन्नप्रसरोऽद्वितीयः स्वानुभवैकप्रमाणः शक्तिचक्रेश्वर आत्मचिन्तामणिरुपेयतयाऽ -भिधेयः । कुतोऽस्य चिन्तामणित्वमिति चेत् । शास्त्रात् । श्रीपौष्करायां ह्युक्तम् - चिन्तामणो स्वरूपेण न किञ्चिदुपलभ्यते । अथ चाभिमतं सूते ब्रह्मैवं सर्वशक्तिकम् ।। परमार्थसारे च - सर्वाकारो भगवानुपास्यते येन येन भावेन । तं तं भावं भूत्वा चिन्तामणिरिव समभ्येति ।। ज्ञानसम्बोधेऽपि - स्वभावादेकरूपापि नानात्वं प्रतिपद्यते । ज्ञानस्य शक्तिः सङ्कल्पैर्लक्ष्मीश्चिन्तामणेरिव ।। प्. ४] अस्य च शास्त्रकारेणान्वर्थसंज्ञयाऽऽत्यन्तिकश्रेयस्करत् - वाच्छिवशङ्करशब्दाभ्यां निर्देशः कृतः । वस्तुवस्तु निर्नामक एव । प्रोक्तं च सिद्धनाथेनाभेदार्थकारिकास्विदम् - वस्तुनो भावशून्यस्य त्वग्राह्यस्य निराकृतेः । कल्पनामात्रमेवैतत् यच्छिवव्यपदेशनम् ।। नेत्थं विभोर्विवर्तोऽस्ति परिणामश्च न क्वचित् । अथवा द्वयमप्यस्तु तथाप्यस्य न खण्डना ।। संवित्प्रकाशेऽपि - इति निर्मलबोधैकरूपे देहपरिग्रहः । विवर्तपरिणामाभ्यां द्वाभ्यामप्युपपद्यते ।। विवर्तेऽप्यतथारूपस्तथा भासि त्वमच्युत । परिणामे स एव त्वं सुवर्णमिव कुण्डले ।। ननु कथमस्य निरावरणत्वं यतः सुखदुःखमोहात्मक -गुणादिस्पन्दनिष्यन्दैरावृतमेव पश्यामः । अत्रोच्यते । एते हि ज्ञेयत्वात् स्वयं निःसत्ताकाः । ज्ञातृसंश्रयात्तु लब्धप्रतिष्ठा इवाप्रबुद्धबुद्धीनां स्वं शुद्धबुद्धस्वरूपं विहायाहम् -प्रत्ययेन कामकामात्तादात्म्यं प्रतिपन्नानां निजधर्मैरधि - वास्य सङ्कोचरूपतामापादयन्त्यविद्यारूपत्वात् । न पुनः स्वस्वरूपस्थितानाम् । उक्तं चेहाग्रे - गुणादिस्पन्द इत्यादि । धातुसमीक्षायां च - अविद्याशबलस्यास्य स्थितं मेयत्वमात्मनः । गृहीतं न निजं रूपं शबलेन तदात्मना ।। सा चाऽनृतात्मिकाऽविद्या नानृतस्य हि वस्तुता । नावस्तु वस्तुनो नाशं विकारं वा करोत्यतः ।। प्. ५] नाच्छादितस्य तमसा रज्जुखण्डस्य विक्रिया । नाशो वा क्रियते यद्वत् तद्वन्नाऽविद्ययाऽऽत्मनः ।। नाऽतः स्वतो न परतो बन्धोऽस्य परमात्मनः । बद्धोऽथाऽविद्यया जीवो मुक्तिस्तस्य हि तत्क्षये ।। तत्वयुक्तौ च - येन येन हि बद्ध्यन्ते जन्तवो रौद्रकर्मणा । सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् ।। कुलयुक्तौ च - प्राणिनां पतनं येन तेनैवोत्पतनं स्मृतम् । अज्ञत्वा बध्यते येन ज्ञात्वा तेनैव मुच्यते ।। तथा मयाऽपि - सीदति येनैव जडः प्राज्ञस्तेनैव सन्तरति दुःखात् । पिण्डितमयोऽप्सु मज्जति तदेव पात्रीकृतं प्लवते ।। गीतासु चेदृगेवाऽत्र युक्त्योपायः प्रदर्शितः - आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ।। तथा - रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ।। अन्यच्च - असंत्यक्तात्मभावानां विषयाननुगृह्णताम् । विज्ञातपरमार्थानां जीवतामेव मुक्तता ।। ते चैवास्यात्मनः स्पन्दो नटस्येवान्यरूपता । उक्तं च योगिनाथेन ह्येतच्चिच्छक्तिसंस्तुतौ - प्. ६] तदेवं त्वत्प्रवृत्त्या त्वन्निवृत्त्या चोदयेतरे । जुषन्ते येन तत्त्वानि तान्यतः स्पन्द एव ते ।। वैसादृश्येऽपि कार्यस्यास्यात्र दृष्टान्तमाह यत् । ज्वलनाद् धूमोद्गतिरिव विविधाकृतिरम्बरे गता भाति । तद्वद्विष्णोः सृष्टिः स्वभावजा द्वैतरूपेयम् ।। प्राश्यानश्चिद्रसस्यौधः साकारत्वमुपागतः । अवश्यायः प्रबोधार्के तूदिते स्वस्वभावभाक् ।। इत्यलमतिविस्तरेण, ग्रन्थगौरवभयात् । इह चैतदेवाशमा -प्तेर्विचार्यते । उपायोपेयप्रतिपादनमेव शास्त्रस्य प्रयोजनम् । या तदवबोधादुपेयस्वरूपापत्तिः स्थिरा तदेव प्रयोजनप्रयोजनमिति । अस्य चेदं दर्शनं स्वतन्त्रम् । प्रागुक्तोपपत्त्या सर्वशास्त्रसमुद् -भूतं चाद्वैतप्रतिपादकत्वं निर्बाधमेव । यतो विमर्शात्म - स्पन्दभूम्युपारोहात् पश्यन्त्यादिक्रमेण वाक्प्रसवलाभः । उक्तं च संवित्प्रकाशे - संविन्मूलाद् वर्णपर्णाज्ज्ञानस्तम्भात् सरस्वती । प्रागघोषा सनादाऽनु पुण्यतीर्था प्रवर्तते ।। त्वत्प्रवृत्ता प्राणयति शक्तिः सा विश्वमोजसा । प्रतियान्ती पुनस्त्वां सा संकोचयति संभवम् ।। कार्याऽनुरूपं सा रूपं तथा नामापि बिभ्रती । निर्वाहयति विश्वस्मिंश्चित्रां यात्रां चराचराम् ।। तद्विना च सर्ववादिनां सत्तैव नास्त्यतस्ते निरस्ता एव स्थिताः । अत एवेश्वरप्रत्यभिज्ञायामादिसिद्धरित्युक्तम् - प्. ७] कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे । अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ।। इति । तदप्यत्र ये मोहाद्विप्रतिपद्यन्ते तेष्विदमापतितम् । यथा कश्चिन्माण्डलिको राजा चक्रवर्तिनः सकाशात् किञ्चिच्चतुरङ्गादि -साधनं प्रार्थ्यानन्तरं साम्राज्यजिगीषया तेनैव सह युद्धं कर्तुमिच्छति, तदात्मविनाशायैव तस्य स्यात् । एवं तेषामपि तत् । इत्थमप्यस्याजययत्वं सिद्धमेवेति । अथ संग्रहग्रन्थकृता समग्रमग्र्यग्रन्थार्थ गर्भीकृत्य ग्रन्थनिष्पत्त्यर्थमभिमतदेवतां स्तोतुं यः श्लोक उपन्यस्तस्तस् -यार्थः प्राक् श्लोके ध्वनितोऽपि वितत्योच्यते - यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ । तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः ।। १ ।। तं भगवन्तं शङ्करं स्तुमो नुमः । भोगापवर्गाख्यं शं श्रेयः सुखं वा करोतीति शङ्करः । अमलः स्वस्वभावो य प्रागभिधेयतयोपात्तः । इह हि जीवन्मुक्ततैव मोक्षः । उक्तं चेहाग्रे - इति वा यस्य संवित्तिरित्यादि । तस्याश्चैतद् द्वयमप्यन्तःस्थम् । यतः सा ज्ञत्वकर्तृत्वभोक् -तृत्वेश्वरतारूपा उक्तं चेह - तदास्याकृत्रिमो धर्म इत्यादि तथा - यदा त्वेकत्रेत्यादि । सर्वज्ञभैरवे च - नान्यत्र गमनं स्थानं मोक्षोऽस्ति सुरसुन्दरि । अज्ञानग्रन्थिभेदो यः स मोक्ष इति कथ्यते ।। मोक्षधर्मेषु - प्. ८] चित्तमेव हि संसारो रागादिक्लेशदूषितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ।। बौद्धे च - रागादिमलिनं चित्तं संसारस्तद्विमुक्तता । संक्षेपात् कथितो मोक्षः प्रहीणावरणैर्जिनैः ।। नारदसंग्रहे च - सर्वो विकल्पः संसारो नान्यो बन्धो विकल्पतः । ग्रन्थकर्तुश्च स्वस्वभावसम्बोधने - बन्धनं बन्धकृद् बध्यस्त्रिष्वप्येको न भिद्यते । स्वविकल्पकृतैर्बन्धैर्बद्ध्यते त्वनिशं जगत् ।। आत्मसप्ततौ च - वस्तुस्थित्या न बन्धोऽस्ति तदभावान्न मुक्तता । विकल्पघटितावेतावुभावपि न किञ्चिन ।। पञ्चरात्रेऽपि - त्रिविधो दोषः - स्वभावजस्तामसो विकल्पजो राजस इत्यादि यावत् -तेनैव देहेन वशीभवति भगवद्भूतस्तदा सर्वज्ञो भवति सर्वदर्शी सर्वेश्वरः सर्वशक्तिरित्यादि । अत एवाऽत्र भगवच्छव्दः प्रयुक्तः । यतः - ऐश्वर्यस्य समग्रस्य ज्ञानस्य यशसः श्रियः । वैराग्यस्य च मोक्षस्य षण्णां भग इति स्मृतः ।। भगवद्व्यतिरेकेण न च स्तुत्योऽस्ति मानिनाम् । तत्स्वरूपानुप्रवेश एव स्तुतिरत्र त्वभिन्नत्वमेवाभिमतम् । अन्यथा कः स्तोता कः स्तुत्यः का वा स्तुतिर्यस्मात् - प्. ९] विरुद्धमेतदद्वैतात् स्वच्छायोल्लङ्घनं यथा । उक्तं च - वेद्यं स्वरूपतां नीत्वा यदा जानाति वेदनम् । तदानीं वेद्यता का स्यात् का वा वेदनता परा ।। केवलं त्वत्र शब्दकृतो भेदः । सोऽपि विकल्पमूलत्वात्तेषाम् । उक्तं च - विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । यथा राहोः शिर इति धारा वा सर्पिषो यथा ।। अन्यच्च - यदभिन्नं स्वसंवित्तौ तत् परस्य यदोच्यते । तद्भिन्नमिवाभाति शाब्दीं भूमिमुपागतम् ।। तैश्च विना व्यवहारोऽपि न निर्वहति । उक्तं संवित्प्रकाशे - वागेवास्याः कारणं विश्ववृत्तेर् - न्याययं चैतन्नागमः केवलोऽयम् । नासङ्कल्पं किञ्चिदस्तीह कार्यं वाचं विना न विकल्पोऽस्ति कश्चित् ।। एषाऽपि बोधमूलेति प्रागेवोक्तम् । अन्यच्च जयाख्यसंहितायाम् - निष्कम्पबोधसामान्यरूपो भूत्वा पुरा स्वयम् । ये शब्दजनिता भावाः सूक्ष्मसूक्ष्मतराऽखिलाः ।। सामान्यबोधशब्दस्य पश्यतस्त्वेकतां गताः । यदाऽभिमुखमायान्ति सङ्कल्पाद्युत्थितस्य च ।। शब्दरूपपदार्थस्य शब्दः स परमः स्मृतः । सङ्कल्पपदवीरूढः स्फुरत्यन्तः स्थितः स्फुटम् ।। पदार्थोपरि यः शब्दो मध्यमं विद्धि तं मुने । चिद्वायुकरणोत्थासु प्रयत्नपदवीषु च ।। प्. १०] वाच्यवाचकभावेनाऽभिव्यक्तः स्थूल उच्यते । दृश्यादृश्येषु भावेषु योऽभिव्यक्तिं प्रयाति च ।। स तु स्थूलतरश्चैव व्यवहारेऽखिले स्थितः । अन्यत्रापि - शरीरजो वा शाब्दो वा मानसो वा समुद्गतः । व्यवहारोऽप्यसौ नास्ति यत्र त्वं नाथ नाग्रगः ।। इत्युपपन्नमेतत् । तं स्तुम इत्युक्तम् । तं कम्? यदुन्मेषादौन् -मुख्याज्जगतो विश्वस्योदयः प्रभवः सन्ततिरिति यावत् । निमेषाद् -विश्रामात् प्रलयोऽप्ययः । न ह्येतद्व्यतिरिक्तस्य जगतोऽस्त्युदयोऽप्ययो वा । किन्त्वीशशक्तिप्रसरविरामौ प्रभवाऽप्ययौ । सिद्धोक्तं च - समुदेति जगदशेषं तवोदयविमलसंविदाकारे । अस्तं याति समस्तं पुनरपि निजरूपरूढायाः ।। इति । ग्रन्थकृताप्युक्तं तत्त्वविचारे - शक्तिप्रसरसङ्कोचनिबद्धावुदयव्ययौ । यस्यात्मा स शिवो ज्ञेयः सर्वभावप्रवर्तकः ।। कक्ष्यास्तोत्रेऽपि - त्वदाशयोन्मेषनिमेषमात्रमयौ जगत्सर्गलयावितीदृक् । स्फुटे स्फुटं त्वन्महिमाऽवभाति विचित्रनिर्माणनिदर्शनेन ।। ज्ञानक्रियादिगर्भेच्छाशक्तिर्यः प्रसरात्मकः । सङ्कल्पोक्तः स उन्मेषः प्रोक्तो ह्येतत् स्वतन्त्रके ।। यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते । क्रियाकरणसंयोगात् पदार्थस्योदयो भवेत् ।। तद्विरतिश्च निमेषः । उदयप्रलयाविति वक्तव्ये प्रलयोदयाविति यदुक्तं तद्वृत्तभङ्गभयात् । विपर्ययेण चोन्मेषशब्दस्य मङ्गलार्थत्वादादिप्रयोगः सृष्टेश्चाद्यत्वात् । प्. ११] यस्माद्वस्त्वभिधेयं नातः शब्दक्रमेऽत्र भवबन्धः । तत्पक्षो नीचः स्याद्ये तु ब्रुवते यथासंख्यम् ।। आभ्यामस्य जगत्सृष्टिसंहारयोः कारणभावः प्रोक्तो भुक्तिमुक्ती च । तत्रोन्मेषाद्भोगो नानाविधः । निमेषान्मोक्षो निस्तरङ्गरूपता । अन्यच्च । तं किंभूतम् शक्तिचक्रविभवप्रभव -मिति । इच्छाख्यैका विभोः शक्तिः प्राग्द्विधा ज्ञक्रियाभिदा ।। इति । तन्नानात्वं चक्रशब्देनोक्तम् । तदुक्तं मालिनीविजये - या सा शक्तिर्जगद्धातुः कथिता समवायिनी । इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते ।। सैकाऽपि सत्यनेकत्वं यथा गच्छति तच्छृणु । एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् ।। ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते । एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा ।। जाता तदैव सा तत्तद्वत्कुर्वत्यत्र क्रियोच्यते । एवमेषा द्विरूपाऽपि पुनर्भेदैरनेकताम् ।। अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी । तत्र मातृत्वमापन्ना पञ्चाशद्वर्णमालिनी ।। इति । शक्तीनां चक्रं शक्तिचक्रं मातृवर्गस्तच्च मुख्यं चतुर्विधम् । उक्तं च - खेचरी गोचरी चाऽथ दिक्चरी भूचरी भिदा । परादिभारतीसंस्थं शक्तिचक्रं चतुर्विधं ।। तथा - आनन्देच्छा ज्ञ -क्रियाख्यं खेचर्याद्यं चतुष्टयम् ।। इति । तस्य यो विभवो विभूतिर्विस्तरो वा तस्याऽपि प्रभवम् । प्रभवत् -यस्मादिति प्रभव उत्पत्तिस्थानम् । प्. १२] यतः सर्वासां शक्तीनां सस्फारचिच्छक्त्यवगमनाच्छक्ति -त्वम् । सा च तदभिन्नैव । प्रोक्तं हि श्रीजयायाम् - तत्त्वनिर्मुक्तदेहस्य केवलस्य चिदात्मनः । य उदेति महानन्दः सा शक्तिर्वैष्णवी परा ।। इति । विष्णुयामले च - पाहि पाहीति वचनात्तत्त्राणात्तस्वविग्रहाः । परापरबलस्पर्शात् स्वस्वरूपसमाश्रयात् ।। निहता दानववराः परं वीर्य प्रकाशितम् । तेन ता मातरः प्रोक्ता विश्वसम्भवकारणात् ।। इति । अत एव ग्रन्थकारेणासां विज्ञानदेहात्मकत्वमुक्तम् । अथवालमत्र । किमनेनासां रहस्यस्वरूपातिप्रकाशनेन योगिनी -नां मुखगतेन । शक्तयश्च खेचर्याद्या वेच्छाद्या वा पराद्या वा अघोराद्या वा वामाद्या वा ब्राह्म्याद्या वा अन्या वैष्णव -शैव -सौरबौद्धाद्युक्ता वा । अथवा शब्दराशिसमुत्थस्येत्यादिना । वक्ष्यमाणा अकाराद्यक्षररूपा करणरूपा वा भवन्तु । एतावत् प्रयोजनमत्राभिर्यदासां सर्वासां स्पन्दरूपो भगवानेव प्रभव इति प्रतिपादनम् । तथा च मायांवामनसंहितायाम् - विष्णु -शिव -सूर्य -बुद्धादि रूपतया तत्तच्छक्तिचक्रपरिवारयुतस्तत् -कारणं भगवानेक एव ध्यानभेदेनोपास्यत्वेनाभिहितः । उक्तं च कुलयुक्तौ - वेदान्ते वैष्णवे शैवे सौरे बौद्धेऽन्यतोऽपि च । एक एव परो ह्यात्मा ज्ञाता ज्ञेयं महेश्वरि ।। अन्यच्च - यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ । तं स्तुमः इत्येतावता सर्वमुक्तं स्याज्जगत्यन्तस्फुरणाच्छक्तिचक्रस्य । उक्तं हि रहस्यशास्त्रेषु - शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते । प्. १३] शक्तयश्च जगत् सर्वं शक्तिमांस्तु महेश्वरः ।। इति । यत्तु शक्तिचक्रविभवप्रभवमिति पदमुपन्यस्तं तदुद्देशार्थम् । साभिप्रायत्वान्महाकवेः । उक्तं च ध्वनौ - प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत् प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु ।। तेनैतदेव शक्तीनां यतोऽन्तःप्रसरोदयौ । तद्बलालम्भनात्तासां प्रभुत्वं प्राप्यतेऽचिरात् ।। उक्तं चेह - अपि त्वात्मबलस्पर्शात् पुरुषस्तत्समो भवेत् । इति । यदिदं पदमग्रेऽस्ति परीक्ष्यं तत्त्वमादरात् । इतः प्रभृति सर्वत्रेहानुयोज्यं तु तद्बुधैः ।। इति ।। १ ।। ननु संसार्यवस्थायां कथं शङ्करताऽऽत्मनि । इत्याशङ्कोत्थदुर्दोषपरिहाराय तूच्यते ।। - यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् । तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ।। २ ।। यत्र यस्मिन् स्पन्दतत्त्वे इदं सर्वं जगल्लक्षणं कार्यं ज्ञानरूपतया शक्त्यात्मना स्थितं निमेषावस्थायां सत्कार्य -त्वात् । यस्माच्च निर्गतमभिव्यक्तिं गतमुन्मेषावस्थायां तस्या - नावृतरूपत्वाद् बोधरूपतयाऽनाच्छादितस्वभाव त्वाद्धेतोर्न कुत्रचिन्निरो धोऽस्ति । यतो बोध्यस्य स्वयं सत्तैव नास्त्यतो बोधृरूपमनावृतमेवावस्थाद्वयेऽपि । उक्तं च - यथा हेम्नो रूपकेषु वैचित्र्यं स्वापरिच्युतेः । प्. १४] अथ नित्यस्वरूपस्य तथा ते विश्वरूपता ।। यथा गलितरूपस्य हेम्नः पिण्डात्मना स्थितिः । तथा गलितवेद्यस्य तव शुद्धचिदात्मता ।। ज्ञानसम्बोधेऽपि - विश्वस्याश्रय आकाशं न विश्वं नभसो भवेत् । ज्ञानं नभ इवानन्तं ज्ञेयं विश्ववदल्पकम् ।। आकाशस्य यथान्येन प्रतिबन्धो न केनचित् । व्यापित्वात् तद्वदस्याऽपि ज्ञानस्याऽप्रतिबन्धता ।। इति ।। २ ।। सर्ववृत्त्युपसंहारे निरोधो मास्तु तस्य तु । जाग्रदाद्यास्ववस्थासु कुतः स्यादनिरुद्धता ।। जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ।। ३ ।। जाग्रदादिविभेदे प्रसर्पति प्रसरत्यपि सति तत् स्पन्दतत्त्वं निजादात्मीयात् स्वभावादुपलब्धृरूपात् स्वसंवित्स्वरूपान्नैव निवर्तते । कुतः उपलब्धृतो हेतोर्वा । यस्मादुपलब्धृरूपत्वं तिसृष्वप्यवस्थासु साधारणम् । उक्तं च - अवस्थास्वेव भेदोऽयं नावस्थातुः कदाचन । यथा विषस्याङ्कुरादौ तच्छक्तेर्न तु भिन्नता ।। इति । जाग्रत्स्वप्नयोस्तावत्संवेदनं सर्वेषां प्रसिद्धमेव सुषुप्तेऽप्युत्तरकालं सुखमहमस्वाप्समित्याद्यज्ञस्याऽपि संवेदनात् सवेत्ता निर्नष्ट एव । उक्तं च - वेल्लत्सु प्रतिबिम्बेषु जलस्पन्दानुवर्तिषु । यंथेन्दोर्न क्रियावेशस्तथाऽत्र परमात्मनः ।। अन्यच्च, कीदृशे विभेदे विशेषेण भेदो विभेदस्तस्मिन् । किंभूते तदभिन्ने । तस्यैव ताद्रूप्येणावस्थानात् । तथा च - प्. १५] अक्षैर्योऽर्थग्रहो द्रष्टुस्तज्जाग्रदिति कथ्यते । यत्तैर्विनार्थस्मरणं मनसा स्वप्नसंज्ञितम् ।। यत्रार्थस्मरणं नास्ति तत् सौषुप्तमुदाहृतम् । शुद्धबोधैकरूपो योऽवस्थाता सैव तुर्यता ।। ।। ३ ।। अवस्था एव विश्वान्तर्नावस्थातेति ये जगुः । प्रत्यभिज्ञादियुक्त्येयं तन्निरासाय कारिका ।। - अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः । सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्रताः स्फुटम् ।। ४ ।। अहं सुखीत्यादि याः संविदः संवेदनान्यवस्थाः । ताः संविद्भ्योऽन्यत्र संवेत्तर्यवस्थातरि सुखाद्युपलब्धरि उपराग -तया स्फुटं कृत्वा वर्तन्तेऽवतिष्ठन्ते । संवेत्तारं विना संवेदनस्याऽभावात् । नद्योऽब्धाविव तादात्म्यं तत्प्रविष्टाः प्रयान्ति वा । क्षणिकज्ञानानां ह्येव न तु ता एव केवलाः ।। यस्मात् - कार्यकारणभावो हि बाध्यबाधकताऽपि च । पूर्वापरैकमातारमन्तरेण न सिध्यतः ।। इति । तत्र हि - प्रमाण्यं क्षणिकत्वेन प्रत्यक्षेणोपपद्यते । प्राग्भाव्युत्तरज्ञानदार्ढ्यात् प्रामाण्यसिद्धितः ।। प्रतिक्षणमथान्यत्वात् सामान्यस्याग्रहे सति । विलक्षणाः क्षणाः सर्वे प्रामाण्यं किं निबन्धनम् ।। प्. १६] सम्बन्धस्याग्रहश्चापि तेन मानस्य का गतिः । मिथ्याज्ञानस्य मिथ्यात्वं ब्रूहि वा किं निबन्धनम् ।। क्षणान्तरे शुक्तिकायां रजतं केन वार्यते । भिन्नज्ञानस्य कर्तृत्वे सर्व प्रामाण्यमाप्नुयात् ।। अन्यस्वरूपसंसिद्धावन्यसिद्धिर्भवेद्यदि । घटस्वरूपसंसिद्धौ पटस्यावगमो भवेत् ।। योऽयं स एवायमिति प्रत्ययः स्थिरकालजः । कर्तुं शक्यो न तद्बाधप्रामाण्यात् क्षणिकैस्ततः ।। प्राग्विज्ञानस्मृतिं प्रत्यभिज्ञा नित्यं प्रतिष्ठिता । अतो नित्यस्वभावस्यैवात्मनः कर्तृतोदिता ।। इति । किं वा बहूक्त्या - एकप्रमात्रभावात् स्यात् क्षणिकत्वादनिश्चयात् । प्रमाणमप्यप्रमाणं बौद्धानां हि निराश्रयम् ।। इति । उक्तं च बौद्धायनसंहितायाम् - कार्यकारणभावस्तु नास्ति ज्ञाने क्षणक्षयः । क्षणं द्वितीयं नास्तिचेत् स्मृतिबीजं कथं भवेत् ।। जनकं तत् कथं नष्टमनष्टं वार्धनष्टकम् । नष्टस्य जनकत्वं चेदभावाद्भावसन्ततिः ।। जनकत्वे त्वनष्टस्य क्षणभङ्गः प्रहीयते । द्वितीयं यत्क्षणं तिष्ठेत्तदास्ते शतमप्यथ ।। जनकत्वेऽर्धनष्टस्यार्धे नाऽभावमेति तत् । तस्माद्भावाः स्थिराः सर्वे न च्यवन्ते स्वरूपतः ।। आत्मावबोधविषये सुस्थिराः क्षणिका न ते । प्. १७] बाध्यबाधकभावोऽपि न स्यान्निश्चायकं विना ।। शुक्तौ हि रजतज्ञानभ्रान्तिभङ्गोऽस्ति नान्यथा । तस्माज्ज्ञानं नित्यमेकं क्षणिकानि बहूनि नो ।। इति । सत्कार्यसिद्धौ च - न हि स्वनिष्ठैर्विज्ञानैरितरेतरवेदनम् । तस्मात् पूर्वापरावस्था परिग्रहणपण्डितः ।। एकः प्रमाता चित्राभिर्वृत्तिभिर्व्यवहारभाक् । प्रत्यभिज्ञायां च - एवमन्योन्यभिन्नानाम परस्परवेदिनाम् । ज्ञानानामनुसन्धानजन्मा नश्येज्जनस्थितिः ।। न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः । स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान् ।। गीतास्वपि - मत्तः स्मृतिर्ज्ञानमपोहनं च इत्यलं कुतर्काश्मनां चर्वणेन । अन्यच्च, किंभूते संवेत्तरि ? सुखाद्यवस्थासु बोद्धृरूपतयाऽनुस्यूतेङुविद्धे । मणिषु सूत्रमिव सदानुस्यूते एव सर्वास्ववस्थासु । यस्माद्य एवाहं प्राक्सुखी स एवाद्य दुःखी । आदिग्रहणाद्रक्तोऽहं विरक्तोऽहं मूढोऽहं प्रबुद्धोऽहं धनादिमानहमिति स्मृतिप्रत्यभिज्ञानुसन्धानात् । नन्वेवमसौ सावरणः । नैतत्सत्यम् । विकल्परूपतया तासामनित्यत्वात् । तद्व्यतिरिक्तत्वाच्च संवेत्तुः तास्त्वविद्यावशादुपरागमात्रमस्य । उक्तं च भर्तृहरिणा - नाच्छादितस्य तमसा रज्जुखण्डस्य विक्रिया । नाशो वा क्रियते यद्वत्तद्वन्नाविद्ययाऽऽत्मनः ।। संवित्प्रकाशे च - अत्यन्ताच्छस्वभावत्वात् स्फटिकस्य यथा स्वकम् । रूपं परोपरक्तस्य नित्यमेवोपलभ्यते ।। प्. १८] तथा भावसमासक्तं भगवंस्तावकं वपुः । अत्यन्तनिर्मलतया पृथक् तैर्नोपलभ्यते ।। नैतावताऽसौ स्फटिकः पृथङ्नास्त्येव रञ्जकात् । भावरूपपरित्यक्ता तव वा निर्मला तनुः ।। इति । तथा - उपरागेऽपि शुद्धत्वं न त्यक्तमनया प्रभो । परित्यज्य निजं रूपं संविदाख्या कुतः श्रयेत् ।। अथाऽप्राप्यैव तद्रूपं भवेद्रूपान्तरानुगा । तद्रूपापि हि दृश्येत कारणस्याऽपि सम्भवात् ।। तथाऽत्रैव - सदैव शुद्धोऽनुभवोऽयं प्रत्याकारकर्बुरः । आकारान्तरसञ्चारकाले तस्यापि निर्मलः ।। यथा जात्या सितं वस्त्रं रक्तं रागेण केनचित् । तत्पदं प्राप्तशुक्लत्वं पुना रागान्तरं श्रयेत् ।। एवं शुद्धा चितिर्जात्या यदाकारोपरागिणी । तत्त्यागापरसञ्चारमध्ये शुद्धैव तिष्ठति ।। तथा - नीले पीते सुखे दुःखे चित्स्वरूपमखण्डितम् । विशिनष्टि विकल्पस्तच्चित्रयोपाधिसम्पदा ।। ।। ४ ।। तद्व्यतिरिक्तस्य च रूपमाह - न दुःखं न सुखं यत्र न ग्राह्यो ग्राहको न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ।। ५ ।। प्. १९] तत् स्पन्दतत्त्वं परमार्थतोऽस्ति नित्यत्वात्तस्य । यत्र न दुःख -माध्यात्मिकादि । न सुखं वैषयिकम् । न ग्राह्यं घटपटादि न ग्राहकमहमिदं गृह्णामीति प्राकृतं सविकल्पाहङ्काररूपत्व - मविद्यात्मकत्वादहङ्कारस्य । न त्वनेनाधिष्ठातृरूपस्य ग्राहकस्याभाव उक्तः । उपेयत्वात्तस्य । उक्तं च तत्त्वगर्भ - परमार्थेन न ग्राह्यं ग्राहकं वा न किञ्चन । यस्मादृते तत् स्वाभासमस्वाभासमिवेक्ष्यते ।। इति । एवं तर्हि तत् पाषाणप्रख्यं मूढत्वमेव शून्यं वा । अत्रोच्यते - न चास्ति मुढभावोऽपीति । कुतश्चिद्रूपत्वात् । उक्तं च मुनिना - यथा शीतोष्णयोर्मध्ये काले नोष्णो न शीतलः । एवं हि सुखदुःखाभ्यां हीनमस्ति पदं विभोः ।। स्तुतौ च - समुदेति यथा भावान् विना भानुर्नभस्तले । वेद्यं विनैव भगवान् भवार्केण स्वतोदयः ।। तथा - यथोद्धृतविशेषस्य सामान्यस्य निजा स्थितिः । पृथङ् न शक्या निर्देष्टुं न च तत्रास्ति तावता ।। यथोद्धृता कुण्डलादेः केन कस्य निजा स्थितिः । पृथङ् न शक्या निर्देष्टुं न च तत्रास्ति तावता ।। एवं नित्या निजा शुद्धा सुखदुःखाविशेषिता । स्वसंवेदनसंवेद्या तव संविन्मयी स्थितिः ।। नागार्जुनेनाऽप्युक्तम् - सर्वालम्बनधर्मैश्च सर्वतत्त्वैरशेषतः । सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ।। इति । प्. २०] आलोकमालायां च - विरुद्धत्वात्तमोवृत्तेर्नावकाशं ददाति या । साऽवस्था काऽप्यविज्ञेया मादशां शून्यतोच्यते ।। न पुनर्लोकरूढ्यैव नास्तिक्यार्थानुपातिनी । इति ।। ५ ।। अत्रास्याऽमूढत्वाऽस्तित्वयोः सन्दानितकेनोपपत्तिमाह - यतः करणवर्गोऽयं विमूढोऽमूढवत् स्वयम् । सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः ।। ६ ।। लभते, तत् प्रयत्नेन परीक्ष्यं तत्त्वमादरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ।। ७ ।। यतो यस्मात् स्पन्दतत्त्वादयं बाह्यः करणवर्गो बुद्धिकर्मेन्द्रियाख्योऽन्त - करणचक्रेण सह विशेषेण मूढ -चेतनोऽविचेतनवत् स्वयं प्रवृत्तिस्थितिसंहृतीर्लभते । एषोपपत्तिहेतुस्तु दृष्टान्तो भ्रामको मणिः । यथा वाताग्निसंपर्कादयः पिण्डोऽग्निवद्भवेत् ।। दाहपाकप्रकाशादौ शक्तस्तद्वदयं गणः । इति । एवं योऽन्येषां चैतन्यापादने समर्थः स कथं निःस्वभावः । उक्तं षाड्गुण्यविवेके - स्वदेहसाक्षिकं चैतत् सर्वस्य ज्ञानचेष्टितम् । ज्ञानानधिष्ठितः कायो लुठत्येव यतोऽधृतः ।। अत एव जडानामप्यधिष्ठातृकृता धृतिः । गम्यते गगने ग्रावा न धार्येताऽन्यथा कथम् ।। इति । तस्मात्तत् तत्त्वं प्रयत्नेनादरात्परीक्ष्यम् । प्रयत्न उद्योगरूप उत्साहः । आदरः श्रद्धा । अत्र च परीक्षणमुद्योग -बलानुप्रवेशेन स्वीकरणम् । उक्तं चेह - अतः सततमुद्युक्त इत्यादि । प्. २१] सिद्धोक्तं च - अदृश्यं नेत्रवद् ब्रह्म द्रष्टृत्वं चास्ति नेत्रवत् । स्वात्मन्येवोपलम्भोऽस्य दर्शनं घटवन्न तु ।। इति । यतो यस्मात्तस्येयमकृत्रिमा निजैव स्वतन्त्रता सर्वत्र । तेनैतदुक्तम् - यथास्य करणादिषु चैतन्यापादने स्वातन्त्र्यं तथा परपुरादिष्वपि सम्भाव्यतेऽभ्यासात् ।। ७ ।। तदिच्छयास्तु सामर्थ्यं करणानां स्वतन्त्रता । सर्वत्रोक्ताऽस्य या सा तु भुक्तियुक्तिरतस्त्वियम् ।। न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते । अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ।। ८ ।। अयं पुरुषो जीवात्मा नेच्छानोदनस्य नेच्छाप्रेषणस्य करणचक्रचोदकस्यैव केवलं प्रेरकभावेन वर्तते । हिशब्द एवशब्दार्थेऽत्र केवलशब्दार्थे वा । अपित्विति निपातः प्रतिषेधनिवृत्तौ स्वरूपद्योतकः । आत्मनो बलमात्मबलं निरावरणचिद्रूपं ज्ञत्वकर्तृत्वलक्षणम् । तत्स्पर्शात्तदवष्टम् -भात् तत्समो भवेत् । सर्वज्ञः सर्वकर्ता स्यादित्यर्थः ।। ८ ।। अनेन सर्वस्वातन्त्र्यमुक्तमस्य च तद्भवेत् । अभिमानात्मकक्षोभक्षयेन त्वन्यदाह च ।। - निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः । यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ।। ९ ।। निजा सहजानादिर्याऽशुद्धिरविद्याऽविवेकमूला भोगाभि -लाषमलरूपतयाऽसमर्थस्य सङ्कुचितशक्तेः । अत एव च कर्तव्येषु कार्येष्वभिलाषिणः साभिलाषस्य सतो न कार्यमिच्छतोऽपि भवति । तथा च श्रीसात्वता - अज्ञानव्यापकत्वं च सुखदुःखादिवेदनम् । सर्वज्ञस्यात्मतत्त्वस्य कर्मचक्रावलम्बनात् ।। प्. २२] गीतास्वेषा प्रकृत्याख्याशुद्धिः प्राक्कर्मवासना । मायाऽविद्या भ्रमो मोहोऽज्ञानं मलमिति क्वचित् ।। गीतं च - प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ।। इति । अनादित्वे समानेऽस्या विशेषोऽयं विचारतः । लयो यन्मायारूपत्वात् । तदुक्तं संवित्प्रकाशे - मायात्वमेतदेवास्या यन्नाशस्तत्त्वदर्शनात् । नहि विज्ञातरज्ज्वात्मा सर्पादीन्मन्यते पुनः ।। इति । अन्यत्र च - त्वत्तो द्वितीयमिह वस्तु यदस्ति किञ्चित्तत्तद्विचारपदवीमवतारितं चेत् । गन्धर्वपत्तनमिवोपलयं प्रयाति त्वं शिष्यसे ध्रुवमतस्तव शेषसंज्ञा ।। इति । विद्याधिपतेश्च - भक्षणप्रकृतिना समाधिना युक्तितो विषयधाम्नि भक्षिते । सर्वभक्षपदवीमुपेयुपः शिष्यते परमभक्षितो भवान् ।। सा चेन्द्रजालिनो मायेवाऽ स्थिता बाधकात्मनि । यथाऽग्नेर्धूमबिम्ब मलवद्दर्पणस्य वा ।। बुद्बुदाः सलिलस्येव तच्छान्तौ निर्विकारिता । यदा तु क्षोभो विकारोऽशुद्धिजनितो देहाहम्प्रत्ययरूपो विवेकेनात्मबलस्पर्शात् प्रलीयते प्रलयं याति तदा स्यात् परमं पदं स्वस्वरूपे स्थितिर्भवेदित्यर्थः । उक्तं षडधातुसमीक्षायाम् - कर्माणि मोहमूलानि संसृतेः कारणं यतः । तत्क्षयात् कर्मनिर्मुक्तः स्वस्थः शान्ततमस्ततः ।। प्. २३] नारदसंग्रहेऽपि - यथा सुभर्जितं बीजं नेह भूयः प्ररोहति । विकल्पक्षीणचित्तस्य तथा भूयो न संसृतिः ।। स च क्षोभक्षयः शनैः शनैरभ्यासाद्भवेत् । उक्तं ह्यात्मसंबोधे - यथाग्निपोत्रं ज्वलनोद्धृतं सच्छैत्यं प्रयायाच्छनकैर्न सद्यः । अज्ञानपङ्केऽपि तथा निरस्ते कालेन कैवल्यमुपैति देही ।। षाङ्गुण्यविवेकेऽप्यात्मपरमात्मनोरेतावान् भेदोऽभिहितः - अविद्याकृतसङ्कोचगृहीताहंयुतास्य या । तया भिन्नोऽप्यभिन्नोऽयं तत्त्वतः स्वप्नभीतवत् ।। अभीत एव यः स्वप्ने बिभ्यदभ्येति सम्भ्रमम् । तस्य स्वप्नादभिन्नस्य को भेदः पारमार्थिकः ।। तथा हि मिथ्यैव भयं ममेति यदि बुद्ध्यते । स्वप्नतत्त्वं परामृश्य भीतिभिन्नैन बाध्यते ।। एवं त्वन्मय एवाऽहमिति भावनया त्वयि । प्रलीनाऽहङ्कृतिग्रन्थिः पश्यत्येव त्वदात्मताम् ।। इति । संवित्प्रकाशे च - कर्मेदं त्वत्कृतमपि त्वन्मयं येन माधव । विहीनाऽहङ्कृतिस्ततस्त्वमेव परिशिष्यसे ।। एतावतैव भेदोऽस्य यदहम्मानिताऽऽत्मनि । सा चेद्विलीना त्वद्भक्त्या नप्टो भेदः स्थितैकता ।। ।। ९ ।। स्वरूपस्थस्य गुणानाह - तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः । यतस्तदीप्सितं सर्वं जानाति च करोति च ।। १० ।। तदा तस्मिन् प्रलीनक्षोभात्मके कालेऽस्यात्मनः स्वरूपस्थत् -वादकृत्रिमः सहजो धर्मः स्वभावो भवतीति वाक्यशेषः । प्. २४] किंभूतः जानातीति ज्ञः । तस्य भावो ज्ञत्वं । करोतीति कर्ता । कर्तुर्भावः कर्तृत्वं । आभ्यां यो लक्ष्यते, एते वा लक्षणरूपं चिह्न यस्य धर्मस्य स ज्ञत्वकर्तृत्वलक्षणः । यतो यस्माद्धर्माद् -धेतोर्वा यज्ज्ञातुमीप्सितमभिमतं तज्जानाति यत् कर्तुमिष्टं तत् करोति स्वात्मनो वा परस्य वा । पञ्चरात्रे चैष एव धर्मो विवेकजज्ञानशब्देनोक्तः - तस्य च प्रादुर्भवतः किं पूर्वरूपं यत् सर्वज्ञो भवति संवदर्शी सर्वेश्वरः सर्वशक्तिरिति । स चाऽस्य करणैर्विनाऽपि स्यात् । तत्रैवोक्तं हि - तद्यथा अग्निर्नाम कस्मिंश्चिद्दह्ये नान्यत्किञ्चिदुपादत्ते तेन घक्ष्यामीति स्वयमेव दहति । एवमयमात्माऽनुपादाय ज्ञाताऽनुपादायकारी स्वात्मनैव सर्वकरः । कुतो बोधरूपत्वात् । षाङ्गुण्यविवेके उक्तम् - नहि बोधो विचित्रार्थनिर्माणेऽन्यमपेक्षते । सङ्कल्पादेव यो रूपसहस्राणि सृजत्यजः ।। ये त्वस्य ज्ञत्वकर्तृत्वादीन्यन्यतो वदन्ति तेषामनीशतैव स्यात् । उक्तं ह्यागमरहस्ये - येऽपीश्वरं व्यपदिशन्ति निमित्तहेतुं तैरर्पितस्तिल जलाञ्जलिरोशितायै । अन्याङ्गनोपगमनेन वशीकृतस्य कामीश्वरस्थितिममी बत सङ्गिरन्ते ।। इति ।। तस्माद्युक्तमुक्तम् ।। १० ।। अस्याऽकृत्रिमधर्मस्य स्थैर्यायोपाय उच्यते - तमधिष्ठातृभावेन स्वभावमवलोकयन् । स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः ।। ११ ।। तं शुद्धमात्मस्वभावमधिष्ठातृभावेन चिद्रूपतया सर्वव्यापकत्वेनावलोकयन् पश्यन् प्रतिजानन् स्मयमान इव विस्मयाविष्ट इव विकसन्निवास्ते यस्तिष्ठति तस्याविद्याविलयादियं कुतः कुसृतिः कुत्सितसंसरणं न कुतश्चिद् भवतीति वाक्यशेषः । प्. २५] उक्तं च शिवसूत्रेषु - विस्मयो योगभूमिका । अस्य चैतदवलोकनं यद् द्रष्टृरूपतयाऽनुभवनम् । उक्तं हीष्टोपदेशे - यदिदं दृश्यते दृष्ट्या गृहं पुत्राऽत्र सन्त्यज । येन पश्यसि तं पश्य यं दृष्ट्वा पश्यसेऽखिलम् ।। कर्त्रा चोक्तम् - यो जगु पश्चि एषु किनु वीक्षोमा -इत्थ करो । विषयालविलुद्दि एसे पत्तापत्त रावीक्षो अपल -इयद अस्त्युबुद्दि ।। तथाऽस्यान्यतः कुतः साभिलाषतया विकल्पशिल्पादिकुमार्गा -नुसरणमपि त्वेवं सदैव स्वस्वरूपे स्थितिर्भवेत् । तत्स्थत्वाच्चेश्व -रवत् सत्यसङ्कल्पः स्यादित्यतोऽस्मिन्नेवासति । यतोऽभ्यास विना ज्ञातमपि स्वोकर्तुं न शक्यते । तदन्तरेण च कुतः सिद्धिः ? । उक्तं मुनिना - यदि वाचनिकाज्ज्ञानान्मुक्तिः स्याद्भावनां विना । शारीरमानसैर्दुःखैर्मुच्येरन् सर्वजन्तवः ।। तथा च युक्तौ - रसायनं विनास्वादात् सूचितं ह्यप्यसिद्धिदम् । इति । अन्यच्चोक्तम् - आगोपबालवनितं भगवंस्त्वमित्थं ज्ञातोऽप्युपायविरहान्न तु मोक्षदोऽसि । नान्तः स्थितं भवति धेनुषु तृड्विहर्तृ क्षीरं तदेव पुनरभ्यवहारतः स्यात् ।। ।। ११ ।। तान् ध्वंसयितुमाहेदं ये त्वाहुः शून्यवादिनः । अभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् ।। इति । नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ।। १२ ।। अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ।। १३ ।। प्. २६] नाऽभावः शशविषाणसदृशो भाव्यतामनुभवविषयता -मेति प्राप्नोत्यवस्तुत्वात् । न च तत्राऽभावेऽमूढतास्त्यपि तु मूढावस्थैव सा । यतोऽभियोगसंस्पर्शादभिलाषसंयोगात् - तदभावभावनमासीदभूदतीतमिति निश्चयः । यस्मात् स मम शून्यावस्थातीतेति स्मर्यते । तदुक्तम् - अभावो येन भावेन बोध्यतेऽस्ति न नास्ति सः । तस्य भावस्य सद्भावो वद केन निवार्यते ।। सोऽस्त्यतश्चिन्मयो भावो येन सर्व विभाव्यते । इति । अतो हेतोस्तदभावभावनं कृत्रिममनित्यं सदा ज्ञेयम् । किमित्र सौषुप्तपदवत् सुषुप्तावस्थेव । न त्वेवं मूढावस्थावत् तदात्मतत्त्वं स्मर्यमाणत्वं स्मर्तव्यतां प्रतिपद्यते गच्छति, स्मर्तृत्वाच्चिद्रूपस्य, नित्योदितत्वाच्च । तस्मात्तत्तत्त्वं गुरूपदेशे -नादरात् परीक्ष्यमिति ।। १२ -१३ ।। एवम् - अवस्थाद्वयमत्राऽस्ति स्मर्तृस्मर्तव्यभेदतः । यत्तस्य नित्यानित्यत्वविचारायेदमुच्यते ।। - अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यताक्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ।। १४ ।। अत्रास्मिन् पूर्वोक्ते स्पन्दतत्त्वेऽवस्थायुगलं दशाद्वयं यदस्ति कार्यकर्तृत्वशब्दितं कार्यकारणसंज्ञितं भोग्यभोक् - तृभेदभिन्नदृश्यद्रष्टृभिदा वेद्यवेदकरूपम् । तत्र तयोर्मध्याद्या कार्यता सा क्षयिणी उत्पत्तिविनाशयुक्ता । यत्पुनः कर्तृत्वं तदक्षयिनिर्बाधं चित्स्वरूपत्वात् ।। १४ ।। अत एव - कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ।। १५ ।। प्. २७] अत्रास्मिन् कार्ये बाह्येऽर्थे क्षयिणि सति कार्योन्मुखः कार्यसंपादनाभिमुखो यः प्रयत्नो बाह्यकरणव्यापाररूपः स केवलं लुप्यते न लक्ष्यते न्यग्भूयैव स्वात्मन्यास्ते, स्थगितेन्द्रि -यस्य वा व्यापारासामर्थ्यात् । तस्मिन् प्रयत्ने लुप्ते सति अस्मि अहं विलुप्तो नष्ट इत्यबुधोऽज्ञः प्रतिपद्यते जानाति । न तु चिद्रूपस्य विनाशोऽस्ति । उक्तं च - विज्ञप्तेर्न विनाशोऽस्ति विनष्टेऽपि शरीरके । अभावे सूर्यकान्तस्य नैवास्ति सवितुः क्षतिः ।। इति ।। १५ ।। कस्माच्चेत्याह - न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ।। १६ ।। देशकालादिविच्छिन्नस्य कार्यस्यैव लोपो निवृत्तिर्न तु योऽन्तर्मु -खो भावो बहिरप्रसुतेः स्वस्वरूपस्थः स्वस्वभावः सर्वज्ञतादी -नां गुणानामास्पदमाश्रयस्तस्य भावस्य लोपः कदाचित्स्याद् - भवेद् उपपद्यते । कुतो न स्यात् । चिद्रूपं मुक्त्वाऽन्यस्य द्वितीय -स्यानुपलम्भनादनुपलब्धेः । तस्यैव हि सर्वत्र सर्वदोपलब्धिः । एतदुक्तम् - देशकालक्रियाकारैरवच्छिन्नेषु वस्तुषु । अनवच्छिन्नरूपस्त्वं भासि तस्य बहिः स्थितेः ।। इति । अत्र च - भेदः सर्वज्ञतादीनां ज्ञानादीनां च नास्त्यमी । ज्ञानस्यैव धर्मतया चिद्रूपस्य स्थितिर्यतः ।। इति । उक्तं च षाड्गुण्यविवेके - गुणेषु ज्ञानमाद्यन्ते तेन तत्त्वेऽवधारिते । धर्मत्वेनेशिताशक्तिबलवीर्यौजसां स्थितेः ।। इति । कक्ष्यास्तोत्रे च - ज्ञानं प्रशान्तं तव बोधवृत्ति - रैश्वर्यमुद्यत्प्रसरा परेषाम् । प्रकाशनं प्रत्यपि योग्यरूपा शक्तिर्बहिःस्थैर्यवती बलं सा ।। प्. २८] उत्पन्नबाह्यप्रसरा तु वीर्य तेजश्च बाह्यानवभासयन्ती । षोढेत्थमेकैव तव स्वशक्तिर् - बाह्यावमर्शात्तु भवेदविद्या ।। तत्र सर्वज्ञता ज्ञानं सर्व हि जायते ततः । बलस्य तृप्तिमूलत्वात् क्षम्यस्य तदभावतः । अनादिबोधस्तेजोऽत्र बोधमूलं हि तत्सदा ।। तदुक्तम् - प्रभावलक्षणं यच्च तेजः प्रह्वयते परान् । बोधत्वादेव तद्वेद्यं बोधः प्रह्वयते जगत् ।। स्वतन्त्रताऽत्र चैस्?वर्यं स्वातन्त्र्यादीश्वरस्य तु । इति । तदुक्तम् - स्वतन्त्रः सर्वकृत्येषु न नियोज्यो न विघ्नवान् । प्रवृत्तोऽप्यप्रवृत्तो वा यतस्तेन त्वमीश्वरः ।। वीर्यं सदाऽलुप्तशक्तिर्नाशाभावश्च तद्वतः । तदुक्तम् - आत्मसत्त्वापरिभ्रंशलक्षणाद्वैर्यमासते । वीर्यादेतच्च ते कार्येऽप्यन्वयः स्वर्णवच्च यः । अनन्तशक्तिः शक्तिः सा सामर्थ्यात् सर्वतः सदा ।। ।। १६ ।। तस्य तु क्व कस्योपलब्धिरित्याह - तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी । नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु ।। १७ ।। तस्य चिद्रूपस्यात्मनो योगिनः सततमुपलब्धिरनुभवो भवेत् । कीदृशस्य योगिनः नित्यं सदैव सुप्रबुद्धस्य । कीदृश्युपलब्धिः । त्रिपदाव्यभिचारिणी त्रिष्वपि जाग्रदादिषु पदेष्ववस्थासु या न व्यभिचरति न निवर्तते सा तथोक्ता । तुर्ये तु निर्भ्रान्तैव । प्. २९] उक्तं च - काप्यवस्था न ते साऽस्ति यस्यां संविन्न वर्तते । तेन चिद्धनमेव त्वां योगिनः पर्युपासते ।। अपरस्य पुनरीषत्प्रबुद्धस्य प्रबुद्धस्य च । तदाद्यन्ते तदिति पदत्रयस्य परामर्शः । एतदुक्तम् - तदादौ प्रागवस्थायां (तदन्तेऽपि) च तन्मयम् । पदं प्रत्ययस्याद्यन्ते जाग्रत्तुर्याव वागमात् ।। इति । अथवा तदादौ तदन्ते च तन्मध्ये जाग्रत्स्वप्नयोरित्यर्थः । यतः प्रबुद्धस्यैतयोरेव स्फुटोपलब्धिः संवेदनम् ।। १७ ।। स च तस्य क्व कथमिति स्फुटीकर्तुमाह - ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः । पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः ।। १८ ।। विभुर्व्यापकः चिन्मयश्चिद्रूपः परमात्मा परमया शक्त्याऽत्युत्कृष्टेन सामर्थ्येन युक्तः । पदद्वये जाग्रत्स्वप्नात् -मके *?ति दीप्यते प्रकाशते । कीदृश्या शक्त्या ? ज्ञानज्ञेयभेदेन द्विरूपया । द्वैरूप्यात्त्वस्याः पारम्यम् । अत एवास्मिन्नवस्थाद्वये द्विविधोपलब्धिः । तदन्यत्र पुनस्तस्मात्पदद्वयादन्यस्मिन् पदद्वये सुषुप्ततुर्याख्ये चिन्मयश्चिन्मात्र एव । ज्ञेयाभावाज् - ज्ञानस्वरूप एवेत्यर्थः ।। १८ ।। तस्योपलब्धिर्योक्ता सा गुणस्पन्दादिभिः स्थितैः । कुतस्त्या चेति सा शङ्का ये तान् प्रत्युच्यते त्विदम् ।। - गुणादिस्पन्दनिःष्पन्दाः सामान्यस्पन्दसंश्रयात् । लब्धात्मलाभाः सततम् स्युर्ज्ञस्यापरिपन्थिनः ।। १९ ।। गुणाः सत्त्वरजस्तमांसि । आदिग्रहणान्महदहङ्कारतन्मा -त्रेन्द्रियभूतानि च । गुडादिश्चासौ स्पन्दः गुणादिस्पन्दः । तस्य ये निष्यन्दाः प्रवाहाः सुखदुःखमोहोर्मिज्ञानविशेषास्ते प्रागुक्तलक्षणस्य सामान्यस्पन्दस्यान्तर्लीनाऽनन्तविशेषस्य संश्रयादालम्बनाद्धेतोर्लब्धात्मलाभाः प्राप्तसत्ताकाः । अत एव ज्ञस्य विदितवेद्यस्य योगिनः स्वरूपाव्यवधानादसम्पर्कात् सततं नित्यमपरिपन्थिनः स्युः । प्. ३०] स्वभावाच्छादका न भवन्तीत्यर्थः । सिद्धोक्तं च - यद्वत्प्रकाशकस्य प्रकाश्यविषये न दृश्यते मानः । सम्पर्कात्तव तद्वत् संविद्वेद्ये न भाव्यते जातु ।। ते चास्यैव स्पन्द इति प्रागेवोक्तम् । मतङ्गपारमेश्वरेऽपि - शिवाद्यवनिपर्यन्तो योऽयमध्वाऽतिविस्तरः । स समस्तश्चितौ ज्ञेयस्तया संवेद्यते यतः ।। गीतासु च - दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामतितरन्ति ते ।। ।। १९ ।। अज्ञस्य तु - अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः । पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ।। २० ।। अप्रबुद्धा सम्मूढा धीर्बुद्धिर्यस्य पुंसस्तस्य पुनरेते गुणादिस्पन्दनिष्यन्दाः स्वस्थितेश्चिद्रूपाया अवस्थायाः स्थगनेऽवच्छादने प्रोद्यताः । यतोऽसौ तदात्मकमेव नित्यमात्मानं पश्यति, न शुद्धबुद्धरूपतया । उक्तं च - यथादर्श शिशुः स्वच्छं निःश्वासैः स्वैर्मलीमसम् । करोति तद्वद्विज्ञानं स्वविकल्पैर्जडाशयः ।। इति । अत एव संसारवर्त्मनि पातयन्ति जननमरणप्रवाहमार्गे प्रेरयन्ति । कीदृशे ? दुरुत्तारे दुःखेनोत्तरणं निस्तारो यत्रात एव घोरे क्लेशप्रदे । तदुक्तं ज्ञानसम्बोधे - यद्यपि स्वात्मशक्त्यैव गतिः साक्षान्धयोर्द्वयोः । तथाप्येकः स्वयं याति द्वितीयोऽन्येन नीयते ।। साक्षवत् स्फीतबोधानां स्वातन्त्र्यं विषमेष्वपि । अन्धवन्मन्दबुद्धीनां पारतन्त्र्यं समेष्वपि ।। इति ।। २० ।। प्. ३१] अथात्राऽज्ञस्याप्युत्तरणोपायमाह - अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये । जाग्रदेव निजं भावं न चिरेणाधिगच्छति ।। २१ ।। यतस्ते पातनशीलाः । अतोऽस्मात् कारणाद्यः सततं सर्वकाल -मुद्युक्तो विकस्वरस्वभावतया कृतोद्योगः । किमर्थम् स्पन्दतत्त्वस्य विविक्तये विवेचनाय स्वरूपाभिव्यक्त्यर्थम् । यदुद्योक्तृरूपं तत् । उक्तञ्च शिवसूत्रेषु - उद्योगः शिव इति । अतः प्रजाग्रदेव जाग्रदवस्थायामेव व्युत्थानेऽपि निजमात् -मीयं स्वभावमचिरेण शीघ्रमधिगच्छति प्राप्नोति । अस्य चैतद् -विवेचनम् । यदहं शुद्धबोधैकरूपो जगच्चेदं मत्स्फार एव । उक्तं च - सर्वो ममायं विभव इत्येवं परिजानतः । विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ।। पञ्चरात्रेऽपि यदात्मनि सर्वभूतानि पश्यत्यात्मानं च तेषु पृथक्च तेभ्यस्तदा मृत्योर्मुच्यते जन्मनश्च । अन्यत्र च - निर्मला नन्तबोधैकरूपस्त्वं भव्यबुद्धिभिः । वेद्याद्वा वेदकाद्वापि लभ्यसेऽवहितात्मभिः ।। तत्त्वार्थचिन्तामणौ च - इत्थं तत्तदनल्पमोहदलनप्राप्तस्वरूपोदयो योगो नित्यमनात्मभावविरहात् स्वात्मस्थितो निर्वृतः । दृश्यद्रष्टृविवेकविद्भवपदव्यापी विमुक्तामयो व्युत्थानेऽपि समाधिभाग्भवति सन्मोक्षश्रियः कारणम् ।। इति ।। २१ ।। प्. ३२] जाग्रदेव स्वभावोक्तिर्योक्ता साऽज्ञैर्न लक्ष्यते । अतः स्पन्दोदयपदान्युच्यन्ते येषु लक्ष्यते ।। अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन् वा यत्पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः ।। २२ ।। द्विषोद्दीपितामर्षोऽतिक्रुद्धः सन् प्राग् यत्पदं गच्छेत् यं स्फारमालम्बते यामौन्मुख्यवृतिं स्पृशेत् । अथवा सुचिरागत -प्रियदर्शनादिना प्रहृष्टः प्रहर्षितो यत्पदं गच्छेत् परानन्द -रूपं गृह्णीयात् । तथा अनेककार्यकल्लोलाकुलतया किं करोमि ? इदं करोमि, अथवेदं करोमीति मृशन् परामृशंश्चिन्ताविष्टो यत्पदं गच्छेन्निश्चयकारिणीं दशामाश्रयेत्, तथा कान्ताहृतचित्ततया सम्भ्रमाद्वा धावन् धावमानो यत्पदं गच्छेद्यामवस्था -मारोहति, तत्र तस्मिन् पदे स्पन्दः प्रागुक्त आत्मस्वभावः प्रतिष्ठितः स्फुटोपलभ्यतया स्थितः । एतदुक्तं भवति - यत्र यत्र यदा येन सर्वशक्तिलयो भवेत् । स्फुटः स्यात् स्पन्दतत्त्वस्य तत्र तत्र तदोदयः ।। इति । यतः - क्रोधाद् दुःखभुवः सर्वा हर्षात् सुखभुवः स्मृताः । किं करोमीति मोहोत्था धावन्तीन्द्रियवृत्तयः ।। इति । उक्तं च विज्ञानभैरवे - क्रोधाद्यन्ते भये शोके गह्वरे वारणे रणे । कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा ।। इति । रहस्यस्तोत्रे च - क्रोधहर्षविवशः परां दंशामाश्रितोऽथ विमृशश्च यः क्रियाम् । यत्स्पृशत्यनियतक्रियास्पदं स्पन्दमात्मबलदं वदन्ति ते ।। एषोऽन्यत्र तुटेः पातः प्रोक्तः सर्वज्ञतादिभाक् ।। इति । तुटिपाते सर्वज्ञत्वसर्वकर्तृत्वसर्वेशितादयः । एष च गुरुपदेशेनादरात् परीक्ष्यः ।। २२ ।। प्. ३३] अस्यैवोदयायोपायान्तरं विशेषकेणाह - यामवस्थां समालम्ब्य यदयं मम वक्ष्यति । तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति ।। २३ ।। तामाश्रित्योर्ध्वमार्गेण सोमसूर्यावुभावपि । सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम् ।। २४ ।। तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ।। २५ ।। अयमेष देवदत्तो ज्ञाता अद्भुतसद्वस्त्वभिधाययनुल्लङ् -ध्याज्ञो यत्किञ्चिन्मम वक्ष्यति वदिष्यति तदवश्यमहं करिष्ये -ऽनुष्ठाष्यामि करिष्यामीति सङ्कल्प्य यामवस्थामौन्मुख्य -रूपां वृत्तिं समालम्ब्य गृहीत्वा यस्तिष्ठति तस्य पुंसस्ताम -वस्थामांश्रित्योर्ध्वमार्गेण विषुवत्प्रवाहेण सोमसूर्यावु -भावपि द्वावप्यपानप्राणौ मनःप्राणौ वा । सौषुम्णेऽध्वनि मध्यमनाड्यां परशक्तिमार्गे स्वयमस्तमितो लयं गच्छतः । किमस्य हृद्गतं स्यादिति कुतूहलात् । कि कृत्वा भवतः ? ब्रह्माण्ड - गोचरं हित्वा शरीरविषयं विहाय, देहाहंभावं त्यक्त्वेत्यर्थः । उक्तं च - जाते देहप्रत्ययद्वीपभङ्गे प्राप्तैकत्वे निर्मले बोधसिन्धौ । अव्यावर्त्यैवेन्द्रियग्राममन्तर् - विश्वात्मा त्वं नित्यमेकोऽवभासि ।। इति । तदा तस्मिन् काले तस्मिन् महाव्योम्नि च परचिदाकाशे प्रत्यस्त -मितशशिभास्करे प्रशान्तज्ञानक्रिये मूढोऽनभिव्यक्तस्वस्व -भावः स्वप्नादिना मुह्यमानोऽप्रबुद्धो निरुद्धः स्यात् सौषुप्तपदवत् । यथा सुषुप्तपदे तथा प्रबुद्धस्त्वनावृत एव भवेत् । उक्तं च रहस्यस्तोत्रे - स्वात्मनि स्तिमितसोमभास्करं व्योममार्गमतिवृत्य तस्थुषः । भावनाञ्जितदृशोऽपि खेचराः केचिदेव तव धामदर्शिनः ।। इति । प्राणापानप्रशान्तिरेव चान्यत्र निरञ्जनतत्त्वोदये युक्तिः प्रोक्ता । मायाप्युक्तं भोगमोक्षप्रदीपिकायाम् - प्. ३४] कामाख्ये विषतत्त्वे निरञ्जनाह्वे क्रमाच्च सिद्धिः स्यात् । सूर्ये सोमे हृदयात्तयोः शमाच्चेति शास्त्रसर्वस्वम् ।। इति । एवं स्पन्दतत्त्वस्योदयः प्रोक्तः । तदाऽस्मादेव च सहजो मन्त्रोदयः । उक्तं च बौद्धायनसंहितायाम् - शान्ते चन्द्रे त्वमान्ताख्ये यावन्नोच्चरते रविः । उदयः सर्वमन्त्राणां विलयश्च दिवौकसाम् ।। इति । मालिनीविजयेऽपि - यत्राधारविनिर्मुक्तो जीवो लयमवाप्स्यति । तत् स्थानं सर्वमन्त्राणामुत्पत्तिक्षेत्रमिष्यते ।। तथा - धर्माधर्मान्तरे चित्तं रुद्धं यस्य तदा तु सः । यद्वक्ति स भवेन्मन्त्रः किं पुनर्मातृकोत्थितः ।। इति ।। २३ - २४ - २५ ।। अत एव तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः । प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ।। २६ ।। तद्बलं निरावरणचिदुल्लासरूपं परशक्त्याख्यमाक्रम्या -धिष्ठाय मन्त्राः बीज - पिण्ड - पद - नामरूपा मननत्राणधर् -मिणः सहजनादशक्त्युद्बोधदीप्तत्वात् सर्वज्ञत्वादिना बलेन श्लाघायुक्ता मन्त्रिप्रयुक्ता अधिकारायानुग्रहादौ प्रवर्तन्ते । किमिव यथा शरीरिणः करचरणादीनि करणानि । अनेन मन्त्रिणः परतत्त्वावबोधान्मन्त्रेष्विच्छामात्रेण यथेष्टविनियोज्यत्वमुक्तम् । तदुक्तं त्रिकसारे - विदिते तु परे तत्त्वे वर्णातीते ह्यविग्रहे । किङ्करत्वं तु गच्छन्ति मन्त्रा मन्त्राधिपैः सह ।। अन्यथा तु प्रयत्नप्रयुक्ता अपि ये पूर्वोक्तसङ्कल्पत्वाद्यास्प -दचिच्छक्तिबलास्पर्शात् केवलवर्णरूपत्वान्मन्त्राः पुत्रिकाकरण -वन्निष्फलचेष्टा भवन्ति । प्. ३५] उक्तं च हंसपारमेश्वरे - पशुभावे स्थिता मन्त्राः केवला वर्णरूपिणः । सौषुम्णेऽध्वन्युच्चरिताः पतित्वं प्राप्नुवन्ति ते ।। यत एष शाक्तो मार्गोऽत्र च मन्त्राणां साफल्यम् । तदुक्तं तत्त्वरक्षाविधाने - अशक्तत्वान्निष्क्रियत्वान्न पुंसि न परे पदे । शक्तौ नियोजयेन्मन्त्रं जपस्तु सफलो भवेत् ।। इति । श्रीवैहायस्यां च - विषुवत्स्थं जपं कुर्यान्नादोर्ध्वध्वनिबोधितम् । मन्त्राक्षराणि मणिवच्छक्तौ प्रोतानि भावयेत् ।। तामेव च परे व्योम्नि परमामृतबृंहिताम् । दर्शयत्यात्मसद्भावमेवं मन्त्रो हुति विना ।। इति । श्रीकालपरायाम् - शब्दो नादात्मकस्तस्मात् प्रत्ययेनोपबृंहितः । मन्त्रबोधस्वरूपस्थमभिन्नो बोधयत्यपि ।। इति । अन्यच्च सङ्कर्षणसूत्रेषु - स्वात्मैकनिष्ठं चिद्रूपं भावाभावपरिष्कृतम् । स्वसंवेदनसंवेद्यं प्रकृत्यातीतगोचरम् ।। इयं योनिः स्मृता विप्र मन्त्राणां प्रत्ययात्मिका । ते मन्त्रा वर्णरूपेण सबाह्याभ्यन्तरोदिताः ।। नैष्कालिकपदावस्थाः करणानीव देहिनाम् । प्रयुक्ताः सर्वकालेषु सिद्ध्यन्ते वीर्ययोगतः ।। एवं शुद्धबोधात्मकत्वेनान्तर्बाह्योदयादेकोऽपि जपो लक्षसङ्ख्याकः । तदुक्तं जयायाम् - एकस्य मन्त्रनाथस्याप्यन्तर्बाह्योदितस्य च । यदैक्यं तं जपं विद्धि लक्षसंख्याभिधं मुने ।। इति । ।। २६ ।। प्. ३६] अनया युक्त्या मन्त्रवीर्यमुक्तम्, प्राक्चोदयोऽधुनास्तमय -माह - तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः । सहाराधकचित्तेन तेन ते शिवधर्मिणः ।। २७ ।। तत्रैव स्वस्वभावे शक्तिमत्येते मन्त्राः साधकचित्तेन तत् -प्रवृत्तिनिमित्तेन तदाधारभूतयेच्छया सह सम्यक् प्रलीयन्ते अस्तं गच्छन्ति । यतस्ते तदनुगास्तच्छक्तिरूपाश्च । उक्तं च कालपरायाम् - पराक्षरतरोर्धातुर्नानाशक्तेर्विवर्तगाः । शक्तयो वर्णदेहेषु वक्त्राद्वर्णत्वमागताः ।। इति । किंभूताः कृतकृत्यत्वाच्छान्तरूपाः । अत एव निरञ्जनाः महाकालुष्यरहिताः । निरञ्जनतत्त्वानुप्राणनाद्वा । अनेनैव च हेतुना शिवधर्मिणः शिवस्येव धर्मा गुणा येषाम् । सर्वज्ञाः सर्वकर्तार इत्यर्थः । एवमेष एव मन्त्रात्मा । तेषां चात एव शिवधर्मित्वं सिद्धमिति ।। २७ ।। सह साधकचित्तेन लीयन्ते तत्र यत् स्मृतम् । शिवतात्मनि सर्वात्म्याच्चाहैतत्सोपपत्तिकम् ।। यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् । तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ।। २८ ।। तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ।। २९ ।। यस्माज्जीव आत्मैव सर्वमयः सर्वात्मको विश्वरूपो बोद्धृरूपत्वात् । उक्तं च - यदैव विदितं विश्वं तदानीमेव चिन्मयम् । यन्नास्ति भागो वेद्योऽसौ नाथ यो वेदकाद्बहिः ।। प्. ३७] वेद्यो वेदकतामाप्तो वेदकः संविदात्मताम् । संवित् त्वदात्मा चेत् सत्यं तदिदं त्वन्मयं जगत् ।। इति । श्रुतिश्च - आत्मैवेदं जगत् सर्व नेह नानास्ति किञ्चन । अन्यच्च । सर्वभावसमुद्भव इति विशेषणं हेतुगर्भम् । हेतुर्वाऽयं समुद्भवादिति सर्वेषां भावानां समुद्भवो यस्मात् । परादिवाग्रूपतया संविद्युपारोहेण हि तेषामुदयः सत्ता च । तदुक्तम् - त्वत्कारणत्वं सर्वस्मिन्नपि ज्ञातं त्वदन्वयात् । संवित्समन्विते विश्वे नाऽसंवित् कारणं भवेत् ।। संविदायतनं ज्ञातं तत् सदाख्यां प्रपद्यते । तावतैव न लभ्या स्यादनुपासितसंविदा ।। इति । अन्यच्च - त्वदात्मकत्वं भावानां विवदन्ते न केचन । यत्प्रकाश्यदशां यातो नाऽप्रकाशः प्रकाशते ।। इति । तथा - सृजन् वदन् ज्ञापयंश्च त्रिधैकस्त्वं प्रकाशकः । व्यतिरिक्तः प्रकाशेभ्यो न यथाऽन्यप्रकाशकाः ।। न प्रकाशाः प्रकाशन्ते त्वत्प्रकाशोदयं विना । इति । पञ्चरात्रेऽपि - न तत्रादित्यो भातीत्यादि । यावत् - तस्य भासा सर्वमिदं विभातीति । सर्वमयत्वेऽस्य हेत्वन्तरमाह - तत्संवेदन इत्यादि । तदिति भावानां संवेद्यानां परामर्शः तेषां संवेदनरूपे -णानुभवद्वारेण यतस्तादात्म्यप्रतिपत्तिर्भावरूपतासम्प्राप्ति - स्तदभेदसंवित्तिस्ततो हेतोः । उक्तं हि स्वात्मसप्ततौ - प्. ३८] यद्वद् वस्तु स्वभावेन ज्ञानेन विषयीकृतम् । तद्वत्तादात्म्यमायाति जीवः सर्वमयो ह्यतः ।। इति । अन्यत् संवित्प्रकरणे - यथाऽग्निना समाविष्टं सर्व तद्रूपमीक्ष्यते । तथा ज्ञानसमाविष्टं सर्व तद्रूपमीक्ष्यताम् ।। इति । तथाऽऽगमरहस्ये - आकारवर्ग उपरि प्रतिभासतेऽस्य ज्ञानस्य सापि तव विश्वमयी विभूतिः । विश्वात्मकस्त्वमिति नाऽऽगमसिद्धमेतत् किन्तु स्वसंविदितरूपतयापि सिद्धम् ।। इति । एवं संविदेव प्राणद्वारेण वाग्रूपतां धत्ते । तदुक्तम् - स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रायोक्तॄणां प्राणवृत्तिनिबन्धना ।। केवलं बुद्ध्युपादानात् क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ।। अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ।। इति । तथा - स्वयं रौति य एषोऽन्तर्निर्विशेषरवात्मकः । स परः परमः स्थायी नित्योदितनिजाकृतिः ।। चिदिच्छाशक्तिसम्बुद्धः स्पन्द आत्मबलेरितः । सवितेव स तेजांसि विचिन्वन् हृदि राजते ।। इति । प्रत्यभिज्ञायां च - चितिः प्रत्यवमर्शात्मा परावाक् स्वरसोदिता । स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्य परमात्मनः ।। सा स्फुरत्ता महासत्ता देशकालाविशेषिणी । सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ।। इति । प्. ३९] तस्यां चान्तःसंजल्परूपायां द्वावपि शब्दार्थौ समं स्फुरतः । अत एव तयोरभेद एव विख्यातः । उक्तं चेह - यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः । वाक् च संविन्मूलेति प्रागेवोक्तम् - संविन्मूलादित्यादि । तथाजातीयैः श्लोकैरन्यच्चोक्तम् - यथा त्वया जगद्विद्धं सर्वमेव निजात्मना । तथा त्वयाऽनुविद्धेयं सर्वतो भाति भारती ।। योगिनाथेन चोक्तम् - तस्मात् सर्वस्य सिद्ध्यर्थं भारती कारणं परे । परेष्टव्या तदारोपारूषणेनार्थनिश्चयात् ।। तस्या औन्मुख्यवृत्त्यैव सद्भावपरिकल्पना । नहि तामन्तरेणैषा लभेताऽऽत्मानमम्बिके ।। सा च तस्यामवस्थायां स्वरूपज्योतिरिष्यते । निर्विभागक्रमापेक्षा योगिगम्यानुरूपिणी ।। तत औन्मुख्यतश्चिन्तामयी भवति वाक् शिवे । विशिष्टशब्दविषयविवक्षास्फुरणात्मिका ।। ततः शब्दात्मकत्वेन विवृत्तार्थमयी भवेत् । तदात्मतामन्तरेण यस्मान्नार्थावधारणम् ।। एवं संवित्स्वरूपस्य सर्वप्रकाशकस्य प्रभैव प्रकाशन -शक्तिर्या वागन्तःसञ्जल्परूपा वर्ण -पद - वाक्य -जीवितभूता सैव पदार्थरूपतया बहिर्भवतीति स्वानुभवप्रसिद्धमेव प्रबुद्धानाम् । उक्तं च - चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद् बहिः । योगीव निरूपादानमर्थजातं प्रकाशयेत् ।। स्वमिनश्चात्मसंस्थस्य भावजातस्य भासनम् । अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ।। प्. ४०] अन्यच्चोक्तम् - यत्किञ्चिदाभाति बहिस्तदीश नूनं तवास्त्येव समस्तमन्तः । निमीलिताक्षा हृदि लक्षयेयुस्तथैव सर्व कथमन्यथा तत् ।। इत्थं स्वभाव एव यतः सर्वात्मस्थेन तथाविधेन सर्वात्म -केन स्वभावेन हतुना शब्दार्थयोश्चिन्तासु मध्याद्विषये वा न सा काचिदवस्यास्ति या न शिवस्वबावमभिव्यञ्जयति, या न चित्स्वरूपेत्यर्थः । संवित्स्वीकरणैक्यात् यतः सर्वस्यास्तित्वम् । तदुक्तम् - येन येन विभिद्यन्ते हेतुना भावनिम्नगाः । तेन तेनैक्यमायान्ति बोधोदधिसमागताः ।। प्रागुक्तं च - शरीरजो वा शाब्दो वा मानसो वा समुद्गतः । व्यवहारोऽप्यसौ नास्ति यत्र त्वं नाथ नाग्रगः ।। इति । अतश्च भोक्तैवानुभवितैव भोग्यभावेनानुभाव्यतया सदा सर्वत्र संस्थितो न त्वन्यद्भोग्यमस्ति । तथा च श्रुतिः - अहमन्नमहमन्नमहमन्नम् । अहमन्नादोऽहमन्नादोऽहमन्नादः ।। ग्रन्थकृता तत्त्वविचारेऽप्युक्तम् - स्वस्वभावस्थिता भावाः संबध्यन्ते परस्परम् । भोग्यभोक्तृत्वभावेन न कदाचित् स्वभावतः ।। द्रष्टाऽनुभविता स्मर्ता ग्राहको भोक्तृवेदकः । कर्तोपलब्धा संवेत्ता ज्ञातेति ज्ञानसंज्ञकाः ।। इति । तेन ज्ञानमेव ज्ञेयरूपतया प्रथते इत्यर्थः । उक्तं च - भोक्तुर्विभोर्ये भवतो विभिन्नः स दृश्यते मुग्धतया स्व आत्मा । ते भोग्यभूताः पशुवत् परेषां भोगाय भूयोऽत्र भवे भ्रमन्ति ।। भवं भवद्वै भवभूतमेव विभावयन्तो भगवन् भवेयुः । भवद्वदेव प्रभुभावभाजो विश्वं वशे वर्तयितुं समर्थाः ।। इति । ज्ञानसम्बोधेऽपि - ज्ञाता ज्ञेयं ज्ञानमिति ज्ञानस्यैव त्रिधा स्थितिः । प्. ४१] ब्रह्मार्पणं ब्रह्महविरित्यत्रोक्तं तदेव यत् ।। मयैव चोक्तं क्वाऽपि - द्रष्टैवाऽस्ति न दृश्यमेतद्बुधैरध्यात्मना ज्ञायते आदर्शप्रतिबिम्बवज्जगदिदं भिन्नं द्विधा भाति यत् । सत्तां यान्ति घटादयो बहिरमी बोधानुवेधात् सदा ज्ञानाद्वैतमतः स्वतोऽस्ति न पुनर्ज्ञेयस्य सत्ता क्वचित् ।। इति । तथात्मसप्ततौ - यदिदं दृश्यते किञ्चिद्दर्शनात्तन्न भिद्यते । दर्शनं द्रष्टृतो नान्यद् द्रष्टैव हि ततो जगत् ।। इति । सङ्कर्षणसूत्रेष्वपि - येनेदं दृश्यते विश्वं द्रष्टा सर्वस्य यः सदा । दृश्यश्चराचरत्वे यः स विष्णुरिति गीयते ।। इति । जाबालिसूत्रेष्वपि - द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धाऽपरि -लुप्तचैतन्यस्वभावो जगदुत्पत्ति -स्थिति - लयैकहेतुर्भगवान् वासुदेव आत्मेति । पञ्चरात्रोपनिषदि च - ज्ञाता च ज्ञेयं च वक्ता च वाच्यं च भोक्ता च भोग्यं च । इत्यादि । तथाऽत्रैव - ऽसर्वान्तरं सर्वबाह्य स्वयंज्योतिः स्वयंसम् -बोध्यं स्वयंभूरिति चऽ इति । श्रुतिरपि - स एव ज्ञाता तज्ज्ञानमिति । २८ -२९ ।। अत्रैव प्रशंसाद्वारेण स्वीकरणोपायं प्राह - इति वा यस्य संवित्तिः क्रिडात्वेनाखिलं जगत् । स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ।। ३० ।। प्. ४२] वाशब्दः स्वार्थेऽत्र । किं बहुना, इत्येवं चोक्तप्रकाररूपा यस्य संवित्तिः संवेदनं ज्ञानं यथा मन्मयमेव सर्व सोऽखिलं समग्रं जगत् क्रीडारामतया पश्यन् विभावयन्नित्य -युक्तत्वाच्च बन्धकारणस्याज्ञानस्य क्षयात् प्रबोधाप्तौ जीवन्ने -वेश्वरवन्मुक्तो नाऽत्र संशयः । उपपत्त्युपलब्धिभ्यां सिद्धत्वाद् भ्रान्तिरत्र नो । उक्तं च - सम्यक् स्वबोधविश्रान्तौ योऽलुप्तानुभवः स्थितः । विषयानपि सोऽश्नन् स्याज्जीवन्मुक्तस्तु तत्त्ववित् ।। इति । ये त्वाहुः - विनोत्क्रान्तिं कुतो मोक्षः । तन्निरासायाह - विना स्वभावानुभवेन पुंसः कैवल्यमुत्क्रान्तिबलाद्यदि स्यात् । अत्राऽपि पक्षे ननु मोक्षभागुद्बन्धनं यः कुरुते प्रमूढः ।। तथा - विदेहा अपि बद्ध्यन्ते प्रलये गुणवासिताः । शरीरिणोऽपि मुच्यन्ते विशुद्धज्ञानसंश्रयात् ।। इति ।। ज्ञानगर्भेऽपि - मयि स्थितमिदं जगत् सकलमेव सर्वत्र वा स्थितोऽहमिति धारणाद्वितयभावनावेशतः । जगत्त्रितयनाथ तैर्नातिचिरेण सम्प्राप्यते नृभिस्तव सपर्यया दलितकिल्बिषोपप्लवैः ।। गीतास्वपि - यो मां पश्यति सर्वत्र सर्व च मयि पश्यति । तस्याऽहं न प्रणश्यामि स च मे न प्रणश्यति ।। पञ्चरात्रेऽपि - प्. ४३] प्रज्ञाप्रासादमारुह्य अशोच्योऽशोचतो जनान् । भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति ।। अत्र च नित्योद्युक्तरूपत्वमेवोपायो युक्त्या ध्वनितः । प्राक् चोक्तं हि - अतः सततमुद्युक्त इत्यादि ।। ३० ।। अथ प्रागुक्तस्य मन्त्रात्मनो युक्त्यन्तरोदयवर्णनद्वारेण निगमनं करोति - अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिरिच्छतः साधकस्य या ।। ३१ ।। अयमेव तस्य पूर्वोक्तस्य ध्येयस्य मन्त्रात्मनो ध्यायिचेतस् -युदयः समापत्तिमेकीभावं मन्त्रात्मतापत्तिमिच्छतो गृह्णतः साधकस्य ध्यायिनो या तदात्मता ध्येयस्वरूपापत्तिरित्यर्थः । उक्तं हि विश्वसंहितायाम् - ध्येये चित्तं यदा लीनं तदा ध्यानमुदाहृतम् । ध्येयः प्रत्यक्षतां याति ध्याता तन्मयतां व्रजेत् ।। ऋच्छतस्त्विति पाठाद्वा ध्येयं चिन्तयतोऽत्र या । तदात्मतासमापत्तिरैक्यं तस्योदयः स तु ।। ग्रन्थकृतस्तु द्वयमप्याशयः सहते । यतो मन्त्रोच्चारणेच्छ -या मन्त्रदेवतया सह यत्तादात्म्यं योऽन्तःसंवेदनद्वारेण तदत्मग्रहो मन्त्रन्यासात्मकः स एवास्यो दय आविर्भाव इति ।। ३१ ।। अस्यैव व्याप्तिफलमाह - इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाणदिक्षा च शिवसद्भावदायिनी ।। ३२ ।। येयं स्वरूपसंवित्तिः साऽमृताप्तिरिहात्मनः । जरामरणविच्छेदाद् पुनर्भवता न तु ।। प्. ४४] दुग्धाब्ध्युद्गतस्यायमेव चात्मनोऽनुग्रहः स्वतः । निर्वाणदीक्षा तच्चेयं परमात्मनियोजिका ।। इति । उक्तं च मोक्षधर्मेषु - हित्वा तु सर्वसङ्कल्पान् सत्त्वे चित्तं निवेशयेत् । सत्त्वे चित्तं यदा लीनं ततः कालञ्जयो भवेत् ।। इति । आत्मसम्बोधे च - भवेद्भवानामभवाय नूनं स्वभावसंविद्विदितैव पुंसाम् । आमर्त्यतां मर्त्यजने करोति सकृत्सुधाप्राशनमात्रमेव ।। इति । दीक्षार्थोऽयम् - ददाति ज्ञानसद्भावं क्षपयत्यखिलं मलम् । बोधानुवेधाद्दीक्षोक्ता दानक्षपणधर्मिणी ।। इति ।। ३२ ।। स्पन्दतत्त्वोदयं प्रोच्याकृत्रिमं तत्र एव च । मन्त्रोदयं च तद्वीर्य तद्विभूतीरथाऽऽह तु ।। यथोक्तस्य जाग्रत्येव निजभावाप्त्या स्वातन्त्र्यं तथा स्वप्नेऽप्यस्तीति वक्तुमाह - यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान्हृदिस्थितान् । सोमसूर्योदयं कृत्वा संपादयति देहिनः ।। ३३ ।। तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितोऽवंश्यं प्रकाशयेत् ।। ३४ ।। यथा जाग्रति जाग्रदवस्थायां धाता स्रष्टाऽऽत्मस्वभाव इच्छया दिदृक्षात्मिकया ऽभ्यर्थितो याचितः सन् देहिनः पुंसो हृदि स्थितानभिनतानर्थान् पदार्थान् सम्पादयति प्रकाशयति । स्वबला -वष्टम्भात् । किं कृत्वा सोमसूर्ययोरपानप्राणयोश्चक्षुषोश्चो -दयं कृत्वा चक्षुरादिष्व वधानेनेत्यर्थः । प्. ४५] एतदुक्तं भवति - अनेकार्थसन्निधानेऽपि गणिकानटमल्ल -प्रेक्षकादिषु मध्याद्यदेव वस्त्वभिमतं तदेव यथा पश्यति । स्वरूपानुप्रवेशात् । तथा स्वप्नेऽप्यभीष्टानेवार्थान् मध्ये हृदि स्वस्वभावे स्थितः सन् स्फुटतरं कृत्वा नित्यं सदैव प्रकाशयेद् दर्शयति । कुतः प्रणयस्येच्छाभ्यर्थनाया अनतिक्रमात् त्यागात् । मुक्त्वा दृढामभीष्टेच्छां नाऽन्यवृत्तिर्यदा भवेदिति । एतदुक्तम् - यदीच्छा तदनुगैव भवेन्न स्वातन्त्र्येण प्रभवति तदैतत्स्यात् तां चासौ नाप्यतिक्रामति । उक्तं च रहस्यस्तोत्रे - विस्मृतार्थमभियुज्यधीर्यथा त्वामशेषविदमाशु शंसति । यद्यदित्थमनयाऽर्थ्यते रसात् स्वप्नगोऽपि न विलङ्घयिष्यसि ।। इति । सिद्धोक्तं च - चिद्व्योम्निस्थोऽनुसन्धत्ते यत्तत्पश्यत्यखण्डितमिति । ज्योतिःशास्त्रेऽपि - येन येनेन्द्रियार्थेन विद्धः स्वपिति मानवः । तस्य तस्येन्द्रियार्थस्य सुप्तः कर्माणि पश्यति ।। इति ।। ३३ - ३४ ।। एवं स्वप्नस्वातन्त्र्यवर्णनद्वारेण युक्त्या सौषुप्ततमोव -रणनिर्भेद उक्तः । इत्थं स्वरूपस्थस्यैव जाग्रत्स्वप्नादौ स्वातत्र्यं न त्वन्यथेत्यभिधातुमाह - अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः । सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ।। ३५ ।। अन्यथा पुनः स्वरूपस्थित्याभावे चित्तस्य चञ्चलत्वात् स्वप्ना -दौ सृष्टिरिच्छारूपा स्वतन्त्रा स्यात् । स्वप्नादिप्रसरोऽसमञ्जसरूपो भवेदित्यर्थः । कुतस्तद्धर्मकत्वात् सृष्टिस्वभावत्वात् । यतस्तत्तत्त्व - मिच्छाख्यप्रसवधर्मि नित्यम् । कस्येव । यथा लौकिकस्याप्रबुद्ध -मतेर्जाग्रत्स्वप्नपदद्वये सततं सर्वकालं सृष्टिरिच्छैव स्वतन्त्रा । प्. ४६] न त्वसौ ह्यप्रबुद्धतया । साऽस्य सहस्रशः सम्बद्धाऽसम् -बद्धविकल्परूपैव भवेदवस्थाद्वितयेऽपीति यावत् ।। ३५ ।। एवमात्मनो विभूतिषु स्वातन्त्र्याख्यां युक्तिमुक्त्वाथेदा -नीं ज्ञत्वकार्यसामर्थ्याख्या या तां तत्र कथयति । सूक्ष्मव्य -वहितादौ ज्ञत्वोपायं तावत्कारिकाद्वयेन प्राह - यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ।। ३६ ।। यथा दूरस्थितः कश्चिदर्थ पदार्थो घटपटादिवस्तु विशेषो -ऽस्फुटः संदिग्धो दृष्टः सावधानेऽप्यन्यव्यावृत्तेऽप्येकाग्रेऽ -पि चेतसि सति हि यस्मात् स एवार्थो भूयः पुनः स्वबलोद्योगेनात्मब - प्रयत्नविशेषेण भावितो विचारिता सन्स्फुटतरो भाति निःसन्दिग्धः प्रकाशतेऽवभासते । तस्मात्तथा यद्वस्तु येन रूपेण यत्र यस्मिन् काले स्थितं तद्वस्तु तथा तेनैव प्रकारेण प्रयत्नविशेषेण स्वबलं स्वस्वरू -पं विकस्वरमाक्रम्याश्ह्रित्याऽवष्टभ्याभ्यासान्नचिरात् त्वरितं सम्प्रर्तते सम्यक प्रतिभाति निरावरणस्वरूपत्वात् । प्रागुक्तं हि - अपि त्वात्मबलस्पर्शात् पुरुषस्तत्समो भवेत् । तत्त्वयुक्तौ च - विषयाधिपतिर्यो हि येन जानाति पार्वति । तस्य यो वेत्ति तत्त्वेन तेन ज्ञातं चराचरम् ।। तेनाऽतीताऽनागतज्ञानं परिमितविषयं न किञ्चिदाश्चर्यम् ।। ३६ - ३७ ।। एवं ज्ञत्वमुक्त्वाऽधुना कार्यकर्तृत्वसामर्थ्ये क्षुज्जयाय चोपायान्तरमाह - दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ।। ३८ ।। प्. ४७] दुर्बलः क्षीणधातुरशक्तः कृशोऽपि तद् बलमुत्साहलक्षण -मुद्योगरूपमाक्रम्याऽधिष्ठाय स्वीकृत्य यतः कार्ये प्रवर्तते यस्माद् व्यापारं सम्पादयति । अतिकृशस्याप्युद्योगबलावलम्बनात् समरादौ शक्तिदर्शनात् । एतदुक्तं भवति - यथा कश्चिदसमर्थोऽपि व्यायामाभ्यासान्महतीं शक्तिं प्राप्नोत्युद्योगबलेन तथा योऽतिबुभुक्षितः क्षुधार्तः सोऽपि तेनैव स्वस्वभावानुशीलनेन बुभुक्षां भोक्तुमिच्छामप्याच्छादयेत् क्षुधं शमयति । प्रोक्तं च पतंञ्जलिना - कण्ठकूपे क्षुत्पिपासानिवृत्तिः । तथा - बलेषु हस्तिबलादीनि । बुभुक्षाशब्दोऽत्रोपलक्षणार्थम् । तेन क्षुत्तृषौ शोकमोहौ जरामृत्यू चेति षडूर्मयोऽपि नश्यन्तीत्यर्थः ।। ३८ ।। एवं न केवलमस्मिन्नेव शरीरे तस्य सर्वज्ञतादयः सन्ति, यावत्सर्वत्रापीत्युपायद्वारेणाऽऽह - अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ।। ३९ ।। अनेन प्रागुक्तेनात्मस्वभावेनाऽस्मिन् देहेऽधिष्ठिते व्याप्ते -ऽन्वीक्षिते सति यथा सर्वज्ञतादयो गुणा विद्यन्ते । यस्मादत्र स्वल्पयूकादिभक्षणाद्यपि क्षिप्रमेव जानाति । उक्तं च ज्ञानसम्बोधे - सर्वः स एव व्यापित्वाद् ज्ञः स एव स्वभावतः । सर्वज्ञश्चेति सर्वज्ञः पुमानेव निरुच्यते ।। अन्यच्च - सर्वज्ञः सर्वदैव त्वं सर्वस्य हृदये न चेत् । केनाऽन्यथाऽस्य सम्भाव्या नष्टार्थविषया स्मृतिः ।। प्. ४८] तदहर्जातबालैश्च स्तनपानं क्व शिक्षितम् । प्राणिभिर्वाप्सु तरणमेतत् सर्वज्ञचेष्टितम् ।। अन्यच्च - भक्ष्यं स्यात्किमभक्ष्यं वा स्वाद्वस्वाद्विति निश्चये । मक्षिकाणां कुतः संवित् क्षौद्रसंचितिकर्मणि ।। सर्वज्ञस्याप्यधिष्ठातुस्तद्विजृम्भितमन्यथा । कृमिमात्राल्पकायानां सम्भृतिर्विस्मयास्पदम् ।। कतकस्य फलं वारिप्रसादनविधित्सया । द्विपः क्षिपति तस्यैषा प्रज्ञा ह्यज्ञस्य किं पशोः ।। गीताकर्णनवैदग्ध्यं मुग्धबुद्धेर्मृगस्य किम् । सम्भाव्यते हि येनाऽस्य रोमन्थविरता स्थितिः ।। भक्षयिष्यति मामित्थमाखोर्विवरवर्तिनः । मार्जारं प्रति का शङ्का सर्वज्ञज्ञापनं विना ।। भयात् कूर्मः स वार्यन्तः सर्वाण्यङ्गानि गूहते । दुर्भेदबुद्धिस्तत्रास्य विवेकविकलस्य किम् । वीक्ष्यान्यक्षीणपक्षाणां वैलक्षण्यमचेतनः ।। नृत्तमारभते बर्ही स्फुरितं तज्जगद्गुरोः ।। अगाधजलमध्यस्थमत्स्यभक्षणलक्षणम् । केनोपदष्टिं तन्मद्गोरनुमानं विना कृतम् ।। अशक्यशक्तिः कस्येयं सलिलात् पिबतः पयः । हंसस्य न पुनस्तस्य हृदयान्तरवर्तिनः ।। प्रतिभातप्रभातस्य मन्दिरान्तरवर्तिनः । कृक्रवाकोर्गिरः कस्मात् क्षेत्रज्ञप्यापिनं विना ।। यासामाकलनोद्युक्ता कालवित्कलना ततः । प्रवर्तते दिनारम्भे निर्भ्रान्तकृतसंविधिः ।। शृङ्गदन्तनखादीनि प्राणिनामायुधानि यत् । परप्रहरणोद्रेके केनाऽऽख्यातान्यसंविदाम् ।। प्. ४९] बलं तेजः करो सिंहो जानाति निजमूर्जितम् । को हेतुर्यावदन्तस्थप्रतिपत्तिर्न सस्फुरा ।। अतिवृष्टेरनावृष्टेर्व्यञ्जकं चिह्नमिङ्गितैः । सूचयन्ति न तच्चित्रं पशवः पक्षिणोऽपि यत् ।। कृतान्तकल्पैः सिंहाद्यैः प्रीतिः प्राणभृतां कुतः । विनैकस्य हृदिस्थस्य संवित्संवादसुस्थितिम् ।। इति । तेषां च प्रागुक्तयुक्त्या विशेषाभिव्यक्तिः । तथा स्वात्मन्य -धिष्ठानात् स्वरूपाच्यवनादेवं सर्वत्र सर्वज्ञतादयो भविष्यन्त्यभिव्यक्तिं यान्तीत्यर्थः । उक्तं च - एको भावः सर्वभावस्वभावः सर्वे भावा ह्येकभावस्वभावाः । एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः ।। रहस्ययुक्तिरत्रेयं शरीरे यत्र यत्र च । संविदो दार्ढ्यलाभः स्यात्तत्र तत्र गुणोदयः ।। इति ।। ३९ ।। अथैषां गुणानामाच्छादकमूलविच्छेदार्थमाह - ग्लानिर्हर्षक्षतिरनुत्साहरूपा देहे किल विलुम्पिका विनाशिनी । तस्याश्च ग्लानेरज्ञानतः सृतिः सरणमुत्पत्तिः । तच्चाऽज्ञानमुन् -मेषेण वक्ष्यमाणलक्षणेनाऽऽत्मस्वभावेन यदा विलुप्तं निर्णोदितं नाशितं तदा कुतः सा ग्लानिरेव का स्यात्कारण रहिता भवेदित्यर्थः । अत एव च योगिनां जरारोगाद्यभावः शरीरदार् -ढ्यं च भवेत् ।। ४० ।। अथोन्मेषस्य स्वरूपमाह - एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ।। ४१ ।। प्. ५०] एकस्यां चिन्तायां प्रसक्तस्यैकत्र विषये क्वचिद् व्यापृतचित् -तस्य सतो यतो यस्मात् स्वस्वभावादपरस्याश्चिन्ताया उदयोऽभिव्य -क्तिर्भवेत् । झटिति यतोऽन्या चिन्तोत्पद्यते विस्मृतस्मरणादिका स चिन्तायाः कारणमुन्मेषो विज्ञेयः । तं च पुनरुन्मेषं स्वयमात्मनोपलक्षयेद्विजानीयात् । चिन्ताद्वयमध्ये व्यापकत्वेना -ऽनुभूयमानतया स्वसंवेद्यत्वाद् बृहत्कुमारीसुखवदनुपदे -श्य इत्यर्थः ।। ४१ ।। अस्य चानुशील्यमानस्य प्रत्ययानाह - अतो बिन्दुरतो नादो रूपमस्मादतो रसः । प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ।। ४२ ।। अतोऽस्मादुन्मेषादनुशील्यमानादचिरेणैव कालेन देहिनः पुंसि बिन्द्वादयः प्रवर्तन्ते उत्पद्यन्ते । बिन्दुस्तेजोरूपो भ्रूमध् -यादौ । नादोऽकृत्रिमोऽनाहतात्मकः शब्दब्रह्माख्यो दूराच्छ्र - वणं च । रूपमन्धकारे दर्शनं देवतानां च सूक्ष्मादिप्र -दर्शनं च । रसो मुखेऽमृताश्वादः षड्रसानां च । कथमेते प्रवर्तन्ते क्षोभकत्वेन उत्कृष्टसिद्धिविघ्नकारित्वेन । तथा च पतञ्जलिः - ततः प्रातिभश्रावणवेदनाऽदर्शनाश्वादवार्ता जायन्ते । ते समाधावुपसर्गा व्युत्थाने सिद्धयः इति । अन्यच्च अनेन युक्त्या सृष्ट्यादिक्रमो ध्वनितः । यतः प्रागुन्मे -षात् सृष्टिरुक्ता । सा च कथम् ? अतोऽस्मदादौ विन्दुरिच्छादृग्शक्तिप्र -सररूपः । ततो नादः शब्दात्मको वागाख्यः क्रियाशक्तिरूपः । ततो रूपं पदार्थदर्शनविचारस्वरूपम् । ततस्तत्रैव रसोऽभिलाष उपभोगरूपश्चेति । एष एवातिरहस्यक्रमार्थविदामुद्योगावभास - चर्वणविलापनरूपः क्रमचतुष्कक्रमोऽत्रैव युक्त्यैवोक्तः - न बाधते विशेषो हि प्रकृतं परिभाषया इति । तद्यदुक्तं स्वयं तमुपलक्षयेदिति ।। ४२ ।। तत्कथमित्यत्रोपायमाह - दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते । तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ।। ४३ ।। प्. ५१] द्रष्टुमिच्छा दिदृक्षा तदवस्थास्थ इव सर्वार्थान् सर्वभा -वान् व्याप्याधिष्ठाय यदाऽवतिष्ठते वर्तते तदा किं बहु -नोक्तेनाधिककथनेन । स्वयमेवात्मनैव तत्तत्स्वभावमवभोत् -स्यतेऽवगम्यते ज्ञास्यतीत्यर्थः । अयमत्रोपदेशाशयः - यथा कुतूहलदिदृक्षुर्विकासवृत्त्यास्ते एवं यः सर्वभावौन्मुख्य -रूपोद्यन्तृतास्वरूपे तिष्ठति स स्वभावं सर्वज्ञतादिगुणास् -पदं स्वयमाप्नोति । यतः प्रागुक्तम् - अतः सततमुद्युक्त इत्यादि । या चैषा स्थितिः सैव तत्त्वार्थचिन्तामणौ रहस्यमुद्रेत्युक्ता । मयोक्तं भोगमोक्षप्रदीपिकायाम् - उद्यन्तृताबलेन तु विकासवृत्त्या स्वरूपगस्तिष्ठेत् । स्वयमुपसृतेन्द्रियार्थानश्नन्नानन्दभूमिगो योगी ।। एषोच्छृङ्खलरूपा विकस्वरतरा प्रबुद्धबुद्धीनाम् । सिद्धाः स्थिता सदाऽस्यां ह्यानन्दरताः परा च मुद्रैषा ।। अन्यत्रोक्तं च - सर्वाः शक्तीश्चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् । क्षिप्त्वा मध्ये हाटकस्तम्भभूत - स्तिष्ठन्विश्वाधार एकोऽवभासि ।। तथा - स्वच्छन्दं वा यत्र तत्र व्रजन्तीर्वेश्या - स्त्रीवच्चञ्चला या दृगाद्याः । शक्तीः पश्यन् केवलं नानुगच्छेद्विश्वं बिभ्रद्भासि तस्य त्वमन्तः ।। इति ।। ४३ ।। अस्यामेव स्थितौ युक्तिमाह - प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोच्य गोचरम् । एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते ।। ४४ ।। प्. ५२] प्रबुद्धोऽसंकुचितशक्तिनिर्विकल्प उद्योक्तृरूपतया सर्वकालं तिष्ठेद् वर्तेत । ज्ञानगोचरं विषयमालोक्य परिच्छिद्य संविद्दीप्त्या ज्ञेयं विलाप्याऽविभागं नीत्वेत्यर्थः । मयैव चोक्तं भोगमोक्षप्रदीपिकायाम् - अथवाविभागबोधज्वलनेन विलाप्य वेद्यपीयूषम् । पीत्वा तृप्तो विचरन्नीरोगो योऽचिरात् सदैकाकी ।। एतत्क्रमार्थसारं परधाराभूमिका च शक्तीनाम् । तदनुज्ञयाऽत्र कथितं सच्छिष्यविबोधनाय मया ।। अतः सा निर्विभागा चित् । उक्तं हि - देशकालक्रियाकाराः प्रसिद्धा भागहेतवः । तेन सन्ति पुनर्यस्य विभागस्तस्य किंकृतः ।। अन्यच्च - मनः सविषयं दाह्यं ज्ञानाग्निर्दर्शनैर्दहेत् । अन्तर्बहिर्मुखश्चैवं समाधिरूपपद्यते ।। तथा - विज्ञानवाडवो दीप्तः स्वशक्त्या ज्ञेयतोयधीन् । अजस्रं ग्रसते नान्यस्तद्ग्रासे शक्तिमान् भवेत् ।। नाऽप्राप्त्या पयसां तृष्णा प्राप्त्या वा भूयसामपि । यस्यास्ति कृतकृत्यत्वं कोऽप्यसौ वडवामुखम् ।। इति । प्राक्चैतत्सोपपत्तिकं वितत्योक्तम् । यस्मात् सर्वमयो जीव इत्यादि । एवमेकत्र तत्त्वस्वभावे विद्यात्मके ज्ञानरूपे सर्वमारोपयेदै -क्यं नयेत् । अत एव ततोऽन्येन वक्ष्यमाणेन कलासमूहेन शक्त्यात्मकेन विकल्परूपेण न पीड्यते न बाध्यते न स्वरूपात् प्रच्याव्यत इत्यर्थः । उक्तं च - एकं व्यापि व्योम कुड्यादियोगात् तस्मिन् बाह्याऽभ्यन्तरत्वं तथा त्वाम् । पश्यत्येकं ग्राहकग्राह्यरूपं व्याक्षिप्ताक्षेप्यक्षतस्त्वत् समाधिः ।। इति ।। ४४ ।। एवं यः प्रबुद्धः पतिः सोऽन्येन न पीड्यते । अर्थाद्योऽप्र -बुद्धः पशुः स हन्यते । प्. ५३] स च कथं किंलक्षणश्चेत्युच्यते - शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः ।। ४५ ।। शब्दानां राशिः शब्दराशिः वर्णसमूहो मातृका अकारादिक्षकारान्ता शब्दजननी । वर्णात्मकत्वाच्छब्दानाम् । तत्समुत्थस्य कादिवर्गात्मकस्य ब्राह्म्यादिशक्तिचक्रस्य कलाभिः ककाराद्यक्षरैर्विलुप्तविभवो हृतमहाव्याप्तिः स्वभावात् प्रच्यावितोऽत एवास्य भोग्यतां गतः सन् पुरुषः पशुरुच्यते अज्ञत्वात् । उक्तं चेश्वरप्रत्यभिज्ञायाम् - स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः । मायातो भेदिषु क्लेशं कर्मादिकलुषः पशुः ।। क्वापि च - भेदग्रन्थिविभङ्गे हि कर्मात्मैक्यं प्रपद्यते । सोऽविज्ञातः पशुः प्रोक्तो विज्ञातः पतिरेव सः ।। इति ।। ४५ ।। अतश्च - परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ।। ४६ ।। तस्य च पशोर्यः प्रत्ययोद्भवः श्रोत्रादिद्वारेण विषयदर् -शनेन स्मरणादिज्ञानोत्पत्तिः स एव परामृतरसात् स्वरूपोदयाद -पायः प्रच्युतिः । यतस्तेन स पुमानस्वतन्त्रतां पारतन्त्र्यमसर्व -गतत्वाद्यमेति प्राप्नोति । स च प्रत्ययोद्भवस्तन्मात्रगोचरः शब्दादिविषयविषयस्तदभिलाषात्मक इत्यर्थः ।। ४६ ।। अत एव च - स्वरूपावरणे चास्य शक्तयः सततोत्थिताः । यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ।। ४७ ।। प्. ५४] अस्य च पुंसः स्वरूपावरणे स्वस्वभावाच्छादने शक्तयः पूर्वोक्ताब्राह्म्याद्या शब्दरूपाः क्रियाशक्तिद्वारेण सततमुद्य -ताः सदा सन्निहिताः पुंरूपग्लपनाय । यतः शब्दानुवेधेन वर्णानुगमेन विना न प्रत्ययोद्भवो ज्ञानसंवेदनमस्ति । शब्दायत्तत्वात्पदार्थस्य वाच्यवाचकयोरन्योन्यद्योतकत्वाच्च । तथा चोक्तं वाक्यपदीये - न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन दृश्यते ।। इति ।। प्राक्चोक्तं हि - वागेवास्याः कारणं विश्ववृत्तेरित्यादि । अन्यच्च - वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ।। इति ।। ४७ ।। अथास्या एव क्रियाशक्तेर्बन्धमोक्षहेतुतामाह - सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपदादिका ।। ४८ ।। यैषा अज्ञानां बन्धयित्रीबन्धजननीभगवत् क्रियात्मिका क्रियास्वभावाऽशक्तिः सैवेयं शिवस्य सुप्रबुद्धस्य पशुवर्तिनी पशुवद्यथेष्टविनियोज्यतया या वर्तते सा यथोक्ता । सा च स्वमार्ग -स्था मदीयेति ज्ञाता सिद्ध्युपपादिका परापरसिद्धिप्रदा भोगमो - क्षावहेत्यर्थः । अर्थाच्च भिन्ना ज्ञाता बन्धदा भवति । अथवेयं व्याख्या - सेयमित्याद्यन्यस्तुल्यार्थः । स्वमार्गस्था स्वतन्त्रा अज्ञाता बन्धयित्री । ज्ञाता तु सिद्ध्युपपादिकेति । उक्तं चैतत्प्राक् - प्राणिनां पतनं येन इत्यादिना ।। ४८ ।। कथं त्वेषा बन्धहेतुतामापद्यत इति स्फुटीकर्तुमाह - तन्मात्रोदयरूपेण मनोऽहंबुद्धिवर्तिना । पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् ।। ४९ ।। प्. ५५] पुर्यष्टकस्य किल द्वे रूपे स्तः - एकं सूक्ष्ममातिवाहिका -ख्यं तन्मात्रमभिलापात्मकम् द्वितीयं स्थूलं भौतिकं भोगाख्यम् । तत्र सूक्ष्मेण पुर्यष्टकेन संरुद्धो बद्ध आवृतोऽतः एव परवशः सन् तदुत्थप्रत्ययोद्भवं सुखदुःख -संवेदनरूपं भोगं भुङ्क्ते अश्नाति । कीदृशम् । तन्मात्रा -णां शब्दादीनामनुभवद्वारेण य उदयोऽभिव्यक्तिः स एव रूपं यस्य तेन तथा मनोहङ्कारबुद्धिवर्तिना चान्तःकरणसं -युक्तेन । तस्य च पुर्यष्टकस्य भावात्तद्वशाच्छरीरी संसरेत् संसारं याति । अत एवास्य संसृतिप्रलयस्य जननमरणप्रवाहस् -यैतदेव कारणं हेतुं संप्रचक्ष्महे कथयामः ।। ४९ - ५० ।। एवं बन्धनिमित्तमुपवर्ण्यास्योच्छेदो पायमाह - यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ।। ५१ ।। एवम् - बन्धमोक्षविचारेण प्रबोधाख्या यदा पुन इति । पुर्यष्टकद्वयमध्यादेकत्रैकस्मिन् पुर्यष्टके स्थूले सूक्ष्मे वा पतित्वेन संरूढो लीनचित्तस्तदा तस्य तदुत्थप्रत्ययोद्भवस्य शब्दार्थोर्लयोद्भवौ प्रध्वंसप्रादुर्भावौ नियच्छन् स्वेच्छया कुर्वन् भोक्तृतामेति । प्रभुत्वं प्राप्नोति । भोग्यरूपात् पशुत्वान्मुच्यते इत्यर्थः । तदुक्तम् - प्. ५६] पशुनां तु पतिर्भूत्वा पशूनां तु पतिर्भवेत् । पशुत्वान्मुच्यते सद्यो भूत्वा पशुपतेः पतिः ।। इति । स्वबोधोदयमञ्जर्यां च - यद्यन्मनोहरं किञ्चिदक्षिगोचरमागतम् । एकाग्रं भावयेत्तावद्यावल्लीनं निरोधकृत् ।। इति । एवं सति स्वातन्त्र्याप्तेस्ततश्चक्रेश्वरः शक्तिचक्रस्वामी सर्वज्ञतादियुतः सर्वाधिपतिर्भवेदित्यर्थः ।। ५१ ।। एवमस्याद्यश्लोके शक्तिचक्रैश्वर्यं यदुक्तं तदिहापि - अथेत्थं ग्रन्थनिष्पत्तेर्ग्रन्थकर्ता गुरोर्गिरम् । प्रहर्षवशतः स्तौति नीतिं शिष्यांश्च शिक्षयन् ।। अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् । वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् ।। ५२ ।। तमहं गुरुभारतीं वन्दे । कीदृशीम् । दुरवगाहसन्देहार् -णवपारोत्तारिणीम् । अन्यच्च विचित्रोऽर्थोऽभिधेयो विचित्राणि पदानि शब्दा यस्याः सा यथोक्ता । अत एव चित्रामाश्चर्यभूतामाचार्य -सरस्वतीं स्तौमि । नहि गुरोर्गरीयानन्योऽस्ति । तदुक्तं जयायाम् - यस्माद्देवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् । मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना ।। इति । नारदसंग्रहे च - गुरवे दक्षिणां दद्यात् सर्वस्वं स्वार्धमेव वा । सर्वस्वमथवाऽत्यल्पं संसारोच्छेदहेतवे ।। इति । मयोक्तं क्वापि - भगवत्प्राप्तिकामो यस्तेनान्वेष्यो गुरुर्यतः । भगवान् ज्ञायते शास्त्राच्छास्त्रं च ज्ञायते गुरोः ।। प्. ५७] तद्बोधाद् ज्ञानविलयाज्ज्ञानाप्तौ प्राप्त एव सः । तस्माच्छास्त्रादीश्वराच्च गरीयान् गुरुरुच्यते ।। इति । पञ्चरात्रेऽपि - यथा भगवत्येव वक्तरि वृत्तिरिति ।। ५२ ।। अथाम्नायक्रमवर्णनद्वारेण संग्रहकृत्स्वकीर्त्यर्थ श्लोकेन स्वनामोपबध्नाति - वसुगुप्तादवाप्येदं गुरोस्तत्त्वार्थदर्शिनः । रहस्यं श्लोकयामास सम्यक् श्रीभट्टकल्लटः ।। ५३ ।। अस्यार्थः प्रारम्भ एवोक्त इति पुनर्नोच्यते । इदं च ब्रह्मविद् -याबीजं नाऽपरीक्ष्याऽस्थाने वपेत् । उक्तं ह्यनेनैवाऽन्यत्र - गुणैरूपेताऽपि तु सिद्धविद्या कन्येव दत्ता गुणवर्जिताय । सम्भोगहीना विदधात्यकीर्तिं दातुर्यतस्तत्प्रगुणाय दद्यात् ।। इति ।। ५३ ।। इत्यविद्यातमःस्थानां दर्शनाय प्रकाशिता । सतां सुपूर्णादेशेव शुद्धामलगुणोज्ज्वला ।। वाग्लुण्ठनार्थमन्येषां विद्वन्मन्यतयाऽपि तु । शुद्धबोलोल्लासवशात् कृत्वा स्पन्दप्रदीपिका ।। तस्मात् प्रोत्सार्य मात्सर्यमर्थमर्थ विचार्य च । आर्यैराश्चर्यभूताया न कार्योऽस्या अनादरः ।। नारायणस्थानज उत्पलाख्यस्त्रिविक्रमाख्यस्य सुतोऽग्र्यजन्मा । यस्तेन सच्छिष्यहिताय दृब्धा व्याख्या मयैषा च तमोनुदे स्यात् ।। प्. ५८] गतिः स्खलन्ती न क्वचिद्यथा निशि स्याद्दोपहस्तस्य तथा स न क्वचित् । स्खलत्यमार्गेऽपि करेऽस्ति यस्य हि प्रदीपिकेयं प्रगुणप्रकाशिका ।। किं वा बहूक्तिभिरिमां तु सरस्वतीं मे बोधद्रुमोत्तमसृतां परतीर्थयुक्ताम् । स्वच्छां विगाह्य विबुधत्वमुपैति मर्त्यो - ऽप्यत्यक्तदेह इह चित्रमतः परं किम् ।। इत्याचार्यभगवदुत्पलविरचिता स्पन्दप्रदीपिका समाप्ता ।। ।। शुभं भूयात् ।। </poem> == स्रोतः == *[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः] [[वर्गः:तन्त्रग्रन्थाः]] 044qq5hv6tohnwo3rctd34peb685pxu